ॐ तपः स्वाध्यायनिरतं तपस्वी वाग्विदां वरम्। नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम्॥ कोन्वस्मिन् साम्प्रतं लोके गुणवान् कश्च वीर्यवान्। धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढत्नतः॥ चारित्रेण च को युक्तः सर्वभूतेषु को हितः। विद्वान् कः कः समर्थश्च कश्चैकप्रियदर्शनः॥ आत्मवान् को जितक्रोधो द्युतिमान् कोऽनसूयकः। कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे॥ एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे। महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम्॥ श्रुत्वा चैतत्रिलोकज्ञो वाल्मीकेर्नारदो वचः। श्रूयतामिति चामन्त्र्य प्रहष्टो वाक्यमब्रवीत्॥ बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः। मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नर।७।। इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः। नियतात्मा महावीर्यो श्रुतिमान् धृतिमान् वशी॥ बुद्धिमान् नीतिमान् वाग्मी श्रीमाञ्छत्रुनिबर्हणः। विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः॥ महोरस्को महेष्वासो गूढजत्रुररिंदमः। आजानुबाहुः सुशिराः सुललाटः सुविक्रमः॥ समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान्। पीनवक्षा विशालाक्षो लक्ष्मीवाञ्छुभलक्षणः॥ धर्मज्ञः सत्यसंधश्च प्रजानां च हिते रतः। यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान्॥ प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः। रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता॥ रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता। वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः॥ सर्वशास्त्रार्थतत्वज्ञः स्मृतिमान् प्रतिभानवान्। सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः॥ सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः। आर्यः सर्वसमश्चैव सदैव प्रियदर्शनः॥ स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः। समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव॥ विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः। कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः॥ धनदेन समस्त्यागे सत्ये धर्म इवापरः। तमेवं गुणसम्पन्नं रामं सत्यपराक्रमम्॥ ज्येष्ठं ज्येष्ठगुणैर्युक्तं प्रियं दशरथः सुतम्। प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया॥ यौवराज्येन संयोक्तुमैच्छत् प्रीत्या महीपतिः। तस्याभिषेकसम्भारान्दृष्ट्वा भार्याऽथ कैकयी॥ पूर्वं दत्तवरा देवी वरमेनमयाचत। विवासं च रामस्य भरतस्याभिषेचनम्॥ स सत्यवचनात् राजा धर्मपाशेन संयतः। विवासयामास सुतं रामं दशरथः प्रियम्॥ स जगाम वनं वीरः प्रतिज्ञामनुपालयन्। पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात्॥ तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह। स्नेहाद् विनयसम्पन्नः सुमित्रानन्दवर्धनः॥ भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन्। रामस्य दयिता भार्या नित्यं प्राणसमाहिता॥ जनकस्य कुले जाता देवमायेव निर्मिता। सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः॥ सीताप्यनुगता रामं शशिनं रोहिणी यथा। पौरैरनुगतो दूरं पित्रा दशरथेन च॥ शृङ्गवेरपुरे सुतं गङ्गाकूले व्यसर्जयत्। गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम्॥ गुहेन सहितो रामो लक्ष्मणेन च सीतया। ते वनेन वनं गत्वा नदीस्तीर्वा बहूदकाः॥ चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात्। रम्यमावसथं कृत्वा रममाणा वने त्रयः॥ देवगन्धर्वसंकाशास्तत्र ते न्यवसन् सुखम्। चित्रकूटं गते रामे पुत्रशोकातुरस्तदा॥ राजा दशरथः स्वर्ग जगाम विलपन् सुतम्। गते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः॥ नियुज्यमानो राज्याय नैच्छद् राज्यं महाबलः। स जगाम वनं वीरो रामपादप्रसादकः॥ गत्वा तु स महात्मानं रामं सत्यपराक्रमम्। अयाचद् भ्रातरं राममार्यभावपुरस्कृतः॥ त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत्। रामोऽपि परमोदारः सुमुखः सुमहायशाः॥ न चैच्छत् पितुरादेशाद् राज्यं रामो महाबलः। पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः॥ निवर्तयामास ततो भरतं भरताग्रजः। स काममनवाप्यैव रामपादावुपस्पृशन्॥ नन्दिग्रामेऽकरोद् राज्यं रामागमनकाङ्क्षया। गते तु भरते श्रीमान् सत्यसंधो जितेन्द्रियः॥ रामस्तु पुनरालक्ष्य नागरस्य जनस्य च। तत्रागमनमेकाग्रो दण्डकान् प्रविवेश ह॥ प्रविश्य तु महारण्यं रामो राजीवलोचनः । विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह ॥ सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा। अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम्॥ खङ्गं च परमप्रीतस्तूणी चाक्षयसायको। वसतस्तस्य रामस्य वने वनचरैः सह॥ ऋषयोऽभ्यागमन् सर्वे वधायासुररक्षसाम्। स तेषां प्रतिशुश्राव राक्षसानां तदा वने॥ प्रतिज्ञातश्च रामेण वधः संयति राक्षसाम्। ऋषीणामग्निकल्पानां दण्डकारण्यवासिनाम्॥ तेन तत्रैव वसता जनस्थाननिवासिनी। विरूपिता शूर्पणखा राक्षसी कामरूपिणी॥ ततः शूर्पणखावाक्यादुद्युक्तान् सर्वराक्षसान्। खरं त्रिशिरसं चैव दूषणं चैव राक्षसम्॥ निजधान रणे रामस्तेषां चैव पदानुगान्। वने तस्मिन् निवसता जनस्थाननिवासिनाम्॥ रक्षसां निहतान्यासन् सहस्राणि चतुर्दश। ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्च्छितः।॥ सहायं वरयामास मारीचं नाम राक्षसम्। चार्यमाणः सु.हुशो मारीचेन स रावणः॥ न विरोधो बलवता क्षमो रावण तेन ते। अनादृत्य तु तद्वाक्यं रावणः कालचोदितः॥ जगाम सहमारीचस्तस्याश्रमपदं तदा। तेन मायाविना दूरमपवाह्य नृपात्मजौ ॥ जहार भार्या रामस्य गृधं हत्वा जटायुषम्। गृधं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् ॥ राघवः शोकसंतप्तो विललापाकुलेन्द्रियः। ततस्तेनैव शोकेन गृधं दग्ध्वा जटायुषम्॥ मार्गमाणो वने सीतां राक्षसं संददर्श ह। कबन्धं नाम रूपेण विकृतं घोरदर्शनम्॥ तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः। स चास्य कथयामास शबरी धर्मचारिणीम्॥ श्रमणां धर्मनिपुणामभिगच्छेति राघव। सोऽभ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः॥ शबर्या पूजितः सम्यग् रामो दशरथात्मजः। पम्पातीरे हनुमता सङ्गतो वानरेण ह॥ हनुमद्वचनाच्चैव सुग्रीवेण समागतः। सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः।५९।। आदितस्तद् यथावृत्तं सीतायाश्च विशेषतः सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः॥ चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम्। ततो वानरराजेन वैरानुकथनं प्रति ॥ रामायावेदितं सर्वं प्रणयात् दुःखितेन च। प्रतिज्ञातं च रामेण तदा वालिवधं प्रति ॥ वालिनश्च बलं तत्र कथयामास वानरः। सुग्रीवः शङ्कितश्चासीनित्यं वीर्येण राघवे॥ राघवप्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम्। दर्शयामास सुग्रीवो महापर्वतन्निभम्॥ उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्थि महाबलः। पादाङ्गुष्ठेन चिक्षेप सम्पूर्ण दशयोजनम्॥ बिभेद च पुनस्तालान् सप्तैकेन महेषुणा। गिरिं रसातलं चैव जनयन् प्रत्ययं तदा॥ ततः प्रीतमनास्तेन विश्वस्तः स महाकपिः। किष्किन्धां रामसहितो जगाम च गुहां तदा॥ ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः। तेन नादेन महता निर्जगाम हरीश्वरः॥ अनुमान्य तदा तारां सुग्रीवेण समागतः। निजघान च तत्रैनं शरेणैकेन राघवः॥ ततः सुग्रीववचनाद्धत्वा बालिनमाहवे। सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत्॥ स च सर्वान् समानीय वानरान् वानरर्षभः। दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम्।७१ ।। ततो गृध्रस्य वचनात् सम्पातेर्हनुमान् बली। शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम्॥ तंत्र लङ्कां समासाद्य मुरीं रावणपालिताम्। ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम्॥ निवेदयित्वाभिज्ञानं प्रवृत्तिं विनिवेद्य च। समाश्वास्य च वैदेहीं मर्दयामास तोरणम्॥ पञ्च सेनाग्रगान् हत्वा सप्त मन्त्रिसुतानपि। शूरमक्षं च निक्षिप्य ग्रहणं समुपागमत्॥ अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद् वरात्। मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान् यदृच्छया॥ ततो दग्ध्वा पुरीं लङ्कामृते सीतां च मैथिलीम्। रामाय प्रियमाख्यातुं पुनरायान्महाकपिः। ७७।। सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम्। न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः। ७८ ।। ततः सुग्रीवसहितो गत्वा तीरं महोदधेः। समुद्र क्षोभयामास शरैरादित्यसंनिभैः॥ दर्शयामास चात्मानं समुद्रः सरितां पतिः। समुद्रवचनाच्चैव नलं सेतुमकारयत्॥ तेन गत्वा पुरी लङ्कां हत्वा रावणमाहवे। रामः सीतामनुप्राप्य परां व्रीडामुपागमत् ॥ तामुवाच ततो रामः परुषं जनसंसदि। अमृष्यमाणा सा सीता विवेश ज्वलनं सती॥ ततोऽग्निवचनात् सीतां ज्ञात्वा विगतकल्मषाम्। कर्मणा तेन महता त्रैलोक्यं सचराचरम्॥ सदेवर्षिगणं तुष्टं राघवस्य महात्मनः। बभौ रामः सम्प्रहृष्टः पूजितः सर्वदैवतैः५५८४ ।। अभिषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम्। कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह॥ देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान्। अयोध्या प्रस्थितो रामः पुष्पकेण सुहृद्वृतः॥ भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः। भरतस्यान्तिके रामो हनूमन्तं व्यसर्जयत् ॥ पुनराख्यायिकां जल्पन् सुग्रीवसहितस्तदा। पुष्पकं तत् समारुह्य नन्दिग्रामं ययौ तदा॥ नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः। रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान्॥ प्रहृष्टमुदितो रेकस्तुष्टः पुष्टः सुधार्मिकः। निरामयो रोगश्च दुर्भिक्षभयवर्जितः॥ न पुत्रमरणं केचिद् द्रक्ष्यन्ति पुरुषाः क्वचित्। नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः॥ न चाग्निजं भयं किंचिन्नाप्सु मज्जन्ति जन्तवः। न वातजं भयं किंचिन्नापि ज्वरकृतं तथा॥ न चापि क्षुद्भयं तत्र न तस्करभयं तथा। नगराणि च राष्ट्राणि धनधान्ययुतानि च॥ नित्यं प्रमुदिताः सर्वे यथा कृतयुगे तथा। अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः॥ गवां कोट्ययुतं दत्त्वा विद्वद्भयो विधिपूर्वकम्। असंख्येयं धनं दत्त्वा ब्राह्मणेभ्यो महायशाः॥ राजवंशाञ्छतगुणान् स्थापयिष्यति राघवः। चातुर्वयं च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति।।९६ दशवर्षसहस्राणि दशवर्षशतानि च। रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति॥ इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम्। यः पठेत् रामचरितं सर्वपापैः प्रमुच्यते॥ एतदाख्यानमायुष्यं पठन् रामायणं नरः। सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महायते॥ पठन् द्विजो वागृषभत्वमीयात् स्यात् क्षत्रियो भूमिपतित्वमीयात्। ज्जनश्च शूद्रोऽपि महत्त्वमीयात्॥ नारदस्य तु तद् वाक्यं श्रुत्वा वाक्यविशारदः। पूजयामास धर्मात्मा सह शिष्यो महामुनिम्॥ यथावत् पूजितस्तेन देवर्षि रदस्तथा। आपृच्छयैवाभ्यनुज्ञातः स जगाम विहायसम्॥ स मुहूर्तं गते तस्मिन् देवलोकं मुनिस्तदा। जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः॥ स तु तीरं समासाद्य तमसाया मुनिस्तदा। शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम्॥ अकर्दममिदं तीर्थे भरद्वाज निशामय। रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा।५।। न्यस्यतां कलशस्तात दीयतां वल्कलं मम। इदमेवावगाहिष्ये तमसातीर्थमुत्तमम्॥ एवमुक्तो भरद्वाजो वाल्मीकेन महात्मना। प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरुः॥ स शिष्याहस्तदादाय वल्कलं नियतेन्द्रियः। विचचार ह पश्यंस्तत् सर्वतो विपुलं वनम्।।।।। तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम्। ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिःस्वनम्॥ तस्मात् तु मिथुनादेकं पुमांसं पापनिश्चयः। जघान वैरनिलयो निषादस्तस्य पश्यतः॥ तं शोणितपरीताङ्ग चेष्टमानं महीतले। भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम्॥ वियुक्ता पतिना तेन द्विजेन सहचारिणा। ताम्रशीर्षेण मत्तेन पत्रिणा सहितेन वै॥ तथाविधं द्विजं दृष्ट्वा निषादेन निपातितम्। ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत॥ ततः करुणवेदित्वादधर्मोऽयमिति द्विजः। निशाम्य रुदती क्रौञ्चीमिदं वचनमब्रवीत्॥ मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः। यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम्॥ तस्येत्थं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः। शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया॥ चिन्तयन् स महाप्राज्ञश्चकार मतिमान्मतिम्। शिष्यं चैवाब्रवीद् वाक्यमिदं स मुनिपुङ्गवः॥ पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः। शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा॥ शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम्। प्रतिजग्राह संतुष्टस्तस्य तुष्टोऽभवन्मुनि ॥ सोऽभिषेकं ततः कृत्वा तीर्थे तस्मिन् यथाविधि। तमेव चिन्तयत्रर्थमुपावर्तत वै मुनिः॥ भरद्वाजस्ततः शिष्यो विनीतः श्रुतवान् गुरोः। कलशं पूर्णमादाय पृष्ठतोऽनुजगाम ह॥ स प्रविश्याश्रमपदं शिष्येण सह धर्मवित्। उपविष्टः कथाश्चान्याश्चकार ध्यानमास्थितः॥ आजगाम ततो ब्रह्मा लोककर्ता स्वयं प्रभुः। चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुङ्गवम् ॥ वाल्मीरिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः। प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः॥ पूजयामास तं देवं पाद्याासनवन्दनैः। प्रणम्य विधिवच्चैनं पृष्ट्वा चैव निरामयम् ॥ अथोपविश्य भगवानासने परमार्चिते। वाल्मीकये च ऋषये संदिदेशासनं ततः॥ ब्रह्मणा समनुज्ञातः सोऽप्युपाविशदासने। उपविष्टे तदा तस्मिन् साक्षाल्लोकपितामहे ॥ तद्गतेनैव मनसा वाल्मीकिानमास्थितः। पापात्मना कृतं कप्टं वैरग्रहणबुद्धिना॥ यत् तादृशं चारुरवं क्रौञ्चं हन्यादकारणात्। शोचन्नेव पुनः क्रौञ्चीमुपश्लोकमिमं जगौ। पुनरन्तर्गतमना भूत्वा शोकपरायणः। तमुवाच ततो ब्रह्मा प्रहसन् मुनिपुङ्गवम्॥ श्लोक एवास्त्वयं बद्धो नात्र कार्या विचारणा। मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती॥ रामस्य चरितं कृत्स्नं कुरु त्वमृषिसत्तम। धर्मात्मनो भगवतो लोके रामस्य धीमतः॥ वृत्तं कथय धीरस्य यथा ते नारदाच्छुतम्। रहस्यं च प्रकाशं च यद् वृत्तं तस्य धीमतः॥ रामस्य सहसौमित्रे राक्षसानां च सर्वशः। वैदेह्याश्चैव यत् वृत्तं प्रकाशं यदि वा रहः॥ तच्चाप्यविदितं सर्व विदितं ते भविष्यति। न ते वागनृता काव्ये काचिदत्र भविष्यति॥ कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम्। यावत् स्थास्यन्ति गिरयः सरितश्च महीतले॥ तावद् रामायणकथा लोकेषु प्रचरिष्यति। यावद् रामस्य च कथा त्वत्कृता प्रचरियति ॥ तावदूर्ध्वमधश्च त्वन मल्लोकेषु निवत्स्यसि। इत्युक्त्वा भगवान् ब्रह्मा तत्रैवान्तरधीयत। ततः सशिष्यो भगवान् मुनिर्विस्मयमाययौ ॥ तस्य शिष्यास्ततः सर्वे जगुः श्लोकमिमं पुनः। मुहुर्मुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः॥ समाक्षरैश्चतुर्भिर्यः पादैर्गीतो महर्षिणा। सोऽनुव्याहरणाद् भूयः शोकः श्लोकत्वमागतः॥ तस्य बुद्धिरियं जाता महर्षे वितात्मनः। कृत्स्नं रामायणं काव्यमीदृशैः करवाण्यहम्॥ स्तदास्य रामस्य चकार कीर्तिमान्। समाक्षरैः श्लोकशतैर्यशस्विनो यशस्करं काव्यमुदारदर्शनः।॥ तदुपगतसमाससंधियोगं सममधुरोपनतार्थवाक्यबद्धम्। रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वम्॥ श्रुत्वा वस्तु समग्रं तद्धर्मार्थसहितं हितम्। व्यक्तमन्वेषते भूयो यद् वृत्तं तस्य धीमतः॥ उपस्पृश्योदकं सम्यमुनिः स्थित्वा कृताञ्जलिः। प्राचीनाग्रेधु दर्भेषु धर्मेणान्वेषते गतिम् ॥ रामलक्ष्मणसीताभी राज्ञा दशरथेन च। सभार्येण सराष्ट्रेण यत् प्राप्तं तत्र तत्त्वतः॥ हसितं भाषितं चैव गतिर्यावच्च चेष्टितम्। तत् सर्वं धर्मवीर्येण यथावत् सम्प्रपश्यति॥ स्त्रीतृतीयेन च तथा यत् प्राप्तं चरता वने। सत्यसंधेन रामेण तत् सर्वं चान्ववैक्षत ॥ ततः पश्यति धर्मात्मा तत् सर्वं योगमास्थितः। पुरा यत् तत्र निर्वृत्तं पाणावामलकं यथा॥ तत् सर्वं तत्त्वतो दृष्ट्वा धर्मेण स महामतिः। अभिरामस्य रामस्य तत् सर्वं कर्तुमुद्यतः॥ कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरम्। समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम्॥ स यथा कथितं पूर्वं नारदेन महात्मना। रघुवंशस्य चरितं चकार भगवान् मुनिः॥ जन्म रामस्य सुमहद्वीर्यं सर्वानुकूताम्। लोकस्य प्रियतां शान्ति सौम्यतां सत्यशीलताम्॥ नाना चित्राः कथाश्चान्या विश्वामित्रसहायने। जानक्याश्च विवाहं च धनुषश्च विभेदनम्॥ रामरामविवादं च गुणान् दाशरथेस्तथा। तथाभिषेकं रामस्य कैकेय्या दुष्टभावताम्॥ विघातं चाभिषेकय रामस्य च विवासनम्। राज्ञः शोकं विलापं च परलोकस्य चाश्रयम् ॥ प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम्। निषादाधिपसंवादं सूतोपावर्तनं तथा॥ गङ्गायाश्चापि संतारं भरद्वाजस्य दर्शनम्। भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम्॥ वास्तुकर्मनिवेशं च भरतागमनं तथा। प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् ॥ पादुकााभिषेकं च नन्दिग्रामनिवासनम्। दण्डकारण्यगमनं विराधस्य वधं तथा॥ दर्शनं शरभङ्गस्य सुतीक्ष्णेन समागमम्। अनसूयासमाख्यां च अङ्गरागस्य चार्पणम्॥ दर्शनं चाप्यगस्त्यस्य धनुषो ग्रहणं तथा। शूर्पणख्याश्च संवाद विरूपकरणं तथा॥ वधं खरत्रिशिरसोरुत्थानं रावणस्य च। मारीचस्य वधं चैव वैदेह्या हरणं तथा॥ राघवस्य विलापं च गृध्रराजनिबर्हणम्। कबन्धदर्शनं चैव पम्पायाश्चापि दर्शनम्॥ शबरीदर्शनं चैव फलमूलाशनं तथा। प्रलापं चैव पम्पाया हनूमद्दर्शनं तथा॥ ऋष्यमूकस्य गमनं सुग्रीवेण समागमम्। प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम्॥ वालिप्रमथनं चैव सुग्रीवप्रतिपादनम्। ताराविलापं समयं वर्षरात्रनिवासनम्॥ कोपं राघवसिंहस्य बलानामुपसंग्रहम्। दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम्॥ अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम्। प्रायोपवेशनं चैव सम्पातेश्चापि दर्शनम् ॥ पर्वतारोहणं चैव सागरस्यापि लङ्घनम्। समुद्रवचनाच्चैव मैनाकस्य च दर्शनम् ॥ राक्षसीतर्जनं चैव च्छायाग्राहस्य दर्शनम्। सिंहिकायाश्च निधनं लङ्कामलयदर्शनम् ॥ रात्रौ लङ्काप्रवेशं च एकस्यापि विचिन्तनम्। आपानभूमिगमनमवरोधस्य दर्शनम् ॥ दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम्। अशोकवनिकायानं सीतायाश्चापि दर्शनम्॥ अभिज्ञानप्रदानं च सीतायाश्चापि भाषणम्। राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम्॥ मणिप्रदानं सीताया वृक्षभङ्ग तथैव च। राक्षसीविद्रवं चैव किंकराणां निबर्हणम् ॥ ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम्। प्रतिप्लवनमेवाथ मधूनां हरणं तथा॥ राघवाश्वासनं चैव मणिनिर्यातनं तथा। संगमं च समुद्रेण नलसेतोश्च बन्धनम् ॥ प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम्। विभीषणेन संसर्गं वधोपायनिवेदनम्॥ कुम्भकर्णस्य निधनं मेघनादनिबर्हणम्। रावणस्य विनाशं च सीतावाप्तिमरेः पुरे॥ विभीषणाभिषेकं च पुष्पकस्य च दर्शनम्। अयोध्यायाश्च गमनं भरद्वाजसमागमम्॥ प्रेषणं वायुपुत्रस्य भरतेन समागमम्। रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम्। स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम्॥ अनागतं च यत् किंचिद् रामस्य वसुधातले। तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः॥ सर्वापूर्वमियं येषामासीत् कृत्स्ना वसुंधरा। प्रजापतिमुपादाय नृपाणां जयशालिनाम्॥ येषां स सगरो नाम सागरो येन खानितः। षष्टिपुत्रसहस्राणि यं यान्तं पर्यवारयन्॥ इक्ष्वाकूणामिदं तेषां राज्ञा वंशे महात्मनाम्। महदुतान्नमाख्यानं रामायणमिति श्रुतम्॥ तदिदं वर्तयिष्यावः सर्वं निखिलमादितः। धर्मकामार्थसहितं श्रोतव्यमनसूयता ॥ कोशलो नाम मुदितः स्फीतो जनपदो महान्। निविष्टः सरयूतीरे प्रभूतधनधान्यवान् ॥ अयोध्या नाम नगरी तत्रासील्लोकविश्रुता। मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम्॥ आयता दश च द्वे च योजनानि महापुरी। श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा॥ राजमार्गेण महता सुविभक्तेन शोभिता। मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः॥ तां तु राजा दशरथो महाराष्ट्रविवर्धनः। पुरीमावासयामास दिवि देवपतिर्यथा॥ कपाटतोरणवतीं सुविभक्तान्तरापणाम्। सर्वयन्त्रायुधवतीमुषितां सर्वशिल्पिभिः॥ सूतमागधसम्बाधां श्रीमतीमतुलप्रभाम्। उच्चाट्टालध्वजवती शतनीशतसंकुलाम्॥ वधूनाटकसंधैश्च संयुक्तां सर्वतः पुरीम्। उद्यानाम्रवणोपेतां महतीं सालमेखलाम्॥ दुर्गगम्भीरपरिखां दुर्गामन्यैर्दुरासदाम्। वाजिवारणसम्पूर्णा गोभिरुष्टैः खरैस्तथा॥ सामन्तराजसंधैश्च बलिकर्मभिरावृताम्। नानादेशनिवासैश्च वणिग्भिरुपशोभिताम्॥ प्रासादै रत्नविकृतैः पर्वतैरिव शोभिताम्। कूटागारैश्च सम्पूर्णामिन्द्रस्येवामरावतीम्॥ चित्रामष्टापदाकारां वरनारीगणायुताम्। सर्वरत्नसमाकीर्णा विमानगृहशोभिताम्॥ गृहगाढामविच्छिद्रां समभूमौ निवेशिताम्। शालितण्डुलसम्पूर्णामिक्षुकाण्डरसोदकाम्॥ दुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा। नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम्॥ विमानमिव सिद्धानां तपसाधिगतं दिवि। सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम्॥ ये च बाणैर्न विध्यन्ति विविक्तमपरापरम्। शब्दवेध्यं च विततं लघुहस्ता विशारदाः॥ सिंहव्याघ्रवराहाणां मत्तानां नदतां वने। हन्तारो निशितैः शस्त्रैर्बलाद् बाहुबलैरपि ॥ तादृशानां सहस्रेस्तामभिपूर्णां महारथैः। पुरीमावासयामास राजा दशरथस्तदा॥ तामग्निमद्भिर्गुणवद्भिरावृतां द्विजोत्तमैर्वेदषडङ्गपारगैः। सहस्रदैः सत्यरतैर्महात्मभि महर्षिकल्पैर्ऋषिभिश्च केवलैः॥ तस्यां पुर्यामयोध्यायां वेदवित् सर्वसंग्रहः। दीर्घदर्शी महातेजाः पौरजानपदप्रियः॥ इक्ष्वाकूणामतिरथो यज्वा धर्मपरो वशी। महर्षिकल्पो राजर्षिस्त्रिषु लोकेषु विश्रुतः॥ बलवान् निहतामित्रो मित्रवान् विजितेन्द्रियः। धनैश्च संचयैश्चान्यैः शक्रवैश्रवणोपमः॥ यथा मनुर्महातेजा लोकस्य परिरक्षिता। तथा दशरथो राजा लोकस्य परिरक्षिता।४॥ तेन सत्याभिसंधेन त्रिवर्गमनुतिष्ठता। पालिता सा पुरी श्रेष्ठा इन्द्रेणेवामरावती॥ तस्मिन् पुरवरे हृष्टा धर्मात्मानो बहुश्रुताः। नरास्तुष्टा धनैः स्वैः स्वैरलुब्धाः सत्यवादिनः॥ नाल्पसंनिचयः कश्चिदासीत् तस्मिन् पुरोत्तमे। कुटुम्बी यो ह्यसिद्धार्थो गवाश्वधनधान्यवान्॥ कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित्। द्रष्टुं शक्यमयोध्यायां नाविद्वान् न च नास्तिकः॥ सर्वे नराश्च नार्यश्च धर्मशीला: सुसंयताः। मुदिताः शीलवृत्ताभ्यां महर्षय इवामलाः॥ नाकुण्डली नामुकुटी नास्रग्वी नाल्पभोगवान्। नामृष्टो न नलिप्ताङ्गो नासुगन्धश्च विद्यते ॥ नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक् । नाहस्ताभरणो वापि दृश्यते नाप्यनात्मवान्॥ नानाहिताग्नि यज्वा न क्षुद्रो वा न तस्करः। कश्चिदासीदयोध्यायां न चावृत्तो न संकरः॥ स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः। दानाध्ययनशीलाश्च संयताश्च प्रतिग्रहे ॥ नास्तिको नानृती वापि न कश्चिदबहुश्रुतः। नासूयको न चाशक्तो नाविद्वान् विद्यते क्वचित्॥ नाषडङ्गविदन्नास्ति नाव्रतो नासहस्रदः। नदीनः क्षिप्तचित्तो वा व्यथितो वापि कश्चन ॥ कश्चित्ररो वा नारी वा नाश्रीमान् नाप्यरूपवान्। द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान्॥ वर्णेष्वर्यचतुर्थेषु देवतातिथिपूजकाः। कृतज्ञाच वदान्याच शूरा विक्रमसंयुताः॥ दीर्घायुषो नराः सर्वे धर्म सत्यं च संश्रिताः। सहिताः पुत्रपौत्रैश्च नित्यं स्त्रीभिः पुरोत्तमे॥ क्षत्रं ब्रह्ममुखं चासीत् वैश्याः क्षत्रमनुव्रताः। शूद्राः स्वकर्मनिरतास्त्रीन् वर्णानुपचारिणः॥ सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता। यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता॥ योधानामग्निकल्पानां पेशलानाममर्षिणाम्। सम्पूर्णा कृतविद्यानां गुहा केसरिणामिव।२१।। काम्बोजविषये जातैर्बाहीकैश्च हयोत्तमैः। वनायुजैनदीजैश्च पूर्णा हरिहयोत्तमैः॥ विन्ध्यपर्वतजैर्मतैः पूर्णा हैमवतैरपि। मदान्वितैरतिबलैर्मातङ्गैः पर्वतोपमैः॥ ऐरावतकुलीनैश्च महापद्मकुलैस्तथा। अञ्जनादपि निष्क्रान्तैमिनादपि च द्विपैः॥ भद्रैर्मन्दैमूंगैश्चैव भद्रमन्द्रमृगैस्तथा। भद्रमन्द्रर्भद्रमृगैर्मुगमन्द्रश्च सा पुरी॥ नित्यमनैः सदा पूर्णा नागैरचलसंनिभैः। सा योजने द्वे च भूयः सत्यनामा प्रकाशते।॥ तां पुरी स महातेजा राजा दशरथो महान्। शशास शमितामित्रो नक्षत्राणीव चन्द्रमाः॥ तां सत्यनामां दृढतोरणार्गलां गृहैविचित्रैरुपशोभितां शिवाम्। पुरीमयोध्यां नृसहस्रसंकुला शशास वै शक्रसमो महीपतिः॥ तस्य चैवंप्रभावस्य धर्मज्ञस्य महात्मनः। सुतार्थं तप्यमानस्य नासीद् वंशकरः सुतः॥ चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः। सुतार्थं वाजिमेधेन किमर्थं न यजाम्यहम्॥ स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान्। मन्त्रिभिः सह धर्मात्मा सर्वैरपि कृतात्मभिः॥ ततोऽब्रवीन्महातेजाः सुमन्त्रं मन्त्रिसत्तम। शीघ्रमानय मे सर्वान् गुरूंस्तान् सपुरोहितान्॥ ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः। समानयत् स तान् सर्वान् समस्तान् वेदपारगान्॥ सुयज्ञं वामदेवं च जाबालिमथ काश्यपम्। पुरोहितं वसिष्ठं च ये चाप्यन्ये द्विजोत्तमाः॥ तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा। इदं धर्मार्थसहितं श्लक्ष्णं वचनमब्रवीत्॥ मम लालप्यमानस्य सुतार्थं नास्ति वै सुखम्। तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम॥ तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा। कथं प्राप्स्याम्यहं कामं बुद्धिरत्र विचिन्त्यताम्॥ ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन्। वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखेरितम्॥ ऊचुश्च परमप्रीताः सर्वे दशरथं वचः। सम्भाराः सम्ध्रियन्तां ते तुरगश्च विमुच्यताम् ॥ सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम्। सर्वथा प्राप्स्यसे पुत्रानभिप्रेतांश्च पार्थिव ॥ यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता। ततस्तुष्टोऽभवद् राजा श्रुत्वैतद् द्विजभाषितम्॥ अमात्यानब्रवीद् राजा हर्षव्याकुललोचनः। सम्भाराः सम्भ्रियन्तां मे गुरूणां वचनादिह ॥ समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम्। सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम्॥ शान्तयश्चापि वर्धन्तां यथाकल्पं यथाविधि। शक्यः प्राप्तुमयं यज्ञः सर्वेणापि महीक्षिता ॥ नापराधो भवेद् कष्टो यद्यस्मिन् क्रतुसत्तमे। छिद्रं हि मृगयन्ते स्म विद्वांसो ब्रह्मराक्षसा ॥ विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति। तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते॥ तथा विधानं क्रियतां समर्थाः साधनेष्विति। तथेति चाब्रुवन् सर्वे मन्त्रिणः प्रतिपूजिताः॥ पार्थिवेन्द्रस्य तद् वाक्यं यथापूर्वं निशम्य ते। तथा द्विजास्ते धर्मज्ञा वर्धयन्तो नृपोत्तमम्॥ अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम्। विसर्जयित्वा तान् विप्रान् सचिवानिदमब्रवीत्॥ ऋत्विग्भिरुपसंदिष्टो यथावत् क्रतुराप्यताम्। इत्युक्त्वानृपशार्दूलः सचिवान् समुपस्थितान्॥ विसर्जयित्वा स्वं वेश्म प्रविवेश महामतिः। ततः स गत्वा ताः पत्नीनरेन्द्रो हृदयंगमाः॥ उवाच दीक्षां विशत यक्ष्येऽहं सुतकारणात् । तासां तेनातिकान्तेन वचनेन सुवर्चसाम्। मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये॥ एतच्छ्रुत्वा रहः सूतो राजानमिदमब्रवीत्। श्रूयतां तत् पुरावृत्तं पुराणे च मया श्रुतम्।। ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुतः। सनत्कुमारो भगवान् पूर्वं कथितवान् कथाम्॥ ऋषीणां संनिधौ राजंस्तव पुत्रागमं प्रति। काश्यपस्य च पुत्रोऽस्ति विभाण्डक इति श्रुतः॥ ऋष्यशृङ्ग इति ख्यातस्तस्य पुत्रो भविष्यति। स वने नित्यसंवृद्धो मुनिर्वनचरः सदा ॥ नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात्। द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः॥ लोकेषु प्रथितं राजन् विप्रैश्च कथितं सदा। तस्यैवं वर्तमानस्य काल: समभिवर्तत॥ अग्नि शुश्रूषमाणस्य पितरं च यशस्विनम्। एतस्मिन्नेव काले तु रोमपातः प्रतापवान्॥ अङ्गेषु प्रथितो राजा भविष्यति महाबलः। तस्य व्यतिक्रमाद् राज्ञो भविष्यति सुदारुणा ॥ अनावृष्टिः सुघोरा वै सर्वलोकभयावहा। अनावृष्टयां तु वृत्तायां राजा दुःखसमन्वितः॥ ब्राह्मणाञ्छ्रुतसंवृद्धान् समानीय प्रवक्ष्यति। भवन्तः श्रुतकर्माणो लोकचारित्रवेदिनः॥ समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत्। इत्युक्तास्ते ततो राज्ञा सर्वे ब्राह्मणसत्तमाः॥ वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः। विभाण्डकसुतं राजन् सर्वापायैरिहानय ॥ आनाय्य तु महीपाल ऋष्यशृङ्ग सुसत्कृतम्। विभाण्डकसुतं राजन् ब्राह्मणं वेदपारगम्। प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः॥ तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते। केनोपायेन वै शक्यमिहानेतुं स वीर्यवान्॥ ततो राजा विनिश्चित्य सह मन्त्रिभिरात्मवान्। पुरोहितममात्यांश्च प्रेषयिष्यति सत्कृतान्॥ ते तु राज्ञो वचः श्रुत्वा व्यथिता विनताननाः। न गच्छेम ऋषेीता अनुनेयन्ति तं नृपम्॥ वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश्च तान् क्षमान्। आनेयामो वयं विप्रं न च दोषो भविष्यति॥ एवमङ्गाधिपेनैव गणिकाभिषेः सुतः। आनीतोऽवर्षयत् देवः शान्ता चास्मै प्रदीयते॥ ऋष्यशृङ्गस्तु जामाता पुत्रांस्तव विधास्यति। सनत्कुमारकथितमेतावद् व्याहृतं मया॥ अथ हृष्टो दशरथः सुमन्त्रं प्रत्यभाषत। यथर्घ्यशृङ्गस्त्वानीतो येनोपायेन सोच्यताम्॥ सुमन्त्रश्चोदितो राज्ञा प्रोवाचेदं वचस्तदा। यथर्घ्यशृङ्गस्त्वानीतो येनोपायेन मन्त्रिभिः॥ रोमपादमुवाचेदं सहामात्यः पुरोहितः। उपायो निरपायोऽयमस्माभिरभिचिन्तितः॥ ऋष्यशृङ्गो वनचरस्तपः स्वाध्यायसंयुतः। अनभिज्ञस्तु नारीणां विषयाणां सुखस्य च॥ इन्द्रियार्थैरभिमतैनरचित्तप्रमाथिभिः। पुरमानाययिष्यामः क्षिप्रं चाध्यवसीयताम्॥ गणिकास्तत्र गच्छन्तु रूपवत्यः स्वलंकृताः। प्रलोभ्य विविधोपायैरानेयन्तीह सत्कृताः॥ श्रुत्वा तथेति राजा च प्रत्युवाच पुरोहितम्। पुरोहितो मन्त्रिणश्च तदा चक्रुश्च ते तथा॥ वारमुख्यास्तु तच्छ्रुत्वा वनं प्रविविशुर्महत्। आश्रमस्याविदूरेऽस्मिन् यत्नं कुर्वन्ति दर्शने॥ ऋषेः पुत्रस्य धीरस्य नित्यमाश्रमवासिनः। पितुः स नित्यसंतुष्टो नातिचक्राम चाश्रमात्॥ न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विना। स्त्री वा पुमान् वा यच्चान्यत् सत्त्वं नगरराष्ट्रजम्॥ ततः कदाचित् तं देशमाजगाम यदृच्छया। विभाण्डकसुतस्तत्र ताश्चपश्यद् वराङ्गनाः॥ ताश्चित्रवेषाः प्रमदा गायन्त्यो मधुरस्वरम्। ऋषिपुत्रमुपागम्य सर्वा वचनमब्रुवन्॥ कस्त्वं किं वर्तसे ब्रह्मज्ञातुमिच्छामहे वयम्। एकस्त्वं विजने दूरे वने चरसि शंस नः॥ अदृष्टरूपास्तास्तेन काम्यरूपा वने स्त्रियः। हार्दात्तस्य मतिर्जाता आख्यातुं पितरं स्वकम्॥ पिता विभाण्डकोऽस्माकं तस्याहं सुत औरसः। ऋष्यशृङ्ग इति ख्यातं नाम कर्म च मे भुवि॥ इहाश्रमपदोऽस्माकं समीपे शुभदर्शनाः। करिष्ये वोऽत्र पूजां वै सर्वेषां विधिपूर्वकम्॥ ऋषिपुत्रवचः श्रुत्वा सर्वासां मतिरास वै। तदाश्रमपदं द्रष्टुं जग्मुः सर्वास्ततोऽङ्गनाः॥ गतानां तु ततः पूजामृषिपुत्रश्चकार ह। इदमर्ध्यमिदं पाद्यमिदं मूलं फलं च नः॥ प्रतिगृह्य तु तां पूजां सर्वा एव समुत्सुकाः। ऋषेीताश्च शीघ्रं तु गमनाय मतिं दधुः॥ अस्माकमपि मुख्यानि फलानीमानि हे द्विज । गृहाण विप्र भद्रं ते भक्षयस्व च मा चिरम्॥ ततस्तास्तं समालिङ्गय सर्वा हर्षसमन्विताः। मोदकान् प्रददुस्तस्मै भक्ष्यांश्च विविधाञ्शुमान्॥ तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यते। अनास्वादितपूर्वाणि वने नित्यनिवासिनाम्॥ आपृच्छय च तदा विप्रं व्रतचर्यां निवेद्य च। गच्छन्ति स्मापदेशात्ता भीतास्तस्य पितुः स्त्रियः॥ गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजः। अस्वस्थहृदयश्चासीद् दुःखाच्च परिवर्तते॥ ततोऽपरेधुस्तं देशमाजगाम स वीर्यवान्। विभाण्डकसुतः श्रीमान् मनसाचिन्तयन्मुहुः॥ मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलंकृताः। दृष्ट्वैव च ततो विप्रमायान्तं हृष्टमानसाः॥ उपसृत्य ततः सर्वास्तास्तमूचुरिदं वचः। एह्याश्रमपदं सौम्य अस्माकमिति चाब्रुवन् ॥ चित्राण्यत्र बहूनि स्युर्मूलानि च फलानि च। तत्राप्येष विशेषेण विधिर्हि भविता ध्रुवम्॥ श्रुत्वा तु वचनं तासां सर्वासां हृदयङ्गमम्। गमनाय मतिं चक्रे तं च निन्युस्तथा स्त्रियः॥ तत्र चानीयमाने तु विप्रे तस्मिन् महात्मनि । ववर्ष सहसा देवो जगत् प्रह्लादयंस्तदा॥ वर्षेणैवागतं विप्रं तापसं स नराधिपः। प्रत्युद्गम्य मुनिं प्रह्वः शिरसा च महीं गतः॥ अर्घ्यं च प्रददौ तस्मै न्यायतः सुसमाहितः। वने प्रसादं विप्रेन्द्रान्मा विप्रं मन्युराविशेत् ॥ अन्तःपुरं प्रवेश्यास्मै कन्यां दत्त्वा यथाविधि। शान्तां शान्तेन मनसा राजा हर्षमवाप सः॥ एवं स न्यवसत् तत्र सर्वकामैः सुपूजितः। ऋष्यशृङ्गो महातेजाः शान्तया सह भार्यया॥ भूय एव हि राजेन्द्र शृणु मे वचनं हितम्। यथा स देवप्रवरः कथयामास बुद्धिमान्॥ इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः। नाम्ना दशरथो राजा श्रीमान् सत्यप्रतिश्रवः॥ अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति। कन्या चास्य महाभागा शान्ता नाम भविष्यति॥ पुत्रस्त्वङ्गस्य. राज्ञस्तु रोमपाद इति श्रुतः। तं स राजा दशरथो गमिष्यति महायशाः।४।। अनपत्योऽस्मि धर्मात्मन्शान्ताभर्ता मम क्रतुम्। आहरेत त्वयाऽऽज्ञप्त: संतानार्थे कुलस्य च ॥ श्रुत्वा राज्ञोऽथ तद्वाक्यं मनसा स विचिन्त्य च। प्रदास्यते पुत्रवन्तं शान्ताभर्तारमात्मवान्॥ प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः। आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना ॥ तं च राजा दशरथो यशस्कामः कृताञ्जलिः। ऋष्यशृङ्ग द्विजश्रेष्ठं वरयिष्यति धर्मवित्॥ यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वरः। लभते च स तं कामं द्विजमुख्याद् विशांपतिः॥ पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमाः। वंशप्रतिष्ठानकराः सर्वभूतेषु विश्रुताः॥ एवं स देवप्रवरः पूर्वं कथितवान् कथाम्। सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः॥ स त्वं पुरुषशार्दूल समानय सुसत्कृतम्। स्वयमेव महाराज गत्वा सबलवाहनः॥ सुमन्तस्य वचः श्रुत्वा हृष्टो दशरथोऽभवत्। अनुमान्य वसिष्ठं च सूतवाक्यं निशाम्य च॥ सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः। वनानि सरितश्चैव व्यतिक्रम्य शनैः शनैः॥ भचक्राम तं देशं यत्र वै मुनिपुङ्गवः। आसाद्य तं द्विजश्रेष्ठं रोमपादसमीपगम्॥ ऋषिपुत्रं ददर्शाथो दीप्यमानमिवानलम्। ततो राजा यथायोग्यं पूजां चक्रे विशेषतः॥ सखित्वात् तस्य वै राज्ञः प्रहष्टेनान्तरात्मना। रोमपादेन चाख्यातमृषिपुत्राय धीमते॥ सख्यं सम्बन्धकं चैव तदा तं प्रत्यपूजयत्। एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः॥ सप्ताष्टदिवसान् राजा राजानमिदमब्रवीत्। शान्ता तव सुता राजन् सह भर्ना विशाम्पते॥ मदीयं नगरं यातु कार्य हि महदुद्यतम्। तथेति राजा संश्रुत्य गमनं तस्य धीमतः॥ उवाच वचनं विप्रं गच्छ त्वं सह भार्यया। ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा॥ स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया। तावन्योन्याञ्जलिं कृत्वा स्नेहात्संश्लिष्य चोरसा ॥ ननन्दतुर्दशरथो रोमपादश्च वीर्यवान्। ततः सुहृदमापृच्छ्य प्रस्थितो रघुनन्दनः॥ पौरेषु प्रेषयामास दूतान् वै शीघ्रगामिनः। क्रियतां नगरं सर्वं क्षिप्रमेव स्वलंकृतम्॥ धूपितं सिक्तसम्मृष्टं पताकाभिरलंकृतम्। ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम्॥ तथा चक्रुश्च तत् सर्वं राज्ञा यत् प्रेषितं तदा। ततः स्वलंकृतं राजा नगरं प्रविवेश ह॥ शङ्खदुन्दुभिनिहादैः पुरस्कृत्वा द्विजर्षभम्। ततः प्रमुदिताः सर्वे दृष्ट्वा वै नागरा द्विजम् ॥ प्रवेश्यमानं सत्कृत्य नरेन्द्रणेन्द्रकर्मणा। यथा दिवि सुरेन्द्रेण सहस्राक्षेण काश्यपम्॥ अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा च शास्त्रतः। कृतकृत्यं तदात्मानं मेने तस्योपवाहनात्॥ अन्त:पुराणि सर्वाणि शान्तां दृष्ट्वा तथागताम्। सह भ; विशालाक्षीं प्रीत्यानन्दमुपागमन्॥ पूज्यमाना तु ताभिः सा राज्ञा चैव विशेषतः। उवास तत्र सुखिता कञ्चित् कालं सहद्विजा ॥ पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत्। प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान्॥ अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च। अब्रवीत् प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम्॥ यज्ञो मे क्रियतां ब्रह्मन् यथोक्तं मुनिपुङ्गव। यथा न विघ्नाः क्रियन्ते यज्ञाङ्गेषु विधीयताम्॥ भवान् स्निग्धः सुहृन्मह्यं गुरुश्च परमो महान्। वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः॥ तथेति च स राजानमब्रवीद् द्विजसत्तमः। करिष्ये सर्वमेवैतद् भवता यत् समर्थितम्॥ ततोऽब्रवीद् द्विजान् वृद्धान् यज्ञकर्मसु निष्ठितान्। स्थापत्ये निष्ठितांश्चैव वृद्धान् परमधार्मिकान्॥ कर्मान्तिकाशिल्पकारान् वर्धकीन् खनकानपि। गणकाशिल्पिनश्चैव तथैव नटनर्तकान्॥ तथा शुचीशास्त्रविदः पुरुषान् सुबहुश्रुतान्। यज्ञकर्म समीहन्तां भवन्तो राजशासनात्॥ इष्टका बहुसाहस्री शीघ्रमानीयतामिति। उपकार्याः क्रियन्तां च राज्ञो बहुगुणान्विताः॥ ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः। भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः॥ तथा पौरजनस्यापि कर्तव्याश्च सुविस्तराः। आगतानां सुदूराच्च पार्थिवानां पृथक् पृथक् ॥ वाजिवारणशालाश्च तथा शय्यागृहाणि च। भटानां महदावासा वैदेशिकनिवासिनाम्॥ आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः। तथा पौरजनस्यापि जनस्य बहुशोभनम्॥ दातव्यमनं विधिवत् सत्कृत्य न तु लीलया। सर्वे वर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः॥ न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि। यज्ञकर्मसु ये व्यग्राः पुरुषाः शिल्पिनस्तथा॥ तेषामपि विशेषेण पूजा कार्या यथाक्रमम्। ये स्युः सम्पूजिताः सर्वे वसुभिर्भोजनेन च॥ यथा सर्वं सुविहितं न किंचित् परिहीयते। तथा भवन्तः कुर्वन्तु प्रीतियुक्तेन चेतसा ।१७।। ततः सर्वे समागम्य वसिष्ठमिदमब्रुवन्। यथेष्ठं तत् सुविहितं न किंचित् परिहीयते॥ यथोक्तं तत् करिष्यामो न किंचित् परिहास्यते। ततः सुमन्त्रमाहूय वसिष्ठो वाक्यमब्रवीत्॥ निमन्त्रयस्व नृपतीन् पृथिव्यां ये च धार्मिकाः। ब्राह्मणान् क्षत्रियान् वैश्याशूद्रांश्चैव सहस्रशः॥ समानयस्व सत्कृत्य सर्वदेशेषु मानवान्। मिथिलाधिपतिं शूरं जनकं सत्यवादिनम्॥ तमानय महाभागं स्वयमेव सुसत्कृतम्। पूर्वं सम्बन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते॥ तथा काशिपति स्निग्धं सततं प्रियवादिनम्। सद्वृत्तं देवसंकाशं स्वयमेवानयस्व ह ॥ तथा केकयराजानं वृद्धं परमधार्मिकम्। श्वशुरं राजसिंहस्य सपुत्रं तमिहानय॥ अङ्गेश्वरं महेष्वासं रोमपादं सुसत्कृतम्। वयस्यं राजसिंहस्य सपुत्रं तमिहानय॥ तथा कोसलराजानं भानुमन्तं सुसत्कृतम्। मगधाधिपति शूरं सर्वशास्त्रविशारदम्॥ प्राप्तिज्ञं परमोदारं सत्कृतं पुरुषर्षभम्। राज्ञः शासनमादाय चोदयस्व नृपर्षभान्। प्राचीनान् सिन्धुसौवीरान्सौराष्ट्रेयांश्च पार्थिवान्॥ दाक्षिणात्यान् नरेन्द्रांश्च समस्तानानयस्व ह। सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले ॥ तानानय यथा क्षिप्रं सानुगान् सहबान्धवान्। एतान् दूतैर्महाभागैरानयस्व नृपाज्ञया॥ वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितं तदा। व्यादिशत् पुरुषांस्तत्र राज्ञामानयने शुभान्॥ स्वयमेव हि धर्मात्मा प्रयातो मुनिशासनात्। सुमन्त्रस्त्वरितो भूत्वा समानेतुं महामतिः॥ ते च कर्मान्तिकाः सर्वे वसिष्ठाय महर्षये। सर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम्॥ ततः प्रीतो द्विजश्रेष्ठस्तान् सर्वान् मुनिरब्रवीत्। अवज्ञया न दातव्यं कस्याचिल्लीलयापि वा॥ अवज्ञया कृतं हन्याद् दातारं नात्र संशयः। ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः॥ बहूनि रत्नान्यादाय राज्ञो दशरथस्य ह। ततो वसिष्ठः सुप्रीतो राजानमिदमब्रवीत्॥ उपयाता नरव्याघ्र राजानस्तव शासनात्। मयापि सत्कृताः सर्वे यथार्ह राजसत्तम॥ यज्ञियं च कृतं सर्वं पुरुषैः सुसमाहितैः। निर्यातु च भवान् यष्टुं यज्ञायतनमन्तिकात्॥ सर्वकामैरुपहतैरुपेतं वै समन्ततः। द्रष्टुमर्हसि राजेन्द्र मनसेव विनिर्मितम्॥ तथा वसिष्ठवचनादृष्यशृङ्गस्य चोभयोः। दिवसे शुभनक्षत्रे निर्यातो जगतीपतिः॥ ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः। ऋष्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा॥ यज्ञवाटं गताः सर्वे यथाशास्त्रं यथाविधि। श्रीमांश्च सह पत्नीभी राजा दीक्षामुपाविशत्॥ अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरङ्गमे। सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत ॥ ऋष्यशृङ्गं पुरस्कृत्य कर्म चकुर्द्विजर्षभाः। अश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः॥ कर्म कुर्वन्ति विधिवद् याजका वेदपारगाः। यथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः॥ प्रवर्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः। चक्रुश्च विधिवत् सर्वमधिकं कर्म शास्त्रतः॥ अभिपूज्य तदा हृष्टाः सर्वे चक्रुर्यथाविधि। प्रातः सवनपूर्वाणि कर्माणि मुनिपुङ्गवाः॥ ऐन्द्रश्च विधिवद् दत्तो राजा चाभिषुतोऽनघः। मध्यंदिनं च सवनं प्रावर्तत यथाक्रमम्॥ तृतीयसवनं चैव राज्ञोऽस्य सुमहात्मनः। चकुस्ते शास्त्रतो दृष्ट्वा यथा ब्राह्मणपुङ्गवाः ॥ आह्वयाञ्चक्रिरे तत्र शक्रादीन् विबुधोत्तमान्। ऋष्यशृङ्गादयो मन्त्रैः शिक्षाक्षरसमन्वितैः॥ गीतिभिर्मधुरैः स्निग्धैमन्त्राबानैर्यथार्हतः। होतारो ददुरावाह्य हविर्भागान् दिवौकसाम्॥ न चाहुतमभूत् तत्र स्खलितं वा न किंचन। दृश्यते ब्रह्मवत् सर्व क्षेमयुक्तं हि चक्रिरे॥ न तेष्वहःसु श्रान्तो वा क्षुधितो वा न दृश्यते। नाविद्वान् ब्राह्मणः कश्चिन्नाशतानुचरस्तथा॥ ब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते। तापसा भुञ्जते चापि श्रमणाश्चैव भुञ्जते॥ वृद्धाश्च व्याधिताश्चैव स्त्रीबालाश्च तथैव च। अनिशं भुञ्जमानानां न तृप्तिरुपलभ्यते॥ दीयतां दीयतामन्नं वासांसि विविधानि च। इति संचोदितास्तत्र तथा चक्रनेकशः॥ अन्नकूटाश्च दृश्यन्ते बहवः पर्वतोपमाः। दिवसे दिवसे तत्र सिद्धस्य विधिवत् तदा॥ नानादेशादनुप्राप्ताः पुरुषाः स्त्रीगणास्तथा। अन्नपानैः सुविहितास्तस्मिन् यज्ञे महात्मनः॥ अन्नं हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः। अहो तृप्ताः स्म भद्रं ते इति शुश्राव राघवः॥ स्वलंकृताश्च पुरुषा ब्राह्मणान् पर्यवेषयन्। उपासन्ते च तानन्ये सुमृष्टमणिकुण्डलाः॥ कर्मान्तरे तदा विप्रा हेतुवादान् बहूनपि। प्राहुः सुवाग्मिनो धीराः परस्परजिगीषया॥ दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः। सर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः॥ नाषडङ्गविदत्रासीन्नाव्रतो नाबहुश्रुतः। सदस्यास्तस्य वै राज्ञो नावादकुशलो द्विजः॥ प्राप्ते यूपाच्छ्ये तस्मिन् षड्बैल्वाः खादिरास्तथा। तावन्तो बिल्वसहिताः पर्णिनश्च तथा परे॥ श्लेष्मातकमयो दिष्टो देवदारुमयस्तथा। द्वावेव तत्र विहितौ बाहुव्यस्तपरिग्रहो॥ कारिताः सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदः शोभार्थं तस्य यज्ञस्य काञ्चनालङ्कृता भवन्॥ एकविंशतियूपास्ते एकविंशत्यरत्नयः। वासोभिरेकविंशद्भिरेकैकं समलङ्कृताः॥ विन्यस्ता विधिवत् सर्वे शिल्पिभिः सुकृता दृढाः। अष्टास्रयः सर्व एव श्लक्ष्णरूपसमन्विताः॥ आच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च पूजिताः। सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि॥ इष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः। चितोऽग्निर्ब्राह्मणैस्तत्र कुशलैः शिल्पकर्मणि॥ स चित्यो राजसिंहस्य संचितः कुशलैर्द्विजैः। गरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः॥ नियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम्। उरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः॥ शामित्रे तु हयस्तत्र तथा जलचराश्च ये। ऋषिभिः सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा॥ पशूनां त्रिशतं तत्र यूपेषु नियतं तदा। अश्वरत्नोत्तमं तत्र राज्ञो दशरथस्य ह ॥ कौसल्या तं हयं तत्र परिचर्य समन्ततः। कृपाणैर्विससारैनं त्रिभिः परमया मुदा॥ पतत्त्रिणा तथा सार्धं सुस्थितेन च चेतसा। अवसद् रजनीमेकां कौसल्या धर्मकाम्यया।॥ होताध्वर्युस्तथोद्गाता हयेन समयोजयन्। महिष्या परिवृत्त्याथ वावातामपरां तथा॥ पतत्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियः। ऋत्विकपरमसम्पन्नः श्रपयामास शास्त्रतः॥ धूमगन्धं वपायास्तु जिघ्रति स्म नराधिपः। यथाकालं यथान्यायं निर्गुदन् पापमात्मनः॥ हयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः। अग्नौ प्रास्यन्ति विधिवत् समस्ताः षोडशर्विजः॥ प्लक्षशाखासु यज्ञानामन्येषां क्रियते हविः। अश्वमेधस्य यज्ञस्य वैतसो भाग इष्यते॥ त्र्यहोऽश्वमेधः संख्यातः कल्पसूत्रेण ब्राह्मणैः। चतुष्टोममहस्तस्य प्रथमं परिकल्पितम्॥ उक्थ्यं द्वितीयं संख्यातमतिरात्रं तथोत्तरम्। कारितास्तत्र बहवो विहिताः शास्त्रदर्शनात् ॥ ज्योतिष्ठोमायुषी चैवमतिरात्रो च निर्मितौ। अभिजिद्विश्वजिच्चैवमाप्तोर्यामौ महाक्रतुः।॥ प्राचीं होने ददौ राजा दिशं स्वकुलवर्धनः। अध्वर्यवे प्रतीची तु ब्रह्मणे दक्षिणां दिशम्॥ उद्गात्रे तु तथोदीची दक्षिणैषा विनिर्मिता। अश्वमेधे महायज्ञे स्वयंभूविहिते पुरा ॥ क्रतुं समाप्य तु तदा न्यायत: पुरुषर्षभः। ऋत्विग्भ्यो हि ददौ राजा धरां तां कुलवर्धनः॥ एवं दत्त्वा प्रहृष्टोऽभूच्छीमानिक्ष्वाकुनन्दनः। ऋत्विजस्त्वब्रुवन् सर्वे राजानं गतकिल्विषम्॥ भवानेव महीं कृत्स्नामेको रक्षितुमर्हति। न भूम्या कार्यमस्माकं नहि शक्तां स्म पालने॥ रताः स्वाध्यायकरणे वयं नित्यं हि भूमिप। निष्क्रयं किञ्चिदेवेह प्रयच्छतु भवानिति॥ मणिरत्नं सुवर्णं वा गावो यद्वा समुद्यतम्। तत् प्रयच्छ नृपश्रेष्ठ धरण्या न प्रयोजनम्॥ एवमुक्तो नरपतिर्ब्राह्मणैर्वेदपारगैः। गवां शतसहस्राणि दश तेभ्यो ददौ नृपः॥ दशकोटिं सुवर्णस्य रजतस्य चतुर्गुणम्। ऋत्विजस्तु ततः सर्वे प्रददुः सहिता वसु।५१।। ऋष्यशृङ्गाय मुनये वसिष्ठाय च धीमते। ततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः॥ सुप्रीतमनसः सर्वे प्रत्यूचुर्मुदिता भृशम्। ततः प्रसर्पकेभ्यस्तु हिरण्यं सुसमाहितः॥ जाम्बूनदं कोटिसंख्यं ब्राह्मणेभ्यो ददौ तदा। दरिद्राय द्विजायाथ हस्ताभरणमुत्तमम्॥ कस्मैचिद् याचमानाय ददौ राघवनन्दनः। ततः प्रीतेषु विधिवत् द्विजेषु द्विजवत्सलः॥ प्रणाममकरोत् तेषां हर्षव्याकुलितेन्द्रियः। तस्याशिषोऽथ विविधा ब्राह्मणैः समुदाहृताः॥ उदारस्य नृवीरस्य धरण्यां पतितस्य च। ततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम्॥ पापापहं स्वर्नयनं दुस्तरं पार्थिवर्षभैः। ततोऽब्रवीदृष्यशृङ्ग राजा दशरथस्तदा॥ कुलस्य वर्धनं तत् तु कर्तुमर्हसि सुव्रत। तथेति च स राजानमुवाच द्विजसत्तमः। भविष्यन्ति सुता राजश्चत्वारस्ते कुलोद्वहाः॥ स तस्य वाक्यं मधुरं निशम्य प्रणम्य तस्मै प्रयतो नृपेन्द्रः। जगाम हर्ष परमं महात्मा तमृष्यशृङ्ग पुनरप्युवाच॥ मेधावी तु ततो ध्यात्वा स किंञ्चिदिदमुत्तरम्। लब्धसंज्ञस्ततस्तं तु वेदज्ञो नृपमब्रवीत्॥ इष्टिं तेऽहं करिष्यामि पुत्रीयां पुत्रकारणात्। अथर्वशिरसि प्रोक्तैर्मन्त्रैः सिद्धां विधानतः॥ ततः प्राक्रमदिष्टिं तां पुत्रीयां पुत्रकारणात्। जुहावाग्नौ च तेजस्वी मन्त्रदृष्टेन कर्मणा॥ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। भागप्रतिग्रहार्थं वै समवेता यथाविधि ॥ ताः समेत्य यथान्यायं तस्मिन् सदसि देवताः। अब्रुवँल्लोककर्तारं ब्रह्माणं वचनं ततः॥ भगवंस्त्वत्प्रसादेन रावणो नाम राक्षसः। सर्वान् नो बाधते वीर्याच्छासितुं तं न शक्नुमः॥ त्वया तस्मै वरो दत्तः प्रीतेन भगवंस्तदा। मानयन्तश्च तं नित्यं सर्वं तस्य क्षमामहे ॥ उद्वेजयति लोकांस्त्रीनुच्छ्रितान् द्वेष्टि दुर्मतिः। शक्रं त्रिदशराजानं प्रधर्षयितुमिच्छति॥ ऋषीन् यक्षान् सगन्धर्वान् ब्राह्मणानसुरांस्तदा। अतिक्रामति दुर्धर्षो वरदानेन मोहितः॥ नैनं सूर्यः प्रतपति पार्श्वे वाति न मारुतः। चलोर्मिमाली तं दृष्ट्वा समुद्रोऽपि न कम्पते॥ तन्महन्नोभयं तस्माद् राक्षसाद् घोरदर्शनात्। वधार्थं तस्य भगवन्नुपायं कर्तुमर्हसि॥ एवमुक्तः सुरैः सर्वैश्चिन्तयित्वा ततोऽब्रवीत्। हन्तायं विदितस्तस्य वधोपायो दुरात्मनः॥ तेन गन्धर्वयक्षाणां देवतानां च रक्षसाम्। अवध्योऽस्मीति वागुक्ता तथेत्युक्तं च तन्मया॥ नाकीर्तयदवज्ञानात् तद् रक्षो मानुषांस्तदा। तस्मात्स मानुषाद्वध्यो मृत्युर्नान्योऽस्य विद्यते॥ एतच्छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम्। देवा महर्षयः सर्वे प्रहृष्टास्तेऽभवंस्तदा॥ एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः। शङ्खचक्रगदापाणिः पीतवासा जगत्पतिः॥ वैनतेयं समारुह्य भास्करस्तोयदं यथा। तप्तहाटककेयूरो वन्द्यमानः सुरोत्तमैः॥ ब्रह्मणा च समागत्य तत्र तस्थौ समाहितः। तमब्रुवन् सुराः सर्वे समभिष्ट्रय संनताः॥ त्वां नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया। राज्ञो दशरथस्य त्वमयोध्याधिपतेर्विभो॥ धर्मज्ञस्य वदान्यस्य महार्षिसमतेजसः। अस्य भार्यासु तिसृषु ह्रीश्रीकीर्युपमासु च॥ विष्णो पुत्रत्वमागच्छ कृत्वाऽऽत्मानं चतुर्विधम्। तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम्॥ अवध्यं दैवतैर्विष्णो समरे जहि रावणम्। स हि देवान् सगन्धर्वान् सिद्धांश्च ऋषिसत्तमान् ॥ राक्षसो रावणो मूल् वीर्योद्रेकेण बाधते। ऋषयश्च ततस्तेन गन्धर्वाप्सरसस्तथा॥ क्रीडन्तो नन्दनवने रौद्रेण विनिपातिताः। वधार्थं वयमायातास्तस्य वै मुनिभिः सह ॥ सिद्धगन्धर्वयक्षाश्च ततस्त्वां शरणं गताः। त्वं गतिः परमा देव सर्वेषां नः परंतप ॥ वधाय देवशत्रूणां नृणां लोके मनः कुरु। एवं स्तुतस्तु देवेशो विष्णुस्त्रिदशपुङ्गवः॥ पितामहपुरोगांस्तान् सर्वलोकनमस्कृतः। अब्रवीत् त्रिदशान् सर्वान् समेतान् धर्मसंहितान्॥ भयं त्यजत भद्रं वो हितार्थं युधि रावणम्। सपुत्रपौत्रं सामात्यं समन्त्रिज्ञातिबान्धवम्॥ हत्वा क्रूरं दुराधर्ष देवर्षीणां भयावहम्। दशवर्षसहस्राणि दशवर्षशतानि च॥ वत्स्यामि मानुषे लोके पालयन् पृथिवीमिमाम्। एवं दत्त्वा वरं देवो देवानां विष्णुरात्मवान्॥ मानुष्ये चिन्तयामास जन्मभूमिमथात्मनः। ततः पद्मपलाशाक्षः कृत्वाऽऽत्मानं चतुर्विधम्॥ पितरं रोचयामास तदा दशरथं नृपम्। ततो देवर्षिगन्धर्वाः सरुद्राः साप्सरोगणाः। स्तुतिभिर्दिव्यरूपाभिस्तुष्टुवुर्मधुसूदनम्॥ तमुद्धतं रावणमुग्रतेजसं प्रवृद्धदर्पं त्रिदशेश्वरद्विषम्। विरावणं साधुतपस्विकण्टकं तपस्विनामुद्धर तं भयावहम्॥ तमेव हत्वा सबलं सबान्धवं विरावणं रावणमुग्रपौरुषम्। स्वर्लोकमागच्छ गतज्वरश्चिरं सुरेन्द्रगुप्तं गतदोषकल्मषम्॥ ततो नारायणो विष्णुर्नियुक्तः सुरसत्तमैः। जानन्नपि सुरानेवं श्लक्ष्णं वचनमब्रवीत्॥ उपायः को वधे तस्य राक्षसाधिपतेः सुराः। यमहं तं समास्थाय निहन्यामृषिकण्टकम्॥ एवमुक्ताः सुराः सर्वे प्रत्यूचुर्विष्णुमव्ययम्। मानुषं रूपमास्थाय रावणं जहि संयुगे॥ स हि तेपे तपस्तीवं दीर्घकालमरिंदमः। येन तुष्टोऽभवद् ब्रह्मा लोककृल्लोकपूर्वजः॥ संतुष्टः प्रददौ तस्मै राक्षसाय वरं प्रभुः। नानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुषात्॥ अवज्ञाताः पुरा तेन वरदाने हि मानवाः। एवं पितामहात् तस्माद् वरदानेन गर्वितः॥ उत्सादयति लोकांस्त्रीन् स्त्रियश्चाप्युपकर्षति। तस्मात् तस्य वधो दृष्टो मानुषेभ्यः परंतप॥ इत्येतद् वचनं श्रुत्वा सुराणां विष्णुरात्मवान्। पितरं रोचयामास तदा दशरथं नृपम्॥ स चाप्यपुत्रो नृपतिस्तस्मिन् काले महाद्युतिः। अयजद् पुत्रियामिष्टिं पुत्रेप्सुररिसूदनः॥ स कृत्वा निश्चयं विष्णुरामन्त्र्य च पितामहम्। अन्तर्धानं गतो देवैः पूज्यमानो महर्षिभिः॥ ततो वै यजमानस्य पावकादतुलप्रभम्। प्रादुर्भूतं महद् भूतं महावीर्य महाबलम्॥ कृष्णं रक्ताम्बरधरं रक्तास्यं दुन्दुभिस्वनम्। स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्धजम्॥ शुभलक्षणसम्पन्नं दिव्याभरणभूषितम्। शैलशृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम्॥ दिवाकरसमाकारं दीप्तानलशिखोपमम्। तप्तजाम्बूनदमयों राजतान्तपरिच्छदाम्॥ दिव्यपायससम्पूर्णां पात्री पत्नीमिव प्रियाम्। प्रगृह्य विपुलां दोभ्यां स्वयं मायामयीमिव ॥ समवेक्ष्याब्रवीद् वाक्यमिदं दशरथं नृपम्। प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप॥ ततः परं तदा राजा प्रत्युवाच कृताञ्जलिः। भगवन् स्वागतं तेऽस्तु किमहं करवाणि ते॥ अथो पुनरिदं वाक्यं प्राजापत्यो नरोऽब्रवीत्। राजन्नर्चयता देवानद्य प्राप्तमिदं त्वया ॥ इदं तु नृपशार्दूल पायसं देवनिर्मितम्। प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्धनम्॥ भार्याणामनुरूपाणामश्नीतेति प्रयच्छ वै। तासु त्वं लप्स्यसे पुत्रान् यदर्थं यजसे नृप॥ तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम्। पात्री देवानसम्पूर्णा देवदत्तां हिरण्मयीम्॥ अभिवाद्य च तद्भूतमद्भुतं प्रियदर्शनम्। मुदा परमया युक्तश्चकाराभिप्रदक्षिणम्॥ ततो दशरथः प्राप्य पायसं देवनिर्मितम्। बभूव परमप्रीतः प्राप्य वित्तमिवाधनः॥ ततस्तदद्भुतप्रख्यं भूतं परमभास्वरम्। संवर्तयित्वा तत् कर्म तत्रैवान्तरधीयत॥ हर्षरश्मिभिरुद्योतं तस्यान्तः पुरमाबभौ। शारदस्याभिरामस्य चन्द्रस्येव नभोंऽशुभिः॥ सोऽन्तःपुरं प्रविश्यैव कौसल्यामिदमब्रीत्। पायसं प्रतिगृह्णीष्व पुत्रीयं त्विदमात्मनः॥ कौसल्यायै नरपतिः पायसार्धं ददौ तदा। अर्धादर्धं ददौ चापि सुमित्रायै नराधिप२७ ।। कैकेय्यै चावशिष्टार्धं ददौ पुत्रार्थकारणात्। प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम्॥ अनुचिन्त्य सुमित्रायै पुनरेव महामतिः। एवं तासां ददौ राजा भार्याणां पायसं पृथक् ॥ ताश्चैवं पायसं प्राप्य नरेन्द्रस्योत्तमस्त्रियः। सम्मानं मेनिरे सर्वाः प्रहर्षोदितचेतसः॥ ततस्तु ताः प्राश्य तमुत्तमस्त्रियो महीपतेरुत्तमपायसं पृथक्। ऽचिरेण गर्भान् प्रतिपेदिरे तदा॥ ततस्तु राजा प्रतिवीक्ष्य ताः स्त्रियः प्ररूढगर्भाः प्रतिलब्धमानसः। बभूव हृष्टिस्त्रिदिवे यथा हरिः सुरेन्द्रसिद्धर्षिगणाभिपूजितः॥ पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः। उवाच देवताः सर्वाः स्वयंभूर्भगवानिदम्॥ सत्यसंधस्य वीरस्य सर्वेषां नो हितैषिणः। तनूषु च। : सहायान् बलिनः सृजध्वं कामरूपिणः॥ मायाविदश्च शूरांश्च वायुवेगसमान् जवे। नयज्ञान् बुद्धिसम्पन्नान् विष्णुतुल्यपराक्रमान्॥ असंहार्यानुपायज्ञान् दिव्यसंहननान्वितान्। सर्वास्त्रगुणसम्पन्नानमृतप्राशनानिव॥ अप्सरःसु च मुख्यासु गन्धर्वीणां यक्षपन्नगकन्यासु ऋक्षविद्याधरीषु च ॥ किन्नरीषां च गात्रेषु वानरीणां तनूषु च। सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान्॥ पूर्वमेव मया सृष्टो जाम्बवानृक्षपुङ्गवः। जृम्भमाणस्य सहसा मम वक्त्रादजायत।७।। ते तथोक्ता भगवता तत् प्रतिश्रुत्य शासनम्। जनयामासुरेवं ते पुत्रान् वानररूपिणः॥ ऋषयश्च महात्मानः सिद्धविद्याधरोरगाः। चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः॥ वानरेन्द्र महेन्द्राभमिन्द्रो वालिनमात्मजम्। सुग्रीवं जनयामास तपनस्तपतां वरः॥ बृहस्पतिस्त्वजनयत् तारं नाम महाकपिम्। सर्ववानरमुख्यानां बुद्धिमन्तमनुत्तमम्॥ धनदस्य सुतः श्रीमान् वानरो गन्धमादनः। विश्वकर्मा त्वजनयन्त्रलं नाम महाकपिम्।।१२ पावकस्य सुतः श्रीमान् नीलोऽग्निसदृशप्रभः। तेजसा यशसा वीर्यादत्यरिच्यत वीर्यवान्॥ रूपद्रविणसंपन्नावश्विनौ रूपसंमतौ। मैन्दं च द्विविदं चैव जनयामासतुः स्वयम्॥ वरुणो जनयामास सुषेणं नाम वानरम्। शरभं जनयामास पर्जन्यस्तु महाबलः॥ मारुतस्यौरसः श्रीमान् हनूमान् नाम वानरः। वज्रसंहननोपेतो वैनतेयसमो जवे॥ सर्ववानरमुख्येषु बुद्धिमान् बलवानपि। ते सृष्टा बहुसाहस्रा दशग्रीववधोद्यताः॥ अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः। ते गजाचलसंकाशा वपुष्मन्तो महाबलाः॥ ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभिजज्ञिरे। यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः॥ अजायत समं तेन तस्य तस्य पृथक् पृथक् । गोलाङ्गुलेषु चोत्पन्नाः किंचिदुनतविक्रमाः॥ ऋक्षीषु च तथा जाता वानराः किन्नरीषु च। देवा महर्षिगन्धर्वास्तार्क्ष्ययक्षा यशस्विनः॥ नागाः किंपुरुषाश्चैव सिद्धविद्याधरोरगाः। बहवो जनयामासुहृष्टास्तत्र सहस्रशः॥ चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः। वानरान् सुमहाकायान् सर्वान् वै वनचारिणः॥ अप्सरःसु च मुख्यासु तथा विद्याधरीषु च। नागकन्यासु च तदा गन्धर्वीणां तनूषु च। कामरूपबलोपेता यथाकामविचारिणः॥ सिंहशार्दूलसदृशा दर्पण च बलेन च। शिलाप्रहरणाः सर्वे सर्वे पर्वतयोधिनः॥ मखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः। विचालयेयुः शैलेन्द्रान् भेदयेयुः स्थिरान् द्रुमान्॥ क्षोभयेयुश्च वेगेन समुद्र सरितां पतिम्। दारयेयुः क्षितिं पद्भ्यामाप्लवेयुर्महार्णवान्॥ नभस्तलं विशेयुश्च गृह्णीयुरपि तोयदान्। गृह्णीयुरपि मातङ्गान् मत्तान् प्रव्रजतो वने॥ नर्दमानांश्च नादेन पातयेयुर्विहङ्गमान्। ईदृशानां प्रसूतानि हरीणां कामरूपिणाम्॥ शतं शतसहस्राणि यूथपानां महात्मनाम्। ते प्रधानेषु यथेषु हरीणां हरियूथपाः॥ बभूवुर्मूथपश्रेष्ठान् वीरांश्चाजनयन् हरीन्। अन्ये ऋक्षवतः प्रस्थानुपतस्थुः सहस्रशः॥ अन्ये नानाविधाञ्छैलान् काननानि च भेजिरे। सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम्॥ भ्रातरावुपतस्थुस्ते सर्वे च हरियूथपाः। नलं नीलं हनूमन्तमन्यांश्च हरियूथपान्॥ ते तार्क्ष्यबलसम्पन्नः सर्वे युद्धविशारदाः। विचरन्तोऽर्दयन् सर्वान् सिंहव्याघ्रमहोरगान्॥ महाबलो महाबाहुर्वाली विपुलविक्रमः। जुगोप भुजवीर्येण ऋक्षगोपुच्छवानरान् ॥ तैरियं पृथिवी शूरैः सपर्वतवनार्णवा। कीर्णा विविधसंस्थानैर्नानाव्यञ्जनलक्षणैः॥ तैर्मेघवृन्दाचलकूटसंनिभैर्महाबलैर्वानरयूथपाधिपैः। बभूव भूर्भीमशरीररूपैः समावृता रामसहायहेतोः॥ निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः। प्रतिगृह्यामरा भागान् प्रतिजग्मुर्यथागतम्॥ समाप्तदीक्षानियमः पत्नीगणसमन्वितः। प्रविवेश पुरी राजा सभृत्यबलवाहनः॥ यथार्ह पूजितास्तेन राज्ञा च पृथिवीश्वराः। मुदिताः प्रययुर्देशान् प्रणम्य मुनिपुङ्गवम्॥ श्रीमतां गच्छतां तेषां स्वगृहाणि पुरात्ततः। बलानि राज्ञां शुभ्राणि प्रहृष्टानि चकाशिरे॥ गतेषु पृथिवीशेषु राजा दशरथः पुनः। प्रविवेश पुरीं श्रीमान् पुरस्कृत्य द्विजोत्तमान्॥ शान्तया प्रययौ सार्धमृष्यशृङ्गः सुपूजितः। अनुगम्यमानो राज्ञा च सानुयात्रेण धीमता॥ एवं विसृज्य तान् सर्वान् राजा सम्पूर्णमानसः। उवास सुखितस्तत्र पुत्रोत्पत्तिं विचिन्तयन्।७।। ततो यज्ञे समाप्ते तु ऋतूनां षट् समत्ययुः। ततश्च द्वादशे मासे चैत्रे नावमिके तिथौ॥ नक्षत्रेऽदितिदैवत्ये स्वोच्चसंस्थेषु पञ्चसु। ग्रहेषु कर्कटे लग्ने वाक्पताविन्दुना सह॥ प्रोद्यमाने जगन्नाथं सर्वलोकनमस्कृतम्। कौसल्याजनयद् रामं दिव्यलक्षणसंयुतम्॥ विष्णोरर्धं महाभागं पुत्रमैक्ष्वाकुनन्दनम्। लोहिताक्षं महाबाहुं रक्तोष्ठं दुन्दुभिस्वनम् ॥ कौसल्या शुशुभे तेन पुत्रेणामिततेजसा। यथा वरेण देवानामदितिर्वज्रपाणिना॥ भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः। साक्षाद् विष्णोश्चतुर्भागः सर्वैः समुदितो गुणैः॥ अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत्सुतौ। वीरौ सर्वास्त्रकुशलौ विष्णोरर्धसमन्वितौ॥ पुष्ये जातस्तु भरतो मीनलग्ने प्रसन्नधीः। सार्पे जातौ तु सौमित्री कुलीरेऽभ्युदिते रवौ॥ राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक् । गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमाः॥ जगुः कलं च गन्धर्वा ननृतुश्चाप्सरोगणाः। देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खात् पतत्॥ उत्सवश्च महानासीदयोध्यायां जनाकुलः। रथ्याश्च जनसम्बाधा नटनर्तकसंकुलाः॥ गायनैश्च विराविण्यो वादनैश्च तथापरैः। विरेजुर्विपुलास्तत्र सर्वरत्नसमन्विनाम्॥ प्रदेयांश्च ददौ राजा सूतमागधबन्दिनाम्। ब्राह्मणेभ्यो ददौ वित्तं गोधनानि सहस्रशः॥ अतीत्यैकादशाहं तु नामकर्म तथाकरोत्। ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम्॥ सौमित्रिं लक्ष्मणमिति शत्रुघ्नमपरं तथा। वसिष्ठः परमप्रीतो नामानि कुरुते तदा॥ ब्राह्मणान् भोजयामास पौरजानपदानपि। अददद् ब्राह्मणानां च रत्नौघममलं बहु॥ तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत्। तेषां केतुरिव ज्येष्ठो रामो रतिकरः पितुः॥ बभूव भूयो भूतानां स्वयम्भूरिव सम्मतः। सर्वे वेदविदः शूराः सर्वे लोकहिते रताः॥ सर्वे ज्ञानोपसम्पन्ना सर्वे समुदिता गुणैः। तेषामपि महातेजा रामः सत्यपराक्रमः॥ इष्टः सर्वस्य लोकस्य शशाङ्क इव निर्गलः। गजस्कन्धेऽश्वपृष्ठे च रथचर्यासु सम्मतः॥ धनुर्वेदे च निरतः पितुः शुश्रूषणे रतः। बाल्यात् प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्धनः॥ रामस्य लोकरामस्य भ्रातुर्येष्ठस्य नित्यशः। सर्वप्रियकरस्तस्य रामस्यापि शरीरतः॥ लक्ष्मणो लक्ष्मिसंपन्नो बहिःप्राण इवापरः। न च तेन विना निद्रां लभते पुरुषोत्तमः॥ मृष्टमन्त्रमुपानीतमश्नाति न हि तं विना। यदा हि हयमारूढो मृगयां याति राघवः॥ अथैनं पृष्ठतोऽभ्येति सधनुः परिपालयन्। भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः॥ प्राणैः प्रियतरो नित्यं तस्य चासीत् तथा प्रियः। स चतुर्भिर्महाभागैः पुत्रैर्दशरथः प्रियैः॥ बभूव परमप्रीतो देवैरिव पितामहः। ते यदा ज्ञानसम्पन्नाः सर्वे समुतदिता गुणैः॥ ह्रीमन्तः कीर्तिमन्तश्च सर्वज्ञा दीर्घदर्शिनः। तेषामेवंप्रभावाणां सर्वेषां दीप्ततेजसाम्॥ पिता दशरथो हृष्टो ब्रह्मा लोकाधिपो यथा। ते चापि मनुजव्याघ्रा वैदिकाध्ययने रताः॥ पितृशुश्रूषणरता धनुर्वेदे च निष्ठिताः। अथ राजा दशरथस्तेषां दारक्रियां प्रति॥ चिन्तयामास धर्मात्मा सोपाध्यायः सबान्धवः। तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मनः॥ अभ्यागच्छन्महातेजा विश्वामित्रो महामुनिः। स राज्ञो दर्शनाकानी द्वाराध्यक्षानुवाच ह॥ शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनः सुतम्। तच्छ्रुत्वा वचनं तस्य राज्ञो वेश्म प्रदुद्रुवुः॥ सम्भ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः। ते गत्वा राजभवनं विश्वामित्रमृषिं तदा॥ प्राप्तमावेदयामासुपायेक्ष्वाकवे तदा। तेषां तद् वचनं श्रुत्वा सपुरोधाः समाहितः।॥ प्रत्युज्जगाम संहृष्टो ब्रह्माणमिव वासवः। स दृष्ट्वा ज्वलितं दीप्त्या तापसं संशितव्रतम्॥ प्रहृष्टवदनो राजा ततोऽर्घ्यमुपहारयत्। स राज्ञः प्रतिगृह्याऱ्या शास्त्रदृष्टेन कर्मणा॥ कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम्। कोशे जनपदे बान्धवेषु सुहृत्सु च ॥ कुशलं कौशिको राज्ञः पर्यपृच्छत् सुधार्मिकः। अपि ते संनताः सर्वे सामन्तरिपवो जिताः॥ दैवं च मानुषं चैव कर्म ते साध्वनुष्ठितम्। वसिष्ठं च समागम्य कुशलं मुनिपुङ्गवः॥ ऋषींश्च तान् यथान्यायं महाभाग उवाच ह। ते सर्वे हृष्टमनसस्तस्य राज्ञो निवेशनम्॥ विविशुः पूजितास्तेन निषेदुश्च यथार्हतः। अथ हृष्टमना राजा विश्वामित्रं महामुनिम्॥ उवाच परमोदारो हृष्टस्तमभिपूजयन्। यथामृतस्य सम्प्राप्तिर्यथा वर्षमनूदके॥ वै यथा सदृशदारेषु पुत्रजन्माप्रजस्य प्रणष्टस्य यथा लाभो यथा हर्षों महोदयः॥ तथैवागमनं मन्ये स्वागतं ते महामुने। कं च ते परमं कामं करोमि किमु हर्षितः॥ पात्रभूतोऽसि मे ब्रह्मन् दिष्ट्या प्राप्तोऽसि मानद। अद्य मे सफलं जन्म जीवितं च सुजीवितम्॥ यस्माद् विप्रेन्द्रमद्राक्षं सुप्रभाता निशा मम। पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः॥ ब्रह्मर्षित्वमनुप्राप्तः पूज्योऽसि बहुधा मया। तदद्भुतमभूद्विप्र पवित्रं परमं मम॥ शुभक्षेत्रगतश्चाहं तव संदर्शनात् प्रभो। ब्रूहि यत् प्रार्थितं तुभ्यं कार्यमागमनं प्रति ॥ इच्छाम्यनुगृहीतोऽहं त्वदर्थं परिवृद्धये। कार्यस्य न विमर्श च गन्तुमर्हसि सुव्रत॥ कर्ता चाहमशेषेण दैवतं हि भवान् मम। मम चायमनुप्राप्तो महानभ्युदयो द्विज। तवागमनजः कृत्स्नो धर्मश्चानुत्तमो द्विज ॥ इति हृदयसुखं निशम्य वाक्यं श्रुतिसुखमात्मवता विनीतमुक्तम्। प्रथितगुणयशा गुणैर्विशिष्टः परमऋषिः परमं जगाम हर्षम्॥ तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम्। हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत ॥ सदृशं राजशार्दूल तवैव भुवि नान्यतः। महावंशप्रसूतस्य वसिष्ठव्यपदेशिनः॥ यत् तु मे हृद्गतं वाक्यं तस्य कार्यस्य निश्चयम्। कुरुष्व राजशार्दूल भव सत्यव्रतिश्रवः॥ अहं नियममातिष्ठे सिद्ध्यर्थं पुरुषर्षभ। तस्य विघ्नकरौ द्वौ तु राक्षसौ कामरूपिणौ॥ व्रते तु बहुशश्चीर्णे समाप्त्यां राक्षसाविमौ। मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ ॥ तौ मांसरुधिरौघेण वेदि तामभ्यवर्षताम्। अवधूते तथाभूते तस्मिन् नियमनिश्चये॥ कृतश्रमो निरुत्साहस्तस्माद् देशादपाक्रमे। न च मक्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव॥ तथाभूता हि सा चर्या न शापस्तत्र मुच्यते। स्वपुत्रं राजशार्दूलरामं सत्यपराक्रमम्॥ काकपक्षधरं वीरं ज्येष्ठं मे दातुमर्हसि। शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा ॥ राक्षसा ये विकारस्तेषामपि विनाशने। श्रेयश्चास्मै प्रदास्यामि बहुरूपं न संशयः॥ त्रयाणामपि लोकानां येन ख्यातिं गमिष्यति। न च तौ राममासाद्य शक्तौ स्थातुं कथंचन॥ न च तौ राघवादन्यो हन्तुमुत्सहते पुमान्। वीर्योत्सितौ हि तौ पापौ कालपाशवशं गतौ॥ रामस्य राजशार्दूल न पर्याप्तो महात्मनः। न च पुत्रगतं स्नेहं कर्तुमर्हसि पार्थिव॥ अहं ते प्रतिजानामि हतौ तौ विद्धि राक्षसौ। अहं वेनि महात्मानं रामं सत्यपराक्रमम्॥ वसिष्ठोऽपि महातेजा ये चेमे तपसि स्थिताः। यदि ते धर्मलाभं तु यशश्च परमं भुवि॥ स्थिरमिच्छसि राजेन्द्र रामं मे दातुमर्हसि। यद्यभ्यनुज्ञां काकुत्स्थ ददते तव मन्त्रिणः॥ वसिष्ठप्रमुखाः सर्वे ततो रोमं विसर्जय। अभिप्रेतमसंसक्तमात्मजं दातुमर्हसि॥ दशरात्रं हि यज्ञस्य रामं राजीवलोचनम्। नात्येति कालो यज्ञस्य यथायं मम राघव॥ तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः। इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः॥ विरराम महातेजा विश्वामित्रो महामतिः। स तन्निशम्य राजेन्द्रो विश्वामित्रवचः शुभम्॥ शोकेन महताविष्टश्चचाल च मुमोह च। लब्धसंज्ञस्ततोत्थाय व्यषीदत भयान्वितः॥ इति हृदयमनोविदारणं मुनिवचनं तदतीव शुश्रुवान्। नरपतिरभवन्महान् महात्मा व्यथितमनाः प्रचचाल चासनात्॥ तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम्। मुहूर्तमिव नि:संज्ञः संज्ञावानिदमब्रवीत्॥ ऊनषोडशवर्षों मे रामो राजीवलोचनः। न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः॥ इयमक्षौहिणी सेना यस्याहं पतिरीश्वरः। अनया सहितो गत्वा योद्धाहं तैर्निशाचरैः॥ इमे शूराश्च विक्रान्ता भृत्या मेऽस्त्रविशारदाः। योग्या रक्षोगणैर्योद्धं न रामं नेतुमर्हसि॥ अहमेव धनुष्पाणिर्गोप्ता समरमूर्धनि। यावत् प्राणान् धरिष्यामि तावद् योत्स्ये निशाचरैः॥ निर्विघ्ना व्रतचार्या सा भविष्यति सुरक्षिता। अहं तत्र गमिष्यामि न रामं नेतुमर्हसि॥ बालो ह्यकृतविद्यश्च न च वेत्ति बलाबलम्। न चास्त्रबलसंयुक्तो न च युद्धविशारदः॥ न चासौ रक्षसां योग्यः कूटयुद्धा हि राक्षसाः। विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे॥ जीवितुं मुनिशार्दूल न रामं नेतुमर्हसि। यदि वा राघवं ब्रह्मन् नेतुमिच्छसि सुव्रत॥ चतुरङ्गसमायुक्तं मया सह च तं नय। षष्टिवर्षसहस्राणि जातस्य मम कौशिक॥ कृच्छ्रेणोत्पादितश्चायं न रामं नेतुमर्हसि। चतुर्णामात्मजानां हि प्रीतिः परमिका मम॥ ज्येष्ठे धर्मप्रधाने च न रामं नेतुमर्हसि। किंवीर्या राक्षसास्ते च कस्य पुत्राश्च के च ते॥ कथंप्रमाणाः के चैतान् रक्षन्ति मुनिपुङ्गव। कथं च प्रतिकर्तव्यं तेषां रामेण रक्षसाम्॥ मामकैर्वा बलैर्ब्रह्मन् मया वा कूटयोधिनाम्। सर्वं मे शंस भगवन् कथं तेषां मया रणे॥ स्थातव्यं दुष्टभावानां वीर्योत्सित्ता हि राक्षसाः। तस्य तद् वचनं श्रुत्वा विश्वामित्रोऽभ्यभाषत॥ पौलस्त्यवंशप्रभवो रावणो नाम राक्षसः। स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम्॥ महाबलो महावीर्यो राक्षसैर्बहुभिर्वृतः। श्रूयते च महाराज रावणो राक्षसाधिपः॥ साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः। यदा न खलु यज्ञस्य विघ्नकर्ता महाबलौ॥ तेन संचोदितौ तौ तु राक्षसौ च महाबलौ। मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यतः॥ इत्युक्तो मुनिना तेन राजोवाच मुनिं तदा। नहि शक्तोऽस्मि संग्रामे स्थातुं तस्य दुरात्मनः॥ स त्वं प्रसादं धर्मज्ञ कुरुष्व मम पुत्रके। मम चैवाल्पभाग्यस्य दैवतं हि भवान् गुरुः॥ देवदानवगन्धर्वा यक्षाः पतगपन्नगाः। न शक्ता रावणं सोढुं किं पुनर्मानवा युधि ॥ स तु वीर्यवतां वीर्यमादत्ते युधि रावणः। तेन चाहं न शक्तोऽस्मि संयोद्धं तस्य वा बलैः॥ सबलो वा मुनिश्रेष्ठ सहितो वा ममात्मजैः। कथमप्यमरप्रख्यं संग्रामाणामकोविदम्॥ बालं मे तनयं ब्रह्मन् नैव दास्यामि पुत्रकम्। अथ कालोपमौ युद्धे सुतौ सुन्दोपसुन्दयोः॥ यज्ञविघ्नकरौ तौ ते नैव दास्यामि पुत्रकम्। मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ॥ तयोरन्यतरं योद्धं यास्यामि ससुहृद्गणः। अन्यथा त्वनुनेष्यामि भवन्तं सहबान्धवः॥ इति नरपतिजल्पनाद् द्विजेन्द्र कुशिकसुतं सुमहान् विवेश मन्युः। सुहुत इव मखेऽग्निराज्यसिक्तः समभवदुज्ज्वलितौ महर्षिवह्निः॥ तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम्। समन्युः कौशिकौ वाक्यं प्रत्युवाच महीपतिम् ॥ पूर्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि। राघवाणामयुक्तोऽयं कुलस्यास्य विपर्यय॥ यदीदं ते क्षमं राजन् गमिष्यामि यथागतम्। मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव सुहृद्वृतः॥ तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः। चचाल वसुधा कृत्स्ना देवानां च भयं महत्॥ त्रस्तरूपं तु विज्ञाय जगत् सर्वं महानृषिः। नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत्॥ इक्ष्वाकूणां कुले जातः साक्षाद् धर्म इवापरः। धृतिमान् सुव्रतः श्रीमान् न धर्म हातुमर्हसि॥ त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघवः। स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि।७।। प्रतिश्रुत्य करिष्येति उक्तं वाक्यमकुर्वतः। इष्टापूर्तवधो भूयात् तस्माद् रामं विसर्जय॥ कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः। गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा॥ एष विग्रहवान् धर्म एष वीर्यवतां वरः। एष विद्याधिको लोके तपसश्च परायणम्॥ एषोऽस्त्रान् विविधान् वेत्ति त्रैलोक्ये सचराचरे। नैनमन्यः पुमान् वेत्ति न च वेत्स्यन्ति केचन॥ न देवा नर्षयः केचिन्नामरा न च राक्षसाः। गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः॥ सर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्मिकाः। कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति॥ तेऽपि पुत्राः कृशाश्वस्य प्रजापतिसुतासुताः। नैकरूपा महावीर्या दीप्तिमन्तो जयावहाः॥ जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे। ते सूतेऽस्त्राणि शस्त्राणि शतं परमभास्वरम्॥ पञ्चाशतं सुताँल्लेभे जया लब्धवरा वरान्। वधायासुरसैन्यानामप्रमेयानरूपिणः॥ सुप्रभाजनयच्चापि पुत्रान् पञ्चशतं पुनः। संहारान् नाम दुर्धर्षान् दुराक्रमान् बलीयसः॥ तानि चास्त्राणि वेत्त्येष यथावत् कुशिकात्मजः। अपूर्वाणां च जनने शक्तो भूयश्च धर्मवित्॥ तेनास्य मुनिमुख्यस्य धर्मज्ञस्य महात्मनः। न किञ्चिदस्त्यविदितं भूतं भव्यं च राघव॥ एवंवीर्यो महातेजा विश्वामित्रो महायशाः। न रामगमने राजन् संशयं गन्तुमर्हसि ॥ तेषां निग्रहणे शक्तः स्वयं च कुशिकात्मजः। तव पुत्रहितार्थाय त्वामुपेत्याभियाचते॥ इति मुनिवचनात् प्रसन्नचित्तो रघुवृषभश्च मुमोद पार्थिवाग्र्यः। गमनमभिरुरोच राघवस्य प्रथितयशाः कुशिकात्मजाय बुद्ध्या॥ गमनमभिरुरोच राघवस्य प्रथितयशाः कुशिकात्मजाय बुद्ध्या॥ तथा वसिष्ठे ब्रुवति राजा दशरथः स्वयम्। प्रहृष्टवदनो राममाजुहाव सलक्ष्मणम्॥ कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च। पुरोधसा वसिष्ठेन मङ्गलैरभिमन्त्रितम्॥ स पुत्रं मू[पाघ्राय राजा दशरथस्तदा॥ ततो वायुः सुखस्पर्शो नीरजस्को ववौ तदा। विश्वामित्रगतं रामं दृष्ट्वा राजीवलोचनम्॥ पुष्पवृष्टिर्महत्यासीद् देवदुन्दुभिनिःस्वनैः। शङ्खदुन्दुभिनिर्घोषः प्रयाते तु महात्मनि ॥ विश्वामित्रो ययावग्रे ततो रामो महायशाः। काकपक्षधरो धन्वी तं च सौमित्रिरन्वगात्॥ कलापिनौ धनुष्पाणी शोभयानौ दिशो दश। विश्वामित्रं महात्मानं त्रिशीर्षाविव पन्नगौ॥ अनुजग्मतुरक्षुद्रौ पितामहमिवाश्विनौ। अनुयातौ श्रिया दीप्तौ शोभयन्तावनिन्दितौ॥ तदा कुशिकपुत्रं तु धनुष्पाणी स्वलंकृतौ। बद्धगोधाङ्गलित्राणौ खङ्गवन्तौ महाद्युती॥ कुमारौ चारुवपुषौ भ्रातरौ रामलक्ष्मणौ। अनुयातौ श्रिया दीप्तौ शोभयेतामनिन्दितौ॥ स्थाणुं देवमिवाचिन्त्यं कुमाराविव पावकी। अध्यर्धयोजनं गत्वा सरय्वा दक्षिणे तटे॥ रामेति मधुरां वाणीं विश्वामित्रोऽभ्यभाषत। गृहाण वत्स सलिलं माभूत् कालस्य पर्ययः॥ मन्त्रग्रामं गृहाण त्वं बलामतिबलां तथा। न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः॥ न च सुप्तं प्रमत्तं वां धर्षयिष्यन्ति नैऋताः। न बाह्वोः सदृशो वीर्ये पृथिव्यामस्ति कश्चन ॥ त्रिषु लोकेषु वा राम न भवेद् सदृशस्तव। बलामतिबलां चैव पठतस्तात राघव॥ न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धिनिश्चये। नोत्तरे प्रतिवक्तव्ये समो लोके तवानघ॥ एतद्विद्याद्वये लब्धे न भवेत् सदृशस्तव। बला चातिबला चैव सर्वज्ञानस्य मातरौ ॥ क्षुत्पिपासे न ते राम भविष्येते नरोत्तम। बलामतिबलां चैव पठतस्तात राघव॥ विद्याद्वयमधीयाने यशश्चाथ भवेद् भुवि। पितामहसुते ह्येते विद्ये तेजः समन्विते॥ प्रदातुं तव काकुत्स्थ सदृशस्त्वं हि पाथिव। कामं बहुगुणाः सर्वे त्वय्येते नात्र संशयः॥ तपसा सम्भृते चैते बहुरूपे भविष्यतः। ततो रामो जलं स्पृष्ट्वा प्रहृष्टवदनः शुचिः॥ प्रतिजग्राह ते विद्ये महर्षे वितात्मनः। विद्यासमुदितो रामः शुशुभे भीमविक्रमः॥ सहस्ररश्मिभगवाञ्शरदीव दिवाकरः। गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे॥ ऊषुस्तां रजनीं तत्र सरय्वां ससुखं त्रयः। दशरथनृपसूनुसत्तमाभ्यां तृणशयनेऽनुचिते तदोषिताभ्याम्। कुशिकसुतवचोऽनुलालिताभ्यां सुखमिव सा विबभौ विभावरी च॥ प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनिः। अभ्यभाषत काकुत्स्थौ शयानौ पर्णसंस्तरे॥ कौसल्या सुप्रजा राम पूर्वां संध्या प्रवर्तने। उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम्॥ तम्यर्षेः परमोदारं वचः श्रुत्वा नरोत्तमौ। स्नात्वा कृतोदकौ वीरौ जेपतुः परमं जपम्॥ कृताहिको महावीर्यो विश्वामित्रं तपोधनम्। अभिवाद्यातिसंहष्टौ गमनायाभितस्थतुः॥ तौ प्रयान्तौ महावीरों दिव्यां त्रिपथगां नदीम्। ददृशाते ततस्तत्र सरय्वाः संगमे शुभे ॥ तत्राश्रमपदं पुण्यमृषीणां भावितात्मनाम्। बहुवर्षसहस्राणि तप्यतां परमं तपः॥ तं दृष्ट्वा परमप्रीतौ राघवौ पुण्यमाश्रमम्। ऊचतुस्तं महात्मानं विश्वामित्रमिदं वचः॥ कस्यायमाश्रमः पुण्यः को न्वस्मिन् वसते पुमान्। भगवञ्छ्रोतुमिच्छावः परं कौतूहलं हि लो॥ तयोस्तद् वचनं श्रुत्वा प्रहस्य मुनिपुङ्गवः। अब्रवीच्छ्रयतां राम यस्यायं पूर्वं आश्रमः॥ कन्दो मूर्तिमानासीत् काम इत्युच्यते बुधैः। तपस्यन्तमिह स्थाणुं नियमेन समाहितम्॥ कृतोद्वाहं तु देवेशं गच्छन्तं समरुद्गणम्। धर्षयामास दुर्मेधा हुंकृतश्च महात्मना ॥ अवध्यातश्च रुद्रेण चक्षुणा रघुनन्दन। व्यशीर्यन्त शरीरात् स्वात् सर्वगात्राणि दुर्मतेः॥ तत्र गात्रं हतं तस्य निर्दग्धस्य महात्मनः। अशरीरः कृतः कामः क्रोधाद् देवेश्वरेण ह॥ अनङ्ग इति विख्यातस्तदाप्रभृति राघव। स चाङ्गविषयः श्रीमान् यत्राङ्ग स मुमोच ह॥ तस्यायमाश्रमः पुण्यस्तस्येमे मुनयः पुरा। शिष्या धर्मपरा वीर तेषां पापं न विद्यते॥ इहाद्य रजनीं राम वसेम शुभदर्शन। पुण्ययोः सरितोर्मध्ये श्वस्तरिष्यामहे वयम्॥ अभिगच्छामहे सर्वे शुचयः पुण्यमाश्रमम्। इह वासः परोऽस्माकं सुखं वत्स्यामहे निशाम्॥ स्नाताश्च कृतजप्याश्च हुतहव्या नरोत्तम । तेषां संवदतां तत्र तपोदीर्पण चक्षुषा ॥ विज्ञाय परमप्रीता मुनयो हर्षमागमन्। अर्घ्यं पाद्यं तथाऽऽतिथ्यं निवेद्य कुशिकात्मजे॥ रामलक्ष्मणयोः पश्चादकुर्वनतिथिक्रियाम्। सत्कारं समनुप्राप्य कथाभिरभिरञ्जयन्॥ यथार्हमजपन् संध्यामृषयस्ते समाहिताः। तत्र वासिभिरानीता मुनिभिः सुव्रतैः सह॥ न्यवसत्स सुखं तत्र कामाश्रमपदे तथा। कथाभिरभिरामाभिरभिरामौ नृपात्मजौ। रमयामास धर्मात्मा कौशिको मुनिपुङ्गवः॥ ततः प्रभाते विमले कृताह्निकमरिन्दमौ। विश्वामित्रं पुरस्कृत्य नद्यास्तीरमुपागतौ॥ ते च सर्वे महात्मानो मुनयः संशितव्रताः। उपस्थाप्य शुभां नावं विश्वामित्रमथाब्रुवन्॥ आरोहतु भवान् नावं राजपुत्रपुरस्कृतः। अरिष्टं गच्छ पन्थानं मा भूत् कालस्य पर्ययः॥ विश्वामित्रस्तथेत्युक्त्वा तानृषीन् प्रतिपूज्य च। ततार सहितस्ताभ्यां सरितं सागरङ्गमाम्॥ तत्र शुश्राव वै शब्दं तोयसंरम्भवर्धितम्। मध्यमागम्य तोयस्य तस्य शब्दस्य निश्चयम्॥ ज्ञातुकामो महातेजाः सह रामः कनीयसा। अथ रामः सरिन्मध्यो पप्रच्छ मुनिपुङ्गवम्॥ वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनिः। राघवस्य वचः श्रुत्वा कौतूहलसमन्वितम्॥ कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम्। कैलासपर्वते राम मनसा निर्मितं परम्॥ ब्रह्मणा नरशार्दूल तेनेदं मानसं सरः। तस्मात् सुस्राव सरसः सोयोध्यामुपगूहते॥ सरःप्रवृत्ता सरयू: पुण्या ब्रह्मसरश्च्युता। तस्यायमतुलः शब्दो जाह्नवीमभिवर्तते॥ वारिसंक्षीभजो राम प्रणामं नियतः कुरु। ताभ्यां तु तावुभौ कृत्वा प्रणाममतिधार्मिकौ॥ तीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ। स वनं घोरसंकाशं दृष्ट्वा नरवरात्मजः॥ अविप्रहतमैक्ष्वाकः पप्रच्छ मुनिपुङ्गवम्। अहो वनमिदं दुर्ग झिल्लिकागणसंयुतम्॥ भैरवैः श्वापदैः कीर्णं शकुन्तैर्दारुणारवैः। नानाप्रकारैः शकुनैर्वाश्यद्भिभैरवस्वनैः॥ सिंहव्याघ्रवराहैश्च वारणैश्चापि शोभितम्। धवाश्वकर्णककुभैर्बिल्वतिन्दुकपाटलैः॥ संकीर्णं बदरीभिश्च किं न्विदं दारुणं वनम्। तमुवाच महातेजा विश्वामित्रो महामुनिः॥ श्रूयतां वत्स काकुत्स्थ यस्यैतद् दारुणं वनम्। एतौ जनपदौ स्फीतौ पूर्वमास्तां नरोत्तम॥ मलदाश्च करूषाश्च देवनिर्माणनिर्मितौ। पुरा वृत्रवधे राम मलेन समभिप्लुतम्॥ क्षुधा चैव सहस्राक्षं ब्रह्महत्या समाविशत्। तमिन्द्रं मलिनं देवा ऋषयश्च तपोधनाः॥ कलशैः स्नापयामासुर्मलं चास्य प्रमोचयन्। इह भूम्यां मलं दत्त्वा देवाः कारूषमेव च॥ शरीरजं महेन्द्रस्य ततो हर्ष प्रपेदिरे। निर्मलो निष्करूषश्च शुद्ध इन्द्रो यथाभवत्॥ ततो देशस्य सुप्रीतो वरं प्रादादनुत्तमम्। इमौ जनपदौ स्फीतौ ख्याति लोके गमिष्यतः॥ मलदाश्च करूषाश्च ममाङ्गमलधारिणौ। साधुसाध्विति तं देवाः पाकशासनमब्रुवन्॥ देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता। एतौ जनपदौ स्फीतौ दीर्घकालमरिंदम ॥ मलदाश्च करूषाश्च मुदिता धनधान्यतः। कस्यचित्त्वथ कालस्य यक्षिणी कारूपिणी॥ बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत्। ताटका नाम भद्रं ते भार्यां सुन्दस्य धीमतः॥ मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः। वृत्तबाहुर्महाशीर्षो विपुलास्यतनुर्महान्॥ राक्षसो भैरवाकारो नित्यं त्रासयते प्रजाः। इमौ जनपदौ नित्यं विनाशयति राघव ॥ मलदांश्च करूषांश्च ताटका दुष्टचारिणी। सेयं पन्थानमावृत्य वसत्यत्यर्धयोजने॥ अत एव च गन्तव्यं ताटकाया वनं यतः। स्वबाहुबलमाश्रित्य जहीमां दुष्टचारिणीम्॥ मन्नियोगादिमं देशं कुरु निष्कण्टकं पुनः। नहि कश्चिदिमं देशं शक्तो ह्यागन्तुमीदृशम्॥ यक्षिण्या घोरया राम उत्सादितमसह्यया। एतत्ते सर्वमाख्यातं यथैतद् दारुणं वनम्। यक्ष्या चोत्सादितं सर्वमद्यापि न निवर्तते॥ अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम्। श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम्॥ अल्पवीर्यां यदा यक्षी श्रूयते मुनिपुङ्गव। कथं नागसहस्रस्य धारयत्यबला बलम्॥ इत्युक्तं वचनं श्रुत्वा राघवस्यामितौजसः। हर्षयन् श्लक्ष्णया वाचा सलक्ष्मणमरिंदमम्॥ विश्वामित्रोऽब्रवीद् वाक्यं शृणु येन बलोत्कटा। वरदानकृतं वीर्यं धारयत्यबला बलम्॥ पूर्वमासीन्महायक्षः सुकेतुर्नाम दीर्यवान्। अनपत्यः शुभाचारः स च तेपे महत्तपः॥ पितामहस्तु सुप्रीतस्तस्य यक्षपतेस्तदा। कन्यारत्नं ददौ राम ताटकां नाम नामतः॥ ददौ नागसहस्रस्य बलं चास्याः पितामहः। न त्वेव पुत्रं यक्षाय ददौ चासौ महायशा॥ तां तु बाला विवर्धन्ती रूपयौवनशालिनीम्। जम्भपुत्राय सुन्दाय ददौ भार्यां यशस्विनीम्॥ कस्यचित्त्वथ कालस्य यक्षी पुत्रं व्यजायत। मारीचं नाम दुर्धर्षं यः शापाद् राक्षसोऽभवत्॥ सुन्दे तु निहते राम अगस्त्यमृषिसत्तमम्। ताटका सहपुत्रेण प्रधर्षयितुमिच्छति॥ भक्षार्थं जातसंरम्भा गर्जन्ती साभ्यधावत्। आपतन्ती तु तां दृष्ट्वा अगस्त्यो भगवानृषिः॥ राक्षसत्वं भजस्वेति मारीचं व्याजहार सः। अगस्त्यः परमामर्षस्ताटकामपि शप्तवान्॥ पुरुषादी महायक्षी विकृता विकृतानना। इदं रूपं विहायाशु दारुणं रूपमस्तु ते॥ सैषा शापकृतामर्षां ताटका क्रोधमूर्च्छिता। देशमुत्सादयत्येनमगस्त्याचरितं शुभम्॥ एनां राघव दुर्वृत्तां यक्षी परमदारुणाम्। गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम्॥ नह्येनां शापसंसृष्टां कश्चिदुत्सहते पुमान्। निहन्तुं त्रिषु लोकेषु त्वामृते रघुनन्दन ॥ नहि ते स्त्रीवधकृते घृणा कार्या नरोत्तम। चातुर्वर्ण्यहितार्थं हि कर्तव्यं राजसूनुना॥ नृशंसमनृशंसं वा प्रजारक्षणकारणात्। पातकं वा सदोषं वा कर्तव्यं रक्षता सदा॥ राज्यभारनियुक्तनामेष धर्मः सनातनः। अध` जहि काकुत्स्थ धर्मो ह्यस्यां न विद्यते॥ श्रूयते हि पुरा शक्रो विरोचनसुतां नृप। पृथिवीं हन्तुमिच्छन्ती मन्थरामभ्यसूदयत्॥ विष्णुना च पुरा राम भृगुपत्नी पतिव्रता। अनिन्द्रं लोकमिच्छन्ती काव्यमाता निषूदिता ॥ एतैश्चान्यैश्च बहुभी राजपुत्रैर्महात्मभिः। अधर्मसहिता नार्यो हताः पुरुषसत्तमैः। तस्मादेनां घृणां त्यक्त्वा जहि मच्छासनानृप॥ अथ तां रजनीमुष्य विश्वामित्रो महायशाः। प्रहस्य राघवं वाक्यमुवाच मधुरस्वरम्॥ परितुष्टोऽस्मि भद्रं ते राजपुत्र महायशः। प्रीत्या परमया युक्तो ददाम्यस्त्राणि सर्वशः॥ देवासुरगणान् वापि सगन्धर्वोरगान् भुवि। यैरमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि ॥ तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः। दण्डचक्रं महद् दिव्यं तव दास्यामि राघव॥ धर्मचक्रं ततो वीर कालचक्रं तथैव च। विष्णुचक्रं तथात्युग्रमैन्द्रं चक्रं तथैव च॥ वज्रमस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा। अस्त्रं ब्रह्मशिरश्चैव ऐषीकमपि राघव॥ ददामि ते महाबाहो ब्राह्ममस्त्रमनुत्तमम्। गदे द्वे चैव काकुत्स्थ मोदकीशिखरी शुभे॥ प्रदीप्ते नरशार्दूल प्रयच्छामि नृपात्मज । धर्मपाशमहं राम कालपाशं तथैव च ॥ वारुणं पाशमस्त्रं च ददाम्यहमनुत्तमम्। अशनी द्वे प्रयच्छामि शुष्कार्दै रघुनन्दन॥ ददामि चास्त्रं पैनाकमस्त्रं नारायणं तथा। आग्नेयमस्त्रं दयितं शिखरं नाम नामतः ॥ वायव्यं प्रथमं नाम ददामि तव चानघ। अस्त्रं हयशिरो नाम क्रौञ्चमस्त्रं तथैव च॥ शक्तिद्वयं च काकुत्स्थ ददामि तव राघव। कङ्कालं मुसलं घोरं कापालमथ किङ्किणीम्॥ वधार्थं रक्षसा यानि ददाम्येतानि सर्वशः। वैद्याधरं महास्त्रं च नन्दनं नाम नामतः॥ असिरत्नं महाबाहो ददामि नृपरात्मज। गान्धर्वमस्त्रं दयितं मोहनं नाम नामतः॥ प्रस्वापनं प्रशमनं दद्मि सौम्यं च राघव। वर्षणं शोषणं चैव संतापनविलापने॥ मादनं चैव दुर्धर्षं कन्दर्पदयितं तथा। गान्धर्वमस्त्रं दयितं मानवं नाम नामतः॥ पैशाचमस्त्रं दयितं मोहनं नाम नामतः। प्रतीच्छ नरशार्दूल राजपुत्र महायशः॥ तामसं नरशार्दूल सौमनं च महाबलम्। संवर्तं चैव दुर्धर्षं मौसलं च नृपात्मज ॥ सत्यमस्त्रं महाबाहो तथा मायामयं परम्। सौरं तेज:प्रभं नाम परतेजोऽपकर्षणम्॥ सोमास्त्रं शिशिरं नाम त्वाष्ट्रमस्त्रं सुदारुणम्। दारुणं च भगस्यापि शीलेषुमथ मानवम्॥ एतान् राम महाबाहो कामरूपान् महाबलान्। गृहाण परमोदारान् क्षिप्रमेव नृपात्मज ॥ स्थितस्तु प्राङ्मुखो भूत्वा शुचिर्मुनिवरस्तदा । ददौ रामाय सुप्रीतो मन्त्रग्राममनुत्तमम्॥ सर्वसंग्रहणं येषां दैवतैरति दुर्लभम्। तान्यस्त्राणि तदा विप्रो राघवाय न्यवेदयत्॥ जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः। उपतस्थुमहार्हाणि सर्वाण्यस्त्राणि राघवम्॥ ऊचुश्च मुदिता रामं सर्वे प्राञ्जलयस्तदा। इमे च परमोदार किंकरास्तव राघव ॥ यद्यदिच्छसि भद्रं ते तत्सर्वं करवाम वै। ततो रामः प्रसन्नात्मा तैरित्युक्तो महाबलैः॥ प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना। मानसा मे भविष्यध्वमिति तान्यभ्यचोदयत्॥ ततः प्रीतमना रामो विश्वामित्रं महामुनिम्। अभिवाद्य महातेजा गमनायोपचक्रमे ॥ अथ तस्याप्रमेयस्य वचनं परिपृच्छतः। विश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे॥ इह राम महाबाहो विष्णुर्देवनमस्कृतः। वर्षाणि सुबहूनीह तथा युगशतानि च॥ तपश्चरणयोगार्थमुवास सुमहातपाः। एष पूर्वाश्रमो राम वामनस्य महात्मनः॥ सिद्धाश्रम इति ख्यातः सिद्धो ह्यत्र महातपाः। एतस्मिन्नेव काले तु राजा वैरोचनिबंलिः॥ निर्जित्य दैवतगणान् सेन्द्रान् सहमरुद्गणान्। कारयामास तद्राज्यं त्रिषु लोकेषु विश्रुतः॥ यज्ञं चकार सुमहानसुरेन्द्रो महाबलः। बलेस्तु यजमानस्य देवाः साग्निपुरोगमाः। समागम्य स्वयं चैव विष्णुमूचुरिहाश्रमे॥ बलिर्वैरोचनिर्विष्णो यजते यज्ञमुत्तमम्। असमाप्तव्रते तस्मिन् स्वकार्यमभिपद्यताम्॥ ये चैनमभिवर्तन्ते याचितार इतस्ततः। यच्च यत्र यथावच्च सर्वे तेभ्यः प्रयच्छति॥ स त्वं सुरहितार्थाय मायायोगमुपाश्रितः। वामनत्वं गतो विष्णो कुरु कल्याणमुत्तमम्॥ एतस्मिन्नन्तरे राम कश्यपोऽग्निसमप्रभः। अदित्या सहितो राम दीप्यमान इवौजसा॥ देवीसहायो भगवान् दिव्यं वर्षसहस्रकम्। व्रतं समाप्य वरदं तुष्टाव मधुसूदनम्॥ तपोमयं तपोराशिं तपोमूर्तिं तपात्मकम्। तपसा त्वां सुतप्तेन पश्यामि पुरुषोत्तमम्॥ शरीरे तव पश्यामि जगत् सर्वमिदं प्रभो। त्वमनादिरनिर्देश्यस्त्वामहं शरणं गतः॥ तमुवाच हरिः प्रीत: कश्यपं गतकल्मषम्। वरं वरय भद्रं ते वरार्होऽसि मतो मम॥ तच्छ्रुत्वा वचनं तस्य मारीचः कश्यपोऽब्रवीत्। अदित्या देवतानां च मम चैवानुयाचितम्॥ वरं वरद सुप्रीतो दातुमर्हसि सुव्रत। पुत्रत्वं गच्छ भगवन्नदित्या मम चानघ ॥ भ्राता भव यवीयांस्त्वं शक्रस्यासुरसूदन। शोकार्तानां तु देवानां साहाय्यं कर्तुमर्हसि ॥ अयं सिद्धाश्रमो नाम प्रसादात् ते भविष्यति। सिद्धे कर्मणि देवेश उत्तिष्ठ भगवनितः॥ अथ विष्णुर्महातेजा अदित्यां समजायत। वामनं रूपमास्थाय वैरोचनिमुपागमत्॥ त्रीन् पदानथ भिक्षित्वा प्रतिगृह्य च मेदिनीम्। आक्रम्य लोकाँल्लोकार्थी सर्वलोकहिते रतः॥ महेन्द्राय पुनः प्रादानियम्य बलिमोजसा। त्रैलोक्यं स महातेजाश्चक्रे शक्रवशं पुनः॥ तेनैव पूर्वमाक्रान्त आश्रमः श्रमनाशनः। मयापि भक्त्या तस्यैव वामनस्योपभुज्यते॥ एनमाश्रममायान्ति राक्षसा विघ्नकारिणः। अत्र ते पुरुषव्याघ्र हन्तव्या दुष्टचारिणः॥ अद्य गच्छामहे राम सिद्धाश्रममनुत्तमम्। तदाश्रमपदं तात तवाप्येतद् यथा मम॥ इत्युक्त्वा परमप्रीतो गृह्य रामं सलक्ष्मणम्। प्रविशन्नाश्रमपदं व्यरोचत महामुनिः शशीव गतनीहारः पुनर्वसुसमन्वितः॥ तं दृष्ट्वा मुनयः सर्वे सिद्धाश्रमनिवासिनः। उत्पत्योत्पत्य सहसा विश्वामित्रमपूजयन्॥ यथाहँ चक्रिरे पूजां विश्वामित्राय धीमते। तथैव राजपुत्राभ्यामकुर्वन्नतिथिक्रियाम्॥ मुहूर्तमथ विश्रान्तौ राजपुत्रावरिंदमौ। प्राञ्जली मुनिशार्दूलमूचतू रघुनन्दनौ ॥ अद्यैव दीक्षां प्रविश भद्रं ते मुनिपुंगव। सिद्धाश्रमोऽयं सिद्धः स्यात् सत्यमस्तु वचस्तव॥ एवमुक्तो महातेजा विश्वामित्रो महानृषिः। प्रविवेश तदा दीक्षां नियतो नियतेन्द्रियः॥ कुमारावपि तां रात्रिमुषित्वा सुसमाहितौ। प्रभातकाले चोत्थाय पूर्वां संध्यामुपास्य च॥ प्रशुची परमं जाप्यं समाप्य नियमेन च। हुताग्निहोत्रमासीनं विश्वामित्रमवन्दताम्॥ अथ तौ देशकालज्ञौ राजपुत्रावरिंदमौ। देशे काले च वाक्यज्ञावब्रूतां कौशिकं वचः॥ भगवञ्छोतुमिच्छावो यस्मिन् काले निशाचरौ। संरक्षणीयौ तौ ब्रूहि नातिवर्तेत तत्क्षणम्॥ एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया। सर्वे ते मुनयः प्रीताः प्रशशंसुर्नृपात्मजौ॥ अद्यप्रभृति षड्रात्रं रक्षतां राघवौ युवाम्। दीक्षां गतो ह्येष मुनिौनित्वं च गमिष्यति॥ तौ तु तद्वचनं श्रुत्वा राजपुत्रौ यशस्विनौ। अनिद्रं षडहोरात्रं तपोवनमरक्षताम्॥ उपासांचक्रतुर्वीरौ यत्तौ परमधन्विनौ। ररक्षतुर्मुनिवरं विश्वामित्रमरिंदमौ॥ अथ काले गते तस्मिन् षष्ठेऽहनि तदागते। सौमित्रिमब्रवीद् रामो यत्तो भव समाहितः॥ रामस्यैवं ब्रुवाणस्य त्वरितस्य युयुत्सया। प्रजज्वाल ततो वेदिः सोपाध्यायपुरोहिता॥ सदर्भचमसनुक्का ससमित्कुसुमोच्चया। विश्वामित्रेण सहिता वेदिर्जज्वाल सर्विजा॥ मन्त्रवच्च यथान्यायं यज्ञोऽसौ सम्प्रवर्तते। आकाशे च महाञ्छब्दः प्रादुरासीद् भयानकः॥ आवार्य गगनं मेघो यथा प्रावृषि दृश्यते। तथा मायां विकुर्वाणौ राक्षसावभ्यधावताम्॥ मारीचश्च सुबाहुश्च तयोरनुचरास्तथा। आगम्य भीमसंकाशा रुधिरौघानवासृजन्॥ तां तेन रुधिरौघेण वेदिं वीक्ष्य समुक्षिताम्। सहसाभिद्रुतो रामस्तानपश्यत् ततो दिवि॥ तावापतन्तौ सहसा दृष्ट्वा राजीवलोचनः। लक्ष्मणं त्वभिसम्प्रेक्ष्य रामो वचनमब्रवीत्॥ पश्य लक्ष्मण दुर्वृत्तान् राक्षसान् पिशिताशनान्। मानवास्त्रसमाधूताननिलेन यथा घनान्॥ करिष्यामि न संदेहो नोत्सहे हन्तुमीदृशान्। इत्युक्त्वा वचनं रामश्चापं संधाय वेगवान्॥ मानवं परमोदारमस्त्रं परमभास्वरम्। वक्षेप परमवुद्धो मारीचोरसि राघवः॥ स तेन परमास्त्रेण मानवेन समाहतः। सम्पूर्ण योजनशतं क्षिप्तः सागरसम्प्लवे॥ विचेतनं विघूर्णन्तं शीतेषुबलपीडितम्। निरस्तं दृश्य मारीचं रामो लक्ष्मणमब्रवीत्॥ पश्य लक्ष्मण शीतेषु मानवं मनुसंहितम्। मोहयित्वा नयत्येनं न च प्राणैर्वियुज्यते॥ इमानपि वधिष्यामि निघृणान् दुष्टचारिणः। राक्षसान् पापकर्मस्थान् यज्ञघ्नान् रुधिराशनान्॥ इत्युक्त्वा लक्ष्मणं चाशु लाघवं दर्शयन्निव। विगृह्य सुमहच्चास्त्रमाग्नेयं रघुनन्दनः॥ सुबाहूरसि चिक्षेप स विद्धः प्रापतद् भूवि। शेषान् वायव्यमादाय निजघान महायशाः। राघवः परमोदारो मुनीनां मुदमावहन्॥ स हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दनः। ऋषिभिः पूजितस्तत्र यथेन्द्रो विजये पुरा॥ अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः। निरीतिका दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत्॥ कृतार्थोऽस्मि महाबाहो कृतं गुरुवचस्त्वया। सिद्धाश्रममिदं सत्यं कृतं वीर महायशः। स हि रामं प्रशस्यैवं ताभ्यां संध्यामुपागमत्॥ ब्रह्मयोनिर्महानासीत् कुशो नाम महातपाः। अक्लिष्टव्रतधर्मज्ञः सज्जनप्रतिपूजकः॥ स महात्मा कुलीनायां युक्तायां सुमहाबलान्। वैदां जनयामास चतुरः सदृशान् सुतान्॥ कुशाम्बं कुशनाभं च असूर्तरजसं वसुम्। दीप्तियुक्तान् महोत्साहान् क्षत्रधर्मचिकीर्षया॥ तानुवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः। क्रियतां पालनं पुत्रा धर्मं प्राप्स्यथ पुष्कलम्॥ कुशाम्बस्तु महातेजाः कुशस्य वचनं श्रुत्वा चत्वारो लोकसत्तमाः। निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा ॥ कौशाम्बीमकरोत् पुरीम्। कुशनाभस्तु धर्मात्मा पुरं चक्रे महोदयम्॥ असूर्तरजसो नाम धर्मारण्यं महामतिः। चक्रे पुरवरं राजा वसुनाम गिरिव्रजम्॥ एषा वसुमती नाम वसोस्तस्य महात्मनः। एते शैलवराः पञ्च प्रकाशन्ते समन्ततः॥ सुमागधी नदी रम्या मागधान् विश्रुता ययौ। पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते॥ सैषा हि मागधी राम वसोस्तस्य महात्मनः। पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी॥ कुशनाभस्तु राजर्षिः राजर्षिः कन्याशतमनुत्तमम्। जनयामास धर्मात्मा घृताच्यां रघुनन्दन॥ तास्तु यौवनशालिन्यो रूपवत्यः स्वलंकृताः। उद्यानभूमिमागम्य प्रावृषीव शतदाः॥ गायन्त्यो नृत्यमानाश्च वादयन्त्यस्तु राघव। आमोदं परमं जग्मुर्वराभरणभूषिताः॥ अथ ताश्चारुसर्वाङ्गयो रूपेणाप्रतिमा भुवि। उद्यानभूमिमागम्य तारा इव धनान्तरे॥ ताः सर्वा गुणसम्पन्ना रूपयौवनसंयुताः। दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत्॥ अहं वः कामये सर्वा भार्या मम भविष्यथ । मानुषस्त्यज्यतां भावो दीर्घमायुरवाप्स्यथ ॥ चलं हि यौवनं नित्यं मानुषेषु विशेषतः। अक्षयं यौवनं प्राप्ता अमर्यश्च भविष्यथ ॥ तस्य तद् वचनं श्रुत्वा वायोरक्लिष्टकर्मणः। अपहास्य ततो वाक्यं कन्याशतमथाब्रवीत्॥ अन्तश्चरसि भूतानां सर्वेषां सुरसत्तम। प्रभावज्ञाश्च ते सर्वाः किमर्थमवमन्यसे ॥ कुशनाभसुता देव समस्ताः सुरसत्तम। स्थानाच्च्यावयितुं देवं रक्षामस्तु तपो वयम्॥ मा भूत्स कालो दुर्मेधः पितरं सत्यवादिनम्। अवमन्य स्वधर्मेण स्वयं वरमुपास्महे ॥ पिता हि प्रभुरस्माकं दैवतं परमं च सः। यस्य नो दास्यति पिता स नो भर्ता भविष्यति॥ तासां तु वचनं श्रुत्वा हरिः परमकोपनः। प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभुः॥ ताः कन्या वायुना भग्ना विविशुनृपतेर्गृहम्। प्रविश्य च सुसम्भ्रान्ताः सलज्जाः सास्रलोचनाः॥ स च ता दयिता भग्नाः कन्या परमशोभनाः। दृष्ट्वा दीनास्तदा राजा सम्भ्रान्त इदमब्रवीत्॥ किमिदं कथ्यतां पुत्र्यः को धर्ममवमन्यते। कुब्जाः केन कृताः सर्वाश्चेष्टन्त्यो नाभिभाषथ।। एवं राजा विनिःश्वस्य समाधि संदधे ततः॥ कृतोद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव। अपुत्रः पुत्रलाभाय पौत्रीमिष्टिमकल्पयत्॥ इष्टयां तु वर्तमानायां कुशनाभं महीपतिम्। उवाच परमोदारैः कुशो ब्रह्मसुतस्तदा॥ पुत्रस्ते सदृशः पुत्र भविष्यति सुधार्मिकः। गाधि प्राप्स्यसि तेन त्वं कीर्तिं लोके च शाश्वतीम्॥ एवमुक्त्वा कुशो राम कुशनाभं महीपतिम्। जगामाकाशमाविश्य ब्रह्मलोकं सनातनम् ॥ कस्यचित् त्वथ कालस्य कुशनाभस्य धीमतः। जज्ञे परमधर्मिष्ठो गाधिरित्येव नामतः॥ स पिता मम काकुत्स्थ गाधिः परमधार्मिकः। कुशवंशप्रसूतोऽस्मि कौशिको रघुनन्दन॥ पूर्वजा भगिनी चापि मम राघव सुव्रता। नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता।७।। सशरीरा गता स्वर्ग भर्तारमनुवर्तिनी। कौशिका परमोदारा प्रवृत्ता च महानदी॥ दिव्या पुण्योदका रम्या हिमवन्तमुपाश्रिता। लोकस्य हितकार्यार्थं प्रवृत्ता भगिनी मम॥ ततोऽहं हिमवत्पार्वे वसामि नियतः सुखम्। भगिन्यां स्नेहसंयुक्तः कौशिक्यां रघुनन्दन ॥ सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठिता। पतिव्रता महाभागा कौशिकी सरितां वरा॥ अहं हि नियमाद् राम हित्वा तां समुपागतः। सिद्धाश्रममनुप्राप्तः सिद्धोऽस्मि तव तेजसा ॥ एषा राम ममोत्पत्तिः स्वस्य वंशस्य कीर्तिता। देशस्य हि महाबाहो यन्मां त्वं परिपृच्छसि॥ गतोऽर्धरात्रः काकुत्स्थ कथाः कथयतो मम। निद्रामभ्येहि भद्रं ते मा भूद् विघ्नोऽध्वनीह नः॥ निष्पन्दास्तरवः सर्वे निलीना मृगपक्षिणः। नैशेन तमसा व्याप्ता दिशश्च रघुनन्दन॥ शनैर्विसृज्यते संध्या नभो नेरिवावृतम्। नक्षत्रतारागहनं ज्योतिर्भिरवभासते॥ उत्तिष्ठते च शीतांशुः शशी लोकतमोनुदः। ह्लादयन् प्राणिनां लोके मनांसि प्रभया स्वया॥ नैशानि सर्वभूतानि प्रचरन्ति ततस्ततः। यक्षराक्षससङ्घाश्च रौद्राश्च पिशिताशनाः॥ एवमुक्त्वा महातेजा विरराम महामुनिः। साधुसाध्वति ते सर्वे मुनयो ह्मभ्यपूजयन्॥ कुशिकानामयं वंशो महान् धर्मपरः सदा। ब्रह्मोपमा महात्मानः कुशवंश्या नरोत्तमाः॥ विशेषेण भवानेव विश्वामित्र महायशः। कौशिकी सरितां श्रेष्ठा कुलोद्योतकरी तव॥ मुदितैर्मुनिशार्दूलैः प्रशस्त: कुशिकात्मजः। निद्रामुपागमच्छीमानस्तंगत इवांशुमान्॥ रामोऽपि सहसौमित्रिः किंचिदागतविस्मयः। प्रशस्य मुनिशार्दूलं निद्रां समुपसेवते॥ उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः। निशायां सुप्रभातायां विश्वामित्रोऽभ्यभाषत॥ सुप्रभाता निशा राम पूर्वा संध्या प्रवर्तते। उत्तिष्ठोत्तिष्ठ भद्रं ते गमनायाभिरोचय॥ तच्छ्रुत्वा वचनं तस्य कृतपूर्वाह्निकक्रियः। गमनं रोचयामास वाक्यं चेदमुवाच ह॥ अयं शोण: शुभजलोऽगाधः पुलिनमण्डितः। कतरेण पथा ब्रह्मन् संतरिष्यामहे वयम् ॥ एवमुक्तस्तु रामेण विश्वामित्रोऽब्रवीदिदम्। एष पन्था मयोद्दिष्टो येन यान्ति महर्षयः॥ ते गत्वा दूरमध्वानं गतेऽर्धदिवसे तदा। जाह्नवीं सरितां श्रेष्ठां ददृशुर्मुनिसेविताम्॥ तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम्। बभूवुर्मुनयः सर्वे मुदिताः सहराघवाः॥ तस्यास्तीरे तदा सर्वे चक्कुर्वासपरिग्रहम्। ततः स्रात्वा यथान्यायं संतl पितृदेवता॥ हुत्वा चैवाग्निहोत्राणि प्राश्य चामृतवद्धविः। विविशुर्जाह्नवीतीरे शुभा मुदितमानसाः॥ विश्वामित्रं महात्मानं परिवार्य समन्ततः। विष्ठिताश्च यथान्यायं राघवौ च यथार्हतः। सम्प्रहृष्टमना रामो विश्वामित्रमथाब्रवीत्॥ भगवञ्छोतुमिच्छामि गङ्गां त्रिपथगां नदीम्। त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम् ॥ चोदितो रामवाक्येन विश्वामित्रो महामुनिः। वृद्धिं जन्म च गङ्गाया वक्तुमेवोपचक्रमे॥ शैलेन्द्रो हिमवान् राम धातूनामाकरो महान्। तस्य कन्याद्वयं राम रूपेणाप्रतिमं भुवि ॥ या मेरुदुहिता राम तयोर्माता सुमध्यमा। नाम्ना मना मनोज्ञा वै पत्नी हिमवतः प्रिया॥ तस्यां गङ्गेयमभवज्ज्येष्ठा हिमवतः सुता। उमा नाम द्वितीयाभूत् कन्या तस्यैव राघव॥ अथ ज्येष्ठां सुराः सर्वे देवकार्यचिकीर्षया। शैलेन्द्र वरयामासुर्गङ्गां त्रिपथगां नदीम्॥ ददौ धर्मेण हिमवांस्तनयां लोकपावनीम्। स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया॥ प्रतिगृह्य त्रिलोकार्थं त्रिलोकहितकाङ्क्षिणः। गङ्गामादाय तेऽगच्छन् कृतार्थेनान्तरात्मना॥ या चान्या शैलदुहिता कन्याऽऽसीद् रघुनन्दन। उग्रं सुव्रतमास्थाय तपस्तेपे तपोधना॥ उग्रेण तपसा युक्तां ददौ शैलवरः सुताम्। रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम्॥ एते ते शैलराजस्य सुते लोकनमस्कृते। गङ्गा च सरितां श्रेष्ठा उमादेवी च राघव॥ एतत् ते सर्वमाख्यातं यथा त्रिपथगामिनी। खं गता प्रथमं तात गतिं गतिमतां वर ॥ सैषा सुरनदी रम्या शैलेन्द्रतनया तदा। सुरलोकं समारूढा विपापा जलवाहिनी॥ उक्तवाक्ये मुनौ तस्मिन्नुभौ राघवलक्ष्मणौ। प्रतिनन्द्य कथां वीरावूचतुर्मुनिपुङ्गवम्॥ धर्मयुक्तमिदं ब्रह्मन् कथितं परमं त्वया। दुहितुः शैलराजस्य ज्येष्ठाया वक्तुमर्हसि। विस्तरं विस्तरज्ञोऽसि दिव्यमानुषसम्भवम्॥ त्रीन् पथो हेतुना केन प्लावयेल्लोकपावनी। कथं गङ्गा त्रिपथगा विश्रुता सरिदुत्तमा॥ त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता। तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधनः॥ निखिलेन कथां सर्वामृषिमध्ये न्यवेदयत्। पुरा राम कृतोद्वाहः शितिकण्ठो महातपाः॥ दृष्ट्वा च भगवान् देवीं मैथुनायोपचक्रमे। तस्य संक्रीडमानस्य महादेवस्य धीमतः। शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम्॥ न चापि तनयो राम तस्यामासीत् परंतप । सर्वे देवाः समुद्युक्ताः पितामहपुरोगमाः॥ यदिहोत्पद्यते भूतं कस्तत् प्रतिसहिष्यति। अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन्॥ देवदेव महादेव लोकस्यास्य हिते रत। सुराणां प्रणिपातेन प्रसादं कर्तुमर्हसि॥ न लोका धारयिष्यन्ति तव तेजः सुरोत्तम। ब्राह्मण तपसा युक्तो देव्या सह तपश्चर॥ त्रैलोक्यहितकामार्थं तेजस्तेजसि धारय। रक्ष सर्वानिमाल्लोकान् नालोकं कर्तुमर्हसि ॥ देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः। बाढमित्यब्रवीत् सर्वान् पुनश्चेदमुवाच ह॥ धारयिष्याम्यहं तेजस्तेजसैव सहोमया। त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु॥ यदिदं क्षुभितं स्थानान्मम तेजो ह्यनुत्तमम्। धारयिष्यति कस्तन्मे ब्रुवन्तु सुरसत्तमाः॥ एवमुक्तास्ततो देवाः प्रत्यूचुर्वृषभध्वजम्। यत्तेजः क्षुभितं ह्यद्य तद्धरा धारयिष्यति॥ एवमुक्तः सुरपतिः प्रमुमोच महाबलः। तेजसा पृथिवी येन व्याप्ता सगिरिकानना॥ ततो देवाः पुनरिदमूचुश्चापि हुताशनम्। आविश त्वं महातेजो रौद्रं वायुसमन्वितः॥ तदग्निना पुनर्व्याप्तं संजातं श्वेतपर्वतम्। दिव्यं शरवणं चैव पावकादित्यसंनिभम्॥ यत्र जातो महातेजाः कार्तिकेयोऽग्निसम्भवः। अथोमां च शिवं चैव देवाः सर्षिगणास्तथा॥ पूजयामासुरत्यर्थं सुप्रीतमनसस्तदा। अथ शैलसुता राम त्रिदशानिदमब्रवीत्॥ समन्युरशपत् सर्वान् क्रोधसंरक्तलोचना। यस्मान्निवारिता चाहं संगता पुत्रकाम्यया॥ अपत्यं स्वेषु दारेषु नोत्पादयितुमर्हथ। अद्यप्रभृति युष्माकमप्रजाः सन्तु पत्नयः॥ एवमुक्त्वा सुरान् सर्वाशशाप पृथिवीमपि। अवने नैकरूपा त्वं बहुभार्या भविष्यसि ॥ न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषीकृता। प्राप्स्यसि त्वं सुदुर्मेधो मम पुत्रमनिच्छती ॥ तान् सर्वान् पीडितान् दृष्ट्वा सुरान् सुरपतिस्तदा। गमनायोपचक्राम दिशं वरुणपालिताम्॥ स गत्वा तप आतिष्ठत् पार्वे तस्योत्तरे गिरेः। हिमवत्प्रभवे शृङ्गे सह देव्या महेश्वरः॥ एष ते विस्तरो राम शैलपुत्र्या निवेदितः। गङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मण ॥ तप्यमानो तदा देवे सेन्द्राः साग्निपुरोगमाः। सेनापतिमभीप्सन्तः पितामहमुपागमन्॥ ततोऽब्रुवन् सुराः सर्वे भगवन्तं पितामहम्। प्रणिपत्य सुरा राम सेन्द्राः साग्निपुरोगमाः॥। येन सेनापतिर्देव दत्तो भगवता पुरा। स तपः परमास्थाय तप्यते स्म सहोमया॥ यदवानन्तरं कार्य लोकानां हितकाम्यया। संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः॥ देवतानां वचः श्रुत्वा सर्वलोकपितामहः। सान्त्वयन् मधुरैर्वाक्यस्त्रिदशानिदमब्रवीत्॥ शैलपुत्र्या यदुक्तं तन्न प्रजाः स्वासु पलिषु। तस्या वचनमक्लिष्टं सत्यमेव न संशयः॥ इयमाकाशगङ्गा च यस्यां पुत्रं हुताशनः। जनयिष्यति देवानां सेनापतिमरिंदमम्॥ ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तं सुतम्। उमायास्तद्बहुमतं भविष्यति न संशयः॥ तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन। प्रणिपत्य सुराः सर्वे पितामहमपूजयन्॥ ते गत्वा परमं राम कैलासं धातुमण्डितम्। अग्नि नियोजयामासुः पुत्रार्थं सर्वदेवताः॥ देवकार्यमिदं देव समाधत्स्व हुताशन । शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज॥ देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः। गर्भं धारय वै देवि देवतानामिदं प्रियम्॥ इत्येतद् वचनं श्रुत्वा दिव्यं रूपमधारयत्। स तस्या महिमां दृष्ट्वा समन्तादवशीर्यत ॥ समन्ततस्तदा देवीमभ्यषिञ्चत पावकः। सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन॥ तमुवाच ततो गङ्गा सर्वदेवपुरीगमम्। अशक्ता धारणे देव तेजस्तव समुद्धतम्॥ दह्यमानाग्निना तेन सम्प्रव्यथितचेतना। अथाब्रवीदिदं गङ्गां सर्वदेवहुताशनः॥ इह हैमवते पार्वे गर्भोऽयं संनिवेश्यताम्। श्रुत्वा त्वग्निवचो गङ्गा तं गर्भमतिभास्वरम्॥ उत्ससर्ज महातेजाः स्रोतोभ्यो हि तदानघ। यदस्या निर्गतं तस्मात् तप्तजाम्बूनदप्रभम् ॥ काञ्चनं धरणी प्राप्तं हिरण्यमतुलप्रभम्। तानं कार्णायसं चैव तैक्ष्ण्यादेवाभिजायत॥ मलं तस्याभवत् तत्र त्रपु सीसकमेव च। तदेतद्धरणीं प्राप्य नानाधातुरवर्धत ॥ निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरञ्जितम्। सर्वं पर्वतसंनद्धं सौवर्णमभवद् वनम्॥ जातरूपमिति ख्यातं तदाप्रभृति राघव। सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम्।॥ तं कुमारं ततो जातं सेन्द्राः सह मरुद्गणाः। क्षीरसम्भावनार्थाय कृत्तिकाः समयोजयन्॥ ताः क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम्। ददुः पुत्रोऽयमस्माकं सर्वासामिति निश्चिताः॥ ततस्तु देवताः सर्वाः कार्तिकेय इति ब्रुवन्। पुत्रस्त्रैलोक्यविख्यातो भविष्यति न संशयः॥ तेषां तद् वचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे। स्नापयन् परया लक्ष्म्या दीप्यमानं यथानलम्॥ स्कन्द इत्यब्रुवन् देवाः स्कन्नं गर्भपरिस्रवे। कार्तिकेयं महाबाहुं काकुत्स्थ ज्वलनोपमम्॥ प्रादुर्भूतं ततः क्षीरं कृत्तिकानामनुत्तमम्। षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः॥ गृहीत्वा क्षीरमेकाहा सुकुमारवपुस्तदा। अजयत् स्वेन वीर्येण दैत्यसैन्यगणान् विभुः॥ सुरसेनागणपतिमभ्यषिञ्चन्महाद्युतिम्। ततस्तममराः सर्वे समेत्याग्निपुरोगमाः॥ एष ते राम गङ्गाया विस्तरोऽभिहितो मया। कुमारसम्भवश्चैव धन्यः पुण्यस्तथैव च॥ भक्तश्च यः कार्तिकेये काकुत्स्थ भुवि मानवः। आयुष्मान् पुत्रपौत्रैश्च स्कन्दसालोक्यतां व्रजेत् ॥ तां कथां कौशिको रामे निवेद्य मधुराक्षराम्। पुनरेवापरं वाक्यं काकुत्स्थमिदमब्रवीत्॥ अयोध्याधिपतिर्वीर पूर्वमासीन्नराधिपः। सगरो नाम धर्मात्मा प्रजाकामः स चाग्रजः॥ वैदर्भदुहिता राम केशिनी नाम नामतः। ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी॥ अरिष्टनेमेर्दुहिता सुपर्णभगिनी तु सा। द्वितीया सगरस्यासीत् पत्नी सुमतिसंज्ञिता॥ ताभ्यां सह महाराजः पत्नीभ्यां तप्तवांस्तपः। हिमवन्तं समासाद्य भृगुप्रस्रवणे गिरौ॥ अथ वर्षशते पूर्णे तपसाऽऽराधितो मुनिः। सगराय वरं प्रादाद् भृगुः सत्यवतां वरः॥ अपत्यलाभः सुमहान् भविष्यति तवानघ। कीर्ति चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ।७।। एका जनयिता तात पुत्रं वंशकरं तव। षष्ठिं पुत्रसहस्राणि अपरा जनयिष्यति॥ भाषमाणं महात्मानं राजपुत्र्यौ प्रसाद्य तम्। ऊचतुः परमप्रीते कृताञ्जलिपुटे तदा॥ एकः कस्याः सुतो ब्रह्मन् का बहूञ्जनयिष्यति। श्रोतुमिच्छामहे ब्रह्मन् सत्यमस्तु वचस्तव॥ तयोस्तद् वचनं श्रुत्वा भृगुः परमधार्मिकः। उवाच परमां वाणी स्वच्छन्दोऽत्र विधीयताम्॥ एको वंशकरो वास्तु बहवो वा महाबलाः। कीर्तिमन्तो महोत्साहाः का वा कं वरमिच्छति ॥ मुनेस्तु वचनं श्रुत्वा केशिनी रघुनन्दन। पुत्रं वंशकरं राम जग्राह नृपसंनिधौ॥ षष्ठिं पुत्रसहस्राणि सुपर्णभगिनी तदा। महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान् ॥ प्रदक्षिणमृषि कृत्वा शिरसाभिप्रणम्य तम्। जगाम स्वपुरं राजा सभार्यो रघुनन्दन ॥ अथ काले गते तस्य ज्येष्ठा पुत्रं व्यजायत। असमञ्ज इति ख्यातं केशिनी सगरात्मजम्॥ सुमतिस्तु नरव्याघ्र गर्भतुम्बं व्यजायत। षष्ठिः पुत्रसहस्राणि तुम्बभेदाद् विनिःसृताः॥ घृतपूर्णेषु कुम्भेषु धात्र्यस्तान् समवर्धयन्। कालेन महता सर्वे यौवनं प्रतिपेदिरे॥ अथ दीर्पण कालेन रूपयौवनशालिनः। षष्ठिः पुत्रसहस्राणि सगरस्याभवंस्तदा॥ सच ज्येष्ठो नरश्रेष्ठ सगरस्यात्मसम्भवः। बालान् गृहीत्वा तु जले सरय्वा रघुनन्दन ॥ प्रक्षिप्य प्राहसन्नित्यं मज्जतस्तान् निरीक्ष्य वै। एवं पापसमाचारः सज्जनप्रतिबाधकः॥ पौराणामहिते युक्तः पित्रा निर्वासितः पुरात्। तस्य पुत्रोंऽशुमान् नाम असमञ्जस्य वीर्यवान् ॥ सम्मतः सर्वलोकस्य सर्वस्यापि प्रियंवदः। ततः कालेन महता मतिः समभिजायत ॥ सगरस्य नरश्रेष्ठ यजेयमिति निश्चिता। स कृत्वा निश्चयं राजा सोपाध्यायगणस्तदा। यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे॥ विश्वामित्रवचः श्रुत्वा कथान्ते रघुनन्दनः। उवाच परमप्रीतो मुनि दीप्तमिवानलम्॥ श्रोतुमिच्छामि भद्रं ते विस्तरेण कथामिमाम्। पूर्वजो मे कथं ब्रह्मन् यज्ञं वै समुपाहरत्॥ तस्य तद् वचनं श्रुत्वा कौतूहलसमन्वितः। विश्वामित्रस्तु काकुत्स्थमुवाच प्रहसन्निव ॥ श्रूयतां विस्तरो राम सगरस्य महात्मनः। शंकरश्वशुरो नाम्ना हिमवानिति विश्रुतः॥ विन्ध्यपर्वतमासाद्य निरीक्षेते परस्परम्। तयोर्मध्ये समभवद् यज्ञः स पुरुषोत्तम ॥ स हि देशो नरव्याघ्र प्रशस्तो यज्ञकर्मणि। तस्याश्वचर्या काकुत्स्थ दृढधन्वा महारथः॥ अंशुमानकरोत् तात सगरस्य मते स्थितः। तस्य पर्वणि तं यज्ञं यजमानस्य वासवः॥ राक्षसी तनुमास्थाय यज्ञियाश्वमपाहरत्। ह्रियमाणे तु काकुत्स्थ तस्मिन्नश्वे महात्मनः॥ उपाध्यायगणाः सर्वे यजमानमथाब्रुवन्। अयं पर्वणि वेगेन यज्ञियाश्वोऽपनीयते॥ हर्तारं जहि काकुत्स्थ हयश्चैकोपनीयताम्। यज्ञच्छिद्रं भवत्येतत् सर्वेषामशिवाय नः॥ तत् तथा क्रियतां राजन् यज्ञोऽच्छिद्रः कृतो भवेत्। सोपाध्यायवचः श्रुत्वा तस्मिन् सदसि पार्थिवः॥ षष्ठिं पुत्रसहस्राणि वाक्यमेतदुवाच ह। गतिं पुत्रा न पश्यामि रक्षसां पुरुषर्षभाः॥ मन्त्रपूतैर्महाभागैरास्थितो हि महाक्रतुः। तद् गच्छथ विचिन्वध्वं पुत्रका भद्रमस्तु वः॥ समुद्रमालिनी सर्वां पृथिवीमनुगच्छथ। एकैकं योजनं पुत्रा विस्तारमभिगच्छत॥ यावद् तुरगसंदर्शस्तावत् खनत मेदिनीम्। तमेव हयहर्तारं मार्गमाणा ममाज्ञया॥ दीक्षितः पौत्रसहितः सोपाध्यायगणस्त्वहम्। इह स्थास्यामि भद्रं वो यावत् तुरगदर्शनम्॥ ते सर्वे हृष्टमनसो राजपुत्रा महाबलाः। जग्मुर्महीतलं राम पितुर्वचनयन्त्रिताः॥ योजनायामविस्तारमेकैको धरणीतलम्। बिभिदुः पुरुषव्याघ्रा वज्रस्पर्शसमैर्भुजैः॥ शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणैः। भिद्यमाना वसुमती ननाद रघुनन्दन॥ नागानां वध्यमानानामसुराणां च राघव। राक्षसानां दुराधर्षं सत्त्वानां निनदोऽभवत्॥ योजनानां सहस्राणि षष्ठिं तु रघुनन्दन। बिभिदुर्धरणी राम रसातलमनुत्तमम्॥ एवं पर्वतसम्बाधं जम्बूद्वीपं नृपात्मजाः। खनन्तो नृपशार्दूल सर्वतः परिचक्रमुः॥ ततो देवाः सगन्धर्वाः सासुराः सहपन्नगाः। सम्भ्रान्तमनसः सर्वे पितामहमुपागमन्॥ ते प्रसाद्य महात्मानं विषण्णवदनास्तदा। ऊचुः परमसंत्रस्ताः पितामहमिदं वचः॥ भगवन् पृथिवी सर्वा खन्यते सगरात्मजैः। बहवश्च महात्मानो बध्यन्ते जलचारिणः॥ अयं यज्ञहरोऽस्माकमनेनाश्वोऽपनीयते। इति ते सर्वभूतानि हिंसन्ति सगरात्मजाः॥ देवतानां वचः श्रुत्वा भगवान् वै पितामहः। प्रत्युवाच सुसंत्रस्तान् कृतान्तबलमोहितान्॥ यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतः। महिषी माधवस्यैषा स एव भगवान् प्रभुः॥ कापिलं रूपमास्थाय धारयत्यनिशं धराम्। तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजाः॥ पृथिव्याश्चापि निर्भेदो दृष्ट एव सनातनः। सगरस्य च पुत्राणां विनाशो दीर्घदर्शिनाम्॥ पितामहवचः श्रुत्वा त्रयस्त्रिंशदरिंदमाः। देवाः परमसंहृष्टाः पुनर्जग्मुर्यथागतम्॥ सगरस्य च पुत्राणां प्रादुरासीन्महास्वनः। पृथिव्यां भिद्यमानायां निर्घातसमनि:स्वनः॥ ततो भित्त्वा महीं सर्वां कृत्वा चापि प्रदक्षिणम्। सहिताः सागराः सर्वे पितरं वाक्यमब्रुवन्॥ परिक्रान्ता मही सर्वा सत्त्ववन्तश्च सूदिताः। देवदानवरक्षांसि पिशाचोरगपन्नगाः॥ न च पश्यामहेऽश्वं ते अश्वहर्तारमेव च। किं करिष्याम भद्रं ते बुद्धिरत्र विचार्यताम्॥ तेषां तद् वचनं श्रुत्वा पुत्राणां राजसत्तमः। समन्युरब्रवीद् वाक्यं सगरो रघुनन्दन॥ भूयः खनत भद्रं वो विभेद्य वसुधातलम्। अश्वहर्तारमासाद्य कृतार्थाश्च निवर्तत॥ पितुर्वचनमासाद्य सगरस्य महात्मनः। षष्ठिः पुत्रसहस्राणि रसातलमभिद्रवन्॥ खन्यमाने ततस्तस्मिन् ददृशुः पर्वतोपमम्। दिशागजं विरूपाक्षं धारयन्तं महीतलम्॥ सपर्वतवनां कृत्स्नां पृथिवीं रघुनन्दन। धारयामास शिरसा विरूपाक्षो महागजः॥ यदा पर्वणि काकुत्स्थ विश्रमार्थं महागजः। खेदाच्चालयते शीर्ष भूमिकम्पस्तदा भवेत्॥ ते तं प्रदक्षिणं कृत्वा दिशापालं महागजम्। मानयन्तो हि ते राम जग्मुर्भित्त्वा रसातलम्॥ ततः पूर्वां दिशं भित्त्वा दक्षिणां बिभिदुः पुनः। दक्षिणस्यामपि दिशि ददृशुस्ते महागजम्॥ महापद्मं महात्मानं सुमहत्पर्वतोपमम्। शिरसा धारयन्तं गां विस्मयं जग्मुरुत्तमम्॥ ते तं प्रदक्षिणं कृत्वा सगरस्य महात्मनः। षष्ठिः पुत्रसहस्राणि पश्चिमां बिभिदुर्दिशम्॥ पश्चिमायामपि दिशि महान्तमचलोपमम्। दिशागजं सौमनसं ददृशुस्ते महाबलाः॥ ते तं प्रदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम्। खनन्तः समुपाक्रान्ता दिशं सोमवतीं तदा॥ उत्तरस्यां रघुश्रेष्ठ ददृशुर्हिमपाण्डुरम्। भद्रं भद्रेण वपुषा धारयन्तं महीमिमाम्॥ समालभ्य ततः सर्वे कृत्वा चैनं प्रदक्षिणम्। षष्ठिः पुत्रसहस्राणि बिभिदुर्वसुधातलम्॥ ततः प्रागुत्तरां गत्वा सागराः प्रथिताः दिशम्। रोषादभ्यखनन् सर्वं पृथिवीं सगरात्मजाः॥ ते तु सर्वे महात्मानो भीमवेगा महाबलाः। ददृशुः कपिलं तत्र वासुदेवं सनातनम्॥ हयं च तस्य देवस्य चरन्तमविदूरतः। प्रहर्षमतुलं प्राप्ताः सर्वे ते रघुनन्दन ॥ ते तं यज्ञहनं ज्ञात्वा क्रोधपर्याकुलेक्षणाः। खनित्रलाङ्गलधरा नानावृक्षशिलाधराः॥ अभ्यधावन्त संक्रुद्धास्तिष्ठ तिष्ठेति चाब्रुवन्। अस्माकं त्वं हि तुरगं यज्ञियं. हृतवानसि॥ दुर्मेधस्त्वं हि सम्प्राप्तान् विद्धि नः सगरात्मजान्। श्रुत्वा तद् वचनं तेषां कपिलो रघुनन्दन ॥ रोषेण महताविष्टो हुङ्कारमकरोत् तदा। ततस्तेनाप्रमेयेण कपिलेन महात्मना। भस्मराशीकृताः सर्वे काकुत्स्थ सगरात्मजाः॥ पुत्रांश्चिरगताञात्वा सगरो रघुनन्दन। नप्तारमब्रवीद् राजा दीप्यमानं स्वतेजसा॥ शूरश्च कृतविद्यश्च पूर्वैस्तुल्योऽसि तेजसा। पितृणां गतिमन्विच्छ येन चाश्वोऽपवाहितः॥ अन्तभौमानि सत्त्वानि वीर्यवन्ति महान्ति च। तेषां तु प्रतिघातार्थं सासिं गृह्णीष्व कार्मुकम्॥ अभिवाद्याभिवाद्यांस्त्वं हत्वा विघ्नकरानपि। सिद्धार्थः संनिवर्तस्व मम यज्ञस्व पारगः॥ एवमुक्तोंऽशुमान् सम्यक् सगरेण महात्मना। दनुरादाय खङ्गं च जगाम लघुविक्रमः॥ स खातं पितृभिर्मार्गमन्तभौमं महात्मभिः। प्रापद्यत नरश्रेष्ठ तेन राज्ञाभिचोदितः॥ देवदानवरक्षोभिः पिशाचपतगोरगैः। पूज्यमानं महातेजा दिशागजमपश्यत॥ स तं प्रदक्षिणं कृत्वा पृष्ट्वा चैव निरामयम्। पितॄन् स परिपप्रच्छ वाजिहर्तारमेव च॥ दिशागजस्तु तच्छ्रुत्वा प्रत्युवाच महामतिः। आसमञ्ज कृतार्थस्त्वं सहाश्वः शीघ्रमेष्यसि॥ तस्य तद् वचनं श्रुत्वा सर्वानेव दिशागजान्। यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे॥ तैश्च सर्वैदिशापालैर्वाक्यज्ञैर्वाक्यकोविदैः। पूजितः सहयश्चैवागन्तासीत्यभिचोदितः॥ तेषां तद् वचनं श्रुत्वा जगाम लघुविक्रमः। भस्मराशीकृता यत्र पितरस्तस्य सागराः॥ स दुःखवशमापनस्त्वसमञ्जसुतस्तदा। चुक्रोश परमार्तस्तु वधात् तेषां सुदुःखितः॥ यज्ञियं च हयं तत्र चरन्तमविदूरतः। ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः॥ स तेषां राजपुत्राणां कर्तुकामो जलक्रियाम्। स जलार्थी महातेजा न चापश्यज्जलाशयम्॥ विसार्य निपुणां दृष्टिं ततोऽपश्यत् खगाधिपम्। पितृणां मातुलं राम सुपर्णमनिलोपमम्॥ स चैनमब्रवीद् वाक्यं वैनतेयो महाबलः। मा शुचः पुरुषव्याघ्र वधोऽयं लोकसम्मतः॥ कपिलेनाप्रमेयेण दग्धा हीमे महाबलाः। सलिलं नार्हसि प्राज्ञ दातुमेषां हि लौकिकम्॥ गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ। तस्यां कुरु महाबाहो पितृणां सलिलक्रियाम्॥ भस्मराशीकृतानेतान् प्लावयेल्लोकपावनी। तथा क्लिन्नमिदं भस्म गङ्गया लोककान्तया। षष्ठिं पुत्रसहस्राणि स्वर्गलोकं गमिष्यति॥ निर्गच्छाश्वं महाभाग संगृह्य पुरुषर्षभ। यज्ञं पैतामहं वीर निवर्तयितुमर्हसि ॥ सुपर्णवचनं श्रुत्वा सोंऽशुमानतिवीर्यवान्। त्वरितं हयमादाय पुनरायान्महातपाः॥ ततो राजानमासाद्य दीक्षितं रघुनन्दन। न्यवेदयद् यथावृत्तं सुपर्णवचनं तथा॥ तच्छ्रुत्वा घोरसंकाशं वाक्यमंशुमतो नृपः। यज्ञं निवर्तयामास यथाकल्पं यथाविधिः॥ स्वपुरं त्वगमच्छीमानिष्टयज्ञो महीपतिः। गङ्गायाश्चागमे राजा निश्चयं नाध्यगच्छत ॥ अगत्वा निश्चयं राजा कालेन महता महान्। त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः॥ कालधर्म गते राम सगरे प्रकृतीजनाः। राजानं रोचयामासुरंशुमन्तं सुधार्मिकम्॥ स राजा सुमहानासीदंशुमान् रघुनन्दन। तस्य पुत्रो महानासीद् दिलीप इति विश्रुतः॥ तस्मै राज्यं समादिश्य दिलीपे रघुनन्दन। हिमवच्छिखरे रम्ये तपस्तेपे सुदारुणम्॥ द्वात्रिंशच्छतसाहस्रं वर्षाणि सुमहायशाः। तपोवनगतो राजा स्वर्गं लेभे तपोधनः॥ दिलीपस्तु महातेजाः श्रुत्वा पैतामहं वधम्। दुःखोपहतया बुद्ध्या निश्चयं नाध्यगच्छत ॥ कथं गङ्गावतरणं कथं तेषां जलक्रिया। तारयेयं कथं चैतानिति चिन्तापरोऽभवत्॥ तस्य चिन्तयतो नित्यं धर्मेण विदितात्मनः। पुत्रो भगीरथो नाम जज्ञे परमधार्मिकः॥ दिलीपस्तु महातेजा यज्ञैर्बहुभिरिष्टवान्। त्रिंशद्वर्षसहस्राणि राजा राज्यमकारयत्॥ अगत्वा निश्चयं राजा तेषामुद्धरणं प्रति। व्याधिना नरशार्दूल कालधर्ममुपेयिवान्॥ इन्द्रलोकं गतो राजा स्वार्जितेनैव कर्मणा। राज्ये भागीरथं पुत्रमभिषिच्य नरर्षभः॥ भगीरथस्तु राजर्षिार्मिको रघुनन्दन। अनपत्यो महाराजः प्रजाकामः स च प्रजाः॥ मन्त्रिष्वाधाय तद् राज्यं गङ्गावतरणे रतः। तपो दीर्घ समातिष्ठद् गोकर्णे रघुनन्दन ॥ ऊर्ध्वबाहुः पञ्चतपा मासाहारो जितेन्द्रियः। तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः॥ अतीतानि महाबाहो तस्य राज्ञो महात्मनः। सुप्रीतो भगवान् ब्रह्मा प्रजानां प्रभुरीश्वरः॥ ततः सुरगणैः सार्धमुपागम्य पितामहः। भगीरथं महात्मानं तप्यमानमथाब्रवीत्॥ भगीरथ महाराज प्रीतस्तेऽहं जनाधिप। तपसा च सुतप्तेन वरं वरय सुव्रत॥ तमुवाच महातेजाः सर्वलोकपितामहम्। भगीरथो महाबाहुः कृताञ्जलिपुटः स्थितः॥ यदि मे भगवान् प्रीतो यद्यस्ति तपसः फलम्। सगरस्यात्मजाः सर्वे मत्तः सलिलमाप्नुयुः॥ गङ्गायाः सलिलक्लिन्ने भस्मन्येषां महात्मनाम्। स्वर्गं गच्छेयुरत्यन्तं सर्वे च प्रपितामहाः॥ देव याचे ह संतत्यै नावसीदेत् कुलं च नः। इक्ष्वाकूणां कुले देव एष मेऽस्तु वरः परः॥ उक्तवाक्यं तु राजानं सर्वलोकपितामहः। प्रत्युवाच शुभां वाणी मधुरां मधुराक्षराम्॥ मनोरथो महानेष भगीरथ महारथ। एवं भवतु भद्रं ते इक्ष्वाकुकुलवर्धन॥ इयं हैमवती ज्येष्ठा गङ्गा हिमवतः सुता। तां वै धारयितुं राजन् हरस्तत्र नियुज्यताम्॥ गङ्गायाः पतनं राजन् पृथिवी न सहिष्यते। तां वै धारयितुं राजन् नान्यं पश्यामि शूलिनः॥ तमेवमुक्त्वा राजानं गङ्गां चाभाष्य लोककृत्। जगाम त्रिदिवं देवैः सर्वैः सह मरुद्गणैः॥ देवदेवे गते तस्मिन् सोऽङ्गुष्टाग्रनिपीडिताम्। कृत्वा वसुमती राम वत्सरं समुपासत॥ अथ संवत्सरे पूर्णे सर्वलोकनमस्कृतः। उमापतिः पशुपति राजानमिदमब्रवीत्॥ प्रीतस्तेऽहं नरश्रेष्ठ करिष्यामि तव प्रियम्। शिरसा धारयिष्यामि शैलराजसुतामहम्॥ ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता। तदा सातिमहदूपं कृत्वा वेगं च दुःसहम्॥ आकाशादपतद् राम शिवे शिवशिरस्युत। अचिन्तयच्च सा देवी गङ्गा परमदुर्धरा॥ विशाम्यहं हि पातालं स्रोतसा गृह्य शंकरम्। तस्यावलेपनं ज्ञात्वा क्रुद्धस्तु भगवान् हरः॥ तिरोभावयितुं बुद्धिं चक्रे त्रिनयनस्तदा। सा तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्धनि॥ हिमवत्प्रतिमे राम जटामण्डलगह्वरे। सा कथंचिन्मही गन्तुं नाशक्नोद् यत्नमास्थिता॥ नैव सा निर्गमं लेभे जटामण्डलमन्ततः। तत्रैवाबभ्रमद् देवी संवत्सरगणान् बहून्॥ तामपश्यत् पुनस्तत्र तपः परममास्थितः। स तेन तोषितश्चासीदत्यन्तं रघुनन्दन॥ विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति। तस्यां विसृज्यमानायां सप्त स्रोतांसि जज्ञिरे॥ ह्लादिनी पावनी चैव नलिनी च तथैव च। तिस्रः प्राची दिशं जग्मुर्गङ्गाः शिवजलाः शुभाः॥ सुचक्षुश्चैव सीता च सिन्धुश्चैव महानदी। तिस्रश्चैता दिशं जग्मुः प्रतीची तु दिशं शुभाः॥ सप्तमी चान्वगात् तासां भगीरथरथं तदा। भगीरथोऽपि राजर्षिदिव्यं स्यन्दनमास्थितः॥ प्रायादग्रे महातेजा गङ्गा तं चाप्यनुव्रजत्। गगनाच्छंकरशिरस्ततो धरणिमागता ॥ असर्पत जलं तत्र तीव्रशब्दपुरस्कृतम्। मत्स्यकच्छपसबैश्च शिंशुमारगणैस्तथा॥ पतद्भिः पतितैश्चैव व्यरोचत वसुंधरा। ततो देवर्षिगन्धर्वा यक्षसिद्धगणास्तथा॥ व्यलोकयन्त ते तत्र गगनाद् गां गतां तदा। विमानैर्नगराकारैर्हयैर्गजवरैस्तदा॥ पारिपल्वगताश्चापि देवतास्तत्र विष्ठिताः। तदद्भुतमिमं लोके गङ्गावतरमुत्तमम्॥ दिदृक्षवो देवगणाः समीयुरमितौजसः। सम्पतद्भिः सुरगणैस्तेषां चाभरणौजसा॥ शतादित्यमिवाभाति गगनं गततोयदम्। शिंशुमारोरगगणैर्मीनैरपि च चञ्चलैः॥ विषुद्भिरिव विक्षिप्तैराकाशमभवत् तदा। पाण्डुरैः सलिलोत्पीडैः कीर्यमाणैः सहस्रधा ॥ शारदाधैरिवाकीर्णं गगनं हंससंप्लवैः। क्वचिद् द्रुततरं याति कुटिलं क्वचिदायतम्॥ विनतं क्वचिदुद्भूतं क्वचिद् याति शनैः शनैः। सलिलेनैव सलिलं क्वचिदभ्याहतं पुनः॥ मुहूरूज़पथं गत्वा पपात वसुधां पुनः। तच्छंकरशिरोभ्रष्टं भ्रष्टं भूमितले पुनः॥ व्यरोचत तदा तोयं निर्मलं गतकल्मषम्। तत्रर्षिगणगन्धर्वा वसुधातलवासिनः॥ भवाङ्गपतितं तोयं पवित्रमिति पस्पृशुः । शापात् प्रपतिता ये च गगनाद् वसुधातलम्॥ कृत्वा तत्राभिषेकं ते बभूवुर्गतकल्मषाः। धूतपापाः पुनस्तेन तोयेनाथ शुभान्विताः॥ पुनराकाशमाविश्य स्वाँल्लोकान् प्रतिपेदिरे। मुमुदे मुदितो लोकस्तेन तोयेन भास्वता॥ कृताभिषेको गङ्गायां बभूव गतकल्मषः। भगीरथो हि राजर्षिर्दिव्यं स्यन्दनमास्थितः॥ प्रायादग्रे महाराजस्तं गङ्गा पृष्ठतोऽन्वगात्। देवाः सर्षिगणाः सर्वे दैत्यदानवराक्षसाः॥ गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः। सर्पाश्चाप्सरसो राम भगीरथरथानुगाः॥ गङ्गामन्वगमन् प्रीताः सर्वे जलचराश्च ये। यतो भगीरथो राजा ततो गङ्गा यशस्विनी॥ जगाम सरितां श्रेष्ठा सर्वपापप्रणाशिनी। ततो हि यजमानस्य जोरद्भुतकर्मणः॥ गङ्गा सम्प्लावयामास यज्ञवाटं महात्मनः। तस्यावलेपनं ज्ञात्वा क्रुद्धो जह्वश्च राघव॥ अपिबत् तु जलं सर्वं गङ्गायाः परमाद्भुतम्। ततो देवाः सगन्धर्वा ऋषयश्च सुविस्मिताः॥ पूजयन्ति महात्मानं जहुँ पुरुषसत्तमम्। गङ्गां चापि नयन्ति स्म दुहितृत्वे महात्मनः॥ ततस्तुष्टो महातेजाः श्रोत्राभ्यामसृजत् प्रभुः। तस्माज्जह्वसुता गङ्गा प्रोच्यते जाह्नवीति च॥ जगाम च पुनर्गङ्गा भगीरथरथानुगा। सागरं चापि सम्प्राप्ता सा सरित्प्रवरा तदा॥ रसातलमुपागच्छत् सिद्ध्यर्थं तस्य कर्मणः। भगीरथोऽपि राजर्षिर्गङ्गामादाय यत्नतः॥ पितामहान् भस्मकृतानपश्यद् गतचेतनः। अथ तद्भस्मनां राशिं गङ्गासलिलमुत्तमम्। प्लावयत् पूतपाप्मानः स्वर्गं प्राप्ता रघुत्तम॥ स गत्वा सागरं राजा गङ्गयानुगतस्तदा। प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृता॥ भस्मन्यथाप्लुते राम गङ्गायाः सलिलेन वै। सर्वलोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत्॥ तारिता नरशार्दूल दिवं याताश्च देववत्। षष्ठिः पुत्रसहस्राणि सगरस्य महात्मनः॥ सागरस्य जलं लोके यावत्स्थास्यति पार्थिव। सगरस्यात्मजाः सर्वे दिवि स्थास्यन्ति देववत्॥ इयं च दुहिता ज्येष्ठा तव गङ्गा भविष्यति। त्वत्कृतेन च नाम्नाथ लोके स्थास्यति विश्रुता॥ गङ्गा त्रिपथगा नाम दिव्या भागीरथीति च। त्रीन् पथो भावयन्तीति तस्मात् त्रिपथगा स्मृता ॥ पितामहानां सर्वेषां त्वमत्र मनुजाधिप। कुरुष्व सलिलं राजन् प्रतिज्ञामपवर्जय॥ पूर्वकेण हि ते राजंस्तेनातियशसा तदा। धर्मिणां प्रवरेणाथ नैष प्राप्तो मनोरथः॥ तथैवांशुमता वत्स लोकेऽप्रतिमतेजसा। गङ्गा प्रार्थयता नेतुं प्रतिज्ञा नापवर्जिता॥ राजर्षिणा गुणवता महर्षिसमतेजसा। मत्तुल्यतपसा चैव क्षत्रधर्मस्थितेन च ॥ दिलीपेन महाभाग तव पित्रातितेजसा। पुनर्न शकिता नेतुं गङ्गां प्रार्थयतानघ॥ सा त्वया समतिक्रान्ता प्रतिज्ञा पुरुषर्षभ। प्राप्तोऽसि परमं लोके यशः परमसम्मतम्॥ तच्च गङ्गावतरणं त्वया कृतमरिंदम। अनेन च भवान् प्राप्तो धर्मस्यायतनं महत्॥ प्लावयस्व त्वमात्मानं नरोत्तम सदोचिते। सलिले पुरुषश्रेष्ठ शुचिः पुण्यफलो भव॥ पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम्। स्वस्ति तेऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप॥ इत्येवमुक्त्वा देवेश सर्वलोकपितामहः। यथागतं तथागच्छद् देवलोकं महायशाः॥ भगीरथस्तु राजर्षिः कृत्वा सलिलमुत्तमम्। यथाक्रमं यथान्यायं सागराणां महायशाः॥ कृतोदकः शुची राजा स्वपुरं प्रविवेश ह। समृद्धार्थो नरश्रेष्ठ स्वराज्यं प्रशशास ह॥ प्रमुमोद च लोकस्तं नृपमासाद्य राघव। नष्टशोकः समृद्धार्थो बभूव विगतज्वरः॥ एष ते राम गङ्गाया विस्तरोऽभिहितो मया। स्वस्ति प्राप्नुहि भद्रं ते संध्याकालोऽतिवर्तते॥ धन्यं यशस्यमायुष्यं पुत्र्यं स्वय॑मथापि च। यः श्रावयति विप्रेषु क्षत्रियेष्वितरेषु च॥ प्रीयन्ते पितरस्तस्य प्रायन्ते दैवतानि च। इदमाख्यानमायुष्यं गङ्गावतरणं शुभम्॥ यः शृणोति च काकुत्स्थ सर्वान् कामानवाप्नुयात्। सर्वे पापाः प्रणश्यन्ति आयुः कीर्तिश्च वर्धते ॥ हतेषु तेषु पुत्रेषु दितिः परमदुःखिता। मारीचं कश्यपं नाम भारमिदमब्रवीत्।।१। हतपुत्रास्मि भगवंस्तव पुत्रैर्महाबलैः। शक्रहन्तारमिच्छामि पुत्रं दीर्घतपोर्जितम्॥ साहं तपश्चरिष्यामि गर्भ मे दातुमर्हसि। ईश्वरं शक्रहन्तारं त्वमनुज्ञातुमर्हसि॥ तस्यास्तद् वचनं श्रुत्वा मारीचः कश्यपस्तदा। प्रत्युवाच महातेजा दितिं परमदुःखिताम्॥ एवं भवतु भद्रं ते शुचिर्भव तपोधने। जनयिष्यसि पुत्रं त्वं शक्रहन्तारमाहवे॥ पूर्णे वर्षसहस्रं तु शुचिर्यदि भविष्यसि। पुत्रं त्रैलोक्यहन्तारं मत्तस्त्वं जनयिष्यसि॥ एवमुक्त्वा महातेजाः पाणिना सम्ममार्ज ताम्। तामालभ्य ततः स्वस्ति इत्युक्त्वा तपसे ययौ॥ गते तस्मिन् नरश्रेष्ठ दितिः परमहर्षिता। कुशप्लवं समासाद्य तपस्तेपे सुदारुणम्॥ तपस्तस्यां हि कुर्वत्यां परिचर्या चकार ह। सहस्राक्षो नरश्रेष्ठ परया गुणसम्पदा।९।। अग्निं कुशान् काष्ठमपः फलं मूलं तथैव च। न्यवेदयत् सहस्राक्षो यच्चान्यदपि काङ्क्षितम्॥ गात्रसंवाहनैश्चैव श्रमापनयनैस्तथा। शक्रः सर्वेषु कालेषु दितिं परिचचार ह॥ पूर्णे वर्षसहस्रे सा दशोने रघुनन्दन। दितिः परमसंहृष्टा सहस्राक्षमथाब्रवीत्॥ तपश्चरन्त्या वर्षाणि दश वीर्यवतां वर। अवशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः॥ यमहं त्वत्कृते पुत्र तमाधास्ये जयोत्सुकम्। त्रैलोक्यविजयं पुत्र सह भोक्ष्यसि विज्वरः॥ याचितेन सुरश्रेष्ठ पित्रा तव महात्मना। वरो वर्षसहस्रान्ते मम दत्तः सुतं प्रति॥ इत्युक्त्वा च दितिस्तत्र प्राप्ते मध्यं दिनेश्वरे। निद्रयापहृता देवी पादौ कृत्वाथ शीर्षतः॥ दृष्ट्वा तामशुचिं शक्रः पादयोः कृतमूर्धजाम्। शिरः स्थाने कृतौ पादौ जहास च मुमोद च॥ तस्याः शरीरविवरं प्रविवेश पुरंदरः। गर्भ च सप्तधा राम चिच्छेद परमात्मवान्॥ भिद्यमानस्ततो गर्भो वज्रेण शतपर्वणा। रुरोद सुस्वरं राम ततो दितिरबुध्यत॥ मा रुदो मा रुदश्चेति गर्भं शक्रोऽभ्यभाषत। विभेद च महातेजा रुदन्तमपि वासवः॥ न हन्तव्यं न हन्तव्यमित्येवं दितिरब्रवीत्। निष्पपात ततः शक्रो मातुर्वचनगौरवात्॥ प्राञ्जलिर्वज्रसहितो दितिं शक्रोऽभ्यभाषत। अशुचेर्देवि सुप्तासि पादयोः कृतमूर्धजा॥ तदन्तरमहं लब्ध्वा शक्रहन्तारमाहवे। अभिन्दं सप्तधा देवि तन्मे त्वं क्षन्तुमर्हसि ॥ पृष्ट्वा तु कुशलं तत्र परस्परसमागमे। कथान्ते सुमतिर्वाक्यं व्याजहार महामुनिम्॥ इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ। गजसिंहगती वीरौ शार्दूलवृषभोपमौ॥ पद्मपत्रविशालाक्षौ खङ्गतूणधनुर्धरौ। अश्विनाविव रूपेण समुपस्थितयौवनौ॥ यदृच्छयेव गां प्राप्तौ देवलोकादिवामरौ। कथं पद्भयामिह प्राप्तौ किमर्थं कस्य वा मुने॥ भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम्। परस्परेण सदृशौ प्रमाणेङ्गितचेष्टितैः॥ किमर्थं च नरश्रेष्ठौ सम्प्राप्तौ दुर्गमे पथि। वरायुधधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः॥ तस्य तद् वचनं श्रुत्वा यथावृत्तं न्यवेदयत्। विश्वामित्रवचः श्रुत्वा राजा परमविस्मितः॥ अतिथी परमं प्राप्तौ पुत्रौ दशरथस्य तौ। पूजयामास विधिवत् सत्काराही महाबलौ॥ ततः परमसत्कारं सुमतेः प्राप्य राघवौ। उष्य तत्र निशामेकां जग्मतुर्मिथिलां ततः।।।। तां दृष्ट्वा मुनयः सर्वे जनकस्य पुरीं शुभाम्। साधु साध्विति शंसन्तो मिथिला समपूजयन्॥ मिथिलोपवने तत्र आश्रमं दृश्य राघवः। पुराणं निर्जनं रम्यं पप्रच्छ मुनिपुङ्गवम्॥ इदमाश्रमसंकाशं किं न्विदं मुनिवर्जितम्। श्रोतुमिच्छामि भगवन् कस्यायं पूर्व आश्रमः॥ तच्छ्रुत्वा राघवेणोक्तं वाक्यं वाक्यविशारदः। प्रत्युवाच महातेजा विश्वामित्रो महामुनिः॥ हन्त ते कथयिष्यामि शृणु तत्त्वेन राघव। यस्यैतदाश्रमपदं शप्तं कोपान्महात्मनः॥ गौतमस्य नरश्रेष्ठ पूर्वमासीन्महात्मनः आश्रमो दिव्यसंकाशः सुरैरपि सुपूजितः॥ स चात्र तप आतष्ठिदहल्यासहितः पुरा। वर्षपूगान्यनेकानि राजपुत्र महायशः॥ तस्यान्तरं विदित्वा च सहस्राक्षः शचीपतिः। मुनिवेषधरो भूत्वा अहल्यामिदमब्रवीत्॥ ऋतुकालं प्रतीक्षन्ते नार्थिनः सुसमाहिते। संगम त्वहमिच्छामि त्वया सह सुमध्यमे॥ मुनिवेषं सहस्राक्षं विज्ञाय रघुनन्दन। मतिं चकार दुर्मेधा देवराजकुतूहलात्॥ अथाब्रवीत् सुरश्रेष्ठं कृतार्थेनान्तरात्मना। कृतार्थास्मि सुरश्रेष्ठ गच्छ शीघ्रमितः प्रभो॥ आत्मानं मां च देवेश सर्वथा रक्ष गौतमात्। इन्द्रस्तु प्रहसन् वाक्यमहल्यामिदमब्रवीत्॥ सुश्रोणि परितुष्टोऽस्मि गमिष्यामि यथागतम्। एवं संगम्य तु तदा निश्चक्रामोटजात् ततः॥ स सम्भ्रमात् त्वरन् राम शङ्कितो गौतमं प्रति। गौतमं स ददर्शाथ प्रविशन्तं महामुनिम्॥ देवदानवदुर्धर्षं तपोबलसमन्वितम्। तीर्थोदकपरिक्लिनं दीप्यमानमिवानलम्॥ गृहीतसमिधं तत्र सकुशं मुनिपुङ्गवम्। दृष्ट्वा सुरपतिस्त्रस्तो विषण्णवदनोऽभवत्॥ अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनिः। दुर्वृत्तं वृत्तसम्पन्नो रोषाद् वचनमब्रवीत्॥ मम रूपं समास्थाय कृतवानसि दुर्मते। अकर्तव्यमिदं यस्माद् विफलस्त्वं भविष्यसि ॥ गौतमेनैवमुक्तस्य सुरोषेण महात्मना। पेततुर्वृषणौ भूमौ सहस्राक्षस्य तत्क्षणात्॥ तथा शप्त्वा च वै शक्रं भार्यामपि च शप्तवान्। इह वर्षसहस्राणि बहूनि निवसिष्यसि॥ वातभक्षा निराहारा तप्यन्ती भस्मशायिनी। अदृश्या सर्वभूतानामाश्रमेऽस्मिन् वसिष्यसि ॥ यदा त्वेतद् वनं घोरं रामो दशरथात्मजः। आगमिष्यति दुर्धर्षस्तदा पूता भविष्यसि॥ तस्यातिथ्येन दुर्वृत्ते लोभमोहविवर्जिता। मत्सकाशं मुदा युक्ता स्वं वपुर्धारयिष्यसि॥ एवमुक्त्वा महातेजा गौतमो दुष्टचारिणीम्। इममाश्रममुत्सृज्य सिद्धचारणसेविते। हिमवच्छिखरे रम्ये तपस्तेपे महातपाः॥ ततः प्रागुत्तरां गत्वा रामः सौमित्रिणा सह। विश्वामित्रं पुरस्कृत्य यज्ञवाटमुपागमत्॥ रामस्तु मुनिशार्दूलमुवाच सहलक्ष्मणः। साध्वी यज्ञसमृद्धिर्हि जनकस्य महात्मनः॥ बहूनीह सहस्राणि नानादेवनिवासिनाम्। ब्राह्मणानां महाभाग वेदाध्ययनशालिनाम्॥ ऋषिवाटाश्च दृश्यन्ते शकटीशतसंकुलाः। देशो विधीयतां ब्रह्मन् यत्र वत्स्यामहे वयम्॥ रामस्य वचनं श्रुत्वा विश्वामित्रो महामुनिः। निवासमकरोद् देशे विविक्ते सलिलान्विते॥ विश्वामित्रमनुप्राप्तं श्रुत्वा नृपवरस्तदा। शतानन्दं पुरस्कृत्य पुरोहितमनिन्दितः॥ ऋत्विजोऽपि महात्मानस्त्वय॑मादाय सत्वरम्। प्रत्युज्जगाम सहसा विनयेन समन्वितः॥ विश्वामित्राय धर्मेण ददौ धर्मपुरस्कृतम्। प्रतिगृह्य तु तां पूजां जनकस्य महात्मनः॥ पप्रच्छ कुशलं राज्ञो यज्ञस्य च निरामयम्। स तांश्चाथ मुनीन् पृष्ट्वा सोपाध्यायपुरोधसः॥ यथार्हमृषिभिः सर्वैः समागच्छत् प्रहृष्टवत्। अथ राजा मुनिश्रेष्ठं कृताञ्जलिरभाषत ॥ आसने भगवानास्तां सहैभिर्मुनिपुङ्गवैः। जनकस्य वचः श्रुत्वा निषसाद महामुनिः॥ पुरोधा ऋत्विजश्चैव राजा च सहमन्त्रिभिः। आसनेषु यथान्यायनुपविष्टाः समन्ततः॥ दृष्ट्वा स नृपतिस्तत्र विश्वामित्रमथाब्रवीत्। अद्य यज्ञसमृद्धिर्मे सफला दैवतैः कृता॥ अद्य यज्ञफलं प्राप्तं भगवदर्शनान्मया। धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गवः॥ यज्ञोपसदनं ब्रह्मन् प्राप्तोऽसि मुनिभिः सह। द्वादशाहं तु ब्रह्मर्षे दीक्षामाहुर्मनीषिणः॥ ततो भागार्थिनो देवान् द्रष्टुमर्हसि कौशिक। इत्युक्त्वा मुनिशार्दूलं प्रहृष्टवदनस्तदा॥ पुनस्तं परिपप्रच्छ प्राञ्जलिः प्रयतो नृपः। इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ॥ गजतुल्यगती वीरौ शार्दूलवृषभोपमौ। पद्मपत्रविशालाक्षौ खङ्गतूणीधनुर्धरौ। अश्विनाविव रूपेण समुपस्थितयौवनौ॥ यदृच्छयेव गां प्राप्तौ देवलोकादिवामरौ। कथं पद्भयामिह प्राप्तौ किमर्थं कस्य वा मुने॥ वरायुधधरौ वीरौ कस्य पुत्रौ महामुने। भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम्॥ परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः। काकपक्षधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः॥ तस्य तद् वचनं श्रुत्वा जनकस्य महात्मनः। न्यवेदयदमेयात्मा पुत्रौ दशरथस्य तौ॥ सिद्धाश्रमनिवासं च राक्षसानां वधं तथा। तत्रागमनमव्यग्रं विशालायाश्च दर्शनम्॥ अहल्यादर्शनं चैव गौतमेन समागमम्। महाधनुषि जिज्ञासां कर्तुमागमनं तथा॥ एतत् सर्वं महातेजा जनकाय महात्मने। निवेद्य विररामाथ विश्वामित्रो महामुनिः॥ तस्य तद् वचनं श्रुत्वा विश्वामित्रस्य धीमतः। हृष्टरोमा महातेजाः शतानन्दो महातपाः॥ गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभः। रामसंदर्शनादेव परं विस्मयमागतः॥ एतौ निषण्णौ सम्प्रेक्ष्य शतानन्दो नृपात्मजौ। सुखासीनौ मुनिश्रेष्ठं विश्वामित्रमथाब्रवीत्॥ अपि ते मुनिशार्दूल मम माता यशस्विनी। दर्शिता राजपुत्राय तपोदीर्घमुपागता॥ अपि रामे महातेजा मम माता यशस्विनी। वन्यैरुपाहरत् पूजां पूजार्हे सर्वदेहिनीम्॥ अपि रामाय कथितं यद् वृत्तं तत् पुरातनम्। मम मातुर्महातेजो देवेन दुरनुष्ठितम्॥ अपि कौशिकं भद्रं ते गुरुणा मम संगता। मम माता मुनिश्रेष्ठ रामसंदर्शनादितः॥ अपि मे गुरुणा रामः पूजितः कुशिकात्मज । इहागतो महातेजाः पूजां प्राप्य महात्मनः॥ अपि शान्तेन मनसा गुरुर्मे कुशिकात्मज। इहागतेन रामेण पूजितेनाभिवादितः॥ तच्छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः। प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम्॥ नातिक्रान्तं मुनिश्रेष्ठ यत्कर्तव्यं कृतं मया। संगता मुनिना पत्नी भार्गवेणेव रेणुका॥ तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः। शतानन्दो महातेजा रामं वचनमब्रवीत्॥ स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव। विश्वामित्रं पुरस्कृत्य महर्षिमपराजितम्॥ अचिन्त्यकर्मा तपसा ब्रह्मर्षिरमितप्रभः। विश्वामित्रो महातेजा वेम्येनं परमां गतिम्॥ नास्ति धन्यतरो राम त्वत्तोऽन्यो भुवि कश्चन। गोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तपः॥ श्रूयतां चाभिधास्यामि कौशिकस्य महात्मनः। यथाबलं यथातत्त्वं तन्मे निगतदः शृणु॥ राजाऽऽसीदेष धर्मात्मा दीर्घकालमरिंदमः। धर्मज्ञः कृतविद्यश्च प्रजानां च हिते रतः॥ प्रजापतिसुतस्त्वासीत् कुशो नाम महीपतिः। कुशस्य पुत्रो बलवान् कुशनाभः सुधार्मिकः॥ कुशनाभसुतस्त्वासीत् गाधिरित्येव विश्रुतः। गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः॥ विश्वामित्रो महातेजाः पालयामास मेदिनीम्। बहुवर्षसहस्राणि राजा राज्यमकारयत्॥ कदाचित् तु महातेजा योजयित्वा वरूथिनीम्। अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम्॥ नगराणि च राष्ट्राणि सरितश्च महागिरीन्। आश्रमान् क्रमशो राजा विचरन्नाजगाम ह।।२२। वसिष्ठस्याश्रमपदं नानापुष्पलतादुमम्। नानामृगगणाकीर्णं सिद्धचारणसेवितम्॥ देवदानवगन्धर्वैः किंनरैरुपशोभितम्। प्रशान्तहरिणाकीर्णं द्विजसङ्घनिषेवितम्॥ ब्रह्मर्षिगणसंकीर्णं देवर्षिगणसेवितम्। तपश्चरणसंसिद्धैरग्निकल्पैर्महात्मभिः॥ सततं संकुलं श्रीमद्ब्रह्मकल्पैर्महात्मभिः। अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशनैस्तथा॥ फलमूलाशनैर्दान्तैर्जितदोषैर्जितेन्द्रियैः। ऋषिभिर्वालखिल्यैश्च जपहोमपरायणैः॥ अन्यैवैखानसैश्चैव समन्तादुपशोभितम्। वसिष्ठस्याश्रमपदं ब्रह्मलोकमिवापरम्। ददर्श जयतां श्रेष्ठो विश्वामित्रो महाबलः॥ तं दृष्ट्वा परमप्रीतो विश्वामित्रो महाबलः। प्रणतो विनयाद् वीरो वसिष्ठं जपतां वरम्॥ स्वागतं तव चेत्युक्तो वसिष्ठेन महात्मना। आसनं चास्य भगवान् वसिष्ठो व्यादिदेश ह॥ उपविष्टाय च तदा विश्वामित्राय धीमते। यथान्यायं मुनिवरः फलमूलमुपाहरत्॥ प्रतिगृह्य तु तां पूजां वसिष्ठाद् राजसत्तमः। तपोऽग्निहोत्रशिष्येषु कुशलं पर्यपृच्छत ॥ विश्वामित्रो महातेजा वनस्पतिगणे तदा। सर्वत्र कुशलं प्राह वसिठो राजसत्तमम्॥ सुखोपविष्टं राजानं विश्वामित्रं महातपाः। पप्रच्छ जपतां श्रेष्ठो वसिष्ठो ब्रह्मणः सुतः॥ कच्चित्ते कुशलं राजन् कच्चिद् धर्मेण रञ्जयन्। प्रजाः पालयसे राजन् राजवृत्तेन धार्मिक॥ कच्चित्ते सम्भृता भृत्याः कच्चित् तिष्ठन्ति शासने। कच्चित्ते विजिताः सर्वे रिपवो रिपुसूदन॥ कच्चिद् बलेषु कोशेषु मित्रेषु च परंतप। कुशलं ते नरव्याघ्र पुत्रपौत्रे तथानघ॥ सर्वत्रं कुशलं राजा वसिष्ठं प्रत्युदाहरत्। विश्वामित्रो महातेजा वसिष्ठं विनयान्वितम्॥ कृत्रा तौ सुचिरं कालं धर्मिष्ठौ ताः कथास्तदा। मुदा परमया युक्तौ प्रीयेतां तौ परस्परम्॥ ततो वसिष्ठो भगवान् कथान्ते रघुनन्दन। विश्वामित्रमिदं वाक्यमुवाच प्रहसन्निव॥ आतिथ्यं कर्तुमिच्छामि बलस्यास्य महाबल। तव चैवाप्रमेयस्य यथार्ह सम्प्रतीच्छ मे॥ सत्क्रियां हि भवानेतां प्रतीच्छतु मया कृताम्। राजंस्त्वमतिथिश्रेष्ठः पूजनीयः प्रयत्नतः॥ एवमुक्तो वसिष्ठेन विश्वामित्रो महामतिः। कृतमित्यब्रवीद् राजा पूजावाक्येन मे त्वया॥ फलमूलेन भगवन् विद्यते यत् तवाश्रमे। पाद्यनाचमनीयेन भगवद्दर्शनेन च॥ सर्वथा च महाप्राज्ञ पूजाहेण सुपूजितः। नमस्तेऽस्तु गमिष्यामि मैत्रेणेक्षस्व चक्षुषा ॥ एवं ब्रुवन्तं राजानं वसिष्ठः पुनरेव हि। न्यमन्त्रयत धर्मात्मा पुनः पुनरुदारधीः॥ बाढमित्येव गाधेयो वसिष्ठं प्रत्युवाच ह। यथाप्रियं भगवतस्तथास्तु मुनिपुङ्गव॥ एवमुक्तस्तथा तेन वसिष्ठो जपतां वरः। आजुहाव ततः प्रीतः कल्माषीं धूतकल्मषाम्॥ एह्येहि शबले क्षिप्रं शृणु चापि वचो मम। सबलस्यास्य राजर्षेः कर्तुं व्यवसितोऽस्म्यहम्। भोजनेन महाहेण सत्कारं संविधत्स्व मे॥ यस्य यस्य यथाकामं षड्रसेष्वभिपूजितम्। तत्सर्वं कामधुग् दिव्ये अभिवर्षकृते मम॥ रसेनान्नेन पानेन लेह्यचोष्येण संयुतम्। अन्नानां निचयं सर्वं सृजस्व शबले त्वर ॥ एवमुक्ता वसिष्ठेन शबला शत्रुसूदन। विदधे कामधुक् कामान् यस्य यस्येप्सितं यथा॥ इथून मधूंस्तथा लाजान् मैरेयांश्च वरासवान्। पानानि च महार्हाणि भक्ष्यांश्चोच्चावचानपि॥ उष्णाढ्यस्यौदनस्यात्र राशयः पर्वतोपमाः। मृष्टान्यन्नानि सब्दलंश्च दधिकुल्यास्तथैव च॥ नानास्वादुरसानां च खाण्डवानां तथैव च। भोजनानि सुपूर्णानि गौडानि च सहस्रशः॥ सर्वमासीत् सुसंतुष्टं हृष्टपुष्टजनायुतम्। विश्वामित्रबलं राम वसिष्ठेन सुतर्पितम्॥ विश्वामित्रो हि राजर्षिर्हष्टपुष्टस्तदाभवत्। सान्तःपुरवरो राजा सब्राह्मणपुरोहितः॥ सामात्यो मन्त्रिसहितः सभृत्य पूजितस्तदा। युक्तः परमहर्षेण वसिष्ठमिदमब्रवीत्॥ पुजितोऽहं त्वया ब्रह्मन् पूजाण सुसत्कृतः। श्रूयतामभिधास्यामि वाक्यं वाक्यविशारद॥ गवां शतसहस्रेण दीयतां शबला मम। रत्नं हि भगवनेतद् रत्नहारी च पार्थिवः॥ तस्मान्मे शबलां देहि ममैषा धर्मतो द्विज । एवमुक्तस्तु भगवान् वसिष्ठो मुनिपुङ्गवः॥ विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम्। नाहं शतसहस्रेण नापि कोटिशतैर्गवाम्॥ राजन् दास्यामि शबलां राशिभी रजतस्य वा। न परित्यागमयं मत्सकाशादरिंदम ॥ शाश्वती शबला मह्यं कीर्तिरात्मवतो यथा। अस्यां हव्यं च कव्यं च प्राणयात्रा तथैव च॥ आयत्तमग्निहोत्रं च बलि)मस्तथैव च। स्वाहाकारवषट्कारौ विद्याश्च विविधास्तथा॥ आयत्तमत्र राजर्षे सर्वमेतन संशयः। सर्वस्वमेतत् सत्येन मम तुष्टिकरी तथा॥ कारणैर्बहुभी राजन् न दास्ये शबलां तव। वसिष्ठेनैवमुक्तस्तु विश्वामित्रोऽब्रवीत् तदा॥ संरब्धतरमत्यर्थं वाक्यं वाक्यविशारदः। हैरण्यकक्षौवेयान् सुवर्णाङ्कुशभूषितान् ॥ ददामि ते कुञ्जराणां ते सहस्राणि चतुर्दश। हैरण्यानां रथानां च श्वेताश्वानां चतुर्युजाम्॥ ददामि ते शतान्यष्टौ किंकिणीकविभूषितान्। हयानां देशजातानां कुलजानां महौजसाम्। सहस्रमेकं दश च ददामि तव सुव्रत॥ नानावर्णविभक्तानां वयःस्थानां तथैव च। ददाम्येकां गवां कोटिं शबला दीयतां मम॥ यावदिच्छसि रत्नानि हिरण्यं वा द्विजोत्तम। तावद् ददामि ते सर्वं दीयतां शबला मम॥ एवमुक्तस्तु भगवान् विश्वामित्रेण धीमता। न दास्यामीति शबलां प्राह राजन् कथंचन ॥ एतदेव हि मे रत्नमेतदेव हि मे धनम्। एतदेव हि सर्वस्वमेतदेव हि जीवितम्॥ दर्शश्च पौर्णमासश्च यज्ञाश्चैवाप्तदक्षिणाः। एतदेव हि मे राजन् विविधाश्च क्रियास्तथा॥ अतोमूलाः क्रियाः सर्वा मम राजन् न संशयः। बहुना किं प्रलापेन न दास्ये कामदोहिनीम्॥ कामधेनुं वसिष्ठोऽपि यदा न त्यजते मुनिः। तदास्य शबलां राम विश्वामित्रोऽन्वकर्षत॥ नीयमाना तु शबला राम राज्ञा महात्मना। दुःखिता चिन्तयामास रुदन्ती शोककर्शिता॥ परित्यक्ता वसिष्ठेन किमहं सुमहात्मना। याहं राजभृतैर्दीना हियेय भृशदुःखिता॥ किं मयापकृतं तस्य महर्षे वितात्मनः। यन्मामनागसं दृष्ट्वा भक्तां त्यजति धार्मिकः॥ इति संचिन्तयित्वा तु निःश्वस्य च पुनःपुनः। जगाम वेगेन तदा वसिष्ठं परमौजसम्॥ निधूय तांस्तदा भृत्याञ्छतशः शत्रुसूदन। जगामानिलवेगेन पादमूलं महात्मनः॥ शबला सा रुदन्ती च क्रोशन्ती चेदमब्रवीत्। वसिष्ठस्याग्रतः स्थित्वा रुदन्ती मेघनिःस्वना ॥ भगवन् किं परित्यक्ता त्वयाहं ब्रह्मणः सुत। यस्माद् राजभटामां हि नयन्ते त्वत्सकाशतः॥ एवमुक्तस्तु ब्रह्मर्षिरिदं वचनमब्रवीत्। शोकसंतप्तहृदयां स्वसारमिव दु:खिताम्॥ न त्वां त्यजामि शबले नापि मेऽपकृतं त्वया। एष त्वां नयते राजा बलान्मत्तो महाबलः॥ नहि तुल्यं बलं मह्यं राजा त्वद्य विशेषतः। बली राजा क्षत्रियश्च पृथिव्याः पतिरेव च॥ इयमक्षौहिणी पूर्णा गजवाजिरथाकुला। हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः॥ एवमुक्ता वसिष्ठेन प्रत्युवाच विनीतवत्। वचनं वचनज्ञा सा ब्रह्मर्षिमतुलप्रभम्॥ न बलं क्षत्रियस्याहुर्ब्राह्मणा बलवत्तराः। ब्रह्मन् ब्रह्मबलं दिव्यं क्षात्राच्च बलवत्तरम्॥ अप्रमेयं बलं तुभ्यं न त्वया बलवत्तरः। विश्वामित्रो महावीर्यस्तेजस्तव दुरासदम्॥ नियुक्ष्व मां महातेजस्त्वं ब्रह्मबलसम्भृताम्। तस्य दर्प बलं यत्नं नाशयामि दुरात्मनः॥ इत्युक्तस्तु तया राम वसिष्ठस्तु महायशाः। सृजस्वेति तदोवाच बलं परबलार्दनम्॥ तस्य तद् वचनं श्रुत्वा सुरभिः सासृजत् तदा। तस्या हुंभारवोत्सृष्टाः पह्लवाः शतशो नृप॥ नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः। स राजा परमक्रुद्धः क्रोधविस्फारितेक्षणः॥ पह्नवान् नाशयामास शस्त्रैरुच्चावचैरपि। विश्वामित्रार्दितान् दृष्ट्वा पह्लवाञ्शतशस्तदा॥ भूय एवासृजद् घोराञ्छकान् यवनमिश्रितान्। तैरासीत् संवृता भूमिः शकैर्यवनमिश्रितैः॥ प्रभावद्भिर्महावीहेमकिंजल्कसंनिभैः। तीक्ष्णासिपट्टिशधरैर्हेमवर्णाम्बरावृतैः॥ निर्दग्धं तद्बलं सर्वं प्रदीप्तैरिव पावकैः। ततोऽस्त्राणि महातेजा विश्वामित्रो मुमोच ह। तैस्तै यवनकाम्बोजा बर्बराश्चाकुलीकृताः॥ ततस्तानाकुलान् दृष्ट्वा विश्वामित्रास्त्रमोहितान्। वसिष्ठश्चोदयामास कामधुक् सृज योगतः॥ तस्या हुंकारतो जाताः काम्बोजा रविसंनिभाः। ऊधसश्चाथ सम्भूता बर्बराः शस्त्रपाणयः॥ योनिदेशाच्च यवनाः शकृद्देशाच्छकाः स्मृताः। रोमकूपेषु म्लेच्छाश्च हारीताः सकिरातकाः॥ तैस्तन्निषूदितं सर्वं विश्वामित्रस्य तत्क्षणात्। सपदातिगजं साश्वं सरथं रघुनन्दन॥ दृष्ट्वा निषूदितं सैन्यं वसिष्ठेन महात्मना। विश्वामित्रसुतानां तु शतं नानाविधायुधम्॥ अभ्यधावत् सुसंक्रुद्धं वसिष्ठं जगतां वरम्। हुंकारेणैव तान् सर्वान् निर्ददाह महानृषिः॥ ते साश्वरथपादाता वसिष्ठेन महात्मना। भस्मीकृता मुहूर्तेन विश्वामित्रसुतास्तथा॥ दृष्ट्वा विनाशितान् सर्वान् बलं च सुमहायशाः। सव्रीडं चिन्तयाविष्टो विश्वामित्रोऽभवत् तदा॥ समुद्र इव निर्वेगो भग्नद्रष्ट्र इवोरगः। उपरक्त इवादित्यः सद्यो निप्रभतां गतः॥ हतपुत्रबलो दीनो लूनपक्ष इव द्विजः। हतसर्वबलोत्साहो निर्वेदं समपद्यत॥ स पुत्रमेकं राज्याय पालयेति नियुज्य च। पृथिवीं क्षत्रधर्मेण वनमेवाभ्यपद्यत॥ स गत्वा हिमवत्पार्वे किंनरोरगसेवितम्। महादेवप्रसादार्थं तपस्तेपे महातपाः।.१२ ।। केनचित् त्वथ कालेन देवेशो वृषभध्वजः। दर्शयामास वरदो विश्वामित्रं महामुनिम्॥ किमर्थं तप्यसे राजन् ब्रूहि यत् ते विवक्षितम्। वरदोऽस्मि वरो यस्ते काङ्क्षितः सोऽभिधीयताम्।।१४। एवमुक्तस्तु देवेन विश्वामित्रो महातपाः। प्रणिपत्य महादेवं विश्वामित्रोऽब्रवीदिदम्॥ यदि तुष्टो महादेव धनुर्वेदो ममानघ। साङ्गोपाङ्गोपनिषदः सरहस्यः प्रदीयताम्॥ यानि देवेषु चास्त्राणि दानवेषु महर्षिषु । गन्धर्वयक्षरक्ष:सु प्रतिभान्तु ममानघ ॥ तव प्रसादाद् भवतु देवदेव ममेप्सुतम्। एवमस्त्विति देवेशो वाक्यमुक्त्वा गतस्तदा॥ प्राप्य चास्त्राणि देवेशाद् विश्वामित्रो महाबलः। दर्पण महता युक्तो दर्पपूर्णोऽभवत् तदा ॥ विवर्धमानो वीर्येण समुद्र इव पर्वणि। हतं मेने तदा राम वसिष्ठमृषिसत्तमम्॥ ततो गत्वाऽऽश्रमपदं मुमोचास्त्राणि पार्थिवः। यैस्तत् तपोवनं नाम निर्दग्धं चास्त्रतेजसा॥ उदीर्यमाणमस्त्रं तद् विश्वामित्रस्य धीमतः। दृष्ट्वा विप्रदुता भीता मुनयः शतशो दिशः॥ वसिष्ठस्य च ये शिष्या ये च वै मृगपक्षिणः। विद्रवन्ति भयाद् भीता नानादिग्भ्यः सहस्रशः॥ वसिष्ठस्याश्रमपदं शून्यमासीन्महात्मनः। मुहूर्तमिव निःशब्दमासीदीरिणसंनिभम्॥ वदतो वै वसिष्ठस्य मा भैरिति मुहुर्मुहुः। नाशयाम्यद्य गाधेयं नाहारमिव भास्करः॥ एवमुक्त्वा महातेजा वसिष्ठो जपतां वरः। विश्वामित्रं तदा वाक्यं सरोषमिदमब्रवीत्॥ आश्रमं चिरसंवृद्धं यद् विनाशितवानसि। दुराचारो हि यन्मूढस्तस्मात् त्वं न भविष्यसि ॥ इत्युक्त्वा परमक्रुद्धो दण्डमुद्यम्य सत्वरः। विधूम इव कालाग्निर्यमदण्डमिवापरम् ॥ एवमुक्तो वसिष्ठेन विश्वामित्रो महाबलः। आग्नेयमस्त्रमुद्दिश्य तिष्ठ तिष्ठेति चाब्रवीत्॥ ब्रह्मदण्डं समुद्यम्य कालदण्डमिवापरम्। वसिष्ठो भगवान् क्रोधादिदं वचनमब्रवीत्॥ क्षत्रबन्धो स्थितोऽस्म्येष यद् बलं तद् विदर्शय। नाशयाम्यद्य ते दर्प शस्त्रस्य तव गाधिजः॥ क्व च ते क्षत्रियबलं क्व च ब्रह्मबलं महत्। पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन ॥ तस्यास्त्रं गाधिपुत्रस्य घोरमाग्नेयमुत्तमम्। ब्रह्मदण्डेन तच्छान्तमग्नेर्वेग इवाम्भसा ॥ वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा । एषीकं चापि चिक्षेप कुपितो गाधिनन्दनः॥ मानवं मोहनं चैव गान्धर्वं स्वापनं तथा। जृम्भणं मादनं चैव संतापनविलापने॥ शोषणं दारणं चैव वज्रमस्त्रं सुदुर्जयम्। ब्रह्मपाशं कालपाशं वारुणं पाशमेव च॥ पिनाकमस्त्रं दयितं शुष्कार्दै अशनी तथा। दण्डास्त्रमथ पैशाचं क्रौञ्चमस्त्रं तथैव च॥ धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च। वायव्यं मथनं चैव अस्त्रं हयशिरस्तथा॥ शक्तिद्वयं च चिक्षेप कङ्कालं मुसलं तथा। वैद्याधरं महास्त्रं च कालास्त्रमथ दारुणम्॥ त्रिशूलमस्त्रं घोरं च कालापमथ कङ्कणम्। एतान्यस्त्राणि चिक्षेप सर्वाणि रघुनन्दन ॥ वसिष्ठे जपतां श्रेष्ठे तदद्भुतमिवाभवत्। तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः॥ तेषु शान्तेषु ब्रह्मास्त्रं क्षिप्तवान् गाधिनन्दनः। तदस्त्रमुद्यतं दृष्ट्वा देवाः साग्निपुरोगमाः॥ देवर्षयश्च सम्भ्रान्ता गन्धर्वाः समहोरगाः। त्रैलोक्यमासीत् संत्रस्तं ब्रह्मास्त्रे समुदीरिते॥ तदप्यस्त्रं महाघोरं ब्राह्मं ब्राह्मण तेजसा। वसिष्ठो ग्रसते सर्वं ब्रह्मदण्डेन राघव॥ ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनः। त्रैलोक्यमोहनं रौद्र रूपमासीत् सुदारुणम्॥ रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मनः। मरीच्य इव निष्पेतुरग्नेधूमाकुलार्चिषः॥ । प्राज्वलद् ब्रह्मदण्डश्च वसिष्ठस्य करोद्यतः। विधूम इव कालाग्नेर्यमदण्ड इवापरः॥ ततोऽस्तुवन् मुनिगणा वसिष्ठं जपतां वरम्। अमोघं ते बलं ब्रह्मस्तेजो धारय तेजसा ॥ निगृहीतस्त्वाय ब्रह्मन् विश्वामित्रो महाबलः। अमोघं ते बलं श्रेष्ठ लोकाः सन्तु गतव्यथाः॥ एवमुक्तो महातेजाः शमं चक्रे महाबलः। विश्वामित्रो विनिकृतो विनिःश्वस्येदमब्रवीत्॥ धिग् बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम्। एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे॥ तदेतत् प्रसमीक्ष्याहं प्रसन्नेन्द्रियमानसः। तपो महत् समास्थास्ये यद्वै ब्रह्मत्वकारणम्॥ ततः संतप्तहृदयः स्मरन्निग्रहमात्मनः। विनिःश्वस्य विनिःश्वस्य कृतवैरो महात्मना॥ स दक्षिणां दिशं गत्वा महिष्या सह राघव। तताप परमं घोरं विश्वामित्रो महातपाः॥ फलमूलाशनो दान्तश्चचार परमं तपः। अथास्य जज्ञिरे पुत्राः सत्यधर्मपरायणाः॥ हविष्पन्दो मधुष्पन्दो दृढनेत्रो महारथः। पूर्णे वर्षसहस्रे तु ब्रह्मा लोकपितामहः॥ अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम्। जिता राजर्षिलोकास्ते तपसा कुशिकात्मज ॥ अनेन तपसा त्वां हि राजर्षिरिति विद्महे। एवमुक्त्वा महातेजा जगाम सह दैवतैः॥ त्रिविष्टपं ब्रह्मलोकं लोकानां परमेश्वरः। विश्वामित्रोऽपितच्छ्रुत्वा ह्रिया किंचिदवाङ्मुखः॥ दुःखेन महताविष्ट समन्युरिदमब्रवीत्। तपश्च सुमहत् तप्तं राजर्षिरिति मां विदुः॥ देवाः सर्षिगणाः सर्वे नास्ति मन्ये तप:फलम्। एवं निश्चित्य मनसा भूय एव महातपाः॥ तपश्चचार धर्मात्मा काकुत्स्थ परमात्मवान्। एतस्मिन्नेव काले तु सत्यवादी जितेन्द्रियः॥ त्रिशङ्कुरिति विख्यात इक्ष्वाकुकुलवर्धनः। तस्य बुद्धिः समुत्पन्ना यजेयमिति राघव॥ गच्छेयं स्वशरीरेण देवतानां परां गतिम्। वसिष्ठं स समाहूय कथयामास चिन्तितम्॥ अशक्यमिति चाप्युक्तो वसिष्ठेन महात्मना। प्रत्याख्यातो वसिष्ठेन स ययौ दक्षिणां दिशम्॥ ततस्तत्कर्मसिद्ध्यर्थं पुत्रांस्तस्य गतो नृपः। वासिष्ठा दीर्घतपसस्तपो यत्र हि तेपिरे॥ त्रिशङ्कुस्तु महातेजाः शतं परमभास्वरम्। वसिष्ठपुत्रान् ददृशे तप्यमानान् मनस्विनः॥ सोऽभिगम्य महात्मानः सर्वानेव गुरोः सुतान्। अभिवाद्यानुपूर्वेण ह्रिया किंचिदवाङ्मुखः॥ अब्रवीद् स महात्मानः सर्वानेव कृताञ्जलिः। शरणं वः प्रपन्नोऽहं शरण्याशरणं गतः॥ प्रत्याख्यातो हि भद्रं वो वसिष्ठेन महात्मना। यष्टकामो महायज्ञं तदनुज्ञातुमर्हथ ॥ गुरुपुत्रानहं सर्वान् नमस्कृत्य प्रसादये। शिरसा प्रणतो याचे ब्राह्मणांस्तपसि स्थितान्॥ ते मां भवन्तः सिद्ध्यर्थं याजयन्तु समाहिताः। सशरीरो यथाहं वै देवलोकमावाप्नुयाम्॥ प्रत्याख्यातो वसिष्ठेन गतिमन्यां तपोधनाः। गुरुपुत्रानृते सर्वान् नाहं पश्यामि कांचन॥ इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः। तस्मादनन्तरं सर्वं भवन्तो दैवतं मम ॥ उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः। अब्रवीन्मधुरं वाक्यं साक्षाच्चण्डालतां गतम्॥ इक्ष्वाको स्वागतं वत्स जानामि त्वां सुधार्मिकम्। शरणं ते प्रदास्यामि मा भैषीपपुङ्गव॥ अहमामन्त्रये सर्वान् महर्षीन् पुण्यकर्मणः। यज्ञसाह्यकरान् राजंस्ततो यक्ष्यसि निर्वृतः॥ गुरुशापकृतं रूपं यदिदं त्वयि वर्तते। अनेन सह रूपेण सशरीरो गमिष्यसि॥ हस्तप्राप्तमहं मन्ये स्वर्ग तव नराधिप। यस्त्वं कौशिकमागम्य शरण्यं शरणागतः॥ एवमुक्त्वा महातेजाः : पुत्रान् परमधार्मिकान्। व्यादिदेश महाप्राज्ञान् यज्ञसम्भारकारणात्॥ सर्वाशिष्यान् समाहूय वाक्यमेतदुवाच ह। सर्वानृषीन् सवासिष्ठानानयध्वं ममाज्ञया॥ सशिष्यान् सुहृदश्चैव सर्विजः सुबहुश्रुतान्। यदन्यो वचनं ब्रूयान्मद्वाक्यबलचोदितः॥ तत् सर्वमखिलेनोक्तं ममाख्येयमनादृतम्। तस्य तद् वचनं श्रुत्वा दिशो जग्मुस्तदाज्ञया॥ आजग्मुरथ देशेभ्यः सर्वेभ्यो ब्रह्मवादिनः। ते च शिष्याः समागम्य मुनि ज्वलिततेजसम्॥ ऊचुश्च ते वचनं सर्वे सर्वेषां ब्रह्मवादिनाम्। श्रुत्वा ते वचनं सर्वे समायान्ति द्विजातयः॥ सर्वदेशेषु चागच्छन् वर्जयित्वा महोदयम्। वासिष्ठं यच्छतं सर्वं क्रोधपर्याकुलाक्षरम्॥ यथाह वचनं सर्वं शृणु त्वं मुनिपुङ्गव। क्षत्रियो याजको यस्य चण्डालस्य विशेषतः॥ कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः। ब्रह्मणा वा महात्मानो भुक्त्वा चाण्डालभोजनम्॥ कथं स्वर्गं गमियन्ति विश्वामित्रेण पालिताः। एतद् वचननैष्ठुर्यमूचुः संरक्तलोचनाः॥ वासिष्ठा मुनिशार्दूल सर्वे सहमहोदयाः। तेषां तद् श्रुत्वा सर्वेषां मुनिपुङ्गवः॥ क्रोधसंरक्तनयनः सरोषमिदमब्रवीत्। यद् दूषयन्त्यदुष्टं मां तप उग्रं समास्थितम्॥ भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः। अद्य ते कालपाशे नीता वैवस्वतक्षयम्॥ सप्तजातिशतान्येव मृतपाः सम्भवन्तु ते। श्वमांसनियताहारा मुष्टिका नाम निघृणाः॥ वचनं विकृताश्च विरूपाश्च लोकाननुचरन्त्विमान्। महोदयश्च दुर्बुद्धिर्मामदूष्यं ह्यदूषयत्॥ दूषितः सर्वलोकेषु निषादत्वं गमिष्यति। प्राणातिपातनिरतो निरनुक्रोशतां गतः॥ दीर्घकालं मम क्रोधाद् दुर्गतिं वर्तयिष्यति। एतावदुक्त्वा वचनं विश्वामित्रो महातपाः। विरराम महातेजा ऋषिमध्ये महामुनिः॥ तपोबलहताज्ञात्वा वासिष्ठान् समहोदयान्। ऋषिमध्येमहातेजा विश्वामित्रोऽभ्यभाषत॥ अयमिक्ष्वाकुदायादस्त्रिशङ्कुरिति विश्रुतः। धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः॥ स्वेनानेन शरीरेण देवलोकजिगीषया। यथायं स्वशरीरेण देवलोकं गमिष्यति॥ तथा प्रवर्त्यतां यज्ञो भवद्भिश्च मया सह। विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः॥ ऊचुः समेता सहसा धर्मा धर्मसंहितम्। अयं कुशिकदायादो मुनिः परमकोपनः॥ यदाह वचनं सम्यगेतत् कार्यं न संशयः। अग्निकल्पो हि भगवान् शापं दास्यति रोषतः॥ तस्मात् प्रवर्त्यतां यज्ञः सशरीरो यथा दिवि। गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा॥ यतः प्रवर्त्यतां यज्ञः सर्वे समधितिष्ठतः। एवमुक्त्वा महर्षयः संजह्वस्ताः क्रियास्तदा॥ याजकश्च महातेजा विश्वामित्रोऽभवत् क्रतौ। ऋत्विजश्चानुपूर्येण मन्त्रवन्मन्त्रकोविदाः॥ चक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि। ततः कालेन महता विश्वामित्रो महातपाः॥ चकारावाहनं तत्र भागार्थं सर्वदेवताः। नाभ्यागमंस्तदा तत्र भागार्थं सर्वदेवताः॥ ततः कोपसमाविष्टो विश्वामित्रो महामुनिः। स्रुवमुद्यम्य सक्रोधस्त्रिशङ्कुमिदमब्रवीत्॥ पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर। एष त्वां स्वशरीरेण नयामि स्वर्गमोजसा॥ दुष्प्रापं स्वशरीरेण स्वर्गं गच्छ नरेश्वर। स्वार्जितं किंचिदप्यस्ति मया हि तपसा फलम्॥ राजंस्त्वं तेजसा तस्य सशरीरो दिवं व्रज। उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः॥ दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा। स्वर्गलोकं गतं दृष्ट्वा त्रिशङ्ख पाकशासनः॥ सह सर्वैः सुरगणैरिदं वचनमब्रबीत्। त्रिशङ्को गच्छ भूयस्त्वं नासि स्वर्गकृतालयः॥ गुरुशापहतो मूढ पत भूमिमवाक्शिराः। एवमुक्तो महेन्द्रेण त्रिशङ्कुरपतत् पुनः॥ विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम्। तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः॥ रोषमाहारयत् तीव्र तिष्ठ तिष्ठेति चाब्रवीत्। ऋषिमध्ये स तेजस्वी प्रजापतिरिवापरः॥ सृजन् दक्षिणमार्गस्थान् सप्तर्षीनपरान् पुनः। नक्षत्रवंशमपरमसृजत् क्रोधमूर्च्छितः॥ दक्षिणां दिशमास्थाय ऋषिमध्ये महायशाः। सृष्ट्वा सक्षत्रवंशं च क्रोधेन कलुषीकृतः॥ अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः। दैवतान्यपि स क्रोधात् स्रष्टुं समुपचक्रमे॥ ततः परमसम्भ्रान्ताः सर्षिसङ्घाः सुरासुराः। विश्वामित्रं महात्मानमूचुः सानुनयं वचः॥ अयं राजा महाभाग गुरुशापपरिक्षतः। सशरीरो दिवं यातु नार्हत्येव तपोधन॥ तेषां तद् वचनं श्रुत्वा देवानां मुनिपुङ्गवः। अब्रवीत् सुमहद् वाक्यं कौशिकः सर्वदेवताः।.२६ ।। सशरीरस्य भद्रं वस्त्रिशङ्कोरस्य भूपतेः। आरोहणं प्रतिज्ञातं नानृतं कर्तुमुत्सहे॥ स्वर्गोऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वतः। नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथ ॥ यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वशः। यत् कृतानि सुराः सर्वे तदनुज्ञातुमर्हथ॥ एवमुक्ताः सुराः सर्वे प्रत्यूचुर्मुनिपुङ्गवम्। एवं भवतु भद्रं ते तिष्ठन्त्वेतानि सर्वशः॥ गगने तान्यनेकानि वैश्वानरपथाद् बहिः। नक्षत्राणि मुनिश्रेष्ठ तेषु ज्योतिःषु जाज्वलन्॥ अवाक्शिरास्त्रिंशङ्कुश्च श्च तिष्ठत्वमरसंनिभः। अनुयास्यन्ति चैतानि ज्योतींषि नृपसत्तमम्॥ कृतार्थं कीर्तिमन्तं च स्वर्गलोकगतं यथा। विश्वामित्रस्तु धर्मात्मा सर्वदेवैरभिष्टुतः॥ ऋषिमध्ये महातेजा बाढमित्येव देवताः। ततो देवा महात्मानो ऋषयश्च तपोधनाः। जग्मुर्यथागतं सर्वे यज्ञस्यान्ते नरोत्तम॥ विश्वामित्रो महातेजाः प्रस्थितान् वीक्ष्य तानृषीन्। अब्रवीत्ररशार्दूल सर्वांस्तान् वनवासिनः॥ महाविघ्नः प्रवृत्तोऽयं दक्षिणामास्थितो दिशम्। दिशमन्यां प्रपत्स्यामस्तत्र तप्स्यामहे तपः॥ पश्चिमायां विशालायां पुष्करेषु महात्मनः। सुखं तपश्चरिष्यामः सुखं तद्धि तपोवनम्॥ एवमुक्त्वा महातेजाः पुष्करेषु महामुनिः। तप उग्रं दुराधर्षं तेपे मूलफलाशनः॥ एतस्मिन्नेव काले तु अयोध्याधिपतिर्महान्। अम्बरीष इति ख्यातो यष्टुं समुपचक्रमे॥ तस्य वै यजमानस्य पशुमिन्द्रो जहार ह। प्रनष्टे तु पशौ विप्रो राजानमिदमब्रवीत्॥ पशुरभ्याहृतो राजन् प्रणयस्तव दुर्नयात्। अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर॥ प्रायश्चित्तं महद्येतनरं वा पुरुषर्षभ। आनयस्व पशुं शीघ्रं यावत् कर्म प्रवर्तते॥ उपाध्यायवचः श्रुत्वा स राजा पुरुषर्षभः। अन्वियेष महाबुद्धिः पशुं गोभिः सहस्रशः॥ देशाञ्जलपदांस्तांस्तान् नगराणि वनानि च। आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः॥ स पुत्रसहितं तात सभार्यं रघुनन्दन। भृगुतुङ्गे समासीनमृचीकं संददर्श ह॥ तमुवाच महातेजाः प्रणम्याभिप्रसाद्य च। महर्षि तपसा दीप्तं राजर्षिरमितप्रभः॥ पृष्ट्वा सर्वत्र कुशलम्चीकं तमिदं वचः। गवां शतसहस्रेण विक्रीणीषे सुतं यदि॥ पशोरर्थे महाभाग कृतकृत्योऽस्मि भार्गव। सर्वे परिगता देशा यज्ञियं न लभे पशुम्॥ दातुमर्हसि मूल्येन सुतमेकमितो मम। एवमुक्तो महातेजा ऋचीकस्त्वब्रवीद् वचः॥ नाहं ज्येष्ठं नरश्रेष्ठ विक्रीणीयां कथंचन। ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम्॥ उवाच नरशार्दूलमम्बरीषमिदं वचः। अविक्रेयं सुतं ज्येष्ठं भगवानाह भार्गवः॥ ममापि दयितं विद्धि कनिष्ठं शुनकं प्रभो। तस्मात् कनीयसं पुत्रं न दास्ये तव पार्थिव॥ प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः। मातृणां च कनीयांसस्तस्माद् रक्ष्ये कनीयसम्॥ उक्तवाक्ये मुनौ तस्मिन् मुनिपन्यां तथैव च। शुन:शेपः स्वयं राम मध्यमो वाक्यमब्रवीत्॥ पिता ज्येष्ठमविक्रेयं माता चाह कनीयसम्। विक्रेयं मध्यमं मन्ये राजपुत्र नयस्व माम्॥ अथ राजा महाबाहो वाक्यान्ते ब्रह्मवादिनः। हिरण्यस्य सुवर्णस्य कोटिभी रत्नराशिभिः॥ गवां शतसहस्रेण शुनःशेपं नरेश्वरः। गृहीत्वा परमप्रीतो जगाम रघुनन्दन॥ अम्बरीषस्तु राजर्षी रथमारोप्य सत्वरः। शुनःशेपं महातेजा जगामाशु महापशाः॥ शुनःशेपं नरश्रेष्ठ गृहीत्वा तु महायशाः। व्यश्रमत् पुष्करे राजा मध्याह्ने रघुनन्दन ॥ तस्य विश्रममाणस्य शुन:शेपो महायशाः। पुष्करं ज्येष्ठमागम्य विश्वामित्रं ददर्श ह॥ तप्यन्तमृषिभिः सार्धं मातुलं परमातुरः। विषण्णवदनो दीनस्तृष्णया च श्रमेण च ॥ पपाताङ्के मुने राम वाक्यं चेदमुवाच ह। न मेऽस्ति माता न पिता ज्ञातयो बान्धवाः कुतः॥ त्रातुमर्हसि मां सौम्य धर्मेण मुनिपुङ्गव । त्रातां त्वं हि नरश्रेष्ठ सर्वेषां त्वं हि भावनः॥ राजा च कृतकार्यः स्यादहं दीर्घायुरव्ययः। स्वर्गलोकमुपाश्नीयां तपस्तप्त्वा ह्यनुत्तमम्॥ स मे नाथो ह्यनाथस्य भव भव्येन चेतसा। पितेव पुत्रं धर्मात्मंस्त्रातुमर्हसि किल्विषात्॥ तस्य तद् वचनं श्रुत्वा विश्वामित्रो महातपः। सान्त्वयित्वा बहुविधं पुत्रानिदमुवाच ह॥ यत्कृते पितरः पुत्राञ्जनयन्ति शुभार्थिनः। परलोकहितार्थाय तस्य कालोऽयमागतः॥ अयं मुनिसुतो बालो मत्तः शरणमिच्छति। अस्य जीवितमात्रेण प्रियं कुरुत पुत्रकाः॥ सर्वे सुकृतकर्माणः सर्वे धर्मपरायणाः। पशुभूता नरेन्द्रस्य तृप्तिमग्नेः प्रयच्छत॥ नाथवांश्च शुन:शेपो यज्ञस्याविघ्नतो भवेत्। देवतास्तर्पिताश्च स्युर्मम चापि कृतं वचः॥ मुनेस्तद् वचनं श्रुत्वा मधुच्छन्दादयः सुताः। साभिमानं नरश्रेष्ठ सलीलमिदमब्रुवन्॥ कथमात्मसुतान् हित्वा त्रायसेऽन्यसुतं विभो। अकार्यमिव पश्यामः श्वमांसमिव भोजने॥ तेषां तद् वचनं श्रुत्वा पुत्राणां मुनिपुङ्गवः। क्रोधसंरक्तनयनो व्याहर्तुमुपचक्रमे॥ निःसाध्वसमिदं प्रोक्तं धर्मादपि विगर्हितम्। अतिक्रम्य तु मद्वाक्यं दारुणं रोमहर्षणम्॥ श्वमांसभोजिनः सर्वे वासिष्ठा इव जातिषु । पूर्णं वर्षसहस्रं तु पृथिव्यामनुवत्स्यथ ॥ कृत्वा शापसमायुक्तान् पुत्रान् मुनिवरस्तदा। शुनःशेपमुवाचार्तं कृत्वा रक्षां निरामयाम्॥ पवित्रपाशैराबद्धो रक्तमाल्यानुलेपनः। वैष्णवं यूपमासाद्य वाग्भिरग्निमुदाहर॥ इमे च गाथे द्वे दिव्ये गायेथा मुनिपुत्रक। अम्बरीषस्य यज्ञेऽस्मिस्ततः सिद्धिमवाप्स्यसि॥ शुनःशेपो गृहीत्वा ते द्वे गाथे सुसमाहितः। त्वरया राजसिंहं तमम्बरीषमुवाच ह॥ राजसिंह महाबुद्धे शीघ्रं गच्छावहे वयम्। निवर्तयस्व राजेन्द्र दीक्षां च समुदाहर॥ तद् वाक्यमृषिपुत्रस्य श्रुत्वा हर्षसमन्वितः जगाम नृपतिः शीघ्रं यज्ञवाटमतन्द्रितः॥ सदस्यानुमते राजा पवित्रकृतलक्षणम्। पशुं रक्ताम्बरं कृत्वा यूपे तं समबन्धयत्॥ स बद्धो वाग्भिरग्र्याभिरभितुष्टाव वै सुरो। इन्द्रमिन्द्रानुजं चैव यथावन्मुनिपुत्रकः॥ ततः प्रीतः सहस्राक्षो रहस्यस्तुतितोषितः। दीर्घमायुस्तदा प्रादाच्छुनःशेपाय वासवः॥ स च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान्। फलं बहुगुणं राम सहस्राक्षप्रसादजम्॥ विश्वामित्रोऽपि धर्मात्मा भूयस्तेपे महातपाः। पुष्करेषु नरश्रेष्ठ दशवर्षशतानि च॥ पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम्। अभ्यगच्छन् सुराः सर्वे तप:फलचिकीर्षवः॥ अब्रवीत् सुमहातेजा ब्रह्मा सुरुचिरं वचः। ऋषिस्त्वमसि भद्रं ते स्वार्चितैः कर्मभिः शुभैः॥ तमेवमुक्वा देवेशस्त्रिदिवं पुनरभ्यगात्। विश्वामित्रो महातेजा भूयस्तेपे महत् तपः॥ ततः कालेन महता मेनका परमाप्सराः। पुष्करेषु नरश्रेष्ठ स्नातुं समुपचक्रमे॥ तां ददर्श महातेजा मेनकां कुशिकात्मजः। रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा ॥ कन्दर्पदर्पवशगो मुनिस्तामिदमब्रवीत्। अप्सरः स्वागतं तेऽस्तु वस चेह ममाश्रमे॥ अनुगृह्णीष्व भद्रं ते मदनेन विमोहितम्। इत्युक्ता सा वरारोहा तत्र वासमथाकरोत् ॥ तपसो हि महाविघ्नो विश्वामित्रमुपागमत्। तस्यां वसन्त्यां वर्षाणि पञ्च पञ्च च राघव॥ विश्वामित्राश्रमे सौम्ये सुखेन व्यतिचक्रमुः। अथ काले गते तस्मिन् विश्वामित्रो महामुनिः॥ सव्रीड इव संवृत्तश्चिन्ताशोकपरायणः। बुद्धिर्मुनेः समुत्पन्ना सामर्षा रघुनन्दन॥ सर्वं सुराणां कर्मैतत् तपोऽपहरणं महत्। अहोरात्रापदेशेन गताः संवत्सरा दश ॥ काममोहाभिभूतस्य विघ्नोऽयं प्रत्युपस्थितः। स निःश्वसन्मुनिवरः पश्चात्तापेन दुःखितः॥ भीतामप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम्। मेनकां मधुरैर्वाक्यैर्विसृज्य कुशिकात्मजः॥ उत्तरं पर्वतं राम विश्वामित्रो जगाम ह। स कृत्वा नैष्ठिकी बुद्धिं जेतुकामो महायशाः॥ कौशिकीतीरमासाद्य तपस्तेपे दुरासदम्। तस्य वर्षसहस्राणि घोरं तप उपासतः॥ उत्तरे पर्वते राम देवतानामभूद् भयम्। आमन्त्रयन् समागम्य सर्वे सर्षिगणाः सुराः॥ महर्षिशब्दं लभतां साध्वयं कुशिकात्मजः। देवतानां वचः श्रुत्वा सर्वलोकपितामहः॥ अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम्। महर्षे स्वागतं वत्स तपसोग्रेण तोषितः॥ महत्त्वमृषिमुख्यत्वं ददामि तव कौशिक। ब्रह्मणस्तु वचः श्रुत्वा विश्वामित्रस्तपोधनः॥ प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम्। ब्रह्मर्षिशब्दमतुलं स्वार्चितैः कर्मभिः शुभैः॥ यदि मे भगवन्नाह ततोऽहं विजितेन्द्रियः। तमुवाच ततो ब्रह्मा न तावत् त्वं जितेन्द्रियः॥ यतस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवं गतः। विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः॥ ऊर्ध्वबाहुनिरालम्बो वायुभक्षस्तपश्चरन्। धर्मे पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रयः॥ शिशिरे सलिलेशायी रात्र्यहानि तपोधनः। एवं वर्षसहस्रं हि तपो घोरमुपागमत्॥ तस्मिन् संतप्यमाने तु विश्वामित्रे महामुनौ। संतापः सुमहानासीत् सुराणां वासवस्य च ॥ रम्भामप्सरसं शक्रः सर्वैः सह मरुद्गणैः। उवाचात्महितं वाक्यमहितं कौशिकस्य च॥ सुरकार्यमिदं रम्भे कर्तव्यं सुमहत् त्वया। लोभनं कौशिकस्येह काममोहसमन्वितम्॥ तथोक्ता साप्सरा राम सहस्राक्षेण धीमता। व्रीडिता प्राञ्जलिर्वाक्यं प्रत्युवाच सुरेश्वरम्॥ अयं सुरपते घोरो विश्वामित्रो महामुनिः। क्रोधमुत्स्रक्ष्यते घोरं मयि देव न संशयः॥ ततो हि मे भयं देव प्रसादं कर्तुमर्हसि। एवमुक्तस्तया राम सभयं भीतया तदा॥ तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम्। मा भैषी रम्भे भद्रं ते कुरुष्व मम शासनम्॥ कोकिलो हृदयग्राही माधवे रुचिरदुमे। अहं कन्दर्पसहितः स्थास्यामि तव पार्वतः॥ त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम्। तमृषि कौशिकं भद्रे भेदयस्व तपस्विनम्॥ सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम्। लोभयामास ललिता विश्वामित्रं शुचिस्मिता॥ कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम्। सम्प्रहृष्टेन मनसा स चैनामन्ववैक्षत ॥ अथ तस्य च शब्देन गीतेनाप्रतिमेन च। दर्शनेन च रम्भाया मुनिः संदेहमागतः॥ सहस्राक्षस्य तत्सर्वं विज्ञाय मुनिपुङ्गवः। रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः॥ यन्मां लोभयसे रम्भे कामक्रोधजयैषिणम्। दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे॥ ब्रह्मणः सुमहातेजास्तपोबलसमन्वितः। उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुषीकृताम्॥ एवमुक्त्वा महातेजा विश्वामित्रो महामुनिः। अशक्नुवन् धारयितुं कोपं संतापमात्मनः॥ तस्य शापेन महता रम्भा शैली तदाभवत्। वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः॥ कोपेन च महातेजास्तपोऽपहरणे कृते। इन्द्रियैरजितै राम न लेभे शान्तिमात्मनः॥ बभूवास्य मनश्चिन्ता तपोऽपहरणे कृते। नैवं क्रोधं गमिष्यामि न च वक्ष्ये कथंचन ॥ अथवा नोच्छ्वसिष्यामि संवत्सरशतान्यपि। अहं हि शोषयिष्यामि आत्मानं विजितेन्द्रियः॥ तावद् यावद्धि मे प्राप्तं ब्राह्मण्यं तपसार्जितम्। अनुच्छ्वसन्नभुञ्जानास्तिष्ठेयं शाश्वतीः समाः॥ न हि मे तप्यमानस्य क्षयं यास्यन्ति मूर्तयः। एवं वर्षसहस्रस्य दीक्षां स मुनिपुङ्गवः। चकाराप्रतिमां लोके प्रतिज्ञां रघुनन्दन॥ अथ हैमवतीं राम दिशं त्यक्त्वा महामुनिः। पूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम्॥ मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम्। चकाराप्रतिमं राम तपः परमदुष्करम्॥ पूर्णे वर्षसहस्रे तु काष्ठभूतं महामुनिम्। विघ्नैर्बहुभिराधूतं क्रोधो नान्तरमाविशत्॥ स कृत्वा निश्चयं राम तप आतष्ठिताव्ययम्। तस्य वर्षसहस्रस्य वर्ते पूर्णे महाव्रतः॥ भोक्तुमारब्धवानन्नं तस्मिन् काले रघूत्तम। इन्द्रो द्विजातिभूत्वा तं सिद्धमन्नमयाचत ॥ तस्मै दत्त्वा तदा सिद्धं सर्वं विप्राय निश्चितः। निःशेषितेऽने भगवानभुक्त्वैव महातपाः॥ न किंचिदवदद् विप्रं मौनव्रतमुपास्थितः। तथैवासीत् पुनर्मोनमनुच्छ्वासं चकार ह॥ अथ वर्षसहस्रं च नोच्छ्वसन् मुनिपुङ्गवः। तस्यानुच्छ्वसमानस्य मूर्ध्नि धूमो व्यजायत॥ त्रैलोक्यं येन सम्भ्रान्तमातापितमिवाभवत्। ततो देवर्षिगन्धर्वाः पन्नगोरगराक्षसाः॥ मोहितास्तपसा तस्य तेजसा मन्दरश्मयः। कश्मलोपहताः सर्वे पितामहमथाब्रुवन्॥ बहुभिः कारणैर्देव विश्वामित्रो महामुनिः। लोभितः क्रोधितश्चैव तपसा चाभिवर्धते॥ नह्यस्य वृजिनं किंचिद् दृश्यते सूक्ष्ममप्युत। न दीयते यदि त्वस्य मनसा यदभीप्सितम्॥ विनाशयति त्रैलोक्यं तपसा सचराचरम्। व्याकुलाश्च दिशः सर्वा न च किंचित् प्रकाशते॥ सागराः क्षुभिताः सर्वे विशीर्यन्ते व पर्वताः। प्रकम्पते च वसुधा वायुर्वातीह संकुल॥ ब्रह्मन् न प्रतिजानीमो नास्तिको जायते जनः। सम्मूढमिव त्रैलोक्यं सम्प्रक्षुभितमानसम्॥ भास्करो निष्प्रभश्चैव महर्षेस्तस्य तेजसा। बुद्धिं न कुरुते यावत्राशे देव महामुनिः॥ तावत् प्रसाद्यो भगवत्रग्निरूपो महाद्युतिः। कालाग्निना यथा पूर्वं त्रैलोक्यं दह्यतेऽखिलम्॥ देवराज्यं चिकीर्षेत दीयतामस्य यन्मनः। ततः सुरगणाः सर्वे पितामहपुरोगमाः॥ विश्वामित्रं महात्मानं वाक्यं मधुरमब्रुवन्। ब्रह्मर्षे स्वागतं तेऽस्तु तपसा स्म सुतोषिताः॥ ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक। दीर्घमायुश्च ते ब्रह्मन् ददामि समरुद्गणः॥ स्वस्ति प्राप्नुहि भद्रं ते गच्छ सौम्य यथासुखम्। पितामहवचः श्रुत्वा सर्वेषां त्रिदिवौकसाम्॥ कृत्वा प्रणामं मुदितो व्याजहार महामुनिः। ब्राह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथैव च॥ ॐकारोऽथ वषट्कारो देवाश्च वरयन्तु माम्। क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदामपि ॥ ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताः। यद्येवं परमः कामः कृतो यान्तु सुरर्षभाः॥ ततः प्रसादिते देवैर्वसिष्ठो जपतां वरः। सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत्॥ ब्रह्मर्षिस्त्वं न संदेहः सर्वं सम्पद्यते तव। इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथागतम्॥ विश्वामित्रोऽपि धर्मात्मा लब्ध्वा ब्राह्मण्यमुत्तमम्। पूजयामास ब्रह्मर्षि वसिष्ठं जपतां वरम्॥ कृतकामो महीं सर्वां चचार तपसि स्थितः। एवं त्वनेन ब्राह्मण्यं प्राप्तं राम महात्मना॥ एष राम मुनिश्रेष्ठ एष विग्रहवांस्तपः। एष धर्मः परो नित्यं वीर्यस्यैष परायणम्॥ एवमुक्त्वा महातेजा विरराम द्विजोत्तमः। शतानन्दवचः श्रुत्वा रामलक्ष्मणसंनिधौ॥ जनकः प्राञ्जलिर्वाक्यमुवाच कुशिकात्मजम्। धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गव॥ यज्ञं काकुत्स्थसहितः प्राप्तवानसि कौशिक। पावितोऽहं त्वया ब्रह्मन् दर्शनेन महामुने ॥ गुणा बहुविधाः प्राप्तास्तव संदर्शनान्मया। विस्तरेण च वै ब्रह्मन् कीर्त्यमानं महत्तपः॥ श्रुतं मया महातेजो रामेण च महात्मना। सदस्यैः प्राप्य च सदः श्रुतास्ते बहवो गुणाः॥ अप्रमेयं तपस्तुभ्यमप्रमेयं च ते बलम्। अप्रमेया गुणाश्चैव नित्यं ते कुशिकात्मज ॥ तृप्तिराश्चर्यभूतानां कथानां नास्ति मे विभो। कर्मकालो मुनिश्रेष्ठ लम्बते रविमण्डलम्॥ श्वः प्रभाते महातेजो द्रष्टुमर्हसि मां पुनः। स्वागतं जपतां श्रेष्ठ मामनुज्ञातुमर्हसि ॥ एवमुक्तो मुनिवरः प्रशस्य पुरुषर्षभम्। विससर्जाशु जनकं प्रीतं प्रीतमनास्तदा॥ एवमुक्त्वा मुनिश्रेष्ठं वैदेहो मिथिलाधिपः। प्रदक्षिणां चकाराशु सोपाध्यायः सबान्धवः॥ विश्वामित्रोऽपि धर्मात्मा सहरामः सलक्ष्मणः। स्ववासमभिचक्राम पूज्यमानो महात्मभिः॥ जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः। धनुर्दर्शय रामाय इति होवाच पार्थिवम्॥ ततः स राजा जनकः सचिवान् व्यादिदेश ह! धनुरानीयतां दिव्यं गन्धमाल्यानुलेपितम्॥ जनकेन समादिष्टाः सचिवाः प्राविशन् पुरम्। तद्धनुः पुरतः कृत्वा निर्जग्मुरमितौजसः॥ नृणां शतानि पञ्चाशद् व्यायतानां महात्मनाम्। मञ्जूषामष्टचक्रां तां समूहुस्ते कथंचन॥ तामादाय सुमञ्जूषामायसीं यत्र तद्धनुः। सुरोपमं ते जनकमूचुर्नृपतिमन्त्रिणः॥ इदं धनुर्वरं राजन् पूजितं सर्वराजभिः। मिथिलाधिप राजेन्द्र दर्शनीयं यदीच्छसि॥ तेषां नृपो वचः श्रुत्वा कृताञ्जलिरभाषत। विश्वामित्रं महात्मानं ताबुभौ रामलक्ष्मणौ॥ इदं धनुर्वरं ब्रह्मञ्जनकैरभिपूजितम्। राजभिश्च महावीरशक्तैः पूरितं तदा॥ नैतत् सुरगणाः सर्वे सासुरा न च राक्षसाः। गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः॥ क्व गतिर्मानुषाणां च धनुषोऽस्य प्रपूरणे। आरोपणे समायोगे वेपने तोलने तथा॥ तदेतद् धनुषां श्रेष्ठमानीतं मुनिपुङ्गव। दर्शयैतन्महाभाग अनयो राजपुत्रयोः॥ विश्वामित्रः सरामस्तु श्रुत्वा जनकभाषितम्। वत्स राम धनुः पश्य इति राघवमब्रवीत्॥ महर्षेर्वचनाद् रामो यत्र तिष्ठति तद्धनुः। मञ्जूषां तामपावृत्य दृष्ट्वा धनुरथाब्रवीत्॥ इदं धनुर्वरं दिव्यं संस्पृशामीह पाणिना। यत्नवांश्च भविष्यामि तोलने पूरणेऽपि वा॥ बादमित्यब्रवीद् र.ना मुनिश्च समभाषत। लीलया स धनुर्मध्ये जग्राह वचनान्मुनेः॥ पश्यतां नृसहस्राणां बहूनां रघुनन्दनः। आरोपयत् स धर्मात्मा सलीलमिव तद्धनुः॥ आरोपयित्वा मौर्वी च पूरयामास तद्धनुः। तद् बभञ्ज धनुर्मध्ये नरश्रेष्ठो महायशाः॥ तस्य शब्दो महानासीनिर्घातसमनिःस्वनः। भूमिकम्पश्च सुमहान् पर्वतस्येव दीर्यतः॥ निपेतुश्च नराः सर्वे तेन शब्देन मोहिताः। वर्जयित्वा मुनिवरं राजानं तौ च राघवौ॥ प्रत्याश्वस्ते जने तस्मिन् राजा विगतसाध्वसः। उवाच प्राञ्जलिर्वाक्यं वाक्यज्ञो मुनिपुङ्गवम्॥ भगवन् दृष्टवीर्यो मे रामो दशरथात्मजः। अत्यद्भुतमचिन्त्यं च अतर्कितमिदं मया॥ जनकानां कुले कीर्तिमाहरिष्यति मे सुता। सीता भर्तारमासाद्य रामं दशरथात्मजम्॥ मम सत्या प्रतिज्ञा सा वीर्यशुल्केति कौशिक। सीता प्राणैर्बहुमता देया रामाय मे सुता ॥ भवतोऽनुमते ब्रह्मशीघ्रं गच्छन्तु मन्त्रिणः। मम कौशिक भद्रं ते अयोध्यां त्वरिता रथैः. :.२४॥ राजानं प्रश्रितैर्वाक्यैरानयन्तु पुरं मम। प्रदानं वीर्यशुल्कायाः कथयन्तु च सर्वशः॥ मुनिगुप्तौ च काकुत्स्थौ कथयन्तु नृपाय वै। प्रीतियुक्तं तु राजानमानयन्तु सुशीघ्रगाः॥ कौशिकस्तु तथेत्याह राजा चाभाष्य मन्त्रिणः। अयोध्यां प्रेषयामास धर्मात्मा कृतशासनान्। यतावृत्तं समाख्यातुमानेतुं च नृपं तथा॥ ततो रात्र्यां व्यतीतायां सोपाध्यायः सबान्धवः। राजा दशरथो हृष्टः सुमन्त्रमिदमब्रवीत्॥ अद्य सर्वे धनाध्यक्षा धनमादाय पुष्कलम्। व्रजन्त्वग्रे सुविहिता नानारत्नसमन्विताः॥ चतुरङ्गबलं चापि शीघ्रं निर्यातु सर्वशः। ममाज्ञासमकालं च यानं युग्यमनुत्तमम्॥ वसिष्ठो वामदेवश्च जाबालिरथ कश्यपः। मार्कण्डेयस्तु दीर्घायुर्ऋषिः कात्यायनस्तथा॥ एते द्विजाः प्रयान्त्वने स्यन्दनं योजयस्व मे। यथा कालात्ययो न स्याद् दूता हि त्वरयन्ति माम्।।५। वचनाच्च नरेन्द्रस्य सेना च चतुरङ्गिणी। राजानमृषिभिः सार्धं व्रजन्तं पृष्ठतोऽन्वयात्॥ गत्वा चतुरहं मार्ग विदेहानभ्युपेयिवान्। राजा च जनकः श्रीमाऽश्रुत्वा पूजामकल्पयत्॥ ततो राजानमासाद्य वृद्धं दशरथं नृपम्। मुदितो जनको राजा प्रहर्षं परमं ययौ॥ उवाच वचनं श्रेष्ठो नरश्रेष्ठं मुदान्वितम्। स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव॥ पुत्रयोरुभयोः प्रीतिं लप्स्यसे वीर्यनिर्जिताम्। दिष्ट्या प्राप्तो महातेजा वसिष्ठो भगवानृषिः॥ सह सर्वैर्द्विजश्रेष्ठैर्देवैरिव शतक्रतुः। दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितं कुलम्।।११ राघवैः सह सम्बन्धाद् वीर्यश्रेष्ठर्महाबलैः। श्वः प्रभाते नरेन्द्र त्वं संवर्तयितुमर्हसि ॥ यज्ञस्यान्ते नरश्रेष्ठ विवाहमृषिसत्तमैः। तस्य तद् वचनं श्रुत्वा ऋषिमध्ये नराधिपः॥ वाक्यं वाक्यविदां श्रेष्ठः प्रत्युवाच महीपतिम्। प्रतिग्रहो दातृवशः श्रुतमेतन्मया पुरा॥ यथा वक्ष्यसि धर्मज्ञ तत् करिष्यामहे वयम्। तद् धर्मिष्ठं यशस्यं च वचनं सत्यवादिनः॥ श्रुत्वा विदेहाधिपतिः परं विस्मयमागतः। ततः सर्वे मुनिगणाः परस्परसमागमे॥ हर्षेण महता युक्तास्तां रात्रिमवसन् सुखम्। राजा च राघवौ पुत्रौ निशाम्य परिहर्षितः॥ उवास परमप्रीतो जनकेनाभिपूजितः। जनकोऽपि महातेजाः क्रिया धर्मेण तत्त्ववित्। यज्ञस्य च सुताभ्यां च कृत्वा रात्रिमुवास ह॥ ततः प्रभाते जनकः कृतकर्मा महर्षिभिः। उवाच वाक्यं वाक्यज्ञः शतानन्दं पुरोहितम्॥ भ्राता मम महातेजा वीर्यवानतिधार्मिकः। कुशध्वज इति ख्यातः पुरीमध्यवसच्छुभाम्॥ वार्याफलकपर्यन्तां पिबन्निक्षुमती नदीम्। सांकाश्यां पुण्यसंकाशां विमानमिव पुष्पकम्॥ तमहं द्रष्टुमिच्छामि यज्ञगोप्ता स मे मतः। प्रीतिं सोऽपि महातेजा इमां भोक्ता मया सह ॥ एवमुक्ते तु वचने शतानन्दस्य संनिधौ। आगताः केचिदव्यग्रा जनकस्तान् समादिशत्॥ शासनात् तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिः। समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथा॥ सांकाश्यां ते समागम्य ददृशुश्च कुशध्वजम्। न्यवेदयन् यथावृत्तं जनकस्य च चिन्तितम्।७।। तद्वृत्तं नृपतिः श्रुत्वा दूतश्रेष्ठैर्महाजवैः। आज्ञया तु नरेन्द्रस्य आजगाम कुशध्वजः॥ स ददर्श महात्मानं जनकं धर्मवत्सलम्। सोऽभिवाद्य शतानन्दं जनकं चातिधार्मिकम्॥ राजाहं परमं दिव्यमासनं सोऽध्यरोहत। उपविष्टाबुभौ तौ तु भ्रातरावमितद्युती॥ प्रेषयामासतुर्वीरौ मन्त्रि श्रेष्ठं सुदामनम्। गच्छ मन्त्रिपते शीघ्रमिक्ष्वाकुममितप्रभम्॥ आत्मजैः सह दुर्धर्षमानयस्व समन्त्रिणम्। औपकार्यां स गत्वा तु रघूणां कुलवर्धनम् ॥ ददर्श शिरसा चैनमभिवाद्येदमब्रवीत्। अयोध्याधिपते वीर वैदेही मिथिलाधिपः॥ स त्वां द्रष्टुं व्यवसितः सोपाध्यायपुरोहितम्। मन्त्रि श्रेष्ठवचः श्रुत्वा राजा सर्षिगणस्तथा॥ सबन्धुरगमत् तत्र जनको यत्र वर्तते। राजा च मन्त्रिसहितः सोपाध्यायः सबान्धवः॥ वाक्यं वाक्यविदां श्रेष्ठो वैदेहमिदमब्रवीत्। विदितं ते महाराज इक्ष्वाकुकुलदैवतम्॥ वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवानृषिः। विश्वामित्राभ्यनुज्ञातः सह सर्वैर्महर्षिभिः॥ एष वक्ष्यति धर्मात्मा वसिष्ठो में यथाक्रमम्। तूष्णीभूते दशरथे वसिष्ठो भगवानृपिः॥ उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोधसम्। अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः॥ तस्मान्मरीचिः संजज्ञे मरीचे: कश्यपः सुतः। विवस्वान् कश्यपाज्जज्ञे मनुर्वैवस्वतः स्मृतः॥ मनुः प्रजापतिः पूर्वमिक्ष्वाकुश्च मनोः सुतः। तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम्॥ इक्ष्वाकोस्तु सुतः श्रीमान् कुक्षिरित्येव विश्रुतः। कुक्षेरथात्मजः श्रीमान् विकुक्षिरुदपद्यत॥ विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान्। बाणस्य तु महातेजा अनरण्यः प्रतापवान् ॥ अनरण्यात् पृथुर्जज्ञे त्रिशङ्कुस्तु पृथोरपि। त्रिशङ्कोरभवत् पुत्रो धुन्धुमारो महायशाः॥ धुन्धुमारान्महातेजा युवनाश्वो महारथः। युवनाश्वसुतश्चासीन्मान्धाता पृथिवीपतिः॥ मान्धातुस्तु सुतः श्रीमान् सुसंधिरुदपद्यत। सुसंधेरपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजित्॥ यशस्वी ध्रुवसंधेस्तु भरतो नाम नामतः। भरतात् तु महातेजा असितो नाम जायत॥ यस्यैते प्रतिराजानं उदपद्यन्त शत्रवः। हैहयास्तालजङ्घाश्च शूराश्च शशबिन्दवः॥ तांश्च स प्रतियुध्यन् वै युद्धे राजा प्रवासितः। हिमवन्तमुपागम्य भार्याभ्यां सहितस्तदा॥ असितोऽल्पबलो राजा कालधर्ममुपेयिवान्। द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतिः॥ एका गर्भविनाशार्थं सपत्न्यै सगरं ददौ। ततः शैलवरे रम्ये बभूवाभिरतो मुनिः॥ भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः। तत्र चैका महाभागा भार्गवं देववर्चसम्॥ ववन्दे पद्मपत्राक्षी काङ्क्षन्ती सुतमुत्तमम्। तमृषि साभ्युपागम्य कालिन्दी चाभ्यवादयत्॥ स तामभ्यवदद् विप्रः पुत्रेप्सुं पुत्रजन्मनि । तव कुक्षौ महाभागे सुपुत्रः सुमहाबलः॥ महावीर्यो महातेजा अचिरात् संजनिष्यति। गरेण सहितः श्रीमान् मा शुचः कमलेक्षणे॥ च्यवनं च नमस्कृत्य राजपुत्री पतिव्रता। पत्या विरहिता तस्मात् पुत्रं देवी व्यजायत॥ सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया। सह तेन गरेणैव संजातः सगरोऽभवत्॥ सगरस्यासमञ्जस्तु असमञ्जादथांशुमान्। दिलीपोंऽशुमतः पुत्रो दिलीपस्य भगीरथः॥ भगीरथात् ककुत्स्थश्च ककुत्स्थाच्च रघुस्तथा। रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः॥ कल्माषपादोऽप्यभवत् तस्माज्जातस्तु शङ्खणः। सुदर्शनः शङ्खणस्य अग्निवर्णः सुदर्शनात्॥ शीघ्रगस्त्वग्निवर्णस्य शीघ्रगस्य मरुः सुतः। मरोः प्रशुश्रुकस्त्वासीदम्बरीषः प्रशुश्रुकात्॥ अम्बरीषस्य पुत्रोऽभूनहुषश्च महीपतिः। नहुषस्य ययातिस्तु नाभागस्तु ययातिजः॥ नाभागस्य बभूवाज अजाद् दशरथोऽभवत्। अस्माद् दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ॥ आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम्। इक्ष्वाकुकुलजातानां वीराणां सत्यवादिनाम्॥ रामलक्ष्मणयोरर्थे त्वत्सुते वरये नृप। सदृशाभ्यां नरश्रेष्ठ सदृशे दातुमर्हसि॥ एवं ब्रुवाणं जनकः प्रत्युवाच कृताञ्जलिः। श्रोतुमर्हसि भद्रं ते कुलं नः परिकीर्तितम्॥ प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषतः। वक्तव्यं कुलजातेन तन्निबोध महामते॥ राजाभूत् त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा। निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः॥ तस्य पुत्रो मिथिर्नाम जनको मिथिपुत्रकः। प्रथमो जनको राजा जनकादप्युदावसुः॥ उदावसोस्तु धर्मात्मा जातो वै नन्दिवर्धनः। नन्दिवर्धसुतः शूरः सुकेतुर्नाम नामतः॥ सुकेतोरपि धर्मात्मा देवरातो महाबलः। देवरातस्य राजर्षेङ्घहद्रथ इति स्मृतः॥ बृहद्रथस्य शूरोऽभून्महावीरः प्रतापवान्। महावीरस्य धृतिमान् सुधृतिः सत्यविक्रमः॥ सुधृतेरति धर्मात्मा धृष्टकेतुः सुधार्मिकः। धृष्टकेतोश्च राजर्षेर्हर्यश्व इति विश्रुतः॥ हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतीन्धकः। प्रतीन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः॥ पुत्रः कीर्तिरथस्यापि देवमीढ इति स्मृतः। देवमीढस्य विबुधो विबुधस्य महीध्रकः॥ महीध्रकसुतो राजा कीर्तिरातो महाबलः। कीर्तिरातस्य राजर्षेर्महारोमा व्यजायत॥ महारोम्णस्तु धर्मात्मा स्वर्णरोमा व्यजायत। स्वर्णरोम्णस्तु राजर्षेर्हस्वरोमा व्यजायत॥ तस्य पुत्रद्वयं राज्ञो धर्मज्ञस्य महात्मनः। ज्येष्ठोऽहमनुजो भ्राता मम वीरः कुशध्वजः॥ मांत ज्येष्ठं पिता राज्ये सोऽभिषिच्य पिता मम। कुशध्वजं समावेश्य भारं मयि वनं गतः॥ वृद्धे पितरि स्वर्याते धर्मेण धुरमावहम्। भ्रातरं देवसंकाशं स्नेहात् पश्यन् कुशध्वजम्॥ कस्यचित्त्वथ कालस्य सांकाश्यादागतः पुरात्। सुधन्वा वीर्यवान् राजा मिथिलामवरोधकः॥ स च मे प्रेषयामास शैवं धनुरनुत्तमम्। सीता च कन्या पद्माक्षी मह्यं वै दीयतामिति॥ तस्याप्रदानान्महर्षे युद्धमासीन्मया सह । स हतोऽभिमुखो राजा सुधन्वा तु मया रणे॥ निहत्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम्। सांकाश्ये भ्रातरं शूरमभ्यषिञ्च कुशध्वजम्॥ कनीयानेष मे भ्राता अहं ज्येष्ठो महामुने। ददामि परमप्रीतो वध्वौ ते मुनिपुङ्गव॥ सीतां रामाय भद्रं ते ऊर्मिलां लक्ष्मणाय वै। वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम्॥ द्वितीयामुर्मिलां चैव त्रिर्वदामि न संशयः। ददामि परमप्रीतो वध्वौ ते मुनिपुङ्गव॥ रामलक्ष्मणयो राजन् गोदानं कारयस्व ह। पितृकार्यं च भद्रं ते ततो वैवाहिकं कुरु॥ मघा ह्यद्य महाबाहो तृतीयदिवो प्रभो। फल्गुन्यामुत्तरे राजेस्तस्मिन् वैवाहिकं कुरु। रामलक्ष्मणयोरर्थे दानं कार्यं सुखोदयम्॥ यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम्। तस्मिंस्तु दिवसे वीरो युधाजित् समुपेयिवान्॥ पुत्रः केकयराजस्य साक्षाद्भरतमातुलः। दृष्ट्वा पृष्ट्वा च कुशलं राजानमिदमब्रवीत्॥ केकयाधिपती राजा स्नेहात् कुशलमब्रवीत्। येषां कुशलकामोऽसि तेषां सम्प्रत्यनामयम्॥ स्वतीयं मम राजेन्द्र द्रष्टुकामो महीपतिः। तदर्थमुपयातोऽहयोध्यां रघुनन्दन ॥ श्रुत्वा त्वहमयोध्यायां विवाहार्थं तगत्मजान्। मिथिलामुपयातांस्तु त्वया सह महीपते॥ त्वरयाभ्युपयातोऽहं द्रष्टुकामः स्वसुः सुतम्। अथ राजा दशरथः प्रियातिथिमुपस्थितम्॥ दृष्ट्वा परमसत्कारैः पूजनार्हमपूजयत्। ततस्तामुषितो रात्रिं सह पुत्रैर्महात्मभिः॥ प्रभाते पुनरुत्थाय कृत्वा कर्माणि तत्त्ववित्। ऋषींस्तदा पुरस्कृत्य यज्ञवाटमुपागमत्॥ युक्ते मुहुर्ते विजये सर्वाभरणभूषितैः। भ्रातृभिः सहितो रामः कृतकौतुकमङ्गलः॥ वसिष्ठं पुरतः कृत्वा महर्षीनपरानपि। वसिष्ठो भगवानेत्य वैदेहमिदमब्रवीत्॥ राजा दशरथो राजन् कृतकौतुकमङ्गलैः। पुत्रैर्नरवर श्रेष्ठो दातारमभिकाङ्क्षते॥ दातृप्रतिग्रहीतृभ्यां सर्वार्थाः सम्भवन्ति हि। स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम्॥ इत्युक्तः परमोदारो वसिष्ठेन महात्मना। प्रत्युवाच महातेजा वाक्यं परमधर्मवित्॥ कः स्थितः प्रतिहारो मे कस्याज्ञां सम्प्रतीक्षते। स्वगृहे को विचारोऽस्ति यथा राज्यमिदं तव॥ कृतकौतुकसर्वस्वा वेदिमूलमुपागताः। मम कन्या मुनिश्रेष्ठ दीप्ता वह्नरिवार्चिषः॥ सद्योऽहं त्वत्प्रतीक्षोऽस्मि वेद्यामस्यां प्रतिष्ठितः। अविघ्नं क्रियतां सर्वं किमर्थं हि विलम्ब्यते॥ तद् वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा। प्रवेशयामास सुतान् सर्वानृषिगणानपि॥ ततो राजा विदेहानां वसिष्ठमिदमब्रवीत्। कारयस्व ऋषे सर्वामृषिभिः सह धार्मिक॥ रामस्य लोकरामस्य क्रियां वैवाहिकी प्रभो। तथेत्युक्त्वा तु जनकं वसिष्ठो भगवानृषिः॥ विश्वामित्रं पुरस्कृत्य शतानन्दं च धार्मिकम्। प्रपामध्ये तु विधिवद् वेदिं कृत्वा महातपाः॥ अलंचकार तां वेदिं गन्धपुष्पैः समन्ततः। सुवर्णपालिकाभिश्च चित्रकुम्भैश्च साङ्कुरैः॥ अङ्कुराढ्यै शरावैश्च धूपपात्रैः सधूपकैः। शङ्खपात्रैः सुवैः स्रुग्भिः पात्रैरादिपूजितैः॥ लाजपूर्णैश्च पात्रीभिरक्षतैरपि संस्कृतैः। दभैः समैः समास्तीर्य विधिवन्मन्त्रपूर्वकम्॥ अग्निमाधाय तं वेद्यां विधिमन्त्रपुरस्कृतम्। जुहावाग्नौ महातेजा वसिष्ठो मुनिपुङ्गवः॥ ततः सीतां समानीय सर्वाभरणभूषिताम्। समक्षमग्नेः संस्थाप्य राघवाभिमुखे तदा॥ अब्रवीज्जनको राजा कौसल्यानन्दवर्धनम्। इयं सीता मम सुता सहधर्मचरी तव॥ प्रतीच्छ चैनां भद्रं ते पाणं गृह्णीष्व पाणिना। पतिव्रता महाभागा छायेवानुगता सदा॥ इत्युक्त्वा प्राक्षिपद् राजा मन्त्रपूतं जलं तदा। साधुसाध्विति देवानामृषीणां वदतां तदा ॥ देवदुन्दुभिनिर्घोषः पुष्पवर्षां महानभूत्। एवं दत्त्वा सुतां सीता मन्त्रोदकपुरस्कृताम्॥ अब्रवीज्जनको राजा हर्षेणाभिपरिप्लुतः। लक्ष्मणागच्छ भद्रं ते ऊर्मिलामुद्यतां मया॥ प्रतीच्छ पाणिं गृह्णीष्व मा भूत् कालस्य पर्ययः। तमेवमुक्त्वा जनको भरतं चाभ्यभाषत ॥ गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन। शत्रुघ्नं चापि धर्मात्मा अब्रवीन्मिथिलेश्वरः॥ श्रुतकीर्तेर्महाबाहो पाणिं गृह्णीष्व पाणिना। सर्वे भवन्तः सौम्याश्च सर्वे सुचरितव्रताः॥ पत्नीभिः सन्तु काकुत्स्था मा भूत् कालस्य पर्ययः। जनकस्य वचः श्रुत्वा पाणीन्पाणिभिरस्पृशन्॥ चत्वारस्ते चतसृणां वसिष्ठस्य मते स्थिताः। अग्नि प्रदक्षिणं कृत्वा वेदिं राजानमेव च॥ ऋषींश्चापि महात्मानः सहभार्या रघूद्वाहाः। यथोक्तेन ततश्चक्रुर्विवाहं विधिपूर्वकम्॥ पुष्पवृष्टिर्महत्यासीदन्तरिक्षात् सुभास्वरा। दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिःस्वनैः॥ ननृतुश्चाप्सरःसङ्घा गन्धर्वाश्च जगुः कलम्। विवाहे रघुमुख्यानां तदद्भुतमदृश्यत॥ ईदृशे वर्तमाने तु तूर्योद्धृष्टनिनादिते। विरग्नि ते परिक्रम्य ऊहुर्भार्या महौजसः॥ अथोपकार्यं जग्मुस्ते सभार्या रघुनन्दनाः। राजाप्यनुययौ पश्यन् सर्षिसङ्घः सबान्धवः॥ राम दाशरथे वीर वीर्यं ते श्रूयतेऽद्भुतम्। धनुषो भेदनं चैव निखिलेन मया श्रुतम्॥ तदद्भुतमचिन्त्यं च भेदनं धनुषस्तथा। तच्छ्रुत्वाहमनुप्राप्तो धनुर्गृह्यापरं शुभम्॥ तदिदं घोरसंकाशं जामदग्न्यं महदनुः। पूरयस्व शरेणैव स्वबलं दर्शयस्व च॥ तदहं ते बलं दृष्ट्वा धनुषोऽप्यस्य पूरणे। द्वन्द्वयुद्धं प्रदास्यामि वार्यश्लाघ्यमहं तव॥ तस्य तद् वचनं श्रुत्वा राजा दशरथस्तदा। विषण्णवदनो दीनः प्राञ्जलिर्वाक्यमब्रवीत्॥ क्षत्ररोषात् प्रशान्तस्त्वं ब्राह्मणश्च महातपाः। बालानां मम पुत्राणामभयं दातुमर्हसि॥ भार्गवाणां कुले जातः स्वाध्यायव्रतशालिनाम्। सहस्राक्षे प्रतिज्ञाय शस्त्रं प्रक्षिप्तवानसि॥ स त्वं धर्मपरो भूत्वा कश्यपाय वसुंधराम्। दत्त्वा वनमुपागम्य महेन्द्रकृतकेतनः॥ मम सर्वविनाशाय सम्प्राप्तस्त्वं महामुने। न चैकस्मिन् हते रामे सर्वे जीवामहे वयम्॥ ब्रुवत्येवं दशरथे जामदग्न्यः प्रतापवान्। अनादृत्य तु तद्वाक्यं राममेवाभ्यभाषत॥ इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिपूजिते। दृढे बलवती मुख्ये सुकृते विश्वकर्मणा॥ अनुसृष्टं सुरैरेकं त्र्यम्बकाय युयुत्सवे। त्रिपुरघ्नं नरश्रेष्ठ भग्नं काकुत्स्थ यत्त्वया ॥ इदं द्वितीयं दुर्धर्षं विष्णोर्दत्तं सुरोत्तमैः। तदिदं वैष्णवं राम धनुः परपुरजयम्॥ समानसारं काकुत्स्थ रौद्रेण धनुषा त्विदम्। तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम्॥ शितिकण्ठस्य विष्णोश्च बलाबलनिरीक्षया। अभिप्रायं तु विज्ञाय देवतानां पितामहः॥ विरोधं जनयामास तयोः सत्यवतां वरः। विरोधे तु महद् युद्धमभवद् रोमहर्षणम्॥ शितिकण्ठस्य विष्णोश्च परस्परजयैषिणोः। तदा तु जृम्भितं शैवं धनुर्भीमपराक्रमम्॥ हुंकारेण महादेवः स्तम्भितोऽथ त्रिलोचनः। देवैस्तदा समागम्य सर्षिसङ्घः सचारणैः॥ याचितौ प्रशमं तत्र जग्मतुस्तौ सुरोत्तमौ। जृम्भितं तद् धनुर्दृष्ट्वा शैवं विष्णुपराक्रमैः॥ अधिकं मेनिरे विष्णुं देवाः सर्षिगणास्तथा। धनू रुद्रस्तु संक्रुद्धो विदेहेषु महायशाः॥ देवरातस्य राजर्षेर्ददौ हस्ते ससायकम्। इदं च वैष्णवं राम धनुः परपुरजयम्॥ ऋचीके भार्गवे प्रादाद् विष्णुः स न्यासमुत्तमम्। ऋचीकस्तु महातेजाः पुत्रस्याप्रतिकर्मणः॥ पितुर्मम ददौ दिव्यं जमदग्नेर्महात्मनः। न्यस्तशस्त्रे पितरि मे तपोबलसमन्विते॥ अर्जुनो विदधे मृत्युं प्राकृतां बुद्धिमास्थितः। वधमप्रतिरूपं तु पितुः श्रुत्वा सुदारुणम्। क्षत्रमुत्सादयं रोषाज्जातं जातमनेकशः॥ पृथिवीं चाखिलां प्राप्य कश्यपाय महात्मने। यज्ञस्यान्तेऽददं राम दक्षिणां पुण्यकर्मणे॥ दत्त्वा महेन्द्रनिलयस्तपोबलसमन्वितः। श्रुत्वा तु धनुषो भेदं ततोऽहं द्रुतमागतः॥ तदेवं वैष्णवं राम पितृपैतामहं महत्। क्षत्रधर्म पुरस्कृत्य गृहीष्व धनुरुत्तमम्॥ योजयस्व धनुःश्रेष्ठे शरं परपुरंजयम्। यदि शक्तोऽसि काकुत्स्थ द्वन्द्वं दास्यामि ते ततः।।२८। श्रुत्वा तु जामदग्न्यस्य वाक्यं दाशरथिस्तदा। गौरवाद्यन्त्रितकथः पितू राममथाब्रवीत्॥ कृतवानसि यत् कर्म श्रुतवानस्मि भार्गव । अनुरुध्यामहे ब्रह्मन् पितुरानृण्यमास्थितः॥ वीर्यहीनमिवाशक्तं क्षत्रधर्मेण भार्गव। अवजानासि मे तेजः पश्य मेऽद्य पराक्रमम्॥ इत्युक्त्वा राघवः क्रुद्धो भार्गवस्य वरायुधम्। शरं च प्रतिजग्राह हस्ताल्लघुपराक्रमः।४॥ आरोप्य स धनू रामः शरं सज्यं चकार ह। जामदग्न्यं ततो रामं रामः क्रुद्धोऽब्रवीदिदम्॥ ब्राह्मणोऽसीति पूज्यो मे विश्वामित्रकृतेन च। तस्माच्छक्को न ते राम मोक्तुं प्राणहरं शरम्॥ इमां वा त्वद्गतिं राम तपोबलसमर्जितान्। लोकानप्रतिमान् वापि हनिष्यामीति मे मतिः॥ न ह्ययं वैष्णवो दिव्यः शरः परपुरंजयः। मोघः पतति वीर्येण बलदर्पविनाशनः॥ वरायुधधरं रामं द्रष्टुं सर्षिगणाः सुराः। पितामहं पुरस्कृत्य समेतास्तत्र सर्वशः॥ गन्धर्वाप्सरसश्चैव सिद्धाचारणकित्रराः। यक्षराक्षसनागाश्च तद् द्रष्टुं महदद्भुतम्॥ जडीकृते तदा लोके रामे वरधनुर्धरे। निर्वीर्यो जामदग्न्योऽसौ रामो राममुदैक्षत॥ तेजोभिर्गतवीर्यत्वाज्जामदग्न्यो जडीकृतः। रामं कमलपत्राक्षं मन्दं मन्दमुवाच ह॥ काश्यपाय मया दत्ता यदा पूर्वं वसुंधरा। विषये मे न वस्तव्यमिति मां काश्यपोऽब्रवीत्॥ सोऽहं गुरुवचः कुर्वन् पृथिव्यां न वसे निशाम्। तदाप्रभृति काकुत्स्थ कृता मे काश्यपस्य ह॥ तामिमां मद्गतिं वीर हन्तुं नार्हसि राघव। मनोजवं गमिष्यामि महेन्द्र पर्वतोत्तमम् ॥ लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया। जहि ताञ्छरमुख्येन मा भूत् कालस्य पर्ययः॥ अक्षय्यं मधुहन्तारं जानामि त्वां सुरेश्वरम्। धनुषोऽस्य परामर्शात् स्वस्ति तेऽस्तु परंतप ॥ एते सुरगणाः सर्वे निरीक्षन्ते समागताः। त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे॥ न चेयं तव काकुत्स्थ व्रीडा भवितुमर्हति। त्वया त्रैलोक्यनाथेन यदहं विमुखीकृतः॥ शरमप्रतिमं राम मोक्तुमर्हसि सुव्रत। शरमोक्षे गमिष्यामि महेन्द्र पर्वतोत्तमम्॥ तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान्। रामो दाशरथिः श्रीमांश्चिक्षेप शरमुत्तमम्॥ स हतान् दृश्य रामेण स्वाँलोकांस्तपसार्जितान्। जामदग्न्यो जगामाशु महेन्द्रं पर्वतोत्तमम्॥ ततो वितिमिराः सर्वा दिशश्चोपदिशस्तथा। सुराः सर्षिगणा रामं प्रशशंसुरुदायुधम्॥ रामं दाशरथिं रामो जामदग्न्यः प्रपूजितः। ततः प्रदक्षिणीकृत्य जगामात्मगतिं प्रभुः॥ गते रामे प्रशान्तात्मा रामो दाशरथिर्धनुः। वरुणायाप्रमेयाय ददौ हस्ते महायशाः॥ अभिवाद्य ततो रामो वसिष्ठप्रमुखानृषीन्। पितरं विकलं दृष्ट्वा प्रोवाच रघुनन्दनः॥ जामदग्न्यो गतो रामः प्रयातु चतुरङ्गिणी। अयोध्याभिमुखी सेना त्वया नाथेन पालिता॥ रामस्य वचनं श्रुत्वा राजा दशरथः सुतम्। बाहुभ्यां सम्परिष्वज्य मूर्युपाघ्राय राघवम्॥ गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः। पुनर्जातं तदा मेने पुत्रमात्मानमेव च॥ चोदयामास तां सेनां जगामाशु ततः पुरीम्। पताकाध्वजिनीं रम्यां तूर्योद्घष्टनिनादिताम्॥ सिक्तराजपथारम्यां प्रकीर्णकुसुमोत्कराम्। राजप्रवेशसुमुखैः पौरैर्मङ्गलपाणिभिः॥ सम्पूर्णां प्राविशद् राजा जनौघैः समलंकृताम्। घौरैः प्रत्युद्गतो दूरं द्विजैश्च पुरवासिभिः॥ पुत्रैरनुगतः श्रीमाञ्श्रीमद्भिश्च महायशाः। प्रविवेश गृहं राजा हिमवत्सदृशं प्रियम्॥ ननन्द स्वजनै राजा गृहे रामैः सुपूजितः। कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा॥ वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः। ततः सीतां महाभागामूर्मिलां च यशस्विनीम्॥ कुशध्वजसुते चोभे जगृहुर्नुपयोषितः। मङ्गलालापन)मैः शोभिताः क्षौमवाससः॥ देवतायतनान्याशु सर्वास्ताः प्रत्यपूजयन्। अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा॥ रेमिरे मुदिताः सर्वा भर्तृभिर्मुदिता रहः। कृतदाराः कृतास्त्राश्च सधनाः ससुहृज्जनाः॥ शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः। कस्यचित्त्वथ कालस्य राजा दशरथः सुतम्॥ भरतं कैकयीपुत्रमब्रवीद् रघुनन्दनः। अयं केकयराजस्य पुत्रो वसति पुत्रक॥ त्वां नेतुमागतो वीरो युधाजिन्मातुलस्तव। श्रुत्वा दशरथस्यैतद् भरतः कैकयीसुतः॥ गमनायाभिचक्राम शत्रुघ्नसहितस्तदा। आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम्॥ मातृश्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ। युधाजित् प्राप्य भरतं सशत्रुघ्नं प्रहर्षितः॥ स्वपुरं प्राविशद् वीरः पिता तस्य तुतोष ह। गते च भरते रामो लक्ष्मणश्च महाबलः॥ पितरं देवसंकाशं पूजयामासतुस्तदा। पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः॥ चकार रामः सर्वाणि प्रियाणि च हितानि च। मातृभ्यो मातृकार्याणि कृत्वा परमयन्त्रितः॥ गुरूणां गुरुकार्याणि काले कालेऽन्ववैक्षत। एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तथा॥ रामस्य शीलवृत्तेन सर्वे विषयवासिनः। तेषामतियशा लोके रामः सत्यपराक्रमः॥ स्वयंभूरिव भूतानां बभूव गुणवत्तरः। रामश्च सीतया सार्धं विजहार बहूनृतून्॥ मनस्वी तद्गतमनास्तस्या हृदि समर्पितः। प्रिया तु सीता रामस्य दारा पितृकृता इति॥ गुणाद् रूपगुणाच्चापि प्रीतिर्भूयोऽभिवर्धते। तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते॥ अन्तर्गतमपि व्यक्तमाख्याति हृदयं हृदा। तस्य भूयो विशेषेण मैथिली जनकात्मजा। देवताभिः समा रूपे सीता श्रीरिव रूपिणी॥ तया स राजर्षिसुतोऽभिकामया समेयिवानुत्तमराजकन्यया। अतीव रामः शुशुभे मुदान्वितो विभुःश्रिया विष्णुरिवामरेश्वरः॥ इति श्रीरामायणे बालकाण्डं समाप्तम् गच्छता मातुलकुलं भरतेन तदानघः। शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः॥ स तत्र न्यवसद् भ्रात्रा सह सत्कारसत्कृतः। मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः॥ तत्रापि निवसन्तौ तौ तlमाणौ च कामतः। भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम्॥ राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ। उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ॥ सर्व एव तु तस्येष्टाश्चत्वारः पुरुषर्षभाः। स्वशरीराद् विनिर्वृत्ताश्चत्वार इव बाहवः॥ तेषामपि महातेजा रामो रतिकरः पितुः। स्वयम्भूरिव भूतानां बभूव गुणवत्तरः॥ । स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः। अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः॥ कौसल्या शुशुभे तेन पुत्रेणामिततेजसा। यथा वरेण देवानामदितिर्वज्रपाणिना॥ स हि रूपोपपन्नश्च वीर्यवाननसूयकः। भूमावनुपमः सूनुर्गुणैर्दशरथोपमः॥ स च नित्यं प्रशान्तात्मा मृदुपूर्वं च भाषते। उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते॥ कदाचिदुपकारेण कृतेनैकेन तुष्यति । न स्मरत्यपकाराणां शतमप्यात्मवत्तया॥ शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः। कथयन्नास्त वै नित्यमस्त्रयोग्यान्तरेष्वपि ॥ बुद्धिमान् मधुराभाषी पूर्वभाषी प्रियंवदः। वीर्यवान्न च वीर्येण महता स्वेन विस्मितः॥ न चानृतकथो विद्वान् वृद्धानां प्रतिपूजकः। अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरज्यते॥ सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः। दीनानुकम्पी धर्मज्ञो नित्यं प्रग्रहवाञ्छुचिः॥ कुलोचितमतिः क्षात्रं स्वधर्मं बहु मन्यते। मन्यते परया प्रीत्या महत् स्वर्गफलं ततः॥ नाश्रेयसि रतो यश्च न विरुद्धकथारुचिः। उत्तरोत्तरयुक्तीनां वक्ता वाचस्पतिर्यथा॥ अरोगस्तरुणो वाग्मी वपुष्मान् देशकालवित्। लोके पुरुषसारज्ञः साधुरेको विनिर्मितः॥ स तु श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः। बहिश्चर इव प्राणो बभूव गुणतः प्रियः॥ सर्वविद्याव्रतस्नातो यथावत् साङ्गवेदवित्। इष्वस्त्रे च पितुः श्रेष्ठो बभूव भरताग्रजः॥ कल्याणाभिजनः साधुरदीनः सत्यवागृजुः। वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः॥ धर्मकामार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान्। लौकिके समयाचारे कृतकल्पो विशारदः॥ निभृतः संवृताकारों गुप्तमन्त्रः सहायवान्। अमोघक्रोधहर्षश्च त्यागसंयमकालवित्॥ दृढभक्तिः स्थिरप्रज्ञो नासद्ग्राही न दुर्वचः। निस्तन्द्रीरप्रमत्तश्च स्वदोषपरदोषवित्॥ शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः। यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः॥ सत्संग्रहानुग्रहणे स्थानविनिग्रहस्य च। आयकर्मण्युपायज्ञः संदृष्टव्ययकर्मवित्॥ श्रैष्ठ्यं चास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु च। अर्थधर्मों च संगृह्य सुखतन्त्रो न चालसः॥ वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित्। आरोहे विनये चैव युक्तो वारणवाजिनाम्॥ धनुर्वेदविदां श्रेष्ठो लोकेऽतिरथसम्मतः। अभियाता प्रहर्ता च सेनानयविशारदः॥ अप्रधृष्यश्च संग्रामे क्रुद्धैरपि सुरासुरैः। अनसूयो जितक्रोधो न हप्तो न च मत्सरी॥ नावज्ञेयश्च भूतानां न च कालवशानुगः। एवं श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः॥ सम्मतस्त्रिषु लोकेषु वसुधायाः क्षमागुणैः। बुद्ध्या बृहस्पतेस्तुल्यो वीर्ये चापि शचीपतेः॥ तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः। गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः॥ तमेवं वृत्तसम्पन्नमप्रधृष्यपराक्रमम्। लोकनाथोपमं नाथमकामयत मेदिनी॥ एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम्। दृष्ट्वा दशरथो राजा चक्रे चिन्तां परंतपः॥ अथ राज्ञो बभूवैव वृद्धस्य चिरजीविनः। प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति ॥ एषा ह्यस्य परा प्रीतिर्हदि सम्परिवर्तते। कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम्॥ वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पकः। मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान्॥ यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ। महीधरसमो धृत्यां मत्तश्च गुणवत्तरः॥ महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम्। अनेन वयसा दृष्ट्वा यथा स्वर्गमवाप्नुयाम्॥ इत्येवं विविधैस्तैस्तैरन्यपार्थिवदुर्लभैः। शिष्टैरपरिमेयैश्च लोके लोकोत्तरैर्गुणैः॥ तं समीक्ष्य तदा राजा युक्तं समुदितैर्गुणैः। निश्चित्य सचिवैः सार्धं यौवराज्यममन्यत।॥ दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम्। संचचक्षेऽथ मेधावी शरीरे चात्मनो जराम्॥ पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः। लोके रामस्य बुबुधे सम्प्रियत्वं महात्मनः॥ आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च । प्राप्ते काले स धर्मात्मा भक्त्या त्वरितवान् नृपः॥ नानानगरवास्तव्यान् पृथग्जानपदानपि। समानिनाय मेदिन्यां प्रधानान् पृथिवीपतिः॥ तान् वेश्मनानाभरणैर्यथार्ने प्रतिपूजितान्। ददर्शालंकृतो राजा प्रजापतिरिव प्रजाः॥ न त केकयराजानं जनकं वा नराधिपः। त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम्॥ अथोपविष्टे नृपतौ तस्मिन् परपुरार्दने। ततः प्रविविशुः शेषा राजानो लोकसम्मताः।॥ अथ राजवितीर्णेषु विविधेष्वासलेषु च। राजानमेवाभिमुखा निषेदुर्नियता नृपाः॥ स लब्धमानैर्विनयान्वितैर्नृपः पुरालयैर्जानपदैश्च मानवैः। उपोपविष्टैर्नृपतिर्वृतो बभौ सहस्रचक्षुर्भगवानिवामरैः॥ ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः। हितमुद्धर्षणं चैवमुवाच प्रथितं वचः॥ दुन्दुभिस्वरकल्पेन गम्भीरेणानुनादिना। स्वरेण महता राजा जीमूत इव नादयन्॥ राजलक्षणयुक्तेन कान्तेनानुपमेन च। उवाच रसयुक्तेन स्वरेण नृपतिर्नुपान्॥ विदितं भवतामेतद् यथा मे राज्यमुत्तमम्। पूर्वकैर्मम राजेन्द्रैः सुतवत् परिपालितम्॥ सोऽहमिक्ष्वाकुभिः सर्वैनरेन्द्रैः प्रतिपालितम्। श्रेयसा योक्तुमिच्छामि सुखार्हमखिलं जगत्॥ मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता। प्रजा नित्यमनिद्रेण यथाशक्त्यभिरक्षिताः॥ इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम्। पाण्डुरस्यातपत्रस्यच्छायायां जरितं मया॥ प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवतः। जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये॥ राजप्रभावजुष्टां च दुर्वहामजितेन्द्रियैः। परिश्रान्तोऽस्मि लोकस्य गुर्वी धर्मधुरं वहन्॥ सोऽहं विश्राममिच्छामि पुत्रं कृत्वा प्रजाहिते। संनिकृष्टानिमान् सर्वाननुमान्य द्विजर्षभान्॥ अनुजातो हि मां सर्वैर्गुणैः श्रेष्ठो ममात्मजः। पुरन्दरसमो वीर्ये रामः परपुरंजयः॥ तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम्। यौवराज्ये नियोक्तास्मि प्रातः पुरुषपुङ्गवम्॥ अनुरूपः स वो नाथो लक्ष्मीवॉल्लक्ष्मणाग्रजः। त्रैलोक्यमपि नाथेन येन स्यानाथवत्तरम् ॥ अनेन श्रेयसा सद्यः संयोक्ष्येऽहमिमां महीम्। गतक्लेशो भविष्यामि सुते तस्मिन् निवेश्य वै॥ यदिदं मेऽनुरूपार्थं मया साधु सुमन्त्रितम्। भवन्तो मेऽनुमन्यन्तां कथं वा करवाण्यहम्॥ यद्यप्येषा मम प्रीतिर्हितमन्यद् विचिन्त्यताम्। अन्या मध्यस्थचिन्ता तु विमर्दाभ्यधिकोदया॥ इति ब्रुवन्तं मुदिताः प्रत्यनन्दन् नृपा नृपम्। वृष्टिमन्तं महामेघं नर्दन्त इव बर्हिणः॥ स्निग्धोऽनुनादः संजज्ञे ततो हर्षसमीरितः। जनौघो ष्टसंनादो मेदिनी कम्पयन्निव॥ तस्य धर्मार्थविदुषो भावमाज्ञाय सर्वशः। ब्राह्मणा बलमुख्याश्च पौरजानपदैः सह ॥ समेत्य ते मन्त्रयितुं समतागतबुद्धयः। ऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं नृपम्॥ अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव। स रामं युवराजानमभिषिञ्चस्व पार्थिवम्॥ इच्छामो हि महाबाहुं रघुवीरं महाबलम्। गजेन महता यान्तं रामं छत्रावृताननम्॥ इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम्। अजानन्निव जिज्ञासुरिदं वचनमब्रवीत्॥ श्रुत्वैतद् वचनं यन्मे राघवं पतिमिच्छथ। राजानः संशयोऽयं मे तदिदं ब्रूत तत्त्वतः॥ कथं नु मयि धर्मेण पृथिवीमनुशासति। भवन्तो द्रष्टुमिच्छन्ति युवराजं महाबलम्॥ ते तमूचुर्महात्मानः पौरजानपदैः सह। बहवो नृप कल्याणगुणाः सन्ति सुतस्य ते॥ गुणान् गुणवतो देव देवकल्पस्य धीमतः। प्रियानानन्दनान् कृत्स्नान् प्रवक्ष्यामोऽद्य ताञ्छृणु॥ दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः। इक्ष्वाकुभ्योऽपि सर्वेभ्यो ह्यतिरिक्तो विशाम्पते॥ रामः सत्पुरुषो लोके सत्यः सत्यपरायणः। साक्षाद् रामाद् विनिर्वृनो धर्मश्चापि श्रिया सह॥ प्रजासुखत्वे चन्द्रस्य वसुधायाः क्षमागुणैः। बुद्ध्या बृहस्पतेस्तुल्यो वीर्ये साक्षाच्छचीपतेः॥ धर्मज्ञः सत्यसंधश्च शीलवाननसूयकः। क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियः।।३१ । मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः। प्रियवादी च भूतानां सत्यवादी च राघवः॥ बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता। तेनास्येहातुला कीर्तिर्यशस्तेजश्च वर्धते॥ देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः। सम्यग् विद्याव्रतस्नातो यथावत् साङ्गवेदवित्॥ गान्धर्वे च भुवि श्रेष्ठो बभूव भरताग्रजः। कल्याणाभिजनः साधुरदीनात्मा महामतिः॥ द्विजैरभिविनीतश्च श्रेष्ठैर्धर्मार्थनैपुणैः। यदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा॥ गत्वा सौमित्रिसहितो नाविजित्य निवर्तते। संग्रामात् पुनरागत्य कुञ्जरेण रथेन वा॥ पौरान् स्वजनवन्नित्यं कुशलं परिपृच्छति। पुढेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च॥ निखिलेनानुपूर्व्या च पिता पुत्रानिवौरसान्। शुश्रूषन्ते च वः शिष्याः कच्चिद् वर्मसु दंशिताः॥ इति वः पुरुषव्याघ्रः सदा रामोऽभिभाषते। व्यसनेषु मनुष्याणां भृशं भवति दुःखितः॥ उत्सवेषु च सर्वेषु पितेव परितुष्यति । सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः॥ स्मितपूर्वाभिभाषी चार्धे सर्वात्मनाश्रितः। सम्यग्योक्ता श्रेयसां च न विगृह्यकथारुचिः॥ उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा। सुभ्रूरायतताभ्राक्षः साक्षाद् विष्णुरिव स्वयम्॥ रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः। प्रजापालनसंयुक्तो न रागोपहतेन्द्रियः॥ शक्तस्त्रैलोक्यमप्येष भोक्तुं किन्नु महीमिमाम्। नास्य क्रोधः प्रसादश्च निरर्थोऽस्ति कदाचन॥ हन्त्येष नियमाद् वध्यानवध्येषु न कुप्यति। युनक्त्यर्थैः प्रहृष्टश्च तमसौ यत्र तुष्यति॥ दान्तैः सर्वप्रजाकान्तैः प्रीतिसंजननैर्नृणाम्। गुणैर्विरोचते रामो दीप्तः सूर्य इवांशुभिः॥ तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम्। लोकपालोपमं नाथमकामयत मेदिनी॥ वत्सः श्रेयसि जातस्ते दिष्ट्यासौ तव राघवः। दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव कश्यपः॥ बलमारोग्यमायुश्च रामस्य विदितात्मनः। देवासुरमनुष्येषु सगन्धर्वोरगेषु च ॥ आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा। आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः॥ स्त्रियो वृद्धास्तरुण्यश्च सायं प्रातः समाहिताः। सर्वा देवान्नमस्यन्ति रामस्यार्थे मनस्विनः। तेषां तद् याचितं देवत्वत्प्रसादात्समृद्ध्यताम् ॥ राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम्। पश्यामो यौवराज्यस्थं तव राजोत्तमात्मजम्॥ तं देवदेवोपममात्मजं ते सर्वस्य लोकस्य हिते निविष्टम्। हिताय नः क्षिप्रमुदारजुष्टं मुदाभिषेक्तुं वरद त्वमर्हसि ॥ तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः। प्रतिगृह्याब्रवीद् राजा तेभ्यः प्रियहितं वचः॥ अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम। यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ ॥ इति प्रत्यार्चितान् राजा ब्राह्मणानिदमब्रवीत्। वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम्॥ चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः। यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम्॥ राज्ञस्तूपरते वाक्ये जनघोषो महानभूत्। शनैस्तस्मिन् प्रशान्ते च जनघोषे जनाधिपः॥ वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत्। अभिषेकाय रामस्य यत् कर्म सपरिच्छदम्॥ तदद्य भगवन् सर्वमाज्ञापयितुमर्हसि। तच्छ्रुत्वा भूमिपालस्य वसिष्ठो मुनिसत्तमः॥ आदिदेशाग्रतो राज्ञः स्थितान् युक्तान् कृताञ्जलीन्। सुवर्णादीनि रत्नानि बलीन् सर्वोषधीरपि॥ शुक्लमाल्यानि लाजांश्च पृथक्च मधुसर्पिषी। अहतानि च वासांसि रथं सर्वायुधानान्यपि॥ चतुरङ्गबलं चैव गजं च शुभलक्षणम्। चामरव्यजने चोभे ध्वजं छत्रं च पाण्डुरम्॥ शतं च शातकुम्भानां कुम्भानामग्निवर्चसाम्। हिरण्यशृङ्गमृषभं समग्रं व्याघ्रचर्म च ॥ यच्चान्यत् किंचिदेष्टव्यं तत् सर्वमुपकल्प्यताम्। उपस्थापयत प्रातरग्निगारे महीपतेः॥ अन्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च। चन्दनस्रग्भिरच॑न्तां धूपैश्च घ्राणहारिभिः॥ प्रशस्तमन्नं गुणवद् दधिक्षीरोपसेचनम्। द्विजानां शतसाहस्रं यत्प्रकाममलं भवेत्॥ सत्कृत्य द्विजमुख्यानां श्वः प्रभाते प्रदीयताम्। घृतं दधि च लाजाश्च दक्षिणाश्चापि पुष्कलाः॥ सूर्येऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम्। ब्राहाणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च॥ आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम्। सर्वे च तालापचरा गणिकाश्च स्वलंकृताः॥ कक्ष्यां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मनः। देवायतनचैत्येषु सानभक्ष्याः सदक्षिणाः॥ उपस्थापयितव्याः स्युर्माल्ययोग्याः सदक्षिणाः। दीर्घासिबद्धगोधाश्च संनद्धा मृष्टवाससः॥ महाराजाङ्गनं शूराः प्रविशन्तु महोदयम्। एवं व्यादिश्य विप्रौ तु क्रियास्तत्र विनिष्ठितौ॥ चक्रतुश्चैव यच्छेषं पार्थिवाय निवेद्य च। कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम्॥ यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजोत्तमौ। ततः सुमन्त्रं द्युतिमान् राजा वचनमब्रवीत्॥ रामः कृतात्मा भवता शीघ्रमानीयतामिति। स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात्॥ रामं तत्रानयांचक्रे रथेन रथिनां वरम्। अथ तत्र सहासीनास्तदा दशरथं नृपम्॥ प्राच्योदीच्या प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः। म्लेच्छाश्चार्याश्च ये चान्ये वनशैलान्तवासिनः॥ उपासांचक्रिरे सर्वे तं देवा वासवं यथा। तेषां मध्ये स राजर्षिर्मरुतामित्र वासवः॥ प्रसादस्थो दशरथो ददर्शायान्तमात्मजम्। गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम्॥ दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम्। चन्द्रकान्ताननं राममतीव प्रियदर्शनम्॥ रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम्। धर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः॥ न ततर्प समायान्तं पश्यमानो नराधिपः। अवतार्य सुमन्त्रस्तु राघवं स्यन्दनोत्तमात्॥ पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात्। स तं कैलासशृङ्गार्भ प्रासादं रघुनन्दनः॥ आरुरोह नृपं द्रष्टुं सहसा तेन राघव। स प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके॥ नाम स्वं श्रावयन् रामो ववन्दे चरणौ पितुः। दृष्ट्वा प्रणतं पार्वे कृताञ्जलिपुटं नृपः॥ गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम्। तं तस्मै चाभ्युद्यतं सम्यङ्मणिकाञ्चनभूषितम्॥ दिदेश राजा रुचिरं रामाय परमासनम्। तथाऽऽसनवरं प्राप्य व्यदीपयत राघवः॥ स्वयैव प्रभया मेरुमुदये विमलो रविः। तेन विभ्राजिता तत्र सा सभापि व्यरोचत॥ विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना। तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम्॥ अलंकृतमिवात्मानमादर्शतलसंस्थितम्। स तं सुस्थितमाभाष्य पुत्रं पुत्रवतां वरः॥ उवाचेदं वचो राजा देवेन्द्रमिव कश्यपः। ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतः॥ उत्पन्नस्त्वं गुणज्येष्ठो मम रामात्मजः प्रियः। त्वया यतः प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः॥ तस्मात् त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि। कामतस्त्वं प्रकृत्यैव निर्णीतो गुणवानिति॥ गुणवत्यपि तु स्नेहात् पुत्र वक्ष्यामि ते हितम्। भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः।॥ कामक्रोधसमुत्थानि त्यजस्व व्यसनानि च। परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा॥ अमात्यप्रभृतीः सर्वाः प्रजाश्चैवानुरञ्जय। कोष्ठागारायुधागारैः कृत्वा संनिचयान् बहून्॥ इष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम्। तस्य नन्दन्ति मित्राणि लब्ध्वामृतमिवामराः॥ तस्मात् पुत्र त्वमात्मानं नियम्यैवं समाचर। तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः॥ त्वारिताः शीघ्रमागत्य कौसल्यायै न्यवेदयन्। सा हिरण्यं च गाश्चैव रत्नानि विविधानि च॥ व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा। अथाभिवाद्य राजानं रथमारुह्य राघवः। ययौ स्वं द्युतिमद् वेश्म जनौधैः प्रतिपूजितः।॥ च्छ्रुत्वा तदा लाभमिवेष्टमाशु। नरेन्द्रमामन्त्र्य गृहाणि गत्वा देवान् समानचुरभिप्रहृष्टाः॥ गते पुरोहिते रामः स्नातो नियतमानसः। सह पत्न्या विशालाक्ष्या नारायणमुपागमत्॥ प्रगृह्य शिरसा पात्री हविषो विधिवत् ततः। महते दैवतायाज्यं जुहाव ज्वलितानले॥ शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम्। ध्यायनारायणं देवं स्वास्तीर्णे कुशसंस्तरे॥ वाग्यतः सह वैदेह्या भूत्वा नियतमानसः। श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः॥ एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः। अलंकारविधिं सम्यक् कारयामास वेश्मनः॥ तत्र शृण्वन् सुखा वाचः सूतमागधवन्दिनाम्। पूर्वां संध्यामुपासीनो जजाप सुसमाहितः॥ तुष्टाव प्रणतश्चैव सिरसा मधुसूदनम्। विमलक्षौमसंवीतो वाचयामास स द्विजान्॥ तेषां पुण्याहघोषोऽथ गम्भीरमधुरस्तथा। अयोध्यां पूरयामास तूर्यघोषानुनादितः॥ कृतोपवासं तु तदा वैदेह्या सह राघवम्। अयोध्यानिलयः श्रुत्वा सर्वः प्रमुदितो जनः॥ ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम्। प्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं पुरीम्॥ सिताभ्रशिखराभेषु देवतायतनेषु च। चतुष्पथेषु रथ्यासु चैत्येष्वट्टलकेषु च॥ नानापण्यसमृद्धेषु वणिजामापणेषु च। कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च॥ सभासु चैव सर्वासु वृक्षेष्वालक्षितेषु च। ध्वजाः समुच्छ्रिताः साधु पताकाश्चाभवंस्तथा॥ नटनर्तकसङ्घानां गायकानां च गायताम्। मनःकर्णसुखा वाचः शुश्राव जनता ततः॥ रामाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः। रामाभिषेके सम्प्राप्ते चत्वरेषु गृहेषु च॥ बाला अपि क्रीडमाना गृहद्वारेषु सङ्घशः। रामाभिषवसंयुक्ताश्चक्रुरेव कथा मिथः॥ कृतपुष्पोपहारश्च धूपगन्धाधिवासितः। राजमार्गः कृतः श्रीमान् पौरै रामाभिषेचने ॥ प्रकाशीकरणार्थ च निशागमनशङ्कया। दीपवृक्षांस्तथा चक्रुरनुरथ्यासु सर्वशः॥ अलंकारं पुरस्यैवं कृत्वा तत् पुरवासिनः। आकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम्॥ समेत्य सङ्घशः सर्वे चत्वरेषु सभासु च। कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम्॥ अहो महात्मा राजायमिक्ष्वाकुकुलनन्दनः। ज्ञात्वा वृद्धं स्वमात्मानं रामं राज्येऽभिषेक्ष्यति ॥ सर्वे ह्यनुगृहीताः स्म यत्रो रामो महीपतिः। चिराय भविता गोप्ता दृष्टलोकपरावरः॥ अनुद्धतमना विद्वान् धर्मात्मा भ्रातृवत्सलः। यथा च भ्रातृषु स्निग्धस्तथास्मास्वपि राघवः॥ चिरं जीवतु धर्मात्मा राजा दशरथोऽनघः। यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम्॥ एवंविधं कथयतां पौराणां शुश्रुवुः दिग्भ्यो विश्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः॥ ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम्। रामस्य पुरयामासुः पुरी जानपदा जनाः॥ जनौधैस्तैर्विसर्पद्भिः शुश्रुवे तत्र नि:स्वनः। पर्वसूदीर्णवेगस्य सागरस्येव निःस्वनः॥ ततस्तदिन्द्रक्षयसंनिभं पुरं दिक्षुभिर्जानपदैरुपाहितैः। समन्ततः सस्वनमाकुलं बभौ समुद्रयादोभिरिवार्णवोदकम्॥ परे। ज्ञातिदासी यतो जाता कैकेय्या तु सहोषिता। प्रासादं चन्द्रसंकाशमारुरोह यदृच्छया॥ सिक्तराजपथां कृत्स्नां प्रकीर्णकमलोत्पलाम्। अयोध्यां मन्थरा तस्मात् प्रासादादन्ववैक्षत॥ पताकाभिर्वराहा॑भिर्ध्वजैश्च समलंकृताम्। सिक्तां चन्दनतोयैश्च शिरःस्नातजनैर्युताम्॥ माल्यमोदकहस्तैश्च द्विजेन्द्रैरभिनादिताम्। शुक्लदेवगृहद्वारां सर्ववादित्रनादिताम्॥ सम्प्रहष्टजनाकीर्णा ब्रह्मघोषनिनादिताम्। प्रहृष्टवरहस्त्यश्वां सम्प्रणर्दितगोवृषाम्॥ हृष्टप्रमुदितैः पौरैरुच्छ्रितध्वजमालिनीम्। अयोध्यां मन्थरा दृष्ट्वा परं विस्मयमागता॥ सा हर्षोत्फुल्लनयनां पाण्डुरक्षौमवासिनीम्। अविदूरे स्थितां दृष्ट्वा धात्री पप्रच्छ मन्थरा॥ उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती। राममाता धनं किं नु जनेभ्यः संप्रयच्छति॥ अतिमात्रं प्रहर्षः किं जनस्यास्य च शंस मे। कारयिष्यति किं वापि संप्रहृष्टो महीपतिः॥ विदीर्यमाणा हर्षेण धात्री तु परया मुदा। आचचक्षेऽथ कुब्जायै भूयसी राघवे श्रियम्॥ श्वः पुष्येण जितक्रोधं यौवराज्येन चानघम्। राजा दशरथो राममभिषेक्ता हि राघम्॥ धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षिता। कैलासशिखराकारात्प्रासादादवरोहत॥ सा दह्यमाना क्रोधेन मन्थरा पापदर्शिनी। शयानामेव कैकेयीमिदं वचनमब्रवीत्॥ उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते। उपप्लुतमघौघेन नात्मानमवबुध्यसे॥ अनिष्टे सुभगाकारे सौभाग्येन विकत्थसे। चलं हि तव सौभाग्यं नद्याः स्रोत इवोष्णगे॥ एवमुक्ता तु कैकेयी रुष्टया परुषं वचः। कुब्जया पापदर्शिन्या विषादमगमत्परम्॥ कैकेयी त्वब्रवीत्कुब्जां कच्चित्क्षेमं न मन्थरे। विषण्णवदनां हि त्वां लक्षये भृशदुःखिताम्॥ मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम्। उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा॥ सा विषण्णतरा भूत्वा कुब्जा तस्यां हितैषिणी। विषादयन्ती प्रोवाच भेदयन्ती च राघवम्॥ अक्षयं सुमहद्देवि प्रवृत्तं त्वद्विनाशनम्। रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति॥ सास्म्यगाधे भये मग्ना दुःखशोकसमन्विता। दह्यमानानलेनेव त्वद्धितार्थमिहागता ॥ तव दुःखेन कैकेयि मम दुखं महद्भवेत्। त्वद्वृद्धौ मम वृद्धिश्च भवेदिह न संशयः॥ नराधिपकुले जाता महिषी त्वं महीपतेः। उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे ॥ धर्मवादी शठो भर्ता श्लक्ष्णवादी च दारुणः। शुद्धभावेन जानीषे तेनैवमतिसंधिता॥ उपस्थितः प्रयुञ्जानस्त्वयि सान्त्वमनर्थकम्। अर्थे वाद्य ते भर्ता कौसल्यां योजयिष्यति॥ अपवाह्य तु दुष्टात्मा भरतं तव बन्धुषु। काल्ये स्थापयिता रामं राज्ये निहतकण्टके॥ शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया। आशीविष इवाङ्गेन बाले परिधृतस्त्वया॥ यथा हि कुर्याच्छत्रुर्वा सर्पो वा प्रत्युपेक्षितः। राज्ञा दशरथेनाद्य सपुत्रा त्वं तथा कृता ॥ पापेनानृतसान्त्वेन बाले नित्यं सुखोचिता। रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि।२९।। सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव। ऋयस्व पुत्रमात्मानं मां च विस्मयदर्शने॥ मन्थराया वचः श्रुत्वा शयनात्सा शुभानना। उत्तस्थौ हर्षसंपूर्णा चन्द्रलेखेव शारदी॥ अतीव सा तु संतुष्टा कैकेयी विस्मयान्विता। दिव्यमाभरणं तस्यै कुब्जायै प्रददौ शुभम्॥ दत्त्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा। कैकेयी मन्थरां हृष्टा पुनरेवाब्रवीदिदम्॥ इदं तु मन्थरे मह्यमाख्यातं परमं प्रियम्। एतन्मे प्रियमाख्यातं किं वा भूयः करोमि ते ॥ रामे वा भरते वाहं विशेषं नोपलक्षये। तस्मात्तुष्टास्मि यद्राजा रामं राज्येऽभिषेक्ष्यति॥ न मे परं किंचिदितो वरं पुनः प्रियं प्रिया सुवचं वचोऽमृतम्। तथा ह्यवोचस्त्वमतः प्रियोत्तरं वरं परं ते प्रददामि तं वृणु॥ मन्थरा त्वभ्यसूय्यैनामुत्सृज्याभरणं हि तत्। उवाचेदं ततो वाक्यं कोपदुःखसमन्विता॥ हर्ष किमर्थमस्थाने कृतवत्यसि बालिशे। शोकसागरमध्यस्थं नात्मानमबबुध्यसे॥ मनसा प्रसहामि त्वां देवि दुःखादिता सती। यच्छोचितव्ये हृष्टासि प्राप्य त्वं व्यसनं महत्॥ शोचामि दुर्मतित्वं ते का हि प्राज्ञा प्रहर्षयेत्। अरेः सपत्नीपुत्रस्य वृद्धिं मृत्योरिवागताम्॥ भरतादेव रामस्य राज्यसाधारणाद्भयम्। तद्विचिन्त्य विषण्णास्मि भयं भीताद्वि जायते॥ लक्ष्मणो हि महाबाहू रामं सर्वात्मना गतः। शत्रुघ्नश्चापि भरतं काकुत्स्थं लक्ष्मणो यथा॥ प्रत्यासत्रक्रमेणापि भरतस्यैव भामिनि । राज्यक्रमो विसृष्टस्तु तयोस्तावद्यवीयसोः॥ विदुषः क्षत्रचारित्रे प्राज्ञस्य प्राप्तकारिणः। भयात्प्रवेपे रामस्य चिन्तयन्ती तवात्मजम्॥ सुभगा किल कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते। यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः॥ प्राप्तां वसुमती प्रीतिं प्रतीतां हतविद्विषम्। उपस्थास्यसि कौसल्यां दासीवत्त्वं कृताञ्जलिः॥ एवं च त्वं सहास्माभिस्तस्याः प्रेष्या भविष्यसि। पुत्रश्च तव रामस्य प्रेष्यत्वं हि गमिष्यति॥ हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः। अप्रहृष्टा भविष्यन्ति स्नुषास्ते भरतक्षये॥ तां दृष्ट्वा परमप्रीतां ब्रुवन्ती मन्थरां ततः। रामस्यैव गुणान्देवी कैकयी प्रशशंस ह॥ धर्मज्ञो गुणवान्दान्तः कृतज्ञः सत्यवाञ्छुचिः। रामो राजसुतो ज्येष्ठो यौवराज्यमतोऽर्हति॥ भ्रातृन्भृत्याश्च दीर्घायुः पितृवत्पालयिष्यति। संतप्यसे कथं कुब्ने श्रुत्वा रामाभिषेचनम्॥ भरतश्चापि रामस्य ध्रुवं वर्षशतात्परम्। पितृपैतामहं राज्यमवाप्स्यति नरर्षभः ॥ सा त्वमभ्युदये प्राप्ते दह्यमानेव मन्थरे। भविष्यति च कल्याणे किमिदं परितप्यसे॥ यथा वै भरतो मान्यस्तथा भूयोऽपि राघवः। कौसल्यातोऽतिरिक्तं च मम शुश्रूषते बहु ॥ राज्यं यदि हि रामस्य भरतस्यापि तत्तदा। मन्यते हि यथात्मानं तथा भ्रातृ॑स्तु राघवः॥ कैकैय्या वचनं श्रुत्वा मन्थरा भृशदुःखिता। दीर्घमुष्णं विनिःश्वस्य कैकेयीमिदमब्रवीत्॥ अनर्थर्शिनी मौानात्मानमवबुध्यसे। शोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे॥ भविता राघवो राजा राघवस्य च यः सुतः। राजवंशात्तु भरतः कैकेयि परिहास्यते॥ नहि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि। स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत्॥ तस्माज्ज्येष्ठे हि कैकैयि राज्यतन्त्राणि पार्थिवाः। स्थापयन्त्यनवद्याङ्गि गुणवत्स्वितरेष्वपि॥ असावत्यन्तनिर्भग्नस्तव पुत्रो भविष्यति। अनाथवत्सुखेभ्यश्च राजवंशाच्च वत्सले॥ साहं त्वदर्थे संप्राप्ता त्वं तु मां नावबुध्यसे। सपत्निवृद्धौ या मे त्वं प्रदेयं दातुमर्हसि ॥ ध्रुवं तु भरतं रामः प्राप्य राज्यमकण्टकम्। देशान्तरं नाययिता लोकान्तरमथापि वा॥ बाल एव तु मातुल्यं भरतो नायितस्त्वया। संनिकर्षाच्च सौहार्द जायते स्थावरेष्विव॥ भरतानृवशात्सोऽपि शत्रुघ्नस्तत्समं गतः। लक्ष्मणो हि यथा रामं तथायं भरतं गतः॥ श्रूयते हि द्रुमः कश्चिच्छेत्तव्यो वनजीवनैः। संनिकर्षादिषीकाभिर्मोचितः परमाद्भयात्॥ गोप्ता हि रामं सौमित्रिर्लक्ष्मणं चापि राघवः। अश्विनोरिव सौभ्रात्र तयोर्लोकेषु विश्रुतम्॥ तस्मान्न लक्ष्मणे रामः पापं किंचित्करिष्यति। रामस्तु भरते पापं कुर्यादेव न संशयः॥ तस्माद्राजगृहादेव वनं गच्छतु राघवः। एतद्धि रोचते मह्यं भृशं चापि हितं तव॥ एवं ते ज्ञातिपक्षस्य श्रेयश्चैव भविष्यति। यदि चेद्भरतो धर्मात्पित्र्यं राज्यमवाप्स्यति॥ स ते सुखोचितो बालो रामस्य सहजो रिपुः। समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे ॥ अभिदुतमिवारण्ये सिंहेन गजयूथपम्। प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि ॥ दनिराकृता पूर्वं त्वया सौभाग्यवत्तया। राममाता सपत्नी ते कथं वैरं न यापयेत्॥ यदा च रामः पृथिवीमवाप्स्यते प्रभूतरत्नाकरशैलसंयुताम्। तदा गमिष्यस्यशुभं पराभवं सहैव दीना भरतेन भामिनि॥ यदा हि रामः पृथिवीमवाप्स्यते ध्रुवं प्रणष्टो भरतो भविष्यति। अतो हि संचिन्तय राज्यमात्मजे परस्य चैवास्य विवासकारणम्॥ एवमुक्ता तु कैकेयी क्रोधेन ज्वलितानना। दीर्घमुष्णं विनिःश्वस्य मन्थरामिदमब्रवीत्॥ अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम्। यौवराज्येन भरतं क्षिप्रमद्याभिषेचये॥ इदं त्विदानी सम्पश्य केनोपायेन साधये। भरतः प्राप्नुयाद् राज्यं न तु रामः कथंचन ॥ एवमुक्ता तु सा देव्या मन्थरा पापदर्शिनी। रामार्थमुपहिंसन्ती कैकेयामिदमब्रवीत्॥ हन्तेदानीं प्रपश्य त्वं कैकेयि श्रूयतां वचः। यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम्॥ किं न स्मरसि कैकेयि स्मरन्ती वा निगूहसे। यदुच्यमानमात्मार्थं मत्तस्त्वं श्रोतुमिच्छसि॥ मयोच्यमानं यदि ते श्रोतु छन्दो विलासिनि। श्रूयतामभिधास्यामि श्रुत्वा चैतद् विधीयताम्॥ श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकयी। किंचिदुत्थाय शयनात् स्वास्तीर्णादिदमब्रवीत्॥ कथयस्व ममोपायं केनोपायेन मन्थरे। भरतः प्राप्नुयाद् राज्यं न तु रामः कथंचन॥ एवमुक्ता तदा देव्या मन्थरा पापदर्शिनी। रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत्॥ पुरा देवासुरे युद्धे सह राजर्षिभिः पतिः। आगच्छत् त्वामुपादाय देवराजस्य साह्यकृत्॥ दिशमास्थाय कैकेयि दक्षिणां दण्डकान् प्रति। वैजयन्तमिति ख्यातं पुरं यत्र तिमिध्वजः॥ स शम्बर इति ख्यातः शतमायो महासुरः। ददौ शक्रस्य संग्राम देवसङ्घरनिन्दितः॥ तस्मिन् महति संग्रामे पुरुषान् क्षतविक्षतान्। रात्रौ प्रसुप्तान ध्वन्ति स्म तरसापास्य राक्षसाः॥ तत्राकरोन्महायुद्धं राजा दशरथस्तदा। असुरैश्च महाबाहुः शस्त्रैश्च शकलीकृतः॥ अपवाह्य त्वया देवि संग्रामानष्टचेतनः। तत्रापि विक्षतः शस्त्रैः पतिस्ते रक्षितस्त्वया॥ तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने। स त्वयोक्तः पतिर्देवि यदिच्छेयं तदा वरम्॥ गृह्णीयां तु तदा भर्तस्तथेत्युक्तं महात्मना । अनभिज्ञा ह्यहं देवि त्वयैव कथितं पुरा॥ कथैषा तव तु स्नेहान्मनसा धार्यते मया। रामाभिषेकसम्भारान्निगृह्य विनिवर्तय॥ तौ च याचस्व भर्तारं भरतस्याभिषेचनम्। प्रव्राजनं च रामस्य वर्षाणि च चतुर्दश ॥ चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम्। प्रजाभावगतस्नेहः स्थिरः पुत्रो भविष्यति॥ क्रोधागारं प्रविश्याद्य क्रुद्धेवाश्वपतेः सुते। शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी॥ मा स्मैनं प्रत्युदीक्षेथा मा चैनमभिभाषथाः। रुदन्ती पार्थिवं दृष्ट्वा जगत्यां शोकलालसा॥ दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयः। त्वत्कृते च महाराजो विशेदपि हुताशनम्॥ न त्वां क्रोधयितुं शक्तो न क्रुद्धां प्रत्युदीक्षितुम्। तव प्रियार्थं राजा तु प्राणानपि परित्यजेत्॥ न झतिक्रमितं शक्तस्तव वाक्यं महीपतिः। मन्दस्वभावे बुध्यस्व सौभाग्यबलमात्मनः॥ मणिमुक्तासुवर्णानि रत्नानि विविधानि च। दद्याद् दशरथो राजा मा स्म तेषु मनः कृथाः॥ यौ तौ देवासुरे युद्धे वरौ दशरथो ददौ। तौ स्मारय महाभागे सोऽर्थो न त्वा क्रमेदति॥ यदा तु ते वरं दद्यात् स्वयमुत्थाप्य राघवः। व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरम्॥ रामप्रव्रजनं दूरं नव वर्षाणि पञ्च च। भरतः क्रियतां राजा पृथिव्यां पार्थिवर्षभ॥ चतुर्दश हि वर्षाणि रामे प्रवाजिते वनम्। रूढश्च कृतमूलश्च शेषं स्थास्यति ते सुतः॥ रामप्रव्राजनं चैव देवि याचस्व तं वरम्। एवं सेत्स्यन्ति पुत्रस्य सर्वार्थास्तव कामिनि ॥ एवं प्रवाजितश्चैव रामोऽरामो भविष्यति। भरतश्च गतामित्रस्तव राजा भविष्यति॥ येन कालेन रामश्च वनात् प्रत्यगमिष्यति। अन्तर्बहिश्च पुत्रस्ते कृतमूलो भविष्यति॥ संगृहीतमनुष्यश्च सुहृद्भिः साकमात्मवान् । प्राप्तकालं नु मन्येऽहं राजानं वीतसाध्वसा ॥ रामाभिषेकसंकल्पानिगृह्य विनिवर्तय। अनर्थमर्थरूपेण ग्राहिता सा ततस्तया॥ हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत्। सा हि वाक्येन कुब्जायाः किशोरीवोत्पथं गता॥ कैकेयी विस्मयं प्राप्य परं परमदर्शना। प्रज्ञां ते नावजानामि श्रेष्ठे श्रेष्ठाभिधायिनि ॥ पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिश्चये। त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी॥ नाहं समवबुध्येयं कुब्जे राज्ञश्चिकीर्षितम्। सन्ति दु:संस्थिताः कुब्जे: वक्राः परमपापिकाः॥ त्वं पद्ममिव वातेन संनता प्रियदर्शना। उरस्तेऽभिनिविष्टं वै यावत् स्कन्धात् समुन्नतम्॥ अधस्ताच्चोदरं शान्तं सुनाभमिव लज्जितम्। प्रतिपूर्णं च जघनं सुपीनौ च पयोधरौ।॥ विमलेन्दुसमं वक्त्रमहो राजसि मन्थरे। जघनं तव निम॒ष्टं रशनादामभूषितम्॥ जङ्के भृशमुपन्यस्ते पादौ च व्यायतावुभौ। त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनी॥ अग्रतो मम गच्छन्ती राजसेऽतीव शोभने। आसन् याः शम्बरे मायाः सहस्रमसुराधिपे॥ हृदये ते निविष्टास्ता भूयश्चान्याः सहस्त्रशः। तदेव स्थगु यद् दीर्घ रथघोणमिवायतम्॥ मतयः क्षत्रविद्याश्च मायाश्चात्र वसन्ति ते। अत्र तेऽहं प्रमोक्ष्यामि मालां कुब्जे हिरण्मयीम्॥ अभिषिक्ते च भरते राघवे च वनं गते। जात्येन च सुवर्णेन सुनिष्टप्तेन सुन्दरि॥ लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु। मुखे च तिलकं चित्रं जातरूपमयं शुभम्॥ कारयिष्यामि ते कुब्जे शुभान्याभरणानि च। परिधाय शुभे वस्त्रे देवतेव चरिष्यसि॥ चन्द्रमाह्वयमानेन मुखेनाप्रतिमानना। गमिष्यसि गतिं मुख्यां गर्वयन्ती द्विषज्जने।५१ ।। तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताः। पादौ परिचरिष्यन्ति यथैव त्वं सदा मम॥ इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत्। शयानां शयने शुभ्रे वेद्यामग्निशिखामिव ॥ गतोदके सेतुबन्धो न कल्याणि विधीयते। उत्तिष्ठ कुरु कल्याणं राजानमनुदर्शय॥ तथा प्रोत्साहिता देवी गत्वा मन्थरया सह। क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता ॥ अनेकशतसाहस्रं मुक्ताहार वराङ्गना। अवमुच्य वराहा॑णि शुभान्याभरणानि च॥ तदा हेमोपमा तत्र कुब्जावाक्यवशंगता। संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत्॥ इह वा मां मृतां कुब्जे नृपायावेदयिष्यसि। वनं तु राघवे प्राप्ते भरतः प्राप्स्यते क्षितिम्॥ सुवर्णेन न मे ह्यर्थो न रत्नैर्न च भोजनैः। एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते॥ अथो पुनस्तां महिषी महीक्षितो बचोभिरत्यर्थमहापराक्रमैः। उवाच कुब्जा भरतस्य मातरं हितं वचो राममुपेत्य चाहितम्॥ प्रपत्स्यते राज्यमिदं हि राघवो यदि ध्रुवं त्वं ससुता च तप्स्यसे। ततो हि कल्याणि यतस्व तत् तथा यथा सुतस्ते भरतोऽभिषेक्ष्यते॥ तथातिविद्धा महिषीति कुब्जया समाहता वागिषुभिर्मुहुर्मुहुः। विधाय हस्तौ हृदयेऽतिविस्मिता शशंस कुब्जां कुपिता पुनः पुनः॥ यमस्य वा मां विषयं गतामितो निशम्य कुब्जे प्रतिवेदयिष्यसि। वनं गते वा सुचिराय राघवे समृद्धकामो भरतो भविष्यति॥ 'अहं हि नैवास्तरणानि न स्रजो न चन्दनं नाञ्जनपानभोजनम्। न किंचिदिच्छामि न चेह जीवनं न चेदितो गच्छति राघवो वनम्॥ अथैवमुक्त्वा वचनं सुदारुणं निधाय सर्वाभरणानि भामिनी। असंस्कृतामास्तरणेन मेदिनी तदाधिशिश्ये पतितेव किंनरी॥६५ उदीर्णसंरम्भतमोवृतानना तदावमुक्तोत्तममाल्यभूषणा। नरेन्द्रपत्नी विमना बभूव सा तमोवृता द्यौरिव मग्नतारका ॥ उदीर्णसंरम्भतमोवृतानना तदावमुक्तोत्तममाल्यभूषणा। नरेन्द्रपत्नी विमना बभूव सा तमोवृता द्यौरिव मग्नतारका ॥ विदर्शिता यदा देवी कुब्जया पापया भृशम्। तदा शेते स्म सा भूमौ दिग्धविद्धेव किंनरी॥ निश्चित्य मनसा कृत्यं सा सम्यगिति भामिनी। मन्थरायै शनैः सर्वमाचचक्षे विचक्षणा॥ सा दीना निश्चयं कृत्वा मन्थरावाक्यमोहिता। नागकन्येव निःश्वस्य दीर्घमुष्णं च भामिनी॥ मुहूर्ते चिन्तयामास मार्गमात्मसुखावहम्। सा सुहृच्चार्थकामा च तं निशम्य विनिश्चयम्॥ बभूव परमप्रीता सिद्धिं प्राप्येव मन्थरा । अथ सा रुषिता देवी सम्यक्कृत्वा विनिश्चयम्॥ संविवेशाबल. भूमौ निवेश्य भ्रुकुटि मुखे। ततश्चित्राणि माल्यानि दिव्यान्याभरणानि च ॥ अपविद्धानि कैकेय्या तानि भूमिं प्रपेदिरे। तया तान्यपविद्धानि माल्यान्याभरणानि च॥ अशोभयन्त वसुधां नक्षत्राणि यथा नभः। क्रोधागारे च पतिता सा बभौ मलिनाम्बरा॥ एकवेणी दृढां बद्ध्वा गतसत्त्वेव किंनरी। आज्ञाप्य तु महाराजो राघवस्याभिषेचनम्॥ उपस्थानमनुज्ञाप्य प्रविवेश निवेशनम्। अद्य रामाभिषेको वै प्रसिद्ध इति जज्ञिवान् ॥ प्रियाहाँ प्रियमाख्यातुं विवेशान्तःपुरं वशी। स कैकेय्या गृहं श्रेष्ठं प्रविवेश महायशाः॥ पाण्डुराभ्रमिवाकाशं राहुयुक्तं निशाकरः। शुकबर्हिसमायुक्तं क्रौञ्चहंसरुतायुतम्॥ वादितरवसंघुष्टं कुब्जावामनिकायुतम्। लतागृहैश्चित्रगृहैश्चम्पकाशोकशोभितैः॥ दान्तराजतसौवर्णवेदिकाभिः समायुतम्। नित्यपुष्पफलैर्वृक्षैर्वापीभिरुपशोभितम्॥ दान्तराजतसौवर्णैः संवृतं परमासनैः। विविधैरन्नपानैश्च भक्ष्यैश्च विविधैरपि॥ उपपन्नं महाहश्च भूषणैत्रिदिवोपमम्। स प्रविश्य महाराजः स्वमन्तःपुरमृद्धिमत्॥ न ददर्श स्त्रियं राजा कैकेयीं शयनोत्तमे। स कामबलसंयुक्तो रत्यर्थी मनुजाधिपः॥ अपश्यन् दयितां भार्यां पप्रच्छ विषसाद च। नहि तस्य पुरा देवी तां वेलामत्यवर्तत ॥ न च राजा गृहं शून्यं प्रविवेश कदाचन। ततो गृहगतो राजा कैकेयी पर्यपृच्छत ॥ यथापुरमविज्ञाय स्वार्थलिप्सुमपण्डिताम्। प्रतिहारि त्वथोवाच संत्रस्ता तु कृताञ्जलिः॥ देव देवी भृशं क्रुद्धा क्रोधागारमभिद्रुता। प्रतीहार्या वचः श्रुत्वा राजा परमदुर्मनाः॥ विषसाद पुनर्भूयो लुलितव्याकुलेन्द्रियः। तत्र तां पतितां भूमौ शयानामतथोचिताम्॥ प्रतप्त इव दुःखेन सोऽपश्यज्जगतीपतिः। स वृद्धस्तरुणीं भायां प्राणेभ्योऽपि गरीयसीम्॥ अपापः पापसंकल्पां ददर्श धरणीतले। लतामिव विनिष्कृत्तां पतितां देवतामिव ॥ किंनरीमिव निर्धूतां च्युतामप्सरसं यथा। मायामिव परिभ्रष्टा हरिणीमिव संयताम्॥ करेणुमिव दिग्धेन विद्धां मृगयुना वने। महागज इवारण्ये स्नेहात् परमदुःखिताम्॥ परिमृज्य च पाणिभ्यामभिसंत्रस्तचेतनः। कामी कमलपत्राक्षीमुवाच वनितामिदम्॥ न तेऽहमभिजानामि क्रोधमात्मनि संश्रितम्। देवि केनाभियुक्तासि केन वासि विमानिता॥ यदिदं मम दुःखाय शेषे कल्याणि पांसुषु। भूमौ शेषे किमर्थं त्वं मयि कल्याणचेतसि ॥ भूतोपहतचित्तेव मम चित्तप्रमाथिनि। सन्ति मे कुशला वैद्यास्त्वभितुष्टाश्च सर्वशः॥ सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनि। कस्य वापि प्रियं कार्य केन वा विप्रियं कृतम्॥ कः प्रियं लभतामद्य को वा सुमहदप्रियम्। मारौत्सीर्मा च कार्षीस्त्वं देवि सम्परिशोषणम्॥ अवध्यो वध्यतां को वा वध्यः को वा विमुच्यताम्। दरिद्रः को भवेदाढ्यो द्रव्यवान् वाप्यकिंचनः॥ अहं च हि मदीयाश्च सर्वे तव वशानुगाः। न ते कंचिदभिप्रायं व्याहन्तमहमुत्सहे॥ आत्मनो जीवितेनापि ब्रूहि यन्मनसि स्थितम्। बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि॥ करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे। यावदावर्तते चक्रं तावती मे वसुंधरा॥ द्राविडाः सिन्धुसौवीराः सौराष्टा दक्षिणापथाः वङ्गाङ्गमगधा मत्स्याः समृद्धाः काशिकोसलाः॥ तत्र जातं बहु द्रव्यं धनधान्यमजाविकम्। ततो वृणीष्व कैकेयि यद्यत् त्वं मनसेच्छसि॥ किमायासेन ते भीरु उत्तिष्ठोत्तिष्ठ शोभने। तत्त्वं मे ब्रूहि कैकेयि यतस्ते भयमागतम्। तत् ते व्यपनयिष्यामि नीहारमिव रश्मिवान्॥ तथोक्ता सा समाश्वस्ता वक्तुकामा तदप्रियम्। परिपीडयितं भूयो भर्तारमुपचक्रमे॥ तं मन्मथशरैर्विद्धं कामवेगवशानुगम्। उवाच पृथिवीपालं कैकेयी दारुणं वचः॥ नास्मि विप्रकृता देव केनचिन्नावमानिता। अभिप्रायस्तु मे कश्चित् तमिच्छामि त्वया कृतम्॥ प्रतिज्ञा प्रतिजानीष्व यदि त्वं कर्तुमिच्छसि। अथ ते व्याहरिष्यामि यथाभिप्रार्थितं मया॥ तामुवाच महाराजः कैकेयीमीषदुत्स्मयः। कामी हस्तेन संगृह्य मूर्धजेषु भुवि स्थिताम्॥ अवलिप्ते न जानासि त्वत्तः प्रियतरो मम। मनुजो मनुजव्याघ्राद् रामादन्यो न विद्यते॥ तेनाजय्येन मुख्येन राघवेण महात्मना। शपे ते जीवनाहेण ब्रूहि यन्मनसेप्सितम्॥ यं मुहूर्तमपश्यंस्तु न जीवे तमहं ध्रुवम्। तेन रामेण कैकेयि शपे ते वचनक्रियाम्।७।। आत्मना चात्मजैश्चान्यैर्वृणे यं मनुजर्षभम्। तेन रामेण कैकेयि शपे ते वचनक्रियाम्॥ भद्रे हृदयमप्येतदनुमृश्योद्धरस्व मे। एतत् समीक्ष्य कैकेयि ब्रूहि यत् साधु मन्यसे॥ बलमात्मनि पश्यन्ती न विशङ्कितुमर्हसि। करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे॥ सा तदर्थमना देवी तमभिप्रायमागतम्। निर्माध्यस्थ्याच्च हर्षाच्च बभाषे दुर्वचं वचः॥ तेन वाक्येन संहृष्टा तमभिप्रायमात्मनः। व्याजहार महाघोरमभ्यागतमिवान्तकम्॥ यथाक्रमेण शपसे वरं मम ददासि च। तच्छृण्वन्तु त्रयस्त्रिंशद् देवाः सेन्द्रपुरोगमाः॥ चन्द्रादित्यौ नभश्चैव ग्रहा रात्र्यहनी दिशः। जगच्च पृथिवी चेयं सगन्धर्वाः सराक्षसाः॥ निशाचराणि भूतानि गृहेषु गृहदेवता। यानि चान्यानि भूतानि जानीयुर्भाषितं तव॥ सत्यसंधो महातेजा धर्मज्ञः सत्यवाक्शुचिः। वरं मम ददात्येष सर्वे शृण्वन्तु देवताः॥ इति देवी महेष्वासं परिगृह्याभिशस्य च। ततः परमुवाचेदं वरदं काममोहितम्॥ स्मर राजन् पुरा वृत्तं तस्मिन् देवासुरे रणे। तत्र त्वां च्यावयच्छत्रुस्तव जीवितमन्तरा ॥ तत्र चापि मया देव यत् त्वं समभिरक्षितः। जाग्रत्या यतमानायास्ततो मे प्रददौ वरौ॥ तौ दत्तौ च वरौ देव निक्षेपौ मृगयाम्यहम्। तवैव पृथिवीपाल सकाशे रघुनन्दन॥ तत् प्रतिश्रुत्य धर्मेण न चेद् दास्यसि मे वरम्। अद्यैव हि प्रहास्यामि जीवितं त्वद्विमानिता॥ वाङ्मात्रेण तदा राजा कैकेय्या स्ववशं कृतः। प्रचस्कन्द विनाशाय पाशं मृग इवात्मनः॥ ततः परमुवाचेदं वरदं काममोहितम्। दरौ देयौ त्वया देव तदा दत्तौ महीपते॥ तौ तावदहमद्यैव वक्ष्यामि शृणु मे वचः। अभिषेकसमारम्भो राघवस्योपकल्पितः॥ अनेनैवाभिषेकेण भरतो मेऽभिषिच्यताम्। यो द्वितीयो वरो देव दत्तः प्रीतेन मे त्वया॥ तदा देवासुरे युद्धे तस्य कालोऽयमागतः। नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः॥ चीराजिनधरो धीरो रामो भवतु तापसः। भरतो भजतामद्य यौवराज्यमकण्टकम्॥ एष कामो दत्तमेव वरं वृणे। अद्य चैव हि पश्येयं प्रयान्तं राघवं वने॥ स राजराजो भव सत्यसंगरः कुलं च शीलं च हि जन्म रक्ष च। मे परमः परत्र वासे हि वदन्त्यनुत्तमं तपोधनाः सत्यवचो हितं नृणाम्॥ ततः श्रुत्वा महाराजः कैकेय्या दारुणं वचः। चिन्तामभिसमापेदे मुहूर्तं प्रतताप च॥ किं नु मेऽयं दिवास्वप्नश्चित्तमोहोऽपि वा मम। अनुभूतोपसर्गो वा मनसो वाप्युपद्रवः॥ इति संचिन्त्य तद् राजा नाध्यगच्छत् तदासुखम्। प्रतिलभ्य ततः संज्ञां कैकेयीवाक्यतापितः॥ व्यथितो विक्लवश्चैव व्याघ्रीं दृष्ट्वा यथा मृगः। असंवृतायामासीनो जगत्यां दीर्घमुच्छ्वसन्॥ मण्डले पन्नगो रुद्धो मन्त्रैरिव महाविषः। अहो धिगिति सामर्षों वाचमुक्त्वा नराधिपः॥ मोहमापेदिवान् भूयः शोकोपहतचेतनः। चिरेण तु नृपः संज्ञां प्रतिलभ्य सुदुःखितः॥ कैकेयीमब्रवीत् क्रुद्धो निर्दहनिव तेजसा। नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि ॥ किं कृतं तव रामेण पापे पापं मयापि वा। सदा ते जननीतुल्यां वृत्तिं वहति राघवः॥ तस्यैवं त्वमनर्थाय किंनिमित्तमिहोद्यता। त्वं मयाऽऽत्मविनाशाय भवनं स्वं निवेशिता।९।। अविज्ञानानृपसुता व्याला तीक्ष्णविषा यथा। जीवलोको यदा सर्वो रामस्याह गुणस्तवम्॥ अपराध कमुद्दिश्य त्यक्ष्यामीष्टमहं सुतम्। कौसल्यां च सुमित्रां च त्यजेयमपि वा श्रियम्॥ जीवितं चात्मना रामं नत्वेव पितृवत्सलम्। परा भवति मे प्रीतिदृष्ट्वा तनयमग्रजम् ॥ अपश्यतस्तु मे रामं नष्टं भवति चेतनम्। तिष्ठेल्लोको विना सूर्यं सस्यं वा सलिलं विना ॥ न तु रामं विना देहे तिष्ठेत्तु मम जीवितम्। तदलं त्यज्यतामेष निश्चयः पापनिश्चये॥ अपि ते चरणौ मूर्धा स्पृशाम्येष प्रसीद मे। किमर्थं चिन्तितं पापे त्वया परमदारुणम्॥ अथ जिज्ञाससे मां त्वं भरतस्य प्रियाप्रिये। आस्तु यत्तत्त्वया पूर्वं व्याहृतं राघवं प्रति॥ स मे ज्येष्ठसुतः श्रीमान् धर्मज्येष्ठ इतीव मे। तत् त्वया प्रियवादिन्या सेवार्थं कथितं भवेत्॥ तच्छुत्वा शोकसंतप्ता संतापयसि मां भृशम्। आविष्टासि गृहे शून्ये सा त्वं परवशं गता॥ इक्ष्वाकूणां कुले देवि सम्प्राप्तः सुमहानयम्। अनयो नयसम्पन्ने यत्र ते विकृता मतिः॥ नहि किंचिदयुक्तं वा विप्रियं वा पुरा मम। अकरोस्त्वं विशालाक्षि तेन न श्रद्दधामि ते॥ ननु ते राघवस्तुल्यो भरतेन महात्मना। बहुशो हि स्म बाले त्वं कथाः कथयसे मम॥ तस्य धर्मात्मनो देवि वने वासं यशस्विनः। कथं रोचयसे भीरु नव वर्षाणि पञ्च च ॥ अत्यन्तसुकुमारस्य तस्य धर्मे कृतात्मनः। कथं रोचयसे वासमरण्येभृशदारुणे॥ रोचयस्यभिरामस्य रामस्य शुभलोचने। तव शुश्रूषमाणस्य किमर्थं विप्रवासनम्॥ रामो हि भरताद् भूयस्तव शुश्रूषते सदा। विशेषं त्वयि तस्मात् तु भरतस्य न लक्षये॥ शुश्रूषां गौरवं चैव प्रमाणं वचनक्रियाम्। कस्तु भूयस्तरं कुर्यादन्यत्र पुरुषर्षभात्॥ बहूनां स्त्रीसहस्राणां बहूनां चोपजीविनाम्। परिवादोऽपवादो वा राघवे नोपपद्यते॥ सान्त्वयन् सर्वभूतानि रामः शुद्धेन चेतसा। गृह्णाति मनुजव्याघ्रः प्रियैर्विषयवासिनः॥ सत्वेन लोकाञ्जयति द्विजान् दानेन राघवः। गुरुञ्छुश्रूषया वीरो धनुषा युधि शात्रवान्॥ सत्यं दानं तपस्त्यागो मित्रता शौचमार्जवम्। विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे॥ तस्मिन्नार्जवसम्पन्ने देवि देवोपमे कथम्। पापमाशंससे रामे महर्षिसमतेजसि॥ न स्मराम्यप्रियं वाक्यं लोकस्य प्रियवादिनः। स कथं त्वत्कृते राम वक्ष्यामि प्रियमप्रियम्॥ क्षमा यस्मिंस्तपस्त्यागः सत्यं धर्मः कृतज्ञता। अप्यहिंसा च भूतानां तमृते का गतिर्मम ॥ मम वृद्धस्य कैकेयि गतान्तस्य तपस्विनः। दीनं लालप्यमानस्य कारुण्यं कर्तुमर्हसि॥ पृथिव्यां सागरान्तायां यत् किंचिदधिगम्यते। तत् सर्वं तव दास्यामि मा च त्वं मृत्युमाविश ॥ अञ्जलिं कुर्मि कैकेयि पादौ चापि स्पृशामि ते। शरणं भव रामस्य माधर्मो मामिह स्पृशेत्॥ इति दुःखाभिसंतप्तं विलपन्तमचेतनम्। घूर्णमानं महाराजं शोकेन समभिप्लुतम्॥ पारं शोकार्णवस्याशु प्रलपन्तं पुनः पुनः। प्रत्युवाचाथ कैकेयी रौद्रा रौद्रतरं वचः॥ यदि दत्त्वा वरौ राजन् पुनः प्रत्यनुतप्यसे। धार्मिकत्वं कथं वीर पृथिव्यां कथयिष्यसि ॥ यदा समेता बहवस्त्वया राजर्षयः सह। कथयिष्यन्ति धर्मज्ञ तत्र किं प्रतिवक्ष्यसि ॥ यस्याः प्रसादे जीवामि या च मामभ्यपालयत्। यस्याः कृता मया मिथ्या कैकेय्या इति वक्ष्यसि ।।४१ । किल्बिषं त्वं नरेन्द्राणां करिष्यसि नराधिप। यो दत्त्वा वरमद्यैव पुनरन्यानि भाषसे।॥ शैब्यः श्येनकपोतीये स्वमांसं पक्षिणे ददौ। अलर्कश्चक्षुषी दत्त्वा जगाम गतिमुत्तमाम्॥ सागरः समयं कृत्वा न वेलामतिवर्तते। समयं मानृतं कार्षीः पर्ववृत्तमनुस्मरन्।॥ स त्वं धर्म परित्यज्य रामं राज्येऽभिषिच्य च। सह कौसल्यया नित्यं रन्तुमिच्छसि दुर्मते॥ भवत्वधर्मो धर्मो वा सत्यं वा यदि वानृतम्। यत्त्वया संश्रुतं मह्यं तस्य नास्ति व्यतिक्रमः॥ अहं हि विषमद्यैव पीत्वा बहु तवाग्रतः। पश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते॥ एकाहमपि पश्येयं यद्यहं राममातरम्। अञ्जलिं प्रतिगृह्णन्ती श्रेयो ननु मृतिर्मम॥ भरतेनात्मना चाहं शपे ते मनुजाधिप। यथा नान्येन तुष्येयमृते रामविवासनात्॥ एतावदुक्त्वा वचनं कैकेयी विरराम ह। विलपन्तं च राजानं न प्रतिव्याजहार सा॥ श्रुत्वा तु राजा कैकेय्या वाक्यं परमशोभनम्। रामस्य च वने वासमैश्वर्यं भरतस्य च।११।। नाभ्यभाषत कैकयी मुहूर्तं व्याकुलेन्द्रियः। प्रेक्षतानिमिषो देवीं प्रियामप्रियवादिनीम्॥ तां हि वज्रसमां वाचमाकर्ण्य हृदयाप्रियाम्। दुःखशोकमयीं श्रुत्वा राजा न सुखितोऽभवत्॥ स देव्या व्यवसायं च घोरं च शपथं कृतम्। ध्यात्वा रामेऽतिनिःश्वस्यच्छिन्नस्तरुरिवापतत्॥ नष्टचित्तो यथोन्मत्तो विपरीतो यथातुरः। हृततेजा यथा सर्पो बभूव जगतीपतिः॥ दीनयाऽऽतुरया वाचा इति होवाच कैकयीम्। अनर्थमिममर्थाभं केन त्वमुपदेशिता॥ भूतोपहतचित्तेव ब्रुवन्ती मां न लज्जसे। शीलव्यसनमेतत् ते नाभिजानाम्यहं पुरा।५७।। बालायास्तत् त्विदानी ते लक्षये विपरीतवत्। कुतो वा ते भयं जातं या त्वमेवंविधं वरम्॥ राष्ट्रे भरतमासीनं वृणीषे राघवं वने। विरमैतेन भावेन त्वमेतेनानृतेन च ॥ यदि भर्तुः प्रियं कार्यं लोकस्य भरतस्य च। नृशंसे पापसंकल्पे क्षुद्रे दुष्कृतकारिणि ॥ किं नु दुःखमलीकं वा मयि रामे च पश्यसि। न कथंचिद्यते रामाद् भरतो राज्यमावसेत् ॥ रामादपि हि तं मन्ये धर्मतो बलवत्तरम्। कथं वक्ष्यसि रामस्य वनं गच्छेति भाषिते॥ मुखवणं विवर्णं तु यथैवेन्दुमुपप्लुतम्। तां तु मे सुकृतां बुद्धिं सुहृद्भिः सह निश्चिताम्॥ कथं द्रक्ष्याम्यपावृत्तां परैरिव हतां चमूम्। किं मां वक्ष्यन्ति राजानो नानादिग्भ्यः समागताः॥ बालो बतायमैक्ष्वाकश्चिरं राज्यमकारयत्। यदा हि बहवो वृद्धा गुणवन्तो बहुश्रुता॥ परिप्रक्ष्यन्ति काकुत्स्थं वक्ष्यामीह कथं तदा। कैकेय्या क्लिश्यमानेन पुत्रः प्रव्राजितो मया॥ यदि सत्यं ब्रवीम्येतत् तदसत्यं भविष्यति। किं मां वक्ष्यति कौसल्या राघवे वनमास्थिते॥ किं चैनां प्रतिवक्ष्यामि कृत्वा विप्रियमीदृशम्। यदा यदा च कौसल्या दासीव च सखीव च॥ भार्यावद् भगिनीवच्च मातृवच्चोपतिष्ठति। सततं प्रियकामा मे प्रियपुत्रा प्रियंवदा॥ न मया सत्कृता देवी सत्कारार्हा कृते तव। इदानीं तत्तपति मां यन्मया सुकृतं त्वयि।७०।। अपथ्यव्यञ्जनोपेतं भुक्तमन्नमिवातुरम्। विप्रकारं च रामस्य सम्प्रयाणं वनस्य च॥ सुमित्रा प्रेक्ष्य वै भीता कथं मे विश्वसिष्यति। कृपणं बत वैदेही श्रोष्यति द्वयमप्रियम् ॥ मां च पञ्चत्वमापन्नं रामं च वनमाश्रितम्। वैदेही बत मे प्राणाञ्छोचन्ती क्षपयिष्यति।७३ ।। हीना हिमवतः पार्श्वे किंनरेणेव किंनरी। नहि राममहं दृष्ट्वा प्रवसन्तं महावने।७४।। चिरं जीवितुमाशंसे रुदन्तीं चापि मैथिलीम्। सा नूनं विधवा राज्यं सपुत्रा कारयिष्यसि॥ सतीं त्वामहमत्यन्तं व्यवस्याम्यसती सतीम्। रूपिणीं विषसंयुक्ता पीत्वेव मदिरां नरः।७६ ।। अनृतैर्वत मां सान्त्वैः सान्त्वयन्ती स्म भाषसे। गीतशब्देन संरुध्य लुब्धो मृगमिवावधीः॥ अनार्य इति मामार्याः पुत्रविक्रायकं ध्रुवम्। विकरिष्यन्ति रथ्यासु सुरापं ब्राह्मणं यथा॥ अहो दुःखमहो कृच्छं यत्र वाचः क्षमे तव। दुःखमेवंविधं प्राप्तं पुरा कृतमिवाशुभम्॥ चिरं खलु मया पापे त्वं पापेनाभिरक्षिता। अज्ञानादुपसम्पन्ना रज्जुरुद्वन्धनी यथा॥ रममाणस्त्वया सार्धं मृत्युं त्वां नाभिलक्षये। बालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम्॥ तं तु मां जीवलोकोऽयं नूनमाक्रोष्टुमर्हति। मया ह्यपितृकः पुत्रः स महात्मा दुरात्मना ॥ बालिशो बत कामात्मा राजा दशरथो भृशम्। स्त्रीकृते यः प्रियं पुत्रं वनं प्रस्थापयिष्यति॥ वेदैश्च ब्रह्मचर्यैश्च गुरुभिश्चोपकर्शितः। भोगकाले महत्कृच्छं पुनरेव प्रपत्स्यते॥ नालं द्वितीयं वचनं पुत्रो मां प्रतिभाषितुम्। स वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति॥ यदि मे राघवः कुर्याद् वनं गच्छेति चोदितः। प्रतिकूलं प्रियं मे स्यान्न तु वत्सः करिष्यति॥ राघवे हि वनं प्राप्ते सर्वलोकस्य धिक्कृतम्। मृत्युरक्षमणीयं मां नयिष्यति यमक्षयम्॥ मृते मयि गते रामे वनं मनुजपुङ्गवे। इष्टे मम जने शेषे किं पापं प्रतिपत्स्यसे॥ कौसल्या मां च रामं च पुत्रौ च यदि हास्यति। दुःखान्यसहती देवी मामेवानुगमिष्यति॥ कौसल्यां च सुमित्रां च मां च पुत्रैत्रिभिः सह। प्रक्षिप्य नरके सा त्वं कैकेयि सुखिता भव॥ मया रामेण च त्यक्तं शाश्वतं सत्कृतं गुणैः। इक्ष्वाकुकुलमक्षोभ्यमाकुलं पालयिष्यसि॥ प्रियं चेद् भरतस्यैतद् रामप्रव्राजनं भवेत्। मा स्म मे भरतः कार्षीत् प्रेतकृत्यं गतायुषः॥ मृते मयि गते रामे वनं पुरुषपुङ्गवे। सेदानीं विधवा राज्यं सपुत्रा कारयिष्यसि ॥ त्वं राजपुत्रि दैवेन न्यवसो मम वेश्मनि। अकीर्तिश्चातुला लोके ध्रुवः परिभवश्च मे॥ कथं रथैर्विभुर्यात्वा गजाश्वैश्च मुहुर्मुहुः। पद्भ्यां रामो महारण्ये वत्सो मे विचरिष्यति ॥ यस्य चाहारसमये सूदाः कुण्डलधारिणः। अहंपूर्वाः पचन्ति स्म प्रसन्नाः पानभोजनम्॥ स कथं नु कषायाणि तिक्तानि कटुकानि च। भक्षयन् वन्यमाहारं सुतो मे वर्तयिष्यति ॥ महार्हवस्त्रसम्बद्धो भूत्वा चिरसुखोचितः। काषायपरिधानस्तु कथं रामो भविष्यति॥ कस्येदं दारुणं वाक्यमेवंविधमपीरितम्। रामस्यारण्यगमनं भरतस्याभिषेचनम्॥ धिगस्तु योषितो नाम शठाः स्वार्थपरायणाः। न ब्रवीमि स्त्रियः सर्वा भरतस्यैव मातरम्॥ अनर्थभावेऽर्थपरे नृशंसे ममानुतापाय निवेशितासि। किमप्रियं पश्यसि मन्निमित्तं हितानुकारिण्यथवापि रामे॥ परित्यजेयुः पितरोऽपि पुत्रान् भार्याः पतींश्चापि कृतानुरागाः। कृत्स्नं हि सर्वं कुपितं जगत् स्याद् दृष्ट्वैव रामं व्यसने निमग्नम्॥ मलंकृतं तं सुतमाव्रजन्तम्। नन्दामि पश्यन्निव दर्शनेन भवामि दृष्ट्वैव पुनर्युवेव॥ रवर्षता वज्रधरेण वापि। रामं तु गच्छन्तमित: समीक्ष्य जीवेन कश्चित्त्विति चेतना मे॥ मावासयं मृत्युमिवात्मनस्त्वाम्। चिरं बताङ्केन धृतासि सी महाविषा तेन हतोऽस्मि मोहात्॥ मया च रामेण सलक्ष्मणेन प्रशास्तु हीनो भरतस्त्वया सह। पुरं च राष्ट्रं च निहत्य बान्धवान् ममाहितानां च भवाभिभाषिणी॥ नृशंसवृत्ते व्यसनप्रहारिणि प्रसह्य वाक्यं यदिहाद्य भाषसे। न नाम ते तेन विशीर्यमाणा दशनाः सहस्रधा॥ न किंचिदाहाहितमप्रियं वचो नवेत्ति रामः परुषाणि भाषितुम्। कथं तु रामे ह्यभिरामवादिनि ब्रवीषि दोषान् गुणनित्यसम्मते॥ प्रताम्य वा प्रज्वल वा प्रणश्य वा सहस्त्रशो वा स्फुटितां महीं व्रज। मुखात् पतन्त्यधो न ते करिष्यामि वचः सुदारुणं ममाहितं केकयराजपांसने॥ क्षुरोपमां नित्यमसत्प्रियंवदां प्रदुष्टभावां स्वकुलोपघातिनीम्। न जीवितुं त्वां विषहेऽमनोरमां दिधक्षमाणां हृदयं सबन्धनम्॥ न जीवितं मेऽस्ति कुतः पुनः सुखं विनात्मजेनात्मवतां कुतो रतिः। ममाहितं देवि न कर्तुमर्हसि स्पृशामि पादावपि ते प्रसीद मे॥ स भूमिपालो विलपन्ननाथवत् स्त्रिया गृहीतो हृदयेऽतिमात्रया। वुभावसम्प्राप्य यथाऽऽतुरस्तथा॥ पुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि। विचेष्टमानमुत्प्रेक्ष्य ऐक्ष्वाकमिदमब्रवीत्॥ पापं कृत्वेव किमिदं मम संश्रुत्य संश्रवम्। शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि ॥ आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः। सत्यमाश्रित्य च मया त्वं धर्म प्रतिचोदितः॥ संश्रुत्य शैब्यः श्येनाय स्वां तनुं जगतीपतिः। प्रदाय पक्षिणे राजा जगाम गतिमुत्तमाम्॥ तथा डलर्कस्तेजस्वी ब्राह्मणे वेदपारगे। याचमाने स्वके नेत्रे उद्धृत्याविमना ददौ॥ सरितां तु पतिः स्वल्पां मर्यादां सत्यमन्वितः। सत्यानुरोधात् समये वेलां स्वां नातिवर्तते॥ सत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्ठितः। सत्यमेवाक्षया वेदाः सत्येनावाप्यते परम्॥ सत्यं समनुवर्तस्व यदि धर्मे धृता मतिः। स वरः सफलो मेऽस्तु वरदो ह्यसि सत्तम॥ धर्मस्यैवाभिकामार्थं मम चैवाभिचोदनात्। प्रव्राजय सुतं रामं त्रिः खलु त्वां ब्रवीम्यहम्॥ समयं च ममार्येमं यदि त्वं न करिष्यसि। अग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम्॥ एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया। नाशकत् पाशमुन्मोक्तुं बलिरिन्द्रकृतं यथा॥ उद्भ्रान्तहृदयश्चापि विवर्णवदनोऽभवत्। स धुर्यो वै परिस्पन्दन् युगचक्रान्तरं यथा॥ विकलाभ्यां च नेत्राभ्यामपश्यनिव भूमिपः। कृच्छ्राद् धैर्येण संस्तभ्य कैकेयीमिदब्रवीत्॥ यस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः। संत्यजामि स्वयं चैव तव पुत्रं सह त्वया॥ प्रयाता रजनी देवि सूर्यस्योदयनं प्रति। अभिषेकाय हि जनस्त्वरयिष्यति मां ध्रुवम्॥ रामाभिषेकसम्भारैस्तदर्थमुपकल्पितैः। रामः कारयितव्यो मे मृतस्य सलिलक्रियाम्॥ सपुत्रया त्वया नैव कर्तव्या सलिलक्रिया। व्याहन्तास्यशुभाचरे यदि रामाभिषेचनम्॥ न शक्तोऽद्यास्म्यहं द्रष्टुं दृष्ट्वा पूर्वं तथामुखम्। हतहर्षं तथानन्दं पुनर्जनमवाङ्मुखम्॥ तां तथा ब्रुवतस्तस्य भूमिपस्य महात्मनः। प्रभाता शर्वरी पुण्या चन्द्रनक्षत्रमालिनी॥ ततः पापसमाचारा कैकेयी पार्थिवं पुनः। उवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्छिता॥ किमिदं भाषसे राजन् वाक्यं गररुजोपमम्। आनाययितुमक्लिष्टं पुत्रं राममिहार्हसि॥ स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम्। निःसपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि।।२२। स तुन्न इव तीक्ष्णेन प्रतोदेन हयोत्तमः। राजा प्रचोदितोऽभीक्ष्णं कैकेय्या वाक्यमब्रवीत्॥ धर्मबन्धेन बद्धोऽस्मि नष्टा च मम चेतना। ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम्॥ ततः प्रभातां रजनीमुदिते च दिवाकरे। पुण्ये नक्षत्रयोगे च मुहूर्ते च समागते॥ वसिष्ठो गुणसम्पन्नः शिष्यैः परिवृतस्तथा। उपगृह्याशु सम्भारान् प्रविवेश पुरोत्तमम्॥ सिक्तसम्मार्जितपथां पताकोत्तमभूषिताम्। संहष्टमनुजोपेतां समृद्धविपणापणाम् ॥ महोत्सवसमायुक्तां राघवार्थे समुत्सुकाम्। चन्दनागुरुधूपैश्च सर्वतः परिमिताम्॥ तां पुरीं समतिक्रम्य पुरंदरपुरोपमाम्। ददर्शान्तः पुरं श्रीमान् नानाध्वजगणायुतम्॥ पौरजानपदाकीर्णं ब्राह्मणैरुपशोभितम्। यष्टिमद्भिः सुसम्पूर्ण सदश्वैः परमार्चितैः॥ तदन्तः पुरमासाद्य व्यतिचक्राम तं जनम्। वसिष्ठः परमप्रीतः परमर्षिभिरावृतः॥ स त्वपश्यद् विनिष्क्रान्तं सुमन्त्रं नाम सारथिम्। द्वारे मनुजसिंहस्य सचिवं प्रियदर्शनम्॥ तामुवाच महातेजाः सूतपुत्रं विशारदम्। वसिष्ठः क्षिप्रमाचक्ष्व नृपतेर्मामिहागतम्॥ इमे गङ्गोदकघटाः सागरेभ्यश्च काञ्चनाः। औदुम्बरं भद्रपीठमभिषेकार्थमाहृतम्॥ सर्वबीजानि गन्धाश्च रत्नानि विविधानि च। क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः॥ अष्टौ च कन्या रुचिरा मत्तश्च वरवारणः। चतुरश्वो रथः श्रीमान् निस्त्रिंशो धनुरुत्तमम्॥ वाहनं नरसंयुक्तं छत्रं च शशिसंनिभम्। श्वेते च वालव्यजने भृङ्गारं च हिरण्मयम्॥ हेमदामपिनद्धश्च ककुद्मान् पाण्डुरो वृषः। केसरी च चतुर्दष्ट्रो हरिश्रेठो महाबलः॥ सिंहासनं व्याघ्रतनुः समिधश्च हुताशनः। सर्वे वादित्रसङ्घाश्च वेश्याश्चालंकृताः स्त्रियः॥ आचार्या ब्राह्मणा गाव: पुण्याश्च मृगपक्षिणः। पौरजानपदश्रेष्ठा नैगमाश्च गणैः सह॥ एते चान्ये च बहवः प्रीयमाणाः प्रियंवदाः। अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः॥ त्वरयस्व महाराजं यथा समुदितेऽहनि। पुष्य नक्षत्रयोगे च रामो राज्यमवाप्नुयात्॥ इति तस्य वचः श्रुत्वा सूतपुत्रो महाबलः। स्तुवन् नृपतिशार्दूलं प्रविवेश निवेशनम् ॥ तं तु पूर्वोदितं वृद्धं द्वारस्था राजसम्मताः। न शेकुरभिसंरोद्धं राज्ञः प्रियचिकीर्षवः॥ स समीपस्थितो राज्ञस्तामवस्थामजज्ञिवान्। वाग्भिः परमतुष्टाभिरभिष्टोतुं प्रचक्रमे॥ ततः सूतो यथापूर्वं पार्थिवस्य निवेशने। सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम्॥ यथा नन्दति तेजस्वी सागरो भास्करोदये। प्रीतः प्रीतेन मनसा तथा नन्दय नस्ततः॥ इन्द्रमस्यां तु वेलायामभितुष्टाव मातलिः। सोऽजयद् दानवान् सर्वांस्तथा त्वां बोधयाम्यहम्॥ वेदाः सहाङ्गा विद्याश्च यथा ह्यात्मभुवं प्रभुम्। ब्रह्माणं बोधयन्त्यद्य तथा त्वां बोधयाम्यहम्॥ आदित्यः सह चन्द्रेण यथा भूतधरां शुभाम्। बोधयत्यद्य पृथिवीं तथा त्वां बोधयाम्यहम्॥ उत्तिष्ठ सुमहाराज कृतकौतुकमङ्गलः। विराजमानो वपुषा मेरोरिव दिवाकरः॥ उदतिष्ठत रामस्य समग्रमभिषेचनम्। पौरजानपदाश्चापि नैगमश्च कृताञ्जलिः॥ अयं वसिष्ठो भगवान् ब्राह्मणैः सह तिष्ठति। क्षिप्रमाज्ञाप्यतां राजन् राघवस्याभिषेचनम्॥ यथा ह्यपालाः पशवो यथा सेना ह्यनायका। यथा चन्द्रं विना रात्रिर्यथा गावो विना वृषम्॥ एवं हि भविता राष्ट्रं यत्र राजा न दृश्यते। एवं तस्य वचः श्रुत्वा सान्त्वपूर्वमिवार्थवत् ॥ अभ्यकीर्यत शोकेन भूय एव महीपतिः। ततस्तु राजा तं सूतं सन्नहर्षः सुतं प्रति॥ शोकरक्तेक्षणः श्रीमानुद्वीक्ष्योवाच धार्मिकः। वाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि॥ सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम्। प्रगृहीताञ्जलिः किंचित् तस्माद् देशादपाक्रमत्॥ यदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः। तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह॥ सुमन्त्र राजा रजनी रामहर्षसमुत्सुकुः। प्रजागरपरिश्रान्तो निद्रावशमुपागतः॥ तद् गच्छ त्वरितं सूत राजपुत्रं यशस्विनम्। राममानय भद्रं ते नात्र कार्या विचारणा ॥ अश्रुत्वा राजवचनं कथं गच्छामि भामिनि। तच्छ्रुत्वा मन्त्रिणो वाक्यं राजा मन्त्रिणमब्रवीत्॥ सुमन्त्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम्। स मन्यमानः कल्याणं हृदयेन ननन्द च॥ निर्जगाम च स प्रीत्या त्वरितो राजशासनात्। सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया॥ व्यक्तं रामाभिषेकार्थे इहायस्यति धर्मराट्। इति सूतो मतिं कृत्वा हर्षेण महता पुनः॥ निर्जगाम महाते। राघवस्य दिध्क्षया। सागरहदसंकाशात्सुमन्त्रोऽन्तःपुराच्छुभात्॥ ततः पुरस्तात् सहसा विनिःसृतो महीपतेभरगतान् विलोकयन्। नुपस्थितान् द्वारमुपेत्य विष्ठितान्॥ ते तु तां रजनीमुष्य ब्राह्मणा वेदपारगाः। उपतस्थुरुपस्थानं सह राजपुरोहिताः॥ अमात्या बलमुख्याश्च मुख्या ये निगमस्य च। राघवस्याभिषेकार्थे प्रीयमाणाः सुसंगताः॥ उदिते विमले सूर्ये पुष्ये चाभ्यागतेऽहनि। लग्ने कर्कटके प्राप्ते जन्म रामस्य च स्थिते॥ अभिषेकाय रामस्य द्विजेन्द्रैरुपकल्पितम्। काञ्चना जलकुम्भाश्च भद्रपीठं स्वलंकृतम्॥ रथश्च सम्यगास्तीर्णो भास्वता व्याघ्रचर्मणा। गङ्गायमुनयोः पुण्यात् संगमादाहृतं जलम्॥ याश्चान्याः सरितः पुण्या हृदाः कूपाः सरांसि च। प्राग्वहाश्चोर्ध्ववाहाश्च तिर्यग्वाहाश्च क्षीरिणः॥ ताभ्यश्चैवाहतं तोयं समुद्रेभ्यश्च सर्वशः। क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः॥ अष्टौ च कन्या रुचिरा मत्तश्च वरवारणः। सजलाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः॥ पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा। चन्द्रांशुविकचप्रख्यं पाण्डुरं रत्नभूषितम्॥ सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम्। चन्द्रमण्डलसंकाशमातपत्रं च पाण्डुरम्॥ सज्जं द्युतिकरं श्रीमदभिषेकपुरस्सरम्। पाण्डुरश्च वृषः सज्जः पाण्डुराश्वश्च संस्थितः॥ वादित्राणि च सर्वाणि वन्दिनश्च तथापरे। इक्ष्वाकूणां यथा राज्ये सम्झियेताभिषेचनम्॥ तथाजातीयमादाय राजपुत्राभिषेचनम्। ते राजवचनात् तत्र समवेता महीपतिम्॥ अपश्यन्तोऽब्रुवन् को नु राज्ञो नः प्रतिवेदयेत्। न पश्यामश्च राजानमुदितश्च दिवाकरः॥ यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः। इति तेषु ब्रुवाणेषु सर्वास्तांश्च महीपतीन्॥ अब्रवीत् तानिदं वाक्यं सुमन्त्रो राजसत्कृतः। रामं राज्ञो नियोगेन त्वरया प्रस्थितो ह्यहम्।।१६। पूज्या राज्ञो भवन्तश्च रामस्य तु विशेषतः। अयं पृच्छामि वचनात् सुखमायुष्मतामहम्॥ राज्ञः सम्प्रतिबुद्धस्य चानागमनकारणम्। इत्युक्त्वान्तःपुरद्वारमाजगाम पुराणवित्॥ सदा सक्तं च तद् वेश्म सुमन्त्रः प्रविवेश ह। तुष्टावास्य तदा वंशं प्रविश्य स विशाम्पतेः॥ शयनीयं नरेन्द्रस्य तदासाद्य व्यतिष्ठत। सोऽत्यासाद्य तु तद्वेश्म तिरस्करणिमन्तरा॥ आशीर्भिर्गुणयुक्ताभिरभितुष्टाव राघवम्। सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि ॥ वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते। गता भगवती रात्रिरहः शिवमुपस्थितम् ॥ बुद्ध्यस्व राजशार्दूल कुरु कार्यमनन्तरम्। ब्राह्मणा बलमुख्याश्च नैगमाश्चागतास्त्विह॥ दर्शनं तेऽभिकाङ्क्षन्ते प्रतिबुद्ध्यस्व राघव। स्तुवन्तं तं तदा सूतं सुमन्त्रं मन्त्रकोविदम्॥ प्रतिबुद्ध्य ततो राजा इदं वचनमब्रवीत्। राममानय सूतेति यदस्यभिहितो मया॥ किमिदं कारणं येन ममाज्ञा प्रतिवाद्यते। न चैव सम्प्रसुप्तोऽहमानयेहाशु राघवम्॥ इति राजा दशरथः सूतं तत्रान्वशात् पुनः। स राजवचनं श्रुत्वा सिरसा प्रतिपूज्य तम्॥ निर्जगाम नृपावासान्मन्यमानः प्रियं महत्। प्रपन्नो राजमार्ग च पताकाध्वजशोभितम्॥ हृष्टः प्रमुदितः सूतो जगामाशु विलोकयन्। स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः॥ अभिषेचनसंयुक्ताः सर्वलोकस्य हृष्टवत्। ततो ददर्श रुचिरं कैलाससदृशप्रभम्॥ रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम्। महाकपाटपिहितं वितर्दिशतशोभितम्॥ काञ्चनप्रतिमैकाग्रं मणिविदुमतोरणम्। शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहासमम्॥ मणिभिर्वरमाल्यानां सुमहद्भिरलंकृतम्। मुक्तामणिभिराकीर्णं चन्दनागुरुभूषितम्॥ गन्धान्मनोज्ञान् विसृजद् दाई शिखरं यथा। सारसैश्च मयूरैश्च विनदद्भिर्विराजितम्॥ सुकृतेहामृगाकीर्णमुत्कीर्णं भक्तिभिस्तथा। मनश्चक्षुश्च भूतानामाददत् तिग्मतेजसा ॥ चन्द्रभास्करसंकाशं कुबेरभवनोपमम्। महेन्द्रधामप्रतिमं नानापक्षिसमाकुलम्॥ मेरुशृङ्गसमं सूतो रामवेश्म ददर्श ह। उपस्थितैः समाकीर्णं जनैरञ्जलिकारिभिः॥ उपादाय समाक्रान्तैस्तदा जानपदैर्जनैः। रामाभिषेकसुमुखैरुन्मुखैः समलंकृतम्॥ महामेघसमप्रख्यमुदग्रं सुविराजितम्। नानारत्नसमाकीर्णं कुब्जकैरपि चावृतम्॥ स वाजियुक्तेन रथेन सारथिः समाकुलं राजकुलं विराजयन्। वरूथिना राजगृहाभिपातिना पुरस्य सर्वस्य मनांसि हर्षयन्॥ ततः समासाद्य महाधनं महत् प्रहृष्टरोमा स बभूव सारथिः। मृगैर्मयूरैश्च समाकुलोल्बणं गृहं वराहस्य शचीपतेरिव ॥ स तत्र कैलासनिभाः स्वलंकृताः प्रविश्य कक्ष्यास्त्रिदशालयोपमाः। प्रियान् वरान् राममते स्थितान् बहून् व्यपोह्य शुद्धान्तमुपस्थितो रथी।॥ स तत्र शुश्राव च हर्षयुक्ता रामाभिषेकार्थकृतां जनानाम्। नरेन्द्रसूनोरभिमङ्गलार्थाः सर्वस्य लोकस्य गिरः प्रहृष्टाः॥ महेन्द्रसद्मप्रतिमं च वेश्म रामस्य रम्यं मृगपक्षिजुष्टम्। ददर्श मेरोरिव शृङ्गमुच्चं विभ्राजमानं प्रभया सुमन्त्रः॥ उपस्थितैरञ्जलिकारिभिश्च सोपायनैर्जानपदैर्जनैश्च। कोट्या परार्धेश्च विमुक्तयानैः समाकुलं द्वारपदं ददर्श॥ ततो महामेघमहीधराभं प्रभिन्नमत्यङ्कुशमत्यसह्यम्। रामोपवाह्यं रुचिरं ददर्श शत्रुजयं नागमुदनकायम्॥ नमात्यमुख्यांश्च ददर्श वल्लभान्। व्यपोह्य सूतः सहितान् समन्ततः समृद्धमन्तः पुरमाविवेश ह।४७।। ततोऽद्रिकूटाचलमेघसंनिभं महाविमानोपमवेश्मसंयुतम्। अवार्यमाणः प्रविवेश सारथिः प्रभूतरत्नं मकरो यथार्णवम्॥ स तदन्तःपुरद्वारं समतीत्य जनाकुलम्। प्रविविक्तां ततः कक्ष्यामाससाद पुराणवित्॥ प्रासकार्मुकबिभ्रद्भिर्युवभिर्मुष्टकुण्डलैः। अप्रमादिभिरेकाग्रैः स्वानुरक्तैरधिष्ठिताम्॥ तत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वलंकृतान्। ददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान् सुसमाहितान्॥ ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः। सहसोत्पतिताः सर्वे ह्यासनेभ्यः ससम्भ्रमाः॥ तानुवाच विनीतात्मा सूतपुत्रः प्रदक्षिणः। क्षिप्रमाख्यात रामाय सुमन्त्रो द्वारि तिष्ठति॥ ते राममुपसङ्गम्य भर्तुः प्रियचिकीर्षवः। सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे॥ प्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः। तत्रैवानाययामास राघवः प्रियकाम्यया॥ तं वैश्रवणसंकाशमुपविष्टं स्वलंकृतम्। ददर्श सूतः पर्यङ्के सौवर्णे सोत्तरच्छदे॥ वराहरुधिराभेण शुचिना च सुगन्धिना। अनुलिप्तं परायेन चन्दनेन परंतपम्॥ स्थितया पार्श्वतश्चापि वालव्यजनहस्तया। उपेतं सीतया भूयश्चित्रया शशिनं यथा॥ तं तपन्तमिवादित्यमुपपन्नं स्वतेजसा। ववन्दे वरदं वन्दी विनयज्ञो विनीतवत्॥ प्राञ्जलिः सुमुखं दृष्ट्वा विहारशयनासने। राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः।।१२। कौसल्या सुप्रजा राम पिता त्वां द्रष्टुमिच्छति। महिष्यापि हि कैकेय्या गम्यतां तत्र मा चिरम्॥ एवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः। ततः सम्मानयामास सीतामिदमुवाच ह॥ देवि देवश्च देवी च समागम्य मदन्तरे। मन्त्रयेते ध्रुवं किंचिदभिषेचनसंहितम्॥ लक्षयित्वा ह्यभिप्राय प्रियकामा सुदक्षिणा। संचोदयति राजानं मदर्थमसितेक्षणा॥ सा प्रहृष्टा महाराजं हितकामानुवर्तिनी। जननी चार्थकामा मे केकयाधिपतेः सुता॥ दिष्ट्या खलु महाराजो महिष्या प्रियया सह। सुमन्त्रं प्राहिणोद् दूतमर्थकामकरं मम॥ यादृशी परिषत् तत्र तादृशो दूत आगतः। ध्रुवमद्यैव मां राजा यौवराज्याभिषेक्ष्यति॥ हन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिम्। सह त्वं परिवारेण सुखमास्व रमस्व च ॥ पतिसम्मानिता सीता भर्तारमसितेक्षणा। आ द्वारमनुवव्राज मङ्गलान्यभिदध्युषी॥ राज्यं द्विजातिभिर्जुष्टं राजसूयाभिषेचनम्। कर्तुमर्हति ते राजा वासवस्येव लोककृत्॥ दीक्षितं व्रतसम्पन्नं वराजिनधरं शुचिम्। कुरङ्गशृङ्गपाणिं च पश्यन्ती त्वां भजाम्यहम्॥ पूर्वां दिशं वज्रधरो दक्षिणां पातु ते यमः। वरुणः पश्चिमामाशां धनेशस्तूत्तरां दिशम्॥ अथ सीतामनुज्ञाप्य कृतकौतुकमङ्गलः। निश्चक्राम सुमन्त्रेण सह रामो निवेशनात्॥ पर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशयः। लक्ष्मणं द्वारि सोऽपश्यत् प्रह्वाञ्जलिपुटं स्थितम्॥ अथ मध्यमकक्ष्यायां समागच्छत् सुहृज्जनैः। स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च ॥ ततः पावकसंकाशमारुरोह रथोत्तमम्। वैयाघ्रं पुरुषव्याघ्रो राजितं राजनन्दनः॥ मेघनादमसम्बाधं मणिहेमविभूषितम्। मुष्णन्तमिव चयूंषि प्रभया मेरुवर्चसम्॥ करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः। हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम्॥ प्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया। स पर्जन्य इवाकाशे स्वनवानभिनादयन्॥ निकेतानिर्ययौ श्रीमान् महाभ्रादिव चन्द्रमाः। चित्रचामरपाणिस्तु लक्ष्मणो राघवानुजः॥ जुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः। ततो हलहलाशब्दस्तुमुलः समजायत॥ तस्य निष्क्रममाणस्य जनौघस्य समन्ततः। ततो हयवरा मुख्या नागाश्च गिरिसंनिभाः॥ अनुजग्मुस्तथा रामं शतशोऽथ सहस्रशः। अग्रतश्चास्य संनद्धाश्चन्दनागुरुभूषिताः॥ खङ्गचापधराः शूरा जग्मुराशंसवो जनाः। ततो वादित्रशब्दाश्च स्तुतिशब्दाश्च वन्दिनाम्॥ सिंहनादाश्च शूराणां ततः शुश्रुविरे पथि। हर्म्यवातायनस्थाभिर्भूषिताभिः समन्ततः॥ कीर्यमाणः सुपुष्पौधैर्ययौ स्त्रीभिररिंदमः। रामं सर्वानवद्याङ्गयो रामपिप्रीषया ततः॥ वचोभिरग्र्यैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे। नूनं नन्दति ते माता कौसल्या मातृनन्दन॥ पश्यन्ती सिद्धयात्रं त्वां पित्र्यं राज्यमुपस्थितम्। सर्वसीमन्तिनीभ्यश्च सीतां सीमन्तिनी वराम्॥ अमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम्। तया सुचरितं देव्या पुरा नूनं महत् तपः॥ रोहिणीव शशाङ्केन रामसंयोगमाप या। इति प्रासादशृङ्गेषु प्रमदाभिर्नरोत्तमः। शुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः।॥ शुश्राव लोकस्य समागतस्य। आत्माधिकारा विविधाश्च वाचः प्रहृष्टरूपस्य पुरे जनस्य॥ एष श्रियं गच्छति राघवोऽद्य राजप्रसादाद् विपुलां गमिष्यन्। एते वयं सर्वसमृद्धकामा येषामयं नो भविता प्रशास्ता॥ लाभो जनस्यास्य यदेष सर्वं प्रपत्स्यते राष्ट्रमिदं चिराय। न ह्यप्रियं किंचन जातु कश्चित् पश्येन दुःखं मनुजाधिपेऽस्मिन्॥ स घोषवद्भिश्च हयैः सनागैः पुर:सरैः स्वस्तिकसूतमागधैः। रभिष्टतो वैश्रवणो यथा ययौ॥ करेणुमातङ्गरथाश्वसंकुलं महाजनौधैः परिपूर्णचत्वरम्। प्रभूतरत्नं बहुपण्यसंचयं ददर्श रामो विमलं महापथम्॥ तस्मिंस्तु पुरुषव्याघ्र निष्क्रामति कृताञ्जलौ। आर्तशब्दो महान् जज्ञे स्त्रीणामन्तःपुरे तदा॥ कृत्येष्वचोदितः पित्रा सर्वस्यान्त:पुरस्य च। गतिश्च शरणं चासीत् स रामोऽद्य प्रवत्स्यति॥ कौसल्यायां यथा युक्तो जनन्यां वर्तते सदा। तथैव वर्ततेऽस्मासु जन्मप्रभृति राघवः॥ न क्रुध्यभिशप्तोऽपि क्रोधनीयानि वर्जयन्। क्रुद्धान् प्रसादयन् सर्वान् स इतोऽद्य प्रवत्स्यति॥ अबुद्धिर्बत नो राजा जीवलोकं जरत्ययम्। यो गतिं सर्वभूतानां परित्यजति राघवम्॥ इति सर्वा महिष्यस्ता विवत्सा इव धेनवः। पतिमाचुक्रुशुश्चापि सस्वनं चापि चुक्रुशुः॥ स हि चान्तःपुरे घोरमार्तशब्दं महीपतिः। पुत्रशोकाभिसंतप्तः श्रुत्वा व्यालीयतासने।७।। रामस्तु भृशमायस्तो निःश्वसत्रिव कुञ्जरः। जगाम सहितो भ्रात्रा मातुरन्तःपुरं वशी।८।। सोऽपश्यत् पुरुषं तत्र वृद्धं परमपूजितम्। उपविष्टं गृहद्वारि तिष्ठतश्चापरान् बहून्॥ दृष्ट्वैव तु तदा रामं ते सर्वे समुपस्थिताः। जयेन जयतां श्रेष्ठं वर्धयन्ति स्म राघवम्॥ प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः। ब्राह्मणान् वेदसम्पन्नान् वृद्धान् राज्ञाभिसत्कृतान्॥ प्रणम्य रामस्तान् वृद्धांस्तृतीयायां ददर्श सः। स्त्रियो बालाश्च वृद्धाश्च द्वाररक्षणतत्पराः॥ वर्धयित्वा प्रहृष्टास्ताः प्रविश्य च गृहं स्त्रियः। न्यवेदयन्त त्वरितं राममातुः प्रियं तदा॥ कौसल्यापि तदा देवी रात्रि स्थित्वा समाहिता। प्रभाते चाकरोत् पूजां विष्णोः पुत्रहितैषिणी॥ सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा। अग्निं जुहोति स्म तदा मन्त्रवद् कृतमङ्गला॥ प्रविश्य तु तदा रामो मातुरन्तःपुरं शुभम्। ददर्श मातरं तत्र हावयन्ती हुताशनम्॥ देवकार्यनिमित्तं च तत्रापश्यत् समुद्यतम्। दध्यक्षतघृतं चैव मोदकान् हविषस्तथा॥ लाजान् माल्यानि शुक्लानि पायसं कृसरं तथा। समिधः पूर्णकुम्भांश्च ददर्श रघुनन्दनः॥ तां शुक्लक्षौमसंवीतां व्रतयोगेन कर्शिताम्। तर्पयन्तीं ददर्शाद्भिर्देवतां वरवर्णिनीम्॥ सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम्। अभिचक्राम संहृष्टा किशोरं वडवा यथा॥ स मातरमुपक्रान्तामुपसंगृह्य राघवः। परिष्वक्तश्च बाहुभ्यामवघ्रातश्च मूर्धनि॥ तमुवाच दुराधर्षं राघवं सुतमात्मनः। कौसल्या पुत्रवात्सल्यादिदं प्रियहितं वचः॥ वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम्। प्राप्नुह्यायुश्च कीर्तिं च धर्म चाप्युचितं कुले॥ सत्यप्रतिज्ञं पितरं राजानं पश्य राघव। अद्यैव त्वां स धर्मात्मा यौवराज्येऽभिषेक्ष्यति ॥ दत्तमासनमालभ्य भोजनेन निमन्त्रितः। मातरं राघवः किंचित् प्रसार्याञ्जलिमब्रवीत्॥ स स्वभावविनीतश्च गौरवाच्च तथानतः। प्रस्थितो दण्डकारण्यमाप्रष्टुमुपचक्रमे॥ देवि नूनं न जानीषे महद् भयमुपस्थितम्। इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च॥ गमिष्ये दण्डकारण्यं किमनेनासनेन मे। विष्टरासनयोग्यो हि कालोऽयं मामुपस्थितः॥ चतुर्दश हि वर्षाणि वत्स्यामि विजने वने। कन्दमूलफलैर्जीवन् हित्वा मुनिवदामिषम्॥ भरताय महाराजो यौवराज्यं प्रयच्छति। मां पुनर्दण्डकारण्यं विवासयति तापसम्॥ सषट् चाष्टौ च वर्षाणि वत्स्यामि विजने वने। आसेवमानो वन्यानि फलमूलैश्च वर्तयन्॥ सा निकृत्तेव सालस्य यष्टिः परशुना वने। पपात सहसा देवी देवतेव दिवश्च्युता॥ तामदुःखोचितां दृष्ट्वा पतितां कदलीमिव। रामस्तूत्थापयामास मातरं गतचेतसम्॥ उपावृत्योत्थितां दीनां वडवामिव वाहिताम्। पांसुगुण्ठितसर्वाङ्गी विममर्श च पाणिना॥ सा राघवमुपासीनमसुखार्ता सुखोचिता। उवाच पुरुषव्याघ्रमुपशृण्वति लक्ष्मणे ॥ यदि पुत्र न जायेथा मम शोकाय राघव। न स्म दुःखमतो भूयः पश्येयमहमप्रजाः॥ एक एव हि वन्ध्यायाः शोको भवति मानसः। अप्रजास्मीति संतापो न ह्यन्यः पुत्र विद्यते॥ न हृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे। अपि पुत्रे विपश्येयमिति रामास्थितं मया॥ सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम्। अहं श्रोष्ये सपत्नीनामवराणां परा सती॥ अतो दु:खतरं किं नु प्रमदानां भविष्यति। मम शोको विलापश्च यादृशोऽयमनन्तकः॥ त्वयि संनिहितेऽप्येवमहमासं निराकृता। किं पुनः प्रोषिते तात ध्रुवं मरणमेव हि॥ अत्यन्तं निगृहीतास्मि भर्तुर्नित्यमसम्मता। परिवारेण कैकेय्याः समा वाप्यथवावरा।॥ यो हि मां सेवते कश्चिदपि वाप्यनुवर्तते। कैकेय्या पुत्रमन्वीक्ष्य स जनो नाभिभाषते॥ नित्यक्रोधतया तस्याः कथं नु खरवादिनम्। कैकेय्या वदनं द्रष्टुं पुत्र शक्ष्यामि दुर्गता॥ दश सप्त च वर्षाणि जातस्य तव राघव। अतीतानि प्रकासन्त्या मया दुःखपरिक्षयम्॥ तदक्षयं महदुःखं नोत्सहे सहितुं चिरात्। विप्रकारं सपत्नीनामेवं जीर्णापि राघव ॥ अपश्यन्ती तव मुखं परिपूर्णशशिप्रभम्। कृपणा वर्तयिष्यामि कथं कृपणजीविका ॥ उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः। दुःखसंवर्धितो मोघं त्वं हि दुर्गतया मया॥ स्थिरं नु हृदयं मन्ये ममेदं यन्न दीर्यते। प्रावृषीव महानद्याः स्पृष्टं कूलं नवाम्भसा ॥ ममैव नूनं मरणं न विद्यते न चावकाशोऽस्ति यमक्षये मम। यदन्तकोऽद्यैव न मां जिहीर्षति प्रसह्य सिंहो रुदती मृगीमिव ॥ स्थिरं हि नूनं हृदयं ममायसं न भिद्यते यद् भुवि नो विदीर्यते। अनेन दुःखेन च देहमर्पित ध्रुवं ह्यकाले मरणं न विद्यते॥ इदं तु दु:खं यदनर्थकानि मे व्रतानि दानानि च संयमाश्च हि। तपश्च तप्तं यदपत्यकाम्यया सुनिष्फलं बीजमिवोप्तमूषरे॥ यदि ाकाले मरणं यदृच्छया लभेत कश्चिद् गुरुदुःखकर्शितः। गताहमचैव परेतसंसदं विना त्वया धेनुरिवात्मजेन वै॥ अथापि किं जीवितमद्य मे वृथा त्वया विना चन्द्रिभाननाप्रभ। अनुव्रजिष्यामि वनं त्वयैव गौः सुदुर्बला वत्समिवाभिकाश्या॥ भृशमसुखममर्षिता तदा बहु विललाप समीक्ष्य राघवम्। व्यसनमुपनिशाम्य सा महत् सुतमिव बद्धमवेक्ष्य किंनरी॥ तथा तु विलपन्तीं तां कौसल्यां राममातरम्। उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः॥ न रोचते ममाप्येतदार्ये यद् राघवो वनम्। त्यक्त्वा राज्यश्रियं गच्छेत् स्त्रिया वाक्यवशंगतः॥ विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः। नृपः किमिव न ब्रूयाच्चोद्यमानः समन्मथः॥ नास्यापराधं पश्यामि नापि दोषं तथाविधम्। येन निर्वास्यते राष्ट्राद् वनवासाय राघवः॥ न तं पश्याम्यहं लोके परोक्षमपि यो नरः। स्वमित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत्॥ देवकल्पमृगँ दान्तं रिपूणामपि वत्सलम्। अवेक्षमाणः को धर्मं त्यजेत् पुत्रमकारणात्॥ तदिदं वचनं राज्ञः पुनर्बाल्यमुपेयुषः। पुत्रः को हृदये कुर्याद् राजवृत्तमनुस्मरन्।७।। यावदेव न जानाति कश्चिदर्थमिमं नरः। तावदेव मया सार्धमात्मस्थं कुरु शासनम् ॥ मया पार्श्वे सधनुषा तव गुप्तस्य राघव। कः समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः॥ निर्मनुष्यामिमां सर्वामयोध्यां मनुजर्षभ। करिष्यामि शरैस्तीक्ष्णैर्यदि स्थास्यति विप्रिये॥ भरतस्याथ पक्ष्यो वा यो वास्य हितमिच्छति। सर्वास्तांश्च वधिष्यामि मृदुर्हि परिभूयते॥ प्रोत्साहितोऽयं कैकेय्या संतुष्टो यदि नः पिता। अमित्रभूतो निःसङ्गं वध्यतां वध्यतामपि॥ गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः। उत्पथं प्रतिपन्नस्य कार्य भवति शासनम्॥ बलमेष किमाश्रित्य हेतुं वा पुरुषोत्तम। दातुमिच्छति कैकेय्यै उपस्थितमिदं तव॥ त्वया चैव मया चैव कृत्या वैरमनुत्तमम्। कास्य शक्तिः श्रियं दातुं भरतायारिशासन ॥ अनुरक्तोऽस्मि भावेन भ्रातरं देवि तत्त्वतः। सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे॥ दीप्तमग्निमरण्यं वा यदि रामः प्रवेक्ष्यति। प्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय॥ हरामि वीर्याद् दुःखं ते तमः सूर्य इवोदितः। देवी पश्यतु मे वीर्यं राघवश्चैव पश्यतु॥ हनिष्ये पितरं वृद्धं कैकेय्यासक्तमानसम्। कृपणं च स्थितं बाल्ये वृद्धभावेन गर्हितम्॥ एतत् तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः। उवाच रामं कौसल्या रुदती शोकलालसा॥ भ्रातुस्ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया। यदत्रानन्तरं तत्त्वं कुरुष्व यदि रोचते॥ न चाधर्म्यं वचः श्रुत्वा सपत्न्या मम भाषितम्। विहाय शोकसंतप्ता गन्तुमर्हसि मामितः॥ धर्मज्ञ इति धर्मिष्ठ धर्मं चरितुमिच्छसि। शुश्रूष मामिहस्थस्त्वं चर धर्ममनुत्तमम्॥ शुश्रूषुर्जननीं पुत्र स्वगृहे नियतो वसन्। परेण तपसा युक्तः काश्यपस्त्रिदिवं गतः॥ यथैव राजा पूज्यस्ते गौरवेण तथा ह्यहम्। त्वां साहं नानुजानामि न गन्तव्यमितो वनम्॥ त्ववियोगान मे कार्य जीवितेन सुखेन च। त्वया सह मम श्रेयस्तृणानामपि भक्षणम्॥ यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम्। अहं प्रायमिहासिष्ये न च शक्ष्यामि जीवितुम्॥ ततस्त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम्। ब्रह्महत्यामिवाधर्मात् सपुद्रः सरितां पतिः॥ विलपन्ती तथा दीनां कौसल्यां जननीं ततः। उवाच रामो धर्मात्मा वचनं धर्मसंहितम्॥ नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम। प्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम् ॥ ऋषिणा च पितुर्वाक्यं कुर्वता वनचारिणा। गौर्हता जानता धर्म कण्डुना च विपश्चिता।॥ अस्माकं तु कुले पूर्व सगरस्याज्ञया पितुः। खनद्भिः सागरैर्भूमिमवाप्तः सुमहान् वधः॥ जामदग्न्येन रामेण रेणुका जननी स्वयम्। कृत्ता परशुनारण्ये पितुर्वचनकारणात्॥ एतैरन्यैश्च बहुभिर्देवि देवसमैः कृतम्। पितुर्वचनमक्लीबं करिष्यामि पितुर्हितम्॥ न खल्वेतन्मयैकेन क्रियते पितृशासनम्। एतैरपि कृतं देवि ये मया परिकीर्तिताः॥ नाहं धर्ममपूर्वं ते प्रतिकूलं प्रवर्तये। पूर्वैरयमभिप्रेतो गतो मार्गोऽनुगम्यते॥ तदेतत् तु मया कार्य क्रियते भुवि नान्यथा। पितुर्हि वचनं कुर्वन् न कश्चिन्नाम हीयते॥ तामेवमुक्त्वा जननी लक्ष्मणं पुनरब्रवीत्। वाक्यं वाक्यविदां श्रेष्ठः श्रेष्ठः सर्वधनुष्मताम्॥ तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम्। विक्रमं चैव सत्त्वं च तेजश्च सुदुरासदम्॥ मम मातुर्महद् दुःखमतुलं शुभलक्षण। अभिप्रायं न विज्ञाय सत्यस्य च शमस्य च॥ धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम्। धर्मसंश्रितमप्येतत् पितुर्वचनमुत्तमम्॥ संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा। न कर्तव्यं वृथा वीर धर्ममाश्रित्य तिष्ठता॥ सोऽहं न शक्ष्यामि पुनर्नियोगमतिवर्तितुम्। पितुर्हिवचनाद् वीर कैकेय्याहं प्रचोदितः॥ तदेतां विसृजानार्यां क्षत्रधर्माश्रिता मतिम्। धर्ममाश्रय मा तैक्ष्ण्यं मद्बुद्धिरनुगम्यताम्॥ तमेवमुक्त्वा सौहार्दाद् भ्रातरं लक्ष्मणाग्रजः। उवाच भूयः कौसल्यां प्राञ्जलिः शिरसा नतः॥ अनुमन्यस्व मां देवि गमिष्यन्तमितो वनम्। शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे॥ तीर्णप्रतिज्ञश्च वनात् पुनरेष्याम्यहं पुरीम्। ययातिरिव राजर्षिः पुरा हित्वा पुनर्दिवम्॥ शोकः संधार्यतां मातर्हृदये साधु मा शुचः। वनवासादिहैष्यामि पुनः कृत्वा पितुर्वचः॥ त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया। पितुर्नियोगे स्थातव्यमेष धर्मः सनातनः॥ अम्ब सम्भृत्य सम्भारान् दुःखं हृदि निगृह्य च। वनवासकृता बुद्धिर्मम धानुवर्त्यताम् ॥ एतद् वचस्तस्य निशम्य माता सुधर्म्यमव्यग्रमविक्लवं च। मृतेव संज्ञां प्रतिलभ्य देवी समीक्ष्य रामं पुनरित्युवाच। ५१।। यथैव ते पुत्र पिता तथाहं गुरुः स्वधर्मेण सुहृत्तया च। न त्वानुजानामि न मां विहाय सुदुःखितामर्हसि पुत्र गन्तुम् ॥ किं जीवितेनेह विना त्वया मे लोकेन वा किं स्वधयामृतेन। श्रेयो मुहूर्तं तव संनिधानं ममेव कृत्स्नादपि जीवलोकात्॥ नरैरिवोल्काभिरपोह्यमानो महागजो ध्वान्तमभिप्रविष्टः। भूयः प्रजज्वाल विलापमेवं निशम्य रामः करुणं जनन्याः॥ मार्तं च सौमित्रिमभिप्रतप्तम्। धर्मे स्थितो धर्म्यमुवाच वाक्यं यथा स एवार्हति तत्र वक्तुम् ॥ अहं हि ते लक्ष्मण नित्यमेव जानामि भक्तिं च पराक्रमं च। मम त्वभिप्रायमसंनिरीक्ष्य मात्रा सहाभ्यर्दसिमा सुदुःखम्।५६।। जीवलोके समाक्षिता धर्मफलोदयेषु। ये तत्र सर्वे स्युरसंशयं मे भार्येव वश्याभिमता सपुत्रा ॥ यस्मिंस्तु सर्वे स्युरसंनिविष्टा धर्मो यतः स्यात् तदुपक्रमेत। धर्मार्थकामाः खलु द्वेष्यो भवत्यर्थपरो हि लोके कामात्मता खल्वपि न प्रशस्ता॥ गुरुश्च राजा च पिता च वृद्धः क्रोधात् प्रहर्षादथवापि कामात्। यद् व्यादिशेत् कार्यमवेक्ष्य धर्म कस्तं न कुर्यादनृशंसवृत्तिः। ५९।। मिमां न कर्तुं सकलां यथावत्। स ह्यावयोस्तात गुरुर्नियोगे देव्याश्च भर्ता स गतिश्च धर्मः॥ तस्मिन् पुनर्जीवति धर्मराजे विशेषतः स्वे पथि वर्तमाने। देवी मया सार्धमितोऽभिगच्छेत् कथंस्विदन्या विधवेव नारी॥ सा मानुमन्यस्व वनं व्रजन्तं कुरुष्व नः स्वस्त्ययनानि देवि। यथा समाप्ते पुनराव्रजेयं यथा हि सत्येन पुनर्ययातिः॥ त्र पृष्ठतः कर्तुमलं महोदयम्। अदीर्घकालेन तु देवि जीविते वृणेऽवरामद्य महीमधर्मतः॥ प्रसादयन्नरवृषभः स मातरं पराक्रमाज्जिगमिषुरेव दण्डकान्। अथानुजं भृशमनुशास्य दर्शनं चकार तां हृदि जननीं प्रदक्षिणम्॥ अथ तं व्यथया दीनं सविशेषममर्षितम्। सरोषमिव नागेन्द्रं रोषविस्फारितेक्षणम्॥ आसाद्य रामः सौमित्रिं सुहृदं भ्रातरं प्रियम्। उवाचेदं स धैर्येण धारयन् सत्त्वमात्मवान्॥ निगृह्य रोष शोकं च धैर्यमाश्रित्य केवलम्। अवमानं निरस्यैनं गृहीत्वा हर्षमुत्तमम्॥ उपक्लुप्तं यदैतन्मे अभिषेकार्थमुत्तमम्। सर्वं निवर्तय क्षिप्रं कुरु कार्य निरव्ययम्॥ सौमित्रे योऽभिषेकार्थे मम सम्भारसम्भ्रमः। अभिषेकनिवृत्त्यर्थे सोऽस्तु सम्भारसम्भ्रमः॥ यस्या मदभिषेकार्थे मानसं परितप्यते। माता नः सा यथा न स्यात् सविशङ्का तथा कुरु॥ तस्याः शङ्कामयं दुःखं मुहूर्तमपि नोत्सहे। मनसि प्रतिसंजातं सौमित्रेऽहमुपेक्षितुम्।७।। न बुद्धिपूर्वं नाबुद्धं स्मरामीह कदाचन। मातृणां वा पितुहिं कृतमल्पं च विप्रियम्॥ सत्यः सत्याभिसंधश्च नित्यं सत्यपराक्रमः। परलोकभयाद् भीतो निर्भयोऽस्तु पिता मम॥ तस्यापि हि भवेदस्मिन् कर्मण्यप्रतिसंहते। सत्यं नेति मनस्तापस्तस्य तापस्तपेच्च माम्॥ अभिषेकविधानं तु तस्मात् संहृत्य लक्ष्मण। अन्वगेवाहमिच्छामि वनं गन्तुमितः पुरः॥ मम प्रव्राजनादद्य कृतकृत्या नृपात्मजा। सुतं भरतमव्यग्रमभिषेचयतां ततः॥ मयि चीराजिनधरे जटामण्डलधारिणि। गतेऽपण्यं च कैकेय्या भविष्यति मनः सुखम्॥ बुद्धिः प्रणीता येनेयं मनश्च सुसमाहितम्। तं नु नार्हामि संक्लेष्टुं प्रव्रजिष्यामि मा चिरम्॥ कृतान्त एव सौमित्रे द्रष्टव्यो मत्प्रवासने। राज्यस्य च वितीर्णस्य पुनरेव निवर्तते॥ कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम वेदने। यदि तस्या न भावोऽयं कृतान्तविहितो भवेत्॥ जानासि हि यथा सौम्य न मातृषु ममान्तरम्। भूतपूर्वं विशेषो वा तस्या मयि सुतेऽपि वा॥ सोऽभिषेकनिवृत्त्यथैः प्रवासाथैश्च दुर्वचैः। उग्रैर्वाक्यैरहं तस्या नान्यद् दैवात् समर्थये॥ कथं प्रकृतिसम्पन्ना राजपुत्री तथागुणा। ब्रूयात् सा प्राकृतेव स्त्री मत्पीड्यं भर्तृसंनिधौ ॥ यदचिन्त्यं तु तद् दैवं भूतेष्वपि न हन्यते। व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः॥ कश्च दैवेन सौमित्रे योद्धमुत्सहते पुमान्। यस्य नु ग्रहणं किंचित् कर्मणोऽन्यन्न दृश्यते॥ सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ। यस्य किंचित् तथाभूतं ननु दैवस्य कर्म तत्॥ ऋषयोऽप्युग्रतपसो दैवेनाभिप्रचोदिताः। उत्सृज्य नियमास्तीव्रान् भ्रश्यन्ते काममन्युभिः॥ असंकल्पितमेवेह यदकस्मात् प्रवर्तते। निवारब्धमारम्भैननु दैवस्य कर्म तत्॥ एतया तत्त्वया बुद्धया संस्तभ्यात्मानमात्मना। व्याहतेऽप्यभिषेके मे परितापो न पिद्यते॥ तस्मादपरितापः संस्त्वमप्यनुविधाय माम्। प्रतिसंहारय क्षिप्रमाभिषेचनिकी क्रियाम्॥ एभिरेव घटैः सर्वैरभिषेचनसम्भृतैः। मम लक्ष्मण तापस्ये व्रतस्नानं भविष्यति ॥ अथवा किं मयैतेन राज्यद्रव्यमयेन तु। उद्धृतं मे स्वयं तोयं व्रतादेशं करिष्यति॥ मा च लक्ष्मण संतापं कार्षीर्लक्ष्या विपर्यये। राज्यं वा वनवासो वा वनवासो महोदयः॥ न लक्ष्मणास्मिन् मम राज्यविघ्ने माता यवीयस्यभिशङ्कितव्या। ज्जानासि दैवं हि तथाप्रभावम्॥ तं समीक्ष्य व्यवसितं पितुर्निर्देशपालने। कौसल्या बाष्पसंरुद्धा वचो धर्मिष्ठमब्रवीत्॥ अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः। मयि जातो दशरथात् कथमुञ्छेन वर्तयेत्॥ यस्य भृत्याश्च दासाश्च मृष्टान्यन्नानि भुञ्जते। कथं स भोक्ष्यते रामो वने मूलफलान्ययम्॥ क एतच्छ्रद्दधेच्छ्रुत्वा कस्य वा न भवेद् भयम्। गुणवान् दयितो राज्ञः काकुत्स्थो यद् विवास्यते॥ नूनं तु बलवाँल्लोके कृतान्तः सर्वमादिशन्। लोके रामाभिरामस्त्वं वनं यत्र गमिष्यसि ॥ अयं तु मामात्मभवस्तवादर्शनमारुतः। विलापदुःखसमिधो रुदिताश्रुहुताहुतिः॥ चिन्तावाष्पमहाधूमस्तवागमनचिन्तजः। कर्शयित्वाधिकं पुत्र निःश्वासायाससम्भवः॥ त्वया विहीनामिह मां शोकाग्निरतुलो महान्। प्रधक्ष्यति यथा कक्ष्यं चित्रभानुर्हिमात्यये॥ कथं हि धेनुः स्वं वत्सं गच्छन्तमनुगच्छति। अहं त्वानुगमिष्यामि यत्र वत्स गमिष्यसि॥ यथा निगदितं मात्रा तद् वाक्यं पुरुषर्षभः। श्रुत्वा रामोऽब्रवीद् वाक्यं मातरं भृशदुःखिताम्॥ कैकेय्या वञ्चितो राजा मयि चारण्यमाश्रिते। भवत्या च परित्यक्तो न नूनं वर्तयिष्यति॥ भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः। स भवत्या न कर्तव्यो मनसापि विगर्हितः॥ यावज्जीवति काकुत्थः पिता मे जगतीपतिः। शुश्रूषा क्रियतां तावत् स हि धर्मः सनातनः॥ एवमुक्ता तु रामेण कौसल्या शुभदर्शना। तथेत्युवाच सुप्रीता राममक्लिष्टकारिणम्॥ एवमुक्तस्तु वचनं रामो धर्मभृतां वरः। भूयस्तामब्रवीद् वाक्यं मातरं भृशदुःखिताम्॥ मया चैव भवत्या च कर्तव्यं वचनं पितुः। राजा भर्ता गुरुः श्रेष्ठः सर्वेषामीश्वरः प्रभुः॥ इमानि तु महारण्ये विहृत्य नव पञ्च च। वर्षाणि परमप्रीत्या स्थास्यामि वचने तव॥ एवमुक्ता प्रियं पुत्रं बाष्पपूर्णानना तदा। उवाच परमार्ता तु कौसल्या सुतवत्सला ॥ आसां राम सपत्नीनां वस्तुं मध्ये न मे क्षमम्। नय मामपि काकुत्स्थ वनं वन्यां मृगीमिव॥ यदि ते गमने बुद्धिः कृता पितुरपेक्षया। तां तथा रुदतीं रामोऽरुदन् वचनमब्रवीत्॥ जीवन्त्या हि स्त्रिया भर्ता दैवतं प्रभुरेव च। भवत्या मम चैवाद्य राजा प्रभवति प्रभुः॥ न ह्यनाथा वयं राज्ञा लोकनाथेन धीमता। भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदः॥ भवतीमनुवर्तेत स हि धर्मरतः सदा। यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः॥ श्रमं नावाप्नुयात् किंचिदप्रमत्ता तथा कुरु। दारुणश्चाप्ययं शोको यथैनं न विनाशयेत्॥ राज्ञो वृद्धस्य सततं हितं चर समाहिता। व्रतोपवासनिरता या नारी परमोत्तमा॥ भर्तारं नानुवर्तेत सा च पापगतिर्भवेत्। भर्तुः शुश्रूषया नारी लभते स्वर्गमुत्तमम्॥ अपि या निर्नमस्कारा निवृत्ता देवपूजनात्। शुश्रूषामेव कुर्वीत भर्तुः प्रियहिते रता॥ एष धर्मः स्त्रिया नित्यो वेदे लोके श्रुतः स्मृतः। अग्निकार्येषु च सदा सुमनोभिश्च देवताः॥ पूज्यास्ते मत्कृते देवि ब्राह्मणाश्चैव सत्कृताः। एवं कालं प्रतीक्षस्व ममागमनकाङ्क्षिणी॥ नियता नियताहारा भर्तृशुश्रूषणे रता। प्राप्स्यसे परमं कामं मयि पर्यागते सति ॥ यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम्। एवमुक्ता तु रामेण बाष्पपर्याकुलेक्षणा॥ कौसल्या पुत्रशोकार्ता रामं वचनमब्रवीत्। गमने सुकृतां बुद्धिं न ते शक्नोमि पुत्रक॥ विनिवर्तयुतुं वीर नूनं कालो दुरत्ययः। गच्छ पुत्र त्वमेकाग्रो भद्रं तेऽस्तु सदा विभो॥ पुनस्त्वयि निवृत्ते तु भविष्यामि गतक्लमा। प्रत्यागते महाभागे कृतार्थे चरितव्रते। पितुरानृण्यतां प्राप्ते स्वपिष्ये परमं सुखम्॥ कृतान्तस्य गतिः पुत्र दुर्विभाव्या सदा भुवि। यस्त्वां संचोदयति मे वच आविध्य राघव॥ गच्छेदानीं महाबाहो क्षेमेण पुनरागतः। नन्दयिष्यसि मां पुत्र साम्ना श्लक्ष्णेन चारुणा॥ अपीदानीं स कालः स्याद् वनात् प्रत्यागतं पुनः। यत् त्वां पुत्रक पश्येयं जटाबल्कलधारिणम्॥ तथा हि राम वनवासनिश्चितं ददर्श देवी परमेण चेतसा। उवाच रामं शुभलक्षणं वचो बभूव च स्वस्त्ययनाभिकाशिणी॥ सा विनीय तमायासमुपस्पृश्य जलं शुचि। चकार माता रामस्य मङ्गलानि मनस्विनी॥ न शक्यसे वारयितं गच्छेदानी रघूत्तम। शीघ्रं च विनिवर्तस्व वर्तस्व च सतां क्रमे॥ यं पालयसि धर्म त्वं प्रीत्या च नियमेन च। स वै राघवशार्दूल धर्मस्त्वामभिरक्षतु॥ येभ्यः प्रणमसे पुत्र देवेष्वायतनेषु च। ते च त्वामभिरक्षन्तु वने सह महर्षिभिः॥ यानि दत्तानि तेऽस्त्राणि विश्वामित्रेण धीमता। तानि त्वामभिरक्षन्तु गुणैः समुदितं सदा ॥ पितृशुश्रूषया पुत्र मातृशुश्रूषया तथा। सत्येन च महाबाहो चिरं जीवाभिरक्षितः॥ समित्कुशपवित्राणि वेद्यश्चायतनानि च। स्थण्डिलानि च विप्राणां शैला वृक्षाः क्षुपा ह्रदाः। पतङ्गाः पन्नगाः सिंहास्त्वां रक्षन्तु नरोत्तम।७।। स्वस्ति साध्याश्च विश्वे च मरुतश्च महर्षिभिः। स्वस्ति धाता विधाता च स्वस्ति पूषा भगोऽर्यमा॥ लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा । ऋतवः षट् च ते सर्वे मासाः संवत्सराः क्षपाः॥ दिनानि च मुहूर्ताश्च स्वस्ति कुर्वन्तु ते सदा। श्रुतिः स्मृतिश्च धर्मश्च पातु त्वां पुत्र सर्वतः॥ स्कन्दश्च भगवान् देवः सोमश्च सबृहस्पतिः। सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः॥ ते चापि सर्वतः सिद्धा दिशश्च सदिगीश्वराः। स्तुता मया वने तस्मिन् पान्तु त्वां पुत्र नित्यशः॥. शैलाः सर्वे समुद्राश्च राजा वरुण एव च। द्यौरन्तरिक्षं पृथिवी वायुश्च सचराचरः॥ नक्षत्राणि च सर्वाणि ग्रहाश्च सह दैवतैः। अहोरात्रे तथा संध्ये पान्तु त्वां वनमाश्रितम्॥ ऋतवश्चापि षट् चान्ये मासाः संवत्सरास्तथा। कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते॥ महावनेऽपि चरतो मुनिवेषस्य धीमतः। तथा देवाश्च दैत्याश्च भवन्तु सुखदाः सदा॥ राक्षसानां पिशाचानां रौद्राणां क्रूरकर्मणाम्। क्रव्यादानां च सर्वेषां मा भूत् पुत्रक भयम्॥ प्लवगा वृश्चिका दंशा मशकाश्चैव कानने। सरीसृपाश्च कीटाश्च मा भूवन् गहने तव॥ महाद्विपाश्च सिंहाश्च व्याघ्रा ऋक्षाश्च दंष्ट्रिणः। महिषाः शृङ्गिणो रौद्रा न ते दुह्यन्तु पुत्रक॥ नृमांसभोजना रौद्रा ये चान्ये सर्वजातयः। मा च त्वां हिंसुषुः पुत्र मया सम्पूजितास्त्विह॥ ते आगमास्ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः। सर्वसम्पत्तयो राम स्वस्तिमान् गच्छ पुत्रक॥ स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः। सर्वेभ्यश्चैव देवेभ्यो ये च ते परिपन्थिनः॥ शुक्रः सोमश्च सूर्यश्च धनदोऽथ यमस्तथा। पान्तु त्वामर्चिता राम दण्डकारण्यवासिनम् ॥ अग्निर्वायुस्तथा धूमो मन्त्राश्चर्षिमुखच्युताः। उपस्पर्शनकाले तु पान्तु त्वां रघुनन्दन ॥ सर्वलोकप्रभुर्ब्रह्मा भूतकर्तृ तथर्षयः। ये च शेषाः सुरास्ते तु रक्षन्तु वनवासिनम्॥ इति माल्यैः सुरगणान् गन्धैश्चापि यशस्विनी। स्तुतिभिश्चानुरूपाभिरान यतलोचना॥ ज्वलनं समुपादाय ब्राह्मणेन महात्मना। हावयामास विधिना राममङ्गलकारणात्॥ घृतं श्वेतानि माल्यानि समिधश्वैव सर्षपान्। उपसम्पादयामास कौसल्या परमाङ्गना॥ उपाध्यायः स विधिना हुत्वा शान्तिमनामयम्। हुतहव्यावशेषेण बाह्यं बलिमकल्पयत्॥ मधुदध्यक्षतघृतैः स्वस्तिवाच्यं द्विजांस्ततः। वाचयामास रामस्य वनेस्वस्त्ययनक्रियाम्॥ ततस्तस्मै द्विजेन्द्राय राममाता यशस्विनी। दक्षिणां प्रददौ काम्यां राघवं चेदमब्रवीत्॥ यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते। वृत्रनाशे समभवत् तत् ते भवतु मङ्गलम्॥ यन्मङ्गलं सुपर्णस्य विनताकल्पयत् पुरा। अमृतं प्रार्थयानस्य तत् ते भवतु मङ्गलम्॥ अमृतोत्पादने दैत्यान् घ्तो बज्रधरस्य यत्। अदितिर्मङ्गलं प्रादात् तत् ते भवतु मङ्गलम्॥ त्रिविक्रमान् प्रकमतो विष्णोरतुलतेजसः। यदासीन्मङ्गलं राम तत् ते भवतु मङ्गलम्॥ ऋषयः सागरा द्वीपा वेदा लोका दिशश्च ते। मङ्गलानि महाबाहो दिशन्तु शुभमङ्गलम्॥ इति पुत्रस्य शेषाश्च कृत्वा शिरसि भामिनी। गन्धैश्चापि समालभ्य राममायतलोचना॥ औषधी च सुसिद्धार्था विशल्यकरणीं शुभाम्। चकार रक्षां कौसल्या मन्त्रैरभिजजाप च॥ उवाचापि प्रहृष्टेव सा दु:खवशवर्तिनी। वाङ्मात्रेण न भावेन वाचा संसज्जमानया॥ आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी। अवदत् पुत्रमिष्टार्थो गच्छ राम यथासुखम्॥ अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम्। पश्यामि त्वां सुखं वत्स संधितं राजवर्त्मसु॥ प्रणष्टदुःखसंकल्पा हर्षविद्योतितानना। द्रक्ष्यामि त्वां वनात् प्राप्तं पूर्णचन्द्रमिवोदितम्॥ भद्रासनगतं राम वनवासादिहागतम्। द्रक्ष्यामि च पुनस्त्वां तु तीर्णवन्तं पितुर्वचः॥ मङ्गलैरूपसम्पन्नो वनवासादिहागतः। वध्वाश्च मम नित्यं त्वं कामान्संवर्ध याहि भोः॥ मयार्चिता देवगणाः शिवादयो महर्षयो भूतगणाः सुरोगाः। अभिप्रयातस्य वनं चिराय ते हितानि काङ्कन्तु दिशश्च राघव ॥ अतीव चाश्रुप्रतिपूर्णलोचना समाप्य च स्वस्त्ययनं यथाविधि। प्रदक्षिणं चापि चकार राघवं पुनः पुनश्चापि निरीक्ष्य सस्वजे॥ तया हि देव्या च कृतप्रदक्षिणो निपीड्य मातुश्चरणौ पुनः पुनः। जगाम सीतानिलयं महायशाः स राघवः प्रज्वलितस्तया श्रिया॥ अभिवाद्य तु कौसल्यां रामः सम्प्रस्थितो वनम्। कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः॥ विराजयन् राजसुतो राजमार्ग नरैर्वृतम्। हृदयान्याममन्थेव जनस्य गुणवत्तया॥ वैदेही चापि तत् सर्वं न शुश्राव तपस्विनी। तदेव हृदि तस्याश्च यौवराज्याभिषेचनम्॥ देवकार्यं स्म सा कृत्वा कृतज्ञा हृष्टचेतना। अभिज्ञा राजधर्माणां राजपुत्री प्रतीक्षति ॥ प्रविवेशाथ रामस्तु स्ववेश्म सुविभूषितम्। प्रहृष्टजनसम्पूर्ण ह्रिया किंचिदवाङ्मुखः॥ अथ सीता समुत्पत्य वेपमाना च तं पतिम्। अपश्यच्छोकसंतप्तं चिन्ताव्याकुलितेन्द्रियम्॥ तां दृष्ट्वा स हि धर्मात्मा न शशाक मनोगतम्। तं शोकं राघवः सोढुं ततो विवृततां गतः॥ विवर्णवदनं दृष्ट्वा तं प्रस्विनममर्षणम्। आह दुःखाभिसंतप्ता किमिदानीमिदं प्रभो॥ अद्य बार्हस्पतः श्रीमान् युक्तः पुष्येण राघव। प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वमसि दुर्मनाः॥ न ते शतशलाकेन जलफेननिभेन च। आवृतं वदनं वल्गु च्छत्रेणाभिविराजते॥ व्यजनाभ्यां च मुख्याभ्यां शतपत्रनिभेक्षणम्। चन्द्रहंसप्रकाशाभ्यां वीज्यते न तवाननम्॥ वाग्मिनो वन्दिनश्चापि प्रहृष्टास्त्वां नरर्षभ। स्तुवन्तो नाद्य दृश्यन्ते मङ्गलैः सूतमागधाः॥ न ते क्षौद्रं च दधि च ब्राह्मणा वेदपारगाः। मूर्धि मूर्धाभिषिक्तस्य ददति स्म विधानतः॥ न त्वां प्रकृतयः सर्वा श्रेणीमुख्याश्च भूषिताः। अनुव्रजितुमिच्छन्ति पौरजानपदास्तथा॥ चतुर्भिर्वेगसम्पनैर्हयैः काञ्चनभूषणैः। मुख्यः पुष्परथो युक्तः किं न गच्छति तेऽग्रतः॥ न हस्ती चाग्रतः श्रीमान् सर्वलक्षणपूजितः। प्रयाणे लक्ष्यते वीर कृष्णमेघगिरिपर्भः॥ न च काञ्चनचित्रं ते पश्यामि प्रियदर्शन। भद्रासनं पुरस्कृत्य यान्तं वीर पुरःसरम्॥ अभिषेको यदा सज्जः किमिदानीमिदं तव। अपूर्वो मुखवर्णश्च न प्रहर्षश्च लक्ष्यते॥ इतीव विलपन्तीं तां प्रोवाच रघुनन्दनः। सीते तत्र भवांस्तातः प्रव्राजयति मां वनम्॥ कुले महति सम्भूते धर्मज्ञे धर्मचारिणि। शृणु जानकि येनेदं क्रमेणाद्यागतं मम॥ राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन वै। कैकेय्यै मम मात्रे तु पुरा दत्तौ महावरौ॥ तयाद्य मम सज्जेऽस्मिन्नभिषेके नृपोद्यते। प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः॥ चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया। पित्रा मे भरतश्चापि यौवराज्ये नियोजितः॥ सोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम्। भरतस्य समीपे ते नाहं कत्थ्यः कदाचन॥ ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम्। तस्मान्न ते गुणाः कथ्या भरतस्याग्रतो मम ॥ अहं ते नानुवक्तव्यो विशेषेण कदाचन। अनुकूलतया शक्यं समीपे तस्य वर्तितुम्॥ तस्मै दत्तं नृपतिना यौवराज्यं सनातनम्। स प्रसाद्यस्त्वया सीते नृपतिश्च विशेषतः॥ अहं चापि प्रतिज्ञां तां गुरोः समनुपालयन्। वनमद्यैव यास्यामि स्थिरीभव मनस्विनि॥ याते च मयि कल्याणि वनं मुनिनिषेवितम्। व्रतोपवासपरया भवितव्यं त्वयानघे॥ कल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि। वन्दितव्यो दशरथः पिता मम जनेश्वरः॥ माता च मम कौसल्या वृद्धा संतापकर्शिता। धर्ममेवाग्रतः कृत्वा त्वत्तः सम्मानमर्हति ॥ वन्दितव्याश्च ते नित्यं याः शेषा मम मातरः। स्नेहप्रणयसम्भोगैः समा हि मम मातरः॥ भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः। त्वया भरतशत्रुघ्नौ प्राणैः प्रियतरौ मम॥ विप्रियं च न कर्तव्यं भरतस्य कदाचन। स हि राजा च वैदेहि देशस्य च कुलस्य च॥ आराधिता हि शीलेन प्रयत्नैश्चोपसेविताः। राजानः सम्प्रसीदन्ति प्रकुप्यन्ति विपर्यये॥ औरस्यानपि पुत्रान् हि त्यजन्त्यहितकारिणः। समर्थान् सम्प्रगृह्णन्ति जनानपि नराधिपाः॥ सा त्वं वसेह कल्याणि राज्ञः समनुवर्तिनी। भरतस्य रता धर्मे सत्यव्रतपरायणा॥ अहं गमिष्यामि महावनं प्रिये त्वया हि वस्तव्यमिहैव भामिनि। यथा व्यलीकं कुरुषे न कस्यचित् तथा त्वया कार्यमिदं वचो मम॥ एतत् तु वचनं श्रुत्वा सीता रामस्य दुःखिता। प्रसक्ताश्रुमुखी मन्दमिदं वचनमब्रवीत्॥ ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति। गुणानित्येव तान् विद्धि तव स्नेहपुरस्कृता॥ मृगाः सिंहा गजाश्चैव शार्दूलाः शरभास्तथा। चमराः सृमराश्चैव ये चान्ये वनचारिणः॥ अदृष्टपूर्वरूपत्वात् सर्वे ते तव राघव। रूपं दृष्ट्वाऽपसर्पेयुस्तव सर्वे हि बिभ्यति॥ त्वया च सह गन्तव्यं मया गुरुजनाज्ञया। त्वद्वियोगेन मे राम त्यक्तव्यमिह जीवितुम्॥ नहि मां त्वत्समीपस्थामपि शक्रोऽपि राघव। सुराणामीश्वरः शक्तः प्रधर्षयितुमोजसा॥ पतिहीना तु या नारी न सा शक्ष्यति जीवितुम्। काममेवंविधं राम त्वया मम निदर्शितम्॥ अथापि च महाप्राज्ञ ब्राह्मणानां मया श्रुतम्। पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने॥ लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाहं वचनं गृहे। वनवासकृतोत्साहा नित्यमेव महाबल॥ आदेशो वनवासस्य प्राप्तव्यः स मया किल। सा त्वया सह भर्ताहं यास्यामि प्रिय नान्यथा॥ कृतादेशा भविष्यामि गमिष्यामि त्वया सह। कालश्चायं समुत्पन्नः सत्यवाग्भवतु द्विजः॥ वनवासे हि जानामि दुःखानि बहुधा किल। प्राप्यन्ते नियतं वीर पुरुषैरकृतात्मभिः॥ कन्यया च पितुर्गेहे वनवासः श्रुतो मया। भिक्षिण्याः शमवृत्ताया मम मातुरिहाग्रतः॥ प्रसादितश्च वै पूर्वं त्वं में बहुतिथं प्रभो। गमनं वनवासस्य कासितं हि सह त्वया॥ कृतक्षणाहं भद्रं ते गमनं प्रति राघव। वनवासस्य शूरस्य मम चर्या हि रोचते॥ शुद्धात्मन् प्रेमभावाद्धि भविष्यामि विकल्मषा। भर्तारमनुगच्छन्ती भर्ता हि परदैवतम्॥ प्रेत्यभावे हि कल्याण: संगमो मे सदा त्वया। श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां यशस्विनाम्॥ इहलोके च पितृभिर्या स्त्री यस्य महाबल। अद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सा॥ एवमस्मात् स्वकां नारी सुवृत्तां हि पतिव्रताम्। नाभिरोचयसे नेतुं त्वं मां केनेह हेतुना॥ भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः। नेतुमर्हसि काकुत्स्थ समानसुखदुःखिनीम्॥ यदि मां दुःखितामेवं वनं नेतुं न चेच्छसि। विषमग्नि जलं वाहमास्थास्ये मृत्युकारणात्॥ एवं बहुविधं तं सा याचते गमनं प्रति। नानुमेने महाबाहुस्तां नेतुं विजनं वनम्॥ एवमुक्ता तु सा चिन्तां मैथिली समुपागता। स्नापयन्तीव गामुष्णैरश्रुभिर्नयनच्युतैः॥ चिन्तयन्ती तदा तां तु निवर्तयितुमात्मवान्। क्रोधाविष्टां तु वैदेही काकुत्स्थो बहुसान्त्वयत्॥ सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा। वनवासनिमित्तार्थं भर्तारमिदमब्रवीत्॥ सा तमुत्तमसंविग्ना सीता विपुलवक्षसम्। प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम्॥ किं त्वामन्यत वैदेहः पिता मे मिथिलाधिपः। राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम्॥ अनृतं वत लोकोऽयमज्ञानाद् यदि वक्ष्यति। तेजो नास्ति परं रामे तपतीव दिवाकरे॥ किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते। यत् परित्यक्तुकामस्त्वं मामनन्यपरायणाम्॥ धुमत्सेनसुतं वीरं सत्यवन्तमनुव्रताम्। सावित्रीमिव मां विद्धि त्वमात्मवशवर्तिनीम्॥ न त्वहं मनसा त्वन्यं द्रष्टास्मि त्वदृतेऽनघ। त्वया राघव गच्छेयं यथान्या कुलपांसनी॥ स्वयं तु भार्यां कौमारी चिरमध्युषितां सतीम्। शैलूष इव मां राम परेभ्यो दातुमिच्छसि॥ यस्य पथ्यंचरामात्थ यस्य चार्थेऽवरुध्यसे। त्वं तस्य भव वश्यश्च विधेयश्च सदानघ॥ स मामनादाय वनं न त्वं प्रस्थितुमर्हसि। तपो वा यदि वारण्यं स्वर्गो वा स्यात् त्वया सह ।।१०। न च मे भविता तत्र कश्चित् पथि परिश्रमः। पृष्ठतस्तव गच्छन्त्या विहारशयनेष्विव ॥ कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः। तूलाजिनसमस्पर्शा मार्गे मम सह त्वया॥ महावातसमुद्भूतं यन्मामवकरिष्यति। रजो रमण तन्मन्ये परार्ध्यमिव चन्दनम्॥ शाद्वलेषु यदा शिश्ये वनान्तर्वनगोचरा। कुथास्तरणयुक्तेषु किं स्यात् सुखतरं ततः॥ पत्रं मूलं फलं यत्तु अल्पं वा यदि वा बहु। दास्यसे स्वयमाहृत्य तन्मेऽमृतरसोपमम्॥ न मातुर्न पितुस्तत्र स्मरिष्यामि न वेश्मनः। आर्तवान्युपभुञ्जाना पुष्पाणि च फलानि च ॥ न च तत्र ततः किंचिद् द्रष्टुमर्हसि विप्रियम्। मत्कृते न च ते शोको न भविष्यामि दुर्भरा॥ यस्त्वया सह स स्वर्गो निरयो यस्त्वया विना। इति जानन् परां प्रीतिं गच्छ राम मया सह॥ अथ मामेवमव्यग्रां वनं नैव नयिष्यसे। विषमद्यैव पास्यामि मा वशं द्विषतां गमम्॥ पश्चादपि हि दुःखेन मम नैवास्ति जीवितम्। उज्झितायास्त्वया नाथ तदैव मरणं वरम्॥ इमं हि सहितुं शोकं मुहुर्तमपि नोत्सहे। किं पुनर्दश वर्षाणि त्रीणि चैकं च दुःखिता॥ इति सा शोकसंतप्ता विलप्य करुणं बहु। चुक्रोश पतिमायस्ता भृशमालिङ्गय सस्वरम्॥ सा विद्धा बहुभिर्वाक्यैर्दिग्धैरिव गजाङ्गना। चिरसंनियतं बाष्पं मुमोचाग्निमिवारणिः॥ तस्याः स्फटिकसंकाशं वारि संतापसम्भवम्। नेत्राभ्यां परिसुस्राव पङ्कजाभ्यामिवोदकम्॥ तत्सितामलचन्द्राभं मुखमायतलोचनम्। पर्यशुष्यत बाष्पेण जलोद्धृतमिवाम्बुजम्॥ तां परिष्वज्य बाहुभ्यां विसंज्ञामिव दुःखिताम्। उवाच वचनं रामः परिविश्वासयंस्तदा॥ न देवि बत दुःखेन स्वर्गमप्यभिरोचये। नहि मेऽस्ति भयं किंचित् स्वयम्भोरिव सर्वतः॥ तव सर्वमभिप्रायमविज्ञाय शुभानने। वासं न रोचयेऽरण्ये शक्तिमानपि रक्षणे॥ यत् सृष्टासि मया सार्धं वनवासाय मैथिलि। न विहातुं मया शक्या प्रीतिरात्मवता यथा ॥ धर्मस्तु गजनासोरु सद्भिराचरितः पुरा। तं चाहमनुवर्तिष्ये यथा सूर्यं सुवर्चला॥ न खल्वहं न गच्छेयं वनं जनकनन्दिनि । वचनं तन्नयति मां पितुः सत्योपबृंहितम्॥ एष धर्मश्च सुश्रोणि पितुर्मातुश्च वश्यता। आज्ञां चाहं व्यतिक्रम्य नाहं जीवितुमुत्सहे॥ अस्वाधीनं कथं दैवं प्रकारैरभिराध्यते। स्वाधीनं समतिक्रम्य मातरं पितरं गुरुम्॥ यत्र त्रयं त्रयो लोकाः पवित्रं तत्समं भुवि। नान्यदस्ति शुभापाङ्गे तेनेदमभिराध्यते॥ न सत्यं दानमानौ वा यज्ञो वाप्याप्तदक्षिणः। तथा बलकराः सीते यथा सेवा पितुर्मता॥ स्वर्गो धनं वा धान्यं वा विद्या पुत्राः सुखानि च । गरुवृत्त्यनुरोधेन न किंचिदपि दुर्लभम् ॥ देवगन्धर्वगोलोकान् ब्रह्मलोकांस्तथापरान्। प्राप्नुवन्ति महात्मानो मातापितृपरायणाः॥ स मा पिता यथा शास्ति सत्यधर्मपथे स्थितः। तथा वर्तितुमिच्छामि स हि धर्मः सनातनः॥ मम सना मतिः सीते नेतुं त्वां दण्डकावनम्। वसिष्यामीति सा त्वं मामनुयातुं सुनिश्चिता॥ सा हि दिष्टानवद्याङ्गि वनाय मदिरेक्षणे। अनुगच्छस्व मां भीरु सहधर्मचरी भव॥ सर्वथा सदृशं सीते मम स्वस्य कुलस्य च। व्यवसायमनुक्रान्ता कान्ते त्वमतिशोभनम्॥ आरभस्व शुभश्रोणि वनवासक्षमाः क्रियाः। नेदानीं त्वदृते सीते स्वर्गोऽपि मम रोचते।॥ ब्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश्च भोजनम्। देहि चाशंसमानेभ्यः संत्वरस्व च मा चिरम्॥ भूषणानि महार्हाणि वरवस्त्राणि यानि च। रमणीयाश्च ये केचित् क्रीडार्थाश्चाप्युपस्कराः॥ शयनीयानि यानानि मम चान्यानि यानि च। देहि स्वभृत्यवर्गस्य ब्राह्मणानामनन्तरम्॥ अनुकूलं तु सा भर्तुर्ज्ञात्वा गमनमात्मनः। क्षिप्रं प्रमुदिता देवी दातुमेव प्रचक्रमे॥ ततः प्रहृष्टा प्रतिपूर्णमानसा यशस्विनी भर्तुरवेक्ष्य भाषितम्। धनानि रत्नानि च दातुमङ्गना प्रचक्रमे धर्मभृतां मनस्विनी।।४७ एवं श्रुत्वा स संवादं लक्ष्मणः पूर्वमागतः। वाष्पपर्याकुलमुखः शोकं सोढुमशक्नुवन् ॥ स भ्रातुश्चरणौ गाढं निपीड्य रघुनन्दनः। सीतामुवाचातियशां राघवं च महाव्रतम्॥ यदि गन्तुं कृता बुद्धिर्वनं मृगगजायुतम्। अहं त्वानुगमिष्यामि वनमग्रे धनुर्धरः॥ मया समेतोऽरण्यानि रम्याणि विचरिष्यसि। पक्षिभिर्भूङ्गयूथैश्च संघुष्टानि समन्ततः॥ न देवलोकाक्रमणं नामरत्वमहं वृणे। ऐश्वर्यं चापि लोकानां कामये न त्वया विना ॥ एवं ब्रुवाणः सौमित्रिर्वनवासाय निश्चितः। रामेण बहुभिः सान्त्वैर्निषिद्धः पुनरब्रवीत्॥ अनुज्ञास्तु भवता पूर्वमेव यदस्म्यहम्। किमिदानी पुनरपि क्रियते मे निवारणम्॥ यदर्थं प्रतिषेधो मे क्रियते गन्तुमिच्छतः। एतदिच्छामि विज्ञातुं संशयो हि ममानघ ॥ ततोऽब्रवीन्महातेजा रामो लक्ष्मणमग्रतः। स्थितं प्राग्गामिनं धीरं याचमानं कृताञ्जलिम्॥ स्निग्धो धर्मरतो धीरः सततं सत्पथे स्थितः। प्रियः प्राणसमोवश्यो विजेयश्च सखा च मे॥ मयाद्य सह सौमित्रे त्वयि गच्छति तद्वनम्। को भजिष्यति कौसल्यां सुमित्रां वा यशस्विनीम्॥ अभिवर्षति कामैर्यः पर्जन्यः पृथिवीमिव। स कामपाशपर्यस्तो महातेजा महीपतिः॥ सा हि राज्यमिदं प्राप्य नृपस्याश्वपतेः सुता। दुःखितानां सपत्नीनां न करिष्यति शोभनम् ॥ न भरिष्यति कौसल्यां सुमित्रां च सुदुःखिताम्। भरतो, राज्यमासाद्य कैकेय्यां पर्यवस्थितः॥ तामार्यां स्वयमेवेह राजानुग्रहणेन वा। सौमित्रे भर कौसल्यामुक्तमर्थममुं चर॥ एवं मयि च ते भक्तिर्भविष्यति सुदर्शिता। धर्मज्ञगुरुपूजायां धर्मश्चाप्यतुलो महान्॥ सौमित्रे मत्कृते रघुनन्दन। अस्माभिर्विप्रहीणाया मातुर्नो न भवेत् सुखम्॥ एवमुक्तस्तु रामेण लक्ष्मणः श्लक्ष्णया गिरा। प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम्॥ तवैव तेजसा वीर भरतः पूजयिष्यति। कौसल्यां च सुमित्रां च प्रयतो नास्ति संशयः॥ यदि दुःस्थो न रक्षेत भरतो राज्यमुत्तमम्। प्राप्य दुर्मनसा वीर गर्वेण च विशेषतः॥ तमहं दुर्मतिं क्रूरं वधिष्यामि न संशयः। तत्पक्षानपि तान् सर्वास्त्रैलोक्यमपि किं तु सा॥ कौसल्या बिभृयादार्या सहस्रं मद्विधानपि। एवं कुरुष्व यस्याः सहस्रं ग्रामाणां सम्प्राप्तमुपजीविनाम्॥ तदात्मभरणे चैव मम मातुस्तथैव च। पर्याप्ता मद्विधानां च भरणाय मनस्विनी॥ कुरुष्व मामनुचरं वैधवें नेह विद्यते। कृतार्थोहं भविष्यामि तव चार्थः प्रकल्प्यते॥ धनुरादाय सगुणं खनित्रपिटकाधरः। अग्रतस्ते गमिष्यामि पन्थानं तव दर्शयन्॥ आहरिष्यामि ते नित्यं मूलानि च फलानि च। वन्यानि च तथान्यानि स्वाहा णि तपस्विनाम्॥ भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यसे। अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते॥ रामस्त्वनेन वाक्येन सुप्रीतः प्रत्युवाच तम्। व्रजापृच्छस्व सौमित्रे सर्वमेव सुहृज्जनम्॥ ये च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम्। जनकस्य महायज्ञे धनुषी रौद्रदर्शने॥ अभेद्ये कवचे दिव्ये तूणी चाक्षय्यसायको। आदित्यविमलाभौ द्वौ खङ्गौ हेमपरिष्कृतौ॥ सत्कृत्य निहितं सर्वमेतदाचार्यसद्मनि। सर्वमायुधमादाय क्षिप्रमाव्रज लक्ष्मण ॥ स सुहृज्जनमामन्त्र्य वनवासाय निश्चितः। इक्ष्वाकुगुरुमागम्य जग्राहायुधमुत्तमम्॥ तद् दिव्यं राजशार्दूलः सत्कृतं माल्यभूषितम्। रामाय दर्शयामास सौमित्रिः सर्वमायुधम्॥ तमुवाचात्मवान् रामः प्रीत्या लक्ष्मणमागतम्। काले त्वमागतः सौम्य कासिते मम लक्ष्मण॥ अहं प्रदातुमिच्छामि यदिदं मामकं धनम्। ब्राह्मणेभ्यस्तपस्विभ्यस्त्वया सह परंतप ॥ वसन्तीह दृढं भक्त्या गुरुषु द्विजसत्तमाः। तेषामपि च मे भूयः सर्वेषां चोपजीविनाम्॥ वसिष्ठपुत्रं तु सुयज्ञमार्य त्वमानयाशु प्रवरं द्विजानाम्। नभ्यर्च्य शिष्टानपरान् द्विजातीन्॥ दत्त्वा तु सह वैहेह्या ब्राह्मणेभ्यो धनं बहु। जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ॥ ततो गृहीते प्रेष्याभ्यामशोभेतां तदायुधे। मालादामभिरासक्ते सीतया समलंकृते॥ ततः प्रासादहाणि विमानशिखराणि च। अभिरुह्य जनः श्रीमानुदासीनो व्यलोकयत्॥ न हि रथ्याः सुशक्यन्ते गन्तुं बहुजनाकुलाः। आरुह्य तस्मात् प्रासादाद् दीनाः पश्यन्ति राघवम्॥ पदाति सानुजं दृष्ट्वा ससीतं च जनास्तदा। ऊचुर्बहुजना वाचः शोकोपहतचेतसः॥ यं यान्तमनुयाति स्म चतुरङ्गबलं महत्। तमेकं सीतया सार्धमनुयाति स्म लक्ष्मणः॥ ऐश्वर्यस्य रसज्ञः सन् कामानां चाकरो महान्। नेच्छत्येवानृतं कर्तुं वचनं धर्मगौरवात्॥ या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि। तामद्य सीतां पश्यन्ति राजमार्गगता जनाः॥ अङ्गरागोचितां सीतां रक्तचन्दनसेविनीम्। 'वर्षमुष्णं च शीतं च नेष्यत्याशु विवर्णताम्॥ अद्य नूनं दशरथः सत्त्वमाविश्य भाषते। नहि राजा प्रियं पुत्रं विवासयितुमर्हति॥ निर्गुणस्यापि पुत्रस्य कथं स्याद् विनिवासनम्। किं पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम्॥ आनृशंस्यमनुक्रोशः श्रुतं शीलं दमः शमः। राघवं शोभयन्त्येते षड्गुणाः पुरुषर्षभम्॥ तस्मात् तस्योपघातेन प्रजाः परमपीडिताः। औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात्॥ पीडया पीडितं सर्वं जगदस्य जगत्पतेः। मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः॥ मूलं ह्येष मनुष्याणां धर्मसारो महाद्युतिः। पुष्पं फलं च पत्रं च शाखाश्चास्येतरे जनाः॥ ते लक्ष्मण इव क्षिप्रं सपल्यः सहबान्धवाः। गच्छन्तमनुगच्छामो येन गच्छति राघवः॥ उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च। एकदुःखसुखा राममनुगच्छाम धार्मिकम्॥ समुद्धृतनिधानानि परिध्वस्ताजिराणि च। उपात्तधनधान्यानि हृतसाराणि सर्वशः॥ रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः। मूषकैः परिधावद्भिरुद्विलैरावृतानि च॥ अपेतोदकधूमानि हीनसम्मार्जनानि च। प्रणष्टबलिकर्मेज्यामन्त्रहोमजपानि च॥ दुष्कालेनेव भग्नानि भिन्नभाजनवन्ति च। अस्मत्यक्तानि कैकेयी वेश्मानि प्रतिपद्यताम्॥ वनं नगरमेवास्तु येन गच्छति राघवः। अस्माभिश्च परित्यक्तं पुरं सम्पद्यतां वनम्॥ बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः। त्यजन्त्वस्मद्भयाद्रीता गजाः सिंहा वनान्यपि॥ अस्मत्त्यक्तं प्रपद्यन्तु सेव्यमानं त्यजन्तु च। तृणमांसफलादानं देशं व्यालमृगद्विजम्॥ प्रपद्यतां हि कैकेयी सपुत्रा सह बान्धवैः। राघवेण वयं सर्वे वने वत्स्याम निर्वृताः॥ इत्येवं विविधा वाचो नानाजनसमीरिताः। शुश्राव राघवः श्रुत्वा न विचक्रेऽस्य मानसम्॥ स तु वेश्म पुनर्मातुः कैलासशिखरप्रभम्। अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रमः॥ विनीतवीरपुरुषं प्रविश्य तु नृपालयम्। ददर्शावस्थितं दीनं सुमन्त्रमविदूरतः॥ मनार्तरूपः प्रसहनिवाथ। जगाम रामः पितरं दिदृक्षुः पितुर्निदेशं विधिवच्चिकीर्षुः॥ तत्पूर्वमैक्ष्वाकसुतो महात्मा रामो गमिष्यन् नृपमार्तरूपम्। व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं पितुर्महात्मा प्रतिहारणार्थम्॥ पितुर्निदेशेन तु धर्मवत्सलो वनप्रवेशे कृतबुद्धिनिश्चयः। निवेदयस्वागमनं नृपाय मे॥ ततः कमलपत्राक्षः श्यामो निरूपमो महान्। उवाच रामस्तं सूतं पितुराख्याहि मामिति ॥ स रामप्रेषितः क्षिप्रं संतापकलुषेन्द्रियम्। प्रविश्य नृपतिं सूतो निःश्वसन्तं ददर्श ह॥ उपरक्तमिवादित्यं भस्मच्छन्नमिवानलम्। तटाकमिव निस्तोयमपश्यज्जगतीपतिम्॥ आबोध्य च महाप्राज्ञः परमाकुलचेतनम्। राममेवानुशोचन्तं सूतः प्राञ्जलिरब्रवीत्॥ तं वर्धयित्वा राजानं पूर्वं सूतो जयाशिषा। भयविक्लवया वाचा मन्दया श्लक्ष्णयाब्रवीत्॥ अयं स पुरुषव्याघ्रो द्वारि तिष्ठति ते सुतः। ब्राह्मणेभ्यो धनं दत्त्वा सर्वं चैवोपजीविनाम्॥ स त्वां पश्यतु भद्रं ते रामः सत्यपराक्रमः। सर्वान् सुहृद आपृच्छ्य त्वां हीदानी दिदृक्षते॥ गमिष्यति महारण्यं तं पश्य जगतीपते। वृतं राजगुणैः सर्वैरादित्यमिव रश्मिभिः॥ स सत्यवाक्यो धर्मात्मा गाम्भीर्यात् सागरोपमः। आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम्॥ सुमन्त्रानय मे दारान् ये केचिदिह मामकाः। दारैः परिवृतः सर्वैर्द्रष्टुमिच्छामि राघवम्॥ सोऽन्तः पुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत्। आर्यो ह्वयति वो राजा गम्यतां तत्र मा चिरम्॥ एवमुक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया। प्रचक्रमुस्तद् भवनं भर्तुराज्ञाय शासनम् ॥ अर्धसप्तशतास्तत्र प्रमदास्ताम्रलोचनाः। कौसल्यां परिवार्याथ शनैर्जग्मुर्धृतव्रताः॥ आगतेषु च दारेषु समवेक्ष्य महीपतिः। उवाच राजा तं सूतं सुमन्त्रानय मे सुतम्॥ स सूतो राममादाय लक्ष्मणं मैथिली तथा। जगामाभिमुखस्तूर्णं सकाशं जगतीपतेः॥ स राजा पुत्रमायान्तं दृष्ट्वा चारात् कृताञ्जलिम्। उत्पपातासनात् तूर्णमार्तः स्त्रीजनसंवृतः॥ सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशाम्पतिः। तमसम्प्राप्य दुःखार्तः पपात भुवि मूर्च्छितः॥ तं रामोऽभ्यपतत् क्षिप्रं लक्ष्मणश्च महारथः। विसंज्ञमिव दुःखेन सशोकं नृपतिं तथा॥ स्त्रीसहस्रनिनादश्च संजज्ञे राजवेश्मनि। हा हा रामेति सहसा भूषणध्वनिमिश्रितः।।१९ तं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ। पर्यङ्के सीतया सार्धं रुदन्तः समवेशयन्॥ अथ रामो मुहूर्तस्य लब्धसंज्ञं महीपतिम्। उवाच प्राञ्जलिर्बाष्पशोकार्णवपरिप्लुतम्॥ आपृच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नः। प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम्॥ लक्ष्मणं चानुजानीहि सीता चान्वेतु मां वनम्। कारणैर्बहुभिस्तथ्यैर्वार्यमाणौ न चेच्छतः।।२३ अनुजानीहि सर्वान् नः शोकमुत्सृज्य मानद। लक्ष्मणं मां च सीतां च प्रजापतिरिवात्मजान्॥ प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः। उवाच राजा सम्प्रेक्ष्य वनवासाय राघवम्॥ अहं राघव कैकेय्या वरदानेन मोहितः। अयोध्यायां त्वमेवाद्य भव राजा निगृह्य माम्॥ एवमुक्तो नृपतिनां रामो धर्मभृतां वरः। प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः॥ भवान् वर्षसहस्राय पृथिव्या नृपते पतिः। अहं त्वरण्ये वत्स्यामि न मे राज्यस्य कासिता ।।२८। नव पञ्च च वर्षाणि वनवासे विहृत्य ते। पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिप ॥ रुदत्रातः प्रियं पुत्रं सत्यपाशेन संयुतः। कैकेय्या चोद्यमानस्तु मिथो राजा तमब्रवीत्॥ श्रेयसे वृद्धये तातं पुनरागमनाय च। गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम्॥ न हि सत्यात्मनस्तात धर्माभिमनसस्तव। संनिवर्तयितुं बुद्धिः शक्यते रघुनन्दन॥ अद्य त्विदानी रजनी पुत्र मा गच्छ सर्वथा। एकाहं दर्शनेनापि साधु तावच्चराम्यहम्॥ मातरं मां च सम्पश्यन् वसेमामद्य शर्वरीम्। तर्पितः सर्वकामैस्त्वं श्वः काल्ये साधयिष्यसि ॥ दुष्करं क्रियते पुत्र सर्वथा राघव प्रिय। त्वया हि मत्प्रियार्थं तु वनमेवमुपाश्रितम्॥ न चैतन्मे प्रियं पुत्र शपे सत्येन राघव। छत्रया चलितस्त्वस्मि स्त्रिया भस्माग्निकल्पया॥ वञ्चना या तु लब्धा मे तां त्वं निस्तर्तुमिच्छसि। अनया वृत्तसादिन्या कैकेय्याभिप्रचोदितः॥ न चैतदाश्चर्यतमं यत् त्वं ज्येष्ठः सुतो मम। अपानृतकथं पुत्र पितरं कर्तुमिच्छसि॥ अथ रामस्तदा श्रुत्वा पितुरातस्य भाषितम्। लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत्॥ प्राप्स्यामि यानद्य गुणान् को मे श्वस्तान् प्रदास्यति। अपक्रमणमेवातः सर्वकामैरहं वृणे॥ इयं सराष्ट्रा सजना धनधान्यसमाकुला। मया विसृष्टा वसुधा भरताय प्रदीयताम्॥ वनवासकृता बुद्धिर्न च मेऽद्य चलिष्यति। यस्तु युद्धे वरो दत्तः कैकेय्यै वरद त्वया।॥ दीयतां निखिलेनैव सत्यस्त्वं भव पार्थिव। अहं निदेशं भवतो यथोक्तमनुपालयन् ॥ चतुर्दश समा वत्स्ये वने वनचरैः सह। मा विमर्शो वसुमती भरताय प्रदीयताम्॥ नहि मे काशितं राज्यं सुखमात्मनि वा प्रियम्। यथानिदेशं कर्तुं वै तवैव रघुनन्दन ॥ अपगच्छतु ते दुःखं मा भूर्बाष्पपरिप्लुतः। नहि क्षुभ्यति दुर्धर्षः समुद्रः सरितां पतिः।॥ नैवाहं राज्यमिच्छामि न सुखं न च मेदिनीम्। नैव सर्वानिमान् कामान् न स्वर्गं न च जीवितुम्॥ त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ। प्रत्यक्षं तव सत्येन सुकृतेन च ते शपे॥ न च शक्यं मया तात स्थातुं क्षणमपि प्रभो। स शोकं धारयस्वेमं नहि मेऽस्ति विपर्ययः॥ अर्थितो ह्यस्मि कैकेय्या वनं गच्छेति राघव। मया चोक्तं व्रजामीति तत्सत्यमनुपालये॥ मा चोत्कण्ठां कृथा देव वने रंस्यामहे वयम्। प्रशान्तहरिणाकीर्णे नानाशकुनिनादिते॥ पिता हि दैवतं तात देवतानामपि स्मृतम्। तस्माद् दैवतमित्येव करिष्यामि पितुर्वचः॥ चतुर्दशसु वर्षेषु गतेषु नृपसत्तम। पुनर्द्रक्ष्यसि मां प्राप्तं संतापोऽयं विमुच्यताम्॥ येन संस्तम्भनीयोऽयं सर्वो वाष्पकलो जनः। स त्वं पुरुषशार्दूल किमर्थं विक्रियां गतः॥ पुरं च राष्ट्रं च मही च केवला मया विसृष्टा भरताय दीयताम्। अहं निदेशं भवतोऽनुपालयन् वनं गमिष्यामि चिराय सेवितुम्॥ मया विसृष्टां भरतो महीमिमां सशैलखण्डां सपुरोपकाननाम्। शिवासु सीमास्वनुशास्तु केवलं त्वया यदुक्तं नृपते तथास्तु तत्॥ न मे तथा पार्थिव दीयते मनो महत्सु कामेषु न चात्मनः प्रिये। यथा निदेशे तव शिष्टसम्मते व्यपैतु दु:खं तव मत्कृतेऽनघ ॥ तदद्य नैवानघ राज्यमव्ययं न सर्वकामान् वसुधां न मैथिलीम्। न चिन्तितं त्वामनृतेन योजयन् वृणीय सत्यं व्रतमस्तु ते तथा॥ फलानि मूलानि च भक्षयन् वने गिरीश्च पश्यन् सरितः सरांसि च। वनं प्रविश्यैव विचित्रपादपं सुखी भविष्यामि तवास्तु निर्वृतिः॥ स्तापेन दुःखेन च पीड्यमानः। आलिङ्गय पुत्रं सुविनष्टसंज्ञो भूमिं गतो नैव विचष्ट किंचित्॥ स्तां वर्जयित्वा नरदेवपत्नीम्। रुदन् सुमन्त्रोऽपि जगाम मूछा हाहाकृतं तत्र बभूव सर्वम्॥ ततो निधूय सहसा शिरो निःश्वस्य चासकृत्। पाणिं पाणौ विनिष्पिष्य दन्तान् कटकटाय्य च॥ लोचने कोपसंरक्ते वर्णं पूर्वोचितं जहत्। कोपाभिभूतः सहसा संतापमशुभं गतः॥ मनः समीक्षमाणश्च सूतो दशरथस्य च। कम्पयन्निव कैकेय्या हृदयं वाक्शरैः शितैः॥ वाक्यवत्रैरनुपमैर्निर्भिन्दन्निव चाशुभैः। कैकेय्याः सर्वमर्माणि सुमन्त्रः प्रत्यभाषत।४।। यस्यास्तव पतिस्त्यक्तो राजा दशरथः स्वयम्। भर्ता सर्वस्य जगतः स्थावरस्य चरस्य च॥ नाकार्यतमं किंचित्तव देवीह विद्यते। पतिघ्नीं त्वामहं मन्ये कुलघ्नीमपि चान्ततः॥ यन्महेन्द्रमिवाजय्यं दुष्प्रकम्प्यमिवाजलम्। महोदधिमिवाक्षोभ्यं संतापयसि कर्मभिः॥ मावमंस्था दशरथं भर्तारं वरदं पतिम्। भर्तुरिच्छा हि नारीणां पुत्रकोट्या विशिष्यते॥ यथावयो हि राज्यानि प्राप्नुवन्ति नृपक्षये। इक्ष्वाकुकुलनाथेऽस्मिस्तं लोपयितुमिच्छसि।।। राजा भवतु ते पुत्रो भरतः शास्तु मेदिनीम्। वयं तत्र गमिष्यामो यत्र रामो गमिष्यति॥ न च ते विषये कश्चिद् ब्राह्मणो वस्तुमर्हति। तादृशं त्वममर्यादमद्य कर्म करिष्यसि॥ नूनं सर्वे गमिष्यामो मार्ग रामनिषेवितम्। त्यक्ता या बान्धवैः सर्वैर्ब्राह्मणैः साधुभिः सदा॥ का प्रीती राज्यलाभेन तव देवि भविष्यति। तादृशं त्वममर्यादं कर्म कर्तुं चिकीर्षसि ॥ आश्चर्यमिव पश्यामि यस्यास्ते वृत्तमीदृशम्। आचरन्त्या न विदृता सद्यो भवति मेदिनी॥ महाब्रह्मर्षिसृष्टा वा ज्वलन्तो भीमदर्शनाः। धिग्वाग्दण्डा न हिंसन्ति रामप्रव्राजने स्थिताम्॥ आनं छित्वा कुठारेण निम्बं परिचरेत् तु कः। यश्चैनं पयसा सिञ्चेन्नैवास्य मधुरो भवेत्॥ आभिजात्यं हि ते मन्ये यथा मातुस्तथैव च। न हि निम्बात् स्रवेत् क्षौद्रं लोके निगदितं वचः॥ तव मातुरसग्राहं विद्म पूर्वं यथा श्रुतम्। पितुस्ते वरदः कश्चिद् ददौ वरमनुत्तमम्॥ सर्वभूतरुतं तस्मात् संजज्ञे वसुधाधिपः। तेन तिर्यग्गतानां च भूतानां विदितं वचः॥ ततो जम्भस्य शयने विरुताद् भूरिवर्चसः। पितुस्ते विदितो भावः स तत्र बहुधाहसत्॥ तत्र ते जननी क्रुद्धा मृत्युपाशमभीप्सती। हासं ते नृपते सौम्य जिज्ञासामीति चाब्रवीत्॥ नृपश्चोवाच तां देवीं हासं शंसामि ते यदि। ततो मे मरणं सद्यो भविष्यति न संशयः॥ माता ते पितरं देवि पुनः केकयमब्रवीत्। शंस मे जीव वा मा वा न मां त्वं प्रहसिष्यसि॥ प्रियया च तथोक्तः सः केकयः पृथिवीपतिः। तस्मै तं वरदायार्थं कथयामास तत्त्वतः॥ ततः स वरदः साधू राजानं प्रत्यभाषत। म्रियतां ध्वंसतां वेयं मा शंसीस्त्वं महीपते॥ स तच्छ्रुत्वा वचस्तस्य प्रसन्नमनसो नृपः। मातरं ते निरस्याशु विजहार कुबेरवत्॥ तथा त्वमपि राजानं दुर्जनाचरिते पथि। असद्ग्राहमिमं मोहात् कुरुषे पापदर्शिनी॥ सत्यश्चात्र प्रवादोऽयं लौकिकः प्रतिभाति मा। पितॄन् समनुजायन्ते नरा मातरमङ्गनाः॥ नैवं भव गृहाणेदं यदाह वसुधाधिपः। भर्तुरिच्छामुपास्येह जनस्यास्य गतिर्भव॥ मा त्वं प्रोत्साहिता पापैर्देवराजसमप्रभम्। भर्तारं लोकभर्तारमसद्धर्ममुपादघ ॥ नहि मिथ्या प्रतिज्ञातं करिष्यति तवानघः। श्रीमान् दशरथो राजा देवि राजीवलोचनः॥ ज्येष्ठो वदान्यः कर्मण्यः स्वधर्मस्यापि रक्षिता। रक्षिता जीवलोकस्य बली रामोऽभिषिच्यताम्॥ परिवादो हि ते देवि महाँल्लोके चरिष्यति। यदि रामो वनं याति विहाय पितरं नृपम्॥ स्वराज्यं राघवः पातु भव त्वं विगतज्वरा। नहि ते राघवादन्यः क्षमः पुरवरे वसन्॥ रामे हि यौवराज्यस्थे राजा दशरथो वनम्। प्रवेक्ष्यति महेष्वासः पूर्ववृत्तमनुस्मरन्॥ इति सान्त्वैश्च तीक्ष्णैश्च कैकेयी राजसंसदि। भूयः संक्षोभयामास सुमन्त्रस्तु कृताञ्जलिः॥ नैव सा क्षुभ्यते देवी न च स्म परिदूयते । न चास्या मुखवर्णस्य लक्ष्यते विक्रिया तदा॥ महामात्रवचः श्रुत्वा रामो दशरथं तदा। अभ्यभाषत वाक्यं तु विनयज्ञो विनीतवत्॥ त्यक्तभोगस्य मे राजन् वने वन्येन जीवतः। किं कार्यमनुयात्रेण त्यक्तसङ्गस्य सर्वतः॥ यो हि दत्त्वा द्विपश्रेष्ठं कक्ष्यायां कुरुते मनः। रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम्॥ तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते। सर्वाण्येवानुजानामि चीराण्येवानयन्तु मे॥ खनित्रपिटके चोभे समानयत गच्छत। चतुर्दश वने वासं वर्षाणि वसतो मम॥ अथ चीराणि कैकेयी स्वयमाहृत्य राघवम्। उवाच परिधत्स्वेति जनौघे निरपत्रपा॥ पुरुषव्याघ्रः कैकेय्याः : प्रतिगृह्य ते। सूक्ष्मवस्त्रमवक्षिप्य मुनिवस्त्राण्यवस्त ह॥ स चीरे लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे। तापसाच्छादने चैव जग्राह पितुरग्रतः॥ अथात्मपरिधानार्थं सीता कौशेयवासिनी। सम्प्रेक्ष्य चीरं संत्रस्ता पृषती वागुरामिव ॥ सा व्यपत्रपमाणेव प्रगृह्य च सुदुर्मनाः। कैकेय्याः कुशचीरे ते जानकी शुभलक्षणा॥ अश्रुसम्पूर्णनेत्रा च धर्मज्ञा धर्मदर्शिनी। गन्धर्वराजप्रतिमं भर्तारमिदमब्रवीत्॥ कथं नु चीरं बध्नन्ति मुनयो वनवासिनः। इति ह्यकुशला सीता सा मुमोह मुहुर्मुहुः॥ कृत्वा कण्ठे स्म सा चीरमेकमादाय पाणिना। तस्थौ ह्यकुशला तत्र व्रीडिता जनकात्मजा॥ तस्यास्तत् क्षिप्रमागत्य रामो धर्मभृतां वरः। चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम्॥ रामं प्रेक्ष्य तु सीताया बध्नन्तं चीरमुत्तमम्। अन्तःपुरचरा नार्यो मुमुचुर्वारि नेत्रजम् ॥ ऊचुश्च परमायत्ता रामं ज्वलिततेजसम्। वत्स नैवं नियुक्तेयं वनवासे मनस्विनी॥ पितुर्वाक्यानुरोधेन गतस्य विजनं वनम्। तावद् दर्शनमस्या नः सफलं भवतु प्रभो॥ लक्ष्मणेन सहायेन वनं गच्छस्व पुत्रक। नेयमर्हति कल्याणी वस्तुं तापसवद् वने॥ कुरु नो याचनां पुत्र सीता तिष्ठतु भामिनी। धर्मनित्यः स्वयं स्थातुं न हीदानीं त्वमिच्छसि ॥ तासामेवंविधा वाचः शृण्वन् दशरथात्मजः। बबन्धैव तथा चीरं सीतया तुल्यशीलया॥ चीरे गृहीते तु तया सबाष्पो नृपतेर्गुरुः। निवार्य सीतां कैकेयीं वसिष्ठो वाक्यमब्रवीत्॥ अतिप्रवृत्ते दुर्मेधे कैकेयि कुलपांसनि। वञ्चयित्वा तु राजानं न प्रमाणेऽवतिष्ठसि॥ न गन्तव्यं वनं देव्या सीतया शीलवर्जिते। अनुष्ठास्यति रामस्य सीता प्रकृतमासनम्॥ आत्मा हि दाराः सर्वेषां दारसंग्रहवर्तिनाम्। आत्मेयमिति रामस्य पालयिष्यति मेदिनीम्॥ पादपैः सह। अथ यास्यति वैदेही वनं रामेण संगता। वयमत्रानुयास्यामः पुरं चेदं गमिष्यति ॥ अन्तपालाश्च यास्यन्ति सदारो यत्र राघवः। सहोपजीव्यं राष्ट्रं च पुरं च सपरिच्छदम्॥ भरतश्च सशत्रुघ्नश्चीरवासा वनेचरः। वने वसन्तं काकुत्स्थमनुवत्स्यति पूर्वजम्॥ ततः शून्यां गतजनां वसुधां त्वमेका शाधि दुर्वृत्ता प्रजानामहिते स्थिता॥ न हि तद् भविता राष्ट्रं यत्र रामो न भूपतिः। तद् वनं भविता राष्ट्रं यत्र रामो निवत्स्यति ॥ न ह्यदत्तां महीं पित्रा भरतः शास्तुमिच्छति। त्वयि वा पुत्रवद् वस्तुं यदि जातो महीपतेः॥ यद्यपि त्वं क्षितितलाद् गगनं चोत्पतिष्यसि। पितृवंशचरित्रज्ञः सोऽन्यथा न करिष्यति॥ तत् त्वया पुत्रगर्धिन्या पुत्रस्य कृतमप्रियम्। लोके नहि स विद्येत यो न राममनुव्रतः॥ द्रक्ष्यस्यद्यैव कैकेयि पशुव्यालमृगद्विजान्। गच्छतः सह रामेण पादपांश्च तदुन्मुखान्॥ अथोत्तमान्याभरणानि देवि देहि स्नुषायै व्यपनीय चीरम्। न चीरमस्याः प्रविधीयतेति न्यवारयत् तद् वसनं वसिष्ठः॥ स्त्वया वृतः केकयराजपुत्रि। विभूषितेयं प्रतिकर्मनित्या वसत्वरण्ये सह राघवेण॥ यानैश्च मुख्यैः परिचारकैश्च सुसंवृता गच्छतु राजपुत्री। र्नेयं वृता ते वरसम्प्रदाने॥ तस्मिंस्तथा जल्पति विप्रमुख्ये गुरौ नृपस्याप्रतिमप्रभावे। नैव स्म सीता विनिवृत्तभावा प्रियस्य भर्तुः प्रतिकारकामा॥ रामस्य तु वचः श्रुत्वा मुनिवेषधरं च तम्। समीक्ष्य सह भाभी राजा विगतचेतनः॥ नैनं दुःखेन संतप्तः प्रत्यवैक्षत राघवम्। न चैनमभिसम्प्रेक्ष्य प्रत्यभाषत दुर्मनाः॥ स मुहूर्तमिवासंज्ञो दुःखितश्च महीपतिः। विललाप महाबाहू राममेवानुचिन्तयन्॥ मन्ये खलु मया पूर्वं विवत्सा बहवः कृताः। प्राणिनो हिंसिता वापि तन्मामिदमुपस्थितम् ॥ न त्वेवानागते काले देहाच्च्यवति जीवितम्। कैकेय्या क्लिश्यमानस्य मृत्युर्मम न विद्यते॥ योऽहं पावकसंकाशं पश्यामि पुरतः स्थितम्। विहाय वसने सूक्ष्मे तापसाच्छादमात्मजम्॥ एकस्याः खलु कैकेय्याः कृतेऽयं खिद्यते जनः। स्वार्थ प्रयतमानायाः संश्रित्य निकृतिं त्विमाम्॥ एवमुक्त्वा तु वचनं बाष्पेण विहतेन्द्रियः। रामेति सकृदेवोक्त्वा व्याहर्तुं न शशाक सः॥ संज्ञां तु प्रतिलभ्यैव मुहूर्तात् स महीपतिः। नेत्राभ्यामश्रुपूर्णाभ्यां सुमन्त्रमिदमब्रवीत्॥ औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः। प्रापयैनं महाभागमितो जनपदात् परम्॥ एवं मन्ये गुणवतां गुणानां फलमुच्यते। पित्रा मात्रा च यत्साधुर्वीरो निर्वास्यते वनम्॥ राज्ञो वचनमाज्ञाय सुमन्त्रः शीघ्रविक्रमः। योजयित्वा ययौ तत्र रथमश्वरलंकृतम्॥ तं रथं राजपुत्राय सूतः कनकभूषितम्। आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः॥ राजा सत्वरमाहूय व्यापृतं वित्तसंचये। उवाच देशकालज्ञो निश्चितं सर्वतः शुचिः॥ वासांसि च वराहा॑णि भूषणानि महान्ति च। वर्षाण्येतानि संख्याय वैदेह्याः क्षिप्रमानय॥ नरेन्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः। प्रायच्छत् सर्वमाहृत्य सीतायै क्षिप्रमेव तत्॥ सा सुजाता सुजातानि वैदेही प्रस्थिता वनम्। भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः॥ व्यराजयत वैदेही वेश्म तत् सुविभूषिता। उद्यतोऽशुमतः काले खं प्रभेव विवस्वतः॥ तां भुजाभ्यां परिष्वज्य श्वश्रूर्वचनमब्रवीत्। अनाचरन्तीं कृपणं मू[पाघ्राय मैथिलीम्।१९।। असत्यः सर्वलोकेऽस्मिन् सततं सत्कृताः प्रियैः। भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः॥ एष स्वभावो नारीणामनुभूय पुरा सुखम्। अल्पामप्यापदं प्राप्य दुष्यन्ति प्रजहत्यपि॥ असत्यशीला विकृता दुर्गा अहृदयाः सदा। असत्यः पापसंकल्पाः क्षणमात्रविरागिणः॥ न कुलं न कृतं विद्या न दत्तं नापि संग्रहः। स्त्रीणां गृह्णाति हृदयमनित्यहृदया हि ताः॥ साध्वीनां तु स्थितानां तु शीले सत्ये श्रुते स्थिते। स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते॥ स त्वया नावमन्तव्यः पुत्रः प्रव्राजितो वनम्। तव देवसमस्त्वेष निर्धनः सधनोऽपि वा॥ विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम्। कृत्वाञ्जलिमुवाचेदं श्वश्रूमभिमुखे स्थिता॥ करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम्। अभिज्ञास्मि यथा. भर्तुर्वर्तितव्यं श्रुतं च मे॥ न मामसज्जनेनार्या समानयितुमर्हति। धर्माद् विचलितुं नाहमलं चन्द्रादिव प्रभा॥ नातन्त्री वाद्यते वीणा नाचक्रो विद्यते रथः। नापतिः सुखमेधेत या स्यादपि शतात्मजा ॥ मितं ददाति हि पिता मितं भ्राता मितं सुतः। अमितस्य तु दातारं भर्तारं का न पूजयेत्॥ साहमेवंगता श्रेष्ठा श्रुतधर्मपरावरा। आर्ये किमवमन्येयं स्त्रिया भर्ता हि दैवतम्॥ सीताया वचनं श्रुत्वा कौसल्या हृदयङ्गमम्। शुद्धसत्त्वा मुमोचाश्रु सहसा दुःखहर्षजम्॥ तां प्राञ्जलिरभिप्रेक्ष्य मातृमध्येऽतिसत्कृताम्। रामः परमधर्मात्मा मातरं वाक्यमब्रवीत्॥ अम्ब मा दुःखिता भूत्वा पश्येस्त्वं पितरं मम। क्षयोऽपि वनवासस्य क्षिप्रमेव भविष्यति॥ सुप्तायास्ते गमिष्यन्ति नव वर्णाणि पञ्च च। समग्रमिह सम्प्राप्तं मां द्रक्ष्यसि सुहद्वतम्॥ एतावदभिनीतार्थमुक्त्वा स जननीं वचः। त्रयः शतशतार्धा हि ददर्शावेक्ष्य मातरः॥ ताश्चापि स तथैवार्ता मातृर्दशरथात्मजः। धर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलिः॥ संवासात् पुरुषं किंचिदज्ञानादपि यत् कृतम्। तन्मे समुपजानीत सर्वाश्चामन्त्रयामि वः॥ वचनं राघवस्यैतद् धर्मयुक्तं समाहितम्। शुश्रुवुस्ताः स्त्रियः सर्वाः शोकोपहतचेतसः॥ जज्ञेऽथ तासां संनादः क्रौञ्चीनामिव निःस्वनः। मानवेन्द्रस्य भार्याणामेवं वदति राघवे॥ मुरजपणवमेघघोषवद् दशरथवेश्म बभूव यत् पुरा। विलपितपरिवेदनाकुलं व्यसनगतं तदभूत् सुदुःखितम्॥ अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलिः। उपसंगृह्य राजानं चक्रुर्दीनाः प्रदक्षिणम्॥ तं चापि समनुज्ञाप्य धर्मज्ञः सह सीतया। राघवः शोकसम्मूढो जननीमभ्यवादयत्॥ अन्वक्षं लक्ष्मणो भ्रातुः कौसल्यामध्यवादयत्। अपि मातुः सुमित्राया जग्राह चरणौ पुनः॥ तं वन्दमानं रुदती माता सौमित्रिमब्रवीत्। हितकामा महाबाहुं मूर्युपाघ्राय लक्ष्मणम्॥ सृष्टस्त्वं वनवासाय स्वनुरक्तः सुहृज्जने। रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति॥ व्यसनी वा समृद्धो वा गतिरेष तवानघ। एष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत्॥ इदं हि वृत्तमुचितं कुलस्यास्य सनातनम्। दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु हि॥ लक्ष्मणं त्वेवमुक्त्वासौ संसिद्धं प्रियराघवम्। सुमित्रा गच्छ गच्छेति पुनः पुनरुवाच तम्॥ राम दशरथं विद्धि मां विद्धि जनकात्मजाम्। अयोध्यामटवीं विद्धि गच्छ तात यथासुखम्॥ ततः सुमन्त्रः काकुत्स्थं प्राञ्जलिर्वाक्यमब्रवीत्। विनीतो विनयज्ञश्च मातलिसिवं यथा॥ रथमारोह भद्रं ते राजपुत्र महायशः। क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसे॥ चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया। तान्युपक्रमितव्यानि यानि देव्या प्रचोदितः॥ तं रथं सूर्यसंकाशं सीता हृष्टेन चेतसा। आरुरोह वरारोहा कृत्वालंकारमात्मनः॥ वनवासं हि संख्याय वासांस्याभरणानि च। भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ॥ तथैवायुधजातानि भ्रातृभ्यां कवचानि च। रथोपस्थे प्रविन्यस्य सचर्म कठिनं च यत्॥ अथो ज्वलनसंकाशं चामीकरविभूषितम्। तमारुरुहतुस्तूर्णं भ्रातरौ रामलक्ष्मणौ॥ सीतातृतीयानारूढान् दृष्ट्वा रथमचोदयत्। सुमन्त्रः सम्मतानश्वान् वायुवेगसमाजवे॥ प्रयाते तु महारण्यं चिररात्राय राघवे। बभूव नगरे मूर्छा बलमूर्छा जनस्य च॥ तत् समाकुलसम्भ्रान्तं मत्तसंकुपितद्विपम्। हयसिञ्जितनिर्घोषं पुरमासीन्महास्वनम्॥ ततः सबालवृद्धा सा पुरी परमपीडिता। राममेवाभिदुद्राव घर्तिः सलिलं यथा॥ पार्श्वतः पृष्ठतश्चापि लम्बमानास्तदुन्मुखाः। बाष्पपूर्णमुखाः सर्वे तमूचु शनिःस्वनाः॥ संयच्छ वाजिनां रश्मीन् सूत याहि शनैः शनैः। मुखं द्रक्ष्याम रामस्य दुर्दशं नो भविष्यति॥ आयसं हृदयं नूनं राममातुरसंशयम्। यद् देवगर्भप्रतिमे वनं याति न भिद्यते॥ कृतकृत्या हि वैदेही छायेवानुगता पतिम्। न जहाति रता धर्मे मेरुमर्कप्रभा यथा॥ अहो लक्ष्मण सिद्धार्थः सततं प्रियवादिनम्। भ्रातरं देवसंकाशं यस्त्वं परिचरिष्यसि ॥ महत्येषा हि ते बुद्धिरेष चाभ्युदयो महान्। एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसि॥ एवं वदन्तस्ते सोढुं न शेकुर्बाष्पमागतम्। नरास्तमनुगच्छन्ति प्रियमिक्ष्वाकुनन्दनम्॥ अथ राजा वृतः स्त्रीभिर्दीनाभिर्दीनचेतनः। निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन् गृहात्॥ शुश्रुवे चाग्रतः स्त्रीणां रुदतीनां महास्वनः। यथा नादः करेणूनां बद्धे महति कुञ्जरे।।२९ पिता हि राजा काकुत्स्थः श्रीमान् सन्नस्तदा बभौ। परिपूर्णः शशी काले ग्रहेणोपप्लुतो यथा ॥ स च श्रीमानचिन्त्यात्मा रामो दशरथात्मजः। सूतं संचोदयामास त्वरितं वाह्यतामिति॥ रामो याहीति तं सूतं तिष्ठेति च जनस्तथा। उभयं नाशकत् सूतः कर्तुमध्वनि चोदितः॥ निर्गच्छति महाबाहौ रामे पौरजनाश्रुभिः। पतितैरभ्यवहितं प्रणनाश महीरजः॥ रुदिताश्रुपरिघुनं हाहाकृतमचेतनम्। प्रयाणे राघवस्यासीत् पुरं परमपीडितम्॥ सुस्राव नयनैः स्त्रीणामस्रमायाससम्भवम्। मानसंक्षोभचलितैः सलिलं पङ्कजैरिव ॥ दृष्ट्वा तु नृपतिः श्रीमानेकचित्तगतं पुरम्। निपपातैव दुःखेन कृत्तमूल इव दुमः॥ ततो हलहलाशब्दो यज्ञे रामस्य पृष्ठतः। नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम्॥ हा रामेति जनाः केचिद् राममातेति चापरे। अन्तःपुरसमृद्धं च क्रोशन्तं पर्यदेवयन्॥ अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसम्। राजानं मातरं चैव ददर्शानुगतौ पथि॥ स बद्ध इव पाशेन किशोरो मातरं यथा। धर्मपाशेन संयुक्तः प्रकाशं नाभ्युदैक्षत॥ पदातिनौ च यानाविदुःखाही सुखोचितौ। दृष्ट्वा संचोदयामास शीघ्रं याहीति सारथिम्॥ नहि तत् पुरुषव्याघ्रो दुःख दर्शनं पितुः। मातुश्च सहितुं शक्तस्तोत्रैर्नुन्न इव द्विपः।॥ प्रत्यगारमिवायान्ती सवत्सा वत्सकारणात्। बद्धवत्सा यथा धेनू राममाताभ्यधावत।॥ तथा रुदन्ती कौसल्यां रथं तमनुधावतीम्। क्रोशन्ती राम रामेति हा सीते लक्ष्मणेति च॥ रामलक्ष्मणसीतार्थं स्रवन्तीं वारि नेत्रजम्। असकृत् प्रेक्षत सतां नृत्यन्तीमिव मातरम्॥ तिष्ठेति राजा चुक्रोश याहि याहीति राघवः। सुमन्त्रस्य बभूवात्मा चक्रयोरिव चान्तरा॥ नाश्रौषमिति राजानमुपालब्धोऽपि वक्ष्यसि । चिरं दुःखस्य पापिष्ठमिति रामस्तमब्रवीत्॥ स रामस्य वचः कुर्वत्रनुज्ञाप्य च तं जनम्। व्रजतोऽपि हयाशीघ्रं चोदयामास सारथिः॥ न्यवर्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम्। मनसाप्याशुवेगेन न न्यवर्तत मानुषम्॥ यमिच्छेत् पुनरायातं नैनं दूरमनुव्रजेत्। इत्यमात्या महाराजमूचुर्दशरथं वचः॥ तेषां वचः सर्वगुणोपपत्रः प्रस्विनगात्रः प्रविषण्णरूपः। निशम्य राजा कृपणः सभार्यो व्यवस्थितस्तं सुतमीक्षमाणः॥ यावत् तु निर्यतस्तस्य रजोरूपमदृश्यत। नैवेक्ष्वाकुवरस्तावत् संजहारात्मचक्षुषी॥ यावद् राजा प्रियं पुत्रं पश्यत्यत्यन्तधार्मिकम्। तावद् व्यवर्धतेवास्य धरण्यां पुत्रदर्शने॥ न पश्यति रजोऽप्यस्य यदा रामस्य भूमिपः। तदार्तश्च निषण्णश्च पपात धरणीतले॥ तस्य दक्षिणमन्वागात् कौसल्या बाहुमङ्गना। परं चास्यान्वगात् पार्श्व कैकेयी सा सुमध्यमा॥ तां नयेन च सम्पन्नो धर्मेण विनयेन च। उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः॥ कैकेयि मामकाङ्गानि मा स्पाक्षी: पापनिश्चये। नहि त्वां द्रष्टुमिच्छामि न भार्या न च बान्धवी॥ ये च त्वामनुजीवन्ति नाहं तेषां न ते मम। केवलार्थपरां हि त्वां त्यक्तधर्मां त्यजाम्यहम्॥ अगृह्णां यच्च ते पाणिमग्निं पर्यणयं च यत्। अनुजानामि तत् सर्वमस्मिल्लोके परत्र च॥ भरतश्चेत् प्रतीतः स्याद् राज्यं प्राप्यैतदव्ययम्। यन्मे स दद्यात् पित्र) मा मां तद्दत्तमागमत्॥ अथ रेणुसमुद्भवस्तं समुत्थाप्य नराधिपम्। न्यवर्तत तदा देवी कौसल्या शोककर्शिता॥ हत्वेव ब्राह्मणं कामात् स्पृष्ट्वाग्निमिव पाणिना। अन्वतप्यत धर्मात्मा पुत्रं संचिन्त्य राघवम्॥ निवृत्यैव निवृत्यैव सीदतो रथवर्मसु। नाज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा॥ विललाप स दुःखार्तः प्रियं पुत्रमनुस्मरन्। नगरान्तमनुप्राप्तं बुद्ध्वा पुत्रमथाब्रवीत्॥ वाहनानां च मुख्यानां वहतां तं ममात्मजम्। पदानि पथि दृश्यन्ते स महात्मा न दृश्यते॥ यः सुखेनोपधानेषु शेते चन्दनरुषितः। वीज्यमानो महार्हाभिः स्त्रीभिर्मम सुतोत्तमः॥ स नूनं क्वचिदेवाद्य वृक्षमूलमुपाश्रितः। काष्ठं वा यदि वाश्मानमुपधाय शयिष्यते॥ उत्थास्यति च मेदिन्याः कृपणः पांसुगुण्ठितः। विनिःश्वसन् प्रस्रवणात् करेणूनामिवर्षभः॥ द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराः। राममुत्थाय गच्छन्तं लोकनाथमनाथवत्॥ सा नूनं जनकस्येष्टा सुता सुखसदोचिता। कण्टकाक्रमणक्लान्ता वनमद्य गमिष्यति॥ अनभिज्ञा वनानां सा नूनं भयमुपैष्यति। श्वपदानर्दितं श्रुत्वा गम्भीरं रोमहर्षणम्॥ सकामा भव कैकेयि विधवा राज्यमावस। नहि तं पुरुषव्याघ्रं विना जीवितुमुत्सहे॥ इत्येवं विलपन् राजा जनौघेनाभिसंवृतः। अपस्नात इवारिष्टं प्रविवेश गृहोत्तमम्॥ शून्यचत्वरवेश्मान्तां संवृतापणवेदिकाम्। क्लान्तदुर्बलदुःखार्ती नात्याकीर्णमहापथाम्॥ तामवेक्ष्य पुरीं सर्वां राममेवानुचिन्तयन्। विलपन् प्राविशद् राजा गृहं सूर्य इवाम्बुदम्॥ महाह्नदमिवाक्षोभ्यं सुपर्णेन हृतोरगम्। रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च॥ अथ गद्भदशब्दस्तु विलपन् वसुधाधिपः। उवाच मृदु मन्दार्थं वचनं दीनमस्वरम्॥ कौसल्याया गृहं शीघ्रं राममातुर्नयन्तु माम्। नह्यन्यत्र ममाश्वासो हृदयस्य भविष्यति॥ इति ब्रुवन्तं राजानमनयन् द्वारदर्शिनः। कौसल्याया गृहं तत्र न्यवेश्यत विनीतवत्॥ ततस्तत्र प्रविष्टस्य कौसल्याया निवेशनम्। अधिरुह्यापि शयनं बभूव लुलितं मनः॥ पुत्रद्वयविहीनं च स्नुषया च विवर्जितम्। अपश्यद् भवनं राजा नष्टचन्द्रमिवाम्बरम्॥ तच्च दृष्ट्वा महाराजो भुजमुद्यम्य वीर्यवान्। उच्चैः स्वरेण प्राक्रोशद्धा राम विजहासि नौ॥ सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः। परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनरागतम्॥ अथ रात्र्यां प्रपन्नायां कालरात्र्यामिवात्मनः। अर्धरात्रे दशरथः कौसल्यामिदमब्रवीत्॥ न त्वां पश्यामि कौसल्ये साधु मां पाणिना स्पृश। रामं मेऽनुगता दृष्टिरद्यापि न निवर्तते॥ तं राममेवानुविचिन्तयन्तं समीक्ष्य देवी शयने नरेन्द्रम्। उपोपविश्याधिकमार्तरूपा विनिःश्वसन्तं विललाप कृच्छ्रम्॥ तत: समीक्ष्य शयने सन्नं शोकेन पार्थिवम्। कौसल्या पुत्रशोकार्ता तमुवाच महीपतिम्॥ राघवे नरशार्दूले विषं मुक्त्वाहिजिह्मगा। विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी॥ विवास्य रामं सुभगा लब्धकामा समाहिता। त्रासयिष्यति मां भूयो दुष्टाहिरिव वेश्मनि ॥ अथास्मिन् नगरे रामश्चरन् भैक्षं गृहे वसेत्। कामकारो वरं दातुमपि दासं ममात्मजम्॥ पातयित्वा तु कैकेय्या रामं स्थानाद् यथेष्टतः। प्रविद्धो रक्षसां भागः पर्वणावाहिताग्निना॥ नागराजगतिर्वीरो महाबाहुर्धनुर्धरः। वनमाविशते नूनं सभार्यः सहलक्ष्मणः॥ वने त्वदृष्टदुःखानां कैकेय्यनुमते त्वया। त्यक्तानां वनवासाय कान्यावस्था भविष्यति।७।। ते रत्नहीनास्तरुणाः फलकाले विवासिताः। कथं वत्स्यन्ति कृपणाः फलमूलैः कृताशनाः॥ अपीदानीं स काल: स्यान्मम शोकक्षयः शिवः। सहभायं सह भ्रात्रा पश्येयमिह राघवम्॥ श्रुत्वैवोपस्थितौ वीरौ कदायोध्या भविष्यति। यशस्विनी हृष्टजना सूच्छ्रितध्वजमालिनी॥ कदा प्रेक्ष्य नरव्याघ्रावरण्यात् पुनरागतौ। भविष्यति पुरी हृष्टा समुद्र इव पर्वणि॥ कदायोध्यां महाबाहुः पुरी वीरः प्रवेक्ष्यति। पुरस्कृत्य रथे सीतां वृषभो गोवधूमिव ॥ कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ। लाजैरवकरिष्यन्ति प्रविशन्तावरिंदमौ॥ प्रविशन्तौ कदायोध्यां द्रक्ष्यामि शुभकुण्डलौ। उदग्रायुधनिस्त्रिंशौ सशृङ्गाविव पर्वतौ ॥ कदा सुमनसः कन्या द्विजातीनां फलानि च। प्रदिशन्तः पुरीं हृष्टाः करिष्यन्ति प्रदक्षिणम्॥ कदा परिणतो बुद्ध्या वयसा चामरप्रभः। अभ्युपैष्यति धर्मात्मा सुवर्ष इव लालयन्॥ निःसंशयं मया मन्ये पुरा वीर कदर्यया। पातकामेषु वत्सेषु मातृणां शातिताः स्तनाः॥ साहं गौरिव सिंहेन विवत्सा वत्सला कृता। कैकेय्या पुरुषव्याघ्र बालवत्सेव गौर्बलात्॥ नहि तावद्गुणैर्जुष्टं सर्वशास्त्रविशारदम्। एकपुत्रा विना पुत्रमहं जीवितुमुत्सहे॥ न हि मे जीविते किंचित् सामर्थ्यमिह कल्प्यते। अपश्यन्त्याः प्रियं पुत्रं लक्ष्मणं च महाबलम्॥ स्तनूजशोकप्रभवो महाहितः। महीमिमां रश्मिभिरुत्तमप्रभो यथानिदाघे भगवान् दिवाकरः॥ विलपन्ती तथा तां तु कौसल्यां प्रमदोत्तमाम्। धर्मे स्थिता धर्म्य सुमित्रा वाक्यमब्रवीत्॥ तवार्ये सद्गुणैर्युक्तः स पुत्रः पुरुषोत्तमः। किं ते विलपितेनैवं कृपणं रुदितेन वा॥ यस्तवार्ये गतः पुत्रस्त्यक्त्वा राज्यं महाबलः। साधु कुर्वन् महात्मानं पितरं सत्यवादिनम्॥ शिष्टैराचरिते सम्यक्शश्वत् प्रेत्य फलोदये। रामो धर्मे स्थितः श्रेष्ठो न स शोच्यः कदाचन॥ वर्तते चोत्तमा वृत्तिं लक्ष्मणोऽस्मिन् सदानघः। दयावान् सर्वभूतेषु लाभस्तस्य महात्मनः॥ अरण्यवासे यद् दुःखं जानन्त्येव सुखोचिता। अनुगच्छति वैदेही धर्मात्मानं तवात्मजम्॥ कीर्तिभूतां पताकां यो लोके भ्रामयति प्रभुः। धर्मः सत्यव्रतपर: किं न प्राप्तस्तवात्मजः॥ व्यक्तं रामस्य विज्ञाय शौचं माहात्म्यमुत्तमम्। न गात्रमंशुभिः सूर्यः संतापयितुमर्हति॥ शिवः सर्वेषु कालेषु काननेभ्यो विनिःसृतः। राघवं युक्तशीतोष्ण : सेविष्यति सुखोऽनिलः॥ शयानमनघं रात्रौ पितेवाभिपरिष्वजन्। धर्मघ्नः संस्पृशञ्छीतश्चन्द्रमा ह्लादयिष्यति॥ ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा महौजसे। दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे॥ स शूरः पुरुषव्याघ्रः स्वबाहुबलमाश्रितः। असंत्रस्तो शरण्येऽसौ वेश्मनीव निवत्स्यते॥ यस्येषुपथमासाद्य विनाशं यान्ति शत्रवः। कथं न पृथिवी तस्य शासने स्थातुमर्हति ॥ या श्रीः शौर्यं च रामस्य या च कल्याणसत्त्वता। निवृत्तारण्यवासः स्वं क्षिप्रं राज्यमवाप्स्यति॥ सूर्यस्यापि भवेत् सूर्यो ह्यग्नेरग्निः प्रभोः प्रभुः। श्रियाः श्रीश्च भवेदग्र्या कीर्त्याः कीर्तिः क्षमाक्षमा।।१५। दैवतं देवतानां च भूतानां भूतसत्तमः। तस्य के ह्यगुणा देवि वने वाप्यथवा पुरे॥ पृथिव्या सह वैहेह्या श्रिया च पुरुषर्षभः। क्षिप्रं तिसृभिरेताभिः सह रामोऽभिषेक्ष्यते॥ दुःख विसृजत्यश्रु निष्क्रामन्तमुदीक्ष्य यम्। अयोध्यायां जनः सर्वः शोकवेगसमाहतः॥ कुशचीरधरं वीरं गच्छन्तमपराजितम्। सीतेवानुगता लक्ष्मीस्तस्य किं नाम दुर्लभम्॥ धनुर्ग्रहवरो यस्य बाणखड्गास्त्रभृत् स्वयम्। लक्ष्मणो व्रजति ह्यग्रे तस्य किं नाम दुर्लभम्॥ निवृत्तवनवासं तं द्रष्टासि पुनरागतम्। जहि शोकं च मोहं च देवि सत्यं ब्रवीमि ते॥ शिरसा चरणावेतौ वन्दमानमनिन्दिते। पुनर्द्रक्ष्यसि कल्याणि पुत्रं चन्द्रमिवोदितम्॥ पुनः प्रविष्टं दृष्ट्वा तमभिषिक्तं महाश्रियम्। समुत्स्रक्ष्यसि नेत्राभ्यां शीघ्रमानन्दजं जलम्॥ मा शोको देवि दुःखं वा न रामे दृश्यतेऽशिवम्। क्षिप्रं द्रक्ष्यसि पुत्रं त्वं ससीतं सहलक्ष्मणम्॥ त्वयाऽशेषो जनश्चायं समाश्वास्यो यतोऽनघे। किमिदानीमिदं देवि करोषि हृदि विक्लवम्॥ नार्हा त्वं शोचितुं देवि यस्यास्ते राघवः सुतः। नहि रामात् परो लोके विद्यते सत्पथे स्थितः॥ अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम्। मुदाश्रु मोक्ष्यसे क्षिप्रं घरेखेव वार्षिकी॥ पुत्रस्ते वरदः क्षिप्रमयोध्यां पुनरागतः। कराभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति॥ अभिवाद्य नमस्यन्तं शूरं ससुहृदं सुतम्। मुदाः प्रोक्षसे पुत्रं मेघराजिरिवाचलम्॥ क्यिोपचारे कुशलानवद्या। रामस्य तां मातरमेवमुक्त्वा देवी सुमित्रा विरराम रामा॥ निशम्य तल्लक्ष्मणमातृवाक्यं रामस्य मातुर्नरदेवपत्न्याः। सद्यः शरीरे विननाश शोक: शरद्गतो मेघ इवाल्पतोयः॥ अनुरक्ता महात्मानं रामं सत्यपराक्रमम्। अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः॥ निवर्तितेऽतीव बलात् सुहृद्धर्मेण राजनि। नैव ते संन्यवर्तन्त रामस्यानुगता रथम्॥ अयोध्यानिलयानां हि पुरुषाणां महायशाः। बभूव गुणसम्पन्नः पूर्णचन्द्र इव प्रियः॥ स याच्यमानः काकुत्स्थस्ताभिः प्रकृतिभिस्तदा। कुर्वाणः पितरं सत्यं वनमेवान्वपद्यत॥ अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबनिव। उवाच रामः सस्नेहं ताः प्रजाः स्वाः प्रजा इव ॥ या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनाम्। मत्प्रियार्थं विशेषेण भरते सा विधीयताम्॥ स हि कल्याणचारित्रः कैकेय्यानन्दवर्धनः। करिष्यति यथावद् वः प्रियाणि च हितानि च॥ ज्ञानवृद्धो वयोबालो मृदुर्वीर्यगुणान्वितः। अनुरूपः स वो भर्ता भविष्यति भयापहः॥ स हि राजगुणैर्युक्तो युवराजः समीक्षितः। अपि चापि मया शिष्टैः कार्यं वो भर्तृशासनम्॥ न संतप्येद् यथा चासौ वनवासं गते मयि। महाराजस्तथा कार्यो मम प्रियचिकीर्षया॥ यथा यथा दाशरथिधर्ममेवाश्रितो भवेत्। तथा तथा प्रकृतयो रामं पतिमकामयन्॥ बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह। चकर्षेव गुणैर्बद्धं जनं पुरनिवासिनम्॥ ते द्विजास्त्रिविधं वृद्धा ज्ञानेन वयसौजसा। वय:प्रकम्पशिरसो दूरादूचुरिदं वचः॥ वहन्तो जवना रामं भो भो जात्यास्तुरङ्गमाः। निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि॥ कर्णवन्ति हि भूतानि विशेषेण तुरङ्गमाः। यूयं तस्मानिवर्तभ्वं याचना प्रतिवेदिताः॥ धर्मतः स विशुद्धात्मा वीरः शुभदृढव्रतः। उपवाह्यस्तु वो भर्ता नापवाह्यः पुराद् वनम्॥ एवमाप्रिलापांस्तान् वृद्धान् प्रलपतो द्विजान्। अवेक्ष्य सहसा रामो रथादवततार ह ॥ पद्भयामेव जगामाथ ससीतः सहलक्ष्मणः। संनिकृष्टपदन्यासो रामो वनपरायणः॥ द्विजातीन् हि पदातीस्तान् रामश्चारित्रवत्सलः। न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः॥ गच्छन्तमेव तं दृष्ट्वा रामं सम्भ्रान्तमानसाः। ऊचुः परमसंतप्ता रामं वाक्यमिदं द्विजाः॥ ब्राह्मण्यं कृत्स्नमेतत् त्वां ब्रह्मण्यमनुगच्छति। द्विजस्कन्धाधिरूढास्त्वामग्नयोऽप्यनुयान्त्वमी॥ वाजपेयसमुत्थानि च्छत्राण्येतानि पश्य नः। पृष्ठतोऽनुप्रयातानि मेघानिव जलात्यये॥ अनवाप्तातपत्रस्य रश्मिसंतापितस्य ते। एभिश्छायां करिष्यामः स्वैश्छत्रैर्वाजपेयकैः। :॥ या हि नः सततं बुद्धिर्वेदमन्त्रानुसारिणी। त्वत्कृते सा कृता वत्स वनवासानुसारिणी॥ मतिः। हृदयेष्ववतिष्ठन्ते वेदा ये नः परं धनम्। वत्स्यन्त्यपि गृहेष्वेव दाराश्चारित्ररक्षिताः॥ पुनर्न निश्चयः कार्यस्त्वद्गतौ सुकृता त्वयि धर्मव्यपेक्षे तु किं स्याद् धर्मपथे स्थितम्॥ याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः। शिरोभिर्निभृताचार महीपतनपांसुलैः॥ बहूनां वितता यज्ञा द्विजानां य इहागताः। तेषां समाप्तिरायत्ता तव वत्स निवर्तने॥ भक्तिमन्तीह भूतानि जङ्गमाजङ्गमानि च। याचमानेषु तेषु त्वं भक्तिं भक्तेषु दर्शय॥ अनुगन्तुमशक्तास्त्वां मूलैरुद्धतवेगिनः। उन्नता वायुवेगेन विक्रोशन्तीव पादपाः॥ निश्चेष्टाऽऽहारसंचारा वृक्षकस्थाननिश्चिताः। पक्षिणोऽपि प्रयाचन्ते सर्वभूतानुकम्पनम्॥ एवं विक्रोशतां तेषां द्विजातीनां निवर्तने। ददृशे तमसा तत्र वारयन्तीव राघवम्॥ ततः सुमन्त्रोऽपि रथाद् विमुच्य श्रान्तान् हयान् सम्परिवर्त्य शीघ्रम्। नचारयद् वै तमसाविदूरे॥ ततस्तु तमसातीरं रम्यमाश्रित्य राघवः। सीतामुद्वीक्ष्य सौमित्रिमिदं वचनमब्रवीत्॥ इयमद्य निशा पूर्वा सौमित्रे प्रहिता वनम्। वनवासस्य भद्रं ते न चोत्कण्ठितुमर्हसि॥ पश्य शून्यान्यरण्यानि रुदन्तीव समन्ततः। यथा निलयमायद्भिर्निलीनानि मृगद्विजैः॥ अद्यायोध्या तु नगरी राजधानी पितुर्मम। सस्त्रीपुंसा गतानस्माञ्छोचिष्यति न संशयः॥ अनुरक्ता हि मनुजा राजानं बहुभिर्गुणैः। त्वां च मां च नरव्याघ्र शत्रुघ्नभरतौ तथा॥ पितरं चानुशोचामि मातरं च यशस्विनीम्। अपि नान्धौ भवेतां नौ रुदन्तौ तावभीक्ष्णशः॥ भरतः खलु धर्मात्मा पितरं मातरं च मे। धर्मार्थकामसहितैर्वाक्यैराश्वासयिष्यति॥ भरतस्यानृशंसत्वं संचिन्त्याहं पुनः पुनः। नानुशोचामि पितरं मातरं च महाभुज॥ त्वया कार्यं नरव्याघ्र मामनुव्रजता कृतम्। अन्वेष्टव्या हि वैदेह्या रक्षणार्थं सहायता॥ अद्भिरेव हि सौमित्रे वत्स्याम्यद्य निशामिमाम्। एतद्धि रोचते मह्यं वन्येऽपि विविधे सति॥ एवमुक्त्वा तु सौमित्रिं सुमन्त्रमपि राघवः। अप्रमत्तस्त्वमश्वेषु भव सौम्येत्युवाच ह॥ सोऽश्वान् सुमन्त्रः संयम्य सूर्येऽस्तं समुपागत। प्रभूतयवसान् कृत्वा बभूव प्रत्यनन्तरः॥ उपास्य तु शिवां संध्यां दृष्ट्वा रात्रिमुपागताम्। रामस्य शयनं चक्रे सूतः सौमित्रिणा सह ॥ तां शय्यां तमसातीरे वीक्ष्य वृक्षदलैर्वृताम्। रामः सौमित्रिणा सार्धं सभार्यः संविवेश ह॥ सभार्यं सम्प्रसुप्तं तु श्रान्तं सम्प्रेक्ष्य लक्ष्मणः। कथयामास सूताय रामस्य विविधान् गुणान्॥ जाग्रतोरेव तां रात्रिं सौमित्ररुदितो रविः। सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान्॥ गोकुलाकुलतीरायास्तमसाया विदूरतः। अवसत् तत्र तां रात्रिं रामः प्रकृतिभिः सह ॥ उत्थाय च महातेजाः प्रकृतीस्ता निशाम्य च। अब्रवीद् भ्रातरं रामो लक्ष्मणं पुण्यलक्षणम्॥ अस्मद्यपेक्षान् सौमित्रे नियंपेक्षान् गृहेष्वपि । वृक्षमूलेषु संसक्तान् पश्य लक्ष्मण साम्प्रतम्॥ यथेते नियमं पौराः कुर्वन्त्यस्मन्निवर्तने। अपि प्राणान् न्यसिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम्।।२० यावदेव तु संसुप्तास्तावदेव वयं लघु। रथमारुह्य गच्छामः पन्थानमकुतोभयम्॥ अतो भूयोऽपि नेदानीमिक्ष्वाकुपुरवासिनः। स्वपेयुरनुरक्ता मा वृक्षमूलेषु संश्रिताः॥ पौरा ह्यात्मकृताद् दुःखाद् विप्रमोच्या नृपात्मजैः। न तु खल्वात्मना योज्या दुःखेन पुरवासिनः॥ अब्रवील्लक्ष्मणो रामं साक्षाद् धर्ममिव स्थितम्। रोचते मे तथा प्राज्ञ क्षिप्रमारुह्यतामिति ॥ अथ रामोऽब्रवीत् सूतं शीघ्रं संयुज्यतां रथः। गमिष्यामि ततोऽरण्यं गच्छ शीघ्रमितः प्रभो॥ सूतस्ततः संत्वरितः स्यन्दनं तैहयोत्तमैः। योजयित्वा तु रामस्य प्राञ्जलिः प्रत्यवेदयत्॥ अयं युक्तो महाबाहो रथस्ते रथिनां वर। त्वरयारोह भद्रं ते ससीतः सहलक्ष्मणः॥ तं स्यन्दनमधिष्ठाय राघवः सपरिच्छदः। शीघ्रगामाकुलावर्ती तमसामतरत्रदीम्॥ स संतीर्य महाबाहुः श्रीमाञ्छिवमकण्टकम्। प्रापद्यत महामार्गमभयं भयदर्शिनाम्॥ मोहनार्थं तु पौराणां सूतं रामोऽब्रवीद् वचः। उदङ्मुखः प्रयाहि त्वं रथमारुह्य सारथे॥ मुहूर्तं त्वरितं गत्वा निवर्तय रथं पुनः। यथा न विद्युः पौरा मां तथा कुरु समाहितः॥ रामस्य तु वचः श्रुत्वा तथा चक्रे च सारथिः। प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत्॥ तौ सम्प्रयुक्तं तु रथं समास्थितौ तदा ससीतौ रघुवंशवर्धनौ। प्रचोदयामास ततस्तुरंगमान् स सारथिर्येन पथा तपोवनम्॥ ततः समास्थाय रथं महारथः ससारथिर्दाशरथिर्वनं ययौ। उदङ्मुखं तं तु रथं चकार प्रयाणमाङ्गल्यनिमित्तदर्शनात्॥ प्रभातायां तु शर्वयां पौरास्ते राघवं विना। शोकोपहतनिश्चेष्टा बभूवुर्हतचेतसः॥ शोकजाश्रुपरिघूना वीक्षमाणास्ततस्ततः। आलोकमपि रामस्य न पश्यन्ति स्म दुःखिताः॥ ते विषादातवदना रहितास्तेन धीमता। कृपणाः करुणा वाचो वदन्ति स्म मनीषिणः॥ धिगस्तु खलु निद्रां तां ययापहतचेतसः। नाद्य पश्यामहे रामं पृथूरस्कं महाभुजम्॥ कथं रामो महाबाहुः स तथावितथक्रियः। भक्तं जनमभित्यज्य प्रवासं तापसो गतः॥ यो नः सदा पालयति पिता पुत्रानिवौरसान्। कथं रघूणां स श्रेष्ठस्त्यक्त्वा नो विपिनं गतः॥ इहैव निधनं याम महाप्रस्थानमेव वा। रामेण रहितानां नो किमर्थं जीवितं हितम्॥ सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च। तैः प्रज्वाल्य चितां सर्वे प्रविशामोऽथवा वयम्॥ किं वक्ष्यामो महाबाहुरनसूयः प्रियंवदः। नीतः स राघवोऽस्माभिरिति वक्तुं कथं क्षमम्॥ सा नूनं नगरी दीना दृष्ट्वास्मान् राघवं विना। भविष्यति निरानन्दा सस्त्रीबालवयोऽधिका॥ निर्यातास्तेन वीरेण सह नित्यं महात्मना। विहीनास्तेन च पुनः कथं द्रक्ष्याम तां पुरीम्॥ इतीव बहुधा वाचो बाहुमुद्यम्य ते जनाः। विलपन्ति स्म दुःखार्ता हृतवत्सा इवाग्र्यगाः॥ ततो मार्गानुसारेण गत्वा किंचित् ततः क्षणम्। मार्गनाशाद् विषादेन महता समभिप्लुताः॥ रथमार्गानुसारेण न्यवर्तन्त मनस्विनः। किमिदं किं करिष्यामो दैवेनोपहता इति॥ तदा यथागतेनैव मार्गेण क्लान्तचेतसः। अयोध्यामगमन् सर्वे पुरीं व्यथितसज्जनाम्॥ आलोक्य नगरी तां च क्षयव्याकुलमानसाः। आवर्तयन्त तेऽश्रूणि नयनैः शोकपीडितैः॥ एषा रामेण नगरी रहिता नातिशोभते। आपगा गरुडेनेव हृदादुद्धृतपत्रगा॥ चन्द्रहीनमिवाकाशं तोयहीनमिवार्णवम्। अपश्यन् निहतानन्दं नगरं ते विचेतसः॥ ते तानि वेश्मानि महाधनानि दुःखेन दुःखोपहता विशन्तः। नैव प्रजग्मुः स्वजनं परं वा निरीक्ष्यमाणाः प्रविनष्टहर्षाः॥ तेषामेवं विषण्णानां पीडितानामतीव च। बाष्पविप्लुतनेत्राणां सशोकानां मुमूर्षया॥ अभिगम्य निवृत्तानां रामं नगरवासिनाम्। उद्गतानीव सत्त्वानि बभूवुरमनस्विनाम्॥ स्वं स्वं निलयमागम्य पुत्रदारैः समावृताः। अश्रूणि मुमुचुः सर्वे बाष्पेण पिहिताननाः॥ न चाहृष्यन् न चामोदन् वणिजो न प्रसारयन्। न चाशोभन्त पण्यानि नापचन् गृहमेधिनः॥ नष्टं दृष्ट्वा नाभ्यनन्दन विपुलं वा धनागमम्। पुत्रं प्रथमजं लब्ध्वा जननी नाप्यनन्दत ॥ गृहे गृहे रुदत्यश्च भर्तारं गृहमागतम्। व्यगर्हयन्त दुःखार्ता वाग्भिस्तोत्रैरिव द्विपान्॥ किं नु तेषां गृहै: कार्यं किं दारैः किं धनेन वा। पुत्रैर्वापि सुखैर्वापि ये न पश्यन्ति राघवम्॥ एक: सत्पुरुषो लोके लक्ष्मणः सह सीतया। योऽनुगच्छति काकुत्स्थं रामं परिचरन् वने॥ आपगाः कृतपुण्यास्ताः पद्मिन्यश्च सरांसि च। येषु यास्यति काकुत्स्थो विगाह्य सलिलं शुचि॥ शोभयिष्यन्ति काकुत्स्थमटव्यो रम्यकाननाः। आपगाश्च महानूपाः सानुमन्तश्च पर्वताः॥ काननं वापि शैलं वा यं रामोऽनुगमिष्यति । प्रियातिथिमिव प्राप्तं नैनं शक्ष्यन्त्यनर्चितुम्॥ विचित्रकुसुमापीडा बहुमञ्जरिधारिणः। राघवं दर्शयिष्यन्ति नगा भ्रमरशालिनः॥ अकाले चापि मुख्यानि पुष्पाणि च फलानि च। दर्शयिष्यन्त्यनुक्रोशाद् गिरयो राममागतम्॥ प्रस्त्रविष्यन्ति तोयानि विमलानि महीधराः। विदर्शयन्तो विविधान् भूयश्चित्रांश्च निर्झरान्॥ पादपाः पर्वताग्रेषु रमयिष्यन्ति राघवम्। यत्र रामो भयं नात्र नास्ति तत्र पराभवः॥ स हि शूरो महाबाहुः पुत्रो दशरथस्य च। पुरा भवति नोऽदूरादनुगच्छाम राघवम्॥ पादच्छाया सुखं भर्तुस्तादृशस्य महात्मनः। स हि नाथो जनस्यास्य स गतिः स परायणम्॥ वयं परिचरिष्यामः सीता यूयं च राघवम्। इति पौरस्त्रियो भर्तृन् दुःखार्तास्तत्तदब्रुवन् ॥ युष्माकं राघवोऽरण्ये योगक्षेमं विधास्यति। सीता नारीजनस्यास्य योगक्षेमं करिष्यति॥ को न्वनेनाप्रतीतेन सोत्कण्ठितजनेन च। सम्प्रीयेतामनोज्ञेन वासेन हृतचेतसा॥ कैकेय्या यदि चेद् राज्यं स्यादधर्म्यमनाथवत्। न हि नो जीवितेनार्थः कुतः पुत्रैः कुतो धनैः॥ यया पुत्रश्च भर्ता च त्यक्तावैश्वर्यकारणात्। कं सा परिहरेदन्यं कैकेयी कुलपांसनी॥ कैकेय्या न वयं राज्ये भृतका हि वसेमहि । जीवन्त्या जातु जीवन्त्यः पुत्रैरपि शपामहे ॥ या पुत्रं पार्थिवेन्द्रस्य प्रवासयति निघृणा। कस्तां प्राप्य सुखं जीवेदधा दुष्टचारिणीम्॥ उपद्रुतमिदं सर्वमनालम्भमनायकम्। कैकेय्यास्तु कृते सर्वं विनाशमुपयास्यति॥ नहि प्रव्रजिते रामे जीविष्यति महीपतिः। मृते दशरथे व्यक्तं विलोपस्तदनन्तरम्॥ ते विषं पिबतालोड्य क्षीणपुण्याः सुदुःखिताः। राघवं वानुगच्छध्वमश्रुतिं वापि गच्छत॥ मिथ्याप्रताजितो रामः सभार्यः सहलक्ष्मणः। भरते संनिबद्धाः स्मः सौनिके पशवो यथा॥ पूर्णचन्द्राननः श्यामो गूढजत्रुररिंदमः। आजानुबाहुः पद्माक्षो रामो लक्ष्मणपूर्वजः॥ पूर्वाभिभाषी मधुरः सत्यवादी महाबलः। सौम्यश्च सर्वलोकस्य चन्द्रवत् प्रियदर्शनः॥ नूनं पुरुषशार्दूलो मत्तमातङ्गविक्रमः। शोभयिष्यत्यरण्यानि विचरन् स महारथः॥ तास्तथा विलपन्त्यस्तु नगरे नागरस्त्रियः। चुक्रुशुर्दुःखसंतप्ता मृत्योरिव भयागमे॥ इत्येवं विलपन्तीनां स्त्रीणां वेश्मसु राघवम्। जगामास्तं दिनकरो रजनी चाभ्यवर्तत ॥ नष्टज्वलनसंतापा प्रशान्ताध्यायसत्कथा। तिमिरेणानुलिप्तेव तदा सा नगरी बभौ॥ उपशान्तवणिकपण्या नष्टहर्षा निराश्रया। अयोध्या नगरी चासीन्नष्टतारमिवाम्बरम्॥ तदा स्त्रियो रामनिमित्तमातुरा यथा सुते भ्रातरि वा विवासिते। विलप्य दीना रुरुदुर्विचेतसः सुतैर्हितासापधिकोऽपि सोऽभवत्॥ प्रशान्तगीतोत्सवनृत्यवादना विभ्रष्टहर्षा पिहितापणोदया। तदा ह्ययोध्या नगरी बभूव सा महार्णवः संक्षपितोदको यथा॥ रामोऽपि रात्रिशेषेण तेनैव महदन्तरम्। जगाम पुरुषव्याघ्रः पितुराज्ञामनुस्मरन्॥ तथैव गच्छतस्तस्य व्यपायाद् रजनी शिवा। उपास्य तु शिवां संध्यां विषयानत्यगाहत॥ ग्रामान् विकृष्टसीमान्तान् पुष्पितानि वनानि च। पश्यन्नतिययौ शीघ्रं शनैरिव हयोत्तमैः॥ शृण्वन् वाचो मनुष्याणां ग्रामसंवासवासिनाम्। राजानं धिग् दशरथं कामस्य वशमास्थितम्।।४ हा नृशंसाद्य कैकेयी पापा पापानुबन्धिनि । तीक्ष्णा सम्भिन्नमर्यादा तीक्ष्णकर्मणि वर्तते॥ या पुत्रमीदृशं राज्ञः प्रवासयति धार्मिकम्। वनवासे महाप्राज्ञं सानुक्रोशं जितेन्द्रियम्॥ कथं नाम महाभागा सीता जनकनन्दिनी। सदा सुखेष्वभिरता दुःखान्यनुभविष्यति ॥ अहो दशरथो राजा निःस्नेहः स्वसुतं प्रति। प्रजानामनघं रामं परित्यक्तुमिहेच्छति॥ एता वाचो मनुष्याणां ग्रामसंवासवासिनाम्। शृण्वन्नतिययौ वीरः कोसलान् कोसलेश्वरः॥ ततो वेदश्रुतिं नाम शिववारिवहां नदीम्। उत्तीर्याभिमुखः प्रायादगस्त्याध्युषितां दिशम्॥ गत्वा तु सुचिरं कालं ततः शीतवहां नदीम्। गोमती गोयुतानूपामतरत् सागरङ्गमाम्॥ गोमती चाप्यतिक्रम्य राघवः शीघ्रगैर्हयैः। मयूरहंसाभिरुतां ततार स्यन्दिकां नदीम्॥ स महीं मनुना राज्ञा दत्तामिक्ष्वाकवे पुरा । स्फीतां राष्ट्रवृतां रामो वैदेहीमन्वदर्शयत्॥ सूत इत्येव चाभाष्य सारथिं तमभीक्ष्णशः। हंसमत्तस्वरः श्रीमानुवाच पुरुषोत्तमः॥ कदाहं पुनरागम्य सरय्वाः पुष्पिते वने। मृगयां पर्यटिष्यामि मात्रा पित्रा च संगतः॥ नात्यर्थमभिकाङ्क्षामि मृगयां सरयूवने। रतिद्देषातुला लोके राजर्षिगणसम्मता॥ राजर्षीणां हि लोकेऽस्मिन् रत्यर्थ मृगया वने। काले कृतां तां मनुजैर्धन्विनामभिकासिताम्॥ स तमध्वानमैक्ष्वाकः सूतं मधुरया गिरा। तं तमर्थमभिप्रेत्य ययौ वाक्यमुदीरयन्॥ विशालान् कोसलान् रम्यान् यात्वा लक्ष्मणपूर्वजः। अयोध्यामुन्मुखो धीमान् प्राञ्जलिर्वाक्यमब्रवीत्॥ आपृच्छे त्वां पुरिश्रेष्ठे काकुत्स्थपरिपालिते। दैवतानि च यानि त्वां पालयन्त्यावसन्ति च ॥ निवृत्तवनवासस्त्वामनृणो जगतीपतेः। पुनर्द्रक्ष्यामि मात्रा च पित्रा च सह संगतः॥ ततो रुचिरताम्राक्षो भुजमुद्यम्य दक्षिणम्। अश्रुपूर्णमुखो दीनोऽब्रवीज्जानपदं जनम्॥ अनुक्रोशो दया चैव यथार्ह मयि वः कृतः। चिरं दुःखस्य पापीयो गम्यतामर्थसिद्धये॥ तेऽभिवाद्य महात्मानं कृत्वा चापि प्रदक्षिणम्। विलपन्तो नरा घोरं व्यतिष्ठंश्च क्वचित् क्वचित्॥ तथा विलपतां तेषामतृप्तानां च राघवः। अचक्षुर्विषयं प्रायाद् यथार्कः क्षणदामुखे।७।। ततो धान्यधनोपेतान् दानशीलजनाञ्छिवान्। अकुतश्चिद्भयान् रम्यांश्चैत्ययूपसमावृतान्॥ उद्यानाम्रवणोपेतान् सम्पन्नसलिलाशयान्। तुष्टपुष्टजनाकीर्णान् गोकुलाकुलसेवितान्॥ रक्षणीयान् नरेन्द्राणां ब्रह्मघोषाभिनादितान्। रथेन पुरुषव्याघ्रः कोसलानत्यवर्तत॥ मध्येन मुदितं स्फीतं रम्योद्यानसमाकुलम्। राज्यं भोज्यं नरेन्द्राणां ययौ धृतिमतां वरः॥ तत्र त्रिपथगां दिव्यां शीततोयामशैवलाम्। ददर्श राघवो गङ्गां रम्याषिनिषेविताम्॥ आश्रमैरविदूरस्थैः श्रीमद्भिः समलंकृताम्। कालेऽप्सरोभिहष्टाभिः सेविताम्भोह्रदां शिवाम्॥ देवदानवगन्धर्वैः किंनरैरुपशोभिताम्। नागगन्धर्वपत्नीभिः सेवितां सततं शिवाम्॥ देवाक्रीडशताकीर्णो देवोद्यानयुतां नदीम्। देवार्थमाकाशगतां विख्यातां देवपद्मिनीम्॥ जलाघाताट्टहासोग्रां फेननिर्मलहासिनीम्। क्वचिद् वेणीकृतजलां क्वचिदावर्तशोभिताम्॥ क्वचित् स्तिमितगम्भीरां क्वचिद् वेगसमाकुलाम्। क्वचिद् गम्भीरनिर्घोषां क्वचिद् भैरवनि:स्वनाम् ।।१७ देवसंघाप्लुतजलां निर्मलोत्पलसंकुलाम्। क्वचिदाभोगपुलिनां क्वचिनिर्मलवालुकाम्॥ हंससारससंघुष्टां चक्रवाकोपशोभिताम्। सदामत्तैश्च विहगैरभिपन्नामनिन्दिताम्॥ क्वचित् तीररुहैर्वृक्षैर्मालाभिरिव शोभिताम्। क्वचित् फुल्लोत्पलच्छन्नां क्वचित् पद्मवनाकुलाम्।।२ क्वचित् कुमुदखण्डैश्च कुड्मलैरुपशोभिताम्। नानापुष्परजोध्वस्तां समदामिव च क्वचित्॥ व्यपेतमलसंघातां मणिनिर्मलदर्शनाम्। दिशागजैर्वनगजैर्मत्तैश्च वरवारणैः॥ देवराजोपवाह्यश्च संनादितवनान्तराम्। प्रमदामिव यत्नेन भूषितां भूषणोत्तमैः॥ फलपुष्पैः किसलयैर्वृतां गुल्मैर्द्विजैस्तथा। विष्णुपादच्युतां दिव्यामपापां पापनाशिनीम् ॥ शिंशुमारैश्च नत्रैश्च भुजङ्गैश्च समन्विताम्। शंकरस्य जटाजूटाद् भ्रष्टां सागरतेजसा ॥ समुद्रमहिषीं गङ्गां सारसक्रौञ्चनादिताम्। आससाद महाबाहुः शृङ्गवेरपुरं प्रति॥ तामूर्मिकलिलावर्तामन्ववेक्ष्य महारथः। सुमन्त्रमब्रवीत् सूतमिहैवाद्य वसामहे ॥ अविदूरादयं नद्या बहुपुष्पप्रवालवान्। सुमहानिङ्गुदीवृक्षो वसामोऽत्रैव सारथे॥ प्रेक्षामि सरितां श्रेष्ठां सम्मान्यसलिलां शिवाम्। देवमानवगन्धर्वमृगपन्नगपक्षिणाम् ॥ लक्ष्मणश्च सुमन्त्रश्च बाढमित्येव राघवम्। उक्त्वा तमिङ्गुदीवृक्षं तदोपययतुर्हयैः॥ रामोऽभियाय तं रम्यं वृक्षमिक्ष्वाकुनन्दनः। रथादवतरत् तस्मात् सभार्यः सहलक्ष्मणः॥ सुमन्त्रोऽप्यवतीर्याथ मोचयित्वा हयोत्तमान्। वृक्षमूलगतं राममुपतस्थे कृताञ्जलिः॥ तत्र राजा गुहो नाम रामस्यात्मसमः सखा। निषादजात्यो बलवान् स्थपतिश्चेति विश्रुतः॥ स श्रुत्वा पुरुषव्याघ्रं रामं विषयमागतम्। वृद्धैः परिवृतोऽमात्यैातिभिश्चाप्युपागतः॥ ततो निषादाधिपतिं दृष्ट्वा दूरादुपस्थितम्। सह सौमित्रिणा रामः समागच्छद्गुहेन सः॥ तमार्तः सम्परिष्वज्य गुहो राघवमब्रवीत्। यथायोध्या तथेदं ते राम किं करवाणि ते॥ ईदृशं हि महाबाहो कः प्राप्स्यत्यतिथिं प्रियम्। ततो गुणवदनाद्यमुपादाय पृथग्विधम्॥ अy चोपानयच्छीघ्रं वाक्यं चेदमुवाच ह। स्वागतं ते महाबाहो तवेयमखिला मही॥ वयं प्रेष्या भवान् भर्ता साधु राज्यं प्रशाधि नः। भक्ष्यं भोज्यं च पेयं च लेह्यं चैतदुपस्थितम्। शयनानि च मुख्यानि वाजिनां खादनं च ते॥ गुहमेवं ब्रुवाणं तु राघवः प्रत्युवाच ह। अर्चिताश्चैव हृष्टाश्च भवता सर्वदा वयम्॥ पद्भ्यामभिगमाच्चैव स्नेहसंदर्शनेन च। भुजाभ्यां साधुवृत्ताभ्यां पीडयन् वाक्यमब्रवीत्॥ दिष्ट्या त्वां गुह पश्यामि ह्यरोगं सह बान्धवैः। अपि ते कुशलं राष्ट्रे मित्रेषु च वनेषु च ॥ यत् त्विदं भवता किंचित् प्रीत्या समुपकल्पितम्। सर्वं तदनुजानामि नहि वर्ते प्रतिग्रहे ॥ कुशचीराजिनधरं फलमूलाशनं च माम्। विद्धि प्रणिहितं धर्मे तापसं वनगोचरम्॥ अश्वानां खादनेनाहमर्थी नान्येन केनचित्। एतावतात्र भवता भविष्यामि सुपूजितः॥ एते हि दयिता राज्ञः पितुर्दशरथस्य मे। एतैः सुविहितैरश्वैर्भविष्याम्यहमर्चितः॥ अश्वानां प्रतिपानं च खादनं चैव सोऽन्वशात्। गुहस्तत्रैव पुरुषांस्त्वरितं दीयतामिति॥ ततश्चीरोत्तासङ्गः सन्ध्यामन्वास्य पश्चिमाम्। जलमेवाददे भोज्यं लक्ष्मणेनाहृतं स्वयम्॥ तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः। सभार्यस्य ततोऽभ्येत्य तस्थौ वृक्षमुपाश्रितः॥ गुहोऽपि सह सूतेन सौमित्रिमनुभाषयन्। अन्वजाग्रत् ततो राममप्रमत्तो धनुर्धरः॥ तथा शयानस्य ततो यशस्विनो मनस्विनो दाशरथेर्महात्मनः। अदृष्टदुःखस्य सुखोचितस्य सा तदा व्यतीता सुचिरेण शर्वरी॥ प्रभातायां तु शर्वर्या पृथुवक्षा महायशाः। उवाच रामः सौमित्रिं लक्ष्मणं शुभलक्षणम्॥ भास्करोदयकालोऽसौ गता भगवती निशा। असौ सुकृष्णो विहगः कोकिलस्तात कूजति॥ बर्हिणानां च निर्घोषः श्रूयते नदतां वने। तराम जाह्नवीं सौम्य शीघ्रगां सागरङ्गमाम्॥ विज्ञाय रामस्य वचः सौमित्रिमित्रनन्दनः। गुहमामन्त्र्य सूतं च सोऽतिष्ठद् भ्रातुरग्रतः॥ स तु रामस्य वचनं निशम्य प्रतिगृह्य च। स्थपतिस्तूर्णमाहूय सचिवानिदमब्रवीत्॥ अस्य वाहनसंयुक्तां कर्णग्राहवती शुभाम्। सुप्रतारां दृढां तीर्थे शीघ्रं नावमुपाहर ॥ तं निशम्य गुहादेशं गुहामात्यो गतो महान्। उपोह्य रुचिरां गवं गुहाय प्रत्यवेदयत्।७।। ततः स प्राञ्जलिर्भूत्वा गुहो राघवमब्रवीत्। उपस्थितेयं नौर्देव भूयः किं करवाणि ते॥ तवामरसुतप्रख्य तर्तुं सागरगामिनीम्। नौरियं पुरुषव्याघ्र शीघ्रमारोह सुव्रत॥ अथोवाच महातेजा रामो गुहमिदं वचः। कृतकामोऽस्मि भवता शीघ्रमारोप्यतामिति॥ ततः कलापान् संनह्य खङ्गौ बध्वा च धन्विनौ। जग्मतुर्येन तां गङ्गां सीतया सह राघवौ॥ राममेवं तु धर्मज्ञमुपागत्य विनीतवत्। किमहं करवाणीति सूतः प्राञ्जलिरब्रवीत्॥ ततोऽब्रवीद् दाशरथिः सुमन्त्रं स्पृशन् करेणोत्तमदक्षिणेन। सुमन्त्र शीघ्रं पुनरेव याहि राज्ञः सकाशे भव चाप्रमत्तः॥ निवर्तस्वेत्युवाचैनमेतावद्धि कृतं मम। रथं विहाय पद्भ्यां तु गमिष्यामो महावनम् ॥ आत्मानं त्वभ्यनुज्ञातमवेक्ष्यार्तः स सारथिः। सुमन्त्रः पुरुषयाघ्रमैक्ष्वाकमिदमब्रवीत्॥ नातिक्रान्तमिदं लोके पुरुषेणेह केनचित्। तव सभ्रातृभार्यस्य वासः प्राकृतवद् वने॥ न मन्ये ब्रह्मचर्ये वा स्वधीते वा फलोदयः। मार्दवार्जवयोर्वापि त्वां चेद् व्यसनमागतम्॥ सह राघव वैदेह्या भ्रात्रा चैव वने वसन्। त्वं गतिं प्राप्स्यसे वीर त्रींल्लोकांस्तु जयन्निव॥ वयं खलु हता राम यत् त्वया ह्युपवञ्चिताः। कैकेय्या वशमेष्यामः पापाया दुःखभागिनः॥ इति ब्रुवन्नात्मसमं सुमन्त्रः सारथिस्तदा। दृष्ट्वा दूरगतं रामं दुःखार्तो रुरुदे चिरम्॥ ततस्तु विगते वाष्पे सूतं स्पृष्टोदकं शुचिम्। रामस्तु मधुरं वाक्यं पुनः पुनरुवाच तम्॥ इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षये। यथा दशरथो राजा मां न शोचेत् तथा कुरु॥ शोकोपहतचेताश्च वृद्धश्च जगतीपतिः। कामभारावसन्नश्च तस्मादेतद् ब्रवीमि ते॥ यद् यथा ज्ञापयेत् किंचित् स महात्मा महीपतिः। कैकेय्याः प्रियकामार्थं कार्यं तदविकाझ्या॥ एतदर्थं हि राज्यानि प्रशासति नराधिपाः। यदेषां सर्वकृत्येषु मनो न प्रतिहन्यते ॥ यद् यथा स महाराजो नालीकमधिगच्छति। न च ताम्यति शोकेन सुमन्त्र कुरु तत् तथा॥ अदृष्टदुःखं राजानं वृद्धमार्यं जितेन्द्रियम्। ब्रूयास्त्वमभिवाद्यैव मम हेतोरिदं वचः॥ न चाहमनुशोचामि लक्ष्मणो न च शोचति। अयोध्यायाश्च्युताश्चेति वने वत्स्यामहेति वा॥ चतुर्दशसु वर्षेषु निवृत्तेषु पुनः पुनः। लक्ष्मणं मां च सीतां च द्रक्ष्यसे शीघ्रमागतान्॥ एवमुक्त्वा तु राजानं मातरं च सुमन्त्र मे। अन्याश्च देवी: सहिताः कैकेयीं च पुनः पुनः॥ आरोग्यं ब्रूहि कौसल्यामथ पादाभिवन्दनम्। सीताया मम चार्यस्य वचनाल्लक्ष्मणस्य च॥ ब्रूयाश्चापि महाराजं भरतं क्षिप्रमानय। आगतश्चापि भरतः स्थाप्यो नृपमते पदे॥ भरतं च परिष्वज्य यौवराज्येऽभिषिच्य च। अस्मत्संतापजं दुःखं न त्वामभिभविष्यति ॥ भरतश्चापि वक्तव्यो यथा राजनि वर्तसे। तथा मातृषु वर्तेथाः सर्वास्वेवाविशेषतः॥ यथा च तव कैकेयी सुमित्रा चाविशेषतः। तथैव देवी कौसल्या मम माता विशेषतः॥ तातस्य प्रियकामेन यौवराज्यमवेक्षता। लोकयोरुभयोः शक्यं नित्यदा सुखमेधितुम्॥ निवर्त्यमानो रामेण सुमन्त्रः प्रतिबोधितः। तत्सर्वं वचनं श्रुत्वा स्नेहात् काकुत्स्थमब्रवीत्॥ यदहं नोपचारेण ब्रूयां स्नेहादविक्लवम्। भक्तिमानिति तत् तावद् वाक्यं त्वं क्षन्तुमर्हसि ॥ कथं हि त्वविहीनोऽहं प्रतियास्यामि तां पुरीम्। तव तात वियोगेन पुत्रशोकातुरामिव ॥ सराममपि तावन्मे रथं दृष्ट्वा तदा जनः। विना रामं रथं दृष्ट्वा विदीर्येतापि सा पुरी॥ दैन्यं हि नगरी गच्छेद् दृष्ट्वा शून्यमिमं रथम्। सूतावशेषं स्वं सैन्यं हतवीरमिवाहवे।४१॥ दूरेऽपि निवसन्तं त्वां मानसेनाग्रतः स्थितम्। चिन्तयन्तोऽद्य नूनं त्वां निराहाराः कृताः प्रजाः॥ दृष्टं तद् वै त्वया राम यादृशं त्वत्प्रवासने। प्रजानां संकुलं वृत्तं त्वच्छोकक्लान्तचेतसाम्॥ आर्तनादो हि यः पौरैरुन्मुक्तस्त्वत्प्रवासने। सरथं मां निशाम्यैव कुर्युः शतगुणं ततः॥ अहं किं चापि वक्ष्यामि देवीं तव सुतो मया। नीतोऽसौ मातुलकुलं संतापं मा कृथा इति॥ असत्यमपि नैवाहं ब्रूयां वचनमीदृशम्। कथमप्रियमेवाहं ब्रूयां सत्यमिदं वचः॥ मम तावन्नियोगस्थास्त्वबन्धुजनवाहिनः। कथं रथं त्वया हीनं प्रवाह्यन्ति हयोत्तमाः॥ तन्न शक्ष्याम्यहं गन्तुमयोध्यां त्वदृतेऽनघ। वनवासानुयानाय मामनुज्ञातुमर्हसि॥ यदि मे याचमानस्य त्यागमेव करिष्यसि। सरथोऽग्नि प्रवेक्ष्यामि त्यक्तमात्र इह त्वया॥ भविष्यन्ति वने यानि तपोविघ्नकराणि ते। रथेन प्रतिबाधिष्ये तानि सर्वाणि राघव॥ त्वत्कृतेन मया प्राप्तं रथचर्याकृतं सुखम्। आशंसे त्वत्कृतेनाहं वनवासकृतं सुखम्॥ प्रसीदेच्छामि तेऽरण्ये भवितुं प्रत्यनन्तरः। प्रीत्याभिहितमिच्छामि भव मे प्रत्यनन्तरः॥ इमेऽपि च हया वीर यदि ते वनवासिनः। परिचर्यां करिष्यन्ति प्राप्स्यन्ति परमां गतिम्॥ तव शुश्रूषणं मूर्धा करिष्यामि वने वसन्। अयोध्यां देवलोकं वा सर्वथा प्रजहाम्यहम्॥ नहि शक्या प्रवेष्टुं सा मयायोध्या त्वया विना। राजधानी महेन्द्रस्य यथा दुष्कृतकर्मणा॥ वनवासे क्षयं प्राप्ते ममैष हि मनोरथः। यदनेन रथेनैव त्वां वहेयं पुरी पुनः॥ चतुर्दश हि वर्षाणि सहितस्य त्वया वने। क्षणभूतानि यास्यन्ति शतसंख्यानि चान्यथा॥ भृत्यवत्सल तिष्ठन्तं भर्तृपुत्रगते पथि। भक्तं भृत्यं स्थितं स्थित्या न मा त्वं हातुमर्हसि ॥ एवं बहुविधं दीनं याचमानं पुनः पुनः। रामो भृत्यानुकम्पी तु सुमन्त्रमिदमब्रवीत्॥ जानामि परमां भक्तिमहं ते भर्तृवत्सल। शृणु चापि यदर्थं त्वां प्रेषयामि पुरीमितः॥ नगरीं त्वां गतं दृष्ट्वा जननी मे यवीयसी। कैकेयी प्रत्ययं गच्छेदिति रामो वनं गतः॥ विपरीते तुष्टिहीना वनवासं गते मयि। राजानं नातिशङ्केत मिथ्यावादीति धार्मिकम् ॥ एष मे प्रथमः कल्पो यदम्बा मे यवीयसी। भरतारक्षितं वृत्तं पुत्रराज्यमवाप्स्यते॥ मम प्रियार्थं राज्ञश्च सुमन्त्र त्वं पुरीं व्रज। संदिष्टश्चापि यानास्तांस्तान् ब्रूयास्तथा तथा॥ इत्युक्त्वा वचनं सूतं सान्त्वयित्वा पुनः पुनः। गुहं वचनमक्लीबो रामो हेतुमदब्रवीत्॥ नेदानी गुह योग्योऽयं वासो मे सजने वने। अवश्यमाश्रमे वासः कर्तव्यस्तद्गतो विधिः॥ सोऽहं गृहीत्वा नियमं तपस्विजनभूषणम्। हितकामः पितुर्भूयः सीताया लक्ष्मणस्य च॥ जटाः कृत्वा गमिष्यामि न्यग्रोधक्षीरमानय। तत्क्षीरं राजपुत्राय गुहः क्षिप्रमुपाहरत्॥ लक्ष्मणस्यात्मनश्चैव रामस्तेनाकरोज्जटाः। दीर्घबाहुर्नरव्याघ्रो जटिलत्वमधारयत्॥ तौ तदा चीरसम्पन्नौ जटामण्डलधारिणौ। अशोभेतामृषिसमौ भ्रातरौ रामलक्ष्मणौ॥ ततो वैखानसं मार्गमास्थितः सहलक्ष्मणः। व्रतमादिष्टवान् रामः सहायं गुहमब्रवीत्॥ अप्रमतो बले कोशे दुर्गे जनपदे तथा। भवेथा गुह राज्यं हि दुरारक्षतमं मतम् ॥ स भ्रातुः ततस्तं समनुज्ञाप्य गुहमिक्ष्वाकुनन्दनः। जगाम तूर्णमव्यग्रः सभार्यः सहलक्ष्मणः॥ स तु दृष्ट्वा नदीतीरे नावमिक्ष्वाकुनन्दनः। तितीर्घः शीघ्रगां गङ्गामिदं वचनमब्रवीत्॥ आरोह त्वं नरव्याघ्र स्थितां नावमिमां शनैः। सीतां चारोपयान्वक्षं परिगृह्य मनस्विनीम्॥ शासनं श्रुत्वा सर्वमप्रतिकूलयन्। आरोप्य मैथिली पूर्वमारुरोहात्मवांस्ततः॥ अथारुरोह तेजस्वी स्वयं लक्ष्मणपूर्वजः। ततो निषादाधिपतिर्णहो ज्ञातीनचोदयत्॥ राघवोऽपि महातेजा नावमारुह्य तां ततः। ब्रह्मवत्क्षत्रवच्चैव जजाप हितमात्मनः॥ आचम्य च यथाशास्त्रं नदी तां सह सीतया। प्रणमत्प्रीतिसंतुष्टो लक्ष्मणश्च महारथः।७९।। अनुज्ञाय सुमन्त्रं च सबलं चैव तं गुहम्। आस्थाय नावं रामस्तु चोदयामास नाविकान्॥ ततस्तैश्चालिता नौका कर्णधारसमाहिता। शुभस्फ्यवेगाभिहता शीघ्रं सलिलमत्यगात्॥ मध्यं तु समनुप्राप्य भागीरथ्यास्त्वनिन्दिता। वैदेही प्राञ्जलिर्भूत्वा तां नदीमिदमब्रवीत्॥ पुत्रो दशरथस्यायं महाराजस्य धीमतः। निदेशं पालयत्वेनं गङ्गे त्वदभिरक्षितः॥ चतुर्दश हि वर्षाणि समग्राण्युष्य कानने। भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ॥ ततस्त्वां देवि सुभगे क्षेमेण पुनरागता। यक्ष्ये प्रमुदिता गङ्गे सर्वकामसमृद्धिनी॥ त्वं हि त्रिपथगे देवि ब्रह्मलोकं समक्षसे। भार्या चोदधिराजस्य लोकेऽस्मिन् सम्प्रदृश्यसे॥ सा त्वां देवि समस्यामि प्रशंसामि च शोभने। प्राप्तराज्ये नरव्याघ्र शिवेन पुनरागते॥ गवां शतसहस्रं च वस्त्राण्यन्नं च पेशलम्। ब्राह्मणेभ्यः प्रदास्यामि तव प्रियचिकीर्षया॥ सुराघटसहस्रेण मांसभूतौदनेन च। यक्ष्ये त्वां प्रीयतां देवि पुरीं पुनरुपागता॥ यानि त्वत्तीरवासीनि दैवतानि च सन्ति हि। तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि च॥ पुनरेव महाबाहुर्मया भ्रात्रा च संगतः। अयोध्यां वनवासात् तु प्रविशत्वनघोऽनघे॥ तथा सम्भाषमाणा सा सीता गङ्गामनिन्दिता। दक्षिणा दक्षिणं तीरं क्षिप्रमेवाभ्युपागमत् ॥ तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः। प्रातिष्ठत सह भ्रात्रा वैदेह्या च परंतपः॥ अथाब्रवीन्महाबाहुः सुमित्रानन्दवर्धनम्। भव संरक्षणार्थाय सजने विजनेऽपि वा॥ अवश्यं रक्षणं कार्यं मद्विधैर्विजने वने। अग्रतो गच्छ सौमित्रे सीता त्वामनुगच्छतु॥ पृष्ठतोऽनुगमिष्यामि सीतां त्वां चानुपालयन्। अन्योन्यस्य हि नो रक्षा कर्तव्या पुरुषर्षभ॥ न हि तावदतिक्रान्ताऽसुकरा काचन क्रिया। अद्य दुःखं तु वैदेही वनवासस्य वेत्स्यति॥ प्रणष्टजनसम्बाधं क्षेत्रारामविवर्जितम्। विषमं च प्रपातं च वनमद्य प्रवेक्ष्यति॥ श्रुत्वा रामस्य वचनं प्रतस्थे लक्ष्मणोऽग्रतः। अनन्तरं च सीताया राघवो रघुनन्दनः॥ गतं तु गङ्गापरपारमाशु रामं सुमन्त्रः सततं निरीक्ष्य। मुमोच बाष्पं व्यथितस्तपस्वी॥ स लोकपालप्रतिमप्रभावस्तीर्त्वा महात्मा वरदो महानदीम्। ततः समृद्धाञ्छुभसस्यमालिनः क्षणेन वत्सान् मुदितानुपागमत्॥ तौ तत्र हत्वा चतुरो महामृगान् वराहमृश्यं पृषतं महारुरुम्। आदाय मेध्यं त्वरितं बुभुक्षितौ वासाय काले ययतुर्वनस्पतिम्॥ स तं वृक्षं समासाद्य संध्यामन्वास्य पश्चिमाम्। रामो रमयतां श्रेष्ठ इति होवाच लक्ष्मणम्॥ अद्येयं प्रथमा रात्रिर्याता जनपदाद् बहिः। या सुमन्त्रेण रहिता तां नोत्कण्ठितुमर्हसि ॥ जागर्तव्यमतन्द्रिभ्यामद्यप्रभृति रात्रिषु। योगक्षेमौ हि सीताया वर्तेते लक्ष्मणावयोः॥ रात्रिं कथंचिदेवेमां सौमित्रे वर्तयामहे। अपवर्तामहे भूमावास्तीर्य स्वयमर्जितैः॥ स तु संविश्य मेदिन्यां महार्हशयनोचितः। इमाः सौमित्रये रामो व्याजहार कथाः शुभाः॥ ध्रुवमद्य महाराजो दुःखं स्वपिति लक्ष्मण। कृतकामा तु कैकेयी तुष्टा भवितुमर्हति॥ सा हि देवी महाराज कैकेयी राज्यकारणात्। अपि न च्यावयेत् प्राणान् दृष्ट्वा भरतमागतम्॥ अनाथश्च हि वृद्धश्च मया चैव विना कृतः। किं करिष्यति कामात्मा कैकेय्या वशमागतः।।।।। इदं व्यसनमालोक्य राज्ञश्च मतिविभ्रमम्। काम एवार्थधर्माभ्यां गरीयानिति मे मतिः॥ को ह्यविद्वानपि पुमान् प्रमदायाः कृते त्यजेत्। छन्दानुवर्तिनं पुत्रं तातो मामिव लक्ष्मण ॥ सुखी बत सुभार्यश्च भरतः केकयीसुतः। मुदितान् कोसलानेको यो भोक्ष्यत्यधिराजवत्॥ स हि राज्यस्य सर्वस्य सुखमेकं भविष्यति। ताते तु वयसातीते मयि चारण्यमाश्रिते॥ अर्थधर्मों परित्यज्य यः काममनुवर्तते। एवमापद्यते क्षिप्रं राजा दशरथो यथा॥ मन्ये दशरथान्ताय मम प्रव्राजनाय च। कैकेयी सौम्य सम्प्राप्ता राज्याय भरतस्य च॥ अपीदानीं तु कैकेयी सौभाग्यमदमोहिता। कौसल्यां च सुमित्रां च सा प्रबाधेत मत्कृते॥ मातास्मत्कारणाद् देवी सुमित्रा दुःखमावसेत्। अयोध्यामित एव त्वं काले प्रविश लक्ष्मण॥ अहमेको गमिष्यामि सीतया सह दण्डकान्। अनाथाया हि नाथस्त्वं कौसल्याया भविष्यसि ॥ क्षुद्रकर्मा हि कैकेयी द्वेषादन्यायमाचरेत्। परिदद्याद्धि धर्मज्ञ गरं ते मम मातरम्॥ नूनं जात्यन्तरे तात स्त्रियः पुत्रैर्वियोजिताः। जनन्या मम सौमित्रे तदद्यैतदुपस्थितम्॥ मया हि चिरपुष्टेन दुःखसंवर्धितेन च। विप्रयुज्यत कौसल्या फलकाले धिगस्तु माम्॥ मा स्म सीमन्तिनी काचिज्जनयेत् पुत्रमीदृशम्। सौमित्रे योऽहमम्बाया दद्मि शोकमनन्तकम्॥ मन्ये प्रीतिविशिष्टा सा मत्तोलक्ष्मण सारिका। यत्तस्याः श्रूयते वाक्यं शुक पादमरेर्दश॥ शोचन्त्याश्चाल्पभाग्याया न किंचिदुपकुर्वता। पुत्रेण किमपुत्राया मया कार्यमरिंदम॥ अल्पभाग्या हि मे माता कौसल्या रहिता मया। शेते परमदुःखार्ता पतिता शोकसागरे॥ एको ह्यहमयोध्यां च पृथिवीं चापि लक्ष्मण । तरेयमिषुभिः क्रुद्धो ननु वीर्यमकारणम्॥ अधर्मभयभीतश्च परलोकस्य चानघ। तेन लक्ष्मण नाद्याहमात्मानमभिषेचये॥ एतदन्यच्च करुणं विलप्य विजने बहु। अश्रुपूर्णमुखो दीनो निशि तूष्णीमुपाविशत्॥ विलापोपरतं रामं गतार्चिषमिवानलम्। समुद्रमिव निर्वेगमाश्वासयत लक्ष्मणः।२८।। ध्रुवमद्य पुरी राम अयोध्याऽऽयुधिनां वर। निष्प्रभा त्वयि निष्क्रान्ते गतचन्द्रव शर्वरी॥ नैतदौपयिकं राम यदिदं परितप्यसे। विषादयसि सीतां च मां चैव पुरुर्षभ॥ न च सीता त्वया हीना न चाहमपि राघव। मुहूर्तमपि जीवावो जलान्मत्स्याविवोद्धतौ॥ नहि तातं न शत्रुघ्नं न सुमित्रां परंतप। द्रष्टुमिच्छेयमद्याहं स्वर्ग चापि त्वया विना॥ ततस्तत्र समासीनौ नातिदूरे निरीक्ष्य ताम्। न्यग्रोधे सुकृतां शय्यां भेजाते धर्मवत्सलौ॥ स लक्ष्मणस्योत्तमपुष्कलं वचो निशम्य चैवं वनवासमादरात्। समाः समस्ता विदधे परंतपः प्रपद्य धर्म सुचिराय राघवः॥ ततस्तु तस्मिन् विजने महाबलौ महावने राघववंशबर्धनौ। र्यथैव सिंहौ गिरिसानुगोचरौ॥ ते तु तस्मिन् महावृक्षे उषित्वा रजनी शुभाम्। विमलेऽभ्युदिते सूर्ये तस्माद् देशात् प्रतस्थिरे॥ यत्र भागीरथीं गङ्गां यमुनाभिप्रवर्तते। जग्मुस्तं देशमुद्दिश्य विगाह्य सुमहद् वनम्॥ ते भूमिभागान् विविधान् देशांश्चापि मनोहरान्। अदृष्टपूर्वान् पश्यन्तस्तत्र तत्र यशस्विनः॥ यथा क्षेमेण सम्पश्यन् पुष्पितान् विविधान् दुमान्। निर्वृत्तमात्रे दिवसे रामः सौमित्रिमब्रवीत्॥ प्रयागमभितः पश्य सौमित्रे धूममुत्तमम्। अग्नेर्भगवतः केतुं मन्ये संनिहितो मुनिः॥ नूनं प्राप्ताः स्म सम्भेदं गङ्गायमुनयोर्वयम्। तथाहि श्रूयते शब्दो वारिणोरिघर्षजः॥ दारूणि परिभिन्नानि वनजैरुपजीविभिः। छिन्नाश्चाप्याश्रमे चैते दृश्यन्ते विविधा दुमाः॥ धन्विनौ तौ सुखं गत्वा लम्बमाने दिवाकरे। गङ्गायमुनयोः संधौ प्रापतुर्निलयं मुनेः॥ रामस्त्वाश्रममासाद्य त्रासयन् मृगपक्षिणः। गत्वा मुहूर्तमध्वानं भरद्वाजमुपागमत्॥ ततस्त्वाश्रममासाद्य मुनेर्दर्शनकाङ्क्षिणौ। सीतयानुगतौ वीरौ दूरादेवावतस्थतुः॥ स प्रविश्य महात्मानमृषि शिष्यगणैर्वृतम्। संशितव्रतमेकाग्रं तपसा लब्धचक्षुषम्॥ हुताग्निहोत्रं दृष्ट्वैव महाभागः कृताञ्जलिः। रामः सौमित्रिणा सार्धं सीतया चाभ्यवादयत्॥ न्यवेदयत् चात्मानं तस्मै लक्ष्मणपूर्वजः। पुत्रौ दशरथस्यावां भगवन् रामलक्ष्मणौ॥ भार्या ममेयं कल्याणी वैदेही जनकात्मजा। मां चानुयाता विजनं तपोवनमनिन्दिता॥ पित्रा प्रव्राज्यमानं मां सौमित्रिरनुजः प्रियः। अयमन्वगमद् भ्राता वनमेव धृतव्रतः॥ पित्रा नियुक्ता भगवन् प्रवेक्ष्यामस्तपोवनम्। धर्ममेवाचरिष्यामस्तत्र मूलफलाशनाः॥ तस्य तद् वचनं श्रुत्वा राजपुत्रस्य धीमतः। उपानयत धर्मात्मा गामर्थ्यमुदकं ततः॥ नानाविधाननरसान् वन्यमूलफलाश्रयान्। तेभ्यो ददौ तप्ततपा वासं चैवाभ्यकल्पयत्॥ मृगपक्षिभिरासीनो मुनिभिश्च समन्ततः। राममागतमभ्यर्च्य स्वागतेनागतं मुनिः॥ प्रतिगृह्य तु ताम_मुपविष्टं स राघवम्। भरद्वाजोऽब्रवीद् वाक्यं धर्मयुक्तमिदं तदा॥ चिरस्य खलु काकुत्स्थ पश्याम्यहमुपागतम्। श्रुतं तव मया चैव विवासनमकारणम्॥ अवकाशो विविक्तोऽयं महानद्योः समागमे। पुष्यश्च रमणीयश्च वसत्विह भवान् सुखम्॥ एवमुक्तस्तु वचनं भरद्वाजेन राघवः। प्रत्युवाच शुभं वाक्यं रामः सर्वहिते रतः॥ भगवत्रित आसन्नः पौरजानपदो जनः। सुदर्शमिह मां प्रेक्ष्य मन्येऽहमिममाश्रमम्॥ आगमिष्यति वैदेहीं मां चापि प्रेक्षको जनः। अनेन कारणेनाहमिह वासं न रोचये॥ महर्षिसेवितः पुण्यः एकान्ते पश्य भगवन्नाश्रमस्थानमुत्तमम्। रमते यत्र वैदेही सुखार्दा जनकात्मजा॥ एतच्छुत्वा शुभं वाक्यं भरद्वाजो महामुनिः। राघवस्य तु तद् वाक्यमर्थग्राहकमब्रवीत्॥ दशक्रोश इतस्तात गिरिर्यस्मिन् निवत्स्यसि। पर्वतः शुभदर्शनः॥ गोलाङ्गलानुचरितो वानरक्षनिषेवितः। चित्रकूट इति ख्यातो गन्धमादनसंनिभः॥ यावता चित्रकूटस्य नरः शृङ्गाण्यवेक्षते। कल्याणानि समाधत्ते न पापे कुरुते मनः॥ ऋषयस्तत्र बहवो विहृत्य शरदां शतम्। तपसा दिवमारूढाः कपालशिरसा सह॥ प्रविविक्तमहं मन्ये तं वासं भवतः सुखम्। इह वा वनवासाय वस राम मया सह ॥ स रामं सर्वकामैस्तं भरद्वाजः प्रियातिथिम्। सभार्यं सह च भ्रात्रा प्रतिजग्राह हर्षयन्॥ तस्य प्रयागे रामस्य तं महर्षिमुपेयुषः। प्रपन्ना रजनी पुण्या चित्राः कथयत: कथाः॥ सीतातृतीयः काकुत्स्थः परिश्रान्तः सुखोचितः। भरद्वाजाश्रमे रम्ये तां रात्रिमवसत् सुखम्॥ प्रभातायां तु शर्वर्यां भरद्वाजमुपागमत्। उवाच नरशार्दूलो मुनिं ज्वलिततेजसम्॥ शर्वरीं भगवनद्य सत्यशील तवाश्रमे। उषिताः स्मोऽह वसतिमनुजानातु नो भवान्॥ रात्र्यां तु तस्यां व्युष्टायां भरद्वाजोऽब्रवीदिदम्। मधुमूलफलोपेतं चित्रकूटं व्रजेति ह॥ वासमौपयिकं मन्ये तव राम महाबल। नानानगगणोपेतः किन्नरोरगसेवितः॥ मयूरनादाभिरतो गजराजनिषेवितः। गम्यतां भवता शैलश्चित्रकूटः स विश्रुतः॥ पुण्यश्च रमणीयश्च बहुमूलफलायुतः। तत्र कुञ्जरयूथानि मृगयूथानि चैव हि ॥ विचरन्ति वनान्तेषु तानि द्रक्ष्यसि राघव। सरित्प्रस्रवणप्रस्थान् दरीकन्दरनिर्झरान्। चरतः सीतया सार्धं नन्दिष्यति मनस्तव।॥ विनोदयन्तं च सुखं परं शिवम्। मृगैश्च मत्तैर्बहुभिश्च कुञ्जरैः सुरम्यमासाद्य समावसाश्रयम्॥ उषित्वा रजनीं तत्र राजपुत्रावरिंदमौ। महर्षिमभिवाद्याथ जग्मतुस्तं गिरिं प्रति॥ तेषां स्वस्त्ययनं चैव महर्षिः स चकार ह। प्रस्थितान् प्रेक्ष्य तांश्चैव पिता पुत्रानिवौरसान् ॥ ततः प्रचक्रमे वक्तुं वचनं स महामुनिः। भरद्वाजो महातेजा रामं सत्यपराक्रमम्॥ गङ्गायमुनयोः संधिमादाय मनुजर्षभ। कालिन्दीमनुगच्छेतां नदी पश्चान्मुखाश्रिताम्॥ अथासाद्य तु कालिन्दी प्रतिस्रोतः समागताम्। तस्यास्तीर्थं प्रचरितं प्रकामं प्रेक्ष्य राघव। तत्र यूयं प्लवं कृत्वा तरतांशुमती नदीम्॥ ततो न्यग्रोधमासाद्य महान्तं हरितच्छदम्। परीतं बहुभिर्वृक्षैः श्यामं सिद्धोपसेवितम्॥ तस्मिन् सीताञ्जलिं कृत्वा प्रयुञ्जीताशिषां क्रियाम्। समासाद्य च तं वृक्षं वसेद् वातिक्रमेत वा।७।। क्रोशमात्रं ततो गत्वा नीलं प्रेक्ष्य च काननम्। सल्लकीबदरीमिश्रं रम्यं वन्यैश्च यामुनैः॥ स पन्थाश्चित्रकूटस्य गतस्य बहुशो मया। रम्यो मार्दवयुक्तश्च दावैश्चैव विवर्जितः॥ इति पन्थानमादिश्य महर्षिः संन्यवर्तत। अभिवाद्य तथेत्युक्त्वा रामेण विनिवर्तितः॥ उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणमब्रवीत्। कृतपुण्याः स्म भद्रं ते मुनिर्यन्नोऽनुकम्पते॥ इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ। सीतामेवाग्रतः कृत्वा कालिन्दी जग्मतुर्नदीम्॥ अथासाद्यतुकालिन्दी शीघ्रस्रोतस्विनी नदीम्। चिन्तामापेदिरे सद्यो नदीजलतितीर्षवः॥ तौ काष्ठसंघाटमथो चक्रतुः सुमहाप्लवम्। शुष्कैर्वंयैः समाकीर्णमुशीरैश्च समावृतम्॥ ततो वैतसशाखाश्च जम्बुशाखाश्च वीर्यवान्। चकार लक्ष्मणश्छित्त्वा सीतायाः सुखमासनम्॥ तत्र श्रियमिवाचिन्त्यां रामो दाशरथिः प्रियाम्। ईषत्स लज्जमानां तामध्यारोपयत प्लवम्॥ पार्वे तत्र च वैदेह्या वसने भूषणानि च। प्लवे कठिनकाजंच रामश्चके समाहितः॥ आरोप्य सीतां प्रथमं संघाटं परिगृह्य तौ ततः प्रतेरतुर्यत्तौ प्रीतौ दशरथात्मजौ॥ कालिन्दीमध्यमायाता सीता त्वेनामवन्दत। स्वस्ति देवि तरामि त्वां पारयेन्मे पतिव्रतम्॥ यक्ष्ये त्वां गोसहस्रेण सुराघटशतेन च। स्वस्ति प्रत्यागते रामे पुरीमिक्ष्वाकुपालिताम्॥ कालिन्दीमथ सीता तु याचमाना कृताञ्जलिः। तीरमेवाभिसम्प्राप्ता दक्षिणं वरवर्णिनी॥ ततः प्लवेनांशुमती शीघ्रगामूर्मिमालिनीम्। तीरजैर्बहुभिवृक्षैः संतेरुर्यमुना नदीम्॥ तेषु ते प्लवमुत्सृज्य प्रस्थाय यमुनावनात्। श्यामं न्यग्रोधमासेदुः शीतलं हरितच्छदम्॥ न्यग्रोधं समुपागम्य वैदेही चाभ्यवन्दत। नमस्तेऽस्तु महावृक्ष पारयेन्मे पतिव्रतम्॥ कौसल्यां चैव पश्येम सुमित्रां च यशस्विनीम्। इति सीताञ्जलिं कृत्वा पर्यगच्छन्मनस्विनी॥ अवलोक्य ततः सीतामायाचन्तीमनिन्दिताम्। दयितां च विधेयां च रामो लक्ष्मणमब्रवीत्॥ सीतामादाय गच्छ त्वमग्रतो भरतानुज । पृष्ठतोऽनुगमिष्यामि सायुधो द्विपदां वर॥ यद् यत् फलं प्रार्थयते पुष्पं वा जनकात्मजा। तत् तत् प्रयच्छ वैदेह्या यत्रास्या रमते मनः।२८।। एकैकं पादपं गुल्म लतां वा पुष्पशालिनीम्। अदृष्टरूपां पश्यन्ती रामं पप्रच्छ साऽबला॥ रमणीयान् बहुविधान् पादपान् कुसुमोत्करान्। सीतावचनसंरब्ध आनयामास लक्ष्मणः॥ विचित्रवालुकजलां हंससारसनादिताम्। रेमे जनकराजस्य सुता प्रेक्ष्य तदा नदीम्॥ क्रोशमात्रं ततो गत्वा भ्रातरौ रामलक्ष्मणौ। बहून् मेध्यान् मृगान् हत्वा चेस्तुर्यमुनावने ॥ विहृत्य ते बर्हिणपूगनादिते शुभे वने वारणवानरायुते। समं नदीवप्रमुपेत्य सत्वरं निवासमाजग्मुरदीनदर्शनाः॥ अथ राज्यां व्यतीतायामवसुप्तमनन्तरम्। प्रबोधयामास शनैर्लक्ष्मणं रघुपुङ्गवः॥ सौमित्रे शृणु वन्यानां वल्गु व्याहरतां स्वनम्। सम्प्रतिष्ठामहे कालः प्रस्थानस्य परंतप॥ प्रसुप्तस्तु ततो भ्रात्रा समये प्रतिबोधितः। जहौ निद्रां च तन्द्रां च प्रसक्तं च परिश्रमम्॥ तत उत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवं जलम्। पन्थानमृषिभिर्जुष्टं चित्रकूटस्य तं ययुः॥ ततः सम्प्रस्थितः काले रामः सौमित्रिणा सह। सीतां कमलपत्राक्षीमिदं वचनमब्रवीत्॥ आदीप्तानिव वैदेहि सर्वतः पुष्पितान् नगान्। स्वैः पुष्पैः किंशुकान् पश्य मालिनः शिशिरात्यये॥ पश्य भल्लातकान् बिल्वान् नरैरनुपसेवितान्। फलपुष्पैरवनतान् नूनं शक्ष्याम जीवितुम्॥ पश्य द्रोणप्रमाणानि लम्बमानानि लक्ष्मण। मधूनि मधुकारीभिः सम्भृतानि नगे नगे॥ एष क्रोशति नत्यूहस्तं शिखी प्रतिकूजति। रमणीये वनोद्देशे पुष्पसंस्तरसंकटे॥ मातङ्गयूथानुसृतं पक्षिसंघानुनादितम्। चित्रकूटमिमं पश्य प्रवृद्धशिखरं गिरिम्॥ समभूमितले रम्ये दुमैर्बहुभिरावृते। पुण्ये रंस्यामहे तात चित्रकूटस्य कानने॥ ततस्तौ पादचारेण गच्छन्तौ सह सीतया। रम्यमासेदतुः शैलं चित्रकूटं मनोरमम् ॥ तं तु पर्वतमासाद्य नानापक्षिगणायुतम्। बहुमूलफलं रम्यं सम्पन्नसरसोदकम्॥ मनोज्ञोऽयं गिरिः सौम्य नानादुमलतायुतः। बहुमूलफलो रम्यः स्वाजीवः प्रतिभाति मे॥ मुनयश्च महात्मानो वसन्त्यस्मिशिलोच्चये। अयं वासो भवेत् तात वयमत्र वसेमहि ॥ इति सीता च रामश्च लक्ष्मणश्च कृताञ्जलिः। अभिगम्याश्रमं सर्वे वाल्मीकिमभिवादयन्॥ तान् महर्षिः प्रमुदितः पूजयामास धर्मवित्। आस्यतामिति चोवाच स्वागतं तं निवेद्य च॥ ततोऽब्रवीन्महाबाहुर्लक्ष्मणं लक्ष्मणाग्रजः। संनिवेद्य यथान्यायमात्मानमृषये प्रभुः॥ लक्ष्मणानय दारूणि दृढानि च वराणि च। कुरुष्वावसथं सौम्य वासे मेऽभिरतं मनः॥ तस्य तद् वचनं श्रुत्वा सौमित्रिर्विविधान् गुमान्। आजहार ततश्चके पर्णशालामरिंदमः॥ तां निष्ठितां बद्धकटां दृष्ट्वा रामः सुदर्शनाम्। शुश्रूषमाणमेकाग्रमिदं वचनमब्रवीत्॥ ऐणेयं मांसमाहृत्य शालां यक्ष्यामहे वयम्। कर्तव्यं वास्तुशमनं सौमित्रे चिरजीविभिः॥ मृगं हत्वानय क्षिप्रं लक्ष्मणेह शुभेक्षण। कर्तव्यः शास्त्रदृष्टो हि विधिर्धर्ममनुस्मर॥ भ्रातुर्वचनमाज्ञाय लक्ष्मणः परवीरहा। चकार च यथोक्तं हि तं रामः पुनरब्रवीत्॥ ऐणेयं श्रपयस्वैतच्छालां यक्ष्यामहे वयम्। त्वर सौम्यमुहूर्तोऽयं ध्रुवश्च दिवसो ह्ययम्॥ स लक्ष्मणः कृष्णमृगं हत्वा मेध्यं प्रतापवान्। अथ चिक्षेप सौमित्रिः समिद्धे चातवेदसि॥ तत् तु पक्वं समाज्ञाय निष्टप्तं छिन्नशोणितम्। लक्ष्मणः पुरुषव्याघ्रमथ राघवमब्रवीत्॥ अयं सर्वः समस्ताङ्गः शृतः कृष्णमृगो मया। देवता देवसंकाश यजस्व कुशलो ह्यसि॥ रामः स्नात्वा तु नियतो गुणवाञ्जपकोविदः। संग्रहेणाकरोत् सर्वान् मन्त्रान् सत्रावसानिकान्॥ इष्ट्वा देवगणान् सर्वान् विवेशावसथं शुचिः। बभूव च मनोह्वादो रामस्यामिततेजसः॥ वैश्वदेवबलिं कृत्वा रौद्रं वैष्णवमेव च। वास्तुसंशमनीयानि मङ्गलानि प्रवर्तयन्॥ जपं च न्यायतः कृत्वा स्नात्वा नद्यां यथाविधि। पापसंशमनं रामश्चकार बलिमुत्तमम्॥ वेदिस्थलविधानानि चैत्यान्यायतनानि च। आश्रमस्यानुरूपाणि स्थापयामास राघवः॥ वन्यैर्माल्यैः फलैर्मूलैः पक्वैाँसैर्यथाविधि। अद्भिर्जपैश्च वेदोक्तैर्दभैश्च ससमित्कुशैः।। तौ तर्पयित्वा भूतानि राघवौ सह सीतया। तदा विविशतुः शालां सुशुभां शुभलक्षणौ।। तां वृक्षपर्णच्छदनां मनोज्ञां यथाप्रदेशं सुकृतां निवाताम्। वासाय सर्वे विविशुः समेताः सभां यथा देवगणाः सुधर्माम्॥ सुरम्यमासाद्य तु चित्रकूट नदी च तां माल्यवती सुतीर्थाम्। ननन्द हृष्टो मृगपक्षिजुष्टां जहौ च दुःखं पुरविप्रवासात्॥ कथयित्वा तु दुःखार्तः सुमन्त्रेण चिरं सह। रामे दक्षिणकूलस्थे जगाम स्वगृहं गुहः॥ भरद्वाजाभिगमनं प्रयागे च सभाजनम्। आ गिरेर्गमनं तेषां तत्रस्थैरभिलक्षितम्॥ अनुज्ञातः सुमन्त्रोऽथ योजयित्वा हयोत्तमान्। अयोध्यामेव नगरी प्रययौ गाढदुर्मनाः॥ स वनानि सुगन्धीनि सरितश्च सरांसि च। पश्यन् यत्तो ययौ शीघ्रं ग्रामाणि नगराणि च॥ ततः सायाह्नसमये द्वितीयेऽहनि सारथिः। अयोध्यां समनुप्राप्य निरानन्दां ददर्श ह॥ स शून्यामिव निःशब्दां दृष्ट्वा परमदुर्मनाः। सुमन्त्रश्चिन्तयामास शोकवेगसमाहतः॥ कच्चिन सगजा साश्वा सजना सजनाधिपा। रामसंतापदुःखेन दग्धा शोकाग्निना पुरी।७।। इति चिन्तापरः सूतो वाजिभिः शीघ्रयायिभिः। नगरद्वारमासाद्य त्वरितः प्रविवेश ह॥ सुमन्त्रमभिधावन्तः शतशोऽथ सहस्रशः। क्व राम इति पृच्छन्तः सूतमभ्यद्रवन् नराः॥ तेषां शशंस गङ्गायामहमापृच्छय राघवम्। अनुज्ञातो निवृत्तोऽस्मि धार्मिकेण महात्मना ॥ ते तीर्णा इति विज्ञाय वाष्पपूर्णमुखा नराः। अहो धिगिति निःश्वस्य हा रामेति विचुक्रुशुः॥ शुश्राव च वचस्तेषां वृन्दं वृन्दं च तिष्ठताम्। हताः स्म खलु ये नेह पश्याम इति राघवम्॥ दानयज्ञविवाहेषु समाजेषु महत्सु च। न द्रक्ष्यामः पुनर्जातु धार्मिकं राममन्तरा॥ किं समर्थे जनस्यास्य किं प्रियं किं सुखावहम्। इति रामेण नगरं पित्रेव परिपालितम्॥ वातायनगतानां च स्त्रीणामन्वन्तरापणम्। राममेवाभितप्तानां शुश्राव परिदेवनाम्॥ स राजमार्गमध्येन सुमन्त्रः पिहिताननः। यत्र राजा दशरथस्तदेवोपययौ गृहम्॥ सोऽवतीर्य रथाच्छीघ्रं राजवेश्म प्रविश्य च। कक्ष्याः सप्ताभिचक्राम महाजनसमाकुलाः॥ हम्यैर्विमानैः प्रासादैरवेक्ष्याथ समागतम्। हाहाकारकृता नार्यो रामादर्शनकर्शिताः॥ आयतैर्विमलैत्रैरश्रुवेगपरिप्लुतैः। अन्योन्यमभिवीक्षन्ते व्यक्तमार्ततराः स्त्रियः॥ ततो दशरथस्त्रीणां प्रासादेभ्यस्ततस्ततः। रामशोकाभितप्तानां मन्दं शुश्राव जल्पितम्॥ सह रामेण निर्यातो विना राममिहागतः। सूतः किं नाम कौसल्या क्रोशन्ती प्रतिवक्ष्यति॥ यथा च मन्ये दुर्जीवमेवं न सुकरं ध्रुवम्। आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति॥ सत्यरूपं तु तद् वाक्यं राजस्त्रीणां निशामयन्। प्रदीप्त इव शोकेन विवेश सहसा गृहम्॥ स प्रविश्याष्टमीं कक्ष्यां राजानं दीनमातुरम्। पुत्रशोकपरिधूनमपश्यत् पाण्डुरे गृहे॥ अभिगम्य तमासीनं राजानमभिवाद्य च। सुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत्॥ स तूष्णीमेव तच्छ्रुत्वा राजा विद्रुतमानसः। मूर्छितो न्यपतद् भूमौ रामशोकाभिपीडितः॥ ततोऽन्तःपुरमाविद्धं मूर्छिते पृथिवीपतौ। उच्छ्रित्य बाहू चुक्रोश नृपतौ पतिते क्षितौ॥ सुमित्रया तु सहिता कौसल्या पतितं पतिम्। उत्थापयामास तदा वचनं चेदमब्रवीत्॥ इमं तस्य महाभाग दूतं दुष्करकारिणः। वनवासादनुप्राप्तं कस्मान्न प्रतिभाषसे॥ अद्येममनयं कृत्वा व्यपत्रपसि राघव। उत्तिष्ठ सुकृतं तेऽस्तु शोके न स्यात् सहायता।॥ देव यस्या भयाद् रामं नानुपृच्छसि सारथिम्। नेह तिष्ठति कैकेयी विश्रब्धं प्रतिभाष्यताम्॥ सा तथोक्त्वा महाराज कौसल्या शोकलालसा। धरण्यां निपपाताशु बाष्पविप्लुतभाषिणी॥ विलपन्ती तथा दृष्ट्वा कौसल्यां पतितां भुवि । पतिं चावेक्ष्य ताः सर्वाः समन्ताद् रुरुदुः स्त्रियः॥ ततस्तमन्तःपुरनादमुत्थितं समीक्ष्य वृद्धास्तरुणाश्च मानवाः। स्त्रियश्च सर्वा रुरुदुः समन्ततः पुरं तदासीत् पुनरेव संकुलम्॥ प्रत्याश्वस्तो यदाराजा मोहात् प्रत्यागतस्मृतिः। तदाजुहाव तं सूतं रामवृत्तान्तकारणात्॥ तदा सूतो महाराज कृताञ्जलिरुपस्थितः। राममेवानुशोचन्तं दुःखशोकसमन्वितम्॥ वृद्धं परमसंतप्तं नवग्रहमिव द्विपम्। विनिःश्वसन्तं ध्यायन्तमस्वस्थमिव कुञ्जरम्॥ राजा तु रजसा सूतं ध्वस्ताङ्ग समुपस्थितम्। अश्रुपूर्णमुखं दीनमुवाच परमार्तवत्॥ क्व नु वत्स्यति धर्मात्मा वृक्षमूलमुपाश्रितः। सोऽत्यन्तसुखितः सूत किमशिष्यति राघवः॥ दुःखस्यानुचितो दुःखं सुमन्त्र शयनोचितः। भूमिपालात्मजो भूमौ शेते कथमनाथवत्॥ यं यान्तमनुयान्ति स्म पदातिरथकुञ्जराः। स वत्स्यति कथं रामो विजनं वनमाश्रितः॥ व्यालैर्मृगैराचरितं कृष्णसर्पनिवेषितम्। कथं कुमारौ वैदेह्या सार्धं वनमुपाश्रितौ ॥ सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया। राजपुत्रौ कथं पादैरवरुह्य रथाद् गतौ॥ सिद्धार्थः खलु सूत त्वं येन दृष्टौ ममात्मजौ। वनान्तं प्रविशन्तौ तावश्विनाविव मन्दरम्॥ किमुवाच वचो रामः किमुवाच च लक्ष्मणः। सुमन्त्र वनमासाध किमुवाच च मैथिली॥ आसितं शयितं भुक्तं सूत रामस्य कीर्तय। जीविष्याम्ययमेतेन ययातिरिव साधुषु ॥ इति सूतो नरेन्द्रेण चोदितः सज्जमानया। उवाच वाचा राजानं स बाष्पपरिबद्धया॥ अब्रवीन्मे महाराज धर्ममेवानुपालयन्। अञ्जलिं राघवः कृत्वा शिरसाभिप्रणम्य च॥ सूत मद्वचनात् तस्य तातस्य विदितात्मनः। शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः॥ सर्वमन्तःपुरं वाच्यं सूत मद्वचनात् त्वया। आरोग्यमविशेषेण यथार्हमभिवादनम्॥ माता च मम कौसल्या कुशलं चाभिवादनम्। अप्रमादं च वक्तव्या ब्रूयाश्चैनामिदं वचः॥ धर्मनित्या यथाकालमग्न्यगारपरा भव। देवि देवस्य पादौ च देववत् परिपालय॥ अभिमानं च मानं च त्यक्त्वा वर्तस्व मातृषु। अनुराजानमार्यां च कैकेयीमम्ब कारय॥ कुमारे भरते वृत्तिर्वर्तितव्या च राजवत्। अप्यज्येष्ठा हि राजानो राजधर्ममनुस्मर॥ भरतः कुशलं वाच्यो वाच्यो मद्वचनेन च। सर्वास्वेव यथान्यायं वृत्तिं वर्तस्व मातृषु॥ वक्तव्यश्च महाबाहुरिक्ष्वाकुकुलनन्दनः। पितरं यौवराज्यस्थो राज्यस्थमनुपालय॥ अतिक्रान्तवया राजा मा स्मैनं व्यपरोरुधः। कुमारराज्ये जीवस्व तस्यैवाज्ञाप्रवर्तनात्॥ अब्रवीच्चापि मां भूयो भृशमश्रूणि वर्तयन्। मातेव मम माता ते द्रष्टव्या पुत्रगर्धिनी। ॥ इत्येवं मां महाबाहुब्रुवन्नेव महायशाः। रामो राजीवपत्राक्षो भृशमश्रूण्यवर्तयत्॥ लक्ष्मणस्तु सुसंक्रुद्धो निःश्वसन् वाक्यमब्रवीत्। केनायमपराधेन राजपुत्रो विवासितः॥ राज्ञा तु खलु कैकेय्या लघु चाश्रुत्य शासनम्। कृतं कार्यमकार्यं वा वयं येनाभिपीडिताः॥ यदि प्रव्राजितो रामो लोभकारणकारितम्। वरदाननिमित्तं वा सर्वथा दुष्कृतं कृतम्॥ इदं तावद् यथाकाममीश्वरस्य कृते कृतम्। रामस्य तु परित्यागे न हेतुमुपलक्षये॥ असमीक्ष्य समारब्धं विरुद्धं बुद्धिलाघवात्। जनयिष्यति संक्रोशं राघवस्य विवासनम्॥ अहं तावन्महाराजे पितृत्वं नोपलक्षये। भ्राता भर्ता च बन्धुश्च पिता च मम राघवः॥ सर्वलोकप्रियं त्यक्त्वा सर्वलोकहिते रते। सर्वलोकोऽनुरज्येत कथं चानेन कर्मणा॥ सर्वप्रजाभिरामं हि रामं प्रव्रज्य धार्मिकम्। सर्वलोकविरोधेन कथं राजा भविष्यति ॥ जानकी तु महाराज निःश्वसन्ती तपस्विनी। भूतोपहतचित्तेव विष्ठिता विस्मृता स्थिता॥ अदृष्टपूर्वव्यसना राजपुत्री यशस्विनी। तेन दुःखेन रुदती नैव मां किंचिदब्रवीत्॥ उद्वीक्षमाणा भर्तारं मुखेन परिशिष्यता। मुमोच सहसा बाष्पं प्रयान्तमुपवीक्ष्य सा॥ तथैव रामोऽश्रुमुखः कृताञ्जलिः स्थितोऽब्रवील्लक्ष्मणबाहुपालितः। तथैव सीता रुदती तपस्विनी निरीक्षते राजरथं तथैव माम्॥ मम त्वश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि। उष्णमश्रु विमुञ्चन्तो रामे सम्प्रस्थिते वनम्॥ उभाभ्यां राजपुत्राभ्यामथ कृत्वाहमञ्जलिम्। प्रस्थितो रथमास्थाय तदुःखमपि धारयन्॥ गुहेन सार्धं तत्रैव स्थितोऽस्मि दिवसान् बहून्। आशया यदि मां रामः पुनः शब्दापयेदिति ॥ विषये ते महाराज महाव्यसनकर्शिताः। अपि वृक्षाः परिम्लानाः सपुष्पाकुरकोरकाः॥ उपतप्तोदका नद्यः पल्वलानि सरांसि च। परिशुष्कपलाशानि वनान्युपवनानि च॥ न च सर्पन्ति सत्त्वानि व्याला न प्रचरन्ति च। रामशोकाभिभूतं त निष्कूजमिव तद्वनम्॥ लीनपुष्करपत्राश्च नद्यश्च कलुषोदकाः। संतप्तपद्माः पद्मिन्यो लीनमीनविहंगमाः॥ जलजानि च पुष्पाणि माल्यानि स्थलजानि च। नातिभान्त्यल्पगन्धीनि फलानि च यथापुरम् ॥ अत्रोद्यानानि शून्यानि प्रलीनविहगानि च। न चाभिरामानारामान् पश्यामि मनुजर्षभ॥ प्रविशन्तमयोध्यायां न कश्चिदभिनन्दति। नरा राममपश्यन्तो निःश्वसन्ति मुहुर्मुहुः॥ देव राजरथं दृष्ट्वा विना राममिहागतम्। दूरादश्रुमुखः सर्वो राजमार्गे गतो जनः॥ हम्र्यैर्विमानैः प्रासादैरवेक्ष्य रथमागतम्। हाहाकारकृता नार्यो रामादर्शनकर्शिताः॥ आयतैर्विमलैनॆत्रैरश्रुवेगपरिप्लुतैः। अन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रियः॥ नामित्राणां न मित्राणामुदासीनजनस्य च। अहमार्ततया कंचिद् विशेषं नोपलक्षये॥ अप्रहृष्टमनुष्या च दीननागतुरंगमा। आर्तस्वरपरिम्लानविनिःश्वसितनि:स्वना ॥ निरानन्दा महाराज रामप्रव्राजनातुरा। कौसल्या पुत्रहीनेव अयोध्या प्रतिभाति मे॥ सूतस्य वचनं श्रुत्वा वाचा परमदीनया। बाष्पोपहतया सूतमिदं वचनमब्रवीत्॥ कैकेय्या विनियुक्तेन पापाभिजनभावया। मया न मन्त्रकुशलैर्वृद्धैः सह समर्थितम्॥ न सुहृद्भिर्न चामात्यैर्मन्त्रयित्वा सनैगमैः। मयायमर्थः सम्मोहात् स्त्रीहेतोः सहसा कृतः॥ भवितव्यतया नूनमिदं वा व्यसनं महत्। कुलस्यास्य विनाशाय प्राप्तं सूत यदृच्छया॥ सूत यद्यस्ति ते किंचिन्मयापि सुकृतं कृतम्। त्वं प्रापयाशु मां रामं प्राणाः संत्वरयन्ति माम्॥ यद्यद्यापि ममैवाज्ञा निवर्तयतु राघवम्। न शक्ष्यामि विना रामं मुहूर्तमपि जीवितुम्॥ अथवापि महाबाहुर्गतो दूरं भविष्यति। मामेव रथमारोप्य शीघ्रं रामाय दर्शय॥ वृत्तदंष्ट्रो महेष्वासः क्वासौ लक्ष्मणपूर्वजः। यदि जीवामि साध्वेनं पश्येयं सीतया सह॥ लोहिताक्षं महाबाहुमामुक्तमणिकुण्डलम्। रामं यदि न पश्येयं गमिष्यामि यमक्षयम्॥ अतो नु किं दुःखतरं योऽहमिक्ष्वाकुनन्दनम्। इमामवस्थामापनो नेह पश्यामि राघवम्॥ हा राम रामानुज हा हा वैदेहि तपस्विनि। न मां जानीत दुःखेन म्रियमाणमनाथवत्॥ स तेन राजा दुःखेन भृशमर्पितचेतनः। अवगाढः सुदुष्पारं शोकसागरमब्रवीत्॥ रामशोकमहावेगः सीताविरहपारगः। श्वसितोर्मिमहावर्तो वाष्पवेगजलाविलः॥ बाहुविक्षेपमीनोऽसौ विक्रन्दितमहास्वनः। प्रकीर्णकेशशैवाल: कैकेयीवडवामुखः॥ ममाश्रुवेगप्रभवः कुब्जावाक्यमहाग्रहः। वरवेलो नृशंसाया रामप्रव्राजनायतः॥ यस्मिन् बत निमग्नोऽहं कौसल्ये राघवं विना। दुस्तरो जीवता देवि मयायं शोकसागरः॥ अशोभनं योऽहमिहाद्य राघवं दिदृक्षमाणो न लभे सलक्ष्मणम्। इतीव राजा विलपन् महायशाः पपात तूर्णं शयने स मूर्च्छितः॥ इति विलपति पार्थिवे प्रणष्टे करुणतरं द्विगुणं च रामहेतोः। वचनमनुनिशम्य तस्य देवी भयमगमत् पुनरेव राममाता॥ इति विलपति पार्थिवे प्रणष्टे करुणतरं द्विगुणं च रामहेतोः। वचनमनुनिशम्य तस्य देवी भयमगमत् पुनरेव राममाता॥ ततो भूतोपसृष्टेव वेपमाना पुनः पुनः। धरण्यां गतसत्त्वेव कौसल्या सूतमब्रवीत्॥ नय मां यत्र काकुत्स्थ: सीता यत्र च लक्ष्मणः। तान् विना क्षणमप्यद्य जीवितुं नोत्सहे ह्यहम्॥ निवर्तय रथं शीघ्रं दण्डकान् नय मामपि। अथ तान् नानुगच्छामि गमिष्यामि यमक्षयम्॥ बाष्पवेगोपहतया स वाचा सज्जमानया। इदमासयन् देवीं सूतः प्राञ्जलिरब्रवीत्॥ त्यज शोकं च मोहं च सम्भ्रंमं दुःखजं तथा। व्यवधूय च संतापं वने वत्स्यति राघवः॥ लक्ष्मणश्चापि रामस्य पादौ परिचरन् वने। आराधयति धर्मज्ञः परलोकं जितेन्द्रियः॥ विजनेऽपि वने सीता वासं प्राप्य गृहेष्विव। विस्रम्भं लभतेऽभीता राम विन्यस्तमानसा॥ नास्या दैन्यं कृतं किंचित् सुसूक्ष्मपि लक्ष्यते। उचितेव प्रवासानां वैदेही प्रतिभाति मे॥ नगरोपवनं गत्वा यथा स्म रमते पुरा। तथैव रमते सीता निर्जनेषु वनेष्वपि॥ बालेव रमते सीताबालचन्द्रनिभानना। रामा रामे ह्यदीनात्मा विजनेऽपि वने सती॥ तद्गतं हृदयं यस्यास्तदधीनं च जीवितम्। अयोध्या हि भवेदस्या रामहीना तथा वनम्॥ परिपृच्छति वैदेही ग्रामांश्च नगराणि च। गतिं दृष्ट्वा नदीनां च पादपान् विविधानपि॥ रामं वा लक्ष्मणं वापि दृष्ट्वा जानाति जानकी। अयोध्या क्रोशमात्रे तु विहारमिव साश्रिता।१३।। इदमेव स्मराम्यस्याः सहसैवोपजल्पितम्। कैकेयीसंश्रितं जल्पं नेदानी प्रतिभाति माम्॥ ध्वंसयित्वा तु तद् वाक्यं प्रमादात् पर्युपस्थितम्। ह्लादनं वचनं सूतो देव्या मधुरमब्रवीत्॥ अध्वना वातवेगेन सम्भ्रमेणातपेन च। न विगच्छति वैदेह्याश्चन्द्रांशुसदृशी प्रभा॥ सदृशं शतपत्रस्य पूर्णचन्द्रोपमप्रभम्। वदनं तद् वदान्याया. वैदेह्या न विकम्पते ॥ अलक्तरसरक्ताभावलक्तरसवर्जितौ। अद्यापि चरणौ तस्याः पद्मकोशसमप्रभौ॥ नूपुरोत्कृष्टलीलेव खेलं गच्छति भामिनी। इदानीमपि वैदेही तद्रागान्यस्तभूषणा ॥ गजं वा वीक्ष्य सिंह वा व्याघ्र वा वनमाश्रिता। नाहारयति संत्रासं बाहू रामस्य संश्रिता॥ न शोच्यस्ते न चात्मा ते शोच्यो नापि जनाधिपः। इदं हि चरितं लोके प्रतिष्ठास्यति शाश्वतम्॥ विधूय शोकं परिहृष्टमानसा महर्षियाते पथि सुव्यवस्थिताः। वने रता वन्यफलाशनाः पितुः शुभां प्रतिज्ञा प्रतिपालयन्ति ते॥ तथापि सूतेन सुयुक्तवादिना निवार्यमाणा सुतशोककर्शिता। न चैव देवी विरराम कूजितात् प्रियेति पुत्रेति च राघवेति च ॥ वनं गते धर्मरते रामे रमयतां वरे। कौसल्या रुदती चार्ता भर्तारमिदमब्रवीत्॥ यद्यपि त्रिषु लोकेषु प्रथितं ते महद् यशः। सानुक्रोशो वदान्यश्च प्रियवादी च राघवः॥ कथं नरवर श्रेष्ठ पुत्रौ तौ सह सीतया। दुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः॥ सा नूनं तरुणी श्यामा सुकुमारी सुखोचिता। कथमुष्णं च शीतं च मैथिली विसहिष्यते॥ भुक्त्वाशनं विशालाक्षी सूपदंशान्वितं शुभम्। वन्यं नैवारमाहारं कथं सीतोपभोक्ष्यते॥ गीतवादित्रनिर्घोषं श्रुत्वा शुभसमन्विता। कथं क्रव्यादसिंहानां शब्दं श्रोष्यत्यशोभनम्॥ महेन्द्रध्वजसंकाशः क्व नु शेते महाभुजः। भुजं परिघसंकाशमुपाधाय महाबलः॥ पद्मवर्णं सुकेशान्तं पद्मनिःश्वासमुत्तमम्। कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम्॥ वज्रसारमयं नूनं हृदयं मे न संशयः। अपश्यन्त्या न तं यद् वै फलतीदं सहस्रधा॥ यत् त्वया करुणं कर्म व्यपोह्य मम बान्धवाः। निरस्ताः परिधावन्ति सुखार्हाः कृपणा वने॥ यदि पञ्चदशे वर्षे राघवः पुनरेष्यति। जह्याद् राज्यं च कोशं च भरतो नोपलक्ष्यते॥ भोजयन्ति किल श्राद्धे केचित् स्वानेव बान्धवान्। ततः पश्चात् समीक्षन्ते कृतकार्या द्विजोत्तमान्॥ तत्र ये गुणवन्तश्च विद्वांसश्च द्विजातयः। न पश्चात् तेऽभिमन्यन्ते सुधामपि सुरोपमाः॥ ब्राह्मणेष्वपि वृत्तेषु भुक्तशेष द्विजोत्तमाः। नाभ्युपेतुमलं प्राज्ञाः शृङ्गच्छेदमिवर्षभाः॥ एवं कनीयसा भ्रात्रा भुक्तं राज्यं विशाम्पते। भ्राता ज्येष्ठो वरिष्ठश्च किमर्थं नावमन्यते॥ न परेणाहृतं भक्ष्यं व्याघ्रः खादितुमिच्छति। एवमेव नरव्याघ्रः परलीढं न मंस्यते॥ हविराज्यं पुरोडाशः कुशा यूपाश्च खादिराः। नैतानि यातयामानि कुर्वन्ति पुनरध्वरे ॥ तथा ह्यात्तमिदं राज्यं हृतसारां सुरामिव। नाभिमन्तुमलं रामो नष्टसोममिवाध्वरम्॥ नैवंविधमसत्कारं राघवो मर्षयिष्यति। बलवानिव शार्दूलो वालधेरभिमर्शनम्॥ नैतस्य सहिता लोका भयं कुर्युर्महामृधे। अधर्मं त्विह धर्मात्मा लोकं धर्मेण योजयेत्॥ नन्वसौ काञ्चनैर्बाणैर्महावीर्यो महाभुजः। युगान्त इव भूतानि सागरानपि निर्दहेत्॥ स तादृशः सिंहबलो वृषभाक्षो नरर्षभः। स्वयमेव हतः पित्रा जलजेनात्मजो यथा॥ द्विजातिचरितो धर्मः शास्त्रे दृष्टः सनातनैः। यदि ते धर्मनिरते त्वया पुत्रे विवासिते॥ गतिरेका पतिर्नार्या द्वितीया गतिरात्मजः। तृतीया ज्ञातयो राजश्चतुर्थी नैव विद्यते॥ तत्र त्वं मम नैवासि रामश्च वनमाहितः। न वनं गन्तुमिच्छामि सर्वथा हा हता त्वया॥ हतं त्वया राष्ट्रमिदं सराज्यं हताः स्म सर्वाः सह मन्त्रिभिश्च। हता सपुत्रास्मि हताश्चं पौराः सुतश्च भार्या च तव प्रहृष्टौ ॥ इमां गिरं दारुणशब्दसंहितां निशम्य रामेति मुमोह दुःखितः। ततः स शोकं प्रविवेश पार्थिवः स्वदुष्कृतं चापि पुनस्तथास्मरत्॥ एवं तु क्रुद्धया राजा राममात्रा सशोकया। श्रावितः परुषं वाक्यं चिन्तयामास दुःखितः॥ चिन्तयित्वा स च नृपो मोहव्याकुलितेन्द्रियः। अथ दीर्पण कालेन संज्ञामाप परंतपः॥ स संज्ञामुपलभ्यैव दीर्घमुष्णं च निःश्वसन्। कौसल्या पार्श्वतो दृष्ट्वा ततश्चिन्तामुपागमत्॥ तस्य चिन्तयमानस्य प्रत्यभात् कर्म दुष्कृतम्। यदनेन कृतं पूर्वमज्ञानाच्छब्दवेधिना॥ अमानास्तेन शोकेन रामशोकेन च प्रभुः। द्वाभ्यामपि महाराजः शोकाभ्यामभितप्यते॥ दह्यमानस्तु शोकाभ्यां कौसल्यामाह दुःखितः। वेपमानोऽञ्जलिं कृत्वा प्रसादार्थमवाङ्मुखः। ॥ प्रसादये त्वां कौसल्ये रचितोऽयं मयाञ्जलिः। वत्सला चानृशंसा च त्वं हि नित्यं परेष्वपि॥ कौसल्या व्यसृजद् भर्ता तु खलु नारीणां गुणवान् निर्गुणोऽपि वा। धर्मं विमृशमानानां प्रत्यक्षं देवि दैवतम्॥ सा त्वं धर्मपरा नित्यं दृष्टलोकपरावरा। नार्हसे विप्रियं वक्तुं दुःखितापि सुदुःखितम्॥ तद् वाक्यं करुणं राज्ञः श्रुत्वा दीनस्य भाषितम्। बाष्पं प्रणालीव नवोदकम्॥ सा मूर्ध्नि बद्ध्वा रुदती राज्ञः पद्ममिवाञ्जलिम्। सम्भ्रमादब्रवीत् त्रस्ता त्वरमाणाक्षरं वचः॥ प्रसीद शिरसा याचे भूमौ निपतितास्मि ते। याचितास्मि हता देव क्षन्तव्याहं नहि त्वया॥ नैषा हि सा स्त्री भवति श्लाघनीयेन धीमता। उभयोर्लोकयोर्लोके पत्या या सम्प्रसाद्यते॥ जानामि धर्मे धर्मज्ञ त्वां जाने सत्यवादिनम्। पुत्रशोकार्तया तत्तु मया किमपि भाषितम्॥ शोको नाशयते धैर्यं शोको नाशयते श्रुतम्। शोको नाशयते सर्वं नास्ति शोकसमो रिपुः॥ शक्यमापतितः सोढुं प्रहारो रिपुहस्ततः। शोढुमापतितः शोकः सुसूक्ष्मोऽपि न शक्यते॥ वनवासाय रामस्य पञ्चरात्रोऽत्र गण्यते। यः शोकहतहर्षायाः पञ्चवर्षोपमो मम॥ तं हि चिन्तयमानायाः शोकोऽयं हृदि वर्धते। नदीनामिव वेगेन समुद्रसलिलं महत्॥ एवं हि कथयन्त्यास्तु कौसल्यायाः शुभं वचः। मन्दरश्मिरभूत् सूर्यो रजनी चाभ्यवर्तत॥ अथ प्रह्लादितो वाक्यैर्देव्या कौसल्यया नृपः। शोकेन चसमाक्रान्तो निद्राया वशमेयिवान्॥ प्रतिबुद्धो मुहूर्तेन शोकोपहतचेतनः। अथ राजा दशरथः स चिन्तामभ्यपद्यत ॥ रामलक्ष्मणयोश्चैव विवासाद् वासवोपमम्। आपेदे उपसर्गस्तं तमः सूर्यमिवासुरम्॥ सभार्ये हि गते रामे कौसल्यां कोसलेश्वरः। विवक्षुरसितापाङ्गी स्मृत्वा दुष्कृतमात्मनः॥ स राजा रजनी षष्ठी रामे प्रवाजिते वनम्। अर्धरात्रे दशरथः सोऽस्मरद् दुष्कृतं कृतम्॥ स राजा पुत्रशोकार्तः स्मृत्वा दुष्कृतमात्मनः। कौसल्यां पुत्रशोकार्तामिदं वचनमब्रवीत्॥ यदाचरति कल्याणि शुभं वा यदि वाऽशुभम्। तदेव लभते भद्रे कर्ता कर्मजमात्मनः॥ गुरुलाघवमर्थानामारम्भे कर्मणां फलम्। दोषं वा यो न जानाति स बाल इति होच्यते।७।। कश्चिदाम्रवणं छित्त्वा पलाशांश्च निषिञ्चति। पुष्पं दृष्ट्वा फले गृध्नुः स शोचति फलागमे॥ अविज्ञाय फलं यो हि कर्म त्वेवानुधावति। स शोचेत् फलवेलायां यथा किंशुकसेचकः॥ सोऽहमाम्रवणं छित्वा पलाशांश्च न्यषेचयम्। राम फलागमे त्यक्त्वा पश्चाच्छोचामि दुर्मतिः॥ लब्धशब्देन कौसल्ये कुमारेण धनुष्मता। कुमारः शब्दवेधीति मया पापमिदं कृतम्॥ तदिदं मेऽनुसम्प्राप्तं देवि दुःखं स्वयंकृतम्। सम्मोहादिह बालेन यथा स्याद् भक्षितं विषम्॥ यथान्यः पुरुषः कश्चित् पलाशैर्मोहितो भवेत्। एवं मयाप्यविज्ञातं शब्दवेध्यमिदं फलम्॥ देव्यनूढा त्वमभवो युवराजो भवाम्यहम्। ततः प्रावृडनुप्राप्ता मम कामविवर्धिनी॥ अपास्य हि रसान् भौमांस्तप्त्वा च जगदंशुभिः। परेताचरितां भीमां रविराचरते दिशम् ॥ उष्णमन्तर्दधे सद्यः स्निग्धा ददृशिरे घनाः। ततो जहषिरे सर्वे भेकसारङ्गबर्हिणः॥ क्लिनपक्षोत्तराः स्नाताः कृच्छ्रादिव पतत्रिणः। वृष्टिवातावधूताग्रान् पादपानभिपेदिरे॥ पतितेनाम्भसाऽऽच्छन्नः पतमानेन चासकृत्। आबभौ मत्तसारङ्गस्तोयराशिरिवाचलः॥ पाण्डुरारुणवर्णानि स्रोतांसि विमलान्यपि। सुस्रुवुर्गिरिधातुभ्यः सभस्मानि भुजंगवत्॥ तस्मिन्नतिसुखे काले धनुष्मानिषुमान् रथी। व्यायामकृतसंकल्पः सरयूमन्वगां नदीम्॥ निपाने महिषं रात्रौ गजं वाभ्यागतं मृगम्। अन्यद्वाश्वापदं किंचिज्जिघांसुरजितेन्द्रियः॥ अथान्धकारे त्वौषं जले कुम्भस्य पूर्यतः। अचक्षुर्विषये घोषं वारणस्येव नर्दतः॥ ततोऽहं शरमुद्धृत्य दीप्तमाशीविषोपमम्। शब्दं प्रति गजप्रेप्सुरभिलक्ष्यमपातयम्॥ अमुञ्चं निशितं बाणमहमाशीविषोपमम्। तत्र वागुषसि व्यक्ता प्रादुरासीद् वनौकसः॥ हा हेति पततस्तोये बाणाद् व्यथितमर्मणः। तस्मिन्निपतिते भूमौ वागभूत् तत्र मानुषी॥ कथमस्मद्विधे शस्त्रं निपतेच्च तपस्विनी। प्रविविक्तां नदी रात्रावुदाहारोऽहमागतः॥ इषुणाभिहतः केन कस्य वापकृतं मया। ऋषेहि न्यस्तदण्डस्य वने वन्येन जीवतः॥ कथं नु शस्त्रेण वधो मद्विधस्य विधीयते। जटाभारधरस्यैव वल्कलाजिनवाससः॥ को वधेन ममार्थी स्यात् किं वास्यापकृतं मया। एवं निष्फलमारब्धं केवलानर्थसंहितम्॥ न क्वचित् साधु मन्येत नेमं तथानुशोचामि जीवितक्षयमात्मनः॥ मातरं पितरं चोभावनुशोचामि मद्वधे। तदेतन्मिथुनं वृद्धं चिरकालभृतं मया॥ मयि पञ्चत्वमापन्ने कां वृत्तिं वर्तयिष्यति। वृद्धौ च मातापितरावहं चैकेषुणा हतः॥ केन स्म निहताः सर्वे सुबालेनाकृतात्मना। यथैव गुरुतल्पगम्। तां गिरं करुणं श्रुत्वा मम धर्मानुकाक्षिणः॥ कराभ्यां सशरं चापं व्यथितस्यापतद् भुवि। तस्याहं करुणं श्रुत्वा ऋषेर्विलपतो निशि॥ सम्भ्रान्तः शोकवेगेन भृशमासं विचेतनः। तं देशमहमागम्य दीनसत्त्वः सुदुर्मनाः॥ अपश्यमिषुणा तीरे सरय्वास्तापसं हतम्। अवकीर्णजटाभारं प्रविद्धकलशोदकम्॥ पांसुशोणितदिग्धाङ्ग शयानं शल्यवेधितम्। स मामुद्वीक्ष्य नेत्राभ्यां त्रस्तमस्वस्थचेतनम्॥ इत्युवाच वचः क्रूरं दिधक्षनिव तेजसा। किं तवापकृतं राजन् वने निवसता मया॥ जिहीर्घरम्भो गुर्वर्थं यदहं ताडितस्त्वया। बाणेन मर्मण्यभिहते मयि ॥ द्वावन्धौ निहतौ वृद्धौ माता जनयिता च मे। तौ नूनं दुर्बलावन्धौ मत्प्रतीक्षौ पिपासितौ॥ चिरमाशां कृतां कष्टां तृष्णां संधारयिष्यतः। एकेन खलु न नूनं तपसो वास्ति फलयोगः श्रुतस्य वा॥ पिता यन्मां न जानीते शयानं पतितं भुवि। जानन्नपि च किं कुर्यादशक्तश्चापरिक्रमः।॥ भिद्यमानमिवाशक्तस्त्रातुमन्यो नगो नगम्। पितुस्त्वमेव मे गत्वा शीघ्रमाचक्ष्व राघव॥ न त्वामनुदहेत् क्रुद्धो वनमग्निरिवैधितः। इयमेकपदी राजन् यतो मे पितुराश्रमः॥ तं प्रसादय गत्वा त्वं न त्वा संकुपितः शपेत्। विशल्यं कुरु मां राजन् मर्म मे निशितः शरः॥ रुणद्धि मृदु सोत्सेधं तीरमम्बुरयो यथा। सशल्यः क्लिश्यते प्राणैर्विशल्यो विनशिष्यति।४६।। इति मामविशच्चिन्ता तस्य शल्यापकर्षणे। दुःखितस्य च दीनस्य मम शोकातुरस्य च॥ लक्षयामास स ऋषिश्चिन्तां मुनिसुतस्तदा। ताम्यमानं स मां कृच्छादुवाच परमार्थवित्॥ सीदमानो विवृत्ताङ्गोऽचेष्टमानो गतः क्षयम्। संस्तभ्य शोकं धैर्येण स्थिरचित्तो भवाम्यहम्॥ ब्रह्महत्याकृतं तापं हृदयादपनीयताम्। न द्विजातिरहं राजन्मा भूत् ते मनसो व्यथा॥ शूद्रायामस्मि वैश्येन जातो नरवराधिप। इतीव वदतः कृच्छाद् बाणाभिहतमर्मणः॥ विघूर्णतो विचेष्टस्य वेपमानस्य भूतले। तस्य त्वाताम्यमानस्य तं बाणमहमुद्धरम्। स मामुद्वीक्ष्य संत्रस्तो जहौ प्राणांस्तपोधनः॥ जलाड़गात्रं तु विलप्य कृच्छं मर्मवणं संततमुच्छसन्तम्। ततः सरय्वां तमहं शयानं समीक्ष्य भद्रे सुभृशं विषण्णः॥ वधमप्रतिरूपं तु महर्षेस्तस्य राघवः। विलपन्नेव धर्मात्मा कौसल्यामिदमब्रवीत्॥ तदज्ञानान्महत्पापं कृत्वा संकुलितेन्द्रियः। एकस्त्वचिन्तयं बुद्ध्या कथं नु सुकृतं भवेत्॥ ततस्तं घटमादाय पूर्णं परमवारिणा। आश्रमं तमहं प्राप्य यथाख्यातपथं गतः॥ तत्राहं दुर्बलावन्धौ वृद्धावपरिणायकौ। अपश्यं तस्य पितरौ लूनपक्षाविव द्विजौ॥ तन्निमित्ताभिरासीनौ कथाभिरपरिश्रमौ। तामाशां मत्कृते हीनावुपासीनावनाथवत्॥ शोकोपहतचित्तश्च भयसंत्रस्तचेतनः। तच्चाश्रमपदं गत्वा भूयः शोकमहं गतः॥ पदशब्दं तु मे श्रुत्वा मुनिर्वाक्यमभाषत। किं चिरायसि मे पुत्र पानीयं क्षिप्रमानय॥ यनिमित्तमिदं तात सलिले क्रीडितं त्वया। उत्कण्ठिता ते मातेयं प्रविश क्षिप्रमाश्रमम्॥ यद् व्यलीकं कृतं पुत्र मात्रा ते यदि वा मया। न तन्मनसि कर्तव्यं त्वया तात तपस्विना॥ त्वं गतिस्त्वगतीनां च चक्षुस्त्वं हीनचक्षुषाम्। समासक्तास्त्वयि प्राणाः कथं त्वं नाभिभाषसे॥ मुनिमव्यक्तया वाचा तमहं सज्जमानया। हीनव्यञ्जनया प्रेक्ष्य भीतचित्त इवाब्रुवम्॥ मनसः कर्म चेष्टाभिरभिसंस्तभ्य वाग्बलम्। आचचक्षे त्वंहं तस्मै पुत्रव्यसनजं भयम्॥ क्षत्रियोऽहं दशरथो नाहं पुत्रो महात्मनः। सज्जनावमतं दुःखमिदं प्राप्तं स्वकर्मजम् ॥ भगवंश्चापहस्तोऽहं सरयूतीरमागतः। जिघांसुः श्वापदं किंचिनिपाने वागतं गजम्॥ ततः श्रुतो मया शब्दो जले कुम्भस्य पूर्यतः। द्विपोऽयमिति मत्वाहं बाणेनाभिहतो मया॥ गत्वा तस्यास्ततस्तीरमपश्यमिषुणा हृदि। विनिर्भिन्नं गतप्राणं शयानं भुवि तापसम्॥ ततस्तस्यैव वचनादुपेत्य परितप्यतः। स मया सहसा बाण उद्धृतो ममतस्तदा॥ स चोद्धृतेन बाणेन सहसा स्वर्गमास्थितः। भगवन्तावुभौ शोचन्नन्धाविति विलप्य च॥ अज्ञानाद् भवतः पुत्रः सहसाभिहतो मया। शेषमेवं गते यत्स्यात् तत् प्रसीदतु मे मुनिः॥ स तच्छ्रुत्वा वचः क्रूरं मया तदघशंसिना। नाशकत् तीव्रमायासं स कर्तुं भगवानृषिः॥ स बाष्पपूर्णवदनो निःश्वसशोकमूर्च्छितः। मामुवाच महातेजाः कृताञ्जलिमुपस्थितम्॥ यद्येतदशुभं कर्म न स्म मे कथयेः स्वयम्। फलेन्मूर्धा स्म राजन् सद्यः शतसहस्रधा॥ क्षत्रियेण वधो राजन् वानप्रस्थे विशेषतः। ज्ञानपूर्वं कृतः स्थानाच्च्यावयेदपि वज्रिणम्॥ सप्तधा तु भवेन्मूर्धा मुनौ तपसि तिष्ठति। ज्ञानाद् विसृजतः शस्त्रं तादृशे ब्रह्मवादिनि॥ अज्ञानाद्धि कृतं यस्मादिदं ते तेन जीवसे। अपि ह्यकुशलं न स्याद् राघवाणां कुतोभवान् ॥ ते नय नौ नृप तं देशमिति मां चाभ्यभाषत। अद्य तं द्रष्टुमिच्छावः पुत्रं पश्चिमदर्शनम्॥ रुधिरेणावसिक्ताङ्गं प्रकीर्णाजिनवाससम्। शयानं भुवि निःसंज्ञं धर्मराजवशं गतम्॥ अथाहमेकस्तं देशं नीत्वा तौ भृशदुःखितौ। अस्पर्शयमहं पुत्रं तं मुनि सह भार्यया॥ तौ पुत्रमात्मनः स्पृष्ट्वा तमासाद्य तपस्विनौ। निपेततुः शरीरेऽस्य पिता चैनमुवाच ह॥ नाभिवादयसे माऽद्य न च मामभिभाषसे। किं च शेषे तु भूमौ त्वं वत्स किं कुपितो ह्यसि।।३०। नन्वहं तेऽप्रियः पुत्र मातरं पश्य धार्मिकीम्। किं च नालिङ्गसे पुत्र सुकुमार वचो वद॥ कस्य वा पररात्रेऽहं श्रोष्यामि हृदयङ्गमम्। अधीयानस्य मधुरं शास्त्रं वान्यद् विशेषतः॥ को मां संध्यामुपास्यैव स्नात्वा हुतहुताशनः। श्लाघयिष्यत्युपासीनः पुत्रशोकभयादितम् ॥ कन्दमूलफलं हृत्वा यो मां प्रियमिवातिथिम्। भोजयिष्यत्यकर्मण्यमप्रग्रहमनायकम्॥ इमामन्धां च वृद्धां च मातरं ते तपस्विनीम्। कथं पुत्र भरिष्यामि कृपणां पुत्रगर्धिनीम्॥ तिष्ठ मा मा गमः पुत्र यमस्य सदनं प्रति। श्वो मया सह गन्तासि जनन्या च समेधितः॥ उभावपि च शोकार्तावनाथौ कृपणौ वने। क्षिप्रमेव गमिष्यावस्त्वया हीनौ यमक्षयम्॥ ततो वैवस्वतं दृष्ट्वा तं प्रवक्ष्यामि भारतीम्। क्षमतां धर्मराजो मे बिभृयात् पितरावयम्॥ दातुमर्हति धर्मात्मा लोकपालो महायशाः। ईदृशस्य ममाक्षय्यामेकामभयदक्षिणाम्॥ अपापोऽसि यथा पुत्र निहतः पापकर्मणा। तेन सत्येन गच्छाशु ये लोकास्त्वस्त्रयोधिनाम्॥ यां हि शूरा गतिं यान्ति संग्रामेष्वनिवर्तिनः। हतास्त्वभिमुखाः पुत्र गतिं तां परमां व्रज॥ यां गतिं सगरः शैब्यो दिलीपो जनमेजयः। नहुषो धुन्धुमारश्च प्राप्तास्तां गच्छ पुत्रक॥ या गतिः सर्वभूतानां स्वाध्यायात् तपसश्च या। भूमिदस्याहिताग्नेश्च एकपत्नीव्रतस्य च ॥ गोसहस्रप्रदातॄणां गुरुसेवाभृतामपि। देहन्यासकृतां या च तां गतिं गच्छ पुत्रक॥ न हि त्वस्मिन् कुले जातो गच्छत्यकुशलां गतिम्। स तु यास्यति येन त्वं निहतो मम बान्धवः॥ एवं स कृपणं तत्र पर्यदेवयतासकृत्। तथोक्त्वा कर्तुमुदकं प्रवृत्तः सह भार्यया॥ स तु दिव्येन रूपेण मुनिपुत्रः स्वकर्मभिः। स्वर्गमध्यारुहत् क्षिप्रं शक्रेण सह धर्मवित्॥ आबभाषे च तौ वृद्धौ शक्रेण सह तापसः। आश्वस्य च मुहूर्तं तु पितरं वाक्यमब्रवीत्॥ स्थानमस्मि महत् प्राप्तो भवतोः परिचारणात्। भवन्तावपि च क्षिप्रं मम मूलमुपैष्यथः॥ एवमुक्त्वा तु दिव्येन विमानेन वपुष्मता। मामुवाच महातेजाः आरुरोह दिवं क्षिप्रं मुनिपुत्रो जितेन्द्रियः॥ स कृत्वाथोदकं तूर्णं तापसः सह भार्यया। कृताञ्जलिमुपस्थितम्॥ अद्यैव जहि मां राजन् मरणे नास्ति मे व्यथा। यः शरेणैकपुत्रं मां त्वमकार्षीरपुत्रकम्॥ त्वयापि च यदज्ञानानिहतो मे स बालकः। तेन त्वामपि शप्स्येऽहं सुदुःखमतिदारुणम्॥ पुत्रव्यसनजं दुःखं यदेतन्मम साम्प्रतम्। एवं त्वं पुत्रशोकेन राजन् कालं करिष्यसि ॥ अज्ञानात्तु हतो यस्मात् क्षत्रियेण त्वया मुनिः। तस्मात् त्वां नाविशत्याशु ब्रह्महत्या नराधिप॥ त्वामप्येतादृशो भावः क्षिप्रमेव गमिष्यति। जीवितान्तकरो घोरो दातारमिव दक्षिणाम्॥ एवं शापं मयि न्यस्य विलप्य करुणं बहु। चितामारोप्य देहं तन्मिथुनं स्वर्गमभ्ययात्॥ तदेतच्चिन्तयानेन स्मृतं पापं मया स्वयम्। तदा बाल्यात् कृतं देवि शब्दवेध्यनुकर्षिणा॥ तस्यायं कर्मणो देवि विपाकः समुपस्थितः। अपथ्यैः सह सम्भुक्ते व्याधिरनरसे यथा॥ तस्मान्मामागतं भद्रे तस्योदारस्य तद् वचः। इत्युक्त्वा स रुदंस्त्रस्तो भार्यामाह तु भूमिपः॥ यदहं पुत्रशोकेन संत्यजिष्यामि जीवितम्। चक्षुभ्यां त्वां न पश्यामि कौसल्ये त्वं हि मां स्पृश।। यमक्षयमनुप्राप्ता द्रक्ष्यन्ति नहि मानवाः। यदि मां संस्पृशेद् रामः सकृदन्वारभेत वा॥ धनं वा यौवराज्यं वा जीवेयमिति मे मतिः। न तन्मे सदृशं देवि यन्मया राघवे कृतम्॥ सदृशं तत्तु तस्यैव यदनेन कृतं मयि। दुर्वृत्तमपि कः पुत्रं त्यजेद् भुवि विचक्षणः॥ कश्च प्रव्राज्यमानो वा नासूयेत् पितरं सुतः। चक्षुषा त्वां न पश्यामि स्मृतिर्मम विलुप्यते॥ दूता वैवस्वतस्यैते कौसल्ये त्वरयन्ति माम्। अतस्तु किं दुःखतरं यदहं जीवितक्षये॥ नहि पश्यामि धर्मज्ञं रामं सत्यपराक्रमम्। तस्य दर्शनजः शोकः सुतस्याप्रतिकर्मणः॥ उच्छोषयति वै प्राणान् वारि स्तोकमिवातपः। न ते मनुष्या देवास्ते ये चारुशुभकुण्डलम्॥ मुखं द्रक्ष्यन्ति रामस्य वर्षे पञ्चदशे पुनः। पद्मपत्रेक्षणं सुभ्र सुदंष्ट्रं चारुनासिकम्॥ धन्या द्रक्ष्यन्ति रामस्य ताराधिपसमं मुखम्। सदृशं शारदस्येन्दोः फुल्लस्य कमलस्य च॥ सुगन्धि मम रामस्य धन्या द्रक्ष्यन्ति ये मुखम्। निवृत्तवनवासं तमयोध्यां पुनरागतम्॥ द्रक्ष्यन्ति सुखिनो रामं शुक्रं मार्गगतं तथा। कौसल्ये चित्तमोहेन हृदयं सीदतेतराम्॥ वेदये न च संयुक्ताशब्दस्पर्शरसानहम्। चित्तनाशाद् विपद्यन्ते सर्वाण्येवेन्द्रियाणि हि। क्षीणस्नेहस्य दीपस्य संरक्ता रश्मयो यथा॥ अयमात्मभवः शोको मामनाथमचेतनम्। संसाधयति वेगेन यथा कूलं नदीरयः॥ हा राघव महाबाहो हा ममायासनाशन। हा पितृप्रिय मे नाथ हा ममासि गतः सुत । ७५ ।। हा कौसल्ये न पश्यामि हा सुमित्रे तपस्विनि। हा नृशंसे ममामित्रे कैकेयि कुलपांसनि॥ इति मातुश्च रामस्य सुमित्रायाश्च संनिधौ। राजा दशरथः शोचञ्जीवितान्तमुपागमत्॥ तथा तु दीनः कथयन् नराधिपः प्रियस्य पुत्रस्य विवासनातुरः। स्तदा जहौ प्राणमुदारदर्शनः। ७८ ।। आक्रन्दिता निरानन्दा सास्रकण्ठजनाविला। अयोध्यायामवतता सा व्यतीयाय शर्वरी॥ व्यतीतायां तु शर्वर्यामादित्यस्योदये ततः। समेत्य राजकर्तारः सभामीयुर्द्विजातयः॥ मार्कण्डेयोऽथ मौद्गल्यो वामदेवश्च कश्यपः। कात्यायनो गौतमश्च जाबालिश्च महायशाः॥ एते द्विजाः सहामात्यैः पृथग्वाचमुदीरयन्। वसिष्ठमेवाभिमुखाः श्रेष्ठं राजपुरोहितम्॥ अतीता शर्वरी दुःखं या नो वर्षशतोपमा। अस्मिन् पञ्चत्वमापने पुत्रशोकेन पार्थिवे॥ स्वर्गस्थश्च महाराजो रामश्चारण्यमाश्रितः। लक्ष्मणश्चापि तेजस्वी रामेपैव गतः सह॥ उभौ भरतशत्रुघ्नौ केकयेषु परंतपौ। पुरे राजगृहे रम्ये मातामहनिवेशने॥ इक्ष्वाकूणामिहाद्यैव कश्चिद् राजा विधीयताम्। अराजकं हि नो राष्ट्र विनाशं समवाप्नुयात् ।।८ नाराजके जनपदे विद्युन्माली महास्वनः। अभिवर्षति पर्जन्यो महीं दिव्येन वारिणा॥ नाराजके जनपदे बीजमुष्टिः प्रकीर्यते। अराजके पितुः पुत्रो भार्या वा वर्तते वशे॥ अराजके धनं नास्ति नास्ति भार्याप्यराजके। इदमत्याहितं चान्यत् कुतः सत्यमराजके॥ नाराजके जनपदे कारयन्ति सभां नराः। उद्यानानि च रम्याणि हृष्टाः पुण्यगृहाणि च॥ नाराजके जनपदे यज्ञशीला द्विजातयः। सत्राण्यन्वासते दान्ता ब्राह्मणाः संशितव्रताः॥ नाराजके जनपदे महायज्ञेषु यज्वनः। ब्राह्मणा वसुसम्पूर्णा विसृजन्त्याप्तदक्षिणाः॥ नाराजके जनपदे प्रहृष्टनटनर्तकाः। उत्सवाश्च समाजाश्च वर्धन्ते राष्ट्रवर्धनाः॥ नाराजके जनपदे सिद्धार्था व्यवहारिणः। कथाभिरभिरज्यन्ते कथाशीलाः कथाप्रियैः॥ नाराजके जनपदे तूद्यानानि समागताः। सायाह्ने क्रीडितुं यान्ति कुमार्यो हेमभूषिताः॥ नाराजके जनपदे धनवन्तः सुरक्षिताः। शेरते विवृतद्वाराः कृषिगोरक्षजीविनः॥ नाराजके जनपदे वाहनैः शीघ्रवाहिभिः। नरा निर्यान्त्यरण्यानि नारीभिः सह कामिनः॥ नाराजके जनपदे बद्धघण्टा विषाणिनः। अटन्ति राजमार्गेषु कुञ्जराः षष्ठिहायनाः॥ नाराजके जनपदे शरान् संततमस्यताम्। श्रूयते तलनिर्घोष इष्वस्त्राणामुपासने॥ नाराजके जनपदे वणिजो दूरगामिनः। गच्छन्ति क्षेममध्वानं बहुपण्यसमाचिताः॥ नाराजके जनपदे चरत्येकचरो वशी। भावयन्नात्मनात्मानं यत्रसायं गृहो मुनिः॥ नाराजके जनपदे योगक्षेमः प्रवर्तते। न चाप्यराजके सेना शत्रून् विषहते युधि॥ नाराजके जनपदे हृष्टैः परमवाजिभिः। नराः संयान्ति सहसा रथैश्च प्रतिमण्डिताः॥ नाराजके जनपदे नराः शास्त्रविशारदाः। संवदन्तोपतिष्ठन्ते वनेपूपवनेषु वा॥ नाराजके जनपदे माल्यमोदकदक्षिणाः। देवताभ्यर्चनार्थाय कल्प्यन्ते नियतैर्जनैः॥ नाराजके जनपदे चन्दनागुरुरुषिताः। राजपुत्रा विराजन्ते वसन्ते इव शाखिनः॥ यथा ह्यनुदका नद्यो यथा वाप्यतृणं वनम्। अगोपाला यथा गावस्तथा राष्ट्रमराजकम्॥ ध्वजो रथस्य प्रज्ञानं धूमो ज्ञानं विभावसोः। तेषां यो नो ध्वजो राजा स देवत्वमितो गतः॥ नाराजके जनपदे स्वकं भवति कस्यचित्। मत्स्या इव जना नित्यं भक्षयन्ति परस्परम्॥ ये हि सम्भिन्नमर्यादा नास्तिकाश्छिन्नसंशयाः। तेऽपि भावाय कल्पन्ते राजदण्डनिपीडिताः॥ यथा दृष्टिः शरीरस्य नित्यमेव प्रवर्तते। तथा नरेन्द्रो राष्ट्रस्य प्रभवः सत्यधर्मयोः॥ राजा सत्यं च धर्मश्च राजा कुलवतां कुलम्। राजा माता पिता चैव राजा हितकारो नृणाम्॥ यमो वैश्रवणः शक्रो वरुणश्च महाबलः। विशिष्यन्ते नरेन्द्रेण वृत्तेन महता ततः॥ अहो तम इवेदं स्यान प्रज्ञायेत किंचन। राजा चेन भवेल्लोके विभजन् साध्वसाधुनी॥ जीवत्यपि महाराजे तवैव वचनं वयम्। नातिक्रमामहे सर्वे वेलां प्राप्येव सागः ॥ स नः समीक्ष्य द्विजवर्य वृत्तं नृपं विना राष्ट्रमरण्यभूतम्। कुमारमिक्ष्वाकुसुतं तथान्यं त्वमेव राजानमिहाभिषेचय॥ तेषां तद् वचनं श्रुत्वा वसिष्ठः प्रत्युवाच ह। मित्रामात्यजनान् सर्वान् ब्राह्मणांस्तानिदं वचः॥ यदसौ मातुलकुले दत्तराज्यः परं सुखी। भरतो वसति भ्रात्रा शत्रुघ्नेन मुदान्वितः॥ तच्छीघ्रं जवना दूता गच्छन्तु त्वरितं हयैः। आनेतुं भ्रातरौ वीरौ किं समीक्षामहे वयम्॥ गच्छन्त्विति ततः सर्वे वसिष्ठं वाक्यमब्रुवन्। तेषां तद् वचनं श्रुत्वा वसिष्ठो वाक्यमब्रवीत्॥ एहि सिद्धार्थ विजय जयन्ताशोकनन्दन। श्रूयतामितिकर्तव्यं सर्वानेव ब्रवीमि वः॥ पुरं राजगृहं गत्वा शीघ्रं शीघ्रजवैर्हयैः। त्यक्तशोकैरिदं वाच्यः शासनाद् भरतो मम ॥ पुरोहितस्त्वां कुशलं प्राह सर्वे च मन्त्रिणः। त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया।७॥ मा चास्मै प्रोषितं रामं मा चास्मै पितरं मृतम्। भवन्तः शंसिषुर्गत्वा राघवाणामितः क्षयम्॥ कौशेयानि च वस्त्राणि भूषणानि वराणि च। क्षिप्रमादाय राज्ञश्च भरतस्य च गच्छत॥ दत्तपथ्यशना दूता जग्मुः स्वं स्वं निवेशनम्। केकयांस्ते गमिष्यन्तो हयानारुह्य सम्मतान्॥ ततः प्रास्थानिकं कृत्वा कार्यशेषमनन्तरम्। वसिष्ठेनाभ्यनुज्ञाता दूताः संत्वरितं ययुः॥ न्यन्तेनापरतालस्य प्रलम्बस्योत्तरं प्रति। निषेवमाणास्ते जग्मुर्नदी मध्येन मालिनीम्॥ ते हास्तिनपुरे गङ्गां तीर्त्वा प्रत्यङ्मुखा ययुः। पाञ्चालदेशमासाद्य मध्येन कुरुजाङ्गलम्॥ सरांसि च सुफुल्लानि नदीश्च विमलोदकाः। निरीक्षमाणा जग्मुस्ते दूताः कार्यवशाद् द्रुतम्॥ ते प्रसन्नोदकां दिव्यां नानाविहगसेविताम्। उपातिजग्मुर्वेगेन शरदण्डां जलाकुलाम्॥ निकूलवृक्षमासाद्य दिव्यं सत्योपयाचनम्। अभिगम्याभिवाद्यं तं कुलिङ्गां प्राविशन् पुरीम्॥ अभिकालं ततः प्राप्य तेजोऽभिभवनाच्च्युताः। पितृपैतामहीं पुण्यां तेरुरिक्षुमती नदीम्॥ अवेक्ष्याञ्जलिपानांश्च ब्राह्मणान् वेदपारगान्। ययुर्मध्येन बाह्रीकान् सुदामानं च पर्वतम्॥ विष्णोः पदं प्रेक्ष्यमाणा विपाशां चापि शाल्मलीम्। नदीर्वापीतटाकानि पल्वलानि सरांसि च॥ पश्यन्तो विविधांश्चापि सिंहान् व्याघ्रान् मृगान् द्विपान्। ययुः पथातिमहता शासनं भर्तुरीप्सवः॥ ते श्रान्तवाहना दूता विकृष्टेन सता पथा। गिरिव्रजं पुरवरं शीघ्रमासेदुरञ्जसा ॥ भर्तुः प्रियार्थं कुलरक्षणार्थं भर्तुश्च वंशस्य परिग्रहार्थम्। अहेडमानास्त्वरया स्म दूता रात्र्यां तु ते तत्पुरमेव याताः॥ यामेव रात्रिं ते दूताः प्रविशन्ति स्म तां पुरीम्। भरतेनापि तां रात्रि स्वप्नो दृष्टोऽयमप्रियः॥ व्युष्टामेव तु तां रात्रिं दृष्ट्वा तं स्वप्नमप्रियम्। पुत्रो राजाधिराजस्य सुभृशं पर्यतप्यत॥ तप्यमानं तमाज्ञाय वयस्याः प्रियवादिनः। आयासं विनयिष्यन्तः सभायां चक्रिरे कथाः॥ वादयन्ति तदा शान्ति लासयन्त्यपि चापरे। नाटकान्यपरे स्माहुर्हास्यानि विविधानि च॥ । स तैर्महात्मा भरतः सखिभिः प्रियवादिभिः। गोष्ठीहास्यानि कुर्वद्भिर्न प्राहृष्यत राघवः॥ तमब्रवीत् प्रियसखो भरतं सखिभिर्वृतम्। सुहृद्भिः पर्युपासीनः किं सखे नानुमोदसे॥ एवं ब्रुवाणं सुहृदं भरतः प्रत्युवाच ह। शृणु त्वं यनिमित्तं मे दैन्यमेतदुपागतम्॥ स्वप्ने पितरमद्राक्षं मलिनं मुक्तमूर्धजम्। पतन्तमद्रिशिखरात् कलुषे गोमये हृदे॥ प्लवमानश्च मे दृष्टः स तस्मिन् गोमये हृदे। पिबन्नञ्जलिना तैलं हसन्निव मुहुर्मुहुः॥ ततस्तिलोदनं भुक्त्वा पुनः पुनरधःशिराः। तैलेनाभ्यक्तसर्वाङ्गस्तैलमेवान्वगाहत॥ स्वप्नेऽपि सागरं शुष्कं चन्द्रं च पतितं भुवि। उपरुद्धां च जगतीं तमसेव समावृताम्॥ औपवाह्यस्य नागस्य विषाणं शकलीकृतम्। सहसा चापि संशान्ता ज्वलिता जातवेदसः॥ अवदीर्णां च पृथिवीं शुष्कांश्च विविधान् दुमान् । अहं पश्यामि विध्वस्तान् सधूमांश्चैव पर्वतान्॥ पीठे कार्णायसे चैव निषण्णं कृष्णवाससम्। प्रहरन्ति स्म राजानं प्रमदाः कृष्णपिङ्गलाः॥ त्वरमाणश्च धर्मात्मा रक्तमाल्यानुलेपनः। रथेन खरयुक्तेन प्रयार्ता दक्षिणामुखः॥ प्रहसन्तीव राजानं प्रमदा रक्तवासिनी। प्रकर्षन्ती मया दृष्टा राक्षसी विकृतानना॥ एवमेतन्मया दृष्टमिमां रात्रिं भयावहाम्। अहं रामोऽथवा राजा लक्ष्मणो वा मरिष्यति॥ नरो यानेन यः स्वप्ने खरयुक्तेन याति हि। अचिरात्तस्य धूम्राग्रं चितायां सम्प्रदृश्यते॥ एतन्निमित्तं दीनोऽहं न वचः प्रतिपूजये। शुष्यतीव च मे कण्ठो न स्वस्थमिव मे मनः॥ न पश्यामि भयस्थानं भयं चैवोपधारये। भ्रष्टश्च स्वरयोगो मे छाया चापगता मम। जुगुप्सु इव चात्मानं न च पश्यामि कारणम्॥ इमां च दुःस्वप्नगतिं निशम्य हि त्वनेकरूपामवितर्कितां पुरा। भयं महत्वद् हृदयान याति मे विचिन्त्य राजानमचिन्त्यदर्शनम्॥ स प्राङ्मुखो राजगृहादभिनिर्याय वीर्यवान्। ततः सुदामां द्युतिमान् संतीर्यावेक्ष्य तां नदीम्॥ ह्रादिनी दूरपारं च प्रत्यक्स्रोतस्तरङ्गिणीम्। शतद्रुमतरच्छीमान् नदीमिक्ष्वाकुनन्दनः॥ ऐलधाने नदीं तीर्वा प्राप्य चापरपर्वतान्। शिलामाकुर्वती ती। आग्नेयं शल्यकर्षणम्॥ सत्यसंधः शुचिर्भूत्वा प्रेक्षमाणः शिलावहाम्। अभ्यगात् स महाशैलान् वनं चैत्ररथं प्रति ॥ सरस्वतीं च गङ्गां च युग्मेन प्रतिपद्य च। उत्तरान् वीरमत्स्यानां भारुण्डं प्राविशद् वनम्॥ वेगिनी च कुलिङ्गाख्यां ह्रादिनी पर्वतावृताम्। यमुनां प्राप्य संतीर्णो बलमाश्वासयत् तदा॥ शीतीकृत्वा तु गात्राणि क्लान्तानाश्वास्य वाजिनः। तत्र स्नात्वा च पीत्वा च प्रायादादाय चोदकम्॥ राजपुत्रो महारण्यमनभीक्ष्णोपसेवितम्। भद्रो भद्रेण यानेन मारुतः खमिवात्यगात्॥ भागीरथी दुष्प्रतरां सोंऽशुधाने महानदीम्। उपायात् राघवस्तूर्णं प्राग्वटे विश्रुते पुरे॥ स गङ्गां प्राग्वटे ती, समायात् कुटिकोष्ठिकाम्। सबलस्तां स तीथि समगाद् धर्मवर्धनम्॥ तोरणं दक्षिणार्धेन जम्बूप्रस्थं समागमत्। वरूथं च ययौ रम्यं ग्रामं दशरथात्मजः॥ तत्र रम्ये वने वासं कृत्वासौ प्राङ्मुखो ययौ। उद्यानमुज्जिहानायाः प्रियका यत्र पादपाः॥ स तांस्तु प्रियकान् प्राप्य शीघ्रानास्थाय वाजिनः। अनुज्ञाप्याथ भरतो वाहिनीं त्वरितो ययौ॥ वासं कृत्वा सर्वतीर्थे ती चोत्तानिकां नदीम्। अन्या नदीश्च विविधैः पार्वतीयैस्तुरङ्गमैः॥ हस्तिपृष्ठकमासाद्य कुटिकामप्यवर्तत। ततार च नरव्याघ्रो लोहित्ये च कपीवतीम्॥ एकसाले स्थाणुमती विनते गोमती नदीम्। कलिङ्गनगरे चापि प्राप्य सालवनं तदा ॥ भरतः क्षिप्रमागच्छत् सुपरिश्रान्तवाहनः। वनं च समतीत्याशु शर्वर्यामरुणोदये॥ अयोध्यां मनुना राज्ञा निर्मितां स ददर्श ह। तां पुरी पुरुषव्याघ्रः सप्तरात्रोषितः पथि॥ अयोध्यामग्रतो दृष्ट्वा सारथिं चेदमब्रवीत्। एषा नातिप्रतीता मे पुण्योद्याना यशस्विनी॥ अयोध्या दृश्यते दूरात् सारथे पाण्डुमृत्तिका। यज्विभिर्गुणसम्पन्नैर्ब्राह्मणैर्वेदपारगैः॥ भूयिष्ठमृद्धैराकीर्णा राजर्षिवरपालिता। अयोध्यायां पुरा शब्दः श्रूयते तुमुलो महान्॥ समन्तानरनारीणां तमद्य न शृणोम्यहम्। उद्यानानि हि सायाह्ने क्रीडित्वोपरतैनरैः॥ समन्ताद् विप्रधावद्भिः प्रकाशन्ते ममान्यथा। तान्यद्यानुरुदन्तीव परित्यक्तानि कामिभिः॥ अरण्यभूतेव पुरी सारथे प्रतिभाति माम्। सह्यत्र यानैर्दृश्यन्ते न गर्न च वाजिभिः। निर्यान्तो वाभियान्तो वा नरमुख्या यथा पुरा॥ उद्यानानि पुरा भान्ति मत्तप्रमुदितानि च। जनानां रतिसंयोगेष्वत्यन्तगुणवन्ति च॥ तान्येतान्यद्य पश्यामि निरानन्दानि सर्वशः। स्रस्तपर्णैरनुपथं विक्रोशद्भिरिव दुमैः॥ नाद्यापि श्रूयते शब्दो मत्तानां मृगपक्षिणाम्। सरक्तां मधुरां वाणी कलं व्याहरतां बहु॥ चन्दनागुरुसम्पृक्तो धूपसम्मूर्छितोऽमलः। प्रवाति पवनः श्रीमान् किं नु नाद्य यथा पुरा ॥ भेरीमृदङ्गवीणानां कोणसंघट्टितः पुनः। किमद्य शब्दो विरतः सदादीनगतिः पुरा॥ अनिष्टानि च पापानि पश्यामि विविधानि च। निमित्तान्यमनोज्ञानि तेन सीदति मे मनः॥ सर्वथा कुशलं सूत दुर्लभं मम बन्धुषु। तथा ह्यसति सम्मोहे हृदयं सीदतीव मे॥ विषण्णः श्रान्तहृदयस्त्रस्तः संलुलितेन्द्रियः। भरतः प्रविवेशाशु पुरीमिक्ष्वाकुपालिताम्॥ द्वारेण वैजयन्तेन प्राविशच्छ्रान्तवाहनः। द्वा:स्थैरुत्थाय विजयं पृष्ठस्तैः सहितो ययौ॥ स त्वनेकाग्रहृदयो द्वा:स्थं प्रत्यर्च्य तं जनम्। सूतमश्वपतेः क्लान्तमब्रवीत् तत्र राघवः॥ किमहं त्वरयानीत: कारणेन विनानघ। अशुभाशङ्कि हृदयं शीलं च पततीव मे॥ श्रुता नु यादृशाः पूर्वं नृपतीनां विनाशने। आकारांस्तानहं सर्वानिह पश्यामि सारथे॥ सम्मार्जनविहीनानि परुषाण्युपलक्षये। असंयतकवाटानि श्रीविहीनानि सर्वशः॥ बलिकर्मविहीनानि धूपसम्मोदनेन च। अनाशितकुटुम्बानि प्रभाहीनजनानि च॥ अलक्ष्मीकानि पश्यामि कुटिम्बिभवनान्यहम्। अपेतमाल्यशोभानि असम्मृष्टाजिराणि च॥ देवागाराणि शून्यानि न भान्तीह यथा पुरा। देवताः प्रविद्धाश्च यज्ञगोष्ठास्तथैव च॥ माल्यापणेषु राजन्ते नाद्य पण्यानि वा तथा। दृश्यन्ते वणिजोऽप्यद्य न यथापूर्वमत्र वै॥ ध्यानसंविग्नहदया नष्टव्यापारयन्त्रिताः। देवायतनचैत्येषु दीनाः पक्षिगास्तथा॥ मलिनं चाश्रुपूर्णाक्षं दीनं ध्यानपरं कृशम्। सस्त्र.पुरां च पश्याम जनमुत्कण्ठितं पुरे॥ इत्येवमुक्त्वा भरतः सूतं तं दीनमानसः। तान्यनिष्टान्ययोध्यायां प्रेक्ष्य राजगृहं ययौ॥ तां शून्यशृङ्गाटकवेश्मरथ्यां रजोरुणद्वारकवाटयन्त्राम्। दृष्ट्वा पुरीमिन्द्रपुरीप्रकाशां दुःखेन सम्पूर्णतरो बभूव॥ बभूव पश्यन्मनसोऽप्रियाणि यान्यन्यदा नास्य पुरे बभूवुः। अवाक्शिरा दीनमना न हृष्टः पितुर्महात्मा प्रविवेश वेश्म ॥ अपश्यंस्तु ततस्तत्र पितरं पितुरालये। जगाम भरतो द्रष्टुं मातरं मातुरालये॥ अनुप्राप्तं तु तं दृष्ट्वा कैकेयी प्रोषितं सुतम्। उत्पपात तदा हृष्टा त्यक्त्वा सौवर्णमासनम्॥ स प्रविश्यैव धर्मात्मा स्वगृहं श्रीविवर्जितम्। भरतः प्रेक्ष्य जग्राह जनन्याश्चरणौ शुभौ॥ तं मूर्ध्नि समुपाघ्राय परिष्वज्य यशस्विनम्। अङ्के भरतमारोप्य प्रष्टुं समुपक्रमे॥ अद्य ते कतिचिद् रात्र्यश्च्युतस्यार्यकवेश्मनः। अपि नाध्वश्रमः शीघ्रं रथेनापततस्तव॥ आर्यकस्ते सुकुशली युधाजिन्मातुलस्तव। प्रवासाच्च सुखं पुत्र सर्वं मे वक्तुमर्हसि ॥ एवं पृष्ठस्तु कैकेय्या प्रियं पार्थिवनन्दनः। आचष्ट भरतः सर्व मात्र राजीवलोचनः।७।। अद्य मे सप्तमी रात्रिश्च्युतस्याकवेश्मनः। अम्बायाः कुशली तातो युधाजिन्मातुलश्च मे॥ यन्मे धनं च रत्नं च ददौ राजा परंतपः। परिश्रान्तं पथ्यभवत् ततोऽहं पूर्वमागतः॥ राजवाक्यहरैर्दूतैस्त्वर्यमाणोऽहमागतः। यदहं प्रष्टुमिच्छामि तदम्बा वक्तुमर्हति ॥ शून्योऽयं शयनीयस्ते पर्यङ्को हेमभूषितः। न चायमिक्ष्वाकुजनः प्रहृष्टः प्रतिभाति मे॥ राजा भवति भूयिष्ठमिहाम्बाया निवेशने। तमहं नाद्य पश्यामि द्रष्टुमिच्छनिहागतः॥ पितुर्ग्रहीष्ये पादौ च तं ममाख्याहि पृच्छतः। आहोस्विदम्बाज्येष्ठायाः कौसल्याया निवेशने॥ तं प्रत्युवाच कैकेयी प्रियवद् घोरमप्रियम्। अजानन्तं प्रजानन्ती राज्यलोभेन मोहिता॥ या गतिः सर्वभूतानां तां गतिं ते पिता गतः। राजा महात्मा तेजस्वी यायजूकः सतां गतिः॥ तच्छ्रुत्वा भरतो वाक्यं धर्माभिजनवाञ्छुचिः। पपात सहसा भूमौ पितृशोकबलार्दितः॥ हा हतोऽस्मीति कृपणां दीनां वाचमुदीरयन्। निपपात महाबाहुर्बाहू विक्षिप्य वीर्यवान्॥ ततः शोकेन संवीतः पितुर्मरणदुःखितः। विललाप महातेजा भ्रान्ताकुलितचेतनः॥ एतत् सुरुचिरं भाति पितुर्मे शयनं पुरा। शशिनेवामलं रात्रौ गगनं तोयदात्यये॥ तदिदं न विभात्यद्य विहीनं तेन धीमता। व्योमेव शशिना हीनमप्शुष्क इव सागरः॥ बाष्पमुत्सृज्य कण्ठेन स्वात्मना परिपीडितः। प्रच्छाद्य वदनं श्रीमद् वस्त्रेण जयतां वरः॥ तमार्तं देवसंकाशं समीक्ष्य पतितं भुवि। निकृत्तमिव सालस्य स्कन्धं परशुना वने॥ माता मातङ्गसंकाशं चन्दार्कसदृशं सुतम्। उत्थापयित्वा शोकार्तं वचनं चेदमब्रवीत्॥ उत्तिष्ठोत्तिष्ठ किं शेषे राजन्नत्र महायशः। त्वद्विधा नहि शोचन्ति सन्तः सदसि सम्मताः॥ दानयज्ञाधिकारा हि शीलश्रुतितपोनुगा। बुद्धिस्ते बुद्धिसम्पन्न प्रभेवार्कस्य मन्दिरे॥ स रुदित्वा चिरं कालं भूमौ परिविवृत्य च। जननी प्रत्युवाचेदं शोकैर्बहुभिरावृतः॥ अभिषेक्ष्यति रामं तु राजा यज्ञं नु यक्ष्यते। इत्यहं कृतसंकल्पो हृष्टो यात्रामयासिषम्॥ तदिदं ह्यन्यथाभूतं व्यवदीर्णं मनो मम। पितरं यो न पश्यामि नित्यं प्रियहिते रतम्॥ अम्ब केनात्यगाद् राजा व्याधिना मय्यनागते। धन्या रामादयः सर्वे यैः पिता संस्कृतः स्वयम्॥ न नूनं मां महाराजः प्राप्तं जानाति कीर्तिमान्। उपजिभ्रेत् तु मां मूर्ध्नि तात: संनाम्य सत्वरम्॥ क्व स पाणिः सुखस्पर्शस्तातस्याक्लिष्टकर्मणः। यो हि मां रजसा ध्वस्तमभीक्ष्णं परिमार्जति॥ यो मे भ्राता पिता बन्धुर्यस्य दासोऽस्मि सम्मतः। तस्य मां शीघ्रमाख्याहि रामस्याक्लिष्टकर्मणः॥ पिता हि भवति ज्येष्ठो धर्ममार्यस्य जानतः। तस्य पादौ ग्रहीष्यामि स हीदानी गतिर्मम ॥ धर्मविद् धर्मशीलश्च महाभागो दृढव्रतः। आर्ये किमब्रवीद् राजा पिता मे सत्यविक्रमः॥ पश्चिमं साधुसंदेशमिच्छामि श्रोतुमात्मनः। इति पृष्टा यथातत्त्वं कैकेयी वाक्यमब्रवीत्॥ रामेति राजा विलपन् हा सीते लक्ष्मणेति च। स महात्मा परं लोकं गतो मतिमतां वरः॥ इतीमा पश्चिमां वाचं व्याजहार पिता तव। कालधर्म परिक्षिप्तः पाशैरिव महागजः॥ सिद्धार्थास्तु नरा राममागतं सह सीतया। लक्ष्मणं च महाबाहुं द्रक्ष्यन्ति पुनरागतम्॥ तच्छ्रुत्वा विषसादैव द्वितीयाप्रियशंसनात्। विषण्णवदनो भूत्वा भूयः पप्रच्छ मातरम्॥ क्व चेदानीं च धर्मात्मा कौसल्यानन्दवर्धनः। लक्ष्मणेन सह भ्राता सीतया च समागतः॥ तथा पृष्टा यथान्यायमाख्यातुमुपचक्रमे। मातास्य युगपद्वाक्यं विप्रियं प्रियशंसया॥ स हि राजसुतः पुत्र चीरवासा महावनम्। दण्डकान् सह वैदेह्या लक्ष्मणानुचरो गतः॥ तच्छ्रुत्वा भरतस्त्रस्तो भ्रातुश्चारित्रशङ्कया। स्वस्य वंशस्य माहात्म्यात् प्रष्टुं समुपचक्रमे॥ कच्चिन्न ब्राह्मणधनं हृतं रामेण कस्यचित्। कच्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसितः॥ कच्चिन्न परदारान् वा राजपुत्रोऽभिमन्यते। कस्मात् स दण्डकारण्ये भ्राता रामो विवासितः॥ अथास्य चपला माता तत् स्वकर्म यथातथम्। तेनैव स्त्रीस्वभावेन व्याहर्तुमुपचक्रमे॥ एवमुक्ता तु कैकेयी भरतेन महात्मना। उवाच वचनं हृष्टा वृथापण्डितमानिनी॥ न ब्राह्मणधनं किंचिद्धृतं रामेण कस्यचित्। कश्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसितः। न रामः परदारान् स चक्षुामपि पश्यति॥ मया तु पुत्र श्रुत्वैव रामस्येहाभिषेचनम्। याचितस्ते पिता राज्यं रामस्य च विवासनम्॥ स स्ववृत्तिं समास्थाय पिता ते तत् तथाकरोत्। रामस्तु सहसौमित्रिः प्रेषितः सह सीतया॥ तमपश्यन् प्रियं पुत्रं महीपालो महायशाः। पुत्रशोकपरिवूनः पञ्चत्वमुपपेदिवान्॥ त्वया त्विदानी धर्मज्ञ राजत्वमवलम्ब्यताम्। त्वत्कृते हि मया सर्वमिदमेवंविधं कृतम्॥ मा शोकं मा च संतापं धैर्यमाश्रय पुत्रक। त्वदधीना हि नगरी राज्यं चैतदनामयम्॥ वसिष्ठमुख्यैः सहितो द्विजेन्द्रैः। मात्मानमुक्मभिषेचयस्व॥ श्रुत्वा च स पितुर्वत्तं भ्रातरौ च विवासितौ। भरतो दुःखसंतप्त इदं वचनमब्रवीत्॥ किं नु कार्यं हतस्येह मम राज्येन शोचतः। विहीनस्याथ पित्रा च भ्रात्रा पितृसमेन च॥ दुःखे मे दुःखमकरोत्रणे क्षारमिवाददाः। राजानं प्रेतभावस्थं कृत्वा रामं च तापसम्॥ कुलस्य त्वमभावाय कालरात्रिरिवागता। अङ्गारमुपगूह्य स्म पिता मे नावबुद्धवान् ॥ मृत्युमापादितो राजा त्वया मे पापदर्शिनि। सुखं परिहतं मोहाद् कुलेऽस्मिन् कुलपांसनि ॥ त्वां प्राप्य हि पिता मेऽद्य सत्यसंधो महायशाः। तीव्रदुःखाभिसंतप्तो वृत्तो दशरथो नृपः॥ विनाशितो महाराजः पिता मे धर्मवत्सलः। कस्मात् प्रवाजितो रामः कस्मादेव वनं गतः॥ कौसल्या च सुमित्रा च पुत्रशोकाभिपीडिते। . दुष्करं यदि जीवेतां प्राप्य त्वां जननी मम॥ नन्वार्योऽपि च धर्मात्मात्वयि वृत्तिमनुत्तमाम्। वर्तते गुरुवृत्तिज्ञो यथा मातरि वर्तते॥ तथा ज्येष्ठा हि मे माता कौसल्या दीर्घदर्शिनी। त्वयि धर्म समास्थाय भगिन्यामिव वर्तते॥ तस्याः पुत्रं महात्मानं चीरवल्कलवाससम्। प्रस्थाप्य वनवासाय कथं पापे न शोचसे॥ अपापदर्शिनं शूरं कृतात्मानं यशस्विनम्। प्रव्राज्य चीरवसनं किं नु पश्यसि कारणम्॥ लुब्धाया विदिती मन्ये न तेऽहं राघवं यथा। तथा ह्यनर्थो राज्यार्थं त्वयानीतो महानयम्॥ अहं हि पुरुषव्याघ्रावपश्यन् रामलक्ष्मणौ। केन शक्तिप्रभावेण राज्यं रक्षितुमुत्सहे॥ तं हि नित्यं महाराजो बलवन्तं महौजसम्। उपाश्रितोऽभूद् धर्मात्मा मेरुमैरुवनं यथा ॥ सोऽहं कथमिमं भारं महाधुर्यसमुद्यतम्। दम्यो धुरमिवासाद्य सहेयं केन चौजसा ॥ अथवा मे भवेच्छक्तिर्योगैर्बुद्धिबलेन वा। सकामां न करिष्यामि त्वामहं पुत्रगर्धिनीम्॥ न मे विकाङ्क्षा जायेत त्यक्तुं त्वां पापनिश्चयाम्। यदि रामस्य नावेक्षा त्वयि स्यान्मातृवत् सदा॥ उत्पन्ना तु कथं बुद्धिस्तवेयं पापदर्शिनी। साधुचारित्रविभ्रष्टे पूर्वेषां नो विगर्हिता॥ अस्मिन् कुले हि सर्वेषां ज्येष्ठो राज्येऽभिषिच्यते। अपरे भ्रातरस्तस्मिन् प्रवर्तन्ते समाहिताः॥ न हि मन्ये नृशंसे त्वं राजधर्ममवेक्षसे। गतिं वा न विजानासि राजवृत्तस्य शाश्वतीम्॥ सततं राजपुत्रेषु ज्येष्ठो राजाभिषिच्यते। राज्ञामेतत् समं तत् स्यादिक्ष्वाकूणां विशेषतः॥ तेषां धर्मैकरक्षाणां कुलचारित्रशोभिनाम्। अद्य चारित्रशौटीर्यं त्वां प्राप्य विनिवर्तितम्॥ तवापि सुमहाभागे जनेन्द्रकुलपूर्वके। बुद्धिमोहः कथमयं सम्भूतस्त्वयि गर्हितः॥ न तु कामं करिष्यामि तवाहं पापनिश्चये। यया व्यसनमारब्धं जीवितान्तकरं मम॥ एष त्विदानीमेवाहमप्रियार्थं तवानघे। निवर्तयिष्यामि वनाद् भ्रातरं स्वजनप्रियम्॥ निवर्तयित्वा रामं च तस्याहं दीप्ततेजसः। दासभूतो भविष्यामि सुस्थितेनान्तरात्मना॥ इत्येवमुक्त्वा भरतो महात्मा प्रियेतरैर्वाक्यगणैस्तुदंस्ताम्। शोकार्दितश्चापि ननाद भूयः सिंहो यथा मन्दरकन्दरस्थः॥ तां तथा गर्हयित्वा तु मातरं भरतस्तदा। रोषेण महताविष्टः पुनरेवाब्रवीद् वचः॥ राज्याद् भ्रंशस्व कैकेयि नृशंसे दुष्टचारिणि। परित्यक्तासि धर्मेण मा मृतं रुदती भव॥ किं नु तेऽदूषयद् रामो राजा वा भृशधार्मिकः। ययोर्मृत्युर्विवासश्च त्वत्कृते तुल्यमागतौ॥ भ्रूणहत्यामसि प्राप्ता कुलस्यास्य विनाशनात्। कैकेयी नरकं गच्छ मा च तातसलोकताम्॥ यत्त्वया हीदृशं पापं कृतं घोरेण कर्मणा। सर्वलोकप्रियं हित्वा ममाप्यापादितं भयम्॥ त्वत्कृते मे पिता वृत्तो रामश्चारण्यमाश्रितः। अयशो जीवलोके च त्वयाहं प्रतिपादितः॥ मातृरूपे ममामित्रे नृशंसे राज्यकामुके। न तेऽहमभिभाष्योऽस्मि दुर्वृत्ते पतिघातिनि।७।। कौसल्या च सुमित्रा च याश्चान्या मम मातरः। दुःखेन महताविष्टास्त्वां प्राप्य कुलदूषिणीम्॥ न त्वमश्वपतेः कन्या धर्मराजस्य धीमतः। राक्षसी तत्र जातासि कुलप्रध्वंसिनी पितुः॥ यत् त्वया धार्मिको रामो नित्यं सत्यपरायणः। वनं प्रस्थापितो वीरः पितापि त्रिदिवं गतः॥ यत् प्रधानासि तत् पापं मयि पित्रा विना कृते। भ्रातृभ्यां च परित्यक्ते सर्वलोकस्य चाप्रिये॥ कौसल्यां धर्मसंयुक्तां वियुक्तां पापनिश्चये। कृत्वा कं प्राप्स्यसे ह्यद्य लोकं निरयगामिनि॥ किं नावबुध्यसे क्रूरे नियतं बन्धुसंश्रयम्। ज्येष्ठं पितृसमं रामं कौसल्यायात्मसम्भवम्॥ अङ्गप्रत्यङ्गजः पुत्रो हृदयाच्चाभिजायते। तस्मात् प्रियतरो मातुः प्रिया एव तु बान्धवाः॥ अन्यदा किल धर्मज्ञा सुरभिः सुरसम्मता। वहमानौ ददर्शोर्त्यां पुत्रौ विगतचेतसौ॥ तावर्धदिवसं श्रान्तौ दृष्ट्वा पुत्रौ महीतले। रुरोद पुत्रशोकेन बाष्पपर्याकुलेक्षणम्॥ अधस्ताद् व्रजतस्तस्याः सुरराज्ञो महात्मनः। बिन्दवः पतिता गात्रे सूक्ष्माः सुरभिगन्धिनः॥ निरीक्षमाणस्तां शक्रो ददर्श सुरभिं स्थिताम्। आकाशे विष्टितां दीनां रुदतीं भृशदुःखिताम्॥। तां दृष्ट्वा शोकसंतप्तां वज्रपाणिर्यशस्विनीम्। इन्द्रः प्राञ्जलिरुद्विग्नः सुरराजोऽब्रवीद् वचः॥ भयं कच्चिन्न चास्मासु कुतश्चिद् विद्यते महत्। कुतो निमित्तः शोकस्ते ब्रूहि सर्वहितैषिणि ॥ एवमुक्ता तु सुरभिः सुरराजेन धीमता। प्रत्युवाच ततो धीरा वाक्यं वाक्यविशारदा॥ शान्तं पापं न वः किंचित् कुतश्चिदमराधिप। अहं तु मग्नौ शौचामि स्वपुत्रौ विषमे स्थितौ॥ एतौ दृष्ट्वा कृशौ दीनौ सूर्यरश्मिप्रतापितौ। बध्यमानौ बलीवौं कर्षकेण दुरात्मना॥ मम कायात् प्रसूतौ हि दुःखितौ भारपीडितौ। यौ दृष्ट्वा परितप्येऽहं नास्ति पुत्रसमः प्रियः॥ यस्याः पुत्रसहस्रेस्तु कृत्स्नं व्याप्तमिदं जगत्। तां दृष्ट्वा रुदतीं शक्रो न सुतान् मन्यते परम्॥ इन्द्रो ह्यश्रुनिपातं तं स्वगात्रे पुण्यगन्धिनम्। सुरभिं मन्यते दृष्ट्वा भूयसी तामिहेश्वरः॥ समाप्रतिमवृत्ताया लोकधारणकाम्यया। श्रीमत्या गुणमुख्यायाः स्वभावपरिचेष्टया॥ यस्याः पुत्रसहस्राणि सापि शोचति कामधुक् । किं पुनर्या विना रामं कौसल्या वर्तयिष्यति॥ एकपुत्रा च साध्वी च विवत्सेयं त्वया कृता। तस्मात् त्वं सततं दुःखं प्रेत्य चेह च लप्स्यसे ॥ अहं त्वपचितिं भ्रातुः पितुश्च सकलामिमाम्। वर्धनं यशसश्चापि करिष्यामि न संशयः॥ आनाय्य च महाबाहुं कोसलेन्द्रं महाबलम्। स्वयमेव प्रवेक्ष्यामि वनं मुनिनिषेचितम्॥ नाहं पापसंकल्पे पापे पापं त्वया कृतम्। शक्तो धारयितुं पौरैर श्रुकण्ठैर्निरीक्षितः॥ सात्वमग्नि प्रविश वा स्वयं वा विश दण्डकान्। रज्जु बद्ध्वाथवा कण्ठे नहि तेऽन्यत् परायणम्॥ अहमप्यवनों प्राप्ते रामे सत्यपराक्रमे। कृतकृत्यो भविष्यामि विप्रवासितकल्मषः॥ इति नाग इवारण्ये तोमराङ्कुशतोदितः। पपात भुवि संक्रुद्धो निःश्वसन्निव पन्नगः॥ संरक्तनेत्रः शिथिलाम्बरस्तथा विधूतसर्वाभरणः परंतपः। बभूव भूमौ पतितो नृपात्मजः। शचीपतेः केतुरिवोत्सवक्षये॥ दीर्घकालात् समुत्थाय संज्ञां लब्ध्वा स वीर्यवान्। नेत्राभ्यामश्रुपूर्णाभ्यां दीनामुद्वीक्ष्य मातरम्॥ सोऽमात्यमध्ये भरतो जननीमभ्यकुत्सयत्। राज्यं न कामये जातु मन्त्रये नापि मातरम्॥ अभिषेकं न जानामि योऽभूद् राज्ञा समीक्षितः। विप्रकृष्टे ह्यहं देशे शत्रुघ्नसहितोऽभवम्॥ वनवासं न जानामि रामस्याहं महात्मनः। विवासनं च सौमित्रेः सीतायाश्च यथाभवत्॥ तथैव क्रोशतस्तस्य भरतस्य महात्मनः। कौसल्या शब्दमाज्ञाय सुमित्रां चेदमब्रवीत्॥ आगतः क्रूरकार्यायाः कैकेय्या भरतः सुतः। तमहं द्रष्टुमिच्छामि भरतं दीर्घदर्शिनम्॥ एवमुक्त्वा सुमित्रां तां विवर्णवदना कृशा। प्रतस्थे भरतो यत्र वेपमाना विचेतना॥ स तु राजात्मजश्चापि शत्रुघ्नसहितस्तदा। प्रतस्थे भरतो येन कौसल्याया निवेशनम्॥ ततः शत्रुघ्नभरतौ कौसल्या प्रेक्ष्य दुःखितौ। पर्यष्वजेतां दुःखार्ती पतितां नष्टचेतनाम्॥ रुदन्तौ रुदती दुःखात् समेत्यार्या मनस्विनी। भरतं प्रत्युवाचेदं कौसल्या भृशदुःखिता॥ इदं ते राज्यकामस्य राज्यं प्राप्तमकण्टकम्। सम्प्राप्तं बत कैकेय्या शीघ्रं क्रूरेण कर्मणा॥ प्रस्थाप्य चीरवसनं पुत्रं मे वनवासिनम्। कैकेयी के गुणं तत्र पश्यति क्रूरदर्शिनी॥ क्षिप्रं मामपि कैकेयी प्रस्थापयितुमर्हति। हिरण्यनाभो यत्रास्ते सुतो मे सुमहायशाः॥ अथवा स्वयमेवाहं सुमित्रानुचरा सुखम्। अग्निहोत्रं पुरस्कृत्य प्रस्थास्ये यत्र राघवः॥ कामं वा स्वयमेवाद्य तत्र मां नेतुमर्हसि। यत्रासौ पुरुषव्याघ्रस्तप्यते मे सुतस्तपः॥ इदं हि तव विस्तीर्णं धनधान्यसमाचितम्। हस्त्यश्वरथसम्पूर्ण राज्यं निर्यातितं तया॥ इत्यादिबहुभिर्वाक्यैः क्रूरैः सम्भर्त्तितोऽनघः। विव्यथे भरतोऽतीव व्रणे तुद्येव सूचिना॥ पपात चरणौ तस्यास्तदा सम्भ्रान्तचेतनः। विलप्य बहुधासंज्ञो लब्धसंज्ञस्तदाभवत्॥ एवं विलपमानां तां प्राञ्जलिर्भरतस्तदा। कौसल्या प्रत्युवाचेदं शोकैर्बहुभिरावृताम् ॥ आर्ये कस्मादजानन्तं गर्हसे मामकल्मषम्। विपुलां च मम प्रीति स्थितां जानासि राघवे॥ कृतशास्त्रानुगा बुद्धिर्मा भूत् तस्य कदाचन। सत्यसंधः सतां श्रेष्ठो यस्यार्योऽनुमते गतः॥ प्रेष्यं पापीयसां यातु सूर्यं च प्रति मेहतु। हन्तु पादेन गाः सुप्ता यस्यार्योऽनुमते गतः॥ कारयित्वा महत् कर्म भर्ता भृत्यमनर्थकम्। अधर्मो योऽस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः॥ परिपालयमानस्य राज्ञो भूतानि पुत्रवत्। ततस्तु दुह्यतां पापं यस्यार्योऽनुमते गतः॥ बलिषड्भागमुद्धत्य नृपस्यारक्षितुः प्रजाः। अधर्मो योऽस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः॥ संश्रुत्य च तपस्विभ्यः सत्रे वै यज्ञदक्षिणाम्। तां चापलतां पापं यस्यार्योऽनुमते गतः॥ हस्त्यश्वरथसम्बाधे युद्धे शस्त्रसमाकुले। मास्म कार्षीत् सतां धर्म यस्यार्योऽनुमते गतः॥ उपदिष्टं सुसूक्ष्मार्थं शास्त्रं यत्नेन धीमता। स नाशयतु दुष्टात्मा यस्यार्योऽनुमते गतः॥ मा च तं व्यूढबाह्वसं चन्द्रभास्करतेजसम्। द्राक्षीद् राज्यस्थमासीनं यस्यार्योऽनुमते गतः॥ पायसं कृसरं छागं वृथा सोऽश्नातु निघृणः। गुरुंश्चाप्यवजानातु यस्यार्योऽनुमते गतः॥ गवां स्पृशतु पादेन गुरून् परिवदेत च। मित्रे दुह्येत सोऽत्यर्थं यस्यार्योऽनुमते गतः॥ विश्वासात् कथितं किंचित् परिवादं मिथः क्वचित्। विवृणोतु स दुष्टात्मा यस्यार्योऽनुमते गतः॥ अकर्ता चाकृतज्ञश्च त्यक्तश्च निरपत्रपः। लोके भवतु विद्विष्टो यस्यार्योऽनुमते गतः॥ पुत्रैर्दासैश्च भृत्यैश्च स्वगृहे परिवारितः। स एको मृष्टमश्नातु यस्यार्योऽनुमते गतः॥ अप्राप्य सदृशान् दाराननपत्यः प्रमीयताम्। अनवाप्य क्रियां धर्त्यां यस्यार्योऽनुमते गतः॥ मात्मनः संततिं द्राक्षीत् स्वेषु दारेषु दुःखितः। आयुःसमग्रमप्राप्य यस्यार्योऽनुमते गतः॥ राजस्त्रीबालवृद्धानां वधे यत् पापमुच्यते। भृत्यत्यागे च यत्पापं तत्पापं प्रतिपद्यताम्॥ लाक्षया मधुमांसेन लोहेन च विषेण च। सदैव बिभृयाद् भृत्यान् यस्यार्योऽनुमते गतः॥ संग्रामे समुपोढे च शत्रुपक्षभयंकरे। पलायमानो बध्येत यस्यार्योऽनुमते गतः॥ कपालपाणिः पृथिवीमटतां चीरसंवृतः। भिक्षमाणो यथोन्मत्तो यस्यार्योऽनुमते गतः॥ मद्यप्रसक्तो भवतु स्त्रीष्वक्षेषु च नित्यशः। कामक्रोधाभिभूतश्च यस्यार्योऽनुमते गतः॥ मास्य धर्मे मनो भूयादधर्मं स निषेवताम्। अपात्रवर्षी भवतु यस्यार्योऽनुमते गतः॥ संचितान्यस्य वित्तानि विविधानि सहस्रशः। दस्युभिर्विप्रलुप्यन्तां यस्यार्योऽनुमते गतः॥ उभे संध्ये शयानस्य यत् पापं परिकल्प्यते। तच्च पापं भवेत् तस्य यस्यार्योऽनुमते गतः॥ यदग्निदायके पापं यत् पापं गुरुतल्पगे। मित्रद्रोहे च यत् पापं तत् पापं प्रतिपद्यताम्॥ देवतानां पितृणां च मातापित्रोस्तथैव च। मा स्म कार्षीत् स शुश्रूषां यस्यार्योऽनुमते गतः।॥ सतां लोकात् सतां कीर्त्याः सज्जुष्टात् कर्मणस्तथा। भ्रश्यतु क्षिप्रमद्यैव यस्यार्योऽनुमते गतः॥ अपास्य मातृशुश्रूषामनर्थे सोऽवतिष्ठताम्। दीर्घबाहुमहावक्षा यस्यार्योऽनुमते गतः॥ बहुभृत्यो दरिद्रश्च ज्वररोगसमन्वितः। समायात् सततं क्लेशं यस्यार्योऽनुमते गतः॥ आशामाशंसमानानां दीनानामूलचक्षुषाम्। अर्थिनां वितथां कुर्याद् यस्यार्योऽनुमते गतः॥ मायया रमतां नित्यं पुरुषः पिशुनोऽशुचिः। राज्ञो भीतस्त्वधर्मात्मा यस्यार्योऽनुमते गतः॥ ऋतुस्नातां सती भार्यामृतुकालानुरोधिनीम्। अतिवर्तेत दुष्टात्मा यस्यार्योऽनुमते गतः५२।। विप्रलुप्तप्रजातस्य दुष्कृतं ब्राह्मणस्य यत्। तदेतत् प्रतिपद्येत यस्यार्योऽनुमते गतः॥ ब्राह्मणायोद्यतां पूजां विहन्तु कलुषेन्द्रियः। बालवत्सां च गां दोग्धुर्यस्यार्योऽनुमते गतः॥ धर्मदारान् परित्यज्य परदारान् निषेवताम्। त्यक्तधर्मरतिर्मूढो यस्यार्योऽनुमते गतः॥ पानीयदूषके पापं तथैव विषदायके। यत्तदेकः स लभतां यस्यार्योऽनुमते गतः॥ तृषार्तं सति पानीये विप्रलम्भेन योजयन्। यत् पापं लभते तत् स्याद् यस्यार्योऽनुमते गतः॥ भक्त्या विवदमानेषु मार्गमाश्रित्य पश्यतः। तेन पापेन युज्येत यस्यार्योऽनुमते गतः॥ एवमाश्वासयन्नेव दुःखार्तोऽनुपपात ह। विहीनां पतिपुत्राभ्यां कौसल्या पार्थिवात्मजः॥ तदा तं शपथैः कष्टैः शपमानमचेतनम्। भरतं शोकसंतप्तं कौसल्या वाक्यमब्रवीत्॥ मम दुःखमिदं पुत्र भूयः समुपजायते। शपथैः शपमानो हि प्राणानुपरुणत्सि मे॥ दिष्ट्या न चलितो धर्मादात्मा ते सहलक्षणः। वत्स सत्यप्रतिज्ञो हि सतां लोकानवाप्स्यसि ॥ इत्युक्त्वा चाङ्कमानीय भरतं भ्रातृवत्सलम्। परिष्वज्य महाबाहुं रुरोद भृशदुःखिता॥ एवं विलपमानस्य दुःखार्तस्य महात्मनः। मोहाच्च शोकसंरम्भाद् बभूव लुलितं मनः॥ लालप्यमानस्य विचेतनस्य प्रणष्टबुद्धेः पतितस्य भूमौ। मुहुर्मुहुनिःश्वसतश्च दीर्घ सा तस्य शोकेन जगाम रात्रिः :॥ तमेवं शोकसंतप्तं भरतं कैकयीसुतम्। उवाच वदतां श्रेष्ठो वसिष्ठः श्रेष्ठवागृषिः॥ अलं शोकेन भद्रं ते राजपुत्र महायशः। प्राप्तकालं नरपतेः कुरु संयानमुत्तमम्॥ वसिष्ठस्य वचः श्रुत्वा भरतो धरणीं गतः। प्रेतकृत्यानि सर्वाणि कारयामास धर्मवित्॥ उदधृत्य तैलसंसेकात् स तु भूमौ निवेशितम्। आपीतवर्णवदनं प्रसुप्तमिव भूमिपम्॥ संवेश्य शयने चाग्र्ये नानारत्नपरिष्कृते। ततो दशरथं पुत्रो विललाप सुदुःखितः॥ किं ते व्यवसितं राजन् प्रोषिते मय्यनागते। विवास्य रामं धर्मज्ञं लक्ष्मणं च महाबलम्॥ क्व यास्यसे महाराज हित्वेमं दु:खितं जनम्। हीनं पुरुषसिंहेन रामेणाक्लिष्टकर्मणा ॥ योगक्षेमं तु तेऽव्यग्रं कोऽस्मिन् कल्पयिता पुरे। त्वयि प्रयाते स्वस्तात रामे च वनमाश्रिते॥ विधवा पृथिवी राजंस्त्वया हीना न राजते। हीनचन्द्रव रजनी नगरी प्रतिभाति माम्॥ एवं विलपमानं तं भरतं दीनमानसम्। अब्रवीद् वचनं भूयो वसिष्ठस्तु महामुनिः॥ प्रेतकार्याणि यान्यस्य कर्तव्यानि विशाम्पतेः। तान्यव्यग्रं महाबाहो क्रियतामविचारितम्॥ तथेति भरतो वाक्यं वसिष्टस्याभिपूज्य तत्। ऋत्विक्पुरोहिताचार्यास्त्वरयामास सर्वशः॥ ये त्वग्नयो नरेन्द्रस्य अग्न्यगाराद् बहुष्कृताः। ऋत्विग्भिर्याजकैश्चैव ते हूयन्ते यथाविधि॥ शिबिकायामथारोप्य राजानं गतचेतनम्। बाष्पकण्ठा विमनसस्तमूचुः परिचारकाः॥ हिरण्यं च सुवर्णं च वासांसि विविधानि च। प्रकिरन्तो जना मार्गे नृपतेरग्रतो ययुः॥ चन्दनागुरुनिर्यासान् सरलं पद्मकं तथा। देवदारूणि चाहृत्य क्षेपयन्ति तथापरे॥ गन्धानुच्चावचांश्चान्यांस्तत्र गत्वाथ भूमिपम्। तत्र संवेशयामासुश्चितामध्ये तमृत्विजः॥ तदा हुताशनं हुत्वा जेपुस्तस्य तदृत्विजः। जगुश्च ते यथाशास्त्रं तत्र सामानि सामगाः॥ शिबिकाभिश्च यानैश्च यथार्ह तस्य योषितः। नगरान्निर्ययुस्तत्र वृद्धैः परिवृतास्तथा॥ प्रसव्यं चापि तं चक्रुर्ऋत्विजोऽग्निचितं नृपम्। स्त्रियश्च शोकसंतप्ता: कौसल्याप्रमुखास्तदा॥ क्रौञ्चीनामिव नारीणां निनादस्तत्र शुश्रुवे। आर्तानां करुणं काले क्रोशन्तीनां सहस्रशः॥ ततो रुदन्त्यो विवशा विलप्य च पुनः पुनः। यानेभ्यः सरयूतीरमवतेरुपाङ्गनाः॥ कृत्वोदकं ते भरतेन साधु नृपाङ्गना मन्त्रिपुरोहिताश्च। पुरं प्रविश्याश्रुपरीतनेत्रा भूमौ दशाहं व्यनयन्त दुःखम्॥ ततो दशाहेऽतिगते कृतशौचो नृपात्मजः। द्वादशेऽहनि सम्प्राप्ते श्राद्धकर्माण्यकारयत्॥ ब्राह्मणेभ्यो धनं रत्नं ददावन्नं च पुष्कलम्। वासांसि च महार्हाणि रत्नानि विविधानि च। बास्तिकं बहु शुक्लं च गाश्चापि बहुशस्तदा॥ दासीर्दासांश्च यानानि वेश्मानि सुमहान्ति च। ब्राह्मणेभ्यो ददौ पुत्रो राज्ञस्तस्यौर्ध्वदेहिकम्॥ ततः प्रभातसमये दिवसे च त्रयोदशे। विललाप महाबाहुर्भरतः शोकमूर्च्छितः॥ शब्दापिहितकण्ठश्च शोधनार्थमुपागतः। चितामूले पितुर्वाक्यमिदमाह सुदुःखितः॥ तात यस्मिन् निसृष्टोऽहं त्वया भ्रातरि राघवे। तस्मिन् वनं प्रव्रजिते शून्ये त्यक्तोऽस्म्यहं त्वया॥ यस्या गतिरनाथायाः पुत्रः प्रव्राजितो वनम्। तामम्बां तात कौसल्यां त्यक्त्वात्वं व गतोनृप।७।। दृष्ट्वा भस्मारुणं तच्च दग्धास्थि स्थानमण्डलम्। पितुः शरीरनिर्वाणं निष्टनन् विषसाद ह॥ स तु दृष्ट्वा रुदन् दीनः पपात धरणीतले। उत्थाप्यमानः शक्रस्य यन्त्रध्वज इवोच्छ्रितः॥ अभिपेतुस्ततः सर्वे तस्यामात्याः शुचिव्रतम्। अन्तकाले निपतितं ययातिमृषयो यथा॥ शत्रुघ्नश्चापि भरतं दृष्ट्वा शोकपरिप्लुतम्। विसंज्ञो न्यपतद् भूमौ भूमिपालमनुस्मरन्॥ उन्मत्त इव निश्चित्तो विललाप सुदुःखितः। स्मृत्वा पितुर्गुणाङ्गानि तानि तानि तदा तदा॥ मन्थराप्रभवस्तीव्रः कैकेयीग्राहसंकुलः। वरदानमयोऽक्षोभ्योऽमज्जयच्छोकसागरः॥ सुकुमारं च बालं च सततं लालितं त्वया। क तात भरतं हित्वा विलपन्तं गतो भवान् ॥ ननु भोज्येषु पानेषु वस्त्रेष्वाभरणेषु च। प्रवारयति सर्वान् नस्तनः कोऽद्य करिष्यति॥ अवदारणकाले तु पृथिवी नावदीर्यते। विहीना या त्वया राज्ञा धर्मज्ञेन महात्मना ॥ पितरि स्वर्गमापन्ने रामे चारण्यमाश्रिते। किं मे जीवितसामर्थ्य प्रवेक्ष्यामि हुताशनम्॥ हीनो भ्रात्रा च पित्रा च शून्यामिक्ष्वाकुपालिताम्। अयोध्यां न प्रवेक्ष्यामि प्रवेक्ष्यामि तपोवनम्॥ तपोर्विलपितं श्रुत्वा व्यसनं चाप्यवेक्ष्य तत्। भृशमार्ततरा भूयः सर्व एवानुगामिनः॥ ततो विषण्णौ श्रान्तौ च शत्रुघ्नभरतावुभौ। धरायां स्म व्यचेष्टेतां भग्नशृङ्गविवर्षभौ॥ ततः प्रकृतिमान् वैद्यः पितुरेषां पुरोहितः। वसिष्ठो भरतं वाक्यमुत्थाप्य तमुवाच ह॥ त्रयोदशोऽयं दिवसः पितुर्वृत्तस्य ते विभो। सावशेषास्थिनिचये किमिह त्वं विलम्बसे ॥ त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तान्यविशेषतः। तेषु चापरिहार्येषु नैवं भवितुमर्हसि॥ सुमन्त्रश्चापि शत्रुघ्नमुत्थाप्याभिप्रसाद्य च। श्रावयामास तत्त्वज्ञः सर्वभूतभवाभवौ॥ उत्थितौ तौ नरव्याघ्रौ प्रकाशेते यशस्विनौ। वर्षातपपरिग्लानौ पृथगिन्द्रध्वजाविव ॥ अश्रूणि परिमृद्गन्तौ रक्ताक्षौ दीनभाषिणौ। अमात्यास्त्वरयन्ति स्म तनयौ चापराः क्रियाः॥ अथ यात्रां समीहन्तं शत्रुघ्ने लक्ष्मणानुजः। भरतं शोकसंतप्तमिदं वचनमब्रवीत्॥ गतिर्यः सर्वभूतानां दुःखे किं पुनरात्मनः। स रामः सत्त्वसम्पन्नः स्त्रिया प्रव्राजितो वनम् ॥ बलवान् वीर्यसम्पन्नो लक्ष्मणो नाम योऽप्यसौ। किं न मोचयते रामं कृत्वापि पितृनिग्रहम्॥ पूर्वमेव तु विग्राह्यः समवेक्ष्य नयानयौ। उत्पथं यः समारूढो नार्या राजा वशं गतः॥ इति सम्भाषमाणे तु शत्रुघ्ने लक्ष्मणानुजे। प्रारद्वारेऽभूत् तदा कुब्जा सर्वाभरणभूषिता॥ लिप्ता चन्दनसारेण राजवस्त्राणि बिभ्रती। विविधं विविधैस्तैस्तैर्भूषणैश्च विभूषिता॥ मेखलादामभिश्चित्रैरन्यैश्च वरभूषणैः। बभासे बहुभिर्बद्धा रज्जुभिरिव वानरी॥ तां समीक्ष्य तदा द्वा:स्थो भृशं पापस्य कारिणीम्। गृहीत्वाकरुणं कुब्जां शत्रुघ्नाय न्यवेदयत्॥ यस्याः कृते वने रामो न्यस्तदेहश्च वः पिता। सेयं पापा नृशंसा च तस्याः कुरु यथामति।।।। शत्रुघ्नश्च तदाज्ञाय वचनं भृशदुःखितः। अन्तःपुरचरान् सर्वानित्युवाच धृतव्रतः॥ तीव्रमुत्पादितं दुःखं भ्रातृणां मे तथा पितुः। यथा सेयं नृशंसस्य कर्मणः फलमश्नुताम्॥ एवमुक्त्वा च तेनाशु सखीजनसमावृता। गृहीता बलवत् कुब्जा सा तद् गृहमनादयत्॥ ततः सुभृशसंतप्तस्तस्याः सर्वः सखीजनः। क्रुद्धमाज्ञाय शत्रुघ्नं व्यपलायत सर्वशः॥ अमन्त्रयत कृत्स्नश्च तस्याः सर्वः सखीजनः। यथायं समुपक्रान्तो निःशेष नः करिष्यति॥ सानुक्रोशां वदान्यां च धर्मज्ञां च यशस्विनीम्। कौसल्यां शरणं यामः सा हि नोऽस्ति ध्रुवा गतिः।।१५ सच रोषेण संवीतः शत्रुघ्नः शत्रुशासनः। विचकर्ष तदा कुब्जां क्रोशन्तीं पृथिवीतले॥ तस्यां ह्याकृष्यमाणायां मन्थरायां ततस्ततः। चित्रं बहुविधं भाण्डं पृथिव्यां तद्व्यशीर्यत ॥ तेन भाण्डेन विस्तीर्णं श्रीमद् राजनिवेशनम्। अशोभत तदा भूयः शारदं गगनं यथा॥ स बली बलवत् क्रोधाद् गृहीत्वा पुरुषर्षभः। कैकेयीमभिनिर्भय॑ बभाषे परुषं वचः॥ तैर्वाक्यैः परुषैर्दुःखैः कैकेयी भृशदुःखिता। शत्रुघ्नभयसंत्रस्ता पुत्रं शरणमागता॥ तं प्रेक्ष्य भरतः क्रुद्धं शत्रुघ्नमिदमब्रवीत्। अवध्याः सर्वभूतानां प्रमदाः क्षम्यतामिति॥ हन्यामहमिमां पापां कैकेयीं दुष्टचारिणीम्। यदि मां धार्मिको रामो नासूयेन्मातृघातकम्॥ इमामपि हतां कुब्जां यदि जानाति राघवः। त्वां च मां चैव धर्मात्मा नाभिभाषिष्यते ध्रुवम्॥ भरतस्य वचः श्रुत्वा शत्रुघ्नो लक्ष्मणानुजः। न्यवर्तत ततो दोषात् तां मुमोच च मूर्च्छिताम्॥ सा पादमूले कैकेय्या मन्थरा निपपात ह। निःश्वसन्ती सुदुःखार्ता कृपणं विललाप ह॥ शत्रुघ्नविक्षेपविमूढसंज्ञां समीक्ष्य कुब्जां भरतस्य माता। शनैः समाश्वासयदार्तरूपां कौचीं विलग्नामिव वीक्षमाणाम्॥ ततः प्रभातसमये दिवसेऽथ चतुर्दशे। समेत्य राजकर्तारो भरतं वाक्यमब्रुवन्॥ गतो दशरथः स्वर्गं यो नो गुरुतरो गुरुः। रामं प्रव्राज्य वै ज्येष्ठं लक्ष्मणं च महाबलम्॥ त्वमद्य भव नो राजा राजपुत्र महायशः। संगत्या नापराध्नोति राज्यमेतदनायकम्॥... आभिषेचनिकं सर्वमिदमादाय राघव। प्रतीक्षते त्वां स्वजनः श्रेणयश्च नृपात्मज ॥ राज्यं गृहाण भरत पितृपैतामहं ध्रुवम्। अभिषेचय चात्मानं पाहि चास्मान् नरर्षभ॥ आभिषेचनिकं भाण्डं कृत्वा सर्वं प्रदक्षणिम्। भरतस्तं जनं सर्वं प्रत्युवाच धृतव्रतः॥ ज्येष्ठस्य राजता नित्यमुचिता हि कुलस्य नः। नैवं भवन्तो मां वक्तुमर्हन्ति कुशला जनाः॥ रामः पूर्वो हि नो भ्राता भविष्यति महीपतिः। अहं त्वरण्ये वत्स्यामि वर्षाणि नव पञ्च च॥ युज्यतां महती सेना चतुरङ्गमहाबला। आनयिष्याम्यहं ज्येष्ठं भ्रातरं राघवं वनात्॥ आभिषेचनिकं चैव सर्वमेतदुपस्कृतम्। पुरस्कृत्य गमिष्यामि रामहेतोर्वनं प्रति॥ तत्रैव तं नरव्याघ्रमभिषिच्य पुरस्कृतम्। आनयिष्यामि वै रामं हव्यवाहमिवाध्वरात्॥ न सकामां करिष्यामि स्वामिमां मातृगन्धिनीम्। वने वत्स्याम्यहं दुर्गे रामो राजा भविष्यति॥ क्रियतां शिल्पिभिः पन्थाः समानि विषमाणि च। रक्षिणश्चानुसंयातु पथि दुर्गविचारकाः॥ एवं सम्भाषमाणं तं रामहेतोपात्मजम्। प्रत्युवाच जनः सर्वः श्रीमद्वाक्यमनुत्तमम्॥ एवं ते भाषमाणस्य पद्मा श्रीरुपतिष्ठताम्। यस्त्वं ज्येष्ठे नृपसुते पृथिवीं दातुमिच्छसि ॥ अनुत्तमं तद्वचनं नृपात्मजः प्रभाषितं संश्रवणे निशम्य च। प्रहर्षजास्तं प्रति बाष्पविन्दवो निपेतुरार्यानननेत्रसम्भवाः॥ ऊचुस्ते वचनमिदं निशम्य हृष्टाः सामात्याः सपरिषदो वियातशोकाः। पन्थानं नरवरभक्तिमान् जनश्च व्यादिष्टस्तव वचनाच्च शिल्पिवर्गः॥ ततो नान्दीमुखीं रात्रि भरतं सूतमागधाः। तुष्टुवुः सविशेषज्ञाः स्तवैर्मङ्गलसंस्तवैः॥ सुवर्णकोणाभिहतः प्राणदद्यामदुन्दुभिः। दध्मुः शङ्खांश्च शतशो वाद्यांश्चोच्चावचस्वरान्॥ स तूर्यघोषः सुमहान् दिवमापूरयन्निव। भरतं शोकसंतप्तं भूयः शोकैररन्धयत्॥ ततः प्रबुद्धो भरतस्तं घोषं संनिवर्त्य च। नाहं राजेति चोक्त्वा तं शत्रुघ्नमिदमब्रवीत्॥ पश्य शत्रुघ्न कैकेय्या लोकस्यापकृतं महत्। विसृज्य मयि दुःखानि राजा दशरथो गतः॥ तस्यैषा धर्मराजस्य धर्ममूला महात्मनः। परिभ्रमति राजश्रीनौरिवाकर्णिका जले॥ यो हि नः सुमहान् नाथः सोऽपि प्रव्राजितो वने। अनया धर्ममुत्सृज्य मात्रा मे राघवः स्वयम्।७।। इत्येवं भरतं वीक्ष्य विलपन्तमचेतनम्। कृपणा रुरुदुः सर्वाः सुस्वरं योषितस्तदा॥ तथा तस्मिन् विलपति वसिष्ठो राजधर्मवित्। सभामिक्ष्वाकुनाथस्य प्रविवेश महायशाः॥ शातकुम्भमयीं रम्यां मणिहेमसमाकुलाम्। सुधर्मामिव धर्मात्मा सगणः प्रत्यपद्यत ॥ स काञ्चनमयं पीठं स्वस्त्यास्तरणसंवृतम्। अध्यास्त सर्ववेदज्ञो दूताननुशशास च॥ ब्राह्मणान् क्षत्रियान् योधानमात्यान् गणवल्लभान्। क्षिप्रमानयताव्यग्राः कृत्यमात्ययिकं हि नः॥ सराजपुत्रं शत्रुघ्नं भरतं च यशस्विनम्। युधाजितं सुमन्त्रं च ये च तत्र हिता जनाः॥ ततो हलहलाशब्दो महान् समुदपद्यत। रथैरश्वैर्गजैश्चापि जनानामुपगच्छताम्॥ ततो भरतमायान्तं शतक्रतुमिवामराः। प्रत्यनन्दन् प्रकृतयो यथा दशरथं तथा॥ हृद इव तिमिनागसंवृतः स्तिमितजलो मणिशङ्खशर्करः। दशरथसुतशोभिता सभा सदशरथेव बभूव सा पुरा॥ तामार्यगणसम्पूर्णां भरतः प्रग्रहां सभाम्। ददर्श बुद्धिसम्पन्नः पूर्णचन्द्रां निशामिव॥ आसनानि यथान्यायमार्याणां विशतां तदा। वस्त्राङ्गरागप्रभया द्योतिता सा सभोत्तमा॥ सा विद्वज्जनसम्पूर्णा सभा सुरुचिरा तथा। अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी॥ राज्ञस्तु प्रकृतीः सर्वाः स सम्प्रेक्ष्य च धर्मवित्। इदं पुरोहितो वाक्यं भरतं मृदु चाब्रवीत्॥ तात राजा दशरथः स्वर्गतो धर्ममाचरन्। धनधान्यवतीं स्फीतां प्रदाय पृथिवीं तव॥ रामस्तथा सत्यवृत्तिः सतां धर्ममनुस्मरन्। ना जहात् पितुरादेशं शशी ज्योत्स्नामिवोदितः॥ पित्रा भ्रात्रा च ते दत्तं राज्यं निहतकण्टकम्। तद् भुझ्व मुदितामात्यः क्षिप्रमेवाभिषेचय॥ उदीच्याश्च प्रतीच्याश्च दाक्षिणात्याश्च केवलाः। कोट्यापरान्ताः सामुद्रा रत्नान्युपहरन्तु ते॥ तच्छ्रुत्वा भरतो वाक्यं शोकेनाभिपरिप्लुतः। जगाम मनसा रामं धर्मज्ञो धर्मकाया॥ सबाष्पकलया वाचा कलहंसस्वरो युवा। विललाप सभामध्ये जगहें च पुरोहितम्॥ चरितब्रह्मचर्यस्य विद्यास्नातस्य धीमतः। धर्मे प्रयतमानस्य को राज्यं मद्विधो हरेत्॥ कथं दशरथाज्जातो भवेद् राज्यापहारकः। राज्यं चाहं च रामस्य धर्म वक्तुमिहार्हसि ॥ ज्येष्ठः श्रेष्ठश्च धर्मात्मा दिलीपनहुषोपमः। लब्धुमर्हति काकुत्स्थो राज्यं दशरथो यथा॥ अनार्यजुष्टमस्वयं कुर्यां पापमहं यदि। इक्ष्वाकूणामहं लोके भवेयं कुलपांसनः॥ यद्धि मात्रा कृतं पापं नाहं तदपि रोचये। इहस्थो वनदुर्गस्थं नमस्यामि कृताञ्जलिः॥ राममेवानुगच्छामि स राजा द्विपदां वरः। त्रयाणामपि लोकानां राघवो राज्यमर्हति ॥ तद्वाक्यं धर्मसंयुक्तं श्रुत्वा सर्वे सभासदः। हर्षान्मुमुचुरश्रूणि रामे निहितचेतसः॥ यदि त्वार्यं न शक्ष्यामि विनिवर्तयितुं वनात्। वने तत्रैव वत्स्यामि यथार्यो लक्ष्मणस्तथा॥ सर्वोपायं तु वर्तिष्ये विनिवर्तयितुं बलात्। समक्षमार्यमिश्राणां साधूनां गुणवर्तिनाम्॥ विष्टिकर्मान्तिकाः सर्वे मार्गशोधकदक्षकाः। प्रस्थापिता मया पूर्व यात्रा च मम रोचते॥ एवमुक्त्वा तु धर्मात्मा भरतो भ्रातृवत्सलः। समीपस्थमुवाचेदं सुमन्त्रं मन्त्रकोविदम्॥ तूर्णमुत्थाय गच्छ त्वं सुमन्त्र मम शासनात्। यात्रामाज्ञापय क्षिप्रं बलं चैव समानय ॥ एवमुक्तः सुमन्त्रस्तु भरतेन महात्मना। प्रहृष्टः सोऽदिशत् सर्वं यथासंदिष्टमिष्टवत्॥ ताः प्रहृष्टाः प्रकृतयो बलाध्यक्षा बलस्य च। श्रुत्वा यात्रां समाज्ञप्तां राघवस्य निवर्तने॥ ततो योधाङ्गनाः सर्वा भर्तृन् सर्वान् गृहे गृहे। सज्जं तु तद् यात्रागमनमाज्ञाय त्वरयन्ति स्म हर्षिताः॥ ते हयैर्गोरथैः शीघ्रं स्यन्दनैश्च मनोजवैः। सह योषिद्बलाघ्यक्षा बलं सर्वमचोदयन्॥ बलं दृष्ट्वा भरतो गुरुसंनिधौ। रथं मे त्वरयस्वेति सुमन्त्रं पार्श्वऽब्रवीत्॥ भरतस्य तु तस्याज्ञां परिगृह्य प्रहर्षितः। रथं गृहीत्वोपययौ युक्तं परमवाजिभिः॥ स राघवः सत्यधृतिः प्रतापवान् ब्रुवन् सुयुक्तं दृढसत्यविक्रमः। गुरुं महारण्यगतं यशस्विनं प्रसादयिष्यन् भरतोऽब्रवीत् तदा॥ तूर्णं त्वमुत्थाय सुमन्त्र गच्छ बलस्य योगाय बलप्रधानान्। आनेतुमिच्छामि हि तं वनस्थं प्रसाद्य रामं जगतो हिताय॥ गाज्ञापितः सम्परिपूर्णकामः। शशास सर्वान् प्रकृतिप्रधानान् बलस्य मुख्यांश्च सुहृज्जनं च॥ ततः समुत्थाय कुले कुले ते राजन्यवैश्या वृषलाश्च विप्राः। अयूयुजन्नुष्ट्ररथान् खरांश्च नागान् हयांश्चैव कुलप्रसूतान्॥ ततः समुत्थाय कुले कुले ते राजन्यवैश्या वृषलाश्च विप्राः। अयूयुजन्नुष्ट्ररथान् खरांश्च नागान् हयांश्चैव कुलप्रसूतान्॥ ततो निविष्टां ध्वजिनी गङ्गामन्वाश्रितां नदीम्। निषादराजो दृष्ट्वैव ज्ञातीन् स परितोऽब्रवीत्॥ महतीयमितः सेना सागराभा प्रदृश्यते। नास्यान्तमवगच्छामि मनसापि विचिन्तयन्॥ यदा नु खलु दुर्बुद्धिर्भरतः स्वयमागतः। स एष हि महाकायः कोविदारध्वजो रथे॥ बन्धयिष्यति वा पाशैरथ वास्मान् वधिष्यति। अनु दाशरथिं रामं पित्रा राज्याद् विवासितम्॥ सम्पन्नां श्रियमन्विच्छंस्तस्य राज्ञः सुदुर्लभाम्। भरतः कैकयीपुत्रो हन्तुं समधिगच्छति ॥ भर्ता चैव सखा चैव रामो दाशरथिर्मम। तस्यार्थकामाः संनद्धा गङ्गानूपेऽत्र तिष्ठत॥ तिष्ठन्तु सर्वदाशाश्च गङ्गामन्वाश्रिता नदीम्। बलयुक्ता नदीरक्षा मांसमूलफलाशनाः॥ नावां शतानां पञ्चानां कैवर्तानां शतं शतम्। संनद्धानां तथा यूनां तिष्ठन्त्वित्यभ्यचोदयत्॥ यदि तुष्टस्तु भरतो रामस्येह भविष्यति। इयं स्वस्तिमती सेना गङ्गामद्य तरिष्यति॥ इत्युक्त्वोपायनं गृह्य मत्स्यमांसमधूनि च। अभिचक्राम भरतं निषादाधिपतिर्मुहः॥ तमायान्तं तु सम्प्रेक्ष्य सूतपुत्रः प्रतापवान्। भरतायाचचक्षेऽथ समयज्ञो विनीतवत्॥ एष ज्ञातिसहस्रेण स्थपतिः परिवारितः। कुशलो दण्डकारण्ये वृद्धो भ्रातुश्च ते सखा॥ तस्मात् पश्यतु काकुत्स्थ त्वां निषादाधिपो गुहः। असंशयं विजानीते यत्र तौ रामलक्ष्मणौ॥ एतत् तु वचनं श्रुत्वा सुमन्त्राद् भरतः शुभम्। उवाच वचनं शीघ्रं गुहः पश्यतु मामिति ॥ लब्ध्वानुज्ञां सम्प्रहृष्टो ज्ञातिभिः परिवारितः। आगम्य भरतं प्रह्वो गुहो वचनमब्रवीत्॥ निष्कुटश्चैव देशोऽयं वञ्चिताश्चापि ते वयम्। निवेदयाम ते सर्वं स्वके दाशगृहे वस॥ अस्ति मूलफलं चैतनिषादैः स्वयमर्जितम्। आर्द्र शुष्कं तथा मांसं वन्यं चोच्चावचं तथा॥ आशंसे स्वाशिता सेना वत्स्यत्येनां विभावरीम्। अर्चितो विविधैः कामैः श्वः ससैन्यो गमिष्यसि॥ आचचक्षेऽथ सद्भावं लक्ष्मणस्य महात्मनः। भरतायाप्रमेयाय गुहो गहनगोचरः॥ तं जाग्रतं गुणैर्युक्तं वरचापेषु धारिणम्। भ्रातृगुप्त्यर्थमत्यन्तमहं लक्ष्मणमब्रुवम्॥ इयं तात सुखा शय्या त्वदर्थमुपकल्पिता। प्रत्याश्वसिहि शेष्वास्यां सुखं राघवनन्दन ॥ उचितोऽयं जनः सर्वो दुःखानां त्वं सुखोचितः। धर्मात्मस्तस्य गुप्त्यर्थं जागरिष्यामहे वयम्॥ नहि रामात् प्रियतरो ममास्ति भुवि कश्चन। मोत्सुको भूर्बवीम्येतदथ सत्यं तवाग्रतः॥ अस्य प्रसादादाशंसे लोकेऽस्मिन् सुमहद् यशः। धर्मावाप्तिं च विपुलामर्थकामौ च केवलौ॥ सोऽहं प्रियसखं रामं शयानं सह सीतया। रक्षिष्यामि धनुष्पाणिः सर्वैः स्वैातिभिः सह॥ नहि मेऽविदितं किंचिद् वनेऽस्मिंश्चरतः सदा। चतुरङ्ग ह्यपि बलं प्रसहेम वयं युधि ॥ एवमस्माभिरुक्तेन लक्ष्मणेन महात्मना। अनुनीता वयं सर्वे धर्ममेवानुपश्यता ॥ कथं दाशरथौ भूमौ शयाने सह सीतया। शक्या निद्रा मया लब्धं जीवितानि सुखानि वा॥ यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि। तं पश्य गुह संविष्टं तृणेषु सह सीतया॥ महता तपसा लब्धो विविधैश्च परिश्रमैः। एको दशरथस्यैष पुत्रः सदृशलक्षणः॥ अस्मिन् प्रवाजिते राजा न चिरं वर्तयिष्यति। विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति॥ विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः। निर्घोषो विरतो नूनमद्य राजनिवेशने॥ कौसल्या चैव राजा च तथैव जननी मम। नाशंसे यदि ते सर्वे जीवेयुः शर्वरीमिमाम्॥ जीवेदपि च मे माता शत्रुघ्नस्यान्ववेक्षया। दुःखिता या हि कौसल्या वीरसूर्विनशिष्यति॥ अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम्। राज्ये राममनिक्षिप्य पिता मे विनशिष्यति॥ सिद्धार्थाः पितरं वृत्तं तस्मिन् काले घुपस्थिते। प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् ॥ रम्यचत्वरसंस्थानां सुविभक्तमहापथाम्। हर्म्यप्रासादसम्पन्नां सर्वरत्नविभूषिताम्॥ गजाश्वरथसम्बाधां तूर्यनादविनादिताम्। सर्वकल्याणसम्पूर्णां हृष्टपुष्टजनाकुलाम् ॥ आरामोद्यानसम्पूर्णां समाजोत्सवशालिनीम्। सुखिता विचरिष्यन्ति राजधानी पितुर्मम ॥ अपि सत्यप्रतिज्ञेन सार्धं कुशलिना वयम्। निवृत्ते समये ह्यस्मिन् सुखिताः प्रविशेमहि ॥ परिदेवयमानस्य तस्यैवं हि महात्मनः। तिष्ठतो राजपुत्रस्य शर्वरी सात्यवर्तत ॥ प्रभाते विमले सूर्ये कारयित्वा जटा उभौ। अस्मिन् भागीरथीतीरे सुखं संतारितौ मया॥ जटाधरौ तौ दुमचीरवाससौ महाबलौ कुञ्जरयूथपोपमौ। वरेषुधीचापधरौ परंतपौ व्यपेक्षमाणौ सह सीतया गतौ॥ तच्छ्रुत्वा निपुणं सर्वं भरतः सह मन्त्रिभिः। इङ्गुदीमूलमागम्य रामशय्यामवैक्षत॥ अब्रवीज्जननीः सर्वा इह तस्य महात्मनः। शर्वरा शयिता भूमाविदमस्य विमर्दितम्॥ महाराजकुलीनेन महाभागेन धीमता। जातो दशरथेनोया न रामः स्वप्तुमर्हति॥ अजिनोत्तरसंस्तीर्णे वरास्तरणसंचये। शयित्वा पुरुषव्याघ्रः कथं शेते महीतले॥ प्रासादाग्रविमानेषु वलभीषु च सर्वदा। हैमराजतभौमेषु वरास्तरणशालिषु॥ पुष्पसंचयचित्रेषु चन्दनागुरुगन्धिषु । पाण्डुराभ्रप्रकाशेषु शुकसंघरुतेषु च॥ प्रासादवरवर्येषु शीतवत्सु सुगन्धिषु। उषित्वा मेरुकल्पेषु कृतकाञ्चनभित्तिषु ॥ गीतवादित्रनिर्घोषैर्वराभरणनिःस्वनैः। मृदङ्गवरशब्दैश्च सततं प्रतिबोधितः॥ बन्धिभिर्वन्दितः काले बहुभिः सूतमागधैः। गाथाभिरनुरूपाभिः स्तुतिभिश्च परंतपः॥ अश्रद्धेयमिदं लोके न सत्यं प्रतिभाति मा। मुह्यते खलु मे भावः स्वप्नोऽयमिति मे गतिः॥ न नूनं दैवतं किंचित् कालेन बलवत्तरम्। यत्र दाशरथी रामो भूमावेवमशेत सः॥ यस्मिन् विदेहराजस्य सुता च प्रियदर्शना। दयिता शयिता भूमौ स्नुषा दशरथस्य च॥ इयं शय्या मम भ्रातुरिदमावर्तितं शुभम्। स्थण्डिले कदिने सर्वं गात्रैर्विमृदितं तृणम्॥ मन्ये साभरणा सुप्ता सीतास्मिशयने शुभा। तत्र तत्र हि दृश्यन्ते सक्ताः कनकबिन्दवः॥ उत्तरीयमिहासक्तं सुव्यक्तं सीतया तदा। तथा ह्येते प्रकाशन्ते सक्ताः कौशेयतन्तवः॥ मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी। सुकुमारी सती दुःखं न विजानाति मैथिली॥ हा हतोऽस्मि नृशंसोऽस्मि यत् सभार्यः कृते मम । ईदशी राघवः शय्यामधिशेते ह्यनाथवत्॥ सार्वभौमकुले जातः सर्वलोकसुखावहः। सर्वप्रियकरस्त्यक्त्वा राज्यं प्रियमनुत्तमम्॥ कथमिन्दीवरश्यामो रक्ताक्षः प्रियदर्शनः। सुखभागी न दुःखार्हः शयितो भुवि राघवः॥ धन्वः खलु महाभागो लक्ष्मणः शुभलक्षणः। भ्रातरं विषमे काले यो राममनुवर्तते॥ सिद्धार्था खलु वैदेही पति यानुगता वनम्। वयं संशयिताः सर्वे हीनास्तेन महात्मना॥ अकर्णधारा पृथिवी शून्येव प्रतिभाति मे। गते दशरथे स्वर्गं रामे चारण्यमाश्रिते॥ न च प्रार्थयते कश्चिन्मनसापि वसुंधराम्। वने निवसतस्तस्य बाहुवीर्याभिरक्षिताम्॥ शून्यसंवरणारक्षामयन्त्रितहयद्विपाम्। अनावृतपुरद्वारां राजधानीमरक्षिताम्॥ अप्रहृष्टबलां शून्यां विषमस्थामनावृताम्। शत्रवो नाभिमन्यन्ते भक्ष्यान् विषकृतानिव॥ अद्यप्रभृति भूमौ तु शयिष्येऽहं तृणेषु वा। फलमूलाशनो नित्यं जटाचीराणि धारयन्॥ तस्याहमुत्तरं कालं निवत्स्यामि सुखं वने। तत् प्रतिश्रुतमार्यस्य नैव मिथ्या भविष्यति॥ वसन्तं भ्रातुराय शत्रुघ्नो मानुवत्स्यति। लक्ष्मणेन सहायोध्यामार्यो मे पालयिष्यति॥ अभिषेक्ष्यन्ति काकुत्स्थमयोध्यायां द्विजातयः। अपि मे देवताः कुर्युरिमं सत्यं मनोरथम्॥ प्रसाद्यमानः शिरसा मया स्वयं बहुप्रकारं यदि न प्रपत्स्यत। ततोऽनुवत्स्यामि चिराय राघवं वनेचरं नार्हति मामुपेक्षितुम्॥ व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघवः। काल्यमुत्थाय शत्रुघ्नमिदं वचनमब्रवीत्॥ शत्रुघ्नोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम्। शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम्॥ जागर्मि नाहं स्वपिमि तथैवार्यं विचिन्तयन्। इत्येवमब्रवीद् भ्राता शत्रुघ्नो विप्रचोदितः॥ इति संवदतोरेवमन्योन्यं नरसिंहयोः। आगम्य प्राञ्जलिः काले गुहो वचनमब्रवीत्।।४। कच्चित् सुखं नदीतीरेऽवात्सी: काकुत्स्थ शर्वरीम्। कच्चिच्च सहसैन्यस्य तव नित्यमनामयम्॥ गुहस्य तत् तु वचनं श्रुत्वा स्नेहादुदीरितम्। रामस्यानुवशो वाक्यं भरतोऽपीदमब्रवीत्॥ सुखा नः शर्वरी धीमन् पूजिताश्चापि ते वयम्। गङ्गां तु नौभिर्बह्वीभिर्दासाः संतारयन्तु नः॥ ततो गुहः संत्वरितः श्रुत्वा भरतशासनम्। प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत्॥ उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु हि वः सदा। नावः समुपकर्षध्वं तारयिष्यामि वाहिनीम्॥ ते तथोक्ताः समुत्थाय त्वरिता राजशासनात्। पञ्च नावां शतान्येव समानिन्युः समन्ततः॥ अन्याः स्वस्तिकविज्ञेया महाघण्टाधराधराः। शोभमानाः पताकिन्यो युक्तवाहाः सुसंहताः॥ ततः स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम्। सनन्दिघोषां कल्याणी गुहो नावमुपाहरत्॥ तामारुरोह भरतः शत्रुघ्नश्च महाबलः। कौसल्या च सुमित्रा च याश्चान्या राजयोषितः॥ पुरोहितश्च तत् पूर्वं गुरवो ब्राह्मणाश्च ये। अनन्तरं राजदारास्तथैव शकटापणाः॥ आवासमादीपयतां तीर्थं चाप्यवगाहताम्। भाण्डानि चाददानानां घोषस्तु दिवमस्पृशत्॥ पताकिन्यस्तु ता नावः स्वयं दाशैरधिष्ठिताः। वहन्त्यो जनमारूढं तदा सम्पेतुराशुगाः॥ नारीणामभिपूर्णास्तु काश्चित् काश्चित्तु वाजिनाम्। काश्चित् तत्र वहन्ति स्म यानयुग्ये महाधनम्॥ तास्तु गत्वा परं तीरमवरोप्य च तं जनम्। निवृत्ता काण्डचित्राणि कियन्ते दासबन्धुभिः॥ सवैजयन्तास्तु गजा गजारोहैः प्रचोदिताः। तरन्तः स्म प्रकाशन्ते सपक्षा इव पर्वताः॥ नावश्चारुरुहुस्त्वन्ये प्लवैस्तेरुस्तथापरे। अन्ये कुम्भघटैस्तेरुरन्ये तेरुश्च बाहुभिः॥ सा पुण्या ध्वजिनी गङ्गां दासैः संतारिता स्वयम्। मैत्रे मुहूर्ते प्रययौ प्रयागवनमुत्तमम्॥ आश्वासयित्वा च चमूं महात्मा निवेशयित्वा च यथोपजोषम्। मृत्विक्सदस्यैर्भरतः प्रतस्थे॥ स ब्राह्मणस्याश्रममभ्युपेत्य महात्मनो देवपुरोहतस्य। ददर्श रम्योटजवृक्षदेशं महद्वनं विप्रवरस्य रम्यम्॥ ततस्तां रजनी व्युष्य भरतः सपरिच्छदः। कृतातिथ्यो भरद्वाजं कामादभिजगाम ह॥ तमृषिः पुरुषव्याघ्र प्रेक्ष्य प्राञ्जलिमागतम्। हुताग्निहोत्रो भरतं भरद्वाजोऽभ्यभाषत॥ कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता। समग्रस्ते जनः कच्चिदातिथ्ये शंस मेऽनघ॥ तमुवाचाञ्जलिं कृत्वा भरतोऽभिप्रणम्य च। आश्रमादुपनिष्क्रान्तमृषिमुत्तमतेजसम्॥ सुखोषितोऽस्मि भगवन् समग्रबलवाहनः। बलवत्तर्पितश्चाहं बलवान् भगवंस्त्वया॥ अपेतक्लमसंतापाः सुभिक्षाः सुप्रतिश्रयाः। अपि प्रेष्यानुपादाय सर्वे स्म सुसुखोषिताः॥ आमन्त्रयेऽहं भगवन् कामं त्वामृषिसत्तम। समीपं प्रस्थितं भ्रातुमैत्रेणेक्षस्व चक्षुषा।७।। आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मनः। आचक्ष्व कतमो मार्गः कियानिति च शंस मे॥ इति पृष्ठस्तु भरतं भ्रातुर्दर्शनलालसम्। प्रत्युवाच महातेजा भरद्वाजो महातपाः॥ भरतार्धतृतीयेषु योजनेष्वजने वने। चित्रकूटगिरिस्तत्र रम्यनिर्झरकाननः॥ उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी। पुष्पितदुमसंछन्ना रम्यपुष्पितकानना॥ अनन्तरं तत्सरितश्चित्रकूटं च पर्वतम्। तयोः पर्णकुटीं तात तत्र तौ वसतो ध्रुवम्॥ दक्षिणेन च मार्गेण सव्यदक्षिणमेव च। गजवाजिसमाकीर्णां वाहिनीं वाहिनीपते॥ वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम्। प्रयाणमिति च श्रुत्वा राजराजस्य योषितः॥ हित्वा यानानि यानार्दा ब्राह्मणं पर्यवारयन्। वेपमाना कृशा दीना सह देव्या सुमित्रया॥ कौसल्या तत्र जग्राह कराभ्यां चरणौ मुनेः। असमृद्धेन कामेन सर्वलोकस्य गर्हिता॥ कैकेयी तत्र जग्राह चरणौ सव्यपत्रपा। तं प्रदक्षिणमागम्य भगवन्तं महामुनिम्॥ अदूराद् भरतस्यैव तस्थौ दीनमनास्तदा। तत्र पप्रच्छ भरतं भरद्वाजो महामुनिः॥ विशेषं ज्ञातुमिच्छामि मातॄणां तव राघव। एवमुक्तस्तु भरतो भरद्वाजेन धार्मिकः॥ उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविदः। यामिमां भगवन् दीनां शोकानशनकर्शिताम्॥ पितुर्हि महिषी देवी देवतामिव पश्यसि । एषा तं पुरुषव्याघ्र सिंहविक्रान्तगामिनम्॥ कौसल्या सुषुवे रामं धातारमदितिर्यथा। अस्यावामभुजं श्लिष्टा या सा तिष्ठति दुर्मनाः॥ इयं सुमित्रा दुःखार्ता देवी राज्ञश्च मध्यमा। कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे॥ एतस्यास्तौ सुतौ देव्याः कुमारौ देववर्णिनौ। उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ॥ यस्याः कृते नरव्याघ्रौ जीवनाशमितो गतौ। राजा पुत्रविहीनश्च स्वर्गं दशरथो गतः॥ क्रोधनामकृतप्रज्ञां दृप्तां सुभगमानिनीम्। ऐश्वर्यकामां कैकेयीमनार्यामायरूपिणीम्॥ ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम्। यतोमूलं हि पश्यामि व्यसनं महदात्मनः॥ इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा। विनिःश्वस्य स ताम्राक्षः क्रुद्धो नाग इव श्वसन्॥ भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तदा। प्रत्युवाच महाबुद्धिरिदं वचनमर्थवित्॥ न दोषेणावगन्तव्या कैकेयी भरत त्वया। रामप्रव्राजनं ह्येतत् सुखोदकं भविष्यति॥ देवानां दानवानां च ऋषीणां भावितात्मनाम्। हितमेव भविष्यद्धि रामप्रव्राजनादिह॥ अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम्। आमन्त्र्य भरतः सैन्यं युज्यतामिति चाब्रवीत्॥ ततो वाजिरथान् युक्त्वा दिव्यान् हेमविभूषितान्। अध्यारोहत् प्रयाणार्थं बहून् बहुविधो जनः॥ गजकन्या गजाश्चैव हेमकक्ष्याः पताकिनः। जीमूता इव धर्मान्ते सघोषाः सम्प्रतस्थिरे॥ विविधान्यपि यानानि महान्ति च लघूनि च। प्रययुः सुमहार्हाणि पादैरपि पदातयः॥ अथ यानप्रवेकैस्तु कौसल्याप्रमुखाः स्त्रियः। रामदर्शनकाक्षिण्यः प्रययुर्मुदितास्तदा॥ चन्द्रार्कतरुणाभासां नियुक्तां शिबिकां शुभाम्। आस्थाय प्रययौ श्रीमान् भरतः सपरिच्छदः॥ सा प्रयाता महासेना गजवाजिसमाकुला। दक्षिणां दिशमावृत्य महामेघ इवोत्थितः॥ वनानि च व्यतिक्रम्य जुष्टानि मृगपक्षिभिः। गङ्गायाः परवेलायां गिरिष्वथ नदीष्वपि॥ सा सम्प्रहृष्टद्विपवाजियूथा वित्रासयन्ती मृगपक्षिसंघान्। महद्वनं तत् प्रविगाहमाना रराज सेना भरतस्य तत्र।४०।। तया महत्या यायिन्या ध्वजिन्या वनवासिनः। अर्दिता यूथपा मत्ताः सयूथाः सम्प्रदुद्रुवुः॥ ऋक्षाः पृषतमुख्याश्च रुरवश्च समन्ततः। दृश्यन्ते वनवाटेषु गिरिष्वपि नदीषु च॥ . स सम्प्रतस्थे धर्मात्मा प्रीतो दशरथात्मजः। वृतो महत्या नादिन्या सेनया चतुरङ्गया॥ सागरौघनिभा सेना भरतस्य महात्मनः। महीं संछादयामास प्रावृषि द्यामिवाम्बुदः॥ तुरंगौघैरवतता वारणैश्च महाबलैः। अनालक्ष्या चिरं कालं तस्मिन् काले बभूव सा॥ स गत्वा दूरमध्वानं सम्परिश्रान्तवाहनः। उवाच वचनं श्रीमान् वसिष्ठं मन्त्रिणां वरम्॥ यादृशं लक्ष्यते रूपं यथा चैव मया श्रुतम्। व्यक्तं प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत्॥ अयं गिरिश्चित्रकूटस्तथा मन्दाकिनी नदी। एतत् प्रकाशते दूरान्नीलमेघनिभं वनम्॥ गिरेः सानूनि रम्याणि चित्रकूटस्य सम्प्रति। वारणैरवमृद्यन्ते मामकैः पर्वतोपमैः।।।।। मुञ्चन्ति कुसुमान्येते नगाः पर्वतसानुषु। नीला इवातपापाये तोयं तोयधरा घनाः॥ किंनराचरितं देशं पश्य शत्रुघ्न पर्वते। हयैः समन्तादाकीर्णं मकरैरिव सागरम्॥ एते मृगगणा भान्ति शीघ्रवेगाः प्रचोदिताः। वायुप्रविद्धाः शरदि मेघजाला इवाम्बरे॥ कुर्वन्ति कुसुमापीडाशिरःसु सुरभीनमी। मेघप्रकाशैः फलकैर्दाक्षिणात्या नरा यथा॥ निष्कूजमिव भूत्वेदं वनं घोरप्रदर्शनम्। अयोध्येव जनाकीर्णा सम्प्रति प्रतिभाति मे॥ खुरैरुदीरितो रेणुर्दिवं प्रच्छाद्य तिष्ठति। तं वहत्यनिलः शीघ्रं कुर्वन्निव मम प्रियम्॥ स्यन्दनांस्तुरगोपेतान् सूतमुख्यैरधिष्ठितान्। एतान् सम्पततः शीघ्रं पश्य शत्रुघ्न कानने॥ एतान् वित्रासितान् पश्य बर्हिणः प्रियदर्शनान्। एवमापततः शैलमधिवासं पतत्रिणः॥ अतिमात्रमयं देशो मनोज्ञः प्रतिभाति मे। तापसानां निवासोऽयं व्यक्तं स्वर्गपथोऽनघ ॥ मृगा मृगीभिः सहिता बहवः पृषता वने। मनोज्ञरूपा लक्ष्यन्ते कुसुमैरिव चित्रिताः॥ साधु सैन्याः प्रतिष्ठन्तां विचिन्वन्तु च काननम्। यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ॥ भरतस्य वचः श्रुत्वा पुरुषाः शस्त्रपाणयः। विविशुस्तद्वनं शूरा धूमाग्रं ददृशुस्ततः॥ ते समालोक्य धूमाग्रमूचुर्भरतमागताः। नामनुष्ये भवत्यग्निव्यक्तमत्रैव राघवौ॥ अथ नात्र नरव्याघ्रौ राजपुत्रौ परंतपौ। अन्ये रामोपमाः सन्ति व्यक्तमत्र तपस्विनः॥ तच्छुत्वा भरतस्तेषां वचनं साधुसम्मतम्। सैन्यानुवाच सर्वोस्तानमित्रबलमर्दनः॥ यत्ता भवन्तस्तिष्ठन्तु नेतो गन्तव्यमग्रतः। अहमेव गमिष्यामि सुमन्त्रो धृतिरेव च ॥ एवमुक्तास्ततः सैन्यास्तत्र तस्थुः समन्ततः। भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधत्॥ निरीक्षमाणापि च भूमिमग्रतः। बभूव हृष्टा नचिरेण चानती प्रियस्य रामस्य समागमं तदा॥ बभूव हृष्टा नचिरेण चानती प्रियस्य रामस्य समागमं तदा॥ दीर्घकालोषितस्तस्मिन् गिरौ गिरिवरप्रियः। वैदेह्याः प्रियमाकाङ्क्षन् स्वं च चित्तं विलोभयन्॥ अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत्। भार्याममरसंकाशः शचीमिव पुरंदरः॥ न राज्यभ्रंशनं भद्रे न सुहद्भिर्विनाभवः। मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम्॥ पश्येममचलं भद्रे नानाद्विजगणायुतम्। शिखरैः खमिवोद्विद्धैर्धातुमद्भिर्विभूषितम्॥ केचिद् रजतसंकाशाः केचित् क्षतजसंनिभाः। पीतमाञ्जिष्ठवर्णाश्च केचिन्मणिवरप्रभाः॥ पुष्पार्ककेतकाभाश्च केचिज्ज्योतीरसप्रभाः। विराजन्तेऽचलेन्द्रस्य देशा धातुविभूषिताः॥ नानामृगगणैर्दीपितरक्ष्वृक्षगणैर्वृतः। अदुष्टैर्भात्ययं शैलो बहुपक्षिसमाकुलः।७।। आम्रजम्ब्वसनैलॊधैः प्रियालैः पनसैर्धवैः। अङ्कोलैर्भव्यतिनिशैर्बिल्वतिन्दुकवेणुभिः।।।। काश्मर्यारिष्टवरणैर्मधूकैस्तिलकैरपि। बदर्यामलकैर्नीपैत्रधन्वनबीजकैः॥ पुष्पवद्भिः फलोपेतैश्छायावद्भिर्मनोरमैः। एवमादिभिराकीर्णः श्रियं पुष्पत्ययं गिरिः॥ शैलप्रस्थेषु रम्येषु पश्येमान् कामहर्षणान्। किंनरान् द्वन्द्वशो भद्रे रममाणान् मनस्विनः॥ शाखावसक्तान् खङ्गांश्च प्रवराण्यम्बराणि च। पश्य विद्याधरस्त्रीणां क्रीडोद्देशान् मनोरमान्॥ जलप्रपातैरुद्भेदैनिष्पन्दैश्च क्वचित् क्वचित्। स्रवद्भिर्भात्ययं शैलः स्रवन्मद इव द्विपः॥ गुहासमीरणो गन्धान् नानापुष्पभवान् बहून्। घ्राणतर्पणमभ्येत्य के नरं न प्रहर्षयेत्॥ यदीह शरदोऽनेकास्त्वया सार्धमनिन्दिते। लक्ष्मणेन च वत्स्यामि न मां शोकः प्रधर्षति॥ बहुपुष्पफले रम्ये नानाद्विजगणायुते। विचित्रशिखरे ह्यस्मिन् रतवानस्मि भामिनि ॥ अनेन वनवासेन मम प्राप्तं फलद्वयम्। पितुश्चानृण्यता धर्मे भरतस्य प्रियं तथा॥ वैदेहि रमसे कच्चिच्चित्रकूटे मया सह। पश्यन्ती विविधान् भावान् मनोवाक्वायसंमतान्॥ इदमेवामृतं प्राहू राज्ञि राजर्षयः परे। वनवासं भवार्थाय प्रेत्य मे प्रपितामहाः॥ शिलाः शैलस्य शोभन्ते विशालाः शतशोऽभितः। बहुला बहुलैर्वर्णैनीलपीतसितारुणैः॥ निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इव। ओषध्यः स्वप्रभालक्ष्म्या भ्राजमानाः सहस्रशः॥ केचित् क्षयनिभा देशाः केचिदुद्यानसंनिभाः। केचिदेकशिला भान्ति पर्वतस्यास्य भामिनि॥ भित्त्वेव वसुधा भाति चित्रकूटः समुत्थितः। चित्रकूटस्य कूटोऽयं दृश्यते सर्वतः शुभः॥ कुष्ठस्थगरपुंनागभूर्जपत्रोत्तरच्छदान्। कामिनां स्वास्तरान् पश्य कुशेशयदलायुतान्॥ मृदिताश्चापिविद्धाश्च दृश्यन्ते कमलस्रजः। कामिभिर्वनिते पश्य फलानि विविधानि च॥ वस्वौकसारां नलिनीमतीत्यैवोत्तरान् कुरून्। पर्वतश्चित्रकूटोऽसौ बहुमूलफलोदकः॥ स्त्वया च सीते सह लक्ष्मणेन । रतिं प्रपत्स्ये कुलधर्मवर्धिनी सतां पथि स्वैर्नियमैः परैः स्थितः॥ अथ शैलाद् विनिष्क्रम्य मैथिली कोशलेश्वरः। अदर्शयच्छुभजलां रम्यां मन्दाकिनी नदीम्॥ अब्रवीच्च वरारोहां चन्द्रचारुनिभाननाम्। विदेहराजस्य सुतां रामो राजीवलोचनः॥ विचित्रपुलिनां रम्यां हंससारससेविताम्। कुसुमैरुपसम्पन्नां पश्य मन्दाकिनी नदीम्॥ नानाविधैस्तीररुहैर्वृतां पुष्पफलदुमैः। राजन्ती राजराजस्य नलिनीमिव सर्वतः॥ मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम्। तीर्थानि रमणीयानि रतिं संजनयन्ति मे॥ जटाजिनधराः काले वल्कलोत्तरवाससः। ऋषयस्त्ववगाहन्ते नदीं मन्दाकिनी प्रिये॥ आदित्यमुपतिष्ठन्ते नियमादूर्ध्वबाहवः। एते परे विशालाक्षि मुनयः संशितव्रताः॥ मारुतोद्धृतशिखरैः प्रनृत्त इव पर्वतः। पादपैः पुष्पपत्राणि सृजद्भिरभितो नदीम्॥ क्वचिन्मणिनिकाशोदां क्वचित् पुलिनशालीनीम्। क्पाचेत् सिद्धजनाकीर्णां पश्य मन्दाकिनी नदीम्॥ निर्धूतान् वायुना पश्य विततान् पुष्पसंचयान्। पोप्लूयमानानपरान् पश्य त्वं तनुमध्यमे॥ पश्यैतद्वल्गुवचसो रथाङ्गाह्वयना द्विजाः। अधिरोहन्ति कल्याणि निष्कूजन्तः शुभा गिरः॥ दर्शनं चित्रकूटस्य मन्दाकिन्याश्च शोभने। अधिकं पुरवासाच्च मन्ये तव च दर्शनात्॥ विधूतकल्मषैः सिद्धैस्तपोदमशमान्वितैः। नित्यविक्षोभितजलां विगाहस्व मया सह ॥ सखीवच्च विगाहस्व सीते मन्दाकिनी नदीम्। कमलान्यवमज्जन्ती पुष्कराणि च भामिनि॥ त्वं पौरजनवद् व्यालानयोध्यामिव पर्वतम्। मन्यस्व वनिते नित्यं सरयूवदिमां नदीम्॥ लक्ष्मणश्चैव धर्मात्मा मनिदेशे व्यवस्थितः। त्वं चानुकूला वैदेहि प्रीतिं जनयती मम॥ उपस्पृशंत्रिषवणं मधुमूलफलाशनः। नायोध्यायै न राज्याय स्पृहये च त्वया सह ॥ इमां हि रम्यां गजयूथलोडितां निपीततोयां गजसिंहवानरैः। सुपुष्पितां पुष्पभरैरलंकृतां न सोऽस्ति यः स्यान्न गतक्लमः सुखी॥ इतीव रामो बहुसंगतं वचः प्रियासहायः सरितं प्रति ब्रुवन्। चचार रम्यं नयनाअनप्रभं स चित्रकूटं रघुवंशवर्धनः॥ तां तदा दर्शयित्वा तु मैथिली गिरिनिम्नगाम्। निषसाद गिरिप्रस्थे सीतां मांसेन छन्दयन्॥ इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना। एवमास्ते स धर्मात्मा सीतया सह राघवः॥ तथा तत्रासतस्तस्य भरतस्योपयायिनः। सैन्यरेणुश्च शब्दश्च प्रादुरास्तां नभस्पृशौ ॥ एतस्मिन्नन्तरे त्रस्ताः शब्देन महता ततः। अर्दिता यूथपा मत्ताः सयुथाद् दुद्रुवुर्दिशः॥ स तं सैन्यसमुद्भूतं शब्दं शुश्राव राघवः। तांश्च विप्रदुतान् सर्वान् यूथपानन्ववैक्षत ॥ तांश्च विप्रदुतान् दृष्ट्वा तं च श्रुत्वा महास्वनम्। उवाच रामः सौमित्रिं लक्ष्मणं दीप्ततेजसम्॥ हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास्त्वया। भीमस्तनितगम्भीरं तुमुलः श्रूयते स्वनः॥ गजयूथानि वारण्ये महिषा वा महावने। वित्रासिता मृगाः सिंहै: सहसा प्रदुता दिशः।।।।। राजा वा राजपुत्रो वा मृगयामटते वने। अन्यद्वा श्वापदं किंचित् सौमित्रे ज्ञातुमर्हसि॥ सुदुश्चरो गिरिश्चायं पक्षिणामपि लक्ष्मण। सर्वमेतद् यथातत्त्वमभिज्ञातुमिहार्हसि॥ स लक्ष्मणः संत्वरितः सालमारुह्य पुष्पितम्। प्रेक्षमाणो दिशः सर्वाः पूर्वां दिशमवैक्षत॥ उदङ्मुखः प्रेक्षमाणो ददर्श महतीं चमुम्। गजाश्वरथसम्बाधां यत्तैर्युक्तां पदातिभिः॥ तामश्वरथसम्पूर्णां रथध्वजविभूषिताम्। शशंस सेनां रामाय वचनं चेदमब्रवीत्॥ अग्नि संशमयत्वार्यः सीता च भजतां गुहाम्। सज्जं कुरुष्व चापं च शरांश्च कवचं तथा॥ तं रामः पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह। अङ्गावेक्षस्व सौमित्रे कस्येमां मन्यसे चमूम्॥ एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत्। दिधक्षन्निव तां सेनां रुषितः पावको यथा॥ सम्पन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्याभिषेचनम्। आवां हन्तुं समभ्येति कैकेय्या भरतः सुतः॥ एष वै सुमहाञ्छ्रीमान् विटपी सम्प्रकाशते। विराजत्युज्ज्वलस्कन्धः कोविदारध्वजो रथे।॥ भजन्त्येते यथाकाममश्वानारुह्य शीघ्रगान्। एते भ्राजन्ति संहृष्टा गजानारुह्य सादिनः॥ गृहीतधनुषावाचां गिरिं वीर श्रयावहे। अथवेहैव तिष्ठावः संनद्धाबुद्यतायुधौ॥ अपि नौ वशमागच्छेत् कोविदारध्वजो रणे। अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत्॥ त्वया राघव सम्प्राप्तं सीतया च मया तथा। यनिमित्तं भवान् राज्याच्च्युतो राघव शाश्वतात्॥ सम्प्राप्तोऽयमरिर्वीर भरतो वध्य एव हि। भरतस्य वधे दोषं नाहं पश्यामि राघव॥ पूर्वापकारिणं हत्वा न ह्यधर्मेण युज्यते। पूर्वापकारी भरतस्त्यागे धर्मश्च राघव॥ एतस्मिन् निहते कृत्स्नामनुशाधि वसुंधराम्। अद्य पुत्रं हतं संख्ये कैकेयी राज्यकामुका॥ मया पश्येत् सुदुःखार्ता हस्तिभिन्नमिव द्रुमम्। कैकेयीं च वधिष्यामि सानुबन्धां सबान्धवाम्॥ कलुषेणाद्य महता मेदिनी परिमुच्यताम्। अद्येमं संयतं क्रोधमसत्कारं च मानद॥ मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम्। अद्यैव चित्रकूटस्य काननं निशितैः शरैः॥ छिन्दञ्छत्रुशरीराणि करिष्ये शोणितोक्षितम्। शरैर्निभिन्नहृदयान् कुञ्जरांस्तुरगांस्तथा॥ श्वापदाः परिकर्षन्तु नरांश्च निहतान् मया। शराणां धनुषश्चाहमनृणोऽस्मिन् महावने। ससैन्यं भरतं हत्वा भविष्यामि न संशयः॥ सुसंरब्धं तु भातं लक्ष्मणं क्रोधमूर्छितम्। रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत्॥ किमत्र धनुषा कार्यमसिना वा सचर्मणा। महाबले महोत्साहे भरते स्वयमागते ॥ पितुः सत्यं प्रतिश्रुत्य हत्वा भरतमाहवे। किं करिष्यामि राज्येन सापवादेन लक्ष्मण॥ यद् द्रव्यं बान्धवानां वा मित्राणां वा क्षये भवेत्। नाहं तत् प्रतिगृह्णीयां भक्ष्यान् विषकृतानिव॥ धर्ममर्थं च कामं च पृथिवीं चापि लक्ष्मण। इच्छामि भवतामर्थे एतत् प्रतिश्रृणोमि ते॥ भ्रातॄणां संग्रहार्थं च सुखार्थं चापि लक्ष्मण। राज्यमप्यहमिच्छामि सत्येनायुधमालभे॥ नेयं मम मही सौम्य दुर्लभा सागराम्बरा। नहीच्छेयमधर्मेण शक्रत्वमपि लक्ष्मण॥ यद् विना भरतं त्वां च शत्रुघ्नं वापि मानद। भवेन्मम सुखं किंचिद् भस्म तत् कुरुतां शिखी॥ मन्येऽहमागतोऽयोध्यां भरतो भ्रातृवत्सलः। मम प्राणैः प्रियतरः कुलधर्ममनुस्मरन्॥ श्रुत्वा प्रवाजितं मां हि जटावल्कलधारिणम्। जानक्या सहितं वीर त्वया च पुरुषोत्तम॥ स्नेहेनाक्रान्तहृदयः शोकेनाकुलितेन्द्रियः। द्रष्टुमभ्यागतो ह्येष भरतो नान्यथाऽऽगतः॥ अम्बां च केकयीं रुष्य भरतश्चाप्रियं वदन्। प्रसाद्य पितरं श्रीमान् राज्यं मे दातुमागतः॥ प्राप्तकालं यथैषोऽस्मान् भरतो द्रष्टुमर्हति। अस्मासु मनसाप्येष नाहितं किंचिदाचरेत्॥ विप्रियं कृतपूर्वं ते भरतेन कदा नु किम्। ईदृशं वा भयं तेऽद्य भरतं यद् विशङ्कसे॥ नहि ते निष्ठुरं वाच्यो भरतो नाप्रियं वचः। अहं ह्यप्रियमुक्तः स्यां भरतस्याप्रिये कृते॥ कथं नु पुत्राः पितरं हन्युः कस्यांचिदापदि। भ्राता वा भ्रातरं हन्यात् सौमित्रे प्राणमात्मनः॥ यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे। वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम्॥ उच्यमानो हि भरतो मया लक्ष्मण तद्वचः। ' राज्यमस्मै प्रयच्छेति बाढमित्येव मंस्यते॥ तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रतः। लक्ष्मणः प्रविवेशेव स्वानि गात्राणि लज्जया॥ तद्वाक्यं लक्ष्मणः श्रुत्वा व्रीडितः प्रत्युवाच ह। त्वां मन्ये द्रष्टुमायातः पिता दशरथः स्वयम्॥ व्रीडितं लक्ष्मणं दृष्ट्वा राघवः प्रत्युवाच ह। एष मन्ये महाबाहुरिहास्मान् द्रष्टुमागतः॥ अथवा नौ ध्रुवं मन्ये मन्यमानः सुखोचितौ। वनवासमनुध्याय गृहाय प्रतिनेष्यति॥ इमां चाप्येष वैदेहीमत्यन्तसुखसेविनीम्। पिता मे राघवः श्रीमान् वनादादाय यास्यति॥ एतौ तौ सम्प्रकाशेते गोत्रवन्तौ मनोरमौ। वायुवेगसमौ वीरौ जवनौ तुरगोत्तमौ॥ स एष सुमहाकायः कम्पते वाहिनीमुखे। नागः शचुंजयो नाम वृद्धस्तातस्य धीमतः॥ न तु पश्यामि तच्छत्रं पाण्डुरं लोकविश्रुतम्। पितुर्दिव्यं महाभाग संशयो भवतीह मे॥ वृक्षाग्रादवरोह त्वं कुरु लक्ष्मण मद्वचः। इतीव रामो धर्मात्मा सौमित्रिं तमुवाच ह॥ अवतीर्य तु सालाग्रात् तस्मात् स समितिंजयः। लक्ष्मणः प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वतः॥ भरतेनाथ संदिष्टा सम्पर्दो न भवेदिति। समन्तात् तस्य शैलस्य सेना वासमकल्पयत्॥ अध्यर्धमिक्ष्वाकुचमूर्योजनं पर्वतस्य ह। पार्वे न्यविशदावृत्य गजवाजिनराकुला॥ सा चित्रकूटे भरतेन सेना धर्म पुरस्कृत्य विधूय दर्पम्। प्रसादनार्थं रघुनन्दनस्य विरोचते नीतिमता प्रणीता॥ निवेश्य सेनां तु विभुः पद्भ्यां पादवतां वरः। अभिगन्तुं स काकुत्स्थमियेष गुरुवर्तकम्॥ निविष्टमात्रे सैन्ये तु यथोद्देशं विनीतवत्। भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत्॥ क्षिप्रं वनमिदं सौम्य नरसंधैः समन्ततः। लुब्धैश्च सहितैरेभिस्त्वमन्वेषितुमर्हसि॥ गुहो ज्ञातिसहस्रेण शरचापासिपाणिना। समन्वेषतु काकुत्स्थावस्मिन् परिवृतः स्वयम्॥ अमात्यैः सह पौरैश्च गुरुभिश्च द्विजातिभिः। सह सर्वं चरिष्यामि पद्भ्यां परिवृतः स्वयम्॥ यावन्न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम्। वैदेहीं वा महाभागां न मे शान्तिर्भविष्यति॥ यावन्न चन्द्रसंकाशं तद् द्रक्ष्यामि शुभाननम्। भ्रातुः पद्मविशालाक्षं न मे शान्तिर्भविष्यति॥ सिद्धार्थः खलु सौमित्रिर्यश्चन्द्रविमलोपमम्। मुखं पश्यति रामस्य राजीवाक्षं महाद्युति॥ यावन्न चरणौ भ्रातुः पार्थिवव्यञ्जनान्वितौ। शिरसा प्रग्रहीष्यामि न मे शान्तिर्भविष्यति॥ यावन्न राज्ये राज्याहः पितृपैतामहे स्थितः। अभिषिक्तो जलक्लिन्नो न मे शान्तिर्भविष्यति॥ कृतकृत्या महाभागा वैदेही जनकात्मजा। भर्तारं सागरान्तायाः पृथिव्या यानुगच्छति॥ सुशुभश्चित्रकूटोऽसौ गिरिराजसमो गिरिः। यस्मिन् वसति काकुत्स्थः कुबेर इव नन्दने॥ कृतकार्यमिदं दुर्गवनं व्यालनिषेवितम्। यदध्यास्ते महाराजो रामः शस्त्रभृतां वरः॥ एवमुक्त्वा महाबाहुर्भरतः पुरुषर्षभः। पद्भ्यामेव महातेजा प्रविवेश महद् वनम् ॥ स तानि दुमजालानि जातानि गिरिसानुषु। पुष्पिताग्राणि मध्येन जगाम वदतां वरः॥ स गिरेश्चित्रकूटस्य सालमारुह्य सत्वरम्। रामाश्रमगतस्याग्नेर्ददर्श ध्वजमुच्छ्रितम्॥ तं दृष्ट्वा भरतः श्रीमान् मुमोद सहबान्धवः। अत्र राम इति ज्ञात्वा गतः पारमिवाम्भसः॥ स चित्रकूटे तु गिरौ निशम्य रामाश्रमं पुण्यजनोपपत्रम्। गुहेन सार्धं त्वरितो जगाम पुनर्निवेश्यैव चमूं महात्मा।।१८ जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि। ददर्श रामो दुर्दर्श युगान्ते भास्करं यथा॥ कथंचिदभिविज्ञाय विवर्णवदनं कृशम्। भ्रातरं भरतं रामः परिजग्राह पाणिना॥ आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघवम्। अङ्के भरतमारोप्य पर्यपृच्छत सादरम्॥ क्व नु तेऽभूत् पिता तात यदरण्यं त्वमागतः। न हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि ॥ चिरस्य बत पश्यामि दूराद् भरतमागतम्। दुष्प्रतीकमरण्येऽस्मिन् किं तात वनमागतः॥ कच्चिन्नु धरते तात राजा यत् त्वमिहागतः। क्वच्चिन्न दीनः सहसा राजा लोकान्तरं गतः॥ कच्चित् सौम्य न ते राज्यं भ्रष्टं बालस्य शाश्वतम्। कच्चिच्छुश्रूषसे तात पितुः सत्यपराक्रम।७।। कच्चिद् दशरथो राजा कुशली सत्यसंगरः। राजसूयाश्वमेधानामाहर्ता धर्मनिश्चितः॥ स कच्चिद् ब्राह्मणो विद्वान् धर्मनित्यो महाद्युतिः। इक्ष्वाकूणामुपाध्यायो यथावत् तात पूज्यते॥ तात कच्चिच्च कौसल्या सुमित्रा च प्रजावती। सुखिनी कच्चिदार्या च देवी नन्दति कैकेयी॥ कच्चिद् विनयसम्पन्नः कुलपुत्रो बहुश्रुतः। अनसूयरनुद्रष्टा सत्कृतस्ते पुरोहितः॥ कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः। हुतं च होष्यमाणं च काले वेदयते सदा॥ कच्चिद् देवान् पितृन् भृत्यान् गुरून् पितृसमानपि। वृद्धांश्च तात वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे॥ इष्वस्त्रवरसम्पन्नमर्थशास्त्रविशारदम्। सुधन्वानमुपाध्यायं कच्चित् त्वं तात मन्यसे ॥ कच्चिदात्मसमाः शूराः श्रुतवन्तो जितेन्द्रियाः। कुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिणः॥ मन्त्री विजयमूलं हि राज्ञां भवति राघव। सुसंवृतो मन्त्रिधुरैरमात्यैः शास्त्रकोविदैः॥ कच्चिन्निद्रावशं नैषि कच्चित् कालेऽवबुध्यसे। कच्चिच्चापररात्रेषु चिन्तयस्यर्थनैपुणम्॥ कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह। कच्चित् ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति॥ कच्चिदर्थं विनिश्चित्य लघुमूलं मदोदयम्। क्षिप्रमारभसे कर्म न दीर्घयसि राघव॥ कच्चिनु सुकृतान्येव कृतरूपाणि वा पुनः। विदुस्ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः॥ कच्चिन तर्कैर्युक्त्या वा ये चाप्यपरिकीर्तिताः। त्वया वा तव वामात्यैर्बुध्यते तात मन्त्रितम्॥ कच्चित् सहस्रैर्मूर्खाणामेकमिच्छसि पण्डितम्। पण्डितो ह्यर्थकृच्छेषु कुर्यानिःश्रेयसं महत्॥ सहस्राण्यपि मूर्खाणां यधुपास्ते महीपतिः। अथवाप्ययुतान्येव नास्ति तेषु सहायता॥ एकोऽप्यमात्यो मेधावी शूरो दक्षो विचक्षणः। राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम्॥ कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमा। जघन्याश्च जघन्येषु भृत्यास्ते तात योजिताः॥ अमात्यानुपधातीतान् पितृपैतामहाशुचीन्। श्रेष्ठाञ्छेष्ठेषु कच्चित् त्वं नियोजयसि कर्मसु॥ कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजिताः प्रजाः। राष्ट्रे तवावजानन्ति मन्त्रिणः कैकयीसुत ॥ कच्चित् त्वां नावजानन्ति याजकाः पतितं यथा। उग्राप्रतिग्रहीतारं कामयानमिव स्त्रियः॥ उपायकुशलं वैद्यं भृत्यसंदूषणे रतम्। शूरमैश्वर्यकामं च यो हन्ति न स हन्यते॥ कच्चिद् धृष्टश्च शूरश्च धृतिमान् मतिमाञ्छुचिः। कुलीनश्चानुरक्तश्च दक्षः सेनापतिः कृतः॥ बलवन्तश्च कच्चित् ते मुख्या युद्धविशारदाः। दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः॥ कच्चिद् बलस्य भक्तं च वेतनं च यथोचितम्। सम्प्राप्तकालं दातव्यं ददासि न विलम्बसे॥ कालातिक्रमणे ह्येव भक्तवेतनयो ताः। भर्तुरप्यतिकुप्यन्ति सोऽनर्थः सुमहान् कृतः॥ कच्चित् सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः। कच्चित् प्राणांस्तवार्थेषु संत्यजन्ति समाहिताः॥ कच्चिज्जानपदो विद्वान् दक्षिणः प्रतिभानवान्। यथोक्तवादी दूतस्ते कृतो भरत पण्डितः॥ कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च। त्रिभिस्त्रिभिरविज्ञातैत्सि तीर्थानि चारणैः॥ कच्चिद् व्यपास्तानहितान् प्रतियातांश्च सर्वदा। दुर्बलाननवज्ञाय वर्तसे रिपुसूदन॥ कच्चिन्न लोकायतिकान् ब्राह्मणांस्तात सेवसे। अनर्थकुशला ह्येते बालाः पण्डितमानिनः॥ धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः। बुद्धिमान्वीक्षिकी प्राप्य निरर्थं प्रवदन्ति ते॥ वीरैरध्युषितां पूर्वमस्माकं तात पूर्वकैः। सत्यनामां दृढद्वारा हस्त्यश्वरथसंकुलाम्॥ ब्राह्मणैः क्षत्रियैर्वैश्यैः स्वकर्मनिरतैः सदा। जितेन्द्रियैर्महोत्साहैर्वृतामार्यैः सहस्रशः॥ प्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम्। कच्चित् समुदितां स्फीतामयोध्यां परिरक्षसे।॥ कच्चिच्चैत्यशतैर्जुष्टः सुनिविष्टजनाकुलः। देवस्थानैः प्रपाभिश्च तटाकैश्चोपशोभितः॥ प्रहृष्टनरनारीक: समाजोत्सवशोभितः। सुकृष्टसीमापशुमान् हिंसाभिरभिवर्जितः॥ अदेवमातृको रम्यः श्वापदैः परिवर्जितः। परित्यक्तो भयैः सर्वैः खनिभिश्चोपशोभितः।।४५ । विवर्जितो नरैः पापैर्मम पूर्वैः सुरक्षितः। कच्चिज्जनपदः स्फीतः सुखं वसति राघव॥ कच्चित् ते दयिताः सर्वे कृषिगोरक्षजीविनः। वार्तायां संश्रितस्तात लोकोऽयं सुखमेधते॥ तेषां गुप्तिपरीहारैः कच्चित् ते भरणं कृतम्। रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः।४८।। कच्चित् स्त्रियः सान्त्वयसे कच्चित् तास्ते सुरक्षिताः। कच्चिन्न श्रद्दधास्यासां कच्चिद् गुह्यं न भाषसे॥ कच्चिन्नागवनं गुप्तं कच्चित् ते सन्ति धेनुकाः। कच्चिन्न गणिकाश्वानां कुञ्जराणां च तृप्यसि॥ कच्चिद् दर्शयसे नित्यं मानुषाणां विभूषितम्। उत्थायोत्थाय पूर्वाह्ने राजपुत्र महापथे॥ कच्चिन्न सर्वे कर्मान्ताः प्रत्यक्षास्तेऽविशङ्कया। सर्वे वा पुनरुत्सृष्टा मध्यमेवात्र कारणम्॥ कच्चिद् दुर्गाणि सर्वाणि धनधान्यायुधोदकैः। यन्त्रैश्च प्रतिपूर्णानि तथा शिल्पिधनुधरैः॥ आयस्ते विपुलः कच्चित् कच्चिदल्पतरो व्ययः। अपात्रेषु न ते कच्चित् कोषो गच्छति राघव॥ देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च। योधेषु मित्रवर्गेषु कच्चिद् गच्छति ते व्ययः॥ कच्चिदार्योऽपि शुद्धात्मा क्षारितश्चापकर्मणा। अदृष्टः शास्त्रकुशलैर्न लोभाद् बध्यते शुचिः॥ गृहीतश्चैव पृष्ठश्च काले दृष्टः सकारण:। कच्चिन्न मुच्यते चोरो धनलोभानरर्षभ॥ व्यसने कच्चिदाढयस्य दुर्बलस्य च राघव। अर्थं विरागाः पश्यन्ति तवामात्या बहुश्रुताः।५८।। यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि राघव। तानि पुत्रपशून् घ्नन्ति प्रीत्यर्थमनुशासतः॥ कच्चिद् वृदांश्च बालांश्च वैद्यान् मुख्यांश्च राघव। दानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे॥ कच्चिद् गुरुंश्च वृद्धांश्च तापसान् देवतातिथीन्। चैत्यांश्च सर्वान् सिद्धार्थान् ब्राह्मणांश्च नमस्यसि॥ कच्चिदर्थेन वा धर्ममर्थं धर्मेण वा पुनः। उभौ वा प्रीतिलोभेन कामेन न विबाधसे ॥ कच्चिदर्थं च कामं च धर्मं च जयतां वर। विभज्य काले कालज्ञ सर्वान् वरद सेवसे॥ कच्चित् ते ब्राह्मणः शर्म सर्वशास्त्रार्थकोविदाः। आशंसन्ते महाप्राज्ञ पौरजानपदैः सह॥ नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम्। अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम्॥ एकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम्। निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम्॥ मङ्गलाद्यप्रयोगं च प्रत्युत्थानं च सर्वतः। कच्चित् त्वं वर्जयस्येतान् राजदोषांश्चतुर्दश॥ दशपञ्चचतुर्वर्गान् सप्तवर्गं च तत्त्वतः। अष्टवर्गं त्रिवर्गं च विद्यास्तिस्रश्च राघव॥ इन्द्रियाणां जयं बुद्ध्वा षाड्गुण्यं दैवमानुषम्। कृत्य विंशतिवर्गं च तथा प्रकृतिमण्डलम्॥ यात्रादण्डविधानं च द्वियोनी संधिविग्रहो। कच्चिदेतान् महाप्राज्ञ यथावदनुमन्यसे॥ मन्त्रिभिस्त्वं यथोद्दिष्टं चतुर्भिस्त्रिभिरेव वा। कच्चित् समस्तैर्व्यस्तैश्च मन्त्रं मन्त्रयसे बुध ॥ कच्चित्ते सफला वेदाः कच्चित्ते सफलाः क्रियाः। कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम्॥ कच्चिदेषैव ते बुद्धिर्यथोक्ता मम राघव। आयुष्या च यशस्या च धर्मकामार्थसंहिता॥ यां वृत्तिं वर्तते तातो यां च नः प्रपितामहः। तां वृत्तिं वर्तसे कच्चिद् या च सत्पथगा शुभा॥ कच्चित् स्वादुकृतं भोज्यमेको नाश्नासि राघव। कच्चिदाशंसमानेभ्यो मित्रेभ्यः सम्प्रयच्छसि॥ राजा तु धर्मेण हि पालयित्वा महीपतिर्दण्डधरः प्रजानाम्। दितश्च्युतः स्वर्गमुपैति विद्वान्।७६ ।। तं तु रामः समाज्ञाय भ्रातरं गुरुवत्सलम्। लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे॥ किमेतदिच्छेयमहं श्रोतुं प्रव्याहतं त्वया। यस्मात् त्वमागतो देशमिमं चीरजटाजिनी॥ यन्निमित्तमिमं देशं कृष्णाजिनजटाधरः। हित्वा राज्यं प्रविष्टस्त्वं तत् सर्वं वक्तुमर्हसि॥ इत्युक्तः कैकेयीपुत्रः काकुत्स्थेन महात्मना। प्रगृह्य बलवद् भूयः प्राञ्जलिर्वाक्यमब्रवीत्।।४। आर्य तातः परित्यज्य कृत्वा कर्म सुदुष्करम्। गतः स्वर्ग महाबाहुः पुत्रशोकाभिपीडितः॥ स्त्रिया नियुक्तः कैकेय्या मम मात्रा परंतप। चकार सा महत्पापमिदमात्मयशोहरम्॥ सा राज्यफलमप्राप्य विधवा शोककर्शिता। पतिष्यति महाघोरे नरके जननी मम ॥ तस्य मे दासभूतस्य प्रसादं कर्तुमर्हसि। अभिषिञ्चस्व चाचैव राज्येन मघवानिव॥ इमाः प्रकृतयः सर्वा विधवा मातरश्च याः। त्वत्सकाशमनुप्राप्ताः प्रसादं कर्तुमर्हसि।९।। तथानुपूर्व्या युक्तश्च युक्तं चात्मनि मानद। राज्यं प्राप्नुहि धर्मेण सकामान् सुहृदः कुरु॥ भवत्वविधवा भूमिः समग्रा पतिना त्वया। शशिना विमलेनेव शारदी रजनी यथा॥ एभिश्च सचिवैः सार्धं शिरसा याचितो मया। भ्रातुः शिष्यस्य दासस्य प्रसादं कर्तुमर्हसि॥ तदिदं शाश्वतं पित्र्यं सर्वं सचिवमण्डलम्। पूजितं पुरुषव्याघ्र नातिक्रमितुमर्हसि ॥ एवमुक्त्वा महाबाहुः सबाष्पः कैकयीसुतः। रामस्य शिरसा पादौ जग्राह भरतः पुनः॥ तं मत्तमिव मातङ्ग निःश्वसन्तं पुनः पुनः। भ्रातरं भरतं रामः परिष्वज्येदमब्रवीत्॥ कुलीनः सत्त्वसम्पन्नस्तेजस्वी चरितव्रतः। राज्यहेतोः कथं पापमाचरेन्मद्विधो जनः॥ न दोषं त्वयि पश्यामि सूक्ष्ममप्यरिसूदन। न चापि जननी बाल्यात् त्वं विगर्हितुमर्हसि ॥ कामकारो महाप्राज्ञ गुरूणां सर्वदानघ। उपपन्नेषु दारेषु पुत्रेषु च विधीयते॥ वयमस्य यथा लोके संख्याताः सौम्य साधुभिः। भार्याः पुत्राश्च शिष्याश्च त्वमपि ज्ञातुमर्हसि॥ वने वा चीरवसनं सौम्य कृष्णाजिनाम्बरम्। राज्ये वापि महाराजो मां वासयितुमीश्वरः॥ यावत् पितरि धर्मज्ञ गौरवं लोकसत्कृते। तावद् धर्मकृतां श्रेष्ठ जनन्यामपि गौरवम्॥ एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव। मातापितृभ्यामुक्तोऽहं कथमन्यत् समाचरे॥ त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम्। वस्तव्यं दण्डकारण्ये मया वल्कलवाससा॥ एवमुक्त्वा महाराजो विभागं लोकसंनिधौ। व्यादिश्य च महाराजो दिवं दशरथो गतः॥ स च प्रमाणं धर्मात्मा राजा लोकगुरुस्तव। पित्रा दत्तं यथाभागमुपभोक्तं त्वमर्हसि ॥ चतुर्दश समाः सौम्य दण्डकारण्यमाश्रितः। उपभोक्ष्ये त्वहं दत्तं भागं पित्रा महात्मना॥ यदब्रवीन्मां नरलोकसत्कृतः पिता महात्मा विबुधाधिपोपमः। तदेव मन्ये परमात्मनो हितं न सर्वलोकेश्वरभावमव्ययम्॥ रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह। किं मे धर्माद् विहीनस्य राजधर्मः करिष्यति॥ शाश्वतोऽयं सदा धर्मः स्थितोऽस्मासु नरर्षभ। ज्येष्ठ पुत्रे स्थिते राजा न कनीयान् भवेनृपः॥ स समृद्धां मया सार्धमयोध्यां गच्छ राघव। अभिषेचय चात्मानं कुलस्यास्य भवाय नः॥ राजानं मानुषं प्राहुर्देवत्वे सम्मतो मम। यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम्॥ केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते। धीमान् स्वर्गं गतो राजा यायजूकः सतां मतः॥ निष्क्रान्तमात्रे भवति सहसीते सलक्ष्मणे। दुःखशोकाभिभूतस्तु राजा त्रिदिवमभ्यगात्॥ उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितुः। अहं चायं च शत्रुघ्नः पूर्वमेव कृतोदकौ॥ प्रियेण किल दत्तं हि पितृलोकेषु राघव। अक्षयं भवतीत्याहुर्भावांश्चैव पितुः प्रियः॥ स्त्वय्येव सक्तामनिवर्त्य बुद्धिम्। स्त्वां संस्मरन्नेव गतः पिता ते॥ तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम्। राघवो भरतेनोक्तां बभूव गतचेतनः॥ तं तु वज्रमिवोत्सृष्टमाहवे दानवारिणा। वाग्वजं भरतेनोक्तममनोज्ञं परंतपः॥ प्रगृह्य रामो बाहु वै पुष्पिताङ्ग इव दुमः। वने परशुना कृत्तस्तथा भुवि पपात ह॥ तथा हि पतितं रामं जगत्यां जगतीपतिम्। कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम्॥ भ्रातरस्ते महेष्वासं सर्वतः शोककर्शितम्। रुदन्तः सह वैदेह्या सिषुचुः सलिलेन वै॥ स तु संज्ञा पुनर्लब्ध्वा नेत्राभ्यामश्रुमुत्सृजन्। उपाक्रामत काकुत्स्थः कृपणं बहु भाषितुम्॥ स रामः स्वर्गतं श्रुत्वा पितरं पृथिवीपतिम्। उवाच भरतं वाक्यं धर्मात्मा धर्मसंहितम्॥ किं करिष्याम्ययोध्यायां ताते दिष्टां गतिं गते। कस्तां राजवराद्धीनामयोध्यां पालयिष्यति॥ किं नु तस्य मया कार्यं दुर्जातेन महात्मनः। यो मृतो मम शोकेन स मया न च संस्कृतः॥ अहो भरत सिद्धार्थो येन राजा त्वयानघ। शत्रुघ्नेन च सर्वेषु प्रेतकृत्येषु सत्कृतः॥ निष्प्रधानामनेकानां नरेन्द्रेण विना कृताम्। निवृत्तवनवासोऽपि नायोध्यां गन्तुमुत्सहे॥ समाप्तवनवासं मामयोध्यायां परंतप। कोऽनुशासिष्यति पुनस्ताते लोकान्तरं गते॥ पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन्। वाक्यानि तानि श्रोष्यामि कुतः कर्णसुखान्यहम्॥ एवमुक्त्वाथ भरतं भार्यामभ्येत्य राघवः। उवाच शोकसंतप्तः पूर्णचन्द्रनिभाननाम्॥ सीते मृतस्ते श्वशुरः पितृहीनोऽसि लक्ष्मण। भरतो दुःखमाचष्टे स्वर्गतिं पृथिवीपतेः॥ ततो बहुगुणं तेषां बाष्पं नेत्रेष्वजायत। तथा ब्रुवति काकुत्स्थे कुमाराणां यशस्विनाम्॥ ततस्ते भ्रातरः सर्वे भृशमाश्वास्य दुःखितम्। अब्रुवञ्जगतीभर्तुः क्रियतामुदकं पितुः॥ सा सीता स्वर्गतं श्रुत्वा श्वशुरं तं महानृपम्। नेत्राभ्यामश्रुपूर्णाभ्यां न शशाकेक्षितं प्रियम्॥ सान्त्वयित्वा तु मां रामो रुदती जनकात्मजाम्। उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः॥ आनयेगुदिपिण्याकं चीरमाहर चोत्तरम्। जलक्रियार्थं तातस्य गमिष्यामि महात्मनः॥ सीता पुरस्ताद् व्रजतु त्वमेनामभितो व्रज। अहं पश्चाद् गमिष्यामि गतिथेषा सुदारुणा॥ ततो नित्यानुगस्तेषां विदितात्मा महामतिः। मृदुर्दान्तश्च कान्तश्च रामे च दृढभक्तिमान्॥ सुमन्त्रस्तैर्नृपसुतैः सार्धमाश्वास्य राघवम्। अवतारयदालम्ब्य नदीं मन्दाकिनी शिवाम्॥ ते सुतीर्थां ततः कृच्छ्रादुपगम्य यशस्विनः। नदी मन्दाकिनी रम्यां सदा पुष्पितकाननाम्॥ शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्दमम्। सिषिचुस्तूदकं राज्ञे तत एतद् भवत्विति ॥ प्रगृह्य तु महीपालो जलापूरितमञ्जलिम्। दिशं याम्यामभिमुखो रुदन् वचनमब्रवीत्॥ एतत्ते राजशार्दूल विमलं तोयमक्षयम्। पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु॥ ततो मन्दाकिनीतीरं प्रत्युत्तीर्य स राघवः। पितुश्चकार तेजस्वी निर्वापं भ्रातृभिः सह॥ ऐङ्गदं बदरैर्मिश्रं पिण्याकं दर्भसंस्तरे। न्यस्य रामः सुदुःखार्तो रुदन् वचनमब्रवीत्॥ इदं भुक्ष्व महाराज प्रीतो यदशना वयम्। यदन्नः पुरुषो भवति तदत्रास्तस्य देवताः॥ ततस्तेनैव मार्गेण प्रत्युत्तीर्य सरित्तटात्। आरुरोह नरव्याघ्रो रम्यसानुं महीधरम्॥ ततः पर्णकुटीद्वारमासाद्य जगतीपतिः। परिजग्राह पाणिभ्यामुभौ भरतलक्ष्मणौ॥ तेषां तु रुदतां शब्दात् प्रतिशब्दोऽभवद् गिरौ। भ्रातृणां सह वैदेह्या सिंहानां नर्दतामिव ॥ महाबलानां रुदतां कुर्वतामुदकं पितुः। विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिकाः॥ अब्रुवंश्चापि रामेण भरतः संगतो ध्रुवम्। तेषामेव महाशब्दः शोचतां पितरं मृतम्॥ अथ वाहान् परित्यज्य तं सर्वेऽभिमुखाः स्वनम्। अप्येकमनसो जग्मुर्यथास्थानं प्रधाविता॥ हयैरन्ये गजैरन्ये रथैरन्ये स्वलंकृतैः। सुकुमारास्तथैवान्ये पद्भिरेव नरा ययुः॥ अचिरप्रोषितं रामं चिरविप्रोषितं यथा। द्रष्टुकामो जनः सर्वो जगाम सहसाश्रमम्॥ भ्रातृणां त्वरितास्ते तु द्रष्टुकामाः समागमम्। ययुर्बहुविधैर्यानैः खुरनेमिसमाकुलैः॥ सा भूमिर्बहुभिर्यानै रथनेमिसमाहता। मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे॥ तेन वित्रासिता नागाः करेणुपरिवारिताः। आवासयन्तो गन्धेन जग्मुरन्यद्वनं ततः॥ वराहवृकसिंहाश्च महिषाः सृमरास्तथा। व्याघ्रगोकर्णगवया वित्रेसुः पृषतैः सह।॥ रथाह्वहंसानत्यूहाः पल्वाः कारण्डवाः परे। तथा पुंस्कोकिलाः क्रौञ्चा विसंज्ञा भेजिरे दिशः।॥ तेन शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम्। मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा॥ ततस्तं पुरुषव्याघ्रं यशस्विनमकल्मषम्। आसीनं स्थण्डिले रामं ददर्श सहसा जनः॥ विगर्हमाणः कैकेयीं मन्थरा सहितामपि। अभिगम्य जनो रामं बाष्पपूर्णमुखोऽभवत्॥ तान् नरान् बाष्पपूर्णाक्षान् समीक्ष्याथ सुदुःखितान्। पर्यष्वजत धर्मज्ञः पितृवन्मातृवच्च सः॥ स तत्र कांश्चित् परिषस्वजे नरान् नराश्च केचित्तु तमभ्यवादयन्। चकार सर्वान् सवयस्यबान्धवान् यथार्हमासाद्य तदा नृपात्मजः॥ ततः स तेषां रुदतां महात्मनां भुवं च खं चानुविनादयन् स्वनः। गुहा गिरीणां च दिशश्च संततं मृदङ्गघोषप्रतिमो विशुश्रुवे॥ वसिष्ठः पुरतः कृत्वा दारान् दशरथस्य च। अभिचक्राम तं देशं रामदर्शनतर्षितः॥ राजपत्ल्यश्च गच्छन्त्यो मन्दं मन्दाकिनी प्रति। ददृशुस्तत्र तत् तीर्थं रामलक्ष्मणसेवितम्॥ कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता। सुमित्रामब्रवीद् दीनां याश्चान्या राजयोषितः॥ इदं तेषामनाथानां क्लिष्टमक्लिष्टकर्मणाम्। वने प्राक्कलनं तीर्थं ये ते निर्विषयीकृताः॥ इतः सुमित्रे पुत्रस्ते सदा जलमतन्द्रितः। स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात्॥ जघन्यमपि ते पुत्रः कृतवान् न तु गर्हितः। भ्रातुर्यदर्थरहितं सर्वं तद् गर्हितं गुणैः॥ अद्यायमपि ते पुत्रः क्लेशानामतथोचितः। नीचानर्थसमाचारं सज्जं कर्म प्रमुञ्चतु॥ दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले। पितुरिङ्गुदिपिण्याकं न्यस्तमायतलोचना ॥ तं भूमौ पितुरातेन न्यस्तं रामेण वीक्ष्य सा। उवाच देवी कौसल्या सर्वा दशरथस्त्रियः॥ इदमिक्ष्वाकुनाथस्य राघवस्य महात्मनः। राघवेण पितुर्दत्तं पश्यतैतद् यथाविधि॥ तस्य देवसमानस्य पार्थिवस्य महात्मनः। नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम्॥ चतुरन्तां महीं भुक्त्वा महेन्द्रसदृशो भुवि। कथमिङ्गुदिपिण्याकं स भुङ्क्ते वसुधाधिपः॥ अतो दु:खतरं लोके न किञ्चित् प्रतिभाति मे। यत्र रामः पितुर्दद्यादिगुदीक्षोदमृद्धिमान्॥ रामेणेङ्गुदिपिण्याकं पितुर्दत्तं समीक्ष्य मे। कथं दुःखेन हृदयं न स्फोटति सहस्रधा॥ श्रुतिस्तु खल्वियं सत्या लौकिकी प्रतिभाति मे। यदन्नः पुरुषो भवति तदन्नास्तस्य देवता॥ एवमाः सपत्न्यस्ता जग्मुराश्वास्य तां तदा। ददृशुश्चाश्रमे रामं स्वर्गच्युतमिवामरम्॥ तं भोगैः सम्परित्यक्तं रामं सम्प्रेक्ष्य मातरः। आर्ता मुमुचुरश्रूणि सस्वरं शोककर्शिताः॥ तासां रामः समुत्थाय जग्राह चरणाम्बुजान्। मातृणां मनुजव्याघ्रः सर्वासां सत्यसंगरः॥ ताः पाणिभिः सुखस्पर्श द्वङ्गुलितलैः शुभैः। प्रममा रजः पृष्ठाद् रामस्यायतलोचनाः॥ सौमित्रिरपि ताः सर्वा मातृः सम्प्रेक्ष्य दुःखितः। अभ्यवादयदासक्तं शनै रामादनन्तरम्॥ यथा रामे तथा तस्मिन् सर्वा ववृतिरे स्त्रियः। वृत्तिं दशरथाज्जाते लक्ष्मणे शुभलक्षणे॥ सीतापि चरणांस्तासामुपसंगृह्य दुःखिता। श्वश्रूणामश्रुपूर्णाक्षी सम्बभूवाग्रतः स्थिता॥ तां परिष्वज्य दुःखार्ता माता दुहितरं यथा। वनवासकृतां दीनां कौसल्या वाक्यमब्रवीत्॥ वैदेहराजन्यसुता स्नुषा दशरथस्य च। रामपत्नी कथं दुःखं सम्प्राप्ता विजने वने॥ पद्ममातपसंतप्तं परिक्लिष्टमिवोत्पलम्। काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदैः॥ मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयम्। भृशं मनसि वैदेहि व्यसनारणिसम्भवः॥ ब्रुवन्त्यामेवमार्तायां जनन्यां भरताग्रजः। पादावासाद्य जग्राह वसिष्ठस्य च राघवः॥ पुरोहतस्याग्निसमस्य तस्य वै बृहस्पतेरिन्द्र इवामराधिपः। प्रगृह्य पादौ सुसमृद्धतेजसः सहैव तेनोपविवेश राघवः॥ ततो जघन्यं सहितैः स्वमन्त्रिभिः पुरप्रधानैश्च तथैव सैनिकैः। नुपोपविष्टो भरतस्तदाग्रजम्॥ स्तपस्विवेषेण समीक्ष्य राघवम्। र्यथा महेन्द्रः प्रयतः प्रजापतिम्॥ किमेष वाक्यं भरतोऽद्य राघवं प्रणम्य सत्कृत्य च साधु वक्ष्यति। इतीव तस्यार्यजनस्य तत्त्वतो बभूव कौतूहलमुत्तमं तदा॥ स राघवः सत्यधृतिश्च लक्ष्मणो महानुभावो भरतश्च धार्मिकः। वृताः सुहृद्भिश्च विरेचिरेऽध्वरे यथा सदस्यैः सहितात्रयोऽग्नयः॥ ततः पुरुषसिंहानां वृतानां तैः सुद्गणैः। शोचतामेव रजनी दुःखेन व्यत्यवर्तत॥ रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वताः। मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन्॥ तूष्णीं ते समुपासीना न कश्चित् किंचिदब्रवीत्। भरतस्तु सुहृन्मध्ये रामं वचनमब्रवीत्॥ सान्त्विता मामिका माता दत्तं राज्यमिदं मम। तद् ददामि तवैवाहं भुक्ष्व राज्यमकण्टकम्॥ महतेवाम्बुवेगेन भिन्नः सेतुर्जलागमे। दुरावरं त्वदन्येन राज्यखण्डमिदं महत्॥ गतिं खर इवाश्वस्य तार्थ्यस्येव पतत्त्रिणः। अनुगन्तुं न शक्तिर्मे गतिं तव महीपते॥ सुजीवं नित्यशस्तस्य यः परैरुपजीव्यते। राम तेन तु दुर्जीवं यः परानुपजीवति॥ यथा तु रोपितो वृक्षः पुरुषेण विवर्धितः। ह्रस्वकेन दुरारोहो रूढस्कन्धो महादुमः॥ स यदा पुष्पितो भूत्वा फलानि न विदर्शयेत्। स तां नानुभवेत् प्रीतिं यस्य हेतोः प्ररोपितः॥ एषोपमा महाबाहो तदर्थ वेत्तुमर्हसि। यत्र त्वमस्मान् वृषभो भर्ता भृत्यान् न शाधि हि॥ श्रेणयस्त्वां महाराज पश्यन्त्वग्र्याश्च सर्वशः। प्रतपन्तमिवादित्यं राज्यस्थितमरिंदमम्॥ तथानुयाने काकुत्स्थ मत्ता नर्दन्तु कुञ्जराः। अन्तःपुरगता नार्यो नन्दन्तु सुसमाहिताः॥ तस्य साध्वनुमन्यन्त नागरा विविधा जनाः। भरतस्य वचः श्रुत्वा रामं प्रत्यनुयाचतः॥ तमेवं दुःखितं प्रेक्ष्य विलपन्तं यशस्विनम्। रामः कृतात्मा भरतं समाश्वासयदात्मवान्॥ नात्मन: कामकारो हि पुरुषोऽयमनीश्वरः। इतश्चेतरतश्चैनं कृतान्तः परिकर्षति॥ सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्याः। संयोगा विप्रयोगान्ता मरणान्तं च जीवितम्॥ यथा फलानां पक्वानां नान्यत्र पतनाद् भयम्। एवं नरस्य जातस्य नान्यत्र मरणाद् भयम्॥ यथाऽऽगारं दृढस्थूणं जीर्णं भूत्वोपसीदति। तथावसीदन्ति नरा जरामृत्युवशंगताः॥ अत्येति रजनी या तु सा न प्रतिनिवर्तते। यात्येव यमुना पूर्ण समुद्रमुदकार्णवम्॥ अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह। आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः॥ आत्मानमनुशोच त्वं किमन्यमनुशोचसि। आयुस्तु हीयते यस्य स्थितस्यास्य गतस्य च॥ सहैव मृत्युजति सह मृत्युनिषीदति। गत्वा सुदीर्घमध्वानं सह मृत्युर्निवर्तते ॥ गात्रेषु वलयः प्राप्ताः श्वेताश्चैव शिरोरुहाः। जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत्॥ नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमितेऽहनि। आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम्॥ हृष्यन्त्य॒तुमुखं दृष्ट्वा नवं नवमिवागतम्। ऋतूनां परिवर्तेन प्राणिनां प्राणसंक्षयः॥ यथा काष्ठं च काष्ठं च समेयातां महार्णवे। समेत्य तु व्यपेयातां कालमासाद्य कंचन॥ एवं भार्याश्च पुत्राश्च ज्ञातयश्च वसूनि च। समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः॥ नात्र कश्चिद् यथाभावं प्राणी समतिवर्तते। तेन तस्मिन् न सामर्थ्य प्रेतस्यास्त्यनुशोचतः॥ यथा हि सार्थं गच्छन्तं ब्रूयात् कश्चित् पथि स्थितः। अहमप्यागमिष्यामि पृष्ठतो भवतामिति ॥ एवं पूर्वैर्गतो मार्गः पैतृपितामहैध्रुवः। तमापन्नः कथं शोचेद् यस्य नास्ति व्यतिक्रमः॥ वयसः पतमानस्य स्रोतसो वानिवर्तिनः। आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः।।३१। धर्मात्मा सुशुभैः कृत्स्नैः क्रतुभिश्चाप्तदक्षिणैः। धूतपापो गतः स्वर्गं पिता नः पृथिवीपतिः॥ भृत्यानां भरणात् सम्यक् प्रजानां परिपालनात्। अर्थादानाच्च धर्मेण पिता नस्त्रिदिवं गतः॥ कर्मभिस्तु शुभैरिष्टैः क्रतुभिश्चाप्तदक्षिणैः। स्वर्ग दशरथः प्राप्तः पिता नः पृथिवीपतिः॥ इष्ट्वा बहुविधैर्यज्ञैर्भोगांश्चावाप्य पुष्कलान्। उत्तमं चायुरासाद्य स्वर्गतः पृथिवीपतिः॥ आयुरुत्तममासाद्य भोगानपि च राघवः। न स शोच्यः पिता तात स्वर्गतः सत्कृतः सताम्।।३६। स जीर्णमानुषं देहं परित्यज्य पिता हि नः। दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम्॥ तं तु नैवंविधः कश्चित् प्राज्ञः शोचितुमर्हसि। त्वद्विधो मद्विधश्चापि श्रुतवान् बुद्धिमत्तर॥ एते बहुविधाः शोका विलापरुदिते तदा। वर्जनीया हि धारेण सर्वावस्थासु धीमता॥ स स्वस्थो भव मा शोको यात्वा चावस तां पुरीम्। तथा पित्रा नियुक्तोऽसि वशिना वदतां वर॥ यत्राहमपि तेनैव नियुक्तः पुण्यकर्मणा। तत्रैवाहं करिष्यामि पितुरार्यस्य शासनम्॥ न मया शासनं तस्य त्यक्तुं न्याय्यमरिंदम। स त्वयापि सदामान्यः स बन्धुः स नः पिता॥ तद् वचः पितुरेवाहं सम्मतं धर्मचारिणाम्। कर्मणा पालयिष्यामि वनवासेन राघव॥ धार्मिकेणानृशंसेन नरेण गुरुवर्तिना। भवितव्यं नरव्याघ्र परलोकं जिगीषता॥ आत्मानमनुतिष्ठ त्वं स्वभावेन नरर्षभ। निशाम्य तु शुभं वृत्तं पितुर्दशरथस्य नः॥ इत्येवमुक्त्वा वचनं महात्मा पितुर्निदेशप्रतिपालनार्थम्। यवीयसं भ्रातरमर्थवच्च प्रभुर्मुहूर्ताद् विरराम रामः॥ पुनरेवं ब्रुवाणं तं भरतं लक्ष्मणाग्रजः। प्रत्युवाच ततः श्रीमाज्ञातिमध्ये सुसत्कृतः॥ उपपन्नमिदं वाक्यं यस्त्वमेवमभाषथाः। जातः पुत्रो दशरथात् कैकेय्यां राजसत्तमात्॥ पुरा भ्रातः पिता नः स मातरं ते समुद्वहन्। मातामहे समाश्चौषीद् राज्यशुल्कमनुत्तमम्॥ देवासुरे च संग्रामे जनन्यै तव पार्थिवः। सम्प्रहृष्टो ददौ राजा वरमाराधितः प्रभुः॥ ततः सा सम्प्रतिश्राव्य तव माता यशस्विनी। अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी॥ तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा। तच्च राजा तथा तस्यै नियुक्तः प्रददौ वरम्॥ तेन पित्राहमप्यत्र नियुक्तः पुरुषर्षभ । चतुर्दश वने वासं वर्षाणि वरदानिकम्।७।। सोऽयं वनमिदं प्राप्तो निर्जनं लक्ष्मणान्वितः। सीतया चाप्रतिद्वन्द्वः सत्यवादे स्थितः पितुः॥ भवानपि तथेत्येव पितरं सत्यवादिनम्। कर्तुमर्हसि राजेन्द्र क्षिप्रमेवाभिषिञ्चनात्॥ ऋणान्मोचय राजानं मत्कृते भरत प्रभुम्। पितरं त्राहि धर्मज्ञ मातरं चाभिनन्दय॥ श्रूयते धीमता तात श्रुतिर्गीता यशस्विना। गयेन यजमानेन गयेष्वेव पितृन् प्रति॥ पुन्नाम्नो नरकाद् यस्मात् पितरं त्रायते सुतः। तस्मात् पुत्र इति प्रोक्तः पितृन् यः पाति सर्वतः॥ एष्टव्या बहवः पुत्रा गुणवन्तो बहुश्रुताः। तेषां वै समवेतानामपि कश्चिद् गयां व्रजेत्॥ एवं राजर्षयः सर्वे प्रतीता रघुनन्दन। तस्मात् त्राहि नरश्रेष्ठ पितरं नरकात् प्रभो॥ अयोध्यां गच्छ भरत प्रकृतीरुपरञ्जय। शत्रुघ्नसहितो वीर सह सर्वैद्विजातिभिः॥ प्रवेक्ष्ये दण्डकारण्यमहमप्यविलम्बयन्। आभ्यां तु सहितो वीर वैदेह्या लक्ष्मणेन च॥ त्वं राजा भरत भव स्वयं नराणां वन्यानामहमपि राजराणमृगाणाम्। गच्छ त्वं पुरवरमद्य सम्प्रहृष्टः संहृष्टस्त्वहमपिदण्डकान् प्रवेक्ष्ये॥ छायां ते दिनकरभाः प्रबाधमानं वर्षत्रं भरत करोतु मूर्धि शीताम्। एतेषामहमपि काननदुमाणां छायां तामतिशयिनीं शनैः श्रयिष्ये॥ शत्रुघ्नस्त्वतुलमतिस्तु ते सहायः सौमित्रिर्मम विदितः प्रधानमित्रम्। चत्वारस्तनयवरा वयं नरेन्द्र सत्यस्थं भरत चराम मा विषीद॥ आश्वासयन्तं भरतं जाबालिब्राह्मणोत्तमः। उवाच रामं धर्मज्ञं धर्मापेतमिदं वचः॥ साधु राघव मा भूत् ते बुद्धिरेवं निरर्थिका। प्राकृतस्य नरस्येव ह्यार्यबुद्धेस्तपस्विनः॥ कः कस्य पुरुषो बन्धुः किमाप्यं कस्य केनचित्। एको हि जायते जन्तुरेक एव विनश्यति॥ तस्मान्माता पिता चेति राम सज्जेत यो नरः। उन्मत्त इव स ज्ञेयो नास्ति कश्चिद्धि कस्यचित्॥ यथा ग्रामान्तरं गच्छन् नरः कश्चिद् बहिर्वसेत्। उत्सृज्य च तमावासं प्रतिष्ठेतापरेऽहनि॥ एवमेव मनुष्याणां पिता माता गृहं वसु। आवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जनाः॥ पित्र्यं राज्यं समुत्सृज्य स नार्हसि नरोत्तम। आस्थातुं कापथं दुःखं विषमं बहुकण्टकम्॥ समृद्धायामयोध्यायामात्मानमभिषेचय। एकवेणीधरा हित्वा नगरी सम्प्रतीक्षते॥ राजभोगाननुभवन् महार्हान् पार्थिवात्मज। विहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे॥ न ते कश्चिद् दशरथस्त्वं च तस्य न कश्चन। अन्यो राजा त्वमन्यस्तु तस्मात् कुरु यदुच्यते॥ बीजमात्रं पिता जन्तोः शुक्रं शोणितमेव च। संयुक्तमृतुमन्मात्रा पुरुषस्येह जन्म तत्॥ गतः स नृपतिस्तत्र गन्तव्यं यत्र तेन वै। प्रवृत्तिरेषा भूतानां त्वं तु मिथ्या विहन्यसे॥ अर्थधर्मपरा ये ये तांस्ताशोचामि नेतरान्। ते हि दुःखमिह प्राप्य विनाशं प्रेत्य लेभिरे॥ अष्टकापितृदेवत्यमित्ययं प्रसृतो जनः। अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति॥ यदि भुक्तमिहान्येन देहमन्यस्य गच्छति। दद्यात् प्रवसतां श्राद्धं न तत् पथ्यशनं भवेत्॥ दानसंवनना ह्येते ग्रन्था मेधाविभिः कृताः। यजस्व देहि दीक्षस्व तपस्तप्यस्व संत्यज ॥ स नास्ति परमित्येतत् कुरु बुद्धिं महामते। प्रत्यक्षं यत् तदातिष्ठ परोक्षं पृष्ठतः कुरु॥ सतां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम्। राज्यं स त्वं निगृह्णीष्व भरतेन प्रसादितः॥ जाबालेस्तु वचः श्रुत्वा रामः सत्यपराक्रमः। उवाच परया सूक्त्या बुद्ध्याविप्रतिपत्रया।॥ भवान् मे प्रियकामार्थं वचनं यदिहोक्तवान्। अकार्यं कार्यसंकाशमपथ्यं पथ्यसंनिभम् ॥ निर्मर्यादस्तु पुरुषः पापाचारसमन्वितः। मानं न लभते सत्सु भिन्नचारित्रदर्शनः॥ कुलीनमकुलीनं वा वीरं पुरुषमानिनम्। चारित्रमेव व्याख्याति शुचिं वा यदि वाशुचिम्॥ अनार्यस्त्वार्यसंस्थानः शौचाद्धीनस्तथा शुचिः। लक्षण्यवदलक्षण्यो दुःशीलः शीलवानिव ॥ अधर्मं धर्मवेषेण यद्यहं लोकसंकरम्। अभिपत्स्ये शुभं हित्वा क्रियां विधिविवर्जिताम्॥ कश्चेतयानः पुरुषः कार्याकार्यविचक्षणः। बहु मन्येत मां लोके दुर्वृत्तं लोकदूषणम्।७।। कस्य यास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम्। अनया वर्तमानोऽहं वृत्त्या हीनप्रतिज्ञया॥ कामवृत्तोऽन्वयं लोकः कृत्स्नः समुपवर्तते। यद्वृत्ताः सन्ति राजानस्तद्वृत्ताः सन्ति हि प्रजाः॥ सत्यमेवानृशंसं च राजवृत्तं सनातनम्। तस्मात् सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः॥ ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे। सत्यवादी हि लोकेऽस्मिन् परं गच्छति चाक्षयम्॥ उद्विजन्ते यथा सनिरादनृतवादिनः! धर्मः सत्यपरो लोके मूलं सर्वस्य चोच्यते॥ सत्यमेवेश्वरो लोके सत्ये धर्मः सदाश्रितः। सत्यमूलानि सर्वाणि सत्यानास्ति परं पदम्॥ दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च। वेदाः सत्यप्रतिष्ठानास्तस्मात् सत्यपरो भवेत्॥ एकः पालयते लोकमेकः पालयते कुलम्। मज्जत्येको हि निरय एकः स्वर्गे महीयते॥ सोऽहं पितुर्निदेशं तु किमर्थं नानुपालये। सत्यप्रतिश्रवः सत्यं सत्येन समयीकृतम्॥ नैव लोभान्न मोहाद् वा न चाज्ञानात् तमोऽस्वितः। सेतुं सत्यस्य भेत्स्यामि गुरोः सत्यप्रतिश्रवः॥ असत्यसंधस्य सतश्चलस्यास्थिरचेतसः। नैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम्॥ प्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं ध्रुवम्। भारः सत्पुरुषैश्चीर्णस्तदर्थमभिनन्द्यते॥ क्षात्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम्। क्षुदैर्नृशंसैलुब्धैश्च सेवितं पापकर्मभिः॥ कायेन करते पापं मनसा सम्प्रधार्य तत्। अनृतं जिह्वया चाहं त्रिविधं कर्म पातकम्॥ भूमिः कीर्तिर्यशो लक्ष्मीः परुषं प्रार्थयन्ति हि। सत्यं समनुवर्तन्ते सत्यमेव भजेत् ततः॥ श्रेष्ठं ह्यनार्यमेव स्याद् यद् भवानवधार्य माम्। आह युक्तिकरैर्वाक्यैरिदं भद्रं कुरुष्व ह॥ कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरोः। भरतस्य करिष्यामि वचो हित्वा गुरोर्वचः॥ स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसंनिधौ। प्रहृष्टमानसा देवी कैकेयी चाभवत् तदा॥ वनवासं वसनेव शुचिनियतभोजनः। मूलपुष्पफलैः पुण्यैः पितॄन् देवांश्च तर्पयन्॥ संतुष्टपञ्चवर्गोऽहं लोकयात्रां प्रवाहये। अकुहः श्रद्दधानः सन्कार्याकार्यविचक्षणः॥ कर्मभूमिमिमां प्राप्य कर्तव्यं कर्म यच्छुभम्। अग्निर्वायुश्च स्मश्च कर्मणां फलभागिनः॥ शतं क्रतूनामाहृत्य देवराट् त्रिदिवं गतः। तपांस्युग्राणि चास्थाय दिवं प्राप्ता महर्षयः॥ अमृष्यमाणः पुनरुग्रतेजा निशम्य तन्नास्तिकवाक्यहेतुम्। अथाब्रवीत् तं नृपतेस्तनूजो विगर्हमाणो वचनानि तस्य॥ सत्यं च धर्मं च पराक्रमं च भूतानुकम्पां प्रियवादितां च। द्विजातिदेवातिथिपूजनं च पन्थानमाहुत्रिदिवस्य सन्तः॥ तेनैवमाज्ञाय यथावदर्थमेकोदयं सम्प्रतिपद्य विप्राः। धर्मं चरन्तः सकलं यथावत् कानन्ति लोकागममप्रमत्ताः॥ निन्दाम्यहं कर्म कृतं पितुस्तद् यस्त्वामगृह्णाद् विषमस्थबुद्धिम्। बुद्ध्यानयैवंविधया चरन्तं सुनास्तिकं धर्मपथादपेतम्॥ यथा हि चोरः स तथा हि बुद्धस्तथागतं नास्तिकमत्र विद्धि। तस्माद्धि यः शक्यतमः प्रजानां स नास्तिके नाभिमुखो बुधः स्यात्॥ त्वत्तो जनाः पूर्वतरे द्विजाश्च शुभानि कर्माणि बहूनि चक्रुः। छित्त्वा सदेमं च परं च लोकं तस्माद् द्विजाः स्वस्ति कृतं हुतं च ॥ धर्मे रताः सत्पुरुषैः समेतास्तेजस्विनो दानगुणप्रधानाः। अहिंसका वीतमलाश्च लोके भवन्ति पूज्या मुनयः प्रधानाः॥ इति ब्रुवन्तं वचनं सरोषं रामं महात्मानमदीनसत्त्वम्। उवाच पथ्यं पुनरास्तिकं च सत्यं वचः सानुनयं च विप्रः॥ न नास्तिकानां वचनं ब्रवीम्यहं न नास्तिकोऽहं न च नास्ति किंचन। समीक्ष्य कालं पुनरास्तिकोऽभवं भवेय काले पुनरेव नास्तिकः॥ स चापि कालोऽयमुपागतः शनैर्यथा मया नास्तिकवागुदीरिता। निवर्तनार्थं तव राम कारणात् प्रसादनार्थं च मयैतदीरितम्॥ क्रुद्धमाज्ञाय रामं तु वसिष्ठः प्रत्युवाच ह। जाबालिरपि जानीते लोकस्यास्य गतागतिम् ॥ निवर्तयितुकामस्त त्वामेतद् वाक्यमब्रवीत्। इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे॥ सर्वं सलिलमेवासीत् पृथिवी तत्र निर्मिता। ततः समभवद् ब्रह्मा स्वयंभूर्दैवतैः सह॥ स वराहस्ततो भूत्वा प्रोज्जहार वसंधराम्। असृजच्च जगत् सर्वं सह पुत्रैः कृतात्मभिः॥ आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः। तस्मान्मरीचिः संजज्ञे मरीचेः कश्यपः सुतः॥ विवस्वान् कश्यपाज्जज्ञे मनुर्वैवस्वतः स्वयम्। स तु प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनो सुतः॥ यस्येयं प्रथमं दत्ता समृद्धा मनुना मही। तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम्॥ इक्ष्वाकोस्तु सुतः श्रीमान् कुक्षिरित्येव विश्रुतः। कुक्षेरथात्मजो वीर विकुक्षिरुदपद्यत ॥ विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान्। बाणस्य च महाबाहुरनरण्यो महातपाः॥ नानावृष्टिर्बभूवास्मिन् न दुर्भिक्षः सतां वरे। अनरण्ये महाराजे तस्करो वापि कश्चन॥ अनरण्यान्महाराज पृथू राजा बभूव ह। तस्मात् पृथोर्महातेजास्त्रिशङ्कुरुदपद्यत॥ स सत्यवचनाद् वीरः सशरीरो दिवं गतः। त्रिशङ्कोरभवत् सूनुर्धन्धुमारो महायशाः॥ धुन्धुमारान्महातेजा युवनाश्वो व्यजायत। युवनाश्वसुतः श्रीमान् मान्धाता समपद्यत॥ मान्धातुस्तु महान् नाः सुसंधिरुदपद्यत। सुसंधेरपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजित्॥ यशस्वी ध्रुवसंधेस्तु भरतो रिपुसूदनः। भरतात् तु महाबाहोरसितो नाम जायत॥ यस्यैते प्रतिराजान उदपद्यन्त शत्रवः। हैहयास्तालजङ्घाश्च शूराश्च शशबिन्दवः॥ तांस्तु सर्वान् प्रतिव्यूह्य युद्धे राजा प्रवासितः। स च शैलवरे रम्ये बभूवाभिरतो मुनिः॥ द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतिः। तत्र चैका महाभागा भार्गवं देववर्चसम्॥ ववन्दे पद्मपत्राक्षी काङ्गिणी पुत्रमुत्तमम्। एका गर्भविनाशाय सपत्न्यै गरलं ददौ॥ भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः। तमृषि साभ्युपागम्य कालिन्दी त्वभ्यवादयत्॥ स तामभ्यवदत् प्रीतो वरेप्सुं पुत्रजन्मनि । पुत्रस्ते भविता देवि महात्मा लोकविश्रुतः॥ धार्मिकश्च सुभीमश्च वंशकर्तारिसूदनः। श्रुत्वा प्रदक्षिणं कृत्वा मुनिं तमनुमान्य च ॥ पद्मपत्रसमानाक्षं पद्मगर्भसमप्रभम्। ततः सा गृहमागम्य पत्नी पुत्रमजायत ॥ सपन्या तु गरस्तस्यै दत्तो गर्भजिघांसया। गरेण सह तेनैव तस्मात् स सगरोऽभवत्॥ स राजा सगरो नाम यः समुद्रमखानयत्। इष्टा पर्वणि वेगेन त्रासयान इमाः प्रजाः॥ असमञ्जस्तु पुत्रोऽभूत् सगरस्येति नः श्रुतम्। जीवनेव स पित्रा तु निरस्तः पापकर्मकृत्॥ अंशुमानपि पुत्रोऽभूदसमञ्जस्य वीर्यवान्। दिलीपोंऽशुमतः पुत्रो दिलीपस्य भगीरथः॥ भगीरथात् ककुत्स्थश्च काकुत्स्था येन तु स्मृताः। ककुत्स्थस्य तु पुत्रोऽभूद् रघुर्येन तु राघवाः॥ रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः। कल्माषपादः सौदास इत्येवं प्रथितो भुवि॥ कल्माषपादपुत्रोऽभूच्छङ्खणस्त्विति नः श्रुतम्। सहसैन्यो व्यनीनशत्॥ यस्तु तद्वीर्यमासाद्य शङ्खणस्य तु पुत्रोऽभूच्छूरः श्रीमान् सुदर्शनः। सुदर्शनस्याग्निवर्ण अग्निवर्णस्य शीघ्रगः॥ शीघ्रगस्य मरुः पुत्रो मरोः पुत्रः प्रशुश्रुवः। प्रशुश्रुवस्य पुत्रोऽभूदम्बरीषो महामतिः॥ अम्बरीषस्य पुत्रोऽभूनहुषः सत्यविक्रमः। नहुषस्य च नाभागः पुत्रः परमधार्मिकः॥ अजश्च सुव्रतश्चैव नाभागस्य सुताबुभौ। अजस्य चैव धर्मात्मा राजा दशरथः सुतः॥ तस्य ज्येष्ठोऽसि दायादो राम इत्यभिविश्रुतः। तद् गृहाण स्वकं राज्यमवेक्षस्व जगन्नृप ॥ इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वजः। पूर्वजे नावरः पुत्रो ज्येष्ठो राजाऽभिषिच्यते॥ स राघवाणां कुलधर्ममात्मनः सनातनं नाद्य विहन्तुमर्हसि। प्रभूतरत्नामनुशाधि मेदिनी प्रभूतराष्ट्रां पितृवन्महायशः॥ वसिष्ठः स तदा राममुक्त्वा राजपुरोहितः। अब्रवीद् धर्मसंयुक्तं पुनरेवापरं वचः॥ पुरुषस्येह जातस्य भवन्ति गुरवः सदा। आचार्यश्चैव काकुत्स्थ पिता माता च राघव॥ पिता ह्येनं जनयति पुरुषं पुरुषर्षभ। प्रज्ञां तदाति चाचार्यस्तस्मात् स गुरुरुच्यते॥ स तेऽहं पितुराचार्यस्तव चैव परंतप। मम त्वं वचनं कुर्वन् नातिवर्तेः सतां गतिम्॥ इमा हि ते परिषदो ज्ञातयश्च नृपास्तथा। एषु तात चरन् धर्मं नातिवर्तेः सतां गतिम् ॥ वृद्धाया धर्मशीलाया मातुर्हिस्यवर्तितुम्। अस्या हि वचनं कुर्वन् नातिवर्तेः सतां गतिम्॥ भरतस्य वचः कुर्वन् याचमानस्य राघव। आत्मानं नातिवर्तेस्त्वं सत्यधर्मपराक्रम॥ एवं मधुरमुक्तः स गुरुणा राघवः स्वयम्। प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभः॥ यन्मातापितरौ वृत्तं तनये कुरुतः सदा। न सुप्रतिकरं तत् तु मात्रा पित्रा च यत्कृतम्॥ यथाशक्तिप्रदानेन स्वापनोच्छादनेन च। नित्यं च प्रियवादेन तथा संवर्धनेन च॥ स हि राजा दशरथः पिता जनयिता मम। आज्ञापयन्मां यत् तस्य न तन्मिथ्या भविष्यति॥ एवमुक्तस्तु रामेण भरतः प्रत्यनन्तरम्। उवाच विपुलोरस्कः सूतं परमदुमनाः॥ इह तु स्थण्डिले शीघ्रं कुशानास्तर सारथे। आर्य प्रत्युपवेक्ष्यामि यावन्मे सम्प्रसीदति॥ निराहारो निरालोको धनहीनो यथा द्विजः। शये पुरस्ताच्छालायां यावन्मां प्रतियास्यति ॥ स तु राममवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मनाः। कुशोत्तरमुपस्थाप्य भूमावेवास्थितः स्वयम्॥ तमुवाच महातेजा रामो राजर्षिसत्तमः। किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसे॥ ब्राह्मणो ह्येकपाāन नरान् रोद्भुमिहार्हति। न तु मूर्धाभिषिक्तानां विधिः प्रत्युपवेशने॥ उत्तिष्ठ नरशार्दूल हित्वैतद् दारुणं व्रतम्। पुरवयमितः क्षिप्रमयोध्यां याहि राघव॥ आसीनस्त्वेव भरतः पौरजानपदं जनम्। उवाच सर्वतः प्रेक्ष्य किमार्य नानुशासथ॥ ते तदोचुर्महात्मानं पौरजानपदा जनाः। काकुत्स्थमभिजानीमः सम्यग् वदति राघवः॥ एषोऽपि हि महाभागः पितुर्वचसि तिष्ठति। एत एव न शक्ताः स्म व्यावर्तयितुमञ्जसा ॥ तेषामाज्ञाय वचनं रामो वचनमब्रवीत्। एवं निबोध वचनं सुहृदां धर्मचक्षुषाम्॥ एतच्चैवोभयं श्रुत्वा सम्यक् सम्पश्य राघव। उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम्॥ अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत्। शृण्वन्तु मे परिषदो मन्त्रिणः शृणुयुस्तथा॥ न याचे पितरं राज्यं नानुशासामि मातरम्। एवं परमधर्मज्ञं नानुजानामि राघवम्॥ यदि त्ववश्यं वस्तव्यं कर्तव्यं च पितुर्वचः। अहमेव निवत्स्यामि चतुर्दश वने समाः॥ धर्मात्मा तस्य सत्येन भ्रातुर्वाक्येन विस्मितः। उवाच रामः सम्प्रेक्ष्य पौरजानपदं जनम्॥ विक्रीतमाहितं क्रीतं यत् पित्रा जीवता मम। न तल्लोपयितुं शक्यं मया वा भरतेन वा॥ उपाधिर्न मया कार्यो वनवासे जुगुप्सितः। युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम्॥ जानामि भरतं क्षान्तं गुरुसत्कारकारिणम्। सर्वमेवात्र कल्याणं सत्यसंधे महात्मनि॥ अनेन धर्मशीलेन वनात् प्रत्यागतः पुनः भ्रात्रा सह भविष्यामि पृथिव्याः पतिरुत्तमः॥ वृतो राजा हि कैकेय्या मया तद्वचनं कृतम्। अनृतान्मोचयानेन पितरं तं महीपतिम्॥ वृतो राजा हि कैकेय्या मया तद्वचनं कृतम्। अनृतान्मोचयानेन पितरं तं महीपतिम्॥ तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम्। विस्मिताः संगमं प्रेक्ष्य समुपेता महर्षयः॥ अन्तर्हिता मुनिगणाः स्थिताश्च परमर्षयः। तौ भ्रातरौ महाभागौ काकुत्स्थौ प्रशशंसिरे॥ सदा? राजपुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ। श्रुत्वा वयं हि सम्भाषामुभयोः स्पृहयामहे ॥ ततस्त्वृषिगणाः क्षिप्रं दशग्रीववधैषिणः। भरतं राजशार्दूलमित्यूचुः संगता वचः॥ कुले जात महाप्राज्ञः महावृत्त महायशः। ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे॥ सदानृणमिमं रामं वयमिच्छामहे पितुः। अनृणत्वाच्च कैकेय्याः स्वर्गं दशरथो गतः॥ एतावदुक्त्वा वचनं गन्धर्वाः समहर्षयः। राजर्षयश्चैव तथा सर्वे स्वां स्वां गतिं गताः॥ ह्लादितस्तेन वाक्येन शुशुभे शुभदर्शनः। रामः संहृष्टवदनस्तानृषीनभ्यपूजयत्॥ त्रस्तगावस्तु भरतः स वाचा सज्जमानया। कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत्॥ राम धर्ममिमं प्रेक्ष्य कुलधर्मानुसंततम्। कर्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम्॥ रक्षितं सुमहद् राज्यमहमेकस्तु नोत्सहे। पौरजानपदांश्चापि रक्तान् रञ्जयितुं तदा॥ ज्ञातयश्चापि योधाश्च मित्राणि सुहृदश्च नः। त्वामेव हि प्रतीक्षन्ते पर्जन्यमिव कर्षकाः॥ इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि। शक्तिमान् स हि काकुत्स्थ लोकस्य परिपालने॥ एवमुक्त्वापतद् भ्रातुः पादयोर्भरतस्तदा। भृशं सम्प्रार्थयामास राघवेऽतिप्रियं वदन्॥ तमः भ्रातरं कृत्वा रामो वचनमब्रवीत्। श्यामं नलिनपत्राक्षं मत्तहंसस्वरः स्वयम्॥ आगता त्वामियं बुद्धिः स्वजा वैनयिकी च या। भृशमुत्सहसे तात रक्षितं पृथिवीमपि॥ आमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभिः। सर्वकार्याणि सम्मन्त्र्य महान्त्यपि हि कारय ॥ लक्ष्मीश्चन्द्रादपेयाद् वा हिमवान् वा हिमं त्यजेत्। अतीयात् सागरो वेलां न प्रतिज्ञामहं पितुः॥ कामाद् वा तात लोभाद् वा मात्रा तुभ्यमिदं कृतम्। न तन्मनसि कर्तव्यं वर्तितव्यं च मातृवत्॥ एवं ब्रुवाणं भरतः कौसल्यासुतमब्रवीत्। तेजसाऽऽदित्यसंकाशं प्रतिपच्चन्द्रदर्शनम्॥ अधिरोहार्यपादाभ्यां पादुके हेमभूषिते। एते हि सर्वलोकस्य योगक्षेमं विधास्यतः॥ सोऽधिरुह्य नरव्याघ्रः पादुके व्यवमुच्य च। प्रायच्छत् सुमहातेजा भरताय महात्मने॥ स पादुके सम्प्रणम्य रामं वचनमब्रवीत्। चतुर्दश हि वर्षाणि जटाचीरधरो ह्यहम्॥ फलमूलाशनो वीर भवेयं रघुनन्दन। तवागमनमाकाङ्क्षन् वसन् वै नगराद् बहिः॥ तव पादुकयोय॑स्य राज्यतन्त्रं परंतप। चतुर्दशे हि सम्पूर्णे वर्षेऽहनि रघूत्तम॥ न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम्। तथेति च प्रतिज्ञाय तं परिष्वज्य सादरम्॥ शत्रुघ्नं च परिष्वज्य वचनं चेदमब्रवीत्। मातरं रक्ष कैकेयीं मा रोषं कुरु तां प्रति ॥ मया च सीतया चैव शप्तोऽसि रघुनन्दन। इत्युक्त्वाश्रुपरीताक्षो भ्रातरं विससर्ज ह॥ स पादुके ते भरतः स्वलंकृते महोज्ज्वले सम्परिगृह्य धर्मवित्। प्रदक्षिणं चैव चकार राघवं चकार चैवोत्तमनागमूर्धनि॥ अथानुपूर्व्या प्रतिपूज्य तं जनं गुरुंश्च मन्त्रीन् प्रकृतीस्तथानुजौ। । व्यसर्जयद् राघववंशवर्धनः स्थितः स्वधर्मे हिमवानिवाचलः॥ तं मातरो बाष्पगृहीतकण्ठ्यो दुःखेन नामन्त्रयितुं हि शेकुः। स चैव मातृरभिवाद्य सर्वा रुदन् कुटी स्वां प्रविवेश रामः॥ ततः शिरसि कृत्वा तु पादुके भरतस्तदा। आरुरोह रथं हृष्टः शत्रुघ्नसहितस्तदा॥ वसिष्ठो वामदेवश्च जाबालिश्च दृढव्रतः। अग्रतः प्रययुः सर्वे मन्त्रिणो मन्त्रपूजिताः॥ मन्दाकिनी नदी रम्यां प्राङ्मुखास्ते ययुस्तदा। प्रदक्षिणं च कुर्वाणाश्चित्रकूटं महागिरिम्॥ पश्यन् धातुसहस्राणि रम्याणि विविधानि च। प्रययौ तस्य पाइँन ससैन्यो भरतस्तदा॥ अदूराच्चित्रकूटस्य ददर्श भरतस्तदा। आश्रमं यत्र स मुनिर्भरद्वाजः कृतालयः॥ स तमाश्रममागम्य भरद्वाजस्य वीर्यवान्। अवतीर्य रथात् पादौ ववन्दे कुलनन्दनः॥ ततो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत्। अपि कृत्यं कृतं तात रामेण च समागतम्॥ एवमुक्तः स तु ततो भरद्वाजेन धीमता। प्रत्युवाच भरद्वाजं भरतो धर्मवत्सलः॥ स याच्यमानो गुरुणा मया च दृढविक्रमः। राघवः परमप्रीतो वसिष्ठं वाक्यमब्रवीत्॥ पितुः प्रतिज्ञां तामेव पालयिष्यामि तत्त्वतः। चतुर्दश हि वर्षाणि या प्रतिज्ञा पितुर्मम ॥ एवमुक्तो महाप्राज्ञो वसिष्ठः प्रत्युवाच ह। वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत्॥ एते प्रयच्छ संहृष्टः पादुके हेमभूषिते। अयोध्यायां महाप्राज्ञ योगक्षेमकरो भव॥ एवमुक्तो वसिष्ठेन राघवः प्राङ्मुखः स्थितः। पादुके हेमविकृते मम राज्याय ते ददौ ॥ निवृत्तोऽहमनुज्ञातो रामेण सुमहात्मना। अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे॥ एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः। भरद्वाजः शुभतरं मुनिर्वाक्यमुदाहरत्॥ नैतच्चित्रं नरव्याघ्र शीलवृत्तविदां वरे। यदार्यं त्वयि तिष्ठेत्तु निम्नोत्सृष्टमिवोदकम्॥ अनृणः स महाबाहुः पिता दशरथस्तव। यस्य त्वमीदृशः पुत्रो धर्मात्मा धर्मवत्सलः॥ तमृषिं तु महाप्राज्ञमुक्तवाक्यं कृताञ्जलिः। आमन्त्रयितुमारेभे चरणावुपगृह्य च ॥ ततः प्रदक्षिणं कृत्वा भरद्वाजं पुनः पुनः। भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभिः॥ यानैश्च शकटैश्चैव हयैर्नागैश्च सा चमूः। पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी॥ ततस्ते यमुनां दिव्यां नदीं तीोर्मिमालिनीम्। ददृशुस्तां पुनः सर्वे गङ्गां शिवजलां नदीम्॥ तां रम्यजलसम्पूर्णां संतीर्य सहबान्धवः। शृङ्गवेरपुरं रम्यं प्रविवेश ससैनिकः॥ शृङ्गवेरपुराद् भूय अयोध्यां संददर्श ह। अयोध्यां तु तदा दृष्ट्वा पित्रा भ्रात्रा विवर्जिताम्॥ भरतो दुःखसंतप्तः सारथिं चेदमब्रवीत्। सारथे पश्य विध्वस्ता अयोध्या न प्रकाशते॥ निराकारा निरानन्दा दीना पतिहतस्वना ॥ स्निग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभुः। अयोध्यां भरतः क्षिप्रं प्रविवेश महायशाः॥ विडालोलूकचरितामालीननरवारणाम्। तिमिराभ्याहतां कालीमप्रकाशां निशामिव ॥ राहुशत्रोः प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम्। ग्रहेणाभ्युदितेनैकां रोहिणीमिव पीडिताम्॥ अल्पोष्णक्षुब्धसलिलां धर्मतप्तविहंगमाम्। लीनमीनझषग्राहां कृशां गिरिनदीमिव॥ विधूमामिव हेमाभां शिखामग्नेः समुत्थिताम्। हविरभ्युक्षितां पश्चाच्छिखां विप्रलयं गताम्॥ विध्वस्तकवचां रुग्णगजवाजिरथध्वजाम्। हतप्रवीरामापन्नां चमूमिव महाहवे॥ सफेनां सस्वनां भूत्वा सागरस्य समुत्थिताम्। प्रशान्तमारुतोद्भूतां जलोमिमिव निःस्वनाम्।७।। त्यक्तां यज्ञायुधैः सर्वैरभिरूपैश्च याजकैः। सुत्याकाले सुनिर्वृत्ते वेदिं गतरवामिव॥ गोष्ठमध्ये स्थितामार्तामवरन्तीं नवं तृणम्। गोवृषेण परित्यक्तां गवां पत्नीमिवोत्सुकाम्॥ प्रभाकराद्यैः सुस्निग्धैः प्रज्वलद्भिरिवोत्तमैः। वियुक्तां मणिभिर्जात्यैर्नवां मुक्ताबलीमिव॥ सहसाचरितां स्थानान्महीं पुण्यक्षयाद् गताम्। संहृतद्युतिविस्तारां तारामिव दिवश्च्युताम्॥ पुष्पनद्धां वसन्तान्ते मत्तभ्रमरशालिनीम्। द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव ॥ सम्मूढनिगमां सर्वां संक्षिप्तविपणापणाम्। प्रच्छन्नशशिनक्षत्रां द्यामिवाम्बुधरैर्युताम्॥ क्षीणपानोत्तमैर्भग्नैः शरावैरभिसंवृताम्। हतशौण्डामिव ध्वस्तां पानभूमिमसंस्कृताम्॥ वृक्णभूमितलां निम्नां वृकणपात्रैः समावृताम्। उपयुक्तोदकां भग्नां प्रपां निपतितामिव ॥ विपुलां विततां चैव युक्तपाशां तरस्विनाम्। भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात्॥ सहसा युद्धशोण्डेन हयारोहेण वाहिताम्। निहतां प्रतिसैन्येन वडवामिव पातिताम्॥ भरतस्तु रथस्थः सञ्श्रीमान् दशरथात्मजः। वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत्॥ किं नु खल्वद्य गम्भीरो मूर्च्छितो न निशाम्यते। यथापुरमयोध्यायां गीतवादित्रनिःस्वनः॥ वारुणीमदगन्धश्च माल्यगन्धश्च मूर्च्छितः। चन्दनागुरुगन्धश्च न प्रवाति समन्ततः॥ यानप्रवरघोषश्च सुस्रिग्धहयनिःस्वनः। प्रमत्तगजनादश्च महांश्च रथनिःस्वनः॥ नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते। चन्दनागुरुगन्धांश्च महाश्चि वनस्रजः॥ गते रामे हि तरुणाः संतप्ता नोपभुञ्जते। बहिर्यात्रां न गच्छन्ति चित्रमाल्यधरा नराः॥ नोत्सवाः सम्प्रवर्तन्ते रामशोकार्दिते पुरे। सा हि नूनं मम भ्रात्रा पुरस्यास्य द्युतिर्गता॥ नहि राजत्ययोध्येयं सासारेवार्जुनी क्षपा। कदा नु खलु मे भ्राता महोत्सव इवागतः॥ जनयिष्यत्ययोध्यायां हर्षं ग्रीष्म इवाम्बुदः। तरुणैश्चारुवेषैश्च नरैरुन्नतगामिभिः॥ सम्पतद्भिरयोध्यायां नाभिभान्ति महापथा। इति ब्रुवन् सारथिना दुःखितो भरतस्तदा॥ अयोध्यां सम्प्रविश्यैव विवेश वसतिं पितुः। तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव ॥ तदा तदन्तः पुरमुज्झितप्रभं सुरैरिवोत्कृष्टमभास्करं दिनम्। निरीक्ष्य सर्वत्र विभक्तमात्मवान् मुमोच बाष्पं भरतः सुदुःखितः॥ ततो निक्षिप्य मातृस्ता अयोध्यायां दृढव्रतः। भरतः शोकसंतप्तो गुरूनिदमथाब्रवीत्॥ नन्दिग्रामं गमिष्यामि सर्वानामन्त्रयेऽत्र वः। तत्र दुःखमिदं सर्वं सहिष्ये राघवं विना॥ गतश्चाहो दिवं राजा वनस्थः स गुरुर्मम। रामं प्रतीक्षे राज्याय स हि राजा महायशाः॥ एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः। अब्रुवन् मन्त्रिणः सर्वे वसिष्ठश्च पुरोहितः॥ सुभृशं श्लाघनीयं च यदुक्तं भरत त्वया। वचनं भ्रातृवात्सल्यादनुरूपं तवैव तत्॥ नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे। मार्गमार्यं प्रपन्नस्य नानुमन्येत कः पुमान्॥ मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम्। अब्रवीत् सारथिं वाक्यं रथो मे युज्यतामिति॥ प्रहृष्टवदनः सर्वा मातृः समभिभाष्य च। आरुरोह रथं श्रीमाशत्रुघ्नेन समन्तितः॥ आरुह्य तु रथं क्षिप्रं शत्रुघ्नभरताबुभौ। ययतुः परमप्रीतौ वृतौ मन्त्रिपुरोहितैः॥ अग्रतो गुरवः सर्वे वसिष्ठप्रमुखा द्विजाः। प्रययुः प्राङ्मुखाः सर्वे नन्दिग्रामो यतो भवेत्॥ बलं च तदनाहूतं गजाश्वरथसंकुलम्। प्रययौ भरते याते सर्वे च पुरवासिनः॥ रथस्थः स तु धर्मात्मा भरतो भ्रातृवत्सलः। नन्दिग्रामं ययौ तूर्णं शिरस्यादाय पादुके॥ भरतस्तु ततः क्षिप्रं नन्दिग्रामं प्रविश्य सः। अवतीर्य रथात् तूर्णं गुरुनिदमभाषत ॥ एतद् राज्यं मम भ्रात्रा दत्तं संन्यासमुत्तमम्। योगक्षेमवहे चेमे पादुके हेमभूषिते॥ भरतः शिरसा कृत्वा संन्यासं पादुके ततः। अब्रवीद् दुःखसंतप्तः सर्वं प्रकृतिमण्डलम्॥ छत्रं धारयत क्षिप्रमार्यपादाविमौ मतौ। आभ्यां राज्ये स्थितो धर्मः पादुकाभ्यां गुरोर्मम॥ भ्रात्रा तु मयि संन्यासो निक्षिप्तः सौहृदादयम्। तमिमं पालयिष्यामि राघवागमनं प्रति॥ क्षिप्रं संयोजयित्वा तु राघवस्य पुनः स्वयम्। चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ॥ ततो निक्षिप्तभारोऽहं राघवेण समागतः। निवेद्य गुरवे राज्यं भजिष्ये गुरुवर्तिताम्॥ राघवाय च संन्यासं दत्त्वेमे वरपादुके। राज्यं चेदमयोध्यां च धूतपापो भवाम्यहम्॥ स वल्कलजटाधारी मुनिवेषधरः प्रभुः। नन्दिग्रामेऽवसद्धीरः ससैन्यो भरतस्तदा॥ सवालव्यजनं छत्रं धारयामास स स्वयम्। भरतः शासनं सर्वं पादुकाभ्यां निवेदयन्॥ ततस्तु भरतः श्रीमानभिषिच्यार्यपादुके। तदधीनस्तदा राज्यं कारयामास सर्वदा॥ दुपायनं चोपहृतं महार्हम्। स पादुकाभ्यां प्रथमं निवेद्य चकार पश्चाद्भरतो यथावत्॥ दुपायनं चोपहृतं महार्हम्। स पादुकाभ्यां प्रथमं निवेद्य चकार पश्चाद्भरतो यथावत्॥ प्रतियाते तु भरते वसन् रामस्तदा वने। लक्षयामास सोद्वेगमथौत्सुक्यं तपस्विनाम् ॥ ये तत्र चित्रकूटस्य पुरस्तात् तापसाश्रमे। राममाश्रित्य निरतास्तानलक्षयदुत्सुकान्॥ नयनैर्धकुटीभिश्च रामं निर्दिश्य शङ्किताः। अन्योन्यमुपजल्पन्तः शनैश्चक्रुर्मिथः कथाः॥ तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि शङ्कितः। कृताञ्जलिरुवाचेदमृषि कुलपतिं ततः॥ न कश्चिद् भगवन् किंचित् पूर्ववृत्तमिदं मयि। दृश्यते विकृतं येन विक्रियन्ते तपस्विनः॥ प्रमादाच्चरितं किंचित् कच्चिन्नावरजस्य मे। लक्ष्मणस्यर्षिभिर्दष्टं नानुरूपं महात्मनः॥ कच्चिच्छुश्रूषमाणा वः शुश्रूषणपरा मयि। प्रमदाभ्युचितां वृत्तिं सीता युक्तां न वर्तते।७।। अथर्षिर्जरया वृद्धस्तपसा च जरां गतः। वेपमान इवोवाच रामं भूतदयापरम्॥ कुतः कल्याणसत्त्वायाः कल्याणाभिरते: सदा। चलनं तात वैदेह्यास्तपस्विषु विशेषतः॥ त्वनिमित्तमिदं तावत् तापसान् प्रति वर्तते। रक्षोभ्यस्तेन संविग्नाः कथयन्ति मिथः कथाः॥ रावणावरजः कश्चित् खरो नामेह राक्षसः। उत्पाट्य तापसान् सर्वाञ्जनस्थाननिवासिनः॥ धृष्टश्च जितकाशी च नृशंसः पुरुषादकः। अवलिप्तश्च पापश्च त्वां च तात न मृष्यते ॥ त्वं यदाप्रभृति ह्यस्मिन्नाश्रमे तात वर्तसे। तदाप्रभृति रक्षांसि विप्रकुर्वन्ति तापसान्॥ दर्शयन्ति हि बीभत्सैः क्रूरैर्भीषणकैरपि। नानारूपैर्विरूपैश्च रूपैरसुखदर्शनैः॥ अप्रशस्तैरशुचिभिः : सम्प्रयुज्य च तापसान्। प्रतिघ्नन्त्यपरान् क्षिप्रमनार्याः पुरतः स्थितान्॥ तेषु तेष्वाश्रमस्थानेष्वबुद्धमवलीय च। रमन्ते तापसांस्तत्र नाशयन्तोऽल्पचेतसः॥ अवक्षिपन्ति स्रुग्भाण्डानग्नीन् सिञ्चन्ति वारिणा। कलशांश्च प्रमर्दन्ति हवने समुपस्थिते॥ तैर्दुरात्मभिराविष्टानाश्रमान् प्रजिहासवः। गमनायान्यदेशस्य चोदयन्त्यूषयोऽद्य माम्॥ तत् पुरा राम शारीरीमुपहिंसां तपस्विषु। दर्शयन्ति हि दुष्टास्ते त्यक्ष्याम इममाश्रमम्॥ बहुमूलफलं चित्रमविदूरादितो वनम्। अश्वस्याश्रममेवाहं श्रयिष्ये सगणः पुनः॥ खरस्त्वय्यपि चायुक्तं पुरा राम प्रवर्तते। सहास्माभिरितो गच्छ यदि बुद्धिः प्रवर्तते॥ सकलत्रस्य संदेहो नित्यं युक्तस्य राघव। समर्थस्यापि सहितो वासो दुःखमिहाद्य ते॥ इत्युक्तवन्तं रामस्तं राजपुत्रस्तपस्विनम्। न शशाकोत्तरैर्वाक्यैरवबद्धं समुत्सुकम्॥ अभिनन्द्य समापृच्छय समाधाय च राघवम्। स जगामाश्रमं त्यक्त्वा कुलैः कुलपतिः सह ॥ रामः संसाध्य ऋषिगणमनुगमनाद् देशात् तस्मात् कुलपतिमभिवाद्य ऋषिम्। सम्यक्प्रीतैस्तैरनुमत उपदिष्टार्थः पुण्यं वासाय स्वनिलयमुपसम्पेदे॥ आश्रममृषिविरहितं प्रभुः क्षणमपि न जहौ स राघवः। स्तापसाश्चार्षचरिते धृतगुणाः॥ राघवस्त्वपयातेषु सर्वेष्वनुविचिन्तयन्। न तत्रारोचयद् वासं कारणैर्बहुभिस्तदा ॥ इह मे भरतो दृष्टो मातरश्च सनागराः। सा च मे स्मृतिरन्वेति तान् नित्यमनुशोचतः॥ स्कन्धावारनिवेशेन तेन तस्य महात्मनः। हयहस्तिकरीषैश्च उपमर्दः कृतो भृशम्॥ तस्मादन्यत्र गच्छाम इति संचिन्त्य राघवः। प्रातिष्ठत स वैदेह्या लक्ष्मणेन च संगतः॥ सोऽत्रेराश्रममासाद्य तं ववन्दे महायशाः। तं चापि भगवानत्रिः पुत्रवत् प्रत्यपद्यत॥ स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम्। सौमित्रिं च महाभागं सीतां च समसान्त्वयत्॥ पत्नीं च तमनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम्। सान्त्वयामास धर्मज्ञः सर्वभूतहिते रतः।७।। अनसूयां महाभागां तापसी धर्मचारिणीम्। प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तमः॥ रामाय चाचचक्षे मां तापसी धर्मचारिणीम्। रात्रिः दश वर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम्॥ यया मूलफले सृष्टे जाह्नवी च प्रवर्तिता। उग्रेण तपसा युक्ता नियमैश्चाप्यलंकृता॥ दश वर्षसहस्राणि यया तप्तं महत् तपः। अनसूयाव्रतैस्तात प्रत्यूहाश्च निबर्हिताः॥ देवकार्यनिमित्तं च यया संत्वरमाणया। दशरात्रं कृता सेयं मातेव तेऽनघ ॥ तामिमां सर्वभूतानां नमस्कार्यां तपस्विनीम्। अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा॥ एवं ब्रुवाणं तमृषि तथेत्युक्त्वा स राघवः। सीतामालोक्य धर्मज्ञामिदं वचनमब्रवीत्॥ राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम्। श्रेयोऽर्थमात्मनः शीघ्रमभिगच्छ तपस्विनीम्॥ अनसूयेति या लोके कर्मभिः ख्यातिमागता। तां शीघ्रमभिगच्छ त्वमभिगम्यां तपस्विनीम्॥ सीता त्वेतद् वचः श्रुत्वा राघवस्य यशस्विनी। तामत्रिपत्नी धर्मज्ञामभिचक्राम मैथिली।॥ शिथिलां वलितां वृद्धां जरापाण्डुरमूर्धजाम्। सततं वेपमानाङ्गी प्रवाते कदलीमिव ॥ तां तु सीता महाभागामनसूयां पतिव्रताम्। अभ्यवादयदव्यग्रा स्वं नाम समुदाहरत्॥ अभिवाद्य च वैदेही तापसी तां दमान्विताम्। बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम्॥ ततः सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम्। सान्त्वयन्त्यब्रवीद् वृद्धा दिष्ट्या धर्ममवेक्षसे॥ त्यक्त्वा ज्ञातिजनं सीते मानवृद्धिं च मानिनि। अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि॥ नगरस्थो वसन्थो वा शुभो वा यदि वाशुभः। यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः।।२३। दुःशीलः कामवृत्तो वा धनैर्वा परिवर्जितः। स्त्रीणामार्यस्वभावानां परमं दैवतं पतिः॥ नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम्। सर्वत्र योग्यं वैदेहि तपःकृतमिवाव्ययम्॥ न त्वेवमनुगच्छन्ति गुणदोषमसत्स्त्रियः। कामवक्तव्यहृदया भर्तृनाथाश्चरन्ति याः॥ प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं च मैथिलि। अकार्यवशमापन्नाः स्त्रियो याः खलु तद्विधाः॥ त्वद्विधास्तु गुणैर्युक्ता दृष्टलोकपरावराः। स्त्रियः स्वर्गे चरिष्यन्ति यथा पुण्यकृतस्तथा॥ तदेवमेतं त्वमनुव्रता सती पतिप्रधाना समयानुवर्तिनी। भव स्वभर्तुः सहधर्मचारिणी यशश्च धर्म च ततः समाप्स्यसि।२९।। सा त्वेवमुक्ता वेदेही त्वनसूयानसूयया। प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे॥ नैतदाश्चर्यमार्यायां यन्मां त्वमनुभाषसे। विदितं तु ममाप्येतद् यथा नार्याः पतिर्गुरुः॥ यद्यप्येष भवेद् भर्ता अनार्यो वृत्तिवर्जितः। अद्वैधमत्र वर्तव्यं तथाप्येष मया भवेत्॥ किं पुनर्यो गुणश्लाघ्यः सानुक्रोशो जितेन्द्रियः। स्थिरानुरागो धर्मात्मा मातृवत्पितृवत्प्रियः॥ यां वृत्तिं वर्तते रामः कौसल्यायां महाबलः। तामेव नृपनारीणामन्यासामपि वर्तते॥ सकृद् दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सलः। मातृवद् वर्तते वीरो मानमुत्सृज्य धर्मवित्॥ आगच्छन्त्याश्च विजनं वनमेवं भयावहम्। समाहितं हि मे श्वश्वा हृदये यत् स्थिरं मम॥ पाणिप्रदानकाले च यत् पुरा त्वग्निसंनिधौ। अनुशिष्टं जनन्या मे वाक्यं तदपि मे धृतम्॥ न विस्मृतं तु मे सर्वं वाक्यैः स्वैर्धर्मचारिणि । पतिशुश्रूषणानार्यास्तपो नान्यद् विधीयते॥ सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते। तथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम्॥ वरिष्ठा सर्वनारीणामेषा च दिवि देवता। रोहिणी न विना चन्द्रं मुहूर्तमपि दृश्यते॥ एवंविधाश्च प्रवराः स्त्रियो भर्तृदृढव्रताः। देवलोके महीयन्ते पुण्येन स्वेन कर्मणा॥ ततोऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः। शिरसाऽघ्राय चोवाच मैथिली हर्षयन्त्युत॥ नियमैर्विविधैराप्तं तपो हि महदस्ति मे। तत् संश्रित्य बलं सीते छन्दये त्वां शुचिव्रते॥ उपपन्नं च युक्तं च वचनं तव मैथिलि। प्रीता चास्म्युचितां सीते करवाणि प्रियं च किम्॥ तस्यास्तद् वचनं श्रुत्वा विस्मिता मन्दविस्मया। कृतमित्यब्रवीत् सीता तपोबलसमन्विताम्॥ सा त्वेवमुक्ता धर्मज्ञा तया प्रीततराऽभवत्। सफलं च प्रहर्षं ते हन्त सीते करोम्यहम्॥ इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च। अङ्गरागं च वैदेहि महार्हमनुलेपनम् ॥ मया दत्तमिदं सीते तव गात्राणि शोभयेत्। अनुरूपमसंक्लिष्टं नित्यमेव भविष्यति॥ अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे। शोभयिष्यसि भर्तारं यथा श्रीविष्णुमव्ययम्॥ सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा। मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम्॥ प्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी। श्लिष्टाञ्जलिपुटा धीरा समुपास्त तपोधनाम्॥ तथा सीतामुपासीनामनसूया दृढव्रता। वचनं प्रष्टुमारेभे कथां काञ्चिदनुप्रियाम्॥ स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना। राघवेणेति मे सीते कथा श्रुतिमुपागता॥ तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि। यथाभूतं च कात्स्येन तन्मे त्वं वक्तुमर्हसि॥ एवमुक्ता तु सा सीता तापसी धर्मचारिणीम्। श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम्॥ मिथिलाधिपतिर्वीरो जनको नाम धर्मवित्। क्षत्रकर्मण्यभिरतो न्यायतः शास्ति मेदिनीम्॥ तस्य लाङ्गलहस्तस्य कृषतः क्षेत्रमण्डलम्। अहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता॥ स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परः। पांसुगुण्ठितसर्वाङ्गी विस्मितो जनकोऽभवत्॥ अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम्। ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातितः॥ अन्तरिक्षे च वागुक्ता प्रतिमामानुषि किल। एवमेतन्नरपते धर्मेण तनया तव॥ ततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः। अवाप्तो विपुलामृद्धिं मामवाप्य नराधिपः॥ दत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणे। तया सम्भाविता चास्मि स्निग्धया मातृसौहृदात्॥ पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता। चिन्तामभ्यगमद् दीनो वित्तनाशादिवाधनः॥ सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात्। प्रधर्षणमवाप्नोति शक्रेणापि समो भुवि॥ तां धर्षणामदूरस्थां संदृश्यात्मनि पार्थिवः। चिन्तार्णवगतः पारं नाससादाप्लवो यथा॥ अयोनिजां हि मां ज्ञात्वा नाध्यगच्छत् स चिन्तयन्। सदृशं चाभिरूपं च महीपालः पति मम ॥ तस्य बुद्धिरियं जाता चिन्तयानस्य संततम्। स्वयंवरं तनूजायाः करिष्यामीति धर्मतः॥ महायज्ञे तदा तस्य वरुणेन महात्मना। दत्तं धनुर्वरं प्रीत्या तूणी चाक्षय्यसायकौ॥ असंचाल्यं मनुष्यैश्च यत्नेनापि च गौरवात्। तन्न शक्ता नमयितं स्वप्नेष्वपि नराधिपाः॥ तद्धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना। समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान्॥ इदं च धनुरुद्यम्य सज्यं यः कुरुते नरः। तस्य मे दुहिता भार्या भविष्यति न संशयः।॥ तच्च दृष्ट्वा धनुःश्रेष्ठं गौरवाद् गिरिसंनिभम्। अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने॥ सुदीर्घस्य तु कालस्य राधवोऽयं महाद्युतिः। विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः॥ लक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः। विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजितः॥ प्रोवाच पितरं तत्र राघवौ रामलक्ष्मणौ। सुतौ दशरथस्येमौ धनुर्दर्शनकाक्षिणौ॥ इत्युक्तस्तेन विप्रेण तद् धनुः समुपानयत्। तद् धनुर्दर्शयामास राजपुत्राय दैविकम्॥ निमेषान्तरमात्रेण तदानम्य महाबलः। ज्यां समारोप्य झटिति पूरयामास वीर्यवान्॥ तेनापूरयता वेगान्मध्ये भग्न द्विधा धनुः। तस्य शब्दोऽभवद् भीमः पतितस्याशनेर्यथा॥ ततोऽहं तत्र रामाय पित्रा सत्याभिसंधिना। उद्यता दातुमुद्यम्य जलभाजनमुत्तमम्॥ दीयमानां न तु तदा प्रतिजग्राह राघवः। अविज्ञाय पितुश्छन्दमयोध्याधिपतेः प्रभोः॥ ततः श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम्। मम पित्रा त्वहं दत्ता रामाय विदितात्मने॥ मम चैवानुजा साध्वी ऊर्मिला शुभदर्शना। भार्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम्॥ एवं दत्तास्मि रामाय तथा तस्मिन् स्वयंवरे। अनुरक्तास्मि धर्मेण पतिं वीर्यवतां वरम्॥ मम चैवानुजा साध्वी ऊर्मिला शुभदर्शना। भार्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम्॥ एवं दत्तास्मि रामाय तथा तस्मिन् स्वयंवरे। अनुरक्तास्मि धर्मेण पतिं वीर्यवतां वरम्॥ अनसूया तु धर्मज्ञा श्रुत्वा तां महती कथाम्। पर्यष्वजत् बाहुभ्यां शिरस्याघ्राय मैथिलीम्॥ व्यक्ताक्षरपदं चित्रं भाषितुं मधुरं त्वया। यथा स्वयंवरं वृत्तं तत् सर्वं च श्रुतं मया ॥ रमेयं कथया ते तु दृढं मधुरभाषिणि । रविरस्तं गतः श्रीमानुपोह्य रजनी शुभाम्॥ दिवसं परिकीर्णानामाहारार्थं पतत्त्रिणाम्। संध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनिः॥ एते चाप्यभिषेकाः मुनयः कलशोद्यताः। सहिता उपवर्तन्ते सलिलाप्लुतवल्कलाः॥ अग्निहेत्रे च ऋषिणा हुते च विधिपूर्वकम्। कपोताङ्गारुणो धूमो दृश्यते पवनोद्धतः॥ अल्पपर्णा हि तरवो घनीभूताः समन्ततः। विप्रकृष्टेन्द्रिये देशे न प्रकाशन्ति वै दिशः॥ रजनीचरसत्त्वानि प्रचरन्ति समन्ततः। तपोवनमृगा ह्येते वेदितीर्थेषु शेरते॥ सम्प्रवृत्ता निशा सीते नक्षत्रसमलंकृता। ज्योत्स्नाप्रावरणश्चन्द्रो दृश्यतेऽभ्युदितोऽम्बरे॥ गम्यतामनुजानामि रामस्यानुचरी भव। कथयन्त्या हि मधुरं त्वयाहमपि तोषिता ॥ अलंकुरु च तावत् त्वं प्रत्यक्षं मम मैथिलि। प्रीतिं जनय मे वत्से दिव्यालंकारशोभिनी॥ सा तदा समलंकृत्य सीता सुरसुतोपमा। प्रणम्य शिरसा पादौ रामं त्वभिमुखी ययौ॥ तथा तु भूषितां सीतां ददर्श वदतां वरः। राघवः प्रीतिदानेन तपस्विन्या जहर्ष च॥ न्यवेदयत् ततः सर्वं सीता रामाय मैथिली। प्रीतिदानं तपस्विन्या वसनाभरणस्रजाम्॥ प्रहृष्टस्त्वभवद् रामो लक्ष्मणश्च महारथः। मैथिल्याः सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम्॥ ततः स शर्वरी प्रीतः पुण्यां शशिनिभाननाम्। अर्चितस्तापसैः सर्वैरुवास रघुनन्दनः॥ तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान्। आपृच्छेतां नरव्याघ्रौ तापसान् वनगोचरान्॥ तावूचुस्ते वनचरास्तापसा धर्मचारिणः। वनस्य तस्य संचारं राक्षसैः समभिप्लुतम् ॥ रक्षांसि पुरुषादानि नानारूपाणि राघव। वसन्त्यस्मिन् महारण्ये व्यालाश्च रुधिराशनाः॥ उच्छिष्टं वा प्रमत्तं वा तापसं ब्रह्मचारिणम्। अदन्त्यस्मिन् महारण्ये तान् निवारय राघव ॥ एष पन्था महर्षीणां फलान्याहरतां वने। अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम्।।२१ इतीरितः प्राञ्जलिभिस्तपस्विभिर्द्विजैः कृतस्वस्त्ययनः यनः परंतपः। वनं सभार्यः प्रविवेश राघवः सलक्ष्मणः सूर्य इवाभ्रमण्डलम्॥ कृतातिथ्योऽथ रामस्तु सूर्यस्योदयनं प्रति। आमन्त्र्य स मुनीन् सर्वान् वनमेवान्वगाहत॥ नानामृगगणाकीर्णमृक्षशार्दूलसेवितम्। ध्वस्तवृक्षलतागुल्मं दुर्दर्शसलिलाशयम्॥ निष्कूजमानशकुनि झिल्लिकागणनादितम्। लक्ष्मणानुचरो रामो वनमध्यं ददर्श ह॥ सीतया सह काकुत्स्थस्तस्मिन् घोरमृगायुते। ददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम् ॥ गभीराक्षं महावक्त्रं विकटं विकटोदरम्। बीभत्सं विषमं दीर्घ विकृतं घोरदर्शनम्॥ वसानं चर्म वैयाघ्रं वसाट्टै रुधिरोक्षितम्। त्रासनं सर्वभूतानां व्यादितास्यमिदान्तकम्॥ त्रीन् सिंहाश्चतुरो व्याघ्रान् द्वौ वृकौ पृषतान् दश। सविषाणं वसादिग्धं गजस्य च शिरो महत्॥ अवसज्यायते शूले विनदन्तं महास्वनम्। स राम लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम्॥ अभ्यधावत् सुसंक्रुद्धः प्रजाः काल इवान्तकः। स कृत्वा भैरवं नादं चालयन्निव मेदिनीम्॥ अङ्केनादाय वैदेहीमपक्रम्य तदाब्रवीत्। युवां जटाचीरधरौ सभायौं क्षीणजीवितौ॥ प्रविष्टौ दण्डकारण्यं शरचापासिपाणिनौ। कथं तापसयोर्वां च वासः प्रमदया सह॥ अधर्मचारिणौ पापौ कौ युवां मुनिदूषको। अहं वनमिदं दुर्गं विराधो नाम राक्षसः॥ चरामि सायुधो नित्यमृषिमांसानि भक्षयन्। इयं नारी वरारोहा मम भार्या भविष्यति॥ युवयोः पापयोश्चाहं पास्यामि रुधिरं मृधे। तस्यैवं ब्रुवतो दुष्टं विराधस्य दुरात्मनः॥ श्रुत्वा सगर्वितं वाक्यं सम्भ्रान्ता जनकात्मजा। सीता प्रवेपितोद्वेगात् प्रवाते कदली यथा॥ तां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम्। अब्रवील्लक्ष्मणं वाक्यं मुखेन परिशुष्यता ॥ पश्य सौम्य नरेन्द्रस्य जनकस्यात्मसम्भवाम्। मम भार्यां शुभाचारां विराधाङ्के प्रवेशिताम् ॥ अत्यन्तसुखसंवृद्धां राजपुत्रीं यशस्विनीम्। यदभिप्रेतमस्मासु प्रियं वरवृतं च यत्॥ कैकेयास्तु सुसंवृत्तं क्षिप्रमद्यैव लक्ष्मण। या न तुष्यति राज्येन पुत्रार्थं दीर्घदर्शिनी॥ ययाहं सर्वभूतानां प्रियः प्रस्थापितो वनम्। अद्येदानीं सकामा सा या माता मध्यमा मम॥ परस्पर्शात् तु वैदेह्या न दुःखतरमस्ति मे। पितुर्विनाशात् सौमित्रे स्वराज्यहरणात् तथा॥ इति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुतः। अब्रवील्लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन्॥ अनाथ इव भूतानां नाथस्त्वं वासवोपमः। मया प्रेष्येण काकुत्स्थ किमर्थं परितप्यसे ॥ शरेण निहतस्याद्य मया क्रुद्धेन रक्षसः। विराधस्य गतासोर्हि मही पास्यति शोणितम्॥ राज्यकामो मम क्रोधो भरते यो बभूव ह। तं विराधे विमोक्ष्यामि वज्री व्रजमिवाचले॥ मम भुजबलवेगवेगितः पततु शरोऽस्य महान् महोरसि। व्यपनयतु तनोश्च जीवितं पततु ततश्च महीं विघूर्णितः।। अथोवाच पुनर्वाक्यं विराधः पूरयन् वनम्। पृच्छतो मम हि ब्रूतं कौ युवां क्व गमिष्यथः॥ तमुवाच ततो रामो राक्षसं ज्वलिताननम्। पृच्छन्तं सुमहातेजा इक्ष्वाकुकुलमात्मनः॥ क्षत्रियौ वृत्तसम्पन्नौ विद्धि नौ वनगोचरौ। त्वां तु वेदितुमिच्छावः कस्त्वं चरसि दण्डकान्॥ तमुवाच विराधस्तु रामं सत्यपराक्रमम्। हन्त वक्ष्यामि ते राजन् निबोध मम राघव॥ पुत्रः किल जवस्याहं माता मम शतहदा। विराध इति मामाहुः पृथिव्यां सर्वराक्षसाः॥ तपसा चाभिसंप्राप्ता ब्रह्मणो हि प्रसादजा। शस्त्रेणावध्यता लोकेऽच्छेद्याभेद्यत्वमेव च ॥ उत्सृज्य प्रमदामेनामनपेक्षौ यथागतम्। त्वरमाणौ पलायेथां न वां जीवितमाददे॥ तं रामः प्रत्युवाचेदं कोपसंरक्तलोचनः। राक्षसं विकृताकारं विराधं पापचेतसम् क्षुद्र धिक् त्वां तु हीनार्थं मृत्युमन्वेषसे ध्रुवम्। रणे प्राप्स्यसि संतिष्ठ न मे जीवन् विमोक्ष्यसे॥ ततः सज्यं धनुः कृत्वा रामः सुनिशिताशरान्। सुशीघ्रमभिसंधाय राक्षसं निजघान ह॥ धनुषा ज्यागुणवता सप्त बाणान् मुमोच ह। रुक्मपुङ्खान् महावेगान् सुपर्णानिलतुल्यगान्॥ ते शरीरं विराधस्य भित्त्वा बर्हिणवाससः। निपेतुः शोणितादिग्धा धरण्यां पावकोपमाः॥ स विद्धो न्यस्य वैदेहीं शूलमुद्यम्य राक्षसः। अभ्यद्रवत् सुसंक्रुद्धस्तदा रामं सलक्ष्मणम्॥ स विनद्य महानादं शूलं शक्रध्वजोपमम्। प्रगृह्याशोभत तदा व्यात्तानन इवान्तकः॥ अथ तौ भ्रातरौ दीप्तं शरवर्षं ववर्षतुः। विराधे राक्षसे तस्मिन् कालान्तकयमोपमे॥ स प्रहस्य महारौद्रः स्थित्वाजृम्भत राक्षसः। जृम्भमाणस्य ते वाणाः कायान्निष्पेतुराशुगाः॥ स्पर्शात्तु वरदानेन प्राणान् संरोध्य राक्षसः। विराधः शूलमुद्यम्य राघवावभ्यधावत॥ तच्छूलं वज्रसंकाशं गगने ज्वलनोपमम्। द्वाभ्यां शराभ्यां चिच्छेद रामः शस्त्रभृतां वरः॥ तद् रामविशिखैश्छिन्नं शूलं तस्यापतद् भुवि। पपाताशनिना छिन्नं मेरोरिव शिलातलम्॥ तौ खङ्गौ क्षिप्रमुद्यम्य कृष्णसर्पाविवोद्यतौ। तूर्णमापेततुस्तस्य तदा प्रहरतां बलात्॥ स वध्यमानः सुभृशं भुजाभ्यां परिगृह्य तौ। अप्रकम्प्यौ नरव्याघ्रौ रौद्रः प्रस्थातुमैच्छत ॥ तस्याभिप्रायमाज्ञाय रामो लक्ष्मणब्रवीत्। वहत्वयमलं तावत् पथानेन तु राक्षसः॥ यथा चेच्छति सौमित्रे तथा वहतु राक्षसः। अयमेव हि नः पन्था येन याति निशाचरः॥ स तु स्वबलवीर्येण समुत्क्षिप्य निशाचरः। बालाविव स्कन्धगतौ चकारातिर्बलोद्धतः॥ तावारोप्य ततः स्कन्धं राघवौ रजनीचरः। विराधो विनदन् घोरं जगामाभिमुखो वनम्॥ वनं महामेघनिभं प्रविष्टो द्रुमैर्महाद्भिर्विविधैरुपेतम्। नानाविधैः पक्षिकुलैर्विचित्रं शिवायुतं व्यालमृगैर्विकीर्णम्॥ ह्रियमाणौ तु काकुत्स्थौ दृष्ट्वा सीता रघूत्तमौ । उच्चैः स्वरेण चुक्रोश प्रगृह्य सुमहाभुजौ॥ एष दाशरथी रामः सत्यवाञ्छीलवाञ्शुचिः। रक्षसा रौद्ररूपेण ह्रियते सहलक्ष्मणः॥ मामृक्षा भक्षयिष्यन्ति सार्दुलद्वीपिनस्तथा। मां हरोत्सृज काकुत्स्थौ नमस्ते राक्षसोत्तम॥ तस्यास्तद् वचनं श्रुत्वा वैदेह्या रामलक्ष्मणौ। वेगं प्रचक्रतुर्वीरौ वधे तस्य दुरात्मनः॥ तस्य रौद्रस्य सौमित्रिः सव्यं बाहुं बभञ्ज ह। रामस्तु दक्षिणं बाहुं तरसा तस्य रक्षसः॥ स भग्नबाहुः संविग्नः पपाताशु विमूछितः। धरण्यां मेघसंकाशो वज्रभिन्न इवाचलः॥ मुष्टिभिर्वाहुभिः पद्भिः सूदयन्तौ तु राक्षसम्। उद्यम्योद्यम्य चाप्येनं स्थण्डिले निष्पिपेषतुः॥ स विद्धो बहुभिर्बाणैः खङ्गाभ्यां च परिक्षतः। निष्पिष्टो बहुधा भूमौ न ममार स राक्षसः॥ तं प्रेक्ष्य रामः सुभृशमवध्यम च लोपमम्। भयेष्वभयदः श्रीमानिदं वचनमब्रवीत्॥ तपसा पुरुषव्याघ्र राक्षसोऽयं न शक्यते। शस्त्रेण युधि निर्जेतुं राक्षसं निखनावहे॥ कुञ्जरस्येव रौद्रस्य राक्षसस्यास्य लक्ष्मण। वनेऽस्मिन् सुमहच्छ्वभ्रं खन्यतां रौद्रवर्चसः॥ इत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति । तस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान्॥ तच्छ्रुत्वा राघवेणोक्तं राक्षस: प्रश्रितं वचः। इदं प्रोवाच काकुत्स्थं विराधः पुरुषर्षभम्॥ हतोऽहं पुरुषव्याघ्र शक्रतुल्यबलेन वै। मया तु पूर्वं त्वं मोहान ज्ञातः पुरुषर्षभ॥ कौसल्या सुप्रजास्तात रामस्त्वं विदितो मया। वैदेही च महाभागा लक्ष्मणश्च महायसाः॥ अभिशापादहं घोरां प्रविष्टो राक्षसी तनुम्। तुम्बुरुर्नाम गन्धर्वः शप्तो वैश्रवणेन हि ॥ प्रसाद्यमानश्च मया सोऽब्रवीन्मां महायशाः। यदा दाशरथी रामस्त्वां वधिष्यति संयुगे॥ तदा प्रकृतिमापन्नो भवान् स्वर्गं गमिष्यति। अनुपस्थीयमानो मां स क्रुद्धो व्याजहार ह॥ इति वैश्रवणो राजा रम्भासक्तमुवाच ह। तव प्रसादान्मुक्तोऽहमभिशापात् सुदारुणात्॥ भुवनं स्वं गमिष्यामि स्वस्ति वोऽस्तु परंतप। इतो वसति धर्मात्मा सरभङ्गः प्रतापवान्॥ अध्यर्धयोजने तात महर्षिः सूर्यसंनिभः। तं क्षिप्रमभिगच्छ त्वं स ते श्रेयोऽभिधास्यति ॥ अवटे चापि मां राम निक्षिप्य कुशली व्रज। रक्षसां गतसत्वानामेष धर्मः सनातनः॥ अवटे ये निधीयन्ते तेषां लोकाः सनातनाः। एवमुक्त्वा तु काकुत्स्थं विराधः शरपीडितः॥ बभूव स्वर्गसम्प्राप्तो न्यस्तदेहो महाबलः। तच्छ्रुत्वा राघवो वाक्यं लक्ष्मणं व्यादिदेश ह॥ कुञ्जरस्येव रौद्रस्य राक्षसस्यास्य लक्ष्मण। वनेऽस्मिन्सुमहाश्वभ्रः खन्यतां रौद्रकर्मणः॥ इत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति। तस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान् ॥ ततः खनित्रमादाय लक्ष्मणः श्वभ्रमुत्तमम्। अखनत् पार्श्वतस्तस्य विराधस्य महात्मनः॥ तं मुक्तकण्ठमुत्क्षिप्य शङ्कुकर्णं महास्वनम्। विराधं प्राक्षिपच्छ्वभ्रे नदन्तं भैरवस्वनम्॥ तमाहवे दारुणमाशुविक्रमौ स्थिरावुभौ संयति रामलक्ष्मणौ। मुदान्वितौ चिक्षिपतुर्भयावह नदन्तमुत्क्षिप्य बलेन राक्षसम्॥ अवध्यतां प्रेक्ष्य महासुरस्य तौ शितेन शस्त्रेण तदा नरर्षभौ। समर्थ्य चात्यर्थविशारदावुभौ बिले विराधस्य वधं प्रचक्रतुः॥ स्वयं विराधेन हि मृत्युमात्मनः प्रसह्य रामेण यथार्थमीप्सितः। निवेदितः काननचारिणा स्वयं न मे वधः शस्त्रकृतो भवेदिति ॥ तदेव रामेण निशम्य भाषितं कृता मतिस्तस्य बिलप्रवेशने। बिलं च तेनातिबलेन रक्षसा प्रवेश्यमानेन वनं विनादितम्॥ प्रहृष्टरूपाविव रामलक्ष्मणौ विराधमुर्त्यां प्रदरे निपात्य तम्। ननन्दतुर्वीतभयौ महावने शिलाभिरन्तर्दधतुश्च राक्षसम्॥ ततस्तु तौ काञ्चनचित्रकार्मुको निहत्य रक्षः परिगृह्य मैथिलीम्। विजह्रतुस्तौ मुदितौ महावने दिवि स्थितौ चन्द्रदिवाकराविव॥ हत्वा तु तं भीमबलं विराधं राक्षसं वने। ततः सीतां परिष्वज्य समाश्वास्य च वीर्यवान्॥ अब्रवीद् भ्रातरं रामो लक्ष्मणं दीप्ततेजसम्। कष्टं वनमिदं दुर्गं न च स्मो वनगोचराः॥ अभिगच्छामहे शीघ्रं शरभङ्गं तपोधनम्। आश्रमं शरभङ्गस्य राघवोऽभिजगाम ह॥ तस्य देवप्रभावस्य तपसा भावितात्मनः। समीपे शरभङ्गस्य ददर्श महदद्भुतम्॥ विभ्राजमानं वपुषा सूर्यवैश्वानरप्रभम्। रथप्रवरमारूढमाकाशे विबुधानुगम्॥ असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम्। सम्प्रभाभरणं देवं विरजोऽम्बरधारिणम्॥ तद्विधैरेव बहुभिः पूज्यमानं महात्मभिः। हरितैर्वाजिभिर्युक्तमन्तरिक्षगतं रथम्॥ ददर्शादूरतस्तस्य तरुणादित्यसंनिभम्। पाण्डुराभ्रघनप्रख्यं चन्द्रमण्डलसंनिभम्॥ अपश्यद् विमलं छत्रं चित्रमाल्योपशोभितम्। चामरव्यजने चाग्ये रुक्मदण्डे महाधने॥ गृहीते वरनारीभ्यां धूयमाने च मूर्धनि। गन्धर्वामरसिद्धाश्च बहवः परमर्षयः॥ अन्तरिक्षगतं देवं गीर्भिरग्र्याभिरैडयन्। सह सम्भाषमाणे तु शरभङ्गेन वासवे॥ दृष्ट्वा शतक्रतुं तत्र रामो लक्ष्मणमब्रवीत्। रामोऽथ रथमुद्दिश्य भ्रातुर्दर्शयताद्भुतम्॥ अर्चिष्मन्तं श्रिया जुष्टमद्भुतं पश्य लक्ष्मण । प्रतपन्तमिवादित्यमन्तरिक्षगतं रथम्॥ ये हयाः पुरुहूतस्य पुरा शक्रस्य नः श्रुताः। अन्तरिक्षगता दिव्यास्त इमे हरयो ध्रुवम्॥ इमे च पुरुषव्याघ्र ये तिष्ठन्त्यभितो दिशम्। शतं शतं कुण्डलिनो युवानः खङ्गपाणयः॥ विस्तीर्णविपुलोरस्काः परिघायतबाहवः।। शोणांशुवसनाः सर्वे व्याघ्रा इव दुरासदाः॥ उरोदेशेषु सर्वेषां हारा ज्वलनसंनिभाः। रूपं विभ्रति सौमित्रे पञ्चविंशतिवार्षिकम्॥ एतद्धि किल देवानां वयो भवति नित्यदा। यथेमे पुरुषव्याघ्रा दृश्यन्ते प्रियदर्शनाः॥ इहैव सह वैदेह्या मुहूर्तं तिष्ठ लक्ष्मण। यावज्जानाम्यहं व्यक्तं क्व एष द्युतिमान् रथे॥ तमेवमुक्त्वा सौमित्रिमिहैव स्थीयतामिति। अभिचक्राम काकुत्स्थः शरभङ्गाश्रमं प्रति॥ ततः समभिगच्छन्तं प्रेक्ष्य रामं शचीपतिः। शरभङ्गमनुज्ञाप्य विबुधानिदमब्रवीत्॥ इहोपयात्यसौ रामो यावन्मां नाभिभाषते। निष्ठां नयत तावत् तु ततो माद्रष्टुमर्हति॥ जितवन्तं कृतार्थं हि तदाहमचिरादिमम्। कर्म ह्यनेन कर्तव्यं महदन्यैः सुदुष्करम्॥ अथ वज्री तमामन्त्र्य मानयित्वा च तापसम्। रथेन हययुक्तेन ययौ दिवमरिंदमः॥ प्रयाते तु सहस्राक्षे राघवः सपरिच्छदः। अग्निहोत्रमुपासीनं शरभङ्गमुपागमत्॥ तस्य पादौ च संगृह्य रामः सीता च लक्ष्मणः। निषेदुस्तदनुज्ञाता लब्धवासा निमन्त्रिताः॥ ततः शक्रोपयानं तु पर्यपृच्छत राघवः। शरभङ्गश्च तत् सर्वं राघवाय न्यवेदयत्॥ मामेष वरदो राम ब्रह्मलोकं निनीषति। जितमुग्रेण तपसा दुष्प्रापमकृतात्मभिः॥ अहं ज्ञात्वा नरव्याघ्र वर्तमानमदूरतः। ब्रह्मलोकं न गच्छामि त्वामदृष्ट्वा प्रियातिथिम्॥ त्वयाहं पुरुषव्याघ्र धार्मिकेण महात्मना। समागम्य गमिष्यामि त्रिदिवं चावरं परम्॥ अक्षया नरशार्दूल जिता लोका मया शुभाः। ब्राह्मयाश्च नाकपृष्ठ्याश्च प्रतिगृह्णीष्व मामकान्॥ एवमुक्तो नरव्याघ्रः सर्वशास्त्रविशारदः। ऋषिणा शरभङ्गेन राघवो वाक्यमब्रवीत् ॥ अहमेवाहरिष्यामि सर्वांल्लोकान् महामुने। आवासं त्वहमिच्छामि प्रदिष्टमिह कानने॥ राघवेणैवमुक्तस्तु शक्रतुल्यबलेन वै। शरभङ्गो महाप्राज्ञः पुनरेवाब्रवीद् वचः॥ इह राम महातेजाः : सुतीक्ष्णो नाम धार्मिकः। वसत्यरण्ये नियतः स ते श्रेयो विधास्यति॥ सुतीक्ष्णमभिगच्छ त्वं शुचौ देशे तपस्विनम्। रमणीये वनोद्देशे स ते वासं विधाास्यति॥ इमां मन्दाकिनी राम प्रतिस्रोतामनुव्रज । नदी पुषपोडुपवहां ततस्तत्र गमिष्यसि ॥ एष पन्था नरव्याघ्र मुहर्तं पश्य तात माम्। यावज्जहामि गात्राणि जीर्णां त्वचमिवोरगः॥ ततोऽग्नि स समाधाय हुत्वा चाज्येन मन्त्रवत्। शरभङ्गो महातेजाः प्रविवेश हुताशनम्॥ तस्य रोमाणि केशांश्च तदा वह्निर्महात्मनः। जीर्णां त्वचं तदस्थीनि यच्च मांसं च शोणितम्॥ स च पावकसंकाशः कुमारः समपद्यत। उत्थायाग्निचयात् तस्माच्छरभङ्गो व्यरोचत ॥ स लोकानाहिताग्नीनामृषीणां च महात्मनाम्। देवानां च व्यतिक्रम्य ब्रह्मलोकं व्यरोहत॥ स पुण्यकर्मा भुवने द्विजर्षभः पितामहं सानुचरं ददर्श ह। पितामहश्चापि समीक्ष्य तं द्विजं ननन्द सुस्वागतमित्युवाच ह ॥ शरभङ्गे दिवं प्राप्ते मुनिसङ्घाः समागताः। अभ्यगच्छन्त काकुत्स्थं रामं ज्वलिततेजसम्॥ वैखानसा वालखिल्याः सम्प्रक्षाला मरीचिपाः। अश्मकुट्टाश्च बहवः पत्राहाराश्च तापसाः॥ दन्तोलूखलिनश्चैव तथैवोन्मज्जकाः परे। गात्रशय्या अशय्याश्च तथैवानवकाशिकाः॥ मुनयः सलिलाहारा वायुभक्षास्तथापरे। आवाशनिलयाश्चैव तथा स्थण्डिलशायिनः॥ तथोर्ध्वसिनो दान्तास्तथाऽऽर्द्रपटवाससः। सजपाश्च तपोनिष्ठास्तथा पञ्चतपोऽन्विताः॥ सर्वे ब्राह्मया श्रिया युक्ता दृढयोगसमाहिताः। शरभङ्गाश्रमे राममभिजग्मुश्च तापसाः॥ अभिगम्य च धर्मज्ञा रामं धर्मभृतां वरम्। ऊचुः परमधर्मज्ञमृषिसङ्घाः समागताः॥ त्वमिक्ष्वाकुकुलस्यास्य पृथिव्याश्च महारथः। प्रधानश्चापि नाथश्च देवानां मघवानिव॥ विश्रुतस्रिषु लोकेषु यशसा विक्रमेण च। पितृव्रतत्वं सत्यं च त्वयि धर्मश्च पुष्कलः॥ त्वामासाद्य महात्मानं धर्मज्ञं धर्मवत्सलम्। अर्थित्वान्नाथ वक्ष्यामस्तच्च नः क्षन्तुमर्हसि ॥ अधर्मः सुमहान् नाथ भवेत् तस्य तु भूपतेः। यो हरेद् बलिषड्भागं न च रक्षति पुत्रवत्॥ युञ्जानः स्वानिव प्राणान् प्राणैरिष्टान् सुतानिव। नित्ययुक्तः सदा रक्षन् सर्वान् विषयवासिनः॥ प्राप्नोति साश्वती राम कीर्तिं स बहुवार्षिकीम्। ब्रह्मणः स्थानमासाद्य तत्र चापि महीयते॥ यत् करोति परं धर्मं मुनिर्मूलफलाशनः। तत्र राज्ञश्चतुर्भागः प्रजा धर्मेण रक्षतः॥ सोऽयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान्। त्वंन्नाथोऽनाथवद् राम राक्षसैर्हन्यते भृशम्॥ एहि पश्य शरीराणि मुनीनां भावितात्मनाम्। हतानां राक्षसैघोरैर्बहूनां बहुधा वने॥ पम्पानदीनिवासानामनुमन्दाकिनीमपि। चित्रकूटालयानां च क्रियते कदनं महत्॥ एवं वयं न मृष्यामो विप्रकारं तपस्विनाम्। क्रियमाणं वने घोरं रक्षोभिर्भीमकर्मभिः॥ ततस्त्वां शरणार्थं च शरण्यं समुपस्थिताः। परिपालयं नो राम वध्यमानान् निशाचरैः॥ परा त्वत्तो गतिर्वीर पृथिव्यां नोपपद्यते। परिपालय नः सर्वान् राक्षसेभ्यो नृपात्मज ॥ एतच्छ्रुत्वा तु काकुत्स्थस्तापसानां तपस्विनाम्। इदं प्रोवाच धर्मात्मा सर्रानेव तपस्विनः॥ नैवमर्हथ मां वक्तुमाज्ञाप्योऽहं तपस्विनाम्। केवलेन स्वकार्येण प्रवेष्टव्यं वनं मया॥ विप्रकारमपाक्रष्टुं राक्षसैर्भवतामिमम्। पितुस्तु निर्देशकरः प्रविष्टोऽहमिदं वनम् ॥ भवतामर्थसिद्ध्यर्थमागतोऽहं यदृच्छया। तस्य मेऽयं वने वासो भविष्यति महाफलः॥ तपस्विनां रणे शत्रून् हन्तुमिच्छामि राक्षसान्। पश्यन्तु वीर्यमृषयः सभ्रातुर्मे तपोधनाः॥ दत्वा वरं चापि तपोधतानानां धर्मे धृतात्मा सह लक्ष्मणेन। तपोधनैश्चापि सहार्यदत्त : सुतीक्ष्णमेवाभिजगाम वीरः॥ रामस्तु सहितो भ्रात्रा सीतया च परंतपः। सुतीक्ष्णस्याश्रमपदं जगाम सह तैर्द्विजैः॥ सं गत्वा दूरमध्वानं नदीस्तीत्वा॑ बहूदकाः। ददर्श विमलं शैलं महामेरुमिवोत्रतम्॥ ततस्तदिक्ष्वाकुवरौ सततं विविधैर्दुमैः। काननं तौ विविशतुः सीतया सह राघवौ॥ प्रविष्टस्तु वनं घोरं बहुपुष्पफलद्रुमम्। ददर्शाश्रममेकान्ते चीरमालापरिष्कृतम्॥ तत्र तापसमासीनं मलपङ्कजधारिणम्। रामः सुतीक्ष्णं विधिवत् तपोधनमभाषत॥ रामोऽहमस्मि भगवन् भवन्तं द्रष्टुमागतः। तन्माभिवद धर्मज्ञ महर्षे सत्यविक्रम॥ स निरीक्ष्य ततो धीरो रामं धर्मभृतां वरम्। समाश्लिष्य च बाहुभ्यामिदं वचनमब्रवीत्॥ स्वागतं ते रघुश्रेष्ठ राम सत्यभृतां वर। आश्रमोऽयं त्वयाऽऽक्रान्तः सनाथ इव साम्प्रतम॥ प्रतीक्षमाणस्त्वामेव नारोहेऽहं महायशः। देवलोकमितो वीर देहं त्यक्त्वा महीतले॥ चित्रकूटमुपादाय राज्यभ्रष्टोऽसि मे श्रुतः। इहोपयातः काकुत्स्थ देवराजः शतक्रतुः॥ उपागम्य च मे देवो महादेवः सुरेश्वरः। सर्वांल्लोकाञ्जितानाह मम पुण्येन कर्मणा॥ तेषु देवर्षिजुष्टेषु जितेषु तपसा मया। मत्प्रसादात् सभार्यस्त्वं विहरस्व सलक्ष्मणः॥ तमुग्रतपसं दीप्तं महर्षि सत्यवादिनम्। प्रत्युवाचात्मवान रामो ब्रह्माणमिव वासवः॥ अहमेवाहरिष्यामि स्वयं लोकान् महामुने। आवासं त्वहमिच्छामि प्रदिष्टमिह कानने॥ भवान् सर्वत्र कुशलः सर्वभूतहिते रतः। आख्यातं शरभङ्गेन गौतमेन महात्मना ॥ एवमुक्तस्तु रामेण महर्षिलोकविश्रुतः। अब्रबीन्मधुरं वाक्यं हर्षेण महता युतः॥ अयमेवाश्रमोः राम गुणवान् रम्यतामिति। ऋषिसङ्घांनुचरितः सदा मूलफलैर्युतः॥ इममाश्रममागम्य मृगसङ्घा महीयसः। अहत्वा प्रतिगच्छन्ति लोभयित्वाकुतोभयाः॥ नान्यो दोषो भवेदत्र मृगेभ्योऽन्यत्र विद्धि वै। तच्छ्रुत्वा वचनं तस्य महर्षेर्लक्ष्मणाग्रजः॥ उवाच वचनं धीरो विगृह्य सशरं धनुः। तानहं सुमहाभाग मृगसंघान् समागतान्॥ हन्यां निशितधारेण शरेणानतपर्वणा। भवांस्तत्राभिषज्येत किं स्यात् कृच्छ्रतरं ततः॥ एतस्मिन्नाश्रमे वासं चिरं तु न समर्थये। तमेवमुक्त्वोपरमं रामः संध्यामुपागमत् ॥ अन्वास्य पश्चिमां संध्यां तत्र वासमकल्पयत्। सुतीक्ष्णस्याश्रमे रम्ये सीतया लक्ष्मणेन व॥ ततः शुभं तापसयोग्यमन्नं स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम्। ताभ्यां सुसत्कृत्य ददौ महात्मा संध्यानिवृत्तौ रजनीं समीक्ष्य॥ सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम्। हृद्यया स्निग्धया वाचा भर्तारमिदमब्रवीत्॥ अधर्मं तु सुसूक्ष्मेण विधिना प्राप्यते महान्। निवृत्तेन च सक्योऽयं व्यसनात् कामजादिह॥ त्रीण्येव व्यसनान्यद्य कामजानि भवन्त्युत। मिथ्यावाक्यं तु परमं तस्माद् गुरुतरावुभौ॥ परदाराभिगमनं विना वैरं च रौद्रता। मिथ्यावाक्यं न ते भूतं न भविष्यति राघव ॥ कुतोऽभिलषणं स्त्रीणां परेषां धर्मनाशनम्। तव नास्ति मनुष्येन्द्र न चाभूत् ते कदाचन ॥ मनस्यपि तथा राम न चैतद् विद्यते क्वचित्। स्वदारनिरतश्चैव नित्यमेव नृपात्मज ॥ धर्मिष्ठः सत्यसंधश्च पितुर्निर्देशकारकः। त्वयि धर्मश्च सत्यं च त्वयि सर्वं प्रतिष्ठितम्॥ तच्च सर्वं महाबाहो शक्यं वोढुं जितेन्द्रियैः। तव वश्येन्द्रियत्वं च जानामि शुभदर्शन॥ तृतीयं यदिदं रौद्रं परप्राणाभिहिंसनम्। निर्वैरं क्रियते मोहात् तच्च ते समुपस्थितम्॥ प्रतिज्ञातस्त्वया वीर दण्डकारण्यवासिनाम्। ऋषीणां रक्षणार्थाय वधः संयति रक्षसाम् ॥ एतन्निमित्तं वचनं दण्डका इति विश्रुतम्। प्रस्थितस्त्वं सह भ्रात्रा धृतबाणशरासनः॥ ततस्त्वां प्रस्थितं दृष्ट्वा मम चिन्ताकुलं मनः। त्वद्वृत्तं चिन्तयन्त्या वै भवेनिःश्रेयसं हितम्॥ नहि मे रोचते वीर गमनं दण्डकान् प्रति । कारणं तत्र वक्ष्यामि वदन्त्याः शृयतां मम ॥ त्वं हि बाणधनुष्पाणिर्धात्रा सह वनं गतः। दृष्ट्वानवचरान् सर्वान् कच्चित् कुर्याः शरव्ययम्॥ क्षत्रियाणामिह धनुर्हताशस्येन्धनानि च। समीपतः स्थितं तेजोबलमुच्छुयते भृशम्॥ पुरा किल महाबाहो तपस्वी सत्यवाञ्छुचिः। कस्मिश्चिंदभवत् पुण्ये वने रतमृगद्विजे॥ तस्यैव तपसो विघ्नं कर्तुमिन्द्रः शचीपतिः। खङ्गपाणिरथागच्छदाश्रमं भटरूपधृक् ॥ तस्मिंस्तदाश्रमपदे निहितः खङ्ग उत्तमः। स न्यासविधिना दत्तः पुण्ये तपसि तिष्ठतः॥ स तच्छस्त्रमनुप्राप्य न्यासरक्षणतत्परः। वने तु विचरत्येव रक्षन् प्रत्ययमात्मनः॥ यत्र गच्छत्युपादातुं मूलानि च फलानि च। न विना याति तं खङ्ग न्यासरक्षणतत्परः॥ नित्यं शस्त्रं परिवहन् क्रमेण स तपोधनः। चकार रौद्रीं स्वां बुद्धिं त्यक्त्वा तपसि निश्चयम्॥ ततः स रौद्राभिरतः प्रमत्तोऽधर्मकर्षितः। तस्य शस्त्रस्य संवासाज्जगाम नरकं मुनिः॥ एवमेतत् पुरावृत्तं शस्त्रसंयोगकारणम्। अग्निसंयोगवद्धेतुः शस्त्रसंयोग उच्यते॥ स्नेहाच्च बहुमानाच्च स्मारये त्वां तु शिक्षये। न कथंचन सा कार्या गृहीतधनुषा त्वया॥ बुद्धिर्वैरं विना हन्तुं राक्षसान् दण्डकाश्रितान्। अपराधं विना हन्तुं लोको वीर न मंस्यते॥ क्षत्रियाणां तु वीराणां वनेषु नियतात्मनाम्। धनुषा कार्यमेतावदार्तानामभिरक्षणम्॥ क्व च शस्त्रं क्व च वनं क्व च क्षात्रं तपः क्व च। व्याविद्धमिदमस्माभिर्देशधर्मस्तु पूज्यताम्॥ कदर्यकलुषा बुद्धिर्जायते शस्त्रसेवनात्। पुनर्गत्वा त्वयोध्यायां क्षत्रधर्मं चरिष्यसि ॥ अक्षया तु भवेत् प्रीतिः श्वश्रूश्वशुरयोर्मम । यदि राज्यं हि संन्यस्य भवेस्त्वं निरतो मुनिः॥ धर्मादर्थः प्रभवति धर्मात् प्रभवते सुखम्। धमेण लभते सर्वं धर्मसारमिदं जगत्॥ आत्मानं नियमैस्तैस्तैः कर्षयित्वा प्रयत्नतः। प्राप्यते निपुणैर्धर्मो न सुखाल्लभते सुखम्॥ नित्यं शुचिमतिः सौम्य चर धर्मं तपोवने। सर्वं तु विदितं तुभ्यं त्रैलोक्यमपि तत्त्वतः॥ स्त्रीचा पलादेतदुपाहृतं मे धर्मं च वक्तुं तव कः समर्थः। विचार्य बुद्ध्या तु सहानुजेन यद् रोचते तत् कुरु माचिरेण ॥ वाक्यमेतत् तु वैदेह्या व्याहृतं भर्तृभक्तया। श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ जानकीम्॥ हितमुक्तं त्वया देवि स्निग्धया सदृशं वचः। कुलं व्यपदिशन्त्या च धर्मज्ञे जनकात्मजे॥ किं नु वक्ष्याम्यहं देवि त्वयैवोक्तमिदं वचः। क्षत्रियैर्धार्यते चापो नार्तशब्दो भवेदिति॥ ते चार्ता दण्डकारण्ये मुनयः संशितव्रताः। मां सीते स्वयमागम्य शरण्यं शरणं गताः॥ वसन्त कालकाले वने मूलफलाशनाः। न लभन्ते सुखं भीरु राक्षसैः क्रूरकर्मभिः॥ भक्ष्यन्ते राक्षसैर्भीमैनरमांसोपजीविभिः। ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः॥ अस्मानभ्यवपद्यैते मामूचुर्द्विजसत्तमाः। मया तु वचनं श्रुत्वा तेषामेवं मुखाच्च्युतम्।।७ कृत्वा वचनशुश्रूषां वाक्यमेतदुदाहृतम्। प्रसीदन्तु भवन्तो मेऽहीरेषा तु ममातुला॥ यदीदृशैरहं विप्रैरुपस्थेयैरुपस्थितः। किं करोमीति च मया व्याहृतं द्विजसंनिधौ॥ सर्वैरेव समागम्य वागियं समुदाहृता। राक्षसैर्दण्डकारण्ये बहुभिः कामरूपिभिः॥ अर्दिताः स्म भृशं राम भवान् नस्तत्र रक्षतु। होमकाले तु सम्प्राप्ते पर्वकालेषु चानघ॥ धर्षयन्ति स्म दुर्धर्षा राक्षसाः पिशिताशनाः। राक्षसैर्धर्षितानां च तापसानां तपस्विनाम्॥ गतिं मृगयमाणानां भवान् नः परमा गतिः। कामं तपःप्रभावेण शक्ता हन्तुं निशाचरान्॥ चिरार्जितं न चेच्छामस्तपः खण्डयितुं वयम्। बहुविघ्नं तपो नित्यं दुश्चरं चैव राघव॥ तेन शापं न मुञ्चामो भक्ष्यमाणाश्च राक्षसैः। तदर्घमानान् रक्षोभिर्दण्डकारण्यवासिभिः ॥ रक्षकस्त्वं सह भ्रात्रा त्वन्नाथा हि वयं वने। मया चैतद्वचः श्रुत्वा कात्स्न्येन परिपालनम्॥ ऋषीणां दण्डकारण्ये संश्रुतं जनकात्मजे। संश्रुत्य न च शक्ष्यामि जीवमानः प्रतिश्रवम्॥ मुनीनामन्यथा कर्तुं सत्यमिष्टं हि मे सदा। अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम्॥ न तु प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः। तदवश्यं मया कार्यमृषीणां परिपालनम्॥ अनुक्तेनापि वैदेहि प्रतिज्ञाय कथं पुनः। मम स्नेहाच्च सौहार्दादिदमुक्तं त्वा वचः॥ परितुष्टोऽस्म्यहं सीते न ह्यनिष्टोऽनुशास्यते। सदृशं चानुरूपं च कुलस्य तव शोभने। सधर्मचारिणी मे त्वं प्राणेभ्योऽपि गरीयसी॥ इत्येवमुक्त्वा वचनं महात्मा सीतां प्रियां मैथिलराजपुत्रीम्। रामो धनुष्मान् सह लक्ष्मणेन जगाम रम्याणि तपोवनानि ॥ अग्रतः प्रययौ रामः सीता मध्ये सुशोभना। पृष्ठतस्तु धनुष्पाणिर्लक्ष्मणोऽनुजगाम ह॥ तौ पश्यमानौ विविधाशैलप्रस्थान बनानि च। नदीश्च विविधा रम्या जग्मतुः सह सीतया॥ सारसांश्चक्रवाकांश्च नदीपुलिनचारिणः। सरांसि च सपद्मानि युतानि जलजैः खगैः॥ यूथबन्धाश्च पृषतान् मदोन्मत्तान् विषाणिनः। महिषांश्च वराहांश्च गजांश्च द्रुमवैरिणः।४।। ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे। ददृशुः सहिता रम्यं तटाकं योजनायुतम्॥ पद्मपुष्करसम्बाधं गजयूथैरलंकृतन्। सारसैहँसकादम्बैः संकुलं जलजातिभिः॥ प्रसन्नसलिले रम्ये तस्मिन् सरसि शुश्रुवे।। गीतवादिनिर्घोषो न तु कश्चन दृश्यते॥ ततः कौतूहलाद् रामो लक्ष्मणश्च महारथः। मुनिं धर्मभृतं नाम प्रष्टुं समुपचक्रमे ॥ इदमत्यद्भुतं श्रुत्वा सर्वेषां नो महामुने। कौतूहलं महज्जातं किमिदं साधु कथ्यताम्॥ तेनैवमुक्तो धर्मात्मा राघवेण मुनिस्तदा। प्रभावं सरसः क्षिप्रमाख्यातुमुपचक्रमे॥ इदं पञ्चाप्सरो नाम तटाकं सार्वकालिकम्। निर्मितं तपसा राम मुनिना माण्डकर्णिना॥ स हि तेपे तपस्तीव्र माण्डकर्णिमहामुनिः। दशवर्षसहस्राणि वायुभक्षो जलाशये॥ ततः प्रव्यथिताः सर्वे देवाः साग्निपुरोगमाः। अब्रटन् वचनं सर्वे परस्परसमागताः॥ अस्माकं कस्यचित् स्थानमेष प्रार्थयते मुनिः। इति संविग्नमनसः सर्वे तत्र दिवौकसः॥ ततः कर्तुं तपोविघ्नं सर्वदेवैर्नियोजिताः। प्रधानाप्सरसः पञ्च विद्युच्चलितवर्चसः॥ अप्सरोभिस्ततस्ताभिर्मुनिर्दृष्टपरावरः। नीतो मदनवश्यत्वं देवानां कार्यसिद्धये॥ ताश्चैवाप्सरसः पञ्च मुनेः पत्नीत्वमागताः। तटाके निर्मितं तासां तस्मिन्नन्तर्हितं गृहम् ॥ तत्रैवाप्सरसः पञ्च निवसन्त्यो यथासुखम्। रमयन्ति तपोयोगान्मुनिं यौवनमास्थितम्॥ तासां संक्रीडमानानामेष वादिनि:स्वनः। श्रूयते भूषणोन्मिश्रो गीतशब्दो मनोहरः॥ आश्चर्यमिति तस्यैतद् वचनं भावितात्मनः। राघवः प्रतिजग्राह सह भ्रात्रा महायशाः॥ एवं कथयमानः स ददर्शाश्रममण्डलम्। कुशचीरपरिक्षिप्तं ब्राह्मया लक्ष्म्या समावृतम्॥ प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः। तदा तस्मिन् स काकुत्स्थः श्रीमत्याश्रममण्डले॥ । उषित्वा स सुखं तत्र पूज्यमानो महर्षिभिः। जगाम चाश्रमांस्तेषां पर्यायेण तपस्विनाम्॥ येषामुषितवान् पूर्वं सकाशे स महास्त्रवित्। क्वचित् परिदशान् मासानेकसंवत्सरं क्वचित्॥ क्वचित चतुरो मासान् पञ्च षट् च परान् क्वचित। अपरत्राधिकान् मासानध्यर्धमधिकं क्वचित्॥ त्रीन्मासानष्टमासांश्च राघवो न्यवसत् सुखम्। तत्र संवसतस्तस्य मुनीनामाश्रमेषु वै॥ रमतश्चानुकूल्येन ययुः संवत्सरा दश। परिसृत्य च धर्मज्ञो राघवः सह सीतया॥ सुतीक्ष्णस्याश्रमपदं पुनरेवाजगाम ह। स तमाश्रममागम्य मुनिभिः परिपूजितः॥ तत्रापि न्यवसद् रामः किंचित् कालमरिन्दमः। अथाश्रमस्थो विनयात् कदाचित् तं महामुनिम्॥ उपासीनः स काकुत्स्थः सुतीक्ष्णमिदमब्रवीत्। अस्मिन्नरण्ये भगवन्नगस्त्यो मुनिसत्तमः॥ वसतीति मया नित्यं कथाः कथयतां श्रुतम्। न तु जानामि तं देशं वनस्यास्य महत्तया॥ कुत्राश्रमपदं रम्यं महर्षेस्तस्य धीमतः। प्रसदार्थं भगवतः सानुजः सह सीतया॥ अगस्त्यमधिगच्छेयमभिवादयितुं मुनिम्। मनोरथो महानेष हृदि संपरिवर्तते ॥ यदहं तं मुनिवरं सुश्रूषेयमपि स्वयम्। इति रामस्य स मुनिः श्रुत्वा धर्मात्मनो वचः॥ सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम्। अहमप्येतदेव त्वां वक्तुकामः सलक्ष्मणम्॥ अगस्त्यमभिगच्छेति सीतया सह राघव। दिष्टया त्विदानीमर्थेऽस्मिन् स्वयमेव ब्रवीषि माम्।।३६ । अयमाख्यामि ते राम यत्रागस्त्यो महामुनिः। योजनान्याश्रमात् तात याहि चत्वारि वै ततः। दक्षिणेन महाञ्छ्रीमानगस्त्यभ्रातुराश्रमः॥ स्थलीप्रायवनोद्देशे पिप्पलीवनशोभिते। बहुपुष्पफले रम्ये नानाविहगनादिते॥ पद्मिन्यो विविधास्तत्र प्रसन्नसलिलाशयाः। हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः॥ तत्रैकां रजनी व्युष्य प्रभाते राम गम्यताम्। दक्षिणां दिशमास्थाय वनखण्डस्य पार्श्वतः॥ तत्रागस्त्याश्रमपदं गत्वा योजनमन्तरम्। रमणीये वनोद्देशे बहुपादपशोभिते॥ रंस्यते तत्र वैदेही लक्ष्मणश्च त्वया सह। स हि रम्यो वनोद्देशो बहुपादपसंयुतः॥ यदि बुद्धिः कृता द्रष्टुमगस्त्यं तं महामुनिम्। अद्यैव गमने बुद्धिं रोचयस्व महामते।॥ इति रामो मुनेः श्रुत्वा सह भ्रात्राऽभिवाद्य च। प्रतस्थेऽगस्त्यमुद्दिश्य सानुगः सह सीतया॥ पश्यन् वनानि चित्राणि पर्वतांश्चाभ्रसंनिभान्। सरांसि सरितश्चैव पथि मार्गवशानुगान्॥ . सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम्। इदं परमसंहष्टो वाक्यं लक्ष्मणमब्रवीत्॥ एतदेवाश्रमपदं नूनं तस्य महात्मनः। अगस्त्यस्य मुनेतुर्दृश्यते पुण्यकर्मणः॥ यथा हीमे वनस्यास्य ज्ञाताः पथि सहस्रशः। संनताः फलभारेण पुष्पभारेण च द्रुमाः॥ पिप्पलीनां च पक्वानां वनादम्मादुपागतः। गन्धोऽयं पवनोत्क्षिप्तः सहसा कटुकोदयः॥ तत्र तत्र च दृस्यन्ते संक्षिप्ता: काष्ठसंचयाः। लूनाश्च परिदृश्यन्ते दर्भा वैडूर्यवर्चसः॥ एतञ्च वनमध्यस्थं कृष्णाभ्रशिखरोपमम्। पावकस्याश्रमस्थस्य धूमाग्रं संप्रदृश्यते॥ विविक्तेषु च तीर्थेषु कृतस्नाना द्विजातयः। पुष्योपहारं कुर्वन्ति कुसुमैः स्वयमर्जितैः॥ ततः सुतीक्ष्णवचनं यथा सौम्य मया श्रुतम्। अगस्त्याश्रमो भ्रातुनमेष भविष्यति॥ निगृह्य तरसा मृत्युं लोकानां हितकाम्यया। यस्य भ्रात्रा कृतेयं दिक्शरण्या पुण्यकर्मणा॥ इहैकदा किल कुरो वातापिरपि चेल्वलः। भ्रातरौ सहितावास्तां ब्राह्मणघ्नौ महासुरौ॥ धारयन् ब्राह्मणं रूपमिल्वलः संस्कृतं वदन्। आमन्त्रयति विप्रान् स भाद्धमुद्दिश्य निघृणः॥ भ्रातरं संस्कृतं कृत्वा ततस्तं मेषरूपिणम्। तान् द्विजान् भोजयामास श्राद्धदृष्टेन कर्मणा ॥ ततो भुक्तवतां तेषां विप्राणामिल्वलोऽब्रवीत्। वातापे निष्क्रमस्वेति स्वरेण महता वदन्॥ ततो भ्रातुर्वचः श्रुत्वा वातापिर्मेषवन्नदन्। भित्त्वा भित्त्वा शरीराणि ब्राह्मणानां विनिष्पतत्। ५९ ब्राह्मणानां सहस्राणि तैरेवं कामरूपिभिः। विनाशितानि संहत्य नित्यशः पिशिताशनैः॥ अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा। अनुभूय किल श्राद्धे भक्षितः स महासुरः॥ ततः सम्पन्नमित्युक्त्वा दत्त्वा हस्तेऽवनेजनम्। भ्रातरं निष्क्रमस्वेति इल्वलः समभाषत ॥ स तदा भाषमाणं तु भ्रातरं विप्रघातिनम्। अब्रवीत् प्रहसन् धीमानगस्त्यो मुनिसत्तमः॥ कुतो निष्क्रमितुं शक्तिर्मया जीर्णस्य रक्षसः। भ्रातुस्तु मेषरूपस्य गतस्य यमसादनम्॥ अथ तस्य वचः श्रुत्वा भ्रातुर्निधनसंश्रितम्। प्रधर्षयितुमारेभे मुनि क्रोधान्निशाचरः॥ सोऽभ्यद्रवद् द्विजेन्द्रं तं मुनिना दीप्ततेजसा। चक्षुषाऽनलकल्पेन निर्दग्धो निधनं गतः॥ तस्यायमाश्रमो भ्रातुस्तटाकवनशोभितः। विप्रानुकम्पया येन कर्मेदं दुष्करं कृतम्॥ एवं कथयमानस्य तस्य सौमित्रिणा सह। रामस्यास्तं गतः सूर्यः संध्याकालोऽभ्यवर्तत॥ उपास्य पश्चिमां संध्यां सह भ्रात्रा यथाविधि। प्रविवेशाश्रमपदं तमृषिं चाभ्यवादयत्॥ सम्यकप्रतिगृहीतस्तु मुनिना तेन राघवः। न्यवसत् तां निशामेकां प्रास्य मूलफलानि च॥ तस्यां रात्र्यां व्यतीतायामुदिते रविमण्डले। भ्रातरं तमगस्त्यस्य आमन्त्रयत राघवः। ७१ ।। अभिवादये त्वां भगवन् सुखमस्म्युषितो निशाम्। आमन्त्रये त्वां गच्छामि गुरुं ते द्रष्टुमग्रजम् ॥ गम्यतामिति तेनोक्तो जगाम रघुनन्दनः। यथोद्दिष्टेन मार्गेण वनं तच्चावलोकयन्॥ नीवारान् पनसान् सालान् वञ्जुलांस्तिनिशांस्तथा। चिरिबिल्वान् मधूकांश्च बिल्वानथ च तिन्दुकान्॥ पुष्पितान् पुष्पिताग्राभिलताभिरुपशोभितान्। ददर्श रामः शतशस्तत्र कान्तारपादपान्॥ हस्तिहस्तैर्विमृदितान् वानरैरूपसोभितान्। मत्तैः शकुनिसबैश्च शतशः प्रतिनादितान्॥ ततोऽब्रवीत् समीपस्थं रामो राजीवलोचनः। पृष्ठतोऽनुगतं वीरं लक्ष्मणं लक्ष्मिवर्धनम्॥ स्निग्धपत्रा यथा वृक्षा यथा क्षान्ता मृगद्विजाः। आश्रमो नातिदूरस्थो महर्षेर्भावितात्मनः॥ अगस्त्य इति विख्यातो लोके स्वेनैव कर्मणा। आश्रमो दृश्यते तस्य परिश्रान्तश्रमापहः॥ प्राज्यधूमाकुलवनश्चीरमालापरिष्कृतः। प्रशान्तमृगयूथश्च नानाशकुनिनादितः॥ निगृह्य तरसा मृत्युं लोकानां हितकाम्यया। दक्षिणा दिक् कृता येन शरण्या पुण्यकर्मणा ॥ तस्येदमाश्रमपदं प्रभावाद् यस्य राक्षसैः। दिगियं दक्षिणा त्रासाद् दृश्यते नोपभुज्यते॥ यदाप्रभृति चाक्रान्ता दिगियं पुण्यकर्मणा। तदाप्रभृति निर्वैराः प्रशान्ता रजनीचराः॥ नाम्ना चेयं भगवतो दक्षिणा दिक्प्रदक्षिणा। प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रुरकर्मभिः॥ मार्ग निरोद्धं सततं भास्करस्याचलोत्तमः। संदेसं पालयंस्तस्य विन्ध्यशैलो नि वर्धते ॥ अयं दीर्घायुषस्तस्य लोके विश्रुतकर्मणः। अगस्त्यस्याश्रमः श्रीमान् विनीतमृगसेवितः॥ एष लोकार्चितः साधुर्हिते नित्यं रतः सताम्। अस्मानधिगतानेष श्रेयसा योजयिष्यति॥ आराधयिष्याम्यत्राहमगस्त्यं तं महामुनिम्। शेषं च वनवासस्य सौम्य वत्स्याम्यहं प्रभो।।८८। अत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। अगस्त्यं नियताहाराः सततं पर्युपासते ॥ नात्र जीवेन्मृषावादी क्रुरो वा यदि वा शठः। नृशंसः पापवृत्तो वा मुनिरेष तथाविधः॥ अत्र देवाश्च यक्षाश्च नागाश्च पतगैः सह। वसन्ति नियताहारा धर्ममाराधयिष्णवः॥ अत्र सिद्धा महात्मानो विमानैः सूर्यसंनिभैः। त्यक्त्वा देहान् नवैर्देहै: स्वर्याताः परमर्षयः॥ यक्षत्वममरत्वं च राज्यानि विविधानि च। अत्र देवाः प्रयच्छन्ति भूतैराराधिताः शुभैः॥ आगताः स्माश्रमपदं सौमित्रे प्रविशाग्रतः। निवेदयेह मां. प्राप्तमृषये सह सीतया॥ स प्रविश्याश्रमपदं लक्ष्मणो राघवानुजः। अगस्त्यशिष्यमासाद्य वाक्यमेतदुवाच ह॥ राजा दशरथो नाम ज्येष्ठस्तस्य सुतो बली। रामः प्राप्तो मुनिं द्रष्टुं भार्यया सह सीतया ॥ लक्ष्मणो नाम तस्याहं भ्राता त्ववरजो हितः। अनुकूलश्च भक्तश्च यदि ते श्रोत्रमागतः॥ ते वयं वनमत्युग्रं प्रविष्टाः पिदृशासनात्। द्रष्टुमिच्छामहे सर्वे भगवन्तं निवेद्यताम्॥ तस्य तद् वचनं श्रुत्वा लक्ष्मणस्य तपोधनः। तथेत्युक्त्वाऽग्निशरणं प्रविवेश निवेदितुम्॥ स प्रविश्य मुनिश्रेष्ठं तमसा दुषप्रधर्षणम्। कृताञ्जलिरुवाचेदं रामागमनमञ्जसा॥ यथोक्तं लक्ष्मणेनैव शिष्योऽगस्त्यस्य सम्मतः। पुत्रौ दशरथस्येमौ रामो लक्ष्मण एव च॥ प्रविष्टावाश्रमपदं सीतया सह भार्यया। द्रष्टुं भवन्तमायातौ शुश्रूषार्थमरिंदमौ॥ यदत्रानन्तरं तत् त्वमाज्ञापयितुमर्हसि। ततः शिष्यादुपश्रुत्य प्राप्तं रामं सलक्ष्मणम्॥ वैदेहीं च महाभागामिदं वचनमब्रवीत्। दिष्ट्या रामश्चिरस्याद्य द्रष्टुं मां समुपागतः॥ मनसा काङ्कितं ह्यस्य मयाप्यागमनं प्रति। गम्यतां सत्कृतो रामः सभार्यः सहलक्ष्मणः॥ प्रवेस्यतां समीपं मे किमसौ न प्रवेशितः। एवमुक्तस्तु मुनिना धर्मज्ञेन महात्मना॥ अभिवाद्याब्रवीच्छिष्यस्तथेति नियताञ्जलिः। तदा निष्क्रम्य सम्भ्रान्तः शिष्यो लक्ष्मणमब्रवीत्॥ कोऽसौ रामो मुनिं द्रष्टुमेतु प्रविशतु स्वयम्। ततो गत्वाऽऽश्रमपदं शिष्येण सह लक्ष्मणः ॥ दर्शयामासकाकुत्स्थं सीतां च जनकात्मजाम् । तं शिष्यः प्रश्रितं वाक्यमगस्त्यवचनं ब्रुवन्॥ प्रावेशयद् यथान्यायं सत्काराहँ सुसत्कृतम्। प्रविवेश ततो राम: सीतया सह लक्ष्मणः॥ प्रशान्तहरिणाकीर्णमाश्रमं ावलोकयन्। स तत्र ब्रह्मणः स्थानमग्नेः स्थानं तथैव च॥ विष्णो: स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः। सोमस्थानं भगस्थानं स्थानं कौबेरमेव च॥ धातुर्विधातुः स्थानं च वायोः स्थानं तथैव च। स्थानं च पाशहस्तस्य वरुणस्य महात्मनः॥ स्थानं तथैव गायत्र्या वसूनां स्थानमेव च। स्थानं च नागराजस्य गरुडस्थानमेव च॥ कार्तिकेयस्य च स्थानं धर्मस्थानं च पश्यति। ततः शिष्यैः परिवृतौ मुनिरष्यभिनिषपतत्॥ तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसम्। अब्रवीद् वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम्॥ बहिर्लक्ष्मण निष्क्रामत्यगस्त्यो भगवानृषिः। औदार्येणावगच्छामि निधानं तपसामिमम्॥ एवमुक्त्वा महाबाहुरगस्त्यं सूर्यवर्चसम्। जग्राहापततस्तस्य पादौ च रघुनन्दनः॥ अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः। सीतया सह वैदेहा तदा रामः सलक्ष्मणः॥ प्रतिगृह्य च काकुत्स्थमर्चयित्वाऽऽसनोदकैः। कुशलप्रश्नमुक्त्वा च आसयतामिति सोऽब्रवीत्॥ अग्निं हुत्वा प्रदायार्घ्यमतिथीन् प्रतिपूज्य च। वानप्रस्थेन धर्मेण स तेषां भोजनं ददौ ॥ प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुङ्गवः। उवाच राममासीनं प्राञ्जलिं धर्मकोविदम्॥ अग्निं हुत्वा प्रदायार्घ्यमतिथिं प्रतिपूजयेत्। अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन्। दुःसाक्षीव परे लोके स्वानि मांसानि भक्षयेत् ॥ राजा सर्वस्य लोकस्य धर्मचारी महारथः। पूजनीयश्च मान्यश्च भवान् प्राप्तः प्रियातिथिः॥ एवमुक्त्वा फलैर्मूलैः पुष्पैश्चान्यैश्च राघवम्। पूजयित्वा यथाकामं ततोऽगस्त्यस्तमब्रवीत्॥ इदं दिव्यं महच्चापं हेमवज्रविभूषितम्। वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा॥ अमोघः सूर्यसंकाशो ब्रह्मदत्तः शरोत्तमः। दत्तौ मम महेन्द्रेण तूणी चाक्षय्यसायकौ॥ सम्पूर्णौ निशितैर्बाणैवलद्भिरिव पावकैः। महाराजतकोशोऽयमसिहेमविभूषितः॥ अनेन धनुषा राम हत्वा संख्ये महासुरान्। आजहार श्रियं दीप्तां पुरा विष्णुर्दिवौकसाम् ॥ तद्धनुस्तौ च तूणी च शरं खङ्गं च मानद। जयाय प्रतिगृह्णष्व वज्रं वज्रधरो यथा॥ एवमुक्त्वा महातेजाः समस्तं तद्वरायुधम्। दत्त्वा रामाय भगवानगस्त्यः पुनरब्रवीत् ॥ राम प्रीतोऽस्मि भद्रं ते परितुष्टोऽस्मि लक्ष्मण। अभिवादयितुं यन्मां प्राप्तौ स्थः सह सीतया॥ अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः। व्यक्तमुत्कण्ठते वापि मैथिली जनकात्मजा ॥ एषा च सुकुमारी च खेदैश्च न विमानिता। प्राज्यदोषं वनं प्राप्ता भर्तृस्नेहप्रचोदिता॥ यथैषा रमते राम इह सीता तथा कुरु। दुष्करं कृतवत्येषा वने त्वामभिगच्छती॥ एषा हि प्रकृतिः स्त्रीणामा सृष्टे रघुनन्दन । समस्थमनुरज्यन्ते विषमस्थं त्य नन्ति च ॥ शतहदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा। गरुडानिलयोः शैघ्यमनुगच्छन्ति योषितः॥ इयं तु भवतो भार्या दोषैरेतैर्विवर्जिता। श्लाघ्या च व्यपदेश्या च यथा देवेष्वरुन्धती॥ अलंकृतोऽयं देशश्च यत्र सौमित्रिणा सह। वैदेह्या चानया राम वत्स्यसि त्वमरिंदम॥ एवमुक्तस्तु मुनिना राघवः संयताञ्जलिः। उवाच प्रश्रितं वाक्यमृषि दीप्तमिवानलम्॥ धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगवः। गुणैः सभ्रातृभार्यस्य गुरुर्नः परितुष्यति॥ किं तु व्यादिश मे देशं सोदकं बहुकाननम्। यत्राश्रमपदं कृत्वा वसेयं निरतः सुखम्॥ ततोऽब्रवीन्मुनिश्रेष्ठः श्रुत्वा रामस्य भाषितम्। ध्यात्वा मुहुर्तं धर्मात्मा ततोवाच वचः शुभम्॥ इतो द्वियोजने तात बहुमूलफलोदकः। देशो बहुमृगः श्रीमान् पञ्चवट्यभिविश्रुतः॥ तत्र गत्वाऽऽश्रमपदं कृत्वा सौमित्रिणा सह। रमस्व त्वं पितुर्वाक्यं यथोक्तमनुपालयन्॥ विदितो ह्येष वृत्तान्तो मम सर्वस्तवानघ। तपसश्च प्रभावेण स्नेहाद् दशरथस्य च।१५।। हृदयस्थं च ते च्छन्दो विज्ञातं तपसा मया। इह वासं प्रतिज्ञाय मया सह तपोवने ॥ अतश्च त्वामहं ब्रूमि गच्छ पञ्चवटीमिति। स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते॥ स देशः श्लाघनीयश्च नातिदूरे च राघव । गोदावर्याः समीपे च मैथिली तत्र रंस्यते॥ प्राज्यमूलफलैश्चैव नानाद्विजगणैर्युतः। विविक्तश्च महाबाहो पुण्यो रम्यस्तथैव च॥ भवानपि सदाचारः शक्तश्च परिरक्षणे। अपि चात्र वसन् राम तापसान् पालयिष्यसि॥ एतदालक्ष्यते वीर मधूकानां महावनम्। उत्तरेणास्य गन्तव्यं न्यग्रोधमपि गच्छता॥ ततः स्थलमुपारुह्य पर्वतस्याविदूरतः। ख्यातः पञ्चवटीत्येव नित्यपुष्पितकाननः॥ अगस्त्येनैवमुक्तस्तु रामः सौमित्रिणा सह। सत्कृत्यामन्त्रयामास तमृषि सत्यवादिनम्॥ तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ। तमाश्रमं पञ्चवटी जग्मतुः सह सीतया॥ गृहीतचापौ तु नराधिपात्मजौ विषक्ततूणी समरेष्वकातरौ। यथोपदिष्टेन पथा महर्षिणा प्रजग्मतुः पञ्चवटीं समाहितौ॥ अथ पञ्चवटीं गच्छन्नन्तरा रघुनन्दनः। आससाद महाकायं गृधं भीमपराक्रमम्॥ तं दृष्ट्वा तौ महाभागौ वनस्थं रामलक्ष्मणौ। मेनाते राक्षसं पक्षिं ब्रुवाणौ को भवानिति॥ ततो मधुरया वाचा सौम्यया प्रीणयन्निव। उवाच वत्स मां विद्धि वयस्यं पितुरात्मनः॥ स तं पितृसखं मत्वा पूजयामास राघवः। स तस्य कुलमव्यग्रमथ पप्रच्छ नाम च॥ रामस्य वचनं श्रुत्वा कुलमात्मानमेव च। आचचक्षे द्विजस्तस्मै सर्वभूतसमुद्भवम्॥ पूर्वकाले महाबाहो ये प्रजापतयोऽभवन्। तान् मे निगदतः सर्वानादितः शृणु राघव ॥ कर्दमः प्रथमस्तेषां विकृतस्तदनन्तरम्। शेषश्च संश्रयश्चैव बहुपुत्रश्च वीर्यवान्॥ स्थाणुर्मरीचिरत्रिश्च क्रतुश्चैव महाबलः। पुलस्त्यश्चाङ्गिराश्चैव प्रचेताः पुलहस्तथा ॥ दक्षो विवस्वानपरोऽरिष्टनेमिश्च राघव। कश्यपश्च महातेजास्तेषामासीच्च पश्चिमः॥ प्रजापतेस्तु दक्षस्य बभूवुरिति विश्रुताः। षष्टिर्दुहितरो राम यशस्विन्यो महायशः॥ कश्यपः प्रतिजग्राह तासामष्टौ सुमध्यमाः। अदितिं च दितिं चैव दनूमपि च कालकाम्॥ ताम्रां क्रोधवशां चैव मर्नु चाप्यनलामपि। तास्तु कन्यास्ततः प्रीतः कश्यपः पुनरब्रवीत्॥ पुत्रांस्त्रैलोक्यभतृन् वै जनयिष्यथ मत्समान्। अदितिस्तन्मना राम दितिश्च दनुरेव च ॥ कालका च महाबाहो शेषास्त्वमनसोऽभवन्। अदित्यं जज्ञिरे देवास्त्रयस्त्रिंशदरिंदम॥ आदित्या वसवो रुद्रा अश्विनौ च परंतप । दितिस्त्वजनयत् पुत्रान् दैत्यांस्तात यशस्विनः॥ तेषामियं वसुमती पुराऽऽसीत् सवनार्णवा। दनुस्त्वजनयत् पुत्रमश्वग्रीवमरिंदम ॥ नरकं कालकं चैव कालकापि व्यजायत। क्रौञ्ची भासीं तथा श्येनी धृतराष्ट्री तथा शुकीम्॥ ताम्रा तु सुषुरे कन्याः पञ्चैता लोकविश्रुताः। उलूकाज्जनयत् क्रौञ्ची भासी भासान् व्यजायत॥ श्येनी श्येनांश्च गृधांश्च व्यजायत सुतेजसः। धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः॥ चक्रवाकांश्च भद्रं ते विजज्ञे सापि भामिनी। शुकी नतां विजज्ञे तु नतायां विनता सुता॥ दश क्रोधवशा राम विजज्ञेऽप्यात्मसम्भवाः। मृगी च मृगमन्दां च हरिं भद्रमदामपि॥ मातङ्गीमथ शार्दूलीं श्वेतां च सुरभी तथा। सर्वलक्षणसम्पन्नां सुरसां कद्रुकामपि ॥ अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम। ऋक्षाश्च मृगमन्दायाः सृमराश्चमरास्तथा॥ ततस्त्विरावतीं नाम जज्ञे भद्रमदा सुताम्। तस्यास्त्वैरावतः पुत्रो लोकनाथो महागजः॥ हर्याश्च हरयोऽपत्यं वानराश्च तपस्विनः। गोलाङ्गलाश्च शार्दूली व्याघ्रांश्चाजनयत् सुतान् ॥ मातङ्गयोस्त्वथ मातङ्गा अपत्यं मनुजर्षभ। दिशागजं तु काकुत्स्थ श्वेता व्यजनयत् सुतम्॥ ततो दुहितरौ राम सुरभिट्टै व्यजायत। रोहिणी नाम भद्रं ते गन्धर्वी च यशस्विनीम्॥ रोहिण्यजनयद् गावो गन्धर्वी वाजिनः सुतान्। सुरसाऽजनयन्त्रागान् राम कद्रूश्च पन्नगान्॥ मनुर्मनुष्याञ्जनयत् कश्यपस्य महात्मनः। ब्राह्मणान् क्षत्रियान् वैश्याशूद्रांश्च मनुजर्षभ॥ मुखतो ब्राह्मणो जाता उरसः क्षत्रियास्तथा। ऊरुभ्यां जज्ञिरे वैश्याः पद्भयां शूद्रा इति श्रुतिः॥ सर्वान् पुण्यफलान् वृक्षाननलापि व्यजायत। विनता च शुकीपौत्री कद्रूश्च सुरसास्वसा ॥ कर्नागसहस्रं तु विजज्ञे धरणीधरान्। द्वौ पुत्रौ विनतायास्तु गरुडोऽरुण एव च॥ तस्माज्जातोऽहमरुणात् सम्पतिश्च ममाग्रजः। जटायुरिति मां विद्धि श्येनीपुत्रमरिंदम॥ सोऽहं वाससहायस्ते भविष्यामि यदीच्छसि। सीतां च तात रक्षिष्ये त्वयि याते सलक्ष्मणे॥ जटायुषं तु प्रतिपूज्य राघवो मुदा परिप्वज्य च संनतोऽभवत्। जटायुषा संकथितं पुनः पुनः॥ स तत्र सीतां परिदाय मैथिली सहैव तेनातिबलेन पक्षिणा। जगाम तां पञ्चवटीं सलक्ष्मणो रिपून् दिधक्षस वनानि पालयन्॥ ततः पञ्चवटीं गत्वा नानाव्यालमृगायुताम्। उवाच लक्ष्मणं रामो भ्रातरं दीप्ततेजसम्॥ आगताः स्म यथोद्दिष्टं यं देशं मुनिरब्रवीत्। अयं पञ्चवटीदेशः सौम्य पुष्पितकाननः॥ सर्वतश्चार्यतां दृष्टिः कानने निपुणो ह्यसि । आश्रमः कतरस्मिन् नो देशे भवति सम्मतः॥ रमते यत्र वैदेही त्वमहं चैव लक्ष्मणः। तादृशो दृश्यतां देशः संनिकृष्टजलाशयः॥ वनरामण्यकं यत्र जलरामण्यकं तथा। संनिकृष्टं च यस्मिस्तु समित्पुष्पकृशोदकम्॥ एवमुक्तस्तु रामेण लक्ष्मणः संयताञ्जलिः। सीतासमक्षं काकुत्स्थमिदं वचनमब्रवीत्॥ परवानस्मि काकुत्स्थ त्वयि वर्षशतं स्थिते। स्वयं तु रुचिरे देशे क्रियतामिति मां वद॥ सुप्रीतस्तेन वाक्येन लक्ष्मणस्य महाद्युतिः। विमृशन् रोचयामास देशं सर्वगुणान्वितम्॥ स तं रुचिरमाक्रम्य देशमाश्रमकर्मणि। हस्ते गृहीत्वा हस्तेन रामः सौमित्रिमब्रवीत्॥ अयं देशः समः श्रीमान् पुष्पितैस्तरुभिर्वृतः। इहाश्रमपदं रम्यं यथावत् कर्तुमर्हसि ॥ इयमादित्यसंकाशैः पद्मः सुरभिगन्धिभिः। अदूरे दृश्यते रम्या पद्मिनी पद्मशोभिता ॥ यथाख्यातमगस्त्येन मुनिना भावितात्मना। १ इयं गोदावरी रम्या पुष्पितैस्तरुभिर्वृता॥ हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता। नातिदूरे स चासन्ने मृगयूथनिपीडिता॥ मयूरनादिता रम्याः प्रांशवो बहुकन्दराः। दृश्यन्ते गिरयः सौम्य फुल्लैस्तरुभिरावृताः॥ सौवर्णं राजतैस्तारैर्देशे देशे तथा शुभैः। गवाक्षिता इवाभान्ति गजाः परमभक्तिभिः॥ सालैस्तालैस्तमालैश्च खजूरैः पनसैर्दुमैः। नीवारैस्तिनिशैश्चैव पुन्नागैश्चौपशोभिताः॥ चूतैरशोकैस्तिलकैः केतकैरपि चम्पकैः। पुष्पगुल्मलतोपेतैस्तैस्तैस्तरुभिरावृताः॥ स्यन्दनैश्चन्दनैपैः पनसैलकुचैरपि। धवाश्वकर्णखदिरैः शमीकिंशुकपाटलैः॥ इदं पुण्यमिदं रम्यमिदं बहुमृगद्विजम्। इह वत्स्याम सौमित्रे सार्धमेतेन पक्षिणा॥ एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा। अचिरेणाश्रमं भ्रातुश्चकार सुमहाबलः॥ पर्णशालां सुविपुलां तत्र संघातमृत्तिकाम्। सुस्तम्भां मस्करैदीर्धेः कृतवंशां सुशोभनाम्॥ शमीशाखाभिरास्तीर्य दृढपाशावपाशिताम्। कुशकाशशरैः पर्णैः सुपरिच्छादितां तथा॥ समीकृततलां रम्यां चकार सुमहाबलः। निवासं राघवस्यार्थे प्रेक्षणीयमनुत्तमम्॥ स गत्वा लक्ष्मणः श्रीमान् नदी गोदावरी तदा। स्नात्वा पद्मानि चादाय सफलः पुनरागतः॥ ततः पुष्पबलिं कृत्वा शान्तिं च स यथाविधि। दर्शयामास रामाय तदाश्रमपदं कृतम्॥ स तं दृष्ट्वा कृतं सौम्यमाश्रमं सह सीतया। राघवः पर्णशालायां हर्षमाहारयत् परम्॥ सुसंहृष्टः परिष्वज्य बाहुभ्यां लक्ष्मणं तदा। अतिस्निग्धं च गाढं च वचनं चेदमब्रवीत्॥ प्रीतोऽस्मि ते महत् कर्म त्वया कृतमिदं प्रभो। प्रदेयो यन्निमित्तं ते परिष्वङ्गो मया कृतः॥ भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण। त्वया पुत्रेण धर्मात्मा स संवृतः पिता मम ॥ एवं लक्ष्मणमुक्त्वा तु राघवो लक्ष्मिवर्धनः। तस्मिन् देशे बहुफले न्यवसत् स सुखं सुखी॥ कंचित् कालं स धर्मात्मा सीतया लक्ष्मणेन च। अन्वास्यमानो न्यवसत् स्वर्गलोके यथामरः॥ वसतस्तस्य तु सुखं राघवस्य महात्मनः। ''शरद्व्यपाये हेमन्तऋतुरिष्टः प्रवर्तत॥ स कदाचित् प्रभातायां शर्वर्यां रघुनन्दनः। प्रययावभिषेकार्थं रम्यां गोदावरी नदीम्॥ प्रह्वः कलशहस्तस्तु सीतया सह वीर्यवान्। पृष्ठतोऽनुव्रजन् भ्राता सौमित्रिरिदमब्रवीत्॥ अयं स कालः सम्प्राप्तः प्रियो यस्ते प्रियंवद। अलंकृत इवाभाति येन संवत्सरः शुभः॥ नीहारपरुषो लोकः पृथिवी सस्यमालिनी। जलान्यनुपभोग्यानि सुभगो हव्यवाहनः ॥ नवाग्रयणपूजाभिरभ्यर्च्य पितृदेवताः। कृताग्रयणकाः काले सन्तो विगतकल्मषाः॥ प्राज्यकामा जनपदा: सम्पन्नतरगोरसाः। विचरन्ति महीपाला यात्रार्थं विजिगीषवः॥ सेवमाने दृढं सूर्ये दिशमन्तकसेविताम्। विहीनतिलकेव स्त्री नोत्तरा दिक् प्रकाशते॥ प्रकृत्या हिमकोशाढ्यो दूरसूर्यश्च साम्प्रतम्। यथार्थनामा सुव्यक्तं हिमवान् हिमवान् गिरिः॥ अत्यन्तसुखसंचारा मध्याह्ने स्पर्शतः सुखाः। दिवसाः सुभगादित्याश्छायासलिलदुर्भगाः॥ मृदुसूर्याः सुनीहाराः पटुशीताः समाहिताः। शून्यारण्या हिमध्वस्ता दिवसा भान्ति साम्प्रतम्॥ निवृत्ताकाशशयनाः पुष्यनीता हिमारुणाः। शीतवृद्धतरायामास्त्रियामा यान्ति साम्प्रतम्॥ रविसंक्रांन्तसौभाग्यस्तुषारारुणमण्डलः। निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते॥ ज्योत्स्ना तुषारमलिना पौर्णमास्यां न राजते। सीतेव चातपश्यामा लक्ष्यते न च शोभते॥ प्रकृत्या शीतलस्पर्शो हिमविद्धश्च साम्प्रतम्। प्रवाति पश्चिमो वायुः काले द्विगुणशीतलः॥ वाष्पच्छन्नान्यरण्यानि यवगोधूमवन्ति च। शोभन्तेऽभ्युदिते सूर्ये नदद्भिः कौञ्चसारसैः॥ खजूरपुष्पाकृतिभिः शिरोभिः पूर्णतण्डुलैः। शोभन्ते किंचिदालम्बाः शालय: कनकप्रभाः॥ मयूखैरुपसर्पद्भिर्हिमनीहारसंवृतैः। दूरमभ्युदितः सूर्यः शशाङ्क इव लक्ष्यते॥ आग्राह्यवीर्यः पूर्वाह्ने मध्याह्ने स्पर्शतः सुखः। संरक्तः किंचिदापाण्डुरातपः शोभते क्षितौ॥ अवस्यायनिपातेन किंचित्प्रक्लिन्नशाद्वला। वनानां शोभते भूमिर्निविष्टतरुणातपा॥ स्पृशन् सुविपुलं शीतमुदकं द्विरदः सुखम्। अत्यन्ततृषितो वन्यः प्रतिसंहरते करम्॥ एते हि समुपासीना विहगा जलचारिणः। नावगाहन्ति सलिलमप्रगल्भा इवाहवम्॥ अवस्यायतमोनद्धा नीहारतमसावृताः। प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वनराजयः॥ वाष्पसंछन्त्रसलिला रुतविज्ञेयसारसाः। हिमावालुकैस्तीरैः सरितो भान्ति साम्प्रतम्॥ तुषारपतनाच्चैव मृदुत्वाद् भास्करस्य च। शैत्यादगाग्रस्थमपि प्रायेण रसवज्जलम्॥ जराजर्जरितैः पत्रैः शीर्णकेसरकर्णिकैः। नालशेषा 'हिमध्वस्ता न भान्ति कमलाकराः॥ अस्मिंस्तु पुरुषव्याघ्र काले दुःखसमन्वितः। तपश्चरित धर्मात्मा त्वद्भक्त्या भरतः पुरे॥ त्यक्त्वा राज्यं च मानं च भोगांश्च विविधान् बहून्। तपस्वी नियताहारः शेते शीते महीतले॥ सोऽपि वेलामिमां नूनमभिषेकार्थमुद्यतः। वृतः प्रकृतिभिर्नित्यं प्रयाति सरयूं नदीम्॥ अत्यन्तसुखसंवृद्धः सुकुमारो हिमादितः। कथं त्वपररात्रेषु सरयूमवगाहते॥ पद्मपत्रेक्षणः श्यामः श्रीमान् निरुदरो महान्। धर्मशः सत्यवादी च ह्रीनिषेधो जितेन्द्रियः॥ प्रियाभिभाषी मधुरो दीर्घबाहुररिंदमः। संत्यज्य विविधान् सौख्यानार्यं सर्वात्मना श्रितः॥ जितः स्वर्गस्तव भ्रात्रा भरतेन महात्मना। वनस्थमपि तापस्ये यस्त्वामनुविधीयते॥ न पित्र्यमनुवर्तन्ते मातृकं द्विपदा इति। ख्यातो लोकप्रवादोऽयं भरतेनान्यथा कृतः॥ भर्ता दशरथो यस्याः साधुश्च भरतः सुतः। कथं नु साम्बा कैकेयी तादृशी क्रुरदशिनी॥ इत्येवं लक्ष्मणे वाक्यं स्नेहाद् वदति धार्मिके। परिवादं जनन्यास्तमसहन् राघवोऽब्रवीत्॥ न तेऽम्बा मध्यमा तात गर्हितव्या कदाचन। तामेवेक्ष्वाकुनाथस्य भरतस्य कथां कुरु॥ निश्चितैव हि मे बुद्धिर्वनवासे दृढव्रता। भरतस्नेहसंतप्ता बालिशीक्रियते पुनः॥ संस्मराम्यस्य वाक्यानि प्रियाणि मधुराणि च। हृद्यान्यमृतकल्पानि मन:प्रह्लादनानि च॥ कदा ह्यहं समेष्यामि भरतेन महात्मना। शत्रुघ्नेन च वीरेण त्वया च रघुनन्दन ॥ इत्येवं विलपंस्तत्र प्राप्य गोदावरी नदीम्। चक्रेऽभिषेकं काकुत्स्थः सानुजः सह सीतया॥ तर्पयित्वाथ सलिलैस्तैः पितॄन् दैवतानपि। स्तुवन्ति स्मोदितं सूर्य देवताश्च तथानघाः।॥ कृताभिषेकः स रराज रामः सीताद्वितीयः सह लक्ष्मणेन। कृताभिषेकस्त्वगराजपुत्र्या रुद्रः सनन्दिर्भगवानिवेशः॥ कृताभिषेको रामस्तु सीता सौमित्रिरेव च। तस्माद् गोदावरीतीरात् ततो जग्मुः स्वमाश्रमम्॥ आश्रमं तमुपागम्य राघवः सहलक्ष्मणः। कृत्वा पौर्वाह्निकं कर्म पर्णशालामुपागमत् ॥ उवास सुखितस्तत्र पूज्यमानो महर्षिभिः। स रामः पर्णशालायामासीनः सह सीतया॥ विरराज महाबाहुश्चित्रया चन्द्रमा इव। लक्ष्मणेन सह भ्राता चकार विविधाः कथाः॥ तदासीनस्य रामस्य कथासंसक्तचेतसः। तं देशं राक्षसी काचिदाजगाम यदृच्छया॥ सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः। भगिनी राममासाद्य ददर्श त्रिदशोपमम्॥ दीप्तास्यं च महाबाहुं पद्भपत्रायतेक्षणम्। गजविक्रान्तगमनं जटामण्डलधारिणम्।७।। सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम्। राममिन्दीवरश्यामं कंदर्पसदृशप्रभम्॥ वभूवेन्द्रोपमं दृष्ट्वा राक्षसी काममोहिता। सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी॥ विशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा। प्रियरूपं विरूपा सा सुस्वरं भैरवस्वना ॥ तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी। न्यायवृत्तं सुदुर्वृता प्रियमप्रियदर्शना ॥ शरीरजसमाविष्टा राक्षसी राममब्रवीत्। जटी तापसवेषेण सभार्यः शरचापधृक् ॥ आगतस्त्वमिमं देशं कथं राक्षससेवितम्। किमागमनकृत्यं ते तत्त्वमाख्यातुमर्हसि॥ एवमुक्तस्तु राक्षस्या शूर्पनख्या परंतपः। ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे॥ आसीद् दशरथो नाम राजा त्रिदशविक्रमः। तस्याहमग्रजः पुत्रो रामो नाम जनैः श्रुतः॥ भ्रातायं लक्ष्मणो नाम यवीयान् मामनुव्रतः। इयं भार्या च वैदेही मम सीतेति विश्रुता॥ नियोगात् तु नरेन्द्रस्य पितुर्मातुश्च यन्त्रितः। धर्मार्थं धर्मकाण्क्षी च वनं वस्तुमिहागतः॥ त्वां तु वेदितुमिच्छामि कस्य त्वं कासि कस्य वा। त्वं हि तावन्मनोज्ञाङ्गी राक्षसी प्रतिभासि मे ॥ इह वा किंनिमित्तं त्वमागता ब्रूहि तत्त्वतः। साब्रवीद् वचनं श्रुत्वा राक्षसी मदनार्दिता॥ श्रूयतां राम तत्त्वार्थं वक्ष्यामि वचनं मम। अहं शूर्पणखा नाम राक्षसी कामरूपिणी॥ अरण्यं विचरामीदमेका सर्वभयंकरा। रावणो नाम मे भ्राता यदि ते श्रोत्रमागतः॥ वीरो विश्रवसः पुत्रो यदि ते श्रोत्रमागतः। प्रवृद्धनिद्रश्च सदा कुम्भकर्णो महाबलः॥ विभीषणस्तु धर्मात्मा स तु राक्षसचेष्टितः। प्रख्यातवीर्यौ च रणे भ्रातरौ खरदूषणौ॥ तानहं समतिक्रांता राम त्वापूर्वदर्शनात्। समुपेतास्मि भावेन भर्तारं पुरुषोत्तमम्॥ अहं प्रभावसम्पन्ना स्वच्छन्दबलगामिनी। चिराय भव भर्ता मे सीतया किं करिष्यसि ॥ विकृता च विरूपा च न सेयं सदृशी तव। अहमेवानुरूपा ते भार्यारूपेण पश्य माम्।।२६ इमां विरूपामसती कराला निर्णतोदरीम्। अनेन सह ते भ्रात्रा भक्षयिष्यामि मानुषीम्॥ ततः पर्वतशृङ्गाणि वनानि विविधानि च। पश्यन् सह मया कामी दण्डकान् विचरिष्यसि॥ इत्येवमुक्त: काकुत्स्थः प्रहस्य मदिरेक्षणाम्। इदं वचनमारेभे वक्तुं वाक्यविशारदः॥ ततः पर्वतशृङ्गाणि वनानि विविधानि च। पश्यन् सह मया कामी दण्डकान् विचरिष्यसि॥ इत्येवमुक्त: काकुत्स्थः प्रहस्य मदिरेक्षणाम्। इदं वचनमारेभे वक्तुं वाक्यविशारदः॥ तां तु शूर्पणखां रामः कामपाशावपाशिताम्। स्वेच्छया श्लक्ष्णया वाचा स्मितपूर्वमथाब्रवीत्॥ कृतदारोऽसि भवती भार्येयं दयिता मम। त्वद्विधानां तु नारीणां सुदु:खा ससपत्नता॥ अनुजस्त्वेष मे भ्राता शीलवान् प्रियदर्शनः। श्रीमानकृतदारश्च लक्ष्मणो नाम वीर्यवान्॥ अपूर्वी भार्यया चार्थी तरुणः प्रियदर्शनः। अनुरूपश्च ते भर्ता रूपस्यास्य भविष्यति॥ एनं भज विशालाक्षि भर्तारं भ्रातरं मम। असपत्ना वरारोहे मेरुमर्कप्रभा यथा॥ इति रामेण सा प्रोक्ता राक्षसी काममोहिता। विसृज्य रामं सहसा ततो लक्ष्मणमब्रवीत्॥ अस्य रूपस्य ते युक्ता भार्याहं वरवर्णिनी। मया सह सुखं सर्वान् दण्डकान् विचरिष्यसि।७।। एवमुक्तस्तु सौमित्री राक्षस्या वाक्यकोविदः। ततः शूपनखीं स्मित्वा लक्ष्मणो युक्तमब्रवीत्॥ कथं दासस्य मेदासी भार्या भवितुमिच्छसि। सोऽहमार्येण परवान् भ्रात्रा कमलवर्णिनी॥ समृद्धार्थस्य सिद्धार्था मुदितामलवर्णिनि। आर्यस्य त्वं विशालाक्षि भार्या भव यवीयसी॥ एतां विरूपामसती कराला निर्णतोदरीम्। भार्यां वृद्धां परित्यज्य त्वामेवैष भजिष्यति॥ को हि रूपमिदं श्रेष्ठं संत्यज्य वरवर्णिनि। मानुषीषु वरारोहे कुर्याद् भावं विचक्षणः॥ इति सा लक्ष्मणेनोक्ता कराला निर्णतोदरी। मन्यते तद्वचः सत्यं परिहासाविचक्षणा॥ सा रामं पर्णशालायामुपविष्टं परंतपम्। सीतया सह दुर्धर्षमब्रवीत् काममोहिता॥ इमां विरूपामसती कराला निर्णतोदरीम्। वृद्धां भार्यामवष्टभ्य न मां त्वं बहु मन्यसे॥ अद्येमां भक्षयिष्यामि पश्यतस्तव मानुषीम्। त्वया सह चरिष्यामि निःसपत्ना यथा सुखम्॥ इत्युक्त्वा मृगशावाक्षीमलातसदृशेक्षणा। अभ्यगच्छत् सुसंक्रुद्धा महोल्का रोहिणीमिव ॥ तां मृत्युपाशप्रतिमामापतन्ती महाबलः। विगृह्य रामः कुपितस्ततो लक्ष्मणमब्रवीत्॥ कुरैरनार्यैः सौमित्रे परिहासः कथंचन। न कार्यः पश्य वैदेहीं कथंचित् सौम्य जीवतीम्॥ इमां विरूपामसतीमतिमत्तां महोदरीम्। राक्षसी पुरुषव्याघ्र विरूपयितुमर्हसि॥ इत्युक्तो लक्ष्मणस्तस्या क्रुद्धो रामस्य पश्यतः। उद्धृत्य खङ्ग चिच्छेद कर्णनासे महाबलः॥ निकृत्तकर्णनासा तु विस्वरं सा विनद्य च। यथागतं प्रदुद्राव घोरा शूर्पणखा वनम्॥ सा विरुपा महाघोरा राक्षसी शोणितोक्षिता। ननाद विविधान् नादान् यथा प्रावृषि तोयदः॥ सा विक्षरन्ती रुधिरं बहुधा घोरदर्शना। प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम्॥ ततस्तु सा राक्षससङ्घसंवृतं खरं जनस्थानगतं विरूपिता। उपेत्या तं भ्रातरमुग्रतेजसं पपात भूमौ गगनाद् यथाशनिः॥ ततः सभार्ये भयमोहमूच्छिता सलक्ष्मणं राघवमागतं वनम्। विरूपणं चात्मनि शोणितोक्षिता शशंस सर्वं भगिनी खरस्य सा॥ तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम्। भगिनीं क्रोधसंतप्तः शरः पप्रच्छ राक्षसः॥ उत्तिष्ठ तावदाख्याहि प्रमोहं जहि सम्भ्रमम्। व्यक्तमाख्याहि केन त्वमेवंरूपा विरूपिता॥ कः कृष्णसर्पमासीनमाशीविषमनागसम्। तुदत्यभिसमापनमङ्गुल्यग्रेण लीलया॥ कालपाशं समासज्य कण्ठे मोहान बुध्यते। यस्त्वामद्य समासाद्य पीतवान् विषमुत्तमम्॥ बलविक्रमसम्पन्ना कामगा कामरूपिणी। इमामवस्थां नीता त्वं केनान्तकसमागता॥ देवगन्धर्वभूतानामृषीणां च महात्मनाम्। कोऽयमेवं महावीर्यस्त्वां विरूपां चकार ह॥ नहि पश्याम्यहं लोके यः कुर्यान्मम विप्रियम्। अमरेषु सहस्राक्षं महेन्द्रं पाकशासनम्।७।। अद्याहं मार्गणैः प्राणानादास्ये जीवितान्तगैः। सलिले क्षीरमासक्तं निष्पिबन्निव सारसः॥ निहतस्य मया संख्ये शरसंकृत्तमर्मणः। सफेनं रुधिरं कस्य मेदिनी पातुमिच्छति॥ कस्य पत्ररथाः कायान्मांसमुत्कृत्य संगताः। प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे॥ तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः। मयापकृष्टं कृपणं शक्तास्त्रातुं महाहवे॥ उपलभ्य शनैः संज्ञां तं मे शंसितुमर्हसि। येन त्वं दुर्विनीतेन वने विक्रम्य निर्जिता॥ इति भ्रातुर्वचः श्रुत्वा कुद्धस्य च विशेषतः। ततः शूर्पणखा वाक्यं सवाष्पमिदमब्रवीत्॥ तरुणौ रूपसम्पनौ सुकुमारौ महाबलौ। पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ॥ फलमूलाशनौ दान्तौ तापसौ ब्रह्मचारिणौ। पुत्रौ दशरथस्यास्तां भ्रातरौ रामलक्ष्मणौ॥ गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ। देवौ वा दानवावेतौ न तर्कयितुमुत्सहे ॥ तरुणी रूपसम्पन्ना सर्वाभरणभूषिता। दृष्ट्वा तत्र मया नारी तयोर्मध्ये सुमध्यमा॥ ताभ्यामुभाभ्यां सम्भूय प्रमदामधिकृत्य ताम्। इमामवस्थां नीताहं यथाऽनाथाऽसती तथा॥ तस्याश्चानृजुवृत्तायास्तयोश्च हतयोरहम्। सफेनं पातुमिच्छामि रुधिरं रणमूर्धनि॥ एव मे प्रथमः कामः कृतस्तत्र त्वया भवेत्। तस्यास्तयोश्च रुधिरं पिबेयमहमाहवे॥ इति तस्यां ब्रुवाणायां चतुर्दश महाबलान्। व्यादिदेश खरः क्रुद्धो राक्षसानन्तकोपमान्॥ मानुषौ शस्त्रसम्पन्नौ चीरकृष्णाजिनाम्बरौ। प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह ॥ तौ हत्वा तां च दुर्वृत्तामुपावर्तितुमर्हथ। इयं च भगिनी तेषां रुधिरं मम पास्यति ॥ मनोरथोऽयमिष्टोऽस्या भगिन्या मम राक्षसाः। शीघ्रं सम्पाद्यतां गत्वा तौ प्रमथ्य स्वतेजसा ॥ युष्माभिनिहतौ दृष्ट्वा ताबुभौ भ्रातरौ रणे। इयं प्रहृष्टा मुदिता रुधिरं युधि पास्यति ॥ इति प्रतिसमादिष्टा राक्षसास्ते चतुर्दश। तत्र जग्मुस्तया सार्धे घना वातेरिता इव ॥ स पुनः पतितां दृष्ट्वा क्रोधाच्छूर्पणखां पुनः। उवाच व्यक्तया वाचा तामनर्थार्थमागताम्॥ मया त्विदानी शूरास्ते राक्षसाः पिशिताशनाः। त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः॥ भक्ताश्चैवानुरक्ताश्च हिताश्च मम नित्यशः। हन्यमाना न हन्यन्ते न न कुर्युर्वचो मम॥ किमेतच्छ्रोतुमिच्छामि कारणं यत्कृते पुनः। हा नाथेति विनर्दन्ती सर्पवच्चेष्टसे क्षितौ॥ अनाथवद् विलपसि किं नु नाथे मयि स्थिते। उत्तिष्ठोत्तिष्ठ मा मैवं वैल्कव्यं त्यज्यतामिति ॥ इत्येवमुक्ता दुर्धर्षा खरेण परिसान्त्विता। विमृज्य नयने सारे खरं भ्रातरमब्रवीत्॥ अस्मीदानीमहं प्राप्ता हतश्रवणनासिका। शोणितौघपरिक्लिन्ना त्वया च परिसान्त्विता।७।। प्रेषिताश्च त्वया शूरा राक्षसास्ते चतुर्दश। निहन्तुं राघवं घोरं मत्प्रियार्थं सलक्ष्मणम्॥ ते तु रामेण सामर्षाः शूलपट्टिशपाणयः। समरे निहताः सर्वे सायकैमर्मभेदिभिः॥ तान् भूमौ पतितान् दृष्ट्वा क्षणेनैव महाजवान्। रामस्य च महत्कर्म महांस्त्रासोऽभवन्मम॥ सास्मि भीता समुद्विग्ना विषण्णा च निशाचर। शरणं त्वं पुनः प्राप्ता सर्वतो भयदर्शिनी॥ विषादनक्राध्युषिते परित्रासोर्मिमालिनि। किं मां न त्रायसे मग्नां विपुले शोकसागरे॥ एते च निहता भूमौ रामेण निशितैः शरैः। ये च मे पदवी प्राप्ता राक्षसाः पिशिताशनाः॥ मयि ते यद्यनुक्रोशो यदि रक्षःसु तेषु च। रामेण यदि शक्तिस्ते तेजो वास्ति निशाचर॥ दण्डकारण्यनिलयं जहि राक्षसकण्टकम्। यदि रामममित्रघ्नं न त्वमद्य वधिष्यसि ॥ तव चैवाग्रतः प्राणांस्त्यक्ष्यामि निरपत्रपा। बुद्ध्याहमनुपश्यामि न त्वं रामस्य संयुगे॥ स्थातुं प्रतिमुखे शक्तः सबलोऽपि महारणे। शूरमानीं न शूरस्त्वं मिथ्यारोपितविक्रमः॥ अपयाहि जनस्थानात् त्वरितः सहबान्धवः। जहि त्वं समरे मूढान्यथा तु कुलपांसन॥ मानुषौ तौ न शक्नोसि हन्तुं वै रामलक्ष्मणौ। निःसत्त्वस्याल्पवीर्यस्य वासस्ते कीदृशस्त्विह॥ रामतेजोऽभिभूतो हि त्वं क्षिप्रं विनशिष्यसि। स हि तेजः समायुक्तो रामो दशरथात्मजः॥ भ्राता चास्य महावीर्यो येन चास्मि विरूपिता। एवं विलप्य बहुशो राक्षसी प्रदरोदरी॥ भ्रातुः समीपे शोकार्ता नष्टसंज्ञा बभूव ह। कराभ्यामुदरं हत्वा रुरोद भृशदुःखिता॥ आश्रमं प्रतियाते तु खरे खरपराक्रमे। तानेवौत्पातिकान् रामः सह भ्रात्रा ददर्श ह॥ तानुत्पातान् महाघोरान् रामो दृष्ट्वात्यमर्षणः। प्रजानामहितान् दृष्ट्वा वाक्यं लक्ष्मणमब्रवीत्॥ इमान् पश्य महाबाहो सर्वभूतापहारिणः। समुत्थितान् महोत्पातान् संहर्तुं सर्वराक्षसान्॥ अमी रुधिरधारास्तु विसृजन्ते खरस्वनाः। व्योम्नि मेघा निवर्तन्ते पुरुषा गर्दभारुणाः॥ सधूमाश्च शराः सर्वे मम युद्धाभिनन्दिताः। रुक्मपृष्ठानि चापानि विचेष्टन्ते विचक्षण ॥ यादृशा इह कूजन्ति पक्षिणो वनचारिणः। अग्रतो नोऽभयं प्राप्त संशयो जीवितस्य च ॥ सम्प्रहारस्तु सुमहान् भविष्यति न संशयः। अयमाख्याति मे बाहुः स्फुरमाणो मुहुर्मुहुः॥ संनिकर्षे तु नः शूर जयं शत्रोः पराजयम्। सुप्रभं च प्रसन्नं च तव वक्त्रं हि लक्ष्यते॥ उद्यतानां हि युद्धार्थं येषां भवति लक्ष्मण। निष्प्रभं वदनं तेषां भवत्यायुः परिक्षयः॥ रक्षसां नर्दतां घोरः श्रूयतेऽयं महाध्वनिः। आहतानां च भेरीणां राक्षसैः क्रूरकर्मभिः॥ अनागतविधानं तु कर्तव्यं शुभमिच्छता। आपदं शङ्कमानेन पुरुषेण विपश्चिता ॥ तस्माद् गृहीत्वा वैदेहीं शरपाणिर्धनुर्धरः। गुहामाश्रय शैलस्य दुर्गो पादपसंकुलाम्॥ प्रतिकूलितुमिच्छामि न हि वाक्यमिदं त्वया। शापितो मम पादाभ्यां गम्यतां वत्स मा चिरम्॥ त्वं हि शूरश्च बलवान् हन्या एतान् न संशयः। स्वयं निहन्तुमिच्छामि सर्वानेव निशाचरान्॥ एवमुक्तस्तु रामेण लक्ष्मणः सह सीतया। शरानादाय चापं च गुहां दुर्गा समाश्रयत्॥ तस्मिन् प्रविष्टें तु गुहां लक्ष्मणे सह सीतया। हन्त निर्युक्तमित्युक्त्वा रामः कवचमाविशत्॥ स तेनाग्निनिकाशेन कवचेन विभूषितः। बभूव रामस्तिमिरे महानग्निरिवोत्थितः॥ स चापमुद्यम्य महच्छरानादाय वीर्यवान्। सम्बभूवास्थितस्तत्र ज्यास्वनैः पूरयन् दिशः॥ ततो देवाः सगन्धर्वाः सिद्धाश्च सह चारणैः। समेयुश्च महात्मानो युद्धदर्शनकाझ्या॥ ऋषयश्च महात्मानो लोके ब्रह्मर्षिसत्तमाः। समेत्य चोचुः सहितास्तेऽन्योन्यं पुण्यकर्मणः॥ स्वस्ति गोब्राह्मणानां च लोकानां चेति संस्थिता। जयतां राघवो युद्धे पौलस्त्यान् रजनीचरान्॥ चक्रहस्तो यथा युद्धे सर्वानसुरपुंगवान्। एवमुक्त्वा पुनः प्रोचुरालोक्य च परस्परम्॥ चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्। एकश्च रामो धर्मात्मा कथं युद्धं भविष्यति॥ इति राजर्षयः सिद्धाः सगणाश्च द्विजर्षभाः। जातकौतूहलास्तस्थुर्विमानस्थाश्च देवताः॥ आविष्टं तेजसा रामं संग्रामशिरसि स्थितम्। दृष्ट्वा सर्वाणि भूतानि भयाद् विव्यधिरे तदा॥ रूपमप्रतिमं तस्य रामस्याक्लिष्टकर्मणः। बभूव रूपं क्रुद्धस्य रुद्रस्येव महात्मनः॥ इति सम्भाष्यमाणे तु देवगन्धर्वचारणैः। ततो गम्भीरनिदिं घोरचर्मायुधध्वजम्॥ अनीकं यातुधानानां समन्तात् प्रत्यपद्यत। वीरालापान् विसृजतामन्योन्यमभिगच्छताम्॥ चापानि विस्फारयतां जृम्भतां चाप्यभीक्ष्णशः। विप्रघुष्टस्वनानां च दुन्दुभींश्चापि निघ्नताम्॥ तेषां सुविपुलः शब्दः पूरयामास तद् वनम् । तेन शब्देन विवस्ताः स्त्रासिता वनचारिणः॥ दुद्रुवुर्यत्र नि:शब्दं पृष्ठतो नावलोकयन्। तच्चानीकं महावेगं रामं समनुवर्तत ॥ धृतनानाप्रहरणं गम्भीरं सागरोपमम्। रामोऽपि चारयंश्चक्षुः सर्वतो रणपण्डितः॥ ददर्श खरसैन्यं तद् युद्धायाभिमुखो गतः। तितत्य च धनु मि तूण्याश्चोद्धृत्य सायकान् ॥ क्रोधमाहारयत् तीव्र वधार्थं सर्वरक्षसाम्। दुष्प्रेक्ष्यश्चाभवत् क्रुद्धो युगान्ताग्निरिव ज्वलन्॥ तं दृष्ट्वा तेजसाऽऽविष्टं प्राव्यथन् वनदेवताः। तस्य रुष्टस्य रूपं तु रामस्य ददृशे तदा। दक्षस्येव क्रतुं हन्तुमुद्यतस्य पिनाकिनः॥ तत्कार्मुकैराभरणै रथैश्च तद्वर्मभिश्चाग्निसमानवर्णैः। बभूव सैन्यं पिशिताशनानां सूर्योदये नीलमिवाभ्रजालम्। अवष्टब्धधनु रामं क्रुद्धं तं रिपुघातिनम्। ददर्शाश्रममागम्य खरः सह पुरःसरैः॥ तं दृष्ट्वा सगुणं चापमुद्यम्य खरनिःस्वनम्। रामस्याभिमुखं सूतं चोद्यतामित्यचोदयत्॥ स खरस्याज्ञया सूतस्तुरगान् समचोदयत्। यत्र रामो महाबाहुरेको धुन्वन् धनुः स्थितः॥ तं तु निष्पतितं दृष्ट्वा सर्वतो रजनीचराः। मुञ्चमाना महानादं सचिवाः पर्यवारयन्॥ स तेषां यातुधानानां मध्ये रथगतः खरः। बभूव मध्ये ताराणां लोहिताङ्ग इवोद्धतः॥ ततः शरसहस्रेण राममप्रतिमौजसम्। अर्दयित्वा महानादं ननाद समरे खरः॥ ततस्सं भीमधन्वानं क्रुद्धाः सर्वे निशाचराः। रामं नानाविधैः शस्त्रैरभ्यवर्षन्त दुर्जयम्॥ मुद्गरैरायसैः शूलैः प्रासैः खङ्गैः परश्वधैः। राक्षसाः समरे शूरं निजघ्नू रोषतत्पराः॥ ते बलाहकसंकाशा महाकाया महाबलाः। अभ्यधावन्त काकुत्स्थं रथैर्वाजिभिरेव च॥ गजैः पर्वतकूटाभै रामं युद्धे जिघांसवः। ते रामे शरवर्षाणि व्यसृजन् रक्षसां गणाः ॥ शेलेन्द्रमिक धाराभिर्वर्षमाणा महाघनाः। सर्वैः परिवृतो रामो राक्षसैः क्रूरदर्शनैः॥ तिथिष्विव महादेवो वृतः पारिषदां गणैः। तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः॥ प्रतिजग्राह विशिखैनद्यौघानिव सागरः। स तैः प्रहरणैोरैर्भिन्नगात्रो न विव्यथे॥ रामः प्रदीप्तैर्बहुभिर्वश्रेरिव महाचलः। स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः॥ बभूव रामः संध्याभैर्दिवाकर इवावृतः। विषेदुर्देवगन्धर्वाः सिद्धाश्च परमर्षयः॥ एकं सहस्रैर्बहुभिस्तदा दृष्ट्वा समावृतम्। ततो रामस्तु संक्रुद्धो मण्डलीकृतकार्मुकः॥ ससर्ज निशितान् बाणाञ्छतशोऽथ सहस्रशः। दुरावारान् दुर्विषहान् कालपाशोपमान् रणे॥ मुमोच लीलया कङ्कपत्रान् काञ्चनभूषणान्। ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया।।१८। आददू रक्षसां प्राणान् पाशाः कालकृता इव। भित्वा राक्षसदेहांस्तांस्ते शरा रुधिराप्लुताः॥ अन्तरिक्षगता रेजुर्दीप्ताग्निसमतेजसः। असंख्येयास्तु रामस्य सायकाश्चापमण्डलात्॥ विनिष्पेतुरतीवोग्रा रक्ष:प्राणापहारिणः। ते तैर्धनूंषि ध्वजाग्राणि चर्माणि कवचानि च ॥ बाहून् सहस्ताभरणानूरून् करिकरोपमान्। चिच्छेद रामः समरे शतशोऽथ सहस्रशः॥ हयान् काञ्चनसंनाहान् रथयुक्तान् ससारथीन्। गजांश्च सगजारोहान् सहयान् सादिनस्तदा॥ चिच्छिदुर्बिभिदुश्चैव रामबाणा गुणच्युताः। पदातीन् समरे हत्वा अनयद् यमसादनम्॥ ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च बिकर्णिभिः। भीममार्तस्वरं चक्रुश्छिद्यमाना निशाचराः॥ तत्सैन्यं विविधैर्बाणैरर्दितं मर्मभेदिभिः। न रामेण सुखं लेभे शुष्कं वनमिवाग्निना॥ केचिद् भीमबलाः शूरा प्रासाशूलान् परश्वधान्। चिक्षिपुः परमनुद्धा रामाय रमनीचराः॥ तेषां बाणैर्महाबाहुः शस्त्राण्यावार्य वीर्यवान्। जहार समरे प्राणांश्चिच्छेद च शिरोधरान्॥ ते छिन्नशिरसः पेतुश्छिन्नचर्मशरासनाः। सुपर्णवातविक्षिप्ता जगत्यां पादपा यथा ॥ अवशिष्टाश्च ये तत्र विषण्णास्ते निशाचराः। खरमेवाभ्यधावन्त शरणार्थं शराहताः॥ तान् सर्वान् धनुरादाय समाश्वास्य च दूषणः। अभ्यधावत् सुसंक्रुद्धः क्रुद्धं क्रुद्ध इवान्तकः॥ निवृत्तास्तु पुनः सर्वे दूषणाश्रयनिर्भयाः। राममेवाभ्यधावन्त सालतालशिलायुधाः॥ शूलमुद्गरहस्ताश्च पाशहस्ता महाबलाः। सृजन्तः शरवर्षाणि शस्त्रवर्षाणि संयुगे॥ द्रुमवर्षाणि मुञ्चन्त शिलावर्षाणि राक्षसाः। तद् बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम्॥ रामस्यास्य महाघोरं पुनस्तेषां च रक्षसाम्। ते समन्तादभिक्रुद्धा राघवं पुनरार्दयन् ॥ ततः सर्वा दिशो दृष्ट्वा प्रदिशश्च समावृताः। राक्षसैः सर्वतः प्राप्तैः शरवर्षाभिरावृतः॥ स कृत्वा भैरवं नादमस्त्रं परमभास्वरम्। समयोजयद् गान्धर्वं राक्षसेषु महाबलः॥ ततः शरसहस्राणि निर्ययुश्चापमण्डलात्। सर्वा दश दिशो बाणैरापूर्यन्त समागतैः॥ नाददानं शरान् घोरान् विमुञ्चन्तं शरोत्तमान्। विकर्षमाणं पश्यन्ति राक्षसास्ते शरार्दिताः॥ शरान्धकारमाकाशमावृणोत् सदिवाकरम्। बभूवावस्थितो रामः प्रक्षिपन्निव ताञ्छरान्॥ युगपत्पतमानैश्च युगपच्च हतै शम्। युगपत्पतितैश्चैव विकीर्णा वसुधाऽभवत्॥ निहताः पतिताः क्षीणाश्छिन्ना भिन्ना विदारिताः। तत्र तत्र स्म दृश्यन्ते राक्षसास्ते सहस्रशः।॥ सोष्णीषैरुत्तमाङ्गैश्च साङ्गदैर्बाहुभिस्तथा। ऊरुभिर्बाहुभिश्छिनैर्नानारूपैर्विभूषणैः।॥ हयैश्च द्विपमुख्यैश्च रथैर्भिन्नैरनेकशः। चामरव्यजनैश्छत्रैर्ध्वजैर्नानाविधैरपि॥ रामेण बाणाभिहतैर्विच्छिन्नैः शूलपट्टिशैः। विच्छिन्नैः समरे भूमिर्विस्तीर्णाऽभूद् भयंकरा ॥ तान् दृष्ट्वा निहतान् सर्वे राक्षसाः परमातुराः। न तत्र चलितुं शक्ता रामं परपुरंजयम्॥ खरं तु रामाभिमुखं प्रयान्तं वीहिनीपतिः। राक्षसस्त्रिशिरा नाम संनिपत्येदमब्रवीत्॥ मां नीयोजय विक्रान्तं त्वं निवर्तस्व साहसात्। पश्य रामं महाबाहुं संयुगे विनीपातितम्॥ प्रतिजानामि ते सत्यमायुधं चाहमालभे। यथा रामं वधिप्यामि वधार्ह सर्वरक्षसाम्॥ अहं वास्य रणे मृत्युरेष वा समरे मम। विनिवर्त्य रणोत्साहं मुहूर्तं प्राश्निको भव॥ प्रहृष्टो वा हते रामे जनस्थानं प्रयास्यसि। मयि वा निहते रामं संयुगाय प्रयास्यसि ॥ खरस्त्रिशिरसा तेन मृत्युलोभात् प्रसादितः। गच्छ युध्येत्यनुज्ञातो राघवाभिमुखो ययौ॥ त्रिशिरास्तु रथेनैव वाजियुक्तेन भास्वता। अभ्यद्रवद् रणे रामं त्रिशृङ्ग इव पर्वतः॥ शरधारासमूहान् स महामेघ इवोत्सृजन्। व्यसृजत् सदृशं नादं जलार्द्रस्येव दुन्दुभेः॥ आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः। धनुषा प्रतिजग्राह विधुन्वन् सायकाशितान्॥ स सम्प्रहारस्तुमुलो रामत्रिशिरसोस्तदा। सम्बभूवातिबलिनोः सिंहकुञ्जरयोरिव॥ ततस्त्रिशिरसा बाणैर्ललाटे ताडितस्त्रिभिः। अमर्षी कुपितो रामः संरब्ध इदमब्रवीत्॥ अहो विक्रमशूरस्य राक्षसस्येदृशं बलम्। पुष्पैरिव शरैर्योऽहं ललाटेऽस्मि परिक्षतः॥ ममापि प्रतिगृह्णीष्व शरांश्चापगुणाच्च्युतान्। एवमुक्तस्तु संरब्धः शरानाशीविषोपमान्॥ त्रिशोरोवक्षसि क्रुद्धो निजघान चतुर्दश। चतुर्भिस्तुरगानस्य शरैः संनतपर्वभिः॥ न्यपातयत तेजस्वी चतुरस्तस्य वाजिनः। अष्टभिः सायकैः सूतं रथोपस्थे नयपातयत्॥ रामश्चिच्छेद बाणेन ध्वजं चास्य समुच्छ्रितम्। ततो हतरथात् तस्मादुत्पतन्तं निशाचरम्॥ चिच्छेद रामस्तं बाणैर्हदये सोऽभवज्जडः। सायकैश्चाप्रमेयात्मा सामर्षात्तस्य रक्षसः॥ शिरांस्यपातयत् त्रीणि वेगवद्भिस्त्रिभिः शरैः। सधूमशोणितोद्गारी रामबाणाभिपीडितः॥ न्यपतत् पतितैः पूर्वं समरस्थो निशाचरः। हतशेषास्ततो भग्ना राक्षसाः खरसंश्रयाः॥ द्रवन्ति स्म न तिष्ठन्ति व्याधत्रस्ता मृगा इव। तान् खरो द्रवतो दृष्ट्वा निवर्त्य रुषितस्त्वरन्। राममेवाभिदुद्राव राहुश्चन्द्रमसं यथा॥ नेहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह। खरस्याप्यभवत् त्रासो दृष्ट्वा रामस्य विक्रमम्॥ स दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलम्। हतमेकेन रामेण दूषणस्त्रिशिरा अपि॥ तबलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः। आससाद खरो रामं नमुचिर्वासवं यथा ॥ विकृष्य बलवच्चापं नाराचान् रक्तभोजनान्। खरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव॥ ज्यां विधुन्वन् सुबहुशः शिक्षयास्त्राणि दर्शयन्। चचार समरे मार्गाशरैरथ गतः खरः॥ स सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः। पूरयामास तं दृष्ट्वा रामोऽपि सुमहद् धनुः॥ स सायकैर्दुर्विषहैर्विस्फुलिङ्गैरिवाग्निभिः। नभश्चकाराविवरं पर्जन्य इव वृष्टिभिः॥ तद् बभूव शितैर्बाणैः खररामविसर्जितैः। पर्याकाशमनाकाशं सर्वतः शरसंकुलम्॥ शरजालावृतः सूर्यो न तदा स्म प्रकाशते। अन्योन्यवधसंरम्भादुभयोः सम्प्रयुध्यतोः॥ ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः। आजघान रणे रामं तोत्रैरिव महाद्विपम्॥ तं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम्। ददृशुः सर्वभूतानि पाशहस्तमिवान्तकम्॥ हन्तारं सर्वसैन्यस्य पौरुषे पर्यवस्थितम्। परिश्चान्तं महासत्त्वं मेने रामं खरस्तदा॥ तं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम्। दृष्ट्वा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा॥ ततः सूर्यनिकाशेन रथेन महता खरः। आससादाथ तं रामं पतङ्ग इव पापकम्॥ ततोऽस्य सशरं चापं मुष्टिदेशे महात्मनः। खरश्चिच्छेद रामस्य दर्शयन् हस्तलाघवम्॥ स पुनस्त्वपरान् सप्त शरानादाय मर्मणि। निजघान रणे कुद्धः शक्राशनिसमप्रभान्॥ ततः शरसहस्रेण राममप्रतिमौजसम्। अर्दयित्वा महानादं ननाद समरे खरः॥ ततस्तत्प्रहतं बाणैः खरमुक्तैः सुपर्वभिः। पपात कवचं भूमौ रामस्यादित्यवर्चसम्॥ स शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघवः। रराज समरे रामो विधूमोऽग्रिरिव ज्वलन्॥ ततो गम्भीरनिर्हादं रामः शत्रुनिबर्हणः। चकारान्ताय स रिपोः सज्यमन्यन्महद्धनुः॥ सुमहद् वैष्णवं यत् तदतिसृष्टं महर्षिणा। वरं तद् धनुरुद्यम्य खरं समभिधावत ॥ ततः कनकपुखैस्तु शरैः संनतपर्वभिः। चिच्छेद रामः संक्रुद्धः खरस्य समरे ध्वजम्॥ स दर्शनीयो बहुधा विच्छिन्नः काञ्चनो ध्वजः। जगाम धरणीं सूर्यो देवतानामिवाज्ञया॥ तं चतुर्भि खरः क्रुद्धो रामं गात्रेषु मार्गणैः। विव्याध हृदि मर्मज्ञौ मातङ्गमिव तोयरैः॥ स रामो बहुभिर्बाणैः खरकार्मुकनिः सृतैः। विद्धो रुधिरनिक्ताङ्गो बभूव रुषितो भृशम्॥ स धनुर्धन्विनां श्रेष्ठः संगृह्य परमाहवे। मुमोच परमेष्वासः षट् शरानभिलक्षितान्॥ शिरस्येकेन बाणेन द्वाभ्यां बाह्वोरथार्पयत्। त्रिभिश्चन्द्रार्धवक्त्रैश्च वक्षस्यभिजघान ह॥ ततः पश्चान्महोतेजा नाराचान् भास्करोपमान्। जघान राक्षसं क्रुद्धस्त्रयोदश शिलाशितान्॥ रथस्य युगमेकेन चतुर्भिः शबलान् हयान्। षष्ठेन च शिरः संख्ये चिच्छेद खरसारथेः ॥ त्रिभिस्त्रिवेणून् बलवान् द्वाभ्यामक्षं महाबलः। द्वादशेन तु बाणेन खरस्य सकरं धनुः॥ छित्त्वा वज्रनिकाशेन राघवः प्रहसन्निव। त्रयोदशेनेन्द्रसमो बिभेद समरे खरम्॥ प्रभग्नधन्वा विरथो हताश्वो हतसारथिः। गदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा॥ तत् कर्म रामस्य महारथस्य समेत्य देवश्च महर्षयश्च। स्तदा विमानाग्रगताः समेताः॥ ततः शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश। हतान्येकेन रामेण रक्षसां भीमकर्मणाम्॥ दूषणं च खरं चैव हतं त्रिशिरसं रणे। दृष्ट्वा पुनर्महानादान् ननाद जलदोपमा॥ सा दृष्ट्वा कर्म रामस्य कृतमन्यैः सुदुष्करम्। जगाम परमोद्विग्ना लङ्कां रावणपालिताम्॥ सा ददर्श विमानाग्रे रावणं दीप्ततेजसम्। उपोपविष्टं सचिवैर्मरुद्भिरिव वासवम्॥ आसीनं सूर्यसंकाशे काञ्चने परमासने। रुक्मवेदिगतं प्राज्यं ज्वलन्तमिव पावकम्॥ देवगन्धर्वभूतानामृषीणां च महात्मनाम्। अजेयं समरे घोरं व्यात्ताननमिवान्तकम्।६।। देवासुरविमर्देषु वज्राशनिकृतव्रणम्। ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसम्॥ विंशद्भुजं दशग्रीवं दर्शनीयपरिच्छदम्। विशालवक्षसं वीरं राजलक्षणलक्षितम्॥ नद्धवैदूर्यसंकाशं तप्तकाञ्चनभूषणम्। सुभुजं शुक्लदशनं महास्यं पर्वतोपमम्॥ विष्णुचक्रनिपातैश्च शतशो देवसंयुगे। अन्यैः शस्त्रैः प्रहारैश्च महायद्धेषु ताडितम्॥ अहताङ्गैः समस्तैस्तं देवप्रहरणैस्तदा। अक्षोभ्याणां समुद्राणां क्षोभणं क्षिप्रकारिणम्॥ क्षेप्तारं पर्वताग्राणं सुराणां च प्रमर्दनम्। उच्छेत्तारं च धर्माणां परदाराभिमर्शनम्॥ सर्वदिव्यास्त्रयोक्तारं यज्ञविघ्नकरं सदा। पुरीं भोगवतीं गत्वा पराजित्य च वासुकिम्॥ तक्षकस्य प्रियां भार्यां पराजित्य जहार यः। कैलासं पर्वतं गत्वा विजित्य नरवाहनम्॥ विमानं पुष्पकं तस्य कामगं वै जहार यः। वनं चैत्ररथं दिव्यं नलिनी नन्दनं वनम्॥ विनाशयति यः क्रोधाद् देवोद्यानानि वीर्यवान्। चन्द्रसूर्यौ महाभागावुत्तिष्ठन्तौ परंतपौ॥ निवारयति बाहुभ्यां यः शैलशिखरोपमः। दशवर्षसहस्राणि तपस्तप्त्वा महावने॥ पुरा स्वयम्भुवे धीरः शिरांस्युपजहार यः। देवदानवगन्धर्वपिशाचपतगोरगैः॥ अभयं यस्य संग्रामे मृत्युतो मानुषादृते। मन्त्रैरभिष्टुतं पुण्यमध्वरेषु द्विजातिभिः॥ हविर्धानेषु यः सोममुपहन्ति महाबलः। प्राप्तयज्ञहरं दुष्टं ब्रह्मघ्नं क्रूरकारिणम्॥ कर्कशं निरनुक्रोशं प्रजानामहिते रतम्। रावणं सर्वभूतानां सर्वलोकभयावहम्॥ राक्षसी भ्रातरं क्रूरं सा ददर्श महाबलम्। तं दिव्यवस्त्राभरणं दिव्यमाल्योपशोभितम्॥ आसने सूपविष्टं तं काले कालमिवोद्यतम्।. राक्षसेन्द्रं महाभागं पौलस्त्यकुलनन्दनम्॥ उपगम्याब्रवीद् वाक्यं राक्षसी भयविह्वला। रावणं शत्रुहन्तारं मन्त्रिभिः परिवारितम्॥ तमब्रवीद् दीप्तविशाललोचनं प्रदर्शयित्वा भयलोभमोहिता। सुदारुणं वाक्यमभीतचारिणी महात्मना शूर्पणखा विरूपिता॥ ततः शूर्पणखा दीना रावणं लोकरावणम्। अमात्यमध्ये संक्रुद्धा परुषं वाक्यमब्रवीत्॥ प्रमत्तश्च कामभोगेषु स्वैरवृत्तो निरङ्कुशः । समुत्पन्नं भयं घोरं बोद्धव्यं भवबुध्यसे ॥ सक्तं ग्राम्येषु भोगेषु कामवृत्तं महीपतिम्। लुब्धं न बहु मन्यन्ते श्मशानाग्निमिव प्रजाः॥ स्वयं कार्याणि यः काले नानुतिष्ठति पार्थिवः। स तु वै सह राज्येन तैश्च कार्यैर्विनश्यति॥ अयुक्तचारं दुर्दर्शमस्वाधीनं नराधिपम्। वर्जयन्ति नरा दूरानदीपङ्कमिव द्विपाः॥ ये न रक्षन्ति विषयमस्वाधीनं नराधिपाः। ते न वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा॥ आत्मवद्भिर्विगृह्य त्वं देवगन्धर्वदानवैः। अयुक्तचारश्चपलः कथं राजा भविष्यसि॥ त्वं तु बालस्वभावश्च बुद्धिहीनश्च राक्षस । ज्ञातव्यं तन्न जानीषे कथं राजा भविष्यसि॥ येषां चाराश्च कोशश्च लयश्च जयतां वर। अस्वाधीना नरेन्द्राणां प्राकृतैस्ते जनैः समाः॥ यस्मात् पश्यन्ति दूरस्थान् सर्वानर्थान् नराधिपाः। चारेण तस्मादुच्यन्ते राजानो दीर्घचक्षुषः॥ अयुक्तचारं मन्ये त्वां प्राकृतैः सचिवैर्युतः। स्वजनं च जनस्थानं निहतं नावबुध्यसे॥ चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्। हतान्येकेन रामेण खरश्च सहदूषणः॥ ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः। धर्षितं च जनस्थानं रामेणाक्लिष्टकारिणा॥ त्वं तु लुब्धः प्रमत्तश्च पराधीनश्च राक्षस। विषये स्वे समुत्पन्नं यद् भयं नावबुध्यसे॥ तीक्ष्णमल्पप्रदातारं प्रमत्तं गर्वितं शठम्। व्यसने सर्वभूतानि नाभिधावन्ति पार्थिवम्॥ अतिमानिनमग्राह्यमात्मसम्भावितं नरम्। क्रोधनं व्यसने हन्ति स्वजनोऽपि नराधिपम्॥ नानुतिष्ठति कार्याणि भयेषु न विभेति च। क्षिप्रं राज्याच्च्युतोदीनस्तृणैस्तुल्यो भवेदिह ॥ शुष्ककाष्ठैर्भवेत् कार्यं लोष्ठैरपि च पांसुभिः। न तु स्थानात् परिभ्रष्टैः कार्यं स्याद् वसुधाधिपैः।।१८। उपभुक्तं यथा वासः स्रजो वा मृदिता यथा। एवं राज्यात् परिभ्रष्टः समर्थोऽपि निरर्थकः॥ अप्रमत्तश्च यो राजा सर्वज्ञो विजितेन्द्रियः। कृतज्ञो धर्मशीलश्च स राजा तिष्ठते चिरम्॥ नयनाभ्यां प्रसुप्तो वा जागर्ति नयचक्षुषा। व्यक्तक्रोधप्रसादश्च स राजा पूज्यते जनैः॥ त्वं तु रावण दुर्बुद्धिर्गुणैरेतैर्विवर्जितः। यस्य तेऽविदितश्चारै रक्षसां सुमहान् वधः॥ परावमन्ता विषयेषु सङ्गवान् न देशकालप्रविभागतत्ववित्। अयुक्तबुद्धिर्गुणदोष निश्चये विपन्नराज्यो नचिराद् विपत्स्यते॥ इति स्वदोषान् परिकीर्तितांस्तया समीक्ष्य बुद्ध्या क्षणदाचरेश्वरः। धनेन दर्पण बलेन चान्वितो विचिन्तयामास चिरं स रावणः॥ ततः शूर्पणखावाक्यं तच्छ्रुत्वा रोमहर्षणाम्। सचिवानभ्यनुज्ञाय कार्यं बुद्ध्वा जगाम ह॥ तत् कार्यमनुगम्यान्तर्यथावदुपलभ्य च। दोषाणां च गुणानां च सम्प्रधार्य बलाबलम्॥ इति कर्तव्यमित्येव कृत्वा निश्चयमात्मनः। स्थिरबुद्धिस्ततो रम्यां यानशालां जगाम ह॥ यानशालां ततो गत्वा प्रच्छन्नं राक्षसाधिपः। सूतं संचोदयामास रथः संयुज्यताममिति ॥ एवमुक्तः क्षणेनैव सारथिलघुविक्रमः। रथं संयोजयामास तस्याभिमतमुत्तमम्॥ कामगं रथमास्थाय काञ्चनं रत्नभूषितम्। पिशाचवदनैर्युक्तं खरैः कनकभूषणैः॥ मेघप्रतिमनादेन स तेन धनदानुजः। राक्षसाधिपतिः श्रीमान् ययौ नदनदीपतिम्॥ स श्वेतवालव्यजनः श्वेतच्छत्रो दशाननः। स्निग्धवैदूर्यसंकाशस्तप्तकाञ्चनभूषणः॥ दशग्रीवो विंशतिभुजो दर्शनीयपरिच्छदः। त्रिदशारिर्मुनीन्द्रघ्नो दशशीर्ष इवाद्रिराट्॥ कामगं रथमास्थाय शुशुभे राक्षसाधिपः। विद्युन्मण्डलवान् मेघः सबलाक इवाम्बरे॥ सशैलसागरानूपं वीर्यवानवलोकयन्। नानापुष्पफलैर्वृक्षैरनुकीर्णं सहस्रशः॥ शीतमङ्गलतोयाभिः पद्मिनीभिः समन्ततः। विशालैराश्रमपदैर्वेदिमद्भिरलंकृतम्। सालैस्तालैस्तमालैश्च तरुभिश्च सुपुष्पितैः॥ अत्यन्तनियताहारैः शोभितं परमर्षिभिः। नागैः सुपर्णैर्गन्धर्वैः किंनरैश्च सहस्रशः॥ जितकामैश्च सिद्धैश्च चारणैश्चोपशोभितम्। आजैवैखानसैषैिर्वालखिल्यैर्मरीचिपैः॥ दिव्याभरणमाल्याभिर्दिव्यरूपाभिरावृतम्। क्रीडारतविधिज्ञाभिरप्सरोभिः सहस्रशः॥ सेवितं देवपत्नीभिः श्रीमतीभिरुपासितम्। देवदानवसङ्घश्च चरितं त्वमृताशिभिः॥ हंसक्रौञ्चप्लवाकीर्णं सारसैः सम्प्रसादितम्। वैदूर्यप्रस्तरं स्निग्धं सान्द्रं सागरतेजसा ॥ पाण्डुराणि विशालानि दिव्यमाल्ययुतानि च। तूर्यगीताभिजुष्टानि विमानानि समन्ततः॥ तपसा जितलोकानां कामगान्यभिसम्पतन्। गन्धर्वाप्सरसश्चैव ददर्श धनदानुजः॥ निर्यासरसमूलानां चन्दनानां सहस्रशः। वनानि पश्यन् सौम्यानि घ्राणतृप्तिकराणि च ॥ अगुरूणां च मुख्यानां वनान्युपवनानि च। तक्कोलानां च जात्यानां फलानां च सुगन्धिनाम्।।२२। पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च। मुक्तानां च समूहानि शुष्यमाणानि तीरतः॥ शैलानि प्रवरांश्चैव प्रवालनिचयांस्तथा। काञ्चनानि च शृङ्गाणि राजतानि तथैव च॥ प्रस्रवाणि मनोज्ञानि प्रसन्नान्यद्भुतानि च। धनधान्योपपन्नानि स्त्रीरत्नैरावृतानि च॥ हस्त्यश्वरथगाढानि नगराणि विलोकयन्। तं समं सर्वतः स्निग्धं मृदुसंस्पर्शमारुतम्॥ अनूपे सिन्धुराजस्य ददर्श त्रिदिवोपमम्। तत्रापश्यत् स मेघाभं न्यग्रोधं मुनिभिर्वृतम्॥ समन्ताद् यस्य ताः शाखा: शतयोजनमायताः। यस्य हस्तिनमादाय महाकायं च कच्छपम्॥ भक्षार्थं गरुडः शाखामाजगाम महाबलः। तस्य तां सहसा शाखां भारेण पतगोत्तमः॥ सुपर्णः पर्णबहुला बभञ्जाथ महाबलः। तत्र वैखानसा माषा वालखिल्या मरीचिपाः॥ आजा बभूवुधूम्राश्च संगताः परमर्षयः। तेषां दयार्थं गरुडस्तां शाखां शतयोजनाम्॥ भग्नामादाय वेगेन तौ चोभौ गजकच्छपौ। एकपादेन धर्मात्मा भक्षयित्वा तदामिषम्॥ निषादविषयं हत्वा शाखया पतगोत्तमः। प्रहर्षमतुलं लेभे मोक्षयित्वा महामुनीन् ॥ स तु तेन प्रहर्षेण द्विगुणीकृतविक्रमः। अमृतानयनार्थं वै चकार मतिमान् मतिम्॥ अयोजालानि निर्मथ्य भित्वा रत्नगृहं वरम्। महेन्द्रभवनाद् गुप्तमाजहारामृतं ततः॥ तं महर्षिगणैर्जुष्टं सुपर्णकृतलक्षणम्। नाम्ना सुभद्रं न्यग्रोधं ददर्श धनदानुजः॥ तं तु गत्वा परं पारं समुद्रस्य नदीपतेः। ददर्शाश्रममेकान्ते पुण्ये रम्ये वनान्तरे॥ तत्र कृष्णाजिनधरं जटामण्डलधारिणम्। ददर्श नियताहारं मारीचं नाम राक्षसम्॥ स रावणः समागम्य विधिवत् तेन रक्षसा। मारीचेनार्चितो राजा सर्वकामैरमानुषैः॥ तं स्वयं पूजयित्वा च भोजनेनोदकेन च। अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत्॥ कच्चित्ते कुशलं राजल्लङ्कायां राक्षसेश्वर। केनार्थेन पुनस्त्वं वै तूर्णमेव इहागतः॥ एवमुक्तो महातेजा मारीचेन स रावणः। ततः पश्चादिदं वाक्यमब्रवीद् वाक्यकोविदः।॥ मारीच श्रूयतां तात वचनं मम भाषतः। आर्तोऽस्मि मम चार्तस्य भवान् हि परमा गतिः॥ जानीषे त्वं जनस्थानं भ्राता यत्र खरो मम। दूषणश्च महाबाहु स्वसा शूर्पणखा च मे॥ त्रिशिराश्च महाबाहू राक्षसः पिशिताशनः। अन्ये च बहवः शूरा लब्धलक्षा निशाचराः॥ वसन्ति मनियोगेन अधिवासं च राक्षसाः। बाधमाना महारण्ये मुनीन् ये धर्मचारिणः॥ चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्। शूराणां लब्धलक्षाणां खरचित्तानुवर्तिनाम् ॥ ते त्विदानीं जनस्थाने वसमाना महाबलाः। सङ्गताः परमायत्ता रामेण सह संयुगे॥ नानाशस्त्र प्रहरणाः खरप्रमुखराक्षसाः। तेन संजातरोषेण रामेण रणमूर्धनि ॥ अनुक्त्वा परुषं किंचिच्छरैर्व्यापारितं धनुः। चतुर्दश सहस्राणि रक्षसामुग्रतेजसाम्॥ निहतानि शरैर्दीप्तैर्मानुषेण पदातिना। खरश्च निहतः संख्ये दूषणश्च निपातितः॥ हत्वा त्रिशिरसं चापि निर्भया दण्डकाः कृताः। पित्रा निरस्तः कुद्धेन सभार्यः क्षीणजीवितः॥ स हन्ता तस्य सैन्यस्य रामः क्षत्रियपांसनः। अशीलः कर्कशस्तीक्ष्णो मूल् लुब्धोऽजितेन्द्रियः॥ त्यक्तधर्मा त्वधर्मात्मा भूतानामहिते रतः। येन वैरं विनारण्ये सत्वमास्थाय केवलम्॥ कर्णनासापहारेण भगिनी मे विरूपिता। अस्य भार्यां जनस्थानात् सीतां सुरसुतोपमाम्॥ आनयिष्यामि विक्रम्य सहायस्तत्र मे भव। त्वया ह्यहं सहायेन पावस्थेन महाबल॥ भ्रातृभिश्च सुरान् सर्वान् नाहमत्राभिचिन्तये। तत्सहायो भव त्वं मे समर्थो ह्यसि राक्षस॥ वीर्ये युद्धे च दर्प च न ह्यस्ति सदृशस्तव। उपायतो महाशूरो महामायाविशारदः॥ एतदर्थमहं प्राप्तस्त्वत्समीपं निशाचर। शृणु तत् कर्म साहाय्ये यत् कार्यं वचनान्मम॥ सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः। आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर॥ त्वां तु नि:संशयं सीता दृष्ट्वा तु मृगरूपिणम्। गृह्यतामिति भर्तारं लक्ष्मणं चाभिधास्यति ॥ ततस्तयोरपाये तु शून्ये सीतां यथासुखम्। निराबाधो हनिष्यामि राहुश्चन्द्रप्रभामिव ॥ ततः पश्चात् सुखं रामे भार्याहरणकर्शिते। विस्रब्धं प्रहरिष्यामि कृतार्थेनान्तरात्मना॥ तस्य रामकथां क्षुत्वा मारीचस्य महात्मनः। शुष्कं समभवद् वक्त्रं परित्रस्तो बभूव च॥ ओष्ठौ परिलिहशुष्कौ नेत्रैरनिमिषैरिव। मृतभूत इवार्तस्तु रावणं समुदैक्षत ॥ स रावणं त्रस्तविषण्णचेता महावने रामपराक्रमः। कृताञ्जलिस्तत्त्वमुवाच वाक्यं हितं च तस्मै हितमात्मनश्च ॥ तच्छ्रुत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः। प्रत्युवाच महातेजा मारीचो राक्षसेश्वरम्॥ सुलभाः पुरुषा राजन् सततं प्रियवादिनः। अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः॥ न नूनं बुध्यसे रामं महावीर्यगुणोन्नतम्। अयुक्तचारश्चपलो महेन्द्रवरुणोपमम्॥ अपि स्वस्ति भवेत् तात सर्वेषामपि रक्षसाम्। अपि रामो न संक्रुद्धः कुर्याल्लोकानराक्षसान्॥ अपि ते जीवितान्ताय नोत्पन्ना जनकात्मजा। अपि सीतानिमित्तं च स भवेद् व्यसनं महत्॥ अपि त्वामीश्वरं प्राप्य कामवृत्तं निरङ्कशम्। नि विनश्येत् पुरी लङ्का त्वया सह सराक्षसा॥ त्वद्विधः कामवृत्तो हि दुःशीलः पापमन्त्रितः। आत्मानं स्वजनं राष्ट्रं स राजा हन्ति दुर्मतिः॥ न च पित्रा परित्यक्तो नामर्यादः कथंचन। न लुब्धो न च दुःशीलो न च क्षत्रियपांसनः॥ न च धर्मगुणैर्हीनः कौसल्यानन्दवर्धनः। स च तीक्ष्णो हि भूतानां सर्वभूतहिते रतः॥ वञ्चितं पितरं दृष्ट्वा कैकेय्या सत्यवादिनम्। करिष्यामीति धर्मात्मा ततः प्रव्रजितो वनम्॥ कैकेय्याः प्रियकामार्थं पितुर्दशरथस्य च। हित्वा राज्यं च भोगांश्च प्रविष्टो दण्डकावनम्॥ न रामः कर्कशस्तात नाविद्वान् नाजितेन्द्रियः। अनृतं न श्रुतं चैव नैव त्वं वक्तुमर्हसि ॥ रामो विग्रहवान् धर्म: साधुः सत्यपराक्रमः। राजा सर्वस्य लोकस्य देवानामिव वासवः॥ कथं नु तस्य वैदेहीं रक्षितां स्वेन तेजसा। इच्छसे प्रसभं हर्तुं प्रभामिव विवस्वतः॥ शरार्चिषमनाधृष्यं चापखङ्गेन्धनं रणे। रामाग्निं सहसा दीप्तं न प्रवेष्टुं त्वमर्हसि॥ धनुर्व्यादितदीप्तास्यं शरार्चिषममर्षणम्। चापबाणधरं तीक्ष्णं शत्रुसेनापहारिणम्॥ राज्यं सुखं च संत्यज्य जीवितं चेष्टमात्मनः। नात्यासादयितुं तात रामान्तकमिहार्हसि ॥ अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा। न त्वं समर्थस्तां हर्तुं रामचापाश्रयां वने॥ तस्य वै नरसिंहस्य सिंहोरस्कस्य भामिनी। प्राणेभ्योऽपि प्रियतरा भार्या नित्यमनुव्रता॥ न सा धर्षयितुं शक्या मैथिल्योजस्विनः प्रिया। दीप्तस्येव हुताशस्य शिखा सीता सुमध्यमा॥ किमुद्यमं व्यर्थमिमं कृत्वा ते राक्षसाधिप। दृष्टश्चेत् त्वं रणे तेन तदन्तमुपजीवितम्॥ जीवितं च सुखं चैव राज्यं चैव सुदुर्लभम्। यदीच्छसि चिरं भोक्तुं मा कृथा रामविप्रियम्॥ स सर्वैः सचिवैः सार्धं विभीषणपुरस्कृतैः। मन्त्रयित्वा स धर्मिष्ठः : कृत्वा निश्चयमात्मनः। दोषाणां च गुणानां च सम्प्रधार्य बलाबलम्॥ आत्मनश्च बलं ज्ञात्वा राघवस्य च तत्त्वतः। हितं हि तव निश्चित्य क्षमं त्वं कर्तुमर्हसि॥ अहं तु मन्ये तव न क्षमं रणे समागमं कोसलराजसूनुना। इदं हि भूयः शृणु वाक्यमुत्तमं क्षमं च युक्तं च निशाचराधिप॥ कदाचिदप्यहं वीर्यात् पर्यटन् पृथिवीमिमाम्। बलं नागसहस्रस्य धारयन् पर्वतोपमः॥ नीलजीमूतसंकाशस्तप्तकाञ्चनकुण्डलः। भयं लोकस्य जनयन् किरीटी परिघायुधः॥ व्यचरन् दण्डकारण्यमृषिमांसानि भक्षयन्। विश्वामित्रोऽथ धर्मात्मा मद्वित्रस्तो महामुनिः॥ स्वयं गत्वा दशरथं नरेन्द्रमिदमब्रवीत्। अयं रक्षतु मां रामः पर्वकाले समाहितः॥ मारीचान्मे भयं घोरं समुत्पन्नं नरेश्वर। इत्येवमुक्तो धर्मात्मा राजा दशरथस्तदा॥ प्रत्युवाच महाभागं विश्वामित्रं महामुनिम्। ऊनद्वादशवर्णोऽयमकृतास्त्रश्च राघवः॥ कामं तु मम तत् सैन्यं मया सह गमिष्यति। बलेन चतुरङ्गेण स्वयमेत्य निशाचरम्॥ वधिष्यामि मुनिश्रेष्ठ शत्रु तव यथेप्सितम्। एवमुक्तः स तु मुनी राजानमिदमब्रवीत्॥ रामानान्यद् बलं लोके पर्याप्तं तस्य रक्षसः। देवतानामपि भवान् समरेष्वभिपालकः॥ आसीत् तव कृतं कर्म त्रिलोकविदितं नृप। काममस्ति महत् सैन्यं तिष्ठत्विह परंतप॥ बालोऽप्येष महातेजाः समर्थस्तस्य निग्रहे। गमिष्ये राममादाय स्वस्ति तेऽस्तु परंतप॥ इत्येवमुक्त्वा स मुनिस्तमादाय नृपात्मजम्। जगाम परमप्रीतो विश्वामित्रः स्वमाश्रमम्॥ तं तथा दण्डकारण्ये यज्ञमुद्दिश्य दिक्षितम्। बभूवोपस्थितो रामश्चित्रं विस्फारयन् धनुः॥ अजातव्यञ्जनः क्षीमान् बालः श्यामः शुभेक्षणः। एकवस्त्रधरो धन्वी शिखी कनकमालया॥ शोभयन् दण्डकारण्यं दीप्तेन स्वेन तेजसा। अदृश्यत तदा रामो बालचन्द्र इवोदितः॥ ततोऽहं मेघसंकाशस्तप्तकाञ्चनकुण्डलः। बली दत्तवरो दादाजगामाश्रमान्तरम् ॥ तेन दृष्टः प्रविष्टोऽहं सहसैवोद्यतायुधः। मां तु दृष्ट्वा धनुः सज्यमसम्भ्रान्तश्चकार ह॥ अवजानन्नह मोहाद् बालोऽयमिति राघवम्। विश्वामित्रस्य तां वेदिमभ्यधावं कृतत्वरः॥ तेन मुक्तस्ततो बाणः शितः शत्रुनिबर्हणः। तेनाहं ताडितः क्षिप्तः समुद्रे शतयोजने॥ नेच्छता तात मां हन्तुं तदा वीरेण रक्षितः। रामस्य शरवेगेन निरस्तो भ्रान्तचेतनः॥ पातितोऽहं तदा तेन गम्भीरे सागराम्भसि। प्राप्य संज्ञां चिरात् तात लङ्कां प्रति गतः पुरीम्॥ एवमस्मि तदा मुक्तः सहायास्ते निपातिताः। अकृतास्त्रेण रामेण बालेनाक्लिष्टकर्मणा ॥ तन्मया वार्यमाणस्तु यदि रामेण विग्रहम्। करिष्यस्यापदं घोरां क्षिप्रं प्राप्य न शिष्यसि॥ क्रीडारतिविधिज्ञानां समाजोत्सवदर्शिनाम्। द्रक्ष्यसि त्वं पुरीं लङ्कां विनष्टां मैथिलीकृते॥ अकुर्वन्तोऽपि पापानि शुचयः पापसंश्रयात्। परपापैर्विनश्यन्ति मत्स्या नागह्नदे यथा॥ दिव्यचन्दनदिग्धाङ्गान् दिव्याभरणभूषितान्। द्रक्ष्यस्यभिहतान् भूमौ तव दोषात्तु तु राक्षसान्॥ हृतदारान् सदारांश्च दश विद्रवतो दिशः। हतशेषानशरणान् द्रक्ष्यसि त्वं निशाचरान्॥ शरजालपरिक्षिप्तामग्निज्वालासमावृताम्। प्रदग्धभवनां लङ्कां द्रक्ष्यसि त्वमसंशयम्॥ परदाराभिमर्शात् तु नान्यत् पापतरं महत्। प्रमदानां सहस्राणि तव राजन् परिग्रहे॥ भव स्वदारनिरतः स्वकुलं रक्ष राक्षसान्। मानं वृद्धिं च राज्यं च जीवितं चेष्टमात्मनः॥ कलत्राणि च सौम्यानि मित्रवर्गं तथैव च। यदीच्छसि चिरं भोक्तुं मा कृथा रामविप्रियम्॥ निवार्यमाणः सुहृदा मया भृशं प्रसह्य सीतां यति धर्षयिष्यसि। गमिष्यसि क्षीणबल: सबान्धवो यमक्षयं रामशरास्तजीवितः॥ निवार्यमाणः सुहृदा मया भृशं प्रसह्य सीतां यति धर्षयिष्यसि। गमिष्यसि क्षीणबल: सबान्धवो यमक्षयं रामशरास्तजीवितः॥ आज्ञप्तो रावणेनेत्थं प्रतिकूलं च राजवत्। अब्रवीत् परुषं वाक्यं निःशङ्को राक्षसाधिपम् ॥ केनायमुपदिष्टस्ते विनाशः पापकर्मणा। सपुत्रस्य सराज्यस्य सामात्यस्य निशाचर॥ कस्त्वया सुखिना राजन् नाभिनन्दति पापकृत्। केनेदमुपदिष्टं ते मृत्युद्वारमुपायतः॥ शत्रवस्तव सुव्यक्तं हीनवीर्या निशाचर। इच्छन्ति त्वं विनस्यन्तमुपरुद्धं बलीयसा॥ केनेदमुपदिष्टं ते क्षुद्रेणाहितबुद्धिना। यस्त्वामिच्छति नश्यन्तं स्वकृतेन निशाचर॥ वध्याः खलु न वध्यन्ते सचिवास्तव रावण। ये त्वामुत्पथमारूढं न निगृह्णन्ति सर्वशः॥ अमात्यैः कामवृत्तो हि राजा कापथमाश्रितः। निग्राह्यः सर्वथा सद्भिः स निग्राह्यो न गृह्यते॥ धर्ममर्थं च कामं च यशश्च जयतां वर। स्वामिप्रसादात् सचिवाः प्राप्नुवन्ति निशाचर॥ विपर्यये तु तत्सर्वं व्यर्थं भवति रावण। व्यसनं स्वामिवैगुण्यात् प्राप्नुवन्तीतरे जनाः॥ राजमूलो हि धर्मश्च यशश्च जयतां वर। तस्मात् सर्वास्ववस्थासु रक्षितव्या नराधिपाः॥ राज्यं पालयितुं शक्यं न तीक्ष्णेन निशाचर। न चातिप्रतिकूलेन नाविनीतेन राक्षस ॥ ये तीक्ष्णमन्त्राः सचिवा भुज्यन्ते सह तेन वै। विषमेषु रथाः शीघ्रं मन्दसारथयो यथा॥ बहवः साधवो लोके युक्तधर्ममनुष्टिताः। परेषामपराधेन विनष्टाः सपरिच्छदाः॥ स्वामिना प्रतिकूलेन प्रजास्तीक्ष्णेन रावण। रक्ष्यमाणा न वर्धन्ते मृगा गोमायुना यथा॥ अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः। रेगां त्वं कर्क राजा दुर्बुद्धिरजितेन्द्रियः॥ तदिदं काकतालीयं घोरमासादितं मया। अत्र त्वं शोचनीयोऽसि ससैन्यो विनशिष्यसि ॥ मां निहत्य तु रामोऽसावचिरात् त्वां वधिष्यति। अनेन कृतकृत्योऽस्मि म्रिये चाप्यरिणा हतः॥ दर्शनादेव रामस्य हतं मामवधारय। आत्मानं च हतं विद्धि हृत्वा सीतां सबान्धवम्॥ आनयिष्यसि चेत् सीतामाश्रमात् सहितो मया। नैव त्वमपि नाहं वै नैव लङ्का न राक्षसाः॥ निवार्यमाणस्तु मया हितैषिणा न मृष्यसे वाक्यमिदं निशाचर। परेतकल्पा हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिरीरितम्॥ एवमुक्ता तु परुषं मारीचो रावणं ततः। गच्छावेत्यब्रवीत् दीनो भयाद् रात्रिंचरप्रभोः॥ दृष्टश्चाहं पुनस्तेन शरचापासिधारिणा। मद्धोद्यतशस्त्रेण निहतं जीवितं च मे॥ नहि रामं पराक्रम्य जीवन् प्रतिनिवर्तते। वर्तते प्रतिरूपोऽसौ यमदण्डहतस्य ते॥ किं नु कर्तुं मया शक्यमेवं त्वयि दुरात्मनि। एव गच्छाम्यहं तात स्वस्ति तेऽस्तु निशाचर॥ प्रहृष्टस्त्वभवत्तेन वचनेन स राक्षसः। परिष्वज्य सुसंश्लिष्टमिदं वचनमब्रवीत्॥ एतच्छौटीर्ययुक्तं ते मच्छन्दवशवर्तिनः। इदानीमसि मारीचः पूर्वमन्यो हि राक्षसः॥ आरुह्यतामयं शीघ्रं खगो रत्नविभूषितः। मया सह रथो युक्त : पिशाचवदनैः खरैः॥ प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि । तां शून्ये प्रसभं सीतामानयिष्यामि मैथिलीम्॥ ततस्तथेत्युवाचैनं रावणं ताटकासुतः। ततो रावणमारीचौ विमानमिव तं रथम्॥ आरुह्याययतुः शीघ्रं तस्मादाश्रममण्डलात्। तथैव तत्र पश्यन्तौ पत्तनानि वनानि च॥ गिरीश्च सरितः सर्वा राष्ट्राणि नगराणि च। समेत्य दण्डकारण्यं राघवस्याश्रमं ततः॥ ददर्श सहमारीचो रावणो राक्षसाधिपः। अवतीर्य रथात् तस्मात् ततः काञ्चनभूषणात्॥ हस्ते गृहीत्वा मारीचं रावणो वाक्यमब्रवीत्।। एतद् रामाश्रमपदं दृश्यते कदलीवृतम्॥ क्रियतां तत् सखे शीघ्रं यदर्थे वयमागताः। स रावणवचः श्रुत्वा मारीचो राक्षसस्तदा॥ मृगो भूत्वाऽऽश्रमद्वारि रामस्य विचचार ह। स तु रूपं समास्थाय महदद्भुतदर्शनम्॥ मणिप्रवरशृङ्गाग्रः सितासितमुखाकृतिः। रक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः॥ किंचिदत्युनतग्रीव इन्द्रनीलनिभोदरः। मधूकनिभपार्श्वश्च कञ्जकिञ्जल्कसंनिभः॥ वैदूर्यसंकाशखुरस्तनुजङ्घः सुसंहतः। इन्द्रायुधसवर्णेन पुच्छेनोर्ध्वं विराजितः॥ मनोहरस्निग्धवर्णो रत्नैर्नानाविधैर्वृतः। क्षणेन राक्षसो जातो मृगः परमशोभनः॥ वनं प्रज्वलयन् रम्यं रामाश्रमपदं च तत्। मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः॥ प्रलोभनार्थं वैदेह्या नानाधातुविचित्रितम्। विचरन् गच्छते सम्यक् शाद्वलानि समन्ततः॥ रौप्यैर्बिन्दुशतैश्चित्रं भूत्वा च प्रियदर्शनः। विटपीनां किसलयान् भक्षयन् विचचार ह॥ कदलीगृहकं गत्वा कर्णिकारानितस्ततः। तमाश्रमं मन्दगतिं सीतासंदर्शनं ततः॥ राजीवचित्रपृष्टः स विरराज महामृगः। रामाश्रमपदाभ्याशे विचचार यथासुखम्॥ पुनर्गत्वा निवृत्तश्च विचचार मृगोत्तमः। गत्वा मुहूर्तं त्वरया पुनः प्रतिनिवर्तते॥ विक्रीडंश्च क्वचिद् भूमौ पुनरेव निषीदति। आश्रमद्वारमागम्य मृगयूथानि गच्छति॥ मृगयूथैरनुगतः पुनरेव निवर्तते। सीतादर्शनमाकाङ्क्षन् राक्षसो मृगतां गतः॥ परिभ्रमति चित्राणि मण्डलानि विनिष्पतन्। • समुद्वीक्ष्य च सर्वे तं मृगा येऽन्ये वोचराः॥ उपगम्य समाघ्राय विद्रवन्ति दिशो दश। राक्षसः सोऽपि तान् वन्यान् मृगान् मृगवधे रतः॥ प्रच्छादनार्थं भावस्य न भक्षयति संस्पृशन्। तस्मिन्नेव ततः काले वैदेही शुभलोचना॥ कुसुमापचये व्यग्रा पादपानत्यवर्तत। कर्णिकारानशोकांश्च चूतांश्च मदिरेक्षणा॥ कुसुमान्यपचिन्वन्ती चचार रुचिरानना। अनर्हा वनवासस्य सा तं रत्नमयं मृगम्॥ मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना। तं वै रुचिरदन्तोष्ठं रूप्यधातुतनूरुहम्॥ विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत। स च तां रामदयितां पश्यन् मायामयो मृगः॥ विचचार ततस्तत्र दीपयन्निव तद् वनम्। अदृष्टपूर्वं दृष्ट्वा तं नानारत्नमयं मृगम्। विस्मयं परमं सीता जगाम जनकात्मजा॥ सा तं सम्प्रेक्ष्य सुश्रोणी कुसुमानि विचिन्वती। नेमराजतवर्णाभ्यां पार्वाभ्यामुपशोभितम्॥ प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी। भर्तारमपि चक्रन्द लक्ष्मणं चैव सायुधम्॥ आहूयाहूय च पुनस्तं मृगं साधु वीक्षते। आगच्छागच्छ शीघ्रं वै आर्यपुत्र सहानुज ॥ तावाहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ। वीक्षमाणौ तु तं देशं तदा ददृशतुर्मंगम्॥ शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो वाक्यमब्रवीत्। तमेवैनमहं मन्ये मारीचं राक्षसं मृगम्॥ चरन्तो मृगधां हृष्टाः पापेनोपाधिना वने। अनेन निहता राम राजानः कामरूपिणा॥ अस्य मायाविदो माया मृगरूपमिदं कृतम्। भानुमत् पुरुषव्याघ्र गन्धर्वपुरसंनिभम्॥ मृगो ह्येवंविधो रत्नविचित्रो नास्ति राघव। जगत्यां जगतीनाथ मायैषा हि न संशयः॥ एवं ब्रुवाणं काकुत्स्थं प्रतिवार्य शुचिस्मिता। उवाच सीता संहृष्टा छद्मना हृतचेतना॥ आर्यपुत्राभिरामोऽसौ मृगो हरति मे मनः। आनयैनं महाबाहो क्रीडार्थं नो भविष्यति ॥ इहाश्रमपदेऽस्माकं बहवः पुण्यदर्शनाः। मृगाश्चरन्ति सहिताश्चमराः सृमरास्तथा॥ ऋक्षाः पृषतसङ्घाश्च वानराकिन्नरास्तथा। विहरन्ति महाबाहो रूपश्रेष्ठा महाबलाः॥ न चान्यः सदृशो राजन् दृष्टः पूर्वं मृगो मया। तेजसा क्षमया दीप्या यथायं मृगसत्तमः॥ नानावर्णविचित्राङ्गो रत्नभूतो ममाग्रतः। द्योतयन् वनमव्यग्रं द्योतते शशिसंनिभः॥ अहो रूपमहो लक्ष्मीः स्वरसम्पद्य शोभना। मृगोऽद्भुतो विचित्राङ्गो हृदय हरतीव मे॥ यदि ग्रहणमभ्येति जीवन्नेव मृगस्तव। आश्चर्यभूतं भवति विस्मयं जनयिष्यति॥ समाप्तवनवासानां राज्यस्थानां च नः पुनः। अन्तःपुरे विभूषार्थो मृग एष भविष्यति॥ भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो। मृगरूपमिदं दिव्यं विस्मयं जनयिष्यति॥ जीवन यदि तेऽभ्येति ग्रहणं मृगसत्तमः। अजिनं नरशार्दूल रुचिरं तु भविष्यति ॥ निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि। शष्पबृस्यां विनीतायामिच्छाम्यहमुपासितुम्॥ कामवृत्तमिदं रौद्रं स्त्रीणामसदृशं मतम्। वपुषा त्वस्य सत्त्वस्य विस्मयो जनितो मम॥ तेन काञ्चनरोम्णा तु मणिप्रवरशृङ्गिणा। तरुणादित्यवर्णेन नक्षत्रपथवर्चसा॥ बभूव राघवस्यापि मनो विस्मयमागतम्। इति सीतावचः श्रुत्वा दृष्ट्वा च मृगमद्भुतम्॥ लोभितस्तेन रूपेण सीतया च प्रचोदितः। उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः॥ पश्य लक्ष्मण वैदेह्याः स्पृहामुल्लसितामिमाम्। रूपश्रेष्ठतया ह्येष मृगोऽद्य न भविष्यति॥ न वने नन्दनोद्देशे न चैत्ररथसंश्रये। कुतः पृथिव्यां सौमित्रे योऽस्य कश्चिन्समो मृगः॥ प्रतिलोमानुलोमाश्च रुचिरा रोमराजयः। शोभन्ते मृगमाश्रित्य चित्राः कनकबिन्दुभिः॥ पश्यास्य जृम्भमाणस्य दीप्तामग्निशिखोपमाम्। जिह्वां मुखानिःसरन्तीं मेघादिव शतहदाम्॥ मसारगल्वर्कमुखः शङ्खमुक्तानिभोदरः। कस्य नामानिरूप्योऽसौ न मनो लोभयेन्मृगः॥ कस्य रूपमिदं दृष्ट्वा जाम्बूनदमयप्रभम्। नानारत्नमयं दिव्यं न मनो विस्मयं व्रजेत्॥ मांसहेतोरपि मृगान् विहारार्थं च धन्विनः। घ्नन्ति लक्ष्मण राजानो मृगयायां महावने॥ धनानि व्यवसायेन विचीयन्ते महावने। धातवो विविधाश्चापि मणिरत्नसुवर्णिनः॥ तत् सारमखिलं नृणां धनं निचयवर्धनम्। मनसा चिन्तितं सर्वं यथा शुक्रस्य लक्ष्मण ॥ अर्थी येनार्थकृत्येन संव्रजत्यविचारयन्। तमर्थमर्थशास्त्रज्ञाः प्राहुरर्थ्याः सुलक्ष्मण ॥ एतस्य मृगरत्नस्य परायें काञ्चनत्वचि। उपवेक्ष्यति वैदेही मया सह सुमध्यमा॥ न कादली न प्रियकी न प्रवेणी न चाविकी। भवेदेतस्य सदृशी स्पर्शेऽनेनेति मे मतिः॥ एष चैव मृगः श्रीमान् यश्च दिव्यो नभश्चरः। उभावेतौ मृगौ दिव्यौ तारामृगमहीमृगौ॥ यदि वायं तथा यन्मां भवेद् वदसि लक्ष्मण। मायैषा राक्षसस्येति कर्तव्योऽस्य वधो मया॥ एतेन हि नृशंसेन मारीचेनाकृतात्मना। वने विचरता पूर्वं हिंसिता मुनिपुङ्गवाः॥ उत्थाय बहवोऽनेन मृगयायां जनाधिपाः। निहताः परमेष्वासास्तस्माद् बध्यस्त्वयं मृगः॥ पुरस्तादिह वातापिः परिभूय तपस्विनः। उदरस्थो द्विजान् हन्ति स्वगर्भोऽश्वतरीमिव ॥ स कदाचिच्चिराल्लोभादाससाद महामुनिम्। अगस्त्यं तेजसा युक्तं भक्ष्यस्तस्य बभूव ह।४२ ।। समुत्थाने च तदूपं कर्तुकामं समीक्ष्य तम्। उत्स्मयित्वा तु भगवान् वातापिमिदमब्रवीत्॥ त्वया विगण्य वातापे परिभूताश्च तेजसा। जीवलोके द्विज श्रेष्ठास्तस्मादसि जरां गतः॥ तद्रक्षो न भवेदेव वातापिरिव लक्ष्मण। मद्विधं योऽतिमन्येत धर्मनित्यं जितेन्द्रियम्॥ भवेद्धतोऽयं वातापिरगस्त्येनेव मा गतः। इह त्वं भव संनद्धो यन्त्रितो रक्ष मैथिलीम् ॥ अस्यामायत्तमस्माकं यत् कृत्यं रघुनन्दन । अहमेनं वधिष्यामि ग्रहीष्याम्यथवा मृगम्॥ यावद्गच्छामि सौमित्रे मृगमानयितुं द्रुतम्। पश्य लक्ष्मण वैदेह्या मृगत्वचि गतां स्पृहाम्॥ त्वचा प्रधानया ह्येष मृगोऽद्य न भविष्यति। अप्रमत्तेन ते भावमाश्रमस्थेन सीतया॥ यावत् पृषतमेकेन सायकेन निहन्म्यहम्। हत्वैतच्चर्म चादाय शीघ्रमेष्यामि लक्ष्मण॥ प्रदक्षिणेनातिबलेन पक्षिणा जटायुषा बुद्धिमता च लक्ष्मण। भवाप्रमत्तः प्रतिगृह्य मैथिली प्रतिक्षणं सर्वत एव शङ्कितः॥ आर्तस्वरं तु तं भर्तुर्विज्ञाय सदृशं वने। उवाच लक्ष्मणं सीता गच्छ जानीहि राघवम्॥ नहि मे जीवितं स्थाने हृदयं वावतिष्ठते। क्रोशन: परमार्तस्य श्रुतः शब्दो मया भृशम्॥ आक्रन्दमानं तु वने भ्रातरं त्रातुमर्हसि। तं क्षिप्रमभिधाव त्वं भ्रातरं शरणैषिणम्॥ रक्षसां वशमापन्नं सिंहानामिव गोवृषम्। न जगाम तथोक्तस्तु भ्रातुराज्ञाय शासनम्॥ तमुवाच ततस्तत्र क्षुभिता जनकात्मजा। सौमित्रे मित्ररूपेण भ्रातुस्त्वमसि शत्रुवत्॥ यस्त्वमस्यामवस्थायां भ्रातरं नाभिपद्यसे। इच्छसि त्वं विनश्यन्तं रामं लक्ष्मण मत्कृते॥ लोभात्तु मत्कृते नूनं नानुगच्छसि राघवम्। व्यसनं ते प्रियं मन्ये स्नेहो भ्रातरि नास्ति ते॥ तेन तिष्ठसि विस्रब्धं तमपश्यन् महाद्युतिम्। किं हि संशयमापन्ने तस्मिन्निह मया भवेत्॥ कर्तव्यमिह तिष्ठन्त्या यत्प्रधानस्त्वमागतः। एवं ब्रुवाणां वैदेहीं वाष्पशोकसमन्विताम्॥ अब्रवील्लक्ष्मणस्त्रस्तां सीतां मृगवधूमिव। पन्नगासुरगन्धर्वदेवदानवराक्षसैः॥ अशक्यस्तव वैदेहि भर्ता जेतुं न संशयः। देवी देवमनुष्येषु गन्धर्वेषु पतत्रिषु॥ राक्षसेषु पिशाचेषु किन्नरेषु मृगेषु च। दानवेषु च घोरेषु न स विद्येत शोभने॥ यो रामं प्रतियुध्येत समरे वासवोपमम्। अवध्यः समरे रामो नैवं त्वं वक्तुमर्हसि ॥ न त्वामस्मिन् वने हातुमुत्सहे राघवं विना। अनिवार्य बलं तस्य बलैर्बलवतामपि॥ त्रिभिर्लोकैः समुदितैः सेश्वरैः सामरैरपि। हृदयं निर्वृतं तेऽस्तु संतापस्त्यज्यतां तव॥ आगमिष्यति ते भर्ता शीघ्रं हत्वा मृगोत्तमम्।। न स तस्य स्वरो व्यक्तं न कश्चिदपि दैवतः॥ गन्धर्वनगरप्रख्या माया तस्य च रक्षसः। न्यासभूतासि वैदेहि न्यस्ता मयि महात्मना ॥ रामेण त्वं वरारोहे न त्वां त्यक्तुमिहोत्सहे। कृतवैराश्च कल्याणि वयमेतैर्निशाचरैः॥ खरस्य निधने देवि जनस्थानवधं प्रति। राक्षसा विविधा वाचो व्याहरन्ति महावने॥ हिंसाविहारा वैदेहि न चिन्तयितुमर्हसि । लक्ष्मणेनैवमुक्ता तु क्रुद्धा संरक्तलोचना॥ अब्रवीत् परुषं वाक्यं लक्ष्मणं सत्यवादिनम्। अनार्यकरुणारम्भ नृशंस कुलपांसन॥ अहं तव प्रियं मन्ये रामस्य व्यसनं महत्। रामस्य व्यसनं दृष्ट्वा तेनैतानि प्रभाषसे॥ नैव चित्रं सपत्नेषु पापं लक्ष्मण यद् भवेत्। त्वद्विधेषु नृशंसेषु नित्यं प्रच्छन्नचारिषु॥ सुदुष्टस्त्वं वने राममेकमेकोऽनुगच्छसि। मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा॥ तन्न सिध्यति सौमित्रे तवापि भरतस्य वा। कथमिन्दीवरश्यामं रामं पदानिभेक्षणम्॥ उपसंश्रित्य भर्तारं कामयेयं पृथग्जनम्। समक्षं तव सौमित्रे प्राणांस्त्यक्ष्याम्यसंशयम्॥ रामं बिना क्षणमपि नैव जीवामि भूतले। इत्युक्तः परुषं वाक्यं सीतया रोमहर्षणम्॥ अब्रवील्लक्ष्मणः सीतां प्राञ्जलिः स जितेन्द्रियः। उत्तरं सोत्सहे वक्तुं दैवतं भवता मम ॥ वाक्यमप्रतिरूपं तु न चित्रं स्त्रीषु मैथिलि। स्वभावस्त्वेष नारीणामेषु लोकेषु दृश्यते॥ विमुक्तधर्माश्चपलास्तीक्ष्णा भेदकराः स्त्रियः। न सहे हीदृशं वाक्यं वैदेही जनकात्मजे॥ श्रोत्रयोरुभयोर्मध्ये तप्तनाराचसंनिभम्। उपशृण्वन्तु मे सर्वे साक्षिणो हि वनेचराः॥ न्यायवादी यथा वाक्यमुक्तोऽहं परुषं त्वया। धिक् त्वामद्य विनश्यन्ती यन्मामेवं विशङ्कसे॥ स्त्रीत्वाद् दुष्टस्वभावेन गुरुवाक्ये व्यवस्थितम्। गच्छामि यत्र काकुत्स्थः स्वस्ति तेऽस्तु वरानने॥ रक्षन्तु त्वां विशालाक्षि समग्रा वनदेवताः। निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे। अपि त्वां सह रामेण पश्येयं पुनरागतः॥ लक्ष्मणेनैवमुक्ता तु रुदती जनकात्मजा। प्रत्युवाच ततो वाक्यं तीव्रबाष्परिप्लुता॥ गोदावरी प्रवक्ष्यामि हीना रामेण लक्ष्मण। आबन्धिष्येऽथवा त्यक्ष्ये विषमे देहमात्मनः॥ पिबामि वा विषं तीक्ष्णं प्रवेक्ष्यामि हुताशनम्। न त्वहं राघवादन्यं कदापि पुरुषं स्पृशे॥ इति लक्ष्मणमाश्रुत्य सीता शोकसमन्विता। पाणिभ्यां रुदती दुःशादुदरं प्रजघान ह ॥ सौमित्रिरालोक्य विशालनेत्राम्। स्तं भ्रातरं किंचिदुवाच सीता॥ ततस्तु सीतामभिवाद्य लक्ष्मण: कृताञ्जलिः किचिदभिप्रणम्य। अवेक्षमाणो बहुशः स मैथिली जगाम रामस्य समीपमात्मवान् ॥ तया परुषमुक्तस्तु कुपितो राघवानुजः। स विकाङ्क्षन् भृशं रामं प्रतस्थे नचिरादिव॥ तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः। अभिचक्राम वैदेही परिव्राजकरूपधृक् ॥ श्लक्ष्णकाषायसंवीतः शिखी छत्री उपानही। वामे चांसेऽवसज्याथ शुभे यष्टिकमण्डलू॥ परिव्राजकरूपेण वैदेहीमन्ववर्तत। तामाससादातिबलो भ्रातृभ्यां रहितां वने॥ रहितां सूर्यचन्द्राभ्यां संध्यामिव महत्तमः। तामपश्यत् ततो बालां राजपुत्रीं यशस्विनीम्॥ रोहिणी शशिना हीनां ग्रहवद् भृशदारुणः। तमुग्रं पापकर्माणं जनस्थानगता द्रुमाः॥ संदृश्य न प्रकम्पन्ते न प्रवाति च मारुतः। शीघ्रस्रोताश्च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम्॥ स्तिमितं गन्तुमारेभे भयाद् गोदावरी नदी। रामस्य त्वन्तरं प्रेप्सुर्दशग्रीवस्तदन्तरे॥ उपतस्थे च वैदेही भिक्षुरूपेण रावणः। अभव्यो भव्यरूपेण भर्तारमनुशोचतीम्॥ अभ्यवर्तत वैदेहीं चित्रामिव शनैश्चरः। सहसा भव्यरूपेण तृणैः कूप इवावृतः॥ अतिष्ठत्प्रेक्ष्य वैदेहीं रामपत्नी यशस्विनीम्। तिष्ठन् सम्प्रेक्ष्य च तदा पत्नी रामस्य रावणः॥ शुभां रुचिरदन्तोष्ठी पूर्णचन्दनिभाननाम्। आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम्॥ स तां पद्मपलाशाक्षीं पातकौशेयवासिनीम्। अभ्यगच्छत वैदेहीं हृष्टचेता निशाचरः॥ दृष्ट्वा कामशराविद्धो ब्रह्मघोषमुदीरयन्। अब्रवीत् प्रश्रितं वाक्यं रहिते राक्षसधिपः॥ तामुत्तमां त्रिलोकानां पद्महीनामिव श्रियम्। विभ्राजमानां वपुषा रावणः प्रशशंस ह॥ रौप्यकाञ्चनवर्णाभे पीतकौशेयवासिनि। कमलानां शुभां मालां पद्मिनीव च बिभ्रती ॥ ह्रीः श्रीः कीर्तिः शुभा लक्ष्मीरप्सरा वा शुभानने। भूतिर्वा त्वं वरारोहे रतिर्वा स्वैरचारिणी॥ समाः शिखरिणः स्निग्धाः पाण्डुरा दशनास्तव। विशाले विमले नेत्रे रक्तान्ते कृष्णतारके॥ विशालं जघनं पीनमूरू करिकरोपमौ। एतावुपचितौ वृत्तौ संहतौ सम्प्रगल्भितौ॥ पीनोन्नतमुखौ कान्तौ स्निग्धतालफलोपमौ। मणिप्रवेकाभरणौ रुचिरौ ते पयोधरौ॥ चारुस्मिते चारुदति चारुनेत्रे विलासिनि। मनो हरसि मे रामे नदीकूलमिवाम्भसा ॥ करान्तमितमध्यासि सुकेशे संहतस्तनि। नैव देवी न गन्धर्वी न यक्षी न च किंनरी ॥ नैवंरूपा मया नारी दृष्टपूर्वा महीतले। रूपमग्यं च लोकेषु सौकुमार्यं वयश्च ते॥ इह वासश्च कान्तारे चित्तमुन्माथयन्ति मे। सा प्रतिकाम भद्रं ते न त्वं वस्तुमिहार्हसि ॥ राक्षसानामयं वासो घोराणां कामरूपिणाम्। प्रासादाग्राणि रम्याणि नगरोपवनानि च॥ सम्पन्नानि सुगन्धीनि युक्तान्याचरितुं त्वया। वरं माल्यं वरं गन्धं वरं वस्त्रं च शोभने॥ भर्तारं च वरं मन्ये त्वद्युक्तमसितेक्षणे। का त्वं भवसि रुद्राणां मरुतां वा शुचिस्मिते॥ वसूनां वा वरारोहे देवता प्रतिभासि मे। नेह गच्छन्ति गन्धर्वा ते देव स च किन्नराः॥ राक्षसानामयं वासः कथं तु त्वमिहागता। इह शाखामृगाः सिंहा द्वीपिव्याघ्रमृगा वृकाः॥ ऋक्षास्तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसे। मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम्॥ कथमेका महारण्ये न विभेषि वरानने। कासि कस्य कुतश्च त्वं किं निमित्तं च दण्डकान्।।३१ एका चरसि कल्याणि घोरान् राक्षससेवितान्। इति प्रशस्तः वैदेही रावणेन महात्मना ॥ द्विजातिवेषेण हि तं दृष्ट्वा रावणमागतम्। सर्वैरतिथिसत्कारैः पूजयामास मैथिली॥ उपानीयासनं पूर्वं पायेनाभिनिमन्त्र्य च। अब्रवीत् सिद्धमित्येव तदा तं सौम्यदर्शनम्॥ द्विजातिवेषेण समीक्ष्य मैथिली समागतं पात्रकुसुम्भधारिणम्। न्यमन्त्रयद्ब्राह्मणवत् तथागतम्॥ मिदं च पाद्यं प्रतिगृह्यतामिति। इदं च सिद्धं वनजातमुत्तमं त्वदर्थमव्यग्रमिहोपभुज्यताम्॥ निमन्त्र्यमाणः प्रतिपूर्णभाषिणीं नरेन्द्रपत्नी प्रसमीक्ष्य मैथिलीम्। प्रसह्य तस्या हरणे दृढं मनः समर्पयामास वधाय रावणः॥ ततः सुवेषं मृगयागतं पति प्रतीक्षमाणा सहलक्ष्मणं तदा। निरीक्षमाणा हरितं ददर्श तन्महद्वनं नैव तु रामलक्ष्मणौ॥ रावणेन तु वैदेही तदा पृष्टा जिहीर्षुणा। परिव्राजकरूपेण शशंसात्मानमात्मना॥ ब्राह्मणश्चातिथिश्चैव अनुक्तो हि शपेत माम्। इति ध्यात्वा मुहूर्तं तु सीता वचनमब्रवीत्॥ दुहिता जनकस्याहं मैथिलस्य महात्मनः। सीता नाम्नास्मि भद्रं ते रामस्य महिषी प्रिया॥ उषित्वा द्वादश समा इक्ष्वाकूणां निवेशने। भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी॥ तत्र त्रयोदशे वर्षे राजामन्त्रयत प्रभुः। अभिषेचयितुं रामं समेतो राजमन्त्रिभिः॥ तस्मिन् सम्ध्रियमाणे तु राघवस्याभिषेचने। कैकेयी नाम भर्तारं ममार्या याचते वनम्॥ परिगृह्य तु कैकेयी श्वशुरं सुकृतेन मे। मम प्रव्राजनं भर्तुर्भरतस्याभिषेचनम्।७।। द्वावयाचत भर्तारं सत्यसंधं नृपोत्तमम्। नाद्य भोक्ष्ये न च स्वप्स्ये न पास्ये न कदाचन ॥ एष मे जीवितस्यान्तो रामो यदभिषिच्यते। इति ब्रुवाणां कैकेयीं श्वशुरो मे स पार्थिवः॥ अयाचतार्थैरन्वथैर्न च याञ्चां चकार सा। मम भर्ता महातेजा वयसा पञ्चविंशकः॥ अष्टादश हि वर्षाणि मम जन्मनि गण्यते। रामेति प्रथितो लोके सत्यवाशीलवाञ्शुचिः॥ विशालाक्षो महाबाहुः सर्वभूतहिते रतः। कामार्तश्च महाराजः पिता दशरथः स्वयम्॥ कैकेय्याः प्रियकामार्थं तं रामं नाभ्यषेचयत्। अभिषेकाय तु पितुः समीपं राममागतम् ॥ कैकेयी मम भर्तारमित्युवाच द्रुतं वचः। तव पित्रा समाज्ञप्तं ममेदं शृणु राघव॥ भरताय प्रदातव्यमिदं राज्यमकण्टकम्। त्वया तु खलु वस्तव्यं नव वर्षाणि पञ्च च॥ वने प्रव्रज काकुत्स्थ पितरं मोचयानृतात्। तथेत्युवाच तां रामः कैकेयीमकुतोभयः॥ चकार तद्वचः श्रुत्वा भर्ता मम दृढव्रतः। दद्यान्न प्रतिगृह्णीयात् सत्यं ब्रूयान्न चानृतम्॥ एतद् ब्राह्मण रामस्य व्रतं धृतमनुत्तमम्। तस्य भ्राता तु वैमात्रो लक्ष्मणो नाम वीर्यवान्॥ रामस्य पुरुषव्याघ्रः सहायः समरेऽरिहा। स भ्राता लक्ष्मणो नाम ब्रह्मचारी दृढव्रतः॥ अन्वगच्छद् धनुष्पाणिः प्रव्रजन्तं मया सह। जटी तापसरूपेण मया सह सहानुजः॥ प्रविष्टो दण्डकारण्यं धर्मनित्यो दृढव्रतः। ते वयं प्रच्युता राज्यात् कैकेय्यास्तु कृते त्रयः॥ विचराम द्विजश्रेष्ठ वनं गम्भीरमोजसा। समाश्वस मुहूर्ते तु शक्यं वस्तुमिह त्वया।२२।। आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम्। रु.न् गोधान् वराहांश्च हत्वाऽऽदायामिषं बहु ॥ स त्वं नाम च गोत्रं च कुलमाचक्ष्व तत्त्वतः। एकश्च दण्डकारण्ये किमर्थं चरसि द्विज॥ एवं ब्रुवत्यां सीतायां रामपल्ल्यां महाबलः। प्रत्युवाचोत्तरं तीव्र रावणो राक्षसाधिपः॥ येन वित्रासिता लोकाः सदेवासुरमानुषाः। अहं स रावणो नाम सीते रक्षोगणेश्वरः॥ त्वां तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवासिनाम्। रति स्वकेषु दारेषु नाधिगच्छाम्यनिन्दिते॥ बह्नीनामुत्तमस्त्रीणामाहृतानामितस्ततः। सर्वासामेव भद्रं ते महाग्रमहिषी भव॥ लङ्का नाम समुद्रस्य मध्ये मम महापुरी। सागरेण परिक्षिप्ता निविष्टा गिरिमूर्धनि॥ तत्र सीते मया सार्धं वनेषु विचरिष्यसि। न चास्य वनवासस्य स्पृहयिष्यसि भामिनि॥ पञ्च दास्यः सहस्राणि सर्वाभरणभूषिताः। सीते परिचरिष्यन्ति भार्या भवसि मे यदि॥ रावणेनैवमुक्ता तु कुपिता जनकात्मजा। प्रत्युवाचानवद्याङ्गी तमनादृत्य राक्षसम्॥ महागिरिमिवाकम्प्य महेन्द्रसदृशं पतिम्। महोदधिमिवाक्षोभ्यमहं राममनुव्रता॥ सर्वलक्षणसम्पन्नं न्यग्रोधररिमण्डलम्। सत्यसंधं महाभागमहं राममनुव्रता॥ महाबाहुं महोरस्कं सिंहविक्रान्तगामिनम्। नृसिंहं सिंहसंकाशमहं राममनुव्रता ॥ पूर्णचन्द्राननं रामं राजवत्सं जितेन्द्रियम्। पृथुकीर्तिं महाबाहुमहं राममनुव्रता॥ त्वं पुनर्जम्बुक: सिंहीं मामिहेच्छसि दुर्लभाम्। नाहं शक्या त्वया स्प्रष्टुमादित्यस्य प्रभा यथा॥ पादपान् काञ्चनान् नूनं बहून् पश्यसि मन्दभाक्। राघवस्य प्रियां भार्यां यस्त्वमिच्छसि राक्षस॥ क्षुधितस्य च सिंहस्य मृगशत्रोस्तरस्विनः। आशीविषस्य वदनाद् दंष्ट्रामादातुमिच्छसि॥ मन्दरं पर्वतश्रेष्ठं पाणिना हर्तुमिच्छसि। कालकूटं विषं पीत्वा स्वस्तिमान् गन्तुमिच्छसि॥ अक्षि सूच्या प्रमृजसि जिह्वया लेढि च क्षुरम्। राघवस्य प्रियां भार्यामधिगन्तुं त्वमिच्छसि॥ अवसज्ज्य शिलां कण्ठे समुद्रं तर्तुमिच्छसि। सूर्याचन्द्रमसौ चोभौ पाणिभ्यां हर्तुमिच्छसि ॥ यो रामस्य प्रियां भार्यां प्रधर्षयितुमिच्छसि। अग्नि प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुमिच्छसि॥ कल्याणवृत्तं शूलानामग्रे चरितुमिच्छसि। रामस्य सदृशी भार्या योऽधिगन्तुं त्वमिच्छसि॥ यदन्तरं सिंहसृगालयोने यदन्तरं स्यन्दनिकासमुद्रयोः। सुराग्र्यसौवीरकयोर्यदन्तरं तदन्तरं दाशरथेस्तवैव च।।४५ यदन्तरं काञ्चनसीसलोहया र्यदन्तरं चन्दनवारिपङ्कयोः। यदन्तरं हस्तिबिडालयोर्वने तदन्तरं दाशरथेस्तवैव च। यदन्तरं वायसवैनतेययो र्यदन्तरं मद्गुमयूरयोरपि। यदन्तरं हंसकगृध्रयोर्वने तदन्तरं दाशरथेस्तवैव च।।४७। तस्मिन् सहस्राक्षसमप्रभावे रामे स्थिते कार्मुकबाणपाणौ हृतापि तेऽहं न जरां गमिष्ये आज्यं यथा मक्षिकयावगीर्णम्।४८।। इतीव तद्वाक्यमदुष्टभावा सुदुष्टमुक्त्वा रजनीचरं तम्। गात्रप्रकम्पाद् व्यथिता बभूव वातोद्धता सा कदलीव तन्वी॥ तां वेपमानामुपलक्ष्य सीतां स रावणो मृत्युसमप्रभावः। कुलं बलं नाम च कर्म चात्मनः समाचचक्षे भयकारणार्थम्॥ एवं ब्रुवत्यां सीतायां संरब्धः परुषं वचः। ललाटे भृकुटिं कृत्वा रावणः प्रत्युवाच ह॥ भ्राता वैश्रवणस्याहं सापत्नो वरवर्णिनि। रावणो नाम भद्रं ते दशग्रीवः प्रतापवान्॥ यस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः। विद्रवन्ति सदा भीता मृत्योरिव सदा प्रजाः॥ येन वैश्रवणे भ्राता वैमात्रः कारणान्तरे। द्वन्द्वमासादितः कोधाद् रणे विक्रम्य निर्जितः॥ मद्भयार्तः परित्यज्य स्वमधिष्ठानमृद्धिमत्। कैलासं पर्वतश्रेष्ठमध्यास्ते नरवाहनः॥ यस्य तत् पुष्पकं नाम विमानं कामगं शुभम्। वीर्यादावर्जितं भद्रे येन यामि विहायसम्॥ मम संजातरोषस्य मुखं दृष्ट्वैव मैथिलि। विद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः॥ यत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः। तीव्रांशुः शिशिरांशुश्च भयात् सम्पद्यते दिवि॥ निष्कम्पपत्रास्तरवो नद्यश्च स्तिमितोदकाः। भवन्ति यत्र तत्राहं तिष्ठामि च चरामि च॥ मम पारे समुद्रस्य लङ्का नाम पुरी शुभा। सम्पूर्णा राक्षसैघोरैर्यथेन्द्रस्यामरावती॥ प्राकारेण परिक्षिप्ता पाण्डुरेण विराजिता। हेमकक्ष्या पुरी रम्या वैदूर्यमयतोरणा॥ हस्त्यश्वरथसम्बाधा तूर्यनादविनादिता। सर्वकामफलैर्वृक्षैः संकुलोद्यान भूषिता॥ तत्र त्वं वस हे सीते राजपुत्रि मया सह। न स्मरिष्यसि नारीणां मानुषीणां मनस्विनि॥ भुञ्जाना मानुषान् भोगान् दिव्यांश्च वरवर्णिनि। न स्मरिष्यसि रामस्य मानुषस्य गतायुषः॥ स्थापयित्वा प्रियं पुत्रं राज्ये दशरथो नृपः। मन्दवार्यस्ततो ज्येष्ठः सुतः प्रस्थापितो वनम्॥ तेन किं भ्रष्टराज्येन रामेण गतचेतसा। करिष्यसि विशालाक्षि तापसेन तपस्विना ॥ रक्ष राक्षसभर्तारं कामय स्वयमागतम्। न मन्यथशराविष्टं प्रत्याख्यातुं त्वमर्हसि ॥ प्रत्याख्याय हि मां भीरु पश्चात्तापं गमिष्यसि। चरणेनाभिहत्येव पुरुरवसमुर्वशी॥ अङ्गुल्या न समो रामो मम युद्धे स मानुषः। तव भाग्येन सम्प्राप्तं भजस्व वरवर्णिनि ॥ एवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना। अब्रवीत् परुषं वाक्यं रहिते राक्षसाधिपम्॥ कथं वैश्रवणं देवं सर्वदेवनमस्कृतम्। भ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि॥ अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः। वेषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः॥ अपहृत्य शची भार्यां शक्यमिन्द्रस्य जीवितुम्। नहि रामस्य भार्यां मामानीय स्वस्तिमान् भवेत्॥ च्छची प्रधृष्याप्रतिरूपरूपाम्। न मादृशीं राक्षस धर्षयित्वा पीतामृतस्यापि तवास्ति मोक्षः॥ सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान्। हस्ते हस्तं समाहत्य चकार सुमहद् वपुः॥ स मैथिली पुनर्वाक्यं बभाषे वाक्यकोविदः। नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ॥ उद्वहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः। आपिबेयं समुद्रं च मृत्युं हन्यां रणे स्थितः॥ अर्क तुद्यां शरैस्तीक्ष्णैर्विभिन्द्यां हि महीतलम्। कामरूपेण उन्मत्ते पश्य मां कामरूपिणम्॥ एवमुक्तवतस्यस्य रावणस्य शिखिप्रभे। क्रुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः॥ सद्यः सौम्यं परित्यज्य तीक्ष्णरूपं स रावणः। स्वं रूपं कालरूपाभं भेजे वैश्रवणानुजः॥ संरक्तनयनः श्रीमांस्तप्तकाञ्चनभूषणः। क्रोधेन महताविष्टो नीलजीमूतसंनिभः॥ दशास्यो विंशतिभुजो बभूव क्षणदाचरः। स परिव्राजकच्छद्म महाकायो विहाय तत्॥ प्रतिपेदे स्वकं रूपं रावणो राक्षसाधिपः। रक्ताम्बरधरस्तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम्॥ स तामसितकेशान्तां भास्करस्य प्रभामिव । वसनाभरणोपेतां मैथिली रावणोऽबवीत्॥ त्रिषु लोकेषु विख्यातं यदि भारमिच्छसि। मामाश्रय वरारोहे तवाहं सदृशं पतिः॥ मां भजस्व चिराय त्वमहं श्लाघ्यः पतिस्तव। नैव चाहं क्वचिद् भद्रे करिष्ये तव विप्रियम्॥ त्यजतां मानुषो भारो मयि भावश्च प्रणीयताम्। राज्याच्च्युतमसिद्धार्थं रामं परिमितायुषम्॥ कैर्गुणैरनुरक्तासि मूढे पण्डितमानिनि। यः स्त्रियो वचनाद् राज्यं विहाय ससुहज्जनम्॥ अस्मिन् व्यालानुचरिते वने वसति दुर्मतिः। इत्युक्त्वा मैथिली वाक्यं प्रियाहाँ प्रियवादिनीम्॥ अभिगम्य सुदृष्टात्मा राक्षसः काममोहितः। जग्राह रावणः सीतां बुधः खे रोहिणीमिव ॥ वामेन सीतां पद्माक्षी मूर्धजेषु करेण सः। ऊर्वोस्तु दक्षिणेनैव परिजग्राह पाणिना॥ तं दृष्ट्वा गिरिशृङ्गाभं तीक्ष्णदंष्ट्र महाभुजम्। प्राद्रवन् मृत्युसंकाशं भयार्ता वनदेवताः॥ स च मायामयो दिव्यः खरयुक्तः खरस्वनः। प्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः॥ ततस्तां परुषैर्वाक्यैरभितM महास्वनः। अंकेनाद्य वैदेहीं रथमारोपयत् तदा॥ सा गृहीतातिचुक्रोश रावणेन यशस्विनी। रामेति सीता दुःखार्ता रामं दूरं गतं वने॥ तामकामां स कामार्तः पन्नगेन्द्रवधूमिव। विचेष्टमानामादाय उत्पपताथ रावणः॥ ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा। भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथातुरा ॥ हा लक्ष्मण महाबाहो गुरुचित्तप्रसादक। ह्रियमाणां न जानीषे रक्षसा कामरूपिणा॥ जीवितं सुखमर्थं च धर्महेतोः परित्यजन्। ह्रियमाणामधर्मेण मां राघव न पश्यसि॥ ननु नामाविनीतानां विनेतासि परंतप। कथमेवंविधं पापं न त्वं शाधि हि रावणम्॥ ननु सद्योऽविनीतस्य दृश्यते कर्मणः फलम्। कालोऽप्यङ्गीभवत्यत्र सस्यानामिव पक्तये॥ त्वं कर्म कृतवानेतत् कालोपहतचेतनः। जीवितान्तकरं घोरं रामाद् व्यसनमाप्नुहि ॥ हन्तेदानीं सकामा तु कैकेयी बान्धवैः सह। हियेयं धर्मकामस्य धर्मपत्नी यशस्विनः॥ आमन्त्रये जनस्थाने कर्णिकारांश्च पुष्पितान्। क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः॥ हंससारससंघुष्टां वन्दे गोदावरी नदीम्। क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः॥ दैवतानि च यान्यस्मिन् वने विविधपादपे। नमस्करोम्यहं तेभ्यो भर्तुः शंसत मां हृताम्॥ यानि कानिचिदप्यत्र सत्त्वानि विविधानि च। सर्वाणि शरणं यामि मृगपक्षिगणानि वै॥ ह्रियमाणां प्रियां भर्तुः प्राणेभ्योऽपि गरीयसीम्। विवशा.ते हृता सीता रावणेनेति शंसत ॥ विदित्वा तु महाबाहुरमुत्रापि महाबलः। आनेष्यति पराक्रम्य वैवस्वतहृतामपि॥ सा तदा करुणा वाचो विलपन्ती सुदुःखिता। वनस्पतिगतं गृधं ददर्शायतलोचना॥ सा तमुवीक्ष्य सुश्रोणी रावणस्य वशंगता। समाक्रन्दद् भयपरा दु:खोपहतया गिरा॥ जटायो पश्य मामार्य ह्रियमाणामनाथवत्। अनेन राक्षसेन्द्रेणाकरुणं पापकर्मणा॥ नैष वारयितुं शक्यस्त्वया क्रूरो निशाचरः। सत्त्ववाञ्जितकाशी च सायुधश्चैव दुर्मतिः॥ रामाय तु यथातत्वं जटायो हरणं मम। लक्ष्मणाय च तत्सर्वमाख्यातव्यमशेषतः॥ तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे। निरैक्षद् रावणं क्षिप्रं वैदेहीं च ददर्श सः॥ ततः पर्वतशृङ्गाभस्तीक्ष्णतुण्डः खगोत्तमः। वनस्पतिगतः श्रीमान् व्याजहार शुभां गिरम्॥ दशग्रीव स्थितो धर्मे पुराणे सत्यसंश्रयः। भ्रातस्त्वं निन्दितं कर्म कर्तुं नार्हसि साम्प्रतम्॥ जटायुर्नाम नाम्नाहं गृध्रराजो महाबलः। राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः॥ लोकानां च हिते युक्तो रामो दशरथात्मजः। तस्यैषा लोकनाथस्य धर्मपत्नी यशस्विनी॥ सीता नाम वरारोहा यां त्वं हर्तुमिच्छसि। कथं राजा स्थितो धर्मे परदारान् परामशेत्॥ रक्षणीया विशेषेण राजदारा महाबल। निवर्तय गतिं नीचां परदाराभिमर्शनात्॥ न तत् समाचरेद् धीरो यत् परोऽस्य विगर्हयेत्। यथाऽऽत्मनस्तथोन्येषां दारा रक्ष्या विमर्शनात्॥ अर्थं वा यदि वा कामं शिष्टाः शास्त्रेष्वनागतम्। व्यवस्यन्त्यनु राजानं धर्मं पौलस्त्यनन्दन॥ राजा धर्मश्च कामश्च द्रव्याणां चोत्तमो निधिः। धर्मः शुभं वा पापं वा राजमूलं प्रवर्तते॥ पापस्वभावश्चपल: कथं त्वं रक्षसां वर। ऐश्वर्यमभिसम्प्राप्तो विमानमिव दुष्कृती॥ कामस्वभावोयः सोऽसौ न शक्यस्तं प्रमार्जितुम्। नहि दुष्टात्मनामार्यमावसत्यालये जिरम्॥ विषये वा पुरे वा ते यदा रामो महाबलः। नापराध्यति धर्मात्मा कथं तस्यापराध्यसि ॥ यदि शूर्पणखाहेतोर्जनस्थानगतः खरः। अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा॥ अत्र ब्रूहि यथातत्वं का रामस्य व्यतिक्रमः। यस्य त्वं लोकनाथस्य हृत्वा भार्यां गमिष्यसि॥ क्षिप्रं विसृज वैदेहीं मा त्वा घोरेण चक्षुषा। दहेद् दहनभूतेन वृत्रमिन्द्राशनिर्यथा॥ सर्पमाशीविषं बद्ध्वा वस्त्रान्ते नावबुध्यसे। ग्रीवायां प्रतिमुक्तं च कालपाशं न पश्यसि॥ स भारः सौम्य भर्तव्यो यो नरं नावसादयेत्। तदन्नमपि भोक्तव्यं जीर्यते यदनामयम्॥ यत् कृत्वा न भवेद् धर्मो न कीर्तिर्न यशो ध्रुवम्। शरीरस्य भवेत् खेदः कस्तत् कर्म समाचरेत्॥ षष्टिवर्षसहस्राणि जातस्य मम रावण। पितृपैतामहं राज्यं यथावदनुतिष्ठतः॥ वृद्धोऽहं त्वं युवा धन्वी सरथः कवची शरी। न चाप्यादाय कुशली वैदेहीं मे गमिष्यसि ॥ न शक्तस्त्वं बलाद्धर्तुं वैदेहीं मम पश्यतः। हेतुभिर्यायसंयुक्तैर्बुवां वेदश्रुतीमिव॥ युध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण। शयिष्यसे हतो भूमौ यथा पूर्वं खरस्तथा॥ असकृतसंयुगे येन निहता दैत्यदानवाः। न चिराच्चीरवासास्त्वां रामो युधि वधिष्यति॥ किं नु शक्यं मया कर्तुं गतौ दूरं नृपात्मजौ। क्षिप्रं त्वं नश्यसे नीच तयोर्भीतो न संशयः॥ नहि मे जीवमानस्य नयिष्यसि शुभामिमाम्। सीतां कमलपत्राक्षी रामस्य महिषीं प्रियाम्॥ अवश्यं तु मया कार्यं प्रियं तस्य महात्मनः। जीवितेनापि रामस्य तथा दशरथस्य च॥ तिष्ठ तिष्ठ दशग्रीव मुहूर्तं पश्य रावण। वृन्तादिव फलं त्वं तु पातयेयं रथोत्तमाम्। युद्धातिथ्यं प्रदास्यामि यथाप्राणं निशाचर॥ इत्युक्तः क्रोधताम्राक्षस्तप्तकाञ्चनकुण्डलः। राक्षसेन्द्रोऽभिदुद्राव पतगेन्द्रममर्षणः॥ स सम्प्रहारस्तुमुलस्तयोस्तस्मिन् महामृधे। बभूव वातो तयोर्मेघयोर्गगने यथा॥ तद् बभूवाद्भुतं युद्धं गृध्रराक्षसयोस्तदा। सपक्षयोर्माल्यवतोर्महापर्वतयोरिव॥ ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः। अभ्यवर्षन्महाघोरैध्रराजं महाबलम्॥ स तानि शरजालानि गृध्रः पत्ररथेश्वरः। जटायुः प्रतिजग्राह रावणास्त्राणि संयुगे॥ तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः। चकार बहुधा गात्रे व्रणान् पतगसत्तमः॥ अथ क्रोधाद् दशग्रीवो जग्राह दश मार्गणान्। मृत्युदण्डनिभान् घोराशत्रोनिधनकासया॥ स तैर्बाणैर्महावीर्यः पूर्णमुक्तैरजिह्मगैः। बिभेद निशितैस्तीक्ष्णैधं घोरैः शिलीमुखैः॥ स राक्षसरथे पश्यञ्जानकी बाष्पलोचनाम्। अचिन्तयित्वा बाणांस्तान् राक्षसं समभिद्रवत्॥ ततोऽस्य सशरं चापं मुक्तामणिविभूषितम्। चरणाभ्यां महातेजा बभञ्ज पतगोत्तमः॥ ततोऽन्यद् धनुरादाय रावणः क्रोधमूर्छितः। ववर्ष शरवर्षाणि शतशोऽथ सहस्रशः॥ शैररावारितस्तस्य संयुगे पतगेश्वरः। कुलायमभिसम्प्राप्तः पक्षिवच्च बभौ तदा॥ स तानि शरजालानि पक्षाभ्यां तु विधूय ह। चरणाभ्यां महातेजा बभञ्जास्य महद् धनुः॥ तच्चाग्निसदृशं दीप्तं रावणस्य शरावरम्। पक्षाभ्यां च महातेजा व्यधुनोत् पतगेश्वरः॥ काञ्चनोरश्छदान् दिव्यान् पिशाचवदनान् खरान्। तांश्चास्य जवसम्पन्नाञ्जघान समरे बली॥ अथ त्रिवेणुसम्पन्नं कामगं पावकार्चिषम्। मणिसोपानचित्राङ्गं बभञ्ज च महारथम्॥ पूर्णचन्द्रप्रतीकाशं छत्रं च व्यजनैः सह। पातयामास वेगेन ग्राहिभी राक्षसैः सह ॥ सारथेश्चास्य वेगेन तुण्डेन च महच्छिरः। पुनर्व्यपहनच्छ्रीमान् पक्षिराजो महाबलः॥ स भग्नधन्वा विरथो हताश्वो हतसारथिः। अङ्केनादाय वैदेहीं पपात भुवि रावणः॥ दृष्ट्वा निपतितं भूमौ रावणं भग्नवाहनम्। साधु साध्विति भूतानि गृध्रराजमपूजयन्॥ परिश्रान्तं तु तं दृष्ट्वा जरया पक्षियूथपम्। उत्पपात पुनर्हष्टो मैथिली गृह्य रावणः॥ तं प्रहृष्टं निधायाङ्के रावणं जनकात्मजाम्। गच्छन्तं खङ्गशेषं च प्रणष्टहतसाधनम्॥ गृध्रराजः समुत्पत्य रावणं समभिद्रवत्। समावार्य महातेजा जटायुरिदमब्रवीत्॥ वज्रसंस्पर्शबाणस्य भार्या रामस्य रावण। अल्पबुद्धे हरस्येनां वधाय खलु रक्षसाम्॥ समित्रबन्धुः सामात्यः सबल: सपरिच्छदः। विषपानं पिबस्येतत् पिपासित इवोदकम्॥ अनुबन्धमजानन्तः कर्मणामविचक्षणाः। शीघ्रमेव विनश्यन्ति यथा त्वं विनशिष्यसि॥ बद्धस्त्वं कालपाशेन क्व गतस्तस्य मोक्षसे। वधाय बडिशं गृह्य सामिषं जलजो यथा॥ नहि जातु दुराधर्षों काकुत्स्थौ तव रावण। धर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ ॥ यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम्। तस्कराचरितो मार्गो नैष वीरनिषेवितः॥ युध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण। शयिष्यसे हतो भूमौ यथा भ्राता खरस्तथा॥ परेतकाले पुरुषो यत् कर्म प्रतिपद्यते। विनाशायात्मनोऽधयं प्रतिपन्नोऽसि कर्म तत्॥ पापानुबन्धो वै यस्य कर्मणः को नु तत् पुमान्। कुर्वीत लोकाधिपतिः स्वयंभूर्भगवानपि ॥ एवमुक्त्वा शुभं वाक्यं जटायुस्तस्य रक्षसः। निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान् ॥ तं गृहीत्वा नखैस्तीक्ष्णैर्विददार समन्ततः। अधिरूढो गजारोहो यथा स्याद् दुष्टावारणम्॥ विददार नखैरस्य तुण्डपृष्ठे समर्पयन्। केशांश्चोत्पाटयामास नखपक्षमुखायुधः॥ स तथा गृध्रराजेन क्लिश्यमानो मुहुर्मुहुः। अमर्षस्फुरितोष्ठः सन् प्राकम्पत च राक्षसः॥ सम्परिष्वज्य वैदेही वामेनाङ्केन रावणः। तलेनाभिजघाना” जटायुं क्रोधमूछितः॥ जटायुस्तमतिक्रम्य तुण्डेनास्य खगाधिपः। वामबाहून् दश तदा व्यपाहरदरिंदमः॥ संछिन्नबाहोः सद्यो वै बाहवः सहसाभवन्। विषज्वालावलीयुक्ता वल्मीकादिव पन्नगाः॥ ततः क्रोधाद् दशग्रीवः सीतामुत्सृज्य वीर्यवान्। मुष्टिभ्यां चरणाभ्यां च गृध्रराजमपोथयत्॥ ततो मुहूर्तं संग्रामो बभूवातुलवीर्ययोः। राक्षसानां च मुख्यस्य पक्षिणां प्रवरस्य च॥ तस्य व्यायच्छमानस्य रामस्यार्थे स रावणः। पक्षौ पादौ च पाश्वौं च खङ्गमुद्धृत्य सोऽच्छिनत्।।४२ स च्छिन्नपक्षः सहसा रक्षसा रौद्रकर्मणा। निपपात महागृध्रो धरण्यामल्पजीवितः॥ तं दृष्ट्वा पतितं भूमौ क्षतजा जटायुषम्। अभ्यधावत वैदेही स्वबन्धुमिव दुःखिता॥ तं नीलजीमूतनिकाशकल्पं सपाण्डुरोरस्कमुदारवीर्यम्। ददर्श लङ्काधिपतिः पृथिव्यां जटायुषं शान्तमिवाग्निदावम् ॥ ततस्तु तं पत्ररथं महीतले निपातितं रावणवेगमर्दितम्। पुनश्च संगृह्य शशिप्रभानना रुरोद सीता जनकात्मजा तदा।॥ सा तु ताराधिपमुखी रावणेन निरीक्ष्य तम्। गृध्रराजं विनिहतं विललाप सुदुःखिता॥ निमित्तं लक्षणं स्वप्नं शकुनिस्वरदर्शनम्। अवश्यं सुखदुःखेषु नराणां परिदृश्यते॥ न नूनं राम जानासि महद्व्यसनमात्मनः। धावन्ति नूनं काकुत्स्थ मदर्थं मृगपक्षिणः॥ अयं हि कृपया राम मां त्रातुमिह संगतः। शेते विनिहतो भूमौ ममाभाग्याद् विहंगमः॥ त्राहि मामद्य काकुत्स्थ लक्ष्मणेति वराङ्गना। सुसंत्रस्ता समाक्रन्दच्छृण्वतां तु यथान्तिके ॥ तां क्लिष्टमाल्याभरणां विलपन्तीमनाथवत्। अभ्यधावत वैदेहीं रावणो राक्षसाधिपः॥ तां लतामिव वेष्टन्तीमालिङ्गन्तीं महाद्रुमान्। मुञ्च मुञ्चेति बहुशः प्राप तां राक्षसाधिपः॥ क्रोशन्ती राम रामेति रामेण रहितां वने। जीवितान्ताय केशेषु जग्राहान्तकसंनिभः॥ प्रधर्षितायां वैदेह्यां बभूव सचराचरम्। जगत् सर्वममर्यादं तमसान्धेन संवृतम्॥ न वाति मारुतस्तत्र निष्प्रभोऽभूद् दिवाकरः। दृष्ट्वा सीतां परामृष्टां देवो दिव्येन चक्षुषा ॥ कृतं कार्यमिति श्रीमान् व्याजहार पितामहः। प्रहष्टा व्यथिताश्चासन् सर्वे ते परमर्षयः॥ दृष्ट्वा सीतां परामृष्टां दण्डकारण्यवासिनः। रावणस्य विनाशं च प्राप्तं बुद्ध्वा यदृच्छया॥ स तु तां राम रामेति रुदती लक्ष्मणेति च । जगामादाय चाकाशं रावणो राक्षसेश्वरः॥ तप्ताभरणवर्णाङ्गी पीतकौशेयवासिनी। रराज राजपुत्री तु विद्युत्सौदामनी यथा॥ उद्धृतेन च वस्त्रेण तस्याः पीतेन रावणः। अधिकं परिबभ्राज गिरिर्दीप्त इवाग्निना॥ तस्याः परमकल्याण्यास्ताम्राणि सुरभीणि च। पद्मपत्राणि वैदेह्या अभ्यकीर्यन्त रावणम्॥ तस्याः कौशेयमुद्धृतमाकाशे कनकप्रभम्। बभौ चादित्यरागेण ताम्रमभ्रमिवातपे॥ तस्यास्तद् विमलं वक्त्रमाकाशे रावणाङ्कगम्। न रराज विना रामं विनालमिव पङ्कजम्॥ बभूव जलदं नीलं भित्त्वा चन्द्र इवोदितः। सुललाटं सुकेशान्तं पद्मगर्भाभमव्रणम्॥ शुक्लैः सुविमलैर्दन्तैः प्रभावद्भिरलंकृतम्। तस्याः सुनयनं वक्त्रमाकाशे रावणाङ्कगम्॥ रुदितं व्यपमृष्टास्रं चन्द्रवत् प्रियदर्शनम्। सुनासं चारुताम्रोष्टमाकाशे हाटकप्रभम्॥ राक्षसेन्द्रसमाधूतं तस्यास्तद् वदनं शुभम्। शुशुभे न विना रामं दिवा चन्द्र इवोदितः॥ सा हेमवर्णां नीलाङ्ग मैथिली राक्षसाधिपम्। शुशुभे काञ्चनी काञ्ची नीलं गजमिवाश्रिता ॥ सा पद्मपीता हेमाभा रावणं जनकात्मजा। विद्युद् घनमिवाविश्य शुशुभे तप्तभूषणा॥ तस्या भूषणघोषेण वैदेह्या राक्षसेश्वरः। बभूव विमलो नीलः सघोष इव तोयदः॥ उत्तमाङ्गच्युता तस्याः पुष्पवृष्टिः समन्ततः। सीताया ह्रियमाणायाः पपात धरणीतले॥ सा तु रावणवेगेन पुष्पवृष्टिः समन्ततः। समाधूता दशग्रीवं पुनरेवाभ्यवर्तत ॥ अभ्यवर्तत पुष्पाणां धारा वैश्रवणानुजम्। नक्षत्रमाला विमला मेरुं नगमिवोत्तमम् ॥ चरणान्नूपुरं भ्रष्टं वैदेह्या रत्नभूषितम्। विद्युन्मण्डलसंकाशं पपात धरणीतले॥ तरुप्रवालरक्ता सा नीलाङ्गं राक्षसेश्वरम्। प्रशोभयत् वैदेही गजं कक्ष्येव काञ्चनी॥ तां महोल्कामिवाकाशे दीप्यमानां स्वतेजसा। जहाराकाशमाविश्य सीतां वैश्रवणानुजः॥ तस्यास्तान्यग्निवर्णानि भूषणानि महीतले। सघोषाण्यवशीर्यन्त क्षीणास्तारा इवाम्बरात्॥ तस्याः स्तनान्तराद् भ्रष्टो हारस्ताराधिपद्युतिः। वैदेह्या निपतन् भाति गङ्गेव गगनच्युता॥ उत्पातवाताभिरता नानाद्विजगणायुक्ताः। मा भैरीति विधूताग्रा व्याजह्वरिव पादपाः॥ नलिन्यो ध्वस्तकमलास्त्रस्तंमीनजलेचराः। सखीमिव गतोत्साहां शोचन्तीव स्म मैथिलीम्॥ समन्तादभिसम्पत्य सिंहव्याघ्रगद्विजाः। अन्वधावंस्तदा रोषाद् सीताच्छायानुगामिनः॥ जलप्रपातास्रमुखाः शृङ्गैरुच्छ्रितबाहुभिः। सीतायां ह्वियमाणायां विक्रोशन्तीव पर्वताः॥ ह्वियमाणां तु वैदेही दृष्ट्वा दीनो दिवाकरः। प्रविध्वस्तप्रभः श्रीमानासीत् पाण्डुर मण्डलः॥ नास्ति धर्मः कुतः सत्यं नार्जवं नानृशंसता। यत्र रामस्य वैदेही सीतां हरति रावणः॥ इता भूतानि सर्वाणि गणशः पर्यदेवयन्। वित्रस्तका दीनमुखा रूरुदुर्मुगपोतकाः॥ उद्वीक्ष्योतीक्ष्य नयनैर्भयादिव विलक्षणैः। सुप्रवेपितगात्राश्च बभूवुर्वनदेवताः॥ विक्रोशन्तीं दृषं सीतां दृष्ट्वा दुःशं तता गताम्। तां तु लक्ष्मण रामेति क्रोशन्तीं मधुरस्वराम्।॥ अवेक्षमाणां बहुशो वैदहीं धरणीतलम्। स तामाकुलकेशान्तां विप्रमृष्टविशेषकाम्। जहारात्मविनाशाय दशग्रीरो मनस्विनीम्॥ ततस्तु सा चारुदती शुचिस्मिता विनाकृता बन्धुजनेन मैथिली। अपश्यती राधवलक्ष्मणाबुभौ विवर्षक्त्रा फयभारपीडिता॥ खमुत्पतन्तं तं दृष्ट्वा मैथिली जनकात्मजा। दुःखिता परमोद्विग्ना भये महति वर्तिनी॥ रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम्। रुदती करुणं सीता ह्रियमाणा तमब्रवीत्॥ न व्यपत्रपसे नीच कर्मणानेन रावण। ज्ञात्वा विरहितां यो मां चोरयित्वा पलायसे॥ त्वयैव नूनं दुष्टात्मन् भीरूणा हर्तुमिच्छता। ममापवाहितो भर्ता मृगरूपेण मायया॥ यो हि मामुद्यतस्त्रातुं सोऽप्ययं विनिपातितः। गृध्रराजः पुराणोऽसौ श्वशुरस्य सखा मम ॥ परमं खलु ते वीर्यं दृश्यते राक्षसाधम। विश्राव्य नामधेयं हि युद्धे नास्मि जिता त्वया॥ ईदृशं गर्हितं कर्म कथं कृत्वा न लज्जसे। स्त्रियाश्चाहरणं नीच रहिते च परस्य च ॥ कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम्। कुनृशंसमधर्मिष्ठं तव शौटीर्यमानिनः॥ धिक् ते शौर्यं च सत्त्वं च यत्वया कथितं तदा। कुलाक्रोशकरं लोके धिक् ते चारित्रमीदृशम्॥ किं शक्यं कर्तुमेवं हि यज्जवेनैव धावसि। मुहूर्तमपि तिष्ठ त्वं न जीवन् प्रतियास्यसि ॥ न हि चक्षुःपथं प्राप्य तयोः पार्थिवपुत्रयोः। ससैन्योऽपि समर्थस्त्वं मुहूर्तमपि जीवितुम् ॥ न त्वं तयोः शरस्पर्श सोढुं शक्तः कथंचन। वने प्रज्वलितस्येव स्पर्शमग्नेविहंगमः॥ साधु कृत्वात्मनः पथ्यं साधु मां मुञ्च रावण। मत्प्रधर्षणसंक्रुद्धो भ्रात्रा सह पतिर्मम ॥ विधास्यति विनाशाय त्वं मां यदि न मुञ्चसि। येन त्वं व्यवसायेन बलान्मां हर्तुमिच्छसि॥ व्यवसायस्तु ते नीच भविष्यति निरर्थकः। नह्यहं तमपश्यन्ती भर्तारं विबुधोपमम्॥ उत्सहे शत्रुवशगा प्राणान् धारयितुं चिरम्। न नूनं चात्मनः श्रेयः पथ्यं वा समवेक्षसे॥ मृत्युकाले यथा मर्यो विपरितानि सेवते। मुमूर्तृणां तु सर्वेषां यत् पथ्यं तन्न रोचते॥ पश्यामीहि हि कण्ठे त्वां कालपाशावपाशितम्। यथा चास्मिन् भयस्थाने न बिभेषि निशाचर॥ व्यक्तं हिरण्यमयांस्त्वं हि सम्पश्यसि महीरूहान्। नदी वैतरणी घोरां रुधिरौघविवाहिनीम्॥ खङ्गपत्रवनं चैव भीमं पश्यसि रावण। तप्तकाञ्चनपुष्पां च वैदूर्यप्रवरच्छदाम्॥ द्रक्ष्यसे शाल्मली तीक्ष्णामायसैः कण्टकैश्रिताम्। नहि त्वमीदृशं कृत्वा तस्यालीकं महात्मनः॥ धारितुं शक्ष्यसि चिरं विषं पीत्वे निघृण। बद्धस्त्वं कालपाशेन दुर्निवारेण रावण ॥ क्व गतो लप्स्यसे शर्म मम भर्तुर्महात्मनः। निमेषान्तरमात्रेण बिना भ्रातरमाहवे॥ राक्षसा निहता येन सहस्राणि चतुर्दश। कथं स राघवो वीरः सर्वास्त्रकुशलो बली॥ न त्वां हन्याच्छरैस्तीक्ष्णैरिष्टभार्यापहारिणम्। एतच्चान्यच्च परुषं वैदेही रावणाङ्कगा। भयशोकसमाविष्टा करुणं विललाप ह॥ तदा भृशात् बहु चैव भाषिणी विलापपूर्वं करुणं च भामिनीम्। जहार पापस्तरुणी विचेष्टती नृपात्मजामागतगात्रदे'थुः॥ ह्रियमाणा तु वैदेही कंचिन्नाथमपश्यती। ददर्श गिरिशृङ्गस्थान् पञ्च वानरपुङ्गवान्॥ तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम्। उत्तरीयं वरारोहा शुभान्याभरणानि च॥ मुमोच यदि रामाय शंसेयुरिति भामिनी। वस्रमुत्सृज्य तन्मध्ये निक्षिप्तं सहभूषणम्॥ सम्भ्रमात् तु दशग्रीवस्तत्कर्म च न बुद्धवान्। पिङ्गाक्षास्तां विशालाक्षी नेत्रैरनिमिषैरिव ॥ विक्रोशन्तीं तदा सीतां दद्दशुर्वानरोत्तमाः। स च पम्पामतिक्रम्य लङ्कामभिमुखः पुरीम्॥ जगाम मैथिली गृह्य रुदतीं राक्षसेश्वरः। तां जहार सुसंहृष्टो रावणो मृत्युमात्मनः॥ उत्सङ्गेनैव भुजगी तीक्ष्णदंष्ट्रां महाविषाम्। वनानि सरितः शैलान् सरांसि च विहायसा॥ स क्षिप्रं समतीयाय शरश्चापादिव च्युतः। तिमिनक्रनिकेतं तु वरुणालयमक्षयम्॥ सरितां शरणं गत्वा समतीयाय सागरम्। सम्भ्रमान् परिवृत्तोर्मी रुद्धमीनमहोरगः॥ वैदेह्यां ह्रियमाणायां बभूव वरुणालयः। अन्तरिक्षगता वाचः ससृजुश्चारणास्तदा॥ एतदन्तो दशग्रीव इति सिद्धास्तथाब्रुवन्। स तु सीतां विचेष्टन्तीमङ्केनादाय रावणः॥ प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः। सोऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम्॥ संरूढकक्ष्यां बहुलां स्वमन्तःपुरमाविशत्। तत्र तामसितापाङ्गी शोकमोहसमन्विताम्॥ निदधे रावणः सीतां मयो मायामिवासुरीम्। अब्रवीच्च दशग्रीवः पिशाची?रदर्शनाः॥ यथा नैनां पुमान् स्त्री वा सीतां पश्यत्यसम्मतः। मुक्तामणि सुवर्णानि वस्त्राण्याभरणानि च॥ यद् यदिच्छेत् तदैवास्या देयं मच्छन्दतो यथा। या च वक्ष्यति वैदेही वचनं किंचिदप्रियम्॥ अज्ञानाद् वा ज्ञानान तस्या जीवितं प्रियम्। तथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान्॥ निष्क्रम्यान्तः पुरात् तस्मात् किं कृत्यमिति चिन्तयन्। ददर्शाष्टौ महावीर्यान् राक्षसान् पिशिताशनान्॥ स तान् दृष्ट्वा महावीर्यो वरदानेन मोहितः। उवाच तानिदं वाक्यं प्रशस्य बलवीर्यतः॥ नानाप्रहरणाः क्षिप्रमितो गच्छत सत्वराः। जनस्थानं हतस्थानं भूतं पूर्वं खरालयम्॥ तत्रास्यतां जनस्थाने शून्ये निहतराक्षसे। पौरुषं बलमाश्रित्य त्रासमुत्सृज्य दूरतः॥ वहुसैन्यं महावीर्यं जनस्थाने निवेशितम्। सदूषणखरं युद्धे निहतं रामसायकैः॥ ततः क्रोधो ममापूर्वो धैर्यस्योपरि वर्धते। वैरं च सुमहज्जातं रामं प्रति सुदारुणम् ॥ निर्यातयितुमिच्छामि तच्च वैरं महारिपोः। नहि लप्स्याम्यहं निद्रामहत्वा संयुगे रिपुम्॥ तं त्विदानीमहं हत्वा खरदूषणघातिनम्। राम शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः॥ जनस्थाने वसद्भिस्तु भवद्भि राममाश्रिता। प्रवृत्तिरूपनेतव्या किं करोतीति तत्वतः॥ अप्रमादाच्च गन्तव्यं सर्वैरेव निशाचरैः। कर्तव्यश्च सदा यत्नो राघवस्य वधं प्रति॥ युष्माकं तु बलं ज्ञातं बहुशो रणमूर्धने। अतस्तस्मिञ्जनस्थाने मया यूयं निवेशिताः॥ ततः प्रियं वाक्यमुपेत्य राक्षसा महार्थमष्टावभिवाद्य रावणम्। विहाय लङ्कां सहिताः प्रतस्थिरे यतो जनस्थानमलक्ष्यदर्शनाः॥ ततस्तु सीतामुपलभ्य रावणः सुसम्प्रहृष्टः परिगृह्य मैथिलीम्। प्रसज्य रामेण च वैरमुत्तमं बभूव मोहान्मुदितः स रावणः॥ संदिश्य राक्षसान् घोरान् रावणोऽष्टौ महाबलान्। आत्मानं बुद्धिवैक्लव्यात् कृतकृत्यममन्यत॥ स चिन्तयानो वैदेहीं कामबाणैः प्रपीडितः। प्रविवेश गृहं रम्यं सीतां द्रष्टुमभित्वरन्॥ स प्रविश्य तु तद्वेश्म रावणो राक्षसाधिपः। अपश्यद् राक्षसीमध्ये सीतां दुःखपरायणाम्॥ अश्रुपूर्णमुखीं दीनां शोकभारावपीडिताम्। वायुवेगैरिवाक्रान्तां मज्जन्ती नावमर्णवे॥ मृगयूथपरिभ्रष्टां मृगी श्वभिरिवावृताम्। अधोगतमुखीं सीतां तामभ्येत्य निशाचरः॥ तां तु शोकवशाद् दीनामवशां राक्षसाधिपः। स बलाद् दर्शयामास गृहं देवगृहोपमम्॥ हर्म्यप्रासादसम्बाधं स्त्रीसहस्रनिषेवितम्। नानापक्षिगणैर्जुष्टं नानारत्नसमन्वितम्॥ दान्तकैस्तापनीयैश्च स्फाटिकै राजतैस्तथा। वज्रवैदूर्यचित्रैश्च स्तम्भैईष्टिमनोरमैः॥ दिव्यदुन्दुभिनिर्घोषं तप्तकाञ्चनभूषणम्। सोपानं काञ्चनं चित्रमारुरोह तथा सह॥ दान्तका राजताश्चैव गवाक्षाः प्रियदर्शनाः। हेमजालावृताश्चासंस्तत्र प्रासादपङ्क्तयः॥ सुधामणिविचित्राणि भूमिभागानि सर्वशः। दशग्रीवः स्वभवने प्रादर्शयत मैथिलीम्॥ दीर्घिकाः पुष्करिण्यश्च नानापुप्पसमावृताः। रावणो दर्शयामास सीतां शोकपरायणाम्॥ दर्शयित्वा तु वैदेहीं कृत्स्नं तद्भवनोत्तमम्। उवाच वाक्यं पापात्मा सीतां लोभितुमिच्छया॥ दश राक्षसकोट्यश्च द्वाविंशतिरथापराः। वर्जयित्वा जनान्वृद्धान् बालांश्च रजनीचरान्॥ तेषां प्रभुरहं सीते सर्वेषां भीमकर्मणाम्। सहस्रमेकमेकस्य मम कार्यपुरःसरम्॥ यदिदं राज्यतन्त्रं मे त्वयि सर्वं प्रतिष्ठितम्। जीवितं च विशालाक्षि त्वं मे प्राणैर्गरीयसी॥ बह्वीनामुत्तमस्त्रीणां मम योऽसौ परिग्रहः। तासां त्वमीश्वरी सीते मम भार्या भव प्रिये॥ साधु किं तेऽन्यथाबुद्ध्या रोचयस्व वचो मम। भजस्व माभितप्तस्य प्रसादं कर्तुमर्हसि॥ परिक्षिप्ता समुद्रेण लङ्केयं शतयोजना। नेयं धर्षयितुं शक्या सेन्ट्रैरपि सुरासुरैः॥ न देवेषु न यक्षेषु न गन्धर्वेषु नर्षिषु। अहं पश्यामि लोकेषु यो मे वीर्यसमो भवेत्॥ राज्यभ्रष्टेन दीनेन तापसेन पदातिना। सिं करिष्यसि रामेण मानुषिणाल्पतेजसा॥ भजस्व सीते मामेव भर्ताहं सदृशस्तव। यौवनं त्वध्रुवं भीरु रमस्वेह मया सह॥ दर्शने मा कृथाः बुद्धिं राघवस्य वरानने। कास्य शक्तिरिहागन्तुमपि सीते मनोरथैः ॥ न शक्यो वायुराकाशे पाशैर्बद्धं महाजवः। दीप्यमानस्य वाप्यग्नेर्ग्रहीतुं विमला: शिखाः॥ त्रयाणामपि लोकानां न तं पश्यामि शोभते। विक्रमेण नयेद् यस्त्वां मद्बाहुपरिपालिताम्॥ लङ्कायाः सुमहद्राज्यमिदं त्वमनुपालय। त्वत्प्रेष्या मद्विधाश्चैव देवाश्चापि चराचरम्॥ अभिषेकजलक्लिन्ना तुष्टा च रमयस्व च। दुष्कृतं यत्पुरा कर्म वनवासेन तद्गतम्॥ यच्च ते सुकृतं कर्म तस्येह फलमाप्नुहि। इह सर्वाणि माल्यानि दिव्यगन्धानि मैथिलि॥ भूषणानि च मुख्यानि तानि सेव मया सह। पुष्पकं नाम सुश्रोणि भ्रातुर्वैश्रवणस्य मे॥ विमानं सूर्यसंकाशं तरसा निर्जितं रणे। विशालं रमणीयं च तद्विमानं मनोजवम्॥ तत्र सीते मया सार्धं विहरस्व यथासुखम्। वदनं पद्मसंकाशं विमलं चारुदर्शनम्॥ शोकार्तं तु वरारोहे न भ्राजति वरानने। एवं वदति तस्मिन् सा वस्त्रान्तेन वराङ्गना॥ पिधायेन्दुनिभं सीता मन्दमश्रूण्यवर्तयत्। ध्यायन्ती तामिवास्वस्थां सीतां चिन्ताहतप्रभाम्॥ उवाच वचनं वीरो रावणो रजनीचरः। अलं वीडेन वैदेहि धर्मलोपकृतेन ते॥ आर्षोऽयं देवि निष्पन्दो यस्त्वामभिभविष्यति। एतौ पादौ मया स्निग्धौ शिरोभिः परिपीडितौ॥ प्रसादं कुरु मे क्षिप्रं वश्यो दासोऽहमस्मि ते। इमाः शून्या वाचः शुष्यमाणेन भाषिताः॥ न चापि रावणः कांचिन्मूर्खा स्त्री प्रणमेत ह। एवमुक्त्वा दशग्रीवो मैथिली जनकात्मजाम्। कृतान्तवशमापन्नो ममेयमिति मन्यते॥ राक्षसं मृगरूपेण चरन्तं कामरूपिणम्। निहत्य रामो मारीचं तूर्णं पथि न्यवर्तत॥ तस्य संत्वरमाणस्य द्रष्टुकामस्य मैथिलीम्। क्रूरस्वनोऽथ गोमायुर्विननादास्य पृष्ठतः॥ स तस्य स्वरमाज्ञाय दारुणं रोमहर्षणम्। चिन्तयामास गोमायोः स्वरेण परिशङ्कितः॥ अशुभं वत मन्येऽहं गोमायुर्वाशते यथा। स्वस्ति स्यादपि वैदेह्या राक्षसैर्भक्षणं विना ॥ मारीचेन तु विज्ञाय स्वरमालक्ष्य मामकम्। विक्रुष्टं मृगरूपेण लक्ष्मणः शृणुयाद् यदि॥ स सौमित्रिः स्वरं श्रुत्वा तां च हित्वाथ मैथिलीम्। तयैव प्रहितः क्षिप्रं मत्सकाशमिहैष्यति॥ राक्षसैः सहितैनूनं सीताया ईप्सितो वधः। काञ्चनश्च मृगो भूत्वा व्यपनीयाश्रमात् तु माम्॥ दूरं नीत्वाथ मारीचो राक्षसोऽभूच्छराहतः। हा लक्ष्मण हतोऽस्मीति यद्वाक्यं व्याजहार ह॥ अपि स्वस्ति भवेद् द्वाभ्यां रहिताभ्यां मया वने। जनस्थाननिमित्तं हि कृतवैरोऽस्मि राक्षसैः॥ निमित्तानि च घोराणि दृश्यन्तेऽद्य बहूनि च। इत्येवं चिन्तयन् रामः श्रुत्वा गोमायुनिःस्वनम् ॥ निवर्तमानस्त्वरितो जगामाश्रममात्मवान्। आत्मनश्चापनयनं मृगरूपेण रक्षसा॥ आजगाम जनस्थानं राघवः परिशङ्कितः। तं दीनमानसं दीनमासेदुर्मृगपक्षिणः॥ सव्यं कृत्वा महात्मानं घोरांश्च ससृजुः स्वरान्। तानि दृष्ट्वा निमित्तानि महाघोरणि राघवः॥ ततो लक्ष्मणमायान्तं ददर्श विगतप्रभम्। ततो विदूरे रामेण समीयाय स लक्ष्मणः॥ विषण्णः सन् विषण्णेन दुःखितो दुःखभागिना । स जगहेऽथ तं भ्राता दृष्ट्वा लक्ष्मणमागतम्॥ विहाय सीतां विजने वने राक्षससेविते। गृहीत्वा च करं सव्यं लक्ष्मणं रघुनन्दनः॥ उवाच मधुरोदर्कमिदं परुषमार्तवत्। अहो लक्ष्मण गौँ ते कृतं यत् त्वं विहाय ताम्॥ सीतामिहागतः सौम्य कच्चित् स्वस्ति भवेदिति। न मेऽस्ति संशयो वीर सर्वथा जनकात्मजा ॥ विनष्टा भक्षिता वापि राक्षसैर्वनचारिभिः। अशुभान्येव भूयिष्ठं यथा प्रादुर्भवन्ति मे॥ अपि लक्ष्मण सीतायाः सामग्र्यं प्राप्नुयामहे। जीवन्त्याः पुरुषव्याघ्र सुताया जनकस्य वै॥ यथा वै मृगसंघाश्च गोमायुश्चैव भैरवम्। वाशन्ते शकुनाश्चापि प्रदीप्तामभितो दिशम्। अपि स्वस्ति भवेत् तस्या राजपुत्र्या महाबल॥ इदं हि रक्षो मृगसंनिकाशं प्रलोभ्य मां दूरमनुप्रयातम्। हतं कथंचिन्महता श्रमेण स राक्षसोऽभून्द्रियमाण एव॥ मनश्च मे दीनमिहाप्रहृष्टं चक्षुश्च सव्यं कुरुते विकारम्। असंशयं लक्ष्मण नास्ति सीता हृता मृता वा पथि वर्तते वा॥ स दृष्ट्वा लक्ष्मणं दीनं शून्यं दशरथात्मजः। पर्यपृच्छत धर्मात्मा वैदहीमागतं विना॥ प्रस्थितं दण्डकारण्यं या मामनुजगाम ह। क्व सा लक्ष्मण वैदेही यां हित्वा त्वमिहागतः॥ राज्यभ्रष्टस्य दीनस्य दण्डकान् परिधावतः। क्व सा दुःखसहाया मे वैदेही तनुमध्यमा॥ यां विना नोत्सहे वीर मुहूर्तमपि जीवितुम्। क्व सा प्राणसहाया मे सीता सुरसुतोपमा॥ पतित्वममराणां हि पृथिव्याश्चापि लक्ष्मण । विना तां तपनीयाभा नेच्छेयं जनकात्मजाम्॥ कच्चिज्जीवति वैदेही प्राणैः प्रियतरा मम। कच्चित् प्रव्राजनं वीर न मे मिथ्या भविष्यति॥ सीतानिमित्तं सौमित्रे मृते मयि गते त्वयि। कच्चित् सकामा कैकेयी सुखिता सा भविष्यति॥ सपुत्रराज्यां सिद्धार्थां मृतपुत्रा तपस्विनी। उपस्थास्यति कौसल्या कच्चित्सौम्येन कैकयीम्॥ यदि जीवति वैदेही गमिष्याम्याश्रमं पुनः। संवृत्ता यदि वृत्ता सा प्राणांस्त्यक्ष्यामि लक्ष्मण ॥ यदि मामाश्रमगतं वैदेही नाभिभाषते। पुरः प्रहसिता सीता विनशिष्यामि लक्ष्मण ॥ ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा। त्वयि प्रमत्ते रक्षोभिर्भक्षिता वा तपस्विनी॥ सुकुमारी च बाला च नित्यं चादुः :खभागिनी। मद्वियोगेन वैदेही व्यक्तं शोचति दुर्मनाः॥ सर्वथा रक्षसा तेन जिह्येन सुदुरात्मना। वदता लक्ष्मणेत्युच्चस्तवापि जनितं भयम्॥ श्रुतश्च मन्ये वैदेह्या स स्वरः सदृशो मम। त्रस्तया प्रेषितस्त्वं च द्रष्टुं मां शीघ्रमागतः॥ सर्वथा तु कृतं कष्टं सीतामुत्सृजता वने। प्रतिकर्तुं नृशंसानां रक्षसां दत्तमन्तरम्॥ दुःखिताः खरघातेन राक्षसाः पिशिताशनाः। तैः सीता निहता घोरैर्भविष्यति न संशयः॥ अहोऽस्मि व्यसने मग्नः सर्वथा रिपुनाशन। किं त्विदानीं करिष्यामि शङ्के प्राप्तव्यमीदृशम्॥ इति सीतां वरारोहां चिन्तयन्नेव राघवः। आजगाम जनस्थानं त्वरया सहलक्ष्मणः॥ विगर्हमाणोऽनुजमार्तरूपं क्षुधाश्रमेणैव पिपासया च। विनिःश्वसशुष्कमुखो विषण्णः प्रतिश्रयं प्राप्य समीक्ष्य शून्यम्॥ स्वमाश्रमं स प्रविगाह्य वीरो विहारदेशाननुसृत्य कांश्चित्। एतत्तदित्येव निवासभूमौ प्रहृष्टरोमा व्यथितो बभूव ॥ भृशमाव्रजमानस्य तस्याधो वामलोचनम्। प्रास्फुरच्चास्खलद् रामो वेपथुश्चास्य जायते॥ उपालक्ष्य निमित्तानि सोऽशुभानि मुहुर्मुहुः। अपि क्षेमं तु सीताया इति वै व्याजहार ह॥ त्वरमाणो जगामाथ सीतादर्शनलालसः। शून्यामावसथं दृष्ट्वा बभूवोद्विग्नमानसः॥ उद्भ्रमन्निव वेगेन विक्षिपन् रघुनन्दनः। तत्र तत्रोटजस्थानमभिवीक्ष्य समन्ततः॥ ददर्श पर्णशालां च सीतया रहितां तदा। श्रिया विरहितां ध्वस्तां हेमन्ते पद्मिनीमिव ॥ रुदन्तमिव वृक्षैश्च ग्लानपुष्पमृगद्विजम् । श्रिया विहीनं विध्वस्तं संत्यक्तं वनदैवतैः॥ विप्रकीर्णाजिनकुशं विप्रविद्धबृसीकटम्। दृष्ट्वा शून्योटजस्थानं विललाप पुनः पुनः॥ हृता मृता वा नष्टा वा भक्षिता वा भविष्यति। निलीनाप्यथवा भीरुरथवा वनमाश्रिता।।।।। गता विचेतुं पुष्पाणि फलान्यपि च वा पुनः। अथवा पद्मिनी याता जलार्थं वा नदीं गता॥ यत्नान्मृगयमाणस्तु नाससाद वने प्रियाम्। शोकरक्तेक्षणः श्रीमानुन्मत्त इव लक्ष्यते॥ वृक्षाद् वृक्षं प्रधावन् स गिरिश्चापि नदीनदम्। बभ्राम विलपरामः शोकपङ्कार्णवप्लुतः॥ अस्ति कच्चित्त्वया दृष्ट्वा सा कदम्बप्रिया प्रिया। कदम्ब यदि जानीषे शंस सीतां शुभाननाम्॥ स्निग्धपल्लवसंकाशां पीतकौशेयवासिनीम्। शंसस्व यदि सा दृष्ट्वा बिल्ब बिल्वोपमस्तनी॥ अथवार्जुन शंस त्वं प्रियां तामर्जुनप्रियाम्। जनकस्य सुता तन्वी यदि जीवति वा न वा॥ ककुभः ककुभोरूं तां व्यक्तं जानाति मैथिलीम्। लतापल्लवपुष्पाढ्यो भाति ह्येष वनस्पतिः॥ भ्रमरैरूपगीतश्च यथा द्रुमवरो ह्यसि। एष व्यक्तं विजानाति तिलकस्तिलकप्रियाम्॥ अशोक शोकापनुद शोकोपहतचेतनम्। त्वन्नामानं कुरु क्षिप्रं प्रियासंदर्शनेन माम्॥ यदि ताल त्वया दृष्टा पक्वतालोपमस्तनी। कथयस्व वरारोहां कारुण्यं यदि ते मयि ॥ यदि दृष्ट्वा त्वया जम्बो जाम्बूनदसमप्रभा। प्रियां यदि विजानासि निःशङ्कं कथयस्व मे॥ अहो त्वं कर्णिकाराद्य पुष्पितः शोभते भृशम्। कर्णिकारप्रियां साध्वी शंस दृष्टा यदि प्रिया॥ चूतनीपमहासालान् पनसान् कुररांस्तथा। दाडिमानपि तान् गत्वा दृष्ट्वा रामो महायशाः॥ बकुलानथ पुन्नागांश्चन्दनान् केतकांस्तथा। पृच्छन् रामो वने भ्रान्त उन्मत्त इव लक्ष्यते॥ अथवा मृगशावाक्षी मृग जानासि मैथिलीम्। मृगविप्रेक्षणी कान्ता मृगीभिः सहिता भवेत्॥ गज सा गजनासोरूय॑दि दृष्ट्वा त्वया भवेत् तां मन्ये विदितां तुभ्यमाख्याहि वरवारण॥ शार्दूल यदि सा दृष्ट्वा प्रिया चन्द्रनिभानना। मैथिली मम विस्रब्धः कथयस्व न ते भयम्॥ किं धावसि प्रिये नूनं दृष्टासि कमलेक्षणे। वृक्षराच्छाद्य चात्मानं किं मां न प्रतिभाषसे॥ तिष्ठ तिष्ठ वरारोहे न तेऽस्ति करुणा मयि। नात्यर्थं हास्यशीलासि किमर्थं मामुपेक्षसे॥ पीतकौशेयकेनासि सूचिता वरवर्णिनि। धावन्त्यपि मया दृष्ट्वा तिष्ठ यद्यस्ति सौहृदम्॥ नैव सा नूनमथवा हिंसिता चारुहासिनी। कृच्छं प्राप्तं हि मां नूनं यथोपेक्षितुमर्हति॥ व्यक्तं सा भक्षिता बाला राक्षसैः पिशिताशनैः। विभज्याङ्गानि सर्वाणि मया विरहिता प्रिया॥ नूनं तच्छुभदन्तोष्ठं सुनासं शुभकुण्डलम्। पूर्णचन्द्रनिभं ग्रस्तं मुखं निष्प्रभतां गतम्॥ सा हि चन्दनकवर्णाभा ग्रीवा ग्रैवेयकोचिता। कोमला विलपन्त्यास्तु कान्ताया भक्षिता शुभा॥ नूनं विक्षिप्यमाणौ तौ बाहू पल्लवकोमलौ। भक्षितौ वेपमानाग्रौ सहस्ताभरणाङ्गदौ॥ मया विरहिता बाला रक्षसां भक्षणाय वै। सार्थेनेव परित्यक्ता भक्षिता बहुबान्धवा ॥ हा लक्ष्मण महाबाहो पश्यसे त्वं प्रियां क्वचित्। हा प्रिये व गता भद्रे हा सीतेति पुनः पुनः॥ इत्येवं विलपन् रामः परिधावन् वनाद् वनम्। क्वचिदुद्भ्रमते वेगात् क्वचिद् विभ्रमते बलात्॥ क्वचिन्मत्त इवाभाति कान्तान्वेषणतत्परः। स वनानि नदीः शैलान् गिरिप्रस्रवणानि च। काननानि च वेगेन भ्रमत्यपरिसंस्थितः॥ तदा स गत्वा विपुलं महद् वनं परीत्य सर्वं त्वथ मैथिली प्रति। अनिष्ठिताशः स चकार मार्गणे पुनः प्रियायाः परमं परिश्रमम्॥ दृष्ट्वाऽऽश्रमपदं शून्यं रामो दशरथात्मजः। रहितां पर्णशालां च प्रविद्धान्यासनानि च॥ अदृष्ट्वा तत्र वेदेही संनिरीक्ष्य च सर्वशः। उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ॥ क्व नु लक्ष्मण वैदेही कं वा देशमितो गता। केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया॥ वृक्षणावार्य यदि मां सीते हसितुमिच्छसि। अलं ते हसितेनाद्य मां भजस्व सुदुःखितम्॥ यैः परिक्रीडसे सीते विश्वस्तैमूंगपोतकैः। एते हीनास्त्वया सौम्ये ध्यायन्त्यस्राविलेक्षणाः॥ सीतया रहितोऽहं वै नहि जीवामि लक्ष्मण। वृतं शोकेन महता सीताहरणजेन माम् ॥ परलोके महाराजो नूनं द्रक्ष्यति मे पिता। कथं प्रतिज्ञां संश्रुत्य मया त्वमभियोजितः॥ अपूरयित्वा तं कालं मत्सकाशमिहागतः। कामवृत्तमनार्यं वा मृषावादिनमेव च॥ धिक् त्वामिति परे लोके व्यक्तं वक्ष्यति मे पिता। विवशं शोकसंतप्तं दीनं भग्नमनोरथम्॥ मामिहोत्सृज्य करुणं कीर्तिनरमिवानृजुम्। क्व गच्छसि वरारोहे मा मोत्सृज सुमध्यमे॥ त्वया विरहितश्चाहं त्यक्ष्ये जीवितमात्मनः। इतीव विलपन् रामः सीतादर्शनलालसः॥ न ददर्श सुदुःखार्तो राघवो जनकात्मजाम्। अनासादयमानं तं सीतां शोकपरायणम्॥ पङ्कमासाद्य विपुलं सीदन्तमिव कुञ्जरम्। लक्ष्मणो राममत्यर्थमुवाच हितकाम्यया॥ मा विषादं महाबुद्धे कुरु यत् मया सह। इदं गिरिवरं वीर बहुकन्दरशोभितम्॥ प्रियकाननसंचारा वनोन्मत्ता च मैथिली। सा वनं वा प्रविष्टा स्यान्नलिनी वा सुपुष्पिताम्॥ सरितं वापि सम्प्राप्ता मीनवजुलसेविताम्। वित्रासयितुकामा वा लीना स्यात्कानने क्वचित् ॥ जिज्ञासमाना वैदेही त्वां मां च पुरुषर्षभ। तस्या ह्यन्वेषणे श्रीमान् क्षिप्रमेव यतावहे ॥ वनं सर्वं विचिनुवो यत्र सा जनकात्मजा। मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः।।१८ एवमुक्तः स सौहार्दाल्लक्ष्मणेन समाहितः। सह सौमित्रिणा रामो विचेतुमुपचक्रमे॥ तौ वनानि गिरीश्चैव सरितश्च सरांसि च। निखिलेन विचिन्वन्तौ सीतां दशरथात्मजौ॥ तस्य शैलस्य सानूनि शिलाश्च शिखराणि च। निखिलेन विचिन्वन्तौ नैव तामभिजग्मतुः॥ विचित्य सर्वतः शैलं रामो लक्ष्मणब्रवीत्। . नेह पश्यामि सौमित्रे वैदेही पर्वते शुभाम्।।२२। ततो दुःखाभिसंतप्तो लक्ष्मणो वाक्यमब्रवीत्। विचरन् दण्डकारण्यं भ्रातरं दीप्ततेजसम्॥ प्राप्स्यसे त्वं महाप्राज्ञ मैथिली जनकात्मजाम्। यथा विष्णुर्महाबाहुर्बलिं बद्ध्वा महीमिमाम्॥ एवमुक्तस्तु वीरेण लक्ष्मणेन स राघवः। उवाच दीनया वाचा दुःखाभिहतचेतनः॥ वनं सुविचितं सर्वं पद्मिन्यः फुल्लपङ्कजाः। गिरिश्चायं महाप्राज्ञ बहुकन्दरनिर्झरः। नहि पश्यामि वेदेही प्राणेभ्योऽपि गरीयसीम्॥ एवं स विलपन् रामः सीताहरणकर्षितः। दीनः शोकसमाविष्टो मुहूर्तं विह्वलोऽभवत्॥ स विह्वलितसर्वाङ्गो गतबुद्धिर्विचेतनः। विषसादातुरो दीनो निःश्वस्याशीतमायतम्॥ बहुशः स तु निःश्वस्य रामो राजीवलोचनः। हा प्रियेति विचुक्रोश बहुशो वाष्पगद्गदः॥ तं सान्त्वयामास ततो लक्ष्मणः प्रियवान्धवम्। बहुप्रकारं शोकार्तः प्रश्रितः प्रश्रिताञ्जलिः॥ अनादृत्य तु तद् वाक्यं लक्ष्मणोष्ठपुटच्युतम्। अपश्यंस्तां प्रियां सीतां प्राक्रोशत् स पुनः पुनः॥ सीतामपश्यन् धर्मात्मा शोकोपहतचेतनः। विललाप महाबाहु रामः कमललोचनः॥ पश्यन्निव च तां सीतामपश्यन्मन्मन्थार्दितः। उवाच राघवो वाक्यं विलापाश्रयदुर्वचम्॥ त्वमशोकस्य शाखाभिः पुष्पप्रियतरा प्रिये। आवृणोषि शरीरं ते मम शोकविवर्धनी॥ कदलीकाण्डसदृशौ कदल्या संवृतावुभौ । ऊरू पश्यामि ते देवि नासि शक्ता निगुहितुम्॥ कर्णिकारवनं भद्रे हसन्ती देवि सेवसे। अलं ते परिहासेन मम बाधावहेन वै॥ विशेषेणाश्रमस्थाने हासोऽयं न प्रशस्यते। अवगच्छामि ते शीलं परिहासप्रियं प्रिये॥ आगच्छ त्वं विशालाक्षि शून्योऽयमुटजस्तव। सुव्यक्तं राक्षसैः सीता भक्षिता वा हृतापि वा।७।। न हि सा विलपन्तं मामुपसम्पैति लक्ष्मण। एतानि मृगयूथानि साश्रुनेत्राणि लक्ष्मण ॥ शंसन्तीव हि मे देवीं भक्षितां रजनीचरैः। हा ममार्ये क्व यातासि हा साध्वि वरवर्णिनि॥ हा सकामाद्य कैकेयी देवि मेऽद्य भविष्यतु । सीतया सह निर्यातो विना सीतामुपागतः॥ कथं नाम प्रवेक्ष्यामि शून्यमन्तःपुरं मम। निर्वीर्य इति लोको मां निर्दयश्चेति वक्ष्यति ॥ कातरत्वं प्रकाशं हि सीतापनयने स मे। निवृत्तवनवासश्च जनकं मिथिलाधिपम्॥ कुशलं परिपृच्छन्तं कथं शक्ष्ये निरीक्षितुम्। विदेहराजो नूनं मां दृष्ट्वा विरहितं तया॥ सुताविनाशसंतप्तो मोहस्य वशमेष्यति। अथवा न गमिष्यामि पुरीं भरतपालिताम्॥ स्वर्गोऽपि हि तया हीनः शून्य एव मतो मम। तन्मामुत्सृज्य हि वने गच्छायोध्यापुरीं शुभाम्॥ न त्वहं तां विना सीतां जीवेयं हि कथंचन। गाढमाश्लिष्य भरतो वाच्यो मद्वचनात् त्वया॥ अनुज्ञातोऽसि रामेण पालयेति वसुंधराम्। अम्बा च मम कैकेयी सुमित्रा च त्वया विभो॥ कौसल्या च यथान्यायमभिवाद्या ममाज्ञया। रक्षणीया प्रयत्नेन भवता सूक्तचारिणा॥ सीतायाश्च विनाशोऽयं मम चामित्रसूदन । विस्तरेण जनन्या मे विनिवेद्यस्त्वया भवेत्॥ इति विलपति राघवे तु दीने वनमुपगम्य तया विना सुकेश्या। भयविकलमुखस्तु लक्ष्मणोऽपि व्यथितमना भृशमातुरो बभूव ॥ स राजपुत्रः प्रियया विहीनः शोकेन मोहेन च पीड्यमानः। विषादयन् भ्रातरमार्तरूपो भूयो विषादं प्रविवेश तीव्रम्॥ स लक्ष्मणं शोकवशाभिपन्न शोके निमग्नो विपुले तु रामः। मुष्णं विनिःश्वस्य रुदन् सशोकम्॥ न मद्विधो दुष्कृतकर्मकारी मन्ये द्वितीयोऽस्ति वसुंधरायाम्। शोकानुशोको हि परम्पराया मामेति भिन्दन् हृदयं मनश्च ॥ पूर्वं मया नूनमभीप्सितानि पापानि कर्माण्यसकृत्कृतानि। तत्रायमद्यापतितो विपाको दुःखेन दुःखं यदहं विशामि॥ राज्यप्रणाशः स्वजनैर्वियोगः पितुर्विनाशो जननीवियोगः। मापूरयन्ति प्रविचिन्तितानि॥ सर्वं तु दुःखं मम लक्ष्मणेदं शान्तं शरीरे वनमेत्य क्लेशम्। सीतावियोगात् पुनरप्युदीर्णं काष्ठरिवाग्निः सहसोपदीप्तः॥ सा नूनमार्या मम राक्षसेन ह्यभ्याहता खं समुपेत्य भीरुः। अप्यस्वरं सुस्वरविप्रलापा भयेन विक्रन्दितवत्यभीक्ष्णम्॥ तौ लोहितस्य प्रियदर्शनस्य सदोचितावुत्तमचन्दनस्य। वृत्तौ स्तनौ शोणितपङ्कदिग्धौ नूनं प्रियाया मम नाभिपातः॥ तच्छ्लक्ष्णसुव्यक्तमृदुप्रलापं तस्या मुखं कुञ्चितकेशभारम्। रक्षोवशं नूनमुपागताया न भ्राजते राहुमुखे यथेन्दुः॥ तां हारपाशस्य सदोचितान्तां ग्रीवां प्रियाया मम सुव्रतायाः। रक्षांसि नूनं परिपीतवन्ति शून्ये हि भित्त्वा रुधिराशनानि॥ मया विहीना विजने वने सा रक्षोभिरावृत्य विकृष्यमाणा। नूनं विनादं कुररीव दीना सा मुक्तवत्यायतकान्तनेत्रा ॥ अस्मिन् मया सार्धमुदारशीला शिलातले पूर्वमुपोपविष्टा। कान्तस्मिता लक्ष्मण जातहासा त्वामाह सीता बहुवाक्यजातम्॥ गोदावरीयं सरितां वरिष्ठा प्रिया प्रियाया मम नित्यकालम्। अप्यत्र गच्छेदिति चिन्तयामि नैकाकिनी याति हि सा कदाचित् ॥ पद्मानना पद्मपलाशनेत्रा पद्मानि वाऽऽनेतुमभिप्रयाता। तदप्ययुक्तं नहि सा कदाचिन् मया विना गच्छति पङ्कजानि॥ कामं त्विदं पुष्पितवृक्षषण्डं नानाविधैः पक्षिगणैरुपेतम्। मेकाकिनी सातिबिभेति भीरुः॥ आदित्य भो लोककृताकृतज्ञ लोकस्य सत्यानृतकर्मसाक्षिन्। मम प्रिया सा क्व गता हृता वा शंसस्व मे शोकहतस्य सर्वम्॥ लोकेषु सर्वेषु न नास्ति किंचिद् यत् तेन नित्यं विदितं भवेत् तत्। शंसस्व वायो कुलपालिनी तां मृता हृता वा पथि वर्तते वा॥ इतीव तं शोकविधेयदेह रामं विसंज्ञं विलपन्तमेव। उवाच सौमित्रिरदीनसत्त्वो न्याय्ये स्थितः कालयुतं च वाक्यम्॥ शोकं विसृज्याद्य धृतिं भजस्व सोत्साहता चास्तु विमार्गणेऽस्याः। उत्साहवन्तो हि नरा न लोके सीदन्ति कर्मस्वतिदुष्करेषु॥. इतीव सौमित्रिमुदापौरुषं ब्रुवन्तमार्तं रघुवंशसत्तमः। न चिन्तयामास धृतिं विमुक्तवान् पुनश्च दुःखं महदभ्युपागमत्॥ तप्यमानं तदा रामं सीताहरणकर्शितम्। लोकानामभवे युक्तं सांवर्तकमिवानलम्॥ वीक्षमाणं धनुः सज्यं निःश्वसन्तं पुनः पुनः। दग्धुकामं जगत् सर्वं युगान्ते च यथा हरम्॥ अदृष्टपूर्वं संक्रुद्धं दृष्ट्वा रामं स लक्ष्मणः। अब्रवीत् प्राञ्जलिर्वाक्यं मुखेन परिशुष्यता॥ पुरा भूत्वा मृदुर्दान्तः सर्वभूतहिते रतः। न क्रोधवशमापन्नः प्रकृति हातुमर्हसि ॥ चन्द्रे लक्ष्मीः प्रभा सूर्ये गतिर्वायौ भुवि क्षमा। एतच्च नियतं नित्यं त्वयि चानुत्तमं यशः॥ एकस्य नापराधेन लोकान् हन्तुं त्वमर्हसि। ननु जानामि कस्यायं भग्नः सांग्रामिको रथः॥ केन वा कस्य वा हेतोः सयुगः सपरिच्छदः। खुरनेमिक्षतश्चायं सिक्तो रुधिरबिन्दुभिः॥ देशो निवृत्तसंग्रामः सुघोरः पार्थिवात्मज। एकस्य तु विमर्दोऽयं न द्वयोर्वदतां वर॥ नहि वृत्तं हि पश्यामि बलस्य महतः पदम्। नैकस्य तु कृते लोकान् विनाशयितुमर्हसि॥ युक्तदण्डा हि मृदवः प्रशान्ताः वसुधाधिपाः। सदा त्वं सर्वभूतानां शरण्यः परमा गतिः॥ को नु दारप्रणाशं ते साधु मन्येत राघव। सरितः सागराः शैला देवगन्धर्वदानवाः॥ नालं ते विप्रियं कर्तुं दीक्षितस्येव साधवः। येन राजन् हृता सीता तमन्वेषितुमर्हसि ॥ मद्वितीयो धनुष्पाणिः सहायैः परमर्षिभिः। समुद्रं वा विचेष्यामः पर्वतांश्च वनानि च॥ गुहाश्च विविधा घोराः पद्मिन्यो विविधास्तथा। देवगन्धर्वलोकांश्च विचेष्यामः समाहिताः॥ यावनाधिगमिष्यामस्तव भार्यापहारिणम्। न चेत् साम्ना प्रदास्यन्ति पत्नी ते त्रिदशेश्वराः। कोशलेन्द्र ततः पश्चात् प्राप्तकालं करिष्यसि ॥ शीलेन साम्ना विनयेन सीतां नयेन न प्राप्स्यसि चेन्नरेन्द्र। महेन्द्रवज्रप्रतिमैः शरौघैः॥ तं तथा शोकसंतप्तं विलपन्तमनाथवत्। मोहेन महता युक्तं परिधूनमचेतसम्॥ ततः सौमित्रिराश्वस्य मुहूर्तादिव लक्ष्मणः। रामं सम्बोधयामास चरणौ चाभिपीडयन्॥ महता तपसा चापि महता चापि कर्मणा। राज्ञा दशरथेनासील्लब्धोऽमृतमिवामरैः॥ तव चैव गुणैर्बद्धस्त्ववियोगान्महीपतिः। राजा देवत्वमापन्नो भरतस्य यथा श्रुतम्॥ यदि दुःखमिदं प्राप्तं काकुत्स्थ न सहिष्यसे। प्राकृतश्चाल्पसत्वश्च इतरः कः सहिष्यति॥ आश्वसिही नरश्रेष्ठ प्राणिनः कस्य नापदः। संस्पृशन्त्यग्निवद् राजन् क्षणेन व्यपयान्ति च॥ लोकस्वभाव एवैष ययातिर्नहुषात्मजः। गतः शक्रेण सालोक्यमनयस्तं समस्पृशत्॥ महर्षिर्यो वसिष्ठस्तु यः पितुर्नः पुरोहितः। अह्ना पुत्रशतं जज्ञे तथैवास्य पुनर्हतम्॥ या चेयं जगतो माता सर्वलोकनमस्कृता। अस्याश्च चलनं भूमेर्दृश्यते कोशलेश्वर॥ यौ धर्मों जगतो नेत्रौ यत्र सर्वं प्रतिष्ठितम्। आदित्यचन्द्रौ ग्रहणमभ्युपेतौ महाबलौ॥ सुमहान्त्यपि भूतानि देवाश्च पुरुषर्षभ । न दैवस्य प्रमुञ्चन्ति सर्वभूतानि देहिनः॥ शक्रादिष्वपि देवेषु वर्तमानौ नयानयौ। श्रूयेते नरशार्दूल न त्वं शोचितुमर्हसि॥ मृतायामपि वैदेह्यां नष्टायामपि राघव। शोचितुं नार्हसे वीर यथान्यः प्राकृतस्तथा॥ त्वद्विधा नहि शोचन्ति सततं सर्वदर्शनाः। सुमहत्स्वपि कृच्छ्रेषु रामानिर्विण्णदर्शनाः॥ तत्त्वतो हि नरश्रेष्ठ बुद्ध्या समनुचिन्तय बुद्ध्या युक्ता महाप्राज्ञा विजानन्ति शुभाशुभे॥ अदृष्टगुणदोषाणामधुराणां तु कर्मणाम्। नान्तरेण क्रियां तेषां फलमिष्टं च वर्तते॥ मामेवं हि पुरा वीर त्वमेव बहुशोक्तवान्। अनुशिष्याद्धि को नु त्वामपि साक्षाद् बृहस्पतिः॥ बुद्धिश्च ते महाप्राज्ञ देवैरपि दुरन्वया। शोकेनाभिप्रसुप्तं ते ज्ञानं सम्बोधयाम्यहम्॥ दिव्यं च मानुषं चैवमात्मनश्च पराक्रमम्। इक्ष्वाकुवृषभावेक्ष्य यतस्व द्विषतां वधे॥ किं ते सर्वविनाशेन कृतेन पुरुषर्षभ। तमेव तु रिपुं पापं विज्ञायोद्धर्तुमर्हसि ॥ पूर्वजोऽप्युक्तमात्रस्तु लक्ष्मणेन सुभाषितम्। सारग्राही महासारं प्रतिजग्राह राघवः॥ स निगृह्य महाबाहुः प्रवृद्धं रोषमात्मनः। अवष्टभ्य धनुश्चित्रं रामो लक्ष्मणमब्रवीत्॥ किं करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण। केनोपायेन पश्यावः सीतामिह विचिन्तय॥ तं तथा परितापार्तं लक्ष्मणो वाक्यमब्रवीत्। इदमेव जनस्थानं त्वमन्वेषितुमर्हसि॥ राक्षसैर्बहुभिः कीर्णं नानाद्रुमलतायुतम्। सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि च ॥ गुहाश्च विविधा घोरा नानामृगगणाकुलाः। आवासाः किंनराणां च गन्धर्वभवनानि च॥ तानि युक्तो मया सार्धं समन्वेषितुमर्हसि। त्वद्विधा बुद्धिसम्पन्ना महात्मानो नरर्षभाः॥ आपत्सु न प्रकम्पन्ते वायुवेगैरिवाचलाः। इत्युक्तस्तद् वनं सर्वं विचचार सलक्ष्मणः॥ क्रुद्धो रामः शरं घोरं संधाय धनुषि क्षुरम्। ततः पर्वतकूटाभं महाभागं द्विजोत्तमम्॥ ददर्श पतितं भूमौ क्षतजाद्रं जटायुषम्। तं दृष्ट्वा गिरिशृङ्गाभं रामो लक्ष्मणमब्रवीत्॥ अनेन सीता वैदेही भक्षति नात्र संशयः। गृध्ररूपमिदं व्यक्तं रक्षो भ्रमति काननम्॥ भक्षयित्वा विशालाक्षीमास्ते सीतां यथासुखम्। एनं वधिष्ये दीप्ताग्रैः शरघोरैरजिह्मगैः॥ इत्युक्त्वाभ्यपतद् द्रष्टुं संधाय धनुषि क्षुरम्। क्रुद्धो रामः समुद्रान्तां चालयन्निव मेदिनीम्॥ तं दीनदीनया वाचा सफेनं रुधिरं वमन्। अभ्यभाषत पक्षी स रामं दशरथात्मजम्॥ यामोषधीमिवायुष्मन्नन्वेषसि महावने। सा देवी मम च प्राणा रावणेनोभयं हृतम्॥ त्वया विरहिता देवी लक्ष्मणेन च राघव। ह्रियमाणा मया दृष्टा रावणेन बलीयसा॥ सीतामभ्यवपन्नोऽहं रावणश्च रणे प्रभो। विध्वंसितरथच्छत्रः पतितो धरणीतले॥ एतदस्य धनुर्भग्नमेते चास्य शरास्तथा। अयमस्य रणे राम भग्नः सांग्रामिको रथः॥ अयं तु सारथिस्तस्य मत्पक्षनिहतो भुवि। परिश्रान्तस्य मे पक्षौ छित्वा खङ्गेन रावणः॥ सीतामादाय वैदेहीमुत्पपात विहायसम्। रक्षसा निहतं पूर्वं मां न हन्तुं त्वमर्हसि ॥ रामस्तस्य तु विज्ञाय सीतासक्तां प्रियां कथाम्। गृध्रराजं परिष्वज्य परित्यज्य महद् धनुः॥ निपपातावशो भूमौ रुरोद सहलक्ष्मणः। द्विगुणीकृततापा” रामो धीरतरोऽपि सन्॥ एकमेकायने कृच्छ्रे नि:श्वसन्तं मुहुर्मुहुः। समीक्ष्य दुःखितो रामः सौमित्रिमिदमब्रवीत्॥ राज्यं भ्रष्टं वने वासः सीता नष्टा मृतो द्विजः। ईदृशीयं ममालक्ष्मीर्दहेदपि हि पावकम्॥ सम्पूर्णमपि चेदद्य प्रतरेयं महोदधिम्। सोऽपि नूनं ममालक्ष्म्या विशुष्येत् सरितां पतिः॥ नास्त्यभाग्यतरो लोके मत्तोऽस्मिन् सचराचरे। येनेयं महती प्राप्ता मया व्यसनवागुरा॥ अयं पितुर्वयस्यो मे गृध्रराजो महाबलः। शेते विनिहतो भूमौ मम भाग्यविपर्ययात्॥ इत्येवमुक्त्वा बहुशो राघवः सहलक्ष्मणः। जटायुषं च पस्पर्श पितृस्नेहं निदर्शयन्॥ निकृत्तपक्षं रुधिरावसिक्तं तं गृध्रराजं परिगृह्य राघवः। क्व मैथिली प्राणसमा गतेति विमुच्य वाचं निपपात भूमौ ॥ रामः प्रेक्ष्य तु तं गृधं भुवि रौद्रेण पातितम्। सौमित्रिं मित्रसम्पन्नमिदं वचनमब्रवीत्॥ ममायं नूनमर्थेषु यतमानो विहंगमः। राक्षसेन हतः संख्ये प्राणांस्त्यजति मत्कृते॥ अतिखिन्नः शरीरेऽस्मिन् प्राणो लक्ष्मण विद्यते। तथा स्वरविहीनोऽयं विक्लवं समुदीक्षते॥ जटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः। सीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः॥ किंन्निमित्तो जहारार्यां रावणस्तस्य किं मया। अपराधं तु यं दृष्ट्वा रावणेन हृता प्रिया॥ कथं तच्चन्द्रसंकाशं मुखमासीन्मनोहरम्। सीतया कानि चोक्तानि तस्मिन्काले द्विजोत्तम॥ कथंवीर्यः कथंरूपः किंकर्मा स च राक्षसः। क्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः॥ तमुवीक्ष्य स धर्मात्मा विलपन्तमनाथवत्। वाचा विक्लवया राममिदं वचनमब्रवीत्॥ सा हृता राक्षसेन्द्रेण रावणेन दुरात्मना। मायामास्थाय विपुलां वातदुर्दिनसंकुलाम्॥ परिकलान्तस्य मे तात पक्षौ छित्वा निशाचरः। सीतामादाय वैदेही प्रयातो दक्षिणामुखः॥ उपरुध्यन्ति मे प्राणा दृष्टिभ्रमति राघव। पश्यामि वृक्षान् सौवर्णानुशीरकृतमूर्धजान्॥ येन याति मुहूर्तेन सीतामादाय रावणः। विप्रणष्टं धनं क्षिप्रं तत्स्वामी प्रतिपद्यते॥ विन्दो नाम मुहूर्तोऽसौ न च काकुत्स्थ सोऽबुधत्। झषवद् बडिशं गृह्य क्षिप्रमेव विनश्यति ॥ न च त्वया व्यथा कार्या जनकस्य सुतां प्रति। वैदेह्या रंस्यसे क्षिप्रं हत्वा तं रणमूर्धनि ॥ असम्मूढस्य गृध्रस्य रामं प्रत्यनुभाषतः। आस्यात् सुस्राव रुधिरं म्रियमाणस्य सामिषम्॥ पुत्रो विश्रवसः साक्षाद् भ्राता वैश्रवणस्य च। इत्युक्त्वा दुर्लभान् प्राणान् मुमोच पतगेश्वरः॥ ब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः। त्यक्त्वा शरीरं गृध्रस्य प्राणा जग्मुर्विहायसम्॥ स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तथा। विक्षिप्य च शरीरं स्वं पपात धरणीतले ॥ तं गृधं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम्। रामः सुबहुभिर्दुःखैर्दीनः सौमित्रिमब्रवीत्॥ बहूनि रक्षसां वासे वर्षाणि वसता सुखम्। अनेन दण्डकारण्ये विशीर्णमिह पक्षिणा॥ अनेकवार्षिको यस्तु चिरकालसमुत्थितः। सोऽयमद्य हतः शेते कालो हि दुरतिक्रमः॥ पश्य लक्ष्मण गृध्रोऽयमुपकारी हतश्च मे। सीतामभ्यवपन्नो हि रावणेन बलीयसा॥ गृध्रराज्यं परित्यज्य पितृपैतामहं महत्। मम हेतोरयं प्राणान् मुमोच पतगेश्वरः॥ सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः। शूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्वपि॥ सीताहरणजं दुःखं न मे सौम्य तथागतम्। यथा विनाशो गृध्रस्य मत्कृते च परंतप ॥ राजा दशरथः श्रीमान् यथा मम महायशाः। पूजनीयश्च मान्यश्च तथायं पतगेश्वरः॥ सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम्। गृध्रराजं दिधक्ष्यामि मत्कृते निधनं गतम्॥ नाथं पतगलोकस्य चितिमारोपयाम्यहम्। इमं धक्ष्यामि सौमित्रे हृतं रौद्रेण रक्षसा॥ या गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः। अपरावर्तिनां या च या च भूमिप्रदायिनाम्॥ मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान्। गृध्रराज महासत्व संस्कृतश्च मया व्रज॥ एवमुक्त्वा चितां दीप्तामारोप्य पतगेश्वरम्। ददाह रामो धर्मात्मा स्वबन्धुमिव दुःखितः॥ रामोऽपि सहसौमित्रिर्वनं गत्वा स वीर्यवान्। स्थूलान् हत्वा महारोहीननुतस्तार तं द्विजम् ॥ रोहिमांसानि चोद्धृत्य पेशीकृत्वा महायशाः। शकुनाय ददौ रामो रम्ये हरितशाद्वले॥ यत् तत् प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः। तत् स्वर्गगमनं क्षिप्रं तस्य रामो जजाप ह॥ ततो गोदावरी गत्वा नदी नरवरात्मजौ। उदकं चक्रतुस्तस्मै गृध्रराजाय तावुभौ ॥ शास्त्रदृष्टेन विधिना जनं गृध्राय राघवौ। स्नात्वा तौ गृध्रराजाय उदकं चक्रतुस्तदा ॥ स गृध्रराजः कृतवान् यशस्करं सुदुष्करं कर्म रणे निपातितः। महर्षिकल्पेन च संस्कृतस्तदा जगाम पुण्यां गतिमात्मनः शुभाम्॥ कृतोदकौ तावपि पक्षिसत्तम स्थिरां च बुद्धिं प्रणिधाय जग्मतुः। प्रवेश्य सीताधिगमे ततो मनो वनं सुरेन्द्राविव विष्णुवासवौ॥ कृत्वैवमुदकं तस्मै प्रस्थितौ राघवौ तदा। अवेक्षन्तौ वने सीतां जग्मतुः पश्चिमां दिशम्॥ तां दिशं दक्षिणां गत्वा शरचापासिधारिणौ। अविप्रहतमैक्ष्वाकौ पन्थानं प्रतिपेदतुः॥ गुल्मैर्वृक्षैश्च बहुभिलताभिश्च प्रवेष्टितम्। आवृतं सर्वतो दुर्गं गहनं घोरदर्शनम्॥ व्यतिक्रम्य तु वेगेन गृहीत्वा दक्षिणां दिशम्। सुभीमं तन्महारण्यं व्यतियातौ महाबलौ॥ ततः परं जनस्थानात् त्रिकोशं गम्य राघवौ। क्रौञ्चारण्यं विविशतुर्गहनं तौ महौजसौ॥ नानामेघघनप्रख्यं प्रहृष्टमिव सर्वतः। नानावणैः शुभैः पुष्पैर्मृगपक्षिगणैर्युतम्॥ दिदृक्षमाणौ वैदेही तद् वनं तौ विचिन्वतुः। तत्र तत्रावतिष्ठन्तौ सीताहरणदुःखितौ॥ ततः पूर्वेण तो गत्वा त्रिकोशं भ्रातरौ तदा। क्रौञ्चारण्यमतिकम्य मतङ्गाश्रममन्तरे॥ दृष्ट्वा तु तद् वनं घोरं बहुभीममृगद्विजम्। नानावृक्षसमाकीर्णं सर्वं गहनपादपम्॥ ददृशाते गिरौ तत्र दरी दशरथात्मजौ। पातालसमगम्भीरां तमसा नित्यसंवृताम्॥ आसाद्य च नरव्याघ्रौ दर्यास्तस्याविदूरतः। ददर्शतुर्महारूपां राक्षसी विकृताननाम्॥ भयदामल्पसत्वानां बीभत्सां रौद्रदर्शनाम्। लम्बोदरी तीक्ष्णदंष्ट्रां कराली परुषत्वचम्॥ भक्षयन्ती मृगान् भीमान् विकटां मुक्तमूर्धजाम्। अवैक्षतां तु तौ तत्र भ्रातरौ रामलक्ष्मणौ॥ सा समासाद्य तौ वीरौ व्रजन्तं भ्रातुरग्रतः। एहि रस्यावहेत्युक्त्वा समालम्भत लक्ष्मणम्॥ उवाच चैनं वचनं सौमित्रिमुपगुह्य च। अहं त्वयोमुखी नाम लाभस्ते त्वमसि प्रियः॥ नाथ पर्वतदुर्गेषु नदीनां पुलिनेषु च। आयुश्चिरमिदं वीर त्वं मया सह रंस्यसे॥ एवमुक्तस्तु कुपितः खङ्गमुद्धृत्य लक्ष्मणः। कर्णनासस्तनं तस्या निचकर्तारिसूदनः॥ कर्णनासे निकृत्ते तु विस्वरं विननाद सा। यथागतं प्रदुद्राव राक्षसी घोरदर्शना ॥ तस्यां गतायां गहनं व्रजन्तौ वनमोजसा। आसेदतुरमित्रघ्नौ भ्रातरौ रामलक्ष्मणौ॥ लक्ष्मणस्तु महातेजाः सत्त्ववाञ्छीलवाञ्छुचिः। अब्रवीत् प्राञ्जलिर्वाक्यं भ्रातरं दीप्तेजसम्॥ स्पन्दते मे दृढं बाहुरुद्विग्नमिव मे मनः। प्रायशश्चाप्यनिष्टानि निमित्तान्युपलक्षये॥ तस्मात् सज्जीभवार्य त्वं कुरुष्व वचनं मम। ममैव हि निमित्तानि सद्यः शंसन्ति सम्भ्रमम्॥ एष वञ्जलको नाम पक्षी परमदारुणः। आवयोर्विजयं युद्धे शंसन्निव विनर्दति ॥ तयोरन्वेषतोरेवं सर्वं तद्वनमोजसा। संजज्ञे विपुलः शब्दः प्रभञ्जन्निव तद्वनम्॥ संवेष्टितमिवात्यर्थं गहनं मातरिश्वना। वनस्य तस्य शब्दोऽभूद् वनमापूरयन्निव॥ तं शब्दं काश्माणस्तु रामः खङ्गी सहानुजः। ददर्श सुमहाकायं राक्षसं विपुलोरसम्॥ आसेदतुश्च तद्रक्षस्तावुभौ प्रमुखे स्थितम्। विवृद्धमशिरोग्रीवं कवन्धमुदरेमुखम् ॥ रोमभिर्निशितैस्तीक्ष्णैर्महागिरिमिवोच्छ्रितम्। नीलमेघनिभं रौद्रं मेघस्तनितनि:स्वनम्॥ अग्निज्वालानिकाशेन ललाटस्थेन दीप्यता। महापक्ष्मेण पिङ्गेन विपुलेनायतेन च॥ एकेनोरसि घोरेण नयनेन सुदर्शिना। महादंष्ट्रोपपन्नं तं लेलिहानं महामुखम्॥ भक्षयन्तं महाघोरानृक्षसिंहमृगद्विजान्। घोरौ भुजौ विकुर्वाणमुभौ योजनमायतौ॥ कराभ्यां विविधान् गृह्य ऋक्षान् पक्षिगणान् मृगान्। आकर्षन्तं विकर्षन्तमनेकान् मृगयूथपान्॥ स्थितमावृत्य पन्थानं तयोभ्रांत्रोः प्रपन्नयोः। अथ तं समतिक्रम्य क्रोशमात्रं ददर्शतुः॥ महान्तं दारुणं भीमं कबन्धं भुजसंवृतम्। कबन्धमिव संस्थानादतिघोरप्रदर्शनम् ॥ स महाबाहुरत्यर्थं प्रसार्य विपुलौ भुजौ। जग्राह सहितावेव राघवो पीडयन् बलात्॥ खङ्गिनौ दृढधन्वानौ तिग्मतेजो महाभुजौ। भ्रातरौ विवशं प्राप्तौ कृष्यमाणौ महाबलौ॥ तत्र धैर्याच्च शूरस्तु राघवो नैव विव्यथे। बाल्पादनाश्रयाच्चैव लक्ष्मणस्त्वभिविव्यथे॥ उवाच च विषण्णः सन् राघवं राघवानुजः। पश्य मां विवशं वीर राक्षसस्य वशंगतम्॥ मयैकेन तु निर्युक्तः परिमुच्यस्व राघव। मां हि भूतबलिं दत्वा पलायस्व यथासुखम्॥ अधिगन्तासि वैदेहीमचिरेणेति मे मतिः। प्रतिलभ्य च काकुत्स्थ पितृपैतामहीं महीम्॥ तत्र मां राम राज्यस्थः स्मर्तुमर्हसि सर्वदा। लक्ष्मणेनैवमुक्तस्तु रामः सौमित्रिमब्रवीत्॥ मा स्म त्रासं वृथा वीर नहि त्वादृग् विषीदति। एतस्मिन्नन्तरे क्रूरो भ्रातरौ रामलक्ष्मणौ।॥ तावुवाच महाबाहुः कबन्धो दानवोत्तमः। कौ युवां वृषभस्कन्धौ महाखङ्गधनुर्धरौ॥ घोरं देशमिमं प्राप्तौ दैवेन मम चाक्षुषो। वदतं कार्यमिह वां किमर्थं जागतौ युवाम्॥ इमं देशमनुप्राप्तौ दुर्लभं जीवितं हि वाम्। तस्य तद् वचनं श्रुत्वा कबन्धस्य दुरात्मनः॥ उवाच लक्ष्मणं रामो मुखेन परिशुष्यता। कृच्छात् कृच्छ्रतरं प्राप्य वारुणं सत्यविक्रम ॥ व्यसनं जीवितान्ताय प्राप्तमप्राप्य तां प्रियाम्। कालस्य सुमहद् वीर्यं सर्वभूतेषु लक्ष्मण ॥ त्वां च मां च नरव्याघ्र व्यसनैः पश्य मोहितौ। नहि भारोऽस्ति दैवस्य सर्वभूतेषु लक्ष्मण ॥ शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे। कालाभिपन्नाश्च सीदन्ति यथा वालुकसेतवः॥ इति ब्रुवाणो दृढसत्यविक्रमो महायशा दाशरथिः प्रतापवान्। अवेक्ष्य सौमित्रिमुदग्रविक्रमः स्थिरां तदा स्वां मतिमात्मनाऽकरोत्॥ तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ। बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यमब्रवीत्॥ तिष्ठतः किं नु मां दृष्ट्वा क्षुधार्तं क्षत्रियर्षभौ। आहारार्थं तु संदिष्टौ दैवेन हतचेतनौ॥ तच्छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा। उवाचार्तिसमापनो विक्रमे कृतनिश्चयः॥ त्वं च मां च पुरा तूर्णमादत्ते राक्षसाधमः। तस्मादसिभ्यामस्याशु बाहू छिन्दावहे गुरू ॥ भीषणोऽयं महाकायो राक्षसो भुजविक्रमः। लोकं ह्यतिजितं कृत्वा ह्यावां हन्तुमिहेच्छति॥ निश्चेष्टानां वधो राजन् कुत्सितो जगतीपतेः। क्रतुमध्योपनीतानां पशूनामिव राघव॥ एतत् संजल्पितं श्रुत्वा तयोः क्रुद्धस्तु राक्षसः। विदार्यास्यं ततो रौद्रं तौ भक्षयितुमारभत्॥ ततस्तौ देशकालज्ञौ खङ्गाभ्यामेष राघवौ। अच्छिन्दन्तां सुसंहृष्टौ बाहू तस्यांसदेशयोः ॥ दक्षिणो दक्षिणं बाहुमलक्तमसिना ततः। चिच्छेद रामो वेगेन सव्यं वीरस्तु लक्ष्मणः॥ स पपात महाबाहुश्छिन्नबाहुमहास्वनः। खं च गां च दिशश्चैव नादयञ्जलदो यथा॥ स निकृत्तौ भुजौ दृष्ट्वा शोणितौघपरिप्लुतः। दीनः पप्रच्छ तौ वीरौ कौ युवामिति दानवः॥ इति तस्य ब्रुवाणस्य लक्ष्मणः शुभलक्षणः। शशंस तस्य काकुत्स्थं कबन्धस्य महाबलः॥ अयमिक्ष्वाकुदायादो रामो नाम जनैः श्रुतः। तस्यैवावरजं विद्धि भ्रातरं मां च लक्ष्मणम्॥ मात्रा प्रतिहते राज्ये रामः प्रव्राजितो वनम्। मया सह चरत्येष भार्यया च महद् वनम्॥ अस्य देवप्रभावस्य वसते विजने वने। रक्षसापहृता भार्या यामिच्छन्ताविहागतौ॥ त्वं तु को वा किमर्थं वा कवन्धसदृशो वने। आस्येनोरसि दीप्तेन भग्नजङ्घो विचेष्टसे॥ एवमुक्तः कबन्धस्तु लक्ष्मणेनोत्तरं वचः। उवाच वचनं प्रीतस्तदिन्द्रवचनं स्मरन्॥ स्वागतं वा नरव्याघ्रौ दिष्ट्या पश्यामि वामहम्। दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ॥ विरूपं यच्च मे रूपं प्राप्तं ह्यविनयाद् यथा। तन्मे शृणु नरव्याघ्र तत्त्वतः शंसतस्तव॥ पुरा राम महाबाहो महाबलपराक्रमम्। रूपमासीन्ममाचिन्त्यं त्रिषु लोकेषु विश्रुतम्॥ यथा सूर्यस्य सोमस्य शक्रस्य च यथा वपुः। सोऽहं रूपमिदं कृत्वा लोकवित्रासनं महत्॥ ऋषीन् वनगतान् राम त्रासयामि ततस्ततः। ततः स्थूलशिरा नाम महर्षिः कोपितो मया॥ स तन्वन् विविधं वन्यं रूपेणानेन धर्षितः। तेनाहमुक्तः प्रेक्ष्यैवं घोरशापाभिधायिना॥ एतदेवं नृशंसं ते रूपमस्तु विगर्हितम्। स मया याचितः क्रुद्धः शापस्यान्तो भवेदिति॥ अभिशापकृतस्येति तेनेदं भाषितं वचः। यदा छित्वा भुजौ रामस्त्वां दहेद् विजने वने॥ तदा त्वं प्राप्स्यसे रूपं स्वमेव विपुलं शुभम्। श्रिया विराजितं पुत्रं दनोस्त्वं विद्धि लक्ष्मण॥ इन्द्रशापादिदं रूपं प्राप्तमेवं रणाजिरे। अहं हि तपसोग्रेण पितामहमथोषयम्॥ दीर्घमायुः स मे प्रादात् ततो मां विभ्रमोऽस्पृशत्। दीर्घमायुर्मया प्राप्तं किं मां शक्रः करिष्यति॥ इत्येवं बुद्धिमास्थाय रणे शक्रमधर्षयम्। तस्य बाहुप्रमुक्तेन वज्रेण शतपर्वणा॥ सक्थिनी च शिरश्चैव शरीरे सम्प्रवेशितम्। स मया याच्यमानः सन् नानयद् यमसादनम्॥ पितामहवचः सत्यं तदस्त्विति ममाब्रवीत्। अनाहारः कथं शक्तो भग्नसक्थिशिरोमुखः॥ वज्रेणाभिहतः कालं सुदीर्घमपि जीवितुम्। स एवमुक्तः शक्रो मे बाहू योजनमायतौ॥ तदा चास्यं च मे कृक्षौ तीक्ष्णदंष्ट्रमकल्पयत्। सोऽहं भुजाभ्यां दीर्घाभ्यां संक्षिप्यास्मिन्वनेचरान्॥ सिंहद्वीपिमृगव्याघ्रान् भक्षयामि समन्ततः। स तु मामब्रवीदिन्द्रो यदा रामः सलक्ष्मणः॥ छेत्स्यते समरे बाहू तदा स्वर्गं गमिष्यति। अनेन वपुषा तात वनेऽस्मिन् राजसत्तम ॥ यद् यत् पश्यामि सर्वस्य ग्रहणं साधु रोचये। अवश्यं ग्रहणं रामो मन्येऽहं समुपैष्यति॥ इमां बुद्धिं पुरस्कृत्य देहन्यासकृतश्रमः। स त्वं रामोऽसि भद्रं ते नाहमन्येन राघव॥ शक्यो हन्तुं यथा तत्त्वमेवमुक्तं महर्षिणा। अहं हि मतिसाचिव्यं करिष्यामि नरर्षभ॥ मित्रं चैवोपदेक्ष्यामि युवाभ्यां संस्कृतोऽग्निना। एवमुक्तस्तु धर्मात्मा. दनुना तेन राघवः॥ इदं जगाद वचनं लक्ष्मणस्य च पश्यतः। रावणेन हृता भार्या सीता मम यशस्विनी॥ निष्क्रान्तस्य जनस्थानात् सह भ्रात्रा यथासुखम्। नाममात्रं तु जानामि न रूपं तस्य रक्षसः॥ निवासं वा प्रभावं वा वयं तस्य न विद्महे। शोकार्तानामनाथानामेवं विपरिधावताम्॥ कारुण्यं सदृशं कर्तुमुपकारेण वर्तताम्। काष्ठान्यानीय भग्नानि काले शुष्कानि कुञ्जरैः॥ धक्ष्यामस्त्वां वयं वीर श्वभ्रे महति कल्पिते। स त्वं सीतां समाचक्ष्व येन वा यत्र वा हृता॥ कुरु कल्याणमत्यर्थं यदि जानासि तत्त्वतः। एवमुक्तस्तु रामेण वाक्यं दनुरनुत्तमम्॥ प्रोवाच कुशलो वक्ता वक्तारमपि राघवम्। दिव्यमस्ति न मे ज्ञानं नाभिजानामि मैथिलीम्॥ यस्तां वक्ष्यति तं वक्ष्ये दग्धः स्वं रूपमास्थितः। योऽभिजानाति तद्रक्षस्तद् वक्ष्ये राम तत्परम्॥ अदग्धस्य हि विज्ञातुं शक्तिरस्ति न मे प्रभो। राक्षसं तु महावीर्यं सीता येन हृता तव॥ विज्ञानं हि महद् भ्रष्टं शापदोषेण राघव। स्वकृतेन मया प्राप्तं रूपं लोकविगर्हितम्॥ किं तु यावन्न यात्यस्तं सविता श्रान्तवाहनः। तावन्मामवटे क्षिप्त्वा दह राम यथाविधि॥ दग्धस्त्वयाहमवटे न्यायेन रघुनन्दन । वक्ष्यामि तं महावीर यस्तं वेत्स्यति राक्षसम्॥ तेन सख्यं च कर्तव्यं न्याय्यवृत्तेन राघव। कल्पयिष्यति ते वीर साहाय्यं लघुविक्रम॥ नहि तस्यास्त्यविज्ञातं त्रिषु लोकेषु राघव। सर्वान् परिवृतो लोकान् पुरा वै कारणान्तरे॥ एवमुक्तौ तु तौ वीरौ कवन्धेन नरेश्वरौ। गिरिप्रदरमासाद्य पावकं विससर्जतुः॥ लक्ष्मणस्तु महोल्काभिललिताभिः समन्ततः। चितामादीपयामास सा प्रजज्वाल सर्वतः॥ तच्छरीरं कबन्धस्य घृतपिण्डोपमं महत्। मेदसा पच्यमानस्य मन्दं दहत पावकः॥ स विधूय चितामाशु विधूमोऽग्निरिवोत्थितः। अरजे वाससी विभ्रन्माल्यं दिव्यं महाबलः॥ ततश्चिताया वेगेन भास्वरो विरजाम्बरः। उत्पपाताशु संहृष्टः सर्वप्रत्यङ्गभूषणः॥ विमाने भास्वरे तिष्ठन् हंसयुक्ते यशस्करे। प्रभया च महातेजा दिशो दश विराजयन्॥ सोऽन्तरिक्षगतो वाक्यं कबन्धो राममब्रवीत्। शृणु राघव तत्त्वेन यथा सीतामवाप्स्यसि॥ राम षड् युक्तयो लोके याभिः सर्वं विमृश्यते। परिमृष्टो दशान्तेन दशाभागेन सेव्यते॥ दशाभागगतो हीनस्त्वं हि राम सलक्ष्मणः। यत्कृते व्यसनं प्राप्तं त्वया दारप्रधर्षणम्॥ तदवश्यं त्वया कार्यः स सुहृत् सुहृदां वर। अकृत्वा नहि ते सिद्धिमहं पश्यामि चिन्तयन् ॥ श्रूयतां राम वक्ष्यामि सुग्रीवो नाम वानरः। भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्रसूनुना॥ ऋष्यमूके गिरिवरे पम्पापर्यन्तशोभिते। निवसत्यात्मवान् वीरश्चतुर्भिः सह वानरैः॥ वानरेन्द्रो महावीर्यस्तेजोवानमितप्रभः। सत्यसंधो विनीतश्च धृतिमान् मतिमान् मान्॥ दक्षः प्रगल्भो द्युतिमान् महाबलपराक्रमः। भ्रात्रा विवासितो वीर राज्यहेतोर्महात्मना।।। स ते सहायो मित्रं च सीतायाः परिमार्गो भविष्यति हि ते राम मा च शोके मनः थाः॥ भवितव्यं हि तच्चापि न तच्छक्यमिहान्यथा। कर्तुमिक्ष्वाकुशार्दूल कालो हि दुरतिकमः॥ गच्छ शीघ्रमितो वीर सुग्रीवं तं महाबलम्। वयस्यं तं कुरु क्षिप्रमितो गत्वाद्य राघव॥ अद्रोहाय समागम्य दीप्यमाने विभावसौ। न च ते सोऽवमन्तव्यः सुग्रीवो वानराधिपः॥ कृतज्ञः कामरूपी च सहायार्थी च वीर्यवान्। शक्तौ ह्यद्य युवां कर्तुं कार्यं तस्य चिकीर्षितम्॥ कृतार्थो वाकृतार्थो वा तव कृत्यं करिष्यति। स ऋक्षरजसः पुत्रः पम्पामटति शङ्कितः॥ भास्करस्यौरसः पुत्रो वालिना कृतकिल्विषः। संनिधायायुधं क्षिप्रमृष्यमूकालयं कपिम्॥ कुरु राघव सत्येन वयस्यं वनचारिणम्। स हि स्थानानि कात्स्न्येन सर्वाणि कपिकुञ्जरः॥ नरमांसाशिनां लोके नैपुण्यादधिगच्छति। न तस्याविदितं लोके किंचिदस्ति हि राघव॥ यावत् सूर्यः प्रतपति सहस्रांशुः परंतप। स नदीर्विपुलाशैलान् गिरिदुर्गाणि कन्दरान्॥ अन्विष्य वानरैः सार्धं पत्नी तेऽधिगमिष्यति। वानरांश्च महाकायान् प्रेषयिष्यति राघव॥ दिशो विचेतुं तां सीतां त्वद्वियोगेन शोचतीम्। अन्वेष्यति वरारोहां मैथिली रावणालये॥ स मेरुशृङ्गाग्रगतामनिन्दितां प्रविश्य पातालतलेऽपि वाश्रिताम्। प्लवङ्गमानामृषभस्तव प्रियां निहत्य रक्षांसि पुनः प्रदास्यति॥ दर्शयित्वा तु रामाय सीतायाः परिमार्गणे। वाक्यमन्वर्थमर्थज्ञः कबन्धः पुनरब्रवीत्॥ एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः। प्रतीची दिशमाश्रित्य प्रकाशन्ते मनोरमाः॥ जम्बूप्रियालपनसा न्यग्रोधपक्षतिन्दुकाः। अश्वत्थाः कर्णिकारश्च चूताश्चान्ये च पादपाः॥ धन्वना नागवृक्षाश्च तिलका नक्तमालकाः। नीलाशोकाः कदम्बाश्च करवीराश्च पुष्पिताः॥ अग्निमुख्या अशोकाश्च सुरक्ताः पारिभद्रकाः। तानारुह्याथवा भूमौ पातयित्वा च तान् बलात्॥ फलान्यमृतकल्पानि भक्षयित्वा गमिष्यथः। तदतिक्रम्य काकुत्स्थ वनं पुष्पितपादपम्॥ नन्दनप्रतिमं त्वन्यत् कुरवस्तूत्तरा इव। सर्वकालफला यत्र पादपा मधुरस्रवाः॥ सर्वे च ऋतवस्तत्र वने चैत्ररथे यथा। फलभारनतास्तत्र महाविटपधारिणः।।८ शोभन्ते सर्वतस्तत्र मेघपर्वतसंनिभाः। तानारुह्याथवा भूमौ पातयित्वाथवा सुखम्॥ फलान्यमृतकल्पानि लक्ष्मणस्ते प्रदास्यति। चङ्क्रमन्तौ वराशैलाशैलाच्छैलं वनाद् वनम्॥ ततः पुष्करिणीं वीरौ पम्पां नाम गमिष्यथः। अशर्करामविभ्रंशां समतीर्थामशैवलाम॥ राम संजातवालूकां कमलोत्पलशोभिताम्। तत्र हंसाः प्लवाः कौञ्चाः कुरराश्चैव राघव॥ वल्गुस्वरा निकूजन्ति पम्पासलिलगोचराः। नोद्विजन्ते नरान् दृष्ट्वा वधस्याकोविदाः पुराः॥ घृतपिण्डोपमान् स्थूलांस्तान् द्विजान् भक्षयिष्यथः। रोहितान् वक्रतुण्डांश्च नलमीनांश्च राघव॥ पम्पायामिषुभिर्मत्स्यास्तत्र राम वरान् हतान्। निस्त्वपक्षानयस्तप्तानकृशानेककण्टकान्॥ तव भक्त्या समायुक्तो लक्ष्मणः सम्प्रदास्यति। भृशं तान् खादतो मत्स्यान् पम्पायाः पुष्पसंचये॥ पद्मगन्धि शिवं वारि सुखशीतमनामयम्। उद्धृत्य स तदाक्लिष्टं रूप्यस्फटिकसंनिभम्॥ अथ पुष्करपर्णेन लक्ष्मणः पाययिष्यति। । स्थूलान् गिरिगुहाशय्यान् वानरान् वनचारिणः॥ सायाह्ने विचरन् राम दर्शयिष्यति लक्ष्मणः। अपां लोभादुपावृत्तान् वृषभानिव नर्दतः॥ स्थूलान् पीतांश्च पम्पायां द्रक्ष्यसि त्वं नरोत्तम। सायाह्ने विचरन् राम विटपी माल्यधारिणः॥ शिवोदकं च पम्पायां दृष्ट्वा शोकं विहास्यसि। सुमनोभिश्चितास्तत्र तिलका नक्तमालकाः॥ उत्पलानि च फुल्लानि पङ्कजानि च राघव। न तानि कश्चिन्माल्यानि तत्रारोपयिता नरः॥ न च वै ग्लानतां यान्ति न च शीर्यन्ति राघव। मतङ्गशिष्यास्तत्रासन्नृषयः सुसमाहिताः॥ तेषां भाराभितप्तानां वन्यमाहरतां गुरोः। ये प्रपेतुर्महीं तूर्णं शरीरात् स्वेदबिन्दवः॥ तानि माल्यानि जातानि मुनीनां तपसा तदा। स्वेदबिन्दुसमुत्थानि न विनश्यन्ति राघव ॥ तेषां गतानामद्यापि दृश्यते परिचारिणी। श्रमणी शबरी नाम काकुत्स्थ चिरजीविनी॥ त्वां तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम्। दृष्ट्वा देवोपमं राम स्वर्गलोकं गमिष्यति॥ ततस्तद्राम पम्पायास्तीरमाश्रित्य पश्चिमम्। आश्रमस्थानमतुलं गुह्यं काकुत्स्थ पश्यसि॥ न तत्राक्रमितुं नागाः शक्नुवन्ति तदाश्रमे। ऋषेस्तस्य मतङ्गस्य विधानात् तच्च काननम्॥ मतङ्गवनमित्येव विश्रुतं रघुनन्दन। तस्मिन् नन्दनसंकाशे देवारण्योपमे वने॥ नानाविहगसंकीर्णे रंस्यसे राम निर्वृतः। ऋष्यमूकस्तु पम्पायाः पुरस्तात् पुष्पितद्रुमः॥ सुदुःखारोहणश्चैव शिशुनागाभिरक्षितः। उदारो ब्रह्मणा चैव पूर्वकालेऽभिनिर्मितः॥ शयानः पुरुषो राम तस्य शैलस्य मूर्धनि । यत् स्वप्ने लभते वित्तं तत् प्रबुद्धोऽधिगच्छति ॥ यस्त्वेनं विषमाचारः पापकर्माधिरोहति। तत्रैव प्रहरन्त्येनं सुप्तमादाय राक्षसाः॥ ततोऽपि शिशुनागानामाक्रन्दः श्रूयते महान्। क्रीडतां राम पम्पायां मतङ्गाश्रमवासिनाम्॥ सक्ता रुधिरधाराभिः संहत्य परमद्विपाः। प्रचरन्ति पृथक्कीर्णा मेघवर्णास्तरस्विनः॥ ते तत्र पीत्वा पानीयं विमलं चारु शोभनम्। अत्यन्तसुखसंस्पर्श सर्वगन्धसमन्वितम्॥ निवृत्ताः संविगाहन्ते वनानि वनगोचराः। ऋक्षांश्च द्वीपिनश्चैव नीचकोमलकप्रभान्॥ रुरूनपेतानजयान् दृष्ट्वा शोकं प्रहास्यसि। राम तस्य तु शैलस्य महती शोभते गुहा॥ शिलापिधाना काकुत्स्थ दुःखं चास्याः प्रवेशनम्। तस्या गुहायाः प्राग्द्वारे महाशीतोदको हृदः॥ बहुमूलफलो रम्यो नानानगसमाकुलः। तस्यां वसति धर्मात्मा सुग्रीवः सह वानरैः॥ कदाचिच्छिखरे तस्य पर्वतस्यापि तिष्ठति। कबन्धस्त्वनुशास्यैवं तावुभौ रामलक्ष्मणौ।॥ स्रग्वी भास्करवर्णाभः खे व्यरोचत वीर्यवान्। तं तु खस्थं महाभागं तावुभौ रामलक्ष्मणौ॥ प्रस्थितौ त्वं व्रजस्वेति वाक्यमूचतुरन्तिके। गम्यतां कार्यसिद्धयर्थमिति तावब्रवीत् स च॥ सुप्रीतौ तावनुज्ञाप्य कबन्धः प्रस्थितस्तदा॥ स तत् कबन्धः प्रतिपद्य रूपं वृतः श्रिया भास्वरसर्वदेहः। निदर्शयन् राममवेक्ष्य स्वस्थः सख्यं कुरुष्वेति तदाभ्युवाच ॥ तौ कबन्धेन तं मागं पम्पाया दर्शितं वने। आतस्थतुर्दिशं गृह्य प्रतीची नृवरात्मजौ॥ तौ शैलेष्वाचितानेकान् क्षौद्रपुष्पफलट्ठमान्। वीक्षन्तौ जग्मतुर्द्रष्टुं सुग्रीवं रामलक्ष्मणौ॥ कृत्वा तु शैलपृष्ठे तु तौ वासं रघुनन्दनौ । पम्पायाः पश्चिमं तीरं राघवावुपतस्थतुः॥ तौ पुष्करिण्याः पम्पायास्तीरमासाद्य पश्चिमम्। अपश्यतां ततस्तत्र शबर्यां रम्यमाश्रमम्॥ तौ तमाश्रममासाद्य द्रुमैबहुभिरावृतम्। सुरम्यमभिवीक्षन्तौ शबरीमभ्युपेयतुः॥ तौ दृष्ट्वा तु तदा सिद्धा समुत्थाय कृताञ्जलिः। पादौ जग्राह रामस्य लक्ष्मणस्य च धीमतः॥ पाद्यमाचमनीयं च सर्वं प्रादाद् यथाविधि। तामुवाच श्रमणी धर्मसंस्थिताम्॥ कच्चित्ते निर्जिता विघ्नाः कच्चिते वर्धते तपः। कच्चित्ते नियतः कोप आहारश्च तपोधने॥ कच्चित्ते नियमाः प्राप्ताः कच्चित्ते मनसः सुखम्। कच्चित्ते गुरुशुश्रूषा सफला चारुभाषिणि ॥ ततो रामः रामेण तापसी पृष्टा सा सिद्धा सिद्धसम्मता। शशंस शबरी वृद्धा रामाय प्रत्यवस्थिता॥ अद्य प्राप्ता तपःसिद्धिस्तव संदर्शनान्मया। अद्य मे सफलं जन्म गुरवश्च सुपूजिताः॥ अद्य मे सफलं तप्तं स्वर्गश्चैव भविष्यति। त्वयि देववरे राम पूजिते पुरुषर्षभ॥ तवाहं चक्षुषा सौम्य पूता सौम्येन मानद। गमिष्याम्यक्षयांल्लोकांस्त्वत्प्रसादादरिंदम ॥ चित्रकूटं त्वयि प्राप्ते विमानैरतुलप्रभैः। इतस्ते दिवमारूढा यानहं पर्यचारिषम्॥ तैश्चाहमुक्ता धर्मज्ञैर्महाभागैर्महर्षिभिः। आगमिष्यति ते रामः सुपुण्यमिममाश्रमम्॥ स ते प्रतिग्रहीतव्यः सौमित्रिसहितोऽतिथिः। तं च दृष्ट्वा वरांल्लोकानक्षयांस्त्वं गमिष्यसि॥ एवमुक्ता महाभागैस्तदाहं पुरुषर्षभ। मया तु संचितं वन्यं विविधं पुरुषर्षभ॥ तवार्थे पुरुषव्याघ्र पम्पायास्तीरसम्भवम्। एवमुक्तः स धर्मात्मा शबर्यां शबरीमिदम्॥ राघवः प्राह विज्ञाने तां नित्यमबहिष्कृतम्। दनोः सकाशात् तत्त्वेन प्रभावं ते महात्मनाम्॥ श्रुतं प्रत्यक्षमिच्छामि संद्रष्टुं यदि मन्यसे। एतत्तु वचनं श्रुत्वा रामवक्त्रविनिः :सृतम्॥ शबरी दर्शयामास ताबुभौ तद्वनं महत्। पश्य मेघघनप्रख्यं मृगपक्षिसमाकुलम्॥ मतङ्गवनमित्येव विश्रुतं रघुनन्दन। इह ते भावितात्मानो गुरवो मे महाद्युते। जुहवाञ्चक्रिरे नीडं मन्त्रवन्मन्त्रपूजितम्॥ इयं प्रत्यक्स्थली वेदी यत्र ते मे सुसत्कृताः। पुष्पोपहारं कुर्वन्ति श्रमादुद्वेपिभिः करैः॥ तेषां तपःप्रभावेण पश्याद्यापि रघूत्तम। द्योतयन्ती दिशः सर्वाः श्रिया वेद्यतुलप्रभा॥ अशक्नुवद्भिस्तैर्गन्तुमुपवासश्रमालसैः। चिन्तितेनागतान् पश्य समेतान् सप्त सागरान् ॥ कृताभिषेकैस्तैयस्ता वल्कलाः पादपेष्विह। अद्यापि न विशुष्यन्ति प्रदेशे रघुनन्दन ॥ देवकार्याणि कुर्वद्भिर्यानीमानि कृतानि वै। पुष्पैः कुवलयैः सार्धं म्लानत्वं न तु यान्ति वै॥ कृत्स्नं वनमिदं दृष्टं श्रोतव्यं च श्रुतं त्वया। तदिच्छाम्यभ्यनुज्ञाता त्यक्ष्याम्येतत् कलेवरम्॥ तेषामिच्छाम्यहं गन्तुं समीपं भावितात्मनाम्। मुनानामाश्रमो येषामहं च परिचारिणी॥ धर्मिष्ठं तु वचः श्रुत्वा राघवः सहलक्ष्मणः। प्रहर्षमतुलं लेभे आश्चर्यमिति चाब्रवीत्॥ तामुवाच ततो रामः शबरी संशितव्रताम्। अर्चितोऽहं त्वया भद्रे गच्छ कामं यथासुखम्॥ इत्येवमुक्ता जटिला चीरकृष्णाजिनाम्बरा। अनुज्ञाता तु रामेण हुत्वाऽऽत्मानं हुताशने ॥ ज्वलत्पावकसंकाशा स्वर्गमेव जगाम ह। दिव्याभरणसंयुक्ता दिव्यमाल्यानुलेपना ॥ दिव्याम्बरधरा तत्र बभूव प्रियदर्शना। विराजयन्ती तं देशं विद्युत्सौदामनी यथा॥ यत्र ते सुकृतात्मानो विहरन्ति महर्षयः। तत् पुण्यं शबरीस्थानं जगामात्मसमाधिना॥ दिवं तु तस्यां यातायां शबाँ स्वेन तेजसा। लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः॥ चिन्तयित्वा तु धर्मात्मा प्रभावं तं महात्मनाम्। हितकारिणमेकाग्रं लक्ष्मणं राघवोऽब्रवीत्॥ दृष्टोमयाऽऽश्रमः सौम्य बह्वाश्चर्यः कृतात्मनाम्। विश्वस्तमृगशार्दूलो नानाविहगसेवितः॥ सप्तानां च समुद्राणां तेषां तीर्थेषु लक्ष्मण। उपस्पृष्टं च विधिवत् पितरश्चापि तर्पिताः॥ प्रणष्टमशुभं यन्नः कल्याणं समुपस्थितम्। तेन त्वेतत् प्रहृष्टं मे मनो लक्ष्मण सम्प्रति॥ हृदये मे वनव्याघ्र शुभमाविर्भविष्यति। तदागच्छ गमिष्यावः पम्पां तां प्रियदर्शनाम्॥ ऋष्यमूको गिरिर्यत्र नातिदूरे प्रकाशते। यस्मिन् वसति धर्मात्मा सुग्रीवोंऽशुमतः सुतः॥ नित्यं वालिभयात् त्रस्तश्चतुर्भिः सह वानरैः। अहं त्वरे च तं द्रष्टुं सुग्रीवं वानरर्षभम्॥ तदधीनं हि मे कार्य सीतायाः परिमार्गणम्। इति ब्रुवाणं तं वीरं सौमित्रिरिदमब्रवीत्॥ गच्छावस्त्वरितं तत्र ममापि त्वरते मनः। आश्रमात्तु ततस्तस्मान्निष्क्रम्य स विशाम्पतिः॥ आजगाम ततः पम्पां लक्ष्मणेन सह प्रभुः। समीक्षमाणः पुष्पाढ्यं सर्वतो विपुलद्रुमम्॥ कोयष्टिभिश्चार्जुनकैः शतपत्रैश्च कीचकैः। एतैश्चान्यैश्च बहुभिर्नादितं तद् वनं महत्॥ स रामो विविधान् वृक्षान् सरांसि विविधानि च। पश्यन् कामाभिसंतप्तो जगाम परमं हृदम्॥ स तामासाद्य वै रामो दूरात् पानीयवाहिनीम्। मतङ्गसरसं नाम ह्रदं समवगाहत॥ तत्र जग्मतुरव्यग्रौ राघवौ हि समाहितौ। स तु शोकसमाविष्टो रामो दशरथात्मजः॥ विवेश नलिनी रम्यां पङ्कजैश्च समावृताम्। तिलकाशोकपुंनागबकुलोद्दालकाशिनीम्॥ रम्योपवनसम्बाधां रम्यसम्पीडितोदकाम्। स्फटिकोपमतोयां तां श्लक्ष्णवालुकसंतताम्॥ मत्स्यकच्छपसम्बाधां तीरस्थद्रुमशोभिताम्। सखीभिरेव संयुक्तां लताभिरनुवेष्टिताम्॥ किंनरोरंगगन्धर्वयक्षराक्षससेविताम्। नानाद्रुमलताकीर्णां शीतवारिनिधिं शुभाम्॥ पद्मसौगन्धिकैस्तानां शुक्लां कुमुदमण्डलैः। नीलां कुवलयोद्घाटैर्बहुवर्णा कुथामिव ॥ अरविन्दोत्पलवतीं पद्मसौगन्धिकायुताम्। पुष्पिताम्रवणोपेतां बर्हिणोद्घष्टनादिताम्॥ स तां दृष्ट्वा ततः पम्पा रामः सौमित्रिणा सह। विललाप च तेजस्वी रामो दशरथात्मजः॥ तिलकैर्बीजपूरैश्च वटैः शुक्लदुमैस्तथा। पुष्पितैः करवीरैश्च पुंनागैश्च सुपुष्पितैः॥ मालतीकुन्दगुल्मैश्च भण्डीरैर्निचुलैस्तथा। अशोकैः सप्तपर्णैश्च केतकैरतिमुक्तकैः॥ अन्यैश्च विविधैर्वृक्षैः प्रमदेवोपशोभिताम्। अस्यास्तीरे तु पूर्वोक्तः पर्वतो धातुमण्डितः॥ ऋष्यमूक इति ख्यातश्चित्रपुष्पितपादपः। हरिक्षरजोनाम्नः पुत्रस्तस्य महात्मनः॥ अध्यास्ते तु महावीर्यः सुग्रीव इति विश्रुतः। सुग्रीवमभिगच्छ त्वं वानरेन्द्रं नरर्षभ॥ इत्युवाच पुनर्वाक्यं लक्ष्मणं सत्यविक्रमः। कथं मया बिना सीतां शक्यं लक्ष्मण जीवितुम्॥ इत्येवमुक्त्वा मदनाभिपीडितः स लक्ष्मणं वाक्यमनन्यचेतनः। विवेश पम्पां नलिनीमनोरमां तमुत्तमं शोकमुदीरयाण:॥ क्रमेण गत्वा प्रविलोकयन् वनं ददर्श पम्पां शुभदर्शकाननाम्। अनेकनानाविधपक्षिसंकुलं विवेश रामः सह लक्ष्मणेन॥ ततः प्रहृष्टो हनुमान् कृत्यवानिति तद्वचः। श्रुत्वा मधुरभावं च सुग्रीवं मनसा गतः॥ भाव्यो राज्यागमस्तस्य सुग्रीवस्य महात्मनः। यदयं कृत्यवान् प्राप्तः कृत्यं चैतदुपागतम्।।२ ततः परमसंदृष्टो हनूमान् प्लवगोत्तमः। प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः॥ किमर्थं त्वं वनं गोरं पम्पाकाननमण्डितम्। आगतः सानुजो दुर्गं नानाव्यालमृगायुतम्॥ तस्य तद् वचनं श्रुत्वा लक्ष्मणो रामचोदितः। आचचक्षे महात्मानं रामं दशरथात्मजम्॥ राजा दशरथो नाम द्युतिमान् धर्मवत्सलः। चातुर्वण्र्यं स्वधर्मेण नित्यमेवाभिपालयन्॥ न द्वेष्टा विद्यते तस्य स तु द्वेष्टि न कंचन। स तु सर्वेषु भूतेषु पितामह इवापरः॥ अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः। तस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः॥ शरण्यः सर्वभूतानां पितुर्निर्देशपारगः। ज्येष्ठो दशरथस्यायं पुत्राणां गुणवत्तरः॥ राजलक्षणसंयुक्तः संयुक्तो राज्यसम्पदा। राज्याद् भ्रष्टो मया वस्तुं वने सार्धमिहागतः॥ भार्यया च महाभाग सीतयानुगतो वशी दिनक्षये महातेजाः प्रभयेव दिवाकरः॥ अहमस्यावरो भ्राता गुणैर्दास्यमुपागतः। कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः॥ सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः। श्वर्येण विह, नस्य वनवासे रतस्य च॥ रक्षसापहृता भार्या रहिते कामरूपिणा। तच्च न ज्ञायते रक्षः पत्नी येनास्य वा हृता॥ दनुर्नाम दितेः पुत्रः शापाद् राक्षसतां गतः। आख्यातस्तेन सुग्रीवः समर्थो वानराधिपः॥ स ज्ञास्यति महावीर्यस्तव भार्यापहारिणम्। एवमुक्त्वा दनुः स्वर्ग भ्राजमानो दिवं गतः॥ एतत् ते सर्वमाख्यातं याथातथ्येन पृच्छतः। अहं चैव च रामश्च सुग्रीवं शरणं गतौ ॥ एष दत्वा न वित्तानि प्राप्य चानुत्तमं यशः। लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति ॥ सीता यस्य स्नुषा चासीच्छरण्यो धर्मवत्सलः। तस्य पुत्रः शरण्यस्य सुग्रीवं शरणं गतः॥ सर्वलोकस्य धर्मात्मा शरण्यः शरणं पुरा। गुरुर्मे राघवः सोऽयं सुग्रीवं शरणं गतः॥ यस्य प्रसादे सततं प्रसीदेयुरिमाः प्रजाः। स रामो वानरेन्द्रस्य प्रसादमभिकासते॥ येन सर्वगुणोपेताः पृथिव्यां सर्वपार्थिवाः। मानिताः सततं राज्ञा सदा दशरथेन वै॥ तस्यायं पूर्वजः पुत्रस्त्रिषु लोकेषु विश्रुतः। सुग्रीवं वानरेन्द्रं तु रामः शरणमागतः॥ शोकाभिभूते रामे तु शोकार्ते शरणं गते। कर्तुमर्हति सुग्रीवः प्रसादं सह यूथपैः॥ एवं ब्रुवाणं सौमित्रिं करुणं साश्रुपातनम्। हनूमान् प्रत्युवाचेदं वाक्यं वाक्यविशारदः॥ ईदृशा बुद्धिसम्पन्ना जितक्रोधा जितेन्द्रियाः। द्रष्टव्या वानरेन्द्रेण दिष्ट्या दर्शनमागताः॥ स हि राज्याच्च विभ्रष्टः कृतवैरश्च वालिना। हतदारो वने त्रस्तो भ्रात्रा विनिकृतो भृशम्॥ करिष्यति स साहाय्यं युवयोर्भास्करात्मजः। सुग्रीवः सह चास्माभिः सीतायाः परिमार्गणे॥ इत्येवमुक्त्वा हनुमाश्लक्ष्णं मधुरया गिरा। बभाषे साधु गच्छामः सुग्रीवमिति राघवम्॥ एवं ब्रुवन्तं धर्मात्मा हनूमन्तं स लक्ष्मणः। प्रतिपूज्य यथान्यायमिदं प्रोवाच राघवम् ॥ कपिः कथयते हृष्टो यथायं मारुतात्मजः। कृत्यवान्सोऽपि सम्प्राप्तः कृतकृत्योऽसि राघव॥ प्रसन्नमुखवर्णश्च व्यक्तं हृष्टश्च भाषते। नानृतं वक्ष्यते वीरो हनूमान् मारुतात्मजः॥ ततः स सुमहाप्राज्ञो हनूमान् मारुतात्मजः। जगामादाय तौ वीरौ हरिराजाय राघवौ॥ भिक्षुरूपं परित्यज्य वानरं रूपमास्थितः। पृष्ठमारोप्य तौ वीरो जगाम कपिकुञ्जरः॥ स तु विपुलयशाः कपिप्रवीरः पवनसुतः कृतकृत्यवत् प्रहृष्टः। गिरिवरमुरुविक्रमः प्रयातः स शुभमतिः सह रामलक्ष्मणाभ्याम्॥ एवमुक्तस्तु सुग्रीवो रामेणार्तेन वानरः। अब्रवीत् प्राञ्जलिर्वाक्यं सवाष्पं बाष्पगद्गदः॥ न जाने निलयं तस्य सर्वथा पापरक्षसः। सामर्थ्य विक्रमं वापि दौष्कुलेयस्य वा कुलम्॥ सत्यं तु प्रतिजानामि त्यज शोकमरिंदम। करिष्यामि तथा यत्नं यथा प्राप्स्यसि मैथिलीम्॥ रावणं सगणं हत्वा परितोष्यात्मपौरुषम्। तथास्मि कर्ता नचिराद् यथा प्रीतो भविष्यसि॥ अलं वैक्लव्यमालम्ब्य धैर्यमात्मगतं स्मर। त्वद्विधानां न सदृशमीदृशं बुद्धिलाघवम्॥ मयापि व्यसनं प्राप्तं भार्याविरहजं महत्। नाहमेवं हि शोचामि धैर्ये न च परित्यजे॥ नाहं तामनुशोचामि प्राकृतो वानरोऽपि सन्। महात्मा च विनीतश्च किं पुन तिमान् महान्॥ वाष्पमापतितं धैर्यान्निग्रहीतुं त्वमर्हसि। मर्यादां सत्त्वयुक्तानां धृतिं नोत्स्रष्टुमर्हसि॥ व्यसने वार्थकृच्छ्रे वा भये वा जीवितान्तगे। विमृशंश्च स्वया बुद्ध्या धृतिमान् नावसीदति॥ बालिशस्तु नरो नित्यं वैक्लव्यं योऽनुवर्तते। स मज्जत्यवशः शोके भाराक्रान्तेव नौ ले॥ एषोऽञ्जालमया बद्धः प्रणयात् त्वां प्रसादये। पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि ॥ ये शोकमनुवर्तन्ते न तेषां विद्यते सुखम्। तेजश्च क्षीयते तेषां न त्वं शोचितुमर्हसि ॥ शोकेनाभिप्रपन्नस्य जीविते चापि संशयः। स शोकं त्यज राजेन्द्र धैर्यमाश्रय केवलम्॥ हितं वयस्यभावेन ब्रूमि नोपदिशामि ते। वयस्यतां पूजयन्मे न त्वं शोचितुमर्हसि ॥ मधुरं सान्त्वितस्तेन सुग्रीवेण स राघवः। मुखमश्रुपरिक्लिन्नं वस्त्रान्तेन प्रमार्जयत्॥ प्रकृतिस्थस्तु काकुत्स्थः सुग्रीववचनात् प्रभुः। सम्परिष्वज्य सुग्रीवमिदं वचनमब्रवीत्॥ कर्तव्यं यद् वयस्येन स्निग्धेन च हितेन च। अनुरूपं च युक्तं च कृतं सुग्रीव तत् त्वया॥ एष च प्रकृतिस्थोऽहमनुनीतस्तया सखे। दुर्लभो हीदृशो बन्धुरस्मिन् काले विशेषतः॥ किं तु यत्नस्त्वया कार्यो मैथिल्याः परिमार्गणे। राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः॥ मया च यदनुष्ठेयं विस्रब्धेन तदुच्यताम्। वर्षास्विव च सुक्षेत्रे सर्वं सम्पद्यते तव॥ मया च यदिदं वाक्यमभिमानाद् समीरितम्। तत्त्वया हरिशार्दूल तत्त्वमित्युपधार्यताम्॥ अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन। एतत्ते प्रतिजानामि सत्येनैव शपाम्यहम्॥ ततः प्रहृष्टः सुग्रीवो वानरैः सचिवैः सह। राघवस्य वचः श्रुत्वा प्रतिज्ञातं विशेषतः॥ एवमेकान्तसम्पृक्तौ ततस्तौ नरवानरौ। उभावन्योन्यसदृशं सुखं दुःखमभाषताम्॥ महानुभावस्य वचो निशम्य हरिपाणामधिपस्य तस्य। स्तदा च कार्यं हृदयेन विद्वान्॥ वाली नाम मम भ्राता ज्येष्ठः शत्रुनिषूदनः। पितुर्बहुमतो नित्यं मम चापि तथा पुरा॥ पितर्युपरते तस्मिज्येष्ठोऽयमिति मन्त्रिभिः। कपीनामीश्वरो राज्ये कृतः परमसम्मतः॥ राज्यं प्रशासतस्तस्य पितृपैतामहं महत्। अहं सर्वेषु कालेषु प्रणतः प्रेष्यवत् स्थितः॥ मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः। तेन तस्य महद्वैरं वालिनः स्त्रीकृतं पुरा॥ स तु सुप्ते जने रात्रौ किष्किन्धाद्वारमागतः। नर्दति स्म सुसंरब्धो वालिनं चाह्वयद् रणे॥ प्रसुप्तस्तु मम भ्राता नर्दतो भैरवस्वनम्। श्रुत्वा न ममृषे वाली निष्पपात जवात् तदा॥ स तु वै निःसृतः क्रोधात्तं हन्तुमसुरोत्तमम्। वार्यमाणस्ततः स्त्रीभिर्मया च प्रणतात्मना ॥ स तु निर्धूय ताः सर्वा निर्जगाम महाबलः। ततोऽहमपि सौहार्दान्निःसृतो वालिना सह॥ स तु मे भ्रातरं दृष्ट्वा मां च दूरादवस्थितम्। असुरो जातसंत्रासः प्रदुद्राव तदा भृशम्॥ तस्मिन् द्रवति संत्रस्ते ह्यावां द्रुततरं गतौ। प्रकाशोऽपि कृतो मार्गश्चन्द्रेणोद्गच्छता तदा॥ स तृणैरावृतं दुर्ग धरण्या विवरं महत्। प्रविवेशासुरो वेगादावामासाद्य विष्ठितौ॥ तं प्रविष्टं रिपुं दृष्ट्वा बिलं रोषवशं गतः। मामुवाच ततो वाली वचनं क्षुभितेन्द्रियः॥ इह तिष्ठाद्य सुग्रीव बिलद्वारि समाहितः। यावदत्र प्रविश्याहं निहन्मि समरे रिपुम्॥ मया त्वेतद् वचः श्रुत्वा याचितः स परंतपः। शापयित्वा च मां पद्भ्यां प्रविवेश बिलं ततः॥ तस्य प्रविष्टस्य बिलं साग्रः संवत्सरो गतः। स्थितस्य च बिलद्वारि स कालो व्यत्यवर्तत ॥ अहं तु नष्टं तं ज्ञात्वा स्नेहादागतसम्भ्रमः। भ्रातरं न प्रपश्यामि पापशङ्कि च मे मनः॥ अथ दीर्घस्य कालस्य विलात् तस्माद् विनिःसृतम्। सफेनं रुधिरं दृष्ट्वा ततोऽहं भृशदुःखितः॥ नर्दतामसुराणां च ध्वनिमें श्रोत्रमागतः। न रतस्य च संग्रामे क्रोशतोऽपि स्वनो गुरोः॥ अहं त्ववगतो बुद्ध्या चिरैस्तैतिरं हतम्। पिधाय च बिलद्वारं शिलया गिरिमात्रया॥ शोकार्तश्चोदकं कृत्वा किष्किन्धामागतः सखे। गूहमानस्य मे तत् त्वं यत्नतो मन्त्रिभिः श्रुतम्॥ ततोऽहं तैः समागम्य समेतैरभिषेचितः। राज्यं प्रशासतस्तस्य न्यायतो मम राघव॥ आजगाम रिपुं हत्वा दानवं स तु वानरः। अभिषिक्तं तु मां दृष्ट्वा क्रोधात् संरक्तलोचनः॥ मदीयान् मन्त्रिणो बद्ध्वा परुषं वाक्यमब्रवीत्। निग्रहे च समर्थस्य तं पापं प्रति राघव॥ न प्रावर्तत मे बुद्धिर्भ्रातृगौरवयन्त्रिता। हत्वा श स मे भ्राता प्रविवेश पुरं तदा ॥ मानयस्तं महात्मानं यथावच्चाभिवादयम्। उक्ताश्च नाशिषस्तेन प्रहृष्टेनान्तरात्मना ॥ नत्वा पादावहं तस्य मुकुटेनास्पृशं प्रभो। अपि वाली मम क्रोधान्न प्रसादं चकार सः॥ ततः क्रोधसमाविष्टं संरब्धं तमुपागतम्। अहं प्रसादयांचक्रे भ्रातरं हितकाम्यया॥ दिष्ट्यासि कुशली प्राप्तो निहतश्च त्वया रिपुः। अनाथस्य हि मे नाथस्त्वमेकोऽनाथनन्दन॥ इदं बहुशलाकं ते पूर्णचन्द्रमिवोदितम्। छत्रं सवालव्यजनं प्रतीच्छस्व मया धृतम्॥ आर्तस्तस्य बिलद्वारि स्थितः संवत्सरं नृप। दृष्ट्वा च शोणितं द्वारि बिलाच्चापि समुत्थितम्॥ शोकसंविग्नहृदयो भृशं व्याकुलितेन्द्रियः। अपिधाय बिलद्वारं शैलशृङ्गेण तत् तदा॥ तस्माद् देशादपाक्रम्य किष्किन्धां प्राविशं पुनः। विषादात्विह मां दृष्ट्वा पौरैर्मन्त्रिभिरेव च॥ अभिषिक्तो न कामेन तन्मे क्षन्तुं त्वमर्हसि। त्वमेव राजा मानार्हः सदा चाहं यथा पुरा॥ राजभावे नियोगोऽयं मम त्वविरहात्कृतः। सामात्यपौरनगरं स्थितं निहतकण्टकम्॥ न्यासभूतमिदं राज्यं तव निर्यातयाम्यहम्। मा च रोषं कृथाः सौम्य मम शत्रुनिषूदन॥ याचे त्वां शिरसा राजन् मया बद्धोऽयमञ्जलिः। बलादस्मिन् समागम्य मन्त्रिभिः पुरवासिभिः॥ राजभावे नियुक्तोऽहं शून्यदेशजिगीषया। स्त्रिग्धमेवं ब्रुवाणं मां स विनिर्भय॑ वानरः॥ धिक्त्वामिति च मामुक्त्वा बहु तत्तदुवाच ह। प्रकृतीश्च समानीय मन्त्रिणश्चैव सम्मतान्॥ मामाह सुहृदां मध्ये वाक्यं परमगर्हितम्। विदितं वो मया रात्रौ मायावी स महासुरः॥ मां समाह्वयत क्रुद्धो युद्धाकाङ्क्षी तदा पुरा । तस्य तद्भाषितं श्रुत्वा निःसृतोऽहं नृपालयात्॥ अनुयातश्च मां तूर्णमयं भ्राता सुदारुणः। स तु दृष्टैव मां रात्रौ सद्वितीयं महाबलः॥ प्राद्रवद् भयसंत्रस्तो वीक्ष्यावां समुपागतौ। अभिद्रुतस्तु वेगेन विवेश स महाबिलम्॥ तं प्रविष्टं विदित्वा तु सुघोरं सुमहबिलम्। अयमुक्तोऽथ मे भ्राता मया तु क्रूरदर्शनः॥ अहत्वा नास्ति मे शक्तिः प्रतिगन्तुमितः पुरीम्। बिलद्वारि प्रतीक्ष त्वं यावदेनं निहन्म्यहम्॥ स्थितोऽयमिति मत्वाहं प्रविष्टस्तु दुरासदम्। तं मे मार्गयतस्तत्र गतः संवत्सरस्तदा॥ स तु दृष्टो मया शत्रुरनिर्वेदाद् भयावहः। निहतश्च मया सद्यः स सर्वैः सह बन्धुभिः॥ तस्यास्यात्तु प्रवृत्तेन रुधिरौघेण तद्विलम्। पूर्णमासीद् दुराक्रामं स्तनतस्तस्य भूतले॥ सूदयित्वा तु तं शत्रु विक्रान्तं तमहं सुखम्। निष्क्रामं नेह पश्यामि बिलस्य पिहितं सुखम्॥ विक्रोशमानस्य तु मे सुग्रीवेति पुनः पुनः। यतः प्रतिवचो नास्ति ततोऽहं भृशदुःखितः॥ पादप्रहारैस्तु मया बहुभिः परिपातितम्। ततोऽहं तेन निष्क्रम्य पथा पुरमुपागतः॥ तत्रानेनास्मि संरुद्धो राज्यं मृगयताऽऽत्मनः। सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृसौहृदम्॥ एवमुक्त्वा तु मां तत्र वस्त्रेणैकेन वानरः। तद् निर्वासयामास वाली विगतसाध्वसः॥ तेनाहमपविद्धश्च हृतदारश्च राघव। तद्भयाश्च महीं सर्वां क्रान्तवान् सवनार्णवाम्॥ ऋष्यमूकं गिरिवरं भार्याहरणदुःखितः। प्रविष्टोऽस्म दुराधर्ष वालिनः कारणान्तरे॥ एतत्ते सर्वमाख्यातं वैरानुकथनं महत्। अनागसा मया प्राप्तं व्यसनं पश्य राघव॥ वालिनश्च भयात् तस्य सर्वलोकाभयापह। कर्तुमर्हसि मे वीर प्रसादं तस्य निग्रहात्॥ एवमुक्तः स तेजस्वी धर्मज्ञो धर्मसंहितम्। वचनं वक्तुमारेभे सुग्रीवं प्रहसनिव॥ अमोघाः सूर्यसंकाशा निशिता मे शरा इमे। तस्मिन् वालिनि दुर्वृत्ते पतिष्यन्ति रुषान्विताः॥ यावत् तं नहि पश्येयं तव भार्यापहारिणम्। तावत् स जीवेत् पापात्मा वाली चारित्रदूषकः॥ आत्मानुमानात् पश्यामि मग्नस्त्वं शोकसागरे। त्वामहं तारयिष्यामि बाढं प्राप्स्यसि पुष्कलम्॥ तस्य तद् वचनं श्रुत्वा हर्षपौरुषवर्धनम्। सुग्रीवः परमप्रीतः सुमहद्वाक्यमब्रवीत्॥ रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम्। सुग्रीवः पूजयांचक्रे राघवं प्रशशंस च॥ असंशयं प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैः शरैः। त्वं दहेः कुपितो लोकान् युगान्त इव भास्करः॥ वालिनः पौरुषं यत्तद् यच्च वीर्यं धृतिश्च या। तन्ममैकमनाः श्रुत्वा विधत्स्व यदनन्तरम्॥ समुद्रात् पश्चिमात् पूर्वं दक्षिणादपि चोत्तरम्। क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः॥ अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपि। ऊर्ध्वमुत्पात्य तरसा प्रतिगृह्णाति वीर्यवान्॥ बहवः सारवन्तश्च वनेषु विविधा द्रुमाः। वालिना तरसा भग्ना बलं प्रथयताऽऽत्मनः॥ महिषो दुन्दुभिर्नाम कैलासशिखरप्रभः। बलं नागसहस्रस्य धारयामास वीर्यवान्॥ स वीर्योत्सेकदुष्टात्मा वरदानेन मोहितः। जगाम स महाकायः समुद्रं सरितां पतिम्॥ ऊर्मिमन्तमतिक्रम्य सागरं रत्नसंचयम्। मम युद्धं प्रयच्छेति तमुवाच महार्णवम्॥ ततः समुद्रो धर्मात्मा समुत्थाय महाबलः। अब्रवीद् वचनं राजन्नसुरं कालचोदितम्॥ समर्थो नास्मि ते दातुं युद्धं युद्धविशारद। श्रूयतां त्वभिधास्यामि यस्ते युद्धं प्रदास्यति॥ शैलराजो महारण्ये तपस्विशरणं परम्। शंकरश्वशुरो नाम्ना हिमवानिति विश्रुतः॥ महाप्रस्रवणोपेतो बहुकन्दरनिर्झरः। स समर्थस्तव प्रीतिमतुलां कर्तुमर्हति ॥ तं भीतमिति विज्ञाय समुद्रमसुरोत्तमः। हिमवद्वनमागम्य शरश्चापादिव च्युतः॥ ततस्तस्य गिरेः श्वेता गजेन्द्रप्रतिमाः शिलाः। चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च॥ ततः श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः। हिमवानब्रवीद् वाक्यं स्व एव शिखरे स्थितः॥ क्लेष्टुमर्हसि मां न त्वं दुन्दुभे धर्मवत्सलः। रणकर्मस्वकुशलस्तपस्विशरणो ह्यहम्॥ तस्य तद् वचनं श्रुत्वा गिरिराजस्य धीमतः। उवाच दुन्दुभिर्वाक्यं क्रोधात् संरक्तलोचनः॥ यदि युद्धेऽसमर्थस्त्वं मद्भयाद् वा निरुद्यमः। तमाचक्ष्व प्रदद्यान्मे यो हि युद्धं युयुत्सतः॥ हिमवानब्रवीद् वाक्यं श्रुत्वा वाक्यविशारदः। अनुक्तपूर्व धर्मात्मा क्रोधात् तमसुरोत्तमम्॥ वाली नाम महाप्राज्ञ शक्रपुत्रः प्रतापवान्। अध्यास्ते वानरः श्रीमान् किष्किन्धामतुलप्रभाम्॥ स समर्थो महाप्राज्ञस्तव युद्धविशारदः। द्वन्द्वयुद्धं स दातुं ते नमुचेरिव वासवः॥ तं शीघ्रमभिगच्छ त्वं यदि युद्धमिहेच्छसि। स हि दुर्मर्षणो नित्यं शूरः समरकर्मणि॥ श्रुत्वा हिमवतो वाक्यं कोपाविष्टः स दुन्दुभिः। जगाम तां पुरीं तस्य किष्किन्धां वालिनस्तदा ॥ धारयन् माहिषं रूपं तीक्ष्णशृङ्गो भयावहः। प्रावृषीव महामेघस्तोयपूर्णो नभस्तले॥ ततस्तु द्वारमागम्य किष्किन्धाया महाबलः। ननर्द कम्पयन् भूमिं दुन्दुभिर्दुन्दुभिर्यथा॥ समीपजान् दुमान् भञ्जन् वसुधां दारयन् खुरैः। विषाणेनोल्लिखन् दर्पात् तद्द्वारं द्विरदो यथा॥ अन्तःपुरगतो वाली श्रुत्वा शब्दममर्षणः। निष्पपात सह स्त्रीभिस्ताराभिरिव चन्द्रमाः॥ मितं व्यक्ताक्षरपदं तमुवाच स दुन्दुभिम्। हरीणामीश्वरो वाली सर्वेषां वनचारिणाम्॥ किमर्थं नगरद्वारमिदं रुद्ध्वा विनर्दसे। दुन्दुभे विदितो मेऽसि रक्ष प्राणान् महाबल॥ तस्य तद् वचनं श्रुत्वा वानरेन्द्रस्य धीमतः। उवाच दुन्दुभिर्वाक्यं क्रोधात् संरक्तलोचनः॥ न त्वं स्त्रीसंनिधौ वीर वचनं वक्तुमर्हसि। मम युद्धं प्रयच्छाद्य ततो ज्ञास्यामि ते बलम्॥ अथवा धारयिष्यामि क्रोधमद्य निशामिमाम्। गृह्यतामुदयः स्वैरं कामभोगेषु वानर ॥ दीयतां सम्प्रदानं च परिष्वज्य च वानरान्। सर्वशाखामृगेन्द्रस्त्वं संसाधय सुहृज्जनम् ॥ सुदृष्टां कुरु किष्किन्धां कुरुष्वात्मसमं पुरे। क्रीडस्व च समं स्त्रीभिरहं ते दर्पशासनः॥ यो हि मत्तं प्रमत्तं वा भग्नं वा रहितं कृशम्। हन्यात् सं भ्रूणहा लोके त्वद्विधं मदमोहितम्॥ स प्रहस्याब्रवीन्मन्दं क्रोधात् तमसुरेश्वरम्। विसृज्य ताः स्त्रियः सर्वास्ताराप्रभृतिकास्तदा॥ मत्तोऽयमिति मा मंस्था यद्यभीतोऽसि संयुगे। मदोऽयं सम्प्रहारेऽस्मिन् वीरपानं समर्थ्यताम्॥ तमेवमुक्त्वा संक्रुद्धो मालामुत्क्षिप्य काञ्चनीम्। पित्रा दत्तां महेन्द्रेण युद्धाय व्यवतिष्ठत॥ विषाणयोर्गृहीत्वा तं दुन्दुभिं गिरिसंनिभम्। आविध्यत तथा वाली विनदन् कपिकुञ्जरः॥ बलाद् व्यापादयांचक्रे ननदं च महास्वनम्। श्रोत्राभ्यामथ रक्तं तु तस्य सुस्राव पात्यतः॥ तयोस्तु क्रोधसंरम्भात् परस्परजयैषिणोः। युद्धं समभवद् घोरं दुन्दुभेलिनस्तथा।॥ अयुध्यत तदा वाली शक्रतुल्यपराक्रमः। मुष्टिभिर्जानुभिः पद्भिः शिलाभिः पादपैस्तथा॥ परस्परं घ्नतोस्तत्र वानरासुरयोस्तदा। आसीद्धीनोऽसुरो युद्धे शक्रसूनुर्व्यवर्धत ॥ तं तु दुन्दुभिमुद्यम्य धरण्यामभ्यपातयत्। युद्धे प्राणहरे तस्मिन्निष्पिष्टो दुन्दुभिस्तदा॥ स्रोतोभ्यो बहु रक्तं तु तस्य सुस्राव पात्यतः। पपात च महाबाहुः क्षितौ पञ्चत्वमागतः॥ तं तोलयित्वा बाहुभ्यां गतसत्त्वमचेतनम्। चिक्षेप वेगवान् वाली वेगेनैकेन योजनम्॥ तस्य वेगप्रविद्धस्य वक्त्रात् क्षतजबिन्दवः। प्रपेतुर्मारुतोत्क्षिप्ता मतङ्गस्याश्रमं प्रति॥ तान् दृष्ट्वा पतितांस्तत्र मुनिः शोणितविपुषः। क्रुद्धस्तस्य महाभाग चिन्तयामास को न्वयम्।॥ येनाहं सहसा स्पृष्टः शोणितेन दुरात्मना । कोऽयं दुरात्मा दुर्बुद्धिरकृतात्मा च बालिशः॥ इत्युक्त्वा स विनिष्क्रम्य ददृशे मुनिसत्तमः। महिषं पर्वताकारं गतासुं पतितं भुवि।।५१ । स तु विज्ञाय तपसा वानरेण कृतं हि तत्। उत्ससर्ज महाशापं क्षेप्तारं वानरं प्रति ॥ इह तेनाप्रवेष्टव्यं प्रविष्टस्य वधो भवेत्। वनं मत्संश्रयं येन दूषितं रुधिरस्रवैः॥ क्षिपता पादपाश्चेमे सम्भग्नाश्चासुरी तनुम्। समन्तादाश्रमं पूर्ण योजनं मामकं यदि॥ आगमिष्यति दुर्बुद्धिर्व्यक्तं स न भविष्यति। ये चास्य सचिवाः केचित् संश्रिता मामकं वनम्॥ न च तैरिह वस्तव्यं श्रुत्वा यान्तु यथासुखम्। तेऽपि वा यदि तिष्ठन्ति शपिष्ये तानपि ध्रुवम्॥ वनेऽस्मिन् मामके नित्यं पुत्रवत् परिरक्षिते। पत्राङ्कुरविनाशाय फलमूलाभवाय च॥ दिवसश्चाद्य मर्यादा यं द्रष्टा श्वोऽस्मि वानरम्। बहुवर्षसहस्राणि स वै शैलो भविष्यति ॥ ततस्ते वानराः श्रुत्वा गिरं मुनिसमीरिताम्। निश्चक्रमुर्वनात् तस्मात् तान् दृष्ट्वा बालिरब्रवीत्॥ किं भवन्तः समस्ताश्च मतङ्गवनवासिनः। मत्समीपमनुप्राप्ता अपि स्वस्ति वनौकसाम्॥ ततस्ते कारणं सर्वं तथा शापं च वालिनः। शशंसुर्वानराः सर्वे वालिने हेममालिने॥ एतच्छ्रुत्वा तदा वाली वचनं वानरेरितम्। स महर्षि समासाद्य याचते स्म कृताञ्जलिः॥ महर्षिस्तमनादृत्य प्रविवेशाश्रमं प्रति। शापधारणभीतस्तु वाली विह्वलतां गतः॥ ततः शापभयाद् भीतो ऋष्यमूकं महागिरिम्। प्रवेष्टुं नेच्छति हरिद्रष्टुं वापि नरेश्वर ॥ तस्याप्रवेशं ज्ञात्वाहमिदं राम महावनम्। विचरामि सहामात्यो विषादेन विवर्जितः॥ एषोऽस्थिनिचयस्तस्य दुन्दुभेः सम्प्रकाशते। वीर्योत्सेकानिरस्तस्य गिरिकूटनिभो महान्॥ इमे च विपुलाः सालाः सप्त शाखावलम्बिनः। यत्रैकं घटते वाली निष्पत्रयितुमोजसा ॥ एतदस्यासमं वीर्यं मया राम प्रकाशितम्। कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप॥ तथा ब्रुवाणं सुग्रीवं प्रहसँल्लक्ष्मणोऽब्रवीत्। कस्मिन् कर्मणि निवृत्ते श्रद्दध्या वालिनो वधम्॥ तमुवाचाथ सुग्रीवः सप्त सालानिमान् पुरा। एवमेकैकशो वाली विव्याधाथ स चासकृत्॥ रामो निर्दारयेदेषां बाणेनैकेन च दुमम्। वालिनं निहतं मन्ये दृष्ट्वा रामस्य विक्रमम्॥ हतस्य महिषस्यास्थि पादेनैकेन लक्ष्मण। उद्यम्य प्रक्षिपेच्चापि तरसा द्वे धनुःशते ॥ एवमुक्त्वा तु सुग्रीवो रामं रक्तान्तलोचनः। ध्यात्वा मुहूर्तं काकुत्स्थं पुनरेव वचोऽब्रवीत्॥ शूरश्च शूरमानी च प्रख्यातबलपौरुषः। बलतान् वानरो ट ली संयुगेष्वपराजितः॥ दृश्यन्ते चास्य कर्माणि दुष्कराणि सुरैरपि। यानि संचिन्त्य भीतोऽहमृष्यमूकमुपाश्रितः॥ तमजय्यमधृष्यं च वानरेन्द्रममर्षणम्। विचिन्तयन्नमुं चापि ऋष्यमूकममुं त्वहम्॥ उद्विग्नः शङ्कितश्चाहं विचरामि महावने। अनुरक्तैः सहामात्यैर्हनुमत्प्रमुखैवरैः॥ उपलब्धं च मे श्लाघ्यं सन्मित्रं मित्रवत्सल। त्वामहं पुरुषव्याघ्र हिमवन्तमिवाश्रितः॥ किं तु तस्य बलज्ञोऽहं दुर्धातुर्बलशालिनः। अप्रत्यक्षं तु मे वीर्यं समरे तव राघव। ७९ ।। न खल्वहं त्वां तुलये नावमन्ये न भीषये। कर्मभिस्तस्य भीमैश्च कातर्य जनितं मम॥ कामं राघव ते वाणी प्रमाणं धैर्यमाकृतिः। सूचयन्ति परं तेजो भस्मच्छन्नमिवानलम्॥ तस्य तद् वचनं श्रुत्वा सुग्रीवस्य महात्मनः । स्मितपूर्वमथो रामः प्रत्युवाच हरिं प्रति॥ यदि न प्रत्ययोऽस्मासु विक्रमे तव वानर। प्रत्ययं समरे श्लाघ्यमहमुत्पादयामि ते॥ एवमुक्त्वा तु सुग्रीवं सान्त्वयँल्लक्ष्मणाग्रजः। राघवो दुन्दुभेः कायं पादाङ्गुष्ठेन लीलया।1८४।। तोलयित्वा महाबाहुश्चिक्षेप दशयोजनम्। असुरस्य तनुं शुष्कां पादाङ्गुष्ठेन वीर्यवान्॥ क्षिप्तं दृष्ट्वा ततः कायं सुग्रीवः पुनरब्रवीत्। लक्ष्मणस्याग्रतो रामं तपन्तमिव भास्करम्। हरीणामग्रतो वीरमिदं वचनमर्थवत्॥ आर्द्रः समांसः प्रत्यग्रः क्षिप्तः कायः पुरा सखे। परिश्रान्तेन मत्तेन भ्रात्रा मे वालिना तदा॥ लघुः सम्प्रति निर्मांसस्तृणभूतश्च राघव । क्षिप्त एवं प्रहर्षेण भवता रघुनन्दन॥ नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाधिकम्। आर्दै शुष्कमिति ह्येतत् सुमहद् राघवान्तरम्॥ स एव संशयस्तात तव तस्य च यद्बलम्। सालमेकं विनिर्भिद्य भवेद् व्यक्तिर्बलाबले॥ कृत्वैतत् कार्मुकं सज्यं हस्तिहस्तमिवापरम्। आकर्णपूर्णमायम्य विसृजस्व महाशरम्॥ इमं हि सालं प्रहितस्त्वया शरो न संशयोऽत्रास्ति विदारयिष्यति। अलं विमर्शेन मम प्रियं ध्रुवं कुरुष्व राजन् प्रतिशापितो मया॥ र्यथा हि शैलो हिमवान् महाद्रिषु। स्तथा नराणामसि विक्रमे वरः॥ एतच्च वचनं श्रुत्वा सुग्रीवस्य सुभाषितम्। प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम्॥ स गृहीत्वा धनुर्गोरे शरमेकं च मानदः। सालमुद्दिश्य चिक्षेप पूरयन् स रवैर्दिशः॥ स विसृष्टो बलवता बाणः स्वर्णपरिष्कृतः। भित्वा सालान् गिरिप्रस्थं सप्तभूमिं विवेश ह॥ सायकस्तु मुहूर्तेन सालान् भित्वा महाजवः। निष्पत्य च पुनस्तूर्णं तमेव प्रविवेश ह॥ तान् दृष्ट्वा सप्त निर्भिन्नान् सालान् वानरपुङ्गवः। रामस्य शरवेगेन विस्मयं परमं गतः॥ स मूर्धा न्यपदत् भूमौ प्रलम्बीकृतभूषणः। सुग्रीवः परमप्रीतो राघवाय कृताञ्जलिः॥ इदं चोवाच धर्मज्ञं कर्मणा तेन हर्षितः। रामं सर्वास्त्रविदुषां श्रेष्ठं शूरमवस्थितम्॥ सेन्द्रानपि सुरान् सर्वांस्त्वं बाणैः पुरुषर्षभ। समर्थः समरे हन्तुं किं पुनर्वालिनं प्रभो॥ येन सप्त महाताला गिरिभूमिश्च दारिताः। बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः।।।। अद्य मे विगतः शोकः प्रीतिरद्य परा मम। सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम्॥ तमद्यैव प्रियार्थं मे वैरिणं भ्रातृरूपिणम्। वालिनं जहि काकुत्स्थ मया बद्धोऽमञ्जलिः॥ ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम्। प्रत्युवाच महाप्राज्ञो लक्ष्मणानुगतं वचः॥ अस्माद्गच्छाम किष्किन्धां क्षिप्रं गच्छ त्वमग्रतः। गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम्॥ सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम्। वृक्षरात्मानमावृत्य ह्यतिष्ठन् गहने वने॥ सुग्रीवोऽप्यनदद् घोरं वालिनो ह्वानकारणात्। गाढं परिहितो वेगानादर्भिन्दनिवाम्बरम्॥ तं श्रुत्वा निनदं भ्रातुः क्रुद्धो वाली महाबलः। निष्पपात सुसंरब्धो भास्करोऽस्ततटादिव॥ ततः सुतुमुलं युद्धं वालिसुग्रीवयोरभूत्। गगने ग्रहयो।रं बुधाङ्गारकयोरिव॥ तलैरशनिकल्पैश्च वज्रकल्पैश्च मुष्टिभिः। जघ्नतुः समरेऽन्योन्यं भ्रातरौ क्रोधमूर्च्छितौ॥ ततो रामो धनुष्पाणिस्तावुभौ समुदैक्षत। अन्योन्यसदृशौ वीराबुभौ देवाविवाश्विनौ॥ यन्नावगच्छत् सुग्रीवं वालिनं वापि राघवः। ततो न कृतवान् बुद्धिं मोक्तुमुन्तकरं शरम्॥ एतस्मिन्नन्तरे भग्नः सुग्रीवस्तेन वालिना। अपश्यन् राघवं नाथमृष्यमूकं प्रदुद्रुवे॥ क्लान्तो रुधिरसिक्ताङ्गः प्रहारैर्जर्जरीकृतः। वालिनाभिद्रुतः क्रोधात् प्रविवेश महावनम्॥ तं प्रविष्टं वनं दृष्ट्वा वाली शापभयात् ततः। मुक्तो ह्यसि त्वमित्युक्त्वा स निवृत्तो महाबलः॥ राघवोऽपि सह भ्रात्रा सह चैव हनूमता। तदेव वनमागच्छत् सुग्रीवो यत्र वानरः॥ तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम्। ह्वीमान् दीनमुवाचेदं वसुधामवलोकयन्॥ आह्वयस्वेति मामुक्त्वा दर्शयित्वा च विक्रमम्। वैरिणा घातयित्वा च किमिदानीं त्वया कृतम्॥ तामेव वेलां वक्तव्यं त्वया राघव तत्त्वतः। वालिनं न निहन्मीति ततो नाहमितो व्रजे॥ तस्य चैवं ब्रुवाणस्य सुग्रीवस्य महात्मनः। करुणं दीनया वाचा राघवः पुनरब्रवीत्॥ सुग्रीव श्रूयतां तात क्रोधश्च व्यपनीयताम्। कारणं येन बाणोऽयं स मया न विसर्जितः॥ अलंकारेण वेषेण प्रमाणेन गतेन च। त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम्॥ स्वरेण वर्चसा चैव प्रेक्षितेन च वानर। विक्रमेण च वाक्यैश्च व्यक्तिं वां नोपलक्षये॥ ततोऽहं रूपसादृश्यान्मोहितो वानरोत्तम। नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम्॥ जीवितान्तकरं घोरं सादृश्यात् तु विशङ्कितः। मूलघातो न नौ स्याद्धि द्वयोरिति कृतो मया॥ त्वयि वीर विपन्ने हि अज्ञानाल्लाघवान्मया। मौढ्यं च मम बाल्यं च ख्यापितं स्यात्कपीश्वर ॥ दत्ताभयवधो नाम पातकं महदद्भुतम्। अहं च लक्ष्मणश्चैव सीता च वरवर्णिना॥ त्वदधीना वयं सर्वे वनेऽस्मिशरणं भवान्। तस्माद् युध्यस्व भूयस्त्वं मा माशङ्कीश्च वानर ॥ एतन्मुहूर्ते तु मया पश्य वालिनमाहवे। निरस्तमिषुणैकेन चेष्टमानं महीतले॥ अभिज्ञानं कुरुष्व त्वमात्मनो वानरेश्वर। येन त्वामभिजानीयां द्वन्द्वयुद्धमुपागतम्॥ गजपुष्पीमिमां फुल्लामुत्पाट्य शुभलक्षणाम्। कुरु लक्ष्मण कण्ठेऽस्य सुग्रीवस्य महात्मनः॥। ततो गिरितटे जातामुत्पाट्य कुसुमायुताम्। लक्ष्मणो गजपुष्पी तां तस्य कण्ठे व्यसर्जयत्॥ स तया शुशुभे श्रीमाल्लतया कण्ठसक्तया। मालयेव बलाकानां ससंध्य इव तोयदः॥ विभ्राजमानो वपुषा रामवाक्यसमाहितः। जगाम सह रामेण किष्किन्धां पुनराप सः॥ सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम्। वृक्षैरात्मानमावृत्य व्यतिष्ठन् गहने वने॥ विसार्य सर्वतो दृष्टिं कानने काननप्रियः। सुग्रीवो विपुलग्रीवः क्रोधमाहारयद् भृशम्॥ ततस्तु निनदं गोरं कृत्वा युद्धाय चाह्वयत्। परिवारैः परिवृत्तो नादर्भिन्दनिवाम्बरम्॥ गर्जनिव महामेघो वायुवेगपुर:सरः। अथ बालार्कसदृशो दृप्तसिंहगतिस्ततः॥ दृष्ट्वा रामं क्रियादक्षं सुग्रीवो वाक्यमब्रवीत्। हरिवागुरया व्याप्तां तप्तकाञ्चनतोरणाम्॥ प्राप्ताः स्म ध्वजयन्त्राढ्यां किष्किन्धां वालिनः पुरीम्। प्रतिज्ञा या कृता वीर त्वया वालिवधे पुरा ॥ सबलां कुरु तां क्षिप्रं लतां काल इवागतः। एवमुक्तस्तु धर्मात्मा सुग्रीवेण स राघवः॥ तमेवोवाच वचनं सुग्रीवं शत्रुसूदनः। कृताभिज्ञानचिह्नस्त्वमनया गजसाह्वया॥ लक्ष्मणेन समुत्पाट्य एषा कण्ठे कृता तव। शोभसेऽप्यधिकं वीर लतया कण्ठसक्तया।९।। विपरीत इवाकाशे सूर्यो नक्षत्रमालया। अद्य वालिसमुत्थं ते भयं वैरं च वानर ॥ एकेनाहं प्रमोक्ष्यामि बाणमोक्षेण संयुगे। मम दर्शय सुग्रीव वैरिणं भ्रातृरूपिणम्॥ वाली विनिहतो यावद्वने पांसुषु चेष्टते। यदि दृष्टिपथं प्राप्तो जीवन् स विनिवर्तते।।१२ ततो दोषेण मा गच्छेत् सद्यो गर्हेच्च मां भवान्। प्रत्यक्षं सप्त ते ताला मया बाणेन दारिताः॥ तेनावेहि बलेनाद्य वालिनं निहतं रणे। अनृतं नोक्तपूर्वं मे चिरं कृच्छ्रेऽपि तिष्ठता॥ धर्मलोभपरीतेन न च वक्ष्ये कथंचन। सफलां च करिष्यामि प्रतिज्ञां जहि सम्भ्रमम्॥ प्रसूतं कलमक्षेत्रं वर्षेणेव शतक्रतुः। तदाह्वाननिमित्तं च वालिनो हेममालिनः॥ सुग्रीव कुरु तं शब्दं निष्पतेद् येन वानरः। जितकाशी जयश्लाघी त्वया चाधर्षितः पुरात्॥ निष्पतिष्यत्यसङ्गेन वाली स प्रियसंयुगः। रिपूणां धर्षितं श्रुत्वा मर्षयन्ति न संयुगे॥ जानन्तस्तु स्वकं वीर्यं स्त्रीसमक्षं विशेषतः। स तु रामवचः श्रुत्वा सुग्रीवो हेमपिङ्गलः॥ ननर्द क्रूरनादेन विनिर्भिन्दनिवाम्बरम्। तत्र शब्देन विवस्ता गावो यान्ति हतप्रभाः॥ राजदोषपरामृष्टाः कुलस्त्रिय इवाकुलाः। द्रवन्ति च मृगाः शीघ्रं भग्ना इव रणे हयाः। पतन्ति च खगा भूमौ क्षीणपुण्या इव ग्रहाः॥ ततः स जीमूतकृतप्रणादो नादं ह्यमुञ्चत् त्वरया प्रतीतः। सूर्यात्मजः शौर्यविवृद्धतेजाः सरित्पतिर्वानिलचञ्चलोमिः॥ अथ तस्य निनादं तं सुग्रीवस्य महात्मनः। शुश्रावान्तःपुरगतो वाली भ्रातुरमर्षणः॥ श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम्। मदश्चैकपदे नष्टः क्रोधश्चापादितो महान्॥ ततो रोषपरीताङ्गो वाली स कनकप्रभः। उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः॥ वाली दंष्ट्राकरालस्तु क्रोधाद् दीप्ताग्निलोचनः। भात्युत्पतितपद्माभः समृणाल इव हृदः॥ शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः। वेगेन च पदन्यासैरियन्निव मेदिनीम्॥ तं तु तारा परिष्वज्य स्नेहाद् दर्शितसौहृदा। उवाच त्रस्तसम्भ्रान्ता हितोदर्कमिदं वचः॥ साधु क्रोधमिमं वीर नदीवेगमिवागतम्। शयनादुत्थितः काल्यं त्यज मुक्तामिव स्रजम्॥ काल्यमेतेन संग्रामं करिष्यसि च वानर। वीर ते शत्रुबाहुल्यं फल्गुता वा न विद्यते॥ सहसा तव निष्कामो मम तावन्न रोचते। श्रूयतामभिधास्यामि यनिमित्तं निवार्यते॥ पूर्वमापतितः क्रोधात् स त्वामाह्वयते युधि। निष्पत्य च निरस्तस्ते हन्यमानो दिशो गतः॥ त्वया तस्य निरस्तस्य पीडितस्य विशेषतः। इहैत्य पुनराह्वानं शङ्कां जनयतीव मे॥ दर्पश्च व्यवसायश्च यादृशस्तस्य नर्दतः। निनादस्य च संरम्भो नैतदल्पं हि कारणम्॥ नासहायमहं मन्ये सुग्रीवं तमिहागतम्। अवष्टब्धसहायश्च यमाश्रित्यैष गर्जति॥ प्रकृत्या निपुणश्चैव बुद्धिमांश्चैव वानरः। नापरीक्षितवीर्येण सुग्रीवः सख्यमेष्यति॥ पूर्वमेव मया वीर श्रुतं कथयतो वचः। अङ्गदस्य कुमारस्य वक्ष्याम्यद्य हितं वचः॥ अङ्गदस्तु कुमारोऽयं वनान्तमुपनिर्गतः। प्रवृत्तिस्तेन कथिता चारैरासीनिवेदिता॥ अयोध्याधिपतेः पुत्रौ शूरौ समरदुर्जयौ। इक्ष्वाकूणां कुले जातौ प्रथितौ रामलक्ष्मणौ॥ सुग्रीवप्रियकामार्थं प्राप्तौ तत्र दुरासदौ। स ते भ्रातुर्हि विख्यातः सहायो रणकर्मणि ॥ रामः परबलामर्दी युगान्ताग्निरिवोत्थितः। निवासवृक्षः साधूनामापनानां परा गतिः॥ आर्तानां संश्रयश्चैव यशसश्चैकभाजनम्। ज्ञानविज्ञानसम्पन्नो निदेशे निरतः पितुः॥ धातूनामिव शैलेन्द्रो गुणानामाकारो महान्। तत् क्षमो न विरोधस्ते सह तेन महात्मना ॥ दुर्जयेनाप्रमेयेण रामेण रणकर्मसु। शूर वक्ष्यामि ते किंचिन चेच्छाम्यभ्यसूयितुम्॥ श्रूयतां क्रियतां चैव तव वक्ष्यामि यद्धितम्। यौवराज्येन सुग्रीवं तूर्णं साध्वभिषेचय॥ विग्रहं मा कृथा वीर भ्रात्रा राजन् यवीयसा। अहं हि ते क्षमं मन्ये तेन रामेण सौहृदम्॥ सुग्रीवेण च सम्प्रीतिं वैरमुत्सृज्य दूरतः। लालनीयो हि ते भ्राता यवीयानेष वानरः॥ तत्र वा सन्निहस्थो वा सर्वथा बन्धुरेव ते। नहि तेन समं बन्धुं भुवि पश्यामि कंचन ॥ दानमानादिसत्कारैः कुरुष्व प्रत्यनन्तरम्। वैरमेतत् समुत्सृज्य तव पार्श्वे स तिष्ठतु॥ सुग्रीवो विपुलग्रीवो महाबन्धुर्मतस्तव। भ्रातृसौहृदमालम्ब्य नान्या गतिरिहास्ति ते॥ यदि ते मत्प्रियं कार्यं यदि चावैषि मां हि ताम्। याच्यमानः प्रियत्वेन साधु वाक्यं कुरुष्व मे॥ प्रसीद पथ्यं शृणु जल्पितं हि मे न रोषमेवानुवधातुमर्हसि। क्षमो हि ते कोशलराजसूनुना न विग्रहः शक्रसमानतेजसा॥ तदा हि तारा हितमेव वाक्यं तं बालिनं पथ्यमिदं बभाषे। न रोचते तद् वचनं हि तस्य कालाभिपन्नस्य विनाशकाले॥ ततः शरोणाभिहतो रामेण रणकर्कशः। पपात सहसा वाली निकृत्त इव पादपः॥ स भूमौ न्यस्तसर्वाङ्गस्तप्तकाञ्चनभूषणः। अपतद् देवराजस्य मुक्तरश्मिरिव ध्वजः॥ अस्मिन् निपतिते भूमौ हपृक्षाणां गणेश्वरे। नष्टचन्द्रमिव व्योम न व्यराजत मेदिनी॥ भूमौ निपतितस्यापि तस्य देहं महात्मनः। न श्रीर्जहाति न प्राणा न तेजो न पराक्रमः॥ शक्रदत्ता वरा माला काञ्चनी रत्नभूषिता। दधार हरिमुख्यस्य प्राणास्तेजः श्रियं च सा॥ स तया मालया वीरो हैमया हरियूथपः। संध्यानुगतपर्यन्तः पयोधर इवाभवत्॥ तस्य माला च देहश्च मर्मघाती च यः शरः। त्रिधेव रचिता लक्ष्मीः पतितस्यापि शोभते॥ तदस्त्रं तस्य वीरस्य स्वर्गमार्गप्रभावनम्। रामबाणासनक्षिप्तमावहत् परमां गतिम्॥ तं तथा पतितं संख्ये गतार्चिषमिवानलम्। ययातिमिव पुण्यान्ते देवलोकादिह च्युतम्॥ आदित्यमिव कालेन युगान्ते भुवि पातितम्। महेन्द्रमिव दुर्धर्षमुपेन्द्रमिव दुःसहम्॥ महेन्द्रपुत्रं पतितं वालिनं हेममालिनम्। व्यूढोरस्कं महाबाहुं दीप्तास्यं हरिलोचनम् ॥ लक्ष्मणानुचरो रामो ददर्शोपससर्प च। तं तथा पतितं वीरं गतार्चिषमिवानलम्॥ बहुमान्य च तं वीरं वीक्षमाणं शनैरिव। उपयातौ महावीयौं भ्रातरौ रामलक्ष्मणौ॥ तं दृष्ट्वा राघवं वाली लक्ष्मणं च महाबलम्। अब्रवीत् परुषं वाक्यं प्रश्रितं धर्मसंहितम्॥ स भूमावल्पतेजोऽसुर्निहतो नष्टचेतनः। अर्थसंहितया वाचा गर्वितं रणगर्वितम्॥ पराङ्मुखवधं कृत्वा कोऽत्र प्राप्तस्त्वया गुणः। यदहं युद्धसंरब्धस्त्वत्कृते निधनं गतः॥ कुलीनः सत्त्वसम्पन्नस्तेजस्वी चरितव्रतः। रामः करुणवेदी च प्रजानां च हिते रतः॥ सानुक्रोशो महोत्साहः समयज्ञो दृढव्रतः। इत्येतत् सर्वभूतानि कथयन्ति यशो भुवि ॥ दमः शमः क्षमा धर्मो धृतिः सत्यं पराक्रमः। पार्थिवाणां गुणा राजन् दण्डश्चाप्यपकारिषु॥ तान् गुणान् सम्प्रधाहमग्र्यं चाभिजनं तव। तारया प्रतिषिद्धः सन् सुग्रीवेण समागतः॥ न मामन्येन संरब्धं प्रमत्तं वेद्भुमर्हसि। इति मे बुद्धिरुत्पन्ना बभूवार्दशने तव॥ स त्वां विनिहतात्मानं धर्मध्वजमधार्मिकम्। जाने पापसमाचारं तृणैः कूपमिवावृतम्॥ सतां वेषधरं पापं प्रच्छन्नमिव पावकम्। नाहं त्वामभिजानामि धर्मच्छद्माभिसंवृतम्॥ विषये वा पुरे वा ते यदा पापं करोम्यहम्। न च त्वामवजानेऽहं कस्मात्त्वं हंस्यकिल्विषम्॥ फलमूलाशनं नित्यं वानरं वनगोचरम्। मामिहाप्रतियुध्यन्तमन्येन च समागतम्॥ त्वं नराधिपतेः पुत्रः प्रतीतः प्रियदर्शनः। लिङ्गमप्यस्ति ते राजन् दृश्यते धर्मसंहितम्॥ कः क्षत्रियकुले जातः श्रुतवान् नष्टसंशयः। धर्मलिङ्गप्रतिच्छन्नः क्रूरं कर्म समाचरेत् ॥ त्वं राघवकुले जातो धर्मवानिति विश्रुतः। अभव्यो भव्यरूपेण किमर्थं परिधावसे ॥ साम दानं क्षमा धर्मः सत्यं धृतिपराक्रमौ। पार्थिवानां गुणा राजन् दण्डश्चाप्यपकारिषु ।।२९ । । वयं वनचरा राम मृगा मूलफलाशिनः। एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वर ॥ भूमिर्हिरण्यं रूपं च निग्रहे कारणानि च । तत्र कस्ते वने लोभो मदीयेषु फलेषु वा ॥ नयश्च विनयश्चोभौ निग्रहानुग्रहावपि। राजवृत्तिरसंकीर्णा न नृपाः कामवृत्तयः॥ त्वं तु कामप्रधानश्च कोपनश्चानवस्थितः। राजवृत्तेषु संकीर्णः शरासनपरायणः॥ न तेऽस्त्यपचितिधर्मे नार्थे बुद्धिरवस्थिता। इन्द्रियैः कामवृत्तः सन् कृष्यसे मनुजेश्वर ॥ हत्वा बाणेन काकुत्स्थ मामिहानपराधिनम्। किं वक्ष्यसि सतां मद्ये कर्म कृत्वा जुगुप्सितम्॥ राजहा ब्रह्महा गोघ्नश्चोरः प्राणिवधे रतः। नास्तिकः परिवेत्ता च सर्वे निरयगामिनः॥ सूचकश्च कदर्यश्च मित्रघ्नो गुरुतल्पगः। लोकं पापात्मनामेते गच्छन्ते नात्र संशयः॥ अधार्यं चर्म मे सद्भी रोमाण्यस्ति च वर्जितम्। अभक्ष्याणि च मांसानि त्वद्विधैर्धर्मचारिभिः॥ पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव। शल्यकः श्वाविधो गोधा शशः कूर्मश्च पञ्चमः॥ चर्म चास्थि च मे राम न स्पृश्यन्ति मनीषिणः। अभक्ष्याणि च मांसानि सोऽहं पञ्चनखो हतः॥ तारया वाक्यमुक्तोऽहं सत्यं सर्वज्ञया हितम्। तदतिक्रम्य मोहेन कालस्य वशमागतः॥ त्वया नाथेन काकुत्स्थ न सनाथा वसुंधरा। प्रमदा शीलसम्पूर्णा पत्येव च विधर्मणा ।॥ शठो नैकृतिकः क्षुद्रो मिथ्याप्रश्रितमानसः। कथं दशरथेन त्वं जातः पापो महात्मना ॥ छिन्नचारित्र्यकक्ष्येण सतां धर्मातिवर्तिना। त्यक्तधर्माङ्कुशेनाहं निहतो रामहस्तिना॥ अशुभं चाप्ययुक्तं च सतां चैव विगर्हितम्। वक्ष्यसे चेदृशं कृत्वा सद्भिः सह समागतः॥ उदासीनेषु योऽस्मासु विक्रमोऽयं प्रकाशितः। अपकारिषु ते राम नैवं पश्यामि विक्रमम्॥ दृश्यमानस्तु युध्येथा मया युधि नृपात्मज। अद्य वैवस्वतं देवं पश्येस्त्वं निहतो मया॥ त्वयादृश्येन तु रणे निहतोऽहं दुरासदः। प्रसुप्तः पन्नगेनेव नरः पापवशं गतः॥ सुग्रीवप्रियकामेन यदहं निहतस्त्वया। मामेव यदि पूर्वं त्वमेतदर्थमचोदयः। मैथिलीमहमेकाह्वा तव चानीतवान्भवः ॥ राक्षसं च दुरात्मानं तव भार्यापहारिणम्। कण्ठे बद्ध्वा प्रदद्यां तेऽनिहतं रावणं रणे।।५० न्यस्ता सागरतोये वा पाताले वापि मैथिलीम्। आनयेयं तवादेशाच्छेतामश्वतरीमिव॥ युक्तं यत्प्राप्नुयाद् राज्यं सुग्रीवः स्वर्गते मयि। अयुक्तं यदधर्मेण त्वयाऽहं निहतो रणे॥ काममेवंविधो लोकः कालेन विनियुज्यते। क्षमं चेद्भवता प्राप्तमुत्तरं साधु चिन्त्यताम्॥ इत्येवमुक्त्वा परिशुष्कवक्त्रः शराभिघाताद् व्यथितो महात्मा। समीक्ष्य रामं रविसंनिकाशं तूष्णीं बभौ वानरराजसूनुः॥ इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम्। परुषं वालिना रामो निहतेन विचेतसा॥ तं निष्प्रभमिवादित्यं मुक्ततोयमिवाम्बुदम्। उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम्॥ धर्मार्थगुणसम्पन्नं हरीश्वरमनुत्तमम् । अधिक्षिप्तस्तदा रामः पश्चाद् वालिनमब्रवीत्॥ धर्ममर्थं च कामं च समयं चापि लौकिकम्। अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे॥ अपृष्ट्वा बुद्धिसम्पन्नान् वृद्धानाचार्यसम्मतान्। सौम्य वानरचापल्यात् त्वं मां वक्तुमिहेच्छसि ॥ इक्ष्वाकूणामियं भूमिः सशैलबनकानना। मृगपक्षिमनुष्याणां निग्रहानुग्रहेष्वपि॥ तां पालयति धर्मात्मा भरतः सत्यवानृजुः। धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः॥ नयश्च विनयश्चोभौ यस्मिन् सत्यं च सुस्थितम्। विक्रमश्च यथा दृष्टः स राजा देशकालवित्॥ तस्य धर्मकृतादेशा वयमन्ये च पार्थिवाः। चरामो वसुधां कृत्स्नां धर्मसंतानमिच्छवः॥ तस्मिन् नृपतिशार्दूले भरते धर्मवत्सले। पालयत्यखिलां पृथ्वी कश्चरेद् धर्मविप्रियम्॥ ते वयं मार्गविभ्रष्ट स्वधर्मे परमे स्थिताः। भरताज्ञा पुरस्कृत्य चिन्तयामो यथाविधि ॥ त्वं तु संक्लिष्टधर्मश्च कर्मणा च विगर्हितः। कामतन्त्रप्रधानश्च न स्थितो राजवर्त्मनि॥ ज्येष्ठो भ्राता पिता वापि यश्च विद्यां प्रयच्छति। त्यस्ते पितरो ज्ञेया धर्मे च पथि वर्तिनः॥ यवीयानात्मनः पुत्रः शिष्यश्चापि गुणोदितः। पुत्रवत्ते त्रयश्चिन्त्या धर्मश्चैवात्र कारणम्॥ सूक्ष्मः परमविज्ञेयः सतां धर्मः प्लवङ्गम। हृदिस्थः सर्वभूतानामात्मा वेद शुभाशुभम्॥ चपलश्चपलैः सार्धं वानरैरकृतात्मभिः। जात्यन्ध इव जात्यन्धैर्मन्त्रयन् प्रेक्षसे नु किम्॥ अहं तु व्यक्ततामस्य वचनस्य ब्रवीमि ते। नहि मां केवलं रोषात् त्वं विगर्हितुमर्हसि ॥ तदेतत् कारणं पश्य यदर्थं त्वं मया हतः। भ्रातुर्वर्तसि भार्यायां त्यक्त्वा धर्म सनातनम्॥ अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः। रुमायां वर्तसे कामात् स्नुषायां पापकर्मकृत्॥ तद् व्यतीतस्य ते धर्मात् कामवृत्तस्य वानर। भ्रातृभाभिमर्शेऽस्मिन् दण्डोऽयं प्रतिपादितः॥ नहि लोकविरुद्धस्य लोकवृत्तादपेयुषः। दण्डादन्यत्र पश्यामि निग्रहं हरियूथप॥ न च ते मर्षये पापं क्षत्रियोऽहं कुलोद्गतः। औरसीं भगिनीं वापि भार्या वाप्यनुजस्य यः॥ प्रचरेत नरः कामात्तस्य दण्डो वधः स्मृतः। भरतस्तु महीपालो वयं त्वादेशवर्तिनः॥ त्वं च धर्मादतिक्रान्तः कथं शक्यमुपेक्षितुम्। गुरुधर्मव्यतिक्रान्तं प्राज्ञो धर्मेण पालयन्।॥ भरतः कामयुक्तानां निग्रहे पर्यवस्थितः। वयं तु भरतादेशावधिं कृत्वा हरीश्वर। त्वद्विधान् भिन्नमर्यादान् निग्रहीतुं व्यवस्थिताः॥ सुग्रीवेण च मे सख्यं लक्ष्मणेन यथा तथा। दारराज्यनिमित्तं च निःश्रेयसकरः स मे॥ प्रतिज्ञा च मया दत्ता तदा वानरसंनिधौ। प्रतिज्ञा च कथं शक्या मद्विधेनानवेक्षितुम् ॥ तदेभिः कारणैः सर्वैर्महद्भिर्धर्मसंश्रितैः । शासनं तव यद् युक्तं तद् भवाननुमन्यताम्॥ सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहः। वयस्थस्योपकर्तव्यं धर्ममेवानुपश्यता ॥ शक्यं त्वयापि तत्कार्यं धर्ममेवानुवर्तता। श्रूयते मनुना गीतौ श्लोकौ चारित्रवत्सलौ। गृहीतौ धर्मकुशलैस्तथा तच्चरितं मया॥ राजभिभृतदण्डाश्च कृत्वा पापानि मानवाः। निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा॥ शासनाद् वापि मोक्षाद् वा स्तेनः पापात् प्रमुच्यते। राजा त्वशासन् पापस्य तदवाप्नोति किल्विषम्॥ आर्येण मम मान्धात्रा व्यसनं घोरमीप्सितम्। श्रमणेन कृते पापे यथा पापं कृतं त्वया॥ अन्यैरपि कृतं पापं प्रमत्तैर्वसुधाधिपैः। प्रायश्चित्तं च कुर्वन्ति तेन तच्छाम्यते रजः॥ तदलं परितापेन धर्मतः परिकल्पितः। वधो वानरशार्दूल न वयं स्ववशे स्थिताः॥ श्रृणु चाप्यपरं भूयः कारणं हरिपुंगव। तच्छ्रुत्वा हि महद् वीर न मन्यु कर्तुमर्हसि ॥ न मे तत्र मनस्तापो न मन्युहरिपुंगव। बागुराभिश्च पाशैश्च कुटैश्च विविधैर्नराः॥ प्रतिच्छन्नाश्च दृश्याश्च गृह्णन्ति सुवहन मृगान्। प्रधावितान् वा वित्रस्तान् विस्त्रब्दानतिविष्टितान्॥ प्रमत्तानप्रमत्तान् वा नरा मांसाशिनो भृशम्। विध्यन्ति विमुखांश्चापि न च दोषोऽत्र विद्यते॥ यान्ति राजर्षयश्चात्र मृगयां धर्मकोविदाः। तस्मात् त्वं निहतो युद्धे मया वाणेन वानर । अयुध्यन् प्रतियुध्यन् वा यस्माच्छाखामृगोह्यसि॥ दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च। राजानो वानरश्रेष्ठ प्रदातारो न संशयः॥ तान् न हिंस्यान चाक्रोशेनाक्षिपेनाप्रियं वदेत्। देवा मानुषरूपेण चरन्त्येते महीतले।॥ त्वं तु धर्ममविज्ञाय केवलं रोषमास्थितः। विदूषयसि मां धर्मे पितृपैतामहे स्थितम्॥ एवमुक्तस्तु रामेण वाली प्रव्यथितो भृशम्। न दोषं राघवे दध्यौ धर्मेऽधिगतनिश्चयः॥ प्रत्युवाच ततो रामं प्राञ्जलिर्वानरेश्वरः। यत् त्वमात्थ नरश्रेष्ठ तत् तथैव न संशयः॥ प्रतिवक्तुं प्रकृष्टे हि नापकृष्टस्तु शक्नुयात्। यदयुक्तं मया पूर्वं प्रमादाद् वाक्यमप्रियम् ॥ तत्रापि खलु मां दोषं कर्तुं नार्हसि राघव। त्वं हि दृष्टार्थतत्वज्ञः प्रजानां च हिते रतः। कार्यकारणसिद्धौ च प्रसन्ना बुद्धिरव्यया॥ मामप्यवगतं धर्माद् व्यतिक्रान्तपुरस्कृतम्। धर्मसंहितया वाचा धर्मज्ञ परिपालय॥ वाष्पसंरुद्धकण्ठस्तु वाली सार्तरवः शनैः। उवाच रामं सम्प्रेक्ष्य पङ्कलग्न इव द्विपः॥ न चात्मानमहं शोचे न तारां नापि बान्धवान्। यथा पुत्रं गुणज्येष्ठमङ्गदं कनकाङ्गदम्॥ स ममादर्शनाद् दीनो बाल्यात् प्रभृति लालितः। तटाक इव पीताम्बुरुपशोषं गमिष्यति ॥ बालश्चाकृतबुद्धिश्च एकपुत्रश्च मे प्रियः। तारेयो राम भवता रक्षणीयो महाबलः॥ सुग्रीवे चाङ्गदे चैव विधत्स्व मतिमुत्तमाम्। त्वं हि गोप्ता च शास्ता च कार्याकार्यविधौ स्थितः।।। या ते नरपते वृत्तिभरते लक्ष्मणे च या। सुग्रीवे चाङ्गदे राजस्तां चिन्तयितुमर्हसि ॥ मद्दोषकृतदोषां तां यथा तारां तपस्विनीम्। सुग्रीवो नावमन्येत तथावस्थातुमर्हसि॥ त्वया हनुगृहीतेन शक्यं राज्यमुपासितुम्। त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना ५६।। शक्यं दिवं चार्जयितुं वसुधां चापि शासितुम्। त्वत्तोऽहं वधमाकासन् वार्यमाणोऽपि तारया॥ सुग्रीवेण सह भ्रात्रा द्वन्द्वयुद्धमुपागतः। इत्युक्त्वा वानरो रामं विरराम हरीश्वरः॥ न तमाश्वासयद् रामो वालिनं व्यक्तदर्शनम्। साधुसम्मतया वाचा धर्मतत्त्वार्थयुक्तया ॥ न वयं भवता चिन्त्या नाप्यात्मा हरिसत्तम। वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः॥ दण्ड्ये यः पातयेद् दण्डं दण्ड्यो यश्चापि दण्ड्यते। कार्यकारणसिद्धार्थावुभौ तौ नावसीदतः॥ तद् भवान् दण्डसंयोगादस्माद् विगतकल्मषः। गतः स्वां प्रकृतिं धम्यां दण्डदिष्टेन वर्त्मना॥ त्यज शोकं च मोहं च भयं च हृदये स्थितम्। त्वया विधानं हर्यग्र्य न शक्यमतिवर्तितुम्॥ यथा त्वय्यङ्गदो नित्यं वर्तते वानरेश्वरः। तथा वर्तेत सुग्रीवे मयि चापि न संशयः॥ स तस्य वाक्यं मधुरं महात्मनः। समाहितं धर्मपथानुवर्तितम्। निशम्य रामस्य रणावमर्दिनो वचः सुयुक्तं निजगाद वानरः॥ शराभितप्तेन विचेतसा मया प्रभाषितस्त्वं यदजानता विभो। इदं महेन्द्रपमभीमविक्रम प्रसादितस्त्वं क्षम मे हरीश्वर॥ स वानरमहाराजः शयानः शरपीडितः। प्रत्युक्तो हेतुमद्वाक्यैर्नोत्तरं प्रतिपद्यत ॥ अश्मभिः परिभिन्नाङ्गः पादपैराहतो भृशम्। रामबाणेन चाक्रान्तो जीवितान्ते मुमोह सः॥ तं भार्या बाणमोक्षेण रामदत्तेन संयुगे। हतं प्लवगशार्दूलं तारा शुश्राव वालिनम्॥ सा सपुत्रापियं श्रुत्वा वधं भर्तुः सुदारुणम्। निष्पपात भृशं तस्मादुद्विग्ना गिरिकन्दरात्॥ ये त्वङ्गदपरीवारा वानरा हि महाबलाः। ते सकार्मुकमालोक्य रामं त्रस्ताः प्रदुद्रुवुः॥ सा ददर्श ततस्त्रस्तान् हरीनापततो द्रुतम्। यूथादिव परिभ्रष्टान् मृगान् निहतयूथपान्॥ तानुवाच समासाद्य दुःखितान् दुःखिता सती। रामवित्रासितान् सर्वाननुबद्धानिवेषुभिः॥ वानरा राजसिंहस्य यस्य यूयं पुरःसराः। तं विहाय सुवित्रस्ताः कस्माद् द्रवत दुर्गताः॥ राज्यहेतोः स चेद् भ्राता भ्रात्राक्रूरेण पातितः। रामेण प्रसृतैर्दूरान्मार्गणैर्दूरपातिभिः॥ कपिपत्न्या वचः श्रुत्वा कपयः कामरूपिणः। प्राप्तकालमविश्लिष्टमूचुर्वचनमङ्गनाम्॥ जीवपुत्रे निवर्तस्व पुत्र रक्षस्व चाङ्गदम्। अन्तको रामरूपेण हत्वा नयति वालिनम्॥ क्षिप्रान् वृक्षान् समाविध्य विपुलाश्च तथा शिला:। वाली वज्रसमैर्बाणैर्वज्रेणेव निपातितः॥ अभिभूतमिदं सर्वं विद्रुतं वानरं बलम्। अस्मिन् प्लवगशार्दूले हते शक्रसमप्रभे॥ रक्ष्यतां नगरी शूरैरङ्गदश्चाभिषिच्यताम्। पदस्थं वालिनः पुत्रं भजिष्यन्ति प्लवङ्गमाः॥ अथवा रुचितं स्थानमिह ते रुचिरानने। आविशन्ति च दुर्गाणि क्षिप्रमद्यैव वानराः॥ अभार्याः सहभार्याश्च सन्त्यत्र वनचारिणः। लुब्धेभ्यो विप्रलब्धेभ्यस्तेभ्यो नः सुमहद्भयम्॥ अल्पान्तरगतानां तु श्रुत्वा वचनमङ्गना। आत्मनः प्रतिरूपं सा बभाषे चारुहासिनी॥ पुत्रेण मम किं कार्य राज्येनापि किमात्मना। कपिसिंहे महाभागे तस्मिन् भर्तरि नश्यति ॥ पादमूलं गमिष्यामि तस्यैवाहं महात्मनः। योऽसौ रामप्रयुक्तेन शरेण विनिपातितः॥ एवमुक्त्वा प्रदुद्राव रुदती शोकमूर्छिता। शिरश्चोरश्च बाहुभ्यां दुःखेन समभिघ्नती॥ सा व्रजन्ती ददर्शाथ पतिं निपतितं भुवि। हन्तारं दानवेन्द्राणां समरेष्वनिवर्तिनाम् ॥ क्षेप्तारं पर्वतेन्द्राणां वज्राणामिव वासवम्। महावातसमाविष्टं महामेघौघनि:स्वनम् ॥ शक्रतुल्यपराक्रान्तं वृष्ट्वेवोपरतं धनम्। नर्दन्तं नर्दतां भीमं शूरं शूरेण पातितम्। शार्दूलेनामिषस्यार्थे मृगराजमिवाहतम्॥ अर्चितं सर्वलोकस्य सपताकं सवेदिकम्। नागहेतोः सुपर्णेन चैत्यमुन्मथितं यथा ॥ अवष्टभ्यावतिष्ठन्तं ददर्श धनुरूर्जितम्। रामं रामानुजं चैव भर्तुश्चैव तथानुजम्॥ तानतीत्य समासाद्य भर्तारं निहतं रणे। समीक्ष्य व्यथिता भूमौ सम्भ्रान्ता निपपात ह॥ सुप्तेव पुनरुत्थाय आर्यपुत्रेति वादिनी। रुरोद सा पतिं दृष्ट्वा संवीतं मृत्युदामभिः॥ तामवेक्ष्य तु सुग्रीवः क्रोशन्ती कुररीमिव । विषादमगमत् कष्टं दृष्ट्वा चाङ्गदमागतम्॥ रामचापविसृष्टेन शरेणान्तकरेण तम्। दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना॥ सा समासाद्य भर्तारं पर्यष्वजत भामिनी। इषुणाभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम्॥ वानरं पर्वतेन्द्राभं शोकसंतप्तमानसा। तारा तरुमिवोन्मूलं पर्यदेवयतातुरा॥ रणे दारुणविक्रान्त प्रवीर प्लवतां वर। किमिदानों पुरोभागामद्य त्वं नाभिभाषसे॥ उत्तिष्ठ हरिशार्दूल भजस्व शयनोत्तमम्। नैवंविधाः शेरते हि भूमौ नृपतिसत्तमाः॥ अतीव खलु ते कान्ता वसुधा वसुधाधिप। गतासुरपि तां गात्रैर्मा विहाय निषेवसे॥ व्यक्तमद्य त्वया वीर धर्मतः सम्प्रवर्तता। किष्किन्धेव पुरी रम्या स्वर्गमार्गे विनिर्मिता ॥ यान्यस्माभिस्त्वया सार्धं वनेषु मधुगन्धिषु। विहतानि त्वया काले तेषामुपरमः कृतः॥ निरानन्दा निराशाहं निमग्ना शोकसागरे। त्वयि पञ्चत्वमापन्ने महायूथपयूथपे॥ हृदयं सुस्थितं मह्यं दृष्ट्वा निपतितं भुवि। यन्न शोकाभिसंतप्तं स्फुटतेऽद्य सहस्रधा ॥ सुग्रीवस्य त्वया भार्या हृता स च विवासितः। यत् तत् तस्य त्वया व्युष्टिः प्राप्तेयं प्लवगाधिप।।११। निःश्रेयसपरा मोहात् त्वया चाहं विगर्हिता। यैषाऽब्रुवं हितं वाक्यं वानरेन्द्र हितैषिणी॥ रूपयौवनदृप्तानां दक्षिणानां च मानद। नूनमप्सरसामार्य चित्तानि प्रमथिष्यसि ॥ कालो नि:संशयो नूनं जीवितान्तकरस्तव। बलाद् येनावपन्नोऽसि सुग्रीवस्यावशो वशम्॥ अस्थाने वालिनं हत्वा युध्यमानं परेण च। स संतप्यति काकुत्स्थः कृत्वा कर्म सुगर्हितम्।।१५। वैधव्यं शोकसंतापं कृपणाकृपणा सती। अदुःखोपचिता पूर्वं वर्तयिष्याम्यनाथवत्॥ लालितश्चाङ्गदो वीरः सुकुमारः सुखोचितः। वत्स्यते कामवस्था मे पितृव्ये क्रोधमूर्छिते॥ कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम्। दुर्लभं दर्शनं तस्य तव वत्स भविष्यति॥ समाश्वासय पुवं त्वं संदेश संदिशस्व मे। मूर्ध्नि चैनं समाघ्राय प्रवासं प्रस्थितो ह्यसि ॥ रामेण हि महत् कर्म कृतं त्वामभिनिघ्नता। आनृण्यं तु गतं तस्य सुग्रीवस्य प्रतिश्रवे॥ सकामो भव सुग्रीव रुमां त्वं प्रतिपत्स्यसे। भुझ्व राज्यमनुद्विग्नः शस्तो भ्राता रिपुस्तव॥ किं मामेवं प्रलपती प्रियां त्वं नाभिभाषसे। इमाः पश्य वरा बढ्यो भार्यास्ते वानरेश्वर ॥ तस्या विलपितं श्रुत्वा वानर्याः सर्वतश्च ताः। परिगृह्याङ्गदं दीना दुःखार्ताः प्रतिचुक्रुशुः॥ किमङ्गदं साङ्गदवीरबाहो विहाय यातोऽसि चिरं प्रवासम्। न युक्तमेवं गुणसंनिकृष्टं विहाय पुत्रं प्रियचारुवेषम्॥ यद्यप्रियं किंचिदसम्प्रधार्य कृतं मया स्यात् तव दीर्घबाहो। क्षमस्व मे तद्धरिवंशनाथ व्रजामि मूर्धा तव वीर पादौ ॥ तथा तु तारा करुणं रुदन्ती भर्तुः समीपे सह वानरीभिः। व्यवस्यत प्रायमनिन्द्यवर्णा उपोपवेष्टं भुवि यत्र वाली॥ ततो निपतिता तारां च्युतां तारामिवाम्बरात्। शनैराश्वासयामास हनुमान् हरियूथपः॥ गुणदोषकृतं जन्तुः स्वकर्मफलहेतुकम्। अव्यग्रस्तदवाप्नोति सर्वं प्रेत्य शुभाशुभम्॥ शोच्या शोचसि कं शोच्यं दीनं दीनानुकम्पसे। कश्च कस्यानुशोच्योऽस्ति देहेऽस्मिन् बुदबुदोपमे॥ अङ्गदस्तु कुमारोऽयं द्रष्टव्यो जीवपुत्रया। आयत्यां च विधेयानि समर्थान्यस्य चिन्तय।४।। जानास्यनियतामेवं भूतानामागतिं गतिम्। तस्माच्छुभं हि कर्तव्यं पण्डितेनेह लौकिकम्॥ यस्मिन् हरिसहस्राणि शतानि नियुतानि च। वर्तयन्ति कृताशानि सोऽयं दिष्टान्तमागतः॥ यदयं न्यायदृष्टार्थः सामदानक्षमापरः। गतो धर्मजितां भूमिं नैनं शोचितुमर्हसि ॥ सर्वे च हरिशार्दूलाः पुत्रश्चायं तवाङ्गदः। हवृक्षपतिराज्यं च त्वत्सनाथमनिन्दिते॥ ताविमौ शोकसंतप्तौ शनैः प्रेरय भामिनि। त्वया परिगृहीतोऽयमङ्गदः शास्तु मेदिनीम्॥ संततिश्च यथा दृष्टा कृत्यं यच्चापि साम्प्रतम्। राज्ञस्तत् क्रियतां सर्वमेष कालस्य निश्चयः॥ संस्कार्यो हरिराजस्तु अङ्गदश्चाभिषिच्यताम्। सिंहासनगतं पुत्रं पश्यन्ती शान्तिमेष्यसि॥ सा तस्य वचनं श्रुत्वा भर्तृव्यसनपीडिता। अब्रवीदुत्तरं तारा हनूमन्तमवस्थितम्॥ अङ्गदप्रतिरूपाणां पुत्राणामेकतः शतम्। हतस्याप्यस्य वीरस्य गात्रसंश्लेषणं वरम्॥ न चाहं हरिराज्यस्य प्रभवाम्यङ्गदस्य वा। पितृव्यस्तस्य सुग्रीवः सर्वकार्येष्वनन्तरः॥ नह्येषा बुद्धिरास्थेया हनूमन्नङ्गदं प्रति। पिता हि बन्धुः पुत्रस्य न माता हरिसत्तम ॥ नहि मम हरिराजसंश्रयात् क्षमतरमस्ति परत्र चेह वा। अभिमुखहतवीर सेवितं शयनमिदं मम सेवितुं क्षमम्॥ नहि मम हरिराजसंश्रयात् क्षमतरमस्ति परत्र चेह वा। अभिमुखहतवीर सेवितं शयनमिदं मम सेवितुं क्षमम्॥ वीक्षमाणस्तु मन्दासुः सर्वतो मन्दमुच्छ्वसन्। आदावेव तु सुग्रीवं ददर्शानुजमग्रतः॥ तं प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरम्। आभाष्य व्यक्तया वाचा सस्नेहमिदमब्रवीत्॥ सुग्रीव दोषेण न मां गन्तुमर्हसि किल्वषात्। कृष्यमाणं भविष्येण बुद्धिमोहेन मां बलात्॥ युगपद् विहितं तात न मन्ये सुखमावयोः। सौहार्दै भ्रातृयुक्तं हि तदिदं जातमन्यथा॥ प्रतिपद्य त्वमद्यैव राज्यमेषां वनौकसाम्। मामप्यद्यैव गच्छन्तं विद्धि वैवस्वतक्षयम्॥ जीवितं च हि राज्यं च श्रियं च विपुलां तथा। प्रजहाम्येष वै तूर्णमहं चागर्हितं यशः॥ अस्यां त्वहमवस्थायां वीर वक्ष्यामि यद् वचः। यद्यप्यसुकरं राजन् कर्तुमेव त्वमर्हसि।७।। सुखाहँ सुखसंवृद्धं बालमेनमबालिशम्। वाष्पपूर्णमुखं पश्य भूमौ पतितमङ्गदम्॥ मम प्राणैः प्रियतरं पुत्रं पुत्रमिवौरसम्। मया हीनमहीनार्थं सर्वतः परिपालय॥ त्वमप्यस्य पिता दाता परित्राता च सर्वशः। भयेष्वभयदश्चैव यथाहं प्लवगेश्वर॥ एष तारात्मजः श्रीमांस्त्वया तुल्यपराक्रमः। रक्षसां च वधे तेषामग्रतस्ते भविष्यति॥ अनुरूपाणि कर्माणि विक्रम्य बलवान् रणे। करिष्यत्येष तारेयस्तेजस्वी तरुणोऽङ्गदः॥ सुषेणदुहिता चेयमर्थसूक्ष्मविनिश्चये। औत्पातिके च विविधे सर्वतः परिनिष्ठिता॥ यदेषा साध्विति ब्रूयात् कार्यं तन्मुक्तसंशयम्। नहि तारामतं किंचिदन्यथा परिवर्तते॥ राघवस्य च ते कार्यं कर्तव्यमविशङ्कया। स्यादधर्मो ह्यकरणे त्वां च हिंस्यादमानितः॥ इमां च मालामाधत्स्व दिव्यां सुग्रीव काञ्चनीम्। उदारा श्रीः स्थिता ह्यस्यां सम्प्रजह्यान्मृते मयि॥ इत्येवमुक्तः सुग्रीवो वालिना भ्रातृसौहृदात्। हर्षं त्यक्त्वा पुनर्दीनो ग्रहग्रस्त इवोडुराट्॥ तद्वालिवचनाच्छान्तः कुर्वन् युक्तमतन्द्रितः। जग्राह सोऽभ्यनुज्ञातो मालां तां चैव काञ्चनीम्॥ तां मालां काञ्चनीं दत्त्वा दृष्ट्वा चैवात्मजं स्थितम्। संसिद्धः प्रेत्यभावाय स्नेहादङ्गदमब्रवीत्॥ देशकालौ भजस्वाद्य क्षममाणः प्रियाप्रिये। सुखदुःखसहः काले सुग्रीववशगो भव॥ यथा हि त्वं महाबाहो लालितः सततं मया। न तथा वर्तमानं त्वां सुग्रीवो बहु मन्यते॥ नास्यामित्रैर्गतं गच्छेर्मा शत्रुभिररिंदम। भर्तुरर्थपरो दान्तः सुग्रीववशगो भव॥ न चातिप्रणयः कार्यः कर्तव्योऽप्रणयश्च ते। उभयं हि महादोषं तस्मादन्तरदृग्भव॥ इत्युक्त्वाथ विवृत्ताक्षः शरसम्पीडितो भृशम्। विवृतैर्दशनैर्भीमैर्बभूवोत्क्रान्तजीवितः॥ ततो विचुक्रुशुस्तत्र वानरा हतयूथपाः। परिदेवयमानास्ते सर्वे प्लवगसत्तमाः॥ किष्किन्धां ह्यद्य शून्या च स्वर्गते वानरेश्वरे। उद्यानानि च शून्यानि पर्वताः काननानि च॥ हते प्लवगशार्दूले निष्प्रभा वानराः कृताः। येन दत्तं महद् युद्धं गन्धर्वस्य महात्मनः॥ गोलभस्य महाबाहोर्दश वर्षाणि पञ्च च। नैव रात्रौ न दिवसे तद् युद्धमुपशाम्यति ॥ ततः षोडशमे वर्षे गोलभो विनिपातितः। तं हत्वा दुर्विनीतं तु वाली दंष्ट्राकरालवान्। सर्वाभयंकरोऽस्माकं कथमेष निपातितः॥ हते तु वीरे प्लवगाधिपे तदा वनेचरास्तत्र न शर्म लेभिरे। वनेचराः सिंहयुते महावने यथा हि गावो निहते गवां पतौ॥ ततस्तु तारा व्यसनार्णवप्लुता मृतस्य भर्तुर्वदनं समीक्ष्य सा। जगाम भूमिं परिरभ्य वालिनं महादुमं छिन्नमिवाश्रिता लता॥ ततः समुपजिघ्रन्ती कपिराजस्य तन्मुखम्। पतिं लोकश्रुता तारा मृतं वचनमब्रवीत्॥ शेषे त्वं विषमे दुःखमकृत्वा वचनं मम। उपलोपचिते वीर सुदुःखे वसुधातले॥ मत्तः प्रियतरा नूनं वानरेन्द्र मही तव। शेषे हि तां परिष्वज्य मां च न प्रतिभाषसे॥ सुग्रीवस्य वशं प्राप्तो विधिरेष भवत्यहो। सुग्रीव एव विक्रान्तो वीर साहसिकप्रिय॥ ऋक्षवानरमुख्यास्त्वां बलिनं पर्युपासते। तेषां विलपितं कृच्छ्रमङ्गदस्य च शोचतः॥ मम चेमा गिरः श्रुत्वा किं त्वं न प्रतिबुध्यसे। इदं तद् वीरशयनं तत्र शेषे हतो युधि ॥ शायिता निहता यत्र त्वयैव रिपवः पुरा। विशुद्धसत्त्वाभिजन प्रिययुद्ध मम प्रिय॥ मामनाथां विहायैकां गतस्त्वमसि मानद। शूराय न प्रदातव्या कन्या खलु विपश्चिता ॥ शूरभार्यां हतां पश्य सद्यो मां विधवां कृताम्। अवभग्नश्च मे मानो भग्ना मे शाश्वती गतिः॥ अगाधे च निमग्नास्मि विपुले शोकसागरे। अश्मसारमयं नूनमिदं मे हृदयं दृढम्॥ भर्तारं निहतं दृष्ट्वा यन्नाद्य शतधा कृतम्। सुहृच्चैव च भर्ता च प्रकृत्या च मम प्रियः॥ प्रहारे च पराक्रान्तः शूरः पञ्चत्वमागतः। पतिहीना तु या नारी कामं भवतु पुत्रिणी॥ धनधान्यसमृद्धापि विधवेत्युच्यते जनैः। स्वगात्रप्रभवे वीर शेषे रुधिरमण्डले॥ कृमिरागपरिस्तोमे स्वकीये शयने यथा। रेणुशोणितसंवीतं गात्रं तव समन्ततः॥ परिरब्धुं न शक्नोमि भुजाभ्यां प्लवगर्षभ। कृतकृत्योऽद्य सुग्रीवो वैरेऽस्मिन्नतिदारुणे॥ यस्य रामविमुक्तेन हृतमेकेषुणा भयम्। शरेण हृदि लग्नेन गात्रसंस्पर्शने तव॥ वार्यामि त्वां निरीक्षन्ती त्वयि पञ्चत्वमागते। उद्घबर्ह शरं नीलस्तस्य गात्रगतं तदा॥ गिरिगह्वरसंलीनं दीप्तमाशीविषं यथा। तस्य निष्कृष्यमाणस्य बाणस्यापि बभौ द्युतिः॥ अस्तमस्तकसंरुद्धरश्मेदिनकरादिव। पेतुः क्षतजधारास्तु व्रणेभ्यस्तस्य सर्वशः॥ ताम्रगैरिकसम्पृक्ता धारा इव धराधरात्। अवकीर्णं विमार्जन्ती भर्तारं रणरेणुना॥ अनैर्नयनजैः शूरं सिषेचास्त्रसमाहतम् । रुधिरोक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम्॥ उवाच तारा पिङ्गाक्षं पुत्रमङ्गदमङ्गना। अवस्था पश्चिमां पश्य पितुः पुत्र सुदारुणाम्॥ सम्प्रसक्तस्य वैरस्य गतोऽन्तः पापकर्मणा। बालसूर्योज्ज्वलतनुं प्रयातं यमसादनम्॥ अभिवादय राजानं पितरं पुत्र मानदम्। एवमुक्तः समुत्थाय जग्राह चरणौ पितुः॥ भुजाभ्यां पीनवृत्ताभ्यामङ्गदोऽहमिति ब्रुवन्। अभिवादयमानं त्वामङ्गदं त्वं यथा पुरा॥ दीर्घायुर्भव पुत्रेति किमर्थं नाभिभाषसे। अहं पुत्रसहाया त्वामुपासे गतचेतनम्। सिंहेन पातितं सद्यो गौः सवत्सेव गोवृषम्॥ इष्ट्वा संग्रामयज्ञेन रामप्रहरणाम्भसा। तस्मिन्नवभृथे स्नातः कथं पत्न्या मया विना ॥ या दत्ता देवराजेन तव तुष्टेन संयुगे। शातकौम्भीं प्रियां मालां तां ते पश्यामि नेह किम्।।२८ राज्यश्रीन जहाति त्वां गतासुमपि मानद। सूर्यस्यावर्तमानस्य शैलराजमिव प्रभा॥ न मे वचः पथ्यमिदं त्वया कृतं न चास्मि शक्ता हि निवारणे तव। हता सपुत्रास्मि हतेन संयुगे सह त्वया श्रीजिहाति मामपि॥ तामाशु वेगेन दुरासदेन त्वभिप्लुतां शोकमहार्णवेन। पश्यंस्तदा वाल्यनुजस्तरस्वी भ्रातुर्वधेनाप्रतिमेन तेपे॥ स वाष्पपूर्णेन मुखेन पश्यन् क्षणेन निर्विण्णमना मनस्वी। जगाम रामस्य शनैः समीपं भृत्यैर्वृतः सम्परिदूयमानः॥ मुदात्तमाशीविषतुल्यबाणम्। मवस्थितं राघवमित्युवाच ॥ यथा प्रतिज्ञामिदं नरेन्द्र कृतं त्वया दृष्टफलं च कर्म। ममाद्य भोगेषु नरेन्द्रसूनो मनो निवृत्तं हतजीवितेन॥ अस्यां महिष्यां तु भृशं रुदत्यां पुरेऽतिविक्रोशति दुःखतप्ते। हते नृपे संशयितेऽङ्गदे च न राम राज्ये रमते मनो मे।। क्रोधादमर्षादतिविप्रधर्षाद् भ्रातुर्वधो मेऽनुमतः पुरस्तात्। हते त्विदानी हरियूथपेऽस्मिन् सुतीक्ष्णमिक्ष्वाकुवर प्रतप्स्ये॥ श्रेयोऽद्य मन्ये मम शैलमुख्ये तस्मिन् हि वासश्चिरमृष्यमूके। यथा तथा वर्तयतः स्ववृत्या नेमं निहत्य त्रिदिवस्य लाभः॥ मयं महात्मा मतिमानुवाच। मिदं वचः कर्म च मेऽनुरूपम्॥ भ्राता कथं नाम महागुणस्य भ्रातुर्वधं राम विरोचयेत। राज्यस्य दुःखस्य च वीर सारं विचिन्तयन्कामपुरस्कृतोऽपि॥ वधो हि मतो नासीत् स्वमाहात्म्यव्यतिक्रमात्। ममासीद् बुद्धिदौरात्म्यात् प्राणहारी व्यतिक्रमः॥ दुमशाखावभग्नोऽहं मुहूर्तं परिनिष्टनन्। सान्त्वयित्वा त्वनेनोक्तो न पुनः कर्तुमर्हसि ॥ भ्रातृत्वमार्यभावश्च धर्मश्चानेन रक्षितः। मया क्रोधश्च कामश्च कपित्वं च प्रदर्शितम्॥ मनीप्सनीयं स्वनवेक्षणीयम्। प्राप्तोऽस्मि पाप्मानमिदं वयस्य भ्रातुर्वधात् त्वाष्ट्रवधादिवेन्द्रः॥ पाप्मानमिन्द्रस्य मही जलं च वृक्षाश्च कामं जगृहुः स्त्रियश्च। को नाम पाप्मानमिमं सहेत शाखामृगस्य प्रतिपत्तुमिच्छेत्॥ नार्हामि सम्मानमिमं प्रजानां न यौवराज्यं कुत एव राज्यम्। मेवंविधं राघव कर्म कृत्वा ॥ पापस्य कर्तास्मि विगर्हितस्य क्षुद्रस्य लोकापकृतस्य लोके। शोको महान् मामभिवर्ततेऽयं वृष्टेर्यथा निम्नमिवाम्बुवेगः॥ सोदर्यघातापरगाववालः संतापहस्ताक्षिशिरोविषाणः। एनोमयो मामभिहन्ति हस्ती दृप्तो नदीकूलमिव प्रवृद्धः॥ अंहो वतेदं नृवराविषह्यं निवर्तते मे हृदि साधुवृत्तम्। अग्नौ विवर्णं परितप्यमानं किट्टं यथा राघव जातरूपम्॥ मिदं कुलं राघव मनिमित्तम्। दर्धस्थितप्राणमितीव मन्ये॥ सुतः सुलभ्यः सुजनः सुवश्यः कुतस्तु पुत्रः सदृशोऽङ्गदेन। न चापि विद्येत स वीर देशो यस्मिन् भवेत् सोदरसंनिकर्षः॥ जीवेत माता परिपालनार्थम्। विना तु पुत्रं परितापदीना सा नैव जीवेदिति निश्चितं मे॥ सोऽहं प्रवेक्ष्याम्यतिदीप्तमग्नि भ्रात्रा च पुत्रेण च सख्यमिच्छन्। इमे विचेष्यन्ति हरिप्रवीराः सीतां निदेशे परिवर्तमानाः॥ न्मय्यप्यतीते मनुजेन्द्रपुत्र। कुलस्य हन्तारमजीवना रामानुजानीहि कृतागसं माम्॥ इत्येवमार्तस्य रघुप्रवीरः श्रुत्वा वचो वालिजघन्यजस्य। संजातवाष्पः परवीरहन्ता रामो मुहूर्तं विमना बभूव ॥ तस्मिन् क्षणेऽभीक्ष्णमवेक्षमाणः क्षितिक्षमावान् भुवनस्य गोप्ता। रामो रुदन्ती व्यसने निमग्नां समुत्सुकः सोऽथ ददर्श ताराम्॥ तां चारुनेत्रां कपिसिंहनाथां पतिं समाश्लिष्य तदा शयानाम्। उत्थापयामासुरदीनसत्त्वां मन्त्रिप्रधानाः कपिराजपत्नीम्।। सा विस्फुरन्ती परिरभ्यमाणा भर्तुः समीपादपनीयमाना। ददर्श राम शरचापपाणिं स्वतेजसा सूर्यमिव ज्वलन्तम्॥ सुसंवृतं पार्थिवलक्षणैश्च तं चारुनेत्रं मृगशावनेत्रा। मयं स काकुत्स्थ इति प्रजज्ञे॥ तस्येन्द्रकल्पस्य दुरासदस्य महानुभावस्य समीपमार्या। आर्ताऽतितूर्णं व्यसनं प्रपन्ना जगाम तारा परिविह्वलन्ती॥ तं सा समासाद्य विशुद्धसत्त्वं शोकेन सम्भ्रान्तशरीरभावा। मनस्विनी वाक्यमुवाच तारा रामं रणोत्कर्षणलब्धलक्ष्यम्॥ त्वमप्रमेयश्च दुरासदश्च जितेन्द्रियश्चोत्तमधर्मकश्च। अक्षीणकीर्तिश्च विचक्षणश्च क्षितिक्षमावान् क्षतजोपमाक्षः॥ महाबलः संहननोपपन्नः। मनुष्यदेहाभ्युदयं विहाय दिव्येन देहाभ्युदयेन युक्तः॥ येनैव बाणेन हतः प्रियो मे तेनैव बाणेन हि मां जहीहि । हता गमिष्यामि समीपमस्य न मां विना वीर रमेत वाली॥ स्वर्गेऽपि पद्मामलपत्रनेत्र समेत्य सम्प्रेक्ष्य च मामपश्यन्। न ह्येष उच्चावचताम्रचूडा विचित्रवेषाप्यसोऽभजिष्यत्॥ स्वर्गेऽपि शोकं च विवर्णतां च मया विना प्राप्स्यति वीर वाली। रम्ये नगेन्द्रस्य तटावकाशे विदेहकन्यारहितो यथा त्वम्॥ त्वं वेत्थ तावद् वनिताविहीनः प्राप्नोति दुःखं पुरुषः कुमारः। तत् त्वं प्रजानञ्जहि मां न वाली दुःखं ममादर्शनजं भजेत॥ यच्चापि मन्येत भवान् महात्मा स्त्रीघातदोषस्तु भवेन मह्यम्। आत्मेयमस्येति हि मां जहि त्वं न स्त्रीवधः स्यान्मनुजेन्द्रपुत्र ॥ दनन्यरूपाः पुरुषस्य दाराः। दारप्रदानाद्धि न दानमन्यत् प्रदृश्यते ज्ञानवतां हि लोके ॥ त्वं चापि मां तस्य मम प्रियस्य प्रदास्यसे धर्ममवेक्ष्य वीर। मधर्मयोगं मम वीर घातात्॥ मेवंगतां नार्हसि मामहन्तुम्। अहं हि मातङ्गविलासगामिना प्लवङ्गमानामृषभेण धीमता। विना वराहॊत्तमहेममालिना चिरं न शक्ष्यामि नरेन्द्र जीवितुम्॥ इत्येवमुक्तस्तु विभुर्महात्मा तारां समाश्वास्य हितं बभाषे। मा वीरभार्ये विमतिं कुरुष्व लोको हि सर्वो विहितो विधात्रा ॥ तं चैव सर्वं सुखदुःखयोगं लोकोऽब्रवीत् तेन कृतं विधात्रा। त्रयोऽपि लोका विहितं विधानं नातिक्रमन्ते वशगा हि तस्य॥ प्रीतिं परां प्राप्स्यसि तां तथैव पुत्रश्च ते प्राप्स्यति यौवराज्यम्। धात्रा विधानं विहितं तथैव न शूरपत्न्यः परिदेवयन्ति॥ आश्वासिता तेन महात्मना तु प्रभावयुक्तेन परंतपेन। सा वीरपत्नी ध्वनता मुखेन सुवेषरूपा विरराम तारा॥ स सुग्रीवं च तारां च साङ्गदां सहलक्ष्मणः। समानशोकः काकुत्स्थः सान्त्वयनिदमब्रवीत्॥ न शोकपरितापेन श्रेयसा युज्यते मृतः। यदत्रान्तरं कार्यं तत् समाधातुमर्हथ ॥ लोकवृत्तमनुष्ठेयं कृतं वो बाष्पमोक्षणम्। न कालादुत्तरं किंचित् कर्म शक्यमुपासितुम्॥ नियतिः कारणं लोके नियतिः कर्मसाधनम्। नियतिः सर्वभूतानां नियोगेष्विह कारणम्॥ न कर्ता कस्यचित् कश्चिन्नियोगेनापि चेश्वरः। स्वभावे वर्तते लोकस्तस्य कालः परायणम्॥ न कालः कालमत्येति न कालः परिहीयते। स्वभावं च समासाद्य न कश्चिदतिवर्तते॥ न कालस्यास्ति बन्धुत्वं न हेतुर्न पराक्रमः। न मित्रज्ञातिसम्बन्धः कारणं नात्मनोऽवशः॥ किं तु कालपरीणामो द्रष्टव्यः साधु पश्यता। धर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः॥ इतः स्वां प्रकृतिं वाली गतः प्राप्तः क्रियाफलम्। सामदानार्थसंयोगैः पवित्रं प्लवगेश्वरः॥ स्वधर्मस्य च संयोगाज्जितस्तेन महात्मना। स्वर्गः परिगृहीतश्च प्राणानपरिरक्षता॥ एषा वै नियतिः श्रेष्ठा यां गतो हरियूथपः। तदलं परितापेन प्राप्तकालमुपास्यताम्॥ वचनान्ते तु रामस्य लक्ष्मणः परवीरहा। अवदत् प्रश्रितं वाक्यं सुग्रीवं गतचेतसम्॥ कुरु त्वमस्य सुग्रीव प्रेतकार्यमनन्तरम्। ताराङ्गदाभ्यां सहितो वालिनो दहनं प्रति॥ समाज्ञापय काष्ठानि शुष्काणि च बहूनि च। चन्दनानि च दिव्यानि वालिसंस्कारकारणात्॥ समाश्वासय दीनं त्वमङ्गदं दीनचेतसम्। मा भूर्बालिशबुद्धिस्त्वं त्वदधीनमिदं पुरम्॥ अङ्गदस्त्वानयेन्माल्यं वस्त्राणि विविधानि च। घृतं तैलमथो गन्धान् यच्चात्र समनन्तरम्॥ त्वं तार शिबिकां शीघ्रमादायागच्छ सम्भ्रमात्। त्वरा गुणवती युक्ता ह्यस्मिन् काले विशेषतः॥ सज्जीभवन्तु प्लवगाः शिबिकावाहनोचिताः। समर्था बलिनश्चैव निहरिष्यन्ति वालिनम्॥ एवमुक्त्वा तु सुग्रीवं सुमित्रानन्दवर्धनः। तस्थौ भ्रातृसमीपस्थो लक्ष्मणः परवीरहा॥ लक्ष्मणस्य वचः श्रुत्वा तारः सम्भ्रान्तमानसः। प्रविवेश गुहां शीघ्रं शिबिकासक्तमानसः॥ आदाय शिबिकां तारः स तु पर्यापतत् पुनः। वानरैरुह्यमानां तां शूरैरुद्वनोचितैः॥ दिव्यां भद्रासनयुतां शिबिकां स्यन्दनोपमाम्। पक्षिकर्मभिराचित्रां दुमकर्मविभूषिताम् ॥ आचितां चित्रपत्तीभिः सुनिविष्टां समन्ततः। विमानमिव सिद्धानां जालवातायनायुताम्॥ सुनियुक्तां विशालां च सुकृतां शिल्पिभिः कृताम्। दारुपर्वतकोपेतां चारुकर्मपरिष्कृताम्॥ वराभरणहारैश्च चित्रमाल्योपशोभिताम्। गुहागहनसंछन्नां रक्तचन्दनभूषिताम् ॥ पुष्पोषैः समभिच्छन्नां पद्ममालाभिरेव च। तरुणादित्यवर्णाभिमा॑जमानाभिरावृताम्॥ ईदृशी शिबिकां दृष्ट्वा रामो लक्ष्मणमब्रवीत्। क्षिप्रं विनीयतां वाली प्रेतकार्यं विधीयताम्॥ ततो वालिनमुद्यम्य सुग्रीवः शिबिकां तदा। आरोपयत विक्रोशनङ्गदेन सहैव तु॥ आरोग्य शिबिकां चैव वालिनं गतजीवितम्। अलंकारैश्च विविधैर्माल्यैर्वस्त्रैश्च भूषितम्॥ आज्ञापयत् तदा राजा सुग्रीवः प्लवगेश्वरः। और्ध्वदेहीकमार्यस्य क्रियतामनुकूलतः॥ विश्राणयन्तो रत्नानि विविधानि बहूनि च। अग्रतः प्लवगा यान्तु शिबिका तदनन्तरम्॥ राज्ञामृद्धिविशेषा हि दृश्यन्ते भुवि यादृशाः। तादृशैरिह कुर्वन्तु वानरा भर्तृसत्क्रियाम्॥ तादृशं वालिनः क्षिप्रं प्राकुर्वन्नौदेहिकम्। अङ्गदं परिरभ्याशु तारप्रभृतयस्तथा॥ क्रोशन्तः प्रययुः सर्वे वानरा हतबान्धवाः। ततः प्रणिहीताः सर्वा वानर्योऽस्य वशानुगाः॥ चुक्रुशुर्वीरवीरेति भूयः क्रोशन्ति ताः प्रियम्। ताराप्रभृतयः सर्वा वानर्यो हतबान्धवाः॥ अनुजग्मुश्च भर्तारं क्रोशन्त्यः करुणस्वनाः। तासां रुदितशब्देन वानरीणां वनान्तरे॥ वनानि गिरयश्चैव विक्रोशन्तीव सर्वतः। पुलिने गिरिनद्यास्तु विविक्ते जलसंवृते॥ चितां चक्रुः सुबहवो वानरा वनचारिणः। अवरोप्य ततः स्कन्धाच्छिबिकां वानरोत्तमाः॥ तस्थुरेकान्तमाश्रित्य सर्वे शोकपरायणाः। ततस्तारा पतिं दृष्ट्वा शिबिकातलशायिनम्॥ आरोप्याङ्के शिरस्तस्य विललाप सुदुःखिता। हा वानरमहाराज हा नाथ पम वत्सल। ४०।। हा महार्ह महाबाहो हा मम प्रिय पश्य माम्। जनं न पश्यसीमं त्वं कस्माच्छोकाभिपीडितम्॥ प्रहृष्टमिह ते वक्त्रं गतासोरपि मानद। अस्तार्कसमवर्णं च दृश्यते जीवतो यथा॥ एष त्वां रामरूपेण लालः कर्षति वानर। येन स्म विधवाः सर्वाः कृता एकेषुणा रणे॥ इमास्तास्तव राजेन्द्र वानर्योऽप्लवगास्तव। पादैर्विकृष्टमध्वानमागताः किं न बुध्यसे॥ तवेष्टा ननु चैवेमा भार्याश्चन्द्रनिभाननाः। इदानीं नेक्षसे कस्मात सुग्रीवं प्लवगेश्वर ॥ एते हि सचिवा राजस्तारप्रभृतयस्तव। पुरवासिजनश्चायं परिवार्य विषीदति॥ विसर्जयनान् सचिवान् यथापुरमरिंदम। ततः क्रीडामहे सर्वा वनेषु मदनोत्कटाः॥ एवं विलपती तारां पतिशोकपरिवृताम्। उत्थापयन्ति स्म तदा वानर्यः शोककर्शिताः। ४८।। सुग्रीवेण ततः सार्धं सोऽङ्गदः पितरं रुदन्। चितामारोपयामास शोकेनाभिप्लुतेन्द्रियः॥ ततोऽग्नि विधिवद् दत्वा सोऽपसव्यं चकार ह। पितरं दीर्घमध्वानं प्रस्थितं व्याकुलेन्द्रियः॥ संस्कृत्य वालिनं तु विधिवत् प्लवगर्षभाः। आजग्मुरुदकं कर्तुं नदी शुभजलां शिवाम् ॥ ततस्ते सहितास्तत्र ह्यङ्गदं स्थाप्य चाग्रतः। सुग्रीवतारासहिताः सिषिचुनिरा जलम्॥ सुग्रीवेणेव दीनेन दीनो भूत्वा महाबलः। समानशोकः काकुत्स्थः प्रेतकार्याण्यकारयत्॥ ततोऽथ तं वालिनमग्र्यपौरुषं प्रकाशमिक्ष्वाकुवरेषुणा हतम्। प्रदीप्य दीप्ताग्निसमौजसं तदा सलक्ष्मणं राममुपेयिवान् हरिः॥ ततः शोकाभिसंतप्तं सुग्रीवं क्लिनवाससम्। शाखामृगमहामात्रा: परिवार्योपतस्थिरे॥ अभिगम्य महाबाहुं राममक्लिष्टकारिणम्। स्थिताः प्राञ्जलयः सर्वे पितामहमिवर्षयः॥ ततः काञ्चनशैलाभस्तरुणार्कनिभाननः। अब्रवीत् प्राञ्जलिर्वाक्यं हनूमान् मारुतात्मजः॥ भवत्प्रसादात् काकुत्स्थ पितृपैतामहं महत्। वानराणां सुदंष्ट्राणां सम्पन्नबलशालिनाम्॥ महात्मनां सुदुष्प्रापं प्राप्तं राज्यमिदं प्रभो। भवता समनुज्ञातः प्रविश्य नगरं शुभम्॥ संविधास्यति कार्याणि सर्वाणि ससुहृद्गणः। स्रोतोऽयं विविधैर्गन्धैरौषधैश्च यथाविधि॥ अर्चयिष्यति माल्यैश्च रत्नैश्च त्वां विशेषतः। इमां गिरिगुहां रम्यामभिगन्तुं त्वमर्हसि।७।। कुरुष्व स्वामिसम्बन्धं वानरान् सम्प्रहर्षय। एवमुक्तो हनुमता राघवः परवीरहा॥ प्रत्युवाच हनूमन्तं बुद्धिमान् वाक्यकोविदः। चतुर्दश समाः सौम्य ग्रामं वा यदि वा पुरम्॥ न प्रवेक्ष्यामि हनुमन् पितुर्निर्देशपालकः। सुसमृद्धां गुहां दिव्यां सुग्रीवो वानरर्षभः॥ प्रविष्टो विधिवद् वीरः क्षिप्रं राज्येऽभिषिच्यताम्। एवमुक्त्वा हनूमन्तं रामः सुग्रीवमब्रवीत्॥ वृत्तज्ञो वृत्तसम्पन्नमुदारबलविक्रमम्। इममप्यङ्गदं वीरं यौवराज्येऽभिषेचय॥ ज्येष्ठस्य हि सुतो ज्येष्ठः सदृशो विक्रमेण च। अङ्गदोऽयमदीनात्मा यौवराज्यस्य भाजनम्॥ पूर्वोऽयं वार्षिको मासः श्रावणः सलिलागमः। प्रवृत्ताः सौम्य चत्वारो मासा वार्षिकसंज्ञिताः॥ नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम्। अस्मिन् वत्स्याम्यहं सौम्य पर्वते सहलक्ष्मणः॥ इयं गिरिगुहा रम्या विशाला युक्तमारुता। प्रभूतसलिला सौम्य प्रभूतकमलोत्पला॥ कार्तिके समनुप्राप्ते त्वं रावणवधे यत। एष नः समयः सौम्य प्रविश त्वं स्वमालयम्॥ अभिषिञ्चस्व राज्ये च सुहृदः सम्प्रहर्षय। इति रामाभ्यनुज्ञातः सुग्रीवो वानरर्षभः॥ प्रविवेश पुरीं रम्यां किष्किन्धां वालिपालिताम्। तं वानरसहस्राणि प्रविष्टं वानरेश्वरम्॥ अभिवार्य प्रविष्टानि सर्वतः प्लवगेश्वरम्। ततः प्रकृतयः सर्वा दृष्ट्वा हरिगणेश्वरम्॥ प्रणम्य मूर्धा पतिता वसुधायां समाहिताः। सुग्रीवः प्रकृतीः सर्वाः सम्भाष्योत्थाप्य वीर्यवान्॥ भ्रातुरन्तःपुरं सौम्यं प्रविवेश महाबलः। प्रविष्टं भीमविक्रान्तं सुग्रीवं वानरर्षभम्॥ अभ्यषिञ्चन्त सुहृदः सहस्राक्षमिवामराः। तस्य पाण्डुरमाजकुश्छत्रं हेमपरिष्कृतम्॥ शुक्ले च वालव्यजने हेमदण्डे यशस्करे। तथा रत्नानि सर्वाणि सर्वबीजौषधानि च॥ सक्षीराणां च वृक्षाणां प्ररोहान् कुसुमानि च। शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम्॥ सुगन्धीनि च माल्यानि स्थलजान्यम्बुजानि च। चन्दनानि च दिव्यानि गन्धांश्च विविधान् बहून्॥ अक्षतं जातरूपं च प्रियङ्गुमधुसर्पिषी। दधि चर्म च वैयाघ्रं पराध्यौ चाप्युपानहौ॥ समालम्भनमादाय गोरोचनं मनःशिलाम्। आजग्मुस्तत्र मुदिता वराः कन्याश्च षोडश॥ ततस्ते वनिरश्रेष्ठमभिषेक्तुं यथाविधि। रत्नैर्वस्त्रैश्च भक्ष्यैश्च तोषयित्वा द्विजर्षभान्॥ ततः कुशपरिस्तीर्णं समिद्धं जातवेदसम्। मन्त्रपूतेन हविषा हुत्वा मन्त्रविदो जनाः॥ ततो हेमप्रतिष्ठाने वरास्तरणसंवृते। प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते॥ प्राङ्मुखं विधिवन्मन्त्रैः स्थापयित्वा वरासने। नदीनदेभ्यः संहृत्य तीर्थेभ्यश्च समन्ततः॥ आहृत्य च समुद्रेभ्यः सर्वेभ्यो वानरर्षभाः। अपः कनककुम्भेषु निधाय विमलं जलम्॥ शुभैर्ऋषभशृङ्गैश्च कलशैश्चैव काञ्चनैः। शास्त्रदृष्टेन विधिना महर्षिविहितेन च॥ गजो गवाक्षो गवयः शरभो गन्धमादनः। मैन्दश्च द्विविदश्चैव हनूमाञ्जाम्बवांस्तथा॥' अभ्यषिञ्चत सुग्रीवं प्रसन्नेन सुगन्धिना। सलिलेन सहस्राक्षं वसवो वासवं यथा॥ अभिषिक्ते तु सुग्रीवे सर्वे वानरपुङ्गवाः। प्रचुक्रुशुर्महात्मानो हृष्टाः शतसहस्त्रशः॥ रामस्य तु वचः कुर्वन् सुग्रीवो वानरेश्वरः। अङ्गदं सम्परिष्वज्य यौवराज्येऽभ्यषेचयत्॥ अङ्गदे चाभिषिक्ते तु सानुक्रोशाः प्लवङ्गमाः। साधु साध्विति सुग्रीवं महात्मानो ह्यपूजयन्॥ रामं चैव महात्मानं लक्ष्मणं च पुनः पुनः। प्रीताश्च तुष्टुवुः सर्वे तादृशे तत्र वर्तिनि॥ हृष्टपुष्टजनाकीर्णा पताकाध्वजशोभिता। बभूव नगरी रम्या किष्किन्धा गिरिगह्वरे॥ निवेद्य रामाय तदा महात्मने महाभिषेकं कपिवाहिनीपतिः। नवाप राज्यं त्रिदशाधिपो यथा॥ अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम्। आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम्॥ शार्दूलमृगसंघुष्टं सिंदर्भापरवैर्वृतम्। नानागुल्मलतागूढं बहुपादपसंकुलम् ॥ ऋक्षवानरगोपुच्छैाजारैश्च निषेवितम्। मेघराशिनिभं शैलं नित्यं शुचिकरं शिवम्॥ तस्य शैलस्य शिखरे महतीमायतां गुहाम्। प्रत्यगृहीत वासार्थं रामः सौमित्रिणा सह॥ कृत्वा च समयं रामः सुग्रीवेण सहानघः। कालयुक्तं महद्वाक्यमुवाच रघुनन्दनः॥ विनीतं भ्रातरं भ्राता लक्ष्मणं लक्ष्मिवर्धनम्। इयं गिरिगुहा रम्या विशाला युक्तमारुता॥ अस्यां वत्स्याम सौमित्रे वर्षरात्रमरिंदम। गिरिशृङ्गमिदं रम्यमुत्तमं पार्थिवात्मज ॥ श्वेताभिः कृष्णताम्राभिः शिलाभिरुपशोभितम्। नानाधातुसमाकीर्णं नदीदर्दुरसंयुतम्॥ विविधैर्वृक्षषण्डैश्च चारुचित्रलतायुतम्। नानाविहगसंघुष्टं मयूरवरनादितम्॥ मालतीकुन्दगुल्मैश्च सिन्दुवारैः शिरीषकैः। कदम्बार्जुनसर्जेश्च पुष्पितैरुपशोभितम्॥ इयं च नलिनी रम्या फुल्लपङ्कजमण्डिता। नातिदूरे गुहाया नौ भविष्यति नृपात्मज॥ प्रागुदक्प्रवणे देशे गुहा साधु भविष्यति। पश्चाच्चैवोन्नता सौम्य निवातेयं भविष्यति॥ गुहाद्वारे च सौमित्रे शिला समतला शिवा। कृष्णा चैवायता चैव भिन्नाञ्जनचयोपमा॥ गिरिशृङ्गमिदं तात पश्य चोत्तरतः शुभम्। भिन्नाञ्जनचयाकारमम्भोधरमिवोदितम्॥ दक्षिणस्यामपि दिशि स्थितं श्वेतमिवाम्बरम्। कैलासशिखरप्रख्यं नानाधातुविराजितम्॥ प्राचीनवाहिनीं चैव नदी भृशमकर्दमाम्। गुहायाः परतः पश्य त्रिकूटे जाह्नवीमिव ॥ चन्दनैस्तिलकैः सालैस्तमालैरतिमुक्तकैः। पद्मकैः सरलैश्चैव अशोकैश्चैव शोभिताम्॥ वानीरैस्तिमिदैश्चैव बकुलैः केतकैरपि। हिन्तालैस्तिनिशैनीपैतसैः कृतमालकैः॥ तीरजैः शोभिता भाति नानारूपैस्ततस्ततः। वसनाभरणोपेता प्रमदेवाभ्यलंकृता ॥ शतशः पक्षिसबैश्च नानानादविनादिता। एकैकमनुरक्तैश्च चक्रवाकैरलंकृता ॥ पुलिनैरतिरम्यैश्च हंससारससेविता। प्रहसन्त्येव भात्येषा नानारत्नसमन्विता॥ क्वचिन्नीलोत्पलैश्छन्ना भाति रक्तोत्पलैः क्वचित्। क्वचिदाभाति शुक्लैश्च दिव्यैः कुमुदकुड्मलैः॥ पारिप्लवशतैर्जुष्टा बर्हिक्रौञ्चविनादिता। रमणीया नदी सौम्य मुनिसङ्घनिषेविता॥ पश्य चन्दनवृक्षाणां पङ्क्तीः सुरुचिरा इव। ककुभानां च दृश्यन्ते मनसैवोदिताः समम्॥ अहो सुरमणीयोऽयं देशः शत्रुनिषूदन। दृढं म्स्याव सौमित्रे साध्वत्र निवसावहे॥ इतश्च नातिदूरे सा किष्किन्धां चित्रकानना। सुग्रीवस्य पुरी रम्या भविष्यति नृपात्मजा ॥ गीतवादित्रनिर्घोषः श्रूयते जयतां वर। नदतां वानराणां च मृदङ्गाडम्बरैः सह ॥ लब्धा भायाँ कपिवरः प्राप्य राज्यं सुहृदवृतः। ध्रुवं नन्दति सुग्रीवः सम्प्राप्य महतीं श्रियम्॥ इत्युक्त्वा न्यवसत् तत्र राघवः सहलक्ष्मणः। बहुदृश्यदरीकुले तस्मिन् प्रस्रवणे गिरौ॥ सुसुखे हि बहुद्रव्ये तस्मिन् हि धरणीधरे। वसतस्तस्य रामस्य रतिरल्पापि नाभवत्॥ हृतां हि भार्यां स्मरतः प्राणेभ्योऽपि गरीयसीम्। उदयाभ्युदितं दृष्ट्वा शशाङ्कं च विशेषतः॥ आविवेश न तं निद्रा निशासु शयनं गतम्। तत्समुत्थेन शोकेन वाष्पोपहतचेतनम्॥ तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम्। तुल्यदुःखोऽब्रवीद् भ्राता लक्ष्मणोऽनुनयं वचः॥ अलं वीर व्यथां गत्वा न त्वं शोचितुमर्हसि। शोचते ह्यवसीदन्ति सर्वार्था विदितं हिते॥ भवान् क्रियापरो लोके भवान् देवपरायणः। आस्तिको धर्मशीलश्च व्यवसायी च राघव ॥ न ह्यव्यवसितः शत्रु राक्षसं तं विशेषतः। समर्थस्त्वं रणे हन्तुं विक्रमे जिह्मकारिणम्॥ समुन्मूलय शोकं त्वं व्यवसायं स्थिरीकुरु। ततः सपरिवारं तं राक्षसं हन्तुमर्हसि ॥ पृथिवीमपि काकुत्स्थ ससागरवनाचलाम्। परिवर्तयितुं शक्तः किं पुनस्तं हि रावणम्॥ शरत्कालं प्रतीक्षस्व प्रावृटकालोऽयमागतः। ततः सराष्ट्र सगणं रावणं तं वधिष्यसि॥ अहं तु खलु ते वीर्यं प्रसुप्तं प्रतिबोधये। दीप्तैराहुतिभिः काले भस्मच्छन्नमिवानलम् ॥ लक्ष्मणस्य हि तद् वाक्यं प्रतिपूज्य हितं शुभम्। राघवः सुहृदं स्निग्धमिदं वचनमब्रवीत्॥ वाच्यं यदनुरक्तेन स्निग्धेन च हितेन च। सत्यविक्रमयुक्तेन तदुक्तं लक्ष्मण त्वया।॥ एष शोकः परित्यक्तः सर्वकार्यावसादकः। विक्रमेष्वप्रतिहतं तेजः प्रोत्साहयाम्यहम्॥ शरत्कालं प्रतीक्षिष्ये स्थितोऽस्मि वचने तव। सुग्रीवस्य नदीनां च प्रसादमनुपालयन्॥ उपकारेण वीरस्तु प्रतिकारेण युज्यते। अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः॥ तदेव युक्तं प्रणिधाय लक्ष्मणः कृताञ्जलिस्तत् प्रतिपूज्य भाषितम्। उवाच रामं स्वभिरामदर्शनं प्रदर्शयन् दर्शनमात्मनः शुभम्॥ यथोक्तमेतत् तव सर्वमीप्सितं नरेन्द्र कर्ता नचिरात् तु वानरः। शरत्प्रतीक्षः क्षमतामिमं भवान् जलप्रपातं रिपुनिग्रहे धृतः॥ नियम्य कोपं परिपाल्यतां शरत् क्षमस्व मासांश्चतुरो मया सह। वसाचलेऽस्मिन् मृगराजसेविते संवर्तयशत्रुवधे समर्थः॥ समीक्ष्य विमलं व्योम गतविद्युबलाहकम्। सारसाकुलसंधुएं रम्यज्योत्स्नानुलेपनम्॥ समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसंग्रहम्। अत्यर्थं चासतां मार्गमेकान्तगतमानसम्॥ निवृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा। प्राप्तवन्तमभिप्रेतान् सर्वानेव मनोरथान्॥ स्वां च पत्नीमभिप्रेतां तारां चापि समीप्सिताम्। विहरन्तमहोरात्रं कृतार्थं विगतज्वरम्॥ क्रीडन्तमिव देवेशं गन्धर्वाप्सरसां गणैः। मन्त्रिषु न्यस्तका च मन्त्रिणामनवेक्षकम्॥ उच्छिन्नराज्यसंदेहं कामवृत्तमिव स्थितम्। निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित्॥ प्रसाद्य वाक्यैर्विविधैर्हेतुमद्भिमनोरमैः। वाक्यविद् वाक्यतत्त्वज्ञं हरीशं मारुतात्मजः॥ हितं तथ्यं च पथ्यं च सामधर्मार्थनीतिमत्। प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम्॥ हरीश्वरमुपागम्य हनूमान् वाक्यमब्रवीत्। राज्यं प्राप्तं यशश्चैव कौली श्रीरभिवर्धिता।।९ मित्राणां संग्रहः शेषस्तद् भवान् कर्तुमर्हति। यो हि मित्रेषु कालज्ञः सततं साधु वर्तते॥ तस्य राज्यं च कीर्तिश्च प्रतापश्चापि वर्धते। यस्य कोशश्च दण्डश्च मित्राण्यात्मा च भूमिप। समान्येतानि सर्वाणि स राज्यं महदश्नुते॥ तद् भवान् वृत्तसम्पन्नः स्थितः पथि निरत्यये। मित्रार्थमभिनीतार्थं यथावत् कर्तुमर्हति ॥ संत्यज्य सर्वकर्माणि मित्रार्थे यो न वर्तते। सम्भ्रमाद् विकृतोत्साहः सोऽनर्थेनावरुद्यते॥ यो हि कालव्यतीतेषु मित्रकार्येषु वर्तते। स कृत्वा महतोऽप्यान्न मित्रार्थेन युज्यते॥ तदिदं मित्रकार्यं नः कालातीतमरिंदम। क्रियतां राघवस्यैतद् वैदेह्याः परिमार्गणम्॥ न च कालमतीतं ते निवेदयति कालवित्। त्वरमाणोऽपि स प्राज्ञस्तव राजन् वशानुगः॥ कुलस्य हेतुः स्फीतस्य दीर्घबन्धुश्च राघवः। अप्रमेयप्रभावश्च स्वयं चाप्रतिमो गुणैः॥ कुरु वै कार्य पूर्वं तेन कृतं तव। हरीश्वर कपिश्रेष्ठानाज्ञापयितुमर्हसि ॥ नहि तावद् भवेत् कालो व्यतीतश्चोदनादृते। चोदितस्य हि कार्यस्य भवेत् कालव्यतिक्रमः॥ तस्य त्वं अकर्तुरपि कार्यस्य भवान् कर्ता हरीश्वर। किं पुनः प्रतिकर्तुस्ते राज्येन च वधेन च॥ शक्तिमानतिविक्रान्तो वानरसंगणेश्वर। कर्तुं दाशरथे: प्रीतिमाज्ञायां किं नु सज्जसे॥ कामं खलु शरैः शक्तः सुरासुरमहोरगान्। वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञामवेक्षते॥ प्राणत्यागविशङ्केन कृतं तेन महत् प्रियम्। तस्य मार्गाम वैदेहीं पृथिव्यामपि चाम्बरे॥ देवदानवगन्धर्वा असुराः समरुद्गणाः। न च यक्षा भयं तस्य कुर्युः किमिव राक्षसाः॥ तदेवं शक्तियुक्तस्य पूर्वं प्रतिकृतस्तथा। रामस्यार्हसि पिङ्गेश कर्तुं सर्वात्मना प्रियम्॥ नाधस्तादवनौ नाप्सु गतिर्नोपरि चाम्बरे। कस्यचित् सज्जतेऽस्माकं कपीश्वर तवाज्ञया॥ तदाज्ञापय कः किं ते कुतो वापि व्यवस्यतु। हरयो ह्यप्रधृष्यास्ते सन्ति कोट्यग्रतोऽनघ ॥ तस्य तद् वचनं श्रुत्वा काले साधु निरूपितम्। सुग्रीवः सत्त्वसम्पन्नश्चकार मतिमुत्तमाम्॥ संदिदेशातिमतिमान् नीलं नित्यकृतोद्यमम्। दिक्षु सर्वासु सर्वेषां सैन्यानामुपसंग्रहे॥ यथा सेना समग्रा मे यूथपालाश्च सर्वशः। समागच्छन्त्यसङ्गेन सेनाग्र्येण तथा कुरु॥ ये त्वन्तपालाः प्लवगाः शीघ्रगा व्यवसायिनः। समानयन्तु ते शीघ्रं त्वरिताः शासनान्मम। स्वयं चानन्तरं कार्ये भवानेवानुपश्यतु ॥ त्रिपञ्चरात्रादूर्ध्वं यः प्राप्नुयादिह वानरः। तस्य प्राणान्तिको दण्डो नात्र कार्याविचारणा॥ हरीश्च वृद्धानुपयातु साङ्गदो भवान् ममाज्ञामधिकृत्य निश्चितम्। इति व्यवस्थां हरिपुंगवेश्वरो विधाय वेश्म प्रविवेश वीर्यवान्॥ गृहं प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः। वर्षरात्रे स्थितो रामः कामशोकाभिपीडितः॥ पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम्। शारदी रजनी चैव दृष्ट्वा ज्योत्स्नानुलेपनाम्॥ कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम्। दृष्ट्वा कालमतीतं च मुमोह परमातुरः॥ स तु संज्ञामुपागम्य मुहूर्तान्मतिमान् नृपः। मनास्थामपि वैदेहीं चिन्तयामास राघवः॥ दृष्ट्वा च विमलं व्योम गतविद्युबलाहकम्। सारसारावसंघुष्टं विललापातया गिरा॥ आसीनः पर्वतस्याग्रे हेमधातुविभूषिते। शारदं गगनं दृष्ट्वा जगाम मनसा प्रियाम्॥ सारसारावसंनादैः सारसारावनादिनी। याऽऽश्रमे रमते बाला साद्य मे रमते कथम्॥ पुष्पितांश्चासनान् दृष्ट्वा काञ्चनानिव निर्मलान्। कथं सा रमते वाला पश्यन्ती मामपश्यती॥ या पुरा कलहंसानां कलेन कलभाषिणी। बुध्यते चारुसर्वाङ्गी साद्य मे रमते कथम्॥ निःस्वनं चक्रवाकानां निशम्य सहचारिणाम्। पुण्डरीकविशालाक्षी कथमेषा भविष्यति॥ सरांसि सरितो वापीः काननानि वनानि च। तां विना मृगशावाक्षीं चरनाद्य सुखं लभे॥ अपि तां मद्वियोगाच्च सौकुमार्याच्च भामिनीम्। सूदूरं पीडयेत् कामः शरद्गुणनिरन्तरः॥ एवमादि नरश्रेष्ठो विललाप नृपात्मजः। विहङ्ग इव सारङ्गः सलिलं त्रिदशेश्वरात्॥ ततश्चर्य रम्येषु फलार्थी गिरिसानुषु। ददर्श पर्युपावृत्तो लक्ष्मीवाल्लँक्ष्मणोऽग्रजम् ॥ स चिन्तया दुस्सहया परीतं विसंज्ञमेकं विजने मनस्वी। भ्रातुर्विषादात् त्वरितोऽतिदीन: समीक्ष्य सौमित्रिरुवाच दीनम्॥ किमार्य कामस्य वशंगतेन किमात्मपौरुष्यपराभवेन। अयं ह्विया संह्वियते समाधिः किमत्र योगेन निवर्तते न॥ क्रियाभियोगं मनसः प्रसाद समाधियोगानुगतं च कालम्। सहायसामर्थ्यमदीनसत्वः स्वकर्महेतुं च कुरुष्व तात॥ न जानकी मानववंशनाथ त्वया सनाथा सुलभा परेण। न चाग्निजूडां ज्वलितामुपेत्य न दह्यते वीर वराह कश्चित्॥ सलक्षणं लक्ष्मणमप्रधृष्यं स्वभावजं वाक्यमुवाच रामः। हितं च पथ्यं च नयप्रसक्तं ससामधर्मार्थसमाहितं च ॥ निस्संशयं कार्यमवेक्षितव्यं क्रियाविशेषोऽप्यनुवर्तितव्यः। न तु प्रवृद्धस्य दुरासदस्य कुमार वीर्यस्य फलं च चिन्त्यम्॥ अथ पद्मपलाशाक्षीं मैथिलीमनु चिन्तयन्। उवाच लक्ष्मणं रामो मुखेन परिशुष्यता॥ तर्पयित्वा सहस्राक्षः सलिलेन वसुंधराम्। निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः॥ दीर्घगम्भीरनिर्घोषाः शैलदुमपुरोगमाः। विसृज्य सलिलं मेघाः परिशान्ता नृपात्मज ॥ नीलोत्पलदलश्यामाः श्यामीकृत्वा दिशो दश। विमदा इव मातङ्गा शान्तवेगाः पयोधराः॥ जलगर्भा महावेगाः कुटजार्जुनगन्धिनः। चरित्वा विरताः सौम्य वृष्टिवातः समुद्यताः॥ घनानां वारणानां च मयूराणां च लक्ष्मण। नादः प्रस्रवणानां च प्रशान्तः सहसानघ॥ अभिवृष्टा महामेधैर्निमलाश्चित्रसानवः। अनुलिप्ता इवाभान्ति गिरयश्चन्द्ररश्मिभिः॥ शाखासु सप्तच्छदपादपानां प्रभासु तारार्कनिशाकराणाम्। लीलासु चैवोत्तमवारणानां श्रियं विभज्याद्य शरत्प्रवृत्ता॥ सम्प्रत्यनेकाश्रयचित्रशोभा लक्ष्मीः शरत्कालगुणोपपन्ना। सूर्याग्रहस्तप्रतिबोधितेषु पद्माकरेष्वभ्यधिकं विभाति॥ सप्तच्छदानां कुसुमोपगन्धी षट्पादवृन्दैरनुगीयमानः। मत्तद्विपानां पवनानुसारी दर्प विनेष्यन्नधिकं विभाति॥ अभ्यागतैश्चारुविशालपक्षैः स्मरप्रियैः पद्मरजोऽवकीणैः। महानदीनां पुलिनोपयातैः क्रीडन्ति हंसाः सह चक्रवाकैः॥ मदप्रगल्भेषु च वारणेषु गवां समूहेषु च दर्पितेषु। प्रसन्नतोयासु च निम्नगासु विभाति लक्ष्मीबहुधा विभक्ता ॥ नभः समीक्ष्याम्बुधरैर्विमुक्तं विमुक्तबर्हाभरणा वनेषु। प्रियास्वरक्ता विनिवृत्तशोभा गतोत्सवा ध्यानपरा मयूराः॥ मनोज्ञगन्धैः प्रियकैरनल्पैः पुष्पाग्रभारावनताग्रशाखैः। रुद्योतितानीव वनान्तराणि ॥ प्रियान्वितानां नलिनीप्रियाणां वने प्रियाणां कुसुमोद्गतानाम्। मदोत्कटानां मदलालसानां गजोत्तमानां गतयोऽद्य मन्दाः॥ व्यक्तं नभः शस्त्रविधौतवर्ण कृशप्रवाहाणि नदीजलानि। कह्लारशीताः पवनाः प्रवान्ति तमो विमुक्ताश्च दिशः प्रकाशाः॥ सूर्यातपक्रामणनष्टपङ्का भूमिश्चिरोद्घाटितसान्द्ररेणुः। मुद्योगकालोऽद्य नराधिपानाम्॥ शरद्गुणाप्यायितरूपशोभाः प्रहर्षिताः पांसुसमुत्थिताङ्गाः। मदोत्कटाः सम्प्रति युद्धलुब्धा वृषा गवां मध्यगता नदन्ति ॥ समन्मथा तीव्रतरानुरागा कुलान्विता मन्दगतिः करेणूः। मदान्वितं सम्परिवार्य यान्तं वनेषु भर्तारमनुप्रयाति॥ त्यक्त्वा वराण्यात्मविभूषितानि बर्हाणि तीरोपगता नदीनाम्। निर्भय॑माना इव सारसौषैः प्रयान्ति दीना विमना मयूराः॥ वित्रास्य कारण्डवचक्रवाकान् महारवैर्भिनकटा गजेन्द्राः। सरःसु बुद्धाम्बुजभूषणेषु विक्षोभ्य विक्षोभ्य जलं पिबन्ति ॥ व्यपेतपङ्कासु सवालुक्रासु प्रसन्नतोयासु सगोकुलासु। ससारसारावविनादितासु नदीषु हंसा निपतन्ति हृष्टाः॥ मतिप्रवृद्धानिलबर्हिणानाम्। प्लवङ्गमानां च गतोत्सवानां ध्रुवं रवाः सम्प्रति सम्प्रणष्टाः॥ अनेकवर्णाः सुविनष्टकाया नवोदितेष्वम्बुधरेषु नष्टाः। श्चिरोषिता विप्रसरन्ति सर्पाः।४।। चञ्चच्चन्द्रकरस्पर्शहर्षोन्मीलिततारका। अहो रागवती संध्या जहाति स्वयमम्बरम्॥ रात्रिः शशाङ्कोदितसौम्यवक्त्रा तारागणोन्मीलितचारुनेत्रा। ज्योत्स्नांशुकप्रावरणा विभाति नारीव शुक्लांशुकसंवृताङ्गी॥ विपक्शालिप्रसवानि भुक्त्वा प्रहर्षिता सारसचारुपङ्क्तिः। नभः समाक्रामति शीघ्रवेगा ग्रथितेव माला॥ वातावधूता सुप्तैकहंसं कुमुदैरुपेतं महाहृदस्थं सलिलं विभाति। धनैर्विमुक्तं निशि पूर्णचन्द्रं तारागणाकीर्णमिवान्तरिक्षम्॥ प्रकीर्णहंसाकुलमेखलानां प्रबुद्धपद्मोत्पलमालिनीनाम्। र्वराङ्गनानामिव भूषितानाम्॥ वेणुस्वरव्यञ्जिततूर्यमिश्रः प्रत्यूषकालेऽनिलसम्प्रवृत्तः। मन्योन्यमापूरयतीव शब्दः॥ फ्धूयमानैर्मृदुमारुतेन। धौतामलक्षौमपटप्रकाशैः कूलानि काशैरुपशोभितानि॥ वनप्रचण्डा मधुपानशौण्डाः प्रियान्विताः षट्चरणाः प्रहृष्टाः। वनेषु मत्ताः पवनानुयात्रां कुर्वन्ति पद्मासनरेणुगौराः॥ जलं प्रसन्नं कुसुमप्रहासं क्रौञ्चस्वनं शालिवनं विपक्वम्। मृदुश्च वायुर्विमलश्च चन्द्रः शंसन्ति वर्षव्यपनीतकालम्॥ मीनोपसंदर्शितमेखलानां नदीवधूनां गतयोऽद्य मन्दाः। कान्तोपभुक्तालसगामिनीनां प्रभातकालेष्विव कामिनीनाम्॥ सचक्रवाकानि सशैवलानि काशैर्दुकूलैरिव संवृतानि। सपत्ररेखाणि सरोचनानि वधूमुखानीव नदीमुखानि ॥ प्रफुल्लबाणासनचित्रितेषु प्रहृष्टषट्पादनिकूजितेषु। गृहीतचापोद्यतदण्डचण्डः प्रचण्डचापोऽद्य वनेषु कामः।५६।। लोकं सुवृष्टया परितोषयित्वा नदीस्तटाकानि च पूरयित्वा। निष्पन्नसस्यां वसुधां च कृत्वा त्यक्त्वा नभस्तोयधराः प्रनष्टाः ॥ दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः। नवसंगमसव्रीडा जघनानीव योषितः॥ प्रसन्नसलिलाः सौम्य कुरराभिविनादिताः। चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः। ५९।। अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज। उद्योगसमयः सौम्य पार्थिवानामुपस्थितः॥ इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज। न च पश्यामि सुग्रीवमुद्योगं च तथाविधम्॥ असनाः सप्तपर्णाश्च कोविदाराश्च पुष्पिताः। दृश्यन्ते बन्धुजीवाश्च श्यामाश्च गिरिसानुषु ॥ हंससारसचक्राद्वैः कुररैश्च समन्ततः। पुलिनान्यवकीर्णानि नदीनां पश्य लक्ष्मण॥ चत्वारो वार्षिका मासा गता वर्षशतोपमाः। मम शोकाभितप्तस्य तथा सीतामपश्यतः॥ चक्रवाकीव भर्तारं पृष्ठतोऽनुगता वनम्। विषमं दण्डकारण्यमुद्यानमिव चाङ्गना॥ प्रियाविहीने दुःखाते हृतराज्ये विवासिते। कृपां न कुरुते राजा सुग्रीवो मयि लक्ष्मण ॥ अनाथो हतराज्योऽहं रावणेन च धर्षितः। दीनो दूरगृहः कामी मां चैव शरणं गतः॥ इत्येतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः। अहं वानरराजस्य परिभूतः परंतपः॥ स कालं परिसंख्याय सीतायाः परिमार्गणे। कृतार्थः समयं कृत्वा दुर्मति ववुध्यते॥ स किष्किन्धां प्रविश्य त्वं ब्रूहि वानरपुङ्गवम्। मूर्ख ग्राम्यसुखे सक्तं सुग्रीवं वचनान्मम॥ अर्थिनामुपपन्नानां पूर्वं चाप्युपकारिणाम्। आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः॥ शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम्। सत्येन परिगृह्णाति स वीरः पुरुषोत्तमः।७२।। कृतार्था ह्यकृतार्थानां मित्राणां न भवन्ति ये। तान् मृतानपि क्रव्यादाः कृतघ्नान् नोपभुञ्जते॥ नूनं काञ्चनपृष्ठस्य विकृष्टस्य मया रणे। द्रष्टुमिच्छसि चापस्य रूपं विद्युद्गणोपमम्।७४।। घोरं ज्यातलनिर्घोषं क्रुद्धस्य मम संयुगे। निर्घोषमिव वज्रस्य पुनः संश्रोतुमिच्छसि॥ काममेवङ्गतेऽप्यस्य परिज्ञाते पराक्रमे। त्वत्सहायस्य मे वीर न चिन्ता स्यानृपात्मज ॥ यदर्थमयमारम्भः कृतः परपुरञ्जय। समयं नाभिजानाति कृतार्थः प्लवगेश्वरः॥ वर्षाः समयकालं त प्रतिज्ञाय हरीश्वरः। व्यतीतांश्चतुरो मासान् विहरन् नावबुध्यते॥ सामात्यपरिषत्क्रीडन् पानमेवोपसेवते। शोकदीनेषु नास्मासु सुग्रीवः कुरुते दयाम्॥ उच्यतां गच्छ सुग्रीवस्त्वया वीर महाबल। मम रोषस्य यद्रूपं ब्रूयाश्चैनमिदं वचः॥ न स संकुचितः पन्था येन वाली हतो गतः। समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः॥ एक एव रणे वाली शरेण निहतो मया। त्वां तु सत्यादतिक्रान्तं हनिष्यामि सबान्धवम्॥ यदेवं विहिते कार्ये यद्धितं पुरुषर्षभ। तत् तद् ब्रूहि नरश्रेष्ठ त्वर कालव्यतिक्रमः।॥ कुरुष्व सत्यं मम वानरेश्वर प्रतिश्रुतं धर्ममवेक्ष्य शाश्वतम्। मा वालिनं प्रेतगतो यमक्षये त्वमद्य पश्येर्मम चोदितः शरैः।॥ स पूर्वजं तीव्रविवृद्धकोपं लालप्यमानं प्रसमीक्ष्य दीनम्। चकार तीव्रां मतिमुग्रतेजा हरीश्वरे मानववंशवर्धनः। ८५।। स कामिनं दीनमदीनसत्त्वं शोकाभिपत्रं समुदीर्णकोपम्। नरेन्द्रसूनुर्नरदेवपुत्रं रामानुजः पूर्वजमित्युवाच॥ न वानरः स्थास्यति साधुवृत्ते न मन्यते कर्मफलानुषङ्गान्। न भोक्ष्यते वानरराज्यलक्ष्मी तथा हि नातिक्रमतेऽस्य बुद्धिः॥ स्तव प्रसादात् प्रतिकारबुद्धिः। हतोऽग्रजं पश्यतु वीरवालिनं न राज्यमेवं विगुणस्य देयम्॥ न धारये कोपमुदीर्णवेगं निहन्मि सुग्रीवमसत्यमद्य। हरिप्रवीरैः सह वालिपुत्रो नरेन्द्रपुत्र्या विचयं करोतु॥ तमात्तबाणासनमुत्पतन्तं निवेदितार्थं रणचण्डकोपम्। उवाच रामः परवीरहन्ता स्ववीक्षितं सानुनयं च वाक्यम्॥ नहि वै त्वद्विधो लोके पापमेवं समाचरेत्। कोपमार्येण यो हन्ति स वीरः पुरुषोत्तमः॥ नेदमत्र त्वया ग्राह्यं साधुवृत्तेन लक्ष्मण। तां प्रीतिमनुवर्तस्व पूर्ववृत्तं च संगतम्॥ सामोपहितया वाचा रूक्षाणि परिर्जयन्। वक्तुमर्हसि सुग्रीवं व्यतीतं कालपर्यये॥ सोऽग्रजेनानुशिष्टार्थो यथावत् पुरुषर्षभः। प्रविवेश पुरी वीरो लक्ष्मणः परवीरहा॥ ततः शुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतः। लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपेः॥ शक्रबाणासनप्रख्यं धनुः कालान्तकोपमम्। प्रगृह्य गिरिशृङ्गाभं मन्दरः सानुमानिव॥ यथोक्तकारी वचनमुत्तरं चैव सोत्तरम्। बृहस्पतिसमो बुद्ध्या मत्वा रामानुजस्तदा॥ कामक्रोधसमुत्थेन भ्रातुः क्रोधाग्निना वृतः। प्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस्ततः॥ सालतालाश्वकर्णाश्च तरसा पातयन् बलात्। पर्यस्यन् गिरिकूटानि दुमानन्यांश्च वेगितः॥ शिलाश्च शकलीकुर्वन् पद्भ्यां गज इवाशुगः। दूरमेकपदं त्यक्त्वा ययौ कार्यवशाद् द्रुतम्॥ तामपश्यद् बलाकीर्णां हरिराजमहापुरीम्। दुर्गामिक्ष्वाकुशार्दूलः किष्किन्धां गिरिसंकटे॥ रोषात् प्रस्फुरमाणोष्ठः सुग्रीवं प्रति लक्ष्मणः। ददर्श वानरान् भीमान् किष्किन्धायां बहिश्चरान्॥ तं दृष्ट्वा वानराः सर्वे लक्ष्मणं पुरुषर्षभम्। शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान्। जगृहुः कुञ्जरप्रख्या वानराः पर्वतान्तरे॥ तान् गृहीतप्रहरणान् सर्वान् दृष्ट्वा तु लक्ष्मणः! बभूव द्विगुणं क्रुद्धो बहिन्धन इवानलः॥ तं ते भयपरीताङ्गाः क्षुब्धं दृष्ट्वा प्लवङ्गमाः। कालमृत्युयुगान्ताभं शतशो विद्वता दिशः॥ ततः सुग्रीवभवनं प्रविश्य हरिपुंगवाः। क्रोधमागमनं चैव लक्ष्मणस्य न्यवेदयन्॥ तारया सहितः कामी सक्तः कपिवृषस्तदा। न तेषां कपिसिहानां सुश्राव वचनं तदा॥ ततः सचिवसंदिष्टा हरयो रोमहर्षणाः। गिरिकुञ्जरमेधाभा नगरानिर्ययुस्तदा॥ नखदंष्ट्रायुधाः सर्वे वीरा विकृतदर्शनाः। सर्वे शार्दूलदंष्ट्राश्च सर्वे विवृतदर्शनाः॥ दशनागबलाः केचित् केचिद् दशगुणोचराः। केचिनागसहस्रस्य बभूवुस्तुल्यवर्चसः॥ ततस्तैः कपिभिर्व्याप्तां दुमहस्तैर्महाबलैः। अपश्यल्लक्ष्मणः क्रुद्धः किष्किन्धां तां दुरासदाम्।।२६। ततस्ते हरयः सर्वे प्राकारपरिखान्तरात्। निष्क्रम्योदग्रसत्त्वास्तु तस्थुराविष्कृतं तदा॥ सुग्रीवस्य प्रमादं च पूर्वजस्यार्थमात्मवान्। दृष्ट्वा क्रोधवशं वीरः पुनरेव जगाम सः॥ स दीर्घोष्णमहोच्छ्वासः कोपसंरक्तलोचनः। बभूव नरशार्दूलः सधूम इव पावकः॥ बाणशल्यस्फुरज्जिह्वः सायकासनभोगवान्। स्वतेजोविषसम्भूतः पञ्चास्य इव पन्नगः॥ तं दीप्तमिव कालाग्रिं नागेन्द्रमिव कोपितम्। समासाद्याङ्गदस्त्रासाद् विषादमगमत् परम्॥ सोऽङ्गदं रोषताम्राक्षः संदिदेश महायशाः। सुग्रीवः कथ्यतां वत्स ममागमनमित्युत॥ एष रामानुजः प्राप्तस्त्वत्सकाशमरिंदम। भ्रातुर्व्यसनसंतप्तो द्वारि तिष्ठति लक्ष्मणः॥ तस्य वाक्यं यदि रुचिः क्रियतां साधु वानर। इत्युक्त्वा शीघ्रमागच्छ वत्स वाक्यमरिंदम॥ लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टोऽङ्गदोऽब्रवीत्। पितुः समीपमागम्य सौमित्रिरयमागतः॥ अथाङ्गदस्तस्य सुतीव्रवाचा सम्भ्रान्तभावः परिदीनवक्त्रः। निर्गत्य पूर्वं नृपतेस्तरस्वी .ततो रुमायाश्चरणौ ववन्दे॥ संगृह्य पादौ पितुरुग्रतेजा जग्राह मातुः पुनरेव पादौ। पादौ रुमायाश्च निपीडयित्वा निवेदयामास ततस्तदर्थम्॥ स निद्राक्लान्तसंवीतो वानरो न विबुद्धवान्। बभूव मदमत्तश्च मदनेन च मोहितः॥ ततः किलकिलां चक्कुर्लक्ष्मणं प्रेक्ष्य वानराः। प्रसादयन्तस्तं क्रुद्धं भयमोहितचेतसः॥ ते महौघनिभं दृष्ट्वा वज्राशनिसमस्वनम्। सिंहनादं समं चक्रुर्लक्ष्मणस्य समीपतः॥ तेन शब्देन महता प्रत्युबुध्यत वानरः। मदविह्वलताम्राक्षो व्याकुलः स्रग्विभूषणः॥ अथाङ्गदवचः श्रुत्वा तेनैव च समागतौ। मन्त्रिणौ वानरेन्द्रस्य सम्मतोदारदर्शनौ।॥ प्लक्षश्चैव प्रभावश्च मन्त्रिणावर्थधर्मयोः। वक्तुमुच्चावचं प्राप्तं लक्ष्मणं तौ शशंसतुः॥ प्रसादयित्वा सुग्रीवं वचनैः सार्थनिश्चितैः। आसीनं पर्युपासीनो यथा शक्रं मरुत्पतिम्॥ सत्यसंधौ महाभागौ भ्रातरौ रामलक्ष्मणौ। मनुष्यभावं सम्प्राप्तौ राज्याही राज्यदायिनौ ॥ तयोरेको धनुष्पाणिभरि तिष्ठति लक्ष्मणः। यस्य भीताः प्रवेपन्तो नादान् मुञ्चन्ति वानराः॥ स एष राघवभ्राता लक्ष्मणो वाक्यसारथिः। व्यवसायरथः प्राप्तस्तस्य रामस्य शासनात्॥ अयं च तनयो राजस्ताराया दयितोऽङ्गदः। लक्ष्मणेन सकाशं ते प्रेषितस्त्वरयानघ॥ सोऽयं रोषपरीताक्षो द्वारि तिष्ठति वीर्यवान्। वानरान् वानरपते चक्षुषा निर्दहनिव॥ तस्य मूर्जा प्रणामं त्वं सपुत्रः सहबान्धवः। गच्छ शीघ्रं महाराज रोषो ह्यद्योपशाम्यताम्॥ यथा हि रामो धर्मात्मा तत्कुरुष्व समाहितः। राजस्तिष्ठ स्वसमये भव सत्यप्रतिश्रवः॥ अथ प्रतिसमादिष्टो लक्ष्मणः परवीरहा। प्रविवेश गुहां रम्यां किष्किन्धां रामशासनात्॥ द्वारस्था हरयस्तत्र महाकाया महाबलाः। बभूवर्लक्ष्मणं दृष्ट्वः सर्वे प्राञ्जलयः स्थिताः॥ निःश्वसन्तं तु तं दृष्ट्वा क्रुद्धं दशरथात्मजम्। बभूवुर्हरयस्त्रास्ता न चैनं पर्यवारयन्॥ स तां रत्नमयीं दिव्यां श्रीमान् पुष्पितकाननाम्। रम्यां रत्नसमाकीर्णां ददर्श महतीं गुहाम्॥ हर्म्यप्रासादसम्बाधां नानारत्नोपशोभिताम् सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभिताम्॥ देवगन्धर्वपुत्रैश्च वानरैः कामरूपिभिः। दिव्यमाल्याम्बरधरैः शोभितां प्रियदर्शनैः॥ चन्द्रनागुरुपद्मानां गन्धैः सुरभिगन्धिताम्। : मैरेयाणां मधूनां च सम्मोहितमहापथाम्॥ विन्ध्यमेरुगिरिप्रख्यैः प्रासादै कभूमिभिः। ददर्श गिरिनद्यश्च विमलास्तत्र राघवः॥ अङ्गदस्य गृहं रम्यं मैन्दस्य द्विविदस्य च। गवयस्य गवाक्षस्य गजस्य शरभस्य च॥ विद्युन्मालेश्च सम्पातेः सूर्याक्षस्य हनूमतः। वीरबाहोः सुबाहोश्च नलस्य च महात्मनः॥ कुमुदस्य सुषेणस्य तारजाम्बवतोस्तथा। दधिवक्त्रस्य नीलस्य सुपाटलसुनेत्रयोः॥ एतेषां कपिमुख्यानां राजमार्गे महात्मनाम्। ददर्श गृहमुख्यानि महासाराणि लक्ष्मणः॥ पाण्डुराभ्रप्रकाशानि गन्धमाल्ययुतानि च। प्रभूतधनधान्यानि स्त्रीरत्नैः शोभितानि च॥ पाण्डुरेण तु शैलेन परिक्षिप्तं दुरासदम्। वानरेन्द्रगृहं रम्यं महेन्द्रसदनोपमम्॥ शुक्लैः प्रासादशिखरैः कैलासशिखरोपमैः। सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभितम्॥ महेन्द्रदत्तैः श्रीमद्भिर्नीलजीमूतसंनिभैः। दिव्यपुष्पफलैर्वृक्षैः शीतच्छायैर्मनोरमैः॥ हरिभिः संवृतद्वारं बलिभिः शस्त्रपाणिभिः। दिव्यमाल्यावृतं शुभ्रं तप्तकाञ्चनतोरणम्॥ सुग्रीवस्य गृहं रम्यं प्रविवेश महाबलः। अवार्यमाणः सौमित्रिर्महाभ्रमिव भास्करः॥ स सप्त कक्ष्या धर्मात्मा यानासनसमावृताः। ददर्श सुमहद्गुप्तं ददर्शान्त:पुरं महत्॥ हैमराजतपर्यकैर्बहुभिश्च वरासनैः। महार्हास्तरणोपेतैस्तत्र तत्र समावृतम्॥ प्रविशन्नेव सततं शुश्राव मधुरस्वनम्। तन्त्रीगीतसमाकीर्णं समतालपदाक्षरम्॥ बह्वीश्च विविधाकारा रूपयौवनगर्विताः। स्त्रियः सुग्रीवभवने ददर्श स महाबलः॥ दृष्ट्वाभिजनसम्पन्नास्तत्र माल्यकृतस्रजः। वनमाल्यकृतव्यग्रा भूषणोत्तमभूषिताः॥ नातृप्तान् नाति चाव्यग्रान् नानुदात्तपरिच्छदान्। सुग्रीवानुचरांश्चापि लक्षयामास लक्ष्मणः॥ कूजितं नू पुराणां च काञ्चीनां निःस्वनं तता स निशम्य ततः श्रीमान् सौमित्रिर्लज्रितोऽभवत्॥ रोषवेगप्रकुपितः श्रुत्वा चाभरणस्वनम्। चकार जायास्वनं वीरो दिशः शब्देन पूरयन्॥ चारित्रेण महाबाहुरपकृष्टः स लक्ष्मणः। तस्थावेकान्तमाश्रित्य रामकोपसमन्वितः॥ तेन चापस्वनेनाथ सुग्रीवः प्लवगाधिपः। विज्ञायागमनं त्रस्तः स चचाल वरासनात्॥ अङ्गदेन यथा मह्यं पुरस्तात् प्रतिवेदितम्। सुव्यक्तमेव सम्प्राप्तः सौमित्रिर्धातृवत्सलः॥ अङ्गदेन समाख्यातो ज्यास्वनेन च वानरः। बुबुधे लक्ष्मणं प्राप्तं मुखं चास्य व्यशुष्यत॥ ततस्तारां हरिश्रेष्ठः सुग्रीवः प्रियदर्शनाम्। उवाच हितमव्यग्रस्त्राससम्भ्रान्तमानसः॥ किं नु रुट्कारणं सुभ्र प्रकृत्या मृदुमानसः। सरोष इव सम्प्राप्तो येनायं राघवानुजः॥ किं पश्यसि कुमारस्य रोषस्थानमनिन्दिते। न खल्वकारणे कोपमाहरेन्नरपुङ्गवः॥ यद्यस्य कृतमस्माभिर्बुध्यसे किंचिदप्रियम्। तद्बुद्ध्या सम्प्रधाशु क्षिप्रमेवाभिधीयताम्॥ अथवा स्वयमेवैनं द्रष्टुमर्हसि भामिनि। वचनैः सान्त्वयुक्तैश्च प्रसादयितुमर्हसि॥ त्वद्दर्शने विशुद्धात्मा न स्म कोपं करिष्यति। नहि स्त्रीषु महात्मानः क्वचित् कुर्वन्ति दारुणम्॥ त्वया सान्त्वैरुपक्रान्तं प्रसन्नेन्द्रियमानसम्। ततः मलपत्राक्षं द्रक्ष्याम्यहमरिंदमम्॥ सा प्रस्खलन्ती मदविह्वलाक्षी प्रलम्बकाञ्चीगुणहेमसूत्रा। सलक्षणा लक्ष्मणसंनिधानं जगाम तारा नमिताङ्गयष्टिः॥ स तां समीक्ष्यैव हरीशपत्नी तस्थावुदासीनतया महात्मा। अवाङ्मुखोऽभून्मनुजेन्द्रपुत्रः स्त्रीसंनिकर्षाद् विनिवृत्तकोपः॥ सा पानयोगाच्च निवृत्तलज्जा दृष्टिप्रसादाच्च सरेन्द्रसूनोः। वाक्यं महार्थं परिसान्त्वरूपम्॥ किं कोपमूलं मनुजेन्द्रपुत्र कस्ते न संतिष्ठति वानिदेशे। कः शुष्कवृक्षं वनमापतन्तं दावाग्निमासीदति निर्विशङ्कः॥ स तस्या वचनं श्रुत्वा सान्त्वपूर्वमशङ्कितः। भूयः प्रणयदृष्टार्थं लक्ष्मणो वाक्यमब्रवीत्॥ किमयं कामवृत्तस्ते लुप्तधर्मार्थसंग्रहः। भर्ता भर्तहिते युक्ते न चैनमवबुध्यसे॥ न चिन्तयति राज्यार्थं सोऽस्माशोकपरायणान्। सामान्यपरिषत्तारे काममेवोपसेवते॥ स मासांश्चतुरः कृत्वा प्रमाणं प्लवगेश्वरः। व्यतीतांस्तान् मदोदग्रो विहरन् नावबुध्यते॥ नहि धर्मार्थसिद्ध्यर्थं पानमेवं प्रशस्यते। पानादर्थश्च कामश्च धर्मश्च परिहीयते॥ धर्मलोपो महांस्तावत् कृते ह्यप्रतिकुर्वतः। अर्थलोपश्च मित्रस्य नाशे गुणवतो महान्॥ मित्रं ह्यर्थगुणश्रेष्ठं सत्यधर्मपरायणम्। तद्वयं तु परित्यक्तं न तु धर्मे व्यवस्थितम्॥ तदेवं प्रस्तुते कार्ये कार्यमस्माभिरुत्तरम्। तत् कार्यं कार्यतत्त्वज्ञे त्वमुदाहर्तुमर्हसि ॥ सा तस्य धर्मार्थसमाधियुक्तं निशम्य वाक्यं मधुरस्वभावम्। तारा गतार्थे मनुजेन्द्रकार्ये विश्वासयुक्तं तमुवाच भूयः। ५०॥ न कोपकालः क्षितिपालपुत्र न चापि कोपः स्वजने विधेयः। त्वदर्थकामस्य जनस्य तस्य प्रमादमप्यर्हसि वीर सोढुम्॥ कोपं कथं नाम गुणप्रकृष्टः कुमार कुर्यादपकृष्टसत्त्वे। कस्त्वद्विधः कोपवशं हि गच्छेत् सत्त्वावरुद्धस्तपसः प्रसूतिः॥ र्जानामि कार्यस्य च कालसङ्गम्। स्तच्चापि जानामि यदत्र कार्यम् ॥ तच्चापि जानामि तथाविषा बलं नरश्रेष्ठ शरीरजस्य। जानामि यस्मिंश्च जनेऽवबद्धं कामेन सुग्रीवमसक्तमद्य ॥ न कामतन्त्रे तव बुद्धिरस्ति त्वं वै यथा मन्युवर्श प्रपन्नः। ववेक्षते कामरतिर्मनुष्यः॥ तं कामवृत्तं मम संनिकृष्टं कामाभियोगाच्च विमुक्तलज्जम्। स्त्वद्भातरं वानरवंशनाथम्॥ महर्षयो धर्मतपोऽभिरामाः कामानुकामाः प्रतिबद्धमोहाः। अयं प्रकृत्या चपलः कपिस्तु कथं न सज्जेत सुखेषु राजा॥ इत्येवमुक्त्वा वचनं महार्थं सा वानरी लक्ष्मणमप्रमेयम्। पुनः सखेदं मदविह्वलाक्षी भर्तुर्हितं वाक्यमिदं बभाषे॥ उद्योगस्तु चिराज्ञप्तः सुग्रीवेण नरोत्तम। कामस्यापि विधेयेन तवार्थप्रतिसाधने । ५९।। आगता हि महावीर्या हरयः कामरूपिणः। कोटी: शतसहस्राणि नानाजगनिवासिनः॥ तदागच्छ महाबाहो चारित्रं रक्षितं त्वया। अच्छलं मित्रभावेन सतां दारावलोकनम्॥ तारया चाभ्यनुज्ञातस्त्वरया वापि चोदितः। प्रविवेश महाबाहुरभ्यन्तरमरिंदमः॥ ततः सुग्रीवमासीनं काञ्चने परमासने। महार्हास्तरणोपेते ददर्शादित्यसंनिभम्॥ दिव्याभरणचित्राङ्गं दिव्यरूपं यशस्विनम्। दिव्यामाल्याम्बरधरं महेन्द्रमिव दुर्जयम्॥ दिव्याभरणमालाभिः प्रसादाभिः समावृतम्। संरब्धतररक्ताक्षो बभूवान्तकसंनिभः॥ रुमां तु वीरः परिरभ्य गाढं वरासनस्थो वरहेमवर्णः। ददर्श सौमित्रिमदीनसत्त्वं विशालनेत्रः स विशालनेत्रम्॥ तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम्। सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः॥ क्रुद्धं निःश्वसमानं तं प्रदीप्तमिव तेजसा। भ्रातुर्व्यसनसंतप्तं दृष्ट्वा दशरथात्मजम्॥ उत्पपात हरिश्रेष्ठो हित्वा सौवर्णमासनम्। महान्महेन्द्रस्य यथा स्वलंकृत इव ध्वजः॥ उत्पतन्तमनूत्पेतूरुमाप्रभृतयः स्त्रियः। सुग्रीवं गगने पूर्णं चन्द्रं तारागणा इव॥ संरक्तनयनः श्रीमान् संचचार कृताञ्जलिः। बभूवावस्थितस्तत्र कल्पवृक्षो महानिव ॥ रुमाद्वितीयं सुग्रीवं नारीमध्यगतं स्थितम्। अब्रवील्लक्ष्मणः क्रुद्धः सतारं शंशिनं यथा॥ सत्त्वाभिजनसम्पन्नः सानुक्रोशो जितेन्द्रियः। कृतज्ञः सत्यवादी च राजा लोके महीयते॥ यस्तु राजा स्थितोऽधर्मे मित्राणामुपकारिणाम्। मिथ्या प्रतिज्ञां कुरुते को नृशंसतरस्ततः॥ शतमश्वानृते हन्ति सहस्रं तु गवानृते आत्मानं स्वजनं हन्ति पुरुषः पुरुषानृते॥ पूर्वं कृतार्थो मित्राणां न तत्प्रतिकरोति यः। कृतघ्नः सर्वभूतानां स वध्यः प्लवगेश्वर॥ गीतोऽयं ब्रह्मणा श्लोकः सर्वलोकनमस्कृतः। दृष्ट्वा कृतघ्नं क्रुद्धेन तन्निबोध प्लवङ्गम॥ गोध्ने चैव सुरापे च चौरे भग्नव्रते तथा। निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः॥ अनार्यस्त्वं कृतघ्नश्च मिथ्यावादी च वानर। पूर्वं कृतार्थो रामस्य न तत्प्रतिकरोषि यत्॥ ननु नाम कृतार्थेन त्वया रामस्य वानर। सीताया मार्गणे यत्नः कर्तव्यः : कृतमिच्छता॥ स त्वं ग्राम्येषु भोगेषु सक्तो मिथ्याप्रतिश्रवः। न त्वां रामो विजानीते सधैं मण्डूकराविणम्॥ महाभागेन रामेण पापः करुणवेदिना। हरीणां प्रापितो राज्यं त्वं दुरात्मा पहात्मना॥ कृतं चेन्नातिजानीषे राघवस्य महात्मनः सद्यस्त्वं निशितैर्भाणैर्हतो द्रक्ष्यसि वालिनम्॥ न स संकुचितः पन्था येन वाली हतो गतः। समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः॥ च्छरांश्च तान् पश्यसि वज्रसंनिभान्। ततः सुखं नाम विषेवसे सुखी न रामकार्ये मनसाप्यवेक्षसे॥ तथा ब्रुवाणं सौमित्रिं प्रदीप्तमिव तेजसा। अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना॥ नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति। हरीणामीश्वरः श्रोतुं तव वक्त्राद् विशेषतः॥ नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः। नैवानृतकथो वीर न जिह्मश्च कपीश्वरः॥ उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः। रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे॥ रामप्रसादात् कीर्तिं च कपिराज्यं च शाश्वतम्। प्राप्तवानिह सुग्रीवो रुमां मां च परंतप॥ सुदुःखशयितः पूर्वं प्राप्येदं सुखमुत्तमम्। प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः॥ घृताच्यां किल संसक्तो दश वर्षाणि लक्ष्मण। अहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः॥ स हि प्राप्तं न जानीते कालं कालविदां वरः। विश्वामित्रो महातेजाः किं पुनर्यः पृथगजनः॥ देहधर्मगतस्यास्य परिश्रान्तस्य लक्ष्मण। अवितृप्तस्य कामेषु रामः क्षन्तुमिहार्हति ॥ न च रोषवशं तात गन्तुमर्हसि लक्ष्मण। निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा॥ सत्त्वयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभ। अविमृश्य न रोषश्य सहसा यान्ति वश्यताम् ॥ प्रसादये त्वां धर्मज्ञ सुग्रीवार्थं समाहिता। महान् रोषसमुत्पन्नः संरम्भस्त्यज्यतामयम्॥ रुमां मां चाङ्गदं राज्यं धनधान्यपशूनि च । रामप्रियार्थं सुग्रीवस्त्यजेदिति मतिर्मम ॥ समानेष्यति सुग्रीवः सीतया सह राघवम्। शशाङ्कमिव रोहिण्या हत्वा तं राक्षसाधमम्॥ शतकोटिसहस्राणि लङ्कायां किल रक्षसाम्। अयुतानि च षट्त्रिंशत्सहस्राणि शतानि च॥ अहत्वा तांश्च दुर्धर्षान् राक्षसान् कामरूपिणः। न शक्यो रावणो हन्तुं येन सा मैथिली हृता॥ ते न शक्या रणे हन्तुमसहायेन लक्ष्मण। रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः॥ एवमाख्यातवान् वाली स ह्यभिज्ञो हरीश्वरः। आगमस्तु न मे व्यक्तः श्रवात् तस्य ब्रवीम्यहम्॥ त्वत्सहायनिमित्तं हि प्रेषिता हरिपुङ्गवाः। आनेतुं वानरान् युद्धे सुबहून् हरिपुङ्गवान्॥ तांश्च प्रतीक्षमाणोऽयं विक्रान्तान् सुमहाबलान्। राघवस्यार्थसिद्ध्यर्थं न निर्याति हरीश्वरः॥ कृता सुसंस्था सौमित्रे सुग्रीवेण पुरा यथा। अद्य तैर्वानरैः सर्वैरागन्तव्यं महाबलैः॥ ऋक्षकोटिसहस्राणि गोलाङ्गुलशतानि च। अद्य त्वमुपयास्यन्ति जहि कोपमरिंदम। कोट्योऽनेकास्तु काकुत्स्थ कपीनां दीप्तेजसाम् ॥ तव हि मुखमिदं निरीक्ष्य कोपात् क्षतजसमे नयने निरीक्षमाणाः। हरिवरवनिता न यान्ति शान्ति प्रथमभयस्य हि शङ्किताः स्म सर्वाः॥ इत्युक्तस्तारया वाक्यं प्रश्रितं धर्मसंहतम्। मृदुस्वभावः सौमित्रिः प्रतिजग्राह तद्वचः॥ तस्मिन् प्रतिगृहीते तु वाक्ये हरिगणेश्वरः। लक्ष्मणात् सुमहत्वासं वस्त्रं क्लिन्नमिवात्यजत्॥ ततः कण्ठगतं माल्यं चित्रं बहुगणं महत्। चिच्छेद विमदश्चासीत् सुग्रीवो वानरेश्वरः॥ स लक्ष्मणं भीमबलं सर्ववानरसत्तमः। अब्रवीत् प्रश्रितं वाक्यं सुग्रीवः सम्प्रहर्षयन्॥ प्रणष्टा श्रीश्च कीर्तिश्च कपिराजं च शाश्वतम्। रामप्रसादात् सौमित्रे पुनश्चाप्तमिदं मया॥ कः शक्तस्तस्य देवस्य ख्यातस्य स्वेन कर्मणा। तादृशं प्रतिकुर्वीत अंशेनापि नृपात्मज॥ सीतां प्राप्स्यति धर्मात्मा वधिष्यति च रावणम्। सहायमात्रेण मया राघवः स्वेन तेजसा।७।। सहायकृत्यं किं तस्य येन सप्त महाद्रुमाः। गिरिश्च वसुधा चैव बाणेनैकेन दारिताः॥ धनुर्विस्फारमाणस्य यस्य शब्देन लक्ष्मण। सशैला कम्पिता भूमिः सहायैः किं नु तस्य वै॥ अनुयात्रां नरेन्द्रस्य करिष्येऽहं नरर्षभ। गच्छतो रावणं हन्तुं वैरिणं सपुरस्सरम्॥ यदि किंचिदतिक्रान्तं विश्वासात् प्रणयेन वा। प्रेष्यस्य क्षमितव्यं मे न कश्चिन्नापराध्यति॥ इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः। अभवल्लक्ष्मणः प्रीतः प्रेम्णा चेदमुवाच ह॥ सर्वथा हि मम भ्राता सनाथो वानरेश्वर। त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः॥ यस्ते प्रभावः सुग्रीव यच्च ते शौचमीदृशम्। अर्हस्त्वं कपिराज्यस्य श्रियं भोक्तुमनुत्तमाम्॥ सहायेन च सुग्रीव त्वया रामः प्रतापवान्। वधिष्यति रणे शत्रूनचिरान्नात्र संशयः॥ धर्मज्ञस्य कृतज्ञस्य संग्रामेष्वनिवर्तिनः। उपपत्रं च युक्तं च सुग्रीव तव भाषितम्॥ दोषज्ञः प्रतिसामर्थ्य कोऽन्यो भाषितुमर्हति। वर्जयित्वा मम ज्येष्ठं त्वां च वानरसत्तम ॥ सदृशश्चासि रामेण विक्रमेण बलेन च। सहायो दैवतैर्दत्तश्चिराय हरिपुंगव॥ किं त शीघ्रमितो वीर निष्क्रम त्वं मया सह। सान्त्वयस्व वयस्यं च भार्याहरणदुःखितम्॥ यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम्। मया त्वं परुषाण्युक्तस्तत् क्षमस्व सखे मम॥ किं त शीघ्रमितो वीर निष्क्रम त्वं मया सह। सान्त्वयस्व वयस्यं च भार्याहरणदुःखितम्॥ यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम्। मया त्वं परुषाण्युक्तस्तत् क्षमस्व सखे मम॥ एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना। हनूमन्तं स्थितं पार्श्वे वचनं चेदमब्रवीत्॥ महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु च। मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः॥ तरुणादित्यवर्णेषु भ्राजमानेषु नित्यशः। पर्वतेषु समुद्रान्ते पश्चिमस्यां तु ये दिशि॥ आदित्यभवने चैव गिरौ संध्याभ्रसंनिभे। पद्माचलवनं भीमाः संश्रिता हरिपुंगवाः॥ अञ्जनाम्बुदसंकाशाः कुञ्जरेन्द्रमहौजसः। अञ्जने पर्वते चैव ये वसन्ति प्लवङ्गमाः॥ महाशैलगुहावासा वानराः कनकप्रभाः। मेरुपार्श्वगताश्चैव ये च धूम्रगिरिं श्रिताः॥ तरुणादित्यवर्णाश्च पर्वते ये महारुणे। पिबन्तो मधु मैरेयं भीमवेगा: प्लवङ्गमाः॥ वनेषु च सुरम्येषु सुगन्धिषु महत्सु च। तापसाश्रमरम्येषु वनान्तेषु समन्ततः॥ तांस्तांस्त्वमानय क्षिप्रं पृथिव्यां सर्ववानरान्। सामदानादिभिः कल्पैर्वानरैर्वेगवत्तरैः॥ प्रेषिताः प्रथमं ये च मयाऽऽज्ञाता महाजवाः। त्वरणार्थं तु भूयस्त्वं सम्प्रेषय हरीश्वरान्॥ ये प्रसक्ताश्च कामेषु दीर्घसूत्राश्च वानराः। इहानयस्व ताशीघ्रं सर्वानेव कपीश्वरान् ॥ अहोभिर्दशभिर्ये च नागच्छन्ति ममाज्ञया। हन्तव्यास्ते दुरात्मानो राजशासनदूषकाः॥ शतान्यथ सहस्राणि कोट्यश्च मम शासनात्। प्रयान्तु कपिसिंहानां निदेशे मम ये स्थिताः॥ मेघपर्वतसंकाशाश्छादयन्त इवाम्बरम्। घोररूपाः कपिश्रेष्ठा यान्तु म मच्छासनादितः दितः॥ ते गतिज्ञा गतिं गत्वा पृथिव्यां सर्ववानराः। आनयन्तु हरीन् सर्वांस्त्वरिताः शासनान्मम॥ तस्य वानरराजस्य श्रुत्वा वायुसुतो वचः। दिक्षु सर्वासु विक्रान्तान् प्रेषयामास वानरान्॥ ते पदं विष्णुविक्रान्तं पतत्रिज्योतिरध्वगाः। प्रयाताः प्रहिता राज्ञा हरयस्तु क्षणेन वै॥ ते समुद्रेषु गिरिषु वनेषु च सरस्सु च। वानरा वानरान् सर्वान् रामहेतोरचोदयन्॥ मृत्युकालोपमस्याज्ञां राजराजस्य वानराः। सुग्रीवस्याययुः श्रुत्वा सुग्रीवभयशङ्किताः॥ ततस्तेऽञ्जनसंकाशा गिरेस्तस्मान्महाबलाः। तिस्रः कोट्यः प्लवङ्गानां निर्ययुर्यत्र राघवः॥ अस्तं गच्छति यत्रार्कस्तस्मिन् गिरिवरे रताः। संतप्तहेमवर्णाभास्तस्मात् कोट्यो दश च्युताः॥ कैलासशिखरेभ्यश्च सिंहकेसरवर्चसाम्। ततः कोटिसहस्राणि वानराणां समागमन्॥ फलमूलेन जीवन्तो हिमवन्तमुपाश्रिताः। तेषां कोटिसहस्राणां सहस्रं समवर्तत॥ अङ्गारकसमानानां भीमानां भीमकर्मणाम्। विन्ध्याद् वानरकोटीनां सहस्राण्यपतन् द्रुतम्॥ क्षीरोदवेलानिलयास्तमालवनवासिनः। नारिकेलासनाश्चैव तेषां संख्या न विद्यते॥ वनेभ्यो गह्वरेभ्यश्च सरिद्भ्यश्च महाबलाः। आगच्छद् वानरी सेना पिबन्तीव दिवाकरम्॥ ये तु त्वरयितुं याता वानराः सर्ववानरान्। ते वीरा हिमवच्छैले ददृशुस्तं महादुमम्॥ तस्मिन् गिरिवरे पुण्ये यज्ञो माहेश्वरः पुरा। सर्वदेवमनस्तोषो बभूव सुमनोरमः॥ अन्ननिस्यन्दजातानि मूलानि च फलानि च। अमृतस्वादुकल्पानि ददृशुस्तत्र वानराः॥ तदनसम्भवं दिव्यं फलमूलं मनोहरम्। यः कश्चित् सकृदश्नाति मासं भवति तर्पितः॥ तानि मूलानि दिव्यानि फलानि च फलाशनाः। औषधानि च दिव्यानि जगृहुर्हरिपुंगवाः॥ तस्माच्च यज्ञायतनात् पुष्पाणि सुरभीणि च। आनिन्युनिरा गत्वा सुग्रीवप्रियकारणात्॥ ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान्। संचोदयित्वा त्वरितं यूथानां जग्मुरग्रतः॥ ते तु तेन मुहूर्तेन कपयः शीघ्रचारिणः। किष्किन्धां त्वरया प्राप्ताः सुग्रीवो यत्र वानरः॥ ते गृहीत्वौषधीः सर्वा फलमूलं च वानराः। तं प्रतिग्राहयामासुर्वचनं चेदमब्रुवन्॥ सर्वे परिसृताः शैलाः सरितश्च वनानि च। पृथिव्यां वानराः सर्वे शासनादुपयान्ति ते॥ एवं श्रुत्वा ततो हृष्टः सुग्रीवः प्लवगाधिपः। प्रतिजग्राह च प्रीतस्तेषां सर्वमुपायनम्॥ प्रतिगृह्य च तत् सर्वमुपायनमुपाहतम्। वानरान् सान्त्वयित्वा च सर्वानिव व्यसर्जयत्॥ विसर्जयित्वा स हरीन् सहस्रान् कृतकर्मणः। मेने कृतार्थमात्मानं राघवं च महाबलम्॥ स लक्ष्मणो भीमबलं सर्ववानरसत्तमम्। अब्रवीत् प्रथितं वाक्यं सुग्रीवं सम्प्रहर्षयन् ॥ किष्किन्धाया विनिष्क्राम यदि ते सौम्य रोचते। तस्य तद् वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम्॥ सुग्रीवः परमप्रीतो वाक्यमेतदुवाच ह। एवं भवतु गच्छाम स्थेयं त्वच्छासने मया॥ तमेवमुक्त्वा सुग्रीवो लक्ष्मणं शुभलक्षणम्। विसर्जयामास तदा ताराद्याश्चैव योषितः॥ एहीत्युच्चैर्हरिवरान् सुग्रीवः समुदाहरत्। तस्य तद् वचनं श्रुत्वा हरयः शीघ्रमाययुः।७।। बद्धाञ्जलिपुटाः सर्वे ये स्युः स्त्रीदर्शनक्षमाः। तानुवाच ततः प्राप्तान् वाचार्कसदृशप्रभः॥ उपस्थापयत क्षिप्रं शिबिकां मम वानराः। श्रुत्वा तु वचनं तस्य हरयः शीघ्रविक्रमाः॥ समुपस्थापयामासुः शिबिकां प्रियदर्शनाम्। तामुपस्थापितां दृष्ट्वा शिबिकां वानराधिपः॥ लक्ष्मणारुह्यतां शीघ्रमिति सौमित्रिमब्रवीत्। इत्युक्त्वा काञ्चनं यानं सुग्रीवः सूर्यसंनिभम्॥ बहुभिर्हरिभिर्युक्तमारुरोह सलक्ष्मणः। पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि॥ शुक्लैश्च बालव्यजनैधूयमानैः समन्ततः। शङ्खभेरीनिनादैश्च बन्दिभिश्चाभिनन्दितः॥ निर्ययौ प्राप्य सुग्रीवो राज्यश्रियमनुत्तमाम्। स वानरशतैस्तीक्ष्णैर्बहुभिः शस्त्रपाणिभिः॥ परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः। स तं देशमनुप्राप्य श्रेष्ठं रामनिषेवितम्॥ अवातरन्महातेजाः शिबिकायाः सलक्ष्मणः। आसाद्य च ततो रामं कृताञ्जलिपुटोऽभवत्॥ कृताञ्जलौ स्थिते तस्मिन् वानराश्चाभवंस्तथा। तटाकमिव तं दृष्ट्वा रामः कुड्मलपङ्कजम्॥ वानराणां महत् सैन्यं सुग्रीवे प्रीतिमानभूत्। पादयोः पतितं मूर्धा तमुत्थाप्य हरीश्वरम्॥ प्रेम्णा च बहुमानाच्च राघवः परिषस्वजे। परिष्वज्य च धर्मात्मा निषीदेति ततोऽब्रवीत्॥ निषण्णं तं ततो दृष्ट्वा क्षितौ रामोऽब्रवीत् ततः। धर्ममर्थं च कामं च काले यस्तु निषेवते॥ विभज्य सततं वीर स राजा हरिसत्तम। हित्वा धर्मं तथाऽर्थं च कामं यस्तु निषेवते॥ स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते। अमित्राणां वधे युक्तो मित्राणां संग्रहे रतः॥ त्रिवर्गफलभोक्ता च राजा धर्मेण युज्यते। उद्योगसमयस्त्वेष प्राप्तः शत्रुनिषूदन ॥ संचिन्यतां हि पिङ्गेश हरिभिः सह मन्त्रिभिः। एवमुक्तस्तु सुग्रीवो रामं वचनमब्रवीत्॥ प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम्। त्वत्प्रसादान्महाबाहो पुनः प्राप्तमिदं मया॥ तव देव प्रसादाच्च भ्रातुश्च जयतां वर। कृतं न प्रतिकुर्याद् यः पुरुषाणां हि दूषणः॥ एते वानरमुख्याश्च शतशः शत्रुसूदन। प्राप्ताश्चादाय बलिनः पृथिव्यां सर्ववानरान्॥ ऋक्षाश्च वानराः शूरा गोलाङ्कलाश्च राघव। कान्तारवनदुर्गाणामभिज्ञा घोरदर्शनाः॥ देवगन्धर्वपुत्राश्च वानराः कामरूपिणः। स्वैः स्वैः परिवृताः सैन्यैर्वर्तन्ते पथि राघव॥ शतैः शतसहस्रैश्च वर्तन्ते कोटिभिस्तथा। अयुतैश्चावृता वीर शङ्कुभिश्च परंतप ॥ अर्बुदैरर्बुदशतैर्मध्यैश्चान्त्यैश्च वानराः। समुद्राश्च परार्धाश्च हरयो हरियूथपाः॥ आगमिष्यन्ति ते राजन् महेन्द्रसमविक्रमाः। मेघपर्वतसंकाशा मेरुविन्ध्यकृतालयाः॥ ते त्वामभिगमिष्यन्ति राक्षसं योद्धमाहवे। निहत्य रावणं युद्धे ह्यानयिष्यन्ति मैथिलीम्॥ ततः समिद्योगमवेक्ष्य वीर्यवान् हरिप्रवीरस्य निदेशवर्तिनः। बभूव हर्षाद् वसुधाधिपात्मजः प्रबुद्धनीलोत्पलतुल्यदर्शनः॥ इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः। बाहुभ्यां सम्परिष्वज्य प्रत्युवाच कृताञ्जलिम्॥ यदिन्द्रो वर्षते वर्षे न तच्चित्रं भविष्यति। आदित्योऽसौ सहस्रांशुः कुर्याद् वितिमिरं नभः॥ चन्द्रमा रजनी कुर्यात् प्रभया सौम्य निर्मलाम्। त्वद्विधो वापि मित्राणां प्रीतिं कुर्यात् परंतप॥ एवं त्वयि न तच्चित्रं भवेद् यत् सौम्य शोभनम्। जानाम्यहं त्वां सुग्रीव सततं प्रियवादिनम्॥ त्वत्सनाथः सखे संख्ये जेतास्मि सकलानरीन्। त्वमेव मे सुहृन्मित्रं साहाय्यं कर्तुमर्हसि ॥ जहारात्मविनाशाय मैथिली राक्षसाधमः। वञ्चयित्वा तु पौलोमीमनुह्लादो यथा शचीम्॥ न चिरात् तं वधिष्यामि रावणं निशितैः शरैः। पौलोम्याः पितरं दृप्तं शतक्रतुरिवारिहा॥ एतस्मिन्नन्तरे चैव रजः समभिवर्तत। उष्णतीव्रां सहस्रांशोश्छादयद् गगने प्रभाम्॥ दिशः पर्याकुलाश्चासंस्तमसा तेन दूषिताः। चचाल च मही सर्वा सशैलवनकानना॥ ततो नरेन्द्रसंकाशैस्तीक्ष्णदंष्ट्रैर्महाबलैः। कृत्स्ना संछादिता भूमिरसंख्येयैः प्लवङ्गमैः॥ निमेषान्तरमात्रेण ततस्तैहरियूथपैः। कोटीशतपरीवारैर्वानरैर्हरियूथपैः॥ नादेयैः पार्वतेयैश्च सामुद्रैश्च महाबलैः। हरिभिर्मेघनिदैिरन्यैश्च वनवासिभिः॥ तरुणादित्यवर्णैश्च शशिगौरैश्च वानरैः। पद्मकेसरवर्णैश्च श्वेतैर्हेमकृतालयैः॥ कोटीसहस्रैर्दशभिः श्रीमान् परिवृतस्तदा। वीरः शतबलिर्नाम वानरः प्रत्यदृश्यत ॥ ततः काञ्चनशैलाभस्ताराया वीर्यवान् पिता। अनेकैर्बहुसाहौः कोटिभिः प्रत्यदृश्यत॥ तथापरेण कोटीनां सहस्रेण समन्वितः। पिता रुमायाः सम्प्राप्तः सुग्रीवश्वशुरो विभुः॥ पद्मकेसरसंकाशस्तरुणार्कनिभाननः। बुद्धिमान् वानर श्रेष्ठः सर्ववानरसत्तमः॥ अनेकैर्बहुसाहस्रैर्वानराणां समन्वितः। पिता हनुमतः श्रीमान् केसरी प्रत्यदृश्यत॥ गोलाङ्गुलमहाराजो गवाक्षो भीमविक्रमः। वृतः कोटिसहस्रेण वानराणामदृश्यत॥ ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः। वृतः कोटिसहस्राभ्यां द्वाभ्यां समभिवर्तत॥ महाचलनिभैोरैः पनसो नाम यूथपः। आजगाम महावीर्यस्तिसृभिः कोटिभिर्वृतः॥ नीलाञ्जनचयाकारो नीलो नामैष यूथपः। अदृश्यत महाकायः कोटिभिर्दशभिर्वृतः॥ ततः काञ्चनशैलाभो गवयो नाम यूथपः। आजगाम महावीर्यः कोटिभिः पञ्चभिर्वृतः॥ दरीमुखश्च बलवान् यूथपोऽभ्याययौ तदा। वृतः कोटिसहस्रेण सुग्रीवं समवस्थितः॥ मैन्दश्च द्विविदश्चोभावश्विपुत्रौ महाबलौ। कोटिकोटिसहस्रेण वानराणामदृश्यताम्॥ गजश्च बलवान् वीरस्तिसृभिः कोटिभिर्वृतः। ऋक्षराजो महातेजा जाम्बरान्नाम नामतः।॥ कोटिभिर्दशभिर्व्याप्तः सुग्रीवस्य वशे स्थितः। रुम्णो नाम तेजस्वी विक्रान्तैर्वानरैर्वृतः॥ आगतो बलवांस्तूर्णं कोटीशतसमावृतः। ततः कोटिसहस्राणां सहस्रेण शतेन च॥ पृष्ठतोऽनुगतः प्राप्तो हरिभिर्गन्धमादनः। ततः पद्मसहस्रेण वृतः शङ्कुशतेन च ॥ युवराजोऽङ्गदः प्राप्तः पितुस्तुल्यपराक्रमः। ततस्ताराद्युतिस्तारो हरिभिर्भीमविक्रमैः॥ पञ्चभिर्हरिकोटीभिर्दूरतः पर्यदृश्यत। इन्द्रजानुः कविर्वीरो यूथपः प्रत्यदृश्यत॥ एकादशानां कोटीनामीश्वरस्तैश्च संवृतः। ततो रम्भस्त्वनुप्राप्तस्तरुणादित्यसंनिभः॥ अयुतेन वृतश्चैव सहस्रेण शतेन च। ततो यूथपतिवीरो दुर्मुखो नाम वानरः॥ प्रत्यदृश्यत कोटीभ्यां द्वाभ्यां परिवृतो बली। कैलासशिखराकारैर्वानरैर्भीमविक्रमैः॥ वृतः कोटिसहस्रेण हनुमान् प्रत्यदृश्यत। नलश्चापि महावीर्यः संवृतो दुमवासिभिः॥ कोटीशतेन सम्प्राप्तः सहस्रेण शतेन च। ततो दरीमुखः श्रीमान् कोटिभिर्दशभिर्वृतः॥ सम्प्राप्तोऽभिनदंस्तस्य सुग्रीवस्य महात्मनः॥ शरभः कुमुदो वह्निर्वानरो रंभ एव च॥ एते चान्ये च बहवो वानराः कामरूपिणः। आवृत्य पृथिवीं सर्वां पर्वतांश्च वनानि च ॥ यूथपाः समनुप्राप्ता येषां संख्या न विद्यते। आगताश्च निविष्टाश्च पृथिव्यां सर्ववानराः॥ आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः। अभ्यवर्तन्त सुग्रीवं सूर्यमभ्रगणा इव॥ कुर्वाणा बहुशब्दांश्च प्रकृष्टा बाहुशालिनः। शिरोभिर्वानरेन्द्राय सुग्रीवाय न्यवेदयन् ॥ अपरे वानरश्रेष्ठाः संगम्य च यथोचितम्। सुग्रीवेण समागम्य स्थिताः प्राञ्जलयस्तदा।॥ सुग्रीवस्त्वरितो रामे सर्वांस्तान् वानरर्षभान्। निवेदयित्वा धर्मज्ञः स्थितः प्राञ्जलिरब्रवीत्॥ यथासुखं पर्वतनिझरेषु वनेषु सर्वेषु च वानरेन्द्राः। निवेशयित्वा विधिवद् बलानि बलं बलज्ञः प्रतिपत्तुमीष्टे॥ अथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः। उवाच नरशार्दूलं रामं परबलार्दनम्॥ आगता विनिविष्टाश्च बलिन: कामरूपिणः। वानरेन्द्रा महेन्द्राभा ये मद्विषयवासिनः॥ त इमे बहुविक्रान्तैर्बलिभिर्भीमविक्रमैः। आगता वानरा घोरा दैत्यदानवसंनिभाः॥ ख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः। पराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः॥ पृथिव्यम्बुचरा राम नानानगनिवासिनः। कोट्योधाश्च इमे प्राप्ता वानरास्तव किंकराः॥ निदेशवर्तिनः सर्वे सर्वे गुरुहिते स्थिताः। अभिप्रेतमनुष्ठातुं तव शक्ष्यन्त्यरिंदम॥ त इमे बहुसाहस्रैरनीकैर्भीमविक्रमैः। आगता वानरा घोरा दैत्यदानवसंनिभाः॥ यन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम्। त्वत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि॥ काममेवमिदं कार्यं विदितं मम तत्त्वतः। तथापि तु यथायुक्तमाज्ञापयितुमर्हसि॥ तथा ब्रुवाणं सुग्रीवं रामो दशरथात्मजः। बाहुभ्यां सम्परिष्वज्य इदं वचनमब्रवीत्॥ ज्ञायतां सौम्य वैदेही यदि जीवति वा न वा। स च देशो महाप्राज्ञ यस्मिन् वसति रावणः॥ अधिगम्य तु वैदेहीं निलयं रावणस्य च। प्राप्तकालं विधास्यामि तस्मिन् काले सह त्वया॥ नाहमस्मिन् प्रभुः कार्ये वानरेन्द्र न लक्ष्मणः। त्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर॥ त्वमेवाज्ञापय विभो मम कार्यविनिश्चयम्। त्वं हि जानासि मे कार्यं मम वीर न संशयः॥ सुहृद्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित्। भवानस्मद्धिते युक्तः सुहृदाप्तोऽर्थवित्तमः॥ एवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम्। अब्रवीद् रामसांनिध्ये लक्ष्मणस्य च धीमतः॥ शैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरम्। सोमसूर्यनिभैः सार्धं वानरैर्वानरोत्तम॥ देशकालनयैर्युक्तो विज्ञः कार्यविनिश्चये। वृतः शतसहस्रेण वानराणां तरस्विनाम्॥ अधिगच्छ दिशं पूर्वां सशैलवनकाननाम्। तत्र सीतां च वैदेहीं निलयं रावणस्य च॥ मार्गध्वं गिरिदुर्गेषु वनेषु च नदीषु च। नदी भागीरथीं रम्यां सरयूं कौशिकी तथा॥ कालिन्दी यमुनां रम्यां यामुनं च महागिरिम्। सरस्वती च सिन्धुं च शोणं मणिनिभोदकम्॥ महीं कालमहीं चापि शैलकाननशोभिताम्। ब्रह्ममालान् विदेहांश्च मालवान् काशिकोसलान्॥ मागांश्च महाग्रामान् पुण्ड्रांस्त्वङ्गांस्तथैव च। भूमिं च कोशकाराणां भूमिं च रजताकराम्॥ सर्वं च तद् विचेतव्यं मृगयद्भिस्ततस्ततः। रामस्य दयितां भार्यां सीतां दशरथस्नुषाम्॥ समुद्रमवगाढांश्च पर्वतान् पत्तनानि च। मन्दरस्य च ये कोटिं संश्रिताः केचिदालयाः॥ कर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकाः। घोरलोहमुखाश्चैव जवनाश्चैकपादकाः॥ अक्षया बलवन्तश्च तथैव पुरुषादकाः। किरातास्तीक्ष्णचूडाश्च हेमाभाः प्रियदर्शनाः॥ आममीनाशनाश्चापि किराता द्वीपवासिनः। अन्तर्जलचरा घोरा नरव्याघ्रा इति स्मृताः॥ एतेषामाश्रयाः सर्वे विचेयाः काननौकसः। गिरिभिर्ये च गम्यन्ते प्लवनेन प्लवेन च॥ यत्नवन्तो यवद्वीपं सप्तराज्योपशोभितम्। सुवर्णरूप्यकद्वीपं सुवर्णाकरमण्डितम्॥ यवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः। दिवं स्पृशति शृङ्गेण देवदानवसेवितः॥ एतेषां गिरिदुर्गेषु प्रपातेषु वनेषु च। मार्गध्वं सहिताः सर्वे रामपत्नी यशस्विनीम्॥ ततो रक्तजलं प्राप्य शोणाख्यं शीघ्रवाहिनम्। गत्वा पारं समुद्रस्य सिद्धचारणसेवितम्॥ तस्य तीर्थेषु रम्येषु विचित्रेषु वनेषु च। रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ पर्वतप्रभवा नद्यः सुभीमबहुनिष्कुटाः। मार्गितव्या दरीमन्तः पर्वताश्च वनानि च॥ ततः समुद्रद्वीपांश्च सुभीमान् द्रष्टुमर्हथ। ऊर्मिमन्तं महारौद्रं क्रोशन्तमनिलोद्धतम्॥ तत्रासुरा महाकायाश्छायां गृहन्ति नित्यशः। ब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः॥ तं कालमेघप्रतिमं महोरगनिषेवितम्। अभिगम्य महानादं तीर्थेनैव महोदधिम्॥ ततो रक्तजलं भीमं लोहितं नाम सागरम्। गत्वा प्रेक्ष्यथ तां चैव बृहती कूटशाल्मलीम्॥ गृहं च वैनतेयस्य नानारत्नविभूषितम्। तत्र कैलाससंकाशं विहितं विश्वकर्मणा॥ तत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः। शैलशृङ्गेषु लम्बन्ते नानारूपा भयावहाः॥ ते पतन्ति जले नित्यं सूर्यस्योदयनं प्रति। अभितप्ताः स्म सूर्येण लम्बन्ते स्म पुनः पुनः।॥ निहता ब्रह्मतेजोभिरहन्यहनि राक्षसाः। ततः पाण्डुरमेघाभं क्षीरोदं नाम सागरम्॥ गत्वा द्रक्ष्यथ दुर्धर्षा मुक्ताहारमिवोर्मिभिः। तस्य मध्ये महाश्वेतो ऋषभो नाम पर्वतः॥ दिव्यगन्धैः कुसुमितैराचितैश्च नगैर्वृतः। सरश्च राजतैः पद्मज्वलितैर्हेमकेसरैः॥ नाम्ना सुदर्शनं नाम राजहंसैः समाकुलम्। विबुधाश्चारणा यक्षाः किंनराश्चाप्सरोगणाः॥ हृष्टाः समधिगच्छन्ति नलिनी तां रिरंसवः। क्षीरोदं समतिक्रम्य तदा द्रक्ष्यथ वानराः॥ जलोदं सागरं शीघ्रं सर्वभूतभयावहम्। तत्र तत्कोपजं तेजः कृतं हयमुखं महत्॥ अस्याद्भुतं महावेगमोदनं सचराचरम्। तत्र विक्रोशतां नादो भूतानां सागरौकसाम्। श्रूयते चासमर्थानां दृष्ट्वाभूद् वडवामुखम् ॥ स्वादूदस्योत्तरे तीरे योजनानि त्रयोदश। जातरूपशिलो नाम सुमहान् कनकप्रभः॥ तत्र चन्द्रप्रतीकाशं पन्नगं धरणीधरम्। पद्मपत्रविशालाक्षं ततो द्रक्ष्यथ वानराः। ५१।। आसीनं पर्वतस्याने सर्वदेवनमस्कृतम्। सहस्रशिरसं देवमनन्तं नीलवाससम्॥ त्रिशिराः काञ्चनः केतुस्तालस्तस्य महात्मनः। स्थापितः पर्वतस्यागे विराजति सवेदिकः॥ पूर्वस्यां दिशि निर्माणं कृतं तत् त्रिदशेश्वरैः। ततः परं हेममयः श्रीमानुदयपर्वतः॥ तस्य कोटिर्दिवं स्पृष्ट्वा शतयोजनमायता। जातरूपमयी दिव्या विराजति सवेदिका॥ सालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः। जातरूपमयैर्दिव्यैः शोभते सूर्यसंनिभैः५६।। तत्र योजनविस्तारमुच्छ्रितं दशयोजनम्। शृङ्ग सौमनसं नाम जातरूपमयं ध्रुवम्। तत्र पूर्वं पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे। द्वितीयं शिखरे मेरोश्चकार पुरुषोत्तमः॥ उत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः। दृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम्॥ तत्र वैखानसा नाम वालखिल्या महर्षयः। अयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते। तस्मिंस्तेजश्च चक्षुश्च सर्वप्राणभृतामपि॥ शैलस्य तस्य पृष्ठेषु कन्दरेषु वनेषु च। रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ काञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः। आविष्टा तेजसा संध्या पूर्वा रक्ता प्रकाशते॥ पूर्वमेतत् कृतं द्वारं पृथिव्या भुवनस्य च। सूर्यस्योदयनं चैव पूर्वा ह्येषा दिगुच्यते॥ तस्य शैलस्य पृष्ठेषु निझरेषु गुहासु च। रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ ततः परमगम्या स्याद् दिक्पूर्वा त्रिदशावृता। रहिता चन्द्रसूर्याभ्यामदृश्या तमसावृता॥ शैलेषु तेषु सर्वेषु कन्दरेषु नदीषु च। ये च नोक्ता मयोद्देशा विचेया तेषु जानकी॥ एतावद् वानरैः शक्यं गन्तुं वानरपुङ्गवाः। अभास्करममर्यादं न जानीमस्ततः परम्॥ अभिगम्य तु वैदेहीं निलयं रावणस्य च। मासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम् ॥ ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम। सिद्धार्थाः संनिवर्तध्वमधिगम्य च मैथिलीम्॥ महेन्द्रकान्तां वनषण्डमण्डितां दिशं चरित्वा निपुणेन वानराः। अवाप्य सीतां रघुवंशजप्रियां ततो निवृत्ताः सुखिनो भविष्यथ। ७१।। ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम्। दक्षिणां प्रेषयामास वानरानभिलक्षितान्॥ नीलमग्निसुतं चैव हनूमन्तं च वानरम्। पितामहसुतं चैव जाम्बवन्तं महौजसम्॥ सुहोत्रं च शरारि च शरगुल्मं तथैव च। गजं गवाक्षं गवयं सुषेणं वृषभं तथा॥ मैन्दं च द्विविदं चैव सुषेणं गन्धमादनम्। उल्कामुखमनङ्गं च हुताशनसुताबुभौ॥ अङ्गदप्रमुखान् वीरान् वीरः कपिगणेश्वरः। वेगविक्रमसम्पन्नान् संदिदेश विशेषवित्॥ तेषामग्रेसरं चैव बृहद्बलमथाङ्गदम्। विधाय हरिवीराणामादिशद् दक्षिणां दिशम्॥ ये केचन समुद्देशास्तस्यां दिशि सुदुर्गमाः। कपीशः कपिमुख्यानां स तेषां समुदाहरत्॥ सहस्रशिरसं विन्ध्यं नानादुमलतायुतम्। नर्मदां च नदी रम्यां महोरगनिषेविताम्॥ ततो गोदावरी रम्या कृष्णवेणीं महानदीम्। वरदां च महाभागां महोरगनिषेविताम्। मेखलानुत्कलांश्चैव दशार्णनगराण्यपि॥ आब्रवन्तीमवन्ती च सर्वमेवानुपश्यत। विदर्भानृष्टिकांश्चैव रम्यान् माहिषकानपि॥ तथा मत्स्यकलिङ्गांश्च कौशिकांश्च समन्ततः। अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहम्॥ नदी गोदावरी चैव सर्वमेवानुपश्यत। तथैवान्ध्रांश्च पुण्ड्रांश्च चोलान्पाण्ड्यांश्च केरलान्॥ अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः। विचित्रशिखरः श्रीमांश्चित्रपुष्पितकाननः॥ सुचन्दनवनोद्देशो मार्गितव्यो महागिरिः। ततस्तामापगां दिव्यां प्रसन्नसलिलाशयाम्॥ तत्र द्रक्ष्यथ कावेरी विहतामप्सरोगणैः। तस्यासीनं नगस्याग्रे मलयस्य महौजसम्॥ द्रक्ष्यथादित्यसंकाशमगस्त्यमृषिसत्तमम्। ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना॥ ताम्रपर्णी ग्राहजुष्टां तरिष्यथ महानदीम्। सा चन्दनवनैश्चित्रैः प्रच्छन्नद्वीपवारिणी॥ कान्तेव युवती कान्तं समुद्रमवगाहते। ततो हेममयं दिव्यं मुक्तामणिविभूषितम्॥ युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः। ततः समुद्रमासाद्य सम्प्रधार्यार्थनिश्चयम्॥ अगस्त्येनान्तरे तत्र सागरे विनिवेशितः। चित्रसानुनगः श्रीमान् महेन्द्रः पर्वतोत्तमः॥ जातरूपमयः श्रीमानवगाढो महार्णवम्। नानाविधैर्नगैः फुल्लैलताभिश्चोपशोभितम्॥ देवर्षियक्षप्रवरैरप्सरोभिश्च शोभितम्। सिद्धचारणसङ्घश्च प्रकीर्णं सुमनोरमम्॥ तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु। द्वीपस्तस्यापरे पारे शतयोजनविस्तृतः॥ अगम्यो मानुषैर्दीप्तस्तं मार्गध्वं समन्ततः। तत्र सर्वात्मना सीता मार्गितव्या विशेषतः॥ स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः। राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः॥ दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी। अङ्गारकेति विख्याता छायामाक्षिप्य भोजनी ॥ एवं निःसंशयान् कृत्वा संशयानष्टसंशयाः। मृगयध्वं नरेन्द्रस्य पत्नीममिततेजसः॥ तमतिक्रम्य लक्ष्मीवान् समुद्रे शतयोजने। गिरिः पुष्पितको नाम सिद्धचारणसेवितः॥ चन्द्रसूर्यांशुसंकाशः सागराम्बुसमाश्रयः। भ्राजते विपुलैः शृङ्गैरम्बरं विलिखन्निव॥ तस्यैकं काञ्चनं शृङ्ग सेवते यं दिवाकरः। न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः॥ प्रणम्य शिरसा शैलं तं विमार्गथ वानराः। तमतिक्रम्य दुर्धर्षं सूर्यवान्नाम पर्वतः॥ अध्वना दुर्विगाहेन योजनानि चतुर्दश। ततस्तमप्यतिक्रम्य वैद्युतो नाम पर्वतः॥ सर्वकामफलैर्वृक्षैः सर्वकालमनोहरैः। तत्र भुक्त्वा वराहा॑णि मूलानि च फलानि च॥ मधूनि पीत्वा जुष्टानि परं गच्छत वानराः। तत्र नेत्रमन:क्रान्तः कुञ्जरो नाम पर्वतः॥ अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा। तत्र योजनविस्तारमुच्छ्रितं दशयोजनम्॥ शरणं काञ्चनं दिव्यं नानारत्नविभूषितम्। तत्र भोगवती नाम सर्पाणामालयः पुरी॥ विशालरथ्य दुर्धर्षा सर्वतः परिरक्षिता। रक्षिता पन्नगै।रैस्तीक्ष्णदंष्ट्रैर्महाविषैः॥ सर्पराजो महाघोरो यस्यां वसति वासुकिः। निर्याय मार्गितव्या च सा च भोगवती पुरी॥ तत्र चानन्तरोद्देशा ये केचन समावृताः। तं च देशमतिक्रम्य महानृषभसंस्थितिः॥ सर्वरत्नमयः श्रीमानृषभो नाम पर्वतः। गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम्॥ दिव्यमुत्पद्यते यत्र तच्चैवाग्निसमप्रभम्। न तु तच्चन्दनं दृष्ट्वा स्प्रष्टव्यं तु कदाचन ॥ रोहिता नाम गन्धर्वा घोरं रक्षन्ति तद्वनम्। तत्र गन्धर्वपतयः पञ्च सूर्यसमप्रभाः॥ शैलूषो ग्रामीणी: शिक्षः शुको बभ्रुस्तथैव च। रविसोमाग्निवपुषां निवासः पुण्यकर्मणाम्॥ अन्ते पृथिव्या दुर्धर्षास्ततः स्वर्गजितः स्थिताः। ततः परं न वः सेव्यः पितृलोकः सुदारुणः॥ राजधानी यमस्यैषा कष्टेन तमसाऽऽवृता। एतावदेव युष्माभिर्वीरा वानरपुंगवाः। शक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः॥ सर्वमेतत् समालोक्य यच्चान्यदपि दृश्यते। गतिं विदित्वा वैदेह्याः संनिवर्तितुमर्हथ ॥ यश्च मासानिवृत्तोऽग्रे दृष्ट्वा सीतेति वक्ष्यति। मत्तुल्यविभवो भोगैः सुखं स विहरिष्यति॥ ततः प्रियतरो नास्ति मम प्राणाद् विशेषतः। कृतापराधो बहुशो मम बन्धुभविष्यति ॥ अमितबलपराक्रमा भवन्तो विपुलगुणेषु कुलेषु च प्रसूताः। मनुजपतिसुतां यथा लभध्वं तदधिगुणं पुरुषार्थमारभध्वम्॥ अथ प्रस्थाप्य स हरीन् सुग्रीवो दक्षिणां दिशम्। अब्रवीन्मेघसंकाशं सुषेणं नाम वानरम्॥ तारायाः पितरं राजा श्वशुरं भीमविक्रमम्। अब्रवीत् प्राञ्जलिवाक्यमभिगम्य प्रणम्य च॥ महर्षिपुत्रं मारीचमर्चिष्मन्तं महाकपिम्। वृतं कपिवरैः शूरैर्महेन्द्रसदृशद्युतिम्॥ बुद्धिविक्रमसम्पन्नं वैनतेयसमद्युतिम्। मरीचिपुत्रान् मारीचानचिर्माल्यान् महाबलान्॥ ऋषिपुत्रांश्च तान् सर्वान्प्रतीचीमादिशद् दिशम्। द्वाभ्यां शतसहस्राभ्यां कपीनां कपिसत्तमाः॥ सुषेणप्रमुखा यूयं वैदेही परिमार्गथ। सौराष्ट्रान् सहबाह्रीकांश्चन्द्रचित्रांस्तथैव च॥ स्फीताञ्जनपदान् रम्यान् विपुलानि पुराणि च। पुंनागगहनं कुक्षिं बकुलोद्दालकाकुलम्॥ तथा केतकखण्डांश्च मार्गध्वं हरिपुङ्गवाः। प्रत्यक्स्रोतोवहाश्चैव नद्यः शीतजला: शिवाः॥ तापसानामरण्यानि कान्तारगिरयश्च ये। तत्र स्थलीमरुप्राया अत्युच्चशिशिराः शिलाः॥ गिरिजालावृतां दुर्गा मार्गित्वा पश्चिमां दिशम्। ततः पश्चिममागम्य समुद्रं द्रष्टुमहर्थ॥ तिमिनक्राकुलजलं गत्वा द्रक्ष्यथ वानराः। ततः केतकखण्डेषु तमालगहनेषु च॥ कपयो विहरिष्यन्ति नारिकेलवनेषु च। तत्र सीतां च मार्गध्वं निलयं रावणस्य च॥ वेलातलनिविष्टेषु पर्वतेषु वनेषु च। मुरचीपत्तनं चैव रम्यं चैव जटापुरम्॥ अवन्तीमङ्गलेषां च तथा चालक्षितं वनम्। राष्ट्राणि च विशालानि पत्तनानि ततस्ततः॥ सिन्धुसागरयोश्चैव संगमे तत्र पर्वतः। महान् सोमगिरि म शतशृङ्गो महाद्रुमः॥ तत्र प्रस्थेषु रम्येषु सिंहा पक्षगमाः स्थिताः। तिमिमत्स्यगजांश्चैव नीडान्यारोपयन्ति ते॥ तानि नीडानि सिंहानां गिरिशृङ्गगताश्च ये। दृप्तास्तृप्ताश्च मातङ्गास्तोयदस्वननिःस्वनाः॥ विचरन्ति विशालेऽस्मिंस्तोयपूर्णे समन्ततः। तस्य शृङ्ग दिवस्पर्श काञ्चनं चित्रपादपम्॥ सर्वमाशु विचेतव्यं कपिभिः कामरूपिभिः। कोटिं तत्र समुद्रस्य काञ्चनीं शतयोजनाम्॥ दुर्दशां पारियात्रस्य गत्वा द्रक्ष्यथ वानराः। कोट्यस्तत्र चतुर्विंशद् गन्धर्वाणां तपस्विनाम्॥ वसन्त्यग्निनिकाशानां घोराणां पापकर्मणाम्। पावकार्चिः प्रतीकाशाः समवेताः समन्ततः॥ नात्यासादयितव्यास्ते वानरैर्भीमविक्रमैः। नादेयं च फलं तस्माद्देशात् किंचित् प्लवङ्गमैः॥ दुरासदा हि ते वीराः सत्त्ववन्तो महाबलाः। फलामूलानि ते तत्र रक्षन्ते भीमविक्रमाः॥ तत्र यत्नश्च कर्तव्यो मार्गितव्या च जानकी। नहि तेभ्यो भयं किंचित् कपित्वमनुवर्तताम्॥ तत्र वैदूर्यवर्णाभो वज्रसंस्थानसंस्थितः। नानागुमलताकीर्णो वज्रो नाम महागिरिः॥ श्रीमान् समुदितस्तत्र योजनानां शतं समम्। गुहास्तत्र विचेतव्या प्रयत्नेन प्लवङ्गमाः॥ चतुर्भागे समुद्रस्य चक्रवान् नाम पर्वतः। तत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा ॥ तत्र पञ्चजनं हत्वा हयग्रीवं च दानवम्। आजहार ततश्चक्रं शङ्ख च पुरुषोत्तमः॥ तस्य सानुषु रम्येषु विशालासु गुहासु च। रावणः सह वैदह्या मार्गितव्यस्ततस्ततः॥ योजनानि चतुःषष्टिर्वराहो नाम पर्वतः। सुवर्णशृङ्गः सुमहानगाधे वरुणालये॥ तत्र प्राग्ज्योतिषं नाम जातरूपमयं पुरम्। यस्मिन् वसति दुष्टात्मा नरको नाम दानवः ॥ तत्र सानुषु रम्येषु विशालासु गुहासु च। रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ तमतिक्रम्य शैलेन्द्र काञ्चनान्तरदर्शनम्। पर्वतः सर्वसौवर्णो धाराप्रस्रवणायुतः॥ तं गजाश्च वराहाश्च सिंहा व्याघ्राश्च सर्वतः। अभिगर्जन्ति सततं तेन शब्देन दर्पिताः॥ यस्मिन् हरिहयः श्रीमान् महेन्द्रः पाकशासनः। अभिषिक्तः सुरै राजा मेघो नाम स पर्वतः॥ तमतिक्रम्य शैलेन्द्र महेन्द्रपरिपालितम्। षष्टिं गिरिसहस्राणि काञ्चनानि गमिष्यथ॥ तरुणादित्यवर्णानि भ्राजमानानि सर्वशः। जातरूपमयैर्वृक्षैः शोभितानि सुपुष्पितैः॥ तेषां मध्ये स्थितो राजा मेरुरुत्तमपर्वतः। आदित्येन प्रसन्नेन शैलो दत्तवरः पुरा ॥ तेनैवमुक्तः शैलेन्द्रः सर्व एव त्वदाश्रयाः। मत्प्रसादाद् भविष्यन्ति दिवा रात्रौ च काञ्चनाः॥ त्वयि ये चापि वत्स्यन्ति देवगन्धर्वदानवाः। ते भविष्यन्ति भक्ताश्च प्रभया काञ्चनप्रभाः॥ विश्वेदेवाश्च वसवो मरुतश्च दिवौकसः। आगत्य पश्चिमां संध्यां मेरुमुत्तमपर्वतम्॥ आदित्यमुपतिष्ठन्ति तैश्च सूर्योऽभिपूजितः। अदृश्यः सर्वभूतानामस्तं गच्छति पर्वतम्।॥ योजनानां सहस्राणि दश तानि दिवाकरः। मुहूर्तार्धन तं शीघ्रमभियाति शिलोच्चयम्॥ शृङ्गे तस्य महद्दिव्यं भवनं सूर्यसंनिभम्। प्रासादगणसम्बाधं विहितं विश्वकर्मणा॥ शोभितं तरुभिश्चित्रै नापक्षिसमाकुलैः। निकेतं पाशहस्तस्य वरुणस्य महात्मनः॥ अन्तरा मेरुमस्तं च तालो दशशिरा महान्। जातरूपमयः श्रीमान् भ्राजते चित्रवेदिकः॥ तेषु सर्वेषु दुर्गेषु सरस्सु च सरित्सु च। रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ यत्र तिष्ठति धर्मज्ञस्तपसा स्वेन भावितः। मेरुसावर्णिरित्येष ख्यातो चै ब्रह्मणा समः॥ ।। प्रष्टव्यो मेरुसावर्णिमहर्षिः सूर्यसंनिभः। प्रणम्य शिरसा भूमौ प्रवृत्तिं मैथिली प्रति॥ एतावज्जीवलोकस्य भास्करो रजनीक्षये। कृत्वा वितिमिरं सर्वमस्तं गच्छति पर्वतम्॥ एतावद् वानरैः शक्यं गन्तुं वानरपुङ्गवाः। अभास्करममर्यादं न जानीमस्ततः परम्॥ अवगम्य तु वैदेहीं निलयं रावणस्य च अस्तं पर्वतमासाद्य पूर्णे मासे निवर्तत। ५२।। ऊर्ध्वमासान्न वस्तव्यं वसन् वध्यो भवेन्मम। सहैव शूरो युष्माभिः श्वशुरो मे गमिष्यति॥ श्रोतव्यं सर्वमेतस्य भवद्भिदिष्टकारिभिः। गुरुरेष महाबाहुः श्वशुरो मे महाबलः॥ भवन्तश्चापि विक्रान्ताः प्रमाणं सर्व एव हि। प्रमाणमेनं संस्थाप्य पश्यध्वं पश्चिमां दिशम्॥ कृतकृत्या भविष्यामः कृतस्य प्रतिकर्मणा।। अतोऽन्यदपि यत्कार्यं कार्यस्यास्य प्रियं भवेत्। सम्प्रधार्य भवद्भिश्च देशकालार्थसंहितम्॥ ततः सुषेणप्रमुखाः प्लवङ्गमाः सुग्रीववाक्यं निपुणं निशम्य। आमन्त्र्य सर्वे प्लवगाधिपा ते जग्मुर्दिशं तां वरुणाभिगुप्ताम्॥ ततः संदिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम्। वीरं शतबलं नाम वानरं वानरेश्वरः॥ उवाच राजा सर्वज्ञः सर्ववानरसत्तमः। वाक्यमात्महितं चैव रामस्य च हितं तदा॥ वृतः शतसहस्रेण त्वद्विधानां वनौकसाम्। वैवस्वतसुतैः सार्धं प्रविष्टः सर्वमन्त्रिभिः॥ दिशं धुंदीची विक्रान्तहिमशैलावतंसिकाम्। सर्वतः परिमार्गध्वं रामपत्नी यशस्विनीम्॥ अस्मिन् कार्ये विनिर्वृत्ते कृते दाशरथे: प्रिये। ऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वर ॥ कृतं हि प्रियमस्माकं राघवेण महात्मना। तस्य चेत्प्रतिकारोऽस्ति सफलं जीवितं भवेत्॥ अर्थिनः कार्यनिर्वृत्तिमकर्तुरपि यश्चरेत्। तस्य स्यात् सफलं जन्म किं पुनः पूर्वकारिणः।७।। एतां बुद्धिं समास्थाय दृश्यते जानकी यथा। तथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः॥ अयं हि सर्वभूतानां मान्यस्तु नरसत्तमः। अस्मासु च गतः प्रीतिं रामः परपुरंजयः॥ इमानि बहुदुर्गाणि नद्यः शैलान्तराणि च। भवन्तः परिमार्गन्तु बुद्धिविक्रमसम्पदा ॥ तत्र म्लेच्छान् पुलिन्दांश्च शूरसेनांस्तथैव च। प्रस्थलान् भरतांश्चैव कुरुंश्च सह मद्रकैः॥ काम्बोजयवनांश्चैव शकानां पत्तनानि च। अन्वीक्ष्य वरदांश्चैव हिमवन्तं विचिन्वथ ॥ लोध्रपद्मकखण्डेषु देवदारुवनेषु च। रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ ततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम्। कालं नाम महासानुं पर्वतं तं गमिष्यथ॥ महत्सु तस्य शैलेषु पर्वतेषु गुहासु च। विचिन्वत महाभागां रामपत्नीमनिन्दिताम्॥ तमतिक्रम्य शैलेन्द्रं हेमगर्भ महागिरिम्। ततः सुदर्शनं नाम पर्वतं गन्तुमर्हथ ॥ ततो देवसखा नाम पर्वतः पतगालयः। नानापक्षिसमाकीर्णो विविधद्रुमभूषितः॥ तस्य काननखण्डेषु निर्झरेषु गुहासु च। रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ तमतिक्रम्य चाकाशं सर्वतः शतयोजनम्। अपर्वतनदीवृक्षं सर्वसत्त्वविवर्जितम्॥ तत्तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम्। कैलासं पाण्डुरं प्राप्य हृष्टा यूयं भविष्यथ॥ तत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम्। कुबेरभवनं रम्यं निर्मितं विश्वकर्मणा ॥ विशाला नलिनी यत्र प्रभूतकमलोत्पला। हंसकारण्डवाकीर्णा अप्सरोगणसेविता ॥ तत्र वैश्रवणो राजा सर्वलोकनमस्कृतः। धनदो रमते श्रीमान् गुह्यकैः सह यक्षराट्॥ तस्य चन्द्रनिकाशेषु पर्वतेषु गुहासु च। रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ क्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम् । अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत् स्मृतम्॥ वसन्ति हि महात्मानस्तत्र सूर्यसमप्रभाः। देवैरभ्यर्थिताः सम्यग् देवरूपा महर्षयः॥ क्रौञ्चस्य तु गुहाश्चान्याः सानूनि शिखराणि च । दर्दराश्च नितम्बाश्च विचेतव्यास्ततस्ततः॥ अवृक्षं कामशैलं च मानसं विहगालयम्। न गतिस्तत्र भूतानां देवानां न च रक्षसाम्॥ स च सर्वैर्विचेतव्यः ससानुप्रस्थभूधरः। क्रौञ्चं गिरिमतिक्रम्य मैनाको नाम पर्वतः॥ मयस्य भवनं तत्र दानवस्य स्वयंकृतम्। मैनाकस्तु विचेतव्यः ससानुप्रस्थकन्दरः॥ स्त्रीणामश्वमुखीनां तु निकेतस्तत्र तत्र तु। तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम्॥ सिद्धा वैखानसा यत्र बालखिल्याश्च तापसाः। दतव्यास्ततः सिद्धास्तपसा वीतकल्मषाः॥ प्रष्टव्या चापि सीतायाः प्रवृत्तिर्विनयान्वितैः। हेमपुष्करसंछन्नं तत्र वैखानसं सरः॥ तरुणादित्यसंकाशैहँसैर्विचरितं शुभैः। औपबाह्यः कुबेरस्य सार्वभौम इति स्मृतः॥ गजः पर्येति तं देशं सदा सह करेणुभिः। तत् सरः समतिक्रम्य नष्टचन्द्रदिवाकरम्। अनक्षत्रगणं व्योम निष्पयोदमनादितम् ॥ गभस्तिभिरिवार्कस्य स तु देशः प्रकाश्यते। विश्राम्यद्भिस्तपः सिद्धैर्देवकल्पैः स्वयंप्रभैः॥ तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा। उभयोस्तीरयोस्तस्याः कीचका नाम वेणवः॥ ते नयन्ति परं तीरं सिद्धान् प्रत्यानयन्ति च। उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रयाः। ततः काञ्चनपद्माभिः पद्मिनीभिः कृतोदकाः॥ नीलवैदूर्यपत्राढ्या नद्यस्तत्र सहस्रशः। रक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः॥ तरुणादित्यसंकाशा भान्ति तत्र जलाशयाः। महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः॥ नीलोत्पलवनैश्चित्रैः स देशः सर्वतो वृतः। निस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः॥ उद्धृतपुलिनास्तत्र जातरूपैश्च निम्नगाः। सर्वरत्नमयैश्चिौरवगाढा नगोत्तमैः॥ जातरूपमयैश्चापि हुताशनसमप्रभैः। नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः॥ दिव्यगन्धरसस्पर्शाः सर्वकामान् स्रवन्ति च। नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः॥ मुक्तावैदूर्यचित्राणि भूषणानि तथैव च। स्त्रीणां यान्यनुरूपाणि पुरुषाणां तथैव च॥ सर्वर्तुसुखसेव्यानि फलन्त्यन्ये नगोत्तमाः। महार्हमणिचित्राणि फलन्त्यन्ये नगोत्तमाः।४६।। शयनानि प्रसूयन्ते चित्रास्तरणवन्ति च। मन:कान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाः॥ पानानि च महार्हाणि भक्ष्याणि विविधानि च। स्त्रियश्च गुणसम्पन्ना रूपयौवनलक्षिताः॥ गन्धर्वाः किन्नराः सिद्धा नागा विद्याधरास्तथा। रमन्ते सततं तत्र नारीभिर्भास्वरप्रभाः॥ सर्वे सुकृतकर्माणः सर्वे रतिपरायणाः। सर्वे कामार्थसहिता वसन्ति सह योषितः॥ गीतवादित्रनिर्घोषः सोत्कृष्टहसितस्वरैः। श्रूयते सततं तत्र सर्वभूतमनोरमः॥ तत्र नामुदितः कश्चिन्नात्र कश्चिदसत्प्रियः। अहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः॥ समतिक्रम्य तं देशमुत्तरः पयसां निधिः। तत्र सोमगिरि म मध्ये हेममयो महान्।५३।। स तु देशो विसूर्योऽपि तस्य भासा प्रकाशते। सूर्यलक्ष्म्याभिविज्ञेयस्तपतेव विवस्वता ॥ भूधरांस्तत्र विश्वात्मा शम्भुरेकादशात्मकः। ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः॥ न कथंचन गन्तव्यं कुरूणामुत्तरेण वः। अन्येषामपि भूतानां नानुक्रामति वै गतिः॥ स हि सोमगिरि म देवानामपि दुर्गमः। तमालोक्य ततः क्षिप्रमुपावर्तितुमर्हथ॥ एतावद् वानरैः शक्यं गन्तुं वानरपुङ्गवाः। अभास्करममर्यादं न जानीमस्ततः परम्॥ सर्वमेतद् विचेतव्यं यन्मया परिकीर्तितम्। यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः॥ ततः कृतं दाशरथेर्महत्प्रियं महत्प्रियं चापि ततो मम प्रियम्। कृतं भविष्यत्यनिलानलोपमा विदेहजादर्शनजेन कर्मणा॥ ततः कृतार्थाः सहिताः सबान्धवा मयार्चिताः सर्वगुणैर्मनोरमैः। चरिष्यथोवीं प्रति शान्तशात्रवाः सहप्रियाभूतधराः प्लवङ्गमाः॥ विशेषेण तु सुग्रीवो हनूमत्यर्थमुक्तवान्। स हि तस्मिन् हरिश्रेष्ठे निश्चितार्थोऽर्थसाधने॥ अब्रवीच्च हनूमन्तं विक्रान्तमनिलात्मजम्। सुग्रीवः परमप्रीतः प्रभुः सर्ववनौकसाम्॥ न भूमौ नान्तरिक्षे वा नाम्बरे नामरालये। नाप्सु वा गतिसङ्गं ते पश्यामि हरिपुङ्गव॥ सासुराः सहगन्धर्वा सनागनरदेवताः। विदिताः सर्वलोकास्ते ससागरधराधराः॥ गतिर्वेगश्च तेजश्च लाघवं च महाकपे। पितुस्ते सदृशं वीर मारुतस्य महौजसः॥ तेजसा वापि ते भूतं न समं भुवि विद्यते। तद् यथा लभ्यते सीता तत्त्वमेवानुचिन्तय॥ त्वय्येव हनुमन्नस्ति बलं बुद्धिः पराक्रमः। देशकालानुवृत्तिश्च नयश्च नयपण्डित।७।। ततः कार्यसमासङ्गमवगम्य हनूमति। विदित्वा हनुमन्तं च चिन्तयामास राघवः॥ सर्वथा निश्चितार्थोऽयं हनूमति हरीश्वरः। निश्चितार्थतरश्चापि हनूमान् कार्यसाधने॥ तदेव प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः। भर्ना परिगृहीतस्य ध्रुवः कार्यफलोदयः॥ तं समीक्ष्य महातेजा व्यवसायोत्तरं हरिम्। कृतार्थ इव संहृष्टः प्रहृष्टेन्द्रियमानसः॥ ददौ तस्य ततः प्रीतः स्वनामाङ्कोपशोभितम्। अङ्गुलीयमभिज्ञानं राजपुत्र्याः परंतपः॥ अनेन त्वां हरि श्रेष्ठ चिह्वेन जनकात्मजा। मत्सकाशादनुप्राप्तमनुद्विग्नाऽनुपश्यति॥ व्यवसायश्च ते वीर सत्त्वयुक्तश्च विक्रमः। सुग्रीवस्य च संदेशः सिद्धि कथयतीव मे॥ स तद् गृह्य हरिश्रेष्ठः कृत्वा मूर्ध्नि कृताञ्जलिः। वन्दित्वा चरणौ चैव प्रस्थितः प्लवगर्षभः॥ स तत् प्रकर्षन् हरिणां महद्बलं बभूव वीरः पवनात्मजः कपिः। गताम्बुदे व्योम्नि विशुद्धमण्डलः शशीव नक्षत्रगणोपशोभितः॥ अतिबल बलमाश्रितस्तवाहं हरिवर विक्रम विक्रमैरनल्पैः। पवनसुत यथाधिगम्यते सा जनकसुता हनुमंस्तथा कुरुष्व॥ सर्वांश्चाहूय सुग्रीवः प्लवगान् प्लवगर्षभः। समस्तांश्चाब्रवीद् राजा रामकार्यार्थसिद्धये॥ एवमेतद् विचेतव्यं भवद्भिर्वानरोत्तमैः। तदुग्रशासनं भर्तुर्विज्ञाय हरिपुङ्गवाः॥ शलभा इव संछाद्य मेदिनी सम्प्रतिस्थरे। रामः प्रस्रवणे तस्मिन् न्यवसत् सहलक्ष्मणः॥ प्रतीक्षमाणस्तं मासं सीताधिगमने कृतः। उत्तरां तु दिशं रम्यां गिरिराजसमावृताम्॥ प्रतस्थे सहसा वीरो हरिः शतबलिस्तदा। पूर्वां दिशं प्रतिययौ विनतो हरियूथपः॥ ताराङ्गदादिसहितः प्लवगः पवनात्मजः। अगस्त्याचरितामाशां दक्षिणां परियूथपः॥ पश्चिमां च दिशं घोरां सुषेणः प्लवगेश्वरः। प्रतस्थे हरिशार्दूलो दिशं वरुणपालिताम्॥ ततः सर्वा दिशो राजा चोदयित्वा यथातथम्। कपिसेनापतिर्वीरो मुमोद सुखितः सुखम्॥ एवं संचोदिताः सर्वे राज्ञा वानरयूथपाः। स्वां स्वां दिशमभिप्रेत्य त्वरिताः सम्प्रतस्थिरे॥ नदन्तश्चोन्नदन्तश्च गर्जन्तश्च प्लवङ्गमाः। क्ष्वेडन्तो धावमानाश्च विनदन्तो महाबलाः॥ एवं संचोदिताः सर्वे राज्ञा वानरयूथपाः। आनयिष्यामहे सीतां हनिष्यामश्च रावणम्॥ अहमेको वधिष्यामि प्राप्तं रावणमाहवे। ततश्चोन्मथ्य सहसा हरिष्ये जनकात्मजाम्॥ वेपमानां श्रमेणाद्य भवद्भिः स्थीयतामिति। एक एवाहरिष्यामि क्षोभयिष्यामि सागरान्॥ अहं योजनसंख्यायाः प्लवेयं नात्र संशयः। शतयोजनसंख्यायाः शतं समधिकं ह्यहम्॥ भूतले सागरे वापि शैलेषु च वनेषु च। पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः॥ इत्येकैकस्तदा तत्र वानरा बलदर्पिताः। ऊचुश्च वचनं तस्य हरिराजस्य संनिधौ॥ गतेषु वानरेन्द्रेषु रामः सुग्रीवमब्रवीत्। कथं भवान् विजानीते सर्वं वै मण्डलं भुवः॥ सुग्रीवश्च ततो राममुवाच प्रणतात्मवान्। श्रूयतां सर्वमाख्यास्ये विस्तरेण वचो मम॥ यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम्। प्रतिकालयते वाली मलयं प्रति पर्वतम्॥ तदा विवेश महिषो मलयस्य गुहां प्रति। विवेश वाली तत्रापि मलयं तज्जिघांसया॥ ततोऽहं तत्र निक्षिप्तो गुहद्वारि विनीतवत्। न च निष्क्रामते वाली तदा संवत्सरे गते॥ ततः क्षतजवेगेन आपुपूरे तदा बिलम्। तदहं विस्मितो दृष्ट्वा भ्रातुः शोकविषादितः॥ अथाहं गतबुद्धिस्तु सुव्यक्तं निहतो गुरुः। शिला पर्वतसंकाशा बिलद्वारि मया कृता॥ असक्नुवन्निष्कमितुं महिषो विनशिष्यति। ततोऽहमागां किष्किन्धां निराशस्तस्य जीविते॥ राज्यं च सुमहत् प्राप्य तारां च रुमया सह। मित्रैश्च सहितस्तस्य वसामि विगतज्वरः॥ आजगाम ततो वाली हत्वा तं वानरर्षभः। ततोऽहमददां राज्यं गौरवाद् भययन्त्रितः॥ स मां जिघांसुर्दुष्टात्मा वाली प्रव्यथितेन्द्रियः। परिकालयते वाली धावन्तं सचिवैः सह॥ ततोऽहं वालिना तेन सोऽनुबद्धः प्रधावितः। नदीश्च विविधाः पश्यन् वनानि नगराणि च ॥ आदर्शतलसंकाशा ततो वै पृथिवी मया। अलातचक्रप्रतिमा दृष्ट्वा गोष्पदवत् कृता॥ पूर्वां दिशं ततो गत्वा पश्यामि विविधान् दुमान्। पर्वतान् सदरीन् रम्यान् सरांसि विविधानि च॥ उदयं तत्र पश्यामि पर्वतं धातुमण्डितम्। क्षीरोदं सागरं चैव नित्यमप्सरसालयम्॥ परिकाल्यमानस्तु तदा वालिनाभिद्रुतो ह्यहम्। पुनरावृत्य सहसा प्रस्थितोऽहं तदा विभो॥ दिशस्तस्यास्ततो भूयः प्रस्थितो दक्षिणां दिशम्। विन्ध्यपादपसंकीर्णा चन्दनदुमशोभिताम्॥ दुमशैलान्तरे पश्यन् भूयो दक्षिणतोऽपराम्। अपरां च दिशं प्राप्तो वालिना समभिदुतः॥ स पश्यन् विविधान् देशानस्तं स गिरिसत्तमम्। प्राप्य चास्तं गिरिश्रेष्ठमुत्तरं सम्प्रधावितः॥ हिमवन्तं च मेरुं च समुद्रं च तथोत्तरम्। यदा न विन्दे शरणं वालिना समभिद्रुतः॥ ततो मां बुद्धिसम्पन्नो हनुमान् वाक्यमब्रवीत्। इदानीं मे स्मृतं राजन् यथा वाली हरीश्वरः॥ मतङ्गेन तदा शप्तो ह्यस्मिन्नाश्रममण्डले । प्रविशेद् यदि वा वाली मूर्धास्य शतधा भवेत्॥ तत्र वासः सुखोऽस्माकं निरुद्विग्नो भविष्यति। ततः पर्वतमासाद्य ऋष्यमूकं नृपात्मज ॥ न विवेश तदा वाली मतङ्गस्य भयात् तदा। एवं मया तदा राजन् प्रत्यक्षमुपलक्षितम्। पृथिवीमण्डलं सर्वं गुहामस्म्यागतस्ततः॥ दर्शनार्थं तु वैदेह्याः सर्वतः कपिकुञ्जराः। व्यादिष्टाः कपिराजेन यथोक्तं जग्मुरञ्जसा ॥ ते सरांसि सरित्कक्षानाकाशं नगराणि च। नदीदुर्गास्तथा देशान् विचिन्वन्ति समन्ततः॥ सुग्रीवेण समाख्याताः सर्वे वानरयूथपाः। तत्र देशान् विचिन्वन्ति सशैलवनकाननान्॥ विचित्य दिवसं सर्वे सीताधिगमने धृताः। समायान्ति स्म मेदिन्यां निशाकालेषु वानराः॥ सर्वर्तुकांश्च देशेषु वानराः सफलदुमान्। आसाद्य रजनी शय्यां चक्रुः सर्वेष्वहःसु ते॥ तदहः प्रथमं कृत्वा मासे प्रस्रवणं गताः। कपिराजेन संगम्य निराशाः कपिकुञ्जराः॥ विचित्य तु दिशं पूर्वां यथोक्तां सचिवैः सह। अदृष्ट्वा विनतः सीतामाजगाम महाबलः॥ दिशमप्युत्तरां सर्वां विविच्य स महाकपिः। आगतः सह सैन्येन भीतः शतबलिस्तदा॥ सुषेणः पश्चिमामाशां विविच्य सह वानरैः। समेत्य मासे पूर्णे तु सुग्रीवमुपचक्रमे॥ तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च। आसीनं सह रामेण सुग्रीवमिदमब्रुवन्॥ विचिताः पर्वताः सर्वे वनानि गहनानि च। निम्नगाः सागरान्ताश्च सर्वे जनपदाश्च ये॥ गुहाश्च विचिता सर्वे याश्च ते परिकीर्तिताः। विचिताश्च महागुल्मा लताविततसंतताः॥ गहनेषु च देशेषु दुर्गेषु विषमेषु च। सत्वान्यतिप्रमाणानि विचितानि हतानि च। ये चैव गहना देशा विचितास्ते पुनः पुनः॥ उदारसत्वाभिजनो हनूमान् स मैथिली ज्ञास्यति वानरेन्द्र। दिशं तु यामेव गता तु सीता तामास्थितो वायुसुतो हनूमान् ॥ सह ताराङ्गदाभ्यां तु सहसा हनुमान् कपिः। सुग्रीवेण यथोद्दिष्टं गन्तुं देशं प्रचक्रमे॥ स तु दूरमुपागम्य सर्वैस्तैः कपिसत्तमैः। ततो विचित्य विन्ध्यस्य गुहाश्च गहनानि च॥ पर्वताग्रनदीदुर्गान् सरांसि विपुलदुमान्। वृक्षखण्डाश्च विविधान् पर्वतान् वनपादपान्॥ अन्वेषमाणास्ते सर्वे वानराः सर्वतोदिशम्। न सीतां ददृशुर्वीरा मैथिली जनकात्मजाम्॥ ते भक्षयन्तो मूलानि फलानि विविधान्यपि। अन्वेषमाणा दुर्धर्षा न्यवसंस्तत्र तत्र ह ॥ स तु देशो दुरन्वेषो गुहागहनवान् महान्। निर्जलं निर्जनं शून्यं गहनं घोरदर्शनम्॥ तादृशान्यप्यरण्यानि विचित्य भृशपीडिताः। स देशश्च दुरन्वेष्यो गुहागहनवान् महान्॥ त्यक्त्वा तु तं ततो देशं सर्वे वै हरियूथपाः। देशमन्यं दुराधर्षं विविशुश्चाकुतोभयाः॥ यत्र वन्ध्यफला वृक्षा विपुष्पाः पर्णवर्जिताः। निस्तोयाः सरितो यत्र मूलं यत्र सुदुर्लभम्॥ न सन्ति महिषा यत्र न मृगा न च हस्तिनः। शार्दूलाः पक्षिणो वापि ये चान्ये वनगोचराः॥ न चात्र वृक्षा नौषध्यो न वल्ल्यो नापि वीरुधः। स्निग्धपत्राः स्थले यत्र पद्मिन्यः फुल्लपङ्कजाः॥ प्रेक्षणीयाः सुगन्धाश्च भ्रमरैश्च विवर्जिताः। कण्डुर्नाम महाभागः सत्यवादी तपोधनः॥ महर्षिः परमामर्षी नियमैर्दुष्प्रधर्षणः। तस्य तस्मिन् वने पुत्रो बालको दशवार्षिकः॥ प्रणष्टो जीवितान्ताय क्रुद्धस्तेन महामुनिः। तेन धर्मात्मना शप्तं कृत्स्नं तत्र महद्वनम्॥ अशरण्यं दुराधर्षं मृगपक्षिविवर्जितम्। तस्य ते काननान्तांस्तु गिरीणां कन्दराणि च ॥ प्रभवानि नदीनां च विचिन्वन्ति समाहिताः। तत्र चापि महात्मानो नापश्यञ्जनकात्मजाम्॥ हर्तारं रावणं वापि सुग्रीवप्रियकारिणः। ते प्रविश्य तु तं भीमं लतागुल्मसमावृतम्॥ ददृशुर्भीमकर्माणमसुरं सुरनिर्भयम्। तं दृष्ट्वा वानरा घोरं स्थितं शैलमिवासुरम्॥ गाढं परिहिताः सर्वे दृष्ट्वा तं पर्वतोपमम्। सोऽपि तान्वानरान्सर्वान्नष्टाः स्थेत्यब्रवीत् बली॥ अभ्यधावत संक्रुद्धो मुष्टिमुद्यम्य संगतम्। तमापतन्तं सहसा वालीपुत्रोऽङ्गदस्तदा॥ रावणोऽयमिति ज्ञात्वा तलेनाभिजघान ह। स वालिपुत्राभिहतो वक्त्राच्छोणितमुद्वमन् ॥ असुरो न्यपतद् भूमौ पर्यस्त इव पर्वतः। ते तु तस्मिन् निरुच्छ्वासे वानरा जितकाशिनः॥ विचिन्वन् प्रायशस्तत्र सर्वे ते गिरिगह्वरम्। विचितं तु ततः सर्वं सर्वे ते काननौकसः॥ अन्यदेवापरं घोरं विविशुर्गिरिगह्वरम्। ते विचित्य पुनः खिन्ना विनिष्पत्य समागताः। एकान्ते वृक्षमूले तु निषेदुर्दीनमानसाः॥ अथाङ्गदस्तदा सर्वान् वानरानिदमब्रवीत्। परिश्रान्तो महाप्राज्ञः समाश्वास्य शनैर्वचः॥ वनानि गिरयो नद्यो दुर्गाणि गहनानि च। दरी गिरिगुहाश्चैव विचिताः सर्वमन्ततः॥ तत्र तत्र सहास्माभिर्जानकी न च दृश्यते। तथा रक्षोऽपहर्ता च सीतायाश्चैव दुष्कृती॥ कालश्च नो महान् यातः सुग्रीवश्चोग्रशासनः। तस्माद् भवन्तः सहिता विचिन्वन्तु समन्ततः॥ विहाय तन्द्रीं शोकं च निद्रां चैव समुत्थिताम्। विचिनुध्वं तथा सीतां पश्यामो जनकात्मजाम्॥ अनिर्वेदं च दाक्ष्यं च मनसश्चापराजयम्। कार्यसिद्धिकराण्याहुस्तस्मादेतद् ब्रवीम्यहम्॥ अद्यापीदं वनं दुर्गं विचिन्वन्तु वनौकसः। खेदं त्यक्त्वा पुनः सर्वं वनमेव विचन्वताम्॥ अवश्यं कुर्वतां तस्य दृश्यते कर्मणः फलम्। परं निर्वेदमागम्य नहि नोन्मीलनं क्षमम्॥ सुग्रीवः क्रोधनो राजा तीक्ष्णदण्डश्च वानराः। भेतव्यं तस्य सततं रामस्य च महात्मनः॥ हितार्थमेतदुक्तं वः क्रियतां यदि रोचते। उच्यतां हि क्षमं यत् तत् सर्वेषामेव वानराः॥ अङ्गदस्य वचः श्रुत्वा वचनं गन्धमादनः। उवाच व्यक्तया वाचा पिपासाश्रमखिन्नया॥ सदृशं खलु वो वाक्यमङ्गदो यदुवाच ह। हितं चैवानुकूलं च क्रियतामस्य भाषितम्॥ पुनर्मार्गामहे शैलान् कन्दरांश्च शिलास्तथा। काननानि च शून्यानि गिरिप्रस्रवणानि च॥ यथोद्दिष्टानि सर्वाणि सुग्रीवेण महात्मना। विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि संगताः॥ ततः समुत्थाय पुनर्वानरास्ते महाबलाः। विन्ध्यकाननसंकीर्णां विरुदक्षिणां दिशम्॥ ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम्। शृङ्गवन्तं दरीवन्तमधिरुह्य च वानराः॥ तत्र लोध्रवनं रम्यं सप्तपर्णवनानि च। विचिन्वन्तो हरिवराः सीतादर्शनकाङ्क्षिणः॥ तस्याग्रमधिरूढास्ते श्रान्ता विपुलविक्रमाः। न पश्यन्तु स्म वैदेहीं रामस्य महिषीं प्रियाम् ॥ ते तु दृष्टिगतं दृष्ट्वा तं शैलं बहुकन्दरम्। अध्यारोहन्त हरयो वीक्षमाणाः समन्ततः॥ अवरुह्य ततो भूमिं श्रान्ता विगतचेतसः। स्थिता मुहूर्तं तत्राथ वृक्षमूलमुपाश्रिताः॥ ते मुहूर्तं समाश्वस्ताः किंचिद्भग्नपरिश्रमाः। पुनरेवोद्यताः कृत्स्नां मार्गितुं दक्षिणां दिशम्॥ हनुमत्प्रमुखास्तावत् प्रस्थिताः प्लवगर्षभाः। विन्ध्यमेवादितः कृत्वा विचेरुश्च समन्ततः॥ सह ताराङ्गदाभ्यां तु संगम्य हनुमान् कपिः। विचिनोति च विन्ध्यस्य गुहाश्च गहनानि च॥ सिंहशार्दूलजुष्टाश्च गुहाश्च परितस्तदा। विषमेषु नगेन्द्रस्य महाप्रस्रवणेषु च॥ आसेदुस्तस्य शैलस्य कोटि दक्षिणपश्चिमाम्। तेषां तत्रैव वनतां स कालो व्यत्यवर्तत॥ स हि देशो दुरन्वेष्यो गुहागहनवान् महान्। तत्र वायुसुतः सर्वं विचिनोति स्म पर्वतम्॥ परस्परेण रहिता अन्योन्यस्याविदूरतः। गजो गवाक्षो गवयः शरभो गन्धमादनः॥ मैन्दश्च द्विविदश्चैव हनूमान् जाम्बवानपि। अङ्गदो युवराजश्च तारश्च वनगोचरः॥ गिरिजालावृतान् देशान् मार्गित्वा दक्षिणां दिशम्। विचिन्वन्तस्ततस्तत्र ददृशुर्विवृतं बिलम्॥ दुर्गमृक्षबिलं नाम दानवेनाभिरक्षितम्। क्षुत्पिपासापरीतास्तु श्रान्तास्तु सलिलार्थिनः॥ अवकीर्णं लतावृक्षैर्ददृशशुस्ते महाबिलम्। तत्र क्रौञ्चश्च हंसाश्च सारसाश्चापि निष्क्रमन्॥ जलार्दाश्चकवाकाश्च रक्ताङ्गाः पद्मरेणुभिः। ततस्तद् विलमासाद्य सुगन्धि दुरतिक्रमम्॥ विस्मयव्यग्रमनसो बभूवुर्वानरर्षभाः। संजातपरिशङ्कास्ते तद् बिलं प्लवगोत्तमाः॥ अभ्यपद्यन्त संहृष्टास्तेजोवन्तो महाबलाः। नानासत्त्वसमाकीर्णं दैत्येन्द्रनिलयोपमम्॥ दुर्दर्शमिव घोरं च दुर्विगाह्यं च सर्वशः। ततः पर्वतकूटाभो हनूमान् मारुतात्मजः॥ अब्रवीद् वानरान् घोरान् कान्तारवनकोविदः। गिरिजालावृतान् देशान् मार्गित्वा दक्षिणां दिशम्॥ वयं सर्वे परिश्रान्ता न च पश्याम मैथिलीम्। अस्माच्चापि बिलाद्धंसाः क्रौञ्चाश्च सह सारसैः॥ जलार्द्राश्चक्रवाकाश्च निष्पतन्ति स्म सर्वशः। नूनं सलिलवानत्र कूपो वा यदि वा हृदः॥ तथा चेमे बिलद्वारे स्निग्धास्तिष्ठन्ति पादपाः। इत्युक्तास्तद् बिलं सर्वे विविशुस्तमिवावृतम्॥ अचन्द्रसूर्यं हरयो ददृशू रोमहर्षणम्। निशाम्य तस्मात् सिंहांश्च तांस्तांश्च मृगपक्षिणः॥ प्रविष्टा हरिशार्दूला बिलं तिमिरसंवृतम्। न तेषां सज्जते दृष्टिर्न तेजो न पराक्रमः॥ वायोरिव गतिस्तेषां दृष्टिस्तमसि वर्तते। ते प्रविष्टास्तु वेगेन तद् बिलं कपिकुञ्जराः॥ प्रकाशं चाभिरामं च ददृशुर्देशमुत्तमम्। ततस्तस्मिन् बिले भीमे नानापादपसंकुले॥ अन्योन्यं सम्परिष्वज्य जग्मुर्योजनमन्तरम्। ते नष्टसंज्ञास्तृषिताः सम्भ्रान्ताः सलिलार्थिनः॥ परिपेतुर्बिले तस्मिन् कंचित् कालमतन्द्रिताः। ते कृशा दीनवदनाः परिश्रान्ताः प्लवङ्गमाः॥ आलोकं ददृशुर्वीरा निराशा जीविते यदा। ततस्तं देशमागम्य सौम्या वितिमिरं वनम्॥ ददृशुः काञ्चनान् वृक्षान् दीप्तवैश्वानरप्रभान्। सालास्तालास्तमालांश्च पुंनागान्वञ्जुलान्धवान्॥ चम्पकान् नागवृक्षांश्च कर्णिकारांश्च पुष्पितान्। स्तबकैः काञ्चनैश्चित्र रक्तैः किसलयैस्तथा॥ आपीडैश्च लताभिश्च हेमाभरणभूषितान्। तरुणाादित्यसंकाशान् वैदूर्यमयवेदिकान्॥ विभ्राजमानान् वपुषा पादपांश्च हिरण्मयान्। नीलवैदूर्यवर्णाश्च पद्मिनी: पतगैर्वृताः॥ महद्भिः काञ्चनैर्वृक्षवृतं बालार्कसंनिभैः। जातरूपमयैर्मत्स्यैर्महद्भिश्चाथ पङ्कजैः॥ नलिनीस्तत्र ददृशुः प्रसन्नसलिलायुताः। काञ्चनानि विमानानि राजतानि तथैव च॥ हैमराजतभौमानि वैदूर्यमणिमन्ति च। तपनीयगवाक्षाणि मुक्ताजालावृतानि च॥ ददृशुस्तत्र हरयो गृहमुख्यानि सर्वशः। पुष्पितान् फलिनो वृक्षान् प्रवालमणिसंनिभान्॥ काश्चनभ्रमरांश्चैव मधूनि च समन्ततः। मणिकाञ्चनचित्राणि शयनान्यासनानि च॥ विविधानि विशालानि ददृशुस्ते समन्ततः। हैमराजतकांस्यानां भाजनानां च राशयः॥ अगुरूणां च दिव्यानां चन्दनानां च संचयान्। शुचीन्यभ्यवहाराणि मूलानि च फलानि च॥ महार्हाणि च यानानि मधूनि रसवन्ति च। दिव्यानामम्बराणां च महार्हाणां च संचयान्॥ कम्बलानां च चित्राणामजिनानां च संचयान्। तत्र तत्र विचिन्वन्तो बिले तत्र महाप्रभाः॥ ददृशुर्वानराः शूराः स्त्रियं कांचिददूरतः। तां च ते ददृशुस्तत्र चीरकृष्णाजिनाम्बराम्॥ तापसी नियताहारां ज्वलन्तीमिव तेजसा।। विस्मिता हरयस्तत्र व्यवतिष्ठन्त सर्वशः। पप्रच्छ हनुमांस्तत्र काऽसि त्वं कस्य वा बिलम्॥ ततो हनूमान् गिरिसंनिकाशः कृताञ्जलिस्तामभिवाद्य वृद्धाम्। पप्रच्छ का त्वं भवनं बिलं च रत्नानि चेमानि वदस्व कस्य॥ इत्युक्त्वा हनुमांस्तत्र चीरकृष्णाजिनाम्बराम्। अब्रवीत् तां महाभागां तापसी धर्मचारिणीम्॥ इदं प्रविष्टा सहसा बिलं तिमिरसंवृताम्। क्षुत्पिपासापरिश्रान्ताः परिखिन्त्राश्च सर्वशः॥ महद् धरण्या विवरं प्रविष्टाः स्म पिपासिताः। इमांस्त्वेवंविधान् भावान् विविधानद्भुतोपमान्॥ दृष्ट्वा वयं प्रव्यथिताः सम्भ्रान्ता नष्टचेतसः। कस्येतै काञ्चना वृक्षास्तरुणादित्यसंनिभाः॥ शुचीन्यभ्यवहाराणि मूलानि च फलानि च। काञ्चनानि विमानानि राजतानि गृहाणि च ॥ तपनीयगवाक्षाणि मणिजालावृतानि च। पुष्पिताः फलवन्तश्च पुण्याः सुरभिगन्धयः॥ इमे जाम्बूनदमयाः पादपाः कस्य तेजसा। काञ्चनानि च पद्मानि जातानि विमले जले॥ कथं मत्स्याश्च सौवर्णा दृश्यन्ते सह कच्छपैः। आत्मनस्त्वनुभावाद् वा कस्य वैतत्तपोबलम्॥ अजानतां नः सर्वेषां सर्वमाख्यातुमर्हसि। एवमुक्ता हनुमता तापसी धर्मचारिणी॥ प्रत्युवाच हनूमन्तं सर्वभूताहिते रता। मयो नाम महातेजा मायावी वानरर्षभ॥ तेनेदं निर्मितं सर्वं मायया काञ्चनं वनम्। पुरा दानवमुख्यानां विश्वकर्मा बभूव ह॥ येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम्। स तु वर्षसहस्राणि तपस्तप्त्वा महद्वने॥ पितामहाद् वरं लेभे सर्वमौशनसं धनम्। विधाय सर्वं बलवान् सर्वकामेश्वरस्तदा ॥ उवास सुखितः कालं कंचिदस्मिन् महावने। तमप्सरसि हेमायां सक्तं दानवपुङ्गवम्॥ विक्रम्यैवाशनिं गृह्य जघानेशः पुरंदरः। इदं च ब्रह्मणा दत्तं हैमायै वनमुत्तमम्॥ शाश्वतः कामभोगश्च गृहं चेदं हिरण्मयम्। दुहिता मेरुसावर्णेरहं तस्याः स्वयंप्रभा॥ इदं रक्षामि भवनं हेमाया वानरोत्तम। मम प्रियसखी हेमा नृत्तगीतविशारदा ॥ तया दत्तवरा चास्मि रक्षामि भवनं महत्। किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपद्यथ॥ कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम्। शुचीन्यभ्यवहाराणि मूलानि च फलानि च। भुक्त्वा पीत्वा च पानीयं सर्वं मे वक्तुमर्हसि ॥ अथ तानब्रवीत् सर्वान् विश्रान्तान् हरियूथपान्। इदं वचनमेकाना तापसी धर्मचारिणी॥ वानरा यदि वः खेदः प्रणष्टः फलभक्षणात्। यदि चैतन्मया श्राव्यं श्रोतुमिच्छामि तां कथाम्॥ तस्यास्तद् वचनं श्रुत्वा हनूमान् मारुतात्मजः। आर्जवेन यथातत्त्वमाख्यातुमुपचक्रमे॥ राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः। रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम्॥ लक्ष्मणेन सह भ्रात्रा वैदेह्या सह भार्यया। तस्य भार्या जनस्थानाद् रावणेन हृता बलात्॥ वीरस्तस्य सखा राज्ञः सुग्रीवो नाम वानरः। राजा वानरमुख्यानां येन प्रस्थापिता वयम् ॥ अगस्त्यचरितामाशां दक्षिणां यमरक्षिताम्। सहैभिर्वानरैर्मुख्यैरङ्गदप्रमुखैर्वयम्॥ रावणं सहिताः सर्वे राक्षसं कामरूपिणम्। सीतया सह वैदेह्या मार्गध्वमिति चोदिताः॥ विचित्य तु वनं सर्वं समुद्र दक्षिणां दिशम्। वयं बुभुक्षिताः सर्वे वृक्षमूलमुपाश्रिताः॥ विवर्णवदनाः सर्वे सर्वे ध्यानपरायणाः। नाधिगच्छामहे पारं मग्नाश्चिन्तामहार्णवे॥ चारयन्तस्ततश्चक्षुर्दृष्टवन्तो महद् बिलम्। लतापादपसंछन्नं तिमिरेण समावृतम्॥ अस्माद्धंसा जलक्लिन्नाः पक्षैः सलिलरेणुभिः। कुरराः सारसाश्चैव निष्पतन्ति पतत्त्रिणः॥ साध्वत्र प्रविशामेति मया तूक्ताः प्लवङ्गमाः। तेषामपि ह सर्वेषामनुमानमुपागतम्॥ अस्मिन् निपतिताः सर्वेऽप्यथ कार्यत्वरान्विताः। ततो गाढं निपतिता गृह्य हस्तैः परस्परम्॥ इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम्। . एतन्नः कार्यमेतेन कृत्येन वयमागताः॥ त्वां चैवोपगताः सर्वे परिघुना बुभुक्षिताः। आतिथ्यधर्मदत्तानि मूलानि च फलानि च॥ अस्माभिरुपयुक्तानि बुभुक्षापरिपीडितैः। यत् त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया॥ ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः। एवमुक्ता तु सर्वज्ञा वानरैस्तैः स्वयंप्रभा॥ प्रत्युवाच ततः सर्वानिदं वानरयूथपान्। सर्वेषां परितुष्टाऽस्मि वानराणां तरस्विनाम्॥ चरन्त्या मम धर्मेण न कार्यमिह केनचित्। एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम्॥ उवाच हनुमान् वाक्यं तामनिन्दितलोचनाम्। शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणीम्॥ यः कृतः समयोऽस्मासु सुग्रीवेण महात्मना। स तु कालो व्यतिक्रान्तो बिले च परिवर्तताम्॥ सा त्वमस्याद् बिलादस्मानुत्तारयितुमर्हसि। तस्मात् सुग्रीववचनादतिक्रान्तान् गतायुषः॥ त्रातुमर्हसि नः सर्वान् सुग्रीवभयशङ्कितान्। महच्च कार्यमस्माभिः कर्तव्यं धर्मचारिणि ॥ तच्चापि न कृतं कार्यमस्माभिरिह वासिभिः। एवमुक्ता हनुमता तापसी वाक्यमब्रवीत्॥ जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम्। तपसः सुप्रभावेण नियमोपार्जितेन च॥ सर्वानेव बिलादस्माद् तारयिष्यामि वानरान्। निमीलयत चढूंषि सर्वे वानरपुङ्गवाः॥ नहि निष्क्रमितुं शक्यमनिमीलितलोचनैः। ततो निमीलिताः सर्वे सुकुमाराङ्गुलैः करैः॥ सहसा पिदधुदृष्टिं हृष्टा गमनकाझ्या । वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा॥ निमेषान्तरमात्रेण बिलादुत्तारितास्तया। उवाच सर्वांस्तांस्तत्र तापसी धर्मचारिणी॥ निःसृतान् विषमात् तस्मात् समाश्वास्येदमब्रवीत्। एष विन्ध्यो गिरिः श्रीमान् नानादुमलतायुतः॥ एष प्रस्रवणः शैलः सागरोऽयं महोदधिः। स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः। इत्युक्त्वा तद् बिलं श्रीमत् प्रविवेश स्वयंप्रभा॥ ततस्ते ददृशुर्घोरं सागरं वरुणालयम्। अपारमभिगर्जन्तं घोरैरुर्मिभिराकुलम्॥ मयस्य मायाविहितं गिरिदुर्गे विचिन्वताम्। तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः॥ विन्ध्यस्य तु गिरेः पाते सम्प्रपुष्पितपादपे। उपविश्य महात्मानश्चिन्तामापेदिरे तदा॥ ततः पुष्पातिभाराग्रॉल्लताशतसमावृतान्। दुमान् वासन्तिकान् दृष्ट्वा बभूवुर्भयशङ्किताः॥ ते वसन्तमनुप्राप्तं प्रतिवेद्य परस्परम्। नष्टसंदेशकालार्था निपेतुर्धरणीतले॥ ततस्तान् कपिवृद्धांश्च शिष्टांश्चैव वनौकसः। वाचा मधुरयाऽऽभाष्य यथावदनुमान्य च॥ स तु सिंहवृषस्कन्धः पीनायतभुजः कपिः। युवराजो महाप्राज्ञ अङ्गदो वाक्यमब्रवीत्॥ शासनात् कपिराजस्य वयं सर्वे विनिर्गताः। मासः पूर्णो बिलस्थानां हरयः किं न बुध्यत ॥ वयमाश्वयुजे मासि कालसंख्याव्यवस्थिताः। प्रस्थिताः सोऽपि चातीतः किमतः कार्यमुत्तरम्॥ भवन्तः प्रत्ययं प्राप्ता नीतिमार्गविशारदाः। हितेष्वभिरता भर्तुर्निसृष्टाः सर्वकर्मसु॥ कर्मस्वप्रतिमाः सर्वे दिक्षु विश्रुतपौरुषाः। मां पुरस्कृत्य निर्याताः पिङ्गाक्षप्रतिचोदिताः॥ इदानीमकृतार्थानां मर्तव्यं नात्र संशयः। हरिराजस्य संदेशमकृत्वा कः सुखी भवेत्॥ अस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम्। प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम्॥ तीक्ष्णः प्रकृत्या सुग्रीवः स्वाभिभावे व्यवस्थितः। न क्षमिष्यति नः सर्वानपराधकृतो गतान्॥ अप्रवृत्तो च सीतायाः पापमेव करिष्यति। तस्मात् क्षममिहाद्यैव्र गन्तुं प्रायोपवेशनम्॥ त्यक्त्वा पुत्रांश्च दारांश्च धनानि च गृहाणि च । ध्रुवं नो हिंसते राजा सर्वान् प्रतिगतानितः॥ वधेनाप्रतिरूपेण श्रेयान् मृत्युरिहैव नः। न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः॥ नरेन्द्रेणाभिषिक्तोऽस्मि रामेणाक्लिष्टकर्मणा। स पूर्वं बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम्॥ घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः। किं मे सुहद्भिर्व्यसनं पश्यद्भिर्जीवितान्तरे। इहैव प्रायमासिष्ये पुण्ये सागररोधसि ॥ एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम्। सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन् ॥ तीक्ष्णः प्रकृत्या सुग्रीवः प्रियारक्तश्च राघवः। समीक्ष्याकृतकार्यांस्तु तस्मिंश्च समये गते ॥ अदृष्टायां च वैदेह्यां दृष्ट्वा चैव समागतान्। राघवप्रियकामाय घातयिष्यत्यसंशयम्॥ न क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः। प्रधानभूताश्च वयं सुग्रीवस्य समागताः॥ इहैव सीतामन्वीक्ष्य प्रवृत्तिमुपलभ्य वा। नो चेद् गच्छाम तं वीरं गमिष्यामो यमक्षयम्॥ प्लवङ्गमानां तु भयार्दितानां श्रुत्वा वचस्तार इदं बभाषे। अलं विषादेन बिलं प्रविश्य वसाम सर्वे यदि रोचते वः॥ इदं हि मायाविहितं सुदुर्गमं प्रभूतपुष्पोदकभोज्यपेयम्। न राघवाद् वानरराजतोऽपि वा॥ मूचुश्च सर्वे हरयः प्रतीताः। मसक्तमयैव विधीयतां नः॥ उपविष्टास्तु ते सर्वे यस्मिन् प्रायं गिरिस्थले। हरयो गृध्रराजश्च तं देशमुपचक्रमे॥ सम्पातिर्नाम नाम्ना तु चिरजीवी विहंगमः। भ्राता जटायुषः श्रीमान् विख्यातबलपौरुषः॥ कन्दरादभिनिष्क्रम्य स विन्ध्यस्य महागिरेः। उपविष्टान् हरीन् दृष्ट्वा हृष्टात्मा गिरमब्रवीत्॥ विधिः किल नरं लोके विधानेनानुवर्तते। यथायं विहितो भक्ष्यश्चिरान्मह्यमुपागतः॥ परम्पराणां भक्षिष्ये वानराणां मृतं मृतम्। उवाचैतद् वचः पक्षी तान् निरीक्ष्य प्लवङ्गमान्॥ तस्य तद् वचनं श्रुत्वा भक्ष्यलुब्धस्य पक्षिणः। अङ्गदः परमायस्तो हनूमन्तमथाब्रवीत्॥ पश्य सीतापदेशेन साक्षाद् वैवस्वतो यमः। इंग देशमनुप्राप्ते वानराणां विपत्तये॥ रामस्य न कृतं कार्यं न कृतं राजशासनम्। हरीणामियमज्ञाता विपत्तिः सहसाऽऽगता॥ वैदेह्याः प्रियकामेन कृतं कर्म जटायुषा। गृध्रराजेन यत् तत्र श्रुतं वस्तदशेषतः॥ तथा सर्वाणि भूतानि तिर्यग्योनिगतान्यपि। प्रियं कुर्वन्ति रामस्य त्यक्त्वा प्राणान्यथा वयम्॥ अन्योन्यमुपकुर्वन्ति स्नेहकारुण्ययन्त्रिताः। ततस्तस्योपकारार्थं त्यजतात्मानमात्मना ॥ प्रियं कृतं हि रामस्य धर्मज्ञेन जटायुषा। राघवार्थे परिश्रान्ता तयं संत्यक्तजीविताः॥ कान्ताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम्। स सुखी गृध्रराजस्तु रावणेन हतो रणे। मुक्तश्च सुग्रीवभयाद् गतश्च परमां गतिम्॥ जटायुषो विनाशेन राज्ञो दशरथस्य च। हरणेन च वैदेह्याः संशयं हरयो गताः॥ रामलक्ष्मणयोर्वासमरण्ये सह सीतया। राघवस्य च बाणेन वालिनश्च तथा वधः।। रामकोपादशेषाणां रक्षसां च तथा वधम्। कैकेय्या वरदानेन इदं च विकृतं कृतम्॥ तदसुखमनुकीर्तितं वचो भुवि पतितांश्च निरीक्ष्य वानरान्। भृशचकितमतिर्महामतिः कृपणमुदाहृतवान् स गृध्रराजः॥ तत् तु श्रुत्वा तथा वाक्यमङ्गदस्य मुखोद्गतम्। अब्रवीद् वचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः॥ कोऽयं गिरा घोषयति प्राणैः प्रियतरस्य मे। जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः॥ कथमासीञ्जनस्थाने युद्धं राक्षसगृध्रयोः। नामधेमिदं भ्रातुश्चिरस्याद्य मया श्रुतम्॥ इच्छेयं गिरिदुर्गाच्च भवद्भिरवतारितम्। यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः॥ अतिदीर्घस्य कालस्य परितुष्योऽस्मि कीर्तनात्। तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः॥ भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः। तस्यैव च मम भ्रातुः सखा दशरथः कथम्॥ यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः। सूर्यांशुदाधपक्षत्वान्न शक्नोमि विसर्पितम्। इच्छेयं पर्वतादस्मादवतर्तुमरिंदमाः॥ शोकाद् भ्रष्टस्वरमपि श्रुत्वा वानरयूथपाः। श्रद्दधुनैव तद्वाक्यं कर्मणा तस्य शङ्किताः॥ ते प्रायमुपविष्टास्तु दृष्ट्वा गृधं प्लवङ्गमाः।। चक्रुर्बुद्धिं तदा रौद्रां सर्वान् नो भक्षयिष्यति ॥ सर्वथा प्रायमासीनान् यदि नो भक्षयिष्यति। कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो गताः॥ एतां बुद्धिं ततश्चकुः सर्वे ते हरियूथपाः। अवतार्य गिरेः शृङ्गाद् गृध्रमाहाङ्गदस्तदा॥ बभूवःरजो नाम वानरेन्द्रः प्रतापवान्। ममार्यः पार्थिवः पक्षिन् धार्मिकौ तस्य चात्मजौ॥ सुग्रीवश्चैव वाली च पुत्रौ घनबलाबुभौ। लोके विश्रुतकर्माभूद् राजा वाली पिता मम॥ राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः। रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम्॥ लक्ष्मणेन. सह भ्रात्रा वैदेह्या सह भार्यया। पितुर्निदेशनिरतो धर्मं पन्थानमाश्रितः॥ तस्य भार्या जनस्थानाद् रावणेन हृता बलात्। रामस्य तु पितुर्मित्रं जटायुर्नाम गृध्रराट्॥ ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा। रावणं विरथं कृत्वा स्थापयित्वा च मैथिलीम्। परिश्रान्तश्च वृद्धश्च रावणेन हतो रणे॥ एवं गृध्रो हतस्तेन रावणेन बलीयसा। संस्कृतश्चापि रामेण जगाम गतिमुत्तमाम्॥ ततो मम पितृव्येण सुग्रीवेण महात्मना। चकार राघवः सख्यं कोऽवधीत् पितरं मम ॥ मम पित्रा निरुद्धो हि सुग्रीवः सचिवैः सह। निहत्य वालिनं रामस्ततस्तमभिषेचयत्॥ स राज्ये स्थापितस्तेन सुग्रीवो वानरेश्वरः। राजा वानरमुख्यानां तेन प्रस्थापिता वयम्॥ एवं रामप्रयुक्तास्तु मार्गमाणास्ततस्ततः। वैदेहीं नाधिगच्छामो रात्रौ सूर्यप्रभामिव॥ ते वयं दण्डकारण्यं विचित्य सुसमाहिताः। अज्ञानात् तु प्रविष्टाः स्म धरण्या विवृतं बिलम्॥ मयस्य मायाविहितं तद् बिलं च विचिन्वताम्। व्यतीतस्तत्र नो मासो यो राज्ञा समयः कृतः॥ ते वयं कपिराजस्य सर्वे वचनकारिणः। कृतां संस्थामतिक्रान्ता भयात् प्रायमुपासिताः॥ क्रुद्धे तस्मिंस्तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे। गतानामपि सर्वेषां तत्र नो नास्ति जीवितम्॥ इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः। सवाष्पो वानरान् गृध्रः प्रत्युवाच महास्वनः॥ यवीयान् स मम भ्राता जटायुर्नाम वानराः। यमाख्यात हतं युद्ध रावणेन बलीयसा॥ वृद्धभावादपक्षत्वाच्छृण्वंस्तदपि मर्षये। नहि मे शक्तिरस्त्यद्य भ्रातुर्वैरविमोक्षणे॥ पुरा वृत्रवधे वृत्ते स चाहं च जयैषिणौ। आदित्यमुपयातौ स्वो ज्वलन्तं रश्मिमालिनम्॥ आवृत्याकाशमार्गेण जवेन स्वर्गतौ भृशम्। मध्यं प्राप्ते तु सूर्ये तु जटायुरवसीदति ॥ तमहं भ्रातरं दृष्ट्वा सूर्यरश्मिभिरतिम्। पक्षाभ्यां छादयामास स्नेहात् परमविह्वलम्॥ निर्दग्धपत्रः पतितो विन्ध्येऽहं वानरर्षभाः। अहमस्मिन् वसन् भ्रातुः प्रवृत्तिं नोपलक्षये॥ जटायुषस्त्वेवमुक्तो भ्रात्रा सम्पातिना तदा। युवराजो महाप्रज्ञः प्रत्युवाचाङ्गदस्तदा॥ जटायुषो यदि भ्राता श्रुतं ते गतिदं मया। आख्याहि यदि जानासि निलयं तस्य रक्षसः॥ अदीर्घदर्शिनं तं वै रावणं राक्षसाधमम्। अन्तिके यदि वा दूरे यदि जानासि शंस नः॥ ततोऽब्रवीन्महातेजा भ्राता ज्येष्ठो जटायुषः। आत्मानुरूपं वचनं वानरान् सम्प्रहर्षयन्॥ निर्दग्धपक्षो गृध्रोऽहं गतवीर्यः प्लवङ्गमाः। वाङ्मात्रेणापि रामस्य करिष्ये साह्यमुत्तम्॥ जानामि वारुणाँल्लोकान् विष्णोस्त्रैविक्रमानपि। देवासुरविमर्दाश्च ह्यमृतस्य विमन्थनम्॥ रामस्य यदिदं कार्यं कर्तव्यं प्रथमं मया। जरया च हृतं तेजः प्राणाश्च शिथिला मम॥ तरुणी रूपसम्पन्ना सर्वाभरणभूषिता। ह्रियमाणा मया दृष्टा रावणेन दुरात्मना॥ क्रोशन्ती रामरामेति लक्ष्मणेति च भामिनी। भूषणान्यपविध्यन्ती गात्राणि च विधुन्वती॥ सूर्यप्रभेव शैलाग्रे तस्याः कौशेयमुत्तमम्। असिते राक्षसे भाति यथा वा तडिदम्बुदे॥ तां तु सीतामहं मन्ये रामस्य परिकीर्तनात्। श्रूयतां मे कथयतो निलयं तस्य रक्षसः॥ पुत्रो विश्रवसः साक्षाद् भ्राता वैश्रवणस्य च। अध्यास्ते नगरी लङ्कां रावणो नाम राक्षसः॥ इतो द्वीपे समुद्रस्य सम्पूर्णे शतयोजने। तस्मिल्लङ्का पुरी रम्या निर्मिता विश्वकर्मणा॥ जाम्बूनदमयैद्वारैश्चित्रैः काञ्चनवेदिकैः। प्रासादैर्हेमवर्णैश्च महद्भिः सुसमाकृता॥ प्राकारेणार्कवर्णेन महता च समन्विता। तस्यां वसति वैदेही दीना कौशेयवासिनी॥ रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता। जनकस्यात्मजां राज्ञस्तस्यां द्रक्ष्यथ मैथिलीम्॥ लङ्कायामथ गुप्तायां सागरेण समन्ततः। सम्प्राप्य सागरस्यान्तं सम्पूर्णं शतयोजनम्॥ आसाद्य दक्षिणं तीरं ततो द्रक्ष्यथ रावणम्। तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवङ्गमाः॥ ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ। आद्यः पन्थाः कुलिङ्गानां ये चान्ये धान्यजीविनः।।२६। द्वितीयो बलिभोजानां ये च वृक्षफलाशनाः। भासास्तृतीयं गच्छन्ति क्रौञ्चाश्च कुररैः सह ॥ श्येनाश्चतुर्थं गच्छन्ति गृध्रा गच्छन्ति पञ्चमम्। बलवीर्योपपन्नानां रूपयौवनशालिनाम्॥ षष्ठस्तु पन्था हंसानां वैनतेयगतिः परा। वैनतेयाच्च नो जन्म सर्वेषां वानरर्षभाः॥ गर्हितं तु कृतं कर्म येन स्म पिशिताशिनः। प्रतिकार्य च मे तस्य वैरं भ्रातृकृतं भवेत्॥ इहस्थोऽहं प्रपश्यामि रावणं जानकी तथा। अस्माकमपि सौपर्णं दिव्यं चक्षुर्बलं तथा॥ तस्मादाहारवीर्येण निसर्गेण च वानराः। आयोजनशताद् साग्राद् वयं पश्याम नित्यशः॥ अस्माकं विहिता वृत्तिनिसर्गेण च दूरतः। विहिता वृक्षमूले तु वृत्तिश्चरणयोधिनाम्॥ उपायो दृश्यतां कश्चिल्लङ्घने लवणाम्भसः। अभिगम्य तु वैदेही समृद्धार्था गमिष्यथ ॥ समुद्रं नेतुमिच्छामि भवद्भिर्वरुणालयम्। प्रदास्याम्युदकं भ्रातुः स्वर्गतस्य महात्मनः॥ ततो नीत्वा तु तं देशं तीरे नदनदीपतेः। निर्दग्धपक्षं सम्पातिं वानराः सुमहौजसः॥ तं पुनः प्रापयित्वा च तं देशं पतगेश्वरम्। बभूवुर्वानरा हृष्टाः प्रवृत्तिमुपलभ्य ते॥ ततस्तदमृतास्वादं गृध्रराजेन भाषितम्। निशम्य वदता हृष्टास्ते वचः प्लवगर्षभाः॥ जाम्बवान् वानरश्रेष्ठः सह सर्वैः प्लवङ्गमैः। भूतलात् सहसोत्थाय गृध्रराजानमब्रवीत्॥ क्व सीता केन वा दृष्टा को वा हरति मैथिलीम्। तदाख्यातुं भवान् सर्वं गतिर्भव वनौकसाम्॥ को दाशरथिबाणानां वज्रवेगनिपातिनाम्। स्वयंलक्ष्मणमुक्तानां न चिन्तयति विक्रमम्॥ स हरीन् प्रतिसम्मुक्तान् सीताश्रुतिसमाहितान्। पुनराश्वासयन् प्रीत इदं वचनमब्रवीत्॥ श्रूयतामिह वैदेह्या यथा मे हरणं श्रुतम्। येन चापि ममाख्यातं यत्र चायतलोचना ॥ अहमस्मिन् गिरौ दुर्गे बहुयोजनमायते। चिरान्निपतितो वृद्धः क्षीणप्राणपराक्रमः॥ तं मामेवङ्गतं पुत्रः सुपार्यो नाम नामतः। आहारेण यथाकालं विभर्ति पततां वरः॥ तीक्ष्णकामास्तु गन्धर्वास्तीक्ष्णकोपा भुजङ्गमाः। मृगाणां तु भयं तीक्ष्णं ततस्तीक्ष्णक्षुधा वयम्॥ स कदाचित् क्षुधार्तस्य ममाहाराभिकाङ्क्षिणः। गतसूर्येऽहनि प्राप्तो मम पुत्रो ह्यनामिषः॥ स मयाऽऽहारसंरोधात् पीडितः प्रीतिवर्धनः। अनुमान्य यथातत्वमिदं वचनमब्रवीत्॥ अहं तात यथाकालमामिषार्थी खमाप्लुतः। महेन्द्रस्य गिरेरमावृत्य सुसमाश्रितः॥ तत्र सत्त्वसहस्राणां सागरान्तरचारिणाम्। पन्थानमेकोऽध्यवसं संनिरोद्धमवाङ्मुखः॥ तत्र कश्चिन्मया दृष्टः सूर्योदयसमप्रभाम्। स्त्रियमादाय गच्छन् वै भिन्नाञ्जनचयोपमः॥ सोऽहमभ्यवहारार्थं तौ दृष्ट्वा कृतनिश्चयः। तेन साम्ना विनीतेन पन्थानमनुयाचितः॥ नहि सामोपपन्नानां प्रहर्ता विद्यते भुवि।' नीचेष्वपि जनः कश्चित् किमङ्ग बत मद्विधः॥ स यातस्तेजसा व्योम संक्षिपन्निव वेगितः। अथाहं खेचरैर्भूतैरभिगम्य सभाजितः॥ दिष्ट्या जीवति सीतेति ह्यब्रुवन् मां महर्षयः। कथंचित् सकलत्रोऽसौ गतस्ते स्वस्त्यसंशयम्॥ एवमुक्तस्ततोऽहं तैः सिद्धैः परमशोभनैः। स च मे रावणो राजा रक्षसां प्रतिवेदितः॥ पश्यन् दाशरथेर्भार्यां रामस्य जनकात्मजाम्। भ्रष्टाभरणकौशेयां शोकवेगपराजिताम्॥ रामलक्ष्मणयोर्नाम क्रोशन्ती मुक्तमूर्धजाम्। एष कालात्ययस्तात इति वाक्यविदां वरः॥ एतदर्थं समग्रं मे सुपार्श्वः प्रत्यवेदयत्। तच्छ्रुत्वापि हि मे बुद्धिर्नासीत् काचित् पराक्रमे॥ अपक्षो हि कथं पक्षी कर्म किंचित् समारभेत्। यत् तु शक्यं मया कर्तुं वाग्बुद्धिगुणवर्तिना॥ श्रूयतां तत्र वक्ष्यामि भवतां पौरुषाश्रयम्। वाङ्मतिभ्यां हि सर्वेषां करिष्यामि प्रियं हि वः॥ यद्धि दाशरथेः कार्यं मम तन्नात्र संशयः। तद् भवन्तो मतिश्रेष्ठा बलवन्तो मनस्विनः॥ प्रहिताः कपिराजेन देवैरपि दुरासदाः। रामलक्ष्मणबाणाश्च विहिताः कङ्कपत्रिणः॥ त्रयाणामपि लोकानां पर्याप्तास्त्राणनिग्रहे। कामं खलु दशग्रीवस्तेजोबलसमन्वितः। भवतां तु समर्थानां न किंचिदपि दुष्करम्॥ तदलं कालसङ्गेन क्रियतां बुद्धिनिश्चयः। नहि कर्मसु सज्जन्ते बुद्धिमन्तो भवद्विधाः॥ ततः कृतोदकं स्नातं तं गृधं हरियूथपाः। उपविष्टा गिरौ रम्ये परिवार्य समन्ततः॥ तमङ्गदमुपासीनं तैः सर्वैर्हरिभिर्वृतम्। जनितप्रत्ययो हर्षात् सम्पातिः पुनरब्रवीत्॥ कृत्वा. निःशब्दमेकाग्राः शृण्वन्तु हरयो मम। तथ्यं संकीर्तयिष्यामि यथा जानामि मैथिलीम्॥ अस्य विन्ध्यस्य शिखरे पतितोऽस्मि पुरानघ। सूर्यतापपरीताङ्गो निर्दग्धः सूर्यरश्मिभिः॥ लब्धसंज्ञस्तु षड्रावाद् विवशो विह्वलनिव। वीक्षमाणो दिशः सर्वा नाभिजानामि किंचन॥ ततस्तु सागराशैलान् नदीः सर्वाः सरांसि च। वनानि च प्रदेशांश्च निरीक्ष्य मतिरागता॥ हृष्टपक्षिगणाकीर्णः कन्दरोदरकूटवान्। दक्षिणस्योदधेस्तीरे विन्ध्योऽयमिति निश्चितः॥ आसीच्चात्राश्रमं पुण्यं सुरैरपि सुपूजितम्। ऋषिर्निशाकरो नाम यस्मिन्नुग्रतपाऽभवत्॥ अष्टौ वर्षसहस्राणि तेनास्मिन्नृषिणा गिरौ। वसतो मम धर्मज्ञे स्वर्गते तु निशाकरे॥ अवतीर्य च विन्ध्याग्रात् कृच्छ्रेण विषमाच्छनैः। तीक्ष्णदर्भा वसुमती दुःखेन पुनरागतः॥ तमृषिं द्रष्टुकामोऽस्मि दुःखेनाभ्यागतो भृशम्। जटायुषा मया चैव बहुशोऽधिगतो हि सः॥ तस्याश्रमपदाभ्याशे ववुर्वाताः सुगन्धिनः। वृक्षो नापुष्पितः कश्चिदफलो वा न दृश्यते॥ उपेत्य चाश्रमं पुण्यं वृक्षमूलमुपाश्रितः। द्रष्टकामः प्रतीक्षे च भगवन्तं निशाकरम्॥ अथ पश्यामि दूरस्थमृषि ज्वलिततेजसम्। कृताभिषेकं दुर्धर्षमुपावृत्तमुदङ्मुखम्॥ तमृक्षाः सृमराव्याघ्राः सिंहा नानासरीसृपाः। परिवार्योपगच्छन्ति दातारं प्राणिनो यथा॥ ततः प्राप्तमृषि ज्ञात्वा तानि सत्त्वानि वै ययुः। प्रविष्टे राजनि यथा सर्वं सामात्यकं बलम्॥ ऋषिस्तु दृष्ट्वा मां तुष्टः प्रविष्टश्चाश्रमं पुनः। मुहूर्तमात्रानिर्गम्य ततः कार्यमपृच्छत॥ सौम्य वैकल्यतां दृष्ट्वा रोम्णां ते नावगम्यते। अग्निदग्धाविमौ पक्षौ प्राणाश्चापि शरीरके॥ गृध्रौ द्वौ दृष्टपूर्वी मे मातरिश्वसमौ जवे। गृध्राणां चैव राजानौ भ्रातरौ कामरूपिणौ॥ ज्येष्ठोऽवितस्त्वं सम्पाते जटायुरनुजस्तव। मानुषं रूपमास्थाय गृह्णीतां चरणौ मम॥ किं ते व्याधिसमुत्थानं पक्षयोः पतनं कथम्। दण्डो वायं धृतः केन सर्वमाख्याहि पृच्छतः॥ ततस्तद् दारुणं कर्म दुष्करं सहसा कृतम्। आचचक्षे मुनेः सर्वं सूर्यानुगमनं तथा॥ भगवन् व्रणयुक्तत्वाल्लज्जया चाकुलेन्द्रियः। परिश्रान्तो न शक्नोमि वचनं परिभाषितुम्॥ अहं चैव जटायुश्च संघर्षाद् गर्वमोहितौ। आकाशं पतितौ दूराज्जिज्ञासन्तौ पराक्रमम्॥ कैलासशिखरे बद्ध्वा मुनीनामग्रतः पणम्। रविः स्यादनुयातव्यो यावदस्तं महागिरिम्॥ अप्यावां युगपत् प्राप्तावपश्याव महीतले। रथचक्रप्रमाणानि नगराणि पृथक् पृथक् ॥ क्वचिद् वादित्रघोषश्च क्वचिद् भूषणनिःस्वनः। गायन्ती: स्माङ्गना बह्वीः पश्यावो रक्तवाससः॥ तूर्णमुत्पत्य चाकाशमादित्यपतमास्थितौ। आवामालोकयावस्तद् वनं शाद्वलसंस्थितम्॥ उपलैरिव संछन्ना दृश्यते भूः शिलोच्चयैः। आपगाभिश्च संवीता सूत्रैरिव वसुंधरा॥ हिमवांश्चैव विन्ध्यश्च मेरुश्च सुमहागिरिः। भूतले सम्प्रकाशन्ते नागा इव जलाशये॥ तीव्रः स्वेदश्च खेदश्च भयं चासीत् तदावयोः। समाविशत मोहश्च ततो मूर्छा च दारुणा॥ न च दिग्ज्ञायते याम्या न चाग्नेयी न वारुणी। युगान्ते नियतो लोको हतो दग्ध इवाग्निना ॥ मनश्च मे हतं भूयश्चक्षुः प्राप्य तु संश्रयम्। यत्नेन महता ह्यस्मिन् मनः संधाय चक्षुषी॥ यत्नेन महता भूयो भास्करः प्रतिलोकितः। तुल्यपृथ्वीप्रमाणेन भास्करः प्रतिभाति नौ॥ जटायुर्मामनापृच्छ्य निपपात महीं ततः। तं दृष्ट्वा तूर्णमाकाशादात्मानं मुक्तवानहम्॥ पक्षाभ्यां च मया गुप्तो जटायुर्न प्रदह्यत। प्रमादात् तत्र निर्दग्धः पतन् वायुपथादहम्॥ आशङ्के तं निपतितं जनस्थाने जटायुषम्। अहं तु पतितो विन्ध्ये दग्धपक्षो जडीकृतः॥ राज्याच्च हीनो भ्रात्रा च पक्षाभ्यां विक्रमेण च। सर्वथा मर्तुमेवेच्छन् पतिष्ये शिखराद् गिरेः॥ एवमुक्त्वा मुनिश्रेष्ठमरुतं भृशदुःखितः। अथ ध्यात्वा मुहूर्तं च भगवानिदमब्रवीत्॥ पक्षौ च ते प्रपक्षौ च पुनरन्यौ भविष्यतः। चक्षुषी चैव प्राणाश्च विक्रमश्च बलं च ते॥ पुराणे सुमहत्कार्यं भविष्यं हि मया श्रुतम्। दृष्टं मे तपसा चैव श्रुत्वा च विदितं मम ॥ राजा दशरथो नाम कश्चिदिक्ष्वाकुवर्धनः। तस्य पुत्रो महातेजा रामो नाम भविष्यति ॥ अरण्यं च सह भ्रात्रा लक्ष्मणेन गमिष्यति। तस्मिन्नर्थे नियुक्तः सन् पित्रा सत्यपराक्रमः॥ नैर्ऋतो रावणो नाम तस्य भार्या हरिष्यति। राक्षसेन्द्रो जनस्थाने अवध्यः सुरदानवैः॥ सा च कामैः प्रलोभ्यन्ती भक्ष्यैर्भोज्यैश्च मैथिली। न भोक्ष्यति महाभागा दुःखमग्ना यशस्विनी॥ परमान्नं च वैदेह्या ज्ञात्वा दास्यति वासवः। यदन्नममृतप्रख्यं सुराणामपि दुर्लभम्।।८ तदन्नं मैथिली प्राप्य विज्ञायेन्द्रादिदं त्विति। अग्रमुद्धृत्य रामाय भूतले निर्वपिष्यति॥ यदि जीवति मे भर्ता लक्ष्मणो वापि देवरः। देवत्वं गच्छतोर्वापि तयोरन्नमिदं त्विति ॥ एष्यन्ति प्रेषितास्तत्र रामदूताः प्लवङ्गमाः। आख्येया राममहिषी त्वया तेभ्यो विहङ्गम॥ सर्वथा तु न गन्तव्यमीदृशः क्व गमिष्यसि। देशकालौ प्रतीक्षस्व पक्षौ त्वं प्रतिपत्स्यसे॥ उत्सहेयमहं कर्तुमद्यैव त्वां सपक्षकम्। इहस्थस्त्वं हि लोकानां हितं कार्यं करिष्यसि॥ त्वयापि खलु तत् कार्यं तयोश्च नृपपुत्रयोः। ब्राह्मणानां गुरूणां च मुनीनां वासवस्य च॥ इच्छाम्यहमपि द्रष्टुं भ्रातरौ रामलक्ष्मणौ। नेच्छे चिरं धारयितुं प्राणांस्त्यक्ष्ये कलेवरम्। महर्षिस्त्वब्रवीदेवं दृष्टतत्त्वार्थदर्शनः॥ एतैरन्यैश्च बहुभिर्वाक्यैर्वाक्यविशारदः। मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टः स स्वमालयम्॥ कन्दरात् तु विसर्पित्वा पर्वतस्य शनैः शनैः। अहं विन्ध्यं समारुह्य भवतः प्रतिपालये॥ अद्य त्वेतस्य कालस्य वर्षे साग्रशतं गतम्। देशकालप्रतीक्षोऽस्मि हृदि कृत्वा मुनेर्वचः॥ महाप्रस्थानमासाद्य स्वर्गते तु निशाकरे।-मां निर्दहति संतापो वितर्कंबहुभिर्वृतम्॥ उदितां मरणे बुद्धिं मुनिवाक्यैर्निवर्तये। बुद्धिर्या तेन मे दत्ता प्राणानां रक्षणे मम॥ सा मेऽपनयते दुःखं दीप्तेवाग्निशिखा तमः। बुध्यता च मया वीर्यं रावणस्य दुरात्मनः॥ पुत्रः संतर्जितो वाग्भिर्न त्राता मैथिली कथम्। तस्या विलपितं श्रुत्वा तौ च सीतावियोजितौ॥ न मे दशरथस्नेहात् पुत्रेणोत्पादितं प्रियम्। तस्य त्वेवं ब्रुवाणस्य संहतैर्वानरैः सह ॥ उत्पेततुस्तदा पक्षौ समक्षं वनचारिणाम्। स दृष्ट्वा स्वां तनुं पक्षरुद्तैररुणच्छदैः॥ प्रहर्षमतुलं लेभे वानरांश्चेदमब्रवीत्। निशाकरस्य राजर्षेः प्रसादादमितौजसः॥ आदित्यरश्मिनिर्दग्धौ पक्षौ पुनरुपस्थितौ। यौवने वर्तमानस्य ममासीद् यः पराक्रमः॥ तमेवाद्यावगच्छामि बलं पौरुषमेव च। सर्वथा क्रियतां यत्नः सीतामधिगमिष्यथ ॥ पक्षलाभो ममायं वः सिद्धिप्रत्ययकारकः। इत्युक्त्वा तान्हरीन् सर्वान्सम्पाति: पतगोत्तमः॥ उत्पपात गिरेः शृङ्गाजिज्ञासुः खगमो गतिम्। तस्य तद् वचनं श्रुत्वा प्रतिसंहृष्टमानसाः। बभूवुर्हरिशार्दूला विक्रमाभ्युदयोन्मुखाः॥ अथ पवनसमानविक्रमाः प्लवगवराः प्रतिलब्धपौरुषाः। र्जनकसुतापरिमार्गणोन्मुखाः॥ अथाङ्गदवचः श्रुत्वा ते सर्वे वानरर्षभाः। स्वं स्वं गतौ समुत्साहमूचुस्तत्र यथाक्रमम्॥ गजो गवाक्षो गवयः शरभो गन्धमादनः। मैन्दश्च द्विविदश्चैव सुषेणो जाम्बवांस्तथा॥ आबभाषे गजस्तत्र प्लवेयं दशयोजनम्। गवाक्षो योजनान्याह गमिष्यामीति विंशतिम्॥ शरभो वानरस्तत्र वानरास्तानुवाच ह। त्रिंशतं तु गमिष्यामि योजनानां प्लवङ्गमाः॥ ऋषभो वानरस्तत्र वानरांस्तानुवाच ह। चत्वारिंशद् गमिष्यामि योजनानां न संशयः॥ वानरांस्तु महातेजा अब्रवीद् गन्धमादनः। योजनानां गमिष्यामि पञ्चाशत्तु न सशंयः॥ मैन्दस्तु वानरस्तत्र वानरांस्तानुवाच ह। योजनानां परं षष्टिमहं प्लवितुमुत्सहे॥ ततस्तत्र महातेजा द्विविदः प्रत्यभाषत। गमिष्यामि न संदेहः सप्ततिं योजनान्यहम्॥ सुषेणस्तु महातेजाः सत्त्ववान् कपिसत्तमः। अशीतिं प्रतिजानेऽहं योजनानां पराक्रमे॥ तेषां कथयतां तत्र सर्वांस्ताननुमान्य च। ततो वृद्धतमस्तेषां जाम्बवान् प्रत्यभाषत॥ पूर्वमस्माकमप्यासीत् कश्चिद् गतिपराक्रमः। ते वयं वयसः पारमनुप्राप्ताः स्म साम्प्रतम्॥ किं तु नैवं गते शक्यमिदं कार्यमुपेक्षितुम्। यदर्थं कपिराजश्च रामश्च कृतनिश्चयौ॥ साम्प्रतं कालमस्माकं या गतिस्तां निबोधत। नवतिं योजनानां तु गमिष्यामि न संशयः॥ तांश्च सर्वान् हरिश्रेष्ठाञ्जाम्बवानिदमब्रवीत्। न खल्वेतावदेवासीद् गमने मे पराक्रमः॥ मया वैरोचने यज्ञे प्रभविष्णुः सनातनः। प्रदक्षिणीकृतः पूर्वं क्रममाणस्त्रिविक्रमः॥ स इदानीमहं वृद्धः प्लवने मन्दविक्रमः। यौवने च तदासीन्मे बलमप्रतिमं परम्॥ सम्प्रत्येतावदेवाद्य शक्यं मे गमने स्वतः। नैतावता च संसिद्धिः कार्यस्यास्य भविष्यति॥ अथोत्तरमुदारार्थमब्रवीदङ्गदस्तदा। अनुमान्य तदा प्राज्ञो जाम्बवन्तं महाकपिः॥ अहमेतद् गमिष्यामि योजनानां शतं महत्। निवर्तने तु मे शक्तिः स्यान वेति न निश्चितम्॥ तमुवाच हरिश्रेष्ठं जाम्बवान् वाक्यकोविदः। ज्ञापते गमो शक्तिस्तव हवृक्षसत्तम॥ कामं शतसहस्रं वा नह्येष विधिरुच्यते। योजनानां भवाशक्तो गन्तुं प्रतिनिवर्तितुम्॥ नहि प्रेषयिता तात स्वामी प्रेष्यः कथंचन। भवताऽयं जनः सर्वः प्रेष्यः प्लवगसत्तम ॥ भवान् कलत्रमस्माकं स्वाभिभावे व्यवस्थितः। स्वामी कलत्रं सैन्यस्य गतिरेषा परंतप॥ अपि वै तस्य कार्यस्य भवान् मूलमरिंदम। तस्मात् कलत्रवत् तात प्रतिपाल्यः सदा भवान्॥ मूलमर्थस्य संरक्ष्यमेव कार्यविदां नयः। मूले हि सति सिध्यन्ति गुणाः सर्वे फलोदयाः॥ तद् भवानस्य कार्यस्य साधनं सत्यविक्रम। बुद्धिविक्रमसम्पन्नो हेतुरत्र परंतप॥ गुरुश्च गुरुपुत्रश्च त्वं हि नः कपिसत्तमः। भवन्तमाश्रित्य वयं समर्था ह्यर्थसाधने॥ उक्तवाक्यं महाप्राज्ञं जाम्बवन्तं महाकपिः। प्रत्युवाचोत्तरं वाक्यं वालिसूनुरथाङ्गदः॥ यदि नाहं गमिष्यामि नान्यो वानरपुङ्गवः। पुनः खल्विदमस्माभिः कार्य प्रायोपवेशनम्॥ नह्यकृत्वा हरिपतेः संदेशं तस्य धीमतः। तत्रापि गत्वा प्राणानां न पश्ये परिरक्षणम्॥ स हि प्रसादे चात्यर्थकोपे च हरिरीश्वरः। अतीत्य तस्य संदेशं विनाशो गमने भवेत्॥ तत्तथा ह्यस्य कार्यस्य न भवत्यन्यथा गतिः। तद् भवानेव दृष्टार्थः संचिन्तयितुमर्हति ॥ सोऽङ्गदेन तदा वीरः प्रत्युक्तः प्लवगर्षभः। जाम्बवानुत्तमं वाक्यं प्रोवाचेदं ततोऽङ्गदम्॥ तस्य ते वीर कार्यस्य न किंचित् परिहास्यते। एष संचोदयाम्येनं यः कार्य साधयिष्यति ॥ ततः प्रतीतं प्लवतां वरिष्ठमेकान्तमाश्रित्य सुखोपविष्टम्। संचोदयामास हरिप्रवीरो हरिप्रवीरं हनुमन्तमेव॥ अनेकशतसाहस्री विषण्णां हरिवाहिनीम्। जाम्बवान् समुदीक्ष्यैवं हनूमन्तमथाब्रवीत्॥ वीर वानरलोकस्य सर्वशास्त्रविदां वर। तूष्णीमेकान्तमाश्रित्य हनूमन् किं न जल्पसि॥ हनूमन्हरिराजस्य सुग्रीवस्य समो ह्यसि। रामलक्ष्मणयोश्चापि तेजसा च बलेन च॥ अरिष्टनेमिनः पुत्रो वैनतेयो महाबलः। गरुत्मानिव विख्यात उत्तमः सर्वपक्षिणाम्॥ बहुशो हि मया दृष्टः सागरे स महाबलः। भुजङ्गानुद्धरन् पक्षी महाबाहुर्महाबलः॥ पक्षयोर्यद् बलं तस्य भुजवीर्यबलं तव। विक्रमश्चापि वेगश्च न ते तेनापहीयते॥ बलं बुद्धिश्च तेजश्च सत्त्वं च हरिपुङ्गव। विशिष्टं सर्वभूतेषु किमात्मानं न सज्जसे।७।। अप्सराऽप्सरसां श्रेष्ठा विख्याता पुञ्जिकस्थला। अञ्जनेति परिख्याता पत्नी केसरिणो हरेः॥ विख्याता त्रिषु लोकेषु रूपेणाप्रतिमा भुवि। अभिशापादभूत् तात कपित्वे कामरूपिणी॥ दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः। मानुषं विग्रहं कृत्वा रूपयौवनशालिनी॥ विचित्रमाल्याभरणा कदाचित् क्षौमधारिणी। अचरत् पर्वतस्याग्रे प्रावृडम्बुदसंनिभे॥ तस्या वस्त्रं विशालाक्ष्याः पीतं रक्तदशं शुभम्। स्थितायाः पर्वतस्याग्रे मारुतोऽपहरच्छनैः॥ स ददर्श ततस्तस्या वृत्तावूरू सुसंहतौ। स्तनौ च पीनौ सहितौ सुजातं चारु चाननम्॥ तां बलादायतश्रोणी तनुमध्यां यशस्विनीम्। दृष्ट्वैव शुभसर्वाङ्गी पवनः काममोहितः॥ स तां भुजाभ्यां दीर्घाभ्यां पर्यष्वजत मारुतः। मन्मथाविष्टसर्वाङ्गो गतात्मा तामनिन्दिताम्॥ सा तु तत्रैव सम्भ्रान्ता सुव्रता वाक्यमब्रवीत्। एकपत्नीव्रतमिदं को नाशयितुमिच्छति॥ अनाया वचः तुत्वा मारुतः प्रत्यभाषत। न त्वां हिंसामि सुश्रोणि माभूत् ते मनसो भयम्॥ मनसाऽस्मि गतो यत् त्वां परिष्वज्य यशस्विनि। वीर्यवान् बुद्धिसम्पन्नस्तव पुत्रो भविष्यति॥ महासत्त्वो महातेजा महाबलपराक्रमः। लङ्घने प्लवने चैव भविष्यति मया समः।।१९ एवमुक्ता ततस्तुष्टा जननी ते महाकपे। गुहायां त्वां महाबाहो प्रजज्ञे प्लवगर्षभ॥ अभ्युत्थितं ततः सूर्यं बालो दृष्ट्वा महावने। फलं चेति जिघृक्षुस्त्वमुत्पत्याभ्युत्पतो दिवम्॥ शतानि त्रीणि गत्वाथ योजनानां महाकपे। तेजसा तस्य निर्धूतो न विषादं गतस्ततः॥ त्वामप्युपगतं तूर्णमन्तरिक्षं महाकपे। क्षिप्तमिन्द्रेण ते वज्रं कोपाविष्टेन तेजसा ॥ तदा शैलाग्रशिखरे वामो हनुरभज्यत। ततो हि नामधेयं ते हनुमानिति कीर्तितम्॥ ततस्त्वां निहतं दृष्ट्वा वायुर्गन्धवहः स्वयम्। त्रैलोक्यं भृशसंक्रुद्धो न ववौ वै प्रभञ्जनः॥ सम्भ्रान्ताश्च सुराः सर्वे त्रैलोक्ये क्षुभिते सति। प्रसादयन्ति संक्रुद्धं मारुतं भुवनेश्वराः॥ प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ। अशस्त्रवध्यतां तात समरे सत्यविक्रम॥ वज्रस्य च निपातेन विरुजं त्वां समीक्ष्य च। सहस्रनेत्रः प्रीतात्मा ददौ ते वरमुत्तमम्॥ स्वच्छन्दतश्च मरणं तव स्यादिति वै प्रभो। स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः॥ मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः। त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः॥ वयमद्य गतप्राणा भवानस्मासु साम्प्रतम्। दाक्ष्यविक्रमसम्पन्नः कपिराज इवापरः॥ त्रिविक्रमे मया तात सशैलवनकानना। त्रिःसप्तकृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम्॥ तथा चौषधयोऽस्माभिः संचिता देवशासनात्। निर्मथ्यममृतं याभिस्तदानीं नो महद्बलम्॥ स इदानीमहं वृद्धः परिहीनपराक्रमः। साम्प्रतं कालमस्माकं भवान् सर्वगुणान्वितः॥ तद् विजृम्भस्व विक्रान्त प्लवतामुत्तमो ह्यसि। त्वद्वीर्यं द्रष्टुकामा हि सर्वा वानरवाहिनी॥ उत्तिष्ठ हरिशार्दूल लङ्घयस्व महार्णवम्। परा हि सर्वभूतानां हनुमन् या गतिस्तव॥ विषण्णा हरयः सर्वे हनुमन् किमुपेक्षसे। विक्रमस्व महावेग विष्णुस्त्रीन् विक्रमानिव ॥ ततः कपीनामृषभेण चोदितः प्रतीतवेगः पवनात्मजः कपिः। प्रहर्षयंस्तां हरिवीरवाहिनी चकार रूपं महदात्मनस्तदा॥ तं दृष्ट्वा जृम्भमाणं ते क्रमितुं शतयोजनम्। वेगेनापूर्यमाणं च सहसा वानरोत्तमम्॥ सहसा शोकमुत्सृज्य प्रहर्षेण समन्विताः। विनेदुस्तुष्टुवुश्चापि हनूमन्तं महाबलम्॥ प्रहृष्टा विस्मिताश्चापि ते वीक्षन्ते समन्ततः। त्रिविक्रमं कृतोत्साहं नारायणमिव प्रजाः॥ संस्तूयमानो हनुमान् व्यवर्धत महाबलः। समाविद्ध्य च लालं हर्षाद् बलमुपेयिवान्॥ तस्य संस्तूयमानस्य वृद्धैर्वानरपुङ्गवैः। तेजसाऽऽपूर्यमाणस्य रूपमासीदनुत्तमम्॥ यथा विजृम्भते सिंहो विवृते गिरिगह्वरे। मारुतस्यौरसः : पुत्रस्तथा सम्प्रति जृम्भते॥ अशोभत मुखं तस्य जृम्भमाणस्य धीमतः। अम्बरीषोपमं दीप्तं विधूम इव पावकः॥ हरीणामुत्थितो मध्यात् सम्प्रहृष्टतनूरुहः। अभिवाद्य हरीन् वृद्धान् हनूमानिदमब्रवीत्॥ आरुजन् पर्वताग्राणि हुताशनसखोऽनिलः। बलवानप्रमेयश्च वायुराकाशगोचरः॥ तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः। मारुतस्यौरसः पुत्रः प्लवनेनास्मि तत्समः॥ उत्सहे य हि विस्तीर्णमालिखन्तमिवाम्बरम्। मेहं गिरिमसङ्गेन परिगन्तुं सहस्रशः॥ बाहुवेगप्रणुन्नेन सागरेणाहमुत्सहे। समाप्लावयितुं लोकं सपर्वतनदीह्रदम्॥ ममोरुजवावेगेन भविष्यति समुत्थितः। समुत्थितमहाग्राहः समुद्रो वरुणालयः॥ पन्नागाशनमाकाशे पतन्तं पक्षिसेवितम्। वैनतेयमहं शक्तः परिगन्तुं सहस्रशः॥ उदयात् प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम्। अनस्तमितमादित्यमहं गन्तुं समुत्सहे॥ ततो भूमिमसंस्पृष्ट्वा पुनरागन्तुमुत्सहे। प्रवेगेनैव महता भीमेन प्लवगर्षभाः॥ उत्सहेयमतिक्रान्तुं सर्वानाकाशगोचरान्। सागरान् शोषयिष्यामि दारयिष्यामि मेदिनीम्॥ पर्वतांश्चूर्णयिष्यामि प्लवमानः प्लवङ्गमः। हरिष्याम्युरुवेगेन प्लवमानो महार्णवम्॥ लतानां विविधं पुष्पं पादपानां च सर्वशः। अनुयास्यति मामद्य प्लवमानं विहायसा॥ भविष्यति हि मे पन्थाः स्वातेः पन्था इवाम्बरे। चरन्तं घोरमाकाशमुत्पतिष्यन्तमेव च॥ द्रक्ष्यन्ति निपतन्तं च सर्वभूतानि वानराः। महामेरुप्रतीकाशं मां द्रक्ष्यध्वं प्लवङ्गमाः॥ दिवमावृत्य गच्छन्तं ग्रसमानमिवाम्बरम्। विधमिष्यामि जीमूतान् कम्पयिष्यामि पर्वतान्। सागरं शोषयिष्यामि प्लवमानः समाहितः॥ वैनतेयस्य वा शक्तिर्मम वा मारुतस्य वा। ऋते सुपर्णराजानं मारुतं वा महाबलम्। न तद् भूतं प्रपश्यामि यन्मां प्लुतमनुव्रजेत्॥ निमेषान्तरमात्रेण निरालम्बनमम्बरम्। सहसा निपतिष्यामि घनाद् विद्युदिवोत्थिता॥ भविष्यति हि मे रूपं प्लवमानस्य सागरम्। विष्णोः प्रक्रममाणस्य तदा त्रीन् विक्रमानिव ॥ बुद्ध्या चाहं प्रपश्यामि मनश्रेष्ठा च मे तथा। अहं द्रक्ष्यामि वैदेही प्रमोदध्वं प्लवङ्गमाः॥ मारुतस्य समो वेगे गरुडस्य समो जवे। अयुतं योजनानां तु गमिष्यामीति मे मतिः॥ वासवस्य सवज्रस्य ब्रह्मणो वा स्वयम्भुवः। विक्रम्य सहसा हस्तादमृतं तदिहानये॥ लङ्कां वापि समुत्क्षिप्य गच्छेयमिति मे मतिः। तमेवं वानरश्रेष्ठं गर्जन्तममितप्रभम्॥ प्रहृष्टा हरयस्तत्र समुदैक्षन्त विस्मिताः। तच्चास्य वचनं श्रुत्वा ज्ञातीनां शोकनाशनम्॥ उवाच परिसंहृष्टो जाम्बवान् प्लवगेश्वरः। वीर केसरिणः पुत्र वेगवन् मारुतात्मज॥ ज्ञातीनां विपुलः शोकस्त्वया तात प्रणाशितः। तव कल्याणरुचयः कपिमुख्याः समागताः॥ मङ्गलान्यर्थसिद्ध्यर्थं करिष्यन्ति समाहिताः। ऋषीणां च प्रसादेन कपिवृद्धमतेन च॥ गुरूणां च प्रसादेन संप्लव त्वं महार्णवम्। स्थास्यामश्चैकपादेन यावदागमनं तव॥ त्वद्गतानि च सर्वेषां जीवनानि वनौकसाम्। ततश्च हरिशार्दूलस्तानुवाच वनौकसः॥ कोऽपि लोके न मे वेगं प्लवने धारयिष्यति। एतानीह नगस्यास्य शिलासंकटशालिनः॥ शिखराणि महेन्द्रस्य स्थिराणि च महान्ति च। येषु वेगं गमिष्यामि महेन्द्रशिखरेष्वहम्॥ नानादुमविकीर्णेषु धातुनिष्पन्दशोभिषु। एतानि मम वेगं हि शिखराणि महान्ति च॥ प्लवतो धारयिष्यन्ति योजनानामितः शतम्। ततस्तु मारुतप्रख्यः स हरिर्मारुतात्मजः। आरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः॥ वृतं नानाविधैः पुष्पैर्मृगसेवितशाद्वलम्। लताकुसुमसम्बाधं नित्यपुष्पफलद्रुमम्॥ सिंहशार्दूलसहितं मत्तमातङ्गसेवितम्। मत्तद्विजगणोद्धृष्टं सलिलोत्पीडसंकुलम्॥ महद्भिरुच्छ्रितः शृङ्गैर्महेन्द्रस्य महाबलः। विचचार हरिश्रेष्ठो महेन्द्रसमविक्रमः।॥ बाहुभ्यां पीडितस्तेन महाशैलो महात्मना। ररास सिंहाभिहतो महान् मत्त इव द्विपः॥ मुमोच सलिलोत्पीडान् विप्रकीर्णशिलोच्चयः। वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः॥ नानागन्धर्वमिथुनैः पानसंसर्गकर्कशैः। उत्पतद्भिर्विहङ्गैश्च विद्याधरगणैरपि॥ त्यज्यमानमहासानुः संनिलीनमहोरगः। शैलशृङ्गशिलोत्पातस्तदाभूत् स महागिरिः॥ निःश्वसद्भिस्तदा तैस्तु भुजगैरर्धनिःसृतैः। सपाताक इवाभाति स तदा धरणीधरः॥ ऋषिभिस्त्रासम्भ्रान्तैस्त्यज्यमानः शिलोच्चयः। सीदन्महति कान्तारे सार्थहीन इवाध्वगः॥ स वेगवान् वेगसमाहितात्मा हरिप्रवीरः परिवीरहन्ता। मनः समाधाय महानुभावो जगाम लङ्कां मनसा मनस्वी ॥ ततो रावणनीतायाः सीतायाः शत्रुकर्षणः। इयेष पदमन्वेष्टुं चारणाचरिते पथि॥ दुष्करं निष्प्रतिद्वन्द्वं चिकीर्षन् कर्म वानरः। समुदग्रशिरोग्रीवो गवां पतिरिवाबभौ॥ अथ वैदूर्यवर्णेषु शाद्वलेषु महाबलः। धीरः सलिलकल्पेषु विचचार यथासुखम्॥ द्विजान् वित्रासयन् धीमानुरसा पादपान् हरन्। मृगांश्च सुबहून् निघ्नन् प्रवृद्ध इव केसरी॥ नीललोहितमाञ्जिष्ठपद्मवर्णैः सितासितैः। स्वभावसिद्धैर्विमलैर्धातुभिः समलंकृतम्॥ कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः। यक्षकिन्नरगन्धर्वैर्देवकल्पैः सपन्नगैः॥ स तस्य गिरिवर्यस्य तले नागवरायुते। तिष्ठन् कपिवरस्तत्र हृदे नाग इवाबभौ॥ स सूर्याय महेन्द्राय पवनाय स्वयंभुवे। भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम्॥ अञ्जलिं प्राङ्मुखं कुर्वन् पवनायात्मयोनये। ततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिशम्॥ प्लवगप्रवरैर्दृष्टः प्लवने कृतनिश्चयः। ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु॥ निष्प्रमाणशरीरः सँल्लिलवयिषुरर्णवम्। बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम्॥ स चचालाचलश्चाशु मुहूर्तं कपिपीडतः। तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत्॥ तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना। सर्वतः संवृतः शैलो बभौ पुष्पमयो यथा॥ तेन चोत्तमवीर्येण पीड्यमानः स पर्वतः। सलिलं सम्प्रसुस्राव मदमत्त इव द्विपः॥ पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः। रीतीनिवर्तयामास काञ्चनाञ्जनराजतीः॥ मुमोच च शिलाः शैलो विशालाः समन:शिला :। मध्यमेनार्चिषा जुष्टो धूमराजीरिवानलः॥ हरिणा पीड्यमानेन पीड्यमानानि सर्वतः। गुहाविष्टानि सत्त्वानि विनेदुर्विकृतैः स्वरैः॥ स महान् सत्त्वसंनादः शैलपीडानिमित्तजः। पृथिवीं पूरयामास दिशश्चोपवनानि च॥ शिरोभिः पृथुभिर्नागा व्यक्तस्वस्तिकलत्तणैः। वमन्तः पावकं घोरं ददंशुर्दशनैः शिलाः॥ तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः जज्वलुः पावकोद्दीप्ता विभिदुश्च सहस्रधा॥ यानि त्वौषधजालानि तस्मिञ्जातानि पर्वते। विषघ्नान्यपि नागानां न शेकुः शमितुं विषम्॥ भिद्यतेऽयं गिरिधूतैरिति मत्वा तपस्विनः। त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्रीगणैः सह ॥ पानभूमिगतं हित्वा हैममासवभाजनम्। पात्राणि च महार्हाणि करकांश्च हिरण्मयान्॥ लेह्यानुच्चावचान् भक्ष्यान् मांसानि विविधानि च। आर्षभाणि च चर्माणि खङ्गांश्च कनकत्सरून्॥ कृतकण्ठगुणाः क्षीबा रक्तमाल्यानुलेपनाः। रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे॥ हारनूपुरकेयूरपारिहार्यधराः स्त्रियः। विस्मिताः सस्मितास्तस्थुराकाशे रमणैः सह ॥ एष पर्वतसंकाशो हनुमान् मारुतात्मजः। तितीर्षति महावेगः समुद्रं वरुणालयम्॥ रामार्थं वानरार्थं च चिकीर्षन् कर्म दुष्करम्। समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति॥ इति विद्याधरा वाचः श्रुत्वा तेषां तपस्विनाम्। तमप्रमेयं ददृशुः पर्वते वानरर्षभम्॥ दुधुवे च स रोमाणि चकम्पे चानलोपमः। ननाद च महानादं सुमहानिव तोयदः॥ आनुपूर्त्यां च वृत्तं तल्लाङ्गलं रोममिश्रितम्। उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम्॥ तस्य लाङ्गलमाविद्धमतिवेगस्य पृष्टतः। ददृशे गरुडेनेव ह्रियमाणो महोरगः॥ बाहू संस्तम्भयामास महापरिघसंनिभौ। आससाद कपिः कट्यां चरणौ संकुकोच॥ संहृत्य च भुजौ श्रीमांस्तथैव च शिरोधराम्। तेजः सत्त्वं तथा वीर्यमाविवेश स वीर्यवान् ॥ मार्गमालोकयन् दूरादूर्ध्वप्रणिहितेक्षणः। रुरोध हृदये प्राणानाकाशमवलोकयन्॥ पद्भ्यां दृढमवस्थानां कृत्वा स कपिकुञ्जरः। निकुच्य को हनुमानुत्पतिष्यन् महाबलः॥ वानरान् वानरश्रेष्ठ इदं वचनमब्रवीत्। यथा राघवनिर्मुक्तः शरः श्वसनविक्रमः॥ गच्छेत् तद्वद् गमिष्यामि लङ्कां रावणपालिताम्। नहि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम्॥ अनेनैव हि वेगेन गमिष्यामि सुरालयम्। यदि वा त्रिदिवे सीतां न द्रक्ष्यामि कृतश्रमः॥ बद्ध्वा राक्षसराजानमानयिष्यामि रावणम्। सर्वथा कृतकार्योऽहमेष्यामि सह सीतया॥ आनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम्। एवमुक्त्वा तु हनुमान् वानरो वानरोत्तमः॥ उत्पपाताथ वेगेन वेगवानविचारयन्। सुपर्णमिव चात्मानं मेने स कपिकुञ्जरः॥ समुत्पतति वेगात् तु वेगात् ते नगरोहिणः। संहृत्य विटपान् सर्वान् समुत्पेतुः समन्ततः॥ स मत्तकोयष्टिभकान् पादपान् पुष्पशालिनः। उद्वहन्नुरुवेगेन जगाम विमलेऽम्बरे॥ ऊरुवेगोत्थिता वृक्षा मुहूर्त कपिमन्वयुः। प्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाः॥ तमूरुवेगोन्मथिताः सालाश्चान्ये नगोत्तमाः। अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम्॥ सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः। हनूमान् पर्वताकारो बभूवाद्भुतदर्शनः॥ सारवन्तोऽथ ये वृक्षा न्यमज्जल्लवणाम्भसि। भयादिव महेन्द्रस्य पर्वता वरुणालये॥ स नानाकुसुमैः कोर्णः कपिः साङ्करकोरकैः। शुशुभे मेघसंकाशः खद्योतैरिव पर्वतः॥ विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते दुमाः। व्यवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा।५० ।। लघुत्वेनोपपन्नं तद् विचित्रं सागरेऽपतत्। दुमाणां विविधं पुष्पं कपिवायुसमीरितम्॥ पुष्पौघेण सुगन्धेन नानावर्णेन वानरः। बभौ मेघ इवोद्यन् वै विद्युद्गणविभूषितः॥ तस्य वेगसमुद्भूतैः पुष्पैस्तोयमदृश्यत। ताराभिरिव रामाभिरुदिताभिरिवाम्बरम्॥ तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ। पर्वताग्राद् विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ॥ पिबन्निव बभौ चापि सोर्मिजालं महार्णवम्। पिपासुरिव चाकाशं ददृशे स महाकपिः॥ तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः। नयने विप्रकाशेते पर्वतस्थाविवानलौ।५६।। पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले। चक्षुषी सम्प्रकाशेते चन्द्रसूर्याविव स्थितौ॥ मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ। सन्ध्यया समभिस्पृष्टं यथा स्यात् सूर्यमण्डलम्॥ लाङ्गूलं च समाविद्धं प्लवमानस्य शोभते। अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितम्॥ लाङ्गलचक्रो हनुमाशुकल्दंष्ट्रोऽनिलात्मजः। व्यरोचत महाप्राज्ञः परिवेषीव भास्करः॥ स्फिग्देशेनातितामेण रराज स महाकपिः। महता दारितेनेव गिरिगैरिकधातुना॥ तस्य वानरसिंहस्य प्लवमानस्य सागरम्। कक्षान्तरगतो वायुर्जीमूत इव गर्जति॥ खे यथा निपतत्युल्का उत्तरान्ताद् विनिःसृता। दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः॥ पतत्पतङ्गसंकाशो व्यायतः शुशुभे कपिः। प्रवृद्ध इव मातङ्गः कक्ष्यया बध्यमानया॥ उपरिष्टाच्छरीरेण च्छायया चावगाढया। सागरे मारुताविष्टा नौरिवासीत् तदा कपिः॥ यं यं देशं समुद्रस्य जगाम स महिकपिः। स तु तस्याङ्गवेगेन सोन्माद इव लक्ष्यते॥ सागरस्योर्मिजालानामुरसा शैलवर्मणाम्। अभिघ्नंस्तु महावेगः पुप्लुवे स महाकपिः॥ कपिवातश्च बलवान् मेघवातश्च निर्गतः। सागरं भीमनिर्हादं कम्पयामासतु शम्॥ विकर्षर्मिजालानि बृहन्ति लवणाम्भसि। पुष्लुवे कपिशार्दूलो विकिरनिव रोदसी॥ मेरुमन्दरसंकाशानुद्रतान् सुमहार्णवे। अत्यक्रामन्महावेगस्तरङ्गान् गणयन्निव॥ तस्य वेगसमुघुष्टं जलं सजलदं तदा। अम्बरस्थं विबभ्राजे शरदभ्रमिराततम्।७१।। तिमिनक्रझषा: कूर्मा दृश्यन्ते विवृतास्तदा। वस्त्रापकर्षणेनेव शरीराणि शरीरिणाम्॥ क्रममाणं समीक्ष्याथ भुजगाः सागरंगमाः। व्योम्नि तं कपिशार्दूलं सुपर्णमिव मेनिरे॥ दशयोजनविस्तीर्णा त्रिंशद्योजनमायता। छाया वानरसिंहस्य जवे चारुतराभवत्॥ श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी। तस्य सा शुशुभे छाया पतिता लवणाम्भसि॥ शुशुभे स महातेजा महाकायो महाकपिः। वायुमार्गे निरालम्बे पक्षवानिव पर्वतः॥ येनासौ याति बलवान् वेगेन कपिकुञ्जरः। तेन मार्गेण सहसा द्रोणीकृत इवार्णवः॥ आपाते पक्षिसङ्घानां पक्षिराज इव व्रजन्। हनुमान् मेघजालानि प्रकर्षन् मारुतो यथा॥ पाण्डुरारुणवर्णानि नीलमञ्जिष्ठकानि च। कपिनाऽऽकृष्यमाणानि महाभ्राणि चकाशिरे॥ प्रविशन्नभ्रजालीनि निष्पतंश्च पुनः पुनः। प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव दृश्यते॥ प्लवमानं त तं दृष्ट्वा प्लवगं त्वरितं तदा। ववृषुस्तत्र पुष्पाणि देवगन्धर्वदानवाः॥ तताप नहि तं सूर्यः प्लवन्तं वानरेश्वरम्। सिषेवे च तदा वायू रामकार्यार्थसिद्धये॥ ऋषयस्तुष्टुवुश्चैनं प्लवमानं विहायसा। जगुश्च देवगन्धर्वाः प्रशंसन्तो वनौकसम्॥ नागाश्च तुष्टुवुर्यक्षा रक्षांसि विविधानि च। प्रेक्ष्य सर्वे कपिवरं सहसा विगतक्लमम् ॥ तस्मिन् प्लवगशार्दूले प्लवमाने हनूमति। इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः॥ साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः। करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम्॥ अहमिक्ष्वाकुनाथेन सगरेण विवर्धितः। इक्ष्वाकुसचिवश्चायं तन्नार्हत्यवसादितुम्॥ तथा मया विधातव्यं विश्रमेत यथा कपिः। शेषं च मयि विश्रान्तः सुखी सोऽतितरिष्यति॥ इति कृत्वा मतिं साध्वी समुद्रश्छन्नमम्भसि। हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम्॥ त्वमिहासुरसङ्घानां देवराज्ञा महात्मना। पातालनिलयानां हि परिघः संनिवेशितः॥ त्वमेषां ज्ञातवीर्याणां पुरनेवोत्पतिष्यताम्। पातालस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि॥ तिर्यगूर्ध्वमधश्चैव शक्तिस्ते शैल वर्धितुम्। तस्मात् संचोदयामि त्वामुत्तिष्ठ गिरिसत्तम॥ स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान्। हनूमान् रामकार्यार्थी भीमकर्मा खमाप्लुतः। श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि॥ हिरण्यगर्भो मैनाको निशम्य लवणाम्भसः। उत्पपात जलात् तूर्णं महादुमलतावृतः॥ स सागरजलं भित्वा बभूवात्युच्छ्रितस्तदा। यथा जलधरं भित्त्वा दीमरश्मिर्दिवाकरः॥ स महात्मा मुहूर्तेन पर्वतः सलिलावृतः। दर्शयामास शृङ्गाणि सागरेण नियोजितः॥ शातकुम्भमयैः शृङ्गैः सकिंनरमहोरगैः। आदित्योदयसंकाशैरुल्लिखद्भिरिवाम्बरम्॥ तस्य जाम्बूनदैः शृङ्गः पर्वतस्य समुत्थितैः। आकाशं शस्त्रसंकाशमभवत् काञ्चनप्रभम्॥ जातरूपमयैः शृङ्गैः भ्राजमानैर्महाप्रभैः। आदित्यशतसंकाशः सोऽभवद् गिरिसत्तमः॥ समुत्थितमसङ्गेन हनूमानग्रतः स्थितम्। मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः॥ स तमुच्छ्रितमत्यर्थं महावेगो महाकपिः। उरसा पातयामास जीमूतमिव मारुतः॥ स तदासादितस्तेन कपिना पर्वतोत्तमः। बुद्ध्वा तस्य हरेर्वेगं जहर्ष च ननाद च॥ तमाकाशगतं वीरमाकाशे समुपस्थितः। प्रीतो हृष्टमना वाक्यमब्रवीत् पर्वतः कपिम्॥ मानुषं धारयन् रूपमात्मनः शिखरे स्थितः। दुष्करं कृतवान् कर्म त्वमिदं वानरोत्तम्॥ निपत्य मम शृङ्गेषु सुखं विश्रम्य गम्यताम्। राघवस्य कुले जातैरुदधिः परिवर्धितः॥ स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः। कृते च प्रतिकर्तव्यमेष धर्मः सनातनः॥ सोऽयं तत्प्रतिकारार्थी त्वत्तः सम्मानमर्हति। त्वन्निमित्तमनेनाहं बहुमानात् प्रचोदितः॥ योजनानां शतं चापि कपिरेष खमाप्लुतः। तव सानुषु विश्रान्तः शेषं प्रक्रमतामिति ॥ तिष्ठ त्वं हरिशार्दूल मयि विश्रम्य गम्यताम्। तदितं गन्धवत् स्वादु कन्दमूलफलं बहु॥ तदास्वाद्य हरिश्रेष्ठ विश्रान्तोऽथ गमिष्यसि। अस्माकमपि सम्बन्धः कपिमुख्य त्वयास्ति वै। प्रख्यातस्त्रिषु लोकेषु महागुणपरिग्रहः॥ वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज । तेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर ॥ अतिथिः किल पूजार्हः प्राकृतोऽपि विजानता। धर्मे जिज्ञासमानेन किं पुनर्यादृशो भवान् ॥ त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः। पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर॥ पूजिते त्वयि धर्मज्ञे पूजां प्राप्नोति मारुतः। तस्मात् त्वं पूजनीयो मे शृणु चाप्यत्र कारणम्॥ पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन्। तेऽपि जग्मुर्दिशः सर्वा गरुडा इव वेगिनः॥ ततस्तेषु प्रयातेषु देवसङ्घाः सहर्षिभिः। भूतानि च भयं जग्मुस्तेषां पतनशङ्कया॥ ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः। पक्षांश्चिच्छेद वज्रेण ततः शतसहस्रशः॥ स मामुपगतः क्रुद्धो वज्रमुद्यम्य देवराट्। ततोऽहं सहसा क्षिप्तः श्वसनेन महात्मना॥ अस्मिल्लवणतोये च प्रक्षिप्तः प्लवगोत्तम। गुप्तपक्षः समग्रश्च तव पित्राभिरक्षितः॥ ततोऽहं मानयामि त्वां मान्योऽसि मम मारुते। त्वया ममैष सम्बन्धः कपिमुख्य महागुणः॥ अस्मिन्नेवंगते कार्ये सागरस्य ममैव च। प्रीतिं प्रीतिमनाः कर्तुं त्वमर्हसि महामते॥ श्रमं मोक्षय पूजां च गृहाण हरिसत्तम। प्रीतिं च मम मान्यस्य प्रीतोऽस्मि तव दर्शनात्॥ एवमुक्तः कपिश्रेष्ठस्तं नगोत्तममब्रवीत्। प्रीतोऽस्मि कृतमातिथ्यं मन्युरेषोऽपनीयताम्॥ त्वरते कार्यकाले मे अहश्चाप्यतिवर्तते। प्रतिज्ञा च मया दत्ता न स्थातव्यमिहान्तरा॥ इत्युक्त्वा पाणिना शैलमालभ्य हरिपुङ्गवः। जगामाकाशमाविश्य वीर्यवान् प्रसहनिव॥ स पर्वतसमुद्राभ्यां बहुमानादवेक्षितः। पूजितश्चोपपन्नाभिराशीर्भिरभिनन्दितः॥ अथोर्ध्वं दूरमागत्य हित्वा शैलमहार्णवौ। पितुः पन्थानमासाद्य जगाम विमलेऽम्बरे॥ भूयश्चोर्ध्वं गतिं प्राप्य गिरं तमवलोकयन्। वायुसूनुर्निरालम्बो जगाम कपिकुञ्जरः॥ तद् द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम्। प्रशशंसुः सुराः सर्वे सिद्धाश्च परमर्षयः॥ देवताश्चाभवन् हृष्टास्तत्रस्थास्तस्य कर्मणा। काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः॥ उवाच वचनं धीमान् परितोषात् सगद्गदम्। सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः॥ हिरण्यनाभ शैलेन्द्र परितुष्टोऽस्मि ते भृशम्। अभयं ते प्रयच्छामि गच्छ सौम्य यथासुखम्॥ साह्यं कृतं ते सुमहद् विश्रान्तस्य हनूमतः। क्रमतो योजनशतं निर्भरस्य भये सति ॥ रामस्यैव हितायैष याति दाशरथेः कपिः। सत्क्रियां कुर्वता शक्त्या तोषितोऽस्मि दृढं त्वया।१३४ स तत् प्रहर्षमलभद् विपुलं पर्वतोत्तमः। देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम्॥ स वै दत्तवरः शैलो बभूवावस्थितस्तदा। हनूमांश्च मुहूर्तेन व्यतिचक्राम सागरम्॥ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। अब्रुवन् सूर्यसंकाशां सुरसां नागमातरम्॥ अयं वातात्मजः श्रीमान् प्लवते सागरोपरि। हनूमान् नाम तस्य त्वं मुहूर्तं विघ्नमाचर॥ राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम्। दंष्ट्राकरालं पिङ्गाक्षं वक्त्रं कृत्वा नभःस्पृशम्॥ बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम्। त्वां विजेष्यत्युपायेन विषादं वा गमिष्यति॥ एवमुक्ता तु सा देवी दैवतैरभिसत्कृता। समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः॥ विकृतं च विरूपं च सर्वस्य च भयावहम्। प्लवमानं हनूमन्तमावृत्येदमुवाच ह॥ मम भक्ष्यः प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ। अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम्॥ वर एष पुरा दत्तो मम धात्रेति सत्वरा। व्यादाय वक्त्रं विपुलं स्थिता सा मारुतेः पुरः॥ अथवा मैथिली एवमुक्तः सुरसया प्रहृष्टवदनोऽब्रवीत्। रामो दाशरथिर्नाम प्रविष्टो दण्डकावनम्। लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया॥ अस्य कार्यविषक्तस्य बद्धवैरस्य राक्षसैः। तस्य सीता हृता भार्या रावणेन यशस्विनी॥ तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात्। कर्तुमर्हसि रामस्य साह्यं विषयवासिनि॥ दृष्ट्वा रामं चाक्लिष्टकारिणम्। आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते॥ एवमुक्ता हनुमता सुरसा कामरूपिणी। अब्रवीन्नातिवर्तेन्मां कश्चिदेष वरो मम॥ तं प्रयान्तं समुद्वीक्ष्य सुरसा वाक्यमब्रवीत्। बलं जिज्ञासमाना सा नागमाता हनूमतः॥ निविश्य वदनं मेऽद्य गन्तव्यं वानरोत्तम। वर एष पुरा दत्तो मम धात्रेति सत्वरा ॥ व्यादाय विपुलं वक्त्रं स्थिता सा मारुतेः पुरः। एवमुक्तः सुरसया क्रुद्धो वानरपुंगवः॥ अब्रवीत् कुरु वै वक्त्रं येन मां विषहिष्यसि। इत्युक्त्वा सुरसां क्रुद्धो दशयोजनमायताम्॥ दशयोजनविस्तारो हनूमानभवत् तदा। चकार सुरसाप्यास्यं विंशद्योजनमायतम्॥ (चकार सुरसा वक्त्रं चत्वारिंशत् तथोच्छ्रितम्। बभूव हनुमान् वीरः पञ्चाशद् योजनोच्छ्रितः। चकार सुरसा वक्त्रं षष्टिं योजनमुच्छ्रितम्।। तदैव हनुमान् वीरः सप्ततिं योजनोच्छ्रितः। चकार सुरसा वक्त्रमशीति योजनोच्छ्रितम्।। हनूमाननलप्रख्यो नवतिं योजनोच्छ्रितः। चकार सुरसा वक्त्रं शतयोजनमायतम्।।) तद् दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः स बुद्धिमान्। दीर्घजिढे सुरसया सुभीमं नरकोपमम्॥ स संक्षिप्यात्मनः कायं जीमूत इव मारुतिः। तस्मिन् मुहूर्ते हनुमान् बभूवाङ्गुष्ठमात्रकः॥ सोऽभिपद्याथ तद्वक्त्रं निष्पत्य च महाबलः। अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत्॥ प्रविष्टोऽस्मि हि ते वक्त्रं दाक्षायणि नमोऽस्तु ते। गमिष्ये यत्र वैदेही सत्यश्चासीद् वरस्तव॥ तं दृष्ट्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव। अब्रवीत् सुरसा देवी स्वेन रूपेण वानरम्॥ अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम्। समानय च वैदेहीं राघवेण महात्मना॥ तत् तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम्। साधुसाध्विति भूतानि प्रशशंसुस्तदा हरिम्॥ स सागरमनाधृष्यमभ्येत्य वरुणालयम्। जगामाकाशमाविश्य वेगेन गरुडोपमः॥ सेविते वारिधाराभिः पतगैश्च निषेविते। चरिते कैशिकाचायैरैरावतनिषेविते॥ सिंहकुञ्जरशार्दूलपतगोरगवाहनैः। विमानैः सम्पतद्भिश्च विमलैः समलंकृते॥ वज्राशनिसमस्पर्शेः पावकैरिव शोभिते। कृतपुण्यैर्महाभागैः स्वर्गजिद्भिरधिष्ठिते॥ वहता हव्यमत्यन्तं सेविते चित्रभानुना। ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते॥ महर्षिगणगन्धर्वनागयक्षसमाकुले। विविक्ते विमले विश्वे विश्वावसुनिषेविते॥ देवराजगजाक्रान्तो चन्द्रसूर्यपथे शिवे। विताने जीवलोकस्य वितते ब्रह्मनिर्मिते॥ बहुशः सेविते वीरैर्विद्याधरगणैर्वृते । जगाम वायुमार्गे च गरुत्मानिव मारुतिः॥ हनुमान् मेघजालानि प्राकर्षन् मारुतो यथा। कालागुरुसवर्णानि रक्तपीतसितानि च॥ कपिना कृष्यमाणानि महाभ्राणि चकाशिरे। प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः॥ प्रावृषीन्दुरिवाभाति निष्पतन् प्रविशंस्तथा! प्रदृश्यमानः सर्वत्र हनूमान् मारुतात्मजः॥ भेजेऽम्बरं निरालम्बं पक्षयुक्त इवाद्रिराट्। प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी॥ मनसा चिन्तयामास प्रवृद्धा कामरूपिणी। अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता॥ इदं मम महासत्त्वं चिरस्य वशमागतम्। इति संचिन्त्य मनसा च्छायामस्य समाक्षिपत्॥ छायायां गृह्यमाणायां चिन्तयामास वानरः। समाक्षिप्तोऽस्मि सहसा पङ्गकृतपराक्रमः॥ प्रतिलोमेन वातेन महानौरिव सागरे। तिर्यगूर्ध्वमधश्चैव वीक्षमाणस्तदा कपिः॥ ददर्श स महासत्त्वमुत्थितं लवणाम्भसि। तद् दृष्ट्वा चिन्तयामास मारुतिर्विकृताननाम्॥ कपिराज्ञा यथाख्यातं सत्त्वमद्भुतदर्शनम्। छायाग्राहि महावीर्यं तदिदं नात्र संशयः॥ स तां बुद्ध्वार्थतत्त्वेन सिंहिकां मतिमान् कपिः। व्यवर्धत महाकायः प्रावृषीव बलाहकः॥ तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः। वक्त्रं प्रसारयामास पातालाम्बरसंनिभम्॥ घनराजीव गर्जन्ती वानरं समभिद्रवत्। स ददर्श ततस्तस्या विकृतं सुमहन्मुखम्॥ कायमात्रं च मेधावी मर्माणि च महाकपिः। स तस्या विकृते वक्त्रे वज्रसंहननः कपिः॥ संक्षिप्य मुहुरात्मानं निपपात महाकपिः। आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः॥ ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा। ततस्तस्या नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः॥ उत्पपाताथ वेगेन मन:सम्पातविक्रमः। तां तु दिष्ट्या च धृत्वा च दाक्षिण्येन निपात्य सः।। कपिप्रवीरो वेगेन ववृधे पुनरात्मवान्। हृतहृत्सा हनुमता पपात विधुराम्भसि। स्वयम्भुवैव हनुमान् सृष्टास्तस्या निपातने॥ तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम्। भूतान्याकाशचारीणि तमूचुः प्लवगोत्तमम्॥ भीममद्य कृतं कर्म महत्सत्त्वं त्वया हतम्। साधयार्थमभिप्रेतमरिष्टं प्लवतां वर॥ यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव। धृतिर्दृष्टिर्मतिर्दाक्ष्य स कर्मसु न सीदति ॥ स तैः सम्पूजितः पूज्यः प्रतिपन्नप्रयोजनैः। जगामाकाशमाविश्य पन्नगाशनवत् कपिः॥ प्राप्तभूयिष्ठपारस्तु सर्वतः परिलोकयन्। योजनानां शतस्यान्ते वनराजी ददर्श सः॥ ददर्श च पतन्नेव विविधदुमभूषितम्। दीपं शाखामृगश्रेष्ठो मलयोपवनानि च॥ सागरं सागरानूपान् सागरानूपजान् दुमान्। सागरस्य च पत्नीनां मुखान्यपि विलोकयत्॥ स महामेघसंकाशं समीक्ष्यात्मानमात्मवान्। निरुन्धन्तमिवाकाशं चकार मतिमान् मतिम्॥ कायवृद्धिं प्रवेगं च मम दृष्ट्वैव राक्षसाः। मयि कौतूहलं कुर्युरिति मेने महामतिः॥ ततः शरीरं संक्षिप्य तन्महीधरसंनिभम्। पुनः प्रकृतिमापेदे वीतमोह इवात्मवान्॥ तदूपमतिसंक्षिप्य हनूमान् प्रकृतौ स्थितः। त्रीन् क्रमानिव विक्रम्य बलिवीर्यहरो हरिः॥ स चारुनानाविधरूपधारी परं समासाद्य समुद्रतीरम्। परैरशक्यं प्रतिपन्नरूपः समीक्षितात्मा समवेक्षितार्थः॥ ततः स लम्बस्य गिरेः समृद्ध विचित्रकूटे निपपात कूटे। सकेतकोद्दालकनारिकेले महाभ्रकूटप्रतिमो महात्मा॥ ततस्तु सम्प्राप्य समुद्रतीरं समीक्ष्य लङ्कां गिरिवर्यमूधि। कपिस्तु तस्मिन् निपपात पर्वते विधूय रूपं व्यथयन्मृगद्विजान्॥ स सागरं दानवपन्नगायुतं बलेन विक्रम्य महोर्मिमालिनम्। निपत्य तारे च महोदयेस्तदा ददर्श लङ्काममरावतीमिव ॥ स सागरं दानवपन्नगायुतं बलेन विक्रम्य महोर्मिमालिनम्। निपत्य तारे च महोदयेस्तदा ददर्श लङ्काममरावतीमिव ॥ स सागरमनाधृष्यमतिक्रम्य महाबलः। त्रिकूटस्य तटे लङ्कां स्थितः स्वस्थो ददर्श ह॥ ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान्। अभिवृष्टस्ततस्तत्र बभौ पुष्पमयो हरिः॥ योजनानां शतं श्रीमांस्ती।त्युत्तमविक्रमः। अनिःश्वसन् कपिस्तत्र न ग्लानिमधिगच्छति॥ शतान्यहं योजनानां क्रमेयं सुबहून्यपि। किं पुनः सागरस्यान्तं संख्यातं शतयोजनम्॥ स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः। जगाम वेगवाँल्लङ्कां लवयित्वा महोदधिम्॥ शाद्वलानि च नीलानि गन्धवन्ति वनानि च । मधुमन्ति च मध्येन जगाम नगवन्ति च॥ शैलांश्च तरुसंछन्नान् वनराजीश्च पुष्पिताः। अभिचक्राम तेजस्वी हनूमान् प्लवगर्षभः॥ स तस्मिन्नचले तिष्ठन् वनान्युपवनानि च। स नगाग्रे स्थितां लङ्कां ददर्श पवनात्मजः॥ सरलान् कर्णिकारांश्च खजूरांश्च सुपुष्पितान् । प्रियालान् मुचुलिन्दांश्च कुटजान् केतकानपि॥ प्रियङ्गुन् गन्धपूर्णांश्च नीपान् सप्तच्छदांस्तथा। असनान् कोविदारांश्च करवीरांश्च पुष्पितान्॥ पुष्पभारनिबद्धांश्च तथा मुकुलितानपि। पादपान् विहगाकीर्णान् पवनाधूतमस्तकान्॥ हंसकारण्डवाकीर्णा वापी: पद्मोत्पलावृताः। आक्रीडान् विविधारम्यान्विविधांश्च जलाशयान्॥ संततान् विविधैर्वृक्षैः सर्वर्तुफलपुष्पितैः। उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः॥ समासाद्य च लक्ष्मीवॉलङ्कां रावणपालिताम्। परिखाभिः सपद्माभिः सोत्पलाभिरलंकृताम्॥ सीतापहरणात् तेन रावणेन सुरक्षिताम्। समन्ताद् विचरद्भिश्च राक्षसैरुग्रधन्वभिः॥ काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम्। गृहैश्च गिरिसंकाशैः शारदाम्बुदसंनिभैः॥ पाण्डुराभिः प्रतोलीभिरुच्चाभिरभिसंवृताम्। अट्टालकशताकीर्णा पताकाध्वजशोभिताम्॥ तोरणैः काञ्चनैर्दिव्यैर्लतापङ्क्तिविराजितैः। ददर्श हनुमाँल्लङ्कां देवो देवपुरीमिव॥ पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा। प्लवमानामिवाकाशे ददर्श हनुमान् कपिः॥ वप्रप्राकारजघनां विपुलाम्बुवनाम्बराम्। शतघ्नीशूलकेशान्तामट्टालकावतंसकाम्॥ मनसेव कृतां लङ्कां निर्मितां विश्वकर्मणा। द्वारमुत्तरमासाद्य चिन्तयामास वानरः॥ कैलासनिलयप्रख्यमालिखन्तमिवाम्बरम्। ध्रियमाणमिवाकाशमुच्छ्रितैर्भवनोत्तमैः॥ सम्पूर्णां राक्षसै।रैर्गुहामाशीविषैरिव। तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः। रावणं च रिपुं घोरं चिन्तयामास वानरः॥ आगत्यापीह हरयो भविष्यन्ति निरर्थकाः। नहि युद्धेन लङ्का शक्या जेतुं सुरैरपि॥ इमां त्वविषमां लङ्कां दुर्गा रावणपालिताम्। प्राप्यापि सुमहाबाहुः किं करिष्यति राघवः॥ अवकाशो न साम्नस्तु राक्षसेप्वभिगम्यते। न दानस्य न भेदस्य नैव युद्धस्य दृश्यते॥ चतुर्णामेव हि गतिर्वानराणां तरस्विनाम्। वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः॥ यावज्जानामि वैदेहीं यदि जीवति वा न वा। तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम्॥ ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः। गिरेः शृङ्गे स्थिस्तस्मिन् रामस्याभ्युदयं ततः॥ अनेन रूपेण मया न शक्या रक्षसां पुरी। प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः॥ महौजसो महावीर्या बलवन्तश्च राक्षसाः। वञ्चनाया मया सर्वे जानकी परिमार्गता॥ लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्कापुरी मया। प्राप्तकालं प्रवेष्टुं मे कृत्यं साधयितुं महत्॥ तां पुरी तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः। हनूमांश्चिन्तयामास विनिःश्वस्य मुहूर्मुहुः॥ केनोपायेन पश्येयं मैथिली जनकात्मजाम्। अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना॥ न विनश्येत् कथं कार्यं रामस्य विदितात्मनः। एकामेकस्तु पश्येयं रहिते जनकात्मजाम्॥ भूताश्चार्था विनश्यन्ति देशकालविरोधिताः। विक्लवं दूतमासाद्य तमः सूर्योदये यथा॥ अर्थानान्तरे बुद्धिनिश्चितापि न शोभते। घातयन्तीह कार्याणि दूताः पण्डितमानिनः॥ न विनश्येत् कथं कार्यं वैक्लव्यं न कथं भवेत्। लङ्घनं च समुद्रस्य कथं नु न भवेद् वृथा॥ मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः। भवेद् व्यर्थमिदं कार्यं रावणानर्थमिच्छतः॥ नहि शक्यं क्वचित् स्थातुमविज्ञातेन राक्षसैः। अपि राक्षसरूपेण किमुतान्येन केनचित्॥ वायुरप्यत्र नाज्ञातश्चरेदिति मतिर्मम। नह्यत्राविदितं किंचिद् रक्षसां भीमकर्मणाम्॥ इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः। विनाशमुपयास्यामि भर्तुरर्थश्च हास्यति॥ तदहं स्वेण रूपेण रजन्यां ह्रस्वतां गतः। लङ्कामभिपतिष्यामि राघवस्यार्थसिद्धये॥ रावणस्य पुरी रात्रौ प्रविश्य सुदुरासदाम्। प्रविश्य भवनं सर्वं द्रक्ष्यामि जनकात्मजाम्॥ इति निश्चित्य हनुमान् सूर्यस्यास्तमयं कपिः। आचकाङ्के तदा वीरो वैदेह्या दर्शनोत्सुकः॥ सूर्ये चास्तं गते रात्रौ देहं संक्षिप्य मारुतिः। वृषदंशकमात्रोऽथ बभूवाद्भुतदर्शनः॥ प्रदोषकाले हनुमांस्तूर्णमुत्पत्य वीर्यवान्। प्रविवेश पुरी रम्यां प्रविभक्तमहापथाम्॥ प्रासादमालाविततां स्तम्भैः काञ्चनसंनिभैः। शातकुम्भनिभैर्जालैर्गन्धर्वनगरोपमाम्॥ सप्तभौमाष्टभौमैश्च स ददर्श महापुरीम्। स्थलैः स्फटिकसंकीर्णैः कार्तस्वरविभूषितैः। तैस्तैः शुशुभिरे तानि भवनान्यत्र रक्षसाम्॥ काञ्चनानि विचित्राणि तोरणानि च रक्षसाम्। लङ्कामुद्योतयामासुः सर्वतः समलंकृताम्॥ अचिन्त्यामद्भुताकारां दृष्ट्वा लङ्कां महाकपिः। आसीद् विषण्णो दृष्टश्च वैदेह्या दर्शनोत्सुकः। ५२।। स पाण्डुराविद्धविमानमालिनी महार्हजाम्बूनदजालतोरणाम्। यशस्विनी रावणबाहुपालितां क्षपाचरैभीमबलैः सुपालिताम्॥ स्तारागणैर्मध्यगतो विराजन्। नुत्तिष्ठतेऽनेकसहस्ररश्मिः ॥ मुद्गच्छमानं व्यवभासमानम्। ददर्श चन्द्रं स कपिप्रवीरः पोप्लूयमानं सरसीव हंसम्॥ स लम्बशिखरे लंबे लंबतोयदसंनिभे। सत्त्वमास्थाय मेधावी हनुमान् मारुतात्मजः॥ निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः। रम्यकाननतोयाढ्यां पुरी रावणपालिताम्॥ शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम्। सागरोपमनिर्घोषां सागरानिलसेविताम्॥ सुपुष्टबलसम्पुष्टां यथैव विटपावतीम्। चारुतोरणनिर्वृहां पाण्डुरद्वारतोरणाम्॥ भुजगाचरितां गुप्तां शुभां भोगवतीमिव। तां सविद्युद्घनाकीर्णा ज्योतिर्गणनिषेविताम्॥ चण्डमारुतनिर्हादां यथा चाप्यमरावतीम्। शातकुम्भेन महता प्राकारेणाभिसंवृताम्॥ किङ्किणीजालघोषाभिः पताकाभिरलंकृताम्। आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान्॥ विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः। जाम्बूनदमयैारैवैदूर्यकृतवेदिकैः॥ वज्रस्फटिकमुक्ताभिर्मणिकुट्टिमभूषितैः। तप्तहाटकनिषूहै राजतामलपाण्डुरैः॥ वैदूर्यकृतसोपानैः स्फाटिकान्तरपांसुभिः। चारुसंजवनोपैतैः खमिवोत्पतितैः शुभैः॥ क्रौञ्चबर्हिणसंघुष्टै राजहंसनिषेवितैः। तूर्याभरणनिर्घोषैः सर्वतः परिनादिताम्॥ बस्वोकसारप्रतिमां समीक्ष्य नगरी ततः। खमिवोत्पतितां लङ्कां जहर्ष हनुमान् कपिः॥ तां समीक्ष्य पुरीं लङ्कां राक्षसाधिपतेः शुभाम्। अनुत्तमामृद्धिमतीं चिन्तयामास वीर्यवान्॥ नेयमन्येन नगरी शक्या धर्षयितुं बलात्। रक्षिता रावणबलैरुद्यतायुधपाणिभिः॥ कुमुदाङ्गदयोर्वापि सुषेणस्य महाकपेः। प्रसिद्धेयं भवेत् भूमिमॆन्दद्विविदयोरपि॥ विवस्वतस्तनूजस्य हरेश्च कुशपर्वणः। ऋक्षस्य कपिमुख्यस्य मम चैव गतिर्भवेत्॥ समीक्ष्य च महाबाहो राघवस्य पराक्रमम्। लक्ष्मणस्य च विक्रान्तमभवत् प्रीतिमान् कपिः॥ तां रत्नवसनोपेतां गोष्ठागारवतंसिकाम्। यन्त्रागारस्तनीमृद्धां प्रमदामिव भूषिताम्॥ तां नष्टतिमिरां दीपै स्वरैश्च महाग्रहै:। नगरी राक्षसेन्द्रस्य स ददर्श महाकपिः॥ अथ सा हरिशार्दूलं प्रविशन्तं महाकपिम्। नगरी स्वेन रूपेण ददर्श पवनात्मजम्॥ सा तं हरिवरं दृष्ट्वा लङ्का रावणपालिता। स्वयमेवोत्थिता तत्र विकृताननदर्शना ॥ पुरस्तात् तस्य वीरस्य वायुसूनोरतिष्ठत। मुञ्चमाना महानादमब्रवीत् पवनात्मजम्॥ कस्त्वं केन च कार्येण इह प्राप्तो वनालय। कथयस्वेह यत् तत्त्वं यावत् प्राणा धरन्ति ते॥ न शक्यं खल्वियं लङ्का प्रवेष्टुं वानर त्वया। रक्षिता रावणबलैरभिगुप्ता समन्ततः॥ अथ तामब्रवीत् वीरो हनुमानग्रतः स्थिताम्। कथयिष्यामि तत् तत्त्वं यन्मां त्वं परिपृच्छसे॥ का त्वं विरूपनयना पुरद्वारेऽवतिष्ठसे। किमर्थं चापि मां क्रोधान्निर्भर्त्सयसि दारुणे॥ हनुमद्वचनं श्रुत्वा लङ्का सा कामरूपिणी। उवाच वचनं क्रुद्धा परुषं पवनात्मजम्॥ अहं राक्षसराजस्य रावणस्य महात्मनः। आज्ञाप्रतीक्षा दुर्धर्षा रक्षामि नगरीमिमाम्॥ न शक्यं मामवज्ञाय प्रवेष्टुं नगरीमिमाम्। अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया॥ अहं हि नगरी लङ्का स्वयमेव प्लवङ्गम। सर्वतः परिरक्षामि अतस्ते कथितं मया॥ लङ्काया वचनं श्रुत्वा हनूमान् मारुतात्मजः। यत्नवान् स हरिश्रेष्ठः स्थितः शैल इवापरः॥ स तां स्त्रीरूपविकृतां दृष्ट्वा वानरपुङ्गवः। आबभाषेऽथ मेधावी सत्त्ववान् प्लवगर्षभः॥ द्रक्ष्यामि नगरी लङ्कां साट्टप्राकारतोरणाम्। इत्यर्थमिह सम्प्राप्तः परं कौतूहलं हि मे॥ वनान्युपवनानीह लङ्कायाः काननानि च। सर्वतो गृहमुख्यानि द्रष्टुमागमनं हि मे॥ तस्य तद् वचनं श्रुत्वा लङ्का सा कामरूपिणी। भूय एव पुनर्वाक्यं बभाषे परुषाक्षरम् ॥ मामनिर्जित्य दुर्बुद्धे राक्षसेश्वरपालिताम्। न शक्यं ह्यद्य ते द्रष्टुं पुरीयं वानराधम॥ ततः स हरिशार्दूलस्तामुवाच निशाचरीम्। दृष्ट्वा पुरीमिमां भद्रे पुनर्यास्ये यथागतम्॥ वै ततः श्रुत्वा महानादं सा लङ्का भयंकरम्। तलेन वानरश्रेष्ठं ताडयामास वेगिता॥ ततः स हरिशार्दूलो लङ्कया ताडितो भृशम्। ननाद सुमहानादं वीर्यवान् मारुतात्मजः॥ ततः संवर्तयामास वामहस्तस्य सोऽङ्गुलीः। मुष्टिनाभिजघानैनां हनुमान् क्रोधमूर्च्छितः॥ स्त्री चेति मन्यमानेन नातिक्रोधः स्वयं कृतः। सा तु तेन प्रहारेण विह्वलाङ्गी निशाचरी। पपात सहसा भूमौ विकृताननदर्शना ॥ ततस्तु हनुमान् वीरस्तां दृष्ट्वा विनिपातितम्। कृपां चकार तेजस्वी मन्यमानः स्त्रियं च ताम्॥ ततो वै भृशमुद्विग्ना लङ्का सा गद्गदाक्षरम्। उवाचागर्वितं वाक्यं हनुमन्तं प्लवङ्गमम्।॥ प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम । समये सौम्य तिष्ठन्ति सत्त्ववन्तो महाबलाः॥ अहं तु नगरी लङ्का स्वयमेव प्लवङ्गम। निर्जिताहं त्वया वीर विक्रमेण महाबल॥ इदं च तथ्यं शृणु मे ब्रुवन्त्या वै हरीश्वर। स्वयं स्वयम्भुवा दत्तं वरदानं यथा मम ॥ यदा त्वां वानरः कश्चिद् विक्रमाद् वशमानयेत्। तदा त्वया हि विज्ञेयं रक्षसां भयमागतम्॥ स हि मे समयः सौम्य प्राप्तोऽद्य तव दर्शनात्। स्वयम्भूविहितः सत्यो न तस्यास्ति व्यतिक्रमः॥ सीतानिमित्तं राज्ञस्तु रावणस्य दुरात्मनः। रक्षसां चैव सर्वेषां विनाशः समुपागतः। ४९ ।। तत् प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम्। विधत्स्व सर्वकार्याणि यानि यानीह वाञ्छसि ॥ प्रविश्य शापोपहतां हरीश्वरः पुरीं शुभां राक्षसमुख्यपालिताम्। यदृच्छया त्वं जनकात्मजां सतीं विमार्ग सर्वत्र गतो यथासुखम्॥ स निर्जित्य पुरीं लङ्कां श्रेष्ठां तां कामरूपिणीम्। विक्रमेण महातेजा हनूमान् कपिसत्तमः॥ अद्वारेण महावीर्यः प्राकारमवपुप्लुवे। निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः॥ प्रविश्य नगरी लङ्कां कपिराजहितंकरः। चक्रेऽथ पादं सव्यं च शत्रूणां स तु मूर्धनि ॥ प्रविष्टः सत्त्वसम्पन्नो निशायां मारुतात्मजः। स महापथमास्थाय मुक्तपुष्पविराजितम्॥ ततस्तु तां पुरीं लङ्कां रम्यामभिययौ कपिः। हसितोत्कृष्टनिनदैस्तूर्यघोषपुरस्कृतैः॥ वज्राङ्कुशनिकाशैश्च वज्रजालविभूषतैः। गृहमेधैः पुरी रम्या बभासे द्यौरिवाम्बुदैः॥ प्रजज्वाल तदा लङ्का रक्षोगणगृहैः शुभैः। सिताभ्रसदृशैश्चित्रैः पद्मस्वस्तिकसंस्थितैः॥ वर्धमानगृहैश्चापि सर्वतः सुविभूषितैः। तां चित्रमाल्याभरणां कपिराजहितंकरः॥ राघवार्थे चरञ्श्रीमान् ददर्श च ननन्द च। भवनाद् भवनं गच्छन् ददर्श कपिकुञ्जरः॥ विविधाकृतिरूपाणि भवनानि ततस्ततः। शुश्राव रुचिरं गीतं त्रिस्थानस्वरभूषितम्॥ स्त्रीणां मदनविद्धानां दिवि चाप्सरसामिव। शुश्राव काञ्चीनिनदं नूपुराणां च निःस्वनम्॥ सोपाननिनदांश्चापि भवनेषु महात्मनाम्। आस्फोटितनिनादांश्च क्ष्वेडितांश्च ततस्ततः॥ शुश्राव जपतां तत्र मन्त्रान् रक्षोगृहेषु वै। स्वाध्यायनिरतांश्चैव यातुधानान् ददर्श सः॥ रावणस्तवसंयुक्तान् गर्जतो राक्षसानपि। राजमार्ग समावृत्य स्थितं रक्षोगणं महत्॥ ददर्श मध्यमे गुल्मे राक्षसस्य चरान् बहून्। दीक्षिताञ्जटिलान् मुण्डान् गोजिनाम्बरवाससः॥ दर्भमुष्टिप्रहरणानग्निकुण्डायुधांस्तथा। कूटमुद्ररपाणींश्च दण्डायुधधरानपि॥ एकाक्षानेकवर्णाश्च लम्बोदरपयोधरान्। करालान् भुग्नवस्त्रांश्च विकटान् वामनांस्तथा॥ धन्विनः खङ्गिनश्चैव शतघ्नीमुसलायुधान्। परिघोत्तमहस्तांश्च विचित्रकवचोज्ज्वलान्॥ नातिस्थूलान् नातिकृशान् नातिदीर्घातिह्रस्वकान्। नातिगौरान् नातिकृष्णान्नातिकुब्जान्न वामनान्॥ विरूपान् बहुरूपांश्च सुरूपांश्च सुवर्चसः। ध्वजिनः पताकिनश्चैव ददर्श विविधायुधान्॥ शक्तिवृक्षायुधांश्चैव पट्टिशाशनिधारिणः। क्षेपणीपाशहस्तांश्च ददर्श स महाकपिः॥ स्रग्विणस्त्वनुलिप्तांश्च वराभरणभूषितान्। नानावेषसमायुक्तान् यथास्वैरचरान् बहून्॥ तीक्ष्णशूलधरांश्चैव वज्रिणश्च महाबलान्। शतसाहस्रमव्यग्रमारक्षं मध्यमं कपिः॥ रक्षोऽधिपतिनिर्दिष्टं ददर्शान्तःपुराग्रतः। स तदा तद् गृहं दृष्ट्वा महाहाटकतोरणम्॥ राक्षसेन्द्रस्य विख्यातमद्रिमूर्ध्नि प्रतिष्ठितम्। पुण्डरीकावतंसाभिः परिखाभिः समावृतम्॥ प्राकारावृतमत्यन्तं ददर्श स महाकपिः। त्रिविष्टपनिभं दिव्यं दिव्यनादविनादितम्॥ वाजिह्वेषितसंघुष्टं नादितं भूषणैस्तथा। रथैर्यानैर्विमानैश्च तथा हयगजैः शुभैः॥ वारणैश्च चतुर्दन्तैः श्वेताभ्रनिचयोपमैः। भूषितै रुचिरद्वारं मत्तैश्च मृगपक्षिभिः॥ रक्षितं सुमहावीर्यातुधानैः सहस्रशः। राक्षसाधिपतेर्गुप्तमाविवेश गृहं कपिः॥ स हेमजाम्बूनदचक्रवालं महार्हमुक्तामणिभूषितान्तम्। परार्ध्यकालागुरुचन्दनाहँस रावणान्तःपुरमाविवेश ॥ ततः स मध्यंगतमंशुमन्तं ज्योत्स्नावितानं मुहुरुद्वमन्तम्। ददर्श धीमान् भुवि भानुमन्तं गोष्टे वृष मत्तमिव भ्रमन्तम्॥ लोकस्य पापानि विनाशयन्तं महोदधि चापि समेधयन्तम्। भूतानि सर्वाणि विराजयन्तं ददर्श शीतांशुमथाभियान्तम्॥ या भाति लक्ष्मी वि मन्दरस्था यथा प्रदोषेषु च सागरस्था। तथैव तोयेषु च पुष्करस्था रराज सा चारुनिशाकरस्था॥ हंसो यथा राजतपञ्जरस्थः सिंहो यथा मन्दरकन्दरस्थः। वीरो यथा गर्वितकुञ्जरशथश्चेन्द्रोपि बभ्राज तथाम्बरस्थः॥ स्थितः ककुद्मानिव तीक्ष्णशृङ्गो महाजलः श्वेत इवोर्ध्वशृङ्गः। हस्तीव जाम्बूनदबद्धशृङ्गो विभाति चन्द्रः परिपूर्णशृङ्गः॥ विनष्टशीताम्बुतुषारपङ्को महाग्रहग्राहविनष्टपङ्कः। प्रकाशलक्ष्म्याश्रयनिर्मलाङ्को रराज चन्द्रो भगवाशशाङ्कः॥ शिलातलं प्राप्य यथा मृगेन्द्रो महारणं प्राप्य यथा गजेन्द्रः। स्तथा प्रकाशो विरराज चन्द्रः॥ प्रकाशचन्द्रोदयनष्टदोषः : प्रवृद्धरक्ष:पिशिताशदोषः। रामाभिरामेरितचित्तदोषः स्वर्गप्रकाशो भगवान्प्रदोषः॥ तन्त्रीस्वराः कर्णसुखाः प्रवृत्ताः स्वपन्ति नार्यः पतिभिः सुवृत्ताः। नक्तंचराश्चापि तथा प्रवृत्ता विहर्तुमत्यद्भुतरौद्रवृत्ताः॥ मत्तप्रमत्तानि समाकुलानि रथाश्वभद्रासनसंकुलानि। वीरश्रिया चापि समाकुलानि ददर्श धीमान् स कपिः कुलानि॥ परस्परं चाधिकमाक्षिपन्ति भुजांश्च पीनानधिविक्षिपन्ति। मत्तप्रलापानधिविक्षिपन्ति मत्ता चान्योन्यमधिक्षिपन्ति ॥ रक्षांसि वक्षांसि च विक्षिपन्ति गात्राणि कान्तासु च विक्षिपन्ति। रूपाणि चित्राणि च विक्षिपन्ति दृढानि चापानि च विक्षिपन्ति ॥ ददर्श कान्ताश्च समालभन्त्यस्तथापरास्तत्र पुनः स्वपन्त्यः। सुरूपवक्त्राश्च तथा हसन्त्यः क्रुद्धाः पराश्चापि विनिःश्वसन्त्यः॥ महागजैश्चापि तथा नदद्भिः सुपूजितैश्चापि तथा सुसद्भिः। रराज वीरैश्च विनिःशवसभ्दिर्ह्लदा भुजंगैरिव निःश्वसद्भिः॥ बुद्धिप्रधानान् रुचिराभिधानान् संश्रद्दधानाञ्जगतः प्रधानान्। नानाविधानान् रुचिराभिधानान् ददर्श तस्यां पुरि यातुधानान्॥ ननन्द दृष्ट्वा स च तान् सुरूपान् नानागुणानात्मगुणानुरूपान्। विद्योतमानान् स च तान् सुरूपान् ददर्श कांश्चिच्च पुनर्विरूपान्॥ ततो वरार्हाः सुविषुध्द्भावास्तेषां स्त्रियस्तत्र महानुभावाः। प्रियेषु पानेषु च सक्तभावा ददर्श तारा इव सुस्वभावाः॥ स्त्रियो ज्वलन्तीस्त्रपयोपगूढा निशीथकाले रमणोपगूढाः। ददर्श काश्चित् प्रमदोपगूढा यथा विहंगा विहगोपगूढाः॥ अन्याः पुनर्हर्म्यतमोपविष्टास्तत्र प्रियाङ्के सुसुखोपविष्टाः। भर्तुः परा धर्मपरा निविष्टा ददर्श धीमान् मदनोपविष्टाः॥ अप्रावृताः काञ्चनराजिवर्णाः काश्चित्परास्तिपनीयवर्णाः। पुनश्च काश्चिच्छशलक्ष्मवर्णाः कान्तप्रहीणा रुचिराङ्गवर्णाः॥ ततः प्रियान् प्राप्य मनोऽभिरामान् सुप्रीतियुक्ताः सुमनोऽभिरामाः। गृहेषु हृष्टाः परमाभिरामा हरिप्रवीरः स ददर्श रामाः॥ चन्द्रप्रकाशाश्च हि वक्त्रमाला वक्राः सुपक्ष्माश्च सुनेत्रमालाः। विभूषणानां च ददर्श मालाः शतह्रदानामिव चारुमालाः॥ न त्वेव सीतां परमाभिजातां पथि स्थिते राजकुले प्रजाताम् लतां प्रफुल्लामिव साधुजातां ददर्श तन्वीं मनसाभिजाताम्॥ सनातने वर्मनि संनिविष्टां रामेक्षणी तां मदनाभिविष्टाम्। भर्तुर्मनः श्रीमदनुप्रविष्टां स्त्रीभ्यः पराभ्यश्च सदा विशिष्टाम्॥ उष्णार्दितां सानुसृतास्रकण्ठी पुरा वरार्होत्तमनिष्ककण्ठीम्। सुजातपक्ष्मामभिरक्तकण्ठी वने प्रनृत्तामिव नीलकण्ठीम् ॥ अव्यक्तरेखामिव चन्द्रलेखां पांसुप्रदिग्धामिव हेमरेखाम्। क्षतप्ररूढामिव वर्मरखां वायुप्रभुग्नामिव मेघरेखाम्॥ सीतामपश्यन्मनुजेश्वरस्य रामस्य पत्नी वदतां वरस्य। बभूव दु:खोपहतश्चिरस्य प्लवंगमो मन्द इवाचिरस्य॥ स निकामं विमानेषु विजरन् कामरूपधृक् । विचचार कपिर्लङ्कां लाघवेन समन्वितः॥ आससाद च लक्ष्मीवान् राक्षसेन्द्रनिवेशनम्। प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम्॥ रक्षितं राक्षसैभीमैः सिंहैरिव महद् वनम्। समीक्षमाणो भवनं चक्राशे कपिकुञ्जरः॥ रूप्यकोपहितैश्चित्रैस्तोरणैर्हेमभूषणैः। विचित्राभिश्च कक्ष्याभिरैिश्च रुचिरैर्वृतम्॥ गजा िथतैर्महामारैः शूरैश्च विगतश्रमैः। उपस्थितमसंहायैर्हयैः स्यन्दनयायिभिः॥ सिंहव्याघ्रतनुत्राणैर्दान्तकाञ्जनराजतीः। घोषवद्भिर्विचित्रैश्च सदा विचरितं रथैः॥ बहुरत्नसमाकीर्णं पराासनभूषितम्। महारथसमावापं महारथमहासनम्॥ दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः। विविधैर्बहुसाहस्रैः परिपूर्ण समन्ततः॥ विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम्। मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समन्ततः॥ मुदितप्रमदारत्नं राक्षसेन्द्रनिवेशनम्। वराभरणसंहादैः समुद्रस्वननिःस्वनम् ॥ तद् राजगुणसम्पन्नं मुख्यैश्च वरचन्दनैः। महाजनसमाकीर्णं सिंहैरिव महद् वनम्॥ भेरीमृदङ्गाभिरुतं शङ्खघोषविनादितम्। नित्यार्चितं पर्वसुतं पूजितं राक्षसैः सदा॥ समुद्रमिव गम्भीरं समुद्रसमनि:स्वनम्। महात्मनो महद् वेश्म महारत्नपरिच्छदम्॥ महारत्नसमाकीर्णं ददर्श स महाकपिः। विराजमानं वपुषा गजाश्वरथसंकुलम्॥ लङ्काभरणमित्येव सोऽमन्यत महाकपिः। चचार हनुमांस्तत्र रावणस्य समीपतः॥ गृहाद् गृहं राक्षसानामुद्यानानि च सर्वशः। वीक्षमाणोऽप्यसंत्रस्तः प्रसादांश्च चचार सः॥ अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम्। ततोऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान्॥ अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम्। विभीषणस्य च तथा पुप्लुवे स महाकपिः॥ महोदरस्य च तथा विरूपाक्षस्य चैव हि। विद्युज्जिह्वस्य भवनं विद्युन्मालेस्तथैव च॥ वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः। शुकस्य च महावेगः सारणस्य च धीमतः॥ तथा चेन्द्रजितो वेश्म जगाम हरियूथपः। जम्बुमालेः सुमालेश्च जगाम हरिसत्तमः॥ रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च। वज्रकायस्य च तथा पुप्लुवे स महाकपिः॥ धूम्राक्षस्याथ सम्पातेर्भवनं मारुतात्मजः। विधुदूपस्य भीमस्य घनस्य विघनस्य च ॥ शुकनाभस्य चक्रस्य शठस्य कपटस्य च। ह्रस्वकर्णस्य दंष्ट्रस्य लोमशस्य च रक्षसः॥ युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य सादिनः। विद्युज्जिह्वद्विजिह्वानां तथा हस्तिमुखस्य च॥ करालस्य विशालस्य शोणिताक्षस्य चैव हि। प्लवमानः क्रमेणैव हनुमान् मारुतात्मजः॥ तेषु तेषु महार्हेषु भवनेषु महायशाः। तेषामृद्धिमतामृद्धिं ददर्श स महाकपिः॥ सर्वेषां समतिक्रम्य भवनानि समन्ततः। आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम्॥ रावणस्योपशायिन्यो ददर्श हरिसत्तमः। विचरन् हरिशार्दूलो राक्षसीर्विकृतेक्षणाः॥ शूलमुद्गरहस्तांश्च शक्तितोमरधारिणः। ददर्श विविधान् गुल्मांस्तस्य रक्ष:पतेर्गृहे ॥ राक्षसांश्च महाकायान् नानाप्रहरणोद्यतान्। ताश्वेतान् सितांश्चापि हरिश्चापि महाजवान्॥ कुलीनान् रूपसम्पन्नान् गजान् परगजारुजान्। शिक्षितान् गजशिक्षायामैरावतसमान् युधि ॥ निहन्तृन् परसैन्यानां गृहे तस्मिन् ददर्श सः। क्षरतश्च यथा मेघान् स्रवतश्च यथा गिरीन्॥ मेघस्तनितनिर्घोषान् दुर्धर्षान् समरे परैः। सहस्रं वाहिनीस्तत्र जाम्बूनदपरिष्कृताः॥ हेमजालैरविच्छिन्नास्तरुणादित्यसंनिभाः। ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने॥ शिबिका विविधाकाराः स कपिर्मारुतात्मजः। लतागृहाणि चान्यानि चित्रशालागृहाणि च॥ क्रीडागृहाणि चान्यानि दारुपर्वतकानि च। कामस्य गृहकं रम्यं दिवागृहकमेव च॥ ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने। स मन्दरसमप्रख्यं मयूरस्थानसंकुलम्॥ ध्वजयष्टिभिराकीर्णं ददर्श भवनोत्तमम्। अनन्तरत्ननिचयं निधिजालं समन्ततः। धीरनिष्ठितकर्माङ्गं गृहं भूतपतेरिव ॥ अर्चिभिश्चापि रत्नानां तेजसा रावणस्य च। विरराज च तद् वेश्म रश्मिवानिव रश्मिभिः॥ जाम्बूनदमयान्येव शयनान्यासनानि च। भाजनानि च शुभ्राणि ददर्श हरियूथपः॥ मध्वासवकृतक्लेदं मणिभाजनसंकुलम्। मनोरममसम्बाधं कुबेरभवनं यथा॥ नूपुराणां च घोषेण काञ्जीनां निःस्वनेन च। मृदङ्गतलनिर्घोषैर्घोषवद्भिर्विनादितम्॥ प्रासादसंघातयुतं स्त्रीरत्नशतसंकुलम्। सुव्यूढकक्ष्यं हनुमान् प्रविवेश महागृहम्॥ स वेश्मजालं बलवान् ददर्श व्यासक्तवैदूर्यसुवर्णजालम्। यथा महत्प्रावृषि मेघजालं विद्युत्पिनद्धं सविहङ्गजालम्॥ निवेशनानां विविधाश्च शाला: प्रधानशङ्खायुधचापशालाः। मनोहराश्चापि पुनर्विशालाः ददर्श वेश्माद्रिषु चन्द्रशालाः॥ गृहाणि नानावसुराजितानि देवासुरैश्चापि सुपूजितानि। सर्वैश्च दोषैः परिवर्जितानि कपिर्ददर्श स्वबलार्जितानि॥ तानि प्रयत्नाभिसमाहितानि मयेन साक्षादिव निर्मितानि। महीतले सर्वगुणोत्तराणि ददर्श लङ्काधिपतेर्गृहाणि ॥ ततो ददर्शोच्छ्रितमेघरूपं मनोहरं काञ्चनचारुरूपम्। रक्षोऽधिपस्यात्मबलानुरूपं गृहोत्तमं ह्यप्रतिरूपरूपम्॥ महीतले स्वर्गमिव प्रकीर्ण श्रिया ज्वलन्तं बहुरत्नकीर्णम्। नानातरूणां कुसुमावकीर्णं गिरेरिवाग्रं रजसावकीर्णम्॥ नारीप्रवेकैरिव दीप्यमानं तडिद्भिरम्भोधरमच॑मानम्। हंसप्रवेकैरिव वाह्यमानं श्रिया युतं खे सुकृतं विमानम्॥ यथा नगाग्रं बहुधातुचित्रं यथा नभश्च ग्रहचन्द्रचित्रम्। ददर्श युक्तीकृतचारुमेघचित्रं विमानं बहुरत्नचित्रम्॥ मही कृता पर्वतराजिपूर्णा शैलाः कृता वृक्षवितानपूर्णाः। वृक्षाः कृताः पुष्पवितानपूर्णाः पुष्पं कृतं केसरपत्रपूर्णम्॥ कृतानि वेश्मानि च पाण्डुराणि तथा सुपुष्पाण्यपि पुष्कराणि। पुनश्च पद्मानि सकेसराणि वनानि चित्राणि सरोवराणि ॥ पुष्पाह्वयं नाम विराजमानं रत्नप्रभाभिश्च विघूर्णमानम्। वेश्मोत्तमानामपि चोञ्चमानं. महाकपिस्तत्र महाविमानम्॥ कृताश्च वैदूर्यमया विहङ्गा रूप्यप्रवालैश्च तथा विहङ्गाः। चित्राश्च नानावसुभिर्भुजङ्गा जात्यानुरूपास्तुरगाः शुभाङ्गाः॥ प्रवालजाम्बूनदपुष्पपक्षाः सलीलमावर्जितजिह्मपक्षाः। कामस्य साक्षादिव भान्ति पक्षाः कृता विहङ्गाः सुमुखाः सुपक्षाः॥ नियुज्यमानाश्च गजाः सुहस्ताः सकेसराश्चोत्पलपत्रहस्ताः। बभूव देवी च कृतासुहस्ता लक्ष्मीस्तथा पद्मिनि पद्महस्ता॥ इतीव तद्वहमभिगम्य शोभमानं सविस्मयो नगमिव चारुकन्दरम्। पुनश्च तत्परमसुगन्धि सुन्दरं हिमात्यये नगमिव चारुकन्दरम्॥ ततः स तां कपिरभिपत्य पूजितां चरन् पुरी दशमुखबाहुपालिताम्। अदृश्य तां जनकसुतां सुपूजितां सुदुःखितां पतिगुणवेगनिर्जिताम्॥ ततस्तदा बहुविधभावितात्मनः कृतात्मनो जनकसुतां सुवर्त्मनः। अपश्यतोऽभवदतिदुःखितां मनः सचक्षुषः प्रविचरतो महात्मनः॥ स तस्य मध्ये भवनस्य संस्थितो महद्विमानं मणिरत्नचित्रितम्। प्रतप्तजाम्बूनदजालकृत्रिम ददर्श धीमान् पवनात्मजः कपिः॥ तदप्रमेयप्रतिकारकृत्रिमं कृतं स्वयं साध्विति विश्वकर्मणा। दिवं गते वायुपथे प्रतिष्ठितं व्यराजतादित्यपथस्य लक्ष्म तत्॥ न तत्र किंचिन्न कृतं प्रयत्नतो न तत्र किंचिन्न महार्घरत्नवत्। न ते विशेषा नियताः सुरेष्वपि न तत्र किंचिन्न महाविशेषवत्॥ तपः समाधानपराक्रमार्जितं मन:समाधानविचारचारिणम्। अनेकसंस्थानविशेषनिर्मितं ततस्ततस्तुल्यविशेषनिर्मितम्॥ मनः समाधाय तु शीघ्रगामिनं. दुरासदं मारुततुल्यगामिनम्। महात्मनां पुण्यकृतां महर्द्धिनां यशस्विनामग्र्यमुदामिवालयम्॥ विशेषमालम्ब्य विशेषसंस्थितं विचित्रकूटं बहुकूटमण्डितम्। मनोऽभिरामं शरदिन्दुनिर्मलं विचित्रकूटं शिखरं गिरेर्यथा॥ वहन्ति यत्कुण्डलशोभितानना महाशना व्योमचरा निशाचराः। विवृत्तविध्वस्तविशाललोचना महाजवा भूतगणाः सहस्रशः॥ वसन्तपुष्पोत्करचारुदर्शनं वसन्तमासादपि चारुदर्शनम्। स पुष्पकं तत्र विमानमुत्तमं ददर्श तद् वानरवीरसत्तमः॥ तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम्। अवेक्षमाणो हनुमान् ददर्श शयनासनम् ॥ दान्तकाञ्चनचित्राङ्गैवैदूर्यैश्च वरासनैः। महार्हास्तरणोपेतैरुपपन्नं महाधनैः॥ तस्य चैकतमे देशे दिव्यमालोपशोभितम्। ददर्श पाण्डुरं छत्रं ताराधिपतिसंनिभम्॥ जातरूपपरिक्षिप्तं चित्रभानोः समप्रभम्। अशोकमालाविततं ददर्श परमासनम्॥ बालव्यजनरस्ताभिर्वीज्यमानं समन्ततः। गन्धैश्च विविधैर्जुष्टं वरधूपेन धूपितम्॥ परमास्तरणास्तीर्णमाविकाजिनसंवृतम्। दामभिर्वरमाल्यानां समन्तादुपशोभितम्॥ तस्मिञ्जीमूतसंकाशं प्रदीप्तोज्ज्वलकुण्डलम्। लोहिताक्षं महाबाहुं महारजतवाससम्॥ लोहितेनानुलिप्ताङ्ग चन्दनेन सुगन्धिना। संध्यारक्तमिवाकाशे तोयदं सतडिद्गुणम्॥ वृतमाभरणैर्दिव्यैः सुरूपं कामरूपिणम्। सवृक्षवनगुल्माढ्यं प्रसुप्तमिव मन्दरम्॥ क्रीडित्वोपरतं रात्रौ वराभरणभूषितम्। प्रियं राक्षसकन्यानां राक्षसानां सुखावहम्॥ पीत्वाप्युपरतं चापि ददर्श स महाकपिः। भास्वरे शयने वीरं प्रसुप्तं राक्षसाधिपम्।।११। निःश्वसन्तं यथा नागं रावणं वानरोत्तमः। आसाद्य परमोद्विग्नः सोपासर्पत् सुभीतवत्॥ अथारोहणमासाद्य वेदिकान्तरमाश्रितः। क्षीबं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः॥ शुशुभे राक्षसेन्द्रस्य स्वपतः शयनं शुभम्। गन्धहस्तिनि संविष्टे यता प्रस्रवणं महत्॥ काञ्चनाङ्गदसंनद्धो ददर्श स महात्मनः। विक्षिप्तौ राक्षसेन्द्रस्य भुजाविन्द्रध्वजोपमौ॥ ऐरावतविषाणाग्रैरापीडनकृतव्रणौ। वज्रोल्लिखितपीनांसौ विष्णुचक्रपरिक्षतौ ॥ पीनौ समसुजातांसौ संगतौ बलसंयुतौ । सुलक्षणनखाङ्गुष्ठौ स्वङ्गुलीयकलक्षितौ ॥ संवृतौ परिघाकारौ वृत्तौ करिकरोपमौ। विक्षिप्तौ शयने शुभ्रे पञ्चशीर्षाविवोरगौ॥ शशक्षतजकल्पेन सुशीतेन सुगन्धिना। चन्दनेन परार्थेन स्वनुलिप्तौ स्वलंकृतौ॥ उत्तमस्त्रीविमृदितौ गन्धोत्तमनिषेवितौ। यक्षपन्नगगन्धर्वदेवदानवराविणौ॥ ददर्श स कपिस्तस्य बाहू शयनसंस्थितौ। मन्दरस्यान्तरे सुप्तौ महाही रुषिताविव॥ ताभ्यां स परिपूर्णाभ्यामुभाभ्यां राक्षसेश्वरः। शुशुभेऽचलसंकाशः शृङ्गाभ्यामिव मन्दरः॥ चूत'नागसुरभिर्बकुलोत्तमसंयुतः। मृष्टान्नरससंयुक्तः पानगन्धपुरःसरः॥ तस्य राक्षसराजस्य निश्चक्राम महामुखात्। शयानस्य विनिःश्वासः पूरयन्निव तद् गृहम्॥ मुक्तामणिविचित्रेण काञ्चनेन विराजिता। मुकुटेनापवृत्तेन कुण्डलोज्ज्वलिताननम्॥ रक्तचन्दनदिग्धेन तथा हारेण शोभिना। पीनायतविशालेन वक्षसाभिविराजिता॥ पाण्डुरेणापविद्धेन क्षौमेण क्षतजेक्षणम्। महार्हेण सुसंवीतं पीतेनोत्तरवाससा ॥ माषराशिप्रतीकाशं निःश्वसन्तं भुजङ्गवत्। गाङ्गे महति तोयान्ते प्रसुप्तमिव कुञ्जरम्॥ चतुर्भिः काञ्चनैर्दीपैर्दीप्यमानं चतुर्दिशम्। प्रकाशीकृतसर्वाङ्ग मेधं विद्युद्गणैरिव ॥ पादमूलगताश्चापि ददर्श सुमहात्मनः। पत्नी: स प्रियभार्यस्य तस्य रक्ष:पतेगुहे॥ शशिप्रकाशवदना वरकुण्डलभूषणाः। अम्लानमाल्याभरणा ददर्श हरियूथपः॥ नृत्यवादित्रकुशला राक्षसेन्द्रभुजाङ्कगाः। वराभरणधारिण्यो निषण्णा ददृशे कपिः॥ वज्रवैदूर्यगर्भाणि श्रमणान्तेषु योषिताम्। ददर्श तापनायानि कुण्डलान्यङ्गदानि च॥ तासां चन्द्रोपमैर्वक्त्रैः शुभैललितकुण्डलैः। विराजत विमानं तन्नभस्तारागणैरिव ॥ मदव्यायामखिन्नास्ता राक्षसेन्द्रस्य योषितः। तेषु तेष्ववकाशेषु प्रसुप्तास्तनुमध्यमाः॥ अङ्गहारैस्तथैवान्या कोमलैर्नृत्यशालिनी। विन्यस्तशुभसर्वाङ्गी प्रसुप्ता वरवर्णिनी॥ काचिद् वीणां परिष्वज्य प्रसुप्ता सम्प्रकाशते। महानदीप्रकीर्णेव नलिनी पोतमाश्रिता॥ अन्या कक्षगतेनैव मड्डुकेनासितेक्षणा। प्रसुप्ता भामिनी भाति बालपुत्रेव वत्सला॥ पटहं चारुसर्वाङ्गी न्यस्य शेते शुभस्तनी। चिरस्य रमणं लब्ध्वा परिष्वज्येव कामिनी॥ काचिद् वीणां परिष्वज्य सुप्ता कमललोचना। वरं प्रियतमं गृह्य सकामेव हि कामिना ॥ विपञ्ची परिगृह्यान्या नियता नृत्यशालिनी। निद्रावशमनुप्राप्ता सहकान्तेव भामिनी॥ अन्या कनकसंकाशैर्मृदुपीनैर्मनोरमैः। मृदङ्ग परिविद्ध्याङ्गैः प्रसुप्ता मत्तलोचना ॥ भुजपाशान्तरस्थेन कक्षगेन कृशोदरी। पणवेन सहानिन्द्या सुप्ता मदकृतश्रमा॥ डिण्डिमं परिगृह्यान्या तथैवासक्तडिण्डिमा। प्रसुप्ता तरुणं वत्समुपगुह्येव भामिनी॥ काचिदाडम्बरं नारी भुजसम्भोगपीडितम्। कृत्वा कमलपत्राक्षी प्रसुप्ता मदमोहिता॥ कलशीमपविद्ध्यान्या प्रसुप्ता भाति भामिनी। वसन्ते पुष्पशबला मालेव परिमार्जिता॥ पाणिभ्यां च कुचौ काचित् सुवर्णकलशोपमौ। उपगुह्याबला सुप्ता निद्राबलमुपागता ॥ अन्या कमलपत्राक्षी पूर्णेन्दुसदृशानना। अन्यामालिङ्गय सुश्रोणी प्रसुप्ता मदविह्वला॥ आतोद्यानि विचित्राणि परिष्वज्य वरस्त्रियः। निपीड्य च कुचैः सुप्ताः कामिन्यः कामुकानिव।।४९ । तासामेकान्तविन्यस्ते शयानां शयने शुभे। ददर्श रूपसम्पन्नमथ तां स कपिः स्त्रियम्। ५० ।। मुक्तामणिसमायुक्तैर्भूषणैः सुविभूषिताम्। विभूषयन्तीमिव च स्वश्रिया भवनोत्तमम्॥ गौरी कनकवर्णाभामिष्टामन्तःपुरेश्वरीम्। कपिर्मन्दोदरीं तत्र शयानां चारुरूपिणीम्॥ स तां दृष्ट्वा महाबाहुर्भूषितां मारुतात्मजः। तर्कयामास सीतेति रूपयौवनसम्पदा। हर्षेण महता युक्तो ननन्द हरियूथपः॥ आस्फोटयामास चुचुम्ब पुच्छं ननन्द चिक्रीड जगौ जगाम। स्तम्भानरोहनिपपात भूमौ निदर्शयन् स्वां प्रकृति कपीनाम्॥ अवधूय च ता बुद्धिं बभूवावस्थितस्तदा। जगाम चापरां चिन्तां सीतां प्रति महाकपिः॥ न रामेण वियुक्ता सा स्वप्तुमर्हति भामिनी। न भोक्तुं नाप्यलंकर्तुं न पानमुपसेवितुम्॥ नान्यं नरमुपस्थातुं सुराणामपि चेश्वरम्। न हि रामसमः कश्चिद् विद्यते त्रिदशेष्वपि॥ अन्येयमिति निश्चित्य भूयस्तत्र चचार सः। पानभूमौ हरिश्रेष्ठः सीतासंदर्शनोत्सुकः॥ क्रीडितेनापराः क्लान्ता गीतेन च तथापराः। नृत्येन चापराः क्लान्ता पानविप्रहतास्तथा॥ मुरजेषु मृदङ्गेषु चेलिकासु च संस्थिताः। तथाऽऽस्तरणमुख्येषु संविष्टाश्चापराः स्त्रियः॥ अङ्गनानां सहस्रेण भूषितेन विभूषणैः। रूपसंलापशीलेन युक्तगीतार्थभाषिणा॥ देशकालाभियुक्तेन युक्तवाक्याभिधायिना।. रताधिकेन संयुक्तां ददर्श हरियूथपः॥ अन्यत्रापि वरस्त्रीणां रूपसंलापशायिनाम्। सहस्रं युवतीनां तु प्रसुप्तं स ददर्श ह॥ देशकालाभियुक्तं तु युक्तवाक्याभिधायि तत्। रताविरतसंसुप्तं ददर्श हरियूथपः॥ तासां मध्ये महाबाहुः शुशुभे राक्षसेश्वरः। गोष्ठे महति मुख्यानां गवां मध्ये यथा वृषः॥ स राक्षसेन्द्रः शुशुभे ताभिः परिवृतः स्वयम्। करेणुभिर्यथारण्ये परिकीर्णो महाद्विपः॥ सर्वकामैरुपेतां च पानभूमिं महात्मनः। ददर्श कपिशार्दूलस्तस्य रक्षःपतेहे ॥ मृगाणां महिषाणां च वराहाणां च भागशः। तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः॥ रौक्मेषु च विशालेषु भाजनेष्वप्यभक्षितान्। ददर्श कपिशार्दूलो मयूरान् कुक्कुटांस्तथा॥ वराहवाध्रीणसकान् दधिसौवर्चलायुतान्। शल्यान् मृगमयूरांश्च हनुमानन्ववैक्षत॥ कृकलान् विविधांश्छागाञ्छशकानर्धभक्षितान्। महिषानेकशल्यांश्च मेषांश्च कृतनिष्ठितान्॥ लेह्यानुच्चावचान् पेयान् भोज्यान्युच्चावचानि च। तथाम्ललवणोत्तंसैविविधै रागखाण्डवैः॥ महानूपुरकेयूरैरपविद्धैर्महाधनैः। पानभाजनविक्षिप्तैः फलैश्च विविधैरपि॥ कृतपुष्पोपहारा भूरधिकां पुष्यति श्रियम्। तत्र तत्र च विन्यस्तैः सुश्लिष्टशयनासनैः॥ पानभूमिर्विना वर्जाि प्रदीप्तेवोपलक्ष्यते। बहुप्रकारैर्विविधैर्वरसंस्कारसंस्कृतैः॥ मांसैः कुशलसंयुक्तैः पानभूमिगतैः पृथक् । दिव्या प्रसन्ना विविधाः सुराः कृतसुरा अपि॥ शर्करासवमाध्वीकाः पुष्पासवफलासवाः। वासचूर्णैश्च विविधैर्मुष्टास्तैस्तैः पृथक् पृथक् ॥ संतता शुशुभे भूमिर्माल्यैश्च बहुसंस्थितैः। हिरण्मयैश्च कलशैर्भाजनैः स्फाटिकैरपि॥ जाम्बूनदमयैश्चान्यैः करकैरभिसंवृता। राजतेषु च कुम्भेषु जाम्बूनदमयेषु च॥ पानश्रेष्ठां तथा भूमिं कपिस्तत्र ददर्श ह। सोऽपश्यच्छातकुम्भानि सीधोमणिमयानि च॥ तानि तानि च पूर्णानि भाजनानि महाकपिः। क्वचिदर्धावशेषाणि क्वचित् पीतान्यशेषतः॥ क्वचिन्नैव प्रपीतानि पानानि स ददर्श ह। क्वचिद् भक्ष्यांश्च विविधान् क्वचित् पानं विभागतः।।२८ । क्वचिदर्धावशेषाणि पश्यन् वै विचचार ह। शयनान्यत्र नारीणां शून्यानि बहुधा पुनः। परस्परं समाश्लिष्य काश्चित् सुप्तावराङ्गनाः॥ काचिच्च वस्त्रमन्यस्य अपहत्योपगुह्य च। उपगम्याबला सुप्ता निद्राबलपराजिता॥ तासामुच्छ्वासवातेनं वस्त्रं माल्यं च गात्रजम्। नात्यर्थं स्पन्दते चित्रं प्राप्य मन्मिवानिलम्॥ चन्दनस्य च शीतस्य सीधोर्मधुरसस्य च। विविधस्य च माल्यस्य पुष्पस्य विविधस्य च ॥ बहुधा मारुतस्तस्य गन्धं विविधमुद्वहन्। स्नानानां चन्दनानां च धूपानां चैव मूर्छितः॥ प्रववौ सुरभिर्गन्धो विमाने पुष्पके तदा। श्यामावदातास्तत्रान्याः काश्चित् कृष्णा वराङ्गनाः॥ काश्चित् काञ्चनवर्णाङ्गयः प्रमदा राक्षसालये। तासां निद्रावशत्वाच्च मदनेन विमूर्च्छितम् ॥ पद्मिनीनां प्रसुप्तानां रूपमासीद् यथैव हि। एवं सर्वमशेषेण रावणान्तःपुरं कपिः। ददर्श स महातेजा न ददर्श च जानकीम्॥ निरीक्षमाणश्च ततस्ताः स्त्रियः स महाकपिः। जगाम महतीं शङ्कां धर्मसाध्वसशङ्कितः॥ परदारावरोधस्य प्रसुप्तस्य निरीक्षणम्। इदं खलु ममात्यर्थं धर्मलोपं करिष्यति॥ न हि मे परदाराणां दृष्टिविषयवर्तिनी। अयं चात्र मया दृष्टः परदारपरिग्रहः॥ तस्य प्रादुरभूच्चिन्ता पुनरन्या मनस्विनः। निश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी।४०।। कामं दृष्टा मया सर्वा विश्वस्ता रावणस्त्रियः। न तु मे मनसा किंचिद् वैकृत्यमुपपद्यते॥ मनो हि हेतुः सर्वेषामिन्द्रियाणां प्रवर्तने। शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थिम्।॥ नान्यत्र हि मया शक्या वैदेही परिमार्गितुम्। स्त्रियो हि स्त्रीषु दृश्यन्ते सदा सम्परिमार्गणे॥ यस्य सत्त्वस्य या योनिस्तस्यां तत् परिमार्गते। न शक्यं प्रमदा नष्टा मृगीषु परिमार्गितुम्॥ तदिदं मार्गितं तावच्छुद्धेन मनसा मया। रावणान्तःपुरं सर्वं दृश्यते न च जानकी ॥ देवगन्धर्वकन्याश्च नागकन्याश्च वीर्यवान्। अवेक्षमाणो हनुमान् नैवापश्यत जानकीम्॥ तामपश्यन् कपिस्तत्र पश्यंश्चान्या वरस्त्रियः। अपक्रम्य तदा वीरः प्रस्थातुमुपचक्रमे॥ स भूयः सर्वतः श्रीमान् मारुतिर्यत्नमाश्रितः। आपानभूमिमुत्सृज्य तां विचेतुं प्रचक्रमे॥ न तस्य मध्ये भवनस्य संस्थितो लतागृहांश्चित्रगृहान् निशागृहान्। जगाम सीतां प्रतिदर्शनोत्सुको न चैव तां पश्यति चारुदर्शनाम्॥ न चिन्तयामास ततो महाकपिः प्रियामपश्यन् रघुनन्दनस्य ताम्। ध्रुवं न सीता ध्रियते यथा न मे विचिन्वतो दर्शनमेति मैथिली॥ सा राक्षसानां प्रवरेण बाला स्वशीलसंरक्षणतत्परा सती। अनेन नूनं प्रति दुष्टकर्मणा हता भवेदार्यपथे परे स्थिता॥ विरूपरूपा विकृता विवर्चसो महानना दीर्घविरूपदर्शनाः। समीक्ष्य ता राक्षसराजयोषितो भयाद् विनष्टा जनकेश्वरात्मजा॥ सीतामदृष्ट्वा ह्यनवाप्य पौरुषं विहृत्य कालं सह वानरैश्चिरम्। न मेऽस्ति सुग्रीवसमीपगा गतिः सुतीक्ष्णदण्डो बलवांश्च वानरः ॥ दृष्टमन्तःपुरं सर्वं दृष्टा राक्षसयोषितः। न सीता दृश्यते साध्वी वृथा जातो मम श्रमः॥ किं नु मां वानराः सर्वे गतं वक्ष्यन्ति संगताः। गत्वा तत्र त्वया वीर किं कृतं तद् वदस्व नः॥ अदृष्ट्वा किं प्रवक्ष्यामि तामहं जनकात्मजाम्। ध्रुवं प्रायमुपासिष्ये कालस्य व्यतिवर्तने ॥ किं वा वक्ष्यति वृद्धश्च जाम्बवानङ्गदश्च सः। गतं पारं समुद्रस्य वानराश्च समागताः॥ अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम्। भूयस्तत्र विचेष्यामि न यत्र विचयः कृतः॥ अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः। करोति सफलं जन्तोः कर्म यच्च करोति सः॥ तस्मादनिर्वेदकरं यत्नं चेष्टेऽहमुत्तमम्। अदृष्टांश्च विचेष्यामि देशान् रावणपालितान्॥ आपानशाला विचितास्तथा पुष्पगृहाणि च। चित्रशालाश्च विचिता भूयः क्रीडागृहाणि च ॥ निष्कुटान्तररथ्याश्च विमानानि च सर्वशः। इति संचिन्त्य भूयोऽपि विचेतुमुपचक्रमे॥ भूमीगृहांश्चैत्यगृहान् गृहातिगृहकानपि। उत्पतन् निपतंश्चापि तिष्ठन् गच्छन् पुनः क्वचित्॥ अपवृण्वंश्च द्वाराणि कपाटान्यवघट्टयन्। प्रविशन् निष्पतंश्चापि प्रपतन्त्रुत्पतन्निव॥ सर्वमप्यवकाशं स विचचार महाकपिः। चतुरङ्गुलमात्रोऽपि नावकाशः स विद्यते। रावणान्तःपुरे तस्मिन् यं कपिर्न जगाम सः॥ प्राकारान्तरवीथ्यश्च वेदिकाश्चैत्यसंश्रयाः। श्वभ्राश्च पुष्करिण्यश्च सर्वं तेनावलोकितम्॥ राक्षस्यो विविधाकारा विरूपा विकृतास्तथा। दृष्टा हनुमता तत्र न तु सा जनकात्मजा॥ रूपेणाप्रतिमा लोके परा विद्याधरस्त्रियः। दृष्टा हनुमता तत्र न तु राघवनन्दिनी॥ नागकन्या वरारोहाः पूर्णचन्द्रनिभाननाः। दृष्टा हनुमता तत्र न तु सा जनकात्मजा॥ प्रमथ्य राक्षसेन्द्रेण नागकन्या बलाद्धृताः। दृष्टा हनुमता तत्र न सा जनकनन्दिनी॥ सो पश्यंस्तां महाबाहुः पश्यंश्चान्या वरस्त्रियः। विषसाद महाबाहुर्हनूमान् मारुतात्मजः॥ उद्योगं वानरेन्द्राणां प्लवनं सागरस्य च। व्यर्थं वीक्ष्यानिलसुतश्चिन्तां पुनरुपागतः॥ अवतीर्य विमानाच्च हनूमान्मारुतात्मजः। चिन्तामुपजगामाथ शोकोपहतचेतनः॥ स मुहूर्तमिव ध्यात्वा मनसा चाधिगम्य ताम्। अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः॥ स तु संहष्टसर्वाङ्गः प्राकारस्थो महाकपिः। पुष्पिताग्रान् वसन्तादौ ददर्श विविधान् दुमान्॥ सालानशोकान् भव्यांश्च चम्पकांश्च सुपुष्पितान्। उद्दालकान् नागवृक्षांश्चूतान् कपिमुखानपि ॥ तथाऽऽम्रवणसम्पन्नांल्लताशतसमन्वितान्। ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम्॥ स प्रविश्य विचित्रां तां विहगैरभिनादिताम्। राजतैः काञ्चनैश्चैव पादपैः सर्वतो वृताम्॥ विहगै{गसङ्घश्च विचित्रां चित्रकाननाम्। उदितादित्यसंकाशां ददर्श हनुमान् बली॥ वृतां नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः। कोकिलै ङ्गराजैश्च मत्तैर्नित्यनिषेविताम्।७।। प्रहृष्टमनुजां काले मृगपक्षिमदाकुलाम्। मत्तबर्हिणसंघुष्टां नानाद्विजगणायुताम्॥ मार्गमाणो वरारोहां राजपुत्रीमनिन्दिताम्। सुखप्रसुप्तान् विहगान्बोधयामास वानरः॥ उत्पतद्भिर्द्विजगणैः पक्षैर्वातैः समाहताः। अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः॥ पुष्पावकीर्णः शुशुभे हनूमान्मारुतात्मजः। अशोकवनिकामध्ये यथा पुष्पमयो गिरिः॥ दिशः सर्वाभिधावन्तं वृक्षखण्डगतं कपिम्। दृष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे॥ वृक्षेभ्यः पतितैः पुष्पैरवकीर्णा पृथग्विधैः। रराज वसुधा तत्र प्रमदेव विभूषिता॥ तरस्विना ते तरवस्तरसा बहु कम्पिताः। कुसुमानि विचित्राणि ससृजुः कपिना तदा॥ निर्धूतपत्रशिखराः शीर्णपुष्पफलद्रुमाः। निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः॥ हनूमता वेगवता कम्पितास्ते नगोत्तमाः। पुष्पपत्रफलान्याशु मुमुचुः फलशालिनः॥ विहङ्गसङ्घींनास्ते स्कन्धमात्राशया द्रुमाः। बभूवुरगमाः सर्वे मारुतेन विनिर्धताः॥ विधूतकेशी युवतिर्यथा मृदितवर्णका। निपीतशुभदन्तोष्ठी नखैर्दन्तैश्च विक्षता॥ तथा लालहस्तैस्तु चरणाभ्यां च मर्दिता। तथैवाशोकवनिका प्रभग्नवनपादपा॥ महालतानां दामानि व्यधमत्तरसा कपिः। यथा प्रावृषि वेगेन मेघजालानि मारुतः॥ स तत्र मणिभूमीश्च राजतीश्च मनोरमाः। तथा काञ्चनभूमीश्च विचरन् ददृशे कपिः॥ वापीश्च विविधाकाराः पूर्णाः परमवारिणा। महामणिसोपानरुपपन्नास्ततस्ततः॥ मुक्ताप्रवालसिकताः स्फाटिकान्तरकुट्टिमाः। काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभिताः॥ बुद्धपद्मोत्पलवनाश्चक्रवाकोपशोभिताः। नत्यूहरुतसंघुष्टा हंससारसनादिताः॥ दीर्घाभिर्दुमयुक्ताभिः सरिद्भिश्च समन्ततः। अमृतोपमतोयाभिः शिवाभिरूपसंस्कृताः॥ लताशतैरवतता: संतानकुसुमावृताः। नानागुल्मावृतवनाः करवीरकृतान्तराः॥ ततोऽम्बुधरसंकाशं प्रवृद्धशिखरं गिरिम्। विचित्रकूट कूटैश्च सर्वतः परिवारितम्॥ शिलागृहैरवततं नानावृक्षसमावृतम्। ददर्श कपिशार्दूलो रम्यं जगति पर्वतम्॥ ददर्श च नगात् तस्मान्नदी निपतितां कपिः। अङ्कादिव समुत्पत्य प्रियस्य पतितां प्रियाम् ॥ जलेन पतिताप्रैश्च पादपैरूपशोभिताम्। वार्यमाणामिव क्रुद्धां प्रमदां प्रियबन्धुभिः॥ पुनरावृत्ततोयां च ददर्श स महाकपिः। प्रसन्नामिव कान्तस्य कान्तां पुनरुपस्थिताम्॥ तस्यादूरात्स पद्मिन्यो नानाद्विजगणायुताः। ददर्श कपिशार्दूलो हनूमान्मारुतात्मजः॥ कृत्रिमा दीर्घिकां चापि पूर्णां शीतेन वारिणा। मणिप्रवरसोपानां मुक्तासिकतशोभिताम्॥ विविधैर्मृगसङ्घश्च विचित्रां चित्रकाननाम्। प्रासादैः सुमहद्भिश्च निर्मितैर्विश्वकर्मणा॥ काननैः कृत्रिमैश्चापि सर्वतः समलंकृताम्। ये केचित्पादपास्तत्र पुष्पोपगफलोपगाः॥ सच्छत्राः सवितर्दीकाः सर्वे सौवर्णवेदिकाः। लताप्रतानैर्बहुभिः पर्णैश्च बहुभिर्वृताम्॥ काञ्चनी शिंशपामेकां ददर्श स महाकपिः। वृतां हेममयीभिस्तु वेदिकाभिः समन्ततः॥ सोऽपश्यद् भूमिभागांश्च नगप्रस्रवणानि च। सुवर्णवृक्षानपरान् ददर्श शिखिसंनिभान्॥ तेषां दुमाणां प्रभया मेरोरिव महाकपिः। अमन्यत तदा वीरः काञ्चनोऽस्मीति सर्वतः॥ तान्काञ्चनान्वृक्षगणान्मारुतेन प्रकम्पितान्। किङ्किणीशतनिर्घोषान्दृष्ट्वा विस्मयमागमत् ॥ सुपुष्पिताग्रान् रुचिरांस्तरुणाङ्कुरपल्लवान्। तामारुह्य महावेगः शिंशपां पर्णसंवृताम्॥ इतो द्रक्ष्यामि वैदेहीं रामदर्शनलालसाम्। इतश्चेतश्च दुःखार्ता सम्पतन्तीं यदृच्छया।॥ अशोकवनिका चेयं दृढं रम्या दुरात्मनः। चन्दनैश्चम्पकैश्चापि बकुलैश्च विभूषिता॥ इयं च नलिनी रम्या द्विजसङ्घनिषेविता। इमां सा राजमहिषी नूनमेष्यति जानकी॥ सा रामा राजमहिषी राघवस्य प्रिया सदा। वनसंचारकुशला ध्रुवमेष्यति जानकी॥ अथवा मृगशावाक्षी वनस्यास्य विचक्षणा। वनमेष्यति साद्येह रामचिन्तासुकर्शिता॥ रामशोकाभिसंतप्ता सा देवी वामलोचना। वनवासरता नित्यमेष्यते वनचारिणी॥ वनेचराणां सततं नूनं स्पृहयते पुरा। रामस्य दयिता चार्या जनकस्य सुता सती॥ संध्याकालमना: श्यामा ध्रुवमेष्यति जानकी। नदी चेमां शुभजलां संध्यार्थे वरवर्णिनी॥ तस्याश्चाप्यनुरूपेयमशोकवनिका शुभा। शुभायाः पार्थिवेन्द्रस्य पत्नी रामस्य संमता॥ यदि जीवति सा देवी ताराधिपनिभानना। आगमिष्यति सावश्यमिमां शीतजलां नदीम्॥ एवं तु गत्वा हनुमान् महात्मा प्रतीक्षमाणो मनुजेन्द्रपत्नीम्। अवेक्षमाणश्च ददर्श सर्वं सुपुष्पिते पर्णघने निलीनः॥ स वीक्षमाणस्तत्रस्थो मार्गमाणश्च मैथिलीम्। अवेक्षमाणश्च महीं सर्वां तामन्ववैक्षत॥ संतानकलताभिश्च पादपैरुपशोभिताम्। दिव्यगन्धरसोपेतां सर्वतः समलंकृताम्॥ तां स नन्दनसंकाशां मृगपक्षिभिरावृताम्। हर्म्यप्रासादसम्बाधां कोकिकाकुलनिःस्वनाम्॥ काञ्चनोत्पलपद्माभिर्वापीभिरुपशोभिताम्। बह्वासनकुथोपेतां बहुभूमिगृहायुताम्॥ सर्वर्तुकुसुमै रम्यैः फलवद्भिश्च पादपैः। पुष्पितानामशोकानां श्रिया सूर्योदयप्रभाम्॥ प्रदीप्तामिव तत्रस्थो मारुतिः समुदैक्षत। निष्पत्रशाखां विहगैः क्रियमाणामिवासकृत्॥ विनिष्पतद्भिः शतशश्चित्रैः पुष्पावतंसकैः। समूलपुष्परचितैरशोकैः शोकनाशनैः॥ पुष्पभारातिभारैश्च स्पृशद्भिरिव मेदिनीम्। कर्णिकारैः कुसुमितैः किंशुकैश्च सुपुष्पितैः॥ स देशः प्रभया तेषां प्रदीप्त इव सर्वतः। पुंनागाः सप्तपर्णाश्च चम्पकोद्दालकास्तथा॥ विवृद्धमूला बहवः शोभन्ते स्म सुपुष्पिताः। शाकतुम्भनिभाः केचित् केचिदग्निशिखप्रभाः॥ नीलाञ्जननिभाः केचित् तत्राशोकाः सहस्रशः। नन्दनं विबुधोद्यानं चित्रं चैत्ररथं यथा॥ अतिवृत्तमिवाचिन्त्यं दिव्यं रम्यश्रिया युतम्। द्वितीयमिव चाकाशं पुष्पज्योतिर्गणायुतम्॥ पुष्परत्नशतैश्चित्रं पञ्चमं सागरं यथा। सर्वर्तुपुष्पैर्निचितं पादपैर्मधुगन्धिभिः॥ नानानिनादैरुद्यानं रम्यं मृगगणद्विजैः। अनेकगन्धप्रवहं पुण्यगन्धं मनोहरम्॥ शैलेन्द्रमिव गन्धाढ्यं द्वितीयं गन्धमादनम्। अशोकवनिकायां तु तस्यां वानरपुङ्गवः॥ स ददर्शाविदूरस्थं चैत्यप्रासादमूर्जितम्। मध्ये स्तम्भसहस्रेण स्थितं कैलासपाण्डुरम्॥ प्रवालकृतसोपानं तप्तकाञ्चनवेदिकम्। मुष्णन्तमिव चयूंषि द्योतमानमिव श्रिया॥ निर्मलं प्रांशुभावत्वादुल्लिखन्तमिवाम्बरम्। ततो मलिनसंवीतां राक्षसीभिः समावृताम्॥ उपवासकृशां दीनां निःश्वसन्ती पुनः पुनः। ददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलाम्॥ मन्दप्रख्यायमानेन रूपेण रुचिरप्रभाम्। पिनद्धां धूमजालेन शिखामिव विभावसोः॥ पीतेनैकेन संवीतां क्लिष्टेनोत्तमवाससा। सपङ्कामनलंकारां विपद्मामिव पद्मिनीम्॥ पीडितां दुःखसंतप्तां परिक्षीणां तपस्विनीम्। ग्रहेणाङ्गारकेणेव पीडितामिव रोहिणीम्॥ अश्रुपूर्णमुखीं दीनां कृशामनशनेन च। शोकध्यानपरां दीनां नित्यं दुःखपरायणाम्॥ प्रियं जनमपश्यन्तीं पश्यन्तीं राक्षसीगणम्। स्वगणेन मृगी हीनां श्वगणेनावृतामिव ॥ नीलनागाभया वेण्या जघनं गतयैकया। नीलया नीरदापाये वनराज्या महीमिव ॥ सुखाहीं दुःखसंतप्तां व्यसनानामकोविदाम्। तां विलोक्य विशालाक्षीमधिकं मलिनां कृशाम्॥ तर्कयामास सीतेति कारणैरुपपादिभिः। ह्वियमाणा तदा तेन रक्षसा कामरूपिणा॥ यथारूपा हि दृष्टा सा तथारूपेयमङ्गना। पूर्णचन्द्राननां सुद्धू चारुवृत्तपयोधराम्॥ कुर्वती प्रभया देवी सर्वा वितिमिरा दिशः। तां नीलकण्ठी बिम्बोष्ठी सुमध्यां सुप्रतिष्ठिताम्॥ सीतां पद्मपलाशाक्षी मन्मथस्य रतिं यथा। इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव ॥ भूमौ सुतनुमासीनां नियतामिव तापसीम्। निःश्वासबहुलां भीरुं भुजगेन्द्रवधूमिव ॥ शोकजालेन महता विततेन न राजतीम्। संसक्तां धूमजालेन शिखामिव विभावसोः॥ तां स्मृतीमिव च संदिग्धामृद्धिं निपतितामिव। विहतामिव च श्रद्धामाशां प्रतिहतामिव ॥ सोपसर्गां यथा सिद्धिं बुद्धिं सकलुषामिव। अभूतेनापवादेन कीर्तिं निपतितामिव॥ रामोपरोधव्यथितां रक्षोगणनिपीडिताम्। अबलां मृगशावाक्षी वीक्षमाणां ततस्ततः॥ वाष्पाम्बुपरिपूर्णेन कृष्णवक्राक्षिपक्ष्मणा। वदनेनाप्रसन्नेन निःश्वसन्तीं पुनः पुनः॥ मलपङ्कधरां दीनां मण्डनार्हाममण्डिताम्। प्रभां नक्षत्रराजस्य कालमेघैरिवावृताम्॥ तस्य संदिदिहे बुद्धिस्तथा सीतां निरीक्ष्य च। आम्नायानामयोगेन विद्यां प्रशिथिलामिव॥ दुःखेन बुबुधे सीतां हनुमाननलंकृताम्। संस्कारेण यश हीनां वाजमर्थान्तरं गताम्॥ तां समीक्ष्य विशालाक्षी राजपुत्रीमनिन्दिताम्। तर्कयामास सीतेति कारणैरुपपादयन्॥। वैदेह्या यानि चाङ्गेषु तदा रामोऽन्वकीर्तयत्। तान्याभरणजालानि गात्रशोभीन्यलक्षयत्॥ सुकृतौ कर्णवेष्टौ च श्वदंष्ट्रौ च सुसंस्थितौ। मणिविदुमचित्राणि हस्तेष्वाभरणानि च।॥ श्यामानि चिरयुक्तत्वात् तथा संस्थानवन्ति च। तान्येवैतानि मन्येऽहं यानि रामोऽन्वकीर्तयत्॥ तत्र यान्यवहीनानि तान्यहं नोपलक्षये। यान्यस्या नावहीनानि तानीमानि न संशयः॥ पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम्। उत्तरीयं नगासक्तं तदा दृष्टं प्लवङ्गमैः॥ भूषणानि च मुख्यानि दृष्टानि धरणीतले। अनयैवापविद्धानि स्वनवन्ति महान्ति च॥ इदं चिरगृहीतत्वाद्वसनं क्लिष्टवत्तरम्। तथाप्यनूनं तद्वर्णं तथा श्रीमद्यथेतरत्॥ इयं कनकवर्णाङ्गी रामस्य महिषी प्रिया। प्रणष्टापि सती यस्य मनसो न प्रणश्यति॥ इयं सा यत्कृते रामश्चतुर्भिरिह तप्यते। कारुण्येनानृशंस्येन शोकेन मदनेन च॥ स्त्री प्रणष्टेति कारुण्यादाश्रितेत्यानृशंस्यतः। पत्नी नष्टेति शोकेन प्रियेति मदनेन च ॥ तस्या देव्या यथारूपमङ्गप्रत्यङ्गसौष्ठवम्। रामस्य च यथारूपं तस्येयमसितेक्षणा॥ अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम्। तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति ॥ दुष्करं कृतवान् रामो हीनो यदनया प्रभुः। धारयत्यात्मनो देहं न शोकेनावसीदति ॥ एवं सीतां तथा दृष्ट्वा हृष्टः पवनसम्भवः। जगाम मनसा रामं प्रशशंस च तं प्रभुम्॥ प्रशस्य तु प्रशस्तव्यां सीतां तां परिपुङ्गवः। गुणाभिरामं रामं च पुनश्चिन्तापरोऽभवत्॥ स मुहूर्तमिव ध्यात्वा वाष्पपर्याकुलेक्षणः। सीतामाश्रित्य तेजस्वी हनूमान् विललाप ह॥ मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया। यदि सीता हि दुःखार्ता कालो हि दुरतिक्रमः॥ रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः। नात्यर्थं क्षुभ्यते देवी गङ्गेव जलदागमे॥ तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम्। राघवोऽर्हति वैदेहीं तं चेयमसितेक्षणा॥ तां दृष्ट्वा नवहेमाभां लोककान्तामिव श्रियम्। जगाम मनसा रामं वचनं चेदमब्रवीत्॥ अस्या हेतोर्विशालाक्ष्या हतो वाली महाबलः। रावणप्रतिमो वीर्ये कबन्धश्च निपातितः॥ विराधश्च हतः संख्ये राक्षसो भीमविक्रमः। वने रामेण विक्रम्य महेन्द्रेणेव शम्बरः॥ चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्। निहतानि जनस्थाने शरैरग्निशिखोपमैः॥ खरश्च निहतः संख्ये त्रिशिराश्च निपातितः। दूषणश्च महातेजा रामेण विदितात्मना॥ । ऐश्वर्यं वानराणां च दुर्लभं वालिपालितम्। अस्या निमित्ते सुग्रीवः प्राप्तवाँलोकविश्रुतः॥ सागरश्च मयाऽक्रान्तः श्रीमान् नदनदीपतिः। अस्या हेतोर्विशालाक्ष्याः पुरी चेयं निरीक्षिता॥ यदि रामः समुद्रान्तां मेदिनी परिवर्तयेत्। अस्याः कृते जगच्चापि युक्तमित्येव मे मतिः॥ राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा। त्रैलोक्यराज्यं सकलं सीताया नाप्नुयात् कलाम्॥ इयं सा धर्मशीलस्य जनकस्य महात्मनः। सुता मैथिलराजस्य सीता भर्तृदृढव्रता॥ उत्थिता मेदिनी भित्त्वा क्षेत्रे हलमुखक्षते। पद्मरेणुनिभैः कीर्णा शुभैः केदारपांसुभिः॥ विक्रान्तस्यार्यशीलस्य संयुगेष्वनिवर्तिनः। स्नुषा दशरथस्सैषा ज्येष्ठा राज्ञो यशस्विनी॥ धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः। इयं सा दयिता भार्या राक्षसीवशमागता॥ सर्वान् भोगान् परित्यज्य भर्तृस्नेहबलात् कृता । अचिन्तयित्वा कष्टानि प्रविष्टा निर्जनं वनम्॥ संतुष्टा फलमूलेन भर्तृशुश्रूषणापरा। या परां भजते प्रीतिं वनेऽपि भवने यथा॥ सेयं कनकवर्णाङ्गी नित्यं सुस्मितभाषिणी। सहते यातनामेतामनर्थानामभागिनी॥ इमां तु शीलसम्पन्नां द्रष्टुमिच्छति राघवः। रावणेन प्रमथितां प्रपामिव पिपासितः॥ अस्या नूनं पुनर्लाभाद् राघवः प्रीतिमेष्यति। राजा राज्यपरिभ्रष्टः पुनः प्राप्येव मेदिनीम्॥ कामभोगैः परित्यक्ता हीना बन्धुजनेन च। धारयत्यात्मनो देहं तत्समागमकाविणी॥ नैषा पश्यति राक्षस्यो नेमान् पुष्पफलदुमान्। एकस्थहृदया नूनं राममेवानुपश्यति ॥ भर्ता नाम परं नार्याः शोभनं भूषणादपि। एषा हि रहिता तेन शोभनार्हा न शोभते॥ दुष्करं कुरुते रामो हीनो यदनया प्रभुः। धारयत्यात्मनो देहं न दुःखेनावसीदति ॥ इमामसितकेशान्तां शतपत्रनिभेक्षणाम्। सुखाहाँ दुःखितां ज्ञात्वा ममापि व्यथितं मनः॥ क्षितिक्षमा पुष्करसंनिभेक्षणा या रक्षिता राघवलक्ष्मणाभ्याम्। सा राक्षसीभिर्विकृतेक्षणाभिः संरक्ष्यते सम्प्रति वृक्षमूले॥ हिमहतनलिनीव नष्टशोभा व्यसनपरम्परया निपीड्यमाना। सहचररहितेव चक्रवाकी जनकसुता कृपणां दशां प्रपन्ना ॥ अस्या हि पुष्पावनतानशाखाः शोकं दृढं वै जनयन्त्यशोकाः। रभ्युत्थितो नैकसहस्ररश्मिः॥ इत्येवमर्थं कपिरन्ववेक्ष्य सीतेयमित्येव तु जातबुद्धिः। संश्रित्य तस्मिन् निषसाद वृक्षे बली हरीणामृषभस्तरस्वी॥ तथा विप्रेक्षमाणस्य वनं पुष्पितपादपम्। विचिन्वतश्च वैदेही किंचिच्छेषा निशाऽभवत्॥ षडङ्गवेदविदुषां क्रतुप्रवरयाजिनाम्। शुश्राव ब्रह्मघोषान् स विरात्रे ब्रह्मरक्षसाम्॥ अथ मङ्गलवादित्रैः शब्दैः श्रोत्रमनोहरैः। प्राबोध्यत महाबाहुर्दशग्रीवो महाबलः॥ विबुध्य तु महाभागो राक्षसेन्द्रः प्रतापवान्। स्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयत्॥ भृशं नियुक्तस्तस्यां च मदनेन मदोत्कटः। न तु तं राक्षस: कामं शशाकात्मनि गुहितुम्॥ स सर्वाभरणैर्युक्तो बिभ्रच्छ्यिमनुत्तमाम्। तां नगैर्विविधैर्जुष्टां सर्वपुष्पफलोपगैः॥ वृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम्। सदा मत्तैश्च विहगैविचित्रां परमाद्भुतैः॥ ईहामृगैश्च विविधैर्वृतां दृष्टिमनोहरैः। वीथीः सम्प्रेक्षमाणश्च मणिकाञ्चनतोरणाम्॥ नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम्। अशोकवनिकामेव प्राविशत् संततदुमाम्॥ अङ्गनाः शतमात्रं तु तं व्रजन्तमनुव्रजन्। महेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः॥ दीपिकाः काञ्चनीः काश्चिज्जगृहुस्तत्र योषितः। वालव्यजनहस्ताश्च तालवृन्तानि चापराः॥ काञ्चनैश्चैव भृङ्गारैर्जहुः सलिलमग्रतः। मण्डलाग्रा बृसीश्चैव गृह्यान्याः पृष्ठतो ययुः॥ काचिद् रत्नमयीं पात्री पूर्णां पानस्य भ्राजतीम्। दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना॥ राजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम्। सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ॥ निद्रामदपरीताक्ष्यो रावणस्योत्तमस्त्रियः। अनुजग्मुः पतिं वीरं घनं विद्युल्लता इव ॥ व्याविद्धहारकेयूराः समामृदितवर्णकाः। समागलितकेशान्ताः सस्वेदवदनास्तथा॥ घूर्णन्त्यो मदशेषेण निद्रया च शुभाननाः। स्वेदक्लिष्टाङ्गकुसुमाः समाल्याकुलमूर्धजाः॥ प्रयान्तं नैर्ऋतपतिं नार्यो मदिरलोचनाः। बहुमानाच्च कामाच्च प्रियभार्यास्तमन्वयुः॥ सच कामपराधीनः पतिस्तासां महाबलः। सीतासक्तमना मन्दो मन्दाञ्चितगतिर्बभौ॥ ततः काञ्चीनिनादं च नूपुराणां च निःस्वनम्। शुश्राव परमस्त्रीणां कपिर्मारुतनन्दनः॥ तं चाप्रतिमकुर्वाणमचिन्त्यबलपौरुषम्। द्वारदेशमनुप्राप्तं ददर्श हनुमान् कपिः॥ दीपिकाभिरनेकाभिः समन्तादवभासितम्। गन्धतैलावसिक्ताभिर्धियमाणाभिरग्रतः॥ कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम्। समक्षमिव कन्दर्पमपविद्धशरासनम्॥ मथितामृतफेनाभमरजोवस्त्रमुत्तमम्। सपुष्पमवकर्षन्तं विमुक्तं सक्तमङ्गदे॥ तं पत्रविटपे लीनः पत्रपुष्पशतावृतः। समीपमुपसंक्रान्तं विज्ञातुमुपचक्रमे॥ अवेक्षमाणस्तु तदा ददर्श कपिकुञ्जरः। रूपयौवनसम्पन्ना रावणस्य वरस्त्रियः॥ ताभिः परिवृतो राजा सुरूपाभिर्महायशाः। तन्मृगद्विजसंघुष्टं प्रविष्टः प्रमदावनम्॥ क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः। तेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः॥ वृतः परमनारीभिस्ताराभिरिव चन्द्रमाः। तं ददर्श महातेजास्तेजोवन्तं महाकपिः॥ रावणोऽयं महाबाहुरिति संचिन्त्य वानरः। सोऽयमेव पुरा शेते पुरमध्ये गृहोत्तमे। अवप्लुतो महातेजा हनूमान् मारुतात्मजः॥ स तथाप्युग्रतेजाः स निर्धूतस्तस्य तेजसा। पत्रे गुह्यान्तरे सक्तो मतिमान् संवृतोऽभवत्॥ स तामसितकेशान्तां सुश्रोणी संहतस्तनीम्। दिदृक्षुरसितापाङ्गीमुपावर्तत रावणः॥ तस्मिन्नेव ततः काले राजपुत्री त्वनिन्दिता। रूपयौवनसम्पन्नं भूषणोत्तमभूषितम्॥ ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपम्। प्रावेपत वरारोहा प्रावते कदली यथा॥ ऊरुभ्यामुदरं छाद्य बाहुभ्यां च पयोधरौ। उपविष्टा विशालाक्षी रुदती वरवर्णिनी॥ दशग्रीवस्तु वैदेहीं रक्षितां राक्षसीगणैः। ददर्श दीनां दुःखार्ती नावं सन्नामिवार्णवे॥ असंवृतायामासीनां धरण्यां संशितव्रताम्। छिन्नां प्रपतितां भूमौ शाखामिव वनस्पतेः॥ मलमण्डनदिग्धाङ्गी मण्डनार्हाममण्डनाम्। मृणाली पङ्कदिग्धेव विभाति न विभाति च॥ समीपं राजसिंहस्य रामस्य विदितात्मनः। संकल्पहयसंयुक्तैर्यान्तीमिव मनोरथैः॥ शुष्यन्तीं रुदतीमेकां ध्यानशोकपरायणाम्। दुःखस्यान्तमपश्यन्ती रामां राममनुव्रताम्॥ चेष्टमानामथाविष्टां पन्नगेन्द्रवधूमिव। धूप्यमानां ग्रहेणेव रोहिणीं धूमकेतुना॥ वृत्तशीले कुले जातामाचारवति धार्मिके। पुनः संस्कारमापन्नां जातामिव च दुष्कुले॥ सन्नामिव महाकीर्तिं श्रद्धामिव विमानिताम्। प्रज्ञामिव परिक्षीणामाशां प्रतिहतामिव ॥ आयतीमिव विध्वस्तामाज्ञां प्रतिहतामिव । दीप्तामिव दिशं काले पूजामपहतामिव ॥ पौर्णमासीमिव निशां तमोग्रस्तेन्दुमण्डलाम्। पद्मिनीमिव विध्वस्तां हतशूरां चमूमिव ॥ प्रभामिव तमोध्वस्तामुपक्षीणामिवापगाम्। वेदीमिव परामृष्टां शान्तामग्निशिखामिव ॥ उत्कृष्टपर्णकमलां वित्रासितविहङ्गमाम्। हस्तिहस्तपरामृष्टामाकुलामिव पद्मिनीम्॥ पतिशोकातुरां शुष्कां नदी विस्रावितामिव। परया मृजया हीनां कृष्णपक्षे निशामिव ॥ सुकुमारी सुजाताङ्गी रत्नगर्भगृहोचिताम्। तप्यमानामिवोष्णेन मृणालीमचिरोद्धृताम्॥ गृहीतां लाडितां स्तम्भे यूथपेन विनाकृताम्। निःश्वसन्ती सुदुःखात गजराजवधूमिव ॥ एकया दीर्घया वेण्या शोभमानामयत्नतः। नीलया नीरदापाये वनराज्या महीमिव ॥ उपवासेन शोकेन ध्यानेन च भयेन च। परिक्षीणां कृशां दीनामल्पाहारां तपोधनाम्॥ आयाचमानां दुःखार्ता प्राञ्जलिं देवतामिव। भावेन रघुमुख्यस्य दशग्रीवपराभवम्॥ समीक्षमाणां रुदतीमनिन्दितां सुपक्ष्मताम्रायतशुक्ललोचनाम्। अनुव्रतां राममतीव मैथिली प्रलोभयामास वधाय रावणः॥ स तां परिवृतां दीनां निरानन्द तपस्विनीम्। साकारैर्मधुरैर्वाक्यैर्त्यदर्शयत रावणः॥ मां दृष्ट्वा नागनासोरु गूहमाना स्तनोदरम्। अदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि॥ कामये त्वां विशालाक्षि बहु मन्यस्व मां प्रिये। सर्वाङ्गगुणसम्पन्ने सर्वलोकमनोहरे॥ नेह किंचिन्मनुष्या वा राक्षसाः कामरूपिणः। व्यपसर्पतु ते सीते भयं मत्तः समुत्थितम्॥ स्वधर्मो रक्षसां भीरु सर्वदैव न संशयः। गमनं वा परस्त्रीणां हरणं सम्प्रमथ्य वा॥ एवं चैवमकामां त्वां न च स्प्रक्ष्यामि मैथिलि। कामं कामः शरीरे मे यथाकामं प्रवर्तताम्॥ देवि नेह भयं कार्यं मयि विश्वसिहि प्रिये। प्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा॥ एकवेणी अधःशय्या ध्यानं मलिनमम्बरम्। अस्थानेऽप्युपवासश्च नैतान्यौपयिकानि ते॥ विचित्राणि च माल्यानि चन्दनान्यगुरूणि च। विविधानि च वासांसि दिव्यान्याभरणानि च॥ महार्हाणि च पानानि शयनान्यासनानि च। गीतं नृत्यं च वाद्यं च लभ मां प्राप्य मैथिलि॥ स्त्रीरत्नमसि मैवं भूः कुरु गात्रेषु भूषणम्। मां प्राप्य हि कथं वा स्यास्त्वमनीं सुविग्रहे ॥ इदं ते चारुसंजातं यौवनं ह्यतिवर्तते। यदतीतं पुनर्रुति स्रोतः स्रोतस्विनामिव ॥ त्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वकृत्। नहि रूपोपमा ह्यन्या तवास्ति शुभदर्शने॥ त्वां समासाद्य वैदेहि रूपयौवनशालिनीम्। कः पुनर्नातिवर्तेत साक्षादपि पितामहः॥ यद् यत् पश्यामि ते गात्रं शीतांशुसदृशानने। तस्मिंस्तस्मिन् पृथुश्रोणि चक्षुर्मम निबध्यते॥ भव मैथिलि भार्या मे मोहमेतं विसर्जय। बह्वीनामुत्तमस्त्रीणां ममाग्रमहिषी भव॥ लोकेभ्यो यानि रत्नानि सम्प्रमथ्याहृतानि मे। तानि ते भीरु सर्वाणि राज्यं चैव ददामि ते॥ विजित्य पृथिवीं सर्वां नानानगरमालिनीम्। जनकाय प्रदास्यामि तव हेतोर्विलासिनि॥ नेह पश्यामि लोकेऽन्यं यो मे प्रतिबलो भवेत्। पश्य मे सुमहद्वीर्यमप्रतिद्वन्द्वमाहवे॥ असकृत्संयुगे भग्ना मया विमृदितध्वजाः। अशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः॥ इच्छ मां क्रियतामद्य प्रतिकर्म तवोत्तमम्। सुप्रभाण्यवसज्जन्तां तवाङ्गे भूषणानि हि॥ साधु पश्यामि ते रूपं सुयुक्तं प्रतिकर्मणा। प्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने॥ भुक्ष्व भोगान् यथाकामं पिब भीरु रमस्व च। यथेष्टं च प्रयच्छ त्वं पृथिवीं वा धनानि च ॥ ललस्व मयि विस्रब्धा धृष्टमाज्ञापयस्व च। मत्प्रासादाल्ललन्त्याश्च ललतां बान्धवस्तव॥ ऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशस्विनि। किं करिष्यसि रामेण सुभगे चीरवासिना॥ निक्षिप्तविजयो रामो गतश्रीर्वनगोचरः। व्रती स्थण्डिलशायी च शङ्के जीवति वा न वा॥ नहि वैदेहि रामस्त्वां द्रष्टुं वाप्युपलभ्यते। पुरोबलाकैरसितैर्मेधैर्योत्स्नामिवावृताम्॥ न चापि मम हस्तात्त्वां प्राप्तुमर्हति राघवः। हिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामिव ॥ चारुस्मिते चारुदति चारुनेत्रे विलासिनी। मनो हरसि मे भीरु सुपर्णः पन्नगं यथा॥ क्लिष्टकौशेयवसनां तन्वीमप्यनलंकृताम्। त्वां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम्॥ अन्तःपुरनिवासिन्यः स्त्रियः सर्वगुणान्विताः। यावत्यो मम सर्वासामैश्वर्यं कुरु जानकि॥ मम ह्यसितकेशान्ते त्रैलोक्यप्रवरस्त्रियः। तास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा।॥ यानि वैश्रवणे सुभ्र रत्नानि च धनानि च। तानि लोकांश्च सुश्रोणि मया भुझ्व यथासुखम्॥ न रामस्तपसा देवि न बलेन च विक्रमैः। न धनेन मया तुल्यस्तेजसा यशसाऽपि वा॥ पिब विहर रमस्व भुक्ष्व भोगान् धननिचयं प्रदिशाभि मेदिनीं च। मयि लल ललने यथासुखं त्वं त्वयि च समेत्य ललन्तु बान्धवास्ते॥ कुसुमिततरुजालसंततानि भ्रमरयुतानि समुद्रतीरजानि। कनकविमलहारभूषिताङ्गी विहर मया सह भीरु काननानि॥ तस्य तद् वचनं श्रुत्वा सीता रौद्रस्य रक्षसः। आर्ता दीनस्वरा दीनं प्रत्युवाच ततः शनैः॥ दुःखार्ता रुदती सीता वेपमाना तपस्विनी। चिन्तयन्ती वरारोहा पतिमेव पतिव्रता ॥ तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता। निवर्तय मनो मत्तः स्वजने प्रीयतां मनः॥ न मां प्रार्थयितुं युक्तस्त्वं सिद्धिमिव पापकृत्। अकार्यं न मया कार्यमेकपत्न्या विगर्हितम्॥ कुलं सम्प्राप्तया पुण्यं कुले महति जातया। एवमुक्त्वा तु वैदेही रावणं तं यशस्विनी॥ रावणं पृष्ठतः कृत्वा भूयो वचनमब्रवीत्। नाहमौपयिकी भार्या परभार्या सती तव॥ साधु धर्ममवेक्षस्व साधु साधुव्रतं चर। यथा तव तथान्येषां रक्ष्या दारा निशाचर॥ आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम्। अतुष्टं स्वेषु दारेषु चपलं चपलेन्द्रियम्। नयन्ति निकृतिप्रज्ञं परदाराः पराभवम्॥ इह सन्तो न वा सन्ति सतो वा नानुवर्तसे। यथा हि विपरीता ते बुद्धिराचारवर्जिता॥ वचो मिथ्याप्रणीतात्मा पथ्यमुक्तं विचक्षणैः। राक्षसानामभावाय त्वं वा न प्रतिपद्यसे॥ अकृतात्मानमासाद्य राजानमनये रतम्। समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च॥ तथैव त्वां समासाद्य लङ्का रत्नौघसंकुला। अपराधात् तवैकस्य न चिराद् विनशिष्यति॥ स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनः। अभिनन्दन्ति भूतानि विनाशे पापकर्मणः॥ एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः। दिष्ट्यैतद् व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः॥ शक्या लोभयितुं नाहमैश्वर्येण धनेन वा। अनन्या राघवेणाहं भास्करेण यथा प्रभा॥ उपधाय भुजं तस्य लोकनाथस्य सत्कृतम्। कथं नामोपधास्यामि भुजमन्यस्य कस्यचित्॥ अहमौपयिकी भार्या तस्यैव च धरापतेः। व्रतस्नातस्य विद्येव विप्रस्य विदितात्मनः॥ साधु रावण रामेण मां समानय दुःखिताम्। वने वासितया सार्धं करेण्वेव गजाधिपम्॥ मित्रमौपयिकं कर्तुं रामः स्थानं परिप्सता। बन्धं चानिच्छता घोरं त्वयासौ पुरुषर्षभः॥ विदितः सर्वधर्मज्ञः शरणागतवत्सलः। तेन मैत्री भवतु ते यदि जीवितुमिच्छसि॥ प्रसादयस्व त्वं चैनं शरणागतवत्सलम्। मां चास्मै प्रयतो भूत्वा निर्यातयितुमर्हसि ॥ एवं हि ते भवेत् स्वस्ति सम्प्रदाय रघूत्तमे। अन्यथा त्वं हि कुर्वाणः परां प्राप्स्यसि चापदम्॥ वर्जयेद् वज्रमुत्सृष्टं वर्जयेदन्तकाश्चिरम्। त्वद्विधं न तु संक्रुद्धो लोकनाथः स राघवः॥ रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम्। शतक्रतुविसृष्टस्य निर्घोषमशनेरिव॥ इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः। इषवो निपतिष्यन्ति रामलक्ष्मणलक्षिताः॥ रक्षांसि निहनिष्यन्तः पुर्यामस्यां न संशयः। असम्पातं करिष्यन्ति पतन्तः कङ्कवाससः॥ राक्षसेन्द्र महासन्सि रामगरुडो महान्। उद्धरिष्यति वेगेन वैनतेय इवोरगान्॥ अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिंदमः। असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः॥ जनस्थाने हतस्थाने निहते रक्षसां बले। अशक्तेन त्वया रक्षः कृतमेतदसाधु वै॥ आश्रमं तत्तयोः शून्यं प्रविश्य नरसिंहयोः। गोचरं गतयोर्धात्रोरपनीता त्वयाऽधम॥ नहि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया। शक्यं संदर्शने स्थातुं शुना शार्दूलयोरिव ॥ तस्य ते विग्रहे ताभ्यां युगग्रहणमस्थिरम्। वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य विग्रहे॥ क्षिप्रं तव सनाथो मे रामः सौमित्रिणा सह । तोयमल्पमिवादित्यः प्राणानादास्यते शरैः॥ गिरिं कुबेरस्य गतोऽथवाऽऽलयं सभां गतो वा वरुणस्य राज्ञः। असंशयं दाशरथेविमोक्ष्यसे महाद्रुमः कालहतोऽशनेरिव ॥ सीताया वचनं श्रुत्वा परुषं राक्षसेश्वरः। प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम्॥ यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा। यथा यथा प्रियं वक्ता परिभूतस्तता तथा॥ संनियच्छति मे क्रोधं त्वयि कामः समुत्थितः। द्रवतो मार्गमासाद्य हयानिव सुसारथिः॥ वामः कामो मनुष्याणां यस्मिन् किल निबध्यते। जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते॥ एतस्मात् कारणान्न त्वां घातयामि वरानने। वधार्हामवमानाहाँ मिथ्या प्रव्रजने रताम्॥ परुषाणि हि वाक्यानि यानि यानि ब्रवीषि माम्। तेषु तेषु वधो युक्तस्तव मैथिलि दारुणः॥ एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः। क्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत्॥ द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः। ततः शयनमारोह मम त्वं वरवर्णिनि॥ द्वाभ्यामूर्ध्वं तु मासाभ्यां भर्तारं मामनिच्छतीम्। मम त्वां प्रातराशार्थे सूदाश्छेत्स्यन्ति खण्डशः॥ तां भय॑मानां सम्प्रेक्ष्य राक्षसेन्द्रेण जानकीम्। देवगन्धर्वकन्यास्ता विषेदुर्विकृतेक्षणाः॥ ओष्ठप्रकारैरपरा नेत्रैर्वक्त्रैस्तथापराः। सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा॥ ताभिराश्वासिता सीता रावणं राक्षसाधिपम्। उवाचात्महितं वाक्यं वृत्तशौटीर्यगर्वितम्॥ नूनं न ते जनः कश्चिदस्मिन्निःश्रेयसि स्थितः। निवारयति यो न त्वां कर्मणोऽस्माद् विगर्हितात्॥ मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः। त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसाऽपि कः॥ राक्षसाधम रामस्य भार्याममिततेजसः। उक्तवानसि यत्पापं व गतस्तस्य मोक्ष्यसे ॥ यथा दृप्तश्च मातङ्गः शशश्च सहितौ वने। तथा द्विरदवद् रामस्त्वं नीच शशवत्स्मृतः॥ स त्वमिक्ष्वाकुनाथं वै क्षिपनिह न लज्जसे। चक्षुषो विषये तस्य न यावदुपगच्छसि॥ इमे ते नयने क्रूरे विकृते कृष्णपिङ्गले। क्षितौ न पतिते कस्मान्मामनार्य निरीक्षतः॥ तस्य धर्मात्मनः पत्नी स्नुषा दशरथस्य च। कथं व्याहरतो मां ते न जिह्वा पाप शीर्यति ॥ असंदेशात्तु रामस्य तपसश्चानुपालनात्। न त्वां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा॥ नापहर्तुमहं शक्या तस्य रामस्य धीमतः। विधिस्तव वधार्थाय विहितो नात्र संशयः॥ शूरेण धनदभ्रात्रा बलैः समुदितेन च। अपोह्य रामं कस्माच्चिद् दारचौर्यं त्वया कृतम्॥ सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः। विवृत्य नयने क्रूर जानकीमन्ववैक्षत॥ नीलजीमूतसंकाशो महाभुजशिरोधरः। सिंहसत्त्वगतिः श्रीमान् दीप्तजिह्वोग्रलोचनः॥ चलानमुकुटप्रांशुश्चित्रमाल्यानुलेपनः। रक्तमाल्याम्बरधरस्तप्ताङ्गदविभूषणः॥ श्रोणीसूत्रेण महता मेचकेन सुसंवृतः। अमृतोत्पादने नद्धो भुजङ्गनेव मन्दरः॥ ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः। शुशुभेऽचलसंकाशः शृङ्गाभ्यामिव मन्दरः॥ तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः। रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः॥ स कल्पवृक्षप्रतिमो वसन्त इव मूर्तिमान्। शमशानचैत्यप्रतिमो भूषितोऽपि भयंकरः॥ अवेक्षमाणो वैदेही कोपसंरक्तलोचनः। उवाच रावणः सीतां भुजङ्ग इव निःश्वसन्॥ अनयेनाभिसम्पन्नमर्थहीनमनुव्रते। नाशायाम्यहमद्य त्वां सूर्यः संध्यामिवौजसा ॥ इत्युक्त्वा मैथिली राजा रावणः शत्रुरावणः। संददर्श ततः सर्वा राक्षसी?रदर्शनाः॥ एकाक्षीमेककर्णां च कर्णप्रावरणां तथा। गोकर्णी हस्तिकर्णी च लम्बकर्णीमकर्णिकाम्॥ हस्तिपद्यश्वपद्यौ च गोपदीं पादचूलिकाम्। एकाक्षीमेकपादी च पृथुपादीमपादिकाम्॥ अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम्। अतिमात्रस्यनेत्रां च दीर्घजिह्वानखामपि॥ अनासिकां सिंहमुखीं गोमुखीं सुकरीमुखीम्। यथा मद्वशगा सीता क्षिप्रं भवति जानकी॥ तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य वा। प्रतिलोमानुलोमैश्च सामदानादिभेदनैः॥ आवर्जयत वैदेहीं दण्डस्योद्यमनेन च। इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः॥ काममन्युपरीतात्मा जानकी प्रति गर्जत। उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी॥ परिष्वज्य दशग्रीवमिदं वचनमब्रवीत्। मया क्रीड महाराज सीतया किं तवानया॥ विवर्णया कृपणया मानुष्या राक्षसेश्वर। नूनमस्यां महाराज न देवा भोगसत्चमान्॥ विदधत्यमर श्रेष्ठास्तव बाहुबलार्जितान्। अकामां कामयानस्य शरीरमुपतप्यते॥ इच्छती कामयानस्य प्रीतिर्भवति शोभना। एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली। प्रहसन् मेघसंकाशो राक्षसः स न्यवर्तत ॥ प्रस्थितः स दशग्रीवः कम्पयन्निव मेदिनीम्। ज्वलद्भास्करसंकाशं प्रविवेश निवेशनम् ॥ देवगन्धर्वकन्याश्च नागकन्याश्च तास्ततः। परिवार्य दशग्रीवं प्रविशुस्ता गृहोत्तमम्॥ स मैथिली धर्मपरामवस्थितां प्रवेपमानं परिभय॑ रावणः। विहाय सीतां मदनेन मोहितः स्वमेव वेश्म प्रविवेश रावणः॥ इत्युक्त्वा मैथिली राजा रावणः शत्रुरावणः। संदिश्य च ततः सर्वा राक्षसीर्निर्जगाम ह॥ निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते। राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः॥ ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्छिताः। परं परुषया वाचा वैदेहीमिदमब्रुवन्॥ पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः। दशग्रीवस्य भार्यात्वं सीते न बहु मन्यसे॥ ततस्त्वेकजटा नाम राक्षसी वाक्यमब्रवीत्। आमन्त्र्य क्रोधताम्राक्षी सीतां करतलोदरोम्॥ प्रजापतीनां षण्णां तु चतुर्थोऽयं प्रजापतिः। मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः॥ पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः। नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः॥ तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः। तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि॥ मयोक्तं चारुसर्वाङ्गि वाक्यं किं नानुमन्यसे। ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत्॥ विवृत्य नयने कोपान्मार्जारसदृशेक्षणा। येन देवास्त्रयस्त्रिंशद् देवराजश्च निर्जितः॥ तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि। वीर्योत्सिक्तस्य शूरस्य संग्रामेष्वनिवर्तिनः। बलिनो वीर्ययुक्तस्य भार्यात्वं किं न लिप्ससे॥ प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः। सर्वासां च महाभागां त्वामुपैष्यति रावणः॥ समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम्। अन्तःपुरं तदुत्सृज्य त्वामुपैष्यति रावणः॥ अन्या तु विकटा नाम राक्षसी वाक्यमब्रवीत्। असकृद् भीमवीर्येण नागा गन्धर्वदानवाः। निर्जिताः समरे येन स ते पार्श्वमुपागतः॥ तस्य सर्वसमृद्धस्य रावणस्य महात्मनः। किमर्थं राक्षसेन्द्रस्य भार्यात्वं नेच्छसेऽधमे ॥ ततस्तां दुर्मुखी नाम राक्षसी वाक्यमब्रवीत्। यस्य सूर्यो न तपति भीतो यस्य स मारुतः। न वाति स्मायतापाङ्गि किं त्वं तस्य न तिष्ठसे॥ पुष्पवृष्टिं च तरवो मुमुचुर्यस्य वै भयात्। शैलाः सुनुवुः पानीयं जलदाश्च यदेच्छति॥ तस्य नैऋतराजस्य राजराजस्य भामिनि। किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि॥ साधु ते तत्त्वतो देवी कथितं साधु भामिनि। गृहाण सुस्मिते वाक्यमन्यथा न भविष्यसि ॥ ततः सीतां समस्तास्ता राक्षस्यो विकृताननाः। परुषं परुषानर्हामूचुस्तद्वाक्यमप्रियम्॥ किं त्वमन्तःपुरे सीते सर्वभूतमनोरमे। महार्हशयनोपेते न वासमनुमन्यसे॥ मानुषे मानुषस्यैव भार्यात्वं बहु मन्यसे। प्रत्याहर मनो रामानैवं जातु भविष्यति॥ त्रैलोक्यवसुभोक्तारं रावणं राक्षसेश्वरम्। भर्तारमुपसंगम्य विहरस्व यथासुखम्॥ मानुषी मानुषं तं तु राममिच्छसि शोभने। राज्याद् भ्रष्टमसिद्धार्थं विक्लवन्तमनिन्दिते॥ राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा। नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत्॥ यदिदं लोकविद्विष्टमुदाहरत संगताः। नैतन्मनसि वाक्यं मे किल्विषं प्रतितिष्ठति॥ न मानुषी राक्षसस्य भार्या भवितुमर्हति। कामं खादत मां सर्वा न करिष्यामि वो वचः॥ दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः। तं नित्यमनुरक्ताऽस्मि यथा सूर्यं सुवर्चला॥ यथा शची महाभागा शक्रं समुपतिष्ठति। अरुन्धती वसिष्ठं च रोहिणी शशिनं यथा॥ लोपामुद्रा यथाऽगस्त्यं सुकन्या च्यवनं यथा। सावित्री सत्यवन्तं च कपिलं श्रीमती यथा॥ सौदासं मदयन्तीव केशिनी सगरं यथा। नैषधं दमयन्तीव भैमी पतिमनुव्रता॥ तथाहमिक्ष्वाकुवरं रामं पतिमनुव्रता। सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्च्छिताः। भर्ल्सयन्ति स्म परुषैर्वाक्यै रावणचोदिताः॥ अवलीनः स निर्वाक्यो हनुमाशिशपादुमे। सीतां संतर्जयन्तीस्ता राक्षसीरशृणोत् कपिः॥ तामभिक्रम्य संरब्धा वेपमानां समन्ततः। भृशं संलिलिहुर्दीप्तान् प्रलम्बान् दशनच्छदान्॥ ऊचुश्च परमक्रुद्धाः प्रगृह्याशु परश्वधान्। नेयमर्हति भर्तारं रावणं राक्षसाधिपम्॥ सा भय॑माना भीमाभी राक्षसीभिर्वराङ्गना। सा वाष्पमपमार्जन्ती शिंशपां तामुपागमत्॥ ततस्तां शिंशपां सीता राक्षसीभिः समावृता। अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता॥ तां कृशां दीनवदनां मलिनाम्बरवासिनीम्। भर्त्सयांचक्रिरे भीमा राक्षस्यस्ताः समन्ततः॥ ततस्तु विनता नाम राक्षसी भीमदर्शना। अब्रवीत् कुपिताकारा कराला निर्णतोदरी॥ सीते पर्याप्तमेतावद् भर्तुः स्नेहः प्रदर्शितः। सर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते॥ परितुष्टास्मि भद्रं ते मानुषस्ते कृतो विधिः। ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि॥ रावणं भज भर्तारं भर्तारं सर्वरक्षसाम्। विक्रान्तमापतन्तं च सुरेशमिव वासवम्॥ दक्षिणं त्यागशीलं च सर्वस्य प्रियवादिनम्। मानुषं कृपणं रामं त्यक्त्वा रावणमाश्रय॥ दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता। अद्यप्रभृति लोकानां सर्वेषामीश्वरी भव॥ अग्नेः स्वाहा यथा देवी शची वेन्द्रस्य शोभने। किं ते रामेण वैदेहि कृपणेन गतायुषा॥ एतदुक्तं च मे वाक्यं यदि त्वं न करिष्यसि। अस्मिन् मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम्॥ अन्या तु विकटा नाम लम्बमानपयोधरा। अब्रवीत् कुपिता सीतां मुष्टिमुद्यम्य तर्जती॥ बहून्यप्रतिरूपाणि वचनानि सुदुर्मते। अनुक्रोशान्मृदुत्वाच्च सोढानि तव मैथिलि॥ न च नः कुरुषे वाक्यं हितं कालपुरस्कृतम्। आनीतासि समुद्रस्य पारमन्यैर्दुरासदम्॥ रावणान्तःपुरे घोरे प्रविष्टा चासि मैथिलि। रावणस्य गृहे रुद्धा अस्माभिस्त्वभिरक्षिता॥ न त्वां शक्तः परित्रातुमपि साक्षात् पुरंदरः। कुरुष्व हितवादिन्या वचनं मम मैथिलि।॥ अलमश्रुनिपातेन त्यज शोकमनर्थकम्। भज प्रीतिं प्रहर्षं च त्यजन्ती नित्यदैन्यताम्॥ सीते राक्षसराजेन परिक्रीड यथासुखम्। जानीमहे यथा भीरु स्त्रीणां यौवनमध्रुवम्॥ यावन्न ते व्यतिक्रामेत् तावद् सुखमवाप्नुहि। उद्यानानि च रम्याणि पर्वतोपवनानि च॥ सह राक्षसराजेन चर त्वं मदिरेक्षणे। स्त्रीसहस्राणि ते देवि वशे स्थास्यन्ति सुन्दरि॥ रावणं भज भर्तारं भर्तारं सर्वरक्षसाम्। उत्पाट्य वा ते हृदयं भक्षयिष्यामि मैथिलि॥ यदि मे व्याहृतं वाक्यं न यथावत् करिष्यसि। ततश्चण्डोदरी नाम राक्षसी क्रूरदर्शना॥ भ्रामयन्ती महच्छूलमिदं वचनमब्रवीत्। इमां हरिणशावाक्षीं त्रासोत्कम्पपयोधराम्॥ रावणेन हतां दृष्ट्वा दौर्हदो मे महानयम्। यकृत्प्लीहं महत् क्रोडं हृदयं च सबन्धनम्॥ गावाण्यपि तथा शीर्षं खादेयमिति मे मतिः। ततस्तु प्रघसा नाम राक्षसी वाक्यमब्रवीत्॥ कण्ठमस्या नृशंसायाः पीडयामः किमास्यते। निवेद्यतां ततो राज्ञे मानुषी सा मृतेति ह।॥ नात्र कश्चन संदेहः खादतेति स वक्ष्यति। ततस्त्वजामुखी नाम राक्षसी वाक्यमब्रवीत्॥ विशस्येमां ततः सर्वान् समान् कुरुत पिण्डकान्। विभजाम ततः सर्वा विवादो मे न रोचते॥ पेयमानीयतां क्षिप्रं माल्यं च विविधं बहु। ततः शूर्पणखा नाम राक्षसी वाक्यमब्रवीत्॥ अजामुख्या यदुक्तं वै तदेव मम रोचते। सुरा चानीयतां क्षिप्रं सर्वशोकविनाशिनी॥ मानुषं मांसमास्वाद्य नृत्यामोऽथ निकुम्भिलाम्। एवं निर्भय॑माना सा सीता सुरसुतोपमा। राक्षसीभिर्विरूपाभिधैर्यमुत्सृज्य रोदिति ॥ अथ तासां वदन्तीनां परुषं दारुणं बहु। राक्षसीनामसौम्यानां रुरोद जनकात्मजा ॥ एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी। उवाच परमवस्ता वाष्यगद्गदया गिरा॥ न मानुषी राक्षसस्य भार्या भवितुमर्हति। कामं खादत मां सर्वा न करिष्यामि वो वचः॥ सा राक्षसीमध्यगता सीता सुरसुतोपमा। न शर्म लेभे शोकार्ता रावणेनेव भर्त्तिता ॥ वेपते स्माधिकं सीता विशन्तीवाङ्गमात्मनः। वने यूथपरिभ्रष्टा मृगी कोकैरिवादिता ॥ सा त्वशोकस्य विपुलां शाखामालम्ब्य पुष्पिताम्। चिन्तयामास शोकेन भर्तारं भग्नमानसा ॥ सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः। चिन्तयन्ती न शोकस्य तदान्तमधिगच्छति। ७१३ सा वेपमाना पतिता प्रवाते कदली यथा। राक्षसीनां भयवस्ता विवर्णवदनाभवत्॥ तस्याः सा दीर्घबहुला वेपन्त्याः सीतया तदा। ददृशे कम्पिता वेणी व्यालीव परिसर्पती ॥ सा निःश्वसन्ती शोकार्ता कोपोपहतचेतना। आर्ता व्यसृजदश्रूणि मैथिली विललाप च॥ हा रामेति च दुःखार्ता हा पुनर्लक्ष्यणेति च। हा श्वश्रूर्मम कौसल्ये हा सुमित्रेति भामिनी ॥ लोकप्रवादः सत्योऽयं पण्डितैः समुदाहृतः। अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा॥ यत्राहमाभिः क्रूराभी राक्षसीभिरिहार्दिता । जीवामि हीना रामेण मुहूर्तमपि दुःखिता॥ एषाल्पपुण्या कृपणा विनशिष्याम्यनाथवत्। समुद्रमध्ये नौः पूर्णा वायुवेगैरिवाहता॥ भर्तारं तमपश्यन्ती राक्षसीवशमागता। सीदामि खलु शोकेन कूलं तोयहतं यथा॥ तं पद्मदलपत्राक्षं सिंहविक्रान्तगामिनम्। धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम्॥ सर्वथा तेन हीनाया रामेण विदितात्मना। तीक्ष्णं विषमिवास्वाद्य दुर्लभं मम जीवनम् ॥ कीदृशं तु महापापं मया देहान्तरे कृतम्। येनेदं प्राप्यते घोरं महादुःखं सुदारुणम्॥ जीवितं त्यक्तुमिच्छामि शोकेन महता वृता। राक्षसीभिश्च रक्षन्त्या रामो नासाद्यते मया॥ धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम्। न शक्यं यत्परित्यक्तुमात्मच्छन्देन जीवितम्॥ प्रसक्ताश्रुमुखी त्वेवं ब्रुवती जनकात्मजा। अधोगतमुखी बाला विलप्तुमुपचक्रमे॥ उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती। उपावृत्ता किशोरीव विचेष्टन्ती महीतले॥ राघवस्य प्रमत्तस्य रक्षसा कामरूपिणा। रावणेन प्रमथ्याहमानीता क्रोशती बलात्॥ राक्षसीवशमापना भय॑माना च दारुणम्। चिन्तयन्ती सुदुःखार्ता नाहं जीवितुमुत्सहे ॥ नहि मे जीवितेनार्थो नैवार्थेन च भूषणैः। वसन्त्या राक्षसीमध्ये विना रामं महारथम्॥ अश्मसारमिदं नूनमथवाप्यजरामरम्। हृदयं मम येनेदं न दुःखेन विशीर्यते॥ धिङ्गमनार्यामसती याहं तेन विना कृता। मुहूर्तमपि जीवामि जीवितं पापजीविका॥ चरणेनापि सव्येन न स्पृशेयं निशाचरम्। रावणं किं पुनरहं कामयेयं निशाचरम्॥ प्रत्याख्यानं न जानाति नात्मानं नात्मनः कुलम्। यो नृशंसस्वभावेन मां प्रार्थयितुमिच्छति॥ छिन्ना भिन्ना प्रभिन्ना वा दीप्ता वाग्नौ प्रदीपिता। रावणं नोपतिष्ठेयं किं प्रलापेन वश्चिरम्॥ ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः। सवृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात्॥ राक्षसानां जनस्थाने सहस्राणि चतुर्दश। एकेनैव निरस्तानि स मां किं नाभिपद्यते॥ निरुद्धा रावणेनाहमल्पवीर्येण रक्षसा। समर्थः खलु मे भर्ता रावणं हन्तुमाहवे॥ विराधो दण्डकारण्ये येन राक्षसपुङ्गवः। रणे रामेण निहतः स मां किं नाभिपद्यते॥ कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा। न तु राघवबाणानां गतिरोधो भविष्यति॥ किं तु तत् कारणं येन रामो दृढपराक्रमः। रक्षसापहृतां भार्यामिष्टां यो नाभिपद्यते॥ इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः। जानन्नपि स तेजस्वी धर्षणां मर्षयिष्यति ॥ हृतेति मां योऽधिगत्य राघवाय निवेदयेत्। गृध्रराजोऽपि स रणे रावणेन निपातितः॥ कृतं कर्म महत् तेन मां तथाभ्यवपद्यता। तिष्ठता रावणवधे वृद्धेनापि जटायुषा॥ यदि मामिह जानीयाद् वर्तमानां हि राघवः। अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसम्॥ निर्दहेच्च पुरीं लङ्कां निर्दहेच्च महोदधिम्। रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत्॥ ततो निहतनाथानां राक्षसीनां गृहे गृहे। यथाहमेवं रुदती तथा भूयो न संशयः॥ अन्विष्य रक्षसां लङ्का कुर्याद् रामः सलक्ष्मणः। नहि ताभ्यां रिपुर्दृष्टो मुहूर्तमपि जीवति ॥ चिताधूमाकुलपथा गृध्रमण्डलमण्डिता। अचिरेणैव कालेन श्मशानसदृशी भवेत्॥ अचिरेणैव कालेन प्राप्स्याम्येनं मनोरथम्। दुष्प्रस्थानोऽयमाभाति सर्वेषां वो विपर्ययः॥ यादृशानि तु दृश्यन्ते लङ्कायामशुभानि तु। अचिरेणैव कालेन भविष्यति हतप्रभा ॥ नूनं लङ्का हते पापे रावणे राक्षसाधिये। शोषमेष्यति दुर्धर्षा प्रमदा विधवा यथा॥ पुण्योत्सवसमृद्धा च नष्टभी सराक्षसा। भविष्यति पुरी लङ्का नष्टभर्ती यथाङ्गना॥ नूनं राक्षसकन्यानां रुदतीनां गृहे गृहे। श्रोष्यामि नचिरादेव दुःखार्तानामिह ध्वनिम्॥ सान्धकारा हतद्योता हतराक्षसपुङ्गवा। भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः॥ यदि नाम स शूरो मां रामो रक्तान्तलोचनः। जानीयाद् वर्तमानां यां राक्षसस्य निवेशने॥ अनेन तु नृशंसेन रावणेनाधमेन मे। समयो यस्तु निर्दिष्टस्तस्य कालोऽयमागतः॥ स च मे विहितो मृत्युरस्मिन् दुष्टेन वर्तते। अकार्यं ये न जानन्ति नैर्ऋताः पापकारिणः॥ अधर्मात् तु महोत्पातो भविष्यति हि साम्प्रतम्। नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः॥ ध्रुवं मां प्रातराशार्थं राक्षस: कल्पयिष्यति। साहं कथं करिष्यामि तं बिना प्रियदर्शनम्॥ रामं रक्तान्तनयनमपश्यन्ती सुदु:खिता। क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना ॥ नाजानाज्जीवती रामः स मां भरतपूर्वजः। जानन्तौ तु न कुर्यात्तां नो। हि परिमार्गणम्॥ नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः। देवलोकमितो यातस्त्यक्त्वा देहं महीतले॥ धन्या देवाः सगन्धर्वाः सिद्धाश्व परमर्षयः। मम पश्यन्ति ये वीरं रामं राजीवलोचनम्॥ अथवा नहि तस्यार्थो धर्मकामस्य धीमतः। मया रामस्य राजर्षेर्भार्यया परमात्मनः॥ दृश्यमाने भवेत् प्रीतिः सौहृदं नास्त्यदृश्यतः। नाशयन्ति कृतघ्नास्तु न रामो नाशयिष्यति॥ किं वा मय्यगुणाः केचित् किं वा भाग्यक्षयो हि मे। या हि सीता वराहेण हीना रामेण भामिनी॥ श्रेयो मे जीवितान्मर्तुं विहीनाया महात्मना। रामादक्लिष्टचारित्राच्छूराच्छत्रुनिबर्हणात्॥ अथवा न्यस्तशस्त्रौ तौ वने मूलफलाशनौ। भ्रातरौ हि नरश्रेष्ठौ चरन्तौ वनगोचरौ॥ अथवा राक्षसेन्द्रेण रावणेन दुरात्मना। छद्मना घातितौ शूरौ भ्रातरौ रामलक्ष्मणौ॥ साहमेवंविधे काले मर्तुमिच्छामि सर्वतः। न च मे विहितो मृत्युरस्मिन् दुःखेऽतिवर्तति॥ धन्याः खलु महात्मानो मुनयः सत्यसम्मताः। जितात्मानौ महाभागा येषां न स्तः प्रियाप्रिये।४७।। प्रियान्न सम्भवेद् दुःखमप्रियादधिकं भवेत्। ताभ्यां हि ते वियुज्यन्ते नमस्तेषां महात्मनाम्॥ साऽहं त्यक्ता प्रियेणैव रामेण विदितात्मना। प्राणांस्त्यक्ष्यामि पापस्य रावणस्य गता वशम्॥ इत्युक्ताः सीतया घोरं राक्षस्यः क्रोधमूछिताः। कांश्चिज्जग्मुस्तदाख्यातुं रावणस्य दुरात्मनः॥ ततः सीतामुपागम्य राक्षस्यो भीमदर्शनाः। पुनः परुषमेकार्थमनर्थार्थमथाब्रुवन्॥ अद्येदानीं तवानार्ये सीते पापविनिश्चये। राक्षस्यो भक्षयिष्यन्ति मांसमेतद् यथासुखम्॥ सीतां ताभिरनार्याभिदृष्ट्वा संतर्जितां तदा। राक्षसी त्रिजटा वृद्धा प्रबुद्धा वाक्यमब्रवीत्॥ आत्मानं खादतानार्या न सीतां भक्षयिष्यथ। जनकस्य सुतामिष्टां स्नुषां दशरथस्य च॥ स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः। राक्षसानामभावाय भर्तुरस्या भवाय च॥ एवमुक्तास्त्रिजटया राक्षस्यः क्रोधमूर्च्छिताः। सर्वा एवाब्रुवन् भीतास्त्रिजटां तामिदं वचः॥ कथयस्व त्वया दृष्टः स्वप्नोऽयं कीदृशो निशि। तासां श्रुत्वा तु वचनं राक्षसीनां मुखोद्गतम्॥ उवाच वचनं काले त्रिजटा स्वप्नसंश्रितम्। गजदन्तमयीं दिव्यां शिबिकान्तरिक्षगाम्॥ युक्तां वाजिसहस्रेण स्वयमास्थाय राघवः। शुक्लमाल्याम्बरधरो लक्ष्मणेन समागतः॥ स्वप्न चाद्य मया दृष्टा सीता शुक्लाम्बरावृता। सागरेण परिक्षिप्तं श्वेतपर्वतमास्थिता॥ रामेण संगता सीता भास्करेण प्रभा यथा। राघवश्च पुनदृष्टश्चतुर्दन्तं महागजम्॥ आरूढः शैलसंकाशं चकास सहलक्ष्मणः। ततस्तु सूर्यसंकाशौ दीप्यमानौ स्वतेजसा ॥ शुक्लमाल्याम्बरधरौ जानकी पर्युपस्थितौ। ततस्तस्य नगस्याग्रे ह्याकाशस्थस्य दन्तिनः॥ भ; परिगृहीतस्य जानकी स्कन्धमाश्रिता। भर्तुरङ्कात् समुत्पत्य ततः कमललोचना।। चन्द्रसूर्यौ मया दृष्टा पाणिभ्यां परिमार्जती॥ ददस्ताभ्यां कुमाराभ्यामास्थितः स गजोत्तमः। सीतया च विशालाक्ष्या लङ्काया उपरिस्थितः। पाण्डुरर्षभयुक्तेन रथेनाष्टयुजा स्वयम्॥ शुक्लमाल्याम्बरधरो लक्ष्मणेन सहागतः। ततोऽन्यत्र मया दृष्टो रामः सत्यपराक्रमः॥ लक्ष्मणेन सह भ्रात्रा सीतया सह वीर्यवान्। आरुह्य पुष्पकं दिव्यं विमानं सूर्यसंनिभम्॥ उत्तरां दिशमालोच्य प्रस्थितः पुरुषोत्तमः। रावणश्च मया दृष्टो मुण्डस्तैलसमुक्षितः॥ रक्तवासा पिबन्मत्तः करवीरकृतस्रजः। विमानात् पुष्पकादद्य रावणः पतितः क्षितौ॥ कृष्यमाणः स्त्रिया मुण्डो दृष्टः कृष्णाम्बरः पुनः। रथेन खरयुक्तेन रक्तमाल्यानुलेपनः॥ पिबंस्तैलं हसन्नृत्यन् भ्रान्तचित्ताकुलेन्द्रियः। गर्दभेन ययौ शीघ्रं दक्षिणां दिशमास्थितः॥ पुनरेव मया दृष्टो रावणो राक्षसेश्वरः। पतितो विशिरा भूमौ गर्दभाद्भयमोहितः॥ सहसोत्थाय सम्भ्रान्तो भयार्तो मदविह्वलः। उन्मत्तरूपो दिग्वासा दुर्वाक्यं प्रलपन्बहु॥ दुर्गन्धं दुःसहं घोरं तिमिरं नरकोपमम्। मलपङ्कं प्रविश्याशु मग्नस्तत्र स रावणः॥ प्रस्थितो दक्षिणामाशां प्रविष्टोऽकर्दमं हृदम्। कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिनी॥ कालीकर्दमलिप्ताङ्गी दिशं याम्यां प्रकर्षति। एवं तत्र मया दृष्टः कुम्भकर्णो महाबलः॥ रावणस्य सुताः सर्वे मुण्डास्तैलसमुक्षिताः। वराहेण दशग्रीवं शिशुमारेण चेन्द्रजित्॥ उष्ट्रेण कुम्भकर्णश्च प्रयातो दक्षिणां दिशम्। एकस्तत्र मया दृष्टः श्वेतच्छत्रो विभीषणः।। चतुर्भिः सचिवैः सार्धं वैहायसमुपस्थितः॥ समाजश्च महान् वृत्तो गीतवादित्रनि:स्वनः। पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम्॥ लङ्का चेयं पुरी रम्या सवाजिरथकुञ्जरा। सागरे पतिता दृष्टा भग्नगोपुरतोरणा॥ पीत्वा तैलं प्रमत्ताश्च प्रहसन्त्यो महास्वनाः। लङ्कायां भस्मरूक्षायां सर्वा राक्षसयोषितः॥ कुम्भकर्णादयश्चेमे सर्वे राक्षसपुङ्गवाः। रक्तं निवसनं गृह्य प्रविष्टा गोमयहृदम्॥ अपगच्छत पश्यध्वं सीतामाप्नोति राघवः। घातयेत् परमामर्षी युष्मान् सार्धं हि राक्षसैः॥ प्रियां बहुमतां भार्या वनवासमनुव्रताम्। भर्त्तितां तर्जितां वापि नानुमंस्यति राघवः॥ तदलं क्रूरवाक्यैश्च सान्त्वमेवाभिधीयताम्। अभियाचाम वैदेहीमेतद्धि मम रोचते॥ यस्या ह्येवंविधः स्वप्नो दुःखितायाः प्रदृश्यते। सा दुःखैर्बहुभिर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम्॥ भर्त्तितामपि याचध्वं राक्षस्यः किं विवक्षया। राघवाद्धि भयं घोरं राक्षसानामुपस्थितम्॥ प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा। अलमेषा परित्रातुं राक्षस्यो महतो भयात्॥ अपि चास्या विशालाक्ष्या न किंचिदुपलक्षये। विरूपमपि चाङ्गेषु सुसूक्ष्ममपि लक्षणम्॥ छायावैगुण्यमानं तु शङ्के दुःखमुपस्थितम्। अदुःखार्हामिमां देवीं वैहायसमुपस्थिताम् ॥ अर्थसिद्धिं तु वैदेह्याः पश्याम्यहमुपस्थिताम्। राक्षसेन्द्रविनाशं च विजयं राघवस्य च॥ निमित्तभूतमेतत् तु श्रोतुमस्या महत् प्रियम्। दृश्यते च स्फुरच्चक्षुः पद्मपत्रमिवायतम्॥ ईषच्च हृषितो वास्या दक्षिणाया ह्यदक्षिणः। अकस्मादेव वैदेह्याः बाहुरेकः प्रकम्पते॥ करेणुहस्तप्रतिमः सव्यश्चोरुरनुत्तमः। वेपन् कथयतीवास्या राघवं पुरतः स्थितम्॥ पक्षी च शाखानिलयं प्रविष्टः पुनः पुनश्चोत्तमसान्त्ववादी। सुखागतां वाचमुदीरयाणः पुनः पुनश्चोदयतीव हृष्टः॥ ततः सा ह्रीमती बाला भर्तुर्विजयहर्षिता। अवोचद् यदि तत् तथ्यं भवेयं शरणं हि वः।॥ सा राक्षसेन्द्रस्य वचो निशम्य तद् रावणस्य प्रियमप्रियार्ता। सीता वितत्रास यथा वनान्ते सिंहाभिपन्ना गजराजकन्या॥ वाग्भि शं रावणतर्जिता च। कान्तारमध्ये विजने विसृष्टा बालेव कन्या विललाप सीता॥ सत्यं बतेदं प्रवदन्ति लोके नाकालमृत्युर्भवतीति सन्तः। यत्राहमेवं परिभर्व्यमाना जीवामि यस्मात् क्षणमप्यपुण्या॥ मिदं तु नूनं हृदयं स्थिरं मे। विदीर्यते यन्न सहस्रधाद्य वज्राहतं शृङ्गमिवाचलस्य॥ नैषास्ति नूनं मम दोषमत्र वध्याहमस्याप्रियदर्शनस्य। मलं द्विजो मन्त्रमिवाद्विजाय ॥ तस्मिन्ननागच्छति लोकनाथे गर्भस्थजन्तोरिव शल्यकृन्तः। नूनं ममाङ्गान्यचिरादनार्य शस्त्रैः शितैच्छेत्स्यति राक्षसेन्द्रः॥ दुःखं बतेदं ननु दुःखिताया मासौ चिरायाभिगमिष्यतो द्वौ। बद्धस्य वध्यस्य यथा निशान्ते राजोपरोधादिव तस्करस्य॥ हा राम हा लक्ष्मण हा सुमित्रे हा राममातः सह मे जनन्यः। मृगरूपधारी एषा विपद्याम्यहमल्पभाग्या महार्णवे नौरिव मूढवाता॥ तरस्विनौ धारयता मृगस्य सत्त्वेन रूपं मनुजेन्द्रपुत्रौ। नूनं विशस्तौ मम कारणात् तौ सिंहर्षभौ द्वाविव वैद्युतेन॥ नूनं स कालो मामल्पभाग्यां लुलुभे तदानीम्। यत्रार्यपुत्रौ विससर्ज मूढा रामानुजं लक्ष्मणपूर्वजं च ॥ हा राम सत्यव्रत दीर्घबाहो हा पूर्णचन्द्रप्रतिमानवक्त्र। हा जीवलोकस्य हितः प्रियश्च वध्यां न मां वेत्सि हि राक्षसानाम्॥ अनन्यदेवत्वमियं क्षमा च भूमौ च शय्या नियमश्च धर्मे। पतिव्रतात्वं विफलं ममेदं कृतं कृतघ्नेष्विव मानुषाणाम्॥ मोघं हि धर्मश्चरितो ममायं तथैकपत्नीत्वमिदं निरर्थकम्। या त्वां न पश्यामि कृशा विवर्णा हीना त्वया सङ्गमने निराशा॥ पितुर्निदेशं नियमेन कृत्वा वनान्निवृत्तश्चरितव्रतश्च। स्त्रीभिस्तु मन्ये विपुलेक्षणाभिः संरंस्यसे वीतभयः कृतार्थः॥ अहं तु राम त्वयि जातकामा चिरं विनाशाय निबद्धभावा। मोघं चरित्वाथ तपो व्रतं च त्यक्ष्यामि धिग्जीवितमल्पभोग्याम्॥ संजीवितं क्षिप्रमहं त्यजेयं विषेण शस्त्रेण शितेन वापि। च्छस्त्रस्य वा वेश्मनि राक्षसस्य॥ [इतीव देवी बहुधा विलप्य सर्वात्मना राममनुस्मरन्ती। प्रवेपमाना परिशुष्कवक्त्रा नगोत्तमं पुष्पितमाससाद ।। शोकाभितप्ता बहुधा विचिन्त्य सीताऽथ वेणीग्रथनं गृहीत्वा। महं गमिष्यामि यमस्य मूलम्॥ उपस्थिता सा मृदुसर्वगात्री शाखां गृहीत्वा च नगस्य तस्य। तस्यास्तु रामं परिचिन्तयन्त्या रामानुजं स्वं च कुलं शुभाङ्गयाः॥ तस्या विशोकानि तदा बहूनि धैर्यार्जितानि प्रवराणि लोके। प्रादुर्निमित्तानि तदा बभूवुः पुरापि सिद्धान्युपलक्षितानि॥ हनुमानपि विक्रान्तः सर्वं शुश्राव तत्त्वतः। सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जितम्॥ अवेक्षमाणस्तां देवी देवतामिव नन्दने। ततो बहुविधां चिन्तां चिन्तयामास वानरः॥ यां कपीनां सहस्राणि सुबहून्ययुतानि च। दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया॥ चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षता। गूढेन चरता तावदवेक्षितमिदं मया॥ राक्षसानां विशेषश्च पुरी चेयं निरीक्षिता। राक्षसाधिपतेरस्य प्रभावो रावणस्य च॥ तथा तस्याप्रमेयस्य सर्वसत्त्वदयावतः। समाश्वासयितुं भार्यां पतिदर्शनकाङ्क्षिणीम्॥ अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम्। अदृष्टदुःखां दुःखस्य न हन्तमधिगच्छतीम्।७।। यदि ह्यहं सतीमेनां शोकोपहतचेतनाम्। अनाश्वास्य गमिष्यामि दोषवद् गमनं भवेत्॥ गते हि मयि तत्रेयं राजपुत्री यशश्विनी। परित्राणमपश्यन्ती जानकी जीवितं त्यजेत्॥ यथा च स महाबाहुः पूर्णचन्द्रनिभाननः। समाश्वासयितुं न्याय्यः सीतादर्शनलालसः॥ निशाचरीणां प्रत्यक्षमक्षमं चाभिभाषितम्। कथं नु खलु कर्तव्यमिदं कृच्छ्रगतो ह्यहम्॥ अनेन रात्रिशेषेण यदि नाश्वास्यते मया। सर्वथा नास्ति संदेहः परित्यक्ष्यति जीवितम्॥ रामस्तु यदि पृच्छेन्मां किं मां सीताब्रवीद् वचः। किमहं तं प्रतिब्रूयामसम्भाष्य सुमध्यमाम्॥ सीतासंदेशरहितं मामितस्त्वरया गतम्। निर्दहेदपि काकुत्स्थः क्रोधतीव्रण चक्षुषा ॥ यदि वोद्योजयिष्यामि भर्तारं रामकारणात्। व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति॥ अन्तरं त्वहमासाद्य राक्षसीनामवस्थितः। शनैराश्वासयाम्यद्य संतापबहुलामिमाम्॥ अहं ह्यतितनुश्चैव वानरश्च विशेषतः। वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम्॥ यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम्। रावणं मन्यमाना मां सीता भीता भविष्यति॥ अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत्। मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता ॥ सेयमालोक्य मे रूपं जानकी भाषितं तथा। रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासमुपैष्यति॥ ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी। जानाना मां विशालाक्षी रावणं कामरूपिणम्॥ सीतया च कृते शब्दे सहता राक्षसीगणः। नानाप्रहरणो घोर: समयादन्तकोपमः॥ ततो मां सम्परिक्षिप्य सर्वतो विकृताननाः। वधे च ग्रहणे चैव कुर्युर्यत्नं महाबलाः॥ तं मां शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम्। दृष्ट्वा च परिधावन्तं भवेयुः परिशङ्किताः॥ मम रूपं च सम्प्रेक्ष्य वने विचरतो महत्। राक्षस्यो भयवित्रस्ता भवेयुर्विकृतस्वराः॥ ततः कुर्युः समाह्वानं राक्षस्यो रक्षसामपि। राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने॥ ते शूलशरनिस्त्रिंशविविधायुधपाणयः। आपतेयुर्विमर्देऽस्मिन् वेगेनोद्वेगकारणात्॥ संरुद्धस्तैस्तु परितो विधमे राक्षसं बलम्। शक्नुयां न तु सम्प्राप्तं परं पारं महोदधेः॥ मां वा गृहीयुरावृत्य बहवः शीघ्रकारिणः। स्यादियं चागृहीतार्था मम च ग्रहणं भवेत्॥ हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम्। विपन्नं स्यात् ततः कार्यं रामसुग्रीवयोरिदम्॥ उद्देशे नष्टमार्गेऽस्मिन् राक्षसैः परिवारिते। सागरेण परिक्षिप्ते गुप्ते वसति जानकी॥ विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे। नान्यं पश्यामि रामस्य सहायं कार्यसाधने॥ विमृशंश्च न पश्यामि यो हते मयि वानरः। शतयोजनविस्तीर्णं लङ्घयेत् महोदधिम्॥ कामं हन्तुं समर्थोऽस्मि सहस्राण्यपि रक्षसाम्। न तु शक्ष्याम्यहं प्राप्तुं परं पारं महोदधेः॥ असत्यानि च युद्धानि संशयो मे न रोचते। कश्च निःसंशयं कार्यं कुर्यात् प्राज्ञः ससंशयम्॥ एष दोषो महान् हि स्यान्मम सीताभिभाषणे। प्राणत्यागश्च वैदह्या भवेदनभिभाषणे॥ भूताश्चार्था विरुद्ध्यन्ति देशकालविरोधिताः। विक्लवं दूतमासाद्य तमः सूर्योदये यथा॥ अर्थानान्तरे बुद्धिनिश्चितापि न शोभते। घातयन्ति हि कार्याणि दूताः पण्डितमानिनः॥ न विनश्येत् कथं कार्यं वैक्लव्यं न कथं मम। लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत्॥ कथं नु खलु वाक्यं मे शृणुयानोद्विजेत च। इति संचिन्त्य हनुमांश्चकार मतिमान् मतिम्॥ राममक्लिष्टकर्माणं सुबन्धुमनुकीर्तयन्। नैनामुद्वेजयिष्यामि तद्वन्धुगतचेतनाम्॥ इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः। शुभानि धर्मयुक्तानि वचनानि समर्पयन्॥ श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम्। श्रद्धास्यति यथा सीता तथा सर्वं समादधे॥ इति स बहुविधं महाप्रभावो जगतिपतेः प्रमदामवेक्षमाणः। मधुरमवितथं जगाद वाक्यं द्रमविटपान्तरमास्थितो हनूमान्॥ एवं बहुविधां चिन्तां चिन्तयित्वा महामतिः। संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह॥ राजा दशरथो नाम रथकुञ्जरवाजिमान्। पुण्यशीलो महाकीर्तिरिक्ष्वाकूणां महायशाः॥ अहिंसारतिरक्षुद्रो घृणी सत्यपराक्रमः। मुख्यस्येक्ष्वाकुवंशस्य लक्ष्मीवॉल्लक्ष्मिवर्धनः॥ पार्थिवव्यजनैर्युक्तः पृथुश्रीः पार्थिवर्षभः। पृथिव्यां चतुरन्तायां विश्रुतः सुखदः सुखी॥ तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः। रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम्॥ रक्षिता स्वस्य वृत्तस्य स्वजनस्यापि रक्षिता। रक्षिता जीवलोकस्य धर्मस्य च परंतपः॥ तस्य सत्याभिसंधस्य वृद्धस्य वचनात् पितुः। सभार्यः सह च भ्राता वीरः प्रव्रजितो वनम्॥ तेन तत्र महारण्ये मृगयां परिधावता। राक्षसा निहताः शूराः बहवः कामरूपिणः॥ जनस्थानवधं श्रुत्वा निहतौ खरदूषणौ। ततस्त्वमर्षापहृता जानकी रावणेन तु॥ वञ्चयित्वा वने रामं मृगरूपेण मायया। स मार्गमाणस्तां देवीं रामः सीतामनिन्दिताम्॥ आससाद वने मित्रं सुग्रीवं नाम वानरम्। ततः स वालिनं हत्वा रामः परपुरंजयः॥ आयच्छत् कपिराज्यं तु सुग्रीवाय महात्मने। सुग्रीवेणाभिसंदिष्टा हरयः कामरूपिणः॥ दिक्षु सर्वासु तां देवीं विचिन्वन्तः सहस्रशः। अहं सम्पातिवचनाच्छतयोजनमायतम्॥ तस्याहेतोविशालाक्ष्याः समुद्रं वेगवान् प्लुतः। यथारूपां यथावर्णां यथालक्ष्मवती च ताम्॥ अश्रौषं राघवस्याहं सेयमासादिता मया। विररामैवमुक्त्वा स वाचं वानरपुङ्गवः॥ जानकी चापि तच्छ्रुत्वा विस्मयं परमं गता। ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम्। उन्नम्य वदनं भीरुः शिंशपामन्ववैक्षत ॥ निशम्य सीता वचनं कपेश्च दिशश्च सर्वाः प्रदिशश्च वीक्ष्य। स्वयं प्रहर्षं परमं जगाम सर्वात्मना राममनुस्मरन्ती॥ निरीक्षमाणा तमचिन्त्यबुद्धिम्। ददर्श पिङ्गाधिपतेरमात्यं वातात्मजं सूर्यमिवोदयस्थम्॥ ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा। वेष्टितार्जुनवस्त्रं तं विद्युत्संघातपिङ्गलम्॥ सा ददर्श कपि तत्र प्रश्रितं प्रियवादिनम्। फुल्लाशोकोत्कराभासं तप्तचामीकरेक्षणम्॥ साऽथ दृष्ट्वा हरिश्रेष्ठं विनीतवदवस्थितम्। मैथिली चिन्तयामास विस्मयं परमं गता॥ अहो भीममिदं सत्त्वं वानरस्य दुरासदम्। दुर्निरीक्ष्यमिदं मत्वा पुनरेव मुमोह सा ॥ विललाप भृशं सीतां करुणं भयमोहिता। रामरामेति दुःखार्ता लक्ष्मणेति च भामिनी॥ रुरोद सहसा सीता मन्दमन्दस्वरा सती। साऽथ दृष्ट्वा हरिवरं विनीतवदुपागतम्। थिली चिन्तयामास स्वप्नोऽयमिति भामिनी॥ सा वीक्षमाणा पृथुभग्नवक्त्रं शाखामृगेन्द्रस्य यथोक्तकारम्। ददर्श पिङ्गप्रवरं महाहँ वातात्मजं बुद्धिमतां वरिष्ठम्॥ सा तं समीक्ष्यैव भृशं विपन्ना गतासुकल्पेव बभूव सीता। चिरेण संज्ञां प्रतिलभ्य चैवं विचिन्तयामास विशालनेत्रा॥ स्वप्नो मयायं विकृतोऽद्य दृष्टः शाखामृगः शास्त्रगणैर्निषिद्धः। स्वस्त्यस्तु रामाय सलक्ष्मणाय तथा पितुर्मे जनकस्य राज्ञः॥ स्वप्नो हि नायं नहि मेऽस्ति निद्रा शोकेन दुःखेन च पीडितायाः। सुखं हि मे नास्ति यतो विहीना तेनेन्दुपूर्णप्रतिमाननेन॥ रामेति रामेति सदैव बुद्ध्या विचिन्त्य वाचा ब्रुवती तमेव। तस्यानुरूपं च कथां तदर्था मेवं प्रपश्यामि तथा शृणोमि॥ अहं हि तस्याद्य मनोभवेन सम्पीडिता तद्गतसर्वभावा। विचिन्तयन्ती सततं तमेव तथैव पश्यामि तथा शृणोमि ॥ मनोरथः स्यादिति चिन्तयामि तथापि बुद्ध्यापि वितर्कयामि। किं कारणं तस्य हि नास्ति रूपं सुव्यक्तरूपश्च वदत्ययं माम्॥ नमोऽस्तु वाचस्पतये सवज्रिणे स्वयम्भुवे चैव हुताशनाय। अनेन चोक्तं यदिदं ममाग्रतो वनौकसा तच्च तथास्तु नान्यथा॥ तस्यास्तद् वचनं श्रुत्वा हनूमान् हरिपुङ्गवः। दुःखाद् दुःखाभिभूतायाः सान्त्वमुत्तरमब्रवीत्॥ अहं रामस्य संदेशाद् देवि दूतस्तवागतः। वैदेहि कुशली रामः स त्वां कौशलमब्रवीत् ॥ यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः। स त्वां दाशरथी रामो देवि कौशलमब्रवीत्॥ लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः। कृतवाञ्छोकसंतप्तः शिरसा तेऽभिवादनम्॥ सा तयोः कुशलं देवी निशम्य नरसिंहयोः। प्रतिसंहृष्टसर्वाङ्गी हनूमन्तमथाब्रवीत्॥ कल्याणी वत गाथेयं लौकिकी प्रतिभाति मा। एति जीवन्तमानन्दो नरं वर्षशतादपि॥ तयोः समागमे तस्मिन् प्रीतिरुत्पादिताद्भुता। परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः॥ तस्यास्तद् वचनं श्रुत्वा हनूमान्मारुतात्मजः। सीतायाः शोकतप्तायाः समीपमुपचक्रमे॥ यथा यथा समीपं स हनूमानुपसर्पति। तथा तथा रावणं सा तं सीता परिशङ्कते॥ अहो धिग् धिक्कृतमिदं कथितं हि यदस्य मे। रूपान्तरमुपागम्य स एवायं हि रावणः॥ तामशोकस्य शाखां तु विमुक्त्वा शोककर्शिता । तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत्॥ अवन्दत महाबाहुस्ततस्तां जनकात्मजाम्। सा चैनं भयसंत्रस्ता भूयो नैनमुदैक्षत॥ तं दृष्ट्वा वन्दमानं च सीता शशिनिभानना। अब्रवीद् दीर्घमुच्छ्वस्य वानरं मधुरस्वरा ॥ मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम्। उत्पादयसि मे भूयः संतापं तन्न शोभनम्॥ स्वं परित्यज्य रूपं यः परिव्राजकरूपवान्। जनस्थाने मया दृष्टस्त्वं स एव हि रावणः॥ उपवासकृशां दीनां कामरूप निशाचर। संतापयसि मां भूयः संतापं तत्र शोभनम्॥ अथवा नैतदेवं हि यन्मया परिशङ्कितम्। मनसो हि मम प्रीतिरुत्पन्ना तव दर्शनात्॥ यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते। पृच्छामि त्वां हरि श्रेष्ठ प्रिया रामकथा हि मे॥ गुणान् रामस्य कथय प्रियस्य मम वानर। चित्तं हरसि मे सौम्य नदीकूलं यथा रयः॥ अहो स्वप्नस्य सुखता याहमेव चिराहता। प्रेषितं नाम पश्यामि राघवेण वनौकसम्॥ स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम्। पश्येयं नावसीदेयं स्वप्नोऽपि मम मत्सरी॥ नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम्। न शक्योऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम॥ किं नु स्याच्चित्तमोहोऽयं भवेद् वातगतिस्त्वियम्। उन्मादजों विकारो वा स्यादयं मृगतृष्णिका॥ अथवा नायमुन्मादो मोहोऽप्युन्मादलक्षणः। सम्बुध्ये चाहमात्मानमिमं चापि वनौकसम्॥ इत्येवं बहुधा सीता सम्प्रधार्य बलाबलम्। रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम्॥ एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा। न प्रतिव्याजहाराथ वानरं जनकात्मजा॥ सीताया निश्चितं बुद्ध्वा हनूमान् मारुतात्मजः। श्रोत्रानुकूलैर्वचनैस्तदा तां सम्प्रहर्षयन्॥ आदित्य इव तेजस्वी लोककान्तः शशी यथा। राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा ॥ विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः। सत्यवादी मधुरवाग् देवो वाचस्पतिर्यथा॥ रूपवान् सुभगः श्रीमान् कन्दर्प इव मूर्तिमान्। स्थानक्रोधे प्रहर्ता च श्रेष्ठो लोके महारथः॥ बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः। अपक्रम्याश्रमपदान्मृगरूपेण राघवम्॥ शून्ये येनापनीतासि तस्य द्रक्ष्यसि तत्फलम्। अचिराद् रावणं संख्ये यो वधिष्यति वीर्यवान्॥ क्रोधप्रमुक्तैरिषुभिर्व्वलद्भिरिव पावकैः। तेनाहं प्रेषितो दूतस्त्वत्सकाशमिहागतः॥ त्वद्वियोगेन दुःखार्तः स त्वां कौशलमब्रवीत्। लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः॥ अभिवाद्य महाबाहुः स त्वां कौशलमब्रवीत्। रामस्य च सखा देवि सुग्रीवो नाम वानरः॥ राजा वानरमुख्यानां स त्वां कौशलमब्रवीत्। नित्यं स्मरति ते रामः ससुग्रीवः सलक्ष्मणः॥ दिष्ट्या जीवसि वैदेहि राक्षसीवशमागता। नचिराद् द्रक्ष्यसे राम लक्ष्मणं च महारथम्॥ मध्ये वानरकोटीनां सुग्रीवं चामितौजसम्। अहं सुग्रीवसचिवो हनूमान् नाम वानरः॥ प्रविष्टो नगरी लङ्कां लवयित्वा महोदधिम्। कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः॥ त्वां द्रष्टमुपयातोऽहं समाश्रित्य पराक्रमम्। नाहमस्मि तथा देवि यथा मामवगच्छसि। विशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम॥ तां तु रामकथां श्रुत्वा वैदेही वानरर्षभात्। उवाच वचनं सान्त्वमिदं मधुरया गिरा॥ क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम्। वानराणां नराणां च कथमासीत् समागमः॥ यानि रामस्य चिह्नानि लक्ष्मणस्य च वानर । तानि भूयः समाचक्ष्व न मां शोकः समाविशेत्॥ कीदृशं तस्य संस्थानं रूपं तस्य च कीदृशम्। कथमूरू कथं बाहू लक्ष्मणस्य च शंस मे॥ एवमुक्तस्तु वैदेह्या हनूमान् मारुतात्मजः। ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे॥ जानन्ती वत दिष्ट्या मां वैदेहि परिपृच्छसि। भर्तुः कमलपत्राक्षि संस्थानं लक्ष्मणस्य च॥ यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै। लक्षितानि विशालाक्षि वदतः शृणु तानि मे।७।। रामः कमलपत्राक्षः पूर्णचन्द्रनिभाननः । रूपदाक्षिण्यसम्पन्नः प्रसूतो जनकात्मजे॥ तेजसाऽऽदित्यसंकाशः क्षमया पृथिवीसमः। बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः॥ रक्षिता जीवलोकस्य स्वजनस्य च रक्षिता। रक्षिता स्वस्य वृत्तस्य धर्मस्य च परंतपः॥ रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता। मर्यादानां च लोकस्य कर्ता कारयिता च सः॥ अर्चिष्मानर्चितोऽत्यर्थं ब्रह्मचर्यव्रते स्थितः। साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम्॥ राजनीत्यां विनीतश्च ब्राह्मणानामुपासकः। ज्ञानवाशीलसम्पन्नो विनीतश्च परंतपः॥ यजुर्वेदविनीतश्च वेदविद्भिः सुपूजितः। धनुर्वेदे च वेदे च वेदाङ्गेषु च निष्ठितः॥ विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननः। गूढजत्रुः सुताम्राक्षो रामो नाम जनैः श्रुतः॥ दुन्दुभिस्वननिर्घोषः स्निग्धवर्णः प्रतापवान्। समश्च सुविभक्ताङ्गो वर्णं श्यामं समाश्रितः॥ त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः। त्रिताम्रस्त्रिषु च स्निग्धो गम्भीरस्त्रिषु नित्यशः॥ त्रिवलीमांस्त्र्यवनतश्चतुर्व्यङ्गस्त्रिशीर्षवान्। चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतु:समः॥ चतुर्दशसमद्वन्द्वश्चतुर्दष्ट्रश्चतुर्गतिः। महोष्ठहनुनासश्च पञ्चस्निग्धोऽष्टवंशवान् ॥ दशपद्मो दशबृहत्रिभिर्व्याप्तो द्विशुल्कवान्। षडुन्नतो नवतनुस्त्रिभिर्व्याप्नोति राघवः॥ सत्यधर्मरतः श्रीमान् संग्राहनुग्रहे रतः। देशकालविभागज्ञः सर्वलोकप्रियंवदः॥ भ्राता चास्य च द्वैमात्रः सौमित्रिरमितप्रभः। अनुरागेण रूपेण गुणैश्चापि तथाविधः॥ ससुवर्णच्छविः श्रीमान् रामः श्यामो महायशाः। तावुभौ नरशार्दूलौ त्वदर्शनकृतोत्सवौ॥ विचिन्वन्तौ महीं कृत्स्नामस्माभिः सह संगतौ। त्वामेव मार्गमाणौ तौ विचरन्तौ वसुंधराम्॥ ददर्शतुर्मूगपतिं पूर्वजेनावरोपितम्। ऋष्यमूकस्य मूले तु बहुपादपसंकुले॥ भ्रातुर्भयार्तमासीनं सुग्रीवं प्रियदर्शनम्। वयं च हरिराजं तं सुग्रीवं सत्यसङ्गरम्॥ परिचर्यामहे राज्यात् पूर्वजेनावरोपितम्। ततस्तौ चीरवसनौ धनुःप्रवरपाणिनौ।। स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः॥ अभिप्लुतो गिरेस्तस्य शिखरं भयमोहितः। ततः स शिखरे तस्मिन् वानरेन्द्रो व्यवस्थितः॥ तयोः समीपं मामेव प्रेषयामास सत्वरम्। तावहं पुरुषव्याघ्रौ सुग्रीववचनात् प्रभू॥ रूपलक्षणसम्पन्नौ कृताञ्जलिरुपस्थितः। तौ परिज्ञाततत्त्वार्थो मया प्रीतिसमन्वितौ॥ । पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौ। निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने॥ तयोरन्योन्यसम्भाषाद् भृशं प्रीतिरजायत। तत्र तौ कीर्तिसम्पन्नौ हरीश्वरनरेश्वरौ॥ परस्परकृताश्वासौ कथया पूर्ववृत्तया। तं ततः सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजः॥ स्त्रीहेतोलिना भ्रात्रा निरस्तं पुरुतेजसा। ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः॥ लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत्। स श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः॥ तदासीनिष्प्रभोऽत्यर्थं ग्रहग्रस्त इवांशुमान्। ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया॥ यान्याभरणजालानि पातितानि महीतले। तानि सर्वाणि रामाय आनीय हरियूथपाः॥ संहष्टा दर्शयामासुर्गतिं तु न विदुस्तव। तानि रामाय दत्तानि मयैवोपहतानि च॥ स्वनवन्त्यवकीर्णानि तस्मिन् विहतचेतसि। तान्यङ्के दर्शनीयानि कृत्वा बहुविधं तदा॥ तेन देवप्रकाशेन देवेन परिदेवितम्। प्रादीपवद् दाशरथेस्तदा शोकहुताशनम्॥ शायितं च चिरं तेन दुःखार्तेन महात्मना। मयापि विविधैर्वाक्यैः कृच्छादुत्थापितः पुनः॥ तानि दृष्ट्वा महार्हाणि दर्शयित्वा मुहुर्मुहुः। राघवः सहसौमित्रिः सुग्रीवे संन्यवेशयत्।॥ स तवादर्शनादार्ये राघवः परितप्यते। महता ज्वलता नित्यमग्निनेवाग्निपर्वतः॥ त्वत्कृते तमनिद्रा च शोकश्चिन्ता च राघवम्। तापयन्ति महात्मानमग्न्यगारमिवाग्नयः॥ तवादर्शनशोकेन राघवः परिचाल्यते। महता भूमिकम्पेन महानिव शिलोच्चयः॥ काननानि सुरम्याणि नदीप्रस्रवणानि च। चरन रतिमाप्नोति त्वामपश्यन्नृपात्मजे॥ स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः। समित्रबान्धवं हत्वा रावणं जनकात्मजे॥ । सहितौ रामसुग्रीवावुभावकुरुतां तदा। समयं वालिनं हन्तुं तव चान्वेषणं प्रति ॥ ततस्ताभ्यां कुमाराभ्यां वीराभ्यां स हरीश्वरः। किष्किन्धां समुपागम्य वाली युद्धे निपातितः॥ ततो निहत्य तरसा रामो वालिनमाहवे। सर्वक्षहरिसङ्घानां सुग्रीवमकरोत् पतिम्॥ रामसुग्रीवयोरैक्यं देव्येवं समजायत। हनूमन्तं च मां विद्धि तयोर्दूतमुपागतम्॥ स्वं राज्यं प्राप्य सुग्रीवः स्वानानीय महाकपीन्। त्वदर्थं प्रेषयामास दिशो दश महाबलान्॥ आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसः। अद्रिराजप्रतीकाशाः सर्वतः प्रस्थिता महीम्॥ ततस्ते मार्गमाणा वै सुग्रीववचनातुराः। चरन्ति वसुधां कृत्स्नां वयमन्ये च वानराः॥ अङ्गदो नाम लक्ष्मीवान् वालिसूनुर्महाबलः। प्रस्थितः कपिशार्दूलस्त्रिभागबलसंवृतः॥ तेषां नो विप्रणष्टानां विन्ध्ये पर्वतसत्तमे। भृशं शोकपरीतानामहोरात्रगणा गताः॥ ते वयं कार्यनैराश्यात्कालस्यातिक्रमेण च। भयाच्च कपिराजस्य प्राणांस्त्यक्तमुपस्थिताः॥ विचित्य गिरिदुर्गाणि नदीप्रस्रवणानि च। अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं व्यवस्थिताः॥ ततस्तस्य गिरिर्मूर्ध्नि वयं प्रायमुपास्महे। दृष्ट्वा प्रायोपविष्टांश्च सर्वान्वानरपुङ्गवान्॥ भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः। तव नाशं च वैदेहि वालिनश्च तथा वधम्॥ प्रायोपवेशमस्माकं मरणं च जटायुषः। तेषां नः स्वामिसंदेशानिराशानां मुमूर्षताम्॥ कार्यहेतोरिहायातः शकुनिर्वीर्यवान् महान्। गृध्रराजस्य सोदर्यः सम्पातिर्नाम गृध्रराट्॥ श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत्। यवीयान् केन मे भ्राता हतः क्व च निपातितः॥ एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः। अङ्गदोऽकथयत् तस्य जनस्थाने महद्वधम्॥ रक्षसा भीमरूपेण त्वामुदिश्य यथार्थतः। जटायोस्तु वधं श्रुत्वा दुःखितः सोऽरुणात्मजः॥ त्वामाह स वरारोहे वसन्ती रावणालये। तस्य तद् वचनं श्रुत्वा सम्पातेः प्रीतिवर्धनम्॥ अङ्गदप्रमुखाः सर्वे ततः प्रस्थापिता वयम्। विन्ध्यादुत्थाय सम्प्राप्ताः सागरस्यान्तमुत्तमम्॥ त्वदर्शने कृतोत्साहा हृष्टाः पुष्टाः प्लवङ्गमाः। अङ्गदप्रमुखा सर्वे वेलोपान्तमुपागताः॥ चिन्तां जग्मुः पुनर्भीमां त्वदर्शनसमुत्सुकाः। अथाहं हरिसैन्यस्य सागरं दृश्य सीदतः॥ व्यवधूय भयं तीव्र योजनानां शतं प्लुतः। लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला॥ रावणश्च मया दृष्टस्त्वं च शोकनिपीडिता । एतत् ते सर्वमाख्यातं यथावृत्तमनिन्दिते॥ अभिभाषस्व मां देवि दूतो दाशरथेरहम्। तन्मां रामकृतोद्योगं त्वन्निमित्तमिहागतम्॥ सुग्रीवसचिवं देवि बुद्ध्यस्व पवनात्मजम्। कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरः॥ गुरोराराधने युक्तो लक्ष्मणः शुभलक्षणः। तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः।७४।। अहमेकस्तु सम्प्राप्तः सुग्रीववचनादिह। मयेयमसहायेन चरता कामरूपिणा॥ दक्षिणा दिगनुक्रान्ता त्वन्मार्गविचयैषिणा। दिष्ट्याहं हरिसैन्यानां त्वन्नाशमनुशोचताम्॥ अपनेष्यामि संतापं तवाधिगमशासनात्। दिष्ट्या हि न मम व्यर्थं सागरस्येह लङ्घनम्॥ प्राप्स्याम्यहमिदं देवि त्वद्दर्शनकृतं यशः। राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते। ७८ ।। सपुत्रबान्धवं हत्वा रावणं राक्षसाधिपम्। माल्यवान् नाम वैदेहि गिरिणामुत्तमो गिरिः । ७९ ।। ततो गच्छति गोकर्ण पर्वतं केसरी हरिः। स च देवर्षिभिर्दिष्टः पिता मम महाकपिः।। तीर्थे नदीपतेः पुण्ये शम्बसादनमुद्धरन्॥ यस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि। हनूमानिति विख्यातो लोके स्वेनैव कर्मणा ॥ विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः। अचिरात् त्वामितो देवि राघवो नयिता ध्रुवम्॥ एवं विश्वासिता सीता हेतुभिः शोककर्शिता। उपपत्नैरभिज्ञानैर्दूतं तमधिगच्छति॥ अतुलं च गता हर्षं प्रहर्षेण तु जानकी। नेत्राभ्यां वक्रपक्ष्माभ्यां मुमोचानन्दजं जलम्॥ चारु तद् वदनं तस्यास्ताम्रशुक्लायतेक्षणम्। अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट्॥ हनूमन्तं कपि व्यक्तं मन्यते नान्यथेति सा। अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम्॥ एतत् ते सर्वमाख्यातं समाश्वसिहि मैथिलि। किं करोमि कथं वा ते रोचते प्रतियाम्यहम्॥ हतेऽसुरे संयति शम्बसादने कपिप्रवीरेण महर्षिचोदनात्।। ततोऽस्मि वायुप्रभवो हि मैथिलि प्रभावतस्तत्प्रतिमश्च वानरः॥ हतेऽसुरे संयति शम्बसादने कपिप्रवीरेण महर्षिचोदनात्।। ततोऽस्मि वायुप्रभवो हि मैथिलि प्रभावतस्तत्प्रतिमश्च वानरः॥ सा सीता वचनं श्रुत्वा पूर्णचन्द्रनिभानना। हनूमन्तमुवाचेदं धर्मार्थसहितं वचः॥ अमृतं विषसंपृक्तं त्वया वानर भाषितम्। यच्च नान्यमना रामो यच्च शोकपरायणः॥ ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे। रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति॥ विधिनमसंहार्यः प्राणिनां प्लवगोत्तम। सौमित्रिं मां च रामं च व्यसनैःपश्य मोहितान्॥ शोकस्यास्य कथं पारं राघवोऽधिगमिष्यति। प्लवमानः परिक्रान्तो हतनौः सागरे यथा॥ राक्षसानां वधं कृत्वा सूदयित्वा च रावणम्। लङ्कामुन्मथितां कृत्वा कदा द्रक्ष्यति मां पतिः॥ स वाच्यः संत्वरस्वेति यावदेव न पूर्यते। अयं संवत्सरः कालस्तावद्धि मम जीवितम्॥ वर्तते दशमो मासो द्वौ तु शेषौ प्लवङ्गम। रावणेन नृशंसेन समयो यः कृतो मम॥ विभीषणेन च भ्रात्रा मम निर्यातनं प्रति। अनुनीतः प्रयत्नेन न च तत् कुरुते मतिम्॥ मम प्रतिप्रदानं हि रावणस्य न रोचते। रावणं मार्गते संख्ये मृत्युः कालवशंगतम्॥ ज्येष्ठा कन्या कला नाम विभीषणसुता कपे। तया ममैतदाख्यातं मात्रा प्रहितया स्वयम्॥ अविन्ध्यो नाम मेधावी विद्वान् राक्षसपुङ्गवः। धृतिमाञ्छीलवान् वृद्धो रावणस्य सुसम्मतः॥ रामात् क्षयमनुप्राप्तं रक्षसां प्रत्यचोदयत्। न च तस्य स दुष्टात्मा शृणोति वचनं हितम्॥ आशंसेयं हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः। अन्तरात्मा हि मे शुद्धस्तस्मिंश्च बहवो गुणाः॥ उत्साहः पौरुषं सत्त्वमानृशंस्यं कृतज्ञता। विक्रमश्च प्रभावश्च सन्ति वानर राघवे॥ चतुर्दश सहस्राणि राक्षसानां जघान यः। जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत्॥ न स शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः। अहं तस्यानुभावज्ञा शक्रस्येव पुलोमजा॥ शरजालांशुमाञ्छूरः कपे रामदिवाकरः। शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति॥ इति संजल्पमानां तां रामार्थे शोककर्शिताम्। अश्रुसम्पूर्णवदनामुवाच हनुमान् कपिः॥ श्रुत्वैव च वचो मह्यं क्षिप्रमेष्यति राघवः। चमूं प्रकर्षन् महतीं हर्यक्षगणसंकुलाम्॥ अथवा मोचयिष्यामि त्वामद्यैव सराक्षसात्। अस्माद् दुःखादुपारोह मम पृष्ठमनिन्दिते॥ त्वां तु पृष्ठगतां कृत्वा संतरिष्यामि सागरम्। शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम्॥ अहं प्रस्रवणस्थाय राघवायाद्य मैथिलि। प्रापयिष्यामि शक्राय हव्यं हुतमिवानलः॥ द्रक्ष्यस्यद्यैव वैदेहि राघवं सहलक्ष्मणम्। व्यवसायसमायुक्तं विष्णुं दैत्यवधे यथा॥ त्वदर्शनकृतोत्साहमाश्रमस्थं महाबलम्। पुरंदरमिवासीनं नगराजस्य मूर्धनि॥ पृष्ठमारोह मे देवि मा विकाङ्क्षस्व शोभने। योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी॥ कथयन्तीव शशिना संगमिष्यसि रोहिणी। मत्पृष्ठमधिरोह त्वं तराकाशं महार्णवम्॥ नहि मे सम्प्रयातस्य त्वामितो नयतोऽङ्गने। अनुगन्तुं गतिं शक्ताः सर्वे लङ्कानिवासिनः॥ यथैवाहमिह प्राप्तस्तथैवाहमसंशयम्। यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसम्॥ मैथिली तु हरिश्रेष्ठाच्छ्रुत्वा वचनमद्भुतम्। हर्षविस्मितसर्वाङ्गी हनूमन्तमथामब्रवीत्॥ हनूमन् दूरमध्वानं कथं मां नेतुमिच्छसि। तदेव खलु ते मन्ये कपित्वं हरियूथप॥ कथं चाल्पशरीरस्त्वं मामितो नेतुमिच्छसि। सकाशं मानवेन्द्रस्य भर्तुर्मे प्लवगर्षभ॥ सीतायास्तु वचः श्रुत्वा हनूमान् मारुतात्मजः। चिन्तयामास लक्ष्मीवान् नवं परिभवं कृतम्॥ न मे जानाति सत्त्वं वा प्रभाव वासितेक्षणा। तस्मात् पश्यतु वैदेही यद् रूपं मम कामतः॥ इति संचिन्त्य हनुमांस्तदा प्लवगसत्तमः। दर्शयामास सीतायाः स्वरूपमरिमर्दनः॥ स तस्मात् पादपाद् धीमानाप्लुत्य प्लवगर्षभः। ततो वर्धितुमारेभे सीताप्रत्ययकारणात्॥ मेरुमन्दरसंकाशो बभौ दीप्तानलप्रभः। अग्रतो व्यवतस्थे च सीताया वानरर्षभः॥ हरिः पर्वतसंकाशस्ताम्रवक्त्रो महाबलः। वज्रदंष्ट्रनखो भीमो वैदेहीमिदमब्रवीत्॥ सपर्वतवनोद्देशां साट्टप्राकारतोरणाम्। लङ्कामिमां सनाथां वा नयितुं शक्तिरस्ति मे॥ तदवस्थाप्यतां बुद्धिरलं देवि विकाङ्गया। विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम्॥ तं दृष्ट्वाचलसंकाशमुवाच जनकात्मजा। पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम्॥ तव सत्त्वं बलं चैव विजानामि महाकपे। वायोरिव गतिश्चापि तेजश्चाग्नेरिवाद्भुतम्।॥ प्राकृतोऽन्यः कथं चेमां भूमिमागन्तुमर्हति। उदधेरप्रमेयस्य पारं वानरयूथप॥ जानामि गमने शक्ति नयने चापि ते मम। अवश्यं सम्प्रधाशु कार्यसिद्धरिवात्मनः।॥ अयुक्तं तु कपिश्रेष्ठ मया गन्तुं त्वया सह। वायुवेगसवेगस्य वेगो मां मोहयेत् तव॥ अहमाकाशमासक्ता उपर्युपरि सागरम्। प्रपतेयं हि ते पृष्ठाद् भूयो वेगेन गच्छतः॥ पतिता सागरे चाहं तिमिनक्रझषाकुले। भवेयमाशु विवशा यादसामन्नमुत्तमम्॥ न च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन। कलत्रवति संदेहस्त्वयि स्यादप्यसंशयम्॥ ह्रियमाणां तु मां दृष्ट्वा राक्षसा भीमविक्रमाः। अनुगच्छेयुरादिष्टा रावणेन दुरात्मना ॥ तैस्त्वं परिवृतः शूरैः शूलमुद्गरपाणिभिः। भवेस्त्वं संशयं प्राप्तो मया वीर कलत्रवान्॥ सायुधा बहवो व्योम्नि राक्षसास्त्वं निरायुधः। कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम्॥ युध्यमानस्य रक्षोभिस्ततस्तैः क्रूरकर्मभिः। प्रपतेयं हि ते पृष्ठाद् भयार्ता कपिसत्तम॥ अथ रक्षांसि भीमानि महान्ति बलवन्ति च। कथंचित् साम्पराये त्वां जयेयुः कपिसत्तम॥ अथवा युध्यमानस्य पतेयं विमुखस्य ते। पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः॥ मां वा हरेयुस्त्वद्धस्ताद् विशसेयुरथापि वा। अनवस्थौ हि दृश्येते युद्धे जयपराजयौ॥ अहं वापि विपद्येयं रक्षोभिरभितर्जिता। त्वत्प्रयत्नो हरिश्रेष्ठ भवेनिष्फल एव तु॥ कामं त्वमपि पर्याप्तो निहन्तुं सर्वराक्षसान्। राघवस्य यशो हीयेत् त्वया शस्तैस्तु राक्षसैः॥ अथवाऽऽदाय रक्षांसि न्यसेयुः संवृते हि माम्। यत्र ते नाभिजानीयुर्हरयो नापि राघवः॥ आरम्भस्तु मदर्थोऽयं ततस्तव निरर्थकः। त्वया हि सह रामस्य महानागमने गुणः॥ मयि जीवितमायत्तं राघवस्यामितौजसः। भ्रातॄणां च महाबाहो तव राजकुलस्य च॥ तौ निराशौ मदर्थं च शोकसंतापकर्शितौ। सह सर्वक्षहरिभिस्त्यक्ष्यतः प्राणसंग्रहम्॥ भर्तुर्भक्तिं पुरस्कृत्य रामादन्यस्य वानर। नाहं स्पष्टुं स्वतो गात्रमिच्छेयं वानरोत्तम ॥ यदहं गात्रसंस्पर्शं रावणस्य गता बलात्। अनीशा किं करिष्यामि विनाथा विवशा सती॥ यदि रामो दशग्रीवमिह हत्वा सराक्षसम्। मामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत्॥ श्रुताश्च दृष्ट्वा हि मया पराक्रमा महात्मनस्तस्य रणावमर्दिनः। न देवगन्धर्वभुजङ्गराक्षसा भवन्ति रामेण समा हि संयुगे॥ समीक्ष्य तं संयति चित्रकार्मुकं महाबलं वासवतुल्यविक्रमम्। सलक्ष्मणं को विषहेत राघवं हुताशनं दीप्तमिवानिलेरितम्॥ सलक्ष्मणं राघवमाजिमर्दनं दिशागजं मत्तमिव व्यवस्थितम्। सहेत को वानरमुख्य संयुगे युगान्तसूर्यप्रतिमं शरार्चिषम्॥ स मे कपिश्रेष्ठ सलक्ष्मणं प्रियं सयूथपं क्षिप्रमिहोपपादय। चिराय रामं प्रति शोककर्शितां कुरुष्व मां वानरवीर हर्षिताम्॥ ततः स कपिशार्दूलस्तेन वाक्येन तोषितः। सीतामुवाच तच्छ्रुत्वा वाक्यं वाक्यविशारदः॥ युक्तरूपं त्वया देवि भाषितं शुभदर्शने। सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च॥ स्त्रीत्वान्न त्वं समर्थासि सागरं व्यतिवर्तितुम्। मामधिष्ठाय विस्तीर्णं शतयोजनमायतम्॥ द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते। रामादन्यस्य नार्हामि संसर्गमिति जानकी॥ एतत् ते देवि सदृशं पत्न्यास्तस्य महात्मनः। का ह्यन्या त्वामृते देवि ब्रूयाद् वचनमीदृशम्॥ श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः। चेष्टितं यत् त्वया देवि भाषितं च ममाग्रतः॥ कारणैर्बहुभिर्देवि रामप्रियचिकीर्षया। स्नेहप्रस्कन्नमनसा मयैतत् समुदीरितम्॥ लङ्काया दुष्प्रवेशत्वाद् दुस्तरत्वान्महोदधेः। सामर्थ्यादात्मनश्चैव मयैतत् समुदीरितम्॥ इच्छामि त्वां समानेतुमद्यैव रघुनन्दिना । गुरुस्नेहेन भक्त्या च नान्यथा तदुदाहृतम्॥ यदि नोत्सहसे यातुं मया सार्धमनिन्दिते। अभिज्ञानं प्रयच्छ त्वं जानीयाद् राघवो हि यत्॥ एवमुक्ता हनुमता सीता सुरसुतोपमा। उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम्॥ इदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम्। शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पदे॥ तापसाश्रमवासिन्याः प्राज्यमूलफलोदके। तस्मिन् सिद्धाश्रिते देशे मन्दाकिन्यविदूरतः॥ तस्योपवनखण्डेषु नानापुष्पसुगन्धिषु । विहत्य सलिले क्लिन्नो ममाङ्के समुपाविशः॥ ततो मांससमायुक्तो वायसः पर्यतुण्डयत्। तमहं लोष्टमुद्यम्य वारयामि स्म वायसम्॥ दारयन् स च मां काकस्तत्रैव परिलीयते। न चाप्युपारमन्मांसाद् भक्षार्थी बलिभोजनः॥ उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणे। स्रंसमाने च वसने ततो दृष्टा त्वया ह्यहम्॥ त्वया विहसिता चाहं क्रुद्धा संलज्जिता तदा। भक्ष्यगृद्धेन काकेन दारिता त्वामुपागता॥ ततः श्रान्ताहमुत्सङ्गमासीनस्य तवाविशम्। क्रुध्यन्तीव प्रहृष्टेन त्वयाह परिसान्त्विता॥ बाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती। लक्षिताहं त्वया नाथ वायसेन प्रकोपिता ॥ परिश्रमाच्च सुप्ता हे राघवाङ्केऽस्म्यहं चिरम्। पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः॥ स तत्र पुनरेवाथ वायसः समुपागमत्। ततः सुप्तप्रबुद्धां मां राघवाङ्कात् समुत्थिताम्। वायसः सहसागम्य विददार स्तनान्तरे॥ पुनः पुनरथोत्पत्य विददार स मां भृशम्। ततः समुत्थितो रामो मुक्तैः शोणितबिन्दुभिः॥ स मां दृष्ट्वा महाबाहुर्वितुन्नां स्तनयोस्तदा। आशीविष इव क्रुद्धः श्वसन् वाक्यमभाषत॥ केन ते नागनासोरु विक्षतं वै स्तनान्तरम्। कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना॥ वीक्षमाणस्ततस्तं वै वायसं समवैक्षत। नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम्॥ पुत्रः किल स शक्रस्य वायसः पततां वरः। धरान्तरं गतः शीघ्रं पवनस्य गतौ समः॥ ततस्तस्मिन् महाबाहुः कोपसंवर्तितेक्षणः। वायसे कृतवान् क्रूरां मतिं मतिमतां वरः॥ स दर्भसंस्तराद् गृह्य ब्रह्मणोऽस्त्रेण योजयत्। स दीप्त इव कालाग्निर्जज्वालाभिमुखो द्विजम्॥ स तं प्रदीप्तं चिक्षेप दर्भ तं वायसं प्रति। ततस्तु वायसं दर्भः सोऽम्बरेऽनुजगाम ह॥ अनुसृष्टस्तदा काको जगाम विविधां गतिम्। त्राणकाम इमं लोकं सर्वं वै विचचार ह॥ स पित्रा च परित्यक्तः सर्वैश्च परमर्षिभिः। त्रील्लोकान् सम्परिक्रम्य तमेव शरणं गतः॥ स तं निपतितं भूमौ शरण्यः शरणागतम्। वर्धार्हमपि काकुत्स्थः कृपया पर्यपालयत्॥ परिधूनं विवर्णं च पतमानं तमब्रवीत्। मोघमस्त्रं न शक्यं तु ब्राह्मं कर्तुं तदुच्यताम्॥ ततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम्। दत्त्वा तु दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितः॥ स रामाय नमस्कृत्वा राज्ञे दशरथाय च। विसृष्टस्तेन वीरेण प्रतिपेदे स्वमालयम्॥ मत्कृते काकमात्रेऽपि ब्रह्मास्त्रं समुदीरितम्। कस्माद् यो माहरत् त्वत्तः क्षमसे तं महीपते॥ स कुरुष्व महोत्साहां कृपां मयि नरर्षभ। त्वया नाथवती नाथ अनाथा इव दृश्यते॥ आनृशंस्यं परो धर्मस्त्वत्त एव मया श्रुतम्। जानामि त्वां महावीर्य महोत्साहं महाबलम्॥ । अपारवारमक्षोभ्यं गाम्भीर्यात् सागरोपमम्। भर्तारं ससमुद्राया धरण्या वासवोपमम्॥ एवमस्त्रविदां श्रेष्ठो बलवान् सत्त्ववानपि। किमर्थमस्त्रं रक्षःसु न योजयसि राघव॥ न नागा नापि गन्धर्वा न सुरा न मरुद्गणाः। रामस्य समरे वेगं शक्ताः प्रतिसमीहितुम्॥ तस्य वीर्यवतः कच्चिद् यद्यस्ति मयि सम्भ्रमः। किमर्थं न शरैस्तीक्ष्णैः क्षयं नयति राक्षसान्॥ भ्रातुरादेशमादाय लक्ष्मणो वा परंतपः। कस्य हेतोर्न मां वीरः परित्राति महाबलः॥ यदि तौ पुरुषव्याघ्रौ वाय्विन्द्रसमतेजसौ। सुराणामपि दुर्धर्षों किमर्थं मामुपेक्षतः॥ ममैव दुष्कृतं किंचिन्महदस्ति न संशयः। समर्थावपि तौ यन्मां नावेक्षेते परंतपौ॥ वैदेह्या वचनं श्रुत्वा करुणं साश्रु भाषितम्। अथाब्रवीन्महातेजा हनुमान् हरियूथपः॥ त्वच्छोकविमुखो रामो देवि सत्येन ते शपे। रामे दुःखाभिपन्ने तु लक्ष्मणः परितप्यते॥ कथंचिद् भवती दृष्टा न काल: परिशोचितुम्। इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि शोभने ॥ तावुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ। त्वद्दर्शनकृतोत्साही लोकान् भस्मीकरिष्यतः॥ हत्वा च समरक्रूरं रावणं सहबान्धवम्। राघवस्त्वां विशालाक्षि त्वां पुरी प्रति नेष्यति । ५१।। ब्रूहि यद् राघवो वाच्यो लक्ष्मणश्च महाबलः। सुग्रीवो वापि तेजस्वी हरयो वा समागताः॥ इत्युक्तवति तस्मिंश्च सीता पुनरथाब्रवीत्। कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी॥ तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय। स्त्रजश्च सर्वरत्नानि प्रिया याश्च वराङ्गना॥ ऐश्वर्यं च विशालायां पृथिव्यामपि दुर्लभम्। पितरं मातरं चैव सम्मान्याभिप्रसाद्य च॥ अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः। आनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम्॥ अनुगच्छति काकुत्स्थं भ्रातरं पालयन् वने। सिंहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः॥ पितृवद् वर्तते रामे मातृवन्मां समाचरत्। ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः॥ वृद्धोपसेवी लक्ष्मीवाशक्तो न बहुभाषिता। राजपुत्रप्रियश्रेष्ठः सदृशः श्वशुरस्य मे॥ मत्तः प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः। नियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान्॥ यं दृष्ट्वा राघवो नैव वृत्तमार्यमनुस्मरत्। स ममार्थाय कुशलं वक्तव्यो वचनान्मम॥ मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः। यथा हि वानर श्रेष्ठ दुःखक्षयकरो भवेत्॥ त्वमस्मिन् कार्यनिर्वाहे प्रमाणं हरियूथप। राघस्त्वत्समारम्भान्मयि यत्नपरो भवेत्॥ इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः। जीवितं धारयिष्यामि मासं दशरथात्मज ॥ ऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते। रावणेनोपरुद्धां मां निकृत्या पापकर्मणा। त्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम्॥ ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम्। प्रदेयो राघवायेति सीता हनुमते ददौ॥ प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम्। अङ्गुल्या योजयामास नह्यस्य प्राभवद्भुजः॥ मणिरत्नं कपिवरः प्रतिगृह्याभिवाद्य च। सीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः॥ हर्षेण महता युक्तः सीतादर्शनजेन सः। हृदयेन गतो राम लक्ष्मणं च सलक्षणम्॥ मणिवरमुपगृह्य तं महाहँ जनकनृपात्मजया धृतं प्रभावात्। गिरिवरपवनावधूतमुक्तः सुखितमनाः प्रतिसंक्रमं प्रपेदे॥ श्रुत्वा तु वचनं तस्य वायुसूनोर्महात्मनः। उवाचात्महितं वाक्यं सीता सुरसुतोपमा॥ त्वां दृष्ट्वा प्रियवक्तारं सम्प्रहृष्यामि वानर। अर्धसंजातसस्येव वृष्टिं प्राप्य वसुंधरा ॥ यथा तं पुरुषव्याघ्रं गात्रैः शोकाभिकर्शितैः। संस्पृशेयं सकामाहं तथा कुरु दयां मयि ॥ अभिज्ञानं च रामस्य दद्या हरिगुणोत्तम। क्षिप्तामिषीकां काकस्य कोपादेकाक्षिशातनीम्॥ मनः शिलायास्तिलको गण्डपार्श्वे निवेशितः। त्वया प्रणष्टे तिलके तं किल स्मर्तुमर्हसि ॥ स वीर्यवान् कथं सीतां हृतां समनुमन्यसे। वसन्ती रक्षसां मध्ये महेन्द्रवरुणोपम॥ एष चूडामणिर्दिव्यो मया सुपरिरक्षितः। एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ॥ एष निर्यातितः श्रीमान् मया ते वारिसम्भवः। अतः परं न शक्ष्यामि जीवितुं शोकलालसा ॥ असह्यानि च दुःखानि वाचश्च हृदयच्छिदः। राक्षसैः सह संवासं त्वत्कृते मर्षयाम्यहम्॥ धारयिष्यामि मासं तु जीवितं शत्रुसूदन । मासादूर्ध्वं न जीविष्ये त्वया हीना नृपात्मज॥ घोरो राक्षसराजोऽयं दृष्टिश्च न सुखा मयि। त्वां च श्रुत्वा विषज्जन्तं न जीवेयमपि क्षणम्॥ वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम्। अथाब्रवीन्महातेजा हनूमान्मारुतात्मजः॥ त्वच्छोकविमुखो रामो देवि सत्येन ते शपे। रामे शोकाभिभूते तु लक्ष्मणः परितप्यते॥ दृष्टा कथंचिद् भवती न कालः परिदेवितुम्। इमं मूहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि॥ तावुभौ पुरुषव्याघ्रौ राजपुत्रावनिन्दितौ। त्वद्दर्शनकृतोत्साही लङ्कां भस्मीकरिष्यतः॥ हत्वा तु समरे रक्षो रावणं सहबान्धवैः। राघवौ त्वां विशालाक्षि स्वां पुरी प्रति नेष्यतः॥ यत्तु रामो विजानीयादभिज्ञानमनिन्दिते। प्रीतिसंजननं भूयस्तस्य त्वं दातुमर्हसि॥ साब्रवीद् दत्तमेवाहो मयाभिज्ञानमुत्तमम्। एतदेव हि रामस्य दृष्ट्वा यत्नेन भूषणम्॥ श्रद्धेयं हनुमन् वाक्यं तव वीर भविष्यति। स तं मणिवरं गृह्य श्रीमान् प्लवगसत्तमः॥ प्रणम्य शिरसा देवीं गमनायोपचक्रमे। तमुत्पातकृतोत्साहमवेक्ष्य हरियूथपम्॥ वर्धमानं महावेगमुवाच जनकात्मजा। अश्रुपूर्णमुखी दीना बाष्पगद्गदया गिरा॥ हनूमन् सिंहसंकाशौ भ्रातरौ रामलक्ष्मणौ। सुग्रीवं च सहामात्यं सर्वान् ब्रूया अनामयम्॥ यथा च स महाबाहुर्ले तारयति राघवः। अस्माद् दुःखाम्बुसंरोधात् त्वं समाधातुमर्हसि ॥ इदं च तीव्र मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च। ब्रूयास्तु रामस्य गतः समीपं शिवश्च तेऽध्वास्तु हरिप्रवीर॥ स राजपुत्र्या प्रतिवेदितार्थः कपिः कृतार्थः परिहृष्टचेताः। तदल्पशेष प्रसमीक्ष्य कार्य दिशं धुंदीची मनसा जगाम॥ स च वाग्भिः प्रशस्ताभिर्गमिष्यन् पूजितस्तया। तस्माद् देशादपाक्रम्य चिन्तयामास वानरः॥ अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा। त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते॥ न साम रक्षःसु गुणाय कल्पते न दानमर्थोपचितेषु युज्यते। न भेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेष ममेह रोचते॥ न चास्य कार्यस्य पराक्रमाइते विनिश्चयः कश्चिदिहोपपद्यते। हतप्रवीराश्च रणे तु राक्षसाः कथंचिदीयुर्यदिहाद्य मार्दवम् ॥ कार्ये कर्मणि निर्वृत्ते यो बहून्यपि साधयेत्। पूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति ॥ नह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः। यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने॥ इहैव तावत्कृतनिश्चयो ह्यहं व्रजेयमद्य प्लवगेश्वरालयम्। परात्मसम्मर्दविशेषतत्त्ववित् ततः कृतं स्यान्मम भर्तृशासनम् ॥ कथं नु खल्वद्य भवेत् सुखागतं प्रसह्य युद्धं मम राक्षसैः सह। तथैव खल्वात्मबलं च सारवत् समानयेन्मां च रणे दशाननः॥ ततः समासाद्य रणे दशाननं समन्त्रिवर्गं सबलं सयायिनम्। हृदि स्थितं तस्य मतं बलं च सुखेन मत्वाहमितः पुनव्रजे॥ इदमस्य नृशंसस्य नन्दनोपममुत्तमम्। वनं नेत्रमन:कान्तं नानादुमलतायुतम्॥ इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः। अस्मिन् भग्ने ततः कोपं करिष्यति स रावणः॥ ततो महत्साश्वमहारथद्विपं बलं समानेष्यति राक्षसाधिपः। त्रिशूलकालायसपट्टिशायुधं ततो महद्युद्धमिदं भविष्यति॥ अहं च तैः संयति चण्डविक्रमैः समेत्य रक्षोभिरभङ्गविक्रमः। निहत्य तद् रावणचोदितं बलं सुखं गमिष्यामि हरिश्वरालयम्॥ ततो मारुतवत् क्रुद्धो मारुतिर्भीमविक्रमः। ऊरुवेगेन महता दुमान् क्षेप्तुमथारभत्॥ ततस्तद्धनुमान् वीरो बभञ्ज प्रमदावनम्। मत्तद्विजसमाघुष्टं नानादुमलतायुतम्॥ तद्वनं मथितैर्वृक्षैभिन्नैश्च सलिलाशयैः। चूर्णितैः पर्वतायैश्च बहुधा प्रियदर्शनैः॥ नानाशकुन्तविरुतैः प्रभिन्नसलिलाशयैः। तानैः किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतैः॥ न बभौ तद् वनं तत्र दावानलहतं यथा। व्याकुलावरणा रेजुर्विह्वला इव ता लताः॥ फ्लैर्मृगैरातरवैश्च पक्षिभिः। शिलागृहैरुन्मथितैस्तथा गृहै: प्रणष्टरूपं तदभून्महद् वनम्॥ सा विह्वलाशोकलताप्रताना वनस्थली शोकलताप्रताना। जाता दशास्यप्रमदावनस्य कर्बलाद्धि प्रमदावनस्य ॥ ततः स कृत्वा जगतीपतेर्महान् महद् व्यलीकं मनसोमहात्मनः। युयुत्सुरेको बहुभिर्महाबलैः श्रियाज्वलंस्तोरणमाश्रितः कपिः॥ ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च। बभूवुस्वाससम्भ्रान्ताः सर्वे लङ्कानिवासिनः॥ विद्वताश्च भयत्रस्ता विनेदुर्मुगपक्षिणः। रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे॥ ततो गतायां निद्रायां राक्षस्यो विकृताननाः। तद् वनं ददृशुर्भग्नं तं च वीरं महाकपिम्॥ स ता दृष्ट्वा महाबाहुर्महासत्त्वो महाबलः। चकार सुमहदूपं राक्षसीनां भयावहम्॥ ततस्तु गिरिसंकाशमतिकायं महाबलम्। राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम्॥ कोऽयं कस्य कुतो वायं किंनिमित्तमिहागतः। कथं त्वया सहानेन संवादः कृत इत्युत॥ आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम्। संवादमसितापाङ्गि त्वया किं कृतवानयम्॥ अथाब्रवीत् तदा साध्वी सीता सर्वाङ्गशोभना। रक्षसां कामरूपाणां विज्ञाने का गतिर्मम॥ यूयमेवास्य जानीत योऽयं यद् वा करिष्यति। अहिरेव अहे: पादान्विजानाति न संशयः॥ अहमप्यतिभीतास्मि नैव जानामि को ह्यहम्। वेद्मि राक्षसमेवैनं कामरूपिणमागतम्॥ वैदेह्या वचनं श्रुत्वा राक्षस्यो विदूता दुतम्। स्थिताः काश्चिद्गताः काश्चिद् रावणाय निवेदितुम्॥ रावणस्य समीपे तु राक्षस्यो विकृताननाः। विरूपं वानरं भीमं रावणाय न्यवेदिषुः॥ अशोकवनिकामध्ये राजन् भीमवपुः कपिः। सीतया कृतसंवादस्तिष्ठत्यमितविक्रमः॥ न च तं जानकी सीता हरि हरिणलोचना। अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छति॥ वासवस्य भवेद् दूतो वैश्रवणस्य वा। प्रेषितो वापि रामेण सीतान्वेषणकाझ्या॥ तेनैवाद्भुतरूपेण यत्तत्तव मनोहरम्। नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम्॥ न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः। यत्र सा जानकी देवी स तेन न विनाशितः॥ जानकीरक्षणार्थं वा श्रमाद् वा नोपलक्ष्यते। अथवा कः श्रमस्तस्य सैव तेनाभिरक्षिता॥ चारुपल्लवपत्राढ्यं यं सीता स्वयमास्थिता। प्रवृद्धः शिंशपावृक्षः स च तेनाभिरक्षितः॥ तस्योग्ररूपस्योग्रं त्वं दण्डमाज्ञातुमर्हसि। सीता सम्भाषिता येन वनं तेन विनाशितम्॥ मनः परिगृहीतां तां तव रक्षोगणेश्वर। कः सीतामभिभाषेत यो न स्यात् त्यक्तजीवितः॥ राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरः। चिताग्निरिव जज्वाल कोपसंवर्तितेक्षणः॥ तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः। दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः॥ आत्मनः सदृशान् वीरान् किंकरानाम राक्षसान्। व्यादिदेश महातेजा निग्रहार्थं हनुमतः॥ तेषामशीतिसाहस्रं किंकराणां तरस्विनाम्। निर्ययुर्भवनात्तस्मात्कूटमुद्गरपाणयः॥ महोदरा महादंष्ट्रा घोररूपा महाबलाः। युद्धाभिमनसः सर्वे हनूमद्ग्रहणोन्मुखाः॥ ते कपि तं समासाद्य तोरणस्थमवस्थितम्। अभिपेतुर्महावेगाः पतङ्गा इव पावकम्॥ ते गदाभिर्विचित्राभिः परिषैः काञ्चनाङ्गदैः। आजग्मुर्वानरश्रेष्ठं शरैरादित्यसंनिभैः॥ मुद्गरैः पट्टिशैः शूलैः प्रासतोमरपाणयः। परिवार्य हनूमन्तं सहसा तस्थुरग्रतः॥ हनूमानपि तेजस्वी श्रीमान् पर्वतसंनिभः। क्षितावाविद्ध्य लालं ननाद च महाध्वनिम्॥ स भूत्वा तु महाकायो हनूमान् मारुतात्मजः। पुच्छमास्फोटयामास लङ्कां शब्देन पूरयन्॥ तस्यास्फोटितशब्देन महता चानुनादिना। पेतुर्विहङ्गा गगनादुच्चैश्चेदमघोषयत्॥ जयत्यतिबलो रामो लक्ष्मणश्च महाबलः। राजा जयति सुग्रीवो राघवेणाभिपालितः॥ दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः। हनूमाञ्शत्रुसैन्यानां निहन्ता मारुतात्मजः॥ न रावणसहस्रं मे युद्धे प्रतिबलं भवेत्। शिलाभिश्च प्रहरतः पादपैश्च सहस्रशः॥ अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम्। समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम्॥ तस्य संनादशब्देन ते तेऽभवन् भयशङ्किताः। ददृशुश्च हनूमन्तं संध्यामेघमिवोन्नतम्॥ स्वामिसंदेशनिःशङ्कास्ततस्ते राक्षसाः कपिम्। चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः॥ स तैः परिवृतः शूरैः सर्वतः स महाबलः। आससादायसं भीमं परिघं तोरणाश्रितम्॥ स तं परिघमादाय जघान रजनीचरान्। सपन्नगमिवादाय स्फुरन्तं विनतासुतः॥ विचचाराम्बरे वीरः परिगृह्य च मारुतिः। सूदयामास वज्रेण दैत्यानिव सहस्रदृक् ॥ स हत्वा राक्षसान् वीरः किंकरान् मारुतात्मजः। युद्धाकाङ्क्षी महावीरस्तोरणं समवस्थितः।॥ ततस्तस्माद्भयान्मुक्ताः कतिचित्तत्र राक्षसाः। निहतान्किंकरान्सर्वान्रावणाय न्यवेदयन्।॥ स राक्षसानां निहतं महाबलं निशम्य राजा परिवृत्तलोचनः। समादिदेशाप्रतिमं पराक्रमे प्रहस्तपुत्रं समरे सुदुर्जयम्॥ ततः स किंकरान्हत्वा हनूमान् ध्यानमास्थितः। वनं भग्नं मया चैत्यप्रासादो न विनाशितः॥ तस्मात् प्रासादमद्यैवमिमं विध्वंसयाम्यहम्। इति संचिन्त्य हनुमान्मनसा दर्शयन् बलम्॥ चैत्यप्रासादमुत्प्लुत्य मेरुशृङ्गमिवोन्नतम्। आरुरोह हरिश्रेष्ठो हनूमान्मारुतात्मजः॥ आरुह्य गिरिसंकाशं प्रासादं हरियूथपः। बभौ स सुमहातेजाः प्रतिसूर्य इवोदितः॥ सम्प्रधृष्य तु दुर्धर्षश्चैत्यप्रासादमुन्नतम्। हनूमान् प्रज्वलँल्लक्ष्या पारियात्रोपमोऽभवत्॥ स भूत्वा सुमहाकायः प्रभावान् मारुतात्मजः। धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन्॥ तस्यास्फोटितशब्देन महता श्रोत्रघातिना। पेतुर्विहंगमास्तत्र चैत्यपालाश्च मोहिताः॥ अस्त्रविज्जयतां रामो लक्ष्मणश्च महाबलः। राजा जयति सुग्रीवो राघवेणाभिपालितः॥ दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः। हनूमाञ्शत्रुसैन्यानां निहन्ता मारुतात्मजः॥ न रावणसहस्रं मे युद्धे प्रतिबलं भवेत्। शिलाभिश्च प्रहरतः पादपैश्च सहस्रशः॥ धर्षयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम्। समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम्॥ एवमुक्त्वा महाकायश्चैत्यस्थो हरियूथपः। ननाद भीमनिर्हादो रक्षसां जनयन्भयम्॥ तेन नादेन महता चैत्यपालाः शतं ययुः। गृहीत्वा विविधानस्त्रान्प्रासान्खङ्गान् परश्वधान्॥ विसृजन्तो महाकाया मारुतिं पर्यवारयन्। ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः॥ आजग्मुर्वानरश्रेष्ठं बाणैश्चादित्यसंनिभैः। आवर्त इव गङ्गायास्तोयस्य विपुलो महान्॥ परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः। ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः॥ प्रसादस्य महांस्तस्य स्तम्भं हेमपरिष्कृतम्। उत्पाटयित्वा वेगेन हनूमान्मारुतात्मजः॥ ततस्तं भ्रामयामास शतधारं महाबलः। तत्र चाग्निः समभवत्प्रासादश्चाप्यदह्यत ॥ दह्यमानं ततो दृष्ट्वा प्रासादं हरियूथपः। स राक्षसशतं हत्वा वज्रणेन्द्र इवासुरान्॥ अन्तरिक्षस्थितः श्रीमानिदं वचनमब्रवीत्। मादृशानां सहस्राणि विसृष्टानि महात्मनाम्॥ बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम्। अटन्ति वसुधां कृत्स्नां वयमन्ये च वानराः॥ दशनागबलाः केचित्केचिद् दशगुणोत्तराः। केचिनागसहस्रस्य बभूवुस्तुल्यविक्रमाः॥ सन्ति चौघबलाः केचित् सन्ति वायुबलोपमाः। अप्रमेयबलाः केचित्तत्रासन् हरियूथपाः॥ ईदृग्विधैस्तु हरिभिर्वृतो दन्तनखायुधैः। शतैः शतसहस्रश्च कोटिभिश्चायुतैरपि॥ आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः। नेयमस्ति पुरी लङ्का न यूयं न च रावणः। यस्य त्विक्ष्वाकुवीरेण बद्धं वैरं महात्मना॥ संदिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली। जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः॥ रक्तमाल्याम्बरधरः स्रग्वी रुचिरकुण्डलः। महान्विवृत्तनयनश्चण्डः समरदुर्जयः॥ धनुः शक्रधनुःप्रख्यं महद् रुचिरसायकम्। विस्फारयाणो वेगेन वज्राशनिसमस्वनम्॥ तस्य विस्फारघोषेण धनुषो महता दिशः। प्रदिशश्च नभश्चैव सहसा समपूर्यत ॥ रथेन खरयुक्तेन तमागतमुदीक्ष्य सः। हनूमान्वेगसम्पन्नो जहर्ष च ननाद च॥ तं तोरणविटङ्कस्थं हनूमन्तं महाकपिम्। जम्बुमाली महातेजा विव्याध निशितैः शरैः॥ अर्धचन्द्रेण वदने शिरस्येकेन कर्णिना। बाह्वोर्विव्याध नाराचैर्दशभिस्तु कपीश्वरम्॥ तस्य तच्छुशुभे तानं शरेणाभिहतं मुखम्। शरदीवाम्बुजं फुल्लं विद्धं भास्कररश्मिना॥ तत्तस्य रक्तं रक्तेन रञ्जितं शुशुभे मुखम्। यथाकाशे महापद्मं सिक्तं काञ्चनबिन्दुभिः॥ चुकोप बाणाभिहतो राक्षसस्य महाकपिः। ततः पार्श्वेऽतिविपुलां ददर्श महतीं शिलाम्॥ तरसा तां समुत्पाट्य चिक्षेप जववद् बली। तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः॥ विपन्नं कर्म तद् दृष्ट्वा हनूमांश्चण्डविक्रमः। सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान्॥ भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम्। चिक्षेप सुबहून्बाणाञ्जम्बुमाली महाबलः॥ सालं चतुर्भिश्चिच्छेद वानरं पञ्चभिर्भुजे। उरस्येकेन बाणेन दशभिस्तु स्तनान्तरे॥ स शरैः पूरिततनुः क्रोधेन महता वृतः। तमेव परिघं गृह्य भ्रामयामास वेगितः॥ अतिवेगोऽतिवेगेन भ्रामयित्वा महोत्कटः। परिघं पातयामास जम्बुमालेमहोरसि ॥ तस्य चैव शिरो नास्ति न बाहू जानुनी न च। न धनुर्न रथो नाश्वास्तत्रादृश्यन्त नेषवः॥ स हतस्तरसा तेन जम्बुमाली महारथः। पपात निहतो भूमौ चूर्णिताङ्ग इव द्रुमः॥ जम्बुमालिं सुनिहतं किंकरांश्च महाबलान्। चुक्रोध रावणः श्रुत्वा क्रोधसंरक्तलोचनः॥ स रोषसंवर्तितताम्रलोचनः प्रहस्तपुत्रे निहते महाबले। अमात्यपुत्रानतिवीर्यविक्रमान् समादिदेशाशु निशाचरेश्वरः॥ हतान् मन्त्रिसुतान् बुद्ध्वा वानरेण महात्मना। रावणः संवृताकारश्चकार मतिमुत्तमाम्॥ स विरूपाक्षयूपाक्षौ दुर्धर्षं चैव राक्षसम्। प्रघसं भासकर्णं च पञ्चसेनाग्रनायकान्॥ संदिदेश दशग्रीवो वीरान् नयविशारदान्। हनूमद्ग्रहणे व्यग्रान्वायुवेगसमान्युधि ॥ यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः। सवाजिरथमातङ्गाः स कपिः शास्यतामिति॥ यत्तैश्च खलु भाव्यं स्यात् तमासाद्य वनालयम्। कर्म चापि समाधेयं देशकालाविरोधितम्॥ नह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन्। सर्वथा तन्महद् भूतं महाबलपरिग्रहम्॥ वानरोऽयमिति ज्ञात्वा नहि शुद्ध्यति मे मनः। नैवाहं तं कपिं मन्ये यथेयं प्रस्तुता कथा॥ भवेदिन्द्रेण वा सृष्टमस्मदर्थं तपोबलात्। सनागयक्षगन्धर्वदेवासुरमहर्षयः॥ युष्माभिः प्रहितैः सर्वैर्मया सह विनिर्जिताः। तैरवश्यं विधातव्यं व्यलीकं किंचिदेव नः॥ तदेव नात्र संदेहः प्रसह्य परिगृह्यताम्। यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः॥ सवाजिरथमातङ्गाः स कपिः शास्यतामिति। नावमन्यो भवद्भिश्च कपिीरपराक्रमः॥ दृष्टा हि हरयः शीघ्रं मया विपुलविक्रमाः। वाली च सह सुग्रीवो जाम्बवांश्च महाबलः॥ नीलः सेनापतिश्चैव ये चान्ये द्विविदादयः। नैव तेषां गतिर्भीमा न तेजो न पराक्रमः॥ न मतिर्न बलोत्साहो न रूपपरिकल्पनम्। महत्सत्त्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम्॥ प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः। कामं लोकास्त्रयः सेन्द्राः ससुरासुरमानवाः॥ भवतामग्रतः स्थातुं न पर्याप्ता रणाजिरे। तथापि तु नयज्ञेन जयमाकाङ्क्षता रणे॥ आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला। ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः॥ समुत्पेतुर्महावेगा हुताशसमतेजसः। रथैश्च मत्तै गैश्च वाजिभिश्च महाजवैः॥ शस्त्रैश्च निशितैस्तीक्ष्णैः सर्वैश्योपहिता बलैः। ततस्तु ददृशुर्वीरा हीप्यमानं महाकपिम्॥ रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम्। तोरणस्थं महावेगं महासत्त्वं महाबलम्॥ महामतिं महोत्साहं महाकायं महाभुजम्। सं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः॥ तैस्तैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः। तस्य पञ्चायसास्तीक्ष्णाः सिताः पीतमुखाः शराः। शिरस्युत्पलपत्राभा दुर्धरण निपातिताः॥ स तैः पञ्चभिराविद्धः शरैः शिरसि वानरः। उत्पपात नदन् व्योम्नि दिशो दश विनादयन्॥ ततस्तु दुर्धरो वीरः सरथः सज्जकार्मुकः। किरशरशतै कैरभिपेदे महाबलः॥ स कपिर्वारयामास तं व्योम्नि शरवर्षिणम्। वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः॥ अर्घमानस्ततस्तेन दुर्धरणानिलात्मजः। चकार निनदं भूयो व्यवर्धत च वीर्यवान्॥ स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः। निपपात महावेगो विधुद्राशिर्गिराविव॥ ततः स मथिताष्टाश्वं रथं भग्नाक्षकूबरम्। विहाय न्यपतद्भूमौ दुर्धरस्त्यक्तजीवितः॥ तं विरूपाक्षयूपक्षौ दृष्ट्वा निपतितं भुवि। तौ जातरोषौ दुर्धर्षावुत्पेततुररिन्दमौ॥ स ताभ्यां सहसोत्प्लुत्य विष्ठितो विमलेऽम्बरे। मुद्गराभ्यां महाबाहुर्वक्षस्यभिहतः कपिः॥ तयोर्वेगवतोर्वेगं निहत्य स महाबलः। निपपात पुनर्भूमौ सुपर्ण इव वेगितः॥ स सालवृक्षमासाद्य समुत्पाट्य च वानरः। तावुभौ राक्षसौ वीरौ जघान पवनात्मजः॥ ततस्तांस्त्रीन् हतान्ज्ञात्वा वानरेण तरस्विना। अभिगम्य महावेगः प्रहस्य प्रघसो बली॥ भासकर्णश्च संक्रुद्धः शूलमादाय वीर्यवान्। एकतः कपिशार्दूलं यशस्विनमवस्थितौ ॥ पट्टिशेन शिताग्रेण प्रघसः प्रत्यपोथयत्। भासकर्णश्च शूलेन राक्षसः कपिकुञ्चरम्॥ स ताभ्यां विक्षतैर्गात्रैरसृग्दिग्धतनूरुहः। अभवद् वानरः क्रुद्धो बालसूर्यसमप्रभः॥ समुत्पाट्य गिरेः शृङ्ग समृगव्यालपादपम्। जघान् हनुमान् वीरो राक्षसौ कपिकुञ्जरः। गिरिशृङ्गसुनिष्पिष्टौ तिलशस्तौ बभूवतुः॥ ततस्तेष्ववसन्नेषु सेनापतिषु पञ्चसु। बलं तदवशेषं तु नाशयामास वानरः॥ अश्वैरश्वान्गजै गान्योधैर्योधारथै रथान्। स कपि शयामास सहस्राक्ष इवासुरान्॥ हयैर्नागैस्तुरंगैश्च भग्नाक्षैश्च महारथैः। हतैश्च राक्षसैर्भूमी रुद्धमार्गा समन्ततः॥ ततः कपिस्तान् ध्वजिनीपतीन् रणे निहत्य वीरान्सबलान्सवाहनान्। तथैव वीरः परिगृह्य तोरणं कृतक्षणः काल इव प्रजाक्षये।॥ सेनापतीन्पञ्च स तु प्रमापितान् हनूमता सानुचरान्सवाहनान्। निशम्य राजा समरोद्धतोन्मुखं कुमारमक्ष प्रसमैक्षताक्षम्॥ स तस्य दृष्ट्यर्पणसम्प्रचोदितः प्रतापवान् काञ्चनचित्रकार्मुकः। समुत्पपाताथ सदस्युदीरितो द्विजातिमुख्यैर्हविषेव पावकः॥ ततो महान्बालदिवाकरप्रभं प्रतप्तजाम्बूनदजालसंततम्। रथं समास्थाय ययौ स वीर्यवान् महाहरिं तं प्रति नैर्ऋतर्षभः॥ ततस्तप:संग्रहसंचयार्जितं प्रतप्तजाम्बूनदजालचित्रितम्। पताकिनं रत्नविभूषितध्वजं मनोजवाष्टाश्ववरैः सुयोजितम्॥ सुरासुराधृष्यमसङ्गचारिणं तडित्प्रभं व्योमचरं समाहितम्। सतूणमष्टासिनिबद्धबन्धुरं यथाक्रमावेशितशक्तितोमरम्॥ विराजमानं प्रतिपूर्णवस्तुना सहेमदाम्ना शशिसूर्यवर्चसा। दिवाकराभं रथमास्थितस्ततः स निर्जगामामरतुल्यविक्रमः॥ स पूरयन्खं च महीं च साचला तुरङ्गमातङ्गमहारथस्वनैः। बलैः समेतैः सहतोरणस्थितं समर्थमासीनमुपागमत्कपिम्॥ स तं समासाद्य हरि हरीक्षणो युगान्तकालाग्निमिव प्रजाक्षये। अवस्थितं विस्मिजातसम्भ्रमं समैक्षताक्षो बहुमानचक्षुषा ॥ स तस्य वेगं च कपेर्महात्मनः पराक्रमं चारिषु रावणात्मजः। विचारयन्स्वं च बलं महाबलो युगक्षये सूर्य इवाभिवर्धत॥ स जातमन्युः प्रसमीक्ष्य विक्रम स्थितः स्थिरः संयति दुर्निवारणम्। समाहितात्मा हनुमन्तमाहवे प्रचोदयामास शितैः शरैस्त्रिभिः॥ ततः कपि तं प्रसमीक्ष्य गर्वितं जितश्रमं शत्रुपराजयोचितम्। अवैक्षताक्ष: समुदीर्णमानसं सबाणपाणिः प्रगृहीतकार्मुकः॥ स हेमनिष्काङ्गदचारुकुण्डलः समाससादाशुपराक्रमः कपिम्। तयोर्बभूवाप्रतिमः समागम्: सुरासुराणामपि संभ्रमप्रदः॥ ररास भूमिर्न तताप भानुमान् ववौन न वायुः प्रचचाल चाचलः। कपेः कुमारस्य च वीर्यसंयुगं ननाद च द्यौरुदधिश्च चुक्षुभे॥ स तस्य वीरः सुमुखान्पतत्रिणः सुवर्णपङ्खान्सविषानिवोरगान्। च्छरानथ त्रीन्कपिमूर्ध्यताडयत्॥ स तैः शरैर्मूलि समं निपातितैः क्षरन्नसृग्दिग्धविवृत्तनेत्रः। नवोदितादित्यनिभः शरांशुमान् व्यराजतादित्य इवांशुमालिकः॥ ततः प्लवङ्गाधिपमन्त्रिसत्तमः समीक्ष्य तं राजवरात्मजं रणे। उदग्रचित्रायुधचित्रकार्मुकं जहर्ष चापूर्यत चाहवोन्मुखः॥ स मन्दराग्रस्त इवांशुमाली विवृद्धकोपो बलवीर्यसंवृतः। कुमारमक्षं सबलं सवाहनं ददाह नेत्राग्निमरीचिभिस्तदा॥ ततः स बाणासनशक्रकार्मुकः शरप्रवर्षो युधि राक्षसाम्बुदः। शरान्मुमोचाशु हरीश्वराचले बलाहको वृष्टिमिवाचलोत्तमे॥ कपिस्ततस्तं रणचण्डविक्रम प्रवृद्धतेजोबलवीर्यसायकम्। कुमारमक्षं प्रसमीक्ष्य संयुगे ननाद हर्षाद्धनतुल्यनिःस्वनः॥ स बालभावाद् युधि वीर्यदर्पतः प्रवृद्धमन्युः क्षतजोपमेक्षणः। समाससादाप्रतिमं रणे कपिं गजो महाकूपमिवावृतं तृणैः॥ श्चकार नादं घननादनिःस्वनः। समुत्सहेनाशु नभः समारुजन् भुजोरुविक्षेपणघोरदर्शनः॥ तमुत्पतन्तं समभिद्रवद् बली स राक्षसानां प्रवरः प्रतापवान्। रथी रथश्रेष्ठतरः किरञ्छरैः पयोधरः शैलमिवाश्मवृष्टिभिः॥ श्वचार वीरः पथि वायुसेविते। शरान्तरे मारुतवद् विनिष्पतन् मनोजवः संयति भीमविक्रमः॥ तमात्तबाणासनमाहवोन्मुखं खमास्तृणन्तं विविधैः शरोत्तमैः। अवैक्षताक्षं बहुमानचक्षुषा जगाम चिन्तां स मारुतात्मजः॥ ततः शरैर्भिन्नभुजान्तरः कपिः कुमारवर्येण महात्मना नदन्। महाभुजः कर्मविशेषतत्त्वविद् विचिन्तयामास रणे पराक्रमम्॥ अबालवद्वालदिवाकरप्रभः करोत्ययं कर्म महन्महाबलः। न चास्य सर्वाहवकर्मशालिनः प्रमापणे मे मतिरत्र जायते॥ अयं महात्मा च महांश्च वीर्यतः समाहितश्चातिसहश्च संयुगे। असंशयं कर्मगुणोदयादयं सनागयज्ञैर्मुनिभिश्च पूजितः॥ पराक्रमोत्साहविवृद्धमानसः समीक्षते मां प्रमुखोऽग्रतः स्थितः। पराक्रमो ह्यस्य मनांसि कम्पयेत् सुरासुराणामपि शीघ्रकारिणः॥ न खल्वयं नाभिभवेदुपेक्षितः पराक्रमो ह्यस्य रणे विवर्धते। प्रमापणं ह्यस्य ममाद्य रोचते न वर्धमानोऽग्निरुपेक्षितुं क्षमः॥ इति प्रवेगं तु परस्य तर्कयन् स्वकर्मयोगं च विधाय वीर्यवान्। चकार वेगं तु महाबलस्तदा मतिं च चक्रेऽस्य वधे तदानीम्॥ स तस्य तानष्ट वरान् महाहयान् समाहितान्भारसहान् विवर्तने। जघान वीरः पथि वायुसेविते तलप्रहारैः पवनात्मजः कपिः॥ ततस्तलेनाभिहतो महारथः स तस्य पिङ्गाधिपमन्त्रिनिर्जितः। स भग्ननीडः परिवृत्तकूबरः पपात भूमौ हतवाजिरम्बरात्॥ स तं परित्यज्य महारथो रथं सकार्मुकः खङ्गधरः खमुत्पतन्। ततोऽभियोगादृषिरुग्रवीर्यवान् विहाय देहं मरुतामिवालयम्॥ कपिस्ततस्तं विचरन्तमम्बरे पतत्रिराजानिलसिद्धसेविते। समेत्य तं मारुतवेगविक्रमः क्रमेण जग्राह च पादयोर्दृढम्॥ महोरगं गृह्य इवाण्डजेश्वरः। मुमोच वेगात् पितृतुल्यविक्रमो महीतले संयति वानरोत्तमः॥ स भग्नबाहरुकटीपयोधरः क्षरनसृनिर्मथितास्थिलोचनः। सम्भिन्नसंधिः प्रविकीर्णबन्धनो हतः क्षितौ वायुसुतेन राक्षसः॥ महाकपिभूमितले निपीड्य तं चकार रक्षोऽधिपतेर्महद्भयम्। महर्षिभिश्चक्रचरैः समागतैः समेत्य भूतैश्च सयक्षपन्नगैः। हते कुमारे स कपिर्निरीक्षितः॥ निहत्य तं वज्रिसुतोपमं रणे कुमारमक्षं क्षतजोपमेक्षणम्। तदेव वीरोऽभिजगाम तोरणं कृतक्षणः काल इव प्रजाक्षये॥ ततस्तु रक्षोऽधिपतिर्महात्मा हनूमताक्षे निहते कुमारे। मनः समाधाय स देवकल्पं समादिदेशेन्द्रजितं सरोषः॥ त्वमस्त्रविच्छस्त्रभृतां वरिष्ठः सुरासुराणामपि शोकदाता। सुरेषु सेन्द्रेषु च दृष्टकर्मा पितामहाराधनसंचितास्त्रः॥ त्वदस्त्रबलमासाद्य ससुराः समरुद्गणाः। न शेकुः समरे स्थातुं सुरेश्वरसमाश्रिताः॥ न कश्चित् त्रिषु लोकेषु संयुगेन गतश्रमः। भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः। देशकालप्रधानश्च त्वमेव मतिसत्तमः॥ न तेऽस्त्यशक्यं समरेषु कर्मणां न तेऽस्त्यकार्यं मतिपूर्वमन्त्रणे। न सोऽस्ति कश्चित् त्रिषु संग्रहेषु न वेद यस्तेऽस्त्रबलं बलं च॥ ममानुरूपं तपसो बलं च ते पराक्रमश्चास्त्रबलं च संयुगे। न त्वां समासाद्य रणावम मनः श्रमं गच्छति निश्चितार्थम्॥ निहताः किंकराः सर्वे जम्बुमाली च राक्षसः। अमात्यपुत्रा वीराश्च पश्च सेनाग्रगामिनः॥ बलानि सुसमृद्धानि साश्वनागरथानि च। सहोदरस्ते शयितः कुमारोऽक्षश्च सूदितः। न तु तेष्वेव मे सारो यस्त्वय्यरिनिषूदन ॥ इदं च दृष्ट्वा निहतं महद्बलं कपेः प्रभावं च पराक्रमं च। त्वमात्मनश्चापि निरीक्ष्य सारं कुरुष्व वेगं स्वबलानुरूपम्॥ बलावमर्दैस्त्वयि संनिकृष्टे यथागते शाम्यति शान्तशत्रुः। तथा समीक्ष्यात्मबलं परं च समारभस्वास्त्रभृतां वरिष्ठ॥ न वीर सेना गणशो च्यवन्ति न वज्रमादाय विशालसारम्। न मारुतस्यास्ति गतिप्रमाणं न चाग्निकल्पः करणेन हन्तुम्॥ तमेवमर्थं प्रसमीक्ष्य सम्यक् स्वकर्मसाम्याद्धि समाहितात्मा। स्मरंश्च दिव्यं धनुषोऽस्य वीर्य व्रजाक्षतं कर्म समारभस्व॥ न खल्वियं मतिश्रेष्ठ यत्त्वां सम्प्रेषयाम्यहम्। इयं च राजधर्माणां क्षत्रस्य च मतिर्मता॥ नानाशास्त्रेषु संग्रामे वैशारद्यमरिंदम। अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे॥ ततः पितुस्तद्वचनं निशम्य प्रदक्षिणं दक्षसुतप्रभावः। चकार भर्तारमतित्वरेण रणाय वीरः प्रतिपन्नबुद्धिः॥ ततस्तैः स्वगणैरिष्टैरिन्द्रजित् प्रतिपूजितः। युद्धोद्धतकृतोत्साहः संग्राम सम्प्रपद्यत॥ श्रीमान् पद्मविशालाक्षो राक्षसाधिपतेः सुतः। निर्जगाम महातेजाः समुद्र इव पर्वणि ॥ फ्लैश्चतुर्भिः स तु तीक्ष्णदंष्ट्रैः। रथं समायुक्तमसह्यवेगः समारुरोहेन्द्रजिदिन्द्रकल्पः॥ स रथी धन्विनां श्रेष्ठः शस्त्रज्ञोऽस्त्रविदां वरः। रथेनाभिययौ क्षिपं हनूमान् यत्र सोऽभवत्॥ स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च। निशम्य हरिवीरोऽसौ सम्प्रहृष्टतरोऽभवत्॥ इन्द्रजिच्चापमादाय शितशल्यांश्च सायकान्। हनूमन्तमभिप्रेत्य जगाम रणपण्डितः॥ तस्मिंस्तत: संयति जातहर्षे रणाय निर्गच्छति बाणपाणौ। मूंगाश्च रौद्रा बहुधा विनेदुः॥ समागतासात्र तु नागयक्षा महर्षयश्चक्रचराश्च सिद्धाः। नभः समावृत्य च पक्षिसङ्घा विनेदुरुच्चैः परमप्रहृष्टाः॥ आयान्तं स रथं दृष्ट्वा तूर्णमिन्द्रध्वजं कपिः। ननाद च महानादं व्यवर्धत च वेगवान्॥ इन्द्रजित्स रथं दिव्यमाश्रितश्चित्रकार्मुकः। धनुर्विस्फारयामास तडिदूर्जितनिः स्वनम्॥ ततः समेतावतितीक्ष्णवेगौ महाबलौ तौ रणनिर्विशङ्कौ। कपिश्च रक्षोऽधिपतेस्तनूजः सुरासुरेन्द्राविव बद्धवैरौ॥ स तस्य वीरस्य महारथस्य धनुष्मत: संयति सम्मतस्य। श्वचार मार्गे पितुरप्रमेयः॥ ततः शरानायततीक्ष्णशल्यान् सुपत्रिणः काञ्चनचित्रपुङ्खान्। मुमोच वीरः परवीरहन्ता सुसंततान् वज्रसमानवेगान्॥ ततः स तत्स्यन्दननिःस्वनं च मृदङ्गभेरीपटहस्वनं च। विकृष्यमाणस्य च कार्मुकस्य निशम्य घोषं पुनरुत्पपात ॥ शराणामन्तरेष्वाशु व्यावर्तत महाकपिः। हरिस्तस्याभिलक्ष्यस्य मोक्षयंल्लक्ष्यसंग्रहम्॥ शराणामग्रतस्तस्य पुनः समभिवर्तत। प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः॥ तावुभौ वेगसम्पन्नौ रणकर्मविशारदौ। सर्वभूतमनोग्राहि चक्रतुयुद्धमुत्तमम्॥ हनूमतो वेद न राक्षसोऽन्तरं न मारुतिस्तस्य महात्मनोऽन्तरम्। परस्परं निर्विषहौ बभूवतुः समेत्य तौ देवसमानविक्रमौ॥ ततस्तु लक्ष्ये स विहन्यमाने शरेष्वमोघेषु च सम्पतत्सु। जगाम चिन्तां महती महात्मा समाधिसंयोगसमाहितात्मा॥ श्चकार तस्मिन् हरिवीरमुख्ये। अवध्यतां तस्य कपेः समीक्ष्य कथं निगच्छेदिति निग्रहार्थम्॥ ततः पैतामहं वीरः सोऽस्त्रमस्त्रविदां वरः। संदधे सुमहातेजास्तं हरिप्रवरं प्रति॥ अवध्योऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित्। निजग्राह महाबाहुं मारुतात्मजमिन्द्रजित्॥ तेन बद्धस्ततोऽस्त्रेण राक्षसेन स वानरः। अभवन्निर्विचेष्टश्च पपात च महीतले॥ ततोऽथ बुद्ध्वा स तदस्त्रबन्धं प्रभोः प्रभावाद् विगताल्पवेग: :1 पितामहानुग्रहमात्मनश्च विचिन्तयामास हरिप्रवीरः॥ ततः स्वायम्भुवैमन्त्रैर्ब्रह्मास्त्रं चाभिमन्त्रितम्। हनूमांश्चिन्तयामास वरदानं पितामहात्॥ न मेऽस्य बन्धस्य च शक्तिरस्ति विमोक्षणे लोकगुरोः प्रभावात्। इत्येवमेवं विहितोऽस्त्रबन्धो मयाऽऽत्मयोनेरनुवर्तितव्यः॥ स वीर्यमस्त्रस्य कपिर्विचार्य पितामहानुग्रहमात्मनश्च। विमोक्षशक्तिं परिचिन्तयित्वा पितामहाज्ञामनुवर्तते स्म।॥ अस्त्रेणापि हि बद्धस्य भयं मम न जायते। पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन च।॥ ग्रहणे चापि रक्षोभिर्महन्मे गणदर्शनम्। राक्षसेन्द्रेण संवादस्तस्माद् गृह्णन्तु मां परे॥ स निश्चितार्थः परवीरहन्ता समीक्ष्यकारी विनिवृत्तचेष्टः। परैः प्रसह्याभिगतैर्निगृह्य ननाद तैस्तैः परिभय॑मानः॥ ततस्ते राक्षसा दृष्ट्वा विनिश्चेष्टमरिंदमम्। बबन्धुः शणवल्कैश्च दुमचीरैश्च संहतैः॥ स रोचयामास परैश्च बन्धं प्रसह्य वीरैरभिगर्हणं च। कौतूहलान्मां यदि राक्षसेन्द्रो द्रष्टुं व्यवस्येदिति निश्चितार्थः॥ स बद्धस्तेन वल्केन विमुक्तोऽस्त्रेण वीर्यवान्। अस्त्रबन्धः स चान्यं हि न बन्धमनुवर्तते॥ अथेन्द्रजित्तं दुमचीरबद्धं विचार्य वीरः कपिसत्तमं तम्। मन्येन बद्धोऽप्यनुवर्ततेऽस्त्रम्॥ अहो महत्कर्म कृतं निरर्थं न राक्षसैर्मन्त्रगतिर्विमृष्टा। पुनश्च नास्त्रे विहतेऽस्त्रमन्यत् प्रवर्तते संशयिताः स्म सर्वे॥ अस्त्रेण हनुमान् मुक्तो नात्मानमवबुध्यते। कृष्यमाणस्तु रक्षोभिस्तैश्च बन्धैर्निपीडितः॥ हन्यमानस्ततः क्रूरै राक्षसैः कालमुष्टिभिः। समीपं राक्षसेन्द्रस्य प्राकृष्यत स वानरः॥ मस्त्रेण बद्धं दुमचीरसूत्रैः। व्यदर्शयत् तत्र महाबलं तं हरिप्रवीरं सगणाय राज्ञे॥ तं मत्तमिव मातङ्गं बद्धं कपिवरोत्तमम्। राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन्॥ कोऽयं कस्य कुतो वापि किंकार्यं कोऽभ्युपाश्रयः। इति राक्षसवीराणां दृष्ट्वा संजज्ञिरे कथाः॥ हन्यतां दह्यतां वापि भक्ष्यतामिति चापरे। राक्षसास्तत्र संक्रुद्धाः परस्परमथाब्रुवन्॥ अतीत्य मार्ग सहसा महात्मा स तत्र रक्षोधिपपादमूले। ददर्श राज्ञः परिचारवृद्धान् गृहं महारत्नविभूषितं च।५७।। स ददर्श महातेजा रावणः कपिसत्तमम्। रक्षोभिर्विकृताकारैः कृष्यमाणमितस्ततः॥ राक्षसाधिपतिं चापि ददर्श कपिसत्तमः। तेजोबलसमायुक्तं तपन्तमिव भास्करम्॥ दशाननस्तं कपिमन्ववेक्ष्य। अथोपविष्टान् कुलशीलवृद्धन् समादिशत् तं प्रतिमुख्यमन्त्री॥ यथाक्रमं तैः स कपिश्च पृष्टः कार्यार्थमर्थस्य च मूलमादौ। निवेदयामास हरिश्वरस्य दूतः सकाशादहमागतोऽस्मि॥ ततः स कर्मणा तस्य विस्मितो भीमविक्रमः। हनूमान् क्रोधताम्राक्षो रक्षोऽधिपमवैक्षत॥ भ्राजमानं महार्हेण काञ्चनेन विराजता। मुक्ताजालवृतेनाथ मुकुटेन महाद्युतिम्॥ वज्रसंयोगसंयुक्तैर्महार्हमणिविग्रहैः। हैमैराभरणैश्चित्रैर्मनसेव प्रकल्पितैः॥ महार्हक्षौमसंवीतं रक्तचन्दनरुषितम्। स्वनुलिप्तं विचित्राभिर्विविधाभिश्च भक्तिभिः॥ विचित्रं दर्शनीयैश्च रक्ताक्षैर्भीमदर्शनैः। दीप्ततीक्ष्णमहादंष्ट्रं प्रलम्बं दशनच्छदैः॥ शिरोभिर्दशभिर्वीरो भ्राजमानं महौजसम्। नानाव्यालसमाकीणैः शिखरैरिव मन्दरम्॥ नीलाञ्जनचयप्रख्यं हारेणोरसि राजता। पूर्णचन्द्राभवक्त्रेण सबालार्कमिवाम्बुदम्॥ बाहुभिर्बद्धकेयूरैश्चन्दनोत्तमरुषितैः। भ्राजमानाङ्गदैर्भीमैः पञ्चशीषैरिवोरगैः॥ महति स्फाटिके चित्रे रत्नसंयोगचित्रिते। उत्तमास्तरणास्तीर्णे सूपविष्टं वरासने॥ अलंकृताभिरत्यर्थं प्रमदाभिः समन्ततः। बालव्यजनहस्ताभिरारात्समुपसेवितम्॥ दुधरण प्रहस्तेन महापाइँन रक्षसा। मन्त्रिभिर्मन्त्रतत्त्वज्ञैनिकुम्भेन च मन्त्रिणा॥ उपोपविष्टं रक्षोभिश्चतुर्भिर्बलदर्पितम्। कृत्स्नं परिवृतं लोकं चतुर्भिरिव सागरैः॥ मन्त्रिभिर्मन्त्रतत्त्वज्ञैरन्यैश्च शुभदर्शिभिः। आश्वास्यमानं सचिवैः सुरैरिव सुरेश्वरम्॥ अपश्यद् राक्षसपतिं हनूमानतितेजसम्। वेष्टितं मेरुशिखरे सतोयमिव तोयदम्॥ स तैः सम्पीड्यमानोऽपि रक्षोभिर्भीमविक्रमैः। विस्मयं परमं गत्वा रक्षोऽधिपमवैक्षत॥ भ्राजमानं ततो दृष्ट्वा हनुमान् राक्षसेश्वरम्। मनसा चिन्तयामास तेजसा तस्य मोहितः॥ अहो रूपमहो धैर्यमहो सत्त्वमहो द्युतिः। अहो राक्षसराजस्य सर्वलक्षणयुक्तता ॥ यद्यधर्मो न बलवान् स्यादयं राक्षसेश्वरः। स्यादयं सुरलोकस्य सशक्रस्यापि रक्षिता॥ अस्य क्रूरैर्नृशंसैश्च कर्मभिर्लोककुत्सितैः। सर्वे बिभ्यति खल्वस्माल्लोकाः सामरदानवाः॥ अयं ह्युत्सहते क्रुद्धः कर्तुमेकार्णवं जगत्। इति चिन्तां बहुविधामकरोन्मतिमान् कपिः। दृष्ट्वा राक्षसराजस्य प्रभावममितौजसः॥ तमुवीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम्। रोषेण महताऽऽविष्टो रावणो लोकरावणः॥ शङ्काहतात्मा दध्यौ स कपीन्द्रं तेजसा वृतम्। किमेष भगवान् नन्दी भवेत् साक्षादिहागतः॥ येन शप्तोऽस्मि कैलासे मया प्रहसिते पुरे। सोऽयं वानरमूर्तिः स्यात्किंस्विद् बाणोऽपि वासुरः॥ स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम्। कालयुक्तमुवाचेदं वचो विपुलमर्थवत्॥ दुरात्मा पृच्छयतामेष कुतः किं वास्य कारणम्। वनभङ्गे च कोऽस्यार्थो राक्षसानां च तर्जने ॥ मत्पुरीमप्रधृष्यां वै गमने किं प्रयोजनम्। आयोधने वा किं कार्यं पृच्छयतामेष दुर्मतिः॥ रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत्। समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे॥ यदि तावत् त्वमिन्द्रेण प्रेषितो रावणालयम्। तत्त्वमाख्याहि मा ते भूद् भयं वानर मोक्ष्यसे॥ यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च। चारुरूपमिदं कृत्वा प्रविष्टो नः पुरीमिमाम्॥ विष्णुना प्रेषितो वापि दूतो विजयकाक्षिणा। नहि ते वानरं तेजो रूपमात्रं तु वानरम्॥ तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसे। अनृतं वदतश्चापि दुर्लभं तव जीवितम्॥ अथ वा यन्निमित्तस्ते प्रवेशो रावणालये। एवमुक्तो हरिवरस्तदा रक्षोगणेश्वरम्॥ अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य च। धनदेन न मे सख्यं विष्णुना नास्मि चोदितः॥ जातिरेव मम त्वेषा वानरोऽहमिहागतः। दर्शने राक्षसेन्द्रस्य तदिदं दुर्लभं मया॥ वनं राक्षसराजस्य दर्शनार्थे विनाशितम्। ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाटिणः॥ रक्षणार्थं च देहस्य प्रतियुद्धा मया रणे। अस्त्रपाशैर्न शक्योऽहं बद्धं देवासुरैरपि॥ पितामहादेष वरो ममापि हि समागतः। राजानं द्रष्टकामेन मयास्त्रमनुवर्तितम्॥ विमुक्तोऽप्यहमस्त्रेण राक्षसैस्त्वभिवेदितः। केनचिद् रामकार्येण आगतोऽस्मि तवान्तिसम्॥ दूतोऽहमिति विज्ञाय राघवस्यामितौजसः। श्रूयतामेव वचनं मम पथ्यमिदं प्रभो॥ तं समीक्ष्य महासत्त्वं सत्त्ववान् हरिसत्तमः। वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम्॥ अहं सुग्रीवसंदेशादिह प्राप्तस्तवान्तिके। राक्षसेश हरीशस्त्वां भ्राता कुशलमब्रवीत्॥ भ्रातुः शृणु समादेशं सुग्रीवस्य महात्मनः। धर्मार्थसहितं वाक्यमिह चामुत्र च क्षमम्॥ राजा दशरथो नाम रथकुञ्जरवाजिमान्। पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः॥ ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियतरः प्रभुः। पितुर्निदेशानिष्क्रान्तः प्रविष्टो दण्डकावनम्॥ लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया। रामो नाम महातेजा धयं पन्थानमाश्रितः॥ तस्य भार्या जनस्थाने भ्रष्टा सीतेति विश्रुता। वैदेहस्य सुता राज्ञो जनकस्य महात्मनः॥ मार्गमाणस्तु तां देवीं राजपुत्रः सहानुजः। ऋष्यमूकमनुप्राप्तः सुग्रीवेण च संगतः॥ तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम्। सुग्रीवस्यापि रामेण हरिराज्यं निवेदितुम् ॥ ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम्। सुग्रीवः स्थापितो राज्ये हवृक्षाणां गणेश्वरः॥ त्वया विज्ञातपूर्वश्च वाली वानरपुङ्गव। स तेन निहतः संख्ये शरेणैकेन वानरः॥ स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसंगरः। हरीन्सम्प्रेषयामास दिशः सर्वा हरीश्वरः॥ तां हरीणां सहस्राणि शतानि नियुतानि च। दिक्षु सर्वासु मार्गन्ते ह्यधश्चोपरि चाम्बरे॥ वैनतेयसमाः केचित् केचित् तत्रानिलोपमाः। असङ्गगतयः शीघ्रा हरिवीरा महाबलाः॥ अहं तु हनुमानाम मारुतल्यौरसः सुतः। सीतायास्तु कृते तूर्णं शतयोजनमायतम्॥ समुद्रं लवयित्वैव त्वां दिक्षुरिहागतः। भ्रमता च मया दृष्टा गृहे ते जनकात्मजा॥ तद् भवान् दृष्टधर्मार्थस्तपः कृतपरिग्रहः। परदारान् महाप्राज्ञ नोपरोद्धं त्वमर्हसि ॥ नहि धर्मविरुद्धेषु बह्वपायेषु कर्मसु। मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः॥ कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम्। शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि॥ न चापि त्रिषु लोकेषु राजन् विद्येत कश्चन। राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात्॥ तत् त्रिकालहितं वाक्यं धर्म्यमर्थानुयायि च। मन्यस्व नरदेवाय जानकी प्रतिदीयताम्॥ दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम्। उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः॥ लक्षितेयं मया सीता तथा शोकपरायणा। गृहे यां नाभिजानासि पञ्चास्यामिव पन्नगीम्॥ नेयं जरयितुं शक्या सासुरैरमरैरपि। विषसंस्पृष्टमत्यर्थं भुक्तमनमिवौजसा॥ तपः संतापलब्धस्ते सोऽयं धर्मपरिग्रहः। न स नाशयितुं न्याय्य आत्मप्राणपरिग्रहः॥ अवध्यतां तपोभिर्या भवान् समनुपश्यति। आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान्॥ सुग्रीवो न च देवोऽयं न यक्षो न च राक्षसः। मानुषो राघवं राजन् सुग्रीवश्च हरीश्वरः। तस्मात् प्राणपरित्राणं कथं राजन् करिष्यसि॥ न तु धर्मोपसंहारमधर्मफलसंहितम्। तदेव फलमन्वेति धर्मश्चाधर्मनाशनः॥ प्राप्तं धर्मफलं तावद् भवता नात्र संशयः। फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे॥ जनस्थानवधं बुद्ध्वा वालिनश्च वधं तथा। रामसुग्रीवसख्यं च बुद्ध्यस्व हितमात्मनः॥ काम खल्वहमप्येकः सवाजिरथकुञ्जराम्। लङ्कां नाशयितुं शक्तस्तस्यैष तु न निश्चयः॥ रामेण हि प्रतिज्ञातं हवृक्षगणसंनिधौ। उत्सादनममित्राणां सीता यैस्तु प्रधर्षिता॥ अपकुर्वन् हि रामस्य साक्षादपि पुरंदरः। न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः॥ यां सीतेत्यभिजानासि येयं तिष्ठति ते गृहे। कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम्॥ तदलं कालपाशेन सीताविग्रहरूपिणा। स्वयं स्कन्धावसक्तेन क्षेममात्मनि चिन्त्यताम्॥ सीतायास्तेजता दग्धां रामकोपप्रदीपिताम्। दह्यमानामिमां पश्य पुरीं साट्टप्रतोलिकाम्॥ स्वानि मित्राणि मन्त्रींश्च ज्ञातीन् भ्रातृन् सुतान् हितान्। भोगान् दारांश्च लङ्कां च मा विनाशमुपानय॥ सत्यं राक्षसराजेन्द्र शृणुष्व वचनं मम। रामदासस्य दूतस्य वानरस्य विशेषतः॥ सर्वांल्लोकान् सुसंहृत्य सभूतान् सचराचरान्। पुनरेव तथा स्रष्टुं शक्तो रामो महायशाः॥ देवासुरनरेन्द्रेषु यक्षरक्षोरगेषु च। विद्याधरेषु नागेषु गन्धर्वेषु मृगेषु च॥ सिद्धेषु किंनरेन्द्रेषु पतत्रिषु च सर्वतः। सर्वत्र सर्वभूतेषु सर्वकालेषु नास्ति सः॥ यो रामं प्रति युध्येत विष्णुतुल्यपराक्रमम्। सर्वलोकेश्वरस्येह कृत्वा विप्रियमीदृशम्। रामस्य राजसिंहस्य दुर्लभं तव जीवितम्।॥ देवाश्च दैत्याश्च निशाचरेन्द्र गन्धर्वविद्याधरनागयक्षाः। रामस्य लोकत्रयनायकस्य स्थातुं न शक्ताः समरेषु सर्वे ॥ ब्रह्मा स्वयम्भूश्चतुराननो वा रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वा। इन्द्रो महेन्द्रः सुरनायको वा स्थातुं न शक्ता युधि राघवस्य॥ स सौष्ठवोपेतमदीनवादिनः कपेनिशम्याप्रतिमोऽप्रियं वचं। दशाननः कोपविवृत्तलोचनः समादिशत् तस्य वधं महाकपेः॥ स तस्य वचनं श्रुत्वा वानरस्य महात्मनः। आज्ञापयद् वधं तस्य रावणः क्रोधमूर्च्छितः॥ वधे तस्य समाज्ञप्ते रावणेन दुरात्मना। निवेदितवतो दौत्यं नानुमेने विभीषणः॥ तं रक्षोऽधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम्। विदित्वा चिन्तयामास कार्यं कार्यविधौ स्थितः॥ निश्चितार्थस्ततः साम्ना पूज्यं शत्रुजिदग्रजम्। उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः।४।। क्षमस्व रोषं त्यज राक्षसेन्द्र प्रसीद मे वाक्यमिदं शृणुष्व। वधं न कुर्वन्ति परावरज्ञा दूतस्य सन्तो वसुधाधिपेन्द्राः॥ राजन् धर्मविरुद्धं च लोकवृत्तेश्च गर्हितम्। तव चासदृशं वीर कपेरस्य प्रमापणम्॥ धर्मज्ञश्च कृतज्ञश्च राजधर्मविशारदः। परावरज्ञो भूतानां त्वमेव परमार्थवित्॥ गृह्यन्ते यति रोषेण त्वादृशोऽपि विचक्षणाः। ततः शास्त्रविपश्चित्वं श्रम एव हि केवलम्॥ तस्मात् प्रसीद शत्रुघ्न राक्षसेन्द्र दुरासद। युक्तायुक्तं विनिश्चित्य दूतदण्डो विधीयताम्॥ विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः। कोपेन महताऽऽविष्टो वाक्यमुत्तरमब्रवीत्॥ न पापानां वधे पापं विद्यते शत्रुसूदन। तस्मादिमं वधिष्यामि वानरं पापकारिणम्॥ मनार्यजुष्टं वचनं निशम्य। उवाच वाक्यं परमार्थतत्त्वं विभीषणो बुद्धिमतां वरिष्ठः॥ प्रसीद लङ्केश्वर राक्षसेन्द्र धर्मार्थतत्त्वं वचनं शृणुप्व। दूता न वध्याः समयेषु राजन् सर्वेषु सर्वत्र वदन्ति सन्तः॥ असंशयं शत्रुरयं प्रवृद्धः कृतं ह्यनेनाप्रियमप्रमेयम्। न दूतवध्यां प्रवदन्ति सन्तो दूतस्य दृष्टा बहवो हि दण्डाः॥ वैरूप्यमङ्गेषु कशाभिघातो मौण्ड्यं तथा लक्षणसंनिपातः एतान्हि दूते प्रवदन्ति दण्डान् वधस्तु दूतस्य न नः श्रुतोऽस्ति॥ कथं च धर्मार्थविनीतबुद्धिः परावरप्रत्ययनिश्चितार्थः। भवद्विधः कोपवशे हि तिष्ठेत् कोपं न गच्छन्ति हि सत्त्ववन्तः॥ न धर्मवादे न च लोकवृत्ते न शास्त्रबुद्धिग्रहणेषु वापि। स्त्वं ह्युत्तमः सर्वसुरासुराणाम्॥ पराक्रमोत्साहमनस्विनां च सुरासुराणामपि दुर्जयेन। त्वयाप्रमेयेण सुरेन्द्रसंघा जिताश्च युद्धेष्वसकृन्नरेन्द्राः॥ इत्थंविधस्यामरदैत्यशत्रोः शूरस्य वीरस्य तवाजितस्य। कुर्वन्ति वीरा मनसायलीकं प्राणैर्विमुक्ता न तु भोः पुरा ते॥ न चाप्यस्य कपेर्घाते कंचित् पश्याम्यहं गुणम्। तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः॥ साधुर्वा यदि वासाधुः परैरेष समर्पितः। ब्रुवन् परार्थं परवान् न दूतो वधमर्हति॥ अपि चास्मिन्हते नान्यं राजन् पश्यामि खेचरम्। तस्मान्नास्य वधे यत्नः कार्यः परपुरंजय। भवान् सेन्द्रेषु देवेषु यत्नमास्थातुमर्हति ॥ अस्मिन् विनष्टे नहि भूतमन्यं पश्यामि यस्तौ नरराजपुत्रौ। वुद्योजयेद् वै भवता विरुद्धौ॥ पराक्रमोत्साहमनस्विनां च सुरासुराणामपि दुर्जयेन। त्वयो मनोनन्दन नैर्ऋतानां युद्धाय निर्नाशयितुं न युक्तम्॥ हिताश्च शूराश्च समाहिताश्च कलेषु जाताश्च महागुणेषु। मनस्विनः शस्त्रभृतां वरिष्ठाः कोपप्रशस्ताः सुभृताश्च सुभृताश्च योधाः॥ तदेकदेशेन बलस्य तावत् केचित् तवादेशकृतोऽद्य यान्तु। तौ राजपुत्रावुपगृह्य मूढौ परेषु ते भावयितुं प्रभावम्॥ निशाचराणामधिपोऽनुजस्य विभीषणस्योत्तमवाक्यनिष्ठम्। महाबलो राक्षसराजमुख्यः॥ आप्लुत्य च महावेगः पक्षवानिव पर्वतः। भुजङ्गयक्षगन्धर्वप्रबुद्धकमलोत्पलम्॥ स चन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम्। तिष्यश्रवणकादम्बमभ्रशैवलशाद्वलम्॥ पुनर्वसुमहामीनं लोहिताङ्गमहाग्रहम्। ऐरावतमहाद्वीपं स्वातीहंसविलासितम्॥ वातसंघातजालोमिचन्द्रांशुशिशिराम्बुमत्। हनूमानपरिश्रान्तः पुप्लुवे गगनार्णवम्॥ ग्रसमान इवाकाशं ताराधिपमिवोल्लिखन्। हरनिव सनक्षत्रं गगनं सार्कमण्डलम्॥ अपारमपरिश्रान्तश्चाम्बुधिं समगाहत। हनूमान् मेघजालानि विकर्षन्निव गच्छति ॥ पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च। हरितारुणवर्णानि महाभ्राणि चकाशिरे।७।। प्रकाशनभ्रजालानि निष्क्रमंश्च पुनः पुनः। प्रकाशश्चाप्रकाशश्च चन्द्रमा इव दृश्यते॥ विविधाभ्रघनापन्नगोचरो धवलाम्बरः। दृश्यादृश्यतनुर्वीरस्तथा चन्द्रायतेऽम्बरे॥ ताायमाणो गगने स बभौ वायुनन्दनः। दारयन् मेघवृन्दानि निष्पतंश्च पुनः पुनः॥ नदन् नादेन महता मेघस्वनमहास्वनः। प्रवराराक्षसान् हत्वा नाम विश्राव्य चात्मनः॥ आकुलां नगरी कृत्वा व्यथयित्वा च रावणम्। अर्दयित्वा महावीरान् वैदेहीमभिवाद्य च॥ आजगाम महातेजाः पुनर्मध्येन सागरम्। पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान्॥ व्यामुक्त इव नाराचो महावेगोऽभ्युपागमत्। स किंचिदारात् सम्प्राप्तः समालोक्य महागिरिम्॥ महेन्द्र मेघसंकाशं ननाद स महाकपिः। स पूरयामास कपिर्दिशो दश समन्ततः॥ नदन् नादेन महता मेघस्वनमहास्वनः। स तं देशमनुप्राप्तः सुहृद्दर्शनलालसः॥ ननाद सुमहानादं लाङ्गूलं चाप्यकम्पयत्। तस्य नानद्यमानस्य सुपर्णाचरिते पथि॥ फलतीवास्य घोषेण गगनं सार्कमण्डलम्। ये तु तत्रोत्तरे कूले समुद्रस्य महाबलाः॥ पूर्वं संविष्ठिता शूरा वायुपुत्रदिदृक्षवः। महतो वायुनुनस्य तोयदस्येव नि:स्वनम्। शुश्रुवुस्ते तदा घोषमूरुवेगं हनूमतः॥ ते दीनमनसः सर्वे सुश्रुवुः काननौकसः। वानरेन्द्रस्य निर्घोषं पर्जन्यनिनदोपमम्॥ निशम्य नदतो नादं वानरास्ते समन्ततः। बभूवुरुत्सुकाः सर्वे सुहृद्दर्शनकाङ्क्षिणः॥ जाम्बवान्स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः। उपामन्त्र्य हरिन्सर्वानिदं वचनमब्रवीत्॥ सर्वथा कृतकार्योऽसौ हनूमान् नात्र संशयः। नह्यस्याकृतकार्यस्य नाद एवंविधो भवेत्॥ तस्य बाहूरुवेगं च निनादं च महात्मनः। निशम्य हरयो हृष्टाः समुत्पेतुर्यतस्ततः॥ ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि च। प्रहृष्टाः समपद्यन्त हनूमन्तं दिक्षवः॥ ते प्रीताः पादपाग्रेषु गृह्य शाखामवस्थिताः। वासांसि च प्रकाशानि समाविध्यन्त वानराः॥ गिरिगह्वरसंलीनो यथा गर्जति मारुतः। एवं जगर्ज बलवान् हनूमान् मारुतात्मजः॥ तमभ्रघनसंकाशमापतन्त महाकपिम्। दृष्ट्वा ते वानराः सर्वे तस्थुः प्राञ्जलयस्तदा॥ ततस्तु वेगवान् वीरो गिरेनिरिनिभः कपिः। निपपात गिरेस्तस्य शिखरे पादपाकुले॥ हर्षेणापूर्यमाणोऽसौ रम्ये पर्वतनिझरे। छिन्नपक्ष इवाकाशात् पपात धरणीधरः॥ ततस्ते प्रीतमनसः सर्वे वानरपुङ्गवाः। हनूमन्तं महात्मानं परिवार्योपतस्थिरे॥ परिवार्य च ते सर्वे परां प्रीतिमुपागताः। प्रहृष्टवदनाः सर्वे तमागतमुपागमन्॥ उपायनानि चादाय मूलानि च फलानि च। प्रत्यर्चयन्हरिश्रेष्ठं हरयो मारुतात्मजम्॥ विनेदुर्मुदिताः केचित् केचित् किलकिला तथा। हृष्टा पादपशाखाश्च आनिन्युर्वानरर्षभाः॥ हनूमांस्तु गुरून् वृद्धाञ्जाम्बवत्प्रमुखांस्तदा। कुमारमङ्गदं चैव सोऽवन्दत महाकपिः॥ स नाभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः। दृष्टा देवीति विक्रान्तः संक्षेपेण न्यवेदयत्॥ विषसाद च हस्तेन गृहीत्वा वालिनः सुतम्। रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा॥ हनूमानब्रवीत्पृष्टस्तदा तान्वानरर्षभान्। अशोकवनिकासंस्था दृष्टा सा जनकात्मजा॥ रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिता। एकवेणीधरा बाला रामदर्शनलालसा ॥ उपवासपरिश्रान्ता मलिना जटिला कृशा। ततो दृष्टेति वचनं महार्थममृतोपमम्॥ निशम्य मारुतेः सर्वे मुदिता वानराभवन्। क्ष्वेडन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः॥ चक्रुः किलकिलामन्ये प्रतिगर्जन्ति चापरे। केचिदुच्छ्रितलाङ्गुलाः प्रहृष्टाः कपिकुञ्जराः॥ आयताञ्चितदीर्घाणि लाशूलानि प्रविव्यधुः। अपरे तु हनूमन्तं श्रीमन्तं वानरोत्तमम्।॥ आप्लुत्य गिरिशृङ्गेषु संस्पृशन्ति स्म हर्षिताः। उक्तवाक्यं हनूमन्तमङ्गदस्तु तदाब्रवीत्॥ सर्वेषां हरिवीराणां मध्ये वाचमनुत्तमाम्। सत्त्वे वीर्ये न ते कश्चित् समो वानर विद्यते॥ यदवप्लुत्य विस्तीर्णं सागरं पुनरागतः। जीवितस्य प्रदाता नस्त्वमेको वानरोत्तम। ४६ ।। त्वत्प्रसादात् समेष्यामः सिद्धार्था राघवेण ह। अहो स्वामिनि ते भक्तिरहो वीर्यमहो धृतिः॥ दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी। दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकं सीतावियोगजम्।।४८ ततोऽङ्गदं हनूमन्तं जाम्बवन्तं च वानराः। परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः॥ उपविष्टा गिरेस्तस्य शिलासु विपुलासु ते। श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाः॥ दर्शनं चापि लङ्कायाः सीताया रावणस्य च। तस्थुः प्राञ्जलपः सर्वे हनूमद्वदनोन्मुखाः॥ तस्थौ तत्राङ्गदः श्रीमान् वानरैर्बहुभिर्वृतः। उपास्यमानो विविधैर्दिवि देवपतिर्यथा॥ हनूमता कीर्तिमता यशस्विना तथाङ्गदेनाङ्गदनद्धबाहुना। न्महीधराग्रं ज्वलितं श्रियाभवत्॥ ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः। हनुमत्प्रमुखाः प्रीति हरयो जग्मुरुत्तमाम्॥ प्रीतिमत्सूपविष्टेषु वानरेषु महात्मसु। तं ततः प्रतिसंहष्टः प्रीतियुक्तं महाकपिम्॥ जाम्बवान् कार्यवृत्तान्तमपृच्छदनिलात्मजम्। कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते ॥ तस्यां चापि कथं वृत्तः क्रूरकर्मा दशाननः। तत्त्वतः सर्वमेतन्नः प्रब्रूहि त्वं महाकपे॥ सम्मार्गिता कथं देवी किं च सा प्रत्यभाषत। श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम्॥ यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान्। रक्षितव्यं च यत्तत्र तद् भवान् व्याकरोतु नः॥ स नियुक्तस्ततस्तेन सम्प्रहृष्टतनूरुहः। नमस्यशिरसा देव्यै सीतायै प्रत्यभाषत।७।। प्रत्यक्षमेव भवतां महेन्द्राग्रात् खमाप्लुतः। उदधेर्दक्षिणं पारं काङ्क्षमाणः समाहितः॥ गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत्। काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम्॥ स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम्। उपसंगम्य तं दिव्यं काञ्चनं नगमुत्तमम्॥ कृता मे मनसा बुद्धिर्भेत्तव्योऽयं मयेति च। प्रहतस्य मया तस्य लाङ्ग्लेन महागिरेः॥ शिखरं सूर्यसंकाशं व्यशीर्यत सहस्रधा। व्यवसायं च तं बुद्ध्वा स होवाच महागिरिः॥ पुत्रेति मधुरां वाणीं मनः प्रह्लादयन्निव। पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः॥ मैनाकमिति विख्यातं निवसन्तं महोदधौ। पक्षवन्तः पुरा तत्र बभूवुः पर्वतोत्तमाः॥ छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः। श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः॥ वज्रेण भगवान्पक्षौ चिच्छेदैषां सहस्रशः। अहं तु मोचितस्तस्मात्तव पिता महात्मना ॥ मारुतेन तदा वत्स प्रक्षिप्तो वरुणालये। राघवस्य मया साह्ये वर्तितव्यमरिंदम॥ रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः। एतच्छ्रुत्वा मया तस्य मैनाकस्य महात्मनः॥ कार्यमावेद्य च गिरेरुद्धतं वै मनो मम । तेन चाहमनुज्ञातो मैनाकेन महात्मना ॥ स चाप्यन्तर्हितः शैलो मानुषेण वपुष्मता। शरीरेण महाशैलः शैलेन च महोदधौ॥ उत्तम जवमास्थाय शेषमध्वानमास्थितः। ततोऽहं सुचिरं कालं जवेनाभ्यगमं पथि ॥ ततः पश्याम्यहं देवी सुरसां नागमातरम्। समुद्रमध्ये सा देवी वचनं चेदमब्रवीत्॥ मम भक्ष्यः प्रदिष्टस्त्वममरैर्हरिसत्तम। ततस्त्वां भक्षयिष्यामि विहितस्त्वं हि मे सुरैः॥ एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः। विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम्॥ रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम्। लक्ष्मणेन सह भ्रात्रा सीतया च परंतपः॥ तस्य सीता हृता भार्या रावणेन दुरात्मना। तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात्॥ कर्तुमर्हसि रामस्य साहाय्यं विषये सती। अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम्॥ आगमिध्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते। एवमुक्ता मया सा तु सुरसा कामरूपिणी॥ अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम। एवमुक्तः सुरसया दशयोजनमायतः॥ ततोऽर्धगुणविस्तारो बभूवाहं क्षणेन तु। मत्प्रमाणाधिकं चैव व्यादितं तु मुखं तया।॥ तद् दृष्ट्वा व्यादितं त्वास्यं ह्रस्वं ह्यकरवं पुनः। तस्मिन्मुहूर्ते च पुनर्बभूवाङ्गुष्ठसम्मितः॥ अभिपत्याशु तद्वक्त्रं निर्गतोऽहं ततः क्षणात्। अब्रवीत्सुरसा देवी स्वेन रूपेण मां पुनः॥ अर्थसिद्धौ हरिश्रेष्ठ गच्छ सौम्य यथासुखम्। समानय च वैदेहीं राघवेण महात्मना ॥ सुखी भव महाबाहो प्रीतास्मि तव वानर। ततोऽहं साधुसाध्वीति सर्वभूतैः प्रशंसितः॥ ततोऽन्तरिक्षं विपुलं प्लुतोऽहं गरुडो यथा। छाया मे निगृहीता च न च पश्यामि किंचन ॥ सोऽहं विगतवेगस्तु दिशो दश विलोकयन्। न किंचित्तत्र पश्यामि येन मे विहता गतिः॥ अथ मे बुद्धिरुत्पन्न किंनाम गमने मम। ईदृशो विघ्न उत्पन्नो रूपमत्र न दृश्यते॥ अधोभागे तु मे दृष्टिः शोचतः पतिता तदा। तत्राद्राक्षमहं भीमां राक्षसी सलिलेशयाम्॥ प्रहस्य च महानादमुक्तोऽहं भीमया तया। अवस्थितमसम्भ्रान्तमिदं वाक्यमशोभनम्॥ क्वासि गन्तां महाकाय क्षुधिताया ममेप्सितः। भक्षः प्रीणय मे देहं चिरमाहारवर्जितम्॥ बाढमित्येव तां वाणी प्रत्यगृह्णामहं ततः। आस्यप्रमाणादधिकं तस्याः कायमपूरयम्॥ तस्याश्चास्य महद्भीमं वर्धते मम भक्षणे। न तु मां सा नु बुबुधे मम वा विकृतं कृतम्॥ ततोऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात्। तस्या हृदयमादाय प्रपतामि नभःस्थलम्॥ सा विसृष्टभुजा भीमा पपात लवणाम्भसि। मया पर्वतसंकाशा निकृत्तहृदया सती ॥ शृणोमि खगताना च वाचः सौम्या महात्मनाम्। राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हता॥ तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन्। गत्वा च महदध्वानं पश्यामि नगमण्डितम्॥ दक्षिणं तीरमुदधेर्लङ्का यत्र गता पुरी। अस्तं दिनकरे याते रक्षसां निलयं पुरीम्॥ प्रविष्टोऽहमविज्ञातो रक्षोभिर्भीमविक्रमैः। तत्र प्रविशतश्चापि कल्पान्तघनसप्रभा ॥ अट्टहासं विमुञ्चन्ती नारी काप्युत्थिता पुरः। जिघांसन्ती ततस्तां तु ज्वलदग्निशिरोरुहाम्॥ सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम्। प्रदोषकाले प्रविशं भीतयाऽहं तयोदितः॥ अहं लङ्कापुरी वीर निर्जिता विक्रमेण ते। यस्मात् तस्माद् विजेतासि सर्वरक्ष्यांस्यशेषतः।५१ ।। तत्राहं सर्वरात्रं तु विचरञ्जनकात्मजाम्। रावणान्त:पुरगतो न चापश्यं सुमध्यमाम्॥ ततः सीतामपश्यंस्तु रावणस्य निवेशने। शोकसागरमासाद्य न पारमुपलक्षये।।५३ । शोचती च मया दृष्टं प्राकारेणाभिसंवृतम्। काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम्॥ सप्राकारमवप्लुत्य पश्यामि बहुपादपम्। अशोकवनिकामध्ये शिंशपापादपो महान्॥ तमारुह्य च पश्यामि काञ्चनं कदलीवनम्। अदूराच्छिंशपावृक्षात् पश्यामि वरवर्णिनीम्॥ श्यामां कमलपत्राक्षीमुपवासकृशाननाम्। तदेकवासः संवीतां रजोध्वस्तशिरोरुहाम्॥ शोकसंतापदीनाङ्गी सीतां भर्तृहिते स्थिताम्। राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम्॥ मांसशोणितभक्ष्याभिघ्रीभिहरिणीं यथा। सा मया राक्षसीमध्ये तय॑माना मुहुर्मुहुः॥ एकवेणीधरा दीना भर्तृचिन्तापरायणा। भूमिशय्या विवर्णाङ्गी पद्मिनीव हिमागमे॥ रावणाद् विनिवृत्तार्था मर्तव्ये कृतनिश्चया। कथंचिन्मृगशावाक्षी तूर्णमासादिता मया॥ तां दृष्ट्वा तादृशीं नारी रामपत्नी यशस्विनीम्। तत्रैव शिंशपावृक्षे पश्यन्नहमवस्थितः॥ ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम्। शृणोम्यधिकगम्भीरं रावणस्य निवेशने॥ ततोऽहं परमोद्विग्नः स्वरूपं प्रत्यसंहरम्। अहं च शिंशपावृक्षे पक्षीव गहने स्थितः॥ ततो रावणदाराश्च रावणश्च महाबलः। तं देशमनुसम्प्राप्तो यत्र सीताभवत्स्थिता॥ तं दृष्ट्वाथ वरारोहा सीता रक्षोगणेश्वरम्। संकुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य च॥ वित्रस्तां परमोद्विग्नां वीक्ष्यमाणामितस्ततः। त्राणं कंचिदपश्यन्ती वेपमानां तरस्विनीम्॥ तामुवाच दशग्रीवः सीतां परमदुःखिताम्। अवाक्शिराः प्रपतितो बहुमन्यस्व मामिति॥ यदि चेत्त्वं तु मां दर्पान्नाभिनन्दसि गर्विते। द्विमासानन्तरं सीते पास्यामि रुधिरं तव॥ एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः। उवाच परमकुद्धा सीता वचनमुत्तमम्॥ राक्षसाधम रामस्य भार्याममिततेजसः। इक्ष्वाकुवंशनाथस्य स्नुषां दशरथस्य च ॥ अवाच्यं वदतो जिह्वा कथं न पतिता तव। किंस्विद्वीर्यं तवानार्य यो मां भर्तुरसंनिधौ॥ अपहृत्यागतः पाप तेनादृष्टो महात्मना। न त्वं रामस्य सदृशो दास्येऽप्यस्य न युज्यसे॥ अजेयः सत्यवाक् शूरो रणश्लाघी च राघवः। जानक्या परुषं वाक्यमेवमुक्तो दशाननः॥ जज्वाल सहसा कोपाच्चितास्थ इव पावकः। विवृत्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम्॥ मैथिले हन्तुमारब्धः स्त्रीभिर्हाहाकृतं तदा। स्त्रीणां मध्यात्समुत्पत्य तस्य भार्या दुरात्मनः।७६ ।। वरा मन्दोदरी नाम तया स प्रतिषेधितः। उक्तश्च मधुरां वाणीं तया स मदनार्दितः॥ सीतया तव किं कार्य महेन्द्रसमविक्रम। मया सह रमस्वाद्य मद्विशिष्टा न जानकी।७८।। देवगन्धर्वकन्याभिर्यक्षकन्याभिरेव च। सार्धं प्रभो रमस्वेति सीतया किं करिष्यसि ॥ ततस्ताभिः समेताभिर्नारीभिः स महाबलः। उत्थाप्य सहसा नीतो भवनं स्वं निशाचरः॥ याते तस्मिन्दशग्रीवे राक्षस्यो विकृताननाः। सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः॥ तृणवद् भाषितं तासां गणयामास जानकी। गर्जितं च तथा तासां सीतां प्राप्य निरर्थकम्।॥ वृथा गर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः। रावणाय शशंसुस्ताः सीताव्यवसितं महत्॥ ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः। परिक्लिश्य समस्तास्ता निद्रावशमुपागताः॥ तासु चैव प्रसुप्तासु सीता भर्तृहिते रता। विलप्य करुणं दीना प्रशुशोच सुदुःखिता॥ तासां मध्यात् समुत्थाय त्रिजटा वाक्यमब्रवीत्। आत्मानं खादत क्षिप्रं न सीतामसितेक्षमाम्॥ जनकस्यात्मजां साध्वीं स्नुषां दशरथस्य च। स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः॥ रक्षसां च विनाशाय भर्तुरस्या जयाय च। अलमस्मान् परित्रातुं राघवाद् राक्षसीगणम्॥ अभियाचाम वैदेहीमेतद्धि मम रोचते। यदि ह्येवंविधः स्वप्नो दुःखितायाः प्रदृश्यते॥ सा दुःखैर्विविधैर्मुक्ता सुखमाप्नोत्यनुत्तमम्। प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा॥ अलमेषा परित्रातुं राक्षस्यो महतो भयात्। ततः सा ह्रीमती बाला भर्तुविजयहर्षिता॥ अवोचद् यदि तत्तथ्यं भवेयं शरणं हि वः। तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम्॥ चिन्तयामास विश्रान्तो न च मे निर्वृतं मनः। सम्भाषणार्थे च मया जानक्याश्चिन्तितो विधिः॥ इक्ष्वाकुकुलवंशस्तु स्तुतो मम पुरस्कृतः। श्रुत्वा तु गदिमां वाचं राजर्पिगणभूषिताम्॥ प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना। कस्त्वं केन कथं चेह प्राप्तो वानरपुङ्गव॥ का च रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि। तस्यास्तद् वचनं श्रुत्वा अहमप्यब्रुवं वचः॥ देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः। सुग्रीवो नाम विक्रान्तो वानरेन्द्रो महाबलः॥ तस्य मां विद्धि भृत्यं त्वं हनूमन्तमिहागतम्। भर्ना सम्प्रहितस्तुभ्यं रामेणाक्लिष्टकर्मणा ॥ इदं तु पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम्। अङ्गुलीयमभिज्ञानमदात् तुभ्यं यशस्विनि॥ तदिच्छामि त्वयाज्ञप्तं देवि किं करवाण्यहम्। रामलक्ष्मणयोः पार्श्व नयामि त्वां किमुत्तरम्॥ एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी। आह रावणमुत्पाट्य राघवो मां नयत्विति॥ . प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम्। राघवस्य मनोह्लादमभिज्ञानमयाचिषम् ॥ अथ मामब्रवीत् सीता गृह्यतामयमुत्तमः। मणिर्येन महाबाहू रामस्त्वां बहु मन्यते ॥ इत्युक्त्वा तु वरारोहा मणिप्रवरमुत्तमम्। प्रायच्छत् परमोद्विग्ना वाचा मां संदिदेश ह॥ ततस्तस्यै प्रणम्याहं राजपुत्र्यै समाहितः। प्रदक्षिणं परिक्राममिहाभ्युद्गतमानसः॥ उत्तरं पुनरेवाह निश्चित्य मनसा तदा। हनूमन् मम वृत्तान्तं वक्तुमर्हसि राघवे॥ यथा श्रुत्वैव नचिरात् तावुभौ रामलक्ष्मणौ। सुग्रीवसहितौ वीरावुपेयातां तथा कुरु॥ यदन्यथा भवेदेतद् द्वौ मासौ जीवितं मम। न मां द्रक्ष्यति काकुत्स्थो म्रिये साहमनाथवत्॥ तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत। उत्तरं च मया दृष्टं कार्यशेषमनन्तरम्॥ ततोऽवर्धत मे कायस्तदा पर्वतसंनिभः। युद्धाकाङ्क्षी वनं तस्य विनाशयितुमारभे॥ तद् भग्नं वनखण्डं तु भ्रान्तत्रस्तमृगद्विजम्। प्रतिबुद्ध्य निरीक्षन्ते राक्षस्यो विकृताननाः॥ मां च दृष्ट्वा वने तस्मिन् समागम्य ततस्ततः। ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे॥ राजन् वनमिदं दुर्गं तव भग्नं दुरात्मना। वानरेण ह्यविज्ञाय तव वीर्यं महाबल॥ तस्य दुर्बुद्धिता राजंस्तव विप्रियकारिणः। वधमाज्ञापय क्षिप्रं यथासौ न पुनव्रजेत्॥ तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा बहुदुर्जयाः। राक्षसाः किंकरा नाम रावणस्य मनोऽनुगाः॥ तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम्। मया तस्मिन् वनोद्देशे परिघेण निषूदितम्॥ तेषां तु हतशिष्या ये ते गता लघुविक्रमाः। निहतं च मया सैन्यं रावणायाचचक्षिरे॥ ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमुत्तमम्। तत्रस्थान् राक्षसान् हत्वा शतं स्तम्भेन वै पुनः॥ ललामभूतो लङ्काया मया विध्वंसितो रुषा। ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत्॥ राक्षसैर्बहुभिः सार्धं घोररूपैर्भयानकैः। तमहं बलसम्पन्नं राक्षसं रणकोविदम्॥ परिघेणातिधोरेण सूदयामि सहानुगम्। तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान् महाबलान्॥ पदातिबलसम्पन्नान् प्रेषयामास रावणः। परिघेणैव तान् सर्वान् नयामि यमसादनम्॥ मन्त्रिपुत्रान् हताश्रुत्वा समरे लघुविक्रमान्। पञ्च सेनाग्रगाञ्छूरान् प्रेषयामास रावणः॥ तानहं सहसैन्यान् वै सर्वानेवाभ्यसूदयम्। ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम्॥ बहुभी राक्षसैः सार्धं प्रेषयामास संयुगे। तं तु मन्दोदरीपुत्रं कुमारं रणपण्डितम्॥ सहसा खं समुद्यन्तं पादयोश्च गृहीतवान्। तमासीनं शतगुणं भ्रामयित्वा व्यपेषयम्॥ तमक्षमागतं भग्नं निशम्य स दशाननः। ततश्चेन्द्रजितं नाम द्वितीयं रावणः सुतम्॥ व्यादिदेश सुसंक्रुद्धो बलिनं युद्धदुर्मदम्। तच्चाप्यहं बलं सर्वं तं च राक्षसपुङ्गवम्॥ नष्टौजसं रणे कृत्वा परं हर्षमुपागतः। महतापि महाबाहुः प्रत्ययेन महाबलः॥ प्रहितो रावणेनैष सह वीरैर्मदोद्धतैः। सोऽविषह्यं हि मां बुद्ध्वा स्वसैन्यं चावमर्दितम्।।१३०। ब्रह्मणोऽस्त्रेण स तु मां प्रबद्ध्वा चातिवेगिनः। रज्जुभिश्चापि बध्नन्ति ततो मां तत्र राक्षसाः॥ रावणस्य समीपं च गृहीत्वा मामुपागमन्। दृष्ट्वा सम्भाषितश्चाहं रावणेन दुरात्मना॥ पृष्टश्च लङ्कागमनं राक्षसानां च तं वधम्। तत्सर्वं च रणे तत्र सीतार्थमुपजल्पितम्॥ तस्यास्तु दर्शनाकाङ्क्षी प्राप्तस्त्वद्भवनं विभो। मारुतस्यौरसः पुत्रो वानरो हनुमानहम्॥ रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम्। सोऽहं दौत्येन रामस्य त्वत्सकाशमिहागतः॥ शृणु चापि समादेशं यदहं प्रब्रवीमि ते। राक्षसेश हरीशस्त्वां वाक्यमाह समाहितम्॥ सुग्रीवश्च महाभागः स त्वां कौशलमब्रवीत्। धर्मार्थकामसहितं हितं पथ्यमुवाच ह॥ वसतो ऋष्यमूके मे पर्वते विपुलद्रुमे। राघवो रणविक्रान्तो मित्रत्वं समुपागतः॥ तेन मे कथितं राजन् भार्या मे रक्षसा हृता। तत्र साहाय्यहेतोर्मे समयं कर्तुमर्हसि ॥ वालिना हृतराज्येन सुग्रीवेण सह प्रभुः। चक्रेऽग्निसाक्षिकं सख्यं राघवः सहलक्ष्मणः॥ तेन वालिनमाहत्य शरेणैकेन संयुगे। वानराणां महाराजः कृतः सम्प्लवतां प्रभुः॥ तस्य साहाय्यमस्माभिः कार्यं सर्वात्मना त्विह। तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः॥ क्षिप्रमानीयतां सीता दीयतां राघवस्य च। यावन हरयो वीरा विधमन्ति बलं तव ॥ वानराणां प्रभावोऽयं न केन विदितः पुरा। देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः॥ इति वानरराजस्त्वामाहेत्यभिहितो मया। मामैक्षत ततो रुष्टश्चक्षुषा प्रदहनिव॥ तेन वध्योऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा। मत्प्रभावमविज्ञाय रावणेन दुरात्मना ॥ ततो विभीषणो नाम तस्य भ्राता महामतिः। तेन राक्षसराजश्च याचितो मम कारणात्॥ नैवं राक्षसशार्दूल त्यज्यतामेष निश्चयः। राजशास्त्रव्यपेतो हि मार्गः संलक्ष्यते त्वया॥ दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस। दूतेन वेदितव्यं च यथाभिहितवादिना॥ सुमहत्यपराधेऽपि दूतस्यातुलविक्रम। विरूपकरणं दृष्टं न बधोऽस्ति हि शास्त्रतः॥ विभीषणेनैवमुक्तो रावणः संदिदेश तान्। राक्षसानेतदेवाद्य लाङ्गूलं दह्यतामिति ॥ ततस्तस्य वचः श्रुत्वा मम पुच्छं समन्ततः। वेष्टितं शणवल्कैश्च पट्टैः कार्पासकैस्तथा॥ राक्षसाः सिद्धसंनाहास्ततस्ते चण्डविक्रमाः। तदादीप्यन्त मे पुच्छं हनन्तः काष्ठमुष्टिभिः॥ बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः। न मे पीडाभवत् काचिद् दिक्षोर्नगरी दिवा॥ ततस्ते राक्षसाः शूरा बद्धं मामग्निसंवृतम्। अघोषयन् राजमार्गे नगरद्वारमागताः॥ ततोऽहं सुमहदूपं संक्षिप्य पुनरात्मनः। विमोचयित्वा तं बन्धं प्रकृतिस्थः स्थितः पुनः॥ आयसं परिघं गृह्य तानि रक्षांस्यसूदयम्। ततस्तन्नगरद्वारं वेगेन प्लुतवानहम्॥ पुच्छेन च प्रदीप्तेन तां पुरी साट्टगोपुराम्। दहाम्यहमसम्भ्रान्तो युगान्ताग्निरिव प्रजाः॥ विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते। लङ्कायाः कश्चिदुद्देशः सर्वा भस्मीकृता पुरी॥ दहता च मया लङ्कां दग्धा सीता न संशयः। रामस्य च महत्कार्यं मयेदं विफलीकृतम्॥ इति शोकसमाविष्टश्चिन्तामहमुपागतः। ततोऽहं वाचमश्रौषं चारणानां शुभाक्षराम्॥ जानकी न च दग्धेति विस्मयोदन्तभाषिणाम्। ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम्॥ अदग्धा जानकीत्येव निमित्तैश्चोपलक्षितम्। दीप्यमाने तु लाङ्गुले न मां दहति पावकः॥ हृदयं च प्रहृष्टं मे वाताः सुरभिगन्धिनः। तैर्निमित्तैश्च दृष्टाथैः कारणैश्च महागुणैः॥ ऋषिवाक्यैश्च दृष्टार्थैरभवं हृष्टमानसः। पुनदृष्टा च वैदेही विसृष्टश्च तया पुनः॥ ततः पर्वतमासाद्य तत्रारिष्टमहं पुनः। प्रतिप्लवनमारेभे युष्मदर्शनकाङ्क्षया॥ ततः श्वसनचन्द्रार्कसिद्धगन्धर्वसेवितम्। पन्थानमहमाक्रम्य भवतो दृष्टवानिह ॥ राघवस्य प्रसादेन भवतां चैव तेजसा। सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्ठितम्॥ एतत् सर्वं मया तत्र यथावदुपपादितम्। तत्र यन्न कृतं शेषं तत् सर्वं क्रियतामिति ॥ एतदाख्याय तत् सर्वं हनूमान् मारुतात्मजः। भूयः समुपचक्राम वचनं वक्तुमुत्तरम्॥ सफलो राघवोद्योगः सुग्रीवस्य च सम्भ्रमः। शीलमासाद्य सीताया मम च प्रीणितं मनः॥ आर्यायाः सदृशं शीलं सीतायाः प्लवगर्षभाः। तपसा धारयेल्लोकान् क्रुद्धा वा निर्दहेदपि॥ सर्वथातिप्रकृष्टोऽसौ रावणो राक्षसेश्वरः। यस्य तां स्पृशतो गात्रं तपसा न विनाशितम्॥ न तदग्निशिखा कुर्यात् संस्पृष्टा पाणिना सती। जनकस्य सुता कुर्याद् यत् क्रोधकलुषीकृता॥ जाम्बवत्प्रमुखान् सर्वाननुज्ञाप्य महाकपीन्। अस्मिन्नेवंगते कार्ये भवतां च निवेदिते। न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ॥ अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम्। तां लङ्कां तरसा हन्तुं रावणं च महाबलम्॥ किं पुनः सहितो वीरैर्बलवद्भिः : कृतात्मभिः। कृतास्त्रैः प्लवगैः शक्तैर्भवद्भिर्विजयैषिभिः॥ अहं तु रावणं युद्धे ससैन्यं सपुरःसरम्। सहपुत्रं वधिष्यामि सहोदरयुतं युधि॥ ब्राह्ममस्त्रं च रौद्रं च वायव्यं वारुणं तथा। यदि शक्रजितोऽस्त्राणि दुर्निरीक्ष्याणि संयुगे। तान्यहं निहनिष्यामि विधमिष्यामि राक्षसान्॥ भवतामभ्यनुज्ञातो विक्रमो मे रुणद्धि तम्। मयातुला विसृष्टा हि शैलवृष्टिर्निरन्तरा॥ देवानपि रणे हन्यात् किं पुनस्तान् निशाचरान्। भवतामननुज्ञातो विक्रमो मे रुणद्धि माम्॥ सागरोऽप्यतियाद् वेलां मन्दरः प्रचलेदपि। न जाम्बवन्तं समरे कम्पयेदरिवाहिनी॥ सर्वराक्षससङ्घानां राक्षसा ये च पूर्वजाः। अलमेकोऽपि नाशाय वीरो बालिसुतः कपिः॥ प्लवगस्योरूवेगेन नीलस्य च महात्मनः। मन्दरोऽप्यवशीर्येत किं पुनयुधि राक्षसाः॥ सदेवासुरयक्षेषु गन्धर्वोरगपक्षिषु। मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा॥ अश्विपुत्रौ महावेगावेतौ प्लवगसत्तमौ। एतयोः प्रतियोद्धारं न पश्यामि रणाजिरे॥ मयैव निहता लङ्का दग्धा भस्मीकृता पुरी। राजमार्गेषु सर्वेषु नाम विश्रावितं मया॥ जयत्यतिबलो रामो लक्ष्मणश्च महाबलः। राजा जयति सुग्रीवो राघवेणाभिपालितः॥ अहं कोसलराजस्य दासः पवनसम्भवः। हनूमानिति सर्वत्र नाम विश्रावितं मया॥ अशोकवनिकामध्ये रावणस्य दुरात्मनः। अधस्ताच्छिशपामूले साध्वी करुणमास्थिता॥ राक्षसीभिः परिवृता शोकसंतापकर्शिता। मेघरेखापरिवृता चन्द्ररेखेव निष्प्रभा॥ अचिन्तयन्ती वैदेही रावणं बलदर्पितम्। पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी॥ अनुरक्ता हि वैदेही रामे सर्वात्मना शुभा। अनन्यचित्ता रामेण पौलोमीव पुरन्दरे॥ तदेकवासःसंवीता रजोध्वस्ता तथैव च। सा मया राक्षसीमध्ये तय॑माना मुहुर्मुहुः॥ राक्षसीभिर्विरूपाभिर्दृष्टा हि प्रमदावने। एकवेणीधरा दीना भर्तृचिन्तापरायणा॥ अधःशय्या विवर्णाङ्गी पद्मिनीव हिमोदये। रावणाद् विनिवृत्तार्था मर्दव्यकृतनिश्चया॥ कथंचिन्मृगशावाक्षी विश्वासमुपपादिता। ततः सम्भाषिता चैव सर्वमर्थं प्रकाशिता॥ रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता। नियतः समुदाचारो भक्तिभर्तरि चोत्तमा॥ यन्न हन्ति दशग्रीवं स महात्मा दशाननः। निमित्तमात्रं रामस्तु वधे तस्य भविष्यति ॥ सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्शिता। प्रतिपत्पाठशीलस्य विद्येव तनुतां गता॥ एवमास्ते महाभागा सीता शोकपरायणा। यदत्र प्रतिकर्तव्यं तत् सर्वमुपकल्प्यताम्॥ ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसः। अङ्गदप्रमुखा वीरा हनूमांश्च महाकपिः॥ प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरःसराः। महेन्द्राग्रात् समुत्पत्य पुप्लुवुः प्लवगर्षभाः॥ मेरुमन्दरसंकाशा मत्ता इव महागजाः। छादयन्त इवाकाशं महाकाया महाबलाः॥ सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम्। हनूमन्तं महावेगं वहन्त इव दृष्टिभिः॥ राघवे चार्थनिर्वृत्तिं कर्तुं च परमं यशः। समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः॥ प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः। सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः॥ प्लवमानाः खमाप्लुत्य ततस्ते काननौकसः। नन्दनोपममासेदुर्वनं द्रुमशतायुतम्॥ यत् तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम्। अधृष्यं सर्वभूतानां सर्वभूतमनोहरम्॥ यद् रक्षति महावीरः सदा दधिमुखः कपिः। मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः॥ तद् वनमुपागम्य बभूवुः परमोत्कटाः। वानरा वानरेन्द्रस्य मन:कान्तं महावनम् ॥ ते ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत्। कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः॥ ततः कुमारस्तान् वृद्धाञ्जाम्बवत्प्रमुखान्कपीन्। अनुमान्य ददौ तेषां निसर्ग मधुभक्षणे॥ ते निसृष्टाः कुमारेण धीमता वालिसूनुना। हरयः समपद्यन्त दुमान् मधुकराकुलान्॥ भक्षयन्तः सुगन्धीनि मूलानि च फलानि च। जग्मुः प्रहर्षं ते सर्वे बभूवुश्च मदोत्कटाः॥ ततश्चानुमताः सर्वे सुसंहृष्टा वनौकसः। मुदिताश्च ततस्ते च प्रनृत्यन्ति ततस्ततः॥ नृत्यन्ति केचित् प्रणमन्ति केचित्। पतन्ति केचित् प्रचरन्ति केचित् प्लवन्ति केचित् प्रलपन्ति केचित्॥ परस्परं केचिदुपाश्रयन्ति परस्परं केचिदतिब्रुवन्ति। द्रुमाद् दुमं केचिदभिद्रवन्ति क्षितौ नगाग्रानिपतन्ति केचित्॥ महीतलात् केचिदुदीर्णवेगा महाद्रुमाग्राण्यभिसम्पतन्ति। गायन्तमन्यः प्रहसन्नुपैति हसन्तमन्यः प्ररुदन्नुपैति ॥ तुदन्तमन्यः प्रणुदन्नुपैति समाकुलं तत् कपिसैन्यमासीत्। न चात्र कश्चिन्न बभूव मत्तो न चात्र कश्चिन्न बभूव हप्तः॥ ततो वनं तत् परिभक्ष्यमाणं दुमांश्च विध्वंसितपत्रपुष्पान्। समीक्ष्य कोपाद् दधिवक्त्रनामा निवारयामास कपिः कपीस्तान्॥ स तैः प्रवृद्धैः परिभय॑मानो वनस्य गोप्ता हरिवृद्धवीरः। चकार भूयो मतिमुग्रतेजा वनस्य रक्षां प्रति वानरेभ्यः॥ मसक्तमन्यांश्च तलैर्जधान। समेत्य कैश्चित् कलहं चकार तथैव साम्नोपजगाम कांश्चित्॥ बलाच्च तेन प्रतिवार्यमाणैः। प्रधर्षणे त्यक्तभयैः समेत्य प्रकृष्यते चाप्यनवेक्ष्य दोषम्॥ स्तलैश्च पादैश्च समापयन्तः। न्महावनं निर्विषयं च चक्रुः॥ तानुवाच हरिश्रेष्ठो हनूमान् वानरर्षभः। अव्यग्रमनसो यूयं मधु सेवत वानराः॥ अहमावर्जयिष्यामि युष्माकं परिपन्थिनः। श्रुत्वा हनूमतो वाक्यं हरीणां प्रवरोऽङ्गदः॥ प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु। अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया॥ अकार्यमपि कर्तव्यं किमङ्ग पुनरीदृशम्। अङ्गदस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः॥ साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन्। पूजयित्वाङ्गदं सर्वे वानरा वानरर्षभम् ॥ जग्मुर्मधुवनं यत्र नदीवेग इव दुमम्। ते प्रविष्टा मधुवनं पालानाक्रम्य शक्तितः॥ अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम्। पपुः सर्वे मधु तदा रसवत् फलमाददुः॥ उत्पत्य च ततः सर्वे वनपालान् समागतान्। ते ताडयन्तः शतश: सक्ता मधुवने तदा॥ मधूनि द्रोणमात्राणि बाहुभिः परिगृह्य ते। पिबन्ति कपयः केचित् सङ्घशस्तत्र हृष्टवत्॥ घ्नन्ति स्म सहिताः सर्वे भक्षयन्ति तथापरे। केचित् पीत्वापविध्यन्ति मधूनि मधुपिङ्गलाः॥ मधूच्छिष्टेन केचिच्च जघ्नुरन्योन्यमुत्कटाः। अपरे वृक्षमूलेषु शाखा गृह्य व्यवस्थिताः॥ अत्यर्थं च मदग्लानाः पर्णान्यास्तीर्य शेरते। उन्मत्तवेगा: प्लवगा मधुमत्ताश्च हृष्टवत्॥ क्षिपन्त्यपि तथान्योन्यं स्खलन्ति च तथापरे। केचित् क्ष्वेडान्प्रकुर्वन्ति केचित् कूचन्ति हृष्टवत्॥ हरयो मधुना मत्ताः केचित् सुप्ता महीतले। धृष्टाः केचिद्धसन्त्यन्ये केचिद् कुर्वन्ति चेतरत्॥ कृत्वा केचिद् वदन्त्यन्ये केचिद् बुध्यन्ति चेतरत्। येऽप्यत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु॥ तेऽपि तैर्वानीमैः प्रतिषिद्धा दिशो गताः। जानुभिश्च प्रघृष्टाश्च देवमार्गं च दर्शिताः॥ अब्रुवन् परमोद्विग्ना गत्वा दधिमुखं वचः। हनूमता दत्तवरैर्हतं मधुवनं बलात्। वयं च जानुभिदृष्टा देवमार्गं च दर्शिताः॥ तदा दधिमुखः क्रुद्धो वनपस्तत्र वानरः। हतं मधुवनं श्रुत्वा सान्त्वयामास तान् हरीन् ॥ एतागच्छत गच्छामो वानरानतिदर्पितान्। बलेनावारयिष्यामि प्रभुञ्जानान् मधूत्तमम्॥ श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः। पुनर्वीरा मधुवनं तेनैव सहिता ययुः॥ मध्ये चैषां दधिमुखः सुप्रगृह्य महातरुम्। समभ्यधावन् वेगेन सर्वे ते च प्लवंगमाः॥ ते शिलाः पादपांश्चैव पाषाणानपि वानराः। गृहीत्वाभ्यागमन् कुद्धा यत्र ते कपिकुञ्जरा ॥ बलान्निवारयन्तश्च आसेदुर्हरयो हरीन्। संदष्टौष्ठपुटाः कुद्धा भर्त्सयन्तो मुहुर्मुहुः॥ अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुङ्गवाः। अभ्यधावन्त वेगेन हनुमत्प्रमुखांस्तदा॥ सवृक्षं तं महाबाहुमापतन्तं महाबलम्। वेगवन्तं विजग्राह बाहुभ्यां कुपितोऽङ्गदः॥ मदान्धो न कृपां चक्रे आर्यकोऽयं ममेति सः। अथैनं निष्पिपेषाशु वेगेन वसुधातले॥- स भग्नबाहूरुमुखो विह्वलः शोणितोक्षितः। प्रमुमोह महावीरो मुहूर्तं कपिकुञ्जरः॥ स कथंचिद् विमुक्तस्तैर्वानरैर्वानरर्षभः। उवाचैकान्तमागत्य स्वान् भृत्यान् समुपागतान्॥ एतागच्छत गच्छामो भर्ता नो यत्र वानरः। सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति॥ सर्वं चैवाङ्गदे दोषं श्रावयिष्याम पार्थिवे। अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान्॥ इष्टं मधुवनं ह्येतत् सुग्रीवस्य महात्मनः। पितृपैतामहं दिव्यं देवैरापि दुरासदम्॥ स वानरानिमान् सर्वान् मधुलुब्धान् गतायुषः। घातयिष्यति दण्डेन सुग्रीवः ससुहृज्जनान्॥ बद्ध्वा ह्येते दुरात्मानो नृपाज्ञापरिपन्थिनः। अमर्षप्रभवो रोषः सफलो मे भविष्यति॥ एवमुक्त्वा दधिमुखो वनपालान् महाबलः। जगाम सहसोत्पत्य वनपालैः समन्वितः॥ निमेषान्तरमात्रेण स हि प्राप्तो वनालयः। सहस्रांशुसुतो धीमान् सुग्रीवो यत्र वानरः॥ रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीवमेव च। समप्रतिष्ठां जगतीमाकाशान्निपपात ह॥ स निपत्य महावीरः सर्वैस्तैः परिवारितः। हरिर्दधिमुखः पालैः पालानां परमेश्वरः॥ स दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम्। सुग्रीवस्याशु तौ मूर्धा चरणौ प्रत्यपीडयत्॥ ततो मूर्धा निपतितं वानरं वानरर्षभः। दृष्ट्वैवोद्विग्नहृदयो वाक्यमेतदुवाच ह॥ उत्तिष्ठोत्तिष्ठ कस्मात् त्वं पादयोः पतितो मम। अभयं ते प्रदास्यामि सत्यमेवाभिधीयताम्॥ किं सम्भ्रमाद्धितं कृत्स्नं ब्रूहि यद् वक्तुमर्हसि। कच्चिन्मधुवने स्वस्ति श्रोतुमिच्छामि वानर ॥ स समाश्वासितस्तेन सुग्रीवेण महात्मना। उत्थाय स महाप्राज्ञो वाक्यं दधिमुखोऽब्रवीत्॥ नवद्धृजरता राजन् न त्वया न च वालिना। वनं निसृष्टपूर्वं ते नाशितं तत्तु वानरैः॥ न्यवारयमहं सर्वान् सहैभिर्वनचारिभिः। अचिन्तयित्वा मां हृष्टा भक्षयन्ति पिबन्ति च॥ एभिः प्रधर्षणायां च वारितं वनपालकैः। मामप्यचिन्तयन् देव भक्षयन्ति वनौकसः॥ शिष्टमत्रापविध्यन्ति भक्षयन्ति तथापरे। निवार्यमाणास्ते सर्वे भ्रुकुटिं दर्शयन्ति हि।।।।। इमे हि संरब्धतरास्तदा तैः सम्प्रधर्षिताः। निवार्यन्ते वनात् तस्मात् क्रुद्धैर्वानरपुङ्गवैः॥ ततस्तैबहुभिवीरैर्वानरैर्वानरर्षभाः। संरक्तनयनैः क्रोधाद्धरयः संप्रधर्षिताः॥ पाणिभिनिहताः केचित् केचिज्जानुभिराहताः। प्रकृष्टाश्च तदा कामं देवमार्गं च दर्शिताः॥ एवमेते हताः शूरास्त्वयि तिष्ठति भर्तरि। कृत्स्नं मधुवनं चैव प्रकामं तैश्च भक्ष्यते॥ एवं विज्ञाप्यमानं तं सुग्रीवं वानरर्षभम्। अपृच्छत्तं महाप्राज्ञो लक्ष्मणः परवीरहा॥ किमयं वानरो राजन् वनपः प्रत्युपस्थितः। किं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत्॥ एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना। लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः॥ आर्य लक्ष्मण संप्राह वीरो दधिमुखः कपिः। अङ्गदप्रमुखैवीरैक्षितं मधु वानरैः॥ नैषामकृतकार्याणामीदृशः स्याद् व्यतिक्रमः। वनं यदभिपन्नास्ते साधितं कर्म तद्धवम्॥ वारयन्तो भृशं प्राप्ताः पाला जानुभिराहताः। तथा न गणितश्चायं कपिर्दधिमुखो बली॥ पतिर्मम वनस्यायमस्माभिः स्थापितः स्वयम्। दृष्टा देवी न संदेहो न चान्येन हनूमता ॥ नह्यन्यः साधने हेतुः कर्मणोऽस्य हनूमतः। कार्यसिद्धिहर्नुमति मतिश्च हरिपुङ्गवे॥ व्यवसायश्च वीर्यं च श्रुतं चापि प्रतिष्ठितम्। जाम्बवान् यत्र नेता स्यादङ्गदश्च महाबलः हनूमांश्चाप्यधिष्ठाता न तत्र गतिरन्यथा। अङ्गदप्रमुखैवीरैर्हतं मधुवनं किल॥ विचित्य दक्षिणामाशामागतैर्हरिपुङ्गवैः। आगतैश्च प्रहृष्टं तद्यथा मधुवनं हि तैः॥ धर्षितं च वनं कृत्स्नमुपयुक्तं तु वानरैः। पातिता वनपालास्ते तदा जानुभिराहताः॥ एतदर्थमयं प्राप्तो वक्तुं मधुरवागिह। नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः॥ दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः। अभिगम्य यथा सर्वे पिबन्ति मधु वानराः॥ न चाप्यदृष्ट्वा वैदेही विश्रुताः पुरुषर्षभ। वनं दत्तवरं दिव्यं धर्षयेयुर्वनौकसः॥ ततः प्रहृष्टो धर्मात्मा लक्ष्मणः सहराघवः। श्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच्च्युताम्॥ प्राहृष्यत भृशं रामो लक्ष्मणश्च महायशाः। श्रुत्वा दधिमुखस्यैवं सुग्रीवस्तु प्रहष्य च॥ वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत। प्रीतोऽस्मि सोऽहं यद्भुक्तं वनं तैः कृतकर्मभिः॥ धर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम्। गच्छ शीघ्रं मधुवनं संरक्षस्व त्वमेव हि। शीघ्रं प्रेषय सर्वांस्तान् हनूमत्प्रमुखान् कपीन्॥ शाखामृगांस्तान् मृगराजदोन्। प्रष्टुं कृतार्थान्सह राघवाभ्यां श्रोतुं च सीताधिगमे प्रयत्नम्॥ प्रीतिस्फीताक्षौ संप्रहृष्टौ कुमारौ दृष्ट्वा सिद्धार्थों वानराणां च राजा। अङ्गैः प्रहृष्टैः कार्यसिद्धिं विदित्वा बाह्वोरासन्नामतिमात्रं ननन्द ॥ सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः। राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत्॥ स प्रणम्य च सुग्रीवं राघवौ च महाबलौ। वानरैः सहितः शूरैर्दिवमेवोत्पपात ह॥ स यथैवागतः पूर्वं तथैव त्वरितं गतः। निपत्य गगनाद् भूमौ तद् वनं प्रविवेश ह॥ स प्रविष्टो मधुवनं ददर्श हरियूथपान्। विमदानुद्धतान् सर्वान् मेहमानान् मधूदकम्॥ स तानुपागमद् वीरो बद्ध्वा करपुटाञ्जलिम्। उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम्॥ सौम्य रोषो न कर्तव्यो यदेभिः परिवारणम्। अज्ञानाद् रक्षिभिः क्रोधाद् भवन्तः प्रतिषेधिताः॥ श्रान्तो दूरादनुप्राप्तो भक्षयस्व स्वकं मधु। युवराजस्त्वमीशश्च वनस्यास्य महाबल ॥ मौात्पूर्वं कृतो रोषस्तद् भवान् क्षन्तुमर्हति । यथैव हि पिता तेऽभूत् पूर्वं हरिगणेश्वरः॥ तथा त्वमपि सुग्रीवो नान्यस्तु हरिसत्तम। आख्यातं हि मया गत्वा पितृव्यस्य तवानघ॥ इहोपयानं सर्वेषामेतेषां वनचारिणाम्। भवदागमनं श्रुत्वा सहैभिर्वनचारिभिः॥ प्रहृष्टो न तु रुष्टोऽसौ वनं श्रुत्वा प्रधर्षितम्। प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः॥ शीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः। श्रुत्वा दधिमुखस्यैतद् वचनं श्लक्ष्णमङ्गदः॥ अब्रवीत् तान् हरिश्रेष्ठो वाक्यं वाक्यविशारदः। शङ्के श्रुतोऽयं वृत्तान्तो रामेण हरियूथपाः॥ अयं च हर्षादाख्याति तेन जानामि हेतुना। तत् क्षमं नेह नः स्थातुं कृते कार्ये परंतपाः॥ पीत्वा मधु यथाकामं विक्रान्ता वनचारिणः। किं शेषं गमनं तत्र सुग्रीवो यत्र वानरः॥ सर्वे यथा मां वक्ष्यन्ति समेत्य हरिपुङ्गवाः। तथास्मि कर्ता कर्तव्ये भवद्भिः परवानहम्॥ नाज्ञापयितुमीशोऽहं युवराजोऽस्मि यद्यपि। अयुक्तं कृतकर्माणो यूयं धर्षयितुं बलात्॥ ब्रुवतश्चाङ्गदस्यैवं श्रुत्वा वचनमुत्तमम्। प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः॥ एवं वक्ष्यति को राजन् प्रभुः सन् वानरर्षभ। ऐश्वर्यमदमत्तो हि सर्वोऽहमिति मन्यते॥ तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित्। सन्नतिर्हि तवाख्याति भविष्यच्छुभयोग्यताम् ॥ सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः। स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः॥ त्वया ह्यनुक्तैर्हरिभि व शक्यं पदात् पदम्। क्वचिद् गन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते॥ एवं तु वदतां तेषामङ्गदः प्रत्यभाषत। साधु गच्छाम इत्युक्त्वा खमुत्पेतुर्महाबलाः॥ उत्पतन्तमनूत्पेतुः सर्वे ते हरियूथपाः। कृत्वाऽऽकाशं निराकाशं यन्त्रोत्क्षिप्ता इवोपलाः॥ अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम्। तेऽम्बरं सहसोत्पत्य वेगवन्तः प्लवङ्गमाः॥ विनदन्तो महानादं घना वातेरिता यथा। अङ्गदे समनुप्राप्ते सुग्रीवो वानरेश्वरः॥ उवाच शोकसंतप्तं रामं कमललोचनम्। समाश्वसिहि भद्रं ते दृष्टा देवी न संशयः॥ नागन्तुमिह शक्यं तैरतीतसमयैरिह। अङ्गदस्य प्रहर्षाच्च जानामि शुभदर्शन ॥ न मत्सकाशमागच्छेत् कृत्ये हि विनिपातिते। युवराजो महाबाहुः प्लवतामङ्गदो वरः॥ यद्यप्यकृतकृत्यानामीदृशः स्यादुपक्रमः। भवेत् तु दीनवदनो भ्रान्तविप्लुतमानसः॥ पितृपैतामहं चैतत् पूर्वकैरभिरक्षितम्। न मे मधुवनं हन्याददृष्ट्वा जनकात्मजाम्॥ कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत। दृष्टा देवी न संदेहो न चान्येन हनूमता॥ नह्यस्य कर्मणो हेतुः साधने तद्विधो भवेत्। हनूमतीह सिद्धिश्च मतिश्च मतिसत्तम ॥ व्यवसायश्च शौर्यं च श्रुतं चापि प्रतिष्ठितम्। जाम्बवान् यत्र नेता स्यादङ्गदश्च हरीश्वरः॥ हनूमांश्चाप्यधिष्ठाता न तत्र गतिरन्यथा। मा भूश्चिन्तासमायुक्तः सम्प्रत्यमितविक्रम॥ यदा हि दर्पितोदग्राः संगताः काननौकसः। नैषामकृतकार्याणामीदृशः स्यादुपक्रमः॥ वनभङ्गेन जानामि मधूनां भक्षणेन च। आयताञ्चितलाकॅलः ततः किलकिलाशब्दं शुश्रावासन्नमम्बरे॥ हनूमत्कर्मदृप्तानां नदतां काननौकसाम्। किष्किन्धामुपयातानां सिद्धिं कथयतामिव ॥ ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः। सोऽभवद्धृष्टमानसः॥ आजग्मुस्तेऽति हरयो रामदर्शनकाक्षिणः। अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम्॥ तेऽङ्गदप्रमुखा वीराः प्रहृष्टाश्च मुदान्विताः। निपेतुर्हरिराजस्य समीपे राघवस्य च॥ हनूमांश्च महाबाहुः प्रणम्य शिरसा ततः। नियतामक्षतां देवीं राघवाय न्यवेदयत्॥ दृष्टा देवीति हनुमद्वदनादमृतोपमम्। आकर्ण्य वचनं रामो हर्षमाप सलक्ष्मणः॥ निश्चितार्थं ततस्तस्मिन् सुग्रीवं पवनात्मजे। लक्ष्मणः प्रीतिमान् प्रीतं बहुमानादवेक्षत॥ प्रीत्या च परयोपेतो राघवः परवीरहा। बहुमानेन महती हनूमन्तमवैक्षत॥ ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम्। प्रणम्य शिरसा राम लक्ष्मणं च महाबलम्॥ युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च। प्रवृत्तिमथ सीतायाः प्रवक्तुमुपचक्रमुः॥ रावणान्तःपुरे रोधं राक्षसीभिश्च तर्जनम्। रामे समनुरागं च यथा च नियमः कृतः।।३। एतदाख्याय ते सर्वं हरयो रामसंनिधौ। वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत्॥ क्व सीता वर्तते देवी कथं च मयि वर्तते। एतन्मे सर्वमाख्यात वैदेहीं प्रति वानराः॥ रामस्य गदितं श्रुत्वा हरयो रामसंनिधौ। चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम्॥ श्रुत्वा तु वचनं तेषां हनूमान् मारुतात्मजः। प्रणम्य शिरसा देव्यै सीतायै तां दिशं प्रति॥ उवाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा। तं मणिं काञ्चनं दिव्यं दीप्यमानं स्वेतजसा ॥ दत्त्वा रामाय हनुमांस्ततः प्राञ्जलिरब्रवीत्। समुद्रं लवयित्वाहं शतयोजनमायतम्॥ अगच्छं जानकी सीतां मार्गमाणो दिक्षया। तत्र लङ्केति नगरी रावणस्य दुरात्मनः॥ दक्षिणस्य समुस्य तीरे वसति दक्षिणे। तत्र सीता मया दृष्टा रावणान्तः पुरे सती॥ त्वयि संन्यस्य जीवन्ती रामा राम मनोरथम्। दृष्टा मे राक्षसीमध्ये तय॑माना मुहुर्मुहुः॥ राक्षसीभिर्विरूपाभी रक्षिता प्रमदावने। दुःखमापद्यते देवी त्वया वीर सुखोचिता ॥ रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता। एकवेणीधरा दीना त्वयि चिन्तापरायणा ॥ अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे। रावणाद् विनिवृत्तार्था मर्तव्यकृतनिश्चया॥ देवी कथंचित् काकुत्स्थ त्वन्मना मार्गिता मया। इक्ष्वाकुवंशविख्यातिं शनैः कीर्तयतानघ ॥ सा मया नरशार्दूल शनैर्विश्वासिता तदा। ततः सम्भाषिता देवी सर्वमर्थं च दर्शिता॥ रामसुग्रीवसख्यं च श्रुत्वा हर्षमुपागता। नियतः समुदाचारो भक्तिश्चास्याः सदा त्वयि॥ एवं मया महाभाग दृष्टा जनकनन्दिनी। उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ॥ अभिज्ञानं च मे दत्तं यथावृतं तवान्तिके। चित्रकूटे महाप्राज्ञ वायसं प्रति राघव ॥ विज्ञाप्यः पुनरप्येष रामो वायुसुत त्वया। अखिलेन यथा दृष्टमिति मामाह जानकी॥ अयं चास्मै प्रदातव्यो यत्नात् सुपरिरक्षितः। ब्रुवता वचनान्येवं सुग्रीवस्योपशृण्वतः॥ एष चूडामणिः श्रीमान् मया ते यत्नरक्षितः। मनःशिलायास्तिलकं तत् स्मरस्वेति चाब्रवीत्॥ एष निर्यातितः श्रीमान् मया ते वारिसम्भवः। एनं दृष्ट्वा प्रमोदिष्ये व्यसने त्वामिवानघ ॥ जीवितं धारयिष्यामि मासं दशरथात्मज। ऊर्ध्वं मासान्न जीवेयं रक्षसां वशमागता॥ इति मामब्रवीत् सीता कृशाङ्गी धर्मचारिणी। रावणान्तःपुरे रुद्धा मृगीवोत्फुल्ललोचना॥ एतदेव मयाऽऽख्यातं सर्वं राघव यद् यथा। सर्वथा सागरजले संतारः प्रविधीयताम्॥ तौ जाताश्वासौ राजपुत्रौ विदित्वा तच्चाभिज्ञानं राघवाय प्रदाय। देव्या चाख्यातं सर्वमेवानुपूर्व्याद् वाचा सम्पूर्णं वायुपुत्रः शशंस॥ एवमुक्तो हनुमता रामो दशरथात्मजः। तं मणिं हृदये कृत्वा रुरोद सहलक्ष्मणः॥ तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शोककर्शितः। नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत्॥ यथैव धेनुः स्रवति स्नेहाद् वत्सस्य वत्सला। तथा ममापि हृदयं मणिश्रेष्ठस्य दर्शनात्॥ मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे। वधूकाले यथा बद्धमधिकं मूर्ध्नि शोभते॥ अयं हि जलसम्भूतो मणिः प्रवरपूजितः। यज्ञे परमतुष्टेन दत्तः शक्रेण धीमता॥ इमं दृष्ट्वा मणिश्रेष्ठं तथा तातस्य दर्शनम्। अद्यास्म्यवगतः सौम्य सौम्य वैदेहस्य तथा विभोः॥ अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः। अद्यास्य दर्शनेनाहं प्राप्तां तामिव चिन्तये।७।। किमाह सीता वैदेही ब्रूहि सौम्य पुनः पुनः। परासुमिव तोयेन सिञ्चन्ती वाक्यवारिणा ॥ इतस्तु किं दुःखतरं यदिमं वारिसम्भवम् । मणिं पश्यामि सौमित्रे वैदेहीमागतां विना॥ चिरं जीवति वैदही यदि मासं धरिष्यति। क्षणं वीर न जीवेयं विना तामसितेक्षणाम् ॥ नय मामपि तं देशं यत्र दृष्टा मम प्रिया। न तिष्ठेयं क्षणमपि प्रवृत्तिमुपलभ्य च॥ कथं सा मम सुश्रोणी भीरुभीरुः सती तदा। भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम्॥ शारदस्तिमिरोन्मुक्तो नूनं चन्द्र इवाम्बुदैः। आवृतो वदनं तस्या न विराजति साम्प्रतम्॥ किमाह सीता हनुमंस्तत्त्वतः कथयस्व मे। एतेन खलु जीविष्ये भेषजेनातुरो यथा॥ मधुरा मधुरालापा किमाह मम भामिनी। मद्विहीना वरारोहा हनुमन् कथयस्व मे। दुःखाद् दुःखतरं प्राप्य कथं जीवति जानकी॥ एवमुक्तस्तु हनुमान् राघवेण महात्मना। सीताया भाषितं सर्वं न्यवेदयत राघवे॥ इदमुक्तवती देवी जानकी पुरुषर्षभ। पूर्ववृत्तमभिज्ञानं चित्रकूटे यथातथम्॥ सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता। वायसः सहसोत्पत्य विददार स्तनान्तरम्॥ पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज। पुनश्च किल पक्षी स देव्या जनयति व्यथाम्॥ ततः पुनरुपागम्य विददार भृशं किल। ततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः॥ वायसेन च तेनैवं सततं बाध्यमानया। बोधितः किल देव्या त्वं सुखसुप्तः परंतप॥ तां च दृष्ट्वा महाबाहो दारितां च स्तनान्तरे। आशीविष इव क्रुद्धस्ततो वाक्यं त्वमूचिवान्॥ नखाग्रैः केन ते भीरु रादितं वै स्तनान्तरम्। कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना॥ निरीक्षमाणः सहसा वायसं समुदैक्षथाः। नखैः सरुधिरैस्तीक्ष्णैस्तामेवाभिमुखं स्थितम्॥ सुतः किल स शक्रस्य वायसः पततां वरः। धरान्तरगतः शीघ्रं पवनस्य गतौ समः॥ ततस्तस्मिन् महाबाहो कोपसंवर्तितेक्षणः। वायसे त्वं व्यधाः क्रूरां मतिं मतिमतां वरः॥ स दर्भसंस्तराद् गृह्य ब्रह्मास्त्रेण न्ययोजयः। स दीप्त इव कालाग्निर्जज्वालाभिमुखं खगम्॥ स त्वं प्रदीप्तं चिक्षेप दर्भ तं वायसं प्रति । ततस्तु वायसं दीप्तः स दर्भोऽनुजगाम ह॥ भीतैश्च सम्परित्यक्तः सुरैः सर्वैश्व वायसः। त्रींल्लोकान् सम्परिक्रम्य त्रातारं नाधिगच्छति च॥ पुनरप्यागतस्तत्र त्वत्सकाशमरिंदप्त। त्वं तं निपतितं भूमौ शरण्यः शरणागतम्॥ वधार्हमपि काकुत्स्थ कृपया परिपालयः। मोघमस्त्रं न शक्यं तु कर्तुमित्येव राघव ॥ भवांस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम्। राम त्वां स नमस्कृत्य राज्ञो दशरथस्य च॥ विसृष्टस्तु तदा काकः प्रतिपेदे स्वमालयम्। एवमस्त्रविदां श्रेष्ठः सत्त्ववाञ्छीलवानपि॥ किमर्थमस्त्रं रक्षःसु न योजयसि राघव। न दानवा न गन्धर्वा नासुरा न मरुद्गणाः॥ तव राम रणे शक्तास्तथा प्रतिसमासितुम् । तव वीर्यवतः कच्चिन्मयि यद्यस्ति सम्भ्रम॥ क्षिप्रं सुनियतैर्बाणैर्हन्यतां युधि रावणः। भ्रातुरादेशमाज्ञाय लक्ष्मणो वा परंतपः॥ स किमर्थं नरवरो न मां रक्षति राघवः। शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ॥ सुराणामपि दुर्धर्षों किमर्थं मामुपेक्षतः। ममैव दुष्कृतं किंचिन्महदस्ति न संशयः॥ समर्थों सहितौ यन्मां न रक्षेते परंतपौ। वैदेह्या वचनं श्रुत्वा करुणं साधुभाषितम्॥ । पुनरप्यहमारू तामिदं वचनमब्रवम्। त्वच्छोकविमुखो रामो देवि सत्येन ते शपे॥ रामे दुःखाभिभूते च लक्ष्मणः परितप्यते। कथंचिद् भवती दृष्टा न कालः परिशोचितुम्॥ इदं मुहूर्तं दु:खानामन्तं द्रक्ष्यसि भामिनि। तावुभौ नरशार्दूलौ राजपुत्रौ परंतपौ॥ त्वदर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः। हत्वा च समरे रौद्रं रावणं सहबान्धवम् ॥ राघवस्त्वां वरारोहे स्वपुरी नयिता ध्रुवम्। यत् तु रामो विजानीयादभिज्ञानमनिन्दिते॥ प्रीतिसंजननं तस्य प्रदातुं तत् त्वमर्हसि। साभिवीक्ष्य दिशः सर्वा वेण्युद्ग्रथनमुत्तमम्॥ मुक्त्वा वस्त्राद् ददौ मह्यं मणिमेतं महाबल। प्रतिगृह्य मणिं दोभ्यां तव हेतो रघुप्रिय॥ शिरसा सम्प्रणम्यैनामहमागमने त्वरे। गमने च कृतोत्साहमवेक्ष्य वरवर्णिनी॥ विवर्धमानं च हि मामुवाच जनकात्मजा। अश्रुपूर्णमुखी दीना बाष्पगद्गदभाषिणी॥ ममोत्पतनसम्भ्रान्ता शोकवेगसमाहता। मामुवाच ततः सीता सभाग्योऽसि महाकपे॥ यद् द्रक्ष्यसि महाबाहुं रामं कमललोचनम्। लक्ष्मणं च महाबाहुं देवरं मे यशस्विनम्॥ सीतयाप्येवमुक्तोऽहमब्रुवं मैथिली तथा। पृष्ठमारोह मे देवि क्षिप्रं जनकनन्दिनि॥ यावत्ते दर्शयाम्यद्य ससुग्रीवं सलक्ष्मणम्। राघवं च महाभागे भरिमसितेक्षणे॥ साब्रवीन्मां ततो देवी नैष धर्मो महाकपे। यत्ते पृष्ठं सिषेवेऽहं स्ववशा हरिपुङ्गव ॥ पुरा च यदहं वीर स्पृष्टा गात्रेषु रक्षसा। तत्राहं किं करिष्यामि कालेनोपनिपीडिता॥ गच्छ त्वं कपिशार्दूल यत्र तौ नृपतेः सुतौ। इत्येवं सा समाभाष्य भूयः संदेष्टुमास्थिता ॥ हनूमन् सिंहसंकाशौ तावुभौ रामलक्ष्मणौ। सुग्रीवं च सहामात्यं सर्वान् ब्रूया अनामयम्॥ यथा च स महाबाहुर्मी तारयति राघवः। अस्मादुःखाम्बुसंरोधात् तत् त्वमाख्यातुमर्हसि ।॥ इदं च तीव्र मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च। ब्रूयास्तु रामस्य गतः समीपं शिवश्च तेऽध्वास्तु हरिप्रवीर॥ एतत् तवार्या नृप संयता सा सीता वचः प्राह विषादपूर्वम्। एतच्च बुद्ध्वा गदितं यथा त्वं श्रद्धत्स्व सीतां कुशलां समग्राम्॥ अथाहमुत्तरं देव्या पुनरुक्तः ससम्भ्रमम्। तव स्नेहान्नरव्याघ्र सौहार्दादनुमान्य च॥ एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया। यथा मां प्राप्नुयाच्छीघ्रं हत्वा रावणमाहवे॥ यदि वा मन्यसे वीर वसैकाहमरिंदम। कस्मिश्चित् संवृते देशे विश्रान्तः श्वो गमिष्यसि॥ मम चाप्यल्पभाग्यायाः सांनिध्यात् तव वानर। अस्य शोकविपाकस्य मुहूर्तं स्याद् विमोक्षणम्॥ गते हि त्वयि विक्रान्ते पुनरागमनाय वै। प्राणानामपि संदेहो मम स्यान्नात्र संशयः॥ तवादर्शनजः शोको भूयो मां परितापयेत्। दुःखाद् दुःखपराभूतां दुर्गतां दुःखभागिनीम्। ६॥ अयं च वीर संदेहस्तिष्ठतीव ममाग्रतः। सुमहांस्त्वत्सहायेषु हर्यक्षेषु हरीश्वर ॥ कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम्। तानि हपृक्षसैन्यानि तौ वा नरवरात्मजौ॥ त्रयाणामेव भूतानां सागरस्यास्य लङ्घने। शक्तिः स्याद् वैनतेयस्य वायोर्वा तव चानघ॥ तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे। किं पश्यसि समाधानं ब्रूहि कार्यविदां वर॥ काममस्य त्वमेवैकः कार्यस्य परिसाधने। पर्याप्तः परवीरन यशस्यस्ते बलोदयः॥ बलैः समग्रैर्यदि मां हत्वा रावणमाहवे। विजयी स्वपुरी रामो नयेत् तत्स्याद् यशस्करम् ॥ यथाहं तस्य वीरस्य वनादुपधिना हृता। रक्षसा तद्भयादेव तथा नार्हति राघवः॥ बलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः। मां नयेद् यदि काकुत्स्थस्तत् तस्य सदृशं भवेत्॥ तद् यथा तस्य विक्रान्तमनुरूपं महात्मनः। भवत्याहवशूरस्य तथा त्वमुपपादय॥ तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम्। निशम्याहं ततः शेषं वाक्यमुत्तरमब्रुवम्॥ देवि हर्युक्षसैन्यानामीश्वरः प्लवतां वरः। सुग्रीवः सत्त्वसम्पन्नस्त्वदर्थे कृतनिश्चयः॥ तस्य विक्रमसम्पन्नाः सत्त्ववन्तो महाबलाः। मन:संकल्पसदृशा निदेशे हरयः स्थिताः॥ येषां नोपरि नाधस्तान्न तिर्यक् सज्जते गतिः। न च कर्मसु सीदन्ति महत्स्वमिततेजसः॥ असकृत् तैर्महाभागैर्वानरैर्बलसंयुतैः। प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः॥ मद्विशिष्टाश्च तुल्याश्व सन्ति तत्र वनौकसः। मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ॥ अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः। नहि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः॥ तदलं परितापेन देवि मन्युरपैतु ते। एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः॥ मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ । त्वत्सकाशं महाभागे नृसिंहावागमिष्यतः॥ अरिघ्नं सिंहसंकाशं क्षिप्रं द्रक्ष्यसि राघवम्। लक्ष्मणं च धनुष्मन्नं लङ्काद्वारमुपागतम्॥ नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान्। वानरान् वारणेन्द्राभान् क्षिप्रं द्रक्ष्यसि संगतान् ॥ शैलाम्बुदनिकाशानां लङ्कामलयसानुषु। नर्दतां कपिमुख्यानां नचिराच्छ्रोष्यसे स्वनम्॥ निवृत्तवनवासं च त्वया सार्धमरिंदमम्। अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम्॥ ततो मया वाग्भिरदीनभाषिणी शिवाभिरिष्टाभिरभिप्रसादिता। उवाह शान्तिं मम मैथिलात्मजा तवातिशोकेन तथातिपीडिता॥ श्रुत्वा हनूमतो वाक्यं यथावदभिभाषितम्। रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत्॥ कृतं हनूमता कार्यं सुमहद्भुवि दुर्लभम्। मनसाऽपि यदन्येन न शक्यं धरणीतले॥ नहि तं परिपश्यामि यस्तरेत महोदधिम्। अन्यत्र गरुडाद्वायोरन्यत्र च हनूमतः॥ देवदानवयक्षाणां गन्धर्वोरगरक्षसाम्। अप्रधृष्यां पुरीं लङ्कां रावणेन सुरक्षिताम्॥ प्रविष्टः सत्त्वमाश्रित्यं जीवन्को नाम निष्क्रमेत्। को विशेत्सुदुराधर्षां राक्षसैश्च सुरक्षिताम् ॥ यो वीर्यबलसंपन्नो न समः स्याद्धनूमतः। भृत्यकार्य हनुमता सुग्रीवस्य कृतं महत्। एवं विधाय स्वबलं सदृशं विक्रमस्य च॥ यो हि भृत्यो नियुक्तः सन्भ; कर्मणि दुष्करे। कुर्यात्तदनुरागेण तमाहुः पुरुषोत्तमम्॥ यो नियुक्तः परं कार्यं न कुर्यान्नृपतेः प्रियम्। भृत्यो युक्तः समर्थश्च तमाहुर्मध्यमं नरम्॥ नियुक्तो नृपतेः कार्य न कुर्याद्यः समाहितः। भृत्यो युक्तः समर्थश्च तमाहुः पुरुषाधमम्॥ तन्नियोगे नियुक्तेन कृतं कृत्यं हनूमता। न चात्मा लघुतां नीतः सुग्रीवश्चापि तोषितः॥ अहं च रघुवंशश्च लक्ष्मणश्च महाबलः। वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः॥ इदं तु मम दीनस्य मनो भूयः प्रकर्षति। यदिहास्य प्रियाख्यातुर्न कुर्मि सदृशं प्रियम् ॥ एष सर्वस्वभूतस्तु परिष्वङ्गो हनूमत । मया कालमिमं प्राप्य दत्तस्तस्य महात्मनः॥!' इत्युक्त्वा प्रीतिहृष्टाङ्गो रामस्तं परिषस्वजे। हनूमन्तं कृतात्मनं कृतवाक्यमुपागतम्॥ ध्यात्वा पुनरुवाचेदं वचनं रघुसत्तमः। हरीणामीश्वरस्यापि सुग्रीवस्योपशृण्वतः॥ सर्वथा सुकृतं तावत्सीतायाः परिमार्गणम्। सागरं तु समासाद्य पुनर्नष्टं मनो मम॥ कथं नाम समुद्रस्य दुष्पारस्य महाम्भसः। हरयो दक्षिणं पारं गमिष्यन्ति समागताः॥ यद्यप्येष तु वृत्तान्तो वैदेह्या गतितो मम। समुद्रपारगमने हरीणां किमिवोत्तरम्॥ इत्युक्त्वा शोकसंभ्रान्तो रामः शत्रुनिर्बहणः। हनूमन्तं महाबाहुस्ततो ध्यानमुपागमत्॥ तं तु शोकपरिघुनं रामं दशरथात्मजम्। उवाच वचनं श्रीमान्सुग्रीवः शोकनाशनम्॥ किं त्वयातप्यते वीर यथान्यः प्राकृतस्तथा। मैवं भूस्त्यज संतापं कृतघ्न इव सौहृदम्॥ संतापस्य च ते स्थानं नहि पश्यामि राघव। प्रवृत्तावुपलब्धायां ज्ञाते च निलये रिपोः॥ मतिमाशास्त्रवित्प्राज्ञः पण्डितश्चासि राघव। त्यजेमां प्राकृतां बुद्धिं कृतात्मेवार्थदूषिणीम्॥ समुद्रं लवयित्वा तु महानक्रसमाकुलम्। लङ्कामारोहयिष्यामो हनिष्यामश्च ते रिपुम्॥ निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः। सर्वार्था व्यवसीदन्ति व्यसनं चाधिगच्छति॥ इमे शूराः समर्थाश्च सर्वतो हरियूथपाः। त्वत्प्रियार्थं कृतोऽत्साहाः प्रवेष्टुमपि पावकम्। एषां हर्षेण जानामि तर्कश्चापि दृढो मम ॥ विक्रमेण समानेष्ये सीतां हत्वा यथा रिपुम्। रावणं पापकर्माणं तथा त्वं कर्तुमर्हसि॥ सेतुरत्र यथा बद्ध्येद्यथा पश्येम तां पुरीम्। तस्य राक्षसराजस्य तथा त्वं कुरु राघव॥ दृष्ट्वा तां हि पुरीं लङ्कां त्रिकूटशिखरे स्थिताम्। हतं च रावणं युद्धे दर्शनादवधारय ॥ अबद्ध्वा सागरे सेतुं घोरे च वरुणालये। लङ्का न मर्दितुं शक्या सेन्ट्रैरपि सुरासुरैः॥ सेतुबन्धः समुद्रे च यावल्लङ्कासमीपतः। सर्वं तीर्णं च मे सैन्यं जितमित्युपधारय। तथा हि समरे वीरा हरयः कामरूपिणः॥ तदलं विक्लवां बुद्धिं राजन्सर्वार्थनाशनीम्। पुरुषस्य हि लोकेऽस्मिन् शोकः शौर्यापकर्षणः॥ यत्तु कार्यं मनुष्येण शौटीर्यमवलम्ब्यताम्। तदलंकरणायैव कर्तुर्भवति सत्वरम्॥ अस्मिन्काले महाप्राज्ञ सत्त्वमातिष्ठ तेजसा। शूराणां हि मनुष्याणां त्वद्विधानां महात्मनाम्। विनष्टे वा प्रनष्टे वा शोकः सर्वार्थनाशनः॥ तत्त्वं बुद्धिमतां श्रेष्ठः सर्वशा स्वार्थकोविदः। मद्विधैः सचिवैः सार्धमरिं जेतुं समर्हसि ॥ नहि पश्याम्यहं कंचित्रिषु लोकेषु राघव। गृहीतधनुषो यस्ते तिष्ठेदभिमुखो रणे॥ वानरेषु समासक्तं न ते कार्य विपत्स्यते। अचिराद्रक्ष्यसे सीतां तीर्खा सागरमक्षयम्॥ तदलं शोकमालम्ब्य क्रोधमालम्ब भूपते। निश्चेष्टाः क्षत्रिया मन्दाः सर्वे चण्डस्य बिभ्यति ॥ लङ्घनार्थं च घोरस्य समुद्रस्य नदीपतेः। सहास्माभिरिहोपेतः सूक्ष्मबुद्धिर्विचारय॥ लङ्घिते तत्र तैः सैन्यैर्जितमित्येव निश्चिनु। सर्वं तीर्णं च मे सैन्यं जितमित्यवधार्यताम्॥ इमे हि हरयः शूराः समरे कामरूपिणः। तानरीन्विधमिष्यन्ति शिलापादपवृष्टिभिः॥ कथंचित्यपरिपश्यामि लचितं वरुणालयम्। हतमित्येव तं मन्ये युद्धे शत्रुनिबर्हण॥ किमुक्त्वा बहुधा चापि सर्वथा विजयी भवान्। निमित्तानि च पश्यामि मनो मे संप्रहृष्यति॥ श्रुत्वा हनूमतो वाक्यं यथावदनुपूर्वशः। ततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः॥ यनिवेदयसे लङ्कां पुरीं भीमस्य रक्षसः। क्षिप्रमेनां वधिष्यामि सत्यमेतद्ब्रवीमि ते॥ अस्मिन्मुहूर्ते सुग्रीवप्रयाणमभिरोचय। युक्तो मुहूर्ते विजये प्राप्तो मध्यं दिवाकरः॥ सीतां हृत्वा तु तद्यातु क्वासौ यास्यति जीवितः। सीता श्रुत्वाभियानं मे आशामेष्यति जीविते। जीवितान्तेऽमृतं स्पृष्ट्वा पीत्वाऽमृतमिवातुरः॥ उत्तराफाल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते। अभिप्रयाम सुग्रीव सर्वानीकसमावृताः॥ निमित्तानि च पश्यामि यानि प्रादुर्भवन्ति वै। निहत्य रावणं सीतामानयिष्यामि जानकीम्॥ उपरिष्टाद्धि नयनं स्फुरमाणमिमं मम। विजयं समनुप्राप्तं शंसतीव मनोरथम्।७।। ततो वानरराजेन लक्ष्मणेन सुपूजितः। उवाच रामो धर्मात्मा पुनरप्यर्थकोविदः॥ अग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम्। वृतः शतसहस्रेण वानराणां तरस्विनाम्॥ फलमूलवता नीलशीतकाननवारिणा। पथा मधुमता चाशु सेनां सेनापते नय॥ दूषयेयुर्दुरात्मानः पथि मूलफलोदकम्। राक्षसाः पथि रक्षेथास्तेभ्यस्त्वं नित्यमुद्यतः॥ निम्नेषु वनदुर्गेषु वनेषु च वनौकसः। अभिप्लुत्याभिपश्येयुः परेषां निहितं बलम् ॥ यत्तु फल्गु बलं किंचित्तदत्रैवोपपद्यताम्। एतद्धि कृत्यं घोरं नो विक्रमेण प्रयुज्यताम्॥ सागरौघनिभं भीममग्रानीकं महाबलाः। कपिसिंहाः प्रकर्षन्तु शतशोऽथ सहस्रशः॥ गजश्च गिरिसंकाशो गवयश्च महाबलः। गवाक्षश्चाग्रतो यातु गवां दृप्त इवर्षभः॥ यातु वानरवाहिन्या वानरः प्लवतां पतिः। पालयन्दक्षिणं पार्श्वमृषभो वानरर्षभः॥ गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः। यातु वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः॥ यास्यामि बलमध्येऽहं बलौघमभिहर्षयन्। अधिरुह्य हनूमन्तमैरावतमिवेश्वरः॥ अङ्गदेष संयातु लक्ष्मणश्चान्तकोपमः। सार्वभौमेन भूतेशो द्रविणाधिपतिर्यथा॥ जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः। ऋक्षराजो महाबाहुः कुक्षिं रक्षन्तु ते त्रयः॥ राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः। व्यादिदेश महावीर्यो वानरान्वानरर्षभः॥ ते वानरगणाः सर्वे समुत्पत्य महौजसः। गुहाभ्यः शिखरेभ्यश्च आशु पुप्लुविरे तदा॥ ततो वानरराजेन लक्ष्मणेन च पूजितः। जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम्॥ शतैः शतसहस्रश्च कोटिभिश्चायुतैरपि। वारणाभैश्च हरिभिर्ययौ परिवृतस्तदा॥ तं यान्तमनुयान्ती सा महती हरिवाहिनी। हृष्टाः प्रमुदिताः सर्वे सुग्रीवेणापि पालिताः॥ आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः। श्वेलन्तो निनदन्तश्च जग्मुर्वै दक्षिणां दिशम्॥ भक्षयन्तः गुमन्धीनि मधूनि च फलानि च। उद्वहन्तो महावृक्षान्मञ्जरीपुञ्जधारिणः॥ अन्योन्यं सहसा दृप्ता निर्वहन्ति क्षिपन्ति च। पतन्तश्चोत्पतन्त्यन्ये पातयन्त्यपरे परान्॥ रावणो नो निहन्तव्यः सर्वे च रजनीचराः। इति गर्जन्ति हरयो राघवस्य समीपतः॥ पुरस्तादृषभो नीलो वीरः कुमुद एव च। पन्थानं शोधयन्ति स्म वानरैर्बहुभिः सह ॥ मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च। बलिभिर्बहुभिर्भीमैर्वृतः शत्रुनिबर्हणः॥ हरिः शतबलिर्वीरः कोटिभिर्दशभिर्वृतः। सर्वामको ह्यवष्टभ्य ररक्ष हरिवाहिनीम्॥ कोटीशतपरीवारः केसरी पनसो गजः। अर्कश्च बहुभिः पार्श्वमेकं तस्याभिरक्षति॥ सुषेणो जाम्बवांश्चैव ऋक्षैर्बहुभिरावृतौ । सुग्रीवं पुरतः कृत्वा जघनं संररक्षतुः॥ तेषां सेनापतिर्वीरो नीलो वानरपुंगवः। संयतश्चरतां श्रेष्ठस्तद्बलं पर्यवारयत्॥ वलीमुखः प्रजङ्घश्च जम्भोऽथ रभसः कपिः। सर्वतश्च ययुर्वीरास्त्वरयन्तः प्लवङ्गमान्॥ एवं ते हरिशार्दूला गच्छन्ति बलदर्पिताः। अपश्यन्त गिरिश्रेष्ठं सह्यं गिरिशतायुतम्॥ सरांसि च सुफुल्लानि तटाकानि वराणि च। रामस्य शासनं ज्ञात्वा भीमकोपस्य भीतवत्॥ वर्जयनगराभ्याशांस्तथा जनपदानपि। सागरौघनिभं भीमं तद्वानरबलं महत्॥ निःससर्प महाघोरं भीमघोषमिवार्णवम्। तस्य दाशरथे: पार्श्वे शूरास्ते कपिकुञ्जराः॥ तूर्णमापुप्लुवुः सर्वे सदश्वा इव चोदिताः। कपिभ्यामुह्यमानौ तौ शुशुभाते नरर्षभौ॥ महद्भयामिव संस्पृष्टौ ग्रहाभ्यां चन्द्रभास्करौ। ततो वानरराजेन लक्ष्मणेन सुपूजितः।॥ जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम्। तमङ्गदगतो राम लक्ष्मणः शुभया गिरा।॥ उवाच परिपूर्णार्थं पूर्णार्थप्रतिभानवान्। हृतामवाप्य वैदेहीं क्षिप्रं हत्वा च रावणम्॥ समृद्धार्थः समृद्धार्थामयोध्यां प्रतियास्यसि। महान्ति च निमित्तानि दिवि भूमौ च राघव॥ शुभानि तव पश्यामि सर्वाण्येवार्थसिद्धये। अनुवाति शिवो वायुः सेनां मृदुहितः सुखः॥ पूर्णवल्गुस्वराश्चेमे प्रवदन्ति मृगद्विजाः। प्रसन्नाश्च दिश: सर्वा विमलश्च दिवाकरः॥ उशना च प्रसन्नार्चिरनु त्वां भार्गवो गतः। ब्रह्मराशिविशुद्धश्च शुद्धाश्च परमर्षयः। अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम्॥ त्रिशङ्कुर्विमलो भाति राजर्षिः सपुरोहितः। पितामहः पुरोऽस्माकमिक्ष्वाकूणां महात्मनाम्।।४९ विमले च प्रकाशेते विशाखे निरुपद्रवे। नक्षत्रं परमस्माकमिक्ष्वाकूणां महात्मनाम्॥ नैर्ऋतं नैर्ऋतानां च नक्षत्रमतिपीड्यते। मूलो मूलवता स्पृष्टो धूप्यते धूमकेतुना॥ सर्वं चैतद्विनाशाय राक्षसानामुपस्थितम्। काले कालगृहीतानां नक्षत्रं ग्रहपीडितम्॥ प्रसन्नाः सुरसाश्चापो वनानि फलवन्ति च। प्रवान्ति नाधिका गन्धा यथर्तुकुसुमा दुमाः॥ व्यूढानि कपिसैन्यानि प्रकाशन्तेऽधिकं प्रभो। देवानामिव सैन्यानि संग्रामे तारकामये। एवमार्य समीक्ष्यैतत्प्रीतो भवितुमर्हसि ॥ इति भ्रातरमाश्वास्य हृष्टः सौमित्रिब्रवीत्। अथावृत्य महीं कृत्स्नां जगाम हरिवाहिनी॥ ऋक्षावानरशार्दूलैर्नखदंष्ट्रायुधैरपि। कराग्रैश्चरणाप्रैश्च वानरैरुद्धतं रजः॥ भीममन्तर्दधे लोकं निवार्य सवितुः प्रभाम्। सपर्वतनाकाशं दक्षिणां हरिवाहिनी॥ छादयन्ती ययौ भीमा द्यामिवाम्बुदसंततिः। उत्तरन्त्याश्च सेनायाः सततं बहुयोजनम्॥ नदीस्रोतांसि सर्वाणि सस्यन्दुर्विपरीतवत्। सरांसि विमलाम्भांसि दुमाकीर्णाश्च पर्वतान्॥ समानभूमिप्रदेशांश्च वनानि फलवन्ति च। मध्येन च समन्ताच्च तिर्यक्चाधश्च साविशत्।।६० समावृत्य महीं कृत्स्नां जगाम महती चमूः। ते हृष्टवदनाः सर्वे जग्मुर्मारुतरंहसः॥ हरयो राघवस्यार्थे समारोपितविक्रमाः। हर्ष वीर्य बलोद्रेकान्दर्शयन्तः परस्परम्॥ यौवनोत्सेकजादपद्विविधांश्चक्रुध्वनि। तत्र केचिद्भुतं जग्मुरुत्पेतुश्च तथापरे॥ केचित्किलकिलां चक्रुर्वानरा वनगोचराः। प्रास्फोटयंश्च पुच्छानि संनिजघ्नुः पदान्यपि॥ भुजान्विक्षिप्य शैलांश्च दुमानन्ये बभञ्जिरे। आरोहन्तश्च शृङ्गाणि गिरीणां गिरिगोचराः॥ महानादान्प्रमुञ्चन्ति क्ष्वेडामन्ये प्रचक्रिरे। ऊरुवेगैश्च ममृदुर्लताजालान्यनेकशः।॥ जम्भमाणाश्च विक्रान्ता विचिक्रीडुः शिलानुमैः। ततः शतसहस्रैश्च कोटिभिश्च सहस्रशः॥ वानराणां सुघोराणां श्रीमत्परिवृता मही। सा स्म याति दिवारानं महती हरिवाहिनी॥ प्रहृष्टमुदिताः सर्वे सुग्रीवेणाभिपालिताः। वानरास्त्वरिता यान्ति सर्वे युद्धाभिनन्दिनः। प्रमोक्षयिषवः सीतां मुहूर्त क्वापि नावसन्॥ ततः पादपसंबाधं नानावनसमायुतम्। सह्यपर्वतमासाद्य वानरास्ते समारुहन्।७० ।। काननानि विचित्राणि नदीप्रस्रवणानि च। पश्यन्नपि ययौ रामः सह्यस्य मलयस्य च॥ चम्पकांस्तिलकांचूतान्प्रसेकान्सिन्दुवारकान्। तिनिशान्करवीरांश्च भजन्ति स्म प्लवङ्गमाः॥ अशोकांश्च करांश्च प्लक्षन्यग्रोधपादपान्। जम्बुकामलकानागन्भजन्ति स्म प्लवङ्गमाः॥ प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः। वायुवेगप्रचलिताः पुष्पैरवकिरन्ति तान्॥ मारुतः सुखसंस्पर्शो वाचि चन्दनशीतलः। षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु ॥ अधिकं शैलराजस्तु धातुभिस्तु विभूषितः। धातुभ्यः प्रसृतो रेणुर्वायुवेगेन घट्टितः॥ सुमहद्वानरानीकं छादयामास सर्वतः। गिरिप्रस्थेषु रम्येषु सर्वतः संप्रपुष्पिताः।७७।। केतक्यः सिन्दुवाराश्च वासन्त्यश्च मनोरमाः। माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च पुष्पिताः।७८।। चिरिबिल्वा मधूकाश्च वंजुला बकुलास्तथा। रञ्जकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः। ७९ ।। चूताः पाटलिकाश्चैव कोविदाराश्च पुष्पिताः। मुचुलिन्दार्जुनाश्चैव शिंशपाः कुटजास्तथा ॥ हिन्तालास्तिनिशाश्चैव चूर्णका नीपकास्तथा। नीलाशोकाश्च सरला अङ्कोलाः पद्मकास्तथा॥ प्रीयमाणैः प्लवङ्गैस्तु सर्वे प्रयाकुलीकृताः। वाप्यस्तस्मिनिगरौ रम्याः पल्वलानि तथैव च।॥ चक्रवाकानुचारिताः कारण्डवनिषेविताः। प्लवैः क्रौञ्चैश्च संकीर्णा वराहमृगसेविताः॥ ऋक्षस्तरक्षुभिः सिंहै: शार्दूलश्च भयावहैः। व्यालैश्च बहुभिर्भीमैः सेव्यमानाः समन्ततः।॥ पद्मः सौगन्धिकैः फुल्लैः कुमुदैश्चौत्पलैस्तथा। वारिजैविविधैः पुष्पै रम्यास्तन जलाशयाः॥ तस्य सानुषु कूजन्ति नानाद्विजगणास्तथा। स्नात्वा पीत्वोदकान्यत्र जलेक्रीडन्ति वानराः॥ अन्योन्यं प्लावयन्ति स्म शैलमारुह्य वानराः। फलान्यमृतगन्धीनि मूलानि कुसुमानि च।८७।। बभञ्जुर्वानरास्तत्र पादपानां मदोत्कटाः। द्रोणमात्रप्रमाणानि लम्बमानानि वानराः॥ ययुः पिबन्तः स्वस्थास्ते मधूनि मधुपिङ्गलाः। पादपानवभञ्जन्तो विकर्षन्तस्तथा लताः॥ विधमन्तो गिरिवरान्प्रययुः प्लवगर्षभाः। वृक्षेभ्योऽन्ये तु कपयो नदन्तो मधुदर्पिताः॥ अन्ये वृक्षान्प्रपद्यन्ते प्रपिबन्त्यपि चापरे। बभूव वसुधा तैस्तु संपूर्णा हरिपुङ्गवैः । यथा कलमकेदारैः पक्वैरिव वसुंधरा ॥ महेन्द्रमथ संप्राप्य रामो राजीवलोचनः। आरुरोह महाबाहुः शिखरं दुमभूषितम्॥ ततः शिखरमारुह्य रामो दशरथात्मजः। कूर्ममीनसमाकीर्णमपश्यत्सलिलाकुलम्॥ ते सह्यं समतिक्रम्य मलयं च महागिरिम्। आसेदुरानुपूर्येण समुद्रं भीमनिःस्वनम्। ॥ अवरुह्य जगामाशु वेलावमनुत्तमम्। रामो रमयतां श्रेष्ठः ससुग्रीवः सलक्ष्मणः॥ अथ धौतोपलतलां तोयौधैः सहसोत्थितैः। वेलामासाद्य विपुलां रामो वचनमब्रवीत्॥ एते वयमनुप्राप्ताः सुग्रीव वरुणालयम्। इहेदानी विचिन्ता सा या नः पूर्वमुपस्थिता॥ अतः परमतीरोऽयं सागरः सरितां पतिः। च चायमनुपायेन शक्यस्तरितुमर्णवः॥ तदिहैव निवेशोऽस्तु मन्त्रः प्रस्तूयतामिह । यथेदं वानरबलं परं पारमवाप्नुयात्॥ इतीव स महाबाहुः सीताहरणकर्शितः। रामः सागरमासाद्य वासमाज्ञापयत्तदा॥ सर्वाः सेना निवेश्यन्तां वेलायां हरिपुङ्गव। संप्राप्तो मन्त्रकालो नः सागरस्येह लङ्घने॥ स्वां स्वां सेनां समुत्सृज्य मा च कश्चित्कुतो व्रजेत्। गच्छन्तु वानराः शूरा ज्ञेयं छन्नं भयं च नः॥ रामस्य वचनं श्रुत्वा सुग्रीवः सहलक्ष्मणः। सेनां निवेशयत्तीरे सागरस्य दुमायुते॥ विरराज समीपस्थं सागरस्य त तद्बलम्। मदुपाण्डुजलः श्रीमान्द्वितीय इव सागरः॥ वेलावनमुपागम्य ततस्ते हरिपुङ्गवाः। निविष्टाश्च परं पारं काङ्माणा महोदधेः॥ तेषां निविशमानानां सैन्यसंनाहनिःस्वनः। अन्तर्धाय महानादमर्णवस्य प्रशुश्रुवे॥ सा वानराणां ध्वजिनी सुग्रीवेणाभिपालिता। त्रिधा निविष्टा महती रामस्यार्थपराभवत्॥ सा महार्णवमासाद्य हृष्टा वानरवाहिनी। वायुवेगसमाधूतं पश्यमाना महार्णवम्॥ दूरपारमसंबाधं रक्षोगणनिषेवितम्। पश्यन्तो वरुणावासं निषेदुहरियूथपाः॥ चण्डनक्रग्राहघोरं क्षपादौ दिवसक्षये। हसन्तमिव फेनैधैर्नृत्यन्तमिव चोर्मिभिः॥ चन्द्रोदये समुद्भूतं प्रतिचन्द्रसमाकुलम्। चण्डानिलमहाग्राहै: कीर्णं तिमितिमिङ्गिलैः॥ दीप्तभोगैरिवाकीर्णं भुजङ्गैर्वरुणालयम्। अवगाढं महासत्त्वैर्नानाशैलसमाकुलम्॥ सुदुर्गं दुर्गमार्ग तमगाधमसुरालयम्। मकरैर्नागभोगैश्च विगाढा वातलोलिताः।। उत्पेतुश्च निपेतुश्च प्रहृष्टा जलराशयः॥ अग्निचूर्णमिवाविद्धं भास्वराम्बुमहोरगम्। सुरारिनिलयं घोरं पातालविषयं सदा॥ सागरं चाम्बरप्रख्यमम्बरं सागरोपमम्। सागरं चाम्बरं चेति निर्विशेषमदृश्यत॥ संपृक्तं नभसाप्यम्भः संपृक्तं च नभोऽम्भसा। तादृग्रूपे स्म दृश्येते तारारत्नसमाकुले॥ समुत्पतितमेघस्य वीचिमालाकुलस्य च। विशेषो न द्वयोरासीत्सागरस्याम्बरस्य च॥ अन्योन्यैराहताः सक्ताः सस्वनुर्भीमनिःस्वनाः। ऊर्मयः सिन्धुराजस्य महाभेर्य इवाम्बरे॥ रत्नौघजलसंनादं विषक्तमिव वायुना। उत्पतन्तमिव क्रुद्धं यादोगणसमाकुलम्॥ ददृशुस्ते महात्मानो वाताहतजलाशयम्। अनिलोद्भूतमाकाशे प्रलपन्तमिवोर्मिभिः॥ ततो विस्मयमापन्ना हरयो ददृशुः स्थिताः। भ्रान्तोर्मिजालसंनादं प्रलोलमिव सागरम्॥ सा तु नीलेन विधिवत्स्वारक्षा सुसमाहिता। सागरस्योत्तरे तीरे साधु सा विनिवेशिता॥ मैन्दश्च द्विविदश्चोभौ तत्र वानरपुङ्गवौ। विचेरतुश्च तां सेनां रक्षार्थं सर्वतो दिशम्॥ निविष्टायां तु सेनायां तीरे नदनदीपतेः। पार्श्वस्थं लक्ष्मणं दृष्ट्वा रामो वचनमब्रवीत्॥ शोकश्च किल कालेन गच्छता ह्यपगच्छति। मम चापश्यतः कान्तामहन्यहनि वर्धते॥ न मे दुःखं प्रिया दूरे न मे दुःखं हृतेति च। एतदेवानुशोचामि वयोऽस्या ह्यतिवर्तते॥ वाहि वात यतः कान्ता तां स्पृष्ट्वा मामपि स्पृश। त्वयि मे गात्रसंस्पर्शश्चन्द्रे दृष्टिसमागमः॥ तन्मे दहति गात्राणि विषं पीतमिवाशये। हा नाथेति प्रिया सा मां ह्रियमाणा यदब्रवीत्॥ तद्वियोगेन्धनवता तच्चिन्ताविमलार्चिषा। रात्रिंदिवं शरीरं मे दह्यते मदनाग्निा॥ अवगाह्यार्णवं स्वप्स्ये सौमित्रे भवता विना। एवं च प्रज्वलन्कामो न मां सुप्तं जले दहेत्॥ बह्वेतत्कामयानस्य शक्यमेतेन जीवितुम्। यदहं सा च वामोरूरेका धरणिमाश्रितौ॥ केदारस्येव केदारः सोदकस्य निरूदकः। उपस्नेहेन जीवामि जीवन्तीं यच्छृणोमि ताम्॥ कदा नु खलु सुश्रोणीं शतपत्रायतेक्षणाम्। विजित्य शत्रून्द्रक्ष्यामि सीतां स्फीतामिव श्रियम्॥ कदा सुचारुदन्तोष्ठं तस्याः पद्ममिवाननम्। ईषदुनाम्य पास्यामि रसायनमिवातुरः॥ तौ तस्याः सहितौ पीनौ स्तनौ तालफलोपमौ। कदा नु खलु सोत्कम्पौ हसन्त्या मां भजिष्यतः॥ सा नूनमसितापाङ्गी रक्षोमध्यगता सती। मन्नाथा नाथहीनेव त्रातारं नाधिगच्छति॥ कथं जनकराजस्य दुहिता मम च प्रिया। राक्षसीमध्यगा शेते स्नुषा दशरथस्य च ॥ अविक्षोभ्याणि रक्षांसि सा विधूयोत्पतिष्यति। विधूय जलदानीलाञ्छशिलेखा शरत्स्विव॥ स्वभावतनुका नूनं शोकेनानशनेन च। भूयस्तनुतरा सीता देशकालविपर्ययात्॥ कदा नु राक्षसेन्द्रस्य निधायोरसि सायकान्। शोकं प्रत्याहरिष्यामि शोकमुत्सृज्य मानसम्॥ कदा नु खलु मे साध्वी सीतामरसुतोपमा। सोत्कण्ठा कण्ठमालम्ब्य मोक्ष्यत्यानन्दजं जलम्॥ कदा शोकमिमं घोरं मैथिलीविप्रयोगजम्। सहसा विप्रमोक्ष्यामि वासः शुक्लेतरं यथा॥ एवं विलपतस्तस्य तत्र रामस्य धीमतः। दिनक्षयान्मन्दवपुर्भास्करोऽस्तमुपागतः॥ आश्वासितो लक्ष्मणेन रामः संध्यामुपासत। स्मरन्कमलपत्राक्षी सीतां शोकाकुलीकृतः॥ इत्युक्ता राक्षसेन्द्रेण राक्षसास्ते महाबलाः। ऊचुः प्राञ्जलयः सर्वे रावणं राक्षसेश्वरम्॥ द्विषत्पक्षमविज्ञाय नीतिबाह्यास्त्वबुद्धयः। राजन्परिघशक्त्यष्टिशूलपट्टिशकुन्तलम्॥ सुमहन्नो बलं कस्माद्विषादं भजते भवान्। त्वया भोगवतीं मत्वा निर्जिताः पन्नगा युधि ॥ कैलासशिखरावासी यक्षैर्बहुभिरावृतः। सुमहत्कदनं कृत्वा वश्यस्ते धनदः कृतः॥ स महेश्वरसख्येन श्लाघमानस्त्वया विभो। निर्जितः समरे रोषाल्लोकपालो महाबलः॥ विनिपात्य च यक्षौघान्विक्षोभ्य विनिगृह्य च। त्वया कैलासशिखराद्विमानमिदमाहृतम्॥ मयेन दानवेन्द्रेण त्वद्भयात्सख्यमिच्छता। दुहिता तव भार्यार्थ दत्ता राक्षसपुङ्गव।७।। दानवेन्द्रो महाबाहो वीर्योत्सिक्तो दुरासदः। विगृह्य वशमानीतः कुम्भीनस्याः सुखावहः॥ निर्जितास्ते महाबाहो नागा गत्वा रसातलम्। वासुकिस्तक्षकः शङ्खो जटी च वशमाहृताः॥ अक्षया बलवन्तश्च शूरा लब्धवराः पुनः। त्वया संवत्सरं युद्ध्वा समरे दानवा विभो॥ स्वबलं समुपाश्रित्य नीता वशमरिन्दम। मायाश्चाधिगतास्तत्र वयो वै राक्षसाधिप॥ शूराश्च बलवन्तश्च वरुणश्च सुता रणे। निर्जितास्ते महाभाग चतुर्विधबलानुगाः॥ मृत्युदण्डमहाग्राहं शाल्मलीदुममण्डितम्। कालपाशमहावीचिं यमकिंकरपन्नगम ॥ महाज्वरेण दुर्धर्षं यमलोकमहार्णवम्। अवगाह्य त्वया राजन्यमस्य बलसागरम्॥ जयश्च विपुलः प्राप्तो मृत्युश्च प्रतिषेधितः। सुयुद्धेन च ते सर्वे लोकास्तत्र सुतोषिताः॥ क्षत्रियैर्बहुभिवीरैः शक्रतुल्यपराक्रमैः। आसीद्वसुमती पूर्णा महद्भिरिव पादपैः॥ तेषां वीर्यगुणोत्साहैर्न समो राघवो रणे। प्रसह्य ते त्वया राजन्हताः समरदुर्जयाः॥ तिष्ठ वा किं महाराज श्रमेण तव वानरान्। अयमेको महाराज इन्द्रजित्क्षपयिष्यति॥ अनेन च महाराज माहेश्वरमनुत्तमम्। इष्ट्वा यज्ञं वरो लब्धो लोके परमदुर्लभः॥ शक्तितोमरमीनं च विनिकीर्णान्त्रशैवलम्। गजकच्छपसंबाधमश्वमण्डूकसंकुलम्॥ रुद्रादित्यमहाग्राहं मरुद्वसुमहोरगम्। रथाश्वगजतोयौघं पदातिपुलिनं महत्॥ अनेन हि समासाद्य देवानां बलसागरम्। गृहीतो दैवतपतिर्लङ्कां चापि प्रवेशितः॥ पितामहनियोगाच्च मुक्तः शम्बरवृत्रहा। गतस्त्रिविष्टपं राजन्सर्वदेवनमस्कृतः॥ तमेव त्वं महाराज विसृजेन्द्रजितं सुतम्। यावद्वानरसेनां तां सरामां नयति क्षयम्॥ राजन्नापदयुक्तेयमागता प्राकृताज्जनात्। हृदि नैव त्वया कार्या त्वं वधिष्यसि राघवम्॥ ततो निकुम्भो रभसः सूर्यशत्रुर्महाबलः। सुप्तघ्नो यज्ञकोपश्च महापार्श्वमहोदरौ॥ अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसाः। इन्द्रशत्रुश्च बलवांस्ततो वै रावणात्मजः॥ प्रहस्तोऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः। धूम्राक्षोऽथ निकुम्भश्च दुर्मुखश्चैव राक्षसः॥ परिघान्पट्टिशाञ्छूलान्प्रासाशक्तिपरश्वधान्। चापानि च सुबाणानि खङ्गांश्च विपुलाम्बुभान्॥ प्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसाः। अब्रुवन्रावणं सर्वे प्रदीप्ता इव तेजसा॥ अद्य रामं वधिष्यामः सुग्रीवं च सलक्ष्मणम्। कृपणं च हनूमन्तं लङ्का येन प्रधर्षिता॥ तान्गृहीतायुधान्सर्वान्वारयित्वा विभीषणः। अब्रवीत्प्राञ्जलिर्वाक्यं पुनः प्रत्युपवेश्य तान्।७।। अप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते। तस्य विक्रमकालांस्तान्युक्तानाहुर्मनीषिणः॥ प्रमत्तेष्वभियुक्तेषु दैवेन प्रहतेषु च। विक्रमास्तात सिद्ध्यन्ति परीक्ष्य विधिना कृताः॥ अप्रमत्तं कथं तं तु विजिगीषु बले स्थितम्। जितरोषं दुराधर्षं तं धर्षयितुमिच्छथ॥ समुद्रं लवयित्वा तु घोरं नदनदीपतिम्। गतिं हनूगतो लोके को विद्यात्तर्कयेत वा॥ बलान्यपरिमेयानि वीर्याणि च निशाचराः। परेषां सहावज्ञा न कर्तव्या कथंचन ॥ किं च राक्षसराजस्य रामेणापकृतं पुरा। आजहार जनस्थानाद्यस्य भार्यां यशस्विनः॥ खरो यद्यतिवृत्तस्तु स रामेण हतो रणे। अवश्यं प्राणिना प्राणा रक्षितव्या यथाबलम्॥ एतनिमित्तं वैदेही भयं नः सुमहद्भवेत्। आहता सा परित्याज्या कलहार्थे कृते नु किम्॥ न तु क्षमं वीर्यवता तेन धर्मानुवर्तिना। वैरं निरर्थकं कर्तुं दीयतामस्य मैथिली॥ यावत्र सगजां साश्वां बहुरत्नसमाकुलाम्। पुरीं दारयते बाणैर्दीयतामस्य मैथिली॥ यावत्सुघोरा महती दुर्धर्षा हरिवाहिनी। नावस्कन्दति नो लङ्कां तावत्सीता प्रदीयताम्॥ विनश्येद्धि पुरी लङ्का शूराः सर्वे च राक्षसाः। रामस्य दयिता पत्नी न स्वयं यदि दीयते॥ प्रसादये त्वां बन्धुत्वात्कुरुष्व वचनं मम। हितं तथ्यं त्वहं ब्रूमि दीयतामस्य मैथिली॥ पुरा शरत्सूर्यमरीचिसंनिभान् नवाग्रपुङ्खान्सुदृढानृपात्मजः। सृजत्यमोघान्विशिखान्वधाय ते प्रदीयतां दाशरथाय मैथिली।॥ त्यजाशु कोपं सुखधर्मनाशनं भजस्व धर्म रतिकीर्तिवर्धनम्। प्रसीद जीवेम सपुत्रबान्धवाः प्रदीयतां दाशरथाय मैथिली॥ विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः। विसर्जयित्वा तान्सर्वान्प्रविवेश स्वकं गृहम्॥ ततः प्रत्युषसि प्राप्ते प्राप्तधर्मार्थनिश्चयः। राक्षसाधिपतेर्वेश्म भीमकर्मा विभीषणः॥ शैलाग्रचयसंकाशं शैलशृङ्गमिवोन्नतम्। सुविभक्तमहाकक्ष महाजनपरिग्रहम्॥ मतिमद्भिर्महामात्रैरनुरक्तैरधिष्ठितम्। राक्षसैराप्तपर्याप्तैः सर्वतः परिरक्षितम्॥ मत्तमातङ्गनिःश्वासैर्व्याकुलीकृतमारुतम्। शङ्खघोषमहाघोषं तूर्यसंबाधनादितम्॥ प्रमदाजनसंबाधं प्रजल्पितमहापथम्। तप्तकाञ्चननिहं भूषणोत्तमभूषितम्॥ गन्धर्वाणामिवावासमालयं मरुतामिव । रत्नसंचयसंबाधं भवनं भोगिनामिव॥ तं महाभ्रमिवादित्यस्तेजोविस्तृतरश्मिवान्। अग्रजस्यालयं वीरः प्रविवेश महाद्युतिः॥ पुण्यान्पुण्याहघोषांश्च वेदविद्भिदाहृतान्। शुश्राव सुमहातेजा भ्रातुर्विजयसंश्रितान् ॥ पूजितान्दधिपात्रैश्च सर्पिभिः सुमनोक्षतैः। मन्त्रवेदविदो विप्रान्ददर्श स महाबलः॥ स पूज्यमानो रक्षोभिर्दीप्यमानं स्वतेजसा। आसनस्थं महाबाहुर्ववन्दे धनदानुजम्॥ स राजदृष्टिसंपन्नमासनं हेमभूषितम्। जगाम समुदाचारं प्रयुज्याचारकोविदः॥ स रावणं महात्मानं विजने मन्त्रिसंनिधौ। उवाच हितमत्यर्थं वचनं हेतुनिश्चितम्॥ प्रसाद्य भ्रातरं ज्येष्ठं सान्त्वेनोपस्थितक्रमः। देशकालार्थसंवादि दृष्टलोकपरावरः॥ यदाप्रभृति वैदेही संप्राप्तेह परंतप। तदाप्रभृति दृश्यन्ते निमित्तान्यशुभानि नः॥ सस्फुलिङ्गः सधूमार्चिः सधूमकलुषोदयः। मन्त्रसङ्घहुतोऽप्यग्निर्न सम्यगभिवर्धते॥ अग्निष्टेष्वग्निशालासु तथा ब्रह्मस्थलीषु च। सरीसृपाणि दृश्यन्ते हव्येषु च पिपीलिकाः॥ गवां पयांसि स्कन्नानि विमदा वरकुञ्जराः। दीनमश्वाः प्रहेषन्ते नवग्रासाभिनन्दिनः॥ खरोष्ट्रश्वतरा राजन्भिन्नरोमाः सवन्ति च। न स्वभावेऽवतिष्ठन्ते विधानैरपि चिन्तिताः॥ वायसाः सङ्घशः क्रूरा व्याहरन्ति समन्ततः। समवेताश्च दृश्यन्ते विमानाग्रेषु सङ्घशः॥ गृध्राश्च परिलीयन्ते पुरीमुपरि पीडिताः। उपपन्नाश्च संध्ये द्वे व्याहरन्त्यशिवं शिवाः॥ क्रव्यादानां मृगाणां च पुरीद्वारेषु सङ्घशः। श्रूयन्ते विपुला घोषाः सविस्फूर्जतनिःस्वनाः॥ तदेवं प्रस्तुते कार्ये प्रायश्चित्तमिदं क्षमम्। रोचये वीर वैदेही राघवाय प्रदीयताम्॥ इदं च यदि वा मोहाल्लोभाद्वा व्याहृतं मया। तत्रापि च महाराज न दोषं कर्तुमर्हसि ॥ अयं हि दोषः सर्वस्य जनस्यास्योपलक्ष्यते। रक्षसां राक्षसीनां च पुरस्यान्तःपुरस्य च ॥ प्रापणे चास्य मन्त्रस्य निवृत्ताः सर्वमन्त्रिणः। अवश्यं च मया वाच्यं यदृष्टमथवा श्रुतम्।। संविधाय यथान्यायं तद्भवान्कर्तुमर्हति॥ इति स्वमन्त्रिणां मध्ये भ्राता भ्रातरमूचिवान्। रावणं रक्षसां श्रेष्ठं पथ्यमेतद्विभीषणः॥ हितं महाथ मृदु हेतुसंहितं व्यतीतकालायतिसंप्रतिक्षमम्। निशम्य तद्वाक्यमुपस्थितज्वरः प्रसङ्गवानुत्तरमेतदब्रवीत्॥ भयं न पश्यामि कुतश्चिदप्यहं न राघवः प्राप्स्यति जातु मैथिलीम्। सुरैः सहेन्द्रैरपि संगरे कथं ममाग्रतः स्थास्यति लक्ष्मणाग्रजः॥ इत्येवमुक्त्वा सुरसैन्यनाशनो महाबलः संयति चण्डविक्रमः। दशाननो भ्रातरमाप्तवादिनं विसर्जयामास तदा विभीषणम्॥ स बभूव कृशो राजा मैथिलीकाममोहितः। असन्मानाच्च सुहृदां पापः पापेन कर्मणा॥ अतीव कामसंपन्नो वैदेहीमनुचिन्तयन्। अतीतसमये काले तस्मिन्वै युधि रावणः। अमात्यैश्च सुहृद्भिश्च प्राप्तकालममन्यत॥ स हेमजालविततं मणिविद्रुमभूषितम्। उपगम्य विनीताश्वमारुरोह महारथम्॥ तमास्थाय रथश्रेष्ठं महामेघसमस्वनम्। प्रययौ रक्षसां श्रेष्ठो दशग्रीवः सभां प्रति॥ असिचर्मधरा योधाः सर्वायुधधरास्ततः। राक्षसा राक्षसेन्द्रस्य पुरस्तात्संप्रतस्थिरे॥ नानाविकृतवेषाश्च नानाभूषणभूषिताः। पार्श्वतः पृष्ठतश्चैनं परिवार्य ययुस्तदा॥ रथैश्चातिरथाः शीघ्रं मत्तैश्च वरवारणैः। अनूत्पेतुर्दशग्रीवमाक्रीडद्भिश्च वाजिभिः॥ गदापरिघहस्ताश्च शक्तितोमरपाणयः। परश्वधधराश्चान्ये तथान्ये शूलपाणयः। ततस्तूर्यसहस्राणां संजज्ञे निःस्वनो महान्॥ तुमुलः शङ्खशब्दश्च सभां गच्छति रावणे। स नेमिघोषेण महान्सहसाभिनिनादयन्॥ राजमार्ग श्रिया जुष्टं प्रतिपेदे महारथः। विमलं चातपत्रं च प्रगृहीतमशोभत ॥ पाण्डुरं राक्षसेन्द्रस्य पूर्णस्ताराधिपो यथा। हेममञ्जरिगर्भे च शुद्धस्फटिकविग्रहे ॥ चामरव्यजने तस्य रेजतुः सव्यदक्षिणे। ते कृताञ्जलयः सर्वे रथस्थं पृथिवीस्थिताः॥ राक्षसा राक्षसश्रेष्ठं शिरोभिस्तं ववन्दिरे। राक्षसैः स्तूयमानः सञ्जयाशीभिररिंदमः॥ आससाद महातेजाः सभां विरचितां तदा। सुवर्णरजतास्तीणां विशुद्धस्फटिकान्तराम्॥ विराजमानो वपुषा रुक्मपट्टोत्तरच्छदाम्। तां पिशाचशतैः षड्भिरभिगुप्तां सदाप्रभाम्॥ प्रविवेश महातेजाः सुकृतां विश्वकर्मणा। तस्याः स वैदूर्यमयं प्रियकाजिनसंवृतम्॥ महत्सोपाश्रयं भेजे रावणः परमासनम्। ततः शशासेश्वरहूताल्लघुपराक्रमान्॥ समानयत मे क्षिप्रमिहैताराक्षसानिति । कृत्यमस्ति महज्जाने कर्तव्यमिति शत्रुभिः॥ राक्षसास्तद्वचः श्रुत्वा लङ्कायां परिचक्रमुः। अनुगेहमवस्थाय विहारशयनेषु च। उद्यानेषु च रक्षांसि चोदयन्तो ह्यभीतवत्॥ ते रथान्तरचरा एके दृप्तानेके दृढान्हयान्। नागानेकेऽधिरुरुहुर्जग्मुश्चैके पदातयः॥ सा पुरी परमाकीर्णा रथकुञ्जरवाजिभिः। संपतद्भिर्विरुरुचे गरुत्मद्भिरिवाम्बरम्॥ ते वाहनान्यवस्थाय यानानि विविधानि च। सभां पद्भिः प्रविविशुः सिंहा गिरिगुहामिव ॥ राज्ञः पादौ गृहीत्वा तु राज्ञा ते प्रतिपूजिताः। पीठेष्वन्ये बृसीष्वन्ये भूमौ केचिदुपाविशन्॥ ते समेत्य सभायां वै राक्षसा राजशासनात्। यथार्हमुपतस्थुस्ते रावणं राक्षसाधिपम्॥ मन्त्रिणश्च यथामुख्या निश्चितार्थेषु पण्डिताः। अमात्याश्च गुणोपेताः सर्वज्ञा बुद्धिदर्शनाः॥ समीयुस्तत्र शतशः शूराश्च बहवस्तथा। सभायां हेमवर्णायां सर्वार्थस्य सुखाय वै॥ ततो महात्मा विपुलं सुयुग्यं रथं वरं हेमविचित्रताङ्गम्। शुभं समास्थाय ययौ यशस्वी विभीषणः संसदमग्रजस्य॥ स पूर्वजायावरजः शशंस नामाथ पश्चाच्चरणौ ववन्दे। शुक्रः प्रहस्तश्च तथैव तेभ्यो ददौ यथार्ह पृथगासनानि॥ सुवर्णनानामणिभूषणानां सुवाससां संसदि राक्षसानाम्। तेषां परार्ध्यागुरुचन्दनानां स्रजां च गन्धाः प्रववुः समन्तात्॥ न चुक्रुशु नृतमाह कश्चित् सभासदो नापि जजल्पुरुच्चैः। संसिद्धार्थाः सर्व एवोग्रवीर्या भर्तुः सर्वे ददृशुश्चाननं ते॥ स रावणः शस्त्रभृतां मनस्विनां महाबलानां समितौ मनस्वी। तस्यां सभायां प्रथया चकाशे मध्ये वसूनामिव वज्रहस्तः॥ स तां परिषदं कृत्स्नां समीक्ष्य समितिंजयः। प्रबोधयामास तदा प्रहस्तं वाहिनीपतिम्॥ सेनापते यथा ते स्युः कृतविद्याश्चतुर्विधाः । योधा नगररक्षायां तथा व्यादेष्टुमर्हसि॥ स प्रहस्तः प्रणीतात्मा चिकीर्षनराजशासनम्। विनिक्षिप्य बलं सर्वं बहिरन्तश्च मन्दिरे॥ ततो विनिक्षिप्य बलं सर्वं नगरगुप्तये। प्रहस्तः प्रमुखे राज्ञो निषसाद जगाद च॥ विहितं बहिरन्तश्च बलं बलवतस्तव। कुरुष्वाविमनाः क्षिप्रं यदभिप्रेतमस्ति ते।।। प्रहस्तस्य वचः श्रुत्वा राजा राज्यहितैषिणः। सुखेप्सुः सुहृदां मध्ये व्याजहार स रावणः॥ प्रियाप्रिये सुखे दुःखे लाभालाभे हिताहिते। धर्मकामार्थकृच्छेषु यूयमर्हथ वेदितुम्॥ सर्वकृत्यानि युष्माभिः समारब्धानि सर्वदा। मन्त्रकर्मनियुक्तानि न जातु विफलानि मे॥ ससोमग्रहनक्षत्रैमरुद्भिरिव वासवः। भवद्भिरहमत्यर्थं वृतः श्रियमवाप्नुयाम्॥ अहं तु खलु सर्वान्वः समर्थयितुमुद्यतः। कुम्भकर्णस्य तु स्वप्नानेममर्थमचोदयम्॥ अयं हि सुप्तः षण्मासान्कुम्भकर्णो महाबलः। सर्वशस्त्रभृतां मुख्यः स इदानीं समुत्थित॥ इयं च दण्डकारण्याद्रामस्य महिषी प्रिया। रक्षोभिश्चरितोद्देशादानीता जनकात्मजा ॥ सा मे न शय्यामारोदुमिच्छत्यलसगाभिनी। त्रिषु लोकेषु चान्या मे न सीतासदृशी तथा॥ तनुमध्या पृथुश्रोणी शरदिन्दुनिभानना। हेमबिम्बनिभा सौम्या मायेव मयनिर्मिता॥ सुलोहिततलौ श्लक्ष्णौ चरणौ सुप्रतिष्ठितौ। दृष्ट्वा ताम्रनखौ तस्या दीप्यते मे शरीरजः॥ हुताग्निरर्चिः संकाशामेनां सौरीमिव प्रभाम्। उन्नसं विमलं वल्गु वदनं चारुलोचनम्॥ पश्यंस्तदवशस्तस्याः कामस्य वशमेयिवान्। क्रोधहर्षसमानेन दुर्वर्णकरणेन च॥ शोकसंतापनित्येन कामेन कलुषीकृतः। सा तु संवत्सरं कालं मामयाचत भामिनी॥ प्रतीक्षमाणा भर्तारं राममायतलोचना। तन्मया चारुनेत्रायाः प्रतिज्ञातं वचः शुभम्॥ श्रान्तोऽहं सततं कामाद्यातो हय इवाध्वनि। कथं सागरमक्षोभ्यं तरिष्यन्ति वनौकसः॥ बहुसत्त्वझषाकीर्णं तौ वा दशरथात्मजौ। अथवा कपिनैकेन कृतं नः कदनं महत्॥ दुर्जेयाः कार्यगतयो ब्रूत यस्य यथामति। मानुषानो भयं नास्ति तथापि तु विमृश्यताम्॥ तदा देवासुरे युद्धे युष्माभिः सहितोऽजयम्। ते मे भवन्तश्च तथा सुग्रीवप्रमुखान्हरीन्॥ परे पारे समुद्रस्य पुरस्कृत्य नृपात्मजौ। सीतायाः पतवीं प्राप्य संप्राप्तौ वरुणालयम्॥ अदेया च यथा सीता वध्यौ दशरथात्मजौ। भवद्भिर्मन्त्र्यतां मन्त्रः सुनीतं चाभिधीयताम्॥ नहि शक्ति प्रपश्यामि जगत्यन्यस्य कस्यचित्। सागरं वानरैस्तीत्वा निश्चयेन जयो मम ॥ तस्य कामपरीतस्य निशम्य परिदेवितम्। कुम्भकर्णः प्रचुक्रोध वचनं चेदमब्रवीत्॥ यदा तु रामस्य सलक्ष्मणस्य प्रसह्य सीता खलु सा इहाहृता। सकृत्समीक्ष्यैव सुनिश्चितं तदा भजेत चित्तं यमुनेव यामुनम्॥ सर्वमेतन्महाराज कृतमप्रतिमं तव। विधीयेत सहास्माभिरादावेवास्य कर्मणः॥ न्यायेन राजकार्याणि यः करोति दशानन। न स संतप्यते पश्चानिश्चितार्थमतिर्नृपः॥ अनुपायेन कर्माणि विपरीतानि यानि च। क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ॥ यः पश्चात्पूर्वकार्याणि कर्माण्यभिचिकीर्षति। पूर्वं चापरकार्याणि स न वेद नयानयौ ॥ चपलस्य तु कृत्येषु प्रसमीक्ष्याधिकं बलम्। छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः॥ त्वयेदं महदारब्धं कार्यमप्रतिचिन्तितम्। दिष्ट्या त्वां नावधीद्रामो विषमिश्रमिवामिषम्॥ तस्मात्त्वया समारब्धं कर्म ह्यप्रतिमं परैः। अहं समीकरिष्यामि हत्वा शस्तवानघ॥ अहमुत्सादयिष्यामि शत्रुस्तव निशाचर। यदि शक्रविवस्वन्तौ यदि पावकमारुतौ। तावहं योधयिष्यामि कुबेरवरुणावपि॥ गिरिमात्रशरीरस्य महापरिघयोधिनः। नर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाद्वै पुरन्दरः॥ पुना स द्वितीयेन शरेण निहनिष्यति। ततोऽहं तस्य पास्यामि रुधिरं काममाश्वस॥ वधेन वै दाशरथेः सुखावह जयं तवाहर्तुमहं यतिष्ये।। हत्वा च रामं सह लक्ष्मणेन खादामि सर्वानहरियूथमुख्यान्॥ रमस्य कामं पिब चावयवारुणीं कुरुष्व कार्याणि हितानि विज्वरः। मया तु रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति।४०॥ रावणं क्रुद्धमाज्ञाय महापार्यो महाबलः। मुहूर्तमनुसंचिन्त्य प्राञ्जलिर्वाक्यमब्रवीत्॥ यः खल्वपि वनं प्राप्य मृगव्यालनिषेवितम्। न पिबेन्मधु संप्राप्य स नरो बालिशो भवेत्॥ ईश्वरस्येश्वरः कोऽस्ति तव शत्रुनिबर्हण। रमस्व सह वैदेह्या शत्रूनाक्रम्य मूर्धसु॥ बलात्कुक्कुटवृत्तेन प्रवर्तस्व महाबल। आक्रम्याक्रम्य सीतां वै तां भुङ्क्व च रमस्व च।४॥ लब्धकामस्य ते पश्चादागमिष्यति किं भयम्। प्राप्तमप्राप्तकालं वा सर्व प्रतिविधास्यसे॥ कुम्भकर्णः सहास्माभिरिन्द्रजिच्च महाबलः। प्रतिषेधयितुं शक्तौ सवज्रमपि वज्रिणम्॥ उपप्रदानं सान्त्वं वा भेदं वा कुशलैः कृतम्। समतिक्रम्य दण्डेन सिद्धिमर्थेषु रोचये॥ इह प्राप्तान्वयं सर्वाञ्छबूंस्तव महाबल। वशं शस्त्रप्रतापेन करिष्यामो न संशयः॥ एवमुक्तस्तदा राजा महापार्श्वेन रावणः। तस्य संपूजयन्वाक्यमिदं वचनमब्रवीत्॥ महापार्श्व प्रवदतो रहस्यं किंचिदात्मनः। चिरवृत्तं तदाख्यास्ये यदवाप्तं पुरा मया॥ पितामहस्य भवनं गच्छन्तीं पुञ्जिकस्थलाम्। चञ्चर्यमाणामद्राक्षमाकाशेऽग्निशिखामिव ॥ सा प्रसह्य मया भुक्ता कृता विवसना ततः। स्वयंभूभवनं प्राप्ता लोलिता नलिनी यथा॥ तच्च तस्य तथा मन्ये ज्ञातमासीन्महात्मनः। अथ संकुपितो वेधा मामिदं वाक्यमब्रवीत्॥ अद्यप्रभृति यामन्यां बलान्नारों गमिष्यसि। तदा ते शतधा मूर्धा फलिष्यति न संशयः॥ इत्यहं तस्य शापस्य भीतः प्रसभमेव ताम्। नारोहये बलात्सीतां वैदेहीं शयने शुभे॥ सागरस्येव मे वेगो मारुतस्येव मे गतिः। नैतद्दाशरथिर्वेद ह्यासादयति तेन माम्॥ को हि सिंहमिवासीनं सुप्तं गिरिगुहाशये। क्रुद्धं मृत्युमिवासीनं संबोधयितुमिच्छति॥ न मत्तो निर्गतान्बाणान्विजिह्वान्पन्नगानिव। रामः पश्यति संग्रामे तेन मामभिगच्छति॥ क्षिप्रं वज्रसमैर्बाणैः शतधा कार्मुकच्युतैः। राममादीपयिष्यामि उल्काभिरिव कुञ्जरम्॥ तच्चास्य बलमादास्ये बलेन महता वृतः। उदितः सविता काले नक्षत्राणां प्रभामिव ॥ न वासवेनापि सहस्रचक्षुषा युधास्मि शक्यो वरुणेन वा पुनः। मया त्वियं बाहुबलेन निर्जिता पुरा पुरी वैश्रवणेन पालिता॥ निशाचरेन्द्रस्य निशम्य वाक्यं स कुम्भकर्णस्य च गर्जितानि। विभीषणो राक्षसराजमुख्यमुवाच वाक्यं हितमर्थयुक्तम्॥ वृतो हि बाह्वन्तरभोगराशिश्चिन्ताविषः सुस्मिततीक्ष्णदंष्ट्रः। पञ्चाङ्गुलीपञ्चशिरोऽतिकायः सौतामहाहिस्तव केन राजन्॥ यावन लङ्कां समभिद्रवन्ति वलीमुखाः पर्वतकूटमात्राः। दंष्ट्रायुधाश्चैव नखायुधाश्च प्रदीयतां दाशरथाय मैथिली॥ यावन्न गृह्णन्ति शिरांसि बाणा रामेरिता राक्षसपुङ्गवानम्। वज्रोपमा वायुसमानवेगाः प्रदीयतां दाशरथाय मैथिली।४।। न कुम्भकर्णेन्द्रजितौ च राजंस्तथा महापार्श्वमहोदरौ वा। निकुम्भकुम्भौ च तथातिकायः स्थातुं समर्था युधि राघवस्य॥ जीवंस्तु रामस्य न मोक्ष्यसे त्वं गुप्तः सवित्राप्यथवा मरुद्भिः। न वासवस्याङ्कगतो न मृत्योर्नभो न पातालमनुप्रविष्टः॥ निशम्य वाक्यं तु विभीषणस्य ततः प्रहस्तो वचनं बभाषे। न नो भयं विद्म न दैवतेभ्यो न दानवेभ्योऽप्यथवा कदाचित्।७।। न यक्षगन्धर्वमहोरगेभ्यो भयं न संख्ये पतगोरगेभ्यः। कथं नु रामाद्भविता भयं नो नरेन्द्रपुत्रात्समरे कदाचित्॥ प्रहस्तवाक्यं त्वहितं निशम्य विभीषणे राजहितानुकानी। ततो महार्थं वचनं बभाषे धर्मार्थकामेषु निविष्टबुद्धिः॥ प्रहस्त राजा च महोदरश्च त्वं कुम्भकर्णश्च यथार्थजातम्। ब्रवीत राम प्रति तन्न शक्यं यथा गतिः स्वर्गमधर्मबुद्धेः॥ वधस्तु रामस्य मया त्वया च प्रहस्त सर्वैरपि राक्षसैर्वा। कथं भवेदर्थविशारदस्य महार्णवं तर्तुमिवाप्लवस्य॥ धर्मप्रधानस्य महारथस्य इक्ष्वाकुवंशप्रभवस्य राज्ञः। पुरोऽस्य देवाश्च तथाविधस्य कृत्येषु शक्तस्य भवन्ति मूढाः॥ तीक्ष्णा न तावत्तव कङ्कपत्रा दुरासदा राघवविप्रमुक्ताः। भित्त्वा शरीरं प्रविशन्ति बाणा: प्रहस्त तेनैव विकत्थसे त्वम्॥ भित्त्वा न तावत्प्रविशन्ति कायं प्राणान्तिकास्तेऽशनितुल्यवेगाः। शिताः शरा राघवविप्रमुक्ताः प्रहस्त तेनैव विकत्थसे त्वम्॥ न रावणो नातिबलस्त्रिशीर्षो न कुम्भकर्णस्य सुतो निकुम्भः। न चेन्द्रजिद्दाशरथिं प्रसोढुं त्वं वा रणे शक्रसमं समर्थः॥ देवान्तको वापि नरान्तको वा तथातिकायोऽतिरथो महात्मा। अकम्पनश्चापि समानसारः स्थातुं न शक्ता युधि राघवस्य॥ अयं च राजा व्यसनाभिभूतो मित्रैरमित्रप्रतिमैर्भवद्भिः। अन्वास्यते राक्षसनाशनार्थे तीक्ष्णः प्रकृत्या ह्यसमीक्ष्यकारी॥ अनन्तभोगेन सहस्रमूर्धा नागेन भीमेन महाबलेन। बलात्परिक्षिप्तमिमं भवन्तो राजानमुत्क्षिप्य विमोचयन्तु॥ यावद्धि केशग्रहणात्सुहृद्भिः समेत्य सर्वैः परिपूर्णकामैः। निगृह्य राजा परिरक्षितव्यो भूतैर्यथा भीमबलैर्गृहीतः॥ सुवारिणा राघवसागरेण प्रच्छाद्यमानस्तरसा भवद्भिः। युक्तस्त्वयं तारयितुं समेत्य काकुत्स्थपातालमुखे पतन्सः॥ इदं पुरस्यास्य सराक्षसस्य राज्ञश्च पथ्यं ससुहज्जनस्य। सम्यग्धि वाक्यं स्वमतं ब्रवीमि नरेन्द्रपुत्राय ददातु मैथिलीम्॥ परस्य वीर्य स्वबलं च बुद्ध्वा स्थानं क्षयं चैव तथैव वृद्धिम्। तथा स्वपक्षेऽप्यनुमृश्य बुद्ध्या वदेत्क्षम स्वामिहितं स मन्त्री॥ निशम्य यत्नेन विभीषणस्य। ततो महात्मा वचनं बभाषे तत्रेन्द्रजिनैर्ऋतयूथमुख्यः॥ मनर्थकं वै बहुभीतवच्च। अस्मिन्कुले योऽपि भवेन जातः सोऽपीदृशं नैव वदेन कुर्यात्॥ सत्त्वेन वीर्येण पराक्रमेण धैर्येण शौर्येण च तेजसा च। एकः कुलेऽस्मिन्पुरुषो विमुक्तो विभीषणस्तात कनिष्ठ एषः॥ किं नाम तौ मानुषराजपुत्रावस्माकमेकेन हि राक्षसेन। सुप्राकृतेनापि निहन्तुमेतौ शक्यौ कुतो भीषयसे स्म भीरो॥ त्रिलोकनाथो ननु देवराजः शक्तो मया भूमितले निविष्टः। भयार्पिताश्चापि दिशः प्रपन्नाः सर्वे तदा देवगणाः समग्राः॥ ऐरावतो निःस्वनमुनदन्स निपातितो भूमितले मया तु। विकृष्य दन्तौ तु मया प्रसह्य वित्रासिता देवगणाः समग्राः॥ सोऽहं सुराणामपि दर्पहन्ता दैत्योत्तमानामपि शोककर्ता। कथं नरेन्द्रात्मजरयोर्न शक्तो मनुष्ययोः प्राकृतयोः सुवीर्यः॥ अथेन्द्रकल्पस्य दुरासदस्य महौजसस्तद्वचनं निशम्य। ततो महार्थं वचनं बभाषे विभीषणः शस्त्रभृतां वरिष्ठः।।।।। न तात मन्त्रे तव निश्चयोऽस्ति बालस्त्वमद्याप्यविपक्वबुद्धिः। तस्मात्त्वयाप्यात्मविनाशनाय वचोऽर्थहीनं बहु विप्रलप्तम्॥ पुत्रप्रवादेन तु रावणस्य त्वमिन्द्रजिन्मित्रमुखोऽसि शत्रुः। यस्येदृशं राघवतो विनाशं निशम्य मोहादनुमन्यसे त्वम्॥ त्वमेव वध्यश्च सुदुर्मतिश्च स चापि वध्यो य इहानयत्वाम्। बालं दृढं साहसिकं च योऽद्य प्रावेशयन्मन्त्रकृतां समीपम्॥ स्तीक्ष्णस्वभावोऽल्पमतिर्दुरात्मा। मूर्खस्त्वमत्यन्तसुदुर्मतिश्च त्वमिन्द्रजिद्वालतया ब्रवीषि॥ नर्चिष्मतः कालनिकाशरूपान्। सहेत बाणान्यमदण्डकल्पान् समक्षमुक्तान्युधि राघवेण॥ धनानि रत्नानि सुभूषणानि वासांसि दिव्यानि मणींश्च चित्रान्। सीतां च रामाय निवेद्य देवी वसेम राजनिह वीतशोकाः॥ धनानि रत्नानि सुभूषणानि वासांसि दिव्यानि मणींश्च चित्रान्। सीतां च रामाय निवेद्य देवी वसेम राजनिह वीतशोकाः॥ सुनिविष्टं हितं वाक्यमुक्तवन्तं विभीषणम्। अब्रवीत्परुषं वाक्यं रावणः कालचोदितः॥ वसेत्सह सपत्नेन क्रुद्धनाशीविषेण च। न तु मित्रप्रवादेन संवसेच्छत्रुसेविना॥ जानामि शीलं ज्ञातीनां सर्वलोकेषु राक्षस। हृष्यन्ति व्यसनेष्वेते ज्ञातीनां ज्ञातयः सदा॥ प्रधानं साधकं वैद्यं धर्मशीलं च राक्षस। ज्ञातयोऽप्यवमन्यन्ते शूरं परिभवन्ति च॥ नित्यमन्योन्यसंहृष्टा व्यसनेष्वाततायिनः। प्रच्छन्नहृदया घोरा ज्ञातयस्तु भयावहाः॥ श्रूयन्ते हस्तिभिर्गीताः श्लोकाः पद्मवने पुरा। पाशहस्तानरान्दृष्ट्वा शृणुष्व गदतो मम॥ नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः।। घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः॥ उपायमेते वक्ष्यन्ति ग्रहणे नात्र संशयः। कृत्स्नाद्भयाज्ज्ञातिभयं सुकष्टं विदितं च नः॥ विद्यते गोषु संपन्न विद्यते ज्ञातितो भयम्। विद्यते स्त्रीषु चापल्यं विद्यते ब्राह्मणे तपः॥ ततो नेष्टमिदं सौम्य यदहं लोकसत्कृतः। ऐश्वर्यमभिजातश्च रिपूणां मूर्ध्नि च स्थितः॥ यथा पुष्करपत्रेषु पतितास्तोयबिन्दवः। न श्लेषमभिगच्छन्ति तथानार्येषु सौहृदम्॥ यथा शरदि मेघानां सिञ्चतामपि गर्जताम्। न भवत्यम्बुसंक्लेदस्तथानार्येषु सौहृदम्॥ यथा मधुकरस्तांद्रसं विन्दन्न तिष्ठति। तथा त्वमपि तत्रैव तथानार्येषु सौहृदम्॥ यथा मधुकरस्तर्षात्काशपुष्पं पिबन्नपि। रसमत्रन न विन्देत तथानार्येषु सैहृदम्॥ यथा पूर्वं गजः स्नात्वा गृह्य हस्तेन वै रजः। दूषयत्यात्मनो देहं तथानार्येषु सौहदम्॥ योऽन्यस्त्वेवंविधं ब्रूयाद्वाक्यमेतन्निशाचर। अस्मिन्मुहूर्ते न भवेत्त्वां तु धिक्कुलपांसन॥ इत्युक्तः परुषं वाक्यं न्यायवादी विभीषणः। उत्पपात गदापाणिश्चतुर्भिः सह राक्षसैः॥ अब्रवीच्च तदा वाक्यं जातक्रोधो विभीषणः। अन्तरिक्षगतः श्रीमान्धाता वै राक्षसाधिपम्॥ स त्वं भ्रान्तोऽसि मे राजन्ब्रूहि मां यद्यदिच्छसि। ज्येष्ठो मान्यः पितृसमो न च धर्मपथे स्थितः। इदं हि परुषं वाक्यं न क्षमाम्यग्रजस्य ते॥ सुनीतं हितकामेन वाक्यमुक्तं दशानन। न गृह्णन्त्यकृतात्मानः कालस्य वशमागताः॥ सुलभाः पुरुषा राजन्सततं प्रियवादिनः। अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः॥ बद्धं कालस्य पाशेन सर्वभूतापहारिणः। न नश्यन्तमुपेक्षे त्वां प्रदीप्तं शरणं यथा ॥ दीप्तपावकसंकाशैः शितैः काञ्चनभूषणैः। न त्वामिच्छाम्यहं द्रष्टुं रामेण निहतं शरैः॥ शूराश्च बलवन्तश्च कृतास्त्राश्च नरा रणे। कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः॥ तन्मर्षयतु यच्चोक्तं गुरुत्वाद्धितमिच्छता। आत्मानं सर्वथा रक्ष पुरीं चेमां सराक्षसाम्। स्वस्ति तेऽस्तु गमिष्यामि सुखी भव मया विना॥ निवार्यमाणस्य मया हितैषिणा न रोचते ते वचनं निशाचर। परान्तकाले हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिरीरितम्॥ इत्युक्त्वा परुषं वाक्यं रावणं रावणानुजः। आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः॥ तं मेरुशिखराकारं दीप्तामिव शतहदाम्। गगनस्थं महीस्थास्ते ददृशुर्वानराधिपाः॥ ते चाप्यनुचरास्तस्य चत्वारो भीमविक्रमाः। तेऽपि वर्मायुधोपेता भूषणोत्तमभूषिताः॥ स च मेघाचलप्रख्यो वज्रायुधसमप्रभः। वरायुधधरो वीरो दिव्याभरणभूषितः॥ तमात्मपञ्चमं दृष्ट्वा सुग्रीवो वानराधिपः। वानरैः सह दुर्धर्षश्चिन्तयामास बुद्धिमान्॥ चिन्तयित्वा मुहूर्तं तु वानरांस्तानुवाच ह। हनुमत्प्रमुखान्सर्वानिदं वचनमुत्तमम्॥ एष सर्वायुधोपेतश्चतुर्भिः सह राक्षसैः। राक्षसोऽभ्येति पश्यध्वमस्मान्हन्तुं न संशयः।७।। सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानरोत्तमाः। शालानुद्यम्य शैलांश्च इदं वचनमब्रुवन्।।।।। शीघ्रं व्यादिश नो राजन्वधायैषां दुरात्मनाम्। निपतन्ति हता यावद्धरण्यामल्पचेतनाः॥ तेषां संभाषमाणानामन्योन्यं स विभीषणः। उत्तरं तीरमासाद्य स्वस्थ एव व्यतिष्ठत॥ स उवाच महाप्राज्ञः स्वरेण महता महान्। सुग्रीवं तांश्च संप्रेक्ष्य स्वस्थ एव विभीषणः॥ रावणो नाम दुर्वृत्तो राक्षसो राक्षसेश्वरः। तस्याहमनुजो भ्राता विभीषण इति श्रुतः॥ तेन सीता जनस्थानाद्धृता हत्वा जटायुषम्। रुद्धा च विवशा दीना राक्षसीभिः सुरक्षिता॥ तमहं हेतुभिर्वाक्यैर्विविधैश्च न्यदर्शयम्। साधु निर्यात्यतां सीता रामायेति पुनः पुनः॥ स च न प्रतिजग्राह रावणः कालचोदितः। उच्यमानं हितं वाक्यं विपरीत इवौषधम्॥ सोऽहं परुषितस्तेन दासवच्चावमानितः। त्यक्त्वा पुत्रांश्च दारांश्च राघवं शरणं गतः॥ निवेदयत मां क्षिप्रं राघवाय महात्मने। सर्वलोकशरण्याय विभीषणमुपस्थितम्॥ एतत्तु वचनं श्रुत्वा सुग्रीवो लघुविक्रमः। लक्ष्मणस्याग्रतो रामं संरब्धमिदमब्रवीत्॥ प्रविष्टः सत्रुसैन्यं हि प्राप्तः शत्रुरतर्कितः। निहन्यादन्तरं लब्ध्वा उलूको वायसानिव॥ मन्त्रे व्यूहे नये चारे युक्तो भवितुमर्हसि। वानराणां च भद्रं ते परेषां च परंतप॥ अन्तर्धानगता ह्येते राक्षसाः कामरूपिणः। शूराश्च निकृतिज्ञाश्च तेषां जातु न विश्वसेत्॥ प्रणिधी राक्षसेन्द्रस्य रावणस्य भवेदयम्। अनुप्रविश्य सोऽस्मासु भेदं कुर्यान्न संशयः॥ अथ वा स्वयमेवैष छिद्रमासाद्य बुद्धिमान्। अनुप्रविश्य विश्वस्ते कदाचित्प्रहरेदपि ॥ मित्राटविबलं चैव मौलभृत्यबलं तथा। सर्वमेतद्वलं ग्राह्यं वर्जयित्वा द्विषद्बलम्॥ प्रकृत्या राक्षसो ह्येष भ्रातामित्रस्य वै प्रभो। आगतश्च रिपुः साक्षात्कथमस्मिंश्च विश्वसेत्॥ रावणस्यानुजो भ्राता विभीषण इति श्रुतः। चतुर्भिः सह रक्षोभिर्भवन्तं शरणं गतः॥ रावणेन प्रणीतं हि तमवेहि विभीषणम्। तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर॥ राक्षसो जिह्मया बुद्ध्या संदिष्टोऽयमिहागतः। प्रहर्तुं मायया छनो विश्वस्ते त्वयि चानघ॥ बध्यतामेष तीव्रण दण्डेन सचिवैः सह। रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः॥ एवमुक्त्वा तु तं रामं संरब्धो वाहिनीपतिः। वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत्॥ सुग्रीवस्य तु तद्वाक्यं श्रुत्वा रामो महाबलः। समीपस्थानुवाचेदं हनुमत्प्रमुखान्कपीन्॥ यदुक्तं कपिराजेन रावणावरजं प्रति। वाक्यं हेतुमदत्यर्थं भवद्भिरपि च श्रुतम्॥ सुहृदामर्थकृच्छ्रेषु युक्तं बुद्धिमता सदा। समर्थेनोपसंदेष्टुं शाश्वतीं भूतिमिच्छता॥ इत्येवं परिपृष्टास्ते स्वं स्वं मतमतन्द्रिताः। सोपचारं तदा राममूचुः प्रियचिकीर्षवः॥ अज्ञातं नास्ति ते किंचित्रिषु लोकेषु राधव। आत्मानं पूजयन्राम पृच्छस्यस्मान्सुहत्तया ॥ त्वं हि सत्यव्रतः शूरो धार्मिको दृढविक्रमः। परीक्ष्यकारी स्मृतिमानिसृष्टात्मा सुहृत्सु च।३६।। तस्मादेकैकशस्तावब्रुवन्तु सचिवास्तव। हेतुतो मतिसंपन्नाः समर्थाश्च पुनस्तथा॥ इत्युक्ते राघवायाथ मतिमानङ्गदोऽग्रतः। विभीषणपरीक्षार्थमुवाच वचनं हरिः॥ शत्रोः सकाशात्संप्राप्तः सर्वथा तय॑ एव हि। विश्वासनीयः सहसा न कर्तव्यो विभीषणः॥ छादयित्वात्मभावं हि चरन्ति शठबुद्धयः। प्रहरन्ति च रन्ध्रेषु सोऽनर्थः सुमहान्भवेत्॥ अर्थानौँ विनिश्चित्य व्यवसायं भजेत ह। गुणतः संग्रहं कुर्याद्दोषतस्तु विसर्जयेत्॥ यदि दोषो महांस्तस्मिंस्त्यज्यतामविशङ्कितम्। गुणान्वापि बहून्ज्ञात्वा संग्रहः क्रियतां नृप।॥ शरभस्त्वथ निश्चित्य सार्थं वचनमब्रवीत्। क्षिप्रमस्मिन्नरव्याघ्र चारः प्रतिविधीयताम्॥ प्रणिधाय हि चारेण यथावत्सूक्ष्मबुद्धिना। परीक्ष्य च ततः कार्यों यथान्यायं परिग्रहः॥ जाम्बवांस्त्वथ संप्रेक्ष्य शास्त्रबुद्ध्या विचक्षणः। वाक्यं विज्ञापयामास गुणवद्दोषवर्जितम्॥ बद्धवैराच्च पापाच्च राक्षसेन्द्राद्विभीषणः। अदेशकाले संप्राप्तः सर्वथा शङ्कयतामयम्॥ ततो मैन्दस्तु संप्रेक्ष्य नयापनयकोविदः। वाक्यं वचनसंपन्नो बभाषे हेतुमुत्तरम्॥ अनुजो नाम तस्यैष रावणस्य विभीषणः। पृच्छ्यतां मधुरेणायं शनैर्नरपतीश्वर॥ भावमस्य तु विज्ञाय तत्त्वतस्त्वं करिष्यसि। यदि दुष्टो न दुष्टो वा बुद्धिपूर्वं नरर्षभ॥ अथ संस्कारसंपन्नो हनूमान्सविचोत्तमः। उवाच वचनं श्लक्ष्णमर्थवन्मधुरं लघु॥ न भवन्तं मतिश्रेष्ठं समर्थं वदतां वरम्। अतिशाययितुं शक्तो बृहस्पतिरपि ब्रुवन्।५१।। न वादान्नापि संघर्षानाधिक्यान च कामतः। वक्ष्यामि वचनं राजन्यथार्थं राम गौरवात्॥ अर्थानर्थनिमित्तं हि यदुक्तं सचिवैस्तव। तत्र दोषं प्रपश्यामि क्रिया नह्युपपद्यते॥ ऋते नियोगात्सामर्थ्यमवबोद्धं न शक्यते। सहसा विनियोगोऽपि दोषवान्प्रतिभाति मे।५४।। चारप्रणिहितं युक्तं यदुक्तं सचिवैस्तव। अर्थस्यासंभवात्तत्र कारणं नोपपद्यते॥ अदेशकाले संप्राप्त इत्ययं यद्भिभीषणः। विवक्षा तत्र मेऽस्तीयं तां निबोध यथामति।५६॥ एष देशश्च कालश्च भवतीह यथा तथा। पुरुषात्पुरुषं प्राप्य तथा दोषगुणावपि ॥ दौरात्म्यं रावणे दृष्ट्वा विक्रमं च तथा त्वयि। युक्तमागमनं ह्यत्र सदृशं तस्य बुद्धितः॥ अज्ञातरूपैः पुरुषैः स राजन्पृच्छ्यतामिति। यदुक्तमत्र मे प्रेक्षा काचिदस्ति समीक्षिता॥ पृच्छयमानो विशङ्केत सहसा बुद्धिमान्वचः। तत्र मित्रं प्रदुष्येत मिथ्या पृष्टं सुखागतम्॥ अशक्यं सहसा राजन्भावो बोद्धं परस्य वै। अन्तरेण स्वरैभिन्नै पुण्यं पश्यतां भृशम्॥ न त्वस्यब्रुवतो जातु लक्ष्यते दुष्टभावता। प्रसन्न वदनं चापि तस्मान्मे नास्ति संशयः॥ अशङ्कितमतिः स्वस्थो न शठः परिसर्पति। न चास्य दुष्टवागस्ति तस्मान्मे नास्ति संशयः॥ आकारश्छाद्यमानोऽपि न शक्यो विनिगुहितुम्। बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम्॥ देशकालोपपन्नं च कार्य कार्यविदां वर। सफलं कुरुते क्षिप्रं प्रयोगेणाभिसंहितम्॥ उद्योगं तव संप्रेक्ष्य मिथ्यावृत्तं च रावणम्। वालिनं च हतं श्रुत्वा सुग्रीवं चाभिषेचितम्॥ राज्यं प्रार्थयमानस्तु बुद्धिपूर्वमिहागतः। एतावतु पुरस्कृत्य विद्यते तस्य संग्रहः॥ यथाशक्ति मयोक्तं त राक्षसस्यार्जवं प्रति। प्रमाणं त्वं हि शेषस्य श्रुत्वा बुद्धिमतां वर॥ अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह। प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम्॥ ममापि च विवक्षास्ति काचित्प्रति विभीषणम्। श्रोतुमिच्छामि तत्सर्वं भवद्भिः श्रेयसि स्थितैः॥ मित्रभावेन संप्राप्तं न त्यजेयं कथंचन। दोषो यद्यपि तस्य स्यात्सतामेतदगर्हितम्॥ सुग्रीवस्त्वथ तद्वाक्यमाभाष्य च विमृश्य च। ततः शुभतरं वाक्यमुवाच हरिपुंगवः॥ स दुष्टो वाप्यदुष्टो वा किमेष रजनीचरः। ईदृशं व्यसनं प्राप्तं भ्रातरं यः परित्यजेत् ॥ को नाम स भवेत्तस्य यमेष न परित्यजेत्। वानराधिपतेर्वाक्यं श्रुत्वा सर्वानुदीक्ष्य तु॥ ईषदुत्स्मयमानस्तु लक्ष्मणं पुण्यलक्षणम्। इति होवाच काकुत्स्थो वाक्यं सत्यपराक्रमः।७।। अनधीत्य च शास्त्राणि वृद्धाननुपसेव्य च। न शक्यमीदृशं वक्तुं यदुवाच हरीश्वरः॥ अस्ति सूक्ष्मतरं किंचिद्यथात्र प्रतिभाति मा। प्रत्यक्षं लौकिकं चापि वर्तते सर्वराजसु॥ अमित्रास्तत्कुलीनाश्च प्रातिदेश्याश्च कीर्तिताः। व्यसनेषु प्रहरिस्तस्मादयमिहागतः॥ अपापास्तत्कुलीनाश्च मानयन्ति स्वकान्हितान्। एष प्रायो नरेन्द्राणां शङ्कनीयस्तु शोभनः॥ यस्तु दोषस्त्वया प्रोक्तो ह्यादानेऽरिबलस्य च। तत्र ते कीर्तयिष्यामि यथाशास्त्रमिदं शृणु ॥ न वयं तत्कुलीनाश्च राज्यकाझी च राक्षसः। पण्डिता हि भविष्यन्ति तस्माद्ग्राह्यो विभीषणः॥ अव्यग्राश्च प्रहृष्टाश्च ते भविष्यन्ति संगताः। प्रणादश्च महानेषोऽन्योन्यस्य भयमागतम्। इति भेदं गमिष्यन्ति तस्मात्प्राप्तो विभीषणः॥ न सर्वे भ्रातरस्तात भवन्ति भरतोपमाः। मद्विधा वा पितुः पुत्राः सुहृदो वा भवद्विधाः॥ एवमुक्तस्तु रामेण सुग्रीवः सहलक्ष्मणः। उत्थायेदं महाप्राज्ञः प्रणतो वाक्यमब्रवीत्॥ रावणेन प्रणिहितं तमवेहि निशाचरम्। तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर॥ राक्षसो जिह्मया बुद्ध्या संदिष्टोऽयमिहागतः। प्रहर्तुं त्वयि विश्वस्ते विश्वस्ते मयि वाऽनघ॥ लक्ष्मणे वा महाबाहो स वध्यः सचिवैः सह। रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः॥ एवमुक्त्वा रघुश्रेष्ठं सुग्रीवो वाहिनीपतिः। वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत् ॥ स सुग्रीवस्य तद्वाक्यं रामः श्रुत्वा विमृश्य च। ततः शुभतरं वाक्यमुवाच हरिपुङ्गवम्॥ स दुष्टो वाऽप्यदुष्टो वा किमेष रजनीचरः। सूक्ष्ममप्यहितं कर्तुं मम शक्तः कथंचन ॥ पिशाचान्दानवान्यक्षान्पृथिव्यां चैव राक्षसान्। अङ्गुल्यग्रेण तान्हन्यामिच्छन्हरिगणेश्वर ॥ श्रूयते हि कपोतेन शत्रुः शरणमागतः। अर्चितश्च यथान्यायं स्वैश्च मासैनिमन्त्रितः॥ स हि तं प्रतिजग्राह भार्याहर्तारमागतम्। कपोतो वानरश्रेष्ठ किंपुनर्मद्विधो जनः॥ ऋषेः कण्वस्य पुत्रेण कण्डुना परमर्षिणा। शृणु गाथा पुरा गीता धर्मिष्ठा सत्यवादिना॥ बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम्। न हन्यादानृशंस्यार्थमपि शत्रु परंतप॥ आतॊ वा यदि वा दृप्तः परेषां शरणं गतः। अरिः प्राणान्परित्यज्य रक्षितव्यः कृतात्मना॥ स चेद्रयाद्वा मोहाद्वा कामाद्वापि न रक्षति। स्वया शक्त्या यथान्यायं तत्पापं लोकगर्हितम्॥ विनष्टः पश्यतस्तस्य रक्षिणः शरणं गतः। आदाय सुकृतं तस्य सर्वं गच्छेदरक्षितः॥ एवं दोषो महानत्र प्रपन्नानामरक्षणे। अस्वयं चायशस्यं च बलवीर्यविनाशनम्॥ करिष्यामि यथार्थं तु कण्डोर्वचनमुत्तमम्। धर्मिष्ठं च यशस्यं च स्वयं स्यात्तु फलोदये॥ सकृदेव प्रपन्नाय तवास्मीति च याचते। अभयं सर्वभूतेभ्यो ददाम्येतद्ब्रतं मम॥ आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया। विभीषणो वा सुग्रीव यदि वा रावणः स्वयम्॥ रामस्य तु वचः श्रुत्वा सुग्रीवः प्लवगेश्वरः। प्रत्यभाषत काकुत्स्थं सौहार्दैनाभिपूरितः॥ किमत्र चित्रं धर्मज्ञ लोकनाथशिखामणे। यत्त्वमार्य प्रभाषेथाः सत्त्ववान्सत्पथे स्थितः॥ मम चाप्यन्तरात्माऽयं शुद्धं वेत्ति विभीषणम्। अनुमानाच्च भावाच्च सर्वतः सुपरीक्षितः॥ तस्मात्क्षिप्रं सहास्माभिस्तुल्यो भवतु राघव। विभीषणो महाप्राज्ञः सखित्वं चाभ्युपैतु नः॥ ततस्तु सुग्रीववचो निशम्य तद्धरीश्वरेणाभिहितं नरेश्वरः। विभीषणेनाशु जगाम संगमं पतत्त्रिराजेन यथा पुरन्दरः॥ राघवेणाभये दत्ते संनतो रावणानुजः। विभीषणो महाप्राज्ञो भूमि समवलोकयत्॥ खात्पपातावनि हृष्टो भक्तैरनुचरैः सह। स तु रामस्य धर्मात्मा निपपात विभीषणः॥ पादयोनिपपाताथ चतुर्भिः सह राक्षसैः। अब्रवीच्च तदा वाक्यं रामं प्रति विभीषणः॥ धर्मयुक्तं च युक्तं च सांप्रतं संप्रहर्षणम्। अनुजो रावणस्याहं तेन चास्म्यवमानितः॥ भवन्तं सर्वभूतानां शरण्यं शरणं गतः। परित्यक्ता मया लङ्का मित्राणि च धनानि च॥ भवद्गतं हि मे राज्यं जीवितं च सुखानि च। तस्य तद्वचनं श्रुत्वा रामो वचनमब्रवीत्॥ वचसा सान्त्वयित्वैनं लोचनाभ्यां पिबनिव। आख्याहि मम तत्त्वेन राक्षसानां बलाबलम्॥ एवमुक्तं तदा रक्षो रामेणाक्लिष्टकर्मणा। रावणस्य बलं सर्वमाख्यातुमुपचक्रमे।४।। अवध्यः सर्वभूतानां गन्धर्वोरंगपक्षिणाम्। राजपुत्र दशग्रीवो वरदानात्स्वयंभुवः॥ रावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान्। कुम्भकर्णो महातेजाः शक्रप्रतिबलो युधि॥ राम सेनापतिस्तस्य प्रहस्तो यदि ते श्रुतः। कैलासे येन समरे मणिभद्रः पराजितः॥ बद्धगोधाङ्गुलित्रश्च अवध्वकवचो युधि। धनुरादाय यस्तिष्ठन्नदृश्यो भवतीन्द्रजित्॥ संग्रामे सुमहद्व्यूहे तर्पयित्वा हुताशनम्। अन्तर्धानगतः श्रीमानिन्द्रजिद्धन्ति राघव॥ महोदरमहापाचौं राक्षसश्चाप्यकम्पनः। अनीकपास्तु तस्यैते लोकपालसमा युधि ॥ दशकोटिसहस्राणि रक्षसां कामरूपिणाम्। मांसशोणितभक्ष्याणां लङ्कापुरनिवासिनाम्॥ स तैस्तु सहितो राजा लोकपालानयोधयत्। सह देवैस्तु ते भग्ना रावणेन दुरात्मना॥ विभीषणस्य तु वचस्तच्छुत्वा रघुसत्तमः। अन्वीक्ष्य मनसा सर्वमिदं वचनमब्रवीत्॥ यानि कर्मापदानानि रावणस्य विभीषण। आख्यातानि च तत्त्वेन ह्यवगच्छामि तान्यहम्॥ अहं हत्वा दशग्रीवं सप्रहस्तं सहात्मजम्। राजानं त्वां करिष्यामि सत्यमेतच्छृणोतु मे॥ रसातलं वा प्रविशेत्पातालं वापि रावणः। पितामहसकाशं वा न मे जीवन्विमोक्ष्यते॥ अहत्वा रावणं संख्ये सपुत्रजनबान्धवम्। अयोध्यां न प्रवेक्ष्यामि त्रिभिस्तैर्धातृभिः शपे॥ श्रुत्वा तु वचनं तस्य रामस्याक्लिष्टकर्मणः। शिरसावन्द्य धर्मात्मा वक्तुमेव प्रचक्रमे॥ राक्षसानां वधे साह्यं लङ्कायाश्च प्रधर्षणे। करिष्यामि यथाप्राणं प्रवेक्ष्यामि च वाहिनीम्॥ इति ब्रुवाणं रामस्तु परिष्वज्य विभीषणम्। अब्रवील्लक्ष्मणं प्रीतः समुद्राज्जलमानय॥ तेन चेमं महाप्राज्ञमभिषिञ्च विभीषणम्। राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद॥ एवमुक्तस्तु सौमित्रिरभ्यषिञ्चद्विभीषणम्। मध्ये वानरमुख्यानां राजानं राजशासनात्॥ तं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवङ्गमाः। प्रचुक्रुशुर्महात्मानं साधुसाध्विति चाब्रुवन्॥ अब्रवीच्च हनूमांश्च सुग्रीवश्च विभीषणम्। कथं सागरमक्षोभ्यं तराम वरुणालयम्। सैन्यैः परिवृताः सर्वे वानराणां महौजसाम्॥ उपायैरभिगच्छाम यथा नदनदीपतिम्। तराम तरसा सर्वे ससैन्या वरुणालयम्॥ एवमुक्तस्तु धर्मात्मा प्रत्युवाच विभीषणः। समुद्रं राघवो राजा शरणं गन्तुमर्हसि॥ खानितः सगरेणायमप्रमेयो महोदधिः। कर्तुमर्हसि रामस्य ज्ञातेः कार्य महोदधिः॥ एवं विभीषणेनोक्तं राक्षसेन विपश्चिता। आजगामाथ सुग्रीवो यत्र रामः सलक्ष्मणः॥ ततश्चाख्यातुमारेभे विभीषणवचः शुभम्। सुग्रीवो विपुलग्रीवः सागरस्योपवेशनम् ॥ प्रकृत्या धर्मशीलस्य रामस्यास्याप्यरोचत। सलक्ष्मणं महातेजाः सुग्रीवं च हरीश्वरम्॥ सत्क्रियाएं क्रियादक्षं स्मितपूर्वमभाषत। विभीषणस्य मन्त्रोऽयं मम लक्ष्मण रोचते॥ सुग्रीवः पण्डितो नित्यं भवान्मन्त्रविचक्षणः। उभाभ्यां संप्रधार्थिं रोचते यत्तदुच्यताम्॥ एवमुक्तौ ततो वीरावुभौ सुग्रीवलक्ष्मणौ। समुदाचारसंयुक्तमिदं वचनमूचतुः॥ किमर्थं नौ नरव्याघ्र न रोचिष्यति राघव। विभीषणेन यत्तूक्तमस्मिन्काले सुखावहम्॥ अबद्धा सागरे सेतुं घोरेऽस्मिन्वरुणालये। लङ्का नासादितुं शक्या सेन्ट्रैरपि सुरासुरैः॥ विभीषणस्य शूरस्य यथार्थं क्रियतां वचः। अलं कालात्ययं कृत्वा सागराय नियुज्यताम्। यथा सैन्येन गच्छाम पुरीं रावणपालिताम्॥ एवमुक्तः कुशास्तीणे तीरे नदनदीपतेः। संविवेश तदा रामो वेद्यामिव हुताशनः॥ ततो निविष्टां ध्वजिनीं सुग्रीवेणाभिपालिताम्। ददर्श राक्षसोऽभ्येत्य शार्दूलो नाम वीर्यवान्॥ चारो राक्षसराजस्य रावणस्य दुरात्मनः। तां दृष्ट्वा सर्वतोऽव्यग्रां प्रतिगम्य स राक्षसः॥ आविश्य लङ्कां वेगेन राजानमिदमब्रवीत्। एष वै वानरक्षौंधो लङ्कां समभिवर्तते॥ अगाधश्चाप्रमेयश्च द्वितीय इव सागरः। पुत्रौ दशरथस्येमौ भ्रातरौ रामलक्ष्मणौ॥ उत्तमौ रूपसंपन्नौ सीतायाः पदमागतौ। एतौ सागरमासाद्य संनिविष्टौ महाद्युते॥ बलं चाकाशमावृत्य सर्वतो दशयोजनम्। तत्त्वभूतं महाराज क्षिप्रं वेदितुमर्हसि॥ तव दूता महाराज क्षिप्रमर्हन्ति वेदितुम्। उपप्रदानं सान्त्वं वा भेदो वात्र प्रयुज्यताम्॥ शार्दूलस्य वचः श्रुत्वा रावणो राक्षसेश्वरः। उवाच सहसा व्यग्रः संप्रधार्यार्थमात्मनः। शुकं साधु तदा रक्षो वाक्यमर्थविदां वरम्।।।।। सुग्रीवं ब्रूहि गत्वाशु राजानं वचनान्मम। यथासंदेहमक्लीबं श्लक्ष्णया परया गिरा॥ त्वं वै महाराजकुलप्रसूतो महाबलश्चःरजःसुतश्च। स्तथापि मे भ्रातृसमो हरीश॥ अहं यद्यहरं भायाँ राजपुत्रस्य धीमतः। किं तत्र तव सुग्रीव किष्किन्धां प्रति गम्यताम्॥ नहीयं हरिभिर्लङ्का प्राप्तुं शक्या कथंचन। देवैरपि सगन्धर्वैः किं पुनर्नरवानरैः॥ स तदा राक्षसेन्द्रेण संदिष्टो रजनीचरः। शुको विहंगमो भूत्वा तूर्णमाप्लुत्य चाम्बरम्॥ स गत्वा दूरमध्वानमुपर्युपरि सागरम्। संस्थितो ज़म्बरे वाक्यं सुग्रीवमिदमब्रवीत्॥ सर्वमुक्तं यथादिष्टं रावणेन दुरात्मना। तत्प्रापयन्तं वचनं तूणमाप्लुत्य वानराः॥ प्रापद्यन्तः तदा क्षिप्रं लोप्नुं हन्तुं च मुष्टिभिः। सर्वैः प्लवंगैः प्रसभं निगृहीतो निशाचरः॥ गगनाद्भूतले चाशु प्रतिगृह्यावतारितः। वानरैः पीड्यमानस्तु शुको वचनमब्रवीत्॥ न दूतान्विन्ति काकुत्स्थ वार्यन्तां साधु वानराः। यस्तु हित्वा मतं भर्तुः स्वमतं संप्रधारयेत्। अनुक्तवादी दूतः सन्स दूतो वधमर्हति॥ शुकस्य वचनं रामः श्रुत्वा तु परिदेवितम्। उवाच मावधिष्टेति घ्नतः शाखामृगर्षभान्॥१९ स च पत्रलघुर्भूत्वा हरिभिर्दर्शितेऽभये। अन्तरिक्षे स्थितो भूत्वा पुनर्वचनमब्रवीत्॥ सुग्रीव सत्त्वसंपन्न महाबलपराक्रम। किं मया खलु वक्तव्यो रावणो लोकरावणः॥ स एवमुक्तः प्लवगाधिपस्तदा प्लवङ्गमानामृषभो महाबलः। उवाच वाक्यं रजनीचरस्य चारं शुकं शुद्धमदीनसत्त्वः॥ न मेऽसि मित्रं न तथानुकम्प्यो न चोपकर्तासि न मे प्रियोऽसि। स्ततोऽसि वालीव वधार्ह वध्यः॥ निहन्म्यहं त्वां ससुतं सबन्धु सज्ञातिवर्गं रजनीचरेश। लङ्कां च सर्वां महता बलेन सर्वैः करिष्यामि समेत्य भस्म॥ न मोक्ष्यसे रावण राघवस्य सर्वैः सहेन्द्रैरपि मूढ गुप्तः। अन्तर्हितः सूर्यपथं गतोऽपि तथैव पातालमनुप्रविष्टः।। गिरीशपादाम्बुजसंगतो वा हतोऽसि रामेण सहानुजस्त्वम्।। तस्य ते त्रिषु लोकेषु न पिशाचं न राक्षसम्। त्रातारं नानुपश्यामि न गन्धवं च चासुरम्॥ अवधीस्त्वं जरावृद्धं गृध्रराजं जटायुषम्। किं न ते रामसांनिध्ये सकाशे लक्ष्मणस्य च। हृता सीता विशालाक्षी यां त्वं गृह्य न बुध्यसे ॥ महाबलं महात्मानं दुराधर्ष सुरैरपि। न बुध्यसे रघुश्रेष्ठं यस्ते प्राणान्हरिष्यति॥ ततोऽब्रवीद्वालिसुतोऽप्यङ्गदो हरिसत्तमः। नायं दूतो महाप्राज्ञ चारकः प्रतिभाति मे॥ तुलितं हि बलं सर्वमनेन तव तिरता। गृह्यतां मागमल्लङ्कामेतद्धि मम रोचते॥ ततो राज्ञा समादिष्टाः समुत्पत्य वलीमुखाः। जगृहुश्च वबन्धुश्च विलपन्तमनाथवत्॥ शुकस्तु वानरैश्चण्डैस्तत्र तैः संप्रपीडितः। व्याचुक्रोश महात्मानं रामं दशरथात्मजम्। लुप्येत मे बलात्पक्षौ भिद्येते मे तथाक्षिणी॥ यां च रात्रिं मरिष्यामि जाये रात्रिं च यामहम्। एतस्मिन्नन्तरे काले यन्मया ह्यशुभं कृतम्।। सर्वं तदुपपद्येथा जह्यां चेद्यदि जीवितम्॥ नाघातयत्तदा रामः श्रुत्वा तत्परिदेवितम्। वानरानब्रवीद्रामो मुच्यतां दूत आगतः॥ ततः सागरवेलायां दर्भानास्तीर्य राघवः। अञ्जलिं प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधेः॥ बाहुं भुजङ्गभोगाभमुपधायारिसूदनः। जारूपमयैश्चैव भूषणैर्भूषितं सदा॥ गणिकाचनकेयूरमुक्तप्रवरभूषणैः। भुजैः परमनारीणामभिमृष्टमनेकधा॥ चन्दनागुरुभिश्चैव पुरस्तादभिसेवितम्। बालसूर्यप्रकाशैश्च चन्दनैरुपशोभितम्॥ शयने चोत्तमाङ्गेन सीतायाः शोभितं पुरा। तक्षकस्येव संभोगं गङ्गाजलनिषेवितम्॥ संयुगे युगसंकाशं शत्रूणां शोकवर्धनम्। सुहृदां नन्दनं दीर्घ सागरान्तव्यपाश्रयम्॥ अस्यता च पुनः सव्यं ज्याघातविहतत्वचम्। दक्षिणो दक्षिणं बाहुं महापरिघसंनिभम्॥ गोसहस्रप्रदातारं ह्युपधाय भुजं महत्। अद्य मे तरणं वाथ मरणं सागरस्य वा॥ इति रामो धृतिं कृत्वा महाबाहुर्महोदधिम्। अधिशिश्य च विधिवत्प्रयतोऽत्रस्थितो मुनिः॥ तस्य रामस्य सुप्तस्य कुशास्तीर्णे महीतले। नियमादप्रमत्तस्य निशास्तिस्रोऽभिजग्मतुः॥ स त्रिरात्रोषितस्तत्र नयज्ञो धर्मवत्सलः। उपासत तदा रामः सागरं सरितां पतिम्॥ न च दर्शयते रूपं मन्दो रामस्य सागरः। प्रयतेनापि रामेण यथार्हभिपूजितः॥ समुद्रस्य ततः क्रुद्धो रामो रक्तान्तलोचनः। समीपस्थमुवाचेदं लक्ष्मणं शुभलक्षणम्॥ अवलेपः समुद्रस्य न दर्शयति यः स्वयम्। प्रशमश्च क्षमा चैव आर्जवं प्रियवादिता॥ असामर्थ्यफला ह्येते निर्गुणेषु सतां गुणाः। आत्मप्रशंसिनं दुष्टं धृष्टं विपरिधावकम्॥ सर्वत्रोत्सृष्टदण्डं च लोकः सत्कुरुते नरम्। न साम्ना शक्यते कीर्तिर्न साम्ना शक्यते यशः॥ प्राप्तुं लक्ष्मण लोकेऽस्मिञ्जयो वा रणमूर्धनि। अद्य मद्वाणनिर्भग्नैर्मकरैर्मकरालयम्॥ निरुद्धतोयं सौमित्रे प्लवद्भिः पश्य सर्वतः। भोगिनां पश्य भोगानि मया भिन्नानि लक्ष्मण ॥ महाभोगानि मत्स्यानां करिणां च करानिह । सशङ्खशुक्तिकाजालं समीनमकरं तथा॥ अद्य युद्धेन महता समुद्रं परिशोषये। क्षमया हि समायुक्तं मामयं मकरालयः॥ असमर्थ विजानाति धिक्क्षमामीदृशे जने। न दर्शयति साम्ना मे सागरो रूपमात्मनः॥ चापमानय सौमित्रे शरांश्चाशीविषोपमान्। समुद्रं शोषयिष्यामि पद्भयां यान्तु प्लवंगमाः॥ अद्याक्षोभ्यमपि क्रुद्धः क्षोभयिष्यामि सागरम्। वेलासु कृतमर्यादं सहस्रोमिसमाकुलम्॥ निर्मर्यादं करिष्यामि सायकैर्वरुणालयम्। महार्णवं क्षोभयिष्ये महादानवसंकुलम्॥ एवमुक्त्वा धनुष्पाणिः क्रोधविस्फारितेक्षणः। बभूव रामो दुर्धर्षो युगान्ताग्निरिव ज्वलन्॥ संपीड्य च धनुर्घोरं कम्पयित्वा शनैर्जगत्। मुमोच विशिखानुग्रान्वजानिव शतक्रतुः॥ ते ज्वलन्तो महावेगास्तेजसा सायकोत्तमाः। प्रविशन्ति समुद्रस्य जलं वित्रस्तपन्नगम्॥ तोयवेगः : समुद्रस्य समीनमकरो महान्। स बभूव महाघोरः समारुतरवस्तथा॥ महोर्मिजालचलितः शङ्खजालसमावृतः। सधूमः परिवृत्तोर्मिः सहसासीन्महोदधिः॥ व्यथिताः पन्नगाश्चासन्दीप्तास्या दीप्तलोचनाः। दानवाश्च महावीर्याः पातालतलवासिनः॥ ऊर्मयः सिन्धुराजस्य सनक्रमकरास्तथा। विन्ध्यमन्दरसंकाशाः समुत्पेतुः सहस्रशः॥ आपूर्णिततरङ्गौधः संभ्रान्तोरगराक्षसः। उद्वर्तितमहाग्राहः संघोषो वरुणालयः॥ ततस्तु तं राघवमुग्रवेगं प्रकर्षमाणं धनुरप्रमेयम्। सौमित्रिरुत्पत्त्य विनिःश्वसन्तं मामेति चोक्त्वा धनुराललम्बे॥ एतद्विनापि ह्युदधेस्तवाद्य संपत्स्यते वीरतमस्य कार्यम्। भवद्विधाः क्रोधवशं न यान्ति दीर्घं भवान्पश्यतु साधुवृत्तम्॥ अन्तर्हितैश्चापि तथान्तरिक्षे ब्रह्मर्षिभिश्चैव सुरर्षिभिश्च। र्मामेति चोक्त्वा महता स्वरेण ॥ अथोवाच रघुश्रेष्ठः सागरं दारुणं वचः। अद्याहं शोषयिष्यामि सपातालं महार्णवम्॥ शरनिर्दग्धतोयस्य परिशुष्कस्य सागर। मया निहतसत्त्वस्य पांसुरुत्पद्यते महान्॥ मत्कार्मुकनिसृष्टेन शरवर्षेण सागर। परं तीरं गमिष्यन्ति पद्भिरेव प्लवङ्गमाः॥ विचिन्वन्नाभिजानासि पौरुषं नापि विक्रमम्। दानवालय संतापं मत्तो नाम गमिष्यसि।४॥ ब्राह्मणास्त्रेण संयोज्य ब्रह्मदण्डनिभं शरम्। संयोज्य धनुषि श्रेष्ठ विचकर्ष महाबलः॥ तस्मिन्विकृष्टे सहसा राघवेण शरासने। रोदसी संपफालेव पर्वताश्च चकम्पिरे॥ तमश्च लोकमावत्रे दिशश्च न चकाशिरे। प्रतिचुक्षुभिरे चाशु सरांसि सरितस्तदा॥ तिर्यक् च सह नक्षत्रैः संगतौ चन्द्रभास्करौ। भास्करांशुभिरादीप्तं तमसा च समावृतम्॥ प्रचकाशे तदाकाशमुल्काशतविदीपितम्। अन्तरिक्षाच्च निर्घाता निर्जग्मुरतुलस्वनाः॥ वपुःप्रकर्षेण वर्दिव्यमारुतपङ्क्तयः। बभञ्ज च तदा वृक्षाञ्जलदानुद्वहन्मुहुः॥ आरुजंश्चैव शैलानान्शिखराणि बभञ्ज च। दिवि च स्म महावेगाः संहताः समहास्वनाः॥ मुमुचुवैद्युतानग्नींस्ते महाशनयस्तदा। यानि भूतानि दृश्यानि चुक्रुशुश्चाशनेः समम्॥ अदृश्यानि च भूतानि मुमुचुभैरवस्वनम्। शिश्यिरे चाभिभूतानि संत्रस्तान्युद्विजन्ति च॥ संप्रविव्यथिरे चापि न च पस्पन्दिरे भयात्। सह भूतैः सतोयोर्मिः सनागः सहराक्षसः॥ सहसाभूत्ततो वेगाद्भीमवेगो महोदधिः। योजनं व्यतिचक्राम वेलामन्यत्र संप्लवात्॥ तं तथा समतिक्रान्तं नातिचक्राम राघवः। तमुद्धतममित्रघ्नो रामो नदनदीपतिम्॥ ततो मध्यात्समुद्रस्य सागरः स्वयमुत्थितः। उदयाद्रिमहाशैलान्मेरोरिव दिवाकरः॥ पन्नगैः सह दीप्तास्यैः समुद्रः प्रत्यदृश्यत। स्निग्धवैदूर्यसंकाशो जाम्बूनदविभूषणः॥ रत्नमाल्याम्बरधरः पद्मपत्रनिभेक्षणः। सर्वपुष्पमयीं दिव्यां शिरसा धारयन्स्रजम्॥ जातरूपमयैश्चैव तपनीयविभूषणैः। आत्मजानां च रत्नानां भूषितो भूषणोत्तमैः॥ धातुभिर्मण्डितः शैलो विविधैर्हिमवानिव। एकावलीमध्यगतं तरलं पाण्डरप्रभम्॥ विपुलेनोरसा बिभ्रत्कौस्तुभस्य सहोदरम्। आपूर्णिततरङ्गौघः कालिकानिलसंकुलः।। गङ्गासिन्धुप्रधानाभिरापगाभिः समावृतः। उद्वर्तितमहाग्राहः संभ्रान्तरोगराक्षसः।। देवतानां सुरूपाणां नानारूपाभिरीश्वरः। सागरः समुपक्रम्य पूर्वमामन्त्र्य वीर्यवान्।। अब्रवीत्प्राञ्जलिर्वाक्यं राघवं शरपाणिनम् ॥ पृथिवी वायुराकाशमापो ज्योतिश्च राघव। स्वभादे सौम्य तिष्ठन्ति शाश्वतं मार्गमाश्रिताः॥ तत्स्वभावो ममाप्येष यदगाधोऽहमप्लवः। विकारस्तु भवेद्गाध एतत्ते प्रवदाम्यहम्॥ न कामान च लोभाद्वा न भयात्पार्थिवात्मज। रागानक्राकुलजलं स्तम्भयेयं कथंचन॥ विधास्ये येन गन्तासि विषहिष्येऽप्यहं तथा। न ग्राहा विधमिष्यन्ति यावत्सेना तरिष्यति।। हरीणां तरणे राम करिष्यामि यथा स्थलम्॥ तमब्रवीत्तदा रामः शृणु मे वरुणालय। अमोघोऽयं महाबाणः कस्मिन्देशे निपात्यताम्॥ रामस्य वचनं श्रुत्वा तं च दृष्ट्वा महाशरम्। महोदधिर्महातेजा राघवं वाक्यमब्रवीत्॥ उत्तरेणावकाशोऽस्ति कश्चित्पुण्यतरो मम। दुमकुल्य इति ख्यातो लोके ख्यातो यथा भवान्।।२९ । उग्रदर्शनकर्माणो बहवस्तत्र दस्यवः। आभीरप्रमुखाः पापाः पिबन्ति सलिलं मम॥ तैर्न तत्स्पर्शनं पापं सहेयं पापकर्मभिः। अमोघः क्रियतां राम अयं तत्र शरोत्तमः॥ तस्य तद्वचनं श्रुत्वा सागरस्य महात्मनः। मुमोच तं शरं दीप्तं परं सागरदर्शनात्॥ तेन तन्मरुकान्तारं पृथिव्यां किल विश्रुतम्। निपातितः शरो यत्र वज्राशनिसमप्रभः॥ ननाद च तदा तत्र वसुधा शल्यपीडिता। तस्माद्ब्रणमुखात्तोयमुत्पपात रसातलात्॥ स बभूव तदा कूपो व्रण इत्येव विश्रुतः। सततं चोत्थितं तोयं समुद्रस्येव दृश्यते॥ अवदारणशदश्च दारुणः समपद्यत। तस्मात्तद्बाणपातेन अपः कुक्षिष्वशोषयत्॥ विख्यातं त्रिषु लोकेषु मरुकान्तारमेव च। शोषयित्वा तु तं कुक्षिं रामो दशरथात्मजः।। वरं तस्मै ददौ विद्वान्मरवेऽमरविक्रमः॥ पशव्यश्चाल्परोगश्च फलमूलरसायुतः। बहुस्नेहो बहुक्षीरः सुगन्धिर्विविधौषधिः॥ एवमेतैश्च संयुक्तो बहुभिः संयुतो मरुः। रामस्य वरदानाच्च शिवः पन्था बभूव ह॥ तस्मिन्दग्धे तदा कुक्षौ समुद्रः सरितां पतिः। राघवं सर्वशास्त्रज्ञमिदं वचनमब्रवीत्॥ अयं सौम्य नलो नाम तनयो विश्वकर्मणः। पित्रा दत्तवरः श्रीमान्प्रीतिमान्विश्वकर्मणः॥ एष सेतुं महोत्साहः करोतु मयि वानरः। तमहं धारयिष्यामि यथा ह्येष पिता तथा॥ एवमुक्त्वोदधिर्नष्टः समुत्थाय नलस्ततः। अब्रवीद्वानरश्रेष्ठो वाक्यं रामं महाबलम्॥ अहं सेतुं करिष्यामि विस्तीर्णे मकरालये। पितुः सामर्थ्यमासाद्य तत्त्वमाह महोदधिः।॥ दण्ड एव परो लोके पुरुषस्येति मे मतिः। धिक्क्षमामकृतज्ञेषु सान्त्वं दानमथापि वा॥ अयं हि सागरो भीमः सेतुकर्मदिदृक्षया। ददौ दण्डभयाद्गाधं राघवाय महोदधिः॥ मम मातुर्वरो दत्तो मन्दरे विश्वकर्मणा। मया तु सदृशः पुत्रस्तव देवि भविष्यति।४७।। औरसस्तस्य पुत्रोऽहं सदृशो विश्वकर्मणा। मारितोऽस्म्यहनतेन तत्त्वमाह महोदधिः।। न चाप्यहमनुक्तो वः प्रब्रूयामात्मनो गुणान्॥ समर्थश्चाप्यहं सेतुं कर्तुं वै वरुणालये। तस्मादद्यैव बध्नन्तु सेतुं वानरपुङ्गवाः॥ ततो विसृष्टा रामेण सर्वतो हरिपुङ्गवाः। उत्पेततुर्महारण्यं हृष्टाः शतसहस्रशः॥ ते नगानगसंकाशाः शाखामृगगणर्षभाः। बभञ्जः पादपांस्तत्र प्रचकर्षुश्च सागरम्॥ ते सालैश्चाश्वकर्णैश्च धवैर्वशैश्च वानराः। कुटजैरर्जुनैस्तालैस्तिलकैस्तिनिशैरपि ॥ बिल्वकैः सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः। चूतैश्चाशोकवृक्षैश्च सागरं समपूरयन् ॥ समूलांश्च विमूलांश्च पादपान्हरिसत्तमाः। इन्द्रकेतूनिवोद्यम्य प्रजह्वानरास्तरून्॥ तालान्दाडिमगुल्मांश्च नारिकेलविभीतकान्। हस्तिमात्रान्महाकायाः पाषाणांश्च महाबलाः।।५५ पर्वतांश्च समुत्पाट्य यन्त्रैः परिवहन्ति च। करीरान्बकुलान्नम्बान्समाजहुरितस्ततः॥ प्रक्षिप्यमाणैरचलैः सहसा जलमुद्धृतम्। समुत्ससर्प चाकाशमवासर्पत्ततः पुनः॥ समुद्रं क्षोभयामासुर्निपतन्तः समन्ततः। सूत्राण्यन्ये प्रगृह्णन्ति ह्यायतं शतयोजनम्॥ नलश्चक्रे महासेतुं मध्ये नदनदीपतेः। स तदा क्रियते सेतुर्वानरै?रकर्मभिः॥ दण्डानन्ये प्रगृह्णन्ति विचिन्वन्ति तथापरे। वानरैः शतशस्तत्र रामस्याज्ञापुरः सरैः॥ मेघाभैः पर्वताभैश्च तृणैः काष्ठैर्वबन्धिरे। पुष्पिताग्रैश्च तरुभिः सेतुं बध्नन्ति वानराः॥ पाषाणाश्च गिरिप्रख्यान्गिरीणां शिखराणि च। दृश्यन्ते परिधावन्तो गृह्य दानवसंनिभाः॥ शिलानां क्षिप्यमाणानां शैलानां तत्र पात्यताम्। बभूव तुमुलः शब्दस्तदा तस्मिन्महोदधौ॥ कृतानि प्रथमेनाह्रा योजनानि चतुर्दश। प्रहृष्टैर्गजसंकाशैस्त्वरमाणैः प्लवङ्गमैः॥ द्वितीयेन तथैवाह्रा योजनानि तु विंशतिः। कृतानि प्लवगैस्तूर्णं भीमकायैर्महाबलैः॥ अह्ना तृतीयेन तथा योजनानि तु सागरे। त्वरमाणैर्महाकायैरेकाविंशतिरेव च ॥ चतुर्थेन तथा चाहा द्वाविंशतिरथापि वा। योजनानि महावेगैः कृतानि त्वरितैस्ततः॥ पञ्चमेन तथा चाहा प्लवगैः क्षिप्रकारिभिः। योजनानि त्रयोविंशत्सुवेलमधिकृत्य वै॥ स वानरवरः श्रीमान्विश्वकर्मात्मजो बली। वबन्ध सागरे सेतुं यथा चास्य पिता तथा॥ स नलेन कृतः सेतुः सागरे मकरालये। शुशुभे सुभगः श्रीमान्स्वातीपथ इवाम्बरे॥ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। आगम्य गगने तस्थुर्द्रष्टुकामास्तदद्भुतम्॥ दशयोजनविस्तीर्णं शनयोजनमायतम्। ददृशुर्देवगन्धर्वा नलसेतुं सुदुष्करम्॥ आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः। तमचिन्त्यसमह्यं च ह्यद्भुतं लोमहर्षणम् ॥ ददृशुः सर्वभूतानि सागरे सेतुबन्धनम्। तानि कोटिसहस्राणि वानराणां महौजसाम्॥ बध्नन्तः सागरे सेतुं जग्मुः पारं महोदधेः। विशालः सुकृतः श्रीमान्सुभूमिः सुसमाहितः॥ अशोभत महान्सेतुः सीमन्त इव सागरे। ततः पारे समुद्रस्य गदापाणिविभीषणः॥ परेषामभियानार्थमतिष्ठत्सचिवैः सह। सुग्रीवस्तु ततः प्राह रामं सत्यपराक्रमम्।७७।। हनूमन्तं त्वमारोह अङ्गदं त्वथ लक्ष्मणः। अयं हि विपुलो वीर सागरो मकरालयः॥ वैहायसौ युवामेतौ वानरौ धारयिष्यतः। अग्रतस्तस्य सैन्यस्य श्रीमानरामः सलक्ष्मणः। ७९ जगाम धन्वी धर्मात्मा सुग्रीवेण समन्वितः। अन्ये मध्येन गच्छन्ति पार्श्वतोऽन्ये प्लवंगमाः॥ सलिलं प्रपतन्त्यन्ये मार्गपन्ये प्रपेदिरे। केचिद्वैहायसगताः सुपर्णा इव पुप्लुवुः॥ घोषेण महता घोषं सागरस्य समुच्छ्रितम्। भीममन्तर्दधे भीमा तरन्ती हरिवाहिनी।॥ वानराणां हि सा तीर्णा वाहिनी नलसेतुना। तीरे निविविशे राज्ञा बहुमूलफलोदके।॥ तदद्भुतं राघवकर्म दुष्करं समीक्ष्य देवाः सह सिद्धचारणैः। स्तमभ्यषिञ्चन् सुशुभै लैः पृथक् ॥ जयस्व शत्रूनरदेव मेदिनी ससागरां पालय शाश्वतीः समाः। इतीव रागं नरदेवसत्कृतं शुभैर्वचोभिर्विविधैरपूजयत्॥ निमित्तानि निमित्तज्ञो दृष्ट्वा लक्ष्मणपूर्वजः। सौमित्रिं संपरिष्वज्य इदं वचनमब्रवीत्॥ परिगृह्योदकं शीतं वनानि फलवन्ति च। बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण॥ लोकक्षयकर भीमं भयं पश्याम्युपस्थितम्। प्रबर्हणं प्रवीराणामृक्षवानररक्षसाम्॥ वाताश्च कलुषा वान्ति कम्पते च वसुंधरा। पर्वताग्राणि वेपन्ते पतन्ति च महीरुहाः॥ मेघाः क्रव्यादसंकाशाः परुषाः परुषस्वनाः। क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः॥ रक्तचन्दनसंकाशा संध्या परमदारुणा। ज्वलतः प्रपतत्येतदादित्यादग्निमण्डलम्॥ दीना दीनस्वराः क्रूराः सर्वतो मृगपक्षिणः। प्रत्यादित्यं विनर्दन्ति जनयन्तो महद्भयम्॥ रजन्यामप्रकाशस्तु संतापयति चन्द्रमाः। कृष्णरक्तांशुपर्यन्तो लोकक्षय इवोदितः॥ ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषस्तु लोहितः। आदित्ये विमले नीलं लक्ष्म लक्ष्मण दृश्यते।।।। रजसा महता चापि नक्षत्राणि हतानि च। युगान्तमिव लोकानां पश्य शंसन्ति लक्ष्मण।।१० काकाः श्येनास्तथा नीचा गृध्राः परिपतन्ति च। शिवाश्चाप्यशुभानादानदन्ति सुमहाभयान्॥ शैलैः शूलैश्च खङ्गैश्च विमुक्तैः कपिराक्षसैः। भविष्यत्यावृता भूमिमा॑सशोणितकर्दमा॥ क्षिप्रमद्यैव दुर्धर्षां पुरीं रावणपालिताम्। अभियाम जवेनैव सर्वैर्हरिभिरावृताः॥ इत्येवमुक्त्वा धन्वी स रामः संग्रामधर्षणः। प्रतस्थे पुरतो रामो लङ्कामभिमुखो विभुः॥ सबिभीषणसुग्रीवाः सर्वे ते वानरर्षभाः। प्रतस्थिरे विनर्दन्तो धृतानां द्विषतां वधे॥ राघवस्य प्रियार्थं तु सुतरां वीर्यशालिनाम्। हरीणां कर्मचेष्टाभिस्तुतोष रघुनन्दनः॥ सा वीरसमिति राज्ञा विरराज व्यवस्थिता। शशिना शुभनक्षत्रा पौर्णमासीव शारदी॥ प्रचचाल च वेगेन त्रस्ता चैव वसुंधरा। पीड्यमाना बलौघेन तेन सागरवर्चसा॥ ततः शुश्रुवुराक्रुष्टं लङ्कायां काननौकसः। भेरीमृदङ्गसंघुष्टं तुमुलं लोमहर्षणम्॥ बभूवुस्तेन घोषेण संहृष्टा हरियूथपाः। अमृष्यमाणास्तद्धोषं विनेदुर्घोषवत्तरम्॥ राक्षसास्तत्प्लवंगानां शुश्रुवुस्तेऽपि गर्जितम्। नर्दतामिव दृप्तानां मेघानामम्बरे स्वनम्॥ दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम्। जगाम मनसा सीतां दूयमानेन चेतसा॥ अत्र सा मृगशावाक्षी रावणेनोपरुध्यते। अभिभूता ग्रहेणेव लोहिताङ्गेन रोहिणी॥ दीर्घमुष्णं च निःश्वस्य समुद्रीक्ष्य च लक्ष्मणम्। उवाच वचनं वीरस्तकालहितमात्मनः॥ आलिखन्तीमिवाकाशमुत्थितां पश्य लक्ष्मण। मनसेव कृतां लङ्कां नगाग्रे विश्वकर्मणा॥ विमानैर्बहुभिर्लङ्का संकीर्णा रचिता पुरा । विष्णोः पदमिवाकाशं छादितं पाण्डुभिर्घनैः॥ पुष्पितैः शोभिता लङ्का वनैश्चित्ररथोपमैः। नानापतगसंघुष्टफलपुष्पोपगैः शुभैः॥ पश्य मत्तविहङ्गानि प्रलीनभ्रमराणि च। कोकिलाकुलखण्डानि दोधवीति शिवोऽनिलः॥ इति दाशरथी रामो लक्ष्मणं समभाषत। बलं च तत्र विभजच्छास्त्रदृष्टेन कर्मणा॥ शशास कपिसेनां तां बलादादाय वीर्यवान्। अङ्गदः सह नीलेन तिष्ठेदुरसि दुर्जयः॥ तिष्ठेद्वानरवाहिन्या वानरौघसमावृतः। आश्रितो दक्षिणं पार्श्वमृषभो नाम वानरः॥ गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः। तिष्ठेद्वानरवाहिन्याः सव्यं पक्षमधिष्ठितः॥ मूर्ध्नि स्थास्याम्यहं यत्तो लक्ष्मणेन समन्वितः। जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः॥ ऋक्षमुख्या महात्मानः कुक्षिं रक्षन्तु ते त्रयः। जघनं कपिसेनायाः कपिराजोऽभिरक्षतु।। पश्चार्द्धमिव लोकस्य प्रचेतास्तेजसा वृतः॥ सुविभक्तमहाव्यूहा महावानररक्षिता। अनीकिनी सा विबभौ यथा द्यौः साभ्रसंप्लवा॥ प्रगृह्य गिरिशृङ्गाणि महतश्च महीरुहान्। आसेदुर्वानरा लङ्कां मिमर्दयिषवो रणे॥ शिखरैर्विकिरामैनां लङ्कां मुष्टिभिरेव वा। इति स्म दधिरे सर्वे मनांसि हरिपुङ्गवाः॥ ततो रामो महातेजाः सुग्रीवमिदमब्रवीत्। सुविभक्तानि सैन्यानि शुक एष विमुच्यताम्॥ रामस्य तु वचः श्रुत्वा वानरेन्द्रो महाबलः। मोचयामास तं दूतं शुकं रामस्य शासनात्॥ मोचितो रामवाक्येन वानरैश्च निपीडितः। शुकः परमसंत्रस्तो रक्षोधिपमुपागमत् ॥ रावणः प्रहसन्नेव शुकं वाक्यमुवाच ह। किमिमौ ते सितौ पक्षौ लूनपक्षश्च दृश्यसे॥ कञ्चिन्नानेकचित्तानां तेषां त्वं वशमागतः। ततः स भयसंविग्नस्तेन राज्ञाभिचोदिताः।। वचनं प्रत्युवाचेदं राक्षसाधिपमुत्तमम्॥ सागरस्योत्तरे तीरेऽब्रुवं ते वचनं तथा। यथा संदेशमक्लिष्टं सान्त्वयश्लक्ष्णया गिरा॥ क्रुद्धस्तैरमुत्प्लुत्य दृष्टमात्रः प्लवंगमैः। गृहीतोऽस्म्यपि चारब्धो हन्तुं लोप्तुं च मुष्टिभिः॥ न ते संभाषितुं शक्याः संप्रश्नोऽत्र न विद्यते। प्रकृत्या कोपनास्तीक्ष्णा वानरा राक्षसाधिप॥ स च हन्ता विराधस्य कबन्धस्य खरस्य च। सुग्रीवसहितो रामः सीतायाः पदमागतः॥ स कृत्वा सागरे सेतुं तीर्वा च लवणोदधिम्। एष रक्षांसि निर्धूय धन्वी तिष्ठति राघवः॥ ऋक्षवानरसङ्घानामनीकानि सहस्रशः। गिरिमेघनिकाशानां छादयन्ति वसुंधराम्॥ राक्षसानां बलौघस्य वानरेन्द्रबलस्य च। नैतयोविद्यते संधिदेवदानवयोरिव ॥ पुरा प्राकारमायान्ति क्षिप्रमेकतरं कुरु। सीतां चास्मै प्रयच्छाशु युद्धं वापि प्रदीयताम्॥ शुकस्य वचनं श्रुत्वा रावणो वाक्यमब्रवीत्। रोषसंरक्तनयनो निर्दहन्निव चक्षुषा ॥ यदि मां प्रति युद्धयेरन्देवगन्धर्वदानवाः। नैव सीतां प्रदास्यामि सर्वलोकभयादपि॥ कदा समभिधावन्ति मामका राघवं शराः। वसन्ते पुष्पितं मत्ता भ्रमरा इव पादपम्॥ कदा शोणितदिग्धाङ्गं दीप्तैः कार्मुकविच्युतैः। शरैरादीपयिष्यामि उल्काभिरिव कुञ्जरम्॥ तच्चास्य बलमादास्ये बलेन महता वृतः। ज्योतिषामिव सर्वेषां प्रभामुद्यन्दिवाकरः॥ सागरस्येव मे वेगो मारुतस्येव मे बलम्। न च दाशरथिर्वेद तेन मां योद्भुमिच्छति॥ न मे तूणीशयान्बाणान्सविषानिव पन्नगान्। रामः पश्यति संग्रामे तेन मां योद्भुमिच्छति ॥ न जानाति पुरा वीर्यं मम युद्धे स राघवः। मम चापमयीं वीणां शरकोणैः प्रवादिताम्।॥ ज्याशब्दतुमुलां घोरामार्तगीतमहास्वनाम्। नाराचतलसंनादां नदीमहितवाहिनीम्।। अवगाह्य महारङ्गं वादयिष्याम्यहं रणे॥ न वासवेनापि सहस्रचक्षुषा युद्धेऽस्मि शक्यो वरुणेन वा स्वयम्। यमेन वा धर्षयितुं शराग्निना महाहवे वैश्रवणेन वा स्वयम्॥ सबले सागरं तीर्णे रामे दशरथात्मजे। अमात्यौ रावणः श्रीमानब्रवीच्छुकसारणौ॥ समग्रं सागरं तीण दुस्तरं वानरं बलम्। अभूतपूर्व रामेण सागरे सेतुबन्धनम्॥ सागरे सेतुबन्धं तं न श्रद्दध्यां कथंचन। अवश्यं चापि संख्येयं तन्मया वानरं बलम्॥ भवन्तौ वानरं सैन्यं प्रविश्यानुपलक्षितौ। परिमाणं च वीर्यं च ये च मुख्याः प्लवंगमाः॥ मन्त्रिणो ये च रामस्य सुग्रीवस्य च संगताः। ये पूर्वमभिवर्तन्ते ये च शूराः प्लवंगमाः॥ स च सेतुर्यथा बद्धः सागरे सलिलार्णवे। निवेशं च यथा तेषां वानराणां महात्मनाम्॥ रामस्य व्यवसायं च वीर्यं प्रहरणानि च। लक्ष्मणस्य च वीरस्य तत्त्वतो ज्ञातुमर्हथः॥ कश्च सेनापतिस्तेषां वानराणां महात्मनाम्। तच्च ज्ञात्वा यथातत्त्वं शीघ्रमागन्तुमर्हथः ॥ इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ। हरिरूपधरौ वीरौ प्रविष्टौ वानरं बलम्॥ ततस्तद्वानरं सैन्यमचिन्त्यं लोमहर्षणम्। संख्यातुं नाध्यगच्छेतां तदा तौ शुकसारणौ॥ तत्स्थितं पर्वताग्रेषु निझरेषु गुहासु च। तरमाणं च तीर्णं च ततुकामं च सर्वशः॥ निविष्टं निविशच्चैव भीमनादं महाबलम्। तद्वलार्णवमक्षोभ्यं ददृशाते निशाचरौ ॥ तौ ददर्श महातेजाः प्रतिच्छन्नौ बिभीषणः। आचचक्षे स रामाय गृहीत्वा शुकसारणौ॥ तस्यैतौ राक्षसेन्द्रस्य मन्त्रिणौ शुकसारणौ। लङ्कायाः समनुप्राप्तौ चारौ परपुरंजय॥ तौ दृष्ट्वा व्यथितौ रामं निराशौ जीविते तथा। कृताञ्जलिपुटौ भीतौ वचनं चेदमूचतुः॥ आवामिहागतौ सौम्य रावणप्रहितावुभौ। परिज्ञातुं बलं सर्वं तदिदं रघुनन्दन ॥ रामो दशरथात्मजः। अब्रवीत्प्रहसन्वाक्यं सर्वभूतहिते रतः॥ यदि दृष्टं बलं सर्वं वयं वा सुसमाहिताः। यथोक्तं वा कृतं कार्यं छन्दतः प्रतिगम्यताम्॥ अथ किंचिददृष्टं वा भूयस्तद्बष्टुमर्हथः। विभीषणो वा कात्स्येन पुनः संदर्शयिष्यति॥ तयोस्तद्वचनं श्रुत्वा न चेदं ग्रहणं प्राप्य भेतव्यं जीवितं प्रति। न्यस्तशस्त्रौ गृहीतौ च न दूतौ वधमर्हतः॥ प्रच्छन्नौ च विमुञ्चेमौ चारौ रात्रिंचरावुभौ। शत्रुपक्षस्य सततं विभीषण विकर्षिणौ॥ प्रविश्य महतीं लङ्कां भवद्भ्यां धनदानुजः। वक्तव्यो रक्षसां राजा यथोक्तं वचनं मम ॥ यदलं त्वं समाश्रित्य सीतां मे हृतवानसि। तदर्शय यथाकामं ससैन्यैश्च सबान्धवः॥ श्वः काल्ये नगरी लङ्कां सप्राकारां सतोरणाम्। रक्षसां च बलं पश्य शरैविध्वंसितं मया।॥ क्रोधं भीममहं मोक्ष्ये ससैन्ये त्वयि रावण। श्वः काल्ये वज्रवान्वजं दानवेष्विव वासवः॥ इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ। जयेति प्रतिनन्द्यैनं राघवं धर्मवत्सलम्॥ आगम्य नगरी लङ्कामव्रतां राक्षसाधिपम्। बिभीषणगृहीतौ तु वधार्य राक्षसेश्वर॥ दृष्ट्वा धर्मात्मना मुक्तौ रामेणामिततेजसा। एकस्थानमता यत्र चत्वारः पुरुषर्षभाः॥ लोकपालसमाः शूराः कृतास्त्रा दृढविक्रमाः। रामो दाशरथिः श्रीमाल्लक्ष्मणश्च बिभीषणः॥ सुग्रीवश्च महातेजा महेन्द्रसमविक्रमः। एते शक्ताः पुरीं लङ्कां सप्राकारां सतोरणाम्॥ उत्पाट्य संक्रामयितुं सर्वे तिष्ठन्तु वानराः। यादृशं तद्धि रामस्य रूपं प्रहरणानि च॥ वधिष्यति पुरीं लङ्कामेकस्तिष्ठन्तु ते त्रयः। रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी।। बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः॥ प्रहृष्टयोधा ध्वजिनी महात्मनां वनौकसां संप्रति योद्भुमिच्छताम्। अलं विरोधेन शमो विधीयतां प्रदीयतां दाशरथाय मैथिली॥ तद्वचः सत्यमक्लीबं सारणेनाभिभाषितम्। निशम्य रावणो राजा पर्यभाषत सारणम्॥ यदि मामभियुञ्जीरन्देवगन्धर्वदानवाः। नैव सीतामहं दद्यां सर्वलोकभयादपि ॥ त्वं तु सौम्य परित्रस्तो हरिभिः पीडितो भृशम्। प्रतिप्रदानमद्यैव सीतायाः साधु मन्यसे॥ को हि नाम सपत्नो मां समरे जेतुमर्हति। इत्युक्त्वा परुषं वाक्यं रावणो राक्षसाधिपः॥ आरुरोह ततः श्रीमान्प्रासादं हिमपाण्डुरम्। बहुतालसमुत्सेधं रावणोऽथ दिदृक्षया॥ ताभ्यां चराभ्यां सहितो रावणः क्रोधमूर्च्छितः। पश्यमानः समुद्रं तं पर्वतांश्च वनानि च॥ ददर्श पृथिवीदेशं सुसंपूर्ण प्लवंगमैः। तदपारमसह्यं च वानराणां महाबलम्॥ आलोक्य रावणो राजा परिपप्रच्छ सारणम्। एषां के वानरा मुख्याः के शूराः के महाबलाः॥ के पूर्वमभिवर्तन्ते महोत्साहाः समन्ततः। केषां शृणोति सुग्रीवः के वा यूथपयूथपाः॥ सारणाचक्ष्व मे सर्वं किंप्रभावाः प्लवंगमाः। सारणो राक्षसेन्द्रस्य वचनं परिपृच्छतः॥ आबभाषेऽथ मुख्यज्ञो मुख्यास्तत्र वनौकसः। एष योऽभिमुखो लङ्कां नदस्तिष्ठति वानरः॥ यूथपानां सहस्रेण शतेन परिवारितः। यस्य घोषेण महता सप्राकारा सतोरणा ॥ लङ्का प्रतिहता सर्वा सशैलवनकानना। सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनः॥ बलाने तिष्ठते वीरो नीलो नामैष यूथपः। बाहू प्रगृह्य यः पद्भ्यां महीं गच्छति वीर्यवान्॥ लङ्कामभिमुखः कोपादभीक्ष्णं च विजृम्भते। गिरिशृङ्गप्रतीकाशः पद्मकिंजल्कसंनिभः॥ स्फोटयत्यतिसंरब्धो लाशूलं च पुनः पुनः। यस्य लाङ्गुलशब्देन स्वनन्ति प्रदिशो दश॥ एष वानरराजेन सुग्रीवेणाभिषेचितः। युवराजोऽङ्गदो नाम त्वामाह्वयति संयुगे॥ वालिनः सदृशः पुत्रः सुग्रीवस्य सदा प्रियः। राघवार्थे पराक्रान्तः शक्रार्थे वरुणो यथा॥ एतस्य सा मतिः सर्वा यदृष्टा जनकात्मजा। हनूमता वेगवता राघवस्य हितैषिणा॥ बहूनि वानरेन्द्राणामेष यूथानि वीर्यवान्। परिगृह्याभियाति त्वां स्वेनानीकेन मर्दितुम्॥ अनुवालिसुतस्यापि बलेन महता वृतः। वीरस्तिष्ठति संग्रामे सेतुहेतुरयं नलः॥ ये तु विष्टभ्य गात्राणि क्ष्वेडयन्ति नदन्ति च। य एनमनुगच्छन्ति वीराश्चन्दनवासिनः॥ एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्। श्वेतो रजतसंकाशश्चपलो भीमविक्रमः॥ बुद्धिमान्वानरः शूरस्त्रिषु लोकेषु विश्रुतः। तूर्णं सुग्रीवमागम्य पुनर्गच्छति वानरः॥ विभजन्वानरी सेनामनीकानि प्रहर्षयन्। यः पुरा गोमतीतीरे रम्यं पर्येति पर्वतम्॥ नाम्ना संरोचनो नाम नानानगयुतो गिरिः। तत्र राज्यं प्रशास्त्येष कुमुदो नाम यूथपः॥ योऽसौ शतसहस्राणि सहर्षं परिकर्षति। यस्य बाला बहुव्यामा दीर्घलाफूलमाश्रिताः॥ ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरदर्शनाः। अदीनो वानरचण्डः संग्राममभिकाङ्क्षति।। एषैवाशंसते लङ्का स्वेनानीकेन मर्दितुम्॥ यस्त्वेष सिंहसंकाशः कपिलो दीर्घकेसरः। निभृतः प्रेक्षते लङ्कां दिधक्षत्रिव चक्षुषा ॥ विन्ध्यं कृष्णगिरि सह्यं पर्वतं च सुदर्शनम्। राजन्सततमध्यास्ते स रम्भो नाम यूथपः।। शतं शतसहस्राणां त्रिंशच्च हरिपुंगवाः॥ यं यान्तं वानरा घोराश्चण्डाश्चण्डपराक्रमाः। परिवार्यानुगच्छन्ति लङ्कां मर्दितुमोजसा ॥ यस्तु कर्णौ विवृणुते जृम्भते च पुनः पुनः। न तु संविजते मृत्योर्न च सेनां प्रधावति॥ प्रकम्पते च रोषेण तिर्यक्च पुनरीक्षते। पश्य लाङ्गूलविक्षेपं श्वेडत्येष महाबलः॥ महौजसा वीतभयो रम्यं साल्वेयपर्वतम्। राजन्सततमध्यास्ते शरभो नाम यूथपः॥ एतस्य बलिनः सर्वे विहारा नाम यूथपाः। राज्यञ्छतसहस्राणि चत्वारिंशत्तथैव च॥ यस्तु मेघ इवाकाशं महानावृत्य तिष्ठति। मध्ये वानरवीराणां सुराणामिव वासवः॥ भेरीणामिव संनादो यस्यैष श्रूयते महान्। घोषः शाखामृगेन्द्राणां संग्राममभिकाङ्क्षताम्॥ एष पर्वतमध्यास्ते पारयात्रमनुत्तमम्। युद्धे दुष्प्रसहो नित्यं पनसो नाम यूथपः॥ एनं शतसहस्राणां शतार्धं पर्युपासते। यूथपा यूथपश्रेष्ठं येषां यूथानि भागशः॥ यस्तु भीमा प्रवल्गन्ती चमूं तिष्ठति शोभयन्। स्थितां तीरे समुद्रस्य द्वितीय इव सागरः॥ एष दर्दुरसंकाशो विनतो नाम यूथपः। पिबंश्चरति यौ वेणां नदीनामुत्तमा नदीम्॥ षष्टिः शतसहस्राणि बलमस्य प्लवंगमाः। त्वामाह्वयति युद्धाय क्रथनो नाम वानरः।॥ विक्रान्ता बलवन्तश्च यथा यूथानि भागशः। यस्तु गैरिकवर्णाभं वपुः पुष्यति वानरः॥ अवमत्य सदा सर्वान्वानरान्बलदर्पितः। गवयो नाम तेजस्वी त्वां क्रोधादभिवर्तते।४४॥ एनं शतसहस्राणि सप्ततिः पर्युपासते। एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥ एते दुष्प्रसहा सिताः वीरा येषां संख्या न विद्यते। यूथपा यूथपश्रेष्ठास्तेषां यूथानि भागशः॥ सारणस्य वचः श्रुत्वा रावणं राक्षसाधिपम्। बलमादिश्य तत्सर्वं शुको वाक्यमथाब्रवीत्॥ स्थितान्पश्यसि यानेतान्मत्तानिव महाद्विपान्। न्यग्रोधानिव गाङ्गेयान्सालान्हैमवतानिव॥ एते दुष्प्रसहा राजन्बलिनः कामरूपिणः। दैत्यदानवसंकाशा युद्धे देवपराक्रमाः॥ एषां कोटिसहस्राणि नव पञ्च च सप्त च। तथा शङ्कुसहस्राणि तथा वृन्दशतानि च॥ एते सुग्रीवसचिवाः किष्किन्धानिलयाः सदा। हरयो देवगन्धर्वैरुत्पन्नाः कामरूपिणः॥ यौ तौ पश्यसि तिष्ठन्तौ समानौ देवरूपिणौ। मैन्दश्च द्विविदश्चैव ताभ्यां नास्ति समो युधि॥ ब्रह्मणा समनुज्ञाता अमृतप्राशिनावुभौ। आशंसेते यथा लङ्कामेतौ मर्दितुमोजसा।७॥ यं तु पश्यसि तिष्ठन्तं प्रभिन्नमिव कुञ्जरम्। यो बलात्क्षोभयेत्क्रुद्धः समुद्रमपि वानरः॥ एषोऽभिगन्ता लङ्कायां वैदेह्यास्तव च प्रभो। एनं पश्य पुरा दृष्टं वानरं पुनरागतम्।९।। ज्येष्ठः केसरिणः पुत्रो वातात्मज इति श्रुतः। हनूमानिति विख्यातो लङ्घितो येन सागरः॥ कामरूपो हरि श्रेष्ठो बलरूपसमन्वितः। अनिवार्यगतिश्चैव यथा सततगः प्रभुः॥ उद्यन्तं भास्करं दृष्ट्वा बालः किल बुभुक्षितः। त्रियोजनसहस्रं तु अध्वानमवतीर्य हि॥ आदित्यमाहरिष्यामि न मे क्षुत्प्रतियास्यति। इति निश्चित्य मनसा पुप्लुवे बलदर्पितः॥ अनाधृष्यतमं देवमपि देवर्षिराक्षसैः। अनासाद्यैव पतितो भास्करोदयने गिरौ॥ पतितस्य कपेरस्य हनुरेका शिलातले। किंचिद्भिना दृढहनुर्हनूमानेष तेन वै॥ सत्यमागमयोगेन ममैष विदितो हरिः। नास्य शक्यं बलं रूपं प्रभावो वानुभाषितुम्।।१६ एष आशंसते लङ्कामेको मथितुमोजसा। येन जाज्वल्यतेऽसौ वै दूमकेतुस्तवाद्य वै।। लङ्कायां निहितश्चापि कथं विस्परसे कपिम्।।१७ यस्यैषोऽनन्तरः शूरः श्यामः पद्मनिभेक्षणः। इक्ष्वाकूणामतिरथो लोके विश्रुतपौरुषः॥ यस्मिन्न चलते धर्मो यो धर्म नातिवर्तते। यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः॥ यो भिन्द्याद्गगनं बाणैर्मेदिनीं वापि दारयेत्। यस्य मृत्योरिव क्रोधः शक्रस्येव पराक्रमः॥ यस्य भार्या जनस्थानात्सीता चापि हृता त्वया। स एष रामस्त्वां राजन्योद्धं समभिवर्तते॥ यस्यैष दक्षिणे पार्श्वे शुद्धजाम्बूनदप्रभः। विशालक्षास्ताम्राक्षो नीलकुश्चितमूर्धजः॥ एषो हि लक्ष्मणो नाम भ्रातुः प्रियहिते रतः। नये युद्धे च कुशलः सर्वशस्त्रभृतां वरः॥ अमर्षी दुर्जयो जेता विक्रान्तश्च जयी बली। रामस्य दक्षिणो बाहुनित्यं प्राणो बहिश्चरः॥ नह्येष राघरस्यार्थे जीवितं परिरक्षति। एषैवाशंसते युद्धे निहन्तुं सर्वराक्षसान्॥ यस्य सव्यमसौ पक्षं रामस्याश्रित्य तिष्ठति। रक्षोगणपरिक्षिप्तो राजा ह्येष विभीषणः॥ श्रीमता राजराजेन लङ्कायामभिषेचितः। त्वामसौ प्रतिसंरब्धो युद्धायैषोऽभिवर्तते॥ यं तु पश्यसि तिष्ठन्तं मध्ये गिरिमिवाचलम्। सर्वशाखामृगेन्द्राणां भर्तारममितौजसम्॥ तेजसा यशसा बुद्ध्या बलेनाभिजनेन च। यः कपीनतिबभ्राज हिमवानिव पर्वतः॥ किष्किन्धां यः समध्यास्ते दुर्गा सगहनदुमाम्। दुर्गा पर्वतदुर्गम्यां प्रधानैः सह यूथपैः॥ यस्यैषा काञ्चनी माला शोभते शतपुष्करा। कान्ता देवमनुष्याणां यस्यां लक्ष्मीः प्रतिष्ठिता॥ एतां मालां च तारां च कपिराज्यं च शाश्वतम्। सुग्रीवो वालिनं हत्वा रामेण प्रतिपादितः॥ शतं शतसहस्राणां कोटिमाहुर्मनीषिणः। शतं कोटिसहस्राणां शङ्कुरित्यभिधीयते ॥ शतं शङ्कुसहस्राणां महाशङ्कुरिति स्मृतः। महाशङ्कुसहस्राणां शतं वृन्दमिहोच्यते॥ शतं वृन्दसहस्राणां महावृन्दमिति स्मृतम्। महावृन्दसहस्राणां शतं पद्ममिहोच्यते॥ शतं पद्मसहस्राणां महापद्ममिति स्मृतम्। महापद्मसहस्राणां शतं खर्वमिहोच्यते॥ (शतं खर्वसहस्राणां महाखर्वमिति स्मृतम्।) महाखर्व सहस्राणां समुद्रमभिधीयते। शतं समुद्रसाहस्रं महौघमिति विश्रुतम्॥ एवं कोटिसहस्रेण शकूनां च शतेन च। महाशङ्कुसहस्रेण तथा वृन्दशतेन च॥ महावृन्दसहस्रेण तथा पद्मशतेन च। महापद्मसहस्रेण तथा खर्वशतेन च ॥ समुद्रेण च तेनैव महौधेन तथैव च। एष कोटिमहौघेन समुद्रसदृशेन च॥ विभीषणेन वीरेण सचिवैः परिवारितः। सुग्रीवो वानरेन्द्रस्त्वां युद्धार्थमनुवर्तते।। महाबलवृतो नित्यं महाबलपराक्रमः॥ इमां महाराज समीक्ष्य वाहिनी मुपस्थितां प्रज्वलितग्रहोपमाम्। ततः प्रयत्नः परमो विधीयतां यथा जयः स्यान्न परैः पराभवः॥ शुकेन तु समादिष्टान्दृष्ट्वा स हरियूथपान्। लक्ष्मणं च महावीर्यं भुजं रामस्य दक्षिणम्॥ समीपस्थं च रामस्य भ्रातरं च विभीषणम्। सर्ववानरराजं च सुग्रीवं भीमविक्रमम्॥ अङ्गदं चापि बलिनं वज्रहस्तात्मजात्मजम्। हनूमन्तं च विक्रान्तं जाम्बवन्तं च दुर्जयम्॥ सुषेणं कुमुदं नीलं नलं च प्लवगर्षभम्। गजं गवाक्षं शरभं मैन्दं च द्विविदं तथा॥ किंचिदाविग्रहृदयो जातक्रोधश्च रावणः। भर्त्सयामास तौ वीरौ कथान्ते शुकसारणौ॥ अधोमुखौ तौ प्रणतावब्रीच्छुकसारणौ। रोषगद्गदया वाचा संरब्धं परुषं तथा॥ न तावत्सदृशं नाम सचिवैरुपजीविभिः। विप्रियं नृपतेर्वक्तुं निग्रहे प्रग्रहे प्रभोः।७।। रिपूणां प्रतिकूलानां युद्धार्थमभिवर्तताम्। उभाभ्यां सदृशं नाम वक्तुमप्रस्तवे स्तवम्॥ आचार्यो गुरवो वृद्धा वृथा वां पर्युपासिताः। सारं यद्राजशास्त्राणानुजीव्यं न गृह्यते॥ गृहीतो वा न विज्ञातो भारोऽज्ञानस्य वाह्यते। ईदृशैः सचिवैर्युक्तो मूखैर्दिष्ट्या धराम्यहम्॥ किं नु मृत्योर्भयं नास्ति मां वक्तुं परुषं वचः। यस्य मे शासतो जिह्वा प्रयच्छति शुभाशुभम्॥ अप्येव दहनं स्पृष्ट्वा वने तिष्ठन्ति पादपाः। राजदण्डपरामृष्टास्तिष्ठन्ते नापराधिनः॥ हन्यामहं त्विमौ पापौ शत्रुपक्षप्रशंसिनौ। यदि पूर्वोपकारैर्मे क्रोधो न मृदुतां व्रजेत्॥ अपध्वंसत नश्यध्वं संनिकर्षादितो मम। नहि वां हन्तुमिच्छामि स्मराम्युपकृतानि वाम्। हतावेव कृतघ्नौ द्वौ मयि स्नेहपराङ्मुखौ॥ एवमुक्त्वा तु सव्रीडौ तौ दृष्ट्वा शुकसारणौ। रावणं जयशब्देन प्रतिनन्द्याभिनिःसृतौ॥ अब्रवीच्च दशग्रीवः समीपस्थं महोदरम्। उपस्थापय मे शीघ्रं चारानिति निशाचरः।। महोदरस्तथोक्तस्तु शीघ्रमात्रापयच्चरान्॥ ततश्चाराः संत्वरिताः प्राप्ताः पार्थिवशासनात्। उपस्थिताः प्राञ्जलयो वर्धयित्वा जयाशिषः॥ तानब्रवीत्ततो वाक्यं रावणो राक्षसाधिपः। चरान्प्रत्यायिकाशूरान्धीरान्विगतसाध्वसान्॥ इतो गच्छत रामस्य व्यवसायं परीक्षितुम्। मन्त्रेष्वभ्यन्तरायेऽस्य प्रीत्या तेन समागताः॥ कथं स्वपिति नागर्ति किमद्य च करिष्यति। विज्ञाय निपुणं सर्वमागन्तव्यमशेषतः॥ चारेण विदितः शत्रुः पण्डितैर्वसुधाधिपैः। युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते।२१।। चारास्तु ते तथेत्युक्त्वा प्रहृष्टा राक्षसेश्वरम्। शार्दूलमग्रतः कृत्वा ततश्चकुः प्रदक्षिणम्॥ ततस्तं तु महात्मानं चारा राक्षससत्तमम्। कृत्वा प्रदक्षिणं जग्मुर्यत्र रामः सलक्ष्मणः॥ ते सुवेलस्य शैलस्य समीपे रामलक्ष्मणौ। प्रच्छन्ना ददृशुर्गत्वा ससुग्रीवविभीषणौ॥ प्रेक्षमाणाश्चमूं तां च बभूवुर्भयविह्वलाः। ते तु धर्मात्मना दृष्टा राक्षसेन्द्रेण राक्षसाः॥ विभीषणेन तत्रस्था निगृहीता यदृच्छया। शार्दूलो ग्राहितस्त्वेकः पापोऽयमिति राक्षसः।।२६ मोक्षितः सोऽपि रामेण वध्यमानः प्लवंगमैः। अनृशंसेन रामेण मोक्षिता राक्षसाः परे॥ वानरैरर्दितास्ते तु विक्रान्तैर्लघुविक्रमैः। पुनर्लङ्कामनुप्राप्ताः श्वसन्तो नष्टचेतसः॥ ततो दशग्रीवमुपस्थितास्ते चारा बहिनित्यचरा निशाचराः। गिरेः सुवेलस्य समीपवासिनं न्यवेदयनरामबलं महाबलाः॥ ततस्तमक्षोभ्यबलं लङ्कायां नृपतेश्चराः। सुवेले राघवं शैले निविष्टं प्रत्यवेदयन्॥ चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम्। जातोद्वेगोऽभवत्किचित्सचिवानिदमब्रवीत्॥ मन्त्रिणः शीघ्रमायान्तु सर्वे वै सुसमाहिताः। अयं नो मन्त्रकालो हि संप्राप्त इति राक्षसाः॥ तस्य तच्छासनं श्रुत्वा मन्त्रिणोऽभ्यागमन् द्रुतम्। ततः स मन्त्रयामास राक्षसैः सचिवैः सह ॥ मन्त्रयित्वा तु दुर्धर्षः क्षमं यत्तदनन्तरम्। विसर्जयित्वा सचिवान्प्रविवेश स्वमालयम्॥ ततो राक्षसमादाय विद्युज्जिद्वं महाबलम्। मायाविनं महामायं प्राविशद्यत्र मैथिली॥ विद्युज्जिडं च मायाज्ञमब्रवीद्राक्षसाधिपः। मोहयिष्यावहे सीतां मायया जनकात्मजाम्॥ शिरो मायामयं गृह्य राघवस्य निशाचर। मां त्वं समुपतिष्ठस्व महच्च सशरं धनुः॥ एवमुक्तस्तथेत्याह विद्युज्जिह्वो निशाचरः। दर्शयामास तां मायां सुप्रयुक्तां स रावणे॥ तस्य तुष्टोऽभवद्राजा प्रददौ च विभूषणम्। अशोकवनिकायां च सीतादर्शनलालसः॥ नैऋतानामधिपतिः संविवेश महाबलः। ततो दीनामदीनाहाँ ददर्श धनदानुजः॥ अधोमुखी शोकपरामुपविष्टां महीतले। भर्तारं समनुध्यान्तीमशोकवनिकां गताम्॥ उपास्यमानां घोराभी राक्षसीभिरदूरतः। उपसृत्य ततः सीतां प्रहर्ष नाम कीर्तयन्॥ इदं च वचनं धृष्टमुवाच जनकात्मजाम्। सान्त्वयमाना मया भद्रे यमाश्रित्य विमन्यसे॥ खरहन्ता स ते भर्ता राघवः समरे हतः। छिन्नं ते सर्वथा मूलं दर्पश्च निहतो मया॥ व्यसनेनात्मनः सीते मम भार्या भविष्यसि। विसृजैतां मतिं मूढे किं मृतेन करिष्यसि॥ भवस्व भद्रे भार्याणां सर्वासामीश्वरी प्रम। अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि। शृणु भर्तृवधं सीते घोरं वृत्रवधं यथा॥ समायातः समुद्रान्तं हन्तुं मां किल राघवः। वानरेन्द्रप्रणीतेन बलेन महता वृतः॥ संनिविष्टः समुद्रस्य पीड्य तीरमथोत्तरम्। बलेन महता रामो व्रजत्यस्तं दिवाकरे॥ अथाध्वनि परिश्रान्तमर्धरात्रे स्थितं बलम्। सुखसुप्तं समासाद्य चरितं प्रथमं चरैः॥ तत्प्रहस्तप्रणीतेन बलेन महता मम। बलमस्य हतं रात्रौ यत्र रामः सलक्ष्मणः॥ पट्टिशान्परिघांश्चक्रानृष्टीन्दण्डान्महायुधान्। बाणजालानि शूलानि भास्वरान्कूटमुद्गरान्॥ यष्टीश्च तोमरान्प्रासांश्चक्राणि मुसलानि च। उद्यम्योद्यम्य रक्षोभिर्वानरेषु निपातिताः॥ अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना। असक्तं कृतहस्तेन शिरश्छिन्नं महासिना॥ विभीषणः समुत्पत्य निगृहीतो यदृच्छया। दिशं प्रवाजितः सैन्यैर्लक्ष्मण: प्लवगैः सह ॥ सुग्रीवो ग्रीवया सीते भग्नया प्लवगाधिपः। निरस्तहनुकः सीते हनूमानराक्षसैर्हतः॥ जाम्बवानथ जानुभ्यामुत्पतन्निहतो युधि। पट्टिशैर्बहुभिश्छिन्नो निकृत्तः पादपो यथा ॥ मैन्दश्च द्विविदश्चोभौ तौ वानरवरर्षभौ। निःश्वसन्तौ रुदन्तौ च रुधिरेण परीप्लुतौ ॥ असिना व्यायतौ छिनौ मध्ये हरिनिषूदनौ। अनुष्वनति मेदिन्यां पनसः पनसो यथा॥ नाराचैर्बहुभिश्छिन्नः शेते दयाँ दरीमुखः। कुमुदस्तु महातेजा निष्कूलन्सायकैर्हतः॥ अङ्गदो बहुभिश्छिन्नः शरैरासाद्य राक्षसैः। परितो रुधिरोद्गारी क्षितौ निपतितोऽङ्गदः॥ हरयो मथिता नागै रथजालैस्तथापरे। शयाना मृदितास्तत्र वायुवेगैरिवाम्बुदाः॥ प्रसृताश्च परे त्रस्ता हन्यमाना जघन्यतः। अनुद्रुतास्तु रक्षोभिः सिंहैरिव महाद्विपाः॥ सागरे पतिताः केचित्केचिद्गगनमाश्रिताः। ऋक्षा वृक्षानुपारूढा वानरैयमितिश्रिताः॥ सागरस्य च तीरेषु शैलेषु च वनेषु च। पिङ्गलास्ते विरूपाक्ष राक्षसैर्बहवो हताः॥ एवं तव हतो भर्ता ससैन्यो मम सेनया। क्षतजा, रजोध्वस्तमिदं चास्याहृतं शिरः॥ ततः परमदुर्धर्षो रावणो राक्षसेश्वरः। सीतायामुपशृण्वत्यां राक्षसीमिदमब्रवीत्॥ राक्षसं क्रूरकर्माणं विद्युज्जिद्धं समानय। येन तद्राघवशिरः संग्रामात्स्वयमाहृतम्॥ विद्युज्जिह्वस्तदागृह्य शिरस्तत्सशरासनम्। प्रणाम शिरसा कृत्वा रावणस्याग्रतः स्थितः॥ तमब्रवीत्ततो राजा रावणो राक्षसं स्थितम्। विद्युज्जिह्व महाजिद समीपपरिवर्तिनम्॥ अग्रतः कुरु शीघ्रं दाशरथे: शिरः। अवस्था पश्चिमां भर्तुः कृपणां साधु पश्यतु ॥ एवमुक्तं तु तद्रक्षः शिरस्तत्प्रियदर्शनम्। उपनिक्षिप्य सीतायाः क्षिप्रमन्तरधीयत॥ सीतायाः रावणश्चापि चिक्षेप भास्वरं कार्मुकं महत्। त्रिषु लोकेषु विख्यातं रामस्यैतदिति ब्रुवन्॥ इदं तत्तव रामस्य कार्मुकं ज्यासमावृतम्। इह प्रहस्तेनानीतं तं हत्वा निशि मानुषम्॥ स विद्युजिह्वेन सहैव तच्छिरो धनुश्च भूमौ विनिकीर्यमाणः। विदेहराजस्य सुतां यशस्विनी ततोऽब्रवीत्तां भव मे वशानुगा॥ सा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम्। सुग्रीवप्रतिसंसर्गमाख्यातं च हनूमता॥ नयने मुखवर्णं च भर्तुस्तत्सदृशं मुखम्। केशान्केशान्तदेशं च तं च चूडामणिं शुभम्॥ एतैः सर्वैरभिज्ञानैरभिज्ञाय सुदुःखिता। विजगहेऽत्र कैकेयों क्रोशन्ती कुररी यथा॥ सकामा भव कैकेयि हतोऽयं कुलनन्दनः। कुलमुत्सादितं सर्वं त्वया कलहशीलया॥ आर्येण किं नु कैकेय्याः कृतं रामेण विप्रियम्। यन्मया चीरवसनं दत्वा प्रवाजितो वनम्॥ एवमुक्त्वा तु वैदेही वेपमाना तपस्विनी। जगाम जगतीं बाला छिन्ना तु कदली यथा॥ सा मुहुर्तात्समाश्वस्य परिलभ्याथ चेतनाम्। तच्छिरः समुपस्थाय विललापायतेक्षणा॥ हा हतास्मि महाबाहो वीरव्रतमनुव्रत। इमां ते पश्चिमावस्थां गतास्मि विधवा कृता ॥ प्रथमं मरणं नार्या भर्तुर्वैगुण्यमुच्यते। सुवृत्तः साधुवृत्तायाः संवृत्तस्त्वं ममाग्रतः॥ महदुःखं प्रपन्नाया मग्नायाः शोकसागरे। यो हि मामुद्यतस्त्रातुं सोऽपि त्वं विनिपातितः।।१० सा श्वश्रूर्मम कौसल्या त्वया पुत्रेण राघव। वत्सला ते यथा धेनुर्विवत्सा वत्सला कृता ॥ उद्दिष्टं दीर्घमायुस्ते दैवज्ञैरपि राघव। अनृतं वचनं तेषामल्यायुरसि राघव ॥ अथवा नश्यति प्रज्ञा प्राज्ञस्यापि सतस्तव। पचत्येनं तथा कालो भूतानां प्रभवो ह्ययम्॥ अदृष्टं मृत्युमापन्नः कस्मात्त्वं नयशास्त्रवित्। व्यसनानामुपायज्ञः कुशलो ह्यसि वर्जने॥ तथा त्वं संपरिष्वज्य रौद्रयातिनृशंसया। कालरात्र्या मयाच्छिद्य हतः कमललोचनः॥ इह शेषे महाबाहो मां विहाय तपस्विनीम्। प्रियामिव यथा नारी पृथिवीं पुरुषर्षभ ॥ अचितं सततं यत्नाद्गन्धमाल्यैर्मया तव। इदं ते मत्प्रियं वीर धनुः काञ्चनभूषितम्॥ पित्रा दशरथेन त्वं श्वशुरेण ममानघ। सर्वैश्च पितृभिः सार्धं नूनं स्वर्गे समागतः॥ दिवि नक्षत्रभूतं च महत्कर्म कृतं तथा। पुण्यं राजर्षिवंशं त्वमात्मनः समुपेक्षसे॥ किं मां न प्रेक्षसे राजन्कि वा न प्रतिभाषसे। बालां बालेन संप्राप्तां भायां मां सहचारिणीम्॥ संश्रुतं गृह्णता पाणिं चरिष्यामिति यत्त्वया। स्मर तन्नाम काकुत्स्थ नय मामपि दुःखिताम्॥ कस्मान्मामपहाय त्वं गतो गतिमतां वर। अस्माल्लोकादमुं लोकं त्यक्त्वा मामपि दुःखिताम्।। कल्याणै रुचिरं गात्रं परिष्वक्तं मयैव तु। क्रव्यादैस्तच्छरीरं ते नूनं विपरिकृष्यते॥ अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः। अग्निहोत्रेण संस्कार केन त्वं न तु लप्स्यसे॥ प्रव्रज्यामुपपन्नानां त्रयाणामेकमागतम्। परिप्रेक्ष्यति कौसल्या लक्ष्मणं शोकलालसा ॥ म तस्याः परिपृच्छन्त्या वधं मित्रबलस्य ते। तव चाख्यास्यते नूनं निशायां राक्षसैर्वधम्॥ सा त्वां सुप्तं हतं ज्ञात्वा मां च रक्षोगृहं गताम्। हृदयेनावदीर्णेन न भविष्यति राघव॥ मम हेतोरनार्याया अनघः पार्थिवात्मजः। रामः सागरमुत्तीर्य वीर्यवान्गोष्पदे हतः॥ अहं दाशरथेनोढा मोहात्स्वकुलपांसनी। आर्यपुत्रस्य रामस्य भार्या मृत्युरजायत ॥ नूनमन्यां मया जाति' वारितं दानमुत्तमम्। याहमद्यैव शोचामि भार्या सर्वातिथेरिह॥ साधु घातय मां क्षिप्रं रामस्योपरि रावण। समानय पति पत्न्या कुरु कल्याणमुत्ततमम्॥ शिरसा मे शिरश्चास्य कायं कायेन योजय। रावणानुगमिष्यामि गतिं भर्तुर्महात्मनः॥ इतीव दुःखसंतप्ता विललापायतेक्षणा। भर्तुः शिरो धनुश्चैव ददर्श जनकात्मजा ॥ एवं लालप्यमानायां सीतायां तत्र राक्षसः। अभिचक्राम भर्तारमनीकस्थः कृताञ्जलिः॥ विजयस्वार्यपुत्रेति सोऽभिवाद्य प्रसाद्य च। न्यवेदयदनुप्राप्तं प्रहस्तं वाहिनीपतिम्॥ अमात्यैः सहितः सर्वैः प्रहस्तस्त्वामुपस्थितः। तेन दर्शनकामन अहं प्रस्थापितः प्रभो॥ नूनमस्ति महाराज राजभावात्क्षमान्वित। किंचिदात्ययिकं कार्य तेषां त्वं दर्शनं कुरु॥ एतच्छ्रुत्वा दशग्रीवो राक्षसप्रतिवेदितम्। अशोकवनिकां त्यक्त्वा मन्त्रिणां दर्शनं ययौ॥ स तु सर्वं समयँव मन्त्रिभिः कृत्यमात्मनः। सभां प्रविश्य विदधे विदित्वा रामविक्रमम्॥ अन्तर्धानं तु तच्छीर्षं तच्च कार्मुकमुत्तमम्। जगाम रावणस्यैव निर्याणसमनन्तरम्॥ राक्षसेन्द्रस्तु तैः सार्ध मन्त्रिभिर्भीमविक्रमैः। समर्थयामास तदा रामकार्यविनिश्चयम्॥ अविदूरस्थितान्सर्वान्बलाध्याक्षान्हितैषिणः। अब्रवीत्कालसदृशो रावणो राक्षसाधिपः॥ शीघ्रं भेरीनिनादेन स्फुटं कोणाहतेन मे। समानयध्वं सैन्यानि वक्तव्यं च न कारणम्॥ ततस्तथेति प्रतिगृह्य तद्वचस्तदैव दूताः सहसा महद्बलम्। समानयंश्चैव समागतं च न्यवेदयन्भर्तरि युद्धकाङ्क्षिणि। सीतां तु मोहितां दृष्ट्वा सरमा नाम राक्षसी। आससादाथ वैदेहीं प्रियां प्रणयिनी सखी॥ मोहितां राक्षसेन्द्रेण सीतां परमदुःखिताम्। आश्वासयामास तदा सरमा मृदुभाषिणी॥ सा हि तत्र कृता मित्रं सीतया रक्ष्यमाणया। रक्षन्ती रावणादिष्टा सानुक्रोशा दृढव्रता॥ सा ददर्श सखी सीतां सरमा नष्टचेतनाम्। उपावृत्त्योत्थितां ध्वस्तां वडवामिव पांसुषु ॥ तां समाश्वासयामास सखी स्नेहेन सुव्रताम्। उक्ता यद्रावणेन त्वं प्रत्युक्तश्च स्वयं त्वया॥ लीनया गहने शून्ये भयमुत्सूज्य रावणात्। तव हेतोविशालाक्षि नहि मे रावणाद्भयम्॥ स संभ्रान्तश्च निष्क्रान्तो यत्कृते राक्षसेश्वरः। तत्र मे विदितं सर्वमभिनिष्क्रम्य मैथिलि।७।। न शक्यं सौप्तिकं कर्तुं रामस्य विदितात्मनः। वधश्च पुरुषव्याघ्र यस्मिन्नैवोपपद्यते॥ न त्वेवं वानरा हन्तुं शक्याः पादपयोधिनः। सुरा देवर्षभेणेव रामेण हि सुरक्षिताः॥ दीर्घवृत्तभुजः श्रीमान्महोरस्कः प्रतापवान्। धन्वी संनहनोपेतो धर्मात्मा भुवि विश्रुतः॥ विक्रान्तो रक्षिता नित्यमात्मनश्च परस्य च। लक्ष्मणेन सह भ्रात्रा कुलीनो नयशास्त्रवित्॥ हन्ता परबलौघानामचिन्त्यबलपौरुषः। न हतो राघवः श्रीमान्सीते शत्रुनिबर्हणः॥ अयुक्तबुद्धिकृत्येन सर्वभूतविरोधिना। इव प्रयुक्ता रौद्रेण माया मायाविना त्वयि ॥ शोकस्ते विगतः सर्वकल्याणं त्वामुपस्थितम्। ध्रुवं त्वां भजते लक्ष्मीः प्रियं ते भवति शृणु॥ उत्तीर्य सागरं रामः सह वानरसेनया संनिविष्टः समुद्रस्य तीरमासाद्य दक्षिणम्॥ दृष्टो मे परिपूर्णार्थः काकुत्स्थः सहलक्ष्मणः। सहितैः सागरान्तस्थैर्बलैस्तिष्ठति रक्षितः॥ अनेन प्रेषिता ये च राक्षसा लघुविक्रमाः। राघवस्तीर्ण इत्येव प्रवृत्तिस्तैरिहाहता॥ स तां श्रुत्वा विशालाक्षि प्रवृत्तिं राक्षसाधिपः। एष मन्त्रयते सर्वैः सचिवैः सह रावणः॥ इति ब्रुवाणा सरमा राक्षसी सीतया सह। सर्वोद्योगेन सैन्यानां शब्दं शुश्राव भैरवम्॥ दण्डनिर्घातवादिन्याः श्रुत्वा भेर्या महास्वनम्। उवाच सरमा सीतामिदं मधुरभाषिणी॥ संनाहजननी ह्येषा भैरवा भीरु भेरिका। भेरीनादं च गम्भीरं शृणु तोयदनिःस्वनम्॥ कल्प्यन्ते मत्तमातङ्गा युज्यन्ते रथवाजिनः। दृश्यन्ते तुरगारूढाः प्रासहस्ताः सहस्रशः॥ तत्र तत्र च संनद्धाः संपतन्ति सहस्रशः। आपूर्यन्ते राजमार्गाः सैन्येरद्भुतदर्शनैः॥ वेगवद्भिर्नदद्भिश्च तोयौघैरिव सागरः। शस्त्राणां च प्रसन्नानां चर्मणां वर्मणां तथा॥ रथवाजिगजानां च राक्षसेन्द्रानुयायिनाम्। संभ्रमो राक्षसामेष हृषितानां तरस्विनाम्। प्रभो विसृजतां पश्य नानावर्णसमुत्थिताम् ॥ संभ्रमो रक्षसामेष तुमुलं लोमहर्षणम्। श्रीस्त्वां भजति शोकघ्नी रक्षसां भयमागतम्॥ रामः कमलपत्राक्षो दैत्यानामिव वासवः। अवजित्य जितक्रोधस्तमचिन्त्यपराक्रमः। रावणं समरे हत्वा भर्ता त्वाधिगमिष्यति॥ विक्रमिष्यति रक्षःसु भर्ता ते सहलक्ष्मणः। यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः॥ आगतस्य हि रामस्य क्षिप्रमङ्कागतां सतीम्। अहं द्रक्ष्यामि सिद्धार्थां त्वां शत्रौ विनिपातिते।।२९ अस्त्राण्यानन्दजानि त्वं वर्तयिष्यसि जानकि। समागम्य परिष्वक्ता तस्योरसि महोरसः॥ अचिरान्मोक्ष्यते सीते देवि ते जघनं गताम्। धृतामेकां बहून्मासान्वेणी रामो महाबलः॥ तस्य दृष्ट्वा मुखं देवि पूर्णचन्द्रमिवोदितम्। मोक्ष्यसे शोकजं वारि निर्मोकमिव पन्नगी॥ रावणं समरे हत्वा न चिरादेव मैथिलि। त्वया समग्रः प्रियया सुखार्हो लप्स्यते सुखम्।३३।। सभाजिता त्वां रामेण मोदिष्यसि महात्मना। सुवर्षेण समायुक्ता यथा सस्येन मेदिनी॥ गिरिवरमभितो विवर्तमानो हय इव मण्डलमाशु यः करोति। तमिह शरणमभ्युपैहि देवि दिवसकरं प्रभवो ह्ययं प्रजानाम्॥ अथ तां जातसंतापां तेन वाक्येन मोदिताम्। सरमा हादयामास महीं दग्धामिवाम्भसा ॥ ततस्तस्या हितं सख्याश्चिकीर्षन्ती सखी वचः। उवाच काले कालज्ञा स्मितपूर्वाभिभाषिणी॥ उत्सहेयमहं गत्वा त्वद्वाक्यमसितेक्षणे। निवेद्य कुशलं रामे प्रतिच्छना निवर्तितुम्॥ नहि मे क्रममाणाया निरालम्बे विहायसि। समर्थो गतिमन्वेतुं पवनो गरुडोऽपि वा॥ एवं ब्रुवाणां तां सीता सरमामिदमब्रवीत्। मधुरं श्लक्ष्णया वाचा पूर्वशोकाभिपन्नया॥ समर्था गगनं गन्तुमपि च त्वं रसातलम्। अवगच्छाद्य कर्तव्यं कर्तव्यं ते मदन्तरे॥ मत्प्रियं यदि कर्तव्यं यदि बुद्धिः स्थिरा तव। ज्ञातुमिच्छामि तं गत्वा किं करोतीति रावणः॥ स हि मायाबलः क्रूरो रावणः शत्रुरावणः। मां मोहयति दुष्टात्मा पीतमात्रेव वारुणी॥ तर्जापयति मां नित्यं भर्सापयति चासकृत्। राक्षसीभिः सुघोराभिर्यो मां रक्षति नित्यशः॥ उद्विग्ना शङ्किता चास्मि न स्वस्थं च मनोगम। तद्भयाच्चाहमुद्विग्ना अशोकवनिकां गता॥ यदि नाम कथा तस्य निश्चितं वापि यद्भवेत्। निवेदयेथाः सर्वं तद्वरो मे स्यादनुग्रहः॥ साप्येवं ब्रुवतीं सीतां सरमा मृदुभाषिणी। उवाच वचनं तस्याः स्पृशन्ती बाष्पविक्लवम्।।१२ एष ते यद्यभिप्रायस्तस्माद्गच्छामि जानकि। गृह्य शत्रोरभिप्रायमुपावर्तामि मैथिलि॥ एवमुक्त्वा ततो गत्वा समीपं तस्य रक्षसः। शुश्राव कथितं तस्य रावणस्य समन्त्रिणः॥ सा श्रुत्वा निश्चयं तस्य निश्चयज्ञा दुरात्मनः। पुनरेवागमत्क्षिप्रमशोकवनिका शुभाम्॥ सा प्रविष्टा ततस्तत्र ददर्श जनकात्मजाम्। प्रतीक्षमाणां स्वामेव भ्रष्टपद्मामिव श्रियम्॥ तां तु साती पुनः प्राप्तां सरमां प्रियभाषिणीम्। परिष्वज्य च सुस्निग्धं ददौ च स्वयमासनम्।।१७ इहासीना सुखं सर्वमाख्याहि मम तत्त्वतः। क्रूरस्य निश्चयं तस्य रावणस्य दुरात्मनः॥ एवमुक्ता तु सरमा सीतया वेपमानया। कथितं सर्वमाचष्ट रावणस्य समन्त्रिणः॥ जनन्या राक्षसेन्द्रो वै त्वन्मोक्षार्थं बृहद्वचः। अतिस्निग्धेन वैदेहि मन्त्रिवृद्धेन चोदितः॥ दीयतामभिसत्कृत्य मनुजेन्द्राय मैथिली। निदर्शनं ते पर्याप्त जनस्थाने यदद्भुतम्॥ लङ्घनं च समुद्रस्य दर्शनं च हनूमतः। वधं स रक्षसां युद्धे कः कुर्यान्मानुषो युधि ॥ एवं स मन्त्रिवृद्धैश्च मात्रा च बहु बोधितः। न त्वामुत्सहते मोक्तुमर्थमर्थपरो यथा॥ नोत्सहत्यमृतो मोक्तुं युद्धे त्वामिति मैथिलि। सामात्यस्य नृशंसस्य निश्चयो ह्येष वर्तते॥ तदेषां सुस्थिरा बुद्धिर्मृत्युलोभादुपस्थिता। भयान शक्तस्त्वां मोक्तुमनिरस्तः स संयुगे॥ राक्षसानां च सर्वेषामात्मनश्च वधेन हि। निहत्य रावणं संख्ये सर्वथा निशितैः शरैः। प्रतिनेष्यति रामस्त्वामयोध्यामसितेक्षणे॥ एतस्मिन्नन्तरे शब्दो भेरीशङ्खसमाकुलः। श्रुतो वै सर्वसैन्यानां कम्पयन्धरणीतलम्॥ श्रुत्वा तु तं वानरसैन्यनादं लङ्कागता राक्षसराजभृत्याः। हतौजसौ दैन्यपरीतचेष्टाः श्रेयो न पश्यन्ति नृपस्य दोषात्॥ तेन शङ्खविमिश्रेण भेरीशब्देन नादिना। उपयाति महाबाहू रामः परपुरंजयः॥ तं निनादं निशम्याथ रावणो राक्षसेश्वरः। मुहूर्त ध्यानमास्थाय सचिवानभ्युदैक्षत॥ अथ तान्सचिवांस्तत्र सर्वानाभाष्य रावणः। सभां संनादयन्सनित्युवाच महाबलः॥ जगत्संतापनः क्रूरोऽगर्हयनराक्षसेश्वरः। तरणं सागरस्यास्य विक्रमं बलपौरुषम्॥ यदुक्तवन्तो रामस्य भवन्तस्तन्मया श्रुतम्। भवतश्चाप्यहं वेधि युद्धे सत्यपराक्रमान्।। तूष्णीकानीक्षतोन्योन्यं विदित्वा रामविक्रमम् ॥ ततस्तु सुमहाप्राज्ञो माल्यवान्नाम राक्षसः। रावणस्य वचः श्रुत्वा इति मातामहोऽब्रवीत्॥ विद्यास्वभिविनीतो यो राजा राजनयानुगः। स शास्ति चिरमैश्वर्यमरीश्च कुरुते वशे॥ संदधानो हि कालेन विगृह्णश्चारिभिः सह। स्वपक्षे वर्धनं कुर्वन्महदैश्वर्यमश्नुते॥ हीयमानेन कर्तव्यो राज्ञा संधिः समेन च। न शत्रुमवमन्येत ज्यायान्कुर्वीत विग्रहम्॥ तन्मह्यं रोचते संधिः सह रामेण रावण। यदर्थमभियुक्तोऽसि सीता तस्मै प्रदीयताम्॥ तस्य देवर्षयः सर्वे गन्धर्वाश्च जयैषिणः। विरोधं मा गमस्तेन संधिस्ते तेन रोचताम्॥ असृजद्भगवान्पक्षौ द्वावेव हि पितामहः। सुराणामसुराणां च धर्माधर्मों तदाश्रयौ॥ धर्मो हि श्रूयते पक्ष अमराणां महात्मनाम्। अधर्मो रक्षसां पक्षो ह्यसुराणां च राक्षस॥ धर्मो वै ग्रसतेऽधर्मं यदा कृतमभूधुगम्। अधर्मो ग्रसते धर्म तदा तिष्यः प्रवर्तते॥ तत्त्वया चरता ले कान्धर्मोऽपि निहतो महान्। अधर्मः प्रगृहीतश्च तेनास्मदलिनः परे॥ स प्रमादात्प्रवृद्धस्तेऽधर्मोऽहिर्ग्रसते हि नः। विवर्धयति पक्षं च सुराणां सुरभावनः॥ विषयेषु प्रसक्तेन यत्किचित्कारिणा त्वया। ऋषीणामग्निकल्पानामुद्वेगो जनितो महान्॥ तेषां प्रभावो दुर्धर्षः प्रदीप्त इव पावकः। तपसा भावितात्मानो धर्मस्यानुग्रहे रताः॥ मुख्यैर्यज्ञैर्यजन्त्येते तैस्तैर्यत्ते द्विजातयः। जुह्वत्यग्नींश्च विधिवद्वेदांश्चोच्चैरधीयते। अभिभूय च रक्षांसि ब्रह्मघोषानुदीरयन्॥ दिशो विप्रदूताः सर्वे स्तनयित्नुरिवोष्णगे। ऋषीणामग्निकल्पानामग्निहोत्रसमुत्थितः॥ आवृत्य रक्षसां तेजो धूमो व्याप्य दिशो दश। तेषु तेषु च देशेषु पुण्येष्ट्यवधृतव्रतैः॥ चर्यमाणं तपस्तीव्र संतापयति राक्षसान्। देवदानवयक्षेभ्यो गृहीतश्च वरस्त्वया॥ मनुष्या वानरा ऋक्षा गोलाषेला महाबलाः। बलवन्त इहागम्य गर्जन्ति दृढविक्रमाः॥ उत्पातान्विविधान्दृष्ट्वा घोरान्बहुविधान्बहून्। विनाशमनुपश्यामि सर्वेषां रक्षसामहम्॥ खराभिस्तनिता घोरा मेघाः प्रतिभयंकराः। शोणितेनाभिवर्षन्ति लङ्कामुष्णेन सर्वतः॥ रुदतां वाहनानां च प्रपतन्त्यश्रुबिन्दवः। रजोध्वस्ता विवर्णाश्च न प्रभान्ति यथापुरम्॥ व्याला गोमायवो गृध्रा वाश्यन्ति च सुभैरवम्। प्रविश्य लङ्कामारामे समवायाश्च कुर्वते॥ कालिकाः पाण्डुरैर्दन्तैः प्रहसन्त्यग्रतः स्थिताः। स्त्रियः स्वप्नेषु मुष्णन्त्यो गृहाणि प्रतिभाष्य च।।२८ गृहाणां बलिकर्माणि श्वानः पर्युपसेवते। खरा गोषु प्रजायन्ते मूषका नकुलेषु च ॥ मार्जारा द्वीपिभिः सार्धं सूकराः शुनकैः सह। किंनरा राक्षसैश्चापि समेयुर्मानुषैः सह॥ पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः। राक्षसानां विनासाय कपोता विचरन्ति च ॥ चीचीकूचीति वाशन्तः शारिका वेश्मसु स्थिताः। पतन्ति ग्रथिताश्चपि निर्जिताः कलहैषिभिः॥ पक्षिणश्च मृगाः सर्वे प्रत्यादित्यं रुदन्ति ते। करालो विकलो मुण्डः पुरुषः कृष्णपिङ्गलः॥ कालो गृहाणि सर्वेषां कलो कालेऽन्ववेक्षते। एतान्यन्यानि दुष्टानि निमित्तान्युत्पतन्ति च।। विष्णुं मन्यामहे रामं मानुषं रूपमास्थितम्। न हि मानुषमात्रोऽसौ राघवो दृढविक्रमः।। येन बद्धः समुद्रे च सेतुः स परमाद्भुतः। कुरूष्व नरराजेन सन्धि रामेण रावण।। ज्ञात्वावधार्य कर्माणि क्रियतामायतिक्षमम्॥ इदं वचस्तस्य निगद्य माल्यवान् परीक्ष्य रक्षोधिपतेर्मनः पुनः। अनुत्तमेषूत्तमपौरुषो बली बभूव तूष्णीं समवेक्ष्य रावणम्॥ नरवानरराजानौ स तु वायुसुतः कपिः। जाम्बवानृक्षराजश्च राक्षसश्च विभीषणः॥ अङ्गदो बालिपुत्रश्च सौमित्रिः शरभः कपिः। सुषेणः सहदायादो मैन्दो द्विविद एव च॥ गजो गवाक्षः कुमुदो नलोऽथ पनसस्तथा। अमित्रविषयं प्राप्ताः समवेताः समर्थयन्॥ इयं सा लक्ष्यते लङ्का पुरी रावणपालिता। सासुरोरगगन्धर्वैः सर्वैरपि सुदुर्जया॥ कार्यसिद्धिं पुरस्कृत्य मन्त्रयध्वं विनिर्णये। नित्यं संनिहितो यत्र रावणो राक्षसाधिपः॥ अथ तेषु ब्रुवाणेषु रावणावरजोऽब्रवीत्। वाक्यमग्राम्यपदवत्पुष्कलार्थं बिभीषणः॥ अनलः पनसश्चैव संपातिः प्रमतिस्तथा। गत्वा लङ्कां ममामात्या पुरी पुनरिहागताः॥ भूत्वा शकुनयः सर्वे प्रविष्टाश्च रिपोर्बलम्। विधानं विहितं यच्च तदृष्ट्वा समुपस्थिताः॥ संविधानं यथाहुस्ते रावणस्य दुरात्मनः। राम तब्रुवतः सर्वं याथातथ्येन मे शृणु॥ पूर्व प्रहस्तः सबलो द्वारमासाद्य तिष्ठति। दक्षिणं च महावीर्यो महापार्श्वमहोदरौ॥ इन्द्रजित्पश्चिमं द्वारं राक्षसैर्बहुभिर्वृतः। पट्टिशासिधनुष्मद्भिः शूलमुद्गरपाणिभिः॥ नानाप्रहरणैः शूरैरावृतो रावणात्मजः। राक्षसानां सहस्रेस्तु बहुभिः शस्त्रपाणिभिः॥ युक्तः परमसंविग्नो राक्षसैः सह मन्त्रवित्। उत्तरं नगरद्वारं रावणः स्वयमास्थितः॥ विरूपाक्षस्तु महता शूलमुद्गधनुष्मता। बलेन राक्षसैः सार्धं मध्यमं गुल्ममाश्रितः॥ एतानेवंविधान् गुल्मॉल्लङ्कायां समुदीक्ष्य ते। मामका मन्त्रिणः सर्वे शीघ्रं पुनरिहागताः॥ गजानां दशसाहस्रं रथानामयुतं तथा। हयानामयुते द्वे च साग्रां कोटिं च रक्षसाम्॥ विक्रान्ता बलवन्तश्च संयुगेष्वाततायिनः। इष्टा राक्षसराजस्य नित्यमेते निशाचराः॥ एकैकस्यात्र युद्धार्थे राक्षसस्य विशांपते। परीवारः सहस्राणां सहस्रमुपतिष्ठति॥ एतां प्रवृत्तिं लङ्कायां मन्त्रिप्रोक्तां बिभीषणः। एवमुक्त्वा महाबाहू राक्षसांस्तानदर्शयत्॥ लङ्कायां सचिवैः सर्वं रामाय प्रत्यवेदयत्। रामं कमलपत्राक्षमिदमुत्तरमब्रवीत्॥ रावणावरजः श्रीमानरामप्रियचिकीर्षया। कुबेरं तु यदा राम रावणः प्रतियुद्ध्यति॥ षष्टिः शतसहस्राणि तदा निर्यान्ति राक्षसाः। पराक्रमेण वीर्येण तेजसा सत्त्वगौरवात्।। सदृशा ह्यत्र दर्पण रावणस्य दुरात्मनः॥ अत्र मन्युर्न कर्तव्यः कोपये त्वां न भीषये। समर्थो ह्यसि वीर्येण सुराणामपि निग्रहे॥ तद्भवांश्चतुरङ्गेण बलेन महता वृतम्। व्यूह्येदं वानरानीकं निर्मथिष्यसि रावणम्॥ रावणावरजे वाक्यमेवं ब्रुवति राघवः। शत्रूणां प्रतिघातार्थमिदं वचनमब्रवीत्॥ पूर्वद्वारं तु लङ्काया नीलो वानरपुंगवः। प्रहस्तं प्रतियोद्धा स्याद्वानरैर्बहुभिर्वृतः॥ अङ्गदो वालिपुत्रस्तु बलेन महता वृतः। दक्षिणे बाधतां द्वारे महापार्श्वमहोदरौ॥ हनूमान्पश्चिमद्वारं निष्पीड्य पवनात्मजः। प्रविशत्वप्रमेयात्मा बहुभिः कपिभिर्वृतः॥ दैत्यदानवसङ्घानामृषीणां च महात्मनाम्। विप्रकारप्रियः क्षुद्रो वरदानबलान्वितः॥ परिक्रमति यः सर्वांल्लोकान्संतापयन्प्रजाः। तस्याहं राक्षसेन्द्रस्य स्वयमेव वधे धृतः॥ उत्तरं नगरद्वारमहं सौमित्रिणा सह । निपीड्याभिप्रवेक्ष्यामि सबलो यत्र रावणः॥ वानरेन्द्रश्च बलवानृक्षराजश्च वीर्यवान्। राक्षसेन्द्रानुनश्चैव गुल्मे भवतु मध्यमे॥ न चैव मानुषं रूपं कार्य हरिभिराहवे। एषा भवतु नः संज्ञा युद्धेऽस्मिन्वानरे बले॥ वानरा एव नश्चिहूं स्वजनेऽस्मिन्भविष्यति। वयं तु मानुषेणेव सप्त योत्स्यामहे परान्॥ अहमेव सह भ्रात्रा लक्ष्मणेन महौजसा। आत्मना पञ्चमश्चायं सखा मम बिभीषणः॥ स रामः कृत्यसिद्ध्यर्थमेवमुक्त्वा बिभीषणम्। सुवेलारोहणे बुद्धिं चकार मतिमान्प्रभुः।। रमणीयतरं दृष्ट्वा सुवेलस्य गिरेस्तटम्॥ ततस्तु रामो महता बलेन प्रच्छाद्य सर्वां पृथिवीं महात्मा। प्रहृष्टरूपोऽभिजगाम लङ्कां कृत्वा मतिं सोऽरिवधे महात्मा॥ स तु कृत्वा सुवेलस्य मतिमारोहणं प्रति। लक्ष्मणानुगतो रामः सुग्रीवमिदमब्रवीत्॥ विभीषणं च धर्मज्ञमनुरक्तं निशाचरम्। मन्त्रज्ञं च विधिज्ञं च श्लक्ष्णया परया गिरा॥ सुवेलं साधुशैलेन्द्रमिमं धातुशतैश्चितम्। अध्यारोहामहे सर्वे वत्स्यामोऽत्र निशामिमाम्॥ लङ्कां चालोकयिष्यामो निलयं तस्य रक्षसः। येन मे मरणान्ताय हृता भार्या दुरात्मना॥ येन धर्मो न विज्ञातो न वृत्तं न कुलं तथा। राक्षस्या नीचया बुद्ध्या येन तद्गर्हितं कृतम्।। तस्मिन्मे वर्तते रोषः कीर्तिते राक्षसाधमे। यस्यापराधानीचस्य वधं द्रक्ष्यामि रक्षसाम्।। एको हि कुरुते पापं कालपाशवशं गतः। नीचेनात्मापचारेण कुलं तेन विनश्यति।। एवं संमन्त्रयन्नेव सक्रोधो रावणं प्रति। रामः सुवेलमासाद्य चित्रसानुमुपारुहत्॥ पृष्ठतो लक्ष्मणश्चैनमन्वगच्छत् समाहितः। सशरं चापमुद्यम्य सुमहविक्रमे रतः॥ तमन्वारोहत्सुग्रीवः सामात्यः सविभीषणः। ते वायुवेगप्रवणास्तं गिरि गिरिचारिणः।।।। अध्यारोहन्त शतशः सुवेलं यत्र राघवः। ते त्वदीर्पण कालेन गिरिमारुह्य सर्वतः।।।। ददृशुः शिखरे तस्य विषक्तामिव खे पुरीम्। तां शुभां प्रवरद्वारा प्राकारवरशोभिताम्॥ लङ्कां राक्षससंपूर्णां ददृशुहरियूथपाः। प्राकारवरसंस्थैश्च तथा नीलैश्च राक्षसैः। ददृशुस्ते हरिश्रेष्ठाः प्राकारमपरं कृतम्॥ तं दृष्ट्वा वानराः सर्वे राक्षसान्युद्धकाङ्गिणः। मुमुचुर्विविधान्नादांस्तस्य रामस्य पश्यतः॥ ततोऽस्तमगमत्सूर्यः संध्यया प्रतिरञ्जितः। पूर्णचन्द्रप्रदीप्ता च क्षपा समतिवर्तत ॥ विभीषणेन प्रतिनन्ध सत्कृतः। सलक्ष्मणो यूथपयूथसंयुतः सुवेलपृष्ठे न्यवसद्यथासुखम्॥ तां रात्रिमुषितास्तत्र सुवेले हरियूथपाः। लङ्कायां ददृशुर्वीरा वनान्युपवनानि च॥ समसौम्यानि रम्याणि विशालान्यायतानि च। दृष्टिरम्याणि ते दृष्ट्वा बभूवुर्जातविस्मयः॥ चम्पकाशोकबकुलशालतालसमाकुला। तमालापनसच्छन्ना नागमालासमावृता॥ हिन्तालैरर्जुनैींपैः सप्तवर्णैः सुपुष्पितैः। तिलकैः कर्णिकारैश्च पाटलैश्च समन्ततः॥ शुशुभे पुष्पिताणैव लतापरिगतदुमैः। लङ्कां बहुविधैर्दृश्यैर्यथेन्द्रस्यामरावती॥ विचित्रकुसुमोपेतै रक्तकोमलपल्लवैः। शाद्वलैश्च तथा नीलश्चित्राभिर्वनराजिभिः॥ गन्धाढ्यान्यतिरम्याणि पुष्पाणि च फलानि च। धारयन्त्यगमास्तत्र भूषणानीव मानवाः।७।। तच्चैत्ररथसंकाशं मनोज्ञं नन्दनोपमम्। वनं सर्वर्तुकं रम्यं शुशुभे षट्पदायुतम्॥ दात्यूहकोयष्टिवकैर्नृत्यमानैश्च बहिणैः। रुतं परभृतानां च शुश्रुवे वननिझरे॥ नित्यमत्तविहंगानि भ्रमराचरितानि च। कोकिलाकुलखण्डानि विहंगाभिरुतानि च॥ भृङ्गराजाधिगीतानि कुररस्वनितानि च। विविशुस्ते ततस्तानि वनान्युपवनानि च॥ हृष्टाः प्रमुदिता वीरा हरयः कामरूपिणः। तेषां प्रविशतां तत्र वानराणां महौजसाम्॥ पुष्पसंसर्गसुरभिर्ववौ प्राणसमोऽनिलः। अन्ये तु हरिवीराणां यूथानिष्क्रम्य यूथपाः।। सुग्रीवेणाभ्यनुज्ञाता लङ्का जग्मुः पताकिनीम्॥ वित्रासयन्तो विहगान ग्लापयन्तो मृगद्विपान्। कम्पयन्तश्च तां लङ्कां नादैः स्वैर्नदतां वराः॥ कुर्वन्तस्ते महावेगा महीं चरणपीडिताम्। रजश्च सहसैवोर्ध्वं जगाम चरणोत्थितम्॥ ऋक्षाः सिंहाश्च महिषा वारणाश्च मृगाः खगाः। तेन शब्देन विवस्ता जग्मुर्भीता दिशो दश॥ शिखरं तु त्रिकूटस्य प्रांशु चैकं दिविस्पृशम्। समन्दात्पुष्पसंछनं महारजतसंनिभम् ॥ शतयोजनविस्तीर्णं विमलं चारुदर्शनम्। श्लक्ष्णं श्रीमन्महच्चैव दुष्प्रापं शकुनैरपि॥ मनसापि दुरारोहं किं पुनः कर्मणा जनैः। निविष्टा तस्य शिखरे लङ्का रावणपालिता॥ दशयोजनविस्तीर्णा विंशद्योजनमायता। सा पुरी गोपुरैरुच्चैः पाण्डुराम्बुदसंनिभैः।। काञ्चनेन च शालेन राजतेन च शोभते॥ प्रासादैश्च विमानैश्च लङ्का परमभूषिता। घनैरिवातपापाये मध्यमं वैष्णवं पदम्॥ यस्यां स्तम्भसहस्रेण प्रासादः समलंकृतः। कैलासशिखराकारो दृश्यते खमिवोल्लिखन्।।२२ चैत्यः स राक्षसेन्द्रस्य बभूव पुरभूषणम्। शतेन रक्षसां नित्यं यः समग्रेण रक्ष्यते॥ मनोज्ञां काञ्चनवतीं पर्वतैरुपशोभिताम्। नानाधातुविचित्रैश्च उद्यानैरुपशोभिताम्॥ नानाविहगसंघुष्टां नानामृगनिषेविताम्। नानाकुसुमसंपन्नां नानाराक्षससेविताम्॥ तां समृद्धां समृद्धार्थां लक्ष्मीवॉल्लक्ष्मणाग्रजः। नगरीं त्रिदिवप्रख्या विस्मयं प्राप वीर्यवान्॥ तां रत्नपूर्णां बहुसंविधानां प्रासादमालाभिरलङ्कृतां च। पुरीं महायन्त्रकवाटमुख्यां ददर्श रामो महता बलेन।।२७ ततो रामः सुवेलाग्रं योजनद्वयमण्डलम्। उपारोहत्ससुग्रीवो हरियूथैः समन्वितः॥ स्थित्वा मुहूर्तं तत्रैव दिशो दश विलोकयन्। त्रिकूटशिखरे रम्ये निर्मितां विश्वकर्मणा॥ ददर्श लङ्कां सुन्यस्तां रम्यकाननशोभिताम्। तस्य गोपुरशृङ्गस्थं राक्षसेन्द्रं दुरासदम्॥ श्वेतचामरपर्यन्तं विजयच्छत्रशोभितम्। रक्तचन्दनसंलिप्तं रक्ताभरणभूषितम्॥ नीलजीमूतसंकाशं हेमसंछादिताम्बरम्। ऐरावतविषाणा।रुत्कृष्टकिणवक्षसम्॥ शशलोहितरागेण संवीतं रक्तवाससा। संध्यातपेन संछन्नं मेघराशिमिवाम्बरे।६॥ पश्यतां वानरेन्द्राणां राघवस्यापि पश्यतः। दर्शनाद्राक्षसेन्द्रस्य सुग्रीवः सहसोत्थितः॥ क्रोधवेगेन संयुक्तः सत्त्वेन च बलेन च। अचलाग्रादथोत्थाय पुप्लुवे गोपुरस्थले॥ स्थित्वा मुहूर्त संप्रेक्ष्य निर्भयेनान्तरात्मना। तृणीकृत्य च तद्रक्षः सोऽब्रवीत् परुषं वचः॥ लोकनाथस्य रामस्य सखा दासोऽस्मि राक्षस। न मया मोक्ष्यसेऽद्य त्वं पार्थिवेन्द्रस्य तेजसा ॥ इत्युक्त्वा सहसोत्पत्य पुप्लुवे तस्य चोपरि। आकृष्य मुकुटं चित्र पातयामास तद्भुवि॥ समीक्ष्य तूर्णमायान्तं बभाषे तं निशाचरः। सुग्रीवस्त्वं परोक्षं मे हीनग्रीवो भविष्यसि ॥ इत्युक्त्वोत्थाय तं क्षिप्रं बाहुभ्यामाक्षिपत्तले। कन्दुवत्स समुत्थाय बाहुभ्यामाक्षिपद्धरिः॥ परस्परं स्वेदविदिग्धगात्रौ परस्परं शोणितरक्तदेहौ। परस्परं श्लिष्टनिरुद्धचेष्टौ परस्परं शाल्मलिकिंशुकाविव।। मुष्टिप्रहारैश्च तलप्रहारैररनिघातैश्च कराग्रघातैः। तौ चक्रतुयुद्धमसह्यरूपं महाबलौ राक्षसवानरेन्द्रौ॥ कृत्वा नियुद्धं भृशमुग्रवेगौ कालं चिरं गोपुरवेदिमध्ये। उत्क्षिप्य चोत्क्षिप्य विनम्य देहौ पादक्रमानोपुरवेदिलग्नौ॥ अन्योन्यमापीड्य विलग्नदेहौ तौ पेततुः सालनिखातमध्ये। उत्पेततुर्भूमितलं स्पृशन्तौ स्थित्वा मुहूर्तं त्वभिनिःश्वसन्तौ ॥ आलिङ्ग्य चालिङ्गय च बाहुयोक्त्रैः संयोजयामासतुराहवे तौ। संरम्भशिक्षाबलसंप्रयुक्तौ सुचेरतुः संप्रति युद्धमार्गे॥ शार्दूलसिंहाविव जातदंष्ट्री गजेन्द्रपोताविव संप्रयुक्तौ। संहत्य संवेद्य च तौ कराभ्यां तौ पेततुर्वै युगपद्धरायाम्॥ उद्यम्य चान्योन्यमधिक्षिपन्तौ संचक्रमाते बहु युद्धमार्गे। व्यायामशिक्षाबलसंप्रयुक्तौ क्लमं न तौ जग्मतुराशु वीरौ ॥ बाहूत्तमैवरिणवारणाभैर्निवारयन्तौ परवारणाभौ। चिरेण कालेन भृशं प्रयुद्धौ संरतुर्मण्डलमार्गमाशु ॥ तौ परस्परमासाद्य यत्तावन्योन्यसूदने। मार्जाराविव भक्षार्थेऽवतस्थाते मुहुर्महुः॥ मण्डलानि विचित्राणि स्थानानि विविधानि च। गोमूत्रकाणि चित्राणि गतप्रत्यागतानि च॥ तिरश्चीनगतान्येव तथा वक्रगतानि च। परिमोक्षं प्रहाराणां वर्जनं परिधावनम्॥ अभिद्रवणमाप्लावमवस्थानं सविग्रहम्। परावृत्तमपावृत्तमपद्रुतमवप्लुतम्॥ उपन्यस्तमपन्यस्तं युद्धमार्गविशारदौ। तौ विचेरतुरन्योन्यं वानरेन्द्रश्च रावणः॥ एतस्मिन्नन्तरे रक्षो मायाबलमथात्मनः। आरब्धुमुपसंपेदे ज्ञात्वा तं वानराधिपः॥ उत्पपात तदाकाशं जिकाशी जितक्लमः। रावणं स्थित एवात्र हरिराजेन वञ्चितः॥ अथ हरिवरनाथः प्राप्तसंग्रामकीर्थिर्निशिचरपतिमाजौ योजयित्वा श्रमेण। गगनमतिविशालं लङ्घयित्वार्र्कसॊनुर्हरिगणबलमध्ये रामपार्वं जगाम ॥ स इति सवितृसूनुस्तत्र तत्कर्म कृत्वा पवनगतिरनीकं प्राविशत्संप्रहृष्टः। रघुवरनृपसूनोर्वर्धयन्युद्धहर्ष तरुमृगगणमुख्यैः पूज्यमानो हरीन्द्रः॥ अथ तस्मिन्निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः। सुग्रीवं संपरिष्वज्य रामो वचनमब्रवीत्॥ असंमन्त्र्य मया सार्धं तदिदं साहसं कृतम्। एवं साहसयुक्तानि न कुर्वन्ति जनेश्वराः॥ संशये स्थाप्य मां चेदं बलं चेमं बिभीषणम्। कष्टं कृतमिदं वीर साहसं साहसप्रिय॥ इदानीं मा कृथा वीर एवंविधमरिंदम। त्वयि किंचित्समापन्ने किं कार्य सीतया मम॥ भरतेन महाबाहो लक्ष्मणेन यवीयसा। शत्रुघ्नेन च शत्रुघ्न स्वशरीरेण वा पुनः॥ त्वयि चानागते पूर्वमिति मे निश्चिता मतिः। जानतश्चापि ते वीर्य महेन्द्रवरुणोपम॥ हत्वाहं रावणं युद्धे सपुत्रबलवाहनम्। अभिषिच्य च लङ्कायां विभीषणमथाप च।७।। भरते राज्यमारोप्य त्यक्ष्ये देहं महाबल। तमेवं वादिनं रामं सुग्रीवः प्रत्यभाषत।।।। तव भार्यापहर्तारं दृष्ट्वा राघव रावणम्। मर्षयामि कथं वीर जानन्विक्रममात्मनः।९।। इत्येवं वादिनं वीरमभिनन्द्य च राघवः। लक्ष्मणं लक्ष्मिसंपन्नमिदं वचनमब्रवीत्॥ परिगृह्योदकं शीतं वनानि फलवन्ति च। बलौघं संविभज्येमं व्यूह्य तिष्ठाम लक्ष्मण॥ लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम्। निबर्हणं प्रवीराणामृक्षवानररक्षसाम्॥ वाता हि परुषं वान्ति कम्पते च वसुंधरा। पर्वताग्राणि वेपन्ते नदन्ति धरणीधराः॥ मेघाः क्रव्यादसंकाशाः परुषाः परुषस्वराः। क्रूराः क्रूरं प्रवर्षन्ते मिश्रं शोणितबिन्दुभिः॥ रक्तचन्दनसंकाशा संध्या परमदारुणा। ज्वलच्च निपतत्येतदादित्यादग्निमण्डलम्॥ आदित्यमभिवाश्यन्ति जनयन्तो महद्भयम्। दीना दीनस्वराः क्रूरा अप्रशस्ता मृगद्विजाः॥ रजन्यामप्रशस्तश्च संतापयति चन्द्रमाः। कृष्णरक्तांशुपर्यन्तो यथा लोकस्य संक्षये॥ हस्वो रूक्षो प्रशस्तश्च परिवेषः सुलोहितः। आदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते॥ दृश्यते न यथावच्च नक्षत्राण्यभिवर्तते। युगान्तमिव लोकस्य पश्य लक्ष्मण शंसति॥ काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्ति च। शिवाश्चाप्यशुभा वाचः प्रवदन्ति महास्वनाः॥ शैलैः शूलैश्च खङ्गैश्च विमुक्तैः कपिराक्षसैः। भविष्यत्यावृता भूमिमा॑सशोणितकर्दमा।२१।। क्षिप्रमद्य दुराधर्षों पुरीं रावणपालिताम्। अभियाम जवेनैव सर्वतो हरिभिर्वृताः॥ इत्येवं तु वदन्वीरो लक्ष्मणं लक्ष्मणाग्रजः। तस्मादवातरच्छीघ्रं पर्वताग्रान्महाबलः॥ अवतीर्य तु धर्मात्मा तस्माच्छैलात्स राघवः। परैः परमदुर्धर्षं ददर्श बलमात्मनः॥ संनह्य तु ससुग्रीवः कपिराजबलं महत्। कालज्ञो राघवः काले संयुगायाभ्यचोदयत्॥ ततः काले महाबाहुर्बलेन महता वृतः। प्रविष्टः पुरतो धन्वी लङ्कामभिमुखः पुरीम्॥ तौ बिभीषणसुग्रीवौ हनूमाञ्जाम्बवानलः। ऋक्षराजस्तथा नीलो लक्ष्मणश्चान्वयुस्तदा॥ ततः पश्चात्सुमहती पृतनक्षवनौकसाम्। प्रच्छाद्य महती भूमिमनुयाति स्म राघवम्।।२८ शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान्। जगृहुः कुअरप्रख्या वानराः परवारणाः।२९।। तौ त्वदीर्पण कालेन भ्रातरौ रामलक्ष्मणौ। रावणस्य पुरीं लङ्कामासेदतुररिंदमौ॥ पताकामालिनी रम्यामुद्यानवनशोभिताम्। चित्रवप्रां सुदुष्प्रापामुच्चैः प्राकारतोरणाम्॥ तां सुरैरपि दुर्धर्षां रामवाक्यप्रचोदिताः। यथा निदेशं संपीड्य न्यविशन्त वनौकसः॥ लङ्कायास्तूत्तरद्वारं शैलशृङ्गमिवोत्रतम्। रामः सहानुजो धन्वी जुगोप च रुरोध च॥ लङ्कामुपनिविष्टस्तु रामो दशरथात्मजः। लक्ष्णानुचरो वीरः पुरीं रावणपालिताम्॥ उत्तरद्वारमासाद्य यत्र तिष्ठति रावणः। नान्यो रामाद्धि तद्वारं समर्थः परिरक्षितुम्॥ रावणाधिष्ठितं भीमं वरुणेनेव सागरम्। सायुधै राक्षसैीमैरभिगुप्तं समन्ततः॥ लघूनां त्रासजननं पातालमिव दानवैः। विन्यस्तानि च योधाना बहूनि विविधानि च॥ ददर्शायुधजालानि तथैव कवचानि च। पूर्वं तु द्वारमासाद्य नीलो हरिचमूपतिः॥ अतिष्ठत्सह मैन्देन द्विविदेन च वीर्यवान् । अङ्गदो दक्षिणद्वारं जग्राह सुमहाबलः॥ ऋषभेण गवाक्षेण गजेन गवयेन च। हनूमान्पश्चिमद्वारं ररक्ष बलवान्कपिः४०।। प्रजङ्घतरसाभ्यां च वीरैरन्यैश्च संगतः। मध्यमे च स्वयं गुल्मे सुग्रीवः समतिष्ठत॥ सह सर्वैर्हरिश्रेष्ठैः सुवर्णपवनोपमैः। वानराणां तु षट्त्रिंशत्कोट्यः प्रख्यातयूथपाः॥ निपीड्योपनिविष्टाश्च सुग्रीवो यत्र वानरः। शासनेन तु रामस्य लक्ष्मणः सविभीषणः॥ द्वारे द्वारे हरीणां तु कोटि कोटीयवेशयत्। पश्चिमेन तु रामस्य सुषेणः सहजाम्बवान्॥ अदूरान्मध्यमे गुल्मे तस्थौ बहुबलानुगः। ते तु वानरशार्दूलाः शार्दूला इव दंष्ट्रिणः।। गृहीत्वा द्रुमशैलाग्रान्हष्टा युद्धाय तस्थिरे॥ सर्वे विकृतलाङ्गलाः सर्वे दंष्ट्रानखायुधाः। सर्वे विकृतचित्राङ्गाः सर्वे च विकृताननाः॥ दशनागबलाः केचित् केचिद्दशगुणोत्तराः। केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः॥ सन्ति चौघबलाः केचित्केचिच्छतगुणोत्तराः। अप्रमेयबलाश्चान्ये तत्रासन्हरियूथपाः॥ अद्भुतश्च विचित्रश्च तेषामासीत्समागमः। तत्र वानरसैन्यानां शलभानामिवोद्गमः।॥ प्रतिपूर्णमिवाकाशं संपूर्णेव च मेदिनी। लङ्कामुपनिविष्टैश्च संपतद्भिश्च वानरैः॥ शतं शतसहस्राणां पृतनार्शवनौकसाम्। लङ्काद्वाराण्युपाजग्मुरन्ये योद्धं समन्ततः॥ आवृतः स गिरिः सर्वैस्तैः समन्तात्प्लवङ्गमैः। अयुतानां सहस्रं च पुरी तामभ्यवर्तत॥ वानरैर्बलवद्भिश्च बभूव दुमपाणिभिः। सर्वतः संवृता लङ्का दुष्प्रवेशापि वायुना॥ राक्षसा विस्मयं जग्मुः सहसाभिनिपीडिताः। वानरैर्मेघसंकाशैः शक्रतुल्यपराक्रमैः॥ महाञ्छब्दोऽभवत्तत्र बलौघस्याभिवर्ततः। सागरस्येव भित्रस्य यथा स्यात्सलिलस्वनः॥ तेन शब्देन महता सप्राकारा सतोरणा। लङ्का प्रचलिता सर्वा सशैलवनकानना ॥ रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी। बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः॥ राघवः संनिवश्यैव स्वसैन्यं रक्षसां वधे। संमन्त्र्य मन्त्रिभिः सार्धं निश्चित्य च पुनः पुनः॥ आनन्तर्यमभिप्रेप्सुः क्रमयोगार्थतत्त्ववित्।। बिभीषणस्यानुमते राजधर्ममनुस्मरन्॥ अङ्गदं वालितनयं समाहूयेदमब्रवीत्। गत्वा सौम्य दशग्रीवं ब्रूहि मद्वचनात्कपे॥ लङ्घयित्वा पुरीं लङ्कां भयं त्यक्त्वा गतव्यथः। भ्रष्टश्रीकं गतैश्वर्यं मुमूर्षानष्टचेतनम्॥ ऋषीणां देवतानां च गन्धर्वाप्सरसां तथा। नागानामथ यक्षाणां राज्ञां च रजनीचर॥ यच्च पापं कृत मोहादवलिप्तेन राक्षस। नूनं ते विगतो दर्पः स्वयंभूवरदानजः॥ यस्य दण्डधरस्तेऽहं दाराहरणकर्शितः। दण्डं धारयमाणस्तु लङ्काद्वारे व्यवस्थितः॥ पदवी देवतानां च महर्षीणां च राक्षस। राजर्षीणां च सर्वेषां गमिष्यसि युधि स्थिरः॥ बलेन येन वै सीतां मायया राक्षसाधम। मामतिक्रमयित्वा त्वं हृतवांस्तनिदर्शय॥ अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः। न चेच्छरणमभ्येषि तामादाय तु मैथिलीम्॥ धर्मात्मा राक्षसश्रेष्ठः संप्राप्तोऽयं बिभीषणः। लकैश्वर्यमिदं श्रीमान्ध्रुवं प्राप्नोत्यकण्टकम्॥ नहि राज्यमधर्मेण भोक्तुं क्षणमपि त्वया। शक्यं मूर्खसहायेन पापेनाविदितात्मना ॥ युध्यस्व मा धृतिं कृत्वा शौर्यमालम्ब्य राक्षस। मच्छरैस्त्वं रणे शान्तस्ततः शान्तो भविष्यसि।।७० यद्याविशसि लोकांस्त्रीन्पक्षीभूतो निशाचर। मम चक्षुःपथं प्राप्य न जीवन्प्रतियास्यसि।७१।। ब्रवीमि त्वां हितं वाक्यं क्रियतामौर्ध्वदेहिकम्। सुदृष्टा क्रियतां लङ्का जीवितं ते मयि स्थितम्॥ इत्युक्तः स तु तारेयो रामेणाक्लिष्टकर्मणा। जगामाकाशमाविश्य मूर्तिमानिव हव्यवाट्॥ सोऽतिपत्य मुहूर्तेन श्रीमान्रावणमन्दिरम्। ददर्शासीनमव्यग्रं रावणं सचिवैः सह॥ ततस्तस्याविदूरेण निपत्य हरिपुंगवः। दीप्ताग्निसदृशस्तस्थावङ्गदः कनकाङ्गदः।७५ ।। तद्रामवचनं सर्वमन्यूनाधिकमुत्तमम्। सामात्यं श्रावयामास निवेद्यात्मानमात्मना ॥ दूतोऽहं कोशलेन्द्रस्य रामस्याक्लिष्टकर्मणः। बालिपुत्रोऽङ्गदो नाम यदि ते श्रोत्रमागतः।७७।। आह त्वां राघवो रामः कौसल्यानन्दवर्धनः। निष्पत्य प्रतियुध्यस्व नृशंस पुरुषो भव॥ हन्तास्मि त्वां सहामात्यं सपुत्रज्ञातिबान्धवम्। निरुद्विग्नास्त्रयो लोका भविष्यन्ति हते त्वयि। ७९ ।। देवदानवयक्षापां गन्धर्वोरंगरक्षसाम्। शत्रुमद्योद्धरिष्यामि त्वामृषीणां च कण्टकम्॥ विभीषणस्य चैश्वर्यं भविष्यति हते त्वयि। न चेत्सत्कृत्य वैदेही प्रणिपत्य प्रदास्यसि॥ इत्येवं परुषं वाक्यं ब्रुवाणे हरिपुंगवे। अमर्षवशमापन्नो निशाचरगणेश्वरः।॥ ततः स रोषमापन्नः शशास सचिवांस्तदा। गृह्यतामिति दुर्मेधा वध्यतामिति चासकृत्॥ रावणस्य वचः श्रुत्वा दीप्ताग्निमिव तेजसा। जगृहुस्तं ततो घोराश्चत्वारो रजनीचराः।॥ ग्राहयामास तारेयः स्वयमात्मानमात्मवान्। बलं दर्शयितुं वीरो यातुधानगणे तदा॥ स तान्बाहुद्वयासक्तानादाय पतगानिव। प्रासादं शैलसंकाशमुत्पपाताङ्गदस्तदा॥ तस्योत्पतनवेगेन निधूतास्तत्र राक्षसाः। भूमौ निपतिताः सर्वे राक्षसेन्द्रस्य पश्यतः॥ ततः प्रासादशिखरं शैलशृङ्गमिवोन्नतम्। चक्राम राक्षसेन्द्रस्य वालिपुत्रः प्रतापवान्॥ पफाल च तदाक्रान्तं दशग्रीवस्य पश्यतः। पुरा हिमवतः शृङ्गं वज्रेणेव विदारितम्॥ भङ्क्त्वा प्रासादशिखरं नाम विश्राव्य चात्मनः। विनद्य सुमहनादमुत्पपात विहायसा॥ व्यथयन्राक्षसान्सर्वान्हर्षयंश्चापि वानरान्। स वानराणां मध्ये तु रामपार्श्वमुपागतः॥ रावणस्तु परं चक्रे क्रोधं प्रासादधर्षणात्। विनाशं चात्मनः पश्यन्निःश्वासपरमोऽभवत्॥ रामस्तु बहुभिहृष्टैर्विनदद्भिः प्लवंगमैः। वृतो रिपुवधाकाङ्क्षी युद्धायैवाभिवर्तत॥ सुषेणस्तु महावीर्यो गिरिकूटोपमो हरिः। बहुभिः संवृतस्तत्र वानरैः कामरूपिभिः॥ स तु द्वाराणि संयम्य सुग्रीववचनात्कपिः। पर्यक्रामत दुर्धर्षो नक्षत्राणीव चन्द्रमाः॥ तेषामक्षौहिणिशतं समवेक्ष्य वनौकसाम्। लङ्कामुपनिविष्टानां सागरं चाभिवर्तताम्॥ राक्षसा विस्मयं जग्मुस्खासं जग्मुस्तथापरे। अपरे समरे हर्षाद्धर्षमेवोपपेदिरे।९७।। कृत्स्नं हि कपिभिर्व्याप्तं प्राकारपरिखान्तरम्। ददृशू राक्षसा दीनाः प्राकारं वानरीकृतम्।। हाहाकारमकुर्वन्त राक्षसा भयमागताः॥ तस्मिन् महाभीषणके प्रवृत्ते कोलाहले राक्षसराजयोधाः। प्रगृह्य रक्षांसि महायुधानि युगान्तवाता इव संविचेरुः॥ ततस्ते राक्षसास्तत्र गत्वा रावणमन्दिरम्। न्यवेदयन्पुरीं रुद्धां रामेण सह वानरैः॥ रुद्धां तु नगरी श्रुत्वा जातक्रोधो निशाचरः। विधानं द्विगुणं श्रुत्वा प्रासादं चाप्यरोहत॥ स ददर्श वृतां लङ्कां सशैलवनकाननाम्। असंख्येयैर्हरिंगणैः सर्वतो युद्धकाटिभिः॥ स दृष्ट्वा वानरैः सर्वैर्वसुधां कपिलीकृताम्। कथं क्षपयितव्याः स्युरिति चिन्तापरोऽभवत्॥ स चिन्तयित्वा सुचिरं धैर्यमालम्ब्य रावणः। राघवं हरियूथांश्च ददर्शायतलोचनः॥ राघवः सह सैन्येन मुदितो नाम पुप्लुवे। लङ्कां ददर्श गुप्तां वै सर्वतो राक्षसैर्वृताम्॥ दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम्। जगाम मनसा सीतां दूयमानेन चेतसा॥ अत्र सा मृगशावाक्षी मत्कृते जनकात्मजा। पीड्यते शोकसंतप्ता कृशा स्थण्डिलशायिनी॥ निपीड्यमानां धर्मात्मा वैदेहीमनुचिन्तयन्। क्षिप्रमाज्ञापयद्रामो वानरान्द्विषतां वधे॥ एवमुक्ते तु वचसि रामेणाक्लिष्टकर्मणा। संघर्षमाणाः प्लवगाः सिंहनादैरपूरयन्॥ शिखरैर्विकिरामैतां लङ्कां मुष्टिभिरेव वा। इति स्म दधिरे सर्वे मनांसि हरियूथपाः॥ उद्यम्य गिरिशृङ्गाणि महान्ति शिखराणि च। तरूंश्चोत्पाट्य विविधांस्तिष्ठन्ति हरियूथपाः॥ प्रेक्षतो राक्षसेन्द्रस्य तान्यनीकानि भागशः। राघवप्रियकामार्थ लङ्कामारुरुहुस्तदा॥ ते ताम्रवक्त्रा हेमाभा रामार्थे त्यक्तजीविताः। लङ्कामेवाभ्यवर्तन्त सालभूधरयोधिनः॥ ते दुमैः पर्वतायैश्च मुष्टिभिश्च प्लवंगमाः। प्राकाराग्राण्यसंख्यानि ममन्थुस्तोरणानि च ॥ परिखान्पूरयन्तश्च प्रसनसलिलाशयान्। पांसुभिः पर्वतायैश्च तृणैः काष्ठैश्च वानराः॥ ततः सहस्रयूथाश्च कोटियूथाश्च यूथपाः। कोटियूथशताश्चान्ये लङ्कामारुरुहुस्तदा॥ काञ्चनानि प्रमर्दन्तस्तोरणानि प्लवंगमाः। कैलासशिखराग्राणि गोपुराणि प्रमथ्य च॥ आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः। लङ्कां तामभिधावन्ति महावारणसंनिभाः॥ जयत्युरुबलो रामो लक्ष्मणश्च महाबलः। राजा जयति सुग्रीवो राघवेणाभिपालितः॥ इत्येवं घोषयन्तश्च गर्जन्तश्च प्लवंगमाः। अभ्यधावन्त लङ्कायाः प्राकारं कामरूपिणः॥ वीरबाहुः सुबाहुश्च नलश्च पनसस्तथा। निपीड्योपनिविष्टास्ते प्राकारं हरियूथपाः।। एतस्मिन्नन्तरे चक्रुः स्कन्धावारनिवेशनम्॥ पूर्वद्वारं तु कुमुदः कोटिभिर्दशभिर्वृतः। आवृत्य बलवांस्तस्थौ हरिभिर्जितकाशिभिः॥ सहायार्थे तु तस्यैव निविष्टः प्रसभो हरिः। पनसश्च महाबाहुर्वानरैरभिसंवृतः॥ दक्षिणद्वारमासाद्य वीरः शतबलिः कपिः। आवृत्य बलवांस्तस्थौ विंशत्या कोटिभिर्वृतः॥ सुषेण: पश्चिमद्वारं गत्वा तारापिता बली। आवृत्य बलवांस्तस्थौ कटिकोटिभिरावृतः॥ उत्तरद्वारमागम्य रामः सौमित्रिणा सह। आवृत्य बलवांस्तस्थौ सुग्रीवश्च हरीश्वरः॥ गोलाङ्गुलो महाकायो गवाक्षो भीमदर्शनः। वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः॥ ऋक्षाणां भीमकोपानां धूम्रः शत्रुनिबर्हणः। वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः॥ संनद्धस्तु महावीर्यो गदापाणिविभीषणः। वृतो यत्तैस्तु सचिवैस्तस्थौ यत्र महाबलः॥ गजो गवाक्षो गवयः शरभो गन्धमादनः। समन्तात्परिधावन्तो ररक्षुहरिवाहिनीम्॥ ततः कोपपरीतात्मा रावणो राक्षसेश्वरः। निर्याणं सर्वसैन्यानां द्रुतमाज्ञापयत्तदा॥ एतच्छ्रुत्वा तदा वाक्यं रावणस्य मुखेरितम्। सहसा भीमनिर्घोषमुद्धष्टं रजनीचरैः॥ ततः प्रबोधिता भेर्यञ्चन्द्रपाण्डुरपुष्कराः। हेमकोणैरभिहता राक्षसानां समन्ततः॥ विनेदुश्च महाघोषाः शङ्खाः शतसहस्रशः। राक्षसानां सुघोराणां मुखमारुतपूरिताः॥ ते बभुः शुकनीलाङ्गाः सशला रजनीचरः। विद्युन्मण्डलसंनद्धाः सबलाक इवाम्बुदाः॥ निष्पतन्ति ततः सैन्या हृष्टा रावणचोदिताः। समये पूर्यमाणस्य वेगा इव महोदधेः॥ ततो वानरसैन्येन मुक्तो नादः समन्ततः। मलयः पूरितो येन ससानुप्रस्थकंदरः॥ शङ्खदुन्दुभिनिर्घोषः सिंहनादस्तरस्विनाम्। पृथिवीं चान्तरिक्षं स सागरं चाभ्यनादयत्॥ गजानां बृंहितैः सार्धं हयानां हेषितैरपि। रथानां नेमिनिर्घोषै रक्षसां पदनिःस्वनैः॥ एतस्मिन्नन्तरे घोरः संग्रामः समपद्यत। रक्षसां वानराणां च यथा देवासुरे पुरा॥ ते गदाभिः प्रदीप्ताभिः शक्तिशूलपरश्वधैः। निजघ्नुर्वानरान्सर्वान्कथयन्तः स्वविक्रमान्॥ तथा वृक्षैर्महाकायाः पर्वताग्रेश्च वानराः। निजघ्नुस्तानि रक्षांसि नखैर्दन्तैश्च वेगिनः॥ राजा जयति सुग्रीव इति शब्दो महानभूत्। राजञ्जयजयेत्युक्त्वा स्वस्वनामकथां ततः॥ राक्षसास्त्वपरे भीमाः प्राकारस्था महीं गतान्। वानरान्भिन्दिपालैश्च शूलैश्चैव व्यदारयन् ॥ वानराश्चापि संक्रुद्धाः प्राकारस्थान्महीं गताः। राक्षसान्पातयामासुः खमाप्लुत्य स्वबाहुभिः॥ स संप्रहारस्तुमुलो मांसशोणितकर्दमः। रक्षसां वानराणां च संबभूवाद्भुतोपमः।॥ युध्यतामेव तेषां तु तदा वानररक्षसाम्। रविरस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी॥ अन्योन्यं बद्धवैराणां घोराणां जयमिच्छताम्। संप्रवृत्तं निशायुद्धं तदा वानररक्षसाम्॥ राक्षसोऽसीति हरयो वानरोऽसीति राक्षसाः। अन्योन्यं समरे जघ्नुस्तस्मिंस्तमसि दारुणे॥ हत दारय चैहीति कथं विद्रवसीति च। एवं सुतुमुलः शब्दस्तस्मिन्सैन्ये तु शुश्रुवे॥ कालाः काञ्चनसंनाहास्तरिमम्मरसि राक्षसाः। संप्रदृश्यन्त शैलेन्द्रा दीप्तौषधिवना इव ॥ तस्मिंस्तमसि दुष्पारे राक्षसाः क्रोधमूच्छिताः। परिपेतुर्महावेगा भक्षयन्ता प्लवंगमान्॥ ते हयान्काञ्चनापीडान्ध्वजश्चिशीविषोपमान्। आप्लुत्य दशनैस्तीक्ष्णैर्भीमकोपा व्यदारयन्॥ वानरा बलिनो युद्धेऽक्षोभयनराक्षसी चमूम्। कुञ्जरान्कुञ्जरारोहान्पताकाध्वजिनो रथात्॥ चकर्षुश्च ददंशुश्च दशनैः क्रोधमूर्च्छिताः। लक्ष्मणश्चापि रामश्च शरैराशीविषोपमैः।।।। दृश्यादृश्यानि रक्षांसि प्रवराणि निजघ्नतुः। तुरंगखुरविध्वस्तं रथनेमिसमुत्थितम्॥ रुरोध कर्णनेत्राणि युध्यतां धरणीरजः। वर्तमाने तथा घोरे सङ्ग्रामे लोमहर्षणे।। रुधिरौघा महाघोरा नद्यस्तत्र विसुनुवुः॥ ततो भेरीमृदङ्गानां पणवानां च निःस्वनः। शङ्खनेमिस्वनोन्मिश्रः संबभूवाद्भुतोपमः॥ हयानां स्तनमानानां राक्षसानां च नि:स्वनः। शस्तानां वानराणां च संबभूवात्र दारुणः॥ हतैर्वानरमुख्यैश्च शक्तिशूलपरश्वधैः। निहतैः पर्वताकारै राक्षसैः कारूपिभिः॥ शस्त्रपुष्पोपहारा च तवासीधुद्धमेदिनी। दुर्जेया दुर्निवेशा च शोणितास्रावकर्दमा॥ सा बभूव निशा घोरा हरिराक्षसहारिणी। कालरात्रीव भूतानां सर्वेषां दुरतिक्रमा॥ ततस्ते राक्षसास्तत्र तस्मिंस्तमसि दारुणे। राममेवाभ्यवर्तन्त संहृष्टाः शरवृष्टिभिः॥ तेषामापततां शब्दः कुद्धानामपि गर्जताम्। उद्वर्त इव सत्त्वानां समुद्राणामभूत्स्वनः॥ तेषां रामः शरैः षड्भिः षड् जघान निशाचरान्। निमेषान्तरमात्रेण शरैरग्निशिखोपमैः॥ यज्ञशत्रुश्च दुर्धर्षो महापार्श्वमहोदरौ। वज्रदंष्ट्रो महाकायस्तौ चोभौ शुकसारणौ॥ ते तु रामेण बाणौधैः सर्वमर्मसु ताडिताः। युद्धादपसृतास्तत्र सावशेषायुषोऽभवन् ॥ निमेषान्तरमात्रेण घोरैरग्निशिखोपमैः। दिशश्चकार विमलाः प्रदिशश्च महारथः॥ ये त्वन्ये राक्षसा वीरा रामस्याभिमुखे स्थिताः। तेऽपि नष्टाः समासाद्य पतङ्गा इव पावकम्॥ सुवर्णपुङ्खैर्विशिखैः संपतद्भिः समन्ततः। बभूव रजनी चित्रा खद्योतैरिव शारदी॥ राक्षसानां च निनदैर्भेरीणां चैव निःस्वनैः। सा बभूव निशा घोरा भूयो घोरतराभवत्॥ तेन शब्देन महता प्रवृद्धेन समन्ततः। त्रिकूटः कन्दरः कीर्णः प्रव्याहरदिवाचलः॥ गोलाङ्गूला महाकायास्तमसा तुल्यवर्चसः। संपरिष्वज्य बाहुभ्यां भक्षयन्रजनीचरान्॥ अङ्गदस्तु रणे शत्रूत्रिहन्तुं समुपस्थितः। रावणिं निजघानाशु सारथिं च हयानपि। वर्तमाने तदा घोरे संग्रामे भृशदारुणे।। इन्द्रजित्तु रथं त्यक्त्वा हताश्वो हतसारथिः। अङ्गदेन महायस्तस्तत्रैवान्तरधीयत॥ तत्कर्म वालिपुत्रस्य सर्वे देवाः सहर्षिभिः। तुष्टवुः पूजनार्हस्य तौ चोभौ रामलक्ष्मणौ॥ प्रभावं सर्वभूतानि विदुरिन्द्रजितो युधि। ततस्तेन महात्मानं दृष्ट्वा तुष्टाः प्रधर्षितम्॥ ततः प्रहृष्टाः कपयः ससुग्रीवविभीषणाः। साधुसाध्विति नेदुश्च दृष्ट्वा शत्रु पराजितम्॥ इन्द्रजित्तु तदानेन निर्जितो भीमकर्मणा। संयुगे वालिपुत्रेण क्रोधं चक्रे सुदारुणम्॥ सोऽन्तर्धानगतः पापो रावणी रणकर्शितः। ब्रह्मदत्तवरो वीरो रावणिः क्रोधमूर्च्छितः॥ अदृश्यो निशितान्बाणान्मुमोचाशनिवर्चसः। रामं च लक्ष्मणं चैव घोरैनागमयैः शरैः॥ बिभेद समरे क्रुद्धः सर्वगात्रेषु राघवौ। मायया संवृतस्तत्र मोहयराघवौ युधि॥ अदृश्यः सर्वभूतानां कूटयोधी निशाचरः। बबन्ध शरबन्धेन भ्रातरौ रामलक्ष्मणौ॥ तौ तेन पुरुषव्याघ्रौ क्रुद्धनाशीविषैः शरैः। सहसाभिहतौ वीरौ तदा प्रेक्षन्त वानराः ॥ प्रकाशरूपस्तु यदा न शक्तस्तौ बाधितुं राक्षराजपुत्रः। मायां प्रयोक्तुं समुपाजगाम बबन्ध तौ राजसुतौ दुरात्मा॥ स तस्य गतिमन्विच्छन्राजपुत्रः प्रतापवान्। दिदेशातिबलो रामो दश वानरयूथपान्॥ द्वौ सुषेणस्य दायादौ नीलं च प्लवगाधिपम्। अङ्गदं वालिपुत्रं च शरभं च तरस्विनम् ॥ द्विविदं च हनूमन्तं सानुप्रस्थं महाबलम्। ऋषभं चर्षभस्कन्धमादिदेश परन्तपः॥ ते संप्रहृष्टा हरयो भीमानुद्यम्य पादपान्। आकाशं विविशुः सर्वे मार्गमाणा दिशो दश॥ तेषां वेगवतां वेगमिषुभिर्वेगवत्तरैः। अस्त्रवित्परमात्रेण वारयामास रावणिः॥ तं भीमवेगा हरयो नाराचैः क्षतविक्षताः। अन्धकारे न ददृशुर्मेधैः सूर्यमिवावृतम्॥ रामलक्ष्मणयोरेव सर्वदेहभिदः शरान्। भृशमावेशयामास रावणिः समितिंजयः॥ निरन्तरशरीरौ तु तावुभौ रामलक्ष्मणौ। क्रुद्धनेन्द्रजिता वीरौ पन्नगैः शरतां गतः॥ तयोः क्षतजमार्गेण सुस्राव रुधिरं बहु। तावुभौ च प्रकाशेते पुष्यिताविव किंशुकौ॥ ततः पर्यन्तरक्ताक्षो भिन्नाञ्जनचयोपमः। रावणिर्धातरौ वाक्यमन्तर्धानगतोऽब्रवीत्॥ युध्यमानमनालक्ष्यं शक्रोऽपि विदशेश्वरः। द्रष्टुमासादितुं वापि न शक्तः किं पुनर्युवाम्॥ प्रापिताविषुजालेन राघवौ कङ्कपत्रिणा। एष रोषपरीतात्मा नयामि यमसादनम्॥ एवमुक्त्वा तु धर्मज्ञौ भ्रातरौ रामलक्ष्मणौ। निर्बिभेद शितैर्बाणैः प्रजहर्ष ननाद च॥ भिन्नाञ्जनचयश्यामो विस्फार्य विपुलं धनुः। भूय एव शरान्धोरान्विससर्ज महामृधे॥ ततो मर्मसु मर्मज्ञो मज्जयनिशिताशरान्। रामलक्ष्मणयोर्वीरो ननाद च मुहुर्मुहुः॥ बद्धौ तु शरबन्धेन तावुभौ रणमूर्धनि। निमेषान्तरमात्रेण न शेकतुरवेक्षितुम्॥ ततो विभिन्नसर्वाङ्गौ शरशल्याचितौ कृतौ। ध्वजाविव महेन्द्रस्य रज्जुमुक्तौ प्रकम्पितौ ॥ तौ संप्रबलितौ वीरौ मर्मभेदेन कर्शितौ। निपेततुर्महेष्वासौ जगत्यां जगतीपती॥ तौ वीरशयने वीरौ शयानौ रुधिरोक्षितौ। शरवेष्टितसर्वाङ्गावातौं परमपीडितौ॥ नह्यविद्धं तयोर्गाने बभूवाङ्गुलमन्तरम्। नानिविण्णं न चाध्वस्तमाकराग्रादजिह्मगैः॥ तौ तु क्रूरेण निहतौ रक्षसा कामरूपिणा। असृक्सुनुवतुस्तीवं जलं प्रस्रवणाविव ॥ पपात प्रथमं रामो विद्धो मर्मसु मार्गणैः। क्रोधादिन्द्रजिता येन पुरा शक्रो विनिर्जितः॥ रुक्मपुङ्खैः प्रसन्नात्रै रजोगतिभिराशुगैः। नाराचैरर्धनाराचैर्भल्लैरञ्जलिकैरपि।। विव्याध वत्सदन्तैश्च सिंहदंष्ट्रैः क्षुरैस्तथा॥ स वीरशयने शिश्येऽविज्यमाविध्य कार्मुकम्। भिन्नमुष्टिपरीणाहं त्रिनतं रुक्मभूषितम्॥ बाणपातान्तरे रामं पातितं पुरुषर्षभम्। स तत्र लक्ष्मणो दृष्ट्वा निराशो जीवितेऽभवत्॥ रामं कमलपत्राक्षं शरण्यं रणतोषिणम्। शुशोच भ्रातरं दृष्ट्वा पतितं धरणीतले॥ हरयश्चापि तं दृष्ट्वा संतापं परमं गताः। शोकाश्चिकुशुधैरमश्रुपूरितलोचनाः॥ बद्धौ त तौ वीरशये शयानौ ते वानराः संपरिवार्य तस्थुः। समागता वायुसुतप्रमुख्या विषादमार्ताः परमं च जग्मुः॥ ततो द्यां पृथिवीं चैव वीक्षमाणा वनौकसः। ददृशुः संततौ बाणैर्धातरौ रामलक्ष्मणौ॥ वृष्ट्वेवोपरते देवे कृतकर्मणि राक्षसे। आजगामाथ तं देशं ससुग्रीवो विभीषणः॥ नीलश्च द्विविदो मैन्दः सुषेणः कुमुदोऽङ्गदः। तूर्णं हनुमता सार्धमन्वशोचन्त राघवौ॥ अचेष्टौ मन्दनिःश्वासौ शोणितेन परिप्लुतौ। शरजालाचितौ स्तब्धौ शयानौ शरतल्पगौ॥ निःश्वसन्तौ यथा सौ निश्चेष्टौ दीनविक्रमौ। रुधिरस्रावदिग्धाङ्गौ तपनीयाविव ध्वजौ॥ तौ वीरशयने वीरौ शयानौ मन्दचेष्टितौ। यूथपैः स्वैः परिवृतौ वाष्पव्याकुललोचनैः॥ राघवौ पतितौ दृष्ट्वा शरजालसमन्वितौ। बभूवुर्व्यथिताः सर्वे वानराः सविभीषणाः।७॥ अन्तरिक्षं निरीक्षन्तो दिशः सर्वाश्च वानराः। न चैनं मायया छनं ददृशू रावणिं रणे॥ तं तु मायाप्रतिच्छन्नं माययैव बिभीषणः। वीक्षमाणो ददर्शाग्रे भ्रातुः पुत्रमवस्थितम्।। तमप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे॥ ददर्शान्तर्हितं वीरं वरदानाद्विभीषणः। तेजसा यशसा चैव विक्रमेण च संयुतः॥ इन्द्रजित्त्वात्मनः कर्म तौ शयानौ समीक्ष्य च। उवाच परमप्रीतो हर्षयन्सर्वराक्षसान्॥ दूषणस्य च हन्तारौ खरस्य च महाबलौ। सादितौ मामकैर्बाणैतिरौ रामलक्ष्मणौ॥ नेमौ मोक्षयितुं शक्यावेतस्मादिषुबन्धनात्। सर्वैरपि समागम्य सर्षिसङ्घः सुरासुरैः॥ यत्कृते चिन्तयानस्य शोकार्तस्य पितुर्मम। अस्पृष्ट्वा शयनं गात्रैस्त्रियामा याति शर्वरी॥ कृत्स्नेयं यत्कृते लङ्का नदी वर्षास्विवाकुला। सोऽयं मूलहरोऽ नर्थः सर्वेषां शमितो मया॥ रामस्य लक्ष्मणस्यैव सर्वेषां च वनौकसाम्। विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः॥ एवमुक्त्वा तु तान्सरािक्षसान्परिपश्यतः। यूथपानपि तान्सांस्ताडयत्स च रावणिः॥ नीलं नवभिराहत्य मैन्दं सद्विविदं तथा। त्रिभिस्त्रिभिरमित्रघ्नस्तताप परमेषुभिः॥ जाम्बवन्तं महेष्वासो विद्ध्वा बाणेन वक्षसि । हनूमतो वेगवतो विससर्ज शरान्दश॥ गवाक्षं शरभं चैव तावप्यमितविक्रमौ। द्वाभ्यां द्वाभ्यां महावेगो विव्याध युधि रावणिः।।२० गोलाङ्गुलेश्वरं चैव वालिपुत्रमथाङ्गदम्। विव्याध बहुभिर्बाणैस्त्वरमाणोऽथ रावणिः॥ तान्वानरवरान्भित्त्वा शरैरग्निशिखोपमैः। ननाद बलवांस्तत्र महासत्त्वः स रावणिः॥ तानर्दयित्वा बाणौषैत्रासयित्वा च वानरान्। प्रजहास महाबाहुर्वचनं चेदमब्रवीत्॥ शरबन्धेन घोरेण मया बद्धौ चमूमुखे। सहितौ भ्रातरावेतौ निशामयत राक्षसाः॥ एवमुक्तास्तु ते सर्वे राक्षसाः कूटयोधिनः। परं विस्मयमापन्नाः कर्मणा तेन हर्षिताः॥ विनेदुश्च महानादान्सर्वे ते जलदोपमाः। हतो राम इति ज्ञात्वा रावणिं समपूजयन्॥ निष्पन्दौ तु तदा दृष्ट्वा भ्रातरौ रामलक्ष्मणौ। वसुधायां निरुच्छ्वासौ हतावित्यन्वमन्यत ॥ हर्षेण तु समाविष्ट इन्द्रजित्समितिंजयः। प्रविवेश पुरीं लङ्कां हर्षयन्सर्वनैर्ऋतान् ॥ रामलक्ष्मणयोर्दृष्ट्वा शरीरे सायकैश्चिते। सर्वाणि चाङ्गोपाङ्गानि सुग्रीवं भयमाविशत्॥ तमुवाच परित्रस्तं वानरेन्द्र विभीषणः। सवाष्पवदनं दीनं क्रोधव्याकुललोचनम्। अलं त्रासेन सुग्रीव वाष्पवेगो निगृह्यताम्॥ एवं प्रायाणि युद्धानि विजयो नास्ति नैष्ठिकः। सभाग्यशेषतास्माकं यदि वीर भविष्यति॥ मोहमेतौ प्रहास्येते महात्मानौ महाबलौ। पर्यवस्थापयात्मानमनाथं मां च वानर।। सत्यधर्माभिरक्तानां नास्ति मृत्युकृतं भयम्॥ एवमुक्त्वा ततस्तस्य जलक्लिन्नेन पाणिना। सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभीषणः॥ ततः सलिलमादाय विद्यया परिजप्य च। सुग्रीवनेत्रे धर्मात्मा प्रममार्ज विभीषणः॥ विमृज्य वदनं तस्य कपिराजस्य धीमतः। अब्रवीत्कालसंप्राप्तमसंभ्रान्तमिदं वचः॥ न काल: कपिराजेन्द्र वैकलव्यमवलम्बितुम्। अतिस्नेहोऽपि कालेऽसिमान्मरणायोपकल्पते॥ तस्मादुत्सृज्य वैक्लव्यं सर्वकार्यविनाशनम्। हितं रामपुरोगाणां सैन्यानामनुचिन्तय॥ अथ वा रक्ष्यतां रामो यावत्संज्ञाविपर्ययः। लब्धसंज्ञौ हि काकुत्स्थौ भयं नौ व्यपनेष्यतः॥ नैतत्किंचन रामस्य न च रामो मुमूर्षति। नोन हास्यते लक्ष्मीर्दुर्लभा या गतायुषाम्॥ तस्मादाश्वासयात्मानं बलं चाश्वासय स्वकम्। यावत्सैन्यानि सर्वाणि पुनः संस्थापयाम्यहम्॥ एते हि फुल्लनयनास्त्रासादागतसाध्वसाः। कर्णे कर्णे प्रकथिता हरयो हरिसत्तम॥ मां तु दृष्ट्वा प्रधावन्तमनीकं संप्रहर्षितम्। त्यजन्तु हरयस्त्रासं भुक्तपूर्वामिव स्रजम्॥ समाश्वास्य तु सुग्रीवं राक्षसेन्द्रो विभीषणः। विद्रुतं वानरानीकं तत्समाश्वासयत्पुनः॥ इन्द्रजित्तु महामायः सर्वसैन्यसमावृतः। विवेश नगरी लङ्कां पितरं चाभ्युपागमत्॥ तत्र रावणमासाद्य अभिवाद्य कृताञ्जलिः। आचचक्षे प्रियं पित्रे निहतौ रामलक्ष्मणौ॥ उत्पपात ततो हृष्टः पुत्रं च परिषस्वजे। रावणो रक्षसां मध्ये श्रुत्वा शत्रूनिपातितौ ॥ उपाघ्राय च तं मूर्ध्नि पप्रच्छ प्रीतमानसः। पृच्छते च यथावृत्तं पित्रे तस्मै न्यवेदयत्। यथा तौ शरबन्धेन निश्चेष्टौ निष्प्रभौ कृतौ॥ स हर्षवेगानुगतान्तरात्मा श्रुत्वा गिरं तस्य महारथस्य जहौ ज्वरं दाशरथेः समुत्थं प्रहृष्टवाचाभिननन्द पुत्रम्।। स हर्षवेगानुगतान्तरात्मा श्रुत्वा गिरं तस्य महारथस्य जहौ ज्वरं दाशरथेः समुत्थं प्रहृष्टवाचाभिननन्द पुत्रम्।। तस्मिन्प्रविष्टे लगायां कृतार्थे रावणात्मजे। राघवं परिवार्याथ ररक्षुर्वानरर्षभाः॥ हनुमानङ्गदो नीलः सुषेणः कुमुदो नलः। गजो गवाक्षः पनसः सानुप्रस्थो महाहरिः॥ जाम्बवानृषभः सुन्दो रम्भः शतबलिः पृथुः। व्यूढानीकाश्च यत्ताश्च दुमानादाय सर्वतः॥ वीक्षमाणा दिशः सर्वास्तिर्यगूर्ध्वं च वानराः। तृणेष्वपि च चेष्टत्सु राक्षसा इति मेनिरे॥ रावणश्चापि संहृष्टो विसृज्येन्द्रजितं सुतम्। आजुहाव ततः सीतारक्षणी राक्षसोस्तदा॥ राक्षस्यस्त्रिजटा चापि शासनात्तमुपस्थिताः। ता उवाच ततो हृष्टो राक्षसी राक्षसाधिपः॥ हताविन्द्रजिताख्यात वैदेह्या रामलक्ष्मणौ। पुष्पकं तत्समारोप्य दर्शयध्वं रणे हतौ।७।। यदाश्रयादवष्टव्धा नेयं मामुपतिष्ठते। सोऽस्या भर्ता सह भ्रात्रा निहतो रणमूर्धनि ॥ निर्विशङ्का निरुद्विग्ना निरपेक्षा च मैथिली। मामुपस्थास्यते सीता सर्वाभरणभूषिता ॥ अद्य कालवशं प्राप्तं रणे रामं सलक्ष्मणम्। अवेक्ष्य विनिवृत्ता सा चान्यां गतिमपश्यती।। अनपेक्षा विशालाक्षी मामुपस्थास्यते स्वयम्॥ तस्य तद्वचनं श्रुत्वा रावणस्य दुरात्मनः। राक्षस्यस्तास्तथेत्युक्त्वा जग्मुर्वै यत्र पुष्पकम्॥ ततः पुष्पकमादाय राक्षस्यो रावणाज्ञया। अशोकवनिकास्थां तां मैथिली समुपानयन्॥ तामादाय तु राक्षस्यो भर्तृशोकपराजिताम्। सीतामारोपयामासुर्विमानं पुष्पकं तदा॥ ततः पुष्पकमारोप्य सीतां त्रिजटया सह। रावणश्चारयामास पताकाध्वजमालिनीम्॥ प्रावोषयत हृष्टश्च लङ्कायां राक्षसेश्वरः। राघवो लक्ष्मणश्चैव हताविन्द्रजिता रणे॥ विमानेनापि गत्वा तु सीता त्रिजटया सह। ददर्श वानराणां तु सर्वं सैन्यं निपातितम्॥ प्रहृष्टमनसश्चापि ददर्श पिशिताशनान्। वानरांश्चातिदुःखार्तान्रामलक्ष्मणपार्श्वतः॥ ततः सीता ददर्शोभौ शयानौ शरतल्पगौ। लक्ष्मणं चैव रामं च विसंज्ञौ शरपीडितौ॥ विध्वस्तकवचौ वीरौ विप्रविद्धशरासनौ। सायकैश्छिन्नसर्वाङ्गौ शरस्तम्बमयौ क्षितौ ॥ तौ दृष्ट्वा भ्रातरौ तत्र प्रवीरौ पुरुषर्षभौ। शयानौ पुण्डरीकाक्षौ कुमारविव पावकी॥ शरतल्पगतौ वीरौ तथाभूतौ नरर्षभौ। दुःखार्ता करुणं सीता सुभृशं विललाप ह॥ भर्तारमनवद्याङ्गी लक्ष्मणं चासितेक्षणा। प्रेक्ष्य पांसुषु चेष्टन्तौ रुरोद जनकात्मजा॥ सबाष्पशोकाभिहता समीक्ष्य तौ भ्रातरौ देवसुतप्रभावौ। वितर्कयन्ती निधनं तयोः सा दुःखान्विता वाक्यमिदं जगाद॥ भर्तारं निहतं दृष्ट्वा लक्ष्मणं च महाबलम्। विललाप भृशं सीता करुणं शोककर्शिता॥ ऊचुर्लाक्षणिका ये मां पुत्रिण्यविधवेति च। तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः॥ यज्वनो महिषीं मामूचुः पत्नी च सत्रिणः। तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः॥ वीरपार्थिवपत्नीनां ये विदुर्भर्तृपूजिताम्। तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः॥ ऊचुः संश्रवणे ये मां द्विजाः कान्तिकाः शुभाम्। । तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः॥ इमानि खलु पद्मानि पादयोर्वै कुलस्त्रियः। आधिराज्येऽभिषिच्यन्ते नरेन्द्रैः पतिभिः सह॥ वैधव्यं यान्ति यैर्नार्योऽलक्षणैर्भाग्यदुर्लभाः। नात्मनस्तानि पश्यामि पश्यन्ती हतलक्षणा।७।। सत्यनामानि पद्मानि स्त्रीणामुक्तानि लक्षणैः। तान्यद्य निहते रामे वितथानि भवन्ति मे॥ केशाः सूक्ष्माः समा नीला ध्रुवौ चासंहते मम। वृत्ते चारोमके जो दन्ताश्चाविरला मम।।।। शो नेत्रे करौ पादौ गुल्फावूरू समौ चितौ। अनुवृत्तनखाः स्निग्धाः समाश्चाङ्गुलयो मम॥ स्तनौ चाविरलौ पीनौ मामको मग्नचूचुकौ। मग्ना चोत्सेधनी नाभिः पार्थोरस्कं च मे चितम्॥ मम वर्णो मणिनिभौ मृदून्यङ्गरुहाणि च। प्रतिष्ठितां द्वादशभिरमामूचुः शुभलक्षणाम्॥ समग्रयवमच्छिद्रं पाणिपादं च वर्णवत्। मन्दस्मितेत्येव च मां कन्यालाक्षणिका विदुः॥ आधिराज्येऽभिषेको मे ब्राह्मणैः पतिना सह। कृतान्तकुशलैरुक्तं तत्सर्वं वितथीकृतम्॥१४॥ शोधयित्वा जनस्थानं प्रवृत्तिमुपलभ्य च। तीर्वा सागरमक्षोभ्यं भ्रातरौ गोष्पदे हतौ॥ ननु वारुणाग्नेयमैन्द्रं वायव्यमेव च। अस्त्रं ब्रह्मशिरश्चैव राघवौ प्रत्यपद्यत॥ अदृश्यमानेन रणे भायया वासवोपमौ। मम नाथावनाथाया निहतौ रामलक्ष्मणौ॥ नहि दृष्टिपथं प्राप्य राघवस्य रणे रिपुः। जीवन्प्रतिनिवर्तेत यद्यपि स्यान्मनोजवः॥ न कालस्यातिभारोऽस्ति कृतान्तश्च सुदुर्जयः। यत्र रामः सह भ्रात्रा शेते युधि निपातितः॥ न शोचामि तथा राम लक्ष्मणं च महारथम्। नात्मानं जननीं चापि यथा श्वश्रू तपस्विनीम्॥ सा तु चिन्तयते नित्यं समाप्तव्रतमागतम्। कदा द्रक्ष्यामि सीतां च लक्ष्मणं च सराघवम्॥ परिदेवयमानां तां राक्षसी त्रिजटाब्रवीत्। मा विषादं कृथा देवि भर्तायं तव जीवति॥ कारणानि च वक्ष्यामि महान्ति सदृशानि च। यथेमौ जीवतो देवि भ्रातरौ रामलक्ष्मणौ॥ नहि कोपपरीतानि हर्षपर्युत्सुकानि च। भवन्ति युधि योधानां मुखानि निहते पतौ॥ इदं विमानं वैदेहि पुष्पकं नाम नामतः। दिव्यं त्वां धारयेनेदं यद्येतौ गतजीवितौ ॥ हतवीरप्रधाना हि गतोत्साहा निरुद्यमा। सेना भ्रमति संख्येषु हतकणेव नौ ले॥ इयं पुनरसंभ्रान्ता निरुद्विग्ना तपस्विनि। सेना रक्षति काकुत्स्थौ मया प्रीत्या निवेदितौ ॥ सा त्वं भव सुविस्रब्धा अनुमानैः सुखोदयैः। अहतौ पश्य काकुत्स्थौ स्नेहादेतद्ब्रवीमि ते॥ अनृतं नोक्तपूर्व मे न च वक्ष्यामि मैथिलि। चारित्रसुखशीलत्वात्प्रविष्टासि मनो मम ॥ नेमौ शक्यौ रणे जेतुं सेन्ट्रैरपि सुरासुरैः। तादृशं दर्शनं दृष्ट्वा मया चोदीरितं तव॥ इदं तु सुमहच्चित्रं शरैः पश्यस्व मैथिलि। विसंज्ञौ पतितावेतौ नैव लक्ष्मीर्विमुञ्चति ॥ प्रायेण गतसत्वानां पुरुषाणां गतायुषाम्। दृश्यमानेषु वक्रेषु परं भवति वैकृतम्॥ त्यज शोकं च दुःखं च मोहं च जनकात्मजे। रामलक्ष्मणयोरर्थे नाद्य शक्यमजीवितुम्॥ श्रुत्वा तु वचनं तस्याः सीता सुरसुतोपमा। कृताञ्जलिरुवाचेमामेवमस्त्विति मैथिली॥ विमानं पुष्पकं तत्तु संनिवर्त्य मनोजवम्। दीना त्रिजटया सीता लङ्कामेव प्रवेशिता॥ ततस्त्रिजटया सार्धं पुष्पकादवरुह्य सा। अशोकवनिकामेव राक्षसीभिः प्रवेशिता॥ प्रविश्य सीता बहुवृक्षखण्डां तां राक्षसेन्द्रस्य विहारभूमिम्। संप्रेक्ष्य संचिन्त्य च राजपुत्रौ परं विषादं समुपाजगाम्॥ घोरेण शरबन्धेन बद्धौ दशरथात्मजौ। निःश्वसन्तौ यथा नागौ शयानौ रुधिरोक्षितौ॥ सर्वे ते वानरश्रेष्ठाः ससुग्रीवमहाबलाः। परिवार्य महात्मानौ तस्थुः शोकपरिप्लुताः॥ एतस्मिन्नन्तरे रामः प्रत्यबुध्यत वीर्यवान्। स्थिरत्वात्सत्वयोगाच्च शरैः संदानितोऽपि सन्॥ ततो दृष्ट्वा सरुधिरं निषण्णं गाढमर्पितम्। भ्रातरं दीनवदनं पर्यदेवयदातुरः॥ किं न मे सीतया कार्यं लब्धया जीवितेन वा। शयानं योऽद्य पश्यामि भ्रातरं युधि निर्जितम्॥ शक्या सीतासमा नारी मर्त्यलोके विचिन्वता। न लक्ष्मणसमो भ्राता सचिवः सांपरायिकः॥ परित्यक्ष्याम्यहं प्राणान्वानराणां तु पश्यताम्। यदि पञ्चत्वमापन्नः सुमित्रानन्दवर्धनः॥ किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम्। कथमम्बां सुमित्रां च पुत्रदर्शनलालसाम्॥ विवत्सां वेपमानां च वेपन्ती कुररीमिव। कथमाश्वासयिष्यामि यदि यास्यामि तं विना ॥ कथं वक्ष्यामि शत्रुघ्नं भरतं च यशस्विनम्। मया सह वनं यातो विना तेनाहमागतः॥ उपालम्भं न शक्ष्यामि सोढुमम्बासुमित्रया। इहैव देहं त्यक्ष्यामि नहि जीवितुमुत्सहे॥ धिङ् मां दुष्कृतकर्माणमनायं मत्कृते ह्यसौ। लक्ष्मणः पातितः शेते शरतल्पे गतासुवत्॥ त्वं नित्यं सुविषण्णं मामाश्वासयसि लक्ष्मण। गतासुर्नाद्य शक्तोऽसि मामार्तमभिभाषितुम्॥ येनाद्य बहवो युद्धे निहता राक्षसाः क्षितौ। तस्यामेवाद्य शूरस्त्वं शेषे विनिहतः शरैः॥ शयानः शरतल्पेऽस्मिन्सशोणितपरिसुतः। शरभूतस्ततो भासि भास्करोऽस्तमिव व्रजन्॥ बाणाभिहतमर्मत्वान्न शक्नोषीह भाषितुम्। रुजा चाब्रुवतो यस्य दृष्टिरागेण सूच्यते॥ यथैव मां वनं यान्तमनुयातो महाद्युतिः। अहमप्यनुयास्यामि तथैवैनं यमक्षयम्॥ इष्टबन्धुजनो नित्यं मां च नित्यमनुव्रतः। इमामद्य गतोऽवस्थां ममानार्यस्य दुर्नयैः॥ सुरुष्टेनापि वीरेण लक्ष्मणेन न संस्मरे। परुषं विप्रियं चापि श्रावितं तु कदाचन॥ विसस कवेगेन पञ्च बाणशतानि यः। इष्वस्त्रेष्वधिकस्तस्मात्कार्तवीर्याच्च लक्ष्मणः॥ अस्त्रैरसत्राणि यो हन्याच्छक्रस्यापि महात्मनः। सोऽयमुव्या हतः शेते महार्हशयनोचितः॥ तत्तु मिथ्या प्रलप्तं मां प्रधक्ष्यति न संशयः। यन्मया न कृतो राजा राक्षसानां विभीषणः॥ अस्मिन्मुहूर्ते सुग्रीव प्रतियातुमिवाहसि। सत्त्वहीनं मया राजरावणोऽभिभविष्यति॥ अङ्गदं तु पुरस्कृत्य ससैन्यं सपरिच्छदम्। सागरं तर सुग्रीव नीलेन च नलेन च॥ कृतं हि सुमहत्कर्म यदन्यैर्दुष्करं रणे। ऋक्षराजेन तुष्यामि गोलाङ्गुलाधिपेन च॥ अङ्गदेन कृतं कर्म मैन्देन द्विविदेन च। युद्ध केसरिणा संख्ये घोरं संपातिना कृतम्॥ गवयेन गवाक्षेण शरभेण गजेन च। अन्यैश्च हरिभियुद्धं दुर्धरं त्यक्तजीवितैः॥ न चातिक्रमितुं शक्यं दैवं सुग्रीव मानुषैः। यत्तु शक्यं वयस्येन सुहृदा वा परं मम।२८॥ कृतं सुग्रीव तत्सर्वं भवता धर्मभीरुणा। मित्रकार्यं कृतमिदं भवद्भिर्वानरर्षभाः॥ अनुज्ञाता मया सर्वे यथेष्टं गन्तुमर्हथ। शुश्रुवुस्तस्य ये सर्वे वानराः परिदेवितम्।। वर्तयांचक्रिरेऽश्रूणि नेत्रैः कृष्णेतरेक्षणाः॥ ततः सर्वाण्यनीकानि स्थापयित्वा विभीषणः। आजगाम गदापाणिस्त्वरितं यत्र राघवः॥ तं दृष्ट्वा त्वरितं यान्तं नीलाञ्जनचयोपमम्। वानरा दुद्रुवुः सर्वे मन्यमानास्तु रावणिम्॥ अथोवाच महातेजा हरिराजो महाबलः। किमियं व्यथिता सेना मूढवातेव नौर्जले॥ सुग्रीवस्य वचः श्रुत्वा वालिपुत्रोऽङ्गदोऽब्रवीत्। न त्वं पश्यसि रामं च लक्ष्मणं च महारथम्॥ शरजालाचितौ वीरावुभौ दशरथात्मजौ। शरतल्ये महात्मानौ शयानौ रुधिरोक्षितौ॥ अथाब्रवीद्वानरेन्द्रः सुग्रीवः पुत्रमङ्गदम्। नानिमित्तमिदं मन्ये भवितव्यं भयेन तु।४।। विषण्णवदना ह्येते त्यक्तप्रहरणा दिशः। पलायन्तेऽत्र हरयस्त्रासादुत्फुल्ललोचनाः ॥ अन्योन्यस्य न लज्जन्ते न निरीक्षन्ति पृष्ठतः। विप्रकर्षन्ति चान्योन्यं पतितं लयन्ति च॥ एतस्मिनन्तरे वीरो गदापाणिविभीषणः। सुग्रीवं वर्धयामास राघवं च जयाशिषा ॥ विभीषणं च सुग्रीवो दृष्ट्वा वानरभीषणम्। ऋश्रराजं महात्मानं समीपस्थमुवाच ह॥ विभीषणोऽयं संप्राप्तो यं दृष्ट्वा वानरर्षभाः। द्रवन्त्यायतसंत्रासा रावणात्मजशङ्कया॥ शीघ्रमेतान्सुसंत्रस्तान्बहुधा विप्रधावितान्। पर्यवस्थापयाख्या हि विभीषणमुपस्थितम्।।१० सुग्रीवेणैवमुक्तस्तु जाम्बवानृक्षपार्थिवः। वानरान्सान्त्वयामास संनिवर्त्य प्रधावतः॥ ते निवृत्ताः पुनः सर्वे वानरास्त्यक्तसाध्वसाः। ऋक्षराजवचः श्रुत्वा तं च दृष्ट्वा विभीषणम्।।१२ विभीषणस्तु रामस्य दृष्ट्वा गात्रं शरैश्चितम्। लक्ष्मणस्य तु धर्मात्मा बभूव व्यथितस्तदा॥ जलक्लिन्नेन हस्तेन तयोर्ने। विमृज्य च। शोकसंपीडितमना रुरोद विललाप च॥ इमौ तौ सत्त्वसंपन्नौ विक्रान्तौ प्रियसंयुगौ। इमामवस्थां गमितौ राक्षसैः कूटयोधिभिः॥ भ्रातृपुत्रेण चैतेन दुष्पुत्रेण दुरात्मना । राक्षस्या जिह्मया बुद्ध्या वञ्चितावृजुविक्रमौ ॥ शरैरिमावलं विद्धौ रुधिरेण समुक्षितौ । वसुधायामिमौ सुप्तौ दृश्येते शल्यकाविव ॥ ययोर्वीर्यमुपाश्रित्य प्रतिष्ठा काङ्किता मया। ताविमौ देहनाशाय प्रसुप्तौ पुरुषर्षभौ॥ जीवनद्य विपन्नोऽस्मि नष्टराज्यममनोरथः। प्राप्तप्रतिज्ञश्च रिपुः सकामो रावणः कृतः॥ एवं विलपमानं तं परिष्वज्य विभीषणम्। सुग्रीवः सत्त्वसंपन्नो हरिराजोऽब्रवीदिदम्॥ राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नेह संशयः। रावणः सह पुत्रेण स्वकामं नेह लप्स्यते॥ गरुडाधिष्ठितावेतावुभौ राघवलक्ष्मणौ। त्यक्त्वा मोहं वधिष्येते सगणं रावणं रणे॥ तमेव सान्त्वयित्वा तु समाश्वास्य तु राक्षसम्। सुषेणं श्वशुरं पार्श्वे सुग्रीवस्तमुवाच ह॥ सह शूरैर्हरिगणैर्लब्धसंज्ञावरिंदमौ गच्छ त्वं भ्रातरौ गृह्य किष्किन्धां रामलक्ष्मणौ ॥ अहं तु रावणं हत्वा सपुत्रं सहबान्धवम्। मैथिलीमानयिष्यामि शक्रो नष्टामिव श्रियम्॥ श्रुत्वैतद्वानरेन्द्रस्य सुषेणो वाक्यमब्रवीत्। देवासुरं महायुद्धमनुभूतं पुरातनम् ॥ तदा स्म दानवा देवाशरसंस्पर्शकोविदान्। निजघ्नुः शस्त्रविदुषश्छादयन्तो मुहुर्मुहुः॥ तानानिष्टसंज्ञांश्च गतासुंश्च बृहस्पतिः। विद्याभिर्मन्त्रयुक्ताभिरोषधीभिश्चिकित्सति ॥ तान्यौषधान्यानयितुं क्षीरोदं यान्तु सागरम्। जवेन वानराः शीघ्रं संपातिपनसादयः॥ हरयस्तु विजानन्ति पार्वती ते महौषधी। संजीवकरणी दिव्यां विशल्यां देवनिर्मिताम्॥ चन्द्रश्च नाम द्रोणश्च क्षीरोदे सागरोत्तमे। अमृतं यत्र मथितं तत्र ते परमौषधी॥ तौ तत्र विहितौ देवैः पर्वतौ तौ महोदधौ। अयं वायुसुतो राजन्हनूमांस्तत्र गच्छतु।॥ एतस्मिन्नन्तरे वायुर्मेघाश्चापि सविद्युतः। पर्यस्य सागरे तोयं कम्पयन्निव पर्वतान्॥ महता पक्षवातेन सर्वद्वीपमहाद्रुमाः। निपेतुर्भग्नविटपाः सलिले लवणाम्भसि ॥ अभवन्पन्नगास्त्रस्ता भोगिनस्तत्रवासिनः। शीघ्रं सर्वाणि यादांसि जग्मुश्च लवणार्णवम्॥ ततो मुहूर्ताद् गरुडं वैनतेयं महाबलम्। वानरा ददृशुः सर्वे ज्वलन्तमिव पावकम्॥ तमागतमभिप्रेक्ष्य नागास्ते विप्रदुद्रुवुः। यैस्तु तौ पुरुषौ बद्धौ शरभूतैर्महाबलैः॥ ततः सुपर्णः काकुत्स्थौ स्पृष्ट्वा प्रत्यभिनन्द्य च। विममर्श च पाणिभ्यां मुखे चन्द्रसमप्रभे॥ वैनतेयेन संस्पृष्टास्तयोः संरुरुहुव्रणाः। सुवर्णे च तनू स्निग्धे तयोराशु बभूवतुः॥ तेजो वीर्यं बलं चौज उत्साहश्च महागुणाः। प्रदर्शनं च बुद्धिश्च स्मृतिश्च द्विगुणा तयोः॥ तावुत्थाप्य महातेजा गरुडो वासवोपमौ। उभौ च सस्वजे हृष्टो रामश्चैनमुवाच ह॥ भवत्प्रसादाद्व्यसनं रावणिप्रभवं महत्। उपायेन व्यतिक्रान्तौ शीघ्रं च बलिनौ कृतौ।॥ यथा तातं दशरथं यथाजं च पितामहम्। तथा भवन्तमासाद्य हृदयं मे प्रसीदति।॥ को भवानरूपसंपन्नो दिव्यस्त्रगनुलेपनः। वसानो विरजे वस्त्रे दिव्याभरणभूषितः॥ ते तमुवाच महातेजा वैनतेयो महाबलः। पतत्रिराजः प्रीतात्मा हर्षपर्याकुलेक्षणम्॥ अहं सखा काकुत्स्थः प्रियः प्राणो बहिश्चरः। गरुत्मानिह संप्राप्तो युवयोः साह्यकारणात्॥ असुरा वा महावीर्या वानरा वा महाबलाः। सुराश्चापि सगन्धर्वाः पुरस्कृत्य शतक्रतुम्॥ नेमं मोक्षयितुं शक्काः शरबन्धं सुदारुणम्। मायाबलादिन्द्रजिता निर्मितं क्रूरकर्मणा ॥ एते नागाः काद्रवेयास्तीक्ष्णदंष्ट्रा विषोल्बणाः। रक्षोमायाप्रभावेण शरभूतास्त्वदाश्रयाः॥ सभाग्यश्चासि धर्मज्ञ राम सत्यपराक्रम। लक्ष्मणेन सह भ्रात्रा समरे रिपुषातिना॥ इमं श्रुत्वा तु विक्रान्तस्त्वरमाणोऽहमागतः। सहसैवावयोः स्नेहात्सखित्वमनुपालयन्॥ मोक्षितौ च महाघोरादस्मात्सायकबन्धनात्। अप्रमादश्च कर्तव्यो युवाभ्यां नित्यमेव हि ॥ प्रकृत्या राक्षसाः सर्वे संग्रामे कूटयोधिनः। शूराणां शुद्धभावानां भवतामार्जवं बलम्॥ तन्न विश्वसनीयं वो राक्षसानां रणाजिरे। एतेनैवोपमानेन नित्यं जिह्मा हि राक्षसाः॥ एवमुक्त्वा तदा रामं सुपर्णः स महाबलः। परिष्वज्य च सुस्निग्धमाप्रष्टमुपचक्रमे॥ सखे राघव धर्मज्ञ रिपूणामपि वत्सल। अभ्युनुज्ञातुमिच्छामि गमिष्यामि यथासुखम् ॥ न च कौतूहलं कार्य सखित्वं प्रति कांक्षिणाः। कृतकारणे वीर सखित्वं प्रतिवेत्स्यसि॥ बालवृद्धावशेषां तु लङ्कां कृत्वा शरोमिभिः। रावणं तु रिपुं हत्वा सीतां त्वपमुलप्स्यसे॥ इत्येवमुक्त्वा वचनं सुपर्णः शीघ्रविक्रमः। रामं च नीरुनं कृत्वा मध्ये तेषां वनौकसाम्॥ प्रदक्षिणं ततः कृत्वा परिष्वज्य च वीर्यवान्। जगामाकाशमाविश्य सुपर्णः पवनो यथा।६।। नीरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः। सिंहनादं तदा नेदुर्लाङ्गलं दुधुवुश्च ते॥ ततो भेरी: समाजघ्नुर्मृदङ्गाश्चाप्यवादयन्। दध्मुः शङ्खान्संप्रहृष्टा श्वेलन्त्यपि यथापुरम्॥ अपरे स्फोट्य विक्रान्ता वानरा नगयोधिनः। दुमानुत्पाट्य विविधांस्तस्थुः शतसहस्रशः॥ विसृजन्तो महानादांस्त्रासयन्तो निशाचरान्। लङ्काद्वाराण्युपाजग्मुर्युद्धकामाः प्लवंगमाः॥ तेषां सुभीमस्तुमुलो निनादो बभूव शाखामृगयूथपानाम्। क्षये निदाघस्य यथा घनानां नादः सुभीमो नदतां निशीथे॥ तेषां तु तुमुलं शब्दं वानराणां महौजसाम्। नर्दतां राक्षसैः सार्धं तदा शुश्राव रावणः॥ स्निग्धगम्भीरनिर्घोषं श्रुत्वा तं निनदं भृशम्। सचिवानां ततस्तेषां मध्ये वचनमब्रवीत्॥ यथासौ संप्रहृष्टानां वानराणामुपस्थितः। बहूनां सुगहानादो मेघानामिव गर्जताम्॥ सुव्यक्तं महती प्रीतिरेतेषां नात्र संशयः। तथा हि विपुलैनदैिश्चुर्भे लवणार्णवः॥ तौ तु बद्धौ शरैस्तीक्ष्णैभ्रातरौ रामलक्ष्मणौ। अयं च सुमहानादः शङ्कां जनयतीव मे॥ एवं च वचनं चोक्त्वा मन्त्रिणो राक्षसेश्वरः। उवाच नैर्ऋतांस्तत्र समीपपरिवर्तिनः॥ ज्ञायतां तूर्णमेतेषां सर्वेषां च वनौकसाम्। शोककाले समुत्पन्ने हर्षकारणमुत्थितम्॥ तथोक्तास्ते सुसंभ्रान्ताः प्राकारमधिरुह्य च। ददृशुः पालितां सेनां सुग्रीवेण महात्मना॥ तौ च मुक्तौ सुधोरेण शरबन्धेन राघवौ। समुत्थितौ महाभागौ विषेदुः सर्वराक्षसाः॥ संत्रस्तहृदयाः सर्वे प्राकारादवरुह्यते। विवर्णा राक्षसा घोरा राक्षसेन्द्रमुपस्थिताः॥ तदप्रियं दीनमुखा रावणस्य च राक्षसाः। कृत्स्नं निवेदयामासुर्यथावद्वाक्यकोविदाः॥ यौ ताविन्द्रजिता युद्धे भ्रातरौ रामलक्ष्मणौ। निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ॥ विमुक्तौ शरबन्धेन दृश्येते तौ रणाजिरे। पाशानिव गजौ छित्त्वा गजेन्द्रसमविक्रमौ॥ तच्छुत्वा वचनं तेषां राक्षसेन्द्रो महाबलः। चिन्तारोषसमाक्रान्तो विवर्णवदनोऽभवत्॥ घोरैर्दत्तवरैर्बद्धौ शरैराशीविषोपमैः। अमोघैः सूर्यसंकाशैः प्रमध्येन्द्रजिता युधि ॥ तदनबन्धमासाद्य यदि मुक्तौ रिपू मम। संशयस्थमिदं सर्वमनुपश्याम्यहं बलम्॥ निष्फलाः खलु संवृत्ताः शराः पावकतेजसः। आदत्तं यैस्तु सङ्ग्रामे रिपूणां जीवितं मम॥ एवमुक्त्वा तु संक्रुद्धो निःश्वसन्नुरगो यथा। अब्रवीद्रक्षसां मध्ये धूम्राक्षं नाम राक्षसम्॥ बलेन महता युक्तो राक्षसैर्भीमविक्रमः। त्वं वधायाशु निर्याहि रामस्य सह वानरैः॥ एवमुक्तस्तु धूम्राक्षो राक्षसेन्द्रेण धीमता परिक्रम्य ततः शीघ्रं निर्जगाम नृपालयात्॥ अभिनिष्क्रम्य तद्द्वारं बलाध्यक्षमुवाच ह। त्वरयस्व बलं शीघ्रं किं चिरेण युयुत्सतः॥ धूम्राक्षवचनं श्रुत्वा बलाध्यक्षो बलानुगः। बलमुद्योजयामास रावणस्याज्ञया भृशम्॥ ते बद्धघण्टा बलिनो घोररूपा निशाचराः। विनद्यमानाः संहृष्टा धूम्राक्षं पर्यवारयन्॥ विविधायुधहस्ताश्च शूलमुद्गरपाणयः। गदाभिः पट्टिशैर्दण्डैरायसैर्मुसलैरपि॥ परिधैर्भिन्दिपालैश्च भल्लैः पाशैः परश्वधैः। निर्ययू राक्षसा घोरा नर्दन्तो जलदा यथा॥ रथैः कवचिनस्त्वन्ये ध्वजैश्च समलंकृतैः। सुवर्णजालविहितैः खरैश्च विविधाननैः॥ हयैः परमशीघेश्च गजैश्चैव मदोत्कटैः। निर्ययुनैर्ऋतव्याघ्रा व्याघ्रा इव दुरासदाः॥ मृगसिंहमुखैर्युक्तं खरैः कनकभूषितैः। आरुरोह रथं दिव्यं धूम्राक्षः खरनिःस्वनः॥ स निर्यातो महावीर्यो धूम्राक्षो राक्षसैर्वृतः। हसन्वै पश्चिमद्वाराद्धनूमान्यत्र तिष्ठति॥ रथप्रवरमास्थाय खरयुक्तं खरस्वनम्। प्रयान्तं तु महाघोरं राक्षसं भीमदर्शनम्॥ अन्तरिक्षगताः क्रूराः शकुनाः प्रत्यषेधयन्। रथशीर्षे महाभीमो गृध्रश्च निपपात ह॥ ध्वजाग्रे ग्रथिताश्चैव निपेतुः कुणपाशनाः। रुधिराो महाश्वेतः कबन्धः पतितो भुवि॥ विस्वरं चोत्सृजन्नादान्धूम्राक्षस्य निपातितः। ववर्ष रुधिरं देवः संचचाल च मेदिनी॥ प्रतिलोमं ववौ वायुनिर्घातसमनिःस्वनः। तिमिरौघवृतास्तत्र दिशश्च न चकाशिरे॥ स तूत्पातांस्ततो दृष्ट्वा राक्षसानां भयावहान्। प्रादुर्भूतान्सुघोरांश्च धूम्राक्षो व्यथितोऽभवत्।। मुमुहू राक्षसाः सर्वे धूम्राक्षस्य पुरःसराः॥ वृतोभिनिष्क्रम्य रणोत्सुको बली। ददर्श तां राघवबाहुपालितां महौघकल्पां बहु वानरी चमूम्॥ धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षसं भीमविक्रमम्। विनेदुर्वानराः सर्वे प्रहृष्टा युद्धकाङ्गिणः॥ तेषां सुतुमुलं युद्धं संजज्ञे कपिरक्षसाम्। अन्योन्यं पादपैोरैनिघ्नतां शूलमुद्गरैः॥ राक्षसैर्वानरा घोरा विनिकृत्ताः समन्ततः। वानरै राक्षसाश्चापि दुमैर्भूमिसमीकृताः॥ राक्षसास्त्वभिसंक्रुद्धा वानरानिशितैः शरैः। विव्यधु_रसंकाशैः कङ्कपत्रैरजिह्मगैः॥ ते गदाभिश्च भीमाभिः पट्टिशैः कूटमुद्गरैः। घौरैश्च परिधैश्चिस्त्रिशूलैश्चापि संश्रितैः॥ विदार्यमाणा रक्षोभिर्वानरास्ते महाबलाः। अमर्षजनितोद्धर्षाश्चक्रुः कर्माण्यभीतवत्॥ शरनिर्भिन्नगात्रास्ते शूलनिर्भिन्नदेहिनः। जगृहुस्ते द्रुमांस्तत्र शिलाश्च हरियूथपाः॥ ते भीमवेगा हरयो नर्दमानास्ततस्ततः। ममन्थुराक्षसान्वीरान्नामानि च बभाषिरे॥ तद्बभूवाद्भुतं घोरं युद्धं वानररक्षसाम्। शिलाभिर्विविधाभिश्च बहुशाखैश्च पादपैः॥ राक्षसा मथिताः केचिद्वानरैर्जितकाशिभिः। प्रवेमू रुधिरं केचिन्मुखै रुधिरभोजनाः॥ पार्श्वेषु दारिताः केचित्केचिद्राशीकृता दुमैः। शिलाभिश्चूर्णिताः केचित्केचिद्दन्तैर्विदारिताः॥ ध्वजैविमथितैर्भग्नैः खङ्गैश्च विनिपातितैः। रथैविध्वंसिताः केचिद्व्यथिता रजनीचराः॥ गजेन्द्रैः पर्वताकारैः पर्वताग्रैर्वनौकसाम्। मथितैर्वाजिभिः कीर्णं सारोहैर्वसुधातलम्॥ वानरैर्भीमविक्रान्तैराप्लुत्योत्प्लुत्य वेगितैः। राक्षसाः करजैस्तीक्ष्णैर्मुखेषु विनिदारिताः॥ विषण्णवदना भूयो विप्रकीर्णशिरोरुहाः। मूढाः शोणितगन्धेन निपेतुर्धरणीतले॥ अन्ये तु परमक्रुद्धा राक्षसा भीमविक्रमाः। तलैरेवाभिधावन्ति वज्रस्पर्शसमैर्हरीन्॥ वानरैः पातयन्तस्ते वेगिता वेगवत्तरैः। मुष्टिभिश्चरणैर्दन्तैः पादपैश्चावपोथिताः॥ सैन्यं तु विद्रुतं दृष्ट्वा धूम्राक्षो राक्षसर्षभः। रोषेण कदनं चक्रे वानराणां युयुत्सताम्॥ प्रासैः प्रमाथिताः केचिद्वानराः शोणितस्त्रवाः। मुद्गरैराहताः केचित्पतिता धरणीतले॥ परिधैर्मथिताः केचिद्भिन्दिपालैश्च दारिताः। पट्टिशैर्मथिताः केचिद्विह्वलन्तो गतासवः॥ केचिद्विनिहता भूमौ रुधिरार्दा वनौकसः। केचिद्विद्राविता नष्टाः संक्रुद्धै राक्षसैर्युधि ॥ विभिन्नहृदयाः केचिदेकपार्श्वेन शायिताः। विदारितास्त्रिशूलैश्च केचिदान्त्रैर्विनिःसृताः॥ तत्सुभीमं महाद्धं हरिराक्षससंकुलम्। प्रबभौ शस्त्रबहुलं शिलापादपसंकुलम्॥ धनुातन्त्रिमधुरं हिमतालसमन्वितम्। मन्दस्तनितगी तं तद्युद्धगान्धर्वमाबभौ॥ धूम्राक्षस्तु धनुष्पाणिनिरारणमूर्धनि। हसन्विद्रावयामास दिशस्ताञ्छरवृष्टिभिः॥ धूम्राक्षेणार्दितं सैन्यं व्यथितं प्रेक्ष्य मारुतिः। अभ्यवर्तत संक्रुद्धः प्रगृह्य विपुलां शिलाम्॥ क्रोधाद्द्विगुणताम्राक्षः पितुरतुल्यपराक्रमः। शिलां तां पातयामास धूम्राक्षस्य रथं प्रति॥ आपतन्तीं शिलां दृष्ट्वा गदामुद्यम्य संभ्रमात्। रथादाप्लुत्य वेगेन वसुधायां व्यतिष्ठत॥ सा प्रमथ्य रथं तस्य निपपात शिला भुवि। सचक्रकूबरमुखं सध्वजं सशरासनम्॥ स त्यक्त्वा तु रथं तस्य हनूमान्मारुतात्मजः। रक्षसां कदनं चक्रे सस्कन्धविटपैर्दुमैः॥ विभिन्नशिरसो भूत्वा राक्षसा रुधिरोक्षिताः। दुमैः प्रमथिताश्चान्ये निपेतुर्धरणीतले॥ विद्राव्य राक्षसं सैन्यं हनूमान्मारुतात्मजः। गिरेः शिखरमादाय धूम्राक्षमभिदुद्रुवे॥ तमापतन्तं धूम्राक्षो गदामुद्यम्य वीर्यवान्। विनर्दमानः सहसा हनूमन्तमभिद्रवत्॥ तस्य क्रुद्धस्य रोषेण गदां तां बहुकण्टकाम्। पातयामास धूम्राक्षो मस्तकेऽथ हनूमतः॥ ताडितः स तया तत्र गदया भीमवेगया। स कपिर्मारुतबलस्तं प्रहारमचिन्तयन्॥ धूम्राक्षस्य शिरोमध्ये गिरिशृङ्गमपातयत्। स विस्फारितसर्वाङ्गो गिरिशृङ्गेण ताडितः॥ पपात सहसा भूमौ विकीर्ण इव पर्वतः। धूम्राक्षं निहतं दृष्ट्वा हतशेषा निशाचराः।। त्रस्ताः प्रविविशुर्लङ्कां वध्यमानाः प्लवंगमैः॥ स तु पवनसुतो निहत्य शत्रून् क्षतजवहाः सरितश्च संविकीर्य। रिपुवधजनितश्रमो महात्मा मुदमगमत्कपिभिः सुपूज्यमानः॥ धूम्राक्षं निहतं दृष्ट्वा हतशेषा निशाचराः।। त्रस्ताः प्रविविशुर्लङ्कां वध्यमानाः प्लवंगमैः॥ स तु पवनसुतो निहत्य शत्रून् क्षतजवहाः सरितश्च संविकीर्य। रिपुवधजनितश्रमो महात्मा मुदमगमत्कपिभिः सुपूज्यमानः॥ धूम्राक्षं निहतं श्रुत्वा रावणो राक्षसेश्वरः। क्रोधेन महताविष्टो निःश्वसनुरगो यथा॥ दीर्घमुष्णं विनिःश्वस्य क्रोधेन कलुषीकृतः। अब्रवीद्राक्षसं क्रूरं वज्रदंष्ट्र महाबलम्॥ गच्छ त्वं वीर निर्याहि राक्षसैः परिवारितः। जहि दाशरथिं रामं सुग्रीवं वानरैः सह॥ तथेत्युक्त्वा द्रुततरं मायावी राक्षसेश्वरः। निर्जगाम बलैः सार्द्ध बहुभिः परिवारितः॥ नागैरश्वैः खरष्ट्रैः संयुक्तः सुसमाहितः। पताकाध्वजचित्रैश्च बहुभिः समलंकृतः॥ ततो विचित्रकेयूरमुकुटेन विभूषितः। तनुत्रं च समावृत्य सधनुर्निर्ययौ द्रुतम्॥ पताकालंकृतं दीप्तं तप्तकाञ्चनभूषितम्। रथं प्रदक्षिणं कृत्वा समारोहच्चमूपतिः॥ ऋष्टिभिस्तोमरैश्चित्रैः श्लक्ष्णैश्च मुसलैरपि। भिन्दिपालैश्च चापैश्च शक्तिभिः पट्टिशैरपि॥ खङ्गैश्चक्रैर्गदाभिश्च निशितैश्च परश्वधैः। पदातयश्च नियन्ति विविधाः शस्त्रपाणयः॥ विचित्रवाससः सर्वे दीप्ता राक्षसपुंगवाः। गजा मदोत्कटाः शूराश्चलन्त इव पर्वताः॥ ते युद्धकुशला रूढास्तोमराङ्कुशपाणिभिः। अन्ये लक्षणसंयुक्ताः शूरारूढा महाबलाः॥ तद्राक्षसबलं सर्वं विप्रस्थितमशोभत। प्रावृट्काले यथा मेघा नर्दमानाः सविद्युतः॥ निःसृता दक्षिणद्वारादङ्गदो यत्र यूथपः। तेषां निष्क्रममाणानामशुभं समजायत ॥ आकाशाद्विधनात्तीव्रादुल्मुकान्यपतंस्तदा। वमन्तः पावकज्वालाः शिवा घोरा ववाशिरे॥ व्याहरन्त मृगा घोरा रक्षसां निधनं तदा। समापतन्तो योधास्तु प्रास्खलंस्तत्र दारुणम्॥ एतानौत्पातिकान्दृष्ट्वा वज्रदंष्ट्रो महाबलः। धैर्यमालम्ब्य तेजस्वी निर्जगाम रणोत्सुकः॥ तांस्तु विद्रवतो दृष्ट्वा वानरा जितकाशिनः। प्रणेदुः सुमहानादान्दिशः शब्देन पूरयन्॥ ततः प्रवृत्तं तुमुलं हरीणां राक्षसैः सह। घोराणां भीमरूपाणामन्योन्यवधकाक्षिणाम्॥ निष्पतन्तो महोत्साहा भिन्नदेहशिरोधराः। रुधिरोक्षितसर्वाङ्गा न्यपतन्धरणीतले॥ केचिदन्योन्यमासाद्य शूराः परिघबाहवः। चिक्षिपुर्विविधाशस्त्रान्समरेष्वनिवर्तिनः॥ दुमाणां च शिलानां च शस्त्राणां चापि निस्वनः। श्रूयते सुमहांस्तत्र घोरो हृदयभेदनः॥ रथनेमिस्वनस्तत्र धनुषश्चापि घोरवत्। शङ्खभेरीमृदङ्गानां बभूव तुमुलः स्वनः॥ केचिदस्त्राणि संत्यज्य बाहुयुद्धमकुर्वत । तलैश्च चरणैश्चापि मुष्टिभिश्च दुमैरपि॥ जानुभिश्च हताः केचिद्भग्नदेहाश्च राक्षसाः। शिलाभिश्चूर्णिताः केचिद्वानरैयुद्धदुर्मदैः॥ वज्रदंष्ट्रोऽथ तं दृष्ट्वा रणे वित्रासयन्हरीन्। चचार लोकसंहारे पाशहस्त इवान्तकः॥ बलवन्तोऽस्त्रविदुषो नानाप्रहरणा रणे। जघ्नुर्वानरसैन्यानि राक्षसाः क्रोधमूर्छिताः॥ जघ्ने ताराक्षसान्सर्वान्धृष्टो वायुसुतो रणे। क्रोधेन द्विगुणाविष्टः संवर्तक इवानलः॥ ताराक्षसगणान्सर्वान्वृक्षमुद्यम्य वीर्यवान्। अङ्गदः क्रोधताम्राक्षः सिंहः क्षुद्रमृगानिव॥ चकार कदनं घोरं शक्रतुल्यपराक्रमः। अङ्गदाभिहतास्तत्र राक्षसा भीमविक्रमाः॥ विभिन्नशिरस: पेतुर्निकृता इव पादपाः। रथैश्चित्रैर्ध्वजैरश्वैः शरीरैर्हरिरक्षसाम्॥ रुधिरौघेण संछन्ना भूमिर्भयकरी तदा। हारकेयूरवस्त्रैश्च छत्रैश्च समलंकृता॥ भूमि ति रणे तत्र शारदीव यथा निशा। अङ्गदस्य च वेगेन तद्राक्षसबलं महत्।। प्राकम्पत तदा तत्र पवनेनाम्बुदो यथा॥ स्वबलस्य च घातेन अङ्गदस्य बलेन च। राक्षसः क्रोधमाविष्टो वज्रदंष्ट्रो महाबलः॥ विस्फार्य च धनुर्घोरं शक्राशनिसमप्रभम्। वानराणामनीकानि प्राकिरच्छरवृष्टिभिः॥ राक्षसाश्चापि मुख्यारते रथैश्च समवस्थिताः। नानाप्रहरणाः शूराः प्रायुध्यन्त तदा रणे॥ वानराणां च शूरास्तु ते सर्वे प्लवगर्षभाः। अयुध्यन्त शिलाहस्ताः समवेताः समन्ततः॥ तत्रायुधसहस्राणि तस्मिन्नायोधने भृशम्। राक्षसाः कपिमुख्येषु पातयांचक्रिरे तदा॥ वानराश्चैव रक्षःसु गिरिवृक्षान्महाशिलाः। प्रवीराः पातयामासुर्मत्तवारणसंनिभाः॥ शूराणां युध्यमानानां समरेष्वनिवर्तिनाम्। तद्राक्षसगणानां च सुयुद्धं समवर्तत ॥ अभग्नशिरसः केचिच्छिन्नैः पादैश्च बाहुभिः। शस्त्रैरर्दितदेहास्तु रुधिरेण समुक्षिताः॥ हरयो राक्षसाश्चैव शेरते गां समाश्रिताः। कङ्कगृध्रबलाढ्याश्च गोमायुकुलसंकुलाः॥ कबन्धानि समुत्पेतुर्भीरूणां भीषणानि वै। भुजपाणिशिरश्छिन्नाश्छिन्नकायाश्च भूतले॥ वानरा राक्षसाश्चापि निपेतुस्तत्र भूतले। ततो वानरसैन्येन हन्यमानं निशाचरम्॥ प्राभज्यत बलं सर्वं वज्रदंष्ट्रस्य पश्यतः। राक्षसान्भयवित्रस्तान्हन्यमानान्प्लवंगमैः॥ दृष्ट्वा स रोषताम्राक्षो वज्रदंष्ट्रः प्रतापवान्। प्रविवेश धनुष्पाणिस्त्रासयन्हरिवाहिनीम्॥ शरैर्विदारयामास कङ्कपत्रैरजिह्मगैः। बिभेद वानरांस्तत्र सप्ताष्टौ नव पञ्च च॥ विव्याध परमक्रुद्धो वज्रदंष्ट्रः प्रतापवान्। त्रस्ताः सर्वे हरिगणाः शरैः संकृत्तदेहिनः। अङ्गदं संप्रधावन्ति प्रजापतिमिव प्रजाः॥ ततो हरिगणान्भग्नान्दृष्ट्वा वालिसुतस्तदा। क्रोधेन वज्रदंष्ट्र तमुदीक्षन्तमुदैक्षत॥ वज्रदंष्ट्रोऽङ्गदश्चोभौ योयुध्येते परस्परम्। चेरतुः परमक्रुद्धौ हरिमत्तगजाविव॥ ततः शतसहस्रेण हरिपुत्रं महाबलम्। जघान मर्मदेशेषु शरैरग्निशिखोपमैः॥ रुधिरोक्षितसर्वाङ्गो वालिसूनुर्महाबलः। चिक्षेप वज्रदंष्ट्राय वृक्ष भीमपराक्रमः॥ दृष्ट्वा पतन्तं तं वृक्षमसंभ्रान्तश्च राक्षसः। चिच्छेद बहुधा सोऽपि मथितः प्रापतद्भुवि ॥ तं दृष्ट्वा वज्रदंष्ट्रस्य विक्रमं प्लवगर्षभः। प्रगृह्य विपुलं शैलं चिक्षेप च ननाद च॥ तमापतन्तं दृष्ट्वा स रथादाप्लुत्य वीर्यवान्। गदापाणिरसंभ्रान्तः पृथिव्यां समतिष्ठत॥ अङ्गदेन शिला क्षिप्ता गत्वा तु रणमूर्धनि । सचक्रकूबरं साश्वं प्रममाथ रथं तदा॥ ततोऽन्यच्छिखरं गृह्य विपुलं दुमभूषितम्। वज्रदंष्ट्रस्य शिरसि पातयामास वानरः॥ अभवच्छोणितोद्गारी वज्रदंष्ट्रः सुमूर्छितः। मुहूर्तमभवन्मूढो गदामालिङ्ग्य निःश्वसन्॥ स लब्धसंज्ञो गदया वालिपुत्रमवस्थितम्। जघान परमक्रुद्धो वक्षोदेशे निशाचरः॥ गदां त्यक्त्वा ततस्तत्र मुष्टियुद्धमकुर्वत । अन्योन्यं जघ्नतुस्तत्र तावुभौ हरिराक्षसौ॥ रुधिरोद्गारिणौ तौ तु प्रहारैर्जनितश्रमौ। बभूवतुः सुविक्रान्तावङ्गारकबुधाविव॥ ततः परमतेजस्वी अङ्गदः प्लवगर्षभः। उत्पाट्य वृक्षं स्थितवानासीत्पुष्पफलैर्युतः॥ जग्राह चार्षभं चर्म खङ्गं च विपुलं शुभम्। किङ्किणीजालसंछन्नं चर्मणा च परिष्कृतम्॥ चित्रांश्च रुचिरान्मार्गाश्चेरतुः कपिराक्षसौ। जघ्नतुश्च तदान्योन्यं नर्दन्तौ जयकाङ्गिणौ॥ व्रणैः समुत्थैः शोभेतां पुष्पिताविव किंशुकौ। युध्यमानौ परिश्रान्तौ जानुभ्यामवनीं गतौ॥ निमेषान्तरमात्रेण अङ्गदः कपिकुञ्जरः। उदतिष्ठत दीप्ताक्षो दण्डाहत इवोरगः॥ निर्मलेन सुधौतेन खङ्गेनास्य महच्छिरः। जघान वज्रदंष्ट्रस्य वालिसूनुर्महाबलः॥ रुधिरोक्षितगात्रस्य बभूव पतितं द्विधा। तच्च तस्य परीताक्षं शुभं खङ्गहतं शिरः॥ वज्रदंष्ट्रं हतं दृष्ट्वा राक्षसा भयमोहिताः। त्रस्ता ह्यभ्यद्रवल्लंङ्कां वध्यमानाः प्लवंगमैः।। विषण्णवदना दीना ह्रिया किंचिदवाङ्मुखाः॥ निहत्य तं वज्रधरः प्रतापवान् स वालिसूनुः कपिसैन्यमध्ये। जगाम हर्ष महितो महाबलः सहस्रनेत्रस्त्रिदशैरिवावृतः॥ वज्रदंष्ट्र हतं श्रुत्वा वालिपुत्रेण रावणः। बलाध्यक्षमुवाचेदं कृताञ्जलिमुपस्थितम्॥ शीघ्रं निर्यान्तु दुर्धर्षा राक्षसा भीमविक्रमाः। अकम्पनं पुरस्कृत्य सर्वशस्त्रास्त्रकोविदम्॥ एष शास्ता च गोप्ता च नेता च युधि सत्तमः। भूतिकामश्च मे नित्यं नित्यं च समरप्रियः॥ एष जेष्यति काकुत्स्थौ सुग्रीवं च महाबलम्। वानरांश्चापरान्धोरान्हनिष्यति न संशयः॥ परिगृह्य स तमाज्ञां रावणस्य महाबलः। बलं संप्रेषयामास तदा लघुपराक्रमः॥ ततो नानाप्रहरणा भीमाक्षा भीमदर्शनाः। निष्पेतू राक्षसा मुख्या बलाध्यक्षप्रचोदिताः॥ रथमास्थाय विपुलं तप्तकाञ्चनभूषणम्। मेघाभो मेघवर्णश्च मेघस्वनमहास्वनः॥ राक्षसैः संवृतो घोरैस्तदा निर्यात्यकम्पनः। नहि कम्पयितुं शक्यः सुरैरपि महामृधे।।।।। अकम्पनस्ततस्तेषामादित्य इव तेजसा। तस्य निर्धावमानस्य संरब्धस्य युयुत्सया॥ अकस्मादैन्यमागच्छद्धयानां रथवाहिनाम्। विस्फुरन्नयनं चास्य सव्यं युद्धाभिनन्दिनः॥ विवर्णो मुखवर्णश्च गद्गदश्चाभवत्स्वनः। अभवत्सुदिने काले दुर्दिनं रूक्षमारुतम्॥ ऊचुः खगमृगाः सर्वे वाचः क्रूरा भयावहाः। सिंहोपचितस्कन्धः शार्दूलसमविक्रमः॥ तानुत्पातानचिन्त्यैव निर्जगाम रणाजिरम्। तथा निर्गच्छतस्तस्य रक्षसः सह राक्षसैः॥ बभूव सुमहानादः क्षोभयन्निव सागरम्। तेन शब्देन वित्रस्ता वानराणां महाचमूः॥ दुमशैलप्रहाराणां योद्धं समुपतिष्ठताम्। तेषां युद्धं महारौद्रं संजज्ञे कपिरक्षसाम्॥ रामरावणयोरर्थे समभित्यक्तदेहिनः । सर्वे ह्यतिबलाः शूराः सर्वे पर्वतसंनिभाः॥ हरयो राक्षसाश्चैव परस्परजिघांसया। तेषां विनर्दतां शब्दः संयुगेऽतितरस्विनाम्॥ शुश्राव सुमहान्कोपादन्योन्यमभिगर्जताम्। रजश्चारुणवर्णाभं सुभीममभवद्भृशम्॥ उद्धृतं हरिरक्षोभिः संरुरोध दिशो दश। अन्योन्यं रजसा तेन कौशेयोद्धतपाण्डुना ॥ संवृतानि च भूतानि ददृशुर्न रणाजिरे। न ध्वजो न पताका वा चर्म वा तुरगोऽपि वा॥ आयुधं स्यन्दनो वापि ददृशे तेन रेणुना। शब्दश्च सुमहांस्तेषां नर्दतामभिधावताम्॥ श्रूयते तुमुलो युद्धे न रूपाणि चकाशिरे। हरीनेव सुसंरुष्टा हरयो जघ्नुराहवे॥ राक्षसा राक्षसांश्चापि निजघ्नुस्तिमिरे तदा। ते परांश्च विनिघ्नन्तः स्वांश्च वानरराक्षसाः॥ रुधिराज् तदा चक्कुर्महीं पङ्कानुलेपनाम्। ततस्तु रुधिरौघेण सिक्तं ह्यपगतं रजः॥ शरीरशवसंकीर्णा बभूव च वसुंधरा। दुमशक्तिगदाप्रासैः शिलापरिघतोमरैः॥ राक्षसा हरयस्तूर्णं जघ्नुरन्योन्यमोजसा। बाहुभिः परिघाकारैर्युध्यन्तः पर्वतोपमान्॥ हरयो भीमकर्माणो राक्षसाञ्जघ्नुराहवे। राक्षसास्त्वभिसंक्रुद्धाः प्रासतोमरपाणयः॥ कपीनिजनिरे तत्र शस्त्रैः परमदारुणैः। अकम्पनः सुसंक्रुद्धो राक्षसानां चमूपतिः॥ संहर्षयति तान्सर्वान्राक्षसान्भीमविक्रमान्। हरयस्त्वपि रक्षांसि महादुममहाश्मभिः॥ विदारयन्त्यभिक्रम्य शस्त्राण्याच्छिद्य वीर्यतः। एतस्मिन्नन्तरे वीरा हरयः कुमुदो नलः॥ मैन्दश्च परमक्रुद्धश्चक्रुर्वेगमनुत्तमम्। ते तु वृक्षैर्महावीरा राक्षसानां चमूमुखे।॥ कदनं सुमहच्चनुर्लीलया हरिपुंगवाः। ममन्थू राक्षसान्सर्वे नानाप्रहरणैर्भृशम्॥ तदृष्ट्वा सुमहत्कर्म कृतं वानरसत्तमैः। क्रोधमाहारयामास युधि तीव्रमकम्पनः॥ क्रोधमूर्च्छितरूपस्तु धुन्वन्यरमकार्मुकम्। दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमब्रवीत्॥ तत्रैव तावत्त्वरितो रथं प्रापय सारथे। एते च बलिनो घ्नन्ति सुबहूनराक्षसारणे॥ एते च बलवन्तो वा भीमकोपाश्च वानराः। द्रुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम॥ एतानिहन्तुमिच्छामि समरश्लाघिनो ह्यहम्। एतैः प्रमथितं सर्वं रक्षसां दृश्यते बलम्॥ ततः प्रचलिताश्वेन रथेन रथिनां वरः। हरीनभ्यपतराच्छरजालैरकम्पनः॥ न स्थातुं वानराः शेकुः किं पुनर्योद्धमाहवे। अकम्पनशरैर्भग्ना सर्व एवाभिदुद्रुवुः॥ तान्मृत्युवशमापनानकम्पनशरानुगान्। समीक्ष्य हनुमाञ्ज्ञातीनुपतस्थे महाबलः॥ तं महाप्लवगं दृष्ट्वा सर्वे ते प्लवगर्षभाः। समेत्य समरे वीराः सहिताः पर्यवारयन्॥ व्यवस्थितं हनूमन्तं ते दृष्ट्वा प्लवगर्षभाः। बभूवुर्बलवन्तो हि बलवन्तमुपाश्रिताः॥ अकम्पनस्तु शैलाभं हनूमन्तमवस्थितम्। महेन्द्र इव धाराभिः शरैरभिववर्ष ह॥ अचिन्तयित्वा बाणौघाशरीरे पातितान्कपिः। अकम्पनवधार्थाय मनो दध्ने महाबलः॥ स प्रहस्य महातेजा हनूमान्मारुतात्मजः। अभिदुद्राव तद्रक्षः कम्पयन्निव मेदिनीम्॥ तस्याथ नर्दमानस्य दीप्यमानस्य तेजसा। बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः॥ आत्मानं त्वप्रहरणं ज्ञात्वा क्रोधसमन्वितः। शैलमुत्पाटयामास वेगेन हरिपुंगवः॥ गृहीत्वा सुमहाशैलं पाणिनैकेन मारुतिः। स विनद्य महानादं भ्रामयामास वीर्यवान्॥ ततस्तमभिदुद्राव राक्षसेन्द्रमकम्पनम्। पुरा हि मनुचिं संख्ये वज्रेणेव पुरंदरः॥ अकम्पनस्तु तदृष्ट्वा गिरिशृङ्ग समुद्यतम्। दूरादेव महाबाणैरर्धचन्द्रैरदारयत्॥ तं पर्वताग्रमाकाशे रक्षोबाणविदारितम्। विकीर्णं पतितं दृष्ट्वा हनूमान्क्रोधमूर्च्छितः॥ सोऽश्वकर्ण समासाद्य रोषदान्वितो हरिः। तूर्णमुत्पाटयामास महागिरिमिवोच्छ्रितम्॥ तं गृहीत्वा महास्कन्धं सोऽश्वकर्णं महाद्युतिः। प्रगृह्य परया प्रीत्या भ्रामयामास भूतले॥ प्रधावनुरुवेगेन बभञ्ज तरसा दुमान् । हनूमान्परमनुद्धश्चरणैर्दारयन्महीम्॥ गजांश्च सगजारोहान्सरथारथिनस्तथा जघान हनुमान्भीमानराक्षसांश्च पदातिगान्॥ तमन्तकमिव क्रुद्धं सदुमं प्राणहारिणम्। हनूमन्तमभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः॥ तमापतन्तं संक्रुद्धं राक्षसानां भयावहम्। ददर्शाकम्पनो वीरश्चक्षोभ च ननाद च ॥ स चतुर्दशभिर्बाणैर्निशितैर्देहदारणैः। निर्बिभेद महावीर्यं हनूमन्तमकम्पनः॥ स तथा विप्रकीर्णस्तु नाराचैः शितशक्तिभिः। हनूमान्ददृशे वीरः प्ररूढ इव सानुमान्॥ विरराज महावीर्यो महाकायो महाबलः। पुष्पिताशोकसंकाशो विधूम इव पावकः॥ ततोऽन्यं वृक्षमुत्पाट्य कृत्वा वेगमनुत्तमम्। शिरस्याभिजघानाशु राक्षसेन्द्रमकम्पनम्॥ स वृक्षेण हतस्तेन सक्रोधेन महात्मना। राक्षसो वानरेन्द्रेण पपात च ममार च॥ तं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रमकम्पनम्। व्यथिता राक्षसाः सर्वे क्षितिकम्प इव दुमाः॥ त्यक्तप्रहरणाः सर्वे राक्षसास्ते पराजिताः। लङ्कामभिययुस्त्रासाद्वानरैस्तैरभिद्रुताः॥ ते मुक्तकेशाः संभ्रान्ता भग्नमानाः पराजिताः। भयाच्छ्रमजलैरङ्गैः प्रस्रवद्भिर्विदुद्रुवुः॥ अयोन्यं ते प्रमनन्तो विविशुनगरं भयात्। पृष्ठतस्ते तु संमूढाः प्रेक्षमाणा मुहुर्मुहुः॥ तेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः। समेत्य हरयः सर्वे हनूमन्तमपूजयन्॥ सोऽपि प्रवृद्धस्तान्सर्वान्हरीन्संप्रेत्यपूजयत्। हनूमान्सत्त्वसंपन्नो यथार्हमनुकूलतः॥ विनेदुश्च यथाप्राणं हरयो जितकाशिनः। चकृषुश्च पुनस्तत्र सप्राणानेव राक्षसान्॥ स वीरशोभामभजन्महाकपिः समेत्य रक्षांसि निहत्य मारुतिः। महासुरं भीमममित्रनाशनं विष्णुर्यथैवोरुबलं चमूमुखे॥ अपूजयन्देवगणास्तदा कपि स्वयं च रामोतिबलश्च लक्ष्मणः। तथैव सुग्रीवमुखाः प्लवंगमा विभीषणश्चैव महाबलस्तदा॥ ततः प्रहस्तं निर्यान्तं दृष्ट्वा रणकृतोद्यमम्। उवाच सस्मितं रामो विभीषणमरिंदमः॥ क एष सुमहाकायो बलेन महता वृतः। आगच्छति महावेगः किंरूपबलपौरुषः॥ आचक्ष्व मे महाबाहो वीर्यवन्तं निशाचरम्। राघवस्य वचः श्रुत्वा प्रत्युवाच विभीषणः॥ एष सेनापतिस्तस्य प्रहस्तो नाम राक्षसः। लङ्कायां राक्षसेन्द्रस्य त्रिभागबलसंवृतः।। वीर्यवानस्त्रविच्छूरः सुप्रख्यातपराक्रमः॥ ततः प्रहस्तं निर्यान्तं भीमं भीमपराक्रमम्। गर्जन्तं सुमहाकायं राक्षसैरभिसंवृतम्॥ ददर्श महती सेना वानराणां बलीयसाम्। अभिसंजातघोषाणां प्रहस्तमभिगर्जताम्॥ खङ्गशक्त्वृष्टिशूलाश्च बाणानि मुसलानि च। गदाश्च परिघाः प्रासा विविधाश्च परश्वधाः॥ धनूंषि च विचित्राणि राक्षसानां जयैषिणाम्। प्रगृहीतान्यराजन्त वानरानभिधावताम्॥ जगृहुः पादपांश्चापि पुष्पितांस्तु गिरीस्तथा। शिलाश्च विपुला दीर्घा योद्धकामाः प्लवंगमाः।९।। तेषामन्योन्यमासाद्य संग्रामः सुमहानभूत्। बहूनामश्मवृष्टिं च शरवर्ष च वर्षताम्॥ बहवो राक्षसा युद्धे बहून्वानरपुंगवान्। वानरा राक्षसांश्चापि निजघ्नुर्बहवो बहून्॥ शूलैः प्रमथिताः केचित्केचित्तु परमायुधैः । परिघेराहताः केचित्केचिच्छिन्नाः परश्वधैः॥ निरुच्छ्वासाः पुनः केचित्पतिता जगतीतले। विभिन्नहृदयाः केचिदिषुसंधानसाधिताः॥ केचिद्विधा कृताः खङ्गैः स्फुरन्तः पतिता भुवि। वानरा राक्षसैः शूरैः पार्श्वतश्च विदारिताः॥ वानरैश्चापि संक्रुद्धे राक्षसौघाः समन्ततः। पादपैर्गिरिशृङ्गैश्च संपिष्टा वसुधातले॥ वज्रस्पर्शतलैर्हस्तैर्मुष्टिभिश्च हता भृशम्। वमशोणितमास्येभ्यो विशीर्णवदनेक्षणाः॥ आस्विनं च स्वनतां सिंहनादं च नर्दताम्। बभूव तुमुल: शब्दो हरीणां रक्षसामपि॥ वानरा राक्षसाः क्रुद्धा वीरमार्गमनुव्रताः। विवृत्तवदनाः क्रूराश्चक्रुः कर्माण्यभीतवत्॥ नरान्तकः कुम्भहनुर्महानादः समुन्नतः। एते प्रहस्तसचिवाः सर्वे जघ्नुर्वनौकसः॥ तेषां निपततां शीघ्रं निघ्नतां चापि वानरान्। द्विविदो गिरिशृङ्गेण जघानैकं नरान्तकम्॥ दुर्मुखः पुनरुत्थाय कपिः सविपुलदुमम्। राक्षसं क्षिप्रहस्तं तु समुन्नतमपोथयत्॥ जाम्बवांस्तु सुसंक्रुद्धः प्रगृह्य महतीं शिलाम्। पातयामास तेजस्वी महानादस्य वक्षसि॥ अथ कुम्भहनुस्तत्र तारेणासाद्य वीर्यवान्। वृक्षेण महता सद्यः प्राणान्संत्याजयद्रणे॥ अमृष्यमाणस्तत्कर्म प्रहस्तो रथमाश्रितः। चकार कदनं घोरं धनुष्पाणिर्वनौकसाम्॥ आवर्त इव संजज्ञे सेनयोरुभयोस्तदा। क्षुभितस्याप्रमेमस्य सागरस्येव नि:स्वनः॥ महता हि शरौघेण राक्षसो रणदुर्मदः। अर्दयामास संक्रुद्धो वानरान्परमाहवे॥ वानराणां शरीरैस्तु राक्षसानां च मेदिनी। बभूवातिचिता घोरैः पर्वतैरिव संवृता॥ सा मही रुधिरौधेण प्रच्छन्ना संप्रकाशते। संछन्ना माधवे मासि पलाशैरिव पुष्पितैः॥ हतवीरौघवप्रां तु भग्नायुधमहादुमाम्। शोणितौघमहातोयां यमसागरगामिनीम्॥ यकृत्प्लीहमहापदां विनिकीर्णान्त्रशैवलाम्। भिन्नकायशिरोमीनामङ्गावयवशाद्वलाम्॥ गृध्रहंसवराकीर्णा कङ्कसारससेविताम्। मेदःफेनसमाकीर्णामावर्तस्वननिःस्वनाम्॥ तां कापुरुषदुस्तारां युद्धभूमिमयीं नदीम्। नदीमिव घनापाये हंससारससेविताम्॥ राक्षसाः कपिमुख्यास्ते तेरुस्तां दुस्तरां नदीम्। यथा पद्मग्जोध्वस्तां नलिनी गजयूथपाः॥ ततः सृजन्तं बाणौघान्प्रहस्तं स्यन्दने स्थितम्। ददर्श तरसा नीलो विधमन्तं प्लवंगमान्॥ उद्धृत इव वायुः खे महदभ्रबलं बलात्। समीक्ष्याभिद्रुतं युद्धे प्रहस्तो वाहिनीपतिः॥ रथेनादित्यवर्णेन नीलमेवामेवाभिदुद्रुवे। स धनुर्धन्विनां श्रेष्ठो विकृष्य परमाहवे॥ नीलाय व्यसृजद्वाणान्प्रहस्तो वाहिनीपतिः। ते प्रेत्य विशिखा नीलं विनिर्भिद्य समाहिताः॥ महीं जग्मुर्महावेगा रोषिता इव पत्रगाः। नीलः शरैरभिहतो निशितैर्व्वलनोपमैः॥ स तं परमदुर्धर्षमापतन्तं महाकपिः। प्रहस्तं ताडयामास वृक्षमुत्पाट्य वीर्यवान्॥ स तेनाभिहतः क्रुद्धो नर्दनराक्षसपुंगवः। ववर्ष शरवर्षाणि प्लवंगानां चमूपतौ॥ तस्य बाणगणानेव राक्षसस्य दुरात्मनः। अपारयन्वारयितुं प्रत्यगृह्णानिमीलितः। यथैव गोवृषो वर्ष शारदं शीघ्रमागतम्।॥ एवमेव प्रहस्तस्य शरवर्षान्दुरासदान्। निमीलिताक्षः सहसा नीलः सेहे दुरासदान्।॥ रोषितः शरवर्षेण सालेन महता महान्। प्रजघान हयानीलः प्रहस्तस्य महाबलः।४३।। ततो रोषपरीतात्मा धनुस्तस्य दुरात्मनः। बभञ्ज तरसा नीलो ननाद च पुनः पुनः॥ विधनुः स कृतस्तेन प्रहस्तो वाहिनीपतिः। प्रगृह्य मुसलं घोरं स्यन्दनादवपुप्लुवे॥ तावुभौ वाहिनीमुख्यौ जातवैरौ तरस्विनौ। स्थितौ क्षतजसिक्ताङ्गौ प्रभिन्नाविव कुञ्जरौ॥ उल्लिखन्तौ सुतीक्ष्णाभिदंष्ट्राभिरितरेतरम्। सिंहशार्दूलसदृशौ सिंहशार्दूलचेष्टितौ॥ विक्रान्तविजयौ वीरौ समरेष्वनिवर्तिनौ। काङ्कमाणौ यशः प्राप्तुं वृत्रवासवयोरिव ॥ आजघान तदा नीलं ललाटे मुसलेन सः। प्रहस्तः परमायत्तस्ततः सुस्राव शोणितम्॥ ततः शोणितदिग्धाङ्गः प्रगृह्य च महातरुम्। प्रहस्तस्योरसि क्रुद्धो विससर्ज महाकपिः॥ तमचिन्त्य प्रहारं स प्रगृह्य मुसलं महत्। अभिदुद्राव बलिनं बलानीलं प्लवंगमम्।। तमुग्रवेगं संरब्धमापतन्तं महाकपिः॥ ततः संप्रेक्ष्य जग्राह महावेगो महाशिलाम्। तस्य युद्धाभिकामस्य मृधे मुसलयोधिनः॥ प्रहस्तस्य शिलां नीलो मूर्ध्नि तूर्णमपातयत्। नीलेन कपिमुख्येन विमुक्ता महती शिला।। बिभेद बहुधा घोरा प्रहस्तस्य शिरस्तदा ॥ स गतासुर्गतश्रीको गतसत्त्वो गतेन्द्रियः। पपात सहसा भूमौ छिन्नमूल इव दुमः। ५४॥ विभिन्नशिरसस्तस्य बहु सुस्राव शोणितम्। शरीरादपि सुस्राव गिरेः प्रस्रवणो यथा॥ हते प्रहस्ते नीलेन तदकम्प्यं महाबलम्। राक्षसानामहृष्टाना लङ्कामभिजगाम हा५६।। न शेकुः समवस्थातुं निहते वाहिनीपतौ। सेतुबन्धं समासाद्य विशीणं सलिलं यथा॥ हते तस्मिंश्चमूमुख्ये राक्षसास्ते निरुद्यमाः। रक्षःपतिगृहं गत्वा ध्यानमूकत्वमागताः।। प्राप्ताः शोकार्णवं तीव्र विसंज्ञा इव तेऽभवन्।५८।। ततस्तु नीलो विजयी महाबलः प्रशस्यमानः सुकृतेन कर्मणा। समेत्य रामेण सलक्ष्मणेन प्रहृष्टरूपस्तु बभूव यूथपः।५९।। तस्मिन्हते राक्षससैन्यपाले प्लवंगमानामृषभेण युद्धे। भीमायुधं सागरवेगतुल्यं विदुद्रवे राक्षसराजसैन्यम्॥ गत्वा तु रक्षोधिपतेः शशंसुः सेनापतिं पावकसूनुशस्तम्। तच्चापि तेषां वचनं निशम्य रक्षोधिपः क्रोधवशं जगाम॥ संख्ये प्रहस्तं निहतं निशम्य क्रोधार्दितः शोकपरीतचेताः। निन्द्रो यथा निर्जरयूथमुख्यान्॥ नावज्ञा रिपवे कार्या यैरिन्द्रबलसादनः। सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः॥ सोऽहं रिपुविनाशाय विजयायाविचारयन्। स्वयमेव गमिष्यामि रणशीर्षं तदद्भुतम्॥ अद्य तद्वानरानीकं रामं च सलक्ष्मणम्। निर्दहिष्यामि बाणौधैर्वनं दीप्तैरिवाग्निभिः॥ स एवमुक्त्वा ज्वलनप्रकाशं रथं तुरंगोत्तमराजियुक्तम्। प्रकाशमानं वपुषा ज्वलन्तं समारुरोहामरराजशत्रुः॥ रास्फोटितक्ष्वेडितसिंहनादैः। स्तदा ययौ राक्षसराजमुख्यः॥ मांसाशनैः पावकदीप्तनेत्रैः। बभौ वृतो राक्षसराजमुख्यो भूतैर्वृतो रुद्र इवामरेशः। ॥ ततो नगर्याः सहसा महौजा निष्क्रम्य तद्वानरसैन्यमुग्रम्। महार्णवाभ्रस्तनितं ददर्श समुद्यतं पादपशैलहस्तम्॥ मालोक्य रामो भुजगेन्द्रबाहुः। मुवाच सेनानुगतः पृथुश्रीः॥ नानापताकाध्वजछऋजुष्टं प्रासासिशूलायुधशस्त्रजुष्टम्। कस्येदमक्षोभ्यमभीरुजुष्टं सैन्यं महेन्द्रोपमनागजुष्टम्॥ ततस्तु रामस्य निशम्य वाक्यं विभीषणः शक्रसमानवीर्यः। शशंस रामस्य बलप्रवेकं महात्मनां राक्षसपुङ्गवानाम्॥ योऽसौ गजस्कन्धगतो महात्मा नवोदितार्कोपमताम्रवक्त्रः। संकम्पयनागशिरोऽभ्युपैति हाकम्पनं त्वेनमवेहि राजन् ॥ धुंन्वन्धनुः शक्रधनुःप्रकाशम्। करीव भात्युग्रविवृत्तदंष्ट्रः स इन्द्रजिन्नाम वरप्रधानः॥ यश्चैष विन्ध्यास्तमहेन्द्रकल्पो धन्वी रथस्थोऽतिरथोऽतिवीरः। विस्फारयंश्चापमतुल्यमानं नाम्नातिकायोऽतिविवृद्धकायः॥ रारुह्य घण्टानिनदप्रणादम्। गजं खरं गर्जति वै महात्मा महोदरो नाम स एष वीरः॥ मारुद्य संध्याभ्रगिरिप्रकाशः प्रासं समुद्यम्य मरीचिनद्धं पिशाच एषोऽशनितुल्यवेगः॥ यश्चैष शूलं निशितं प्रगृह्य विद्युत्प्रभं किंकरवज्रवेगम्। मायाति योऽसौ त्रिशिरा यशस्वी॥ असौ च जीमूतनिकाशरूपः कुम्भः पृथुव्यूढसुजातवक्षाः। विस्फारयन्याति धनुर्विधुन्वन्॥ यश्चैष जाम्बूनदवज्रजुष्टं दीप्तं सधूमं पिरघं प्रगृह्य। आयाति रक्षोबलकेतुभूतो योऽसौ निकुम्भोऽद्भुतवीरकर्मा॥ यश्चैष चापासिशरौघजुष्टं पताकिनं पावकदीप्तरूपम्। रथं समास्थाय विभात्युदयो नरान्तकोऽसौ नगशृङ्गयोधी॥ यश्चैव नानाविधघोररॊपैर्व्याघ्रोष्ट्रनागेन्द्रमृगाश्ववक्रैः। भूतैवृतो भाति विवृत्तनेत्रैर्योऽसौ सुराणामपि दर्पहन्ता ॥ यत्रैतदिन्दुप्रतिमं विभातिच्छत्रं सितं सूक्ष्मशलाकमग्र्यम्। अत्रैव रक्षोधिपतिर्महात्मा भूतैर्वृतो रुद्र इवावभाति ॥ असौ किरीटी चलकुण्डलास्यो नगेन्द्रविन्ध्योपमभीमकायः। महेन्द्रवैवस्वतदर्पहन्ता रक्षोधिपः सूर्य इवावभाति ॥ प्रत्युवाच ततो रामो विभीषणमरिंदमः। अहो दीप्तमहातेजा रावणो राक्षसेश्वरः॥ आदित्य इव दुष्प्रेक्ष्यो रश्मिभिर्भाति रावणः। न व्यक्तं लक्षये ह्यस्य रूपं तेजःसमावृतम्॥ देवदानववीराणां वपुर्नैवंविधं भवेत्। यादृशं राक्षसेन्द्रस्य वपुरेतद्विराजते॥ सर्वे पर्वतसंकाशाः सर्वे पर्वतयोधिनः। सर्वे दीप्तायुधधरा योधास्तस्य महात्मनः॥ विभाति रक्षोराजोऽसौ प्रदीप्तीमदर्शनैः। भूतैः परिवृतैस्तीक्ष्णैर्देहवद्भिरिवान्तकः॥ दिष्ट्यायमद्य पापात्मा मम दृष्टिपथं गतः। अद्य क्रोधं विमोक्ष्यामि सीताहरणसंभवम्॥ एवमुक्त्वा ततो रामो धनुरादाय वीर्यवान्। लक्ष्मणानुचरस्तस्थौ समुद्धृत्य शरोत्तमम्॥ ततः स रक्षोधिपतिर्महात्मा रक्षांसि तान्याह महाबलानि। द्वारेषु चर्यागृहगोपुरेषु सुनिर्वृतास्तिष्ठत निर्विशङ्काः॥ इहागतं मां सहितं भवद्भिर्वनौकसश्छिद्रमिदं विदित्वा। शून्यां पुरीं दुष्प्रसहां प्रमथ्य प्रधर्षयेयुः सहसा समेताः॥ विसर्जयित्वा सचिवांस्ततस्तान् गतेषु रक्षःसु यथानियोगम्। व्यदारयद्वानरसागरौधं महाझषः पूर्णमिवार्णवौघम्॥ तमापतन्तं सहसा समीक्ष्य दीप्तेषुचापं युधि राक्षसेन्द्रम्। महत्समुत्पाट्य महीधराग्रं दुद्राव रक्षोधिपति हरीशः॥ तच्छैलशृङ्गं बहुवृक्षसार्नु प्रगृह्य चिक्षेप निशाचराय। तमापतन्तं सहसा समीक्ष्य चिच्छेद बाणैस्तपनीयपुखैः।। तस्मिन्प्रवृद्धोत्तमसानुवृक्षे शृङ्गे विदीर्णे पतिते पृथिव्याम्। महाहिकल्पं शरमन्तकाभं समादधे राक्षसलोकनाथः॥ स तं गृहीत्वानिलतुल्यवेगं सविस्फुलिङ्गज्वलनप्रकाशम्। बाणं महेन्द्राशनितुल्यवेगं चिक्षेप सुग्रीववधाय रुष्टः॥ स सायको रावणबाहुमुक्तः शक्राशनिस्पर्शवपुः प्रकाशम् सुग्रीवमासाध्य बिभेद वेदाग्दहेरिता क्रौञ्चमिवोग्रशक्तिः॥ स सायकार्तो विपरीतचेताः कूजन्पृथिव्यां निपपात वीरः। तं वीक्ष्य भूमौ पतितं विसंज्ञं नेदुः प्रहृष्टा युधि यातुधानाः॥ ततो गवाक्षो गवयः सुषेणस्त्वथर्षभो ज्योतिमुखो नलश्च। शैलान्समुत्पाट्य विवृद्धकायाः प्रदुद्रुवुस्तं प्रति राक्षसेन्द्रम्॥ तेषां प्रहारान्स चकार मोघान् राक्षोधिपो बाणशतैः शिताग्रैः। तान्वानरेन्द्रानापि बानजालैर्बिभेद जाम्बॊनदचित्रपुङ्खैः॥ ते वानरेन्द्रारित्रदशारिबाणैर्भिन्ना निपेतुर्भुवि भीमकायाः।। ततस्तु तद्वानरसैन्यमुग्रं प्रच्छादयामास स बाणजालैः। ४४॥ ते वध्यमानाः पतिताश्च वीरा नानद्यमाना भयशल्यविद्धाः। शाखामृगा रावणसायकार्ता जग्मुः शरण्यं शरणं स्म रामम्॥ ततो महात्मा स धनुर्धनुष्मानादाय रामः सहसा जगाम। तं लक्ष्मणः प्राञ्जलिरभ्युपेत्य उवाच रामं परमार्थयुक्तम्॥ काममार्य सुपर्याप्तो वधायास्य दुरात्मनः। विधमिष्याम्यहं चैतमनुजानीहि मां विभो॥ तमब्रवीन्महातेजा रामः सत्यपराक्रमः। गच्छ यत्नपरश्चाप भव लक्ष्मण संयुगे॥ रावणो हि महावीर्यो रणेऽ दुतपराक्रमः। त्रैलोक्येनापि संक्रुद्धो दुष्प्रसह्यो न संशयः॥ तस्याच्छिद्राणि मार्गस्व स्वच्छिद्राणि च लक्षय। चक्षुषा धनुषात्मानं गोपायस्व समाहितः॥ राघवस्य वचः श्रुत्वा संपरिष्वज्य पूज्य च। अभिवाद्य च रामाय ययौ सौमित्रिराहवे॥ स रावणं वारणहस्तबाहुं ददर्श भीमोद्यतदीप्तचापम्। प्रच्छादयन्तं शरवृष्टिजालैस्तान्वानरान्भिनविकीर्णदेहान्। ५१।। तमालोक्य महातेजा हनूमान्मारुतात्मजः। निवार्य शरजालानि विदुद्राव स रावणम्॥ रथं तस्य समासाद्य बाहुमुद्यम्य दक्षिणम्। त्रासयनरावणं धीमान्हनूमान्वाक्यमब्रवीत्॥ देवदानवगन्धर्वैर्यक्षैश्च सह राक्षसैः। अवध्यत्वं त्वया प्राप्तं वानरेभ्यस्तु ते भयम्। ५४।। एष मे दक्षिणो बाहुः पञ्चशाखः समुद्यतः। विधमिष्यति ते देहे भूतात्मानं चिरोषितम्।५५ ।। श्रुत्वा हनूमतो वाक्यं रावणो भीमविक्रमः। संरक्तनयनः क्रोधादिदं वचनमब्रवीत्॥ क्षिप्रं प्रहर निःशङ्कं स्थिरां कीर्तिमवाप्नुहि। ततस्त्वां ज्ञातविक्रान्तं नाशयिष्यामि वानर॥ रावणस्य वचः श्रुत्वा वायुसूनुर्वचोऽब्रवीत्। प्रहतं हि मया पूर्वमक्षं तव सुतं स्मर॥ एवमुक्तो महातेजा रावणो राक्षसेश्वरः। आजघानानिलसुतं तलेनोरसि वीर्यवान्।। स तलाभिहतस्तेन चचाल च मुहुर्मुहुः। ५९।। स्थितो मुहुर्त तेजस्वी स्थैर्य कृत्वा महामतिः। आजघान च संक्रुद्धस्तलेनैवामरद्विषम्॥ ततः स तेनाभिहतो वानरेण महात्मना। दशग्रीवः समाधूतो यथा भूमितलेऽचलः॥ संग्रामे तं तथा दृष्ट्वा रावणं तलताडितम्। ऋषयो वानराः सिद्धा नेदुर्देवाः सुरासुरैः॥ अथाश्वस्य महातेजा रावणो वाक्यमब्रवीत्। साधु वानर वीर्येण श्लाघनीयोऽसि मे रिपुः॥ रावणेनैवमुक्तस्तु मारुतिर्वाक्यमब्रवीत्। धिगस्तु मम वीर्यस्य यत्त्वं जीवसि रावण ॥ सकृत्तु प्रहरेदानी दुर्बुद्धे किं विकत्थसे। ततस्त्वां मामको मुष्टिर्नयिष्यति यमक्षयम्॥ ततो मारुतिवाक्येन कोपस्तस्य प्रजज्वले। संरक्तनयनो यत्नान्मुष्टिमावृत्य दक्षिणम्।। पातयामासवेगेन वानरोरसि वीर्यवान्।६६।। हनूमान्वक्षसि व्यूढे संचचाल पुनः पुनः। विह्वलं तं तदा दृष्ट्वा हनूमन्तं महाबलम्॥ रथेनातिरथः शीघ्रं नीलं प्रतिसमभ्यगात्। राक्षसानामधिपतिर्दशग्रीवः प्रतापवान्॥ पन्नगप्रतिमैर्भीमैः परमर्माभिभेदनैः। शरैरादीपयामास नीलं हरिचभूपतिम्॥ स शरौघसमायस्तो नीलो हरिचमूपतिः। करेणैकेन शैलाग्रं रक्षोधिपतयेऽसृजन्॥ हनूमानपि तेजस्वी समाश्वस्तो महामनाः। विप्रेक्षमाणो युद्धेप्सुः सरोषमिदमब्रवीत्।७१।। नीलेन सह संयुक्तं रावणं राक्षसेश्वरम्। अन्येन युध्यमानस्य न युक्तमभिधावनम्॥ रावणोऽथ महातेजास्तं शृङ्गं सप्तभिः शरैः। आजधान सुतीक्ष्णाग्रैस्तद्धिशीणं पपात ह।७३।। तद्विशीर्णं गिरेः शृङ्गं दृष्ट्वा हरिचमूपतिः। कालाग्निरिव जज्वाल कोपेन वरवीरहा। ७४ ।। सोऽश्वकर्णदुमाशालांश्चूतांश्चापि सुपुष्पितान्। अन्यांश्च विविधान्वृक्षानीलश्चिक्षेप संयुगे।७५ ।। स तान्वृक्षान्समासाद्य प्रतिचिच्छेद रावणः। अभ्यवर्षच्च घोरेण शरवर्षेण पावकिम्॥ अभिवृष्टः शरौघेण मेघेनेव महाबलः। ह्रस्वं कृत्वा ततो रूपं ध्वजाग्रे निपपात ह।७७॥ पावकात्मजमालोक्य ध्वजाग्रे समवस्थितम्। जज्वाल रावणः क्रोधात्ततो नीलो ननाद च। ७८ ।। ध्वजाग्रे धनुषश्चाग्रे किरीटाग्रे च तं हरिम्। लक्ष्मणोऽथ हनूमांश्च रामश्चापि सुविस्मिताः।७९ ।। रावणोऽपि महातेजाः कपिलाघवविस्मितः। अस्त्रमाहारयामास दीप्ताग्नेयमद्भुतम्॥ ततस्ते चुक्रुशुहृष्टा लब्धलक्षाः प्लवंगमाः। नीललाघवसंभ्रान्तं दृष्ट्वा रावणमाहवे॥ वानराणां च नादेन संरब्धो रावणस्तदा। संभ्रमाविष्टहृदयो न किंचित्प्रत्यपद्यत।॥ आग्नेयेनापि संयुक्तं गृहीत्वा रावणः शरम्। ध्वजशीर्णस्थितं नीलमुर्दक्षत निशाचरः॥ ततोऽब्रवीन्महातेजा रावणो राक्षसेश्वरः। कपे लाघवयुक्तोऽसि मायया परया सह॥ जीवितं खलु रक्षस्य यदि शक्तोऽसि वानर। तानि तान्यात्मरूपाणि सृजसि त्वमनेकशः॥ तथापि त्वां मया मुक्त: नायकोऽस्त्रप्रयोजितः। जीवितं परिरक्षन्तं जीविताभ्रंशयिष्यति॥ एवमुक्त्वा महाबाहु रावणो राक्षसेश्वरः। संधाय बाणमस्त्रेण चमूपतिमताडयत्॥ सोऽस्त्रमुक्तेन बाणेन नीलो वक्षसि ताडितः। निर्दह्यमानः सहसा स पपात महीतले॥ पितृमाहात्म्यसंयोगादात्मनश्चापि तेजसा। जानुभ्यामपतद्भूभौ न तु प्राणैर्वियुज्यत॥ विसंजं वानरं दृष्ट्वा दशग्रीवो रणोत्सुकः। रथेनाम्बुदनादेन सौमित्रिमभिदुद्रुवे॥ आसाद्य रणमध्ये तं वारयित्वा स्थितो ज्वलन्। धनुर्विस्फारयामास राक्षसेन्द्रः प्रतापवान्॥ तमाह सौमित्रिरदीनसत्त्वो विस्फारयन्तं धनुरप्रमेयम्। अवेहि मामद्य निशाचरेन्द्र न वानरांस्त्वं प्रतियोद्धमर्हसि ॥ स तस्य वाक्यं प्रतिपूर्णघोषं ज्याशब्दमुग्रं च निशम्य राजा। आसाद्य सौमित्रिमुपस्थितं तं रोषान्वितं वाचमुवाच रक्षः॥ दिष्ट्यासि मे राघव दृष्टिमार्ग प्राप्तऽन्तगामी विपरीतबुद्धिः। अस्मिन्क्षणे यास्यसि मृत्युलोकं संसाद्यमानो मम बाणजालैः।१४॥ तमाह सौमित्रिरविस्मयानो गर्जन्तमुवृत्तशिताग्रदंष्ट्रम्। राजन्न गर्जन्ति महाप्रभावा विकत्थसे पापकृतां वरिष्ठ।१५॥ जानामि वीर्यं तव राक्षसेन्द्र बलं प्रतापं च पराक्रमं च रागच्छ किं मोघविकत्थनेन।१६॥ स एवमुक्तः कुपितः ससर्ज रक्षोधिपः सप्त शरान्सुपुङ्खान्।। ताल्लक्ष्मणः काञ्चनचित्रपुङ्खैश्चिच्छेद् बाणैर्निशिताग्रधारैः॥ तान्प्रेक्षमाणः सहसा निकृत्तान्निकृत्तभोगानिव पन्नगेन्द्रान्। लङ्केश्वरः क्रोधवशं जगाम ससर्ज चान्यानिशितान्पृषत्कान्॥ स बाणवर्षं तु ववर्ष तीवं रामानुजः कार्मुकसंप्रयुक्तम्। क्षुरार्धचन्द्रोत्तमकर्णभल्लैः शरांश्च चिच्छेद न चुक्षुभे च ॥ स बाणजालान्यपि तानि तानि मोघानि पश्यंत्रिदशारिराजः। विसिस्मिये लक्ष्मणलाघवेन पुनश्च बाणानिशितान्मुमोच॥ स लक्ष्मणश्चापि शिताशिताग्रान् महेन्द्रतुल्योऽशनिभीमवेगान्। संधाय चापे ज्वलनप्रकाशान् ससर्ज रक्षोधिपतेर्वधाय॥ स तान्प्रचिच्छेद हि राक्षसेन्द्रः शिताशरांल्लक्ष्मणमाजघान। शरेण कालाग्निसमप्रभेण स्वयंभुदत्तेन ललाटदेशे॥ स लक्ष्मणो रावनसायकार्तश्चचाल चापं शिथिलं प्रगृह्य । पुनश्च संज्ञां प्रतिलभ्य कृच्छ्राच्चिच्छेद चापं त्रिदशेन्द्रशत्रोः॥ निकृत्तचापं त्रिभिराजघान बाणैस्तदा दाशरथिः शिताग्रैः। स सायकार्तो विचचाल राजा कृच्छ्राच्च संज्ञां पुनराससाद ॥ स कृत्तचापः शरताडितश्च मेदागात्रो रुधिरावसिक्तः। जग्राह शक्तिं स्वयमुग्रशक्तिः स्वयंभुदत्तां युधि देवशत्रुः॥ स तां सधूमानलसंनिकाशा वित्रासनां संयति वानराणाम्। चिक्षेप शक्तिं तरसा ज्वलन्ती सौमित्रये राक्षसराष्ट्रनाथः॥ तामापतन्तीं भरतानुजोस्त्रैर्जधान बाणैश्च हुताग्निकल्पैः। तथापि सा तस्य विवेश शक्तिर्भुजान्तरं दाशरथेविशालम्॥ स शक्तिमाशक्तिसमाहतः सन् जज्वाल भूमौ स रघुप्रवीरः। तं विह्वलन्तं सहसाभ्युपेत्य जग्राह राजा तरसा भुजाभ्याम्॥ हिमवान्मन्दरो मेरुस्त्रैलोक्यं वा सहामरैः। शक्यं भुजाभ्यामुद्धर्तुं न शक्यो भरतानुजः॥ शक्त्या ब्राया तु सौमित्रिस्ताडितोऽपि स्तनान्तरे। विष्णोरमीमांस्यभागमात्मानं प्रत्यनुस्मरत्॥ ततो दानवदर्पघ्नं सौमित्रिं देवकण्टकः। तं पीडयित्वा बाहुभ्यां न प्रभुर्लङ्घनेऽभवत्॥ ततः क्रुद्धो वायुसुतो रावणं समभिद्रवत्। आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना॥ तेन मुष्टिप्रहारेण रावणो राक्षसेश्वरः। जानुभ्यामगमद्भूमौ चचाल च पपात च॥ आस्यैश्च नेत्रैः श्रवणैः पपात रुधिरं बहु। विघूर्णमानो निश्चेष्टो रथोपस्य उपाविशत्॥ विसंज्ञो मूर्च्छितश्चासीन च स्थानं समालभत्। विसंज्ञं रावणं दृष्ट्वा समरे भीमविक्रमम्॥ ऋषयो वानराश्चैव नेदुर्देवाश्च सासुराः। हनूमानथ तेजस्वी लक्ष्मणं रावणार्दितम्॥ आनयद्राघवाभ्याशं बाहुभ्यां परिगृह्य तम्। वायुसूनोः सुहृत्त्वेन भक्त्या परमया च सः। शत्रूणामप्यकम्प्योऽपि लघुत्वमगमत्कपेः॥ तं समुत्सृज्य सा शक्तिः सौमित्रिं युधि निर्जितम्। रावणस्य रथे तस्मिन्स्थानं पुनरुपागमत्॥ रावणोऽपि महातेजाः प्राप्य संज्ञां महाहवे। आददे निशितान्बाणाञ्जग्राह च महद्धनुः॥ आश्वस्तश्च विशल्यश्च लक्ष्मणः शत्रुसूदनः। विष्णोर्भागममीमांस्यमात्मानं प्रत्यनुस्मरन्॥ निपातितमहावीरां वानराणां महाचमूम्। राघवस्तु रणे दृष्ट्वा रावणं समभिद्रवत्॥ अथैनमनुसंक्रम्य हनूमान्वाक्यमब्रवीत्। मम पृष्ठं समारुह्य राक्षसं शास्तुमर्हसि ॥ विष्णुर्यथा गरुत्मन्तमारुह्यामरवैरिणम्। तच्छ्रुत्वा राघवो वाक्यं वायुपुत्रेण भाषितम्॥ अथारुरोह सहसा हनूमन्तं महाकपिम्। रथस्थं रावणं संख्ये ददर्श मनुजाधिपः॥ तमालोक्य महातेजाः प्रदुद्राव स रावणम्। वैरोचनमिव क्रुद्धो विष्णुरभ्युद्यतायुधः॥ ज्याशब्दमकरोत्तीव्र वज्रनिष्पेषनिष्ठुरम्। गिरा गम्भीरया रामो राक्षसेन्द्रमुवाच ह॥ तिष्ठ तिष्ठ मम त्वं हि कृत्वा विप्रियमीदृशम्। क्व नु राक्षसशार्दूल गत्वा मोक्षमवाप्स्यसि॥ यदीन्द्रवैवस्वतभास्करान्वा स्वयंभुवैश्वानरशंकरान्वा। गमिष्यसि त्वं दशधा दिशो वा तथापि ने नाद्य गतो विमोक्ष्यसे ॥ यश्चैष शक्त्या निहतस्त्वयाद्य गच्छन्विषादं सहसाभ्युपेत्य। स एष रक्षोगणराजमृत्युः सपुत्रपौत्रस्य तवाद्य युद्धे ॥ एतेन चात्यद्भुतदर्षनानि शरैर्जनस्थानकृतालयानि। चतुर्दशान्यात्तवरायुधानि रक्षः सहस्राणि निषूदितानि ॥ राघवस्य वचः श्रुत्वा राक्षसेन्द्रो महाबलः। वायुपुत्रं महावेगं वहन्तं राघवं रणे॥ रोषेण महताविष्टः पूर्ववैरमनुस्मरन्। आजघान शरैर्दीप्तैः कालानलशिखोपमैः॥ राक्षसेनाहते तस्य ताडितस्यापि सायकैः। स्वभावतेजोयुक्तस्य भूयस्तेजोऽभ्यवर्धत॥ ततो रामो महातेजा रावणेन कृतव्रणम्। दृष्ट्वा प्लवगशार्दूलं क्रोधस्य वशमेयिवान्॥ तस्याभिसंक्रम्य रथं सचक्रं साश्वध्वजच्छत्रमडापताकम्। ससारथिं साशनिशूलखङ्गं रामः प्रचिच्छेद शितैः शराग्रैः॥ अथेन्द्रशत्रु तरसा जघान बाणेन वज्राशनिसंनिभेन। भुजान्तरे व्यूढसुजातरूपे वज्रेण मेरुं भगवानिवेन्द्रः॥ यो वज्रपाताशनिसंनिपातान् न चुक्षुभे नापि चचाल राजा। स रामबानाभिहतो भृशार्तश्चचाल चापं च मुमोच वीरः॥ तं विह्वलन्तं प्रसमीक्ष्य रामः समाददे दीप्तमथार्धचन्द्रम्। तेनार्कवर्णं सहसा किरीटं चिच्छेद रक्षोधिपतेर्महात्मा॥ तं निर्विषाशीविषसंनिकाशं शान्तार्चिषं सूर्यमिवाप्रकाशम्। गतश्रियं कृत्तकिरीटकूटमुवाच रामो युधि राक्षसेन्द्रम् ॥ कृतं त्वया कर्म महत्सुभीमं हतप्रवीरश्च कृतस्त्वथाहम्। तस्मात्परिश्रान्त इति व्यवस्य न त्वां शरैर्मृत्युवशं नयामि॥ प्रयाहि जानामि रणार्दितस्त्वं प्रविश्य रात्रिंचरराज लङ्काम्। आश्वस्य निर्याहि रथी सधन्वी तदा बलं प्रेक्ष्यसि मे रथस्थः॥ स एवमुक्तो हतदर्पहर्षो निकृत्तचापः स हताश्वसूतः। शरादितो भग्नमहाकिरीटो विवेश लङ्कां सहसा स्म राजा॥ तस्मिन्प्रविष्टे रजनीचरेन्द्रे महाबले दानवदेवशत्रौ। हरीन्विशल्यान्सह लक्ष्मणेन चकार रामः परमाहवाग्रे॥ तस्मिन्प्रभग्ने त्रिदशेन्द्रशत्रौ सुरासुरा भूतगणा दिशश्च। ससागराः सर्वमहोरगाश्च तथैव भूम्यम्बुचराः प्रहृष्टाः॥ स प्रविश्य पुरीं लङ्कां रामबाणभयादितः। भग्नदर्पस्तदा राजा बभूव व्यथितेन्द्रिथः॥ मातंग इव सिंहेन गरुडेनेव पन्नगः। अभिमूतोऽभवद्राजा राघवेण महात्मना॥ ब्रह्मदण्डप्रतीकानां विद्युच्चलितवर्चसाम्। स्मरराघवबाणानां विव्यथे राक्षसेश्वरः॥ स काञ्चनमयं दिव्यमाश्रित्य परमासनम्। विप्रेक्षमाणो रक्षांसि रावणो वाक्यमब्रवीत्॥ सर्वं तत्खलु मे मोघं यत्तप्तं परमं तपः। यत्समानो महेन्द्रेण मानुषेण विनिर्जितः॥ इदं तद्ब्रह्मणो घोरं वाक्यं मामभ्युपस्थितम्। मानुषेभ्यो विजानीहि भयं त्वमिति तत्तथा॥ देवदानवगन्धर्यक्षराक्षसपनगैः। अवध्यत्वं मया प्रोक्तं मानुषेभ्यो न याचितम्॥ तमिमं मानुषं मन्ये रामं दशरथात्मजम्। इक्ष्वाकुकुलजातेन अनरण्येन यत्पुरा॥ उत्पत्स्यति हि मद्वंशपुरुषो राक्षसाधम। यस्त्वां सपुत्रं सामात्यं सबलं साश्वसारथिम्।९।। निहनिष्यति संग्रामे त्वां कुलाधम दुर्मते। शप्तोऽहं वेदवत्या च यथा सा धर्षिता पुरा ॥ सेयं सीता महाभागा जाता जनकनन्दिनी। उमा नन्दीश्वरश्चापि रम्भा वरुणकन्यका॥ यथोक्तास्तन्मया प्राप्तं न मिथ्या ऋषिभाषितम्। एतदेव समागम्य यत्नं कर्तुमिहार्हथ ॥ राक्षसाश्चापि तिष्ठन्तु चर्यागोपुरमूर्धसु। स चाप्रतिमगाम्भीर्यो देवदानवदर्पहा॥ ब्रह्मशापाभिभूतस्तु कुम्भकर्णो विबोध्यताम्। समरे जितमात्मानं प्रहस्तं च निषूदितम्॥ ज्ञात्वा रक्षो भीमबलमादिदेश महाबलः। द्वारेषु यत्नः क्रियतां प्राकारश्चाधिरुह्यताम्॥ निद्रावशसमाविष्टः कुम्भकर्णो विबोध्यताम्। सुखं स्वपिति निश्चिन्तः कामोपहतचेतनः॥ नव सप्त दशाष्टौ च मासान्स्वपिति राक्षसः। मन्त्रं कृत्वा प्रसुप्तोऽयमितस्तु नवमेऽहनि॥ तं तु बोधयत क्षिप्रं कुम्भकर्ण महाबलम्। स हि संख्ये महाबाहुः ककुदं सर्वरक्षसाम्। वानरान्राजपुत्रौ च क्षिप्रमेव हनिष्यति॥ एष केतुः परं संख्ये मुख्यो वै सर्वरक्षसाम्। कुम्भकर्णः सदा शेते मूढो ग्राम्यसुखे रतः॥ रामेणाभिनिरस्तस्य संग्रामेऽस्मिन्सुदारुणे। भविष्यति न मे शोकः कुम्भकर्णे विबोधिते॥ किं करिष्याम्यहं तेन शक्रतुल्यबलेन हि। ईदृशे व्यसने घोरे यो न साह्याय कल्पते॥ ते तु तद्वचनं श्रुत्वा राक्षसेन्द्रस्य राक्षसाः। जग्मुः परमसंभ्रान्ताः कुम्भकर्णनिवेशनम्॥ ते रावणसमादिष्टा मांसशोणितभोजनाः। गन्धं माल्यं महद्भक्ष्यामादाय सहसा ययुः॥ तां प्रविश्य महाद्वारा सर्वतो योजनायताम्। कुम्भकर्णगुहां रम्यां पुष्पगन्धप्रवाहिनीम्॥ कुम्भकर्णस्य निःश्वासादवधूता महाबलाः। प्रतिष्ठमानाः कृच्छ्रेण यत्नात्प्रविविशुर्गुहाम्॥ तां प्रविश्य गुहां रम्यां रत्नकाञ्चनकुट्टिमाम्। ददृशुर्नैर्ऋतव्याघ्राः शयानं भीमविक्रमम्॥ ते तु तं विकृतं सुप्तं विकीर्णमिव पर्वतम्। कुम्भकर्ण महानिद्रं समेताः प्रत्यबोधयन्॥ ऊर्ध्वलोमाञ्चिततनुं श्वसन्तमिव पन्नगम्। भ्रामयन्तं विनिःश्वासैः शयानं भीमविक्रमम्॥ भीमनासापुटं तं तु पातालविपुलाननम्। शयने न्यस्तसर्वाङ्ग मेदोरुधिरगन्धिनम्॥ काञ्चनाङ्गदनद्धाङ्गं किरीटेनार्कवर्चसम्। ददृशुर्नैर्ऋतव्याघ्र कुम्भकर्णमरिंदमम्॥ ततश्चक्रुर्महात्मानः कुम्भकर्णस्य चाग्रतः। भूतानां मेरुसंकाशं राशिं परमतर्पणम्॥ मृगाणां महिषाणां च वराहाणां च संचयान्। चकुर्नैर्ऋतशार्दूला राशिमन्त्रस्य चाद्भुतम्॥ ततः शोणितकुम्भांश्च मांांसानि विविधानि च। पुरस्तात्कुम्भकर्णस्य चक्रुस्त्रिदशशत्रवः॥ लिलिपुश्च परार्थेन चन्दनेन परंतपम्। दिव्यैराश्वासयामासुर्माल्यैर्गन्धैश्च गन्धिभिः॥ धूपगन्धांश्च ससृजुस्तुष्टुवुश्च परंतपम्। जलदा इव चानेदुर्यातुधानास्ततस्ततः॥ शङ्खांश्च पूरयामासुः शशाङ्कसदृशप्रभान्। तुमुलं युगपच्चापि विनेदुश्चाप्यमर्षिताः॥ नेदुरास्फोटयामासुश्चिक्षिपुस्ते निशाचराः। कुम्भकर्णविबोधार्थं चक्रुस्ते विपुलं स्वरम्॥ स शङ्खभेरीपणवप्रणादं सास्फोटितक्ष्वेलितसिंहनादम्। दिशो द्रवन्तस्त्रिदिवं किरन्तः श्रुत्वा विहंगाः सहसा निपेतुः॥ यदा भृशानिनदैर्महात्मा न कुम्भकर्णो बुबुधे प्रसुप्तः। ततो भुशुण्डीर्मुसलानि सर्वे रक्षोगणास्तं जगृहुर्गदाश्च ॥ र्वक्षस्थले मुद्गरमुष्टिभिश्च। सुखप्रसुप्तं भुवि कुम्भकर्ण रक्षांस्युदग्राणि तदा निजघ्नुः॥ तस्य निःश्वासवातेन कुम्भकर्णस्य रक्षसः। राक्षसाः कुम्भकर्णस्य स्थातुं शेकुर्न चाग्रतः॥ ततः परिहिता गाढं राक्षसा भीमविक्रमाः। मृदङ्गपणवान् शङ्खकुम्भगणांस्तथा॥ दश राक्षससाहस्रं युगपत्पर्यवारयत्। नीलाञ्जनचयाकारं ते तु तं प्रत्यबोधयन्॥ अभिघ्नन्तो नदन्तश्च न च संबुबुधे तदा। यदा चैनं न शेकुस्ते प्रतिबोधयितुं तदा॥ ततो गुरुतरं यत्नं दारुणं समुपाक्रमन्। अश्वानुष्ट्रान्खरान्नागाञ्जघ्नुर्दण्डकशाङ्कुशैः॥ भेरीशङ्खमृदङ्गांश्च सर्वप्राणैरवादयन्। निजघ्नुश्चास्य गात्राणि महाकाष्ठकटंकरैः।॥ भेरी: मुद्गरैर्मुसलैश्चापि सर्वप्राणसमुद्यतैः। तेन नादेन महता लङ्का सर्वा प्रपूरिता।। सपर्वतवना सर्वा सोऽपि नैव प्रबुध्यते॥ ततो भेरीसहस्रं तु युगपत्समहन्यत। मृष्टकाञ्चनकोणानामसक्तानां समन्ततः॥ एवमप्यतिनिद्रस्तु यदा नैव प्रबुध्यत। शापस्य वशमापनस्ततः कुद्धा निशाचराः॥ ततः कोपसमाविष्टाः सर्वे भीमपराक्रमाः। तद्रक्षो बोधयिष्यन्तश्चक्रुरन्ये पराक्रमम्॥ अन्ये भेरीः समाजघ्नुरन्ये चक्रुर्महास्वनम्। केशानन्ये प्रलुलुपुः कर्णानन्ये दशन्ति च। ५१।। उदकुम्भशतानन्ये समसिञ्चन्त कर्णयोः। न कुम्भकर्णः पस्पन्दे महानिद्रावशं गतः॥ अन्ये च बलिनस्तस्य कूटमुद्गरपाणयः। मूर्ध्नि वक्षसि गात्रेषु पातयन्कूटमुद्गरान् ॥ रज्जुबन्धनबद्धाभिः शतघ्नीभिश्च सर्वशः। वध्यमानो महाकायो न प्राबुध्यत राक्षसः।५४।। वारणानां सहस्रं च शरीरेऽस्य प्रधावितम्। कुम्भकर्णस्तदा बुद्ध्वा स्पर्श परमबुध्यत ॥ रचिन्तयंस्तान्विपुलान्प्रहारान्। निद्राक्षयात्क्षुद्भयपीडितश्च विजृम्भमाणः सहसोत्पपात।५६।। स नागभोगाचलशृङ्गकल्पौ विक्षिप्य बाहू जितवज्रसारौ। विवृत्य वक्रं वडवामुखाभं निशाचरोऽसौ विकृतं जजृम्भे॥ तस्य जाजृम्भमाणस्य वक्रं पातालसंनिभम्। ददृशे मेरुशृङ्गाग्रे दिवाकर इवोदितः॥ स जृम्भमाणोऽतिबलः प्रबुद्धस्तु निशाचरः। निःपासश्चास्य संजज्ञे पर्वतादिव मारुतः॥ रूपमुत्तिष्ठतस्तस्य कुम्भकर्णस्य तद्बभौ। युगान्ते सर्वभूतानि कालस्येव दिधक्षतः॥ तस्याग्निदीप्तसदृशे विद्युत्सदृशवर्चसी। ददृशाते महानेत्रे दीप्ताविव महाग्रहौ॥ ततस्त्वदर्शयन्सर्वान्भक्ष्यांश्च विविधान्बहून्। वराहान्महिषांश्चैव बभक्ष स महाबलः॥ आद(भुक्षितो मांसं शोणितं तृषितोऽपिबत्। मेदःकुम्भांश्च मद्यांश्च पपौ शक्ररिपुस्तदा॥ ततस्तृप्त इति ज्ञात्वा समुत्पेतुर्निशाचराः। शिरोभिश्च प्रणम्यैनं सर्वतः पर्यवारयन्॥ निद्राविशदनेत्रस्तु कलुषीकृतलोचनः। चारयन्सर्वतो दृष्टिं तानुवाच निशाचरान्॥ स सर्वान्सान्त्वयामास नैर्ऋतानैर्ऋतर्षभः। बोधनाद्विस्मितश्चापि राक्षसानिदमब्रवीत्॥ किमर्थमहमादृत्य भवद्भिः प्रतिबोधितः। कच्चित्सुकुशलं राज्ञो भयं वा नेह किंचन॥ अथ वा ध्रुवमन्येभ्यो भयं परमुपस्थितम्। यदर्थमेव त्वरितैर्भवद्भिः प्रतिबोधितः॥ अद्य राक्षसराजस्य भयमुत्पाटयाम्यहम्। दारयिष्ये महेन्द्रं वा शीतयिष्ये तथानलम्॥ नह्यल्पकारणे सुप्तं बोधयिष्यति मादृशम्। तदाख्यातार्थतत्त्वेन मत्प्रबोधनकारणम्।७० ॥ एवं ब्रुवाणं संरब्धं कुम्भकर्णमरिंदमम्। यूपाक्षः सचिवो राज्ञः कृताञ्जलिरभाषत॥ न नो देवकृतं किंचिद्भयमस्ति कदाचन। मानुषानो भयं राजंस्तुमुलं संप्रबाधते॥ न दैत्यदानवेभ्यो वा भयमस्ति न नः क्वचित्। यादृशं मानुषं राजन्भयमस्मानुपस्थितम्॥ वानरैः पर्वताकारैर्लङ्केयं परिवारिता। सीताहरणसंतप्ताद्रामानस्तुमुलं भयम्॥ एकेन वानरेणेयं पूर्वं दग्धा महापुरी। कुमारो निहतश्चाक्षः सानुयात्रः सकुञ्जरः॥ स्वयं रक्षोधिपश्चापि पौलस्त्यो देवकण्टकः। व्रजेति संयुगे मुक्तो रामेणादित्यवर्चसा ॥ यन्न देवैः कृतो राजा नापि दैत्यैर्न दानवः। कृतः स इह रामेण विमुक्तः प्राणसंशयात्॥ स यूपाक्षवचः श्रुत्वा भ्रातुर्युधि पराभवम्। कुम्भकर्णो विवृत्ताक्षो यूपाक्षमिदमब्रवीत्॥ सर्वमद्यैव यूपाक्ष हरिसैन्यं सलक्ष्मणम्। राघवं च रणे जित्वा ततो द्रक्ष्यामि रावणम्॥ राशसांस्तर्पयिष्यामि हरीणां मांसशोणितैः। रामलक्ष्मणयोश्चापि स्वयं पास्यामि शोणितम्।।८० तत्तस्य वाक्यं ब्रुवतो निशम्य सगर्वितं रोषविवृद्धदोषम्। महोदरो नैऋतयोधमुख्यः कृताञ्जलिर्वाक्यमिदं बभाषे।८१॥ रावणस्य वचः श्रुत्वा गुणदोषौ विमृश्य च। पश्चादपि महाबाहो शत्रून्युधि विजेष्यसि ॥ महोदरवचः श्रुत्वा राक्षसैः परिवारितः। कुम्भकर्णो महातेजाः संप्रतस्थे महाबलः॥ सुप्तमुत्थाप्य भीमाक्षं भीमरूपपराक्रमम्। राक्षसास्त्वरिता जग्मुर्दशग्रीवनिवेशनम्॥ तेऽभिगम्य दशग्रीवमासीनं परमासने। ऊचुर्बद्धाञ्जलिपुटाः सर्व एव निशाचराः॥ कुम्भकर्णः प्रबुद्धोऽसौ भ्राता ते राक्षसेश्वर। कथं तत्रैव निर्यातु द्रक्ष्यसे तमिहागतम्॥ रावणस्त्वब्रवीद्धृष्टो राक्षसांस्तानुपस्थितान्। द्रष्टुमेनमिहेच्छामि यथान्यायं च पूज्यताम्॥ तथेत्युक्त्वा तु ते सर्वे पुनरागम्य राक्षसाः। कुम्भकर्णमिदं वाक्यमूचू रावणचोदिताः॥ द्रष्टुं त्वां काश्ते राजा सर्वराक्षसपुङ्गवः। गमने क्रियतां बुद्धिर्धातरं संप्रहर्षय॥ कुम्भकर्णस्तु दुर्धर्षो भ्रातुराज्ञाय शासनम्। तथेत्युक्त्वा महावीर्यः शयनादुत्पपात ह॥ प्रक्षात्य वदनं हृष्टः स्नातः परमहर्षितः। पिपासुस्त्वरयामास पानं बलसमीरणम्॥ ततस्ते त्वरितास्तत्र राक्षसा रावणाज्ञया। मद्यं भक्ष्यांश्च विविधान्क्षिप्रमेवोपहारयन्॥ पीत्वा घटसहस्रे द्वे गमनायोपचक्रमे। ईषत्समुत्कटो मत्तस्तेजोबलसमन्वितः॥ कुम्भकर्णो बभौ रुष्टः कालान्तकयमोपमः। भ्रातुः स भवनं गच्छन्रक्षोबलसमन्वितः।। कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् ॥ स राजमार्गं वपुषा प्रकाशयन् सहस्ररश्मिर्धरणीमिवांशुभिः। जगाम तत्राञ्जलिमालया वृतः शतक्रतुर्गेहमिव स्वयंभुवः॥ तं राजमार्गस्थममित्रघातिनं वनौकसस्ते सहसा बहिः स्थिताः। दृष्ट्वाप्रमेयं गिरिशृङ्गकल्पं वितत्रसुस्ते सह यूथपालैः॥ केचिच्छरण्यं शरणं स्म रामं व्रजन्ति केचिद्व्यथिताः पतन्ति। केचिदिशश्च व्यथिताः पतन्ति केचिद्भयार्ता भुवि शेरते स्म ॥ तमद्रिशृङ्गप्रतिमं किरीटिनं स्पृशन्तमादित्यमिवात्मतेजसा। वनौकसः प्रेक्ष्य विवृद्धमद्भुतं भयादिता दुदुविरे यतस्ततः॥ ततो रामो महातेजा धनुरादाय वीर्यवान्। किरीटिनं महाकायं कुम्भकर्णं ददर्श ह॥ तं दृष्ट्वा राक्षसश्रेष्ठ पर्वताकारदर्शनम्। क्रममाणमिवाकाशं पुरा नारायणं यथा॥ सतोयाम्बुदसंकाशं काञ्चनाङ्गदभूषणम्। दृष्ट्वा पुनः प्रदुद्राव वानराणां महाचमूः॥ विदूतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसम्। सविस्मितमिदं रामो विभीषणमुवाच ह॥ कोऽसौ पर्वतसंकाशः किरीटी हरिलोचनः। लङ्कायां दृश्यते वीरः सविद्युदिव तोयदः॥ पृथिव्यां केतुभूतोऽसौ महानेकोऽत्र दृश्यते। यं दृष्ट्वा वानराः सर्वे विद्रवन्ति यतस्ततः॥ आचक्ष्व सुमहान्कोऽसौ रक्षो वा यदि वासुरः। न मयैवंविधं भूतं दृष्टपूर्वं कदाचन।७।। संपृष्टो राजपुत्रेण रामेणाक्लिष्टकर्मणा। विभीषणो महाप्रज्ञः काकुत्स्थमिदमब्रवीत्॥ येन वैवस्वतो युद्धे वासवश्च पराजितः। सैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान्।। अस्य प्रमाणसदृशो राक्षसोऽन्यो न विद्यते॥ एतेन देवा युधि दानवाश्च यक्षा भुजंगाः पिशिताशनाश्च। गन्धर्वविद्याधरपन्नगाश्च सहस्रशो राघव संप्रभग्नाः॥ शूलपाणिं विरूपाक्षं कुम्भकर्म महाबलम्। हन्तुं न शेकुस्त्रिदशा: कालोऽयमिति मोहिताः॥ प्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः। अन्येषां राक्षसेन्द्राणां वरदानकृतं बलम्॥ बालेन जातमात्रेण क्षुधार्तेन महात्मना। भक्षितानि सहस्राणि प्रजानां सुबहून्यपि॥ तेषु संभक्ष्यमाणेषु प्रजा भयनिपीडिताः। यान्ति स्म शरणं शक्रं तमप्यर्थं न्यवेदयन्॥ स कुम्भकर्ण कुपितो महेन्द्रो जघान वज्रेण शितेन वज्री। स शक्रवज्राभिहतो महात्मा चचाल कोपाच्च भृशं ननाद॥ तस्य नानद्यमानस्य कुम्भकर्णस्य रक्षसः। श्रुत्वा निनादं वित्रस्ताः प्रजा भूयो वितत्रसुः॥ ततः क्रुद्धो महेन्द्रस्य कुम्भकर्णो महाबलः। निष्कृष्यरावताहन्तं जघानोरसि वासवम्॥ कुम्भकर्णप्रहारा” विजज्वाल स वासवः। ततो विषेदुः सहसा देवा ब्रह्मर्षिदानवाः।। प्रजाभिः सह शक्रश्च ययौ स्थानं स्वयंभुवः॥ कुम्भकर्णस्य दौरात्म्यं शशंसुस्ते प्रजापतेः। प्रजानां भक्षणं चापि शशंसुस्ते दिवौकसाम्।। आश्रमध्वंसनं चापि परस्त्रीहरणं तथा॥ एवं प्रजा यदि त्वेष भक्षयिष्यति नित्यशः। अचिरेणैव कालेन शून्यो लोको भविष्यति॥ वासवस्य वचः श्रुत्वा सर्वलोकपितामहः। रक्षास्यावाहयामास कुम्भकर्म ददर्श ह॥ कुम्भकर्म समीक्ष्यैव वितत्रास प्रजापतिः। कुम्भकर्णमथाश्वस्तः स्वयंभूरिदमब्रवीत्॥ ध्रुवं लोकविनाशाय पौलस्त्येनासि निर्मितः। तस्मात्त्वमद्यप्रभृति मृतकल्पः शयिश्यसे॥ ब्रह्मशापाभिभूतोऽथ निपपाताग्रतः प्रभोः। ततः परमसंभ्रान्तो रावणो वाक्यमब्रवीत्॥ प्रवृद्धः काञ्चनो वृक्षः फलकाले निकृन्त्यते। न नप्तारं स्वकं न्याय्यं शप्तुमेवं प्रजापते॥ न मिथ्यावचनश्च त्वं स्वप्स्यत्येव न संशयः। कालस्तु क्रियतामस्य शयने जागरे तथा॥ रावणस्य वचः श्रुत्वा स्वयंभूरिदमब्रवीत्। शयिता ह्येष षण्मासमेकाहं जागरिष्यति॥ एकनाह्वा त्वसौ वीरश्चरन्भूमिं बुभुक्षितः। व्यात्तास्यो भक्षयेल्लोकान्संवृद्ध इव पावकः॥ सोऽसौ व्यसनमापन्नः कुम्भकर्णमबोधयत्। त्वत्पराक्रमभीतश्च राजा संप्रति रावणः॥ स एष निर्गतो वीरः शिविराद्भीमविक्रमः। वानरान्भृशसंक्रुद्धो भक्षयन्परिधावति॥ कुम्भकर्ण प्रतीक्ष्यैव हरयोऽद्य प्रदुद्रुवुः। कथमेनं रणे क्रुद्धं वारयिष्यन्ति वानराः॥ उच्यन्तां वानराः सर्वे यन्त्रमेतत्समुच्छ्रितम्। इति विज्ञाय हरयो भविष्यन्तीह निर्भया:॥ विभीषणवचः श्रुत्वा हेतुमत्सुमुखोद्गतम्। उवाच राघवो वाक्यं नीलं सेनापतिं तदा॥ गच्छ सैन्यानि सर्वाणि व्यूह्य तिष्ठस्व पावके। द्वाराण्यादाय लङ्कायाश्चर्याश्चास्याथ संक्रमान्॥ शैलशृङ्गाणि वृक्षांश्च शिलाश्चाप्युपसंहरन्। भवन्तः सायुधाः सर्वे वानराः शैलपाणयः॥ राघवेण समादिष्टो नीलो हरिचमूपतिः। शशास वानरानीकं यथावत्कपिकुञ्जरः॥ ततो गवाक्षः शरभो हनूमानङ्गदस्तथा। शैलशृङ्गाणि शैलाभा गृहीत्वा द्वारमभ्ययुः॥ रामवाक्यमुपश्रुत्य हरयो जितकाशिनः। पादपैरर्दयन्वीरा वानराः परवाहिनीम्॥ ततो हरीणां तदनीकमुग्रं रराज शैलोद्यतवृक्षहस्तम्। गिरेः समीपानुगतं यथैव महन्महाम्भोधरजालमुग्रम्॥ तस्य राक्षसराजस्य निशम्य परिदेवितम्। कुम्भकर्णो बभाषेदं वचनं प्रजहास च॥ दृष्टो दोषो हि योऽस्माभिः पुरा मन्त्रविनिर्णये। हितेष्वनभियुक्तेन सोऽयमासादितस्त्वया॥ शीघ्रं खल्वभ्युपेतं त्वां फलं पापस्य कर्मणः। निरयेष्वेव पतनं यथा दुष्कृतकर्मणः॥ प्रथमं वै महाराज कृत्यमेतदचिन्तितम्। केवलं वीर्यदर्पण नानुबन्धो विचारितः॥ यः पश्चात्पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः। पूर्वं चोत्तरकार्याणि न स वेद नयानयौ॥ देशकालविहीनानि कर्माणि विपरीतवत्। क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव॥ त्रयाणां पञ्चधा योगं कर्मणां यः प्रपद्यते। सचिवैः समयं कृत्वा स सम्यग्वर्तते पथि॥ यथागमं च यो राजा समयं च चिकीर्षति। बुध्यते सचिवैर्बुद्ध्या सुहृदश्चानुपश्यति।८।। धर्ममर्थ हि कामं वा सर्वान्वा रक्षसां पते। भजते पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः॥ त्रिषु चैतेषु यच्छेष्ठं श्रुत्वा तनावबुध्यते। राजा वा राजमात्रो वा व्यर्थं तस्य बहुश्रुतम्॥ उपप्रदानं सान्त्वं च भेदं काले च विक्रमम्। योगं च रक्षसां श्रेष्ठ तावुभौ च नयानयौ॥ काले धर्मार्थकामान्यः संमन्य सचिवैः सह। निषेवेतात्मवाल्लोके न स व्यसनमाप्नुयात्॥ हितानुबन्धमालोक्य कुर्यात्कार्यमिहात्मनः। राजा सहार्थतत्त्वज्ञैः सचिवैर्बुद्धिजीविभिः॥ अनभिज्ञाय शास्त्रार्थान्पुरुषाः पशुबुद्धयः। प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रिष्वभ्यन्तरीकृताः॥ अशास्त्रविदुषां तेषां कार्यं नाभिहितं वचः। अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम्॥ अहितं च हिताकारं धाष्टाजल्पन्ति ये नराः। अवश्यं मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषकाः॥ विनाशयन्तो भर्तारं सहिताः शत्रुभिर्बुधैः। विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः॥ तान्भर्ता मित्रसंकाशानमित्रान्मन्त्रनिर्मये। व्यवहारेण जानीयात्सचिवानुपसंहितान्॥ चपलस्येह कृत्यानि सहसानुप्रधावतः। क्षिप्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः॥ यो हि शत्रुमवज्ञाय आत्मानं नाभिरक्षति। अवाप्नोति हि सोऽनन्स्थानाच्च व्यवरोप्यते॥ यदुक्तमिह ते पूर्वं प्रियया मेऽनुजेन च। तदेव नो हितं वाक्यं यथेच्छसि तथा कुरु॥ तत्तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम्। भ्रुकुटिं चैव संचक्रे क्रुद्धश्चैनमभाषत ॥ मान्यो गुरुरवाचार्यः किं मां त्वमनुशाससे। किमेवं वाक्श्रमं कृत्वा यद्युक्तं तद्विधीयताम्॥ विभ्रमाच्चित्तमोहाद्वा बलवीर्याश्रयेण वा। नाभिपन्नमिदानीं यद्वयर्था तस्य पुनः कथा॥ अस्मिन्काले तु यद्युक्तं तदिदानी विचिन्त्यताम्। ममापनयजं दुःखं विक्रमेण समीकुरु।२५।। यदि खल्वस्ति मे स्नेहो विक्रमं वाधिगच्छसि। यदि कार्य ममैतत्ते हृदि कार्यतमं मतम्॥ स सुहृद्यो विपन्नाथ दीनमभ्युपपद्यते। स बन्धुर्योऽपनीतेषु साहाय्यायोपकल्पते॥ तमथैवं ब्रुवाणं स वचनं धीरदारुणम्। रुष्टोऽयमिति विज्ञाय शनैः श्लक्ष्णमुवाच ह॥ अतीव हि समालक्ष्य भ्रातरं क्षुभितेन्द्रियम्। कुम्भकर्णः शनैर्वाक्यं बभाषे परिसान्त्वयन्॥ शृणु राजन्नवहितो मम वाक्यमरिंदम। अलं राक्षसराजेन्द्र संतापमुपपद्य ते।। रोषं च संपरित्यज्य स्वस्थो भवितुमर्हसि॥ नैतन्मनसि कर्तव्यं मयि जीवति पार्थिव। तमहं नाशयिष्यामि यत्कृते परितप्यते॥ अवश्यं च हितं वाच्यं सर्वावस्थां गतं मया। बन्धुभावादभिहितं भ्रातृस्नेहाच्च पार्थिव॥ सदृशं यच्च कालेऽस्मिन्कर्तुं स्नेहेन बन्धुना। शत्रूणां कदनं पश्य क्रियमाणं मया रणे॥ अद्य पश्य महाबाहो मया समरमूर्धनि। हते रामे सह भ्रात्रा द्रवन्तीं हरिवाहिनीम्॥ अद्य रामस्य तद्दृष्ट्वा मया नीतं रणाच्छिरः। सुखी भव महाबाहो सीता भवतु दुःखिता॥ अद्य रामस्य पश्यन्तु निधनं सुमहत्प्रियम्। लङ्कायां राक्षसाः सर्वे ये ते निहतबान्धवाः॥ अद्य शोकपरीतानां स्वबन्धुवधशोचिनाम्। शत्रोर्युधि विनाशेन करोम्यश्रुप्रमार्जनम्॥ अद्य पर्वतसंकाशं ससूर्यमिव तोयदम्। विकीर्णं पश्य समरे सुग्रीवं प्लवगेश्वरम्॥ कथं च राक्षसैरेभिर्मया च परिसान्त्वितः। जिघांसुभिर्दाशरथिं व्यथसे त्वं सदानघ॥ मां निहत्य किल त्वां हि निहनिष्यति राघवः। नाहमात्मनि संतापं गच्छेयं राक्षसाधिप।४।। कामं त्विदानीमपि मां व्यादिश त्वं परंतप। न परः प्रेक्षणीयस्ते युद्धायातुलविक्रम॥ अहमुत्सादयिष्यामि शबूंस्तव महाबलान्। यदि शक्रो यदि यमो यदि पावकमारुतौ।॥ तानहं योधयिष्यामि कुबेरवरुणावपि। गिरिमात्रशरीरस्य शितशूलधरस्य मे।॥ नर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाद्वैपुरंदरः। अथ वा त्यक्तशस्त्रस्य मृगतस्तरसा रिपून्॥ न मे प्रतिमुखः कश्चित्स्थातुं शक्तो जिजीविषुः। नैव शक्त्या न गदया नासिना निशितैः शरैः॥ हस्ताभ्यामव संरभ्य हनिष्यामि सवज्रिणम्। यदि मे मुष्टिवेगं स राघवोऽद्य सहिष्यति॥ ततः पास्यन्ति बाणौधा रुधिरं राघवस्य मे। चिन्तया तप्यसे राजन्किमर्थं मयि तिष्ठति ॥ सोऽहं शत्रुविनाशाय तव निर्यातुमुद्यतः। मुश्च रामाद्भयं घोरं निहनिष्यामि संयुगे॥ राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम्। हनूमन्तं च रक्षोघ्नं येन लङ्का प्रदीपिता॥ हरीश्च भक्षयिष्यामि संयुगे समुपस्थिते। असाधारणमिच्छामि तव दातुं महद्यशः॥ यदि चेन्द्राद्भयं राजन्यदि चापि स्वयंभुवः। अपि देवाः शयिष्यन्ते मयि कुद्धे महीतले। ५१।। यमं च शमयिष्यामि भक्षयिष्यामि पावकम्। आदित्यं पातयिष्यामि सनक्षत्रं महीतले॥ शतक्रतुं वधिष्यामि पास्यामि वरुणालयम्। पर्वतांचूर्णयिष्यामि दारयिष्यामि मेदिनीम्॥ दीर्घकालं प्रसुप्तस्य कुम्भकर्णस्य विक्रमम्। अद्य पश्यन्तु भूतानि भक्ष्यमाणानि सर्वशः।। न त्विदं त्रिदिवं सर्वमाहारो मम पूर्यते॥ वधेन ते दाशरथेः सुखावहं सुखं समाहर्तुमहं व्रजामि। निहत्य रामं सह लक्ष्मणेन खादामि सर्वान्हरियूथमुख्यान्॥ रमस्व राजन्पिब चाद्य वारुणीं कुरुष्व कृत्यानि विनीय दुःखम्। मयाद्य रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति ॥ तदुक्तमतिकायस्य बलिनो बाहुशालिनः। कुम्भकर्णस्य वचनं श्रुत्वोवाच महोदरः॥ कुम्भकर्ण कुले जातो धृष्टः प्राकृतदर्शनः। अविलसो न शक्नोषि कृत्यं सर्वत्र वेदितुम्॥ नहि राजा न जानीते कुम्भकर्ण नयानयौ। त्वं तु कैशोरकाद्धृष्टः केवलं वक्तुमिच्छसि॥ स्थानं वृद्धिं च हानिं च देशकालविधानवित्। आत्मनश्च परेषां च बुध्यते राक्षसर्षभः॥ यत् त्वशक्यं बलवता कर्तुं प्राकृतबुद्धिना। अनुपासितवृद्धेन कः कुर्यात्तादृशं नरः॥ यांस्तु धर्मार्थकामांस्त्वं ब्रवीषि पृथगाश्रयान्। अवबोद्धं स्वभावेन नहि लक्षणमस्ति तान्॥ कर्म चैव हि सर्वेषां कारणानां प्रयोजनम्। श्रेयः पापीयसां चात्र फलं भवति कर्मणाम्।७।। निःश्रेयसफलावेव धर्मार्थवितरावपि। अधर्मानर्थयोः प्राप्तं फलं च प्रात्यवायिकम्॥ ऐहलौकिकपारक्यं कर्म पुंभिनिषेव्यते। कर्माण्यपि तु कल्पानि लभते काममास्थितः।९।। तत्र क्लृप्तमिदं राज्ञा हृदि कार्य मतं च नः। शत्रौ हि साहसं यत्तत्किमिवानापनीयते॥ एकस्यैवाभियाने तु हेतुर्यः प्राहतस्त्वया। तत्राप्यनुपपन्नं ते वक्ष्यामि यदसाधु च॥ येन पूर्वं जनस्थाने बहवोऽतिबलास्तदा। राक्षसा राघवं ध्वस्ताः कथमेको जयिष्यसि॥ ये पूर्व निर्जितास्तेन जनस्थाने महौजसः। राक्षसांस्तान्पुरे सर्वान्भीतानद्य न पश्यसि ॥ तं सिंहमिव संक्रुद्धं रामं दशरथात्मजम्। सर्प सुप्तमहो बुद्ध्वा प्रबोधयितुमिच्छसि॥ ज्वलन्तं तेजसा नित्यं क्रोधेन च दुरासदम्। कस्तं मृत्युमिवासह्यमासादयितुमर्हति॥ संशयस्थमिदं सर्व शत्रोः प्रतिसमासने। एकस्य गमनं तात नहि मे रोचते भृशम्॥ हीनार्थस्तु समृद्धार्थ को रिपुं प्राकृतं यथा। निश्चितं जीवितत्यागे वशमानेतुमिच्छति॥ यस्य नास्ति मनुष्येषु सदृशो राक्षसोत्तम। कथमाशंससे योद्धं तुल्येनेन्द्रविवस्वतोः॥ एवमुक्त्वा तु संरब्धं कुम्भकर्ण महोदरः। उवाच रक्षसां मध्ये रावणं लोकरावणम्॥ लब्ध्वा पुरस्ताद्वैदहीं किमर्थं त्वं विलम्बसे। यदीच्छसि तदा सीता वशगा ते भविष्यति॥ दृष्टः कश्चिदुपायो मे सीतोपस्थानकारकः। रुचितश्चेतस्वया बुद्ध्या राक्षसेन्द्र ततः शृणु॥ अहं द्विजिह्वः संहादी कुम्भकर्णो वितर्दनाः। पञ्च रामवधायैते निर्यान्तीत्यवघोषय॥ ततो गत्वा वयं युद्धं दास्यामस्तस्य यत्नतः। जेष्यामो यदि ते शत्रूनोपायैः कार्यमस्ति नः॥ अथ जीवति नः शत्रुर्वयं च कृतसंयुगाः। ततः समभिपत्स्यामो मनसा यत्समीक्षितम्॥ वयं युद्धादिहैष्यामो रुधिरेण समुक्षिताः। विदार्य स्वतनुं बाणै रामनामाङ्कितैः शरैः॥ भक्षितो राघवोऽस्माभिर्लक्ष्मणश्चेति वादिनः। ततः पादौ ग्रहीष्यामस्त्वं नः कामं प्रपूरय॥ ततोऽवघोषय पुरे गजस्कन्धेन पार्थिव। हतो रामः सह भ्रात्रा ससैन्य इति सर्वतः॥ प्रीतो नाम ततो भूत्वा भृत्यानां त्वमरिंदम! भोगांश्च परिवारांश्च कामान्वसु च दापय॥ ततो माल्यानि वासासि वीराणामनुलेपनम्। देयं च बहु योधेभ्यः स्वयं च मुदितः पिब॥ ततोऽस्मिन्बहुलीभूते कौलीने सर्वतो गते। भक्षितः ससुहृद्रामो राक्षसैरिति विश्रुते॥ प्रविश्याश्वास्य चापि त्वं सीतां रहसि सान्त्वयन्। धनधान्यैश्च कामैश्च रत्नैश्चैनां प्रलोभय ॥ अनयोपधया राजन्भूयः शोकानुबन्धया। अकामा त्वद्वशं सीता नष्टनाथा गमिष्यति॥ रमणीयं हि भर्तारं विनष्टमधिगम्य सा। नैराश्यात्स्त्रीलघुत्वाच्च त्वद्वशं प्रतिपत्स्यते ॥ सा पुरा सुखसंवृद्धा सुखार्हा दुःखकर्षिता। त्वय्यधीनं सुखं ज्ञात्वा सर्वथैव गमिष्यति॥ एतत्सुनीतं मम दर्शनेन रामं हि दृष्टैव भवेदनर्थः। इहैव ते सेत्स्यति मोत्सुको भूर्महानयुद्धेन सुखस्य लाभः॥ अनष्टसैन्यो हनवाप्तसंशयो रिपुं त्वयुद्धेन जयञ्जनाधिप। यशश्च पुण्यं च महान्महीपतिः श्रियं च कीर्ति च चिरं समश्नुते॥ स तथोक्तस्तु निर्भय॑ कुम्भकर्णो महोदरम्। अब्रवीद्राक्षसश्रेष्ठं भ्रातरं रावणं ततः॥ सोऽहं तव भयं घोरं वधात्तस्य दुरात्मनः। रामस्याद्य प्रमार्जामि निर्वैरो हि सुखी भव॥ गर्जन्ति न वृथा शूरा निर्जला इव तोयदाः। पश्य संपद्यमानं तु गर्जितं युधि कर्मणा॥ न मर्षयन्ति चात्मानं संभावयितुमात्मना। अदर्शयित्वा शूरास्तु कर्म कुर्वन्ति दुष्करम्॥ विक्लवानां ह्यबुद्धीनां राज्ञां पण्डितमानिनाम्। रोचते त्वद्वचो नित्यं कथ्यमानं महोदर॥ युद्धे कापुरुषैनित्यं भवद्भिः प्रियवादिभिः। राजानमनुगच्छद्भिः सर्वं कृत्यं विनाशितम्॥ राजशेषा कृता लङ्का क्षीणः कोशो बलं हतम्। राजानमिममासाद्य सुहृच्चिह्नममित्रकम्॥ महोदरोऽयं रामात्तु एष निर्याम्यहं युद्धमुद्यतः शत्रुनिर्जये। दुर्नयं भवतामद्य समीकर्तुं महाहवे।।।।। एवमुक्तवतो वाक्यं कुम्भकर्णस्य धीमतः। प्रत्युवाच ततो वाक्यं प्रहसनराक्षसाधिपः॥ परित्रस्तो न संशयः। नहि रोचयते तात युद्धं युद्धविशारद ॥ कश्चिन्मे त्वत्समो नास्ति सौहृदेन बलेन च। गच्छ शत्रुवधाय त्वं कुम्भकर्णजयाय च॥ शयानः शत्रुनाशार्थं भवान्संबोधितो मया। अयं हि कालः सुमहान्राक्षसानामरिंदम॥ संगच्छ शूलमादाय पाशहस्त इवान्तकः। वानरानराजपुत्रौ च भक्षयादित्यतेजसौ॥ समालोक्य तु ते रूपं विद्रविष्यन्ति वानराः। रामलक्ष्मणयोश्चापि हृदये प्रस्फुटिष्यतः॥ एवमुक्त्वा महातेजाः कुम्भकर्ण महाबलम्। पुनर्जातमिवात्मानं मेने राक्षसपुङ्गवः॥ कुम्भकर्णबलाभिज्ञो जानंस्तस्य पराक्रमम्। बभूव मुदितो राजा शशाङ्क इव निर्मलः॥ इत्येवमुक्तः संहृष्टो निर्जगाम महाबलः। राज्ञस्तु वचनं श्रुत्वा योद्धमुद्युक्तवांस्तदा॥ आददे निशितं शूलं वेगाच्छत्रुनिबर्हणः। सर्वं कालायसं दीप्तं तप्तकाञ्चनभूषणम्॥ इन्द्राशनिसमप्रख्यं वज्रप्रतिमगौरवम्। देवदानवगन्धर्वयक्षपन्नगसूदनम्॥ रक्तमाल्यमहादामं स्वतश्चोद्तपावकम्। आदाय विपुलं शूलं शत्रुशोणितरञ्जितम्॥ कुम्भकर्णो महातेजा रावणं वाक्यमब्रवीत्। गमिष्याम्यहमेकाकी तिष्ठत्विह बलं महत्॥ अद्य तान्क्षुधितः क्रुद्धो भक्षयिष्यति वानरान्। कुम्भकर्णवचः श्रुत्वा रावणो वाक्यमब्रवीत्॥ सैन्यैः परिवृतो गच्छ शूलमुद्गरपाणिभिः। वानरा हि महात्मानः शूराः सुव्यवसायिनः॥ एकाकिनं प्रमत्तं वा नयेयुदर्शनैः क्षयम्। तस्मात्परमदुर्धर्षः सैन्यैः परिवृतो व्रज॥ रक्षसामहितं सर्वं शत्रुपक्षं निषूदय॥ अथासनात्समुत्पत्य स्रजं गणिकृतान्तराम्। आबबन्ध महातेजाः कुम्भकर्णस्य रावणः॥ अङ्गदान्यङ्गुलीवेष्टन्वराण्याभरणानि च। हारं च शशिसंकाशमाबबन्ध महात्मनः॥ दिव्यानि च सुगन्धीनि माल्यदामानि रावणः। गात्रेषु सज्जयामास श्रोत्रयोश्चास्य कुण्डले॥ काञ्चनाङ्गदकेयूरनिष्काभरणभूषितः। कुम्भकर्णो बृहत्कर्णः सुहृतोऽग्निरिवाबभौ ॥ श्रोणिसूत्रेण महता मेचकेन व्यराजत। अमृतोत्पादने नद्धो भुजंगेनेव मन्दरः॥ स काञ्चनं भारसहं निवातं विद्युत्प्रभं दीप्तमिवात्मभासा। आबध्यमानः कवचं रराज संध्याभ्रसंवीत इवाद्रिराजः॥ सर्वाभरणसर्वाङ्गः शूलपाणिः स राक्षसः। त्रिविक्रमकृतोत्साहो नारायण इवाबभौ॥ भ्रातरं संपरिष्वज्य कृत्वा चापि प्रदक्षिणम्। प्रणम्य शिरसा तस्मै प्रतस्थे स महाबलः॥ तमाशीभिः प्रशस्ताभिः प्रेषयामास रावणः। शङ्खदुन्दुभिनिर्घोषैः सैन्यैश्चापि वरायुधैः॥ तं गजैश्च तुरंगैश्च स्यन्दनैश्चाम्बुदस्वनैः। अनुजग्मुर्महात्मानो रथिनो रथिनां वरम्॥ स(रुष्टैः खरैश्चैव सिंहद्विपमृगद्विजैः। अनुजग्मुश्च तं घोरं कुम्भकर्ण महाबलम्॥ स पुष्पवर्षैरवकीर्यमाणो धृतातपत्रः शितशूलपाणिः। महोत्कटः शोणितगन्धमत्तो विनिर्ययौ दानवदेवशत्रुः॥ पदातयश्च बहवो महासारा महाबलाः। अन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः॥ रक्ताक्षाः सुबहुव्यामा नीलाञ्जनचयोपमाः। शूलानुद्यम्य खङ्गांश्च निशितांश्च परश्वधान्॥ भिन्दिपालांश्च परिघान्गदाश्च मुसलानि च। तालस्कन्धांश्च विपुलान्क्षेपणीयान्दुरासदान्॥ अथान्यद्वपुरादाय दारुणं घोरदर्शनम्। निष्पपात महातेजाः कुम्भकर्णो महाबलः॥ धनुःशतपरिणाहः स षट्शतसमुच्छ्रितः। रौद्रः शकटचक्राक्षो महापर्वतसंनिभः॥ संनिपत्य च रक्षांसि दग्धशैलोपमो महान्। कुम्भकर्णो महावक्रः प्रहसन्निदमब्रवीत्।॥ अद्य वानरमुख्यानां तानि यूथानि भागशः। निर्दहिष्यामि संक्रुद्धः पतङ्गानिव पावकः॥ नापराध्यन्ति मे कामं वानरा वनचारिणः। जातिरस्मद्विधानां सा पुरोद्यानविभूषणम्॥ पुररोधस्य मूलं तु राघवः सहलक्ष्मणः। हते तस्मिन्हतं सर्व तं वधिष्यामि संयुगे॥ एवं तस्य ब्रुवाणस्य कुम्भकर्णस्य रक्षसः। नादं चक्कुर्महाघोरं कम्पयन्त इवार्णवम्॥ तस्य निष्पततस्तूर्णं कुम्भकर्णस्य धीमतः। बभूवुर्घोररूपाणि निमित्तानि समन्ततः॥ उल्काशनियुता मेघा बभूवुर्गर्दभारुणाः। ससागरवना चैव वसुधा समकम्पत ॥ घोररूपाः शिवा नेदुः सज्वालकवलैर्मुखैः। मण्डलान्यपसव्यानि बबन्धुश्च विहंगमाः॥ निष्पपात च गृध्रोऽस्य शूले वै पथि गच्छतः। प्रास्फुरनयनं चास्य सव्यो बाहुरकम्पत॥ निष्पपात तदा चोल्का ज्वलन्ती भीमनि:स्वना। आदित्यो निष्प्रभश्चासीन वाति च सुखोऽनिलः॥ अचिन्तयन्महोत्पातानुदितान्रोहमर्षणान्। निर्ययौ कुम्भकर्णस्तु कृतान्तबलचोदितः॥ स लवयित्वा प्राकारं पद्भ्यां पर्वतसंनिभः। स ददर्श धनप्रख्यं वानरानीकमद्भुतम्॥ ते दृष्ट्वा राक्षसश्रेष्ठं वानराः पर्वतोपमम्। वायुनुन्न इव घना ययुः सर्वा दिशस्तदा॥ तद्वानरानीकमतिप्रचण्डं दिशो द्रवद्भिनमिवाभ्रजालम्। स कुम्भकर्णः समवेक्ष्य हर्षान्ननाद भूयो घनवद्धनाभः॥ ते तस्य घोरं निनदं निशम्य यथा निनादं दिवि वारिदस्य। पेतुर्धरण्यां बहवः प्लवंगा निकृत्तमूला इव शालवृक्षाः॥ विपुलपरिघवान्स कुम्भकर्णो रिपुनिधनाय विनिःसृतो महात्मा। कपिगणभयमाददत्सुभीमं प्रभुरिव किंकरदण्डवान्युगान्ते॥ स लवयित्वा प्राकारं गिरुकूटोपमो महान्। निर्ययौ नगरातूर्णं कुम्भकर्णो महाबलः॥ ननाद च महानादं समुद्रमभिनादयन्। विजयन्निव निर्घातान्विधमन्निव पर्वतान् ॥ तमवध्यं मघवता यमेन वरुणेन वा। प्रेक्ष्य भीमाक्षमायन्तं वानरा विप्रदुद्रुवुः॥ तांस्तु विप्रदुतान्दृष्ट्वा राजपुत्रोऽङ्गदोऽब्रवीत्। नलं नीलं गवाक्षं च कुमुदं च महाबलम्॥ आत्मनस्तानि विस्मृत्य वीर्याण्यभिजनानि च। क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा॥ साधु सौम्या निवर्तध्वं किं प्राणान्परिरक्षथ। नालं युद्धाय वै रक्षो महतीयं विभीषिका॥ महतीमुत्थितामेनां राक्षसानां विभीषिकाम्। विक्रमाद्विधमिष्यामो निवर्तध्वं प्लवंगमाः।७।। कृच्छ्रेण तु समाश्वस्य संगम्य च ततस्ततः। वृक्षानगृहीत्वा हरयः संप्रतस्थू रणाजिरे॥ ते निवर्त्य तु संरब्धाः कुम्भकर्णं वनौकसः। निर्जघ्नुः पर क्रुद्धाः समदा इव कुञ्जराः॥ प्रांशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलाः। पादपैः पुष्पिताग्रैश्च हन्यमानो न कम्पते॥ तस्य गात्रेषु पतिता भिद्यन्ते बहवः शिलाः। पादपाः पुष्पिताग्राश्च भग्नाः पेतुर्महीतले॥ सोऽपि सैन्यानि संक्रुद्धो वानराणां महौजसाम्। ममन्थ परमायत्तो वनान्यग्निरिवोत्थितः॥ लोहितार्दास्तु बहवः शेरते वानरर्षभाः। निरस्ताः पतिता भूमौ ताम्रपुष्पा इव दुमाः॥ लक्यन्तः प्रधावन्तो वानरा नावलोकयन्। केचित्समुद्रे पतिताः केचिद्गगनमास्थिताः॥ वध्यमानास्तु ते वीरा राक्षसेन च लीलया। सागरं येन ते तीर्णाः यथा तेनैव दुद्रुवुः॥ ते स्थलानि तदा निम्नं विवर्णवदना भयात्। ऋक्षा वृक्षान्समारूढाः केचित्पर्वतमाश्रिताः॥ निपेतुः केचिदपरे केचिन्नैवावतस्थिरे। केचिद्भूमौ निपतिताः केचित्सुप्ता मृता इव॥ तान्समीक्ष्याङ्गदो भग्नान्वानरानिदमब्रवीत्। अवतिष्ठत युध्यामो निवर्तध्वं प्लवंगमाः॥ भग्नानां वो न पश्यामि परिक्रम्य महीमिमाम्। स्थानं सर्वे निवर्तध्वं किं प्राणान्परिरक्षथ ॥ निरायुधानां क्रमतामसङ्गगतिपौरुषाः। दारा ह्युपहसिष्यन्ति स वै घातः सुजीवताम्॥ कुलेषु जाताः सर्वेऽस्मिन्विस्तीर्णेषु महत्सु च। कव गच्छत भयत्रस्ताः प्राकृता हरयो यथा। अनार्याः खलु यद्भीतास्त्यक्त्वा वीर्यं प्रधावत॥ विकत्थनानि वो यानि भवद्भिर्जनसंसदि। तानि वः क्व नु यातानि सोदग्राणि हतानि च॥ भीरोः प्रवादाः श्रूयन्ते यस्तु जीवति धिक्कृतः। मार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम्॥ शयामहे वा निहताः पृथिव्यामल्पजीविताः। प्राप्नुयामो ब्रह्मलोकं दुष्प्रापं च कुयोधिभिः॥ अवाप्नुयामः कीर्ति वा निहत्वा शत्रुमाहवे। निहता वीरलोकस्य भोक्ष्यामो वसु वानराः॥ न कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन्गमिष्यति। दीव्यमानमिवासाद्य पतङ्गो ज्वलनं यथा॥ पलायनेन चोद्दिष्टाः प्राणानक्षामहे वयम्। एकेन बहवो भग्ना यशोनाशं गमिष्यति॥ एवं ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम्। द्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम् ॥ कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा। न स्थानकालो गच्छामो दयितं जीवितं हि नः॥ एतावदुक्त्वा वचनं सर्वे ते भेजिरे दिशः। भीमं भीमाक्षमायान्तं दृष्ट्वा वानरयूथपाः॥ द्रवमाणास्तु ते वीरा अङ्गदेन वलीमुखाः। सान्त्वनैश्चानुमानैश्च ततः सर्वे निवर्तिताः॥ प्रहर्षमुपनीताश्च वालिपुत्रेण धीमता। आज्ञाप्रतीक्षास्तस्थुश्च सर्वे वानरयूथपाः॥ ऋषभशरभमैन्दधूम्रनीलाः कुमुदसुषेणगवाक्षरम्भताराः। द्विविदपनसवायुपुत्रमुख्यास्त्वरिततराभिमुखं रणं प्रयाताः॥ एवं विलपमानस्य रावणस्य दुरात्मनः। श्रुत्वा शोकाभिभूतस्य त्रिशिरा वाक्यमब्रवीत्॥ एवमेव महावीर्यो हतो नस्तातमध्यमः। न तु सत्पुरुषा राजन्विलपन्ति यथा भवान्॥ नूनं त्रिभुवनस्यापि पर्याप्तस्त्वमसि प्रभो। स कस्मात्प्राकृत इव शोचस्यात्मानमीदृशम्॥ ब्रह्मदत्तास्ति ते शक्तिः कवचं सायको धनुः। सहस्रस्वरसंयुक्तो रथो मेघसमस्वनः॥ त्वयासकृद्धि शस्त्रेण विशस्ता देवदानवाः। स सर्वायुधसंपन्नो राघवं शास्तुमर्हसि॥ कामं तिष्ठ महाराज निर्गमिष्याम्यहं रणे। उद्धरिष्यामि ते शत्रूनगरुडः पन्नगानिव॥ शम्बरो देवराजेन नरको विष्णुना यथा । तथाद्य शयिता रामो मया युधि निपातितः॥ श्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिप.। पुनतिमिवात्मानं मन्यते कालचोदितः॥ श्रुत्वा त्रिशिरसो वाक्यं देवान्तकनरान्तकौ। अतिकायश्च तेजस्वी बभूवुयुद्धहर्षिताः॥ ततोऽहमहमित्येवं गर्जन्तो नैर्ऋतर्षभाः। रावणस्य सुता वीराः शक्रतुल्यपराक्रमाः॥ अन्तरिक्षगताः सर्वे सर्वे मायाविशारदा। सर्वे त्रिदशदर्पघ्नाः सर्वे समरदुर्मदाः॥ सर्वे सुबलसंपन्नाः सर्वे विस्तीर्णकीर्तयः। सर्वे समरमासाद्य न श्रूयन्ते स्म निर्जिताः॥ देवैरपि सगन्धर्वैः सकिंनरमहोरगैः। सर्वेऽस्त्रविदुषो वीराः सर्वे युद्धविशारदाः।। सर्वे प्रवरविज्ञानाः सर्वे लब्धवरास्तथा॥ स तैस्तथा भास्करतुल्यदर्शनैः सुतैर्वृतः शत्रुबलश्रियार्दनैः। वृतो महादानवदर्पनाशनैः॥ स पुत्रान्संपरिष्वज्य भूषयित्वा च भूषणैः। आशीभिश्च प्रशस्ताभिः प्रेषयामास वै रणे॥ युद्धोन्मत्तं च मत्तं च भ्रातरौ चापि रावणः। रक्षणार्थ कुमाराणां प्रेषयामास संयुगे॥ तेऽभिवाद्य महात्मानं रावणं लोकरावणम्। कृत्वा प्रदक्षिणं चैव महाकायाः प्रतस्थिरे॥ सर्वोषधीभिर्गन्धैश्च समालभ्य महाबलाः। निर्जग्मुर्नैर्ऋतश्रेष्ठाः षडेते युद्धकाङ्गिणः॥ त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ। महोदरमहापाचौं निर्जग्मुः कालचोदिताः॥ ततः सुदर्शनं नागं नीलजीमूतसंनिभम्। ऐरावतकुले जातमारुरोह महोदरः॥ सर्वायुधसमायुक्तस्तूणीभिश्चाप्यलंकृतः। रराज गजमास्थाय सवितेवास्तमूर्धनि॥ हयोत्तमसमायुक्तं सर्वायुधसमाकुलम्। आरुरोह रथश्रेष्ठं त्रिशिरा रावणात्मजः॥ त्रिशिरा रथमास्थाय विरराज धनुर्धरः। सविधुदुल्कः सज्वाल: सेन्द्रचाप इवाम्बुदः॥ त्रिभिः किरीटैलिशिराः शुशुभे स रथोत्तमे। हिमवानिव शैलेन्द्रखिभिः काञ्चनपर्वतैः॥ अतिकायोऽतितेजस्वी राक्षसेन्द्रसुतस्तदा। आरुरोह रथश्रेष्ठं श्रेष्ठः सर्वधनुष्मताम्॥ सुचक्राक्षं सुसंयुक्तं सानुकर्ष सकूबरम्। तूणीबाणासनैर्दीप्तं प्रासासिपरिघाकुलम्॥ स काञ्चनविचित्रेण किरीटेन विराजता। भूषणैश्च बभौ मेरुः प्रभाभिरिव भासयन्॥ स रराज रथे तस्मिन्राजसूनुर्महाबलः। वृतो नैऋतशार्दूलर्वज्रपाणिरिवामरैः॥ हयमुच्चैःश्रवःप्रख्यं श्वेतं कनकभूषणम्। मनोजवं महाकायमारुरोह नरान्तकः॥ गृहीत्वा प्रासमुल्काभं विरराज नरान्तकः। शक्तिमादाय तेजस्वी गुहः शिखिगतो यथा॥ देवान्तकः समादाय परिघं हेमभूषणम्। परिगृह्य गिरि दोभ्यां वपुर्विष्णोविडम्बयन्॥ महापार्थो महातेजा गदामादाय वीर्यवान्। विरराज गदापाणिः कुवेर इव संयुगे॥ ते प्रतस्थुमहात्मानोऽमरावत्याः सुरा इव। तान्गजैश्च तुरङ्गैश्च रथैश्चाम्बुदनिःस्वनैः॥ अनूत्पेतुर्महात्मानो राक्षसाः प्रवरायुधाः। ते विरेजुर्महात्मानः कुमाराः सूर्यवर्चसः॥ किरीटिनः श्रिया जुष्टा ग्रहा दीप्ता इवाम्बरे। प्रगृहीता बभौ तेषां वस्त्राणामावलिः शिवा ॥ शरदभ्रप्रतीकाशा हंसावलिरिवाम्बरे। मरणं वापि निश्चित्य शत्रूणां वा पराजयम्॥ इति कृत्वा मतिं वीराः संजग्मुः संयुगार्थिनः। जगर्जुश्च प्रणेदुश्च चिक्षिपुश्चापि सायकान्॥ जगृहुश्च महात्मानो निर्याता युद्धदुर्मदाः। वेडितास्फोटितानां वै संचचालेव मेदिनी॥ रक्षसां सिंहनादैश्च संस्फोटितमिवाम्बरम्। तेऽभिनिष्क्रम्य मुदिता राक्षसेन्द्रा महाबलाः॥ ददृशुर्वानरानीकं समुद्यतशिलानगम्। हरयोऽपि महात्मानो ददृशू राक्षसं बलम्॥ हस्त्यश्वरथसंबाधं किङ्किणीशतनादितम्। नीलजीमूतसंकाशं समुद्यतमहायुधम्॥ दीप्तानलरविप्रख्यैनैर्ऋतैः सर्वतो वृतम्। तदृष्ट्वा बलमायातं लब्धलक्षाः प्लवंगमाः।॥ समुद्यतमहाशैलाः संप्रणेदुर्मुहुर्मुहुः। अमृष्यमाणा रक्षांसि प्रतिनर्दन्त वानराः॥ ततः समुत्कृष्टरवं निशम्य रक्षोगणा वानरयूथपानाम्। महाबला भीमतरं प्रणेदुः।॥ ते राक्षसबलं घोरं प्रविश्य हरियूथपाः। विचेरुरुद्यतैः शैलैनंगाः शिखरिणो यथा॥ कोचिदाकाशमाविश्य केचिदुर्व्या प्लवंगमाः। रक्ष:सैन्येषु संक्रुद्धाः केचिद्रुमशिलायुधाः॥ द्रुमांश्च विपुलस्कन्धान्गृह्य वानरपुङ्गवाः। तद्युद्धमभवद्घोरं रक्षोवानरसंकुलम्॥ ते पादपशिलाशैलैश्चक्रुर्वृष्टिमनूपमाम्। बाणौधैर्यमाणाश्च हरयो भीमविक्रमाः।॥ सिंहनादान्विनेदुश्च रणे राक्षसवानराः। शिलाभिश्चूर्णयामासुर्यातुधानाप्लवंगमाः।॥ निजघ्नुः संयुगे क्रुद्धाः कवचाभरणावृतान्। केचिद्रथगतान्वीरान्गजवाजिगतानपि॥ निर्जघ्नुः सहसा वीरान्यातुधानान्प्लवंगमाः। शैलशृङ्गान्विताङ्गास्ते मुष्टिभिर्वान्तलोचनाः॥ चेलुः पेतुश्च नेदुश्च तत्र राक्षसपुङ्गवाः। राक्षसाश्च शरैस्तीक्ष्णैर्बिभिदुः कपिकुञ्जरान्॥ शूलमुद्रखङ्गैश्च जघ्नुः प्रासैश्च शक्तिभिः। अन्योन्यं पातयामासुः परस्परजयैषिणः॥ रिपुशोणितदिग्धाङ्गास्तत्र वानरराक्षसाः। ततः शैलैश्च खङ्गैश्च विसृष्टैर्हरिराक्षसैः॥ मुहूर्तेनावृता भूमिरभवच्छोणितौक्षिता। विकीर्णैः पर्वताकारे रक्षोभिरभिमार्दितैः।। आसीद्वसुमती पूर्णा तदा युद्धमदान्वितैः॥ आक्षिप्ताः क्षिप्यमाणाश्च भग्नशैलैश्च वानरैः। पुनरङ्गैस्तदा चक्रुर्वानरा युद्धमद्भुतम्॥ वानरान्वानरैरेव जघ्नुस्ते नैतर्षभाः। राक्षसान्राक्षसैरेव जघ्नुस्ते वानरा अपि॥ आक्षिप्य च शिलाः शैलाञ्जघ्नुस्ते राक्षसास्तदा। तेषां चाच्छिद्य शस्त्राणि जघ्नू रक्षांसि वानराः॥ निर्जघ्नुः शैलशृङ्गैश्च बिभिदुश्च परस्परम्। सिंहनादान्विनेदुश्च रणे राक्षसवानराः॥ छिन्नवर्मतनुत्राणा राक्षसा वानरैर्हताः। रुधिरं प्रसृतास्तत्र रससारमिव दुमाः॥ रथेन च रथं चापि वारणेनापि वारणम्। हयेन च हयं केचिनिर्जघ्नुर्वानरा रणे॥ क्षुरप्रैरर्धचन्द्रैश्च भल्लैश्च निशितैः शरैः। राक्षसा वानरेन्द्राणां बिभिदुः पादपाशिलाः॥ विकीर्णा पर्वतास्तैश्च दुमच्छिन्नैश्च संयुगे। हतैश्च कपिरक्षोभिर्दुर्गमा वसुधाभवत्॥ ते वानरा गर्वितहृष्टचेष्टाः संग्राममासाद्य भयं विमुच्य। युद्धं स्म सर्वे सह राक्षसैस्ते नानायुधाश्चक्रुरदीनसत्त्वाः॥ तस्मिन्प्रवृत्ते तुमुले विमर्दे प्रहष्यमाणेषु वलीमुखेषु। निपात्यमानेषु च राक्षसेषु महर्षयो देवगणाश्च नेदुः॥ मारुह्य शक्तिं निशितां प्रगृह्य। नरान्तको वानरसैन्यमुग्रं महार्णवं मीन इवाविवेश॥ स वानरान्सप्त शतानि वीरः प्रासेन दीप्तेन विनिर्बिभेद। एक: क्षणेनेन्द्ररिपूर्महात्मा जघान सैन्यं हरिपुङ्गवानाम्॥ ददृशुश्च महात्मानं हयपृष्ठप्रतिष्ठितम्। चरन्तं हरिसैन्यैषु विद्याधरमहर्षयः॥ स तस्य ददृशे मार्गो मांसशोणितकर्दमः। पतितैः पर्वताकारैर्वानरैरभिसंवृतः॥ यावद्विक्रमितुं बुद्धिं चक्रुः प्लवगपुङ्गवाः। तावदेतानतिक्रम्य निर्बिभेद नरान्तकाः। ७०॥ ददाह हरिसैन्यानि वनानीव विभावसुः। यावदुत्पाटयामासुर्वृक्षाशैलान्वनौकसः॥ तावत्प्रासहताः पेतुर्वज्रकृत्ता इवाचलाः। ज्वलन्तं प्रासमुद्यम्य संग्रामान्ते नरान्तकः॥ दिक्षु सर्वासु बलवान्विचचार नरान्तकः। प्रमृद्गन्सर्वतो युद्धे प्रावृट्काले यथानिलः।७३।। न शेकुर्भाषितुं वीरा न स्थातुं स्पन्दितुं कुतः। उत्पतन्तं स्थितं यान्तं सर्वान्विव्याध वीर्यवान्॥ एकेनान्तककल्पेन प्रासेनादित्यतेजसा। भग्नानि हरिसैन्यानि निपेतुर्धरणीतले।७५।। वज्रनिष्पेषसदृशं प्रासस्याभिनिपातनम्। न शेकुर्वानराः सोढुं ते विनेदुर्महास्वनम्॥ पततां हरिवीराणां रूपाणि प्रचकाशिरे। वभिन्नाग्रकूटानां शैलानां पततामिव। ७७।। ये तु पूर्व महात्मानः कुम्भकर्णेन पातिताः। ते स्वस्था वानरश्रेष्ठाः सुग्रीवमुपतस्थिरे॥ प्रेक्षमाणः स सुग्रीवो ददृशे हरिवाहिनीम्। नरान्तक यत्रस्तां विद्रवन्ती यतस्ततः। ७९।। विद्वतां वाहिनीं दृष्ट्वा स ददर्श नरान्तकम्। गृहीतप्रासमायान्तं हयपृष्ठप्रतिष्ठितम् ॥ दृष्ट्वोवाच महातेजाः सुग्रीवो वानराधिपः। कुमारमङ्गदं वीरं शक्रतुल्यपराक्रमम्॥ गच्छैनं राक्षसं वीरं योऽसौ तुरगमास्थितैः। भक्षयन्तं परबलं क्षिप्रं प्राणैर्वियोजय।८२॥ स भर्तुर्वचनं श्रुत्वा निष्पपाताङ्गदस्तदा। अनीकान्मेघसंकाशादंशुमानिव वीर्यवान्॥ शैलसंघातसंकाशो हरीणामुत्तमोऽङ्गदः। रराजाङ्गदसंनद्धः स धातुरिव पर्वतः॥ निरायुधो महातेजाः केवलं नखदंष्ट्रवान्। नरान्तकमभिक्रम्य वालिपुत्रोऽब्रवीद्वचः॥ तिष्ठ किं प्राकृतैरेभिर्हरिभिस्त्वं करिष्यसि। अस्मिन्वज्रसमस्पर्श प्रासं क्षिप ममोरसि॥ अङ्गदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकः। संदश्य दशनैरोष्ठं निःश्वस्य च भुजंगवत्।। अभिगम्याङ्गदं क्रुद्धो वालिपुत्रं नरान्तकः॥ स प्रासमाविध्य तदाङ्गदाय समुज्ज्वलन्तं सहसोत्ससर्ज। स वालिपुत्रोरसि वज्रकल्पे बभूव भग्नो न्यपतच्च भूमौ ॥ तं प्रासमालोक्य तदा विभग्नं सुपर्णकृत्तोरगवीर्यकल्पम्। स्तुरंगमस्याभिजघान मूर्धि॥ निमग्नपादः स्फुटिताक्षितारो निष्क्रान्तजिह्वोऽचलसंनिकाशः। स तस्य वाजी निपपात भूमौ तलप्रहारेण विकीर्णमूर्धा १०॥ नरान्तकः क्रोधवशं जगाम हतं तुरंगं पतितं समीक्ष्य। स मुष्टिमुद्यम्य महाप्रभावो जघान शीर्षे युधि वालिपुत्रम्॥ अथाङ्गदो मुष्टिविशीर्णमूर्धा सुस्राव तीव्र रुधिरं भृशोष्णम्। मुहुर्विजज्वाल मुमोह चापि संज्ञां समासाद्य विसिष्मिये च॥ अथाङ्गदो मृत्युसमानवेगं संवर्त्य मुष्टिं गिरिशृङ्गकल्पम्। निपातयामास तदा महात्मा नसन्तकस्योरसि वालिपुत्रः॥ स मुष्टिनिर्भिननिमग्नवक्षा ज्वाला वमशोणितदिग्धगात्रः। नरान्तको भूमितले पपात यथाचलो वज्रनिपातभग्नः॥ तदान्तरिक्षे त्रिदशोत्तमानां वनौकसां चैव महाप्रणादः।। बभूव तस्मिनिहतेऽग्र्यवीर्ये नरान्तके वालिसुतेन संख्ये॥ अथाङ्गदो राममनः प्रहर्षणं सुदुष्करं तं कृतवान्हि विक्रमम्। विसिष्मिये सोऽप्यथ भीमकर्मा पुनश्च युद्धे स बभूव हर्षितः॥ नरान्तकं हतं दृष्ट्वा चुक्रुशुनैऋतषर्भाः। देवान्तकरित्रमूर्धा च पौलस्त्यश्च महोदरः॥ आरूढो मेघसंकाशं वारणेन्द्र महोदरः। वालिपुत्रं महावीर्यमभिदुद्राव वेगवान्॥ भ्रातृव्यसनसंतप्तस्तदा देवान्तको बली। आदाय परिघं घोरमङ्गदं समभिद्रवत्॥ रथमादित्यसंकाशं युक्तं परमवाजिभिः। आस्थाय त्रिशिरा वीरो वालिपुत्रमथाभ्यगात्॥ स त्रिभिर्देवदर्पघ्नै राक्षसेन्ट्रैरभिद्रुतः। वृक्षमुत्पाटयामास महाविटपमङ्गदः॥ देवान्तकाय तं वीरश्चिक्षेप सहसाङ्गदः। महावृक्षं महाशाखं शक्रो दीप्तामिवाशनिम्॥ त्रिशिरास्तं प्रचिच्छेद शरैराशीविषोपमैः। स वृक्षं कृत्तमालोक्य उत्पपात तदाङ्गदः।७।। स ववर्ष ततो वृक्षाशिलाश्च कपिकुञ्जरः। तान्प्रचिच्छेद संक्रुद्धस्त्रिशिरा निशितैः शरैः॥ परिघाग्रेण तान्वृक्षान्बभञ्ज स महोदरः। त्रिशिराश्चाङ्गदं वीरमभिदुद्राव सायकैः।९।। गजेन समभिद्रुत्य वालिपुत्रं महोदरः। जघानोरसि संक्रुद्धस्तोमरैर्वज्रसंनिभैः॥ देवान्तकश्च संक्रुद्धः परिघेण तदाङ्गदम्। उपगम्याभिहत्याशु व्यपचक्राम वेगवान्॥ स त्रिभिनैर्ऋतश्रेष्ठैर्युगपत्समभिद्रुतः। न विव्यथे महातेजा वालिपुत्रः प्रतापवान्॥ स वेगवान्महावेगं कृत्वा परमदुर्जयः। तलेन समभिदुत्य जघानास्य महागजम्॥ तस्य तेन प्रहारेण नागराजस्य संयुगे॥ पेततुर्नयने तस्य विननाश स कुञ्जरः। विषाणं चास्य निष्कृष्य वालिपुत्रो महाबलः॥ देवान्तकमभिदुत्य ताडयामास संयुगे। स विह्वलस्तु तेजस्वी वातोद्भूत इव दुमः॥ लाक्षारससवर्णं च सुस्राव रुधिरं महत्। अथाश्वस्य महातेजाः कृच्छ्राद्देवान्तको बली॥ आविध्य परिघं वेगादाजधान तदाङ्गदम्। परिघाभिहतश्चापि वानरेन्द्रात्मजस्तदा॥ जानुभ्यां पतितो भूमौ पुनरेवोत्पपात ह। तमुत्पतन्तं त्रिशिरास्त्रिभिर्बाणैरजिह्मगैः॥ घोरैर्हरिपतेः पुत्रं ललाटेऽभिजघान ह। ततोऽङ्गदं परिक्षिप्तं विभिनैर्ऋतपुङ्गवैः॥ हनूमानथ विज्ञाय नीलश्चापि प्रतस्थतुः। ततश्चिक्षेप शैलाग्रं नीलत्रिशिरसे तदा॥ तद्रावणसुतो धीमान्बिभेद निशितैः शरैः। तदेबाणशतनिर्भिन्नं विदारितशिलातलम्॥ सविस्फुलिङ्गं सज्वालं निपपात गिरेः शिरः। स विजृम्भितमालोक्य हर्षाद्देवान्तको बली॥ परिघेणाभिदुद्राव मारुतात्मजमाहवे। तमापतन्तमुत्पत्य हनूमान्कपिकुञ्जरः॥ आजघान तदा मूर्ध्नि वज्रकल्पेन मुष्टिना। शिरसि प्राहरद्वीरस्तदा वायुसुतो बली।। नादेनाकम्पयच्वैव राक्षसान्स महाकपिः॥ स मुष्टिनिष्पिष्टविभिन्नमूर्धा निर्वान्तदन्ताक्षिविलम्बिजिह्वः। र्गतासुरुव्यां सहसा पपात॥ तस्मिन्हते राक्षसयोधमुख्ये महाबले संयति देवशत्रौ। क्रुद्धस्त्रिशीर्षो निशितास्त्रमुग्रं ववर्ष नीलोरसि बाणवर्षम्॥ महोदरस्तु संक्रुद्धः कुञ्जरं पर्वतोपमम्। भूयः समधिरुह्याशु मन्दरं रश्मिवानिव॥ ततो बाणमयं वर्ष नीलस्योपर्यपातयत्। गिरौ वर्ष तडिच्चक्रं स गर्जनिव तोयदः।।२८। ततः शरौधैरभिवृष्यमाणो विभिन्नगात्रः कपिसैन्यपालः। नीलो बभूवाथ विसृष्टगात्रो विष्टम्भितस्तेन महाबलेन॥ ततस्तु नीलः प्रतिलब्धसंज्ञः शैलं समुत्पाट्य सवृक्षखण्डम्। ततः समुत्पत्य महोग्रवेगो महोदरं तेन जघान मूर्ध्निः॥ ततः स शैलाभिनिपातभग्नो महोदरस्तेन महाद्विपेन। व्यामोहितो भूमितले गतासुः पपात वज्राभिहतो यथाद्रिः॥ पितृव्यं निहतं दृष्ट्वा त्रिशिराश्चापमाददे। हनूमन्तं च संक्रुद्धो विव्याध निशितैः शरैः॥ स वायुसूनुः कुपितश्चिक्षेप शिखरं गिरेः। त्रिशिरास्तच्छरैस्तीक्ष्णैर्बिभेद बहुधा बली॥ तद्व्यर्थं शिखं दृष्ट्वा द्रुमवर्षं तदा कपिः। विससर्ज रणे तस्मिन्रावणस्य सुतं प्रति ॥ तमापतन्तमाकाशं दुमवर्ष प्रतापवान्। त्रिशिरानिशितैर्बाणैश्चिच्छेद च ननाद च ॥ हनूमांस्तु समुत्पत्य हयं त्रिशिरसस्तदा। विददार नखैः क्रुद्धो नागेन्द्रं मृगराडिव॥ अथ शक्तिं समासाद्य कालरात्रिमिवान्तकः। चिक्षेपानिलपुत्राय त्रिशिरा रावणात्मजः॥ दिवः क्षिप्तामिवोल्कां तां शक्तिं क्षिप्तामसंगताम्। गृहीत्वा हरिशार्दूलो बभञ्ज च ननाद च॥ तां दृष्ट्वा घोरसंकाशां शक्तिं भग्नां हनूमता। प्रहृष्टा वानरगणा विनेदुर्जलदा यथा॥ ततः खङ्गं समुद्यम्य त्रिशिरा राक्षसोत्त निचखान तदा खङ्गं वानरेन्द्रस्य वक्षसि ॥ खङ्गप्रहाराभिहतो हनूमान्मारुतात्मजः। आजघान त्रिमूर्धानं तलेनोरसि वीर्यवान्।४१॥ स तलाभिहतस्तेन स्रस्तहस्ताम्बरो भुवि। निपपात महातेजास्त्रिशिरास्त्यक्तचेतनः।॥ स तस्य पततः खङ्गं तमाच्छिद्य महाकपिः। ननाद गिरिसंकाशस्त्रासयन्सर्वराक्षसान्॥ अमृष्यमाणस्तं घोषमुत्पपात निशाचरः। उत्पत्य च हनूमन्तं ताडयामास मुष्टिना ॥ तेन मुष्टिप्रहारेण संचुकोप महाकपिः। कुपितश्च निजग्राह किरीटे राक्षसर्षभम्॥ स तस्य शीर्षाण्यसिना शितेन किरीटजुष्टानि सकुण्डलानि। क्रुद्धः प्रचिच्छेद सुतोऽनिलस्य त्वष्टः सुतस्येव शिरांसि शक्रः॥ तान्यायताक्षाण्यगसंनिभानि प्रदीप्तवैश्वानरलोचनानि। पेतुः शिरांसीन्द्ररिपोः पृथिव्यां ज्योतींषि मुक्तानि यथेन्द्रमार्गात्॥ तस्मिन्हते देवरिपौ त्रिशीर्षे हनूमता शक्रपराक्रमेण। नेदुः प्लवंगाः प्रचचाल भूमी रक्षास्यथो दुद्रुविरे समन्तात्॥ हतं त्रिशिरसं दृष्ट्वा युद्धोन्मत्तं तथैव च। हतौ प्रेक्ष्य दुराधर्षों देवान्तकनरान्तकौ॥ चुकोप परमामर्षी मत्तो राक्षसपुङ्गवः। जग्राहार्चिष्मतीं चापि गदां सर्वायसीं तदा॥ हेमपट्टपरिक्षिप्तां मांसशोणितफेनिलाम्। विराजमानां विपुलां शत्रुशोणिततर्पिताम्॥ तेजसा संप्रदीप्ताग्रां रक्तमाल्यविभूषिताम्। ऐरावतमहापद्मसार्वभौमभयावहाम्॥ गदामादाय संक्रुद्धो मत्तो राक्षसपुङ्गवः। हरीन्समभिदुद्राव युगान्ताग्निरिव ज्वलन्॥ अथर्षभः : समुत्पत्य वानरो रावणानुजम्। मत्तानीकमुपागम्य तस्थौ तस्याग्रतो बली॥ तं पुरस्तारिथतं दृष्ट्वा वानरं पर्वतोपमम्। आजघानोरसि क्रुद्धो गदया वज्रकल्पया॥ स तयाभिहतस्तेन गदया वानरर्षभः। भिन्नवक्षाः समाधूतः सुस्राव रुधिरं बहु।५६॥ स संप्राप्य चिरात्संज्ञामृषभो वानरेश्वरः। क्रुद्धो विस्फुरमाणौष्ठौ महापार्श्वमुदैवत॥ स वेगवान्वेगवदभ्युपेत्य तं राक्षसं वानरवीरमुख्यः। संवर्त्य मुष्टिं सहसा जघान बाह्वन्तरे शैलनिकाशरूपः॥ स कृत्तमूलः सहसेव वृक्षः क्षितौ पपात क्षतजोक्षिताङ्गः। तां चास्य घोरां यमदण्डकल्पां गदां प्रगृह्याशु तदा ननाद। ५९।। मुहूर्तमासीत्स गतासुकल्पः प्रत्यागतात्मा सहसा सुरारिः। स्तं वारिराजात्मजमाजघान॥ स मूर्छितो भूमितले पपात मुहूर्तमुत्पत्य पुनः ससंज्ञः। तामेव तस्याद्रिवराद्रिकल्पां गदां समाविध्य जघान संख्य।६१।। सा तस्य रौद्रा समुपेत्य देहं रौद्रस्य देवाध्वरविप्रशत्रोः। बिभेद वक्षः क्षतजं च भूरि सुस्राव धात्वम्भ इवाद्रिराजः॥ अभिदुद्राव वेगेन गदां तस्य महात्मनः। तां गृहीत्वा गदां भीमामाविध्य च पुनः पुनः॥ मत्तानीकं महात्मा स जघान रणमूर्धनि। स स्वया गदया भग्नो विशीर्णदशनेक्षणः॥ निपपात तदा मत्तो वजाहत इवाचलः। विशीर्णनयनो भूमौ गतसत्त्वो गतायुषः। पतिते राक्षसे तस्मिन्विद्रुतं राक्षसं बलम्॥ तस्मिन्हते भ्रातरि रावणस्य तनैर्ऋतानां बलमर्णवाभम्। त्यक्तायुधं केवलजीवितार्थ दुद्राव भिन्नार्णवसंनिकाशम्॥ अतिकायं हतं श्रुत्वा लक्ष्मणेन महात्मना। उद्वेगमगमद्राजा वचनं चेदमब्रवीत्॥ धूम्राक्षः परमामर्षी सर्वशस्त्रभृतां वरः। अकम्पनः प्रहस्तश्च कुम्भकर्णस्तथैव च।२।। एते महाबला वीरा राक्षसा युद्धकाङ्गिणः। जेतारः परसैन्यानां परैर्नित्यापराजिताः॥ ससैन्यस्ते हता वीरा रामेणाक्लिष्टकर्मणा। राक्षसाः सुमहाकाया नानाशस्त्रविशारदाः।४॥ अन्ये च बहवः शूरा महात्मानो निपातिताः। प्रख्यातबलवीर्येण पुत्रेणेन्द्रजिता मम॥ तौ भ्रातरौ तदा बद्धौ घोरैर्दत्तवरैः शरैः। यन्न शक्यं सुरैः सर्वैरसुरैर्वा महाबलैः॥ मोक्तुं तद्वन्धनं घोरं यक्षगन्धर्वपत्रगैः। तन्न जाने प्रभावैर्वा मायया मोहनेन वा॥ शरबन्धाद्विमुक्तौ तौ भ्रातरौ रामलक्ष्मणौ। ये योधा निर्गताः शूरा राक्षसा मम शासनात्॥ ते सर्वे निहता युद्धे वानरैः सुमहाबलैः। तं न पश्याम्यहं युद्धे योऽद्य रामं सलक्ष्मणम्।। नाशयेत्सबलं वीरं ससुग्रीवं विभीषणम्।९।। अहो सुबलवान्रामो महदस्त्रबलं च वै। यस्य विक्रममासाद्य राक्षसा निधनं गताः॥ अप्रमत्तैश्च सर्वत्र गुल्मै रक्ष्या पुरी त्वियम्। अशोकवनिका चैव यत्र सीताभिरक्ष्यते॥ निष्क्रमो वा प्रवेशो वा ज्ञातव्यः सर्वदैव नः। यत्र यत्र भवेद्गुल्मस्तत्र तत्र पुनः पुनः॥ सर्वतश्चापि तिष्ठध्वं सैन्यैः परिवृता बलैः। द्रष्टव्यं च पदं तेषां वानराणां निशाचराः॥ प्रदोषे वार्धरावे वा प्रत्यूषे वापि सर्वशः। नावज्ञा तत्र कर्तव्या वानरेषु कदाचन ॥ द्विषतां बलमुद्युक्तमापतत्कि स्थितं यथा। ततस्ते राक्षसाः सर्वे श्रुत्वा लङ्काधिपस्य तत्।। वचनं सर्वमातिष्ठन्यथावत्तु महाबलाः॥ तान्सर्वान्हि समादिश्य रावणो राक्षसाधिपः। मन्युशल्यं वहन्दीनः प्रविवेश स्वमालयम्॥ निशाचराणामधिपो महाबलः। तदेव पुत्रव्यसनं विचिन्तयन् मुहुर्मुहुश्चैव तदा विनिःश्वसन्॥ ततो हताराक्षसपुङ्गवांस्तान् देवान्तकादित्रिशिरोऽतिकायान्। स्ते रावणाय त्वरिताः शशंसुः॥ ततो हतांस्तान्सहसा निशम्य राजा महाबाष्पपरिप्लुताक्षः। पुत्रक्षयं भ्रातृवधं च घोरं विचिन्त्य राजा विपुलं प्रदध्यौ॥ ततस्तु राजानमुदीक्ष्य दीनं शोकार्णवे संपरिपुप्लुवानम्। स्तमिन्द्रजिद्वाक्यमिदं बभाषे॥ न तात मोहं परिगन्तुमर्हसे योन्द्रजिज्जीवति नैऋतेश। नेन्द्रारिबाणाभिहतो हि कश्चित् प्राणान्समर्थः समरेऽभिषातुम्॥ पश्याद्य रामं सह लक्ष्मणेन मद्वाणनिर्भिनविकीर्णदेहम्। गतायुषं भूमितले शयानं शितैः शरैराचितसर्वगात्रम्॥ इमां प्रतिज्ञां शृणु शक्रशत्रोः सुनिश्चितां पौरुषदैवयुक्ताम्। अद्यैव रामं सह लक्ष्मणेन संतर्पयिष्यामि शरैरमोथैः॥ साध्याश्च वैश्वानरचन्द्रसूर्याः। द्रक्ष्यन्तु मे विक्रममप्रमेयं विष्णोरिवोग्रं बलियज्ञवाटे।७।। रापृच्छ्य राजानमदीनसत्त्वः। समारुरोहानिलतुल्यवेगं रथं स्वरश्रेष्ठसमाधियुक्तम्॥ समास्थाय महातेजा रथं हरिरथोपमम्। जगाम सहसा तत्र यत्र युद्धमरिंदमः।।।। तं प्रस्थितं महात्मानमनुजग्मुर्महाबलाः। संहर्षमाणा बहवो धनुःप्रवरपाणयः॥ गजस्कन्धगताः केचित्केचित्परमवाजिभिः। व्याघ्रवृश्चिकमार्जारखरोष्ट्रैश्च भुजंगमैः॥ वराहैः श्वापदैः सिंहैर्जम्बुकैः पर्वतोपमैः। काकहंसमयूरैश्च राक्षसा भीमविक्रमाः।। प्रासमुद्रनिस्त्रिंशपरश्वधगदाधराः। भुशुंडिमुद्गरायष्टिशतघ्नीपरिघायुधाः॥ स शङ्खनिनदैः पूर्णैर्भेरीणां चापि नि:स्वनैः। जगाम त्रिदशेन्द्रारिराजिं वेगेन वीर्यवान् ॥ स शङ्खशशिवर्णेन छत्रेण रिपुसूदनः। रराज प्रतिपूर्णेन नभश्चन्द्रमसा यथा॥ वीज्यमानस्ततो वीरो हैमैर्हेमविभूषणः। चारुचामरमुख्यैश्च मुख्यः सर्वधनुष्मताम्॥ ततस्त्विन्द्रजिता लङ्का सूर्यप्रतिमतेजसा। रराजाप्रतिवीर्येण द्यौरिवार्केण भास्वता॥ स संप्राप्य महातेजा युद्धभूमिमरिंदमः। स्थापयामास रक्षांसि रथं प्रति समन्ततः॥ ततस्तु हुतभोक्तारं हुतभुक्सदृशप्रभः। जुहुवे राक्षसश्रेष्ठो विधिवन्मन्त्रसत्तमैः॥ स हविलाजसत्कारैर्माल्यगन्धपुरस्कृतैः। जुहुवे पावकं तब राक्षसेन्द्रः प्रतापवान्॥ शस्त्राणि शरपत्राणि समिधोऽथ बिभीतकाः। लोहितानि च वासांसि स्रुवं कार्णायसं तथा॥ स तत्राग्नि समास्तीर्य शरपत्रैः सतोमरैः। छागस्य कृष्णवर्णस्य गलं जग्राह जीवतः॥ सकृदेव समिद्धस्य विधूमस्य महार्चिषः। बभूवुस्तानि लिङ्गानि विजयं यान्यदर्शयन् ॥ प्रदक्षिणावर्तशिखस्तप्तकांचनसंनिभः। हविस्तत्प्रतिजग्राह पावकः स्वयमुत्थितः॥ सोऽस्त्रमाहारयामास ब्राह्मशस्त्रविशारदः। धनुश्चात्मरथं चैव सर्वं तत्राभ्यमन्त्रयत्॥ तस्मिन्नाहूयमानेऽस्त्रे हूयमाने च पावके। सार्कग्रहेन्दुनक्षत्रं वितत्रास नभःस्थलम्॥ स पावकं पावकदीप्ततेजा हुत्वा महेन्द्रप्रतिमप्रभावः। सचापबाणासिरथाश्वशूलः खेऽन्तर्दधेऽत्मानमचिन्त्यवीर्यः॥ ततो हयरथाकीर्णं पताकाध्वजशोभितम्। निर्ययौ राक्षसबलं नर्दमानं युयुत्सया॥ ते शरैर्बहुभिश्चित्रैस्तीक्ष्णवेगैरलंकृौः। तोमरैरङ्कुशैश्चापि वानराञ्जघ्नुराहवे॥ रावणिस्तु सुसंस्क्रुद्धस्तानिरीक्ष्य निशाचरान्। हृष्टा भवन्तो युध्यन्तु वानराणां जिघांसया॥ ततस्ते राक्षसाः सर्वे गर्जन्तो जयकाक्षिणः। अभ्यवर्षस्ततो घोरं वानराशरवृष्टिभिः॥ स तु नालीकनाराचैर्गदाभिर्मुसलैरपि। रक्षोभिः संवृतः संख्ये वानरान्विचकर्ष ह॥ ते वध्यमानाः समरे वानराः पादपायुधाः। अभ्यवर्षन्त सहसा रावणिं शैलपापैः॥ इन्द्रजित्तु तदा क्रुद्धो महातेजा महाबलः। वानराणां शरीराणि व्यधमद्रावणात्मजः॥ शरेणैकेन च हरीन्नव पञ्च च सप्त च। बिभेद समरे क्रुद्धो राक्षसान्संप्रहर्षयन्॥ स शरैः सूर्यसंकाशैः शातकुम्भविभूषणैः। वानरान्समरे वीरः प्रममाथ सुदुर्जयः॥ ते भिन्नगात्राः समरे वानराः शरपीडिताः। पेतुर्मथितसंकल्पाः सुरैरिव महासुराः॥ ते तपन्तमिवादित्यं घोरैर्बाणगभस्तिभिः। अभ्यधावन्त संक्रुद्धाः संयुगे वानरर्षभाः॥ ततस्तु वानराः सर्वे भिन्नदेहा विचेतसः। व्यथिता विद्रवन्ति स्म रुधिरेण समुक्षिताः॥ रामस्यार्थे पराक्रम्य वानरास्त्यक्तजीविताः। नर्दन्तस्तेऽनिवृत्तास्तु समरे सशिलायुधाः॥ ते दुमैः पर्वताग्रैश्च शिलाभिश्च प्लवंगमाः। अभ्यवर्षन्त समरे रावणिं समवस्थिताः॥ तं दुमाणां शिलानां च वर्ष प्राणहरं महत्। व्यापोहत महातेजा रावणिः समितिजय॥ ततः पावकसंकाशैः शरैराशीविषोपमैः। वानराणामनीकानि बिभेद समरे प्रभुः॥ अष्टादशशरैस्तीक्ष्णैः स विद्ध्वा गन्धमादनम्। विव्याध नवभिश्चैव नलं दूरादवस्थितम्।॥ सप्तभिस्तु महावीर्यो मैन्दं मर्मविदारणैः। पञ्चभिर्विशिशैश्चैव गजं विव्याध संयुगे॥ जाम्बवन्तं तु दशभिर्नीलं त्रिंशद्भिरेव च। सुग्रीवमृषभं चैव सोऽङ्गदं द्विविदं तथा॥ घोरैर्दत्तवरैस्तीक्ष्णैर्निष्प्राणानकरोत्तदा। वन्यानपि तदा मुख्यान्वानरान्बहुभिः शरैः॥ अर्दयामास संक्रुद्धः कालाग्निरिव मूर्च्छितः। स शरैः सूर्यसंकाशैः सुमुक्तै शीघ्रगामिभिः॥ वानराणामनीकानि निर्ममन्थ महारणे। आकुलां वानरी सेनां शरजालेन पीडिताम्॥ हृष्टः स परया प्रीत्या ददर्श क्षतजोक्षिताम्। पुनरेव महातेजा राक्षसेन्द्रात्मजो बली॥ संसृज्य बाणवर्षं च शस्त्रवर्षं च दारुणम्। ममर्द वानरानीकं परितस्त्विन्द्रजिद्बली॥ स्वसैन्यमुत्सृज्य समेत्य तूर्णं महाहवे वानरवाहिनीषु। अदृश्यमानः शरजालमुग्रं ववर्ष नीलाम्बुधरो यथाम्बु।५१॥ ते शक्रजिद्वाणविशीर्णदेहा मायाहता विस्वरमुत्रदन्तः। रणे निपेतुर्हरयोऽद्रिकल्पा यथेन्द्रवज्राभिहता नगेन्द्राः॥ ते केवलं संददृशुः शिताग्रान् बाणारणे वानरवाहिनीषु। मायाविगूढं च सुरेन्द्रशत्रु न चात्र तं राक्षससम्पपश्यन्।५३ ।। ततः स रक्षोधिपतिर्महात्मा सर्वा दिशो बाणगतैः शिताग्रैः। विदारयामास च वानरेन्द्रान्॥ स शूलनिस्त्रिंशपरश्वधानि व्याविद्धदीप्तानलसप्रभाणि। सविस्फुलिङ्गोज्ज्वलपावकानि ववर्ष तीव्र प्लवगेन्द्रसैन्ये॥ ततो ज्वलनसंकाशैर्बाणैर्वानरयूथपाः। ताडिताः शक्रजिद्बाणैः प्रफुल्ला इव किंशुकाः॥ तेऽन्योऽन्यमभि सर्पन्तो निनदन्तश्च विस्वरम्। राक्षसेन्द्रास्त्रनिर्भिन्ना निपेतुर्वानरर्षभाः। उदीक्षमाणा गगनं केच्चिनेत्रेषु ताडिताः। शनैर्विविशुरन्योन्यं पेतुश्च जगतीतले॥ हनूमन्तं च सुग्रीवमङ्गदं गन्धमादनम्। जाम्बवन्तं सुषेणं च वेगदर्शिनमेव च॥ मैन्दं च द्विविदं नीलं गवाक्षं गवयं तथा। केसरि हरिलोमानं विद्युदंष्ट्रं च वानरम्॥ सूर्याननं ज्योतिमुखं तथा दधिमुखं हरिम्। पावकाक्षं नलं चैव कुमुदं चैव वानरम्॥ प्रासैः शूलैः शितैर्बाणैरिन्द्रजिन्मन्त्रसंहितैः। विव्याध हरिशार्दूलान्सांस्ताराक्षसोत्तमः॥ निर्भिद्य बाणैस्तपनीयवर्णैः। ववर्ष राम शरवृष्टिजालैः सलक्ष्मणं भास्कररश्मिकल्पैः॥ स बाणव(रभिवृष्यमाणो धारानिपातानिव तानचिन्त्य। समीक्षमाणः परमाद्भुतश्री रामस्ततो लक्ष्मणमित्युवाच ॥ असौ पुनर्लक्ष्मण राक्षसेन्द्रो महास्त्रमाश्रित्य सुरेन्द्रशत्रुः। शितैः शरैरर्दयति प्रसक्तम्॥ स्वयंभुवा दत्तवरो महात्मा समाहितोऽन्तर्हितभीमकायः। कथं नु शक्यो युधि नष्टदेहो निहन्तुमद्येन्द्रजिदुद्यतास्त्रः॥ स्तस्यैतदत्रं प्रभवश्च योऽस्य। बाणावपातं त्वमिहाद्य धीमन् मया सहाव्यग्रमनाः सहस्वा६६॥ प्रच्छादयत्वेष हि राक्षसेन्द्रः सर्वाधिकः सायकवृष्टिजालैः। एतच्च सर्व पतिताग्र्यशूरं न भ्राजते वानरराजसैन्यम्॥ आवां तु दृष्ट्वा पतितौ विसंज्ञौ निवृत्तयुद्धौ हतहर्षरोषौ। मसौ समासाद्य रणाग्र्यलक्ष्मीम्॥ र्बभूवतुस्तत्र तदा विशस्तौ। स चापि तौ तत्र विषादयित्वा ननाद हर्षाधुधि राक्षसेन्द्रः॥ ततस्तदा वानरसैन्यमेवं रामं च संख्ये सह लक्ष्मणेन। विषूदयित्वा सहसा विवेश पुरी दशग्रीवभुजाभिगुप्ताम्।। संस्तूयमानः स तु यातुधानैः पित्रे च सर्वं हृषितोऽभ्युवाच॥ तयोस्तदासादितयो रणाग्रे मुमोह सैन्यं हरियूथपानाम्। सुग्रीवनीलाङ्गदजाम्बवन्तो न चापि किंचित्प्रतिपेदिरे ते॥ ततो विषण्णं समवेक्ष्यं सर्व विभीषणो बुद्धिमतां वरिष्ठः। नाश्वासयन्त्रप्रतिमैर्वचोभिः॥ मा भैष्ट नास्त्यत्र विषादकालो यदार्यपुत्रौ ह्यवशौ विषण्णौ। स्वयंभुवो वाक्यमथोद्वहन्तौ यत्सादिताविन्द्रजितास्त्रजालैः॥ स्वयंभुवा ब्राह्मममोघवीर्यम्। तन्मानयन्तौ युधि राजपुत्रौ निपातितौ कोऽत्र विषादकालः।४।। ब्रह्ममत्रं ततो धीमान्मानयित्वा तु मारुतिः। विभीषणवचः श्रुत्वा हनूमानिदमब्रवीत्॥ अस्मित्रत्रहते सैन्ये वानराणां तरस्विनाम्। यो यो धारयते प्राणांस्तं तमाश्वासयावहे॥ तावुभौ युगपद्वीरौ हनूमद्राक्षसोत्तमौ। उल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः॥ भिन्नलालहस्तोरुपादाङ्गुलिशिरोधरैः। स्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिः समन्ततः॥ पतितैः पर्वताकारैर्वानरैरभिसंवृताम्। शस्त्रैश्च पतितैर्दीप्तैर्ददृशाते वसुंधराम्॥ सुग्रीवमङ्गदं नीलं शरभं गन्धमादनम्। जाम्बवन्तं सुषेणं च वेगदर्शिनमेव च॥ मैन्दं नलं ज्योतिमुखं द्विविदं चापि वानरम्। विभीषणो हनूमांश्च ददृशाते हतारणे॥ सप्तषष्टिर्हता: कोट्यो वानराणां तरस्विनाम्। अह्नः पञ्चमशेषेण वल्लभेन स्वयम्भुवः॥ सागरौघनिभं भीमं दृष्ट्वा बाणादितं बलम्। मार्गते जाम्बवन्तं च हनूमान्सविभीषणः॥ स्वभावजरया युक्तं वृद्धं शरशतैश्चितम्। प्रजापतिसुतं वीरं शाम्यन्तमिव पावकम्॥ दृष्ट्वा समभिसंक्रम्य पौलस्त्यो वाक्यमब्रवीत्। कश्चिदार्यशरैस्तीक्ष्णैर्न प्राणा ध्वंसितास्तव ॥ विभीषणवचः श्रुत्वा जाम्बवानृक्षपुङ्गवः। कृच्छादब्युद्गिरन्वाक्यमिदं वचनमब्रवीत्॥ नैऋतेन्द्र महावीर्य स्वरेण त्वाभिलक्षये। विद्धगात्रः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा॥ अञ्जना सुप्रजा येन मातरिश्वा च सुव्रत। हनूमान्वानरश्रेष्ठः प्राणान्धारयते क्वचित्॥ श्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः। आर्यपुत्रावतिक्रम्य कस्मात्पृच्छसि मारुतिम्॥ नैव राजनि सुग्रीवे नाङ्गदे नापि राघवे। आर्य संदर्शितः स्नेहो यथा वायुसुते परः॥ विभीषणवचः श्रुत्वा जाम्बवान्वाक्यमब्रवीत्। शृणु नैर्ऋतशार्दूल यस्मात्पृच्छामि मारुतिम्॥ अस्मिञ्जीवति वीरे तु हतमप्यहतं बलम्। हनूमत्युज्झितप्राणे जीवन्तोऽपि मृता वयम्॥ धरते मारुतिस्तात मारुतप्रतिमो यदि। वैश्वानरसमो वीर्ये जीविताशा ततो भवेत्॥ ततो वृद्धमुपागम्य विनयेनाभ्यवादयत्। गृह्य जाम्बवतः पादौ हनूमान्मारुतात्मजः॥ श्रुत्वा हनूमतो वाक्यं तदा विव्यथितेन्द्रियः। पुनर्जातमिवात्मानं मन्यते प्लवगोत्तमः॥ ततोऽब्रवीन्महातेजा हनूमन्तं स जाम्बवान्। आगच्छ हरिशार्दूल वानरांस्त्रातुमर्हसि ॥ नान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखा। त्वत्पराक्रमकालोऽयं नान्यं पश्यामि कंचन ॥ ऋक्षवानरवीराणामनीकानि प्रहर्षय। विशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ॥ गत्वा परममध्वानमुपर्युपरि सागरम्। हिमवन्तं नगश्रेष्ठं हनूमन्गन्तुमर्हसि॥ ततः काञ्चनमत्युग्रमृषभं पर्वतोत्तमम्। कैलासशिखरं चात्र द्रक्ष्यस्यरिनिषूदन ॥ तयोः शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम्। सौषधियुतं वीर द्रक्षस्योषधिपर्वतम्॥ तस्य वानरशार्दूल चतस्रो मूर्ध्नि संभवाः। द्रक्षस्योषधयो दीप्ता दीपयन्तीदिशो दश॥ मृतसंजीवनीं चैव विशल्यकरणीमपि। सुवर्णकरणीं चैव संधानी च महौषधीम्॥ ताः सर्वा हनुमन्गृह्य क्षिप्रमागन्तुमर्हसि। आश्वासय हरीन्प्राणैर्योज्य गन्धवहात्मज ॥ श्रुत्वा जाम्बवतो वाक्यं हनूमान्मारुतात्मजः। आपूर्यत बलोद्धर्वायुवेगैरिवार्णवः॥ स पर्वततटाग्रस्थः पीडयन्पर्वतोत्तमम्। हनूमान्दृश्यते वीरो द्वितीय इव पर्वतः॥ हरिपादविनिर्भग्नो निषसाद स पर्वतः। न शशाक तदात्मानं वोढुं भृशनिपीडितः॥ तस्य पेतुर्नगा भूमौ हरिवेगाच्च जज्वलुः। शृङ्गाणि च व्यकीर्यन्त पीडितस्य हनूमता ॥ तस्मिन्संपीड्यमाने तु भग्नद्रुमशिलातले। न शेकुर्वानराः स्थातुं घूर्णमाने नगोत्तमे॥ सा घूर्णितमहाद्वारा प्रभग्नगृहगोपुरा। लङ्का त्रासाकुला रात्रौ प्रनृत्येवाभवत्तदा॥ पृथिवीधरसंकाशो निपीड्य पृथिवीधरम्। पृथिवीं क्षोभयामास सार्णवां मारुतात्मजः॥ पद्भ्यां तु शैलमाविध्य वडवामुखवन्मुखम्। विवृत्योग्रं ननादोच्वैस्वासयन्रजनीचरान्।॥ तस्य नानद्यमानस्य श्रुत्वा निनदमुत्तमम्। लङ्कास्था राक्षसव्याघ्रा न शेकुः स्पन्दितुं क्वचित्॥ नमस्कृत्वा समुद्राय मारुतिर्भीमविक्रमः। राघवार्थे परं कर्म समीहत परंतपः॥ स पुच्छमुद्यम्य भुजंगकल्पं विनम्य पृष्ठं श्रवणे निकुच्य। मापुप्लुवे व्योम्नि च चण्डवेगः॥ स वृक्षखण्डांस्तरसा जहार शैलाशिलाः प्राकृतवानरांश्च । स्ते क्षीणवेगाः सलिले निपेतुः॥ स तौ प्रसार्योरगभोगकल्पौ भुजौ भुजंगारिनिकाशवीर्यः। जगाम शैलं नगराजमग्र्यं दिशः प्रकर्षनिव वायुसूनुः॥ स सागरं घूर्णितवीचिमालं तदम्भसा भ्रामितसर्वसत्त्वम्। समीक्षमाणः सहसा जगाम चक्रं यथा विष्णुकरारमुक्तम्॥ स पर्वतान्पक्षिगणान्सरांसि नदीस्तटाकानि पुरोत्तमानि। स्फीताञ्जनांस्तानपि संप्रवीक्ष्य जगाम वेगापितृतुल्यवेगः॥ आदित्यपथमाश्रित्य जगाम स गतश्रमः। हनूमांस्त्वरितो वीरः पितुस्तुल्यपराक्रमः॥ जवेन महता युक्तो मारुतितिरंहसा। जगाम हरिशार्दूलो दिशः शब्देन नादयन्।५१।। स्मरञ्जाम्बवतो वाक्यं मारुतिर्भीमविक्रमः। ददर्श सहसा चापि हिमवन्तं महाकपिः।१२।। नानाप्रस्रवणोपेतं बहुकंदरनिर्झरम्। श्वेताभ्रश्यसंकाशैः शिखरैश्चारुदर्शनैः।। शोभितं विविधैर्वृक्षरगमत्पर्वतोचमम्॥ मतिप्रवृद्धोत्तमहेमशृङ्गम्। ददर्श पुण्यानि महाश्रमाणि सुरर्षिसङ्घोत्तमसेवितानि॥ स ब्रह्मकोशं रजतालयं च शक्रालयं रुद्रशरप्रमोक्षम्। हयाननं ब्रह्मशिरश्च दीप्तं ददर्श वैवस्वतकिंकरांश्च ॥ वयालयं वैश्रवणालयं च सूर्यप्रभं सूर्यनिबन्धनं च। ब्रह्मालयं शंकरकार्मुकं च ददर्श नाभिं च वसुंधरायाः।५६।। कैलासमुग्रं हिमवच्छिलां च तं वै वृषं काञ्चनशैलमग्र्यम्। प्रदीप्तसौषधिसंप्रदीप्तं ददर्श सौषधिपर्वतेन्द्रम्॥ स तं समीक्ष्यानलराशिदीप्तं विसिष्मिये वासवदूतसूनुः। आप्लुत्य तं चौषधिपर्वतेन्द्र तत्रौषधीनां विचयं चकार॥ स योजनसहस्राणि समतीत्य महाकपिः। दिव्यौषधिधरं शैलं व्यचरन्मारुतात्मजः॥ महौषध्यस्ततः सर्वास्तस्मिन्पर्वतसत्तमे। विज्ञायार्थिनमायान्तं ततो जग्मुरदर्शनम्॥ श्चुकोप रोषाच्च भृशं ननाद। महीधरेन्द्र तमुवाच वाक्यम्॥ किमेतदेवं सुविनिश्चितं ते यद्राघवेनासि कृतानुकम्पः। पश्याद्य मद्बाहुबलाभिभूतो विकीर्णमात्मानमथो नगेन्द्र॥ स तस्य शृङ्ग सनगं सनागं सकाञ्चनं धातुसहस्त्रजुष्टम्। विकीर्णकूटं ज्वलिताग्रसार्नु प्रगृह्य वेगात्सहसोन्ममाथ॥ स तं समुत्पाट्य खमुत्पपात चित्रास्य लोकान्ससुरान्सुरेन्द्रान्। जंगाम वेगाद्गरुडोग्रवेगः॥ स्तं भास्काराभं शिखरं प्रगृह्य । बभौ तदा भास्करसंनिकाशो रवेः समीपे प्रतिभास्कराभः॥ स तेन शैलेन भृशं रराज शैलोपमो गन्धवाहत्मजस्तु। सहस्रधारेण सपावकेन चक्रेण खे विष्णुरिवार्पितेन॥ तं वानराः प्रेक्ष्य तदा विनेदुः स तानपि प्रेक्ष्य मुदा ननाद। तेषां समुत्कृष्टरवं निशम्य लङ्कालया भीमतरं विनेदुः॥ स्युः। ततो महात्मा निपपात तस्मिन् शैलोत्तये वानरसैन्यमध्ये। हर्युत्तमेभ्यः शिरसाभिवाद्य विभीषणं तत्र च सस्वजे सः॥ तावप्युभौ मानुषराजपुत्रौ तं गन्धमाघ्राय महौषधीनाम्। वुत्तस्थुरन्ये च हरिप्रवीराः॥ सर्वे विशल्या विरुजाः क्षणेन हरिप्रवीराश्च हताश्च ये गन्धेन तासां प्रवरोषधीनां सुप्ता निशान्तेष्विव संप्रबुद्धाः। ७०।। यदा प्रभृति लङ्कायां युध्यन्ते हरिराक्षसाः। यदा प्रभृति मानार्थमाज्ञया रावणस्य च।७१।। ये हन्यन्ते रणे तत्र राक्षसाः कपिकुञ्जरैः। हता हतास्तु क्षिप्यन्ते सर्व एव तु सागरे॥ ततो हरिर्गन्धवहात्मजस्तु तमोषधीशैलमुदग्रवेगः। निनाय वेगाद्धिमवन्तमेव पुनश्च रामेण समाजगाम।७३ ।। ततोऽब्रवीन्महातेजाः सुग्रीवो वानरेश्वरः। अयं विज्ञापयंश्चापि हनूमन्तमिदं वचः॥ यतो हतः कुम्भकर्णः कुमाराश्च निषूदिताः। नेदानीमुपनिरिं रावणो दातुमर्हति ॥ ये ये महाबलाः सन्ति लघवश्च प्लवंगमाः। लङ्कामभिपतन्त्वाशु गृह्योल्काः प्लवगर्षभाः॥ ततोऽस्तं गत आदित्ये रौद्रे तस्मिन्निशामुखे। लङ्कामभिमुखाः सोल्का जग्मुस्ते प्लवगर्षभाः॥ उल्काहस्तैहरिगणैः सर्वतः समभिदुताः। आरक्षस्था विरूपाक्षाः सहसा विप्रदुद्रुवुः।५।। गोपुराट्टप्रतोलीषु चर्यासु विविधासु च। प्रासादेषु च संहृष्टाः ससृजुस्ते हुताशनम्॥ तेषां गृहसहस्राणि ददाह हुतभुक्तदा।। प्रासादाः पर्वताकाराः पतन्ति धरणीतले।७।। अगुरुर्दह्यते तत्र परं चैव सुचन्दनम्। मौक्तिका मणयः स्निग्धा वजं चापि प्रवालकम्।८।। क्षौमं च दह्यते तत्र कौशेयं चापि शोभनम् । आविकं विविधं चौर्ण काश्चनं भाण्डमायुधम्।९।। नानाविकृतसंस्थानं वाजिभाण्डपरिच्छदम्। गजौवेयकक्ष्याश्च रथभाण्डांश्च संस्कृतान्॥ तनुत्राणि च योधानां हस्त्यश्वानां च चर्म च। खड्गा धनूंषि ज्याबाणास्तोमराङ्कुशशक्तयः॥ रोमजं वालजं चर्म व्याघ्रजं चाण्डजं बहु। मुक्तामणिविचित्रांश्च प्रासादांश्च समन्ततः॥ विविधानत्रसंघातानग्निर्दहति तत्र वै। नानाविधान्गृहांश्चित्रान्ददाह हुतभुक्तदा॥ आवासाराक्षसानां च सर्वेषां गृहगृनुनाम्। हेमचित्रतनुत्राणां स्रग्भाण्डाम्बरधारिणाम्॥ सीधुपानचलाक्षाणां मदविह्वलगामिनाम्। कान्तालम्बितवस्त्राणां शत्रुसंजातमन्युनाम्॥ गदाशूलासिहस्तानां खादतां पिबतामपि। शयनेषु महार्हेषु प्रसुप्तानां प्रियैः सह ॥ त्रस्तानां गच्छतां तूर्णं पुत्रानादाय सर्वतः। तेषां शतसहस्राणि तदा लङ्कानिवासिनाम्॥ अदहत्पावकस्तत्र जज्वाल च पुनः पुनः। सारवन्ति महार्हाणि गम्भीरगुणवन्ति च॥ हेमचन्द्रार्धचन्द्राणि चन्द्रशालोत्तमानि च। तत्र चित्रगवाक्षाणि साधिष्ठानानि सर्वशः॥ मणिविदुमचित्राणि स्पृशन्तीव दिवाकरम्। क्रौञ्चबर्हिणवर्णानां भूषणानां च निःस्वनैः।।२० नादितान्यचलाभानि वेश्मान्यग्निर्ददाह सः। ज्वलनेन परीतानि तोरणानि चकाशिरे॥ विद्युद्भिरिव नद्धानि मेघजालानि धर्मगे। ज्वलनेन परीतानि गृहाणि प्रचकाशिरे॥ दावाग्निदीप्तानि यथा शिखराणि महागिरेः। विमानेषु प्रसुप्ताश्च दह्यमाना वराङ्गनाः॥ त्यक्ताभरणसंयोगा हाहेत्युच्चैर्विचुक्रुशुः। तत्र चाग्निपरीतानि निपेतुर्भवनान्यपि॥ वज्रिवज्रहतानीव शिखराणि महागिरेः। तानि निर्दह्यमानानि दूरतः प्रचकाशिरे॥ हिमवच्छिखराणीव दह्यमानानि सर्वशः। हार्दह्यमानैश्च ज्वालाप्रज्वलितैरपि॥ रात्रौ सा दृश्यते लङ्का पुष्पितैरिव किंशुकैः। हस्त्यध्यक्षैर्गजैर्मुक्तैर्मुक्तैश्च तुरगैरपि।। बभूव लङ्का लोकान्ते भ्रान्तग्राह इवार्णवः॥ अश्वं मुक्तं गजो दृष्ट्वा क्वचिद्रीतोऽपसर्पति। भीतो भीतं गजं दृष्ट्वा क्वचिदश्वो निवर्तते॥ लङ्कायां दह्यमानायां शुशुभे च महोदधिः। छायासंसक्तसलिलो लोहितोद इवार्णवे॥ सा बभूव मुहूर्तेन हरिभिर्दीपिता पुरी। लोकस्यास्य क्षये घोरे प्रदीप्तेव वसुंधरा ॥ नारीजनस्य धूमेन व्याप्तस्योच्चैर्विनेदुषः। स्वनो ज्वलनतप्तस्य शुश्रुवे शतयोजनम्॥ प्रदग्धकायानपरान्राक्षसान्निर्गतान्बहिः। सहसा ह्युत्पतन्ति स्म हरयोऽथ युयुत्सवः॥ उद्धृष्टं वानराणां च राक्षसानां च निःस्वनम्। दिशो दश समुद्रं च पृथिवीं च व्यनादयत्॥ विशल्यौ च महात्मानौ तावुभौ रामलक्ष्मणौ। असंभ्रान्तौ जगृहतुस्ते उभे धनुषी वरे॥ ततो विस्फारयामास रामश्च धनुरुत्तमम्। बभूव तुमुलः शब्दो राक्षसानां भयावहः॥ अशोभत तदा रामो धनुर्विस्फारयन्महत्। भगवानिव संक्रुद्धो भवो वेदमयं धनुः॥ उद्देष्टं वानराणां च राक्षसानां च निःस्वनम्। ज्याशब्दस्तावुभौ शब्दावतिरामस्य शुश्रुवे॥ वानरोद्धृष्टघोषश्च राक्षसानां च निःस्वनः। ज्याशब्दश्चापि रामस्य त्रयं व्याप दिशो दश।३८॥ तस्य कार्मुकनिर्मुक्तैः शरैस्तत्पुरगोपुरम्। कैलासशृङ्गप्रतिमं विकीर्णमभवद्भुवि॥ नतो रामशरान्दृष्ट्वा विमानेषु गृहेषु च। संनाहो सक्षसेन्द्राणां तुमुलः समपद्यत॥ तेषां संनह्यमानानां सिंहनादं च कुर्वताम्। शर्वरी राक्षसेन्द्राणां रौद्रीव समपद्यत॥ आदिष्टा वानरेन्द्रास्ते सुग्रीवेण महात्मना। आसन्नं द्वारमासाद्य युध्यध्वं च प्लवंगमाः।॥ यश्च वो वितथं कुर्यात्तत्र तत्राप्युपस्थितः। स हन्तव्योऽभिसंप्लुत्य राजशासनदूषकः॥ तेषु वानरमुख्येषु दीप्तोल्कोज्ज्वलपाणिषु। स्थितेषु द्वारमाश्रित्य रावणं क्रोध आविशत्॥ तस्य जृम्भितविक्षेपाव्यामिश्रा वै दिशो दश। रूपवानिव रुद्रस्य मन्युर्गात्रेष्वदृश्यत॥ स कुम्भं च निकुम्भं च कुम्भकर्णात्मजावुभौ । प्रेषयामास संक्रुद्धो राक्षसैर्बहुभिः सह ॥ यूपाक्षः शोणिताक्षश्च प्रज़जः कम्पनस्तथा। निर्ययुः कौम्भकर्णाभ्यां सह रावणशासनात्॥ शशास चैव तान्सर्वान्राक्षसान्स महाबलान्। राक्षसा गच्छताद्यैव सिंहनादं च नादयन्।॥ ततस्तु चोदितास्तेन राक्षसा ज्वलितायुधाः। लङ्काया निर्ययुर्वीराः प्रणदन्तः पुनः पुनः॥ रक्षसां भूषणस्थाभि भिः स्वाभिश्च सर्वशः। चकृस्ते सप्रभं व्योम हरयश्चाग्निभिः सह ॥ तत्र ताराधिपस्याभा ताराणां भा तथैव च। तयोराभरणाभा च ज्वलिता द्यामभासयत्॥ चन्द्राभा भूषणाभा च ग्रहाणां ज्वलिता च भा। हरिराक्षससैन्यानि भाजयामास सर्वतः॥ तत्र चार्धप्रदीप्तानां गृहाणां सागरः पुनः। भाभिः संसक्तसलिलश्चलोमिः शुशुभे ध्रुवम्॥ पताकाध्वजसंयुक्तमुत्तमासिपरश्वधम्। भीमाश्वरथमातंग नानापत्तिसमाकुलम्॥ दीप्तशूलगदाखड्गप्रासतोमरकार्मुकम्। तद्राक्षसबलं भीमं घोरविक्रमपौरुषम्॥ ददृशे ज्वलितप्रासं किङ्किणीशतनादितम्। हेमजालाचितभुजं व्यावेष्टितपरश्वधम्॥ व्याघूर्णितमहाशस्त्रं बाणसंसक्तकार्मुकम्। गन्धमाल्यमधूत्सेकसंमोदितमहानिलम्॥ घोरं शूरजनाकीणं महाम्बुधरनिःस्वनम्। तदृष्ट्वा बलमायातं राक्षसानां दुरासदम्॥ संचचाल प्लवंगानां बलमुच्चैर्ननाद च। जवेनाप्लुत्य च पुनस्तद्बलं रक्षसां महत्॥ अभ्ययात्प्रत्यरिबलं पतंगा इव पावकम्। तेषां भुजपरामर्शव्यामृष्टपरिघाशनि॥ राक्षसानां बलं श्रेष्ठं भूयः परमशोभत। तत्रोन्मत्ता इवोत्पेतुर्हरयोऽथ युयुत्सवः॥ तरुशैलैरभिघ्नन्तो मुष्टिभिश्च निशाचरान्। तथैवापततां तेषां हरीणां निशितैः शरैः॥ शिरांसि सहसा जडू राक्षसा भीमविक्रमाः। दशनैर्हतकर्णाश्च मुष्टिभिभिन्नमस्तकाः।। शिलाप्रहारभग्नाङ्गा विचेरुस्तत्र राक्षसाः॥ तथैवाप्यपरे तेषां कपीनामसिभिः शितैः। प्रवरानभितो जघ्नुर्घोररूपा निशाचराः॥ घ्नन्तमन्यं जघानान्यः पातयन्तमपातयत्। गर्हमाणं जगन्यिो दशन्तमपरोऽदशत्॥ देहीत्यन्यो ददात्यन्यो ददामीत्यपरः पुनः। किं क्लेशयसि तिष्ठेति तत्रान्योन्यं बभाषिरे॥ विप्रलम्भितशस्त्रं च विमुक्तकवचायुधम्। समुद्यतमहाप्रासं मुष्टिशूलासिकुन्तलम्॥ प्रावर्तत महारौद्रं युद्धं वानररक्षसाम्। वानरान्दश सप्तेति राक्षसा जघ्नुराहवे॥ विप्रलम्बितवस्त्रं च विमुक्तकवचध्वजम्। बलं राक्षसमालम्ब्य वानराः पर्यवारयन्॥ विप्रलम्बितवस्त्रं च विमुक्तकवचध्वजम्। बलं राक्षसमालम्ब्य वानराः पर्यवारयन्॥ प्रवृत्ते संकुले तस्मिन्वीरे घोरजनक्षये। अङ्गदः कम्पनं वीरमाससाद रणोत्सुकः॥ आहूय सोऽङ्गदं कोपात्ताडयामास वेगितः। गदया कम्पनः पूर्व स चचाल भृशाहतः॥ स संज्ञां प्राप्य तेजस्वी चिक्षेप शिखरं गिरेः। अर्दितश्च प्रहारेण कम्पनः पतितो भुवि॥ ततस्तु कम्पनं दृष्ट्वा शोणिताक्षो हतं रणे। रथेनाभ्यपतित्क्षिप्रं तत्राङ्गदमभीतवत्॥ सोऽङ्गदं निशितैर्बाणैस्तदा विव्याध वेगितः। शरीरदारणैस्तीक्ष्णैः कालाग्निसमविग्रहैः॥ क्षुरक्षुरखनाराचैर्वत्सदन्तैः शिलीमुखैः। कर्णिशल्यविपाठैश्च बहुभिर्निशितैः शरैः॥ अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रः प्रतापवान्। धनुरुग्रं रथं बाणान्ममर्द तरसा बली॥ शोणिताक्षस्ततः क्षिप्रमसिचर्म समाददे। उत्पपात तदा कुद्धो वेगवानविचारयन्॥ तं क्षिप्रतरमाप्लुत्य परामृश्याङ्गदो बली। करेण तस्य तं खङ्गं समाच्छिद्य ननाद च॥ तस्यां स फलके खङ्गं निजघान ततोऽङ्गदः। यज्ञोपवीतवच्चैनं चिच्छेद कपिकुञ्जरः॥ तं प्रगृह्य महाखड्गं विनद्य च पुनः पुनः। वालिपुत्रोऽभिदुद्राव रणशीर्ष परानरीन्॥ प्रजङ्घसहितो वीरो यूपाक्षस्तु ततो बली। रथेनाभिययौ क्रुद्धो वालिपुत्रं महाबलम्॥ आयसीं तु गदां गृह्य स वीरः कनकाङ्गदः। शोणिताक्षः समाश्वस्य तमेवानुपपात ह॥ प्रजङ्घस्तु महावीरो यूपाक्षसहितो बली। गदयाभिययौ क्रुद्धो वालिपुत्रं महाबलम्॥ तयोर्मध्ये कपिश्रेष्ठः क्षोणिताश्रप्रजङ्घयोः। विशाखयोर्मध्यगतः पूर्णचन्द्र इवाबभौ॥ अङ्गदं परिरक्षन्तौ मैन्दो द्विविद एव च। तस्य तस्थतुरभ्याशे परस्परदिदृक्षया॥ अभिपेतुर्महाकायाः प्रतियत्ता महाबलाः। राक्षसा वानरानरोषादसिबामगदाधराः॥ त्रयाणां वानरेन्द्राणां त्रिभी राक्षसपुङ्गवैः। संसक्तानां महद्युद्धमभवद्रोमहर्षणम्॥ ते तु वृक्षान्समादाय संप्रचिक्षिपुराहवे। खङ्गेन प्रतिचिक्षेप तान्प्रजङ्घो महाबलः॥ रथान्सर्वान्दुमाञ्छैलान्प्रतिचिक्षिपुराहवे। शरौधैः प्रतिचिच्छेद तान्यूपाक्षो महाबलाः॥ सृष्टान्विविदमैन्दाभ्यां दुमानुत्पाट्य वीर्यवान्। बभञ्ज गदया मध्ये शोणिताक्षः प्रतापवान्॥ उद्यम्य विपुलं खङ्गं परमर्मविदारणम्। प्रजबो वालिपुत्राय अभिदुद्राव वेगितः॥ तमभ्याशगतं दृष्ट्वा वानरेन्द्रो महाबलः। आजघानाश्वकर्णेन दुमेणातिबलस्तदा॥ बाहुं चास्य सनिस्त्रिंशमाजघान स मुष्टिना। बालिपुत्रस्य घातेन स पपात क्षितावसिः॥ तं दृष्ट्वा पतितं भूमौ खङ्गं मुसलसंनिभम्! मुष्टिं संवर्तयामास वज्रकल्पं महाबलः॥ स ललाटे महावीर्यमङ्गदं वानरर्षभम्। आजघान महातेजाः स मुहूर्त चचाल ह॥ स संज्ञां प्राप्य तेजस्वी वालिपुत्रः प्रतापवान्। प्रजङ्घस्य शिरः कायात्पातयामास मुष्टिना॥ स यूपाक्षोऽश्रुपूर्णाक्षः पितृव्ये निहते रणे।। अवरुह्य रथात्क्षिप्रं क्षीणेषु खङ्गमाददे॥ तमापतन्तं संप्रेक्ष्य यूपाक्षं द्विविदस्त्वरन्। आजघानोरसि क्रुद्धो जग्राह च बलाबली॥ गृहीतं भ्रातरं दृष्ट्वा शोणिताक्षो महाबलम्। आजधान महातेजा वक्षसि द्विविदं ततः॥ स ततोऽभिहतस्तेन चचाल च महाबलः। उद्यतां च पुनस्तस्य जहार द्विविदो गदाम्॥ एतस्मिन्नन्तरे मैन्दो द्विविदाभ्याशमागमत्। तौ शोणिताक्षयूपाक्षौ प्लवंगाभ्यां तरस्विनौ। चक्रतुः समरे तीव्रमाकर्षोत्पाटनं भृशम्॥ द्विविदः शोणिताक्षं तु विददार नखैर्मुखे। निष्पिपेष स वीर्येण क्षितावाविध्य वीर्यवान्॥ यूपाक्षमभिसंक्रुद्धो मैन्दो वानरपुङ्गवः। पीडयामास बाहुभ्यां पणत स हतः क्षितौ॥ हतप्रवीरा व्यथिता राक्षसेन्द्रचमूस्तथा। जगामाभिमुखी सा तु कुम्भकर्णात्मजो यतः॥ आपतन्तीं च वेगेन कुम्भस्तां सान्त्वयच्चमूम्। अथोत्कृष्टं महावीयौलब्धलक्षैः प्लवंगमैः॥ निपातितमहावीरां दृष्ट्वा रक्षश्चमूं तदा। कुम्भः प्रचक्रे तेजस्वी रणे कर्म सुदुष्करम्॥ स धनुर्धन्विनां श्रेष्ठः प्रगृह्य सुसमाहितः। मुमोचाशीविषप्रख्याञ्छरान्देहविदारणान्॥ तस्य तच्छुशुभे भूयः सशरं धनुरुत्तमम्। विद्युदैरावतार्चिष्माद्दितीयेन्द्रधनुर्यथा॥ आकर्णकृष्टमुक्तेन जघान द्विविदं तदा। तेन हाटकपुनेन पत्रिणा पत्रवाससा॥ सहसाभिहतस्तेन विप्रमुक्तपदः स्फुरन्। निपपात त्रिकूटाभो विह्वलन्प्लवगोत्तमः॥ मैन्दस्तु भ्रातरं तत्र भग्नं दृष्ट्वा महाहवे। अभिदुद्राव वेगेन प्रगृह्य विपुलां शिलाम्॥ तां शिलां तु प्रचिक्षेप राक्षसाय महाबलः। बिभेदं तां शिलां कुम्भः प्रसन्नैः पञ्चभिः शरैः।॥ संधाय चान्यं सुमुखं शरमाशीविषोपमम्। आजघान महातेजा वक्षसि द्विविदाग्रजम्॥ स तु तेन प्रहारेण मैन्दो वानरयूथपः। मर्मण्यभिहतस्तेन पपात भुवि मुर्छितः॥ अङ्गदो मातुलौ दृष्ट्वा मथितौ तु महाबलौ। अभिदुद्राव वेगेन कुम्भमुद्यतकार्मुकम्॥ तमापतन्तं विव्याध कुम्भः पञ्चभिरायसैः। त्रिभिश्चान्यैस्त्रिभिर्बाणैर्मातंगमिव तोमरैः।। सोऽङ्गदं बहुभिर्बाणैः कुम्भो विव्याध वीर्यवान् ॥ अकुण्ठधारैर्निशितैस्तीक्ष्णैः कनकभूषणैः। अङ्गदः प्रतिविष्टाङ्गो वालिपुत्रो न कम्पते।॥ शिलापादपवर्षाणि तस्य मूर्ध्नि ववर्ष ह। स प्रचिच्छेद तान्सर्वान् बिभेद च पुनः शिलाः॥ कुम्भकर्णात्मजः श्रीमान्वालिपुत्रसमीरितान्। आपतन्तं च संप्रेक्ष्य कुम्भो वानरयूथपम्॥ ध्रुवौ विव्याध बाणाभ्यामुल्काभ्यामिव कुञ्जरम्। तस्य सुस्राव रुधिरं पिहिते चास्य लोचने॥ अङ्गदः पाणिना नेत्रे पिधाय रुधिरोक्षिते। सालमासन्नमेकेन परिजग्राह पाणिना। ५२।। संपीड्योरसि सस्कन्धं करेणाभिनिवेश्य च। किंचिदभ्यवनम्यैनमुन्ममाथ महारणे॥ तमिन्द्रकेतुप्रतिमं वृक्षं मन्दरसंनिभम्। समुत्सृजत वेगेन मिषतां सर्वरक्षसाम्॥ स चिच्छेद शितैर्बाणैः सप्तभिः कायभेदनैः। अङ्गदो विव्यथेऽभीक्ष्णं स पपात मुमोह च॥ अङ्गदं पतितं दृष्ट्वा सीदन्तमिव सागरम्। दुरासदं हरिश्रेष्ठा राघवाय न्यवेदयन् ॥ रामस्तु व्यथितं श्रुत्वा वालिपुत्रं महाहवे। व्यादिदेश हरिश्रेष्ठाञ्जाम्बवत्प्रमुखांस्ततः॥ ते तु वानरशार्दूलाः श्रुत्वा रामस्य शासनम्। अभिपेतुः सुसंक्रुद्धाः कुम्भमुद्यतकार्मुकम्॥ ततो दुमशिलाहस्ताः कोपसंरक्तलोचनाः। रिरक्षिषन्तोऽभ्यपतनङ्गदं वानरर्षभाः॥ जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः। कुम्भकर्णात्मजं वीरं क्रुद्धाः समभिदुद्रुवुः॥ समीक्ष्यापततस्तांस्तु वानरेन्द्रान्महाबलान्। आववार शरौघेण नगेनेव जलाशयम्॥ तस्य बाणपथं प्राप्य न शेकुरपि वीक्षितुम्। वानरेन्द्रा महात्मानो वेलामिव महोदधिः॥ तांस्तु दृष्ट्वा हरिगणाशरवृष्टिभिरर्दितान्। अङ्गदं पृष्ठतः कृत्वा भ्रातृजं प्लवगेश्वरः॥ अभिदुद्राव सुग्रीवः कुम्भकर्णात्मजं रणे। शैलसानुचरं नागं वेगवानिव केसरी॥ उत्पाट्य च महावृक्षानश्वकर्णादिकान्बहून्। अन्यांश्च विविधान्वृक्षांश्चिक्षेप स महाकपिः॥ तां छादयन्तीमाकाशं वृक्षवृष्टिं दुरासदाम्। कुम्भकर्णात्मजः श्रीमांश्चिच्छेद स्वशरैः शितैः॥ अर्दितास्ते दुमा रेजुर्यथा घोराः शतघ्नयः। दुमवर्षं तु तद्भिन्नं दृष्ट्वा कुम्भेन वीर्यवान्॥ वानराधिपतिः श्रीमान्महासत्त्वो न विव्यथे। स विध्यमानः सहसा सहमानस्तु ताञ्छरान्॥ कुम्भस्य धनुराक्षिप्य बभञ्जेन्द्रधनुष्प्रभम्। अवप्लुत्य धनुः शीघ्रं कृत्वा कर्म सुदुष्करम्॥ अब्रवीत्कुपितः कुम्भं भग्नशृङ्गमिव द्विपम्। निकुम्भाग्रज वीर्यं ते बाणवेगं तदद्भुतम्॥ संनतिश्च प्रभावश्च तव वा रावणस्य वा। प्रह्लादबलिवृत्रघ्नकुबेरवरुणोपम॥ एकस्त्वमनुजातोऽसि पितरं बलवत्तरम्। त्वामेवैकं महाबाहुं शूलहस्तमरिंदमम्॥ त्रिदशा नातिवर्तन्ते जितेन्द्रियमिवाधयः। विक्रमस्व महाबुद्धे कर्माणि मम पश्य च॥ वरदानात्पितृव्यस्ते सहते देवदानवान्। कुम्भकर्णस्तु वीर्येण सहते च सुरासुरान्॥ धनुषीन्द्रजितस्तुल्यः प्रतापे रावणस्य च। त्वमद्य रक्षसां लोके श्रेष्ठोऽसि बलवीर्यतः॥ महाविम समरे मया सह तवाद्भुतम्। अद्य भूतानि पश्यन्तु शक्रशम्बरयोरिव॥ कृतमप्रतिमं कर्म दर्शितं चास्त्रकौशलम्। पतिता हरिवीराश्च त्वयैते भीमविक्रमाः।७७।। उपालम्भभयाच्चैव नासि वीर मया हतः। कृतकर्मपरिश्रान्तो विश्रान्तः पश्य मे बलम्॥ तेन सुत्रीववाक्येन सावमानेन मानितः। अग्नेराज्यहुतस्येव तेजस्तस्याभ्यवर्धत॥ ततः कुम्भस्तु सुग्रीवं बाहुभ्यां जगृहे तदा। गजाविवावीतमदौ निःश्वसन्तौ मुहुर्मुहुः॥ अन्योन्यगात्रग्रथितौ घर्षन्तावितरेतरम्। सधूमां मुखतो ज्वालां विसृजन्तौ परिश्रमात्॥ तयोः पादाभिघाताच्च निमग्ना चाभवन्मही। व्याघूशिततरङ्गश्च चुक्षुभे वरुणालयः॥ ततः कुम्भं समुत्क्षिप्य सुग्रीवो लवणाम्भसि। पातयामास वेगेन दर्शयन्नुदधेः स्थलम्॥ ततः कुम्भनिपातेन जलराशिः समुत्थितः। विन्ध्यमन्दरसंकाशो विससर्प समन्ततः॥ ततः कुम्भः समुत्पत्य सुग्रीवमभिपात्य च। आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना॥ तस्य वर्म च पुस्फोट संजज्ञे चापि शोणितम्। तस्य मुष्टिर्महावेगः प्रतिजघ्नेऽस्थिमण्डले॥ तस्य वेगेन तत्रासीत्तेजः प्रज्वलितं महत्॥ वज्रनिष्पेषसंजाता ज्वाला मेरोर्यथा गिरेः॥ स तत्राभिहतस्तेन सुग्रीवो वानरर्षभः। मुष्टिं संवर्तयामास वज्रकल्पं महाबलः॥ अर्चिःसहस्रविकचरविमण्डलवर्चसम्। स मुष्टिं पातयामास कुम्भस्योरसि वीर्यवान् ॥ स तु तेन प्रहारेण विह्वलो भृशपीडितः। निपपात तदा कुम्भो गतार्चिरिव पावकः।१०।। मुष्टिनाभिहतस्तेन निपपाताशु राक्षसः। लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया॥ कुम्भस्य पततो रूपं भग्नस्योरसि मुष्टिना। बभौ रुद्राभिपन्नस्य यथा रूपं गवां पतेः॥ तस्मिन्हते भीमपराक्रमेण प्लवंगमानामृषभेण युद्धे। मही सशैला सवना चचाल भयं च रक्षांस्यधिकं विवेश।१३।। निकुम्भं निहतं दृष्ट्वा कुम्भं च विनिपातितम्। रावणः परमामर्षी प्रजज्वालानलो यथा॥ नैर्ऋतः क्रोधशोकाभ्यां द्वाभ्यां तु परिमूर्च्छितः। खरपुत्रं विशालाक्षं मकराक्षमचोदयत्॥ गच्छ पुत्र मयाज्ञप्तो बलेनाभिसमन्वितः। राघवं लक्ष्मणं चैव जहि तौ सवनौकसौ॥ रावणस्य वचः श्रुत्वा शूरमानी खरात्मजः। बाढमित्यब्रवीद्धृष्टो मकराक्षो निशाचरम्॥ सोऽभिवाद्य दशग्रीवं कृत्वा चापि प्रदक्षिणम्। निर्जगाम गृहाच्छुभ्राद्रावणस्याज्ञया बली ॥ समीपस्थं बलाध्यक्षं खरपुत्रोऽब्रवीद्वचः। रथमानीयतां तूर्णं सैन्यं त्वानीयतां त्वरात्॥ तस्य तद्वचनं श्रुत्वा बलाध्यक्षो निशाचरः। स्यन्दनं च बलं चैव समीपं प्रत्यपादयत्॥ प्र.क्षेणं रथं कृत्वा समाहूय निशाचरः। संचोदयायास शीघ्रं वै रथमावह॥ अथ ताराक्षसान्सर्वान्मकराक्षोऽब्रवीदिदम्। यूयं सर्वे प्रयुध्यध्वं पुरस्तान्मम राक्षसाः॥ अहं राक्षसराजेन रावणेन महात्मना। आज्ञप्तः समरे हन्तुं तावुभौ रामलक्ष्मणौ ॥ अद्य रामं वधिष्यामि लक्ष्मणं च निशाचराः। शाखामृगं च सुग्रीवं वानरांश्च शरोत्तमैः॥ अद्य शूलनिपातैश्च वानराणां महाचमूम्। प्रदहिष्यामि संप्राप्तां शुष्कन्धनमिवानलः॥ मकराक्षस्य तच्छुत्वा वचनं ते निशाचराः। सर्वे नानायुधोपेता बलवन्तः समाहिताः॥ ते कामरूपिणः क्रूरा दंष्ट्रिणः पिङ्गलेक्षणः। मातंगा इव नर्दन्तो ध्वस्तकेशा भयावहाः॥ परिवार्य महाकाया महाकायं खरात्मजम्। अभिजघ्नुस्ततो हृष्टाश्चालयन्तो नभस्तलम्॥ शङ्खभेरीसहस्राणामाहतानां समन्ततः। क्ष्वेलितास्फोटितानां च तत्र शब्दो महानभूत्॥ प्रभ्रष्टोऽथ करात्तस्य प्रतोदः सारथेस्तदा। पपात सहसा दैवाद्ध्वजस्तस्य तु रक्षसः॥ तस्य ते रथसंयुक्ता हया विक्रमवर्जिताः। चरणैराकुलैर्गत्वा दीनाः सास्रमुखा ययुः॥ प्रवाति पवनस्तस्मिन्सपांसुः खरदारुणः। निर्याणे तस्य रौद्रस्य मकराक्षस्य दुर्मते॥ तानि दृष्ट्वा निमित्तानि राक्षसा वीर्यवत्तमाः। अचिन्त्य निर्गताः सर्वे यत्र तौ रामलक्ष्मणौ॥ घनगजमहिषाङ्गतुल्यवर्णा समरमुखेष्वसकृद्गदासिभिन्नाः। अहमहमिति युद्धकौशलास्ते स्जनिचराः परिबभ्रमुर्मुहुस्ते॥ निर्गतं मकराक्षं ते दृष्ट्वा वानरपुङ्गवाः। आप्लुत्य सहसा सर्वे योद्धकामा व्यवस्थिताः॥ ततः प्रवृत्तं सुमहत्तद्युद्धं लोमहर्षणम्। निशाचरैः प्लवंगानां देवानां दानवैरिव ॥ वृक्षशूलनिपातैश्च गदापरिघपातनैः। अन्योन्यं मर्दयन्ति स्म तदा कपिनिशाचराः।३।। शक्तिखङ्गादाकुन्तैस्तोमरैश्च निशाचराः। पट्टिशैभिन्दिपालैश्च बाणपातैः समन्ततः॥ पाशमुद्गरदण्डैश्च नितिश्चापरैस्तथा। कदनं कपिसिंहानां चक्रुस्ते रजनीचराः॥ बाणौरर्दिताश्चापि खरपुत्रेण वानराः। संभ्रान्तमनसः सर्वे दुद्रुवुर्भयपीडिताः॥ तान्दृष्ट्वा राक्षसाः सर्वे द्रवमाणान्वनौकसः। नेदुस्ते सिंहवहुप्ता राक्षसा जितकाशिनः॥ विद्रवत्सु तदा तेषु वानरेषु समन्ततः। रामस्तान्वारयामास शरवर्षेण राक्षसान् ॥ वारिताराक्षसान्दृष्ट्वा मकराक्षो निशाचरः। कोपानलसमाविष्टो वचनं चेदमब्रवीत्॥ तिष्ठ राम मया साधं द्वन्द्वयुद्धं भविष्यति। त्याजयिष्यामि ते प्राणान्धनुर्मुक्तैः शितैः शरैः॥ यत्तदा दण्डकारण्ये पितरं हतवान्मम। तदग्रतः स्वकर्मस्थं स्मृत्वा रोषोऽभिवर्धते॥ दह्यन्ते भृशमङ्गानि दुरात्मन्मम राघव। यन्मयासि न दृष्टस्त्वं तस्मिन्काले महावने॥ दिष्ट्यासि दर्शनं राम मम त्वं प्राप्तवानिह। काशितोऽसि क्षुधार्तस्य सिंहस्येवेतरो मृगः॥ अद्य मद्वाणवेगेन प्रेतराविषयं गतः। ये त्वया निहताः शूराः सह तैश्च वसिष्यसि ॥ बहुनात्र किमुक्तेन शृणु राम वचो मम। पश्यन्तु सकला लोकात्स्वां मां चैव रणाजिरे॥ अस्त्रैर्वा गदया वापि बाहुभ्यां वा रणाजिरे। अभ्यस्तं येन वा राम वर्ततां तेन वा मृधम्॥ मकराक्षवचः श्रुत्वा रामो दशरथात्मजः। अब्रवीत्प्रहसन्वाक्यमुत्तरोत्तरवादिनम्॥ कत्थसे किं वृथा रक्षो बहून्यसदृशानि ते। न रणे शक्यते जेतुं विना युद्धेन वाग्बलात्॥ त्ततुर्दश सहस्राणि रक्षसां त्वत्पिता च यः। विपि. दूषणाश्चापि दण्डके निहतो मया॥ स्वाशिताश्चापि मांसेन गृध्रगोमायुवायसाः। भविष्यन्त्यद्य वै पाप तीक्ष्णतुण्डनखाङ्कुशाः॥ राघवेणैवमुक्तस्तु मकराक्षो महाबलः। बाणौधानमुचत्तस्मै राघवाय रणाजिरे॥ ताञ्छराञ्छरवर्षेण रामाश्चिच्छेद नैकधा। निपेतुर्भुवि विच्छिन्ना रुक्मपुङ्खाः सुवाससः॥ तद्युद्धमभवत्तत्र समेत्यान्योन्यमोजसा। खरराक्षसपुत्रस्य सूनोर्दशरथस्य च॥ जीमूतयोरिवाकाशे शब्दो ज्यातलयोरिव। धनुर्मुक्तः स्वनोऽन्योन्यं श्रूयते च रणाजिरे॥ देवदानवगन्धर्वाः किंनराश्च महोरगाः। अन्तरिक्षगताः सर्वे द्रष्टकामास्तदद्भुतम्॥ विद्धमन्योन्यगात्रेषु द्विगुणं वर्धते बलम्। कृतप्रतिकृतान्योन्यं कुरुतां तौ रणाजिरे॥ राममुक्तांस्तु बाणौघाराक्षसस्त्वच्छिनद्रणे। रक्षोमुक्तांस्तु रामो वै नैकधा प्राच्छिनच्छरैः॥ बाणौघवितताः सर्वा दिशश्च प्रदिशस्तथा। संछना वसुधा चैव समन्तान प्रकाशते॥ ततः क्रुद्धो महाबाहुर्धनुश्चिच्छेद संयुगे। अष्टाभिरथ नाराचैः सूतं विव्याध राघवः॥ भित्त्वा रथं शरै रामो हत्वा अश्वानपातयत्। विरथो वसुधास्थः स मकाराक्षो निशाचरः॥ तत्तिष्ठद्वसुधां रक्षः शूलं जग्राह पाणिना। त्रासनं सर्वभूतानां युगान्ताग्निसमप्रभम्॥ दुरवापं महच्छूलं रुद्रदत्तं भयंकरम्। जाज्वल्यमानमाकाशे संहारास्त्रमिवापरम्॥ यं दृष्ट्वा देवताः सर्वा भयार्ता विद्वता दिशः। विभ्राम्य च महच्छूलं प्रज्वलन्तं निशाचरः॥ स क्रोधात्प्राहिणोत्तस्मै राघवाय महात्मने। तमापतन्तं ज्वलितं खरपुत्रकराच्च्युतम्॥ बाणैश्चतुर्भिराकाशे शूलं चिच्छेद राघवः। स भिन्नो नैकधा शूलो दिव्यहाटकमण्डितः।। व्यशीर्यत महोल्केव रामबाणादितो भुवि॥ तच्छूलं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा। साधु साध्विति भूतानि व्याहरन्ति नभोगताः॥ तं दृष्ट्वा निहतं शूलं मकराक्षो निशाचरः। मुष्टिमुद्यम्य काकुत्स्थं तिष्ठ तिष्ठेति चाब्रवीत्॥ स तं दृष्ट्वा पतन्तं तु प्रहस्य रघुनन्दनः। पावकास्त्रं ततो रामः संदधे तु शरासने॥ तेनास्त्रेण हतं रक्षः काकुत्स्थेन तदा रणे। सच्छिन्नहृदयं तत्र पपात च ममार च॥ दृष्ट्वा ते राक्षसाः सर्वे मकराक्षस्य पातनम्। लङ्कामेव प्रधावन्त रामबाणभयार्दिताः॥ दशरथनृपसूनुबाणवेगै रजनिचरं निहतं खरात्मजं तम्। प्रददृशुरथ देवताः : प्रहृष्टा गिरिमिव वज्रहतं यथा विकीर्णम् ॥ मकराक्षं हतं श्रुत्वा रावणः समितिंजयः। रोषेण महताविष्टो दन्तान्कटकटाय्य च॥ कुपितश्च तदा तत्र किं कार्यमिति चिन्तयन्। आदिदेशाथ संकुद्धो रणायेन्द्रजितं सुतम्॥ जहि वीर महावीयौं भ्रातरौ रामलक्ष्मणौ। अदृश्योदृश्यमानो वा सर्वथा त्वं बलाधिकः॥ त्वमप्रतिमकर्माणमिन्द्रं जयसि संयुगे। किं पुनर्मानुषौ दृष्ट्वा न वधिष्यसि संयुगे॥ तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर्वचः। यज्ञभूमौ स विधिवत्पावकं जुहवेन्द्रजित् ॥ जुह्वतश्चापि तत्राग्नि रक्तोष्णीषधराः स्त्रियः। आजग्मुस्तत्र संभ्रान्ता राक्षस्यो यत्र रावणिः॥ शस्त्राणि शरपत्राणि समिधोऽथ बिभीतकाः। लोहितानि च वासांसि स्रुवं कार्णायसं तथा॥ सर्वतोऽग्नि समास्तीर्य शरपत्रैः सतोमरैः। छागस्य सर्वकृष्णस्य गलं जग्राह जीवतः॥ शरहोमसमिद्धस्य विधूमस्य महार्चिषः। बभूवुस्तानि लिङ्गानि विजयं दर्शयन्ति च।९।। प्रदक्षिणावर्तशिखस्तप्तहाटकसंनिभः। हविस्तत्प्रतिजग्राह पावकः स्वयमुत्थितः॥ हुत्वाग्नि तर्पयित्वाथ देवदानवराक्षसान्। आरुरोह रथश्रेष्ठमन्तर्धानगतं शुभम्॥ स वाजिभिश्चतुर्भिस्तु बाणैस्तु निशितैर्युतः। आरोपितमहाचापः शुशुभे स्यन्दनोत्तमे॥ जाज्वल्यमानो वपुषा तपनीयपरिच्छदः। मृगैश्चन्द्रार्धचन्द्रश्च स रथः समलंकृतः॥ जाम्बूनदमहाकम्बुर्दीप्तपावकसंनिभः। बभूवेन्द्रजितः केतुर्वैदूर्यसमलंकृतः॥ तेन चादित्यकल्पने ब्रह्मास्त्रेण च पालितः। स बभूव दुराधर्षो रावणिः सुमहाबलः॥ सोऽभिनिर्याय नगरादिन्द्रजित्समितिंजयः। हुत्वाग्नि राक्षसैर्मन्त्रैरन्तर्धानगतोऽब्रवीत्॥ अद्य हत्वा रणे यौ तौ मिथ्या प्रव्रजितौ वने। जयं पित्रे प्रदास्यामि रावणाय रणेऽधिकम्॥ अद्य निर्वानरामुर्वी हत्वा रामं च लक्ष्मणम्। करिष्ये परमां प्रीतिमित्युक्त्वान्तरधीयत॥ आपपाताथ संक्रुद्धो दशग्रीवेण चोदितः। तीक्ष्णकार्मुकनाराचैस्तीक्ष्णस्त्विन्द्ररिपू रणे॥ स ददर्श महावीयौँ नागौ त्रिशिरसाविव। सृजन्ताविषुजालानि वीरौ वानरमध्यगौ॥ इमौ ताविति संचिन्त्य सज्यं कृत्वा च कार्मुकम्। संततानिषुधाराभिः पर्जन्य इव वृष्टिमान्॥ स तु वैहायसरथो युधि तौ रामलक्ष्मणौ। अचक्षुर्विषये तिष्ठन्विव्याध निशितैः शरैः॥ तौ तस्य शरवेगेन परीतौ रामलक्ष्मणौ। धनुषी सशरे कृत्वा दिव्यमस्त्रं प्रचक्रतुः॥ प्रच्छादयन्तौ गगनं शरजालैर्महाबलौ। तमस्त्रैः सूर्यसंकाशैनँव पस्पर्शतुः शरैः॥ स हि धूमान्धकारं च चक्रे प्रच्छादयन्नभः। दिशश्चान्तर्दधे श्रीमान्त्रीहारतमसा वृतः॥ नैव ज्यातलनिर्घोषी न च नेमिखुरस्वनः। शुश्रुवे चरतस्तस्य न च रूपं प्रकाशते॥ घनान्धकारे तिमिरे शिलावर्षमिवाद्भुतम्। स ववर्ष महाबाहुर्नाराचशरवृष्टिभिः॥ स रामं सूर्यसंकाशैः शरैर्दत्तवरै शम्। विव्याध समरे क्रुद्धः सर्वगात्रेषु रावणिः॥ तौ हन्यमानौ नाराचैर्धाराभिरिव पर्वतौ। हेमपुवानरव्याघ्रौ तिग्मान्मुमुचतुः शरान्॥ अन्तरिक्षे समासाद्य रावणिं कङ्कपत्रिणः। निकृत्य पतगा भूमौ पेतुस्ते शोणिताप्लुताः॥ अतिमात्रं शरौघेण दीप्यमानौ नरोत्तमौ। तानिषून्पततो भल्लैरनेकैविचकर्ततुः॥ यतो हि ददृशाते तो शरानिपतिताञ्छितान्। ततस्तु तौ दाशरथी ससृजातेऽस्त्रमुत्तमम्॥ रावणिस्तु दिशः सर्वा रथेनातिरथोऽपतत्। विव्याध तौ दाशरथी लघ्वस्त्रौ निशितैः शरैः॥ तेनातिविद्धौ तौ वीरौ रुक्मपुत्रैः सुसंहतैः। बभूवतुर्दाशरथी पुष्पिताविव किंशुकौ॥ नास्य वेगगतिं कश्चिन्न च रूपं धनुः शरान्। न नास्य विदितं किंचित्सूर्यस्येवाभ्रसंप्लवे॥ तेन विद्धाश्च हरयो निहताश्च गतासवः। बभूवुः शतशस्तत्र पतिता धरणीतले।३६॥ लक्ष्मणस्तु ततः क्रुद्धो भ्रातरं वाक्यमब्रवीत्। ब्राह्ममस्त्रं प्रयोक्ष्यामि वधार्थ सर्वरक्षसाम्॥ तमुवाच ततो रामो लक्ष्मणं शुभलक्षणम्। नैकस्य हेतो रक्षांसि पृथिव्यां हन्तुमर्हसि ॥ अयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम्। पलायमानं मत्तं वा न हन्तुं त्वमिहार्हसि॥ तस्यैव तु वधे यत्नं करिष्यामि महाभुज। आदेक्ष्यावो महावेगानस्त्रानाशीविषोपमान्॥ तमेनं मायिनं क्षुद्रमन्तर्हितरथं बलात्। राक्षसं निहनिष्यन्ति दृष्ट्वा वानरयूथपाः॥ यद्येष भूमिं विशते दिवं वा रसातलं वापि नभस्तलं वा। एवं विगूढोऽपि ममास्त्रदग्धः पतिष्यते भूमितले गतासुः।॥ इत्येवमुक्त्वा वचनं महाथ रघुप्रवीरः प्लवगर्षभैर्वृतः। स्तदा महात्मा त्वरितं निरीक्षते।४३॥ विज्ञाय तु मनस्तस्य राघवस्य महात्मनः। स निवृत्याहवात्तस्मात्प्रविवेश पुरं ततः॥ सोऽनुस्मृत्य वधं तेषां राक्षसानां तरस्विनाम्। क्रोधताप्रेक्षणः शूरो निर्जगामाथ रावणिः॥ स पश्चिमेन द्वारेण निर्ययौ राक्षसैर्वृतः। इन्द्रजित्सुमहावीर्य: पौलस्त्यो देवकण्टकः॥ इन्द्रजित्तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौ। रणायात्युद्धतौ वीरौ मायां प्रादुष्करोत्तदा॥ इन्द्रजित्तु रथे स्थाप्य सीतां मायामयीं तदा। बलेन महतावृत्य तस्या वधमरोचयत्॥ मोहनार्थं तु सर्वेषां बुद्धिं कृत्वा सुदुर्मतिः। हन्तुं सीतां व्यवसितो वानराभिमुखो ययौ॥ तं दृष्ट्वा त्वभिनिर्यान्तं सर्वे ते काननौकसः। उत्पेतुरभिसंक्रुद्धाः शिलाहस्ता युयुत्सवः॥ हनूमान्पुरतस्तेषां जगाम कपिकुञ्जरः। प्रगृह्य सुमहच्छ्रङ्ग पर्वतस्य दुरासदम्।।।। स ददर्श हतानन्दां सीतामिन्द्रजितो रथे। एकवेणिधरां दीनामुपवासकृशाननाम्॥ परिक्लिष्टैकवसनाममृजां राघवप्रियाम्। रजोमलाभ्यामालिप्तैः सर्वगात्रैर्वरस्त्रियम्॥ तां निरीक्ष्य मुहूर्तं तु मैथिलीमध्यवस्य च। बभूवाचिरदृष्टा हि तेन सा जनकात्मजा॥ अब्रवीचां तु शोकाता निरानन्द तपस्विनीम्। दृष्ट्वा रथस्थितां दीनां राक्षसेन्द्रसुतश्रिताम् ॥ किं समर्थितमस्येति चिन्तयन्स महाकपिः। सह तैर्वानरश्रेष्ठैरभ्यधावत रावणिम्॥ तद्वानरबलं दृष्ट्वा रावणिः क्रोधमूर्च्छितः। कृत्वा विकोशं निस्त्रिंशं मूर्ध्नि सीतामकर्षयत्॥ तां स्त्रियं पश्यतां तेषां ताडयामास राक्षसः। क्रोशन्ती रामरामेति मायया योजितां रथे॥ गृहीतमूर्धजां दृष्ट्वा हनूमान्दैन्यमागतः। दुःखजं वारि नेत्राभ्यामुत्सृजन्मारुतात्मजः॥ तां दृष्ट्वा चारुसर्वाङ्गी रामस्य महिषीं प्रियाम्। अब्रवीत्परुषं वाक्यं क्रोधाद्रक्षोधिपात्मजम्॥ दुरात्मनात्मनाशाय केशपक्षे परामृशः। ब्रह्मर्षीणां कुले जातो राक्षसी योनिमाश्रितः॥ धिक्त्वां पापसमाचारं यस्य ते मतिरीदृशी। नृशंसानार्य दुर्वृत्त क्षुद्र पापपराक्रम। अनार्यस्येदृशं कर्म घृणा ते नास्ति निघृण ॥ च्युता गृहाच्च राज्याच्च रामहस्ताच्च मैथिली। किं तवैषापराद्धा हि यदेनां हंसि निर्दय॥ सीतां हत्वा तु न चिरं जीविष्यसि कथंचन। वधाहकर्मणा तेन मम हस्तगतो ह्यसि॥ ये च स्त्रीघातिनां लोका लोकवध्यैश्च कुत्सिताः। इह जीवितमुत्सृज्य प्रेत्य तान्प्रति लप्स्यसे॥ इति ब्रुवाणो हनुमान्सायुधैर्हरिभिर्वृतः। अभ्यधावत्सुसंक्रुद्धो राक्षसेन्द्रसुतं प्रति॥ आपतन्तं महावीर्य तदनीकं वनौकसाम्। रक्षसां भीमकोपानामनीकेन न्यवारयत्॥ स तां बाणसहस्रेण विक्षोभ्य हरिवाहिनीम्। हनूमन्तं हरिश्रेष्ठमिन्द्रिजित्प्रत्युवाच ह॥ सुग्रीवस्त्वं च रामश्च यनिमित्तमिहागताः। तां वधिष्यामि वैदेहीमद्यैव तव पश्यतः॥ इमां हत्वा ततो राम लक्ष्मणं त्वां च वानर। सुग्रीवं च वधिष्यामि तं चानार्य विभीषणम्।२७॥ न हन्तव्याः स्त्रियश्चेति यद्ब्रवीषि प्लवङ्गम। पीडाकरममित्राणां यच्च कर्तव्यमेव तत्॥ तमेवमुक्त्वा रुदती सीतां मायामयीं च ताम्। शितधारेण खङ्गेन निजघानेन्द्रजित्स्वयम्॥ यज्ञोपवीतमार्गेण छिन्ना तेन तपस्विनी। सा पृथिव्यां पृथुश्रोणी पपात प्रियदर्शना॥ तामिन्द्रजित्त्रियं हत्वा हनूमन्तमुवाच ह। मया रामस्य पश्येमां प्रियां शस्त्रनिषूदिताम्।। एषा विशस्ता वैदेही निष्फलो वः परिश्रमः॥ ततः खङ्गेन महता हत्वा तामिन्द्रजित्स्वयम्। हृष्टः स रथमास्थाय ननाद च महास्वनम्॥ वानराः शुश्रुवुः शब्दमदूरे प्रत्यवस्थिताः। व्यादितास्यस्य नदतस्तदुर्ग संश्रितस्य तु॥ तथा तु सीतां विनिहत्य दुर्मतिः प्रहष्टचेताः स बभूव रावणिः। तं हृष्टरूपं समुदीक्ष्य वानरा विषण्णरूपाः समभिप्रदुद्रुवुः॥ श्रुत्वा तं भीमनिदिं शक्राशनिसमस्वनम्। वीक्षमाणाः दिशः सर्वा दुद्रुवुर्वानरा भृशम्॥ तानुवाच ततः सर्वान्हनूमान्मारुतात्मजः। विषण्णवदनान्दीनांस्त्रस्तान्विद्रवतः पृथक् ॥ कस्माद्विषण्णवदना विद्रवध्वं प्लवंगमाः। त्यक्तयुद्धसमुत्साहाः शूरत्वं क्व नु वो गतम्॥ पृष्ठतो न व्रजध्वं मामग्रतो यान्तमाहवे। शूरैरभिजनोपैतेरयुक्तं हि निवर्तितुम्॥ एवमुक्ताः सुसंक्रुद्धा वायुपुत्रेण धीमता। शैलशृङ्गान्दुमांचैव जगृहुईष्टमानसाः।।।। अभिपेतुश्च गर्जन्तो राक्षसान्वानरर्षभाः। परिवार्य हनूमन्तमन्वयुश्च महाहवे॥ स तैर्वानरमुख्यैस्तु हनूमान्सर्वतो वृतः। हुताशन इवार्चिष्मानदहच्छत्रुवाहिनीम्॥ स राक्षसानां कदनं चकार सुमहाकपिः। वृतो वानरसैन्येन कालान्तकयमोपमः॥ स तु शोकेन चाविष्टः कोपेन महता कपिः। हनूमानरावणिरथे महतीं पातयच्छिलाम्॥ तामापतन्ती दृष्ट्वैव रथं सारथिना तदा। विधेयाश्वसमायुक्तो विदूरमपवाहितः॥ तमिन्द्रजितमप्राप्यरथस्थं सहसारथिम्। विवेश धरणी भित्वा सा शिला व्यर्थमुद्यता॥ पतितायां शिलायां तु व्यथिता रक्षसां चमूः। निपतन्त्या च शिलया राक्षसा मथिता भृशम्॥ तमभ्यधावशतशो नदन्तः काननौकसः। ते दुमांश्च महाकाया गिरिशृङ्गाणि चोद्यतः॥ क्षिपन्तीन्द्रजितं संख्ये वानरा भीमविक्रमाः। वृक्षशैलमहावर्षं विसृजन्तः प्लवङ्गमाः॥ शत्रूणां कदनं चक्रुर्नेदुश्च विविधैः स्वनैः। वानरैस्तैर्महाभीमैर्घोररूपा निशाचराः॥ वीर्यादभिहता वृक्षय॑चेष्टन्त रणक्षितौ। स सैन्यमभिवीक्ष्याथ वानरादितमिन्द्रजित्॥ प्रगृहीतायुधः क्रुद्धः परानभिमुखो ययौ। स शरौघानवसृजन्स्वसैन्येनाभिसंवृतः॥ जघान कपिशार्दूलान्सुबहून्दृढविक्रमः। शूलैरशनिभिः खङ्गैः पट्टिशैः शूलमुद्गरैः।। ते चाप्यनुचरांस्तस्य वानरा जघ्नुराहवे॥ सुस्कन्धविटपैः शैलैः शिलाभिश्च महाबलः। हनूमान्कदनं चक्रे रक्षसां भीमकर्मणाम्॥ संनिवार्य परानीकमब्रवीत्तान्वनौकसः। हनूमान्संनिवर्तध्वं न नः साध्यमिदं बलम्॥ त्यक्त्वा प्राणान्विचेष्टन्तो रामप्रियचिकीर्षवः। यन्निमित्तं हि युध्यामो हता सा जनकात्मजा॥ इममर्थ हि विज्ञाप्य रामं सुग्रीवमेव च। तौ यत्प्रतिविधास्येते तत्करिष्यामहे वयम्॥ इत्युक्त्वा वानरश्रेष्ठो वारयन्सर्ववानरान्। शनैः शनैरसंत्रस्तः सबलः संन्यवर्तत ॥ ततः प्रेक्ष्य हनूमन्तं व्रजन्तं यत्र राघवः। स होतुकामो दृष्टात्मा गतश्चैत्यं निकुम्भिलाम्॥ निकुम्भिलामधिष्ठाय पावकं जुहवेन्द्रजित्। यज्ञभूम्यां ततो गत्वा पावकस्तेन रक्षसा ॥ हूयमानः प्रजज्वाल होमशोणितमुक्तदा। साचिः पिनद्धो ददृशे होमशोणिततर्पितः।। संध्यागत इवादित्यः सुतीव्रोऽग्निः समुत्थितः॥ अथेन्द्रजिद्राक्षसभूतये तु जुहाव हव्यं विधिना विधानवित्। दृष्ट्वा व्यतिष्ठन्त च राक्षसास्ते महासमूहेषु नयानयज्ञाः॥ राघवश्चापि विपुलं तं राक्षसवनौकसाम्। श्रुत्वा संग्रामनिर्घोषं जाम्बवन्तमुवाच ह॥ सौम्य नूनं हनुमता कृतं कर्म सुदुष्करम्। श्रूयते च यथा भीमः सुमहानायुधस्वनः॥ तद्गच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतः। क्षिप्रमृक्षपते तस्य कपिश्रेष्ठस्य युध्यतः॥ ऋक्षराजस्तथेत्युक्त्वा स्वेनानीकेन संवृतः। आगच्छत्पश्चिमं द्वारं हनूमान्यत्र वानरः॥ अथायान्तं हनूमन्तं ददर्शक्षपतिस्तदा। वानरैः कृतसंग्रामैः श्वसद्भिरभिसंवृतम्॥ दृष्ट्वा पथि हनूमांश्च तदृक्षबलमुद्यतम्। नीलमेघनिभं भीमं संनिवार्य न्यवर्तत॥ स तेन सह सैन्येन संनिकर्ष महायशाः। शीघ्रमागम्य रामाय दुःखितो वाक्यमब्रवीत्॥ समरे युध्यमानानामस्माकं प्रेक्षतां च सः। जघान रुदती सीतामिन्द्रजिद्रावणात्मजः॥ उद्भान्तचित्तस्तां दृष्ट्वा विषण्णोऽहमरिंदम। तदहं भवतो वृत्तं विज्ञापयितुमागतः॥ तस्य तद्वचनं श्रुत्वा राघवः शोकमूर्च्छितः। निपपात तदा भूमौ छिन्नमूल इव द्रुमः॥ तं भूमौ देवसंकाशं पतितं दृश्य राघवम्। अभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः॥ आसिञ्चन्सलिलैश्चैनं पद्मोत्पलसुगन्धिभिः। प्रदहन्तमसंहार्यं सहसाग्निमिवोत्थितम्॥ तं लक्ष्मणोऽथ बाहुभ्यां परिष्वज्य सुदुःखितः। उवाच राममस्वस्थं वाक्यं हेत्वर्थसंयुतम्॥ शुभे वर्त्मनि तिष्ठन्तं त्वामार्य विजितेन्द्रियम्। अनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः॥ भूतानां स्थावराणां च जङ्गमानां च दर्शनम्। यथास्ति न तथा धर्मस्तेन नास्तीति मे मतिः॥ यथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम्। नायमर्थस्तथा युक्तस्त्वद्विधो न विपद्यते॥ यद्यधर्मो भवेद्भूतो रावणो नरकं व्रजेत्। भवांश्च धर्मसंयुक्तो नैव व्यसनमाप्नुयात्॥ तस्य च व्यसनाभावाद्व्यसनं चागते त्वयि। धर्मो भवत्यधर्मश्च परस्परविरोधिनौ॥ धर्मेणोपलभेद्धर्ममधर्म चाप्यधर्मतः। यद्यधर्मेण युज्येयुर्येष्वधर्मः प्रतिष्ठितः॥ न धर्मेण वियुज्येरनाधर्मरुचयो जनाः। धर्मेणाचरतां तेषां तथा धर्मफलं भवेत्॥ यस्मादर्था विवर्धन्ते येष्वधर्मः प्रतिष्ठितः। क्लिश्यन्ते धर्मशीलाश्च तस्मादेतौ निरर्थकौ॥ वध्यन्ते पापकर्माणो यद्यधर्मेण राघव। वधकर्महतोऽधर्मः स हतः कं वधिष्यति॥ अथवा विहितेनायं हन्यते हन्ति चापरम्। विधिः स लिप्यते तेन न स पापेन कर्मणा॥ अदृष्टप्रतिकारेण अव्यक्तेनासता सता। कथं शक्यं परं प्राप्तुं धर्मेणारिविकर्षण॥ यदि सत्स्यात्सतां मुख्य नासत्स्यात्तव किंचन। त्वया यदीदृशं प्राप्तं तस्मात्तन्नोपपद्यते॥ अथवा दुर्बलः क्लीबो बलं धर्मोऽनुवर्तते। दुर्बलो हृतमर्यादो न सेव्य इति मे मतिः॥ बलस्य यदि चेद्धर्मो गुणभूतः पराक्रमैः। धर्ममुत्सृज्य वर्तस्व यथा धर्मे तथा बले॥ अथ चेत्सत्यवचनं धर्मः किल परंतप। अनृतं त्वथ्यकरणे किं न बद्धस्त्वया विना॥ यदि धर्मो भवेद्भूत अधर्मो वा परंतप। न स्म हत्वा मुनि वज्री कुर्यादिज्यां शतक्रतुः॥ अधर्मसंश्रितो धर्मो विनाशयति राघव। सर्वमेतद्यथाकर्म काकुत्स्थ कुरुते नरः॥ मम चेदं मतं तात धर्मोऽयमिति राघव। धर्ममूलं त्वया छिन्नं राज्यमुत्सृजता तदा॥ अर्थेभ्योऽथ प्रवृद्धेभ्यः संवृत्तेभ्यस्ततस्ततः। क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः॥ अर्थेन हि विमुक्तस्य पुरुषस्याल्पचेतसः। विच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा॥ सोऽयमर्थं परित्यज्य सुखकामः सुखैधितः। पापमाचरते कतु तदा दोष प्रवर्तते॥ यस्यार्थास्तस्य मित्राणि यस्यास्तस्य बान्धवाः। यस्यार्थाः स पुमाल्लोके यस्यार्थाः स च पण्डितः।।३५ यस्यार्थाः स च विक्रान्तो यस्यार्थाः स च बुद्धिमान्। यस्यार्थाः स महाबाहुर्यस्यार्थाः स गुणाधिकः॥ अर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया। राज्यमुत्सृजता धीर येन बुद्धिस्त्वया कृता॥ यस्यार्था धर्मकामार्थास्तस्य सर्व प्रदक्षिणम्। अधनेनार्थकामेन नार्थः शक्यं विचिन्वता॥ हर्षः कामश्च दर्पश्च धर्मः क्रोधः शमो दमः। अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप॥ येषां नश्यत्ययं लोकश्चरतां धर्मचारिणाम्। तेऽस्त्वयि न दृश्यन्ते दुर्दिनेषु यथा ग्रहाः॥ त्वयि प्रवजिते वीर गुरोश्च वचने स्थिते। रक्षसापहता भार्या प्राणैः प्रियतरा तव॥ तदद्य विपुलं वीर दुःखमिन्द्रजिता कृतम्। कर्मणा व्यपनेष्यामि तस्मादुचिष्ठ राघव।॥ उत्तिष्ठ नरशार्दूल दीर्घबाहो धृतव्रत। किमात्मानं महात्मानमात्मानं नावबुध्यसे॥ अयमनघ तवोदितः प्रियार्थ जनकसुतानिधनं निरीक्ष्य रुष्टः। सरथगजहयां सराक्षसेन्द्रां भृशमिषुभिर्विनिपातयामि लङ्काम्॥ राममाश्वासमाने तु लक्ष्मणे भ्रातृवत्सले। निक्षिप्य गुल्मान्स्वस्थाने तत्रागच्छद्विभीषणः॥ नानाप्रहरणैवीरैश्चतुर्भिरभिसंवृतः। नीलाञ्जनचयाकारैर्मातंगैरिव यूथपैः॥ सोऽभिगम्य महात्मानं राघवं शोकलालसम्। वानरांश्चापि ददृशे वाष्पपर्याकुलेक्षणान्॥ राघवं च महात्मानमिक्ष्वाकुकुलनन्दनम्। ददर्श मोहमापन्नं लक्ष्मणस्याङ्कमाश्रितम्॥ व्रीडितं शोकसंतप्तं दृष्ट्वा रामं विभीषणः। अन्तर्दुःखेन दीनात्मा किमेतदिति सोऽब्रवीत्॥ विभीषणमुखं दृष्ट्वा सुग्रीवं तांश्च वानरान्। लक्ष्मणोवाच मन्दार्थमिदं वाष्पपरिप्लुतः॥ हता इन्द्रजिता सीता इति श्रुत्वैव राघवः। हनूमद्वचनात्सौम्य ततो मोहमुपाश्रितः॥ कथयन्तं तु सौमित्रिं संनिवार्य विभीषणः। पुष्कलार्थमिदं वाक्यं विसंज्ञं राममब्रवीत्।।।।। मनुजेन्द्रार्तरूपेण यदुक्तस्त्वं हनूमता। तदयुक्तमहं मन्ये सागरस्येव शोषणम्॥ अभिप्रायं तु जानामि रावणस्य दुरात्मनः। सीतां प्रति महाबाहो न च घातं करिष्यति॥ याच्यमानः सुबहुशो मया हितचिकीर्षुणा। वैदेहीमुत्सृजस्वेति न च तत्कृतवान्वचः॥ नैव साम्ना न दानेन न भेदेन कुतो युधा। सा द्रष्टुमपि शक्येत नैव चान्येन केनचित्॥ वानरान्मोहयित्वा तु प्रतियातः स राक्षसः। मायामयीं महाबाहो तां विद्धि जनकात्मजाम्॥ चैत्यं निकुम्भिलामद्य प्राप्य होमं करिष्यति। हुतवानुपयातो हि देवैरपि सवासवैः॥ दुराधर्षो भवत्येष संग्रामे रावणात्मजः। तेन मोहयता नूनमेषा माया प्रयोजिता ।। विघ्नमन्विच्छता तत्र वानराणां पराक्रमे॥ ससैन्यास्तत्र गच्छामो यावत्तन्न समाप्यते। त्यजैनं नरशार्दूल मिथ्या संतापमागतम्॥ सीदते हि बलं सर्वं दृष्ट्वा त्वां शोककर्शितम्। इह त्वं स्वस्थहृदयस्तिष्ठ सत्वसमुच्छ्रितः।। लक्ष्मणं प्रेषयास्माभिः सह सैन्यानुकर्षिभिः॥ एष तं नरशार्दूलो रावणिं निशितैः शरैः। त्याजयिष्यति तत्कर्म ततो वध्यो भविष्यति॥ तस्यैते निशितास्तीक्ष्णाः पत्रिपत्राङ्गवाजिनः। पतत्रिण इवासौम्याः शराः पास्यन्ति शोणितम्॥ तत्संदिश महाबाहो लक्ष्मणं शुभलक्षणम्। राक्षसस्य विनाशाय वज्र वज्रधरो यथा ॥ मनुजवर न कालविप्रकर्षों रिपुनिधनं प्रति यत्क्षमोऽद्य कर्तुम्। त्वमतिसृज रिपोर्वधाय वज्रं दिविजरिपुमथने यथा महेन्द्रः॥ समाप्तकर्मा हि स राक्षसर्षभो भवत्यदृश्यः समरे सुरासुरैः। युयुत्सता तेन समाप्तकर्मणा भवेत्सुराणामपि संशयो महान्॥ तस्य तद्वचनं श्रुत्वा राघवः शोककर्शितः। नोपधारयते व्यक्तं यदुक्तं तेन रक्षसा॥ ततो धैर्यमवष्टभ्य रामः परपुरंजयः। विभीषणमुपासीनमुवाच कपिसंनिधौ॥ नैऋताधिपते वाक्यं यदुक्तं ते विभीषण। भूयस्तच्छ्रोतुमिच्छामि ब्रूहि यत्ते विवक्षितम्॥ राघवस्य वचः श्रुत्वा वाक्यं वाक्यविशारदः। यत्तत्पुनरिदं वाक्यं बभाषेऽथ विभीषणः॥ यथाज्ञप्तं महाबाहो त्वया गुल्मनिवेशनम्। तत्तथानुष्ठितं वीर त्वद्वाक्यसमनन्तरम्॥ तान्यनीकानि सर्वाणि विभक्तानि समन्ततः। विन्यस्ता यूथपाश्चैव यथान्यायं विभागशः॥ भूयस्तु मम विज्ञाप्यं तच्छृणुष्व महाप्रभो। त्वय्यकारणसंतप्ते संतप्तहृदया वयम्॥ त्यज राजन्निमं शोकं मिथ्या संतापमागतम्। यदियं त्यज्यतां चिन्ता शत्रुहर्षविवर्धिनी॥ उद्यमः क्रियतां वीर हर्षः समुपसेव्यताम्। प्राप्तव्या यदि ते सीता हन्तव्याश्च निशाचराः॥ रघुनन्दन वक्ष्यामि श्रूयतां मे हितं वचः। साध्वयं यातु सौमित्रिर्बलेन महता वृतः॥ निकुम्भिलायां संप्राप्तं हन्तुं रावणिमाहवे। धनुर्मण्डलनिर्मुक्तैराशीविषविषोपमैः॥ शरैर्हन्तुं महेष्वासो रावणिं समितिंजयः। तेन वीरेण तपसा वरदानात्स्वयंभुवः। अस्त्रं ब्रह्मशिरः प्राप्तं कामगाश्च तुरंगमाः॥ स एष किल सैन्येन प्राप्तः किल निकुम्भिलाम्। यद्युत्तिष्ठेत्कृतं कर्म हतान्सर्वांश्च विद्धि नः॥ निकुम्भिलामसंप्राप्तमकृताग्निं च यो रिपुः। त्वामाततायिनं हन्यादिन्द्रशत्रो स ते वधः॥ वरो दत्तो महाबाहो सरवलोकेश्वरेण वै। इत्येवं विहितो राजन्वधस्तस्यैष धीमतः॥ वधायेन्द्रिजितो राम संदिशस्व महाबलम्। हते तस्मिन्हतं विद्धि रावणं ससुहृद्गणम्॥ विभीषणवचः श्रुत्वा रामो वाक्यमथाब्रवीत्। जानामि तस्य रौद्रस्य मायां सत्यपराक्रम॥ स हि ब्रह्मास्त्रवित्प्राज्ञो महामायो महाबलः। करोत्यसंज्ञान् संग्रामे देवान्सवरुणानपि॥ तस्यान्तरिक्षे चरतः सरथस्य महायशः। न गतिञ्जयते वीर सूर्यस्येवाभ्रसंप्लवे॥ राघवस्तु रिपोर्ज्ञात्वा मायावीयं दुरात्मनः। लक्ष्मणं कीर्तिसंपन्नमिदं वचनमब्रवीत्॥ यद्वानरेन्द्रस्य बलं तेन सर्वेण संवृतः। हनूमत्प्रमुखैश्चैव यूथपैः सह लक्ष्मण॥ जाम्बवेनःपतिना सह सैन्येन संवृतः। जहि तं राक्षससुतं मायाबलसमन्वितम्॥ अयं त्वां सचिवैः सार्धं महात्मा रजनीचरः। अभिज्ञातस्य मायानां पृष्ठतोऽनुगमिष्यति॥ राघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणः। जग्राह कार्मुकश्रेष्ठमन्यद्भीमपराक्रमः॥ संनद्धः कवची खङ्गी सशरी वामचापभृत्। रामपादावुपस्पृश्य हृष्टः सौमित्रिरब्रवीत्॥ अद्य मत्कार्मुकोन्मुक्ताः शरा निर्भिद्य रावणिम्। लङ्कामभिपतिष्यन्ति हंसाः पुष्करिणीमिव ॥ अद्यैव तस्य रौद्रस्य शरीरं मामकाः शराः। विधमिष्यन्ति भित्त्वा तं महाचापगुणच्युताः॥ एवमुक्त्वा तु वचनं द्युतिमान्धातुरग्रतः। स रावणिवधाकाली लक्ष्मणस्त्वरितं ययौ॥ सोऽभिवाद्य गुरोः पादौ कृत्वा चापि प्रदक्षिणम्। निकुम्भिलामभिययौ चैत्यं रावणिपालितम्॥ विभीषणेन सहितो राजपुत्रः प्रतापवान्। कृतस्वस्त्ययनो भ्रात्रा लक्ष्मणस्त्वरितो ययौ॥ वानराणां सहस्रेस्तु हनूमान्बहुभिर्वृतः। विभीषणश्च सामात्यो लक्ष्मणं त्वरितं ययौ॥ महता हरिसैन्येन सवेगमभिसंवृतः। ऋक्षराजबलं चैव ददर्श पथि विष्ठितम्॥ स गत्वा दूरमध्वानं सौमित्रिमित्रनन्दनः। राक्षसेन्द्रबलं दूरादपश्यद्व्यूहमाश्रितम्॥ स संप्राप्य धनुष्याणिर्मायायोगमरिंदमः। तस्थौ ब्रह्मविधानेन विजेतुं रघुनन्दनः॥ विभीषणेन सहितो राजपुत्रः प्रतापवान्। अङ्गदेन च वीरेण तथानिलसुतेन च॥ विविधममलशस्त्रभास्वरं तद्ध्वजगहनं गहनं महारथैश्च। प्रतिभयतममप्रमेयवेगं तिमिरमिव द्विषतां बलं विवेश॥ अथ तस्यामवस्थायां लक्ष्मणं रावणानुजः। परेषामहितं वाक्यमर्थसाधकमब्रवीत्॥ यदेतद्राक्षसानीकं मेघश्याम विलोक्यते। एतदायोध्यतां शीघ्रं कपिभिश्च शिलायुधैः॥ तस्यानीकस्य महतो भेदने यत लक्ष्मण। राक्षसेन्द्रसुतोऽप्यत्र भिन्ने दृश्यो भविष्यति॥ स त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन्परान्। अभिद्रवाशु यावद्वै नैतत्कर्म समाप्यते॥ जहि वीर दुरात्मानं मायापरमधार्मिकम्। रावणिं क्रूरकर्माणं सर्वलोकभयावहम्॥ विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः। ववर्ष शरवर्षेण राक्षसेन्द्रसुतं प्रति॥ ऋक्षाः शाखामृगाश्चैव दुमप्रवरयोधिनः। अभ्यधावन्त सहितास्तदनीकमवस्थितम्॥ राक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैः। अभ्यवर्तन्त समरे कपिसैन्यजिघांसवः॥ स संप्रहारस्तुमुल: संजज्ञे कपिरक्षसाम्। शब्देन महता लङ्कां नादयन्वै समन्ततः॥ शस्त्रैश्च विविधाकारैः शितैर्बाणैश्च पादपैः। उद्यतैर्गिरिशृङ्गैश्च घोरैराकाशमावृतम्॥ राक्षसा वानरेन्द्रेषु विकृताननबाहवः। निवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम्॥ तथैव सकलैर्वृक्षैर्गिरिशृङ्गैश्च वानराः। अभिजघ्नुनिजघ्नुश्च समरे सर्वराक्षसान्॥ ऋक्षवानरमुख्यैश्च महाकायैर्महाबलैः। रक्षसां युध्यमानानां महद्भयमजायत॥ स्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरर्दितम्। उदतिष्ठत दुर्धर्षः स कर्मण्यननुष्ठिते॥ वृक्षान्धकारान्निर्गम्य जातक्रोधः स रावणिः। आरुरोह रथं सज्ज पूर्वयुक्तं सुसंयतम्॥ स भीमकार्मुकशरः कृष्णाञ्जनचयोपमः। रक्तास्यनयनो भीमो बभौ मृत्युरिवान्तकः॥ दृष्ट्वैव तु राथस्थं तं पर्यवर्तत तद्बलम्। रक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम्॥ तस्मिंस्तु काले हनुमानरुजत्स दुरासदम्। धरणीधरसंकाशो महावृक्षमरिंदमः॥ स राक्षसानां तत्सैन्यं कालाग्निरिव निर्दहन्। चकार बहुभिर्वृक्षैनि:संज्ञं युधि वानरः॥ विध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम्। राक्षसानां सहस्राणि हनूमन्तमवाकिरन्॥ शितशूलधराः शूलैरसिभिश्चासिपाणयः। शक्तिहस्ताश्च शक्तीभिः पट्टिशैः पट्टिशायुधाः॥ परिधश्च गदाभिश्च कुन्तैश्च शुभदर्शनैः। शतशश्च शतघ्नीभिरायसैरपि मुद्गरैः॥ घोरैः परशुभिश्चैव भिन्दिपालैश्च राक्षसाः। मुष्टिभिर्वज्रकल्पैश्च तलैरशनिसंनिभैः॥ अभिजघ्नुः समासाद्य समन्तात्पर्वतोपमम्। तेषामपि च संक्रुद्धश्चकार कदनं महत्॥ स ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित्। सूदमानमसंत्रस्तममित्रान्पवनात्मजम्॥ स सारथिमुवाचेदं याहि यत्रैष वानरः। क्षयमेव हि नः कुर्याद्राक्षसानामुपेक्षितः॥ इत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः। वहन्परमदुर्धर्षं स्थितमिन्द्रजितं रथे॥ सोऽभ्युपेत्य शरान्खङ्गान्पट्टिशासिपरश्वधान्। अभ्यवर्षत दुर्धर्षः कपिमूर्धनि राक्षसः॥ तानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः। रोषेण महताविष्टो वाक्यं चेदमुवाच ह॥ युध्यस्व यदि शूरोऽसि रावणात्मज दुर्मते। वायुपुत्रं समासाद्य न जीवन्प्रतियास्यसि।॥ बाहुभ्यां संप्रयुध्यस्व यदि मे द्वन्द्वमाहवे। वेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः॥ हनूमन्तं जिघांसन्तं समुद्यतशरासनम्। रावणात्मजमाचष्टे लक्ष्मणाय विभीषणः॥ यः स वासवनिर्जेता रावणस्यात्मसंभवः। स एष रथमास्थाय हनूमन्तं जिघांसति ॥ तमप्रतिमसंस्थानैः शरैः शत्रुनिवारणैः। जीवितान्तकरैोरैः सौमित्रे रावणिं जहि ॥ इत्येवमुक्तस्तु तदा महात्मा विभीषणेनारिविभीषणेन। ददर्श तं पर्वतसंनिकाशं रथस्थितं भीमबलं दुरासदम्॥ एवमुक्त्वा तु सौमित्रिं जातहर्षो विभीषणः। धनुष्पाणिं तमादाय त्वरमाणो जगाम सः॥ अविदूरं ततो मत्वा प्रविश्य तु महद्वनम्। अदर्शयत तत्कर्म लक्ष्मणाय विभीषणः॥ नीलजीमूतसंकाशं न्यग्रोधं भीमदर्शनम्। तेजस्वी रावणभ्राता लक्ष्मणाय न्यवेदयत्॥ इहोपहारं भूतानां बलवान्रावणात्मजः। उपहृत्य ततः पश्चात्संग्राममभिवर्तते।४॥ अदृश्यः सर्वभूतानां ततो भवति राक्षसः। निहन्ति समरे शत्रून्बध्नाति च शरोत्तमैः॥ तमप्रविष्टं न्यग्रोधं बलिनं रावणात्मजम्। विध्वंसय शरैर्दीप्तैः सरथं साश्वसारथिम्॥ तथेत्युक्त्वा महातेजाः सौमित्रिमित्रनन्दनः। बभूवावस्थितस्तत्र चित्रं विस्फारयन्धनुः॥ स रथेनाग्निवर्णेन बलवानरावणात्मजः। इन्द्रजित्कवची खङ्गी सध्वजः प्रत्यदृश्यत ।।।। तमुवाच महातेजाः पौलस्त्यमपराजितम्। समाह्वये त्वां समरे सम्यग्युद्धं प्रयच्छ मे।९।। एवमुक्तो महातेजा मनस्वी रावणात्मजः। अब्रवीत्परुषं वाक्यं तत्र दृष्ट्वा विभीषणम्॥ इह त्वं जातसंवृद्धः साक्षाद्भाता पितुर्मम। कथं दुह्यसि पुत्रस्य पितृव्यो मम राक्षस॥ न ज्ञातित्वं न सौहार्द न जातिस्तव दुर्मते। प्रमाणं न च सौदर्यं न धर्मो धर्मदूषण॥ शोच्यस्त्वमसि दुर्बुद्धे निन्दनीयश्च साधुभिः। यस्त्वं स्वजनमुत्सृज्य परभृत्यत्वमागतः॥ नैतच्छिथिलया बुद्ध्या त्वं वेत्सि महदन्तरम्। क्व च स्वजनसंवासः क्व च नीचपराश्रयः॥ गुणवान्वा परजनः स्वजनो निर्गुणोऽपि वा। निर्गुणः स्वजनः श्रेयान्यः परः पर एव सः॥ यः स्वपक्षं परित्यज्य परपक्षं निषेवते। स स्वपक्षे क्षयं याते पश्चात्तैरेव हन्यते॥ निरनुक्रोशता चेयं यादृशी ते निशाचर। स्वजनेन त्वया शक्यं पौरुषं रावणानुज॥ इत्युक्तो भ्रातृपुत्रेण प्रत्युवाच विभीषणः। अजानन्निव मच्छीलं किं राक्षस विकत्थसे॥ राक्षसेन्द्रसुतासाधो पारुष्यं त्यज गौरवात्। कुले यद्यप्यहं जातो रक्षसां क्रूरकर्मणाम्।। गुणो यः प्रथमो नृणां तन्मे शीलमराक्षसम्॥ न रमे दारुणेनाहं न चाधर्मेण वै रमे। भ्रात्रा विषमशीलोऽपि कथं भ्राता निरस्यते॥ धर्मात्प्रच्युतशीलं हि पुरुषं पापनिश्चयम्। त्यक्त्वा सुखमवाप्नोति हस्तादाशीविषं यथा॥ परस्वहरणे युक्तं परदाराभिमर्शकम्। त्याज्यमाहुर्दुरात्मानं वेश्म प्रज्वलितं यथा ॥ परस्वानां च हरणं परदाराभिमर्शनम्। सुहृदामतिशङ्का च त्रयो दोषाः क्षयावहाः॥ महर्षीणां वधो घोरः सर्वदेवैश्च विग्रहः। अभिमानश्च रोषश्च वैरत्वं प्रतिकूलता॥ एते दोषा मम भ्रातुर्जीवितैश्वर्यनाशनाः। गुणान्प्रच्छादयामासुः पर्वतानिव तोयदाः॥ दोषैरेतैः परित्यक्तो मया भ्राता पिता तव। नेयमस्ति पुरी लङ्का न च त्वं न च ते पिता॥ अतिमानश्च बालश्च दुर्विनीतश्च राक्षस। बद्धस्त्वं कालपाशेन ब्रूहि मां यद्यदिच्छसि ॥ अद्येह व्यसनं प्राप्तं यन्मां परुषमुक्तवान्। प्रवेष्टुं न त्वया शक्यं न्यग्रोधं राक्षसाधम ॥ धर्षयित्वा च काकुत्स्थं न शक्यं जीवितुं त्वया। युध्यस्व नरदेवेन लक्ष्मणेन रणे सह।। हतस्त्वं देवताकार्य करिष्यसि यमक्षयम्॥ निदर्शयित्वात्मबलं समुद्यतं कुरुष्व सर्वायुधसायकव्ययम्। न लक्ष्मणस्यैत्य हि बाणगोचरं त्वमद्य जीवन्सबलो गमिष्यसि॥ विभीषणवचः श्रुत्वा रावणिः क्रोधमूर्छितः। अब्रवीत्परुषं वाक्यं क्रोधेनाभ्युत्पपात च॥ उद्यतायुधनिस्त्रिंशो रथे सुसमलंकृते। कालाश्वयुक्ते महति स्थितः कालान्तकोपमः॥ महाप्रमाणमुद्यम्य विपुलं वेगवदृढम्। धनुर्भीमबलो भीमं शरांश्चामित्रनाशनान् ॥ तं ददर्श महेष्वासो रथस्थः समलंकृतः। अलंकृतममित्रघ्नो रावणस्यात्मजो बली॥ हनूमत्पृष्ठमारूढमुदयस्थरविप्रभम्। उवाचैनं सुसंरब्धः सौमित्रिं सविभीषणम्॥ तांश्च वानरशार्दूलान्पश्यध्वं मे पराक्रमम्। अद्य मत्कार्मुकोत्सृष्टं शरवर्ष दुरासदम्॥ मुक्तवर्षमिवाकाशे धारयिष्यथ संयुगे। अद्य वो मामका बाणा महाकार्मुकनिःसृताः। विधमिष्यन्ति गात्राणि तूलराशिमिवानलः॥ तीक्ष्णसायकनिर्भिन्नाशूलशक्त्वृष्टिसायकैः। अद्य वो गमयिष्यामि सर्वानेव यमक्षयम्॥ सृजतः शरवर्षाणि क्षिप्रहस्तस्य संयुगे। जीमूतस्येव नदतः कः स्थास्यति ममाग्रतः।।।। रात्रियुद्धे तदा पूर्व वज्राशनिसमैः शरैः। शायितौ तौ मया भूयो विसंज्ञौ सपुरःसरौ॥ स्मृतिर्न तेऽस्ति वा मन्ये व्यक्तं या तो यमक्षयम्। आशीविषसमं क्रुद्धं यन्मां योद्धमुपस्थितः॥ तच्छुत्वा राक्षसेन्द्रस्य गर्जितं राघवस्तदा। अभीतवदनः क्रुद्धो रावणिं वाक्यमब्रवीत्॥ उक्तश्च दुर्गमः पार:कार्याणां राक्षस त्वया। कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान्॥ स त्वमर्थस्य हीनार्थो दुरवापस्य केनचित्। वाचा व्याहृत्य जानीषे कृतार्थोऽस्मीति दुर्मते॥ अन्तर्धानगतेनाजौ यत्त्वया चरितस्तदा। तस्कराचरितो मार्गो नैष वीरनिषेवितः॥ यथा बाणपथं प्राप्य स्थितोऽस्मि तव राक्षस। दर्शयस्वाद्य तत्तेजो वाचा त्वं किं विकत्थसे॥ एवमुक्तो धनुर्भीम परामृश्य महाबलः। ससर्ज निशितान्बाणानिन्द्रजित्समितिजयः॥ तेन सृष्टा महावेगाः शराः सर्पविषोपमाः। संप्राप्य लक्ष्मणं पेतुः श्वसन्त इव पनगाः॥ शरैरतिमहावेगैर्वेगवान्रावणात्मजः। सौमित्रिमिन्द्रजिद्युद्धे विव्याध शुभलक्षणम्॥ स शरैरतिविद्धाङ्गो रुधिरेण समुक्षितः। शुशुभे लक्ष्मणः श्रीमान्विधूम इव पावकः॥ इन्द्रजित्त्वात्मनः कर्म प्रसमीक्ष्याभिगम्य च। विनद्य सुमहानादमिदं वचनमब्रवीत्॥ पत्रिणः शितधारास्ते शरा मत्कार्मुकच्युताः। आदास्यन्तेऽद्य सौमित्रे जीवितं जीवितान्तकाः॥ अद्य गोमायुसङ्घाश्च श्येनसङ्घाश्च लक्ष्मण। गृध्राश्च निपतन्तु त्वां गतासुं निहतं मया॥ क्षत्रबन्धुं सदानार्य रामः परमदुर्मतिः। भक्तं भ्रातरमचैव त्वां द्रक्ष्यति हतं मया॥ वित्रस्तकवचं भूमौ व्यपविद्धशरासनम्। हृतोत्तमाङ्गं सौमित्रे त्वामद्य निहतं मया।॥ इति ब्रवाणं संक्रुद्धः परुषं रावणात्मजम्। हेतुमद्वाक्यमर्थज्ञो लक्ष्मणः प्रत्युवाच ह॥ वाग्बलं त्यज दुर्बुद्धे क्रूरकर्मन्हि राक्षस। अथ कस्माद्वदस्येतत्संपादय सुकर्मणा ॥ अकृत्वा कत्थसे कर्म किमर्थमिह राक्षस। कुरु तत्कर्म येनाहं श्रद्धेयं तव कत्थनम्॥ अनुक्त्वा परुषं वाक्यं किंचिदप्यनवक्षिपन्। अविकत्थन्वधिष्यामि त्वां पश्य पुरुषादन॥ इत्युक्त्वा पञ्च नाराचानाकर्णापूरिताशरान्। विजषान महावेगाल्लक्ष्मणो राक्षसोरसि॥ सपत्रवाजिता बाणा ज्वलिता इव पन्नगाः। नैर्ऋतोरस्यभासन्त सवितू रश्मयो यथा॥ स शरैराहतस्तेन सरोषो रावणात्मजः। सुप्रयुक्तैस्त्रिभिर्बाणैः प्रतिविव्याध लक्ष्मणम्॥ स बभूव महाभीमो नरराक्षससिंहयोः। विमर्दस्तुमुलो युद्धे परस्परजयैषिणोः॥ विक्रान्तौ बलसंपन्नावुभौ विक्रमशालिनौ। उभौ परमदुर्जेयावतुल्यबलतेजसौ॥ युयुधाते तदा वीरौ ग्रहाविव नभोगतौ। बलवृत्राविव हि तौ युधि वै दुष्प्रधर्षणौ॥ युयुधाते महात्मानौ तदा केसरिणाविव। बहूनवसृजन्तौ हि मार्गणौघानवस्थितौ।। नरराक्षसमुख्यौ तौ प्रहृष्टावभ्ययुध्यताम्॥ ततः शरान्दाशरथिः संधायामित्रकर्षणः। ससर्ज राक्षसेन्द्राय क्रुद्धः सर्प इव श्वसन्॥ तस्य ज्यातलनिर्घोषं स श्रुत्वा राक्षसाधिपः। विवर्णवदनो भूत्वा लक्ष्मणं समुदैक्षत॥ विषण्णवदनं दृष्ट्वा राक्षसं रावणात्मजम्। सौमित्रिं युद्धसंयुक्तं प्रत्युवाच विभीषणः॥ निमित्तान्युपपश्यामि यान्यस्मिन्रावणात्मजे। त्वर तेन महाबाहो भग्न एष न संशयः॥ ततः संधाय सौमित्रिः शरानाशीविषोपमान्। मुमोच विशिखांस्तस्मिन्सानिव विषोल्बणान्॥ शक्राशनिसमस्पर्शेर्लक्ष्मणेनाहतः शरैः। मुहूर्तमभवन्मूढः सर्वसंक्षुभितेन्द्रियः।॥ ददर्शावस्थितं वीरमाजौ दशरथात्मजम्। सोऽभिचक्राम सौमित्रिं रोषात्संरक्तलोचनः॥ अब्रवीच्चैनमासाद्य पुनः स परुषं वचः। किं न स्मरसि तद्युद्धे प्रथमे मत्पराक्रमम्।। निबद्धस्त्वं सह भ्रात्रा यदा युधि विचेष्टसे॥ युवां खलु महायुद्धे वज्राशनिसमैः शरैः। शायितौ प्रथमं भूमौ विसंज्ञौ सपुर:सरौ॥ स्मृतिर्वा नास्ति ते मन्ये व्यक्तं वा यमसादनम्। गन्तुमिच्छसि यन्मां त्वमाधर्षयितुमिच्छसि॥ यदि ते प्रथमे युद्धे न दृष्टो मत्पराक्रमः। अद्य त्वां दर्शयिष्यामि तिष्ठेदानी व्यवस्थितः॥ इत्युक्त्वा सप्तभिर्बाणैरभिविव्याध लक्ष्मणम्। दशभिस्तु हनूमन्तं तीक्ष्णधारैः शरात्तमैः॥ ततः शरशतेनैव सुप्रयुक्तेन वीर्यवान्। क्रोधाद् द्विगुणसंरब्धो निर्बिभेद विभीषणम्॥ तदृष्ट्वेन्द्रजिता कर्म कृतं रामानुजस्तदा। अचिन्तयित्वा प्रहसनैतत्किचिदिति ब्रुवन्। ५० ।। मुमोच च शरान्घोरान्संगृह्य नरपुङ्गवः। अभीतवदनः क्रुद्धो रावणिं लक्ष्मणो युधि॥ नैवं रणगताः शूराः प्रहरन्ति निशाचर। लघवश्चाल्पवीर्याश्च शरा हीमे सुखास्तव॥ नैवं शूरास्तु युध्यन्ते समरे युद्धकाङ्गिणः। इत्येवं तं ब्रुवन्धन्वी शरैरभिववर्ष ह॥ तस्य बाणैः सुविध्वस्तं कवचं काञ्चनं महत्। व्यशीर्यत रथोपस्थे ताराजालमिवाम्बरात्॥ विधूतवर्मा नाराचैर्बभूव स कृतव्रणः। इन्द्रजित्समरे वीरः प्रत्यूषे भानुमानिव ॥ ततः शरसहस्रेण संक्रुद्धो रावणात्मजः। बिभेद समरे वीरो लक्ष्मणं भीमविक्रमः॥ व्यशीर्यत महद्दिव्यं कवचं लक्ष्मणस्य तु। कृतप्रतिकृतान्योन्यं बभूवतुरभिद्रुतौ ॥ अभीक्ष्णं निःश्वसन्तौ वै युध्येतां तुमुलौ युधि। शरसंकृत्तसर्वाङ्गौ सर्वतो रुधिरोक्षितौ।। सुदीर्घकालं तौ वीरावन्योन्यं निशितैः शरैः॥ ततक्षतुर्महात्मानौ रणकर्मविशारदौ। बभूवतुश्चात्मजये यत्तौ भीमपराक्रमौ॥ तौ शरौषैस्तथाकीर्णो निकृत्तकवचध्वजौ। सृजन्तौ रुधिरं चोष्णं जलं प्रस्रवणाविव॥ शरवर्षं ततो घोरं मुञ्चतोर्भीमनिःस्वनम्। सासारयोरिवाकाशे नीलयोः कालमेघयोः॥ तयोरथ महान्कालो व्यतीयाधुध्यमानयोः। न च तौ युद्धवैमुख्यं क्लमं चाप्युपजग्मतुः॥ अस्त्राण्यस्त्रविदां श्रेष्ठौ दर्शयन्तौ पुनः पुनः। शरानुच्चावचाकारानन्तरिक्षे बबन्धतुः॥ व्यपेतदोषमस्यन्तौ लघु चित्रं च सुष्ठु च। उभौ तु तुमुलं घोरं चक्रतुर्नरराक्षसौ॥ तयोः पृथक्पृथग्भीमः शुश्रुवे तुमुलः स्वनः। स कम्पं जनयामास निर्घात इव दारुणः॥ तयोः स भ्राजते शब्दस्तथा समरयत्तयोः। सुघोरयोनि:स्वनतोगगने मेघयोरिव॥ सुवर्णपुजैर्नाराचैर्बलवन्तौ कृतव्रणौ। प्रसुनुवाते रुधिरं कीर्तिमन्तौ जये धृतौ॥ ते गात्रयोनिपतिता रुक्मपुङ्खाः शरा युधि। असृग्दिग्धा विनिष्पेतुर्विविशुर्धरणीतलम्॥ अन्ये सुनिशितैः शस्त्रैराकाशे संजघट्टिरे। बभञ्जश्चिच्छिदुश्चैव तयोर्बाणाः सहस्रशः॥ स बभूव रणे घोरस्तयोर्बाणमयश्चयः। अग्निभ्यामिव दीप्ताभ्यां सत्रे कुशमयश्च यः॥ तयोः कृतव्रणौ देहौ शुशुभाते महात्मनोः। सुपुष्पाविव निष्पत्रौ वने किंशुकशाल्मली।७१।। चक्रतुस्तुमुलं घोरं संनिपातं मुहुर्मुहुः। इन्द्रजिल्लक्ष्मणश्चैव परस्परजयैषिणौ॥ लक्ष्मणो रावणिं युद्ध रावणिश्चापि लक्ष्मणम्। अन्योन्यं तावविभिघ्नन्तौ न श्रमं प्रतिपद्यताम्॥ बाणजालैः शरीरस्थैरवगाडैस्तरस्विनौ। शुशुभाते महावीर्यो प्ररूढाविव पर्वतौ॥ ततो रुधिरसिक्तानि संवृतानि शरैर्भृशम्। बभ्राजुः सर्वगात्राणि ज्वलन्त इव पावकाः॥ तयोरथ महान्कालो व्यतीयाधुध्यमानयोः। न च तौ युद्धवैमुख्यं श्रमं चाप्यभिजग्मतुः॥ अथ समरपरिश्रमं निहन्तुं समरमुखेष्वजितस्य लक्ष्मणस्य। प्रियहितमुपपादयन्महात्मा समरमुपेत्य विभीषणोऽवतस्थे॥ युध्यमानौ ततो दृष्ट्वा प्रसक्तौ नरराक्षसौ। प्रभिन्नाविव मातंगौ परस्परजयैषिणौ॥ तयायुद्धं द्रष्टुकामो वरचापधरो बली। शूरः स रावणभ्राता तस्थौ संग्राममूर्धनि ॥ ततो विस्फारयामास महद्धनुरवस्थितः। उत्ससर्ज च तीक्ष्णग्रान्राक्षसेषु महाशरान्॥ ते शराः शिखिसंस्पर्शा निपतन्तः समाहिताः। राक्षसान्दारयामासुर्वज्रा इव महागिरीन्॥ विभीषणस्यानुचरास्तेऽपि शूलासिपट्टिशैः। चिच्छिदुः समरे वीराराक्षसान्राक्षसोत्तमाः॥ राक्षसैस्तैः परिवृतः स तदा तु विभीषणः। बभौ मध्ये प्रधृष्टानां कलभानामिव द्विपः॥ ततः संचोदमानो वै हरीरक्षोवधप्रियान्। उवाच वचनं काले कालज्ञो रक्षसां वरः॥ एकोऽयं राक्षसेन्द्रस्य परायणमवस्थितः। एतच्छेषं बलं तस्य किं तिष्ठत हरीश्वराः॥ तस्मिंश्च निहते पापे राक्षसे रणमूर्धनि। रावणं वर्जयित्वा तु शेषमस्य बलं हतम्॥ प्रहस्तो निहतो वीरो निकुम्भश्च महाबलः। कुम्भकर्णश्च कुम्भश्च धूम्राक्षश्च निशाचरः॥ जम्बुमाली महामाली तीक्ष्णवेगोऽशनिप्रभः। सुप्तघ्नो यज्ञकोपश्च वज्रदंष्ट्रश्च राक्षसः॥ संहादी विकटोऽरिघ्नस्तपनो मन्द एव च। प्रघासः प्रघसश्चैव प्रजङ्घो जङ्घ एव च॥ अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च वीर्यवान्। विद्युज्जिह्वो द्विजिह्वश्च सूर्यशत्रुश्च राक्षसः॥ अकम्पनः सुपार्श्वश्च चक्रमाली च राक्षसः। कम्पनः सत्त्ववन्तश्च देवान्तकनरान्तकौ॥ एतानिहत्यातिबलान्बहूराक्षससत्तमान्। बाहुभ्यां सागरं तीर्खा लङ्घयतां गोष्पदं लघु।।१५ एतावदेव शेषं वो जेतव्यमिति वानराः। हताः सर्वे समागम्य राक्षसा बलदर्पिताः॥ अयुक्तं निधनं कर्तुं पुत्रस्य जनितुर्मम । घृणामपास्य रामार्थे निहन्यां भ्रातुरात्मजम्॥ हन्तुकामस्य मे बाष्पं चक्षुश्चैव निरुध्यति। तमेवैष महाबाहुर्लक्ष्मणः शमयिष्यति॥ वानरा घ्नत संभूय भृत्यानस्य समीपगान्। इति तेनातियशसा राक्षसेनाभिचोदिताः॥ वानरेन्द्रा जहषिरे लांगूलानि च विव्यधुः। ततस्तु कपिशार्दूलाः श्वेडन्तश्च पुनः पुनः।। मुमुचुर्विविधानादान्मेघान्दृष्ट्वेव बर्हिणः॥ जाम्बवानपि तैः सर्वैः सयूथ्यैरभिसंवृतः। तेऽश्मभिस्ताडयामासुर्नखैर्दन्तैश्च राक्षसान्॥ निघ्नन्तमृक्षाधिपतिं राक्षसास्ते महाबलाः। परिभर्त्य भयं त्यक्त्वा तमनेकविधायुधाः॥ शरैः परशुभिस्तीक्ष्णैः पट्टिशैर्यष्टितोमरैः। जाम्बवन्तं मृधे जघ्नुनिघ्नन्तं राक्षसी चमूम्॥ स संप्रहारस्तुमुलः संजज्ञे कपिरक्षसाम्। देवासुराणां क्रुद्धानां यथा भीमो महास्वनः॥ हनूमानपि संक्रुद्धः सानुमुत्पाट्य पर्वतात्। स लक्ष्मणं स्वयं पृष्ठादवरोप्य महामनाः॥ रक्षसां कदनं चक्रे दुरासादः सहस्रशः। स दत्त्वा तुमुलं युद्धं पितृव्यस्येन्द्रजिद्बली॥ लक्ष्मणं परवीरघ्नः पुनरेवाभ्यधावत। तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौ॥ शरौघानभिवर्षन्तौ जघ्नतुस्तौ परस्परम्। अभीक्ष्णमन्तर्दधतुः शरजालैर्महाबलौ॥ चन्द्रादित्याविवोष्णान्ते यथा मेघैस्तरस्विनौ। नह्यादानं न संधानं धनुषो वा परिग्रहः॥ न विप्रमोक्षो बाणानां न विकर्षों न विग्रहः। न मुष्टिप्रतिसंधानं न लक्ष्यप्रतिपादनम्॥ अदृश्यत तयोस्तत्र युध्यतोः पाणिलाघवात्। चापवेगप्रयुक्तैश्च बाणजालैः समन्ततः॥ अन्तरिक्षेऽभिसंपन्ने न रूपाणि चकाशिरे। लक्ष्मणो रावणिं प्राप्य रावणिश्चापि लक्ष्मणम्॥ अव्यवस्था भवत्युग्रा ताभ्यामन्योन्यविग्रहे। ताभ्यामुभाभ्यां तरसा प्रसृष्टैर्विशिखैः शितैः॥ निरन्तरमिवाकाशं बभूव तमसा वृतम्। तैः पतद्भिश्च बहुभिस्तयोः शरशतैः शितैः॥ दिशश्च प्रदिशश्चैव बभूवुः शरसंकुलाः। तमसा पिहितं सर्वमासीत्प्रतिभयं महत्॥ अस्तं गते सहस्रांशी संवते तमसा च वै। रुधिरौघा महानद्यः प्रावर्तन्त सहस्रशः।२६।। क्रव्यादा दारुणा वाग्भिश्चिक्षिपुर्भीमनिःस्वनान्। न तदानीं ववौ वायुर्न च जज्वाल पावकः॥ स्वस्त्यस्तु लोकेभ्य इति जजल्पुस्ते महर्षयः। संपेतुश्चात्र संतप्ता गन्धर्वाः सह चारणैः॥ अथ राक्षससिंहस्य कृष्णान्कनकभूषणान्। शरैश्चतुर्भिः सौमित्रिर्विव्याध चतुरो हयान्॥ ततोऽपरेण भल्लेन पीतेन निशितेन च। संपूर्णायतमुक्तेन सुपत्रेण सुवर्चसा ॥ महेन्द्राशनिकल्पेन सूतस्य विचरिष्यतः। स तेन बाणाशनिना तलशब्दानुनादिना ॥ लघवाद्राघवः श्रीमाशिरः कायादपाहरत्। स यन्तरि महातेजा हते मन्दोदरीसुतः।॥ स्वयं सारथ्यमकरोत्पुनश्च धनुरस्पृशत्। तदद्भुतमभूत्तत्र सारथ्यं पश्यतां युधि ॥ हयेषु व्यग्रहस्तं तं विव्याध निशितैः शरैः। धनुष्यथ पुनर्व्यग्रं हयेषु मुमुचे शरान्॥ छिन्नेषु तेषु बाणौधैर्विचरन्तमभीतवत्। अर्दयामास समरे सौमित्रिः शीघ्रकृत्तमः॥ निहतं सारथिं दृष्ट्वा समरे रावणात्मजः। प्रजही समरोद्धर्ष विषण्णः स बभूव ह।॥ विषण्णवदनं दृष्ट्वा राक्षसं हरियूथपाः। ततः परमसंहृष्टा लक्ष्मणं चाभ्यपूजयन्॥ ततः प्रमाथी रभसः शरभो गन्धमादनः। अमृष्यमाणाश्चत्वारश्चनुर्वेगं हरीश्वराः॥ ते चास्य हयमुख्येषु तूर्णमुत्पत्य वानराः। चतुर्षु सुमहावीर्या निपेतुर्भीमविक्रमाः॥ तेषामधिष्ठितानां तैर्वानरैः पर्वतोपमैः। मुखेभ्यो रुधिरं व्यक्तं हयानां समवर्तत॥ ते हया मथिता भग्ना व्यसवो धरणीं गताः। ते निहत्य हयांस्तस्य प्रमथ्य च महारथम्॥ पुनरुत्पत्य वेगेन तस्थुर्लक्ष्मणपार्श्वतः॥ स हताश्वादवप्लुत्य रथान्मथितसारथिः। शरवर्षेण सौमित्रिमभ्यधावत रावणिः॥ ततो महेन्द्रप्रतिमः सलक्ष्मणः पदातिनं तं निहतैहयोत्तमैः। मृजन्तमाजौ निशिताञ्छरोत्तमान्भृशं तदा बाणगतैर्व्यदारयत्॥ स हताश्वो महातेजा भूमौ तिष्ठनिशाचरः। इन्द्रजित्परमक्रुद्धः संप्रजज्वाल तेजसा॥ तौ धन्विनौ जिघांसन्तावन्योन्यमिषुभिर्भृशम्। विजयेनाभिनिष्क्रान्तौ वने गजवृषाविव॥ निबर्हयन्तश्चान्योन्यं ते राक्षसवनौकसः। भर्तारं न जहुयुद्धे संपतन्तस्ततस्ततः॥ ततस्तान्राक्षसान्सर्वान्हर्षयन्रावणात्मजः। स्तुन्वानो हर्षमाणश्च इदं वचनमब्रवीत्॥ तमसा बहुलेनेमाः संसक्ताः सर्वतो दिश:। नेह विज्ञायते स्वो वा परो वा राक्षसोतमाः।।।। धृष्टं भवन्तो युध्यन्तु हरीणां पोहताय वै। अहं तु रथमास्थाय आगमिष्या संयुगे ।।। तथा भवन्तः कुर्वन्तु यथेगे हि बनौकसः। न युध्येयुर्महात्मानः प्रविले नगरं पयि ! १ !! इत्युक्त्वा रावणसुतो वञ्चयित्वा वनौकराः प्रविवेश पुरीं लङ्का रथहेतोरमित्रहा ! १८ ।। स रथं भूषयित्वाथ रुचिरं हेगभूषितम्। प्रासासिशरसंयुक्तं युक्तं परमवाजिभिः॥ अधिष्ठितं हयज्ञेन सूतेनाप्तोपदेशिला। आरुरोह महातेजा रावणिः समितिजसः ॥ स राक्षसगणैर्मुख्यैर्वृतो मन्दोदरीसुतः। निर्ययौ नगराद्वीरः कृतान्तबलचोदितः १११।। सोऽभिनिष्क्रम्य नगरादिन्द्रजित्परौजसा। अभ्ययाज्जवनैरश्वैर्लक्ष्यणं सविभीषण!१२३ ततो रथस्थमालोक्य सौमित्री रावणात्मजम्। वानराश्च महावीर्या राक्षसश्च विभीषणः॥ विस्मयं परमं जग्मुर्लाघवात्तस्य धीमतः। रावणिश्चापि संक्रुद्धो रणे वानरयूथपान्॥ पातयामास बाणौषैः शतशोऽथ सहस्रशः। स मण्डलीकृतधनू रावणिः समितिंजयः॥ हरीनभ्यहनत्क्रुद्धः परं लाघवमास्थितः। ते वध्यमाना हरयो नाराचैर्भीमविक्रमैः॥ सौमित्रिं शरणं प्राप्ताः प्रजापतिमिव प्रजाः। ततः समरकोपेन ज्वलितो रघुनन्दनः।। चिच्छेद कार्मुकं तस्य दर्शयन्पाणिलाघवम्॥ सोऽन्यत्कार्मुकमादाय सज्ज चक्रे त्वरत्रिव। तदप्यस्य त्रिभिर्बाणैर्लक्ष्मणो निरकृन्तत ॥ अथैनं छिन्नधन्वानमाशीविषविषोपमैः। विव्याधोरसि सौमित्री रावणिं पञ्चभिः शरैः॥ ते तस्य कायं निर्भिद्य महाकार्मुकनिःसृताः। निपेतुर्धरणी बाणा रका इव महोरगाः॥ स छिनधन्वा रुधिरं वमन्वक्रेण रावणिः। जग्राह कार्मुकश्रेष्ठं दृढज्यं बलवत्तरम्॥ स लक्ष्मणं समुद्दिश्य परं लाघवमास्थितः। ववर्ष शरवर्षाणि वर्षाणीव पुरंदरः॥ मुक्तमिन्द्रजिता तत्तु शरवर्षमरिंदमः। आवारयदसंभ्रान्तो लक्ष्मणः सुदुरासदम्॥ संदर्शयामास तदा रावणिं रघुनन्दनः। असंभ्रान्तो महातेजास्तदद्भुतमिवाभवत्॥ ततस्ताराक्षसान्सस्त्रिभिरेकैकमाहवे। अविध्यत्परमनुद्धः शीघ्रास्त्रं संप्रदर्शयन्।। राक्षसेन्द्रस्तु तं चापि बाणौघैः समताडयत्॥ सोऽतिविद्धो बलवता शत्रुणा शत्रुघातिना। असक्तं प्रेषयामास लक्ष्मणाय बहूशरान्॥ तानप्राप्ताशितैर्भाणैश्चिच्छेद परवीरहा। सारथेरस्य च रणे रथिनो रथसत्तमः॥ शिरो जहार धर्मात्मा भल्लेनानतपर्वणा। असूतास्ते हयास्तत्र रथमूहुरविक्लवाः॥ मण्डलान्यभिधावन्ति तदद्भुतमिवाभवत्। अमर्षवशमापन्नः सौमित्रिर्दृढविक्रमः॥ प्रत्यविध्यद्धयांस्तस्य शरैर्वित्रासयन्रणे। अमर्षमाणस्तत्कर्म रावणस्य सुतो रणे॥ विव्याध दशभिर्बाणैः सौमित्रिं रोमहर्षणम्। ते तस्य वज्रप्रतिमाः शराः सर्वविषोपमाः।। विलयं जग्मुरागत्य कवचं काञ्चनप्रभम्॥ अभेद्यकवचं मत्वा लक्ष्मणं रावणात्मजः। ललाटे लक्ष्मणं बाणैः सुपझेस्त्रिभिरिन्द्रजित्॥ अविध्यत्परमक्रुद्धः शीघ्रमस्त्रं प्रदर्शयन्। तैः पृषत्कैर्ललाटस्थैः शुशुभे रघुनन्दनः॥ रणाग्रे समरश्लाघी त्रिशृङ्ग इव पर्वतः। स तथाप्यर्दितो बाणै राक्षसेन तदा मृधे॥ तमाशु प्रतिविव्याध लक्ष्मणः पञ्चभिः शरैः। विकृष्येन्द्रजितो युद्धे वदने शुभकुण्डले॥ लक्ष्मणेन्द्रजितौ वीरौ महाबलशरासनौ। अन्योन्यं जघ्नतुर्वीरौ विशिखैीमविक्रमौ॥ ततः शोणितदिग्धाङ्गो लक्ष्मणेन्द्रजितावुभौ। रणे तौ रेजतुर्वीरौ पुष्पिताविव किंशुकौ॥ तौ परस्परमभ्येत्य सर्वगात्रेषु धन्विनौ। घोरैर्विव्यधतुर्बाणैः कृतभावावुभौ जये॥ ततः समरकोपेन संयुतो रावणात्मजः। विभीषणं त्रिभिर्बाणैर्विव्याध वदने शुभे॥ अयोमुखैत्रिभिर्विद्ध्वा राक्षसेन्द्र विभीषणम्। एकैकानभिविव्याध तान्सन्हिरियूथपान्॥ तस्मै दृढतरं क्रुद्धो जघान गदया हयान्। विभीषणो महातेजा रावणेः स दुरात्मनः॥ स हताश्वादवप्लुत्य रथान्मथितसारथिः। अथ शक्तिं महातेजाः पितृव्याय मुमोच ह।॥ तामापतन्ती संप्रेक्ष्य सुमित्रानन्दवर्धनः। चिच्छेद निशितैर्बाणैर्दशधापातयद्भुवि ॥ तस्मै दृढधनुः क्रुद्धो हताश्वाय विभीषणः। वज्रस्पर्शसमान्पञ्च सस।रसि मार्गणान्॥ ते तस्य कायं भिष्ट्वा तु रुक्मपुङ्खा निमित्तगाः। बभूवुर्लोहिता दिग्धा रक्ता इव महोरगाः॥ स पितृव्यस्य संक्रुद्ध इन्द्रजिच्छरमाददे। उत्तमं रक्षसां मध्ये यमदत्तं महाबलम्॥ तं समीक्ष्य महातेजा महेषु तेन संधितम्। लक्ष्मणोऽप्याददे बाणमन्यद्भीमपराक्रमः॥ कुबेरेण स्वयं स्वप्ने यद्दत्तममितात्मना। दुर्जयं दुर्विषां च सेन्ट्रैरपि सुरासुरैः॥ तयोस्तु धनुषी श्रेष्ठे बाहुभिः परिघोपमैः। विकृष्यमाणे बलवत्क्रौञ्चाविव चुकूजतुः॥ ताभ्यां तु धनुषि श्रेष्ठे संहितौ सायकोत्तमौ। विकृष्यमाणौ वीराभ्यां भृशं जज्वलतुः श्रिया।५०॥ तौ भासयन्तावाकाशं धनुभ्यां विशिखौ च्युतौ। मुखेन मुखमाहत्य संनिपेततुरोजसा॥ संनिपातस्तयोश्चासीच्छरयो?ररूपयोः। सधूमविस्फुलिङ्गश्च तज्जोऽग्निर्दारुणोऽभवत्।५२।। तौ महाग्रहसंकाशावन्योन्यं संनिपत्य च। संग्रामे शतधा यातौ मेदिन्यां चैव पेततुः॥ शरौ प्रतिहतौ दृष्ट्वा तावुभौ रणमूर्धनि। वीडितौ जातरोषौ च लक्ष्मणेन्द्रजितौ तदा॥ स संरब्धस्तु सौमित्रिरत्रं वारुणमाददे। रौद्रं महेन्द्रजियुद्धेऽप्यसृजधुद्धविष्ठितः॥ तेन तद्विहतं शस्त्रं वारुणं परमाद्भुतम्। ततः क्रुद्धो महातेजा इन्द्रजित्समितिंजयः।। आग्नेयं संदधे दीप्तं सलोकं संक्षिपन्निव। ५६॥ सौर्येणास्त्रेण तं वीरो लक्ष्मणः पर्यवारयत्। अस्त्रं निवारितं दृष्ट्वा रावणिः क्रोधमूर्च्छितः।।५७ आददे निशितं बाणमासुरं शत्रुदारणम्। तस्माच्चापाद्विनिष्पेतु स्वराः कूटमुद्गराः॥ शूलानि च भुशुण्ड्यश्च गदाः खङ्गाः परश्वधाः। तदृष्ट्वा लक्ष्मणः संख्ये घोरमस्त्रं सुदारुणम्।।५९ अवार्यं सर्वभूतानां सर्वशस्त्रविदारणम्। माहेश्वरेण द्युतिमांस्तदत्रं प्रत्यवारयत्॥ तयोः समभवद्युद्धमद्भुतं रोमहर्षणम्। गगनस्थानि भूतानि लक्ष्मणं पर्यवारयन्॥ भैरवाभिरुते भीमे युद्धे वानररक्षसाम्। भूतैर्बहुभिराकाशं विस्मितैरावृतं बभौ॥ ऋषयः पितरो देवा गन्धर्वगरुडोरगाः। शतक्रतुं पुरस्कृत्य ररक्षुर्लक्ष्मणं रणे॥ अथान्यं मार्गणश्रेष्ठं संदधे राघवानुजः। हुताशनसमस्पर्श रावणात्मजदारणम्॥ सुपत्रमनुवृत्तानं सुपर्वाणं सुसंस्थितम्। सुवर्णविकृतं वीरः शरीरान्तकरं शरम्॥ दुरावारं दुर्विषमं राक्षसानां भयावहम्। आशीविषविषप्रख्यं देवसङ्घः समर्चितम्। ६६ ।। येन शक्रो महातेजा दानवानजयत्प्रभुः। पुरा देवासुरे युद्धे वीर्यवान्हरिवाहनः ॥ अथैन्द्रमस्त्रं सौमित्रिः संयुगेष्वपराजितम्। शरश्रेष्ठं धनुःश्रेष्ठे विकर्षन्निदमब्रवीत् ॥ लक्ष्मीवांल्लक्ष्मणो वाक्यमर्थसाधकमात्मनः। धर्मात्मा सत्यसंधश्च रामो दाशरथिदि।। पौरुषे चाप्रतिद्वन्द्वस्तदैनं जहि रावणिम् ॥ इत्युक्त्वा बाणमाकर्णं विकृष्य तमजिह्मगम्। लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रति।। ऐन्द्रास्त्रेण समायुज्य लक्ष्मणः परवीरहा।७० !! तच्छिरः सशिरस्त्राणं श्रीमज्ज्वलितकुण्डलम्। प्रमथ्येन्द्रजितः कायात्पातयामास भूतले।७१।। तद्राक्षसतनूजस्य भिन्नस्कन्धं शिरो महत्। तपनीयनिभं भूमौ ददृशे रुधिरोक्षितम्॥ हतः सः निपपाताथ धरण्यां रावणात्मजः। कवची सशिरस्त्राणो विप्रविद्धशरासनः॥ चुक्रुशुस्ते ततः सर्वे वानराः सविभीषणाः। हृष्यन्ते निहते तस्मिन्देवा वृत्रवधे यथा॥ अथान्तरिक्षे भूतानामृषीणां च महात्मनाम्। जज्ञेऽथ जयसंनादो गन्धर्वाप्सरसामपि। ७५॥ पतितं समभिज्ञाय राक्षसी सा महाचमूः। वध्यमाना दिशो भेजे हरिभिर्जितकाशिभिः॥ वानरैर्वध्यमानास्ते शस्त्राण्युत्सृज्य राक्षसाः। लङ्कामभिमुखाः सस्रुभ्रष्टसंज्ञाः प्रधाविताः॥ दुद्रुवुर्बहुधा भीता राक्षसाः शतशो दिशः। त्यक्त्वा प्रहरणान्सर्वे पट्टिशासिपरश्वधान्॥ केचिल्लङ्कां परित्रस्ताः प्रविष्टा वानरार्दिताः। समुद्रे पतिताः केचित्केचित्पर्वतमाश्रिताः॥ हतमिन्द्रजितं दृष्ट्वा शयनां च रणक्षितौ। राक्षसानां सहस्रेषु न कश्चित्प्रत्यदृश्यत॥ यथास्तं गत आदित्ये नावतिष्ठन्ति रश्मयः। तथा तस्मिन्निपतिते राक्षसास्ते गता दिशः ८१॥ शान्तरश्मिरिवादित्यो निर्वाण इव पावकः। बभूव स महाबाहुर्व्यपास्तगतजीवितः॥ प्रशान्तपीडाबहुलो विनष्टारिः प्रहर्षवान्। बभूव लोकः पतिते राक्षसेन्द्रसुते तदा॥ हर्ष च शक्रो भगवान्सह सर्वैर्महर्षिभिः। जगाम निहते तस्मिन्राक्षसे पापकर्मणि॥ आकाशे चापि देवानां सुश्रुवे दुन्दुभिस्वनः। नृत्यद्भिरप्सरोभिश्च गन्धर्वैश्च महात्मभिः॥ ववर्षः पुष्पवर्षाणि तदद्भुतमिवाभवत्। प्रशशाम हते तस्मिन्राक्षसे क्रूरकर्मणि॥ शुद्धा आपो नभश्चैव जहषुर्देवदानवाः। आजग्मुः पतिते तस्मिन्सर्वलोकभयावहे॥ ऊचुश्च सहितास्तुष्टा देवगन्धर्वदानवाः। विज्वराः शान्तकलुषा ब्राह्मणा विचरन्त्विति।।८८ ततोऽभ्यनन्दन्संहृष्टाः समरे हरियूथपाः। तमप्रतिबलं दृष्ट्वा हतं नैर्ऋतपुङ्गवम्॥ विभीषणो हनूमांश्च जाम्बवांश्चर्क्षयूथपः। विजयेनाभिनन्दन्तस्तुष्टुवुश्चापि लक्ष्मणम्।९०॥ क्ष्वेडन्तश्च प्लवन्तश्च गर्जन्तश्च प्लवंगमाः। लब्धलक्षा रघुसुतं परिवार्योपतस्थिरे॥ लांगूलानि प्रविध्यन्तः स्फोटयन्तश्च वानराः। लक्ष्मणो जयतीत्येव वाक्यं विश्रावयंस्तदा।१२। अन्योन्यं च समाश्लिष्य हरयो हृष्टमानसाः। चनुरुच्चावचगुणा राघवाश्रयसत्कथाः॥ तदसुकरमथाभिवीक्ष्य हृष्टाः प्रियसुहृदो युधि लक्ष्मणस्य कर्म। परममुपलभन्मनः प्रहर्ष विनिहतमिन्द्ररिपुं निशम्य देवाः।१४।। रुधिरक्लिनगावस्तु लक्ष्मणः शुभलक्षणः। बभूव हृष्टस्तं हत्वा शत्रुजेतारमाहवे॥ ततः स जाम्बवन्तं च हनूमन्तं च वीर्यवान्। संनिपत्य महातेजास्तांश्च सर्वान्वनौकसः॥ आजगाम ततः शीघ्रं यत्र सुग्रीवराघवौ। विभीषणमवष्टभ्य हनूमन्तं च लक्ष्मणः॥ ततो राममभिक्रम्य सौमित्रिरभिवाद्य च। तस्थौ भ्रातृसमीपस्थः शक्रस्येन्द्रानुजो यथा।४॥ निष्टनत्रिव चागत्य राघवाय महात्मने। आचचक्षे तदा वीरो घोरमिन्द्रजितो वधम्॥ रावणेस्तु शिरश्छिनं लक्ष्मणेन महात्मना। न्यवेदयत रामाय तदा हृष्टो विभीषणः॥ श्रुत्वैव तु महावीर्यो लक्ष्मणेनेन्द्रजिद्वधम्। प्रहर्षमतुल लेभे वाक्यं चेदमुवाच ह॥ साधु लक्ष्मण तुष्टोऽस्मि कर्म चासुकरं कृतम्। रावणेहि विनाशेन जितमित्युपधारय।।।। स तं शिरस्युपाघ्राय लक्ष्मणं कीर्तिवर्धनम्। लज्जमानं बलात्स्नेहादङ्कमारोप्य वीर्यवान्॥ उपवेश्य तमुत्सङ्गे परिष्वज्यावपीडितम्। धातर लक्ष्मण स्निग्धं पुनः पुनरुदैक्षत॥ शल्यसंपीडितं शस्तं नि:सन्तं तु लक्ष्मणम्। समस्तु दुःखसंतप्तं तं तु निःश्वासपीडितम्॥ मूर्धि चैनमुपाघ्राय भूयः संस्पृश्य च त्वरन्। उवाच लक्षमणं वाक्यमाश्वास्य पुरुषर्षभः॥ कृतं परमकल्याणं कर्म दुष्करकर्मणा। अद्य मन्ये हते पुत्रे रावणं निहतं युधि ॥ अद्याहं विजयी शत्रौ हते तस्मिन्दुरात्मनि। रावणस्य नृशंसस्य दिष्ट्या वीर त्वया रणे॥ छिनो हि दक्षिणो बाहुः स हि तस्य व्यपाश्रयः। विभीषणहनूमद्भयां कृतं कर्म महद्रणे॥ अहोरात्रस्त्रिभिर्वीरः कथंचिद्विनिपातितः। निमित्रः कृतोऽस्यद्य निर्यास्यति हि रावणः।।१६ बलव्यूहेन महता निर्यास्यति हि रावणः। बलव्यूहेन महता श्रुत्वा पुत्रं निपातितम्॥ तं पुत्रवधसंतप्तं निर्यान्तं राक्षसाधिपम्। बलेनावृत्य महता निहनिष्यामि दुर्जयम्॥ त्वया लक्ष्मण नाथेन सीता च पृथिवी च मे। न दुष्प्रापा हते तस्मिशक्रजेतरि चाहवे॥ स तं भ्रातरमाश्वास्य परिष्वज्य च राघवः। रामः सुषेणं मुदितः समाभाष्येदमब्रवीत्॥ विशल्योऽयं महाप्राज्ञः सौमित्रिमित्रवत्सलः। यथा भवति सुस्वस्थस्तथा त्वं समुदाचर॥ विशल्यः क्रियतां क्षिप्रं सौमित्रिमित्रवत्सलः। ऋक्षवानरसैन्यानां शूराणां दुमयोधिनाम्॥ ये चाप्यन्येऽत्र युध्यन्ति सशल्या व्रणिनस्तता। तेऽपि सर्वे प्रयत्नेन क्रियतां सुखिनस्तथा॥ एवमुक्तः स रामेण महात्मा हरियूथपः। लक्ष्मणाय ददौ नस्तः सुषेणः परमौषधम्॥ स तस्य गन्धमाघ्राय विशल्यः समपद्यत। तदा निर्वेदनश्चैव संरुद्धप्राण एव च॥ विभीषणमुखानां च सुहृदां राघवाज्ञया। सर्ववानरमुख्यानां चिकित्सासमकरोत्तदा ॥ ततः प्रकृतिमापनो हृतशल्यो गतक्लमः। सौमित्रिMमुदे तत्र क्षणेन विगतज्वरः॥ तदैव रामः प्लवगाधिपस्तथा विभीषणश्चर्क्षपतिश्च वीर्यवान्। अवेक्ष्य सौमित्रिमरोगमुत्थितं मुदा ससैन्याः सुचिरं जहषिरे॥ अपूजयत्कर्म स लक्ष्मणस्य सुदुष्करं दाशरथिर्महात्मा। बभूव हृष्टो युधि वानरेन्द्रो निशम्य तं शक्रजितं निपातितम्॥ ततः पौलस्त्यसचिवाः श्रुत्वा चेन्द्रजितो वधम्। आचचक्षुरवज्ञाय दशग्रीवाय सत्वराः॥ युद्धे हतो महाराज लक्ष्मणेन तवात्मजः। विभीषणसहायेन मिषतां नो महाद्युतिः॥ शूरः शूरेण संगम्य संयुगेष्वपराजितः। लक्ष्मणेन हतः शूरः पुत्रस्ते विबुधेन्द्रजित्॥ गतः स परमाल्लोकाशरैः संतर्घ्य लक्ष्मणम्। स तं प्रतिभयं श्रुत्वा वधं पुत्रस्य दारुणम्॥ घोरमिन्द्रजितः संख्ये कश्मलं प्राविशन्महत्। उपलभ्य चिरात्संज्ञां राजा राक्षसपुङ्गवः॥ पुत्रशोकाकुलो दीनो विललापाकुलेन्द्रियः। हा राक्षसचमूमुख्य मम वत्स महाबल॥ जित्वेन्द्रं कथमद्य त्वं लक्ष्मणस्य वशं गतः। ननु त्वमिषुभिः कृद्धो भिन्द्याः कालान्तकावपि॥ मन्दरस्यापि शृङ्गाणि किं पुनर्लक्ष्मणं युधि। अद्य वैवस्वतो राजा भूयो बहुमतो मम॥ येनाद्य त्वं महाबाहो संयुक्तः कालधर्मणा। एष पन्थाः सुयोधानां सर्वामरगणेष्वपि।। यः कृते हन्यते भर्तुः स पुमान्स्वर्गमृच्छति॥ अद्य देवगणाः सर्वे लोकपाला महर्षयः। हतमिन्द्रजितं दृष्ट्वा सुखं स्वप्स्यन्ति निर्भयाः॥ अद्य लोकास्त्रयः कृत्स्ना पृथिवी च सकानना। एकेनेन्द्रजिता हीना शून्येव प्रतिभाति मे॥ अद्य नैर्ऋतकन्यानां श्रोष्याम्यन्तःपुरे रवम्। करेणुसङ्घस्य यथा निनादं गिरिगह्वरे॥ यौवराज्यं च लङ्कां च रक्षांसि च परंतप। मातरं मां च भार्याश्च क्व गतोऽसि विहाय नः॥ मम नाम त्वया वीर गतस्य यमसादनम्। प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे॥ स त्वं जीवति सुग्रीवे लक्ष्मणे न च राघवे। मम शल्यमनुढत्य क्व गतोऽसि विहाय नः॥ एवमादिविलापात रावणं राक्षसाधिपम्। आविवेश महान्कोपः पुत्रव्यसनसंभवः॥ प्रकृत्या कोपनं ह्येनं पुत्रस्य पुनराधयः। दीप्तं संदीपयामासुर्धर्मेऽर्कमिव रश्मयः॥ कोपाद्विजृम्भमाणस्य वक्राव्यक्तमिव ज्वलन्। उत्पपात सधूमाग्निवृत्रस्य वदनादिव॥ स पुत्रवधसंतप्तः शूरः क्रोधवशं गतः। समीक्ष्य रावणो बुद्ध्या वैदेहा रोचयद्वधम्॥ तस्य प्रकृत्या रक्ते च रक्ते क्रोधाग्निनापि च। रावणस्य महाघोरे दीप्ते नेत्रे बभूवतुः।२०।। घोरं प्रकृत्या रूपं तत्तस्य क्रोधाग्निमूर्च्छितम्। बभूव रूपं क्रुद्धस्य रुद्रस्येव व्यवस्थितम्॥ तस्य कृद्धस्य नेत्राभ्यां प्रापतनशुबिन्दवः। दीपाभ्यामिव दीप्ताभ्यां साचिषः स्नेहबिन्दवः॥ दन्तान्विदशतस्तस्य श्रूयते दशनस्वनः। यन्त्रस्याकृष्यमाणस्य मध्नतो दानवैरिव ॥ कालाग्निरिव संक्रुद्धो यां यां दिशमवैक्षत। तस्यां तस्यां भयत्रस्ता राक्षसाः संविलिल्यिरे।। तमन्तकमिव क्रुद्धं चराचरचिखादिषुम्। वीक्षमाणं दिशः सर्वा राक्षसा नोपचक्रमुः॥ ततः परमसंक्रुद्धो रावणो राक्षसाधिपः। अब्रवीद्रक्षसां मध्ये संस्तम्भयिषुराहवे॥ मया वर्षसहस्राणि चरित्वा परमं तपः। तेषु तेष्ववकाशेषु स्वयंभूः परितोषितः॥ तस्यैव तपसा व्युष्ट्या प्रसादाच्च स्वयंभुवः। नासुरेभ्यो न देवेभ्यो भयं मम कदाचन॥। कवचं ब्रह्मदत्तं मे यदादित्यसमप्रभम्। देवासुरविमर्देषु न छिन्नं वज्रमुष्टिभिः॥ तेन मामद्य संयुक्तं रथस्थमिह संयुगे। प्रतीयात्कोऽद्य मामाजौ साक्षादपि पुरन्दरः॥ यत्तदाभिप्रसन्नेन सशरं कार्मुकं महत्। देवासुरविमर्देषु मम दत्तं स्वयंभुवा॥ अद्य तूर्यशतैर्भीमं धनुरुत्थाप्यतां मम। रामलक्ष्मणयोरेव वधाय परमाहवे॥ स पुत्रवधसंतप्तः क्रूरः क्रोधवशं गतः। समीक्ष्य रावणो बुद्ध्या सीतां हन्तुं व्यवस्यत॥ प्रत्यवेक्ष्य तु ताम्राक्षः सुघोरो घोरदर्शनः। दीनो दीनस्वरान्सांस्तानुवाच निशाचरान्॥ मायया मम वत्सेन वञ्चनार्थ वनौकसाम्। किंचिदेव हतं तत्र सीतेयमिति दर्शितम्॥ तदिदं तथ्यमेवाहं करिष्ये प्रियमात्मनः। वैदेहीं नाशयिष्यामि क्षत्रबन्धुमनुव्रताम्।। इत्येवमुक्त्वा सचिवान्खङ्गमाशु परामृशत्॥ उत्प्लुत्य गुणसंपन्नं विमलाम्बरवर्चसम्। निष्पपात स वेगेन सभार्यः सचिवैर्वृतः॥ रावणः पुत्रशोकेन भृशमाकुलचेतनः। संक्रुद्धः खङ्गमादाय सहसा यत्र मैथिली॥ व्रजन्तं राक्षसं प्रेक्ष्य सिंहनादं विचुक्रुशुः। ऊचुश्चान्योन्यमालिङ्गय संक्रुद्धं प्रेक्ष्य राक्षसम्॥ अद्यैनं तावुभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः। लोकपाला हि चत्वारः क्रुद्धेनानेन निर्जिताः।। बहवः शत्रवश्चान्ये संयुगेष्वभिपातिताः॥ त्रिषु लोकेषु रत्नानि भुङ्क्ते आहृत्य रावणः। विक्रमे च बले चैव नास्त्यस्य सदृशो भुवि॥ तेषां संजल्पमानानामशोकवनिकां गताम्। अभिदुद्राव वैदेहीं रावणः क्रोधमूर्च्छितः॥ वार्यमाणः सुसंस्क्रुद्धः सुहृद्भिर्हितबुद्धिभिः। अभ्यधावत संक्रुद्धः खे ग्रहो रोहिणीमिव।॥ मैथिली रक्ष्यमाणा तु राक्षसीभिरनिन्दिता। ददर्श राक्षसं क्रुद्धं निस्त्रिंशवरधारिणम् ॥ तं निशम्य सनिस्त्रिंश व्यथिता जनकात्मजा। निवार्यमाणं बहुशः सुहृद्भिरनिवर्तिनम्॥ सीता दुःखसमाविष्टा विलपन्तीदमब्रवीत्। यथायं मामभिक्रुद्धः समभिद्रवति स्वयम्।। वधिष्यति सनाथां मामनाथामिव दुर्मतिः॥ बहुशश्चोदयामास भर्तारं मामनुव्रताम्। भार्या मम भवस्वेति प्रत्याख्यातो ध्रुवं मया॥ सोऽयं मामनुपस्थाने व्यक्तं नैराश्यमागतः। क्रोधमोहसमाविष्टो व्यक्तं मां हन्तुमुद्यतः॥ अथवा तौ नरव्याघ्रौ भ्रातरौ रामलक्ष्मणौ। मन्निमित्तमनार्येण समरेऽद्य निपातितौ॥ भैरवो हि महानादो राक्षसानां श्रुतो भया। बहूनामिह हृष्टानां तथा विक्रोशतमां प्रियम्॥ अहो धिङ्मन्निमित्तोऽयं विनाशो राजपुत्रयोः। अथवा पुत्रशोकेन अहत्वा रामलक्ष्मणौ॥ विधमिष्यति मां रौद्रो राक्षसः पापनिश्चयः। हनूमतस्तु तद्वाक्यं न कृतं क्षुद्रया मया॥ यद्यहं तस्य पृष्ठेन तदायासमनिर्जिता। नाद्यैवमुशोचेयं भर्तुरङ्कगता सती॥ मन्ये तु हृदयं तस्याः कौसल्यायाः फलिष्यति। एकपुत्रा यदा पुत्रं विनष्टं श्रोष्यते युधि ॥ सा हि जन्म च बाल्यं च यौवनं च महात्मनः। धर्मकार्याणि रूपं च रुदती संस्मरिष्यति॥ निराशा निहते पुत्रे दत्त्वा श्राद्धमचेतना। अग्निमावेक्ष्यते नूनमपो वापि प्रवेक्ष्यति॥ धिगस्तु कुब्जामसती मन्थरां पापनिश्चयाम्। यनिमित्तमिमं शोकं कौसल्या प्रतिपत्स्यते॥ इत्येवं मैथिली दृष्ट्वा विलपन्तीं तपस्विनीम्। रोहिणीमिव चन्द्रेण विना ग्रहवशं गताम्॥ एतस्मिन्नन्तरे तस्य अमात्यः शीलवञ्छुचिः। सुपार्थो नाम मेधावी रावणं रक्षसां वरम्।। निवार्यमाणः सचिवैरिदं वचनमब्रवीत्॥ कथं नाम दशग्रीव साक्षाद्वैश्रवणानुज। हन्तुमिच्छसि वैदेही क्रोधाद्धर्ममपास्य च॥ वेदविद्याव्रतस्नातः स्वकर्मनिरतस्तथा। स्त्रियः कस्माद्वधं वीर मन्यसे राक्षसेश्वर॥ मैथिली रूपसंपन्नां प्रत्यवेक्षस्व पार्थिव । तस्मिन्नेव सहास्माभिराहवे क्रोधमुत्सृज॥ अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशी। कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः॥ शूरो धीमारथी खङ्गी रथप्रवरमास्थितः। हत्वा दाशरथिं भीमं भवान्प्राप्स्यति मैथिलीम्॥ स तदुरात्मा सुहृदा निवेदितं वचः सुधयं प्रतिगृह्य रावणः। गृहं जगामाथ ततश्च वीर्यवान् पुनः सभां च प्रययौ सुहृद्वृतः॥ स प्रविश्य सभां राजा दीनः परमदुःखितः। निषसादासने मुख्ये सिंहः क्रुद्ध इव श्वसन्॥ अब्रवीच्च स तान्सर्वान्बलमुख्यान्महाबलः। रावणः प्राञ्जलिर्वाक्यं पुत्रव्यसनकर्शितः॥ सर्वे भवन्तः सर्वेण हस्त्यश्वेन समावृताः। निर्यात रथसङ्घश्च हस्त्यश्वैश्चोपशोभिताः॥ एकं रामं परिक्षिप्य समरे हन्तुमर्हथ। प्रहृष्टाः शरवर्षाणि प्रावृट्काल इवाम्बुदाः॥ अथवाहं शरैस्तीक्ष्णैभिन्नगात्रं महाहवे। भवद्भिः श्वो निरन्तास्मि रामं लोकस्य पश्यतः॥ इत्येतद्वाक्यमादाय राक्षसेन्द्रस्य राक्षसाः। निर्ययुस्ते रथैः शीघे नानीकैश्च संयुताः॥ परिघान्पट्टिशांश्चैव शरखङ्गपरश्वधान्। शरीरान्तकरान्सर्वे चिक्षिपुर्वानरान्प्रति।। वानराश्च द्रुमाञ्छैलानराक्षसान्प्रति चिक्षिपुः॥ स संग्रामो महाभीमः सूर्यस्योदयनं प्रति। रक्षसां वानराणां च तुमुलः समपद्यत।।।। ते गदाभिश्च चित्राभिः प्रासैः खङ्गैः परश्वधैः। अन्योन्यं समरे जघ्नुस्तदा वानरराक्षसाः।९।। एवं प्रवृत्चे संग्रामे ह्यद्भुतं सुमहद्रजः। रक्षसां वानराणां च शान्तं शोणितविस्रवैः॥ मातंगरथकूलाश्च शरमत्स्या ध्वजदुमाः। शरीरसंघाटवहाः प्रसस्नुः शोणितापगाः॥ ततस्ते वानराः सर्वे शोणितौघपरिप्लुताः। ध्वजवर्मरथानश्वान्नानाप्रहरणानि च।। आप्लुत्याप्लुत्य समरे वानरेन्द्रा बभञ्जिरे॥ केशान्कर्णललाटं च नासिकाश्च प्लवंगमाः। रक्षसां दशनैस्तीक्ष्णैर्नखैश्चापि व्यकर्तयन्॥ एकैकं राक्षसं संख्ये शतं वानरपुङ्गवाः। अभ्यधावन्त पतितं वृक्षं शकुनयो यथा॥ तदा गदाभिर्गुर्वीभिः प्रासैः खङ्गैः परश्वधैः। निर्जघ्नुर्वानरान्घोराराक्षसाः पर्वतोपमाः॥ राक्षसैर्वध्यमानानां वानराणां महाचमूः। शरण्यं शरणं याता रामं दशरथात्मजम्॥ ततो रामो महातेजा धनुरादाय वीर्यवान्। प्रविश्य राक्षसं सैन्यं शरवर्ष ववर्ष च॥ प्रविष्टं तु तदा रामं मेघाः सूर्यमिवाम्बरे। नाधिजग्मुर्महाघोरा निर्दहन्तं शराग्निना॥ कृतान्येव सुघोराणि रामेण रजनीचराः। रणे रामस्य ददृशुः कर्माण्यसुकाराणि ते॥ चालयन्तं महासैन्यं विधमन्तं महारथान्। ददृशुस्तेन वै रामं वातं वनगतं यथा॥ छिन्नं भिन्नं शरैर्दग्धं प्रभग्नं शस्त्रपीडितम्। बलं रामेण ददृशुर्न रामं शीघ्रकारिणम्॥ प्रहरन्तं शरीरेषु न ते पश्यन्ति राघवम्। इन्द्रियार्थेषु तिष्ठन्तं भूतात्मानामिव प्रजाः॥ एष हन्ति गजानीकमेष हन्ति महारथान्। एष हन्ति शरैस्तीक्ष्णैः पदातीन्वाजिभिः सह॥ इति ते राक्षसाः सर्वे रामस्य सदृशारणे। अन्योन्यं कुपिता जघ्नुः सादृश्याद्राघवस्य तु॥ न ते ददृशिरे रामं दहन्तमपि वाहिनीम्। मोहिताः परमात्रेण गान्धर्वेण महात्मना॥ ते तु रामसहस्राणि रणे पश्यन्ति राक्षसाः। पुनः पश्यन्ति काकुत्स्थमेकमेव महाहवे॥ भ्रमन्ता काञ्चनी कोटिं कार्मुकस्य महात्मनः। अलातचक्रप्रतिमां ददृशुस्ते न राघवम्॥ शरीरनाभिसत्वार्चिः शरीरं नेमिकार्मुकम्। ज्याघोषतलनिर्घोषं तेजोबुद्धिगुणप्रभम्॥ दिव्यास्त्रगुणपर्यन्तं निघ्नन्तं युधि राक्षसान्। ददृशू रामचक्रं तत्कालचक्रमिव प्रजाः॥ अनीकं दशसाहस्रं रथानां वातरंहसाम्। अष्टादश सहस्राणि कुञ्जराणां तरस्विनाम्।।३० चतुर्दश सहस्राणि सारोहाणां च वाजिनाम्। पूर्णे शतसहस्रे द्वे राक्षसानां पदातिनाम्॥ दिवसस्याष्टभागेन शरैरग्निशिखोपमैः। हतान्येकेन रामेण रक्षसां कामरूपिणाम्॥ ते हताश्वा हतरथाः शान्ता विमथितध्वजाः। अभिपेतुः पुरीं लङ्कां हतशेषा निशाचराः॥ हतैर्गजपदात्यश्वैस्तद्वभूव रणाजिरम्। आक्रीडभूमिः क्रुद्धस्य रुद्रस्येव महात्मनः॥ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। साधुसाध्विति रामस्य तत्कर्म समपूजयन्॥ अब्रवीच्च तदा राम सुग्रीवं प्रत्यनन्तरम्। विभीषणं च धर्मात्मा हनूमन्तं च वानरम्॥ जाम्बवन्तं हरिश्रेष्ठं मैन्दं द्विविदमेव च। एतदत्रबलं भीमं मम वा त्र्यम्बकस्य वा॥ निहत्य तां राक्षसराजवाहिनी रामस्तदा शक्रसमो महात्मा।। अस्त्रेषु शस्त्रेषु जितक्लमश्च संस्तूयते देवगणैः प्रहृष्टैः॥ तानि नागसहस्राणि सारोहाणि च वाजिनाम्। रथानां त्वग्निवर्णानां सध्वजानां सहस्रशः॥ राक्षसानां सहस्राणि गदापरिघयोधिनाम्। काञ्चनध्वजचित्राणां शूराणां कामरूपिणाम्॥ निहतानि शरैर्दीपैस्तप्तकाञ्चनभूषणैः। रावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा॥ दृष्ट्वा श्रुत्वा च संभ्रान्ता हतशेषा निशाचराः। राक्षस्यश्च समागम्य दीनाश्चिन्तापरिप्लुताः॥ विधवा हतपुत्राश्च क्रोशन्त्यो हतबान्धवाः। राक्षस्यः सह संगम्य दुःखार्ताः पर्यदेवयन्॥ कथं शूर्पणखा वृद्धा कराला निर्णतोदरी। आससाद वने रामं कंदर्पसमरूपिणम्॥ सुकुमारं महासत्त्वं सर्वभूतहिते रतम्। तं दृष्ट्वा लोकवध्या स हीनरूपा प्रकामिता॥ कथं सर्वगुणैींना गुणवन्तं महोजसम्। सुमुखं दुर्मुखी रामं कामयामास राक्षसी॥ जनस्यास्याल्पभाग्यत्वाद्वलिनी श्वेतमूर्धजा। अकार्यमपहास्यं च सर्वलोकविगर्हितम्॥ राक्षसानां विनाशाय दूषणस्य खरस्य च। चकाराप्रतिरूपा सा राघवस्य प्रधर्षणम्॥ तन्निमित्तमिदं वैरं रावणेन कृतं महत्। वधाय सीता सा नीता दशग्रीवेण रक्षसा॥ न च सीतां दशग्रीवः प्राप्नोति जनकात्मजाम्। बद्धं बलवता वैरमक्षयं राघवेण च ॥ वैदेही प्रार्थयानं तं विराधं प्रेक्ष्य राक्षसम्। हतमेकेन रामेण पर्याप्तं तन्निदर्शनम्॥ चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्। निहतानि जनस्थाने शरैरग्निशिखोपमैः॥ खरश्च निहतः संख्ये दूषणः स्त्रिशिरास्तथा। शरैरादित्यसंकाशैः पर्याप्तं तन्निदर्शनम् ॥ हतो योजनबाहुश्च कबन्धो रुधिराशनः। क्रोधान्नादं नदन्सोऽथ पर्याप्तं तन्निदर्शनम्॥ जघान बलिनं रामः सहस्रनयनात्मजम्। वालिनं मेघसंकाशं पर्याप्तं तन्निदर्शनम्॥ ऋष्यमूके वसंश्चैव दीनो भग्नमनोरथः। सुग्रीवः प्रापितो राज्यं पर्याप्तं तन्निदर्शनम् ॥ धर्मार्थसहितं वाक्यं सर्वेषां रक्षसां हितम्। युक्तं विभीषणेनोक्तं मोहात्तस्य न रोचते॥ विभीषणवचः कुर्याद्यदि स्म धनदानुजः। श्मशानभूता दुःखार्ता नेयं लङ्का भविष्यति॥ कुम्भकर्णं हतं श्रुत्वा राघवेण महाबलम्। अतिकायं च दुर्मर्ष लक्ष्मणेन हतं तदा।। प्रियं चेन्द्रजितं पुत्रं रावणो नावबुद्ध्यते॥ मम पुत्रो मम भ्राता मम भर्ता रणे हतः। इत्येष श्रूयते शब्दो राक्षसीनां कुले कुले॥ रथाश्वनागाश्च हतास्तत्र तत्र सहस्रशः। रणे रामेण शूरेण हताश्चापि पदातयः॥ रुद्रो वा यदि वा विष्णुर्महेन्द्रो वा शतक्रतुः। हन्ति नो रामरूपेण यदि वा स्वयमन्तकः॥ हतप्रवीरा रामेण निराशा जीविते वयम्। अपश्यन्त्यो भयस्यान्तमनाथा विलपामहे ॥ रामहस्ताद्दशग्रीवः शूरो दत्तमहावरः। इदं भयं महाघोरं समुत्पन्नं न बुद्ध्यते।२६।। तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः। उपसृष्टं परित्रातुं शक्ता रामेण संयुगे॥ उत्पाताश्चापि दृश्यन्ते रावणस्य रणे रणे। कथयन्ति हि रामेण रावणस्य निबर्हणम्॥ पितामहेन प्रीतेन देवदानवराक्षसैः। रावणस्याभयं दत्तं मनुष्येभ्यो न याचितम्॥ तदिदं मानुषं मन्ये प्राप्तं निःसंशयं भयम्। जीवितान्तकरं घोरं रक्षसां रावणस्य च॥ पीड्यमानास्तु बलिना वरदानेन रक्षसा। दीप्तैस्तपोभिर्विबुधाः पितामहपूजयन् ॥ देवतानां हितार्थाय महात्मा वै पितामहः। उवाच देवतास्तुष्ट इदं सर्वा महद्वचः॥ अद्यप्रभृति लोकांस्त्रीन्सर्वे दानवराक्षसाः। भयेन प्रभृता नित्यं विचरिष्यन्ति शाश्वतम्॥ दैवतैस्तु समागम्य सर्वेश्चन्द्रपुरोगमैः। वृषध्वजस्त्रिपुरहा महादेवः प्रतोषितः॥ प्रसन्नस्तु महादेवो देवानेतद्वचोऽब्रवीत्। उत्पत्स्यति हितार्थं वो नारी रक्षःक्षयावहा॥ एषा देवैः प्रयुक्ता तु क्षुद्यथा दानवान्पुरा। भक्षयिष्यति नः सर्वान्राक्षसघ्नी सरावणान्॥ रावणस्यापनीतेन दुविनीतस्य दुर्मतेः। अयं निष्टानको घोरः शोकेन समभिप्लुतः॥ तं न पश्यामहे लोके यो नः शरणदो भवेत्। राघवेणोपसृष्टानां कालेनेव युगक्षये॥ नास्ति नः शरणः किंचिद्भये महति तिष्ठताम्। दावाग्निवेष्टितानां हि करेणूनां यथा वने॥ प्राप्तकालं कृतं तेन पौलस्त्येन महात्मना। यत एव भयं दृष्टं तमेव शरणं गतः॥ इतीव सर्वा रजनीचरस्त्रियः परस्परं संपरिरभ्य बाहुभिः। विषेदुरार्तातिभयाभिपीडिता विनेदुरुच्चैश्च तदा सुदारुणम्॥ आर्तानां राक्षसीनां तु लङ्कायां वै कुले कुले। रावणः करुणं शब्दं शुश्राव परिदेवितम्॥ स तु दीर्घ विनिःश्वस्य मुहूर्तं ध्यानमास्थितः। बभूव परमक्रुद्धो रावणो भीमदर्शनः॥ संदश्य दशनैरोष्ठं क्रोधसंरक्तलोचनः। राक्षसैरपि दुर्दर्शः कालाग्निरिव मूर्तिमान् ॥ उवाच च समीपस्थानराक्षसान्राक्षसेश्वरः। क्रोधाव्यक्तकथस्तत्र निर्दहत्रिव चक्षुषा ॥ महोदरं महापार्श्व विरूपाक्षं च राक्षसम्। शीघ्रं वदत सैन्यानि निर्यातेति ममाज्ञया॥ तस्य तद्वचनं श्रुत्वा राक्षसास्ते भयार्दिताः। चोदयामासुरव्यग्रान्राक्षसांस्तानृपाज्ञया ॥ ते तु सर्वे तथेत्युक्त्वा राक्षसा भीमदर्शनाः। कृतस्वस्त्ययनाः सर्वे ते रणाभिमुखा ययुः॥ प्रतिपूज्य यथान्यायं रावणं ते महारथाः। तस्थुः प्राञ्जलयः सर्वे भर्तुर्विजयकाङ्गिणः॥ ततोवाच प्रहस्यैतान्रावणः क्रोधमूर्च्छितः। महोदरमहापार्टी विरूपाक्षं च राक्षसम्॥ अद्य बाणैर्धनुर्मुक्तैर्युगान्तादित्यसंनिभैः। राघवं लक्ष्मणं चैव नेष्यामि यमसादनम्॥ खरस्य कुम्भकर्णस्य प्रहस्तेन्द्रजितोस्तथा। करिष्यामि प्रतीकारमद्य शत्रुवधादहम्॥ नैवान्तरिक्षं न दिशो न च द्यौर्नापि सागराः। प्रकाशत्वं गमिष्यन्ति मद्वाणजलदावृताः॥ अद्य वानरमुख्यानां तानि यूथानि भागशः। धनुषा शरजालेन वधिष्यामि पतत्रिणा॥ अद्य वानरसैन्यानि रथेन पवनौजसा। धनुःसमुद्रादुद्भूतैर्मथिष्यामि शरोमिभिः ॥ व्याकोशपद्मवक्राणि पद्मकेसरवर्चसाम्। अद्य यूथतटाकानि गजवत्प्रमथाम्यहम्॥ सशरैरद्य वदनैः संख्ये वानरयूथपाः। मण्डयिष्यन्ति वसुधां सनालैरिव पङ्कजैः॥ अद्य यूथप्रचण्डानां हरीणां दुमयोधिनाम्। मुक्तेनैकेषुणा युद्धे भेत्स्यामि च शतं शतम्॥ हतो भ्राता च येषां वै येषां च तनयो हतः। वधेनाद्य रिपोस्तेषां करोम्यश्रुप्रमार्जनम्॥ अद्य महद्वाणनिर्भिन्नः प्रस्तीर्णैर्गतचेतनैः। करोमि वानरैयुद्धे यत्नावेक्ष्यतलां महीम्॥ अद्य काकाश्च गृध्राश्च ये च मांसाशिनोऽपरे। सर्वांस्तांस्तर्पयिष्यामि शत्रुमांसैः शराहतैः॥ कल्प्यतां मे रथः शीघ्रं क्षिप्रमानीयतां धनुः। अनुप्रयान्तु मां युद्धे येऽत्र शिष्टा निशाचराः॥ तस्य तद्वचनं श्रुत्वा महापार्योऽब्रवीद्वचः। बलाध्यक्षान्स्थितांस्तत्र बलं संत्वर्यतामिति॥ बलाध्यक्षास्तु संयुक्ता राक्षसांस्तानगृहे गृहे। चोदयन्तः परिययुर्लङ्कां लघुपराक्रमाः॥ ततो मुहूर्तानिष्पेतू राक्षसा भीमदर्शनाः। नदन्तो भीमवदना नानाप्रहरणैर्भुजैः॥ असिभिः पट्टिशैः शूलैर्गदाभिर्मुसलैर्हलैः। शक्तिभिस्तीक्ष्णधाराभिर्महद्भिः कूटमुद्गरैः॥ यष्टिभिर्विविधैश्च निशितैश्च परश्वधैः। भिन्दिपालैः शतघ्नीभिरन्यैश्चापि वरायुधैः॥ अथानयन्बलाध्यक्षाश्चत्वारो रावणाज्ञया। रथानां नियुतं साग्रं नागानां नियुतत्रयम्॥ अश्वानां षष्टिकोट्यस्तु खरोष्ट्राणां तथैव च। पदातयस्त्वसंख्याता जग्मुस्ते राजशासनात्।।२८ बलाध्यक्षाश्च संस्थाप्य राज्ञः सेनां पुरस्थिताम्। एतस्मिनन्तरे सूतः स्थापयामास तं रथम्॥ दिव्यास्त्रवरसंपन्नं नानालंकारभूषितम्। नानायुधसमाकीर्णं किङ्किणीजालसंयुतम्॥ नानारत्नपरिक्षिप्तं रत्नस्तम्भैर्विराजितम्। जाम्बूनदमयैश्चैव सहस्रकलशैर्वृतम् ॥ तं दृष्ट्वा राक्षसाः सर्वे विस्मयं परमं गताः। तं दृष्ट्वा सहसोत्थाय रावणो राक्षसेश्वरः॥ कोटिसूर्यप्रतीकाशं ज्वलन्तमिव पावकम्। द्रुतं सूतसमायुक्तं युक्ताष्टतुरगं रथम्।। आरुरोह तदा भीमं दीप्यमानं स्वतेजसा ॥ ततः प्रयातः सहसा राक्षसैर्बहुभिर्वृतः। रावणः सत्त्वगाम्भीर्याद्दारयन्निव मेदिनीम्॥ ततश्चासीन्महानादस्तूर्याणां च ततस्ततः। मृदङ्गैः पटहैः शङ्खः कहलैः सह रक्षसाम्॥ आगतो रक्षसां राजा छत्रचामरसंयुतः। सीतापहारी दुर्वृत्तो ब्रह्मघ्नो देवकण्टकः।। योद्धं रघुवरेणेति शुश्रुवे कलहध्वनिः॥ तेन नादेन महता पृथिवी समकम्पत। तं शब्दं सहसा श्रुत्वा वानरा दुद्रुवुर्भयात्॥ रावणस्तु महाबाहुः सचिवैः परिवारितः। आजगाम महातेजा जयाय विजयं प्रति॥ रावणेनाभ्यनुज्ञातौ महापार्श्वमहोदरौ। विरूपाक्षश्च दुर्धर्षो रथानारुरुहुस्तदा॥ ते तु हृष्टाभिनर्दन्तो भिन्दन्त इव मेदिनीम्। नादं घोरं विमुञ्चन्तो निर्ययुर्जयकाङ्गिणः॥ ततो युद्धाय तेजस्वी रक्षोगणबलैर्वृतः। निर्ययावुद्यतधनुः कालान्तकयमोपमः॥ ततः प्रजविताश्वेन रथेन स महारथः। द्वारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ।॥ ततो नष्टप्रभः सूर्यो दिशश्च तिमिरावृताः। द्विजाश्च नेदुर्घोराश्च संचचाल च मेदिनी॥ ववर्ष रुधिरं देवश्चस्खलुश्च तुरंगमाः। ध्वजाग्रे न्यपतद्गृध्रो विनेदुश्चाशिवाः शिवाः॥ नयनं चास्फुरद्वामं वामो बाहुरकम्पत। विवर्णवदनश्चासीत्किचिदभ्रश्यत स्वनः॥ ततो निष्पपतो युद्धे दशग्रीवस्य रक्षसः। रणे निधनशंसीनि रूपाण्येतानि जज्ञिरे।४।। अन्तरिक्षात्पपातोल्का निर्घातसमनि:स्वना। विनेदुरशिवा गृध्रा वायसैरभिमिश्रिताः॥ एतानचिन्तयन्घोरानुत्पातान्समवस्थितान्। निर्ययौ रावणो मोहाद्वधार्थ कालचोदितः।०८।। तेषां तु रथघोषेण राक्षसानां महात्मनाम्। वानराणामपि चमूर्युद्धायैवाभ्यवर्तत।। अन्योन्याह्वयानानां कृद्धानां जयमिच्छताम्॥ ततः कृतो दशग्रीवः शरैः काञ्चनभूषणैः। वानराणामनीकेषु चकर कदनं महत्॥ निकृत्तशिरसः केचिद्रावणेन वलीमुखाः। केचिद्विच्छत्रहृदयाः केचिच्छ्रोत्रविवर्जिताः॥ निरुच्छासा हताः केचित्केचित्पार्श्वेषु दारिताः। केचिद्विभिन्नशिरसः केचिच्चक्षुर्विनाकृताः॥ दशाननः क्रोधविवृत्तनेत्रो यतो यतोऽभ्येति रथेन संख्ये। ततस्ततस्तस्य शरप्रवेगं सोढुं न शेकुर्हरियूथपास्ते॥ तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः। बभूव वसुधा तत्र प्रकीर्णा हरिभिस्तदा॥ रावणस्याप्रसह्यं तं शरसंपातमेकतः। न शेकुः सहितुं दीप्तं पतङ्गा ज्वलनं यथा॥ तेऽदिता निशितैर्बाणैः क्रोशन्तो विप्रदुद्रुवुः। पावकार्चिः समाविष्टा दह्यमाना यथा गजाः॥ प्लवंगानामनीकानि महाभ्राणीव मारुतः। संययौ समरे तस्मिन्विधमन्रावणः शरैः॥ कदनं तरसा कृत्वा राक्षसेन्द्रो वनौकसाम्। आससाद ततो युद्धे त्वरितं राघवं रणे॥ सुग्रीवस्तान्कपीन्दृष्ट्वा भग्नान्विद्रादितारणे। गुल्मे सुषेणं निक्षिप्य चक्रे युद्धे द्रुतं मनः॥ आत्मनः सदृशं वीरं स तं निक्षिप्य वानरम्। सुग्रीवोऽभिमुखं शत्रु प्रतस्थे पादपायुधः॥ पार्श्वतः पृष्ठतश्चास्य सर्वे वानरयूथपाः। अनुजग्मुर्महाशैलान्विविधांश्च वनस्पतीन् ॥ ननद युधि सुग्रीवः स्वरेण महता महान्। पोथयन्विविधांश्चान्यान्ममन्थोत्तमराक्षसान्।।।। ममर्द च महाकायो राक्षसान्वानरेश्वरः। युगान्तसमये वायुः प्रवृद्धानगमानिव ॥ राक्षसानामनीकेषु शैलवर्ष ववर्ष ह। अश्मवर्ष यथा मेघः पक्षिसङ्केषु कानने॥ कपिराजविमुक्तैस्तैः शैलवस्तु राक्षसाः। विकर्णशिरस: पेतुर्विकीर्णा इव पर्वताः॥ अथ संक्षीयमाणेषु राक्षसेषु समन्ततः। सुग्रीवेण प्रभग्नेषु नदत्सु च पतत्सु च ॥ विरूपाक्षः स्वकं नाम धन्वी विश्राव्य राक्षसः। रथादाप्लुत्य दुर्धर्षो गजस्कन्धमुपारुहत् ॥ स तं द्विपमथारुह्य विरूपाक्षो महाबलः। ननद भीमनिर्हादं वानरानभ्यधावत॥ सुग्रीवे स शरान्घोरान्विससर्ज चमूमुखे। स्थापयामास चोद्विग्नानराक्षसान्संप्रहर्षयन्॥ सोऽतिविद्धः शितैर्बाणैः कपीन्द्रस्तेन रक्षसा। चुक्रोश च महाक्रोधो वधे चास्य मनो दधे ॥ ततः पादपमुद्धृत्य शूरः संप्रधनो हरिः। अभिपत्य जघानास्य प्रमुखे तं महागजम्॥ स तु प्रहाराभिहतः सुग्रीवेण महागजः। अपासर्पद्धनुर्मानं निषसाद ननाद च॥ गजातु मथितात्तूर्णमपक्रम्य स वीर्यवान्। राक्षसोऽभिमुखः शत्रु प्रत्युद्गम्य ततः कपिम्॥ आर्षभं चर्म खङ्गं च प्रगृह्य लघुविक्रमः। भर्त्सयत्रिव सुग्रीवमाससाद व्यवस्थितम्॥ स हि तस्यापि संगृह्य प्रगृह्य विपुलां शिलाम्। विरूपाक्षस्य चिक्षेप सुग्रीवो जलदोपमाम्॥ स तां शिलामापतन्ती दृष्ट्वा राक्षसपुङ्गवः। अपक्रम्य सुविक्रान्तः खङ्गेन प्राहरत्तदा॥ तेन खङ्गप्रहारेण रक्षसा बलिना हतः। मुहूर्तमभवद्भूमौ विसंज्ञ इव वानरः॥ सहसा स तदोत्पत्य राक्षसस्य महहावे। मुष्टिं संवर्त्य वेगेन पातयामास वक्षसि ॥ मुष्टिप्रहाराभिहतो विरूपाक्षो निशाचरः। तेन खङ्गेन संक्रुद्धः सुग्रीवस्य चमूमुखे ॥ कवचं पातयामास पद्भ्यामभिहतोऽपतत्। स समुत्थाय पतितः कपिस्तस्य व्यसर्जयत्॥ तलप्रहारमशनेः समानं भीमनि:स्वनम्। तलप्रहारं तद्रक्षः सुग्रीवेण समुद्यतम्॥ नैपुण्यान्मोचयित्वैनं मुष्टिनोरसि ताडयत्। ततस्तु संक्रुद्धतरः सुग्रीवो वानरेश्वरः॥ मोक्षितं चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा। स ददर्शान्तरं तस्य विरूपाक्षस्य वानरः॥ ततोऽन्यं पातयत्क्रोधाच्छङ्खदेशे महातलम् । महेन्द्राशनिकल्पेन तलेनाभिहतः क्षितौ ॥ पपात रुधिरक्लिन्नः शोणितं हि समुगिरन्। स्रोतोभ्यस्तु विरूपाक्षो जलं प्रस्रवणादिव॥ विवृत्तनयनं क्रोधात्सफेनं रुधिराप्लुतम्। ददृशुस्ते विरूपाक्षं विरूपाक्षतरं कृतम्॥ स्फुरन्तं परिवर्तन्तं पार्श्वेन रुधिरोक्षितम्। करुणं च विनर्दन्तं ददृशुः कपयो रिपुम्॥ तथा तु तौ संयति संप्रयुक्तौ तरस्विनौ वानरराक्षसानाम्। बलार्णवौ सस्वनतुश्च भीमौ महार्णवौ द्वाविव भिन्नसेतू॥ विनाशितं प्रेक्ष्य विरूपनेत्रं महाबलं तं हरिपार्थिवेन। मुद्वृत्तगङ्गाप्रतिमं बभूव॥ हन्यमाने बले तूर्णमन्योन्यं ते महामृधे। सरसीव महाधर्मे सूपक्षीणे बभूवतुः॥ स्वबलस्य तु घातेन विरूपाक्षवधेन च। बभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः॥ प्रक्षीणं स्वबलं दृष्ट्वा बध्यमानं बलीमुखैः। बभूवास्य व्यथा युद्धे दृष्ट्वा दैवविपर्ययम्॥ उवाच च समीपस्थं महोदरमनन्तरम्। अस्मिन्काले महाबाहो जयाशा त्वयि मे स्थिता।।४ जहि शत्रुचमूं वीर दर्शयाध पराक्रमम्। भर्तृपिण्डस्य कालोऽयं निर्देष्टुं साधु युध्यताम्॥ एवमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रो महोदरः। प्रविवेशारिसेनां स पतङ्ग इव पावकम्।६॥ ततः स कदनं चक्रे वानराणां महाबलः। भर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः॥ वानराश्च महासत्त्वाः प्रगृह्य विपुलाः शिलाः। प्रविश्यारिबलं भीमं जघ्नुस्ते सर्वराक्षसान्।८॥ महोदरः सुसंक्रुद्धः शरैः काञ्चनभूषणैः। चिच्छेद पाणिपादोरु वानराणां महाहवे।९।। ततस्ते वानराः सर्वे राक्षसानां महामृधे। दिशो दश दुताः केचित्केचित्सुग्रीवमाश्रिताः॥ प्रभग्नं समरे दृष्ट्वा वानराणां महाबलम्। अभिदुद्राव सुग्रीवो महोदरमनन्तरम्॥ प्रगृह्या विपुलां घोरां महीधरसमं शिलाम्। चिक्षेप च महातेजास्तद्वधाय हरीश्वरः॥ तामापतन्तीं सहसा शिलां दृष्ट्वा महोदरः। असंभ्रान्तस्ततो बाणैर्निर्बिभेद ततः शिलाम्॥ रक्षसा तेन बाणौधैनिकृत्ता सा सहस्रधा। निपपात तदा भूमौ गृध्रचक्रमिवाकुलम्॥ तां तु भिन्नां शिलां दृष्ट्वा सुग्रीवः क्रोधमुर्छितः। सालमुत्पाट्य चिक्षेप तं स चिच्छेद नैकधा॥ शरैश्च विददारैनं शूरः परबलार्दनः। स ददर्श ततः क्रुद्धः परिषं पतितं भुवि॥ आविध्य तु स तं दीप्तं परिघं तस्य दर्शयन्। परिघेणोग्रवेगेन जघानास्य हयोचमान्॥ तस्माद्धतहयाद्वीरः सोऽवप्लुत्य महारथात्। गदां जग्राह संकृद्धो राक्षसोऽथ महोदरः॥ गदापरिघहस्तौ तौ युधि वीरौ समीयतुः। नर्दन्तौ गोवृषप्रख्यौ घनाविव सविद्युतौ॥ ततः क्रुद्धो गदां तस्य चिक्षेप रजनीचरः। ज्वलन्ती भास्कराभासां सुग्रीवाय महोदरः॥ गदां तां सुमहाघोरामापतन्तीं महाबलः। सुग्रीवो रोषताम्राक्षः समुद्यम्य महाहवे॥ आजघान गदां तस्य परिषेण हरीश्वरः। पपात तरसा भिन्नः परिघस्तस्य भूतले॥ ततो जग्राह तेजस्वी सुग्रीवो वसुधातलात्। आयसं मुसलं घोरं सर्वतो हेमभूषितम्॥ स तमुद्यम्य चिक्षेप सोऽप्यस्य प्राक्षिपगदाम्। भिन्नावन्योन्यमासाद्य पेततुस्तौ महीतले॥ ततो भिन्नाहरणौ मुष्टिभ्यां तौ समीयतुः। तेजोबलसमाविष्टौ दीप्ताविव हुताशनौ ॥ जघ्नतुस्तौ तदान्योन्यं नदन्तौ च पुनः पुनः। तलैश्चान्योन्यमासाद्य पेततुश्च महीतले॥ उत्पेततुस्तदा तूर्णं जघ्नतुश्च परस्परम्। भुजैश्चिक्षिपतुर्वीरावन्योन्यमपराजितौ॥ जग्मतुस्तौ श्रमं वीरौ बाहुयुद्धे परंतपौ। जहार च तदा खङ्गमदूरपरिवर्तिनम्॥ ततो रोषपरीताङ्गौ नदन्तावभ्यधावताम्। उद्यतासी रणे हृष्टौ युद्धे शस्त्रविशारदौ॥ दक्षिणं मण्डलं चोभौ सूतूर्णं संपरीयतुः। अन्योन्यमभिसंक्रुद्धौ जये प्रणिहितावुभौ॥ स तु शूरो महावेगो वीर्यश्लाघी महोदरः। महावर्मणि तं खङ्ग पातयामास दुर्मतिः॥ लग्नमुत्कर्षतः खङ्ग खङ्गेन कपिकुञ्जरः। जहार स शिरस्त्राणं कुण्डलोपगतं शिरः॥ निकृत्तशिरसस्तस्य पतितस्य महीतले। तलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न दृश्यते ॥ हत्वा तं वानरैः सार्धं ननाद मुदितो हरिः। चुक्रोध च दशग्रीवो बभौ हृष्टश्च राघवः॥ विषण्णवदनाः सर्वे राक्षसा दीनचेतसः। विद्रवन्ति ततः सर्वे भयवित्रस्तचेतसः॥ महोदरं तं विनिपात्य भूमौ महागिरेः कीर्ममिवैकदेशम्। सूर्यात्मजस्तत्र रराज लक्ष्म्या सूर्यः स्वतेजोभिरिवाप्रधृष्यः॥ अथ विजयमवाप्य वानरेन्द्रः समरमुखे सुरसिद्धयक्षसङ्घः। हर्षसमाकुलितैर्निरीक्षमाणः॥ महोदरे तु निहते महापार्यो महाबलः। सुग्रीवेण समीक्ष्याथ क्रोधात्संरक्तलोचनः॥ अङ्गदस्य चमू भीमा क्षोभयामास मार्गणैः। स वानराणां मुख्यानामुत्तमाङ्गानि राक्षसः॥ पातयामास कायेभ्यः फलं वृन्तादिवानिलः। केषांचिदिषुभिर्बाहूंश्चिच्छेदाथ स राक्षसः॥ वानराणां सुसंरब्धः पार्श्व केषांचिदाक्षिपत्। तेऽदिता बाणवर्षेण महापार्श्वेन वानराः॥ विषादविमुखाः सर्वे बभूवुर्गतचेतसः। निशम्य बलमुद्विग्नमङ्गदो राक्षसार्दितम्॥ वेगं चक्रे महावेगः समुद्र इव पर्वसु। आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम्॥ समरे वानरश्रेष्ठो महापाचे न्यपातयत्। तेन प्रहारेण महापाझे विचेतनः। ससूतस्यन्दनात्तस्माद्विसंजश्चापतद्भुवि।७।। तस्यक्षराजस्तेजस्वी नीलाञ्जनचयोपमः। निष्पत्य सुमहावीर्यः स्वयूथान्मेघसंनिभात्॥ प्रगृह्य गिरिशृङ्गाभां क्रुद्धः स विपुलां शिलाम्। अश्वाञ्जघान तरसा बभञ्ज स्यन्दनं च तम्॥ मुहूर्ताल्लब्धसंज्ञस्तु महापार्यो महाबलः। अङ्गदं बहुभिर्बाणैर्भूयस्तं प्रत्यविध्यत॥ जाम्बवन्तं त्रिभिर्बाणैराजघान स्तनान्तरे। ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः॥ गवाक्षं जाम्बवन्तं च स दृष्ट्वा शरपीडितौ। जग्राह परिघं घोरमङ्गदः क्रोधमूर्च्छितः॥ तस्याङ्गदः सरोषाक्षो राक्षसस्य तमायसम्। दूरस्थितस्य परिघं रविरश्मिसमप्रभम्॥ द्वाभ्यां भुजाभ्यां संगृह्या भ्रामयित्वा च वेगवत्। महापार्थाय चिक्षेप वधार्थं वालिनः सुतः॥ स तु क्षिप्तो बलवता परिघस्तस्य रक्षसः। धनुश्च सशरं हस्ताच्छिरस्त्राणं च पातयत्॥ तं समासाद्य वेगेन वालिपुत्रः प्रतापवान्। तलेनाभ्यहनत्क्रुद्धः कर्णमूले सकुण्डले॥ स तु क्रुद्धो महावेगो महापार्यो महाद्युतिः। करेणैकेन जग्राह सुमहान्तं परश्वधम्॥ तं तैलधौतं विमलं शैलसारमयं दृढम्। राक्षसः परमनुद्धो वालिपुत्रे न्यपातयत्॥ तेन वामांसफलके भृशं प्रत्यवपातितम्। अङ्गदो मोक्षयामास सरोषः सपरश्वधम्॥ स वीरो वज्रसंकाशमङ्गदो मुष्टिमात्मनः। संवर्तयत्सुसंक्रुद्धः पितुस्तुल्यपराक्रमः॥ राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयं प्रति। इन्द्राशनिसमस्पर्श स मुष्टिं विन्यपातयत्॥ तेन तस्य निपातेन राक्षसस्य महामृधे। पफाल हृदयं चास्य स पपात हतो भुवि ॥ तस्मिन्विनिहते भूमौ तत्सैन्यं संप्रचुक्षुभे। अभवच्च महान्क्रोधः समरे रावणस्य तु॥ वानराणां प्रहृष्टानां सिंहनादः सुपुष्कलः। स्फोटयन्निव शब्देन लङ्कां साट्टालगोपुराम्॥ सहेन्द्रेणेव देवानां नादः समभवन्महान्॥ अथेन्द्रशत्रुस्त्रिदशालयानां वनौकसां चैव महाप्रणादम्। श्रुत्वा सरोषं युधि राक्षसेन्द्रः पुनश्च युद्धाभिमुखोऽवतस्थे ॥ महोदरमहापाचौं हतौ दृष्ट्वा स रावणः। तस्मिंश्च निहते वीरे विरूपाक्षे महाबले॥ आविवेश महान्क्रोधो रावणं तु महामृधे। सूतं संचोदयामास वाक्यं चेदमुवाच ह।२।। निहतानाममात्यानां रुद्धस्य नगरस्य च। दुःखमेवापनेष्यामि हत्वा तौ रामलक्ष्मणौ॥ रामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम्। प्रशाका यस्य सुग्रीवो जाम्बवान्कुमुदो नलः॥ द्विविदश्चैव मैन्दश्च अङ्गदो गन्धमादनः। हनूमांश्च सुषेणश्च सर्वे च हरियूथपाः ॥ स दिशो दश घोषेण रथस्यातिरथो महान्। नादयन्प्रययौ तूर्णं राघवं चाभ्यधावत ॥ पूरिता तेन शब्देन सनदीगिरिकानना। संचचाल मही सर्वा त्रस्तसिंहमृगद्विजा ॥ तामसं सुमहाघोरं चकारास्त्रं सुदारुणम्। निर्ददाह कपीन्सवस्तेि प्रपेतुः समन्ततः॥ उत्पपात रजो भूमौ तैर्भग्नैः संप्रधावितैः। नहि तत्सहितुं शेकुर्ब्रह्मणा निर्मितं स्वयम्॥ तान्यनीकान्यनेकानि रावणस्य शरोत्तमैः। दृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः॥ ततो राक्षसशार्दूलो विद्राव्य हरिवाहिनीम्। स ददर्श ततो रामं तिष्ठन्तमपराजितम्॥ लक्ष्मणेन सह भ्रात्रा विष्णुना वासवं यथा। आलिखन्तमिवाकाशमवष्टभ्य महद्धनुः॥ पद्मपत्रविशालाक्षं दीर्घबाहुमरिंदमम्। ततो रामो महातेजाः सौमित्रिसहितो बली॥ वानरांश्च रणे भग्नानापतन्तं च रावणम्। समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम्॥ विस्फारयितुमारेभे ततः स धनुरुत्तमम्। महावेगं महानादं निर्भिन्दन्निव मेदिनीम्॥ रावणस्य च बाणौधै रामविस्फारितेन च। शब्देन राक्षसास्तेन पेतुश्च शतशस्तदा॥ तयोः शरपथं प्राप्य रावणो राजपुत्रयोः। स बभौ च यथा राहुः समीपे शशिसूर्ययोः॥ तमिच्छन्प्रथमं योद्धं लक्ष्मणो निशितैः शरैः। मुमोच धनुरायम्य शरानग्निशिखोपमान्॥ तान्मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता। बाणान्बाणैर्महातेजा रावणः प्रत्यवारयत्॥ एकमेकेन बाणेन त्रिभिस्त्रीन्दशभिर्दश। लक्ष्मणस्य प्रचिच्छेद दर्शयन्पाणिलाघवम्॥ अभ्यतिक्रम्य सौमित्रिं रावणः समितिंजयः। आससाद रणे रामं स्थितं शैलमिवापरम्॥ स राघवं समासाद्य क्रोधसंरक्तलोचनः। व्यसृजच्छरवर्षाणि रावणो राक्षसेश्वरः॥ शरधारास्ततो रामो रावणस्य धनुश्च्युताः। दृष्ट्वैवापतिताः शीघ्रं भल्लाञ्जग्राह सत्वरम्॥ ताञ्छरौघांस्ततो भल्लैस्तीक्ष्णैश्चिच्छेद राघवः। दीप्यमानान्महाघोराञ्छरानाशीविषोपमान्॥ राघवो रावणं तूर्णं रावणो राघवं तथा। अन्योन्यं विविधैस्तीक्ष्णैः शरवर्ववर्षतुः॥ चेरतुश्च चिरं चित्रं मण्डलं सव्यदक्षिणम्। बाणवेगात्समुत्क्षिप्तावन्योन्यमपराजितौ॥ तयोर्भूतानि वित्रेसुर्युगपत्संप्रयुध्यतोः। रौद्रयोः सायकमुचोर्यमान्तकनिकाशयोः॥ सततं विविधैर्बाणैर्बभूव गगनं तदा। घनैरिवातपापाये विद्युन्मालासमाकुलैः॥ गवाक्षितमिवाकाशं बभूव शरवृष्टिभिः। महावेगैः सुतीक्ष्णागृध्रपत्रैः सुवाजितैः॥ शरान्धकारमाकाशं चक्रतुः प्रथमं तदा। गतेऽस्तं तपने चापि महामेधाविवोत्थितौ ॥ तयोरभून्महायुद्धमन्योन्यवधकाङ्क्षिणोः। अनासाद्यमचिन्त्यं च वृत्रवासवयोरिव॥ उभौ हि परमेष्वासावुभौ युद्धविशारदौ। उभावस्त्रविदां मुख्यावुभौ युद्धे विचेरतुः॥ उभौ हि येन व्रजस्तेन तेन शरोर्मयः। ऊर्मयो वायुना विद्धा जग्मुः सागरयोरिव ॥ ततः संसक्तहस्तस्तु रावणो लोकरावणः। नाराचमालां रामस्य ललाटे प्रत्यमुश्चत॥ रौद्रचापप्रयुक्तां तां नीलोत्पलदलप्रभाम्। शिरसाधारयद्रामो न व्यथामभ्यपद्यत ॥ अथ मन्त्रानपि जपनरौद्रमस्त्रमुदीरयन्। शरान्भूयः समादाय रामः क्रोधसमन्वितः॥ मुमोच च महातेजाश्चापमायम्य वीर्यवान्। ताशराराक्षसेन्द्राय चिक्षेपाच्छिन्नसायकः॥ ते महामेघसंकाशे कवचे पातिताः शराः। अवध्ये राक्षसेन्द्रस्य न व्यथां जनयंस्तदा॥ पुनरेवाथ तं रामो रथस्थं राक्षसाधिपम्। ललाटे परमास्त्रेण सर्वास्त्रकुशलोऽभिनत्॥ ते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवोरगाः। श्वसन्तो विविशुर्भूमिं रावणप्रतिकूलिताः॥ निहत्य राघवस्यास्त्रं रावणः क्रोधमूर्छितः। आसुरं सुमहाघोरमन्यदत्रं चकार सः॥ सिंहव्याघ्रमुखांश्चापि कङ्ककोकमुखानपि। गृध्रश्येनमुखांश्चापि शृगालवदनांस्तथा॥ ईहामृगमुखांश्चापि व्यादितास्यान्भयावहान्। पञ्चास्याल्लेलिहानांश्च ससर्ज निशिताशरान्।॥ शरान्खरमुखांश्चान्यान्वराहमुखसंश्रितान्। श्वानकुक्कुटवक्रांश्च मकराशीविषाननान्॥ एतांश्चान्यांश्च मायाभिः ससर्ज निशिताञ्छरान्। रामं प्रति महातेजाः क्रुद्धः सर्प इव श्वसन्॥ आसुरेण समाविष्टः सोऽस्त्रेण रघुपुङ्गवः। ससर्जास्त्रं महोत्साहं पावकं पावकोपमः।४६।। अग्निदीप्तमुखान्बाणांस्तत्र सूर्यमुखानपि। चन्द्रार्धचन्द्रवक्रांश्च धूमकेतुमुखानपि।। ग्रहनक्षत्रवर्णाश्च महोल्कामुखसंस्थितान्॥ विद्युज्जिह्वोपमांश्चापि ससर्ज विविधाञ्छरान्। ते रावणशरा घोरा राघवास्त्रसमाहताः।४८।। विलयं जग्मुराकाशे जघ्नुश्चैव सहस्रशः। तदत्रं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा॥ हृष्टा नेदुस्ततः सर्वे कपयः कामरूपिणः। सुग्रीवाभिमुखा वीराः संपरिक्षिप्य राघवम्॥ ततस्तदत्रं विनिहत्य राघवः प्रसह्य तद्रावणबाहुनिःसृतम्। मुदान्वितो दाशरथिर्महात्मा विनेदुरुच्चैर्मुदिताः कपीश्वराः ॥ तस्मिन्प्रतिहतेऽस्त्रे तु रावणो राक्षसाधिपः। क्रोधं च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम्॥ मयेन विहितं रौद्रमन्यदस्त्रं महाद्युतिः। उत्स्रष्टुं रावणो भीमं राघवाय प्रचक्रमे॥ ततः शूलानि निश्चेरुर्गदाश्च मुसलानि च। कार्मुकाद्दीप्यमानानि वज्रसाराणि सर्वशः॥ मुद्गराः कूटपाशाश्च दीप्ताश्चाशनयस्तथा। निष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये॥ तदत्रं राघवः श्रीमानुत्तमास्त्रविदां वरः। जघान परमात्रेण गान्धर्वेण महाद्युतिः॥ तस्मिन्प्रतिहतेऽस्त्रे तु राघवेण महात्मना। रावणः क्रोधताम्राक्षः सौरमस्त्रमुदरीयत्॥ ततश्चक्राणि निष्पेतु स्वराणि महान्ति च। कार्मुकाद्भीमवेगस्य दशग्रीवस्य धीमतः।७।। तैरासीद्गगनं दीप्तं संपतद्भिः समन्ततः। पतद्भिश्च दिशो दीप्तैश्चन्द्रसूर्ग्रहैरिव।।।। तानि चिच्छेद बाणौधैश्चक्राणि तु स राघवः। आयुधानि च चित्राणि रावणस्य चमूमुखे।।।। तदत्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः। विव्याध दशभिर्बाणै रामं सर्वेषु मर्मसु॥ स विद्धो दशभिर्बाणैर्महाकार्मुकनिःसृतैः। रावणेन महातेजा न प्राकम्पत राघवः॥ ततो विव्याध गात्रेषु सर्वेषु समितिंजयः। राघवस्तु सुसंकुद्धो रावणं बहुभिः शरैः॥ एतस्मिनन्तरे क्रुद्धो राघवस्यानुजो बली। लक्ष्मण: सायकान्सप्त जग्राह परवीरहा॥ तैः सायकैर्महावेगै रावणस्य महाद्युतिः। ध्वजं मनुष्यशीर्ष तु तस्य चिच्छेद नैकधा॥ सारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम्। जहार लक्ष्मणः श्रीमानैर्ऋतस्य महाबलः॥ तस्य बाणैश्च चिच्छेद धनुर्गजकरोपमम्। लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिनिशितैस्तदा॥ नीलमेघनिभांश्चास्य सदश्वान्पर्वतोपमान्। जघानाप्लुत्य गदया रावणस्य विभीषणः॥ हताश्वात्तु तदा वेगादवप्लुत्य महारथात्। कोपमाहारयत्तीवं भ्रातरं प्रति रावणः॥ ततः शक्तिं महाशक्तिः प्रदीप्तामशनीमिव। विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान्॥ अप्राप्तामेव तां बाणैत्रिभिश्चिच्छेद लक्ष्मणः। अथोदतिष्ठत्संनादो वानराणां महारणे॥ संपपात त्रिधा छिन्ना शक्तिः काञ्चनमालिनी। सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता॥ ततः संभाविततरां कालेनापि दुरासदाम्। जग्राह विपुलां शक्ति दीप्यमानां स्वतेजसा।२२।। सा वेगिता बलवता रावणेन दुरात्मना। जज्वाल सुमहातेजा दीप्ताशनिसमप्रभा॥ एतस्मिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम्। प्राणसंशयमापनं तूर्णमभ्यवपद्यत॥ तं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः। रावणं शक्तिहस्तं वै शरवषैरवाकिरत्॥ कीर्यमाणः शरौघेण विसृष्टेन महात्मना। स प्रहर्तुं मनश्चक्रे विमुखीकृतविक्रमः॥ मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः। लक्ष्मणाभिमुखस्तिष्ठनिदं वचनमब्रवीत्॥ मोक्षितस्ते बलश्लाघिन्यस्मादेवं विभीषणः। विमुच्य राक्षसं शक्तिस्त्वयीयं विनिपात्यते॥ एषा ते हृदयं भित्त्वा शक्तिर्लोहितलक्षणा। मद्बाहुपरिघोत्सृष्टा प्राणानादाय यास्यति॥ इत्येवमुक्त्वा तां शक्तिमष्टघण्टां महास्वनाम्। मयेन मायाविहिताममोघां शत्रुघातिनीम्॥ लक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा। रावणः परमवद्धश्चिक्षपे च ननाद च॥ सा क्षिप्ता भीमवेगेन वज्राशनिसमस्वना। शक्तिरभ्यपतद्वेगाल्लक्ष्मणं रणमूर्धनि॥ तामनुव्याहरच्छक्तिमापतन्ती स राघवः। स्वस्त्यस्तु लक्ष्मणायेति मोघा भव हतोद्यमा॥ रावणेन रणे शक्तिः कुद्धेनाशीविषोपमा। मुक्ता शूरस्य भीतस्य लक्ष्मणस्य ममज्ज सा।।३४ न्यपतत्सा महावेगा लक्ष्मणस्य महोरसि। जिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः॥ ततो रावणवेगेन सुदूरमवगाढया। शक्त्या विभिन्नहृदयः पपात भुवि लक्ष्मणः॥ तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः। भ्रातृस्नेहान्महातेजा विषण्णहृदयोऽभवत्॥ स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः। बभूव संरब्धतरो युगान्त इव पावकः॥ न विषादस्य कालोऽयमिति संचिन्त्य राघवः। चक्रे सुतुमुलं युद्ध रावणस्य वधे धृतः।। सर्वयत्नेन महता लक्ष्मणं परिवीक्ष्य च॥ स ददर्श ततो रामः शक्त्या भिन्नं महाहवे। लक्ष्मणं रुधिरादिग्धं सपन्नगमिवाचलम्॥ तामपि प्रहितां शक्तिं रावणेन बलीयसा। यत्नतस्ते हरिश्रेष्ठा न शेकुरवमर्दितुम्॥ अदिताश्चैव बाणौषैस्ते प्रवेकेण रक्षसाम्। सौमित्रेः सा विनिर्भिद्य प्रविष्टा धरणीतलम्॥ तां कराभ्यां परामृश्य रामः शक्तिं भयावहाम्। बभञ्ज समरे क्रुद्धो बलवान्विचकर्ष च॥ तस्य निष्कर्षतः शक्तिं रावणेन बलीयसा। शराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः॥ अचिन्तयित्व तान्बाणान्समाश्लिष्य च लक्ष्मणम्। अब्रवीच्च हनूमन्तं सुग्रीवं च महाकपिम्॥ लक्ष्मणं परिवार्यैवं तिष्ठध्वं वानरोत्तमाः। पराक्रमस्य कालोऽयं संप्राप्तो मे चिरेप्सितः॥ पापात्मायं दशग्रीवो वध्यतां पापनिश्चयः। काशितं चातकस्येव धर्मान्ते मेघदर्शनम्॥ अस्मिन्मुहूर्ते न चिरात्सत्यं प्रतिशृणोमि वः। अरावणमरामं वा जगद्रक्ष्यथ वानराः॥ राज्यनाशं वने वासं दण्डके परिधावनम्। वैदेह्याश्च परामर्शो रक्षोभिश्च समागमम्॥ प्राप्तं दुःखं महाघोरं क्लेशश्च निरयोपमः। अद्य सर्वमहं त्यक्ष्ये निहत्वा रावणं रणे।५०॥ यदर्थं वानरं सैन्यं समानीतमिदं मया। सुग्रीवश्च कृतो राज्ये निहत्वा वालिनं रणे।। यदर्थं सागरः क्रान्तः सेतुर्बद्धश्च सागरे॥ सोऽयमद्य रणे पापा आपश्चक्षुर्विषयमागतः। चक्षुर्विषयमागत्य नायं जीवितमर्हति॥ दृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः। यथा वा वैनतेयस्य दृष्टिं प्राप्तो भुजंगमः॥ सुखं पश्यथ दुर्धर्षा युद्धं वानरपुङ्गवाः। आसीनाः पर्वताग्रेषु ममेदं रावणस्य च ॥ अद्य पश्यन्तु रामस्य रामत्वं मम संयुगे। त्रयो लोकाः सगन्धर्वाः सिद्धगन्धर्वचारणाः॥ अद्य कर्म करिष्यामि यल्लोकाः सचराचराः। सदेवाः कथयिष्यन्ति यावद्भूमिर्धरिष्यति॥ समागम्य सदा लोके यथायुद्धं प्रवर्तितम्। एवमुक्त्वा शितैर्बाणैस्तप्तकाञ्चनभूषणैः। आजघान रणे रामो दशग्रीवं समाहितः।५७।। तथा प्रविद्धैनाराचैर्मुसलैश्चापि रावणः। अभ्यवर्षत्तदा रामं धाराभिरिव तोयदः॥ रामरावणमुक्तानामन्योन्यमभिनिघ्नताम्। वराणां च शराणां च बभूव तुमुलः स्वनः।॥ विच्छिन्नाश्च विकीर्णाश्च रामरावणयोः शराः। अन्तरिक्षात्प्रदीप्ताग्रा निपेतुर्धरणीतले॥ तयोर्ध्यातलनिर्घोषो रामरावणयोर्महान्। त्रासनः सर्वभूतानां बभूवाद्भुतदर्शनः॥ महात्मनां दीप्तधनुष्मतार्दितः। भयात्प्रदुद्राव समेत्य रावणो यथानिलेनाभिहतो बलाहकः।२।। शक्त्या निपातितं दृष्ट्वा रावणेन बलीयसा। लक्ष्मणं समरे शूरं शोणितौधपरिप्लुतम् ॥ स दत्त्वा तुमुलं युद्ध रावणस्य दुरात्मनः। विसृजन्नेव बाणौघान्सुषेणमिदमब्रवीत्॥ एष रावणवीर्येण लक्ष्मणः पतितो भुवि। सर्पवच्चेष्टते वीरो मम शोकमुदीरयन्॥ शोणितामिमं वीरं प्राणैः प्रियतरं मम। पश्यतो मम का शक्तिर्योद्धं पर्याकुलात्मनः॥ अयं स समरश्लाघी भ्राता मे शुभलक्षणः। यदि पञ्चत्वमापन्नः प्राणैर्मे किं सुखेन वा॥ लज्जतीव हि मे वीर्यं भ्रश्यतीव कराद्धनुः। सायका व्यवसीदन्ति दृष्टिर्बाष्पवशं गता॥ अवसीदन्ति गात्राणि स्वप्नयाने नृणामिव। चिन्ता में वर्तते तीव्रा मुमूर्षापि च जायते।७।। भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मना। विष्टनन्तं तु दुःखार्तं मर्मण्यभिहतं भृशम्॥ परं विषादमापन्नो विललापाकुलेन्द्रियः। भ्रातरं निहतं दृष्ट्वा लक्ष्मणं रणपांसुषु॥ विजयोऽपि हि मे शूर न प्रियायोपकल्पते। अचक्षुर्विषयश्चन्द्रः कां प्रीतिं जनयिष्यति॥ किं मे युद्धेन किं प्राणैयुद्धकार्यं न विद्यते। यत्रायं निहतः शेते रणमूर्धनि लक्ष्मणः॥ यथैव मां वनं यान्तमनुयाति महाद्युतिः। अहमप्यनुयास्यामि तथैवैनं यमक्षयम्॥ इष्टबन्धुजनो नित्यं मां स नित्यमनुव्रतः। इमामवस्थां गमितो राक्षसैः कूटयोधिभिः॥ देशे देशे कलत्राणि देशे देशे च बान्धवाः। तं तु देशं न पश्यामि यत्र भ्राता सहोदरः॥ किं नु राज्येन दुर्धर्ष लक्ष्मणेन विना मम। कथं वक्ष्याम्यहं त्वम्बां सुमित्रां पुत्रवत्सलाम्॥ उपालम्भं न शक्ष्यामि सोढुं दत्तं सुमित्रया। किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम्।।१६। भरतं किं नु वक्ष्यामि शत्रुघ्नं च महाबलम्। सह तेन वनं यातो विना तेनागतः कथम्॥ इहैव मरणं श्रेयो न तु बन्धुविगर्हणम्। किं मया दुष्कृतं कर्म कृतमन्यत्र जन्मनि॥ येन मे धार्मिको भ्राता निहतश्चाग्रतः स्थितः। हा भ्रातर्मनुजश्रेष्ठ शूराणां प्रवर प्रभो॥ एकाकी किं नु मां त्यक्वा परलोकाय गच्छसि। विलपन्तं च मां भ्रातः किमर्ष नावभाषसे॥ उत्तिष्ठ पश्य किं शेषे दीनं मां पश्य चक्षुषा। शोकार्तस्य प्रमत्तस्य पर्वतेषु वनेषु च॥ विषण्णस्य महाबाहो समाश्वासयिता मम। राममेवं ब्रुवाणं तु शोकव्याकुलितेन्द्रियम्॥ आश्वासयनुवाचेदं सुषेणः परमं वचः। त्यजेमां नरशार्दूल बुद्धिं वैक्लव्यकारिणीम्॥ शोकसंजननीं चिन्तां तुल्यां बाणैश्चमूमुखे। नैव पञ्चत्वमापन्नो लक्ष्मणो लक्ष्मिवर्धनः॥ नह्यस्य विकृतं वक्रं न च श्यामत्वमागतम्। सुप्रभं च प्रसन्नं च मुखमस्य निरीक्ष्यताम्॥ पद्मपत्रतलौ हस्तौ सुप्रसन्ने च लोचने। नेदृशं दृश्यते रूपं गतासूनां विशां पते॥ विषादं मा कृथा वीर सप्राणोऽयमरिंदम। आख्याति तु प्रसुप्तस्य स्रस्तगात्रस्य भूतले॥ सोच्छ्वासं हृदयं वीर कम्पमानं मुहुर्मुहुः। एवमुक्त्वा महाप्राज्ञः सुषेणो राघवं वचः॥ समीपस्थमुवाचेदं हनूमन्तं महाकपिम्। सौम्य शीघ्रमितो गत्वा पर्वतं हि महोदयम्॥ पूर्व तु कथितो योऽसौ वीर जाम्बवता तव। दक्षिणे शिखरे जातां महौषधिमिहानयः॥ विशल्यकरणी नाम्ना सावर्ण्यकरणी तथा। संजीवकरणी वीर संधानी च महौषधीम्॥ संजीवनार्थं वीरस्य लक्ष्मणस्य त्वमानय। इत्येवमुक्तो हनुमान्गत्वा चौषधिपर्वतम्।। चिन्तामभ्यमच्छीमानजानंस्ता महौषधीः॥ तस्य बुद्धिः समुत्पन्ना मारुतेरमितौजसः। इदमेव गमिष्यामि गृहीत्वा शिखरं गिरेः॥ अस्मिंस्तु शिखरे जातामोषधीं तां सुखावहाम्। प्रतर्केणावगच्छामि सुषेणो ह्येवमब्रवीत्॥ अगृह्य यदि गच्छामि विशल्यकरणीमहम्। कालात्ययेन दोषः स्याद्वैक्लव्यं च महद्भवेत्।।३५ इति संचिन्त्य हनुमान्गत्वा क्षिप्रं महाबलः। आसाद्य पर्वतश्रेष्ठं त्रिः प्रकम्प्य गिरेस्तटम्॥ फुल्लनानातरुगणं समुत्पाट्य महाबलः। गृहीत्वा हरिशार्दूलो हस्ताभ्यां समतोलयत्॥ स नीलमिव जीमूतं तोयपूर्ण नभस्तलात्। उत्पपात गृहीत्वा तु हनूमाशिखरं गिरेः॥ समागम्य महावेगः संन्यस्य शिखरं गिरेः। विश्रम्य किंचिद्धनुमान्सुषेणमिदमब्रवीत् ॥ औषधी वगच्छामि ता अहं हरिपुङ्गव। तदिदं शिखरं कृत्स्नं गिरेस्तस्याहृतं मया॥ एवं कथयमानं तु प्रशस्य पवनात्मजम्। सुषेणो वानरश्रेष्ठो जग्राहोत्पाट्य चौषधीः।॥ विस्मितास्तु बभूवुस्ते सर्वे वानरपुङ्गवाः। दृष्ट्वा तु हनुमत्कर्म सुरैरपि सुदुष्करम्।॥ ततः संक्षोदयित्वा तामोषधीं वानरोत्तमः। लक्ष्मणस्य ददौ नस्तः सुषेणः सुमहाद्युतिः॥ सशल्यः स समाघ्राय लक्ष्मणः परवीरहा। विशल्यो विरुनः शीघ्रमुदतिष्ठन्महीतलात्॥ तमुत्थितं तु हरयो भूतलात्प्रेक्ष्य लक्ष्मणम्। साधुसाध्विति सुप्रीता लक्ष्मणं प्रत्यपूजयन्॥ एोहीत्यब्रवीद्रामो लक्ष्मणं परवीरहा। सस्वजे गाढमालिङ्गय बाष्पपर्याकुलेक्षणः॥ अब्रवीच्च परिष्वज्य सौमित्रिं राघवस्तदा। दिष्ट्या त्वां वीर पश्यामि मरणात्पुनरागतम्।।४७ न हि मे जीवितेनार्थः सीतया च जयेन वा। को हि मे जीवितेनार्थस्त्वयि पञ्चत्वमागते॥ इत्येवं ब्रुवतस्तस्य राघवस्य महात्मनः। खिनः शिथिलया वाचा लक्ष्मणो वाक्यमब्रवीत्॥ तां प्रतिज्ञा प्रतिज्ञाय पुरा सत्यपराक्रम। लघुः कश्चिदिवासत्त्वो नैवं त्वं वक्तुमर्हसि ॥ नहि प्रतिज्ञां कुर्वन्ति वितथा सत्यवादिनः। लक्षणं हि महत्त्वस्य प्रतिज्ञापरिपालनम्॥ नैराश्यमुपगन्तुं च नालं ते मत्कृतेऽनघ। वधेन रावणस्याद्य प्रतिज्ञामनुपालय॥ न जीवन्यास्यते शत्रुस्तव बाणवशं गतः। नर्दतस्तीक्ष्णदंष्ट्रस्य सिंहस्येव महागजः॥ अहं तु वधमिच्छामि शीघ्रमस्य दुरात्मनः। यावदस्तं न यात्येष कृतकर्मा दिवाकरः॥ यदि वधमिच्छसि रावणस्य संख्ये यदि च कृतां हि तवेच्छसि प्रतिज्ञाम्। यदि तव राजसुताभिलाष आर्य कुरु च वचो मम शीघ्रमद्य वीर॥ अहं तु वधमिच्छामि शीघ्रमस्य दुरात्मनः। यावदस्तं न यात्येष कृतकर्मा दिवाकरः॥ यदि वधमिच्छसि रावणस्य संख्ये यदि च कृतां हि तवेच्छसि प्रतिज्ञाम्। यदि तव राजसुताभिलाष आर्य कुरु च वचो मम शीघ्रमद्य वीर॥ लक्ष्मणेन तु तद्वाक्यमुक्तं श्रुत्वा स राघवः। संदधे परवीरघ्नो धनुरादाय वीर्यवान्॥ रावणाय शरान्घोरान्विससर्ज चमूमुखे। अथान्यं रथमास्थाय रावणो राक्षसाधिपः॥ अभ्यधावत काकुत्स्थं स्वर्भानुरिव भास्करम्। दशग्रीवो रथस्थस्तु रामं वज्रोपमैः शरैः।। आजघान महाशैलं धाराभिरिव तोयदः॥ दीप्तपावकसंकाशैः शरैः काञ्चनभूषणैः। अभ्यवर्षद्रणे रामो दशग्रीवं समाहितः॥ भूमौ स्थितस्य रामस्य रथस्थस्य च रक्षसः। न समं युद्धमित्याहुर्देवगन्धर्वकिंनराः॥ ततो देववरः श्रीमाञ्श्रुत्वा तेषां वचोऽमृतम्। आहूय मातलिं शक्रो वचनं चेदमब्रवीत्॥ रथेन मम भूमिष्ठं शीघ्रं याहि रघूत्तमम्। आहूय भूतलं यातः कुरु देवहितं महत्॥ इत्युक्तो देवराजेन मातलिदेवसारथिः। प्रणम्य शिरसा देवं ततो वचनमब्रवीत्।८।। शीघ्रं यास्यामि देवेन्द्र सारथ्यं च करोम्यहम्। ततो हयैश्च संयोज्य हरितैः स्यन्दनोत्तमम्।। ततः काञ्चनचित्राङ्गः किङ्किणीशतभूषितः॥ तरुणादित्यसंकाशो वैदूर्यमयकूबरः। सदश्वैः काञ्चनापीडैर्युक्तः श्वेतप्रकीर्णकैः॥ हरिभिः सूर्यसंकाशैर्हेमजालविभूषितैः। रुक्मवेणुध्वजः श्रीमान्देवराजरथो वरः॥ देवराजेन संदिष्टो रथमारुह्य मातलिः। अभ्यवर्तत काकुत्स्थमवतीर्य त्रिविष्टपात्॥ अब्रवीच्च तदा रामं सप्रतोदो रथे स्थितः। प्राञ्जलिर्मातलिक्यिं सहस्राक्षस्य सारथिः॥ सहस्राक्षेण काकुत्स्थ रथोऽयं विजयाय ते। दत्तस्तव महासत्त्व श्रीमशत्रुनिबर्हण॥ इदमैन्द्रं महच्चापं कवचं चाग्निसंनिभम्। शराश्चादित्यसंकाशाः शक्तिश्च विमला शिवा ॥ आरुह्येमं रथं वीर राक्षसं जहि रावणम्। मया सारथिना देव महेन्द्र इव दानवान्॥ इत्युक्तः संपरिक्रम्य रथं तमभिवाद्य च। आरुरोह तदा रामो लोकॉल्लक्ष्म्या विराजयन्॥ तद्वभौ चाद्भुतं युद्धं द्वैरथं रोमहर्षणम्। रामस्य च महाबाहो रावणस्य च रक्षसः॥ स गान्धर्वेण गान्धर्वं दैवं दैवेन राघवः। अस्त्रं राक्षसराजस्य जघान परमास्त्रवित्॥ अस्त्रं तु परमं घोरं राक्षसं राक्षसाधिपः। ससर्ज परमक्रुद्धः पुनरेव निशाचरः॥ ते रावणधनुर्मुक्ताः शराः काञ्चनभूषणाः। अभ्यवर्तन्त काकुत्स्थं सर्पा भूत्वा महाविषाः॥ ते दीप्तवदना दीप्तं वमन्तो ज्वलनं मुखैः। राममेवाभ्यवर्तन्त व्यादितास्या भयानकाः॥ तैर्वासुकिसमस्पर्शेर्दीप्तभोगैर्महाविषैः। दिशश्च संतताः सर्वा विदिशश्च समावृताः॥ तान्दृष्ट्वा पत्रगानरामः समापतत आहवे। अखं गारुत्मतं घोरं प्रादुश्चक्रे भयावहम्॥ ते राघवधनुर्मुक्ता रुक्मपुङ्खाः शिखिप्रभाः। सुपर्णाः काञ्चना भूत्वा विचेरुः सर्पशत्रवः॥ ते तान्सर्वाशराजघ्नुः सर्परूपान्महाजवान्। सुपर्णरूपा रामस्य विशिखा: कामरूपिणः॥ अस्त्रे प्रतिहते क्रुद्धो रावणो राक्षसाधिपः। अभ्यवर्षत्तदा रामं घोराभिः शरवृष्टिभिः॥ ततः शरसहस्रेण राममक्लिष्टकारिणम्। अर्दयित्वा शरौघेण मातलिं प्रत्यविध्यत॥ चिच्छेद केतुमुद्दिश्य शरेणैकेन रावणः। पातयित्वा रथोपस्थे रथात्केतुं च काञ्चनम्॥ ऐन्द्रानपि जघानाश्वाञ्शरजालेन रावणः। विषेदुर्देवगन्धर्वचारणा दानवैः सह॥ राममार्तं तदा दृष्ट्वा सिद्धाश्च परमर्षयः। व्यथिता वानरेन्द्राश्च बभूवुः सविभीषणाः॥ रामचन्द्रमसं दृष्ट्वा ग्रस्तं रावणराहुणा। प्राजापत्यं च नक्षत्रं रोहिणीं शशिनः प्रियाम्॥ समाक्रम्य बुधस्तस्थौ प्रजानामहितावहः। सधूमपरिवृत्तोर्मिः प्रज्वलनिव सागरः॥ उत्पपात तदा क्रुद्धः स्पृशनिव दिवाकरम्। शस्त्रवर्णः सुपरुषो मन्दरश्मिदिवाकरः॥ अदृश्यत कबन्धाङ्कः संसक्तो धूमकेतुना। कोसलानां च नक्षत्रं व्यक्तमिन्द्राग्निदैवतम्॥ आहत्याङ्गारकस्तस्थौ विशाखमपि चाम्बरे। दशास्यो विंशतिभुजः प्रगृहीतशरासनः॥ अदृश्यत दशग्रीवो मैनाक इव पर्वतः। निरस्यमानो रामस्तु दशग्रीवेण रक्षसा॥ नाशक्नोदभिसंधातुं सायकारणमूर्धनि । स कृत्वा भ्रुकुटि क्रुद्धः किंचित्संरक्तलोचनः॥ जगाम सुमहाक्रोधं निर्दहनिव राक्षसान्। तस्य क्रुद्धस्य वदनं दृष्ट्वा रामस्य धीमतः।। सर्वभूतानि वित्रेसुः प्राकम्पत च मेदिनी॥ सिंहशार्दूलवाञ्छैलः संचचाल चलद्रुमः। बभूवः चापि क्षुभितः समुद्रः सरितां पतिः॥ खराश्च खरनिर्घोषा गगने परुषा घनाः। औत्पातिकाश्च नर्दन्तः समन्तात्परिचक्रमुः॥ रामं दृष्ट्वा सुसंक्रुद्धमुत्पाताश्चैव दारुणान्। वित्रेसुः सर्वभूतानि रावणस्याभवद्भयम्।॥ विमानस्थास्तदा देवा गन्धर्वाश्च महोरगाः। ऋषिदानवदैत्याश्च गरुत्मन्तश्च खेचराः॥ ददृशुस्ते तदा युद्धं लोकसंवर्तसंस्थितम्। नानाप्रहरणै मैः शूरयोः संप्रयुध्यतोः॥ ऊचुः सुरासुराः सर्वे तदा विग्रहमागताः। प्रेक्षमाणा महायुद्धं वाक्यं भक्त्या प्रहृष्टवत्॥ दशग्रीवं जयेत्याहुरसुराः समवस्थिताः। देवा राममथोचुस्ते त्वं जयेति पुनः पुनः॥ एतस्मिन्नन्तरे क्रोधाद्राघवस्य च रावणः। प्रहर्तुकामो दुष्टात्मा स्पृशन्प्रहरणं महत्॥ वज्रसारं महानादं सर्वशनिबर्हणम्। शैलशृङ्गनिभैः कूटैश्चित्तदृष्टिभयावहम्॥ सधूममिव तीक्ष्णाग्रं युगान्ताग्निचयोपमम्। अतिरौद्रमनासाद्यं कालेनापि दुरासदम्॥ त्रासनं सर्वभूतानां दारणं भेदनं तथा। प्रदीप्त इव रोषेण शूलं जग्राह रावणः॥ तच्छूलं परमद्धो जग्राह युधि वीर्यवान्। अनीकैः समरे शूरै राक्षसैः परिवारितः॥ समुद्यम्य महाकायो ननाद युधि भैरवम्। संरक्तनयनो रोषात्स्वसैन्यमभिहर्षयन्॥ पृथिवीं चान्तरिक्षं च दिशश्च प्रदिशस्तथा। प्राकम्पयत्तदा शब्दो राक्षसेन्द्रस्य दारुणः॥ अतिकायस्य नादेन तेन तस्य दुरात्मनः। सर्वभूतानि वित्रेसुः सागरश्च प्रचुक्षुभे॥ स गृहीत्वा महावीर्यः शूलं तद्रावणो महत्। विनद्य सुमहानादं रामं परुषमब्रवीत्॥ शूलोऽयं वज्रसारस्ते राम रोषान्मयोद्यतः। तव भ्रातृसहायस्य सम्यक्प्राणान्हरिष्यति॥ रक्षसामद्य शूराणां निहतानां चमूमुखे। त्वां निहत्य रणश्लाघी करोमि तरसा समम्॥ तिष्ठेदानी निहन्मि त्वामेष शूलेन राघव। एवमुक्त्वा च चिक्षेप तच्छूलं राक्षसाधिपः॥ तद्रावणकरान्मुक्तं विद्युन्मालासमावृतम्। अष्टघण्टं महानादं वियद्गतमशोभत। ५९॥ तच्छूलं राघवो दृष्ट्वा ज्वलन्तं घोरदर्शनम्। ससर्ज विशिखारामश्चापमायम्य वीर्यवान् ॥ आपतन्तं शरौघेण वारयामास राघव। उत्पतन्तं युगान्ताग्नि जलौघैरिव वासवः॥ निर्ददाह स तान्बाणान्रामकार्मुकनिःसृतान्। रावणस्य महाशूल: पतङ्गानिव पावकः॥ तान्दृष्ट्वा भस्मसाद्भूताशूलसंस्पर्शचूर्णितान्। सायकानन्तरिक्षस्थानराघवः क्रोधमूर्छितः॥ स तां मातलिना नीतां शक्तिं वासवसंमताम्। जग्राह परमक्रुद्धो राघवो रघुनन्दनः॥ सा तोलिता बलवता शक्तिघण्टाकृतस्वना। नभः प्रज्वालयामास युगान्तोल्केव सप्रभा॥ सा क्षिप्ता राक्षसेन्द्रस्य तस्मिञ्छूले पपात ह। भिन्नः शक्त्या महाशूलो निपपात गतद्युतिः॥ निर्बिभेद ततो बाणैर्हयानस्य महाजवान्। रामः क्षिप्तैर्महावेगैर्बाणवद्भिरजिह्मगैः॥ निर्बिभेदोरसि तदा रावणं निशितैः शरैः। राघवः परमायचो ललाटे पत्रिभिस्त्रिभिः॥ स शरैभिन्नसर्वाङ्गो गात्रप्रमुतशोणितः। राक्षसेन्द्रसमूहस्थः फुल्लाशोक इवाबभौ॥ स रामबाणैरतिविद्धगात्रो निशाचरेन्द्रः क्षतजाईगात्रः। जगाम खेदं च समाजमध्ये क्रोधं च चक्रे सुभृशं तदानीम्॥ स तु मोहात्सुसंक्रुद्धं कृतान्तबलचोदितः। क्रोधसंरक्तनयनो रावणः सूतमब्रवीत्॥ हीनवीर्यमिवाशक्तं पौरुषेण विवर्जितम्। भीरं लघुमिवासत्त्वं विहीनमिव तेजसा॥ विमुक्तमिव मायाबिरलैरिव बहिष्कृतम्। मामवज्ञाय दुर्बुद्धे स्वया बुद्ध्या विचेष्टसे॥ किमर्थं मामवज्ञाय मच्छन्दमनवेक्ष्य च। त्वया शत्रुसमक्षं मे रथोऽयमपवाहितः॥ त्वयाद्य हि ममानार्य चिरकालमुपार्जितम्। यशो वीर्यं च तेजश्च प्रत्ययश्च विनाशितः॥ शत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः। पश्यतो युद्धलुब्धोऽहं कृतः कापुरुषस्त्वया।६।। यत्त्वं कथमिदं मोहान्न चेद्वहसि दुर्मते। सत्योऽयं प्रतितों मे परेण त्वमुपस्कृतः॥ नहि तद्विद्यते कर्म सुहृदो हितकामिणः। रिपूणां सदृशं त्वेतद्यत्त्वयैतदनुष्ठितम्॥ निवर्तय रथं शीघ्रं यावत्रापैति मे रिपुः। यदि वाध्युषितोऽसि त्वं स्मर्यते यदि मे गुणः॥ एवं परुषमुक्तस्तु हितबुद्धिरबुद्धिना। अब्रवीद्रावणं सूतो हितं सानुनयं वचः॥ न भीतोऽस्मि न मूढोऽस्मि नोपजप्तोऽस्मि शत्रुभिः न प्रमत्तो न निःस्नेहो विस्मृता न च सत्क्रिया॥ मया तु हितकामेन यशश्च परिरक्षता। स्नेहप्रसन्नमनसा हितमित्यप्रियं कृतम्॥ नास्मिनर्थे महाराज त्वं मां प्रियहिते रतम्। कश्चिल्लघुरिवानार्यो दोषतो गन्तुमर्हसि ॥ श्रूयतां प्रति दास्यामि यन्निमित्तं मया रथः। नदीवेग इवाम्भोभिः संयुगे विनिवर्तितः॥ श्रमं तवावगच्छामि महता रणकर्मणा। नहि ते वीर्यसौमुख्यं प्रकर्ष नोपधारये॥ रथोद्वहनखिन्नाश्च भग्ना मे रथवाजिनः। दीना धर्मपरिश्रान्ता गावो वर्षहता इव ॥ निमित्तानि च भूयिष्ठं यानि प्रादुर्भवन्ति नः। तेषु तेष्वभिपनेषु लक्षयाम्यप्रदक्षिणम्॥ देशकालौ च विज्ञेयौ लक्षणानीङ्गितानि च। दैन्यं हर्षश्च खेदश्च रथिनश्च महाबल॥ स्थलनिम्नानि भूमेश्च समानि विषमाणि च। युद्धकालश्च विज्ञेयः परस्यान्तरदर्शनम् ॥ उपयानापयाने च स्थानं प्रत्यपसर्पणम्। सर्वमेतद्रथस्थेन ज्ञेयं रथकुटुम्बिना॥ तव विश्रामहेतोस्तु तथैषां रथवाजिनाम्। रौद्रं वर्जयता खेदं क्षमं कृतमिदं मया॥ स्वेच्छया न मया वीर रथोऽयमपवाहितः। भर्तुः स्नेहपरीतेन मयेदं यत्कृतं प्रभो॥ आज्ञापय यथातत्त्वं वक्ष्यस्यरिनिषूदन। तत्करिष्याम्यहं वीर गतानृण्येन चेतसा ॥ संतुष्टस्तेन वाक्येन रावणस्तस्य सारथेः। प्रशस्यैनं बहुविधं युद्धलुब्धोऽब्रवीदिदम्॥ रथं शीघ्रमिमं सूत राघवाभिमुखं नय। नाहत्वा समरे शत्रूनिवर्तिष्यति रावणः॥ एवमुक्त्वा रथस्थस्य रावणो राक्षसेश्वरः। ददौ तस्य शुभं ह्येकं हस्ताभरणमुत्तमम्।। श्रुत्वा रावणवाक्यानि सारथिः सन्यवर्तत।२६।। ततो द्रुतं रावणवाक्यचोदितः प्रचोदयामास हयान्स सारथिः। स राक्षसेन्द्रस्य ततो महारथः क्षणेन रामस्य रणाग्रतोऽभवत्॥ ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्। रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्॥ दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्। उपगम्याब्रवीद्राममगस्त्यो भगवांस्तदा॥ राम राम महाबाहो शृणु गुह्यं सनातनम्। येन सर्वानरीन्वत्स समरे विजयिष्यसे॥ आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्। जयावहं जपं नित्यमक्षयं परमं शिवम्॥ सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम्। चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम्॥ रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम्। पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम्॥ सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः। एष देवासुरगणाँल्लोकान्पाति गभस्तिभिः॥ एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः। महेन्द्रो धनदः कालो यमः सोमो ह्यपांपतिः॥ पितरो वसवः साध्या अश्विनौ मरुतो मनुः। वायुर्वह्निः प्रजाः प्राण ऋतुकर्मा प्रभाकरः।।।।। आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान्। सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः॥ हरिदश्वः सहस्रार्चिः सप्तसप्तिमरीचिमान्। तिमिरोन्मथनः शंभुस्त्वष्टा मार्तण्डकोंऽशुमान्॥ हिरण्यगर्भः शिशिरस्तपनोऽहस्करो रविः। अग्निगर्भो दितेः पुत्रः शङ्खः शिशिरनाशनः॥ व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः। घनुवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः॥ आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः। कविविश्वो महातेजा रक्तः सर्वभवोद्भवः॥ नक्षत्रग्रहताराणामधिपो विश्वभावनः। तेजसामपि तेजस्वी द्वादशात्मनमोऽस्तु ते॥ नमः पूर्वाय गिरये पश्चिमायाद्रये नमः। ज्योतिर्गणानां पतये दिनाधिपतये नमः॥ जयाय जयभद्राय हर्यश्वाय नमो नमः। नमो नमः सहस्रांशो आदित्याय नमो नमः॥ नम उग्राय वीराय सारङ्गाय नमो नमः। नमः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते॥ ब्रह्मेशानाच्युतेशाय सूरायादित्यवर्चसे। भास्वते सर्वभक्षाय रौद्राय वपुषे नमः॥ तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने। कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः॥ तप्तचामीकराभाय हरये विश्वकर्मणे। नमस्तमोभिनिघ्नाय रुचये लोकसाक्षिणे॥ नाशयत्येष वै भूतं तमेव सृजति प्रभुः। पायत्येष तपत्येष वर्षत्येष नभस्तिभिः॥ एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः। एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम्॥ देवाश्च क्रतवश्चैव क्रतूनां फलमेव च। यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः॥ एनमापत्सु कृच्छेषु कान्तारेषु भयेषु च। कीर्तयन्पुरुषः कश्चित्रावसीदति राघव ॥ पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम्। एतत्रिगुणितं जप्त्वा युद्धेषु विजयिष्यति॥ अस्मिन्क्षणे महाबाहो रावणं त्वं जहिष्यसि। एवमुक्त्वा ततोऽगस्त्यो जगाम स यथागतम्।।२७ एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा। धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥ आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान्। त्रिराजम्य शुचिर्भूत्वा धनुरादाय वीर्यवान्॥ रावणं प्रेक्ष्य हृष्टात्मा जयार्थं समुपागमत्। सर्वयत्नेन महता वृतस्तस्य वधेऽभवत्॥ अथ रविरवदन्निरीक्ष्य राम मुदितमनाः परमं प्रहृष्यमाणः। निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति॥ सारथिः स रथं हृष्टः परसैन्यप्रधर्षणम्। गन्धर्वनगराकारं समुच्छ्रितपताकिनाम्॥ युक्तं परमसंपत्नैर्वाजिभिहेममालिभिः। युद्धोपकरणैः पूर्णं पताकाध्वजमालिनम्॥ असन्तमिव चाकाशं नादयन्तं वसुंधराम्। प्रणाशं परसैन्यानां स्वसैन्यस्य प्रहर्षणम्॥ रावणस्य रथं क्षिप्रं चोदयामास सारथिः। तमापतन्तं सहसा स्वनवन्तं महाध्वजम्॥ रथं राक्षसराजस्य नरराजो ददर्श ह। कृष्णवाजिसमायुक्तं युक्तं रौद्रेण वर्चसा॥ दीप्यमानमिवाकाशे विमानं सूर्यवर्चसम्। तडित्पताकागहनं दर्शितेन्द्रायुधप्रभम्॥ शरधारा विमुञ्चन्तं धाराधरमिवाम्बुदम्। स दृष्ट्वा मेघसंकाशमापतन्तं रथं रिपोः॥ गिरेर्वज्राभिमृष्टस्य दीर्यतः सदृशस्वनम्। विस्फारयन्वै वेगेन बालचन्द्रानतं धनुः॥ उवाच मातलिं रामः सहस्राक्षस्य सारथिम्। मातले पश्य संरब्धमापतन्तं रथं रिपोः॥ यथापसव्यं पतता वेगेन महता पुनः। समरे हन्तुमात्मानं तथानेन कृता मतिः॥ तदप्रमादमातिष्ठ प्रत्युद्गच्छ रथं रिपोः। विध्वंसयितुमिच्छामि वायुर्मेघमिवोत्थितम्॥ अविक्लवमसंभ्रान्तमव्यग्रहृदयेक्षणम्। रश्मिसंचारनियतं प्रचोदय रथं दुतम्॥ कामं न त्वं समाधेयं पुरंदररथोचितः। युयुत्सुरहमेकाग्रः स्मारये त्वां न शिक्षये॥ परितुष्टः स रामस्य तेन वाक्येन मातलिः। प्रचोदयामास रथं सुरसारथिरुत्तमः॥ अपसव्यं ततः कुर्वन्रावणस्य महारथम्। चक्रसंभूतरजसा रावणं व्यवधूनयत्॥ ततः क्रुद्धो दशग्रीवस्ताम्रविस्फारितेक्षणः। रथप्रतिमुखं रामं सायकैरवधूनयत्॥ धर्षणामर्षितो रामो धैर्य रोषेण लम्भयन्। जग्राह सुमहावेगमैन्द्रं युधि शरासनम्॥ शरांश्च सुमहावेगान्सूर्यरश्मिसमप्रभान्। तदुपोढं महद्युद्धमन्योन्यवधकाङ्गिणोः।। परस्पराभिमुखयोर्दृप्तयोरिव सिंहयोः॥ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। समीयुद्वैरथं द्रष्टुं रावणक्षयकाङ्क्षिणः॥ समुत्पेतुरथोत्पाता दारुणा रोमहर्षणाः। रावणस्य विनाशाय राघवस्योदयाय च॥ ववर्ष रुधिरं देवो रावणस्य रथोपरि। वाता मण्डलिनस्तीवा व्यपसव्यं प्रचक्रमुः॥ महद्गृध्रकुलं चास्य भ्रममाणं नभःस्थले। येन येन रथा याति तेन तेन प्रधावति॥ संध्यया चावृता लङ्का जपापुष्पनिकाशया। दृश्यते संप्रदीप्तेव दिवसेऽपि वसुंधरा ॥ सनिर्घाता महोल्काश्च संप्रपेतुर्महास्वना। विषादयंस्ते रक्षांसि रावणस्य तदा हिताः॥ रावणश्च यतस्तत्र प्रचचाल वसुंधरा। रक्षसां च प्रहरतां गृहीता इव बाहवः॥ ताम्राः पीताः सिताः श्वेताः पतिताः सूर्यरश्मयः। दृष्यन्ते रावणस्याग्रे पर्वतस्येव धातवः॥ गृधैरनुगताश्चास्य वमन्तो ज्वलनं मुखैः। प्रणेदुर्मुखमीक्षन्त्यः संरब्धमशिवं शिवाः॥ प्रतिकूलं ववौ वायू रणे पांसून्समुत्किरन्। तस्य राक्षसराजस्य कुर्वन्दृष्टिविलोपनम् ॥ निपेतुरिन्द्राशनयः सैन्ये चास्य समन्ततः। दुर्विषह्यस्वरा घोरं विना जलधरोदयम्॥ दिशश्च प्रदिशः सर्वा बभूवुस्तिमिरावृताः। पांसुवर्षेण महता दुर्दर्श च नभोऽभवत्॥ कुर्वत्यः कलहं घोरं सारिकास्तद्रथं प्रति। निपेतुः शतशस्तत्र दारुणा दारुणारुताः॥ जघनेभ्यः स्फुलिङ्गाश्च नेत्रेभ्योऽश्रूणि संततम्। मुमुचुस्तस्य तुरगास्तुल्यमग्निं च वारि च॥ एवंप्रकारा बहवः समुत्पाता भयावहाः। रावणस्य विनाशाय दारुणा संप्रजज्ञिरे॥ रामस्यापि निमित्तानि सौम्यानि च शिवानि च। बभूवुर्जयशंसीनि प्रादुर्भूतानि सर्वशः॥ निमित्तानीह सौम्यानि राघवस्य जयाय वै। दृष्ट्वा परमसंहृष्टो हतं मेने च रावणम्॥ ततो निरीक्ष्यात्मगतानि राघवो रणे निमित्तानि निमित्तकोविदः। जगाम हर्ष च परां च निवृत्ति चकार युद्धे ह्यधिकं च विक्रमम्॥ ततः प्रवृत्तं सुक्रूरं रामरावणयोस्तदा। सुमहद्वैरथं युद्धं सर्वलोकभयावहम्॥ ततो राक्षससैन्यं च हरीणां च महद्बलम्। प्रगृहीतप्रहरणं निश्चेष्टं समवर्तत॥ संप्रयुद्धौ तु तौ दृष्ट्वा बलवन्नरराक्षसौ। व्याक्षिप्तहृदयाः सर्वे परं विस्मयमागताः॥ नानाप्रहरणैर्व्यग्रैर्भुजैर्विस्मितबुद्धयः। तस्थुः प्रेक्ष्य च सर्वं ते नाभिजग्मुः परस्परम्॥ रक्षसां रावणं चापि वानराणां च राघवम्। पश्यतां विस्मिताक्षाणां सैन्यं चित्रमिवाबभौ॥ तौ तु तत्र निमित्तानि दृष्ट्वा राघवरावणौ। कृतबुद्धी स्थिरामर्षों युयुधाते ह्यभीतवत्॥ जेतव्यमिति काकुत्स्थो मर्तव्यमिति रावणः। धृतौ स्ववीर्यसर्वस्वं युद्धेऽदर्शयतां तदा॥ ततः क्रोधाद्दशग्रीवः शरान्संधाय वीर्यवान्। मुमोच ध्वजमुद्दिश्य राघवस्य रथे स्थितम्।८।। ते शरास्तमनासाद्य पुरंदररथध्वजम्। रथशक्तिं परामृश्य निपेतुर्धरणीतले॥ ततो रामोऽपि संक्रुद्धश्चापमाकृष्य वीर्यवान्। कृतप्रतिकृतं कर्तुं मनसा संप्रचक्रमे॥ रावणध्वजमुद्दिश्य मुमोच निशितं शरम्। महासर्पमिवासा ज्वलन्तं स्वेन तेजसा॥ रामश्चिक्षेप तेजस्वी केतुमुद्दिश्य सायकम्। जगाम स महीं भित्त्वा दशग्रीवध्वजं शरः॥ स निकृत्तोऽपतद्भूमौ रावणस्यन्दनध्वजः। ध्वजस्योन्मथनं दृष्ट्वा रावणः स महाबलः॥ संप्रदीप्तोऽभवत्क्रोधादमर्षात्प्रदहन्निव। स रोषवशमापन्नः शरवर्ष ववर्ष ह॥ रामस्य तुरगान्दीप्तैः शरैर्विव्याध रावणः। ते दिव्या हरयस्तत्र नास्खलनापि बभ्रमुः॥ बभूवुः स्वस्थहृदयाः पद्मनालैरिवाहताः। तेषामसंभ्रमं दृष्ट्वा वाजिनां रावणस्तदा॥ भूय एव सुसंक्रुद्धः शरवर्षं मुमोच ह। गदाश्च परिघांश्चैव चक्राणि मुसलानि च ॥ गिरिशृङ्गाणि वृक्षांश्च तथा शूलपलवधान्। मायाविहितमेतत्तु शस्त्रवर्षमपातयत्।। सहस्रशस्तदा बाणानश्रान्तहृदयोद्यमः॥ तुमुलं त्रासजननं भीमं भीमप्रतिस्वनम्। तद्वर्षमभवद्युद्धे नैकशस्त्रमयं महत्॥ विमुच्य राघवरथं समन्ताद्वानरे बले। सायकैरन्तरिक्षं च चकार सुनिरन्तरम्॥ मुमोच च दशग्रीवो निःसङ्गेनान्तरात्मना। व्यायच्छमानं तं दृष्ट्वा तत्परं रावणं रणे॥ प्रहसन्निव काकुत्स्थः संदधे निशिताञ्छरान्। स मुमोच ततो बाणाञ्छतशोऽथ सहस्रशः॥ तान्दृष्ट्वा रावणश्चक्रे स्वशरैः खं निरन्तरम्। ताभ्यां नियुक्तेन तदा शरवर्षेण भास्वता ॥ शरबद्धमिवाभाति द्वितीयं भास्वदम्बरम्। नानिमित्तोऽभवद्वाणो नानिर्भेत्ता न निष्फलः॥ अन्योन्यमभिसंहत्य निपेतुर्धरणीतले। तथा विसृजतोर्बाणान्रामरावणयोर्मधे॥ प्रायुद्ध्येतामविच्छिन्नमस्यन्तौ सव्यदक्षिणम्। चक्रतुश्च शरै।रैर्निरुच्छ्वासमिवाम्बरम्॥ रावणस्य हयान्रामो हयान्रामस्य रावणः। जघ्नतुस्तौ तदान्योन्यं कृतानुकृतकारिणौ॥ एवं तु तौ सुसंक्रुद्धौ चक्रतुयुद्धमुत्तमम्। मुहूर्तमभवद्युद्धं तुमुलं रोमहर्षणम्॥ तौ तथा युध्यमानौ तु समरे रामरावणौ। ददृशुः सर्वभूतानि विस्मितेनान्तरात्मना॥ अर्दयन्तौ तु समरे तयोस्तौ स्यन्दनोत्तमौ। परस्परमभिक्रुद्धौ परस्परमभिद्रुतौ ॥ परस्परवधे युक्तौ घोररूपौ बभूवतुः। मण्डलानि च वीथीश्च गतप्रत्यागतानि च॥ दर्शयन्तौ बहुविधां सूतौ सारथ्यजां गतिम्। अर्दयन्रावणं रामो राघवं चापि रावणः॥ गतिवेगं समापन्नौ प्रतिवेगनिवर्तने। क्षिपतोः शरजलानि तयोस्तौ स्यन्दनोत्तमौ॥ चेरतुः संयुगमहीं सासारौ जलदाविव। दर्शयित्वा तदा तौ तु गतिं बहुविधां रणे॥ परस्परस्याभिमुखौ पुनरेव च तस्थतुः। धुरं धुरेण रथयोर्वकं वक्रेण वाजिनाम्॥ पताकाश्च पताकाभिः समीयुः स्थितयोस्तदा। रावणस्य ततो रामो धनुर्मुक्तैः शितैः शरैः॥ चतुर्भिश्चतुरो दीप्तान्हयान्प्रत्यपसर्पयत्। स क्रोधवशमापन्नो हयानामपसर्पणे॥ मुमोच निशितान्बाणाराघवाय दशाननः। सोऽतिविद्धो बलवता दशग्रीवेण राघवः॥ जगाम न विकारं च न चापि व्यथितोऽभवत्। चिक्षेप च पुनर्बाणान्वज्रसारसमस्वनान्॥ सारथिं वज्रहस्तस्य समादिश्य दशाननः। मातलेस्तु महावेगाः शरीरे पतिताः शराः॥ न सूक्ष्ममपि संमोहं व्यथां वा प्रददुर्युधि। तया धर्षणया कुद्धो मातलेन तथात्मनः॥ चकार शरजालेन राघवो विमुखं रिपुम्। विंशतिं त्रिंशतिं षष्टिं शतशोऽथ सहस्रशः॥ मुमोच राघवो वीरः सायकान्स्यन्दने रिपोः। रावणोऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः।॥ गदामुसलवर्षेण रामं प्रत्यर्दयद्रणे। तत्प्रयुक्तं पुनयुद्धं तुमुलं रोमहर्षणम्॥ गदानां मुसलानां च परिघाणां च निःस्वनैः। शराणां पुरवातैश्च क्षुभिताः सप्त सागराः॥ क्षुब्धानां सागराणां च पातालतलवासिनः। व्यथिता दानवाः सर्वे पन्नगाश्च सहस्रशः॥ चकम्पे मेदिनी कृतस्ना सशैलवनकानना। भास्करो निष्प्रभश्चासीन ववौ चापि मारुतः॥ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। चिन्तामापेदिरे सर्वे सकिंनरमहोरगाः॥ स्वस्ति गोब्राह्मणेभ्यस्तु लोकास्तिष्ठन्तु शाश्वतः। जयतां राघवः संख्ये रावणं राक्षसेश्वरम्॥ एवं जपन्तोऽपश्यंस्ते देवाः सर्षिगणास्तदा। रामरावणयोर्युद्धं सुघोरं रोमहर्षणम् ॥ गन्धर्वाप्सरसां सङ्घा दृष्ट्वा युद्धमनूपमम्। सागरं चाम्बरप्रख्यमम्बरं सागरोपमम्॥ रामरावणयोर्युद्धं रामरावणयोरिव। एवं ब्रुवन्तो ददृशुस्तद्युद्धं रामरावणम्॥ ततः क्रोधान्महाबाहू रघूणां कीर्तिवर्धनः। संधाय धनुषा रामः शरमाशीविषोपमम्॥ रावणस्य शिरोऽच्छिदन्दच्छीमज्ज्वलितकुण्डलम्। तच्छिरः पतितं भूमौ दृष्टं लोकैस्त्रिभिस्तदा॥ तस्यैव सदृशं चान्यद्रावणस्योत्थितं शिरः। तत्क्षिप्रं क्षिप्रहस्तेन रामेण क्षिप्रकारिणा ॥ द्वितीयं रावणशिरश्छिन्नं संयति सायकैः। छिन्नमात्रं च तच्छीषं पुनरेव प्रदृश्यते॥ तदप्यशनिसंकाशैश्छिन्नं रामस्य सायकैः। एवमेव शतं छिन्नं शिरसां तुल्यवर्चसाम्॥ न चैव रावणस्यान्तो दृश्यते जीवितक्षये। ततः सर्वास्त्रविद्वीरः कौसल्यानन्दवर्धनः॥ मार्गणैर्बहुभिर्युक्तश्चिन्तयामास राघवः। मारीचो निहतो यैस्तु खरो यैस्तु सदूषणः॥ क्रौञ्चावटे विराधस्तु कबन्धो दण्डकावने। यैः साला गिरयो भग्ना वाली च क्षुभितोऽम्बुधिः।६०। त इमे सायकाः सर्वे युद्धे प्रात्ययिका मम। किं तु तत्कारणं येन रावणे मन्दतेजसः॥ इति चिन्तापरश्चासीदप्रमत्तश्च संयुगे। ववर्ष शरवर्षाणि राघवो रावणोरसि ॥ रावणोऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः। गदामुसलवर्षेण रामं प्रत्यर्दयद्रणे॥ तत्प्रवृत्तं महाद्धं तुमुलं रोमहर्षणम। अन्तरिक्षे च भूमौ च पुनश्च गिरिमूर्धनि ॥ देवदानवयक्षाणां पिशाचोरगरक्षसाम्। पश्यतां तन्महाद्धं सर्वरात्रमवर्तत॥ नैव रात्रिं न दिवसं न मुहूर्तं न च क्षणम्। रामरावणयोर्युद्ध विराममुपगच्छति॥ जयमनवेक्ष्य रणे स राघवस्य। सुरवररथसारथिर्महात्मा रणरतराममुवाच वाक्यमाशु॥ अथ संस्मारयामास मातली राघवं तदा। अजानन्निव किं वीर त्वमेनमनुवर्तसे॥ विसृजास्मै वधाय त्वमा पैतामहं प्रभो। विनाशकालः कथितो यः सुरैः सोऽद्य वर्तते॥ ततः संस्मारितो रामस्तेन वाक्येन मातलेः। जग्राह स शरं दीप्तं निःश्वसन्तमिवोरगम्॥ यं तस्मै प्रथमं प्रादादगस्त्यो भगवानृषिः। ब्रह्मदत्तं महद्वाणममोघं युधि वीर्यवान्॥ ब्रह्मणा निर्मितं पूर्वमिन्द्रार्थममितौजसा। दत्तं सुरपतेः पूर्व त्रिलोकजयकाक्षिणः॥ यस्य वाजेषु पवनः फले पावकभास्करौ। शरीरमाकाशमयं गौरवे मेरुमन्दरौ॥ जाज्वल्यमानं वपुषा सुपुङ्ख हेमभूषितम्। तेजसा सर्वभूतानां कृतं भास्करवर्चसम्।७।। सधूममिव कालाग्नि दीप्तमाशीविषोपमम्। नरनागाश्ववृन्दानां भेदनं क्षिप्रकारिणम्॥ द्वाराणां परिघाणां च गिरीणां चापि भेदनम्। नानारुधिरदिग्धाङ्ग मेदोदिग्धं सुदारुणम्॥ वज्रसारं महानादं नानासमितिदारणम्। सर्वचित्रासनं भीमं श्वसन्तमिव पन्नगम्॥ कङ्कगृध्रबकानां च गोमायुगणरक्षसाम्। नित्यभक्षप्रदं युद्धे यमरूपं भयावहम्॥ नन्दनं वानरेन्द्राणां रक्षसामवसादनम्। वाजितं विविधैर्वाजैश्चारुचित्रैर्गरुत्मतः॥ तमुत्तमेषु लोकानामिक्ष्वाकुभयनाशनम्। द्विषतां कीर्तिहरणं प्रहर्षकरमात्मनः॥ अभिमन्त्र्य ततो रामस्तं महेषु महाबलः। वेदप्रोक्तेन विधिना संदधे कार्मुके बली॥ तस्मिन्संधीयमाने तु राघवेण शरोत्तमे। सर्वभूतानि संत्रेसुश्चचाल च वसुंधरा ॥ स रावणाय संकृद्धो भृशमायम्य कार्मुकम्। चिक्षेप परमायत्तः शरं मर्मविदारणम्॥ स वज्र इव दुर्धर्षो वज्रिबाहुविसर्जितः। कृतान्त इव चावार्यो न्यपतद्रावणोरसि॥ स विसृष्टो महावेगः शरीरान्तकरः परः। बिभेद हृदयं तस्य रावणस्य दुरात्मनः॥ रुधिराक्तः स वेगेन शरीरान्तकरः शरः। रावणस्य हरन्प्राणान्विवेश धरणीतलम्॥ स शरो रावणं हत्वा रुधिरार्द्रकृतच्छविः। कृतकर्मा निभृतवत्स तूणीं पुनराविशत्॥ तस्य हस्ताद्धतस्याशु कार्मुकं चापि सायकम्। निपपात सह प्राणैर्धश्यमानश्च जीवितात्॥ गतासुीभवेगस्तु नैर्ऋतेन्द्रो महाद्युतिः। पपा स्यन्दनाद्भूमौ वृत्रो वज्रहतो यथा॥ तं दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः। हतनाथा भयत्रस्ताः सर्वतः संप्रदुद्रुवुः॥ सर्वतश्चाभिपेतुस्तान्वानरान्दुमयोधिनः। दशग्रीववधं दृष्ट्वा वानरा जितकाशिनः॥ अर्दिता वानरैभ्रष्टा लङ्कामभ्यपतन्भयात्। हताश्रयत्वात्करुणैर्वाष्पप्रस्रवणैर्मुखैः॥ ततो विनेदुः संहृष्टा वानरा जितकाशिनः। वदन्तो राघवजयं रावणस्य त तद्वधम्॥ अथान्तरिक्षे व्यनदत्सौम्यस्त्रिदशदुन्दुभिः। दिव्यगन्धवहस्तत्र मारुतः सुसुखो ववौ॥ निपपातान्तरिक्षाच्च पुष्पवृष्टिस्तदा भुवि। किरन्ती राघवरथं दुरावापा मनोहरा ॥ राघवस्तवसंयुक्ता गगने च विशुश्रुवे। साधुसाध्विति वागग्र्या देवतानां महात्मनाम्॥ आविवेश महान्हर्षों देवानां चारणैः सह। रावणे निहते रौद्रे सर्वलोकभयंकरे॥ ततः सकामं सुग्रीवमङ्गदं च विभीषणम्। चकार राघवः प्रीतो हत्वा राक्षसपुङ्गवम्॥ ततः प्रजग्मुः प्रशमं मरुद्गणा दिशः प्रसेदुर्विमलं नभोऽभवत्। मही चकम्पे न च मारुतो ववौ स्थिरप्रभश्चाप्यभवद्दिवाकरः॥ ततस्तु सुग्रीवविभीषणाङ्गदाः सुहृद्विशिष्टाः सहलक्ष्मणास्तदा। समेत्य हृष्टा विजयेन राघवं रणेऽभिरामं विधिनाभ्यपूजयन्॥ स तु निहतरिपुः स्थिरप्रतिज्ञः स्वजनबलाभिवृतो रणे बभूव। स्त्रिदशगणैरभिसंवृतो महेन्द्रः॥ तासां विलपमानानां तदा राक्षसयोषिताम्। ज्येष्ठपत्नी प्रिया दीना भर्तारं समुदैक्षत॥ दशग्रीवं हतं दृष्ट्वा रामेणाचिन्त्यकर्मणा। पतिं मण्डोदरी तत्र कृपणा पर्यदेवयत्॥ ननु नाम महाबाहो तव वैश्रवणानुज। क्रुद्धस्य प्रमुखे स्थातुं त्रस्यत्यपि पुरंदरः॥ ऋषयश्च महान्तोऽपि गन्धर्वाश्च यशस्विनः। ननु नाम तवोद्वेगाच्चारणाश्च दिशो गताः॥ स त्वं मानुषमात्रेण रामेण युधि निर्जितः। न व्यपत्रपसे राजन्किमिदं राक्षसेश्वर ॥ कथं त्रैलोक्यमाक्रम्य श्रिया वीर्येण चान्वितम्। अविषह्यं जघान त्वां मानुषो वनगोचरः॥ मानुषाणामविषये चरतः कामरूपिणः। विनाशस्तव रामेण संयुगे नोपपद्यते॥ न चैतत्कर्म रामस्य श्रद्दधामि चमूमुखे। सर्वतः समुपेतस्य तव तेनाभिभर्षणम्॥ अथवा रामरूपेण कृतान्तः स्वयमागतः। मायां तव विनाशाय विधायाप्रतितर्किताम्॥ अथवा वासवेन त्वं धर्षितोऽसि महाबल। वासवस्य तु का शक्तिस्त्वां द्रष्टुमपि संयुगे॥ महाबलं महावीर्यं देवशत्रु महौजसम्। व्यक्तमेष महायोगी परमात्मा सनातनः॥ अनादिमध्यनिधनो महतः परमो महान्। तमसः परमो धाता शङ्खचक्रगदाधरः॥ श्रीवत्सवक्षा नित्यश्रीरजय्यः शाश्वतो ध्रुवः। मानुषं रूपमास्थाय विष्णुः सत्यपराक्रमः॥ सर्वैः परिवृत्तो देवैर्वानरत्वमुपागतः। सर्वलोकेश्वरः श्रीमॅल्लोकानां हितकाम्यया।॥ स राक्षसपरीवारं देवशत्रु भयावहम्। इन्द्रियाणि पुरा जित्वा जितं त्रिभुवनं त्वया॥ स्मरद्भिरिव तद्वैरमिन्द्रियैरेव निर्जितः। यदैव हि जनस्थाने राक्षसैर्बहुभिर्वृतः॥ खरस्तु निहतो भ्राता तदा रामो न मानुषः। यदैव नगरी लङ्का दुष्प्रवेशां सुरैरपि।॥ प्रविष्टो हनुमान्वीर्यात्तदैव व्यथिता वयम्। क्रियतामविरोधश्च राघवेणेति यन्मया॥ उच्यमानं न गृह्णासि तस्येयं व्युष्टिरागता। अकस्माच्चाभिकामोऽसि सीतां राक्षसपुङ्गव॥ ऐश्वर्यस्य विनाशाय देहस्य स्वजनस्य च। अरुन्धत्या विशिष्टां तां रोहिण्याश्चापि दुर्मते।२०॥ सीतां धर्षयता मान्यां त्वया ह्यसदृशं कृतम्। वसुधाया हि वसुधां श्रियाः श्रीं भर्तृवत्सलाम्॥ सीतां सर्वानवद्याङ्गीमरण्ये विजने शुभाम्। आनयित्वा तु तां दीनां छद्मनात्मस्वदूषणम्॥ अप्राप्य तं चैव कामं मैथिलीसंगमे कृतम्। पतिव्रतायास्तपसा नूनं दग्धोऽसि मे प्रभो॥ तदैव यन्न दग्धस्त्वं धर्षयंस्तनुमध्यमाम्। देवा बिभ्यति ते सर्वे सेन्द्राः साग्निपुरोगमाः।।२४ अवश्यमेव लभते फलं पापस्य कर्मणः। भर्तः पर्यागते काले कर्ता नास्त्यत्र संशयः॥ शुभकृच्छुभमाप्नोति पापकृत्पापमश्नुते। विभीषणः सुखं प्राप्तस्त्वं प्राप्तः पापमीदृशम्।।२६ सन्त्यन्याः प्रमदास्तुभ्यं रूणेणाभ्यधिकास्ततः। अनङ्गवशमापन्नस्त्वं तु मोहान बुद्ध्यसे॥ न कुलेन न रूपेण न दाक्षिण्येन मैथिली। मयाधिका वा तुल्या वा तत्तु मोहान बुद्ध्यसे॥ सर्वदा सर्वभूतानां नास्ति मृत्युरलक्षणः। तव तद्वदयं मृत्युमैथिलीकृतलक्षणः॥ सीतानिमित्तजो मृत्युस्त्वया दूरादुपाहृतः। मैथिली सह रामेण विशोका विहरिष्यति॥ अल्पपुण्या त्वहं घोरे पतिता शोकसागरे। कैलासे मन्दरे मेरौ तथा चैत्ररथे वने॥ देवोद्यानेषु सर्वेषु विहृत्य सहिता त्वया। विमानेनानुरूपेण या याम्यतुलया श्रिया॥ पश्यन्ती विविधान्देशांस्तांस्तांश्चित्रनगम्बरा। भ्रंशिता कामभोगेभ्यः सास्मि वीर वधात्तव ॥ सैवान्येवास्मि संवृत्ता धिराज्ञां चञ्चलां श्रियम्। हा राजन्सुकुमारं ते सुभ्र सुत्वक्समुन्नसम्॥ कान्तिश्रीद्युतिभिस्तुल्यमिन्दुपद्मदिवाकरैः। किरीटकूटोज्ज्वलितं ताम्रास्यं दीप्तकुण्डलम् ।।३५ मदव्याकुललोलाक्षं भूत्वा यत्पानभूमिषु। विविधस्रग्धरं चारु वल्गुस्मितकथं शुभम्॥ तदेवाद्य तवैवं हि वक्रं न भ्राजते प्रभो। रामसायकनिर्भिन्नं रक्तं रुधिरविस्रवैः॥ विशीर्णमेदोमस्तिष्कं रूक्षं स्यन्दनरेणुभिः। हा पश्चिमा मे संप्राप्ता दशा वैधव्यदायिनी॥ या मयासीन संबुद्धा कदाचिदपि मन्दया। पिता दानवराजो मे भर्ता मे राक्षसेश्वरः॥ पुत्रो मे शक्रनिर्जेता इत्यहं गर्विता भृशम्। दृप्तारिमथनाः क्रूराः प्रख्यातबलपौरुषाः॥ अकुतश्चिद्भया नाथा ममेत्यासीन्मतिर्बुवा। तेषामेवंप्रभावाणां युष्माकं राक्षसर्षभाः॥ कथं भयमसंबुद्धं मानुषादिदमागतम्। स्निग्धेन्द्रनीलनीलं तु प्रांशुशैलोपमं महत्॥ केयूराङ्गदवैदूर्यमुक्ताहारस्रगुज्ज्वलम्। कान्तं विहारेष्वधिकं दीप्तं संग्रामभूमिषु॥ भात्याभरणभाभिर्यद्विद्युद्भिरिव तोयदः। तदेवाद्य शरीरं ते तीक्ष्णै कचरैश्चितम्॥ पुनर्दुर्लभसंस्पर्श परिष्वक्तुं न शक्यते। श्वाविधः शललैर्युक्तं लग्नैर्बाणैर्निरन्तरम् ॥ स्वर्पितैर्मर्मसु भृशं संछिन्नस्नायुबन्धनम्। क्षितौ निपतितं राजश्यामं वै रुधिरच्छवि॥ वज्रप्रहारमभितो विकीर्ण इव पर्वतः। हा स्वप्नः सत्यमेवेदं त्वं रामेण कथं हतः॥ त्वं मृत्योरपि मृत्युः स्याः कथं मृत्युवशं गतः। त्रैलोक्यवसुभोक्तारं त्रैलोक्योद्वेगदं महत्॥ जेतारं लोकपालानां क्षेप्तारं शंकरस्य च। दृप्तानां विग्रहीतारमाविष्कृतपराक्रमम्॥ लोकक्षोभयितारं च साधुभूतविदारणम्। ओजसा दृप्तवाक्यानां वक्तारं रिपुसंनिधौ॥ स्वयूथभृत्यगोप्तारं हन्तारं भीमकर्मणाम्। हन्तारं दानवेन्द्राणां यक्षाणां च सहस्रशः॥ निवातकवचानां तु निग्रहीतारमाहवे। नैकयज्ञविलोप्तारं त्रातारं स्वजनस्य च॥ धर्मव्यवस्थाभेत्तारं मायास्रष्टारमाहवे। देवासुरनृकन्यानामाहर्तारं ततस्ततः॥ शत्रुस्त्रीशोकदातारं नेतारं स्वजनस्य च। लङ्काद्वीपस्य गोप्तारं कर्तारं भीमकर्मणाम्॥ अस्माकं कामभोगानां दातारं रथिनां वरम्। एवंप्रभावं भर्तारं दृष्ट्वा रामेण पातितम्॥ स्थिरास्मि या देहमिमं धारयामि हतप्रिया। शयनेषु महार्हेषु शयित्वा राक्षसेश्वर॥ इह कस्मात्प्रसुप्तोऽसि धरण्यां रेणुगुण्ठितः। यदा मे तनयः शस्तो लक्ष्मणेनेन्द्रजिधुधि॥ तदा त्वभिहता तीव्रमद्य त्वस्मि निपातिता। साहं बन्धुजनैींना हीना नाथेन च त्वया॥ विहीना कामभोगैश्च शोचिष्ये शाश्वतीः समाः। प्रपन्नो दीर्घमध्वानं राजन्नद्य सुदुर्गमम्॥ नय मामपि दुःखाता न वर्तिष्ये त्वया विना। कस्मात्त्वं मां विहायेह कृपणां गन्तुमिच्छसि॥ दीनां विलपती मन्दां किं च मां नाभिभाषसे। दृष्ट्वा न खल्वभिक्रुद्धो मामिहामवगुण्ठिताम्॥ निर्गतां नगरद्वारात्पद्भ्यामेवागतां प्रभो। पश्येष्टदार दारांस्ते भ्रष्टलज्जावगुण्ठनान्॥ बहिनिष्पतितान्सर्वान्कथं दृष्ट्वा न कुप्यसि। अयं क्रीडासहायस्तेऽनाथो लालप्यते जनः॥ न चैनमाश्वासयसि किं वा न बहुमन्यसे। यास्त्वया विधवा राजन्कृता नैका कुलस्त्रियः।।६४ पतिव्रता धर्मरता गुरुशुश्रूषणे रताः। ताभिः शोकाभितप्ताभिः शप्तः परवशं गतः॥ त्वया विप्रकृताभिश्च तदा शप्तस्तदागतम्। प्रवादः सत्यमेवायं त्वां प्रति प्रायशो नृप॥ पतिव्रतानां नाकस्मात्पतन्त्यश्रूणि भूतले। कथं च नाम ते राजन्लोकानाक्रम्य तेजसा॥ नारीचौर्यमिदं क्षुद्रं कृतं शौटीर्यमानिना। अपनीयाश्रमाद्रामं यन्मृगच्छद्मना त्वया।६८॥ 'आनीता रामपत्नी सा अपनीय च लक्ष्मणम्। कातयं च न ते युद्धे कदाचित्संस्मराम्यहम्॥ तत्तु भाग्यविपर्यासानूनं ते पक्वलक्षणम्। अतीतानागतार्थज्ञो वर्तमानविचक्षणः।७०॥ मैथिलीमाहृतां दृष्ट्वा ध्यात्वा निःश्वस्य चायतम्। सत्यवाक्स महाबाहो देवरो मे यदब्रवीत्॥ अयं राक्षसमुख्यानां विनाशः प्रत्युपस्थितः। कामक्रोधसमुत्थेन व्यसनेन प्रसङ्गिना।७२।। निवृत्तस्त्वत्कृते नार्थः सोऽयं मूलहरो महान्। त्वया कृतमिदं सर्वमनाथं राक्षस कुलम्॥ नहि त्वं शोचितव्यो मे प्रख्यातबलपौरुषः। स्त्रीस्वभावात्तु मे बुद्धिः कारुण्ये परिवर्तते ॥ सुकृतं दुष्कृतं च त्वं गृहीत्वा स्वां गतिं गतः। आत्मानमनुशोचामि त्वद्विनाशेन दुःखिताम्॥ सुहृदां हितकामानां न श्रुतं वचनं त्वया । भ्रातृणां चैव कात्स्न्येन हितमुक्तं दशानन।।७६ हेत्वर्थयुक्तं विधिवच्छ्रेयस्करमदारुणम्। विभीषणेनाभिहितं न कृतं हेतुमत्त्वया॥ मारीचकुम्भकर्णाभ्यां वाक्यं मम पितुस्तथा। न कृतं वीर्यमत्तेन तस्येदं फलमीदृशम्॥ नीलजीमूतसंकाश पीताम्बर शुभाङ्गद। स्वगात्राणि विनिक्षिप्य किं शेषे रुधिरावृतः॥ प्रसुप्त इव शोकात किं मां न प्रतिभाषसे। महावीर्यस्य दक्षस्य संयुगेष्वपलायिनः॥ यातुधानस्य दौहि: किं मां न प्रतिभाषसे। उत्तिष्ठोत्तिष्ठ किं शेषे नवे परिभवे कृते।८१॥ अद्य वै निर्भया लङ्का प्रविष्टाः सूर्यरश्मयः। येन सूदयसे शत्रून्समरे सूर्यवर्चसा ॥ वज्र वज्रधरस्येव सोऽयं ते सततार्चितः। रणे बहुप्रहरणो हेमजालपरिष्कृतः॥ परिघो व्यवकीर्णस्ते बाणैश्छिन्नः सहस्रधा। प्रियामिवोपसंगृह्य किं शेषे रणमेदिनीम्॥ अप्रियामिव कस्माच्च मां नेच्छस्यभिभाषितुम् । धिगस्तु हृदयं यस्या ममेदं न सहस्रधा।८५॥ त्वयि पञ्चत्वमापन्ने फलते शोकपीडितम्। इत्येवं विलपन्ती सा बाष्पपर्याकुलेक्षणा॥ स्नेहोपस्कन्नहृदया तदा मोहमुपागमत्। कश्मलाभिहता सन्ना बभौ सा रावणोरसि ॥ संध्यानुरक्ते जलदे दीप्ता विद्युदिवोज्ज्वला। तथागतां समुत्थाप्य सपल्यस्ता भृशातुराः॥ पर्यवस्थापयामास् रुदत्यो रुदतीं भृशम्। किं ते न विदिता देवि लोकानां स्थितिरध्रुवा॥ दशाविभागपर्याये राज्ञां वै चञ्चलाः श्रियः। इत्येवमुच्यमाना सा सशब्दं प्ररुरोद ह॥ स्नपयन्ती तदास्त्रेण स्तनौ वक्रं सुनिर्मलम्। एतस्मिन्नन्तरे रामो विभीषणमुवाच ह॥ संस्कारः क्रियतां भ्रातुः स्त्रीगणः परिसान्त्व्यताम्। तमुवाच ततो धीमान्विभीषण इदं वचः॥ विमृश्य बुद्ध्या प्रश्रितं धर्मार्थसहितं हितम्। त्यक्तधर्मव्रतं क्रूरं नृशंसमनृतं तथा।१३।। नाहमर्हामि संस्कर्तुं परदाराभिमर्शनम्। भ्रातृरूपो हि मे शत्रुरेष सर्वाहिते रतः॥ रावणो नाहते पूजां पूज्योऽपिगुरुगौरवात्। नृशंस इति मां राम वक्ष्यन्ति मनुजा भुवि॥ श्रुत्वा तस्यागुणान्सर्वे वक्ष्यन्ति सुकृतं पुनः। तच्छ्रुत्वा परमप्रीतो रामो धर्मभृतां वरः॥ विभीषणमुवाचेदं वाक्यज्ञं वाक्यकोविदः। तवापि मे प्रियं कार्यं त्वत्प्रभावान्मया जितम्।१७।। अवश्यं तु क्षमं वाच्यो मया त्वं राक्षसेश्वर। अधर्मानृतसंयुक्तः कामं त्वेष निशाचरः॥ तेजस्वी बलवाञ्छूरः संग्रामेषु च नित्यशः। शतक्रतुमुखैर्देवैः श्रूयते न पराजितः।१९।। महात्मा बलसंपन्नो रावणो लोकरावणः। मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम्।।१००। क्रियतामस्य संस्कारो ममाप्येष तथा तव। त्वत्सकाशान्महाबाहो संस्कारं विधिपूर्वकम्॥ क्षिप्रमर्हति धर्मेण त्वं यशोभाग्भविष्यसि। राघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः॥ संस्कारयितुमारेभे भ्रातरं रावणं हतम्। स प्रविश्य पुरीं लङ्कां राक्षसेन्द्रो विभीषणः॥ रावणस्याग्निहोत्रं तु निर्यापयति सत्वरम्। शकटान्दारुरूपाणि अग्नीन्वै याजकांस्तथा॥ तथा चन्दनकाष्ठानि काष्ठानि विविधानि च। अगरूणि सुगन्धीनि गन्धाश्च सुरभीस्तथा॥ मणिमुक्ताप्रवालानि निर्यापयति राक्षसः। आजगाम मुहूर्तेन राक्षसैः परिवारितः॥ ततो माल्यवता साधु क्रियामेव चकार सः। सौवर्णी शिविकां दिव्यामारोप्य क्षौमवाससम्॥ रावणं राक्षसाधीशमश्रुवर्णमुखा द्विजाः। तूर्यघोषैश्च विविधैस्तुवद्भिश्चाभिनन्दितम्॥ पताकाभिश्च चित्राभिः सुमनोभिश्च चित्रिताम्। उत्क्षिप्य शिबिकां तां तु विभीषणपुरोगमाः॥ दक्षिणाभिमुखाः सर्वे गृह्य काष्ठानि भेजिरे। अग्नयो दीप्यमानास्ते तदाध्वर्युसमीरिताः॥ शरणाभिगताः सर्वे पुरस्तात्तस्य ते ययुः। अन्तः पुराणि सर्वाणि रुदमानानि सत्वरम्॥ पृष्ठतोऽनुययुस्तानि प्लवमानानि सर्वतः। रावणं प्रयते देशे स्थाप्य ते भृशदुःखिताः॥ चितां चन्दनकाष्ठैश्च पद्मकोशीरचन्दनैः। ब्राहया संवर्तयामासू राङ्कवास्तरणावृताम् ॥ प्रचक्रू राक्षसेन्द्रस्य पितृमेधमनुत्तमम्। वेदिं च दक्षिणा प्राची यथास्थानं च पावकम्॥ पृषदाज्येन संपूर्ण स्रुवं स्कन्धे प्रचिक्षिपुः। पादयोः शकटं प्रापुरूर्वोचोलू खलं तदा॥ दारुपात्राणि सर्वाणि अरणिं चोत्तरारणिम्। दत्त्वा तु मुसलं चान्यं यथास्थानं विचक्रमुः॥ शास्त्रदृष्टेन विधिना महर्षिविहितेन च। तत्र मेध्यं पशुं हत्वा राक्षसेन्द्रस्य राक्षसाः॥ परिस्तरणिकां राज्ञो घृताक्तां समवेशयन्। गन्धैर्माल्यैरलंकृत्य रावणं दीनमानसाः॥ विभीषणसहायास्ते वस्त्रैश्च विविधैरपि। लाजैरवकिरन्ति स्म बाष्पपूर्णमुखास्तथा॥ स ददौ पावकं तस्य विधियुक्तं विभीषणः। स्नात्वा चैवाईवस्त्रेण तिलान्दर्भविमिश्रितान्॥ उदकेन च संमिक्षान्प्रदाय विधिपूर्वकम्। ताः स्त्रियोऽनुनयामास सान्त्वयित्वा पुनः पुनः॥ गम्यतामिति ताः सर्वा विविशुनगरं ततः। प्रविष्टासु पुरीं स्त्रीषु राक्षसेन्द्रो विभीषणः।। रामपार्श्वमुपागम्य समतिष्ठद्विनीतवत्॥ रामोऽपि सह सैन्येन ससुग्रीवः सलक्ष्मणः। हर्ष लेभे रिपुं हत्वा वृत्रं वज्रधरो यथा॥ ततो विमुक्त्वा सशरं शरासनं महेन्द्रदत्तं कवचं स तन्महत्। विमुच्य रोषं रिपुनिग्रहात्ततो रामः स सौम्यत्वमुपागतोऽरिहा॥ ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः। जग्मुः स्वैः स्वैर्विमानैस्तै कथयन्तः शुभाः कथाः॥ रावणस्य वधं घोरं राघवस्य पराक्रमम्। सुयुद्धं वानराणां च सुग्रीवस्य च मन्त्रितम्॥ अनुरागं च वीर्यं च मारुतेर्लक्ष्मणस्य च। पतिव्रतात्वं सीताया हनूमति पराक्रमम्॥ कथयन्तो महाभागा जग्मुर्हष्टा यथागतम्। राघवस्तु रथं दिव्यमिन्द्रदत्तं शिखिप्रभम्॥ अनुज्ञाप्य महाबाहुर्मातलिं प्रत्यपूजयत्। राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः॥ दिव्यं तं रथमास्थाय दिवमेवोत्पपात ह। तस्मिंस्तु दिवमारूढे सरथे रथिनां वरः॥ राघवः परमप्रीतः सुग्रीवं परिषस्वजे। परिष्वज्य च सुग्रीवं लक्ष्मणेनाभिवादितः॥ पूज्यमानो हरिगणैराजगाम बलालयम्। अथोवाच स काकुत्स्थः समीपपरिवर्तिनम्॥ सौमित्रिं मित्रसंपन्नं लक्ष्मणं शुभलक्षणम्। विभीषणमिमं सौम्य लङ्कायामभिषेचय॥ अनुरक्तं च भक्तं च तथा पूर्वोपकारिणम्। एष मे परमः कामो यदिम रावणानुजम्॥ लङ्कायां सौम्य पश्येयमभिषिक्तं विभीषणम्। एवमुक्तस्तु सौमित्री राघवेण महात्मना॥ तथेत्युक्त्वा सुसंहृष्टः सौवर्णं घटमाददे। तं घटं वानरेन्द्राणां हस्ते दत्त्वा मनोजवान्॥ व्यादिदेश महासत्त्वः समुद्रसलिलं तदा। अतिशीघ्रं ततो गत्वा वानरास्ते मनोजवाः॥ आगतास्तु जलं गृह्य समुद्राद्वानरोत्तमाः। ततस्त्वेकं घटं गृह्य संस्थाप्य परमासने॥ घटेन तेन सौमित्रिरभ्यषिञ्चद्विभीषणम्। लङ्कायां रक्षसां मध्ये राजानं रामशासनात्॥ विधिना मन्त्रदृष्टेन सुहृद्गणसमावृतः। अभ्यषिञ्चस्तदा सर्वे राक्षसा वानरास्तथा॥ प्रहर्षमतुलं गत्वा तुष्टुवू राममेव हि। तस्यामात्या जहृषिरे भक्ता ये चास्य राक्षसाः॥ दृष्ट्वाभिषिक्तं लङ्कायां राक्षसेन्द्रं विभीषणम्। राघवः परमां प्रीतिं जगाम सहलक्ष्मणः॥ सान्त्वयित्वा प्रकृतयस्ततो राममुपागमत्। दध्यक्षतान्मोदकांश्च लाजाः सुमनसस्तथा॥ आजहुरथ संहृष्टाः पौरास्तस्मै निशाचराः। स तान्गृहीत्वा दुर्धर्षो राधवाय न्येवदयत्॥ माङ्गल्यं मङ्गलं सर्वं लक्ष्मणाय च वीर्यवान्। कृतकाय समृद्धार्थ दृष्ट्वा रामो विभीषणम्।। प्रतिजग्राह तत्सर्वं तस्यैव प्रतिकाम्यया॥ ततः शैलोपमं वीरं प्राञ्जलिं प्रणतं स्थितम्। उवाचेदं वचो रामो हनूमन्तं प्लवङ्गमम्॥ अनुज्ञाप्य महाराजमिमं सौम्य विभीषणम्। प्रविश्य नगरी लङ्कां कौशलं ब्रूहि मैथिलीम्॥ वेदेह्यां मां च कुशलं सुग्रीवं च सलक्ष्मणम्। आचक्ष्व वदतां श्रेष्ठ रावणं च हतं रणे॥ प्रियमेतदिहाख्याहि वैदेह्यास्त्वं हरीश्वर। प्रतिगृह्य तु संदेशमुपावर्तितुमर्हसि ॥ इति प्रतिसमादिष्टो हनूमान्मारुतात्मजः। प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः॥ प्रविश्य च पुरीं लङ्कामनुज्ञाप्य विभीषणम्। ततस्तेनाभ्यनुज्ञातो हनूमान्वृक्षवाटिकाम्॥ संप्रविश्य यथान्यायं सीताया विदितो हरिः। ददर्श मृजया हीनां सातङ्कां रोहिणीमिव॥ वृक्षमूले निरानन्दा राक्षसीभिः परीवृताम्। निभृतः प्रणतः प्रह्वः सोऽभिगम्याभिवाद्य च॥ दृष्ट्वा समागतं देवी हनूमन्तं महाबलम्। तूष्णीमास्त तदा दृष्ट्वा स्मृत्वा हृष्टाभवत्तदा ॥ सौम्यं तस्या मुखं दृष्ट्वा हनूमान्प्लवगोत्तमः। रामस्य वचनं सर्वमाख्यातुमुपचक्रमे॥ वैदेहि कुशली रामः सुग्रीवः सहलक्ष्मणः। कुशलं त्वाह सिद्धार्थो हतशत्रु मित्रजित्॥ विभीषणसहायेन रामेण हरिभिः सह । निहतो रावणो देवी लक्ष्मणेन च वीर्यवान्॥ प्रियमाख्यामि ते देवि भूयश्च त्वां सभाजये। तव प्रभावाद्धर्मज्ञे महानरामेण संयुगे॥ लब्धोऽयं विजयः सीते स्वस्था भव गतज्वरा। रावणश्च हतः शत्रुर्लङ्का चैव वशीकृता॥ मया ह्यलब्धनिद्रेण धृतेन तव निर्जये। प्रतिज्ञैषा विनिस्तीर्णा बद्ध्वा सेतुं महोदधौ॥ संभ्रमश्च न कर्तव्यो वर्तन्त्या रावणालये। विभीषणविधेयं हि लकैचर्यमिदं कृतम्॥ तदाश्वसिहि विस्रब्धं स्वगृहे परिवर्तसे। अयं चाभ्येति संहृष्टस्त्वदर्शनसमुत्सुकः॥ एवमुक्ता तु सा देवी सीता शशिनिभानना। प्रहर्षेणावरुद्धा सा व्याहतुं न शशाक ह॥ ततोऽब्रवीद्धरिवरः सीतामप्रतिजल्पतीम्। किं त्वं चिन्तयसे देवि किं च मां नाभिभाषसे॥ एवमुक्ता हेनुमता सीता धर्मपथे स्थिता। अब्रवीत्परमप्रीता बाष्पगद्गदया गिरा ॥ प्रियमेतदुपश्रुत्य भर्तुर्विजयसंश्रितम्। प्रहर्षवशमापन्ना निर्वाक्यास्मि क्षणान्तरम्॥ नहि पश्यामि सदृशं चिन्तयन्ती प्लवंगम। आख्यानकस्य भवतो दातुं प्रत्यभिनन्दनम्॥ न च पश्यामि सदृशं पृथिव्यां तव किंचन। सदृशं यत्प्रियाख्याने तव दत्त्वा भवेत्सुखम्॥ हिरण्यं वा सुवर्णं वा रत्नांनि विविधानि च। राज्यं वा त्रिषु लोकेषु एतन्नार्हसि भाषितम्॥ एवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवंगमः। प्रगृहीताञ्जलिहर्षात्सीतायाः प्रमुखे स्थितः॥ भर्तुः प्रियहिते युक्ते भर्तुर्विजयकाङ्क्षिणि। स्निग्धमेवंविधं वाक्यं त्वमेवार्हस्यनिन्दिते॥ तस्य तद्वचनं श्रुत्वा मैथिली जनकात्मजा। ततः शुभतरं वाक्यमुवाच पवनात्मजम्॥ अतिलक्षणसंपन्नं माधुर्यगुणभूषणम्। बुद्ध्या ह्यष्टाङ्गया युक्तं त्वमेवार्हसि भाषितुम्॥ श्लाघनीयोऽनिलस्य त्वं सुतः परमधार्मिकः। बलं शौर्य श्रुतं सत्त्वं विक्रमो दाक्ष्यमुत्तमम्॥ तेजः क्षमा धृतिः स्थैर्य विनीतत्वं न संशयः। एते चान्ये च बहवो गुणास्त्वय्येव शोभनाः॥ अथोवाच पुनः सीतामसंभ्रान्तो विनीतवत्। प्रगृहीताञ्जलिर्हर्षात्सीतायाः प्रमुखे स्थितः॥ इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे। हन्तुमिच्छामि ताः सर्वा याभिस्त्वं तर्जिता पुरा॥ क्लिश्यन्ती पतिदेवां त्वामशोकविनकां गताम्। घोररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः॥ इह श्रुता मया देवि राक्षस्यो विकृताननाः। असकृत्परुषैर्वाक्यैर्वदन्त्यो रावणाज्ञया॥ विकृता विकृताकाराः क्रूराः क्रूरकचेक्षणाः। इच्छामि विविधैर्घातैर्हन्तुमेताः सुदारुणाः॥ राक्षस्यो दारुणकथा वरमेतत्प्रयच्छ मे। मुष्टिभिः पाणिघातैश्च विशालैश्चैव बाहुभिः॥ जङ्घाजानुप्रहारैश्च दन्तानां चैव पीडनैः। भक्षणैः कर्णनासानां केशानां लुञ्चनैस्तथा॥ निपात्य हन्तुमिच्छामि तव विप्रियकारिणीः। एवं प्रहारैर्बहुभिः संप्रहार्य यशस्विनी॥ घातये तीव्ररूपाभिर्याभिस्त्वं तर्जिता पुरा। इत्युक्ता सा हनुमता कृपणा दीनवत्सला॥ हनूमन्तमुवाचेदं चिन्तयित्वा विमृश्य च। राजसंश्रयवश्यानां कुर्वतीनां पराज्ञया॥ विधेयानां च दासीनां कः कुप्येद्वानरोत्तम। भाग्यवैषम्यदोषेण पुरस्ताद्दुष्कृतेन च ॥ मयैतत्प्राप्यते सर्व स्वकृतं ह्युपभुज्यते मैवं वद महाबाहो दैवी ह्येषा परा गतिः॥ प्राप्तव्यं तु दशायोगान्मयैतदिति निश्चितम्। दासीनां रावणस्याहं मर्षयामीह दुर्बला॥ आज्ञप्ता राक्षसेनेह राक्षस्यस्तर्जयन्ति माम्। हते तस्मिन्न कुर्वन्ति तर्जनं मारुतात्मज॥ अयं व्याघ्रसमीपे तु पुराणो धर्मसंहितः। ऋक्षेण गीतः श्लोकोऽस्ति तं निबोध प्लवंगम॥ न परः पापमादत्ते परेषां पापकर्मणाम्। समयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः।॥ पापानां वा शुभानां वा वधार्हाणामथापि वा। कार्य कारुण्यमार्येण न कश्चिन्त्रापराध्यति॥ लोकहिंसाविहाराणां क्रूराणां पापकर्मणाम्। कुर्वतामपि पापानि नैव कार्यमशोभनम् ॥ एवमुक्तस्तु हनुमान्सीतया वाक्यकोविदः। प्रत्युवाच ततः सीतां रामपत्नीमनिन्दिताम्॥ युक्ता रामस्य भवती धर्मपत्नी गुणान्विता। प्रतिसंदिश मां देवि गमिष्ये यत्र राघवः॥ एवमुक्ता हनुमता वैदेही जनकात्मजा। साब्रवीद्रष्टुमिच्छामि भर्तारं भक्तवत्सलम्॥ तस्यास्तद्वचनं श्रुत्वा हनूमान्मारुतात्मजः। हर्षयन्मैथिली वाक्यमुवाचेदं महामतिः॥ पूर्णचन्द्रमुखं रामं द्रक्ष्यस्यद्य सलक्ष्मणम्। स्थितमित्रं हतामित्रं शचीवेन्द्रं सुरेश्वरम्॥ तामेवमुक्त्वा भ्राजन्ती सीतां साक्षादिव श्रियम्। आजगाम महातेजा हनूमान्यत्र राघवः॥ सपदि हरिवरस्ततो हनूमान् प्रतिवचनं जनकेश्वरात्मजायाः। कथितमकथयद्यकथाक्रमेण त्रिदशवरप्रतिमाय राघवाय॥ तमुवाच महाप्राज्ञः सोऽभिवाद्य प्लवंगमः। रामं कमलपत्राक्षं वरं सर्वधनुष्मताम्॥ यन्निमित्तोऽयमारम्भः कर्मणां यः फलोदयः। तां देवीं शोकसंतप्तां द्रष्टुमर्हसि मैथिलीम्॥ सा हि शोकसमाविष्टा बाष्पपर्याकुलेक्षणा। मैथिली विजयं श्रुत्वा द्रष्टुं त्वामभिकाचति ॥ पूर्वकात्प्रत्ययाच्चाहमुक्तो विश्वस्तया तया। द्रष्टमिच्छामि भर्तारमिति पर्याकुलेक्षणा॥ एवमुक्तो हनुमता रामो धर्मभृतां वरः। आगच्छत्सहसा ध्यानमीषद्वाष्पपरिप्लुतः।।।।। स दीर्घमभिनिःश्वस्य जगतीमवलोकयन्। उवाच मेघसंकाशं विभीषणमुपस्थितम्॥ दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम्। इह सीतां शिरः स्नातामुपस्थापय मा चिरम्॥ एवमुक्तस्तु रामेण त्वरमाणो विभीषणः। प्रविश्यान्तःपुरं सीतां स्त्रीभिः स्वाभिरचोदयत्॥ ततः सीतां महाभागां दृष्ट्वोवाच विभीषणः। मूर्ध्नि बद्धाञ्जलिः श्रीमान्विनीतो राक्षसेश्वरः।।।। दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता। यानमारोह भद्रं ते भर्ता त्वां द्रष्टुमिच्छति॥ एवमुक्ता तु वैदेही प्रत्युवाच विभीषणम्। अस्नात्वा द्रष्टुमिच्छामि भर्तारं राक्षसेश्वर॥ तस्यास्तद्वचनं श्रुत्वा प्रत्युवाच विभीषणः। यथाह रामो भर्ता ते तत्तथा कर्तुमर्हसि ॥ तस्य तद्वचनं श्रुत्वा मैथिली पतिदेवता। भर्तृभक्त्या वृता साध्वी तथेति प्रत्यभाषत॥ ततः सीतां शिरःस्नातां संयुक्तां प्रतिकर्मणा। महाभिरणोपेतां महार्हाम्बरधारिणीम्॥ आरोग्य शिबिकां सीतां राक्षसैर्वहनोचितैः। राक्षसैर्बहुभिर्गुप्तामाजहार विभीषणः॥ सोऽभिगम्य महात्मानं ज्ञात्वापि ध्यानमास्थितम्। प्रणतश्च प्रहृष्टश्च प्राप्तां सीतां न्यवेदयत्॥ तामागतामुपश्रुत्य रक्षोगृहचिरोषिताम्। रोषं हर्ष च दैन्यं च राघवः प्राप शत्रुहा॥ ततो यानगतां सीतां सविमर्श विचारयन्। विभीषणमिदं वाक्यमहष्टो राघवोऽब्रवीत्॥ राक्षसाधिपते सौम्य नित्यं मद्विजये रत। वैदेही संनिकर्ष मे क्षिप्रं समभिगच्छतु॥ तस्य तद्वचनं श्रुत्वा राघवस्य विभीषणः। तूर्णमुत्सारणं तत्र कारयामास धर्मवित्॥ कञ्चकोष्णीषिणस्तत्र वेत्रझर्झरपाणयः। उत्सारयन्तस्तान्योधासमन्तात्परिचक्रमुः॥ ऋक्षाणां वानराणां च राक्षसानां च सर्वशः। वृन्दान्युत्सार्यमाणानि दूरमुत्तस्थुरन्ततः॥ तेषामुत्सार्यमाणानां निःस्वनः सुमहानभूत्। वायुनोभूयमानस्य सागरस्येव निःस्वनः॥ उत्सार्यमाणान्दृष्ट्वाऽथ जगत्यां जातसंभ्रमान्। दाक्षिण्यात्तदमर्षाच्च वारयामास राघवः॥ संरम्भाच्चाब्रवीद्रामश्चक्षुषा प्रदहनिव। विभीषणं महाप्राज्ञं सोपालम्भमिदं वचः॥ किमर्थं मामनादृत्य क्लिश्यतेऽयं त्वया जनः। निवर्तयैनमुद्वेगं जनोऽयं स्वजनो मम॥ न गृहाणि न वस्त्राणि न प्राकारस्तिरस्क्रिया। नेदृशा राजसत्कारा वृत्तमावरणं स्त्रियाः॥ व्यसनेषु न कृच्छ्रेषु न युद्धेषु स्वयंवरे। न क्रतौ नो विवाहे वा दर्शनं दूष्यते स्त्रियाः॥ सैषा विपद्गता चैव कृच्छ्रेण च समन्विता। दर्शने नास्ति दोषोऽस्या मत्समीपे विशेषतः॥ । विसृज्य शिबिकां तस्मात्पद्व्यामेवापसर्पतु। समीपे मम वैदेहीं पश्यन्त्वेते वनौकसः॥ एवमुक्तस्तु रामेण सविमर्शो विभीषणः। रामस्योपानयत्सीतां संनिकर्ष विनीतवत्॥ ततो लक्ष्मणसुग्रीवौ हनूमांश्च प्लवंगमः। निशम्य वाक्यं रामस्य बभुवुर्व्यथिता भृशम्॥ लज्जया त्ववलीयन्ती स्वेषु गात्रेषु मैथिली। विभीषणेनानुगता भर्तारं साभ्यवर्तत॥ विस्मयाच्च प्रहर्षाच्च स्नेहाच्च पतिदेवता। उदैक्षत मुखं भर्तुः सौम्यं सौम्यतरानना॥ अथ समपनुदन्मन:क्लमं सा सुचिरामदृष्टमुदीक्ष्य वै प्रियस्य। वदनमुदितपूर्णचन्द्रकान्तं विमलशशाङ्कनिभानना तदासीत्॥ एवमुक्ता तु वैदेही परुषं रोमहर्षणम्। राघवेण सरोषेण श्रुत्वा प्रव्यथिताभवत्॥ सा तदाश्रुतपूर्वं हि जने महति मैथिली। श्रुत्वा भर्तुर्वचो घोरं लज्जयावनताभवत्॥ प्रविशन्तीव गात्राणि स्वानि सा जनकात्मजा। वाक्शरैस्तैः सशल्येव भृशमश्रूण्यवर्तयत्॥ ततो बाष्पपरिक्लिनं प्रमार्जन्ती स्वमाननम्। शनैर्गद्गदया वाचा भर्तारमिदमब्रवीत्॥ किं मामसदृशं वाक्यमीदृशं श्रोत्रदारुणम्। रुक्षं श्रावयसे वीर प्राकृतः प्राकृतामिव ॥ न तथास्मि महाबाहो यथा मामवगच्छसि। प्रत्ययं गच्छ मे स्वेन चारित्रेणैव ते शपे॥ पृथक्स्त्रीणां प्रचारेण जाति त्वं परिशङ्कसे। परित्यजैनां शङ्कां तु यदि तेऽहं परीक्षिता॥ यदहं गात्रसंस्पर्श गतास्मि विवशा प्रभो। कामकारो न मे तत्र दैवं तत्रापराध्यति॥ मदधीनं तु यत्तन्मे हृदयं त्वयि वर्तते। पराधीनेषु गात्रेषु किं करिष्याम्यनीश्वरी॥ सह संवृद्धभावेन संसर्गेण च मानद। यदि तेऽहं न विज्ञाता हता तेनास्मि शाश्वतम्॥ प्रेषितस्ते महावीरो हनुमानवलोककः। लङ्कास्थाहं त्वया राजन्कि तदा न विसर्जिता॥ प्रत्यक्षं वानरस्यास्य तद्वाक्यसमनन्तरम्। त्वया संत्यक्तया वीर त्यक्तं स्याज्जीवितं मया॥ न वृथा ते श्रमोऽयं स्यात्संशये न्यस्य जीवितम्। सुहृज्जनपरिक्लेशो न चायं विफलस्तव॥ त्वया तु नृपशार्दूल रोषमेवानुवर्तता। लघुनेव मनुष्येण स्त्रीत्वमेव पुरस्कृतम्॥ अपदेशो मे जनकानोत्पत्तिर्वसुधातलात्। मम वृत्तं च वृत्तज्ञ बहु तेन पुरस्कृतम्॥ न प्रमाणीकृतः पाणिर्बाल्ये मम निपीडितः। मम भक्तिश्च शीलं च सर्वं ते पृष्ठतः कृतम्॥ इति ब्रुवन्ती रुदती बाष्पगद्गदभाषिणी। उवाच लक्ष्मणं सीता दीनं ध्यानपरायणम्॥ चितां मे कुरु सौमित्रे व्यसनस्यास्य भेषजम्। मिथ्यापवादोपहता नाहं जीवितुमुत्सहे॥ अप्रीतेन गुणैर्भा त्यक्ताया जनसंसदि। या क्षमा मे गतिर्गन्तुं प्रवेक्ष्ये हव्यवाहनम्॥ एवमुक्तस्तु वैदेह्या लक्ष्मणः परवीरहा। अमर्षवशमापन्नो राघवं समुदैक्षत॥ स विज्ञाय मनश्छन्दं रामस्याकारसूचितम्। चितां चकार सौमित्रिमते रामस्य वीर्यवान्॥ नहि रामं तदा कश्चित्कालान्तकयमोपमम्। अनुनेतुमथो वक्तुं द्रष्टुं वाप्यशकत्सुहृत्॥ अधोमुखं स्थितं रामं ततः कृत्वा प्रदक्षिणम्। उपावर्तत वैदेही दीप्यमानं हुताशनम्॥ ददृशुस्तां त्रयो लोका देवगन्धर्वदानवाः। शप्तां पतन्ती निरये त्रिदिवाद्देवतामिव ॥ तस्यामग्नि विशन्त्यां तु हाहेति विपुलः स्वनः। रक्षसां वानराणां च संबभूवाद्भुतोपमः॥ प्रणम्य दैवतेभ्यश्च ब्राह्मणेभ्यश्च मैथिली। बद्धांजलिपुटा चेदमुवाचाग्निसमीपतः॥ यथा मे हृदयं नित्यं नापसर्पति राघवात्। तथा लोकस्य साक्षी मां सर्वतः पातु पावकः॥ यथा मां शुद्धचारित्रां दुष्टां जानाति राघवः। तथा लोकस्य साक्षी मां सर्वतः पातु पावकः॥ एवमुक्त्वा तु वैदेही परिक्रम्य हुताशनम्। विवेश ज्वलनं दीप्तं निःशङ्केनान्तरात्मना॥ जनश्च सुमहांस्तत्र बालवृद्धसमाकुलः। ददर्श मैथिली दीप्तां प्रविशन्तीं हुताशनम्॥ सा तप्तनवहेमाभा तप्तकांचनभूषणा। पपात ज्वलनं दीप्तं सर्वलोकस्य संनिधौ॥ ददृशुस्तां विशालाक्षीं पतन्ती हव्यवाहनम्। सीतां सर्वाणि रूपाणि रुकमवेदिनिभां तदा॥ ददृशुस्तां महाभागां प्रविशन्तीं हुताशनम्। ऋषयो देवगन्धर्वा यज्ञे पूर्णाहुतीमिव ॥ प्रचुक्रुशुः स्त्रियः सर्वास्तां दृष्ट्वा हव्यवाहने। पतन्तीं संस्कृतां मन्त्रैर्वसोर्धारामिवाध्वरे॥ ददृशुस्तां त्रयो लोका देवगन्धर्वदानवाः। शप्तां पतन्ती निरये त्रिदिवाद्देवतामिव ॥ तस्यामग्नि विशन्त्यां तु हाहेति विपुलः स्वनः। रक्षसां वानराणां च संबभूवाद्भुतोपमः॥ प्रणम्य दैवतेभ्यश्च ब्राह्मणेभ्यश्च मैथिली। बद्धांजलिपुटा चेदमुवाचाग्निसमीपतः॥ यथा मे हृदयं नित्यं नापसर्पति राघवात्। तथा लोकस्य साक्षी मां सर्वतः पातु पावकः॥ यथा मां शुद्धचारित्रां दुष्टां जानाति राघवः। तथा लोकस्य साक्षी मां सर्वतः पातु पावकः॥ एवमुक्त्वा तु वैदेही परिक्रम्य हुताशनम्। विवेश ज्वलनं दीप्तं निःशङ्केनान्तरात्मना॥ जनश्च सुमहांस्तत्र बालवृद्धसमाकुलः। ददर्श मैथिली दीप्तां प्रविशन्तीं हुताशनम्॥ सा तप्तनवहेमाभा तप्तकांचनभूषणा। पपात ज्वलनं दीप्तं सर्वलोकस्य संनिधौ॥ ददृशुस्तां विशालाक्षीं पतन्ती हव्यवाहनम्। सीतां सर्वाणि रूपाणि रुकमवेदिनिभां तदा॥ ददृशुस्तां महाभागां प्रविशन्तीं हुताशनम्। ऋषयो देवगन्धर्वा यज्ञे पूर्णाहुतीमिव ॥ प्रचुक्रुशुः स्त्रियः सर्वास्तां दृष्ट्वा हव्यवाहने। पतन्तीं संस्कृतां मन्त्रैर्वसोर्धारामिवाध्वरे॥ ततो हि दुर्मना रामः श्रुत्वैव वदतां गिरः। दध्यौ मुहूर्त धर्मात्मा बाष्पव्याकुललोचनः॥ ततो वैश्रवणो राजा यमश्च पितृभिः सह। सहस्राक्षश्च देवेशो वरुणश्च जलेश्वरः॥ षडर्धनयनः श्रीमान्महादेवो वृषध्वजः। कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः॥ एते सर्वे समागम्य विमानैः सूर्यसंनिभैः। आगम्य नगरी लङ्कामभिजग्मुश्च राघवम्॥ ततः सहस्ताभरणान्प्रगृह्य विपुलान्भुजान्। अब्रुवंत्रिदशश्रेष्ठा राघवं प्राञ्जलिं स्थितम्॥ कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानविदां विभुः। उपेक्षसे कथं सीतां पतन्ती हव्यवाहने।। कथं देवगणश्रेष्ठमात्मानं नावबुद्ध्यसे॥ ऋतधामा वसुः पूर्वं वसूनां च प्रजापतिः। त्रयाणामपि लोकानामादिकर्ता स्वयंप्रभुः॥ रुद्राणामष्टमो रुद्रः साध्यानामपि पञ्चमः। अश्विनौ चापि कौँ ते सूर्याचन्द्रमसौ दृशौ॥ अन्ते चादौ च मध्ये च दृश्यसे च परंतप। उपेक्षसे च वैदेहीं मानुषः प्राकृतो यथा॥ इत्युक्तो लोकपालैस्तैः स्वामी लोकस्य राघवः। अब्रवीद् विदशश्रेष्ठानरामो धर्मभृतां वरः॥ आत्मानं मानुषं मन्ये रामं दशरथात्मजम्। सोऽहं यश्च यतश्चाहं भगवांस्तद् ब्रवीतु मे॥ इति: ब्रुवाणां काकुत्स्थं ब्रह्मा ब्रह्मविदां वरः। अब्रवीच्छृणु मे वाक्यं सत्यं सत्यपराक्रम॥ भवान्नारायणो देवः श्रीमांश्चक्रायुधः प्रभुः। एकशृङ्गो वराहस्त्वं भूतभव्यसपत्नजित्॥ अक्षरं ब्रह्म सत्यं च मध्ये चान्ते च राघव। लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः॥ शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः। अजितः खङ्गधृग्विष्णुः कृष्णश्चैव बृहद्बलः॥ सेनानीामणीः सर्वं त्वं बुद्धिस्त्वं क्षमा दमः। प्रभवश्चाप्ययश्च त्वमुपेन्द्रो मधुसूदनः॥ इन्द्रकर्मा महेन्द्रस्त्वं पद्मनाभो रणान्तकृत्। शरण्यं शरणं च त्वामाहुर्दिव्या महर्षयः॥ सहस्रशृङ्गो वेदात्मा शतशीर्षो महर्षभः। त्वं त्रयाणां हि लोकानामादिकर्ता स्वयंप्रभुः॥ सिद्धानामपि साध्यानामाश्रयश्चासि पूर्वजः। त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारः परात्परः॥ प्रभवं निधनं चापि नो विदुः को भवानिति। दृश्यसे सर्वभूतेषु गोषु च ब्राह्मणेषु च॥ दिक्षु सर्वासु गगने पर्वतेषु नदीषु च। सहस्रचरणः श्रीमाञ्शतशीर्षः सहस्रदृक् ॥ त्वं धारयसि भूतानि पृथिवीं सर्वपर्वतान्। अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगः॥ त्रील्लोकान्धारयन्राम देवगन्धर्वदानवान्। अहं ते हृदयं राम जिह्वा देवी सरस्वती॥ देवा रोमाणि गात्रेषु ब्रह्मणा निर्मिताः प्रभो। निमेषस्ते स्मृता रात्रिरुन्मेषो दिवसस्तथा॥ संस्कारास्त्वभवन्वेदा नैतदस्ति त्वया विना। जगत्सर्व शरीरं ते स्थैर्य ते वसुधातलम्॥ अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षणः। त्वया लोकास्त्रयः क्रान्ताः पुरा स्वैविक्रमैत्रिभिः॥ महेन्द्रश्च कृतो राजा बलिं बद्ध्वा सुदारुणम्। सीता लक्ष्मीर्भवान्विष्णुर्देवः कृष्णः प्रजापतिः॥ वधार्थ रावणस्येह प्रविष्टो मानुषीं तनुम्। तदिदं नस्त्वया कार्यं कृतं धर्मभृतां वर ॥ निहतो रावणो राम प्रहृष्टो दिवमाक्रम। अमोघं देव वीर्य ते न ते मोघाः पराक्रमाः॥ अमोघं दर्शनं राम अमोघस्तव संस्तवः। अमोघास्ते भविष्यन्ति भक्तिमन्तो नरा भुवि॥ ये त्वां देवं ध्रुवं भक्ताः पुराणं पुरुषोत्तमम्। प्राप्नुवन्ति तथा कामानिह लोके परत्र च॥ इममाएं स्तवं दिव्यमितिहासं पुरातनम्। ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः॥ एतच्छ्रुत्वा शुभं वाक्यं पितामहसमीरितम्। अङ्केनादाय वैदेहीमुत्पपात विभावसुः॥ विधूयाथ चितां तां तु वैदेही हव्यवाहनः। उत्तस्थौ मूर्तिमानाशु गृहीत्वा जनकात्मजाम्॥ तरुणादित्यसंकाशां तप्तकांचनभूषणाम्। रक्ताम्बरधरां बालां नीलकुञ्चितमूर्धजाम्॥ अक्लिष्टमाल्याभरणां तथारूपामनिन्दिताम्। ददौ रामाय वैदेहीमङ्के कृत्वा विभावसुः॥ अब्रवीत्तु तदा रामं साक्षी लोकस्य पावकः। एषा ते राम वैदेही पापमस्यां न विद्यते॥ नैव वाचा न मनसा नैव बुद्ध्या न चक्षुषा। सुवृत्ता वृत्तशौटीर्यं न त्वामत्यचरच्छुभा॥ रावणेनापनीतैषा वीर्योत्सिकेन रक्षसा। त्वया विरहिता दीना विवशा निर्जने सती।७।। रुद्धा चान्तःपुरे गुप्ता त्वच्चित्ता त्वत्परायणा। रक्षिता राक्षसीभिश्च घोराभिर्घोरबुद्धिभिः।।।। प्रलोभ्यमाना विविधं तय॑माना च मैथिली। नाचिन्तयत तद्रक्षस्त्वद्गतेनान्तरात्मना।९।। विशुद्धभावां निष्पापां प्रतिगृह्णीष्व मैथिलीम्। न किंचिदभिधातव्या अहमाज्ञापयामि ते॥ ततः प्रीतमना रामः श्रुत्वैवं वदतां वरः। दध्यौ मुहूर्त धर्मात्मा हर्षव्याकुललोचनः॥ एवमुक्तो महातेजा धृतिमानुरुविक्रमः। उवाच त्रिदशश्रेष्ठं रामो धर्मभृतां वरः॥ अवश्यं चापि लोकेषु सीता पावनमर्हति। दीर्घकालोषिता हीयं रावणान्तःपुरे शुभा॥ बालिशो वत कामात्मा रामो दशरथात्मजः। इति वक्ष्यति मां लोको जानकीमविशोध्य हि॥ अनन्यहृदयां सीतां मच्चित्तपरिरक्षिणीम्। अहमप्यवगच्छामि मैथिली जनकात्मजाम्॥ इमामपि विशालाक्षीं रक्षितां स्वेन तेजसा। रावणो नातिवर्तेत वेलामिव महोदधिः॥ न च शक्तः सुदुष्टात्मा मनसापि हि मैथिलीम्। प्रधर्षयितुमप्राप्यां दीप्तामग्निशिखामिव॥ नेयमर्हति वैक्लव्यं रावणान्तःपुरे सती। अनन्या हि मया सीता भास्करस्य प्रभा यथा।॥ विशुद्धा त्रिषु लोकेषु मैथिली जनकात्मजा। न विहातुं मया शक्या कीर्तिरात्मवता यथा॥ अवश्यं च मया कार्यं सर्वेषां वो वचो हितम्। स्निग्धानां लोकनाथानामेवं च वदतां हितम्॥ इत्येवमुक्त्वा विजयी महाबलः प्रशस्यमानः स्वकृतेन कर्मणा। समेत्य रामः प्रियया महायशाः सुखं सुखार्होऽनुबभूव राघवः॥ प्रतिप्रयाते काकुत्स्थे महेन्द्रः पाकशासनः। अब्रवीत्परमप्रीतो राघवं प्राञ्जलिं स्थितम्॥ अमोघं दर्शनं राम तवास्माकं नरर्षभ। प्रीतियुक्ताः स्म तेन त्वं ब्रूहि यन्मनसेप्सितम्॥ एवमुक्तो महेन्द्रेण प्रसन्नेन महात्मना। सुप्रसन्नमना हृष्टो वचनं प्राह राघवः॥ यदि प्रीतिः समुत्पन्ना मयि ते विबुधेश्वर। वक्ष्यामि कुरु मे सत्यं वचनं वदतां वर॥ मम हेतोः पराक्रान्ता ये गता यमसादनम्। ते सर्वे जीवितं प्राप्य समुत्तिष्ठन्तु वानराः॥ मत्कृते विप्रयुक्ता ये पुत्रैदारैश्च वानराः। तान्प्रीतमनसः सर्वान्द्रष्टुमिच्छामि मानद॥ विक्रान्ताश्चापि शूराश्च न मृत्युं गणयन्ति च। कृतयत्ना विपन्नाश्च जीवयैतान्पुरंदर।७।। मत्प्रियेष्वभिरक्ताश्च न मृत्युं गणयन्ति ये। त्वत्प्रसादात्समेयुस्ते वरमेतमहं वृणे॥ नीरूजो निव्रणांश्चैव संपनबलपौरुषान्। गोला)लांस्तथक्षांश्च द्रष्टुमिच्छामि मानद॥ अकाले चापि पुष्पाणि मूलानि च फलानि च। नद्यश्च विमलास्तत्र तिष्ठेयुर्यत्र वानराः॥ श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः। महेन्द्रः प्रत्युवाचेदं वचनं प्रीतिसंयुतम्॥ महानयं वरस्तात यस्त्वयोक्तो रघूत्तम। द्विर्मया नोक्तपूर्वं च तस्मादेतद्भविष्यति॥ समुत्तिष्ठन्तु ते सर्वे हता ये युधि राक्षसैः। ऋक्षाश्च सह गोपुच्छैनिकृत्ताननबाहवः॥ नीरुजो निव्रणाश्चैव संपन्नबलपौरुषाः। समुत्थास्यन्ति हरयः सुप्ता निद्राक्षये यथा ॥ सुहृद्भिर्बान्धवैश्चैव ज्ञातिभिः स्वजनेन च। सर्व एव समेष्यन्ति संयुक्ताः परया मुदा॥ अकाले पुष्पशबलाः फलवन्तश्च पादपाः। भविष्यन्ति महेष्वास नद्यश्च सलिलायुताः॥ सव्रणैः प्रथमं गात्रैरिदानी निव्रणैः समैः। ततः समुत्थिता सर्वे सुप्त्वेव हरिसत्तमाः॥ बभूवुर्वानराः सर्वे किं त्वेतदिति विस्मिताः। काकुत्स्थं परिपूर्णार्थं दृष्ट्वा सर्वे सुरोत्तमाः॥ अब्रुवन्परमप्रीताः स्तुत्वा रामं सलक्ष्मणम्। गच्छायोध्यामितो राजन्विसर्जय च वानरान्॥ मैथिली सान्त्वयस्वैनामनुरक्तां यशस्विनीम्। भ्रातरं भरतं पश्य त्वच्छोकाबतचारिणम्॥ शत्रुघ्नं च महात्मानं मातृः सर्वाः परंतप। अभिषेचय चात्मानं पौरान्गत्वा प्रहर्षय॥ एवमुक्त्वा सहस्राक्षो रामं सौमित्रिणा सह। विमानैः सूर्यसंकाशैर्ययौ हृष्टः सुरैः सह ॥ अभिवाद्य च काकुत्स्थः सर्वांस्तांत्रिदशोत्तमान्। लक्ष्मणेन सह भ्रात्रा रासमाज्ञापयत्तदा॥ ततस्तु सा लक्ष्मणरामपालिता महाचमूहष्टजना यशस्विनी। श्रिया ज्वलन्ती विरराज सर्वतो निशा प्रणीतेव हि शीतरश्मिना॥ तां रात्रिमुषितं रामं सुखोदितमरिंदमम्। अब्रवीत्प्राञ्जलिर्वाक्यं जयं पृष्ट्वा विभीषणः॥ स्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च। चन्दनानि च माल्यानि दिव्यानि विविधानि च॥ अलंकारविदश्चैता नार्यः पद्मनिभेक्षणाः। उपस्थितास्त्वां विधिवत्स्नापयिष्यन्ति राघव॥ एवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषणम्। हरीन्सुग्रीवमुख्यास्त्वं स्नानेनोपनिमन्त्रय॥ स तु ताम्यति धर्मात्मा मम हेतोः सुखोचितः। सुकुमारो महाबाहुर्भरतः सत्यसंश्रयः॥ तं विना कैकयीपुत्रं भरतं धर्मचारिणाम्। न मे स्नानं बहुमतं वस्त्राण्याभरणानि च॥ एतत्पश्य यथा क्षिप्रं प्रतिगच्छाम तां पुरीम्। अयोध्यां गच्छतो ह्येष पन्थाः परमदुर्गमः।७।। एवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः। अह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज ॥ पुष्पकं नाम भद्रं ते विमानं सूर्यसंनिभम्। मम भ्रातुः कुबेरस्य रावणेन बलीयसा॥ हृतं निर्जित्य संग्रामे कामगं दिव्यमुत्तमम्। त्वदर्थं पालितं चेदं तिष्ठत्यतुलविक्रम॥ तदिदं मेघसंकाशं विमानमिह तिष्ठति। येन यास्यसि यानेन त्वमयोध्यां गतज्वरः॥ अहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान्। वस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदम्॥ लक्ष्मणेन सह भ्रात्रा वैदेह्या भार्यया सह। अर्चितः सर्वकामैस्त्वं ततो राम गमिष्यसि॥ प्रीतियुक्तस्य विहितां ससैन्यः ससुहृद्गणः। सत्क्रियां राम मे तावद्गृहाण त्वं मयोद्यताम्॥ प्रणयाद्बहुमानाच्च सौहार्देन च राघव। प्रसादयामि प्रेष्योऽहं न खल्वाज्ञापयामि ते॥ एवमुक्तस्ततो रामः प्रत्युवाच विभीषणम्। रक्षसां वानराणां च सर्वेषामेव शृण्वताम्॥ पूजितोऽस्मि त्वया वीर साचिव्येन परेण च। सर्वात्मना च चेष्टाभिः सौहार्देन परेण च॥ न खल्वेतन्न कुर्यां ते वचनं राक्षसेश्वर। तं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः॥ मां निवर्तयितुं योऽसौ चित्रकूटमुपागतः। . शिरसा याचतो यस्य वचनं न कृतं मया॥ कौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम्। गुहं च सुहृदं चैव पौराञ्जानपदैः सह ॥ अनुजानीहि मां सौम्य पूजितोऽस्मि विभीषण। मन्युर्न खलु कर्तव्यः सखे त्वां चानुमानये॥ उपस्थापय मे शीघ्रं विमानं राक्षसेश्वर। कृतकार्यस्य मे वासः कथं स्यादिह संमतः॥ एवमुक्तस्तु रामेण राक्षसेन्द्रो विभीषणः। विमानं सूर्यसंकाशमाजुहाव त्वरान्वितः॥ ततः काञ्चनचित्राङ्गं वैदूर्यमणिवेदिकम्। कूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम्॥ पाण्डुराभिः पताकाभिर्ध्वजैश्च समलंकृतम्। काञ्चनं काञ्चनैर्हम्हेमपद्मविभूषितैः॥ प्रकीर्णं किङ्किणीजालैर्मुक्तामणिगवाक्षकम्। घण्टाजालैः परिक्षिप्तं सर्वतो मधुरस्वनम्॥ तं मेरुशिखराकारं निर्मितं विश्वकर्मणा। बृहद्भिर्भूषितं हम्युर्मुक्तारजतशोभितैः॥ तलैः स्फटिकचित्राङ्गैर्वैदूर्यैश्च वरासनैः। महार्हास्तरणोपेतैरुपपत्रं महाधनैः॥ उपस्थितमनाधृष्यं तद्विमानं मनोजवम्। निवेदयित्वा रामाय तस्थौ तत्र विभीषणः॥ मुपस्थितं भूधरसंनिकाशम्। दृष्ट्वा तदा विस्मयमाजगाम रामः ससौमित्रिरुदारसत्त्वः॥ उपस्थितं तु तं कृत्वा पुष्पकं पुष्पभूषितम्। अविदूरे स्थितो राममित्युवाच विभीषणः॥ स तु बद्धाञ्जलिपुटो विनीतो राक्षसेश्वरः। अब्रवीत्त्वरयोपेतः किं करोमीति राघवम्॥ तमब्रवीन्महातेजा लक्ष्मणस्योपशृण्वतः। विमृश्य राघवो वाक्यमिदं स्नेहपुरस्कृतम्॥ कृतप्रयत्नकर्माणः सर्व एव वनौकसः। रत्नैरथैश्च विविधैः संपूज्यन्तां विभीषण॥ सहामीभिस्त्वया लङ्का निर्जिता राक्षसेश्वरः। हृष्टैः प्राणभयं त्यक्त्वा संग्रामेष्वनिवर्तिभिः॥ त इमे कृतकर्माणः सर्व एव वनौकसः। धनरत्नप्रदानैश्च कर्मैषां सफलं कुरु॥ एवं संमानिताश्चैते नन्द्यमाना यथा त्वया। भविष्यन्ति कृतज्ञेन निवृता हरियूथपाः।७।। त्यागिनं संग्रहीतारं सानुक्रोशं जितेन्द्रियम्। सर्वे त्वामभिगच्छन्ति ततः संबोधयामि ते॥ हीनं रतिगुणैः सर्वैरभिहन्तारमाहवे। सेना त्यजति संविग्ना नृपतिं तं नरेश्वर॥ एवमुक्तस्तु रामेण वानरांस्तान्विभीषणः। रत्नार्थसंविभागेन सर्वानेवाभ्यपूजयत्॥ ततस्तान्पूजितान्दृष्ट्वा रत्नाथैहरियूथपान्। आरुरोह तदा रामस्तद्विमानमनुत्तमम्॥ अङ्केनादाय वैदेही लज्जमानां मनस्विनीम्। लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता॥ अब्रवीत्स विमानस्थः पूजयन्सर्ववानरान्। सुग्रीवं च महावीर्य काकुत्स्थः सविभीषणम्॥ मित्रकार्य कृतमिदं भवद्भिनिरर्षभाः। अनुज्ञाता मया सर्वे यथेष्टं प्रतिगच्छत॥ यत्तु कार्य वयस्येन स्निग्धेन च हितेन च। कृतं सुग्रीव तत्सर्वं भवता धर्मभीरुणा॥ किष्किन्धां प्रति याह्याशु स्वसैन्येनाभिसंवृतः। स्वराज्ये वस लङ्कायां मया दत्ते विभीषण।। न त्वां धर्षयितुं शक्ताः सेन्ट्रा अपि दिवौकसः॥ अयोध्या प्रति यास्यामि राजधानी पितुर्मम। अभ्यनुज्ञातुमिच्छामि सर्वानामन्त्रयामि वः॥ एवमुक्तस्तु रामेण हरीन्द्रा हरयस्तथा। ऊचुः प्राञ्जलयः सर्वे राक्षसश्च विभीषणः॥ अयोध्यां गन्तुमिच्छामः सर्वात्रयतु नो भवान्। मुधुक्ता विचरिष्यामो वनान्युपवनानि च॥ दृष्ट्वा त्वामभिषेकाहं कौसल्यामभिवाद्य च। अचिरादागमिष्यामः स्वगृहानृपसत्तम॥ एवमुक्तस्तु धर्मात्मा वानरैः सविभीषणैः। अब्रवीद्वानरान्रामः ससुग्रीवविभीषणान्॥ प्रियाप्रियतरं लब्धं यदहं ससुहृज्जनः। सर्वैर्भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः॥ क्षिप्रमारोह सुग्रीव विमानं सह वानरैः। त्वमप्यारोह सामात्यो राक्षसेन्द्र विभीषण॥ ततः स पुष्पकं दिव्यं सुग्रीवः सह वानरैः। आरुरोह मुदा युक्तः सामात्यश्च विभीषणः॥ देवारूढेषु सर्वेषु कौबेरं परमासनम्। राघवेणाभ्यनुज्ञातमुत्पपात विहायसम्॥ खगतेन विमानेन हंसयुक्तेन भास्वता। प्रहृष्टश्च प्रतीतश्च बभौ रामः कुबेरवत्॥ ते सर्वे वानरांश्च राक्षसाश्च महाबलाः। यथासुखमसंबाधं दिव्ये तस्मिन्नुपाविशन्॥ अनुज्ञातं तु रामेण तद्विमानमनुत्तमम्। हंसयुक्तं महानादमुत्पपात विहायसम्॥ पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः। अब्रवीन्मैथिली सीतां रामः शशिनिभाननाम्।२।। कैलासशिखराकारे त्रिकूटशिखरे स्थिताम्। लङ्कामीक्षस्व वैदेहि निर्मितां विश्वकर्मणा॥ एतदायोधनं पश्य मांसशोणितकर्दमम्। हरीणां राक्षसानां च सीते विशसनं महत्॥ एष दत्तवरः शेते प्रमाथी राक्षसेश्वरः। तव हेतोविशालाक्षि निहतो रावणो मया॥ कुम्भकर्मोऽत्र निहतः प्रहस्तश्च निशाचरः। धूम्राक्षश्चात्र निहतो वानरेण हनूमता॥ विद्युन्माली हतश्चात्र सुषेणेन महात्मना। लक्ष्मणेनेन्द्रजिच्चात्र रावणिनिहतो रणे॥ अङ्गदेनात्र निहतो विकटो नाम राक्षसः। विरूपाक्षश्च दुष्प्रेक्षो महापार्श्वमहोदरौ।।।। अकम्पनश्च निहतो बलिनोऽन्ये च राक्षसाः। त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ॥ युद्धोन्मत्तश्च मत्तश्च राक्षसप्रवरावुभौ। निकुम्भश्चैव कुम्भश्च कुम्भकर्णात्मजौ बली॥ वज्रदंष्ट्रश्च दंष्ट्रश्च बहवो राक्षसा हताः। मकराक्षश्च दुर्धर्षो मया युधि निपातितः॥ अकम्पनश्च निहतः शोणिताक्षश्च वीर्यवान्। यूपाक्षश्च प्रजङ्घश्च निहतौ तु महाहवे॥ विद्युज्जिह्वोऽत्र निहतो राक्षसो भीमदर्शनः। यज्ञशत्रुश्च निहतः सुप्तघ्नश्च महाबलः॥ सूर्यशत्रुश्च निहतो ब्रह्मशत्रुस्तथापरः। अत्र मन्दोदरी नाम भार्या तं पर्यदेवयत्॥ सपत्नीनां सहस्रेण साग्रेण परिवारिता। एतत्तु दृश्यते तीर्थ समुद्रस्य वरानने॥ यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम्। एष सेतुर्मया बद्धः सागरे लवणार्णवे॥ तव हेतोर्विशालाक्षि नलसेतुः सुदुष्करः। पश्य सागरमक्षोभ्यं वैदेहि वरुणालयम्॥ अपारमिव गर्जन्तं शङ्खशुक्तिसमाकुलम्। हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि॥ विश्रमार्थं हनुमतो भित्त्वा सागरमुत्थितम्। एतत्कुक्षौ समुद्रस्य स्कन्धावारनिवेशनम्॥ अत्र पूर्व महादेवः प्रसादमकरोद्विभुः। एतत्तु दृश्यते तीर्थ सागरस्य महात्मनः॥ सेतुबन्ध इति ख्यातं त्रैलोक्येन च पूजितम्। एतत्पवित्रं परमं महापातकनाशनम्॥ अत्र राक्षसराजोऽयमाजगाम विभीषणः। एषा सा दृश्यते सीते किष्किन्धा चित्रकानना ॥ सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः। अथ दृष्ट्वा पुरी सीता किष्किन्धां वालिपालिताम्॥ अब्रवीत् प्रश्रितं वाक्यं रामं प्रणयसाध्वसा। सुग्रीवप्रियभार्याभिस्ताराप्रमुखतो नृप॥ अन्येषां वानरेन्द्राणां स्त्रीभिः परिवृता ह्यहम्। गन्तुमिच्छे सहायोध्यां राजधानी त्वया सह॥ एवमुक्तोऽथ वैदेह्या राघवः प्रत्युवाच ताम्। एवमस्त्विति किष्किन्धां प्राप्य संस्थाप्य राघवः॥ विमानं प्रेक्ष्य सुग्रीवं वाक्यमेतदुवाच ह। ब्रूहि वानरशार्दूल सर्वान्वानरपुङ्गवान्॥ स्त्रीभिः परिवृताः सर्वे ह्ययोध्यां यान्तु सीतया। तथा त्वमेभिः सर्वाभिः स्त्रीभिः सह महाबल।२८।। अभित्वरय सुग्रीव गच्छामः प्लवगाधिप। एवमुक्तस्तु सुग्रीवो रामेणामिततेजसा॥ वानराधिपतिः श्रीमांस्तैश्च सर्वैः समावृतः। प्रविश्यान्तःपुरं शीघ्रं तारामुद्वीक्ष्य सोऽब्रवीत्॥ प्रिये त्वं सह नारीणां वानराणां महात्मनाम्। राघवेणाभ्यनुज्ञाता मैथिलीप्रियकाम्यया॥ त्वर त्वमभिगच्छामो गृह्य वानरयोषितः। अयोध्यां दर्शयिष्यामः सर्वा दशरथस्त्रियः॥ सुग्रीवस्य वचः श्रुत्वा तारा सर्वाङ्गशोभना। आहूय चाब्रवीत्सर्वा वानराणां तु योषितः॥ सुग्रीवेणाभ्यनुज्ञाता गन्तुं सर्वैश्च वानरैः। मम चापि प्रियं कार्यमयोध्यादर्शनेन च॥ प्रवेशं चैव रामस्य पौरजानपदैः सह। विभूतिं चैव सर्वासां स्त्रीणां दशरथस्य च॥ तारया चाभ्यनुज्ञाताः सर्वा वानरयोषितः। नेपथ्यविधिपूर्वं तु कृत्वा चापि प्रदक्षिणम्॥ अध्यारोहन्विमानं तत्सीतादर्शनकाझ्या। ताभिः सहोत्थितं शीघ्रं विमानं प्रेक्ष्य राघवः॥ ऋष्यमूकसमीपे तु वैदेहीं पुनरब्रवीत्। दृश्यतेऽसौ महान्सीते सविद्युदिव तोयदः॥ ऋष्यमूको गिरिवरः काञ्चनैर्धातुभिर्वृतः। अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः॥ समयश्च कृतः सीते वधार्थ वालिनो मया। एषा सा दृश्यते पम्पा नलिनीचित्रकानना॥ त्वया विहीनो यत्राहं विललाप सुदुःखितः। अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी॥ अत्र योजनबाहुश्च कबन्धो निहतो मया। दृश्यतेऽसौ जनस्थाने श्रीमान्सीते वनस्पतिः।॥ जटायुश्च महातेजास्तव हेतोविलासिनि। रावणेन हतो यत्र पक्षिणां प्रवरो बली॥ एतत्तदाश्रमपदमस्माकं वरवर्णिनि। पर्णशाला तथा चित्रा दृश्यते शुभदर्शने॥ यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात्। एषा गोदावरी रम्या प्रसन्नसलिला शुभा॥ अगस्त्यस्याश्रमश्चैव दृश्यते कदलीवृतः। दृश्यते चैव वैदेहि शरभङ्गाश्रमो महान्॥ उपायतः सहस्राक्षो यत्र शक्रः पुरंदरः। एते ते तापसा देवि दृश्यन्ते तनुमध्यमे॥ अत्रिः कुलपतिर्यत्र सूर्यवैश्वानरोपमः। अस्मिन्देशे महाकायो विराधो निहतो मया॥ अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी। असौ सुतनु शैलेन्द्रश्चित्रकूटः प्रकाशते।॥ अत्र मां कैकयीपुत्रः प्रसादयितुमागतः। एषा सा यमुना रम्या दृश्यते चित्रकानना॥ भरद्वाजाश्रमः श्रीमान्दृश्यते चैष मैथिलि। इयं च दृश्यते गङ्गा पुण्या त्रिपथगा नदी॥ शृङ्गबेरपुरं चैतद्गृहो यत्र सखा मम। एषा सा दृश्यते सीते राजधानी पितुर्मम।। अयोध्यां कुरु वैदेहि प्रणामं पुनरागता ॥ ततस्ते वानराः सर्वे राक्षसाः सविभीषणाः। उत्पत्योत्पत्य संहृष्टास्तां पुरीं ददृशुस्तदा॥ ततस्तु तां पाण्डुरहर्नामालिनी विशालकक्ष्यां गजवाजिभिवृताम्। पुरीमपश्यन्प्लवगाः सराक्षसाः पुरी महेन्द्रस्य यथामरावतीम्॥ अनुज्ञातं तु रामेण तद्विमानमनुत्तमम्। हंसयुक्तं महानादमुत्पपात विहायसम्॥ पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः। अब्रवीन्मैथिली सीतां रामः शशिनिभाननाम्।२।। कैलासशिखराकारे त्रिकूटशिखरे स्थिताम्। लङ्कामीक्षस्व वैदेहि निर्मितां विश्वकर्मणा॥ एतदायोधनं पश्य मांसशोणितकर्दमम्। हरीणां राक्षसानां च सीते विशसनं महत्॥ एष दत्तवरः शेते प्रमाथी राक्षसेश्वरः। तव हेतोविशालाक्षि निहतो रावणो मया॥ कुम्भकर्मोऽत्र निहतः प्रहस्तश्च निशाचरः। धूम्राक्षश्चात्र निहतो वानरेण हनूमता॥ विद्युन्माली हतश्चात्र सुषेणेन महात्मना। लक्ष्मणेनेन्द्रजिच्चात्र रावणिनिहतो रणे॥ अङ्गदेनात्र निहतो विकटो नाम राक्षसः। विरूपाक्षश्च दुष्प्रेक्षो महापार्श्वमहोदरौ।।।। अकम्पनश्च निहतो बलिनोऽन्ये च राक्षसाः। त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ॥ युद्धोन्मत्तश्च मत्तश्च राक्षसप्रवरावुभौ। निकुम्भश्चैव कुम्भश्च कुम्भकर्णात्मजौ बली॥ वज्रदंष्ट्रश्च दंष्ट्रश्च बहवो राक्षसा हताः। मकराक्षश्च दुर्धर्षो मया युधि निपातितः॥ अकम्पनश्च निहतः शोणिताक्षश्च वीर्यवान्। यूपाक्षश्च प्रजङ्घश्च निहतौ तु महाहवे॥ विद्युज्जिह्वोऽत्र निहतो राक्षसो भीमदर्शनः। यज्ञशत्रुश्च निहतः सुप्तघ्नश्च महाबलः॥ सूर्यशत्रुश्च निहतो ब्रह्मशत्रुस्तथापरः। अत्र मन्दोदरी नाम भार्या तं पर्यदेवयत्॥ सपत्नीनां सहस्रेण साग्रेण परिवारिता। एतत्तु दृश्यते तीर्थ समुद्रस्य वरानने॥ यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम्। एष सेतुर्मया बद्धः सागरे लवणार्णवे॥ तव हेतोर्विशालाक्षि नलसेतुः सुदुष्करः। पश्य सागरमक्षोभ्यं वैदेहि वरुणालयम्॥ अपारमिव गर्जन्तं शङ्खशुक्तिसमाकुलम्। हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि॥ विश्रमार्थं हनुमतो भित्त्वा सागरमुत्थितम्। एतत्कुक्षौ समुद्रस्य स्कन्धावारनिवेशनम्॥ अत्र पूर्व महादेवः प्रसादमकरोद्विभुः। एतत्तु दृश्यते तीर्थ सागरस्य महात्मनः॥ सेतुबन्ध इति ख्यातं त्रैलोक्येन च पूजितम्। एतत्पवित्रं परमं महापातकनाशनम्॥ अत्र राक्षसराजोऽयमाजगाम विभीषणः। एषा सा दृश्यते सीते किष्किन्धा चित्रकानना ॥ सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः। अथ दृष्ट्वा पुरी सीता किष्किन्धां वालिपालिताम्॥ अब्रवीत् प्रश्रितं वाक्यं रामं प्रणयसाध्वसा। सुग्रीवप्रियभार्याभिस्ताराप्रमुखतो नृप॥ अन्येषां वानरेन्द्राणां स्त्रीभिः परिवृता ह्यहम्। गन्तुमिच्छे सहायोध्यां राजधानी त्वया सह॥ एवमुक्तोऽथ वैदेह्या राघवः प्रत्युवाच ताम्। एवमस्त्विति किष्किन्धां प्राप्य संस्थाप्य राघवः॥ विमानं प्रेक्ष्य सुग्रीवं वाक्यमेतदुवाच ह। ब्रूहि वानरशार्दूल सर्वान्वानरपुङ्गवान्॥ स्त्रीभिः परिवृताः सर्वे ह्ययोध्यां यान्तु सीतया। तथा त्वमेभिः सर्वाभिः स्त्रीभिः सह महाबल।२८।। अभित्वरय सुग्रीव गच्छामः प्लवगाधिप। एवमुक्तस्तु सुग्रीवो रामेणामिततेजसा॥ वानराधिपतिः श्रीमांस्तैश्च सर्वैः समावृतः। प्रविश्यान्तःपुरं शीघ्रं तारामुद्वीक्ष्य सोऽब्रवीत्॥ प्रिये त्वं सह नारीणां वानराणां महात्मनाम्। राघवेणाभ्यनुज्ञाता मैथिलीप्रियकाम्यया॥ त्वर त्वमभिगच्छामो गृह्य वानरयोषितः। अयोध्यां दर्शयिष्यामः सर्वा दशरथस्त्रियः॥ सुग्रीवस्य वचः श्रुत्वा तारा सर्वाङ्गशोभना। आहूय चाब्रवीत्सर्वा वानराणां तु योषितः॥ सुग्रीवेणाभ्यनुज्ञाता गन्तुं सर्वैश्च वानरैः। मम चापि प्रियं कार्यमयोध्यादर्शनेन च॥ प्रवेशं चैव रामस्य पौरजानपदैः सह। विभूतिं चैव सर्वासां स्त्रीणां दशरथस्य च॥ तारया चाभ्यनुज्ञाताः सर्वा वानरयोषितः। नेपथ्यविधिपूर्वं तु कृत्वा चापि प्रदक्षिणम्॥ अध्यारोहन्विमानं तत्सीतादर्शनकाझ्या। ताभिः सहोत्थितं शीघ्रं विमानं प्रेक्ष्य राघवः॥ ऋष्यमूकसमीपे तु वैदेहीं पुनरब्रवीत्। दृश्यतेऽसौ महान्सीते सविद्युदिव तोयदः॥ ऋष्यमूको गिरिवरः काञ्चनैर्धातुभिर्वृतः। अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः॥ समयश्च कृतः सीते वधार्थ वालिनो मया। एषा सा दृश्यते पम्पा नलिनीचित्रकानना॥ त्वया विहीनो यत्राहं विललाप सुदुःखितः। अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी॥ अत्र योजनबाहुश्च कबन्धो निहतो मया। दृश्यतेऽसौ जनस्थाने श्रीमान्सीते वनस्पतिः।॥ जटायुश्च महातेजास्तव हेतोविलासिनि। रावणेन हतो यत्र पक्षिणां प्रवरो बली॥ एतत्तदाश्रमपदमस्माकं वरवर्णिनि। पर्णशाला तथा चित्रा दृश्यते शुभदर्शने॥ यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात्। एषा गोदावरी रम्या प्रसन्नसलिला शुभा॥ अगस्त्यस्याश्रमश्चैव दृश्यते कदलीवृतः। दृश्यते चैव वैदेहि शरभङ्गाश्रमो महान्॥ उपायतः सहस्राक्षो यत्र शक्रः पुरंदरः। एते ते तापसा देवि दृश्यन्ते तनुमध्यमे॥ अत्रिः कुलपतिर्यत्र सूर्यवैश्वानरोपमः। अस्मिन्देशे महाकायो विराधो निहतो मया॥ अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी। असौ सुतनु शैलेन्द्रश्चित्रकूटः प्रकाशते।॥ अत्र मां कैकयीपुत्रः प्रसादयितुमागतः। एषा सा यमुना रम्या दृश्यते चित्रकानना॥ भरद्वाजाश्रमः श्रीमान्दृश्यते चैष मैथिलि। इयं च दृश्यते गङ्गा पुण्या त्रिपथगा नदी॥ शृङ्गबेरपुरं चैतद्गृहो यत्र सखा मम। एषा सा दृश्यते सीते राजधानी पितुर्मम।। अयोध्यां कुरु वैदेहि प्रणामं पुनरागता ॥ ततस्ते वानराः सर्वे राक्षसाः सविभीषणाः। उत्पत्योत्पत्य संहृष्टास्तां पुरीं ददृशुस्तदा॥ ततस्तु तां पाण्डुरहर्नामालिनी विशालकक्ष्यां गजवाजिभिवृताम्। पुरीमपश्यन्प्लवगाः सराक्षसाः पुरी महेन्द्रस्य यथामरावतीम्॥ अयोध्यां तु समालोक्य चिन्तयामास राघवः। प्रियकामः प्रियं रामस्ततस्त्वरितविक्रमः॥ चिन्तयित्वा ततो दृष्टिं वानरेषु न्यपातयत्। उवाच धीमांस्तेजस्वी हनूमन्तं प्लवंगमम्॥ अयोध्यां त्वरितो गत्वा शीघ्रं प्लवगसत्तम। जानीहि कच्चित्कुशली जनो नृपतिमन्दिरे॥ शृङ्गवेरपुरं प्राप्य गुहं गहनगोचरम्। निषादाधिपतिं ब्रूहि कुशलं वचनान्मम्॥ श्रुत्वा तु मां कुशलिनमरोगं विगतज्वरम्। भविष्यति गुहः प्रीतः सममात्मसभः सखा॥ अयोध्यायाश्च ते मार्ग प्रवृत्तिं भरतस्य च। निवेदयिष्यति प्रीतो निषादाधिपतिर्मुहः॥ भरतस्तु त्वया वाच्यः कुशलं वचनान्मम। सिद्धार्थ शंस मां तस्मै सभायं सहलक्ष्मणम्।७।। हरणं चापि वैदेह्या रावणेन बलीयसा। सुग्रीवेण च संवादं बालिनश्च वधं रणे।।। मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया। लवयित्वा महातोयमापगापतिमव्ययम्॥ उपयानं समुद्रस्य सागरस्य च दर्शनम्। यथा च कारितः सेतू रावणश्च यथा हतः॥ वरदानं महेन्द्रेण ब्रह्मणा वरुणेन च। महादेवप्रसादाच्च पित्रा मम समागमम्॥ उपयातं च मां सौम्य भरताय निवेदय। सह राक्षसराजेन हरीणामीश्वरेण च ॥ जित्वा शत्रुगणारामः प्राप्य चानुत्तमं यशः। उपायाति समृद्धार्थः सह मित्रैर्महाबलैः॥ एतच्छुत्वा यमाकारं भजते भरतस्ततः। स च ते वेदितव्यः स्यात्सर्वं यच्चापि मां प्रति॥ ज्ञेयाः सर्वे च वृत्तान्ता भरतस्येङ्गितानि च। तत्त्वेन मुखवणेन दृष्ट्या व्याभाषितेन च॥ सर्वकामसमृद्धं हि हस्त्यश्वरसंकुलम्। पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः॥ संगत्या भरतः श्रीमानराज्येनार्थी स्वयं भवेत्। प्रशास्तु वसुधां सर्वामखिलां रघुनन्दनः॥ तस्य बुद्धिं च विज्ञाय व्यवसायं च वानर। यावन्न दूरं याताः स्मः क्षिप्रमागन्तुमर्हसि॥ इति प्रतिसमादिष्टो हनूमान्मारुतात्मजः। मानुषं धारयन्रूपमयोध्यां त्वरितो ययौ॥ अथोत्पपात वेगेन हनूमान्मारुतात्मजः। गरुत्मानिव वेगेन जिघृक्षगुरगोत्तमम्॥ लयित्वा पितृपथं विहगेन्द्रालयं शुभम्। गङ्गायमुनयोर्भीमं समतीत्य समागमम्॥ शृङ्गवेरपुरं प्राप्य गुहमासाद्य वार्यवान्। स वाचा शुभया हृष्टो हनूमानिदमब्रवीत्॥ सखा तु तव काकुत्स्थो रामः सत्यपराक्रमः। ससीतः सह सौमित्रिः स त्वां कुशलमब्रवीत्॥ पञ्चमीमद्य रजनीमुषित्वा वचनान्मुनेः। भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्यत्रैव राघवम् ॥ एवमुक्त्वा महातेजाः संप्रहृष्टतनूरुहः। उत्पपात महावेगाद्वेगवानविचारयन्॥ सोऽपश्यद्रामतीर्थं च नदी बालुकिनी तथा। वरूथीं गोमती चैव भीमं शालवनं तथा॥ प्रजाश्च बहुसाहस्रीः स्फीताञ्जनपदानपि। स गत्वा दूरमध्वानं त्वरितः कपिकुञ्जरः॥ आससाद दुमान्फुल्लानन्दिग्रामसमीपगान्। सुराधिपस्योपवने यथा चैत्ररथे दुमान् ॥ स्त्रीभिः सपुत्रैः पौत्रैश्च रममाणैः स्वलंकृतैः। क्रोशमात्रे त्वयोध्यायाश्चीरकृष्णाजिनाम्बरम्॥ ददर्श भरतं दीनं कृशमाश्रमवासिनम्। जटिलं मलदिग्धाङ्गं भ्रातृव्यसनकर्शितम्॥ फलमूलाशिनं दान्तं तापसं धर्मचारिणम्। समुन्नतजटाभारं वल्कलाजिनवाससम्॥ नियतं भावितात्मानं ब्रह्मर्षिसमतेजसम्। पादुके ते पुरस्कृत्य प्रशासन्तं वसुंधराम्॥ चातुर्वर्ण्यस्य लोकस्य त्रातारं सर्वतो भयात्। उपस्थितममात्यैश्च शुचिभिश्च पुरोहितैः॥ बलमुख्यैश्च युक्तैश्च काषायाम्बरधारिभिः। नहि ते राजपुत्रं तं चीरकृष्णाजिनाम्बरम्॥ परिभोक्तुं व्यवस्यन्ति पौरा वै धर्मवत्सलाः। तं धर्ममिव धर्मज्ञं देहबन्धमिवापरम्॥ उवाच प्राञ्जलिर्वाक्यं हनूमान्मारुतात्मजः। वसन्तं दण्डकारण्ये यं त्वं चीरजटाधरम्॥ अनुशोचसि काकुत्स्थं स त्वां कौशलमब्रवीत्। प्रियमाख्यामि ते देव शोकं त्यज सुदारुणम्।।३७ अस्मिन्मुहूर्ते भ्रात्रा त्वं रामेण सह संगतः। निहत्य रावणं रामः प्रतिलभ्य च मैथिलीम्॥ उपयाति समृद्धार्थः सह मित्रैर्महाबलैः। लक्ष्मणश्च महातेजा वैदेही च यशस्विनी।। सीता समग्रा रामेण महेन्द्रेण शची यथा।३९।। एवमुक्तो हनुमता भरतः कैकयीसुतः। पपात सहसा हृष्टो हर्षान्मोहमुपागमत्॥ ततो मुहूर्तादुत्थाय प्रत्याश्वस्य च राघवः। हनूमन्तमुवाचेदं भरतः प्रियवादिनम्॥ अशोकजैः प्रीतिमयैः कपिमालिङ्गय संभ्रमात्। सिषेच भरतः श्रीमान्विपुलैरश्रुबिन्दुभिः।॥ देवो न मानुषो वा त्वमनुक्रोशादिहागतः। प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम्।॥ गवां शतसहस्रं च ग्रामाणां च शतं परम्। सकुण्डलाः शुभाचारा भार्याः कन्यास्तु षोडश॥ हेमवर्णाः सुनासोरूः शशिसौम्याननाः स्त्रियः। सर्वाभरणसंपन्नाः संपन्ना कुलजातिभिः॥ निशम्य रागागमनं नृपात्मजः कपिप्रवीरस्य तदाद्भुतोपमम्। पुनश्च हर्षादिदमब्रवीद्वचः॥ बहूनि नाम वर्षाणि गतस्य सुमहद्वनम्। शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम्॥ कल्याणी वत गाथेयं लौकिकी प्रतिभाति माम्। एति जीवन्तमानन्दो नरं वर्षशतादपि॥ राघवस्य हरीणां च कथमासीत्समागमः। कस्मिन्देशे किमाश्रित्य तत्त्वमाख्याहि पृच्छतः॥ स पृष्टो राजपुत्रेण बृस्यां समुपवेशितः। आचचक्षे ततः सर्व रामस्य चरितं वने॥ यथा प्रव्राजितो रामो मातुर्दत्तौ वरौ तव। यथा च पुत्रशोकेन राजा दशरथो मृतः॥ यथा दूतैस्त्वमानीतस्तूर्णं राजगृहात्प्रभो। त्वयायोध्यां प्रविष्टेन यथा राज्यं न चेप्सितम्॥ चित्रकूटगिरिं गत्वा राज्येनामित्रकर्शनः। निमन्त्रितस्त्वया भ्राता धर्ममाचरता सताम्॥ स्थितेन राज्ञो वचने यथा राज्यं विसर्जितम्। आर्यस्य पादुके गृह्य यथासि पुनरागतः॥ सर्वमेतन्महाबाहो यथावद्विदितं तव। त्वयि प्रतिप्रयाते तु यद्वृत्तं तन्निबोध मे।।।। अपयाते त्वयि तदा समुद्रान्तमृगद्विजम्। परिघूनमिवात्यर्थं तद्वनं समपद्यत॥ तद्धस्तिमृदितं घोरं सिंहव्याघ्रमृगाकुलम्। प्रविवेशाथ विजनं स महद्दण्डकावनम्॥ तेषां पुरस्ताद्वलवान्गच्छतां गहने वने। विनदन्सुमहानादं विराधः प्रत्यदृश्यत॥ तमुत्क्षिप्य महानादमूर्ध्वबाहुमधोमुखम्। निखाते प्रक्षिपन्ति स्म नदन्तमिव कुञ्जरम्॥ तत्कृत्वा दुष्करं कर्म भ्रातरौ रामलक्ष्मणौ। सायाह्ने शरभङ्गस्य रम्यमाश्रममीयतुः॥ शरभङ्गे दिवं प्राप्ते रामः सत्यपराक्रमः। अभिवाद्य मुनीन्सर्वाञ्जनस्थानमुपागमत्॥ चतुर्दश सहस्राणि जनस्थाननिवासिनाम्। हतानि वसता तत्र राघवेण महात्मना॥ एकेन सह संगम्य रामेण रणमूर्धनि। अह्रश्चतुर्थभागेन निःशेषा राक्षसाः कृताः॥ महाबला महावीर्यास्तपसो विघ्नकारिणः। निहता राघवेणाजौ दण्डकारण्यवासिनः॥ राक्षसाश्च विनिष्पिष्टाः खरश्च निहतो रणे। दूषणं चाग्रतो हत्वा त्रिशिरास्तदनन्तरम्॥ पश्चाच्छूर्पणखा नाम रामपार्श्वमुपागता। ततो रामेण संदिष्टो लक्ष्मणः सहसोत्थितः॥ प्रगृह्य खङ्गं चिच्छेद कर्णनासे महाबलः। ततस्तेनार्दिता बाला रावणं समुपागता॥ रावणानुचरो घोरो मारीचो नाम राक्षसः। लोभयामास वैदेहीं भूत्वा रत्नमयो मृगः॥ सा राममब्रवीदृष्ट्वा वैदेही गृह्यतामिति। अयं मनोहरः कान्त आश्रमो नो भविष्यति॥ ततो रामो धनुष्पाणिर्मूगं तमनुधावति। स तं जघान धावन्तं शरेणानतपर्वणा॥ अथ सौम्य दशग्रीवो मृगयां याति राघवे। लक्ष्मणे चापि निष्क्रान्ते प्रविवेशाश्रमं तदा॥ जग्राह तरसा सीतां ग्रहः खे रोहिणीमिव। त्रातुकामं ततो युद्धे हत्वा गृधं जटायुषम्॥ प्रगृह्य सहसा सीतां जगामाशु स राक्षसः। ततस्त्वद्भुतसंकाशाः स्थिताः पर्वतमूर्धनि ॥ सीतां गृहीत्वा गच्छन्तं वानराः पर्वतोपमाः। ददृशुर्विस्मिताकारा रावणं राक्षसाधिपम्॥ ततः शीघ्रतरं गत्वा तद्विमानं मनोजवम्। आरुह्य सह वैदेह्या पुष्पकं स महाबलः॥ प्रविवेश तदा लङ्कां रावणो राक्षसेश्वरः। तां सुवर्णपरिष्कारे शुभे महति वेश्मनि॥ प्रवेश्य मैथिली वाक्यैः सान्त्वयामास रावणः। तृणवद्भाषितं तस्य तं च नैर्ऋतपुङ्गवम्॥ अचिन्तयन्ती वैदेही ह्यशोकवनिकां गता। न्यवर्तत तदा रामो मृगं हत्वा तदा वने॥ निवर्तमानः काकुत्स्थो दृष्ट्वा गृधं स विव्यथे। गृधं हतं तदा दृष्ट्वा रामः प्रियतरं पितुः॥ मार्गमाणस्तु वैदेहीं राघवः सहलक्ष्मणः। गोदावरीमनुचरन्वनोद्देशांश्च पुष्पितान्॥ आसेदतुर्महारण्ये कबन्धं नाम राक्षसम्। ततः कबन्धवचनाद्रामः सत्यपराक्रमः॥ ऋष्यमूकगिरं गत्वा सुग्रीवेण समागतः। ततः समागमः पूर्वं प्रीत्या हार्दो व्यजायत॥ भ्राता निरस्तः कुद्धेन सुग्रीवो वालिना पुरा। इतरेतरसंवादात्प्रगाढः प्रणयस्तयोः॥ रामः स्वबाहुवीर्येण स्वराज्यं प्रत्यपादयत्। वालिनं समरे हत्वा महाकायं महाबलम्॥ सुग्रीवः स्थापितो राज्ये सहितः सर्ववानरैः। रामाय प्रतिजानीते राजपुत्र्यास्तु मार्गणम्॥ आदिष्टा वानरेन्द्रेण सुग्रीवेण महात्मना। दश कोट्यः प्लवंगानां सर्वाः प्रस्थापिता दिशः॥ तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे। भृशं शोकाभितप्तानां महान्कालोऽत्यवर्तत॥ भ्राता तु गृध्रराजस्य संपातिर्नाम वीर्यवान्। समाख्याति स्म वसती सीतां रावणमन्दिरे।॥ सोऽहं दुःखपरीतानां दुखं तज्ज्ञातिनां नुदन्। आत्मवीयं समास्थाय योजनानां शतं प्लुतः।। तत्राहमेकामद्राक्षमशोकवनिकां गताम्॥ कौशेयवस्त्रां मलिनां निरानन्दां दृढव्रताम्। तया समेत्य विधिवत्पृष्ट्वा सर्वमनिन्दिताम्॥ अभिज्ञानं मया दत्तं रामनामाङ्गुलीयकम्। अभिज्ञानं मणिं लब्ध्वा चरितार्थोऽहमागतः॥ मया च पुनरागम्य रामस्याक्लिष्टकर्मणः। अभिज्ञानं मया दत्तमर्चिष्मान्स महामणिः॥ श्रुत्वा तां मैथिली रामस्त्वाशशंसे च जीवितम्। जीवितान्तमनुप्राप्तः पीत्वामृतमिवातुरः॥ उद्योजययिष्यनुद्योगं दधे लङ्कावधे मनः। जिघांसुरिव लोकान्ते सँल्लिोकान्विभावसुः॥ ततः समुद्रमासाद्य नलं सेतुमकारयत्। अतरत्कपिवीराणां वाहिनी तेन सेतुना॥ प्रहस्तमवधीत्रीलः कुम्भकर्णं तु राघवः। लक्ष्मणो रावणसुतं स्वयं रामस्तु रावणम्॥ स शक्रेण समागम्य यमेन वरुणेन च। महेश्वरस्वयंभूभ्यां तथा दशरथेन च॥ तैश्च दत्तवरः श्रीमानृषिभिश्च समागतैः। सुरर्षिभिश्च काकुत्स्थो वरॉल्लेभे परंतपः॥ स तु दत्तवरः प्रीत्या वानरैश्च समागतः। पुष्पकेण विमानेन किष्किन्धामभ्युपागमत् ॥ तां गङ्गां पुनरासाद्य वसन्तं मुनिसंनिधौ। अविघ्नं पुष्ययोगेन श्वो रामं द्रष्टुमर्हसि ॥ ततः स वाक्यैर्मधुरैर्हनूमतो निशम्य हृष्टो भरतः कृताञ्जलिः। उवाच वाणी मनसः प्रहर्षिणी चिरस्य पूर्णं खलु मे मनोरथः॥ श्रुत्वा तु परमानन्दं भरतः सत्यविक्रमः। हृष्टमाज्ञापयामास शत्रुघ्नं परवीरहा॥ दैवतानि च सर्वाणि चैत्यानि नगरस्य च। सुगन्धमाल्यैर्वादित्रैरर्चन्तु शुचयो नराः॥ सूताः स्तुतिपुराणज्ञाः सर्वे वैतालिकास्तथा। सर्वे वादित्रकुशला गणिकाश्चैव सर्वशः॥ राजदारास्तथामात्याः सैन्याः सेनाङ्गनागणाः। ब्राह्मणाश्च सराजन्याः श्रेणीमुख्यास्तथा गणाः॥ अभिनिर्यान्तु रामस्य द्रष्टुं शशिनिभं मुखम्। भरतस्य वचः श्रुत्वा शत्रुघ्नः परवीरहाः॥ विष्टीरनेकसाहस्रीश्चोदयामास भागशः। समीकुरुत निम्नानि विषमाणि समानि च॥ स्थानानि च निरस्यन्तां नन्दिग्रामादितः परम्। सिञ्चन्तु पृथिवीं कृत्स्नां हिमशीतेन वारिणा॥ ततोऽभ्यवकिरन्त्वन्ये लाजैः पुष्पैश्च सर्वतः। समुच्छ्रितपताकास्तु रथ्याः पुरवरोत्तमे॥ शोभयन्तु च वेश्मानि सूर्यस्योदयनं प्रति। स्रग्दाममुक्तपुष्पैश्च सुवर्णैः पञ्चवर्णकैः॥ राजमार्गमसंबाधं किरन्तु शतशो नराः। ततस्तच्छासनं श्रुत्वा शत्रुघ्नस्य मुदान्विताः॥ धृष्टिर्जयन्तो विजयः सिद्धार्थश्चार्थसाधकः। अशोको मन्त्रपालश्च सुमन्त्रश्चापि निर्ययुः॥ मत्तैर्नागसहस्रैश्च सध्वजैः सुविभूषितैः। अपरे हेमकक्षाभिः सगजाभिः करेणुभिः॥ निर्ययुस्तुरगाक्रान्ता रथैश्च सुमहारथाः। शक्त्यष्टिपाशहस्तानां सध्वजानां पताकिनाम्॥ तुरगाणां सहस्रैश्च मुख्यैर्मुख्यतरान्वितैः। पदातीनां सहस्त्रैश्च वीराः परिवृता ययुः॥ ततो यानान्युपारूढाः सर्वा दशरथस्त्रियः। कौसल्या प्रमुख कृत्वा सुमित्रां चापि निर्ययुः॥ द्विजातिमुख्यैर्धर्मात्मा श्रेणीमुख्यैः सनैगमैः। माल्यमोदकहस्तैश्च मन्त्रिभिर्भरतो वृतः॥ शङ्खभेरीनिनादैश्च वन्दिभिश्चाभिनन्दितः। आर्यपादौ गृहीत्वा तु शिरसा धर्मकोविदः॥ पाण्डुरं छत्रमादाय शुक्लमाल्योपशोभितम्। शुक्ले च वालव्यजने राजार्हे हेमभूषिते॥ उपवासकृशो दीनश्चीरकृष्णाजिनाम्बरः। भ्रातुरागमनं श्रुत्वा तत्पूर्व हर्षमागतः॥ प्रत्युद्ययौ तदा रामं महात्मा सचिवैः सह । अश्वानां खुरशब्दैश्च रथनेमिस्वनेन च॥ शङ्खदुन्दुभिनादेन संचचालेव मेदिनी। गजानां बृंहितैश्चापि शङ्खदुन्दुभिनिःस्वनैः॥ कृत्स्नं तु नगरं तत्तु नन्दिग्राममुपागमत्। समीक्ष्य भरतो वाक्यमुवाच पवनात्मजम्॥ कच्चिन्न खलु कापेयी सेव्यते चलचित्तता। नहि पश्यामि काकुत्स्थं राममायं परंतपम्॥ कच्चिन्न चानुदृश्यन्ते कपयः कामरूपिणः। अथैवमुक्ते वचने हनूमानिदमब्रवीत्॥ अर्थ्य विज्ञापयन्नेव भरतं सत्यविक्रमम्। सदाफलान्कुसुमितान्वृक्षान्प्राप्य मधुस्रवान्॥ भरद्वाजप्रसादेन मत्तभ्रमरनादितान्। तस्य चैव वरो दत्तो वासवेन परंतप॥ ससैन्यस्य तदातिथ्यं कृतं सर्वगुणान्वितम्। निःस्वनः श्रूयते भीमः प्रहृष्टानां वनौकसाम्॥ मन्ये वानरसेना सा नदी तरति गोमतीम्। रजोवर्ष समुद्भूतं पश्य सालवनं प्रति॥ मन्ये सालवनं रम्यं लोलयन्ति प्लवंगमाः। तदेतदृश्यते दूराद्विमानं चन्द्रसन्निभम्॥ विमानं पुष्पकं दिव्यं मनसा ब्रह्मनिर्मितम्। रावणं बान्धवैः सार्धं हत्वा लब्धं महात्मना ॥ तरुणादित्यसंकाशं विमानं रामवाहनम्। धनदस्य प्रसादेन दिव्यमेतन्मनोजवम्॥ एतस्मिन्भ्रातरौ वीरौ वैदेह्या सह राघवौ। सुग्रीवश्च महातेजा राक्षसश्च विभीषणः॥ ततो हर्षसमुद्भूतो निःस्वनो दिवमस्पृशत्। स्त्रीबालयुववृद्धानां रामोऽयमिति कीर्तिते॥ रथकुञ्जरवाजिभ्यस्तेऽवतीर्य महीं गताः। ददृशुस्तं विमानस्थं नराः सोममिवाम्बरे॥ प्राञ्जलिर्भरतो भूत्वा प्रहृष्टो राघवोन्मुखः। यथार्थेनार्घ्यपाद्याद्यैस्ततो राममपूजयत्॥ मनसा ब्रह्मणा सृष्टे विमाने भरताग्रजः। रराज पृथुदीर्घाक्षो वज्रपाणिरिवामरः॥ ततो विमानाग्रगतं भरतो भ्रातरं तदा। ववन्दे प्रणतो रामं मेरुस्थमिव भास्करम्॥ ततो रामाभ्यनुज्ञातं तद्विमानमनुत्तमम्। हंसयुक्तं महावेगं निपपात महीतलम्॥ आरोपितो विमानं तद्भरतः सत्यविक्रमः। राममासाद्य मुदितः पुनरेवाभ्यवादयत्॥ तं समुत्थाय काकुत्स्थश्चिरस्याक्षिपथं गतम्। अङ्के भरतमारोप्य मुदितः परिषस्वजे॥ ततो लक्ष्मणमासाद्य वैदेहीं च परंतपः। अथाभ्यवादयत्प्रीतो भरतो नाम चाब्रवीत्॥ सुग्रीवं केकयीपुत्रो जाम्बवन्तमथाङ्गदम्। मैन्दं च द्विविदं नीलमृषभं चैव सस्वजे।॥ सुषेणं च नलं चैव गवाक्षं गन्धमादनम्। शरभं पनसं चैव परितः परिषस्वजे॥ ते कृत्वा मानुषं रूपं वानराः कामरूपिणः। कुशलं पर्यपृच्छंस्ते प्रहृष्टा भरतं तदा॥ अथाब्रवीद्राजपुत्रः सुग्रीवं वानरर्षभम्। परिष्वज्य महातेजा भरतो धर्मिणां वरः॥ त्वमस्माकं चतुर्णां वै भ्राता सुग्रीवपञ्चमः। सौहृदाज्जायते मित्रमपकारोऽरिलक्षणम्॥ विभीषणं च भरतः सान्त्ववाक्यमथाब्रवीत्। दिष्ट्या त्वया सहायेन कृतं कर्म सुदुष्करम्॥ शत्रुघ्नश्च तदा राममभिवाद्य सलक्ष्मणम्। सीतायाश्चरणौ वीरो विनयादभ्यवादयत्॥ रामो मातरमासाद्य विवर्णां शोककर्शिताम्। जग्राह प्रणतः पादौ मनो मातुः प्रहर्षयन्।॥ अभिवाद्य सुमित्रां च कैकेयीं च यशस्विनीम्। स मातृश्च ततः सर्वाः पुरोहितमुपागमत्॥ स्वागतं ते महाबाहो कौसल्यानन्दवर्धन। इति प्राञ्जलयः सर्वे नागरा राममब्रुवन्॥ तान्यञ्जलिसहस्राणि प्रगृहीतानि नागरैः। व्याकोशानीव पद्मानि ददर्श भरताग्रजः॥ पादुके ते तु रामस्य गृहीत्वा भरतः स्वयम्। चरणाभ्यां नरेन्द्रस्य योजयामास धर्मवित्॥ अब्रवीच्च तदा रामं भरतः सकृताञ्जलिः। एतत्ते सकलं राज्यं न्यासं निर्यातितं मया॥ अद्य जन्म कृतार्थं मे संवृत्तश्च मनोरथः। यत्त्वां पश्यामि राजानमयोध्यां पुनरागतम्॥ अवेक्षतां भवान्कोशं कोष्ठागारं गृहं बलम्। भवतस्तेजसा सर्वं कृतं दशगुणं मया।५६।। तथा ब्रुवाणं भरतं दृष्ट्वा तं भ्रातृवत्सलम्। मुमुचुनिरा बाष्पं राक्षसश्च विभीषणः॥ ततः प्रहर्षाद्भरतमङ्कमारोप्य राघवः। ययौ तेन विमानेन ससैन्यो भरताश्रमम्॥ भरताश्रममासाद्य ससैन्यो राघवस्तदा। अवतीर्य विमानाग्रादवतस्थे महीतले॥ अब्रवीत्तु तदा रामस्तद्विमानमनुत्तमम्। वह वैश्रवणं देवमनुजानामि गम्यताम्॥ ततो रामाभ्यनुज्ञातं तद्विमानमनुत्तमम्। उत्तरां दिशमुद्दिश्य जगाम धनदालयम्॥ विमानं पुष्पकं दिव्यं संगृहीतं तु रक्षसा। अगमद्धनदं वेगाद्रामवाक्यप्रचोदितम् ॥ पुरोहितस्यात्मसखस्य राघवो बृहस्पतेः शक्र इवामराधिपः। निपीड्य पादौ पृथगासने शुभे सदैव तेनोपविवेश वीर्यवान्॥ शिरस्यञ्जलिमाधाय कैकेयीनन्दिवर्धनः। बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम्॥ पूजिता मामिका माता दत्तं राज्यमिदं मम। तद्ददामि पुनस्तुभ्यं यथा त्वमददा मम॥ धुरमेकाकिना न्यस्तां वृषभेण बलीयसा। किशोरवद्गुरुं भारं न वोढुमहमुत्सहे॥ वारिवेगेन महता भिन्नः सेतुरिव क्षरन्। दुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम्॥ गतिं खर इवाश्वस्य हंसस्येव च वायसः। नान्वेतुमुत्सहे वीर तव मार्गमरिंदम ॥ यथा चारोपितो वृक्षो जातश्चान्तनिवेशने। महानपि दुरारोहो महास्कन्धः प्रशाखवान्॥ शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयन्। तस्य नानुभवेदर्थं यस्य हेतोः स रोपितः॥ एषोपमा महाबाहो त्वमर्थं वेत्तुमर्हसि। यद्यस्मान्मनुजेन्द्र त्वं भर्ता भृत्यान्न शाधि हि॥ जगदद्याभिषिक्तं त्वामनुपश्यतु राघव। प्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसम्।।।।। तूर्यसंघातनिर्घोषैः काञ्चीनूपुरनिःस्वनैः। मधुरैर्गीतशब्दैश्च प्रतिबुद्ध्यस्व शेष्व च॥ यावदावर्तते चक्रं यावती च वसुंधरा। तावत्त्वमिह लोकस्य स्वामित्वमनुवर्तय॥ भरतस्य वचः श्रुत्वा रामः परपुरंजयः। तथेति प्रतिजग्राह निषसादासने शुभे॥ ततः शत्रुघ्नवचनानिपुणाः श्मश्रुवर्धनाः। सुखहस्ताः सुशीघ्राश्च राघवं पर्यवारयन्॥ पूर्व तु भरते स्नाते लक्ष्मणे च महाबले। सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे॥ विशोधितजटः स्नातश्चित्रमाल्यानुलेपनः। महाहवसनोपेतस्तस्थौ तत्र श्रिया ज्वलन्॥ प्रतिकर्म च रामस्य कारयामास वीर्यवान्। लक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः॥ प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः। आत्मनैव तदा चनुमनस्विन्यो मनोहरम्॥ ततो वानरपत्नीनां सर्वासामेव शोभनम्। चकार यत्नात्कौसल्या प्रहृष्टा पुत्रवत्सला॥ ततः शत्रुघ्नवचनात्सुमन्त्रो नाम सारथिः। योजयित्वाभिचक्राम रथं सर्वाङ्गशोभनम्॥ अग्न्यामलसंकाशं दिव्यं दृष्ट्वा रथं स्थितम्। आरुरोह महाबाहू रामः परपुरंजयः॥ सुग्रीवो हनुमांश्चैव महेन्द्रसदृशद्युती। स्नातौ दिव्यनिभैर्वस्त्रैर्जग्मतुः शुभकुण्डलौ॥ सर्वाभरणजुष्टाश्च ययुस्ताः शुभकुण्डलाः। सुग्रीवपत्न्यः सीता च द्रष्टुं नगरमुत्सुकाः॥ अयोध्यायां च सचिवा राज्ञो दशरथस्य च। पुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत्॥ अशोको विजयश्चैव सिद्धार्थश्च समाहिताः। मन्त्रयनरामवृद्ध्यर्थं वृत्त्यर्थं नगरस्य च॥ सर्वमेवाभिषेकार्थं जयाहस्य महात्मनः। कर्तुमर्हथ रामस्य यद्यन्मङ्गलपूर्वकम्॥ इति ते मन्त्रिणः सर्वे संदिश्य च पुरोहितः। नगरान्निर्ययुस्तूर्णं रामदर्शनबुद्धयः॥ हरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः। प्रययौ रथमास्थाय रामो नगरमुत्तमम्॥ जग्राह भरतो रश्मीशत्रुघ्नश्छत्रमाददे। लक्ष्मणो व्यजनं तस्य मूर्ध्नि संवीजयंस्तदा॥ श्वेतं च बालव्यजनं जगृहे परितः स्थितः। अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः॥ ऋषिसङ्घस्तदाकाशे देवैश्च समरुद्गणैः। स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः॥ ततः शत्रुजयं नाम कुञ्जरं पर्वतोपमम्। आरुरोह महातेजा सुग्रीवः प्लवगर्षभः॥ नव नागसहस्राणि ययुरास्थाय वानराः। मानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः॥ शङ्खशब्दप्रणादैश्च दुन्दुभीनां च निःस्वनैः। प्रययौ पुरुषव्याघ्रस्तां पुरीं हर्नामालिनीम्॥ ददृशुस्ते समायान्तं राघवं सपुरःसरम्। विराजमानं वपुषा रथेनातिरथं तदा॥ ते वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताः। अनुजग्मुर्महात्मानं भ्रातृभिः परिवारितम्॥ अमात्यैर्ब्राह्मणैश्चैव तथा प्रकृतिभिर्वृतः। श्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः॥ स पुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः। प्रव्याहरद्भिर्मुदितैर्मङ्गलानि वृतो ययौ॥ अक्षतं जातरूपं च गावः कन्याः सहद्विजाः। नरा मोदकहस्ताश्च रामस्य पुरतो ययुः॥ सख्यं च रामः सुग्रीवे प्रभावं चानिलात्मजे। वानराणां च तत्कर्म ह्याचचक्षेऽथ मन्त्रिणाम्॥ श्रुत्वा च विस्मयं जग्मुरयोध्यापुरवासिनः। वानराणां च तत्कर्म राक्षसानां च तद्बलम्॥ द्युतिमानेतदाख्याय रामो वानरसंयुतः। हृष्टपुष्टजनाकीर्णामयोध्यां प्रविवेश सः॥ ततो ह्यभ्युच्छ्रयन्पौराः पताकाश्च गृहे गृहे। ऐक्ष्वाकाध्युषितं रम्यमाससाद पितुर्मुहम्।॥ अथाब्रवीद्राजपुत्रो भरतं धर्मिणां वरम्। अर्थोपहितया वाचा मधुरं रघुनन्दनः।॥ पितुर्भवनमासाद्य प्रवेश्य च महात्मनः। कौसल्यां च सुमित्रां च कैकेयीमभिवादय॥ तच्च मद्भवनं श्रेष्ठं साशोकवनिकं महत्। मुक्तावैदूर्यसंकीर्णं सुग्रीवाय निवेदय ॥ तस्य तद्वचनं श्रुत्वा भरतः सत्यविक्रमः। हस्ते गृहीत्वा सुग्रीवं प्रविवेश तमालयम्॥ ततस्तैलप्रदीपांश्च पर्यङ्कास्तरणानि च। गृहीत्वा विविशुः क्षिप्रं शत्रुघ्नेन प्रचोदिताः॥ उवाच च महातेजाः सुग्रीवं राघवानुजः। अभिषेकाय रामस्य दूतानाज्ञापय प्रभो॥ सौवर्णान्वानरेन्द्राणां चतुर्णां चतुरो घटान्। ददौ क्षिप्रं स सुग्रीवः सर्वरत्नविभूषितान्॥ तथा प्रत्यूषसमये चतुणां सागराम्भसाम्। पूर्णैर्घटैः प्रतीक्षध्वं तथा कुरुत वानराः॥ एवमुक्ता महात्मानो वानरा वारणोपमाः। उत्पेतुर्गगनं शीघ्रं गरुडा इव शीघ्रगाः। ५१ ।। जाम्बवांश्च हनूमांश्च वेगदर्शी च वानरः। ऋषभश्चैव कलशाञ्जलपूर्णानथानयन्॥ नदीशतानां पञ्चानां जलं कुम्भैरुपाहरन्। पूर्वात्समुद्रात्कलशं जलपूर्णमथानयत्॥ सुषेणः सत्त्वसंपन्नः सर्वरत्नविभूषितम्। ऋषभो दक्षिणातूर्णं समुद्राज्जलमानयत्॥ रक्तचन्दनकपूरैः संवृतं काञ्चनं घटम्। गवयः पश्चिमातोयमाजहार महार्णवात्॥ रत्नकुम्भेन महता शीतं मारुतविक्रमः। उत्तराच्च जलं शीघ्रं गरुडानिलविक्रमः॥ आजहार स धर्मात्मानिलः सर्वगुणान्वितः। ततस्तैर्वानरश्रेष्ठैरानीतं प्रेक्ष्य तज्जलम्। ५७।। अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह। पुरोहिताय श्रेष्ठाय सुहद्भयश्च न्यवेदयत्।५८॥ ततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह। राम रलमये पीठे ससीतं संन्यवेशयत्॥ वसिष्ठो विजयश्चैव जाबालिरथ काश्यपः। कात्यायनो गौतमश्च वामदेवस्तथैव च॥ अभ्यषिञ्चनरव्याघ्र प्रसन्नेन सुगन्धिना। सलिलेन सहस्राक्षं वसवो वासवं यथा॥ ऋत्विग्भिाह्मणैः पूर्व कन्याभिर्मन्त्रिभिस्तथा। योधैश्चैवाभ्यषिञ्चस्ते सम्प्रहृष्टैः सनैगमैः॥ सौषधिरसैश्चापि दैवतैर्नभसि स्थितैः। चतुभिर्लोकपालैश्च सर्वैर्देवैश्च संगतैः॥ ब्रह्मणा निर्मितं पूर्व किरीटं रत्नशोभिताम्। अभिषिक्तः पुरा येन मनुस्तं दीप्ततेजसम्॥ तस्यान्ववाये राजानः क्रमायेनाभिषेचिताः। सभायां हेमक्लुप्तायां शोभितायां महाधनैः॥ रत्नैर्नानाविधैश्चैव चित्रितायां सुशोभनैः। नानारत्नमये पीठे कल्पयित्वा यथाविधि।६६॥ किरीटेन ततः पश्चाद्वसिष्ठेन महात्मना। ऋत्विग्भिभूषणैश्चैव समयोक्ष्यत राघवः॥ छत्रं तस्य च जग्राह शत्रुघ्नः पाण्डुरं शुभम्। श्वेतं च बालव्यजनं सुग्रीवो वानरेश्वरः॥ अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः। मालां ज्वलन्तीं वपुषा काञ्चनीं शतपुष्कराम्॥ राघवाय ददौ वायुर्वासवेन प्रचोदितः। सर्वरत्नसमायुक्तं मणिभिश्च विभूषितम्।७०।। मुक्ताहारं नरेन्द्राय ददौ शक्रप्रचोदितः। प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः।७१।। अभिषेके तदहस्य तदा रामस्य धीमतः। भूमिः सस्यवती चैव फलवन्तश्च पादपः।७२।। गन्धवन्ति च पुष्पाणि बभूवू राघवोत्सवे। सहस्रशतमश्वानां धेनूनां च गवां तथा॥ ददौ शतवृषान्पूर्व द्विजेभ्यो मनुजर्षभः। त्रिंशत्कोटीर्हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः॥ नानाभरणवस्त्राणि महार्हाणि च राघवः। अर्करश्मिप्रतीकाशां काञ्चनीं मणिविग्रहाम्।७५।। सुग्रीवाय जं दिव्यां प्रायच्छन्मनुजाधिपः। वैदूर्यमयचित्रे च चन्द्ररश्मिविभूषिते॥ वालिपुत्राय धृतिमानङ्गदायाङ्गदे ददौ। मणिप्रवरजुष्टं तं मुक्ताहारमनुत्तमम्॥ सीतायै प्रददौ रामश्चन्द्ररश्मिसमप्रभम्। अरजे वाससी दिव्ये शुभान्याभरणानि च॥ अवेक्षमाणा वैदेही प्रददौ वायुसूनवे। अवमुच्यात्मनः कण्ठाद्वारं जनकनन्दिनी॥ अवैक्षत हरीन्सर्वान्भर्तारं च मुहुर्मुहुः। तामिङ्गितज्ञः संप्रेक्ष्य बभाषे जनकात्मजाम्॥ प्रदेहि सुभगे हारं यस्य तुष्टासि भामिनि । अथ सा वायुपुत्राय तं हारमसितेक्षणा।८१।। तेजो धृतिर्यशो दाक्ष्यं सामर्थ्य विनयो नयः। पौरुषं विक्रमो बुद्धिर्यस्मिनेतानि नित्यदा।॥ हनूमांस्तेन हारेण शुशुभे वानरर्षभः। चन्द्रांशुचयगौरेण श्वेताभ्रेण यथाचलः।८३॥ सर्वे वानरवृद्धाश्च ये चान्ये वानरोत्तमाः। वासोभिर्भूषणैश्चैव यथार्ह प्रतिपूजिताः॥ विभीषणोऽथ सुग्रीवो हनूमाञ्जाम्बवांस्तथा। सर्वे वानरमुख्याश्च रामेणाक्लिष्टकर्मणा॥ यथाहं पूजिताः सर्वे कामै रत्नैश्च पुष्कलैः। प्रहृष्टमनसः सर्वे जग्मुरेव यथागतम्॥ ततो द्विविदमैन्दाभ्यां नीलाय च परंतपः। सर्वान्कामगुणान्वीक्ष्य प्रददौ वसुधाधिपः॥ दृष्ट्वा सर्वे महात्मानस्ततस्ते वानरर्षभाः। विसृष्टाः पार्थिवेन्द्रेण किष्किन्धां समुपागमन्॥ सुग्रीवो वानरश्रेष्ठो दृष्ट्वा रामाभिषेचनम्। पूजितश्चैव रामेण किष्किन्धां प्राविशत्पुरीम्॥ विभीषणोऽपि धर्मात्मा सह तैर्नैऋतर्षभैः। लब्ध्वा कुलधनं राजा लङ्कां प्रायान्महायशाः॥ स राज्यमखिलं शासनिहतारिमहायशाः। राघवः परमोदारः : शशास परया मुदा।। उवाच लक्ष्मणं रामो धर्मज्ञं धर्मवत्सलः॥ आतिष्ठ धर्मज्ञ मया सहेमां गां पूर्वराजाध्युषितां बलेन। तैयौँवराज्ये दुरमुद्वहस्व॥ सर्वात्मना पर्यनुनीयमानो यदा न सौमित्रिरुपैति योगम्। नियुज्यमानो ततोऽभ्यषिञ्चद्भरतं महात्मा॥ पौण्डरीकाश्वमेधाभ्यां वाजिमेधेन चासकृत्। अन्यैश्च विविधैर्यज्ञैरयजत्पार्थिवात्मजः॥ भुवि यौवराज्ये राज्यं दशसहस्राणि प्राप्य वर्षाणि राघवः। दशाश्वमेधानाजह्वे सदश्वान्भूरिदक्षिणान्॥ आजानुलम्बिबाहुः स महावक्षाः प्रतापवान्। लक्ष्मणानुचरो रामः शशास पृथिवीमिमाम्॥ राघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम्। ईजे बहुविधैर्यज्ञैः ससुतभ्रातृबान्धवः॥ न पर्यदेवन्विधवा न च व्यालकृतं भयम्। न व्याधिजं भयं चासीद्रामे राज्यं प्रशासति ॥ निर्दस्युरभवल्लोको नानर्थं कश्चिदस्पृशत्। न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते॥ सर्व मुदितमेवासीत्सर्वो धर्मपरोऽभवत्। राममेवानुपश्यन्तो नाभ्यहिंसन्परस्परम्॥ आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः। निरामया विशोकाश्च रामे राज्यं प्रशासति ॥ नित्यमूला नित्यफलास्तरवस्तत्र पुष्पिताः। कामवर्षी च पर्जन्यः सुखस्पर्शश्च मारुतः॥ स्वकर्मसु प्रवर्तन्ते तुष्टाः स्वैरेव कर्मभिः। आसन्प्रजा धर्मपरा रामे शासति नानृताः॥ सर्वे लक्षणसंपन्नाः सर्वे धर्मपरायणाः। दशवर्षसहस्राणि रामो राज्यमकारयत्॥ धयं यशस्यमायुष्यं राज्ञां च विजयावहम्। आदिकाव्यमिदं चार्ष पुरा वाल्मीकिना कृतम्॥ यः शृणोति सदा लोके नरः पापात्प्रमुच्यते। पुत्रकामश्च पुत्रान्वै धनकामो धनानि च॥ लभते मनुजो लोके श्रुत्वा रामाभिषेचनम्। महीं विजयते राजा रिपूंश्चाप्यधितिष्ठति॥ राघवेण यथा माता सुमित्रा लक्ष्मणेन च। भरतेन च कैकेयी जीवपुत्रास्तथा स्त्रियः॥ श्रुत्वा रामायणमिदं दीर्घमायुश्च विन्दति। रामस्य विजयं चेमं सर्वमक्लिष्टकर्मणः॥ शृणोति य इदं काव्यं पुरा वाल्मीकिना कृतम्। श्रद्दधानो जितक्रोधो दुर्गाण्यतितरत्यसौ॥ समागम्य प्रवासान्ते रमन्ते सह बान्धवैः। शृण्वन्ति य इदं काव्यं पुरा वाल्मीकिना कृतम्।।१११। ते प्रार्थितान्वरान्सर्वान्प्राप्नुवन्तीह राघवात्। श्रवणेन सुराः सर्वे प्रीयन्ते संप्रशृण्वताम्॥ विनायकाश्च शाम्यन्ति गृहे तिष्ठति यस्य वै। विजयेत महीं राजा प्रवासी स्वस्तिमान्भवेत्॥ स्त्रियो रजस्वलाः श्रुत्वा पुत्रान्सूयुरनुत्तमान्। पूजयंश्च पठंश्चैनमितिहासं पुरातनम्॥ सर्वपापैः प्रमुच्येत दीर्घमायुरवाप्नुयात्। प्रणम्य शिरसा नित्यं श्रोतव्यं क्षत्रियैर्द्विजात्॥ ऐश्वर्यं पुत्रलाभश्च भविष्यति न संशयः। रामायणमिदं कृत्स्नं शृण्वतः पठतः सदा॥ प्रीयते सततं रामः स हि विष्णुः सनातनः। आदिदेवो महाबाहुर्हरिनारायणः प्रभुः॥ एवमेतत्पुरावृत्तमाख्यानं भद्रमस्तु वः। प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम्॥ देवाश्च सर्वे तुष्यन्ति ग्रहणाच्छ्वणात्तथा। रामायणस्य श्रवणे तृप्यन्ति पितरः सदा॥ भक्त्या रामस्य ये चेमा संहितामृषिणा कृताम्। ये लिखन्तीह च नरास्तेषां वासस्त्रिविष्टपे॥ कुटुम्बवृद्धिं धनधान्यवृद्धि स्त्रियश्च मुख्याः सुखमुत्तमं च। श्रुत्वा शुभं काव्यमिदं महार्थ प्राप्नोति सर्वां भुवि चार्थसिद्धिम्॥ आयुष्यमारोग्यकरं यशस्यं सौभ्रातृकं बुद्धिकरं शुभं च। राख्यानमोजस्करमृद्धिकामैः॥ प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते। आजग्मुर्मुनयः सर्वे राघवं प्रतिनन्दितुम् ॥ कौशिकोऽथ यवक्रीतो गार्यो गालव एव च। कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः॥ स्वस्त्यात्रेयश्च भगवान्नमुचिः प्रमुचिस्तथा। अगस्त्योऽत्रिश्च भगवान्सुमुखो विमुखस्तथा॥ आजग्मुस्ते सहागस्त्या ये श्रिता दक्षिणां दिशम्। नृषङ्गुः कवषी धौम्यः कौषेयश्च महानृषिः॥ तेऽप्याजग्मुः सशिष्या वै ये श्रिताः पश्चिमां दिशम्। वसिष्ठः कश्यपोऽथात्रिविश्वामित्रः सगौतमः॥ जमदग्निर्भरद्वाजस्तेऽपि सप्तर्षयस्तथा। उदीच्यां दिशि सप्तैते नित्यमेव निवासिनः॥ संप्राप्यते महात्मानो राघवस्य निवेशनम्। विष्टिताः प्रतिहारा) हुताशनसमप्रभाः॥ वेदवेदाङ्गविदुषो नानाशास्त्रविशारदाः। द्वाःस्थं प्रोवाच धर्मात्मा अगस्त्यो मुनिसत्तमः।।८ निवेद्यतां दाशरथेऋषयो वयमागताः। प्रतीहारस्ततस्तूर्णमगस्त्यवचनाद्भुतम्॥ समीपं राघवस्याशु प्रविवेश महात्मनः। नयेङ्गितिज्ञः सद्वृत्तो दक्षो धैर्यसमन्वितः॥ स रामं दृश्य सहसा पूर्णचन्द्रसमद्युतिम्। अगस्त्यं कथयामास संप्राप्तमृषिसत्तमम्॥ श्रुत्वा प्राप्तान्मुनींस्तांस्तु बालसूर्यसमप्रभान्। प्रत्युवाच ततो द्वा:स्थं प्रवेशय यथासुखम्॥ दृष्ट्वा प्राप्तान्मुनींस्तांस्तु प्रत्युत्थाय कृताञ्जलिः। पाद्याादिभिरान गां निवेद्य च सादरम्॥ रामोऽभिवाद्य प्रयत आसनान्यादिदेश ह। तेषु काञ्चनचित्रेषु महत्सु च वरेषु च॥ कुशान्तर्धानदत्तेषु मृगचर्मयुतेषु च। यथार्हमुपविष्टास्ते आसनेष्वृषिपुङ्गवाः॥ रामेण कुशलं पृष्टाः सशिष्याः सपुरोगमाः। महर्षयो वेदविदो रामं वचनमब्रुवन्। कुशलं नो महाबाहो सर्वत्र रघुनन्दन॥ त्वां तु दिष्ट्या कुशलिनं पश्यामो हतशात्रवम्। दिष्ट्या त्वया हतो राजन्रावणो लोकरावणः॥ नहि भारः स ते राम रावणः पुत्रपौत्रवान्। सधनुस्तवं हि लोकांस्त्रीन्विजयेथा न संशयः॥ दिष्ट्या त्वया हतो राम रावणः पुत्रपौत्रवान्। दिष्ट्या विजयिनं त्वाद्य पश्यामः सह सीतया॥ लक्ष्मणेन च धर्मात्मन्ध्रात्रा त्वद्धितकारिणा। मातृभिर्धातृसहितं पश्यामोऽद्य वयं नृप॥ दिष्ट्या प्रहस्तो विकटो विरूपाक्षो महोदरः। अकम्पनश्च दुर्धर्षो निहतास्ते निशाचराः॥ यस्य प्रमाणाद्विपुलं प्रमाणं नेह विद्यते। दिष्ट्या ते समरे राम कुम्भकर्णो निपातितः॥ त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ। दिष्ट्या ते निहता राम महावीर्या निशाचराः॥ दिष्ट्या त्वं राक्षसेन्द्रेण द्वन्द्वयुद्धमुपागतः। देवतानामवध्येन विजय प्राप्तवानसि॥ संख्ये तस्य न किंचित्तु रावणस्य पराभवः। द्वन्द्वयुद्धमनुप्राप्तो दिष्ट्या ते रावणिर्हतः॥ दिष्ट्या तस्य महाबाहो कालस्येवाभिधावतः। मुक्तः सुररिपोर्वीर प्राप्तश्च विजयस्त्वया॥ अभिनन्दाम ते सर्वे संश्रुत्येन्द्रजितो वधम्। अवध्यः सर्वभूतानां महामायाधरो युधि॥ विस्मयस्त्वेष चास्माकं तं श्रुत्वेन्द्रजितं हतम्। दत्त्वा पुण्यामिमां वीर सौम्यामभयदक्षिणाम्।। दिष्ट्या वर्धसि काकुत्स्थ जयेनामित्रकर्शन॥ श्रुत्वा तु वचनं तेषां मुनीनां भावितात्मनाम्। विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत्॥ भगवन्तः कुंभकर्णं रावणं च निशाचरम्। अतिक्रम्य महावीयौँ किं प्रशंसथ रावणिम्॥ महोदरं प्रहस्तं च विरूपाक्षं च राक्षसम्। मत्तोन्मत्तौ च दुर्धर्षों देवान्तकनरान्तकौ।। अतिक्रम्य महावीरान् किं प्रशंसथ रावणिम्॥ अतिकायं त्रिशिरसं धूम्राक्षं च निशाचरम्। अतिक्रम्य महावीर्यान्कि प्रशंसथ रावणिम्॥ कीदृशो वै प्रभावोऽस्य किं बलं कः पराक्रमः। के वा कारणेनैष रावणादतिरिच्यते॥ शक्यं यदि मया श्रोतुं न खल्वाज्ञापयामि वः। यदि गुह्यं न चेद्वक्तुं श्रोतुमिच्छामि कथ्यताम्॥ शक्रोऽपि विजितस्तेन कथं लब्धवरश्च सः। कथं च बलवानन्पुत्रो न पिता तस्य रावणः॥ कथं पितुश्चाप्यधिको महाहवे शक्रस्य जेता हि कथं स राक्षसः। वराश्च लब्धाः कथयस्व मेऽद्य पाप्रच्छतश्चास्य मुनीन्द्र सर्वम्॥ तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः। कुम्भयोनिर्महातेजा वाक्यमेतदुवाच ह॥ शृणु राम तथा वृत्तं तस्य तेजोबलं महत्। जघान शत्रून्येनासौ न च वध्यः स शत्रुभिः॥ तावत्ते रावणस्येदं कुलं जन्म च राघव। वरप्रदानं च तथा तस्मै दत्तं ब्रवीमि ते॥ पुरा कृतयुगे राम प्रजापतिसुतः प्रभुः। पुलस्त्यो नाम ब्रह्मर्षिः साक्षादिव पितामहः॥ नानुकीर्त्या गुणास्तस्य धर्मतः शीलतस्तथा। प्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः॥ प्रजापतिसुतत्वेन देवानां वल्लभो हि सः। इष्टः सर्वस्य लोकस्य गुणैः शुभैर्महामतिः॥ स तु धर्मप्रसङ्गेन मेरोः पार्श्वे महागिरेः। तृणबिन्द्वाश्रमं गत्वाप्यवसन्मुनिपुङ्गवः॥ तपस्तेपे स धर्मात्मा स्वाध्यायनियतेन्द्रियः। गत्वाश्रमपदं तस्य विघ्नं कुर्वन्ति कन्यकाः॥ ऋपिपन्नगकन्याश्च राजर्षितनयाश्च याः। क्रीडन्त्योऽप्सरसश्चैव तं देशमुपपेदिरे॥ सर्वर्तुषूपभोग्यत्वाद्रम्यत्वात्काननस्य च। नित्यशस्तास्तु तं देशं गत्वा क्रीडन्ति कन्यकाः॥ देशम्य रमणीयत्वात्पुलस्त्यो यत्र स द्विजः। गायन्त्यो वादयन्त्यश्च लासयन्त्यस्तथैव च॥ मुनेस्तपस्विनस्तस्य विघ्नं चक्रुरनिन्दिताः। अथ रुष्टो महातेजा व्याजहार महामुनिः॥ या मे दर्शनमागच्छेत्सा गर्भ धारयिष्यति। तास्तु सर्वाः प्रतिश्रुत्य तस्य वाक्यं महात्मनः॥ ब्रह्मशापभयागीतास्तं देशं नोपचक्रमुः। तृणबिन्दोस्तु राजर्षेस्तनया न शृणोति तत्॥ गत्वाश्रमपदं तत्र विचचार सुनिर्भया। न चापश्यच्च सा तत्र कांचिदभ्यागतां सखीम्॥ तस्मिन्काले महातेजाः प्राजापत्यो महानृषिः। स्वाध्यायमकरोत्तत्र तपसा भावितः स्वयम्॥ सा तु वेदश्रुतिं दृष्ट्वा वै तपसो निधिम्। अभवत्पाण्डुदेहा सा सुव्यञ्जितशरीरजा॥ बभूव च समुद्विग्ना दृष्ट्वा तद्दोषमात्मनः। इदं मे किंत्विति ज्ञात्वा पितुर्गत्वाश्रमे स्थिता॥ तां तु दृष्ट्वा तथाभूतां तृणबिन्दुरथाब्रवीत्। किं त्वमेतत्त्वसदृशं धारयस्यात्मनो वपुः॥ सा तु कृत्वाञ्जलिं दीना कन्योदाच तपोधनम्। न जाने कारणं तात येन मे रूपमीदृशम्॥ किं तु पूर्व गतास्म्येका महर्षे वितात्मनः। पुलस्त्यस्याश्रमं दिव्यमन्वेष्टुं स्वसखीजनम्॥ न च पश्याम्यहं तत्र कांचिदभ्यागतां सखीम्। रूपस्य तु विपर्यासं दृष्ट्वा त्रासादिहागता॥ तृणबिन्दुस्तु राजर्षिस्तपसा द्योतितप्रभः। ध्यानं विवेश तच्चापि अपश्यदृषिकर्मजम्॥ स तु विज्ञाय तं शापं महर्षे वितात्मनः। गृहीत्वा तनयां गत्वा पुलस्त्यमिदमब्रवीत्॥ भगवंस्तनयां मे त्वं गुणैः स्वैरेव भूषिताम्। भिक्षां प्रतिगृहाणेमां महर्षे स्वयमुद्यताम्॥ तपश्चरणयुक्तस्य श्राम्यमाणेन्द्रिस्य ते। शुश्रूषणपरा नित्यं भविष्यति न संशयः॥ तं ब्रुवाणं तु तद्वाक्यं राजर्षि धार्मिकं तदा। जिघृक्षुरब्रवीत्कन्यां बाढमित्येव स द्विजः॥ दत्त्वा तु तनयां राजा स्वमाश्रमपदं गतः। सापि तत्रावसत्कन्या तोषयन्ती पतिं गुणैः॥ तस्यास्तु शीलवृत्ताभ्यां तुतोष मुनिपुङ्गवः। प्रीतः स तु महातेजा वाक्यमेतदुवाच ह॥ परितुष्टोऽस्मि सुश्रोणि गुणानां संपदा भृशम्। तस्माद्देवि ददाम्यद्य पुत्रमात्मसमं तव। उभयोवंशकर्तारं पौलस्त्य इति विश्रुतम्॥ यस्मात्तु विश्रुतो वेदस्त्वयेहाध्ययतो मम। तस्मात्स विश्रवा नाम भविष्यति न संशयः॥ एवमुक्ता तु सा देवी प्रहृष्टेनान्तरात्मना। अचिरेणैव कालेनासूत विश्रवसं सुतम्। त्रिषु लोकेषु विख्यातं यशोधर्मसमन्वितम्॥ श्रुतिमान्समदर्शी च व्रताचाररतस्तथा। पितेव तपसा युक्तो अभवद्विश्रवा मुनिः॥ अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुङ्गवः। अचिरेणैव कालेन पितेव तपसि स्थितः॥ सत्यवाञ्शीलवान्दान्तः स्वाध्यायनिरतः शुचि। सर्वभोगेष्वसंसक्तो नित्यं धर्मपरायणः॥ ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महामुनिः। ददौ विश्रवसे भार्यां स्वसुतां देववर्णिनीम्॥ प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदा। प्रजान्वीक्षिकया बुद्ध्या श्रेयो ह्यस्य विचिन्तयन्॥ मुदा परमया युक्तो विश्रवा मुनिपुङ्गवः। स तस्यां वीर्यसंपन्नमपत्यं परमाद्भुतम्॥ जनयामास धर्मज्ञः सर्वैर्ब्रह्मगुणैर्वृतम्। तस्मिञ्जाते तु संहृष्टः स बभूव पितामहः॥ दृष्ट्वा श्रेयस्करी बुद्धिं धनाध्यक्षो भविष्यति। नाम चास्याकरोत्प्रीतः सार्धं देवर्षिभिस्तदा॥ यस्माद्विश्रवसोऽपत्यं सादृश्याद्विश्रवा इव। तस्माद्वैश्रवणो नाम भविष्यत्येष विश्रुतः॥ स तु वैश्रवणस्तत्र तपोवनगतस्तदा। अवर्धताहुतिहुतो महातेजा यथानलः॥ तस्याश्रमपदस्थस्य बुद्धिर्जज्ञे महात्मनः। चरिष्ये परमं धर्म धर्मो हि परमा गतिः॥ स तु वर्षसहस्राणि तपस्तप्त्वा महावने। यन्त्रितो नियमैरुप्रैश्चकार सुमहत्तपः॥ पूर्णे वर्षसहस्रान्ते तं तं विधिमकल्पयत्। जलाशी मारुताहारो निराहारस्तथैव च। एवं वर्षसहस्राणि जग्मुस्तान्येकवर्षवत्॥ अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः सह। गत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यमब्रवीत्॥ परितुष्टोऽस्मि ते वत्स कर्मणानेन सुव्रत। वरं वृणीष्व भद्रं ते वराहस्त्वं महामते॥ अथाब्रवीद्वैश्रवणः पितामहमुपस्थितम्। भगवॅल्लोकपालत्वमिच्छेयं लोकरक्षणम्॥ अथाब्रवीद्वैश्रवणं परितुष्टेन चेतसा। ब्रह्मा सुरगणैः सार्धं बाढमित्येव हृष्टवत्॥ अहं वै लोकपालानां चतुर्थं स्रष्टुमुद्यतः। यमेन्द्रवरुणानां च पदं यत्तव चेप्सितम्॥ तद्गच्छ बत धर्मज्ञ निधीशत्वमवाप्नुहि । शक्राम्बुपयमानां च चतुर्थस्त्वं भविष्यसि ॥ एतच्च पुष्पकं नाम विमानं सूर्यसंनिभम्। प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज॥ स्वस्ति तेऽस्तु गमिष्यामः सर्व एव यथागतम्। कृतकृत्या वयं तात दत्त्वा तव वरद्वयम्॥ इत्युक्त्वा स गतो ब्रह्मा स्वस्थानं त्रिदशैः सह। गतेषु ब्रह्मपूर्वेषु देवेष्वथ नभस्तलम्॥ धनेशः पितरं प्राह प्राञ्जलिः प्रयतात्मवान्। भगवल्लब्धवानस्मि वरमिष्टं पितामहात्॥ निवासनं न मे देवो विदधे स प्रजापतिः। तं पश्य भगवन्कंचिनिवासं साधु मे प्रभो। न च पीडा भवेद्यत्र प्राणिनो यस्य कस्यचित्।।२३ एवमुक्तस्तु पुत्रेण विश्रवा मुनिपुङ्गवः। वचनं प्राह धर्मज्ञ श्रूयतामिति सत्तम॥ दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः। तस्याने तु विशाला सा महेन्द्रस्य पुरी यथा॥ लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणा। राक्षसानां निवासार्थं यथेन्द्रस्यामरावती॥ तब त्वं वस भद्रं ते लङ्कायां नात्र संशयः। हेमप्राकारपरिखा यन्त्रशस्त्रसमावृता॥ रमणीया पुरी सा हि रुक्मवैदूर्यतोरणा। राक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैः॥ शून्या रक्षोगणैः सर्वै रसातलतलं गतः। शून्या संप्रति लङ्का सा प्रभुस्तस्या न विद्यते॥ स त्वं तत्र निवासाय गच्छ पुत्र यथासुखम्। निर्दोषस्तत्र ते वासो न बाधस्तत्र कस्यचित् ॥ एतच्छुत्वा स धर्मात्मा धर्मिष्ठं वचनं पितुः। निवासयामास तदा लङ्कां पर्वतमूर्धनि ॥ नैर्ऋतानां सहस्रैस्तु हृष्टैः प्रमुदितैः सदा। अचिरेणैव कालेन संपूर्णा तस्य शासनात्॥ स तु तत्रावसत्प्रीतो धर्मात्मा नैर्ऋतर्षभः। समुद्रपरिखायां स लङ्कायां विश्रवात्मजः॥ काले काले तु धर्मात्मा पुष्पकेण धनेश्वरः। अभ्यागच्छद्विनीतात्मा पितरं मातरं च हि ॥ स्तथाप्सरोनृत्यबिभूषितालयः। गभस्तिभिः सूर्य इवावभासयन् पितुः समीपं प्रययौ स वित्तपः॥ श्रुत्वागस्त्येरितं वाक्यं रामो विस्मयमागतः। कथमासीत्तु लङ्कायां संभवो रक्षसां पुरा॥ ततः शिरः कम्पयित्वा त्रेताग्निसमविग्रहम्। तमगस्त्यं मुहुर्दृष्ट्वा स्मयमानोऽभ्यभाषत ॥ भगवन्पूर्वमप्येषा लङ्कासीत्पिशिताशिनाम्। श्रुत्वेदं भगवद्वाक्यं जातो मे विस्मयः परः॥ पुलस्त्यवंशादुद्भूता राक्षसा इति नः श्रुतम्। इदानीमन्यतश्चापि संभवः कीर्तितस्त्वया॥ रावणात्कुम्भकर्णाच्च प्रहस्ताद्विकटादपि। रावणस्य च पुत्रेभ्यः किं नु ते बलवत्तराः॥ क एषां पूर्वको ब्रह्मन्किनामा च बलोत्कटः। अपराधं च कं प्राप्य विष्णुना द्राविताः कथम्॥ एतद्विस्तारतः सर्वं कथयस्व ममानघ । कुतूहलमिदं मह्यं नुद भानुर्यथा तमः।७।। राघवस्य वचः श्रुत्वा संस्कारालंकृतं शुभम्। अथ विस्मयमानस्तमगस्त्यः प्राह राघवम्॥ प्रजापतिः पुरा सृष्ट्वा अपः सलिलसंभवः। तासां गोपायने सत्त्वानसृजत्पद्मसंभवः॥ ते सत्त्वाः सत्त्वकर्तारं विनीतवदुपस्थिताः। किं कुर्म इति भाषन्तः क्षुत्पिपासाभयार्दिताः॥ प्रजापतिस्तु तान्सर्वान्प्रत्याह प्रहसन्निव। आभाष्य वाचा यत्नेन रक्षध्वमिति मानवाः॥ रक्षाम इति तत्रान्यैर्यक्षाम इति चापरैः। @क्षिता क्षितैरुक्तस्ततस्तानाह भूतकृतः॥ रक्षाम इति यैरुक्तं राक्षसास्ते भवन्तु वः। रक्षाम इति यैरुक्तं यक्षा एव भवन्तु वः॥ तत्र हेतिः प्रहेतिश्च भ्रातरौ राक्षसाधिपौ। मधुकैटभसंकाशौ बभूवतुररिंदमौ ॥ प्रहेतिरर्धार्मिकस्तत्र तपोवनगतस्तदा। हेतिरक्रियार्थे तु परं यत्नमथाकरोत्॥ स कालभगिनीं कन्यां भयां नाम महाभयाम्। उदावहदमेयात्मा स्वयमेव महामतिः॥ स तस्यां जनयामास हेती राक्षसपुङ्गवः। पुत्र पुत्रवतां श्रेष्ठो विद्युत्केशमिति श्रुतम्॥ विद्युत्केशो हेतिपुत्रः स दीप्तार्कसमप्रभः। व्यवर्धत महातेजास्तोयमध्य इवाम्बुजम् ॥ स यदा यौवनं भद्रमनुप्राप्तो निशाचरः। ततो दारक्रियां तस्य कर्तुं व्यवसितः पिता॥ संध्यादुहितरं सोऽथ संध्यातुल्यां प्रभावतः। वरयामास पुत्रार्थ हेती राक्षसपुङ्गवः॥ अवश्यमेव दातव्या परस्मै सेति संध्यया। चिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव ।।२१ संध्यायास्तनयां लब्ध्वा विद्युत्केशो निशाचरः। रमते स तया साधं पौलोम्या मघवानिव॥ केनचित्त्वथ कालेन राम सालकटङ्कटा। विद्युत्केशाद्गर्भमाप घनराजिरिवार्णवात्॥ ततः सा राक्षसी गर्भ घनगर्भसमप्रभम्। प्रसूता मन्दरं गत्वा गङ्गा गर्भमिवाग्निजम्। समुत्सृज्य तु सा गर्भ विद्युत्केशरतार्थिनी॥ रेमे तु सार्धं पतिना विसृज्य सुतमात्मजम् । उत्सृष्टस्तु तदा गर्भो घनशब्दसमस्वनः॥ तयोत्सृष्टः स तु शिशुः शरदर्कसमद्युतिः। निधायास्ये स्वयं मुष्टिं रुरोद शनकैस्तदा॥ ततो वृषभमास्थाय पार्वत्या सहितः शिवः। वायुमार्गेण गच्छन्वै शुश्राव रुदितस्वनम्॥ अपश्यदुमया सार्धं रुदन्तं राक्षसात्मजम्। कारुण्यभावात्पार्वत्या भवस्त्रिपुरसूदनः॥ तं राक्षसात्मजं चक्रे मातुरेव वयःसमम्। अमरं चैव तं कृत्वा महादेवोऽक्षरोऽव्ययः॥ पुरमाकाशगं प्रादात्पार्वत्याः प्रियकाम्यया। उभयापि वरो दत्तो राक्षसीनां नृपात्मज॥ सद्योपलब्धिर्गर्भस्य प्रसूतिः सद्य एव च। सद्य एव वय:प्राप्ति मातुरेव वयःसमम्॥ ततः सुकेशो वरदानगर्वितः श्रियं प्रभोः प्राप्य हरस्य पार्श्वतः। चचार सर्वत्र महान्महामतिः खगं पुरं प्राप्य पुरंदरो यथा।॥ सुकेशं धार्मिकं दृष्ट्वा वरलब्धं च राक्षसम्। ग्रामणी म गन्धर्वो विश्वावसुसमप्रभः॥ तस्य देववती नाम द्वितीया श्रीरिवात्मजा। त्रिषु लोकेषु विख्याता रूपयौवनशालिनी॥ तां सुकेशाय धर्मात्मा ददौ रक्षः श्रियं यथा। वरदानकृतैश्वर्यं सा तं प्राप्य पति प्रियम्॥ आसीद्देववती तुष्टा धनं प्राप्येव निर्धनः। स तया सह संयुक्तो रराज रजनीचरः॥ अञ्जनादभिनिष्क्रान्तः करेण्वेव महागजः। ततः काले सुकेशस्तु जनयामास राघव। चीन् पुत्रान् जनयामास त्रेताग्निसमविग्रहान्॥ माल्यवन्तं सुमालिं च मालिं च बलिनां वरम्। त्रीत्रिनेत्रसमान्पुत्राराक्षसानराक्षसाधिपः॥ त्रयो लोका इवाव्यग्राः स्थितास्त्रयः इवाग्नयः। यो मन्त्रा इवात्युग्रास्त्रयो घोरा इवामयाः।७।। त्रयः सुकेशस्य सुतास्त्रेताग्निसमतेजसः। विवृद्धिमगमंस्तत्र व्याधयोपेक्षिता इव ॥ वरप्राप्ति पितुस्ते तु ज्ञात्वैश्वर्यं तपोबलात्। तपस्तप्तुं गता मेरुं भ्रातरः कृतनिश्चयाः॥ प्रगृह्य नियमान्धोराराक्षसा नृपसत्तम। विचेरुस्ते तपो घोरं सर्वभूतभयावहम्॥ सत्यार्जवशमोपेतैस्तपोभिर्भुवि दुर्लभैः। संतापयन्तस्त्रील्लोकान्सदेवासुरमानुषान्॥ ततो विभुश्चतुर्वक्रो विमानवरमाश्रितः। सुकेशपुत्रानामन्त्र्य वरदोऽस्मीत्यभाषत॥ ब्रह्माणं वरदं ज्ञात्वा सेन्ट्रैर्देवगणैर्वृतम्। ऊचुः प्राञ्जलयः सर्वे वेपमाना इव दुमाः॥ तपसाराधितो देव यदि नो दिशसे वरम्। अजेयाः शत्रुहन्तारस्तथैव चिरजीविनः। प्रभविष्ण्वो भवामेति परस्परमनुव्रताः॥ एवं भविष्यथेत्युक्त्वा सुकेशतनयान्विभुः। स ययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः॥ वरं लब्ध्वा तु ते सर्वे राम रात्रिंचरास्तदा। सुरासुरान्प्रबाधन्ते वरदानसुनिर्भयाः॥ तैर्बाध्यमानास्त्रिदशाः सर्षिसङ्घाः सचारणाः। त्रातारं नाधिगच्छन्ति निरयस्था यथा नराः॥ अथ ते विश्वकर्माणं शिल्पिनां वरमव्ययम्। ऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम॥ ओजस्तेजोबलवतां महतामात्मतेजसा। गृहकर्ता भवानेव देवानां हृदयेप्सितम्॥ अस्माकमपि तावत्त्वं गृहं कुरु महामते। हिमवन्तमुपाश्रित्य मेरुमन्दरमेव वा॥ महेश्वरगृहप्रख्यं गृहं नः क्रियतां महत्। विश्वकर्मा ततस्तेषां राक्षसानां महाभुजः॥ निवासं कथयामास शक्रस्येवामरावतीम्। दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः॥ सुवेल इति चाप्यन्यो द्वितीयो राक्षसेश्वराः। शिखरे तस्य शैलस्य मध्यमेऽम्बुदसंनिभे॥ शकुनैरपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि। त्रिंशद्योजनविस्तीर्णा शतयोजनमायता॥ स्वर्णप्राकारसंवीता हेमतोरणसंवृता। मया लङ्केति नगरी शक्याज्ञप्तेन निर्मिता ॥ तस्यां वसत दुर्धर्षा यूयं राक्षसपुङ्गवाः। अमरावतीं समासाद्य सेन्द्रा इव दिवौकसः॥ लङ्कादुर्गं समासाद्य राक्षसैर्बहुभिर्वृताः। भविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः॥ विश्वकर्मवचः श्रुत्वा ततस्ते राक्षसोत्तमाः। सहस्रानुचरा भूत्वा गत्वा तामवसन्पुरीम्॥ दृढप्राकारपरिखां हैमैहशतैर्वृताम्। लङ्कामवाप्य ते हृष्टा न्यवसन्रजनींचराः॥ एतस्मिन्नेव काले तु यथाकामं च राघव। नर्मदा नाम गन्धर्वी बभूव रघुनन्दन ॥ तस्याः कन्यात्रयं ह्यासीद्धीश्रीकिर्तिसमद्युति। ज्येष्ठक्रमेण सा तेषां राक्षसानामराक्षसी॥ कन्यास्ताः प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः। त्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः॥ दत्ता मात्रा महाभागा नक्षत्रे भगदैवते। कृतदारास्तु ते राम सुकेशतनयास्तदा॥ चिक्रीडुः सह भाभिरप्सरोभिरिवामराः। ततो माल्यवतो भार्या सुन्दरी नाम सुन्दरी।।३४ स तस्यां जनयामास यदपत्यं निबोध तत्। वज्रमुष्टिविरूपाक्षोदुर्मुखश्चैव राक्षसः॥ सुप्तघ्नो यज्ञकोपश्च मत्तोन्मत्तौ तथैव च। अनला चाभवत्कन्या सुन्दयाँ राम सुन्दरी॥ सुमालिनोऽपि भार्यासीत्पूर्णचद्रनिभानना। नाम्ना केतुमती राम प्राणेभ्योऽपि गरीयसी।।३७ सुमाली जनयामास यदपत्यं निशाचरः। केतुमत्यां महाराज तन्निबोधानुपूर्वशः॥ प्रहस्तोऽकम्पनश्चैव विकटः कालिकामुखः। धूम्राक्षश्चैव दण्डश्च सुपार्श्वश्च महाबलः॥ संहादिः प्रघसश्चैव भासकर्णश्च राक्षसः। राका पुष्पोत्कटा चैव कैकसी च शुचिस्मिताः। कुम्भीनसी च इत्येते सुमालेः प्रसवाः स्मृताः॥ मालेस्तु वसुदा नाम गन्धर्वी रूपशालिनी। भार्यासीत्पद्मपत्राक्षी स्वक्षी यक्षीवरोपमा॥ सुमालेरनुजस्तस्यां जनयामास यत्प्रभो। अपत्यं कथ्यमानं तु मया त्वं शृणु राघव।॥ अनलथानिलचैव हरः संपातिरेव च। एते बिभीषणामात्या मालेयास्ते निशाचराः॥ ततस्तु ते राक्षसपुङ्गवास्त्रयो निशाचरैः पुत्रशतैश्च संवृता। सुरान्सहेन्द्रानृषिनागयक्षान् बबाधिरे तान्बहुवीर्यदर्पिताः॥ जगभ्रमन्तोऽनिलवद्दुरासदा रणेषु मृत्युप्रतिमानतेजसः। वरप्रदानादपि गर्विता भृशं क्रतुक्रियाणां प्रशमंकराः सदा॥ तैर्वध्यमाना देवाश्च ऋषयश्च तपोधनाः। भयार्ताः शरणं जग्मुर्देवदेवं महेश्वरम्॥ जगत्सृष्ट्यन्तकर्तारमजमव्यक्तरूपिणम्। आधारं सर्वलोकानामाराध्यं परमं गुरुम्॥ ते समेत्य तु कामारिं त्रिपुरारं त्रिलोचनम्। ऊचुः प्राञ्जलयो देवा भयगद्गदभाषिणः॥ सुकेशपुत्रैर्भगवन्पितामहवरोद्धतैः। प्रजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपुबाधनैः॥ शरणान्यशरण्यानि आश्रमाणि कृतानि नः। स्वर्गाच्च देवान्प्रच्याव्य स्वर्गे क्रीडन्ति देववत्॥ अहं विष्णुरहं रुद्रो ब्रह्माहं देवराडहम्। अहं यमश्च वरुणश्चन्द्रोऽहं रविरप्यहम्॥ इति माली सुमाली च माल्यवांश्चैव राक्षसाः। बाधन्ते समरोद्धर्षा ये च तेषां पुरःसराः॥ तन्नो देव भयार्तानामभयं दातुमर्हसि। अशिवं वपुरास्थाय जहि वै देवकण्टकान्॥ इत्युक्तस्तु सुरैः सर्वैः कपर्दी नीललोहितः। सुकेशं प्रति सापेक्षः प्राह देवगणान्प्रभुः॥ अहं तान्न हनिष्यामि ममावध्या हि ते सुराः। किं तु मन्त्रं प्रदास्यामि यो वै तानिहनिष्यति ॥ एतमेव समुद्योगं पुरस्कृत्य महर्षयः गच्छध्वं शरणं विष्णुं हनिष्यति स तान्प्रभुः॥ ततस्तु जयशब्देन प्रतिनन्द्य महेश्वरम्। विष्णोः समीपमाजग्मुर्निशाचरभयार्दिताः॥ शङ्खचक्रधरं देवं प्रणम्य बहुमान्य च। ऊचुः संभ्रान्तवद्वाक्यं सुकेशतनयान्प्रति ॥ सुकेशतनयैर्देव त्रिभिस्त्रेताग्निसंनिभैः। आक्रम्य वरदानेन स्थानान्यपहतानि नः॥ लङ्का नाम पुरी दुर्गा त्रिकूटशिखरे स्थिता। तत्र स्थिताः प्रबाधन्ते सर्वान्नः क्षणदाचराः॥ स त्वमस्मद्धितार्थाय जहि तान्मधुसूदन । शरणं त्वां वयं प्राप्ता गतिर्भव सुरेश्वर ॥ चक्रकृत्तास्यकमलात्रिवेदय यमाय वै। भयेष्वभयदोऽस्माकं नान्योऽस्ति भवता विना॥ राक्षसान्समरे हृष्टान्सानुबन्धान्मदोद्धतान्। नुद त्वं नो भयं देव नीहारमिव भास्करः॥ इत्येवं दैवतैरुक्तो देवदेवो जनार्दनः। अभयं भयदोऽरीणां दत्त्वा देवानुवाच ह॥ सुकेशं राक्षसं जाने ईशानवरदर्पितम्। तांश्चास्य तनयाञ्जाने येषां ज्येष्ठः स माल्यवान्॥ तानहं समतिक्रान्तमर्यादानराक्षसाधमान्। निहनिष्यामि संक्रुद्धः सुरा भवत विज्वराः॥ इत्युक्तास्ते सुराः सर्वे विष्णुना प्रभविष्णुना। यथावासं ययुर्हष्टाः प्रशंसन्तो जनार्दनम्॥ विबुधानां समुद्योगं माल्यवांस्तु निशाचरः। श्रुत्वा तौ भ्रातरौ वीराविदं वचनमब्रवीत्॥ अमरा ऋषयश्चैव संगम्य किल शंकरम्। अस्मद्वधं परीप्सन्त इदं वचनमब्रुवन्॥ सुकेशतनया देव वरदनाबलोद्धताः। बाधन्तेऽस्मान्समुद्रुप्ता घोररूपाः पदे पदे॥ राक्षसैरभिभूताः स्मो न शक्ताः स्म प्रजापते। स्वेषु सद्मसु संस्थातुं भयात्तेषां दुरात्मनाम्॥ तदस्माकं हितार्थाय जहि तांश्च त्रिलोचन। राक्षसान्हंकृतेनैव दह प्रदहतां वर॥ इत्येवं त्रिदशैरुक्तो निशम्यान्धकसूदनः। शिरः करं च धुन्वान इदं वचनमब्रवीत्॥ अवध्या मम ते देवाः सुकेशतनया रणे। मन्त्रं तु वः प्रदास्यामि यस्तान्वै निहनिष्यति॥ योऽसौ चक्रगदापाणिः पीतवासा जनार्दनः। हरिनारायणः श्रीमाशरणं तं प्रपद्यथ॥ हरादवाप्य ते मन्त्र कामारिमभिवाद्य च। नारायणालयं प्राप्य तस्मै सर्वं न्यवेदयन्॥ ततो नारायणेनोक्ता देवा इन्द्रपुरोगमाः। सुरारीस्तान्हनिष्यामि सुरा भवत निर्भयाः॥ देवानां भयभीतानां हरिणा राक्षसर्षभौ। प्रतिज्ञातो वधोऽस्माकं चिन्त्यतां यदिह क्षमम्।।३३ हिरण्यकशिपोर्मृत्युरन्येषां च सुरद्विषाम्। नमुचिः कालनेमिश्च संहादो वीरसत्तमः॥ राधेयो बहुमायी च लोकपालोऽथ धार्मिकः। यमलार्जुनौ च हार्दिक्यः शुम्भश्चैव निशुम्भकः।।३५ असुरा दानवाश्चैव सत्त्ववन्तो महाबलाः। सर्वे समरमासाद्य न श्रूयन्तेऽपराजिताः॥ सर्वैः क्रतुशतैरिष्टं सर्वे मायाविदस्तथा। सर्वे सर्वास्त्रकुशलाः सर्वे शत्रुभयंकराः॥ नारायणेन निहताः शतशोऽथ सहस्रशः। एतज्ज्ञात्वा तु सर्वेषां क्षमं कर्तुमिहार्हथ। दुःखं नारायणं जेतुं यो नो हन्तुमिहेच्छति॥ ततः सुमाली माली च श्रुत्वा माल्यवतो वचः। ऊचतुर्भ्रातरं ज्येष्ठमश्विनाविव वासवम्॥ स्वधीतं दत्तमिष्टं च ऐश्वर्यं परिपालितम्। आयुर्निरामयं प्राप्तं सुधर्मः स्थापितः पथि॥ देवसागरमक्षोभ्यं शस्त्रैः समवगाह्य च। जिता द्विषो ह्यप्रतिमास्तन्नो मृत्युकृतं भयम्॥ नारायणश्च रुद्रध शक्रश्चापि यमस्तथा। अस्माकं प्रमुख स्थातुं सर्वे बिभ्यति सर्वदा।॥ विष्णोद्वेषस्य नास्त्येव कारणं राक्षसेश्वर। देवानामेव दोषेण विष्णोः प्रचलितं मनः॥ तस्मादद्यैव सहिताः सर्वेऽन्योन्यसमावृताः। देवानेव जिघांसामो येभ्यो दोषः समुत्थितः॥ एवं संमन्त्र्य बलिनः सर्वसैन्यमुपासिताः। उद्योगं घोषयित्वा तु सर्वे नैर्ऋतपुङ्गवाः॥ युद्धाय निर्ययुः क्रुद्धाः जम्भवृत्रादयो यथा। इति ते राम संमन्त्र्य सर्वोद्योगेन राक्षसाः॥ युद्धाय निर्ययुः सर्वे महाकाया महाबलाः। स्पन्दनैारणैश्चैव हयैश्च करिसंनिभैः॥ खरैर्गोभिरथोष्ट्रैश्च शिशुमारैर्भुजंगमैः। मकरैः कच्छपैर्मी विहंगैर्गरुडोपमैः॥ सिंहैव्या॑।र्वराहैश्च समरैश्चमरैरपि। त्यक्त्वा लङ्कां गताः सर्वे राक्षसा बलगर्विताः॥४९ प्रयाता देवलोकाय योद्धं दैवतशत्रवः। लङ्काविपर्ययं दृष्ट्वा यानि लङ्कालयान्यथ ॥ भूतानि भयदर्शीनि विमनस्कानि सर्वशः। रथोत्तमैरुह्यमानाः शतशोऽथ सहस्रशः॥ प्रयाता राक्षसास्तूर्णं देवलोकं प्रयत्नतः। रक्षसामेव मार्गेण दैवतान्यपचक्रमुः॥ भूतानि भयदर्शीनि विषमस्थानि सर्वशः। भौमाश्चैवान्तरिक्षाश्च कालज्ञप्ता भयावहाः। उत्पाता राक्षसेन्द्राणामभावाय समुत्थिताः॥ अस्थीनि मेघा ववृषुरुष्णं शोणितमेव च। वेला समुद्राश्चोत्क्रान्ताश्चेलुश्चाप्यथ भूधराः॥ अट्टहासान्विमुञ्चन्तो घननादसमस्वनाः। वाश्यन्त्यश्च शिवास्तत्र दारुणं घोरदर्शनाः॥ संपतन्त्यथ भूतानि दृश्यन्ते च यथाक्रमम्। गृध्रचक्रं महच्चात्र प्रज्वालोदारिभिर्मुखैः॥ रक्षोगणस्योपरिष्टात्परिभ्रमति कालवत्। कपोता रक्तपादाच सारिका विदुता ययुः॥ काका वाश्यन्ति तत्रैव बिडालाय द्विपादिकाः। उत्पातांस्ताननादृत्य राक्षसा बलदर्पिताः॥ यान्त्येव न निवर्तन्ते मृत्युपाशवपाशिताः। माल्यवांश्च सुमाली च माली च सुमहाबलः॥ पुरःसरा राक्षसानां ज्वलिता इव पावकाः। माल्यवन्तं तु ते सर्वे माल्यवन्तमिवाचलम् ॥ निशाचरा आश्रयन्ति धातारमिव देवताः। तलं राक्षसेन्द्राणां महाभ्रघननादितम् ॥ जयेप्सया देवलोकं ययौ मालिवशे स्थितम्। राक्षसानां समुद्योगं तं तु नारायणः प्रभुः॥ देवदूतादुपश्रुत्य चक्रे युद्धे तदा मनः। ससज्जायुधतूणीरो वैनतेयोपरि स्थितः॥ आसाद्य कवचं दिव्यं सहस्रार्कसमद्युति। आबध्य शरसंपूर्णे इषुधी विमले तदा॥ श्रोणिसूत्रं च खङ्गं च विमलं कमलेक्षणः। शङ्खचक्रगदाशार्ङ्गखङ्गांश्चैव वरायुधान्॥ संपूर्ण गिरिसंकाशं वैनतेयमथास्थितः। राक्षसानामभावाय ययौ तूर्णतरं प्रभुः॥ सुपर्णपृष्टे स बभौ श्यामः पीताम्बरो हरिः। काञ्चनस्य गिरेः शृङ्गे सतडित्तोयदो यथा॥ स सिद्धदेवर्षिमहोरगैश्च गन्धर्वयक्षरुपगीयमानः। समाससादासुरसैन्यशत्रुश्चक्रासिशाङ्गमयुधशङ्खपाणिः।।६८ सुपर्णपक्षानिलनुनपक्षं भ्रमत्पताकं प्रविकीर्णशस्त्रम्। चचाल तद्राक्षसराजसैन्यं चलोपलं नीलमिवाचलानम्॥ युगान्तवैश्वानरतुल्यविग्रहैः। निशाचराः संपिवार्य माधवं वरायुधैर्निर्बिभिदुः सहस्रशः॥ नारायणगिरिं ते तु गर्जन्तो राक्षसाम्बुदाः। अर्दयन्तोऽस्त्रवर्षेण वर्षेणेवाद्रिमम्बुदाः॥ श्यामावदातस्तैर्विष्णुर्नीलैर्नक्तंचरोत्तमैः। वृतोऽञ्जनगिरीवायं वर्षमाणैः पयोधरैः॥ शलभा इव केदारं मशका इव पावकम्। यथामृतघटं दंशा मकरा इव चार्णवम्॥ तथा रक्षोधनुर्मुक्ता वज्रानिलमनोजवाः। हरिं विशन्ति स्म शरा लोका इव विपर्यये।४।। स्यन्दनैः स्यन्दनगता गजैश्च गजमूर्धगाः। अश्वारोहास्तथाश्वैश्च पादाताश्चाम्बरे स्थिताः॥ राक्षसेन्द्राः गिरिनिभाः शरैः शक्त्य॒ष्टितोमरैः। निरुछ्वासं हरिं चक्रुः प्राणायामा इव द्विजम्॥ निशाचरैस्ताड्यमानो मीनैरिव महोदधिः। शाङ्गमायम्य दुर्धर्षो राक्षसेभ्योऽसृजच्छरान्॥ शरैः पूर्णायतोत्सृष्टैर्वज्रकल्पैर्मनोजवैः। चिच्छेद विष्णुनिशितैः शतशोऽथ सहस्रशः॥ विद्राव्य शरवर्षेण वर्ष वायुरिवोत्थितम्। पाञ्चजन्यं महाशङ्ख प्रदध्मौ पुरुषोत्तमः॥ सोऽम्बुजो हरिणाध्मातः सर्वप्राणेन शङ्खराट्। ररास भीमनिर्हादस्त्रैलोक्यं व्यथयन्निव॥ शङ्खराजरवः सोऽथ त्रासयामास राक्षसान् । मृगराज इवारण्ये समदानिव कुञ्जरान्॥ न शेकुरश्वाः संस्थातुं विमदाः कुञ्जराभवन्। स्यन्दनेभ्यश्च्युता वीराः शङ्खरावितदुर्बलाः॥ शाङ्गचापविनिर्मुक्ता वज्रतुल्याननाः शराः। विदार्य तानि रक्षांसि सुपुङ्खा विविशुः क्षितिम्॥ भिद्यमानाः शरैः संख्ये नारायणकरच्युतैः। निपेतू राक्षसा भूमौ शैला वज्रहता इव ॥ व्रणानि परगात्रेभ्यो विष्णुचक्रकृतानि हि। असृक्क्षरन्ति धाराभिः स्वर्णधारा इवाचलाः॥ शङ्खराजरवश्चापि शार्ङ्गचापरवस्तथा। राक्षसानां रवांश्चापि ग्रसते वैष्णवो रवः॥ तेषां शिरोधरान्धूताञ्छरध्वजधनूंषि च। रथान्पताकास्तूणीरांश्चिच्छेद स हरिः शरैः॥ सूर्यादिव करा घोरा वार्योघा इव सागरात्। पर्वतादिव नागेन्द्रा धारौघा इव चाम्बुदात्॥ तथा शाङ्गविनिर्मुक्ताः शरा नारायणेरितात्। निर्धावन्तीषवस्तूर्णं शतशोथ सहस्रशः॥ शरभेण यथा सिंहाः सिंहेन द्विरदा यथा। द्विरेदेन यथा व्याघ्रा व्याघ्रण द्वीपिनो यथा॥ द्वीपिनेव यथा श्वानः शुना मार्जारको यथा। माजरिण यथा सर्पाः सर्पेण च यथाखवः॥ तथा ते राक्षसाः सर्वे विष्णुना प्रभविष्णुना। द्रवन्ति द्राविताश्चान्ये शायिताश्च महीतले॥ राक्षसानां सहस्राणि निहत्य मधुसूदनः। वारिजं पूरयामास तोयदं सुरराडिव॥ नारायणशरत्रस्तं शङ्खनादसुविह्वलम्। ययौ लङ्कामभिमुखं प्रभग्नं राक्षसं बलम् ॥ प्रभग्ने राक्षसबले नारायणशराहते। सुमाली शरवर्षेण निववार रणे हरिम्॥ स तु तं छादयामास नीहार इव भास्करम्। राक्षसाः सत्त्वसंपन्नाः पुनधैर्य समादधुः॥ अथ सोऽभ्यपतद्रोषाद्राक्षसो बलदर्पितः। महानादं प्रकुर्वाणो राक्षसाञ्जीवयन्निव॥ उत्क्षिप्य लम्बाभरणं धुन्वन्करमिव द्विपः। ररास राक्षसो हर्षात्सतडित्तोयदो यथा॥ सुमाले र्दतस्तस्य शिरो ज्वलितकुण्डलम्। चिच्छेद यन्तुरश्वाश्च भ्रान्तास्तस्य तु रक्षसः॥ तैरश्वैर्धाम्यते भ्रान्तैः सुमाली राक्षसेश्वरः। इन्द्रियाश्वैः परिभ्रान्तैधृतिहीनो यथा नरः॥ ततो विष्णुं महाबाहुं प्रपतन्तं रणाजिरे। हते सुमालेर वैश्च रथे विष्णुरथं प्रति। माली चाभ्यद्रवधुक्तः प्रगुम स शरासनम्॥ मालेधनुश्च्युता बाणाः कार्तस्वरविभूषिताः। विविशुहरिमासाद्य क्रौञ्चं पत्ररथा इव ॥ अर्धमानः शरैः सोऽथ मालिमुक्तैः सहस्रशः। चुक्षुभे न रणे विष्णुर्जितेन्द्रिय इवाधिभिः॥ अथ मौर्वीस्वनं कृत्वा भगवान्भूतभावनः। मालिनं प्रति बाणौघान्ससर्जासिगदाधरः॥ ते मालिदेहमासाद्य वज्रविद्युत्प्रभाः शराः। पिबन्ति रुधिरं तस्य नागा इव सुधारसम्॥ मालिनं विमुखं कृत्वा शङ्खचक्रगदाधरः। मालिमौलिं ध्वजं चापं वाजिनश्चाप्यपातयत्॥ विरथस्तु गदां गृह्य माली नक्तंचरोत्तमः। आपुप्लुवे गदापाणिगिर्यग्रादिव केसरी॥ गदया गरुडेशानमीशानमिव चान्तकः। ललाटदेशेऽभ्यहनद्वजेणेन्द्रो यथाचलम् ॥ गदयाभिहतस्तेन मालिना गरुडो भृशम्। रणात्पराङ्मुखं देवं कृतवान्वेदनातुरः॥ पराङ्मुखे कृते देवे मालिना गरुडेन वै। उदतिष्ठन्महाशब्दो रक्षसामभिनर्दताम्॥ रक्षसां रुवतां रावं श्रुत्वा हरिहयानुजः। तिर्यगास्थाय संक्रुद्धः पक्षीशे भगवान्हरिः॥ पराङ्मुखोऽप्युत्ससर्ज मालेश्चक्रं जिघांसया। तत्सूर्यमण्डलाभासं स्वभासा भासयन्नभः॥ कालचक्रनिभं चक्रं मालेः शीर्षमपातयत्। तच्छिरो राक्षसेन्द्रस्य चक्रोत्कृत्तं बिभीषणम्। पपात रुधिरोद्गारि पुरा राहुशिरो यथा।॥ ततः सुरैः संप्रहृष्टैः सर्वप्राणसमीरितः। सिंहनादरवो मुक्तः साधु देवेतिवादिभिः॥ मालिनं निहतं दृष्ट्वा सुमाली माल्यवानपि। सबलौ शोकसंतप्तौ लङ्कामेव प्रधावितौ ॥ गरुडस्तु समाश्वस्तः संनिवृत्य यथा पुरा। राक्षसान्द्रावयामास पक्षवातेन कोपितः॥ चक्रकृत्तास्यकमला गदासंचूर्णितोरसः। लाङ्गलग्लपितग्रीवा मुसलैभिन्नमस्तकाः॥ केचिच्चैवासिना छिन्नास्तथान्ये शरताडिताः। निपेतुरम्बरातूर्णं राक्षसाः सागराम्भसि ॥ नारायणोऽपीषुवराशनीभिर्विदारयामास धनुर्विमुक्तैः। नक्तंचरान्धूतविमुक्तकेशान्यथाशनीभिः सतडिन्महाभ्रः।। भिन्नातपत्रं पतमानशस्त्रं शरैरपध्वस्तविनीतवेषम्। विनिःसृतान्त्रं भयलोलनेत्रं बलं तदुन्मत्ततरं बभूव॥ सिंहार्दितानामिव कुञ्जराणां निशाचराणां सह कुञ्जराणाम्। रवाश्च वेगाश्च समं बभूवुः पुराणसिंहेन विमर्दितानाम्॥ ते वार्यमाणा हरिबाणजालैः स्वबाणजालानि समुत्सृजन्तः। धावन्ति नक्तंचरकालमेघा वायुप्रणुन्ना इव कालमेघाः॥ चक्रप्रहारैर्विनिकृत्तशीर्षाः संचूर्णिताङ्गाश्च गदाप्रहारैः। असिप्रहारैर्द्विविधा विभिन्नाः पतन्ति शैला इव राक्षसेन्द्राः॥ निशाचरैर्नीलबलाहकोपमैः। निपात्यमानैर्ददृशे निरन्तरं निपात्यमानैरिव नीलपर्वतैः॥ हन्यमाने बले तस्मिन्पद्मनाभेन पृष्ठतः। माल्यवान्संनिवृत्तोऽथ वेलामेत्य इवार्णवः॥ संरक्तनयनः क्रोधाच्चलन्मौलिनिशाचरः। पद्मनाभमिदं प्राह वचनं पुरुषोत्तमम्॥ नारायण न जानीषे क्षात्रधर्म पुरातनम्। अयुद्धमनसो भीतानस्मान्हंसि यथेतरः॥ पराङ्मुखवधं पापं यः करोति सुरेश्वर। स हन्ता न गतः स्वर्ग लभते पुण्यकर्मणाम्॥ युद्धश्रद्धाथवा तेऽस्ति शङ्खचक्रगदाधर। अहं स्थितोऽस्मि पश्यामि बलं दर्शय यत्तव॥ माल्यवन्तं स्थितं दृष्टवा माल्यवन्तमिवाचलम्। उवाच राक्षसेन्द्रं तं देवराजानुजो बली॥ युष्मत्तो भयभीतानां देवानां वै मयाभयम्। राक्षसोत्सादनं दत्तं तदेतदनुपाल्यते॥ प्राणैरपि प्रियं कार्यं देवानां हि सदा मया। सोऽहं वो निहनिष्यामि रसातलगतानपि॥ देवदेवं ब्रुवाणं तं रक्ताम्बुरुहलोचनम्। शक्त्या बिभेद संक्रुद्धो राक्षसेन्द्रो भुजान्तरे॥ माल्यवद्भुजनिर्मुक्ता शक्तिघण्टाकृतस्वना। हरेरुरसि बभ्राज मेघस्थेव शतदा॥ ततस्तामेव चोत्कृष्य शक्तिं शक्तिधरप्रियः। माल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः॥ स्कन्दोत्सृष्टेव सा शक्तिर्गोविन्दकरनिःसृता। काङ्क्षन्ती राक्षसं प्रायान्महोल्केवाञ्जनाचलम्॥ सा तस्योरसि विस्तीर्णे हारभारावभासिते। आपतद्राक्षसेन्द्रस्य गिरिकूट इवाशनिः॥ तया भिन्नतनुत्राणः प्राविशद्विपुलं तमः। माल्यवान्पुनराश्वस्तस्तस्थौ गिरिरिवाचलः॥ ततः कालायसं शूलं कण्टकैर्बहुभिश्चितम्। प्रगृह्याभ्यहनद्देवं स्तनयोरन्तरे दृढम्॥ तथैव रणरक्तस्तु मुष्टिना वासवानुजम्। ताडयित्वा धनुर्मात्रमपक्रान्तो निशाचरः॥ ततोऽम्बरे महाञ्छब्दः साधुसाध्विति चोत्थितः। आहत्य राक्षसो विष्णुं गरुडं चाप्यताडयत्॥ वैनतेयस्ततः क्रुद्धः पक्षवातेन राक्षसम्। व्यपोहबलवान्वायुः शुष्कपर्णचयं यथा।॥ द्विजेन्द्रपक्षवातेन द्रावितं दृश्य पूर्वजम्। सुमाली स्वबलैः सार्धं लङ्कामभिमुखो ययौ॥ पक्षवातबलोद्भूतो माल्यवानपि राक्षसः। स्वबलेन समागम्य ययौ लङ्कां ह्रिया वृतः॥ एवं ते राक्षसा राम हरिणा कमलेक्षण। बहुशः संयुगे भग्ना हतप्रवरनायकाः॥ अशक्नुवन्तस्ते विष्णुं प्रतियोद्धं बलार्दिताः। त्यक्त्वा लङ्कां गता वस्तुं पातालं सहपत्नयः॥ सुमालिनं समासाद्य राक्षसं रघुसत्तम। स्थिताः प्रख्यातवीर्यास्ते वंशे सालकटङ्कटे॥ ये त्वया निहतास्ते तु पौलस्त्या नाम राक्षसाः। समाली माल्यवान्माली ये च तेषां पुरःसराः। सर्व एते महाभागा रावणाद्बलवत्तराः॥ न चान्यो राक्षसान्हन्ता सुरारीन्देवकण्टकान्। ऋते नारायणं देवं शङ्खचक्रगदाधरम्॥ भवान्नारायणो देवश्चतुर्बाहुः सनातनः। राक्षसान्हन्तुमुत्पन्नो ह्यजय्यः प्रभुरव्ययः॥ नष्टधर्मव्यवस्थानां काले काले प्रजाकरः। उत्पद्यते दस्युवधे शरणागतवत्सलः॥ मुत्पत्तिरद्य कथिता सकला यथावत्। भूयो निबोध रघुसत्तम रावणस्य जन्मप्रभावमतुलं ससुतस्य सर्वम्॥ चिरात्सुमाली व्यचरद्रसातलं स राक्षसो विष्णुभयादितस्तदा। पुत्रैश्च पौत्रैश्च समन्वितो बली ततस्तु लङ्कामवसद्धनेश्वरः॥ कस्यचित्त्वथ कालस्य सुमाली नाम राक्षसः। रसातलान्मर्त्यलोकं सर्व वै विचचार ह॥ नीलजीमूतसंकाशस्तप्तकाश्चनकुण्डलः। कन्यां दुहितरं गृह्य विना पद्ममिव श्रियम्॥ राक्षसेन्द्रः स तु तदा विचरन्वै महीतले। तदापश्यत्स गच्छन्तं पुष्पकेण धनेश्वरम्॥ गच्छन्तं पितरं द्रष्टुं पुलस्त्यतनयं विभुम्। तं दृष्टामरसंकाशं गच्छन्तं पावकोमम्॥ रसातलं प्रविष्टः सन्मर्त्यलोकात्सविस्मयः। इत्येवं चिन्तयामास राक्षसानां महामतिः॥ किं कृत्वा श्रेय इत्येवं वर्धेमहि कथं वयम्। नीलजीमूतसंकाशस्तप्तकाश्चनकुण्डलः॥ राक्षसेन्द्रः स तु तदा चिन्तयत्सुमहामतिः। अथाब्रवीत्सुतां रक्षः कैकसी नाम नामतः॥ पुत्रि प्रदानकालोऽयं यौवन व्यतिवर्तते। प्रत्याख्यानाच्च भीतैस्त्वं न वरैः परिगृह्यसे॥ तत्कृते च वयं सर्वे यन्त्रिता धर्मबुद्धयः। त्वं हि सर्वगुणोपेता श्रीः साक्षादिव पुत्रिके॥ कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम्। न ज्ञायते च कः कन्यां वरयेदिति कन्यके॥ मातुः कुलं पितृकुलं यत्र चैव च दीयते। कुलत्रयं सदा कन्यां संशये स्थाप्य तिष्ठति ॥ सा त्वं गुनिवरं श्रेष्ठं प्रजापतिकुलोद्भवम्। भज विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम्॥ ईदृशास्ते भविष्यन्ति पुत्राः पुत्रि न संशयः। तेजसा भास्करसमो यादृशोऽयं धनेश्वरः॥ सा तु तद्वचनं श्रुत्वा कन्यका पितृगौरवात्। तत्र गत्वा च सा तस्थौ विश्रवा यत्र तप्यते॥ एतस्मिन्नन्तरे राम पुलस्त्यतनयो द्विजः। अग्निहोत्रमुपातिष्ठच्चतुर्थ इव पावकः॥ अविचन्त्य तु तां वेला दारुणां पितृगौरवात्। उपसृत्याग्रतस्तस्य चरणाधोमुखी स्थिता ॥ विलिखन्ती मुहुभूमिमङ्गुष्ठाग्रेण भामिनी। 'स तु तां वीक्ष्य सुश्रोणी पूर्णचन्द्रनिभाननाम्॥ अब्रवीत्परमोदारो दीप्यमानां स्वतेजसा। भद्रे कस्यासि दुहिता कुतो वा त्वमिहागता। किं कार्य कस्य वा हेतोस्तत्त्वतो ब्रूहि शोभने ।।१८ एवमुक्ता तु सा कन्या कृताञ्जलिरथाब्रवीत्। आत्मप्रभावेण मुने ज्ञातुमर्हसि मे मतम्॥ किं तु मां विद्धिब्रह्मर्षे शासनात्पितुरागताम्। कैकसी नाम नाम्नाहं शेषं त्वं ज्ञातुमर्हसि॥ स तु गत्वा मुनिर्व्यानं वाक्यमेतदुवाच ह। विज्ञातं ते मया भद्रे कारणं यन्मनोगतम्॥ सुताभिलाषो मत्तस्ते मत्तमातंगगामिनि। दारुणायां तु वेलायां यस्मात्त्वं मामुपस्थिता॥ शृणु तस्मात्सुतान्भद्रे यादृशाञ्जनयिष्यसि। दारुणान्दारुणाकारान्दारुणाभिजनप्रियान्॥ प्रसविष्यसि सुश्रोणि राक्षसान्क्रूरकर्मणः। सा तु तद्वचनं श्रुत्वा प्रणिपत्याब्रवीद्वचः॥ भगवन्नीदृशान्पुत्रांस्त्वत्ताऽहं ब्रह्मवादिनः। नेच्छामि सुदुराचारान्प्रसादं कर्तुमर्हसि॥ कन्यया त्वेवमुक्तस्तु विश्रवा मुनिपुङ्गवः। उवाच कैकसीं भूयः पूर्णेन्दुरिव रोहिणीम्॥ पश्चिमो यस्तव सुतो भविष्यति शुभानने। मम वंशानुरूपः स धर्मात्मा च न संशयः॥ एवमुक्ता तु सा कन्या राम कालेन केनचित्। जनयामास बीभत्सं रक्षोरूपं सुदारुणम्॥ दशग्रीवं महादंष्ट्र नीलाञ्जनचयोपमम्। ताम्रोष्ठं विंशतिभुजं महास्यं दीप्तमूर्धनम्॥ तस्मिञ्जाते ततस्तस्मिन्सज्वालकबलाः शिवाः। क्रव्यादाश्चापसव्यानि मण्डलानि प्रचक्रमुः॥ ववर्ष रुधिरं देवो मेघाश्च खरनिःस्वनाः। प्रभभौ न च सूर्यो वै महोल्काश्चापतन्भुवि॥ चकम्पे जगती चैव ववुर्वाताः सुदारुणाः। अक्षोभ्यः क्षुभितश्चैव समुद्रः सरितां पतिः॥ अथ नामाकरोतस्य पितामहसमः पिता। दशग्रीवः प्रसूतोऽयं दशग्रीवो भविष्यति॥ तस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः। प्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते॥ ततः शूर्पणखा नाम संजज्ञे विकृतानना। विभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः॥ तस्मिाते महासत्त्वे पुष्पवर्ष पपात ह। नभःस्थाने दुन्दुभयो देवानां प्राणदंस्तथा। वाक्यं चैवान्तरिक्षे च साधु साध्विति तत्तदा ॥ तौ तु तत्र महारण्ये ववृधाते महौजसौ। कुम्भकर्णदशग्रीवौ लोकोद्वेगकरौ तदा ॥ कुम्भकर्णः प्रमत्तस्तु महर्षीन्धर्मवत्सलान्। त्रैलोक्ये नित्यासंतुष्टो भक्षयन्विचचार ह॥ विभीषणस्तु धर्मात्मा नित्यं धर्मर्यवस्थितः। स्वाध्यायनियताहार उवास विजितेन्द्रियः॥ अथ वैश्रवणो देवस्तत्र कालेन केन चित्। आगतः पितरं द्रष्टुं पुष्पकेण धनेश्वरः॥ तं दृष्ट्वा कैकसी तत्र ज्वलन्तमिव तेजसा। आगम्य राक्षसी तत्र दशग्रीवमुवाच ह॥ पुत्र वैश्रवणं पश्य भ्रातरं तेजसा वृतम्। भ्रातृभावे समे चापि पश्यात्मानं त्वमीदृशम्॥ दशग्रीव तथा यत्नं कुरुष्वामितविक्रम। यथा त्वमपि मे पुत्र भवेर्वैश्रवणोपमः।॥ मातुस्तद्वचनं श्रुत्वा दशग्रीवः प्रतापवान्। अमर्षमतुलं लेभे प्रतिज्ञां चाकरोत्तदा।॥ सत्यं ते प्रतिजानामि भ्रातृतुल्योऽधिकोऽपि वा। भविष्याम्योजसा चैव संतापं त्यज हृद्गतम्॥ ततः क्रोधेन तेनैव दशग्रीवः सहानुजः। चिकीर्षुर्दुष्करं कर्म तपसे धृतमानसः॥ प्राप्स्यामि तपसा काममिति कृत्वाध्यवस्य च। आगच्छदात्मसिद्ध्यर्थं गोकर्णस्याश्रमं शुभम्।।४७ स राक्षसस्तत्र सहानुजस्तदा तपश्चचारातुलमुग्रविक्रमः। अतोषयच्चापि पितामहं विभुं ददौ स तुष्टश्च वराञ्जयावहान॥ अथाब्रवीन्मुनि रामः कथं ते भ्रातरो भने। कीदृशं तु तदा ब्रह्मस्तपस्तेपुर्महाबलाः॥ अगस्त्यस्त्वब्रवीत्तत्र रामं सुप्रीतमानसम्। तांस्तान्धर्मविधींस्तत्र भ्रातरस्ते समाविशन्॥ कुम्भकर्णस्ततो यत्तो नित्यं धर्मपथे स्थितः। तताप ग्रीष्मकाले तु पञ्चागनीन्परितः स्थितः॥ मेधाम्बुसिक्तो वर्षासु वीरासनमसेवत। नित्यं च शिशिरे काले जलमध्यप्रतिश्रयः॥ एवं वर्षसहस्राणि दश तस्यापचक्रमुः। धर्मे प्रयतमानस्य सत्पथे निष्ठितस्य च॥ विभीषणस्तु धर्मात्मा नित्यं धर्मपरः शुचिः। पञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान्॥ समाप्ते नियमे तस्य ननृतुश्चाप्सरोगणाः। पपात पुष्पवर्षं च तुष्टवुश्चापि देवताः।७।। पञ्चवर्षसहस्राणि सूर्यं चैवान्ववर्तत। तस्थौ चोर्ध्वशिरोबाहुः स्वाध्याये धृतमानसः॥ एवं विभीषणस्यापि स्वर्गस्थस्येव नन्दने। दशवर्षसहस्राणि गतानि नियतात्मनः॥ दशर्वषसहस्रं तु निराहारो दशाननः। पूर्णे वर्षसहस्रे तु शिरश्चाग्नौ जुहाव सः॥ एवं वर्षसहस्राणि नव तस्यातिचक्रमुः। शिरांसि नव चाप्यस्य प्रविष्टानि हुताशनम्॥ अथ वर्षसहस्त्रे तु दशमे दशमं शिरः। छेत्तुकामे दशग्रीवे प्राप्तस्तत्र पितामहः॥ पितामहस्तु सुप्रीतः सार्धं देवैरुपस्थितः। तव तावद्दशग्रीव प्रीतोऽस्मीत्यभ्यभाषत॥ शीघ्रं वरय धर्मज्ञ वरो यस्तेऽभिकाङ्कितः। कं ते कामं करोम्यद्य न वृथा ते परिश्रमः॥ अथाब्रवीद्दशग्रीवः प्रहृष्टेनान्तरात्मना। प्रणम्य शिरसा देवं हर्षगद्गदया गिरा॥ भगवन्प्राणिनां नित्यं नान्यत्र मरणाद्भयम्। नास्ति मृत्युसमः शत्रुरमरत्वमहं वृणे॥ एवमुक्तस्तदा ब्रह्मा दशग्रीवमुवाच ह। नास्ति सर्वामरत्वं ते वरमन्यं वृणीष्व मे॥ एवमुक्ते तदा राम ब्रह्मणा लोककर्तृणा। दशग्रीव उवाचेदं कृताञ्जलिरथाग्रतः॥ सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम्। अवध्योऽहं प्रजाध्यक्ष देवतानां च शाश्वत ॥ नहि चिन्ता ममान्येषु प्राणिष्वमरपूजित। तृणभूता हि ते मन्ये प्राणिनो मानुषादयः॥ एवमुक्तस्तु धर्मात्मा दशग्रीवेण रक्षसा। उवाच वचनं देवः सह देवैः पितामहः॥ भविष्यत्येवमेतत्ते वचो राक्षसपुङ्गव । एवमुक्त्वा तु तं गम दशग्रीवं पितामहः॥ शृणु चापि वरो भूयः प्रीतस्येह शुभो मम। हुतानि यानि शीर्षाणि पूर्वमग्नौ त्वयानघ॥ पुनस्तानि भविष्यन्ति तथैव तव राक्षस। वितरामीह ते सौम्य वरं चान्यं दुरासदम्॥ छन्दतस्तव रूपं च मनसा यद्यथेप्सितम्। एवं पितामहोक्तं च दशग्रीवस्य रक्षसः॥ अग्नौ हुतानि शीर्षाणि पुनस्तान्युत्थितानि वै। एवमुक्त्वा तु तं राम दशग्रीवं पितामहः॥ विभीषणमथोवाच वाक्यं लोकपितामहः। विभीषण त्वया वत्स धर्मसंहितबुद्धिना॥ पतितुष्टोऽस्मि धर्मात्मन्वरं वरय सुव्रत। विभीषणस्तु धर्मात्मा वचनं प्राह साञ्जलिः॥ वृतः सर्वगुणैर्नित्यं चन्द्रमा रश्मिभिर्यथा। भगवन्कृतकृत्योऽहं यन्मे लोकगुरुः स्वयम्॥ प्रीतेन यदि दातव्यो वरो मे शृणु सुव्रत । परमापद्गतस्यापि धर्मे मम मतिर्भवेत्॥ अशिक्षितं च ब्रह्मास्त्रं भगवन्प्रतिभातु मे। या या मे जायते बुद्धिर्येषु येष्वाश्रमेषु च॥ सा सा भवतु धर्मिष्ठा तं तं धर्म च पालये। एष मे परमोदार वरः परमको मतः॥ नहि धर्माभिरक्तानां लोके किंचन दुर्लभम्। पुनः प्रजापतिः प्रीतो विभीषणमुवाच ह॥ धर्मिष्ठ त्वं यथा वत्स तथा चैतद्भविष्यति। यस्माद्राक्षसयोनौ ते जातस्यामित्रनाशन॥ नाधर्मे जायते बुद्धिरमरत्वं ददामि ते। इत्युक्त्वा कुम्भकर्णाय वरं दातुमवस्थितम्॥ प्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयोऽब्रुवन्। न तावत्कुम्भकर्णाय प्रदातव्यो वरस्त्वया॥ जानीषे हि यथा लोकांस्त्रासयत्येष दुर्मतिः। नन्दनेऽप्सरसः सप्त महेन्द्रानुचरा दश॥ अनेन भक्षिता ब्रह्मऋषयो मानुषास्तथा। अलब्धवरपूर्णेन यत्कृतं राक्षसेन तु॥ यद्येष वरलब्धः स्याद्भक्षयेद्भुवनत्रयम्। वरव्याजेन मोहोऽस्मै दीयताममितप्रभ॥ लोकानां स्वस्ति चैवं स्याद्भवेदस्य च संमतिः। एवमुक्तः सुरैर्ब्रह्माचिन्तयत्पद्मसंभवः॥ चिन्तिता चोपतस्थेऽस्य पार्श्व देवी सरस्वती। प्राञ्जलिः सा तु पार्श्वस्था प्राह वाक्यं सरस्वती॥ इयमस्म्यागता देव किं कार्य करवाण्यहम्। प्रजापतिस्तुं तां प्राप्तां प्राह वाक्यं सरस्वतीम्॥ वाणि त्वं राक्षसेन्द्रस्य भव वाग्देवतेप्सिता। तथेत्युक्त्वा प्रविष्टा सा प्रजापतिरथाब्रवीत्॥ कुम्भकर्ण महाबाहो वरं वरय यो मतः। कुम्भकर्णस्तु तद्वाक्यं श्रुत्वा वचनमब्रवीत्॥ स्वप्तुं वर्षाण्यनेकानि देवदेव ममेप्सितम्। एवमस्त्विति तं चोक्त्वा प्रायाद्ब्रह्मा सुरैः समम् ।।४५ । देवी सरस्वती चैव राक्षसं तं जहौ पुनः। ब्रह्मणा सह देवेषु गतेषु च नभःस्थलम्॥ विमुक्तोऽसौ सरस्वत्या स्वां संज्ञां च ततो गतः। कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितः॥ ईदृशं किमिदं वाक्यं ममाद्य वदनाच्च्युतम्। अहं व्यामोहितो देवैरिति मन्ये तदागतैः॥ एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसः। श्लेष्मातकवनं गत्वा तत्र ते न्यवसन्सुखम्॥ सुमाली वरलब्धांस्तु ज्ञात्वा चैतानिशाचरान्। उदतिष्ठद्भयं त्यक्त्वा सानुगः स रसातलात्॥ मारीचश्च प्रहस्तश्च विरूपाक्षो महोदरः। उदतिष्ठन्सुसंरब्धाः सचिवास्तस्य रक्षसः॥ सुमाली सचिवैः सार्धं वृतो राक्षसपुङ्गवैः। अभिगम्य दशग्रीवं परिष्वज्येदमब्रवीत्॥ दिष्ट्या ते वत्स संप्राप्तश्चिन्तितोऽयं मनोरथः। यस्त्वं त्रिभुवनश्रेष्ठाल्लब्धवान्वरमुत्तमम्॥ यत्कृते च वयं लङ्कां त्यक्त्वा याता रसातलम्। तद्गतं नो महाबाहो महद्विष्णुकृतं भयम्॥ असकृत्तद्भयाद्भग्नाः परित्यज्य स्वमालयम्। विदूताः सहिताः सर्वे प्रविष्टाः स्म रसातलम् ॥ अस्मदीया च लङ्केयं नगरी राक्षसोषिता। निवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता॥ यदि नामात्र शक्यं स्यात्साम्ना दानेन वानघ। तरसा वा महाबाहो प्रत्यानेतुं कृतं भवेत्॥ त्वं च लङ्केश्वरस्तात भविष्यसि न संशयः। त्वया राक्षसवंशोऽयं निमग्नोऽपि समुद्धृतः॥ सर्वेषां नः प्रभुश्चैव भविष्यसि महाबल। अथाब्रवीद्दशग्रीवो मातामहमुपस्थितम्॥ वित्तेशो गुरुरस्माकं नार्हसे वक्तुमीदृशम्। साम्ना हि राक्षसेन्द्रेण प्रत्याख्यातो गरीयसा॥ किंचिन्नाह तदा रक्षो ज्ञात्वा तस्य चिकीर्षितम्। कस्यचित्त्वथ कालस्य वसन्तं रावणं ततः॥ प्रहस्तः प्रश्रितं वाक्यमिदमाह स रावणम्। दशग्रीव महाबाहो नार्हसे वक्तुमीदृशम्॥ सौभ्रात्रं नास्ति शूराणां शृणु चेदं वचो मम। अदितिश्च दितिश्चैव भगिन्यौ सहिते हि ते॥ भार्ये परमरूपिण्यौ कश्यपस्य प्रजापतेः। अदितिर्जनयामास देवांस्त्रिभुवनेश्वरान्॥ दितिस्त्वजनयदैत्यान्कश्यपस्यात्मसंभवान्। दैत्यानां किल धर्मज्ञ पुरेयं वसनार्णवा॥ सपर्वता मही वीर तेऽभवन्प्रभविष्णवः। निहत्य तांस्तु समरे विष्णुना प्रभविष्णुना ॥ देवानां वशमानीतं त्रैलोक्यमिदमव्ययम्। नैतदेको भवानेव करिष्यति विपर्ययम्॥ सुरासुरैराचरितं तत्कुरुष्व वचो मम। एवमुक्तो दशग्रीवः प्रहृष्टेनान्तरात्मना॥ चिन्तयित्वा मुहूर्त वै बाढमित्येव सोऽब्रवीत्। स तु तेनैव हर्षेण तस्मिनहनि वीर्यवान्॥ वनं गतो दशग्रीवः सह तैः क्षणदाचरैः। त्रिकूटस्थः स तु तदा दशग्रीवो निशाचरः॥ प्रेषयामास दौत्येन प्रहस्तं वाक्यकोविदः। प्रहस्त शीघ्रं गच्छ त्वं ब्रूहि नैर्ऋतपुङ्गवम्॥ वचसा मम वित्तेशं सामपूर्वमिदं वचः। इयं लङ्का पुरी राजनराक्षसानां महात्मनाम्॥ त्वया निवेशिता सौम्य नैतद्युक्तं तवानघ। तद्भवान्यदि नो ह्यद्य दद्यादतुलविक्रम॥ कृता भवेन्मम प्रीतिर्धर्मश्चैवानुपालितः। स तु गत्वा पुरीं लङ्कां धनदेन सुरक्षिताम्॥ अब्रवीत्परमोदारं वित्तपालमिदं वचः। प्रेषितोऽहं तव भ्रात्रा दशग्रीवेण सुव्रत॥ त्वत्समीपं महाबाहो सर्वशस्त्रभृतां वर। वचनं मम वित्तेश यद्ब्रवीति दशाननः॥ इयं किल पुरी रम्या सुमालिप्रमुखैः पुरा। भुक्तपूर्वा विशालाक्ष राक्षसैर्भीपविक्रमैः॥ तेन विज्ञाप्यते सोऽयं सांप्रतं विश्रवात्मज। तदेषा दीयतां तात याचतस्तस्य सामतः॥ प्रहस्तादपि संश्रुत्य देवो वैश्रवणो वचः। प्रत्युवाच प्रहस्तं तं वाक्यं वाक्यविदां वरः॥ दत्ता ममेयं पित्रा तु लङ्का शून्या निशाचरैः। निवेशिता च मे रक्षो दानमानादिभिर्गुणैः॥ ब्रूहि गच्छ दशग्रीवं पुरी राज्यं च यन्मम। तवाप्येतन्महाबाहो भुक्ष्व राज्यमकण्टकम्॥ अतिभक्तं त्वया सार्धं राज्यं यच्चापि मे वसु। एवमुक्त्वा धनाध्यक्षो जगाम पितुरन्तिकम्॥ अभिवाद्य गुरुं प्राह रावणस्य यदीप्सितम्। एष तात दशग्रीवो दूतं प्रेषितवान्मम॥ दीयतां नगरी लङ्का पूर्वं रक्षोगणोषिता। मयात्र यदनुष्ठेयं तन्ममाचक्ष्व सुव्रत॥ ब्रह्मर्षिस्त्वेवमुक्तोऽसौ विश्रवा मुनिपुंगवः। प्राञ्जलिं धनदं प्राह शृणु पुत्र वचो मम॥ दशग्रीवो महाबाहुरुक्तवान्मम संनिधौ। मया निर्भर्त्सतश्चासीद्बहुशोक्तः सुदुर्मतिः॥ स क्रोधेन मया चोक्तो ध्वंससे च पुनः पुनः। श्रेयोऽभियुक्तं धयं च शृणु पुत्र वचो मम॥ वरप्रदानसंमूढो मान्यामान्यं सुदुर्मतिः। न वेत्ति मम शापाच्च प्रकृति दारुणां गतः॥ तस्माद्गच्छ महाबाहो कैलासं धरणीधरम्। निवेशय निवासार्थं त्यक्त्वा लङ्कां सहानुगः॥ तत्र मन्दाकिनी रम्या नदीनामुत्तमा नदी. काञ्चनैः सूर्यसंकाशैः पङ्कजैः संवृतोदका॥ कुमुदैरुत्पलैश्चैव अन्यैश्चैव सुगन्धिभिः। तत्र देवाः सगन्धर्वाः साप्सरोरगकिंनराः।॥ विहारशीलाः सततं रमन्ते सर्वदाश्रिताः। नहि क्षमं तवानेन वैरं धनद रक्षसा। जानीषे हि यथानेन लब्धः परमको वरः।॥ एवमुक्तो गृहीत्वा तु तद्वचः पितृगौरवात्। सदारपुत्रः सामात्यः सवाहनधनो गतः॥ प्रहस्तोऽथ दशग्रीवं गत्वा वचनमब्रवीत्। प्रहृष्टात्मा महात्मानं महामात्यं सहाजुनम् ॥ शून्या सा नगरी लङ्का त्यक्त्त्वैनां धनदो गतः। प्रविश्य तां महास्माभिः स्वधर्म तत्र पालयः॥ एवमुक्तो दशग्रीवः प्रहस्तेन महाबलः। विवेश नगरी लङ्का भ्रातृभिः सबलानुगैः॥ धनदेन परित्यक्तां सुविभक्तमहापथाम्। आरुरोह स देवारिः स्वर्ग देवाधिपो यथा॥ स चाभिषिक्तः क्षणदाचरैस्तदा निवेशयामास पुरी दशाननः। निकामपूर्णा च बभूव सा पुरी निशाचरैर्नीलबलाहकोपमैः।॥ वेशयच्छशिविमले गिरौ पुरीम्। स्वलंकृतैर्भवनवरैर्विभूषितां पुरंदरः स्वरिव यथामरावतीम्॥ राक्षसेन्द्रोऽभिषिक्तस्तु भ्रातृभिः सहितस्तदा। ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत्॥ ददौ तां कालकेन्द्राय दानवेन्द्राय राक्षसीम्। स्वसां शूर्पणखां नाम विद्युज्जिह्वाय राक्षसः॥ अथ दत्त्वा स्वयं रक्षो मृगयामटते स्म तत्। तत्रापश्यत्ततो राम मयं नाम दितेः सुतम्॥ कन्यासहायं तं दृष्ट्वा दशग्रीवो निशाचरः। अपृच्छत्को भवानेको निर्मनुष्यमृगे वने॥ अनया मृगशावाक्ष्या किमर्थं सह तिष्ठसि। मयस्तदाब्रवीद्राम पृच्छन्तं तं निशाचरम्॥ श्रूयतां सर्वमाख्यास्ये यथावृत्तमिदं तव। हेमा नामाप्सरास्तत्र श्रुतपूर्वा यदि त्वया ॥ दैवतैर्मम सा दत्ता पौलोमीव शतक्रतोः। तस्यां भक्तमना ह्यासं दशवर्षशतान्यहम्॥ सा च दैवतकार्येण त्रयोदश समा गताः। वर्ष चतुर्दशं चैव ततो हेममयं पुरम्॥ वज्रवैदूर्यचित्रं च मायया निर्मितं मया। तत्राहमवसं दीनस्तया हीनः सुदुःखितः।।।। तस्मात्पुरा दुहितरं गृहीत्वा वनमागतः। इयं ममात्मजा राजंस्तस्याः कुक्षौ विवर्धिता॥ भर्तारमनया सार्धमस्याः प्राप्तोऽस्मि मार्गितुम्। कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम्॥ कन्या हि द्वे कुले नित्यं संशये स्थाप्य तिष्ठति। पुत्रद्वयं ममाप्यस्यां भार्यायां संबभूव ह॥ मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरः। एवं ते सर्वमाख्यातं यथातथ्येन पृच्छतः॥ त्वामिदानी कथं तात जानीयां को भवानिति। एवमुक्तं तु तद्रक्षो विनीतमिदमब्रवीत्॥ अहं पौलस्त्यतनयो दशग्रीवश्च नामतः। मुनेर्विश्रवसो यस्तु तृतीयो ब्रह्मणोऽभवत्॥ एवमुक्तस्तदा राम राक्षसेन्द्रेण दानवः। महर्षेस्तनयं ज्ञात्वा मयो दानवपुङ्गवः॥ दातुं दुहितरं तस्मै रोचयामास तत्र वै। करेण तु करं तस्या ग्राहयित्वा मयस्तदा॥ प्रहसन्प्राह दैत्येन्द्रो राक्षसेन्द्रमिदं वचः। इयं ममात्मजा राजन्हेमयाप्सरसा धृता ॥ कन्या मन्दोदरी नाम पल्यर्थं प्रतिगृह्यताम्। बाढमित्येव तं राम दशग्रीवोऽभ्यभाषत ॥ प्रज्वाल्य तत्र चैवाग्निमकरोत्पाणिसंग्रहम्। स हि तस्य मयो राम शापाभिज्ञस्तपोधनात्॥ विदित्वा तेन सा दत्ता तस्य पैतामहं कुलम्। अमोघां तस्य शक्तिं च प्रददौ परमाद्भुताम् ॥ परेण तपसा लब्धां जनिवाँल्लक्ष्मणं यया। एवं स कृत्वा दारान्वै लङ्काया ईश्वरः प्रभुः॥ गत्वा तु नगरी भार्ये भ्रातृभ्यां समुपाहरत्। वैरोचनस्य दौहित्रीं वज्रज्वालेति नामतः॥ तां भार्यां कुम्भकर्णस्य रावणः समकल्पयत्। गन्धर्वराजस्य सुतां शैलूषस्य महात्मनः॥ सरमां नाम धर्मज्ञां लेभे भार्यां विभीषणः। तीरे तु सरसो वै तु संजज्ञे मानसस्य हि॥ सरस्तदा मानसं तु ववृधे जलदागमे। मात्रा तु तस्याः कन्यायाः स्नेहेनाक्रन्दितं वचः॥ सरो मा वर्धतेत्युक्तं ततः सा सरमाभवत्। एवं ते कृतदारा वै रेमिरे तत्र राक्षसाः॥ स्वां स्वां भार्यामुपादाय गन्धर्वा इव नन्दने। ततो मन्दोदरी पुत्रं मेघनादमजीजनत्॥ स एष इन्द्रजिन्नाम युष्माभिरभिधीयते। जातमात्रेण हि पुरा तेन रावणसूनुना॥ रुदता सुमहान्मुक्तो नादो जलधरोपमः। जडीकृता च सा लङ्का तस्य नादेन राघव॥ पिता तस्याकरोन्नाम मेघनाद इति स्वयम्। सोवर्धत तदा राम रावणान्तःपुरे शुभे ॥ रक्ष्यमाणो वरस्त्रीभिश्छन्नः काष्ठैरिवानलः। मातापित्रोर्हहाहर्ष जनयन्रावणात्मजः॥ अथ लोकेश्वरोत्सृष्टा तब कालेन केन चित्। निद्रा समभवत्तीव्रा कुम्भकर्णस्य रूपिणी॥ ततो भ्रातरमासीनं कुम्भकर्णोऽब्रवीद्वचः। निद्रा मां बाधते राजन्कारयस्व ममालयम्॥ विनियुक्तास्ततो राज्ञा शिल्पनो विश्वकर्मवत्। विस्तीर्ण योजनं स्निग्धं ततो द्विगुणमायतम्॥ दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे। स्फाटिकैः काञ्चश्चित्रैः स्तम्भैः सर्वत्र शोभितम्॥ वैदूर्यकृतसोपानं किङ्किणीजालकं तथा। दान्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम्।५।। मनोहरं सर्वसुखं कारयामास राक्षसः। सर्वत्र सुखदं नित्यं मेरोः पुण्यां गुहामिव ॥ तत्र निद्रां समाविष्टः कुम्भकर्णो महाबलः। बहून्यब्दसहस्राणि शयानो न च बुद्ध्यते॥ निद्राभिभूते तु तदा कुम्भकर्णे दशाननः। देवर्षियक्षगन्धर्वान्संजघ्ने हि निरङ्कुशः॥ उद्यानानि विचित्राणि नन्दनादीनि यानि च। तानि गत्वा सुसंक्रुद्धो भिनत्ति स्म दशाननः॥ नदी गज इव क्रीडन्वृक्षान्वायुरिव क्षिपन्। नगान्वज्र इवोत्सृष्टो विध्वंसयति राक्षसः॥ यथावृत्तं तु विज्ञाय दशग्रीवं धनेश्वरः। कुलानुरूपं धर्मज्ञो वृत्तं संस्मृत्य चात्मनः॥ सौभ्रात्रदर्शनार्थं तु दूतं वैश्रवणस्तदा। लङ्कां संप्रेषयामास दशग्रीवस्य वै हितम्॥ स गत्वा नगरी लङ्काससाद विभीषणम्। मानितस्तेन धर्मेण पृष्टश्चागमनं प्रति॥ पृष्ट्वा च कुशलं राज्ञो ज्ञातीनां च बिभीषणः। सभायां दर्शयामास तमासीनं दशाननम्॥ स दृष्ट्वा तत्र राजानं दीप्यमानं स्वतेजसा। जयेति वाचा संपूज्य तूष्णीं समभिवर्तते॥ स तत्रोत्तमपर्यङ्के वरास्तरणशोभिते। उपविष्टं दशग्रीवं दूतो वाक्यमथाब्रवीत्॥ राजन्वदामि ते सर्व भ्राता तव यदब्रवीत्। उभयोः सदृशं वीर वृत्तस्य च कुलस्य च ॥ साधु पर्याप्तमेतावत्कृत्यश्चारिक्षसंग्रहः। साधु धर्मे व्यवस्थानं क्रियतां यदि शक्यते॥ दृष्टं मे नन्दनं भग्नमृषयो निहताः श्रुताः। देवतानां समुद्योगस्त्वत्तो राजन्मया श्रुतः॥ निराकृतश्च बहुशस्त्वयाह राक्षसाधिप। सापराधोऽपि बालो हि रक्षितव्यः स्वबान्धवैः।।२० अहं तु हिमवत्पृष्ठं गतो धर्ममुपासितुम्। रौद्रं व्रतं समास्थाय नियतो नियतेन्द्रियः॥ तत्र देवो मया दृष्ट उमया सहितः प्रभुः। सव्यं चक्षुर्मया दैवात्तत्र देव्यां निपातितम् ॥ कान्वेषेति महाराज न खल्वन्येन हेतुना। रूपं चानुपमं कृत्वा रुद्राणी तत्र तिष्ठति ॥ देव्या दिव्यप्रभावेण दग्धं सव्यं ममेक्षणम्। रेणुध्वस्तमिव ज्योतिः पिङ्गलत्वमुपागतम्॥ ततोऽमन्यद्विस्तीर्णं गत्वा तस्य गिरेस्तटम्। तूष्णीं वर्षशतान्यष्टौ ममवारं महाव्रतम्॥ समाप्ते नियमे तस्मिंस्तत्र देवो महेश्वरः। ततः प्रीतेन मनसा प्राह वाक्यमिदं प्रभुः॥ प्रीतोऽस्मि तव धर्मज्ञ तपसानेन सुव्रत। मया चैतव्रतं चीर्णं त्वया चैव धनाधिप॥ तृतीयः पुरुषो नास्ति यश्चेरद्बतमीदृशम्। व्रतं सुदुष्करं ह्येतन्मयैवोत्पादितं पुरा ॥ तत्सखित्वं मया सौम्य रोचयस्व धनेश्वर। तपसा निर्जीतश्चैव सखा भव ममानघ ॥ देव्या दग्धं प्रभावेण यच्च सव्यं तवेक्षणम्। पैङ्गल्यं यदवाप्तं हि देव्या रूपनिरीक्षणात्॥ एकाक्षिपिङ्गलीत्येव नाम स्थास्यति शाश्वतम्। एवं तेन सखित्वं च प्राप्यानुज्ञां च शंकरात्॥ आगतेन मया चैवं श्रुतस्ते पापनिश्चयः। तदधर्मिष्ठसंयोगानिवर्त कुलदूषणात्॥ चिन्त्यते हि वधोपायः सर्षिसङ्घः सुरैस्तव। एवमुक्तो दश्ग्रीवः कोपसंरक्तलोचनः॥ हस्तान्दन्तांश्च संपिष्य वाक्यमेतदुवाच ह। विज्ञातं ते मया दूत वाक्यं यत्त्वं प्रभाषसे॥ नैव त्वमसि नैवासौ भ्रात्रा येनासि चोदितः। हितं नैष ममैतद्धि ब्रवीति धनरक्षकः॥ महेश्वरसखित्वं तु मूढः श्रावयते किल। नैवेदं क्षमणीयं मे यदेतद्भाषितं त्वया॥ यदेतावन्मया कालं दूत तस्य तु मर्षितम्। न हन्तव्यो गुरुज्येष्ठो मयायमिति मन्यते॥ तस्य त्विदानीं श्रुत्वा मे वाक्यमेषा कृता मतिः। त्रौंल्लोकानपि जेष्यामि बाहुवीर्यमुपाश्रितः॥ एतन्मुहूर्तमेवाहं तस्यैतस्य तु वै कृते। चतुरो लोकपालांस्तानयिष्यामि यमक्षयम्॥ एवमुक्त्वा तु लङ्केशो दूतं खङ्गेन जघ्निवान्। ददौ भक्षयितुं ह्येनं राक्षसानां दुरात्मनाम्॥ ततः कृतस्वस्त्ययनो रथमारुह्य रावणः। त्रैलोक्यविजयाकांक्षी ययौ यत्र धनेश्वरः॥ ततः स सचिवैः सार्धं षड्भिर्नीत्यबलोद्धतः। महोदरप्रहस्ताभ्यां मारीचशुकसारणैः॥ धूम्राक्षेण च वीरेण नित्यं समरगर्धिना। वृतः संप्रययौ श्रीमान्क्रोधाल्लोकान्दहन्निव॥ पुराणि स नदी शैलान्वनान्युपवनानि च। अतिक्रम्य मुहूर्तेन कैलासं गिरिमागमत्॥ संनिविष्टं गिरौ तस्मिन्राक्षसेन्द्रं निशम्य तु। युद्धेप्सुं तं कृतोत्साहं दुरात्मानं समन्त्रिणम्॥ यक्षा न शेकुः संस्थातुं प्रमुखे तस्य रक्षसः। राज्ञो भ्रातेति विज्ञाय गता यत्र धनेश्वरः॥ ते गत्वा सर्वमाचख्युर्धातुस्तस्य चिकीर्षितम्। अनुज्ञाता ययुहृष्टा युद्धाय धनदेन ते॥ ततो बलानां संक्षोभो व्यवर्धत इवोदधेः। तस्य नैऋतराजस्य शैलं संचलयनिव॥ ततो युद्धं समभवद्यक्षराक्षससंकुलम्। व्यथिताश्चाभवंस्तत्र सचिवा राक्षसस्य ते।।। स दृष्ट्वा तादृशं सैन्यं दशग्रीवो निशाचरः। हर्षनादान्बहून्कृत्वा स क्रोधादभ्यभाषत॥ ये तु ते राक्षसेन्द्रस्य सचिवा घोरविक्रमाः। तेषां सहस्रमेकैको यक्षाणां समयोधयत्॥ ततो गदाभिर्मुसलैरसिभिः शक्तितोमरैः। हन्यमानो दशग्रीवास्तत्सैन्यं समगाहत॥ स निरुच्छ्वासवत्तत्र वध्यमानो दशाननः। वर्षद्भिरिव जीमूतैर्धाराभिरवरुध्यत॥ न चकार व्यथां चैव यक्षशस्त्रैः समाहतः। महीधर इवाम्भोदैर्धाराशतसमुक्षितः॥ स महात्मा समुद्यस्य कालदण्डोपमां गदाम्। प्रविवेश ततः सैन्यं नयन्यक्षान्यमक्षयम्॥ स कक्षमिव विस्तीर्णं शुष्कन्धनमिवाकुलम्। वातेनाग्निरिवादीप्तो यक्षसैन्यं ददाह तत्.।१५।। तैस्तु तत्र महामात्यैर्महोदरशुकादिभिः। अलापवशेषास्ते यक्षाः कृता वातैरिवाम्बुदाः।।१६ केचित्समाहता भिन्नाः पतिताः समरे क्षितौ। ओष्ठांश्च दशनैस्तीक्ष्णैरदशन्कुपिता रणे॥ श्रान्ताश्चान्योन्यमालिङ्गय भ्रष्टशस्त्रा रणाजिरे। सीदन्ति च तदा यक्षाः कूला इव जलेन ह॥ हतानां गच्छतां स्वर्ग युध्यतामथ धावताम्। प्रेक्षतामृषिसङ्घानां बभूव न तदान्तरम्॥ भग्नांस्तु तान्समालक्ष्य यक्षेन्द्रांस्तु महाबलान्। धनाध्यक्षो महाबाहुः प्रेषयामास यक्षकान्॥ एतस्मिन्नन्तरे राम विस्तीर्णबलवाहनः। प्रेषितो न्यपतद्यक्षो नाम्ना संयोधकण्टकः॥ तेन चक्रेण मारीचो विष्णुनेव रणे हतः। पतितो भूतले शैलात्क्षीणपुण्य इव ग्रहः॥ ससंज्ञस्तु मुहूर्तेन स विश्रम्य निशाचरः। तं यक्षं योधयामास स च भग्नः प्रदुद्रुवे॥ ततः काञ्चनचित्राङ्गं वैदूर्यजतोक्षितम्। मर्यादां प्रतिहाराणां तोरणान्तरमाविशत्॥ तं तु राजन्दशग्रीवं प्रविशन्तं निशाचरम्। सूर्यभानुरिति ख्यातो द्वारपालो न्यवारयत्॥ स वार्यमाणो यक्षेण प्रविवेश निशाचरः। यदा तु वारितो राम न व्यतिष्ठत्स राक्षसः॥ ततस्तोरणमुत्पाट्य तेन यक्षेण ताडितः। रुधिरं प्रस्रवन्भाति शैलो धातुस्रवैरिव॥ स शैलशिखराभेण तोरणेन समाहतः। जगाम न क्षतिं वीरो वरदानात्स्वयंभुवः॥ तेनैव तोरणेनाथ यक्षस्तेनाभिताडितः। नादृश्यत तदा यक्षो भस्मीकृततनुस्तदा ॥ ततः प्रदुद्रुवुः सर्वे दृष्ट्वा रक्षःपराक्रमम्। ततो नदीर्गुहाश्चैव विविशुर्भयपीडिताः। त्यक्तप्रहरणाः श्रान्ता विवर्णवदनास्तदा॥ ततस्ताल्लक्ष्य वित्रस्तान्यक्षेन्द्रांश्च सहस्रशः। धनाध्यक्षो महायक्षं माणिचारमथाब्रवीत्॥ रावणं जहि यक्षेन्द्र दुर्वृत्तं पापचेतसम्। शरणं भव वीराणां यक्षाणां युद्धशालिनाम्॥ एवमुक्तो महाबाहुर्माणिभद्रः सुदुर्जयः। वृतो यक्षसहस्रेस्तु चतुर्भिः समयोधयत्॥ ते गदामुसलप्रासैः शक्तितोमरमुद्गरैः। अभिघ्नन्तस्तदा यक्षा राक्षसान्समुपाद्रवन्।४।। कुर्वन्तस्तुमुलं युद्धं चरन्तः श्येनवल्लघु। बाढं प्रयच्छ नेच्छामि दीयतामिति भाषिणः।५।। ततो देवाः सगन्धर्वा ऋषयो ब्रह्मवादिनः। दृष्ट्वा तत्तुमुलं युद्धं परं विस्मयमागमन्॥ यक्षाणां तु प्रहस्तेन सहस्रं निहतं रणे। महोदरेण चानिन्द्यं सहस्रमपरं हतम्।७॥ कुद्धेन च तदा राजन्मारीचेन युयुत्सुना। निमेथान्तरमात्रेण द्वे सहस्र निपातिते॥ क्व च यक्षार्जवं युद्धं क्व च मायाबलाश्रयम्। रक्षसां पुरुषव्याघ्र तेन तेऽभ्यधिका युधि॥ धूम्राक्षेण समागम्य माणिभद्रो महारणे। मुसलेनोरसि क्रोधात्ताडितो न च कम्पितः॥ ततो गदां समाविध्य माणिभद्रेण राक्षसः। धूम्राक्षस्ताडितो मूर्ध्नि विह्वलः स पपात ह॥ धूम्राक्षं ताडितं दृष्ट्वा पतितं शोणितोक्षितम्। अभ्यधावत संग्रामे माणिभद्रं दशाननः॥ संक्रुद्धमभिधावन्तं माणिभद्रो दशाननम्। शक्तिभिस्ताडयामास तिसृभिर्यक्षपुङ्गवः॥ ताडितो माणिभद्रस्य मुकुटे प्राहरद्रणे। तस्य तेन प्रहारेण मुकुटं पार्श्वमागतम्॥ ततः प्रभृति यक्षोऽसौ पार्श्वमौलिरभूत्किल। तस्मिंस्तु विमुखीभूते माणिभद्रे महात्मनि। संनादः सुमहानराजेस्तस्मिन्शैले व्यवर्धत॥ ततो दूरात्प्रददृशे धनाध्यक्षो गदाधरः। शुक्रप्रौष्द्वपदाभ्यां च पद्मशङ्खसमावृतः॥ स दृष्ट्वा भ्रातरं संख्ये शापाद्विभ्रष्टगौरवम्। उवाच वचनं धीमान्युक्तं पैतामहे कुले॥ यन्मया वार्यमाणस्त्वं नावगच्छसि दुर्मते। पश्चादस्य फलं प्राप्य ज्ञास्यसे निरयं गतः॥ यो हि मोहाद्विषं पीत्वा नावगच्छति दुर्मतिः। स तस्य परिणामान्ते जानीते कर्मणः फलम् ॥ दैवतानि न नन्दन्ति धर्मयुक्तन केन चित्। येन त्वमीदृशं भावं नीतस्तच्च न बुद्ध्यसे॥ मातरं पितरं विप्रमाचार्य चावमन्य वै। स पश्यति फलं तस्य प्रेतराजवशं गतः॥ अध्रुवे हि शरीरे यो न करोति तपोजनम्। स पश्चात्तप्यते मूढो मृतो गत्वात्मनो गतिम्॥ कस्य चिन हि दुर्बुद्धेश्छन्दतो जायते मतिः। यादृशं कुरुते कर्म तादृशं फलमश्नुते॥ ऋद्धिंरूपं बलं पुत्रान्वित्तं शूरत्वमेव च। प्राप्नुवन्ति नरा लोके निर्जितं पुण्यकर्मभिः॥ एवं निरयगामी त्वं यस्य ते मतिरीदृशी। न त्वां समभिभाषिष्येसद्वत्तेष्वेष निर्णयः॥ एवमुक्तास्ततस्तेन तस्यामात्याः समाहताः। मारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः॥ ततस्तेन दशग्रीवो यक्षेन्द्रेण महात्मना। गदयाभिहतो मूर्ध्नि न च स्थानात्प्रकम्पितः॥ ततस्तौ राम निघ्तौ तदान्योन्यं महामृधे। न विह्वलौ न च श्रान्तौ तावुभौ यक्षराक्षसौ॥ आग्नेयमत्रं तस्मै स मुमोच धनदस्तदा। राक्षसेन्द्रो वारुणेन तदत्रं प्रत्यवारयत्॥ ततो मायां प्रविष्टोऽसौ राक्षसी राक्षसेश्वरः। रूपाणां शतसाहस्रं विनाशाय चकार च॥ व्याघ्रो वराहो जीमूतः पर्वतः सागरो दुमः। यक्षो दैत्यस्वरूपी च सोऽदृश्यत दशाननः॥ बहूनि च करोति स्म दृश्यन्ते न त्वसौ ततः। प्रतिगृह्य ततो राम महदस्त्रं दशाननः। जघान मूर्ध्नि धनदं व्याविद्ध्य महतीं गदाम्॥ एवं स तेनाभिहतो विह्वलः शोणितोक्षितः। कृत्तमूल इवाशोको निपपात धनाधिपः॥ ततः पद्मादिभिस्तत्र निधिभिः स तदा वृतः। धनदोच्छ्वासितस्तैस्तु वनमानीय नन्दनम्॥ निर्जित्य राक्षसेन्द्रस्तं धनदं हृष्टमानसः। पुष्पकं तस्य जग्राह विमानं जयलक्षणम्॥ काञ्चनस्तम्भसंवीतं वैदूर्यमणितोरणम्। मुक्काजालप्रतिच्छन्नं सर्वकालफलद्रुमम्॥ मनोजवं कामगमं कामरूपं विहङ्गमम्। मणिकाञ्चनसोपानं तप्तकाञ्चनवेदिकम्॥ देवोपवाह्यपक्षय्यं सदादृष्टिमनःसुखम्। बह्वाश्चर्य भक्तिचित्रं ब्रह्मणा परिनिर्मितम्॥ निर्मितं सर्वकामैस्तु मनोहरमनुत्तमम्। न तु शीतं न चोष्णं च सर्वर्तुसुखदं शुभम्॥ स तं राजा समारुह्य कामगं वीर्यनिर्जितम्। जितं त्रिभुवनं मेने दर्पोत्सेकात्सुदुर्मतिः। जित्वा वैश्रवणं देवं कैलासात्समवातरत्॥ स तेजसा विपुलमवाप्य तं जयं प्रतापवान्विमलकिरीटहारवान्। रराज वै परमविमानमास्थितो निशाचरः सदसि गतो यथानलः॥ अथ राजन्महाबाहुर्विचरन्पृथिवीतले। हिमवद्वनमासाद्य परिचक्राम रावणः॥ तत्रापश्यत्स वै कन्यां कृष्णाजिनजटाधराम्। आर्षेण विधिना युक्तां दीप्यन्ती देवतामिव ॥ स दृष्ट्वा रूपसंपन्नां कन्यां तां सुमहाव्रताम्। काममोहपरीतात्मा पप्रच्छ प्रहसन्निव॥ किमिदं वर्तसे भद्रे विरुद्धं यौवनस्य ते। नहि युक्ता तवैतस्य रूपस्यैव प्रतिक्रिया।४॥ रूपं तेऽनुपमं भीरु कामोन्मादकरं नृणाम्। न युक्तं तपसि स्थातुं निर्गतो ह्येष निर्णयः॥ कस्यासि किमिदं भद्रे कश्च भर्ता वरानने। येन संभुज्यसे भीरु स नरः पुण्यभाग्भुवि॥ पृच्छतः शंस मे सर्वं कस्य हेतोः परिश्रमः। एवमुक्ता तु सा कन्या रावणेन यशस्विनी।७।। अब्रवीद्विधिवत्कृत्वा तस्यातिथ्यं तपोधना। कुशध्वजो नाम पिता ब्रह्मर्षिरमितप्रभः। बृहस्पतिसुतः श्रीमान्बुद्ध्या तुल्यो बृहस्पतेः।।।।। तस्याहं कुर्वतो नित्यं वेदाभ्यासं महात्मनः। संभूता वाङ्गायी कन्या नाम्ना वेदवती स्मृता॥ ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः। ते चापि गत्वा पितरं वरणं रोचयन्ति मे॥ न च मां स पिता तेभ्यो दत्तवान् राक्षसेश्वर। कारणं तद्वदिष्यामि निशामय महाभुज ॥ पितुस्तु मम जामाता विष्णुः किल सुरेश्वर। अभिप्रेतस्त्रिलोकेशस्तस्मानान्यस्य मे पिता॥ दातुमिच्छति तस्मै तु तच्छुत्वा बलदर्पितः। शंभुर्नाम ततो राजा दैत्यानां कुपितोऽभवत्। तेन रात्रौ शयानो मे पिता पापेन हिंसितः॥ ततो मे जननी दीना तच्छरीरं पितुर्मम। परिष्वज्य महाभागा प्रविष्टा हव्यवाहनम्॥ ततो मनोरथं सत्यं पितुर्नारायणं प्रति। करोमीति तमेवाहं हृदयेन समुद्वहे ॥ इति प्रतिज्ञामारुह्य चरामि विपुलं तपः। एतत्ते सर्वमाख्यातं मया राक्षसपुङ्गव।॥ नारायणो मम पतिर्न त्वन्यः पुरुषोत्तमात्। आश्रये नियमं घोरं नारायणपरीप्सया॥ विज्ञातस्त्वं हि मे राजन्गच्छ पौलस्त्यनन्दन। जानामि तपसा सर्वं त्रैलोक्ये यद्धिवर्तते॥ सोऽब्रवीद्रावणो भूयस्तां कन्यां सुमहाव्रताम्। अवरुह्य विमानाग्रात्कंदर्पशरपीडितः॥ अवलिप्तासि सुश्रोणि यस्यास्ते मतिरीदृशी। वृद्वानां मृगशावाक्षि भ्राजते पुण्यसंचयः॥ त्वं सर्वगुणसंपन्ना नार्हसे वक्तुमीदृशम्। त्रैलोक्यसुन्दरी भीरु यौवनं तेऽतिवर्तते॥ अहं लङ्कापतिर्भद्रे दशग्रीव इति श्रुतः। तस्य मे भव भार्या त्वं भुव भोगान्यथासुखम्।।२२। कश्च तावदसौ यं त्वं विष्णुरित्यभिभाषसे। वीर्येण तपसा चैव भोगेन च बलेन च। स मया नो मसो भद्रे यं त्वं कामयसेऽङ्गने॥ इत्युक्तवति तस्मिंस्तु वेदवत्यथ साब्रवीत्। मा मैवमिति सा कन्या तमुवाच निशाचरम्॥ त्रैलोक्याधिपतिं विष्णुं सर्वलोकनमस्कृतम्। त्वदृते राक्षसेन्द्रान्यः कोऽवमन्येत बुद्धिमान्॥ एवमुक्तस्तया तत्र वेदवत्या निशाचरः। मूर्धजेषु तदा कन्यां कराग्रेण परामृशत्॥ ततो वेदवती क्रुद्धा केशान्हस्तेन साच्छिनत्। असिर्भूत्वा करस्तस्याः केशांश्छिन्नांस्तदाकरोत्॥ सा ज्वलन्तीव रोषेण दहन्तीव निशाचरम्। उवाचाग्नि समाधाय मरणाय कृतत्वरा॥ धर्षितायास्त्वयानार्य न मे जीवितमिष्यते। रक्षस्तस्मात्प्रवेक्ष्यामि पश्यतस्ते हुताशनम्॥ यस्मात्तु धर्षिता चाहं त्वया पापात्मना वने। तस्मात्तव वधार्थ हि समुत्पत्स्यत्यहं पुनः॥ नहि शक्यः स्त्रिया हन्तुं पुरुषः पापनिश्चयः। शापे त्वयि मयोत्सृष्टे तपसश्च व्ययो भवेत्॥ यदि त्वस्ति मया किंचित्कृतं दत्तं हुतं तथा। तस्मात्त्वयोनिजा साध्वी भवेयं धर्मिणः सुता ॥ एवमुक्त्वा प्रविष्टा सा ज्वलितं जातवेदसम्। पपान च दिवो दिव्या पुष्पवृष्टिः समन्ततः॥ सैषा जनकराजस्य प्रसूता तनया प्रभो। तव भार्या महाबाहो विष्णुस्त्वं हि सनातनः॥ पूर्वं क्रोधहतः शत्रुर्ययासौ निहतस्तया। उपाश्रयित्वा शैलाभस्तव वीर्यममानुषम्॥ एवमेषा महाभागा मत्र्येषूत्पत्स्यते पुनः। क्षेत्रे हलमुखोत्कृष्टे वेद्यामग्निशिखोपमा॥ एषा वेदवती नाम पूर्वमासीत्कृते युगे। त्रेतायुगमनुप्राप्य वधार्थं तस्य राक्षसः। उत्पन्ना मैथिलकुले जनकस्य महात्मनः। सीतोत्पन्ना तु सीतेति मानुषेः पुनरुच्यते॥ प्रविष्टायां हुताशं तु वेदवत्यां स रावणः। पुष्पकं तु समारुह्य परिचक्राम मेदिनीम्॥ ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः। उशीरबीजमासाद्य ददर्श स तु रावणः॥ संवर्तो नाम ब्रह्मर्षिः साक्षाद्धाता बृहस्पतेः। याजयामास धर्मज्ञः सर्वैर्देवगणैर्वृतः॥ दृष्ट्वा देवास्तु तद्रक्षो वरदानेन दुर्जयम्। तिर्यग्योनि समाविष्टास्तस्य धर्षणभीरवः॥ इन्द्रो मयूरः संवृत्तो धर्मराजस्तु वायसः। कृकलासो धनाध्यक्षो हंसश्च वरुणोऽभवत्।।५ अन्येष्वपि गतेष्वेवं देवेष्वरिनिषूदन। रावणः प्राविशद्य सारमेय इवाशुचिः॥ तं च राजानमासाद्य रावणो राक्षसाधिपः। प्राह युद्धं प्रयच्छेति निर्जितोऽस्मीति वा वद।७।। ततो मरुत्तो नृपतिः को भवानित्युवाच तम्। अवहासं ततो मुक्त्वा रावणो वाक्यमब्रवीत्॥ अकुतूहलभावेन प्रीतोऽस्मि तव पार्थिव. धनदस्यानुजं यो मां नावगच्छसि रावणम्॥ त्रिषु लोकेषु कोऽन्योऽस्ति यो न जानाति मे बलम्। भ्रातरं येन निर्जित्य विमानमिदमाहृतम्॥ ततो मरुत्तः स नृपस्तं रावणमथाब्रवीत्। धन्यः खलु भवान्येन ज्येष्ठो भ्राता रणे जितः।। न त्वया सदृशः श्लाघ्यस्त्रिषु लोकेषु विश्वते। नाधर्मसहितं श्लाघ्यं तल्लोकं प्रतिसंहितम्। कर्म दौरात्म्यकं कृत्वा श्लाघ्यसे भ्रातृनिर्जयात्॥ कं त्वं प्राक्केवलं धर्म चरित्वा लब्धवान्वरम्। श्रुतपूर्व हि न मया भाषसे यादृशं स्वयम्॥ तिष्ठेदानीं न मे जीवन्प्रतियास्यति दुर्मते। अद्य त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम्॥ ततः शरासनं गृह्य सायकांश्च नराधिपः। रणाय निर्ययौ क्रुद्धः संवर्तो मार्गमावृणोत्॥ सोऽब्रवीत्स्नेहसंयुक्तं मरुत्तं तं महानृषिः। श्रोतव्यं यदि मद्वाक्यं संप्रहारो न ते क्षमः॥ माहेश्वरमिदं सत्रमसमाप्तं कुलं दहेत्। दीक्षितस्य कुतो युद्धं क्रोधित्वं दीक्षिते कुतः॥ संशयश्च जये नित्यं राक्षसश्च सुदुर्जयः। स निवृत्तो गुरोर्वाक्यान्मरुत्तः पृथिवीपतिः। विसृज्य सशरं चापं स्वस्थो मखमुखोऽभवत्॥ ततस्तं निर्जितं मत्वा घोषयामास वै शुकः। रावणो जयतीत्युच्चैहर्षानादं विमुक्तवान्॥ तान्भक्षयित्वा तत्रस्थान्महर्षीन्यज्ञमागतान्। वितृप्तो रुधिरैस्तेषां पुनः संप्रययौ महीम्॥ रावणे तु गते देवाः सेन्द्राश्चैव दिवौकसः। ततः स्वां योनिमासाद्य तानि सत्त्वानि चाब्रुवन्॥ हर्षात्तदाब्रवीदिन्द्रो मयूरं नीलबर्हिणम्। प्रीतोऽस्मि तव धर्मज्ञ भुजंगाद्धिन ते भयम्॥ इदं नेत्रसहस्रं तु यत्तद्वर्हे भविष्यति। वर्षमाणे मयि मुदं प्राप्स्यसे प्रीतिलक्षणम्। एवमिन्द्रो वरं प्रादान्मयूरस्य सुरेश्वरः॥ नीलाः किल पुरा बर्हा मयूराणां नराधिप। सुराधिपाद्वरं प्राप्य गताः सर्वेऽपि बहिणः॥ धर्मराजोऽब्रवीद्राम प्राग्वंशे वायसं प्रति। पक्षिस्तवास्मि सुप्रीतः प्रीतस्य वचनं शृणु॥ यथान्ये विविधै रोगैः पीड्यन्ते प्राणिनो मया। ते न ते प्रभविष्यन्ति मयि प्रीते न संशयः॥ मृत्युतस्ते भयं नास्ति वरान्मम विहंगम। यावत्त्वां न वधिष्यन्ति नरास्तावद्भविष्यसि॥ ये च मद्विषयस्था वै मानवाः क्षुधयार्दिताः। त्वयि भुक्ते सुतृप्तास्ते भविष्यन्ति सबान्धवाः॥ वरुणस्त्वब्रवीद्धंसं गङ्गातोयविचारिणम्। श्रूयतां प्रीतिसंयुक्तं ततः पत्ररथेश्वरम्॥ वर्णो मनोरमः सौम्यश्चन्द्रमण्डलसंनिमः। भविष्यति तवोदग्रः शुद्धफेनसमप्रभः॥ मच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि। प्राप्स्यसे चातुलां प्रीतिमेतन्मे प्रीतिलक्षणम्॥ हंसानां हि पुरा राम न वर्णः सर्वपाण्डुरः। पक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः॥ अथाब्रवीद्वैश्रवणः कृकलासं गिरौ स्थितम्। हैरण्यं संप्रयच्छामि वर्णं प्रीतस्तवाप्यहम्॥ सद्रव्यं च शिरो नित्यं भविष्यति तवाक्षयम्। एष काञ्चनको वर्णो मत्प्रीत्या ते भविष्यति॥ एवं दत्त्वा वरांस्तेभ्यस्तस्मिन्यज्ञोत्सवे सुराः। निवृत्ते सह राज्ञा ते पुनः स्वभवनं गताः॥ ततो वित्रासयन्मान्पृथिव्यां राक्षसाधिपः। आससाद घने तस्मिन्नारदं मुनिपुङ्गवम्॥ तस्याभिवादनं कृत्वा दशग्रीवो निशाचरः। अब्रवीत्कुशलं पृष्ट्वा हेतुमागमनस्य च॥ नारदस्तु महातेजा देवर्षिरमितप्रभः। अब्रवीन्मेघपृष्ठस्थो रावणं पुष्पके स्थितम्॥ राक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत। प्रीतोऽस्म्यभिजनोपेत विक्रमैरूर्जितैस्तव॥ विष्णुना दैत्यघातैश्च गन्धर्वोरंगधर्षणैः। त्वया समं विमर्दैश्च भृशं हि परितोषितः॥ किंचिद्वक्ष्यामि तावत्तु श्रोतव्यं श्रोष्यसे यदि। तन्मे निगदतस्तात समाधिं श्रवणे कुरु॥ किमयं बध्यते तात त्वयावध्येन दैवतैः। हत एव ह्ययं लोको यदा मृत्युवशं गतः।७।। देवदानवदैत्यानां यक्षगन्धर्वरक्षसाम्। अवध्येन त्वया लोकः क्लेष्टुं योग्यो न मानुषः॥ नित्यं श्रेयसि सम्मूढं महद्भिर्व्यसनैर्वृतम्। हन्यात्कस्तादृशं लोकं जराव्याधिशतैर्युतम्॥ तैस्तैरनिष्टोपगमैरजस्रं यत्र कुत्र कः। मतिमान्मानुषे लोके युद्धेन प्रणयी भवेत्॥ क्षीयमाणं दैवहतं क्षुत्पिपासाजरादिभिः। विषादशोकसंमूढं लोकं त्वं क्षपयस्व मा॥ पश्य तावन्महाबाहो राक्षसेश्वर मानुषम्। मूढमेवं विचित्रार्थं यस्य न ज्ञायते गतिः॥ क्वचिद्वादित्रनृत्यादि सेव्यते मुदितैर्जनैः। रुद्यते चापरैरातैर्धाराश्रुनयनाननैः॥ मातापितृसुतस्नेहभाबन्धुमनोरमैः। मोहितोऽयं जनो ध्वस्तः क्लेशं स्वं नावबुध्यते।।१४ तत्किमेवं परिक्लिश्य लोकं मोहनिराकृतम्। जित एव त्वया सौम्य मर्त्यलोको न संशयः॥ अवश्यमेभिः सर्वैश्च गन्तव्यं यमसादनम्। तन्निगृणीष्व पौलस्त्य यमं परपुरंजय॥ तस्मिञ्जिते जितं सर्वं भवत्येव न संशयः। एवमुक्तस्तु लङ्केशो दीप्यमानं स्वतेजसा ॥ अब्रवीनारदं तत्र संप्रहस्याभिवाद्य च। महर्षे देवगन्धर्वविहार समरप्रिय॥ अहं समुद्यतो गन्तुं विजयार्थं रसातलम्। ततो लोकत्रयं जित्वा स्थाप्य नागान्सुरान्वशे। समुद्रममृतार्थं च मथिष्यामि रसालयम्॥ अथाब्रवीद्दशग्रीवं नारदो भगवानृषिः। क्व खल्विदानी मार्गेण त्वयेहान्येन गम्यते॥ अयं खलु सुदुर्गम्यः प्रेतराजपुरं प्रति। मार्गो गच्छति दुर्धर्ष यमस्यामित्रकर्शन ॥ स तु शारदमेघाभं हासं मुक्त्वा दशाननः। उवाच कृतमित्येव वचनं चेदमब्रवीत्॥ तस्मादेवं महाब्रह्म वैवस्वतवधोद्यतः। गच्छामि दक्षिणामाशां यत्र सूर्यात्मजो नृप॥ मया हि भगवन्क्रोधात्प्रतिज्ञातं रणार्थिना। अवजेष्यामि चतुरो लोकपालानिति प्रभो॥ तदिह प्रस्थितोऽहं वै पितृराजपुरं प्रति। प्राणिसंक्लेशकर्तारं योजयिष्यामि मृत्युना ॥ एवमुक्त्वा दशग्रीवो मुनिं तमभिवाद्य च। प्रययौ दक्षिणामाशां प्रविष्टः सह मन्त्रिभिः॥ नारदस्तु महातेजा मुहूर्तं ध्यानमास्थितः। चिन्तयामास विप्रेन्द्रो विधूम इव पावकः॥ येन लोकस्वयः सेन्द्राः क्लिश्यन्ते सचराचराः। क्षीणे चायुषि धर्मेण स कालो जेष्यते कथम्॥ स्वदत्तकृतसाक्षी यो द्वितीय इव पावकः। लब्धसंज्ञा विचेष्टन्ते लोका यस्य महात्मनः॥ यस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताः। तं कथं राक्षसेन्द्रोऽसौ स्वयमेव गमिष्यति॥ यो विधाता च धाता च सुकृतं दुष्कृतं तथा। त्रैलोक्यं विजितं येन तं कथं विजयिष्यते। अपरं किं तु कृत्वैवं विधानं संविधास्यति॥ कौतूहलं समुत्पन्नो यास्यामि यमसादनम्। विमर्दै द्रष्टुमनयोर्यमराक्षसयोः स्वयम्॥ एवं संचिन्त्य विप्रेन्द्रो जगाम लघुविक्रमः। आख्यातुं तद्यथावृत्तं यमस्य सदनं प्रति॥ अपश्यत्स यमं तत्र देवमग्निपुरस्कृतम्। विधानमनुतिष्ठन्तं प्राणिनो यस्य यादृशम्॥ स तु दृष्ट्वा यमः प्राप्तं महर्षि तत्र नारदम्। अब्रवीत्सुखमासीनमय॑मावेद्य धर्मतः॥ कच्चित्क्षेमं नु देवर्षे कच्चिद्धर्मो न नश्यति। किमागनकृत्यं ते देवगन्धर्वसेवित ॥ अब्रवीत्तु तदा वाक्यं नारदो भगवानृषिः। श्रूयतामभिधास्यामि विधानं च विधीयताम्॥ एष नाम्नो दशग्रीवा पितृराज निशाचरः। उपयाति वशं नेतुं विक्रभैस्त्वां सुदुर्जयम्॥ एतेन काणेनाहं त्वरितो ह्यागतः प्रभो। दण्डप्रहरणस्याद्य तव किं नु भविष्यति॥ एतस्मिन्नन्तरे दूरादंशुमन्तमिवोदितम्। ददृशुर्दीप्तमायान्तं विमानं तस्य रक्षसः॥ तं देशं प्रभया तस्य पुष्पकस्य महाबलः। कृत्वा वितिमिरं सर्वं समीपमभ्यवर्तत॥ सोऽपश्यत्स महाबाहुर्दशग्रीवस्ततस्ततः। प्राणिनः सुकृतं चैव भुञ्जानांश्चैव दुष्कृतम्॥ अपश्यत्सैनिकांश्चास्य यमस्यानुचरैः सह। यमस्य पुरुषैरुप्रै।ररूपैर्भयानकैः॥ ददर्श वध्यमानांश्च किलश्यमानांश्च देहिनः। क्रोशतश्च महानादं तीव्रनिष्टनतत्परान्॥ कृमिभिर्भक्ष्यमाणांश्च सारमेयैश्च दारुणैः। श्रोत्रायासकरा वाचो वदतश्च भयावहाः॥ संतार्यमाणान्वैतरणी बहुशः शोणितोदकाम्। वालुकासु च तप्तासु तप्यमानान्मुहुर्मुहुः॥ असिपत्रवने चैव भिद्यमानानधार्मिकान्। रौरवे क्षारनद्यां च क्षुरधारासु चैव हि ॥ पानीयं याचमानांश्च तृषितान्क्षुधितानपि। शवभूतान्कृशान्दीनान्विवर्णान्मुक्तमूर्धनान् ॥ मलपङ्कधरान्दीनान्रुक्षांश्च परिधावतः। ददर्श रावणो मार्गे शतशोऽथ सहस्रशः॥ कांश्चिच्च गृहमुख्येषु गीतवादित्रनिःस्वनैः। प्रमोदमानानद्राक्षीद्रावणः सुकृतैः स्वकैः॥ गोरसं गोप्रदातारो अन्नं चैवानदायिनः। गृहांश्च गृहदातारः स्वकर्मफलमश्नतः॥ सुवर्णमणिमुक्ताभिः प्रमदाभिरलंकृताम्। धार्मिकानपरांस्तत्र दीप्यमानान्स्वतेजसा॥ ददर्श स महाबाहू रावणो राक्षसाधिपः। ततस्तान्भिद्यमानांश्च कर्मभिर्दुष्कृतैः स्वकैः॥ रावणो मोचयामास विक्रमेण बलाबली। प्राणिनो मोक्षितास्तेन दशग्रीवेण रक्षसा॥ सुखमापुर्मुहूर्त ते ह्यतर्कितमचिन्तितम्। प्रेतेषु मुच्यमानेषु राक्षसेन महीयसा॥ प्रेतगोपाः सुसंक्रुद्धा राक्षसेन्द्रमभिद्रवन्। ततो हलहलाशब्दः सर्वदिग्भ्यः समुत्थितः। धर्मराजस्य योधानां शूराणां संप्रधावताम्॥ ते प्रासैः परिधैः शूलैर्मुसलैः शक्तितोमरैः। पुष्पकं समधर्षन्त शूराः शतसहस्रशः॥ तस्यासनानि प्रासादन्वेदिकास्तोरणानि च। पुष्पकस्य बभञ्जुस्ते शीघ्रं मधुकरा इव ॥ देवनिष्ठानभूतं तद्विमानं पुष्पकं मृधे। भज्यमानं तथैवासीदक्षयं ब्रह्मतेजसा ॥ असंख्या सुमहत्यासीत्तस्य सेना महात्मनः। शूराणामग्रयातॄणां सहस्राणि शतानि च ॥ ततो वृक्षैश्च शैलैश्च प्रासादानां शतैस्तथा। ततस्ते सचिवास्तस्य यथाकामं यथाबलम्॥ अयुध्यन्त महावीराः स च राजा दशाननः। ते तु शोणितदिग्धाङ्गाः सर्वशस्त्रसमाहताः॥ अमात्या राक्षसेन्द्रस्य चक्रुरायोधनं महत्। अन्योन्यं ते महाभागा जघ्नुः प्रहरणै शम्॥ यमस्य च महाबाहो रावणस्य च मन्त्रिणः। अमात्यांस्तांस्तु संत्यज्य यमयोधो महाबलाः॥ तमेव चाभ्यधावन्त शूलवर्दशाननम्। ततः शोणितदिग्धाङ्गः प्रहारैर्जर्जरीकृतः। फुल्लाशोक इवाभाति पुष्पके राक्षसाधिपः॥ स तु शूलगदाप्रासाञ्छक्तितोमरसायकान्। मुमोच च शिलावृक्षान्मुमोचास्त्रबलाद्बली॥ तरूणां च शिलानां च शस्त्राणां चातिदारुणम्। यमसैन्येषु तद्वर्ष पपात धरणीतले॥ तांस्तु सर्वान्विनिर्मिद्य तदत्रमपहत्य च। जघ्नुस्ते राक्षसं घोरमेकं शतसहस्रशः॥ परिवार्य च तं सर्वे शैलं मेघोत्करा इव। भिन्दिपालैश्च शूलैश्च निरुच्छ्वासमपोथयन्॥ विमुक्तकवचः क्रुद्धः सिद्धः शोणितविस्रवैः। ततः स पुष्पकं त्यक्त्वा पृथिव्यामवतिष्ठत॥ ततः स कार्मुकी वाणी समरे चाभिवर्धत। लब्धसंज्ञो मुहूर्तेन क्रुद्धस्तस्थौ यथान्तकः॥ ततः पाशुपतं दिव्यमस्त्रं संधाय कार्मुके। तिष्ठ तिष्ठेति तानुक्त्वा यच्चापं व्यपकर्षत॥ आकर्णात्स विकृष्याथ चापमिन्द्रारिराहवे। मुमोच तं शरं क्रुद्धस्त्रिपुरे शंकरो यथा॥ तस्य रूपं शरस्यासीत्सधूमज्वालमण्डलम्। वनं दहिष्यतो धर्मे दावाग्नेरिव मूर्च्छतः॥ ज्वालामाली स तु शरः क्रव्यादानुगतो रणे। मुक्तो गुल्मान्दुमांश्चापि भस्म कृत्वा प्रधावति ॥ ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु। बले तस्मिन्निपतिता माहेन्द्रा इव केतवः॥ ततस्तु सचिवैः सार्धं राक्षसो भीमविक्रमः। ननाद सुमहानादं कम्पयनिव मेदिनीम्॥ स तस्य तु महानादं श्रुत्वा वैवस्वतः प्रभुः। शत्रु विजयिनं मेने स्वबलस्य च संक्षयम्॥ स हि योधान्हतान्मत्वा क्रोधसंरक्तलोचनः। अब्रवीत्त्वरितः सूतं रथो मे उपनीयताम्॥ तस्य सूतस्तदा दिव्यमुपस्थाप्य महारथम्। स्थितः स च महातेजा अध्यारोहत तं रथम्॥ प्रासमुद्गरहस्तश्च मृत्युस्तस्याग्रतः स्थितः। येन संक्षिप्यते सर्वं त्रैलोक्यमिदमव्ययम्॥ कालदण्डस्तु पार्श्वस्थो मूर्तिमानस्य चाभवत्। यमप्रहरणं दिव्यं तेजसा ज्वलदग्निवत्॥ ततो लोकत्रयं क्षुब्धमकम्पन्त दिवौकसः। कालं दृष्ट्वा तथा क्रुद्धं सर्वलोकभयावहम्॥ ततस्त्वचोदयत्सूतस्तानश्वान्रुचिरप्रभान्। प्रययौ भीमसंनादो यत्र रक्षःपतिः स्थितः॥ मुहूर्तेन यमं ते तु हया हरिहयोपमाः। प्रापयन्मनसस्तुल्या यत्र तत्प्रस्तुतं रणम्॥ दृष्ट्वा तथैव विकृतं रथं मृत्युसमन्वितम्। सचिवा राक्षसेन्द्रस्य सहसा विप्रदुर्दुवुः॥ लघुसत्त्वतया ते हि नष्टसंज्ञा भयार्दिताः। नेह युद्धं समर्थाः स्म इत्युक्त्वा प्रययुर्दिशः॥ स तु तं तादृशं दृष्ट्वा रथं लोकभयावहम्। नाक्षुभ्यत दशग्रीवो न चापि भयमाविशत्॥ स तु रावणमासाद्य व्यसृजच्छक्तितोमरान्। यमो मर्माणि संक्रुद्धो रावणस्य न्यकृन्तत॥ रावणस्तु ततः स्वस्थः शरवर्षं मुमोच ह। तस्मिन्वैवस्वतरथे तोयवर्षमिवाम्बुदः॥ ततो महाशक्तिशतैः पात्यमानैर्महोरसि । नाशक्नोत्प्रतिकर्तुं स राक्षसः स्वल्पपीडितः॥ एवं नानाप्रहरणैर्यमेनामित्रकर्षिणा। सप्तरात्रं कृतः संख्ये विसंज्ञो विमुखो रिपुः॥ तदासीत्तुमुलं युद्धं यमराक्षसयोर्द्वयोः। जयमाकाङ्क्षतोर्वीर समरेष्वनिवर्तिनोः॥ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। प्रजापतिं पुरस्कृत्य समेतास्तद्रणाजिरे॥ संवर्त इव लोकानां युध्यतोरभवत्तदा। राक्षसानां च मुख्यस्य प्रेतानामीश्वरस्य च॥ राक्षसेन्द्रोऽपि विस्फार्य चापमिन्द्राशनिप्रभम्। निरन्तरमिवाकाशं कुर्वन्बाणांस्ततोऽसृजत्॥ मृत्युं चतुर्भिर्विशिखैः सूतं सप्तभिरार्दयत्। यमं शतसहस्रेण शीघ्रं मर्मस्वताडयत्॥ ततः क्रुद्धस्य वदनाद्यमस्य समजायत। ज्वालामाली सनिःश्वासः सधूमः कोपपावकः॥ तदाश्चर्यमथो दृष्ट्वा देवदानवसंनिधौ। प्रहर्षितौ सुसंरब्धौ मृत्युकालौ बभूवतुः॥ ततो मृत्युः क्रुद्धतरो वैवस्वतमभाषत। मुञ्च मां समरे यावद्धन्मीमं पापराक्षसम्॥ नैषा रक्षो भवेदद्य मर्यादा हि निसर्गतः। हिरण्यकशिपुः श्रीमान्नमुचिः शम्बरस्तथा॥ निसन्दिधूमकेतुश्च बलिर्वैरोचनोऽपि च। शंभुर्दैत्यो महाराजो वृत्रो बाणस्तथैव च ॥ राजर्षयः शास्त्रविदो गन्धर्वाः समहोरगाः। ऋषयः पन्नगा दैत्या यक्षाश्च ह्यप्सरोगणाः॥ युगान्तपरिवर्ते च पृथिवी समहार्णवा। क्षयं नीता महाराज सपर्वतसरिद्रुमा॥ एते चान्ये च बहवो बलवन्तो दुरासदाः। विनिपन्ना मया दृष्टाः किमुतायं निशाचरः॥ मुश्च मां साधु धर्मज्ञ यावदेनं निहन्म्यहम्। नहि कश्चिन्मया दृष्टो बलवानपि जीवति ॥ बलं मम न खल्वेतन्मर्यादैषा निसर्गतः। स दृष्टो न मया काल मुहूर्तमपि जीवति॥ तस्यैवं वचनं श्रुत्वा धर्मराजः प्रतापवान्। अब्रवीत्तत्र तं मृत्युं त्वं तिष्ठेनं निहन्म्यहम्॥ ततः संरक्तनयनः क्रुद्धो वैवस्वतः प्रभुः। कालदण्डममोघं तु तोलयामास पाणिना॥ यस्य पार्श्वेषु निहिताः कालपाशाः प्रतिष्ठिताः। पावकाशनिसंकाशो मुद्गरो मूर्तिमान्स्थितः॥ दर्शनादेव यः प्राणान्प्राणिनामपि कर्षति। किं पुनः स्पृशमानस्य पात्यमानस्य वा पुनः॥ स ज्वालापरिवारस्तु निर्दहन्निव राक्षसम्। तेन स्पृष्टो बलवता महाप्रहरणोऽस्फुरत्॥ ततो विदुद्रुवुः सर्वे तस्मात्रस्ता रणाजिरे। सुराश्च क्षुभिताः सर्वे दृष्ट्वा दण्डोद्यतं यमम्॥ तस्मिन्प्रहर्तुकामे तु यमे दण्डेन रावणम्। यमं पितामहः साक्षादर्शयित्वेदमब्रवीत्॥ वैवस्वत महाबाहो न खल्वमितविक्रम। न हन्तव्यस्त्वयैतेन दण्डेनैष निशाचरः॥ वरः खलु मयैतस्मै दत्तस्त्रिदशपुङ्गव। स त्वया नानृतः कार्यो यन्मया व्याहृतं वचः॥ यो हि मामनृतं कुर्याद्देवो वा मानुषोऽपि वा। त्रैलोक्यमनृतं तेन कृतं स्यान्नात्र संशयः॥ क्रुद्धेन विप्रमुक्तोऽयं निर्विशेष प्रियाप्रिये। प्रजाः संहरते रौद्रो लोकत्रयभयावहः॥ अमोघो ोष सर्वेषां प्राणिनाममितप्रभः। कालदण्डो मया सृष्टः सर्वं मृत्युपुरस्कृतः।॥ तन्न खल्वेष ते सौम्य पात्यो रावणमूर्धनि। नह्यस्मिन्पतिते कश्चिन्मुहूर्तमपि जीवति॥ यदि ह्यस्मिन्निपतिते न म्रियेतैष राक्षसः। प्रियते वा दशग्रीवस्तदाप्युभयतोऽनृतम्॥ तन्निवर्तय लङ्केशाद्दण्डमेतं समुद्यतम्। सत्यं च मां कुरुष्वाद्य लोकांस्त्वं यद्यवेक्षसे॥ एवमुक्तस्तु धर्मात्मा प्रत्युवाच यमस्तदा। एष व्यावर्तितो दण्डः प्रभविष्णुहि नो भवान्॥ किं त्विदानी मया शक्यं कर्तुं रणगतेन हि। न मया यद्ययं शक्यो हन्तुं वरपुरस्कृतः॥ एष तस्मात्प्रणश्यामि दर्शनादस्य रक्षसः। इत्युक्त्वा सरथः साश्वस्तत्रैवान्तरधीयत॥ दशग्रीवस्तु तं जित्वा नाम विश्राव्य चात्मनः। आरुह्य पुष्पकं भूयो निष्क्रान्तो यमसादनात्॥ स तु वैवस्वतो देवैः सह ब्रह्मपुरोगमैः। जगाम त्रिदिवं हृष्टो नारदश्च महामुनिः॥ ततो जित्वा दशग्रीवो यमं त्रिदशपुंगवम्। रावणस्तु रणश्लाघी स्वसहायान्ददर्श ह॥ ततो रुधिरसिक्ताङ्गं प्रहारैर्जर्जरीकृतम्। रावणं राक्षसा दृष्ट्वा विस्मयं समुपागमन्॥ जयेन वर्धयित्वा च मारीचप्रमुखास्ततः। पुष्पकं भेजिरे सर्वे सान्त्विता रावणेन तु॥ ततो रसातलं रक्षः प्रविष्टः पयसां निधिम्। दैत्योरगगणाध्युष्टं वरुणेन सुरक्षितम्॥ स तु भोगवतीं गत्वा पुरीं वासुकिपालिताम्। कृत्वा नागान्वशे हृष्टो ययौ मणिमयीं पुरीम्॥ निवातकवचास्तत्र दैतेया लब्धवरा वसन्। राक्षसस्तान्समागम्य युद्धाय समुपाह्वयत्॥ ते तु सर्वे सुविक्रान्ता दैतेया बलशालिनः। नानाप्रहरणास्तत्र प्रहृष्टा युद्धदुर्मदाः॥ शूलैस्त्रिशूलैः कुलिशैः पट्टिशासिपरश्वधैः। अन्योन्यं बिभिदुः कृद्धा राक्षसा दानवास्तथा॥ तेषां तु युध्यमानानां साग्रः संवत्सरो गतः। न चान्यतरतस्तत्र विजयो वा क्षयोऽपि वा।।।। ततः पितामहस्तत्र त्रैलोक्यगतिरव्ययः। आजगाम द्रुतं देवो विमानवरमास्थितः॥ निवातकवचानां तु निवार्य रणकर्म तत्। वृद्धः पितामहो वाक्यमुवाच विदितार्थवत्॥ नह्ययं रावणो युद्धे शक्यो जेतुं सुरासुरैः। न भवन्तः क्षयं नेतुमपि सामरदानवैः॥ राक्षसस्य सखित्वं च भवद्भिः सह रोचते। अविभक्ताश्च सर्वार्थाः सुहृदां नात्र संशयः॥ ततोऽग्निसाक्षिकं सख्यं कृतवांस्तत्र रावणः। निवातकवचैः सार्धं प्रीतिमानभवत्तदा ॥ अर्चितस्तैर्यथान्यायं संवत्सरमथोषितः। स्वपुरानिर्विशेषं च प्रियं प्राप्तो दशाननः॥ तत्रोपधार्य मायानां शतमेकं समाप्तवान्। सलिलेन्द्रपुरान्वेषी भ्रमति स्म रसातलम्॥ ततोऽश्मनगरं नाम कालकेयैरधिष्ठितम्। गत्वा तु कालकेयांश्च हत्वा तत्र बलोत्कटान्॥ शूर्पणख्याश्च भर्तारमसिना प्राच्छिनत्तदा। श्यालं च बलवन्तं च विद्युज्जिह्व बलोत्कटम्॥ जिह्वया संलिहन्तं च राक्षसं समरे तदा। तं विजित्य मुहूर्तेन जघ्ने दैत्यांश्चतुःशतम्॥ ततः पाण्डुरमेघाभं कैलासमिव भास्वरम्। वरुणस्यालयं दिव्यमपश्यद्राक्षसाधिपः॥ क्षरन्तीं च पयस्तत्र सुरभिं गामवस्थिताम्। यस्याः पयोभिनिष्पन्दात्क्षीरोदो नाम सागरः॥ ददर्श रावणस्तत्र गोवृषेन्द्रवरारणिम्। यस्माच्चन्द्रः प्रभवति शीतरश्मिनिशाकरः॥ यं समाश्रित्य जीवन्ति फेनपाः परमर्षयः। अमृतं यत्र चोत्पन्नं स्वधा च स्वधभोजिनाम्॥ यां ब्रुवन्ति नरा लोके सुरभिं नाम नामतः। प्रदक्षिणं तु तां कृत्वा रावणः परमाद्भुताम्। प्रविवेशमहाघोरं गुप्तं बहुविधैर्बलैः॥ ततो धाराशताकीर्णं शारदाभ्रनिभं तदा। नित्यप्रहृष्टं ददृशे वरुणस्य गृहोत्तमम्॥ ततो हत्वा बलाध्यक्षान्समरे तैश्च ताडितः। अब्रवीच्च ततो योधानराजा शीघ्रं निवेद्यताम्॥ युद्धार्थी रावणः प्राप्तस्तस्य युद्धं प्रदीयताम्। वद वा न भयं तेऽस्ति निर्जितोऽस्मीति साञ्जलिः।।२७ एतस्मिन्नन्तरे क्रुद्धा वरुणस्य महात्मनः। पुत्राः पौत्राश्च निष्क्रामन्गौश्च पुष्कर एव च॥ ते तु तत्र गुणोपेता बलैः परिवृताः स्वकैः। युक्त्वा रथान्कामगमानुद्यद्भास्करवर्चसः॥ ततो युद्धं समभवद्दारुणं रोमहर्षणम्। सलिलेन्द्रस्य पुत्राणां रावणस्य च धीमतः॥ आमात्यैश्च महावीर्यैर्दशग्रीवस्य रक्षसः। वारुणं तद्वलं सर्व क्षणेन विनिपातितम्॥ समीक्ष्य स्वबलं संख्ये वरुणस्य सुतास्तदा। अर्दिताः शरजालेन निवृत्ता रणकर्मणः॥ महीतलगतास्ते तु रावणं दृश्य पुष्पके। आकाशमाशु विविशुः स्यन्दनैः शीघ्रगामिभिः॥ महदासीत्ततस्तेषां तुल्यं स्थानमवाप्य तत्। आकाशयुद्धं तुमुलं देवदानवयोरिव ॥ ततस्ते रावणं युद्धे शरैः पावकसंनिभैः। विमुखीकृत्य संहृष्टा विनेदुर्विविधारवान्॥ ततो महोदरः क्रुद्धो राजानं वीक्ष्य धर्षितम्। त्यक्त्वा मृत्युभयं क्रुद्धो युद्धाकाङ्क्षी व्यलोकयत्।। तेन ते वारुणा युद्धे कानगाः पवनोपमाः। महोदरेण गदया हतास्ते प्रययुः क्षितिम्॥ तेषां वरुणसूनूनां हत्वा योधान्हयांश्च तान्। मुमोचाशु महानादं विरथान्प्रेक्ष्य तान्स्थितान्॥ ते तु तेषां रथाः साश्वाः सह सारथिभिवरैः। महोदरेण निहताः पतिताः पृथिवीतले॥ ते तु त्यक्त्वा रथान्पुत्रा वरुणस्य महात्मनः। आकाशे विष्ठिताः शूराः स्वप्रभावान्न विव्यथुः॥ धनूंषि कृत्वा सज्जानि विनिर्भिद्य महोदरम्। रावणं समरे क्रुद्धाः सहिताः समवारयन्॥ सायकैश्चापविभ्रष्टैर्वज्रकल्पैः सुदारुणैः। दारयन्ति स्म संक्रुद्धा मेघा इव महागिरिम्॥ ततः क्रुद्धो दशग्रीवः कालाग्निरिव मूर्छितः। शरवर्षं महाघोरं तेषां मर्मस्वपातयत्॥ मुसलानि विचित्राणि ततो भल्लशतानि च। पट्टिशांश्चैव शक्तीश्च शतघ्नीमहतीरपि॥ पातयामास दुर्धर्षस्तेषामुपरि विष्ठितः। अपविद्धास्तु ते वीरा विनिष्पेतुः पदातयः॥ ततस्तेनैव सहसा सीदन्ति स्म पदातिनः। महापङ्कमिवासाद्य कुञ्जराः षष्टिहायनाः॥ सीदमानान्सुतान्दृष्ट्वा विह्वलान्स महाबलः। ननाद रावणो हर्षान्महानम्बुधरो यथा॥ ततो रक्षो महानादान्मुक्त्वा हन्ति स्म वारुणान्। नानाप्रहरणोपेतैर्धारापातैरिवाम्बुदः।॥ ततस्ते विमुखाः सर्वे पतिता धरणीतले। रणात्स्वपुरुषैः शीघ्रं गृहाण्येव प्रवेशिताः॥ तानब्रवीत्ततो रक्षो वरुणाय निवेद्यताम्। रावणं त्वब्रवीन्मन्त्री प्रहासो नाम वारुणः॥ गतः खलु महाराजो ब्रह्मलोकं जलेश्वरः। गान्धर्वं वरुणः श्रोतुं यं त्वमाह्वयसे युधि ॥ तत्किं तव यथा वीर परिश्रम्य गते नृपे। ये तु संनिहिता वीराः कुमारास्ते पराजिताः॥ राक्षसेन्द्रस्तु. तच्छ्रुत्वा नाम विश्राव्य चात्मनः। हर्षान्नादं विमुञ्चन्वै निष्क्रान्तो वरुणालयात्॥ आगतस्तु पथा येन तेनैव विनिवृत्य सः। लङ्कामभिमुखो रक्षो नभस्तलगतो ययौ।॥ ततोऽश्मनगरं भूयो विचेरुयुद्धदुर्मदाः। यत्रापश्यद्दशग्रीवो गृहं परमभास्वरम्॥ वैदूर्यतोरणाकीर्णं मुक्ताजालविभूषितम्। सुवर्णस्तम्भगहनं वेदिकाभिः समन्ततः॥ वज्रस्फटिकसोपानं किङ्किणीजालसंवृतम्। बह्वासनयुतं रम्यं महेन्द्रभवनोपमम्॥ दृष्ट्वा गृहवरं रम्यं दशग्रीवः प्रतापवान्। कस्येदं भवनं रम्यं मेरुमन्दरसंनिभम्॥ गच्छ प्रहस्त शीघ्रं त्वं जानीष्व भवनोत्तमम्। एवमुक्तः प्रहस्तस्तु प्रविवेश गृहोत्तमम्॥ निःशून्यं प्रेक्षत वरं पुनः कक्ष्यान्तरे ययौ। सप्तकक्ष्यान्तरं गत्वा ततो ज्वालामपश्यत॥ ततो दृष्टः पुमांस्तत्र हृष्टो हासं मुमोच सः। श्रुत्वा स तु महाहासमूर्ध्वरोमाभवत्तदा॥ ज्वालामध्ये स्थितस्तत्र हेममाली विमोहितः। आदित्य इव दुष्प्रेक्ष्यः साक्षादिव यमः स्थितः॥ तथा दृष्ट्वा तु वृत्तान्त त्वरमाणो विनिर्गतः। विनिर्गम्याब्रवीत्सर्वं रावणाय निशाचरः॥ अथ राम दशग्रीवः पुष्पकादवरुह्य सः। प्रवेष्टुमिच्छन्वेश्माथ भिन्नाञ्जनचयोपमः॥ चन्द्रमौलिर्वपुष्प॑श्च पुरुषोऽस्याग्रतः स्थितः। द्वारमावृत्य सहसा ज्वालाजिह्वो भयानकः॥ रक्ताक्षश्चारुदशनो बिम्बोष्ठश्चारुदर्शनः। महाभीषणनासश्च कम्बुग्रीवो महाहनुः॥ रूढश्मश्चर्निगूढास्थिदंष्ट्रालो लोमहर्षणः। गृहीत्वा लोहमुसलं द्वारं विष्टभ्य तिष्ठति॥ अथ संदर्शनात्तस्य ऊर्ध्वरोमा बभूव सः। हृदयं कम्पते चास्य वेपथुश्चाप्यजायत॥ निमित्तान्यमनोज्ञानि दृष्ट्वा राम व्यचिन्तयत्। अथ चिन्तयतस्तस्य स एव पुरुषोऽब्रवीत्॥ किं त्वं चिन्तयसे रक्षो ब्रूहि विस्रब्धमानसः। युद्धातिथ्यमहं वीर करिष्ये रजनीचर॥ एवमुक्त्वा स तद्रक्षः पुनर्वचनमब्रवीत्। योत्स्यसे बलिना सार्धमथवा मन्यसे कथम्॥ रावणोऽभिहितो भूय ऊर्ध्वरोमा व्यजायत। अथ धैर्य समालम्ब्य रावणो वाक्यमब्रवीत्॥ गृहेषु तिष्ठते को हि तद्रूहि वदतां वर। तेनैव सार्धं योत्स्यामि यथा वा मन्यते भवान्॥ स एनं पुनरप्याह दानवेन्द्रोऽत्र तिष्ठति। एष वै परमोदारः शूरः सत्यपराक्रमः॥ वीरो बहुगुणोपेतः पाशहस्त इवान्तकः। बालार्क इव तेजस्वी समरेष्वनिवर्तकः॥ अमर्षी दुर्जयो जेता बलवानगुणसागरः। प्रियंवदः संविभागी गुरुविप्रप्रियः सदा॥ कालाकाङ्क्षी महासत्त्वः सत्यवाक्सौम्यदर्शनः। दक्षः सर्वगुणोपेतः शूरः स्वाध्यायतत्परः॥ एष गच्छति वात्येष ज्वलते तपते तथा। देवैश्च भूतसबैश्च पन्नगैश्च च पतत्रिभिः॥ भयं यो नाभिजानाति तेन त्वं योद्धुमिच्छसि। बलिना यदि ते योद्धं रोचते राक्षसेश्वर॥ प्रविश त्वं महासत्त्व सङ्ग्रामं कुरु मा चिरम्। एवमुक्तो दशग्रीवः प्रविवेश यतो बलिः॥ स विलोक्याथ लङ्केशं जहास दहनोपमः। आदित्य इव दुष्प्रेक्ष्यः स्थितो दानवसत्तमः॥ अथ संदर्शनादेव बलिर्वे विश्वरूपवान्। स गृहीत्वा च तद्रक्ष उत्सङ्गे स्थाप्य चाब्रवीत्॥ दशग्रीव महाबाहो कं ते कामं करोम्यहम्। किमागमनकृत्यं ते ब्रूहि त्वं राक्षसेश्वर॥ एवमुक्तस्तु बलिना रावणो वाक्यमब्रवीत्। श्रुतं मया महाभाग बद्धस्त्वं विष्णुना पुरा॥ सोऽहं मोक्षयितुं शक्तो बन्धनात्त्वां न संशयः। एवमुक्ते ततो हासं बलिर्मुक्त्वैनमब्रवीत्॥ श्रूयतामभिधास्यामि यत्त्वं पृच्छसि रावण। य एष पुरुषः श्यामो द्वारे तिष्ठति नित्यदा॥ एतेन दानवेन्द्राश्च तथान्ये बलवत्तराः। वशं नीता बलवता पूर्वे पूर्वतराश्च ये॥ बद्धः सोऽहमनेनैवं कृतान्तो दुरतिक्रमः। क एनं पुरुषो लोके वञ्चयिष्यति मानवः॥ सर्वभूतापहर्ता वै य एष द्वारि तिष्ठति। कर्ता कारयिता चैव धाता च भुवनेश्वरः॥ न त्वं वेद न चैवाहं भूतभव्यभवत्प्रभुः। कलिश्चैवैष कालश्च सर्वभूतापहारकः॥ लोकत्रयस्य सर्वस्य हर्ता स्रष्टा तथैव च। संहरत्येष भूतानि स्थावराणि चराणि श्व॥ पुनश्च सृजते सर्वमनाद्यन्तं महेश्वरः। इष्टं चैव हि दत्तं च हुतं चैव निशाचर॥ सर्वमेव हि लोकेशो धाता गोप्ता न संशयः। नैवंविधं महद्भूतं विद्यते भुवनत्रये॥ अहं त्वं चैव पौलस्त्य ये चान्ये पूर्ववत्तराः। नेता ह्येषां महद्भुतं पशुं रशनया यथा॥ वृत्रो दनुः शुकः शंभुर्निशुम्भः शुम्भ एव च। कालनेमिश्च प्राह्लादिः कूटो वैरोचनो मृदुः॥ र्जुनौ च कंसश्च कैटभो मधुना सह। एते तपन्ति द्योतन्ति वान्ति वर्षन्ति चैव हि॥ सर्वैः ऋतुशतैरिष्टं सर्वस्तप्तं महत्तपः। सर्वे ते सुमहात्मानः सर्वे वै योगधर्मिणः॥ सर्वैरैश्चर्यमासाद्य भुक्तं भोगैर्महत्तरैः। दत्तमिष्टमधीतं च प्रजाश्च परिपालिताः॥ स्वपक्षेष्वनुगोप्तारः प्रहन्तारः परेष्वपि। सामरेष्वपि लोकेषु नैतेषां विद्यते समम्॥ शूरास्त्वभिजनोपेताः शर्वशास्त्रार्थपारगाः। सर्वविद्याप्रवेत्तारः सङ्ग्रामेष्वनिवर्तकाः॥ सर्वैस्त्रिदशराज्यानि कारितानि महात्मभिः। युद्धे सुरगणाः शर्वे निर्जिताच सहस्रशः॥ देवानामप्रिये सक्ताः स्वपक्षपरिपालकाः। प्रमत्ताधोपसक्ताश्च बालार्कसमतेजसः॥ यस्तु देवान्प्रधर्षत तदेषां विष्णुरीश्वरः। उपायपूर्वकं नाशं स वेत्ता भगवान्हरिः॥ प्रादुर्भावं विकुरुते येनैतन्निधनं नयेत्। पुनरेवात्मनात्मानमधिष्ठाय स तिष्ठति॥ एवमेतेन देवेन दानवेन्द्रा महात्मना। ते हि सर्वे क्षयं नीता बलिनः कामरूपिणः॥ समरे च दुराधर्षाः श्रूयन्ते येऽपराजिताः। तेऽपि नीता महद्भूताः कृतान्तबलचोदिताः॥ एवमुक्त्वाथ प्रोवाच राक्षसं दानवेश्वरः। यदेतद् दृश्यते वीर चक्रं दीप्तानलोपमम्॥ एतद्गृहीत्वा गच्छ त्वं मम पार्श्व महाबल। ततोऽहं तव व्याख्यास्ये मुक्तिकारणमव्ययम्॥ तत्कुरुष्व महाबाहो सा विलम्बस्व रावण। एतच्छ्रुत्वा गतो रक्षः प्रहसंश्च महाबलः॥ यत्र स्थितं महादिव्यं कुण्डलं रघुनन्दन। लीलयोत्पाटनं चक्रे रावणो बलदर्पितः॥ न च चालयितुं शक्तो रावणोऽभूत्कथंचन। लज्जया स पुनर्भूयो यत्नं चक्रे महाबलः॥ उत्क्षिप्तमात्रे दिव्ये च पपात भुवि राक्षसः। छिन्नमूलो यथा शालो रुधिरौघपरिप्लुतः॥ एतस्मिन्नन्तरे जज्ञे शब्दः पुष्पकसंभवः। राक्षसेन्द्रस्य सचिवैर्मुक्तो हाहाकृतो महान्॥ ततो रक्षा मुहूर्तेन चेतनां लभ्य चोत्थितम्। लजशवनतीभूयं बलिर्वाक्यमुवाच ह॥ आगच्छ राक्षसश्रेष्ठ वाक्यं शृणु मयोदितम्। यत्त्वया चोद्यतं वीर कुण्डलं मणिभूषितम्॥ एतद्धि पूर्वजस्यासीत्कर्णाभरणमीक्ष्यताम्। एतत्पतितवचैवमत्र भूमौ महाबल॥ अन्यत्पर्वतसानौ हि पतितं कुण्डलादनु। मुकुटं वेदिसामीप्ये पतितं युध्यतो भुवि॥ हिरण्यकशिपोः पूर्वं मम पूर्वपितामहात्। न तस्य कालो मृत्युर्वा न व्याधिर्न विहिंसकाः॥ न दिवा मरणं तस्य न रात्री संध्ययोर्नहि। न शुष्केण न चाट्टैण न च शस्त्रेण केनचित्॥ विद्यते राक्षसश्रेष्ठ तस्य नास्त्रेण केनचित्। प्रह्लादेन समं चक्रे वादं परमदारुणम्॥ तस्य वादे समुत्पन्ने धीरो लोकभयंकरः। सर्ववर्यस्य वीरस्य प्रह्लादस्य महात्मनः॥ उत्पन्नो राक्षसश्रेष्ठ नृसिंहाकृतिरूपधृक्। दृष्टं च तेन रौद्रेण क्षुब्धं सर्वमशेषतः॥ तत उद्धृत्य बाहुभ्यां नखैर्निन्ये यमक्षयम्। एष तिष्ठति द्वारस्थो वासुदेवो निरञ्जनः॥ तस्य देवाधिदेवस्य गदतो मे शृणुष्व ह। वाक्यं परमभावेन यदि ते वर्तते हृदि॥ इन्द्राणां च सहस्राणि सुराणामयुतानि च। ऋषीणां चैव मुख्यानां शतान्यब्दसहस्रशः॥ वशं नीतानि सर्वाणि य एष द्वारि तिष्ठति। तस्य तद्वचनं श्रुत्वा रावणो वाक्यमब्रवीत्॥ मया प्रेतेश्वरो दृष्टः कृतान्तः सह मृत्युना। पाशहस्तो महाज्वाल ऊर्ध्वरोमा भयानकः॥ दंष्ट्रालो विद्युजिहश्च सर्पवृश्चिकरोमवान्। रक्ताक्षो भीमवेगश्च सर्वसत्त्वभयंकरः॥ आदित्य इव दुष्प्रेक्ष्यः समरेष्वनिवर्तकः। पापानां शासिता चैव स मया युधि निर्जितः॥ न च मे तत्र भी: काचिद्यथा वा दानवेश्वर। एनं तु नाभिजानामि तद्भवान्वक्तुमर्हति॥ रावणस्य वचः श्रुत्वा बलिर्वैरोचनोऽब्रवीत्। एष त्रैलोक्यधाता च हरिर्नारायणः प्रभुः॥ अनन्तः कपिलो जिष्णुर्नरसिंहो महाद्युतिः। ऋतुधामा सुधामा च पाशहस्तो भयानकः॥ द्वादशादित्यसदृशः पुराणपुरुषोत्तमः। नीलजीमूतसंकाशः सुरनाथः सुरोत्तमः॥ ज्वालामाली महाबाहो योगी भक्तजनप्रियः। एष धारयते लोकानेष वै सृजते प्रभुः॥ एष संहरते चैव कालो भूत्वा महाबलः। एष यज्ञश्च याज्यश्च चक्रायुधधरो हरिः॥ सर्वदेवमयश्चैव सर्वभूतमयस्तथा। सर्वलोकमयश्चैव सर्वज्ञानमयस्तथा॥ सर्वरूपी महारूपी बलदेवो महाभुजः। वीरहा वीर चक्षुष्मांस्त्रैलोक्यगुरुरव्ययः॥ एनं मुनिगणाः सर्वे चिन्तयन्तीह मोक्षिणः। य एनं वेति पुरुषं न च पापैर्विलिप्यते॥ स्मृत्वा स्तुत्वा तथेष्ट्वा च सर्वमस्मादवाप्यते। एतच्छ्रुत्वा तु वचनं रावणो निर्ययौ तदा॥ क्रोधसंरक्तनयन उद्यतास्त्रो महाबलः। तथाभूतं च तं दृष्ट्वा हरिर्मुसलधृक्प्रभुः॥ यैनं हन्म्यधुना पापं चिन्तयित्वेति रूपधृक् । अन्तर्धानं गतो राम ब्रह्मणः प्रियकाम्यया॥ न च तं पुरुषं तत्र पश्यते रजनीचरः। हर्षान्नादं विमुञ्चन्वै निष्क्रामवरुणालयात्।। येनैव संप्रविष्टः स पथा तेनैव निर्ययौ॥ अथ संचिन्त्य लङ्केशः सूर्यलोकं जगाम ह। मेरुशृङ्गे वरे रम्ये उषित्वा तत्र शर्वरीम्॥ पुष्पकं तत्समारुह रवेस्तुरगसंनिभम्। नानापातगतिर्दिव्यं विहारवियति स्थितम्॥ यत्रापश्यद्रविं देवं सर्वतेजोमयं शुभम्। वरकाञ्चनकेयूररत्नाम्बरविभूषितम्॥ कुण्डलाभ्यां शुभाभ्यां तु भ्राजन्मुखविकासितम्। केयूरनिष्काभरणं रक्तमालावलम्बिनम्॥ रक्तचन्दनदिग्धाङ्गं सहस्रकिरणोज्ज्वलम्। तमादिदेवमादित्यमुचैःश्रवसवाहनम्॥ अनाद्यन्तममध्यं च लोकसाक्षिं जगत्पतिम्। तं दृष्ट्वा प्रवरं देवं रावणो रक्षसां वरः॥ स प्रहस्तमुवाचाथ रवितेजोबलार्दितः। गच्छामात्य वदस्वैनं निदेशान्मम शासनम्॥ युद्धार्थं रावणः प्राप्तो युद्धं तस्य प्रदीयताम्। निर्जितोऽस्मीति वा बूहि पक्षमेकतरं कुरु॥ तस्य तद्वचनाद्रक्षः सूर्यस्यान्तिकमागमत्। पिङ्गलं दण्डिनं चैव पश्यते द्वारपालको॥ ताभ्यामाख्याय तत्सर्वं रावणस्य विनिश्चयम्। तूष्णीमास्ते प्रहस्तस्तु तत्र तेजोंशुदीपितः॥ दण्डी गतो रवेः पार्श्व प्रणम्याख्यातवारवेः। श्रुत्वा तु सूर्यस्तद्वृत्तं दण्डिनो रावणस्य ह॥ उवाच वचनं धीमान्बुद्धिपूर्वं क्षपापहः। गच्छ दण्डिञ्जयस्वैनं निर्जितोऽस्मीति वा वद॥ यत्तेभिकाङ्कितं कार्षीः कंचित्कालं क्षपाचरम्। स गत्वा वचनात्तस्य राक्षसस्य महात्मनः॥ कथयामास तत्सर्वं सूर्योक्तवचनं तदा। स श्रुत्वा वचनं तस्य दण्डिनो राक्षसेश्वरः। घोषयित्वा जगामाथ स्वजयं राक्षसाधिपः॥ अथ संचिन्त्य लङ्केशः सोमलोकं जगाम ह। मेशृङ्गवरे रम्ये रजनीमुष्य वीर्यवान्॥ अथ स्यन्दनमारूढो दिव्यस्रगनुलेपनः। अप्सरोगणमुख्येन सेव्यमानस्तु गच्छति॥ रतिश्रान्तोऽप्सरोङ्केषु चुम्बित: स विबुध्यते। दृष्टस्तु पुरुषस्तेन दृष्ट्वा कौतूहलान्वितः॥ अथापश्यदृषि तत्र दृष्ट्वा चैवमुवाच तम्। स्वागतं तव देवर्षे कालेनैवागतो ह्यसि॥ कोऽयं स्यन्दनमारूढो हप्सरोगणसेवितः। निर्लज्ज इव संयाति भयस्थानं न विन्दति॥ रावणेनैवमुक्तस्तु पर्वतो वाक्यमब्रवीत्। शृणु वत्स यथातत्त्वं वक्ष्ये चाहं महामते॥ अनेन निर्जिता लोका ब्रह्मा चैवाभितोषितः। एष गच्छति मोक्षाया सुसुखं स्थानमुत्तमम्॥ तपसा निर्जिता यद्वद्भवता राक्षसाधिप। प्रयाति पुण्यकृत्तद्वत्सोमं पीत्वा न संशयः॥ त्वं तु राक्षसशार्दूल शूरः सत्यपराक्रमः। नैवेदृशेषु क्रुद्ध्यन्ति बलिनो धर्मचारिषु॥ अथापश्यद्रथवरं महाकायं महौजसम्। जाज्वल्यमानं वपुषा गीतवादित्रनिःस्वनैः॥ क्कै ष गच्छति देवर्षे भ्राजमानो महाद्युतिः। किन्नरैश्च प्रगायद्भिर्नृत्यद्भिश्च मनोरमम्॥ श्रुत्वा चैनमुवाचाथ पर्वतो मुनिसत्तमः। एष शूरो रणे योद्धा संग्रामेष्वनिवर्तकः॥ युध्यमानस्तथैवेष प्रहारैर्जर्जरीकृतः। कृती शूरो रणे जेता स्वाम्यर्थे त्यक्तजीवितः॥ संग्रामे निहतोऽमित्रैर्हत्वा च सरमे बहून्। इन्द्रस्यातिथिरेवैष अथ वा यत्र गच्छति॥ नृत्यगीतपरैर्लोकः सेव्यते नरसत्तमः। पप्रच्छ रावणो भूयः कोऽयं यात्यर्कसंनिभः॥ रावणस्य वचः श्रुत्वा पर्वतो वाक्यमब्रवीत्। य एष दृश्यते राजन्विमाने सर्वकाञ्चने॥ पर्वतस्य वचः श्रुत्वा अप्सरोगणसंयुक्ते पूर्णचन्द्रनिभाननः। सुवर्णदो महाराज विचित्राभरणाम्बरः॥ एष गच्छति शीघ्रण यानेन तु महाद्युति। रावणो वाक्यमब्रवीत्॥ एते वै यान्ति राजानो ब्रूहि त्वमृषिसत्तम। को ह्यत्र याचितो दद्याद्युद्धातिथ्यं ममा ध वै॥ तं ममाख्याहि धर्मज्ञ पिता मे त्वं हि धर्मतः। एवमुक्तः प्रत्युवाच रावणं पर्वतस्तदा॥ स्वर्गार्थिनो महाराज नैते युद्धार्थिनो नृपाः। वक्ष्यामि ते महाभाग यस्ते युद्धं प्रदास्यति॥ स तु राजा महातेजा: सप्तद्वीपेश्वरो महान्। मांधातेत्यभिविख्यातः स ते युद्धं प्रदास्यति॥ पर्वतस्य वचः श्रुत्वा रावणो वाक्यमब्रवीत्। कृतोऽसौ तिष्ठते राजा तत्समाचक्ष्व सुव्रत॥ सोऽहं यास्यामि तत्रैव यत्रासौ नरपुंगवः। रावणस्य वचः श्रुत्वा मुनिर्वचनमब्रवीत्॥ युवनाश्वसुतो राजा मांधाता राजसत्तमः। सप्तद्वीपससुद्रान्तां जित्वेहाभ्यागमिष्यति॥ अथापश्यन्महाबाहुस्त्रैलोक्य वरदर्पितः। अयोध्यायाः पतिं वीरं मांधातारं नृपोत्तमम्॥ सप्तद्वीपाधिपं यान्तं चन्दनेन विराजता। काञ्चनेन विचित्रेण माहेन्द्राभेण भास्वता॥ जाज्वल्यमानं रूपेण दिव्यगन्धानुलेपनम्। तमुवाच दशग्रीवो युद्ध मे दीयतामिति॥ एवमुक्तो दशग्रीवं प्रहस्येदमुवाच ह। यदि ते जीवितं नेष्टं ततो युद्ध्यस्व राक्षस॥ मांधातुर्वचनं श्रुत्वा रावणो वाक्यमब्रवीत्। वरुणस्य कुबेरस्य यमस्यापि न विव्यथे॥ किं पुनर्मानुषात्त्वत्तो रावणो भयमाविशेत्। एवमुक्त्वा राक्षसेन्द्रः क्रोधात्संप्रज्वनिव॥ आज्ञापयामास तदा राक्षसान्युद्धदुर्मदान्। अथ क्रुद्धास्तु सचिवा रावणस्य दुरात्मनः॥ ववर्षुः शरजालानि क्रुद्धा युद्धविशारदाः। अथ राज्ञा बलवता कङ्कपत्रैः शिलाशितैः॥ इषुभिस्ताडिताः सर्वे प्रहस्तशुकसारणाः। महोदरविरूपाक्षा हकम्पनपुरोगमा:॥ अथ प्रहस्तस्तु नृपमिषुवर्षेरवाकिरत्। अप्राप्तानेव तान्पर्वान्प्रचिच्छेद नृपोत्तमः॥ भृशुण्डीभिश्च भल्लैश्च भिन्दिपालैश्च तोमरैः। नरराजेन दह्यन्ते तृणभारा इवाग्निना॥ ततो नृपवरः क्रुद्धः पञ्चभिः प्रबिभेद तम्। तोमरैश्च महावेगैः पुनः क्रौञ्चमिवाग्निजः॥ ततो मुहुर्धापयित्वा मुद्गरं यमसंनिभम्। प्राहरत्सोऽतिवेगेन राक्षसस्य रथं प्रति॥ स पपात महावेगो मुद्गरो वसंनिभः। स तूर्णं पातितस्तेन रावणः शक्रकेतुवत्॥ तदा स नृपतिः प्रीत्या हर्षोद्गतबलो बभौ। सकलेन्दुकलाः स्पृष्ट्वा यथाम्बु लवणाम्भसः॥ ततो रक्षोबलं सर्वं हाहाभूतमचेतनम्। परिवार्याथ तं तस्थौ राक्षसेन्द्रं समन्ततः॥ ततश्चिरात्समाश्वस्य रावणो लोकरावणः। मांधातुः पीडयामास देहं लङ्केश्वरो भृशम्॥ मूर्छितं तु नृपं दृष्ट्वा प्रहृष्टास्ते निशाचराः। चुक्रुशुः सिंहनादांश्च प्रक्ष्वेलन्तो महाबलाः॥ लब्धसंज्ञो मुहूर्तेन अयोध्याधिपतिस्तदा। तं मन्त्रिभिः शत्रु पूज्यमानं निशाचरैः॥ जातकोपो दुराधर्षश्चन्द्रार्कसदृशद्युतिः। महता शरवर्षेण पातयद्राक्षसं बलम्॥ चापस्यैव निनादेन तस्य बाणरवेण च। संचचाल ततः सैन्यमुद्भूत इव सागरः॥ ताद्धमभवद्धोरं नरराक्षससंकुलम्। अथाविष्टो महात्मानौ नरराक्षससत्तमौ॥ कार्मुकासिधरौ वीरौ वीरासनगतौ तदा। मांधाता रावणं चैव रावणश्चैव तं नृपम्॥ क्रोधेन महताविष्टौ शरवर्ष मुमोचतुः। तौ परस्परसंक्षोभात्प्रहारैः क्षतविक्षतौ॥ कार्मुकेऽस्त्रं समाधाय रौद्रमस्त्रममुञ्चत। आग्नेयेन तु मांधाता तदस्त्रं पर्यवारयत्॥ गान्धर्वेण दशग्रीवो वारुणेन च राजराट्। गृहीत्वा स तु ब्रह्मास्त्रं सर्वभूतभयावहम्॥ वेदयामास मांधाता दिव्यं पाशुपतं महत्। तदस्त्रं घोररूपं तु त्रैलोक्यभयवर्धनम्॥ दृष्ट्वा त्रस्तानि भूतानि स्थावराणि चराणि च। वरदानात्तु रुद्रस्य तपसाराधितं महत्॥ तत: संकम्पते सर्वं त्रैलोक्यं सचराचरम्। देवाः संकम्पिताः सर्वे लयं नागाश्च संगताः॥ अथ तौ मुनिशार्दूलौ ध्यानयोगादपश्यताम्। पुलस्त्यो गालवश्चैव वारयामास तं नृपम्॥ सोपालम्भेश्च विविधैर्वाक्यै राक्षससत्तमम्। तौ तु कृत्वा तदा प्रीति नरराक्षसयोस्तदा॥ संप्रस्थितौ सुसंहृष्टौ पथा येनैव चागतौ॥ गताभ्यामथ विप्राभ्यां रावणो राक्षसाधिपः। दशयोजनसाहस्रं प्रथमं तु मरुत्पथम्॥ यत्र तिष्ठन्ति नित्यं हि हंसाः सर्वगुणान्विताः। अथ अर्ध्वं तु गत्वा वै मरुत्पथमनुत्तमम्॥ दशयोजनसाहस्रं तदेव परिगण्यते। तत्र संनिहिता मेघास्त्रिविधा नित्यशः स्थिता:॥ आग्नेयाः पक्षिणो ब्राह्मास्त्रिविधास्तत्र ते स्थिताः। अथ गत्वा तृतीयं तु वायो पन्थानमुत्तमम्॥ नित्यं यत्र स्थिताः सिद्धाश्चारणाश्च मनस्विनः। दशैव तु सहस्राणि योजनानां तथैव च॥ चतुर्थं वायुमार्गं तु शीघ्रं गत्वा परंतप। असन्ति यत्र नित्यस्था भूताश्च सविनायकाः॥ अथ गत्वा स वै शीघ्रं पञ्चमं वायुगोचरम्। दशैव च सहस्राणि योजनानां तथैव च॥ गङ्गा यत्र सरिच्छ्रेष्ठा नागा वै कुमुदादयः। कुञ्जरास्तत्र तिष्ठन्ति ये तु मुञ्चन्ति सीकरम्॥ गङ्गातोयेषु क्रीडन्ति पुण्यं वर्षन्ति सर्वशः। ततो रविकरभ्रष्टं वायुना पेशलीकृतम्॥ जलं पुण्यं प्रपतति हिमं वर्षति राघव। ततो जगाम षष्ठं स वायुमार्ग महाद्युते॥ योजनानां सहस्राणि दशैव तु स राक्षसः। यत्रास्ते गरुडो नित्यं ज्ञातिबान्धवसत्कृतः॥१२ दशैव तु सहस्राणि योजनानां तथोपरि। सप्तमे वायुमार्गे च यत्रैते ऋषयः स्मृताः॥ अत अर्वं तु गत्वा वै सहस्राणि दशैव तु। अष्टमं वायुमार्ग तु यत्र गङ्गा प्रतिष्ठिता॥ आकाशगङ्गा विख्याता आदित्यपथसंस्थिता। वायुना धार्यमाणा सा महावेगा महास्वना॥ अत अर्ध्वं प्रवक्ष्यामि चन्द्रमा यत्र तिष्ठति। अशीतिं तु सहस्राणि योजनानां प्रमाणतः॥ चन्द्रमास्तिष्ठते यत्र नक्षत्रग्रहसंयुतः। शतं शतसहस्राणि रश्मयश्चन्द्रमण्डलात्॥ प्रकाशयन्ति लोकांस्तु सर्वसत्त्वसुखावहाः। ततो दृष्ट्वा दशग्रीवं चन्द्रमा निर्दहन्निव॥ स तु शीताग्निना शीघ्रं प्रादहद्रावणं तदा। नासहंस्तस्य सचिवाः शीताग्निभयपीडिताः॥ रावणं जयशब्देन प्रहस्तोऽथैनमब्रवीत्। राजशीतेन वध्यामो निवर्ताम इतो वयम्॥ चन्द्ररश्मिप्रतापेन रक्षसां भयमाविशत्। स्वभाव एष राजेन्द्र शीतांशोर्दहनात्मकः॥ एतच्छुत्वा प्रहस्तस्य रावणः क्रोधमूर्छितः। विस्फार धनुरुद्यम्य नाराचैस्तमपीडयत्॥ अथ ब्रह्मा तदागच्छत्सोमलोकं त्वरान्वितः। दशग्रीव महाबाहो साक्षाद्विश्रवसः सुत॥ गच्छ शीघ्रमितः सौम्य मा चन्द्रं पीडयस्व वै। लोकस्य हितकामो वै द्विजराजो महाद्युतिः॥ मन्त्रं च संप्रदास्यामि प्राणात्ययगतिर्यदा। यस्त्वेतं संस्मरेन्मन्त्रं नासौ मृत्युमवाप्नुयात्॥ एवमुक्तो दशग्रीवः प्राञ्जलिर्देवमब्रवीत्। यदि तुष्टोऽसि मे देव लोकनाथ महाव्रत॥ यदि मन्त्रश्च मे देयो दीयतां मम धार्मिका यं जप्त्वाहं महाभाग सर्वदेवेषु निर्भयः॥ असुरेषु च सर्वेषु दानवेषु पतित्रिषु। त्वत्प्रसादात्तु देवेश स्यामजेयो न संशयः॥ एवमुक्तो दशग्रीवं ब्रह्मा वचनमब्रवीत्। प्राणात्ययेषु जप्तव्यो न नित्यं राक्षसाधिप॥ अक्षसूत्रं गृहीत्वा तु जपेन्मन्त्रमिमं शुभम्। जप्त्वा तु राक्षसपते त्वमजेयो भविष्यसि॥ अजत्वा राक्षसपते न ते सिद्धिर्भविष्यति। शृणु मन्त्रं प्रवक्ष्यामि येन राक्षसपुंगव॥ मन्त्रस्य कीर्तनादेव प्राप्स्यसे समरे जयम्। नमस्ते देवदेवेश सुरासुरनमस्कृत॥ भूतभव्य महादेव हरिपिङ्गललोचन। बालस्त्वं वृद्धरूपी च वैयाघ्रवसनच्छद॥ अर्चनीयोऽसि देव त्वं त्रैलोक्यप्रभुरीश्वरः। हरो हरितनेमी च युगान्तदहनोऽबलः॥ गणेशो लोकशंभुश्च लोकपालो महाभुजा महाभागो महाशूली महादंष्ट्री महेश्वरः॥ कालच बलरूपी च नीलग्रीवो महोदरः। देवान्तगस्तपोन्तश्च पशूनां पतिरव्ययः॥ शूलपाणिवृषः केतुर्नेता गोप्ता हरो हरिः। जटी मुण्डी शिखण्डी च लकुटी च महायशाः॥ भूतेश्वरो गणाध्यक्षः सर्वात्मा सर्वभावनः। सर्वगः सर्वहारी च स्रष्टा च गुरुरव्ययः॥ कमण्डलुधरो देवः पिनाकी धूर्जटिस्तथा। माननीयश्च ओङ्कारो वरिष्ठो ज्येष्ठसागमः।। मृत्युश्च मृत्युभूतश्च पारियात्रश्च सुव्रतः॥ ब्रह्मचारी गुहावासी वीणापणवतूणवान्। अमरो दर्शनीयश्च बालसूर्यनिभस्तथा॥ श्मशानवासी भगवानुमापतिरनिन्दितः। भगस्याक्षिनिपाती च पूष्णो दशननाशनः॥ ज्वरहर्ता पाशहस्त: प्रलय: काल एव च। उल्कामुखोऽग्निकेतुश्च मुनिर्दीप्तो विशांपतिः॥ उन्मादो वेपनकरचातुर्थो लोकसत्तमः। वामनो वामदेवश्च प्राकप्रदक्षिणवामनः॥ भिक्षुश्च भिक्षुरूपी च त्रिजटी कुटिल: स्वयम्। शक्रहस्तप्रतिष्टम्भी वसूनां स्तम्भनस्तथा॥ ऋतुर्ऋतुकरः कालो मधुर्मधुकलोचनः। वानस्पत्यो वाजसनो नित्यमाश्रमपूजितः॥ जगद्धाता च कर्ता च पुरुषः शाश्वतो ध्रुवः। धर्माध्यक्षो विरूपाक्षस्त्रिधर्मा भूतभावनः॥ त्रिनेत्रो बहुरूपश्च सूर्यायुतसमप्रभः। देवदेवोऽतिदेवश चन्द्राङ्कित्तजटस्तथा॥ नर्तको लासकश्चैव पूर्णेन्दुसदृशाननः। ब्रह्मण्यश्च शरण्यश्च सर्वजीवमयस्तथा॥ सर्वतूर्यनिनादी च सर्वबन्धविमोक्षकः। मोहनो बन्धनश्चैव सर्वदा निधनोत्तमः॥ पुष्पदन्तो विभागश्च मुख्यः सर्वहरस्तथा। हरिश्मश्रुर्धनुर्धारी भीमो भीमपराक्रमः॥ मया प्रोक्तमिदं पुण्यं नामाष्टशतमुत्तमम्। सर्वपापहरं पुण्यं शरण्यं शरणार्थिनाम्।। जप्तमेतद्दशग्रीव कुर्याच्छत्रुविनाशनम्॥ दत्वा तु रावणस्यैवं वरं स कमलोद्भवः। पुनरेवागमक्षिप्रं ब्रह्मलोकं पितामहः॥ रावणोऽपि वरं लब्वा पुनरेवागमत्तथा। केनचित्त्वथ कालेन रावणो लोकरावणः॥ पश्चिमार्णवमागच्छत्सचिवैः सह राक्षसः। द्वीपस्थो दृश्यते तत्र पुरुषः पावकप्रभः॥ महाजाम्बूनदप्रख्य एक एव व्यवस्थितः। दृश्यते भीषणाकारो युगान्तानलसंनिभः॥ देवानामिव देवेशो ग्रहाणामिव भास्करः। शरभाणां यथा सिंहो हस्तिष्वैरावतो यथा॥ पर्वतानां यथा मेरुः पारिजातच शाखिनाम्। तथा तं पुरुषं दृष्ट्वा स्थितं मध्ये महाबलम्॥ अब्रवीच दशग्रीवो युद्धं मे दीयतामिति। अभवत्तस्य सा दृष्टिग्रहमाला इवाकुला॥ दन्तान्संदशतः शब्दो यन्त्रस्येवाभिभिद्यतः। जग।चैः स बलवान्सहामात्यो दशाननः॥ स गर्जन्विविधैर्नादैर्लम्बहस्तं भयानकम्। दंष्ट्रालं विकटं चैव कम्बुग्रीवं महोरसम्॥ मण्डूककुक्षिं सिंहास्य कैलासशिखरोपमम्। पद्यपादतलं भीमं रक्ततालुकराम्बुजम्॥ महानादं महाकायं मनोनिलसमं जवे। भीममाबद्धतूणीरं सघण्टाबद्धचामरम्॥ ज्वालामालापरिक्षिप्तं किङ्किणीजालनिःस्वनम्। मालया स्वर्णपद्यानां कण्ठदेशेऽवलम्बया॥ ऋग्वेदमिव शोभन्तं पद्ममालाविभूषितम्। सोऽञ्जनाचलसंकाशं काञ्चनाचलसंनिभम्॥ प्राहरद्राक्षसपतिः शूलशक्त्यष्टिपट्टिशैः। द्वीपिना स सिंह इव ऋषभेणेव कुञ्जरः॥ सुमेरुरिव नागेन्द्रनंदीवेगैरिवार्णवः। अकम्पमानः पुरुषो राक्षसं वाक्यमब्रवीत्॥ तथा वेगसहस्राणि संश्रितानि तमेव हि। धर्मस्तस्य तपश्चैव जगत: सिद्धिहेतुकौ॥ ऊरू ह्याश्रित्य तस्थाते मन्मथः शिश्नमाश्रितः। विश्वेदेवाः कटीभागो मरुतो बस्तिपार्श्वयोः॥ मध्येऽष्टौ वसवस्तस्य समुद्राः कुक्षितः स्थिताः। पार्थादिषु दिशः सर्वाः सर्वसंधिषु मारुतः॥ पृष्ठं च भगवान्रुद्रो हृदयं च पितामहः। पितस्थाश्रिताः पृष्ठं हृदयं च पितामहाः॥ गोदानानि पवित्राणि भूमिदानानि यानि च। सुवर्णवरदानानि कक्षलोमानुगानि च॥ हिमवान्हेमकूटश्च मन्दरो मेरुरेव च। नरं तु तं समाश्रित्य अस्थिभूता व्यवस्थिताः॥ पाणिर्वज्रोऽभवत्तस्य शरीरे द्यौरवस्थिता। कृकाटिकायां संध्या च जलवाहाश्च ये धनाः॥ बाहु धाता विधाता च तथा विद्याधरादयः। शेषश्च वासुकिश्चैव विशालाक्ष इरावतः॥ कम्बलाश्वतरौ चोभौ ककीटकथनंजयौ। स च घोरविषो नागस्तक्षकः सोपतक्षकः॥ करजानाश्रिताश्चैव विषवीर्यमुमुक्षवः। अग्निरास्यमभूत्तस्य स्कन्धौ रुद्रैरधिष्ठितौ॥ पक्षमासर्तवश्चैव दंष्ट्रयोरुभयोः स्थिताः। नासे कुहूरमावास्या छिद्रेषु वायवः स्थिताः॥ ग्रीवा तस्याभवद्देवी वीणा चापि सरस्वती। नास्त्यौ श्रवणे चोभौ नेत्रे च शशिभास्करौ॥ वेदाङ्गानि च यज्ञाच तारारूपाणि यानि च। सुवृत्तानि च वाक्यानि तेजांसि च तपांसि च॥ एतानि नररूपस्य तस्य देहाश्रितानि वै। तेन वज्रप्रहारेण लब्धमात्रेण लीलया।॥ पाणिना पीडितं रक्षो निपपात महीतले। पतितं राक्षसं ज्ञात्वा विद्राव्य स निशाचरान्॥ ऋग्वेदप्रतिमः सोऽथ पद्ममालाविभूषितः। प्रविवेश च पातालं निजं पर्वतसंनिभः॥ उत्थाय च दशग्रीव आहूय सचिवान्स्वयम्। क्व गतः सहसा बूत प्रहस्तशुकसारणाः॥ एवमुक्ता रावणेन राक्षसास्ते तदाब्रुवन्। प्रविष्टः स नरोऽत्रैव देवदानवदर्पहा॥ अथ संगृह्य वेगेन गरुत्मानिव पन्नगम्। स तु शीघ्रं बिलद्वारं संप्रविश्य त दुर्मति॥ प्रविवेश च तद्द्वारं रावणो निर्भयस्तदा। स प्रविश्य च पश्यद्वै नीलाञ्जनचयोपमान्॥ केयूरधारिण शूरारक्तमाल्यानुलेपनान्। वरहाटकरत्नाद्यैर्विविधैश्च विभूषितान्॥ दृश्यन्ते तत्र नृत्यन्त्यस्तिस्रः कोट्यो महात्मनाम्। नृत्योत्सवा वीतभया विमलाः पावकप्रभाः॥ नृत्यन्त्यः पश्यते तांस्तु रावणो भीमविक्रमः। द्वारस्थौ रावणस्तत्र तासु कोटिषु निर्भयः॥ यथा दृष्टः स तु नरस्तुल्यांस्तानपि सर्वशः। एकवर्णानेकवेषानेकरूपान्महौजसः॥ चतुर्भुजान्महोत्साहांस्तत्रापश्यत्स राक्षसः। तांस्तु दृष्ट्वा दशग्रीव ऊर्ध्वरोमा बभूव ह॥ स्वयभूवा दत्तवरस्ततः शीघ्र विनिर्ययौ। अथापश्यत्परं तत्र पुरुषं शयने स्थितम्॥ पाण्डुरेण महार्हेण शयनासनवेश्मना। शेते स पुरुषस्तत्र पावकेनावगुण्ठितः॥ दिव्यस्रगनुलेपा च दिव्याभरणभूषिता। दिव्याम्बरधरा साध्वी त्रैलोक्यस्यैकभूषणम्॥ वालव्यजनहस्ता च देवी तत्र व्यवस्थिता। लक्ष्मी देवी सपद्मा वै भ्राजते लोकसुन्दरी॥ प्रविष्टः स तु रक्षेन्द्रो दृष्ट्वा तां चारुहासिनीम्। जिघृक्षुः सहसा साध्वी सिंहासनसमास्थिताम्॥ विनापि सचिवैस्तत्र रावणो दुर्मतिस्तदा। हस्ते ग्रहीतुमन्विच्छन्मन्मथेन वशीकृतः॥ सुप्तमाशीविषं यद्रावणः कालनोदितः। अथ सुप्तो महाबाहुः पावकेनावगुण्ठितः॥ ग्रहीतुकामं तं ज्ञात्वा व्यपविद्धपटं तदा। जहासोचैर्भृशं देवस्तं दृष्ट्वा राक्षसाधिपम्॥ तेजसा सहसा दीप्तो रावणो लोकरावणः। कृत्तमूलो यथा शाखी निपपात महीतले॥ पतितं राक्षसं ज्ञात्वा वचनं चेदमब्रवीत्। उत्तिष्ठ राक्षसश्रेष्ठ मृत्युस्ते नाद्य विद्यते॥ प्रजापतिवरो रक्ष्यस्तेन जीवसि राक्षस। गच्छ रावण विस्रब्यो नाधुना मरणं तव॥ लब्धसंज्ञो मुहूर्तेन रावणो भयमाविशत्। एवमुक्तस्तदोत्याय रावणो देवकण्टकः॥ लोमहर्षणमापनो हाब्रवीत्तं महाद्युतिम्। को भवान्वीर्यसंपन्नो युगान्तानलसंनिभः॥ ब्रूहि त्वं को भवान्देव कुतो भूत्वा व्यवस्थितः। एवमुक्तस्ततो देवो रावणेन दुरात्मना॥ प्रत्युवाच हसन्देवो मेघगम्भीरया गिरा। किं ते मया दशग्रीव वध्योऽसि न चिरान्मम॥ एवमुक्तो दशग्रीवः प्राञ्जलिर्वाक्यमब्रवीत्। प्रजापतेस्तु वचनान्नाहं मृत्युपथं गतः॥ न स जातो जनिप्यो वा मम तुल्य: सुरेष्वपि। प्रजापतिवरं यो हि लढयेवीर्यमाश्रितः॥ न तत्र परिहारोऽस्ति प्रयत्नश्चापि दुर्बलः। त्रैलोक्ये तं न पश्यामि यो मे कुर्याद्वरं वृथा॥ अमरोहं सुरश्रेष्ठ तेन मां नाविशद्भयम्। अथापि च भवेन्मृत्युस्त्वद्धस्तान्नान्यतः प्रभो॥ यशस्यं श्लाघनीयं च त्वद्धस्तान्मरणं मम। अथास्य गात्रे संपश्यद्रावणो भीमविक्रमः॥ तस्य देवस्य सकलं त्रैलोक्यं सचराचरम्। आदित्या मरुतः साध्या वसवोऽऽथाश्विनावपि॥ रुद्राश्च पितरश्चैव यमो वैश्रवणस्तथा। समुद्रा गिरयो नद्यो वेदा विद्यास्त्रयोऽग्नयः॥ ग्रहास्तारागणा व्योम सिद्धा गन्धर्वचारणाः। महर्षयो वेदविदो गरुडोऽथ भुजंगमाः॥ ये चान्ये देवतासङ्घा संस्थिता दैत्यराक्षसाः। गात्रेषु शयनस्थस्य दृश्यन्ते सूक्ष्ममूर्तयः॥ आह रामोऽथ धर्मात्मा ह्यगस्त्यं मुनिसत्तमम्। द्वीपस्थः पुरुषः कोऽसौ तिस्रः कोट्यस्तु काश्च ताः॥ शयानः पुरुषः कोऽसौ दैत्यदानवदर्पहा। रामस्य वचनं श्रुत्वा ह्यगस्त्यो वाक्यमब्रवीत्॥ श्रूयतामभिधास्यामि देवदेव सनातन। भगवान्कपिलो नाम द्वीपस्थो नर उच्यते॥ ये तु नृत्यन्ति वै तत्र स्वरास्ते तस्य धीमतः। तुल्यतेजःप्रभावास्ते कपिलस्य नरस्य वै॥ नासौ क्रुद्धेन दृष्टस्तु राक्षसः पापनिश्चयः। न बभूव तदा तेन भस्मसादाम रावणः॥ खिन्नगात्रो नगप्रख्यो रावणः पतितो भुवि। वाक्शरैस्तं बिभेदाशु रहस्यं पिशुनो यथा॥ अथ दीर्पण कालेन लब्धसंज्ञः स राक्षसः। आजगाम महातेजा यत्र ते सचिवाः स्थिताः॥ निवर्तमानः संहृष्टो रावणः स दुरात्मवान्। जहे पथि नरेन्द्रषिदेवदानवकन्यकाः॥ दर्शनीयां हि यां रक्षः कन्यां स्त्री वापि पश्यति। हत्वा बन्धुजनं तस्या विमाने तां रुरोध सः।२।। एवं पत्रगकन्याश्च राक्षसासुरमानुषीः। यक्षदानवकन्याश्च विमाने सोऽध्यरोपयत्॥ ता हि सर्वाः समं दुःखान्मुमुचुर्बाष्पजं जलम्। तुल्यमवयर्चिषां तत्र शोकाग्निभयसंभवम्॥ ताभिः सर्वानवद्याभिनंदीभिरिव सागरः। आपूरितं विमानं तद्भयशोकाशिवाश्रुभिः॥ नागगन्धर्वकन्याश्च महर्षितनयाश्च याः। दैत्यदानवकन्याश्च विमाने शतशोरुदन्॥ दीर्घकेश्यः सुचार्वङ्गयः पूर्णचन्द्रनिभाननाः। पीनस्तनतटा मध्ये वज्रवेदिसमप्रभाः॥ रथकूबरसंकाशैः श्रोणिदेशैर्मनोहराः। स्त्रियः सुराङ्गनाप्रख्या निष्टप्तकनकप्रभाः।८।। शोकदुःखभयवस्ता विह्वलाश्च सुमध्यमाः। तासां निश्वासवातेन सर्वतः संप्रदीपितम्॥ अग्निहोत्रमिवाभाति संनिरुद्धाग्निपुष्पकम्। दशग्रीववशं प्राप्तास्तास्तु शोकाकुलाः स्त्रियः॥ दीनवक्त्रेक्षणाः श्यामा मृग्यः सिंहवशा इव। काचिच्चिन्तयती तत्र किं नु मां भक्षयिष्यति॥ काचिद्दध्यौ सुदुःखार्ता अपि मां मारयेदयम्। इति मातृः पितॄन्स्मृत्वा भर्तृन्भ्रानुंस्तथैव च॥ दुःखशोकसमाविष्टा विलेपुः सहिताः स्त्रियः। कथं नु खलु मे पुत्रो भविष्यति मया विना ॥ कथं माता कथं भ्राता निमग्नाः शोकसागरे। हा कथं नु करिष्यामि भर्तुस्तस्मादहं विना॥ मृत्यो प्रसादयामि त्वां नय मां दुःखभागिनीम्। किं नु तदुष्कृतं कर्म पुरा देहान्तरे कृतम्॥ एवं स्म दुःखिताः सर्वाः पतिताः शोकसागरे। न खल्विदानी पश्यामो दुःखस्यास्यान्तमात्मनः॥ अहो धिङ् मानुषं लोकं नास्ति खल्वधमः परः। यहुर्बला बलवता भर्तारो रावणेन नः॥ सूर्येणोदयता काले नक्षत्राणीव नाशिताः। अहो सुबलवद्रक्षो वधोपायेषु रज्यते॥ अहो दुर्वृत्तमास्थाय नात्मानं वै जुगुप्सते। सर्वथा सदृशस्तावद्विक्रमोऽस्य दुरात्मनः॥ इदं त्वसदृशं कर्म परदाराभिमर्शनम्। यस्मादेष परक्यासु रमते राक्षसाधमः॥ तस्माद्वै स्त्रीकृतेनैव वधं प्राप्स्यति दुर्मतिः। सतीभिर्वरनारीभिरेवं वाक्येऽभ्युदीरिते॥ नेदुर्दुन्दुभयः खस्थाः पुष्पवृष्टिः पपात च। शप्तः स्त्रीभिः स तु समं हतौजा इव निष्प्रभः॥ पतिव्रताभिः साध्वीभिर्बभूव विमना इव। एवं विलपितं तासां शृण्वनराक्षसपुङ्गवः॥ प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः। एतस्मिन्नन्तरे घोरा राक्षसी कामरूपिणी॥ सहसा पतिता भूमौ भगिनी रावणस्य सा। तां स्वसारं समुत्थाप्य रावणः परिसान्त्वयन्॥ अब्रवीत्किमिदं भद्रे वक्तुकामासि मां द्रुतम्। सा बाष्पपरिरुद्धाक्षी रक्ताक्षी वाक्यमब्रीत्॥ कृतास्मि विधवा राजंस्त्वया बलवता बलात्। एते राजंस्त्वया वीयर्यादैत्या विनिहता रणे॥ कालकेया इति ख्याताः सहस्राणि चतुर्दशः। प्राणेभ्योऽपि गरीयान्मे तत्र भर्ता महाबलः॥ सोपि त्वया हतस्तात रिपुणा भ्रातृगन्धिना। त्वयास्मि निहता राजस्वयमेव हि बन्धुना॥ राजन्वैधव्यशब्दं च भोक्ष्यामि त्वत्कृतं ह्यहम्। ननु नाम त्वया रक्ष्यो जामाता समरेष्वपि॥ स त्वया निहतो युद्धे स्वयमेव न लज्जसे। एवमुक्तो दशग्रीवो भगिन्या क्रोशमानया॥ अब्रवीत्सान्त्वयित्वा तां समापूर्वमिदं वचः। अलं वत्से रुदित्वा ते न भेतव्यं च सर्वशः॥ दानमानप्रसादैस्त्वां तोषयिष्यामि यत्नतः। युद्धप्रमत्तो व्याक्षिप्तो जयाकाङ्क्षी क्षिपशरान्।।३३ नाहमज्ञासिषं युध्यन्स्वान्परान्वापि संयुगे। जामातरं न जाने स्म प्रहरन्युद्धदुर्मदः॥ तेनासौ निहतः संख्ये मया भर्ना तव स्वसः। अस्मिन्काले तु यत्प्राप्तं तत्करिष्यामि ते हितम् ॥ भ्रातुरैश्वर्ययुक्तस्य खरस्य वस पार्श्वतः। चतुर्दशानां भ्राता ते सहस्राणां भविष्यति॥ प्रभुः प्रयाणे दाने च राक्षसानां महाबलः। तत्र मातृष्वसेयस्ते भ्रातायं वै खरः प्रभुः॥ भविष्यति तवादेशं सदा कुर्वनिशाचरः। शीघ्रं गच्छत्वयं वीरो दण्डकान्परिरक्षितुम्॥ दूषणोऽस्य बलाध्यक्षो भविष्यति महाबलः। तत्र ते वचनं शूरः करिष्यति तदा खरः॥ रक्षसां कामरूपाणां प्रभुरेष भविष्यति। एवमुक्त्वा दशग्रीवः सैन्यमस्यादिदेश ह॥ चदुर्दश सहस्राणि रक्षसां वीर्यशालिनाम्। स तैः परिवृतः सर्वै राक्षसै?रदर्शनैः॥ आगच्छतः खरः शीघ्रं दण्डकानकुतोभयः। स तत्र कारयामास राज्यं निहतकण्टकम्। सा च शूर्पणखा तत्र न्यवसद्दण्डके वने।॥ स तु दत्त्वा दशग्रीवो बलं घोरं खरस्य तत्। भगिनीं च समाश्वास्य हृष्टः स्वस्थतरोऽभवत्॥ ततो निकुम्भिला नाम लङ्कोपवनमुत्तमम्। तद्राक्षसेन्द्रो बलवान्प्रविवेश सहानुगः॥ ततो यूपशताकीर्णं सौम्यचैत्योपशोभितम्। ददर्श विष्ठितं यज्ञं श्रिया संप्रज्वलनिव॥ ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम्। ददर्श स्वसुतं तत्र मेघनादं भयावहम्॥ तं समासाद्य लङ्केशः परिष्वज्याथ बाहुभिः। अब्रवीत्किमिदं वत्स वर्तसे ब्रूहि तत्त्वतः॥ उशना त्वब्रवीत्तत्र यज्ञसंपत्समृद्धये। रावणं राक्षसश्रेष्ठं द्विजश्रेष्ठो महातपाः॥ अहमाख्यामि ते राजश्रूयतां सर्वमेव तत्। यज्ञास्ते सप्त पुत्रेण प्राप्तास्ते बहुविस्तराः।७।। अग्निष्टोमोऽश्वमेधश्च यज्ञो बहुसुवर्णकः। राजसूयस्तथा यज्ञो गोमेधो वैष्णवस्तथा।।।। माहेश्वरे प्रवृत्ते तु यज्ञे पुंभिः सुदुर्लभे। वरांस्ते लब्धवान्पुत्रः साक्षात्पशुपतेरिह॥ कामगं स्यन्दनं दिव्यमन्तरिक्षचरं ध्रुवम्। मायां च तामसी नाम यया संपद्यते तमः॥ एतया किल सङ्ग्रामे मायया राक्षसेश्वर। प्रयुक्तया गतिः शक्या नहि ज्ञातुं सुरासुरैः॥ अक्षयाविषुधी बाणैश्चापं चापि सुदुर्जयम्। अस्त्रं च बलवद्राजञ्छत्रुविध्वंसनं रणे॥ एतान्सर्वान्वरांल्लब्ध्वा पुत्रस्तेऽयं दशानन । अद्य यज्ञसमाप्तौ च त्वां दिदृक्षन्स्थितो ह्यहम्॥ ततोऽब्रवीद्दशग्रीवो न शोभनमिदं कृतम्। पूजिताः शत्रवो यस्माद्रव्यैरिन्द्रपुरोगमाः॥ एहीदानी कृतं यद्धिसुकृतं तन्त्र संशयः। आगच्छ सौम्य गच्छामः स्वमेव भवनं प्रति॥ ततो गत्वा दशग्रीवः सपुत्रः सविभीषणः। स्त्रियोऽवतारयामास सर्वास्ता बाष्पगद्गदाः॥ लक्षिण्यो रत्नभूताश्च देवदानवरक्षसाम्। तस्य तासु मतिं ज्ञात्वा धर्मात्मा वाक्यमब्रवीत्॥ ईदृशैस्त्वं समाचारैर्यशोर्थकुलनाशनैः। धर्षणं प्राणिनां ज्ञात्वा स्वमतेन विचेष्टसे॥ ज्ञातींस्तान्धर्षयित्वेमास्त्वयानीता वराङ्गनाः। त्वामतिक्रम्य मधुना राजन्कुम्भीनसी हृता ॥ रावणस्त्वब्रवीद्वाक्यं नावगच्छामि किं त्विदम्। कोऽयं यस्तु त्वयाख्यातो मधुरित्येव नामतः।।२० विभीषणस्तु संक्रुद्धो भ्रातरं वाक्यमब्रवीत्। श्रूयतामस्य पापस्य कर्मणः फलमागतम्॥ मातामहस्य योऽस्माकं ज्येष्ठो भ्राता सुमालिनः। माल्यवानिति विख्यातो वृद्धः प्राज्ञो निशाचरः॥ पिता ज्येष्ठो जनन्या नो ह्यस्माकं चार्यकोऽभवत्। तस्य कुम्भीनसी नाम दुहितुर्दुहिताभवत्॥ मातृष्वसुरथास्माकं सा च कन्यानलोद्भवा। भवत्यस्माकमेवैषा भ्रातृणां धर्मतः स्वसा॥ सा हृता मधुना राजनराक्षसेन बलीयसा। यज्ञप्रवृत्ते पुत्रे तु मयि चान्तर्जलोषिते॥ कुम्भकर्णो महाराज निद्रामनुभवत्यथ। निहत्य राक्षसश्रेष्ठानमात्यानिह संमतान्॥ धर्षयित्वा हृता राजनगुप्ताप्यन्तःपुरे तव। श्रुत्वापि तन्महाराज क्षान्तमेव हतो न सः॥ यस्मादवश्यं दातव्या कन्या भत्रे हि भ्रातृभिः। तदेतत्कर्मणो ह्यस्य फलं पापस्य दुर्मतेः।२८।। अस्मिन्नेवाभिसंप्राप्तं लोके विदितमस्तु ते। विभीषणवचः श्रुत्वा राक्षसेन्द्रः स रावणः॥ दौरात्म्येनात्मनोद्भूतस्तप्ताम्भा इव सागरः। ततोऽब्रवीद्दशग्रीवः क्रुद्धः संरक्तलोचनः॥ कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु नः। भ्राता मे कुम्भकर्णश्च ये च मुख्या निशाचराः॥ वाहनान्यधिरोहन्तु नानाप्रहरणायुधाः। अद्य तं समरे हत्वा मधुं रावणनिर्भयम्॥ सुरलोकं गमिष्यामि युद्धाकाङ्क्षी सुहृद्धृतः। अक्षोहिणीसहस्राणि चत्वार्यग्र्याणि रक्षसाम्।।३३ नानाप्रहरणान्याशु निर्ययुयुद्धकाङ्क्षिणाम्। इन्द्रजित्त्वग्रतः सैन्यात्सैनिकान्परिगृह्य च॥ जगाम रावणो मध्ये कुम्भकर्णश्च पृष्ठतः। विभीषणश्च धर्मात्मा लङ्कायां धर्ममाचरन्॥ शेषाः सर्वे महाभागा ययुर्मधुपुरं प्रति। शरैरुष्टैर्हयैर्दीप्तैः शिशुमारैर्महोरगैः॥ राक्षसाः प्रययुः सर्वे कृत्वाकाशं निरन्तरम्। दैत्याश्च शतशस्तत्र कृतवैराश्च दैवतैः ॥ रावणं प्रेक्ष्य गच्छन्तमन्वगच्छन्हि पृष्ठतः। स तु गत्वा मधुपुरं प्रविश्य च दशाननः॥ न ददर्श मधुं तत्र भगिनीं तत्र दृष्टवान्। सा च प्रह्वाञ्जलिर्भूत्वा शिरसा चरणौ गता॥ तस्य राक्षसराजस्य वस्ता कुम्भीनसी तदा। तां समुत्थापयामास न भेतव्यमिति ब्रुवन्॥ रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते। साब्रवीद्यादि मे राजन्प्रसन्नस्त्वं महाभुज ॥ भर्तारं न ममेहाद्य हन्तुर्महसि मानद। नहीदृशं भयं किंचित्कुलस्त्रीणामिहोच्यते॥ भयानामपि सर्वेषां वैधव्यं व्यसनं महत्। सत्यवाग्भव राजेन्द्र मामवेक्षस्व याचतीम्॥ त्वयाप्युक्तं महाराज न भेतव्यमिति स्वयम्। रावणस्त्वब्रवीद्धृष्टः स्वसारं तत्र संस्थिताम्॥ क्व चासौ तव भर्ता वै मम शीघ्रं निवेद्यताम्। सह तेन गमिष्यामि सुरलोकं जयाय हि ॥ तव कारुण्यसौहार्दानिवृत्तोऽस्मि मधोर्वधात्। इत्युक्ता सा समुत्थाप्य प्रसुप्तं तं निशाचरम्॥ अब्रवीत्संप्रहृष्टेव राक्षसी सा पतिं वचः। एष प्राप्तो दशग्रीवो मम भ्राता महाबलः॥ सुरलोकजयाकाङ्क्षी साहाय्ये त्वां वृणोति च। तदस्य त्वं सहायार्थं सबन्धुर्गच्छ राक्षस॥ स्निग्धस्य भजमानस्य युक्तमर्थाय कल्पितुम्। तस्यास्तद्वचनं श्रुत्वा तथेत्याह मधुर्वचः॥ ददर्श राक्षसश्रेष्ठं यथान्यायमुपेत्य सः। पूजयामास धर्मेण रावणं राक्षसाधिपम्॥ प्राप्य पूजां दशग्रीवो मधुवेश्मनि वीर्यवान्। तत्र चैकां निशामुष्य गमनायोपचक्रमे॥ ततः कैलासमासाद्य शैलं वैश्रवणालयम्। राक्षसेन्द्रो महेन्द्राभः सेनामुपनिवेशयत्॥ स तु तत्र दशग्रीवः सह सैन्येन वीर्यवान्। अस्तं प्राप्ते दिनकरे निवासं समरोचयत्॥ उदिते विमले चन्द्रे तुल्यपर्वतवर्चसि। प्रसुप्तं सुमहत्सैन्यं नानाप्रहरणायुधम्॥ रावणस्तु महावीर्यो निषण्णः शैलमूर्धनि स ददर्श गुणांस्तत्र चन्द्रपादपशोभितान्॥ कर्णिकारवनैर्दीप्तैः कदम्बवकुलैस्तथा। पद्मिनीभिश्च फुल्लाभिर्मन्दाकिन्या जलैरपि॥ चम्पकाशोकपुंनागमन्दारतरुभिस्तथा। चूतपाटललोधैश्च प्रियङ्ग्वर्जुनकेतकैः॥ तगरैनारिकेरैश्च प्रियालपनसैस्तथा। एतैरन्यैश्च तरुभिरुद्भासितवानान्तरे॥ किंनरा मदनेनार्ता रक्ता मधुरकण्ठिनः। समं संप्रजगुर्यत्र मनस्तुष्टिविवर्धनम्॥ विद्याधरा मदक्षीवा मदरक्तान्तलोचनाः। योषिद्भिःसह संक्रान्ताश्चिक्रीडुर्जहषुश्च वै॥ घण्टानामिव संनादः शुश्रुवे मधुरस्वनः। अप्सरोगणसङ्घानां गायतां धनदालये॥ पुष्पवर्षाणि मुश्चन्तो नगाः पवनताडिताः। शैलं तं वासयन्तीव मधुमाधवगन्धिनः॥ मधुपुष्परजःपृक्तं गन्धामादाय पुष्कलम्। प्रववौ वर्धयन्कामं रावणस्य सुखोऽनिलः॥ गेयात्पुष्पसमृद्ध्या च शैत्याद्वायोगिरेर्गुणात्। प्रवृत्तायां रजन्यां च चन्द्रस्योदयनेन च॥ रावणः स महावीर्यः कामस्य वशमागतः। विनिःश्वस्य विनिःश्वस्य शशिनं समवैक्षत॥ एतस्मिन्नन्तरे तत्र दिव्याभरणभूषिता। सर्वाप्सरोवरा रम्भा पूर्णचन्द्रनिभानना॥ दिव्यचन्दनलिप्ताङ्गी मन्दारकृतमूर्धजा। दिव्योत्सवकृतारम्भा दिव्यपुष्पविभूषिता॥ चक्षुर्मनोहरं पीनं मेखलादामभूषितम्। समुद्वहन्ती जघनं रतिप्राभृतमुत्तमम्॥ कृतैर्विशेषकैरार्दैः षडतुकुसुमोद्भवैः। बभावन्यतमेव श्रीः कान्तिश्रीद्युतिकीर्तिभिः॥ नीलं सतोयमेघाभं वस्त्रं समवगुण्ठिता। यस्या वक्त्रं शशिनिभं भ्रुवौ चापनिभे शुभे॥ ऊरू करिकराकारौ करौ पल्लवकोमलौ। सैन्यमध्येन गच्छन्ती रावणेनोपलक्षिता॥ तां समुत्थाय गच्छन्ती कामबाणवशं गतः। करे गृहीत्वा लज्जन्तीं स्मयमानोऽभ्यभाषत ॥ क्व गच्छसि वरारोहे कां सिद्धिं भजसे स्वयम्। कस्याभ्युदयकालोऽयं यस्त्वां समुपभोक्ष्यते।।२१ त्वदाननरसस्याद्य पद्मोत्पलसुगन्धिनः। सुधामृतरस्स्येव कोऽद्य तृप्ति गमिष्यति॥ स्वर्णकुम्भनिभौ पीनौ शुभौ भीरु निरन्तरौ। कस्योरस्थलसंस्पर्श दास्यतस्ते कुचाविमौ ॥ सुवर्णचक्रप्रतिमं स्वर्णदामचितं पृथु । अध्यारोक्ष्यति कस्तेऽद्य जघनं स्वर्गरूपिणम्॥ मद्विशिष्टः पुमान्कोऽद्य शक्रो विष्णुरथाश्विनौ। मामतीत्य हि यच्च त्वं यासि भीरु न शोभनम् ॥ विश्रम त्वं पृथुश्रोणि शिलातलमिदं शुभम्। त्रैलोक्य यः प्रभुश्चैव मदन्यो नैव विद्यते॥ तदेवं प्राञ्जलिः प्रबो याचते त्वां दशाननः। भर्तुर्भर्ता विधाता च त्रैलोक्यस्य भजस्व माम्।।२७ एवमुक्ताब्रवीद्रम्भा वेपमाना कृताञ्जलिः। प्रसीद नार्हसे वक्तुमीदृशं त्वं हि मे गुरुः॥ अन्येभ्योऽपि त्वया रक्ष्या प्राप्नुयां धर्षणं यदि। तद्धर्मतः स्नुषा तेऽहं तत्त्वमेतद्ब्रवीमि ते॥ अथाब्रवीद्दशग्रीवश्चरणाधोमुखीं स्थिताम्। रोमहर्षमनुप्राप्तां दृष्टमात्रेण तां तदा॥ सुतस्य यदि मे भार्या ततस्त्वं हि स्नषा भवेः। बाढमित्येव सा रम्भा प्राह रावणमुत्तरम्॥ धर्मतस्ते सुतस्याहं भार्या राक्षसपुङ्गव। पुत्रः प्रियतरः प्राणैर्धातुर्वैश्रवणस्य ते॥ विख्यातस्त्रिषु लोकेषु नलकूबर इत्ययम्। धर्मतो यो भवेद्विप्रः क्षत्रियो वीर्यतो भवेत्॥ क्रोधाद्यश्च भवेदग्निः क्षान्त्या च वसुधासमः। तस्यास्मि कृतसंकेता लोकपालसुतस्य वै॥ तमुद्दिश्य तु मे सर्वं विभूषणमिदं कृतम्। यथा तस्य हि नान्यस्य भावो मां प्रति तिष्ठति ॥ तेन सत्येन मां राजन्मोक्तुमर्हस्यरिंदम्। स हि तिष्ठति धर्मात्मा मां प्रतीक्ष्य समुत्सुकः॥ तत्र विघ्नं तु तस्येह कर्तुं नार्हसि मुञ्च माम्। सद्भिराचरितं मागं गच्छ राक्षसपुङ्गव॥ माननीयो मम त्वं हि पालनीया तथास्मि ते। एवमुक्तो दशग्रीवः प्रत्युवाच विनीतवत्॥ स्नुषास्मि यदवोचस्त्वमेकपत्नीष्वयं क्रमः। देवलोकस्थितिरियं सुराणां शाश्वती मता॥ पतिरप्सरसां नास्ति न चैकस्त्रीपरिग्रहः। एवमुक्त्वा स तां रक्षो निवेश्य च शिलातले॥ कामभोगाभिसंरक्तो मैथुनायोपचक्रमे। सा विमुक्ता ततो रम्भा भ्रष्टमाल्यविभूषणा॥ गजेन्द्राक्रीडमथिता नदीवाकुलतां गता। लुलिताकुलकेशान्ता करवेपितपल्लवा।॥ पवनेनावधूतेव लता कुसुमशालिनी। सा वेपमाना लज्जन्ती भीता करकृताञ्जलिः॥ नलकूबरमासाद्य पादयोनिपपात ह। तदवस्थां च तां दृष्ट्वा महात्मा नलकूबरः॥ अब्रवीत्किमिदं भद्रे पादयोः पतितासि मे। सा वै निःश्वसमाना तु वेपमाना कृताञ्जलिः॥ तस्मै सर्वं यथातत्त्वमाख्यातुमुपचक्रमे। एष देव दशग्रीवः प्राप्तो गन्तुं त्रिविष्टपम्॥ तेन सैन्यसहायेन निशेयं परिणामिता। आयान्ती तेन दृष्टास्मि त्वत्सकाशमरिंदम्॥ गृहीता तेन पृष्टास्मि कस्य त्वमिति रक्षसा। मया तु सर्वं यत्सत्यं तस्मै सर्वं निवेदितम्॥ काममोहाभिभूतात्मा नाश्रौषित्तद्वचो मम। याच्यमानो मया देव स्नुषा तेऽहमिति प्रभो।॥ तत्सर्वं पृष्ठतः कृत्वा बलात्तेनास्मि धर्षिता। एवं त्वमपराधं मे क्षन्तुमर्हसि सुव्रतः॥ नहि तुल्यं बलं सौम्य स्त्रियाश्च पुरुषस्य हि। एतछुत्वा तु संक्रुद्धस्तदा वैश्रवणात्मजः॥ धर्षणां तां परां श्रुत्वा ध्यानं संप्रविवेश ह। तस्य तत्कर्म विज्ञाय तदा वैश्रवणात्मजः॥ मुहूर्तात्क्रोधताम्राक्षस्तोयं जग्राह पाणिना। गृहीत्वा सलिलं सर्वमुपस्पृश्य यथाविधि॥ उत्ससर्ज तदा शापं राक्षसेन्द्राय दारुणम्। अकामा तेन यस्मात्त्वं बलाद्भद्रे प्रधर्षिता॥ तस्मात्स युवतीमन्यां नाकामामुपयास्यति। यदा ह्यकामां कामा” धर्षयिष्यति योषितम्॥ मूर्धा तु सप्तधा तस्य शकलीभविता तदा। तस्मिन्नदाहृते शापे ज्वलिताग्निसमप्रभे॥ देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता। पितामहमुखाश्चैव सर्वे देवाः प्रहर्षिताः॥ ज्ञात्वा लोकगतिं सर्वां तस्य मृत्युं च रक्षसः। श्रुत्वा तु स दशग्रीवस्तं शापं रोमहर्षणम्॥ नारीषु मैथुनीभावं नाकामास्वभ्यरोचयत्। तेन नीताः स्त्रियः प्रीतिमापुः सर्वाः पतिव्रताः। नलकूबरनिर्मुक्तं शापं श्रुत्वा मन:प्रियम्॥ कैलासं लवयित्वा तु ससैन्यबलवाहनः । आससाद महातेजा इन्द्रलोकं दशाननः॥ तस्य राक्षससैन्यस्य समन्तादुपयास्यतः। देवलोके बभौ शब्दो भिद्यमानार्णवोपमः॥ श्रुत्वा तु रावणं प्राप्तमिन्द्रश्चलित आसनात्। देवानथाब्रवीत्तत्र सर्वानेव समागतान्॥ आदित्यांश्च वसून्रुद्रान्साध्यांश्च समरुद्गणान्। सज्जा भवत युद्धार्थं रावणस्य दुरात्मनः॥ एवमुक्तास्तु शक्रेण देवाः शक्रसमा युधि। संनह्य सुमहासत्त्वा युद्धश्रद्धासमन्विताः॥ स तु दीनः परित्रस्तो महेन्द्रो रावणं प्रति। विष्णोः समीपमागत्य वाक्यमेतदुवाच ह॥ विष्णो कथं करिष्यामि रावणं राक्षसं प्रति। अहोऽतिबलवद्रक्षो युद्धार्थमभिवर्तते।७।। वरप्रदानाद्बलवान खल्वन्येन हेतुना । तत्तु सत्यं वचः कार्यं यदुक्तं पद्मयोनिना ॥ तद्यथा नमुचित्रोबलिर्नरकशम्बरौ। त्वदलं समवष्टभ्य मया दग्धास्तथा कुरु॥ नह्यन्यो देवदेवेश त्वदृते मधुसूदन। गतिः परायणं चापि त्रैलोक्य सचराचरे।॥ त्वं हि नारायणः श्रीमान्पद्मनाभः सनातनः। त्वयेमे स्थापिता लोकाः शक्रश्चाहं सुरेश्वरः॥ त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम्। त्वामेव भगवन्सर्वे प्रविशन्ति युगक्षये॥ तदाचक्ष्व यथा तत्त्वं देवदेव मम स्वयम्। असिचक्रसहायस्त्वं योत्स्यसे रावणं प्रति॥ एवमुक्तः स शक्रेण देवो नारायणः प्रभुः। अब्रवीन्न परित्रासः कर्तव्यः श्रूयतां च मे॥ न तावदेष दुष्टात्मा शक्यो जेतुं सुरासुरैः। हन्तुं चापि समासाद्य वरदानेन दुर्जयः॥ सर्वथा तु महत्कर्म करिष्यति बलोत्कटः। राक्षसः पुत्रसहितो दृष्टमेतन्निसर्गतः॥ यत्तु मां त्वमभाषिष्ठा युद्ध्यस्वेति सुरेश्वर। नाहं तं प्रतियोत्स्यामि रावणं राक्षसं युधि॥ नाहत्वा समरे शत्रु विष्णुः प्रतिनिवर्तते। दुर्लभश्चैव कामोऽद्य वरगुप्तादि रावणात्॥ प्रतिजाने च देवेन्द्र त्वत्समीपे शतक्रतो। भवितास्मि यथास्याहं रक्षसो मृत्युकारणम्॥ अहमेव निहन्तास्मि रावणं सपुरःसरम्। देवता नन्दयिष्यामि ज्ञात्वा कालमुपागतम्॥ एतत्ते कथितं तत्त्वं देवराज शचीपते। युद्ध्यस्व विगतत्रासः सुरैः सार्धं महाबल॥ ततो रुद्राः सहादित्या वसवो मरुतोऽश्विनौ। संनद्धा निर्ययुस्तूर्णं राक्षसानभितः पुरात्॥ एतस्मिन्नन्तरे नादः शुश्राव रजनीक्षये। तस्य रावणसैन्यस्य प्रयुद्धस्य समन्ततः॥ ते प्रबुद्धा महावीर्या अयोन्यमभिवीक्ष्य वै। संग्राममेवाभिमुखा अभ्यवर्तन्त हृष्टवत्॥ ततो दैवतसैन्यानां संक्षोभः समजायत। तदक्षयं महासैन्यं दृष्ट्वा समरमूर्धनि॥ ततो युद्धं समभवद्देवदानवरक्षसाम्। घोरं तुमुलनिर्हादं नानाप्रहरणोद्यतम्॥ एतस्मिन्नन्तरे शूरा राक्षसा घोरदर्शनाः। युद्धार्थं समवर्तन्त सचिवा रावणस्य ते॥ मारीचश्च प्रहस्तश्च महापार्श्वमहोदरौ। अकम्पनो निकुम्भश्च शुकः सारण एव च॥ संहादो धूमकेतुश्च महादंष्ट्रो घटोदरः। जम्बुमाली महाह्रादो विरूपाक्षश्च राक्षसः॥ सुप्तघ्नो यज्ञकोपश्च दुर्मुखो दूषणः खरः। त्रिशिराः करवीराक्षः सूर्यशत्रुश्च राक्षसः॥ महाकायोऽतिकायश्च देवान्तकनरान्तकौ। एतैः सर्वै परिवृतो महावीर्यैर्महाबलः॥ रावणस्यार्यकः सैन्यं सुमाली प्रविवेश ह। स दैवतगणान्सर्वानानाप्रहरणैः शितैः॥ व्यध्वंसयत्समं कुद्धो वायुर्जलधरानिर। तदैवतबलं राम हन्यमानं निशाचरैः॥ प्रणुन्नं सर्वतो दिग्भ्यः सिंहनुन्ना मृगा इव। एतस्मिन्नन्तरे शूरो वसूनामष्टमो वसुः। सावित्र इति विख्यातः प्रविवेश रणाजिरम्॥ सैन्यैः परिवृतो हृष्टै नाप्रहरणोद्यतैः। त्रासयशत्रुसैन्यानि प्रविवेश रणाजिरम्॥ तथादित्यौ महावीर्यो त्वष्टा पूषा च तौ समम्। निर्भयौ सह सैन्येन तदा प्राविशतां रणे॥ ततो युद्धं समभवत्सुराणां सह राक्षसैः। क्रुद्धानां रक्षसां कीर्तिं समरेष्वनिवर्तिनाम्॥ ततस्ते राक्षसाः सर्वे विबुधान्समरे स्थितान्। नानाप्रहरणैोरैर्जघ्नुः शतसहस्रशः॥ देवाश्च राक्षसान्धोरान्महाबलपराक्रमान्। समरे विमलैः शस्त्रैरुपनिन्युर्यमक्षयम्॥ एतस्मिन्नन्तरे राम सुमाली नाम राक्षसः। नानाप्रहरणैः क्रुद्धस्तत्सैन्यं सोऽभ्यवर्तत॥ स दैवतबलं सर्वं नानाप्रहरणैः शितैः। व्यध्वंसयत संक्रुद्धो वायुर्जलधरं यथा॥ ते महाबाणवषैश्च शूलप्रासैः सुदारुणैः। हन्यमानाः सुराः सर्वे न व्यतिष्ठन्त संहताः।॥ ततो विद्राव्यमाणेषु दैवतेषु सुमालिना। वसूनामष्टमः क्रुद्धः सावित्रो वै व्यवस्थितः॥ संवृतः स्वैरथानीकैः प्रहरन्तं निशाचरम्। विक्रमेण महातेजा वारयामास संयुगे॥ ततस्तयोर्महद्युद्धमभवल्लोमहर्षणम्। सुमालिनो वसोश्चैव समरेष्वनिवर्तिनोः॥ ततस्तस्य महाबाणैर्वसुना सुमहात्मना। निहतः पन्नगरथः क्षणेन विनिपातितः।४६॥ हत्वा तु संयुगे तस्य रथं बाणशतैश्चितम्। गदां तस्य वधार्थाय वसुर्जग्राह पाणिना॥ ततः प्रगृह्य दीप्तायां कालदण्डोपमां गदाम्। । मूर्धि पातयामास सावित्रो वै सुमालिनः॥ सा तस्योपरि चोल्काभा पतन्ती विवभौ गदा। इन्द्रप्रमुक्ता गर्जन्ती गिराविव महाशनिः॥ तस्य नैवास्थि न शिरो न मांसं ददृशे तदा। गदया भस्मतां नीतं निहतस्य रणाजिरे॥ तं दृष्ट्वा निहतं संख्ये राक्षसास्ते समन्ततः। व्यद्रवन्सहिताः सर्वे क्रोशमानाः परस्परम्। विद्राव्यमाणा वसुना राक्षसा नावतस्थिरे॥ ततस्तमसि संजाते सर्वे ते देवराक्षसाः। आयुद्ध्यन्त बलोन्मत्ताः : सूदयन्तः परस्परम्॥ इन्द्रश्च रावणश्चैव रावणिश्च महाबलः। तस्मिंस्तमोजालवृते मोहमीयुर्न ते त्रयः॥ स तु दृष्ट्वा बलं सर्वं रावणो निहतं क्षणात्। क्रोधमभ्यगमतीव्र महानादं च मुक्तवान्॥ क्रोधात्सूतं च दुर्धर्षः स्यन्दनस्थमुवाच ह। परसैन्यस्य मध्येन यावदन्तो नयस्व माम्॥ अद्यैव त्रिदशान्सर्वान्विक्रमैः समरे स्वयम्। नानाशस्त्रमहासारैर्नयामि यमसादनम्॥ अहमिन्द्रं वधिष्यामि धनदं वरुणं यमम्। त्रिदशान्विनिहत्याशु स्वयं स्थास्याम्यथोपरि॥ विषादो नैव कर्तव्यः शीघ्रं वाहय मे रथम्। द्विः खलु त्वां ब्रवीम्यद्य यावदन्तं नयस्व माम्॥ अयं स नन्दनोद्देशो यत्र वर्तावहे वयम्। नय मामद्य तत्र त्वमुदयो यत्र पर्वतः॥ तस्य तद्वचनं श्रुत्वा तुरगान्स मनोजवान्। आदिदेशाथ शत्रुणां मध्येनैव च सारथि।।।।। तस्य तं निश्चयं ज्ञात्वा शक्रो देवेश्वरस्तदा। रथस्थः समरस्थस्तान्देवान्वाक्यमथाब्रवीत्॥ सुराः शृणुत मद्वाक्यं यत्तावन्मम रोचते। जीवन्नेव दशग्रीवः साधु रक्षो निगृह्यताम्॥ एष ह्यतिबलः सैन्ये रथेन पवनौजसा। गमिष्यति प्रवृद्धोर्मिः समुद्र इव पर्वणि ॥ नह्येष हन्तुं शक्योऽद्य वरदानात्सुनिर्भयः। तद्ग्रहीष्यामहे रक्षो यत्ता भवत संयुगे॥ यथा बलौ निरुद्धे च त्रैलोक्यं भुज्यते मया। एवमेतस्य पापस्य निरोधो मम रोचते॥ ततोऽन्यं देशमास्थाय शक्रः संत्यज्य रावणम्। अयुध्यत महाराज राक्षसांस्त्रासयरणे॥ उत्तरेण दशग्रीवः प्रविवेशानिवर्तकः। दक्षिणेन तु पार्श्वेन प्रविवेश शतनुतुः॥ ततः स योजनशतं प्रविष्टो राक्षसाधिपः। देवतानां बलं सर्वं शरवरवाकिरत्॥ ततः शक्रो निरीक्ष्याथ प्रनष्टं तु स्वकं बलम्। न्यवर्तयदसंभ्रान्तः समावृत्य दशाननम्॥ एतस्मिन्नन्तरे नादो मुक्तो दानवराक्षसैः। हा हताः स्म इति ग्रस्तं दृष्ट्वा शक्रेण रावणम्॥ ततो रथं समास्थाय रावणिः क्रोधमूर्च्छितः। तत्सैन्यमतिसंक्रुद्धः प्रविवेश सुदारुणम्॥ तां प्रविश्य महामायां प्राप्तां पशुपतेः पुरा। प्रविवेश सुसंरब्धस्तत्सैन्यं समभिद्रवत्॥ स सर्वा देवतास्त्यक्त्वा शक्रमेवाभ्यधावत। महेन्द्रश्च महातेजा नापश्यच्च सुतं रिपोः॥ विमुक्तकवचस्तत्र बध्यमानोऽपि रावणिः। त्रिदशैः सुमहावीनं चकार च.किंचन ॥ स मातलिं समायान्तं ताडयित्वा शरोत्तमैः। महेन्द्रं बाणवर्षेण भूय एवाभ्यवाकिरत्॥ ततस्त्यक्त्वा रथं शक्रो विससर्ज च सारथिम्। ऐरावतं समारुह्य मृगयामास रावणिम्॥ स तत्र मायाबलवानदृश्योऽथान्तरिक्षगः। इन्द्रं मायापरिक्षिप्तं कृत्वा स प्राद्रवच्छरैः॥ स तं यदा परिश्रान्तमिन्द्रं जज्ञेऽथ रावणिः। तदैनं मायया बद्ध्वा स्वसैन्यमभितोऽनयत्॥ तं तु दृष्ट्वा बलात्तेन नीयमानं महारणात्। महेन्द्रममराः सर्वे किं नु स्यादित्यचिन्तयन्॥ दृश्यते न स मायावी शक्रजित्समितिंजयः। विद्यावानपि येनेद्रो माययापहृतो बलात्॥ एतस्मिन्नन्तरे क्रुद्धाः सर्वे सुरगणास्तदा। रावणं विमुखीकृत्य शरवर्षैरवाकिरन्॥ रावणस्तु समासाद्य आदित्यांश्च वसूंस्तदा। न शशाक स सङ्गामे योद्धं शत्रुभिरदितः॥ स तं दृष्ट्वा परिम्लानं प्रहारैर्जर्जरीकृतम्। रावणिः पितरं युद्धे दर्शनस्थोऽब्रवीदिदम्॥ आगच्छ तात गच्छामो रणकर्म निवर्तताम्। जितं नो विदितं तेऽस्तु स्वस्थो भव गतज्वरः।।३३ अयं हि सुरसैन्यस्य त्रैलोक्यस्य च यः प्रभुः। स गृहीतो देवबलाद्भग्नदर्पाः सुराः कृताः॥ यथेष्टं भुक्ष्व लोकांस्त्रीनिगृह्यारातिमोजसा। वृथा किं ते श्रमेणेह युद्धमद्य तु निष्फलम्॥ ततस्ते दैवतगणा निवृत्ता रणकर्मणः। तच्छ्रुत्वा रावणेर्वाक्यं शक्रहीनाः सुरा गताः॥ दशरिपुः प्रथितो निशाचरेन्द्रः। स्वसुतवचनमादृतः प्रियं तत्समनुनिशम्य जगाद चैव सूनुम्॥ अतिबलसदृशैः पराक्रमैस्त्वं मम कुलवंशविवर्धनः प्रभो। यदयमतुलबलस्त्वयाद्य वै त्रिदशपतिस्त्रिदशाश्च निर्जिताः॥ नय रथमधिरोप्य वासवं नगरमितो व्रज सेनया वृतस्त्वम्। अहमपि तव पृष्ठतो दुतं सह सचिवैरनुयामि हृष्टवत्॥ त्रिदशपतिं परिगृह्य रावणिः। स्वभवनमधिगम्य वीर्यवान् कृतसमरान्विससर्ज राक्षसान्॥ जिते महेन्द्रेऽतिबले रावणस्य सुतेन वै। प्रजापति पुरस्कृत्य ययुर्लङ्कां सुरास्तदा॥ तत्र रावणमासाद्य पुत्रभ्रातृभिरावृतम्। अब्रवीद्गगने तिष्ठन्सामपूर्व प्रजापतिः॥ वत्स रावण तुष्टोऽस्मि पुत्रस्य तव संयुगे। अहोऽस्य विक्रमौदार्य तव तुल्योऽधिकोऽपि वा।।३ जितं हि भवता सर्व त्रैलोक्यं स्वेन तेजसा। कृता प्रतिज्ञा सफला प्रीतोऽस्मि ससुतस्य ते।४॥ अयं च पुत्रोऽतिबलस्तव रावण वीर्यवान्। जगतीन्द्रजिदित्येव परिख्यातो भविष्यति॥ बलवान्दुर्जयश्चैव भविष्यत्येव राक्षसः। यं समाश्रित्य ते राजहन्स्थापितास्त्रिदशा वशे॥ तन्मुच्यतां महाबाहो महेन्द्रः पाकशासनः। किंचास्य मोक्षणार्थाय प्रयच्छन्तु दिवौकसः॥ अथाब्रवीन्महातेजा इन्द्रजित्समितिंजयः। अमरत्वमहं देव वृणे योष मुच्यते॥ ततोऽब्रवीन्महातेजा मेघनादं प्रजापतिः। नास्ति सर्वामरत्वं हि कस्यचित्प्राणिनो भुवि॥ पक्षिणश्चतुष्पदो वा भूतानां वा महौजसाम्। श्रुत्वा पितामहेनोक्तमिन्द्रजित्प्रभुणाव्ययम्॥ अथाब्रवीत्स तत्रस्थं मेघनादो महाबलः। श्रूयतां वा भवेत्सिद्धिः शतक्रतुविमोक्षणे॥ ममेष्टं नित्यशो हव्यैर्मन्त्रैः संपूज्य पाचकम्। सङ्ग्राममवततुं च शत्रुनिर्जयकाङ्क्षिणः॥ अश्वयुक्तो रथो मह्यमुत्तिष्वेत्त विभावसोः। तत्स्थस्यामरता स्यान्मे एष मे निश्चितो वरः॥ तस्मिन्यद्यसमाप्ते च जप्यहोमे विभावसौ। युध्येयं देव संग्रामे तदा मे स्याद्विनाशनम्॥ सर्वो हि तपसा देव वृणोत्यमरतां पुमान्। विक्रमेण मया त्वेतदमरत्वं प्रवर्तितम्॥ एवमस्त्विति तं चाह वाक्यं देवः पितामहः। मुक्तश्चेन्द्रजिता शक्रो गताश्च त्रिदिवं सुराः॥ एतस्मिन्नन्तरे राम दीनो भ्रष्टामरद्युतिः। इन्द्रश्चिन्तापरीतात्मा ध्यानतत्परतां गतः॥ तं तु दृष्ट्वा तथाभूतं प्राह देवः पितामहः। शतक्रतो किमु पुरा करोति स्म सुदुष्कृतम्॥ अमरेन्द्र मया बुद्ध्या प्रजाः सृष्टास्तथा प्रभो। एकवर्णाः समाभाषा एकरूपाश्च सर्वशः॥ तासां नास्ति विशेषो हि दर्शने लक्षणेऽपि वा। ततोऽहमेकाग्रमनास्ताः प्रजाः समचिन्तयम्॥ सोऽहं तासां विशेषार्थं स्त्रियमेकां विनिर्ममे। यद्यत्प्रजानां प्रत्यङ्गं विशिष्टं तत्तदुद्धृतम्॥ ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता। हलं नामेह वैरूप्यं हल्यं तत्प्रभवं भवेत्॥ यस्य च विद्यते हल्यं तेनाहल्येति विश्रुता। अहल्येत्येव च मया तस्या नाम प्रकीर्तितम्॥ निर्मितायां च देवेन्द्र तस्यां नायाँ सुरर्षभ। भविष्यतीति कस्यैषा मम चिन्ता ततोऽभवत्।।२४ त्वं तु शक्र तदा नारी जानीषे मनसा प्रभो। स्थानाधिकतया पत्नी ममैषेति पुरंदर॥ सा मया न्यासभूता तु गौतमस्य महात्मनः। न्यस्ता बहूनि वर्षाणि तेन निर्यातिता च ह॥ ततस्तस्य परिज्ञाय महास्थैर्य महामुनेः। ज्ञात्वा तपसि सिद्धिंच पत्न्यर्थं स्पर्शिता तदा॥ स तया सह धर्मात्मा रमते स्म महामुनिः। आसन्निराशा देवास्तु गौतमे दत्तया तया॥ त्वं क्रुद्धस्त्विह कामात्मा गत्वा तस्याश्रमं मुनेः। दृष्टवांश्च तदा तां स्त्री दीप्तामग्निशिखामिव॥ सा त्वया धर्षिता शक्र कामार्तेन समन्युना। दृष्टस्त्वं स तदा तेन आश्रमे परमर्षिणा॥ ततः कुद्धेन तेनासि शप्तः परमतेजसा। गतोऽसि येन देवेन्द्र दशाभागविपर्ययम्॥ यस्मान्मे धर्षिता पत्नी त्वया वासव निर्भयात्। तस्मात्त्वं समरे शक्र शत्रुहस्तं गमिष्यसि॥ अयं तु भावो दुर्बुद्धे यस्त्वयेह प्रवर्तितः। मानुषेष्वपि लोकेषु भविष्यति न संशयः॥ तत्रार्धं तस्य यः कर्ता त्वय्यर्धं निपतिष्यति। न च ते स्थावरं स्थानं भविष्यति न संशयः॥ यश्च यश्च सुरेन्द्रः स्यार्बुवः स न भविष्यति। एष शापो मया मुक्त इत्यसौ त्वां तदाब्रवीत्॥ तां तु भार्यां सुनिर्भर्म्य सोऽब्रवीत्सुमहातपाः। दुर्विनीते विनिध्वंस ममाश्रमसमीपतः॥ रूपयौवनसंपन्न यस्मात्त्वमनवस्थिता। तस्मादूपवती लोके न त्वमेका भविष्यति॥ रूपं च ते प्रजाः सर्वा गमिष्यन्ति न संशयः। यत्तदेकं समाश्रित्य विभ्रमोऽयमुपस्थितः॥ तदाप्रभृति भूयिष्ठं प्रजा रूपसमन्विता। सा तं प्रसादयामास महर्षि गौतमं तदा॥ अज्ञानाद्धर्षिता विप्र त्वद्रूपेण दिवौकसा। न कामकाराद्विप्रर्षे प्रसादं कर्तुमर्हसि॥ अहल्यया त्वेवमुक्तः प्रत्युवाच स गौतमः। उत्पत्स्यति महातेजा इक्ष्वाकूणां महारथः॥ रामो नाम श्रुतो लोके वनं चाप्युपयास्यति। ब्राह्मणार्थे महाबाहुर्विष्णुर्मानुषविग्रहः।॥ तं द्रक्ष्यसि यदा भद्रे ततः पूता भविष्यसि। स हि पावयितुं शक्तस्त्वया यदुष्कृतं कृतम्॥ तस्यातिथ्यं च कृत्वा वै मत्समीपं गमिष्यसि। वत्स्यसि त्वं मया सार्धं तदा हि वरवर्णिनी।॥ एवमुक्त्वा स विप्रषिराजगाम स्वमाश्रमम्। तपश्चचार सुमहत्सा पत्नी ब्रह्मवादिनः॥ शापोत्सर्गाद्धितस्येदं मुनेः सर्वमुपस्थितम्। तत्स्मर त्वं महाबाहो दुष्कृतं यत्त्वया कृतम्॥ तेन त्वं ग्रहणं शत्रोर्यातो नान्येन वासव। शीघ्रं वै यज यज्ञं त्वं वैष्णवं सुसमाहितः॥ पावितस्तेन यज्ञेन यास्यसे त्रिदिवं ततः। पुत्रश्च तव देवेन्द्र न विनष्टो महारणे॥ नीतः संनिहितश्चैव आर्यकेण महोदधौ। एतच्छ्रुत्वा महेन्द्रस्तु यज्ञमिष्ट्वा च वैष्णवम्॥ पुनस्त्रिदिवमाक्रामदन्वशासच्च देवराट्। एतदिन्द्रजितो नाम बलं यत्कीर्तितं मया॥ निर्जितस्तेन देवेन्द्रः प्राणिनोऽन्ये तु किं पुनः। आश्चर्यमिति रामश्च लक्ष्मणश्चाब्रवीत्तदा॥ अगस्त्यवचनं श्रुत्वा वानरा राक्षसास्तदा। बिभीषणस्तु रामस्य पार्श्वस्थो वाक्यमब्रवीत्॥ आश्चर्यं स्मारितोऽस्म्यद्य यत्तदृष्टं पुरातनम्। अगस्त्यं त्वब्रवीद्रामः सत्मेतच्छ्रुतं च मे॥ एवं राम समुद्भुतो रावणो लोककण्टकः। सपुत्रो येन सङ्गामे जितः शक्रः सुरेश्वरः॥ ततो रामो महातेजा विस्मयात्पुनरेव हि। उवाच प्रणतो वाक्यमगस्त्यमृषिसत्तमम्॥ भगवनराक्षसः क्रूरो यदाप्रभृति मेदिनीम्। पर्यटत्किं तदा लोकाः शून्या आसन्द्विजोत्तम॥ राजा वा राजमात्रो वा किं तदा नात्र कश्चन। धर्षणं यत्र न प्राप्तो रावणो राक्षसेश्वरः॥ उताहो हतवीर्यास्ते बभूवुः पृथिवीक्षितः। बहिष्कृता वरास्त्रैश्च बहवो निर्जिता नृपाः॥ राघवस्य वचः श्रुत्वा अगस्त्यो भगवानृषिः। उवाच रामं प्रहसन्पितामह इवेश्वरम्॥ इत्येवं बाधमानस्तु पार्थिवान्पार्थिवर्षभ। चचार रावणो राम पृथिवीं पृथिवीपते॥ ततो माहिष्मती नाम पुरीं स्वर्गपुरीप्रभाम्। संप्राप्तो यत्र सांनिध्यं सदासीद्वसुरेतसः॥ तुल्य आसीन्नृपस्तस्य प्रभावाद्वसुरेतसः। अर्जुनो नाम यत्राग्निः शरकुण्डेशयः सदा॥ तमेव दिवसं सोऽथ हैहयाधिपतिर्बली। अर्जुनो नर्मदा रन्तुं गतः स्त्रीभिः सहेश्वरः॥ तमेव दिवसं सोऽथ रावणस्तत्र आगतः। रावणो राक्षसेन्द्रस्तु तस्यामात्यानपृच्छत॥ क्वार्जुनो नृपतिः शीघ्रं सम्यगाख्यातुमर्हथ। रावणोऽहमनुप्ताप्तो युद्धेप्सुनुवरेण ह॥ ममागमनमप्यग्रे युष्माभिः संनिवेद्यताम्। इत्येवं रावणेनोक्तास्तेऽमात्याः सुविपश्चितः॥ अब्रुवनराक्षसपतिमसांनिध्यं महीपतेः। श्रुत्वा विश्रवसः पुत्रः पौराणामर्जुनं गतम्॥ अपसृत्यागतो बिन्ध्यं हिमवत्संनिभं गिरिम्। स तमभ्रमिवाविष्टमुद्धान्तमिव मेदिनीम्॥ अपश्यद्रावणो विन्ध्यमालिखन्तमिवाम्बरम्। सहस्रशिखरोपेतं सिंहाध्युषितकंदरम्॥ प्रपातपतितैः शीतैः साट्टहासमिवाम्बुभिः। देवदानवगन्धर्वैः साप्सरोभिः सकिंनरैः॥ स्वस्त्रीभिः क्रीडामानैश्च स्वर्गभूतं महोच्छ्रयम्। नदीभिः स्यन्दमानाभिः स्फटिकप्रतिमं जलम्।।१७ फणाभिश्चलजिह्वाभिरनन्तमिव विष्ठितम्। उत्क्रामन्तं दरीवन्तं हिमवत्संनिभं गिरिम्॥ पश्यमानस्ततो विन्ध्यं रावणो नर्मदां ययौ। चलोपलजला पुण्यां पश्चिमोदधिगामिनीम्॥ महिषैः सृमरैः सिंहै: शार्दूलर्भगजोत्तमैः। उष्णाभितप्तैस्तृषितैः संक्षोभितजलाशयाम्॥ चक्रवाकैः सकारण्डैः सहसजलकुक्कुटैः। सारसैश्च सदा मत्तैः कूजद्भिः सुसमावृताम्॥ फुल्लदुमकृतोत्तंसां चक्रवाकयुगस्तनीम्। विस्तीर्णपुलिनश्रोणी हंसावलिसुमेखलाम्॥ पुष्परेण्वनुलिप्ताङ्गी जलफेनामलांशुकाम्। जलावगाहसुस्पशा फुल्लोत्पलशुभेक्षणाम्॥ पुष्पकादवरुह्याशु नर्मदां सरितां वराम्। इष्टामिव वरां नारीमवगाह्य दशाननः॥ स तस्याः पुलिने रम्ये नानामुनिनिषेविते। उपोपविष्टः सचिवैः सार्धं राक्षसपुङ्गवः॥ प्रख्याय नर्मदां सोऽथ गङ्गेयमिति रावणः। नर्मदादर्शने हर्षमाप्तवान्स दशाननः॥ उवाच सचिवांस्तत्र सलीलं शुकसारणौ। एष रश्मिसहस्रेण जगत्कृत्वेव काञ्चनम्॥ तीक्ष्णतापकरः सूर्यो नभसो मध्यमास्थितः। मामासीनं विदित्यैव चन्द्रायति दिवाकरः॥ नर्मदाजलशीतश्च सुगन्धिः श्रमनाशनः। मद्भयादनिलो ह्येष वात्यसौ सुसमाहितः॥ इयं वापि सरिच्छेष्टा नर्मदा शर्मवर्धिनी। नक्रमीनविहंगोर्मिः सभयेवाङ्गना स्थिता॥ तद्भवन्तः क्षताः शस्त्रैर्नृपैरिन्द्रसमैयुधि । चन्दनस्य रसेनेव रुधिरेण समुक्षिताः॥ ते यूयमवागहध्वं नर्मदां शर्मदां शुभाम्। सार्वभौममुखा मत्ता गङ्गामिव महागजाः॥ अस्यां स्नात्वा महानद्यां पाप्मनो विप्रमोक्ष्यथ। अहमप्यद्य पुलिने शरदिन्दुसमप्रभे॥ पुष्पोपहारं शनकैः करिष्यामि कपर्दिनः। रावणेनैवमुक्तास्तु प्रहस्तशुकसारणाः॥ समहोदरधूम्राक्षा नर्मदां विजगाहिरे। राक्षसेन्द्रगजैस्तैस्तु क्षोभिता नर्मदा नदी॥ वामनाञ्जनपद्मद्यैर्गङ्गा इव महागजैः। ततस्ते राक्षसाः स्नात्वा नर्मदायां महाबलाः॥ उत्तीर्य पुष्पाण्याजवुर्बल्यर्थं रावणस्य तु। नर्मदापुलिने हृद्ये शुभ्राभ्रसदृशप्रभे॥ राक्षसैस्तु मुहुर्तेन कृतः पुष्पमयो गिरिः। पुष्पेषूपहतेष्वेवं रावणो राक्षसेश्वरः॥ अवतीर्णो नदी स्नातुं गङ्गामिव महागजः। तत्र स्नात्वा च विधिवज्जप्त्वा जप्यमनुत्तमम्॥ नर्मदासलिलात्तस्मादुत्ततार स रावणः। ततः क्लिन्नाम्बरं त्यक्त्वा शुक्लवस्त्रसमावृतः।।४० रावणं प्राञ्जलिं यान्तमन्वयुः सर्वराक्षसाः। तद्गतीवशमापन्ना मूर्तिमन्त इवाचलाः॥ यत्र यत्र च याति स्म रावणो राक्षसेश्वरः। जाम्बूनदमयं लिङ्गं तत्र तत्र स्म नीयते॥ वालुकावेदिमध्ये तु तल्लिङ्गं स्थाप्य रावणः। अर्चयामास गन्धैश्च पुष्पैश्चामृतगन्धिभिः॥ ततः सतामार्तिहरं परं वरं वरप्रदं चन्द्रमयूखभूषणम्। समर्चयित्वा स निशाचरो जगौ प्रसार्य हस्तान्प्रणनर्त चाग्रतः॥ नर्मदापुलिने यत्र राक्षसेन्द्रः स दारुणः। पुष्पोपहारं कुरुते तस्माद्देशाददूरतः॥ अर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुः। क्रीडते सह नारीभिर्नर्मदातोयमाश्रितः॥ तासां मध्यगतो राजा रराज न तदार्जुनः। करेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः॥ जिज्ञासुः स तु बाहूनां सहस्रस्योत्तमं बलम्। रुरोध नर्मदावेगं बाहुभिर्बहुभिर्वृतः॥ कार्तवीर्यभुजासक्तं तज्जलं प्राप्य निर्मलम्। कूलोपहारं कुर्वाणं प्रतिस्रोतः प्रधावति॥ समीननक्रमकरः सपुष्पकुशसंस्तरः। स नर्मदाम्भसो वेगः प्रावृट्काल इवाबभौ॥ स वेगः कार्तवीर्येण संप्रेषित इवाम्भसः। पुष्पोपहारं सकलं रावणस्य जहार ह।७।। रावणोऽर्धसमाप्त तमुत्सृज्य नियमं तदा। नर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम्॥ पश्चिमेन तु तं दृष्ट्वा सागरोद्गारसंनिभम्। वर्धन्तमम्भसो वेगं पूर्वामाशां प्रविश्य तु।९।। ततोऽनुद्धान्तशकुनां स्वभावे परमे स्थिताम्। निर्विकाराङ्गनाभासामपश्यद्रावणो नदीम्॥ सव्येतरकराङ्गुल्या ह्यशब्दास्यो दशाननः। वेगप्रभावमन्वेष्टुं सोऽदिशच्छुकसारणौ॥ तौ तु रावणसंदिष्टौ भ्रातरौ शुकसारणौ। व्योमान्तरगतौ वीरौ प्रस्थितौ पश्चिमामुखौ॥ अर्धयोजनमात्रं तु गत्वा तौ रजनीचरौ। पश्येतां पुरुष तोये क्रीडन्तं सहयोषितम्॥ बृहत्सालप्रतीकाशं तोयव्याकुलमूर्धनम्। मदरक्तान्तनयनं मदव्याकुलचेतसम्॥ नदी बाहुसहस्रेण रुन्धन्तमरिमर्दनम्। गिरिं पादसहस्रेण रुन्धन्तमिव मेदिनीम्॥ बालानां वरनारीणां सहस्रेण समावृतम्। समदानां करेणूनां सहस्रेणेव कुञ्जरम्॥ तदद्भुततरं दृष्ट्वा राक्षसौ शुकसारणौ। संनिवृत्तावुपागम्य रावणान्तमथोचतुः॥ बृहत्सालप्रतीकाशः कोऽप्यसौ राक्षसेश्वर। नर्मदां रोधवद्ध्वा क्रीडापयति योषितः॥ तेन बाहुसहस्रेण संनिरुद्धजला नदी सागरोद्रागरसंकासानुद्गारान्सृजते मुहुः॥ इत्येवं भाषमाणौ तौ निशम्य शुकसारणौ। रावणोऽर्जुन इत्युक्त्वा स ययौ युद्धलालसः॥ अर्जुनाभिमुखे तस्मिन्रावणे राक्षसाधिपे। चण्डः प्रवाति पवनः सनादः सरजस्तथा॥ सकृदेव कृतो रावः सरक्तपृषतो घनैः। महोदरमहापार्श्वधूम्राक्षशुकसारणैः॥ संवृतो राक्षसेन्द्रस्तु तत्रागाद्यत्र चार्जुनः। अदीर्घेणैव कालेन स तदा राक्षसो बली॥ तं नर्मदाह्वदं भीममाजगामाञ्जनप्रभः। स तत्र स्त्रीपरिवृतं वासिताभिरिव द्विपम्॥ नरेन्द्रं पश्यते राजा राक्षसानां तदार्जुनम्। स रोषाद्रक्तनयनो राक्षसेन्द्रो बलोद्धतः॥ इत्येवमर्जुनामात्यानाह गम्भीरया गिरा। अमात्याः क्षिप्रमाख्यात हैहयस्य नृपस्य वै॥ युद्धार्थ समनुप्राप्तो रावणो नाम मामतः। रावणस्य वचः श्रुत्वा मन्त्रिणोऽथार्जुनस्य ते॥ उत्तस्थुः सायुधास्तं च रावणं वाक्यमब्रुवन् । युद्धस्य कालो विज्ञातः साधु भो साधु रावण ॥ यः क्षीबं स्त्रीगतं चैव योद्धमुत्सहसे नृपम्। स्त्रीसमक्षगतं यत्त्वं योद्धमुत्सहसे नृपम्॥ वासितामध्यगं मत्तं शार्दूल इव कुञ्जरम्। क्षमस्वाद्य दशग्रीव उष्यतां रजनी त्वया। युद्धे श्रद्धा तु यद्यस्ति श्वस्तात समरेऽर्जुनम् ॥ यदि वापि त्वरा तुभ्यं युद्धतृष्णासमावृत। निपात्यास्मानणे युद्धमर्जुनेनोपयास्यसि॥ ततस्तै रावणामात्यैरमात्यास्ते नृपस्य तु। सूदिताश्चापि ते युद्धे भक्षिताश्च बुभुक्षितैः॥ ततो हलहलाशब्दो नर्मदातीरगो बभौ। अर्जुनस्यानुयात्राणां रावणस्य च मन्त्रिणाम्॥ इषुभिस्तोमरैः प्रासैत्रिशूलैर्वज्रकर्षणैः। सरावणानर्दयन्तः समन्तात्समभिद्रुताः॥ हैहयाधिपयोधानां वेग आसीत्सुदारुणः। सनक्रीमीनमकरसमुद्रस्येव निःस्वनः॥ पवणस्य तु तेऽमात्याः प्रहस्तशुकसारणाः। कार्तवीर्यबलं क्रुद्धा निहन्ति स्म स्वतेजसा ॥ अर्जुनाय तु तत्कर्म रावणस्य समन्त्रिणः। क्रीडमानाय कथितं पुरुषैर्भयविह्वलैः॥ श्रुत्वा न भेतव्यमिति स्त्रीजनं स तदार्जुनः। उत्ततार जलात्तस्माद्गङ्गातोयादिवाञ्जनः॥ क्रोधदूषितनेवस्तु स तदार्जुनपावकः। प्रजज्वाल महाघोरो युगान्त इव पावकः॥ स तूर्णतरमादाय वहेमाङ्गदो गदाम्। अभिदुद्राव रक्षांसि तमांसीव दिवाकरः॥ बाहविक्षेपकरणां समुद्यम्य महागदाम्। ग्रागडं वैमास्थाय आपपातैव सोऽर्जुनः॥ सत्य मार्ग समारुद्भय विन्ध्योऽर्कस्येव पर्वतः। थितो विन्ध्य दवाक प्रहस्तो मुसलायुधः॥ ततोऽस्य मुसलं घोरं लोहबद्धं मदोद्धतः। प्रहस्तः प्रेषयन्क्रुद्धो ररास च यथान्तकः॥ तस्याग्रे मुसलस्याग्निरशोकापीडसंनिभः। प्रहस्तकरमुक्तस्य बभूव प्रदहनिव॥ आधावमानं मुसलं कार्तवीर्यस्तदार्जुनः। निपुणं वञ्चयामास गदया गतविक्लवः॥ ततस्तमभिदुद्राव सगदो हैहयाधिपः। भ्रामयाणो गदां गुर्वी पञ्चबाहुशतोच्छ्याम्॥ ततो हतोऽतिवेगेन प्रहस्तो गदया तदा। निपपात स्थितः शैलो वज्रिवज्रहतो यथा।।४७ प्रहस्तं पतितं दृष्ट्वा मारीचशुकसारणाः। समहोदरधूम्राक्षा अपसृष्टा रणाजिरात्॥ अपक्रान्तेष्वमात्येषु प्रहस्ते च निपातिते। रावणोऽभ्यद्रवत्तूर्णमर्जुनं नृपसत्तमम्॥ सहस्रबाहोस्तद्युद्धं विंशद्वाहोश्च दारुणम्। नृपराक्षसयोस्तत्र आरब्धं रोमहर्षणम्॥ सागराविव संक्षुब्धौ चलमूलाविवाचलौ। तेजोयुक्ताविवादित्यौ प्रदहन्ताविवानलौ ॥ बलोद्धतौ यथा नागौ वासितार्थे यथा वृषौ। मेघाविव विनर्दन्तौ सिंहाविव बलोत्कटौ॥ रुद्रकालाविव क्रुद्धौ तौ तदा राक्षसार्जुनौ। परस्परं गदां गृह्य ताडयामासतुर्भृशम्॥ वज्रप्रहारानचला यथा घोरान्विषेहिरे। गदाप्रहारांस्तौ तत्र सेहाते नरराक्षसौ॥ यथाशनिरवेभ्यस्तु जायतेऽथ प्रतिश्रुतिः। तथा तयोर्गदापोथैर्दिशः सर्वाः प्रतिश्रुताः॥ अर्जुनस्य गदा सा तु णत्यमानाहितोरसि। काञ्चनाभं नभश्चक्रे विद्युत्सौदामनी यथा॥ तथैव रावणेनापि पात्यमाना मुहुर्मुहुः। अर्जुनोरसि निर्भाति गदोल्केव महागिरौ॥ नार्जुनः स्वेदमायाति न राक्षसगणेश्वरः। सममासीत्तयोयुद्धं यथा पूर्व बलीन्द्रयोः॥ शृङ्गैरिव वृषायुध्यन्दन्तायैरिव कुञ्जरौ। परस्परं विनिघ्नन्तौ नरराक्षससत्तमौ॥ ततोऽर्जुनेन क्रुद्धेन सर्वप्राणेन सा गदा। स्तनयोरन्तरे मुक्ता रावणस्य महोरसि॥ वरदानकृतत्राणे सा गदा रावणोरसि। दुर्बलेव यथावेगं द्विधाभूतापतन्क्षितौ ॥ स त्वर्जुनप्रयुक्तेन गदाघातेन रावणः। अपासर्पद्धनुर्मानं निषसाद च निष्टनन्॥ स विह्वलं तदालक्ष्यदशग्रीवं ततोऽर्जुनः। सहसोत्पत्य जग्राह गरुत्मानिव पन्नगम्॥ स तु बाहुसहस्रेण बलादृह्य दशाननम्। बबन्ध बलवानराजा बलिं नारायणो यथा॥ बध्यमाने दशग्रीवे सिद्धचारणदेवताः। साध्वीतिवादिनः पुष्पैः किरन्त्यर्जुनमूर्धनि॥ व्याघ्रो मृगमिवादाय मृगराडिव कुञ्जरम्। ररास हैहयो राजा हर्षादम्बुदवन्मुहुः॥ प्रहस्तस्तु समाश्वस्तो दृष्ट्वा बद्धं दशाननम्। सहसा राक्षसः क्रुद्ध अभिदुद्राव हैहयम्॥ नक्तंचराणां वेगस्तु तेषामापततां बभौ। उद्भूत आतपापाये पयोदानामिवाम्बुधौ ॥ मुश्च मुञ्चते भाषन्तस्तिष्ठतिष्ठेति चासकृत्। मुसलानि च शूलानि सोत्ससर्ज तदा रणे॥ अप्राप्तान्येव तान्याशु असंभ्रान्तस्तदार्जुनः। आयुधान्तमरारीणां जग्राहारिनिषूदनः॥ ततस्तान्येव रक्षांसि दुर्धरैः प्रवरायुधैः। भित्त्वा विद्रावयामास वायुरम्बुधरानिव॥ राक्षसांस्त्रासयामास कार्तवीर्यार्जुनस्तदा। रावणं गृह्य नगरं प्रविवेश सुहद्धृतः॥ र्द्विजैः सपौरैः पुरुहूतसंनिभः। ततोऽर्जुनः स्वां प्रविवेश तां पुरी बलिं निगृह्येव सहस्रलोचनः॥ रावणग्रहणं तत्तु वायुग्रहणसंनिभम्। ततः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः॥ ततः पुत्रकृतस्नेहात्कम्प्यमानो महाधृतिः। माहिष्मतीपतिं द्रष्टुमाजगाम महानृषिः॥ । स वायुमार्गमास्थाय वायुतुल्यगतिर्द्विजः। पुरी माहिष्मती प्राप्तो मनःसंपातविक्रमः॥ सोऽमरावतिसंकाशां हृष्टपुष्टजनावृताम्। प्रविवेश पुरी ब्रह्मा इन्द्रस्येवामरावतीम्॥ पादचारमिवादित्यं निष्पतन्तं सुदुर्दृशम्। ततस्ते प्रत्यभिज्ञाय अर्जुनाय न्यवेदयन्॥ पुलस्त्य इति विज्ञाय वचनाद्धैहयाधिपः। शिरस्यञ्जलिमाधाय प्रत्युद्गच्छत्तपस्विनम्॥ पुरोहितोऽस्य गृह्याध्यं मधुपर्क तथैव च। पुरस्तात्प्रययौ राज्ञः शक्रस्येव बृहस्पतिः॥ ततस्तमृषिमायान्तमुद्यन्तमिव भास्करम्। अर्जुना दृश्य संभ्रान्तो ववन्देन्द्र इवेश्वरम्॥ स तस्य मधुपर्क गां पाद्यमध्यं निवेद्य च। पुलस्त्यमाह राजेन्द्रो हर्षगद्गदया गिरा।।। अद्यैवममरावत्या तुल्या माहिष्मती कृता। अद्याहं तु द्विजेन्द्र त्वां यस्मात्पश्यामि दुदृशम्।।१० अद्य मे कुशलं देव अद्य मे कुशलं व्रतम्। अद्य मे सफलं जन्म अद्य मे सफलं तपः॥ यत्ते देवगणैर्वन्द्यौ वन्देऽहं चरणौ तव। इदं राज्यमिमे पुत्रा इमे दारा इमे वयम्। ब्रह्मन्कि कुर्मः किं कार्यमाज्ञापयतु नो भवान् ॥ तं धर्मेऽग्निषु पुत्रेषु शिवं पृष्ट्वा च पार्थिवम्। पुलस्तयोवाच राजानं हैहयानां तथार्जुनम् ॥ नरेन्द्राम्बुजपत्राक्ष पूर्णचन्द्रनिभानन। अतुलं ते बलं येन दशग्रीवस्त्वया जितः॥ भयाद्यस्योपतिष्ठेतां निष्पन्दौ सागरानिलौ। सोऽयं मृधे त्वया बद्धः पौत्रो मे रणदुर्जयः॥ पुत्रकस्य यशः पीतं नाम विश्रावितं त्वया। मद्वाक्याद्याच्यमानोऽद्य मुञ्च वत्सदशाननम्॥ पुलस्त्याज्ञां प्रगृह्याथ न किंचन वचोऽर्जुनः। मुमोचैव पार्थिवेन्द्रो राक्षसेन्द्रं प्रहृष्टवत्॥ स तं प्रमुच्य विदशारिमर्जुनः प्रपूज्य दिव्याभरणलगम्बरैः। अहिंसकं सख्यमुपेत्य साग्निकं प्रणम्य तं ब्रह्मसुतं गृहं ययौ॥ पुलस्त्येनापि संत्यतो राक्षसेन्द्रः प्रतापवान् । परिष्वक्तः कृतातिथ्यो लज्जमानो विनिर्जितः॥ पितामहसुतश्चापि पुलस्त्यो मुनिपुङ्गवः। मोचयित्वा दशग्रीवं ब्रह्मलोकं जगाम ह॥ एवं स रावणः प्राप्तः कार्तवीर्यात्प्रधर्षणम्। पुलस्त्यवचनाच्चापि पुनर्मुक्तो महाबलः॥ एवं बलिभ्यो बलिनः सन्ति राघवनन्दन । नावज्ञा हि परे कार्या य इच्छेच्छेय आत्मनः॥ ततः स राजा पिशिताशनानां सहस्रबाहोरुपलभ्य मैत्रीम्। पुनर्नृपाणां कदनं चकार चचार सर्वां पृथिवीं च दात्॥ अर्जुनेन विमुक्तस्तु रावणो राक्षसाधिपः। चचार पृथिवीं सर्वानिर्विण्णस्तथा कृतः॥ राक्षसं वा मनुष्यं वा शृणुतेऽयं बलाधिकम्। रावणस्तं समासाद्य युद्धे ह्वयति दर्पितः॥ ततः कदाचित्किष्किन्धां नगरी वालिपालिताम्। गत्वाह्वयति युद्धाय वालिनं हेममालिनम्॥ ततस्तु वारनामात्यास्तारस्तारापिता प्रभुः। उवाच वानरो वाक्यं युद्धप्रेप्सुमुपागतम्॥ राक्षसेन्द्र गतो बाली यस्ते प्रतिबलो भवेत्। कोऽन्यः प्रमुखतः स्थातुं तव शक्तः प्लवंगमः॥ चतुभ्यॊऽपि समुद्रेभ्यः संध्यामन्वास्य रावण। इदं मुहूर्तमायाति बाली तिष्ठ मुहूर्तकम्॥ एतानस्थिचयान्पश्य य एते शङ्खपाण्डुराः। युद्धार्थिनामिमे राजन्वानराधिपतेजसा ॥ यद्धामृतरसः पीतस्त्वया रावण राक्षस। तदा बालिनमासाद्य तदन्तं तव जीवितम्॥ पश्येदानों जगच्चित्रमिमं विश्रवसः सुत। मुहूर्त तिष्ठस्व दुर्लभं ते भविष्यति।९।। अथवा त्वरसे मतुं गच्छ दक्षिणसागरम्। वालिनं द्रक्ष्यसे तत्र भूमिष्ठमिव पावकम्॥ स तु तारं विनिर्भय॑ रावणो लोकरावणः। पुष्पकं तत्समारुह्य प्रययौ दक्षिणार्णवम्॥ तब हेमगिरिप्रख्यं तरुणार्कनिभाननम्। रावणो बालिनं दृष्ट्वा संध्योपासनतत्परम्॥ पुष्पकादवरुह्याथ रावणोऽञ्जनसंनिभः। ग्रहीतुं वालिनं तूर्णं निःशब्दपदमव्रजत्॥ यदृच्छया तदा दृष्टो वालिनापि स रावणः। पापाभिप्रायकं दृष्ट्वा चकार न तु संभ्रमम्॥ शशमालक्ष्य सिंहो वा पन्नगं गरुडो यथा। न चिन्तयति तं वाली रावणं पापनिश्चयम्॥ जिघृक्षमाणमायान्तं रावणं पापचेतसम्। कक्षावलम्बिनं कृत्वा गमिष्ये वीन्महार्णवान्॥ द्रक्ष्यन्त्यरिं ममाङ्कस्थं संसदूरुकराम्बरम्। लम्बमानं दशग्रीवं गरुडस्येव पन्नगम्॥ इत्येवं मतिमास्थाय बाली मौनमुपास्थितः। जपन्वै नैगमान्मन्त्रांस्तस्थौ पर्वतराडिव॥ तावन्योन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौ। प्रयत्नवन्तौ तत्कर्म ईहतुर्बलदर्पितौ॥ हस्तग्राहं तु तं मत्वा पादशब्देन रावणम्। पराङ्मुखोऽपि जग्राह वाली सर्पमिवाण्डजः॥ ग्रहीतुकामं तं गृह्य रक्षसामीश्वरं हरिः। खमुत्पपात वेगेन कृत्वा कक्षावलम्बिनम् ॥ तं च पीडयमानं तु वितुदन्तं नखैर्मुहुः। जहार रावणं वाली पवनस्तोयदं यथा॥ अथ ते राक्षसामात्या ह्वियमाणे दशानने। मुमोक्षयिषवो वालिं रवमाणा अभिद्रुताः॥ अन्वीयमान्स्तैर्वाली भाजतेऽम्बरमध्यगः। अन्वीयमानो मेघौधैरम्बरस्थ इवांशुमान्॥ तेऽशक्नुवन्तः संप्राप्तुं वालिनं राक्षसोत्तमाः। तस्य बारूरुवेगेन परिश्रान्ता व्यवस्थिताः॥ वालिमार्गादपाक्रामन्पर्वतेन्द्रापि गच्छतः। किं पुनर्जीवनप्रेप्सुर्बिभ्रद्वै मांसशोणितम्॥ अपक्षिगणसंपातान्वानरेन्द्रो महाजवः। क्रमशः सागरान्सर्वान्संध्याकालमवन्दत ॥ संपूज्यमानो यातस्तु खचरैः खचरोत्तमः। पश्चिमं सागरं वाली आजगाम सरावणः॥ तस्मिन्संध्यामुपासित्वा स्नात्वा जप्त्वा च वानरः। उत्तरं सागरं प्रायद्वहमानो दशाननम्॥ बहुयोजनसाहस्रं वहमानो महाहरिः। वायुवच्च मनोवच्च जगाम सह शत्रुणा॥ उत्तरे सागरे संध्यामुपासित्वा दशाननम्। वहमानोऽगमद्वाली पूर्वं वै स महोदधिकम्॥ तत्रापि संध्यामन्वास्य वासविः सहरीश्वरः। किष्किन्धामभितो गृह्य रावणं पुनरागमत्॥ चतुर्ध्वपि समुद्रेषु संध्यामन्वास्य वानरः। रावणोद्वहनश्रान्तः किष्किन्धोपवनेऽपतत्॥ रावणं तु मुमोचाथ स्वकक्षात्कपिसत्तमः। कुतस्त्वमिति चोवाच प्रहसनरावणं मुहुः॥ विस्मयं तु महद्गत्वा श्रमलोलनिरीक्षणः। राक्षसेन्द्रो हरीन्द्रं तमिदं वचनमब्रवीत्॥ वानरेन्द्र महेन्द्राभ राक्षसेन्द्रोऽस्मि रावणः। युद्धेप्सुरिह संप्राप्तः स चाद्यासादितस्त्वया॥ अहो बलमहो वीर्यमहो गाम्भीर्यमेव च। येनाहं पशुवगृह्य भ्रामितश्चतुरोऽर्णवान्॥ एवमश्रान्तवद्वीर शीघ्रमेव च वानर। मां चैवोद्वहमानस्तु कोऽन्यो वीर भविष्यति॥ त्रयाणामेव भूतानां गतिरेषा प्लवंगम। मनोनिलसुपर्णानां तव चात्र न संशयः॥ सोऽहं दृष्टबलस्तुभ्यमिच्छामि हरिपुङ्गव। त्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः॥ दाराः पुत्राः पुरं राष्ट्र भोगाच्छादनभोजनम्। सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर॥ ततः प्रज्वालयित्वाग्निं तावुभौ हरीराक्षसौ। भ्रातृत्वमुपसंपन्नौ परिष्वज्य परस्परम् ॥ अन्योन्यं लम्बितकरौ ततस्तौ हरिराक्षसौ। किष्किन्धां विशतुर्हष्टौ सिंहौ गिरिगुहामिव॥ स तत्र मासमुषितः सुग्रीव इव रावणः। अमात्यैरागतैर्नीतस्त्रैलोक्योत्सादनार्थिभिः॥ एवमेतत्पुरावृतं वालिना रावणः प्रभो। धर्षितश्च वृतश्चापि भ्राता पावकसंनिधौ॥ बलमप्रतिमं राम वालिनोऽभवदुत्तमम्। सोऽपि त्वया विनिर्दग्धः शलभो वह्निना यथा।४६ ततः पितामहं दृष्ट्वा वायुः पुत्रवधार्दितः। शिशुकं तं समादाय उत्तस्थौ धातुरग्रतः॥ चलकुण्डलमौलिस्रक्तपनीयविभूषणः। पादयोन्य॑पतद्वायुस्त्रिरुपस्थाय वेधसे ॥ तं तु वेदविदा तेन लम्बाभरणशोभिना। वायुमुत्थाप्य हस्तेन शिशुं तं परिमृष्टवान्॥ स्पृष्टमात्रस्ततः सोऽथ सलीलं पद्मजन्मना। जलसिक्तं यथा सस्यं पुनर्जीवितमाप्तवान्॥ प्राणवन्तमिमं दृष्ट्वा प्राणो गन्धवहो मुदा। चचार सर्वभूतेषु संनिरुद्धं यथापुरा।।५ मरुद्रोधाद्विनिर्मुक्तास्ताः प्रजा मुदिताभवन्। शीतवातविनिर्मुक्ताः पद्मिन्य इव साम्बुजाः।६॥ ततस्त्रियुग्मस्त्रिककुत्रिधामा त्रिदशार्चितः। उवाच देवता ब्रह्मा मारुतप्रियकाम्यया॥ भो महेन्द्राग्निवरुणा महेश्वरधनेश्वराः। जानतामपि वः सर्वं वक्ष्यामि श्रूयतां हितम् ॥ अनेन शिशुना कार्यं कर्तव्यं वो भविष्यन्ति। तद्ददध्वं वरान्सर्वे मारुतस्यास्य तुष्टये॥ ततः सहस्रनयनः प्रीतियुक्तः शुभाननः। कुशेशयमयीं मालामुत्क्षिप्येदं वचोऽब्रवीत्॥ मत्करोत्सृष्टवज्रेण हनुरस्य यथा हतः। नाम्ना वै कपिशार्दूलो भवित्त हनुमानिति॥ अहमस्य प्रदास्यामिपरमं वरमद्भुतम्। इतः प्रभृति वज्रस्य ममावध्यो भविष्यति॥ मार्तण्डस्त्वब्रवीत्तत्र भगवांस्तिमिरापहः। तेजसोऽस्य मदीयस्य ददामि शतिका कलाम्॥ यदा च शास्त्राण्यध्येतुं शक्तिरस्य भविष्यति। तदास्य शास्त्रं दास्यामि येन वाग्मी भविष्यति॥ वरुणश्च वरं प्रादानास्य मृत्युभविष्यति। वर्षायुतशतेनापि भत्पाशादुदकादपि॥ यमो दण्डादवध्यत्वमरोगत्वं च दत्तवान्। वरं ददामि संतुष्ट अविषादं च संयुगे॥ गदेयं मामिका नैनं संयुगेषु बधिष्यति। इत्येवं धनदः प्राह तदा ह्येकाक्षिपिङ्गिलः॥ मत्तो मदायुधानां च अवध्योऽयं भविष्यति। इत्येवं शंकरेणापि दत्तोऽस्य परमो वरः॥ विश्वकर्मा च दृष्ट्वेमं बालं प्रति महारथः। मत्कृतानि च शस्त्राणि यानि दिव्यानि तानि च। तैरवध्यत्वमापनश्चिरजीवी भविष्यति ॥ दीर्घायुश्च महात्मा च ब्रह्मा तं प्राब्रवीद्वचः। सर्वेषां ब्रह्मदण्डानामवध्यत्वं भविष्यति।२०॥ ततः सुराणां तु वरैर्दृष्ट्वा होनमलंकृतम्। चतुर्मुखस्तुष्टमना वायुमाह जगद्गुरुः।२१॥ अमित्राणां भयकरो मित्राणामभयंकरः। अजेयो भविता पुत्रस्तव मारुत मारुतिः॥ कामरूपः कामचारी कामगः प्लवतां वरः। भवत्यव्याहतगतिः कीर्तिमांश्च भविष्यति॥ रावणोत्सादनार्थानि रामप्रीतिकराणि च। रोमहर्षकराण्येव कर्ता कर्माणि संयुगे॥ एवमुक्त्वा तमामन्त्र्य त्वमरैः सह। यथागतं ययुः सर्वे पितामहपुरोगमाः॥ सोऽपि गन्धवहः पुत्रं प्रगृह्य गृहमानयत्। अञ्जनायास्तमाख्याय वरदत्तं विनिर्गतः॥ प्राप्य राम वरानेष वरदानबलान्वितः। जवेनात्मनि संस्थेन सोऽसौ पूर्ण इवार्णवः॥ तरसा पूर्यमाणोऽपि तदा वानरपुङ्गवः। आश्रमेषु महर्षिणामपराध्यति निर्भयः॥ सुग्भाण्डान्यग्निहोत्राणि वल्कलानां च संचयान्। भग्नविच्छिन्नविध्वस्तान्संशान्तानां करोत्ययम्।।२९ एवंविधानि कर्माणि प्रावर्तत महाबलः। सर्वेषां ब्रह्मदण्डानामवध्यः शंभुना कृतः॥ जानन्त ऋषयः सर्वे सहन्ते तस्य शक्तितः। तथा केसरिणा त्वेष वायुना सोऽञ्जनीसुतः॥ प्रतिषिद्धोऽपि मर्यादां लङ्घयत्येव वानरः। ततो महर्षयः क्रुद्धा भृग्वङ्गिरसवंशजाः॥ शेषुरेनं रघुश्रेष्ठ नातिक्रुद्धातिमन्यवः। बाधसे यत्समाश्रित्य बलमस्मान्पुलवंगम॥ ततस्तु हततेजौजा स तु तद्दीर्घकालं वेत्तासि नास्माकं शापमोहितः। यदा ते स्मार्यते कीर्तिस्तदा ते वर्धते बलम्॥ महर्षिवचनौजसा। एषो श्रमाणि तान्येव मृदुभावं गतोऽचरत्॥ अथर्भरजसो नाम बालिसुग्रीवयोः पिता। सर्ववानरराजासीवेजसा इव भास्करः॥ राज्यं चिरं कृत्वा वानराणां महेश्वरः। ततस्त्वक्षरजा नाम कालधर्मेण योजितः॥ तस्मिन्नस्तमिते चाथ मन्त्रिमन्त्रकोविदैः। पित्र्ये पदे कृतो बाली सुग्रीवो वालिनः पदे॥ सुग्रीवेण समं त्वस्य अद्वैधं छिद्रवर्जितम्। आबाल्यं सख्यमभवदनिलस्याग्निना यथा॥ एष शापवशादेव न वेद बलमात्मनः। बालिसुग्रीवयोवैरं यदा राम समुत्थितम्॥ न ह्येष राम सुग्रीवो भ्राम्यमाणोऽपि बालिना। देव जानाति न ह्येष बलमात्मनि मारुतिः।४१॥ ऋषिशापाहतबलस्तदैव कपिसत्तमः। सिंहः कुञ्जररुद्धो वा आस्थितः सहितो रणे।॥ सौशील्यमाधुर्यनयानयैश्च। हनूमतः कोऽप्यधिकोऽस्ति लोके ॥ असौ पुनर्व्याकरणं ग्रहीष्यन् सूर्योन्मुखः प्रष्टुमना कपीन्द्रः। उद्यद्गिरेरस्तगिरिं जगाम ग्रन्थं महद्धारयनप्रमेयः॥ ससूत्रवृत्त्यर्थपदं महार्थं ससंग्रहं सिद्ध्यति वै कपीन्द्रः। नह्यस्य कश्चित्सदृशोऽस्ति शास्त्रे वैशारदे छन्दगतौ तथैव ॥ सर्वासु विद्यासु तपोविधाने प्रस्पर्धतेऽयं हि गुरुं सुराणाम्। प्रवीविविक्षोरिव सागरस्य लोकान्दिधक्षोरिव पावकस्य। लोकक्षयेष्वेव यथान्तकस्य हनूमतः स्थास्यति कः पुरस्तात्॥ एषेव चान्ये च महाकपीन्द्राः सुग्रीवमैन्दद्विविदाः सनीलाः। स्त्वत्कारणाद्राम सुरैर्हि सृष्टाः॥ गजो गवाक्षो गवयः सुदंष्ट्रो मैन्दः प्रभो ज्योतिमुखो नलश्च। स्त्वत्कारणाद्राम सुरेहि सृष्टाः॥ तदेत्कथितं सर्वं यन्मां त्वं परिपृच्छसि। हनूमतो बालभावे कर्मैतत्कथितं मया।॥ श्रुत्वागस्त्यस्य कथितं रामः सौमित्रिरेव च। विस्मयं परमं जग्मुर्वानरा राक्षसैः सह॥ अगस्त्यस्त्वब्रवीद्रामं सर्वमेतछुतं त्वया। दृष्टः संभाषितश्चासि राम गच्छामहे वयम्॥ श्रुत्वैतद्राघवो वाक्यमगस्त्यस्योग्रतेजसः। प्राञ्जलिः प्रणतश्चापि महर्षिमिदमब्रवीत्॥ अद्य मे देवतास्तुष्टाः पितरः प्रपितामहाः। युष्माकं दर्शनादेव नित्यं तुष्टाः सबान्धवाः। ५३।। विज्ञाप्य तु ममैतद्धियद्वदाम्यागतस्पृहः। तद्भवद्भिर्मम कृते कर्तव्यमनुकम्पया॥ पौरजानपदान्स्थाप्य स्वकार्येष्वहमागतः। क्रतूनहं करिष्यामि प्रभावाद्भवतां सताम्॥ सदस्या मम यज्ञेषु भवन्तो नित्यमेव तु। भविष्यथ महावीर्या ममानुग्रहकाङ्क्षिणः॥ अहं युष्मान्समाश्रित्य तपोनिधूतकल्मषान्। अनुगृहीतः पितृभिर्भविष्यामि सुनिवृतः। ५७।। तदागन्तव्यमनिशं भवद्भिरिह संगतैः। अगस्त्याद्यास्तु तच्छ्रुत्वा ऋषयः संशितव्रताः॥ एवमस्त्विति तं प्रोच्य प्रयातुमुषचक्रमुः। एवमुक्त्वा गताः सर्वे ऋषयस्ते यथागतम्॥ राघवश्च तमेवार्थं चिन्तयामास विस्मितः। ततोऽस्तं भास्करे याते विसृज्य नृपवानरान्।६०॥ संध्यामुपास्य विधिवत्तदा नरवरोत्तमः। प्रवृत्तायां रजन्यां तु सोऽन्तःपुरचरोऽभवत्॥ अभिषिक्ते तु काकुत्स्थे धर्मेण विदितात्मनि। व्यतीता या निशा पूर्वा पौराणां हर्षवर्धिनी॥ तस्यां रजन्यां व्युष्टायां प्रातर्नृपतिवोधकाः। वन्दिनः समुपातिष्ठन्सौम्या नृपतिवेश्मनि ॥ ते रक्तकण्ठिनः सर्वे किंनरा इव शिक्षिताः। तुष्टुवुर्नृपतिं वीरं यथा वत्सं प्रहर्षिणः॥ वीर सौम्य प्रबुध्यस्व कौसल्याप्रीतिवर्धन। जगद्धिसर्व स्वपिति त्वयि सुप्ते नराधिप।४।। विक्रमस्ते यथा विष्णो रूपं चैवाश्विनोरिव। बुद्ध्या बृहस्पतेस्तुल्यः प्रजापतिसमो ह्यसि॥ क्षमा ते पृथिवीतुल्या तेजसा भास्करोपमः। वेगस्ते वायुना तुल्यो गाम्भीर्यमुदधेरिव॥ अप्रकम्प्यो यथा स्थाणुश्चन्द्रे सौम्यत्वमीदृशम्। नेदृशाः पार्थिवाः पूर्व भवितारो नराधिप।७॥ यथा त्वमसि दुर्धर्षो धर्मनित्यः प्रजाहितः। न त्वां जहाति कीर्तिश्च लक्ष्मीश्च पुरुषर्षभ्दल।।।। श्रीश्च धर्मश्च काकुत्स्थ त्वयि नित्यं प्रतिष्ठितौ। एताश्चान्याश्च मधुरा वन्दिभिः परिकीर्तिताः॥ सूताश्च संस्तवैर्दिव्यैर्बोधयन्ति स्म राघवम्। स्तुतिभिः स्तूयमानाभिः प्रत्यबुध्यत राघवः॥ स तद्विहाय शयनं पाण्डुराच्छादनास्तृतम्। उत्तस्थौ नागशयनाद्धरिनारायणो यथा॥ तमुत्थितं महात्मानं प्रह्वाः प्राञ्जलयो नराः। सलिलं भाजनैः शुभैरुपतस्थुः सहस्रशः॥ कृतोदकः शुचिर्भूत्वा काले हुतहुताशनः। देवागारं जगामाशु पुण्यमिक्ष्वाकुसेवितम्॥ तत्र देवान्पितृन्विप्रानर्चयित्वा यथाविधि। बाह्यकक्षान्तरं रामो निर्जगाम जनैर्वृतः॥ उपतस्थुमहात्मानो मन्त्रिणः सपुरोहिताः। वसिष्ठप्रमुखाः सर्वे दीप्यमाना इवाग्नयः॥ क्षत्रियाश्च महात्मानो नानाजनपदेश्वराः। रामस्योपविशन्पायुं शक्रस्येव यथामराः॥ भरतो लक्ष्मणश्चात्र शत्रुघ्नश्च महायशाः। उपासांचक्रिरे हृष्टा वेदास्त्रय इवाध्वरम्॥ याताः प्राञ्जलयो भूत्वा किंकरा मुदिताननाः। मुदिता नाम पार्श्वस्था बहवः समुपाविशन्॥ वानराश्च महावीर्या विंशतिः कामरूपिणः। सुग्रीवप्रमुखा राममुपासन्ते महौजसः॥ विभीषणश्च रक्षोभिश्चतुर्भिः परिवारितः। उपासते महात्मानं धनेशमिव गुह्यकः॥ तथा निगमवृद्धाश्च कुलीना ये च मानवाः। शिरसा वन्द्य राजानमुपासन्ते विचक्षणाः॥ तथा परिवृतो राजा श्रीमद्भिषिभिवरैः। राजभिश्च महावीर्यैर्वानरैश्च सराक्षसैः॥ यथा देवेश्वरो नित्यमृषिभिः समुपास्यते। अधिकस्तेन रूपेण सहस्राक्षाद्विरोचते॥ तेषां समुपविष्टानां तास्ताः सुमधुराः कथाः। कथ्यन्ते धर्मसंयुक्ताः पुराणज्ञैर्महात्मभिः॥ एतच्छुत्वा त निखिलं राघवोऽगस्त्यमब्रवीत्। य एषःरजा नाम वालिसुग्रीवयोः पिता॥ जननी का च भवनं सा त्वया परिकीर्तिता। वालिसुग्रीवयोश्चापि नामनी केन हेतुना॥ एतद्ब्रह्मन्समाचक्ष्व कौतूहलमिदं हि नः। स प्रोक्तो राघवेणैवमगस्त्यो वाक्यमब्रवीत्॥ शृणु राम कथामेतां यथापूर्वं समासतः। नारदः कथयामास ममाश्रममुपागतः॥ कदाचिदटमानोऽसावतिधर्ममुपागतः। अर्चितस्तु यथान्यायं विधिदृष्टेन कर्मणा॥ सुखासीनः कथामेनां मया पृष्टः स कौतुकात्। कथयामास धर्मात्मा महर्षे श्रूयतामिति॥ मेरुर्नगवरः श्रीमाञ्जाम्बूनदमयः शुभः। तस्य यन्मध्यमं शृङ्गं सर्वदैवतपूजितम्॥ तस्मिन्दिव्या सभा रम्या ब्रह्मणः शतयोजना। तस्यामास्ते सदा देव: पद्मयोनिश्चतुर्मुखः॥ योगमभ्यसतस्तस्य नेत्राभ्यां यदसुस्रुवत्। तद्गृहीतं भगवता पाणिना चर्चितं तु तत्॥ निक्षिप्तमात्रं तद्भूमौ ब्रह्मणा लोककर्तृणा। तस्मिन्नश्रुकणे राम वानरः संबभूव ह॥ उत्पन्नमात्रस्तु तदा वानरच नरोत्तम। समाश्वास्य प्रियैर्वाक्यैरुक्तः किल महात्मना॥ पश्य शैलं सुविस्तीर्ण सुरैरध्युषितं सदा। तस्मिन् रम्ये गिरिवरे बहुमूलफलाशनः॥ ममान्तिकचरो नित्यं भव वानरपुंगव। कंचित्कालमिहास्व त्वं ततः श्रेयो भविष्यति॥ एवमुक्तः स चैतेन ब्रह्मणा वानरोत्तमः। प्रणम्य शिरसा पादौ देवदेवस्य राघव॥ उक्तवाँल्लोककर्तारमादिदेवं जगत्पतिम्। यथाज्ञापयसे देव स्थितोऽहं तव शासने॥ एवमुक्त्वा हरिदेवं ययौ हृष्टमनास्तदा। स तदा दुमखण्डेषु फलपुष्पधनेषु च॥ ब्रह्मन्प्रतिबलः शीघ्रं वने फलकृताशनः। चिन्वन्मधूनि मुख्यानि चिन्वन्पुष्पाण्यनेकशः॥ दिने दिने च सायाह्ने ब्रह्मणोऽन्तिकमागमत्। गृहीत्वा राम मुख्यानि पुष्पाणि च फलानि च॥ ब्रह्मणो देवदेवस्य पादमूले न्यवेदयत्। एवं तस्य गतः कालो बहु पर्यटतो गिरिम्॥ कस्यचित्त्वथ कालस्य समतीतस्य राघव। ऋक्षराड् वानरश्रेष्ठस्तृषया परिपीडितः॥ उत्तरं मेरुशिखरं गतस्तत्र च दृष्टवान्। नानाविहगसंघुष्टं प्रसन्नसलिलं सरः॥ चलत्केसरमात्मानं कृत्वा तस्य तटे स्थितः। ददर्श तस्मिन्सरसि वक्रच्छायामथात्मनः॥ कोऽयमस्मिन्मम रिपुर्वसत्यन्त ले महान्। रूपं चान्तर्गतं तत्र वीक्ष्य तत्पश्यतो हरिः॥ क्रोधाविष्टमना होष नियतं मावमन्यते। तदस्य दुष्टभावस्य पुष्कलं कुमतेहम्॥ एवं स चिन्त्य मनसा स वै वानरचापलात्। आप्लुत्य चापतत्तस्मिन्हदे वानरसत्तमः॥ उत्प्लुत्य तस्मात्स ह्रदादुत्थितः प्लवगः पुनः। तस्मिन्नेव क्षणे राम स्त्रीत्वं प्राप स वानरः॥ मनोज्ञरूपा सा नारी लावण्यललिता शुभा। विस्तीर्णजघना सुधूर्नीलकुन्तलमूर्धजा॥ मुग्धसस्मितवक्रा च पीनस्तनतटा शुभा। हृदतीरे च सा भाति ऋजुयष्टिलता यथा॥ त्रैलोक्यसुन्दरी कान्ता सर्वचित्तप्रमाथिनी। लक्ष्मीव पद्मरहिता चन्द्रज्योत्स्नेव निर्मला॥ रूपेणाप्यभवत्सा तु श्रियं देवीमुमा यथा। द्योतयन्ती दिशः सर्वास्तथाभूत्सा वराङ्गना॥ एतस्मिन्नन्तरे देवो निवृत्तः सुरनायकः। पादावुपास्य देवस्य ब्रह्मणस्तेन वै पथा॥ तस्यामेव च वेलायामादित्योऽपि परिभ्रमन्। तस्मिन्नेव पदे सोऽभूास्मिन्सा तनुमध्यमा॥ युगपत्सा तदा दृष्टा देवाभ्यां सुरसुन्दरी। कंदर्पवशगौ तौ तु दृष्ट्वा तां संबभूवतुः॥ ततः क्षुभितसर्वाङ्गौ सुरेन्द्रौ पन्नगाविव। तद्रूपमद्भुतं दृष्ट्वा त्याजितौ धैर्यमात्मनः॥ ततस्तस्यां सुरेन्द्रेण स्कन्नं शिरसि पातितम्। अनासाथैव तां नारी संनिवृत्तमथाभवत्॥ ततः सा वानरपतिं जज्ञे वानरमीश्वरम्। अमोघरेतसस्तस्य वासवस्य महात्मनः॥ वालेषु पतितं बीजं वाली नाम बभूव सः। भास्करेणापि तस्यां वै कंदर्पवशवर्तिना॥ बीजं निषिक्तं ग्रीवायां विधानमनुवर्तत। तेनापि सा वरतनुर्नोक्ता किंचिद्वचः शुभम्॥ निवृत्तमदनश्चाथ सूर्योऽपि समपद्यत। ग्रीवायां पतितं बीजं सुग्रीवः समजायत॥ एवमुत्पाद्य तौ वीरौ वानरेन्द्रौ महाबलौ। दत्त्वा तु काञ्चनी मालां वानरेन्द्रस्य वालिनः॥ अक्षय्यां गुणसंपूर्णां शक्रस्तु त्रिदिवं ययौ। सूर्योऽपि स्वसुतस्यैव निरूप्य पवनात्मजम्॥ कृत्येषु व्यवसायेषु जगाम सविताम्बरम्। तस्यां निशायां व्युष्टायामुदिते च दिवाकरे॥ स तद्वानररूपं तु प्रतिपेदे पुनर्नृप। स एव वानरो भूत्वा पुत्रौ स्वस्य प्लवंगमौ॥ पिड्रेक्षणी हरिवरौ बलिनौ कामरूपिणौ। मधून्यमृतकल्पानि पायितौ तेन तौ तदा॥ गृह्य ऋक्षरजास्तौ तु ब्रह्मणोऽन्तिकमागमत्। दृष्टवक्षरजसं पुत्रं ब्रह्मा लोकपितामहः॥ बहुशः सान्त्वयामास पुत्राभ्यां सहितं हरिम्। सान्त्वयित्वा ततः पश्चाद्देवदूतमथादिशत्॥ गच्छ मद्वचनात किष्किन्धां नाम वै शुभाम्। सा ह्यस्य गुणसंपन्ना महती च पुरी शुभा॥ तत्र वानरयूथानि सुबहूनि वसन्ति च। बहुरत्नसमाकीर्णा वानरैः कामरूपिभिः॥ पुण्या पुण्यवती दुर्गा चातुर्वर्ण्यपुरस्कृता। विश्वकर्मकृता दिव्या मन्नियोगाय शोभना॥ तत्रःरजसं दृष्ट्वा सपुत्रं वानरर्षभम्। यूथपालान्समाह्वाय यांश्चान्यान्प्राकृतान्हरीन्॥ तेषां संभाव्य सर्वेषां मदीयं जनसंसदि। अभिषेचय राजानमारोप्य महदासने॥ दृष्टमात्राश्च ते सर्वे वानरेण च धीमता। अस्यर्भरजसो नित्यं भविष्यन्ति वशानुगाः॥ इत्येवमुक्ते वचने ब्रह्मणा तं हरीश्वरम्। पुरतः कृत्य दूतोऽसौ प्रययौ तां पुरीं शुभाम्॥ स प्रविश्यानिलगतिस्तां गुहां वानरोत्तमः। स्थापयामास राजानं पितामहनियोगतः॥ राज्याभिषेकविधिना स्नातोऽथाभ्यर्चितस्तथा। स बद्धमुकुटः श्रीमानभिषिक्तः स्वलंकृतः॥ . आज्ञापयामास हरीन्सर्वान्मुदितमानसः। सप्तद्वीपसमुद्रायां पृथिव्यां ये प्लवंगमाः॥ वालिसुग्रीवयोरेष एष चक्षरज:पिता। जननी चैष तु हरिरित्येतद्भद्रमस्तु ते॥ यश्चैतच्छ्रावयेद्विद्वान्यश्चैतच्छृणुयान्नरः। सिद्ध्यन्ति तस्य कार्यार्था मनसो हर्षवर्धनाः॥ एतच सर्वं कथितं मया विभो प्रविस्तरेणेह यथार्थतस्तत्। उत्पत्तिरेषा रजनीचराणामुक्ता तथैवेह हरीश्वराणाम्॥ एतां श्रुत्वा कथां दिव्यां पौराणी राघवस्तदा। भ्रातृभिः सहितो वीरो विस्मयं परमं ययौ॥ राघवोऽथ ऋषेर्वाक्यं श्रुत्वा वचनमब्रवीत्। कथेयं महती पुण्या त्वत्प्रसादाच्छुता मया॥ बृहत्कौतूहले चास्मिन्संवृतो मुनिपुंगवा उत्पत्तिर्यादृशी दिव्या वालिसुग्रीवयोजि॥ किं चित्रं मम ब्रह्मर्षे सुरेन्द्रतपनावुभौ। जातौ वानरशार्दूलौ बलेन बलिनां वरौ॥ एवमुक्ते तु रामेण कुम्भयोनिरभाषत। एवमेतन्महाबाहो वृत्तमासीत्पुरा किल॥ अथापरां कथां दिव्यां शृणु राजन्सनातनीम्। यदर्थं राम वैदेही रावणेन पुरा हृता॥ तत्तेऽहं कीर्तयिष्यामि समाधि श्रवणे कुरु। पुरा कृतयुगे राम प्रजापतिसुतं प्रभुम्॥ सनत्कुमारमासीनं रावणो राक्षसाधिपः। वपुषा सूर्यसंकाशं ज्वलन्तमिव तेजसा॥ विनयावनतो भूत्वा ह्यभिबाद्य कृताञ्जलिः। उक्तवानरावणो राम तमृषि सत्यवादिनम्॥ को हस्मिन्नवरो लोके देवानां बलवत्तरः। यं समाश्रित्य विबुधा जयन्ति समरे रिपून्॥ कं जयन्ति द्विजा नित्यं कं ध्यायन्ति च योगिनः। एतन्मे शंस भगवन्विस्तरेण तपोधन। ११॥ विदित्वा हृद्गतं तस्य ध्यानदृष्टिर्महायशाः। उवाच रावणं प्रेम्णा श्रूयतामिति पुत्रका॥ यो वै भर्ता जगत्कृत्स्नं यस्योत्पत्तिं न विद्महे। सुरासुरैर्नतो नित्यं हरिनारायणः प्रभुः॥ यस्य नाभ्युद्भवो ब्रह्मा विश्वस्य जगतः पतिः। येन सर्वमिदं सृष्टं विश्वं स्थावरजंगमम्॥ तं समाश्रित्य विबुधा विधिना हरिमध्वरे। पिबन्ति हमृतं चैव मानिताश्च यजन्ति तम्॥ पुराणैश्चैव वेदेच पञ्चरात्रैस्तथैव च। ध्यायन्ति योगिनो नित्यं क्रतुभिश्च यजन्ति तम्॥ ' दैत्यदानवरक्षांसि ये चान्ये चामरद्विषः। सर्वाञ्जयति सङ्ग्रामे सदा सर्वैः स पूज्यते॥ श्रुत्वा महर्षेस्तद्वाक्यं रावणो राक्षसाधिपः। उवाच प्रणतो भूत्वा पुनरेव महामुनिम्॥ दैत्यदानवरक्षांसि ये हताः समरेऽरयः। कां गतिं प्रतिपद्यन्ते किं च ते हरिणा हताः॥ रावणस्य वचः श्रुत्वा प्रत्युवाच महामुनिः। दैवतैनिहता नित्यं प्राप्नुवन्ति दिवः स्थलम्॥ पुनस्तस्मात्परिभ्रष्टा जायन्ते वसुधातले। पूर्वार्जितः सुखैर्दुःखैर्जायन्ते च म्रियन्ति च॥ स्त्रैलोक्यनाथेन जनार्दनेन। ते तें गतास्तनिलयं नरेन्द्राः क्रोधोऽपि देवस्य वरेण तुल्यः॥ श्रुत्वा ततस्तद्वचनं निशाचरः सनत्कुमारस्य मुखाद्विनिर्गतम्। तथा प्रहृष्टः स बभूव विस्मितः कथं न यास्यामि हरि महाहवे॥ एवं चिन्तयतस्तस्य रावणस्य दुरात्मनः। पुनरेवापरं वाक्यं व्याजहार महामुनिः॥ मनसथेप्सितं यत्तद्भविष्यति महाहवे। सुखी भव महाबाहो कंचित्कालमुदीक्षय॥ एवं श्रुत्वा महाबाहुस्तमृर्षि प्रत्युवाच सः। कीदृशं लक्षणं तस्य बूहि सर्वमशेषतः॥ राक्षसेशवचः श्रुत्वा स मुनिः प्रत्यभाषत। श्रूयतां सर्वमाख्यास्ये तव राक्षसपुंगव॥ स हि सर्वघतो देवः सूक्ष्मोऽव्यक्तः सनातनः। तेन सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम्॥ स भूमौ दिवि पाताले पर्वतेषु वनेषु च। स्थावरेषु च सर्वेषु नदीषु नगरीषु च॥ ओङ्कारचैव सत्यश्च सावित्री पृथिवी च सः। धराधरधरो देवो हनन्त इति विश्रुतः॥ अहश्च रात्रिश्च उभे च संध्ये दिवाकरशैव यमच सोमः। स एव कालो ह्यनिलोऽनलश्च स ब्रह्मरुद्रेन्द्र स एव चापः॥ विद्योतति ज्वलति भाति लोकान्सृजत्ययं संहरति प्रशास्ति। क्रीडां करोत्यव्ययलोकनाथो विष्णुः पुराणो भवनाशकैकः॥ अथवा बहुनानेन किमुक्तेन दशानन। तेन सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम्॥ नीलोत्पलदलश्यामः किंजल्कारुणवाससा। प्रावृट्काले यथा व्योम्नि सतडित्तोयदो यथा॥ श्रीमान्मेघवपुः श्यामः शुभः पङ्कजलोचनः। श्रीवत्सेनोरसा युक्तः शशाङ्ककृतलक्षणः॥ तस्य नित्यं शरीरस्था मेघस्येव शतहदाः। सामरूपिणी लक्ष्मीदेहमावृत्य तिष्ठति॥ न शक्यः स सुरैर्द्रष्टुं नासुरैर्न च पन्नगैः। यस्य प्रसादं कुरुते स वै तं द्रष्टुमर्हति॥ नहि यज्ञफलैस्तात न तपोभिस्तु संचितैः। शक्यते भगवान्द्रष्टु न दानेन न चेज्यया॥ तद्भक्तैस्तद्गतप्राणैस्तचित्तैस्तत्परायणैः। शक्यते भगवान्द्रष्टुं ज्ञाननिर्दग्धकिल्बिषैः॥ अथवा पृच्छ्य रक्षेन्द्र यदि तं द्रष्टुमिच्छसि। कथयिष्यामि ते सर्वं श्रूयतां यदि रोचते॥ कृते युगे व्यतीते वै मुखे त्रेतायुगस्य तु। हितार्थं देवमानां भविता नृपविग्रहः॥ इक्ष्वाकूणां च यो राजा भाव्यो दशरथो भुवि। तस्य सुनुर्महातेजा रामो नाम भविष्यति॥ महातेजा महाबुद्धिर्महाबलपराक्रमः। महाबाहुर्महासत्त्वः क्षमया पृथिवीसमः॥ आदित्य इव दुष्प्रेक्ष्यः समरे शत्रुभिस्तदा। भविता हि तदा रामो नरो नारायणः प्रभुः॥ पितुर्नियोगात्स विभुर्दण्डके विविध वने। विचरिष्यति धर्मात्मा भ्रात्रा सह महामनाः॥ तस्य पत्नी महाभागा लक्ष्मी सीतेति विश्रुता। दुहिता जनकस्यैषा उत्थिता वसुधातलात्॥ रूपेणाप्रतिमा लोके सर्वलक्षणलक्षिता। छायेवानुगता रामं निशाकरमिव प्रभा॥ शीलाचारगुणोपेता साध्वी धैर्यसमन्विता। सहस्रांशो रश्मिरिव ह्येका मूर्तिरिव स्थिता॥ एवं ते सर्वमाख्यातं मया रावण विस्तरात्। महतो देवदेवस्य शाश्वतस्याव्यंयस्य च॥ एवं श्रुत्वा महाबाहु राक्षसेन्द्रः प्रतापवान्। त्वया सह विरोधेच्छुश्चिन्तयामास राघव॥ सनत्कुमारात्तद्वाक्यं चिन्तयानो मुहुर्मुहुः। रावणो मुमुदे श्रीमान्युद्धार्थ विचचार ह॥ श्रुत्वा च तां कथां रामो विस्मयोत्फुल्ललोचनः। शिरसञ्चालनं कृत्वा विस्मयं परमं गतः॥ श्रुत्वा तु वाक्यं स नरेश्वरस्तदा मुदा युतो विस्मयमानचक्षुः। पुनश्च तं ज्ञानवतां प्रधानमुवाच वाक्यं वद मे पुरातनम्॥३० ततः पुनर्महातेजाः कुम्भयोनिमहायशाः। उवाच रामं प्रणतं पितामह इवेश्वरम्॥ श्रूयतामिति चोवाच रामं सत्यपराक्रमम्। कथाशेषं महातेजाः कथयामास स प्रभुः॥ यथाख्यानं श्रुतं चैव यथावृत्तं यथा तथा। प्रीतात्मा कथयामास राघवाय महामतिः॥ एतदर्थं महाबाहो रावणेन दुरात्मना। सुता जनकराजस्य हृता राम महामते॥ एतां कथां महाबाहो नारदः सुमहायशाः। कथयामास दुर्धर्ष मेरौ गिरिवरोत्तमे॥ देवगन्धर्वसिद्धानामृषीणां च महात्मनाम्। कथाशेषं पुनः सोऽथ कथयामास राघव॥ नारदः सुमहातेजाः प्रहसन्निव मानद। तां कथां शृणु राजेन्द्र महापापप्रणाशनीम्॥ यां तु श्रुत्वा महाबाहो ऋषयो दैवतैः सह। ऊचुस्तं नारदं सर्वे हर्षपर्याकुलेक्षणम्॥ यश्चमां श्रावयेन्नित्यं शृणुयाद्वापि भक्तितः। स पुत्रपौत्रवानराम स्वर्गलोके महीयते॥ ततः स राक्षसो राम पर्यटन्पृथिवीतले। विजयार्थी महाशूरै राक्षसैः परिवारितः॥ दैत्यदानवरक्षःसु यं शृणोति बलाधिकम्। तमाह्वयति युद्धार्थी रावणो बलदर्पितः॥ एवं स पर्यटन्सर्वां पृथिवीं पृथिवीपते। ब्रह्मलोकान्निवर्तन्तं समासाद्याथ रावणः॥ व्रजन्तं मेघपृष्ठस्थमंशुमन्तमिवापरम्। तमभिसृत्य प्रीतात्मा ह्यभिवाद्य कृताञ्जलिः॥ उवाच हृष्टमनसा नारदं रावणस्तदा। आब्रह्मभुवनं लोकास्त्वया दृष्टा ह्यनेकशः॥ कस्मिल्लोके महाभाग मानवा बलवत्तराः। योद्धमिच्छामि तैः सार्धं यथाकामं यदृच्छया॥ चिन्तयित्वा मुहूर्तं तु नारदः प्रत्युवाच तम्। अस्ति राजन्महाद्वीपं क्षीरोदस्य समीपतः॥ तत्र ते चन्द्रसंकाशा मानवाः सुमहाबलाः। महाकाया महावीर्या मेघस्तनितनि:स्वनाः॥ महामात्रा धैर्यवन्तो महापरिघबाहवः। श्वेतद्वीपे मया दृष्टा मानवा राक्षसाधिप।॥ बलवीर्यसमोपेतान्यादृशास्त्वमिहेच्छसि। नारदस्य वचः श्रुत्वा रावणः प्रत्युवाच ह॥ कथं नारद जायन्ते तस्मिन्द्वीपे महाबलाः। श्वेतद्वीपे कथं वासः प्राप्तस्तैस्तु महात्मभिः॥ एतन्मे सर्वमाख्याहि प्रभो नारद तत्त्वतः। त्वया दृष्टं जगत्सर्वं हस्तामलकवत्सदा॥ रावणस्य वचः श्रुत्वा नारदः प्रत्युवाच ह। अनन्यमनसो नित्यं नारायणपरायणाः॥ तदाराधनसक्ताच तचित्तास्तत्परायणाः। एकान्तभावानुगतास्ते जरा राक्षसाधिप॥ तचित्तास्तद्रतप्राणा नरा नारायणं सदा। श्वेतद्वीपे तु तैर्वास अर्जितः सुमहात्मभिः॥ ये हता लोकनाथेन शाईमानम्य संयुगे। चक्रायुधेन देवेन तेषां वासस्त्रिविष्टपे॥ नहि यज्ञफलैस्तात न तपोभिन संयमैः। न च दानफलैर्मुख्यैः स लोकः प्राप्यते सुखम्॥ नारदस्य वचः श्रुत्वा दशग्रीवः सुविस्मितः। ध्यात्वा तु सुचिरं कालं तेन योत्स्यामि संयुगे॥ आपृच्छ्य नारदं प्रायाच्छेतद्वीपाय रावणः। नारदोऽपि चिरं ध्यात्वा कौतूहलसमन्वितः॥ दिदृक्षुः परमाश्चर्यं तत्रैव त्वरितं ययौ। स हि केलिकरो विप्रो नित्यं च समरप्रियः॥ रावणोऽपि ययौ तत्र राक्षसैः सह राघव। महता सिंहनादेन दारयन्स दिशो दश॥ गते तु नारदं तत्र रावणोऽपि महायशाः। प्राप्य श्वेतं महाद्वीपं दुर्लभं यत्सुरैरपि॥ तेजसा तस्य द्वीपस्य रावणस्य बलीयसः। तत्तस्य पुष्पकं यानं वातवेगसमाहतम्॥ अवस्थातुं न शक्नोति वाताहत इवाम्बुदः। सचिवा राक्षसेन्द्रस्य द्वीपमासाद्य दुईशम्॥ अब्रुवनरावणं भीता राक्षसा जातसाध्वसाः। राक्षसेन्द्र वयं मूढा भ्रष्टसंज्ञा विचेतसः॥ अवस्थातुं न शक्ष्यामो युद्धं कर्तुं कथंचन। एवमुक्त्वा दुद्रुवस्ते सर्व एव निशाचराः॥ रावणोऽपि हि तद्यानं पुष्पकं हेमभूषितम्। विसर्जयामास तदा सह तैः क्षणदाचरैः॥ गतं तु पुष्पकं राम रावणो राक्षसाधिपः। कृत्वा रूपं महाभीमं सर्वराक्षसवर्जितः॥ प्रविवेश तदा तस्मिश्वेतद्वीपे स रावणः। प्रविशन्नेव तत्राशु नारीभिरुपलक्षितः॥ एकया स स्मितं कृत्वा हस्ते गृह्य दशाननम्। पृष्ध्यागमनं ब्रूहि किमर्थमिह चागतः॥ को वा त्वं कस्य वा पुत्रः केन वा प्रहितो वदा इत्युक्तो रावणो राजक्रुद्धो वचनमब्रवीत्॥ अहं विश्रवसः पुत्रो रावणो नाम राक्षसः। युद्धार्थमिह संप्राप्तो न च पश्यामि कंचन॥ एवं कथयतस्तस्य रावणस्य दुरात्मनः। प्राहसंस्ते ततः सर्वे सुस्वनं युवतीजनाः॥ तासामेका ततः क्रुद्धा बालवद्गृह्य लीलया। भ्रामितस्तु सखीमध्ये मध्ये गृह्य दशाननम्॥ सखीमन्यां समाहूय पश्य त्वं कीटकं धृतम्। दशास्यं विंशतिभुजं कृष्णाञ्जनसमप्रभम्॥ हस्ताद्धस्तं स च क्षिप्तो भ्राम्यते भ्रमलालसः। भ्राम्यप्राणेन बलिना राक्षसेन विपश्चिता॥ पाणावेकाथ संदष्टा रोषेण वनिता शुभा। मुक्तस्तयाशुभ: कीटो धुन्वन्त्या हस्तवेदनात्॥ गृहीत्वान्या तु रक्षेन्द्रमुत्पपात विहायसा। ततस्तामपि संक्रुद्धो विददार नखै शम्॥ तया सह विनिर्वृतः सहसैव निशाचरः। पपात सोऽम्भसो मध्ये सागरस्य भयातुरः॥ पर्वतस्येव शिखरं यथा वज्रविदारितम्। प्रापतत्सागरजले तथासौ विनिपातितः॥ एवं स रावणो राम श्वेतद्वीपनिवासिभिः। युवतीभिर्विगृह्याशु भ्रामितश्च ततस्ततः॥ नारदोऽपि महातेजा रावणं प्राप्य धर्षितम्। विस्मयं सुचिरं कृत्वा प्रजहास ननर्त च॥ एतदर्थ महाबाहो रावणेन दुरात्मना। विज्ञायापहृता सीता त्वत्तो मरणकाझ्या॥ भवान्नारायणो देवः शङ्खचक्रगदाधरः। शाईपद्मायुधो वजी सर्वदेवनमस्कृतः॥ श्रीवत्साङ्को हृषीकेशः सर्वदेवाभिपूजितः। पद्मनाभो महायोगी भक्तानामभयप्रदः॥ वधार्थं रावणस्य त्वं प्रविष्टो मानुषीं तनुम्। किं न वेत्सि त्वमात्मानं यथा नारायणो हाहम्॥ मा मुह्यस्व महाभाग स्पर चात्मानमात्मना। गुह्याद्गुह्यतरस्त्वं हि ह्येवमाह पितामहः॥ त्रिगुणश्च त्रिवेदी च त्रिधामा च त्रिराघव। त्रिकालकर्म त्रैविद्य त्रिदशारिप्रमर्दन॥ भयाक्रान्तास्त्रयो लोकाः पुराणैर्विक्रमैस्त्रिभिः। त्वं महेन्द्रानुजः श्रीमान्बलिबन्धनकारणात्॥ अदित्या गर्भसंभूतो विष्णुस्त्वं हि सनातनः। लोकाननुग्रहीतुं वै प्रविष्टो मानुषीं तनुम्॥ तदिदं साधितं कार्यं सुराणां सुरसत्तमा निहतो रावणः पापः सपुत्रगणबान्धवः॥ प्रहृष्टाश्च सुराः सर्वे ऋषयश्च तपोधनाः। प्रशान्तं च जगत्सर्वं त्वत्प्रसादात्सुरेश्वर॥ सीता लक्ष्मीर्महाभागा संभूता वसुधातलात्। त्वदर्थमिह चोत्पन्ना जनकस्य गृहे प्रभो॥ लङ्कामानीय यत्नेन मातेव परिरक्षिता। एवमेतत्समाख्यातं तव राम महायशः॥ ममापि नारदेनोक्तमृषिणा दीर्घजीविना। यथा सनत्कुमारेण व्याख्यातं तस्य रक्षसः॥ तेनापि च तदेवाशु कृतं सर्वमशेषतः। यश्चतच्छ्रावयेच्छ्राद्धे विद्वान्ब्राह्मणसंनिधौ॥ अन्नं तदक्षयं दत्तं पितॄणामुपतिष्ठति। एतां श्रुत्वा कथां दिव्यां रामो राजीवलोचनः॥ परं विस्मयमापन्नो भ्रातृभिः सह राघवः। वानराः सहसुग्रीवा राक्षसाः सबिभीषणाः॥ राजानश्च सहामात्या ये चान्येऽपि समागताः। ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा धर्मसमन्विताः॥ सर्वे चोत्फुल्लनयनाः सर्वे हर्षसमन्विताः। राममेवानुपश्यन्ति भृशमत्यन्तहर्षिताः॥ ततोऽगस्त्यो महातेजा राघवं चेदमब्रवीत्। दृष्टाः सभाजिताश्चापि राम यास्यामहे वयम्॥ एवमुक्त्वा गताः सर्वे पूजितास्ते यथागतम्॥ एवमास्ते महाबाहुरहन्यहनि राघवः। प्रशासत्सर्वकार्याणि पौरजानपदेषु॥ ततः कतिपयाहःसु वैदेहं मिथिलाधिपम्। राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह॥ भवान्हि गतिरव्यग्रा भवता पालिता वयम्। भवतस्तेजसोग्रेण रावणो निहतो मया॥ इक्ष्वाकूणां च सर्वेषां मैथिलानां च सर्वशः। अतुलाः प्रीतयो राजन्संबन्धकपुरोगमाः।४।। तद्भवान्स्वपुरं यातु रत्नान्यादाय पार्थिव। भरतश्च सहायार्थ पृष्ठतश्चानुयास्यति॥ स तथेति ततः कृत्वा राघवं वाक्यमब्रवीत्। प्रीतोऽस्मि भवतो राजन्दर्शनेन नयेन च॥ यान्येतानि तु रत्नानि मदर्थं संचितानि वै। दुहित्रोस्तान्यहं राजन्सर्वाण्येव ददामि वै।७।। ततः प्रयाते जनके केकयं मातुलं प्रभुम्। राघवः प्राञ्जलिर्भूत्वा विनयाद्वाक्यमब्रवीत्॥ इदं राज्यमहं चैव भरतश्च सलक्ष्मणः। आयत्तास्त्वं हि नो राजन्गतिश्च पुरुषर्षभ।९।। राजा हि वृद्धः संतापं त्वदर्थमुपयास्यति। तस्माद्गमनमद्यैव रोचते तव पार्थिव॥ लक्ष्मणेनानुयात्रेण पृष्ठतोऽनुगमिष्यते। धनमादाय बहुलं रत्नानि विविधानि च॥ युधाजित्तु तथेत्याह गमनं प्रति राघव। रत्नानि च धनं चैव त्वय्येवाक्षय्यमस्त्विति॥ प्रदक्षिणं च राजानं कृत्वा केकयवर्धनः। रामेण च कृतः पूर्वमभिवाद्य प्रदक्षिणम्॥ लक्ष्मणेन सहायेन प्रयातः केकयेश्वरः। हतेऽसुरे यथा वृत्रे विष्णुना सह वासवः ॥ तं विसृज्य ततो रामो वयस्यमकुतोभयम्। प्रतर्दनं काशिपतिं परिष्वज्येदमब्रवीत्॥ दर्शिता भवता प्रीतिर्दर्शितं सौहृदं परम्। उद्योगश्च त्वया राजन्भरतेन कृतः सह ॥ तद्भवानद्य काशेय पुरों वाराणसी व्रज। रमणीयां त्वया गुप्तां सुप्राकारां सुतोरणाम्॥ एतावदुक्त्वा चोत्थाय काकुत्स्थः परमासनात्। पर्यष्वजत धर्मात्मा निरन्तरमुरोगतम्॥ विसर्जयामास तदा कौसल्याप्रीतिवर्धनः। राघवेण कृतानुज्ञः काशेयो ह्यकुतोभयः॥ वाराणसी ययौ तूर्णं राघवेण विसर्जितः। विसृज्य तं काशिपति त्रिशतं पृथिवीपतीन्॥ प्रहसन्राघवो वाक्यमुवाच मधुराक्षरम्। भवतां प्रीतिरव्यग्रा तेजसा परिरक्षिता।२१।। धर्मश्च नियतो नित्यं सत्यं च भवतां सदा। युष्माकं चानुभावेन तेजसा च महात्मनाम्॥ हतो दुरात्मा दुर्बुद्धी रावणो राक्षसाधमः। हेतुमात्रमहं तत्र भवतां तेजसा हतः॥ रावणः सगणो युद्धे सपुत्रामात्यबान्धवः। भवन्तश्च समानीता भरतेन महात्मना॥ श्रुत्वा जनकराजस्य काननात्तनयां हृताम्। उद्युक्तानां च सर्वेषां पार्थिवानां महात्मनाम् ॥ कालोऽप्यतीतः सुमहान्गमनं रोचयाम्यतः। प्रत्यूचुस्तं च राजानो हर्षेण महता वृताः॥ दिष्ट्या त्वं विजयी राम राज्यं चापि प्रतिष्ठितम्। दिष्ट्या प्रत्याहृता सीता दिष्ट्या शत्रुः पराजितः।।२७ एष नः परमः काम एषा नः प्रीतिरुत्तमा। यत्त्वां विजयिनं राम पश्यामो हतशात्रवम्॥ एतत्त्वय्युपपन्नं च यदस्मांस्त्वं प्रशंससे। प्रशंसाह न जानीमः प्रशंसां वक्तुमीदृशीम्॥ आपृच्छामो गमिष्यामो हृदिस्थो नः सदा भवान्। वर्तामहे महाबाहो प्रीत्यात्र महता वृताः॥ भवेच्च ते महाराज प्रीतिरस्मासु नित्यदा। बाढमित्येव राजानो हर्षेण परमान्विताः॥ ऊचुः प्राञ्जलयः सर्वे राघवं गमनोत्सुकाः। पूजितास्ते च रामेण जग्मुर्देशान्स्वकान्स्वकान्॥ ते प्रयाता महात्मानः पार्थिवास्ते प्रहृष्टवत्। गजवाजिसहस्रौषैः कम्पयन्तो वसुंधराम्॥ अक्षौहिण्यो हि तत्रासनाघावार्ये समुद्यताः। भरतस्याज्ञयानेकाः : प्रहृष्टबलवाहनाः॥ ऊचुस्ते च महीपाला बलतर्पसमन्विताः। न रामरावणं युद्धेः पश्यामः पुरतः स्थितम्॥ भरतेन वयं पश्चात्समानीता निरर्थकम्। हता हि राक्षसाः क्षिप्रं पार्थिवैः स्युर्न संशयः॥ रामस्य बाहुवीर्येण रक्षिता लक्ष्मणस्य च। सुखं पारे समुद्रस्य युध्येम विगतज्वराः॥ एताश्चान्याश्च राजानः कथास्तत्र सहस्रशः। कथयन्तः स्वराज्यानि जग्मुर्हर्षसमन्विताः॥ स्वानि राज्यानि मुख्यानि ऋद्धानि मुदितानि च। समृद्धधनधान्यानि पूर्णानि वसुमन्ति च॥ यथापुराणि ते गत्वा रत्नानि विविधान्यथ। रामस्य प्रियकामार्थमुपहारं नृपा ददुः॥ अश्वान्यानानि रत्नानि हस्तिनश्च मदोत्कटान्। चन्दनानि च मुख्यानि दिव्यान्याभरणानि च।९।। मणिमुक्ताप्रवालास्तु दास्यो रूपसमन्विताः। अजाविकं च विविधं रथांस्तु विविधान्बहून्॥ भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलः। आदाय तानि रत्नानि स्वां पुरी पुनरागताः॥ आगम्य च पुरीं रम्यामयोध्यां पुरुषर्षभाः। तानि रत्नानि चित्राणि रामाय समुपानयन्॥ प्रतिगृह्य च तत्सर्वं रामः प्रीतिसमन्वितः। सुग्रीवाय ददौ राज्ञे महात्मा कृतकर्मणे॥ बिभीषणाय च ददौ तथान्येभ्योऽपि राघवः। राक्षसेभ्यः कपिभ्यश्च यैर्वृतो जयमाप्तवान्॥ ते सर्वे रामदचानि रत्नानि कपिराक्षसाः। शिरोभिर्धारयामासुर्भुजेषु च महाबलाः॥ हनूमन्तं च नृपतिरिक्ष्वाकूणां महारथः। अङ्गदं च महाबाहुमङ्कमारोप्य वीर्यवान्॥ रामः कमलपत्राक्षः सुग्रीवमिदमब्रवीत्। अङ्गदस्ते सुपुत्रोऽयं मन्त्री चाप्यनिलात्मजः॥ सुग्रीवमन्त्रिते युक्तौ मम चापि हिते रतौ। अर्हतो विविधां पूजां त्वत्कृते वै हरीश्वर॥ इत्युक्त्वा व्यपमुच्याङ्गाद्भूषणानि महायशाः। स बबन्ध महााणि तदाङ्गदहनूमतोः॥ आभाष्य च महावीर्यान्राघवो यूथपर्षभान्। नीलं नलं केसरिणं कुमुदं गन्धमादनम् ॥ सुषेणं पनसं वीरं मैन्दं द्विविदमेव च। जाम्बवन्तं गवाक्षं च विनतं धूम्रमेव च।॥ बलीमुखं प्रजङ्ख च संनादं च महाबलम्। दरीमुखं दधिमुखमिन्द्रजानुं च यूथपम्॥ मधुरं श्लक्ष्णया वाचा नेत्राभ्यामापिबनिव। सुहृदो मे भवन्तश्च शरीरं भ्रातरस्तथा॥ युष्माभिरुद्धृतश्चाहं व्यसनात्काननौकसः। धन्यो राजा च सुग्रीवो भवद्भिः सुहृदां वरैः॥ एवमुक्त्वा ददौ तेभ्यो भूषणानि यथार्हतः। वज्राणि च महाणि सस्वजे च नरर्षभः॥ ते पिबन्तः सुगन्धीनि मधूनि मधुपिङ्गलाः। मांसानि च सुमृष्टानि मूलानि च फलानि च॥ एवं तेषां निवसतां मासः साग्रो ययौ तदा। मुहूर्तमिव ते सर्वे रामभक्त्या च मेनिरे॥ रामोऽपि रेमे तैः साधं वानरैः कामरूपिभिः। राक्षसैश्च महावीक्षैश्चैव महाबलैः॥ एवं तेषां ययौ मासो द्वितीयः शिशिरः सुखम्। वानराणां प्रहृष्टानां राक्षसानां च सर्वशः॥ इक्ष्वाकुनगरे रम्ये परां प्रीतिमुपासताम्। रामस्य प्रीतिकरणैः कालस्तेषां सुखं ययौ॥ तथा स्म तेषां वसतामृक्षवानररक्षसाम्। राघवस्तु महातेजाः सुग्रीवमिदमब्रवीत्॥ गम्यतां सौम्य किष्किन्धां दुराधर्षां सुरासुरैः। पालयस्व सहामात्यै राज्यं निहतकण्टकम्॥ अङ्गदं च महाबाहो प्रीत्या परमया युतः। पश्य त्वं हनुमन्तं च नलं च सुमहाबलम्॥ सुषेणं श्वशुरं वीरं तारं च बलिनां वरम्। कुमुदं चैव दुर्धर्षं नीलं चैव मबालम्॥ वीरं शतबलिं चैव मैन्दं द्विविदमेव च। गजं गवाक्षं गवयं शरभं च महाबलम्॥ ऋक्षराज च दुर्धर्षं जाम्बवन्तं महाबलम्। पश्य प्रीतिसमायुक्तो गन्धमादनमेव च॥ ऋषभं च सुविक्रान्तं प्लवंगं च सुपाटलम्। केसरि शरभं शुम्भं शङ्खचूडं महाबलम्॥ ये ये मे सुमहात्मानो मदर्थे त्यक्तजीविताः। पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः॥ एवमुक्त्वा च सुग्रीवमाश्लिष्य च पुनः पुनः। विभीषणमुवाचाथ रामो मधुरया गिरा।९।। लङ्कां प्रशाधि धर्मेण धर्मज्ञस्त्वं मतो मम। पुरस्य राक्षसानां च भ्रातुर्वैश्रवणस्य च॥ मा च बुद्धिमधर्मे त्वं कुर्या राजन्कथंचन। बुद्धिमन्तो हि राजानो ध्रुवमश्नन्ति मेदिनीम्॥ अहं च नित्यशो राजन्सुग्रीवसहितस्त्वया। स्मर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः॥ रामस्य भाषितं श्रुत्वा ऋक्षवानरराक्षसाः। साधुसाध्विति काकुत्स्थं प्रशशंसुः पुनः पुनः॥ तव बुद्धिर्महाबाहो वीर्यमद्भुतमेव च। माधुर्यं परमं राम स्वयंभोरिव नित्यदा॥ तेषामेवं ब्रुवाणानां वानराणां च रक्षसाम्। हनूमान्प्रणतो भूत्वा राघवं वाक्यमब्रवीत्॥ स्नेहो मे परमो राजंस्त्वयि तिष्ठतु नित्यदा। भक्तिश्च नियता वीर भावो नान्यत्र गच्छतु॥ यावद्रामकथा वीर चरिष्यति महीतले। तावच्छरीरे वत्स्यन्तु प्राणा मम न संशयः॥ यच्चैतच्चरितं दिव्यं कथा ते रघुनन्दन। तन्मयाप्सरसो राम श्रावयेयुर्नरर्षभ॥ तच्छ्रुत्वाहं ततो वीर तव चर्यामृतं प्रभो। उत्कण्ठां तां हरिष्यामि मेघलेखामिवानलिः॥ एवं ब्रुवाणं रामस्तु हनूमन्तं वरासनात्। उत्थाय सस्वजे स्नेहाद्वाक्यमेतदुवाच ह॥ एवमेतत्कपिश्रेष्ठ भविता नात्र संशयः। चरिष्यति कथा यावदेषा लोके च मामिका॥ तावचे भविता कीर्तिः शरीरेऽप्यसवस्तथा। लोका हि यावत्स्थास्यन्ति तावत्स्थास्यन्ति मे कथाः।। एकैकस्योपकारस्य प्राणान्दास्यामि ते कये। शेषस्येहोपकाराणां भवाम ऋणिनो वयम्॥ मदङ्गे जीर्णतां यातु यत्त्वयोपकृतं कपे। नरः प्रत्युपकाराणामापत्स्वायाति पात्रताम्।।२४ ततोऽस्य हारं चन्द्राभं मुच्य कण्ठात्स राघवः। वैदूर्यतरलं कण्ठे बबन्ध च हनूमतः॥ तेनोरसि निबद्धेन हारेण महता कपिः। रराज हेमशैलेन्द्रश्चन्द्रेणाक्रान्तमस्तकः॥ श्रुत्वा तु राघवस्यैतदुत्थायोत्थाय वानराः। प्रणम्य शिरसा पादौ निर्जग्मुस्ते महाबलाः॥ सुग्रीवः स च रामेण निरन्तरमुरोगतः। बिभीषणश्च धर्मात्मा सर्वे ते बाष्पविक्लवाः।२८॥ सर्वे च ते बाष्पकलाः साश्रुनेत्रा विचेतसः। संमूढा इव दुःखेन त्यजन्तो राघवं तदा॥ कृतप्रसादास्तेनैवं राघवेण महात्मना। जग्मुः स्वं स्वं गृहं सर्वे देही देहमिव त्यजन्।।३० ततस्तु ते राक्षसऋक्षवानराः प्रणम्य रामं रघुवंशवर्धनम्। वियोगजाश्रुप्रतिपूर्णलोचनाः प्रति प्रयातास्तु यथा निवासिनः॥ स विसृज्य ततो रामः पुष्पकं हेमभूषितम्। प्रविवेश महाबाहुरशोकवनिकां तदा॥ चन्दनागुरुचूतैश्च तुङ्गकालेयकैरपि। देवदारुवनैश्चापि समन्तादुपशोभिताम्॥ चम्पकागुरुपुंनागमधूकपनसासनैः। शोभितां पारिजातैश्च विधूमज्वलनप्रभैः।।३ लोध्रनीपार्जुनै गैः सप्तपर्णातिमुक्तकैः। मन्दारकदलीगुल्मलताजालसमावृताम्॥ प्रियङ्गुभिः कदम्बैश्च तथा च बकुलैरपि। जम्बूभिर्दाडिमैश्चैव कोविदारैश्च शोभिताम्॥ सर्वदा कुसुमैः रम्यैः फलवद्भिर्मनोरमैः। दिव्यगन्धरसोपेतैस्तरुणाङ्कुरपल्लवैः॥ तथैव तरुभिर्दिव्यैः शिल्पिभिः परिकल्पितैः। चारुपल्लवपुष्पाढ्यैर्मत्तभ्रमरसंकुलैः॥ कोकिलै ङ्गराजैश्च नानावणैश्च पक्षिभिः। शोभितां शतशश्चित्रां चूतवृक्षावतंसकैः॥ शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः। नीलाञ्जननिभाश्चान्ये भान्ति तत्र स्म पादपाः॥ सुरभीणि च पुष्पाणि माल्यानि विविधानि च। दीर्घिका विविधाकाराः पूर्णाः परमवारिणा॥ माणिक्यकृतसोपानाः स्फाटिकान्तरकुट्टिमाः। फुल्लपद्मोत्पलवनाश्चक्रवाकोपशोभिताः॥ दात्यूहशुकसंघुष्टा हंससारसनादिताः। तरुभिः पुष्पशबलैस्तीरजैरुपशोभिताः॥ प्राकारैर्विविधाकारैः शोभिताश्च शिलातलैः। तत्रैव च वनोद्देशे वैदूर्यमणिसंनिभैः॥ शाद्वलैः परमोपेतां पुष्पितदुमकाननाम्। तत्र संघर्षजातानां वृक्षाणां पुष्पशालिनाम्॥ प्रस्तराः पुष्पशबला नभस्तारागणैरिव। नन्दनं हि यथेन्द्रस्य ब्राह्मं चैत्ररथं यथा॥ तथाभूतं हि रामस्य काननं संनिवेशनम्। बह्वासनगृहोपेतां लतासनसमावृताम्॥ अशोकवनिकां स्फीतां प्रविश्य रघुनन्दनः। आसने च शुभाकारे पुष्पप्रकरभूषिते॥ कुशास्तरणसंस्तीर्णे रामः संनिषसाद ह। सीतामादाय हस्तेन मधुमैरेयकं शुचि ॥ पाययामास काकुत्स्थः शचीमिव पुरंदरः। मांसानि च सुमृष्टानि फलानि विविधानि च॥ रामस्याभ्यवहारार्थं किंकरास्तूर्णमाहरन्। उपानृत्यंश्च राजानं नृत्यगीतविशारदाः॥ अप्सरोरगसङ्घाश्च किंनरीपरिवारिताः। दक्षिणा रूपवत्यश्च स्त्रियः पानवशं गताः॥ उपानृत्यन्त काकुत्स्थं नृत्यगीतविशारदाः। मनोभिरामा रामास्ता रामो रमयतां वरः॥ रमयामास धर्मात्मा नित्यं परमभूषिताः। स तया सीतया सार्धमासीनो विरराज ह॥ अरुन्धत्या इवासीनो वसिष्ठ इव तेजसा। एवं रामो मुदा युक्तः सीतां सुरसुतोपमाम्॥ रमयामास वैदेहीमहन्यहनि देववत्। तथा तयोविहरतोः सीताराघवयोश्चिरम्॥ अत्यक्रामच्छुभः कालः शैशिरो भोगदः सदा। प्राप्तयोविविधान्भोगानतीतः शिशिरागमः॥ पूर्वाणे धर्मकार्याणि कृत्वा धर्मेण धर्मवित्। शेष दिवसभागार्धमन्त:पुरगतोऽभवत्॥ सीतापि देवकार्याणि कृत्वा पौर्वाहिणकानि वै। श्वश्रूणामकरोत्पूजां सर्वासामविशेषतः॥ अभ्यगच्छत्ततो रामं विचित्राभरणाम्बरा। त्रिविष्टपे सहस्र समुपविष्टं यथा शची॥ दृष्ट्वा तु राघवः पत्नी कल्याणेन समन्विताम्। प्रहर्षमतुलं लेभे साधुसाध्विति चाब्रवीत्॥ अब्रीवच्च वरारोहां सीतां सुरसुतोपमाम्। अपत्यलाभो वैदेहि त्वय्ययं समुपस्थितः॥ किमिच्छसि वरारोहे कामः किं क्रियतां तव। स्मितं कृत्वा तु वैदेही रामं वाक्यमथाब्रवीत्॥ तपोवनानि पुण्यानि द्रष्टुमिच्छामि राघव। गङ्गातीरोपविष्टानामृषीणामुग्रतेजसाम्॥ फलमूलाशिलां देव पादमूलेषु वर्तितुम्। एष मे परमः कामो यन्मूलफलभोजिनाम्॥ अपेयकरात्रि काकुत्स्थ निवसेयं तपोवने। तथेति च प्रतिज्ञातं रामेणाक्लिष्टकर्मणा। विश्रब्धा भव वैदेहि श्वो गमिष्यस्यसंशयम्॥ एवमुक्त्वा तु काकुत्स्थो मैथिली जनकात्मजाम्। मध्यकक्षान्तरं रामो निर्जगाम सुहद्धृतः॥ तत्रोपविष्टं राजानमुपासन्ते विचक्षणाः। कथानां बहुरूपाणां हास्यकाराः समन्ततः॥ विजयो मधुमत्तश्च काश्यपो मङ्गलः कुलः। सुराजिः कालियो भद्रो दन्तवक्रः सुमागधः॥ एते कथा बहुविधाः परिहाससमन्विताः। कथयन्ति स्म संहृष्टा राघवस्य महात्मनः॥ ततः कथायां कस्यांचिद्राघवः समभाषत। काः कथा नगरे भद्र वर्तन्ते विषयेषु च॥ मामाश्रितानि कान्याहुः पौरजानपदा जनाः। किं च सीतां समाश्रित्य भरतं किं च लक्ष्मणम्॥५ किं नु शत्रुघ्नमुद्दिश्य कैकेयीं किं नु मातरम्। वक्तव्यतां च राजानो वने राज्ये व्रजन्ति च॥ एवमुक्ते तु रामेण भद्रः प्राञ्जलिरब्रवीत्। स्थिताः शुभाः कथा राजन्वर्तन्ते पुरवासिनाम्॥ अयं तु विजयं सौम्य दशग्रीववधार्जितम्। भूयिष्ठं स्वपुरे पौरैः कथ्यन्ते पुरुषर्षभ॥ एवमुक्तस्तु भद्रेण राघवो वाक्यमब्रवीत्। कथयस्व यथातत्त्वं सर्वं निरवशेषतः॥ शुभाशुभानि वाक्यानि कान्याहुः पुरवासिनः। श्रुत्वेदानीं शुभं कुर्यां नकुर्यामशुभानि च॥ कथयस्व च विस्तब्धो निर्भयं विगतज्वरः। कथयन्ति यथा पौराः पापा जनपदेषु च॥ राघवेणैवमुक्तस्तु भद्रः सुरुचिरं वचः। प्रत्युवाच महाबाहुं प्राञ्जलिः सुसमाहितः॥ शृणु राजन्यथा पौराः कथयन्ति शुभाशुभम्। चत्वरापणरथ्यासु वनेषूपवनेषु च।१३।। दुष्करं कृतवान्रामः समुद्रे सेतुबन्धनम्। अश्रुतं पूर्वकैः केश्चिद्देवैरपि सदानवैः॥ रावणश्च दुराधर्षो हतः सबलवाहनः। वानराश्च वशं नीता ऋक्षाश्च सह राक्षसैः॥ हत्वा च रावणं संख्ये सीतामाहृत्य राघवः। अमर्ष पृष्ठतः कृत्वा स्ववेश्म पुनरानयत्॥ कीदृशं हृदये तस्य सीतासंभोगजं सुखम्। अङ्कमारोप्य तु पुरा रावणेन बलाद्धृताम्॥ लङ्कामपि पुरा नीतामशोकवनिकां गताम्। रक्षसां वशमापन्नां कथं रामो न कुत्स्यति॥ अस्माकमपि दारेषु सहनीयं भविष्यति। यथा हि कुरुते राजा प्रजास्तमनुवर्तते ॥ एवं बहुविधा वाचो वदन्ति पुरवासिनः। नगरेषु च सर्वेषु राजञ्जनपदेषु च॥ तस्यैवं भाषितं श्रुत्वा राघवः परमार्तवत्। उवाच सुहृदः सर्वान्कथमेतद्वदन्तु माम्॥ सर्वे तु शिरसा भूमावभिवाद्य प्रणम्य च। प्रत्यूचू राघवं दीनमेवमेतन्न संशयः॥ श्रुत्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम्। विसर्जयामास तदा वयस्याञ्छत्रुसूदनः॥ तेषां समुपविष्टानां सर्वेषां दीनचेतसाम्। उवाच वाक्यं काकुत्स्थो मुखेन परिशुष्यता॥ सर्वे शृणुत भद्रं वो मा कुरुध्वं मनोऽन्यथा। पौराणां मम सीतायां यादृशी वर्तते कथा॥ पौरापवादः सुमहांस्तथा जनपदस्य च। वर्तते मयि बीभत्सा सा मे मर्माणि कृन्तति॥ अहं किल कुले जात इक्ष्वाकूणां महात्मनाम्। सीतापि सत्कुले जाता जनकानां महात्मनाम्॥ जानासि त्वं यथा सौम्य दण्डके विजने वने। रावणेन हृता सीता स च विध्वंसितो मया॥ तत्र मे बुद्धिरुत्पन्ना जनकस्य सुतां प्रति। अत्रोषितामिनां सीतामानयेयं कथं पुरीम्॥ प्रत्ययार्थं ततः सीता विवेश ज्वलनं तदा। प्रत्यक्षं तव सौमित्रे देवानां हव्यवाहनः॥ अपापां मैथिलीमाह वायुश्चाकाशगोचरः। चन्द्रादित्यौ च शंसेते सुराणां संनिधौ पुरा ॥ ऋषीणां चैव सर्वेषामपापां जनकात्मजाम्। एवं शुद्धसमाचारा देवगन्धर्वसंनिधौ॥ लङ्काद्वीपे महेन्द्रेण मम हस्ते निवेदिता। अन्तरात्मा च मे वेत्ति सीतां शुद्धां यशस्विनीम्॥ ततो गृहीत्वा वैदेहीमयोध्यामहमागतः। अयं तु मे महान्वादः शोकश्च हृदि वर्तते॥ पौरापवादः सुमहांस्तथा जनपदस्य च। अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित्॥ पतत्येवाधमाल्लोकान्यावच्छब्दः प्रकीर्त्यते। अकीर्तिनिन्द्यते देवैः कीर्तिलॊकेषु पूज्यते॥ कीर्त्यर्थं तु समारम्भः सर्वेषां सुमहात्मनाम्। अप्यहं जीवितं जह्यां युष्मान्वा पुरुषर्षभाः॥ अपवादभयाद्भीतः किं पुनर्जनकात्मजाम्। तस्माद्भवन्तः पश्यन्तु पतितं शोकसागरे॥ नहि पश्याम्यहं भूतं किंचिद्दुःखमतोऽधिकम्। श्वस्त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम्॥ आरुह्य सीतामारोप्य विषयान्ते समुत्सृज। गङ्गायास्तु परे पारे वाल्मीकेस्तु महात्मनः॥ आश्रमो दिव्यसंकाशस्तमसातीरमाश्रितः। तत्रैतां विजने देशे विसृज्य रघुनन्दन ॥ शीघ्रमागच्छ सौमित्रे कुरुष्व वचनं मम। न चास्मि प्रतिवक्तव्यः सीतां प्रति कथंचना ॥ तस्मात्त्वं गच्छ सौमित्रे नात्र कार्या विचारणा। अप्रीतिर्हि परा मह्यं त्वयैतत्प्रतिवारिते॥ शापिता हि मया यूयं पादाभ्यां जीवितेन च। ये मां वाक्यान्तरे ब्रूयुरनुनेतुं कथंचन। अहिता नाम ते नित्यं मदभीष्टविघातनात्॥ मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः। इतोऽद्य नीयतां सीता कुरुष्व वचनं मम॥ पूर्वमुक्तोऽहमनया गङ्गातीरेऽहमाश्रमान्। पश्येयमिति तस्याश्च कामः संवर्त्यतामयम्॥ एवमुक्त्वा तु काकुत्स्थो वाष्पेण विहितेक्षणः। स विवेश स धर्मात्मा भ्रातृभिः परिवारितः। शोकसंविग्रहृदयो निशश्वास यथा द्विपः॥ ततो रजन्यां व्युष्टायां लक्ष्मणो दीनचेतनः। सुमन्त्रमब्रवीद्वाक्यं मुखेन परिशुष्यता॥ सारथे तुरगाशीघ्रान्योजयस्व रथोत्तमे। स्वास्तीर्णं राजवचनात्सीतायाश्चासनं शुभम् ॥ सीता हि राजवचनादाश्रमं पुण्यकर्मणाम्। मया नेया महर्षीणां शीघ्रमानीयतां रथः॥ सुमन्त्रस्तु तथेत्युक्त्वा युक्तं परमवाजिभिः। रथं सुरुचिरप्रख्यं स्वास्तीर्णं सुखशय्यया॥ आनीयोवाच सौमित्रिं मित्राणां मानवर्धनम्। रथोऽयं समनुप्राप्तो यत्कार्य क्रियतां प्रभो॥ एवमुक्तः सुमन्त्रेण राजवेश्मनि लक्ष्मणः। प्रविश्य सीतामासाद्य व्याजहार नरर्षभः॥ त्वया किलैष नृपतिर्वरं वै याचितः प्रभुः। नृपेण च प्रतिज्ञातमाज्ञप्तश्चाश्रमं प्रति॥ गङ्गातीरे मया देवि ऋषीणामाश्रमाञ्शुभान्। शीघ्रं गत्वा तु वैदेहि शासनात्पार्थिवस्य नः॥ अरण्ये मुनिभिर्जुष्टे अवनेया भविष्यसि। एवमुक्ता तु वैदेही लक्ष्मणेन महात्मना॥ प्रहर्षमतुलं लेभे गमनं चाप्यरोचयत्। वासांसि च महार्हाणि रत्नानि विविधानि च॥ गृहीत्वा तानि वैदेही गमनायोपचक्रमे। इमानि मुनिपत्नीनां दास्याम्याभरणान्यहम्।।११ वस्त्राणि च महार्हाणि धनानि विविधानि च। सौमित्रिस्तु तथेत्युक्त्वा रथमारोप्य मैथिलीम्॥ प्रययौ शीघ्रतुरगं रामस्याज्ञामनुस्मरन्। अब्रवीच्च तदा सीता लक्ष्मणं लक्ष्मिवर्धनम्।।१३। अशुभानि बहून्येव पश्यामि रघुनन्दन। नयनं मे स्फुरत्यद्य गात्रोत्कम्पश्च जायते॥ हृदयं चैव सौमित्रे अस्वस्थमिव लक्षये। औत्सुक्यं परमं चापि अधृतिश्च परा मम॥ शून्यामेव च पश्यामि पृथिवीं पृथुलोचन। अपि स्वस्ति भवेत्तस्य भ्रातुस्ते भ्रातृवत्सल॥ श्वश्रूणां चैव मे वीर सर्वासामविशेषतः। पुरे जनपदे चैव कुशलं प्राणिनामपि॥ इत्यञ्जलिकृता सीता देवता अभ्ययाचत। लक्ष्मणोऽर्थं ततः श्रुत्वा शिरसा वन्द्य मैथिलीम्।।१८ शिवमित्यब्रवीद्धृष्टो हृदयेन विशुष्यता। ततो वासमुपागम्य गोमतीतीर आश्रमे॥ प्रभाते पुनरुत्थाय सौमित्रिः सूतमब्रवीत्। योजयस्व रथं शीघ्रमद्य भागीरथीजलम्॥ शिरसा धारयिष्यामि त्रियम्बक इवौजसा। सोऽश्वान्विचारयित्वा तु रथे युक्तान्मनोजवान् ।।२१ आरोहस्वेति वैदेहीं सूतः प्राञ्जलिरब्रवीत्। सा तु सूतस्य वचनादारुरोह रथोत्तमम्॥ सीता सौमित्रिणा सार्धं सुमन्त्रेण च धीमता। आससाद विशालाक्षी गङ्गां पापविनाशिनीम्।।२३ अथार्धदिवसं गत्वा भागीरथ्या जलाशयम्। निरीक्ष्य लक्ष्मणो दीनः प्ररुरोद महास्वनः॥ सीता तु परमायत्ता दृष्ट्वा लक्ष्मणमातुरम्। उवाच वाक्यं धर्मज्ञा किमिदं रुद्यते त्वया॥ जाह्नवीतीरमासाद्य चिराभिलषितं मम। हर्षकाले किमर्थं मां विषादयसि लक्ष्मण ॥ नित्यं त्वं रामपार्वेषु वर्तसे पुरुषर्षभ। कच्चिद्विनाकृतस्तेन द्विरात्रं शोकमागतः॥ ममापि दयितो रामो जीवितादपि लक्ष्मण। न चाहमेवं शोचामि मैवं त्वं बालिशो भव ॥ तारयस्व च मां गङ्गां दर्शयस्व च तापसान्। ततो मुनिभ्यो वासांसि दास्याम्याभरणानि च॥ ततः कृत्वा महर्षीणां यथार्हमभिवादनम्। तत्र चैकां निशामुष्य यास्यामस्तां पुरी पुनः॥ ममापि पद्मपत्राक्षं सिंहोरस्कं कृशोदरम्। त्वरते हि मनो द्रष्टुं रामं रमयतां वरम्॥ तस्यास्तद्वचनं श्रुत्वा प्रमृज्य नयने शुभे। नाविकानाह्वयामास लक्ष्मणः परवीरहा। इयं च सज्जा नौश्चेति दाशाः प्राञ्जलयोऽब्रुवन्॥ तितीर्षुर्लक्ष्मणो गङ्गां शुभां नावमुपारुहत्। गङ्गां संतारयामास लक्ष्मणस्तां समाहितः॥ अथ नावं सुविस्तीर्णा नैषादी राघवानुजः। आरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम्॥ सुमन्त्रं चैव सरथं स्थीयतामिति लक्ष्मणः। उवाच शोकसंतप्तः प्रयाहीति च नाविकम्॥ ततस्तीरमुपागम्य भागीरथ्याः स लक्ष्मणः। उवाच मैथिली वाक्यं प्राञ्जलिर्बाष्पसंवृतः॥ हृद्गतं मे महच्छल्यं यस्मादार्येण धीमता। अस्मिनिमित्ते वैदेहि लोकस्य वचनीकृतः॥ श्रेयो हि मरणं मेऽद्य मृत्युर्वा यत्परं भवेत्। न चास्मिन्नीदृशे कार्ये नियोज्यो लोकनिन्दिते॥ प्रसीद च न मे पापं कर्तुमर्हसि शोभने। इत्यञ्जलिकृतो भूमौ निपपात स लक्ष्मणः॥ रुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युमात्मनः। मैथिली भृशसंविग्ना लक्ष्मणं वाक्यमब्रवीत्॥ किमिदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण। पश्यामि त्वां न च स्वस्थमपि क्षेमं महीपतेः॥ शापितोऽसि नरेन्द्रेण यत्त्वं संतापमागतः। तब्रूयाः संनिधौ मह्यमहमाज्ञापयामि ते॥ वैदेह्या चोद्यमानस्तु लक्ष्मणो दीनचेतनः। अवाङ्मुखो बाष्पगलो वाक्यमेतदुवाच ह॥ श्रुत्वा परिषदो मध्ये ह्यपवादं सुदारुणम्। पुरे जनपदे चैव त्वत्कृते जनकात्मजे॥ रामः संतप्तहृदयो मा निवेद्य गृहं गतः। न तानि वचनीयानि मया देवि तवाग्रतः॥ यानि राज्ञा हृदि न्यस्तान्यमर्षात्पृष्ठतः कृतः। सा त्वं त्यक्ता नृपतिना निर्दोषा मम संनिधौ॥ पौरापवादभीतेन ग्राह्यं देवि न तेऽन्यथा। आश्रमान्तेषु च मया त्यक्तव्या त्वं भविष्यसि ॥ राज्ञः शासनमादाय तथैव किल दौर्हदम्। तदेतज्जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम्॥ पुण्यं च रमणीयं च मा विषादं कृथाः शुभे। राज्ञो दशरथस्यैव पितुर्मे मुनिपुङ्गवः॥ सखा परमको विप्रो वाल्मीकिः सुमहायशाः। पादच्छायामुपागम्य सुखमस्य महात्मनः। उपवासपरैकाग्रा वस त्वं जनकात्मजे ॥ पतिव्रतात्वमास्थाय रामं कृत्वा सदा हृदि। श्रेयस्ते परमं देवि तथा कृत्वा भविष्यति॥ लक्ष्मणस्य वचः श्रुत्वा दारुणं जनकात्मजा। परं विषादमागम्य वैदेही निपपात ह॥ सा मुहूर्तमिवासंज्ञा वाष्पपर्याकुलेक्षणा। लक्ष्मणं दीनया वाचा उवाच जनकात्मजा॥ मामिकेयं तनु'नं सृष्टा दुःखाय लक्ष्मण। धात्रा यस्यास्तथा मेऽद्य दुःखमूर्तिः प्रदृश्यते॥ किं नु पापं कृतं पूर्वं को वा दारैर्वियोजितः। याहं शुद्धसमाचारा त्यक्ता नृपतिना सती।४।। पुराहमाश्रमे वासं रामपादानुवर्तिनी। अनुरुध्यापि सौमित्रे दुःखे च परिवर्तिनी॥ सा कथं ह्याश्रमे सौम्य वत्स्यामि विजनीकृता। आख्यास्यामि च कस्याहं दुःखं दुःखपरायणा ।।६ किं नु वक्ष्यामि मुनिषु कर्म चासत्कृतं प्रभो। कस्मिन्वा कारणे त्यक्ता राघवेण महात्मना॥ न खल्वद्यैव सौमित्रे जीवितं जाह्नवीजले। त्यजेयं राजवंशस्तु भर्तुर्मे परिहास्यते॥ यथाशं कुरु सौमित्रे त्यज्य मां दुःखभागिनीम्। निदेशे स्थीयतां राज्ञः शृणु चेदं वचो मम॥ श्वश्रूणामविशेषण प्राञ्जलिप्रग्रहेण च। शिरसा वन्द्य चरणौ कुशलं ब्रूहि पार्थिवम्॥ शिरसाभिनतो ब्रूयाः सर्वासामेव लक्ष्मण। वक्तव्यश्चापि नृपतिर्धर्मेषु सुसमाहितः॥ जानासि च यथा शुद्धा सीता तत्त्वेन राघव। भक्त्या च परया युक्ता हिता च तव नित्यशः॥ अहं त्यक्ता च ते वीर अयशोभीरुणा जने। यच्च ते वचनीयं स्यादपवादः समुत्थितः॥ मया च परिहर्तव्यं त्वं हि मे परमा गतिः। वक्तव्यश्चैव नृपतिर्धर्मेण सुसमाहितः॥ यथा भ्रातृषु वर्तेथास्तथा पौरेषु नित्यदा। परमो ह्येष धर्मस्ते तस्मात्कीतिरनुत्तमा॥ यत्तु पौरजने राजन्धर्मेण समवाप्नुयात्। अहं तु नानुशोचामि स्वशरीरं नरर्षभ॥ यथापवादः पौराणां तथैव रघुनन्दन। पतिहि देवता नार्याः पतिर्बन्धुः पतिर्गुरुः॥ प्राणैरपि प्रियं तस्माद्भर्तुः कार्य विशेषतः। इति मद्वचनाद्रामो वक्तव्यो मम संग्रहः॥ निरीक्ष्य माद्य गच्छ त्वमृतुकालातिवर्तिनीम्। एवं ब्रुवन्त्यां सीतायां लक्ष्मणो दीनचेतनः॥ शिरसा वन्द्य धरणीं व्याहतुं न शशाक ह। प्रदक्षिणं च तां कृत्वा रुदन्नेव महास्वनः॥ ध्यात्वा मुहूर्तं तामाह किं मां वक्ष्यसि शोभने। दृष्टपूर्वं न ते रूपं पादौ दृष्टौ तवानघे॥ कथमत्र हि पश्यामि रामेण रहितां वने। इत्युक्त्वा तां नमस्कृत्य पुनर्नावमुपारुहत्॥ आरुरोह पुनर्नावं नाविकं चाभ्यचोदयत्। स गत्वा चोत्तरं तीरं शोकभारसमन्वितः॥ संमूढ इव दुःखेन रथमध्यारुहद्भुतम्। मुहुर्मुहुः परावृत्य दृष्ट्वा सीतामनाथवत्॥ चेष्टन्तीं परतीरस्थां लक्ष्मणः प्रययावथ। दूरस्थे रथमालोक्य लक्ष्मणं च मुहुर्मुहुः। निरीक्षमाणां तूद्विग्नां सीतां शोकः समाविशत्।।२५ सा दुःखभारावनता यशस्विनी यशोधरा नाथमपश्यती सती। रुरोद सा बहिणनादिते वने महास्वने दुःखपरायणा सती ॥ सीतां तु रुदतीं दृष्ट्वा ते तत्र मुनिदारकाः। प्राद्रवन्यत्र भगवानास्ते वाल्मीकिरुनधीः॥ अभिवाद्यः मुनेः पादौ मुनिपुत्रा महर्षये। सर्वे निवेदयामासुस्तस्यास्तु रुदितस्वनम्॥ अदृष्टपूर्वा भगवन्कस्याप्येषा महात्मनः। पत्नी श्रीरिव संमोहाद्विरौति विकृतानना॥ भगवन्साधु पश्येस्त्वं देवतामिव खाच्च्युताम्। नद्यास्तु तीरे भगवन्वरस्त्री कापि दुःखिता॥ दृष्टास्माभिः प्ररुदिता दृढं शोकपरायणा। अनर्हा दुःखशोकाभ्यामेका दीना अनाथवत्॥ तां सीतां शोकभाराता वाल्मीकिर्मुनिपुङ्गवः। उवाच मधुरां वाणी ह्लादयन्निव तेजसा॥ स्नुषा दशरथस्य त्वं रामस्य महिषी प्रिया। जनकस्य सुता राज्ञः स्वागतं ते पतिव्रते॥ आयान्ती चासि विज्ञाता मया धर्मसमाधिना। कारणं चैव सर्वं मे हृदयेनोपलक्षितम्॥ तव चैव महाभागे विदितं मम तत्त्वतः। सर्वं च विदितं मह्यं त्रैलोक्ये यद्धिवर्तते॥ अपापां वेद्मि सीते ते तपोलब्धेन चक्षुषा। विस्रब्धा भव वैदेहि सांप्रतं मयि वर्तसे॥ आश्रमस्याविदूरे मे तापस्यस्तपसि स्थिताः। तास्त्वां वत्से यथा वत्सं पालयिष्यन्ति नित्यशः।।११ इदमऱ्या प्रतीच्छ त्वं विस्रब्धा विगतज्वरा। यथा स्वगृहमभ्येत्य विषादं चैव मा कृथाः॥ श्रुत्वा तु भाषितं सीता मुनेः परममद्भुतम्। शिरसा वन्द्य चरणौ तथेत्याह कृताञ्जलिः॥ तं प्रयान्तं मुनिं सीता प्राञ्जलिः पृष्ठतोऽन्वगात्। तं दृष्ट्वा मुनिमायान्तं वैदेह्या मुनिपत्नयः। उपाजग्मुर्मुदा युक्ता वचनं चेदमब्रुवन्॥ स्वागतं ते मुनिश्रेष्ठ चिरस्यागमनं च ते। अभिवादयामस्त्वां सर्वा उच्यतां किं च कुर्महे ॥ तासां तद्वचनं श्रुत्वा वाल्मीकिरिदमब्रवीत्। सीतेयं समनुप्राप्ता पत्नी रामस्य धीमतः॥ स्नुषा दशरथस्यैषा जनकस्य सुता सती। अपापा पतिना त्यक्ता परिपाल्या मया सदा॥ इमां भवत्यः पश्यन्तु स्नेहेन परमेण हि। गौरवान्मम वाक्याच्च पूज्या वोऽस्तु विशेषतः॥ मुहुर्मुहुश्च वैदेही परिदाय महायशाः। स्वमाश्रमं शिष्यवृतः पुनरायान्महातपाः॥ तथा संचोदितः सूतो लक्ष्मणेन महात्मना। तद्वाक्यमृषिणा प्रोक्तं व्याहर्तुमुपनक्रमे॥ पुरा नाम्ना हि दुर्वासा अत्रेः पुत्रो महामुनिः। वसिष्ठस्याश्रमे पुण्ये वार्षिक्यं समुवास ह॥ तमाश्रमं महातेजाः पिता ते सुमहायशाः। पुरोहितं महात्मानं दिदृक्षुरगमत्स्वयम्॥ स दृष्ट्वा सूर्यसंकाशं ज्वलन्तमिव तेजसा। उपविष्टं वसिष्ठस्य सव्यपार्श्वे महामुनिम्॥ तौ मुनी तापसश्रेष्ठौ विनीतावभ्यवादयत्। स ताभ्यां पूजितो राजा स्वागतेनासनेन च। पाद्येन फलमूलैश्च उवास मुनिभिः सह॥ तेषां तत्रोपविष्टानां तास्ताः सुमधुराः कथाः। बभूवुः परमर्षीणां मध्यादित्यगतेऽहनि॥ ततः कथायां कस्यांचित्प्राञ्जलिः प्रग्रहो नृपः। उवाच तं महात्मानमत्रेः पुत्रं तपोधनम्॥ भगवन्किप्रमाणेन मम वंशो भविष्यति। किमायुश्च हि मे रामः पुत्राश्चान्ये किमायुषः॥ रामस्य च सुता ये स्युस्तेषामायुः कियद्भवेत्। काम्यया भगवन्ब्रूहि वंशस्यास्य गतिं मम॥ तच्छ्रुत्वा व्याहृतं वाक्यं राज्ञो दशरथस्य तु। दुर्वासाः सुमहातेजा व्याहर्तुमुपचक्रमे॥ शृणु राजन्पुरावृतं तदा देवासुरे युधि। दैत्याः सुरैर्भय॑माना भृगुपत्नी समाश्रिताः। तया दत्ताभयास्तत्र न्यवसन्नभयास्तदा॥ तया परिगृहीतांस्तान्दृष्ट्वा क्रुद्धः सुरेश्वरः। चक्रेण शितधारेण भृगुपन्याः शिरोऽहरत्॥ ततस्तां निहतां दृष्ट्वा पत्नीं भृगुकुलोद्वहः। शशाप सहसा क्रुद्धो विष्णुं रिपुकुलार्दनम्॥ यस्मादवध्यां मे पत्नीमवधीः क्रोधमूर्च्छितः। तस्मात्त्वं मानुषे लोके जनिष्यसि जनार्दन॥ तत्र पत्नीवियोगं त्वं प्राप्स्यसे बहुवार्षिकम्। शापाभिहतचेतास्तु स्वात्मना भावितोऽभवत्॥ अर्चयामास तं देवं भृगुः शापेन पीडितः। तपसाराधितो देवो ह्यब्रवीद्भक्तवत्सलः॥ लोकानां संप्रियार्थ तं शापं मृह्यमुक्तवान्। इति शप्तो महातेजा भृगुणा पूर्वजन्मनि॥ इहागतो हि पुत्रत्वं तव पार्थिवसत्तम। राम इत्यभिविख्यातस्त्रिषु लोकेषु मानद ॥ तत्फलं प्राप्स्यते चापि भृगुशापकृतं महत्। अयोध्यायाः पती रामो दीर्घकालं भविष्यति ॥ सुखिनश्च समृद्धाश्च भविष्यन्त्यस्य येऽनुगाः। दशवर्षसहस्राणि दशवर्षशतानि च॥ रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति। समृद्धैश्चाश्वमेधैश्च इष्ट्वा परमदुर्जयः॥ राजवंशांश्च बहुशो बहून्संस्थापयिष्यति। द्वौ पुत्रौ तु भविष्येते सीतायां राघवस्य तु॥ स सर्वमखिलं राज्ञो वंशस्याह गतागतम्। आख्याय सुमहातेजास्तूष्णीमासीन्महामुनिः।।२३ तूष्णीभूते तदा तस्मिनराजा दशरथो मुनौ। अभिवाद्य महात्मानौ पुनरायात्पुरोत्तमम्॥ एतद्वचो मया तत्र मुनिना व्याहृतं पुरा। श्रुतं हृदि च निक्षिप्तं नान्यथा तद्भविष्यति॥ सीतायाश्च ततः पुत्रावभिषेक्ष्यति राघवः। अन्यत्र न त्वयोध्यायां मुनेस्तु वचनं यथा॥ एवं गते न संतापं कर्तुमर्हसि राघव। सीतार्थे राघवार्थे वा दृढो भव नरोत्तम॥ श्रुत्वा तु व्याहृतं वाक्यं सूतस्य परमाद्भुतम्। प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत्॥ ततः संवदतोरेवं सूतलक्ष्मणयोः पथि। अस्तम गते वासं केशिन्यां तावथोषतुः॥ तत्र तां रजनीमुष्य केशिन्यां रघुनन्दनः। प्रभाते पुनरुत्थाय लक्ष्मणः प्रययौ तदा॥ ततोऽर्धदिवसे प्राप्ते प्रविवेश महारथः। अयोध्यां रत्नसंपूर्णां हृष्टपुष्टजनावृताम्॥ सौमित्रिस्तु परं दैन्यं जगाम सुमहामतिः। रामपादौ समासाद्य वक्ष्यामि किमहं गतः॥ तस्यैवं चिन्तयानस्य भवनं शशिसंनिभम्। रामस्य परमोदारं पुरस्तात्समदृश्यत॥ राज्ञस्तु भवनद्वारि सोऽवतीर्य नरोत्तमः। अवाङ्मुखो दीनमनाः प्रविवेशानिवारितः॥ स दृष्ट्वा राघवं दीनमासीनं परमासने। नेत्राभ्यामश्रुपूर्णाभ्यां ददर्शाग्रजमग्रतः॥ जग्राह चरणौ तस्य लक्ष्मणो दीनचेतनः। उवाच दीनया वाचा प्राञ्जलिः सुसमाहितः।७।। आर्यस्याज्ञां पुरस्कृत्य विसृज्य जनकात्मजाम्। गङ्गातीरे यथोद्दिष्टे वाल्मीकेराश्रमे शुभे।८॥ तत्र तां च शुभाचारामाश्रमान्ते यशस्विनीन्। पुनरप्यागतो वीरपादमूलमुपासितुम्॥ मा शुचः पुरुषव्याघ्र कालस्य गतिरीदृशी। त्वद्विधा नहि शोचन्ति बुद्धिमन्तो मनस्विनः॥ सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्याः। संयोगा विप्रयोगान्ता मरणान्तं च जीवितम्॥ तस्मात्पुत्रेषु दारेषु मित्रेषु च धनेषु च। नातिप्रसङ्गः कर्तव्यो विप्रयोगो हि तैध्रुवम्॥ शक्तस्त्वमात्मनात्मानं विनेतुं मनसा मनः। लोकान्सर्वांश्च काकुत्स्थ किं पुनः शोकमात्मनः॥ नेदृशेषु विमुह्यन्ति त्वद्विधाः पुरुषर्षभाः। अपवादः स किल ते पुनरेष्यति राघव॥ यदर्थं मैथिली त्यक्ता अपवादभयानृप। सोऽपवादः पुरे राजन्भविष्यति न संशयः॥ स त्वं पुरुषशार्दूल धैर्येण सुसमाहितः। त्यजेमां दुर्बलां बुद्धिं संतापं मा कुरुष्व ह॥ एवमुक्तः स काकुत्स्थो लक्ष्मणेन महात्मना। उवाच परया प्रीत्या सौमित्रिं मित्रवत्सलः॥ एवमेतन्नरश्रेष्ठ यथा वदसि लक्ष्मण। परितोपश्च मे वीर मम कार्यानुशासने॥ निवृत्तिश्चागता सौम्य संतापश्च निराकृतः। भवद्वाक्यैः सुरुचिरैरनुनीतोऽस्मि लक्ष्मण॥ लक्ष्मणस्य तु तद्वाक्यं निशम्य परमाद्भुतम्। सुप्रीतश्चाभवद्रामो वाक्यमेतदुवाच ह॥ दुर्लभस्त्वीदृशो बन्धुरस्मिन्काले विशेषतः। यादृशस्त्वं महाबुद्धिर्मम सौम्य मनोऽनुगः॥ यच्च मे हृदये किंचिद्वर्तते शुभलक्षण। तन्निशामय च श्रुत्वा कुरुष्व वचनं मम॥ चत्वारो दिवसाः सौम्य कार्य पौरजनस्य च । अकुर्वाणस्य सौमित्रे तन्मे मर्माणि कृन्तति॥ आहूयन्तां प्रकृतयः पुरोधा मन्त्रिणस्तथा। कार्यार्थिनश्च पुरुषाः स्त्रियो वा पुरुषर्षभ॥ पौरकार्याणि यो राजा न करोति दिने दिने। संवृते नरके घोरे पतितो नात्र संशयः॥ श्रूयते हि पुरा राजा नृगो नाम महायशाः। बभूव पृथिवीपालो ब्रह्मण्यः सत्यवाक्शुचिः॥ स कदाचिद्भवां कोटी: सवत्साः स्वर्णभूषिताः। नृदेवो भूमिदेवेभ्यः पुष्करेषु ददौ नृपः॥ ततः सङ्गाद्गता धेनुः सवत्सा स्पर्शितानघ। ब्राह्मणस्याहिताग्नेस्तु दरिद्रस्योञ्छवर्तिनः॥ नष्टां गां क्षुधातॊ वै अन्विषंस्तत्र तत्र ह। नापश्यत्सर्वराष्ट्रेषु संवत्सरगणान्बूहन्॥ ततः कनखलं गत्वा जीर्णवत्सां निरामयाम्। ददृशे तां स्विकां धेनुं ब्राह्मणस्य निवेशने॥ अथ तां नामधेयेन स्वकेनोवाच ब्राह्मणः। आगच्छ शबलेत्येवं सा तु शुश्राव गौः स्वरम्॥ तस्य तं स्वरमाज्ञाय क्षुधार्तस्य द्विजस्य वै। अन्वगात्पृष्ठतः सा गौर्गच्छन्तं पावकोपमम्॥ योऽपि पालयते विप्रः सोऽपि गामन्वगाबृतम्। गत्वा च तमृषि चष्टे मम गौरिति सत्वरम्॥ स्पर्शिता राजसिंहेन मम दत्ता नृगेण ह। तयोर्ब्राह्मणयोर्वादो महानासीद्विपश्चितोः॥ विवदन्तौ ततोऽन्योन्यं दातारमभिजग्मतुः। तौ राजभवनद्वारि न प्राप्तौ नृगशासनम्॥ अहोरात्राण्यनेकानि वसन्तौ क्रोधमीयतुः। ऊचतुश्च महात्मानौ तावुभौ द्विजसत्तमौ। क्रुद्धौ परमसंप्राप्तौ वाक्यं घोराभिसंहतम्॥ अर्थिनां कार्यसिद्ध्यर्थं यस्मात्त्वं नैषि दर्शनम्। अदृश्यः सर्वभूतानां कृकलासो भविष्यसि ॥ बहुवर्षसहस्राणि बहुवर्षशतानि च। श्वभ्रे त्वं कृकलीभूो दीर्घकालं निवत्स्यसि॥ उत्पत्स्यते हि लोकेऽस्मिन्यदूनां कीर्तिवर्धनः। वासुदेव इति ख्यातो विष्णुः पुरुषविग्रहः॥ स ते मोक्षयिता शापाद्राजस्तस्माद्भविष्यसि। कृता च तेन कालेन निष्कृतिस्ते भविष्यति ॥ भारावतरणार्थं हि नरनारायणावुभौ। उत्पत्स्येते महावीरों कलौ युग उपस्थिते॥ एवं तौ शापमुत्सृज्य ब्राह्मणौ विगतज्वरौ। तां गां हि दुर्बलां वृद्धां ददतुर्ब्राह्मणाय वै॥ एवं स राजा तं शापमुपभुङ्क्ते सुदारुणम्। कार्यार्थिनां विमर्दो हि राज्ञां दोषाय कल्पते॥ तच्छीघ्रं दर्शनं मह्यमभिवर्तन्तु कार्यिणः। सुकृतस्य हि कार्यस्य फलं नावैति पार्थिवः। तस्माद्गच्छ प्रतीक्षस्व सौमित्रे कार्यवाञ्जनः॥ रामस्य भाषितं श्रुत्वा लक्ष्मणः परमार्थवित्। उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम्॥ अल्पापराधे काकुत्स्थ द्विजाभ्यां शाप ईदृशः। महानृगस्य राजर्षेर्यमदण्ड इवापरः॥ श्रुत्वा तु पापसंयुक्तमात्मानं पुरुषर्षभ। किमुवाच नृगो राजा द्विजौ क्रोधसमन्वितौ॥ लक्ष्मणेनैवमुक्तस्तु राघवः पुनरब्रवीत्। शृणु सौम्य यता पूर्व स राजा शापविक्षतः॥ अथाध्वनि गतौ विप्रौ विज्ञाय स नृपस्तदा। आहूय मन्त्रिणः सर्वान्नैगमान्सपुरोधसः॥ तानुवाच नृगो राजा सर्वाश्च प्रकृतीस्तथा। दुःखेन सुसमाविष्टः श्रूयतां मे समाहिताः॥ नारदः पर्वतश्चैव मम दत्त्वा महद्भयम्। गतौ त्रिभुवनं भद्रौ वायुभूतावनिन्दितौ ॥ कुमारोऽयं वसुर्नाम स चेहाद्याभिषिच्यताम्। श्वभ्रं च यत्सुखस्पर्श क्रियतां शिल्पिभिर्मम।।।।। यत्राहं संक्षयिष्यामि शापं ब्राह्मणनिःसृतम्। वर्षघ्नमेकं श्वभ्रं तु हिमघ्नमपरं तथा॥ ग्रीष्मघ्नं तु सुखस्पर्शमेकं कुर्वन्तु शिल्पिनः। फलवन्तश्च ये वृक्षाः पुष्पवत्यश्च या लताः॥ विरोप्यन्तां बहुविधाश्छायावन्तश्च गुल्मिनः। क्रियतां रमणीयं च श्वभ्राणां सर्वतोदिशम्॥ सुखमत्र वसिष्यामि यावत्कालस्य पर्ययः। पुष्पाणि च सुगन्धीनि क्रियन्तां तेषु नित्यशः॥ ग्रीष्मघ्नं तु सुखस्पर्शमेकं कुर्वन्तु शिल्पिनः। एवं कृत्वा विधानं स संनिवेश्य वसुं तदा॥ धर्मनित्यः प्रजाः पुत्र क्षत्रधर्मेण पालय। प्रत्यक्षं ते यथा शापो द्विजाभ्यां मयि पातितः।।१४ नरश्रेष्ठ सरोषाभ्यामपराधेऽपि तादृशे। मा कृथास्त्वनुसंतापं मत्कृते हि नरर्षभ॥ कृतान्तः कुशलः पुत्र येनास्मि व्यसनीकृतः। प्राप्तव्यान्येव प्राप्नोति गन्तव्यान्येव गच्छति॥ लब्धव्यान्येव लभते दुःखानि च सुखानि च। पूर्वे जात्यन्तरे वत्स मा विषादं कुरुष्व ह॥ एवमुक्त्वा नृपस्तत्र सुतं राजा महायशाः। श्वभ्रं जगाम सुकृतं वासाय पुरुषर्षभः॥ एवं प्रविश्यैव नृपस्तदानीं श्वभ्रं महद्रत्नविभूषितं तत्। संपादयामास तदा महात्मा शाप द्विजाभ्यां हि रुषा विमुक्तम्॥ एष ते नृगशापस्य विस्तरोऽभिहितो मया। यद्यस्ति श्रवणे श्रद्धा शृणुष्वेहापरां कथाम्॥ एवमुक्तस्तु रामेण सौमित्रिः पुनरब्रवीत्। तृप्तिराश्चर्यभूतानां कथानां नास्ति मे नृप॥ लक्ष्मणेनैवमुक्तस्तु राम इक्ष्वाकुनन्दनः। कथां परमधर्मिष्ठां व्याहर्तुमुपचक्रमे॥ आसीद्राजा निमिर्नाम इक्ष्वाकूणां महात्मनाम्। पुत्रो द्वादशमो वीर्ये धर्मे च परिनिष्ठितः॥ स राजा वीर्यसंपन्नः पुरं देवपुरोपमम्। निवेशयामास तदा अभ्याशे गौतमस्य तु॥ पुरस्य सुकृतं नाम वैजयन्तमिति श्रुतम्। निवेशं यत्र राजर्षिनिमिश्चक्रे महायशाः॥ तस्य बुद्धिः समुत्पन्ना निवेश्य सुमहापुरम्। यजेयं दीर्घसत्रेण पितुः प्रह्लादयन्मनः॥ ततः पितरमामन्त्र्य इक्ष्वाकुं हि मनोः सुतम्। वसिष्ठ वरयामास पूर्वं ब्रह्मर्षिसत्तमम्॥ अनन्तरं स राजर्षिनिमिरिक्ष्वाकुनन्दनः। अत्रिमङ्गिरसं चैव भृगुं चैव तपोनिधिम्॥ तमुवाच वसिष्ठस्तु निर्मि राजर्षिसत्तमम्। वृतोऽहं पूर्वमिन्द्रेण अन्तरं प्रतिपालय॥ अनन्तरं महाविप्रो गौतमः प्रत्यपूरयत्। वसिष्ठोऽपि महातेजा इन्द्रयज्ञमथाकरोत्॥ निमिस्तु राजा विप्रांस्तान्समानीय नराधिपः। अयजद्धिमवत्पार्श्वे स्वपुरस्य समीपतः॥ पञ्चवर्षसहस्राणि राजा दीक्षामथाकरोत्। इन्द्रयज्ञावसाने तु वसिष्ठो भगवानृषिः॥ सकाशमागतो राज्ञो हौत्रं कर्तुमनिन्दितः। तदन्तरमथापश्यद्गौतमेनाभिपूरितम्॥ कोपेन महताविष्टो वसिष्ठो ब्रह्मणः सुतः। स राज्ञो दर्शनाकाङ्क्षी मुहूर्त समुपाविशत्। तस्मिनहनि राजर्षिन्द्रियापहृतो भृशम्॥ ततो मन्युर्वसिष्ठस्य प्रादुरासीन्महात्मनः। अदर्शनेन राजाहर्तुमुपचक्रमे।॥ यस्मात्त्वमन्यं वृतवान्मामवज्ञाय पार्थिव। चेतनेन विनाभूतो देहस्ते पार्थिवैष्यति॥ ततः प्रबुद्धो राजा तु श्रुत्वा सापमुदाहृतम्। ब्रह्मयोनिमथोवाच स राजा क्रोधमूर्च्छितः॥ अजानतः शयानस्य क्रोधेन कलुषीकृतः। उक्तवान्मम शापाग्निं यमदण्डमिवापरम्॥ तस्मात्तवापि ब्रह्मर्षे चेतनेन विनाकृतः। देहः स सुचिरप्रख्यो भविष्यति न संशयः॥ इति रोषवशावुभौ तदानीमन्योन्यं शपितौ नृपद्विजेन्द्रौ। सहसैव बभूवतुर्विदेही तत्तुल्याधिगतप्रभाववन्तौ ॥ रामस्य भाषितं श्रुत्वा लक्ष्मणः परवीरहा। उवाच प्राञ्जलिर्भूत्वा राघवं दीप्ततेजसम्॥ निक्षिप्य देहौ काकुत्स्थ कथं तौ द्विजपार्थिवौ। पुनर्देहेन संयोग जग्मतुर्देवसंमतौ॥ लक्ष्मणेनैवमुक्तस्तु राम इक्ष्वाकुन्दनः। प्रत्युवाच महातेजा लक्ष्मणं पुरुषर्षभः॥ तौ परस्परशापेन देहमुत्सृज्य धार्मिकौ। अभूतां नृपविप्रर्षी वायुभूतौ तपोधनौ॥ अशरीरः शरीरस्य कृतेऽन्यस्य महामुनिः। वसिष्द्वस्तु महातेजा जगाम पितुरन्तिकम्॥ सोऽभिवाद्य ततः पादौ देवदेवस्य धर्मवित्। पितामहमथोवाच वायुभूत इदं वचः॥ भगवन्निमिशापेन विदेहत्वमुपागमम्। देवदेव महादेव वायुभूतोऽहमण्डज॥ सर्वेषां देहहीनानां महद्दुःखं भविष्यति। लुप्यन्ते सर्वकार्याणि हीनदेहस्य वै प्रभो॥ देहस्यान्यस्य सद्भावे प्रसादं कर्तुमर्हसि । तमुवाच ततो ब्रह्मा स्वयंभूरमितप्रभः॥ मित्रावरुणज तेज आविश त्वं महायशः। अयोनिजस्त्वं भविता तत्रापि द्विजसत्तम्। धर्मेण महता युक्तः पुनरेष्यसि मे वशम्॥ एवमुक्तस्तु देवेन अभिवाद्य प्रदक्षिणम्। कृत्वा पितामहं तूर्णं प्रययौ वरुणालयम्॥ तमेव कालं मित्रोऽपि वरुणत्वमकारयत्। क्षीरोदेन सहोपेतः पूज्यमानः सुरेश्वरैः॥ एतस्मिन्नेव काले तु उर्वशी परमाप्सराः। यदृच्छया तमुद्देशमागता सखिभित्ता॥ तां दृष्ट्वा रूपसंपन्नां क्रीडन्तीं वरुणालये। तदाविशत्परो हर्षो वरुणं चोर्वशीकृते॥ स तां पद्मपलाशाक्षी पूर्णचन्द्रनिभाननाम्। वरुणो वरयामास मैथुनायाप्सरोवराम्॥ प्रत्युवाच ततः सा तु वरुणं प्राञ्जलिः स्थिता। मित्रेणाहं वृता साक्षात्पूर्वमेव सुरेश्वर॥ वरुणस्त्वब्रवीद्वाक्यं कंदर्पशरपीडितः। इदं तेजः समुत्स्रक्ष्ये कुम्भेऽस्मिन्देवनिर्मिते॥ एवमुत्सृज्य सुश्रोणि त्वय्यहं वरवर्णिनि। कृतकामो भविष्यामि यदि नेच्छसि संगमम्।।१८ तस्य तल्लोकनाथस्य वरुणस्य सुभाषितम्। उर्वशी परमप्रीता श्रुत्वा वाक्यमुवाच ह॥ काममेतद्भवत्वेवं हृदयं मे त्वयि स्थितम्। भावश्चाप्यधिकं तुभ्यं देहो मित्रस्य तु प्रभो॥ उर्वश्या एवमुक्तस्तु रेतस्तन्महदद्भुतम्। ज्वलदग्निसमप्रख्यं तस्मिन्कुम्भे न्यवासृजत्।।२१ उर्वशी त्वगमत्तत्र मित्रो वै यत्र देवता। तां तु मित्रः सुसंक्रुद्धउर्वशीमिदमब्रवीत्॥ मयाभिमन्त्रिता पूर्वं कस्मात्त्वमवसर्जिता। पतिमन्यं वृतवती किमर्थ दुष्टचारिणि ॥ अनेन दुष्कृतेन त्वं मत्क्रोधकलुषीकृता। मनुष्यलोकमास्थाय कंचित्कालं निवत्स्यसि।।२४ बुधस्य पुत्रो राजर्षिः काशिराजः पुरूरवाः। तमभ्यागच्छ दुर्बुद्धे स ते भर्ता भविष्यति ॥ ततः सा शापदोषेण पुरूरवसमभ्यगात्। प्रतिष्ठाने पुरूरवं बुधस्यात्मजमौरसम्॥ तस्य जज्ञे ततः श्रीमानायुः पुत्रो महाबलः। नहुषो यस्य पुत्रस्तु बभूवेन्द्रसमद्युतिः॥ वज्रमुत्सृज्य वृत्राय श्रान्तेऽथ त्रिदिवेश्वरे। शतं वर्षसहस्राणि येनेन्द्रत्वं प्रशासितम्॥ सा तेन शापेन जगाम भूमि तदोर्वशी चारुदती सुनेत्रा। बहूनि वर्षाण्यवसच्च सुभ्रूः शापक्षयादिन्द्रसदो ययौ च ॥ तां श्रुत्वा दिव्यसंकाशां कथामद्भुतदर्शनाम्। लक्ष्मणः परमप्रीतो राघवं वाक्यमब्रवीत्॥ निक्षिप्तदेहौ काकुत्स्थ कथं तौ द्विजपार्थिवौ। पुनर्देहेन संयोग जग्मतुर्देवसंमतौ॥ तस्य तद्भाषितं श्रुत्वा रामः सत्यपराक्रमः। तां कथां कथयामास वसिष्ठस्य महात्मनः॥ यः स कुम्भो रघुश्रेष्ठ तेजःपूर्णो महात्मनोः। तस्मिंस्तेजोमयौ विप्रौ संभूतावृषिसत्तमौ॥ पूर्व समभवत्तत्र अगस्त्यो भगवानृषिः। नाहं सुतस्तवेत्युक्त्वा मित्रं तस्मादपाक्रमत्॥ तद्धि तेजस्तु मित्रस्य उर्वश्याः पूर्वमाहितम्। तस्मिन्समभवत्कुम्भे तत्तेजो यत्र वारुणम्॥ कस्यचित्त्वथ कालस्य मित्रावरुणसंभवः। वसिष्ठस्तेजसा युक्तो जज्ञे इक्ष्वाकुदैवतम्॥ तमिक्ष्वाकुर्महातेजा जातमात्रमनिन्दितम्। ववे पुरोधसं सौम्य वंशस्यास्य हिताय नः।।।।। एवं त्वपूर्वदेहस्य वसिष्ठस्य महात्मनः। कथितो निर्गमः सौम्य निमेः शृणु यथाभवत्॥ दृष्ट्वा विदेहं राजानमृषयः सर्व एव ते। तं च ते याजयामसुर्यज्ञदीक्षां मनीषिणः॥ तं च देहं नरेन्द्रस्य रक्षन्ति स्म द्विजोत्तमाः। गन्धैर्माल्यैश्च वस्त्रैश्च पौरभृत्यसमन्विताः॥ ततो यज्ञे समाप्ते तु भृगुस्तत्रेदमब्रवीत्। आनयिष्यामि ते चेतस्तुष्टोऽस्मि तव पार्थिव ॥ सुप्रीताश्च सुराः सर्वे निमेश्चेतस्तदाब्रुवन्। वरं वरय राजर्षे क्व ते चेतो निरूप्यताम्॥ एवमुक्तः सुरैः सर्वैर्निमेश्चेतस्तदाब्रवीत्। नेत्रेषु सर्वभूतानां वसेयं सुरसत्तमाः॥ बाढमित्येव विबुधा निमेश्चेतस्तदाब्रुवन्। नेत्रेषु सर्वभूतानां वायुभूतश्चरिष्यसि॥ त्वत्कृते च निमिष्यन्ति चढूंषि पृथिवीपते। वायुभूतेन चरता विश्रामार्थं मुहुर्मुहुः॥ एवमुक्त्वा तु विबुधाः सर्वे जग्मुर्यथागतम्। ऋषयोऽपि महात्मानो निमेहं समाहरन्॥ अरणिं तत्र निक्षिप्य मथनं चक्रुरोजसा। मन्त्रहोमैर्महात्मानः पुत्रहेतोनिमेस्तदा ॥ अरण्यां मध्यमानायं प्रादुर्भूतो महातपाः। मथनान्मिथिरित्याहुर्जननाज्जनकोऽभवत्॥ यस्माद्विदेहात्संभूतो वैदेहस्तु ततः स्मृतः। एवं विदेहराजश्च जनकः पूर्वकोऽभवत्। मिथिर्नाम महातेजास्तेनायं मैथिलोऽभवत्॥ इति सर्वमशेषतो मया कथितं संभवकारणं तु सौम्य नृपपुङ्गव शाफ्जं द्विजस्य द्विजशापाच्च यदद्भुतं नृपस्य। एवं ब्रुवति रामे तु लक्ष्मणः परवीरहा। प्रत्युवाच महात्मानं ज्वलन्तमिव तेजसा ॥ महदद्भुतमाश्चर्य विदेहस्य पुरातनम्। निर्वृत्तं राजशार्दूल वसिष्ठस्य मुनेश्च ह॥ निमिस्तु क्षत्रियः शूरो विशेषेण च दीक्षितः। न क्षमं कृतवानराजा वसिष्ठस्य महात्मनः॥ एवमुक्तस्तु तेनायं रामः क्षत्रियपुङ्गवः। उवाच लक्ष्मणं वाक्यं सर्वशास्त्रविशारदम्॥ रामो रमयतां श्रेष्ठो भ्रातरं दीप्ततेजसम्। न सर्वत्र क्षमा वीर पुरुषेषु प्रदृश्यते॥ सौमित्रे दुःसरो रोषो यथा क्षान्तो ययातिना। सत्त्वानुगं पुरस्कृत्य तन्निबोध समाहितः॥ नहुषस्य सुतो राजा ययातिः पौरवर्धनः। तस्य भार्याद्वयं सौम्य रूपेणाप्रतिमं भुवि॥ एका तु तस्य राजर्षेरनाहुषस्य पुरस्कृता। शर्मिष्ठा नाम दैतेयी दुहिता वृषपर्वणः॥ अन्या तूशनसः पत्नी ययातेः पुरुषर्षभ। न तु सा दयिता राज्ञो देवयानी सुमध्यमा।९।। तयोः पुत्रौ तु संभूतौ रूपवन्तौ समाहितौ। शर्मिष्ठाजनयत्पूरुं देवयानी यदुं तदा॥ पूरुस्तु दयितो राज्ञो गुणैर्मातृकृतेन च। ततो दुःखसमाविष्टो यदुर्मातरमब्रवीत्॥ भार्गवस्य कुले जाता देवस्याक्लिष्टकर्मणः। सहसे हृद्गतं दुःखमवमानं च दुःसहम्॥ आवां च सहितौ देवि प्रविशाव हुताशनम्। राजा तु रमतां सार्धं दैत्यपुत्र्या बहुक्षपाः॥ यदि वा सहनीयं ते मामनुज्ञातुमर्हसि। क्षम त्वं न क्षमिष्येऽहं मरिष्यामि न संशयः॥ पुत्रस्य भाषितं श्रुत्वा परमार्तस्य रोदतः। देवयानी तु संक्रुद्धा सस्मार पितरं तदा॥ इङ्गितं तदभिज्ञाय दुहितुर्भार्गवस्तदा। आगतस्त्वरितं तत्र देवयानी स्म यत्र सा॥ दृष्ट्वा चाप्रकृतिस्थां तामप्रहृष्टामचेतनाम्। पिता दुहितरं वाक्यं किमेतदिति चाब्रवीत्॥ पृच्छन्तमसकृत्तं वै भार्गवं दीप्तचेतसम्। देवयानी तु संक्रुद्धा पितरं वाक्यमब्रवीत्॥ अहमग्नि विषं तीक्ष्णमपो वा मुनिसत्तम। 'भक्षयिष्ये प्रवेक्ष्ये वा न तु शक्ष्यामि जीवितुम्॥ न मां त्वमवजानीषे दुःखितामवमानिताम्। वृक्षस्यावज्ञया ब्रह्मश्छिद्यन्ते वृक्षजीविनः॥ अवज्ञया च राजर्षिः परिभूय च भार्गव। मय्यवज्ञां प्रयुङ्क्ते हि न च मां बहु मन्यते ॥ तस्यास्तद्वचनं श्रुत्वा कोपेनाभिपरिवृतः। व्याहर्तुमुपचक्राम भार्गवो नहुषात्मजम्॥ यस्मान्मामवजानीषे नाहुष त्वं दुरात्मवान्। वयसा जरया जीर्णः शैथिल्यमुपयास्यसि॥ एवमुक्त्वा दुहितरं समाश्वास्य स भार्गवः। पुनर्जगाम ब्रह्मर्षिर्भवनं स्वं महायशाः॥ स एवमुक्त्वा द्विजपुङ्गवावयः सुतां समाश्वास्य च देवयानीम्। पुनर्ययौ सूर्यसमानतेजा दत्त्वा च शापं नहुषात्मजाय॥ श्रुत्वा तूशनसं क्रुद्धं तदार्तो नहुषात्मजः। जरां परमिकां प्राप्य यदुं वचनमब्रवीत्॥ यदो त्वमसि धर्मज्ञो मदर्थं प्रतिगृह्यताम्। जरां परमिकां पुत्र भोगै रंस्ये महायशः॥ न तावत्कृतकृत्योऽस्मि विषयेषु नरर्षभ। अनुभूय तदा कामं ततः प्राप्स्याम्यहं जराम्॥ यदुस्तद्वचनं श्रुत्वा प्रत्युवाच नरर्षभम्। पुत्रस्ते दयितः पूरुः प्रतिगृह्णातु वै जराम्॥ बहिष्कृतोऽहमर्थेषु संनिकर्षाच्च पार्थिव । प्रतिगृह्णातु वै राजन्यैः सहाश्नासि भोजनम्॥ तस्य तद्वचनं श्रुत्वा राजा पूरुमथाब्रवीत्। इयं जरा महाबाहो मदर्थं प्रतिगृह्यताम्॥ नाहुषेणैवमुक्तस्तु पूरुः प्राञ्जलिरब्रवीत्। धन्योऽस्म्यनुगृहीतोऽस्मि शासनेऽस्मि त्व स्थितः॥ पूरोवर्चनमाज्ञाय नाहुषः परया मुदा। प्रहर्षमतुलं लेभे जरां संक्रामयच्च ताम्॥ ततः स राजा तरुणः प्राप्य यज्ञान्सहस्रशः। बहुवर्षसहस्राणि पालयामास मेदिनीम्॥ अथ दीर्घस्य कालस्य राजा पूरुमथाब्रवीत्। आनयस्व जरां पुत्र न्यासं निर्यातयस्व मे॥ न्यासभूता मया पुत्र त्वयि संक्रामिता जरा। तस्मात्प्रतिग्रहीष्यामि तां जरां मा व्यथां कृथाः।।११ प्रीतश्चास्मि महाबाहो शासनस्य प्रतिग्रहात्। त्वां चाहमभिषेक्ष्यामि प्रीतियुक्तो नराधिपम्॥ एवमुक्त्वा सुतं पूरुं ययातिर्नहुषात्मजः। देवयानीसुतं क्रुद्धो राजा वाक्यमुवाच ह ॥ राक्षसस्त्वं मया जातः क्षत्ररूपो दुरासदः। प्रतिहसि ममाज्ञां त्वं प्रजार्थे विफलो भव॥ पितरं गुरुभूतं मां यस्मात्त्वमवमन्यसे। राक्षसान्यातुधानांस्त्वं जनयिष्यसि दारुणान्॥ न तु सोमकुलोत्पन्ने वंशे स्थास्यति दुर्मतेः। वंशोऽपि भवतस्तुल्यो दुविनीतो भविष्यति॥ तमेवमुक्त्वा राजर्षिः पूरुं राज्यविवर्धनम्। अभिषेकेण संपूज्य आश्रमं प्रविवेश ह॥ ततः कालेन महता दिष्टान्तमुपजग्मिवान्। त्रिदिवं स गतो राजा ययातिनहुषात्मजः॥ पूरुश्चकार तद्राज्यं धर्मेण महता वृतः। प्रतिष्ठाने पुरवरे काशिराज्ये महायशाः॥ यदुस्तु जनयामास यातुधानान्सहस्रशः। पुरे क्रौञ्चवने दुर्गे राजवंशबहिष्कृते॥ एष तूशनसा मुक्तः शापोत्सर्गो ययातिना। धारितः क्षत्रधर्मेण यं निमिश्चक्षमे न च ॥ एतत्ते सर्वमाख्यातं दर्शनं सर्वकारिणाम्। अनुवर्तामहे सौम्य दोषो न स्याद्यथा नृगे॥ इति कथयति रामे चन्द्रतुल्याननेन प्रविरलतरतारं व्योम जज्ञे तदानीम्। अरुणकिरणरक्ता दिग्बभौ चैव पूर्वा कुसुमरसविमुक्तं वस्त्रमागुण्ठितेव॥ ततः प्रभाते विमले कृत्वा पौर्वाह्निकी क्रियाम्। धर्मासनगतो राजा रामो राजीवलोचनः॥ राजधर्मानवेक्षन्वै ब्राह्मणैर्नंगमैः सह। पुरोधसा वसिष्ठेन ऋषिणा कश्यपेन च॥ मन्त्रिभिर्व्यवहारज्ञैस्तथान्यैर्धर्मपाठकैः। नीतिज्ञैरथ सभ्यैश्च राजभिः सा सभा वृता॥ सभा यथा महेन्द्रस्य यमस्य वरुणस्य च। शुशुभे राजसिंहस्य रामस्याक्लिष्टकर्मणः॥ अथ रामोऽब्रवीत्तत्र लक्ष्मणं शुभलक्षणम्। निर्गच्छ त्वं महाबाहो सुमित्रानन्दवर्धन॥ कार्यार्थिनश्च सौमित्रे व्याहतुं त्वमुपाक्रम। रामस्य भाषितं श्रुत्वा लक्ष्मणः शुभलक्षणः॥ द्वारदेशमुपागम्य कार्यिणश्चाह्वयस्त्वयम्। न कश्चिदब्रवीत्तत्र मम कार्यमिहाद्य वै॥ नाधयो व्याधयश्चैव रामे राज्यं प्रशासति। पक्क सस्या वसुमती सर्वोषधिसमन्विता॥ न बालो म्रियते तत्र न युवा न च मध्यमः। धर्मेण शासितं सर्वं न च बाधा विधीयते॥ दृश्यते न च कार्यार्थी रामे राज्यं प्रशासति। लक्ष्मणः प्राञ्जलिर्भूत्वा रामायैवं न्यवेदयत्॥ अथ रामः प्रसन्नात्मा सौमित्रिमिदमब्रवीत्। भूय एव तु गच्छ त्वं कार्यिणः प्रविचारय॥ सम्यकप्रणीतया नीत्या नाधर्मो विद्यते व चित्। तस्माद्राजभयात्सर्वे रक्षन्तीह परस्परम्॥ बाणा इव मया मुक्ता इह रक्षन्ति मे प्रजाः। तथापि त्वं महाबाहो प्रजा रक्षस्व तत्परः॥ एवमुक्तस्तु सौमित्रिनिर्जगाम नृपालयात्। अपश्यदूरदेशे वै श्वानं तावदवस्थितम्॥ तमेवं वीक्षमाणो वै विक्रोशन्तं मुहुर्मुहुः। दृष्ट्वाथ लक्ष्मणस्तं वै स पप्रच्छाथ वीर्यवान्॥ किं ते कार्यं महाभाग बूहि विस्रब्धमानसः। लक्ष्मणस्य वचः श्रुत्वा सारमेयोऽभ्यभाषत॥ सर्वभूतशरण्याय रामायाकिष्टकर्मणे। भयेष्वभयदात्रे च तस्मै वक्तुं समुत्सहे॥ एतच्छुत्वा च वचनं सारमेयस्य लक्ष्मणः। राघवाय तदाख्यातुं प्रविवेशालयं शुभम्॥ निवेद्य रामस्य पुनर्निर्जगाम नृपालयात्। वक्तव्यं यदि ते किंचित्तत्त्वं ब्रूहि नृपाय वै॥ लक्ष्मणस्य वचः श्रुत्वा सारमेयोऽभ्यभाषत। देवागारे नृपागारे द्विजवेश्मसु वै तथा॥ वह्निः शतक्रतुश्चैव सूर्यो वायुश्च तिष्ठति। नात्र योग्यास्तु सौमित्रे योनीनामधमा वयम्॥ प्रवेष्टुं नात्र शक्ष्यामि धर्मो विग्रहवानृपः। सत्यवादी रणपटुः सर्वसत्त्वहिते रतः॥ पाङ्गुण्यस्य पदं वेत्ति नीतिकर्ता स राघवः। सर्वज्ञः सर्वदर्शी च रामो रमयतां वरः॥ स सोमः स च मृत्युश्च स यमो धनदस्तथा। वह्निः शतक्रतुश्चैव सूर्यो वै वरुणस्तथा॥ तस्य त्वं ब्रूहि सौमित्रे प्रजापालः स राघवः। अनाज्ञप्तस्तु सौमित्रे प्रवेष्टुं नेच्छयाम्यहम्॥ आनृशंस्यान्महाभाग प्रविवेश महाद्युतिः। नृपालयं प्रविश्याथ लक्ष्मणो वाक्यमब्रवीत्॥ श्रूयतां मम विज्ञाप्यं कौसल्यानन्दवर्धन। यन्मयोक्तं महाबाहो तव शासनजं विभो॥ श्वा वै ते तिष्ठते द्वारि कार्यार्थी समुपागतः। लक्ष्मणस्यः वचः श्रुत्वा रामो वचनमब्रवीत्।। संप्रवेशय वै क्षिप्रं कार्यार्थी योऽत्र तिष्ठति॥ श्रुत्वा रामस्य वचनं लक्ष्मणस्त्वरितस्तदा। श्वानमाहूय मतिमानराधवाय न्यवेदयत्॥ दृष्ट्वा समागतं श्वानं रामो वचनमब्रवीत्। विवक्षितार्थं मे ब्रूहि सारमेय न ते भयम्॥ अथापश्यत तत्रस्थं रामं श्वा भिन्नमस्तकः। ततो दृष्ट्वा स राजानं सारमेयोऽब्रवीद्वचः॥ राजैव कर्ता भूतानां राजा चैव विनायकः। राजा सुप्तेषु जागर्ति राजा पालयति प्रजाः॥ नीत्या सुनीतया राजा धर्म रक्षति रक्षिता। यदा न पालयेद्राजा क्षिप्रं नश्यन्ति वै प्रजाः॥ राजा कर्ता च गोप्ता च सर्वस्य जगतः पिता। राजा कालो युगं चैव राजा सर्वमिदं जगत्॥ धारणाद्धर्ममित्याहुर्धर्मेण विधृताः प्रजाः। यस्माद्धारयते सर्वं त्रैलोक्यं सचराचरम्॥ धारणाद्विद्विषां चैत्र धर्मेणारझ्-यन्प्रजाः। यस्माद्धारणमित्युक्तं स धर्म इति निश्चयः॥ एष राजन्परो धर्मः फलवाओत्य राघव। नहि धर्माद्भवेत्किंचिहुष्प्रापमिति मे मतिः॥ दानं दया सतां पूजा व्यवहारेषु चार्जवम्। एष राम परो धर्मो रक्षणात्प्रेत्य चेह च॥ त्वं प्रमाणं प्रमाणानामसि राघव सुव्रत। विदितश्चैव ते धर्मः सद्भिराचरितस्तु वै॥ धर्माणां त्वं परं धाम गुणाना सागरोपमः। अज्ञानाच मया राजनुक्तस्त्वं राजसत्तम॥ प्रसादयामि शिरसा न त्वं क्रोद्भुमिहार्हसि। शुनः स वचनं श्रुत्वा राघवो वाक्यमब्रवीत्॥ किं ते कार्य करोम्यद्य ब्रूहि विस्रब्ध मा चिरम्। रामस्य वचनं श्रुत्वा सारमेयोऽब्रवीदिदम्॥ धर्मेण राष्ट्रं विन्देत धर्मेणैवानुपालयेत्। धर्माच्छरण्यतां याति राजा सर्वभयापहः॥ इदं विज्ञाय यत्कृत्यं श्रूयतां मम राघव। भिक्षुः सर्वार्थसिद्धश्च ब्राह्मणावसथे वसन्॥ तेन दत्तः प्रहारो मे निष्कारणमनागसः। एतच्छुत्वा तु रामेण द्वा:स्थः संप्रेषितस्तदा।॥ आनीतश्च द्विजस्तेन सर्वसिद्धार्थकोविदः। अथ द्विजवरस्तत्र रामं दृष्ट्वा महाद्युतिः॥ किं ते कार्यं मया राम तब्रूहि त्वं ममानघ। एवमुक्तस्तु विप्रेण रामो वचनमब्रवीत्॥ त्वया दत्तः प्रहारोऽयं सारमेयस्य वै द्विजा किं तवापकृतं विप्र दण्डेनाभिहतो यतः॥ क्रोधः प्राणहरः शत्रुः क्रोधोऽमित्रमुखो रिपुः। क्रोधो ह्यसिर्महातीक्ष्णः सर्वं क्रोधोऽपकर्षति॥ तपते यजते चैव यच दानं प्रयच्छति। क्रोधेन सर्वं हरति तस्मात्क्रोधं विसर्जयेत्॥ इन्द्रियाणां प्रदुष्टानां हयानामिव धावताम्। कुर्वीत धृत्या सारथ्यं संहत्येन्द्रियगोचरम्॥ मनसा कर्मणा वाचा चक्षुषा च समाचरेत्। श्रेयो लोकस्य चरतो न द्वेष्टि न च लिप्यते॥ न तत्कृर्यादसिस्तीक्ष्णः सर्पो वा व्याहृतः पदा। अरिर्वा नित्यसंक्रुद्धो यथात्मा दुरनुष्ठितः॥ विनीतविनयस्यापि प्रकृतिर्न विधीयते। प्रकृति गृहमानस्य निश्चयेन कृतिधुंवा॥ एवमुक्तः स विप्रो वै रामेणाविष्टकर्मणा। द्विजः सर्वार्थसिद्धस्तु अब्रवीद्रामसंनिधौ॥ मया दत्तप्रहारोऽयं क्रोधेनाविष्टचेतसा। भिक्षार्थमटमानेन काले विगतभैक्षके॥ रथ्यास्थितस्त्वयं श्वा वै गच्छ गच्छेति भाषितः। अथ स्वरेण गच्छंस्तु रथ्यान्ते विषमः स्थितः॥ क्रोधेन क्षुधयाविष्टस्ततो दत्तोऽस्य राघव। प्रहारो राजराजेन्द्र शाधि मामपराधिनम्॥ त्वया शस्तस्य राजेन्द्र नास्ति मे नरकाद्भयम्। अथ रामेण संपृष्टाः सर्व एव सभासदः॥ किं कार्यमस्य वै बूत दण्डो वै कोऽस्य पात्यताम्। सम्यक्प्रणिहिते दण्डे प्रजा भवति रक्षिता॥ भृग्वाङ्गिरसकृत्साद्या वसिष्ठश्च सकाश्यपः। धर्मपाठकमुख्याश्च सचिवा नैगमास्तधा॥ एते चान्ये च बहवः पण्डितास्तत्र संगताः। अबध्यो ब्राह्मणो दण्डैरिति शास्त्रविदो विदुः॥ बुवते राघवं सर्वे राजधर्मेषु निष्ठिताः। अथ मुनयः सर्वे राममेवाब्रुवंस्तदा॥ राजा शास्ता हि सर्वस्य त्वं विशेषेण राघव। त्रैलोक्यस्य भवाशास्ता देवो विष्णुः सनातनः॥ एवमुक्ते तु तैः सर्वैः श्वा वै वचनमब्रवीत्। यदि तुष्टोऽसि मे राम यदि देयो वरो मम॥ प्रतिज्ञातं त्वया वीर किं करोमीति विश्रुतम्। प्रयच्छ ब्राह्मणस्यास्य कौलपत्यं नराधिप॥ कालञ्जरे महाराज कौलपत्यं प्रदीयताम्। एतच्छ्रुत्वा तु रामेण कौलपत्येऽभिषेचितः॥ प्रययौ ब्राह्मणो हृष्टो गजस्कन्धेन सोऽर्चितः। अथ ते रामसचिवाः स्मयमाना वचोऽब्रुवन्॥ वरोऽयं दत्त एतस्य नायं शापो महायुते। एवमुक्तस्तु सचिवै रामो वचनमब्रवीत्॥ न यूयं गतितत्त्वज्ञाः श्वा वै जानाति कारणम्। अथ पृष्टस्तु रामेण सारमेयोऽब्रवीदिदम्॥ अहं कुलपतिस्तत्र आसं शिष्टान्नभोजनः। देवद्विजातिपूजायां दासीदासेषु राघव॥ संविभागी शुभरतिर्देवद्रव्यस्य रक्षिता। विनीतः शीलसंपन्न: सर्वसत्त्वहिते रतः॥ सोहं प्राप्त इमां घोरामवस्थामधमा गतिम्। एवं क्रोधान्वितो विप्रस्त्यक्तधर्मा हिते रतः॥ क्रुद्धो नृशंसः परुष अविद्वांश्चाप्यधार्मिकः। कुलानि पातयत्येव सप्त सप्त च राघव॥ तस्मात्सर्वास्ववस्थासु कौलपत्यं न कारयेत्। यमिच्छेन्नरकं नेतुं सपुत्रपशुबान्धवम्॥ देवेष्वधिष्ठितं कुर्याद्गोषु तं ब्राह्मणेषु च। ब्रह्मस्वं देवताद्रव्यं स्त्रीणां बालधनं च यत्॥ दत्तं हरति यो भूय इष्टैः सह विनश्यति। ब्राह्मणद्रव्यमादत्ते देवानां चैव राघव॥ सद्यः पतति घोरे वै नरके वीचिसंज्ञके। मनसापि हि देवस्वं ब्रह्मस्वं च हरेत्तु यः॥ निरयान्निरयं चैव पतत्येव नराधमः। तच्छ्रुत्वा वचनं रामो विस्मयोत्फुल्ललोचनः॥ श्वाप्यगच्छन्महातेजा यत एवागतस्ततः। मनस्वी पूर्वजात्या स जातिमात्रोऽपदूषितः॥ वाराणस्यां महाभागः प्राय चोपविवेश ह॥ अथ तस्मिन्वनोद्देश रम्ये पादपशोभिते। नदीकोणे गिरिवरे कोकिलानेककूजिते॥ सिंहव्याघ्रसमाकीर्णे नानाद्विजगणावृते। गृध्रोलको प्रवसतो बहुवर्षगणानपि॥ अथोलूकस्य भवनं गृध्रः पापविनिश्चयः। ममेदमिति कृत्वासौ कलहं तेन चाकरोत्॥ राजा सर्वस्य लोकस्य रामो राजीवलोचनः। तं प्रपद्यावहे शीघ्रं यस्यैतद्भवनं भवेत्॥ इति कृत्वा मतिं तां तु निश्चयार्थं सुनिश्चिताम्। गृध्रोलूको प्रपद्येतां कोपाविष्टौ हमर्षितौ॥ रामं प्रपद्य तौ शीघ्रं कलिव्याकुलचेतसौ। तौ परस्परविद्वेषात्स्पृशतश्चरणौ तदा॥ अथ दृष्ट्वा नरेन्द्रं तं गधो वचनमब्रवीत्। सुराणामसुराणां च प्रधानस्त्वं मतो मम॥ बृहस्पतेश्च शुक्राच विशिष्टोऽसि महाधुते। परावरज्ञो भूतानां कात्या चन्द्र इवापरः॥ दुर्निरीक्ष्यो यथा सूर्यो हिमांश्चैव गौरवे। सागरचैव गाम्भीर्ये लोकपालो यमो ह्यसि॥ क्षान्त्या धरण्या तुल्योऽसि शीघ्रस्वे ह्यनिलोपमः। गुरुस्त्व सर्वसंपन्नः कीर्तियुक्तश्च राघव॥ अमर्षी दुर्जयो जेता सर्वास्त्रविधिपारगः। शृणुष्व मम वै राम विज्ञाप्यं नरपुंगव॥ ममालयं पूर्वकृतं बाहुवीर्येण राघव। उलूको हरते राजंस्तत्र त्वं त्रातुमर्हसि॥ एवमुक्ते तु गृध्रेण उलूको वाक्यमब्रवीत्। सोमाच्छतक्रतोः सूर्याद्धनदाद्वा यमात्तथा॥ जायते वै नृपो राम किंचिद्भवति मानुषः। त्वं त सर्वमयो देवो नारायण इवापरः॥ याचते सौम्यता राजन्सम्यकप्रणिहिता विभो। समं चरसि चान्विष्य तेन सोमांशको भवान्॥ क्रोधे दण्डे प्रजानाथ दाने पापभयापहः। दाता हर्तासि गोप्तासि तेनेन्द्र इव नो भवान्॥ अधृष्यः सर्वभूतेषु तेजसा चानलोपमः। अभीक्ष्णं तपसे लोकांस्तेन भास्करसंनिमः॥ साक्षाद्वित्तेशतुल्योऽसि अथवा धनदाधिकः। वित्तेशस्येव पद्मा श्रीनित्यं ते राजसत्तम॥ धनदस्य तु कार्येण धनदस्तेन नो भवान्। समः सर्वेषु भूतेषु स्थावरेषु चरेषु च॥ शत्रौ मित्रे च ते दृष्टिः समतां याति राघव। धर्मेण शासनं नित्यं व्यवहारो विधिक्रमात्॥ यस्य रुष्यसि वै राम तस्य मृत्युर्विधावति। गीयसे तेन वै राम यम इत्यभिविक्रमः॥ यश्चैष मानुषो भावो भवतो नृपसत्तम। आनृशंस्यपरो राजा सत्त्वेषु क्षमयान्वितः॥ दुर्बलस्य त्वनाथस्य राजा भवति वै बलम्। अचक्षुषोत्तमं चक्षुरगतेः स गतिर्भवान्॥ अस्माकमपि नाथस्त्वं श्रूयतां मम धार्मिक। ममालयं प्रविष्टस्तु गृध्रो मां बाधते नृप।॥ त्वं हि देव मनुष्येषु शास्ता वै नरपुंगव। एतच्छ्रुत्वा तु वै रामः सचिवानाह्वयत्स्वयम्॥ धृष्टिर्जयन्तो विजयः सिद्धार्थो राष्ट्रवर्धनः। अशोको धर्मपालश्च सुमन्त्रश्च महाबलः॥ एते रामस्य सचिवा राज्ञो दशरथस्य च। नीतियुक्ता महात्मानः सर्वशास्त्रविशारदाः॥ ह्रीमन्तश्च कुलीनश्च नये मन्त्रे च कोविदाः। तानाहूय च धर्मात्मा पुष्पकादवतीर्य च॥ गृधोलूकविवादं तं पृच्छति स्म रघूत्तमः। कति वर्षाणि वै गृध्र तवेदं निलयं कृतम्॥ एतन्मे कारणं ब्रूहि यदि जानासि तत्त्वतः। एतच्छ्रुत्वा तु वै गृध्रो भाषते राघवं स तम्॥ इयं वसुमती राम मनुष्यैः परितो यदा। उत्थितैरावृता सर्वा तदा प्रभृति मे गृहम्॥ उलूकश्चाब्रवीद्रामं पादपैरुपशोभिता। यदेयं पृथिवी राजंस्तदाप्रभृति मे गृहम्॥ एतच्छुत्वा तु वै रामः सभासदमुवाच ह॥ न सा सभा यत्र न सन्ति वृद्धा वृद्धा न ते ये न वदन्ति धर्मम्। नासौ धर्मो यत्र न सत्यमस्ति न तत्सत्यं यच्छलेनानुविद्धम्॥ ये तु सभ्याः सदा ज्ञात्वा तूष्णीं ध्यायन्त आसते। यथाप्राप्तं न बुवते ते सर्वेऽनृतवादिनः॥ जानन वाब्रवीत्प्रश्नान्कामात्क्रोधाद्भयात्तथा। सहस्रं वारुणान्याशानात्मनि प्रतिमुञ्चति॥ तेषां संवत्सरे पूर्णे पाश एकः प्रमुच्यते। तस्मात्सत्येन वक्तव्यं जानता सत्यमञ्जसा॥ एतच्छ्रुत्वा तु सचिवा राममेवाद्वंस्तदा। उलूकः शोभते राजन्न तु गृयो महामते॥ त्वं प्रमाणं महाराज राजा हि परमा गतिः। राजमूलाः प्रजाः सर्वा राजा धर्मः सनातनः॥ शास्ता नृणां नृपो येषां ते न गच्छन्ति दुर्गतिम्। वैवस्वतेन मुक्तास्तु भवन्ति पुरुषोत्तमाः॥ सचिवानां वचः श्रुत्वा रामो वचनमब्रवीत्। श्रूयतामभिधास्यामि पुराणे यदुदाहृतम्॥ द्यौः सचन्द्रार्कनक्षत्रा सपर्वतमहावना। सलिलार्णवसंपूर्णं त्रैलोक्यं सचराचरम्॥ एक एव तदा ह्यासीद्युक्तो मेरुरिवापरः। पुरा भूः सह लक्ष्या च विष्णोर्जठरमाविशत्॥ तां निगृह्य महातेजाः प्रविश्य सलिलार्णवम्। सुष्वाप देवो भूतात्मा बहून्वर्षगणानपि॥ विष्णोसुप्ते नदा ब्रह्मा विवेश जठरं ततः। रुद्धस्रोतं तु तं ज्ञात्वा महायोगी समाविशत्॥ नाभ्यां विष्णोः समुत्पन्ने पद्मे हेमविभूषिते। स तु निर्गम्य वै ब्रह्मा योगी भूत्वा महाप्रभुः॥ सिसृक्षुः पृथिवीं वायु पर्वतान्समहीरुहान्। तदन्तरे प्रजाः शर्वाः समनुष्यसरीस्पाः॥ सयुजाण्डजाः शर्वाः स ससर्ज महातपाः। तत्र श्रोत्रमलोत्पन्न: कैटभो मधुना सह॥ दानवौ तौ महावीर्यो घोररूपौ दुरासदौ। दृष्ट्वा प्रजापतिं तत्र क्रोधाविष्टौ बभूवतुः॥ वेगेन महता तत्र स्वयंभुवमधावताम्। दृष्ट्वा स्वयंभुवा मुक्तो रावो वै विकृतस्तदा॥ तेन शब्देन संप्राप्तौ दानवौ हरिणा सह। अथ चक्रप्रहारेण सूदितौ मधुकैटभौ॥ मेदसा प्लाविता सर्वा पृथिवी च समन्ततः। भूयो विशोधिता तेन हरिणा लोकधारिणा॥ शुद्धां वै मेदिनी तां तु वृक्षः सर्वामपूरयत्। ओषध्यः सर्वसस्यानि निष्पद्यन्त पृथग्विधाः॥ मेदोगन्धा तु धरणी मेदिनीत्यभिसंज्ञिता। तस्मान गृध्रस्य गृहमूलूकस्येति मे मतिः॥ तस्माद् गृध्रस्तु दण्ड्यो वै पापो हर्ता परालयम्। पीडां करोति पापात्मा दुर्विनीतो महानयम्॥ अथाशरीरिणी वाणी अन्तरिक्षात्प्रबोधिनी। मावधी राम गृधं त्वं पूर्वदग्धं तपोबलात्॥ कालगौतमदग्धोऽयं प्रजानाथो नरेश्वर। ब्रह्मदत्तेति नाम्नैष शूरः सत्यव्रतः शुचिः॥ गृहं त्वस्यागतो विप्रो भोजनं प्रत्यमार्गत। साग्रं वर्षशतं चैव भोक्तव्यं नृपसत्तम॥ ब्रह्मदत्तः स वै तस्य पाद्यमर्थ्य स्वयं नृपः। हार्द चैवाकरोत्तस्य भोजनार्थं महाद्युतेः॥ मांसमस्याभवत्तत्र आहारे तु महात्मनः। अथ क्रुद्धेन मुनिना शापो दत्तोऽस्य दारुणः॥ गृध्रस्त्वं भव वै राजन्मा मैनं ह्यथ सोऽब्रवीत्। प्रसादं कुरु धर्मज्ञ अज्ञानान्मे महाव्रत॥ शापस्यान्तं महाभाग क्रियतां वै ममानघ। तदज्ञानकृतं मत्वा राजानं मुनिरब्रवीत्॥ उत्पत्स्यति कुले राज्ञां रामो नाम महायशाः। इक्ष्वाकूणां महाभागो राजा राजीवलोचनः॥ तेन स्पृष्टो विपापस्त्वं भविता नरपुंगव। स्पृष्टो रामेण तच्छुत्वा नरेन्द्रः पृथिवीपतिः॥ गृध्रत्वं त्यक्तवानराजा दिव्यगन्धानुलेपनः। पुरुषो दिव्यरूपोऽभूदुवाचेदं च राघवम्॥ साधु राघव धर्मज्ञ त्वत्प्रसादादहं विभो। विमुक्तो नरकाद्धोराच्छापस्यान्तः कृतस्त्वया।॥ तयोः संवदतोरेवं रामलक्ष्मणयोस्तदा। वासन्तिकी निशा प्राप्ता न शीता न च धर्मदा॥ ततः प्रभाते विमले कृतपूर्वाहिणकक्रियः। अभिचक्राम काकुत्स्थो दर्शनं पौरकार्यवित्॥ ततः सुमन्त्रस्त्वागम्य राघवं वाक्यमब्रवीत्। एते प्रतिहता राजन्द्वारि तिष्ठन्ति तापसाः॥ भार्गवं च्यवनं चैव पुरस्कृत्य महर्षयः। दर्शनं ते महाराज चोदयन्ति कृतत्वराः॥ प्रीयमाणा नरव्याघ्र यमुनातीरवासिनः। तस्य तद्वचनं श्रुत्वा रामः प्रोवाच धर्मवित्॥ प्रवेश्यन्तां महाभागा भार्गवप्रमुखा द्विजाः। राज्ञस्त्वाज्ञां पुरस्कृत्य द्वाः स्थो मूर्धा कृताञ्जलिः॥ प्रवेशयामास तदा तापसान्सुदुरासदान्। शतं समधिकं तत्र दीप्यमानं स्वतेजसा॥ प्रविष्टं राजभवनं तापसानां महात्मनाम्। ते द्विजाः पूर्णकलशैः सर्वतीर्थाम्बुसत्कृतः॥ गृहीत्वा फलमूलं च रामस्याभ्याहरन्बहु। प्रतिगृह्य तु तत्सर्वं रामः प्रीतिपुरस्कृतः॥ तीर्थोदकानि सर्वाणि फलानि विविधानि च। उवाच च महाबाहुः सर्वानेव महामुनीन्॥ इमान्यासनमुख्यानि यथार्हमुपविश्यताम्। रामस्य भाषितं श्रुत्वा सर्व एव महर्षयः॥ बृसीषु रुचिराख्यासु निषेदुः काञ्चनीषु ते। उपविष्टानृषीस्तत्र दृष्ट्वा परपुरंजयः। प्रयतः प्राञ्जलिर्भूत्वा राघवो वाक्यमब्रवीत्॥ किमागमनकार्य वः किं करोमि समाहितः। आज्ञाप्योऽहं महर्षीणां सर्वकामकरः सुखम्॥ इदं राज्यं च सकलं जीवितं च हृदि स्थितम्। सर्वमेतद् द्विजार्थं मे सत्यमेतद्ब्रवीमि वः॥ तस्य तद्वचनं श्रुत्वा साधुकारो महानभूत्। ऋषीणामुग्रतपसां यमुनातीरवासिनाम्॥ ऊचुश्चैव महात्मानो हर्षेण महता वृताः। उपपत्रं नरश्रेष्ठ तवैव भुवि नान्यतः॥ बहवः पार्थिवा राजन्नातिक्रान्ता महाबलाः। कार्यस्य गौरवं मत्वा प्रतिज्ञां नाभ्यरोचयन्॥ त्वया पुनर्ब्राह्मणगौरवादियं कृता प्रतिज्ञा ह्यनवेक्ष्य कारणम्। ततश्च कर्ता ह्यसि नात्र संशयो महाभयात्त्रातुमृषींस्त्वमर्हसि ॥ एवमुक्त्वा च काकुत्स्थं प्रशस्य च पुनः पुनः। पुनरेवापरं वाक्यमुवाच रघुनन्दनः॥ इमान्यश्वसहस्राणि चत्वारि पुरुषर्षभ। रथानां द्वे सहस्रे च गजानां शतमुत्तमम्॥ अन्तरापणवीथ्यश्च नानापण्योपशोभिताः। अनुगच्छन्तु काकुत्स्थं तथैव नटनर्तकाः॥ हिरण्यस्य सुवर्णस्य नियतं पुरुषर्षभ। आदाय गच्छ शत्रुघ्न पर्याप्तधनवाहनः॥ बलं च सुभृतं वीर हृष्टतुष्टमनुद्धतम्। संभाषासंप्रदानेन रञ्जयस्व नरोत्तम॥ न ह्यास्तत्र तिष्ठन्ति न दारा न च बान्धवाः। सुप्रीतो भृत्यवर्गस्तु यत्र तिष्ठति राघव॥ अतो हृष्टजनाकीर्णां प्रस्थाप्य महतीं चमूम्। एक एव धनुष्पाणिर्गच्छ त्वं मधुनो वनम्।७।। यथा त्वां न प्रजानाति गच्छन्तं युद्धकाङ्क्षिणम्। लवणस्तु मधोः पुत्रस्तथा गच्छेरशङ्कितम्॥ न तस्य मृत्युरन्योऽस्ति कश्चिद्धिपुरुषर्षभ। दर्शनं योऽभिगच्छेत स वध्यो लवणेन हि॥ स ग्रीष्म अपयाते तु वर्षारात्र उपागते। हन्यास्त्वं लवणं सौम्य स हि कालोऽस्य दुर्मतेः॥ महर्षीस्तु पुरत्कृत्य प्रयान्तु तव सैनिकाः। यथा ग्रीष्मवशेषेण तरेयुर्जाह्नवीजलम्॥ तत्र स्थाप्य बलं सर्वं नदीतीरे समाहितः। अग्रतो धनुषा सार्धं गच्छ त्वं लघुविक्रम ॥ एवमुक्तस्तु रामेण शत्रुघ्नस्तान्महाबलान्। सेनामुख्यान्समानीय ततो वाक्यमुवाच ह॥ एते वो गणिता वासा यत्र तत्र निवत्स्यथ। स्थातव्यं चाविरोधेन यथा बाधा न कस्यचित्॥ तथा तांस्तु समाज्ञाप्य प्रस्थाप्य च महद्बलम्। कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत्।।१५ रामं प्रदक्षिणीकृत्य शिरसाभिप्रणम्य च। लक्ष्मणं भरतं चैव प्रणिपत्य कृताञ्जलिः॥ पुरोहितं वसिष्ठं च शत्रुघ्नः पयतात्मवान्। रामेण चाभ्यनुज्ञातः शत्रुघ्नः शत्रुतापनः। प्रदक्षिणमथो कृत्वा निर्जगाम महाबलः॥ निर्याप्य सेनामथ सोऽग्रतस्तदा गजेन्द्रवाजिप्रवरौघसंकुलाम्। उपास्यमानः स नरेन्द्रपार्श्वतः प्रतिप्रयातो रघुवंशवर्धनः॥ प्रस्थाप्य च बलं सर्वं मासमात्रोषितः पथि। एक एवाशु शत्रुघ्नो जगाम त्वरितं तदा॥ द्विरात्रमन्तरे शूर उष्य राघवनन्दनः। वाल्मीकेराश्रमं पुण्यमगच्छद्वासमुत्तमम्॥ सोऽभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम्। कृताञ्जलिरथो भूत्वा वाक्यमेतदुवाच ह॥ भगवन्वस्तुमिच्छामि गुरोः कृत्यादिहागतः। श्वः प्रभाते गमिष्यामि प्रतीची दारुणां दिशम्॥ शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः। प्रत्युवाच महात्मानं स्वागतं ते महायशः॥ स्वमाश्रममिदं सौम्य राघवाणां कुलस्य वै। आसनं पाद्यमयं च निर्विशङ्कः प्रतीच्छ मे॥ प्रतिगृह्य तदा पूजां फलमूलं च भोजनम्। भक्षयामास काकुत्स्थस्तृप्तिं च परमां गतः॥ स भुक्त्वा फलमूलं च महर्षि तमुवाच ह। पूर्वा यज्ञविभूतीयं कस्याश्रमसमीपतः।।।।। तत्तस्य भाषितं श्रुत्वा वाल्मीकिर्वाक्यमब्रवीत्। शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा ॥ युष्माकं पूर्वको राजा सौदासस्तस्य भूपतेः। पुत्रो वीर्यसहो नाम वीर्यवानतिधार्मिकः॥ स बाल एव सौदासो मृगयामुपचक्रमे। चञ्चूर्यमाणं ददृशे स शूरो राक्षसद्वयम्॥ शार्दूलरूपिणौ घोरौ मृगान्बहुसहस्रशः। भक्षमाणावसंतुष्टौ पर्याप्ति नैव जग्मतुः॥ स तु तौ राक्षसौ दृष्ट्वा निर्मूगं च वनं कृतम्। क्रोधेन महताविष्टो जधानैकं महेषुणा॥ विनिपात्य तमेकं तु सौदासः : पुरुषर्षभः। विज्वरो विगतामर्षो हतं रक्षो छुदैक्षत ॥ निरीक्षमाणं तं दृष्ट्वा सहायं तस्य रक्षसः। संतापमकरोद्धोरं सौदासं चेदमब्रवीत्॥ यस्मादनपराधं तं सहायं मम जनिवान्। तस्मात्तवापि पापिष्ठ प्रदास्यामि प्रतिक्रियाम्॥ एवमुक्त्वा तु तद्रक्षस्तत्रैवान्तरधीयत। कालपर्याययोगेन राजा मित्रसहोऽभवत्॥ राजापि यजते यज्ञमस्याश्रमसमीपतः। अश्वमेधं महायज्ञं तं वसिष्ठोऽप्यपालयत्॥ तत्र यज्ञो महानासीद्बहुवर्षगणायुतः। समृद्धः परया लक्ष्म्या देवयज्ञसमोऽभवत्॥ अथावसाने यज्ञस्य पूर्ववैरमनुस्मरन्। वसिष्ठरूपी राजानमिति होवाच राक्षसः॥ अद्य यज्ञावसानान्ते सामिष भोजनं मम। दीयतामिति शीघ्रं वै नात्र कार्या विचारणा॥ तच्छ्रुत्वा व्याहृतं वाक्यं रक्षसा ब्रह्मरूपिणा। सूदान्संस्कारकुशलानुवाच पृथिवीपतिः॥ हविष्यं सामिषं स्वादु यथा भवति भोजनम्। तथा कुरुत शीघ्रं वै परितुष्येद्यथा गुरुः॥ शासनात्पार्थिवेन्द्रस्य सूदः संभ्रान्तमानसः। तच्च रक्षः पुनस्तत्र सूदवेषमथाकरोत्॥ स मानुषमयो मांसं पार्थिवाय न्यवेदयत्। इदं स्वादु हविष्यं च सामिषं चानमाहृतम्॥ स भोजनं वसिष्ठाय पत्न्या सार्धमुपाहरत्। मदयन्त्या नरश्रेष्ठ सामिषं रक्षसा हृतम्॥ ज्ञात्वा तदामिषं विप्रो मानुषं भोजनागतम्। क्रोधेन महताविष्टो व्याहर्तुमुपचक्रमे॥ यस्मात्त्वं भोजनं राजन्ममैतद्दातुमिच्छसि। तस्माद्भोजनमेतत्ते भविष्यति न संशयः॥ ततः क्रुद्धस्तु सौदासस्तोयं जग्राह पाणिना। वसिष्ठं शप्तुमारेभे भार्या चैनमवारयत्॥ राजन्प्रभुर्यतोऽस्माकं वसिष्ठो भगवानृपिः। प्रतिशप्तुं न शक्तस्त्वं देवतुल्यं पुरोधसम्॥ ततः क्रोधमयं तोयं तेजोबलसमन्वितम्। व्यसर्जयत धर्मात्मा ततः पादौ सिषेच च॥ तेनास्य राज्ञस्तौ पादौ तदा कल्माषतां गतौ। तदाप्रभृति राजासौ सौदासः सुमहायशाः॥ कल्माषपादः संवृत्तः ख्यातश्चैव तथा नृपः। स राजा सह पत्न्या वै प्रणिपत्य मुहुर्मुहुः। पुनर्वसिष्ठं प्रोवाच यदुक्तं ब्रह्मरूपिणा॥ तच्छ्रुत्वा पार्थिवेन्द्रस्य रक्षसा विकृतं च तत्। पुनः प्रोवाच राजानं वसिष्ठः पुरुषर्षभम्॥ मया रोषपरीतेन यदिदं व्याहृतं वचः। नैतच्छक्यं वृथा कर्तुं प्रदास्यामि च ते वरम्॥ कालो द्वादश वर्षाणि शापस्यान्तो भविष्यति। मत्प्रासादाच्च राजेन्द्र अतीतं न स्मरिष्यसि॥ एवं स राजा तं शापमुपभुज्यारिसूदनः। प्रतिलेभे पुना राज्यं प्रजाश्चैवान्वपालयत्॥ तस्य कल्माषपादस्य यज्ञस्यायतनं शुभम्। आश्रमस्य समीपेऽस्मिन्यन्मां पृच्छसि राघव॥ तस्य तां पार्थिवेन्द्रस्य कथां श्रुत्वा सुदारुणाम्। विवेश पर्णशालायां महर्षिमभिवाद्य च॥ यामेव रात्रि शत्रुघ्नः पर्णशालां समाविशत्। तामेव रात्रि सीतापि प्रसूता दारकद्वयम्॥ ततोऽर्धरात्रसमये बालका मुनिदारकाः। वाल्मीके प्रियमाचख्युः सीतायाः प्रसवं शुभम्॥ भगवरामपत्नी सा प्रसूता दारकद्वयम्। ततो रक्षां महातेजः कुरु भूतविनाशिनीम्॥ तेषां तद्वचनं श्रुत्वा महर्षिः समुपागमत्। बालचन्द्रप्रतीकाशौ देवपुत्रौ महौजसौ॥ जगाम तत्र हृष्टात्मा ददर्श च कुमारको। भूतघ्नीं चाकरोत्ताभ्यां रक्षा रक्षोविनाशिनीम्॥ कुशमुष्टिमुपादाय लवं चैव तु स द्विजः। वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम्॥ यस्तयोः पूर्वजो जातः स कुशैर्मन्त्रसत्कृतैः। निर्मार्जनीयस्तु तदा कुश इत्यस्य नाम तत्॥ यश्चावरो भवेत्ताभ्यां लवेन सुसमाहितः। निर्मार्जनीयो वृद्धाभिलवेति च स नामतः॥ एवं कुशलवौ नाम्ना तावुभौ यमजातको। मत्कृताभ्यां च नामभ्यां ख्यातियुक्तौ भविष्यतः॥ तां रक्षां जगृहुस्तां च मुनिहस्तात्समाहिताः। अकुर्वश्च ततो रक्षा तयोविगतकल्मषाः॥ तथा तां क्रियमाणां च वृद्धाभिर्गोत्रनाम च। संकीर्तनं च रामस्य सीतायाः प्रसवौ शुभौ॥ अर्धरात्रे तु शत्रुघ्नः शुश्राव सुमहत्प्रियम्। पर्णशालां ततो गत्वा मातर्दिष्ट्येति चाब्रवीत्॥ तदा तस्य प्रहृष्टस्य शत्रुघ्नस्य महात्मनः। व्यतीता वार्षिकी रात्रिः श्रावणी लघुविक्रमा॥ प्रभाते सुमहावीर्यः कृत्वा पौर्वाहिणकी क्रियाम्। मुनि प्राञ्जलिरामन्त्र्य ययौ पश्चान्मुखः पुनः॥ स गत्वा यमुनातीरं सप्तरात्रोषितः पथि। ऋषीणां पुण्यकीर्तीनामाश्रमे वासमभ्ययात्॥ स तत्र मुनिभिः सार्धं भार्गवप्रमुखैर्नृपः। कथाभिरभिरूपाभिर्वासं चक्रे महायशाः॥ स काञ्चनाद्यैर्मुनिभिः समेतै रघुप्रवीरो रजनी तदानीम् कथाप्रकारैर्बहुभिर्महात्मा विरामयामास नरेन्द्रसूनुः।।१७। अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम्। पप्रच्छ च्यवनं विप्रं लवणस्य यथाबलम्॥ शूलस्य च बलं ब्रह्मन्के च पूर्वं विनाशिताः। अनेन शूलमुख्येन द्वन्द्वयुद्धमुपागताः॥ तस्य तद्वचनं श्रुत्वा शत्रुघ्नस्य महात्मनः। प्रत्युवाच महातेजाश्च्यवनो रघुनन्दनम्॥ असंख्येयानि कर्माणि यान्यस्य रघुनन्दन। इक्ष्वाकुवंशप्रभवे यद्वृत्तं तच्छृणुष्व मे॥ अयोध्यायां पुरा राजा युवनाश्वसुतो बली। मांधाता इति विख्यातस्त्रिषु लोकेषु वीर्यवान्॥ स कृत्वा पृथिवीं कृत्स्ना शासने पृथिवीपतिः। सुरलोकमितो जेतुमुद्योगमकरोनृपः॥ इन्द्रस्य च भयं तीव्र सुराणां च महात्मनाम्। मांधातरि कृतोद्योगे देवलोकजिगीषया॥ अर्धासनेन शक्रस्य राज्यार्धेन च पार्थिवः। वन्द्यमानः सुरगणैः प्रतिज्ञामध्यरोहत।।।। तस्य पापमभिप्रायं विदित्वा पाकशासनः। सान्त्वपूर्वमिदं वाक्यमुवाच युवनाश्वजम्॥ राजा त्वं मानुषे लोके न तावत्पुरुषर्षभ। अकृत्वा पृथिवीं वश्यां देवराज्यमिहेच्छसि॥ यदि वीर समग्रा ते मेदिनी निखिला वशे। देवराज्यं कुरुष्वेह सभृत्यबलवाहनः॥ इन्द्रमेवं ब्रुवाणं तं मांधाता वाक्यमब्रवीत्। क्व मे शक्र प्रतिहतं शासनं पृथिवीतले॥ तमुवाच सहस्राक्षो लवणो नाम राक्षसः। मधुपुत्रो मधुवने न तेऽऽज्ञां कुरुतेऽनघ॥ तच्छुत्वा विप्रियं घोरं सहस्राक्षेण भाषितम्। वीडितोऽवाङ्मुखो राजा व्याहतुं न शशाक ह॥ आमन्त्र्य तु सहस्राक्षं प्रायात्किचिदवाङ्मुखः। पुनरेवागमच्छीमानिमं लोकं नरेश्वरः॥ स कृत्वा हृदयेऽमर्ष सभृत्यबलवाहनः। आजगाम मधोः पुत्रं वशे कर्तुमरिंदमः॥ स काङ्खमाणो लवणं युद्धाय पुरुषर्षभः। दूतं संप्रेषयामास सकाशं लवणस्य सः॥ स गत्वा विप्रियाण्याह बहूनि मधुनः सुतम्। वदन्तमेवं तं दूतं भक्षयामास राक्षसः॥ चिरायमाणे दूते तु राजा क्रोधसमन्वितः। अर्दयामास तद्रक्षः शरवृष्ट्या समन्ततः॥ ततः प्रहस्य तद्रक्षः शूलं जग्राह पाणिना। वधाय सानुबन्धस्य मुमोचायुधमुत्तमम्॥ तच्छूलं दीप्यमानं तु सभृत्यबलवाहनम्। भस्मीकृत्वा नृपं भूमौ लवणस्यागमत्करम्॥ एवं स राजा सुमहान्हतः सबलवाहनः। शूलस्य तु बलं सौम्य अप्रमेयमनुत्तमम्॥ श्वः प्रभाते तु लवणं वधिष्यसि न संशयः। अगृहीतायुधं क्षिप्रं ध्रुवो हि विजयस्तव॥ लोकानां स्वस्ति चैवं स्यात्कृते कर्मणि च त्वया। एतत्ते सर्वमाख्यातं लवणस्य दुरात्मनः॥ शूलस्य च बलं घोरमप्रमेयं नरर्षभ। विनाशश्चैव मांधातुर्यत्नेनाभूच्च पार्थिव ॥ त्वं श्वः प्रभाते लवणं महात्मन् वधिष्यसे नात्र तु संशयो मे। शूलं विना निर्गतमामिषार्थे ध्रुवो जयस्ते भविता नरेन्द्र॥ कथां कथयतस्तेषां जयं चाकाङ्क्षतां शुभम्। व्यतीता रजनी शीघ्रं शत्रुघ्नस्य महात्मनः॥ ततः प्रभाते विमले तस्मिन्काले स राक्षसः। निर्गतस्तु पुराद्वीरो भक्ष्याहारप्रचोदितः॥ एतस्मिन्नन्तरे वीर उत्तीर्य यमुना नदीम्। ती। मधुपुरद्वारि धनुष्पाणिरतिष्ठत॥ ततोऽर्धदिवसे प्राप्ते क्रूरकर्मा स राक्षसः। आगच्छद्बहुसाहस्रं प्राणिनां भारमुद्वहन्।॥ ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम्। तमुवाच किमनेन करिष्यसि॥ ततो रक्षः ईदृशानां सहस्राणि सायुधानां नराधम। भक्षितानि मया रोषात्कालेनानुगतो ह्यसि॥ आहारश्चाप्यसंपूर्णो ममायं पुरुषाधम। स्वयं प्रविष्टोऽद्य मुखं कथमासाद्य दुर्मते॥ तस्यैवं भाषमाणस्य हसतश्च मुहुर्मुहुः। शत्रुघ्नो वीर्यसंपन्नो रोषादश्रूण्यासृजत्॥ तस्य रोषाभिभूतस्य शत्रुघ्नस्य महात्मनः। तेजोमया मरीच्यस्तु सर्वगात्रैर्विनिष्पतन्॥ उवाच च सुसंक्रुद्धः शत्रुघ्नः स निशाचरम्। योद्धमिच्छामि दुर्बुद्धेः द्वन्द्वयुद्धं त्वया सह ॥ पुत्रो दशरथस्याहं भ्राता रामस्य धीमतः। शत्रुघ्नो नाम शत्रुघ्नो वधाकाङ्क्षी तवागतः॥ तस्य मे युद्धकामस्य द्वन्द्वयुद्धं प्रदीयताम्। शस्त्वं सर्वभूतानां न मे जीवन्गमिष्यसि॥ तस्मिंस्तथा ब्रुवाणे तु राक्षसः प्रहसन्निव। प्रत्युवाच नरश्रेष्ठं दिष्ट्या प्राप्तोऽसि दुर्मते॥ मम मोतृष्वसुर्धाता रावणो नाम राक्षसः। हतो रामेण दुर्बुद्धे स्त्रीहेतोः पुरुषाधम॥ तच्च सर्वं मया क्षान्तं रावणस्य कुलक्षयम्। अवज्ञा पुरतः कृत्वा मया यूयं विशेषतः॥ निहताश्च हि ते सर्वे परिभूतास्तृणं यथा। भूताश्चैव भविष्याश्च यूयं च पुरुषाधमाः॥ तस्य ते युद्धकामस्य युद्धं दास्यामि दुर्मते। तिष्ठ त्वं च मुहूर्त तु यावदायुधमानये॥ ईप्सितं यादृशं तुभ्यं सज्जये यावदायुधन्। तमुवाचाशु शत्रुघ्नः क्व मे जीवन्गमिष्यसि॥ स्वयमेवागतः शत्रुर्न मोक्तव्यः कृतात्मना। यो हि विक्लवया बुद्ध्या प्रसरं शत्रवे दिशेत्। स हतो मन्दबुद्धिः स्याद्यथा कापुरुषस्तथा॥ तस्मात्सुदृष्टं कुरु जीवलोकं शरैः शितैस्त्वां विविधैर्नयामि। यमस्य गेहाभिमुखं हि पापं रिपुं त्रिलोकस्य च राघवस्य॥ तच्छुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः। क्रोधमाहारयत्चीव्र तिष्ठ तिष्ठेति चाब्रवीत्॥ पाणौ पाणिं स निष्पिष्य दन्तान्कटकटाय्य च। लवणो रघुशार्दूलमाह्वयामास चासकृत्॥ तं ब्रुवाण तथा वाक्यं लवणं घोरदर्शनम्। शत्रुघ्नो देवशत्रुघ्न इदं वचनमब्रवीत्॥ शत्रुघ्नो न तदा जातो यदान्ये निर्जितास्त्वया। तदद्य बाणाभिहतो व्रज त्वं यमसादनम्॥ ऋषयोऽप्यद्य पापात्मन्मया त्वां निहतं रणे। पश्यन्तु विप्रा विद्वांसस्त्रिदशा इव रावणम्॥ त्वयि मद्वाणनिर्दग्धे पतितेऽद्य निशाचरे। पुरे जनपदे चापि क्षेममेव भविष्यति॥ अद्य मदाहुनिष्क्रान्तः शरो वज्रनिभाननः। प्रवेक्ष्यते ते हृदयं पद्ममंशुरिवार्कजः॥ एवमुक्तो महावृक्षं लवणः क्रोधमूर्च्छितः। शत्रुघ्नोरसि चिक्षेप स च तं शतधाच्छिनत्॥ तदृष्ट्वा विफलं कर्म राक्षसः पुनरेव तु। पादपान्सुबहूगृह्य शत्रुघ्नायासृजद्बली॥ शत्रुघ्नश्चापि तेजस्वी वृक्षानापततो बहून्। त्रिभिश्चतुर्भिरेकैकं चिच्छेद नतपर्वभिः॥ ततो बाणमयं वर्षं व्यसृजद्राक्षसोपरि। शत्रुघ्नो वीर्यसंपन्नो विव्यथे न स राक्षसः॥ ततः प्रहस्य लवणो वृक्षमुद्यम्य वीर्यवान्। शिरस्यभ्यहनच्छूरं स्रस्ताङ्गः स मुमोह वै॥ तस्मिन्निपतिते वीरे हाहाकारो महानभूत्। ऋषीणां देवसङ्घानां गन्धर्वाप्सरसां तथा॥ तमवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम्। रक्षो लब्धान्तरमपि न विवेश स्वमालयम्॥ नापि शूलं प्रजग्राह तं दृष्ट्वा भुवि पातितम्। ततो हत इति ज्ञात्वा तान्भक्षान्समुदावहत्॥ मुहूर्ताल्लब्धसंज्ञस्तु पुनस्तस्थौ धृतायुधः। शत्रुघ्नो वै पुरद्वारि ऋषिभिः संप्रपूजितः॥ ततो दिव्यममोघं तं जग्राह शरमुत्तमम्। ज्वलन्तं तेजसा घोरं पूरयन्तं दिशो दश॥ वज्राननं वज्रवेगं मेरुमन्दरसंनिभम्। नतं पर्वसु सर्वेषु संयुगेष्वपराजितम्॥ असृक्चन्दनदिग्धाङ्गं चारुपत्रं पतत्रिणम्। दानवेन्द्राचलेन्द्राणामसुराणां च दारुणम्॥ तं दीप्तमिव कालाग्निं युगान्ते समुपस्थितम्। दृष्ट्वा सर्वाणि भूतानि परित्रासमुपागमन्॥ सदेवासुरगन्धर्वं मुनिभिः साप्सरोगणम्। जगद्धिसर्वमस्वस्थं पितामहमुपस्थितम्॥ ऊचुश्च देवदेवेशं वरदं प्रपितामहम्। देवानां भयसंमोहो लोकानां संक्षयं प्रति ॥ तेषां तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः। भयकारणमाचष्ट देवानामभयंकरः॥ उवाच मधुरां वाणीं शृणुध्वं सर्वदेवताः। वधाय लवणस्याजौ शरः शत्रुघ्नदारितः॥ तेजसा तस्य संमूढाः सर्वे स्मः सुरसत्तमाः। एषो पूर्वस्य देवस्य लोककर्तुः सनातनः॥ शरस्तेजोमयो वत्सा येन वै भयमागतम्। एष वै कैटभस्यार्थे मधुनश्च महाशरः॥ सृष्टो महात्मना तेन वधार्थे दैत्ययोस्तयोः। एक एव प्रजानाति विष्णुस्तेजोमयं शरम् ॥ एषा एव तनुः पूर्वा विष्णोस्तस्य महात्मनः। इतो गच्छत पश्यध्वं वध्यमानं महात्मना॥ रामानुजेन वीरेण लवणं राक्षसोत्तमम्। तस्य ते देवदेवस्य निशम्य वचनं सुराः।२९।। आजग्मुर्यत्र युध्येते शत्रुघ्नलवणावुभौ। तं शरं दिव्यसंकाशं शत्रुघ्नकरधारितम्॥ ददृशुः सर्वभूतानि युगान्ताग्निमिवोत्थितम्। आकाशमावृतं दृष्ट्वा देवैर्हि रघुनन्दनः॥ सिंहनादं भृशं कृत्वा ददर्श लवणं पुनः। आहूतश्च पुनस्तेन शत्रुघ्नेन महात्मना ॥ लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः। आकर्णात्स विकृष्याथ तद्धनुर्धन्विनां वरः॥ स मुमोच महाबाणं लवणस्य महोरसि। उरस्तस्य विदार्यासु प्रविवेश रसातलम्॥ गत्वा रसातलं दिव्यः शरो विबुधपूजितः। पुनरेवागमत्तर्णमिक्ष्वाकुकुलनन्दनम्॥ शत्रुघ्नशरनिर्भिन्नो लवणः स निशाचरः। पपात सहसा भूमौ वज्राहत इवाचलः॥ तच्च शूलं महद्दिव्यं हते लवणराक्षसे। पश्यतां सर्वदेवानां रुद्रस्य वशमन्वगात्॥ एकेषुपातेन भयं निपात्य लोकत्रयस्यास्य रघुप्रवीरः। स्तमः प्रणुद्येव सहस्ररश्मिः॥ ततो हि देवा ऋषिपन्नगाश्च प्रपूजिरे ह्यप्सरसश्च सर्वाः स्त्यक्त्वा भयं सर्प इव प्रशान्तः॥ हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाः। ऊचुः सुमधुरां वाणीं शत्रुघ्नं शत्रुतापनम्॥ दिष्ट्या ते विजयो वत्स दिष्ट्या लवणराक्षसः। हतः पुरुषशार्दूल वरं वरय सुव्रत।२।। वरदास्तु महाबाहो सर्व एव समागताः। विजयाकाङ्क्षिणस्तुभ्यममोघं दर्शनं हि नः॥ देवानां भाषितं श्रुत्वा शूरो मूर्ध्नि कृताञ्जलिः। प्रत्युवाच महाबाहुः शत्रुघ्नः प्रयतात्मवान्॥ इयं मधुपुरी रम्या मधुरा देवनिर्मिता। निवेशं प्राप्नुयाच्छीघ्रमेष मेऽस्तु वरः परः॥ तं देवाः प्रीतमनसो बाढमित्येव राघवम्। भविष्यति पुरी रम्या शूरसेना न संशयः॥ ते तथोक्त्वा महात्मानो दिवमारुरुहुस्तदा। शत्रुघ्नोऽपि महातेजास्तां सेनां समुपानयत्॥ सा सेना शीघ्रमागच्छच्छुत्वा शत्रुघ्नशासनम्। निवेशनं च शत्रुघ्नः श्रावणेन समारभत्॥ स पुरा दिव्यसंकाशो वर्षे द्वादशमे शुभे। निविष्टः शूरसेनानां विषयश्चाकुतोभयः॥ क्षेत्राणि सस्ययुक्तानि काले वर्षति वासवः। अरोगवीरपुरुषा शत्रुघ्नभुजपालिता ॥ अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता। शोभिता गृहमुख्यैश्च चत्वरापणवीथिकैः। चातुर्वर्ण्यसमायुक्ता नानावाणिज्यशोभिता॥ यच्च तेन पुरा शुभ्रं लवणेन कृतं महत्। तच्छोभयति शत्रुघ्नो नानावर्णोपशोभिताम्॥ आरामैश्च विहारैश्च शोभमानं समन्ततः। शोभितां शोभनीयैश्च तथान्यैर्दैवमानुषैः॥ तां पुरीं दिव्यसंकाशां नानापण्योपशोभिताम्। नानादेशगतैश्चापि वणिग्भिरुपशोभिताम्॥ तां समृद्धां समृद्धार्थः शत्रुघ्नो भरतानुजः। निरीक्ष्य परमप्रीतः परं हर्षमुपागमत्॥ तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम्। रामपादौ निरीक्षेऽहं वर्षे द्वादश आगते॥ ततः स ताममरपुरोपमां पुरी निवेश्य वै विविधजनाभिसंवृताम्। नराधिपो रघुपतिपाददर्शने दधे मतिं रघुकुलवंशवर्धनः॥ ततो द्वादशमे वर्षे शत्रुघ्नो रामपालिताम्। अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः॥ ततो मन्त्रिपुरोगांश्च बलमुख्यानिवर्त्य च। जगाम हयमुख्येन रथानां च शतेन सः॥ स गत्वा गणितान्वासान्सप्ताष्टौ रघुनन्दनः। वाल्मीकाश्रममागत्य वासं चक्रे महायशाः॥ सोऽभिवाद्य ततः पादौ वाल्मीकेः पुरुषर्षभः। पाद्यमयं तथातिथ्यं जग्राह मुनिहस्ततः॥ बहुरूपाः सुमधुराः कथास्तत्र सहस्रशः। कथयामास स मुनिः शत्रुघ्नाय महात्मने॥ उवाच च मुनिर्वाक्यं लवणस्य वधाश्रितम्। सुदुष्करं कृतं कर्म लवणं निघ्नता त्वया॥ बहवः पार्थिवाः सौम्य हताः सबलवाहनाः। लवणेन महाबाहो युध्यमाना महाबलाः।७।। स त्वया निहतः पापो लीलया पुरुषर्षभ। जगतश्च भयं तत्र प्रशान्तं तव तेजसा॥ रावणस्य वधो घोरो यत्नेन महता कृतः। इदं च सुमहत्कर्म त्वया कृतमयत्नतः॥ प्रीतिश्चास्मिन्परा जाता देवानां लवणे हते। भूतानां चैव सर्वेषां जगतश्च प्रियं कृतम्॥ तच्च युद्धं मया दृष्टं यथावत्पुरुषर्षभ। सभायां वासवस्याथ उपविष्टेन राघव॥ ममापि परमा प्रीतिर्हदि शत्रुघ्न वर्तते। उपाघ्रास्यामि ते मूर्ध्नि स्नेहस्यैषा परा गतिः॥ इत्युक्त्वा मूर्ध्नि शत्रुघ्नमुपाघ्राय महामतिः। आतिथ्यमकरोत्तस्य ये च तस्य पदानुगाः॥ स भुक्तवान्नर श्रेष्ठो गीतामाधुर्यमुत्तमम्। शुश्राव रामचरितं तस्मिन्काले यथा कृतम्॥ तन्त्रीलयसमायुक्तं त्रिस्थानकरणान्वितम्। संस्कृतं लक्षणोपेतं समतालसमन्वितम्।।१५। शुश्राव रामचरितं तस्मिन्काले पुरा कृतम्। तान्यक्षराणि सत्यानि यथावृत्तानि पूर्वशः॥ श्रुत्वा पुरुषशार्दूलो विसंज्ञो बाष्पलोचनः। स मुहूर्तमिवासंज्ञो विनिःश्वस्य मुहुर्मुहुः॥ तस्मिन्गीते यथावृत्तं वर्तमानमिवाशृणोत्। पदानुगाश्च ये राज्ञस्तां श्रुत्वा गीतिसंपदम्॥ अवाङ्मुखाश्च दीनाश्च ह्याश्चर्यमिति चाब्रुवन्। परस्परं च ये तत्र सैनिकाः संबभाषिरे॥ किमिदं क्व च वर्तामः किमेतत्स्वप्नदर्शनम्। अर्थो यो नः पुरा दृष्टस्तमाश्रमपदे पुनः॥ शृणुमः किमिदं स्वप्ने गीतबन्धनमुत्तमम्। विस्मयं ते परं गत्वा शत्रुघ्नमिदमब्रुवन्॥ साधु पृच्छ नरश्रेष्ठ वाल्मीकिं मुनिपुङ्गवम्। शत्रुघ्नस्त्वब्रवीत्सर्वान्कौतूहलसमन्वितान्॥ सैनिकानक्षमोऽस्माकं परिप्रष्टुमिहेदृशः। आश्चर्याणि बहूनीह भवन्त्यस्याश्रमे मुनेः॥ न तु कौतूहलाद्युक्तमन्वेष्टं तं महामुनिम्। एवं तद्वाक्यमुक्त्वा तु सैनिकान् रघुनन्दनः। अभिवाद्य महर्षि तं स्वं निवेशं ययौ तदा॥ तं शयानं नरव्याघ्रं निद्रा नाभ्यागमत्तदा। चिन्तयानमनेकार्थं रामगीतमनुत्तमम्॥ तस्य शब्दं सुमधुरं तन्त्रीलयसमन्वितम्। श्रुत्वा रात्रिजगामाशु शत्रुघ्नस्य महात्मनः॥ तस्यां रजन्यां व्युष्टायां कृत्वा पौर्वाणिकक्रमम्। उवाच प्राञ्जलिर्वाक्यं शत्रुघ्नो मुनिपुङ्गवम्॥ भगवन्द्रष्टुमिच्छामि राघवं रघुनन्दनम्। त्वयानुज्ञातमिच्छामि सहैभिः संशितव्रतैः॥ इत्येवं वादिनं तं तु शत्रुघ्नं शत्रुसूदनम्। वाल्मीकिः संपरिष्वज्य विससर्ज स राघवम्॥ सोऽभिवाद्य मुनिश्रेष्ठं रथमारुह्य सुप्रभम्। अयोध्यामगमत्तूर्णं राघवोत्सुकदर्शनः॥ स प्रविष्टः पुरी रम्यां श्रीमानिक्ष्वाकुनन्दनः। प्रविवेश महाबाहुर्यत्र रामो महाद्युतिः।७।। स राम मन्त्रिमध्यस्थं पूर्णचन्द्रनिभाननम्। पश्यन्नमरमध्यस्थं सहस्रनयनं यथा।।।। सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा। उवाच प्राञ्जलिर्भूत्वा रामं सत्यपराक्रमम्॥ यदाज्ञप्तं महाराज सर्व तत्कृतवानहम्। हतः स लवणः पापः पुरी चास्य निवेशिता॥ द्वादशैतानि वर्षाणि त्वां विना रघुनन्दन। नोत्सहेयमहं वस्तुं त्वया विरहितो नृप॥ स मे प्रसादं काकुत्स्थ कुरुष्वामितविक्रम। मातृहीनो यथा वत्सो न चिरं प्रवसाम्यहम्॥ एवं ब्रुवाणं काकुत्स्थः परिष्वज्येदमब्रवीत्। मा विषादं कृथाः शूर नैतत्क्षत्रियचेष्टितम्॥ नावसीदन्ति राजानो विप्रवासेषु राघव। प्रजा हि परिपाल्या हि क्षत्रधर्मेण राघव॥ काले काले तु मां वीर अयोध्यामवलोकितुम्। आगच्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तव॥ ममापि त्वं सुदयितः प्राणैरपि न संशयः। अवश्यं करणीयं च राज्यस्य परिपालनम्॥ तस्मात्त्वं वस काकुत्स्थ सप्तरात्रं मया सह। ऊवं गन्तासि मधुरां सभृत्यबलवाहनः॥ रामस्यैतद्वचः श्रुत्वा धर्मयुक्तं मनोनुगम्। शत्रुघ्नो दीनया वाचा बाढमित्येव चाब्रवीत्।।१८ सप्तरात्रं च काकुत्स्थो राघवस्य यथाज्ञया। उष्य तत्र महेष्वासो गमनायोपचक्रमे॥ आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम्। भरतं लक्ष्मणं चैव महारथमुपारुहत्॥ दूरं पद्भ्यामनुगतो लक्ष्मणेन महात्मना। भरतेन च शत्रुघ्नो जगामाशु पुरीं तदा॥ नारदस्य तु तद्वाक्यं श्रुत्वामृतमयं यथा। प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत्॥ गच्छ सौम्य द्विजश्रेष्ठं समाश्वासय सुव्रत। बालस्य च शरीरं तत्तैलद्रोण्यां निधापय॥ गन्धैश्च परमोदारैस्तैलैश्च सुसुगन्धिभिः। यथा न क्षीयते बालस्तथा सौम्य विधीयताम्॥ यथा शरीरो बालस्य गुप्तः सन्क्लिष्टकर्मणः। विपत्तिः परिभेदो वा न भवच्च तथा कुरु॥ एवं संदिश्य काकुत्स्थो लक्ष्मणं शुभलक्षणम्। मनसा पुष्पकं दध्यावागच्छेति महायशाः॥ इङ्गितं स तु विज्ञाय पुष्पको हेमभूषितः। आजगाम मुहूर्तेन समीपे राघवस्य वै॥ सोऽब्रवीत्प्रणतो भूत्वा अयमस्मि नराधिप। वश्यस्तव महाबाहो किंकरः समुपस्थितः॥ भाषितं रुचिरं श्रुत्वा पुष्पकस्य नराधिपः। अभिवाद्य महर्षीन्स विमानं सोध्यरोहत॥ धनुर्गृहीत्वा तूणी च खङ्गं च रुचिरप्रभम्। निक्षिप्य नगरे चैतौ सौमित्रिभरतावुभौ ॥ प्रायात् प्रतीची हरितं विचिन्वंश्च ततस्ततः। उत्तरामगमच्छीमान्दिशं हिमवतावृताम्॥ अपश्यमानस्तत्रापि स्वल्पमप्यथ दुष्कृतम्। पूर्वामपि दिशं सर्वामथोऽपश्यन्नराधिपः॥ । प्रविशुद्धसमाचारामादर्शतलनिर्मलाम्। पुष्पकस्थो महाबाहुस्तदापश्यनराधिपः॥ दक्षिणां दिशमाक्रामत्ततो राजर्षिनन्दनः। शैवलस्योत्तरे पार्श्वे ददर्श सुमहत्सरः॥ तस्मिन्सरसि तप्यन्तं तापसं सुमहत्तपः। ददर्श राघवः श्रीमॉल्लम्बमानमधोमुखम्॥ राघवस्तमुपागम्य तप्यन्तं तप उत्तमम्। उवाच च नृपो वाक्यं धन्यस्त्वमसि सुव्रत॥ कस्यां योन्यां तपोवृद्ध वर्तसे दृढविक्रम। कौतूहलात्त्वां पृच्छामि रामो दाशरथिहम्॥ कोऽर्थो मनीषितस्तुभ्यं स्वर्गलाभो परोऽथवा। वराश्रयो यदर्थं त्वं तपस्यन्यैः सुदुश्चरम्॥ यमाश्रित्य तपस्तप्तं श्रोतुमिच्छामि तापस। ब्राह्मणो वासि भद्रं ते क्षत्रियो वासि दुर्जयः। वैश्यस्तृतीयो वर्णो ता शूद्रो वा सत्यवाग्भव ॥ इत्येवमुक्तः स नराधिपेन अवाक्शिरा दाशरथाय तस्मै। उवाच जातिं नृपपुङ्गवाय यत्कारणं चैव तपःप्रयत्नः॥ तस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः। अवाक्शिरास्तथाभूतो वाक्यमेतदुवाच ह॥ शूद्रयोन्यां प्रजातोऽस्मि तप उग्रं समास्थितः। देवत्वं प्रार्थये राम सशरीरो महायशः॥ न मिथ्याहं वदे राम देवलोकजिगीषया। शूद्रं मां विद्धिकाकुत्स्थ शम्बूको नाम नामतः।।३ भाषतस्तस्य शूद्रस्य खङ्गं सुरुचिरप्रभम्। निष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः॥ तस्मिशूद्रे हते देवाः सेन्द्राः साग्निपुरोगमाः। साधुसाध्विति काकुत्स्थं ते शशंसुर्मुहुर्मुहुः॥ पुष्पवृष्टिर्महत्यासीदिव्यानां सुसुगन्धिनाम्। पुष्पाणां वायुमुक्तानां सर्वतः प्रपपात ह॥ सुप्रीताश्चाब्रुवरामं देवाः सत्यपराक्रमम्। सुरकार्यमिदं देव सुकृतं ते महामते।७।। गृहाण च वरं सौम्य यं त्वमिच्छस्यारिंदम। स्वर्गभाङ् नहि शूद्रोऽयं त्वत्कृते रघुनन्दन॥ देवानां भाषितं श्रुत्वा रामः सत्यपराक्रमः। उवाच प्राञ्जलिर्वाक्यं सहस्राक्षं पुरंदरम्॥ यदि देवाः प्रसन्ना मे द्विजपुत्रः स जीवतु। दिशन्तु वरमेतं मे ईप्सितं परमं मम॥ ममापचाराद्वालोऽसौ ब्राह्मणस्यैकपुत्रकः। अप्राप्तकालः कालेन नीतो वैवस्वतक्षयम्॥ तं जीवयथ भद्रं वो नानृतं कर्तुमर्हथ। द्विजस्य संश्रुतोऽर्थो मे जीवयिष्यामि ते सुतम्॥ राघवस्य तु तद्वाक्यं श्रुत्वा विबुधसत्तमाः। प्रत्युचू राघवं प्रीता देवाः प्रीतिसमन्वितम्॥ निर्वृतो भव काकुत्स्थ सोऽस्मिन्नहनि बालकः। जीवितं प्राप्तवान्भूयः समेतश्चापि बन्धुभिः॥ यस्मिन्मुहूर्ते काकुत्स्थ शूद्रोऽयं पातितः। तस्मिन्मुहूर्ते बालोऽसौ जीवेन समयुज्यत॥ स्वस्ति प्राप्नुहि भद्रं ते साधु याम नरर्षभ। अगस्त्यस्याश्रमपदं द्रष्टुमिच्छाम राघव॥ तस्य दीक्षा समाप्ता हि ब्रह्मर्षेः सुमहाद्युते। द्वादशं हि गतं वर्षं जलशय्यां समासतः॥ काकुत्स्थ तद्गमिष्यामो मुनिं समभिनन्दितुम्। त्वं चापि गच्छ भद्रं ते द्रष्टुं तमृषिसत्तमम्॥ स तथेति प्रतिज्ञाय देवानां रघुनन्दनः। आरुरोह विमानं तं पुष्पकं हेमभूषितम्॥ ततो देवाः प्रयातास्ते विमानैर्बहुविस्तरैः। रामोऽप्यनुजगामाशु कुम्भयोनेस्तपोवनम्॥ दृष्ट्वा तु देवान्संप्राप्तानगस्त्यस्तपसां निधिः। अर्चयामास धर्मात्मा सर्वांस्तानविशेषतः॥ प्रतिगृह्य ततः पूजां संपूज्य च महामुनिम्। जग्मुस्ते त्रिदशा हृष्टा नाकपृष्ठं सहानुगाः॥ गतेषु तेषु काकुत्स्थः पुष्पकादवरुह्य च। ततोऽभिवादयामास अगस्त्यमृषिसत्तमम्॥ सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा। आतिथ्यं परमं प्राप्य निषसाद नराधिपः॥ तमुवाच महातेजाः कुम्भयोनिर्महातपाः। स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव।।२५ त्वं मे बहुमतो राम गुणैर्बहुभिरुत्तमैः। अतिथिः पूजनीयश्च मम राजन्हृदि स्थितः॥ सुरा हि कथयन्ति त्वामागतं शूद्रघातिनम्। ब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः॥ उष्यतां चेह रजनीं सकाशे मम राघव। त्वं हि नारायणः श्रीमांस्त्वयि सर्वं प्रतिष्ठितम्।।२८ त्वं प्रभुः सर्वदेवानां पुरुषस्त्वं सनातनः। प्रभाते पुष्पकेण त्वं गन्ता स्वपुरमेव हि॥ इदं चाभरणं सौम्य निर्मितं विश्वकर्मणा। दिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा॥ प्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव। दत्तस्य हि पुनर्दाने सुमहत्फलमुच्यते॥ भरणे हि भवाशक्तः फलानां महतामपि। त्वं हि शक्तस्तारयितुं सेन्द्रानपि दिवौकसः॥ तस्मात्प्रदास्ये विधिवत्तत्प्रतीच्छ नराधिप। अथोवाच महात्मानमिक्ष्वाकूणां महारथः॥ रामो मतिमतां श्रेष्ठः क्षत्रधर्ममनुस्मरन्। प्रतिग्रहोऽयं भगवन्ब्राह्मणस्याविगर्हितः।। क्षत्रियेण कथं विप्र प्रतिग्राह्यं भवेत्ततः। प्रतिग्रहो हि विप्रेन्द्र क्षत्रियाणां सुगर्हितः।। ब्राह्मणेन विशेषेण दत्तं तद्वक्तुमर्हसि। एवमुक्तस्तु रामेण प्रत्युवाच महानृषिः।। आसन्कृतयुगे राम ब्राह्मभूते पुरायुगे। अपार्थिवाः प्रजाः सर्वाःसुराणां तु शतक्रतुः।। ताः प्रजा देवदेवेशं राजार्थं समुपाद्रवन्। सुराणां स्थापितो राजा त्वया देव शतक्रतुः।। प्रयच्छास्मासु लोकेश पार्थिवं नरपुंगवम्। यस्मै पूजां प्रयुञ्जाना धूतपापाश्चरेमहि।। न वसामो विना राज्ञा एष नो निश्चयः परः। ततो ब्रह्मा सुरश्रेष्ठो लोकपालान्सवासवान्।। समाहूयाब्रवीत्सवास्तेजोभागान्प्रयच्छत। ततो ददुर्लोकपालाः सर्वे भागान्स्वतेजसः।। अक्षुपच्च ततो ब्रह्मा यतो जातः क्षुपो नृपः। तं ब्रह्मा लोकपालानां समांशैः समयोजयत्।। ततो ददौ नृपं तासां प्रजानामीश्वरं क्षुपम्। तत्रैन्द्रेण च भागेन महीमाज्ञापयन्नृपः।। वारुणेन तु भागेन वपुः पुष्यति पार्थिवः। कौबेरेण तु भागेन वित्तपाभां ददौ तदा।। यस्तु याम्योऽभवद्भागस्तेनशास्ति स्म स प्रजाः। तत्रैन्द्रेण नरश्रेष्ठ भागेन रघुनन्दन।। प्रतिगृह्णीष्व भद्रं ते तारणार्थ मम प्रभो। तद्रामः प्रतिजग्राह मुनेस्तस्य महात्मनः।। दिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करम्। प्रतिगृह्य ततो रामस्तदाभरणमुत्तमम्।। आगमं तस्य दीप्तस्य प्रष्टुमेवोपचक्रमे। अत्यद्भुतमिदं दिव्यं वपुषा युक्तमद्भुतम्॥ कथं वा भवता प्राप्तं कुतो वा केन वा हृतम्। कौतूहलतया ब्रह्मन्पृच्छामि त्वां महायशः ।३५ ।। आश्चर्याणां बहूनां हि निधिः परमको भवान्। एवं ब्रुवति काकुत्स्थे मुनिर्वाक्यमथाब्रवीत्। शृणु राम यथावृत्तं पुरा त्रेतायुगे युगे।॥ पुरा त्रेतायुगे राम बभूव बहुविस्तरम्। समन्ताद्योजनशतं विमृगं पक्षिवर्जितम्॥ तस्मिन्निर्मानुषेऽरण्ये कुर्वाणस्तप उत्तमम्। अहमाक्रमितुं सौम्य तदारण्यमुपागमम्॥ तस्य रूपमरण्यस्य निर्देष्टुं न शशाक ह। फलमूलैः सुखास्वादैर्बहुरूपैश्च काननैः॥ तस्यारण्यस्य मध्ये तु सरो योजनमायतम्। हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम्॥ पद्मोत्पलसमाकीर्णं समतिक्रान्तशैवलम्। तदाश्चर्यमिवात्यर्थं सुखास्वादमनुत्तमम्॥ अरजस्कं तदाक्षोभ्यं श्रीमत्पक्षिगणायुतम्। तस्मिन्सर:समीपे तु महदद्भुतमाश्रमम्॥ पुराणं पुण्यमत्यर्थं तपस्विजनवर्जितम्। तत्राहमवसं रात्रि नैदाघी पुरुषर्षभ।७।। प्रभाते काल्यमुत्थाय सरस्तदुपचक्रमे। अथापश्यं शवं तत्र सुपुष्टमरजः क्वचित्॥ तिष्ठन्तं परया लक्ष्या तस्मिंस्तोयाशये नृप। तमर्थं चिन्तयानोऽहं मुहूर्तं तत्र राघव॥ विष्ठितोऽस्मि सरस्तीरे किन्विदं स्यादिति प्रभो। अथापश्यं सुमूर्तात्तु दिव्यमद्भुतदर्शनम्॥ विमानं परमोदारं हंसयुक्तं मनोजवम्। अत्यर्थं स्वर्गिणं त विमाने रघुनन्दन॥ उपास्तेऽप्सरसां वीर सहस्रं दिव्यभूषणम्। गायन्ति काश्चिद्रम्याणि वादयन्ति तथापराः॥ मृदङ्गवीणापणवान्नृत्यन्ति च तथापराः। अपराश्चन्द्ररशम्याभैर्हेमदण्डैर्महाधनैः॥ दोधूयुर्वदनं तस्य पुण्डरीकनिभेक्षणाः। ततः सिंहासनं हित्वा मेरुकूटमिवांशुमान्॥ पश्यतो मे तदा राम विमानादवरुह्य च। तं शवं भक्षयामास स स्वर्गी रघुनन्दन॥ ततो भुक्त्वा यथाकामं मांसं बहु सुपीवरम्। अवतीर्य सरः स्वर्गी संस्प्रष्टुमुपचक्रमे॥ उपस्पृश्य यथान्यायं स स्वर्गी रघुनन्दन। आरोढुमुपचक्राम विमानवरमुत्तमम्॥ तमहं देवसंकाशमारोहन्तमुदीक्ष्य वै। अथाहमब्रुवं वाक्यं तमेव पुरुषर्षभ॥ को भावन्देवसंकाश आहारश्च विगर्हितः। त्वयेदं भुज्यते सौम्य किमर्थं वक्तुमर्हसि ॥ कस्य स्यादीदृशो भाव आहारो देवसंमत। आश्चर्य वर्तते सौम्य श्रोतुमिच्छामि तत्त्वतः। नाहमौपयिकं मन्ये तव भक्ष्यमिमं शवम्॥ इत्येवमुक्त स नरेन्द्र नाकी कौतूहलात्सूनृतया गिरा च। श्रुत्वा च वाक्यं मम सर्वमेतत् सर्वं तथा चाकथयन्ममेति॥ श्रुत्वा तु भाषितं वाक्यं मम राम शुभाक्षरम्। प्राञ्जलिः प्रत्युवाचेदं स स्वर्गी रघुनन्दन॥ शृणु ब्रह्मन्पुरा वृत्तं ममैतत्सुखदुःखयोः। अन.क्रमागीयं च यथा पृच्छसि मां द्विज॥ पुरा वैदर्भको राजा पिता मम महायशाः। सुदेव इति विख्यातस्त्रिषु लोकेषु वीर्यवान्।॥ तस्य पुत्रद्वयं ब्रह्मन्द्वाभ्यां स्त्रीभ्यामजायत। अहं श्वेत इति ख्यातो यवीयान्सुरथोऽभवत्॥ ततः पितरि स्वर्याते पौरा मामभ्यषेचयन्। तत्राहं कृतवान्राज्यं धयं च सुसमाहितः॥ एवं वर्षसहस्राणि समतीतानि सुव्रत। राज्यं कारयतो ब्रह्मन्प्रजा धर्मेण रक्षतः॥ सोऽहं निमित्ते कस्मिंश्चिद्विज्ञातायुर्द्विजोत्तम। कालधर्म हृदि न्यस्य ततो वनमुपागमम्॥ सोऽहं वनमिदं दुर्ग मृगपक्षिविवर्जितम्। तपश्चर्तुं प्रविष्टोऽस्मि समीपे सरसः शुभे॥ भ्रातरं सुरथं राज्ये अभिषिच्य महीपतिम्। इदं सरः समासाद्य तपस्तप्तं मया चिरम्॥ सोऽहं वर्षसहस्राणि तपस्त्रीणि महावने। तप्त्वा सुदुष्करं प्राप्तो ब्रह्मलोकमनुत्तमम्॥ तस्येमे स्वर्गभूतस्य क्षुत्पिपासे द्विजोत्तम। बाधेते परमे वीर ततोऽहं व्यथितेन्द्रियः॥ गत्वा त्रिभुवन श्रेष्ठं पितामहमुवाच ह। भगवन्ब्रह्मलोकोऽयं क्षुत्पिपासाविवर्जितः॥ कस्यायं कर्मणः पाकः क्षुत्पिपासानुगो ह्यहम्। आहारः कश्च मे देव तन्मे ब्रूहि पितामह ॥ पितामहस्तु मामाह तवाहारः सुदेवज। स्वादूनि स्वानि मांसानि तानि भक्षय नित्यशः॥ स्वशरीरं त्वया, पुष्टं कुर्वता तप उत्तमम्। अनुप्तं रोहते श्वेत न कदाचिन्महामते॥ दत्तं न तेऽस्ति सूक्ष्मोऽपि तप एव निषेवसे। तेन स्वर्गगतो वत्स बाध्यसे क्षुत्पिपासया॥ स त्वं सुपुष्टमाहारैः स्वशरीरमनुत्तमम्। भक्षयित्वामृतरसं तेन वृत्तिर्भविष्यति॥ यदा तु तद्वनं श्वेत अगस्त्यः स महानृषिः। आगमिष्यति दुर्धर्षस्तदा कृच्छ्राद्विमोक्ष्यते॥ स हि तारयितुं सौम्य शक्तः सुरगणानपि। किं पुनस्त्वां महाबाहो क्षुत्पिपासावशं गतम्॥ सोऽहं भगवतः श्रुत्वा देवदेवस्य निश्चयम्। आहारं गर्हितं कुर्मि स्वशरीरं द्विजोत्तम॥ बहून्वर्षगणान्ब्रह्मन्भुज्यमानमिदं मया। क्षयं नाभ्येति ब्रह्मर्षे तृप्तिश्चापि ममोत्तमा।।२१ तस्य मे कृच्छ्रभूतस्य कृच्छादस्माद्विमोक्षय। अन्येषां न गतिहत्र कुम्भयोनिमृते द्विजम्॥ इदमाभरणं सौम्य धराणार्थं द्विजोत्तम। प्रतिगृह्णीष्व भद्रं ते प्रसादं कर्तुमर्हसि ॥ इदं तावत्सुवर्णं च धनं वस्त्राणि च द्विज। भक्ष्यं भोज्यं च ब्रह्मर्षे ददाम्याभरणानि च॥ सर्वान्कामान्प्रयच्छामि भोगांश्च मुनिपुङ्गव। तारणे भगवन्मह्यं प्रसादं कर्तुमर्हसि ॥ तस्याहं स्वर्गिणो वाक्यं श्रुत्वा दुःखसमन्वितम्। तारणायोफ्जग्राह तदाभरणमुत्तमम्॥ मया प्रतिगृहीते तु तस्मिन्नाभरणे शुभे। मानुषः पूर्वको देहो राजर्षेविननाश ह॥ प्रनष्टे तु शरीरेऽसौ राजर्षिः परया मुदा। तृप्तः प्रमुदितो राजा जगाम त्रिदिवं सुखम्॥ तेनेदं शक्रतुल्येन दिव्यमाभरणं मम। तस्मिन्निमित्ते काकुत्स्थ दत्तमद्भुतदर्शनम्॥ तदद्भुततमं वाक्यं श्रुत्वागस्त्यस्य राघवः। गौरवाद्विस्मयाच्चैव भूयः प्रष्टुं प्रचक्रमे॥ भगवंस्तद्वनं घोरं तपस्तप्यति यत्र सः। श्वेतो वैदर्भको राजा कथं तदमृगद्विजम्॥ तद्वनं स कथ राजा शून्यं मनुजवर्जितम्। तपश्चर्तुं प्रविष्टः स श्रोतुमिच्छामि तत्त्वतः॥ रामस्य वचनं श्रुत्वा कौतूहलसमन्वितम्। वाक्यं परमतेजस्वी वक्तुमेवोपचक्रमे॥ पुरा कृतयुगे राम मनुर्दण्डधरः प्रभुः। तस्य पुत्रो महानासीदिक्ष्वाकुः कुलनन्दनः॥ तं पुत्रं पूर्वकं राज्ये निक्षिप्य भुवि दुर्जयम्। पृथिव्यां राजवंशानां भव कर्तेत्युवाच तम्॥ तथैव च प्रतिज्ञातं पितुः पुत्रेण राघव। ततः परमसंतुष्टो मनुः पुत्रमुवाच ह।७।। प्रीतोऽस्मि परमोदार कर्ता चासि न संशयः। दण्डेन च प्रजा रक्ष मा च दण्डमकारणे॥ अपराधिषु यो दण्डः पात्यते मानवेषु वै। स दण्डो विधिवन्मुक्तः स्वर्ग नयति पार्थिवम्॥ तस्माद्दण्डे महाबाहो यत्नवान्भव पुत्रक। धर्मो हि परमो लोके कुर्वतस्ते भविष्यति॥ इति तं बहु संदिश्य मनुः पुत्रं समाधिना। जगाम त्रिदिवं हृष्टो ब्रह्मलोकं सनातनम्॥ प्रयाते त्रिदिवे तस्मिन्निक्ष्वाकुरमितप्रभः। जनयिष्ये कथं पुत्रानिति चिन्तापरोऽभवत्॥ कर्मभिर्बहुरूपैश्च तैस्तैर्मनुसुतस्तदा। जनयामास धर्मात्मा शतं देवसुतोपमान्॥ तेषामवरजस्तात सर्वेषां रघुनन्दन। मूढश्चाकृतविद्यश्च न शुश्रूषति पूर्वजान्॥ नाम तस्य च दण्डेति पिता चक्रेऽल्पतेजसः। अवश्यं दण्डपतनं शरीरेऽस्य भविष्यति॥ अपश्यमानस्तं देशं घोरं पुत्रस्य राघव। विन्ध्यसैवलयोर्मध्ये राज्यं प्रादादरिंदम॥ स दण्डस्तत्र राजाभूद्रम्ये पर्वतरोधसि। पुरं चाप्रतिमं राम न्यवेशयदनुत्तमम्॥ पुरस्य चाकरोन्नाम मधुमन्तमिति प्रभो। पुरोहितं तूशनसं वरयामास सुव्रतम्॥ एवं स राजा तद्राज्यमकरोत्सपुरोहितः। प्रहृष्टमनुजाकीर्णं देवराजो यथा दिवि॥ ततः स राजा मनुजेन्द्रपुत्रः सार्धं च तेनोशनसा तदानीम्। चकार राज्यं सुमहान्महात्मा शक्रो दिवीवोशनसा समेतः॥ तथोक्तवति रामे तु भरते च महात्मनि। लक्ष्मणोऽथ शुभं वाक्यमुवाच रघुनन्दनम्॥ अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम्। पावनस्तव दुर्धर्षो रोचतां रघुनन्दन ॥ श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि। ब्रह्महत्यावृतः शक्रो हयमेधेन पावितः॥ पुरा किल महाबाहो देवासुरसमागमे। वृत्रो नाम महानासी तेयो लोकसंमतः।।।। विस्तीर्णो योजनशतमुच्छ्रितस्त्रिगुणं ततः। अनुरागेण लोकांस्त्रीस्नेहात्पश्यति सर्वतः॥ धर्मज्ञश्च कृतज्ञश्च बुद्ध्या च परिनिष्ठितः। शशास पृथिवीं स्फीतां धर्मेण सुसमाहितः॥ तस्मिन्प्रशासति तदा सर्वकामदुधा मही। रसवन्ति प्रसूनानि मूलानि च फलानि च।७।। अकृष्टपच्या पृथिवी सुसंपन्ना महात्मनः। स राज्यं तादृशं भुङ्क्ते स्फीतमद्भुतदर्शनम्॥ तस्य बुद्धिः समुत्पन्ना तपः कुर्यामनुत्तमम्। तपो हि परमं श्रेयः संमोहमितरत्सुखम्॥ स निक्षिप्य सुतं ज्येष्ठं पौरेषु मधुरेश्वरम्। तप उग्रं समातिष्ठत्तापयन्सर्वदेवताः॥ तपस्तप्यति वृत्रे तु वासवः परमार्तवत्। विष्णुं समुपसंक्रम्य वाक्यमेतदुवाच ह॥ तपस्यता महाबाहो लोकाः सर्वे विनिर्जिताः। बलवान्स हि धर्मात्मा नैनं शक्ष्यामि शासितुम्॥ यद्यसौ तप आतिष्ठेद्भूय एव सुरेश्वर। यावल्लोका धरिष्यन्ति तावदस्य वशानुगाः॥ तं चैनं परमोदारमुपेक्षसि महाबल। क्षणं हि न भवेत्रः क्रुद्ध त्वयि सुरेश्वर॥ यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः। तदा प्रभृति लोकानां नाथत्वमुपलब्धवान्॥ स त्वं प्रसादं लोकानां कुरुष्व सुसमाहितः। त्वत्कृते नहि सर्व स्यात्प्रशान्तमरुजं जगत्॥ इमे हि सर्वे विष्णो त्वां निरीक्षन्ते दिवौकसः। वृत्रघातेन महता तेषां साह्यं कुरुष्व ह॥ त्वया हि नित्यशः साह्यं कृतमेषां महात्मनाम्। असह्यमिदमन्येषामगतीनां गतिर्भवान्॥ तच्छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं वाक्यविशारदः। प्रत्युवाच महातेजाः प्रहसनराघवो वचः॥ एवमेव नरश्रेष्ठ यथा वदसि लक्ष्मण। वृत्रघातमशेषेण वाजिमेधफलं च यत्॥ श्रूयते हि पुरा सौम्य कर्दमस्य प्रजापतेः। पुत्रो वाह्लीश्वरः श्रीमानिलो नाम सुधार्मिकः॥ स राजा पृथिवीं सर्वां वशे कृत्वा महायशाः। राज्यं चैव नरव्याघ्र पुत्रवत्पर्यपालयत्॥ सुरैश्च परमोदारैर्दैतेयैश्च महाधनैः। नागराक्षसगन्धर्वैर्यक्षैश्च सुमहात्मभिः॥ पूज्यते नित्यशः सौम्य भयार्ते रघुनन्दन । अबिभ्यश्च त्रयो लोकाः सरोषस्य महात्मनः॥ स राजा तादृशोऽप्यासीद्धर्मे वीर्ये च निष्ठितः। बुद्ध्या च परमोदारो बाह्लीकेशो महायशाः॥ स प्रचक्रे महाबाहुमूंगयां रुचिरे वने। चैत्रे मनोरमे मासे सभृत्यबलवाहनः॥ प्रजघ्ने स नृपोऽरण्ये मृगाञ्छतसहस्रशः। हत्वैव तृप्ति भूच्च राज्ञस्तस्य महात्मनः॥ नानामृगाणामयुतं वध्यमानं महात्मना। यत्र जातो माहासेनस्तं देशमुपचक्रमे॥ तस्मिन्प्रदेशे देवेश शैलराजसुतां हरः। रमयामास दुर्धर्षः सर्वैरनुचरैः सह॥ कृत्वा स्त्रीरूपमात्मानमुमेशो गोपतिध्वजः। देव्याः प्रियचिकीर्षुः संस्तस्मिन्पर्वतनिझरे॥ यत्र यत्र वनोद्देशे सत्त्वाः पुरुषवादिनः। वृक्षाः पुरुषनामानस्ते सर्वे स्त्रीजनाभवन्॥ यच्च किंचन तत्सर्वं नारीसंज्ञं बभूव ह। एतस्मिन्नन्तरे राजा स इल: कर्दमात्मजः॥ निघ्नन्मृगसहस्राणि तं देशमुपचक्रमे। स दृष्ट्वा स्त्रीकृतं सर्व सव्यालमृगपक्षिणम्॥ आत्मानं स्त्रीकृतं चैव सानुगं रघुनन्दन । तस्य दुःखं महच्वासीदृष्ट्वात्मानं तथागतम्॥ उमापतेश्च तत्कर्म ज्ञात्वा त्रासमुपागमत्। ततो देवं महात्मानं शितिकण्ठं कपर्दिनम्।।१७ जगाम शरणं राजा सभृत्यबलवाहनः। ततः प्रहस्य वरदः सह देव्या महेश्वरः॥ प्रजापतिसुतं वाक्यमुवाच वरदः स्वयम्। उत्तिष्ठोत्तिष्ठ राजर्षे कार्दमेय महाबल॥ पुरुषत्वमृते सौम्य वरं वरय सुव्रत। ततः स राजा शोकार्तः प्रत्याख्यातो महात्मना॥ स्त्रीभूतोऽसौ न जग्राह वरमन्यं सुरोत्तमात्। ततः शोकेन महता शैलराजसुतां नृपः॥ प्रणिपत्य उमां देवीं सर्वेणैवान्तरात्मना। ईशे वराणां वरदे लोकानामसि भामिनी॥ अमोघदर्शने देवी भज सौम्येन चक्षुषा। हृद्गतं तस्य राजर्षेविज्ञाय हरसंनिधौ॥ प्रत्युवाच शुभं वाक्यं देवी रुद्रस्य संमता। अर्धस्य देवो वरदो वरार्धस्य तव ह्यहम्॥ तस्मादधं गृहाण त्वं स्त्रीपुंसोर्यावदिच्छसि। तदद्भुततरं श्रुत्वा देव्या वरमनुत्तमम्॥ संप्रहृष्टमना भूत्वा राजा वाक्यमथाब्रवीत्। यदि देवि प्रसन्ना मे रूपेणाप्रतिमा भुवि॥ मासं स्त्रीत्वमुपासित्वा मासं स्यां पुरुषः पुनः। ईप्सितं तस्य विज्ञाय देवी सुरुचिरानना॥ प्रत्युवाच शुभं वाक्यमेवमेव भविष्यति। राजन्पुरुषभूतस्त्वं स्त्रीभावं न स्मरिष्यसि॥ स्त्रीभूतश्च परं मासं न स्मरिष्यसि पौरुषम्। एवं स राजा पुरुषो मासं भूत्वाथ कार्दमिः। त्रैलोक्यसुन्दरी नारी मासमेकमिलाभवत्॥ तां कथामैलसंबद्धां रामेण समुदीरिताम्। लक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ॥ तौ रामं प्राञ्जली भूत्वा तस्य राज्ञो महात्मनः। विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः॥ कथं स राजा स्त्रीभूतो वर्तयामास दुर्गतिः। पुरुषः स यदा भूतः कां वृत्तिं वर्तयत्यसौ॥ तयोस्तद्भाषितं श्रुत्वा कौतूहलसमन्वितम्। कथयामास काकुत्स्थस्तस्य राज्ञो यथागमम्॥ तमेव प्रथमं मासं स्त्री भूत्वा लोकसुन्दरी। तत्काननं विगाह्याशु विजह्वे लोकसुन्दरी। दुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा॥ ताभिः परिवृता स्त्रीभिर्येऽस्य पूर्व पदानुगाः।।।।। वाहनानि च सर्वाणि संत्यक्त्वा वै समन्ततः। पर्वताभोगविवरे तस्मिन्रेमे इला तदा॥ अथ तस्मिन्वनोद्देशे पर्वतस्याविदूरतः। सरः सुरुचिरप्रख्यं नानापक्षिगणायुतम्॥ ददर्श सा इला तस्मिन्बुधं सोमसुतं तदा। ज्वलन्तं स्वेन वपुषा पूर्ण सोममिवोदितम्।।।। तपन्तं च तपस्तीव्रमम्भोमध्ये दुरासदम्। यशस्करं कामकरं कारुण्ये पर्यवस्थितम्॥ सा तं जलाशयं सर्व क्षोभयामास विस्मिता। सह तैः पूर्वपुरुषैः स्त्रीभूतै रघुनन्दन॥ बुधस्तु तां समीक्ष्यैव कामबाणवशं गतः। नोपलेभे तदात्मानं स चचाल तदाम्भसि ॥ इलां निरीक्षमाणस्तु त्रैलोक्यादधिकां शुभाम्। चित्तं समभ्यतिक्रामत्कान्वियं देवताधिका ॥ न देवीषु न नागीषु नासुरीष्वप्सरःसु च। दृष्टपूर्वा मया काचिदूपेणानेन शोभिता॥ सदृशीयं मम भवेद्यदि नान्यपरिग्रहः। इति बुद्धिंसमास्थाय जलात्कूलमुपागमत्॥ आश्रमं समुपागम्य ततस्ताः प्रमदोत्तमाः। शब्दापयत धर्मात्मा ताश्चैनं च ववन्दिरे॥ स ताः पप्रच्छ धर्मात्मा कस्यैषा लोकसुन्दरी। किमर्थमागता चैव सर्वमाख्यात मा चिरम्॥ शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम्। श्रुत्वा स्त्रियश्च ताः सर्वा ऊचुर्मधुरया गिरा॥ अस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा। अपतिः काननान्तेषु सहास्माभिश्चरत्यसौ॥ तद्वाक्यमाव्यक्तपदं तासां स्त्रीणां निशम्य च। विद्यामावर्तनी पुण्यामावर्तयति स द्विजः॥ सोऽर्थं विदित्वा सकलं तस्य राज्ञो यथा तथा। सर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुङ्गवः॥ अत्र किंपुरुषीभूत्वा शैलरोधसि वत्स्यथ। आवासस्तु गिरावस्मिञ्शीघ्रमेव विधीयताम्॥ मूलपत्रफलैः सर्वा वर्तयिष्यथ नित्यदा। स्त्रियः किंपुरुषानाम भर्तृन्समुपलप्स्यथ ॥ ताः श्रुत्वा सोमपुत्रस्य स्त्रियः किंपुरुषीकृताः। उपासांचक्रिरे शैलं वध्वस्ता बहुलास्तदा॥ श्रुत्वा किंपुरुषोत्पत्तिं लक्ष्मणो भरतस्तथा। आश्चर्यमिति च ब्रूतामुभौ रामं जनेश्वरम्॥ अथ रामः कथामेतां भूय एव महायशाः। कथयामास धर्मात्मा प्रजापतिसुतस्य वै॥ सर्वास्ता विहृता दृष्ट्वा किंनरीषिसत्तमः। उवाच रूपसंपन्नां तां त्रियं प्रहसन्निव ॥ सोमस्याहं सुदयितः सुतः सुरुचिरानने। भजस्व मां वरारोहे भक्त्या स्निग्धेन चक्षुषा॥ तस्य तद्वचनं श्रुत्वा शून्ये स्वजनवर्जिते। इला सुरुचिरप्रख्यं प्रत्युवाच महाप्रभम्॥ अहं कामचरी सौम्य तवास्मि वशवर्तिनी। प्रशाधि मां सोमसुत यथेच्छसि तथा कुरु॥ तस्यास्तदद्भुतप्रख्यं श्रुत्वा हर्षमुपागतः। स वै कामी सह तया रेमे चन्द्रमसः सुतः॥ बुधस्य माधवो मासस्तामिलां रुचिराननाम्। गतो रमयतोऽत्यर्थं क्षणवत्तस्य कामिनः।।। अथ मासे तु संपूर्णे पूर्णेन्दुसदृशाननः। प्रजापतिसुतः श्रीमाञ्शयने प्रत्यबुध्यत॥ सोऽपश्यत्सोमजं तत्र तपन्तं सलिलाशये। ऊर्ध्वबाहुं निरालम्बं तं राजा प्रत्यभाषत॥ भगवन्पर्वतं दुर्ग प्रविष्टोऽस्मि सहानुगः। न च पश्यामि तत्सैन्यं क्व नु ते मामका गताः॥ तच्छ्रुत्वा तस्य राजर्षेर्नष्टसंज्ञस्य भाषितम्। प्रत्युवाच शुभं वाक्यं सान्त्वयन्परया गिरा॥ अश्मवर्षेण महता भृत्यास्ते विनिपातिताः। त्वं चाश्रमपदे सुप्तो वातवर्षभयादितः॥ समाश्वसिहि भद्रं ते निर्भयो विगतज्वरः। फलमूलाशनो वीर निवसेह यथासुखम्॥ स राजा तेन वाक्येन प्रत्याश्वस्तो महामतिः। प्रत्युवाच शुभं वाक्यं दीनो भृत्यजनक्षयात्॥ त्यक्ष्याम्यहं स्वकं राज्यं नाहं भृत्यैविनाकृतः। वर्तयेयं क्षणं ब्रह्मन्समनुज्ञातुमर्हसि॥ सुतो धर्मपरो ब्रह्मज्येष्ठो मम महायशाः। शशबिन्दुरिति ख्यातः स मे राज्यं प्रपत्स्यते॥ नहि शक्ष्याम्यहं हित्वा भृत्यदारान्सुखान्वितान्। प्रतिवक्तुं महातेजः किंचिदप्यशुभं वचः॥ तथा ब्रुवति राजेन्द्रे बुधः परममद्भुतम्। सान्त्वपूर्वमथोवाच वासस्त इह रोचताम्॥ न संतापस्त्वया कार्यः कार्दमेय महाबल। संवत्सरोषितस्याद्य कारयिष्यामि ते हितम्॥ तस्य तद्वचनं श्रुत्वा बुधस्याक्लिष्टकर्मणः। वासाय विदधे बुद्धिंयदुक्तं ब्रह्मवादिना ॥ मासं स स्त्री तदा भूत्वा रमयत्यनिशं सदा। मासं पुरुषभावेन धर्मबुद्धिं चकार सः॥ ततः सा नवमे मासि इला सोमसुतात्सुतम्। जनयामास सुश्रोणी पुरूरवसमूर्जितम्॥ जातमात्रे तु सुश्रोणी पितुर्हस्ते न्यवेशयत्। बुधस्य समवर्णं च इला पुत्रं महाबलम्॥ बुधस्तु पुरुषीभूतं स वै संवत्सरान्तरम्। कथाभी रमयामास धर्मयुक्ताभिरात्मवान्॥ तथोक्तवति रामे तु तस्य जन्म तदद्भुतम्। उवाच लक्ष्मणो भूयो भरतश्च महायशाः॥ इला सा सोमपुत्रस्य संवत्सरमथोषिता। अकरोत्कि नरश्रेष्ठ तत्त्वं शंसितुमर्हसि ॥ तयोस्तद्वाक्यमाधुर्यं निशम्य परिपृच्छतोः। रामः पुनरुवाचेदं प्रजापतिसुते कथाम्॥ पुरुषत्वं गते शूरे बुधः परमबुद्धिमान्। संवत परमोदारमाजुहाव महायशाः॥ च्यवनं भृगुपुत्रं च मुनिं चारिष्टनेमिनम्। प्रमोदनं मोदकरं ततो दुर्वाससं मुनिम्॥ एतान्सर्वान्समानीय वाक्यज्ञस्तत्त्वदर्शनः। उवाच सर्वान्सुहृदो धैर्येण सुसमाहितान्॥ अयं राजा महाबाहुः कर्दमस्य इलः सुतः। जानीतैनं यथाभूतं श्रेयो ह्यत्र विधीयताम्॥ तेषां संवदतामेव द्विजैः सह महात्मभिः। कर्दमस्तु महातेजास्तदाश्रममुपागमत्।८।। पुलस्त्यश्च क्रतुश्चैव वषट्कारस्तथैव च। ओङ्कारश्च महातेजास्वमाश्रममुपागमन्॥ ते सर्वे हृष्टमनसः परस्परसमागमे। हितैषिणो बाल्हिपतेः पृथग्वाक्यान्यथाब्रुवन्॥ कर्दमस्त्वब्रवीद्वाक्यं सुतार्थं परमं हितम्। द्विजाः शृणुत मद्वाक्यं यच्छ्रेयः पार्थिवस्य हि॥ नान्यं पश्यामि भैषज्यमन्तरा वृषभध्वजम्। नाश्वमेधात्परो यज्ञः प्रियश्चैव महात्मनः॥ तस्माद्यजामहे सर्वे पार्थिवार्थे दुरासदम्। कर्दमैवमुक्तास्तु सर्व एव द्विजर्षभाः॥ रोचयन्ति स्म तं यज्ञं रुद्रस्याराधनं प्रति। संवर्तस्य तु राजर्षिः शिष्यः परपुरंजयः॥ मरुत्त इति विख्यातस्तं यज्ञं समुपाहरत्। ततो यज्ञो महानासीद्धाश्रमसमीपतः॥ रुद्रश्च परमं तोषमाजगाम महायशाः। अथ यज्ञे समाप्ते तु प्रीतः परमया मुदा ।।१६। उमापतिर्द्विजान्सर्वानुवाच इलसंनिधौ। प्रीतोऽस्मि हयमेधेन भक्त्या च द्विजसत्तमाः।।१७। अस्य बाल्हिपतेश्चैव किं करोमि प्रियं शुभम्। तथा वदति देवेशे द्विजास्ते सुसमाहिताः॥ प्रसादयन्ति देवेशं यथा स्यात्पुरुषस्त्विला। ततः प्रीतो महादेवः पुरुषत्वं ददौ पुनः॥ इलायै सुमहातेजा दत्त्वा चान्तरधीयत। निवृत्ते हयमेधे च गते चादर्शनं हरे॥ यथागतं द्विजाः सर्वे तेऽगच्छन्दीर्घदर्शिनः। राजा तु बाह्निमुत्सृज्य मध्यदेशे ह्यनुत्तमम्॥ निवेशयामास पुरं प्रतिष्ठानं यशस्करम्। शशबिन्दुश्च राजर्षिर्बाहिं परपुरंजयः॥ प्रतिष्ठाने इलो राजा प्रजापतिसुतो बली। स काले प्राप्तवॉल्लोकमिलो ब्राह्ममनुत्तमम्॥ ऐलः पुरूरवा राजा प्रतिष्ठानमवाप्तवान्। ईदृशो ह्यश्वमेधस्य प्रभावः पुरुषर्षभ। स्त्रीपूर्वः पौरुषं लेभे।। यच्चान्यदपि दुर्लभम्।।२४ एतदाख्याय काकुत्स्थो भ्रातृभ्याममितप्रभः। लक्ष्मणं पुनरेवाह धर्मयुक्तमिदं वचः॥ वसिष्ठं वामदेवं च जाबालिमथ कश्यपम्। द्विजांश्च सर्वप्रवरानश्वमेधपुरस्कृतान्॥ एतान्सर्वान्समानीय मन्त्रयित्वा च लक्ष्मण। हयं लक्षणसंपन्नं विमोक्ष्यामि समाधिना॥ तद्वाक्यं राघवेणोक्तं श्रुत्वा त्वरितविक्रमः। द्विजान्सर्वान्समाहूय दर्शयामास राघवम्॥ ते दृष्ट्वा देवसंकाशं कृतपादाभिवन्दनम्। राघवं सुदुराधर्षमाशीभिः समपूजयन्॥ प्राञ्जलिः स तदा भूत्वा राघवो द्विजसत्तमान्। उवाच धर्मसंयुक्तमश्वमेधाश्रितं वचः॥ तेऽपि रामस्य तच्छ्रुत्वा नमस्कृत्वा वृषध्वजम्। अश्वमेधं द्विजाः सर्वे पूजयन्ति स्म सर्वशः॥ स तेषां द्विजमुख्यानां वाक्यमद्भुतदर्शनम्। अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतोऽभवत्तदा॥ विज्ञाय कर्म तत्तेषां रामो लक्ष्मणमब्रवीत्। प्रेषयस्व महाबाहो सुग्रीवाय महात्मने॥ यथा महद्भिर्हरिभिर्बहुभिश्च वनौकसाम्। सार्धमागच्छ भद्रं ते अनुभोक्तुं महोत्सवम्॥ बिभीषणश्च रक्षोभिः कामगैर्बहुभिर्वृतः। अश्वमेधं महायज्ञमायात्वतुलविक्रमः॥ राजानश्च महाभागा ये मे प्रियचिकीर्षवः। सानुगाः क्षिप्रमायान्तु यज्ञ भूमि निरीक्षकाः॥ देशान्तरगता ये च द्विजा धर्मसमाहिताः। आमन्त्रयस्व तान्सर्वानश्वमेधाय लक्ष्मण॥ ऋषयश्च महाबाहो आहूयन्तां तपोधनाः। देशान्तरगताः सर्वे सदाराश्च द्विजातयः॥ तथैव तालावरास्तथैव नटनर्तकाः। यज्ञपाटश्च सुमहान्गोमत्या नैमिषे वने॥ आज्ञाप्यतां महाबाहो तद्धिपुण्यमनुत्तमम्। शान्तयश्च महाबाहो प्रवर्तन्तां समन्ततः॥ शतशश्चापि धर्मज्ञाः क्रतुमुख्यमनुत्तमम्। अनुभूय महायज्ञं नैमिषे रघुनन्दन ॥ तुष्टः पुष्टश्च सर्वोऽसौ मानितश्च यथाविधि। प्रतियास्यति धर्मज्ञ शीघ्रमामन्त्र्यतां जनः॥ शतं वाहसहस्राणां तण्डुलानां वपुष्मताम्। अयुतं तिलमुद्गस्य प्रयात्वग्रे महाबल॥ चणकानां कुलित्थानां माषाणां लवणस्य च। अतोऽनुरूपं स्नेहं च गन्धं संक्षिप्तमेव च॥ सुवर्णकोट्यो बहुला हिरण्यस्य शतोत्तराः। अग्रतो भरतः कृत्वा गच्छत्वग्रे समाधिना ॥ अन्तरापणवीथ्यश्च सर्वे च नटनर्तकाः। सूदा नार्यश्च बहवो नित्यं यौवनशालिनः॥ भरतेन तु साधं ते यान्तु सैन्यानि चाग्रतः। नैगमान्बालवृद्धांश्च द्विजांश्च सुसमाहिताः॥ कर्मान्तिकान्वर्धकिनः कोशाध्यक्षांश्च नैगमान्। मम मातृस्तथा सर्वाः कुमारन्तः पुराणि च ॥ काञ्चनीं मम पत्नी च दीक्षायां ज्ञांश्च कर्मणि। अग्रतो भरतः कृत्वा गच्छत्वग्रे महायशाः॥ उपकार्या महाश्चि पार्थिवानां महौजसाम्। सानुगानां नरश्रेष्ठ व्यादिदेश महाबलः॥ अन्नपानानि वस्त्राणि अनुगानां महात्मनाम्। भरतः स तदा यातः शत्रुघ्नसहितस्तदा॥ वानराश्च महात्मानः सुग्रीवसहितास्तदा। विप्राणां प्रवराः सर्वे चक्रुश्च परिवेषणम्॥ बिभीषणश्च रक्षोभिः स्त्रीभिश्च बहुभिर्वृतः। ऋषीणामुग्रतपसां पूजां चक्रे महात्मनाम्॥ वर्तमाने तथाभूते यज्ञे च परमाद्भुते। सशिष्य आजगामाशु वाल्मीकिर्भगवानृपिः॥ स दृष्ट्वा दिव्यसंकाशं यज्ञमद्भुतदर्शनम्। एकान्त ऋषिसंवातश्चकार उटजाशुभान्॥ शकटांश्च बहून्पूर्णान्फलमूलांश्च शोभनान्। वाल्मीकिवाटे रुचिरे स्थापयन्नविदूरतः॥ स शिष्यावब्रवीद्धृष्टौ युवां गत्वा समाहितौ। कृत्स्नं रामायणं काव्यं गायतां परया मुदा॥ ऋषिवाटेषु पुण्येषु ब्राह्मणावसथेषु च। रथ्यासु राजमार्गेषु पार्थिवानां गृहेषु च॥ रामस्य भवनद्वारि यत्र कर्म च कुर्वते। ऋत्विजामग्रतश्चैव तत्र गेयं विशेषतः॥ इमानि च फलान्यत्र स्वादूनि विविधानि च। जातानि पर्वताग्रेषु आस्वाद्यास्वाद्य गायताम्॥ न यास्यथः श्रमं वत्सौ भक्षयित्वा फलान्यथ। मूलानि च सुमृष्टानि न रागात्परिहास्यथः॥ यदि शब्दापयेद्रामः श्रवणाय महीपतिः। ऋषीणामुपविष्टानां यथायोगं प्रवर्तताम्॥ दिवसे विंशतिः सर्गा गेया मधुरया गिरा। प्रमाणैर्बहुभिस्तत्र यथोद्दिष्टं मया पुरा ॥ लोभश्चापि न कर्तव्यः स्वल्पोऽपि धनवाञ्छया। किं धनेनाश्रमस्थानां फलमूलाशिनां सदा ॥ यदि पृच्छेत्स काकुत्स्थो युवां कस्येति दारको। वाल्मीकेरथ शिष्यौ द्वौ ब्रूतमेवं नराधिपम् ॥ इमास्तन्त्रीः सुमधुराः स्थानं वापूर्वदर्शनम्। मूर्च्छयित्वा सुमधुरं गायतां विगतज्वरौ॥ आदिप्रभृति गेयं स्यान्न चावज्ञाय पार्थिवम्। पिता हि सर्वभूतानां राजा भवति धर्मतः॥ तधुवां हृष्टमनसौ श्वः प्रभाते समाहितौ। गायतं मधुरं गेयं तन्त्रीलयसमन्वितम्॥ इति संदिश्य बहुशो मुनिः प्राचेतसस्तदा। वाल्मीकिः परमोदारस्तूष्णीमासीन्महामुनिः॥ संदिष्टौ मुनिना तेन तावुभौ मैथिलीसुतौ। तथैव करवावेति निर्जग्मतुररिंदमौ॥ तामद्भुतां तौ हृदये कुमारी निवेश्य वाणीमृषिभाषितां तदा। समुत्सुकौ तौ सुखमूषतुर्निशां यथाश्विनौ भार्गवनीतिसंहिताम्॥ तौ रजन्यां प्रभातायां स्नातौ हुतहुताशनौ। यथोक्तमृषिणा पूर्व सर्वं तत्रोपगायताम्॥ तां स सुश्राव काकुत्स्थः पूर्वाचार्यविनिर्मिताम्। अपूर्वां पाठ्यजातिं च गेयेन समलंकृताम्॥ प्रमाणैर्बहुभिर्बद्धां तन्त्रीलयसमन्विताम् । बालाभ्यां राघवः श्रुत्वा कौतूहलपरोऽभवत्॥ अथ कर्मान्तरे राजा समाहूय महामुनीन्। पार्थिवाश्च नरव्याघ्रः पण्डितान्नैगमांस्तथा।।।। पौराणिकाशब्दविदो ये वृद्धाश्च द्विजातयः। स्वराणां लक्षणज्ञांश्च उत्सुकान्द्विजसत्तमान्॥ लक्षणज्ञांश्च गान्धर्वान्नैगमांश्च विशेषतः। पादाक्षरसमासज्ञांश्छन्दःसु परिनिष्ठितान्॥ कलामात्राविशेषज्ञाज्योतिषे च परं गतान्। क्रियाकल्पविदश्चैव तथा कार्यविशारदान्॥ हेतूपचारकुशलान्हैतुकांश्च बहुश्रुतान्। छन्दोविदः पुराणज्ञान्वैदिकान्द्विजसत्तमान्।।।। चित्रज्ञान्वृत्तसूत्रज्ञान्गीतनृत्यविशारदान्। एतान्सर्वान्समानीय गातारौ समवेशयत्॥ तेषां संवदतां तत्र श्रोतृणां हर्षवर्धनम्। गेयं प्रचक्रतुस्तत्र तावुभौ मुनिदारकौ॥ ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम्। न च तृप्तिं ययुः सर्वे :श्रोतारो गेयसंपदा॥ हृष्टा मुनिगणाः सर्वे पार्थिवाश्च महौजसः। पिबन्त इव चक्षुभिः पश्यन्ति स्म मुहुर्मुहुः॥ ऊचुः परस्परं चेदं सर्व एव समाहिताः। उभौ रामस्य सदृशौ बिम्बाद्विम्बमिरोद्धतौ॥ जटिलौ यदि न स्यातां न वल्कलधरौ यदि। विशेष नाधिगच्छामो गायतो राघवस्य च॥ एवं प्रभाषमाणेषु पौरजानपदेषु च। प्रवृत्तमादितः पूर्वसर्ग नारददर्शितम्॥ ततः प्रभृति साँश्च यावद्विशत्यगायताम्। ततोऽपराह्णसमये राघवः समभाषत॥ श्रुत्वा विंशतिसाँस्तान्भ्रातरं भ्रातृवत्सलः। अष्टादश सहस्राणि सुवर्णस्य महात्मनो॥ प्रयच्छ शीघ्रं काकुत्स्थ यदन्यदभिकाङ्क्षितम्। ददौ न शीघ्र काकुत्स्थो बालयो( पृथक्पृथक् ।।१८ दीयमानं सुवर्णं तु नागृह्णीतां कुशीलवौ। ऊचतुश्च महात्मनौ किमनेनेति विस्मितौ॥ वन्येन फलमूलेन निरतौ वनवासिनौ। सुवर्णेन हिरण्येन किं करिष्यावहे वने॥ तथा तयोः प्रब्रुवतोः कौतूहलसमन्विताः। श्रोतारश्चैव रामश्च सर्व एव सुविस्मिताः॥ तस्य चैवागमं रामः काव्यस्य श्रोतुमुत्सुकः। पप्रच्छ तौ महातेजास्तावुभौ मुनिदारकौ॥ किंप्रमाणमिदं काव्यं का प्रतिष्ठा महात्मनः। कर्ता काव्यस्य महतः क्व चासौ मुनिपुङ्गवः॥ पृच्छन्तं राघवं वाक्यमूचतुर्मुनिदारको। वाल्मीकिर्भगवान्कर्ता संप्राप्तो यज्ञसंविधम्। येनेदं चरितं तुभ्यमशेष संप्रदर्शितम्॥ संनिबद्धं हि श्लोकानां चतुर्विंशत्सहस्रकम्। उपाख्यानशतं चैव भार्गवेण तपस्विना॥ आदिप्रभृति वै राजन्पञ्चसर्गशतानि च। काण्डानि षट् कृतानीह सोत्तराणि महात्मना ॥ कृतानि गुरुणास्माकमृषिणा चरितं तव। प्रतिष्ठा जीवितं यावत्तावत्सर्वस्य वर्तते॥ यदि बुद्धिः कृता राजञ्छ्वणाय महारथ। कर्मान्तरे क्षणीभूतस्तच्छृणुष्व सहानुजः॥ बाढमित्यब्रवीद्रामस्तौ चानुज्ञाप्य राघवौ। प्रहृष्टौ जग्मतुः स्थानं यत्रास्ते मुनिपुङ्गवः॥ रामोऽपि मुनिभिः सार्धं पार्थिवैश्च महात्मभिः। श्रुत्वा तदीतिमाधुर्यं कर्मशालामुपागमत्॥ सुश्राव तचाललयोपपन्नं सर्गान्वितं सुस्वरशब्दयुक्तम्। तन्त्रीलयव्यञ्जनयोगयुक्तं कुशीलवाभ्यां परिगीयमानम्॥ रामो बहून्यहान्येव तद्गीतं परमं शुभम्। शुश्राव मुनिभिः सार्धं पार्थिवैः सह वानरैः॥ तस्मिन्गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ। तस्याः परिषदो मध्ये रामो वचनमब्रवीत्॥ दूताशुद्धसमाचारानाहूयात्ममनीषया। मद्वचो ब्रूत गच्छध्वमितो भगवतोऽन्तिके॥ यदि शुद्धसमाचारा यदि वा वीतकल्मषा। करोत्विहात्मनः शुद्धिमनुमान्य महामुनिम्॥ छन्दं मुनेश्च विज्ञाय सीतायाश्च मनोगतम्। प्रत्ययं दातुकामायास्ततः शंसत मे लघु॥ श्वः प्रभाते तु शपथं मैथिली जनकात्मजा। करोतु परिषन्मध्ये शोधनार्थं ममैव च॥ श्रुत्वा तु राघवस्यैतद्वचः परममद्भुतम्। दूताः संप्रययुर्बादं यत्र वै मुनिपुङ्गवः॥ ते प्रणम्य महात्मानं ज्वलन्तममितप्रभम्। ऊचुस्ते रामवाक्यानि मृदूनि मधुराणि च।।।।। तेषां तद्भाषितं श्रुत्वा रामस्य च मनोगतम्। विज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत्॥ एवं भवतु भद्रं वो यथा वदति राघवः। तथा करिष्यते सीता दैवतं हि पतिः स्त्रियः॥ तथोक्ता मुनिना सर्वे राजदूता महौजसः। प्रत्येत्य राघवं सर्वं मुनिवाक्यं बभाषिरे॥ ततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः। ऋषींस्तत्र समेतांश्च राज्ञश्चैवाभ्यभाषत॥ भगवन्तः सशिष्या वै सानुगाश्च नराधिपाः। पश्यन्तु सीताशपथं यश्चैवान्योऽपि काङ्क्षते।।१३ तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः। सर्वेषामृषिमुख्यानां साधुवादो महानभूत्॥ राजानश्च महात्मानः प्रशंसन्ति स्म राघवम्। उपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः॥ एवं विनिश्चयं कृत्वा श्वोभूत इति राघवः। विसर्जयामास तदा सास्ताञ्छत्रुसूदनः॥ इति संप्रविचार्य राजसिंहः श्वोभूते शपथस्य निश्चयम्। विससर्ज मुनीनृपांश्च सर्वान् स महात्मा महतो महानुभावः॥ वाल्मीकिनैवमुक्तस्तु राघवः प्रत्यभाषत। प्राञ्जलिर्जगतो मध्ये दृष्ट्वा तां वरवर्णिनीम्॥ एवमेतन्महाभाग यथा वदसि धर्मवित्। प्रत्ययस्तु मम ब्रह्मस्तव वाक्यैरकल्मषैः॥ प्रत्ययश्च पुरा वृत्तो वैदेह्याः सुरसंनिधौ। शपथश्च कृतस्तत्र तेन वेश्म प्रवेशिता ॥ लोकापवादो बलवान्येन त्यक्ता हि मैथिली। सेयं लोकभयाद्ब्रह्मनपापेत्यभिजानता। परित्यक्ता मया सीता तद्भवान्क्षन्तुमर्हति ॥ जानामि चेमौ पुत्रौ मे यमजातौ कुशीलवौ। शुद्धायां जगतो मध्ये मैथिल्यां प्रीतिरस्तु मे॥ अभिप्रायं तु विज्ञाय रामस्य सुरसत्तमाः। सीतायाः शपथे तस्मिन्सर्व एव समागताः॥ पितामहं पुरस्कृत्य सर्व एव समागताः। आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः॥ साध्याश्च देवाः सर्वे ते सर्वे च परमर्षयः। नागाः सुपर्णाः सिद्धाश्च ते सर्वे हृष्टमानसाः।।।।। दृष्ट्वा देवानृषींश्चैव राघवः पुनरब्रवीत्। प्रत्ययो मे नरश्रेष्ठ ऋषिवाक्यैरकल्मषैः।।।।। शुद्धायां जगतो मध्ये वैदेह्यां प्रीतिरस्तु मे। सीताशपथसंभ्रान्ताः सर्व एव समागताः॥ ततो वायुः शुभः पुण्यो दिव्यगन्धो मनोरमः। तं जनौघं सुरश्रेष्ठो ह्रादयामास सर्वतः॥ तद्भुतमिवाचिन्त्यं निरैक्षन्त समाहिताः। मानवाः सर्वराष्ट्रेभ्यः पूर्वं कृतयुगे यथा॥ सर्वान्समागतान्दृष्ट्वा सीता काषायवासिनी। अब्रवीत्प्राञ्जलिर्वाक्यमधोदृष्टिरवाङ्मुखी॥ यथाहं राघवादन्यं मनसापि न चिन्तये। तथा मे माधवी देवी विवरं दातुमर्हति ॥ मनसा कर्मणा वाचा यथा रामं समर्चये। तथा मे माधवी देवी विवरं दातुमर्हति॥ यथैतत्सत्यमुक्तं मे वेद्मि रामात्परं न च। तथा मे माधवी देवी विवरं दातुमर्हति॥ तथा शपन्त्यां वैदेह्या प्रादुरासीत्तदद्भुतम्। भूतलादुत्थितं दिव्यं सिंहासनमनुत्तमम्॥ ध्रियमाणं शिरोभिस्तु नागैरमितविक्रमैः। दिव्यं दिव्येन वपुषा दिव्यरत्नविभूषितैः॥ तस्मिंस्तु धरणी देवी बाहुभ्यां गृह्य मैथिलीम्। स्वागतेनाभिनन्द्यैनामासने चोपवेशयत्॥ तामासनगतां दृष्ट्वा प्रविशन्ती रसातलम्। पुष्पवृष्टिरविच्छिन्ना दिव्या सीतामवाकिरत्॥ साधुकारश्च सुमहान्देवानां सहसोत्थितः। साधुसाध्विति वै सीते यस्यास्ते शीलमीदृशम्।।२१ एवं बहुविधा वाचो ह्यन्तरिक्षगताः सुराः। व्याजहुर्राष्टमनसो दृष्ट्वा सीताप्रवेशनम्॥ यज्ञवाटगताश्चापि मुनयः सर्व एव ते। राजानश्च नरव्याघ्रा विस्मयानोपरेमिरे॥ अन्तरिक्षे च भूमौ च सर्वे स्थावरजङ्गमाः। दानवाश्च महाकायाः पाताले पनगाधिपाः॥ केचिद्विनेदुः संहृष्टाः केचिद्ध्यानपरायणाः। केचिद्रामं निरीक्षन्ते केचित्सीतामचेतसः॥ सीताप्रवेशनं दृष्ट्वा तेषामासीत्समागमः। तन्मुहूर्तमिवात्यर्थं समं संमोहितं जगत्॥ रसातलं प्रविष्टायां वैदेह्यां सर्ववानराः। चुक्रुशुः साधुसाध्वीति मुनयो रामसंनिधौ॥ दण्डकाष्ठमवष्टभ्य बाष्पव्याकुलितेक्षणः। अवाक्शिरा दीनमना रामो ह्यासीत्सुदुःखितः॥ स रुदित्वा चिरं कालं बहुशो बाष्पमुत्सृजन्। क्रोधशोकसमाविष्टो रामो वचनमब्रवीत्॥ अभूतपूर्वं शोकं मे मनः स्पष्टुमिवेच्छति। पश्यतो मे यथा नष्टा सीता श्रीरिव रूपिणी॥ सादर्शनं पुरा सीता लङ्का पारे महोदधेः। ततश्चापि मयानीता किं पुनर्वसुधातलात्॥ वसुधे देवि भवति सीता निर्यात्यतां मम। दर्शयिष्यामि वा रोषं यथा मामवगच्छसि॥ कामं श्वश्रूर्ममैव त्वं त्वत्सकाशात्तु मैथिली। कर्षता फालहस्तेन जनकेनोद्धृता पुरा ।७।। तस्मानिर्यात्यतां सीता विवरं वा प्रयच्छ मे। पाताले नाकपृष्ठे वा वसेयं सहितस्तया॥ आनय त्वं हि तां सीतां मत्तोऽहं मैथिलीकृते। न मे दास्यसि चेत्सीतां यथारूपां महीतले।।९ सपर्वतवनां कृत्स्नां व्यथयिष्यामि ते स्थितिम्। नाशयिष्याम्यहं भूमिं सर्वमापो भवन्त्विह॥ एवं ब्रुवाणे काकुत्स्थे क्रोधशोकसमन्विते। ब्रह्मा सुरगणैः सार्धमुवाच रघुनन्दनम्॥ राम राम न संतापं कर्तुमर्हसि सुव्रत। स्मर त्वं पूर्वकं भावं मन्त्रं चामित्रकर्शन॥ न खलु त्वां महाबाहो स्मारयेयमनुत्तमम्। इमं मुहूर्त दुर्धर्ष स्मर त्वं जन्म वैष्णवम् ॥ सीता हि विमला साध्वी तव पूर्वपरायणा। नागलोकं सुखं प्रायात्त्वदाश्रयतपोबलात्॥ स्वर्गे ते संगमो भूयो भविष्यति न संशयः। अस्यास्तु परिषन्मध्ये यद्ब्रवीमि निबोध तत्॥ एतदेव हि काव्यं ते काव्यानामुत्तमं श्रुतम्। सर्व विस्तरतो राम व्याख्यास्यति न संशयः॥ जन्मप्रभृति ते वीर सुखदुःखोपसेवनम्। भविष्यदुत्तरं चेह सर्वं वाल्मीकिना कृतम्॥ आदिकाव्यमिदं राम त्वयि सर्वं प्रतिष्ठितम्। नह्यन्योऽर्हति काव्यानां यशोभाग्राघवादृते॥ श्रुतं ते पूर्वमेतद्धिमया सर्वं सुरैः सह। दिव्यमद्भुतरूपं च सत्यवाक्यमनावृतम्॥ स त्वं पुरुषशार्दूल धर्मेण सुसमाहितः। शेषं भविष्यं काकुत्स्थ काव्यं रामायणं शृणु।२० उत्तरं नाम काव्यस्य शेषमत्र महायशः। तच्छृणुष्व महातेज ऋषिभिः सार्धमुत्तमम्॥ न खल्वन्येन काकुत्स्थ श्रोतव्यमिदमुत्तमम्। परमऋषिणा वीर त्वयैव रघुनन्दन॥ एतावदुक्त्वा वचनं ब्रह्मा त्रिभुवनेश्वरः। जगाम त्रिदिवं देवो देवैः सह सबान्धवैः॥ ये च तत्र महात्मान ऋषयो ब्राह्मलौकिकाः। ब्रह्मणा समनुज्ञाता न्यवर्तन्त महौजसः॥ उत्तरं श्रोतुमनसो भविष्यं यच्च राघवे। ततो रामः शुभां वाणी देवदेवस्य भाषिताम्॥ श्रुत्वा परमतेजस्वी वाल्मीकिमिदमब्रवीत्। भगवश्रोतुमनस ऋषयो ब्राह्मलौकिकाः॥ भविष्यदुत्तरं यन्मे श्वोभूते संप्रवर्तताम्। एवं विनिश्चयं कृत्वा संप्रगृह्य कुशीलवौ॥ तं जनौघं विसृज्याथ पर्णशालामुपागमत्। तामेव शोचतः सीतां सा व्यतीता च शर्वरी॥ रजन्यां तु प्रभातायं समानीय महामुनीन्। गीयतामविशङ्काभ्यां रामः पुत्रावुवाच ह॥ ततः समुपविष्टेषु महर्षिषु महात्मसु। भविष्यदुत्तरं काव्यं जगतुस्तौ कुशीलवौ॥ प्रविष्टायां तु सीतायां भूतलं सत्यसंपदा। तस्यावसाने यज्ञस्य रामः परमदुर्मनाः॥ अपश्यमानो वैदेहीं मेने शून्यमिदं जगत्। शोकेन परमायस्तो न शान्ति मनसागमत्॥ विसृज्य पार्थिवान्सर्वानृक्षवानरराक्षसान्। जनौघं विप्रमुख्यानां वित्तपूर्वं विसृज्य च॥ ततो विसृज्य तान्सर्वान्रामो राजीवलोचनः। हृदि कृत्वा सदा सीतामयोध्यां प्रविवेश ह॥ न सीतायाः परां भार्यां ववे स रघुनन्दनः। यज्ञे यज्ञे च पल्यर्थं जानकी काञ्चनीभवत्॥ दशवर्षसहस्राणि वाजिमेधानथाकरोत्। वाजपेयान्दशगुणांस्तथा बहुसुवर्णकान्।।।। अग्निष्टोमातिरावाभ्यां गोसवैश्च महाधनैः। ईजे क्रतुभिरन्यैश्च स श्रीमानाप्तदक्षिणैः॥ एवं स कालः सुमहानराज्यस्थस्य महात्मनः। धर्मे प्रयतमानस्य व्यतीयाद्राघवस्य च ॥ ऋक्षवानररक्षांसि स्थिता रामस्य शासने। अनुरञ्जन्ति राजानो ह्यहन्यहनि राघवम्॥ काले वर्षति पर्जन्यः सुभिक्षं विमला दिशः। हृष्टपुष्टजनाकीर्णं पुरं जनपदास्तथा॥ नाकाले म्रियते कश्चिन्न व्याधिः प्राणिनां तथा। नानर्थो विद्यते कश्चिद्रामे राज्यं प्रशासति॥ अथ दीर्घस्य कालस्य राममाता यशस्विनी। पुत्रपौत्रैः परिवृता कालधर्ममुपागमत्॥ अन्वियाय सुमित्रा च कैकेयी च यशस्विनी। धर्मं कृत्वा बहुविधं त्रिदिवे पर्यवस्थिता॥ सर्वाः प्रमुदिताः स्वर्गे राज्ञा दशरथेन च। समागता महाभागाः सर्वधर्म च लेभिरे॥ तासां रामो महादानं काले काले प्रयच्छति। मातृणामविशेषेण ब्राह्मणेषु तपस्विषु॥ पित्र्याणि ब्रह्मरत्नानि यज्ञान्परमदुस्तरान्। चकार रामो धर्मात्मा पितृन्देवान्विवर्धयन्॥ एवं वर्षसहस्राणि बहून्यथ ययुः सुखम्। यज्ञैर्बहुविधं धर्म वर्धयानस्य सर्वदा॥ कस्यचित्त्वथ कालस्य रामे धर्मपरे स्थिते। कालस्तापसरूपेण राजद्वारमुपागमत्॥ दूतो ह्यतिबलस्याहं महर्षेरमितौजसः। रामं दिदृक्षुरायातः कार्येण हि महाबलः॥ तस्य तद्वचनं श्रुत्वा सौमित्रिस्त्वरयान्वितः। न्यवेदयत रामाय तापसं तं समागतम्॥ जयस्व राजधर्मेण उभौ लोकौ महाद्युते। दूतस्त्वां द्रष्टुमायातस्तपसा भास्करप्रभः॥ तद्वाक्यं लक्ष्मणोक्तं वै श्रुत्वा राम उवाच ह। प्रवेश्यतां मुनिस्तात महौजास्तस्य वाक्यधृक् ॥ सौमित्रिस्तु तथेत्युक्त्वा प्रावेशयत तं मुनिम्। ज्वलन्तमेव तेजोभिः प्रदहन्तमिवांशुभिः॥ सोऽभिगम्य रघुश्रेष्ठं दीप्यपानं स्वतेजसा। ऋषिर्मधुरया वाचा वर्धस्वेत्याह राघवम्॥ तस्मै रामो महातेजाः पूजामर्थ्यपुरोगमाम्। ददौ कुशलमव्यग्रं प्रष्टुं चैवोपचक्रमे॥ पृष्टश्च कुशलं तेन रामेण वदतां वरः। आसने काश्चने दिव्ये निषसाद महायशाः॥ तमुवाच ततो रामः स्वागतं ते महामते। प्रापयास्य च वाक्यानि यतो दूतस्त्वमागतः॥ चोदितो राजसिंहेन मुनिर्वाक्यमभाषत। द्वन्द्वे ह्येतत्प्रवक्तव्यं हितं वै यद्यवेक्षसे॥ यः शृणोति निरीक्षेद्वा स वध्यो भविता तव। भवेद्वै मुनिमुख्यस्य वचनं यद्यवेक्षसे॥ तथेति च प्रतिज्ञाय रामो लक्ष्मणमब्रवीत्। द्वारि तिष्ठ महाबाहो प्रतिहारं विसर्जय॥ स मे वध्यः खलु भवेद्वाचं द्वन्द्वसमीरितम्। ऋषेर्मम च सौमित्रे पश्येद्वा शृणुयाच्च यः॥ ततो निक्षिप्य काकुत्स्थो लक्ष्मणं द्वारि संग्रहम्। तमुवाच मुने वाक्यं कथयस्वेति राघवः॥ तत्ते मनीषितं वाक्यं येन वासि समाहितः। कथयस्वाविशङ्कस्त्वं ममापि हृदि वर्तते॥ विसृज्य लक्ष्मणं रामो दुःखशोकसमन्वितः। पुरोधसो मन्त्रिणश्च नैगमांश्चैदमब्रवीत्॥ अद्य राज्येऽभिषेक्ष्यामि भरतं धर्मवत्सलम्। अयोध्यायाः पतिं वीरं ततो यास्याम्यहं वनम्॥ प्रवेशयत संभारान्माभूत्कालात्ययो यथा। अद्यैवाहं गमिष्यामि लक्ष्मणेन गतां गतिम्॥ तच्छ्रुत्वा राघवेणोक्तं सर्वाः प्रकृतयो भृशम्। मूर्धभिः प्रणता भूमौ गतसत्त्वा इवाभवन्॥ भरतश्च विसंज्ञोऽभूच्छुत्वा राघवभाषितम्। राज्यं विगर्हयामास वचनं चेदमब्रवीत्॥ सत्येनाहं शपे राजन्स्वर्गभोगेन चैव हि। न कामये यता राज्यं त्वां विना रघुनन्दन॥ इमौ कुशीलवौ राजननभिषिच्य नराधिप। कोशलेषु कुशं वीरमुत्तरेषु तथा लवम्॥ शत्रुघ्नस्य च गच्छन्तु दूतास्त्वरितविक्रमाः। इदं गमनमस्माकं शीघ्रमाख्यातु मा चिरम्।८।। तच्छ्रुत्वा भरतेनोक्तं दृष्ट्वा चापि ह्यधोमुखान्। पौरान्दुःखेन संतप्तान्वसिष्ठो वाक्यमब्रवीत्॥ वत्स राम इमाः पश्य धरणी प्रकृतीर्गताः। ज्ञात्वैषामीप्सितं कार्य मा चैषां विप्रियं कृथाः।।१० वसिष्ठस्य तु वाक्येन उत्थाप्य प्रकृतीजनम्। किं करोमीति काकुत्स्थः सर्वान्वचनमब्रवीत्।।११ ततः सर्वाः प्रकृतयो रामं वचनमब्रुवन्। गच्छन्तमनुगच्छामो यत्र राम गमिष्यसि ॥ पौरेषु यदि ते प्रीतिर्यदि स्नेहो ह्यनुत्तमः। सपुत्रदाराः काकुत्स्थ समं गच्छाम सत्पथम्॥ तपोवनं वा दुर्ग वा नदीमम्भोनिधिं तथा। वयं ते यदि न त्याज्याः सर्वान्नो नय ईश्वर॥ एषा नः परमा प्रीतिरेष नः परमो वरः। हद्गता नः सदा प्रीतिस्तवानुगमने नृप॥ पौराणां दृढभक्तिं च बाढमित्येव सोऽब्रवीत्। स्वकृतान्तं चान्ववेक्ष्य तस्मिन्नहि राघवः॥ कोशलेषु कुशं वीरमुत्तरेषु तथा लवम्। अभिषिच्य महात्मानावुभौ रामः कुशीलवौ॥ अभिषिक्तौ सुतावङ्के प्रतिष्ठाप्य पुरे ततः। रथानां तु सहस्राणि नागानामयुतानि च। दश चाश्वसहस्राणि एकैकस्य धनं ददौ॥ बहुरत्नौ बहुधनौ हृष्टपुष्टजनाश्रयौ। स्वे पुरे प्रेषयामास भ्रातरौ तौ कुशीलवौ॥ अभिषिच्य ततो वीरौ प्रस्थाप्य स्वपुरे तदा। दूतान्संप्रेषयामास शत्रुघ्नाय महात्मने॥ प्रभातायां तु शर्वर्या-पृथुवक्षा महायशाः। रामः कमलपत्राक्षः पुरोधसमथाब्रवीत्॥ अग्निहोत्रं व्रजत्वग्रे दीप्यमानं सह द्विजैः। वाजपेयातपत्रं च शोभमानं महापथे॥ ततो वसिष्ठस्तेजस्वी सर्व निरवशेषतः। चकार विधिवद्धर्म माहाप्रस्थानिक विधिम्॥ ततः सूक्ष्माम्बरधरो ब्रह्ममावर्तयन्परम्। कुशान्गृहीत्वा पाणिभ्यां सरयूं प्रययावथ॥ अव्याहरन्क्वचित्किचिनिश्चेष्टो निःसुखः पथि। निर्जगाम गृहात्तस्माद्दीप्यमानो यथांशुमान्॥ रामस्य दक्षिणे पार्श्वे पद्मा श्रीः समुपाश्रिता। सव्येऽपि च मही देवी व्यवसायस्तथाग्रतः॥ शरा नानाविधाश्चापि धनुरायत्तमुत्तमम्। तथायुधाश्च ते सर्वे ययुः पुरुषविग्रहाः।७।। वेदा ब्राह्मणरूपेण गायत्री सर्वरक्षिणी। ओङ्कारोऽथ वषट्कारः सर्वे राममनुव्रताः॥ ऋषयश्च महात्मानः सर्व एव महीसुराः। अन्वगच्छन्महात्मानं स्वर्गद्वारमपावृतम्॥ तं यान्तमनुगच्छन्ति ह्यन्तःपुरचराः स्त्रियः। सवृद्धबालदासीकाः सवर्षवरकिंकराः॥ सान्तःपुरश्च भरतः शत्रुघ्नसहितो ययौ। रामं गतिमुपागम्य साग्निहोत्रमनुव्रताः॥ ते च सर्वे महात्मानः साग्निहोत्राः समागताः। सपुत्रदाराः काकुत्स्थमनुजग्मुर्महामतिम्॥ मन्त्रिणो भृत्यवर्गाश्च सपुत्रपशुबान्धवाः। सर्वे सहानुगा राममन्वगच्छन्प्रहृष्टवत्॥ ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः। गच्छन्तमनुगछन्ति राघवं गुणरञ्जिताः॥ ततः सस्त्रीपुमांसस्ते सपक्षिपशुबान्धवाः। राघवस्यानुगाः सर्वे हृष्टा विगतकल्मषाः॥ स्नाताः प्रमुदिताः सर्वे हृष्टपुष्टाश्च वानराः। दृढं किलकिलाशब्दैः सर्वं राममनुव्रतम्॥ न तत्र कश्चिद्दीनो वा ब्रीडितो वापि दुःखितः। हृष्टं समुदितं सर्वं बभूव परमाद्भुतम्॥ द्रष्टकामोऽथ निर्यान्तं रामं जानपदो जनः। यः प्राप्तः सोपिऽ दृष्ट्वैव स्वर्गायानुगतो जनः।।१८ ऋक्षवानररक्षांसि जनाश्च पुरवासिनः। आगच्छन्परया भक्त्या पृष्ठतः सुसमाहिताः॥ यानि भूतानि नगरेऽप्यन्तर्धानगतानि च। राघवं तान्यनुययुः स्वर्गाय समुपस्थितम्॥ यानि पश्यन्ति काकुत्स्थं स्थावराणि चराणि च। सर्वाणि रामगमने अनुजग्मुर्हि तान्यपि॥ नोच्छ्वसत्तदयोध्यायां सुसूक्ष्ममपि दृश्यते। तिर्यग्योनिगताश्चैव सर्वे राममनुव्रताः॥ अध्ययोजनं गत्वा नदी पश्चान्मुखाश्रिताम्। सरयूं पुण्यसलिलां ददर्श रघुनन्दनः॥ तां नदीमाकुलावा सर्वत्रानुसरन्नृपः। आगतः सप्रजो रामस्तं देशं रघुनन्दनः॥ अथ तस्मिन्मुहूर्ते तु ब्रह्मा लोकपितामहः। सर्वैः परिवृतो देवैर्भूषितैश्च महात्मभिः॥ आययौ यत्र काकुत्स्थः स्वर्गाय समुपस्थितः। विमानशतकोटीभिर्दिव्याभिरभिसंवृतः॥ दिव्यतेजोवृतं व्योम ज्योतिर्भूतमनुत्तमम्। स्वयंप्रभैः स्वतेजोभिः स्वर्गिभिः पुण्यकर्मभिः॥ पुण्या वाता ववुश्चैव गन्धवन्तः सुखप्रदाः। पपात पुष्पवृष्टिश्च देवैर्मुक्ता महौघवत्॥ तस्मिंस्तूर्यशतैः कीर्णे गन्धर्वाप्सरसंकुले। सरयूसलिलं रामः पद्भ्यां समुपचक्रमे॥ ततः पितामहो वाणी त्वन्तरिक्षादभाषत। आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तोऽसि राघव।।। भ्रातृभिः सह देवाभैः प्रविशस्व स्विकां तनुम्। यामिच्छसि महाबाहो तां तनुं प्रविश स्विकाम्।।९ वैष्णवीं तां महातेजो यद्वाकाशं सनातनम्। त्वं हि लोकगतिर्देव न त्वां केचित्प्रजानते॥ ऋते मायां विशालाक्षीं तव पूर्वपरिग्रहाम्। त्वामचिन्त्यं महद्भूतमक्षयं चाजरं तथा। यामिच्छसि महातेजस्तां तनुं प्रविश स्वयम्॥ पितामहवचः श्रुत्वा विनिश्चित्य महामतिः। विवेश वैष्णवं तेजः सशरीरः सहानुजः॥ ततो विष्णुमयं देवं पूजयन्ति स्म देवताः। साध्या मरुद्गणाश्चैव सेन्द्राः साग्निपुरोगमाः॥ ये च दिव्या ऋषिगणा गन्धर्वाप्सरसश्च याः। सुपर्णनागयक्षाश्च दैत्यदानवराक्षसाः॥ सर्व पुष्टं प्रमुदितं सुसंपूर्णमनोरथम्। साधुसाध्विति तैर्देवैत्रिदिवं गतकल्मषम्॥ अथ विष्णुर्महातेजाः पितामहमुवाच ह। एषां लोकं जनौघानां दातुमर्हसि सुव्रत॥ इमे हि सर्वे स्नेहान्मामनुयाता यशस्विनः। भक्ता हि भजितव्याश्च त्यक्तात्मानश्च मत्कृते॥ तच्छ्रुत्वा विष्णुवचनं ब्रह्मा लोकगुरुः प्रभुः। लोकान्संतानकानाम यास्यन्तीमे समागताः॥ यच्च तिर्यग्गतं किंचित्त्वामेवमनुचिन्तयत्। प्राणांस्त्यक्ष्यति भक्त्या तत्संतानेषु निवत्स्यति॥ सर्वैर्ब्रह्मगुणैर्युक्ते ब्रह्मलोकादनन्तरे। वानराश्च स्विकां योनिमृक्षाश्चैव तथा ययुः॥ येभ्यो विनिःसृताः सर्वे सुरेभ्यः सुरसंभवाः। तेषु प्रविविशे चैव सुग्रीवः सूर्यमण्डलम्॥ पश्यतां सर्वदेवानां स्वान्पितॄन्प्रतिपेदिरे। तथा ब्रुवति देवेश गोप्रतारमुपागताः।२२॥ भेजिरे सरयूं सर्वे हर्षपूर्णाश्रुविक्लवाः। अवगाह्याप्सु यो यो वै प्राणांस्त्यक्त्वा प्रहृष्टवत्॥ मानुषं देहमुत्सृज्य विमानं सोध्यरोहत। तिर्यग्योनिगतानां च शतानि सरयूजलम्॥ संप्राप्य त्रिदिवं जग्मुः प्रभासुरवपूंषि तु। दिव्या दिव्येन वपुषा देवा दीप्ता इवाभवन्।॥ गत्वा तु सरयूतोयं स्थावराणि चराणि च। प्राप्य तत्तोयविक्लेदं देवलोकमुपागमन्॥ तस्मिन्येऽपि समापन्ना ऋक्षवानरराक्षसाः। तेऽपि स्वर्ग प्रविविशुदेहानिक्षिप्य चाम्भसि ।।२७ ततः समागतान्सर्वान्स्थाप्य लोकगुरुर्दिवि। हृष्टैः प्रमुदितैर्देवैर्जगाम त्रिदिवं महत्॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवी सरस्वतीं चैव ततो जयमुदीरयेत्॥ लोमहर्षणपुत्र उग्रश्रवाः सौतिः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्दादशवार्षिक सत्रे॥ सुखासीनानभ्यगच्छद्ब्रह्मर्षीन् संशितव्रतान्। विनयावनतो भूत्वा कदाचित् सूतनन्दनः॥ तमाश्रममनुप्राप्तं नैमिषारण्यवासिनाम्। चित्राः श्रोतुं कथास्तत्र परिवस्तपस्विनः॥ अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः। अपृच्छत् स तपोवृद्धिं सद्भिश्चैवाभिपूजितः॥ अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु। निर्दिष्टमासनं भेजे विनयाल्लौमहर्षणिः॥ सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च। अथापृच्छदृषिस्तत्र कश्चित् प्रस्तावयन् कथाः॥ कुत आगम्यते सौते क्व चायं विहतस्त्वया। कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम॥ एवं पृष्टोऽब्रवीत् सम्यग् यथावल्लौमहर्षणिः। वाक्यं वचनसंपन्नस्तेषां च चरिताश्रयम्॥ तस्मिन् सदसि विस्तीर्णे मुनीनां भावितात्मनाम्। सौतिरुवाच जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः॥ समीपे पार्थिवेन्द्रस्य सम्यक् पारिक्षितस्य च। कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः॥ कथिताश्चापि विधिवद् या वैशम्पायनेन वै। श्रुत्वाऽहं ता विचित्रार्था महाभारतसंश्रिताः॥ बहूनि संपरिक्रम्य तीर्थान्यायतनानि च। समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम्॥ गतवानस्मि तं देशं युद्धं यत्राभवत् पुरा! कुरूणां-पाण्डवानां च सर्वेषां च महीक्षिताम्॥ दिदृक्षुरागतस्तस्मात् समीपं भवतामिह। आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः। अस्मिन् यज्ञे महाभागाः सूर्यपावकवर्चसः॥ कृताभिषेकाः शुचयः कृतजप्याहुताग्नयः। भवन्त आसने स्वस्था ब्रवीमि किमहं द्विजाः॥ पुराणसंहिताः पुण्याः कथा धर्मार्थसंश्रिताः। इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम्॥ ऋषय ऊचुः द्वैपायनेन यत् प्रोक्तं पुराणं परमर्षिणा। सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम्॥ तस्याख्यानवरिष्ठस्य विचित्रपदपर्वण: सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च॥ भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम्। संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम्॥ जनमेजयस्य यां राज्ञो वैशंपायन उक्तवान्। यथावत् स ऋषिस्तुष्ट्या सत्रे द्वैपायनाज्ञया।॥ वेदैश्चतुर्भिः संयुक्तां व्यासस्याद्भुतकर्मणः। संहितां श्रोतुमिच्छामो ध` पापभयापहाम्॥ सौतिरुवाच आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम्। ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम्॥ असच्चसदसच्चैव यद् विश्वं सदसत्परम्। परावराणां स्रष्टारं पुराणं परमव्ययम्॥ मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम्। नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम्॥ महर्षेः पूजितस्येह सर्वलोकैर्महात्मनः। प्रवक्ष्यामि मतं पुण्यं व्यासस्याद्भुतकर्मणः॥ आचख्युः कवयः केचित् संप्रत्याचक्षते परे। आख्यास्यन्ति तथैवान्ये इतिहासमिमं भुवि॥ इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम्। विस्तरैश्च समासैश्च धार्यते यद्विजातिभिः॥ अलंकृतं शुभैः शब्दैः समयैर्दिव्यमानुषैः। छन्दोवृत्तैश्च विविधैरन्वितं विदुषां प्रियम्॥ निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते। बृहदण्डमभूदेकं प्रजानां बीजमयव्यम्॥ युगस्यादौ निमित्तं तन्महद्दिव्यं प्रचक्षते। यस्मिन् श्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम्॥ अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां गतम्। अव्यक्तं कारणं सूक्ष्मं यत्तत् सदसदात्मकम्॥ यस्मात् पितामहो जज्ञे प्रभुरेकः प्रजापतिः। ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ॥ प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्त वै। ततः प्रजानां पतयः प्राभवन्नेकविंशतिः॥ पुरुषश्चाप्रमेयात्मा यं सर्वऋषयो विदुः। विश्वेदेवास्तथादित्या वसवोथाश्विनावपि॥ यक्षा: साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा। ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षि-सत्तमाः॥ राजर्षयश्च बहवः सर्वैः समुदिता गुणैः। आपो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तथा॥ संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात्। यच्चान्यदपि तत्सर्वं संभूतं लोकसाक्षिकम्॥ यदिदं दृश्यते किंचिद्भूतं स्थावरजंगमम्। पुनः संक्षिप्यते सर्वं जगत्प्राप्ते युगक्षये॥ यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये। दृश्यन्ते तानि तान्येव तथा भावा युगादिषु॥ एवमेतदनाद्यन्तं भूतसंहारकारकम्। अनादिनिधनं लोके चक्रं संपरिवर्तते॥ त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च। त्रयस्त्रिंशच्च देवानां सृष्टिः संक्षेपलक्षणा॥ दिवःपुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः। सविता स ऋचीकोऽर्को भानुराशावहो रविः॥ पुरा विवस्वत: सर्वे मह्यस्तेषां तथावरः। देवभ्राट् तनयस्तस्य सुभ्राडिति ततः स्मृतः॥ सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः। दशज्योतिः शतज्योतिः सहस्रज्योतिरेव च।॥ दशपुत्रसहस्राणि दशज्योतेर्महात्मनः। ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः॥ भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः। तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च॥ ययातीक्ष्वाकुवंशश्च राजर्षीणां च सर्वशः। संभूता बहवो वंशा भूतसर्गाः सुविस्तराः॥ भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत्। वेदा योग: सविज्ञानो धर्मोऽर्थः काम एव च॥ धर्मकामार्थयुक्तानि शास्त्राणि विविधानि च। लोकयात्राविधानं च सर्वं तदृष्टवानृषिः॥ इतिहासाः सवैयाख्या विविधाः श्रुतयोऽपि च। इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम्॥ विस्तीर्यैतन्महज्ज्ञानमृषिः संक्षिप्य चाब्रवीत्। इष्टं हि विदुषां लोके समासव्यासधारणम्॥ मन्वादि भारतं केचिदास्तीकादि तथापरे। तथोपरिचराद्यन्ये विप्राः सम्यगधीयते॥ विविधं संहिताज्ञानं दीपयन्ति मनीषिणः। व्याख्यातुं कुशलाः केचिद्ग्रन्थान्धारयितुं परे।५३। तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम्। इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः॥ पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः। तदाख्यानवरिष्ठं स कृत्वा द्वैपायनः प्रभुः॥ कथमध्यापयानीह शिष्यानित्यन्वचिन्तयत्। तस्य तच्चिन्तितं ज्ञात्वा ऋषेद्वैपायनस्य च।॥ तत्राजगाम भगवान्ब्रह्मा लोकगुरुः स्वयम्। प्रीत्यर्थं तस्य चैवर्षेर्लोकानां हितकाम्यया॥ तं दृष्ट्वा विस्मितो भूत्वा प्राञ्जलिः प्रणत: स्थितः। आसनं कल्पयामास सर्वैर्मुनिगणैर्वृतः॥ हिरण्यगर्भमासीनं तस्मिस्तु परमासने। परिवृत्यासनाभ्यासे वासवेयः स्थितोऽभवत्॥ अनुज्ञातोऽथ कृष्णस्तु ब्रह्मणा परमेष्ठिना। निषसादासनाभ्यासे प्रीयमाणः शुचिस्मितः॥ उवाच स महातेजा ब्रह्माणं परमेष्ठिनम्। कृतं मयेदं भगवान्काव्यं परमपूजितम्॥ ब्रह्मवेदरहस्यं च यच्चान्यत्स्थापितं मया। साङ्गोपनिषदां चैव वेदानां विस्तरक्रिया॥ इतिहासपुराणानामुन्मेषं निर्मितं च यत्। भूतं भव्यं भविष्यं च त्रिविधं कालसंज्ञितम्॥ जरामृत्युभयव्याधिभावाभावविनिश्चयः। विविधस्य च धर्मस्य ह्याश्रमाणां च लक्षणम्॥ चातुर्वर्ण्यविधानं च पुराणानां च कृत्स्नशः। तपसो ब्रह्मचर्यस्य पृथिव्याश्चन्द्रसूर्ययोः॥ ग्रहनक्षत्रताराणां प्रमाणं च युगैः सह। ऋचो यजूंषि सामानि वेदाध्यात्म तथैव च॥ न्यायशिक्षा चिकित्सा च दानं पाशुपतं तथा। हेतुनैव समं जन्म दिव्यमानुषसंज्ञितम्॥ तीर्थानां चैव पुण्यानां देशानां चैव कीर्तनम्। नदीनां पर्वतानां च वनानां सागरस्य च॥ पुराणां चैव दिव्यानां कल्पानां युद्धकौशलम्। वाक्यजातिविशेषाश्च लोकयात्राक्रमश्च यः॥ यच्चापि सर्वं वस्तु तच्चैव प्रतिपादितम्। परं न लेखकः कश्चिदेतस्य भुवि विद्यते॥ ब्रह्मोवाच तपोविशिष्टादपि वै विशिष्टान्मुनिसंचयात्। मन्ये श्रेष्ठतरं त्वां वै रहस्यज्ञानवेदनात्॥ जन्मप्रभृति सत्यां ते वेदि गां ब्रह्मवादिनीम्। त्वया च काव्यमित्युक्तं तस्मात्काव्यं भविष्यति॥ अस्य काव्यस्य कवयो न समर्था विशेषणे। विशेषणे गृहस्थस्य शेषास्त्रय इवाश्रमाः॥ काव्यस्य लेखानार्थाय गणेशः स्मर्यतां मुने। सौतिरुवाच एवमाभाष्य तं ब्रह्मा जगाम स्वं निवेशनम्॥ ततः सस्मार हेरम्बं व्यासः सत्यवतीसुतः। स्मृतमात्रो गणेशानो भक्तचिन्तितपूरकः॥ तत्राजगाम विघ्नेशो वेदव्यासो यतः स्थितः। पूजितश्चोपविष्टश्च व्यासेनोक्तस्तदाऽनघ॥ लेखको भारतस्यास्य भव त्वं गणनायक। मयैव प्रोच्यमानस्य मनसा कल्पितस्य च॥ श्रुत्वैतत्प्राह विनेशो यदि मे लेखनी क्षणम्। लिखितो नावतिष्ठेत तदा स्यां लेखको ह्यहम्॥ व्यासोऽप्युवाच तं देवमबुद्ध्वा मा लिख क्वचित्। ओमित्युक्त्वा गणेशोऽपि बभूव किल लेखकः॥ ग्रन्थग्रन्थि तदा चक्रे मुनिगूढं कुतूहलात्। यस्मिन्प्रतिज्ञया प्राह मुनिद्वैपायनस्त्विदम्॥ अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च। अहं वेद्मि शुको वेत्ति संजयो वेत्ति वा न वा॥ तच्छ्लोककूटमद्यापि ग्रथितं सुदृढं मुने। भेत्तुं न शक्यतेऽर्थस्य गूढत्वात्प्रश्रितस्य च॥ सर्वज्ञोऽपि गणेशो यत् क्षणमास्ते विचारयन्। तावच्चकार व्यासोऽपि श्लोकानन्यान्बहूनपि॥ ८३। अज्ञानतिमिरान्धस्य लोकस्य तु विचेष्टतः। ज्ञानाञ्जनशलाकाभिर्नेत्रोन्मीलनकारकम्॥ धर्मार्थकाममोक्षार्थैः समासव्यासकीर्तनैः। तथा भारतसूर्येण नृणां विनिहतं तमः॥ पुराणपूर्णचन्द्रेण श्रुतिज्योत्स्नाः प्रकाशिताः। नृबुद्धिकौरवाणां च कृतमेतत् प्रकाशनम्॥ इतिहासप्रदीपेन मोहावरणघातिना। लोकगर्भगृहं कृत्स्नं यथावत्संप्रकाशितम्॥ संग्रहाध्यायबीजो वै पौलोमास्तीकमूलवान्। संभवस्कन्धविस्तार: सभारण्यविटङ्कवान्॥ अरणीपर्वरूपाढ्यो विराटोद्योगसारवान्। भीष्मपर्वमहाशाखो द्रोणपर्वपलाशवान्॥ कर्णपर्वसितैः पुष्पैः शल्यपर्वसुगन्धिभिः। स्त्रीपर्वैषीकविश्रामः शान्तिपर्वमहाफलः॥ अश्वमेधामृतरसस्त्वाश्रमस्थानसंशयः। मौशल: श्रुतिसंक्षेप: शिष्टद्विजनिषेवितः॥ सर्वेषां कविमुख्यानामुपजीव्यो भविष्यति। पर्जन्य इव भूतानामक्षयो भारतद्रुमः॥ सौतिरुवाच तस्य वृक्षस्य वक्ष्यामि शाश्वत्पुष्पफलोदयम्। स्वादुमेध्यरसोपेतमच्छेद्यममरैरपि॥ मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः। क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायन: पुरा॥ त्रीनग्नीनिवकौरव्याञ्जनयामास वीर्यवान्। उत्पाद्य धृतराष्ट्रं च पाण्डु विदुरमेव च॥ जगाम तपसे धीमान्पुनरेवाश्रमं प्रति। तेषु जातेषु वृद्धेषु गतेषु परमां गतिम्॥ अब्रवीद्धारतं लोके मानुषेऽस्मिन्महानृषिः। जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः॥ शशास शिष्यमासीनं वैशंपायनमन्तिके। स सदस्यैः सहासीनः श्रावयामास भारतम्॥ कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः। विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम्॥ क्षत्तुः प्रज्ञां धृति कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत्। वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम्।। दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः। इदं शतसहस्रं तु लोकानां पुण्यकर्मणाम्॥ उपाख्यानैः सह ज्ञेयमाद्यं भारतमुत्तमम्। चतुर्विंशतिसाहस्री चक्रे भारतसंहिताम्॥ उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः। ततोऽप्यर्धशतं भूयः संक्षेपं कृतवानृषिः॥ अनुक्रमणिकाध्यायं वृत्तान्तानां सपर्वणाम्। इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम्॥ ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ विभुः। षष्टिं शतसहस्राणि चकारान्यां स संहिताम्॥१०४। त्रिंशच्छतसहस्रं च देवलोके प्रतिष्ठितम्। पित्र्ये पञ्चदश प्रोक्तं गन्धर्वेषु चतुर्दशः॥ एकं शतसहस्रं तु मानुषेषु प्रतिष्ठितम्। नारदो श्रावयद्देवानसितो देवलः पितॄन्॥ वै गन्धर्वयक्षंरक्षांसि श्रावयामास शुकः। अस्मिंस्तु मानुषे लोके वैशंपायन उक्तवान्। शिष्यो व्यासस्य धर्मात्मा सर्ववेदविदां वरः। एकं शतसहस्रं तु मयोक्तं वै निबोधत॥ दुर्योधनो मन्युमयो महाद्रुमः स्कन्धः कर्णः शकुनिस्तस्य शाखा। दुःशासनः फलपुष्पे समृद्ध मूलं राजा धृतराष्ट्रोऽमनीषी॥ युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनोभीमसेनोऽस्य शाखाः। माद्रीसुतौ पुष्पफले समृद्ध मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च॥ पाण्डुर्जित्वा बहून् देशान् बुद्ध्या विक्रमणेन च। अरण्ये मृगयाशीलो न्यवसन्मुनिभिः सह॥ मृगव्यवायनिधनात्कृच्छ्रां प्राप स आपदम्। जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः॥ मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति। धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्चिनोः॥ तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः। येध्यारण्येषु पुण्येषु महतामाश्रमेषु च॥ ऋषिभिर्यत्तदानीता धार्तराष्ट्रान्प्रति स्वयम्। शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः॥ पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः। पाण्डवा एत इत्युक्त्वा मुनयोन्तर्हितास्ततः॥ तांस्तैर्निवेदितान्दृष्ट्वा पांडवान्कौरवास्तदा। शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम्॥ आहुः केचिन्न तस्यैते तस्यैत इति चापरे। यदा चिरमृतः पाण्डुः कथं तस्येति चापरे॥ स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम संततिम्। उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः॥११८ । तस्मिन्नुपरते शब्दे दिशः सर्वा निनादयन्। अन्तर्हितानां भूतानां नि:स्वनस्तुमुलोऽभवत्॥ पुष्पवृष्टिः शुभा गन्धाः शंखदुन्दुभिनि:स्वनाः। आसन्प्रदेशे पार्थानां तदद्भुतमिवाभवत्॥ तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसंभवः। शब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः॥ तेऽधीत्य निखिलान्वेदाञ्च्छास्त्राणि विविधानि च। न्यवसन्याण्डवास्तत्रपूजिता अकुतोभयाः॥ युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन्। धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च॥ गुरुशुश्रूषया क्षान्त्या यमयोविनयेन च। तुतोष लोकः सकलस्तेषां शौर्यगुणेन च॥ ममवाये ततो राज्ञां कन्यां भर्तु स्वयंवराम्। प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम्॥१२५। तत:प्रभृति लोकेस्मिन्पूज्यः सर्वधनुष्मताम्। आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत्॥ स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतोगणान्। आजहारार्जुनो राज्ञो राजसूयं महाक्रतुम्॥ अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः। युधिष्ठिरेण संप्राप्तोराजसूयो महाक्रतुः॥ सुनयाद्वासुदेवस्य भीमार्जुनबलेन च। घातयित्वा जरासन्धं चैद्यं च बलगर्वितम्॥ दुर्योधनं समागच्छन्नर्हणानि ततस्ततः। मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च॥ विचित्राणि च वासांसि प्रावारावरणानि च। कम्बलाजिनरत्नानि राङ्कवास्तरणानि च॥ समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम्। ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत॥ विमानप्रतिमां तत्र मयेन सुकृतां सभाम्। पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत॥ तत्रावहसितश्चासीत्प्रस्कन्दन्निव संभ्रमात्। प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत्॥ स भोगान्विविधाम्भुञ्जन् रत्नानि विविधानि च। कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः॥ अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः। तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान्॥ नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदत। द्यूतादीननयान्घोरान्विविधांश्चाप्युपैक्षत॥ निरस्य विदुरं भीष्मं द्रोणं शारद्वतं कृपम्। विग्रहे तुमुले तस्मिन्दहन्क्षत्रं परस्परम्॥ जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम्। दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस्तथा॥ धृतराष्ट्रश्चिरं ध्यात्वा संजयं वाक्यमब्रवीत्। शृणु संजय सर्वं मे न चासूयितुमर्हसि॥ श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः। न विग्रहे मम मतिर्न च प्रीये कुलक्षये॥ न मे विशेष: पुत्रेषु स्वेषु पाण्डुसुतेषु वा। वृद्ध मामभ्यसूयन्ति पुत्रा मन्युपरायणाः॥ अहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत्। मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम्॥ राजसूये श्रियं दृष्ट्वा पांडवस्य महौजसः। तच्चावहसनं प्राप्य समारोहणदर्शने॥ अमर्षणः स्वयं जेतुमशक्तः पाण्डवान् रणे। निरुत्साहश्च संप्राप्तुं सुश्रियं क्षत्रियोऽपि सन्॥ गान्धारराजसहितश्छद्मद्यूतममन्त्रयत्। तत्र यद्यद्यथा ज्ञातं मया संजय तच्छृणु॥ श्रुत्वा तु मम वाक्यानि बुद्धियुक्तानि तत्त्वतः। ततो ज्ञास्यसि मां सौते प्रज्ञाचक्षुषमित्युत॥ यदाश्रौषं धनुरायम्य चित्रं विद्धं लक्ष्यं पतितं वै पृथिव्याम्। कृष्णां हृतां प्रेक्षतां सर्वराज्ञा तदा नाशंसे विजयाय संजय॥ यदाश्रौषं द्वारकायां सुभद्रां प्रसह्योढां माधवीमर्जुनेन। इन्द्रप्रस्थं वृष्णिवीरौ च यातौ तदा नाशंसे विजयाय संजय॥ यदाश्रौषं देवराजं प्रवृष्टं शरैर्दिव्यैर्वारितं चार्जुनेन। अग्नि तथा तर्पितं खाण्डवे च तदा नाशंसे विजयाय संजय॥ मुक्तान्पार्थान्पञ्च कुन्त्या समेतान्। युक्तं चैषां विदुरं स्वार्थसिद्धौ तदा नाशंसे विजयाय संजय॥ यदाश्रौषं द्रौपदी रङ्गमध्ये लक्ष्यं भित्वा निर्जितामर्जुनेन। स्तदा नाशंसे विजयाय संजय॥ यदाश्रौषं मागधानां वरिष्ठं जरासन्धं क्षत्रमध्ये ज्वलन्तम्। दोा हतं भीमसेनेन गत्वा तदा नाशंसे विजयाय संजय॥ वंशीकृताम्भूमिपालान्प्रसह्य। महाक्रतुं राजसूयं कृतं च तदा नाशंसे विजयाय संजय॥ यदाश्रौषं द्रौपदीमश्रुकण्ठी सभां नीतां दुःखितामेकवस्त्राम्। त्तदा नाशंसे विजयाय संजय॥ यदाश्रौषं वाससां तत्र राशि समाक्षिपत्कितबो मन्दबुद्धिः। दुःशासनो गतवान्नैव चान्तं तदा नाशंसे विजयाय संजय॥ यदाश्रौषं हृतराज्यं युधिष्ठिरं पराजितं सौबलेनाक्षवत्याम्। स्तदा नाशंसे विजयाय संजय॥ यदाश्रौषं विविधास्तत्र चेष्टा धर्मात्मानां प्रस्थितानां वनाय। ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां तदा नाशंसे विजयाय संजय॥ रन्वागतं धर्मराजं वनस्थम्। भिक्षाभुजां ब्राह्मणानां महात्मनां तदा नाशंसे विजयाय संजय॥ यदाश्रौषमर्जुनं देवदेवं किरातरूपं त्र्यम्बकं तोष्य युद्धे। अवाप्तवन्तं पाशुपतं महास्त्रं तदा नाशंसे विजयाय संजय॥ यदाश्रौषं त्रिदिवस्थं धनंजयं शक्रात्साक्षाद्दिव्यमस्त्रं यथावत्। अधीयानं शंसित सत्यसन्धं तदा नाशंसे विजयाय संजय॥ यदाश्रौषं कालकेयास्ततस्ते पौलोमानो वरदानाच्च दृप्ताः। देवैरजेया निर्जिताश्चार्जुनेन तदा नाशंसे विजयाय संजय॥ यदाश्रौषमसुराणां वधार्थे किरीटिनं यान्तममित्रकर्शनम्। कृतार्थे चाप्यागतं शक्रलोकात् तदा नाशंसे विजयाय संजय॥ यदाश्रौषं वैश्रवणेन साधु समागतं भीममन्यांश्च पार्थान्। तस्मिन्देशे मानुषाणामगम्ये तदा नाशंसे विजयाय संजय॥ यदाश्रौषं घोषयात्रागतानां बन्धं गंधर्वैर्मोक्षणं चार्जुनेन। स्वेषां सुतानां कर्णबुद्धौ रतानां तदा नाशंसे विजयाय संजय॥ यदाश्रौषं यक्षरूपेण धर्म समागतं धर्मराजेन सूत। प्रश्नान्कांश्चिद्विब्रुवाणं च सम्यक्। तदा नाशंसे विजयाय संजय॥ यदाश्रौषं न विदुर्मामकास्तान् प्रच्छन्नरूपान्वसतः पाण्डवेयान्। विराटराष्ट्रे सह कृष्णया च तदा नाशंसे विजयाय संजय॥ धनंजयेनैकरथेन भग्नान्। विराटराष्ट्रे वसता महात्मना तदा नाशंसे विजयाय संजय॥ यदाश्रौषं सत्कृतां मत्स्यराज्ञा सुतां दत्तामुत्तरामर्जुनाया तां चार्जुनः प्रत्यगृह्णत्सुतार्थे तदा नाशंसे विजयाय संजय॥ यदाश्रौषं निर्जितस्याधनस्य प्रताजितस्य स्वजनात्प्रच्युतस्या अक्षौहिणीः सप्त युधिष्ठिरस्य तदा नाशंसे विजयाय संजय॥ यदाश्रौषं माधवं वासुदेवं सर्वात्मना पाण्डवार्थे निविष्टम्। स्तदा नाशंसे विजयाय संजय॥ यदाश्रौषं नरनारायणौ तौ कृष्णार्जुनौ वदतो नारदस्या अहं द्रष्टा ब्रह्मलोके च सम्यक् तदा नाशंसे विजयाय संजय॥ यदाश्रौषं लोकहिताय कृष्णं शमार्थिनमुपयातं कुरूणाम्। शमं कुर्वाणमकृतार्थं च यातं तदा नाशंसे विजयाय संजय॥ यदाश्रौषं कर्णदुर्योधनाभ्यां बुद्धिं कृतां निग्रहे केशवस्या तं चात्मानं बहुधा दर्शयानं तदा नाशंसे विजयाय संजय॥ यदाश्रौषं वासुदेवे प्रयाते रथस्यैकामग्रतस्तिष्ठमानाम्। आर्ती पृथां सान्त्वितां केशवेन तदा नाशंसे विजयाय संजय॥ यदाश्रौषं मन्त्रिणं वासुदेवं तथा भीष्मं शान्तनवं च तेषाम्। भारद्वाजं चाशिषोऽनुब्रुवाणं तदा नाशंसे विजयाय संजय॥ यदाश्रौषं कर्ण उवाच वाक्यं नाहं योत्स्ये युध्यमाने त्वयीति। हित्वा सेनामपचक्राम चापि तदा नाशंसे विजयाय संजय॥ यदाश्रौषं वासुदेवार्जुनौ तौ तथा धनुर्गाण्डिवमप्रमेयम्। त्रीण्युग्रवीर्याणि समागतानि तदा नाशंसे विजयाय संजय॥ यदाश्रौषं कश्मलेनाभिपन्ने रथोपस्थे सीदमानेऽर्जुने वै। कृष्णं लोकान्दर्शयानं शरीरे तदा नाशंसे विजयाय संजय॥ यदाश्रौषं भीष्मममित्रकर्शनं निनन्तमाजावयुतं रथानाम्। स्तदा नाशंसे विजयाय संजय॥ यदाश्रौषं चापगेयेन संख्ये स्वयं मृत्यु विहितं धार्मिकेण। स्तदा नाशंसे विजयाय संजय॥ यदाश्रौषं भीष्ममत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम्। शिखण्डिनं पुरतः स्थापयित्वा तदा नाशंसे विजयाय संजय॥ यदाश्रौष शरतल्पे शयानं वृद्धं वीरं सादितं चित्रपुंखैः। स्तदा नाशंसे विजयाय संजय॥ यदाश्रौषं शान्तनवे शयाने पानीयार्थे चोदितेनार्जुनेन। भूमि भित्त्वा तर्पितं तत्र भीष्मं तदा नाशंसे विजयाय संजय॥ यदा वायुश्चन्द्रसूर्यों च युक्ती कौन्तेयानामनुलोमा जयाय। नित्यं चास्माश्वापदा भीषयन्ति तदा नाशंसे विजयाय संजय॥ यदा द्रोणो विविधानस्त्रमार्गान् निदर्शयन् समरे चित्रयोधी। न पाण्डवाञ्च्छ्रेष्ठतरान् निहन्ति तदा नाशंसे विजयाय संजय॥ यदाश्रौषं चास्मदीयान्महारथान् व्यवस्थितानर्जुनस्यान्तकाय। संशप्तकान् निहतानर्जुनेन तदा नाशंसे विजयाय संजय॥ यदाश्रौषं व्यूहमभेद्यमन्यै र्भारद्वाजेनात्तशस्त्रेण गुप्तम्।. भित्त्वा सौभद्रं वीरमेकं प्रविष्ट तदा नाशंसे विजयाय संजय॥ यदाऽभिमन्यु परिवार्य बालं सर्वे हत्वा हृष्टरूपा बभूवुः। महारथाः पार्थमशक्नुवन्त स्तदा नाशंसे विजयाय संजया।१८९॥ यदाश्रौषमभिन्युं निहत्य हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान्। क्रोधादुक्तं सैन्धवे चार्जुनेन तदा नाशंसे विजयाय संजय॥ यदाश्रौषं सैन्धवार्थे प्रतिज्ञा प्रतिज्ञातां तद्वधायार्जुनेन। सत्यां तीर्णां शत्रुमध्ये च तेन तदा नाशंसे विजयाय संजय॥ यदाश्रौषं श्रान्तहये धनंजये मुक्त्वा हयान् पाययित्वोपवृत्तान्। पुनर्युक्त्वा वासुदेवं प्रयातं तदा नाशंसे विजयाय संजय॥ यदाश्रौषं वाहनेष्वक्षमेषु रथोपस्थे तिष्ठता पाण्डवेन। सर्वान् योधान् वारितानर्जुनेन तदा नाशंसे विजयाय संजय॥ यदाश्रौषं नागबलैः सुदुःसहं द्रोणानीकं युयुधानं प्रमथ्य। यातं वार्ष्णेयं यत्र तौ कृष्णपार्थों तदा नाशंसे विजयाय संजय॥ यदाश्रौषं कर्णमासाद्य मुक्तं वधाद्धीमं कुत्सयित्वा वचोभिः। धनुष्कोट्यातुद्य कर्णेन वीरं तदा नाशंसे विजयाय संजय॥ यदा द्रोणः कृतवर्मा कृपश्च कर्णो द्रौणिर्मद्रराजश्च शूरः। अमर्षयन् सैन्धवं वध्यमानं तदा नाशंसे विजयाय संजय॥ यदाश्रौषं देवराजेन दत्तां दिव्यां शक्तिं व्यंसितां माधवेन। घटोत्कचे राक्षसे घोररूपे तदा नाशंसे विजयाय संजय॥ यदाश्रौषं कर्णघटोत्कचाभ्यां युद्धे मुक्तां सूतपुत्रेण शक्तिम्। यया वध्यः समरे सव्यसाची तदा नाशंसे विजयाय संजय॥ यदाश्रौषं द्रोणमाचार्यमेकं धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम्। रथोपस्थे प्रायगतं विशस्तं तदा नाशंसे विजयाय संजय॥ यदाश्रौषं द्रौणिना द्वैरथस्थं माद्रीसुतं नकुलं लोकमध्ये समं युद्धे मण्डलेभ्यश्चरन्तं तदा नाशंसे विजयाय संजय॥ यदा द्रोणे निहते द्रोणपुत्रो नारायणं दिव्यमस्त्रं विकुर्वन्। नैषामन्तं गतवान्पाण्डवानां तदा नाशंसे विजयाय संजया। २०१॥ यदाश्रौषं भीमसेनेन पीतं रक्तं भ्रातुर्युधि दुःशासनस्य। निवारितं नान्यतमेन भीम तदा नाशंसे विजयाय संजय॥ यदाश्रौषं कर्णमत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम्। तस्मिन्भ्रातृणां विग्रहे देवगुह्ये तदा नाशंसे विजयाय संजय॥ यदाश्रौषं द्रोणपुत्रं च शूरं दुःशासनं कृतवर्माणमुग्रम्। युधिष्ठरं धर्मराजं जयन्तं तदा नाशंसे विजयाय संजय॥ यदाश्रौषं निहतं मद्रराज रणे शूरं धर्मराजेन सूत! सदा संग्रामे स्पर्धते यस्तु कृष्णं तदा नाशंसे विजयाय संजय॥ यदाश्रौषं कलहद्यूतमूलं मायाबलं सौबलं पाण्डवेन। हतं संग्रामे सहदेवेन पापं तदा नाशंसे विजयाय संजय॥ यदाश्रौषं श्रान्तमेकं शयानं ह्रदं गत्वा स्तम्भयित्वा तदम्भः। दुर्योधनं विरथं भग्नशक्तिं तदा नाशंसे विजयाय संजय॥ यदाश्रौषं पाण्डवांस्तिष्ठमानान् गत्वा ह्रदे वासुदेवेन सार्धम्। अमर्षणं धर्षयतः सुतं मे तदा नाशंसे विजयाय संजय॥ यदाश्रौषं विविधांश्चित्रमार्गान् गदायुद्धे मण्डलशश्चरन्तम्। मिथ्या हतं वासुदेवस्य बुद्ध्या तदा नाशंसे विजयाय संजय॥ हतान् पञ्चालान् द्रौपदेयांश्च सुप्तान्। कृतं बीभत्समयशस्यं च कर्म तदा नाशंसे विजयाय संजय॥ यदाश्रौषं भीमसेनानुयाते नाश्वत्थाम्ना परमास्त्रं प्रयुक्तम्। क्रुद्धेनैषीकमवधीद्येन गर्भ तदा नाशंसे विजयाय संजय॥ यदाश्रौषं ब्रह्मशिरोऽर्जुनेन स्वस्तीत्युक्त्वाऽस्त्रमस्त्रेण शान्तम्। अश्वत्थाम्नामणिरत्नं च दत्तं तदा नाशंसे विजयाय संजय॥ यदाश्रौषं द्रोगापुत्रेण गर्भे वैराटया वै पात्यमाने महास्त्रैः। द्वैपायन: केशवो द्रोणपुत्रं परस्परेणाभिशापैः :: शशाप॥ शोच्या गान्धारी पुत्रपौत्रैविहीना तथा बन्धुभिः पितृभिर्धातृभिश्च। कृतं कार्यं दुष्करं पाण्डवेयैः प्राप्तं राज्यमसपत्नं पुनस्तैः॥ कष्टं युद्धे दश शेषाः श्रुता मे त्रयोऽस्माकं पाण्डवानां च सप्त। ह्यूना विंशतिराहताऽक्षौहिणीनां तस्मिन् संग्रामे भैरवे क्षत्रियाणाम्॥ तमस्त्वतीव विस्तीर्णं मोह आविशतीव माम्। संज्ञां नोपलभे सूत मनो विह्वलतीव मे॥ सौतिरुवाच इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहुदुःखितः। मूर्च्छितः पुनराश्वस्त: संजयं वाक्यमब्रवीत्॥ धृतराष्ट्र उवाच संजयैवं प्राणांस्त्यक्तुमिच्छामि मा चिरम्। स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे॥ सौतिरुवाच तं तथा वादिनं दीनं विलपन्तं महीपतिम्। निःश्वसन्तं यथा नागं मुह्यमानं पुनः पुनः॥ गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत्। संजय उवाच श्रुतवानसि वै राजन्महोत्साहान्महाबलान्॥ द्वैपायनस्य वदतो नारदस्य च धीमतः। महत्सु राजवंशेषु गुणैः समुदितेषु च॥ जातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः। धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः॥ अस्मिल्लोके यशः प्राप्य ततः कालवशं गतान्। शैव्यं महारथं वीरं संजयं जयतां वरम्॥ सुहोत्रं रन्तिदेवं च काक्षीवन्तमथौशिजम्। वाल्हीकं दमनं चैद्यं शर्यातिमजितं नलम्॥ विश्वामित्रममित्रघ्नमम्बरीषं महाबलम्। मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च॥ रामं दाशरथिं चैव शशबिन्दुं भगीरथम्। कृतवीर्यं महाभागं तथैव जनमेजयम्॥ ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम्। चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा॥ इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा। पुत्रशोकाभितप्ताय पुरा श्वैत्याय कीर्तितम्॥ तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः। महारथा महात्मानः सर्वैः समुदिता गुणैः॥ पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाद्युतिः। अणुहो युवनाश्वश्च ककुत्स्थो विक्रमी रघुः॥ विजयो वीतिहोत्रोऽङ्गो भव: श्वेतो वृहद्गुरुः। उशीनरः शतरथः कङ्को दुलिQहो द्रुमः॥ दम्भोद्भवः परो वेन: सगरः संकृतिनिमिः। अजेयः परशुःपुण्ड्रः शम्भुर्देवावृधोऽनघः॥ देवाह्वयः सुप्रतिम: सुप्रतीको बृहद्रथः। महोत्साहो विनीतात्मा सुक्रतुर्नैषधो नलः॥ सत्यव्रतः शान्तभयः सुमिः सुबल: प्रभुः। जानुजनोऽनरण्योऽर्कः प्रियभृत्यः शुचिव्रतः॥ बलबन्धुनिरामर्दः केतुशृंगो बृहद्बलः। धृष्टकेतुर्वृहत्केतुर्दीप्तकेतुर्निरामयः॥ अविक्षिच्चपलो धूर्तः कृतबन्धुदृढेषुधिः। महापुराणसंभाव्यः प्रत्यङ्गः परहा श्रुतिः॥ एते चान्ये च राजानः शतशोऽथ सहस्रशः। श्रूयन्ते शतशश्चान्ये संख्याताश्चैव पद्मशः॥ हित्वा सुविपुलाम्भोगान्बुद्धिमन्तो महाबलाः। राजानो निधनं प्राप्तास्तव पुत्रा इव प्रभो॥ येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च। माहात्म्यमपि चास्तिक्यं सत्यं शौचं दयार्जवम्॥ विद्वद्भिः कथ्यते लोके पुराणे कविसत्तमैः। सर्वर्द्धिगुणसंपन्नास्ते चापि निधनं गताः॥ तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना। लुब्धा दुर्वृत्तभूयिष्ठा न ताञ्छोचितुमर्हसि॥ श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः। येषां शास्त्रानुगाबुद्धिर्न ते मुह्यन्ति भारत॥ निग्रहानुग्रहो .पि विदितौ ते नराधिप। नात्यन्तमेवानुवृत्तिः कार्या ते पुत्ररक्षणे॥ भवितव्यं तथा तच्च नानुशोचितुमर्हसि। दैवं प्रज्ञाविशेषेण को निवर्तितुमर्हति॥ विधातृविहितं मागं न कश्चिदतिवर्तते। कालमूलमिदं सर्वं भावाभावौ सुखासुखे॥ कालः सृजति भूतानि कालः संहरते प्रजाः। संहरन्तं प्रजा: कालं कालः शमयते पुनः॥ कालो हि कुरुते भावान्सर्वलोके शुभाशुभान्। कालः संक्षिपते सर्वाः प्रजा विसृजते पुनः॥ कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः। कालः सर्वेषु भूतेषु चरत्यविधृतः समः॥ अतीतानागता भावा ये च वर्तन्ति साम्प्रतम्। तान्कालनिर्मितान् बुद्ध्वा न संज्ञां हातुमर्हसि॥ सौतिरुवाच इत्येवं पुत्रशोकार्तं धृतराष्ट्रं जनेश्वरम्। आश्वास्य स्वस्थमकरोत्सूतो गावल्गणिस्तदा॥ अनोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत्। विद्वद्भिः कथ्यते लोके पुराणे कविसत्तमैः॥ भारताध्ययनं पुण्यमपि पादमधीयतः। श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः॥ देवादेवर्षयो ह्यत्र तथा ब्रह्मर्षयोऽमलाः। कीर्त्यन्ते शुभकर्माणस्तथा यक्षा महोरगाः॥ भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः। स हि सत्यमृतं चैव पवित्रं पुण्यमेव च॥ शाश्वतं ब्रह्मपरमं ध्रुवं ज्योतिः सनातनम्। यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः॥ असच्च सदसच्चैव यस्माद्विश्वं प्रवर्तते। संततिश्च प्रवृत्तिश्च जन्ममृत्युपुनर्भवाः॥ अध्यात्मं श्रूयते यच्च पञ्चभूतगुणात्मकम्। अव्यक्तादि परं यच्च स एव परिगीयते॥ यत्तद्यतिवरा मुक्ता ध्यानयोगबलान्विताः। प्रतिबिम्बमिवादशैं पश्यन्त्यात्मन्यवस्थितम्॥ श्रद्दधानः सदायुक्तः सदा धर्मपरायणः। आसेवन्निममध्यायं नरः पापात्प्रमुच्यते॥ अनुक्रमणिकाध्यायं भारतस्येममादितः। आस्तिकः सततं शृण्वन कृच्छ्रेष्ववसीदति॥ उभे संध्ये जपन्किंचित्त् सद्योमुच्येत किल्विषात्। दहाराव्या च संचितम्॥ भारतस्य वपुर्खेतत्सत्यं चामृतमेव च। नवनीतं यथा दध्मो द्विपदां ब्राह्मणो यथा॥ आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा। ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम्॥ यथैतानीतिहासानां तथा भारतमुच्यते। यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः॥ अक्षय्यमन्नपानं वै पितृस्तस्योपतिष्ठते। इतिहासपुराणाभ्यां वेदं समुपद्व्हयेत्॥ बिभेत्यल्पश्रुताद् वेदो मामयं प्रहरिष्यति। कार्णं वेदमिमं विद्वाञ्च्छ्रावयित्वार्थमश्नुते॥ भ्रूणहत्यादिकं चापि पापं जह्यादसंशयम्। य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणि॥ अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः। यश्चैनं शृणुयान्नित्यमार्षं श्रद्धासमन्वितः॥ स दीर्घमायुः कीर्ति च स्वर्गतिं चाप्नुयान्नरः। एकतश्चतुरो वेदा भारतं चैतदेकतः॥ पुरा किल सुरैः सर्वैः समेत्य तुलया धृतम्। चतुर्थ्यः सरहस्येभ्यो वेदेभ्यो ह्यधिकं यदा॥ तदा प्रभृति लोकेऽस्मिन् महाभारतमुच्यते। महत्त्वे च गुरुत्वे च ध्रियमाणं यतोऽधिकम्॥ महत्त्वाद्धारवत्त्वाच्च महाभारतमुच्यते। निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते॥ तपो न कल्कोऽध्ययनं न कल्क: स्वाभाविको वेदविधिर्नकल्कः। स्तान्येव भावोपहतानि कल्कः॥ ऋषय ऊचुः समन्तपञ्चकमिति यदुक्तं सूतनन्दन। एतत्सर्वं यथातत्त्वं श्रोतुमिच्छामहे वयम्॥ सौतिरुवाच शृणुध्वं मम भो विप्रा ब्रुवतश्च कथा: शुभाः। समन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः॥ त्रेताद्वापरयोः संधौ रामः शस्त्रभृतां वरः। असकृत्यार्थिव क्षत्रं जघानामर्षचोदितः॥ स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः। समन्तपञ्चके पञ्च चकार रौधिरान्ह्रदान॥ स तेषु रुधिराम्भ:सुह्रदेषु क्रोधमूर्छितः। पितॄन् संतर्पयामास रुधिरेणेति नः श्रुतम्॥ अथचीकादयोऽभ्येत्य पितरो राममब्रुवन्। राम राम महाभाग प्रीताः स्म तव भार्गव॥ अनया पितृभक्त्या च विक्रमेण तव प्रभो। वरं वृणीष्व भद्रं ते यमिच्छसि महाद्युते॥ राम उवाच यदि मे पितरः प्रीता यद्यनुग्राह्यता मयि। यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया॥ ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः॥ एवं भविष्यतीत्येवं पितरस्तमथाब्रुवन्। तं क्षमस्वेति निषिषिधुस्ततः स विरराम ह॥ तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम्। समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम्॥ येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते। तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः॥ अन्तरे चैव संप्राप्ते कलिद्वापरयोरभूत्। समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः॥ तस्मिन् परमधर्मिष्ठे देशे भूदोषवर्जिते। अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया॥ समेत्य तं द्विजास्ताश्च तत्रैव निधनं गताः। एतन्नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः॥ पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः। तदेतत्कथितं सर्वं मया ब्राह्मणसत्तमाः। यथा देश: स विख्यातस्त्रिषु लोकेषु सुव्रताः॥ ऋषय ऊचुः अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन। एतदिच्छामहे श्रोतुं सर्वमेव यथातथम्॥ अक्षौहिण्याः परीमाणं नराश्वरथदन्तिनाम्। यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव॥ सौतिरुवाच एको रथो गजश्चैको नराः पञ्च पदातयः। त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते॥ पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः। त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते॥ त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः। स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः॥ चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनी। अनीकिनी दशगुणा प्राहुरक्षौहिणी बुधाः॥ अक्षौहिण्याः प्रसंख्याता रथानां द्विजसत्तमाः। संख्यागणितत्त्वज्ञैःसहस्राण्येकविंशतिः॥ शतान्युपरिचैवाष्टौ तथा भूयश्च सप्ततिः। गजानां च परीमाणमेतदेव विनिर्दिशेत्॥ ज्ञेयं शतसहस्रं तु सहस्राणि नवैव तु। नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः॥ पञ्चषष्टिसहस्राणि तथाश्वनां शतानि च। दशोत्तराणि षट्प्राहुर्यथावदिह संख्यया॥ एतामक्षौहिणी प्राहुः संख्यातत्त्वविदो जनाः। यां वः कथितवानस्मि विस्तरेण तपोधनाः॥ एतया संख्यया ह्यासन्कुरुपाण्डवसेनयोः। अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डिताष्टादशैव तु॥ समेतास्तत्र वै देशे तत्रैव निधनं गताः। कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा॥ अहानि युयुधे भीष्मो दशैव परमास्त्रवित्। अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम्॥ अहनी युयुधे द्वे तु कर्ण: परबलार्दनः। शल्योऽर्धदिवसं चैव गदायुद्धमतःपरम्॥ तस्यैव दिवसस्यान्तं द्रौणिहार्दिक्यगौतमाः॥ प्रसुप्तं निशि विश्वस्तं जघ्नुौधिष्ठिरं बलम्। यत्तु शौनकसत्रे ते भारताख्यानमुत्तमम्॥ जनमेजयस्य तत्सत्रे व्यासशिष्येण धीमता। कथितं विस्तरार्थं च यशो वीर्यं महीक्षिताम्॥ पौष्यं तत्र च पौलोममास्तीकं चादितः स्मृतम्। विचित्रार्थपदाख्यानमनेकसमयान्वितम्॥ प्रतिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः। आत्मैव वेदितव्येषु प्रियेष्विव हि जीवितम्॥ इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम्। अनाश्रित्येदमाख्यानं कथा भुवि न विद्यते॥ आहारमनपाश्रित्य शरीरस्येव धारणम्। तदेतद्धारतं नाम कविभिस्तूपजीव्यते॥ उदयप्रेप्सुभिर्भूत्यैरभिजात इवेश्वरः। इतिहासोत्तमे यस्मिन्नर्पिता बुद्धिमत्तमा॥ स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक्॥ तस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः। सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च। भारतस्येतिहासस्य श्रूयतां पर्वसंग्रहः॥ पर्वानुक्रमणी पूर्वं द्वितीय: पर्वसंग्रहः। पौष्यं पौलोममास्तीकमादिरंशावतारणम्॥ ततः संभवपर्वोक्तमद्भुतं रोमहर्षणम्। दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते॥ ततो बकवधः पर्व पर्व चैत्ररथं ततः। ततः स्वयंवरो देव्याः पाञ्चाल्याः पर्व चोच्यते॥ क्षात्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम्। विदुरागमनं पर्व राज्यलम्भस्तथैव च॥ अर्जुनस्य वने वास: सुभद्राहरणं ततः। सुभद्राहरणादूर्ध्वं ज्ञेया हरणहारिका॥ ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम्। सभापर्व ततः प्रोक्तं मन्त्रपर्वं ततः परम्॥ जरासंधवधः पर्व पर्व दिग्विजयं तथा। पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते॥ ततश्चार्घाभिहरणं शिशुपालवधस्ततः। द्यूतपर्व ततः प्रोक्तमनुद्यूतमतः परम्॥ तत आरण्यकं पर्व किर्मीरवध उच्यते। अर्जुनस्याभिगमनं पर्व ज्ञेयमत: परम्॥ ईश्वरार्जुनयोयुद्धं पर्व कैरातसंज्ञितम्। इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम्॥ नलोपाख्यानमपि च धार्मिकं करुणोदयम्। तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः॥ जटासुरवधः पर्व यक्षयुद्धमतः परम्। निवातकवचैर्युद्धं पर्व चाजगरं ततः॥ मार्कण्डेयसमास्या च पर्वानन्तरमुच्यते। संवादश्च ततः पर्व द्रौपदीसत्यभामयोः॥ घोषयात्रा ततः पर्व मृगस्वप्नोद्भवं ततः। व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च॥ द्रौपदीहरणं पर्व जयद्रथविमोक्षणम्। पतिव्रताया माहात्म्यं सावित्र्याश्चैवमद्भुतम्॥ रामोपाख्यानमत्रैव पर्व ज्ञेयमतः परम्। कुण्डलाहरणं पर्व ततः परमिहोच्यते॥ चिन्तया। आरणेयं ततः पर्व वैराटं तदनन्तरम्। पाण्डवानां प्रवेशश्च समयस्य च पालनम्॥ कीचकानां वधः पर्व पर्वं गोग्रहणं ततः। अभिमन्योश्च वैराट्याः पर्व वैवाहिकं स्मृतम्॥ उद्योगपर्व विज्ञेयमत अर्ध्वं महाद्भुतम्। तत: संजययानाख्यं पर्वज्ञेयमतः परम्॥ प्रजागरं तथा पर्व धृतराष्ट्रस्य पर्व सानत्सुजातं वै गुह्यमध्यात्मदर्शनम्॥ यानसन्धिस्ततः पर्व भगवद्यानमेव च। मातलीयमुपाख्यानं चरितं गालवस्य च॥ सावित्रं वामदेव्यं च वैन्योपाख्यानमेव च। जामदग्न्यमुपाख्यानं पर्व षोडशराजकम्॥ सभाप्रवेशः कृष्णस्य विदुलापुत्रशासनम्। उद्योग: सैन्यनिर्याणं विश्वोपाख्यानमेव च॥ ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः। निर्याणं च ततः पर्व कुरुपाण्डवसेनयोः॥ रथातिरथसंख्या च पर्वोक्तं तदनन्तरम्। उलूकदूतागमनं पर्वामर्षविवर्धनम्॥ अम्बोपाख्यानमत्रैव पर्व ज्ञेयमतः परम्। भीष्माभिषेचनं पर्व ततश्चाद्भुतमुच्यते॥ ६७॥ जम्बूखण्डविनिर्माणं पर्वोक्तं तदन्तरम्। भूमिपर्व ततः प्रोक्तं द्वीपविस्तारकीर्तनम्॥ पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः। द्रोणाभिषेचनं पर्व संशप्तकवधस्ततः॥ अभिमन्युवधः पर्व प्रतिज्ञापर्व चोच्यते। जयद्रथवधः पर्व घटोत्कचवधस्ततः॥ ततो द्रोणवधः पर्व विज्ञेयं लोमहर्षणम्। मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते॥ कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम्। ह्रदप्रवेशनं पर्व गदायुद्धमतः परम्॥ सारस्वतं ततः पर्व तीर्थवंशानुकीर्तनम्। अत ऊर्ध्वं सुबीभत्सं पर्व सौप्तिकमुच्यते॥ ऐषीकं पर्व चोद्दिष्टमत ऊर्ध्वं सुदारुणम्। जलप्रदानिकं पर्व स्त्रीविलापस्ततः परम्॥ श्राद्धपर्व ततो ज्ञेयं कुरूणामौर्ध्वदेहिकम्। चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः॥ आभिषेचनिकं पर्व धर्मराजस्य धीमतः। प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम्॥ शान्तिपर्व ततो यत्र राजधर्मानुशासनम्। आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम्॥ शुकप्रश्नाभिगमनं ब्रह्मप्रश्नानुशासनम्। प्रादुर्भावश्च दुर्वासः संवादश्चैव मायया॥ ततः पर्व परिज्ञेयमानुशासनिकं परम्। स्वर्गारोहणिकं चैव ततो भीष्मस्य धीमतः॥ ततोऽश्वमेधिकं पर्व सर्वपापप्रणाशनम्। अनुगीता ततः पर्व ज्ञेयमध्यात्मवाचकम्॥ पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च। नारदागमनं पर्व ततः परमिहोच्यते॥ मौसलं पर्व चोद्दिष्टं ततो घोरं सुदारुणम्। महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः॥ हरिवंशस्ततः पर्व पुराणं खिलसंज्ञितम्। विष्णुपर्व शिशोश्चर्या विष्णोः कंसवधस्तथा॥ भविष्यपर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत्। एतत्पर्वशतं पूर्ण व्यासेनोक्तं महात्मना॥ यथावत्सूतपुत्रेण लोमहर्षणिना ततः उक्तानि नौमिषारण्ये पर्वाण्यष्टादशैव तु॥ समासो भारतस्यायमत्रोक्तः पर्वसंग्रहः। पौष्यं पौलोममास्तीकमादिरंशावतारणम्॥ संभवो जतुवेश्माख्यं हिडिम्बबकयोर्वधः। तथा चैत्ररथं देव्याः पाञ्चाल्याश्च स्वयंवर॥ क्षात्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम्। विदुरागमनं चैव राज्यलणस्तथैव च॥ वनवासोऽर्जुनस्यापि सुभद्राहरणं ततः। हरणाहरणं चैव दहनं खाण्डवस्य च॥ मयस्य दर्शनं चैव आदिपर्वणि कथ्यते। पौष्ये पर्वणि महात्म्यमुत्तङ्कस्योपवर्णितम्॥ पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः। आस्तीके सर्वनागानां गरुडस्य च संभवः॥ क्षीरोदमथनं चैव जन्मोच्चैःश्रवसस्तथा। यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च॥ कथेयमभिनिर्वृत्ता भरतानां महात्मनाम्। विविधाः संभवा राज्ञामुक्ता: संभवपर्वणि॥ अन्येषां चैव शूराणामृषेद्वैपायनस्य च। अंशावतरणं चात्र देवानां परिकीर्तितम्॥ दैत्यानां दानवानां च यक्षाणां च महौजसाम्। नागानामथ सर्पाणां गन्धर्वाणां पतत्रिणाम्॥ अन्येषां चैव भूतानां विविधानां समुद्भवः। महर्षेराश्रमपदे कण्वस्य च तपस्विनः॥ शकुन्तलायां दुष्यन्ताद्भरतश्चापि जज्ञिवान्। यस्य लोकेषु नाम्नेदं प्रथितं भारतं कुलम्॥ वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम्। शान्तनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि॥ तेजोऽशानां च संपातो भीष्मस्याप्यत्र संभवः। राज्यान्निवर्तनं तस्य ब्रह्मचर्यव्रते स्थितिः॥ प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च। हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः॥ विचित्रवीर्यस्य तथा राज्ये संप्रतिपादनम्। धर्मस्य नृषु संभूतिरणीमाण्डव्यशापजा॥ कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा। धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च संभवः॥ वारणावतयात्रायां मन्त्रो दुर्योधनस्य च। कूटस्य धार्तराष्ट्रेण प्रेषणं पाण्डवान्प्रति॥ हितोपदेशश्च पथि धर्मराजस्य धीमतः। विदुरेण कृतो यत्र हितार्थं म्लेच्छभाषया॥ विदुरस्य च वाक्येन सुरङ्गोपक्रमक्रिया। निषाद्याः पञ्चपुत्रायाः सुप्ताया जतुवेश्मनि॥ पुरोचनस्य चात्रैव दहनं संप्रकीर्तितम्। पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम्॥ तत्रैव च हिडिम्बस्य वधो भीमान्महाबलात्। घटोत्कचस्य चोत्पत्तिरत्रैव परिकीर्तिता॥ महर्षेर्दर्शनं चैव व्यासस्यामिततेजसः। तदाज्ञयैकचक्रायां ब्राह्मणस्य निवेशने॥ अज्ञातचर्यया वासो यत्र तेषां प्रकीर्तितः। बकस्य निधनं चैव नागराणां च विस्मयः॥ संभवश्चैव कृष्णाया धृष्टद्युम्नस्य चैव ह। ब्राह्मणात्समुपश्रुत्य व्यासवाक्यप्रचोदिताः॥ द्रौपदी प्रार्थयन्तस्ते स्वयंवरदिदृक्षया। पञ्चालानभितो जग्मुर्यत्र कौतूहलान्विताः॥ अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा। सख्यं कृत्वा ततस्तेन तस्मादेव च शुश्रुवे॥ तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम्। भ्रातृभिः सहितः सर्वैः पञ्चालानभितो ययौ॥ पाञ्चालनगरे चापि लक्ष्यं भित्त्वा धनंजयः। द्रौपदी लब्धवानत्र मध्ये सर्वमहीक्षिताम्॥ भीमसेनार्जुनौ यत्र संरब्धान् पृथिवीपतीन्। शल्यकर्णौ च तरसा जितवन्तौ महामृधे॥ दृष्ट्वा तयोश्च तद्वीर्यमप्रमेयममानुषम्। शङ्कमानौ पाण्डवांस्तान् रामकृष्णौ महामती॥ जग्मतुस्तैः समागन्तुं शालां भार्गववेश्मनि। पञ्चानामेकपत्नीत्वे विमर्शो दुपदस्य च॥ पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते। द्रौपद्या देवविहितो विवाहश्चाप्यमानुषः॥ क्षत्तुश्च धार्तराष्ट्रेण प्रेषणं पाण्डवान्प्रति। विदुरस्य च संप्राप्तिदर्शनं केशवस्य च॥ खाण्डवप्रस्थवासश्च तथा राज्याधसर्जनम्। नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया॥ सुन्दोपसुन्दयोस्तद्वदाख्यानं परिकीर्तितम्। अनन्तरं च द्रौपद्या सहासीनं युधिष्ठिरम्॥ अनुप्रविश्य विप्रार्थे फाल्गुनो गृह्य चायुधम्। मोक्षयित्वा गृहं गत्वा विप्रार्थं कृतनिश्चयः॥ समयं पालयन्वीरो वनं यत्र जगाम ह। पार्थस्य वनवासे च उलूप्या पथि संगमः॥ पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च। तत्रैव मोक्षयामास पञ्चसोऽप्सरसः शुभाः॥ शापायाहत्वमापन्ना ब्राह्मणस्य तपस्विनः। प्रभासतीर्थे पार्थेन कृष्णस्य च समागमः॥ द्वारकायां सुभद्रा च कामयानेन भामिनी। वासुदेवस्यानुमते प्राप्ता चैव किरीटिना॥ गृहीत्वा हरणं प्राप्ते कृष्णे देवकिनन्दने। अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः॥ द्रौपद्यास्तनयानां च संभवोऽनुप्रकीर्तितः। विहारार्थं च गतयोः कृष्णयोर्यमुनामनु॥ संप्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम्। मयस्य मोक्षो ज्वलनाद्भुजङ्गस्य च मोक्षणम्।। महर्मन्दपालस्य शाङ्गयां तनयसंभवः। इत्येतदादिपर्वोक्तं प्रथमं बहुविस्तरम्॥ अध्यायानां शते द्वे तु संख्याते परमर्षिणा। सप्तविंशरध्याया व्यासोनोत्तमतेजसा॥ अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च। श्लोकश्च चतुराशीतिर्मुनिनोक्तामहात्मना॥ द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते। सभाक्रिया पाण्डवानां किंकराणां च दर्शनम्॥ लोकपालसभाख्यानं नारदाद्देवदर्शिनः। राजसूयस्य चारम्भो जरासंधवधस्तथा॥ गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम्। तथा दिग्विजयोऽत्रैव पाण्डवानां प्रकीर्तितः॥ राज्ञामागमनं चैव सार्हणानां महाक्रतौ। राजसूयेऽर्धसंवादे शिशुपालवधस्तथा॥ यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च। दुर्योधनस्यावहासो भीमेन च सभातले॥ यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत्। यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत्॥ यत्र द्यूतार्णवे मग्नां द्रौपदीं नौरिवार्णवात्। धृतराष्ट्रो महाप्राज्ञः स्नुषां परमदुःखिताम्॥ तारयामास तांस्तीर्णाज्ञात्वा दुर्योधनो नृपः। पुनरेव ततो द्यूते समाह्वयत पाण्डवान्॥ जित्वा स वनवासाय प्रेषयामास तांस्ततः। एतत्सर्वं सभापर्व समाख्यातं महात्मना॥ अध्यायाः सप्ततिर्जेयास्तथा चाष्टौ प्रसंख्यया। श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च॥ श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन् द्विजोत्तमाः। अतः परं तृतीयं तु ज्ञेयमारण्यकं महत्॥ वनवासं प्रयातेषु पाण्डवेषु महात्मसु। पौरानुगमनं चैव धर्मपुत्रस्य धीमतः॥ अन्नौषधीनां च कृते पाण्डवेन महात्मना। द्विजानां भरणार्थं च कृतमाराधनं रवेः॥ धौम्योपदेशात् तिग्मांशुप्रसादादन्नसंभवः। हितं च ब्रुवतः क्षत्तुः परित्यागोऽम्बिकासुतात्॥ त्यक्तस्य पाण्डुपुत्राणां समीपगमनं तथा। पुनरागमनं चैव धृतराष्ट्रस्य शासनात्॥ कर्णप्रोत्साहनाच्चैव धार्तराष्ट्रस्य दुर्मतेः। वनस्थान्याण्डवान्हन्तुं मन्त्रो दुर्योधनस्य च॥ तं दुष्टभावं विज्ञाय व्यासस्यागमनं द्रुतम्। निर्याणप्रतिषेधश्च सुरभ्याख्यानमेव च। १४९।। मैत्रेयागमनं चात्र राज्ञश्चैवानुशासनम्। शापोत्सर्गश्च तेनैव राज्ञो दुर्योधनस्य च॥ किर्मीरस्य वधश्चात्र भीमसेनेन संयुगे। वृष्णीनामागमश्चात्र पञ्चालानां च सर्वशः॥ श्रुत्वा शकुनिना द्यूते निकृत्या निर्जितांश्च तान्। क्रुद्धस्यानुप्रशमनं हरेश्चैव किरीटिना॥ परिदेवनं च पाञ्चाल्या वासुदेवस्य सन्निधौ। आश्वासनं च कृष्णेन दुःखार्तायाः प्रकीर्तितम्॥ तथा सौभवधाख्यानमत्रैवोक्तं महर्षिणा। सुभद्रायाः सपुत्रायाः कृष्णेन द्वारकां पुरीम्॥ नयनं द्रौपदेयानां धृष्टद्युम्नेन चैव ह। प्रवेशः पाण्डवेयानां रम्ये द्वैतवने ततः॥ धर्मराजस्य चात्रै व संवादः कृष्णया सह। संवादश्च तथा राज्ञा भीमस्यापि प्रकीर्तितः॥ समीपं पाण्डुपुत्राणां व्यासस्यागमनं तथा। प्रतिस्मृत्याथ विद्याया दानं राज्ञो महर्षिणा॥ गमनं काम्यके चापि व्यासे प्रतिगते ततः। अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः॥ महादेवेन युद्धं च किरातवपुषा सह। दर्शनं लोकपालानामस्त्रप्राप्तिस्तथैव च॥ महेन्द्रलोकगमनमस्त्रार्थे च किरीटिनः। यत्र चिन्ता समुत्पन्ना धृतराष्ट्रस्य भूयसी॥ दर्शनं बृहदश्वस्य महर्षे वितात्मनः। युधिष्ठिरस्य वार्तस्य व्यसनं परिदेवनम्॥ नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम्। दमयन्त्याः स्थितिर्यत्र नलस्य चरितं तथा॥ तथाऽक्षहृदयप्राप्तिस्तस्मादेव महर्षितः। लोमशस्यागमस्तत्र स्वर्गात्पाण्डुसुतान्प्रति॥ वनवासगतानां च पाण्डवानां महात्मनाम्। स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै॥ संदेशादर्जुनस्यात्र तीर्थाभिगमनक्रिया। तीर्थानां च फलप्राप्तिः पुण्यत्वं चापि कीर्तितम्॥ पुलस्त्यतीर्थयात्रा च नारदेन महर्षिणा। तीर्थयात्रा च तत्रैव पांडवानां महात्मनाम्॥ कर्णस्य परिमोक्षोऽत्र कुण्डलाभ्यां पुरन्दरात्। तथा यज्ञविभूतिश्च गयस्यात्र प्रकीर्तिता॥ आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम्। लोपामुद्राभिगमनमपत्यार्थषेस्तथा॥ ऋष्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः। जामदग्न्यस्य रामस्य चरितं भूरितेजसः॥ कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते। प्रभासतीर्थे पांडूनां वृष्णिभिश्च समागमः॥ सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः। शर्यातियज्ञे नासत्यौ कृतवान् सोमपीतिनौ॥ ताभ्यां च यत्र स मुनिौवनं प्रतिपादितः। मांधातुश्चाप्युपाख्यानं राज्ञोऽत्रैव प्रकीर्तितम्॥ जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः। पुत्रार्थमयजदाजा लेभे पुत्रशतं च सः॥ ततः श्येनकपोतीयमुपाख्यानमनुत्तमम्। इन्द्राग्नी यत्र धर्मश्चाप्यजिज्ञासच्छिविं नृपम्॥ अष्टावक्रीयमत्रैव विवादो यत्र बन्दिना। अष्टावक्रस्य विप्रर्जनकस्याध्वरेऽभवत्। नैयायिकानां मुख्येन वरुणस्यात्मजेन च॥ पराजितो यत्र बन्दी विवादेन महात्मना। विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः। यवक्रीतस्य चाख्यानं रैभ्यस्य च महात्मनः॥ गन्धमादनयात्रा च वासो नारायणाश्रमे। नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने॥ व्रजन्पथि महाबाहुर्दृष्टवान् पवनात्मजम्। कदलीषंडमध्यस्थं हनूमन्तं महाबलम्॥ यत्र सौगन्धिकार्थेऽसौ नलिनी तामधर्षयत्। यत्रास्य युद्धमभवत्सुमहद्राक्षसैः सह॥ यक्षैश्चैव महावीर्यैर्मणिमत्प्रमुखैस्तथा। जटासुरस्य च वधो राक्षसस्य वृकोदरात्॥ वृषपर्वणो राजपेस्ततोऽभिगमनं स्मृतम्। आर्टिषेणाश्रमे चैषां गमनं वास एव च॥ प्रोत्साहनं चपाञ्चाल्या भीमस्यात्र महात्मना। कैलासारोहणं प्रोक्तं यत्र यक्षैर्बलोत्कटैः॥ युद्धमासीन्महाघोरं मणिमत्प्रमुखैः सह। समागमश्च पाण्डूनां यत्र वैश्रवणेन च। समागमश्चार्जुनस्य तत्रैव भ्रातृभिः सह। अवाप्य दिव्यान्यस्त्राणि गुर्वर्थं सव्यासाचिना॥ निवातकवचैर्युद्धं हिरण्यपुरवासिभिः। निवातकवचैोरैर्दानवैः सुरशत्रुभिः॥ पौलोमैः कालकेयैश्च यत्र युद्धं किरीटिनः। वधश्चैषां समाख्यातो राज्ञस्तेनैव धीमता॥ अस्त्रसंदर्शनारम्भो धर्मराजस्य संनिधौ। पार्थस्य प्रतिषेध च नारदेन सुरर्षिणा॥ अवरोहणं पुनश्चैव पांडूनां गन्धमादनात्। भीमस्य ग्रहणं चात्र पर्वताभोगवर्मणा॥ भुजगेन्द्रेण बलिना तस्मिन्सुगहने वने। अमोक्षयद्यत्र चैनं प्रश्नानुक्त्वा युधिष्ठिरः॥ काम्यकागमनं चैव पुनस्तेषां महात्मनाम्। तत्रस्थांश्च पुनर्द्रष्टुं पांडवान् पुरुषर्षभान्॥ वासुदेवस्यागमनमत्रैव परिकीर्तितम्। मार्कण्डेयसमास्यायामुपाख्यानानि सर्वशः॥ पृथोर्वैन्यस्य यत्रोक्तमाख्यानं परमर्षिणा। संवादश्च सरस्वत्यास्तायर्षेः सुमहात्मनः॥ मत्स्योपाख्यानमत्रैव प्रोच्यते तदनन्तरम्। मार्कण्डेयसमास्या च पुराणं परिकीर्त्यते॥ ऐन्द्रद्युम्नमुपाख्यानं धौन्धुमारं तथैव च। पतिव्रतायाश्चाख्यानं तथैवाङ्गिरसं स्मृतम्॥ द्रौपद्याः कीर्तितश्चात्र संवादः सत्यभामया। पुनद्वैतवनं चैव पाण्डवाः समुपागताः॥ घोषयात्रा च गन्धर्वैर्यत्र बद्धः सुयोधनः। ह्रियमाणस्तु मन्दात्मा मोक्षितोऽसौ किरीटिना॥ धर्मराजस्य चात्रैव मृगस्वप्ननिदर्शनात्। काम्यके काननश्रेष्ठे पुनर्गमनमुच्यते॥ व्रीहिद्रौणिकमाख्यानमत्रैव बहुविस्तरम्। दुर्वाससोऽप्युपाख्यानमत्रैव परिकीर्तितम्॥ जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात्। यत्रैनमन्वयादीमो वायुवेगसमो जवे॥ चक्रे चैनं पञ्चशिखं यत्र भीमो महाबलः। रामायणमुपाख्यानमत्रैव बहुविस्तरम्॥ यत्र रामेण विक्रम्य निहतो रावणो युधि। सावित्र्याश्चाप्युख्यानमत्रैव परिकीर्तितम्॥ कर्णस्य परिमोक्षोऽत्र कुण्डलाभ्यां पुरन्दरात्। यत्रास्य शक्तिं तुष्टोऽसावदादेकवधाय च॥ आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम्। जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम्॥ एतदारण्यकं पर्व तृतीयं परिकीर्तितम्। अत्राध्यायशते द्वे तु संख्यया परिकीर्तित॥ एकोनसप्ततिश्चैव तथाध्यायाः प्रकीर्तिताः। एकादश सहस्राणि श्लोकानां षट् शतानि च॥ चतुःषष्टिस्तथा श्लोकाः पर्वण्यस्मिन् प्रकीर्तिताः। अतःपरं निबोधेदं वैराटं पर्व विस्तरम्॥ विराटनगरे गत्वा श्मशाने विपुलां शमीम्। दृष्ट्वा सन्निदधुस्तत्र पाण्डवा ह्यायुधान्युत॥ यत्र प्रविश्य नगरं छद्मना न्यवसंस्तु ते। पाञ्चाली प्रार्थयानस्य कामोपहतचेतसः॥ दुष्टात्मनो वधो यत्र कीचकस्य वृकोदरात्। पाण्डवान्वेषणार्थ च राज्ञो दुर्योधनस्य च॥ चाराः प्रस्थापिताश्चात्र निपुणाः सर्वतो दिशम्। न च प्रवृत्तिस्तैर्लब्धा पाण्डवानां महात्मनाम्॥ गोग्रहश्च विराटस्य त्रिगर्तेः प्रथमं कृतः। यत्रास्य युद्धं सुमहत्तैरासील्लोमहर्षणम्॥ ह्रियमाणश्च यत्रासौ भीमसेनेन मोक्षितः। गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः॥ अनन्तरं च कुरुभिस्तस्य गोग्रहणं कृतम्। समस्ता यत्र पार्थेन निर्जिताः कुरवो युधि॥ प्रत्याहृतं गोधनं च विक्रमेण किरीटिना। विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः॥ अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम्। चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम्॥ अत्रापि परिसंख्याता अध्यायाः परमर्षिणा। सप्तषष्टिरथो पूर्णा श्लोकानामपि मे शृणु॥ श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु। उक्तानि वेदविदुषा पर्वण्यस्मिन् महर्षिणा॥ उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम्। उपल्पव्ये निविष्टेषु पाण्डवेषु जिगीषया॥ दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ। साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति॥ इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः। अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ॥ अक्षौहिणी वा सैन्यस्य कस्य किं वा ददाम्यहम्। वत्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः॥ अयुध्यमानं सचिवं वव्रे कृष्णं धनंजयः। मद्रराजं च राजानमायान्तं पाण्डवान्प्रति॥ उपहारैर्वञ्चयित्वा वर्मन्येव सुयोधनः। वरदं तं वरं वत्रे साहाय्यं क्रियतां मम॥ शल्यस्तस्मै प्रतिश्रुत्य जगामोद्दिश्य पाण्डवान्। शान्तिपूर्वं चाकथयधनेन्द्रविजयं नृपः॥ पुरोहितप्रेषणं च पाण्डवैः कौरवान्प्रति। वैचित्रवीर्यस्य वचः समादाय पुरोधसः॥ तथेन्द्रविजयं चापि यानं चैव पुरोधसः। संजयं प्रेषयामास शमार्थी पाण्डवान्प्रति॥ यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान्। श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान्॥ प्रजागरः सप्रजज्ञे धृतराष्ट्रस्य चिन्तया। विदुरो यत्र वाक्यानि विचित्राणि हितानि च। श्रावयामास राजानं धृतराष्ट्र मनीषिणम्॥ तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम्॥ मास्तापान्वितो राजा श्रावितः शोकलालसः। प्रभाते राजसमितौ संजयो यत्र वा विभो॥ ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च। यत्र कृष्णो दयापन्नः संधिमिच्छन् महामतिः॥ स्वयमागाच्छमं कर्तुं नगरं नागसाह्वयम्। प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै॥ शमार्थे याचमानस्य पक्षयोरुभयोर्हितम्। दम्भोद्भवस्य चाख्यानमत्रैव परिकीर्तितम्॥ वरान्वेषणमत्रैव मातलेश्च महात्मनः। महर्षेःचापि चरितं कथितं गालवस्य वै॥ विदुलायाश्च पुत्रस्य प्रोक्तं चाप्यनुशासनम्। कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम्॥ योगेश्वरत्वं कृष्णेन यत्र राज्ञां प्रदर्शितम्। रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः॥ उपायपूर्वं शौटीर्यात्प्रत्याख्यातश्च तेन सः। आगम्य हास्तिनपुरादुपप्लव्यमरिंदमः॥ पाण्डवानां यथावृत्तं सर्वमाख्यातवान् हरिः। ते तस्य वचनं श्रुत्वा मन्त्रयित्वा च यद्धितम्॥ सांग्रामिकं ततः सर्वं सज्जं चक्रुः परंतपाः। ततो युद्धाय निर्याता नराश्वरथदन्तिनः॥ नगराद्धास्तिनपुरादलसंख्यानमेव च। यत्र राज्ञा लूकस्य प्रेषणं पाण्डवान्प्रति॥ श्वो भाविनि महायुद्धे दौत्येन कृतवान् प्रभुः। रथातिरथसंख्यानमम्बोपाख्यानमेव च॥ एतत् सुबहुवृत्तान्तं पञ्चमं पर्व भारते। उद्योगपर्व निर्दिष्टं संधिविग्रहमिश्रितम्॥ अध्यायानां शतं प्रोक्तं षडशीतिर्महर्षिणा। श्लोकानां षट्सहस्राणि तावन्त्येव शतानि च॥ श्लोकाच नवतिः प्रोक्तास्तथैवाष्टौ महात्मना। व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः॥ अतः परं विचित्रार्थं भीष्मपर्व प्रचक्षते। जम्बूखण्डविनिर्माणं यत्रोक्तं संजयेन ह॥ यत्र यौधिष्ठिरं सैन्यं विषादमगमत् परम्। यत्र युद्धमभूद्घोरं दशाहानि सुदारुणम्॥ कश्मलं यत्र पार्थस्य वासुदेवो महामतिः। मोहजं नाशयामास हेतुभिर्मोक्षदर्शिभिः॥ समीक्ष्याधोक्षज: क्षिप्रं युधिष्ठिरहिते रतः। रथादाप्लुत्य वेगेन स्वयं कृष्ण उदारधीः॥ प्रतोदपाणिराधावद्भीष्मं हन्तुं व्यपेतभीः। वाक्यप्रतोदाभिहतो यत्र कृष्णेन पाण्डवः॥ गाण्डीवधन्वा समरे सर्वशस्त्रभृतां वरः। शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः॥ विनिम्ननिशितैर्बाणै रथाद्भीष्ममपातयत्। शरतल्पगतश्चैव भीष्मो यत्र बभूव ह॥ षष्ठमेतत् समाख्यातं भारते पर्व विस्तृतम्। अध्यायानां शतं प्रोक्तं तथा सप्तदशापरे॥ पञ्च श्लोकसहस्राणि संख्ययाष्टौ शतानि च। श्लोकाश्च चतुराशीतिरस्मिन्पर्वणि कीर्तिताः॥ व्यासेन वेदविदुषा संख्याता भीष्मपर्वणि। द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते॥ सैनापत्येऽभिषिक्तोऽथ यत्राचार्यः प्रतापवान्। दुर्योधनस्य प्रीत्यर्थं प्रतिजज्ञे पहास्त्रवित्॥ ग्रहणं धर्मराजस्य पाण्डुपुत्रस्य धीमतः। यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात्॥ भगदत्तो महाराजो यत्र शक्रसमो युधि। सुप्रतीकेन नागेन स हि शान्तः किरीटिना॥ यत्राभिमन्युं बहवो जजुरेकं महारथाः। जयद्रथमुखा बालं शूरमप्राप्तयौवनम्॥ हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे। अक्षौहिणी: सप्त हत्वा हतो राजा जयद्रथः॥ यत्र भीमो महाबाहुः सात्यकिश्च महारथः। अन्वेषणार्थं पार्थस्य युधिष्ठिरनृपाज्ञया॥ प्रविष्टौ भारती सेनामप्रधृष्यां सुरैरपि। संशप्तकावशेषं च कृतं निःशेषमाहवे॥ अलम्बुषः श्रुतायुश्च जलसन्धश्च वीर्यवान्। सौमदत्तिविराटश्च द्रुपदश्च महारथः॥ घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि। अश्वत्थामाऽपि चात्रैव द्रोणे युधि निपातिते॥ अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः। आग्नेयं कीर्त्यते यत्र रुद्रमाहात्म्यमुत्तमम्॥ व्यासस्य चाप्यागमनं माहात्म्यं कृष्णपार्थयोः॥ सप्तमं भारते पर्व महदेतदुदाहृतम्। यत्र ते पृथिवीपालाः प्रायशो निधनं गताः॥ द्रोणपर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः। अत्राध्यायशतं प्रोक्तं तथाध्यायाश्च सप्ततिः॥ अष्टौ श्लोकसहस्राणि तथा नव शतानि च। श्लोका नव तथैवात्र संख्यातास्तत्त्वदर्शिना॥ पाराशर्येण मुनिना संचिन्त्य द्रोणपर्वणि। अतः परं कर्णपर्वं प्रोच्यते परमाद्भुतम्। सारथ्ये विनियोगश्च मद्रराजस्य धीमतः॥ आख्यातं यत्र पौराणं त्रिपुरस्य निपातनम्। प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः॥ हंसकाकीयमाख्यानं तत्रैवाक्षेपसंहितम्। वधः पाण्ड्यस्य च तथा अश्वत्थाम्ना महात्मना।।२७१। दण्डसेनस्य च ततो दण्डस्य च वधस्तथा। द्वैरथे यत्र कर्णेन धर्मराजो युधिष्ठिरः॥ संशयं गमितो युद्धे मिषतां सर्वधन्विनाम्। अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः॥ यत्रैवानुनयः प्रोक्त माधवेनार्जुनस्य हि। प्रतिज्ञापूर्वकं चापि वक्षो दुःशासनस्य च॥ भित्वा वृकोदरो रक्तं पीतवान्यत्र संयुगे। द्वैरथे यत्र पार्थेन हतः कर्णो महारथः॥ अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः। एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि॥ चत्वार्येव सहस्राणि नव श्लोकशतानि च। चतुःषष्टिस्तथा श्लोकाः पर्वण्यस्मिन् प्रकीर्तिताः॥ अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम्। हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत्॥ यत्र कौमारमाख्यानमभिषेकस्य कर्म च। वृत्तानि स्थयुद्धानि कीर्त्यन्ते यत्र भागशः। विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते॥ शल्यस्य निधनं चात्र धर्मराजान्महात्मनः। शकुनेश्च वधोऽत्रैव सहदेवेन संयुगे॥ सैन्ये च हतभूयिष्ठे किंचिच्छिष्टे सुयोधनः। ह्रदं प्रविश्य यत्रासौ संस्तभ्यापो व्यवस्थितः॥ प्रवृत्तिस्तत्र चाख्याता यत्र भीमस्य लुब्धकैः। क्षेपयुक्तैर्वचोभिश्च धर्मराजस्य धीमतः॥ ह्रदात्समुत्थितो यत्र धार्तराष्ट्रोऽत्यमर्षणः। भीमेन गदया युद्धं यत्रासौ कृतवान्सह॥ समवाये च युद्धस्य रामस्यागमनं स्मृतम्। सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता॥ गदायुद्धं च तुमुलमत्रैव परिकीर्तितम्। दुर्योधनस्य राज्ञोऽथ यत्र भीमेन संयुगे॥ ऊरू भग्नौ प्रसह्याजौ गदया भीमवेगया। नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत्॥ एकोनषष्टिरध्यायाः पर्वण्यत्र प्रकीर्तिताः। संख्याता बहुवृत्तान्ताः श्लोकसंख्याऽत्र कथ्यते॥ त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा। मुनिना संप्रणीतानि कौरवाणां यशोभृता॥ अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम्। भग्नोरं यत्र राजानं दुर्योधनममर्षणम्॥ अपयातेषु पार्थेषु त्रयस्तेऽभ्याययूरथाः। कृतवर्मा कृपो द्रौणि: सायाह्ने रुधिरक्षितम्॥ समेत्य ददृशुर्भूमौ पतितं रणमूर्धनि। प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः॥ अहत्वा सर्वपञ्चालान् धृष्टद्युम्नपुरोगमान्। पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनम्॥ यत्रैवमुक्त्वा राजानमपक्रम्य त्रयो स्थाः। सूर्यास्तमनवेलायामासेदुस्ते महद्वनम्॥ न्यग्रोधस्याथ महतो यत्राधस्ताद्व्यवस्थिताः। ततः काकान्बहून् रात्रौ दृष्टवोलूकेन हिंसिताम्॥ द्रौणिः क्रोधसमाविष्टः पितुर्वधमनुस्मरन्। पञ्चालानां प्रसुप्तानां वधं प्रति मनो दधे॥ गत्वा च शिविरद्वार दुर्दृशं तत्र राक्षसम्। घोररूपमपश्यत्स दिवमावृत्य धिष्ठितम्॥ तेन व्याघातमस्त्राणां क्रियमाणमवेक्ष्य च। द्रौणिर्यत्र विरूपाक्षं रुद्रमाराध्य सत्वरः॥ प्रसुप्तान्निशि विश्वस्तान् धृष्टद्युम्नपुरोगमान्। पञ्चालान्सपरीवारान्द्रौपदेयांश्च सर्वशः॥ कृतवर्मणा च सहितः कृपेण च निजनिवान्। यत्रामुच्यन्त ते पार्थाः पञ्च कृष्णबलाश्रयात्॥ सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः। पञ्चालानां प्रसुप्तानां यत्र द्रोणसुताद्वधः॥ धृष्टद्युम्नश्च सूतेन पाण्डवेषु निवेदितः। द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता॥ कृतानशनसंकल्पा पत्र भर्तृनुपाविशत्। द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः॥ प्रियं तस्याचिकीर्षन्वै गदामादाय वीर्यवान्। अन्वधावत्सुसंक्रुद्धो भारद्वाजं गुरोः सुतम्॥ भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितः। अपाण्डवायेति रुषा द्रौणिरस्त्रमवासृजत्॥ मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः। यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः॥ द्रौणेश्च द्रोहबुद्धित्वं वीक्ष्य पापात्मनस्तदा। द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः॥ मणिं तथा समादाय द्रोणपुत्रान्महारथात्। पाण्डवाः प्रददुहृष्टा द्रौपद्यै जितकाशिनः॥ एतद्वैदशमं पर्व सौप्तिकं समुदाहृतम्। अष्टादशास्मिन्नध्यायाः पर्वण्युक्ता महात्मना॥ श्लोकानां कथितान्यत्र शतान्यष्टौ प्रसंख्यया। श्लोकाश्च सप्ततिः प्रोक्ता मुनिना ब्रह्मवादिना॥ सौप्तिकैषीके संबद्ध पर्वण्युत्तमतेजसी। अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम्॥ पुत्रशोकाभिसंतप्तः प्रज्ञाचक्षुर्नराधिपः। कृष्णोपनीतां यत्रासावायसी प्रतिमां दृढाम्॥ भीमसेनद्रोहबुद्धिधृतराष्ट्रो बभञ्ज ह। तथा शोकाभितप्तस्य धृतराष्ट्रस्य धीमतः॥ संसारगहनं बुद्ध्या हेतुभिर्मोक्षदर्शनैः। विदुरेण च यत्रास्य राज्ञ आश्वासनं कृतम्॥ धृतराष्ट्रस्य चात्रैव कौरवायोधनं तथा। सान्तःपुरस्य गमनं शोकार्तस्य प्रकीर्तितम्॥ विलापो वीर पत्नीनां यत्रातिकरुणः स्मृतः। क्रोधावेशः प्रमोहश्च गान्धारीधृतराष्ट्रयोः॥ यत्र तान् क्षत्रियाः शूरान्संग्रामेष्वनिवर्तिनः। पुत्रान् भ्रातॄन् पितंश्चैव ददृशुनिहतान् रणे॥ पुत्रपौत्रवधार्तायस्तथात्रैव प्रकीर्तिता। गान्धार्याश्चापि कृष्णेन क्रोधोपशमनक्रिया॥ यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः। राज्ञां तानि शरीराणि दाहयामास शास्त्रतः॥ तोयकर्माणि चारब्धे राज्ञामुदकदानिके। गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः॥ सुतस्यैतदिह प्रोक्तं व्यासेन परमर्षिणा। एतदेकादशं पर्व शोकवैक्लव्यकारणम्॥ प्रणीतं सज्जनमनो वैक्लव्याश्रुप्रवर्तकम्। सप्तविंशतिरध्यायाः पर्वण्यस्मिप्रकीर्तिताः॥ श्लोकसप्तशती चापि पञ्चसप्ततिसंयुता। संख्यया भारताख्यानमुक्तं व्यासेन धीमता॥ अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम्। यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः॥ घातयित्वा पितॄन् भ्रातॄन् पुत्रान् संबन्धिमातुलान्। शान्तिपर्वणि धर्माश्च व्याख्याताः शारतल्पिकाः॥ राजभिर्वेदितव्यास्ते सम्यग्ज्ञानबुभुत्सुभिः। आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शिनः॥ यान्बुध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात्। मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः॥ द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम्। अत्र पर्वणि विज्ञेयमध्यायानां शतत्रयम्॥ त्रिंशच्चैव तथाध्याया नव चैव तपोधनाः। चतुर्दश सहस्राणि तथा सप्त शतानिच॥ सप्त श्लोकास्तथैवात्र पञ्चविंशतिसंख्यया। अत ऊर्ध्वं च विज्ञेयमनुशासनमुत्तमम्॥ यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम्। भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः॥ व्यवहारोऽत्र कात्स्येन धर्मार्थीयः प्रकीर्तितः। विविधानां च दानानां फलयोगाः प्रकीर्तिताः॥ तथा पात्रविशेषाश्च दानानां च परो विधिः। आचारविधियोगश्च सत्यस्य च परागतिः॥ महाभाग्यं गवां चैव ब्राह्मणानां तथैव च। रहस्यं चैव धर्माणां देशकालोपसंहितम्॥ एतत्सुबहुवृत्तांतमुत्तमं चानुशासनम्। भीष्यस्यात्रैव संप्राप्तिः स्वर्गस्य परिकीर्तिता॥ एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम्। अध्यायानां शतं त्वत्र षट्चत्वारिंशदेव तु॥ श्लोकानां तु सहस्राणि प्रोक्तान्यष्टौ प्रसंख्यया। ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम्॥ तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम्। सुवर्णकोशसंप्राप्तिर्जन्म चोक्तं परीक्षितः॥ दग्धस्यास्त्राग्निना पूर्वं कृष्णात् संजीवनं पुनः। चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः॥ तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः। चित्राङ्गदाया: पुत्रेण पुत्रिकाया धनंजयः॥ संग्रामे बभ्रुवाहेन संशयं चात्र दर्शितः। अश्वमेधे महायज्ञे नकुलाख्यानमेव च॥ इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम्। अध्यायानां शतं चैव त्रयोऽध्यायाश्च क्रीर्तिताः॥ त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च। विंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना।। ततस्त्वाश्रमवासाख्यं पर्व पञ्चदशं स्मृतम्। यत्र राज्यं समुत्सृज्य गान्धार्या सहितो नृपः॥ धृतराष्ट्रोश्रमपदं विदुश्च जगाम ह। यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा॥ पुत्रराज्यं परित्यज्य गुरुश्रुश्रूषणे रता। यत्र राजा हतान्पुत्रान्यौत्रानन्यांश्च पार्थिवान्॥ लोकान्तरगतान्वीरानपश्यत्पुनरागतान्। ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम्॥ त्यक्त्वा शोकं सदारश्च सिद्धि परमिकां गतः। यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः॥ संजयश्च सहामात्यो विद्वान्गावल्गणिर्वशी। ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः॥ नारदाच्चैव शुश्राव वृष्णीनां कदनं महत्। एतदाश्रमवासाख्यं पर्वोक्तं महदद्भुतम्॥ द्विचत्वारिंशदध्यायाः पर्वैतदभिसंख्यया। सहस्रमेकं श्लोकानां पञ्च श्लोकशतानि च॥ घडेव च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना। अतः परं निबोधेदं मौसलं पर्व दारुणम्॥ यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शहता युधि। ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः॥ आपाने पानकलिता दैवेनाभिप्रचोदिताः। एरकारूपिभिर्वर्जेनिजरितरेतरम्॥ यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ। नातिचक्रामतुः कालं प्राप्तं सर्वहरं महत्॥ यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम्। दृष्ट्वा विषादमगमत्परां चार्तिं नरर्षभः॥ स संस्कृत्य नरश्रेष्ठं मातुलं शौरिमात्मनः। ददर्श यदुवीराणामापाने वैशसं महत्॥ शरीरं वासुदेवस्य रामस्य च महात्मनः। संस्कारं लम्भयामास वृष्णीनां च प्रधानतः॥ स वृद्धबालमादाय द्वारवत्यास्ततो जनम्। ददर्शापदि कष्टायां गाण्डीवस्य पराभवम्॥ सर्वेषां चैव दिव्यानामस्तत्राणामप्रसन्नताम्। नाशं वृष्णिकलत्राणां प्रभावानामनित्यताम्॥ दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यप्रचोदितः। धर्मराजं समासाद्य संन्यासं समरोचयत्॥ इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम्। अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम्।। श्लोकानां विंशतिश्चैव संख्याता तत्त्वदर्शिना। महाप्रस्थानिकं तस्मादूर्ध्वं सप्तदशं स्मृतम्॥ यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः। द्रौपद्या सहिता देव्या महाप्रस्थानमास्थिताः॥ यत्र तेऽग्नि ददृशिरे लौहित्यं प्राप्य सागरम्। यत्राग्निना चोदितश्च पार्थस्तस्मै महात्मने॥ ददौ संपूज्य तद्दिव्यं गाण्डीवं धनुरुत्तमम्। यत्र भ्रातृन्निपतितान् द्रौपदी च युधिष्ठिरः॥ दृष्ट्वा हित्वा जगामैव सर्वाननवलोकयन्। एतत्सप्तदशं पर्व महाप्रस्थानिकं स्मृतम्॥ यत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतत्रयम्। विंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना॥३६७। स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम्। प्राप्तं दैवस्थं स्वर्गान्नेष्टवान्यत्र धर्मराट्॥ आरोढुं सुमहाप्राज्ञ आनृशंस्याच्छुना विना। तामस्या विचला ज्ञात्वा स्थिति धर्मे महात्मनः॥ श्वरूपं यत्र तत्त्यक्त्वा धर्मेणासौ समन्वितः। स्वर्ग प्राप्तः स च तथा यातना विपुला भृशम्॥ देवदूतेन नरकं यत्र व्याजेन दर्शितम्। शुश्राव यत्र धर्मात्मा भ्रातृणां करुणा गिरः॥ निदेशे वर्तमानानां देशे तत्रैव वर्तताम्। अनुदर्शितश्च धर्मेण देवराज्ञा च पाण्डवः॥ आप्लुत्याकाशगङ्गायां देहं त्यक्त्वा स मानुषम्। स्वधर्मनिर्जितं स्थानं स्वर्गे प्राप्य स धर्मराट्॥ मुमुदे पूजितः सर्वैः सेन्द्रैः सुरगणैः सह। एतदष्टादशं पर्व प्रोक्तं व्यासेन धीमता॥ अध्यायाः पञ्च संख्याताः पर्वण्यस्मिन्महात्मना। श्लोकानां द्वे शते चैव प्रसंख्याते तपोधनाः॥ नव श्लोकास्तथैवान्ये संख्याताः परमर्षिणा। अष्टादशैवमेतानि पर्वाण्येतान्यशेषतः॥ खिलेषु हरिवंशश्च भविष्यं च प्रकीर्तितम्। दश श्लोकसहस्राणि विंशच्छ्लोकशतानि च॥ खिलेषु हरिवंशे च संख्यातानि महर्षिणा। एतत्सर्वं समाख्यातं भारते पर्वसंग्रहः॥ अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया। तन्महादारुणं युद्धमहान्यष्टादशाभवत्॥ यो विद्याच्चतुरो वेदान् साङ्गोपनिषदो द्विजः। न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः॥ अर्थशास्त्रमिदं प्रोक्तं धर्मशास्त्रमिदं महत्। कामशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना॥ श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते। पुंस्कोकिलगिरं श्रुत्वा रूक्षा ध्वांक्षस्य वागिव॥३८२ इतिहासोत्तमादस्माज्जायन्ते कविबुद्धयः। पञ्चभ्य इव भूतेभ्यो लोकसंविधयस्त्रयः॥ अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः। अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः॥ क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयः। इन्द्रियाणां समस्तानां चित्रा इव मनःक्रियाः॥ अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते। आहारमनपाश्रित्य शरीरस्येव धारणम्॥ इदं कविवरैः सर्वैराख्यानमुपजीव्यते। उदयप्रेप्सुभिर्भूत्यैरभिजात इवेश्वरः॥ अस्य काव्यस्य कवयो न समर्था विशेषणे। साधोरिव गृहस्थस्य शेषास्त्रय इवाश्रमाः॥ धर्मे मतिर्भवतु वः सततोत्थितानां स ह्येक एव परलोकगतस्य बन्धुः। अर्थाः स्त्रियश्च निपुणैरपि सेव्यमाना नैवाप्तभावमुपयान्ति न च स्थिरत्वम्॥ द्वैपायनौष्ठपुटनिःसृतमप्रमेयं पुण्यं पवित्रमथ पापहरं शिवं च। यो भारतं समधिगच्छति वाच्यमानं किं तस्य पुष्करजलैरभिषेचनेन॥ यदह्नात् कुरुते पापं ब्राह्मणस्त्विन्द्रियैश्चरन्। महाभारतमाख्याय सन्ध्यां मुच्यति पश्चिमाम्॥३९१ यद्रात्रौ कुरुते पापं कर्मणा मनसा गिरा। महाभारतमाख्याय पूर्व सन्ध्यां प्रमुच्यते॥ यो गोशतं कनकशृङ्गमयं ददाति विप्राय वेदविदुषे च बहुश्रुताय। पुण्यां च भारतकथां शृणुयाच्च नित्यं तुल्यं फलं भवति तस्य च तस्य चैव।। ३९३। आख्यानं तदिदमनुत्तमं महार्थं विज्ञेयं महदिह पर्वसंग्रहेण। श्रुत्वादौ भवति नृणां सुखावगाहं विस्तीर्णं लवणजलं यथा प्लवेन॥ सौतिरुवाच अग्नेस्थ वचः श्रुत्वा तद्रक्षः प्रजहार ताम्। ब्रह्मन्वराहरूपेण मनोमारुतरंहसा॥ ततः स गर्भो निवसत्कुक्षौ भृगुकुलोद्वह। रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत्॥ तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम्। तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम्॥ सा तमादाय सुश्रोणि ससार भृगुनन्दनम्। च्यवनं भार्गवं पुत्रं पुलोमा दुःखमूर्छिता॥ तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः। रुदतीं बाष्पपूर्णाक्षी भृगोर्भार्यामनिन्दिताम्॥ सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः। अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी॥ आवर्तन्ती सृति तस्या भृगोः पत्न्यास्तपस्विनः। तस्या मार्ग सृतवतीं दृष्ट्वा तु सरितं तदा॥ नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः। वधूसरेति भगवांश्च्यवनस्याश्रमं प्रति॥ स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान्। तं ददर्श पिता तत्र च्यवनं तां च भाविनीम्। स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः॥ भृगुरुवाच केनाऽसि रक्षसे तस्मै कलिता त्वं जिहीर्षते। न हि त्वां वेद तद्रक्षो मद्भार्यां चारुहासिनीम्॥ तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा। बिभेति को न शापान्मे कस्यचायं व्यतिक्रमः॥ पुलोमोवाच अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता। ततो मामनयद्रक्षः क्रोशन्ती कुररीमिव॥ साऽहं तव सुतस्यास्य तेजसा परिमोक्षिता। भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै॥ सौतिरुवाच इति श्रुत्वा पुलोमाया भृगुः परममन्युमान्। शशापाग्निमतिक्रुद्धः सर्वभक्षो भविष्यसि॥ सौतिरुवाच शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत्। किमिदं साहसं ब्रह्मन्कृतवानसि मां प्रति॥ धर्मे प्रयतमानस्य सत्यं च वदतः समम्। पृष्टो यदब्रवं सत्यं व्यभिचारोऽत्र को मम॥ पृष्टो हि साक्षी यः साक्ष्यं जानानोऽप्यन्यथा वदेत्। स पूर्वानात्मनः सप्त कुले हन्यात्तथा परान्॥ यश्च कार्यार्थतत्त्वज्ञो जानानोऽपि न भाषते। सोऽपि तेनैव पापेन लिप्येन नात्र संशयः॥ शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम। जानतोऽपि च ते ब्रह्मन्कथयिष्ये निबोध तत्॥ योगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु। अग्निहोत्रेषु सत्रेषु क्रियासु च मखेषु च॥ वेदोक्तेन विधानेन मयि यद्भूयते हविः। देवता पितरश्चैव तेन तृप्ता भवन्ति वै॥ आपो देवगणाः सर्वे आपः पितृगणास्तथा। दर्शश्च पौर्णमासश्च देवानां पितृभिः सह॥ देवताः पितरस्तस्मात्पितरश्चापि देवताः। एकीभूताश्च पूज्यन्ते पृथक्त्वेन च पर्वसु॥ देवता: पितरश्चैव भुञ्जते मयि यद्भुतम्। देवतानां पितॄणां च मुखमेतदहं स्मृतम्॥ अमावास्यां हि पितरः पौर्णमास्यां हि देवताः। मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः॥ सर्वभक्षः कथं त्वेषां भविष्यामि मुखं त्वहम्। सौतिरुवाच चिन्तयित्वा ततो वह्निश्चक्रे संहारमात्मनः। द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च॥ निरोंकारवषट्काराः स्वधास्वाहाविवर्जिताः। विनाऽग्निना प्रजाः सर्वास्तत आसन्सुदुःखिताः॥ अथर्षयः समुद्विग्ना देवान्गत्वाब्रुवन्वचः। अग्निनाशाक्रियाभ्रंशाभ्रान्ता लोकास्त्रयोऽनघाः।। विधद्ध्वमत्र तत्कार्यं न स्यात्कालात्ययो यथा। अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु॥ अग्नेरावेदयन्शापं क्रियासहरमेव च। भृगुणा वै महाभागः शप्तोऽग्निः कारणान्तरे॥ कथं देवमुखो भूत्वा यज्ञभागाग्रभुक्तथा। हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति॥ श्रुत्वा तु तद्वचस्तेषामग्निमाहूय विश्वकृत्। उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम्॥ लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च। त्वं धारयसि लोकांस्त्रीन् क्रियाणां च प्रवर्तकः॥ स तथा कुरु लोकेश नोच्छिोरन्यथा क्रियाः। कस्मादेवं विमूढस्त्वमीश्वरःसन्हुताशन॥ त्वं पवित्र सदा लोके सर्वभूतगतिश्च ह। न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि॥ अपाने ह्यर्चिी यास्ते सर्वं भक्ष्यन्ति ताः शिखिन्। क्रव्यादा च तनुर्या ते सा सर्वं भक्षयिष्यति॥ यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते। तथा त्वदर्चिनिर्दग्धं सर्वं शुचि भविष्यति॥ त्वमग्ने परमं तेजः स्वप्रभावाद्विनिर्गतम्। स्वतेजसैव तं शापं कुरु सत्यमृषेविभो। देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम्॥ सौतिरुवाच एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम्। जगाम शासनं कर्तुं देवस्य परमेष्ठिनः॥ देवर्षयश्च मुदितास्ततो जग्मुर्यथागतम्। ऋषयश्च यथापूर्वं क्रियाः सर्वाः प्रचक्रिरे॥ दिवि देवा मुमुदिरे भूतसंघाश्च लौकिकाः। अग्निश्च परमां प्रीतिमवाप हतकल्मषः॥ एवं स भगवाञ्छापं लेभेऽग्निर्भृगुतः पुरा। एवमेष पुरावृत्त इतिहासोऽग्निशापजः। पुलोम्नश्च विनाशोऽयं च्यवनस्य च संभवः॥ सौतिरुवाच तेषु तत्रोपविष्टेषु ब्राह्मणेषु महात्मसु। रुक्षुक्रोश गहनं वनं गत्वाऽतिदुःखितः॥ शोकेनाभिहतः सोऽथ विलपन्करुणं बहु। अब्रवीद्वचनं शोचन्धियां स्मृत्वा प्रमद्वराम्॥ शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी। बान्धवानां च सर्वेषां किं नु दुःखमत:परम्॥ यदि दत्तं तपस्तप्तं गुरवो वा मया यदि। सम्यगाराधितास्तेन संजीवतु मम प्रिया॥ यथा च जन्मप्रभृति यतात्माऽहं धृतव्रतः। प्रमद्वरा तथा ह्येषा समुत्तिष्ठतु भामिनी॥ एवं लालप्यतस्तस्य भार्यार्थे दुःखितस्य च। देवदूतस्तदाऽभ्येत्य वाक्यमाह रुरुं वने।॥ देवदूत उवाच अभिधत्से ह यद्वाचा रुरो दुखेन तन्मृषा। यतो मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः॥ गतायुरेषा कृपणा गन्धर्वाप्सरसोः तस्माच्छोके मनस्तात मा कृथास्त्वं कथंचन॥ उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः। तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीह प्रमद्वराम्॥ रुरुरुवाच क उपायः कृतो देवै—हि तत्त्वेन खेचर। करिष्येऽहं तथा श्रुत्वा त्रातुमर्हति मां भवान्॥ देवदूत उवाच आयुषोऽर्धं प्रयच्छत्वं कन्यायै भृगुनन्दन। सुता। एवमुत्थास्यति रुरो तव भार्या प्रमद्वरा॥ रुरुरुवाच आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम। श्रृंगाररूपाभरणा समुत्तिष्ठतु मे प्रिया॥ सौतिरुवाच ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ। धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम्॥ धर्मराजायुषोर्धेन रुरोर्भार्या प्रमद्वरा। समुत्तिष्ठतु कल्याणी मृतैवं यदि मन्यसे॥ धर्मराज उवाच प्रमद्वरां रुरोर्भार्यां देवदूत यदीच्छसि। उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता॥ सौतिरुवाच एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा। रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी॥ एतदृष्टं भविष्ये हि रुरोरुत्तमतेजसः। आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धमलुप्यत॥ तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा। विवाहं तौ च रेमाते परस्परहितैषिणौ॥ स लब्ध्वा दुर्लभां भार्या पद्मकिञ्जल्कसुप्रभाम्। व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः॥ स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः। अभिहन्ति यथा सत्त्वं गृह्य प्रहरणं सदा॥ स कदाचिद्वनं विप्रो रुरुरभ्यागमन्महत्। शयानं तत्र चापश्यत् डुण्डुभं वयसान्वितम्॥ तत उद्यम्य दण्डं स कालदण्डोपमं तदा। जिघांसुः कुपितो विप्रस्तमुवाचाऽथ डुण्डुभः॥ नापराध्यामि ते किंचिदहमद्य तपोधन। संरंभाच्च किमर्थं मामभिहंसि रुषाऽन्वितः॥ रुरुरुवाच मम प्राणसमाभार्या दष्टासीद्भुजगेन ह। तत्र मे समयो घोर आत्मनोरग वै कृतः॥ भुजंगं वै सदा हन्यां यं यं पश्येयमित्युत। ततोऽहं त्वां जिघांसामि जीवितेनाद्य मोक्ष्यसे॥ डुण्डुभ उवाच अन्ये ते भुजगा ब्रह्मन् ये दशन्तीह मानवान्। डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि॥ एकानर्थान्पृथगर्थानेकदुःखान्पृथक्सुखान्। डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि॥ सौतिरुवाच इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा। नावधीद्भयसंविग्नमृर्षि मत्वाऽथ डुण्डुभम्॥ उवाच चैनं भगवान् रुरुः संशमयन्निव। कामं मां भुजग ब्रूहि कोऽसीमां विक्रियां गतः॥ डुण्डुभ उवाच अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात्। सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः। :॥ रुरुरुवाच किमर्थं शप्तवान्क्रुद्धो द्विजस्त्वां भुजगोत्तम। कियन्तं चैव कालं ते वपुरेतद्भविष्यति॥ डुण्डुभ उवाच सखा बभूव मे पूर्वं खगमो नाम वै द्विजः। भृशं संशितवाक्तात तपोबलसमन्वितः॥ स मया क्रीडता बाल्ये कृत्वा तार्ण भुजंगमम्। अग्निहोत्रे प्रसक्तस्तु भीषितः प्रमुमोह वै॥ लब्वा स च पुनः संज्ञां मामुवाच तपोधनः। निर्दहन्निव कोपेन सत्यवाक्संशितव्रतः॥ यथावीर्यस्त्वया सर्पः कृतोऽयं मद्विभीषया। तथावीर्यो भुजंगस्त्वं मम शापाद्भविष्यसि॥ तस्याहं तपसो वीर्यं जानन्नासं तपोधन। भृशमुद्विग्नहृदयस्तमवोचमहं तदा॥ प्रणत: संभ्रमादेव प्राञ्जलिः पुरतः स्थितः। सखेति सहसेदं ते नर्मार्थं वै कृतं मया॥ क्षन्तुमर्हसि मे ब्रह्मन् शापोऽयं विनिवर्त्यताम्। सोऽथ मामब्रवीदृष्ट्वा भृशमुद्विग्मनचेतसम्॥ मुहुरुष्णं विनिःश्वस्य सुसंभ्रान्तस्तपोधनः। नानृतं वै मया प्रोक्तं भवितेदं कथंचन॥ यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे तपोधन। श्रुत्या च हृदि ते वाक्यमिदमस्तु सदानघ॥ उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः। तं दृष्ट्वा शापमोक्षस्ते भविता न चिरादिव॥ स त्वं रुरुरितिख्यातः प्रमतेरात्मजोऽपि च। स्वरूपं प्रतिपद्याहमद्य वक्ष्यामि ते हितम्॥ स डौण्डुभं परित्यज्य रूपं विप्रर्षभस्तदा। स्वरूपभास्वरं भूयः प्रतिपेदे महायशाः॥ इदं चोवाच वचनं रुरुमप्रतिमौजसम्। अहिंसा परमो धर्मः सर्वप्राणभृतां वर॥ तस्मात्प्राणभृतः सर्वान्न हिंस्याब्राह्मणः क्वचित्। ब्राह्मणः सौम्य एवेह भवतीति परा श्रुतिः॥ वेदवेदाङ्गविन्नाम सर्वभूताभयप्रदः। अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम्॥ ब्राह्मणस्य परो धर्मो वेदानां धारणापि च। क्षत्रियस्य हि यो धर्मः स हि नेष्येत वै तव॥ दण्डधारणमुग्रत्वं प्रजानां परिपालनम्। तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो॥ जनमेजयस्य यज्ञेऽस्मिन् सर्पाणां हिंसनं पुरा। परित्राणां च भीतानां सर्पाणां ब्राह्मणादपि॥ तपोवीर्यबलोपेताद्वेवदेदाङ्गपारगात्। आस्तीकाद्विजमुख्याद्वै सर्पसत्रे द्विजोत्तम॥ रुरुरुवाच कथं हिंसितवान्सन्स राजा जनमेजयः। सर्पा वा हिंसितास्तत्र किमर्थं द्विजसत्तम॥ किमर्थं मोक्षिताश्चैव पन्नगास्तेन धीमता। आस्तीकेन द्विजश्रेष्ठ श्रोतुमिच्छाम्यशेषतः॥ ऋषिरुवाच श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत्। ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत॥ सौतिरुवाच रुस्श्चापि वनं सर्वं पर्यधावत्समन्ततः। तमृषि नष्टमन्विच्छन्संश्रान्तो न्यपत वि॥ स मोहं परमं गत्वा नष्टसंज्ञ इवाभवत्। तदृषेर्वचनं तथ्यं चिन्तयानं पुनः पुनः॥ लब्धसंज्ञो रुस्चायात्तदाचख्यौ पितुस्तदा। पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत्॥ शौनक उवाच किमर्थं राजशार्दूल: स राजा जनमेजयः। सर्पसत्रेण सणां गतोऽन्तं तद्वदस्व मे॥ निखिलेन यथातत्त्वं सौते सर्वमशेषतः। आस्तीकश्च द्विजश्रेष्ठः किमर्थं जयतां वरः॥ मोक्षयामास भुजगान् प्रदीप्ताद्वसुरेतसः। कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत्॥ स च द्विजातिप्रवरः कस्य पुत्रोऽभिधत्स्व मे। सौतिरुवाच महदाख्यानमास्तीकं यथैतत्प्रोच्यते द्विजः। सर्वमेतदशेषेण शृणु मे वदतां वर॥ शौनक उवाच श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम्। आस्तीकस्य पुराणाह्मणस्य यशस्विनः॥ सौतिरुवाच इतिहासमिमं विप्राः पुराणं परिचक्षते। कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिषु॥ पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणः। शिष्यो व्यासस्य मेधावी ब्राह्मणेष्विदमुक्तवान्॥ तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम्। इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते॥ कथयिष्याम्यशेषेण सर्वपापप्रणाशनम्। आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः॥ ब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा। जरत्कारुरिति ख्यात अर्ध्वरेता महातपाः॥ यायावराणां प्रवरो धर्मज्ञः संशितव्रतः। स कदाचिन्महाभागस्तपोबलसमन्वितः॥ चचार पृथिवीं सर्वां यत्र सायंगृहो मुनिः। तीर्थेषु च समाप्लावं कुर्वनटति सर्वशः॥ चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः। वायुभक्षो निराहारः शुष्यन्ननिमिषो मुनिः॥ इतस्ततः परिचरन् दीप्तपावकसप्रभः। अटमानः कदाचित्स्वान् स ददर्श पितामहान्॥ लम्बमानान्महागर्ते पादैरूधैरवाङ्मुखान्। तानब्रवीत्स दुष्टवैव जरत्कारुः पितामहान्॥ के भवन्तोऽवलम्बन्ते गर्ने ह्यस्मिन्नधोमुखाः। वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते॥ मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना। पितर ऊचुः यायावरा नाम वयमृषयः संशितव्रताः। संतानप्रक्षयाब्रह्मन्नधो गच्छाम मेदिनीम्॥ अस्माकं संततिस्त्वेको जरत्कारुरिति स्मृतः। मन्दभाग्योऽल्पभाग्यानां तप एव समास्थितः॥ न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति। तेन लम्बामहे गर्ने संतानस्य क्षयादिह॥ अनाथास्तेन नाथेन यया दुष्कृतिनस्तथा। कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम॥ ज्ञातुमिच्छामहे ब्रह्मन् कोभवानिह न: स्थितः। किमर्थं चैव नः शोच्याननुशोचसि सत्तम॥ जरत्कारुरुवाच मम पूर्वे भवन्तो वै पितरः सपितामहाः। ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम्॥ पितर ऊचुः यतस्व यत्नवांस्तात संतानाय कुलस्य नः। आत्मनोऽर्थेस्मदर्थे च धर्म इत्येव वा विभो॥ न हि धर्मफलैस्तात न तपोभिः सुसंचितैः। तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति वै॥ तद्दारग्रहणे यत्नं संतत्यां च मनः कुरु। पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम्॥ जरत्कारुरुवाच न दारान्वै करिष्येऽहं न धनं जीवितार्थतः। भवतां तु हितार्थाय करिष्ये दारसंग्रहम्॥ समयेन च कर्ताहमनेन विधिपूर्वकम्। यथा यधुपलप्स्यामि करिष्ये नान्यथा ह्यहम्॥ सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः। भैक्ष्यवत्तामहं कन्यामुपयंस्ये विधानतः॥ दरिद्राय हि मे भार्यां को दास्यति विशेषतः। प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति॥ एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः। अनेन विधिना शश्वन्न करिष्येऽहमन्यथा।॥ तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै। शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम॥ सौतिरुवाच ततो निवेशाय तदा स विप्रः संशितव्रतः। महीं चचार दारार्थी न च दारानविन्दतः॥ स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन्। चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव॥ तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनीं तदा। न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन्॥ सनाम्नी चोद्यतां भार्यां गृह्णीयामिति तस्य हि। मनो निविष्टमभवज्जरत्कारोर्महात्मनः॥ तमुवाच महाप्राज्ञो जरत्करुमहातपाः। किं नाम्नी भगिनीयं ते ब्रूहि सत्यं भुजंगम॥ वासुकिरुवाच जरत्कारो जरत्कारुः स्वसेयमनुजा मम। प्रतिगृह्णीष्व भार्यार्थे मया दत्तां सुमध्यमाम्। त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम॥ एवमुक्त्वा ततः प्रादाद्भार्यार्थे वरवर्णिनीम्। स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा॥ सौतिरुवाच मात्रा हि भुजगा: शप्ताः पूर्वं ब्रह्मविदांवर। जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः॥ तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः। स्वसारमृषये तस्मै सुव्रताय महात्मने।॥ स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा। आस्तीको नामपुत्रश्च तस्यां जज्ञे महामनाः॥ तपस्वी च महात्मा च वेदवेदाङ्गपारगः। समः सर्वस्य लोकस्य पितृमातृभयापहः॥ अथ दीर्घस्य कालस्य पाण्डवेयो नराधिपः। आजहार महायज्ञं सर्पसत्रमिति श्रुतिः॥ तस्मिन्प्रवृत्ते सत्रे तु सर्याणामन्तकाय वै। मोचयामास तान्नागानास्तीकः सुमहातपाः॥ भ्रातृ॑श्च मातुलांश्चैव तथैवान्यान्स पन्नगान्। पितुंश्च तारयामास संतत्या तपसा तथा॥ व्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत्। देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः। :॥ ऋषींश्च ब्रह्मचर्येण संतत्या च पितामहान्। अपहृत्य गुरुं भारं पितॄणां संशितव्रतः॥ जरत्कारुर्गतः स्वर्गं सहित: स्वैः पितामहैः। आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः॥ जरत्कारुः सुमहता कालेन स्वर्गमेयिवान्। एतदाख्यानमास्तीकं यथावत्कथितं मया। प्रब्रूहि भृगुशार्दूल किमन्यत्कथयामि ते॥ शौनक उवाच सौते त्वं कथयस्वेमां विस्तरेण कथां पुनः। आस्तीकस्य कवेः साधोः शुश्रूषा परमा हि नः॥ मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया। प्रीयामहे भृशं तात पितेवेदं प्रभाषसे॥ अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव। आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद॥ सौतिरुवाच आयुष्मन्निदमाख्यानमास्तीकं कथयामि ते। यथाश्रुतं कथयतः सकाशाद्वै पितुर्मया॥ पुरा देवयुगे ब्रह्म प्रजापतिसुते शुभे। आस्तां भगिन्यौ रूपेण समुपेतेद्धतेऽनघ॥ ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह। प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः॥ कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः। वरातिसगं श्रुत्वैवं कश्यपादुत्तमं च ते॥ हषार्दप्रतिमां प्रीतिं प्रापतुःस्म वरस्त्रियौ। वने कदूः सुतान्नागान्सहस्रं तुल्यवर्चसः॥ द्वौ पुत्रौ विनता वने कदूपुत्राधिको बले। तेजसा वपुषा चैव विक्रमेणाधिकौ च तौ॥ तस्यै भर्ता वरं प्रादादत्यर्थं पुत्रमीप्सितम्। एवमस्त्विति तं चाह कश्यपं विनता तदा॥ यथावत्प्रार्थित लख्वा वरं तुष्टाऽभवत्तदा। कृतकृत्या तु विनता लब्ध्वा वीर्याधिको सुतौ॥ कदूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यवर्चसाम्। धार्यो प्रयत्नतो गर्भावित्युक्त्वा स महातपाः॥ ते भार्ये वरसंतुष्टे कश्यपो वनशाविशत्। सौतिरुवाच कालेन महता कद्दूरण्डानां दशतीर्दश। जनयामास विप्रेन्द्र द्वे चाण्डे विनता तदा॥ तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः। सोपस्वेदेषु भाण्डेषु पञ्चवर्षशतानि च॥ ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः। अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत॥ ततः पुत्रार्थिनी देवी वीडिता च तपस्विनी। अण्डं बिभेद विनता तत्र पुत्रमपश्यत॥ अध्यर्धकायसंपन्नमितरेणाप्रकाशता। स पुत्रः क्रोधसंरब्धः शशापैनामिति श्रुतिः॥ योऽहमेवं कृतो मातस्त्वया लोभपरीतया। शरीरेणासमग्रेण तस्माद्दासी भविष्यसि॥ पञ्चवर्षशतान्यस्या यया विस्पर्धसे सह। एष च त्वां सुतो मातर्दासीत्वान्मोचयिष्यति॥ यद्येनमपि मातस्त्वं मामिवाण्डबिभेदनात्। न करिष्यस्यनङ्गं वा व्यङ्गं वापि तपस्विनम्॥ प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया। विशिष्टं बलमीप्सन्त्या पञ्चवर्षशतात्परः॥ एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः। अरुणो दृश्यते ब्रह्मन्प्रभातसमये यदा॥ आदित्यरथमध्यास्ते सारथ्यं समकल्पयत्। गरुडोऽपि यथाकालं जज्ञे पन्नगभोजनः॥ स जातमात्रो विनतां परित्यज्य खमाविशत्। आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत्। विधात्रा भृगुशार्दूल क्षुधितः पतगेश्वरः॥ सौतिरुवाच ततोऽभ्रशिखराकारैर्गिरिशृंङ्गैरलंकृतम्। मन्दरं पर्वतवरं लताजालसमाकुलम्॥ नानाविहगसंघुष्टं नानादंष्ट्रिसमाकुलम्। किन्नरैरप्सरोभिश्च देवैरपि च सेवितम्॥ एकादशसहस्राणि योजनानां समुच्छ्रितम्। अधोभूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम्॥ तमुद्धर्तुमशक्ता वै सर्वे देवगणास्तदा। विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन्॥ भवन्तावत्र कुर्वीतां बुद्धिंः नैःश्रेयसी पराम्। मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः॥ सौतिरुवाच तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव अचोदयदमेयात्मा फणीन्द्रं पद्मलोचनः॥ ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः। नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान्॥ अथ पर्वतराजानं तमनन्तो महाबलः। उज्जहार बलाद्ब्रह्मन् सवनं सवनौकसम्॥ ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे। तमूचुरमृतस्यार्थे निर्मथिष्यामहे जलम्॥ अपां पतिरथोवाच ममाप्यंशो भवेत्ततः। सोढाऽस्मि विपुलं मर्द मन्दरभ्रमणादिति॥ ऊचुश्च कूर्मराजानमकूपारे सुरासुराः। अधिष्ठानं गिरेरस्य भवान्भवितुमर्हति॥ कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम्। तं शैलं तस्य पृष्ठस्थं वज्रणेन्द्रो न्यपीडयत्॥ मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम्। देवा मथितुमारब्धाः समुद्र निधिमम्भसाम्॥ अमृतार्थे पुरा ब्रह्मंस्तथैवासुरदानवाः। एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः॥ विबुधाः सहिताः सर्वे यत: पुच्छं ततः स्थिताः। अनन्तो भगवान्देवो यतो नारायणस्ततः। शिर उत्क्षिप्य नागस्य पुनः पुनरवाक्षिपत्॥ वासुकेरथ नागस्य सहसाक्षिप्यतः सुरैः। सधूमाः सार्चिधो वाता निष्पेतुरसकृन्मुखात्॥ ते धूमसंघा: संभूता मेघसंघा: सविद्युतः। अभ्यवर्षन्सुरगणान् श्रमसंतापकर्शितान्॥ तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः। सुरासुरगणान्सर्वान्समन्तात्समवाकिरन्॥ बभूवात्र महानादो महामेघरवोपमः। उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः॥ तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा। विलयं समुपाजग्मुः शतशो लवणाम्भसि॥ वारुणानि च भूतानि विविधानि महीधरः। पातालतलवासीनि विलयं समुपानयत्॥ तस्मिश्च भ्राम्यमाणेऽद्रौ संघृष्यन्तः परस्परम्। न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः॥ तेषां संघर्षजश्चाग्निरर्चिभि: प्रज्वलन्मुहुः। विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम्॥ ददाह कुंजरांस्तत्र सिंहांश्चैव विनिर्गतान्। विगतासूनि सर्वाणि सत्त्वानि विविधानि च॥ तमग्निममरश्रेष्ठः प्रदहन्तमितस्ततः। वारिणा मेघजेनेन्द्रः शमयामास सर्वशः।॥ ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि। महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः॥ तेषाममृतवीर्याणां रसानां पयसैव च। अमरत्वं सुरा जग्मुः काञ्चनस्य च नि:स्रवात्॥ ततस्तस्य समुद्रस्य तज्जातमुदकं पयः। रसोत्तमैर्विमिदं च तत: क्षीरादभूद्धृतम्॥ ततो ब्रह्माणमासीनं देवा वरदमब्रुवन्। श्रान्ता:स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत्॥ विना नारायणं देवं सर्वेऽन्ये देवदानवाः। चिरारब्धमिदं चापि सागरस्यापि मन्थनम्॥ ततो नारायणं देवं ब्रह्मा वचनमब्रवीत्। विधत्स्वैषां बलं विष्णो भवानत्र परायणम्॥ विष्णुरुवाच बलं ददामि सर्वेषां कमैतद्ये समास्थिताः। क्षोभ्यतां कलशः सर्वैर्मन्दरः परिवर्त्यताम्॥ सूत उवाच नारायणवचः श्रुत्वा बलिनस्ते महोदधेः। तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम्॥ ततः शतसहस्रांशुर्मथ्यमानात्तु सागरात्। प्रसन्नात्या समुत्पन्नः सोमः शीतांशुरुज्ज्वलः॥ श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी। सुरादेवी समुत्पन्ना तुरगः पाण्डुरस्तथा॥ कौस्तुभस्तु मणिर्दिव्य उत्पन्नो घृतसंभवः। मरीचिविकचः श्रीमान्नारायण उरोगतः॥ पारिजातश्च तत्रैव सुरभिश्च महामुने। जज्ञाते तौ तदा सर्वकामफलप्रदायिनौ॥ श्री: सुरा चैव सोमश्च तुरगश्च मनोजवः। यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः॥ धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत। श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति॥ एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः। अमृतार्थे महान्नादो ममेदमिति जल्पताम्॥ श्वेतैर्दन्तैश्चतुर्भिस्तु महाकायस्ततः परम्। ऐरावतो महानागोऽभवद्वज्रभृता धृतः॥ अतिनिर्मथनादेव कालकूटस्ततः परः। जगदावृत्य सहसा सधूमोऽग्निरिव ज्वलन्॥ त्रैलोक्यं मोहितं यस्य गन्धमाघ्राय तद्विषम्। प्राग्रसल्लोकरक्षार्थं ब्रह्मणो वचनाच्छिवः॥ दधार भगवान्कण्ठे मन्त्रमूर्तिर्महेश्वरः। तदा प्रभृति देवस्तु नीलकण्ठ इति श्रुतिः॥ एतत्तदद्भुतं दृष्ट्वा निराशा दानवाः स्थिताः। अमृतार्थे च लक्ष्यर्थे महान्तं वैरमाश्रिताः॥ ततो नारायणो मायां मोहिनी समुपाश्रितः। स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः॥ ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः। स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः॥ सौतिरुवाच अथावरणमुग्यानि नानाप्रहरणानि च। प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः॥ ततस्तदमृतं देवो विष्णुरादाय वीर्यवान्। जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः॥ ततो देवगणाः सर्वे पपुस्तदमृतं तदा। विष्णोः सकाशात्संप्राप्य संभ्रमे तुमुले सति॥ ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम्। राहुविबुधरूपेण दानवः प्रापिबत्तदा॥ तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा। आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया॥ ततो भगवता तस्य शिरश्छिन्नमलंकृतम्। चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा॥ तच्छैलशृङ्गप्रतिमं दानवस्य शिरो महत्। चक्रच्छिन्नं खमुत्पत्य ननादातिभयंकरम्॥ तत्कबन्धं पपातास्य विस्फुरद्धरणीतले। सपर्वतवनद्वीपां दैत्यस्याकम्पयन्महीम्॥ ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै। शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ॥ विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः। नानाप्रहरणैर्भीमैर्दानवान्समकम्पयत्॥ ततः प्रवृत्तः संग्राम: समीपे लवणाम्भसः। सुराणामसुराणां च सर्वघोरतरो महान्॥ प्रासाश्च विपुलास्तीक्ष्णा न्यपतन्त सहस्रशः। तोमराश्चसुतीक्ष्णाग्राः शस्त्राणि विविधानि च॥ ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु। असिशक्तिगदारुग्णा निपेतुर्धरणीतले॥ छिन्नानि पट्टिशैश्चैव शिरांसि युधि दारुणैः। तप्तकाञ्चनमालीनि निपेतुरनिशं तदा॥ रुधिरेणानुलिप्ताङ्गा निहताश्च महासुराः। अद्रीणामिव कूटानि धातुरक्तानि शेरते॥ हाहाकारः समभवत्तत्र तत्र सहस्रशः। अन्योऽन्यं छिन्दतां शस्त्रैरादित्ये लोहितायति॥ परिघेरायसैस्तीक्ष्णैः संनिकर्षे च मुष्टिभिः। निघ्नतां समरेऽन्योऽन्यं शब्दो दिवमिवास्पृशत्॥ छिन्द्धि भिन्द्धि प्रधाव त्वं पातयाभिसरेति च। व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः॥ एवं सुतुमुले युद्धे वर्तमाने महाभये। नरनारायणौ देवौ समाजग्मतुराहवम्॥ तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि। चिन्तयामास तच्चक्रं विष्णुर्दानवसूदनम्।॥ ततोऽम्बराच्चिन्तितमात्रमागतं महाप्रभं चक्रममित्रतापनम्। विभावसोस्तुल्यमकुण्ठमण्डलं सुदर्शनं संयति भीमदर्शनम्॥ तदागतं ज्वलितहुताशनप्रभं भयंकरं करिकरबाहुरच्युतः। मुमोच वै प्रबलवदुगवेगवान्। महाप्रभं परनगरावदारणम्॥ तदन्तकज्वलनसमानवर्चसं पुनः पुनर्व्यपतत वेगवत्तदा। विदारयद्दितिदनुजान्सहस्रशः करेरितं पुरुषवरेण संयुगे॥ दहत्क्वचिज्ज्वलन इवावलेलिहत् प्रसह्य तानसुरगणान्यकृन्तत। प्रवेरितं वियति मुहुः क्षितौ तथा पपौ रणे रुधिरमथो पिशाचवत्॥ तथाऽसुरा गिरिभिरदीनचेतसो मुहुर्मुहुः सरगणमादयस्तदा। महाबला विगलितमेघवर्चसः सहस्रशो गगनमभिप्रपद्य ह॥ अथाम्बराद्भयजननाः प्रपेदिरे सपादपा बहुविधमेघरूपिणः। महाद्रयः परिगलिताग्रसानवः परस्परं द्रुतमभिहत्य सस्वनाः॥ ततो मही प्रविचलिता सकानना महाद्रिपाताभिहता समन्ततः। परस्परं भृशमभिवर्जतां मुहू रणाजिरे भृशमभिसंप्रवर्तिते॥ नरस्ततो वरकनकाग्रभूषणैमहेषुभिर्गगनपथं समावृणोत्। विदारयन्गिरिशिखराणि पत्रिभिः महाभयेऽसुरगणविग्रहे तदा॥ ततः महीं लवणजलं च सागरं महासुराः प्रविविशुरर्दिताः सुरैः। वियद्गतं ज्वलितहुताशनप्रभं सुदर्शनं परिकुपितं निशम्य ते॥ ततः सुरैविजयमवाप्य मन्दरः स्वमेव देशं गमितः सुपूजितः। विनाद्य खं दिवमपि चैव सर्वशः ततो गताः सलिलधरा यथागतम्॥ ततोऽमृतं सुनिहितमेव चक्रिरे सुराः परां मुदमभिगम्य पुष्कलाम्। ददौ च तं निधिममृतस्य रक्षितुं किरीटिने बलभिदथामरैः सह॥ सौतिरुवाच ततो रजन्या व्युष्टायां प्रभातेऽभ्युदिते रवौ। कदूश्च विनताचैव भगिन्यौ तै तपोधन॥ अमषिते सुसंरब्धे दास्ये कृतपणे तदा। जग्मतुस्तुरगं द्रष्टुमुच्चैःश्रवसमन्तिकात्॥ ददृशातेऽथ ते तत्र समुद्र निधिमम्भसाम्। महान्तमुदकागाधं क्षोभ्यमाणं महास्वनम्॥ तिमिङ्गिलझषाकीर्णं मकरैरावृतं तथा। सत्त्वैश्च बहुसाहर्नानारूपैः समावृतम्॥ भीषणैर्विकृतैरन्यैोरैजलचरैस्तथा। उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम्॥ आकरं सर्वरत्नानामालयं वरुणस्य च। नागानामालयं रम्यमुत्तमं सरितां पतिम्॥ पातालज्वलनावासमसुराणां च बान्धवम्। भयंकरं च सत्त्वानां पयसां निधिमर्णवम्॥ शुभं दिव्यममानाममृतस्याकरं परम्। अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम्॥ घोरं जलचरारावरौद्रं भैरवनि:स्वनम्। गंभीरावर्तकलिलं सर्वभूतभयंकरम्॥ वेलादोलानिलचलं क्षोभोद्वेगसमुच्छ्रितम्। वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वतः॥ चन्द्रवृद्धिक्षयवशादुद्वृत्तोर्मिसमाकुलम्। पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम्॥ गां विन्दता भगवता गोविन्देनामितौजसा। वराहरूपिणा चान्तर्विक्षोभितजलाविलम्॥ ब्रह्मर्षिणा व्रतवता वर्षाणां शतमत्रिणा। अनासादितगाधं च पातालतलमव्ययम्॥ अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः। युगादिकालशयनं विष्णोरमिततेजसः॥ वज्रपातनसंत्रस्तमैनाकस्याभयप्रदम्। डिम्बाहवादितानां च असुराणां परायणम्॥ वडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शिवम्। अगाधपारं विस्तीर्णमप्रमेयं सरित्यतिम्॥ महानदीभिर्बह्वीभिःस्पर्धयेव सहस्रशः अभिसार्यमाणमनिशं ददृशाते महार्णवम्। आपूर्यमाणमत्यर्थं नृत्यमानमिवोर्मिभिः॥ गंभीरं तिमिमकरोग्रसंकुलं तं। गर्जन्त जलचररावरौद्रनादैः। विस्तीर्णं ददृशतुरम्बरप्रकाशं तेऽगाधं निधिमुरुमम्भसामनन्तम्॥ सौतिरुवाच नागाश्च संविदं कृत्वा कर्तव्यमिति तद्वचः। निःस्नेहा वै दहेन्माता असंप्राप्तमनोरथा॥ प्रसन्ना मोक्षयेदस्मांस्तस्माच्छापाच्च भामिनी। कृष्णं पुच्छं करिष्यामस्तुरगस्य न संशयः॥ तथा हि गत्वा ते तस्य पुच्छे वाला इति स्मृताः। एतस्मिन्नन्तरे ते तु सपत्न्यौ पणिते तदा॥ ततस्ते पणितं कृत्वा भगिन्यौ द्विजसत्तम। जग्मतुः परया प्रीत्या परं पारं महोदधेः॥ कदूश्च विनताचैव दाक्षायण्यौ विहायसा। आलोकयन्त्यावक्षोभ्यं समुद्र निधिमम्भसाम्॥ वायुनाऽतीव सहसा क्षोभ्यमाणं महास्वनम्। तिमिगिलसमाकीर्णं मकरैरावृतं तथा॥ संयुतं बहुसाहस्रैः सत्त्वैर्नानाविधैरपि। घोरै?रमनाधृष्यं गंभीरमतिभैरवम्॥ आकरं सर्वरत्नानामालयं वरुणस्य च। नागानामालयं चापि सुरम्यं सरितां पतिम्॥ पातालज्वलनावासमसुराणां तथालयम्। भयंकराणां सत्त्वानां पयसो निधिमव्ययम्॥ शुभं दिव्यममानाममृतस्याकरं परम्। अप्रमेयमचिन्त्यं च सुपुण्यजलसंमितम्॥ महानदीभिर्बह्वीभिस्तत्र तत्र सहस्रशः। आपूर्यमाणमत्यर्थं नृत्यन्तमिव चोर्मिभिः॥ इत्येवं तरलतरोर्मिसंकुलं ते गंभीरं विकसितमम्बरप्रकाशं। पातालज्वलनशिखाविदीपिताङ्गं गर्जन्तं द्रुतमभिजग्मतुस्ततस्ते॥ सौतिरुवाच तं समुद्रमतिक्रम्य कर्विनतया सह। न्यपतत्तुरगाभ्याशे न चिरादिव शीघ्रगा॥ ततस्ते तं हयश्रेष्ठं ददृशाते महाजवम्। शशाङ्ककिरणप्रख्यं कालवालमुभे तदा।॥ निशम्य च बहून्वालान् कृष्णान्पुच्छसमाश्रितान्। विषण्णरूपां विनतां कदूर्दास्ये न्ययोजयत्॥ ततः सा विनता तस्मिन्पणितेन पराजिता। अभवदुःखसंतप्ता दासीभावं समास्थिता॥ एतस्मिन्नन्तरे चापि गरुडः काल आगते। विना मात्रा महातेजा विदार्याण्डमजायत॥ महासत्त्वबलोपेतः सर्वा विद्योतयन्दिशः। कामरूपः कामगमः कामवीर्यो विहंगमः॥ अग्निराशिरिवोद्भासन्समिद्धोऽतिभयंकरः। विद्युदविस्पष्टपिङ्गाक्षो युगान्ताग्निसमप्रभः॥ प्रवृद्धः सहसा पक्षी महाकायो नभोगतः। घोरो घोरस्वनो रौद्रो वह्निरौर्व इवापरः॥ तं दृष्ट्वा शरणं जग्मुर्देवाः सर्वे विभावसुम्। प्रणिपत्याब्रुवंश्चैनमासीनं विश्वरूपिणम्॥ अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन्नो न दिधक्षसि। असौ हि राशिः सुमहान्समिद्धस्तव सर्पति॥ अग्निरुवाच नैतदेवं यथा यूयं मन्यध्वमसुरार्दनाः। गरुडो बलवानेष मम तुल्यश्च तेजसा॥ जातः परमतेजस्वी विनतानन्दवर्धनः। तेजोराशिमिमं दृष्ट्वा युष्मान्मोहः समाविशत्॥ नागक्षयकरश्चैव काश्यपेयो महाबलः। देवानां च हिते युक्तस्त्वहितौ दैत्यरक्षसाम्॥ न भीः कार्या कथं चात्र पश्यध्वं सहिता मम॥ एवमुक्तास्तदा गत्वा गरुडं वाग्भिरस्तुवन्। ते दूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा॥ देवा ऊचुः त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः। त्वं प्रभुस्तपनः सूर्यः परमेष्ठी प्रजापतिः॥ त्वमिन्द्रस्त्वं हयमुखस्त्वं शर्वस्त्वं जगत्पतिः। त्वं मुखं पद्मजो विप्रस्त्वमग्निः पवनस्तथा।॥ त्वं हि धाता विधाता च त्वं विष्णुः सुरसत्तमः। त्वं महानभिभूः शश्वदमृतं त्वं महद्यशः॥ त्वं प्रभास्त्वमभिप्रेतं त्वं नस्त्राणमनुत्तमम्। बलोमिमान्साधुरदीनसत्त्वः समृद्धिमान्दुर्विषहस्त्वमेव॥ त्वत्त: सृतं सर्वमहीनकीर्ते ह्यनागतं चोपगतं च सर्वम्। त्वमुत्तमः सर्वमिदं चराचरं गभस्तिभिर्भानुरिवावभाससे॥ समाक्षिपन्भानुमतः प्रभां मुहुः त्वमन्तकः सर्वमिदं ध्रुवाध्रुवम्। दिवाकरः परिकुपितो यथा दहेत् प्रजास्तथा दहसि हुताशनप्रभः॥ भयंकरः प्रलय इवाग्निरुत्थितः विनाशयन्युगपरिवर्तनान्तकृत्॥ खगेश्वरं शरणमुपागता वयं महौजसं ज्वलनसमानवर्चसम्। तडित्प्रभं वितिमिरमभ्रगोचरं महाबलं गरुडमुपेत्य खेचरम्। परावरं वरदमजय्यविक्रम तवौजसा सर्वमिदं प्रतापितम्॥ जगत्प्रभो तप्तसुवर्णवर्चसा त्वं पाहि सर्वांश्च सुरान्महात्मनः। भयान्विता नभसि विमानगामिनो विमानिता विपथगतिं प्रयान्ति ते॥ ऋषेः सुतस्त्वमसि दयावतः प्रभो महात्मनः खगवर कश्यपस्य ह। स मा क्रुधः कुरु जगतो दयां परां त्वमीश्वरः प्रशममुपैहि पाहि नः॥ महाशनिस्फुरितसमस्वनेन ते दिशोऽम्बरं त्रिदिवमियं च मेदिनी। चलन्ति नः खगहृद्यानि चानिशं निगृह्यतां वपुरिदमग्निसंनिभम्॥ तव द्युतिं कुपितकृतान्तसंनिभां निशम्य नश्चलति मनोऽव्यवस्थितम्॥ प्रसीद नः पतगपते प्रयाचतां शिवश्च नो भव भगवन्सुखावहः। एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा तेजसः प्रतिसंहारमात्मनः स चकार ह॥ सौतिरुवाच स श्रुत्वाऽथात्मनो देहं सुपर्णः प्रेक्ष्य च स्वयम्। शरीरप्रतिसंहारमात्मनः संप्रचक्रमे॥ सुपर्ण उवाच न मे सर्वाणि भूतानि बिभियुर्देहदर्शनात्। भीमरूपात्समुद्विग्नास्तस्मात्तेजस्तु संहरे॥ सौतिरुवाच ततः कामगम: पक्षी कामवीर्यो विहंगमः। अरुणं चात्मनः पृष्ठमारोप्य स पितुर्ग्रहात्॥ मातुरन्तिकमागच्छत्परं तीरं महोदधेः। तत्रारुणश्च निक्षिप्तो दिशं पूर्वां महाद्युतिः॥ सूर्यस्तेजोभिरत्युप्रैर्लोकान्दग्धुमना यदा। रुरुरुवाच किमर्थं भगवान्सूर्यो लोकान्दग्धुमनास्तदा। किमस्यापहृतं देवैयेनमं मन्युराविशत्॥ प्रमतिरुवाच चन्द्रादित्यैर्यदा राहुराख्यातो ह्यमृतं पिबन्। वैरानुबन्धं कृतवांश्चन्द्रादित्ये तदाऽनघ॥ वध्यमाने ग्रहेणाथ आदित्ये मन्युराविशत्। सुरार्थाय समुत्पन्नो रोषो राहोस्तु मां प्रति॥ बबनर्थकरं पापमेकोऽहं समवाप्नुयाम्। सहाय एव कार्येषु च कृच्छ्रेषु दृश्यते॥ पश्यन्ति ग्रस्यमानं मां सहन्ते वै दिवौकसः। तस्माल्लोकविनाशार्थं ह्यवतिष्ठे न संशयः॥ एवं कृतमति: सूर्यो ह्यस्तमभ्यगमद्गिरिम्। तस्माल्लोकविनाशाय संतापयत भास्करः॥ ततो देवानुपागम्य प्रोचुरेवं महर्षयः। अद्यार्धरात्रसमये सर्वलोकभयावहः॥ उत्पत्स्यते महान्दाहस्त्रैलोक्यस्य विनाशनः। ततो देवाः सर्षिगणा उपगम्य पितामहम्॥ अब्रुवन्किमिवेहाद्य महद्दाहकृतं भयम्। न तावद् दृश्यते सूर्यः क्षयोऽयं प्रतिभाति च। उदिते भगवद्भानौ कथमेतद्भविष्यति॥ पितामह उवाच एष लोकविनाशाय रविरुद्यन्तुमुद्यतः। दृश्यन्नेव हि लोकान्स भस्मराशीकरिष्यति॥ तस्य प्रतिविधानं च विहितं पूर्वमेव हि॥ कश्यपस्य सुतो धीमानरुणेत्यभिविश्रुतः। महाकायो महातेजाः स स्थास्यति पुरो रवेः॥ करिष्यति च सारथ्यं तेजश्चास्य हरिष्यति। लोकानां स्वस्ति चैवं स्यादृषीणां च दिवौकसाम्।। प्रमतिरुवाच ततः पितामहाज्ञातः सर्वं चक्रे तदाऽरुणः। उदितश्चैव सविता ह्यरुणेन समावृतः॥ एतत्ते सर्वमाख्यातं यत्सूर्यं मन्युराविशत्। अरुणश्च यथैवास्य सारथ्यमकरोत्प्रभुः। भूय एवापरं प्रश्नं शृणु पूर्वमुदाहृतम्॥ सौतिरुवाच ततः कामगम: पक्षी महावीर्यो महाबलः। मातुरन्तिकमागच्छत्परं पारं महोदधेः॥ यत्र सा विनता तस्मिन्पणितेन पराजिता। अतीव दुःखसंतप्ता दासीभावमुपागता॥ ततः कदाचिद्विनतां प्रणतां पुत्रसंनिधौ। काले चाहूय वचनं कदूरिदमभाषत।। नागानामालयं भद्रे सुरम्यं चारुदर्शनम्। समुद्रकुक्षावेकान्ते तत्र मां विनते नय॥ ततः सुपर्णमाता तामवहत्सर्पमातरम्। पन्नगागरुडश्चापि मातुर्वचनचोदितः॥ स सूर्यमभितो याति वैनतेयो विहंगमः। सूर्यरश्मिप्रतप्ताश्च मूर्च्छिताः पन्नगाऽभवन्।॥ तदवस्थान्सुतान्दृष्ट्वा कदूः शक्रमथास्तुवत्। नमस्ते सर्वदेवेश नमस्ते बलसूदन॥ नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते। सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव॥ त्वमेव परमं त्राणमस्माकममरोत्तम। ईशो ह्यसि पयः स्रष्टुं त्वमनल्पं पुरन्दर॥ त्वमेव मेघस्त्वं वायुस्त्वमग्निर्विद्युतोऽम्बरे। त्वमभ्रगणविक्षेप्ता त्वामेवाहुर्महाधनम्॥ त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः। स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः॥ त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः। त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः॥ त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम्। त्वं सर्वमनृतं देवः त्वं सोमः परमार्चितः॥ त्वं मुहूर्तस्तिथिस्त्वं च त्वं लवस्त्वं पुनः क्षणः। शुक्लस्त्वं बहुलस्त्वं च कला काष्ठा त्रुटिस्तथा। संवत्सरर्तवो मासा रजन्यश्च दिनानि च॥ त्वमुत्तमा सगिरिवना वसुन्धरा सभास्करं वितिमिरमम्बरं तथा। महोदधिः सतिमितिमिगिलस्तथा महोर्मिमान्बहुमकरो झषाकुलः॥ महायशास्त्वमिति सदाऽभिपूज्यसे मनीषिभिर्मुदितमना महर्षिभिः। अभिष्टुतः पिबसि च सोममध्वरे वषट् कृतान्यपि च हवींषि भूतये॥ त्वं विप्रैः सततमिहेज्यसे फलार्थ वेदाङ्गेष्वतुलबलौघ गीयसे च। त्वद्धतोर्यजनपरायणा द्विजेन्द्रा वेदाङ्गान्यभिगमयन्ति सर्वयत्नैः॥ सौतिरुवाच एवं स्तुतस्तदा कव्वा भगवान्हरिवाहनः। नीलजीमूतसंघातैः सर्वमम्बरमावृणोत्॥ मेघानाज्ञापयामास वर्षध्वममृतं शुभम्। ते मेघामुमुचुस्तोयं प्रभूतं विधुदुज्ज्वलाः॥ परस्परमिवात्यर्थं गर्जन्तः सततं दिवि। संवर्तितमिवाकाशं जलदैः सुमहाद्भुतैः॥ सृजद्भिरतुलं तोयमजस्रं सुमहारवैः। संप्रनृत्तमिवाकाशं धारोमिभिरनेकशः॥ मेघस्तनितनिर्घोषैर्विद्युत्पवनकम्पितैः। तैर्मेधैः सततासारं वर्षद्भिरनिशं तदा॥ नष्टचन्द्रार्ककिरणमम्बरं समपद्यत। नागानामुत्तमो हर्षस्तथा वर्षति वासवे॥ आपूर्यत मही चापि सलिलेन समन्ततः। रसातलमनुप्राप्तं शीतलं विमलं जलम्॥ तदा भूरभवच्छन्ना जलोर्मिभिरनेकशः। रामणीयकमागच्छन्मात्रा सह भुजंगमाः॥ सौतिरुवाच संप्रहृष्टात्स्ततो नागा जलधाराप्लुतास्तदा। सुपर्णेनोह्यमानास्ते जग्मुस्तं द्वीपमाशु वै॥ तं द्वीपं मकरावासं विहितं विश्वकर्मणा। तत्र ते लवणं घोरं ददृशुः पूर्वमागताः॥ सुपर्णसहिताः सर्पाः काननं च मनोरमम्। सागराम्बुपरिक्षिप्तं पक्षिसंघनिनादितम्॥ विचित्रफलपुष्पाभिर्वनराजिभिरावृतम्। भवनैरावृतं रम्यैस्तथा पद्माकरैरपि॥ प्रसन्नसलिलैश्चापि ह्रदैर्दिव्यैर्विभूषितम्। दिव्यगन्धवहैः पुण्यैर्मारुतैरुपवीजितम्॥ उत्पतद्भिरिवाकाशं वृक्षैर्मलयजैरपि। शोभितं पुष्पवर्षाणि मुञ्चद्भिर्मारुतोद्धतैः॥ वायुविक्षिप्तकुसुमैस्तथाऽन्यैरपि पादपैः। किरद्भिरिव तत्रस्थानागान्पुष्पाम्बुवृष्टिभिः॥ मन:संहर्षजं दिव्यं गन्धर्वाप्सरसां प्रियम्। मत्तभ्रमरसंघुष्टं मनोज्ञाकृतिदर्शनम्॥ रमणीयं शिवं पुण्यं सर्वैर्जनमनोहरैः। नानापक्षिरुतं रम्यं कदूपुत्रप्रहर्षणम्॥ तत्ते वनं समासाद्य विजह्वः पन्नगास्तदा। अब्रुवंश्च महावीर्यं सुपर्णं पतगेश्वरम्॥ वहास्मानपरं द्वीपं सुरम्यं विमलोदकम्। त्वं हि देशान्बहूनम्यान्व्रजन्पश्यसि खेचर॥ स विचिन्त्याब्रवीत्पक्षी मातरं विनतां तदा। किं कारणं मया मातः कर्तव्यं सर्पभाषितम्॥ विनतोवाच दासीभूतास्मि दुर्योगात्सपल्याः पतगोत्तम। पणं वितथमास्थाय सस्पधिना कृतम्॥ तस्मिंस्तु कथिते मात्रा कारणे गगनेचरः। उवाच वचनं सस्तेिन दुःखेन दुःखितः॥ किमाहत्य विदित्वा वा किं वा कृत्वेह पौरुषम्। दास्याद्वो विप्रमुच्येयं तथ्यं वदत लेलिहाः॥ सौतिरुवाच श्रुत्वा तमब्रुवन्सर्पा आहरामृतमोजसा। ततो दास्याद्विप्रमोक्षो भविता तव खेचर॥ सौतिरुवाच इत्युक्तो गरुडः सर्पस्ततो मातरमब्रवीत्। गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम्॥ विनतोवाच समुद्रकुक्षावेकान्ते निषादालयमुत्तमम्। निषादानां सहस्राणि तान्भुक्त्वाऽमृतमानय॥ न च ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथंचन। अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः॥ अग्निरों विषं शस्त्रं विप्रो भवति कोपितः। गुरुर्हि सर्वभूतानां ब्राह्मणः परिकीर्तितः॥ एवमादिभिरूपैस्तु सतां वै ब्राह्मणो मतः। स ते तात न हन्तव्यः संक्रुद्धेनापि सर्वथा॥ ब्राह्मणानामभिद्रोहो न कर्तव्यः कथंचन। न ह्येवमग्निर्नादित्यो भस्म कुर्यात्तथाऽनघ॥ यथा कुर्यादभिक्रुद्धो ब्राह्मणः संशितव्रतः। तदेतैर्विविधैर्लिङ्गैस्त्वं विद्यास्तं द्विजोत्तमम्। भूतानामग्रभूविप्रो वर्णश्रेष्ठः पिता गुरुः॥ गरुड उवाच किं रूपो ब्राह्मणो मतः किं शीलः किं पराक्रमः। किंस्विदग्निनिभो भाति किंस्वित्सौम्यप्रदर्शनः॥ यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः। तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि॥ विनतोवाच यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा। दहेदङ्गारवत्पुत्र तं विद्याद्राह्मणर्षभम्॥ विप्रस्त्वया न हन्तव्यः संक्रुद्धेनापि सर्वदा। प्रोवाच चैनं विनता पुत्रहार्दादिदं वचः॥ जठरे न च जीर्येद्यस्तं जानीहि द्विजोत्तमम्। पुनः प्रोवाच विनता पुत्रहार्दादिदं वचः॥ जानन्त्यप्यतुलं वीर्यमाशीर्वादपरायणा। प्रीता परमदुःखार्ता नागैविप्रकृता सती॥ विनतोवाच पक्षौ ते मारुतः पातु चन्द्रसूर्यौ च पृष्ठतः। शिरश्च पातु वह्निस्ते वसवः सर्वतस्तनुम्॥ अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा। इहासीना भविष्यामि स्वस्तिकारे रता सदा॥ अरिष्टं व्रज पन्थानं पुत्र कार्यार्थसिद्धये। सौतिरुवाच ततः स मातुर्वचनं निशम्य वितत्य पक्षौ नभ उत्पपात। ततो निषादान्बलवानुपागतो बुभुक्षित: काल इवान्तकोऽपरः॥ स तान्निषादानुपसंहरंस्तदा रजः समुद्भूय नभःस्पृशं महत्। समुद्रकुक्षौ च विशोषयन्पयः समीपजाम्भूधरजान्विचालयन्॥ ततः स चक्रे महदाननं तदा निषादमार्ग प्रतिरुध्य पक्षिराट्। ततो निषादास्त्वरिताः प्रवव्रजुः यतो मुखं तस्य भुजंगभोजिनः॥ तदाननं विवृतमतिप्रमाणवत् समभ्ययुर्गगनमिवार्दिताः खगाः। सहस्रशः पवनरजो विमोहिता यथाऽनिलप्रचलितपादपे वने॥ ततः खगो वदनममित्रतापनः समाहरत्परिचपलो महाबलः। निषूदयन्बहुविधमत्स्यजीविनो बुभुक्षितो गगनचरेश्वरस्तदा॥ सौतिरुवाच तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया। दहन्दीप्त इवाङ्गारस्तमुवाचन्तरिक्षगः॥ द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात्। न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा॥ ब्रुवाणमेवं गरुडं ब्राह्मणः प्रत्यभाषत। निषादी मम भार्येयं निर्गच्छतु मया सह॥ गरुड उवाच एतामपि निषादी त्वं परिगृह्याशु निष्पत। तूर्णं संभावयात्मानमजीर्णं मम तेजसा॥ सौतिरुवाच ततः स विप्रो निष्क्रान्तो निषादीसहितस्तदा। वर्धयित्वा च गरुडमिष्टं देशं जगाम ह॥ सह भार्ये विनिष्क्रान्ते तस्मिन्विप्रे च पक्षिराट्। वितत्य पक्षावाकाशमुत्पपात मनोजवः॥ ततोऽपश्यत्स पितरं पृष्ठश्चाख्यातवान्पितुः। यथान्यायममेयात्मा तं चोवाच महानृषिः॥ कश्यप उवाच कच्चिद्वः कुशलं नित्यं भोजने बहुलं सुत। कच्चिच्च मानुषे लोके तवान्नं विद्यते बहु॥ गरुड उवाच माता मे कुशला शश्वत्तथा भ्राता तथा ह्यहम्। न हि मे कुशलं तात भोजने बहुले सदा॥ अहं हि सर्पः प्रहित: पोममाहर्तुमुत्तमम्। मातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै॥ मात्रा चात्र समादिष्टो निषादान्भक्षयेति ह। न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः॥ तस्माद्भक्ष्यं त्वमपरं भगवन्प्रदिशस्व मे। यद्भुक्त्वाऽमृतमाहर्तुं समर्थः स्यामहं प्रभो॥ क्षुत्पिपासाविघातार्थं भक्ष्यमाख्यातु मे भवान्। कश्यप उवाच इदं सरो महापुण्यं देवलोकेऽपि विश्रुतम्। यत्र कूर्माग्रजं हस्ती सदाकर्षत्यवाङ्मुखः॥ तयोर्जन्मान्तरे वैरं संप्रवक्ष्याम्यशेषतः। तन्मे तत्त्वं निबोधत्स्व यत्प्रमाणौ च तावुभौ॥ आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम्। भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः॥ स नेच्छति धनं भ्राता सहैकस्थं महामुनिः। विभाग कीर्तयत्येवसुप्रतीको हि नित्यशः॥ अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः। विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यशः॥ ततो विभक्तास्त्वन्योऽन्य विक्रुध्यन्तेऽर्थमोहिताः। ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः॥ विदित्वा भेदयन्त्येतानमित्रामित्ररूपिणः। विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ॥ भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते। तस्माद्विभागं भ्रातृणां न प्रशंसन्ति साधवः॥ गुरुशास्त्रेऽनिबद्धानामन्योऽन्येनाभिशंकिनाम्। नियन्तुं न हि शक्यस्त्वं भेदतो धनमिच्छसि॥ यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि। शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत्॥ त्वमप्यन्तर्जलचरः कच्छपः संभविष्यसि। एवमन्योन्यशापात्तौ सुप्रतीकविभावसू॥ गजकच्छपतां प्राप्तावार्थं मूढचेतसौ। रोषदोषानुषङ्गेन तिर्यग्योनिगतावुभौ॥ परस्पर द्वेषरतौ प्रमाणबलदर्पितौ। सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ॥ तयोरन्यतरः श्रीमान्समुपैति महागजः। यस्य बृंहितशब्देन कूर्मोऽप्यन्तर्जलेशयः॥ उत्थितोऽसौ महाकायः कृत्स्नं विक्षोभयन्सरः। यं दृष्ट्वा वेष्टितकरः पतत्येष गजो जलम्॥ दन्तहस्ताग्रलांगूलपदावेगेन वीर्यवान्। विक्षोभयंस्ततोनागः सरो बहुझषाकुलम्॥ कूर्मोऽष्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान्। षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः॥ कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः। तावुभौ युद्धसंमत्तौ परस्परवधैषिणौ।॥ उपयुज्याशु कर्मेदं साधयेत्सितमात्मनः। महाभ्रघनसंकाशं तं भुक्त्वामृतमानय। महागिरिसमप्रख्यं घोररूपं च हस्तिनम्॥ सौतिरुवाच इत्युक्त्वा गरुडं सोऽथ माङ्गल्यमकरोत्तदा॥ युध्यतः सह देवैस्ते युद्धे भवतु मङ्गलम्। पूर्णकुम्भो द्विजा गावो यच्चान्यत्किंचिदुत्तमम्॥ शुभं स्वस्त्ययनं चापि भविष्यति तवाण्डज। युध्यमानस्य संग्रामे देवैः सार्धं महाबल॥ ऋचो यजूंषि सामानि पवित्राणि हवींषि च। रहस्यानी च सर्वाणि सर्वे वेदाश्च ते बलम्॥ इत्युक्तो गरुडः पित्रा गतस्तं ह्रदमन्तिकात्। अपश्यन्निर्मलजलं नानापक्षिसमाकुलम्॥ स तत्स्मृत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः। नखेन गजमेकेन कूर्ममेकेन चाक्षिपत्॥ समुत्पपात चाकाशं तत उच्चैविहंगमः। सोऽलम्बं तीर्थमासाद्य देववृक्षानुपागमत्॥ ते भीताः समकम्पन्त तस्य पक्षानिलाहताः। नो भञ्ज्यादिति तदा दिव्याः कनकशाखिनः॥ प्रचलाङ्गान्स तान्दृष्ट्वा मनोरथफलद्रुमान्। अन्यानतुलरूपाङ्गानुपचक्राम खेचरः॥ काञ्चनै राजतैश्चैव फलैर्वैदूर्यशाखिनः। सागराम्बुपरिक्षिप्तान्भ्राजमानान्महादुमान्॥ तमुचाच खगश्रेष्ठं तत्र रौहिणपादपः। अतिप्रवृद्धः सुमहानापतन्तं मनोजवम्॥ रौहिण उवाच यैषा मम महाशाखा शतयोजनमायता। एतामास्थाय शाखां त्वं खादेमौ गजकच्छपौ॥ ततो दुमं पतगसहस्रसेवितम् महीधरप्रतिमवपुः प्रकम्पयन्। खगोत्तमो द्रुतमभिपत्य वेगवान् बभञ्जतामविरलपत्रसंचयाम्॥ सौतिरुवाच ततस्तस्मिन्द्विजश्रेष्ठ समुदीर्णे तथाविधे। गरुडः पक्षिराट् तूर्णं संप्राप्तो विबुधान्प्रति॥ तं दृष्ट्वातिबलं चैव प्राकम्पन्त सुरास्ततः। परस्परं च प्रत्यघ्नन् सर्वप्रहरणान्युत॥ तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः। भौमनः सुमहावीर्यः सोमस्य परिरक्षिता॥ स तेन पतगेन्द्रेण पक्षतुण्डनखक्षतैः। मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि॥ रजश्चोद्धय सुमहत्पक्षवातेन खेचरः। कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत्॥ तेनावकीर्णा रजसा देवा मोहमुपागमन्। न चैवं ददृशुश्छन्ना रजसाऽमृतरक्षिणः॥ एवं संलोडयामास गरुडस्त्रिदिवालयम्। पक्षतुण्डप्रहारैस्तु देवान्स विददार ह॥ ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत्। विक्षिपेमां रजोवृष्टिं तवेदं कर्म मारुत॥ अथ वायुरपोवाह तद्रजस्तरसा बली। ततो वितिमिरे जाते देवाः शकुनिमार्दयन्॥ ननादोच्चैः स बलवान्महामेघ इवाम्बरे। वध्यमानः सुरगणैः सर्वभूतानि भीषयन्॥ उत्पपात महावीर्यः पक्षिराट् परवीरहा। समुत्पत्यान्तरिक्षस्थं देवानामुपरिस्थितम्॥ वर्मिणो विबुधाः सर्वे नानाशस्त्रैरवाकिरन्। पट्टिशैः परिषैः शूलैर्गदाभिश्च सवासवाः॥ क्षुरप्रैचलितैश्चापि चक्रैरादित्यरूपिभिः। नानाशास्त्रविसर्गस्तैर्वध्यमानः समन्ततः॥ कुर्वन्सुतुमुलं युद्धं पक्षिरान व्यकम्पत। निर्दहन्निव चाकाशे वैनतेयः प्रतापवान्। पक्षाभ्यामुरसा चैव समन्ताद्व्याक्षिपत्सुरान्॥ ते विक्षिप्तास्ततो देवा दुद्रुवुर्गरुडार्दिताः। नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु॥ साध्याः प्राची सगन्धर्वा वसवो दक्षिणां दिशम्। प्रजग्मुः सहिता रुद्राः पतगेन्द्रप्रधर्षिताः॥ दिशं प्रतीजीमादित्या नासत्यावुत्तरां दिशम्। मुहुर्मुहुः प्रेक्षमाणा युध्यमाना महौजसः॥ अश्वक्रन्देन वीरेण रेणुकेन च पक्षिराट्। क्रथनेन च शूरेण तपनेन च खेचरः॥ उलूकश्वसनाभ्यां च निमेषेण च पक्षिराट्। प्ररुजेन च संग्रामं चकार पुलिनेन च॥ तान्पक्षनखतुण्डात्रैरभिनद्विनतासुतः। युगान्तकाले संक्रुद्धः पिनाकीव परंतपः॥ महाबला महोत्साहास्तेन ते बहुधा क्षताः। रेजुरभ्रधनप्रख्या रुधिरौघप्रवर्षिणः॥ तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान्। अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत॥ आवृण्वानं महाज्वालमर्चिभिः सर्वतोऽम्बरम्। दहन्तमिव तीक्ष्णांशुं चण्डवायुसमीरितम्॥ ततो नवत्या नवतीर्मुखानां कृत्वा महात्मा गरुडस्तपस्वी। नदीः समापीय मुखैस्ततस्तैः सुशीघ्रमागम्य पुनर्जवेन॥ ज्वलन्तमग्नि तममित्रतापनः समास्तरत्पत्ररथो नदीभिः। ततः प्रचक्रे वपुरन्यदल्पं प्रवेष्टकामोऽग्निमभिप्रशाम्य॥ सौतिरुवाच जाम्बूनदमयो भूत्वा मरीचिनिकरोज्ज्वलः। प्रविवेश बलात्पक्षी वारिवेग इवार्णवम्॥ स चक्रं क्षुरपर्यन्तमपश्यदमृतान्तिके। परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम्॥ ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम्। घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितम्॥ तस्यान्तरं स दृष्दैव पर्यवर्तत खेचरः। अरान्तरेणाभ्यपतत्संक्षिप्याङ्गं क्षणेन ह॥ अधश्चक्रस्य चैवात्र दीप्तानलसमद्युती। विद्युज्जिह्वौ महावीर्यो दीप्तास्यौ दीप्तलोचनौ॥ चक्षुर्विषौ महाघोरी नित्यं क्रुद्धौ तरस्विनी। रथार्थमेवामृतस्य ददर्श भुजगोत्तमौ॥ सदा संरब्धनयनौ सदा चानिमिषेक्षणौ। तयोरेकोऽपि यं पश्येत् स तूर्णं भस्मसाद्भवेत्॥ तयोश्चक्षूसि रजसा सुपर्णः सहसाऽऽवृणोत्। ताभ्यामदृष्टरूपोऽसौ सर्वतः समताडयत्॥ तयोरंङ्गे समाक्रम्य वैनतेयोऽन्तरिक्षगः। आच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः॥ समुत्पाट्यामृतं तत्र वैनतेयस्ततो बली। उत्पपात जवेनैव यन्त्रमन्मथ्य वीर्यवान्॥ अपीत्वैवाऽमृतं पक्षी परिगृह्याशुनिःसृतः। आगच्छदपरिश्रान्त आवार्यार्कप्रभां ततः॥ विष्णुना च तदाकाशे वैनतेयः समेयिवान्। तस्य नारायणस्तुष्टस्तेनालौल्येन कर्मणा॥ तमुवाचाऽव्ययो देवो वरदोऽस्मीति खेचरम्। स वने तव तिष्ठेयमुपरीत्यन्तरिक्षगः॥ उवाच चैनं भूयोऽपि नारायणमिदं वचः। अजस्चामस्थ स्याममृतेन विनाऽप्यहम्॥ एवमस्त्विति तं विष्णुरुवाच विनतासुतम्। प्रतिगृह्य वरौ तौ च गरुडो विष्णुमब्रवीत्॥ भवतेऽपि वरं दद्यां वृणोतु भगवानपि। तं वव्रे वाहनं विष्णुर्गरुत्मन्तं महाबलम्॥ ध्वजं च चक्रे भगवानुपरि स्थास्यसीति तम्। एवमस्त्विति तं देवमुक्त्वा नारायणं खगः॥ वव्राज तरसा वेगाद्वायुं स्पर्धन्महाजवः। तं व्रजन्तं खगश्रेष्ठं वज्रेणेन्द्रोऽभ्यताडयत्॥ हरन्तममृतं रोषाद्गरुडं पक्षिणां वरम्। तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः॥ प्रहसन् श्लक्ष्णया वाचा तथा वज्रसमाहतः। ऋषेर्मानं करिष्यामि वज्रं यस्यास्थिसंभवम्॥ वज्रस्य च करिष्यामि तवैव च शतक्रतो। एतत्पनं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे॥ न च वज्रनिपातेन रुजा मेऽस्तीह काचन। एवमुक्त्वा ततः पत्रमुत्ससर्ज स पक्षिराट्॥ तदुत्सृष्टमभिप्रेक्ष्य तस्य पर्णमनुत्तमम्। हृष्टानि सर्वभूतानि नाम चक्रुर्गरुत्मतः॥ सुरूपं पत्रमालक्ष्य सुपर्णोऽयं भवत्विति। तदृष्ट्वा महदाश्चर्य सहस्राक्षः पुरंदरः। खगो महदिदं भूतमिति मत्वाऽभ्यभाषत॥ शक्र उवाच बलं विज्ञातुमिच्छामि यत्ते परमनुत्तमम्। सख्यं चानन्तमिच्छामि त्वया सह खगोत्तम॥ गरुड उवाच सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरंदर। बलं तु मम जानीहि महच्चासह्यमेव च॥ काम नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम्। गुणसंकीर्तनं चापि स्वयमेव शतक्रतो॥ सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया। न ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः॥ सपर्वतवनामुर्वी ससागरजलामिमाम्। वहे पक्षेण वै शक्र त्वामप्यत्रावलम्बिनम्॥ सर्वान्सपिण्डितान्वापि लोकान्सस्थाणुजङ्गमान्। वहेयमपरिश्रान्तो विद्धीदं मे महद् बलम्॥ सौतिरुवाच इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः। आह शौनक देवेन्द्रः सर्वलोकहितः प्रभुः॥ एवमेव यथास्थ त्वं सर्वं संभाव्यते त्वयि। संगृह्यतामिदानीं मे सख्यमत्यन्तमुत्तमम्॥ न कार्यं यदि सोमेन मम सोमः प्रदीयताम्। अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम्॥ गरुड उवाच किंचित्कारणमुद्दिश्य सोमोऽयं नीयते मया। न दास्यामि समादातुं सोमं कस्मैचिदप्यहम्॥ यत्रेम तु सहस्राक्ष निक्षिपेयमहं स्वयं। त्वमादाय ततस्तूर्णं हरेथास्त्रिदिवेश्वर॥ शक्र उवाच वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डजा यमिच्छसि वरं मत्तस्तं गृहाण सौतिरुवाच इत्युक्तः प्रत्युवाचेदं कदूपुत्राननुस्मरन्। स्मृत्वा चैवोपधिकृतं मातुर्दास्यनिमित्ततः॥ खगोत्तम॥ ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम्। भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः॥ तथेत्युक्त्वाऽन्वगच्छत्तं ततो दानवसूदनः। देवदेवं महात्मानं योगिनामीश्वरं हरिम्॥ स चान्वमोदत्तं चार्थं यथोक्तं गरुडेन वै। इदं भूयो वचः प्राह भगवांस्त्रिदशेश्वरः॥ हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम्। आजगाम ततस्तूर्णं सुपर्णो मातुरन्तिकम्॥ अथ सर्पानुवाचेदं सर्वान्परमहष्टवत्। इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः॥ स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः। भवद्भिरिदमासीनैर्यदुक्तं तद्वचस्तदा॥ अदासी चैव मातेयमद्यप्रभृति चास्तु मे। यथोक्तं भवतामेतद्वचो मे प्रतिपादितम्॥ ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत। शक्रोप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः॥ अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा। स्नाताश्च कृतजप्याश्च प्रहृष्टाः कृतमङ्गलाः॥ यत्रैतदमृतं चापि स्थापितं कुशसंस्तरे। तद्विज्ञाय हृतं सर्पाः प्रतिमाया कृतं च तत्॥ सोमस्थानमिदं चेति दर्खास्ते लिलिहुस्तदा। ततो द्विधाकृता जिह्वाः सर्पाणां तेन कर्मणा॥ अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः। एवं तदमृतं तेन हृतमाहतमेव च। द्विजिह्वाश्च कृताः सर्पा गरुडेन महात्मना॥ ततः सुपर्णः परमप्रहर्षवान् विहृत्य मात्रा सह तत्र कानने। रहीनकीर्तिविनतामनन्दयत्॥ इमां कथां यः शृणुयान्नरः सदा पठेत वा द्विजगणमुख्यसंसदि असंशयं त्रिदिवमियात्स पुण्यभाक् महात्मनः पतगपतेः प्रकीर्तनात्॥ शौनक उवाच भुजंगमानां शापस्य मात्रा चैव सुतेन च। विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन॥ वरप्रदानं भा च कदूविनतयोस्तथा। नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः॥ पन्नगानां तु नामानि न कीर्तयसि सूतज। प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम्॥ सौतिरुवाच बहुत्वान्नामधेयानि पन्नगानां तपोधन। न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु॥ शेषः प्रथमतो जातो वासुकिस्तदनन्तरम्। ऐरावतस्तक्षकश्च कर्कोटकधनंजयौ॥ कालियो मणिनागश्च नागश्चापूरणस्तथा। नागस्तथापिञ्जरकः एलापत्रोऽथ वामनः॥ नीलानीलौ तथा नागौ कल्माषशबलौ तथा। आर्यकश्चोग्रकश्चैव नाग: कलशपोतकः॥ सुमनाख्यो दधिमुखस्तथा विमलपिण्डकः। आप्तः कर्कोटकश्चैव शंखो वालिशिखस्तथा॥ निष्टानको हेमगुहो नहुष: पिङ्गलस्तथा। बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः॥ कम्बलाश्वतरौ चापि नागः कालीयकस्तथा। वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ॥ नागः शंखमुखश्चैव तथा कूष्माण्डकोऽपरः। क्षेमकश्च तथा नागो नागः पिण्डारकस्तथा॥ करवीरः पुष्पदंष्ट्रो बिल्वको बिल्वपाण्डुरः। मूषकादः शंखशिराः पूर्णभद्रो हरिद्रकः॥ अपराजितौ ज्योतिकश्च पन्नगः श्रीवहस्तथा। कौरव्यो धृतराष्ट्रश्च शंखपिण्डश्च वीर्यवान्॥ विरजाश्चः सुबाहुश्च शालिपिण्डश्च वीर्यवान्। हस्तिपिण्डः पिठरकः सुमुखः कौणपाशनः।.१४॥ कुठरः कुञ्जरश्चैव तथा नागः प्रभाकरः। कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा॥ कर्दमश्च महानागो नागश्च बहुमूलकः। कर्कराकर्करौ नागौ कुण्डोदरमहोदरौ॥ एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम। बहुत्वान्नामधेयानामितरे नानुकीर्तिताः॥ एतेषां प्रसवो यश्च प्रसवस्य च संततिः। असंख्येयेति मत्वा तान्न ब्रवीमि तपोधन॥ बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च। अशक्यान्येव संख्यातुं पन्नगानां तपोधन॥ शौनक उवाच आख्याता भुजगास्तात वीर्यवन्तो दुरासदाः। शापं तं तेऽभिविज्ञाय कृतवन्तः किमुत्तरम्॥ सौतिरुवाच तेषां तु भगवाञ्च्छेषः कदूं त्यक्त्वा महायशाः। उग्रं तपः समातस्थे वायुभक्षो यतव्रतः॥ गन्धमादनमासाद्य बदर्यां च तपोरतः। गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे॥ तेषु तेषु च पुण्येषु तीर्थेष्वायतनेषु च। एकान्तशीलो नियतः सततं विजितेन्द्रियः॥ तप्यमानं तपो घोरं तं ददर्श पितामहः। संशुष्कमांसत्वक्स्नायुं जटाचीरधरं मुनिम्॥ तमब्रवीत्सत्यधृतिं तप्यमानं पितामहः। किमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु॥ त्वं हि तीव्रण तपसा प्रजास्तापयसेऽनघ। ब्रूहि कामं च मे शेष यस्ते हृदि व्यवस्थितः॥ शेष उवाच सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः। सह तै!त्सहे वस्तुं तद्भवाननुमन्यताम्॥ अभ्यसूयन्ति सततं परस्परममित्रवत्। ततोऽहं तप आतिष्ठं नैतान्पश्येयमित्युत॥ न मर्षयन्ति ससुतां सततं विनतां च ते। अस्माकं चापरो भ्राता वैनतेयोऽन्तरिक्षगः॥ तं च द्विषन्ति सततं स चापि बलवत्तरः। वरप्रदानात्स पितुः कश्यपस्य महात्मनः॥ सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम्। कथं मे प्रेत्यभावेऽपि न तैः स्यात्सहसंगमः॥ सौतिरुवाच तमेवं वादिनं शेषं पितामह उवाच ह। जानामि शेष सर्वेषां भ्रातृणां ते विचेष्टितम्॥ मातुश्चाप्यपराधाद्वै भ्रातृणां ते महद्भयम्। कृतोऽत्र परिहारश्च पूर्वमेव भुजंगम॥ भ्रातृणां तव सर्वेषां न शोकं कर्तुमर्हसि। वृणीष्व च वरं मत्तः शेष यत्तेऽभिकांक्षितम्॥ दास्यामि हि वरं तेऽद्य प्रीतिर्मेपरमा त्वयि। दिष्ट्या बुद्धिश्च ते धर्मे निविष्टा पन्नगोत्तम। भूयो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा॥ शेष उवाच एषः एव वरो देव कांक्षितो मे पितामह। धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर॥ ब्रह्मोवाच प्रीतोऽस्यनेन ते शेष दमेन च शमेन च। त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम्॥ त्वं शेष सम्यक् इमां महीं शैलवनोपपन्नां ससागरग्रामविहारपत्तनाम्। चलितां यथावत् संगृह्य तिष्ठस्व यथाऽचला स्यात्॥ शेष उवाच महीपतिर्भूतपतिर्जगत्पतिः। तथा महीं धारयिताऽस्मि निश्चला प्रयच्छतां मे शिरसि प्रजापते॥ ब्रह्मोवाच अधो महीं गच्छ भुजंगमोत्तम स्वयं तवैषा विवरं प्रदास्यति। इमां धरां धारयता त्वया हि मे महत्प्रियं शेषकृतं भविष्यति॥ सौतिरुवाच तथैव कृत्वा विवरं प्रविश्य स प्रभुर्भुवो भुजगवराग्रजः स्थितः। बिभर्ति देवीं शिरसा महीमिमां समुद्रनेमिं परिगृह्य सर्वतः॥ ब्रह्मोवाच शेषोऽसि नागोत्तम धर्मदेवो महीमिमां धारयसे यदेकः। अनन्तभोगैः परिगृह्य सर्वां यथाऽहमेवं बलभिद्यथा वा॥ सौतिरुवाच अधोभूमौ वसत्येवं नागोऽनन्तः प्रतापवान्। धारयन्वसुधामेकः शासनाद्ब्रह्मणो विभुः॥ सुपर्णं च सहायं वै भगवानमरोत्तमः। प्रादादनन्ताय तदा वैनतेयं पितामहः॥ सौतिरुवाच मातुः सकाशात्तं शापं श्रुत्वा वै पन्नगोत्तमः। वासुकिश्चिन्तयामास शापोऽयं न भवेत्कथम्॥ ततः स मन्त्रयामास भ्रातृभिः सह सर्वशः। ऐरावतप्रभृतिभिः सर्वधर्मपरायणैः॥ वासुकिरुवाच अयं शापो यथोद्दिष्टो विदितं वस्तथाऽनघाः। तस्य शापस्य मोक्षार्थ मन्त्रयित्वा यतामहे॥ सर्वेषामेव शापानां प्रतिधातो हि विद्यते। न तु मात्राभिशप्तानां मोक्षः क्व च न विद्यते॥ अव्ययस्याप्रमेयस्य सत्यस्य च तथाऽग्रतः। शप्ता इत्येव मे श्रुत्वा जायते हृदि वेपथुः॥ नूनं सर्वविनाशोऽयमस्माकं समुपागतः। न ह्येतां सोऽव्ययो देवः शपन्तीं प्रत्यषेधयत्॥ तस्मात्संमन्त्रयामोऽद्य भुजंगानामनामयम्। यथा भवेद्धि सर्वेषां मा नः कालोऽत्यगादयम्॥ सर्व एव हि न स्तावबुद्धिमन्तो विचक्षणाः। अपि मन्त्रयमाणा हि हेतुं पश्याम मोक्षणे॥ यथा नष्टं पुरा देवा गूढमग्निं गुहागतम्। यथा स यज्ञो न भवेद्यथा वापि पराभवः। जनमेजयस्य सर्पाणां विनाशकरणाय वै॥ सौतिरुवाच तथेत्युक्त्वा ततः सर्वे काद्रवेयाः समागताः। समयं चक्रिरे तत्र मन्त्रबुद्धिविशारदाः॥ एके तत्राब्रुवन्नागा वयं भूत्वा द्विजर्षभाः। जनमेजयं तु भिक्षामो यज्ञस्ते न भवेदिति॥ अपरे त्वब्रुवन्नागास्तत्र पण्डितमानिनः। मन्त्रिणोऽस्य वयं सर्वे भविष्यामः सुसंमताः॥ स नः प्रक्ष्यति सर्वेषु कार्येष्वर्थविनिश्चयम्। तत्र बुद्धिं प्रदास्यामो यथा यज्ञो निवर्त्यति॥ स नो बहुमतानराजा बुध्या बुद्धिमतां वरः। यज्ञार्थं प्रक्ष्यति व्यक्तं नेति वक्ष्यामहे वयम्॥ दर्शयन्तो बहून्दोषान्प्रेत्य चेह च दारुणान्। हेतुभिः कारणैश्चैव यथा यज्ञो भवेन्न सः॥ अथवाऽयमुपाध्यायः क्रतोस्तस्य भविष्यति। सर्पसत्रविधानज्ञो राजकार्यहिते रतः॥ तं गत्वा दशतां कश्चिद् भुजङ्गः स मरिष्यति। तस्मिन्मृते यज्ञकारे क्रतुः स न भविष्यति॥ ये चान्ये सर्पसत्रज्ञा भविष्यन्त्यस्य चविजः। तांश्च सर्वान्दशिष्यामः कृतमेवं भविष्यति॥ अपरे त्वब्रुवन्नागा धर्मात्मानो दयालवः। अबुद्धिरेषा भवतां ब्रह्महत्या न शोभनम्॥ सम्यक्सद्धर्ममूला वै व्यसने शान्तिरुत्तमा। अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज्जगत्॥ अपरे त्वब्रुवन्नागाः समिद्धं जातवेदसम्। वनिर्वापयिष्यामो मेघा भूत्वा सविद्युतः॥ स्रुग्भाण्डं निशि गत्वा च अपरे भुजगोत्तमाः। प्रमत्तानां हरन्त्वाशु विघ्न एवं भविष्यति॥ यज्ञे वा भुजगास्तस्मिञ्छतशोऽथ सहस्रशः। जनान्दशन्तु वै सर्वे नैवं त्रासो भविष्यसि॥ अथवा संस्कृतं भोज्यं दूषयन्तु भुजंगमाः। स्वेन मूत्रपुरीषेण सर्वभोज्यविनाशिना॥ अपरे त्वब्रुवंस्तत्र ऋत्विजोऽस्य भवामहे। यज्ञविघ्नं करिष्यामो दीयतां दक्षिणा इति॥ वश्यतां च गतोऽसौ नः करिष्यति योप्सितम्। अपरे त्वब्रुवंस्तत्र जले प्रकीडितं नृपम्॥ गृहमानीय बनीमः क्रतुरेवं भवेन्न सः। अपरे त्वब्रुवंस्तत्र नागाः पण्डितमानिनः॥ दशामस्तं प्रगृह्याशु कृतमेवं भविष्यति। छिन्नं मूलमनर्थानां मृते तस्मिन्भविष्यति॥ एषा नो नैष्ठिकी बुद्धिः सर्वेषामीक्षणश्रवः। अथ यन्मन्यसे राजन्दुतं तत्संविधीयताम्॥ इत्युक्त्वा समुदैक्षन्त वासुकिं पन्नगोत्तमम्। वासुकिश्चापि संचिन्त्य तानुवाच भुजङ्गमान्॥ नैषा वो नैष्ठिकी बुद्धिमता कर्तु भुजंगमाः। सर्वेषामेव मे बुद्धिः पन्नगानां न रोचते॥ किं तत्र संविधातव्यं भवतां स्याद्धितं तु यत्। श्रेयः प्रसादनं मन्ये कश्यपस्य महात्मनः॥ ज्ञातिवर्गस्य सौहार्दादात्मनश्च भुजंगमाः। न च जानाति मे बुद्धिः किंचित्कर्तुं वचो हि वः॥३३। मयाहीदं विधातव्यं भवतां यद्धितं भवेत्। अनेनाहं भृशं तप्ये गुणदोषो मदाश्रयौ।॥ सौतिरुवाच सर्पाणां तु वचः श्रुत्वा सर्वेषामिति चेति च। वासुकेश्च वचः श्रुत्वा एलापत्रोऽब्रवीदिदम्॥ न स यज्ञो न भविता न स राजा तथाविधः। जनमेजयः पाण्डवेयो यतोऽस्माकं महद्भयम्॥ देवेनोपहतो राजन्यो भवेदिह पूरुषः। स दैवमेवाश्रयते नान्यत्तत्र परायणम्॥ तदिदं चैवमस्माकं भयं पन्नगसत्तमाः। दैवमेवाश्रयामोऽत्र शृणुध्वं च वचो मम॥ अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा। मातुरुत्संगमारूढो भयात्पन्नगसत्तमाः॥ देवानां पन्नगश्रेष्ठास्तीक्ष्णास्तीक्ष्णा इति प्रभो। पितामहमुपागम्य दुःखार्तानां महायुते॥ देवा ऊचुः का हि लब्ध्वा प्रियान्पुत्राञ्च्छपेदेवं पितामह। ऋते कद्दू तीक्ष्णरूपां देव देव तवाग्रतः॥ तथेति च वचस्तस्यास्त्वयाप्युक्तं पितामह। एतदिच्छामि विज्ञातुं कारणं यन्न वारिता॥ ब्रह्मोवाच बहवः पन्नगास्तीक्ष्णा घोररूपा विषोल्बणाः। प्रजानां हितकामोऽहं न च वारितवांस्तदा।॥ ये दन्दशूकाः क्षुद्राश्च पापाचारा विषोल्बणाः। तेषां विनाशो भविता न तु ये धर्मचारिणः॥ यन्निमित्तं च भविता मोक्षस्तेषां महाभयात्। पन्नगानां निबोधध्वं तस्मिन्काले समागते॥ यायावरकुले धीमान्भविष्यति महानृषिः। जरत्कारुरिति ख्यातस्तपस्वी नियतेन्द्रियः॥ तस्य पुत्रो जरत्कारोर्भविष्यति तपोधनः। आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा। तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः॥ देवा ऊचुः स मुनिप्रवरो ब्रह्मञ्जरत्कारुर्महातपाः। कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान्।॥ ब्रह्मोवाच सनामायां सनामा स कन्यायां द्विजसत्तमः। अपत्यं वीर्यसंपन्नं वीर्यवाञ्जनयिष्यति॥ वासुकेः सर्पराजस्य जरत्कारुः स्वसा किल। स तस्यां भविता पुत्रः शापान्नागांश्च मोक्ष्यति॥ एलापत्र उवाच एवमस्विति तं देवाः पितामहमथाब्रुवन्। उक्त्वैवं वचनं देवान्विरिञ्चिस्त्रिदिवं ययौ॥ सोऽहमेवं प्रपश्यामि वासुके भगिनीं तव। जरत्कारुरितिख्यातां तां तस्मै प्रतिपादय॥ भैक्षवद्धिक्षमाणाय नागानां भयशान्तये। ऋषये सुव्रतायैनामेष मोक्षः श्रुतो मया।॥ सौतिरुवाच एलापत्रवचः श्रुत्वा ते नागा द्विजसत्तम। सर्वे प्रहृष्टमनसः साधु साध्वित्यथाब्रुवन्॥ ततः प्रभृति तां कन्यां वासुकिः पर्यरक्षत। जरत्कारुं स्वसारं वै परं हर्षमवाप च॥ ततो नातिमहान्काल: समतीत इवाभवत्। अथ देवासुराः सर्वे ममथुर्वरुणालयम्॥ तत्र नेत्रमभून्नागो वासुकिर्बलिनां वरः। समाप्यैव च तत्कर्म पितामहमुपागमन्॥ देवा वासुकिना सार्धं पितामहमथाब्रुवन्। भगवञ्च्छापभीतोऽयं वासुकिस्तप्यते भृशम्॥ अस्यैतन्मानसं शल्यं समुद्धर्तुं त्वमर्हसि। जनन्याः शाप देव ज्ञातीनां हितमिच्छतः॥ हितो ह्ययं सदाऽस्माकं प्रियाकारी च नागराट्। प्रसादं कुरु देवेश शमयास्य मनोज्वरम्॥ ब्रह्मोवाच मयैव तद्वितीर्णं वै वचनं मनसाऽमराः। एलापत्रेण नागेन यदस्याभिहितं पुरा॥ तत्करोत्वेष नागेन्द्रः प्राप्तकालं वचः स्वयम्। विनशिष्यन्ति ये पापा न तु यै धर्मचारिणः॥ उत्पन्नः स जरत्कारुस्तपस्युग्रे रतो द्विजः। तस्यैष भगिनी काले जरत्कारुं प्रयच्छतु॥ एलापत्रेण यत्प्रोक्तं वचनं भुजगेन ह। पन्नगानां हि तं देवास्तत्तथा न तदन्यथा॥ सौतिरुवाच एतच्छ्रुत्वा नागेन्द्रः पितामहवचस्तदा। संदिश्य पन्नगान्सर्वान्वासुकिः शापमोहितः॥ स्वसारमुद्यम्य तदा जरत्कारुमृषि प्रति। सर्पान्बहूञ्जरत्कारौ नित्ययुक्तान्समादधत्॥ जरत्कारुर्यदा भार्यामिच्छेद्वरयितुं प्रभुः। शीघ्रमेत्य तदाख्येयं तन्नः श्रेयो भविष्यति॥ शौनक उवाच जरत्कारुरिति ख्यातो यस्त्वया सूतनन्दन। इच्छामि तदहं श्रोतुं ऋषेस्तस्य महात्मनः॥ किं कारणं जरत्कारो मैतत्प्रथितं भुवि। जरत्कारुनिरुक्तिं त्वं यथावद्वक्तुमर्हसि॥ सौतिरुवाच जरेति क्षयमाहुर्वै दारुणं कारुसंज्ञितम्। शरीरं कारु तस्यासीत्तत्स धीमाञ्च्छनैः शनैः॥ क्षपयामास तीव्रण तपसेत्यत उच्यते। जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा॥ एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा। उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन्॥ शौनक उवाच उक्तं नाम यथापूर्वं सर्वं तच्छ्रुतवानहम्। यथा तु जातो ह्यास्तीक एतदिच्छामि वेदितुम्। तच्छ्रुत्वा वचनं तस्य सूतः प्रोवाच शास्त्रतः॥ सौतिरुवाच संदिश्य पन्नगान्सर्वान्वासुकिः सुसमाहितः। स्वसारमुद्यम्य तदा जरत्कारुमृषि प्रति॥ अथ कालस्य महत: स मुनिः संशितव्रतः। तपस्यभिरतो धीमान्स दारानाभ्यकांक्षत॥ स तूर्ध्वरेतास्तपसि प्रसक्तः स्वाध्यायवान्वीतभयः कृतात्मा। चचार सर्वां पृथिवीं महात्मा न चापि दारान्मनसाध्यकांक्षत॥ ततो परस्मिन्संप्राप्ते काले कस्मिंश्चिदेव तु। परिक्षिन्नाम राजासीद्ब्रह्मन्कौरववंशजः॥ यथा पाण्डुर्महाबाहुर्धनुर्धरवरो युधि। वभूब मृगयाशील: पुराऽस्य प्रपितामहः॥ मृगान्विध्यन्वराहांश्च तरशून्महिषांस्तथा। अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः॥ स कदाचिन्मृगं विध्वा बाणेनानतपर्वणा। पृष्ठतो धनुरादाय ससार गहने वने॥ यथैव भगवान्रुद्रो विध्वा यज्ञमृगं दिवि। अन्वगच्छद्धनुष्पाणि: पर्यन्वेष्टुमितस्ततः॥ न हि तेन मृगो विद्धो जीवन्गच्छति वै वने। पूर्वरूपं तु तत्तूर्णं सोऽगात्स्वर्गगति प्रति॥ परिक्षितो नरेन्द्रस्य विद्धो यन्नष्टवान्मृगः। दूरं चापहृतस्तेन मृगेण स महीपतिः॥ परिश्रान्तः पिपासात आससाद मुनि वने। गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम्॥ भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः। तमभिद्रुत्य वेगेन स राजा संशितव्रतम्॥ अपृच्छद्धनुरुद्यम्य तं मुनि क्षुच्छ्रमान्वितः। भो भो ब्रह्मन्नहं राजा परीक्षिदभिमन्युजः॥ मया विद्धो मृगो नष्टः कच्चित्तं दृष्टवानसि। स मुनिस्तं तु नोवाच किंचिन्मौनव्रते स्थितः॥ तस्य स्कन्धे मृतं सर्प क्रुद्धो राजा समासजत्। समुत्क्षिप्य धनुष्कोट्या स चैनं समुपेक्षत॥ न स किंचिदुवाचैनं शुभं वा यदि वाऽशुभम्। स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम्। दृष्ट्वा जगाम नगरमृषिस्त्वासीत्तथैव सः॥ नहि तं राजशार्दूलं क्षमाशीलो महामुनिः। स्वधर्मनिरतं भूपं समाक्षिप्तोऽप्यधर्षयत्॥ न हि तं राजशार्दूलस्तथा धर्मपरायणम्। जानाति भरतश्रेष्ठस्तत एनमधर्षयत्॥ तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः। शृंगी नाम महाक्रोधो दुष्प्रसादो महाव्रतः। स देवं परमासीनं सर्वभूतहिते रतम्॥ ब्रह्माणमुपतस्थे वै काले काले सुसंयतः। स तेन समनुज्ञातो ब्रह्मणा गृहमेयिवान्॥ सख्योक्तः क्रीडमानेन स तत्र हसता किल। संरंभात्कोपनोऽतीव विषकल्पो मुनेः सुतः॥ उद्दिश्य पितरं तस्य यच्छ्रुत्वा रोषमाहरत्। ऋषिपुत्रेण धर्मार्थे कृशेन द्विजसत्तम॥ कृश उवाच तेजस्विनस्तव पिता तथैव च तपस्विनः। शवं स्कन्धेन वहति मा शृङ्गिगवितो भव॥ व्याहरत्स्वृषिपुत्रेषु मा स्म किंचिद्वचो वद। अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु॥ क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाः। दर्पजाः पितरं द्रष्ट्वा यस्त्वं शवधरं तथा॥ पित्रा च तव तत्कर्म नानुरूपमिवात्मनः। कृतं मुनिजनश्रेष्ठ येनाहं भृशदुःखितः॥ सौतिरुवाच एवमुक्तः स तेजस्वी श्रृंगी कोप समन्वितः मृतधारं गुरुं श्रुत्रा पर्यतप्यत मन्युना॥ स तं कृशमभिप्रेक्ष्य सूनृतां वाचमुत्सृजन्। अपृच्छत्तं कथं तातः स मेऽद्य मृतधारकः॥ कृश उवाच राज्ञा परिक्षिता तात मृगयां परिधावता। अवसक्तः पितुस्तेऽद्य मृतः स्कन्धे भुजंगमः॥ शृंग्युवाच किं मे पित्रा कृतं तस्य राज्ञोऽनिष्टं दुरात्मनः। ब्रूहि तत्कृश तत्त्वेन पश्य मे तपसो बलम्॥ कृश उवाच स राजा मृगयां यातः परिक्षितभिमन्युजः। ससार मृगमेकाकी विद्ध्वा बाणेन शीघ्रगम्॥ न चापश्यन्मृगं राजा चरंस्तस्मिन्महावने। पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम्॥ तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासाश्रमातुरः। पुनः पुनर्पगं नष्टं पप्रच्छ पितरं तव॥ स च मौनव्रतोयेतो नैवं तं प्रत्यभाषत। तस्य राजा धनुष्कोट्या सर्प स्कन्धे समासजत्॥ शृंगिस्तव पिता सोऽपि तथैवास्ते यतव्रतः। सोऽपि राजा स्वनगरं प्रस्थितो गजसाह्वयम्॥ सौतिरुवाच श्रुत्वैवमृषिपुत्रस्तु शवं स्कन्धे प्रतिष्ठितम्। कोपसंरक्तनयनः प्रज्वलन्निव मन्युना॥ आविष्टः स हि कोपेन शशाप नृपतिं तदा। वायुपस्पृश्य तेजस्वी क्रोधवेगबलात्कृतः॥ शृङ्गयुवाच योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य ह। स्कन्धे मृतं समानाक्षीत्पन्नगः राजकिल्बिषी॥ तं पापमतिसंक्रुद्धस्तक्षकः पन्नगेश्वरः। आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः॥ सप्तरात्रादितो नेता यमस्य सदनं प्रति। द्विजानामवमन्तारं कुरूणामयशस्करम्॥ सौतिरुवाच इति शप्त्वाऽतिसंक्रुद्धः शृंगी पितरमभ्यगात्। आसीनं गोव्रजे तस्मिन्वहन्तं शवपन्नगम्॥ स तमालक्ष्य पितरं शृङ्गी स्कन्धगतेन वै। शवेन भुजगेनासीद्भूयः क्रोधसमाकुलः॥ दुःखाच्चाश्रूणि मुमुचे पितरं चेदमब्रवीत्। श्रुत्वेमां धर्षणां तात तव तेन दुरात्मना॥ राज्ञा परिक्षिता कोपादशपन्तमहं नृपम्। यथार्हति स एवोगं शापं कुरुकुलाधमः। सप्तमेऽहनि तं पापं तक्षकः पन्नगोत्तमः॥ वैवस्वतस्य सदन नेता परमदारुणम्। तमब्रवीत्पिता ब्रह्मस्तथा कोपसमन्वितम्॥ शमीक उवाच न मे प्रियं कृतं तात नैष धर्मस्तपस्विनाम्। वयं तस्य नरेन्द्रस्य विषये निवसामहे॥ न्यायतो रक्षितास्तेन तस्य पापं न रोचये। सर्वथा वर्तमानस्य राज्ञो ह्यस्मद्विधैः सदा॥ क्षन्तव्यं पुत्रधर्मो हि हतो हन्ति न संशयः। यदि राजा न संरक्षेत्पीडा नः परमा भवेत्॥ न शक्नुयाम चरितुं धर्म पुत्र यथासुखम्। रक्ष्यमाणा वयं तात राजभिर्धर्मदृष्टिभिः॥२३.। चरामो विपुलं धर्मं तेषां भागोऽस्ति धर्मतः। सर्वथा वर्तमानस्य राज्ञः क्षन्तव्यमेव हि॥ परिक्षित्तु विशेषेण यथाऽस्य प्रपितामहः। रक्षत्यस्मांस्तथा राज्ञा रक्षितव्याः प्रजा विभो॥ तेनेह क्षुधितेनाद्य श्रान्तेन च तपस्विना। अजानता कृतं मन्ये व्रतमेतदिदं मम॥ अराजके जनपदे दोषा जायन्ति वै सदा। उद्वृत्तं सततं लोकं राजा दण्डेन शास्ति वै॥ दण्डात्प्रतिभयं भूयः शान्तिरुत्पद्यते तदा। नोद्विग्नश्चरते धर्मं नोद्विग्नश्चरते क्रियाम्॥ राज्ञा प्रतिष्ठितो धर्मो धर्मात्स्वर्गः प्रतिष्ठितः। राज्ञो यज्ञक्रियाः सर्वा यज्ञाद्देवाः प्रतिष्ठिता॥ देवावृष्टिः प्रवर्तेत वृष्टेरोषधयः स्मृताः। ओषधिभ्यो मनुष्याणां धारयन्सततं हितम्॥ मनुष्याणां च यो धाता राजा राज्यकरः पुनः। दशश्रोत्रियसमो राजा इत्येवं मनुरब्रवीत्॥ तेनेह क्षुधितेनाद्य श्रान्तेन च तपस्विना। अजानता कृतं मन्ये व्रतमेतदिदं मम॥ कस्मादिदं त्वया बाल्यात्सहसा दुष्कृतं कृतम्। न हर्हति नृपः शापमस्मत्तः पुत्र सर्वथा॥ शृङ्गयुवाच यद्येतत्साहसं तात यदि वा दुष्कृतं कृतम्। प्रियं वाऽप्यप्रियं वा ते वागुक्ता न मृषा भवेत्॥ नैवान्यथेदं भविता पितरेष ब्रवीमि ते। नाहं मृषा ब्रवीम्येवं स्वैरेष्वपि कुतः शपन्॥ शमीक उवाच जानाम्युग्रप्रभावं त्वां तात सत्यगिरं तथा। नानृतं चोक्तपूर्वं ते नैतन्मिथ्या भविष्यति॥ पित्रा पुत्रो वयःस्थोऽपि सततं वाच्य एव तु। यथा स्याद्गुणसंयुक्तः प्राप्नुयाच्च महद्यशः॥ किं पुनर्बाल एव त्वं तपसा भावितः सदा। वर्धते च प्रभवतां कोपोऽतीव महात्मनाम्॥ सोऽहं पश्यामि वक्तव्यं त्वयि धर्मभूतां वर। पुत्रत्वं बालता चैव तवावेक्ष्य च साहसम्॥ स त्वं शमपरो भूत्वा वन्यमाहारमाचरन्। चर क्रोधमिमं हत्वा नैवं धर्मं प्रहास्यसि॥ क्रोधो हि धर्मं हरति यतीनां दुःखसंचितम्। ततो धर्मविहीनानां गतिरिष्टां न विद्यते॥ शम एव यतीनां हि क्षमिणां सिद्धिकारकः। क्षमावतामयं लोकः परश्चैव क्षमावताम्॥ तस्माच्चरेथाः सततं क्षमाशीलो जितेन्द्रियः। क्षमया प्राप्स्यसे लोकान्ब्रह्मणः समनन्तरान्॥ मया तु शममास्थाय यच्छक्यं कर्तुमद्य वै। तत्करिष्याम्यहं तात प्रेषयिष्ये नृपाय वै॥ मम पुत्रेण शप्तोऽसि बालेन कृशबुद्धिना। ममेमां धर्षणां त्वत्तः प्रेक्ष्य राजन्नमर्षिणा॥ सौतिरुवाच एवमादिश्य शिष्यं स प्रेषयामास सुव्रतः। परिक्षिते नृपतये दयापन्नो महातपाः॥ संदिश्य कुशलप्रश्नं कार्यवृत्तान्तमेव च। शिष्यं गौरमुखं नाम शीलवन्तं समाहितम्॥ सोऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम्। विवेश भवनं राज्ञः पूर्वं द्वास्थैर्निवेदितः॥ पूजितस्तु नरेन्द्रेण द्विजो गौरमुखस्तदा। आचख्यौ च परिश्रान्तो राज्ञः सर्वमशेषतः॥ शमीकवचनं घोरं यथोक्तं मन्त्रिसन्निधौ। गौरमुख उवाच शमीको नाम राजेन्द्र वर्तते विषये तव॥ ऋषिः परमधर्मात्मा दान्तः शान्तो महातपाः। तस्य त्वया नरव्याघ्र सर्पः प्राणैर्वियोजितः॥ तक्षकः सप्तरात्रेण अवसक्तो धनुष्कोट्या स्कन्धे मौनान्वितस्य च। क्षान्तवांस्तव तत्कर्म पुत्रस्तस्य न चक्षमे॥ तेन शप्तोऽसि राजेन्द्र पितुरज्ञातमद्य वै। मृत्युस्तव भविष्यति॥ तत्र रक्षां कुरुष्वेति पुनः पुनस्थाऽब्रवीत्। तदन्यथा न शक्यं च कर्तुं केनचिदप्युत॥ न हि शक्नोति तं यन्तुं पुत्रं कोपसमन्वितम्। ततोऽहं प्रेषितस्तेन तव राजन्हितार्थिना॥ सौतिरुवाच इति श्रुत्वा वचो घोरं स राजा कुरुनन्दनः। पर्यतप्यत तत्पापं कृत्वा राजा महातपाः॥ तं च मौनव्रतं श्रुत्वा वने मुनिवरं तदा। भूय एवाभवद्राजा शोकसंतप्तमानसः॥ अनुक्रोशात्मतां तस्य शमीकस्यावधार्य च। पर्यतप्यत भूयोऽपि कृत्वा तत्किल्बिषं मुनेः॥ न हि मृत्युं तथा राजा श्रुत्वा वै सोऽन्वतप्यत। अशोचदमरप्रख्यो यथा कृत्वेह कर्म तत्॥ ततस्तं प्रेषयामास राजा गौरमुखं तदा। भूयः प्रसादं भगवान्करोत्विह ममेति वै॥ तस्मिंश्च गतमात्रेऽथ राजा गौरमुखे तदा। मन्त्रिभिर्मन्त्रयामास सह संविग्नमानसः॥ संमन्त्र्य मन्त्रिभिश्चैव स तथा मन्त्रतत्त्ववित्। प्रासादं कारयामास एकं स्तम्भं सुरक्षितम्॥ रक्षां च विदधे तत्र भिषजश्चौषधानि च। ब्राह्मणान्मन्त्रसिद्धांश्च सर्वतो वै न्ययोजयत्॥ राजकार्याणिः तत्रस्थः सर्वाण्येवाकरोच्च सः। मन्त्रिभिः सह धर्मज्ञः समन्तात्परिरक्षितः॥ न चैनं कश्चिदारूढं लभते राजसत्तमम्। वातोऽपि निश्चरंस्तत्र प्रवेशे विनिवार्यते॥ प्राप्ते च दिवसे तस्मिन्सप्तमे द्विजसत्तमः। काश्यपोऽभ्यागमद्विद्वांस्तं राजानं चिकित्सितुम्॥ श्रुतं हि तेन तदभूद्यथा तं राजसत्तमम्। तक्षकः पन्नगश्रेष्ठो नेष्यते यमसादनम्॥ तं दष्टं पन्नगेन्द्रेण करिष्येऽहमपज्वरम्। तत्र मेऽर्थश्च धर्मश्च भवितेति विचिन्तयन्॥ तं ददर्श स नागेन्द्रस्तक्षकः काश्यपं पथि। गच्छन्तमेकमनसं द्विजो भूत्वा वयोतिगः॥ तमब्रवीत्पन्नगेन्द्रः काश्यपं मुनिपुंगवम्। क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति॥ काश्यप उवाच नृपं कुरुकुलोत्पन्न परिक्षितमरिन्दमम्। तक्षकः पन्नगश्रेष्ठस्तेजसाऽद्य प्रधक्ष्यति॥ तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसम्। पाण्डवानां कुलकरं राजानममितौजसम्। गच्छामि त्वरितं सौम्य सद्यः कर्तुमपज्वरम्॥ तक्षक उवाच अहं स तक्षको ब्रह्मं स्तं धक्ष्यामि महीपतिम्। निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम्॥ काश्यप उवाच अहं तं नृपतिं गत्वा त्वया दष्टमपज्वरम्। करिष्यामीति मे बुद्धिर्विद्याबलसमन्विता॥ तक्षक उवाच यदि दष्टं मयेह त्वं शक्तः किंचिच्चिकित्सितुम्। ततो वृक्षं मया दष्टमिमं जीवय काश्यप॥ परं मन्त्रबलं यत्ते तद्दर्शय यतस्व च। न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम॥ काश्यप उवाच दश नागेन्द्र वृक्षं त्वं यद्येतदभिमन्यसे। अहमेनं त्वया दष्टं जीवयिष्ये भुजंगम॥ सौतिरुवाच एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना। अदशवृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः॥ स वृक्षस्तेन दष्टस्तु पन्नगेन महात्मना। आशीविषविषोपेतः प्रजज्वाल समन्ततः॥ तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत्। कुरु यत्नं द्विजश्रेष्ठ जीवयैनं वनस्पतिम्॥ सौतिरुवाच भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा। भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत्॥ विद्याबलं पन्नगेन्द्र पश्य मेऽद्य वनस्पतौ। अहं संजीवयाम्येनं पश्यतस्ते भुजंगम॥ ततः स भगवान्विद्वान्काश्यपो द्विजसत्तमः। भस्मराशीकृतं वृक्षं विद्यया समजीवयत्॥ अंकुरं कृतवांस्तत्र ततः पर्णद्वयान्वितम्। पलाशिनं शाखिनं च तथा विटपिनं पुनः॥ तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना। उवाच तक्षको ब्रह्मन्नैतदत्यद्भुतं त्वयि॥ द्विजेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा। कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन॥ यत्तेभिलषितं प्राप्तुं फलं तस्मान्नृपोत्तमात्। अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम्॥ विप्रशापाभिभूते च क्षीणायुषि नराधिपे। घटमानस्य ते विप्र सिद्धिः संशयिता भवेत्॥ ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम्। निरंशुरिव धर्मांशुरन्तर्धानमितो व्रजेत्॥ काश्यप उवाच धनार्थी याम्यहं तत्र तन्मे देहि भुंजगम। ततोऽहं विनिवर्तिष्ये स्वापतेयं प्रगृह्य वै॥ तक्षक उवाच यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम्। अहमेव प्रदास्यामि निवर्तस्व द्विजोत्तम॥ सौतिरुवाच तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः। प्रदध्यौ सुमहातेजा राजानं प्रति बुद्धिमान्॥ दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा। क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः॥ लब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम्। निवृत्ते काश्यपे तस्मिन्समयेन महात्मनि॥ जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम्। अथ शुश्राव गच्छन्स तक्षको जगतीपतिम्॥ मन्त्रैर्गदैविषहरै रक्ष्यमाणं प्रयत्नतः। सौतिरुवाच स चिन्तयामास तदा मायायोगेन पार्थिवः। मया वञ्चयितव्योऽसौ क उपायो भवेदिति॥ ततस्तापसरूपेण प्राहिणोत्स भुजंगमान्। फलदर्भोदकं गृह्य राज्ञे नागोऽथ तक्षकः॥ तक्षक उवाच गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तया। फलपुष्पोदकं नाम प्रतिग्राहयितुं नृपम्॥ सौतिरुवाच ते तक्षकसमादिष्टास्तथा चक्रुर्भुजंगमाः। उपनिन्युस्तथा राज्ञे दर्भानापः फलानि च॥ तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान्। कृत्वा तेषां च कार्याणि गम्यतामित्युवाच तान्॥ गतेषु तेषु नागेषु तापसच्छद्मरूपिषु। अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः॥ भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः॥ तापसैरुपनीतानि फलानि सहिता मया। ततो राजा ससचिवः फलान्यादातुमैच्छत॥ विधिना संप्रयुक्तो वै ऋषिवाक्येन तेन तु। यस्मिन्नेव फले नागस्तमेवाभक्षयत्स्वयम्॥ ततो भक्षयतस्तस्य फलात्कृमिरभुदणुः। ह्रस्वकः कृष्णनयनस्तामवर्णोऽथ शौनक।॥ स तं गृह्य नृपश्रेष्ठः सचिवानिदमब्रवीत्। अस्तमभ्येति सविता विषादद्य न मे भयम्॥ सत्यवागस्तु स मुनिः कृमिर्मी दशतामयम्। तक्षको नाम भूत्वा वै तथा परिहृतं भवेत्॥ ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताः। एवमुक्त्वा स राजेन्द्रो ग्रीवायां संनिवेश्य ह॥ कृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः। प्रहसन्नेव भोगेन तक्षकेण त्ववेष्ट्यत॥ तस्मात्फलाद्विनिष्क्रय यत्तद्राज्ञे निवेदितम्। वेष्टयित्वा च वेगेन विनद्य च महास्वनम्। अदशत्पृथिवीपालं तक्षकः पन्नगेश्वरः॥ सौतिरुवाच ते तथा मन्त्रिणो दृष्ट्वा भोगेन परिवेष्टितम्। विषण्णवदनाः सर्वे रुरुदुर्भृशदुःखिताः॥ तं तु नादं ततः श्रुत्वा मन्त्रिणस्ते प्रदुद्रुवुः। अपश्यन्त तथा यान्तमाकाशे नागमद्भुतम्॥ सीमन्तमिव कुर्वाणं नभसः पद्मवर्चसम्। तक्षकं पन्नगश्रेष्ठं भृशं शोकपरायणाः॥ ततस्तु ते तद्गृहग्निना वृतं प्रदीप्यमानं विषजेन भोगिनः। भयात्परित्यज्य दिश: प्रपेदिरे पपात राजाऽशनिताडितो यथा॥ ततो नृपे तक्षकतेजसा हते प्रयुज्य सर्वाः परलोकसत्क्रियाः। शुचिर्द्विजो राजपुरोहितस्तदा तथैव ते तस्य नृपस्य मन्त्रिणः॥ नृपं शिशुं तस्य सुतं प्रचक्रिरे समेत्य सर्वे पुरवासिनो जनाः। नृपं यमाहुस्तममित्रघातिनं कुरु प्रवीरं जनमेजयं जनाः॥ स बाल एवार्यमतिर्नृपोत्तमः सहैव तैर्मन्त्रिपुरोहितैस्तदा। शशास राज्यं कुरपुंगवाग्रजो यशाऽस्य वीरः प्रपितामहस्तथा॥ ततस्तु राजनममित्रतापनं समीक्ष्य ते तस्य नृपस्य मन्त्रिणः। सुवर्णवर्माणमुपेत्य काशिपं वपुष्टमार्थं वरयांप्रचक्रमुः॥ ततः स राजा प्रददौ वपुष्टमां कुरुप्रवीराय परीक्ष्य धर्मतः। स चापि तां प्राप्य मुदायुतोऽभवन् न चान्यनारीषु मनोदधे क्वचित्॥ सरःसु फुल्लेषु वनेषु चैव प्रसन्नचेता विजहार वीर्यवान्। तथा स राजन्यवरो विजह्रिवान् यथोर्वशी प्राप्य पुरा पुरूरवाः॥ वपुष्टमा चापि वरं पतिव्रता प्रतीतरूपा समवाप्य भूपतिम्। भावेन रामा रमयांबभूव विहारकालेष्ववरोधसुन्दरी॥ सौतिरुवाच एतस्तिन्नेव काले तु जरत्कारुर्महातपाः। चचार पृथिवीं कृत्स्नां यत्र सायंगृहो मुनिः॥ चरन्दीक्षां महातेज दुश्चरामकृतात्मभिः। तीर्थेष्वाप्लवनं कृत्वा पुण्येषु विचचार ह॥ वायुभक्षो निराहारः शुष्यन्नहरहर्मुनिः। स ददर्श पितॄन् गर्ने लम्बमानानधोमुखान्॥ एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान्। तं तन्तुं च शनैराखुमाददानं बिलेशयम्॥ निराहारान्कृशान्दीनान्गर्ते स्वत्राणमिच्छतः। उपसृत्य स तान्दीनान्दीनरूपोऽभ्यभाषत।॥ के भवन्तोऽवलम्बन्ते वीरणस्तम्बमाश्रिताः। दुर्बलं खादितैर्मूलैराखुना बिलवासिना॥ वीरणस्तम्बके मूलं यदप्येकमिह स्थितम्। तदप्ययं शनैराखुरादत्ते दशनैः शितैः॥ छेत्स्यतेऽल्पावशिष्टत्वादेतदप्यचिरादिव। ततस्तु पतितारोऽत्र गर्ने व्यक्तमधोमुखाः॥ तस्य मे दुःखमुत्पन्नं दृष्ट्वा युष्मानधोमुखान्। कृच्छ्रमापदमापन्नान्प्रियं किं करवाणि वः॥ तपसोऽस्य चतुर्थेन तृतीयेनाथवा पुनः। अर्धेन वापि निस्त मापदं ब्रूत मा चिरम्॥ अथवाऽपि समग्रेण तरन्तु तपसा मम। भवन्तः सर्व एवेह काममेवं विधीयताम्॥ पितर ऊचुः वृद्धो भवान्ब्रह्मचारी यो न स्त्रातुमिहेच्छसि। न तु विप्रार्य तपसा शक्यते तद्व्यपोहितुम्॥ अस्ति नस्तात तपसः फलं प्रवदतां वर। संतानप्रक्षयाद्ब्रह्मन्यताम निरयेऽशुचौ॥ संतानं हि परो धर्म एवमाह पितामहः। लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै॥ यैन त्वां नाभिजानीमो लोके विख्यातपौरुषम्। वृद्धो भवान्महाभागो यो नः शोच्यान्सुदुःखितान्॥ शोचते चैव कारुण्याच्छुणु ये वै वयं द्विजा यायावरा नाम वयमृषयः संशितव्रताः॥ लोकात्पुण्यादिह भ्रष्टाः संतानप्रक्षयान्मुने। प्रनष्टं नस्तपस्तीनं न हि नस्तन्तुरस्ति वै॥ अस्ति त्वेकोऽद्य नस्तन्तुः सोऽपि नास्ति यथा तथा। मन्दभाग्योऽल्पभाग्यानां तप एकं समास्थितः॥ जरत्कारुरिति ख्यातो वेदवेदाङ्गपारगः। नियतात्मा महात्मा च सुव्रतः सुमहातपाः॥ तेन स्म तपसो लोभात्कृच्छ्रमापादिता वयम्। न तस्यभार्या पुत्रो वा बान्धवो वाऽस्ति कश्चन।॥ तस्माल्लम्बामहे गर्ने नष्टसंज्ञा ह्यनाथवत्। स वक्तव्यस्त्वया दृष्टो ह्यस्माकं नाथवत्तया॥ पितरस्तेऽवलम्बन्ते गर्ते दीना अधोमुखाः। साधु दारान्कुरुष्वेति प्रजामुत्पादयेति च॥ कुलतन्तुर्हि नः शिष्टस्त्वमेवैकस्तपोधन। यस्त्वं पश्यसि नो ब्रह्मवीरणस्तम्बमाश्रितान्॥ एषोऽस्माकं कुलस्तम्ब आस्ते स्वकुलवर्धनः। यानि पश्यसि वै ब्रह्मन्मूलानीहास्य वीरुधः॥ एते नस्तन्तवस्तात कालेन परिभक्षिताः। यत्त्वेतत्पश्यसि ब्रह्मन्मूलमस्याधभक्षितम्॥ यत्र लम्बामहे गर्ने सोऽप्येकस्तप आस्थितः। यमाटुं पश्यसि ब्रह्मन्काल एष महाबलः॥ स तं तपोरतं मन्दं शनैः क्षपयते तुदन्। जरत्कारुं तपोलब्धं मन्दात्मानमचेतसम्॥ न हि नस्तत्तपस्तस्य तारयिष्यति सत्तम। छिन्नमूलान्परिभ्रष्टान्कालोपहतचेतसः॥ अधः प्रविष्टान्पश्यास्मान्यथा दुष्कृतिनस्तथा। अस्मासु पतितेष्वत्र सह सर्वैः सबान्धवैः॥ छिन्नः कालेन सोऽप्यत्र गत्वा वै नरकं ततः। तपोऽवाप्यथवा यज्ञो यच्चान्यत्पावनं महत्॥ तत्सर्वमपरं तात न संतत्या समं मतम्। स तात दृष्ट्वाबूयास्तं जरत्कारुं तपोधन॥ यथा दृष्टमिदं चात्र त्वयाख्येयमशेषतः। यथा दाराप्रकुर्यात्स पुत्रानुत्पादयेद्यथा॥ तथा ब्रह्मस्त्वया वाच्यः सोऽस्माकं नाथवत्तया। बान्धवानां हि तस्येह यथा चात्मकुलं तथा। कस्त्वं बन्धुमिवास्माकमनुशोचसि सत्तम। श्रोतुमिच्छाम सर्वेषां को भवानिह तिष्ठति॥ सौतिरुवाच एतच्छ्रुत्वा जरत्कारुर्भृशं शोकपरायणः। उवाच तान्पितॄन्दुःखाद्बाष्पसंदिग्धया गिरा॥ जरत्कारुरुवाच मम पूर्वे भवन्तो वै पितरः सपितामहाः। तद्भूत यन्मया कार्यं भवतां प्रियकाम्यया॥ अहमेव जरत्कारुः किल्बिषी भवतां सुतः। ते दण्डं धारयत मे दुष्कृतेरकृतात्मनः॥ पितर ऊचुः पुत्र दिष्ट्याऽसि संप्राप्त इमं देशं यदृच्छया। किमर्थं च त्वया ब्रह्मन् नकृतो दारसंग्रहः॥ जरत्कारुरुवाच ममायं पितरो नित्यं यद्यर्थः परिवर्तते। ऊर्ध्वरेताः शरीरं वै प्रापयेयममुत्र वै॥ न दारान्वै करिष्येहमिति मे भावितं मनः। एवं दृष्ट्वा तु भवतः शकुन्तानिव लम्बतः॥ मया निवर्तिता बुद्धिर्ब्रह्मचर्यात्पितामहाः। करिष्ये वः प्रियं कामं निवेक्ष्येऽहमसंशयम्॥ सनाम्नी यद्यहं कन्यामुपलप्स्ये कदाचन। भविष्यति च या काचिद्भक्ष्यवत्स्वयमुद्यता॥ प्रतिग्रहीता तामस्मि न भरेयं च यामहम्। एवं विधमहं कुर्यां निवेशं प्राप्नुयां यदि॥ अन्यथा न करिष्येऽहं सत्यमेतत्पितामहाः। तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै। शाश्वताश्चाव्ययाश्चैव तिष्ठन्तु पितरो मम॥ सौतिरुवाच एवमुक्त्वा तु स पितॄश्चचार पृथिवीं मुनिः। न च स्म लभते भार्यां वृद्धोऽयमिति शौनक॥ यदा निर्वेदमापन्नः पितृभिश्चोदितस्तथा। तदाऽरण्यं स गत्वोच्चैश्चक्रोश भृशदुःखितः॥ स त्वरण्यगतः प्राज्ञः पितॄणां हितकाम्यया। उवाच कन्यां याचामि तिस्रो वाचः शनैरिमाः॥ यानि भूतानि सन्तीह स्थावराणि चराणि च। अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः॥ उग्रे तपसि वर्तन्ते पितरचोदयन्ति माम्। निविशस्वेति दुःखार्ताः संतानस्य चिकीर्षया॥ निवेशायाखिला भूमि कन्याभक्ष्यं चरामि भोः। दरिद्रो दुःखशीलश्च पितृभिः संनियोजितः॥ यस्य कन्यास्ति भूतस्य ये मयेह प्रकीर्तिताः। ते मे कन्यां प्रयच्छन्तु चरतः सर्वतो दिशम्॥ मम कन्या सनाम्नी या भैक्ष्यवच्चोदिता भवेत्। भरेयं चैव यां नाहं तां मे कन्यां प्रयच्छत॥ ततस्ते पन्नगा ये वै जरत्कारौ समाहिताः। तामादाय प्रवृति ते वासुकेः प्रत्यवेदयन्॥ तेषां श्रुत्वा स नागेन्द्रस्तां कन्यां समलंकृताम्। प्रगृह्यारण्यमगमत्समीपं तस्य पन्नगः॥ तत्र तां भैक्ष्यवत्कन्यां प्रादात्तस्मै महात्मने। नागेन्द्रो वासुकिर्ब्रह्मन्न स तां प्रत्यगृह्णत॥ असनामेति वै मत्वा भरणे चाविचारिते। मोक्षभावे स्थितश्चापि द्वन्द्वभूतः परिग्रहे॥ ततो नाम स कन्याया: पप्रच्छ भृगुनन्दन। वासुकि भरणं चास्या न कुर्यामित्युवाच ह॥ सौतिरुवाच वासुकिस्त्वब्रवीद्वाक्यं जरत्कारुमृषि तदा। सनाम्नी तव कन्येयं स्वसा मे तपसान्विता॥ भरिष्यामि च ते भार्यां प्रतीच्छेमां द्विजोत्तम। रक्षणं च करिष्येऽस्याः सर्वशक्त्या तपोधन। त्वदर्थं रक्ष्यते चैषा मया मुनिवरोत्तम॥ ऋषिरुवाच न भरिष्येहमेतां वै एष मे समयः कृतः। अप्रियं च न कर्तव्यं कृते चैनां त्यजाम्यहम्॥ सौतिरुवाच प्रतिश्रुते तु नागेन भरिष्ये भगिनीमिति। जरत्कारुस्तदा वेश्म भुजगस्य जगाम ह॥ तत्र मन्त्रविदां श्रेष्ठस्तपोवृद्धो महाव्रतः। जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम्॥ ततो वासगृहं रम्यं पन्नगेन्द्रस्य संमतम्। जगाम भार्यामादाय स्तूयमानो महर्षिभिः॥ शयनं तत्र संक्लृप्तं स्पास्तरणसंवृतम्। तत्र भार्यासहायो वै जरत्कारुरुवास ह॥ स तत्र समयं चक्रे भार्यया सह सत्तमः। विप्रियं मे न कर्तव्यं न च वाच्यं कदाचन॥ त्यजेयं विप्रिये च त्वां कृते वासं च ते गृहे। एतद्गृहाण वचनं मया यत्समुदीरितम्॥ ततः परमसंविग्ना स्वसा नागपतेस्तदा। अतिदुःखान्विता वाक्यं तमुवाचैवमस्त्विति॥ तथैव सा च भर्तारं दुःखशीलमुपाचरत्। उपायैः श्वेतकाकीयैः प्रियकामा यशस्विनी॥ ऋतुकाले ततः स्नाता कदाचिद्वासुके: स्वसा। भर्तारं वै यथान्यायमुपतस्थे महामुनिम्॥ तत्र तस्याः समभवद्गर्भो ज्वलनसंनिभः। अतीव तेजसा युक्तो वैश्वानरसमद्युतिः॥ शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः। ततः कतिपयाहस्य जरत्कारुर्महायशाः॥ उत्सङ्गेऽस्याः शिरः कृत्वा सुष्वाप परिखिन्नवत्। तस्मिंश्च सुप्ते विप्रेन्द्रे सविताऽस्तमियागिरिम्॥ अह्नः परिक्षये ब्रह्मस्ततः साऽचिन्तयत्तदा। वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी॥ किं नु मे सुकृतं भूयाद्भर्तुरुत्थापनं न वा। दुःखशीलो हि धर्मात्मा कथं नास्यपराध्नुयाम्॥ कोपो वा धर्मशीलस्य धर्मलोपोऽथवा पुनः। धर्मलोपो गरीयान्वै स्यादित्यत्राकरोन्मतिम्॥ उत्थापयिष्ये यद्येनं ध्रुवं कोपं करिष्यति। धर्मलोपो भवेदस्य संध्यातिक्रमणे ध्रुवम्॥ इति निश्चित्य मनसा जरत्कारुर्भुजंगमा। तमृषि दीप्ततपसं शयानमनलोपमम्॥ उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी। उत्तिष्ठ त्वं महाभाग सूर्योऽस्तमुपगच्छति॥ संध्यामुपास्व भगवन्नपः स्पृष्ट्वा यतव्रतः। प्रादुष्कृताग्निहोत्रोऽयं मुहूर्तो रम्यदारुणः॥ संध्या प्रवर्तते चेयं पश्चिमायां दिशि प्रभो। एवमुक्तः स भगवान् जरत्कारुर्महातपाः॥ भार्यां प्रस्फुरमाणौष्ठ इदं वचनमब्रवीत्। अवमानं प्रयुक्तोऽयं त्वया मम भुजंगमे॥ समीपे ते न वत्स्यामि गमिष्यामि यथागतम्। शक्तिरस्ति न वामोरु मयि सुप्ते विभावसोः॥ अस्तं गन्तुं यथाकालमिति मे हृदि वर्तते। न चाप्यवमतस्येह वासो रोचेत कस्यचित्॥ किं पुनर्धर्मशीलस्य मम वा मद्विधस्य वा। एवमुक्ता जरत्कारुर्भ; हृदयकम्पनम्॥ अब्रवीद्भगिनी तत्र वासुकेः संनिवेशने। नावमानात्कृतवती तवाहं विप्रबोधनम्॥ धर्मलोपो न ते विप्र स्यादित्येतन्मया कृतम्। उवाच भार्यामित्युक्तो जरत्कारुर्महातपाः॥ कृतः। ऋषिः कोपसमाविष्टस्त्यक्तुकामो भुजंगमाम्। न मे वागनृतं प्राह गमिष्येऽहं भुजङ्गमे॥ समयो ह्येष मे पूर्वं त्वया सह मिथ: सुखमभ्युषितो भद्रे ब्रूयास्त्वं भ्रातरं शुभे॥ इतो मयि गते भीरु गतः स भगवानिति। त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुमर्हसि॥ इत्युक्ता साऽनवद्याङ्गी प्रत्युवाच मुनि तदा। जरत्कारुं जरत्कारुश्चिन्ताशोकपरायणा॥ बाष्पगद्गदया वाचा मुखेन परिशुष्यता। कृताञ्जलिर्वरारोहा पर्यश्रुनयना ततः॥ धैर्यमालम्ब्य वामोरूहृदयेन प्रवेपता। न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम्॥ धर्मे स्थितां स्थितो धर्मे सदा प्रियहिते रताम्। प्रदाने कारणं यच्च मम तुभ्यं द्विजोत्तम॥ तदलब्धवतीं मन्दां किं मां वक्ष्यति वासुकिः। मातृशापाभिभूतानां ज्ञातीनां मम सत्तम॥ अपत्यमीप्सितं त्वत्तस्तच्च तावन्न दृश्यते। त्वत्तो ह्यपत्यलाभेन ज्ञातीनां मे शिवं भवेत्॥ संप्रयोगो भवेन्नायं मम मोघस्त्वया द्विज। ज्ञातीनां हितमिच्छन्ती भगवंस्त्वां प्रसादये॥ इममव्यक्तरूपं मे गर्भमाधाय सत्तम। कथं त्यक्त्वा महात्मा सन्गन्तुमिच्छस्यनागसम्॥ एवमुक्तस्तु स मुनिर्भार्यां वचनमब्रवीत्। यद्युक्तमनुरूपं च जरत्कारुं तपोधनः॥ अस्त्ययं सुभगे गर्भस्तव वैश्वानरोपमः। ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः॥ एवमुक्त्वा स धर्मात्मा जरत्कारुर्महानृषिः। उग्राय तपसे भूयो जगाम कृतनिश्चयः॥ सौतिरुवाच गतमात्रं तु भर्तारं जरत्कारुरवेदयत्। भ्रातुः सकाशमागत्य याथातथ्यं तपोधन॥ ततः स भुजगश्रेष्ठः श्रुत्वा सुमहदप्रियम्। उवाच भगिनीं दीनां तदा दीनतरः स्वयम्॥ वासुकिरुवाच जानासि भद्रे यत्कार्यं प्रदाने कारणं च यत्। पन्नगानां हितार्थाय पुत्रस्ते स्यात्ततो यदि॥ स सर्पसत्रात्किल नो मोक्षयिष्यति वीर्यवान्। एवं पितामहः पूर्वमुक्तवांस्तु सुरैः सह॥ अप्यस्ति गर्भः सुभगे तस्मात्ते मुनिसत्तमात्। न चेच्छाम्यफलं तस्य दारकर्म मनीषिणः॥ कामं च मम न न्याय्यं प्रष्टुं त्वां कार्यमीदृशम्। किं तु कार्यगरीयस्त्वात्ततस्त्वाहमचूचुदम्॥ दुर्वार्यतां विदित्वा च भर्तुस्तेऽतितपस्विनः। नैनमन्वागमिष्यामि कदाचिद्धि शपेत्स माम्॥ आचक्ष्व भद्रे भर्तुः स्वं सर्वमेव विचेष्टितम्। उद्धरस्व च शल्यं मे घोरं हृदि चिरस्थितम्॥ जरत्कारुस्ततो वाक्यमित्युक्त्वा प्रत्यभाषत। आश्वासयन्ती संतप्तं वासुकिं पन्नगेश्वरम्॥ जरत्कारुरुवाच पृष्टो मयाऽपत्यहेतोः स महात्मा महातपाः। अस्तीत्युत्तरमुद्दिश्य ममेदं गतवांश्च सः॥ स्वैरेष्वपि न तेनाहं स्मरामि वितथं वचः। उक्तपूर्वं कुतो राजन्सांपराये स वक्ष्यति॥ न संतापस्त्वया कार्यः कार्यं प्रति भुजङ्गमे। उत्पत्स्यति च ते पुत्रो ज्वलनार्कसमप्रभः॥ इत्युक्त्वा स हि मां भ्रातर्गतो भर्ता तपोधनः। तस्माद्व्येतु परं दुःखं तवेदं मनसि स्थितम्॥ सौतिरुवाच एतच्छ्रुत्वा स नागेन्द्रो वासुकिः परया मुदा। एवमस्त्विति तद्वाक्यं भगिन्या:प्रत्यगृह्णत॥ सान्त्वमानार्थदानैश्च पूजया चानुरूपया। सोदर्यां पूजयामास स्वसारं पन्नगोत्तमः॥ ततः प्रववृधे गर्भो महातेजा महाप्रभः। यथा सोमो द्विजश्रेष्ठ शुक्लपक्षोदितो दिवि॥ अथ काले तु सा ब्रह्मन्प्रजज्ञे भुजगस्वसा। कुमारं देवगर्भाभं पितृमातृभयापहम्॥ ववृधे स तु तत्रैव नागराजनिवेशने। वेदांश्चाधिजगे साङ्गान्भार्गवाच्च्यवनान्मुने।॥ चीर्णव्रतो बाल एव बुद्धिसत्त्वगुणान्वितः। नाम चास्याभवत्ख्यातं लोकेष्वास्तीक इत्युत॥ अस्तीत्युक्त्वा गतो यस्मात्पिता गर्भस्थमेव तम्। वनं तस्मादिदं तस्य नामास्तीकेति विश्रुतम्॥ स बाल एव तत्रस्थश्चरन्नमितबुद्धिमान्। गृहे पन्नगराजस्य प्रयत्नात्परिरक्षितः॥ भगवानिव देवेशः शूलपाणिर्हिरण्मयः। विवर्धमानः सर्वांस्तान्पन्नगानभ्यहर्षयत्॥ मन्त्रिणः ऊचुः ततः स राजा राजेन्द्रः स्कन्धे तस्य भुजंगमम्। मुनेः क्षुत्क्षाम आसज्य स्वपुरं प्रययौ पुनः॥ ऋषेस्तस्य तु पुत्रोऽभूगवि जातो महायशाः। शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः॥ ब्रह्माणं समुपागम्य मुनिः पूजां चकार ह। सोऽनुज्ञातस्ततस्तत्र शृङ्गी सुश्राव तं तदा॥ सख्युः सकाशात्पितरं पित्रा ते धर्षितं पुरा। मृतं सर्प समासक्तं स्थाणुभूतस्य तस्य तम्॥ वहन्तं राजशार्दूलः स्कन्धेनानपकारिणम्। तपस्विनमतीवाथ तं मुनिप्रवरं नृप॥ जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुतम्। तपसा द्योतितात्मानं स्वेष्वङ्गेधुं यतं तदा॥ शुभाचारं शुभकथं सुस्थितं तमलोलुपम्। अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम्। शरण्यं सर्वभूतानां पित्रा विनिकृतं तव॥ शशापाथ महातेजाः पितरं ते रुषान्वितः। ऋषेः पुत्रो महातेजा बालोऽपि स्थविरद्युतिः॥ स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह। पितरं तेऽभिसंधाय तेजसा प्रज्वलन्निव॥ अनागसि गुरौ यो मे मृतं सर्पमवासृजत्। तं नागस्तक्षकः क्रुद्धस्तेजसा प्रदहिष्यति॥ आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः। सप्तरात्रादितः पापं पश्य मे तपसो बलम्॥ इत्युक्त्वा प्रययौ तत्र पिता यत्राऽस्य सोऽभवत्। दृष्ट्वा च पितरं तस्मै तं शापं प्रत्यवेदयत्॥ स चापि मुनिशार्दूल: प्रेरयामास ते पितुः। शिष्यं गौरमुखं नाम शीलवन्तं गुणान्वितम्॥ आचख्यौ स च विश्रान्तो राज्ञः सर्वमशेषतः। शप्तोऽसि मम पुत्रेण यतो भव महीपते॥ तक्षकस्त्वां महाराज तेजसाऽसौ दहिष्यति। श्रुत्वा च तद्वचो घोरं पिता ते जनमेजय॥ यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात्। ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते॥ राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत। तं ददर्शाथ नागेन्द्रस्तक्षकः काश्यपं तदा॥ तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं द्विजम्। क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति॥ काश्यप उवाच यत्र राजा कुरुश्रेष्ठः परीक्षिन्नाम वै द्विज। तक्षकेण भुजंगेन धक्ष्यते किल सोऽद्य वै॥ गच्छाम्यहं तं त्वरित: सद्यः कर्तुमपज्वरम्। मयाऽभिपन्नं तं चापि न सर्पो धर्षयिष्यति॥ तक्षक उवाच किमर्थं तं मया दष्टं संजीवयितुमिच्छसि। अहं स तक्षको ब्रह्मन्पश्य मे वीर्यमद्भुतम्॥ न शक्तस्त्वं मया दष्टं तं संजीवयितुं नृपम्। इत्युक्त्वा तक्षकस्तत्र सोऽदशद्वै वनस्पतिम्॥ स दष्टपात्रो नागेन भस्मीभूतोऽभवन्नगः। काश्यपश्च ततो राजन्नजीवयत तं नगम्॥ ततस्तं लोभयामास कामं ब्रूहीति तक्षकः। स एवमुक्तस्तं प्राह काश्यपस्तक्षकं पुनः॥ धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः। तमुवाच महात्मानं तक्षकः श्लक्ष्णया गिरा॥ यावद्धनं प्रार्थयसे राजस्तस्मात्ततोऽधिकम्। गृहाण मत्त एव त्वं संनिवर्तस्व चानघ॥ स एवमुक्तो नागेन काश्यपो द्विपदां वरः। लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम्॥ तस्मिन्प्रतिगते विप्रे छद्मनोपेत्य तक्षकः। तं नृपं नृपतिश्रेष्ठं पितरं धार्मिकं तव॥ प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना। ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः॥ एतदृष्टं श्रुतं चापि यथावन्नृपसत्तम। अस्माभिर्निखिलं सर्वं कथितं तेऽतिदारुणम्॥ श्रुत्वा चैनं नरश्रेष्ठ पार्थिवस्य पराभवम्। अस्य चर्षेरुत्तङ्कस्य विधत्स्व यदनन्तरम्॥ सौतिरुवाच एतस्मिन्नेव काले तु स राजा जनमेजयः। उवाच मन्त्रिणः सर्वानिदं वाक्यमरिंदमः॥ जनमेजय उवाच अथ तत्कथितं केन यद्वृत्तं तद्वनस्पतौ। आश्चर्यभूतं लोकस्य भस्मराशिकृतं तदा॥ यवृक्षं जीवयामास काश्यपस्तक्षकेण वै। नूनं मन्त्रैर्हतविषो न प्रणश्येत काश्यपात्॥ चिन्तयामास पापात्मा मनसा पन्नगाधमः। दष्टं यदि मया विप्रः पार्थिवं जीवयिष्यति॥ तक्षकः संहतविषो लोके यास्यति हास्यताम्। विचिन्त्यैवं कृता तेन ध्रुवं तुष्टिर्द्विजस्य वै॥ भविष्यति झुपायेन यस्य दास्यामि यातनाम्। एकं तु श्रोतुमिच्छामि तद्वृत्तं निर्जने वने।॥ संवादं पन्नगेन्द्रस्य काश्यपस्य च कस्तदा। श्रुतवान्दृष्टवांश्चापि भवत्सु कथमागतम्। श्रुत्वा तस्य विधास्येऽहं पन्नगान्तकरी मतिम्॥ मन्त्रिण: ऊचु: शृणु राजन्यथाऽस्माकं येन तत्कथितं पुरा। समागतं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि॥ तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिवः। विचिन्वन्पूर्वमारूढः शुष्कशाखावनस्पतौ॥ न बुध्येतामुभौ तौ च नगस्थं पन्नगद्विजौ। सह तेनैव वृक्षण भस्मीभूतोऽभवन्नृप॥ द्विजप्रभावाद्राजेन्द्र व्यजीवत्स वनस्पतिः। तेनागम्य द्विजश्रेष्ठ पुंसाऽस्मासु निवेदितम्॥ यथावृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च। एतत्ते कथितं राजन्यथा दृष्टं श्रुतं च यत्। श्रुत्वा च नृपशार्दूल विधत्स्व यदनन्तरम्॥ सौतिरुवाच मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः। पर्यतप्यत दुःखार्त: प्रत्यपिंषत्करं करे॥ निःश्वासमुष्णमसकृद्दीधैं राजीवलोचनः। मुमोचाश्रूणि च तदा नेत्राभ्यां प्ररुदन्नृपः॥ उवाच च महीपालो दुःखशोकसमन्वितः। दुर्धरं बाष्पमुत्सृज्य स्पृष्ट्वा चापो यथाविधि॥ मूहूर्तमिव च ध्यात्वा निश्चित्य मनसा नृपः। अमर्षी मन्त्रिणः सर्वानिदं वचनमब्रवीत॥ जनमेजय उवाच श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति॥ निश्चितेयं मम मतिर्या च तां मे निबोधत। अनन्तरं च मन्येऽहं तक्षकाय दुरात्मने।॥ प्रतिकर्तव्यमित्येवं येन मे हिंसितः पिता। शृङ्गिणं हेतुमात्रं यः कृत्वा दग्ध्वा च पार्थिवम्॥ ४९। इयं दुरात्मता तस्य काश्यपं यो न्यवर्तयत्। यदा गच्छेत्स वै विप्रो ननु जीवेत्पिता मम॥ परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः। काश्यपस्य प्रसादेन मन्त्रिणां विनयेन च॥ स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम्। संजिजीवयिषु प्राप्तं राजानमपराजितम्॥ महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः। द्विजस्य योददद् द्रव्यं मा नृपं जीवयेदिति॥ उत्तङ्कस्य प्रियं कर्तुमात्मनश्च महत्प्रियम्। भवतां चैव सर्वेषां गच्छाम्यपचितिं पितुः॥ सौतिरुवाच ततः कर्म प्रववृते सर्पसत्रविधानतः। पर्यक्रामंश्च विधिवत्स्वे स्वे कर्मणि याजकाः॥ प्रावृत्य कृष्णवासांसि धूमसंरक्तलोचनाः। जुहुवुमन्त्रवच्चैव समिद्धं जातवेदसम्॥ कम्पयन्तश्च सर्वेषामुरगाणां मनांसि च। सर्पानाजुहुवुस्तत्र सर्वानग्निमुखे तदा॥ ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहने। विचेष्टमानाः कृपणमाह्वयन्तः परस्परम्॥ विस्फुरन्तः स्वसन्तश्च वेष्टयन्तः परस्परम्। पुच्छैः शिरोभिश्च भृशं चित्रभानु प्रपेदिरे॥ श्वेताः कृष्णाश्च नीलाश्च स्थविराः शिशवस्तथा। नदन्तो विविधान्नादान्पेतुर्दीप्ते विभावसौ॥ क्रोशयोजनमात्रा हि गोकर्णस्य प्रमाणतः। पतन्त्यजस्रवेगेन वन्हावग्निमतांवर॥ एवं शतसहस्राणि प्रयुतान्यर्बुदानि च। अवशानि विनष्टानि पन्नगानां तु तत्र वै॥ तुरगा इव तत्रान्ये हस्तिहस्ता इवापरे। मत्ता इव च मातङ्गा महाकाया महाबलाः॥ उच्चावचाश्च बहवो नानावर्णा विषोल्बणाः। घोराश्च परिघप्रख्या दन्दशूका महाबलाः। प्रपेतुरग्नावुरगा मातृवाग्दण्डपीडिताः॥ शौनक उवाच सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतः। जनमेजयस्य के त्वासऋत्विजः परमर्षयः॥ के सदस्या बभूवुश्च सर्पसत्रे सुदारुणे। विषादजननेऽत्यर्थं पन्नगानां महाभये॥ सर्वं विस्तरशस्तात भवाञ्छंसितुमर्हति। सर्पसत्रविधानज्ञविज्ञेयाः के च सूतज॥ सौतिरुवाच हन्त ते कथयिष्यामि नामानीह मनीषिणाम्। ये ऋत्विजः सदस्याश्च तस्यासन्नृपतेस्तदा॥ तत्र होता बभूवाथ ब्राह्मणश्चण्डभार्गवः। च्यवनस्यान्वये ख्यातो जातो वेदविदां वरः॥ उद्गाता ब्राह्मणो वृद्धो विद्वान्कौत्सोऽथ जैमिनिः। ब्रह्माऽभूच्छाईरवोऽथाध्वर्युश्चापि पिङ्गलः॥ सदस्यश्चाभवद्व्यासः पुत्रशिष्यसहायवान्। उद्दालकः प्रमतकः श्वेतकेतुश्च पिङ्गलः॥ असितो देवलश्चैव नारदः पर्वतस्तथा। आत्रेयः कुण्डजठरौ द्विजः कालघटस्तथा॥ वात्स्यः श्रुतश्रवा वृद्धो जपस्वाध्यायशीलवान्। कोहलो देवशर्मा च मौद्गल्यः समसौरभः॥ एते चान्ये च बहवो ब्राह्मणा: वेदपारगाः। सदस्याश्चाभवंस्तत्र सत्रे पारिक्षितस्य ह॥ जुह्वत्स्वृत्विक्ष्वथ तदा सर्पसत्रे महाक्रतौ। अहयः प्रापतस्तत्र घोराः प्राणिभयावहाः॥ वसामेदोवहाः कुल्या नागानां संप्रवर्तिताः। ववौ गन्धश्च तुमुलो दह्यतामनिशं तदा॥ पततां चैव नागानां घिष्ठितानां तथाम्बरे। अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम्॥ तक्षकस्तु स नागेन्द्रः पुरंदरनिवेशनम्। गतः श्रुत्वैव राजानं दीक्षितं जनमेजयम्॥ ततः सर्वं यथावृत्तमाख्याय भुजगोत्तमः। अगच्छच्छरणं भीत आगस्कृत्वा पुरंदरम्॥ तमिन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षक। भयं नागेन्द्र तस्माद्वै सर्पसत्रात्कदाचन॥ प्रसादितो मया पूर्वं तवार्थाय पितामहः। तस्मात्तव भयं नास्ति व्येतु ते मानसो ज्वरः॥ सौतिरुवाच एवमाश्वासितस्तेन ततः स भुजगोत्तमः। उवास भवने तस्मिञ्च्छक्रस्य मुदितः सुखी॥ अजस्रं निपतत्स्वग्नौ नागेषु भृशदुःखितः। अल्पशेषपरीवारो वासुकिः पर्यतप्यत॥ कश्मलं चाविशद् घोरं वासुकिं पन्नगोत्तमम्। स घूर्णमानहृदयो भगिनीमिदमब्रवीत्॥ दह्यन्त्यङ्गानि मे भद्रे न दिशः प्रतिभान्ति च। सीदामीव च संमोहात् घूर्णतीव च मे मनः॥ दृष्टिर्भ्राम्यति मेतीव हृदयं दीर्यतीव च। पतिष्याम्यवशोऽद्याहं तस्मिन्दीप्ते विभावसौ॥ पारिक्षितस्य यज्ञोऽसौ वर्ततेऽस्मज्जिघांसया। व्यक्तं मयाऽपि गन्तव्यं प्रेतराजनिवेशनम्॥ अयं स कालः संप्राप्तो यदर्थमसि मे स्वसः। जरत्कारी मया दत्ता त्रायस्वास्मान्सबान्धवान्॥ आस्तीकः किल यज्ञं तं वर्तन्तं भुजगोत्तमे। प्रतिषेत्स्यति मां पूर्वं स्वयमाह पितामहः॥ तद्वत्से ब्रूहि वत्सं स्वं कुमारं वृद्धसंमतम्। ममाद्य त्वं सभृत्यस्य मोक्षार्थं वेदवित्तमम्॥ सौतिरुवाच तत आहूय पुत्रं स्वं जरत्कारुर्भुजंगमा। वासुकेर्नागराजस्य वचनादिदमब्रवीत्॥ अहं तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततः। कालः स चायं संप्राप्तस्तत्कुरुष्व यथातथम्॥ आस्तीक उवाच किं निमित्तं मम पितुर्दत्ता त्वं मातुलेन मे। तन्ममाचक्ष्व तत्त्वेन श्रुत्वा कर्ताऽस्मि तत्तथा॥ सौतिरुवाच तत आचष्ट सा तस्मै बान्धवानां हितैषिणी। भगिनी नागराजस्य जरत्कारुरविक्लवा॥ जरत्कारुरुवाच पन्नगानामशेषाणां माता कदूरिति श्रुता। तया शप्ता रुषितया सुता यस्मान्निबोध तत्॥ उच्चैःश्रवाः सोऽश्वराजो यन्मिथ्या न कृतो मम। विनतार्थाय पणिते दासभावाय पुत्रकाः॥ जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः। तत्र पञ्चत्वमापन्नाः प्रेतलोकं गमिष्यथ॥ तां च शप्तवती देवः साक्षाल्लोकपितामहः। एवमस्त्विति तद्वाक्यं प्रोवाचानुमुमोद च॥ वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदा। अमृते मथिते तात देवाञ्छरणमीयिवान्॥ सिद्वार्थाश्च सुराः सर्वे प्राप्यामृतमनुत्तमम्। भ्रातरं मे पुरस्कृत्य पितामहमुपागमन्॥ ते तं प्रसादयामासुः सुराः सर्वेऽब्जसंभवम्। राज्ञा वासुकिना सार्धं शापोऽसौ न भवेदिति॥ देवा ऊचुः वासुकिर्नागराजोऽयं दुःखितो ज्ञातिकारणत्। अभिशाप: स मातुस्तु भगवन्न भवेत्कथम्॥ ब्रह्मोवाच जरत्कारुर्जरत्कारुं यां भार्यां समवाप्स्यति। तत्र जातो द्विजः शापान्मोक्षयिष्यति पन्नगान्॥ एतच्छुत्वा तु वचनं वासुकिः पन्नगोत्तमः। प्रादान्माममरप्रख्य तव पित्रे महात्मने।॥ प्रागेवानागते काले तस्मात्त्वं मय्यजायथाः। अयं स काल: संप्राप्तो भयान्नस्त्रातुमर्हसि॥ भ्रातरं चापि मे तस्मात्त्रातुमर्हसि पावकात्। न मोघं तु कृतं तत्स्याद्यदहं तव धीमते। पित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे॥ सौतिरुवाच एवमुक्तस्तथेत्युक्त्वा सास्तीको मातरं तदा। अब्रवीदुःखसंतप्तं वासुकिं जीवयन्निव॥ अहं त्वां मोक्षयिष्यामि वासुके पन्नगोत्तम। तस्माच्छापान्महासत्त्व सत्यमेतद्ब्रवीमि ते॥ भव स्वस्थमना नाम न हि ते विद्यते भयम्। प्रयतिष्ये तथा राजन्यथा श्रेयो भविष्यति॥ न मे वागनृतं प्राह स्वैरेष्वपि कुतोऽन्यथा। तं वै नृपवरं गत्वा दीक्षितं जनमेजयम्॥ वाग्भिर्मङ्गलयुक्ताभिस्तोषयिष्येऽद्य मातुल। यथा स यज्ञो नृपतेनिवर्तिष्यति सत्तम॥ स संभावय नागेन्द्र मयि सर्वं महामते। न ते मयि मनो जातु मिथ्या भवितुमर्हसि॥ वासुकिरुवाच आस्तीक परिघूर्णामि हृदयं मे विदीर्यते। दिशो न प्रतिजानामि ब्रह्मदण्डनिपीडितः॥ आस्तीक उवाच न संतापस्त्वया कार्यः कथंचित्पन्नगोत्तम। प्रदीप्ताग्नेः समुत्पन्नं नाशयिष्यामि ते भयम्॥ ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम्। नाशयिष्यामि मात्र त्वं भयं कार्षीः कथंचन॥ सौतिरुवाच ततः स वासुके?रमपनीय मनोज्वरम्। आधाय चात्मनोऽङ्गेषु जगाम त्वरितो भृशम्॥ जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः। मोक्षाय भुजगेन्द्राणामास्तीको द्विजसत्तमः॥ स गत्वापश्यदास्तीको यज्ञायतनमुत्तमम्। वृत्तं सदस्यैर्बुहुभिः सूर्यवह्निसमप्रभैः॥ स तत्र वारितो द्वास्थैः प्रविशन्द्विजसत्तमः। अभितुष्टाव तं यज्ञं प्रवेशार्थी परंतपः॥ स प्राप्य यज्ञायतनं वरिष्ठं द्विजोत्तमः पुण्यकृतां वरिष्ठः। मृत्विक्सदस्यांश्च तथैव चाग्निम्॥ आस्तीक उवाच सोमस्य यज्ञो वरुणस्य यज्ञः प्रजापतेर्यज्ञ आसीत्प्रयागे। तथा यज्ञोऽयं तव भारतार्थ्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥ स्तथा परं तुल्यसंख्यं शतं वै। तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥ यमस्य यज्ञो हरिमेधसश्च यथा यज्ञो रन्तिदेवस्य राज्ञः। तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥ गयस्य यज्ञः शशबिन्दोश्च राज्ञो यज्ञस। वैश्रवणस्य राज्ञः। तथा यज्ञोऽयं, भारतार्य पारिक्षिः स्वस्ति नोऽस्तु प्रियेभ्यः॥ द्यथ यज्ञो दाशरथेच राज्ञः। तथा यज्ञोऽयं तव भारताऱ्या पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥ युधिष्ठिरस्याजमीढस्य राज्ञः। यथा यज्ञोऽयं तव भारतार्य पारिक्षित रूस्ति नोऽस्तु प्रियेभ्यः॥ कृष्णस्य यज्ञः सत्यवत्याः सुतस्टा स्वयं च कर्म प्रचकार य: तथा यज्ञोऽयं तव भारताये पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥ इमे च ते सूर्यसमानवर्चसः समासते वृत्रहणः क्रतुं यथा। नैषां ज्ञातं विद्यते ज्ञानमद्य दत्तं येभ्यो न प्रणश्येत्कदाचित्॥ ऋत्विक्समो नास्ति लोकेषु चैव द्वैपायनेनेति विनिश्चितं मे। एतस्य शिष्या हि क्षितिं संचरन्ति सर्वर्विजः कर्मसु स्वेषु दीक्षाः॥ विभावसुश्चित्रभानुर्महात्मा हिरण्यरेता हुतभुक्कृष्णवा। प्रदक्षिणावर्तशिखः प्रदीप्तो हव्यं तवेदं हुतभुग्वष्टि देवः॥ नेह त्वदन्यो विद्यते जीवलोके समो नृपः पालयिता प्रजानाम्। धृत्या च ते प्रीतमनः सदाहं त्वं वा वरुणो धर्मराजो यमो वा॥ शक्रः साक्षाद्वज्रपाणिर्यथेह त्राता लोकेऽस्मिंस्त्वं तथेह प्रजानाम्। मतस्त्वं नः पुरुषेन्द्रह लोके न च त्वदन्यो भूपतिरस्ति जज्ञे॥ खट्वाङ्गनाभागदिलीपकल्प ययातिमांधातृसमप्रभाव। आदित्यतेजः प्रतिमानतेजा भीष्मो यथा राजसि सुव्रतस्त्वम्॥ वाल्मीकिवत्ते निभृतं स्ववीर्ये वसिष्ठवत्ते नियतश्च कोपः। प्रभुत्वमिन्द्रत्वसमं मतं मे द्युतिश्च नारायणवद्विभाति॥ यमो यथा धर्मविनिश्चयज्ञः कृष्णो यथा सर्वगुणोपपन्नः। श्रियां निवासोऽसि यथा वसूनां निधानभूतोऽसि तथा क्रतूनाम्॥ दद्भोद्भवेनासि समो बलेन रामो यथा शास्त्रविदस्त्रविच्च। और्वत्रिताभ्यामसि तुल्यतेजा दुप्रेक्षणीयोऽसि भगीरथेन॥ सौतिरुवाच एवं स्तुताः सर्व एव प्रसन्ना राजा सदस्या ऋत्विजो हव्यवाहः। तेषां दृष्ट्वा भावितानीङ्गितानि प्रोवाच राजा जनमेजयोऽथ॥ जनमेजय उवाच बालोऽप्ययं स्थविर इवावभाषते नायं बालः स्थविरोऽयं मतो मे। इच्छाम्यहं वरमस्मै प्रदातुं तन्मे विप्राः संविदध्वं यथावत्॥ सदस्या ऊचुः बालोऽपि विप्रो मान्य एवेह राज्ञां विद्वान्यो वै स पुनर्वै यथावत्। सर्वान्कामांस्त्वत्त एवार्हतेऽद्य यथा च नस्तक्षक एति शीघ्रम्॥ सौतिरुवाच व्याहतुकामे वरदे नृपे द्विजं वरं वृणीष्वेति ततोऽभ्युवाच। होता वाक्यं नातिहष्टान्तरात्मा कर्मण्यस्मिंस्तक्षको नैति तावत्॥ जनमेजय उवाच यथा चेदं कर्म समाप्यते मे यथा च वै तक्षक एति शीघ्रम्। तथा भवन्तः प्रयतन्तु सर्वे परं शक्त्या स हि मे विद्विषाणः॥ ऋत्विज ऊचुः यथा शास्त्राणि न: प्राहुर्यथा शंसति पावकः। इन्द्रस्य भवने राजस्तक्षको भयपीडितः॥ यथा सूतो लोहिताक्षो महात्मा पौराणिको वेदितवान्पुरस्तात्। स राजानं प्राह पृष्टस्तदानीं यथाहुर्विप्रास्तद्वदेतऋदेव॥ पुराणमागम्य ततो ब्रवीम्यहं दत्तं तस्मै वरमिन्द्रेण राजन्। वसेह त्वं मत्सकाशे सुगुप्तो न पावकस्त्वां प्रदहिष्यतीति॥ एतच्छ्रुत्वा दीक्षितस्तप्यमान आस्ते होतारं चोदयन्कर्मकाले। रथो महेन्द्रः स्वयमाजगाम॥ विमानमारुह्य महानुभावः सर्वैर्देवैः परिसंस्तूयमानः। बलाहकैश्चाप्यनुगम्यमानो विद्याधरैरप्सरसां गणैश्च॥ तस्योत्तरीये निहितः स नागो भयोद्विग्नः शर्म नैवाभ्यगच्छत्। ततो राजा मन्त्रविदोऽब्रवीत्पुन: क्रुद्धो वाक्यं तक्षकस्यान्तमिच्छन्॥ जनमेजय उवाच इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः। तमिन्द्रेणैव सहितं पातयध्वं विभावसौ॥ सौतिरुवाच जनमेजयेन राज्ञा तु नोदितस्तक्षकं प्रति। होता जुहाव तत्रस्थं तक्षकं पन्नगं तथा॥ हूयमाने तथा चैव तक्षकः सपुरंदरः। आकाशे ददृशे चैव क्षणेन व्यथितस्तदा॥ पुरंदरस्तु तं यज्ञं दृष्ट्वोरुभयमाविशत्। हित्वा तु तक्षकं त्रस्तः स्वमेव भवनं ययौ॥ इन्द्रे गते तु राजेन्द्र तक्षको भयमोहितः। मन्त्रशक्त्या पावकार्चिः समीपमवशो गतः॥ ऋत्विज ऊचुः वर्तते तव राजेन्द्र कमैतद्विधिवत्प्रभो। अस्मै तु द्विजमुख्याय वरं त्वं दातुमर्हसि॥ जनमेजय उवाच बालाभिरूपस्य तवाप्रमेय वरं प्रयच्छामि यथानुरूपम्। वृणीष्व यत्तेऽभिमतं हृदि स्थितं तत्ते प्रदास्याम्यपि चेददेयम्॥ ऋत्विज ऊचुः अयमायाति तूर्णं स तक्षकस्ते वशं नृप। श्रूयतेऽस्य महान्नादो नदतो भैरवं रवम्॥ नूनं मुक्तो वज्रभृता स नागो भ्रष्टो नाकान्मन्त्रविसस्तकायः। घूर्णन्नाकाशे नष्टसंज्ञोऽभ्युपैति तीव्रानि:स्वासान्निःश्वसन्पन्नगेन्द्रः॥ सौतिरुवाच पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि। इदमन्तरमित्येवं तदास्तीकोऽभ्यचोदयत्॥ आस्तीक उवाच वरं ददासि चेन्मह्यं वृणोमि जनमेजय। सनं ते विरमत्वेतन्न पतेयुरिहोरगाः॥ सौतिरुवाच एवमुक्तस्तदा तेन ब्रह्मन्पारिक्षितस्तु सः। नातिहष्टमनश्चेदमास्तीकं वाक्यमब्रवीत्॥ जनमेजय उवाच सुवर्ण रजतं गाश्च यच्चान्यन्मन्यसे विभो। तत्ते दद्यां वरं विप्र न निवर्तेत्क्रतुर्मम॥ आस्तीक उवाच सुवर्णं रजतं गाश्च न त्वां राजन्वृणोम्यहम्। सत्रं ते विरमत्वेतत्स्वस्ति मातृकुलस्य नः॥ सौतिरुवाच आस्तीकेनैवमुक्तस्तु राजा पारिक्षितस्तदा। पुनः पुनरुवाचेदमास्तीकं वदतांवरः॥ अन्यं वरय भद्रं ते वरं द्विजवरोत्तम। अयाचत न चाप्यन्यं वरं स भृगुनन्दन॥ ततो वेदविदस्तात सदस्याः सर्व एव तम्। राजानमूचुः सहिता लभतां ब्राह्मणो वरम्॥ सौतिरुवाच इदमत्यद्भुतं चान्यदास्तीकस्यानुशुश्रुम। तथा वरैश्छन्द्यमाने राज्ञा पारिक्षितेन हि॥ इन्द्रहस्ताच्च्युतो नागः ख एव यदतिष्ठत। ततश्चिन्तापरो राजा बभूव जनमेजयः॥ हूयमाने भृशं दीप्तं विधिवद्वसुरेतसि। न स्म स प्राप तद्वन्हौ तक्षको भयपीडितः॥ शौनक उवाच किं सूत तेषां विप्राणां मन्त्रग्रामो मनीषिणाम्। न प्रत्यभात्तदाऽग्नौ यत्स पपात न तक्षकः॥ सौतिरुवाच तमिन्द्रहस्ताद्वित्रस्तं विसंज्ञं पन्नगोत्तमम्। आस्तीकस्तिष्ठतिष्ठेतिवाचस्तिस्रोऽभ्युदैरयत्॥ वितस्थे सोऽन्तरिक्षे च हृदयेन विदूयता। यथा तिष्ठति वै कश्चित्खं च गां चान्तरा नरः॥ ततो राजाब्रवीद्वाक्यं सदस्यैश्चोदितो भृशम्। काममेतद्भवत्वेवं यथास्तीकस्य भाषितम्॥ समाप्यतामिदं कर्म पन्नगाः सन्त्वनामयाः। प्रीयतामयमास्तीकः सत्यं सूतवचोऽस्तु तत्॥ ततो हलहलाशब्दः प्रीतिदः समजायत। आस्तीकस्य वरे दत्ते तथैवोपरराम च॥ स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह। प्रीतिमांश्चाभवद्राजा भारतो जनमेजयः॥ ऋत्विग्भ्यः ससदस्येभ्यो ये तत्रासन्समागताः। तेभ्यश्च प्रददौ वित्तं शतशोऽथ सहस्रशः॥ लोहिताक्षाय सूताय तथा स्थपतये विभुः। येनोक्तं तस्य तत्राग्रे सर्पसत्रनिवर्तने॥ निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहु। दत्वा द्रव्यं यथान्यायं भोजनाच्छादनान्वितम्॥ प्रीतस्तस्मै नरपतिरप्रमेयपराक्रमः। ततश्चकारावभृथं विधिदृष्टेन कर्मणा॥ आस्तीकं प्रेषयामास गृहानेव सुसंस्कृतम्। राजा प्रीतमनाः प्रीतं कृतकृत्यं मनीषिणम्॥ पुनरागमनं कार्यमिति चैनं वचोऽब्रवीत्। भविष्यसि सदस्यो मे वाजिमेधे महाक्रतौ॥ तथेत्युक्त्वा प्रदुद्राव तदास्तीको मुदा युतः। कृत्वा स्वकार्यमतुलं तोषयित्वा च पार्थिवम्॥ स गत्वा परमप्रीतो मातुलं मातरं च ताम्। अभिगम्योपसंगृह्य तथावृत्तं न्यवेदयत्॥ सौतिरुवाच एतच्छ्रुत्वा प्रीयमाणाः समेता तत्रासन्पन्नगा वीतमोहाः। रूचुश्चै वरमिष्टं वृणीष्व॥ भूयो भूयः सर्वशस्तेऽब्रुवंस्तं किं ते प्रियं करवामाद्य विद्वन्। प्रीता वयं मोक्षिताश्चैव सर्वे कामं किं ते करवामाद्य वत्स॥ आस्तीक उवाच सायंप्रातर्ये प्रसन्नात्मरूपा लोके विप्रा मानवा ये परेऽपि। धर्माख्यानं ये पठेयुर्ममेदं तेषां युष्मन्नैव किचिद्भयं स्यात्॥ रेतत्सत्यं काममेवं वरं ते। प्रीत्या युक्ताः कामितं सर्वशस्ते कर्तारः स्म प्रवणा भागिनेय॥ असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत्। दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत्॥ यो जरत्कारुणा जातो जरत्कारौ महायशाः। आस्तीक. सर्पसत्रे वः पन्नगान्योऽभ्यरक्षत। तं स्मरन्तं महाभागा न मां हिंसितुमर्हथ॥ सोपसर्प भद्रं ते गच्छ सर्पमहाविष। जनमेजयस्य यज्ञान्ते आस्तीकवचनं स्मर॥ आस्तीकस्य वचः श्रुत्वा यः सर्पो न निवर्तते। शतधा भिद्यते मूर्ध्नि शिंशवृक्ष फलं यथा॥ सौतिरुवाच स एवमुक्तस्तु तदा द्विजेन्द्रः समागतैस्तैर्भुजगेन्द्रमुख्यैः संप्राप्य प्रीतिं विपुलां महात्मा ततो मनो गमनायाथ दधे॥ मोक्षयित्वा तु भुजगान्सर्पसत्राद्विजोत्तमः। जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान्॥ इत्याख्यानं मयास्तीकं यथावत्तव कीर्तितम्। यत्कीर्तयित्वा सर्पेभ्यो न भयं विद्यते क्वचित्॥ सौतिरुवाच यथा कथितवान्ब्रह्मन्प्रमतिः पूर्वजस्तव। पुत्राय रुरवे प्रीतः पृच्छते भार्गवोत्तम।॥ यद्वाक्यं श्रुतवांश्चाहं तथा च कथितं मया। आस्तीकस्य कवेर्विप्र श्रीमच्चरितमादितः॥ श्रुत्वा धर्मिष्ठमाख्यानमास्तीकं पुण्यवर्धनम्। यन्मां त्वं पृष्टवान्ब्रह्मछ्रुत्वा डुण्डुभभाषितम्। व्येतु ते सुमहद्ब्रह्मन्कौतूहलमरिंदम॥ शौनक उवाच भृगुवंशात्प्रभृत्येव त्वया मे कीर्तितं महत्। आख्यानमखिलं तात सौते प्रीतोऽस्मि तेन ते॥ वक्ष्यामि चैव भूयस्त्वां यथावत्सूतनन्दन। याः कथा व्याससंपन्नास्ताश्च भूयो विचक्ष्व मे॥ तस्मिन्परमदुष्पारे सर्पसत्रे महात्मनाम्। कर्मान्तरेषु यज्ञस्य सदस्यानां यथाध्वरे॥ या बभूवुः कथाचित्रा येष्वर्थेषु तथातथम्। त्वत्त इच्छामहे श्रोतुं सौते त्वं वै प्रचक्ष्व नः॥ सौतिरुवाच कर्मान्तरेष्वकथयन्द्विजा वेदाश्रयाः कथाः। व्यासस्त्वकथयच्चित्रमाख्यानं भारतं महत्॥ शौनक उवाच महाभारतमाख्यानं पाण्डवानां यशस्करम्। जनमेजयेन पृष्टः सन्कृष्णद्वैपायनस्तदा॥ श्रावयामास विधिवत्तदा कर्मान्तरे तु सः। तामहं विधिवत्पुण्यां श्रोतुमिच्छामि वै कथाम्॥ मनःसागरसंभूतां महर्षेर्भावितात्मनः। कथयस्व सतां श्रेष्ठ सर्वरत्नमयीमिमाम्॥ सौतिरुवाच हन्त ते कथयिष्यामि महदाख्यानमुत्तमम्। कृष्णद्वैपायनमतं महाभारतमादितः॥ शृणु सर्वमशेषेण कथ्यमानं मया द्विज। शंसितुं तन्महान्हर्षो ममापीह प्रवर्तते॥ सौतिरुवाच श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम्। अभ्यगच्छदृषिविद्वान्कृष्णद्वैपायनस्तदा।॥ जनयामास यं काली शक्तेः पुत्रात्पराशरात्। कन्यैव यमुनाद्वीपे पाण्डवानां पितामहम्॥ जातमात्रश्च यः सद्य इष्ट्या देहमवीवृधत्। वेदांश्चाधिजगे साङ्गान्सेतिहासान्महायशाः॥ यन्नति तपसा कश्चिन्न वेदाध्ययनेन च। न व्रतैर्नोपवासैश्च न प्रसूत्या न मन्युना॥ विव्यासैकं चतुर्धा यो वेदं वेदविदां वरः। परावरज्ञो ब्रह्मर्षिः कविः सत्यव्रतः शुचिः॥ यः पाण्डुं धृतरा च विदुरं चाप्यजीजनत्। शान्तनो: संततिं तन्वन्पुण्यकीर्तिर्महायशाः॥ जनमेजयस्य राजर्षेः स महात्मा सदस्तथा। विवेश सहितः शिष्यैर्वेदवेदाङ्गपारगैः॥ तत्र राजानमासीनं ददर्श जनमेजयम्। वृतं सदस्यैर्बहुभिर्देवैरिव पुरंदरम्॥ तथा मूर्धाभिषिक्तैश्च नानाजनपदेश्वरैः। ऋत्विग्भिर्ब्रह्मकल्पैश्च कुशलैर्यज्ञसंस्तरे॥ जनमेजयस्तु राजर्षिर्दृष्ट्वा तमृषिमागतम्। सगणोऽभ्युद्ययौ तूर्णं प्रीत्या भरतसत्तमः॥ काञ्चनं विष्टरं तस्मै सदस्यानुमतः प्रभुः। आसनं कल्पयामास तथा शक्रो बृहस्पतेः॥ तत्रोपविष्टं वरदं देवर्षिगणपूजितम्। पूजयामास राजेन्द्रः शास्त्रदृष्टेन कर्मणा॥ पाद्यमाचमनीयं च अर्घ्यं गां च विधानतः। पितामहाय कृष्णाय तदर्हाय न्यवेदयत्॥ प्रतिगृह्य तु तां पूजां पाण्डवाज्जनमेजयात्। गां चैव समनुज्ञाप्य व्यासः प्रीतोऽभवत्तदा॥ तथा च पूजयित्वा तं प्रणयात्प्रपितामहम्। उपोपविश्य प्रीतात्मा पर्यपृच्छदनामयम्॥ भगवानपि तं दृष्ट्वा कुशलं प्रतिवेद्य च। सदस्यैः पूजितः सर्वैः सदस्यान्प्रत्यपूजयत्॥ ततस्तु सहितः सर्वैः सदस्यैर्जनमेजयः। इदं पश्चाद्विजश्रेष्ठं पर्यपृच्छत्कृताञ्जलिः॥ जनमेजय उवाच कुरूणां पाण्डवानां च भवान्प्रत्यक्षदर्शिवान्। तेषां चरितमिच्छामि कथ्यमानं त्वया द्विजः॥ कथं समभवद्भेदस्तेषामक्लिष्टकर्मणाम्। तच्च युद्धं कथं वृत्तं भूतान्तकरणं महत्॥ पितामहानां सर्वेषां दैवेनानिष्टचेतसाम्। कार्येनैतन्ममाचक्ष्व यथावृत्तं द्विजोत्तम॥ सौतिरुवाच तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा। शशास शिष्यमासीनं वैशंपायनमन्तिके॥ व्यास उवाच कुरूणां पाण्डवानां च यथा भेदोऽभवत्पुरा। तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि॥ गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा। आचचक्षे ततः सर्वमितिहासं पुरातनम्॥ राज्ञे तस्मै सदस्येभ्यः पार्थिवेभ्यश्च सर्वशः। भेदं सर्वविनाशं च कुरुपाण्डवयोस्तदा।॥ वैशंपायन उवाच गुरवे प्राड्नमस्कृत्य मनोबुद्धिसमाधिभिः। संपूज्य च द्विजान्सर्वास्तथान्यान्विदुषो जनान्॥ महर्षेर्विश्रुतस्येह सर्वलोकेषु धीमतः। प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यास्य महात्मनः॥ श्रोतुं पात्रं च राजंस्त्वं प्राप्येमा भारती कथाम्। गुरोर्वक्त्रपरिस्पन्दो मनः प्रोत्साहयतीव मे॥ शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत्। राज्यार्थे द्यूतसंभूतो वनवासस्तथैव च॥ यथा च युद्धमभवत्पृथिवीक्षयकारकम्। तत्तेऽहं कथयिष्यामि पृच्छते भरतर्षभ।॥ मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम्। नचिरादेव विद्वांसो वेदे धनुषि चाभवन्॥ तांस्तथा सत्ववीयॊजः संपन्नान्पौरसंमतान्। नामृष्यन्कुरवो दृष्ट्वा पाण्डवाञ्छ्रीयशोभृतः॥ ततो दुर्योधन: क्रूरः कर्णश्च सह सौबलः। तेषां निग्रहनिर्वासान्विविधांस्ते समारभन्॥ ततो दुर्योधनः शूरः कुलिङ्गस्य मते स्थितः। पाण्डवान्विविधोपायै राज्यहेतोरपीडयत्॥ ददावथ विषं पापो भीमाय धृतराष्ट्रजः। जरयामास तद्वीरः सहान्नेन वृकोदरः॥ प्रमाणकोट्यां संसुप्तं पुनर्बध्वा वृकोदरम्। तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत्॥ यदा विबुद्धः कौन्तेयस्तदा संच्छिद्य बन्धनम्। उदतिष्ठन्महाबाहुर्भीमसेनो गतव्यथः॥ आशीविषैः कृष्णसपैं: सुप्तं चैनमदंशयत्। सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा॥ तेषां तु विप्रकारेषु तेषु तेषु महामतिः। मोक्षणे प्रतिकारे च विदुरोऽवहितोऽभवत्॥ स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः। पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः॥ यदा तु विविधोपायैः संवृतैर्विवृतैरपि। नाशकद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान्॥ ततः संमन्त्र्य सचिवैर्वृषदुःशानादिभिः। धृतराष्ट्रमनुज्ञाप्य जातुषं गृहमादिशत्॥ सुतप्रियैषी ताराजा पाण्डवानम्बिकासुतः। ततो विवासयामास राज्यभोगबुभुक्षया॥ ते प्रातिष्ठन्त सहिता नगरान्नागसाह्वयात्। प्रस्थाने चाभवन्मन्त्री क्षत्ता तेषां महात्मनाम्॥ तेन मुक्ता जतुगृहानिशीथे प्राद्रवन्वनम्। ततः संप्राप्य कौन्तेया नगरं वारणावतम्॥ न्यवसन्त महात्मानो मात्रा सह परंतपाः। धृतराष्ट्रेण चाज्ञप्ता उषिता जातुषे गृहे॥ पुरोचनाद्रक्षमाणाः संवत्सरमतन्द्रिताः। सुरुङ्गां कारयित्वा तु विदुरेण प्रचोदिताः॥ आदीष्य जातुषं वेश्म दग्ध्वा चैव पुरोचनम्। प्राद्रवन्भयसंविग्ना मात्रा सह परंतपाः॥ ददृशुर्दारुणं रक्षो हिडिम्बं वननिर्झरे। हत्वा च तं राक्षसेन्द्रं भीताः समवबोधनात्॥ निशि संप्राद्रवन्पार्था धार्तराष्ट्रभयार्दिताः। प्राप्ता हिडिम्बा भीमेन यत्र जातो घटोत्कचः॥ एकचक्रां ततो गत्वा पाण्डवाः संशितव्रताः। वेदाध्ययनसंपन्नास्तेऽभवन्ब्रह्मचारिणा॥ ते तत्र नियताः कालं कंचिदूषुर्नरर्षभाः। मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने॥ तत्राससाद क्षुधितं पुरुषादं वृकोदरः। भीमसेनो महाबाहुर्बकं नाम महाबलम्॥ तं चापि पुरुषव्याघ्रो बाहुवीर्येण पाण्डवः। निहत्य तरसा वीरो नागरान्पर्यसान्त्वयत्॥ ततस्ते शुश्रुवुः कृष्णां पञ्चालेषु स्वयंवराम्। श्रुत्वा चैवाभ्यगच्छन्त गत्वा चैवालभन्त ताम्॥ ते तत्र द्रौपदी लब्ध्वा परिसंवत्सरोषिताः। विदिता हास्तिनपुरं प्रत्याजग्मुररिंदमाः॥ उक्ता धृतराष्ट्रेण राज्ञा शान्तनवेन च। भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति॥ अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽनुचिन्तितः। तस्माज्जनपदोपेतं सुविभक्तमहापथम्॥ वासाय खाण्डवप्रस्थं व्रजध्वं गतमत्सराः। तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैः॥ नगरं खाण्डवप्रस्थं रत्नान्यादाय सर्वशः। तत्र ते न्यवसन्पार्थाः संवत्सरगणान्बहून्॥ वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीभृतः। एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः॥ अप्रमत्तोत्थिताः :क्षान्ताः प्रतपन्तोऽहितान्बहून्। अजयद्भीमसेनस्तु दिशं प्राची महायशाः॥ उदीचीमर्जुनो वीरः प्रतीची नकुलस्तथा। दक्षिणां सहदेवस्तु विजिग्ये परवीरहा॥ एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुंधराम्। पञ्चभिः सूर्यसंकाशैः सूर्येण च विराजता॥ षट्सूर्येवाभवत्पृथ्वी पाण्डवैः सत्यविक्रमः। ततो निमित्ते कस्मिंश्चिद्धर्मराजो युधिष्ठिरः॥ वनं प्रस्थापयामास तेजस्वी सत्यविक्रमः। प्राणेभ्योऽपि प्रियतरं भ्रातरं सव्यसाचिनम्॥ अर्जुनं पुरुषव्याघ्रं स्थिरात्मानं गुणैर्युतम्। स वै संवत्सरं पूर्णं मासं चैकं वने वसन्॥ ततो गच्छद्धृषीकेशं द्वारवत्यां कदाचन। लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम्॥ अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम्। सा शचीव महेन्द्रेण श्रीः कृष्णेनेव संगता॥ सुभद्रा युयुजे प्रीत्या पाण्डवेनार्जुनेन ह। अतर्पयच्च कौन्तेयः खाण्डवे हव्यवाहनम्॥ बीभत्सुर्वासुदेवेन सहितो नृपसत्तम। नातिभारो हि पार्थस्य केशवेन सहाभवत्॥ व्यवसायसहायस्य विष्णोः शत्रुवधेष्विव। पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम्॥ इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम्। मोक्षयामास बीभत्सुर्मयं यत्र महासुरम्॥ स चकार सभां दिव्यां सर्वरत्नसमार्चिताम्। तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः॥ ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम्। वनं प्रस्थापयामास सप्त वर्षाणि पञ्च च॥ अज्ञातमेकं राष्ट्रे च ततो वर्षं त्रयोदशम्। ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसु॥ नालभन्त महाराज ततो युद्धमवर्तत। ततस्ते क्षत्रमुत्साद्य हत्वा दुर्योधनं नृपम्॥ राज्यं विहतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः। एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम्। भेदो राज्यविनाशाय जयश्च जयतां वर॥ जनमेजय उवाच कथितं वै समासेन त्वया सर्वं द्विजोत्तम। महाभारतमाख्यानं कुरूणां चरितं महत्॥ कथां त्वनघ चित्रार्थी कथयस्व तपोधन। विस्तरश्रवणे जातं कौतूहलमतीव मे॥ स भवान्विस्तरेणेमां पुनराख्यातुमर्हति। न हि तृष्यामि पूर्वेषां शृण्वानश्चरितं महत्॥ न तत्कारणमल्यं वै धर्मज्ञा यत्र पाण्डवाः। अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः॥ किमर्थं ते नरव्याघ्राः शक्ताः सन्ता ह्यनागसः। प्रयुज्यमानान्संक्लेशाक्षान्तवन्तो दुरात्मनाम्॥ कथं नागायुतप्राणो बाहुशाली वृकोदरः। परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम॥ कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः। शक्ता सती धार्तराष्ट्रान्नादहत्क्रोधचक्षुषा॥ कथं व्यसनिनं द्यूते पार्थो माद्रीसुतौ तदा। अन्वयुस्ते नरव्याघ्रा बाध्यमाना दुरात्मभिः॥ कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित्। अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिर॥ कथं च बहुला: सेनाः पाण्डवः कृष्णसारथिः। अस्यन्नेकोऽनयत्सर्वाः पितृलोकं धनंजयः॥ एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधन। यद्यच्च कृतवन्तस्ते तत्र तत्र महारथाः॥ वैशंपायन उवाच क्षणं कुरु महाराज विपुलोऽयमनुक्रमः। पुण्याख्यानस्य वक्तव्यः कृष्णद्वैपायनेरितः॥ महर्षेः सर्वलोकेषु पूजितस्य महात्मनः। प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः॥ इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम्। सत्यवत्यात्मजेनेह व्याख्यातममितौजसा॥ य इदं श्रावयेद्विद्वान्ये चेदं शृणुयुर्नराः। ते ब्रह्मणः स्थानमेत्य प्राप्नुयुर्देवतुल्यताम्॥ इदं हि वेदैः समितं पवित्रमपि चोत्तमम्। श्राव्याणामुत्तमं चेदं पुराणमृषिसंस्तुतम्॥ अस्मिन्नर्थश्च कामश्च निखिलेनोपदेक्ष्यते। इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी।॥ अक्षुद्रान्दानशीलांश्च सत्यशीलाननास्तिकान्। कार्यों वेदमिमं विद्वाञ्छ्रावयित्वार्थमश्नुते॥ भ्रूणहत्याकृतं चापि पापं जह्यादसंशयम्। इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः॥ मुच्यते सर्वपापेभ्यो राहुणा चन्द्रमा यथा। जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा॥ महीं विजयते राजा शत्रूश्चापि पराजयेत्। इदं पुंसवनं श्रेष्ठमिदं स्वस्त्ययनं महत्॥ महिषी युवराजाभ्यां श्रोतव्यं बहुशस्तथा। वीरं जनयते पुत्रं कन्यां वा राज्यभागिनीम्॥ धर्मशास्त्रमिदं पुण्यमर्थशास्त्रमिदं परम्। मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना॥ संप्रत्याचक्षते चेदं तथा श्रोष्यन्ति चापरे। पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः॥ शरीरेण कृतं पापं वाचा च मनसैव च। सर्वं संत्यजति क्षिप्रं य इदं शृणुयान्नरः॥ भरतानां महज्जन्म शृण्वतामनसूयताम्। नास्ति व्याधिभयं तेषां परलोकभयं कुतः॥ धन्यं यशस्यमायुष्यं पुण्यं स्वयं तथैव च। कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा॥ कीर्ति प्रथयता लोके पाण्डवानां महात्मनाम्। अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम्॥ सर्वविद्यावदातानां लोके प्रथितकर्मणाम्। य इदं मानवो लोके पुण्यार्थे ब्राह्मणाञ्छुचीन्॥ श्रावयेत महापुण्यं तस्य धर्मः सनातनः। कुरूणां प्रथितं वंशं कीर्तयन्सततं शुचिः॥ वंशमाप्नोति विपुलं लोके पूज्यतमो भवेत्। योऽधीते भारतं पुण्यं ब्राह्मणो नियतव्रतः॥ चतुरो वार्षिकामासान्सर्वपापैः प्रमुच्यते। विज्ञेयः स च वेदानां पारगो भारतं पठन्॥ देवा राजर्षयो ह्यत्र पुण्या ब्रह्मर्षयस्तथा। कीर्त्यन्ते धूतपाप्मानः कीर्त्यते केशवस्तथा॥ भगवांश्चापि देवेशो यत्र देवी च कीर्त्यते। अनेकजननो यत्र कार्तिकेयस्य संभवः॥ ब्राह्मणानां गवां चैव माहात्म्यं यत्र कीर्त्यते। सर्वश्रुतिसमूहोऽयं श्रोतव्यो धर्मबुद्धिभिः॥ य इदं श्रावयेद्विद्वान्ब्राह्मणानिह पर्वसु। धूतपाप्मा जितस्वर्गो ब्रह्म गच्छति शाश्वतम्॥ श्रावयेद्ब्राह्मणाञ्च्छ्राद्धे यश्चमं पादमन्ततः। अक्षय्यं तस्य तच्छ्राद्धमुपावर्तेपितृनिह॥ अह्ना यदेनः क्रियते इन्द्रियैर्मनसापि वा। ज्ञानादज्ञानतो वापि प्रकरोति नरश्च यत्॥ तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते। भरतानां महज्जन्म महाभारतमुच्यते॥ निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते। भरतानां यतश्चायमितिहासो महाद्भुतः॥ महतो ह्येनसो मान्मोचयेदनुकीर्तितः। त्रिभिर्वपलब्धकामः कृष्णद्वैपायनो मुनिः॥ नित्योत्थितः शुचिः शक्तो महाभारतमादितः। तपो नियममास्थाय कृतमेतन्महर्षिणा॥ तस्मान्नियमसंयुक्तैः श्रोतव्यं ब्राह्मणैरिदम्। कृष्णप्रोक्तामिमां पुण्यां भारतीमुत्तमां कथाम्॥ श्रावयिष्यन्ति ये विप्रा ये च श्रोष्यन्ति मानवाः। सर्वथा वर्तमाना वै न ते शोच्याः कृताकृतैः॥ नरेण धर्मकामेन सर्वः श्रोतव्य इत्यपि। निखिलेनेतिहासोऽयं ततः सिद्धिमवाप्नुयात्॥ न तां स्वर्गगति प्राप्य तुष्टिं प्राप्नोति मानवः। यां श्रुत्वैव महापुण्यमितिहासमुपाश्नुते॥ शृण्वञ्च्छ्राद्धः पुण्यशीलः श्रावयंश्चेदमद्भुतम्। नरः फलमवाप्नोति राजसूयाश्वमेधयोः॥ यथा समुद्रो भगवान्यथा मेरुर्महागिरिः। उभौ ख्यातौ रत्ननिधी तथा भारतमुच्यते॥ इदं हि वेदैः समितं पवित्रमपि चोत्तमम्। श्रव्यं श्रुतिसुखं चैव पावनं शीलवर्धनम्॥ य इदं भारतं राजन्वाचकाय प्रयच्छति। तेन सर्वा मही दत्ता भवेत्सागरमेखला॥ पारिक्षितकथां दिव्यां पुण्याय विजयाय च। कथ्यमानां मया कृत्स्नां शृणु हर्षकरीमिमाम्॥ त्रिभिर्वर्षेः सदोत्थायी कृष्णद्वैपायनो मुनिः। महाभारतमाख्यानं कृतवानिदमद्भुतम्॥ धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ। यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित्॥ वैशंपायन उवाच राजोपरिचरो नाम धर्मनित्यो महीपतिः। बभूव मृगयां गन्तुं सदा किल धृतव्रतः॥ स चेदिविषयं रम्यं वसुः पौरवनन्दनः। इन्द्रोपदेशाज्जग्राह रमणीयं महीपतिः॥ तमाश्रमे न्यस्तशस्त्रं निवसन्तं तपोनिधिम्। देवाः शक्रपुरोगा वै राजानमुपतस्थिरे॥ इन्द्रत्वम) राजायं तपसेत्यनुचिन्त्य वै। तं सान्त्वेन नृपं साक्षात्तपसः संन्यवर्तयन्॥ देवा ऊचुः न संकीर्यंत धर्मोऽयं पृथिव्यां पृथिवीपते। त्वया हि धर्मो विधृतः कृत्स्नं धारयते जगत्॥ इन्द्र उवाच लोके धर्म पालय त्वं नित्ययुक्तः समाहितः। धर्मयुक्तस्ततो लोकान्पुण्यान्पश्यसि शाश्वतान्॥ दिविष्ठस्य भुविष्ठस्त्वं सखाभूतो मम प्रियः। रम्यः पृथिव्यां यो देशस्तमावस नराधिप।॥ पशव्यश्चैव पुण्यश्च प्रभूतधनधान्यवान्। स्वारक्ष्यश्चैव सौम्यश्च भोग्यैर्भूमिगुणैर्युतः॥ अर्थवानेष देशो हि धनरत्नादिभिर्युतः। वसुपूर्णा च वसुधा वस चेदिषु चेदिप॥ धर्मशीला जनपदाः सुसंतोषाश्च साधवः। न च मिथ्याप्रलापोऽत्र स्वैरेष्वपि कुतोऽन्यथा॥ न च पित्रा विभज्यन्ते पुत्रा गुरुहिते रताः। युञ्जते धुरि नो गाश्च कृशान्संधुक्षयन्ति च॥ सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद। न तेऽस्त्यविदितं किंचित्रिषु लोकेषु यद्भवेत्॥ दैवोपभोग्यं दिव्यं त्वामाकाशे स्फाटिकं महत्। आकाशगं त्वां महत्तं विमानमुपपत्स्यते॥ त्वमेकः सर्वमत्र्येषु विमानवरमास्थितः। चरिष्यस्युपरिस्थो हि देवो विग्रहवानिव॥ ददामि ते वैजयन्तीं मालामम्लानपङ्कजाम्। धारयिष्यति संग्रामे या त्वां शस्त्रैरविक्षतम्॥ लक्षणं चैतदेवेह भविता ते नराधिप। इन्द्रमालेति विख्यातं धन्यमप्रतिमं महत्॥ वैशम्पायन उवाच यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः। इष्टप्रदानमुद्दिश्य शिष्टानां प्रतिपालिनीम्॥ तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा। प्रवेशं कारयामास गते संवत्सरे सदा॥ ततःप्रभृति चाद्यापि यष्टेः क्षितिपसत्तमैः प्रवेशः क्रियते राजन्यथा तेन प्रवर्तितः॥ अपरेधुस्तस्याः क्रियतेऽत्युच्छ्रयो नृपः। अलंकृतायाः पिटकैर्गन्धमाल्यैश्च भूषणैः॥ माल्यदामपरिक्षिप्ता विधिवक्रियतेऽपि च। भगवान्पूज्यते चाऽत्र हंसरूपेण चेश्वरः॥ स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः। स तां पूजा महेन्द्रस्तु दृष्ट्वा देवःकृतां शुभाम्॥ वसुना राजमुख्येन प्रीतिमानब्रवीत्प्रभुः। ये पूजयिष्यन्ति नरा राजानश्च महं मम॥ कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः। तेषां श्रीविजयश्चैव सराष्ट्राणां भविष्यति॥ तथा स्फीतो जनपदो मुदितश्च भविष्यति। एवं महात्मना तेन महेन्द्रेण नराधिप॥ वसुः प्रीत्या मघवता महाराजोऽभिसत्कृतः। उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः॥ भूमिरत्नादिभिर्दानैस्तथा पूज्या भवन्ति ते। वरदानमहायज्ञैस्तथा शक्रोत्सवेन च॥ संपूजितो मघवता वसुश्चेदीश्वरो नृपः। पालयामास धर्मेण चेदिस्थः पृथिवीमिमाम्॥ इन्द्रप्रीत्या चेदिपतिश्चकारेन्द्रमहं वसुः। पुत्राश्चाऽस्य महावीर्याः पञ्चासन्नमितौजसः॥ नानाराज्येषु च सुतान्स सम्राडभ्यषेचयत्। महारथो मागधानां विश्रुतो यो बृहद्रथः॥ प्रत्यग्रहः कुशाम्बश्च यमाहुर्मणिवाहनम्। मावेल्लश्च यदुश्चैव राजन्यश्चापराजितः॥ एते तस्य सुता राजन् राजर्षर्भूरितेजसः। न्यवेशयन्नामभिः स्वैस्ते देशांश्च पुराणि च॥ वासवाः पञ्च राजानः पृथग्वंशाश्च शाश्वताः। वसन्तमिन्द्रप्रासादे आकाशे स्फाटिके च तम्॥ उपतस्थुर्महात्मानं गन्धर्वाप्सरसो नृपम्। राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम्॥ पुरोपवाहिनीं तस्य नदीं शुक्तिमती गिरिः। अरौत्सीच्चेतनायुक्तः कामात्कोलाहल: किल॥ गिरि कोलाहलं तं तु पदा वसुरताडयत्। निश्चक्राम ततस्तेन प्रहारविवरेण सा॥ तस्यां नद्यां स जनयन्मिथुनं पर्वतः स्वयम्। तस्माद्विमोक्षणात्प्रीता नदी राज्ञे न्यवेदयत्॥ यः पुमानभवत्तत्र तं स राजर्षिसत्तमः। वसुर्वसुप्रदश्चक्रे सेनापतिमरिंदमः॥ चकार पत्नी कन्यां तु तथा तां गिरिकां नृपः। वसोः पत्नी तु गिरिका कामकालं न्यवेदयत्॥ ऋतुकालमनुप्राप्ता स्नाता पुंसवने शुचिः। तदहः पितरश्चैनमूचुर्जहि मृगानिति॥ तं राजसत्तमं प्रीतास्तदा मतिमतांवर। स पितॄणां नियोगं तमनतिक्रम्य पार्थिवः॥ चकार मृगयां कामी गिरिकामेव संस्मरन्। अतीवरूपसंपन्नां साक्षाछियमिवापराम्॥ अशोकैश्चम्पकैशूतैरनेकैरतिमुक्तकैः। पुन्नागैः कर्णिकारैश्च बकुलैर्दिव्यपाटलैः॥ पाटलैर्नारिकेलैश्च चन्दनैश्चार्जुनैस्तथा। एतै रम्यैर्महावृक्षैः पुण्यैः स्वादुफलैर्युतम्॥ कोकिलाकुलसंनादं मत्तभ्रमरनादितम्। वसन्तकाले तत्तस्य वनं चैत्ररथोपमम्॥ मन्मथाभिपरीतात्मा नापश्यगिरिकां तदा। अपश्यन्कामसंतप्तश्चरमाणो यदृच्छया॥ पुष्पसंच्छन्नशाखाग्रं पल्लवैरुपशोभितम्। अशोकं स्तबकैश्छन्नं रमणीयमपश्यत॥ अधस्तात्तस्य छायायां सुखासीनो नराधिपः। मधुगन्धैश्च संयुक्तं पुष्पगन्धमनोहरम॥ वायुना प्रेर्यमाणस्तु धूम्राय मुदमन्वगात्। तस्य रेतः प्रचस्कन्द चरतो गहने वने॥ स्कन्नमात्रं च तद्रेतो वृक्षपत्रेण भूमिपः। प्रतिजग्राह मिथ्या मे न पतेद्रेत इत्युत॥ इदं मिथ्या परिस्कन्नं रेतो मे न भवेदिति। ऋतुश्च तस्याः पत्न्या मे न मोघः स्यादिति प्रभुः।। ५१ संचिन्त्यैवं तदा राजा विचार्य च पुनः पुनः। अमोघत्वं च विज्ञाय रेतसो राजसत्तमः॥ शुक्रप्रस्थापने काले महिष्याः प्रसमीक्ष्य वै। अभिमन्त्र्याथ तच्छुक्रमारात्तिष्ठन्तमाशुगम्॥ सूक्ष्मधर्मार्थतत्त्वज्ञो गत्वा श्येनं ततोऽब्रवीत्। मपियार्थमिदं सौम्य शुक्रं मम गृहं नय॥ गिरिकायाः प्रयच्छाशु तस्या ह्यार्तवमद्य वै। गृहीत्वा तत् तदा श्येनस्तूर्णमुत्पत्य वेगवान्॥ जवं परममास्थाय प्रदुद्राव विहंगमः। तमपश्यदथायान्तं श्येनं श्येनस्तथापरः॥ अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कया। तुण्डयुद्धमथाकाशे तावुभौ संप्रचक्रतुः। युध्यतोरपतद्रेतस्तच्चापि यमुनाम्भसि॥ तत्राद्रिकेति विख्याता ब्रह्मशापाद्वराप्सराः। मीनभावमनुप्राप्ता बभूव यमुनाचरी॥ श्येनपादपरिभ्रष्टं तद्वीर्यमथ वासवम्। जग्राह तरसोपेत्य साद्रिका मत्स्यरूपिणी॥ कदाचिदपि मत्सीं तां बबन्धुर्मत्स्यजीविनः। मासे च दशमे प्राप्ते तदा भरतसत्तम॥ उज्जहरुदरात्तस्याः स्त्री पुमांसं च मानुषम्। आश्चर्यभूतं तद्गत्वा राज्ञेऽथ प्रत्यवेदयन्॥ काये मत्स्या इमौ राजन्संभूतौ मानुषाविति। तयोः पुमांसं जग्राह राजोपरिचरस्तदा॥ स मत्स्यो नाम राजासीद्धार्मिकः सत्यसंगरः। साप्सरा मुक्तशापा च क्षणेन समपद्यत॥ या पुरोक्ता भगवता तिर्यग्योनिगता शुभा। मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यति॥ ततः सा जनयित्वा तौ विशस्ता मत्स्यघातिना। संत्यज्य मत्स्यरूपं सा दिव्यं रूपमवाप्य च॥ सिद्धर्षिचारणपथं जगामाथ वराप्सराः। सा कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी॥ राज्ञा दत्ता च दाशाय कन्येयं ते भवत्विति। रूपसत्वसमायुक्ता सर्वैः समुदितागुणैः॥ सा तु सत्यवती नाम मत्स्यघात्यभिसंश्रयात्। आसीत्सा मत्स्यगन्धैव कंचित्कालं शुचिस्मिता॥ शूश्रूषार्थं पितुर्नावं वाहयन्तीं जले च ताम्। तीर्थयात्रां परिक्रामन्नपश्यद्वै पराशरः॥ अतीवरूपसंपन्नां सिद्धानामपि काक्षिताम्। दृष्ट्वैव स च तां धीमांश्चकमे चारुहासिनीम्॥ दिव्यां तां वासवीं कन्यां रम्भोरुं मुनिपुङ्गवः। संगमं मम कल्याणि कुरुष्वेत्यभ्यभाषत॥ साब्रवीत्पश्य भगवन्पारावारे स्थितानृषीन्। आवयोर्दृष्टयोरेभिः कथं तु स्यात्समागमः॥ एवं तयोक्तो भगवान्नीहारमसृजत्प्रभुः। येन देशः स सर्वस्तु तमोभूत इवाभवत्॥ दृष्ट्वा सृष्टं तु नीहारं ततस्तं परमर्षिणा। विस्मिता साभवत्कन्या वीडिता च तपस्विनी॥ । सत्यवत्युवाच विद्धि मां भगवन्कन्यां सदा पितृवशानुगाम्। त्वत्संयोगाच्च दुष्येत कन्याभावो ममानघ॥ कन्यात्वे दूषिते वापि कथं शक्ष्ये द्विजोत्तम। गृहं गन्तुमृषे चाहं धीमन्न स्थातुमुत्सहे॥ एतत्संचिन्त्य भगवन्विधत्स्व यदनन्तरम्। वैशंपायन उवाच एवमुक्तवतीं तां तु प्रीतिमानृषिसत्तमः। उवाच मप्रियं त्वा कन्यैव त्वं भविष्यसि॥ वृणीष्व च वरं भीरु यं त्वमिच्छसि भाविनि। वृथा हि न प्रसादो मे भूतपूर्वः शुचिस्मिते॥ एवमुक्ता वरं वने गात्रसौगन्ध्यमुत्तमम्। स चास्यै भगवान्प्रादान्मनसः काक्षितं भुवि॥ ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता। जगाम सह संसर्गमृषिणाद्भुतकर्मणा॥ तेन गन्धवतीत्येवं नामास्याः प्रथितं भुवि। तस्यास्तु योजनाद्गन्धमाजिघ्रन्त नरा भुवि॥ तस्या योजनगन्धेति ततो नामापरं स्मृतम्। ततः परं स भगवान् जगाम स्वगृहं प्रति॥ इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम्। पराशरेण संयुक्ता सद्यो गर्भ सुषाव सा॥ जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान्। स मातरमनुज्ञाप्य तपस्येव मनो दधे॥ स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत्। एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात्॥ न्यस्तो द्वीपे स यद्वालस्तस्माद्वैपायनः स्मृतः। पादापसारिणं धर्मं स तु विद्वान्युगे युगे॥ आयुः शक्तिं च मर्त्यानां युगावस्थामवेक्ष्य च। ब्रह्मणो ब्राह्मणानां च तथानुग्रहकाझ्या॥ विव्यास वेदान्यस्मात्स तस्माद्व्यास इति स्मृतः। वेदानध्यापयामास महाभारतपञ्चमान्॥ सुमन्तुं जौमिनि पैलं शुकं चैव स्वमात्मजम्। प्रभुर्वरिष्ठो वरदो वैशंपायनमेव च॥ संहितास्तैः पृथक्त्वेन भारतस्य प्रकाशिताः। तथा भीष्मः शान्तनवो गङ्गायाममितद्युतिः॥ वसुवीर्यात् समभवन्महावीर्यो महायशाः। वेदार्थविच्च भगवानृषिविप्रो महायशाः॥ शूले प्रोतः पुराणर्षिरचौरचौरशङ्कया। अणीमाण्डव्य इत्येवं विख्यातः स महायशाः॥ स धर्ममाहूय पुरा महर्षिरिदमुक्तवान्। इषिकया मया बाल्याद्विद्धा ह्येका शकुन्तिका॥ तत्किल्बिषं स्मरे धर्म नान्यत्पापमहं स्मरे। तन्मे सहस्रममितं कस्मान्नेहाजयत्तपः॥ गरीयान्ब्राह्मणवधः सर्वभूतवधाद्यतः। तस्मात्त्वं किल्बिषी धर्म शूद्रयोनौ जनिष्यसि॥ तेन शापेन धर्मोऽपि शूद्रयोनावजायत। विद्वान्विदुररूपेण धार्मी तनुरकिल्बिषी॥ संजयो मुनिकल्पस्तु जज्ञे सुतो गवल्गणात्। सूर्याच्च कुन्तिकन्याया जज्ञे कर्णो महाबलः॥ सहजं कवचं बिभ्रत्कुण्डलोद्योतिताननः। अनुग्रहार्थं लोकानां विष्णुर्लोकनमस्कृतः॥ वसुदेवात्तु देवक्या प्रादुर्भूतो महायशाः। अनादिनिधनो देवः स कर्ता जगतः प्रभुः॥ अव्यक्तमक्षरं ब्रह्म प्रधानं त्रिगुणात्मकम्। आत्मानमव्ययं चैव प्रकृति प्रभवं प्रभुम्॥ पुरुषं विश्वकर्माणं सत्त्वयोगं ध्रुवाक्षरम्। अनन्तमचलं देवं हंसं नारायणं प्रभुम्॥ धातारमजमव्यक्तं यमाहुः परमव्ययम्। कैवल्यं निर्गुणं विश्वमनादिमजमव्ययम्॥ पुरुषः स विभुः कर्ता सर्वभूतपितामहः। धर्मसंवर्धनार्थाय प्रजज्ञेऽन्धकवृष्णिषु॥ अस्त्रज्ञौ तु महावीर्यो सर्वशास्त्रविशारदौ। सात्यकिः कृतवर्मा च नारायणमनुव्रतौ॥ सत्यकाद्धदिकाच्चैव जज्ञातेऽस्त्रविशारदौ। भरद्वाजस्य-स्कन्नं द्रोण्यां शुक्रमवर्धत॥ महर्षेरुग्रतपसस्तस्माद्रोणो व्यजायत। गौतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः॥ अश्वत्थाम्नश्च जननी कृपश्चैव महाबलः। अश्वत्थामा ततो जज्ञे द्रोणादेव महाबलः॥ तथैव धृष्टद्युम्नोऽपि साक्षादग्निसमद्युतिः। वैताने कर्मणि ततः पावकात्समजायत॥ वीरो द्रोणविनाशाय धनुरादाय वीर्यवान्। तत्रैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा॥ विभ्राजमाना वपुषा बिभ्रती रूपमुत्तमम्। प्रह्लादशिष्यो नग्नजित्सुबलश्चाभवत्ततः॥ तस्य प्रजा धर्महन्त्री जज्ञे देवप्रकोपनात्। गान्धारराजपुत्रोऽभूच्छकुनिः सौबलस्तथा॥ दुर्योधनस्य जननी जज्ञातेऽर्थविशारदौ। कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः॥ क्षेत्रे विचित्रवीर्यस्य पाण्डुश्चैव महाबलः। धर्मार्थकुशलो धीमान्मेधावी धूतकल्मषः॥ विदुरः शूद्रयोनौ तु जज्ञे द्वैपायनादपि। पाण्डोस्तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक्॥ द्वयोः स्त्रियोर्गुणज्येष्ठस्तेषामासीधुधिष्ठिरः। धर्माधुधिष्ठिरो जज्ञे मारुताच्च वृकोदरः॥ इन्द्राद्धनंजयः श्रीमान्सर्वशस्त्रभृतां वरः। जज्ञाते रूपसंपन्नावश्विभ्यां च यमावपि॥ नकुलः सहदेवश्च गुरुशुश्रूषणे रतौ। तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः॥ दुर्योधनप्रभृतयो युयुत्सुः करणस्तथा॥ ततो दुःशासनश्चैव दुःसहश्चापि भारत। दुर्मर्षणो विकर्णश्च चित्रसेनो विविंशतिः॥ जयः सत्यव्रतश्चैव पुरुमित्रश्च भारत। वैश्यापुत्रो युयुत्सुश्च एकादश महारथाः॥ अभिमन्युः सुभद्रायामर्जुनादभ्यजायत। स्वस्त्रीयो वासुदेवस्य पौत्रः पाण्डोर्महात्मनः। पाण्डवेभ्यो हि पाञ्चाल्यां द्रौपद्यां पञ्च जज्ञिरे॥ कुमारा रूपसंपन्नाः सर्वशास्त्रविशारदाः। प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात्॥ अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः। तथैव सहदेवाच्च श्रुतसेनः प्रतापवान्॥ हिडिम्बायां च भीमेन वने जज्ञे घटोत्कचः। शिखण्डी दुपदाज्जज्ञे कन्या पुत्रत्वमागता॥ यां यक्षः पुरुषं चक्रे स्थूणः प्रियचिकीर्षया। करुणां विग्रहे तस्मिन्समागच्छन्बहून्यथा॥ राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे। तेषामपरिमेयानां नामधेयानि सर्वशः॥ न शक्यानि समाख्यातुं वर्षाणामयुतैरपि। एते तु कीर्तिता मुख्या यैराख्यानमिदं ततम्॥ जनमेजय उवाच य एते कीर्तिता ब्रह्मन्ये चान्ये नानुकीर्तिताः। सम्यक् ताञ्छ्रोतुमिच्छामि राज्ञश्चान्यान्सहस्रशः॥ यदर्थमिह संभूता देवकल्पा महारथाः। भुवि तन्मे महाभाग सम्यगाख्यातुमर्हसि॥ वैशंपायन उवाच रहस्यं खल्विदं राजन्देवानामिति नः श्रुतम्। तत्तु ते कथयिष्यामि नमस्कृत्वा स्वयंभुवे॥ त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां पुरा। जामदग्न्यस्तपस्तेपे महेन्द्रे पर्वतोत्तमे॥ तदा निःक्षत्रिये लोके भार्गवेण कृते सति। ब्राह्मणाक्षत्रिया राजन्सुतार्थिन्योऽभिचक्रमुः॥ ताभिः सह समापेतुर्ब्राह्मणाः संशितव्रताः। ऋतावृतौ नरव्याघ्र न कामाननृतौ तथा॥ तेभ्यश्च लेभिरे गर्भ क्षत्रियास्ताः सहस्रशः। ततः सुषुविरे राजन्क्षत्रियान्वीर्यवत्तरान्॥ कुमाराश्च कुमारीश्च पुनः क्षत्राभिवृद्धये। एवं तद्ब्राह्मणै क्षत्रं क्षत्रियासु तपस्विभिः॥ जातं वृद्धं च धर्मेण सुदीर्घेणायुधान्वितम्। चत्वारोऽपि ततो वर्णा बभूवुर्ब्राह्मणोत्तराः॥ अभ्यगच्छन्नृतौ नारी न कामानानृतौ तथा। तथैवान्यानि भूतानि तिर्यग्योनिगतान्यपि॥ ऋतौ दारांश्च गच्छन्ति तत्तथा भरतर्षभ। ततो वर्धन्त धर्मेण सहस्रशतजीविनः॥ ताः प्रजाः पृथिवीपाल धर्मव्रतपरायणाः। आधिभिर्व्याधिभिश्चैव विमुक्ताः सर्वशो नराः॥ अथेमां सागरापाङ्गी गां गजेन्द्रगताखिलाम्। अध्यतिष्ठत्पुनः क्षत्रं सशैलवनपत्तनाम्॥ प्रशासति पुनः क्षत्रे धर्मेणेमां वसुंधराम्। ब्राह्मणाद्यास्ततो वर्णा लेभिरे मुदमुत्तमाम्॥ कामक्रोधोद्भवान्दोषान्निरस्य च नराधिपाः। धर्मेण दण्डं दण्ड्येषु प्रणयन्तोऽन्वपालयन्॥ तथा धर्मपरे क्षत्रे सहस्राक्ष: शतक्रतुः। स्वादु देशे च काले च वर्षेणापालयत्प्रजाः॥ न बाल एव प्रियते सदा कश्चिचज्जनाधिप। न च स्त्रियं प्रजानाति कश्चिदप्राप्तयौवनः॥ एवमायुष्मतीभिस्तु प्रजाभिर्भरतर्षभ। इयं सागरपर्यन्ता समापूर्यत मेदिनी॥ ईजिरे च महायज्ञैः क्षत्रिया बहुदक्षिणैः। साङ्गोपनिषदान्वेदान्विप्राश्चाधीयते तदा।॥ न च विक्रीणते ब्रह्म ब्राह्मणाश्च तदा नृप। न च शूद्रसमाभ्यासे वेदानुच्चारयन्त्युत॥ कारयन्तः कृर्षि गोभिस्तथा वैश्याः क्षिताविह। युञ्जते धुरि नो गाश्च कृशां गांश्चाप्यजीवयन्॥ फेनपांश्च तथा वत्सान्न दुहन्ति स्म मानवाः। न कूटमानैर्वणिजः पण्यं विक्रीणते तदा॥ कर्माणि च नरव्याघ्र धर्मोपतानि मानवाः। धर्ममेवानुपश्यन्तश्चक्रुर्धर्मपरायणाः॥ स्वकर्मनिरताश्चासन्सर्वे वर्णा नराधिप। एवं तदा नरव्याघ्र धर्मो न ह्रसते क्वचित्॥ काले गाव: प्रसूयन्ते नार्यश्च भरतर्षभ। भवन्त्य॒तुषु वृक्षाणां पुष्पाणि च फलानि च।॥ एवं कृतयुगे सम्यग्वर्तमाने तदा नृप। आपूर्यत मही कृत्स्ना प्राणिभिर्बहुभिर्भृशम्॥ एवं समुदिते लोके मानुषे भरतर्षभ। असुरा जज्ञिरे क्षेत्रे राज्ञां तु मनुजेश्वर॥ आदित्यैर्हि तदा दैत्या बहुशो निर्जिता युधि। ऐश्वर्याभ्रंशिताः स्वर्गात्संबभूवुः क्षिताविह॥ इह देवत्वमिच्छन्तो मानुषेषु मनस्विनः। जज्ञिरे भुवि भूतेषु तेषु तेष्वसुरा विभो॥ गोष्वश्वेषु च राजेन्द्र खरोष्ट्रमहिषेषु च। क्रव्यात्सु चैव भूतेषु गजेषु च मृगेषु च॥ जातैरिह महीपाल जायमानैश्च तैर्मही। न शशाकात्मनात्मानमियं धारयितुं धरा॥ अथ जाता महीपालाः केचिद्बहुमदान्विताः। दितेः पुत्रा दनोश्चैव तदा लोक इहाच्युताः॥ वीर्यवन्तोऽवलिप्तास्ते नानारूपधरा महीम्। इमां सागरपर्यन्तां परीयुररिमर्दनाः॥ ब्राह्मणान्क्षत्रियान्वैश्यान्शूद्रांश्चैवाप्यपीडयन्। अन्यानि चैव सत्त्वानि पीडयामासुरोजसा॥ त्रासयन्तोऽभिनिनन्तः सर्वभूतगणांश्च ते। विचेसः सर्वशो राजन्महीं शतसहस्रशः॥ आश्रमस्थान्महर्षीश्च धर्षयन्तस्ततस्ततः। अब्रह्मण्या वीर्यमदा मत्ता मदबलेन च॥ एवं वीर्यबलोसिक्तैर्भूरियत्नैर्महासुरैः। पीड्यमाना मही राजन्ब्रह्माणमुपचक्रमे॥ न हमीभूतसत्त्वौघाः पन्नगाः सनगां महीम्। तदा धारयितुं शेकुः संक्रान्तां दानवैर्वलात्॥ ततो मही महीपाल भारार्ता भयपीडिता। जगाम शरणं देवं सर्वभूतपितामहम्॥ सा संवृतं महाभागैर्देवद्विजमहर्षिभिः। ददर्श देवं ब्रह्माणं लोककर्तारमव्ययम्॥ गन्धर्वैरप्सरोभिश्च दैवकर्मसु निष्ठितः। वन्द्यमानं मुदोपेतैर्ववन्दे चैनमेत्य सा॥ अथ विज्ञापयामास भूमिस्तं शरणार्थिनी। संनिधौ लोकपालानां सर्वेषामेव भारत॥ तत्प्रधानात्मनस्तस्य भूमेः कृत्यं स्वयंभुवः। पूर्वमेवाभवद्राजन्विदितं परमेष्ठिनः॥ स्रष्टा हि जगतः कस्मान्न संबुध्यते भारत। ससुरासुरलोकानामशषेण मनोगतम्॥ तामुवाच महाराज भूमि भूमिपतिः प्रभुः। प्रभवः सर्वभूतानामीशः शंभुः प्रजापतिः॥ ब्रह्मोवाच यदर्थमभिसंप्राप्ता मत्सकाशं वसुंधरे। तदर्थं संनियोक्ष्यामि सर्वानेव दिवौकसः॥ वैशंपायन उवाच इत्युक्त्वा स महीं देवो ब्रह्मा राजन्विसृज्य च। आदिदेश तदा सर्वान्विबुधान्भूतकृत्स्वयम्॥ अस्या भूमेनिरसितुं भारं भागैः पृथक्पृथक्। अस्यामेव प्रसूयध्वं विरोधायेति चाब्रवीत्॥ तथैव च समानीय गन्धर्वाप्सरसां गणान्। उवाच भगवान्सर्वानिदं वचनमर्थवत्॥ ब्रह्मोवाच स्वैः स्वैरंशैः प्रसूयध्वं यथेष्टं मानुषेषु च। अथ शक्रादयः सर्वे सर्वे श्रुत्वा सुरगुरोर्वचः। तथ्यमर्थ्यं च पथ्यं च तस्य ते जगृहुस्तदा॥ अथ ते सर्वशोऽशैः स्वैर्गन्तुं भूमि कृतक्षणाः। नारायणममित्रघ्नं वैकुण्ठमुपचक्रमुः॥ यः स चक्रगदापाणि: पीतवासा: शितिप्रभः। पद्मनाभः सुरारिघ्नः पृथुचार्वञ्चितेक्षणः॥ प्रजापतिपतिर्देवः सुरनाथो महाबलः। श्रीवत्साङ्को हृषीकेशः सर्वदैवतपूजितः॥ तं भुव: शोधनायेन्द्र उवाच पुरुषोत्तमम्। अंशेनावतरेत्येवं तथेत्याह च तं हरिः॥ वैशंपायन उवाच अथ नारायणेनेन्द्रश्चकार सह संविदम्। अवतर्तुं महीं स्वर्गादंशतः सहितः सुरैः॥ आदिश्य च स्वयं शक्रः सर्वानेव दिवौकसः। निर्जगाम पुनस्तस्मात्क्षयान्नारायणस्य ह॥ तेऽमरारिविनाशाय सर्वलोकहिताय च। अवतेरुः क्रमेणैव महीं स्वर्गादिवौकसः॥ ततो ब्रह्मार्षिवंशेषु पार्थिवर्षिकुलेषु च। जज्ञिरे राजशार्दूल यथाकामं दिवौकसः॥ दानवानाक्षसांश्चैव गन्धर्वान्पन्नागांस्तथा। पुरुषादानि चान्यानि जनुः सत्त्वान्यनेकशः॥ दानवा राक्षसाश्चैव गन्धर्वाः पन्नगास्तथा। न तान्बलस्थान्बाल्येऽपि जघ्नुर्भरतसत्तम॥ जनमेजय उवाच देवदानवसङ्घानां गन्धर्वाप्सरसां तथा। मानवानां च सर्वेषां तथा वै यक्षरक्षसाम्॥ श्रोतुमिच्छामि तत्त्वेन संभवं कृत्स्नमादितः। प्राणिनां चैव सर्वेषां संभवं वक्तुमर्हसि॥ वैशंपायन उवाच हन्त ते कथयिष्यामि नमस्कृत्य स्वयंभुवे। सुरादीनामहं सम्यग्लोकानां प्रभवाप्ययम्॥ ब्रह्मणो मानसाः पुत्रा विदिता षण्महर्षयः। मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः॥ मरीचेः कश्यपः पुत्रः कश्यपात्तु इमाः प्रजाः। प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश॥ अदितिदितिर्दनुः काला दनायुः सिंहिका तथा। क्रोधा प्राधा च विश्वा च विनता कपिला मुनिः॥ कदूश्च मनुजव्याघ्र दक्षकन्यैव भारत। एतासां वीर्यसंपन्नं पुत्रपौत्रमनन्तकम्॥ अदित्यां द्वादशादित्याः संभूता भुवनेश्वराः। ये राजन्नामतस्तांस्ते कीर्तयिष्यामि भारत॥ धाता मित्रोऽर्यमा शक्रो वरुणस्त्वंश एव च। भगो विवस्वान्पूषा च सविता दशमस्तथा॥ एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते। जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः॥ एक एव दितेः पुत्रो हिरण्यकशिपुः स्मृतः। नाम्नाख्यातास्तु तस्येमे पञ्च पुत्रा महात्मनः॥ प्रह्लादः पूर्वजस्तेषां संह्लादस्तदनन्तरम्। अनुह्लादस्तृतीयोऽभूत्तस्माच्च शिबिबाष्कलौ॥ प्रह्लादस्य त्रयः पुत्राः ख्याता: सर्वत्र भारत। विरोचनश्च कुम्भश्च निकुम्भश्चेति भारत॥ विरोचनस्य पुत्रोऽभूद्वलिरेकः प्रतापवान्। बलेश्च प्रथित: पुत्रो बाणो नाम महासुरः॥ रुद्रस्यानुचरः श्रीमान्महाकालेति यं विदुः। चतुस्त्रिंशद् दनोः पुत्राः ख्याताः सर्वत्र भारत॥ तेषां प्रथमजो राजा विप्रचित्तिर्महायशाः। शम्बरो नमुचिश्चैव पुलोमा चेति विश्रुतः॥ असिलोमा च केशी च दुर्जयश्चैव दानवः। अय:शिरा अश्वशिरा अश्वशङ्कुश्चवीर्यवान्॥ तथा गगनमूर्धा च वेगवान्केतुमांश्चसः। स्वर्भानुरश्वोऽश्वपतिवृषपर्वाजकस्तथा॥ अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महाबलः। इषुपादेकचक्रश्च विरूपाक्षहराहरौ॥ निचन्द्रश्च निकुम्भश्च कुपटः कपटस्तथा। शरभः शलभश्चैव सूर्याचन्द्रमसौ तथा। एते ख्याता दनोवंशे दानवाः परिकीर्तिताः॥ अन्यौ तु खलु देवानां सूर्याचन्द्रमसौ स्मृतौ। अन्यौ दानवमुख्यानां सूर्याचन्द्रमसौ तथा॥ इमे च वंशाः प्रथिताः सत्त्ववन्तो महाबलाः। दनुपुत्रा महाराज दश दानववंशजाः॥ एकाक्षो मृतपा वीरः प्रलम्बनरकावपि। वातापी शत्रुतपन: शठश्चैव महासुरः। गविष्ठश्च वनायुश्च दीर्घजिह्वश्च दानवः॥ असंख्येयाः स्मृतास्तेषां पुत्राः पौत्राश्च भारत। सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम्॥ सुचन्द्रं चन्द्रहर्तारं तथा चन्द्रप्रमर्दनम्। क्रूरस्वभावं क्रूरायाः पुत्रपौत्रमनन्तकम्॥ गणः क्रोधवशो नाम क्रूरकर्मारिमर्दनः। दनायुषः पुनः पुत्राश्चत्वारोऽसुरपुङ्गवाः॥ विक्षरो बलवीरौ च वृत्रश्चैव महासुरः। कालायाः प्रथिताः पुत्राः कालकल्पा प्रहारिणः।३४। प्रविख्याता महावीर्या दानवेषु परंतपाः। विनाशनश्च क्रोधश्च क्रोधहन्ता तथैव च॥ क्रोधशत्रुस्तथैवान्ये कालकेया इति श्रुताः। असुराणामुपाध्यायः शुक्रस्त्वृषिसुतोऽभवत्॥ ख्याताश्चोशनसः पुत्राश्चत्वारोऽसुरयाजकाः। त्वष्टाधरस्तथात्रिश्च द्वावन्यौ रौद्रकर्मिणौ॥ तेजसा सूर्यसंकाशा ब्रह्मलोकपरायणाः। इत्येष वंशप्रभवः कथितस्ते तरस्विनाम्। असुराणां सुराणां च पुराणे संश्रुतो मया॥ एतेषां यदपत्यं तु न शक्यं तदशेषतः। प्रसंख्यातुं महीपाल गुणभूतमनन्तकम्॥ ताय॑श्चारिष्टनेमिश्च तथैव गरुडारुणौ। आरुणिर्वारुणिश्चैव वैनतेयाः प्रकीर्तिताः। शेषोऽनन्तो वासुकिश्च तक्षकश्च भुजंगमः॥ कूर्मश्च कुलिकश्चैव काद्रवेयाः प्रकीर्तिताः। भीमसेनोग्रसेनौ च सुपर्णो वरुणस्तथा॥ गोपतिधृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः। सत्यवागर्कपर्णश्च प्रयुतश्चापि विश्रुतः॥ भीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी। तथा शालिशिरा राजन्पर्जन्यश्च चतुर्दशः॥ कलिः पञ्चदशस्तेषां नारदश्चैव षोडशः। इत्येते देवगन्धर्वा मौनेयाः परिकीर्तिताः॥ अथ प्रभूतान्यन्यानि कीर्तयिष्यामि भारत। अनवद्यां मनुं वंशामसुरां मार्गणप्रियाम्॥ अरूपां सुभगां भासीमिति प्राधा व्यजायत। सिद्धं पूर्णश्च बर्हिश्च पूर्णायुश्च महायशाः॥ ब्रह्मचारी रतिगुणः सुपर्णश्चैव सप्तमः। विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा॥ इत्येते देवगन्धर्वाः प्राधायाः परिकीर्तिताः। मं त्वप्सरसां वंशं विदितं पुण्यलक्षणम्॥ प्राधाऽसूत महाभागा देवी देवर्षितः पुरा। अलम्बुषा मिश्रकेशी विद्युत्पर्णा तिलोत्तमा॥ अरुणा रक्षिता चैव रम्भा तद्वन्मनोरमा। केशिनी च सुबाहुश्च सुरता सुरजा तथा॥ सुप्रिया चातिबाहुश्च विख्यातौ च हाहा हूहूः। तुम्बुस्चेति चत्वारः स्मृता गन्धर्वसत्तमाः॥ अमृतं ब्राह्मणा गावो गन्धर्वाप्सरसस्तथा। अपत्यं कपिलायास्तु पुराणे परिकीर्तितम्॥ इति ते सर्वभूतानां संभवः कथितो मया। यथावत्संपरिख्यातो गन्धर्वाप्सरसां तथा॥ भुजंगानां सुपर्णानां रुद्राणां मरुतां तथा। गवां च ब्राह्मणानां च श्रीमतां पुण्यकर्मणाम्॥ आयुष्यश्चैव पुण्यश्च धन्यः श्रुतिसुखावहः। श्रोतव्यश्चैव सततं श्राव्यश्चैवानसूयता॥ इमं तु वंशं नियमेन यः पठेत् महात्मनाः ब्राह्मणदेवसंनिधौ। अपत्यलाभं लभते स पुष्कलम् श्रियं यशः प्रेत्य च शोभनां गतिम्॥ वैशंपायन उवाच ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः। एकादश सुता: स्थाणोः ख्याता: परमतेजसः॥ मृगव्याधश्च सर्पश्च निर्ऋतिश्च महायशाः। अजैकपादहिर्बुघ्यः पिनाकी च परंतपः॥ दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः। स्थाणुर्भगश्च भगवान्रुद्रा एकादश स्मृताः॥ मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः। षडेते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः॥ त्रयस्त्वङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः। बृहस्पतिरुतथ्यश्च संवर्तश्च धृतव्रताः॥ अत्रेस्तु बहवः पुत्राः श्रयून्ते मनुजाधिप। सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः॥ राक्षसाश्च पुलस्त्यस्य वानराः किंनरास्तथा। यक्षाश्च मनुजव्याघ्र पुत्रास्तस्य च धीमतः॥ पुलहस्य सुता राजञ्च्छलभाश्च प्रकीर्तिताः। सिंहाः किंपुरुषा व्याघ्रा ऋक्षा ईहामृगास्तथा॥ क्रतोः क्रतुसमाः पुत्राः पतङ्गसहचारिणः। विश्रुतास्त्रिषु लोकेषु सत्यव्रतपरायणाः॥ दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः। ब्रह्मणः पृथिवीपाल शान्तात्मा सुमहातपाः॥ वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनः। तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः॥ ताः सर्वास्त्वनवद्याङ्ग्यः कन्या: कमललोचनाः। पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः॥ ददौ स दश धर्माय सप्तविंशतिमिन्दवे। दिव्येन विधिना राजन्कश्यपाय त्रयोदश॥ नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निबोध मे। कीर्तिर्लक्ष्मीधृतिर्मेधा पुष्टि श्रद्धा क्रिया तथा॥ कालस्य नयने बुद्धिर्लज्जा मतिश्चैव पन्यो धर्मस्य ता दश। द्वाराण्येतानि धर्मस्य विहितानि स्वयंभुवा॥ सप्तविंशतिः सोमस्य पत्न्यो लोकस्य विश्रुताः। युक्ताः सोमपत्न्यः शुचिव्रताः॥ सर्वा नक्षत्रयोगिन्यो लोकयात्रा विधानतः। पैतामहो मुनिर्देवस्तस्य पुत्रः प्रजापतिः॥ तस्याऽष्टौ वसवः पुत्रास्तेषां वक्ष्यामि विस्तरम्। धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः॥ प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः। धूम्रायास्तु धरः पुत्रो ब्रह्मविद्यो ध्रुवस्तथा॥ चन्द्रमास्तु मनस्विन्याः श्वासायाः श्वसनस्तथा। रतायाश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनः॥ प्रत्यूषश्च प्रभासश्च प्रभातायाः सुतौ स्मृतौ। धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा॥ ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकाशनः। सोमस्य तु सुतो वर्चा वर्चस्वी येन जायते॥ मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा। अह्नः सुतस्तथा ज्योतिः : शमः शान्तस्तथा मुनिः।।२३। अग्नेः पुत्रः कुमारस्तु श्रीमाञ्च्छरवणालयः। तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजः॥ कृत्तिकाभ्युपपत्तेश्च कार्तिकेय इति स्मृतः। अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः॥ अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु। प्रत्यूषस्य विदुः पुत्रमृषि नाम्नाथ देवलम्॥ द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ। बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मवादिनी॥ योगसक्ता जगत्कृत्स्नमसक्ता विचचार ह। प्रभासस्य तु भार्या सा वसूनामष्टमस्स्य ह॥ विश्वकर्मा महाभागो जज्ञे शिल्पप्रजापतिः। कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः॥ भूषाणानां च सर्वेषां कर्ता शिल्पवतां वरः। यो दिव्यानि विमानानि त्रिदशानां चकार ह॥ मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः। पूजयन्ति च यं नित्यं विश्वकर्माणमव्ययम्॥ स्तनं तु दक्षिणं भित्त्वा ब्रह्मणो नरविग्रहः। निसृतो भगवान्धर्मः सर्वलोकसुखावहः॥ त्रयस्तस्य वराः पुत्राः सर्वभूतमनोहराः। शमः कामश्च हर्षश्च तेजसा लोकधारिणः॥ कामस्य तु रतिर्भार्या शमस्य प्राप्तिरङ्गना। नन्दा तु भार्या हर्षस्य यासु लोकाः प्रतिष्ठिताः॥ मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः। जज्ञिरे नृपशार्दूल लोकानां प्रभवस्तु सः॥ त्वाष्ट्री तु सवितुर्भार्या वडवारूपधारिणी। असूयत महाभागा सान्तरिक्षेऽश्विनावुभौ॥ द्वादशैवादितेः पुत्राः शक्रमुख्या नराधिप। तेषामवरजो विष्णुर्यत्र लोकाः प्रतिष्ठिताः॥ ४१॥ त्रयस्त्रिंशत इत्येते देवास्तेषामहं तव। अन्वयं संप्रवक्ष्यामि पक्षश्च कुलतो गणान्॥ रुद्राणामपरः पक्ष साध्यानां मरुतां तथा। वसूनां भार्गवं विद्याद्विश्वेदेवांस्तथैव च॥ वैनतेयस्तु गरुडो बलवानरुणस्तथा। बृहस्पतिश्च भगवानादित्येष्वैव गण्यते॥ अश्विनौ गुह्यकान्विद्धि सर्वोषध्यस्तथा पशून्। एते देवगणा राजन्कीर्तितास्तेऽनुपूर्वशः॥४ यान्कीर्तयित्वा मनुजः सर्वपापैः प्रमुच्यते। ब्रह्मणो हृदयं भित्त्वा निःसृतौ भगवान्भृगुः॥ भृगोः पुत्रः कविर्विद्वाञ्छुक्रः कविसुतो ग्रहः। त्रैलोक्यप्राणयात्रार्थं वर्षावर्षे भयाभये। स्वयंभुवा नियुक्तः सम्भुवनं परिधावति॥ योगाचार्यो महाबुद्धिर्दैत्यानामभवद्गुरुः। सुराणां चापि मेधावी ब्रह्मचारी यतव्रतः॥ तस्मिन्नियुक्ते विधिना योगक्षेमाय भार्गवे। अन्यमुत्पादयामास पुत्रं भृगुरनिन्दितम्॥ च्यवनं दीप्ततपसं धर्मात्मानं यशस्विनम्। यः स रोषाच्च्युतो गर्भान्मातुर्मोक्षाय भारत॥ आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः। और्वस्तस्यां समभवदूरुं भित्त्वा महायशाः॥ महातेजा महावीर्यो बाल एव गुणैर्युतः। ऋचीकस्तस्य पुत्रस्तु जमदग्निस्ततोऽभवत्॥ जमदग्नेस्तु चत्वार आसन्पुत्रा महात्मनः। रामस्तेषां जघन्योऽभूदजघन्यैर्गुणैर्युतः॥ सर्वशस्त्रेषु कुशलः क्षत्रियान्तकरो वशी। और्वस्यासीत्पुत्रशतं जमदग्निपुरोगमम्॥ तेषां पुत्रसहस्राणि बभूवुर्भुवि विस्तरः। द्वौ पुत्रौ ब्रह्मणस्त्वन्यौ ययोस्तिष्ठति लक्षणम्॥ लोके धाता विधाता च यौ स्थितौ मनुना सह। तयोरेव स्वसा देवी लक्ष्मीः पद्मगृहा शुभा॥ तस्यास्तु मानसाः पुत्रास्तुरगा व्योमचारिणः। वरुणस्य भार्या या ज्येष्ठा शुक्राद्देवी व्यजायत॥ तस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम्। प्रजानामनकामानामन्योन्यपरिभक्षणात्॥ अधर्मस्तत्र संजातः सर्वभूतविनाशकः। तस्यापि निर्ऋतिर्भार्या नैर्ऋता येन राक्षसा॥ घोरास्तस्यास्त्रयः पुत्राः पापकर्मरताः सदा। भयो महाभयश्चैव मृत्युर्भूतान्तकस्तथा॥ न तस्य भार्या पुत्रो वा कश्चिदस्त्यन्तको हि सः। काकी श्येनी तथा भासी धृतराष्ट्रीं तथा शुकीम्॥ ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः। उलूकान्सुषुवे काकी श्येनी श्येनान्व्यजायत॥ भासी भासानजनयद्गृध्रांश्चैव जनाधिप। धृतराष्ट्रीं तु हंसांश्च कलहंसांश्च सर्वशः॥ चक्रवाकांश्च भद्रा तु जनयामास सैव तु। शुकी च जनयामास शुकानेव यशस्विनी॥ कल्याणगुणसंपन्ना सर्वलक्षणपूजिता। नव क्रोधवशा नारी: प्रजज्ञे क्रोधसंभवाः॥ मृगी च मृगमन्दा च हरी भद्रमना अपि। मातङ्गी त्वथ शार्दूली श्वेता सुरभिरेव च॥ सर्वलक्षणसंपन्ना सुरसा चैव भामिनी। अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम॥ ऋक्षाश्च मृगमन्दायाः सृमराश्च परंतप। ततस्त्वैरावतं नागं जज्ञे भद्रमनाः सुतम्॥ ऐरावतः सुतस्तस्या देवनागो महागजः। हर्याश्च हरयोऽपत्यं वानराश्च तरस्विनः॥ गोलांगूलांश्च भद्रं ते हर्याः पुत्रान्प्रचक्षते। प्रजज्ञे त्वथ शार्दूली सिंहान् व्याघ्राननेकशः॥ द्वीपिनश्च महासत्वान्सर्वानेव न संशयः। मातङ्ग्यपि च मातङ्गानपत्यानि नराधिप॥ दिशां गजं तु श्वेतारव्यं श्वेताजनयदाशुगम्। तथा दुहितरौ राजन् सुरभिर्वै व्यजायत॥ रोहिणीं चैव भदंते गन्धर्वी तु यशस्विनीम्। विमलामपि भद्रं ते अनलामपि भारत॥ रोहिण्यां जज्ञिरे गावः गन्धयां वाजिनः सुताः। सप्त पिण्डफलान्वृक्षाननलापि व्यजायत॥ अनलायाः शुकी पुत्री कङ्कस्तु सुरसासुतः। अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ॥ संपातिं जनयामास वीर्यवन्तं जटायुषम्। सुरसाजनयन्नागान्कएँः पुत्रांस्तु पन्नगान्॥ द्वौ पुत्रौ विनतायास्तु विख्यातौ गरुडारुणौ। इत्येषः सर्वभूतानां महतां मनुजाधिप॥ प्रभवः कीर्तितः सम्यङ्मया मतिमतांवर॥ यं श्रुत्वा पुरुषः सम्यङ्मुक्तो भवति पाप्मनः। सर्वज्ञतां च लभते गतिमग्र्यं च विन्दति॥ जनमेजय उवाच देवानां दानवानां च गन्धर्वोरंगरक्षसाम्। सिंहव्याघ्रमृगाणां च पन्नगानां पतत्रिणाम्॥ सर्वेषां चैव भूतानां संभवं भगवन्नहम्। श्रोतुमिच्छामि तत्त्वेन मानुषेषु महात्मनाम्। जन्म कर्म च भूतानामेतेषामनुपूर्वशः॥ वैशंपायन उवाच मानुषेषु मनुष्येन्द्र संभूता ये दिवौकसः। प्रथमं दानवांश्चैव तास्ते वक्ष्यामि सर्वशः॥ विप्रचित्तिरितिख्यातो य आसीद्दानवर्षभः। जरासन्ध इति ख्यातः स आसीन्मनुजर्षभः॥ दितेः पुत्रस्तु यो राजन्हिरण्यकशिपुः स्मृतः। स जज्ञे मानुषे लोके शिशुपालो नरर्षभः॥ संह्लाद इति विख्यातः प्रह्लादस्यानुजस्तु यः। स शल्य इति विख्यातो जज्ञे बाह्रीकपुङ्गवः॥ अनुहादस्तु तेजस्वी योऽभूत्ख्यातो जघन्यजः। धृष्टकेतुरिति ख्यातः स बभूव नरेश्वरः॥ यस्तु राजञ्च्छिबिर्नाम दैतेयः परिकीर्तितः। द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः॥ बाष्कलो नाम यस्तेषामासीदसुरसत्तमः। भगदत्त इति ख्यातः स जज्ञे पुरुषर्षभः॥ अयःशिरा अश्वशिरा अयःशङ्कश्च वीर्यवान्। तथा गगनमूर्धा च वेगवांश्चात्र पञ्चमः॥ पञ्चैते जज्ञिरे राजन्वीर्यवन्तो महासुराः। केकयेषु महात्मान: पार्थिवर्षभसत्तमाः॥ केतुमानिति विख्यातो यस्ततोऽन्यः प्रतापवान्। अमितौजा इति ख्यातः सोग्रकर्मा नराधिपः॥ स्वर्भानुरिति विख्यातः श्रीमान्यस्तु महासुरः। उग्रसेन इति ख्यात उग्रकर्मा नराधिपः॥ यस्त्वश्व इति विख्यातःश्रीमानासीन्महासुरः। अशोको नाम राजाभून्महावीर्योऽपराजितः॥ तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः। दैतेयः सोऽभवद्राजा हार्दिक्यो मनुजर्षभः॥ वृषपर्वेति विख्यातः श्रीमान्यस्तु महासुरः। दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवनृपः॥ अजकस्त्ववरो राजन्य आसीवृषपर्वणः। स शाल्व इति विख्यातः पृथिव्यामभवनृपः॥ अश्वग्रीव इति ख्यातः सत्त्ववान्यो महासुरः। रोचमान इति ख्यातः पृथिव्यां सोऽभवनृपः॥ सूक्ष्मस्तु मतिमानराजन्कीर्तिमान्यः प्रकीर्तितः। बृहद्रथ इति ख्यातः क्षितावासीत्स पार्थिवः॥ तुहुण्ड इति विख्यातो य आसीदसुरोत्तमः। सेनाबिन्दुरिति ख्यातः स बभूव नराधिपः॥ इषुपान्नाम यस्तेषामसुराणां बलाधिकः। नग्नजिन्नाम राजासीद्भुवि विख्यातविक्रमः॥ एकचक्र इति ख्यात आसीद्यस्तु महासुरः। प्रतिविन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ॥ विरूपाक्षस्तु दैतेयश्चित्रयोधी महासुरः। चित्रधर्मेति विख्यातः क्षितावासीत्स पार्थिवः॥ हरस्त्वरिहरो वीर आसीद्यो दानवोत्तमः। सुबाहुरिति विख्यातः श्रीमानासीत्स पार्थिवः॥ अहरस्तु महातेजाः शत्रुपक्षक्षयंकरः। बाह्रीको नाम राजा स बभूव प्रथितः क्षितौ॥ निचन्द्रश्चन्द्रवक्रस्तु य आसीदसुरोत्तमः। मुञ्जकेश इति ख्यातः श्रीमानासीत्स पार्थिवः॥ निकुम्भस्त्वजिताः संख्ये महामतिरजायत। भूमौ भूमिपतिः श्रेष्ठो देवाधिप इति स्मृतः॥ शरभो नाम यस्तेषां दैतेयानां महासुरः। पौरवो नाम राजर्षिः स बभूव नरोत्तमः॥ कुपटस्तु महावीर्यः श्रीमान्राजन्महासुरः। सुपार्श्व इति विख्यातः क्षितौ जज्ञे महीपतिः॥ क्रथस्तु राजनराजर्षिः क्षितौ जज्ञे महासुरः। पार्वतेय इति ख्यातः काञ्चनाचलसन्निभः॥ द्वितीयः शलभस्तेषामसुराणां बभूव ह। प्रह्लादो नाम वाह्लीकः स बभूव नराधिपः॥ चन्द्रस्तु दितिजश्रेष्ठो लोके ताराधिपोपमः। चन्द्रवर्मेति विख्यातः काम्बोजानां नराधिपः॥ अर्क इत्यभिविख्यातो यस्तु दानवपुङ्गवः। ऋषिको नाम राजर्षिर्बभूव नृपसत्तमः॥ मृतपा इति विख्यातो स आसीदसुरोत्तमः। पश्चिमानूपकं विद्वि तं नृपं नृपसत्तम॥ गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः। दुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः॥ मयूर इति विख्यातः श्रीमान्यस्तु महासुरः। स विश्व इति विख्यातो बभूव पृथिवीपतिः॥ सुपर्ण इति विख्यातस्तस्मादवरजस्तु यः। कालकीर्तिरिति ख्यातः पृथिव्यां सोऽभवनृपः॥ चन्द्रहन्तेति यस्तेषां कीर्तितः प्रवरोऽसुरः। शुनको नाम राजर्षिः स बभूव नराधिपः॥ विनाशनस्तु चन्द्रस्य य आख्यातो महासुरः। जानकिर्नाम विख्यातः सोऽभवन्मनुजाधिपः॥ दीर्घजिह्वस्तुकौरव्य य उक्तो दानवर्षभः। काशिराजः स विख्यातः पृथिव्यां पृथिवीपते॥ ग्रहं तु सुषुवे यं तु सिंहिकार्केन्दुमर्दनम्। स क्राथ इति विख्यातो बभूव मनुजाधिपः॥ दनायुधस्तु पुत्राणां चतुर्णां प्रवरोऽसुरः। विक्षरो नाम तेजस्वी वसुमित्रो नृपः स्मृतः॥ द्वितीयो विक्षरावस्तु नराधिप महासुरः। पाण्ड्यराष्ट्रधिप इति विख्यातः सोऽभवन्नृपः॥ बली वीर इति ख्यातो यस्त्वासीदसुरोत्तमः। पौण्ड्रमात्स्यक इत्येवं बभूव स नराधिपः॥ वृत्र इत्यभिविख्यातो यस्तु राजन्महासुरः। मणिमानाम राजर्षिः स बभूव नराधिपः॥ क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः। दण्ड इत्यभिविख्यातः स आसीनृपतिः क्षितौ॥ क्रोधवर्धन इत्येवं यस्त्वन्यः परिकीर्तितः। दण्डधार इति ख्यातः सोभऽवन्मनुजर्षभः॥ कालेयानां तु ये पुत्रास्तेषामष्टौ नराधिपाः। जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः॥ मगधेषु जयत्सेनस्तेषामासीत्स पार्थिवः। अष्टानां प्रवरस्तेषां कालेयानां महासुरः॥ द्वितीयस्तु ततस्तेषां श्रीमान्हरिहयोपमः। अपराजित इत्येवं स बभूव नराधिपः॥ तृतीयस्तु महातेजा महामायो महासुरः। निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः॥ तेषामन्यतमो यस्तु चतुर्थः परिकीर्तितः। श्रेणिमानिति विख्यातः क्षितौ राजर्षिसत्तमः॥ पञ्चमस्त्वभवत्तेषां प्रवरो यो महासुरः। महौजा इति विख्यातो बभूवेह परंतपः॥ षष्ठस्तु मतिमान्यो वै तेषामासीन्महासुरः। अभीरुरिति विख्यातः क्षितौ राजर्षिसत्तमः॥ समुद्रसेनस्तु नृपस्तेषामेवाभवद्गणात्। विश्रुतः सागरान्तायां क्षितौ धर्मार्थतत्त्ववित्॥ बृहन्नामाष्टमस्तेषां कालेयानां नराधिप बभूव राजा धर्मात्मा सर्वभूतहिते रतः॥ कुक्षिस्तु राजन्विख्यातो दानवानां महाबलः। पार्वतीय इति ख्यातः काञ्चनाचलसंनिभः॥ क्रथनश्च महावीर्यः श्रीमानराजा महासुरः। सूर्याक्ष इति विख्यातः क्षितौ जज्ञे महीपतिः॥ असुराणां तु यः सूर्यः श्रीमांश्चैव महासुरः। दरदो नाम बाल्हीको वरः सर्वमहीक्षिताम्॥ गण: क्रोधवशो नाम यस्ते राजप्रकीर्तितः। तत: संजज्ञिरे वीराः क्षिताविह नराधिपाः॥ मद्रकः कर्णवेष्टश्च सिद्धार्थः कीटकस्तथा। सुवीरश्च सुबाहुश्च महावीरोऽथ बाह्निकः॥ क्रथो विचित्रः सुरथः श्रीमान्नीलश्च भूमिपः। चीरवासाश्च कौरव्य भूमिपाश्चैव नामतः॥ दन्तवक्त्रश्च नामासीर्जयश्चैव दानवः। रुक्मी च नृपशार्दूलो राजा च जनमेजयः॥ आषाढो वायुवेगश्च भूरितेजास्तथैव च। एकलव्य सुमित्रश्च वाटधानोऽथ गोमुखः॥ कारूषकाश्च राजानः क्षेमधूर्तिस्तथैव च। श्रुतायुरुद्वहश्चैव बृहत्सेनस्तथैव च॥ क्षेमोग्रतीर्थः कुहरः कलिङ्गेषु नराधिपः। मतिमांश्च मनुष्येन्द्र ईश्वरश्चेति विश्रुतः॥ गणात्क्रोधवशादेष राजपूगोऽभवक्षितौ। जातः पुरा महाभागो महाकीर्तिर्महाबलः॥ कालनेमिरिति ख्यातो दानवानां महाबलः। स कंस इति विख्यात उग्रसेनसुतो बली॥ यस्त्वासीद्देवको नाम देवराजसमद्युतिः। स गन्धर्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः॥ बृहस्पतेवृहत्कीर्तेर्देवर्षेर्विद्धि भारत। अंशाद्रोणं समुत्पन्नं भारद्वाजमयोनिजम्॥ धन्विनां नृपशार्दूल यः सर्वास्त्रवित्तमः। महाकीर्तिर्महातेजा: स जज्ञे मनुजेश्वर॥ धनुर्वेदे च वेदे च यं तं वेदविदो विदुः। वरिष्ठं चित्रकर्माणं द्रोणं स्वकुलवर्धनम्॥ महादेवान्तकाभ्यां च कामात्क्रोधाच्च भारत। एकत्वमुपपन्नानां जज्ञे शूरः परंतपः॥ अश्वत्थामा महावीर्यः शत्रुपक्षभयावहः। वीरः कमलपत्राक्षः क्षितावासीन्नराधिप॥ जज्ञिरे वसवस्त्वष्टौ गङ्गायां शान्तनोः सुताः। वसिष्ठस्य च शापेन नियोगाद्वासवस्य च॥ तेषामवरजो भीष्मः कुरूणामभयंकरः। मतिमान्वेदविद्वाग्मी शत्रुपक्षक्षयंकरः॥ जामदग्न्येन रामेण सर्वास्त्रविदुषां वरः। योऽयुध्यत महातेजा भार्गवेण महात्मना॥ यस्तु राजन्कृपो नाम ब्रह्मर्षिरभवक्षितौ। रुद्राणां तु गणाद्विद्धि संभूतमतिपौरुषम्॥ शकुनि म यस्त्वासीद्राजा लोके महारथः। द्वापरं विद्धि तं राजन्संभूतमरिमर्दनम्॥ सात्यकिः सत्यसन्धश्च योऽसौ वृष्णिकुलोद्वहः। पक्षात्स जज्ञे मरुतां देवानामरिमर्दनः॥ दुपदश्चैव राजर्षिस्तत एवाभवद्गणात्। मानुषे नृपलोकेऽस्मिन्सर्वशस्त्रभृतां वरः॥ ततश्च कृतवर्माणं विद्धि राजञ्जनाधिपम्। तमप्रतिमकर्माणं क्षत्रियर्षभसत्तमम्॥ मरुतां तु गणाद्विद्धि संजातमरिमर्दनम्। विराटं नाम राजानं परराष्ट्रप्रतापनम्॥ अरिष्टायास्तु यः पुत्रो हंस इत्यभिविश्रुतः। स गन्धर्वपतिर्जज्ञे कुरुवंशविवर्धनः॥ धृतराष्ट्र इति ख्यातः कृष्णद्वैपायनात्मजः। दीर्घबाहुर्महातेजाः प्रज्ञाचक्षुर्नराधिपः॥ मातुर्दोषादृषेः कोपादन्ध एव व्यजायत। तस्यैवावरजो भ्राता महासत्त्वो महाबलः॥ स पाण्डुरिति विख्यातः सत्यधर्मरतः शुचि। अत्रेस्तु सुमहाभागं पुत्रं पुत्रवतः वरम्। विदुरं विद्धि तं लोके जातं बुद्धिमतां वरम्॥ कलेरंशस्तु संजज्ञे भुवि दुर्योधनो नृपः। दुर्बुद्धिर्दुर्मतिश्चैव कुरूणामयशस्करः॥ जगतो यस्तु सर्वस्य विद्विष्ट कलिपूरुषः। यः सर्वां घातयामास पृथिवीं पृथिवीपते॥ उद्दीपितं येन वैरं भूतान्तकरणं महत्। पौलस्त्या भ्रातरश्चास्य जज्ञिरे मनुजेष्विह॥ शतं दुःशासनादीनां सर्वेषां क्रूरकर्मणाम्। दुर्मुखो दुःसहश्चैव ये चान्येनानुकीर्तिताः॥ दुर्योधनसहायास्ते पौलस्त्या भरतर्षभ। वैश्यापुत्रो युयुत्सुश्च धार्तराष्ट्रः शताधिकः॥ जनमेजय उवाच ज्येष्ठानुज्येष्ठा तामेषां नामधेयानि वा विभो। धृतराष्ट्रस्य पुत्राणामानुपूर्वेण कीर्तय॥ वैशंपायन उवाच दुर्योधनो युयुत्सुश्च राजन्दुश्शासनस्तथा। दुःसहो दुःशलश्चैव दुर्मुखश्च तथापरः॥ विविंशतिर्विकर्णश्च जलसन्धः सुलोचनः। विन्दानुविन्दौ दुर्घर्ष: सुबाहुर्दुष्प्रधर्षणः॥ दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च। चित्रोपचित्रौ चित्राक्षश्चारुचित्राङ्गदश्च ह॥ दुर्मदो दुष्प्रहर्षश्च विवित्सुर्विकटः समः। ऊर्णनाभः पद्मनाभस्तथा नन्दोपनन्दकौ॥ सेनापतिः सुषेणश्च कुण्डोदरमहोदरौ। चित्रबाहुश्चित्रवर्मा सुवर्मा दुर्विरोचनः॥ अयोबाहुर्महाबाहुश्चित्रचापसुकुण्डलौ। भीमवेगो भीमबलो बलाकी भीमविक्रमः॥ उग्रायुधो भीमशरः कनकायुदृढायुधः। दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः :॥ जरासन्धो दृढसन्धः सत्यसन्धः सहस्रवाक्। उग्रश्रवा उग्रसेनः क्षेममूर्तिस्तथैव च॥ अपराजितः पण्डितको विशालाक्षो दुराधनः॥ दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ। आदित्यकेतुर्बह्वाशी नागदत्तानुयायिनौ॥ कवची निषङ्गी दण्डो दण्डधारो धनुर्ग्रहः। उग्रो भीमरथो वीरो वीरबाहुरलोलुपः॥ अभयो रौद्रकर्मा च तथा दृढरथश्च यः। अनाधृष्यः कुण्डभेदी विरावी दीर्घलोचनः॥ दीर्घबाहुर्महाबाहुयूंढोरुः कनकाङ्गदः। कुण्डजश्चित्रकश्चैव दुःशला च शताधिका॥ वैश्यापुत्रो युयुत्सुश्च धार्तराष्ट्रः शताधिकः। एतदेकशतं राजन्कन्या चैका प्रकीर्तिता।। नामधेयानुपूर्व्या च ज्येष्ठानुज्येष्ठतां विदुः॥ सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः। सर्वे वेदविदश्चैव राजञ्च्छास्त्रे च पारगा॥ सर्वे संग्रामविद्यासु विद्याभिजनशोभिनः। सर्वेषामनुरूपाश्च कृता दारा महीपते॥ दुःशलां समये राजन्सिन्धुराजाय कौरवः। जयद्रथाय प्रददौ सौबलानुमते तदा॥ धर्मस्यांशं तु राजानं विद्धि राजन्युधिष्ठिरम्। भीमसेनं तु वातस्य देवराजस्य चार्जुनम्॥ अश्विनोस्तु तथैवांशौ रूपेणाप्रतिमौ भुवि। नकुलः सहदेवश्च सर्वभूतमनोहरौ॥ यस्तु वर्चा इति ख्यातः सोमपुत्रः प्रतापवान्। सोऽभिमन्युर्वृहत्कीर्तिरर्जुनस्य सुतोऽभवत्॥ यस्यावतरणे राजन्सुरान्सोमोऽब्रवीदिदम्। नाहं दद्यां प्रियं पुत्रं मम प्राणैर्गरीयसम्॥ समयः क्रियतामेष न शक्यमतिवर्तितम्। सुरकार्यं हि नः कार्यमसुराणां क्षितौ वधः॥ तत्र यास्यत्ययं वर्चा न च स्थास्यति वै चिरम्। ऐन्द्रिनरस्तु भविता यस्य नारायणः सखा॥ सोऽर्जुनोत्यभिविख्यातः पाण्डोः पुत्रः प्रतापवान्। तस्यायं भविता पुत्रो बालो भुवि महारथः॥ ततः षोडशवर्षाणि स्थास्यत्यमरसत्तमाः। अस्य षोडशवर्षस्य स संग्रामो भविष्यति॥ यत्रांशा वः करिष्यन्ति कर्मवीरनिषूदनम्। नरनारायणाभ्यां तु स संग्रामो विना कृतः॥ चक्रव्यूह समास्थाय योधयिष्यन्ति वः सुराः। विमुखञ्च्छात्रवान्सर्वान्कारयिष्यति मे सुतः॥ बालः प्रविश्य च व्यूहमभेद्यं विचरिष्यति। महारथानां वीराणां कदनं च करिष्यति॥ सर्वेषामेव शत्रूणां चतुर्थांशं नयिष्यति। दिनार्धेन महाबाहुः प्रेतराजपुरं प्रति॥ ततो महारथैर्वीरैः समेत्य बहुशो रणे। दिनक्षये महाबाहुर्मया भूयः समेष्यति॥ एकं वंशकरं पुत्रं वीरं वै जनयिष्यति। प्रनष्टं भारतं वंशं स भूयो धारयिष्यति॥ एतत्सोमवचः श्रुत्वा तथास्विति दिवौकसः। प्रत्यूचुः सहिताः सर्वे ताराधिपमपूजयन्॥ एवं ते कथितं राजंस्तव जन्म पितुः पितुः। अग्नेर्भागं तु विद्धि त्वं धृष्टद्युम्नं महारथम्॥ शिखण्डिनमथोराजस्त्रीपूर्वं विद्धि राक्षसम्। द्रौपदेयाश्च ये पञ्च बभूवुर्भरतर्षभ।१२७॥ विश्वान्देवगणान्विद्धि संजातान्भरतर्षभ। प्रतिविध्यः सुतमोसः श्रुतकीर्तिस्तथापरः॥ नाकुलिस्तु शतानीकः श्रुतसेनश्च वीर्यवान्। शूरो नाम यदुश्रेष्ठो वसुदेवपिताभवत्॥ तस्य कन्या पृथा नाम रूपेणासदृशी भुवि। पितुः स्वस्त्रीयपुत्राय सोऽनपत्याय वीर्यवान्॥ अग्रमग्रे प्रतिज्ञाय स्वस्यापत्यस्य वै तदा। अग्रजातेति तां कन्यां शूरोऽनुग्रहकांक्षया॥ अददत्कुन्तिभोजाय स तां दुहितरं तदा। सा नियुक्ता पितुर्गेहे ब्राह्मणातिथिपूजने॥ उग्रं पर्यचरद्घोरं ब्राह्मणं संशितव्रतम्। निगूढनिश्चयं धर्मे यं तं दूर्वाससं विदुः॥ तमुग्रं शंसितात्मानं सर्वयत्तैरतोषयत्। तुष्टोऽभिचारसंयुक्तमाचचक्षे यथाविधि॥ उवाच चैनां भगवान्प्रीतोऽस्मि सुभगे तव। यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि॥ तस्य तस्य प्रसादात्त्वं देवि पुत्राञ्जनिष्यसि। एवमुक्ता च सा बाला तदा कौतूहलान्विता॥ कन्या सती देवमर्कमाजुहाव यशस्विनी। प्रकाशकर्ता भगवांस्तस्यां गर्भं दधौ तदा॥ अजीजनत्सुतं चास्यां सर्वशस्त्रभृतां वरम्। सकुण्डलं सकवचं देवगर्भश्रियान्वितम्॥ दिवाकरसमं दीप्त्या चारुसर्वाङ्गभूषितम्। निगूहमाना जातं वै बन्धुपक्षभयात्तदा॥ उत्ससर्ज जले कुन्ती तं कुमारं यशस्विनम्। तमुत्सृष्टं जले गर्भं राधाभर्ता महायशाः॥ राधायाः कल्पयामास पुत्रं सोऽधिरथस्तदा। चक्रतुर्नामधेयं च तस्य बालस्य तावुभौ॥ दम्पतीव सुषेणेति दिक्षु सर्वासु विश्रुतम्। संवर्धमानो बलवान्सर्वास्त्रेषूत्तमोऽभवत्॥ वेदाङ्गानि च सर्वाणि जजाप जयतां वरः। यस्मिन्काले जपन्नास्ते धीमान्सत्यपराक्रमः॥ नादेयं ब्राह्मणेष्वासीत्तस्मिन्काले महात्मनः। तमिन्द्रो ब्राह्मणो भूत्वा पुत्रार्थे भूतभावनः॥ ययाचे कुण्डले वीरं कवचं च सहाङ्गजम्। उत्कृत्य कर्णो ह्यददत्कवचं कुण्डले तथा॥ शक्तिं शक्रो ददौ तस्मै विस्मितश्चेदमब्रवीत्। देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम्॥ यस्मिन्क्षेप्स्यसि दुर्धर्षं स एको न भविष्यति। पुरा नाम च तस्यासीद्वसुषेण इति क्षितौ॥ ततो वैकर्तनः कर्णः कर्मणा तेन सोऽभवत्। आमुक्तकवचो वीरो यस्तु जज्ञे महायशाः॥ स कर्ण इति विख्यातः पृथायाः प्रथमः सुतः। स तु सूतकुले वीरो ववृधे राजसत्तम॥ दुर्योधनस्य सचिवं मित्रं शत्रुविनाशनम्। दिवाकरस्य तं विद्धि राजन्नशमनुत्तमम्॥ यस्तु नारायणो नाम देवदेवः सनातनः। तस्यांशो मानुष्वेसीद् वासुदेवः प्रतापवान्॥ शेषस्यांशश्च नागस्य बलदेवो महाबलः। सनत्कुमारं प्रद्युम्नं विद्धि राजन् महौजसम्॥ एवमन्ये मनुष्येन्द्रा बहवोंऽशा दिवौकसाम्। जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः॥ गणस्त्वप्सरसां यो वै मया राजन् प्रकीर्तितः। तस्य भागः क्षितौ जज्ञे नियोगाद् वासवस्य ह॥ तानि षोडश देवीनां सहस्राणि नराधिप। बभूवुर्मानुषे लोके वासुदेवपरिग्रहः॥ श्रियस्तु भाग: संजज्ञे रत्यर्थं पृथिवीतले। भीष्मकस्य कुले साध्वी रुक्मिणी नाम नामतः॥१५६। द्रौपदी त्वथ संजज्ञे शचीभागादनिन्दिता। द्रुपदस्य कुले कन्या वेदिमध्यादनिन्दिता॥ नातिइस्वा न महती नीलोत्पलसुगन्धिनी। पद्मायताक्षी सुश्रोणी स्वसिताञ्चितमूर्धजा॥ सर्वलक्षणसम्पूर्णा वैदूर्यमणिसन्निभा। पञ्चानां पुरुषेन्द्राणां चित्तप्रमथनी रहः॥ सिद्धिधृतिश्च ये देव्यौ पञ्चानां मातरौ तु ते। कुन्ती माद्री च जज्ञाते मतिस्तु सुबलात्मजा॥ इति देवासुराणां ते गन्धर्वाप्सरसां तथा। अंशावतरणं राजन् राक्षसानां च कीर्तितम्॥ ये पृथिव्यां समुद्धृता राजानो युद्धदुर्मदाः। महात्मानो यदूनां च ये जाता विपुले कुले॥ ब्राह्मणाः क्षत्रिया वैश्या मया ते परिकीर्तिताः। धन्यं यशस्यं पुत्रीयमायुष्यं विजयावहम्। इदमंशावतरणं श्रोतव्यमनसूयता॥ अंशावतरणं श्रुत्वा देवगन्धर्वरक्षसाम्। प्रभवाप्ययवित् प्राज्ञो न कृच्छ्रेष्ववसीदति॥ जनमेजय उवाच त्वत्तः श्रुतमिदं ब्रह्मन् देवदानवरक्षसाम्। अंशावतरणं सम्यग् गन्धर्वाप्सरसां तथा॥ इमं तु भूय इच्छामि कुरूणां वंशमादितः। कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ॥ वैशम्पायन उवाच पौरवाणां वंशकरो दुष्यन्तो नाम वीर्यवान्। पृथिव्याश्चतुरन्ताया गोप्ता भरतसत्तम।॥ चतुर्भागं भुवः कृत्स्नं यो भुङ्क्ते मनुजेश्वरः। समुद्रावरणांश्चापि देशान् स समितिंजयः॥ आम्लेच्छावधिकान् सर्वान् सभुङ्क्ते रिपुमर्दनः। रत्नाकरसमुद्रान्तांश्चातुर्वर्ण्यजनावृतान्॥ न वर्णसंकरकरो न कृप्याकरकृजनः। न पापकृत् कश्चिदासीत् तस्मिन् राजनि शासति॥ धर्मे रतिं सेवमाना धर्मार्थावभिपेदिरे। तदा नरा नरव्याघ्र तस्मिञ्जनपदेश्वरे॥ नासीचौरभयं तात न क्षुधाभयमण्वपि। नासीद् व्याधिभयं चापि तस्मिञ्जनपदेश्वरे॥ स्वधर्मे रेमिरे वर्णा दैवे कर्मणि नि:स्पृहाः। तमाश्रित्य महीपालमासंश्चैवाकुतो भयाः॥ कालवर्षी च पर्जन्यः सस्यानि रसवन्ति च। सर्वरत्नसमृद्धा च मही पशुमती तथा॥ स्वकर्मनिरता विप्रा नानृतं तेषु विद्यते। स चाद्भुतमहावीर्यो वज्रसंहननो युवा॥ उद्यम्य मन्दरं दोभ्यॊ वहेत् सवनकाननम्। चतुष्पथगदायुद्धे सर्वप्रहरणेषु च॥ नागपृष्ठेऽश्वपृष्ठे च बभूव परिनिष्ठितः। बले विष्णुसमश्चासीत् तेजसा भास्करोपमः॥ अक्षोभ्यत्वेऽर्णवसमः सहिष्णुत्वे धरासमः! सम्मतः स महीपाल: प्रसन्नपुरराष्ट्रवान्॥ भूयो धर्मपरैर्भावैर्मुदितं जनमादिशत्॥ जनमेजय उवाच सम्भवं भरतस्याहं चरितं च महामतेः। शकुन्तलायाश्चोत्पत्तिं श्रोतुमिच्छामि तत्त्वतः॥ दुष्यन्तेन च वीरेण यथा प्राप्ता शकुन्तला। तं वै पुरुषसिंहस्य भगवन् विस्तरं त्वहम्॥ श्रोतुमिच्छामि तत्त्वज्ञ सर्वं मतिमतां वर। वैशम्पायन उवाच स कदाचिन्महाबाहुः प्रभूतबलवाहनः॥ वनं जगाम गहनं हयनागशतैर्वृतः। बलेन चतुरङ्गेण वृतः परमवल्गुना॥ खड्गशक्तिधरैवीरैर्गदामुसलपाणिभिः। प्रासतोमरहस्तैश्च ययौ योधशतैर्वृतः॥ सिंहनादैश्च योधानां शङ्खदुन्दुभिनिःस्वनैः। स्थनेमिस्वनैश्चैव सनागवरबंहितैः॥ नानायुधधरैश्चापि नानावेषधरैस्तथा। हेषितस्वनमित्रैश्च क्ष्वेडितास्फोटितस्वनैः॥ आसीत् किलकिलाशब्दस्तस्मिन् गच्छति पार्थिवे। प्रासादवरशृङ्गस्थाः परया नृपशोभया॥ ददृशुस्तं स्त्रियस्तत्र शूरमात्मयशस्करम्। शक्रोपमममित्रघ्नं परवारणवारणम्॥ पश्यन्तः स्त्रीगणास्तत्र वज्रपाणिं स्म मेनिरे। अयं स पुरुषव्याघ्रो रणे वसुपराक्रमः॥ यस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः। इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा नराधिपम्॥ तुष्टुवुः पुष्पवृष्टीश्च ससृजुस्तस्य मूर्धनि। तत्र तत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः॥ निर्ययौ परमप्रीत्या वनं मृगजिघांसया। तं देवराजप्रतिमं मत्तवारणधूर्गतम्॥ द्विजक्षत्रियविट्शूद्रा निर्यान्तमनुजग्मिरे। ददृशुर्वर्धमानास्ते आशीर्भिश्च जयेन च॥ सुदूरमनुजग्मुस्तं पौरजानपदास्तथा। न्यवर्तन्त ततः पश्चादनुज्ञाता नृपेण ह॥ सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः। महीमापूरयामास घोषेण त्रिदिवं तथा॥ स गच्छन् ददृशे धीमान् नन्दनप्रतिमं वनम्। बिल्वार्कखदिराकीर्णं कपित्यधवसंकुलम्॥ विषमं पर्वतस्रस्तैरश्मभिश्च समावृतम्। निर्जलं निर्मनुष्यं च बहुयोजनमायतम्॥ मृगसिंहैर्वृतं घोरैरन्यैश्चापि वनेचरैः। तद् वनं मनुजव्याघ्रः सभृत्यबलवाहनः॥ लोडयामास दुष्यन्तः सूदयन् विविधान् मृगान्। बाणगोचरसम्प्राप्तांस्तत्र व्याघ्रगणान् बहून्॥ पातयामास दुष्यन्तो निर्बिभेद च सायकैः। दूरस्थान् सायकैः कांश्चिदभिनत् स नराधिपः॥ अभ्याशमागतांश्चान्यान् खङ्गेन निकृन्तत। कांश्चिदेगान् समाजघ्ने शक्त्या शक्तिमतां वरः॥ गदामण्डलतत्त्वज्ञश्चचारामितविक्रमः। तोमरैरसिभिश्चापि गदामुसलकम्पनैः॥ चचार स विनिघ्नन् वै स्वैरचारान् वनद्विपान्। राज्ञा चाद्भुतवीर्येण योधैश्च समरप्रियैः॥ लोड्यमानं महारण्यं तत्यजुः स्म मृगाधिपाः। तत्र विद्रुतयूथानि हतयूथपतीनि च॥ मृगयूथान्यथौत्सुक्याच्छब्दं चक्रुस्ततस्ततः। शुष्काश्चापि नदीर्गत्वा जलनैराश्यकर्शिताः॥ व्यायामकान्तहृदया: पतन्ति स्म विचेतसः। क्षुत्पिपासापरीताश्च श्रान्ताश्च पतिता भुवि॥ केचित् तत्र नरव्याग़रभक्ष्यन्त बुभुक्षितैः। केचिदग्निमथोत्पाद्य संसाध्य च वनेचराः॥ भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत् तदा। तत्र केचिद् गजा मत्ता बलिनः शस्त्रविक्षताः॥ संकोच्याग्रकरान् भीताः प्रद्रवन्ति स्म वेगिताः। शकृन्मूत्रं सृजन्तश्च क्षरन्तः शोणितं बहु॥ वन्या गजवरास्तत्र ममृदुर्मनुजान् बहून्। तद् वनं बलमेघेन शरधारेण संवृतम्। व्यरोचत मृगाकीर्णं राज्ञा हतमृगाधिपम्॥ वैशम्पायन उवाच ततो मृगसहस्राणि हत्वा सबलवाहनः। राजा मृगप्रसङ्गेन वनमन्यद् विवेश ह॥ एक एवोत्तमबलः क्षुत्पिपासाश्रमान्वितः। स वनस्यान्तमासाद्य महच्छून्यं समासदत्॥ तचाप्यतीत्य नृपतिरुत्तमाश्रमसंयुतम्। मनःप्रह्लादजननं दृष्टिकान्तमतीव च॥ शीतमारुतसंयुक्तं जगामान्यन्महद् वनम्। पुष्पितैः पादपैः कीर्णमतीव सुखशाद्वलम्॥ विपुलं मधुरारावैर्नादितं विहगैस्तथा। पुंस्कोकिलनिनादैश्च झिल्लीकगणनादितम्॥ प्रवृद्धविटपैर्वृक्षः सुखच्छायैः समावृतम्। षट्पदाघूर्णिततलं लक्ष्म्या परमया युतम्॥ नापुष्पः पादपः कश्चिन्नाफलो नापि कण्टकी। षट्पदैर्नाप्यपाकीर्णस्तस्मिन् वै काननेऽभवत्।॥ विहगैर्नादितं पुष्पैरलंकृतमतीव च। सर्वर्तुकुसुमैर्वृक्षैः सुखच्छायैः समावृतम्॥ मनोरमं महेष्वासो विवेश वनमुत्तमम्। मारुताकलितास्तत्र द्रुमाः कुसुमशाखिनः॥ पुष्पवृष्टिं विचित्रां तु व्यसृजंस्ते पुनः पुनः। दिवःस्पृशोऽथ संघुष्टाः पक्षिभिर्मधुरस्वनैः॥ विरेजुः पादपास्तत्र विचित्रकुसुमाम्बराः। तेषां तत्र प्रवालेषु पुष्पभारावनामिषु॥ रुवन्ति रावान् मधुरान् षट्पदा मधुलिप्सवः। तत्र प्रदेशांश्च बहून् कुसुमोत्करमण्डितान्॥ लतागृहपरिक्षिप्तान् मनसः प्रीतिवर्धनान्। सम्पश्यन् सुमहातेजा बभूव मुदितस्तदा॥ परस्पराश्लिष्टशाखैः पादपैः कुसुमान्वितैः। अशोभत वनं तत् तु महेन्द्रध्वजसंनिभैः॥ सिद्धचारणसंधैश्च गन्धर्वाप्सरसां गणैः। सेवितं वनमत्यर्थं मत्तवानरकिन्नरम्॥ सुखः शीतः सुगन्धी च पुष्परेणुवहोऽनिलः। परिक्रामन् वने वृक्षानुपैतीव रिरंसया॥ एवंगुणसमायुक्तं ददर्श स वनं नृपः। नदीकच्छोद्भवं कान्तमुच्छ्रितध्वजसंनिभम्॥ प्रेक्षमाणो वनं तत् तु सुप्रहृष्टविहङ्गमम्। आश्रमप्रवरं रम्यं ददर्श च मनोरमम्॥ नानावृक्षसमाकीर्णं सम्प्रज्वलितपावकम्। तं तदाप्रतिमं श्रीमानाश्रमं प्रत्यपूजयत्॥ यतिभिर्वालखिल्यैश्च वृतं मुनिगान्वितम्। अग्न्यगारैश्च बहुभिः पुष्पसंस्तरसंस्तृतम्॥ महाकच्छैङ्घहद्भिश्च विभ्राजितमतीव च। मालिनीमभितोराजन् नदी पुण्यां सुखोदकाम्॥ नैकपक्षिगणाकीर्णां तपोवनमनोरमाम्। तत्र व्यालमृगान् सौम्यान् पश्यन् प्रीतिमवाप सः॥ तं चाप्रतिस्थः श्रीमानाश्रमं प्रत्यपद्यत। देवलोकप्रतीकाशं सर्वतः सुमनोहरम्॥ नदीं चाश्रमसंश्लिष्टां पुण्यतोयां ददर्श सः। सर्वप्राणभृतां तत्र जननीमिव धिष्ठिताम्॥ सचक्रवाकपुलिनां पुष्पफेनप्रवाहिनीम्। सकिन्नरगणावासां वानरःनिषेविताम्॥ पुण्यस्वाध्यायसंघुष्टां पुलिनैरुपशोभिताम्। मत्तवारणशार्दूलभुजगेन्द्रनिषेविताम्॥ तस्यास्तीरे भगवतः काश्यपस्य महात्मनः। आश्रमप्रवरं रम्यं महर्षिगणसेवितम्॥ नदीमाश्रमसम्बद्धां दृष्ट्वाऽऽश्रमपदं तथा। चकाराभिप्रवेशाय मतिं स नृपतिस्तदा॥ अलंकृतं द्वीपवत्या मालिन्या रम्यतीरया। नरनारायणस्थानं गङ्गयेवोपशोभितम्॥ मत्तबहिणसंघुष्टं प्रविवेश महद् वनम्। तत् स चैत्ररथप्रख्यं समुपेत्य नरर्षभः॥ अतीवगुणसम्पन्नमनिर्देश्यं च वर्चसा। महर्षि काश्यपं द्रष्टुमथ कण्वं तपोधनम्॥ ध्वजिनीमश्वसम्बाधां पदातिगजसंकुलाम्। अवस्थाप्य वनद्वारि सेनामिदमुवाच सः॥ मुनि विरजसं द्रष्टुं गमिष्यामि तपोधनम्। काश्यपं स्थीयतामत्र यावदागमनं मम॥ तद् वनं नन्दनप्रख्यमासाद्य मनुजेश्वरः। क्षुत्पिपासे जहौ राजा मुदं चावाप पुष्कलाम्॥ सामात्यो राजलिङ्गानि सोऽपनीय नराधिपः। पुरोहितसहायश्च जगामाश्रममुत्तमम्॥ दिदृक्षुस्तत्र तमृषि तपोराशिमथाव्ययम्। ब्रह्मलोकप्रतीकाशमाश्रमं सोऽभिवीक्ष्य ह। षट्पदोद्गीतसंघुष्टं नानाद्विजगणायुतम्॥ ऋचो बह्वचमुख्यैश्च प्रेर्यमाणाः पदक्रमैः। शुश्राव मनुजव्याघ्रो विततेष्विह कर्मसु॥ यज्ञविद्याङ्गविद्भिश्च यजुर्विद्भिश्च शोभितम्। मधुरैः सामगीतैश्च ऋषिभिर्नियतव्रतैः॥ भारुण्डसामगीताभिरथर्वशिरसोद्गतः। यतात्मभिः सुनियतैः शुशुभे स तदाश्रमः॥ अथर्ववेदप्रवराः पूगयज्ञियसामगाः। संहितामीरयन्ति स्म पदक्रमयुतां तु ते॥ शब्दसंस्कारसंयुक्तैर्बुवद्भिश्चापरैर्द्विजैः। नादितः स बभौ श्रीमान् ब्रह्मलोक इवापरः॥ यज्ञसंस्कारविद्भिश्च क्रमशिक्षाविशारदैः। न्यायतत्त्वात्मविज्ञानसम्पन्नैर्वेदपारगैः॥ नानावाक्यसमाहारसमवायविशारदैः। विशेषकार्यविद्धिश्च मोक्षधर्मपरायणैः॥ स्थापनाक्षेपसिद्धान्तपरमार्थज्ञतां गतः। शब्दच्छन्दोनिरुक्तज्ञैः कालज्ञानविशारदैः॥ द्रव्यकर्मगुणज्ञैश्च कार्यकारणवेदिभिः। पक्षिवानररुतज्ञैश्च व्यासग्रन्थसमाश्रितैः॥ नानाशास्त्रेषु मुख्यैश्च शुश्राव स्वनमीरितम्। लोकायतिकमुख्यैश्च समन्तादनुनादितम्॥ तत्र तत्र च विप्रेन्द्रान् नियतान् संशितव्रतान्। जपहोमपरान् विप्रान् ददर्श परवीरहा॥ आसनानि विचित्राणि रुचिराणि महीपतिः। प्रयत्नोपहितानि स्म दृष्ट्वा विस्मयमागमत्॥ देवतायतनानां च प्रेक्ष्य पूजां कृतां द्विजैः। ब्रह्मलोकस्थमात्मानं मेने स नृपसत्तमः॥ स काश्यपतपोगुप्तमाश्रमप्रवरं शुभम्। नातृप्यत् प्रेक्षमाणो वै तपोवनगुणैर्युतम्॥ वृतं समन्तादृषिभिस्तपोधनैः। विवेश सामात्यपुरोहितोऽरिहा विविक्तमत्यर्थमनोहरं शुभम्॥ वैशम्पायन उवाच ततोऽगच्छन्महाबाहुरेकोऽमात्यान् विसृज्य तान्। नापश्यचाश्रमे तस्मिंस्तमृषि संशितव्रतम्॥ सोऽपश्यमानस्तमृषि शून्यं दृष्ट्वा तथाऽऽश्रमम्। उवाच क इहेत्युचैर्वनं संनादयन्निव॥ श्रुत्वाथ तस्य तं शब्दं कन्या श्रीरिव रूपिणी। निश्चक्रामाश्रमात् तस्मात् तापसीवेषधारिणी॥ सा तं दृष्दैव राजानं दुष्यन्तमसितेक्षणा। स्वागतं त इति क्षिप्रमुवाच प्रतिपूज्य च॥ आसनेनार्चयित्वा च पाद्यनायेण चैव हि। पप्रच्छानामयं राजन् कुशलं च नराधिपम्॥ यथावदर्चयित्वाथ पृष्ट्वा चानामयं तदा। उवाच स्मयमानेव किं कार्य क्रियतामिति॥ तामब्रवीत् ततो राजा कन्यां मधुरभाषिणीम्। दृष्ट्वा चैवानवद्यागी यथावत् प्रतिपूजितः॥ आगतोऽहं महाभागमृर्षि कण्वमुपासितुम्। क्व गतो भगवान् भद्रे तन्ममाचक्ष्व शोभने।॥ शकुन्तलोवाच गत: पिता मे भगवान् फलान्याहर्तुमाश्रमात्। मुहूर्तं सम्प्रतीक्षस्व द्रष्टास्येनमुपागतम्॥ वैशम्पायन उवाच अपश्यमानस्तमृषि तथा चोक्तस्तया च सः। तां दृष्ट्वा च वरारोहां श्रीमती चारुहासिनीम्॥ विभ्राजमानां वपुषा तपसा च दमेन च। रूपयौवनसम्पन्नामित्युवाच महीपतिः॥ का त्वं कस्यासि सुश्रोणि किमर्थं चागता वनम्। एवंरूपगुणोपेता कुतस्त्वमसि शोभने॥ दर्शनादेव हि शुभे त्वया मेऽपहतं मनः। इच्छामि त्वामहं ज्ञातुं तन्ममाचक्ष्व शोभने॥ एवमुक्ता तु सा कन्या तेन राज्ञा तमाश्रमे। उवाच हसती वाक्यमिदं सुमधुराक्षरम्॥ कण्वस्याहं भगवतो दुष्यन्त दुहिता मता। तपस्विनो धृतिमतो धर्मज्ञस्य महात्मनः॥ दुष्यन्त उवाच ऊर्ध्वरेता महाभागे भगवाँल्लोकपूजितः। चलेद्धि वृत्ताद् धर्मोऽपि न चलेत् संशितव्रतः॥ कथं त्वं तस्य दुहिता सम्भूता वरवर्णिनी। संशयो मे महानत्र तन्मे छेत्तुमिहार्हसि॥ शकुन्तलोवाच यथायमागमो मह्यं यथा चेदमभूत् पुरा। शृणु राजन् यथातत्त्वं यथास्मि दुहिता मुनेः॥ ऋषिः कश्चिदिहागम्य मम जन्माभ्यचोदयत्। तस्मै प्रोवाच भगवान् यथा तच्छणु पार्थिव॥ कण्व उवाच तप्यमानः किल पुरा विश्वामित्रो महत् तपः। सुभृशं तापयामास शक्रं सुरगणेश्वरम्॥ तपसा दीप्तवीर्योऽयं स्थानान्मां च्यावयेदिति। भीत: पुरंदरस्तस्मान्मेनकामिदमब्रवीत्॥ गुणैरप्सरसां दिव्यैर्मेनके त्वं विशिष्यसे। श्रेयो मे कुरु कल्याणि यत् त्वां वक्ष्यामि तच्छृणु॥२२ असावादित्यसंकाशो विश्वामित्रो महातपाः। तप्यमानस्तपो घोरं मम कम्पयते मनः॥ मेनके तव भारोऽयं विश्वामित्र: सुमध्यमे। शंसितात्मा सुदुर्धर्ष उग्रे तपसि वर्तते॥ समां न च्यावयेत् स्थानात् तं वै गत्वा प्रलोभय। चर तस्य तपोविघ्नं कुरु मेऽविघ्नमुत्तमम्॥ रूपयौवनमाधुर्यचेष्टितस्मितभाषणैः। लोभयित्वा वरारोहे तपसस्तं निवर्तय॥ मेनकोवाच महातेजाः स भगवांस्तथैव च महातपाः। कोपनश्च तथा ह्येनं जानाति भगवानपि॥ तेजसस्तपसश्चैव कोपस्य च महात्मनः। त्वमप्युद्विजसे यस्य नोद्विजेयमहं कथम्॥ महाभागं वसिष्ठं यः पुत्ररिष्टैर्व्ययोजयत्। क्षत्रजातश्च यः पूर्वमभवद् ब्राह्मणो बलात्॥ शौचार्थं यो नदी चक्रे दुर्गमां बहुभिर्जलैः। यां तां पुण्यतमां लोके कौशिकीति विदुर्जनाः॥ बभार यत्रास्य पुरा काले दुर्गे महात्मनः। दारान्मतङ्गो धर्मात्मा राजर्षिाधतां गतः॥ अतीतकाले दुर्भिक्षे अभ्येत्य पुनराश्रमम्। मुनिः पारेति नद्या वै नाम चक्रे तदा प्रभुः॥ मतङ्गं याजयाञ्चक्रे यत्र प्रीतमनाः स्वयम्। त्वं च सोमं भयाद् यस्य गतः पातुं सुरेश्वर॥ चकारान्यं च लोकं वै क्रुद्धो नक्षत्रसम्पदा। प्रतिश्रवणपूर्वाणि नक्षत्राणि चकार यः। गुरुशापहतस्यापि त्रिशङ्कोः शरणं ददौ॥ एतानि यस्य कर्माणि तस्याहं भृशमुद्विजे। यथासौ न दहेत् क्रुद्धस्तथाऽऽज्ञापय मां विभो॥ तेजसा निर्दहेल्लोकान् कम्पयेद् धरणी पदा। संक्षिपेच महामेरुं तूर्णमावर्तयेद् दिशः॥ तादृशं तपसा युक्तं प्रदीप्तमिव पावकम्। कथमस्मद्विधा नारी जितेन्द्रियमभिस्पृशेत्॥ हुताशनमुखं दीप्तं सूर्यचन्द्राक्षितारकम्। कालजिह्व सुरश्रेष्ठ कथमस्मद्विधा स्पृशेत्॥ यमश्च सोमश्च महर्षयश्च साध्या विश्वे वालखिल्याश्च सर्वे। एतेऽपि यस्योद्विजन्ते प्रभावात् तस्मात् कस्मान्मादृशी नोद्विजेत॥ मृषेर्न गच्छेयमहं सुरेन्द्र। रक्षां तु मे चिन्तय देवराज यथा त्वदर्थं रक्षिताहं चरेयम्॥ काम त मे मारुतस्तत्र वास: प्रक्रीडिताया विवृणोतु देवा भवेच मे मन्मथस्तत्र कार्ये सहायभूतस्तु तव प्रसादात्॥ वनाच्च वायुः सुरभिः प्रवायात् तस्मिन् काले तमृषि लोभयन्त्याः। स्ततोययौसाऽऽश्रमं कौशिकस्य॥ कण्व उवाच एवमुक्तस्तया शक्रः संदिदेश सदागतिम्। प्रातिष्ठत तदा काले मेनका वायुना सह॥ अथापश्यद् वरारोहा तपसा दग्धकिल्बिषम्। विश्वामित्रं तप्यमानं मेनका भीरुराश्रमे॥ अभिवाद्य ततः सा तं प्राक्रीडदृषिसंनिधौ। अपोवाह च वासोऽस्या मारुतः शशिसंनिभम्॥ सागच्छत् त्वरिता भूमि वासस्तदभिलिप्सती। स्मयमानेव सव्रीडं मारुतं वरवर्णिनी॥ पश्यतस्तस्य तत्ररप्यग्निसमतेजसः। विश्वामित्रस्ततस्तां तु विषमस्थामनिन्दिताम्॥ गृद्धां वाससि सम्भ्रान्तां मेनकां मुनिसत्तमः। अनिर्देश्यवयोरूपामपश्यद् विवृतां तदा॥ तस्या रूपगुणान् दृष्ट्वा स तु विप्रर्षभस्तदा। चकार भावं संसर्गात् तया कामवशं गतः॥ न्यमन्त्रयत चाप्येनां सा चाप्यैच्छदनिन्दिता। तौ तत्र सुचिरं कालमुभौ व्यहरतां तदा॥ रममाणौ यथाकामं यथैकदिवसं तथा। जनयामास स मुनिर्मेनकायां शकुन्तलाम्॥ प्रस्थे हिमवतो रम्ये मालिनीमभितो नदीम्। जातमुत्सृज्य तं गर्भ मेनका मालिनीमनु॥ कृतकार्या ततस्तूर्णमगच्छच्छक्रसंसदम्। तं वने विजने गर्भ सिंहव्याघ्रसमाकुले॥ दृष्ट्वा शयानं शकुनाः समन्तात् पर्यवारयन्। नेमां हिंस्युर्वने बालां क्रव्यादा मांसगृद्धिनः॥ पर्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम्। उपस्प्रष्टुं गतश्चाहमपश्यं शयितामिमाम्॥ निर्जने विपिने रम्ये शकुन्तैः परिवारिताम्। आनयित्वा ततश्चैनां दुहितृत्वे न्यवेशयम्॥ शरीरकृत् प्राणदाता यस्य चान्नानि भुञ्जते। क्रमेणैते त्रयोऽप्युक्ताः पितरो धर्मशासने॥ ॥ निर्जने तु वने यस्माच्छकुन्तैः परिवारिता। शकुन्तलेति नामास्याः कृतं चापि ततो मया॥ एवं दुहितरं विद्धि मम विप्र शकुन्तलाम्। शकुन्तला च पितरं मन्यते मामनिन्दिता॥ शकुन्तलोवाच एतदाचष्ट पृष्टः सन् मम जन्म महर्षये। सुतां कण्वस्य मामेवं विद्धि त्वं मनुजाधिप।॥ कण्वं हि पितरं मन्ये पितरं स्वमजानती। इति ते कथितं राजन् यथावृत्तं श्रुतं मया॥ दुष्यन्त उवाच सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसे। भार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते॥ सुवर्णमालां वासांसि कुण्डले परिहाटके। नानापत्तनजे शुभ्रे मणिरत्ने च शोभने॥ आहरामि तवाद्याहं निष्कादीन्यजिनानि च। सर्वं राज्यं तवाद्यास्तु भार्या मे भव शोभने॥ गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि। विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते॥ शकुन्तलोवाच फलाहारो गतो राजन् पिता मे इत आश्रमात्। मुहूर्तं सम्प्रतीक्षश्च स मां तुभ्यं प्रदास्यति॥ दुष्यन्त उवाच इच्छामि त्वां वरारोहे भजमानामनिन्दिते। त्वदर्थं मां स्थितं विद्धि त्वद्गतं हि मनो मम॥ आत्मनो बन्धुरात्मैव गतिरात्मैव चात्मनः। आत्मनो मित्रमात्मैव तथाऽऽत्मा चात्मनः पिता। आत्मनैवात्मनो दानं कर्तुमर्हसि धर्मतः॥ अष्टावेव समासेन विवाहा धर्मतः स्मृताः। ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः॥ गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः। तेषां धान् यथापूर्वं मनुः स्वायम्भुवोऽब्रवीत्॥ प्रशस्ताश्चतुरः पूर्वान् ब्राह्मणस्योपधारय। षडानुपूर्व्या क्षत्रस्य विद्धि धाननिन्दिते॥ राज्ञां तु राक्षसोऽप्युक्तो विट्शूद्रेष्वासुरः स्मृतः। पञ्चानां तु त्रयो धा अधौ द्वौ स्मृताविह॥ पैशाच आसुरश्चैव न कर्तव्यौ कदाचन। अनेन विधिना कार्यो धर्मस्यैषा गतिः स्मृता॥ गान्धर्वराक्षसौ क्षत्रे धौ तौ मा विशङ्किथाः। पृथग् वा यदि वा मिश्री कर्तव्यौ नात्र संशयः॥ सा त्वं मम सकामस्य सकामा वरवर्णिनि। गान्धर्वेण विवाहेन भार्या भवितुमर्हसि॥ शकुन्तलोवाच यदि धर्मपथस्त्वेष यदि चात्मा प्रभुर्मम। प्रदाने पौरवश्रेष्ठ शृणु मे समयं प्रभो॥ सत्यं मे प्रतिजानीहि यथा वक्ष्याम्यहं रहः। मयि जायेत यः पुत्रः स भवेत् त्वदनन्तरः॥ युवराजो महाराज सत्यमेतद् ब्रवीमि ते। यद्येतदेवं दुष्यन्त अस्तु मे सङ्गमस्त्वया॥ वैशम्पायन उवाच एवमस्त्विति तां राजा प्रत्युवाचाविचारयन्। अपि च त्वां हि नेष्यामि नगरं स्वं शुचिस्मिते॥ यथा त्वमर्हा सुश्रोणि सत्यमेतद् ब्रवीमि ते। एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम्॥ जग्राह विधिवत् पाणावुवास च तया सह। विश्वास्य चैनां स प्रायादब्रवीच पुनः पुनः॥ प्रेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम्। तया त्वां नाययिष्यामि निवासं स्वं शुचिस्मिते॥ वैशम्पायन उवाच इति तस्याः प्रतिश्रुत्य स नृपो जनमेजय। मनसा चिन्तयन् प्रायात् काश्यपं प्रति पार्थिवः॥ भगवांस्तपसा युक्तः श्रुत्वा किं किं न करिष्यति। एवं स चिन्तयन्नेव प्रविवेश स्वकं पुरम्॥ मुहूर्तयाते तस्मिंस्तु कण्वोऽप्याश्रममागमत्। शकुन्तला च पितरं ह्रिया नोपजगाम तम्॥ विज्ञायाथ च तां कण्वो दिव्यज्ञानो महातपाः। उवाच भगवान् प्रीतः पश्यन् दिव्येन चक्षुषा॥ पुंसा सह समायोगो न स धर्मोपघातकः॥ क्षत्रियस्य हि गान्धर्वो विवाहः श्रेष्ठ उच्यते। सकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः॥ धर्मात्मा च महात्मा च दुष्यन्तः पुरुषोत्तमः। अभ्यगच्छः पतिं यत् त्वं भजमानं शकुन्तले॥ महात्मा जनिता लोके पुत्रस्तव महाबलः। य इमां सागरापाङ्गीं कृत्स्नां भोक्ष्यति मेदिनीम्॥ परं चाभिप्रयातस्य चक्रं तस्य महात्मनः। भविष्यत्यप्रतिहतं सततं चक्रवर्तिनः :॥ ततः प्रक्षाल्य पादौ सा विश्रान्तं मुनिमब्रवीत्। विनिधाय ततो भारं संनिधाय फलानि च॥ शकुन्तलोवाच मया पतिवृतो राजा दुष्यन्तः पुरुषोत्तमः। तस्मै ससचिवाय त्वं प्रसादं कर्तुमर्हसि॥ कण्व उवाच प्रसन्न एव तस्याहं त्वत्कृते वरवर्णिनी। गृहाण च वरं मत्तस्त्वं शुभे यदभीप्सितम्॥ वैशम्पायन उवाच ततो धर्मिष्ठतां वने राज्याचास्खलनं तथा। शकुन्तला पौरवाणां दुष्यन्तहितकाम्यया॥ वैशम्पायन उवाच प्रजापतेस्तु दक्षस्य मनोवैवस्वतस्य च। भरतस्य कुरो पूरोराजमीढस्य चानघ॥ यादवानामिमं वंशं कौरवाणां च सर्वशः। तथैव भरतानां च पुण्यं स्वस्त्ययनं महत्॥ धन्यं यशस्यमायुष्यं कीर्तयिष्यामि तेऽनघ। तेजोभिरुदिताः सर्वे महर्षिसमतेजसः॥ दश प्राचेतसः पुत्राः सन्तः पुण्यजनाः स्मृताः। मुखजेनाग्निना यैस्ते पूर्वं दग्धा महीरूहाः॥ तेभ्यः प्राचेतसो जज्ञे दक्षो दक्षादिमाः प्रजाः। सम्भूताः पुरुषव्याघ्र स हि लोकपितामहः॥ वीरिण्या सह संगम्य दक्षः प्राचेतसो मुनिः। आत्मतुल्यानजनयत् सहस्रं संशितव्रतान्॥ सहस्रसंख्यान् सम्भूतान् दक्षपुत्रांश्च नारदः। मोक्षमध्यापयामास सांख्यज्ञानमनुत्तमम्॥ ततः पञ्चाशतं कन्या: पुत्रिका अभिसंदधे। प्रजापतिः प्रजा दक्षः सिसृक्षुर्जनमेजय॥ ददौ दश स धर्माय कश्यपाय त्रयोदश। कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे॥ त्रयोदशानां पत्नीनां या तु दाक्षायणी वरा। मारीचः कश्यपस्त्वस्यामादित्यान् समजीजनत्॥ इन्द्रादीन् वीर्यसम्पन्नान् विवस्वन्तमथापि च। विवस्वतः सुतो जज्ञे यमो वैवस्वतः प्रभुः॥ मार्तण्डस्य मनु/मानजायत सुतः प्रभुः। यमश्चापि सुतो जज्ञे ख्यातस्तस्यानुजः प्रभुः॥ धर्मात्मा स मनु/मान् यत्र वंशः प्रतिष्ठितः। मनोर्वंशो मानवानां ततोऽयं प्रथितोऽभवत्॥ ब्रह्मक्षत्रादयस्तस्मान्मनोर्जातास्तु मानवाः। ततोऽभवन्महाराज ब्रह्मक्षत्रेण संगतम्॥ ब्राह्मणा मानवास्तेषां साङ्गं वेदमधारयन्। वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुमेव च॥ कारूषमथ शर्याति तथा चैवाष्टमीमिलाम्। पृषधं नवमं प्राहुः क्षत्रधर्मपरायणम्॥ नाभागारिष्टदशमान् मनो: पञ्चाशत्तु मनोः पुत्रास्तथैवान्येऽभवन् क्षितौ॥ अन्योन्यभेदात् ते सर्वे विनेशुरिति नः श्रुतम्। पुरूरवास्ततो विद्वानिलायां समपद्यत॥ सा वै तस्याभवन्माता पिता चैवेति नः श्रुतम्। त्रयोदश समुद्रस्य द्वीपानश्नन् पुरूरवाः॥ अमानुषैर्वृतः सत्त्वैर्मानुषः सन् महायशाः। विप्रैः स विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः॥ जहार च स विप्राणां रत्नान्युत्क्रोशतामपि। सनत्कुमारस्तं राजन् ब्रह्मलोकादुपेत्य ह॥ अनुदर्श ततश्चक्रे प्रत्यगृह्णान्न चाप्यसौ। ततो महर्षिभिः क्रुद्धैः सद्यः शप्तो व्यनश्यत॥ लोभान्वितो बलमदानष्टसंज्ञो नराधिपः। स हि गन्धर्वलोकस्थानुर्वश्या सहितो विराट्॥ आनिनाय क्रियार्थेऽग्नीन् यथावद् विहितांस्त्रिधा। षट् सुता जज्ञिरे चैलादायु/मानमावसुः॥ दृढायुश्च वनायुश्च शतायुश्चोर्वशीसुताः। नहुषं वृद्धशर्माणं रजिं गयमनेनसम्॥ स्वर्भानवीसुतानेतानायोः पुत्रान् प्रचक्षते। आयुषो नहुषः पुत्रो धीमान् सत्यपराक्रमः॥ राज्यं शशास सुमहद् धर्मेण पृथिवीपते। पितॄन् देवानृषीन् विप्रान् गन्धर्वोरगराक्षसान्॥ नहुषः पालयामास ब्रह्मक्षत्रमथो विशः। स हत्वा दस्युसंघातानृषीन् करमदापयत्॥ पशुवच्चैव तान्पृष्ठे वाहयामास वीर्यवान्। कारयामास चेन्द्रत्वमभिभूय दिवौकसः॥ तेजसा तपसा चैव विक्रमेणौजसा तथा। यतिं ययाति संयातिमायातिमयति ध्रुवम्॥ नहुषो जनयामास षट्सुतान्प्रियवादिनः। यतिस्तु योगमास्थाय ब्रह्मभूतोऽभवन्मुनिः॥ ययाति हुष: सम्राडासीत् सत्यपराक्रमः। स पालयामास महीमीजे च बहुभिर्मखैः॥ अतिभक्त्या पितॄनर्चन् देवांश्च प्रयतः सदा। अन्वगृह्णात् प्रजाः सर्वा ययातिरपराजितः॥ तस्य पुत्रा महेष्वासाः सर्वैः समुदिता गुणैः। देवयान्यां महाराज शर्मिष्ठायां च जज्ञिरे॥ देवयान्यामजायेतां यदुस्तुर्वसुरेव च। द्रुह्युश्चानुश्च पूरुश्च शर्मिष्ठायां च जज्ञिरे॥ स शाश्वती: समा राजन् प्रजा धर्मेण पालयन्। जरामार्छन्महाघोरां नाहुषो रूपनाशिनीम्॥ जराभिभूतः पुत्रान् स राजा वचनमब्रवीत्। यदुं पूरुं तुर्वसुं च द्रुह्यं चानुं च भारत॥ यौवनेन चरन् कामान् युवा युवतिभिः सह। विहर्तुमहमिच्छामि साह्यं कुरुत पुत्रकाः॥ तं पुत्रो दैवयानेयः पूर्वजो वाक्यमब्रवीत्। किं कार्यं भवतः कार्यमस्माकं यौवनेन ते॥ ययातिरब्रवीत् तं वै जरा मे प्रतिगृह्यताम्। यौवनेन त्वदीयेन चरेयं विषयानहम्॥ यजतो दीर्घसत्रैर्मे शापाचोशनसो मुनेः। कामार्थः परिहीणोऽयं तप्येयं तेन पुत्रकाः॥ मामकेन शरीरेण राज्यमेकः प्रशास्तु वः। अहं तन्वाभिनवया युवा काममवाप्नुयाम्॥ ते न तस्य प्रत्यगृह्णन् यदुप्रभृतयो जराम्। तमब्रवीत् ततः पूरुः कनीयान् सत्यविक्रमः॥ राजश्चराभिनवया तन्वा यौवनगोचरः। अहं जरां समादाय राज्ये स्थास्यामि तेऽऽज्ञया॥ एवमुक्तः स राजर्षिस्तपोवीर्यसमाश्रयात्। संचारयामास जरां तदा पुत्रे महात्मनि॥ पौरवेणाथ वयसा राजा यौवनमास्थितः। यायातेनापि वयसा राज्यं पूरुरकारयत्॥ ततो वर्षसहस्राणि ययातिरपराजितः। स्थितः स नृपशार्दूल: शार्दूलसमविक्रमः॥ ययातिरपि पत्नीभ्यां दीर्घकालं विहृत्य च। विश्वाच्या सहितो रेमे पुनश्चैत्ररथे वने॥ नाध्यगच्छत् तदा तृप्ति कामानां स महायशाः। अवेत्य मनसा राजन्निमां गाथां तदा जगौ॥ न जातु कामः कामानामुपभोगेन शाम्यति। हविषा कृष्णवर्मेव भूय एवाभिवर्धते॥ पृथिवी रत्नसम्पूर्णा हिरण्यं पशवः स्त्रियः। नालमेकस्य तत् सर्वमिति मत्वा शमं व्रजेत्॥ यदा न कुरुते पापं सर्वभूतेषु कर्हिचित्। कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा॥ यदा चायं न बिभेति यदा चास्मान्न बिभ्यति। यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा॥ इत्यवेक्ष्य महाप्राज्ञः कामानां फल्गुतां नृप। समाधाय मनो बुद्ध्या प्रत्यगृह्णाजरां सुतात्॥ दत्त्वा च यौवनं राजा पूरूं राज्येऽभिषिच्य च। अतृप्त एव कामानां पूरुं पुत्रमुवाच ह॥ त्वया दायादवानस्मि त्वं मे वंशकरः सुतः। पौरवो वंश इति ते ख्याति लोके गमिष्यति॥ वैशम्पायन उवाच ततः स नृपशार्दूल पूरुं राज्येऽभिषिच्य च। ततः सुचरितं कृत्वा भृगुतुङ्गे महातपाः॥ कालेन महता पश्चात् कालधर्ममुपेयिवान्। कारयित्वा त्वनशनं सदारः स्वर्गमाप्तवान्॥ जनमेजय उवाच ययातिः पूर्वजोऽस्माकं दशमो यः प्रजापतेः। कथं स शुक्रतनयां लेभे परमदुर्लभाम्॥ एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन। आनुपूर्व्या च मे शंस राज्ञो वंशकरान् पृथक्॥ वैशम्पायन उवाच ययातिरासीनृपतिर्देवराजसमद्युतिः। तं शुक्रवृषपर्वाणौ वब्राते वै यथा पुरा॥ तत् तेऽहं सम्प्रवक्ष्यामि पृच्छते जनमेजय। देवयान्याश्च संयोगं ययाते हुषस्य च॥ सुराणामसुराणां च समजायत वै मिथः। ऐश्वर्य प्रति संघर्षस्त्रैलोक्ये सचराचरे॥ जिगीषया ततो देवा वव्रिरेऽऽङ्गिरसं मुनिम्। पौरोहित्येन याज्यार्थे काव्यं तूशनसं परे॥ ब्राह्मणौ तावुभौ नित्यममन्योन्यस्पर्धिनौ भृशम्। तत्र देवा निजघ्नुर्यान् दानवान् युधि संगतान्॥ तान् पुनर्जीवयामास काव्यो विद्याबलाश्रयात्। ततस्ते पुनरुत्थाय योधयांचक्रिरे सुरान्॥ असुरास्तु निजघ्नुर्यान् सुरान् समरमूर्धनि। न तान् संजीवयामास बृहस्पतिरुदारधीः॥ न हि वेद स तां विद्यां यां काव्यो वेत्ति वीर्यवान्। संजीविनी ततो देवा विषादमगमन् परम्॥ ते त देवा भयोद्विग्ना: काव्यादुशनसस्तदा। ऊचुः कथमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः॥ भजमानान् भजस्वास्मान् कुरु नः साह्यमुत्तमम्। था सा विद्या निवसति ब्राह्मणेऽमिततेजसि॥ रक्षते दानवांस्तत्र न स रक्षत्यदानवान्। तमाराधयितुं शक्तो भवान् पूर्ववयाः कविम्॥ देवयानी च दयितां सुतां तस्य महात्मनः। त्वमाराधयितुं शक्तो नान्यः कश्चन विद्यते॥ शीलदाक्षिण्यमाधुर्यैराचारेण दमेन च। देवयान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम्॥ तथेत्युक्त्वा ततः प्रायाद् बृहस्पतिसुत: कचः। तदाभिपूजिता देवैः समीपे वृषपर्वणः॥ स गत्वा त्वरितो राजन् देवैः सम्प्रेषित: कचः। असुरेन्द्रपुरे शुक्रं दृष्ट्वा वाक्यमुवाच ह॥ ऋषेरङ्गिरस: पौत्रं पुत्रं साक्षाद् बृहस्पतेः। नाम्ना कचमिति ख्यातं शिष्यं गृह्णातु मां भवान्॥ ब्रह्मचर्य चरिष्यामि त्वय्यहं परमं गुरौ। अनुमन्यस्व मां ब्रह्मन् सहस्रं परिवत्सरान्॥ शुक्र उवाच कच सुस्वागतं तेऽस्तु प्रतिगृह्णामि ते वचः। अर्चयिष्येऽहमय॑ त्वामर्चितोऽस्तु बृहस्पतिः॥ वैशम्पायन उवाच कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद् व्रतम्। आदिष्टं कविपुत्रेण शुक्रेणोशनसा स्वयम्॥ व्रतस्य प्राप्तकालं स यथोक्तं प्रत्यगृह्णत। आराधयन्नुपाध्यायं देवयानी च भारत॥ नित्यमाराधयिष्यंस्तौ युवा यौवनगोचरे। गायन् नृत्यन् वादयंश्च देवयानीमतोषयत्॥ स शीलयन् देवयानी कन्यां सम्प्राप्तयौवनाम्। पुष्पैः फलैः प्रेषणैश्च तोषयामास भारत॥ देवयान्यपि तं विप्रं नियमव्रतधारणम्। गायन्ती च ललन्ती च रहः पर्यचरत् तथा॥ पञ्चवर्षशतान्येवं कचस्य चरतो व्रतम्। तत्रातीयुरथो बुद्ध्वा दानवास्तं ततः कचम्॥ गा रक्षन्तं वने दृष्ट्वा रहस्येकममर्षिताः। जघ्नुर्वृहस्पतेद्वेषाद् विद्यारक्षार्थमेव च॥ हत्वा शालावृकेभ्यश्च प्रायच्छल्लवशः कृतम्। ततो गावो निवृत्तास्ता अगोपा: स्वं निवेशनम्॥ सा दृष्ट्वा रहिता गाश्च कचेनाभ्यागता वनात्। उवाच वचनं काले देवयान्यथ भारत॥ देवयान्युवाच आहुतं चाग्निहोत्रं ते सूर्यश्चास्तं गतः प्रभो। अगोपाचागता गावः कचस्तात न दृश्यते॥ व्यक्तं हतो मृतो वापि कचस्तात भविष्यति। तं विना न च जीवेयमिति सत्यं ब्रवीमि ते॥ शुक्र उवाच अयमेहीति संशब्द्य मृतं संजीवयाम्यहम्। ततः संजीविनी विद्यां प्रयुज्य कचमाह्वयत्॥ भित्त्वा भित्त्वा शरीराणि वृकाणां स विनिर्गत:। आहूतः प्रादुरभवत् कचो हृष्टोऽथ विद्यया॥ कस्माचिरायितोऽसीति पृष्टस्तामाह भार्गवीम्। समिधश्च कुशादीनि काष्ठभारं च भामिनि॥ गृहीत्वा श्रमभारातॊ वटवृक्षं समाश्रितः। गावश्च सहिताः सर्वा वृक्षच्छायामुपाश्रिताः॥ असुरास्तत्र मां दृष्ट्वा कस्त्वमित्यभ्यचोदयन्। बृहस्पतिसुतश्चाहं कच इत्यभिविश्रुतः॥ इत्युक्तमात्रे मां हत्वा पेषीकृत्वा तु दानवाः। दत्त्वा शालावृकेभ्यस्तु सुखं जग्मुः स्वमालयम्॥ आहूतो विद्यया भद्रे भार्गवेण महात्मना। त्वत्समीपमिहायातः कथंचित् समजीवितः॥ हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मणकन्यया। स पुनर्देवयान्योक्तः पुष्पाहारो यदृच्छया॥ वनं ययौ कचो विप्रो ददृशुर्दानवाश्च तम्। पुनस्तं पेषयित्वा तु समुद्राम्भस्यमिश्रयन्॥ चिरं गतं पुन: कन्या पित्रे तं संन्यवेदयत्। विप्रेण पुनराहूतो विद्यया गुरुदेहजः। पुनरावृत्य तद् वृत्तं न्यवेदयत तद् यथा॥ ततस्तृतीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः। प्रायच्छन् ब्राह्मणायैव सुरायामसुरास्तदा।॥ देवयान्यथ भूयोऽपि पितरं वाक्यमब्रवीत्। पुष्पाहारः प्रेषणकृत् कचस्तात न दृश्यते॥ व्यक्तं हतो मृतो वापि कचस्तात भविष्यति। तं विना न च जीवेयं कचं सत्यं ब्रवीमि ते॥ शुक्र उवाच बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः। विद्यया जीवितोऽप्येवं हन्यते करवाणि किम्॥ मैवं शुचो मा रुद देवयानि न त्वादृशी मर्त्यमनुप्रशोचते। यस्यास्तव ब्रह्म च ब्राह्मणाश्च सेन्द्रा देवा वसवोऽथाश्विनौ च॥ मुपस्थाने संनमन्ति प्रभावात्। अशक्योऽसौ जीवयितुं द्विजातिः संजीवितो बध्यते चैव भूयः॥ देवयान्युवाच यस्याङ्गिरा वृद्धतमः पितामहो बृहस्पतिश्चापि पिता तपोनिधिः। ऋषेः पुत्रं तमथो वापि पौत्रं कथं न शोचेयमहं न रुद्याम्॥ स ब्रह्मचारी च तपोधनश्च सदोत्थितः कर्मसु चैव दक्षः। कचस्य मार्ग प्रतिपत्स्ये न भोक्ष्ये प्रियो हि मे तात कचोऽभिरूपः॥ वैशम्पायन उवाच स पीडितो देवयान्या महर्षिः समाह्वयत् संरम्भाचैव काव्यः। असंशयं मामसुरा द्विषन्ति ये मे शिष्यानागतान् सूदयन्ति॥ स्ते मां यथा व्यभिचरन्ति नित्यम्। अप्यस्य पापस्य भवेदिहान्तः कं ब्रह्महत्या न दहेदपीन्द्रम्॥ गुरोहि भीतो विद्यया चोपहूतः शनैर्वाक्यं जठरे व्याजहार। वैशम्पायन उवाच स्त्वं चोदरे तिष्ठसि ब्रूहि विप्र॥ कच उवाच तव प्रसादान्न जहाति मां स्मृतिः स्मरामि सर्वं यच्च यथा च वृत्तम्। न त्वेवं स्यात् तपसः संक्षयो मे ततः केशं घोरमिमं सहामि॥ असुरैः सुरायां भवतोऽस्मि दत्तो हत्वा दग्ध्वा चूर्णयित्वा च काव्य। ब्राह्मीं मायां चासुरीं विप्र मायां त्वयि स्थिते कथमेवातिवर्तेत्॥ शुक्र उवाच किं ते प्रियं करवाण्यद्य वत्से वधेन मे जीवितं स्यात् कचस्य। नान्यत्र कुर्मम भेदनेन दृश्येत् कचो मद्गतो देवयानि॥ देवयान्युवाच द्वौ मां शोकावग्निकल्पौ दहेतां कचस्य नाशस्तव चैवोपघातः। कचस्य नाशे मम नास्ति शर्म तवोपघाते जीवितुं नास्मि शक्ता॥ शुक्र उवाच संसिद्धरूपोऽसि बृहस्पतेः सुत यत् त्वां भक्तं भजते देवयानी। विद्यामिमां प्राप्नुहि जीविनीं त्वं न चेदिन्द्रः कचरूपी त्वमद्य॥ न निवर्तेत् पुनर्जीवन् कश्चिदन्यो ममोदरात्। ब्राह्मणं वर्जयित्वैकं तस्माद् विद्यामवाप्नुहि॥ मस्मद्देहादुपनिष्क्रम्य तात। समीक्षेथा धर्मवतीमवेक्षा गुरोः सकाशात् प्राण्य विद्यां सविद्यः॥ वैशम्पायन उवाच गुरोः सकाशात् समवाप्य विद्यां भित्त्वा कुक्षि निर्विचक्राम विप्रः। कचोऽभिरूपस्तत्क्षणाद् ब्राह्मणस्य शुकात्यये पौर्णमास्यामिवेन्दुः॥ मुत्थापयामास मृतं कचोऽपि। विद्यां सिद्धां तामवाप्याभिवाद्य ततः कचस्तं गुरुमित्युवाच॥ यः श्रोत्रयोरमृतं संनिषिञ्चेद् विद्यामविद्यस्य यथा ममायम्। तं मन्येऽहं पितरं मातरं च तस्मै न दुह्येत् कृतमस्य जानन्॥ ऋतस्य दातारमनुत्तमस्य निधिं निधीनामपिलब्धविद्याः। ये नाद्रियन्ते गुरुमर्चनीयं पापाँल्लोकांस्ते व्रजन्त्यप्रतिष्ठाः॥ वैशम्पायन उवाच सुरापानाद् वञ्चनां प्राप्य विद्वान् संज्ञानाशं चैव महातिघोरम्। दृष्ट्वा कचं चापि तथाभिरूपं पीतं तदा सुरया मोहितेन॥ स्तदोशना विप्रहितं चिकीर्षुः। सुरापानं प्रति संजातमन्युः काव्यः स्वयं वाक्यमिदं जगाद।॥ न्मोहात् सुरां पास्यति मन्दबुद्धिः। दस्मिल्लोके गर्हितः स्यात् परे च॥ मया चैतां विप्रधर्मोक्तिसीमां मर्यादां वै स्थापितां सर्वलोके। सन्तो विप्राः शुश्रुवांसो गुरूणां देवा लोकाश्चोपशृण्वन्तु सर्वे॥६८। स्तपोनिधीनां निधिरप्रमेयः। निदं समाहूय वचोऽभ्युवाच॥ आचक्षे वो दानवा बालिशाः स्थ सिद्धः कचो वत्स्यति मत्सकाशे। संजीविनीं प्राप्य विद्यां महात्मा तुल्यप्रभावो ब्राह्मणो ब्रह्मभूतः॥ एतावदुक्त्वा वचनं विरराम स भार्गवः। दानवा विस्मयाविष्टाः प्रययुः स्वं निवेशनम्॥ गुरोरुष्य सकाशे तु दशवर्षशतानि सः। अनुज्ञात: कचो गन्तुमियेष त्रिदशालयम्॥ वैशम्पायन उवाच समावृतव्रतं तं तु विसृष्टं गुरुणा तदा। प्रस्थितं त्रिदशावासं देवयान्यब्रवीदिदम्॥ ऋषेरङ्गिरसः पुत्र वृत्तेनाभिजनेन च। भ्राजसे विद्यया चैव तपसा च दमेन च।॥ ऋषिर्यथाङ्गिरा मान्यः पितुर्मम महायशाः। तथा मान्यश्च पूज्यश्च मम भूयो बृहस्पतिः॥ एवं ज्ञात्वा विजानीहि यद् ब्रवीमि तपोधन। व्रतस्थे नियमोपेत यथा वर्ताम्यहं त्वयि॥ स समावृतविद्यो मां भक्तां भजितुमर्हसि। गृहाण पाणिं विधिवन्मम मन्त्रपुरस्कृतम्॥ कच उवाच पूज्यो मान्यश्च भगवान् यथा तव पिता मम। तथा त्वमनवद्याङ्गि पूजनीयतरा मम॥ प्राणेभ्योऽपि प्रियतरा भार्गवस्य महात्मनः। त्वं भद्रे धर्मतः पूज्या गुरुपुत्री सदा मम॥७)] यथा मम गुरुर्नित्यं मान्य: शुक्रः पिता तव। देवयानि तथैव त्वं नैवं मां वक्तुमर्हसि॥ देवयान्युवाच गुरुपुत्रस्य पुत्रो वै न त्वं पुत्रश्च मे पितुः। तस्मात् पूज्यश्च मान्यश्च ममापि त्वं द्विजोत्तम॥ असुरैर्हन्यमाने च कच त्वयि पुनः पुनः। तदा प्रभृति या प्रीतिस्तां त्वमद्य स्मरस्व मे॥ सौहार्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम्। न मामर्हसि धर्मज्ञ त्यक्तुं भक्तामनागसम्॥ कच उवाच अनियोज्ये नियोगे मां नियुनसि शुभव्रते। प्रसीद सुभु त्वं मह्यं गुरोर्गुरुतरा शुभे॥ यत्रोषितं विशालाक्षि त्वया चन्द्र निभानने। तत्राहमुषितो भद्रे कुक्षौ काव्यस्य भामिनि॥ भगिनी धर्मतो मे त्वं मैवं वोचः सुमध्यमे। सुखमसम्युषितो भद्रे न मन्युर्विद्यते मम॥ आपृच्छे त्वां गमिष्यामि शिवमाशंस मे पथि। अविरोधेन धर्मस्य स्मर्तव्योऽस्मि कथान्तरे। अप्रमत्तोत्थिता नित्यमाराधय गुरुं मम॥ देवयान्युवाच यदि मां धर्मकामार्थे प्रत्याख्यास्यसि याचितः। ततः कच न ते विद्या सिद्धिमेषा गमिष्यति॥ कच उवाच गुरुपुत्रीति कृत्वाहं प्रत्याचक्षे न दोषतः। गुरुणा चाननुज्ञातः काममेवं शपस्व माम्॥ आर्ष धर्मं ब्रुवाणोऽहं देवयानि यथा त्वया। शप्तो ना.ऽस्मि शापस्य कामतोऽद्य न धर्मतः॥ तस्माद् भवत्या यः कामो न तथा स भविष्यति। ऋषिपुत्रो न ते कश्चिजातु पाणिं ग्रहीष्यति॥ फलिष्यति न ते विद्या यत् त्वं मामात्थ तत् तथा। अध्यापयिष्यामि त यं तस्य विद्या फलिष्यति॥ वैशम्पायन उवाच एवमुक्त्वा द्विजश्रेष्ठो देवयानी कचस्तदा। त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः॥ तमागतमभिप्रेक्ष्य देवा इन्द्रपुरोगमाः। बृहस्पति सभाज्येदं कचं वचनमब्रुवन्॥ देवा ऊचुः यत् त्वयास्मद्धितं कर्म कृतं वै परमाद्भुतम्। न ते यशः प्रणशिता भागभाक् च भविष्यसि॥ वैशम्पायन उवाच कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः। कचादधीत्य तां विद्यां कृतार्था भरतर्षभ।॥ सर्व एव समागम्य शतक्रुतमथाब्रुवन्। कालस्ते विक्रमस्याद्य जहि शत्रून् पुरन्दर॥ एवमुक्तस्तु सहितैस्त्रिदशैर्मघवांस्तदा। तथेत्युक्त्वा प्रचक्राम सोऽपश्यत वने स्त्रियः॥ क्रीडन्तीनां त कन्यानां वने चैत्ररथोपमे। वायुभूत: स वस्त्राणि सर्वाण्येव व्यमिश्रयत्॥ ततो जलात् समुत्तीर्य कन्यास्ताः सहितास्तदा। वस्त्राणि जगृहुस्तानि यथासन्नान्यनेकशः॥ तत्र वासो देवयान्याः शर्मिष्ठा जगृहे तदा। व्यतिमिश्रमजानन्ती दुहिता वृषपर्वणः॥ ततस्तयोमिथस्तत्र विरोधः समजायत। देवयान्याश्च राजेन्द्र शर्मिष्ठायाश्च तत्कृते॥ देवयान्युवाच कस्माद् गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि। समुदाचारहीनाया न ते साधु भविष्यति॥ शर्मिष्ठोवाच आसीनं च शयानं च पिता ते पितरं मम। स्तौति वन्दीव चाभीक्ष्णं नीचैः स्थित्वा विनीतवत्॥ याचतस्त्वं हि दुहिता स्तुवतः प्रतिगृह्णतः। सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः॥ आदुन्वस्व विदुन्वस्व दुह्य कुष्यस्व याचकि। अनायुधा सायुधाया रिक्ता क्षुभ्यसि भिक्षुकि। लप्स्यसे प्रतियोद्धारं न हि त्वां गणयाम्यहम्॥ वैशम्पायन उवाच समुच्छ्रयं देवयानीं गतां सक्तां च वाससि॥ शर्मिष्ठा प्राक्षिपत् कूपे ततः स्वपुरमागमत्। हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्चया॥ अनवेक्ष्य ययौ वेश्म क्रोधवेगपरायणा। अथ तं देशमभ्यागाद् ययातिर्नहुषात्मजः॥ श्रान्तयुग्यः श्रान्तहयो मृगलिप्सुः पिपासितः। स नाहुषः प्रेक्षमाण उदपानं गतोदकम्॥ ददर्श राजा तां तत्र कन्यामग्निशिखामिव। तामपृच्छत् स दृष्ट्वैव कन्याममरवर्णिनीम्॥ सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना। का त्वं ताम्रनखी श्यामा सुमृष्टमणिकुण्डला॥ दीर्घ ध्यायसि चात्यर्थं कस्माच्छोचसि चातुरा। कथं च पतितास्यस्मिन् कूपे वीरुत्तृणावृते॥ दुहिता चैव कस्य त्वं वद सत्यं सुमध्यमे। देवयान्युवाच योऽसौ देवैर्हतान् दैत्यानुत्थापयति विद्यया॥ तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते। एष मे दक्षिणो राजन् पाणिस्ताननखाङ्गुलिः॥ समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः। जानामि त्वां हि संशान्तं वीर्यवन्तं यशस्विनम्॥ तस्मान्मां पतितामस्मात् कूपादुद्धर्तुमर्हसि। वैशम्पायन उवाच तामथो ब्राह्मणी राजा विज्ञाय नहुषात्मजः॥ गृहीत्वा दक्षिणे पाणावुजहार ततोऽवटात्। उद्धृत्य चैनां तरसा तस्मात् कूपान्नराधिपः॥ आमन्त्रयित्वा सुश्रोणी ययाति स्वपुरं ययौ। गते तु नाहुषे तस्मिन् देवयान्यप्यनिन्दिता॥ उवाच शोकसंतप्ता घूर्णिकामागतां पुरः। देवयान्युवाच त्वरितं घूर्णिके गच्छ शीघ्रमाचक्ष्व मे पितुः॥ नेदानीं सम्प्रवेक्ष्यामि नगरं वृषपर्वणः। वैशम्पायन उवाच सा तत्र त्वरितं गत्वा घूर्णिकासुरमन्दिरम्॥ दृष्ट्वा काव्यमुवाचेदं सम्भ्रमाविष्टचेतना। आचचक्षे महाप्राज्ञं देवयानी वने हताम्॥ शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः। श्रुत्वा दुहितरं काव्यस्तत्र शर्मिष्ठया हताम्॥ त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने। दृष्ट्वा दुहितरं काव्यो देवयानीं ततो वने॥ बाहुभ्यां सम्परिष्वज्य दुःखितो वाक्यमब्रवीत्। आत्मदोषैर्नियच्छन्ति सर्वे दुःखसुखे जनाः॥ मन्ये दुश्चरितं तेऽस्ति यस्येयं निष्कृतिः कृता। देवयान्युवाच निष्कृतिर्मेऽस्तु वा मास्तु शृणुष्वावहितो मम॥ शर्मिष्ठया यदुक्तास्मि दुहिता वृषपर्वणः। सत्यं किलैतत् सा प्राह दैत्यानामसि गायनः॥ एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी। वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम्॥ स्तुवतो दुहिता नित्यं याचत: प्रतिगृह्णतः। अहं तु स्तूयमानस्य ददतोऽप्रतिगृह्णतः॥ इदं मामाह शर्मिष्ठा दुहिता वृषपर्वणः। क्रोधसंरक्तनयना दर्पपूर्णा पुनः पुनः॥ यद्यहं स्तुवतस्तात दुहिता प्रतिगृह्णतः। प्रसादयिष्ये शर्मिष्ठामित्युक्ता तु सखी मया॥ शुक्र उवाच स्तुवतो दुहिता न त्वं याचतः प्रतिगृह्णतः। अस्तोतुः स्तूयमानस्य दुहिता देवयान्यसि॥ वृषपर्वैव तद् वेद शक्रो राजा च नाहुषः। अचिन्त्यं ब्रह्म निर्द्वन्द्वमैश्वरं हि बलं मम॥ यच किंचित् सर्वगतं भूमौ वा यदि वा दिवि। तस्याहमीश्वरो नित्यं तुष्टेनोक्तः स्वयम्भुवा॥ अहं जलं विमुञ्चामि प्रजानां हितकाम्यया। पुष्णाम्योषधयः सर्वा इति सत्यं ब्रवीमि ते॥ वैशम्पायन उवाच एवं विषादमापन्नां मन्युना सम्प्रपीडिताम्। वचनैर्मधुरैः श्लक्ष्णैः सान्त्वयामास तां पिता॥ वैशम्पायन उवाच अथ दीर्घस्य कालस्य देवयानी नृपोत्तम। वनं तदेव निर्याता क्रीडाथ वरवर्णिनी।॥ तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदा। तमेव देशं सम्प्राप्ता यथाकामं चचार सा॥ ताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशम्। क्रीडन्त्योऽभिरताः सर्वाः पिबन्त्यो मधुमाधवीम्॥ खादन्त्यो विविधान् भक्ष्यान् विदशन्त्यः फलानि च। पुनश्च नाहुषो राजा मृगलिप्सुर्यदृच्छया॥ तमेव देशं सम्प्राप्तो जलार्थी श्रमकर्शितः। ददृशे देवयानी स शर्मिष्ठां ताश्च योषितः॥ पिबन्तीर्ललमानाश्च दिव्याभरणभूषिताः। उपविष्टां च ददृशे देवयानी शुचिस्मिताम्॥ रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनाम्। शर्मिष्ठया सेव्यमानां पादसंवाहनादिभिः॥ ययातिरुवाच द्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारिते। गोत्रे च नामनी चैव द्वयोः पृच्छाम्यहं शुभे॥ देवयान्युवाच आख्यास्याम्यहमादत्स्व वचनं मे नराधिप। शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम्॥ इयं च मे सखी दासी यत्राहं तत्र गामिनी। दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः॥ ययातिरुवाच कथं तु ते सखी दासी कन्येयं वरवर्णिनी। असुरेन्द्रसुता सुभ्रूः परं कौतूहलं हि मे॥ देवयान्युवाच सर्व एव नरश्रेष्ठ विधानमनुवर्तते। विधानविहितं मत्वा मा विचित्राः कथा: कृथाः॥ राजवद् रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च। को नाम त्वं कुतश्चासि कस्य पुत्रश्च शंस प्रे॥ ययातिरुवाच ब्रह्मचर्येण वेदो मे कृत्स्नः श्रुतिपथं गतः। राजाहं राजपुत्रश्च ययातिरिति विश्रुतः॥ देवयान्युवाच केनास्यर्थेन नृपते इमं देशमुपागतः। जिघृक्षुर्वारिज किंचिदथवा मृगलिप्सया॥ ययातिरुवाच मृगलिप्सुरहं भद्रे पानीयार्थमुपागतः। बहुधाप्यनुयुक्तोऽस्मि तदनुज्ञातुमर्हसि।॥ देवयान्युवाच द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह। त्वदधीनास्मि भद्रं ते सखा भर्ता च मे भव॥ ययातिरुवाच विद्ध्यौशनसि भद्रं ते न त्वामोऽस्मि भाविनि। अविवाह्या हि राजानो देवयानि पितुस्तव॥ देवयान्युवाच संसृष्टं ब्रह्मणा क्षत्रं क्षत्रेण ब्रह्म संहितम्। ऋषिश्चाप्यधिपुत्रश्च नाहुषाङ्ग वहस्व माम्॥ ययातिरुवाच एकदेहोद्भवा वर्णाश्चत्वारोऽपि वराङ्गने। पृथग्धर्माः पृथक्छौचास्तेषां तु ब्राह्मणो वरः॥ देवयान्युवाच पाणिधर्मो नाहुषायं न पुम्भिः सेवितः पुरा। तं मे त्वमग्रहीर वृणोमि त्वामहं ततः॥ कथं नु मे मनस्विन्याः पाणिमन्यः पुमान् स्पृशेत्। गृहीतमृषिपुत्रेण स्वयं वाप्य॒षिणा त्वया॥ ययातिरुवाच क्रुद्धादाशीविषात् सर्पाज्ज्वलनात् सर्वतोमुखात्। दुराधर्षतरो विप्रो ज्ञेयः पुंसा विजानता॥ देवयान्युवाच कथमाशीविषात् सर्पाज्ज्वलनात् सर्वतोमुखात्। दुराधर्षतरो विप्र इत्यात्य पुरुषर्षभ॥ ययातिरुवाच एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते। हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः॥ दुराधर्षतरो विप्रस्तस्माद् भीरु मतो मम। अतोऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम्॥ देवयान्युवाच दत्तां वहस्व तन्मा त्वं पित्रा राजन् वृतो मया। अयाचतो भयं नास्ति दत्तां च प्रतिगृह्णतः॥ वैशम्पायन उवाच त्वरितं देवयान्याथ संदिष्टं पितुरात्मनः। सर्वं निवेदयामास धात्री तस्मै यथातथम्॥ श्रुत्वैव च सा राजानं दर्शयामास भार्गवः। दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः। ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः॥ देवयान्युवाच राजायं नाहुषस्तात दुर्गमे पाणिमग्रहीत्। नमस्ते देहि मामस्मै लोके नान्यं पतिं वृणे॥ शुक्र उवाच वृतोऽनया पतिर्वीर सुतया त्वं ममेष्टया। गृहाणेमां मया दत्तां महिषीं नहुषात्मज॥ ययातिरुवाच अधर्मो न स्पृशेदेष महान् मामिह भार्गव। वर्णसंकरजो ब्रह्मन्निति त्वां प्रवृणोम्यहम्॥ शुक्र उवाच अधर्मात् त्वां विमुञ्चामि वृणु त्वं वरमीप्सितम्। अस्मिन् विवाहे मा म्लासीरहं पापं नुदामि ते॥ वहस्व भार्यां धर्मेण देवयानीं सुमध्यमाम्। अनया सह सम्प्रीतिमतुलां समवाप्नुहि॥ इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी। सम्पूज्या सततं राजन् मा चैनां शयने ह्वयेः॥ वैशम्पायन उवाच एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम्। शास्त्रोक्तविधिना राजा विवाहमकरोच्छुभम्॥ सम्पूजितश्च शुक्रेण दैत्यैश्च नृपसत्तमः। जगाम स्वपुरं हृष्टोऽनुज्ञातोऽथ महात्मना॥ वैशम्पायन उवाच श्रुत्वा कुमारं जातं तु देवयानी शुचिस्मिता। चिन्तयामास दुःखार्ता शर्मिष्ठां प्रति भारत॥ अभिगम्य च शर्मिष्ठा देवयान्यब्रवीदिदम्। देवयान्युवाच किमिदं वृजिनं सुभ्र कृतं वै कामलुब्धया।॥ शर्मिष्ठोवाच ऋषिरभ्यागतः कश्चिद् धर्मात्मा वेदपारगः। स मया वरदः कामं याचितो धर्मसंहितम्॥ नाहमन्यायत: काममाचरामि शुचिस्मिते। तस्मादृषेर्ममापत्यमिति सत्यं ब्रवीमि ते॥ देवयान्युवाच शोभनं भीरु यद्येवमथ स ज्ञायते द्विजः। गोत्रनामाभिजनतो वेत्तुमिच्छामि तं द्विजम्॥ शर्मिष्ठोवाच तपसा तेजसा चैव दीप्यमानं यथा रविम्। तं दृष्ट्वा मम सम्प्रष्टुं शक्तिर्नासीच्छुचिस्पिते॥ देवयान्युवाच यद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते मम। अपत्यं यदि ते लब्धं ज्येष्ठाच्छ्रेष्ठाच वै द्विजात्॥ वैशम्पायन उवाच अन्योन्यमेवमुक्त्वा तु सम्प्रहस्य च ते मिथः। जगाम भार्गवी वेश्म तथ्यमित्यवजग्मुषी॥ ययातिर्देवयान्यां तु पुत्रावजनयनृपः। यदुं च तुर्वसुं चैव शक्रविष्णू इवापरौ॥ तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी। दुह्यं चानुं च पूरुं च त्रीन् कुमारानजीजनत्॥ ततः काले तु कस्मिंश्चिद् देवयानी शुचिस्मिता। ययातिसहिता राजञ्जगाम रहितं वनम्॥ ददर्श च तदा तत्र कुमारान् देवरूपिणः। कुमारान् पर्यपृच्छता क्रीडमानान् सुविश्रब्धान् विस्मिता चेदमब्रवीत्॥ देवयान्युवाच कस्यैते दारका राजन् देवपुत्रोपमाः शुभाः। वर्चसा रूपतश्चैव सदृशा मे मतास्तव॥ वैशम्पायन उवाच एवं पृष्ट्वा तु राजानं देवयान्युवाच किं नामधेयं वंशो व: पुत्रकाः कश्च वः पिता। प्रब्रूत मे यथातथ्यं श्रोतुमिच्छामि तं ह्यहम्॥ तेऽदर्शयन् प्रदेशिन्या तमेव नृपसत्तमम्। शर्मिष्ठा मातरं चैव तथाऽऽचख्युश्च दारकाः॥ वैशम्पायन उवाच इत्युक्त्वा सहितास्ते तु राजानमुपचक्रमुः। नाभ्यनन्दत तान् राजा देवयान्यास्तदान्तिके॥ रुदन्तस्तेऽथ शर्मिष्ठामभ्ययुर्बालकास्ततः। श्रुत्वा तु तेषां बालानां सव्रीड इव पार्थिवः॥ दृष्ट्वा तु तेषां बालानां प्रणयं पार्थिवं प्रति। बुद्ध्वा च तत्त्वं सा देवी शर्मिष्ठामिदमब्रवीत्॥ देवयान्युवाच मदधीना सती कस्मादकार्षीविप्रियं मम। तमेवासुरधर्मं त्वमास्थिता न बिभेषि मे॥ शर्मिष्ठोवाच यदुक्तमृषिरित्येव तत् सत्यं चारुहासिनि। न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते॥ यदा त्वया वृतो भर्ता वृत एव तदा मया। सखीभर्ता हि धर्मेण भर्ता भवति शोभने॥ पूज्यासि मम मान्या च ज्येष्ठा च ब्राह्मणी ह्यसि। त्वत्तोऽपि मे पूज्यतमो राजर्षिः किं न वेत्थ तत्॥ वैशम्पायन उवाच श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीदिदम्। राजन् नाघेह वत्स्यामि विप्रियं मे कृतं त्वया।॥ सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम्। तूर्णं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा॥ अनुवव्राज सम्भ्रान्तः पृष्ठतः सान्त्वयन् नृपः। न्यवर्तत न चैव स्म क्रोधसंरक्तलोचना॥ आविब्रुवन्ती किंचित् सा राजानं साश्रुलोचना। अचिरादेव सम्प्राप्ता काव्यस्योशनसोऽन्तिकम्॥ सा तु दृष्ट्वैव पितरमभिवाद्याग्रतः स्थिता। अनन्तरं ययातिस्तु पूजयामास भार्गवम्॥ देवयान्युवाच अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम्। शर्मिष्ठयातिवृत्तास्मि दुहित्रा वृषपर्वणः॥ त्रयोस्यां जनिताः पुत्रा राज्ञानेन ययातिना। दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते॥ धर्मज्ञ इति विख्यात एष राजा भृगूद्वह। अतिक्रान्तश्च मर्यादां काव्यैतत् कथयामि ते॥ शुक्र उवाच धर्मज्ञः सन् महाराज योऽधर्ममकृथाः प्रियम्। तस्माजरा त्वामचिराद् धर्षयिष्यति दुर्जया।। ३१! ययातिरुवाच ऋतुं वै याचमानाया भगवन् नान्यचेतसा। दुहितुर्दानवेन्द्रस्य धर्म्यमेतत् कृतं मया॥ ऋतुं वै याचमानाया न ददाति पुमानृतुम्। भ्रूणहेत्युच्यते ब्रह्मन् स इह ब्रह्मवादिभिः॥ अभिकामां स्त्रियं यश्च गम्यां रहसि याचितः। नोपैति स च धर्मेषु भ्रूणहेत्युच्यते बुधैः॥ इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह। अधर्मभयसंविग्नः शर्मिष्ठामुपजग्मिवान्॥ शुक्र उवाच नन्वहं प्रत्यवेक्ष्यस्ते मदधीनोऽसि पार्थिवा मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष॥ वैशम्पायन उवाच क्रुद्धेनोशनसा शप्तो ययाति हुषस्तदा। पूर्व वयः परित्यज्य जरां सद्योऽन्वपद्यत॥ ययातिरुवाच अतृप्तो यौवनस्याहं देवयान्यां भृगूद्वह। प्रसादं कुरु मे ब्रह्मञ्जरेयं न विशेच माम्॥ शुक्र उवाच नाहं मृषा द्रवीभ्येतज्जरां प्राप्तोऽसि भूमिप। जरां त्वेतां त्वमन्यस्मिन् संक्रामय यदीच्छसि॥ ययातिरुवाच राज्यभाक् स भवेद् ब्रह्मन् पुण्यभाक् कीर्तिभाक् तथा। यो मे दद्याद् वयः पुत्रस्तद् भवाननुमन्यताम्॥ शुक्र उवाच संक्रामयिष्यसि जरां यथेष्टं नहुषात्मज। मामनुध्याय भावेन न च पापमवाप्स्यसि॥ वयो दास्यति ते पुत्रो यः स राजा भविष्यति। आयुष्मान् कीर्तिमांश्चैव बह्वपत्यस्तथैव च॥ वैशम्पायन उवाच जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव हि। पुत्रं ज्येष्ठं वरिष्ठं च यदुमित्यब्रवीद् वचः॥ ययातिरुवाच जरा वली च मां तात पलितानि च पर्यगुः। काव्यस्योशनसः शापान च तृप्तोऽस्मि यौवने॥ त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह। यौवनेन त्वदीयेन चरेयं विषयानहम्॥ पूर्णे वर्षसहस्रे तु पुनस्ते यौवनं त्वहम्। दत्त्वा स्वं प्रतिपत्स्यामि पाप्मानं जरया सह।॥ यदुरुवाच जरायां बहवो दोषाः पानभोजनकारिताः। तस्माजरां न ते राजन् ग्रहीष्य इति मे मतिः॥ सितश्मश्रुनिरानन्दो जरया शिथिलीकृतः। बलीसंगतगात्रस्तु दुर्दर्शो दुर्बलः कृशः॥ अशक्तः कार्यकरणे परिभूत: स यौवतैः। सहोपजीविभिश्चैव तां जरां नाभिकामये॥ सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप। जरां ग्रहीतुं धर्मज्ञ तस्मादन्यं वृणीष्व वै॥ ययातिरुवाच यत् त्वं मे हृदयाजातो वयः स्वं न प्रयच्छसि। तस्मादराज्यभाक् तात प्रजा तव भविष्यति॥ तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह। यौवनेन चरेयं वै विषयांस्तव पुत्रक॥ पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम्। स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह॥ तुर्वसुरुवाच न कामये जरां तात कामभोगप्रणाशिनीम्। बलरूपान्तकरणां बुद्धिप्राणप्रणाशिनीम्॥ ययातिरुवाच यत् त्वं मे हृदयाजातो वयः स्वं न प्रयच्छसि। तस्मात् प्रजा समुच्छेदं तुर्वसो तव यास्यसि॥ संकीर्णचारधर्मेषु प्रतिलोमचरेषु च। पिशिताशिषु चान्त्येषु मूढ राजा भविष्यसि॥ गुरुदारप्रसक्तेषु तिर्यग्योनिगतेषु च। पशुधर्मेषु पापेषु म्लेच्छेषु त्वं भविष्यसि॥ वैशम्पायन उवाच एवं स तुर्वसुं शप्त्वा ययातिः सुतमात्मनः। शर्मिष्ठायाः सुतं दुह्युमिदं वचनमब्रवीत्॥ ययातिरुवाच दुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम्। जरां वर्षसहस्रं मे यौवनं स्वं ददस्व च॥ पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम्। स्वं चादास्यामि भूयोऽहं पाप्मानं जरया सह॥ दुखुरुवाच न गजं न रथं नाश्वं जीर्णो भुङ्क्तेन च स्त्रियम्। वाक्सङ्गश्चास्य भवति तां जरां नाभिकामये॥ ययातिरुवाच यत् त्वं मे हृदयाजातो वयः स्वं न प्रयच्छसि। तस्माद् द्रुह्यो प्रियः कामो न ते सम्पत्स्यते क्वचित्।२० यत्राश्वरथमुख्यानामश्वानां स्याद् गतं न च। हस्तिनां पीठकानां च गर्दभानां तथैव च॥ बस्तानां च गवां चैव शिबिकायास्तथैव च। उडुपप्लवसंतारो यत्र नित्यं भविष्यति। अराजा भोजशब्दं त्वं तत्र प्राप्स्यसि सान्वयः॥ ययातिरुवाच अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह। एकं वर्षसहस्रं तु चरेयं यौवनेन ते॥ अनुरुवाच जीर्ण: शिशुवदादत्तेऽकालेऽत्रमशुचिर्यथा। न जुहोति च कालेऽग्निं तां जरां नाभिकामये।॥ ययातिरुवाच यत् त्वं मे हृदयाजातो वयः स्वं न प्रयच्छसि। जरादोषस्त्वया प्रोक्तस्तस्मात् त्वं प्रतिपत्स्यसे॥ प्रजाश्च यौवनप्राप्ता विनाशिष्यन्त्यनो तव। अग्निप्रस्कन्दनपरस्त्वं चाप्येर्वं भविष्यसि॥ ययातिरुवाच पूरो त्वं मे प्रियः पुत्रस्त्वं वरीयान् भरिष्यसि। जरा वली च मां तात पलितानि च पर्यगुः॥ काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने। पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह। कंचित् कालं चरेयं वै विषयान् वयसा तव॥ पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम्। स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह॥ वैशम्पायन उवाच एवमुक्तः प्रत्युवाच पूरुः पितरपञ्जसा। यथाऽऽत्य मां महाराज तत् करिष्यामि ते वचः॥ प्रतिपत्स्यामि ते राजन् पाप्मानं जरया सह। गृहाण यौवनं मत्तश्चर कामान् यथेप्सितान्॥ जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव। यौवनं भवते दत्त्वा चरिष्यामि यथाऽऽत्थ माम्॥ ययातिरुवाच पूरो प्रीतोऽस्मि ते वत्स प्रतिश्चेदं ददामि ते। सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति॥ एवमुक्त्वा ययातिस्तु स्मृत्वा काव्यं महातपाः। संक्रामयामास जरां तदा पूरौ महात्मनि॥ वैशम्पायन उवाच पौरवेणाथ वयसा ययातिनहुषात्मजः। प्रीतियुक्तो नृपश्रेष्ठश्चचार विषयान् प्रियान्॥ यथाकामं यथोत्साहं यथाकालं यथासुखम्। धर्माविरुद्धं राजेन्द्र यथार्हति स एव हि॥ देवानतर्पयद् यज्ञैः श्राद्धस्तद्वत् पितृनपि। दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान्॥ अतिथीनन्नपानैश्च विशश्च परिपालनैः। आनृशंस्येन शूद्रांश्च दस्यून संनिग्रहेण च॥ धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयन्। ययातिः पालयामास साक्षादिन्द्र इवापरः॥ स राजा सिंहविक्रान्तो युवा विषयगोचरः। अविरोधेन धर्मस्य चचार सुखमुत्तमम्॥ स सम्प्राप्य शुभान् कामांस्तृप्तः खित्रश्च पार्थिवः। कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः॥ परिसंख्याय कालज्ञः कला: काष्ठाश्च वीर्यवान्। यौवनं प्राप्य राजर्षिः सहस्रपरिवत्सरान्॥ विश्वाच्या सहितो रेमे व्यभ्राजन्नन्दने वने। अलकायां स कालं तु मेरुशृङ्गे तथोत्तरे॥ यदा स पश्यते कालं धर्मात्मा तं महीपतिः। पूर्णं मत्वा ततः कालं पूरूं पुत्रमुवाच ह॥ यथाकामं यथोत्साहं यथाकालमरिंदम। सेविता विषयाः पुत्र यौवनेन मया तव॥ न जातु कामः कामानामुपभोगेन शाम्यति। हविषा कृष्णवर्देव भूय एवाभिवर्धते॥ यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः। एकस्यापि न पर्याप्तं तस्मात् तृष्णां परित्यजेत्॥ या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः। योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्।१४ पूर्ण वर्षसहस्रं मे विषयासक्तचेतसः। तथाप्यनुदिनं तृष्णा ममैतेष्वभिजायते॥ तस्मादेनामहं त्यक्त्वा ब्रह्मण्याधाय मानसम्। निर्द्वन्द्वो निर्ममो भूत्वा चरिष्यामि मृगैः सह॥ पूरो प्रीतिऽस्मि भद्रं ते गृहाणेदं स्वयौवनम्। राज्यं चेदं गृहाण त्वं त्वं हि मे प्रियकृत् सुतः॥ वैशम्पायन उवाच प्रतिपेदे जरां राजा ययाति हुषस्तदा। यौवनं प्रतिपेदे च पूरुः स्वं पुनरात्मनः॥ अभिषेक्तुकामं नृपति पूरुं पुत्रं कनीयसम्। ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन्॥ कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो। ज्येष्ठं यदुर तिक्रम्य राज्यं पूरोः प्रयच्छसि॥ यदुर्येष्ठस्तव सुतो जातस्तमनु तुर्वसुः। शर्मिष्ठायाः सुतो दुह्युस्ततोऽनुः पूरुरेव च।॥ कथं ज्येष्ठानतिक्रम्य कनीयान् राज्यमर्हति। एतत् सम्बोधयामस्त्वां धर्मं त्वं प्रतिपालय॥ ययातिरुवाच ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः। ज्येष्ठं प्रति यथा राज्यं न देयं मे कथंचन॥ मम ज्येष्ठेन यदुना नियोगो नानुपालितः। प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः॥ मातापित्रोर्वचनकृद्धितः पथ्यश्च यः सुतः। स पुत्रः पुत्रवद् यश्च वर्तते पितृमातृषु॥ यदुनाहमवज्ञातस्तथा तुर्वसुनापि च। द्रुाना चानुना चैव मय्यवज्ञा कृता भृशम्॥ पूरुणा तु कृतं वाक्यं मानितं च विशेषतः। कनीयान् मम दायादो धृता येन जरा मम॥ मम कामः स च कृतः पूरुणा मित्ररूपिणा। शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम्॥ पुत्रो यस्त्वानुवर्तेत स राजा पृथिवीपतिः। भवतोऽनुनयाम्येवं पूरू राज्येऽभिषिच्यताम्॥ प्रकृतय ऊचुः यः पुत्रो गुमसम्पन्नो मातापित्रोर्हितः सदा। सर्वमर्हति कल्याणं कनीयानपि सत्तमः॥ अर्हः पूरुरिदं राज्यं यः सुतः प्रियकृत् तव। वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम्॥ वैशम्पायन उवाच पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा। अभ्यषिञ्चत् तत: पूरुं राज्ये स्वे सुतमात्मनः॥ दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः। पुरात् स निर्ययौ राजा ब्राह्मणैस्तापसैः सह॥ यदोस्तु यादवा जातास्तुर्वसोर्यवनाः स्मृताः। दुह्योः सुतास्तु वै भोजा अनोस्तु म्लेच्छजातयः॥ पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव। इदं वर्षसहस्राणि राज्यं कारयितुं वशी॥ पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव। इदं वर्षसहस्राणि राज्यं कारयितुं वशी॥ इन्द्र उवाच सर्वाणि कर्माणि समाप्य राजन् गृहं परित्यज्य वनं गतोऽसि। तत् त्वां पृच्छामि नहुषस्य पुत्र केनासि तुल्यस्तपसा ययाते॥ ययातिरुवाच नाहं देवमनुष्येषु गन्धर्वेषु महर्षिषु। आत्मनस्तपसा तुल्यं कंचित् पश्यामि वासव॥ इन्द्र उवाच यदावमंस्थाः सदृशः श्रेयसश्च अल्पीयसश्चाविदितप्रभावः। तस्माल्लोकास्त्वन्तवन्तस्तवेमे क्षीणे पुण्ये पतितास्यद्य राजन्॥ ययातिरुवाच सुरर्षिगन्धर्वनरावमानात् क्षयं गता मे यदि शक्र लोकाः। इच्छाम्यहं सुरलोकाद् विहीनः सतां मध्ये पतितुं देवराज॥ इन्द्र उवाच श्च्युतः प्रतिष्ठां यत्र लब्धासि भूयः। एतद् विदित्वा च पुनर्ययाते त्वं मावमंस्थाः सदृशः श्रेयसश्च॥ वैशम्पायन उवाच ततः प्रहायामरराजजुष्टान् पुण्याँल्लोकान् पतमानं ययातिम्। मुवाच सद्धर्मविधानगोप्ता॥ अष्टक उवाच कस्त्वं युवा वासवतुल्यरूप: स्वतेजसा दीप्यमानो यथाग्निः। पतस्युदीर्णाम्बुधराम्धकारात् खात् खेचराणां प्रवरो यथार्कः॥ दृष्ट्वा च त्वां सूर्यपथात् पतन्तं वैश्वानरार्कातिभप्रमेयम्। किं नु स्विदेतत् पततीति सर्वे वितर्कयन्तः परिमोहिताः स्मः॥ दृष्ट्वा च त्वां धिष्ठितं देवमार्गे शक्रार्कविष्णुप्रतिमप्रभावम्। अभ्युद्गतास्त्वां वयमद्य सर्वे तत्त्वं प्रपाते तव जिज्ञासमानाः॥ न चापि त्वां धृष्णुमः प्रष्टुमग्रे न च त्वमस्मान् पृच्छसि ये वयं स्मः। तत् त्वां पृच्छामि स्पृहणीयरूप कस्य त्वं वा किंनिमित्तं त्वमागाः॥ भयं तु ते व्येतु विषादमोही त्यजाशु चैवेन्द्रसमप्रभाव। त्वां वर्तमानं हि सतां सकाशे नालं प्रसोढुं बलहापि शक्रः॥ सन्तः प्रतिष्ठा हि सुखच्युतानां सतां सदैवामरराजकल्प। ते संगताः स्थावरजङ्गमेशा: प्रतिष्ठिस्त्वं सदृशेषु सत्सु॥ प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः। । प्रभुः सूर्यः प्रकाशित्वे सतां चाभ्यागतः प्रभुः॥ ययातिरुवाच अहं ययातिनहुषस्य पुत्रः पूरोः पिता सर्वभूतावमानात्। प्रभ्रंशितः सुरसिद्धर्षिलोकात् परिच्युतः प्रपताम्यल्पपुण्यः॥ स्तेनाभिवादं भवतां न प्रयुञ्जे। यो विद्यया तसा जन्मना वा वृद्धः स पूज्यो भवति द्विजानाम्॥ अष्टक उवाच अवादीस्त्वं वयसा यः प्रवृद्धः स वैराजन् नाभ्यधिकः कथ्यते च। यो विद्यया तपसा सम्प्रवृद्धः स एव पूज्यो भवति द्विजानाम्॥ ययातिरुवाच स्तद् वर्ततेऽप्रवणे पापलोक्यम्। सन्तोऽसतां नानुवर्तन्ति चैतद् यथा चैषामनुकूलास्तथाऽऽसन्॥ अभूद् धनं मे विपुलं गतं तद् विचेष्टमानो नाधिगन्ता तदस्मि। एवं प्रधार्यात्महिते निविष्टो यो वर्तते स विजानाति धीरः॥ र्यः सर्वविद्यासु विनीतबुद्धिः। वेदानधीत्य तपसाऽऽयोज्य देह दिवं समायात् पुरुषो वीतमोहः॥ न जातु हृष्येन्महता धनेन वेदानधीयीतानहंकृतः स्यात्। नानाभावा बहवो जीवलोके दैवाधीना नष्टचेष्टाधिकाराः। तत् तत् प्राप्य न विहन्येत धीरो दिष्टं बलीय इति मत्वाऽऽत्मबुद्ध्या॥ सुखं हि जन्तुर्यदि वापि दुःखं दैवाधीनं विन्दते नात्मशक्त्या। तस्माद् दिष्टं बलवन्मन्यमानो न संज्वरेनापि हृष्येत् कथंचित्॥ दुःखैन तप्येन्न सुखैः प्रहृष्येत् समेन वर्तेत सदैव धीरः। दिष्टं बलीय इति मन्यमानो न संज्वरेनापि हृष्येत् कथंचित्॥ भये न मुह्याम्यष्टकाहं कदाचित् संतापो मे मानसो नास्ति कश्चित्। धाता यथा मां विदधीत लोके ध्रुवं तथाहं भवितेति मत्वा॥ संस्वेदजा अण्डजाचोद्भिदश्च सरीसृपाः कृमयोऽथाप्सु मत्स्याः। तथाश्मानस्तृणकाष्ठं च सर्वे दिष्टक्षये स्वां प्रकृतिं भजन्ति॥ अनित्यतां सुखदुःखस्य बुद्ध्वा कस्मात् संतापमष्टकाहं भजेयम्। किं कुर्यां वै किं च कृत्वा न तष्ये तस्मात् संतापं वर्जयाम्यप्रमत्तः॥ वैशम्पयान उवाच मथाष्टकः पुनरेवान्वपृच्छत्। मातामहं सर्वगुणोपपन्नं तत्र स्थितं स्वर्गलोके यथावत्॥ अष्टक उवाच स्त्वया भुक्ता यं च कालं यथावत्। तान् मे राजन् ब्रूहि सर्वान यथावत् क्षेत्रज्ञवद् भावसे त्वं हि धर्मान्॥ ययातिरुवाच स्ततो लोकान् महतश्चाजयं वै। तत्रावसं वर्षसहस्रमानं ततो लोकं परमस्म्यभ्युपेतः॥ ततः पुरीं पुरुहूतस्य रम्यां सहस्रद्वारां शतयोजनायताम्। अध्यावसं वर्षसहस्रमात्र ततो लोकं परमस्म्यभ्युपेतः॥ ततो दिव्यमजरं प्राप्य लोकं प्रजापतेर्लोकपते१रापम्। तत्रावसं वर्षसहस्रमानं ततो लोकं परमस्म्यभ्युपेतः॥ स देवदेवस्य निवेशने च विहत्य लोकानवसं यथेष्टम्। स्तुल्यप्रभावद्युतिरीश्वराणाम्॥ तथावसं नन्दने कामरूपी संवत्सराणामयुतं शतानाम्। सहाप्सरोभिर्विहरन् पुण्यगन्धान् पश्यन् नगान् पुष्पितांश्चारुरूपान्॥ तत्र स्थितं मां देवसुखेषु सक्तं कालेऽतीते महति ततोऽतिमात्रम्। दूतो देवानामब्रवीदुग्ररूपो ध्वंसेत्युचैस्त्रिः प्लुतेन स्वरेण॥ एतावन्मे विदितं राजसिंह ततो भ्रष्टोऽहं नन्दनात् क्षीणपुण्यः। वाचोऽश्रौषं चान्तरिक्षे सुराणां सानुक्रोशाः शोचतां मां नरेन्द्र॥ अहो कष्टं क्षीणपुण्यो ययाति: पतत्यसौ पुण्यकृत् पुण्यकीर्तिः। तानब्रुवं पतमानस्ततोऽहं सतां मध्ये निपतेयं कथं नु॥ तैराख्याता भवतां यज्ञभूमिः समीक्ष्य चेमां त्वरितमुपागतोऽस्मि। धूमापाङ्गं प्रतिगृह्य प्रतीतः॥ अष्टक उवाच यदावसो नन्दने कामरूपी संवत्सराणामयुतं शतानाम्। किं कारणं कार्तयुगप्रधान हित्वा च त्वं वसुधामन्वपद्यः॥ ययातिरुवाच ज्ञातिः सुहृत् स्वजनो वा यथेह क्षीणे वित्ते त्यज्यते मानवैहि। तथा तत्र क्षीणपुण्यं मनुष्यं त्यजन्ति सद्यः सेश्वरा देवसङ्घाः॥ अष्टक उवाच तस्मिन् कथं क्षीणपुण्या भवन्ति सम्मुह्यते मेऽत्र मनोऽतिमात्रम्। किं वा विशिष्टाः कस्य धामोपयान्ति तदे वै ब्रूहि क्षेत्रवित् त्वं मतो मे॥ ययातिरुवाच इमं भौमं नरकं ते पतन्ति लालप्यमाना नरदेव सर्वे। ते कङ्कगोमायुबलाशनार्थे क्षीणा विवृद्धिं बहुधा व्रजन्ति॥ तस्मादेतद् वर्जनीयं नरेन्द्र दुष्टं लोके गर्हणीयं च कर्म। आख्यातं ते पार्थिव सर्वमेव भूयश्चेदानीं वद किं ते वदामि॥ अष्टक उवाच यदा तु तान् वितुदन्ते वयांसि तथा गृध्राः शितिकण्ठाः पतङ्गाः। कथं भवन्ति कथमाभवन्ति न भौममन्यं नरकं शृणोमि॥ ययातिरुवाच ऊर्ध्वं देहात् कर्मणा जृम्भमाणाद् व्यक्तं पृथिव्यामनुसंचरन्ति। इमं भौमं नरकं ते पतन्ति नावेक्षन्ते वर्षपूगाननेकान्॥ षष्टिं सहस्राणि पतन्ति व्योम्नि तथा अशीतिं परिवत्सराणि तान् वै तुदन्ति पततः प्रपातं भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः॥ अष्टक उवाच यदेनसस्ते पततस्तुदन्ति भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः। कथं भवन्ति कथमाभवन्ति कथंभूता गर्भभूता भवन्ति॥ ययातिरुवाच मन्वेति तद् वै पुरुषेण सृष्टम्। स वै तस्या रज आपद्यते वै स गर्भभूतः समुपैति तत्र॥ वनस्पतीनोषधीश्चाविशन्ति अपो वायुं पृथिवीं चान्तरिक्षम्। मेवम्भूता गर्भभूता भवन्ति॥ अष्टक उवाच मुताहोस्वित् स्वेन कायेन याति। माचक्ष्व मे संशयात् प्रब्रवीमि॥ शरीरभेदाभिसमुच्छ्रयं च चक्षुःश्रोत्रे लभते केन संज्ञाम्। एतत् तत्त्वं सर्वमाचक्ष्व पृष्टः क्षेत्रज्ञं त्वां तात मन्याम सर्वे॥ ययातिरुवाच वायुः समुत्कर्षति गर्भयोनिमृतौ रेत: पुष्परसानुपृक्तम्। स तत्र तन्मात्रकृताधिकारः। क्रमेण संवर्धयतीह गर्भम्॥ स जायमानो विगृहीतमात्रः संज्ञामधिष्ठाय ततो मनुष्यः। स श्रोत्राभ्यां वेदयतीह शब्दं स वै रूपं पश्यति चक्षुषा च॥ घ्राणेन गन्धं जिह्वयाथो रसं च त्वचा स्पर्श मनसा वेद भावम्। इत्यष्टकेहोपहितं हि विद्धि महात्मनां प्राणभृतां शरीरे॥ अष्टक उवाच यः संस्थितः पुरुषो दह्यते वा निखन्यते वापि निकृष्यते वा। अभावभूतः स विनाशमेत्य केनात्मना चेतयते परस्तात्॥ भवन्ति पापा ययातिरुवाच हित्वा सोऽसून् सुप्तवन्निष्टनित्वा पुरोधाय सुकृतं दुष्कृतं वा। अन्यां योनि पवनाग्रानुसारी हित्वा देहं भजते राजसिंह॥ पुण्यां योनि पुण्यकृतो व्रजन्ति पापां योनि पापकृतो व्रजन्ति। कीटाः पतङ्गाश्च न मे विवक्षास्ति महानुभाव॥ चतुष्पदा द्विपदाः षट्पदाश्च तथाभूता गर्भभूता भवन्ति। आख्यातमेतन्निखिलेन सर्वं भूयस्तु किं पृच्छसि राजसिंह॥ अष्टक उवाच किंस्वित् कृत्वा लभते तात लोकान् मर्त्यः श्रेष्ठांस्तपसा विद्यया वा। च्छुभाँल्लोकान् येन गच्छेत् क्रमेण॥ ययातिरुवाच तपश्च दानं च शमो दमश्च हीरार्जवं सर्वभूतानुकम्पा। स्वर्गस्य लोकस्य वदन्ति सन्तो द्वाराणि सप्तैव महान्ति पुंसाम्। नश्यन्ति मानेन तमोऽभिभूताः पुंसः सदैवेति वदन्ति सन्तः॥ अधीयानः पण्डितं मन्यमानो यो विद्यया हन्ति यशः परेषाम्। तस्यान्तवन्तश्च भवन्ति लोका न चास्य तद् ब्रह्म फलं ददाति॥ चत्वारि कर्माण्यभयंकराणि भयं प्रयच्छन्त्ययथाकृतानि। मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत पानयज्ञः॥ न मानमान्यो मुदमाददीत न संतापं प्राप्नुयाचावमानात्। सन्तः सतः पूजयन्तीह लोके नासाधवः साधुबुद्धिं लभन्ते॥ इति दद्यामित यज इत्यधीय इति व्रतम्। इत्येतानि भयान्याहुस्तानि वानि सर्वशः॥ ये चाश्रयं वेदयन्ते पुराणं मनीषिणो मानसमार्गरुद्धम्। तद्वः श्रेयस्तेन संयोगमेत्य परां शान्तिं प्राप्नुयुः प्रेत्य चेह॥ अष्टक उवाच कतरस्त्वनयोः पूर्वं देवानामेति सात्मताम्। उभयोर्धावतो राजन् सूर्याचन्द्रमसोरिव॥ ययातिरुवाच अनिकेतो गृहस्थेषु कामवृत्तेषु संयतः। ग्राम एव वसन् भिक्षुस्तयोः पूर्वतरं गतः॥ अवाप्य दीर्घमायुस्तु यः प्राप्तो विकृतिं चरेत्। तप्यते यदि तत् कृत्वा चरेत् सोऽन्यत् तपस्ततः॥ पापानां कर्मणां नित्यं बिभियाद् यस्तु मानवः। सुखमप्याचरन् नित्यं सोऽत्यन्तं सुखमेधते॥ र्यः सेवतेऽधर्ममनर्थबुद्धिः। स्तदार्जवं स समाधिस्तदार्यम्॥ अष्टक उवाच केनासि हूतः प्रहितोऽसि राजन् युवा स्रग्वी दर्शनीयः सुवर्चाः। मुताहोस्वित् पार्थिवं स्थानमस्ति॥ ययातिरुवाच इमं भौमं नरकं क्षीणपुण्यः प्रवेष्टुमुर्वी गगनाद् विप्रहीणः। उक्त्वाहं वः प्रपतिष्याम्यनन्तरं त्वरन्ति मां लोकपा ब्रह्मणो ये॥ स्ते गंगता गुणवन्तस्तु सर्वे। शक्राच लब्धो हि वरो मयैष पतिष्यता भूमितलं नरेन्द्र॥ अष्टक उवाच पृच्छामि त्वां मा प्रपत प्रपातं यदि लोकाः पार्थिव सन्ति मेऽत्र। यद्यन्तरिक्षे यदि वा दिवि स्थिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये॥ ययातिरुवाच यावत् पृथिव्यां विहितं गवावं सहारण्यैः पशुभिः पार्वतैश्च। तावल्लोका दिवि ते संस्थिता वै तथा विजानीहि नरेन्द्रसिंह॥ अष्टक उवाच तांस्ते ददामि मा प्रपत प्रपातं ये मे लोका दिवि राजेन्द्र सन्ति स्तानाक्रम क्षिप्रमपेतमोहः॥ ययातिरुवाच नास्मद्विधो ब्राह्मणो ब्रह्मविच प्रतिग्रहे वर्तते राजमुख्य। स्तथाददं पूर्वमहं नरेन्द्र॥ नाब्राह्मणः कृपणो जातु जीवेद् याच्यापि स्याद् ब्राह्मणी वीरपत्नी। सोऽहं नैवाकृतपूर्वं चरेयं विधिसमानः किमु तत्र साधु॥ प्रतर्दन उवाच पृच्छामि त्वां स्पृहणीयरूप प्रतर्दनोऽहं यदि मे सन्ति लोकाः। यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये॥ ययातिरुवाच सन्ति लोका बहवस्ते नरेन्द्र अप्येकैकः सप्तसप्ताप्यहानि। स्ते नान्तवन्तः प्रतिपालयन्ति॥ प्रतर्दन उवाच तांस्ते ददानि मा प्रपत प्रपातं ये मे लोकास्तव ते वै भवन्तु। स्तानाक्रम क्षिप्रमपेतमोहः॥ ययातिरुवाच न तुल्यतेजाः सुकृतं कामयेत् योगक्षेमं पार्थिव पार्थिवः सन्। श्चरेनृशंसं न हि जातु राजा॥ धर्म्य मार्ग यतमानो यशस्यं कुर्यानृपो धर्ममवेक्षमाणः। न मद्विधो धर्मबुद्धिः प्रजानन् कुर्यादेवं कृपणं मां यथाऽऽत्थ॥ विधिसमानः किमु तत्र साधु। ब्रुवाणमेनं नृपतिं ययाति नृपोत्तमो वसुमानब्रवीत् तम्॥ वसुमानुवाच यद्यस्ति लोको दिवि मे नरेन्द्र। यद्यन्तरिक्षे प्रथितो महात्मन् क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये॥ ययातिरुवाच यदन्तरिक्षं पृथिवी दिशश्च यत्तेजसा तपते भानुमांश्च। लोकास्तावन्तो दिवि संस्थिता वै ते नान्तवन्तः प्रतिपालयन्ति॥ वसुमानुवाच तांस्ते ददानि मा प्रपत प्रपातं ये मे लोकास्तव ते वै भवन्तु। क्रीणीष्वैतांस्तृणकेनापि राजन् प्रतिग्रहस्ते यदि धीमन् प्रदुष्टः॥ ययातिरुवाच न मिथ्याहं विक्रयं वै स्मरामि वृथा गृहीतं शिशुकाच्छङ्कमानः। विधिसमानः किमु तत्र साधु॥ वसुमानुवाच तांस्त्वं लोकान् प्रतिपद्यस्व राजन् मया दत्तान् यदि नेष्टः क्रयस्ते। अहं न तान् वै प्रतिगन्ता नरेन्द्र सर्वे लोकास्तव ते वै भवन्तु॥ शिबिरुवाच पृच्छामि त्वां शिबिरौशीनरोऽहं ममापि लोका यदि सन्तीह तात। यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये॥ ययातिरुवाच यत् त्वं वाचा हृदयेनापि साधून् परीप्समानान् नावमंस्था नरेन्द्र। तेनानन्ता दिवि लोकाः श्रितास्ते विद्युदूपाः स्वनवन्तो महान्तः॥ शिबिरुवाच तांस्त्वं लोकान् प्रतिपद्यस्व राजन् मया दत्तान् यदि नेष्टः क्रयस्ते। न चाहं तान् प्रतिपत्स्ये ह दत्त्वा यत्र गत्वा नानुशोचन्ति धीराः॥ ययातिरुवाच स्ते चाप्यनन्ता नरदेव लोकाः। तथाद्य लोके न रमेऽन्यदत्ते तस्माच्छिबे नाभिनन्दामि देयम्॥ अष्टक उवाच न चेदेकैकशो राजंल्लोकान् नः प्रतिनन्दसि। सर्वे प्रदाय भवते गन्तारो नरकं वयम्॥ ययातिरुवाच यदोऽहं तद् यदध्वं सन्तः सत्याभिनन्दिनः। अहं तन्नाभिजानामि यत् कृतं न मया पुरा॥ अष्टक उवाच कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः। यानारुह्य नरो लोकानभिवाञ्छति शाश्वतान्॥ ययातिरुवाच युष्मानेते वहिष्यन्ति रताः पञ्च हिरण्मयाः। उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव॥ अष्टक उवाच आतिष्ठस्व रथान् राजन् विक्रमस्व विहायसम्। वयमप्यनुयास्यामो यदा कालो भविष्यति॥ ययातिरुवाच सरिदानी गन्तव्यं सह स्वर्गजितो वयम्। एष नो विरजाः पन्था दृश्यते देवसद्मनः॥ वैशम्पायन उवाच तेऽधिरुह्य स्थान् सर्वे प्रयाता नृपसत्तमाः। आक्रमन्तो दिवं भाभिर्धर्मेणावृत्य रोदसी॥ अष्टक उवाच अहं मन्ये पूर्वमेकोऽस्मि गन्ता सखा चेन्द्रः सर्वथा मे महात्मा। मेकोऽत्यगात् सर्ववेगेन वाहान्॥ ययातिरुवाच अददद् देवयानाय यावद् वित्तमविन्दता उशीनरस्य पुत्रोऽयं तस्माच्छ्रेष्ठो हि वः शिबिः॥ दानं तपः सत्यमथापि धर्मो ही: श्रीः क्षमा सौम्यमथो विधित्सा। राजन्नेतान्यप्रमेयाणि राज्ञः शिबेः स्थितान्यप्रतिमस्य बुद्ध्या॥ एवंवृत्तो ह्रीनिषेवश्च यस्मात् तस्माच्छिबिरत्यगाद् वै रथेन। वैशम्पायन उवाच मातामहं कौतुकेनेन्द्रकल्पम्॥ पृच्छामि त्वां नृपते ब्रूहि सत्यं कुतश्च कश्चासि सुतश्च कस्य। कृतं त्वया यद्धि न तस्य कर्ता लोके त्वदन्यः क्षत्रियो ब्राह्मणो वा॥ ययातिरुवाच ययातिरस्मि नहुषस्य पुत्रः पूरोः पिता सार्वभौमस्त्विहासम्। गुह्यं चार्थं मामकेभ्यो ब्रवीमि मातामहोऽहं भवतां प्रकाशम्॥ सर्वामिमां पृथिवीं निर्जिगाय प्रादामहं छादनं ब्राह्मणेभ्यः। स्तदा देवाः पुण्यभाजो भवन्ति॥ अदामहं पृथिवीं ब्राह्मणेभ्यः पूर्णामिमामखिलां वाहनेन। स्तदाददं गाः शतमर्बुदानि।२४॥ सत्येन वै द्यौश्च वसुन्धरा च तथैवाग्निर्चलते मानुषेषु। न मे वृथा व्यहृतमेव वाक्यं सत्यं हि सन्तः प्रतिपूजयन्ति॥ यदष्टक प्रब्रवीमीह सत्यं प्रतर्दनं चौषदश्विं तथैवा सर्वे च लोका मुनयश्च देवाः सत्येन पूज्या इति मे मनोगतम्॥ यो नः स्वर्गजितः सर्वान् यथा वृत्तं निवेदयत्। अनुसूयुर्द्विजायेभ्यः स लभेन्नः सलोकताम्॥ वैशम्पायन उवाच एवं राजा स महात्मा ह्यतीव स्वैर्दोहित्रैस्तारितोऽमित्रसाहः। त्यक्त्वा महीं परमोदारकर्मा स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम्॥ जनमेजय उवाच भगवच्छ्रोतुमिच्छामि पूरोर्वंशकरान् नृपान्। यद्वीर्यान् यादृशांश्चापि यावतो यत्पराक्रमान्॥ न ह्यस्मिन् शीलहीनो वा निर्वीर्यो वा नराधिपः। प्रजाविरहितो वापि भूतपूर्वः कथंचन॥ तेषां प्रथितवृत्तानां राज्ञां विज्ञानशालिनाम्। चरितं श्रोतुमिच्छामि विस्तरेण तपोधन॥ वैशम्पायन उवाच हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि। पूरोर्वंशधरान् वीराज्छक्रप्रतिमतेजसः। भूरिद्रविणविक्रान्तान् सर्वलक्षणपूजितान्॥ प्रवीरेश्वररौद्राश्वास्त्रयः पुत्रा महारथाः। पूरोः पौष्ट्यामजायन्त प्रवीरो वंशकृत् ततः॥ मनस्युरभवत् तस्माच्छूरसेनीसुतः प्रभुः। पृथिव्याश्चतुरन्ताया गोप्ता राजीवलोचनः॥ शक्तः संहननो वाग्मी सौवीरीतनयास्त्रयः। मनस्योरभवन् पुत्राः शूराः सर्वे महारथाः॥ अन्वम्भानुप्रभृतयो मिश्रकेश्यां मनस्विनः। रौद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः॥ यज्वानो जज्ञिरे शूराः प्रजावन्तो बहुश्रुताः। सर्वे सर्वास्त्रविद्वांसः सर्वे धर्मपरायणाः॥ ऋचेयुरथ कक्षेयुः कृकणेयुश्च वीर्यवान्। स्थण्डिलेयुर्वनेयुश्च जलेयुश्च महायशाः॥ तेजेयुर्बलवान् धीमान् सत्येयुश्चेन्द्रविक्रमः। धर्मेयुः संनतेयुश्च दशमो देवविक्रमः॥ अनाधृष्टिरभूत् तेषां विद्वान् भुवि तथैकराट्। ऋचेयुरथ विक्रान्तो देवानामिव वासवः॥ अनाधृष्टिसुतस्त्वासीद् राजसूयाश्वमेधकृत्। मतिनार इति ख्यातो राजा परमधार्मिकः॥ मतिनारसुता राजश्चत्वारोऽमितविक्रमाः। तंसुर्महानतिरथो दुह्यश्चाप्रतिमद्युतिः॥ तेषां तंसुर्महावीर्यः पौरवं वंशमुद्वहन्। आजहार यशो दीप्तं जिगाय च वसुन्धराम्॥ ईलिनं तु सुतं तंसुर्जनयामास वीर्यवान्। सोऽपि कृत्स्नामिमां भूमिं विजिग्ये जयतां वरः॥ रथन्तर्यां सुतान् पञ्च पञ्चभूतोपमांस्ततः। ईलिनो जनयामास दुष्यन्तप्रभृतीन् नृपान्॥ दुष्यन्तं शूरभीमौ च प्रवसुं वसुमेव च। तेषां श्रेष्ठोऽभवद् राजा दुष्यन्तो जनमेजय॥ दुष्यन्ताद् भरतो जज्ञे विद्वाञ्छाकुन्तलो नृपः। तस्माद् भरतवंशस्य विप्रतस्थे महद् यशः॥ भरतस्तिसृषु स्त्रीषु नव पुत्रानजीजनत्। नाभ्यनन्दत तान् राजा नानुरूपा ममेत्युत॥ ततस्तान् मातरः क्रुद्धाः पुत्रान् निन्युर्यमक्षयम्। ततस्तस्य नरेन्द्रस्य वितथं पुत्रजन्म तत्॥ ततो महद्भिः क्रतुभिरीजानो भरतस्तदा। लेभे पुत्रं भरद्वाजाद् भुमन्युं नाम भारत॥ ततः पुत्रिणमात्मानं ज्ञात्वा पौरवनन्दनः। भुमन्युं भरतश्रेष्ठ यौवराज्येऽभ्यषेचयत्॥ ततो दिविरथो नाम भुमन्योरभवत् सुतः। सुहोत्रश्च सुहोता च सुहविः सुयजुस्तथा॥ पुष्करिण्यामचीकश्च भुमन्योरभवन् सुताः। तेषां ज्येष्ठः सुहोत्रस्तु राज्यमाप महीक्षिताम्॥ राजसूयाश्वमेधाद्यैः सोऽयजद् बहुभिः सवैः। सुहोत्रः पृथिवीं कृत्स्नां बुभुजे सागराम्बराम्॥ पूर्णां हस्तिगजाश्चैश्च बहुरत्नसमाकुलाम्। मम व मही तस्य भूरिभारावपीडिता॥ हस्त्यश्वरथसम्पूर्णा मनुष्यकलिला भृशम्। सुहोने राजनि तदा धर्मतः शासति प्रजाः॥ चैत्ययूपाङ्किता चासीद् भूमिः शतसहस्रशः। प्रवृद्धजनसस्या च सर्वदैव व्यरोचत॥ ऐक्ष्वाकी जनयामास सुहोत्रात् पृथिवीपतेः। अजमीढं सुमीढं च पुरुमीढं च भारत॥ अजमीढो वरस्तेषां तस्मिन् वंशः प्रतिष्ठितः। षट् पुत्रान् सोऽप्यजनयत् तिसृषु स्त्रीषु भारत॥ ऋक्षं धूमिन्यथो नीली दुष्यन्तपरमेष्ठिनौ। केशिन्यजनयजह्ल सुतौ व्रजनरूपिणौ॥ तथेमे सर्वपञ्चाला दुष्यन्तपरमेष्ठिनोः। अन्वयाः कुशिका राजन् जह्रोरमिततेजसः॥ जलरूपिणयोज्येष्ठमृक्षमाहुर्जनाधिपम्। ऋक्षात् संवरणो जज्ञे राजन् वंशकरः सुतः॥ आर्भे संवरणे राजन् प्रशासति वसुंधराम्। संक्षयः सुमहानासीत् प्रजानामिति न श्रुतम्॥ व्यशीर्यत ततो राष्ट्रं क्षयैर्नानाविधैस्तदा। क्षुन्मृत्युभ्यामनावृष्ट्या व्याधिभिश्च समाहतम्॥ अभ्यघ्नन् भारतांश्चैव सपत्नानां बलानि च। चालयन् वसुधां चेमां बलेन चतुरङ्गिणा॥ अभ्ययात् तं च पाञ्चाल्यो विजित्य तरसा महीम्। अक्षौहिणीभिर्दशभिः स एनं समरेऽजयत्॥ ततः सदारः सामात्यः सपुत्रः ससुहृजनः। राजा संवरणस्तस्मात् पलायत महाभयात्॥ सिन्धोर्नदस्य महतो निकुञ्जे न्यवसत् तदा। नदीविषयपर्यन्ते पर्वतस्य समीपतः॥ तत्रावसन् बहून् कालान् भारता दुर्गमाश्रिताः। तेषां निवसतां तत्र सहस्रं परिवत्सरान्॥ अथाभ्यगच्छद् भरतान् वसिष्ठो भगवानृषिः। तमागतं प्रयत्नेन प्रत्युद्गम्याभिवाद्य च॥ अध्यमभ्याहरंस्तस्मै ते सर्वे भारतास्तदा। निवेद्य सर्वमृषये सत्कारेण सुवर्चसे॥ तमासने चोपविष्टं राजा ववे स्वयं तदा। पुरोहितो भवान् नोऽस्तु राज्याय प्रयतेमहि॥ ओमित्येवं वसिष्ठोऽपि भारतान् प्रत्यपद्यत। अथाभ्यषिञ्चत् साम्राज्ये सर्वक्षत्रस्य पौरवम्॥ विषाणभूतं सर्वस्यां पृथिव्यामिति नः श्रुतम्। भरताध्युषितं पूर्वं सोऽध्यतिष्ठत् पुरोत्तमम्॥ पुनर्बलभृतश्चैव चक्रे सर्वमहीक्षितः। ततः स पृथिवीं प्राप्य पुनरीजे महाबलः॥ आजमीढो महायज्ञैर्बहुभिर्भूरिदक्षिणैः। ततः संवरणात् सौरी तपती सुषुवे कुरुम्॥ राजत्वे तं प्रजाः सर्वा धर्मज्ञ इति वव्रिरे। तस्य नाम्नाभिविख्यातं पृथिव्यां कुरुजाङ्गलम्॥ कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः। अश्ववन्तमभिष्यन्तं तथा चैत्ररथं मुनिम्॥ जनमेजयं च विख्यातं पुत्रांश्चास्यानुशुश्रुम। पञ्चैतान् वाहिनी पुत्रान् व्यजायत मनस्विनी॥ :। अविक्षितः परिक्षित् तु शबलाश्वस्तु वीर्यवान्। आदिराजो विराजश्च शाल्मलिश्च महाबलः॥ उचैःश्रवा भड्कारो जितारिश्चाष्टमः स्मृतः। एतेषामन्ववाये तु ख्यातास्ते कर्मजैर्गुणैः। जनमेजयादयः सप्त तथैवान्ये महारथाः॥ परिक्षितोऽभवन् पुत्राः सर्वे धर्मार्थकोविदाः। कक्षसेनोग्रसेनौ तु चित्रसेनश्च वीर्यवान्॥ इन्द्रसेनः सुषेणश्च भीमसेनश्च नामतः। जनमेजयस्य तनया भुवि ख्याता महाबलाः॥ धृतराष्ट्रः प्रथमजः पाण्डुर्बाह्नीक एव च। निषधश्च महातेजास्तथा जाम्बूनदो बली।॥ कुण्डोदरः पदातिश्च वसातिश्चाष्टमः स्मृतः। सर्वे धर्मार्थकुशलाः सर्वभूतहिते रताः॥ धृतराष्ट्रोऽथ राजाऽऽसीत् तस्य पुत्रोऽथ कुण्डिकः। हस्ती वितर्कः क्राथश्च कुण्डिनश्चापि पञ्चमः॥ हविःश्रवास्तथेन्द्राभो भुमन्युश्चापराजितः। धृतराष्ट्रसुतानां तु त्रीनेतान् प्रथितान् भुवि॥ प्रतीपं धर्मनेत्रं च सुनेत्रं चापि भारत। प्रतीपः प्रथितस्तेषां बभूवाप्रतिमो भुवि॥ प्रतीपस्य त्रयः पुत्रा जज्ञिरे भरतर्षभ। देवापिः शान्तनुश्चैव बाह्लीकश्च महारथः॥ देवापिश्च प्रवव्राज तेषां धर्महितेप्सया। शान्तनुश्च महीं लेभे बाह्रीकश्च महारथः॥ भरतस्यान्वये जाताः सत्त्ववन्तो नराधिपाः। देवर्षिकल्पा नृपते बहवो राजसत्तमाः॥ एवंविधाश्चाप्यपरे देवकल्पा महारथाः। जाता मनोरन्ववाये ऐलवंशविवर्धनाः॥ जनमेजय उवाच क्षुतस्त्वत्तो मया ब्रह्मन् पूर्वेषां सम्भवो महान्। उदाराश्चापि वंशेऽस्मिन् राजानो मे परिश्रुताः॥ किंतु लध्वर्थसंयुक्तं प्रियाख्यानं न मामति। प्रीणात्यतो भवान् भूयो विस्तरेण ब्रवीतु मे॥ एतामेव कथां दिव्यामाप्रजापतितो मनोः। तेषामाजननं पुण्यं कस्य न प्रीतिमावहेत्॥ सद्धर्मगुणमाहात्म्यैरभिवर्धितमुत्तमम्। विष्टभ्य लोकांस्त्रीनेषां यशः स्फीतमवस्थितम्॥ गुणप्रभाववीयौजःसत्त्वोत्साहवतामहम्। न तृप्यामि कथां शृण्वन्नमृतास्वादसम्मिताम्॥ वैशम्पायन उवाच शृणु राजन् पुरा सम्यङ्मया द्वैपायनाच्छुतम्। प्रोच्यमानमिदं कृत्स्नं स्ववंशजननं शुभम्॥ दक्षाददितिरदितेर्विवस्वान् विवस्वतो मनुमनोरिला इलायाः पुरूरवाः पुरूरवस आयुरायुषो नहुषो नहुषाद् ययातिः; ययातेद्वैभार्ये बभूवतुः॥ उशनसो दुहिता देवयानी; वृषपर्वणश्च दुहिता शर्मिष्ठा नाम॥ अत्रानुवंशश्लोको भवति यदुं च तुर्वसुं चैव देवयानी व्यजायत। दुह्यु चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी॥ तत्र यदोर्यादवाः पूरोः पौरवाः॥ पूरोस्तु भार्या कौसल्या नाम। तस्यामस्य जज्ञे जनमेजयो नाम; यस्त्रीनश्वमेधानाजहार, विश्वजिता चेष्टवा वनं विवेश॥ जनमेजयः खल्वनन्तां नामोपयेमे माधवीम्। तस्यामस्य जज्ञे प्राचिन्वान्; यः प्राची दिशं जिगाय यावत् सूर्योदयात्, ततस्तस्य प्राचिन्वत्त्वम्॥ प्राचिन्वान् खल्वश्मकीमुपयेमे यादवीम्। तस्यामस्य जज्ञे संयातिः॥ संयातिः खलु दृषद्वतो दुहितरं वराङ्गी नामोपयेमे। तस्यामस्य जज्ञे अहंयातिः॥ अहंथातिः खलु कृतवीर्यदुहितरमुपयेमे भानुमती नाम। तस्यामस्य जज्ञे सार्वभौमः॥ सार्वभौमः खलु जित्वा जहार कैकेयीं सुनन्दा नाम। तामुपयेमे। तस्यामस्य जज्ञे जयत्सेनो नाम॥ जयत्सेनो खलु वैदर्भीमुपयेमे सुश्रवां नाम। तस्यामस्य जज्ञे अवाचीनः॥ अवाचीनोऽपि वैदर्भीमपरामेवोपयेमे मर्यादां नाम। तस्यामस्य जज्ञे अरिहः॥ अरिहः खल्वाङ्गीमुपयेमे। तस्यामस्य जज्ञे महाभौमः।। महाभौमः खलु प्रासेनजितीमुपयेमे सुयज्ञां नाम। तस्यामस्य जज्ञे अयुतनायी; यः पुरुषमेधानामयुतमानयत्, तेनास्यायुतनायित्वम्॥ अयुतनायी खलु पृथुश्रवसो दुहितरमुपयेमे कामां नाम। तस्यामस्य जज्ञे अक्रोधनः॥ स खलु कालिङ्गीं करम्भां नामोपयेमे। तस्यामस्य जज्ञे देवातिथिः॥ देवातिथिः खलु वैदेहीमुपयेमे मर्यादां नाम। तस्यामस्य जज्ञे अरिहो नाम॥ अरिहः खल्वाङ्गेयीमुपयेमे सुदेवां नाम। तस्यां पुत्रमजीजनदृक्षम्॥ ऋक्षः खलु तक्षकदुहितरमुपयेमे ज्वाला नाम। तस्यां पुत्रं मतिनारं नामोत्पादयामास॥ मतिनारः खलु सरस्वत्यां गुणसमन्वितं द्वादशवार्षिकं सत्रमाहरत्। समाप्ते च सत्रे सरस्वत्यभिगम्य तं भर्तारं वरयामास। तस्यां पुत्रमजीजनत् तंसुं नाम॥ अत्रानुवंशश्लोको भवति-तंसुं सरस्वती पुत्रं मतिनारादजीजनत्। ईलिनं जनयामास कालिङ्गयां तंसुरात्मजम्॥ ईलिनस्तु रथन्तर्यां दुष्यन्ताद्यान् पञ्च पुत्रानजीजनत्॥ दुष्यन्तः खलु विश्वामित्रदुहितरं शकुन्तलां नामोपयेमे। तस्यामस्य जज्ञे भरतः॥ अत्रानुवंशश्लोकौ भवतःभस्त्रा माता पितुः पुत्रो येन जातः स एव सः। भरस्व पुत्रं दुष्यन्त मावमंस्थाः शकुन्तलाम्॥ रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात्। त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला॥ ततोऽस्य भरतत्वम्। भरतः खलु काशेयीमुपयेमे सार्वसेनी सुनन्दा नाम। तस्यामस्य जज्ञे भुमन्युः॥ भुमन्युः खलु दाशाहीमुपयेमे विजयां नाम। तस्यामस्य जज्ञे सुहोत्रः॥ सुहोत्रः खल्विक्ष्वाकुकन्यामुपयेमे सुवर्णां नाम। तस्यामस्य जज्ञे हस्ती; य इदं हास्तिनपुरं ख्यापयामास। एतदस्य हास्तिनपुरत्वम्॥ हस्ती खलु रैगर्तीमुपयेमे यशोधरां नाम। तस्यामस्य जज्ञे विकुण्ठनो नाम॥ विकुण्ठनः खलु दाशार्हामुपयेमे सुदेवां नाम। तस्यामस्य जज्ञे अजमीढो नाम॥ अजमीढस्य चतुर्विशं पुत्रशतं बभूव कैकेय्यां गान्धार्यां विशालायामृक्षायां चेति। पृथक् पृथग् वंशधरा नृपतयः। तत्र वंशकरः संवरणः॥ संवरणः खलु वैवस्वतीं तपती नामोपयेमे। तस्यामस्य जज्ञे कुरुः॥ कुरुः खलु दाशार्हामुपयेमे शुभाङ्गी नाम। तस्यामस्य जज्ञे विदूरः॥ विदूरस्तु माधवीमुपयेमे सम्प्रियां नाम। तस्यामस्य जज्ञे अनश्वा नाम॥ अनश्वा खलु मागधीमुपयेमे अमृतां नाम। तस्यामस्य जज्ञे परिक्षित्॥ परिक्षित् खलु वाहुदामुपयेमे सुयशां नाम। तस्यामस्य जज्ञे भीमसेनः॥ भीमसेनः खलु कैकेयीमुपयेमे कुमारी नाम। तस्यामस्य जज्ञे प्रतिश्रवा नाम॥ प्रतिश्रवसः प्रतीपः खलु। शैव्यामुपयेमे सुनन्दा नाम। तस्यां पुत्रानुत्पादयामास देवापिं शान्तनुं बाह्लीकं चेति॥ देवापि खलु बाल एवारण्यं विवेश। शान्तनुस्तु महीपालो बभूव॥ अत्रानुवंशश्लोको भवति यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते। पुनर्युवा च भवति तस्मात् तं शान्तनुं विदुः।। इति तदस्य शान्तनुत्वम्॥ शान्तनुः खलु गङ्गां भागीरथीमुपयेमे। तस्थामस्य जज्ञे देवव्रतो नाम यामाहुर्भीष्ममिति॥ भीष्मः खलु पितुः प्रियचिकीर्षया सत्यवतीं मातरमुदवाहयत्; यामाहुर्गन्धकालीति॥ तस्यां पूर्वं कानीनो गर्भः पराशराद् द्वैपायनोऽभवत्। तस्यामेव शान्तनोरन्यौ द्वौ पुत्रौ बभूवतुः॥ विचित्रवीर्यश्चित्राङ्गदश्च। तयोरप्राप्तयौवन एव चित्राङ्गदो गन्धर्वेण हतः; विचित्रवीर्यस्तु राजाऽऽसीत्॥ विचित्रवीर्यः खलु कौसल्यात्मजे अम्बिकाम्बालिके काशिराजदुहितरावुपयेमे॥ विचित्रवीर्यस्त्वनपत्य एव विदेहत्वं प्राप्तः। ततः सत्यवत्यचिन्तयन्मा दौष्यन्तो वंश उच्छेदं व्रजेदिति॥ सा द्वैपायनमृषि मनसा चिन्तयामास। स तस्याः पुरतः स्थितः, किं करवाणीति॥ सा तमुवाच-भ्राता तवानपत्य एव स्वर्यातो विचित्रवीर्यः। साध्वपत्यं तस्योत्पादयेति॥ स तथेत्युक्त्वा त्रीन् पुत्रानुत्पादयामास; धृतराष्ट्र पाण्डु विदुरं चेति॥ तत्र धृतराष्ट्रस्य राज्ञः पुत्रशतं बभूव गान्धार्यां वरदानाद् द्वैपायनस्य॥ तेषां धृतराष्ट्रस्य पुत्राणां चत्वारः प्रधाना बभूवुः; दुर्योधनो दुशासनो विकर्णचित्रसेनश्चेति॥ पाण्डोस्तु द्वे भार्ये बभूवतुः कुन्ती पृथा नाम माद्री च इत्युभे स्त्रीरत्ने॥ अथ पाण्डुर्मंगयां चरन् मैथुनगतमृषिमपश्यन्मृगयां वर्तमानम्। तथैवाद्भुतमनासादितकामरसमतृप्त बाणेनाजघान॥ स बाणविद्ध उवाच पाण्डुम चरता धर्ममिमं येन त्वयाभिज्ञेन कामरसम्याहमनवाप्तकामरसो निहतस्तस्मात् त्वमप्येतामवस्थामासाद्यानवाप्तकामरस: पञ्चत्वमाम्यसि क्षिप्रमेवेति। स विवर्णरूपस्तथा पाण्डुः शापं परिहरमाणो नोपासर्पत भार्ये। वाक्यं चोवाच-॥ स्वचाप्लयादिदं प्राप्तवानहं शृणोमि च शृणोमि च नानपत्स्य लोकासन्तीति। सा त्वं मदर्थे पुत्रानुत्पादयेति कुन्तीमुवाच। सा तथोक्ता पुत्रानुत्पादयामासा धर्माद् युधिष्ठिरं मारुताद् भीमसेनं शक्रादर्जुनमिति॥ तां संहृष्टः पाण्डुरुवाच इयं ते सपल्यनपत्या; साध्वस्या अपत्यमुत्पाद्यतामिति। एवमस्त्विति कुन्ती तां विद्यां मात्र्याः प्रायच्छत्॥ माभ्यामश्विभ्यां नकुलसहदेवावुत्पादितौ॥ माद्रीं खल्वलंकृतां दृष्ट्वा पाण्डुर्भावं चक्रे च तां स्पृष्ट्वैव विदेहत्वं प्राप्तः॥ तत्रैनं चिताग्निस्थं माद्री समन्वारुरोह उवाच कुन्तीम; यमयोरप्रमत्तया त्वया भवितव्यमिति॥ ततस्ते पाण्डवा कुन्त्या सहिता हास्तिनपुरमानीय तापसैर्भीष्मस्य च विदुरस्य च निवेदिताः। सर्ववर्णानां च निवेद्यान्तर्हितास्तापसा बभूवुः प्रेक्ष्यमाणानां तेषाम्॥ तच वाक्यमुपश्रुत्य भगवतामन्तरिक्षात् पुष्पवृष्टिः पपात; देवदुन्दुभयश्च प्रणेदुः॥ व्यवसितः; न प्रतिगृहीताश्च पाण्डवाः पितुर्निधनमावेदयन् तस्यौर्ध्वदेहिकं न्यायतश्च कृतवन्तः। तांस्तत्र निवसतः पाण्डवान् बाल्यात् प्रभृति दुर्योधनो नामर्षयत्॥ पापाचोर राक्षसी बुद्धिमाश्रितोऽनेकैरूपायैरुद्धर्तुं च भावित्याचार्थस्य शकितास्ते समुद्धर्तुम्॥ ततश्च धृतराष्ट्रेण व्याजेन वारणावतमनुप्रेषिता गमनमरोचयन्॥ तत्रापि जतुगृहे दग्धुं समारब्धा न शकिता विदुरमन्त्रितेनेति॥ तस्माच हिडिम्बमन्तरा हत्वा एकचक्रां गताः॥ तस्यामप्येकचक्रायां बकं नाम राक्षसं हत्वा पाञ्चालनगरमधिगताः॥ तत्र द्रौपदी भार्यामविन्दन्, स्वविषयं चाभिजग्मुः॥ कुशलिनः पुत्रांश्चोत्पादयामासुः। प्रतिविध्यं युधिष्ठिरः, सुतसोमं वृकोदरः, श्रुतकीर्तिमर्जुन:, शतानीकं नकुलः, श्रुतकर्माणं सहदेव इति॥ युधिष्ठिरस्तु गोवासनस्य शैव्यस्य देविकां नाम कन्यां स्वयंवरे लेभे। तस्यां पुत्रं जनयामास यौधेयं नाम॥ भीमसेनोऽपि काश्यां बलन्धरां नामोपयेमे वीर्यशुल्काम्। तस्यां पुत्रं सर्वगं नामोत्यादयामास॥ अर्जुनः खलु द्वारवतीं गत्वा भगिनीं वासुदेवस्य सुभद्रां भद्रभाषिणी भार्यामुदावहत्। स्वविषयं चाभ्याजगाम कुशली। तस्यां पुत्रमभिमन्युमतीव गुणसम्पन्नं दयितं वासुदेवस्याजनयत्॥ नकुलस्तु चैद्यां करेणुमती नाम भार्यामुदावहत्। तस्यां पुत्रं निरमित्रं नामाजनयत्॥ सहदेवोऽपि माद्रीमेव स्वयंवरे वियां नामोपयेमे मद्रराजस्य द्युतिमतो दुहितरम्। तस्यां पुत्रमजनयत् सुहोत्रं नाम॥ पुत्राः। भीमसेनस्तु पूर्वमेव हिडिम्बायां राक्षसं घटोत्कचं पुत्रमुत्पादयामास॥ इत्येत एकादश पाण्डवानां तेषां वंशकरोऽभिमन्युः॥ स विराटस्य दुहितरमुपयेमे उत्तरां नाम। तस्यामस्य परासुर्गर्भोऽभवत्। तमुत्सङ्गेन प्रतिजग्राह पृथा नियोगात् पुरुषोत्तमस्य वासुदेवस्य, पाण्मासिकं गर्भमहमेनं जीवयिष्यामीति॥ स भगवता वासुदेवेनासंजातबलवीर्यपराक्रमोऽकालजातोऽस्त्राग्निना दग्धस्तेजसा स्वेन संजीवितः। जीवयित्वा चैनमुवाचपरिक्षीणे कुले जातो भवत्वयं परिक्षिन्नामेति॥ परिक्षित् खलु माद्रवती नामोपयेमे त्वन्मातरम्। तस्यां भवान् जनमेजयः॥ भवतो वपुष्टमायां द्वौ पुत्रौ जज्ञाते; शतानीक: शकुकर्णश्च। शतानीकस्य वैदेह्यां पुत्र उत्पन्नोऽश्वमेधदत्त इति॥ एष पूरोर्वंशः पाण्डवानां च कीर्तितः; धन्यः पुण्यः परमपवित्रः सततं श्रोतव्यो ब्राह्मणैर्नियमवद्भिरनन्तरं क्षत्रियैः स्वधर्मनिरतैः प्रजापालनतत्परैर्वैश्यैरपि श्रोतव्योऽधिगम्यश्च तथा शूद्रैरपि त्रिवर्णशुश्रूषुभिः श्रद्दधानैरिति॥ इतिहासमिमं पुण्यमशेषतः श्रावयिष्यन्ति ये नराः श्रोष्यन्ति वा नियतात्मानो विमत्सरा मैत्रा वेदपरास्तेऽपि स्वर्गजित: पुण्यलोका भवन्ति सततं देवब्राह्मणमनुष्याणां मान्याः सम्पूज्याश्च॥ परं हीदं भारतं भगवता व्यासेन प्रोक्तं पावनं ये ब्राह्मणादयो वर्णाः श्रद्दधाना अमत्सरा मैत्रा वेदसम्पन्नाः श्रोष्यन्ति, तेऽपि स्वर्गजितः सुकृतिनोऽशोच्याः कृताकृते भवन्ति॥ भवति चात्र श्लोकः इदं हि वेदैः समितं पवित्रमपि चोत्तमम्। धन्यं यशस्यमायुष्यं श्रोतव्यं नियतात्मभिः॥ वैशम्पायन उवाच इक्ष्वाकुवंशप्रभवो राजाऽऽसीत् पृथिवीपतिः। महाभिष इति ख्यातः सत्यवाक् सत्यविक्रमः॥ सोऽश्वमेधसहस्रेण राजसूयशतेन च। तोषयामास देवेशं स्वर्ग लेभे ततः प्रभुः॥ ततः कदाचिद् ब्रह्माणमुपासांचक्रिरे सुराः। तत्र राजर्षयो ह्यासन् स च राजा महाभिषः॥ अथ गङ्गा सरिच्छेष्ठा समुपायात् पितामहम्। तस्या वासः समुद्भूतं मारुतेन शशिप्रभम्॥ ततोऽभवन् सुरगणाः सहसावाङ्मुखास्तदा। महाभिषस्तु राजर्षिरशङ्को दृष्टवान् नदीम्॥ सोऽपध्यातो भगवता ब्रह्मणा तु महाभिषः। उक्तश्च जातो मत्र्येषु पुनर्लोकानवाप्स्यसि॥ ययाऽऽहत्तमनाश्चासि गङ्गया त्वं हि दुर्मते। सा ते वै मानुषे लोके विप्रियाण्याचरिष्यति॥ यदा ते भविता मन्युस्तदा शापाद् विमोक्ष्यसे। वैशम्पायन उवाच स चिन्तयित्वा नृपतिर्नुपानन्यांस्तपोधनान्॥ प्रतीपं रोचयामास पितरं भूरितेजसम्। महाभिषं तु तं दृष्ट्वा नदी धैर्याच्च्युतं नृपम्॥ तमेव मनसा ध्यायन्त्युपावर्तत् सरिद्वरा। सा तु विध्वस्तवपुषः कश्मलाभिहतान् नृप।॥ ददर्श पथि गच्छन्ती वसून् देवान् दिवौकसः। तथारूपांश्च तान् दृष्ट्वा पप्रच्छ सरितां वरा॥ किमिदं नष्टरूपाः स्थ कचित् क्षेमं दिवौकसाम्। तामूचुर्वसवो देवाः शप्ताः स्मो वै महानदि॥ अल्पेऽपराधे संरम्भाद् वसिष्ठेन महात्मना। विमूढा हि वयं सर्वे प्रच्छन्नमृषिसत्तमम्॥ संध्यां वप्तिष्ठमासीनं तमत्यभिसृताः पुरा। तेन कोपाद् वयं शप्ता योनौ सम्भवतेति ह॥ न निवर्तयितुं शक्यं यदुक्तं ब्रह्मवादिना। त्वमस्मान् मानुषी भूत्वा सृज पुत्रान् वसून् भुवि॥१५ न मानुषीणां जठरं प्रविशेम वयं शुभे। इत्युक्ता तैश्च वसुभिस्तथेत्युक्त्वाब्रवीदिदम्॥ गङ्गोवाच मर्येषु पुरुषश्रेष्ठः को वः कर्ता भविष्यति। वसव ऊचुः प्रतीपस्य सुतो राजा शान्तनुर्लोकविश्रुतः। भविता मानुषे लोके स नः कर्ता भविष्यति॥ गङ्गोवाच ममाप्येवं मतं देवा यथा मां वदतानघाः। प्रियं तस्य करिष्यामि युष्माकं चैतदीप्सितम्॥ वसव ऊचुः जातान् कुमारान् स्वानप्सु प्रक्षेप्तुं वै त्वमर्हसि। यथा न चिरकालं नो निष्कृतिं स्यात् त्रिलोकगे॥ गङ्गोवाच एवमेतत् करिष्यामि पुत्रस्तस्य विधीयताम्। नास्य मोघः संगमः स्यात् पुत्रहेतोर्मया सह॥ वसव ऊचुः तुरीयार्धं प्रदास्यामो वीर्यस्यैकैकशो वयम्। तेन वीर्येण पुत्रस्ते भविता तस्य चेप्सितः॥ न सम्पत्स्यति मत्र्येषु पुनस्तस्य तु संततिः। तस्मादपुत्रः पुत्रस्ते भविष्यति स वीर्यवान्॥ एवं ते समयं कृत्वा गङ्गया वसवः सह। जग्मुः संहृष्टमनसो यथासंकल्पमञ्जसा॥ वैशम्पायन उवाच ततः प्रतीपो राजाऽऽसीत् सर्वभूतहितः सदा। निषसाद समा बह्वीर्गङ्गाद्वारगतो जपन्॥ तस्य रूपगुणोपेता गङ्गा स्त्रीरूपधारिणी। उत्तीर्य सलिलात् तस्माल्लोभनीयतमाकृतिः॥ अधीयानस्य राजर्षेर्दिव्यरूपा मनस्विनी। दक्षिणं शालसंकाशमूरूं भेजे शुभानना॥ प्रतीपस्तु महीपालस्तामुवाच यशस्विनीम्। करोमि किं ते कल्याणि प्रियं यत् तेऽभिकासितम्॥ स्व्युवाच त्वामहं कामये राजन् भजमानां भजस्व माम्। त्यागः कामवतीनां हि स्त्रीणां सद्भिर्विगर्हितः॥ प्रतीप उवाच नाहं परस्त्रियं कामाद् गच्छेयं वरवर्णिनी। न चासवर्णा कल्याणि धर्म्यमेतद्धि मे व्रतम्॥ स्व्युवाच नाश्रेयस्यस्मि नागम्या न वक्तव्या च कर्हिचित्। जन्ती भज मां राजन् दिव्यां कन्यां वरस्त्रियम्॥ प्रतीप उवाच त्वया निवृत्तमेतत् तु यन्मां चोदयसि प्रियम्। अन्यथा प्रतिपन्नं मां नाशयेद् धर्मविप्लवः॥ प्राप्य दक्षिणमूरूं मे त्वमश्लिष्टा वराङ्गने। अपत्यानां स्नुषाणां च भीरु विद्ध्येतदासनम्॥ सव्योरुः कामिनीभोग्यस्त्वया स च विवर्जितः। तस्मादहं नाचरिष्ये त्वयि कामं वराङ्गने॥ स्नुषा मे भव सुश्रोणि पुत्रार्थं त्वां वृणोम्यहम्। स्नुषापदं हि वामोरु त्वमागम्य समाश्रिता॥ स्त्र्युवाच एवमष्यस्तु धर्मज्ञ संयुज्येयं सुतेन ते। त्वद्भक्त्या तु भजिष्यामि प्रख्यातं भारतं कुलम्॥ पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम्। गुणा न हि मया शक्या वक्तुं वर्षशतैरपि॥ कुलस्य ये वः प्रथितास्तत्साधुत्वमथोत्तमम्। समयेनेह धर्मज्ञ आचरेयं च यद् विभो॥ तत् सर्वमेव पुत्रस्ते न मीमांसेत कर्हिचित्। एवं वसन्ती पुढे ते वर्धयिष्याम्यहं रतिम्॥ पुत्रैः पुण्यैः प्रियैश्चैव स्वर्ग प्राप्स्यति ते सुतः। वैशम्पायन उवाच तथेत्युक्ता तु सा राजंस्तत्रैवान्तरधीयत॥ पुत्रजन्म प्रतीक्षन् वै स राजा तदधारयत्। एतस्मिन्नेव काले तु प्रतीपः क्षत्रियर्षभः॥ तपस्तेपे सुतस्यार्थे सभार्यः कुरुनन्दन। तयोः समभवत् पुत्रो वृद्धयोः स महाभिषः॥ शान्तस्य जज्ञे संतानस्तस्मादासीत् स शान्तनुः। संस्मरंश्चाक्षयाँल्लोकान् विजातान् स्वेन कर्मणा॥ पुण्यकर्मकृदेवासीच्छान्तनुः कुरुसत्तमः। प्रतीपः शान्तनुं पुत्रं यौवनस्थं ततोऽन्वशात्॥ पुरा स्त्री मां समभ्यागाच्छान्तनो भूतये तव। त्वामाव्रजेद् यदि रहः सा पुत्र वरवर्णिनी॥ कामयानाभिरूपाढ्या दिव्या स्त्री पुत्रकाम्यया। सा त्वया नानुयोक्तव्या कासि कस्यासि चाङ्गने॥ यच कुर्यान्न तत् कर्म सा प्रष्टव्या त्वयानघ। मन्नियोगाद् भजन्तीं तां भजेथा इत्युवाच तम्॥ वैशम्पायन उवाच एवं संदिश्य तनयं प्रतीपः शान्तनुं तदा। स्वे च राज्येऽभिषिच्यैनं वनं राजा विवेश ह॥ स राजा शान्तनुर्धीमान् देवराजसमद्युतिः। बभूव मृगयाशील: शान्तनुर्वनगोचरः॥ स मृगान् महिषांश्चैव विनिघ्नन् राजसत्तमः। गङ्गामनुचचारैकः सिद्धचारणसेविताम्॥ स कदाचिन्महाराज ददर्श परमां स्त्रियम्। जाज्वल्यमानां वपुषा साक्षाच्छ्रियमिवापराम्॥ सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम्। सूक्ष्माम्बरधरामेकां पद्मोदरसमप्रभाम्॥ तां दृष्ट्वा हृष्टरोमाभूद् विस्मितो रूपसम्पदा। पिबन्निव च नेत्राभ्यां नातृप्यत नराधिपः।२९॥ सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम्। स्नेहादागतसौहार्दा नातृष्यत विलासिनी॥ तामुवाच ततो राजा सान्त्वयश्लक्ष्णया गिरा। देवी वा दानवी वा त्वं गन्धर्वी चाथ वाप्सराः॥ यक्षी वा पन्नगी वापि मानुषी वा सुमध्यमे। याचे त्वां सुरगर्भाभे भार्या मे भव शोभने॥ तामुवाच ततो राजा सान्त्वयश्लक्ष्णया गिरा। देवी वा दानवी वा त्वं गन्धर्वी चाथ वाप्सराः॥ यक्षी वा पन्नगी वापि मानुषी वा सुमध्यमे। याचे त्वां सुरगर्भाभे भार्या मे भव शोभने॥ वैशम्पायन उवाच एतच्छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च। वसूनां समयं स्मृत्वाथाभ्यगच्छदनिन्दिता॥ उवाच चैव राज्ञः सा ह्लादयन्ती मनो गिरा। भविष्यामि महीपाल महिषी ते वशानुगा॥ यत् तु कुर्यामहं राजञ्छुभं वा यदि वाशुभम्। न तद् वारयितव्यास्मि न वक्तव्या तथाप्रियम्॥ एवं हि वर्तमानेऽहं त्वयि वत्स्यामि पार्थिवा वारिता विप्रियं चोक्ता त्यजेयं त्वामसंशयम्॥ तथेति सा यदा तूक्ता तदा भरतसत्तम। प्रहर्षमतुलं लेभे प्राप्य तं पार्थिवोत्तमम्॥ आसाद्य शान्तनुस्तां च बुभुजे कामतो वशी। न प्रष्टव्येति मन्वानो न स तां किंचिदूचिवान्॥ स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च। उपचारेण च रहस्तुतोष जगतीपतिः॥ दिव्यरूपा हि सा देवी गङ्गा त्रिपथगामिनी। मानुषं विग्रहं कृत्वा श्रीमन्तं वरवर्णिनी॥ भाग्योपनतकामस्य भार्या चोपनताभवत्। शान्तनोनृपसिंहस्य देवराजसमद्युतेः॥ सम्भोगस्नेहचातुर्यैर्हावभावसमन्वितैः। राजानं रमयामास यथा रेमे तथैव सः॥ स राजा रतिसक्तत्वादुत्तमस्त्रीगुणैर्हतः। संवत्सरानृतून् मासान् बुबुधे न बहून् गतान्॥ रममाणस्तया साधं यथाकामं नरेश्चरः। अष्टावजनयत् पुत्रांस्तम्यापमरसंनिभान्॥ जातं जातं च सा पुत्रं क्षिपत्यम्भसि भारत। प्रीणाम्यहं त्वामित्युक्त्वा गङ्गा स्रोतस्यमज्जयत्॥ तस्य तन्न प्रियं राज्ञः शान्तनोरभवत् तदा। न च तां किंचनोवाच त्यागाद् भीतो महीपतिः॥ अथैनामष्टमे पुत्रे जाते प्रहसतीमिव। उवाच राजा दुःखार्तः परीप्सन् पुत्रमात्मनः॥ मा वधीः कस्य कासीति किं हिनत्सि सुतानिति। पुत्रनि सुमहत् पापं सम्प्राप्तं ते सुगर्हितम्॥ गङ्गोवाच पुत्रकाम न ते हन्मि पुत्रं पुत्रवतां वर। जीर्णस्तु मम वासोऽयं यथा स समयः कृतः॥ अहं गङ्गा जह्वसुता महर्षिगणसेविता। देवकार्यार्थसिद्ध्यर्थमुषिताहं त्वया सह॥ इमेऽष्टौ वसवो देवा महाभागा महौजसः। वसिष्ठशापदोषेण मानुषत्वमुपागताः॥ तेषां जनयिता नान्यस्त्वदृते भुवि विद्यते। मद्विधा मानुषी धात्री लोके नास्तीह काचन॥ तस्मात् तजननीहेतोर्मानुषत्वमुपागता। जनयित्वा वसूनष्टौ जिता लोकास्त्वयाक्षयाः॥ देवानां समयस्त्वेष वसूनां संश्रुतो मया। जातं जातं मोक्षयिष्ये जन्मतो मानुषादिति॥ तत् ते शापाद् विनिर्मुक्ता आपवस्य महात्मनः। स्वस्ति तेऽस्तु गमिष्यामि पुत्रं पाहि महाव्रतम्॥ एष पर्यायवासो मे वसूनां संनिधौ कृतः। मत्प्रसूतिं विजानीहि गङ्गादत्तमिमं सुतम्॥ शान्तनुरुवाच आपवो नाम को न्वेष वसूनां किं च दुष्कृतम्। यस्याभिशापात् ते सर्वे मानुषीं योनिमागताः॥ अनेन च कुमारेण त्वया दत्तेन किं कृतम्। यस्य चैव कृतेनायं मानुषेषु निवत्स्यति॥ ईशा वै सर्वलोकस्य वसवस्ते च वै कथम्। मानुषेषूदपद्यन्त तन्ममाचक्ष्व जाह्नवि॥ वैशम्पायन उवाच एवमुक्ता तदा गङ्गा राजानमिदमब्रवीत्। भर्तारं जाह्नवी देवी शान्तनुं पुरुषर्षभ॥ गनोवाच यं लेभे वरुणः पुत्रं पुरा भरतसत्तम। वसिष्ठनामा स मुनिः ख्यात आपव इत्युत॥ तस्याश्रमपदं पुण्यं मृगपक्षिसमन्वितम्। मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम्॥ स वारुणिस्तपस्तेपे तस्मिन् भरतसत्तम। वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके।॥ दक्षस्य दुहिता या तु सुरभीत्यभिशब्दिता। गां प्रजाता तु सा देवी कश्यपाद् भरतर्षभ।॥ अनुग्रहार्थं जगतः सर्वकामदुहां वरा। तां लेभे गां तु धर्मात्मा होमधेनुं स वारुणिः॥ सा तस्मिंस्तापसारण्ये वसन्ती मुनिसेविते। चचार पुण्ये रम्ये च गौरपेतभया तदा॥ अथ तद् वनमाजग्मुः कदाचिद् भरतर्षभ। पृथ्वाद्या वसवः सर्वे देवा देवर्षिसेवितम्॥ ते सदारा वनं तच्च व्यचरन्त समन्ततः। रेमिरे रमणीयेषु पर्वतेषु वनेषु च॥ तत्रैकस्याथ भार्या तु वसोर्वासवविक्रम! संचरन्ती वने तस्मिन् गां ददर्श सुमध्यमा॥ नन्दिनी नाम राजेन्द्र सर्वकामधुगुत्तमाम्। सा विस्मयसमाविष्टा शीलद्रविणसम्पदा॥ द्यवे वै दर्शयामास तां गां गोवृषभेक्षण। आपीनां च सुदोग्ध्रीं च सुबालधिखुरां शुभाम्॥ उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च। एवंगुणसमायुक्तां वसवे वसुनन्दिनी॥ दर्शयामास राजेन्द्र पुरा पौरवनन्दन। द्यौस्तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्रविक्रम॥ उवाच राजस्तां देवीं तस्या रूपगुणान् वदन्। एषा गौरुत्तमा देवी वारुणेरसितेक्षणा॥ ऋषेस्तस्य वरारोहे यस्येदं वनमुत्तमम्। अस्याः क्षीरं पिबेन्मर्त्यः स्वादु यो वै समुध्यमे॥ दशवर्षसहस्राणि स जीवेत् स्थिरयौवनः। एतच्छ्रुत्वा तु सा देवी नृपोत्तम सुमध्यमा॥ तमुवाचानवद्याङ्गी भर्तारं दीसतेजसम्। अस्ति मे मानुषे लोके नरदेवात्मजा सखी॥ नाम्ना जितवती नाम रूपयौवनशालिनी। उशीनरस्य राजर्षेः सत्यसंधस्य धीमतः॥ दुहिता प्रथिता लोके मानुषे रूपसम्पदा। तस्या हेतोर्महाभाग सवत्सां गां ममेप्सिताम्॥ आनयस्वामरश्रेष्ठ त्वरितं पुण्यवर्धन! यावदस्याः पयः पीत्वा सा सखी मम मानद॥ मानुषेषु भवत्वेका जरारोगविवर्जिता। एतन्मम महाभाग कर्तुमर्हस्यनिन्दित॥ प्रियं प्रियतरं ह्यस्मानास्ति मेऽन्यत् कथंचन। एतच्छुत्वा वचस्तस्या देव्याः प्रियचिकीर्षया॥ पृथ्वाद्यैर्धातृभिः सार्धं द्यौस्तदा तां जहार गाम्। तया कमलपत्राक्ष्या नियुक्तो द्यौस्तदा नृप॥ ऋषेस्तस्य तपस्तीनं न शशाक निरीक्षितुम्। हृता गौः सा तदा तेन प्रपातस्तु न तर्कितः॥ अथाश्रमपदं प्राप्तः फलान्यादाय वारुणिः। न चापश्यत् स गां तत्र सवत्सां काननोत्तमे।॥ ततः स मृगयामास वने तस्मिंस्तयोधनः। नाध्यगच्छच मृगयंस्तां गां मुनिरुदारधीः॥ ज्ञात्वा तथापनीतां तां वसुभिर्दिव्यदर्शनः। ययौ क्रोधवशं सद्यः शशाप च वसूंस्तदा॥ यस्मान्मे वसवो जहाँ वै दोग्ध्रीं सुवालधिम्। तस्मात् सर्वे जनिष्यन्ति मानुषेषु न संशयः॥ एवं शशाप भगवान् वसुंस्तान् भरतर्षभ। वशं क्रोधस्य समप्राप्त आपवो मुनिसत्तमः॥ शप्त्वा च तान् महाभागस्तपस्येव मनो दधे। एवं स शप्तवान् राजन् वसूनष्टौ तपोधनः॥ महाप्रभावो ब्रह्मर्षिर्दैवान् क्रोधसमन्वितः। अथाश्रमपदं प्राप्तास्ते वै भूयो महात्मनः॥ शप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः। प्रसादयन्तस्तमृषि वसवः पार्थिवर्षभ।॥ लेभिरे न च तस्मात् ते प्रसादमृषिसत्तमात्। आपवात् पुरुषव्याघ्र सर्वधर्मविशारदात्॥ उवाच च स धर्मात्मा शप्ता यूयं धरादयः। अनुसंवत्सरात् सर्वे शापमोक्षमवाप्स्यथ॥ अयं तु यत्कृते यूयं मया शप्ताः स वत्स्यति। द्यौस्तदा मानुषे लोके दीर्घकालं स्वकर्मणा॥ नानृतं तचिकीर्षामि क्रुद्धो युष्मान् यदब्रुवम्। न प्रजास्यति चाप्येष मानुषेषु महामनाः॥ भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः। पितुः प्रियहिते युक्तः स्त्रीभोगान् वर्जयिष्यति॥ एवमुक्त्वा वसून् सर्वान् स जगाम महानृषिः। ततो मामुपजग्मुस्ते समेता वसवस्तदा॥ अयाचन्त च मांराजन् वरं तच्च मया कृतम्। जाताजातान् प्रक्षिपास्मान् स्वयं गङ्गे त्वमम्भसि॥ एवं तेषामहं सम्यक् शप्तानां राजसत्तम। मोक्षार्थं मानुषाल्लोकाद् यथावत् कृतवत्यहम्॥ अयं शापादृषेस्तस्य एक एव नृपोत्तम। द्यौ राजन् मानुषे लोके चिरं वत्स्यति भारत॥ वैशम्पायन उवाच एतदाख्याय सा देवी तत्रैवान्तरधीयत। आदाय च कुमार तं जगामाथ यथेप्सितम्॥ स तु देवव्रतो नाम गाङ्गेय इति चाभवत्। धुनामा शान्तनोः : पुत्रः शान्तनोरधिको गुणैः॥ शान्तनुश्चापि शोकार्तो जगाम स्वपुरं ततः। तस्याहं कीर्तयिष्यामि शान्तनोरधिकान् गुणान्॥ महाभाग्यं च नृपते रतस्य महात्मनः। यस्येतिहासो द्युतिमान् महाभारतमुच्यते॥ वैशम्पायन उवाच स राजा शान्तनु/मान् देवराजर्षिसत्कृतः। धर्मात्मा सर्वलोकेषु सत्यवागिति विश्रुतः॥ दमो दानं क्षमा बुद्धिहींकृतिस्तेज उत्तमम्। नित्यान्यासन् महासत्त्वे शान्तनौ पुरुषर्षभ॥ एवं स गुणसम्पन्नो धर्मार्थकुशलो नृपः। आसीद् भरतवंशस्य गोप्ता सर्वजनस्य च॥ कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः। अन्वितः परिपूर्णार्यैः सर्वैर्नृपतिलक्षणैः॥ :॥ तस्य कीर्तिमतो वृत्तमवेक्ष्य सततं नराः। धर्म एव परः कामादर्थाचेति व्यवस्थिताः॥ एतान्यासन् महासत्त्वे शान्तनौ पुरुषर्षभे! न चास्य सदृशः कश्चिद् धर्मतः पार्थिवोऽभवत्॥ वर्तमानं हि धर्मेषु सर्वधर्मभृतां वरम्। तं महीषा महीपालं राजराज्येऽभ्यषेचयन्॥ वीतशोकभयाबाधाः सुखस्वप्ननिबोधनाः। पतिं भारत गोतारं समपद्यन्त भूमिपा:॥ तेन कीर्तिमता शिष्टाः शक्रप्रतिमतेजसा। यज्ञदानक्रियाशीला: समपद्यन्त भूमिपाः॥ शान्तनुप्रमुखैर्गुप्ते लोके नृपतिभिस्तदा। नियमात् सर्ववर्णानां धर्मोत्तरमवर्तत॥ ब्रह्म पर्यचरत् क्षत्रं विशः क्षत्रमनुव्रताः। ब्रह्मक्षत्रानुरक्ताश्च शूद्राः पर्यचरन् विशः॥ स हास्तिनपुरे रम्ये कुरूणां पुटभेदने। वसन् सागरपर्यन्तामन्वशासद् वसुन्धराम्॥ स देवराजसदृशो धर्मज्ञः सत्यवागृजुः। दानधर्मतपोयोगाच्छ्रिया परमया युतः॥ अरागद्वेषसंयुक्तः सोमवत् प्रियदर्शनः। तेजसा सूर्यकल्पोऽभूद् वायुवेगसमो जवे। अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः॥ वधः पशुवराहाणां तथैव मृगपक्षिणाम्। शान्तनौ पृथिवीपाले नावर्तत तथा नृप॥ ब्रह्मधर्मोत्तरे राज्ये शान्तनुर्विनयात्मवान्। समं शशास भूतानि कामरागविवर्जितः॥ देवर्षिपितृयज्ञार्थमारभ्यन्त तदा क्रियाः। न चाधर्मेण केषांचित् प्राणिनामभवद् वधः॥ असुखानामनाथानां तिर्यग्योनिषु वर्तताम्। स एव राजा सर्वेषां भूतानामभवत् पिता॥ तस्मिन् कुरुपतिश्रेष्ठे राजराजेश्वरे सति। श्रिता वागभवत् सत्यं दानधर्माश्रितं मनः॥ स समः षोडशाष्टौ च चतस्रोऽष्टौ तथापराः। रतिमप्राप्नुवन् स्त्रीषु बभूव वनगोचरः॥ तथारूपस्तथाचारस्तथावृत्तस्तथाश्रुतः। गाङ्गेयस्तस्य पुत्रोऽभून्नाम्ना देवव्रतो वसुः॥ सर्वास्त्रेषु स निष्णान्तः पार्थिवेष्वितरेषु च। महाबलो महासत्त्वो महावीर्यो महारथः॥ स कदाचिन्मृगं विद्ध्वा गङ्गामनुसरन् नदीम्। भागीरथीमल्पजलां शान्तनुर्दृष्टवान् नृपः॥ तां दृष्ट्वा चिन्तयामास शान्तनुः पुरुषर्षभः। स्यन्दते किं त्वियं नाद्य सरिच्छ्रेष्ठा यथा पुरा॥ ततो निमित्तमन्विच्छन् ददर्श स महामनाः। कुमारं रूपसम्पन्नं बृहन्तं चारुदर्शनम्॥ दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरन्दरम्। कृत्स्नां गङ्गां समावृत्य शरैस्तीक्ष्णैरवस्थितम्॥ तां शरैराचितां दृष्ट्वा नदीं गङ्गां तदन्तिके। अभवद् विस्मितो राजा दृष्ट्वा कर्मातिमानुषम्॥ जातमात्रं पुरा दृष्ट्वा तं पुत्रं शान्तनुस्तदा। नोपलेभे स्मृति धीमानभिज्ञातुं तमात्मजम्॥ तदद्भुतं ततो स तु तं पितरं दृष्ट्वा मोहयामास मायया। सम्मोह्य तु ततः क्षिप्रं तत्रैवान्तरधीयत॥ दृष्ट्वा तत्र राजा स शान्तनुः। शङ्कमानः सुतं गङ्गामब्रवीद् दर्शयेति ह॥ दर्शयामास तं गङ्गा बिभ्रती रूपमुत्तमम्। गृहीत्वा दक्षिणे पाणौ तं कुमारमलंकृतम्॥ अलंकृतामाभरणौर्विरजोऽम्बरसंवृताम्। दृष्टपूर्वामपि स तां नाभ्यजानात् स शान्तनुः॥ गङ्गोवाच यं पुत्रमष्टमं राजंस्त्वं पुरा मय्यविन्दथाः। स चायं पुरुषव्याघ्र सर्वास्त्रविदनुत्तमः॥ गृहाणेमं महाराज मया संवर्धितं सुतम्। आदाय पुरुषव्याघ्र नयस्वैनं गृहं विभो॥ वेदानधिजगे साङ्गान् वसिष्ठादेष वीर्यवान्। कृतास्त्रः परमेष्वासो देवराजसमो युधि॥ सुराणां सम्मतो नित्यमसुराणां च भारत। उशना वेद यच्छास्त्रमयं तद् वेद सर्वशः॥ तथैवाङ्गिरसः पुत्रः सुरासुरनमस्कृतः। यद् वेद शास्त्रं तचापि कृत्स्नमस्मिन् प्रतिष्ठितम्॥ तव पुत्रे महाबाहौ साङ्गोपाङ्गं महात्मनि। ऋषिः परैरनाधृप्यो जामदग्न्यः प्रतापवान्॥ यदस्त्रं वेद रामश्च तदेतस्मिन् प्रतिष्ठितम्। महेष्वासमिमं राजन् राजधर्मार्थकोविदम्॥ मया दत्तं निजं पुत्रं वीरं वीर गृहं नय। वैशम्पायन उवाच तयैवं समनुज्ञातः पुत्रमादाय शान्तनुः॥ भ्राजमानं यथादित्यमाययौ स्वपुरं प्रति। पौरवस्तु पुरीं गत्वा पुरन्दरपुरोपमाम्॥ सर्वकामसमृद्धार्थ मेने सोऽऽत्मानमात्मना। पौरवेषु ततः पुत्र राज्यार्थमभयप्रदम्॥ गुणवन्तं महात्मानं यौवराज्येऽभ्यषेचयत्। पौरवाञ्छान्तनोः पुत्रः पितरं च महायशाः॥ राष्ट्रं च रञ्जयामास वृत्तेन भरतर्षभ। स तथा सह पुत्रेण रममाणो महीपतिः॥ वर्तयामास वर्षाणि चत्वार्यमितविक्रमः। स कदाचित् वनं यातो यमुनामभितो नदीम्॥ महीपतिरनिर्देश्यमाजिघ्रद् गन्धमुत्तमम्। तस्य प्रभवमन्विच्छन् विचचार समन्ततः॥ स ददर्श तदा कन्यां दाशानां देवरूपिणीम्। तामपृच्छत् स दृष्ट्वैव कन्याममितलोचनाम्॥ कस्य त्वमसि का चासि किं च भीरु चिकीर्षसि। साब्रवीद् दाशकन्यास्मि धर्मार्थं वाहये तरिम्॥ पितुर्नियोगाद् भद्रं ते दाशराज्ञो महात्मनः। रूपमाधुर्यगन्धैस्तां संयुक्तां देवरूपिणीम्॥ समीक्ष्य राजा दाशेयी कामयामास शान्तनुः। स गत्वा पितरं तस्या वरयामास तां तदा॥ पर्यपृच्छत् ततस्तस्याः पितरं सोऽऽत्मकारणात्। स च तं प्रत्युवाचेदं दाशराजो महीपतिम्॥ जातमात्रैव मे देया वराय वरवर्णिनी। हृदि कामस्तु मे कश्चित् तं निबोध जनेश्वर॥ यदीमां धर्मपत्नीं त्वं मत्तः प्रार्थयसेऽनघ। सत्यवागसि सत्येन समयं कुरु मे ततः॥ समयेन प्रदद्यां ते कन्यामहमिमां नृप। न हि मे त्वत्समः कश्चिद् वरो जातु भविष्यति।॥ शान्तनुरुवाच श्रुत्वा तव वरं दाश व्यवस्येयमहं तव। दातव्यं चेत् प्रदास्यामि न त्वदेयं कथंचन॥ दाश उवाच अस्यां जायेत यः पुत्रः स राजा पृथिवीपते। त्वदूर्ध्वमभिषेक्तव्यो नान्यः कश्चन पार्थिव॥ वैशम्पायन उवाच नाकामयत तं दातुं वरं दाशाय शान्तनुः। शरीरजेन तीव्रण दह्यमानोऽपि भारत॥ स चिन्तयन्नेव तदा दाशकन्यां महीपतिः। प्रत्ययाद्धास्तिनपुरं कामोपहतचेतनः॥ ततः कदाचिच्छोचन्तं शान्तनुं ध्यानमास्थितम्। पुत्रो देवव्रतोऽभ्येत्य पितरं वाक्यमब्रवीत्॥ सर्वतो भवतः क्षेमं विधेयाः सर्वपार्थिवाः। तत् किमर्थमिहाभीक्ष्णं परिशोचसि दुःखितः॥ ध्यायन्निव च मां राजन्नाभिभाषसि किंचन। न चाश्वेन विनिर्यासि विवर्णो हरिणः कृशः॥ व्याधिमिच्छामि ते ज्ञातुं प्रतिकुर्यां हि तत्र वै। एवमुक्तः स पुत्रेण शान्तनुः प्रत्यभाषत॥ असंशयं ध्यानपरो यथा वत्स तथा शृणु। अपत्यं नस्त्वमेवैकः कुले महति भारत॥ शस्त्रनित्यश्च सततं पौरुषे पर्यवस्थितः। अनित्यतां च लोकानामनुशोचामि पुत्रक॥ कथंचित् तव गाङ्गेय विपत्तौ नास्ति नः कुलम्। असंशयं त्वमेवैकः शतादपि वरः सुतः॥ न चाप्यहं वृथा भूयो दारान् कर्तुमिहोत्सहे। संतानस्याविनाशाय कामये भद्रमस्तु ते॥ अनपत्यतैकपुत्रत्वमित्याहुर्धर्मवादिनः। अग्निहोत्रं त्रयीविद्यासंतानमपि चाक्षयम्॥ सर्वाण्येतान्यपत्यस्य कलां नार्हन्ति षोडशीम्। एवमेतन्मनुष्येषु तच सर्वप्रजास्विति॥ यदपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः। एषा त्रयीपुराणानां देवतानां च शाश्वती॥ त्वं च शूरः सदामर्षी शस्त्रनित्यश्च भारत। नान्यत्र युद्धात् तस्मात् ते निधनं विद्यते क्वचित्॥ सोऽस्मि संशयमापन्नस्त्वयि शान्ते कथं भवेत्। इति ते कारणं तात दुःखस्योक्तमशेषतः॥ वैशम्पायन उवाच ततस्तत्कारणं राज्ञो ज्ञात्वा सर्वमशेषतः। देवव्रतो महाबुद्धिः प्रज्ञया चान्वचिन्तयत्॥ अभ्यगच्छत् तदैवाशु वृद्धामात्यं पितुर्हितम्। तमपृच्छत् तदाभ्येत्य पितुस्तच्छोककारणम्॥ तस्मै स कुरुमुख्याय यथावत् परिपृच्छते। वरं शशंस कन्यां तामुद्दिश्य भरतर्षभ॥ ततो देवव्रतो वृद्धैः क्षत्रियैः सहितस्तदा। अभिगम्य दाशराजं कन्यां वन्ने पितुः स्वयम्॥ तं दाशः प्रतिजग्राह विधिवत् प्रतिपूज्य च। अब्रवीचैनमासीनं राजसंसदि भारत॥ त्वमेव नाथः पर्याप्तः शान्तनोर्भरतर्षभ। पुत्रः शस्त्रभृतां श्रेष्ठः किं तु वक्ष्यामि ते वचः॥ को हि सम्बन्धकं श्लाघ्यमीप्सितं यौनमीदृशम्। अतिक्रामन्न तप्येत साक्षादपि शतक्रतुः॥ अपत्यं चैतदार्यस्य यो युष्माकं समो गुणैः। यस्य शुक्रात् सत्यवती सम्भूता वरवर्णिनी॥ तेन मे बहुशस्तात पिता ते परिकीर्तितः। अर्हः सत्यवतीं वोढुं धर्मज्ञः स नराधिपः॥ अर्थितश्चापि राजर्षिः प्रत्याख्यातः पुरा मया। स चाप्यासीत् सत्यवत्या भृशमर्थी महायशाः॥ कन्यापितृत्वात् किंचित् तु वक्ष्यामि त्वां नराधिप। बलवत्सपत्नतामत्र दोषं पश्यामि केवलम्॥ यस्य हि त्वं सपत्नः स्या गन्धर्वस्यासुरस्य वा। न स जातु चिरं जीवेत् त्वयि क्रुद्धे परंतप॥ एतावानत्र दोषो हि नान्यः कश्चन पार्थिवा एतज्जानीहि भद्रं ते दानादाने परंतप॥ वैशम्पायन उवाच एवमुक्तस्तु गाङ्गेयस्तयुक्तं प्रत्यभाषत। शृण्वतां भूमिपालानां पितुराय भारत॥ इदं मे व्रतमादत्स्व सत्यं सत्यवतां वर। नैव जातो न वाजात ईदृशं वक्तुमुत्सहेत्॥ एवमेतत् करिष्यामि यथा त्वमनुभाषसे। योऽस्यां जनिष्यते पुत्रः स नो राजा भविष्यति॥ इत्युक्तः पुनरेवाथ तं दाशः प्रत्यभाषत। चिकीर्षुर्दुष्करं कर्म राज्यार्थे भरतर्षभ॥ त्वमेव नाथः सम्प्राप्तः शान्तनोरमिताते। कन्यायाश्चैव धर्मात्मन् प्रभुर्दानाय चेश्वरः॥ इदं तु वचनं सौम्य कार्यं चैव निबोध मे। कौमारिकाणां शीलेन वक्ष्याम्यहमिरन्दम॥ यत् त्वया सत्यवत्यर्थे सत्यधर्मपरायण। राजमध्ये प्रतिज्ञातमनुरूपं तवैव तत्॥ नान्यथा तन्महाबाहो संशयोऽत्र न कश्चन। तवापत्यं भवेद् यत् तु तत्र नः संशयो महान्॥ वैशम्पायन उवाच तस्यैतन्मतमाज्ञाय सत्यधर्मपरायणः। प्रत्यजानात् तदा राजन् पितुः प्रियचिकीर्षया॥ दाशराज निबोधेदं वचनं मे नरोत्तम। शृण्वतां भूमिपालानां यद् ब्रवीमि पितुः कृते॥ राज्यं तावत् पूर्वमेव मया त्यक्तं नराधिपाः। अपत्यहेतोरपि च करिष्येऽद्य विनिश्चयम्॥ अद्यप्रभृति मे दाश ब्रह्मचर्यं भविष्यति। अपुत्रस्यापि मे लोका भविष्यन्त्यक्षया दिवि॥ वैशम्पायन उवाच तस्य तद् वचनं श्रुत्वा सम्प्रहृष्टतनूरुहः। ददानीत्येव तं दाशो धर्मात्मा प्रत्यभाषत॥ ततोऽन्तरिक्षेऽप्सरसो देवाः सर्षिगणास्तदा। अभ्यवर्षन्त कुसुमैर्भीष्मोऽयमिति चाब्रुवन्॥ ततः स पितुराय तामुवाच यशस्विनीम्। अधिरोह रथं मातर्गच्छावः स्वगृहानिति॥ वैशम्पायन उवाच एवमुक्त्वा तु भीष्मस्तां रथमारोप्य भाविनीम्। आगम्य हास्तिनपुरं शान्तनोः संन्यवेदयत्॥ तस्य तद् दुष्करं कर्म प्रशशंसुर्नराधिपाः। समेताश्च पृथक् चैव भीष्मोऽयमिति चाब्रुवन्॥ तच्छ्रुत्वा दुष्करं कर्म कृतं भीष्मेण शान्तनुः। स्वच्छन्दमरणं तुष्टो ददौ तस्मै महात्मने॥ न ते मृत्युः प्रभविता यावजीवितुमिच्छसि। त्वत्तो ह्यनुज्ञां सम्प्राप्य मृत्युः प्रभवितानघ॥ वैशम्पायन उवाच ततो विवाहे निवृत्ते स राजा शान्तनुर्नृपः। तां कन्यां रूपसम्पन्नां स्वगृहे संन्यवेशयत्॥ ततः शान्तनवो धीमान् सत्यवत्यामजायता वीरश्चित्राङ्गदो नाम वीर्यवान् पुरुषेश्वरः॥ अथापरं महेष्वासं सत्यवत्यां सुतं प्रभुः। विचित्रवीर्यं राजानं जनयामास वीर्यवान्॥ अप्राप्तवति तस्मिंस्तु यौवनं पुरुषर्षभे। स राजा शान्तनुर्धीमान् कालधर्ममुपेयिवान्॥ स्वर्गते शान्तनौ भीष्मश्चित्राङ्गदमरिंदमम्। स्थापयामास वै राज्ये सत्यवत्या मते स्थितः॥ स तु चित्राङ्गदः शौर्यात् सर्वांश्चिक्षेप पार्थिवान्। मनुष्यं न हि मेने स कंचित् सदृशमात्मनः॥ तं क्षिपन्तं सुरांश्चैव मनुष्यानसुरांस्तथा। गन्धर्वराजो बलवांस्तुल्यनामाभ्ययात् तदा॥ तेनास्य सुमहद् युद्धं कुरुक्षेत्रे बभूव ह। तयोर्बलवतोस्तत्र गन्धर्वकुरुमुख्ययोः। नद्यास्तीरे सरस्वत्याः समास्तिस्रोऽभवद् रणः॥ तस्मिन् विमर्दे तुमुले शस्त्रवर्षसमाकुले। मायाधिकोऽवधीद् वीरं गन्धर्वः कुरुसत्तमम्॥ स हत्वा तु नरश्रेष्ठं चित्राङ्गदमरिंदमम्। अन्ताय कृत्वा गन्धर्वो दिवमाचक्रमे ततः॥ तस्मिन् पुरुषशार्दूले निहते भूरितेजसि। भीष्मः शान्तनवो राजा प्रेतकार्याण्यकारयत्॥ विचित्रवीर्यं च तदा बालमप्राप्तयौवनम्। कुरुराज्ये महाबाहुरभ्यषिञ्चदनन्तरम्॥ विचित्रवीर्यः स तदा भीष्मस्य वचने स्थितः। अन्वशासन्महाराज पितृपैतामहं पदम्॥ स धर्मशास्त्रकुशलं भीष्मं शान्तनवं नृपः। पूजयामास धर्मेण स चैनं प्रत्यपालयत्॥ वैशम्पायन उवाच हते चित्राङ्गदे भीष्मो बाले भ्रातरि कौरवा पालयामास तद् राज्यं सत्यवत्या मते स्थितः॥ सम्प्रासयौवनं दृष्ट्वा भ्रातरं धीमतां वरः। भीष्मो विचित्रवीर्यस्य विवाहायाकरोन्मतिम्॥ अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरोपमाः। शुश्राव सहिता राजन् वृण्वाना वै स्वयंवरम्॥ ततः स रथिनां श्रेष्ठो रथेनैकेन शत्रुजित्। जगामानुमते मातुः पुरीं वाराणसी प्रभुः॥ तत्र राज्ञः समुदितान् सर्वतः समुपागतान्। ददर्श कन्यास्ताश्चैव भीष्मः शान्तनुनन्दनः॥ कीर्त्यमानेषु राज्ञां तु तदा नामसु सर्वशः। (एकाकिनं तदा भीष्मं वृद्धं शान्तनुनन्दनम्॥ सोद्वेगा इव तं दृष्ट्वा कन्याः परमशोभनाः। अपाक्रामन्त ताः सर्वा वृद्ध इत्येव चिन्तया॥ वृद्धः परमधर्मात्मा वलीपलितधारणः। किं कारणमिहायातो निर्लज्जो भरतर्षभः॥ मिथ्याप्रतिज्ञो लोकेषु किं वदिष्यति भारत। ब्रह्मचारीति भीष्मो हि वृथैव प्रथितो भुवि।। इत्येवं प्रब्रुवन्तस्ते हसन्ति स्म नृपाधमाः। वैशम्पायन उवाच क्षत्रियाणां वचः श्रुत्वा भीष्मश्चक्रोध भारत!!) भीष्मस्तदा स्वयं कन्या वरयामास ताः प्रभुः॥ उवाच च महीपालान् राजञ्जलदनिस्वनः। रथमारोप्य ताः कन्या भीष्मः प्रहरतां वरः॥ आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधः। अलंकृत्य यथाशक्ति प्रदाय च धनान्यपि॥ प्रयच्छन्त्यपरे कन्या मिथुनेन गवामपि। वित्तेन कथितेनान्ये बलेनान्येऽनुमान्य च॥ प्रमत्तामुपयन्त्यन्ये स्वयमन्ये च विन्दते। आर्ष विधि पुरस्कृत्य दारान् विन्दन्ति चापरे॥ अष्टमं तमथो वित्त विवाहं कविभिर्वतम्। स्वयंदरं तु राजन्याः प्रशंसन्त्युपयान्ति च॥ प्रमथ्य तु हृतामाहुायसी धर्मवादिनः। ता इमाः पृथिवीपाला जिहीर्षामि बलादितः॥ ते यतध्वं परं शक्त्या विजयायेतराय वा। स्थितोऽहं पृथिवीपाला युद्धाय कृतनिश्चयः॥ एवमुक्त्वा महीपलान् काशिराजं च वीर्यवान्। सर्वाः कन्याः स कौरव्यो रथमारोप्य च स्वकम्।।१४। आमन्त्र्य च स तान् प्रायाच्छीघ्रं कन्याः प्रगृह्य ताः। ततस्ते पार्थिवाः सर्वे समुत्पेतुरमर्षिताः॥ संस्पृशन्तः स्वकान् बाहून् दशन्तो दशनच्छदान्। तेषामाभारणान्याशु त्वरितानां विमुञ्चताम्॥ आमुञ्चतां च वर्माणि सम्भ्रमः सुमहानभूत्। ताराणामिव सम्पातो बभूव जनमेजय॥ भूषणानां च सर्वेषां कवचानां च सर्वशः। सवर्मभिर्भूषणैश्च प्रकीर्यद्भिरितस्ततः॥ सक्रोधामर्षजिह्मभूकषायीकृतलोचनाः। सूतोपक्लृप्तान् रुचिरान् सदश्वैरुपकल्पितान्॥ रथानास्थाय ते वीराः सर्वप्रहरणान्विताः। प्रयान्तमथ कौरव्यमनुसत्ररुदायुधाः॥ ततः समभवद् युद्धं तेषां तस्य च भारत। एकस्य च बहूनां च तुमुलं लोमहर्षणम्॥ ते त्विषून् दश साहस्रांस्तस्मिन् युगपदाक्षिपन्। अप्राप्तांश्चैव तानाशु भीष्मः सर्वांस्तथान्तरा॥ अच्छिनच्छरवर्षेण महता लोमवाहिना। ततस्ते पार्थिवाः सर्वे सर्वतः परिवार्य तम्॥ ववृषुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः। स तं बाणमयं वर्षं शरैरावार्य सर्वतः॥ ततः सर्वान् महीपालान् पर्यविध्यात् त्रिभिस्त्रिभिः। एकैकस्तु ततो भीष्यं राजन् विव्याध पञ्चभिः॥ स च तान् प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमन्। तद् युद्धमासीत् तुमुलं घोरं देवासुरोपमम्॥ पश्यतां लोकवीराणां शरशक्तिसमाकुलम्। स धनूंषि ध्वजाग्राणि वर्माणि च शिरांसि च॥ चिच्छेद समरे भीष्मः शतशोऽथ सहस्रशः। तस्याति पुरुषानन्याँल्लाघवं रथचारिणः॥ रक्षणं चात्मनः संख्ये शत्रवोऽप्यभ्यपूजयन्। तान् विनिर्जित्य तु रणे सर्वशस्त्रभृतां वरः॥ कन्याभिः सहितः प्रायाद् भारतो भारतान् प्रति। ततस्तं पृष्ठतो राजञ्छाल्वराजो महारथः॥ अभ्यगच्छदमेयात्मा भीष्मं शान्तनवं रणे। वारणं जघने भिन्दन् दन्ताभ्यामपरो यथा॥ वासितामनुसम्प्राप्तो यूथपो बलिनां वरः।। स्त्रीकामस्तिष्ठ तिष्ठेति भीष्ममाह स पार्थिवः॥ शाल्वराजो महाबाहुरमर्षेण प्रचोदितः। ततः सः पुरुषव्याघ्रो भीष्मः परबलार्दनः॥ तद्वाक्याकुलितः क्रोधाद् विधूमोऽग्निरिव ज्वलन्। विततेषुधनुष्पाणिविकुञ्चितललाटभृत्॥ क्षत्रधर्म समास्थाय व्यपेतभयसम्भ्रमः। निवर्तयामास रथं शाल्वं प्रति महारथः॥ निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते। प्रेक्षकाः समपद्यन्त भीष्मशाल्वसमागमे॥ तौ वृषाविव नर्दन्तौ बलिनौ वासितान्तरे। अन्योन्यमभ्यवर्तेतां बलविक्रमशालिनौ॥ ततो भीष्मं शान्तनवं शरैः शतसहस्रशः। शाल्वराजो नरश्रेष्ठः समवाकिरदाशुगैः॥ पूर्वमभ्यर्दितं दृष्ट्वा भीष्मं शाल्वेन ते नृपाः। विस्मिताः समपद्यन्त साधु साध्विति चाब्रुवन्॥ लाघवं तस्य ते दृष्ट्वा समरे सर्वपार्थिवाः। अपूजयन्त संहृष्टा वाग्भिः शाल्वं नराधिपम्॥ क्षत्रियाणां ततो वाचः श्रुत्वा परपुरंजयः। क्रुद्धः शान्तनवो भीष्मस्तिष्ठ तिष्ठेत्यभाषत॥ सारथिं चाब्रवीत् क्रुद्धो याहि यत्रैष पार्थिवः। यावदेनं निहन्म्यद्य भुजङ्गमिव पक्षिराट्॥ ततोऽस्त्रं वारुणं सम्यग् योजयामास कौरवः। तेनाश्वांश्चतुरोऽमृद्गच्छाल्वराजस्य भूपते॥ अस्त्रैरस्त्राणि संवार्य शाल्वराजस्य कौरवः। भीष्मो नृपतिशार्दूल न्यवधीत् तस्य सारथिम्॥ अस्त्रेण चास्याथैन्द्रेण न्यवधीत् तुरगोत्तमान्। कन्याहेतोर्नरश्रेष्ठ भीष्मः शान्तनवस्तदा॥ जित्वा विसर्जयामास जीवन्तं नृपसत्तमम्। ततः शाल्वः स्वनगरं प्रययौ भरतर्षभ॥ स्वराज्यमन्वशाच्चैव धर्मेण नृपतिस्तदा। राजानो ये च तत्रासन् स्वयंवरदिदृक्षवः॥ स्वान्येव तेऽपि राष्ट्राणि जग्मुः परपुरंजयाः। एवं विजित्य ताः कन्या भीष्मः प्रहरतां वरः॥ प्रययौ हास्तिनपुरं यत्र राजा स कौरवः। विचित्रवीर्यो धर्मात्मा प्रशास्ति वसुधामिमाम्॥ यथा पितास्य कौरव्यः शान्तनुर्नृपसत्तमः। सोऽचिरेणैव कालेन अत्यनामन्नराधिप।॥ वनानि सरितश्चैव शैलांश्च विविधान् द्रुपान्। अक्षतः क्षपयित्वारीन् संख्येऽसंख्येयविक्रमः॥ आनयामास काश्यस्य सुताः सागरमासुतः। स्नुषा इव स धर्मात्मा भगिनीरिव चानुजाः॥ यथा दुहितरश्चैव परिगृह्य ययौ कुरून्। आनिन्ये स महाबाहुर्धातुः प्रियचिकीर्षया॥ ताः सर्वगुणसम्पन्ना भ्राता भ्रात्रे यवीयसे। भीष्मो विचित्रवीर्याय प्रददौ विक्रमाहृताः॥ एवं धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम्। भ्रातुर्विचित्रवीर्यस्य विवाहायोपचक्रमे॥ सत्यवत्या सह मिथः कृत्वा निश्चयमात्मवान्। विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुता। ज्येष्ठा तासामिदं वाक्यमब्रवीद्धसती तदा॥ मया सौभपतिः पूर्वं मनसा हि वृतः पतिः। तेन चास्मि वृता पूर्वमेष कामश्च मे पितुः॥ मया वरयितव्योऽभूच्छाल्वस्तस्मिन् स्वयंवरे। एतद् विज्ञाय धर्मज्ञ धर्मतत्त्वं समाचर॥ एवमुक्तस्तया भीष्मः कन्यया विप्रसंसदि। चिन्तामभ्यगमद् वीरो युक्तां तस्यैव कर्मणः॥ विनिश्चित्य स धर्मज्ञो ब्राह्मणैर्वेदपारगैः। अनुजज्ञे तदा ज्येष्ठामम्बां काशिपतेः सुताम्॥ अम्बिकाम्बालिके भार्ये प्रादाद् भ्रात्रे यवीयसे। भीष्मो विचित्रवीर्याय विधिदृष्टेन कर्मणा॥ तयोः पाणी गृहीत्वा तु रूपयौवनदर्पितः। विचित्रवीर्यो धर्मात्या कामात्मा समपद्यत॥ ते चापि बृहती श्यामे नीलकुञ्चितमूर्धजे। रक्ततुङ्गनखोपेते पीनश्रोणिपयोधरे॥ आत्मनः प्रतिरूपोऽसौ लब्धः पतिरिति स्थिते। विचित्रवीर्यं कल्याण्यौ पूजयामासतुः शुभे॥ स चाश्विरूपसदृशो देवतुल्यपराक्रमः। सर्वासामेव नारीणां चित्तप्रमथनो रहः॥ ताभ्यां सह समाः सप्त विहरन् पृथिवीपतिः। विचित्रवीर्यस्तरुणो यक्ष्मणा समगृह्यत॥ सुहृदां यतमानानामाप्तैः सह चिकित्सकैः। जगामास्तमिवादित्यः कौरव्यो यमसादनम्॥ धर्मात्मा स तु गाङ्गेयश्चिन्ताशोकपरायणः। प्रतेकार्याणि सर्वाणि तस्य सम्यगकारयत्॥ राज्ञो विचित्रवीर्यस्य सत्यवत्या मते स्थितः। ऋत्विग्भिः सहितो भीष्मः सर्वैश्च कुरुपुङ्गवैः॥ वैशम्पायन उवाच ततः सत्यवती काले वधूं स्नातामृतौ तदा। संवेशयन्ती शयने शनैर्वचनमब्रवीत्॥ कौसल्ये देवरस्तेऽस्ति सोऽद्य त्वानुप्रवेक्ष्यति। सम्बभूव तया सार्धं अप्रमत्ता प्रतीक्षैनं निशीथे ह्यागमिष्यति॥ श्वश्वास्तद् वचनं श्रुत्वा शयाना शयने शुभे। साचन्तयत् तदा भीष्ममन्यांश्च कुरुपुङ्गवान्॥ ततोऽम्बिकायां प्रथमं नियुक्तः सत्यवागृषिः। दीप्यमानेषु दीपेषु शरणं प्रविवेश ह॥ तस्य कृष्णस्य कपिला जटां दीप्ते च लोचने। बभूणि चैव श्मश्रूणि दृष्ट्वा देवी न्यमीलयत्॥ मातुः प्रियचिकीर्षया। भयात् काशिसुतां तं तु नाशक्नोदभिवीक्षितुम्॥ ततो निष्क्रान्तमागम्य माता पुत्रमुवाच ह। अप्यस्या गुणवान् पुत्र राजपुत्रो भविष्यति॥ निशम्य तद् वचो मातुर्व्यासः सत्यवतीसुतः। नागायुतसमप्राणो विद्वान् राजर्षिसत्तमः॥ महाभागो महावीर्यो महाबुद्धिर्भविष्यति। तस्य चापि शतं पुत्रा भविष्यन्ति महात्मनः॥ किं तु मातुः स वैगुण्यादन्ध एव भविष्यति। तस्य तद् वचनं श्रुत्वा माता पुत्रमथाब्रवीत्॥ नान्धः कुरूणां नृपतिरनुरूपस्तपोधन। ज्ञातिवंशस्य गोप्तारं पितॄणां वंशवर्धनम्॥ द्वितीयं कुरुवंशस्य राजानं दातुमर्हसि। स तथेति प्रतिज्ञाय निश्चक्राम महायशाः॥ सापि कालेन कौसल्या सुषुवेऽन्धं तमात्मजम्। पुनरेव तु सा देवी परिभाष्य स्नुषां ततः॥ ऋषिमावाहयत् सत्या यथा पूर्वमरिंदम! ततस्तेनैव विधिना महर्षिस्तामपद्यत॥ अम्बालिकामथाभ्यागादृषि दृष्ट्वा च सापि तम्। विवर्णा पाण्डुसंकाशा समपद्यत भारत॥ तां भीतां पाण्डुसंकाशां विषण्णां प्रेक्ष्य भारत! व्यासः सत्यवतीपुत्र इदं वचनमब्रवीत्॥ यस्मात् प. डुत्वमापन्ना विरूपं प्रेक्ष्य मामिह। तस्मादेव सुतस्ते वै पाण्डुरेव भविष्यति॥ नाम चास्यैतदेवेह भविष्यति शुभानने। इत्युक्त्वा स निरक्रामद् भगवानृषिसत्तमः॥ ततो निष्क्रान्तमालोक्य सत्या पुत्रमथाब्रवीत्। शशंस स पुनर्मात्रे तस्य बालस्य पाण्डुताम्॥ तं माता पुनरेवान्यमेकं पुत्रमयाचता तथेति च महर्षिस्तां मातरं प्रत्यभाषत॥ तत: कुमारं सा देवी प्राप्तकालमजीजनत्। पाण्डु लक्षणसम्पन्नं दीप्यमानमिव श्रिया॥ यस्या पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः। ऋतुकाले ततो ज्येष्ठां वधूं तस्मै न्ययोजयत्॥ सा तुरूपं च गन्धं च महर्षेः प्रविचिन्त्य तम्। नाकरोद् वचनं देव्या भयात् सुरसुतोपमा॥ ततः स्वैर्भूषणैर्दासी भूषयित्वाप्सरोपमाम्। प्रेषयामास कृष्णाय ततः काशिपतेः सुता॥ सा तमृषिमनुप्राप्तं प्रत्युद्गम्याभिवाद्य च। संविवेशाभ्यनुज्ञाता सत्कृत्योपचचार ह॥ कामोपभोगेन रहस्तस्यां तुष्टिमगादृषिः। तया सहोषितो राजन् महर्षिः संशितव्रतः॥ उत्तिष्ठन्नववीदेनामभुजिष्या भविष्यसि। अयं च ते शुभे गर्भः श्रेयानुदरमागतः। धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः॥ स जज्ञे विदुरो नाम कृष्णद्वैपायनात्मजः। धृतराष्ट्रस्य वै भ्राता पाण्डोश्चैव महात्मनः॥ धर्मो विदुररूपेण शापात् तस्य महात्मनः। माण्डव्यस्यार्थतत्वज्ञः कामक्रोधविवर्जितः॥ कृष्णद्वैपायनोऽप्येतत् सत्यवत्यै न्यवेदयत्। प्रलम्भमात्मनश्चैव शूद्रायाः पुत्रजन्म च॥ स धर्मस्यानृणो भूत्वा पुनर्मात्रा समेत्य च। तस्यै गर्भ समावेद्य तत्रैवान्तरधीयत॥ एते विचित्रवीर्यस्य क्षेत्रे द्वैपायनादपि। जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः॥ जनमेजय उवाच किं कृतं कर्म धर्मेण येन शापमुपेयिवान्। कस्य शापाच ब्रह्मर्षे: शुद्रयोनावजायत।॥ वैशम्पायन उवाच बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः। धृतिमान् सर्वधर्मज्ञः सत्ये तपसि च स्थितः॥ स आश्रमपदद्वारि वृक्षमूले महातपाः। ऊर्ध्वबाहुर्महायोगी तस्थौ मौनव्रतान्वितः॥ तस्य कालेन महता तस्मिंस्तपसि वर्ततः। तमाश्रममनुप्राप्ता दस्यवो लोप्पहारिणः॥ अनुसार्यमाणा बहुभी रक्षिभिर्भरतर्षभ। ते तस्यावसथे लोखं दस्यवः कुरुसत्तम॥ निधाय च भयाल्लीनास्तत्रैवानागते बले। तेषु लीनेष्वथो शीघ्रं ततस्तद् रक्षिणां बलम्॥ आजगाम ततोऽपश्यंस्तमृषि तस्करानुगाः। तमपृच्छंस्ततो राजंस्तथावृत्तं तपोधनम्॥ कतमेन पथा याता दस्यवो द्विजसत्तम। तेन गच्छामहे ब्रह्मन् यथा शीघ्रतरं वयम्॥ तथा तु रक्षिणां तेषां ब्रुवतां स तपोधनः। न किंचिद् वचनं राजन्नब्रवीत् साध्वसाधु वा॥ ततस्ते राजपुरुषा विचिन्वानास्तमाश्रमम्। तदृशुस्तत्र लीनांस्तांश्चौरांस्तद् द्रव्यमेव च॥ ततः शङ्का समभवद् रक्षिणां तं मुनि प्रति। संयम्यैनं ततो राज्ञे दस्यूंश्चैव न्यवेदयन्॥ तं राजा सह तैश्चौरैरन्वशाद् वध्यतामिति। स रक्षिभिस्तैरज्ञात: शूले प्रोतो महातपाः॥ ततस्ते शूलमारोप्य तं मुनि रक्षिणस्तदा। प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ॥ शूलस्थः स तु धर्मात्मा कालेन महता ततः। निराहारोऽपि विप्रर्षिर्मरणं नाभ्यपद्यत॥ धारयामास च प्राणानृषींश्च समुपानयत्। शूलाग्रे तप्यमानेन तपस्तेन महात्मना॥ संतापं परमं जग्मुर्मुनयस्तपसान्विताः। ते रात्रौ शकुना भूत्वा संनिपत्य तु भारत। दर्शयन्तो यथाशक्ति तमपृच्छन् द्विजोत्तमम्॥ श्रोतुमिच्छामहे ब्रह्मन् किं पापं कृतवानसि। येनेह समनुप्राप्तं शूले दुःखभयं महत्॥ वैशम्पायन उवाच ततः स मुनिशार्दूलस्तानुवाच तपोधनान्। दोषतः कं गमिष्यामि न हि मेऽन्योऽपराध्यति॥ तं दृष्ट्वा रक्षिणस्तत्र तथा बहुतिथेऽहनि। न्यवेदयंस्तथा राज्ञे यथावृत्तं नराधिप॥ श्रुत्वा च वचनं तेषां निश्चित्य सह मन्त्रिभिः। प्रसादयामास तथा शूलस्थमृषिसत्तमम्॥ राजोवाच यन्मयापकृतं मोहादज्ञानादृषिसत्तम। प्रसादये त्वां तत्राहं न मे त्वं क्रोद्भुमर्हसि।॥ वैशम्पायन उवाच एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः। कृतप्रसादं राजा तं ततः समवतारयत्॥ अवतार्य च शूलाग्रात् तच्छूलं निश्चकर्ष ह। अशक्नुवंश्च निष्क्रष्टुं शूलं मूले च चिच्छिदे॥ स तथान्तर्गतेनैव शूलेन व्यतरन्मुनिः। तेनातितपसा लोकान् विजिग्ये दुर्लभान् परैः॥ अणीमाण्डव इति च ततो लोकेषु गीयते। स गत्वा सदनं विप्रो धर्मस्य परमात्मवित्॥ आसनस्थं ततो धर्मं दृष्ट्वोपालभत प्रभुः। किं नु तद् दुष्कृतं कर्म मया कृतमजानता॥ यस्येयं फलनिर्वृत्तिरीदृश्यासादिता मया। शीघ्रमाचक्ष्व मे तत्त्वं पश्य मे तपसो बलम्॥ धर्म उवाच पतङ्गिकानां पुच्छेषु त्वयेषीका प्रवेशिता। कर्मणस्तस्य ते प्राप्तं फलमेतत् तपोधन॥ अणीमाण्डव्य उवाच अल्पेऽपराधेऽपि महान् मम दण्डस्त्वया कृतः। शूद्रयोनावतो धर्म मानुषः सम्भविष्यसि। मर्यादां स्थापयाम्यद्य लोके धर्मफलोदयाम्॥ आ चतुर्दशकाद् वर्षान्न भविष्यति पातकम्। परतः कुर्वतामेवं दोष एव भविष्यति॥ वैशम्पायन उवाच एतेन त्वपराधेन शापात् तस्य महात्मनः। धर्मो विदुररूपेण शूद्रयोनावजायत॥ धर्मे चार्थे च कुशलो लोभक्रोधविवर्जितः। दीर्घदर्शी शमपरः कुरूणां च हिते रतः॥ वैशम्पायन उवाच तेषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम्। कुरवोऽथ कुरुक्षेत्रं त्रयमेतदवर्धत॥ ऊर्ध्वसस्याभवद् भूमिः सस्यानि रसवन्ति च। यथर्तुवर्षी पर्जन्यो बहुपुष्पफला दुमाः॥ वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः। गन्धवन्ति च माल्यानि रसवन्ति फलानि च।॥ वणिम्भिश्चान्वकीर्यन्त नगराण्यथ शिल्पिभिः। शूराश्च कृतविद्याश्च सन्तश्च सुखिनोऽभवन्॥ नाभवन् दस्यवः केचिन्नाधर्मरुचयो जनाः। प्रदेशेष्वपि राष्ट्राणां कृतं युगमवर्तत॥ धर्मक्रिया यज्ञशीलाः सत्यव्रतपरायणाः। अन्योन्यप्रीतिसंयुक्ता व्यवर्धन्त प्रजास्तदा॥ मानक्रोधविहीनाश्च नरा लोभविवर्जिताः। अन्योन्यमभ्यनन्दन्त धर्मोत्तरमवर्तत॥ तन्महोदधिवत् पूर्णं नगरं वै व्यरोचत। द्वारतोरणनिर्दूहैर्युक्तमध्चयोपमैः॥ प्रासादशतसम्बाधं महेन्द्रपुरसंनिभम्। नदीषु वनखण्डेषु वापीपल्वलसानुषु। काननेषु च रम्येषु विजहर्मुदिता जनाः॥ उत्तरैः कुरुभिः सार्धं दक्षिणा: कुरवस्तथा। विस्पर्धमाना व्यचरंस्तथा देवर्षिचारणैः॥ नाभवत् कृपणः कश्चिन्नाभवन् विधवाः स्त्रियः। तस्मिञ्जनपदे रम्ये कुरुभिर्बहुलीकृते॥ कूपारामसभावाप्यो ब्राह्मणावसथास्तथा। बभूवुः सर्वर्द्धियुतास्तस्मिन् राष्ट्रे सदोत्सवाः॥ भीष्मेण धर्मतो राजन् सर्वतः परिरक्षिते। बभूव रमणीयश्च चैत्ययूपशताङ्कितः॥ स देशः परराष्ट्राणि विमृज्याभिप्रवर्धितः। भीष्मेण विहितं राष्ट्र धर्मचक्रमवर्तत॥ क्रियमाणेषु कृत्येषु कुमाराणां महात्मनाम्। पौरजानपदाः सर्वे बभूवुः सततोत्सवाः॥ गृहेषु कुरुमुख्यानां पौराणां च नराधिप। दीयतां भुज्यतां चेति वाचोऽश्रूयन्त सर्वशः॥ धृतराष्ट्रश्च पाण्डुश्च विदुरश्च महामतिः। जन्मप्रभृति भीष्मेण पुत्रवत् परिपालिताः॥ संस्कारैः संस्कृतास्ते तु व्रताध्ययनसंयुताः। श्रमव्यायामकुशलाः समपद्यन्त यौवनम्॥ धनुर्वेदऽश्वपृष्ठे च गदायुद्धेऽसिचर्मणि। तथैव गजशिक्षायां नीतिशास्त्रेषु पारगाः॥ इतिहासपुराणेषु नानाशिक्षासु बोधिताः। वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्चयाः॥ पाण्डुर्धनुषि विक्रान्तो नरेष्वभ्यधिकोऽभवत्। अन्येभ्यो बलवानासीद् धृतराष्ट्रो महीपतिः॥ त्रिषु लोकेषु न त्वासीत् कश्चिद् विदुरसम्मितः। धर्मनित्यस्तथा राजन् धर्मे च परमं गतः॥ प्रणष्टं शन्तनोर्वंशं समीक्ष्य पुनरुद्धृतम्। ततो निर्वचनं लोके सर्वराष्ट्रेष्ववर्तत॥ वीरसूनां काशिसुते देशानां कुरुजाङ्गलम्। सर्वधर्मविदां भीष्मः पुराणां गजसाह्वयम्॥ धृतराष्ट्रस्त्वचक्षुष्ट्वाद् राज्यं च प्रत्यपद्यत। पारसवत्वाद् विदुरो राजा पाण्डुर्बभूव ह॥ कदाचिदथ गाङ्गेय सर्वनीतिमतां वरः। विदुरं धर्मतत्त्वज्ञं वाक्यमाह यथोचितम्॥ भीष्म उवाच गुणैः समुदितं सम्यगिदं नः प्रथितं कुलम्। अत्यन्यान् पृथिवीपालान् पृविव्यामधिराज्यभाक्॥ रक्षितं राजभिः पूर्वं धर्मविद्भिर्महात्मभिः। नोत्सादमगमचेदं कदाचिदिह नःकुलम्॥ मया च सत्यवत्या च कृष्णेन च महात्मना। समवस्थापितं भूयो युष्मासु कुलतन्तुषु॥ तचैतद् वर्धते भूयः कुलं सागरवद् यथा। तथा मया विधातव्यं त्वया चैव न संशयः॥ श्रूयते यादवी कन्या स्वानुरूपा कुलस्य नः। सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च॥ कुलीना रूपवत्यश्च ताः कन्याः पुत्र सर्वशः। उचिताश्चैव सम्बन्धे तेऽस्माकं क्षत्रियर्षभाः॥ मन्ये वरयितव्यास्ता इत्यहं धीमतां वर। संतानार्थं कुलस्यास्य यद् वा विदुर मन्यसे॥ विदुर उवाच भवान् पिता भवान् माता भवान् नः परमो गुरुः। कुलस्यास्य विचार्य कुरु यद्धितम्॥ वैशम्पायन उवाच अथ शुश्राव विप्रेभ्यो गान्धारी सुबलात्मजाम्। आराध्य वरदं देवं भगनेत्रहरं हरम्॥ गान्धारी किल पुत्राणां शतं लेभे वरं शुभा। इति शुश्राव तत्त्वेन भीष्मः कुरुपितामहः॥ ततो गान्धारराजस्य प्रेषयामास भारत। अचक्षुरिति तत्रासीत् सुबलस्य विचारणा॥ तस्मात् स्वयं कुलं ख्यातिं च वृत्तं च बुद्ध्या तु प्रसमीक्ष्य सः। ददौ तां धृतराष्ट्राय गान्धारी धर्मचारिणीम्॥ गान्धारी त्वथ सुश्राव धृतराष्ट्रमचक्षुषम्। आत्मानं दित्सितं चास्मै पित्रा मात्रा च भारत॥ ततः सा पट्टमादाय कृत्वा बहुगुणं तदा। बबन्ध नेत्रे स्वे राजन् पतिव्रतपरायणा॥ नाभ्यसूयां पतिमहमित्येवं कृतनिश्चया। ततो गान्धारराजस्य पुत्रः शकुनिरभ्ययात्॥ स्वसारं वयसा लक्ष्या युक्तामादाय कौरवान्। तां तदा धृतराष्ट्राय ददौ परमसत्कृताम्। भीष्मस्यानुमते चैव विवाहं समकारयत्॥ दत्त्वा स भगिनीं वीरो यथार्ह च परिच्छदम्। पुनरायात् स्वनगरं भीष्मेण प्रतिपूजितः॥ गान्धार्यपि वरारोहा शीलाचारविचेष्टितैः। तुष्टिं कुरूणां सर्वेषां जनयामास भारत॥ वृत्तेनाराध्य तान् सर्वान् गुरून् पतिपरायणा। वाचापि पुरुषानन्यान् सुव्रता नान्वकीर्तयत्॥ वैशम्पायन उवाच सत्त्वरूपगुणोपेता धर्मारामा महाव्रता। दुहिता कुन्तिभोजस्य पृथा पृथुलोचना॥ तां तु तेजस्विनी कन्यां रूपयौवनशालिनीम्। व्यवृण्वन्पार्थिवाः केचिदतीव स्त्रीगुणैर्युताम्॥ ततः सा कुन्तिभोजेन राज्ञाऽऽहूय नराधिपान्। पित्रा स्वयंवरे दत्ता दुहिता राजसत्तम॥ ततः सा रङ्गमध्यस्थं तेषां राज्ञां मनस्विनी। ददर्श राजशार्दूलं पाण्डुं भरतसत्तमम्॥ सिंहदर्यं महोरस्कं वृषभाक्षं महाबलम्। आदित्यमिव सर्वेषां राज्ञां प्रच्छाद्य वै प्रभाः॥ तिष्ठन्तं राजसमितौ पुरंदरमिवापरम्। तं दृष्ट्वा सानवद्यागी कुन्तिभोजसुता शुभा॥ पाण्डुं नरवरं रङ्गे हृदयेनाकुलाभवत्। ततः कामपरीताङ्गी सकृत्प्रचलमानसा॥ व्रीडमाना स्रजं कुन्ती राज्ञः स्कन्धे समासृजत्। तं निशम्य वृतं पाण्डु कुन्त्या सर्वे नराधिपाः॥ यथागतं समाजग्मुर्गजैरश्वैः रथैस्तथा। ततस्तस्याः पिता राजन्विवाहमकरोत्प्रभुः॥ स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः। युयुजेऽमितसौभाग्य: पौलोम्या मघवानिव॥ कुन्त्याः पाण्डोश्च राजेन्द्र कुन्तिभोजो महीपतिः। कृत्वोद्वाहं तदा तं तु नानावसुभिरर्चितम्। स्वपुरं प्रेषयामास स राजा कुरुसत्तम॥ ततो बलेन महता नानाध्वजपताकिना। स्तूयमानः स चाशीर्भिर्ब्राह्मणैश्च महर्षिभिः॥ संप्राप्य नगरं राजा पाण्डुः कौरवनन्दनः। न्यवेशयत तां भार्यां कुन्तीं स्वभवने प्रभुः॥ वैशम्पायन उवाच ततः शान्तनवो भीष्मो राज्ञः पाण्डोर्यशस्विनः। विवाहस्यापरस्यार्थे चकार मतिमान् मतिम्॥ सोऽमात्यैः स्थविरैः सार्धं ब्राह्मणैश्च महर्षिभिः। बलेन चतुरङ्गेण ययौ मद्रपतेः पुरम्॥ तमागतमभिश्रुत्य भीष्मं वाह्रीकपुङ्गवः। प्रत्युद्गम्यार्चयित्वा च पुरं प्रावेशयन्नृपः॥ दत्त्वा तस्यासनं शुभं पाद्यमर्थ्य तथैव च। मधुपर्कं च मद्रेशः पप्रच्छागमनेऽर्थिताम्॥ तं भीष्मः प्रत्युवाचेदं मद्रराजं कुरूद्वहः। आगतं मां विजानीहि कन्यार्थिनमरिन्दम॥ श्रूयते भवतः साध्वी स्वसा माद्री यशस्विनी। तामहं वरयिष्यामि पाण्डोरर्थे यशस्विनीम्॥ युक्तरूपो हि सम्बन्धे त्वं नो राजन् वयं तव। एतत् संचिन्त्य मद्रेश गृहाणास्मान् यथाविधि॥ तमेवंवादिनं भीष्मं प्रत्यभाषत मद्रपः। न हि मेऽन्यो वरस्त्वत्तः श्रेयानिति मतिर्मम॥ पूर्वैः प्रवर्तितं किंचित् कुलेऽस्मिन् नृपसत्तमैः। साधु वा यदि वासाधु तन्नातिक्रान्तमुत्सहे॥ व्यक्तं तद् भवतश्चापि विदितं नात्र संशयः। न च युक्तं तथा वक्तुं भवान् देहीति सत्तम॥ कुलधर्मः स नो वीर प्रमाणं परमं च तत्। तेन त्वां न ब्रवीम्येतदसंदिग्धं वचोऽरिहन्॥ तं भीष्मः प्रत्युवाचेदं मद्रराजं जनाधिपः। धर्म एष परो राजन् स्वयमुक्तः स्वयम्भुवा॥ नात्र कश्चन दोषोऽस्ति पूर्वैर्विधिरयं कृतः। विदितेयं च ते शल्य मर्यादा साधुसम्मता॥ इत्युक्त्वा स महातेजाः शातकुम्भं कृताकृतम्। रत्नानि च विचित्राणि शल्यायादात् सहस्रशः॥ गजानश्वान् रथांश्चैव वासांस्याभरणानि च। मणिमुक्ताप्रवालं च गाङ्गेयो व्यसृजच्छुभम्॥ तत् प्रगृह्य धनं सर्वं शल्यः सम्प्रीतमानसः। ददौ तां समलंकृत्य स्वसारं कौरवर्षभे॥ स तां माद्रीमुपादाय भीष्मः सागरगासुतः। आजगाम पुरीं धीमान् प्रविष्टो गजसाह्वयम्॥ तत इष्टेऽहनि प्राप्ते मुहूर्ते साधुसम्मते। जग्राह विधिवत् पाणिं मात्र्याः पाण्डुराधिपः॥ ततो विवाहे निवृत्ते स राजा कुरुनन्दनः। स्थापयामास तां भार्यां शुभे वेश्मनि भाविनीम्॥ स ताभ्यां व्यचरत् सार्धं भार्याभ्यां राजसत्तमः। कुन्त्या माझ्या च राजेन्द्रो यथाकामं यथासुखम्॥ ततः स कौरवो राजा विहृत्य त्रिदशा निशाः। जिगीषया महीं पाण्डुनिरक्रामत् पुरात् प्रभो॥ स भीष्मप्रमुखान् वृद्धानभिवाद्य प्रणम्य च। धृतराष्ट्रं च कौरव्यं तथान्यान् कुरुसत्तमान्। आमन्त्र्य प्रययौ राजा तैश्चैवाप्यनुमोदितः॥ मङ्गलाचारयुक्ताभिराशीभिरभिनन्दितः। गजवाजिरथौघेन बलेन महतागमत्॥ स राजा देवगर्भाभो विजिगीषुर्वसुंधराम्। हृष्टपुष्टबलैः प्रायात् पाण्डुः शत्रूननेकशः॥ पूर्वमागस्कृतो गत्वा दशार्णाः समरे जिताः। पाण्डुना नरसिंहेन कौरवाणां यशोभृता।२५॥ ततः सेनामुपादाय पाण्डुर्नानाविधध्वजाम्। प्रभूतहस्त्यश्वयुतां पदातिरथसंकुलाम्॥ आगस्कारी महीपानां बहूनां बलदर्पितः। गोप्ता मगधराष्ट्रस्य दीर्घो राजगृहे हतः॥ ततः कोशं समादाय वाहनानि च भूरिशः। पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः॥ तथा काशिषु सुह्येषु पुण्ड्रेषु च नरर्षभ। स्वबाहुबलवीर्येण कुरूणामकरोद् यशः॥ तं शरोधमहाज्वालं शस्त्रार्चिषमरिन्दमम्। पाण्डुपावकमासाद्य व्यदह्यन्त नराधिपाः॥ ते ससेनाः ससेनेन निध्वंसितबला नृपाः। पाण्डुना वशगाः कृत्वा कुरुकर्मसु योजिताः॥ तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः। तमेकं मेनिरे शूरं देवेष्विव पुरंदरम्॥ कृताञ्जलयः सर्वे प्रणता वसुधाधिपाः। उपाजग्मुर्धनं गृह्य रत्नानि विविधानि च॥ तं तदादाय ययौ मणिमुक्ताप्रवालं च सुवर्णं रजतं बहु। गोरत्नान्यश्वरत्नानि रथरत्नानि कुञ्जरान्॥ खरोष्ट्रमहिषीश्चैव यच्च किंचिदजाविकम्। कम्बलाजिनरत्नानि रारूवास्तरणानि च। तत् सर्वं प्रतिजग्राह राजा नागपुराधिपः॥ पाण्डुः पुनर्मुदितवाहनः। हर्षयिष्यन् स्वराष्ट्राणि पुरं च गजसाह्वयम्॥ शन्तनो राजसिंहस्य भरतस्य च धीमतः। प्रणष्टः कीर्तिजः शब्दः पाण्डुना पुनराहृतः॥ ये पुरा कुरुराष्ट्राणि जहः कुरुधनानि च। ते नागपुरसिंहेन पाण्डुना करदीकृताः॥ इत्यभाषन्त राजानो राजामात्याश्च संगताः। प्रतीतमनसो हृष्टाः पौरजानपदैः सह॥ प्रत्युद्ययुश्च तं प्राप्तं सर्वे भीष्मपुरोगमाः। ते नदूरमिवाध्वानं गत्वा नागपुरालयात्॥ आवृतं ददृशशुहष्टा लोकं बहुविधैर्धनैः। नानायानसमानीतै रत्नैरुच्चावचैस्तदा॥ हस्त्यश्वरथरत्नैश्च गोभिरुष्ट्रैस्तथादिभिः। नान्तं ददृशुरासाद्य भीष्मेण सह कौरवाः॥ सोऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः। यथार्ह मानयामास पौरजानपदानपि॥ प्रमृद्य परराष्ट्राणि कृतार्थं पुनरागतम्। पुत्रमाश्लिष्य भीष्मस्तु हर्षादश्रुण्यवर्तयत्॥ स तूर्यशतशङ्खानां भेरीणां च महास्वनैः। हर्षयन् सर्वशः पौरान विवेश गजसाह्वयम्॥ वैशम्पायन उवाच धृतराष्ट्राभ्यनुज्ञातः स्वबाहुविजितं धनम्। भीष्माय सत्यवत्यै च मात्रे चोपजहार सः॥ विदुराय च वै पाण्डुः प्रेषयामास तद् धनम्। सुहृदश्चापि धर्मात्मा धनेन समतर्पयत्॥ ततः सत्यवती भीष्मं कौसल्यां च यशस्विनीम्। शुभैः पाण्डुजितैरथै स्तोषयामास भारत॥ ननन्द माता कौसल्या तमप्रतिमतेजसम्। जयन्तमिव पौलोमी परिष्वज्य नरर्षभम्॥ तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः। अश्वमैधशतैरीजे धृतराष्ट्रो महामखैः॥ सम्प्रयुक्तस्तु कुन्त्या च माद्र्या च भरतर्षभ। जिततन्द्रीस्तदा पाण्डुर्बभूव वनगोचरः॥ हित्वा प्रासादनिलयं शुभानि शयनानि च। अरण्यनित्यः सततं बभूव मृगयापरः॥ स चरन् दक्षिणं पार्श्व रम्यं हिमवतो गिरेः। उवास गिरिपृष्ठेषु महाशालवनेषु च॥ रराज कुन्त्या मात्र्या च पाण्डुः सह वने चरन्। करेण्वोरिव मध्यस्थः श्रीमान् पौरंदरो गजः॥ भारतं सह भार्याभ्यां खड्गबाणधनुर्धरम्। विचित्रकवचं वीरं परमास्त्रविदं नृपम्। देवोऽयमित्यमन्यन्त चरन्तं वनवासिनः॥ तस्य कामांश्च भोगांश्च नरा नित्यमतन्द्रिताः। उपाजहुर्वनान्तेषु धृतराष्ट्रेण चोदिताः॥ अथ पारशवीं कन्यां देवकस्य महीपतेः। रूपयौवनसम्पन्नां स शुश्रावायगासुतः॥ ततस्तु वरयित्वा तामानीय भरतर्षभः। विवाहं कारयामास विदुरस्य महामतेः॥ तस्यां चोत्पादयामास विदुरः कुरुनन्दनः। पुत्रान् विनयसम्पन्नानात्मनः सदृशान् गुणैः॥ वैशम्पायन उवाच ततः पुत्रशतं जज्ञे गान्धार्यां जनमेजय। धृतराष्ट्रस्य वैश्यायामेकश्चापि शतात् परः॥ पाण्डोः कुन्त्यां च मात्र्यां च पुत्राः पञ्च महारथाः। देवेभ्यः समपद्यन्त संतानाय कुलस्य जनमेजय उवाच कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम। कियता चैव कालेन तेषामायुश्च किं परम्॥ वै॥ कथं चैकः स वैश्यायां धृतराष्ट्रसुतोऽभवत्। कथं च सदृशी भार्यां गान्धारी धर्मचारिणीम्॥ आनुकूल्ये वर्तमानां धृतराष्ट्रोऽभ्यवर्तत। कथं च शप्तस्य सतः पाण्डोस्तेन महात्मना।॥ समुत्पन्ना दैवतेभ्यः पुत्राः पञ्च महारथाः। एतद् विद्वन् यथान्यायं विस्तरेण तपोधन॥ कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु। वैशम्पायन उवाच क्षुच्छ्रमाभिपरिग्लानं द्वैपायनमुपस्थितम्॥ तोषयामास गान्धारी व्यासस्तस्यै वरं ददौ। सा वब्रे सदृशं भर्तुः पुत्राणां शतमात्मनः॥ ततः कालेन सा गर्भ धृतराष्ट्रादवाग्रहीत्। संवत्सरद्वयं तं तु गान्धारी गर्भमाहितम्॥ अप्रजा धारयामास ततस्तां दुःखमाविशत्। श्रुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम्॥ उदरस्यात्मनः स्थैर्यमुपलभ्यान्वचिन्तयम्। अज्ञातं धृतराष्ट्रस्य यत्नेन महता ततः॥ सोदरं घातयामास गान्धारी दुःखमूर्च्छिता। ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता॥ द्विवर्षसम्भृता कुक्षौ तामुत्स्रष्टुं प्रचक्रमे। अथ द्वैपायनो ज्ञात्वा त्वरितः समुपागमत्॥ तां स मांसमयीं पेशीं ददर्श जपतां वरः। ततोऽब्रवीत् सौबलेयीं किमिदं ते चिकीर्षितम्॥ सा चात्मनो मतं सत्यं शशंस परमर्षये। गान्धार्युवाच ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम्॥ दुःखेन परमेणेदमुदरं घातितं मया। शतं च किल पुत्राणां वितीर्णं मे त्वया पुरा॥ इयं मे मांसपेशी जाता पुत्रशताय वै। व्यास उवाच एवमेतत् सौबलेयि नैतज्जात्वन्यथा भवेत्॥ वितथं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा। घृतपूर्णं कुण्डशतं क्षिप्रमेव विधीयताम्॥ सुगुप्तेषु च देशेषु रक्षा चैव विधीयताम्। शीताभिरद्भिरष्ठीलामिमां च परिषेचय॥ वैशम्पायन उवाच सा सिच्यमाना त्वष्ठीला बभूव शतधा तदा। अङ्गुष्ठपर्वमात्राणां गर्भाणां पृथगेव तु॥ एकाधिकशतं पूर्णं यथायोगं विशाम्पते। मांसपेश्यास्तदा राजन् क्रमश: कालपर्ययात्॥ ततस्तांस्तेषु कुण्डेषु गर्भानवदधे तदा। स्वानुगुप्तेषु देशेषु रक्षां वै व्यदधात् ततः॥ शशंस चैव भगवान् कालेनैतावता पुनः। उद्घाटनीयान्येतानि कुण्डानीति च सौबलीम्॥ इत्युक्त्वा भगवान् व्यासस्तथा प्रतिनिधाय च। जगाम तपसे धीमान् हिमवन्तं शिलोच्चयम्॥ जज्ञे क्रमेण चैतेन तेषां दुर्योधनो नृपः। जन्मतस्तु प्रमाणेन ज्येष्ठो राजा युधिष्ठिरः॥ तदाख्यातं तु भीष्माय विदुराय च धीमते। यस्मिन्नहनि दुर्धर्षो जज्ञे दुर्योधनस्तदा॥ तस्मिन्नेव महाबाहुर्जज्ञे भीमोऽपि वीर्यवान्। स जातमात्र एवाथ धृतराष्ट्रसुतो नृप॥ रासभारावसदृशं रुराव च ननाद च। तं खरा: प्रत्यभाषन्त गृध्रगोमायुवायसाः॥ वाताश्च प्रववुश्चापि दिग्दाहश्चाभवत् तदा। ततस्तु भीतवद् राजा धृतराष्ट्रोऽब्रवीदिदम्॥ समानीय बहून् विप्रान् भीष्मं विदुरमेव च। अन्यांश्च सुहृदो राजन् कुरून् सर्वांस्तथैव च॥ युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः। प्राप्तः स्वगुणतो राज्यं न तस्मिन् वाच्यमस्ति नः।३१।। अयं त्वनन्तरस्तस्मादपि राजा भविष्यति। एतद् विब्रूत मे तथ्यं यदत्र भविता ध्रुवम्॥ वाक्यस्यैतस्य निधने दिक्षु सर्वासु भारत। क्रव्यादाः प्राणदान् घोराः शिवाश्चाशिवशसिनः॥ लक्षयित्वा निमित्तानि तानि घोराणि सर्वशः। तेऽब्रुवन् ब्राह्मणा राजन् विदुश्च महामतिः॥ यथेमानि निमित्तानि घोराणि मनुजाधिप। उत्थितानि सुते जाते ज्येष्ठे ते पुरुषर्षभ॥ व्यक्तं कुलान्तकरणो भवितैष सुतस्तव। तस्य शान्तिः परित्यागे गुप्तावपनयो महान्॥ शतमेकोनमप्यस्तु पुत्राणां ते महीपते। त्यजैनमेकं शान्तिं चेत् कुलस्येच्छसि भारत॥ एकेन कुरु वै क्षेमं कुलस्य जगतस्तथा। त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्॥ ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्। स तथा विदुरेणोक्तस्तैश्च सर्वैद्विजोत्तमैः॥ न चकार तथा राजा पुत्रस्नेहसमन्वितः। ततः पुत्रशतं पूर्ण धृतराष्ट्रस्य पार्थिव॥ मासमात्रेण संजज्ञे कन्या चैका शताधिका। गान्धार्यां क्लिश्यमानायामुदरेण विवर्धता॥ धृतराष्ट्र महाराज वैश्या पर्यचरत् किल। तस्मिन् संवत्सरे राजन् धृतराष्ट्रन्महायशाः॥ जज्ञे धीमांस्ततस्तस्यां युयुत्सुः करणो नृप। एवं पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः॥ महारथानां वीराणां कन्या चैका शताधिका। युयुत्सुश्च महातेजा वैश्यापुत्रः प्रतापवान्॥ जनमेजय उवाच धृतराष्ट्रस्य पुत्राणामादितः कथितं त्वया। ऋषेः प्रसादात् तु शतं न च कन्या प्रकीर्तिता॥ वैश्यापुत्रो युयुत्सुश्च कन्या चैका शताधिका। गान्धारराजदुहिता शतपुत्रेति चानघ॥ उक्ता महर्षिणा तेन व्यासेनामिततेजसा। कथं त्विदानी भगवन् कन्यां त्वं तु ब्रवीषि मे॥ यदि भागशतं पेशी कृता तेन महर्षिणा। न प्रजास्यति चेद् भूयः सौबलेयी कथंचन॥ कथं तु सम्भवस्तस्या दुःशलाया वदस्व मे। यथावदिह विप्रः परं मेऽत्र कुतूलहम्॥ वैशम्पायन उवाच साध्वयं प्रश्न उद्दिष्टः पाण्डवेय ब्रवीमि ते। तां मांसपेशी भगवान् स्वयमेव महातपाः॥ शीताभिरद्धिरासिच्य भागं भागमकल्पयत्। यो यथा कल्पितो भागस्तं तं धात्र्या तथा नृप॥ घृतपूर्णेषु कुण्डेषु एकैकं प्राक्षिपत् तदा। एतस्मिन्नन्तरे साध्वी गान्धारी सृदृढव्रता॥ दुहितुः स्नेहसंयोगमनुध्याय वराङ्गना। मनसाचिन्तयद् देवी एतत् पुत्रशतं मम॥ भविष्यति न संदेहो न ब्रवीत्यन्यथा मुनिः। ममेयं परमा तुष्टिर्दुहिता मे भवेद् यदि॥ एका शताधिका बाला भविष्यति कनीयसी। ततो दौहित्रजाल्लोकादबाह्योऽसौ पतिर्मम॥ अधिका किल नारीणां प्रीतिर्जामातृजा भवेत्। यदि नाम ममापि स्याद् दुहितैका शताधिका॥ कृतकृत्या भवेयं वै पुत्रदौहित्रसंवृता। यदि सत्यं तपस्तप्तं दत्तं वाप्यथवा हुतम्॥ गुरवस्तोषिता वापि तथास्तु दुहिता मम। एतस्मिन्नेव काले तु कृष्णद्वैपायनः स्वयम्॥ व्यभजत् स तदा पेशी भगवानृषिसत्तमः। गणयित्वा शतं पूर्णमंशानामाह सौबलीम्॥ व्यास उवाच पूर्णं पुत्रशतं त्वेतन्न मिथ्या वागुदाहृता। दौहित्रयोगाय भाग एकः शिष्टः शतात् परः। एषा ते सुभगा कन्या भविष्यति यथेप्सिता॥ ततोऽन्यं घृतकुम्भं च समानाय्य महातपाः। तं चापि प्राक्षिपत् तत्र कन्यामागं तपोधनः॥ एतत् ते कथितं राजन् दुःशलाजन्म भारत। ब्रूहि राजेन्द्र किं भूयो वर्तयिष्यामि तेऽनघ।॥ वैशम्पायन उवाच तं व्यतीतमतिक्रम्य राजा स्वमिव बान्धवम्। सभार्यः शोकदुःखार्तः पर्यदेवयदातुरः॥ पाण्डुरुवाच सतामपि कुले जाताः कर्मणा वत दुर्गतिम्। प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः॥ शश्वद्धर्मात्मना जातो बाल एव पिता मम। जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम्॥ । तस्य कामात्मनः क्षेत्रे राज्ञः संयतवागृषिः। कृष्णद्वैपायन: साक्षाद् भगवान् मामजीजनत्॥ तस्याद्य व्यसने बुद्धिः संजातेयं ममाधमा। त्यक्तस्य देवैरनयान्मृगयां परिधावतः॥ मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत्। सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम्॥ अतीव तपसाऽऽत्मानं योजयिष्याम्यसंशयम्। तस्मादेकोऽहमेकाकी एकैकस्मिन् वनस्पतौ॥ चरन् भैक्ष्यं मुनिर्मुण्डश्चरिष्याम्याश्रमानिमान्। पांसुना समवच्छन्नः शून्यागारकृतालयः॥ वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः। न शोचन् न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः॥ निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः। न चाप्यवहसन् कच्चिन्न कुर्वन् भृकुटी क्वचित्॥ प्रसन्नवदनो नित्यं सर्वभूतहिते रतः। जङ्गमाजङ्गमं सर्वमविहिंसंश्चतुर्विधम्॥ स्वासु प्रजास्विव सदा समः प्राणभृतां प्रति। एककालं चरन् भैक्ष्यं कुलानि दश पञ्च वा॥ असम्भवे वा भक्ष्यस्य चरन्ननशनान्यपि। अल्पमल्पं च भुञ्जानः पूर्वालाभे न जातुचित्॥ अन्यान्यपि चरँल्लोभादलाभे सप्त पूरयन्। अलाभे यदि वा लाभे समदर्शी महातपाः॥ वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः। नाकल्याणं न कल्याणं चिन्तयन्नुभयोस्तयोः॥ न जिजीविषुवत् किंचिन्न मुमूर्षुवदाचरन्। जीवितं मरणं चैव नाभिनन्दन् न च द्विषन्॥ याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः। ताः सर्वाः समतिक्रम्य निमेषादिव्यवस्थिताः॥ तासु चाष्यनवस्थासु त्यक्तसर्वेन्द्रियक्रियः। सम्परित्यक्तधर्मार्थः सुनिर्णिक्तात्मकल्मषः॥ निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः। न वशे कस्यचित् तिष्ठन् सधर्मा मातरिश्वनः॥ एतया सततं धृत्या चरन्नेवंप्रकारया। देहं संस्थापयिष्यामि निर्भयं मार्गमास्थितः॥ नाहं सुकृपणे मार्गे स्ववीर्यक्षयशोचिते। स्वधर्मात् सततापेते चरेयं वीर्यवर्जितः॥ सत्कृतोऽसत्कृतो वापि योऽन्यं कृपणचक्षुषा। उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि॥ वैशम्पायन उवाच एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः। अवेक्षमाणः कुन्तीं च माद्रीं स समभाषत॥ कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः। आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः॥ ब्राह्मणाश्च महात्मानः सोमपाः संशितव्रताः। पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः। प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्रजितो वनम्॥ निशम्य वचनं भर्तुर्वनवासे धृतात्मनः। तत्समं वचनं कुन्ती माद्री च समभाषताम्॥ अन्येऽपि ह्याश्रमाः सन्ति ये शक्या भरतर्षभ। आवाभ्यां धर्मपत्नीभ्यां सह तप्तुं तपो महत्॥ शरीरस्यापि मोक्षाय स्वयं प्राप्य महाफलम्। त्वमेव भविता भर्ता स्वर्गस्यापि न संशयः॥ प्रणिधायेन्द्रियग्रामं भर्तृलोकपरायणे। त्यक्तकामसुखे ह्यावां तप्स्यावो विपुलं तपः॥ यदि चावां महाप्राज्ञ त्यक्ष्यसि त्वं विशाम्पते। अद्यैवावां प्रहास्यावो जीवितं नात्र संशयः॥ पाण्डुरुवाच यदि व्यवसितं ह्येतद् युवयोधर्मसंहितम्। स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम्॥ त्यक्त्वा ग्राम्यसुखाहारं तप्यमानो महत् तपः। वल्कली फलमूलाशी चरिष्यामि महावने॥ अग्नौ जुह्वन्नुभौ कालावुभौ कालावुपस्पृशन्। कृशः परिमिताहारश्चीरचर्मजटाधरः॥ शीतवातातपसहः क्षुत्पिपासानवेक्षकः। तपसा दुश्चरेणेदं शरीरमुपशोषयन्॥ एकान्तशीली विमृशन् पक्वापक्वेन वर्तयन्। पितॄन् देवांश्च वन्येन वाग्भिरद्धिश्च तर्पयन्।३५॥ वानप्रस्थजनस्यापि दर्शनं कुलवासिनाम्। नाप्रियाण्याचरिष्यामि किं पुनर्गमवासिनाम्॥ एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम्। काइक्षमाणोऽहमास्थास्ये देहस्यास्या समापनात्॥ वैशम्पायन उवाच इत्येवमुक्त्वा भार्ये ते राजा कौरवनन्दनः। ततश्चूडामणि निष्कमङ्गदे कुण्डलानि च॥ वासांसि च महार्हाणि स्त्रीणामाभरणानि च। प्रदाय सर्वं विप्रेभ्यः पाण्डुः पुनरभाषत॥ गत्वा नागपुरं वाच्यं पाण्डुः प्रव्रजितो वनम्। अर्थ कामं सुखं चैव रतिं च परमात्मिकाम्॥ प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुनन्दनः। ततस्तस्यानुयातारस्ते चैव परिचारकाः॥ श्रुत्वा भरतसिंहस्य विविधाः करुणा गिरः। भीममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः॥ उष्णमश्रु विमुञ्चन्तस्तं विहाय महीपतिम्। ययुर्नागपुरं तूर्णं सर्वमादाय तद् धनम्॥ ते गत्वा नगरं राज्ञो यथावृत्तं महात्मनः। कथयांचक्रिरे राज्ञस्तद् धनं विविधं ददुः॥ श्रुत्वा तेभ्यस्ततः सर्वं यथावृत्तं महावने। धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत॥ न शय्यासनभोगेषु रतिं विन्दति कर्हिचित्। भ्रातृशोकसमाविष्टस्तमेवार्थं विचिन्तयन्॥ राजपुत्रस्तु कौरव्य पाण्डुर्मूलफलाशनः। जगाम सह पत्नीभ्यां ततो नागशतं गिरिम्॥ स चैत्ररथमासाद्य कालकूटमतीत्य च। हिमवन्तमतिक्रम्य प्रययौ गन्धमादनम्॥ रक्ष्यमाणो महाभूतैः सिद्धेश्च परमर्षिभिः। उवास स महाराज समेषु विषमेषु च॥ इन्द्रद्युम्नसरः प्राप्य हंसकूटमतीत्य च। शतशृङ्गे महाराज तापस: समतप्यत॥ वैशम्पायन उवाच एवमुक्तस्तया राजा तां देवीं पुनरब्रवीत्। धर्मविद् धर्मसंयुक्तमिदं वचनमुत्तमम्॥ पाण्डुरुवाच एवमेतत् पुरा कुन्ति व्युषिताश्वश्चकार ह। यथा त्वयोक्तं कल्याणि स ह्यासीदमरोपमः॥ अथ त्विदं प्रवक्ष्यामि धर्मतत्त्वं निबोध मे। पुराणमृषिभिईष्टं धर्मविद्भिर्महात्मभिः॥ अनावृताः किल पुरा स्त्रिय आसन्वरानने। कामचारविहारिण्यः स्वतंत्राश्चारुहासिनी॥ तासां व्युच्चरमाणानां कौमारात्सुभगे पतीन्। नाधर्मोऽभूद्वरारोहे स हि धर्मः पुराऽभवत्॥ तं चैव धर्म पौराणं तिर्यग्योनिगताः प्रजाः। अद्याप्यनुविधीयन्ते कामक्रोधविवर्जिताः॥ प्रमाणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः। उत्तरेषु च रम्भोरु कुरुष्वद्यापि पूज्यते॥ स्त्रीणामनुग्रहकरः स हि धर्मः सनातनः। अस्मिंस्तु लोके न चिरान्मर्यादेयं शुचिस्मिते॥ स्थापिता येन यस्माच्च तन्मे विस्तरतः शृणु। बभूवोद्दालको नाम महर्षिरिति नः श्रुतम्॥ श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवन्मुनिः। मर्यादेयं कृता तेन धा वै श्वेतकेतुना॥ कोपात्कमलपत्राक्षि यदर्थं तन्निबोध मे। वेतकेतोः किल पुरा समक्षं मातरं पितुः॥ जग्राह ब्राह्मणः पाणौ गच्छाव इति चाब्रवीत्। ऋषिपुत्रस्ततः कोपं चकारामर्षचोदितः॥ मातरं तां तथा दृष्ट्वा नीयमानां बलादिव। क्रुद्धं तं तु पिता दृष्ट्वा श्वेतकेतुमुवाच ह॥ मा तात कोपं कास्त्विमेष धर्मः सनातनः। अनावृता हि सर्वेषां वर्णानामङ्गना भुवि॥ यथा गावः स्थितास्तात स्वे स्वे वर्णे तथा प्रजाः। ऋषिपुत्रोऽथ तं धर्मं श्वेतकेतुर्न चक्षमे॥ चकार चैव मर्यादामिमां स्त्रीपुंसयोर्भुवि। मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु॥ तदाप्रभृति मर्यादा स्थितेयमिति नः श्रुतम्। श्वेतकेतुरुवाच व्युच्चरन्त्याः पतिं नार्या अद्यप्रभृति पातकम्॥ भ्रूणहत्यासमं घोरं भविष्यत्यसुखावहम्। भार्यां तथा व्युच्चरतः कौमारब्रह्मचारिणीम्॥ पतिव्रतामेतदेव भविता पातकं भुवि। पत्या नियुक्ता या चैव पत्नी पुत्रार्थमेव च॥ न करिष्यति तस्याश्च भविष्यति तदेव हि। इति तेन पुरा भीरु मर्यादा स्थापिता बलात्॥ उद्दालकस्य पुत्रेण धा वै श्वेतकेतुना। सौदासेन च रम्भोरु नियुक्ता पुत्रजन्मनि॥ मदयन्ती जगामर्षि वसिष्ठामिति नः श्रुतम्। तस्माल्लेभे च सा पुत्रमश्मकं नाम भाविनी॥ एवं कृतवती सापि भर्तुः प्रियचिकीर्षया। अस्माकमपि ते जन्म विदितं कमलेक्षण॥ कृष्णद्वैपायनाद्भीरु कुरूणां वंशवृद्धये। अत एतानि सर्वाणि कारणानि समीक्ष्य वै॥ ममैतद्वचनं धर्म्यं कर्तुमर्हस्यनिन्दिते। ऋतावृतौ राजपुत्रि स्त्रिया भर्ता पतिव्रते॥ नातिवर्तव्य इत्येवं धर्मं धर्मविदो विदुः। शेषष्वन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति॥ धर्ममेवं जनाः सन्तः पुराणं परिचक्षते। भर्ता भार्यां राजपुत्रि धर्म्य वाधर्म्यमेव वा॥ यद् ब्रूयात् तत् तथा कार्यमिति वेदविदो विदुः। विशेषतः पुत्रगृध्नी हीन: प्रजननात् स्वयम्॥ यथाहमनवद्याङ्गि पुत्रदर्शनलालसः। तथा रक्ताङ्गुलितलः पद्मपत्रनिभः शुभे॥ प्रसादार्थं मया तेऽयं शिरस्यभ्युद्यतोऽञ्जलिः। मन्नियोगात् सुकेशान्ते द्विजातेस्तपसाधिकात्॥ पुत्रान् गुणसमायुक्तानुत्पादयितुमर्हसि। त्वत्कृतेऽहं पुथुश्रोणि गच्छेयं पुत्रिणां गतिम्॥ वैशम्पायन उवाच एवमुक्ता ततः कुन्ती पाण्डुं परपुरंजयम्। प्रत्युवाच वरारोहा भर्तुः प्रियहिते रता॥ पितृवेश्मन्यहं बाला नियुक्तातिथिपूजने। उग्रं पर्यचरं तत्र ब्राह्मणं संशितव्रतम्॥ निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः। तमहं संशितात्मानं सर्वयत्नैरतोषयम्॥ स मेऽभिचारसंयुक्तमाचष्ट भगवान् वरम्। मन्त्रं त्विमं च मे प्रादादब्रवीच्चैव मामिदम्॥ यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि। अकामो वा सकामो वा वशं ते समुपैष्यति॥ तस्य तस्य प्रसादात् ते राज्ञि पुत्रो भविष्यति। इत्युक्ताहं तदानेन पितृवेश्मनि भारत॥ ब्राह्मणस्य वचस्तथ्यं तस्य कालोऽयमागतः। अनुज्ञाता त्वया देवमाह्वयेयमहं नृप। तेन मन्त्रेण राजर्षे यथास्यान्नौ प्रजा हिता॥ आवाहयामि कं देवं ब्रूहि सत्यवतां वर। त्वत्तोऽनुज्ञाप्रतीक्षां मां विद्ध्यस्मिन् कर्मणि स्थिताम्॥ पाण्डुरुवाच अद्यैव त्वं वरारोहे प्रयतस्व यथाविधि। धर्ममावाहय शुभे स हि लोकेषु पुण्यभाक्॥ अधर्मेण न नो धर्मः संयुज्यति कथंचन। लोकश्चायं वरारोहे धर्मोऽयमिति मन्यते॥ धार्मिकश्च कुरूणां स भविष्यति न संशयः। धर्मेण चापि दत्तस्य नाधर्मे रंस्यते मनः॥ तस्माद् धर्मं पुरस्कृत्य नियता त्वं शुचिस्मिते। उपचाराभिचाराभ्यां धर्ममावाहयस्व वै॥ वैशम्पायन उवाच सा तथोक्ता तथेत्युक्त्वा तेन भ; वराङ्गना। अभिवाद्याभ्यनुज्ञाता प्रदक्षिणमवर्तत॥ वैशम्पायन उवाच संवत्सरधृते गर्भे गान्धार्या जनमेजय। आह्वयामास वै कुन्ती गभार्थे धर्ममच्युतम्॥ सा बलिं त्वरिता देवी धर्मायोपजहार ह। जजाप विधिवज्जष्यं दत्तं दुर्वाससा पुरा॥ आजगाम ततो देवो धर्मो मन्त्रबलात् ततः। विमाने सूर्यसंकाशे कुन्ती यत्र जपस्थिता॥ विहस्य तां ततो ब्रूयाः कुन्ति किं ते ददाम्यहम्। सा तं विहस्यमानापि पुत्रं देह्यब्रवीदिदम्॥ संयुक्ता सा हि धर्मेण योगमूर्तिधरेण ह। लेभे पुत्रं वरारोहा सर्वप्राणभृतां हितम्॥ ऐन्द्रे चन्द्रसमायुक्ते मुहूर्तेऽभिजितेऽष्टमे। दिवामध्यगते सूर्ये तिथौ पूर्णेऽतिपूजिते॥ समृद्धयशसं कुन्ती सुषाव प्रवरं सुतम्। जातमात्रे सुते तस्मिन् वागुवाचाशरीरिणी॥ एष धर्मभृतां श्रेष्ठो भविष्यति नरोत्तमः। विक्रान्तः सत्यवाक् त्वेव राजा पृथ्व्यां भविष्यति॥ युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः। भविता प्रथितो राजा त्रिषु लोकेषु विश्रुतः॥ यशसा तेजसा चैव वृत्तेन च समन्वितः। धार्मिकं तं सुतं लब्ध्वा पाण्डुस्तां पुनरब्रवीत्॥ प्राहुः क्षत्रं बलज्येष्ठं बलज्येष्ठं सुतं वृणु। ततस्तथोक्ता भ; तु वायुमेवाजुहाव सा॥ ततस्तामागतो वायुर्मुगारूढो महाबलः। किं ते कुन्ति ददाम्यद्य ब्रूहि यत् ते हृदि स्थितम्।१२।। सा सलज्जा विहस्याह पुत्रं देहि सुरोत्तम। बलवन्तं महाकायं सर्वदर्पप्रभञ्जनम्॥ तस्माज्जज्ञे महाबाहुर्भीमो भीमपराक्रमः। तमप्यतिबलं जातं वागुवाचाशरीरिणी॥ सर्वेषां बलिनां श्रेष्ठो जातोऽयमिति भारत। इदमत्यद्भुतं चासीज्जातमात्रे वृकोदरे॥ यदङ्कात् पतितो मातुः शिलां गात्रैर्व्यचूर्णयत्। कुन्ती व्याघ्रभयोद्विग्ना सहसोत्पतिता किल॥ नान्वबुध्यत संसुप्तमुत्सङ्गे स्वे वृकोदरम्। ततः स वज्रसंघातः कुमारो न्यपतद् गिरौ॥ पतता तेन शतधा शिला गात्रैर्विचूर्णिता। तां शिलां चूर्णितां दृष्ट्वा पाण्डुर्विस्मयमागतः॥ यस्मिन्नहनि भीमस्तु जज्ञे भरतसत्तम। दुर्योधनोऽपि तत्रैव प्रजज्ञे वसुधाधिपः॥ जाते वृकोदरे पाण्डुरिदं भूयोऽन्वचिन्तयत्। कथं नु मे वरः पुत्रो लोकश्रेष्ठो भवेदिति॥ दैवे पुरुषकारे च लोकोऽयं सम्प्रतिष्ठितः। तत्र दैवं तु विधिना कालयुक्तेन लभ्यते॥ इन्द्रो हि राजा देवानां प्रधान इति नः श्रुतम्। अप्रमेयबलोत्साहो वीर्यवानमितद्युतिः॥ तं तोषयित्वा तपसा पुत्रं लप्स्ये महाबलम्। यं दास्यति स मे पुत्रं स वरीयान् भविष्यति॥ अमानुषान् मानुषांश्च संग्रामे स हनिष्यति। कर्मणा मनसा वाचा तस्मात् तप्स्ये महत् तपः॥ ततः पाण्डुर्महाराजो मन्त्रयित्वा महर्षिभिः। दिदेश कुन्त्याः कौरव्यो व्रतंसांवत्सरं शुभम्॥ आत्मना च महाबाहुरेकपादस्थितोऽभवत्। उग्रं च तप आस्थाय परमेण समाधिना॥ आरिराधयिषुर्देवं त्रिदशानां तमीश्वरम्। सूर्येण सह धर्मात्मा पर्यतप्यत भारत॥ तं तु कालेन महता वासवः प्रत्यपद्यता शक्र उवाच पुत्रं तव प्रदास्यामि त्रिषु लोकेषु विश्रुतम्॥ ब्राह्मणानां गवां चैव सुहृदां चार्थसाधकम्। दुहृदां शोकजननं सर्वबान्धवनन्दनम्॥ सुतं तेऽत्र्यं प्रदास्यामि सर्वामित्रविनाशनम्। इत्युक्तः कौरवो राजा वासवेन महात्मना॥ उवाच कुन्ती धर्मात्मा देवराजवचः स्मरन्। उदर्कस्तव कल्याणि तुष्टो देवगणेश्वरः॥ दातुमिच्छति ते पुत्रं यथा संकल्पितं त्वया। अतिमानुषकर्माणं यशस्विनीमरिंदमम्॥ नीतिमन्तं महात्मानमादित्यसतेजसम्। दुराधर्ष क्रियावन्तमतीवाद्भुतदर्शनम्॥ पुत्रं जनय सुश्रोणि धाम क्षत्रियतेजसाम्। लब्धः प्रसादो देवेन्द्रात् तभाह्वय शुचिस्मिते॥ वैशम्पायन उवाच एवमुक्ताः ततः शक्रमाजुहाव यशस्विनी। अथाजगाम देवेन्द्रो जनयामास चार्जुनम्॥ जातमात्रे कुमारे तु वागुवाचाशरीरिणी। महागम्भीरनिर्घोषा नभो नादयती तदा॥ शृण्वतां सर्वभूतानां तेषां चाश्रमवासिनाम्। कुन्तीमाभाष्य विस्पष्टमुवाचेदं शुचिस्मिताम्॥ कार्तवीर्यसम: कुंन्ति शिवतुल्यपराक्रमः। एष शक्रः इवाजय्यो यशस्ते प्रथयिष्यति॥ अदित्या विष्णुना प्रीतिर्यथाभूदभिवर्धिता। तथा विष्णुसमः प्रीति वर्धयिष्यति तेऽर्जुनः॥ एष मद्रान् वशे कृत्वा कुरूंश्च सह सोमकैः। चेदिकाशिकरूपांश्च कुरुलक्ष्मी वहिष्यति॥ एतस्य भुजवीर्येण खाण्डवे हव्यवाहनः। मेदसा सर्वभूतानां तृप्तिं यास्यति वै पराम्॥ ग्रामणीश्च महीपालानेष जित्वा महाबलः। भ्रातृभिः सहितो वीरस्त्रीन् मेधानाहरिष्यति॥ जामदग्न्यसमः कुन्ति विष्णुतुल्यपराक्रमः। एष वीर्यवतां श्रेष्ठो भविष्यति महायशाः॥ एष युद्धे महादेवं तोषयिष्यति शंकरम्। अस्त्रं पाशुपते नाम तस्मात् तुष्टादवाप्स्यति॥ निवातकवचा नाम दैत्या विबुधविद्विषः। शक्राज्ञया महाबाहुस्तान् वधिष्यति ते सुतः॥ तथा दिव्यानि चास्त्राणि निखिलेनाहरिष्यति। विप्रणष्टां श्रियं चायमाहर्ता पुरुषर्षभः॥ एतामत्युद्धतां वाचं कुन्ती शुश्राव सूतके। वाचमुच्चारितामुच्चैस्तां निशम्य तपस्विनाम्॥ बभूव परमो हर्षः शतशृङ्गनिवासिनाम्। तथा देवनिकायानां सेन्द्राणां च दिवौकसाम्॥ आकाशे दुन्दुभीनां च बभूव तुमुलः स्वनः। उदतिष्ठन्महाघोषः पुष्पवृष्टिभिरावृतः॥ समवेत्य च देवानां गणाः पार्थमपूजयन्। काद्रवेया वैनतेया गन्धर्वाप्सरसस्तथा। प्रजानां पतयः सर्वे सप्त चैव महर्षयः॥ भरद्वाजः कश्यपो गौतमक्ष विश्वामित्रो जमदग्निर्वसिष्ठः। यश्चोदितो भास्करेऽभूत् प्रणष्टे सोऽप्यत्रात्रिभगवानाजगाम॥ मरीचिरङ्गिराश्चैव पुलस्त्य: पुलहः क्रतुः। दक्षः प्रजापतिश्चैव गन्धर्वाप्सरसस्तथा॥ दिव्यमाल्याम्बरधराः सर्वालंकारभूषिताः। उपगायान्ति वीभत्सुं नृत्यन्तेऽप्सरसां गणाः॥ तथा महर्षयश्चापि जेपुस्तत्र समन्ततः। गन्धर्वैः सहितः श्रीमान् प्रागायत च तुम्बरुः॥ भीमसेनोग्रसेनौ च ऊर्णायुरनधस्तथा। गोपतिधृतराष्ट्रश्च सूर्यवर्चास्तथाष्टमः॥ युगपस्तृणपः कार्पोिर्नन्दिश्चित्ररथस्तथा। त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः॥ कलिः पञ्चदशश्चैव नारदश्चात्र षोडशः। ऋत्वा बृहत्त्वा बृहकः करालश्च महामनाः॥ ब्रह्मचारी बहुगुणः सुवर्णश्चेति विश्रुतः। विश्वावसुर्भुमन्युश्च सुचन्द्रश्च शरुस्तथा॥ गतिमाधुर्यसम्पन्नौ विख्यातौ च हहाहुहू। इत्येते देवगन्धर्वा जग्मुस्तत्र नराधिप॥ तथैवाप्सरसो हृष्टाः सर्वालंकारभूषिताः। ननृतुर्वै महाभागा जगुश्चायतलोचनाः॥ अनूचानानवद्या च गुणमुख्या गुणावरा। अद्रिका च तथा सोमा मिश्रकेशी त्वलम्बुषा॥ मरीचिः शुचिका चैव विद्युत्पर्णा तिलोत्तमा। अम्बिका लक्षणा क्षेमा देवी रम्भा मनोरमा॥ असिता च सुबाहुश्च सुप्रिया च वपुस्तथा। पुण्डरीका सुगन्धा च सुरसा च प्रमाथिनी॥ काम्या शारद्वती चैव ननृतुस्तत्र सङ्घशः। मेनका सहजन्या च कर्णिका पुञ्जिकस्थला॥ ऋतुस्थला घृताची च विश्वाची पूर्वचित्त्यपि। उम्लोचेति च विख्याता प्रम्लोचेति च ता दश॥ उर्वश्येकादशी तासां जगुश्चायतलोचनाः। धातार्यमा च मित्रश्च वरुणोंऽशो भगस्तथा॥ इन्द्रो विवस्वान् पूषा च त्वष्टा च सचिता तथा। पर्जन्यश्चैव विष्णुश्च आदित्या द्वादश स्मृताः। महिमानं पाण्डवस्य वर्धयन्तोऽम्बरे स्थिताः॥ मृगव्याधश्च सर्पश्च नितिश्च महायशाः। अजैकपादहिर्बुध्यः पिनाकी च परंतप॥ दहनोऽथेश्वरश्चैव कपाली च विशाम्पते। स्थाणुर्भगश्च भगवान् रुद्रास्तत्रावतस्थिरे॥ अश्विनौ वसवश्चाष्टौ मरुतश्च महाबलाः। विश्वेदेवास्तथा साध्यास्तत्रासन परित: स्थिताः॥ कर्कोटकोऽथ सर्पश्च वासुकिश्च भुजङ्गमः। कश्यपश्चाथ कुण्डश्च तक्षकश्च महोरगः॥ आययुस्तपसा युक्ता महाक्रोधा महाबलाः। एते चान्ये च बहवस्तत्र नागा व्यवस्थिताः॥ ता_श्चारिष्टनेमिश्च गरुडश्चासितध्वजः। अरुणश्चारुणिश्चैव वैनतेया व्यवस्थिताः॥ तांश्च देवगणान् सर्वांस्तपःसिद्धा महर्षयः। विमानगिर्यग्रगतान् ददृशुर्नेतरे जनाः॥ तद् दृष्ट्वा महदाश्चर्यं विस्मिता मुनिसत्तमाः। अधिकां स्म ततो वृत्तिमवर्तन् पाण्डवान् प्रति॥ पाण्डुस्तु पुनरेवैनां पुत्रलोभान्महायशाः। वक्तुमैच्छद् धर्मपत्नी कुन्ती त्वेनमथाब्रवीत्॥ नातश्चतुर्थं प्रसवमापत्स्वपि वदन्त्युत। अतः परं स्वैरिणी स्याद् बन्धकी पञ्चमे भवेत्॥ स त्वं विद्वन् धर्ममिममधिगम्य कथं नु माम्। अत्यार्थं समुत्क्रम्य प्रमाददादिव भाषसे॥ वैशम्पायन उवाच कुन्तीपुत्रेषु जातेषु धृतराष्ट्रमजेषु च। मद्रराजसुता पाण्डं रहो वचनमब्रवीत्॥ न मेऽस्ति त्वयि संतापो विगुणेऽपि परंतप। नावरत्वे वराहयाः स्थित्वा चानघ नित्यदा॥ गान्धार्याश्चैव नृपते जातं पुत्रशतं तथा। श्रुत्वा न मे तथा दुःखमभवत् कुरुनन्दन॥ इदं तु मे महद् दुःखं तुल्यतायामपुत्रता। दिष्ट्या त्विदानीं भर्तुर्मे कुन्त्यामप्यस्ति संततिः॥ यदि त्वपत्यसंतानं कुन्तिराजसुता मयि। कुर्यादनुग्रहो मे स्यात् तव चापि हितं भवेत्॥ संरम्भो हि सपत्नीत्वाद् वक्तुं कुन्तुसुतां प्रति। यदि तु त्वं प्रसन्नो मे स्वयमेनां प्रचोदय॥ पाण्डुरुवाच ममाप्येष सदा माद्रि हृद्यर्थः परिवर्तते। न तु त्वां प्रसहे वक्तुमिष्टानिष्टविवक्षया॥ तव त्विदं मतं मत्वा प्रयतिष्याम्यतः परम्। मन्ये ध्रुवं मयोक्ता सा वचनं प्रतिपत्स्यते॥ वैशम्पायन उवाच ततः कुन्तीं पुनः पाण्डुर्विविक्त इदमब्रवीत्। कुलस्य मम संतानं लोकस्य च कुरु प्रियम्॥ मम चापिण्डनाशाय पूर्वेषामपि चात्मनः। मत्प्रियार्थं च कल्याणि कुरु कल्याणमुत्तमम्॥ यशसोऽर्थाय चैव त्वं कुरु कर्म सुदुष्करम्। प्राप्याधिपत्यमिन्द्रेण यज्ञैरिष्टं यशोऽर्थिना॥ तथा मन्त्रविदो विप्रास्तपस्तप्त्वा सुदुष्करम्। गुरूनभ्युपगच्छन्ति यशसोऽर्थाय भाविनि॥ तथा राजर्षयः सर्वे ब्राह्मणाश्च तपोधनाः। चक्रुरुच्चावचं कर्म यशसोऽर्थाय दुष्करम्॥ सा त्वं माद्री प्लवेनैव तारयैनामनिन्दिते। अपत्यसंविभागेन परां कीर्तिमवाप्नुहि॥ वैशम्पायन उवाच एवमुक्त्वाब्रवीन्माद्रीं सकृच्चिन्तय दैवतम्। तस्मात् ते भवितापत्यमनुरूपमसंशयम्॥ ततो माद्री विचार्यैवं जगाम मनसाश्चिनौ। तावागम्य सुतौ तस्यां जनयामासतुर्यमौ॥ नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि। तथैव तावपि यमौ वागुवाचाशरीरिणी॥ सत्त्वरूपगुणोपेतौ भवतोऽत्यश्विनाविति। भासतस्तेजसात्यर्थं रूपद्रविणसम्पदा॥ नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः। भक्त्या च कर्मणा चैव तथाशीभिर्विशाम्पते॥ ज्येष्ठं युधिष्ठिरेत्येवं भीमसेनेति मध्यमम्। अर्जुनेति तृतीयं च कुन्तीपुत्रानकल्पयन्॥ पूर्वजं नकुलेत्येवं सहदेवेति चापरम्। माद्रीपुत्रावकथयंस्ते विप्राः प्रीतमानसाः॥ अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः। पाण्डुपुत्रा व्यराजन्त पञ्च संवत्सरा इव॥ महासत्त्वा महावीर्या महाबलपराक्रमाः। पाण्डुर्दृष्ट्वा सुतांस्तांस्तु देवरूपान् महौजसः॥ मुदं परमिकां लेभे ननन्द च नराधिपः ऋषीणामपि सर्वेषां शतशृङ्गनिवासिनाम्॥ प्रिया बभूवुस्तासां च तथैव मुनियोषिताम्। कुन्तीमथ पुनः पाण्डुर्माद्र्यर्थे समचोदयत्॥ तमुवाच पृथा राजन् रहस्युक्ता तदा सती। उक्ता सकृद् द्वन्द्वमेषा लेभे तेनास्मि वञ्चिता॥ बिभेम्यस्याः परिभवात् कुस्त्रीणां गतिरीदृशी। नाज्ञासिषमहं मूढा द्वन्द्वाह्वाने फलद्वयम्॥ तस्मान्नाहं नियोक्तव्या त्वयैषोऽस्तु वरो मम। एवं पाण्डोः सुताः पञ्च देवदत्ता महाबलाः॥ सम्भूताः कीर्तिमन्तश्च कुरुवंशविवर्धनाः। शुभलक्षणसम्पन्नाः सोमवत् प्रियदर्शनाः॥ सिंहदर्पा महेष्वासाः सिंहविक्रान्तगामिनः। सिंहग्रीवा मनुष्येन्द्रा ववृधुर्देवविक्रमः॥ विवर्धमानास्ते तत्र पुण्ये हैमवते गिरौ। विस्मयं जनयामासुर्महर्षीणां समेयुषाम्॥ ते चे पञ्च शतं चैव कुरुवंशविवर्धनाः। सर्वे ववृधुरल्पेन कालेनाप्स्विव नीरजाः॥ वैशम्पायन उवाच पाण्डोरुपरमं दृष्ट्वा देवकल्पा महर्षयः। ततो मन्त्रविदः सर्वे मन्त्रयांचक्रिरे मिथः॥ तापसा ऊचुः हित्वा राज्यं च राष्ट्रं च स महात्मा महायशाः। अस्मिन् स्थाने तपस्तप्त्वा तापसाशरणं गतः॥ स जातमात्रान् पुत्रांश्च दारांश्च भवतामिह। प्रादायोपनिधिं राजा पाण्डुः स्वर्गमितो गतः॥ तस्येमानात्मजान् देहं भार्यां च सुमहात्मनः। स्वराष्ट्रं गृह्य गच्छामो धर्म एष हि नः स्मृतः॥ वैशम्पायन उवाच ते परस्परममन्त्र्य देवकल्पा महर्षयः। पाण्डोः पुत्रान् पुरस्कृत्य नगरं नागसाह्वयम्॥ उदारमनसः सिद्धा गमने चक्रिरे मनः। भीष्माय पाण्डवान् दातुं धृतराष्ट्राय चैव हि॥ तस्मिन्नेव क्षणे सर्वे तानादाय प्रतस्थिरे। पाण्डोरांश्च पुत्रांश्च शरीरे ते च तापसाः॥ सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला। प्रपन्ना दीर्घमध्वानं संक्षिप्तं तदमन्यत॥ सा त्वदीर्पण कालेन सम्प्राप्ता कुरुजाङ्गलम्। वर्धमानपुरद्वारमाससाद यशस्विनी॥ द्वारिणं तापसा ऊचू राजानं च प्रकाशय। ते तु गत्वा क्षणेनैव सभायां विनिवेदिताः॥ तं चारणसहस्राणां मुनीनामागमं तदा। श्रुत्वा नागपुरे नृणां विस्मयः समपद्यत॥ मुहूर्तेदित आदित्ये सर्वे बालपुरस्कृताः। सदारास्तापसान् द्रष्टुं निर्ययुः पुरवासिनः॥ स्त्रीसङ्घाः क्षत्रसङ्घाश्च यानसङ्घसमास्थिताः। ब्राह्मणैः सह निर्जग्मुर्ब्राह्मणानां च योषितः॥ तथा विट् शुद्रसङ्घानां महान् व्यतिकरोऽभवत्। न कश्चिदकरोदीर्ध्यामभवन धर्मबुद्धयः॥ तथा भीष्मः शान्तनवः सोमदत्तोऽथ बाह्निकः। प्रज्ञाचक्षुश्च राजर्षिः क्षत्ता च विदुरः स्वयम्॥ सा च सत्यवती देवी कौसल्या च यशस्विनी। राजदारैः परिवृता गान्धारी चापि निर्ययौ॥ धृतराष्ट्रस्य दायादा दुर्योधनपुरोगमाः। भूषिता भूषणैश्चित्रैः शतसंख्या विनिर्ययुः॥ तान् महर्षिगणान् दृष्ट्वा शिरोभिरभिवाद्य च। उपोपविविशुः सर्वे कौरव्याः सपुरोहिताः॥ तथैव शिरसा भूमावभिवाद्य प्रणम्य च। उपोपविविशुः सर्वे पौरा जानपदा अपि॥ तमकूजमभिज्ञाय जनौघं सर्वशस्तदा। पूजयित्वा यथान्यायं पायेनार्येण च प्रभो॥ भीष्मो राज्यं च राष्ट्रं च महर्षिभ्यो न्यवेदयत्। तेषामथो वृद्धतमः प्रत्युत्थाय जटाजिनी। ऋषीणां मतमाज्ञाय महर्षिरिदमब्रवीत्॥ यः स कौरव्य दायादः पाण्डुर्नाम नराधिपः। कामभोगान् परित्यज्य शतशृङ्गमितो गतः॥ ब्रह्मचर्यव्रतस्थस्य तस्य दिव्येन हेतुना। साक्षाद् धर्मादयं पुत्रस्तत्र जातो युधिष्ठिरः॥ तथैनं बलिनां श्रेष्ठं तस्य राज्ञो महात्मनः। मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम्॥ पुरुहूतादयं जज्ञे कुन्त्यामेव धनंजयः। यस्य कीर्तिर्महेष्वासान् सर्वानभिभविष्यति॥ यौ तु माद्री महेष्वासावसूत पुरुषोत्तमौ। अश्विभ्यां पुरुषव्याघ्राविमौ तावपि पश्यत॥ चरता धर्मनित्येन वनवासं यशस्विना। नष्टः पैतामहो वंशः पाण्डुना पुनरुद्धृतः॥ पुत्राणां जन्मवृद्धिं च वैदिकाध्ययनानि च। पश्यन्तः सततं पाण्डोः परां प्रीतिमवाप्स्यथ॥ वर्तमानः सतां वृत्ते पुत्रलाभमवाप्य च। पितृलोकं गतः पाण्डुरितः सप्तदशेऽहनि॥ तं चितागतमाज्ञाय वैश्वानरमुखे हुतम्। प्रविष्टा पावकं माद्री हित्वा जीवितमात्मनः॥ सा गता सह तेनैव पतिलोकमनुव्रता। तस्यास्तस्य च यत् कार्यं क्रियतां तदनन्तरम्॥ इमे तयोः शरीरे द्वे पुत्राश्चेमे तयोर्वराः। क्रियाभिरनुगृह्यन्तां सह मात्रा परंतपाः॥ प्रेतकार्ये निवृत्ते तु पितृमेधं महायशाः। लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलोद्वहः॥ वैशम्पायन उवाच एवमुक्त्वा कुरून् सर्वान् कुरूणामेव पश्यताम्। क्षणेनान्तर्हिताः सर्वे तापसा गुह्यकैः सह॥ गन्धर्वनगराकारं तथैवान्तर्हितं पुनः। ऋषिसिद्धगणं दृष्ट्वा विस्मयं ते परं ययुः॥ धृतराष्ट्र उवाच पाण्डोर्विदुर सर्वाणि प्रेतकार्याणि कारय। राजवद् राजसिंहस्य मात्र्याश्चैव विशेषतः॥ पशून् वासांसि रत्नानि धनानि विविधानि च। पाण्डोः प्रयच्छ मात्र्याश्च येभ्यो यावच्च वाञ्छितम्।२।। यथा च कुन्ती सत्कारं कुर्यान्मात्र्यास्तथा कुरु। यथा न वायुर्नादित्यः पश्येतां तां सुसंवृताम्॥ न शोच्यः पाण्डुरनधः प्रशस्यः स नराधिपः। यस्य पञ्च सुता वीरा जाता: सुरसुतोपमाः॥ वैशम्पायन उवाच विदुरस्तं तथेत्युक्त्वा भीष्मेण सह भारत। पाण्डु संस्कारयामास देशे परमपूजिते॥ ततस्तु नगरात् तूर्णमाज्यगन्धपुरस्कृताः। निर्हताः पावका दीप्ताः पाण्डो राजन् पुरोहितैः॥ अथैनामार्तवैः पुष्पैर्गन्धैश्च विविधैर्वरैः। शिविकां तामलंकृत्य वाससाऽच्छाद्य सर्वशः॥ तां तथा शोभितां माल्यैर्वासोभिश्च महाधनैः। अमात्या ज्ञातयश्चैनं सुहृदश्चोपतस्थिरे॥ नृसिंहं नरयुक्तेन परमालंकृतेन तम्। अवहन् यानमुख्येन सह माया सुसंयतम्॥ पाण्डुरेणातपत्रेण चामरव्यजनेन च। सर्ववादित्रनादैश्च समलञ्चक्रिरे ततः॥ रत्नानि चाप्युपादाय बहूनि शतशो नराः। प्रददुः काङ्खमाणेभ्यः पाण्डोस्तस्यौर्ध्वदेहिके॥ अथच्छत्राणि शुभ्राणि चामराणि बृहन्ति च। आजह्वः कौरवस्यार्थे वासांसि रुचिराणि च॥ याजकैः शुक्लवासोभिहूयमाना हुताशनाः। अगच्छन्नग्रतस्तस्य दीप्यमानाः स्वलंकृताः॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव सहस्रशः। रुदन्तः शोकसंतप्ता अनुजग्मुर्नराधिपम्॥ अयमस्मानपाहाय दुःखे चाधाय शाश्वते। कृत्वा चास्माननातांश्च क्व यास्यति नराधिपः॥ क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च। रमणीये वनोद्देशे गङ्गातीरे समे शुभे॥ न्यासयामासुरथ तां शिबिकां सत्यवादिनः। सभार्यस्य नृसिंहस्य पाण्डोरक्लिष्टकर्मणः॥ ततस्तस्य शरीरं तु सर्वगन्धाधिवासितम्। शुचिकालीयकादिग्धं दिव्यचन्दनरूषितम्॥ पर्यषिञ्चञ्जलेनाशु शातकुम्भमयैर्घटैः। चन्दनेन च शुक्लेन सर्वतः समलेपयन्॥ कालागुरुविमिश्रेण तथा तुङ्गरसेन च। अथैनं देशजैः शुक्लैर्वासोभिः समयोजयन्॥ संछन्नः स तु वासोभिर्जीवन्निव नराधिपः। शुशुभे स नरव्याघ्रो महार्हशयनोचितः॥ याजकैरभ्यनुज्ञाते प्रेतकर्मण्यनुष्ठिते। घृतावसिक्तं राजानं सह मान्या स्वलंकृतम्॥ तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना। अन्यैश्च विविधैर्गन्धैर्विधिना समदाहयन्॥ ततस्तयोः शरीरे द्वे दृष्ट्वा मोहवशं गता। हा हा पुत्रेति कौसल्या पपात सहसा भुवि॥ तां प्रेक्ष्य पतितामा" पौरजानपदो जनः। सरोद दुःखसंतप्तो राजभक्त्या कृपान्वितः॥ कुन्त्याश्चैवार्तनादेन सर्वाणि च विचुक्रुशुः। मानुषैः सह भूतानि तिर्यग्योनिगतान्यपि॥ तथा भीष्मः शान्तनवो विदुरश्च महामतिः। सर्वशः कौरवाश्चैव प्राणदन् भृशदुःखिताः॥ ततो भीष्मोऽथ विदुरोराजा च सह पाण्डवैः। उदकं चक्रिरे तस्य सर्वाश्च कुरुयोषितः॥ चुक्रशुः पाण्डवाः सर्वे भीष्मः शान्तनवस्तथा। विदुरो ज्ञातयश्चैव चक्रुश्चाप्युदकक्रियाः॥ कृतोदकांस्तानादाय पाण्डवाञ्छोककर्शितान्। सर्वाः प्रकृतयो राजन् शोचमाना न्यवारयन्॥ यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः। तथैव नागरा राजन् शिश्यिरे ब्राह्मणादयः॥ तद्गतानन्दमस्वस्थमाकुमारमहष्टवत्। बभूव पाण्डवैः सार्धं नगरं द्वादश क्षपाः॥ वैशम्पायन उवाच ततः कुन्ती च राजा च भीष्मश्च सह बन्धुभिः। ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा॥ कुरूंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः। रत्नौघान् विप्रमुख्येभ्यो दत्त्वा ग्रामवरांस्तथा॥ कृतशौचांस्ततस्तु पाण्डवान् भरतर्षभान्। आदाय विविशुः सर्वे पुरं वारणसाह्वयम्॥ सततं स्मानुशोचन्तस्तमेव भरतर्षभम्। पौरजानपदाः सर्वे मृतं स्वमिव बान्धवम्॥ श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम्। सम्मूढां दुःखशोका” व्यासो मातरमब्रवीत्॥ अतिक्रान्तसुखा: काला: पर्युपस्थितदारुणाः। श्वः श्वः पापिष्ठदिवसाः पृथिवी गतयौवना॥ बहुमायासमाकीर्णो नानादोषसमाकुलः। लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति॥ कुरूणामनयाच्चापि पृथिवी न भविष्यति। गच्छ त्वं योगमास्थाय युक्ता वस तपोवने॥ मा द्राक्षीस्त्वं कुलस्यास्य घोरं संक्षयमात्मनः। तथेति समनुज्ञाय सा प्रविश्याब्रवीत् स्नुषाम्॥ अम्बिके तव पौत्रस्य दुर्नयात् किल भारतः। सानुबन्धा विनक्ष्यन्ति पौराश्चैवेति नः श्रुतम्॥ तत् कौसल्यामिमामा" पुत्रशोकाभिपीडिताम्। वनमादाय भद्रं ते गच्छामि यदि मन्यसे॥ तथेत्युक्ता त्वम्बिकया भीष्ममामन्त्र्य सुव्रता। वनं ययौ सत्यवती स्नुषाभ्यां सह भारत॥ ताः सुघोरं तपस्तप्त्वा देव्यो भरतसत्तम। देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा॥ वैशम्पायन उवाच अथाप्तवन्तो वेदोक्तान् संस्कारान् पाण्डवास्तदा। संव्यवर्धन्त भोगांस्ते भुञ्जानाः पितृवेश्मनि॥ धार्तराष्ट्रैश्च सहिताः क्रीडन्तो मुदिताः सुखम्। बालक्रीडासु सर्वासु विशिष्टास्तेजसाभवन्॥ जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे। धार्तराष्ट्रान् भीमसेनः सर्वान् स परिमर्दति॥ हर्षात् प्रक्रीडमानांस्तान् गृह्य राजन् निलीयते। शिरःसु विनिगृह्येतान् योधयामास पाण्डवैः॥ शतमेकोत्तरं तेषां कुमाराणां महौजसाम्। एक एव निगृहणाति नातिकृच्छ्राद् वृकोदरः॥ कचेषु च निगृह्येनान् विनिहत्य बलाद् बली। चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोंऽसकान्॥ दश बालाञ्जले क्रीडन् भुजाभ्यां परिगृह्य सः। आस्ते स्म सलिले मग्नो मृतकल्पान् विमुञ्चति॥ फलानि वृक्षमारुह्य विचन्वन्ति च ते तदा। तदा पादप्रहारेण भीमः कम्पयते दुमान्॥ प्रहारवेगाभिहता दुमा व्याधूर्णितास्ततः। सफलाः प्रपतन्ति स्म दुतं त्रस्ता: कुमारकाः॥ न ते नियुद्धे न जवे न योग्यासु कदाचन। कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम्॥ एवं स धार्तराष्ट्रांश्च स्पर्धमानो वृकोदरः। अप्रियेऽतिष्ठदत्यन्तं बाल्यान्न द्रोहचेतसा॥ ततो बलमतिख्यातं धार्तराष्ट्रः प्रतापवान्। भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत्॥ तस्य धर्मादपेतस्य पापानि परिपश्यतः। मोहादैश्वर्यलोभाच्च पापा मतिर जायत॥ अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः। मध्यमः पाण्डुपुत्राणां निकृत्या संनिगृह्यताम्॥ प्राणवान् विक्रमी चैव शौर्येण महतान्वितः। स्पर्धते चापि सहितानस्मानेको वृकोदरः॥ तं तु सुतं पुरोद्याने गङ्गायां प्रक्षिपामहे। अथ तस्मादवरजं श्रेष्ठं चैव युधिष्ठिरम्॥ प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुंधराम्। एवं स निश्चयं पापः कृत्वा दुर्योधनस्तदा। नित्यमेवान्तरप्रेक्षी भीमस्यासीन्महात्मनः॥ ततो जलविहारार्थं कारयामास भारत। चैलकम्बलवेश्मानि विचित्राणि महान्ति च॥ सर्वकामैः सुपूर्णानि पताकोच्छायवन्ति च। तत्र संजनयामास नानागाराण्यनेकशः॥ उदकक्रीडनं नाम कारयामास भारत। प्रमाणकोट्यां तं देशं स्थलं किंचिदुपेत्य ह॥ भक्ष्यं भोज्यं च पेयं च चोष्यं लेह्यमथापि च। उपपादितं नरैस्तत्र कुशलैः सूदकर्मणि॥ न्यवेदयंस्तत् पुरुषा धात्रराष्ट्राय वै तदा। ततो दुर्योधनस्तत्र पाण्डवानाह दुर्मतिः॥ गङ्गां चैवानुयास्याम उद्यानवनशोभिताम्। सहिता भ्रातरः सर्वे जलक्रीडामवाप्नुमः॥ एवमस्त्विति तं चापि प्रत्युवाच युधिष्ठिरः। ते रथैर्नगराकारैर्देशजैश्च गजोत्तमैः॥ निर्युयुर्नगराच्छूराः कौरवाः पाण्डवैः सह। उद्यानवनमासाद्य विसृज्य च महाजनम्॥ विशन्ति स्म तदा वीराः सिंहा इव गिरेर्गुहाम्। उद्यानमभिपश्यन्तो भ्रातरः सर्व एव ते॥ उपस्थानगृहैः शुभैर्वलभीभिश्च शोभितम्। गवाक्षकैस्तथा जालैर्यन्त्रैः सांचारिकैरपि॥ सम्मार्जितं सौधकारैश्चित्रकारैश्च चित्रितम्। दीर्घिकाभिश्च पूर्णाभिस्तथा पद्माकरैरपि॥ जलं तच्छुशुभे छन्नं फुल्लैर्जलरुहैस्तथा। उपच्छन्ना वसुमती तथा पुष्पैर्यथर्तुकैः॥ तत्रोपविष्टास्ते सर्वे पाण्डवाः कौरवाश्च ह। उपपन्नान् बहून् कामांस्ते भुञ्जन्ति ततस्ततः॥ अथोद्यानवरे तस्मिंस्तथा क्रीडागताश्च ते। परस्परस्य वक्त्रेभ्यो ददुर्भक्ष्यांस्ततस्ततः॥ ततो दुर्योधनः पापस्तद्भक्ष्ये कालकूटकम्। विषं प्रक्षेपयामास भीमसेनजिघांसया॥ स्वयमुत्थाय चैवाथ हृदयेन क्षुरोपमः। स वाचामृतकल्पश्च भ्रातृवच्च सुहृद् यथा॥ स्वयं प्रक्षिपते भक्ष्यं बहु भीमस्य पापकृत्। प्रतीच्छितं स्म भीमेन तं वै दोषमजानता॥ ततो दुर्योधनस्तत्र हृदयेन हसन्निवा कृतकृत्यमिवात्मानं मन्यते पुरुषाधमः॥ ततस्ते सहिताः सर्वे जलक्रीडामकुर्वत। पाण्डवा धार्तराष्ट्राश्च तदा मुदितमानसाः॥ क्रीडावसानं ते सर्वे शुचिवस्त्रा स्वलंकृताः। दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः॥ विहारावसथेष्वेव वीरा वासमरोचयन्। खिन्नस्तु बलवान् भीमोव्यायम्याभ्यधिकं तदा॥ वाहयित्वा कुमारांस्ताञ्जलक्रीडागतांस्तदा। प्रमाणकोट्यां वासार्थी सुष्वापावाप्य तत् स्थलम्।।५२। शीतं वातं समासाद्य श्रान्तो मदविमोहितः। विषेण च परीताङ्गो निश्चेष्टः पाण्डुनन्दनः॥ ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः स्वयम्। मृतकल्पं तदा वीरं स्थलाज्जलमपातयत्॥ स नि:सङ्गो जलस्यान्तमथ वै पाण्डवोऽविशत्। आक्रामन्नागभवने तदा नागकुमारकान्॥ ततः समेत्य बहुभिस्तदा नागैर्महाविषैः। अदश्यत भृशं भीमो महादंष्ट्रौर्विषोल्बणैः॥ ततोऽस्य दश्यमानस्य तद् विषं कालकूटकम्। हतं सर्पविषेणैव स्थावरं जङ्गमेन तु॥ दंष्ट्राश्च दंष्ट्रिणां तेषां मर्मस्वपि निपातिताः। त्वचं नैवास्य बिभिदुः सारत्वात् पृथुवक्षसः॥ ततः प्रबुद्धः कौन्तेयः सर्वं संछिद्य बन्धनम्। पोथयामास तान् सर्वान् केचिद् भीताः प्रदुद्रुवुः॥ हतावशेषा भीमेन सर्वे वासुकिमभ्ययुः। ऊचुश्च सर्पराजानं वासुकिं वासवोपमम्॥ अयं नरो वै नागेन्द्र ह्यप्सु बद्ध्वा प्रवेशितः। यथा च नो मतिर्वीर विषपीतो भविष्यति॥ निश्चेष्टोऽस्माननुप्राप्तः स च दष्टोऽन्वबुध्यता ससंज्ञश्चापि संवृत्तश्छित्त्वा बन्धनमाशु नः॥ पोथयन्तं महाबाहुं त्वं वै तं ज्ञातुमर्हसि। ततो वासुकिरभ्येत्य नागैरनुगतस्तदा॥ पश्यति स्म महावाहुं भीमं भीमपराक्रमम्। आर्यकेण च दृष्टः स पृथाया आर्यकेण च॥ तदा दौहित्रदौहित्रः परिष्वक्तः सुपीडितम्। सुप्रीतश्चाभवत् तस्य वासुकिः स महायशाः॥ अब्रवीत् तं च नागेन्द्रः किमस्य क्रियतां प्रियम्। धनौघो रत्ननिचयो वसु चास्य प्रदीयताम्॥ एवमुक्तस्तदा नागो वासुकि प्रत्यभाषत। यदि नागेन्द्र तुष्टोऽसि किमस्य धनसंचयैः॥ रसं पिबेत् कुमारोऽयं त्वयि प्रीते महाबलः। बलं नागसहस्रस्य यस्मिन् कुण्डे प्रतिष्ठितम्॥ यावत् पिबति बालोऽयं तावदस्मै प्रदीयताम्। एवमस्त्विति तं नागं वासुकिः प्रत्यभाषत॥ ततो भीमस्तदा नागैः कृतस्वस्त्ययनः शुचिः। प्राङ्मुखश्चोपविष्टश्च रसं पिबति पाण्डवः॥ एकोच्छ्वासात् ततः कुण्डं पिबति स्म महाबलः। एवमष्टौ स कुण्डानि ह्यपिबत् पाण्डुनन्दनः॥ ततस्तु शयने दिव्ये नागदत्ते महाभुजः। अशेत भीमसेनस्तु यथासुखमरिंदमः॥ जनमेजय उवाच कृपस्यापि मम ब्रह्मन् सम्भवं वक्तुमर्हसि। शरस्तम्बात् कथं जज्ञे कथं वास्त्राण्यवाप्तवान्॥ वैशम्पायन उवाच महर्षेौतमस्यासीच्छरद्वान् नाम गौतमः। पुत्रः किल महाराज जातः सह शरैर्विभो॥ न तस्य वेदाध्ययने तथा बुद्धिरजायत। यथास्य बुद्धिरभवद् धनुर्वेदे परंतप॥ अधिजग्मुर्यथा वेदास्तपसा ब्रह्मचारिणः। तथा स तपसोपेतः सर्वाण्यस्त्राण्यवाप ह॥ धनुर्वेदपरत्वाच्च तपसा विपुलेन च। भृशं संतापयामास देवराजं स गौतमः॥ ततो जानपदीं नाम देवकन्यां सुरेश्वरः। प्राहिणोत् तपसो विनं कुरु तस्येति कौरव॥ सा हि गत्वाऽऽश्रमं तस्य रमणीयं शरद्वतः। धनुर्बाणधरं बाला लोभयामास गौतमम्॥ तामेकवसनां दृष्ट्वा गौतमोऽप्सरसं वने। लोकेऽप्रतिमसंस्थानां प्रोत्फुल्लनयनोऽभवत्॥ धनुश्च हि शरास्तस्य कराभ्यामपतन् भुवि। वेपथुश्चापि तां दृष्ट्वा शरीरे समजायत॥ स तु ज्ञानगरीयस्त्वात् तपसश्च समर्थनात्। अवतस्थे महाप्राज्ञो धैर्येण परमेण ह॥ यस्तस्य सहसा राजन् विकारः समदृश्यत। तेन सुस्राव रेतोऽस्य स च तन्नान्वबुध्यत॥ धनुश्च सशरं त्यक्त्वा तथा कृष्णाजिनानि च। स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः॥ जगाम रेतस्तत् तस्य शरस्तम्बे पपात च। शरस्तम्बे च पतितं द्विधा तदभवनृप॥ तस्याथ मिथुनं जज्ञे गौतमस्य शरद्वतः। मृगयां चरतो राज्ञः शन्तनोस्तु यदृच्छया॥ कश्चित् सेनाचरोऽरण्ये मिथुनं तदपश्यत। धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च॥ ज्ञात्वा द्विजस्य चापत्ये धनुर्वेदान्तगस्य ह। स राज्ञे दर्शयामास मिथुनं सशरं धनुः॥ स तदादाय मिथुनं राजा च कृपयान्वितः। आजगाम गृहानेव मम पुत्राविति ब्रुवन्॥ ततः संवर्धयामास संस्कारैश्चाप्योजयत्। प्रातीपेयो नरश्रेष्ठो मिथुनं गौतमस्य तत्॥ गौतमोऽपि ततो ऽभ्येत्य धनुर्वेदपरोऽभवत्। कृपया यन्मया बालाविमौ संवर्धिताविति॥ तस्मात् तयो म चक्रे तदेव स महीपतिः। गोपितौ गौतमस्तत्र तपसा समविन्दत॥ आगत्य तस्मै गोत्रादि सर्वमाख्यातवांस्तदा। चतुर्विधं धनुर्वेद शास्त्राणि विविधानि च॥ निखिलेनास्य तत् सर्वं गुह्यमाख्यातवांस्तदा। सोऽचिरेणैव कालेन परमाचार्यतां गतः॥ ततोऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः। धृतराष्ट्रात्मजाश्चैव पाण्डवाः सह यादवैः॥ वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः। वैशम्पायन उवाच विशेषार्थी ततो भीष्मः पौत्राणां विनयेप्सया॥ इष्वस्त्रज्ञान् पर्यपृच्छदाचार्यान् वीर्यसम्मतान्। नाल्पधी महाभागस्तथानानास्त्रकोविदः॥ नादेवसत्त्वो विनयेत् कुरूनस्त्रे महाबलान्। इति संचिन्त्य गाङ्गेयस्तदा भरतसत्तमः॥ द्रोणाय वेदविदुषे भारद्वाजाय धीमते। पाण्डवान् कौरवांश्चैव ददौ शिष्यान् नरर्षभ।॥ शास्त्रतः पूजितश्चैव सम्यक् तेन महात्मना। स भीष्मेण महाभागस्तुष्टोऽस्त्रविदुषां वरः॥ प्रतिजग्राह तान् सर्वान् शिष्यत्वेन महायशाः। शिक्षयामास च द्रोणो धनुर्वेदमशेषतः॥ तेऽचिरेणैव कालेन सर्वशस्त्रविशारदाः। बभूवः कौरवा राजन् पाण्डवश्चामितौजसः॥ जनमेजय उवाच कथं समभवद् द्रोणः कथं चास्त्राण्यवाप्तवान्। कथं चागात् कुरून् ब्रह्मन् कस्य पुत्रः स वीर्यवान्। कथं चास्य सुतो जातः सोऽश्वत्थामास्त्रवित्तमः। एतदिच्छाम्यहं श्रोतुं विस्तेरण प्रकीर्तय॥ वैशम्पायन उवाच गङ्गाद्वारं प्रति महान् बभूव भगवानृपिः। भरद्वाज इति ख्यातः सततं संशितव्रतः॥ सोऽभिषेक्तुं ततो गङ्गां पूर्वमेवागमनन्नदीम्। महर्षिभिर्भरद्वाजो हविर्धाने चरन् पुरा॥ ददर्शाप्सरसं साक्षाद् घृताचीमाप्लुतामृषिः। रूपयौवनसम्पन्नां मददृप्तां मदालसाम्॥ तस्याः पुनर्नदीतीरे वसनं पर्यवर्तत। व्यपकृष्टाम्बरां दृष्ट्वा तामृषिश्चक्रमे ततः॥ तत्र संसक्तमनसो भरद्वाजस्य धीमतः। ततोऽस्य रेतश्चस्कन्द तदृषिोण आदधे॥ ततः समभवद् द्रोणः कलशे तस्य धीमतः। अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः॥ अग्निवेशं महाभागं भरद्वाजं प्रतापवान्। प्रत्यपादयदाग्नेयमस्त्रमस्त्रविदां वरः॥ अग्नेस्तु जातः स मुनिस्ततो भरतसत्तम। भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत्॥ भरद्वाजसखा चासीत् पृपतो नाम पार्थिवः। तस्यापि दुपदो नाम तदा समभवत् सुतः॥ स नित्यमाश्रमं गत्वा द्रोणेन सह पार्थिवः। चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः॥ ततो व्यतीते पृषते स राजा दुपदोऽभवत्। पञ्चालेषु महाबाहुरुत्तरेषु नरेश्वर॥ भरद्वाजोऽपि भगवानारुरोह दिवं तदा। तत्रैवं च वसन् द्रोणस्तपस्तेपे महातपाः॥ वेदवेदाङ्गविद्वान् स तपसा दग्धकिल्बिषः। ततः पितृनियुक्तात्मा पुत्रलोभान्महायशाः॥ शारद्वतीं ततो भार्यां कृपी द्रोणोऽन्वविन्दत। अग्निहोत्रे च धर्मे च दमे च सततं रताम्॥ अलभद् गौतमी पुत्रमश्वत्थामानमेव च। स जातमात्रो व्यनदद् यथैवोच्चैःश्रवा हयः॥ तच्छ्रुत्वान्तर्हितं भूतमन्तरिक्षस्थमब्रवीत्। अश्वस्येवास्य यत् स्थाम नदतः प्रदिशो गतम्॥ अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति। सुतेन तेन सुप्रीतो भारद्वाजस्ततोऽभवत्॥ तत्रैव च वसन् धीमान् धनुर्वेदपरोऽभवत्। स शुश्राव महात्मानं जामदग्न्यं परंतपम्॥ सर्वज्ञानविदं विप्रं सर्वशस्त्रभृतां वरम्। ब्राह्मणेभ्यस्तदा राजन् दित्सन्तं वसु सर्वशः॥ स रामस्य धनुर्वेदं दिव्यान्यस्त्राणि चैव ह। श्रुत्वा तेषु मनश्चक्रे नीतिशास्त्रे तथैव च॥ ततः स व्रतिभिः शिष्यैस्तपोयुक्तैर्महातपाः। वृतः प्रायान्महाबाहुर्महेन्द्रं पर्वतोत्तमम्॥ ततो महेन्द्रमासाद्य भारद्वाजो महातपाः। क्षान्तं दान्तममित्रघ्नमपश्यद् भृगुनन्दनम्॥ ततो द्रोणो वृतः शिष्यरुपगम्य भृगूद्वहम्। आचख्यावात्मनो नाम जन्म चाङ्गिासः कुले॥ निवेद्य शिरसा भूमौ पादौ चैवाभ्यवादयत्। ततस्तं सर्वमुत्सृज्य वनं जिगमिषु तदा॥ जामदग्न्यं महात्मानं भारद्वाजोऽब्रवीदिदम्। भरद्वाजात् समुत्पन्नं तथा त्वं मामयोनिजम्॥ आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभ। तमब्रवीन्महात्मा स सर्वक्षत्रियमर्दनः॥ स्वागतं ते द्विजश्रेष्ठ यदिच्छसि वदस्व मे। एवमुक्तस्तु रामेण भारद्वाजोऽब्रवीद् वचः॥ रामं प्रहरतां श्रेष्ठं दित्सन्तं विविधं वसु। अहं धनमनन्तं हि प्रार्थये विपुलव्रत॥ राम उवाच हिरण्यं मम यच्चान्यद् वसु किंचिदिह स्थितम्। ब्राह्मणेभ्यो मया दत्तं सर्वमेतत् तपोधन॥ तथैवेयं धरा देवी सागरान्ता सपत्तना। कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी॥ शरीरमात्रमेवाद्य ममेदमवशेषितम्। अस्त्रणि च महार्हाणि शस्त्रानि विविधानि च॥ वाणि वा शरीरं वा वरयैतन्मयोद्यतम्। वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत्॥ द्रोण उवाच अस्त्राणि मे समग्राणि ससंहाराणि भार्गव। सप्रयोगरहस्यानि दातुर्महस्यशेषतः॥ तथेत्युक्त्वा ततस्तस्मै प्रादादस्त्राणि भार्गवः। सरहस्यव्रतं चैव धनुर्वेदमशषतः॥ प्रतिगृह्य तु तत्सर्वं कृतास्त्रो द्विजसत्तमः। प्रियं सखायं सुप्रीतो जगाम दुपदं प्रति॥ वैशम्पायन उवाच ततो दुपदमासाद्य भारद्वाजः प्रतापवान्। अब्रवीत् पार्थिवं राजन् सखायं विद्धि मामिह॥ इत्येवमुक्तः सख्या स प्रीतिपूर्वं जनेश्वरः। भारद्वाजेन पाञ्चालो नामृष्यत वचोऽस्य तत्॥ सक्रोधामर्षजिह्मभूः कषायीकृतलोचनः। ऐश्वर्यमदसम्पन्नो द्रोणं राजाब्रवीदिदम्॥ दुपद उवाच अकृतेयं तव प्रज्ञा ब्रह्मन् नातिसमञ्जसा। यन्मां ब्रवीषि प्रसभं सखा तेऽहमिति द्विज॥ न हि राज्ञामुदीर्णानामेवाभूतैनरैः क्वचित्। सख्यं भवति मन्दात्मन् श्रिया होनैर्धनमच्युतैः॥ सौहृदान्यपि जीर्यन्ते कालेन परिजीर्यतः। सौहृदं मे त्वया ह्यासीत् पूर्वं सामर्थ्यबन्धनम्॥ न सख्यमजरं लोके हृदि तिष्ठति कस्यचित्। कालो ह्येनं विहरति क्रोधो वैनं हरत्युत॥ मैवं जीर्णमुपास्स्व त्वं सख्यं भवत्वपाकृधि। आसीत् सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम्॥ न दरिद्रो वसुमतो नाविद्वान् विदुषः सखा। न शूरस्य सखा क्लीबः सखिपूर्वं किमिष्यते॥ ययोरेव समं वित्तं ययोरेव समं श्रुतम्। तयोर्विवाहः सख्यं च न तु पुष्टविपुष्टयोः॥ नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा। नाराजा पार्थिवस्यापि सखिपूर्व किमिष्यते॥ वैशम्पायन उवाच द्रुपदेनैवमुक्तस्तु भारद्वाजः प्रतापवान्। मुहूर्तं चिन्तयित्वा तु मन्युनाभिपरिप्लुतः॥ स विनिश्चित्य मनसा पाञ्चालं प्रति बुद्धिमान्। जगाम कुरुमुख्यानां नगरं नागसाह्वयम्॥ स नागपुरमागम्य गौतमस्य निवेशने। भारद्वाजोऽवसत् तत्र प्रच्छन्नं द्विजसत्तमः॥ ततोऽस्य तनुजः पार्थान् कृपस्यानन्तरं प्रभुः। अस्त्राणि शिक्षयामास नाबुध्यन्त च तं जनाः॥ एवं स तत्र गूढात्मा कंचित् कालमुवास हा कुमारास्त्वथ निष्क्रम्य समेता गजसाह्वयात्॥ क्रीडन्तो वीटया तत्र वीराः पर्यचरन् मुदा। पपात कूपे सा वीटा तेषां वै क्रीडतां तदा।॥ ततस्ते यत्नमातिष्ठन् वीटामुद्धर्तुमादृताः। न च ते प्रत्यपद्यन्त कर्म वीटोपलब्धये॥ ततोऽन्योन्यमवैक्षन्त व्रीडयावनताननाः। तस्या योगमविन्दन्तो भृशं चोत्कण्द्दिताभवन्॥ तेऽपश्यन् ब्राह्मणं श्याममापन्नं पलितं कृशम्। कृत्यवन्तमदूरस्थमग्निहोत्रपुरस्कृतम्॥ ते तं दृष्ट्वा महात्मानमुपगम्य कुमारकाः। भग्नोत्साहक्रियात्मानो ब्राह्मणं पर्यवारयन्॥ अथ द्रोण: कुमारांस्तान् दृष्ट्वा कृत्यवतस्तदा। प्रहस्य मन्दं पैशल्यादभ्यभाषत वीर्यवान्॥ अहो वो धिग् बलं क्षात्रं धिगेतां वः कृतास्त्रताम्। भरतस्यान्वये जाता ये वीटां नाधिगच्छत॥ वीटां च मुद्रिकां चैव ह्यहमेतदपि द्वयम्। उद्धरेयमिषीकाभिर्भोजनं मे प्रदीयताम्॥ एवमुक्त्वा कुमारांस्तान् द्रोण: स्वाङ्गुलिवेष्टनम्। कूपे निरुदके तमिन्नपातयदरिंदमः॥ ततोऽब्रवीत् तदा द्रोणं कुन्तीपुत्रो युधिष्ठिरः। युधिष्ठिर उवाच कृपस्यानुमते ब्रह्मन् भिक्षामाप्नुहि शाश्वतीम्॥ एवमुक्तः प्रत्युवाच प्रहस्य भरतानिदम्। द्रोण उवाच एषा मुष्टिरिषीकाणां मयास्त्रेणाभिमन्त्रिता।॥ अस्या वीर्यं निरीक्षध्वं यदन्यस्य न विद्यते। भेत्स्यामीषीकया वीटां तामिषीकां तथान्यया।॥ तामन्यया समायोगे वीटाया ग्रहणं मम। वैशम्पायन उवाच ततो यथोक्तं द्रोणेन तत् सर्वं कृतमञ्जसा॥ तदवेक्ष्य कुमारास्ते विस्मयोत्फुल्ललोचनाः। आश्चर्यमिदमत्यन्तमिति मत्वा वचोऽब्रुवन्॥ कुमारा ऊचुः मुद्रिकामपि विप्रर्षे शीघ्रमेतां समुद्धर। वैशम्पायन उवाच ततः शरं समादाय धनुर्दोणो महायशाः॥ शरेण विद्ध्वा मुद्रां तामूर्ध्वमावाहयत् प्रभुः। सशरं समुपादाय कूपादङ्गुलिवेष्टनम्॥ ददौ ततः कुमाराणां विस्मितानामविस्मितः। मुद्रिकामुद्भूतां दृष्ट्वा तमाहुस्ते कुमारकाः॥ कुमारा ऊचु: अभिवादयामहे ब्रह्मन् नैतदन्येषु विद्यते। कोऽसि कस्यासि जानीमो वयं किं करवामहे॥ वैशम्पायन उवाच एवमुक्तस्ततो द्रोणः प्रत्युवाच कुमारकान्। द्रोण उवाच आचक्षध्वं च भीष्माय रूपेण च गुणैश्च माम्॥ स एव सुमहातेजाः साम्प्रतं प्रतिपत्स्यते। वैशम्पायन उवाच तथेत्युक्त्वा च गत्वा च भीष्ममूचुः कुमारकाः॥ ब्राह्मणस्य वचस्तथ्यं तच्च कर्म तथाविधम्। भीष्मः श्रुत्वा कुमाराणां द्रोणं तं प्रत्यजानत॥ युक्तरूपः स हि गुरुरित्येवमनुचिन्त्य च। अथैनमानीय तदा स्वयमेव सुसत्कृतम्॥ परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः। हेतुमागमने तच्च द्रोणः सर्वं न्यवेदयत्॥ द्रोण उवाच महर्षेरग्निवेशस्य सकाशमहमच्युत। अस्त्रार्थमगमं पूर्वं धनुर्वेदजिघृक्षया॥ ब्रह्मचारी विनीतात्मा जटिलो बहुलः समाः। अवसं सुचिरं तत्र गुरुशुश्रूषणे रतः॥ पाञ्चालो राजपुत्रश्च यज्ञसेनो महाबलः। इष्वस्त्रहेतोय॑वसत् तस्मिन्नेव गुरौ प्रभुः॥ स मे तत्र सखा चासीदुपकारी प्रियश्च मे। तेनाहं सह संगम्य वर्तयन् सुचिरं प्रभो॥ बाल्यात् प्रभृति कौरव्य सहाध्ययनमेव च। स मे सख्या सदा तत्र प्रियवादी प्रियंकरः॥ अब्रवीदिति मां भीष्म वचनं प्रीतिवर्धनम्। अहं प्रियतमः पुत्रः पितुर्दोण महात्मनः॥ अभिषेक्ष्यति मां राज्ये स पाञ्चालो यदा तदा। त्वद्भोग्यं भविता तात सखे सत्येन ते शपे॥ अलभद् गौतमी मम भोगाश्च वित्तं च त्वदधीनं सुखानि च। एवमुक्त्वाथ वव्राज कृतास्त्रः पूजितो मया॥ तच्च वाक्यमहं नित्यं मनसा धारयंस्तदा। सोऽहं पितृनियोगेन पुत्रलोभाद् यशस्विनीम्॥ नातिकेशी महाप्रज्ञामुपयेमे महाव्रताम्। अग्निहोत्रे च सत्रे च दमे च सततं रताम्॥ पुत्रमश्वत्थामानमौरसम्। भीमविक्रमकर्माणमादित्यसमतेजसम्॥ पुत्रेण तेन प्रीतोऽहं भरद्वाजो मया यथा। गोक्षीरं पिबतो दृष्ट्वा धनिनस्तत्र पुत्रकान्। अश्वत्थामारुदद् बालस्तन्मे संदेहयद् दिशः॥ न स्नातकोऽवसीदेत वर्तमानः स्वकर्मसु। इति संचिन्त्य मनसा तं देशं बहुशो भ्रमन्॥ विशुद्धमिच्छन् गाङ्गेय धपितं प्रतिग्रहम्। अन्तादन्तं परिक्रम्य नाध्यगच्छं पयस्विनीम्॥ अथ पिष्टोदकेनैनं लोभयन्ति कुमारकाः। पीत्वा पिष्टरसं बालः क्षीरं पीतं मयापि च॥ ननर्वोत्थाय कौरव्य हृष्टो बाल्याद् विमोहितः। तं दृष्ट्वा नृत्यमानं तु बालैः परिवृतं सुतम्॥ हास्यतामुपसम्प्राप्तं कश्मलं तत्र मेऽभवत्। द्रोणं धिगस्त्वधनिनं यो धनं नाधिगच्छति॥ पिष्टोदकं सुतो यस्य पीत्वा क्षीरस्य तृष्णया। नृत्यति स्म मुदाविष्टः क्षीरं पीतं मयाप्युत॥ इति सम्भाषतां वाचं श्रुत्वा मे बुद्धिरच्यवत्। आत्मानं चात्मना गर्हन् मनसेदं व्यचिन्तयम्॥ अपि चाहं पुरा विप्रैर्वर्जितो गर्हितो वसे। परोपसेवां पापिष्ठां न च कुर्यां धनेप्सया॥ इति मत्वा प्रियं पुत्रं भीष्मादाय ततो ह्यहम्। पूर्वस्नेहानुरागित्वात् सदारः सौमकिं गतः॥ अभिषिक्तं तु श्रुत्वैव कृतार्थोऽस्मीति चिन्तयन्। प्रियं सखायं सुप्रीतो राज्यस्थं समुपागमम्॥ संस्मरन् संगमं चैव वचनं चैव तस्य तत्। ततो दुपदमागम्य सखिपूर्वमहं प्रभो॥ अब्रुवं पुरुषव्याघ्र सखायं विद्धि मामिति। उपस्थितस्तु द्रुपदं सखिवच्चास्मि संगतः॥ स मां निराकारमिव प्रहसन्निदमब्रवीत्। अकृतेयं तव प्रज्ञा ब्रह्मन् नातिसमञ्जसा॥ यदात्थ मां त्वं प्रसभं सखा तेऽहमिति द्विज। संगतानीह जीर्यन्ति कालेन परिजीर्यतः॥ सौहृदं मे त्वया ह्यासीत् पूर्वं सामर्थ्यबन्धनम्। नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा॥ साम्याद्धि सख्यं भवति वैषम्यान्नोपपद्यते। न सख्यमजरं लोके विद्यते जातु कस्यचित्॥ कालो वैनं विहरति क्रोधो वैनं हरत्युत। मैवं जीर्णमुपास्स्व त्वं सत्यं भवत्वपाकृधि॥ आसीत् सख्यं द्विजश्रेष्ठत्वया मेऽर्थनिबन्धनम्। न ह्यनादयः सखान्यस्य नाविद्वान् विदुषः सखा॥६९ न शूरस्य सखा क्लीवः सखिपूर्वं किमिष्यते। न हि राज्ञामुदीर्णानामेवम्भूतैर्नरैः क्वचित्॥ सख्यं भवति मन्दात्मन् श्रियाहीनैर्धनच्युतैः। नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा॥ नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते। अहं त्वया न जानामि राज्यार्थे संविदं कृताम्॥ एकरात्रं तु ते ब्रह्मन् कामं दास्यामि भोजनम्। एवमुक्तस्त्वहं तेन सदारः प्रस्थितस्तदा॥ तां प्रतिज्ञा प्रतिज्ञाय यां कर्तास्म्यचिरादिव। दुपदेनैवमुक्तोऽहं मन्युनाभिपरिप्लुतः॥ अभ्यागच्छं कुरून् भीष्म शिष्यैरर्थी गुणान्वितैः। ततोऽहं भवतः कामं संवर्धयितुमागतः॥ इदं नागपुरं रम्यं ब्रूहि किं करवाणि ते। वैशम्पायन उवाच एवमुक्तस्तदा भीष्मो भारद्वाजमभाषत॥ भीष्म उवाच अपज्यं क्रियतां चापं साध्वस्त्रं प्रतिपादय। भुक्ष्व भोगान् भृशं प्रीतः पूज्यमानः कुरुक्षये॥ कुरूणामस्ति यद् वित्तं राज्यं चेदं सराष्ट्रकम्। त्वमेव परमो राजा सर्वे च कुरवस्तव॥ यच्च ते प्रार्थितं ब्रह्मन् कृतं तदिति चिन्त्यताम्। दिष्ट्या प्राप्तोऽसि विप्रर्षे महान् मेऽनुग्रहः कृतः॥ वैशम्पायन उवाच ततः सम्पूजितो द्रोणो भीष्मेण द्विपदां वरः। विशश्राम महातेजाः पूजित: कुरुवेश्मनि॥ विश्रान्तेऽथ गुरौ तस्मिन् पौत्रानादाय कौरवान्। शिष्यत्वेन ददौ भीष्मो वसूनि विविधानि च॥ गृहं च सुपरिच्छन्नं धनधान्यसमाकुलम्। भारद्वाजाय सुप्रीतः प्रत्यपादयत प्रभुः॥ सताशिष्यान् महेष्वासः प्रतिजग्राह कौरवान्। पाण्डवान् धार्तराष्ट्रांश्च द्रोणो मुदितमानसः॥ प्रतिगृह्य च तान् सर्वान् द्रोणो वचनमब्रवीत्। रहस्येकः प्रतीतात्मा कृतोपसदनांस्तथा।॥ द्रोण उवाच कार्यं मे काक्षितं किंचिद्धदि सम्परिवर्तते। कृतास्त्रैस्तत् प्रदेयं मे तदेतद् वदतानघाः॥ वैशम्पायन उवाच तच्छ्रुत्वा कौरवेयास्ते तूष्णीमासन् विशाम्पते। अर्जुनस्तु ततः सर्वं प्रतिजज्ञे परंतप॥ ततोऽर्जुनं तदा मूर्ध्नि समाघ्राय पुनः पुनः। प्रीतिपूर्वं परिष्वज्य प्ररुरोद मुदा तदा॥ ततो द्रोणः पाण्डुपुत्रानस्त्राणि विविधानि च। ग्राहयामास दिव्यानि मानुषाणि च वीर्यवान्॥ राजपुत्रास्तथा चान्ये समेत्य भरतर्षभ। अभिजग्मुस्ततो द्रोणमस्त्रार्थे द्विजसत्तमम्॥ वृष्णयश्चान्धकाश्चैव नानादेश्याश्च पार्थिवाः। सूतपुत्रश्च राधेयो गुरुं द्रोणमियात् तदा॥ स्पर्धमानस्तु पार्थेन सूतपुत्रोऽत्यमर्षणः। दुर्योधनं समाश्रित्य सोऽवमन्यत पाण्डवान्॥ अभ्ययात् स ततो द्रोणं धनुर्वेदचिकीर्षया। शिक्षाभुजबलोद्योगैस्तेषु सर्वेषु पाण्डवः। अस्त्रविद्यानुरागाच्च विशिष्टोऽभवदर्जुनः॥ तुल्येष्वस्त्रप्रयोगेषु लाघवे सौष्ठवेषु च। सर्वेषामेव शिष्याणां बभूवाभ्यधिकोऽर्जुनः॥ ऐन्द्रिमप्रतिमं द्रोण उपदेशेष्वमन्यता एवं सर्वकुमाराणामिष्वस्त्रं प्रत्यपादयत्॥ कमण्डलुं च सर्वेषां प्रायच्छच्चिरकारणात्। पुत्राय च ददौ कुम्भमविलम्बनकारणात्॥ यावत् ते नोपगच्छन्ति तावदस्मै परां क्रियाम्। द्रोण आचष्ट पुत्राय तत् कर्म जिष्णुरौहत॥ ततः स वारुणास्त्रेण पूरयित्वा कमण्डलुम्। सममाचार्यपुत्रेण गुरुमभ्येति फाल्गुनः॥ आचार्यपुत्रात् तस्मात् तु विशेषोपचयेऽपृथका न व्यहीयत मेधावी पार्थोऽप्यस्त्रविदां वरः॥ अर्जुनः परमं यत्नमातिष्ठद् गुरुपूजने। अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत्॥ तं दृष्ट्वा नित्यमुद्युक्तमिष्वस्त्रं प्रति फाल्गुनम्। आहूय वचनं द्रोणो रहः सूदमभाषत॥ अन्धकारेऽर्जुनायान्नं न देयं ते कदाचन। न चाख्येयमिदं चापि मद्वाक्यं विजये त्वया॥ ततः कदाचिद् भुञ्जाने प्रववौ वायुरर्जुने। तेन तत्र प्रदीपः स दीप्यमानो विलोपितः॥ भुक्त एव तु कौन्तेयो नास्यादन्यत्र वर्तते। हस्तस्तेजस्विनस्तस्य अनुग्रहणकारणात्॥ तदभ्यासकृतं मत्वा रात्रावपि स पाण्डवः। योग्यां चक्रे महाबाहुर्धनुषा पाण्डुनन्दनः॥ तस्य ज्यातलनिर्घोषं द्रोणः शुश्राव भारत। उपेत्य चैनमुत्थाय परिष्वज्येदमब्रवीत्॥ द्रोण उवाच प्रयतिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः। त्वत्समो भविता लोके सत्यमेतद् ब्रवीमि ते॥ वैशम्पायन उवाच ततो द्रोणोऽर्जुनं भूयो हयेषु च गजेषु च। रथेषु भूमावपि च रणशिक्षामशिक्षयत्॥ गदायुद्धेऽसिचर्यायां तोमरप्रासशक्तिषु। द्रोणः संकीर्णयुद्धे च शिक्षयामास कौरवान्॥ तस्य तत् कौशलं श्रुत्वा धनुर्वेदजिघृक्षवः। राजानो राजपुत्राश्च समाजग्मुः सहस्रशः॥ ततो निषादराजस्य हिरण्यधनुषः सुतः। एकलव्यो महाराज द्रोणमभ्याजगाम ह॥ न स तं प्रतिजग्राह नैषादिरिति चिन्तयन्। शिष्यं धनुषि धर्मज्ञस्तेषामेवान्ववेक्षया॥ स तु द्रोणस्य शिरसा पादौ गृह्य परंतपः। अरण्यमनुसम्प्राप्य कृत्वा द्रोणं महीमयम्॥ तस्मिन्नाचार्यवृत्तिं च परमामास्थितस्तदा। इष्वस्त्रे योगमातस्थे परं नियमास्थितः॥ परया श्रद्धयोपेतो योगेन परमेण च। विमोक्षादानसंधाने लघुत्वं परमाप सः॥ अथ द्रोणाभ्यनुज्ञाताः कदाचित् कुरुपाण्डवाः। ग्थैर्विनिर्ययुः सर्वे मृगयामरिमर्दन॥ तत्रोपकरणं गृह्य नरः कश्चिद् यदृच्छया। राजन्ननुजगामैकः श्वानमादाय पाण्डवान्॥ तेषां विचरतां तत्र तत्तत्कर्मचिकीर्षया। श्वा चरन् स वने मूढो नैषादि प्रति जग्मिवान्॥ स कृष्णं मलदिग्धाङ्गं कृष्णाजिनजटाधरम्। नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिक॥ तदा तस्याथ भषतः शुनः सप्त शरान् मुखे। लाघवं दर्शयन्नस्त्रे मुमोच युगपद् यथा॥ स तु श्वा शरपूर्णास्य: पाण्डवानाजगाम हा तं दृष्ट्वा पाण्डवा वीराः परं विस्मयमागताः॥ लाघवं शब्दवेधित्वं दृष्ट्वा तत् परमं तदा। प्रेक्ष्य तं वीडिताश्चासन् प्रशशंसुश्च सर्वशः॥ तं ततोऽन्वेषमाणास्ते वने वननिवासिनम्। ददृशुः पाण्डवा राजन्नस्यन्तमनिशं शरान्॥ न चैनमभ्यजास्ते तदा विकृतदर्शनम्। अथैनं परिपप्रच्छुः को भवान् कस्य वेत्युत॥ एकलव्य उवाच निषादाधिपतेर्वीरा हिरण्यधनुषः सुतम्। द्रोणशिष्यं च मां वित्त धनुर्वेदकृतश्रमम्॥ वैशम्पायन उवाच ते तमाज्ञाय तत्त्वेन पुनरागम्य पाण्डवाः। यथावृत्तं वने सर्वं द्रोणायाचख्युरद्भुतम्॥ कौन्तेयस्त्वर्जुनो राजन्नेकलव्यमनुस्मरन्। रहो द्रोणं समासाद्य प्रणयादिदमब्रवीत्॥ अर्जुन उवाच तदाहं परिरभ्यैकः प्रीतिपूर्वमिदं वचः। भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति॥ अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्यवान्। अन्योऽस्ति भवतः शिष्यो निषादाधिपतेः सुतः॥ वैशम्पायन उवाच मुहूर्तमिव तं द्रोणाश्चिन्तयित्वा विनिश्चयम्। सव्यसाचिनमादाय नैषादि प्रति जग्मिवान्॥ ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम्। एकलव्यं धनुष्पाणिमस्यन्तमनिशं शरान्॥ एकलव्यस्तु तं दृष्ट्वा द्रोणमायान्तमन्तिकात्। अभिगम्योपसंगृह्य जगाम शिरसा महीम्॥ पूजयित्वा ततो द्रोणं विधिवत् स निषादजः। निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः॥ ततो द्रोणोऽब्रवीद् राजन्नेकलव्यमिदं वचः। यदि शिष्योऽसि मे वीर वेतनं दीयती मम॥ एकलव्यस्तु तच्छ्रुत्वा प्रीयमाणोऽब्रवीदिदम्। एकलव्य उवाच किं प्रयच्छामि भगवन्नाज्ञापयतु मां गुरुः॥ न हि किंचिददेयं मे गुरवे ब्रह्मवित्तम। वैशम्पायन उवाच तमब्रवीत् त्वयाङ्गुष्ठो दक्षिणो दीयतामिति॥ एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम्। प्रतिज्ञामात्मनो रक्षन् सत्ये च नियतः सदा।५७॥ तथैव हृष्टवदनस्तथैवादीनमानसः। छित्त्वाविचार्य तं प्रादाद् द्रोणायाङ्गुष्ठमात्मनः॥ ततः शरं तु नैषादिरङ्गुलीभिर्व्यकर्षत। न तथा च स शीघ्रोऽभूद् यथा पूर्वं नराधिप॥ ततोऽर्जुनः प्रीतमना बभूव विगतज्वरः। द्रोणश्च सत्यवागासीनान्योऽभिभवितार्जुनम्॥ द्रोणस्य तु तदा शिष्यौ गदायोग्यौ बभूवतुः। दुर्योधनश्च भीमश्च सदा संरब्धमानसौ॥ अश्वत्थामा रहस्येषु सर्वेष्वभ्यधिकोऽभवत्। तथाति पुरुषानन्यान् त्सारुको यमजावुभौ॥ युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनंजयः। प्रथितः सागरान्तायां रथयूथपयूथपः॥ बुद्धियोगबलोत्साहैः सर्वास्त्रेषु च निष्ठितः। अस्त्रे गुर्वनुरागे च विशिष्टोऽभवदर्जुनः॥ तुल्येष्वस्त्रोपदेशेषु सौष्ठवेन च वीर्यवान्। एकः सर्वकुमाराणां बभूवातिरथोऽर्जुनः॥ प्राणाधिकं भीमसेनं कृतविद्यं धनंजयम्। धार्तराष्ट्रा दुरात्मानो नामृष्यन्त परस्परम्॥ तांस्तु सर्वान् समानीय सर्वविद्यास्त्रशिक्षितान्। द्रोणः प्रहरणज्ञाने जिज्ञासुः पुरुषर्षभः॥ कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम्। अविज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत्॥ द्रोण उवाच शीघ्रं भवन्तः सर्वेऽपि धनूंष्यादाय सर्वशः। भासमेतं समुद्दिश्य तिष्ठध्वं संधितेषवः॥ मद्वाक्यसमकालं तु शिरोऽस्य विनिपात्यताम्। एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः।७०॥ वैशम्पायन उवाच ततो युधिष्ठिरं पूर्वमुवाचाङ्गिरसां वरः। संधत्स्व बाणं दुर्घष मद्वाक्यान्ते विमुञ्च तम्॥ ततो युधिष्ठिरः पूर्वं धनुर्गृह्य परंतपः। तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः॥ ततो विततधन्वानं द्रोणस्तं कुरुनन्दनम्। स मुहूर्तादुवाचेदं वचनं भरतर्षभ॥ पश्यैनं तं दुमाग्रस्थं भासं नरवरात्मजा श्यामीत्येवमाचार्यं प्रत्युवाच युधिष्ठिरः॥ स मुहूर्तादिव पुनर्दोणस्तं प्रत्यभाषत। द्रोण उवाच अथ वृक्षमिमं मां वा भ्रातृन् वापि प्रपश्यसि॥ तमुवाच च कौन्तेयः पश्याम्येनं वनस्पतिम्। भवन्तं च तथा भ्रातृन् भासं चेति पुनः पुनः॥ तमुवाचापसपैति द्रोणोऽप्रीतमना इव। नैतच्छक्यं त्वया वेळू लक्ष्यमित्येव कुत्सयन्॥ ततो दुर्योधनादींस्तान् धार्तराष्ट्रान् महायशाः। तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत॥ अन्यांश्च शिष्यान् भीमादीन् राज्ञश्चैवान्यदेशजान्। तथा च सर्वे तत् सर्वं पश्याम इति कुत्सिताः॥ वैशम्पायन उवाच ततो धनंजयं द्रोण: स्मयमानोऽभ्यभाषत। त्वयेदानी प्रहर्तव्यमेतल्लक्ष्यं विलोक्यताम्॥ मद्वाक्यसमकालं ते मोक्तव्योऽत्र भवेच्छरः। तिष्ठ तावन्मुहूर्तकम्॥ वितत्य कार्मुकं पुत्र एवमुक्तः सव्यसाची मण्डलीकृतकार्मुकः। तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः॥ मुहूर्तादिव तं द्रोणस्तथैव समभाषत। पश्यस्येनं स्थितं भासं दुमं मामपि चार्जुन॥ पश्याम्येकं भासमिति द्रोणं पार्थोऽभ्यभाषत। न तु वृक्षं भवन्तं वा पश्यामीति च भारत॥ ततः प्रीतमना द्रोणो मुहूर्तादिव तं पुनः। प्रत्यभाषत दुर्धर्षः पाण्डवानां महारथम्॥ भासं पश्यसि यद्येनं तथा ब्रूहि पुनर्वचः। शिरः पश्यामि भासस्य न गात्रमिति सोऽब्रवीत्॥ अर्जुनेनैवमुक्तस्तु द्रोणो हृष्टतनूरुहः। मुञ्चस्वेत्यब्रवीत् पार्थं स मुमोचाविचारयन्॥ ततस्तस्य नगस्थस्य क्षुरेण निशितेन च। शिर उत्कृत्य तरसा पातयामास पाण्डवः॥ तस्मिन् कर्मणि संसिद्धे पर्यष्वजत पाण्डवम्। मेने च दुपदं संख्ये सानुबन्धं पराजितम्॥ कस्यचित् त्वथ कालस्य सशिष्योऽङ्गिरसां वरः। जगाम गङ्गामभितो मज्जितुं भरतर्षभ।॥ अवगाढमथो द्रोणं सलिले सलिलेचरः। ग्राहो जग्राह बलवाञ्जङ्घान्ते कालचोदितः॥ स समर्थोऽपि मोक्षाय शिष्यान् सर्वानचोदयत्। ग्राहं हत्वा मोक्षयध्वं मामिति त्वरयन्निव॥ तद्वाक्यसमकालं तु बीभत्सुनिशितैः शरैः। अवार्यैः पञ्चभिर्दाहं मग्नमभ्यस्याताडयत्॥ इतरे त्वथ सम्मूढास्तत्र तत्र प्रपेदिरे। तु दृष्ट्वा क्रियोपेतं द्रोणोऽमन्यत पाण्डवम्॥ विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत् तदा। स पार्थबाणैर्बहुधा खण्डशः परिकल्पितः॥ ग्राहः पञ्चत्वमापेदे जडां त्यक्त्वा महात्मनः। अथाब्रवीन्महात्मानं भारद्वाजो महारथम्॥ गृहाणेदं महाबाहो विशिष्टमतिदुर्धरम्। अस्त्र ब्रह्मशिरो नाम सप्रयोगनिवर्तनम्॥ न च ते मानुषेष्वेतत् प्रयोक्तव्यं कथंचन। जगद् विनिर्दहेदेतदल्पतेजसि पातितम्॥ असामान्यमिदं तात लोकेष्वस्त्रं निगद्यते। तद् धारयेथाः प्रयतः शृणु चेदं वचो मम॥ बाघेतामानुषः शत्रुर्यदि त्वां वीर कश्चन। तद्वधाय प्रयुञ्जीथास्तदस्त्रमिदमाहवे॥ तथेति सम्प्रतिश्रुत्य बीभत्सुः स कृताञ्जलिः। जग्राह परमास्त्रं तदाह चैनं पुनर्गुरुः। भविता त्वत्समो नान्यः पुमाँल्लोके धनुर्धरः॥ वैशम्पायन उवाच कृतास्त्रान् धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारत। दृष्ट्वा द्रोणोऽब्रवीद् राजन् धृतराष्ट्रं जनेश्वरम्॥ कृपस्य सोमदत्तस्य बाह्रीकस्य च धीमतः। गाङ्गेयस्य च सांनिध्ये व्यासस्य विदुरस्य च॥ राजन् सम्प्राप्तविद्यास्ते कुमाराः कुरुसत्तम्। ते दर्शयेयुः स्वां शिक्षा राजन्ननुमते तव॥ ततोऽब्रवीन्महाराजः प्रहृष्टेनान्तरात्मना। धृतराष्ट्र उवाच भारद्वाज महत् कर्म कृतं ते द्विजसत्तम॥ यदानुमन्यसे कालं यस्मिन् देशे यथा यथा। तथा तथा विधानाय स्वयमाज्ञापयस्व माम्॥ स्पृहयाम्यद्य निर्वेदात् पुरुषाणां सचक्षुषाम्। अस्त्रहेतोः पराक्रान्तान् ये मे द्रक्ष्यन्ति पुत्रकान्॥ क्षत्तर्यद् गुरुराचार्यो ब्रवीति कुरु तत् तथा। न हीदृशं प्रियं मन्ये भविता धर्मवत्सल॥ ततो राजानमामन्त्र्य निर्गतो विदुरो बहिः। भारद्वाजो महाप्राज्ञो मापयामास मेदिनीम्॥ समामवृक्षां निर्गुल्मामुदक्प्रस्रवणान्विताम्। तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते॥ अवघुष्टे समाजे च तदर्थं वदतां वरः। रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधिः॥ प्रेक्षागारं सुविहितं चक्रुस्ते तस्य शिल्पिनः। राज्ञः सर्वायुधोपेतं स्त्रीणां चैव नरर्षभ॥ मञ्चांश्च कारयामासुस्तत्र जानपदा जनाः। विपुलानुच्छ्रयोपेतान् शिबिकाश्च महाधनाः॥ तस्मिस्ततोऽहनि प्राप्ते राजा ससचिवस्तदा। भीष्मं प्रमुखतः कृत्वा कृपं चाचार्यसत्तमम्॥ मुक्ताजालपरिक्षिप्तं वैदूर्यमणिशोभितम्। शातकुम्भमयं दिव्यं प्रेक्षागारमुपागमत्॥ गान्धारी च महाभागा कुन्ती च जयतां वर। स्त्रियश्च राज्ञः सर्वास्ताः सप्रेष्याः सपिरच्छदाः॥ हर्षादारुरुहुर्मञ्चान् मेरुं देवस्त्रियो यथा। ब्राह्मणक्षत्रियाद्यं च चातुर्वण्र्यं पुराद् द्रुतम्॥ दर्शनेप्सु समभ्यागात् कुमाराणां कृतास्त्रताम्। क्षणेनैकस्थतां तत्र दर्शनेप्सु जगाम ह॥ प्रवादितैश्च वादित्रैर्जनकौतूहलेन च। महार्णव इव क्षुब्धः समाजः सोऽभवत् तदा॥ ततः शुक्लाम्बरधरः शुक्लयज्ञोपवीतवान्। शुक्लकेशः सितश्मश्रुः शुक्लमाल्यानुलेपनः॥ रङ्गमध्यं तदाऽऽचार्यः सपुत्रः प्रविवेश ह। नभो जलधरैर्हीनं साङ्गारक इवांशुमान्॥ स यथासमयं चक्रे बलिं बलवतां वरः। ब्राह्मणांस्तु सुमन्त्रज्ञान् कारयामास मङ्गलम्॥ सुखपुण्याहघोषस्य पुण्यस्य समनन्तरम्। विविशुर्विविधं गृह्य शस्त्रोपकरणं नराः॥ ततो बद्धाङ्गुलित्राणा बद्धकक्षा महारथाः। बद्धतूणाः सधनुषो विविशुर्भरतर्षभाः॥ अनुज्येष्ठं तु ते तत्र युधिष्ठिरपुरोगमाः। चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम्॥ केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे। मनुजा धृष्टमपरे वीक्षाञ्चक्रुः सुविस्मिताः॥ ते स्म लक्ष्याणि बिभिदुर्बाणैर्नामाङ्कशोभितैः। विविधैर्लाघवोत्सृष्टैरुह्यन्तो वाजिभिर्दुतम्॥ तत् कुमारबलं तत्र गृहीतशरकार्मुकम्। गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन्।॥ सहसा चुक्रुशुश्चान्ये नराः शतसहस्रशः। विस्मयोत्फुल्लनयनाः साधु साध्विति भारत॥ कृत्वा धनुषि ते मार्गान् स्थचर्यासु चासकृत्। गजपृष्ठेऽश्वपृष्ठे च नियुद्धे च महाबलः॥ गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणः। त्सरुमार्गान् यथोद्दिष्टांश्चेसः सर्वासु भूमिषु॥ लाघवं सौष्ठवं शोभा स्थिरत्वं दृढमुष्टिताम्। ददृशुस्तत्र सर्वेषां प्रयोगं खड्गचर्मणोः॥ अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौ। अवतीर्णौ गदाहतावेकशृङ्गाविवाचलौ॥ बद्धकक्षौ महाबाहू पौरुषे पर्यवस्थितौ। बृहन्तौ वासिताहेतोः समदाविव कुञ्जरौ॥ तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ। चेरतुर्मण्डलगतौ समदाविव कुञ्जरौ॥ विदुरो धृतराष्ट्राय गान्धार्याः पाण्डवारणिः। न्यवेदयेतां तत् सर्वं कुमाराणां विचेष्टितम्॥ वैशम्पायन उवाच कुरुराजे हि रङ्गस्ये भीमे च बलिनां वरे। पक्षपातकृतस्नेहः स द्विधेवाभवज्जनः॥।॥ वीर कुरुराजेति ही भीम इति जल्पताम्। पुरुषाणां सुविपुलाः प्रणादाः सहसोत्थिताः॥ ततः क्षुब्धार्णवनिभं रङ्गमालोक्य बुद्धिमान्। भारद्वाजः प्रियं पुत्रमश्वत्थामानमब्रवीत्॥ द्रोण उवाच वारयैतौ महावीरों कृतयोग्यावुभावपि। मा भूद् रङ्गप्रकोपोऽयं भीमदुर्योधनोद्भवः॥ वैशम्पायन उवाच ततस्तावुद्यतगदौ गुरुपुत्रेण वारितौ। युगान्तानिलसंक्षुब्धौ महावेलाविवार्णवौ॥ ततो रङ्गाङ्गणगतो द्रोणो वचनमब्रवीत्। निवार्य वादिगणं महामेघनिभस्वनम्॥ यो मे पुत्रात् प्रियतरः सर्वशस्त्रविशारदः। ऐन्द्रिरिन्द्रानुजसमः स पार्थो दृश्यतामिति॥ आचार्यवचनेनाथ कृतस्वस्त्ययनो युवा। बद्धगोधाङ्गुलित्राणः पूर्णतूणः सकार्मुकः॥ काञ्चनं कवचं बिभ्रत् प्रत्यदृश्यत फाल्गुनः। सार्कः सेन्द्रायुधतडित् ससंध्य इव तोयदः॥ ततः सर्वस्य रङ्गस्य समुत्पिञ्जलकोऽभवत्। प्रावाद्यन्त च वाद्यानि सशङ्खानि समन्ततः॥ एष कुन्तीसुतः श्रीमानेष मध्यमपाण्डवः। एष पुत्रो महेन्द्रस्य कुरूणामेष रक्षिता॥ एषोऽस्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः। एष शीलवतां चापि शीलज्ञाननिधिः परः॥ इत्येवं तुमुला वाचः शृण्वत्याः प्रेक्षकरिताः। कुन्त्याः प्रस्रवसंयुक्तैरनैः क्लिन्नमुरोऽभवत्॥ तेन शब्देन महता पूर्णश्रुतिरथाब्रवीत्। धृतराष्ट्रो नरश्रेष्ठो विदुरं हृष्टमानसः॥ क्षत्तः क्षुब्धार्णवनिभः किमेव सुमहास्वनः। सहसैवोत्थितो रङ्गे भिन्दन्निव नभस्तलम्॥ विदुर उवाच एष पार्थो महाराज फाल्गुनः पाण्डुनन्दनः। अवतीर्णः सकवचस्तत्रैष सुमहास्वनः॥ धृतराष्ट्र उवाच धन्योऽस्म्यनुगृहीतोऽस्मि रक्षितोऽस्मि महामते। पृथारणिसमुद्भूतैस्त्रिभिः पाण्डववह्निभिः॥ वैशम्पायन उवाच तस्मिन् प्रमुदिते रङ्गे कथंचित् प्रत्युपस्थिते। दर्शयामास बीभत्सुराचार्यायास्त्रलाघवम्॥ आग्नेयेनासृजद् वह्नि वारुणोनासृजत् पयः। वायव्येनासृजद् वायुं पार्जन्येनासृजद् घनान्॥ भौमेन प्राविशद् भूमि पार्वतेनासृजद् गिरीन्। अन्तर्धानेन चास्त्रेण पुनरन्तर्हितोऽभवत्॥ क्षणात् प्रांशुः क्षणाद्धस्वः क्षणाच्च रथधूर्गतः। क्षणेन रथमध्यस्थः क्षणेनावतरन्महीम्॥ सुकुमारं च सूक्ष्मं च गुरुं चापि गुरुप्रियः। सौष्ठवेनाभिसंक्षिप्तः सोऽविध्यद् विविधैः शरैः॥ भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम्। पञ्च बाणानसंयुक्तान् सम्मुमोचैकबाणवत्॥ गव्ये विषाणकोषे च चले रज्ज्वलम्बिनि। निचखान महावीर्यः सायकानेकविंशतिम्॥ इत्येवमादि सुमहत् खड्गे धनुषि चानघ। गदायां शस्त्रकुशलो मण्डलानि ह्यदर्शयत्॥ तत: समाप्तभूयिष्ठे तस्मिन् कर्मणि भारता मन्दीभूते समाजे च वादित्रस्य च निःस्वने॥ द्वारदेशात् समुद्भूतो माहात्म्यबलसूचकः। वज्रनिष्पेषसदृशः सुश्रुवे भुजनिःस्वनः॥ दीर्यन्ते किं नु गिरयः किंस्विद् भूमिर्विदीर्यते। किंस्विदापूर्यते व्योम जलधाराघनैर्घनैः॥ रङ्गस्यैवं मतिरभूत् क्षणेन वसुधाधिपः। द्वारं चाभिमुखाः सर्वे बभूवुः प्रेक्षकास्तदा।॥ पञ्चभिर्धातृभिः पार्थैर्द्राणः परिवृतो बभौ। पञ्चतारेण संयुक्तः सावित्रेणेव चन्द्रमाः॥ अश्वत्थाम्ना च सहितं भ्रातृणां शतमूर्जितम्। दुर्योधनममित्रनमुत्थितं पर्यवारयत्॥ स तैस्तदा भ्रातृभिरुद्यतायुधैर्गदाग्रपाणिः समवस्थितैर्वृतः। बभौ यथा दानवसंक्षये पुरा पुरन्दरो देवगणैः समावृतः॥ वैशम्पायन उवाच दत्तेऽवकाशे पुरुषैर्विस्मयोत्फुल्ललोचनैः। विवेश रङ्गं विस्तीर्णं कर्णः परपुरंजयः॥ सहजं कवचं बिभ्रत् कुण्लोद्योतिताननः। सधनुर्वद्धनिस्त्रिंशः पादचारीव पर्वतः॥ कन्यागर्भः पृथुयशाः पृथायाः पृथुलोचनः। तीक्ष्णांशो स्करस्यांशः कर्णोऽरिगणसूदनः॥ सिंहर्षभगजेन्द्राणां बलवीर्यपराक्रमः। दीप्तिकान्तिद्युतिगुणैः सूर्येन्दुज्वलनोपमः॥ प्रांशुः कनकतालाभः सिंहसंहननो युवा। असंख्येयगुणः श्रीमान् भास्करस्यात्मसम्भवः॥ स निरीक्ष्य महाबाहुः सर्वतो रङ्गमण्डलम्। प्रणाम द्रोणकृपयो त्यादृतमिवाकरोत्॥ स समाजजन: सर्वो निश्चल: स्थिरलोचनः। कोऽयमित्यागतक्षोभः कौतूहलपरोऽभवत्॥ सोऽब्रवीन्मेघगम्भीरस्वरेण वदतां वरः। भ्राता भ्रातरमज्ञातं सावित्रः पाकशासनिम्॥ पार्थ यत् ते कृतं कर्म विशेषवदहं ततः। करिष्ये पश्यातं नृणां माऽऽत्मना विस्मयं गमः॥ असमाप्ते ततस्तस्य वचने वदतां वर। यन्त्रोत्क्षिप्त इवोत्तस्थौ क्षिप्रं वै सर्वतो जनः॥ प्रीतिश्च मनुजव्याघ्र दुर्योधनमुपाविशत्। ह्रीश्च क्रोधश्च बीभत्सु क्षणेनान्वाविवेश ह॥ ततो द्रोणाभ्यनुज्ञात: कर्णः प्रियरणः सदा। यत् कृतं तत्र पार्थेन तच्चकार महाबलः॥ अथ दुर्योधनस्तत्र भ्रातृभिः सह भारत। कर्णं परिष्वज्य मुदा ततो वचनमब्रवीत्॥ दुर्योधन उवाच स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मानद। अहं च कुरुराज्यं च यथेष्टमुपभुज्यताम्॥ कर्ण उवाच कृतं सर्वमहं मन्ये सखित्वं च त्वया वृणे। द्वन्द्वयुद्धं च पार्थेन कर्तुमिच्छाम्यहं प्रभो॥ दुर्योधन उवाच भुक्ष्व भोगान् मया साधु बन्धूनां प्रियकृद् भव। दुहृदां कुरु सर्वेषां मूर्ध्नि पादमरिंदम॥ वैशम्पायन उवाच ततः क्षिप्तमिवात्मानं मत्वा पार्थोऽभ्यभाषत। कर्ण भ्रातृसमूहस्य मध्येऽचलमिव स्थितम्॥ अर्जुन उवाच अनाहूतोपसृष्टानामनाहूतोपजल्पिनाम्। ये लोकास्तान् हत: कर्ण मया त्वं प्रतिपत्स्यसे॥ कर्ण उवाच रङ्गोऽयं सर्वसामान्यः किमत्र तव फाल्गुन। वीर्यश्रेष्ठाश्च राजानो बलं धर्मोऽनुवर्तते॥ किं क्षेपैर्दुर्बलायासैः शरैः कथय भारत। गुरोः समक्षं यावत् ते हराम्यद्य शिरः शरैः॥ वैशम्पायन उवाच ततो द्रोणाभ्यनुज्ञातः पार्थः परपुरंजयः। भ्रातृभिस्त्वरयाऽऽश्लिष्टो रणायोपजगाम तम्॥ ततो दुर्योधनेनापि सभ्रात्रा समरोद्यतः। परिष्वक्तः स्थितः कर्णः प्रगृह्य सशरं धनुः॥ ततः सविद्युत्स्तनितैः सेन्द्रायुधपुरोगमैः। आवृतं गगनं मेधैर्बलाकापङ्क्तिहासिभिः॥ ततः स्नेहाद्धरिहयं दृष्ट्वा रङ्गावलोकिनम्। भास्करोऽप्यनयन्नाशं समीपोपगतान् घनान्॥ मेघच्छायोपगूढस्तु ततोऽदृश्यत फाल्गुनः। सूर्यातपपरिक्षिप्तः कर्णोऽपि समदृश्यत॥ धार्तराष्ट्रा यतः कर्णस्तस्मिन् देशे व्यवस्थिताः। भारद्वाजः कृपो भीष्मो यतः पार्थस्ततोऽभवन्॥ द्विधा रङ्गः समभवत् स्त्रीणां द्वैधमजायत। कुन्तिभोजसुता मोहं विज्ञातार्था जगाम ह॥ तां तथा मोहमापन्नां विदुरः सर्वधर्मवित्। कुन्तीमाश्वासयामास प्रेष्याभिश्चन्दनोदकैः॥ ततः प्रत्यागतप्राणा तावुभौ परिदंशितौ। पुत्रौ दृष्ट्वा सुसम्भ्रान्ता नान्वपद्यत किंचन॥ तावुद्यतमहाचापौ कृपः शारद्वतोऽब्रवीत्। द्वन्द्वयुद्धसमाचारे कुशलः सर्वधर्मवित्॥ अयं पृथायास्तनयः कनीयान् पाण्डुनन्दनः। कौरवो भवता साधु द्वन्द्वयुद्धं करिष्यति॥ त्वमप्येवं महाबाहो मातरं पितरं कुलम्। कथयस्व नरेन्द्राणां येषां त्वं कुलभूषणम्॥ ततो विदित्वा पार्थस्त्वां प्रतियोत्स्यति वा न वा। वृथाकुलसमाचारैर्न युध्यन्ते नृपात्मजाः॥ वैशम्पायन उवाच एवमुक्तस्य कर्णस्य व्रीडावनतमाननम्। बभौ वर्षाम्बुविक्लिन्नं पद्ममागलितं यथा॥ दुर्योधन उवाच आचार्य त्रिविधा योनी राज्ञां शास्त्रविनिश्चये। सत्कुलीनश्च शूश्च यश्च सेनां प्रकर्षति॥ यद्ययं फाल्गुनो युद्धे नाराज्ञा योद्भुमिच्छति। तस्मादेषोऽङ्गविषये मया राज्येऽभिषिच्यते॥ वैशम्पायन उवाच ततस्तस्मिन् क्षणे कर्णः सलाजकुसुमैर्घटैः। काञ्चनैः काञ्चने पीद्दे मन्त्रविद्भिर्महारथः॥ अभिषिक्तोऽङ्गराज्ये स श्रिया युक्तो महाबलः। सच्छत्रवालव्यजनो जयशब्दोत्तरेण च॥ उवाच कौरवं राजन् वचनं स वृषस्तदा। अस्य राज्यप्रदानस्य सदृशं किं ददानि ते॥ प्रब्रूहि राजशार्दूल कर्ता ह्यस्मि तथा नृप। अत्यन्तं सख्यमिच्छामीत्याह तं स सुयोधनः॥ एवमुक्तस्ततः कर्णस्तथेति प्रत्युवाच तम्। हर्षाच्चोभौ समाश्लिष्य परां मुदमवापतुः॥ वैशम्पायन उवाच ततः स्रस्तोत्तरपटः सप्रस्वेदः सवेपथुः। विवेशाधिरथो रङ्गं यष्टिप्राणो ह्वयन्निव॥ तमालोक्य धनुस्त्यक्त्वा पितृगौरवयन्त्रितः। कर्णोऽभिषेकाशिराः शिरसा समवन्दत॥ ततः पादाववच्छाद्य पटान्तेन ससमम्भ्रमः। पुत्रेति परिपूर्णार्थमब्रवीत् रथसारथिः॥ परिष्वज्य च तस्याथ मूर्धानं स्नेहविक्लवः। अङ्गराज्याभिषेकामश्रुभिः सिषिचे पुनः॥ तं दृष्ट्वा सूतपुत्रोऽयमिति संचिन्त्य पाण्डवः। भीमसेनस्तदा वाक्यमब्रवीत् प्रहसन्निव॥ न त्वमर्हसि पार्थेन सूतपुत्र रणे वधम्। कुलस्य सदृशस्तूर्णं प्रतोदो गृह्यतां त्वया॥ अङ्गराज्यं च नार्हस्त्वमुपभोक्तुं नराधम। श्वा हुताशमीपस्थं पुरोडाशमिवाध्वरे॥ एवमुक्तस्ततः कर्णः किंचित्प्रस्फुरिताधरः। गगनस्थं विनिःश्वस्य दिवाकरमुर्दक्षत॥ कोपादुत्ययात महाबलः। भ्रातृपद्मवनात् तस्मान्मदोत्कट इव द्विपः॥ सोऽब्रवीद् भीमकर्माणं भीमसेनमवस्थितम्। वृकोदर न युक्तं ते वचनं वक्तुमीदृशम्॥ ततो दुर्योधनः क्षत्रियाणां बलं ज्येष्ठं योद्धव्यं क्षत्रबन्धुना। शूराणां च नदीनां च दुर्विदाः प्रभवाः किल॥ सलिलादुत्थितो वह्निर्येन व्याप्तं चराचरम्। दधीचस्यास्थितो वज्रं कृतं दानवसूदनम्॥ आग्नेयः कृत्तिकापुत्रो रौद्रो गाङ्गेय इत्यपि। श्रूयते भगवान् देवः सर्वगुह्यमयो गुहः॥ क्षत्रियेभ्यश्च ये जाता ब्राह्मणास्ते च ते श्रुताः। विश्वामित्रप्रभृतयः प्राप्ता ब्रह्मत्वमव्ययम्॥ आचार्यः कलशाज्जातो द्रोणः शस्त्रभृतां वरः। गौतमस्यान्ववाये च शरस्तम्बाच्च गौतमः॥ भवतां च यथा जन्म तदप्यागमितं मया। सकुण्डलं सकवचं सर्वलक्षणलक्षितम्। कथमादित्यसदृशं मृगी व्याघ्नं जनिष्यति॥ पृथिवीराज्यमर्होऽयं नाङ्गराज्यं नरेश्वरः। अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना॥ यस्य वा मनुजस्येदं न क्षान्तं मद्विचेष्टितम्। रथमारुह्य पद्भ्यां स विनामयतु कार्मुकम्॥ ततः सर्वस्य रङ्गस्य हाहाकारो महानभूत्। साधुवादानुसम्बद्धः सूर्यश्चास्तमुपागमत्॥ ततो दुर्योधनः कर्णमालम्ब्यागकरे नृपः। दीपिकाग्निकृतालोकस्तस्माद् रङ्गाद् विनिर्ययौ॥ पाण्डवाश्च सहद्रोणाः सकृपाश्च विशाम्पते। भीष्मेण सहिताः सर्वे ययुः स्वं स्वं निवेशनम्॥ अर्जुनेति जनः कश्चित् कश्चित् कर्णेति भारत। कश्चिद् दुर्योधनेत्येवं ब्रुवन्तः प्रस्थितास्तदा॥ कुन्त्याश्च प्रत्यभिज्ञाय दिव्यलक्षणसूचितम्। पुत्रमङ्गेश्वरं स्नेहाच्छन्ना प्रीतिरजायत॥ दुर्योधनस्यापि तदा कर्णमासाद्य पार्थिवा भयमर्जुनसंजातं क्षिप्रमन्तरधीयत॥ स चापि वीरः कृतशस्त्रनिश्रमः परेण साम्नाभ्यवदत् सुयोधनम्। युधिष्ठिरस्याप्यभवत् तदा मतिन कर्णतुल्योऽस्ति धनुर्धरः क्षितौ॥ वैशम्पायन उवाच पाण्डवान् धार्तराष्ट्रांश्च कृतास्त्रान् प्रसमीक्ष्य सः। गुर्वर्थं दक्षिणाकाले प्राप्तेऽमन्यत वै गुरुः॥ ततः शिष्यान् समानीय आचार्योऽर्थमचोदयत्। द्रोणः सर्वानशेषेण दक्षिणार्थं महीपते॥ पञ्चालराजं दुपदे गृहीत्वा रणमूर्धनि। पर्यानयत भद्रं वः सा ख्यात् परमदक्षिणा॥ तथेत्युक्त्वा तु ते सर्वे रथेस्तूर्णं प्रहारिणः। आचार्यधनदानार्थं द्रोणेन सहिता ययुः॥ ततोऽभिजग्मुः पञ्चालान् निघ्नन्तस्ते नरर्षभाः। ममृदुस्तस्य नगरं दुपदस्य महौजसः॥ दुर्योधनश्च कर्णश्च युयुत्सुश्च महाबलः। दुःशासनो विकर्णश्च जलसंध: सुलोचनः॥ एते चान्ये च बहवः कुमारा बहुविक्रमाः। अहं पूर्वमहं पूर्वमित्येवं क्षत्रियर्षभाः॥ ततो वररथारूढाः कुमारा: सादिभिः सह। प्रविश्य नगरं सर्वे राजमार्गमुपाययुः॥ तस्मिन् काले तु पाञ्चालः श्रुत्वा दृष्ट्वा महद् बलम् भ्रातृभिः सहितो राजंस्त्वरया निर्ययौ गृहात्॥ ततस्तु कृतसंनाहा यज्ञसेनसहोदराः। शरवर्षाणि मुञ्चन्तः प्रणेदुः सर्व एव ते॥ ततो रथेन शुभ्रेण समासाद्य तु कौरवान्। यज्ञसेनः शरान् घोरान् ववर्ष युधि दुर्जयः॥ वैशम्पायन उवाच पूर्वमेव तु सम्मन्त्र्य पार्थो द्रोणमथाब्रवीत्। दद्रिकात् कुमाराणामाचार्यं द्विजसत्तमम्॥ एषां पराक्रमस्यान्ते वयं कुर्याम साहसम्। एतैरशक्यः पाञ्चालो ग्रहीतुं रणमूर्धनि॥ एवमुक्त्वा तु कौन्तेया भ्रातृभिः सहितोऽनघः। अर्धकोशे तु नगरादतिष्ठद् बहिरेव सः॥ दुपदः कौरवान् दृष्ट्वा प्राधावत समन्ततः। शरजालेन महता मोहयन् कौरवी चमूम्॥ तमुद्यतं रथेनैकमाशुकारिणमाहवे। अनेकमिव संत्रासान्मेनिरे तत्र कौरवाः॥ दुपदस्य शरा घोरा विचेरुः सर्वतो दिशम्। ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्च सहस्रशः॥ प्रावाद्यन्त महाराज पाञ्चालानां निवेशने। सिंहनादश्च संजज्ञे पाञ्चालानां महात्मनाम्॥ धनुातलशब्दश्च संस्पृश्य गगनं महान्। दुर्योधनो विकर्णश्च सुबाहुदीर्घलोचनः॥ दुःशासनश्च संक्रुद्धः शरवर्षैरवाकिरन्। सोऽतिविद्धो महेष्वासः पार्षतो युधि दुर्जयः॥ व्यधमत् तान्यनीकानि तत्क्षणादेव भारत। दुर्योधनं विकर्णं च कर्णं चापि महाबलम्॥ नानानृपसुतान् वीरान् सैन्यानि विविधानि च। अलातचक्रवत् सर्वं चरन् बाणैरतर्पयत्॥ तत्तस्तु नागराः सर्वे मुसलैर्यष्टिभिस्तदा। अभ्यवर्षन्त कौरव्यान् वर्षमाणा घना इव॥ सबालवृद्धास्ते पौराः कौरवानभ्ययुस्तदा। श्रुत्वा सुतुमुलं युद्ध कौरवा नेव भारत॥ द्रवन्ति स्म नदन्ति स्म क्रोशन्तः पाण्डवान् प्रति। पाड्वास्तु स्वयं श्रुत्वा आर्तानां लोमहर्षणम्॥ अभिवाद्य ततो द्रोणं रथानारुरुहुस्तदा। युधिष्ठिरं निवार्याशु मा युध्यस्वेति पाण्डवम्॥ माद्रेयौ चक्ररक्षौ तु फाल्गुनश्च तदाकरोत्। सेनाग्रगो भीमसेनः सदाभूद गदया सह॥ तदा शत्रुस्वनं श्रुत्वा भ्रातृभिः सहितोऽनघः। अयाज्जवेन कौन्तेयो रथेनानादयन् दिशः॥ पाञ्चालानां ततः सेनामुद्भूतार्णवनिःस्वनाम्। भीमसेनो महाबाहुर्दण्डपाणिरिवान्तकः॥ प्रविवेश महासेनां मकरः सागरं यथा। स्वयमभ्यद्रवद् भीमो नागानीकं गदाधरः॥ स युद्धकुशलः पार्थो बाहुवीर्येण चातुलः। अहनत् कुञ्जरानीकं गदया कालरूपधृत्॥ ते गजा गिरिसंकाशाः क्षरन्तो रुधिरं बहु। भीमसेनस्य गदया भिन्नमस्तकपिण्डकाः॥ पतन्ति द्विरदा भूमौ वज्रघातादिवाचलाः। गजानश्वान् रथांश्चैव पातयामास पाण्डवः॥ पदातींश्च रथांश्चैव न्यवधीदर्जुनाग्रजः। गोपाल इव दण्डेन यथा पशुगणान् वने॥ चालयन् रथनागांश्च संचचाल वृकोदरः। वैशम्पायन उवाच भारद्वाजप्रियं कर्तुमुद्यतः फाल्गुनस्तदा॥ पार्षतं शरजालेन क्षिपन्नागात् स पाण्डवः। हयौघांश्च रथौघांश्च गजौघांश्च समन्ततः॥ पातयन् समरे राजन् युगान्ताग्निरिव ज्वलन्। पाञ्चाला: सृञ्जयास्तथा॥ शरैर्नानाविधैस्तूर्णं पार्थं संछाद्य सर्वशः। सिंहनादं मुखैः कृत्वा समयुध्यन्त पाण्डवम्॥ ततस्ते हन्यमाना तद् युद्धमभवद् घोरं सुमहाद्भुतदर्शनम्। सिंहनादस्वनं श्रुत्वा नामृष्यत् पाकशासनिः॥ ततः किीटी सहसा पाञ्चालान् समरेऽद्रवत्। छादयन्निषुजालेन महता मोहयन्निव॥ शीघ्रमभ्यस्यतो बाणान् संदधानस्य चानिशम्। नान्तरं ददृशे किंचिन् कौन्तेयस्य यशस्विनः॥ सिंहनादश्च संजज्ञे साधुशब्देन मिश्रितः। ततः पाञ्चालराजस्तु तथा सत्यनिता सह॥ त्वरमाणोऽभिदुद्राव महेन्द्रं शम्बरो यथा। महता शरवर्षेण पार्थः पाञ्चालमावृषोत्॥ ततो हलहलाशब्द आसीत् पाञ्चालके बले। जिघृक्षति महासिंहो गजानामिव यूथपम्॥ दृष्ट्वा पार्थं तदाऽऽयान्तं सत्यजित् सत्यविक्रमः। पाञ्चालं वै परिप्रेप्सुर्धनंजयमुपारवत्॥ ततस्त्वर्जुनपाञ्चालौ युद्धाय समुपागतौ। व्यक्षोभयेतां तौ सैन्यमिन्द्रवैरोचनाविव॥ ततः सत्यजितं पार्थो दशभिर्मर्मभेदिभिः। विव्याध बलवद् गाढं तदद्भुतमिवाभवत्॥ ततः शरशतैः पार्थं पाञ्चालः शीघ्रमार्दयत्। पार्थस्तु शरवर्षेण छाद्यमानो महारथः॥ वेगं चक्रे महावेगो धनुामवमृज्य च। ततः सत्यजितश्चापं छित्त्वा राजानमभ्ययात्॥ अथान्यद् धनुरादाय सत्यजिद् वेगवत्तरम्। सावं ससूतं सरथं पार्थं विव्याध सत्वरः॥ स तं न ममृषे पार्थः पाञ्चालेनार्दितो युधि। ततस्तस्य विनाशार्थं सत्वरं व्यसृजच्छरान्॥ हयान् ध्वजं धनुर्मुष्टिमुभौ तौ पार्णिसारथी। स तथा भिद्यमानेषु कार्मुकेषु पुनः पुनः॥ हयेषु विनियुक्तेषु विमुखोऽभवदाहवे। स सत्यजितमालोक्य तथा विमुखमाहवे॥ वेगेन महता राजन्नभ्यवर्षत पाण्डवम्। तदा चक्रे महद् युद्धमर्जुनो जयतां वरः॥ खगमुद्धृत्य कौन्तेयः तस्य पार्थो धनुश्छित्त्वा ध्वज चोळमपातयत्। पञ्चभिस्तस्य विव्याध हयान् सूतं च सायकैः॥ तत उत्सृज्य तच्चापमाददानं शरावरम्। सिंहनादमथाकरोत्॥ पाञ्चालस्य रथस्येषामाप्लुत्य सहसापतत्। पाञ्चालरथमास्थाय अवित्रस्तो धनंजयः॥ विक्षोभ्याम्भोनिधिं पार्थस्तं नागमिव सोऽग्रहीत्। ततस्तु सर्वपाञ्चाला विद्रवन्ति दिशो दश॥ दर्शयन् सर्वसैन्यानां स बाह्वोर्बलमात्मनः। सिंहनादस्वनं कृत्वा निर्जगाम धनंजयः॥ आयान्तमर्जुनं दृष्ट्वा कुमाराः सहितास्तदा। ममृदुस्तस्य नगरं द्रुपदस्य महात्मनः॥ अर्जुन उवाच सम्बन्धी कुरुवीराणां दुपदो राजसत्तमः। मा वधीस्तद्बलं भीम गुरुदानं प्रदीयताम्॥ वैशम्पायन उवाच भीमसेनस्तदा राजन्नर्जुनेन निवारितः। अतृप्तो युद्धधर्मेषु न्यवर्तत महाबलः॥ ते यज्ञसेनं दुपदं गृहीत्वा रणमूर्धनि। उपाजहः सहामात्यं द्रोणस्य भरतर्षभ।६३॥ भग्नदर्प हृतधनं तं तथा वशमागतम्। स वैरं मनसा ध्यात्वा द्रोणो. दुपदमब्रवीत्॥ विमृद्य तरसा राष्ट्र पुरं ते मृदितं मया। प्राप्य जीवं रिपुवशं सखिपूर्वं किमिष्यते॥ एवमुक्त्वा प्रहस्यैनं किंचित् स पुनरब्रवीत्। मा भैः प्राणभयाद् वीर क्षमिणो ब्राह्मणा वयम्॥ आश्रमे क्रीडितं क्रीडितं यत् तु त्वया बाल्ये मया सह। तेन संवर्द्धितः स्नेहः प्रीतिश्च क्षत्रियर्षभ॥ प्रार्थयेयं त्वया सख्यं पुनरेव जनाधिप। वरं ददामि ते राजन् राज्यस्यार्धमवाप्नुहि॥ अराजा किल नो राज्ञः सखा भवितुमर्हसि। अतः प्रयतितं राज्ये यज्ञसेन मया तव॥ राजासि दक्षिणे कूले भागीरथ्याहामुत्तरे। सखायं मां विजानीहि पाञ्चाल यदि मन्यसे॥ दुपद उवाच अनार्शयमिदं ब्रह्मन् विक्रान्तेषु महात्मसु। प्रीये त्वयाहं त्वत्तश्च प्रीतिमिच्छामि शाश्वतीम्॥ वैशम्पायन उवाच एवमुक्तः स तं द्रोणो मोक्षयामास भारत। सत्कृत्य चैनं प्रीतात्मा राज्या) प्रत्यपादयत्॥ माकन्दीमथ गङ्गायास्तीरे जनपदायुताम्। सोऽध्यावसद् दीनमनाः काम्पिल्यं च पुरोत्तमम्॥ दक्षिणांश्चापि पञ्चालान् यावच्चर्मण्वती नदी। द्रोणेन चैवं द्रुपदः परिभूयाथ पालितः॥ क्षात्रेण च बलेनास्य नापश्यत् स पराजयम्। हीनं विदित्वा चात्मानं ब्राह्मण स बलेन तु॥ पुत्रजन्म परीप्सन् वै पृथिवीमन्वसंचरत्। अहिच्छत्रं च विषयं द्रोणः समभिपद्यत॥ एवं राजन्नहिच्छत्रा पुरी जनपदायुता। युधि निर्जित्य पार्थेन द्रोणारा प्रतिपादिता॥ वैशम्पायन उवाच ततः संवत्सारस्यान्ते यौवराज्याय पार्थिव। स्थापितो तराष्ट्रेण पाण्डुपुत्रो युधिष्ठिरः॥ धृतिस्थैर्य सहिष्णुत्वादानृशंस्यात् तथार्जवात्। भृत्यानम्नुकम्पार्थं तथैव स्थिरसौहृदात्॥ ततोऽदीर्घेण कालेन कुन्तीपुत्रो युधिष्ठिरः। पितुरन्तर्दधे कीर्ति शीलवृत्तसमाधिभिः॥ असियुद्धे गदायुद्धे रथयुद्धे च पाण्डवः। संकर्षणादशिक्षद् वै शश्वच्छिक्षां वृकोदरः॥ समाप्तशिक्षो भीमस्तु द्युमत्सेनसमो बले। पराक्रमेण सम्पन्नो भ्रातृणामचरद् वशे॥ प्रगाढदृढमुष्टित्वे लाघवे वेधने तथा। क्षुरनाराचभल्लानां विपादानां च तत्त्ववित्॥ ऋजुवक्रविशालानां प्रयोक्ता फाल्गुनोऽभवत्। लाघवे सौष्ठवे चैव नान्यः कश्चन विद्यते॥ बीभत्सुसदृशो लोके इति द्रोणो व्यवस्थितः। ततोऽब्रवीद् गुडाकेशं द्रोणः कौरवसंसदि॥ अगस्त्यस्य धनुर्वेद शिष्यों मम गुरुः पुरा। अग्निवेश इति ख्यातस्तस्य शिष्योऽस्मि भारत॥ तीर्थात् तीर्थं गमयितुमहमेतत् समुद्यतः। तपसा यन्मया प्राप्तममोघमशनिप्रभम्॥ अस्त्रं ब्रह्मशिरो नाम यद् दहेत् पृथिवीमपि। ददता गुरुणा चोक्तं न मनुष्येष्विदं त्वया॥ भारद्वाज विमोक्तव्यमल्पवीर्येष्वपि प्रभो। त्वया प्राप्तमिदं वीर दिव्यं नान्योऽर्हति त्विदम्॥ समयस्तु त्वया रक्ष्यो मुनिसृष्टो विशाम्पते। आचार्यदक्षिणां देहि ज्ञातिग्रामस्य पश्यतः॥ ददानीति प्रतिज्ञाते फाल्गुनेनाब्रवीद् गुरुः। युद्धेऽहं प्रतियोद्धव्यो युध्यमानस्त्वयानघ॥ तथेति च प्रतिज्ञाय द्रोणाय कुरुपुङ्गवः। उपसंगृह्य चरणौ स प्रायादुत्तरां दिशम्॥ स्वभावादगमच्छब्दो महीं सागरमेखलाम्। अर्जुनस्य समो लांके नास्ति कश्चिद् धनुर्धरः॥ गदायुद्धेऽसियुद्धे च रथयुद्धे च पाण्डवः। पारगश्च धनुयुद्धे बभूवाथ धनंजयः॥ नीतिमान् सकलां नीति विबुधाधिपतेस्तदा। अवाप्य सहदेवोऽपि भ्रातृणां ववृते वशे॥ द्रोणेनैव विनीतश्च भ्रातृणां नकुलः प्रियः। चित्रयोधी समाख्यातो बभूवातिरथोदितः॥ त्रिवर्षकृतयज्ञस्तु गन्धर्वाणामुपप्लवे। अर्जुनप्रमुखैः पार्थैः सौवीरः समरे हतः॥ न शशाक वशे कर्तुं यं पाण्डुरपि वीर्यवान्। सोऽर्जुनेन वशं नीतो राजाऽऽसीद् यवनाधिपः॥ अतीव बलसम्पन्नः सदा मानी कुरून् प्रति। विपुलो नाम सौवीरः शस्तः पार्थेन धीमता॥ दत्तामित्र इति ख्यातं संग्रामे कृतनिश्चयम्। सुमित्रं नाम सौवीरमर्जुनोऽदमयच्छरैः॥ भीमसेनसहायश्च रथानामयुतं च सः। अर्जुनः समरे प्राच्यान् सर्वानेकरथोऽजयत्॥ तथैवैकरथो गत्वा दक्षिणामजयद् दिशम्। धनौघं प्रापयामास कुरुराष्ट्र धनंजयः॥ एवं सर्वे महामत्मानः पाण्डवा मनुजोत्तमाः। परराष्ट्राणि निर्जित्य स्वराष्ट्रं ववृधुः पुरा॥ ततो बलमतिख्यातं विज्ञाय दृढधन्विनाम्। दूषितः सहसा भावो धृतराष्ट्रस्य पाण्डुषु। स चिन्तापरमो राजा न निद्रामलभनिशि॥ वैशम्पायन उवाच एवं श्रुत्वा तु पुत्रस्य प्रज्ञाचक्षुर्नराधिपः। कणिकस्य च वाक्यानि तानि श्रुत्वा स सर्वशः॥ धृतराष्ट्रो द्विधाचित्तः शोकार्तः समपद्यत। दुर्योधनश्च कर्णश्च शकुनिः सौबलस्तथा॥ दुःशासनचतुर्थास्ते मन्त्रयामासुरेकतः। ततो दुर्योधनो राजा धृतराष्ट्रमभाषत॥ पाण्डवेभ्यो भयं न स्यात् तान् विवासयतां भवान्। निपुणेनाभ्युपायेन नगरं वारणावतम्॥ धृतराष्ट्रस्तु पुत्रेण श्रुत्वा वचनमीरितम्। मुहूर्तमिव संचिन्त्य दुर्योधनमथाब्रवीत्॥ धृतराष्ट्र उवाच धर्मनित्यः सदा पाण्डुस्तथा धर्मपरायणः। सर्वेषु ज्ञातिषु तथा मयि त्वासीद् विशेषतः॥ नासौ किंचिद् विजानाति भोजानादि चिकीर्षितम्। निवेदयति नित्यं हि मम राज्यं धृतव्रतः॥ तस्य पुत्रो यथा पाण्डुस्तथा धाईपरायणः। गुणवाँल्लोकविख्यातः पौरवाणां सुसम्मतः॥ ते स कथं शक्यतेऽस्माभिरपाकर्तुं बलादितः। पितृपैतामहाद् राज्यात् ससहायो विशेषतः॥ भृता हि पाण्डुनामात्या बलं च सततं भृतम्। भृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः॥ पुरा सत्कृतास्तात पाण्डुना नागरा जनाः। कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान्॥ दुर्योधन उवाच एवमेतन्मया तात भावितं दोषमात्मनि। दृष्ट्वा प्रकृतयः सर्वा अर्थमानेन पूजिताः॥ ध्रुवमस्मत्सहायास्ते भविष्यन्ति प्रधानतः। अर्थवर्गः सहामात्यो मत्संस्थोऽद्य महीपते॥ स भवान् पाण्डवानाशु विवासयितुमर्हति। मृदुनैवाभ्युपायेन नगरं वारणावतम्॥ यदा प्रतिष्ठितं राज्यं मयि राजन् भविष्यति। तदा कुन्ती सहापत्या पुनरेष्यति भारत॥ धृतराष्ट्र उवाच दुर्योधन ममाप्येतद्धदि सम्परिवर्तते। अभिप्रायस्य पापत्वान्नैवं तु विवृणोम्यहम्॥ न च भीष्मो न च द्रोणो न च क्षत्ता न गौतमः। विवास्यमानान् कौन्तेयाननुमंस्यन्ति कर्हिचित्॥ समा हि कौरवेयाणां वयं ते चैव पुत्रक। नैते विषममिच्छेयुर्धर्मयुक्ता मनस्विनः॥ ते वयं कौरवेयाणामेतेषां च महात्मनाम्। कथं न बध्यतां तात गच्छाम जगतस्तथा॥ दुर्योधन उवाच मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः। यतः पुत्रस्ततो द्रोणो भविता नात्र संशयः॥ कृपः शारद्वतश्चैव यत एतौ ततो भवेत्। द्रोणं च भागिनेयं च न स त्यक्ष्यति कर्हिचित्॥ क्षत्तार्थबद्धस्त्वस्माकं प्रच्छन्नं संयतः परैः। न चैकः स समर्थोऽस्मान् पाण्डवार्थेऽधिबाधितुम्।२२॥ स विस्रब्धः पाण्डुपुत्रान् सह मात्रा प्रवासय। वारणावतमद्यैव यथा यान्ति तथा कुरु॥ विनिद्रकरणं घोरं हृदि शल्यमिवार्पितम्। शोकपावकमुद्भूतं कर्मणैतेन नाशय॥ वैशम्पायन उवाच पाण्डवास्तु रथान् युक्तान् सदश्वैरनिलोपमैः। आरोहमाणा भीष्मस्य पादौ जगृहुरार्तवत्॥ राज्ञश्च धृतराष्ट्रस्य द्रोणस्य च महात्मनः। अन्येषां चैव वृद्धानां कृपस्य विदुरस्य च॥ एवं सर्वान् कुरून् वृद्धानभिवाद्य यतव्रताः। समालिङ्गय समानान् वै बालैश्चाप्यभिवादितः॥ सर्वा मातृस्तथाऽऽपृच्छ्य कृत्वा चैव प्रदक्षिणम्। सर्वाः प्रकृतयश्चैव प्रययुर्वारणावतम्॥ विदुरच महाप्राज्ञस्तथान्ये कुरुपुङ्गवाः। पौराश्च पुरुषव्याघ्रानन्वीयुः शोककर्शिताः॥ तत्र केचिद् ब्रुवन्ति स्म ब्राह्मणा निर्भयास्तदा। दीनान् दृष्ट्वा पाण्डुसुतानतीव भृशदुःखिताः॥ विषमं पश्यते राजा सर्वथा स सुमन्दधीः। कौरव्यो धृतराष्ट्रस्तु न च धर्म प्रपश्यति॥ न हि पापमपापात्मा रोचयिष्यति पाण्डवः। भीमो वा बलिनां श्रेष्ठः कौन्तेयो वा धनंजयः॥ कुत एव महात्मानौ माद्रीपुत्रौ करिष्यत। तान् राज्यं पितृतः प्राप्तान् धृतराष्टो न मृष्यते॥ अधर्म्यमिदमत्यन्तं कथं भीष्योऽनुमन्यते। विवास्यमानानस्थाने नगरे योऽभिमन्यते॥ पितेव हि नृपोऽस्माकमभूच्छांतनवः पुरा। विचित्रवीर्यो राजर्षिः पाण्डुश्च कुरुनन्दनः॥ स तस्मिन् पुरुषव्याघ्र देवभावं गते सति। राजपुत्रानिमान् बालान् धृतराष्ट्रो न मृष्यते॥ वयमेतदनिच्छन्तः सर्व एव पुरोत्तमात्। गृहान् विहाय गच्छामो यत्र गन्ता युधिष्ठिरः॥ तांस्तथावादिनः पौरान् दुःखितान् दुःखकर्शितः। उवाच मनसा ध्यात्वा धर्मराजो युधिष्ठिरः॥ पिता मान्यो गुरुः श्रेष्ठो यदाह पृथिवीपतिः। अशङ्कमानैस्तत् कार्यमस्माभिरिति नो व्रतम्॥ भवन्तः सुहृदोऽस्माकमस्मान् कृत्वा प्रदक्षिणम्। प्रतिनन्द्य तथाशीभिर्निवर्तध्वं यथा गृहम्॥ यदा तु कार्यमस्माकं भवद्भिपपत्स्यते। तदा करिष्यथास्माकं प्रियाणि च हितानि च॥ एवमुक्तास्तदा पौराः कृत्वा चापि प्रदक्षिणम्। आशीभिश्चाभिनन्द्यैताञ्जग्मुर्नगरमेव हि॥ पौरेषु विनिवृत्तेषु विदुरः सत्यधर्मवित्। बोधयन् पाण्डवश्रेष्ठमिदं वचनमब्रवीत्॥ प्राज्ञः प्राज्ञप्रलापज्ञः प्रलापज्ञमिदं वचः। प्राज्ञं प्राज्ञः प्रलापज्ञः प्रलापज्ञं वचोऽब्रवीत्॥ यो जानाति परप्रज्ञा नीतिशास्त्रानुसारिणीम्। विज्ञायेह तथा कुर्यादापदं निस्तरेद् यथा॥ अलोहं निशितं शस्त्रं शरीरपरिकर्तनम्। यो वेत्ति न तु तं नन्ति प्रतिघातविदं द्विषः॥ कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः। न देहदिति चात्मानं यो रक्षति स जीवति॥ नाचक्षुर्वेति पन्थानं नाचक्षुर्विन्दते दिशः। नाधृतिर्बुद्धिमाप्नोति बुध्यस्वैवं प्रबोधितः॥ अनाप्तैर्दत्तमादत्ते नरः शस्त्रमलोहजम्। श्वाविच्छरणमासाद्य प्रमुच्येत हुताशनात्॥ चरन् मार्गान् विजानाति नक्षत्रैर्विन्दते दिशः। आत्मना चात्मनः पञ्च पीडयन् नानुपीड्यते॥ एवमुक्तः प्रत्युवाच धर्मराजो युधिष्ठिरः। विदुरं विदुषां श्रेष्ठं ज्ञातमित्येव पाण्डवः॥ अनुशिक्ष्यानुगम्यैतान् कृत्वा चैव प्रदक्षिणम्। पाण्डवानभ्यनुज्ञाय विदुरः प्रययौ गृहान्॥ निवृत्ते विदुरे चापि भीष्मे पौरजने तथा। अजातशत्रुमासाद्य कुन्ती वचनमब्रवीत्॥ क्षत्ता यदब्रवीद् वाक्यं जनमध्येऽब्रुवन्निव। त्वया च स तथेत्युक्तो जानीमो न च तद् वयम्॥ यदीदं शक्यमस्माभिर्ज्ञातुं न च सदोषवत्। श्रोतुमिच्छामि तत् सर्वं संवादं तव तस्य च॥ युधिष्ठिर उवाच गृहादग्निश्च बोद्धव्य इति मां विदुरोऽब्रवीत्। पन्थाश्च वो नाविदितः कश्चित् स्पादिति धर्मधीः॥ जितेन्द्रियश्च वसुधां प्राप्स्यतीति च मेऽब्रवीत्। विज्ञातमिति तत् सर्वं प्रत्युक्तो विदुरो मया॥ वैशम्पायन उवाच अष्टमेऽहनि रोहिण्यां प्रयाताः फाल्गुनस्य ते। वारणावतमासाद्य ददृशुर्नागरं जनम्॥ वैशम्पायन उवाच ततः सर्वाः प्रकृतयो नगराद् वारणावतात्। सर्वमङ्गलसंयुक्ता यथाशास्त्रमतन्द्रिताः॥ श्रुत्वाऽऽगतान् पाण्डुपुत्रान् नानायानैः सहस्रशः। अभिजग्मुर्नरश्रेष्ठान् श्रुत्वैव परया मुदा॥ ते समासाद्य कौन्तेयान् वारणावतका जनाः। कृत्वा जयाशिषः सर्वे परिवार्यावतस्थिरे॥ तैर्वृतः पुरुषव्याघ्रो धर्मराजो युधिष्ठिरः। विबभौ देवसंकाशो वज्रपाणिरिवामरैः॥ सत्कृताश्चैव पौरैस्ते पौरान् सत्कृत्य चानघ। अलंकृतं जनाकीर्णं विविशुर्वारणावतम्॥ ते प्रविश्य पुरी वीरास्तूर्णं जग्मुरथो गृहान्। ब्राह्मणानां महीपालं रतानां स्वेषु कर्मसु॥ नगराधिकृतानां च गृहाणि रथिनां तदा। उपतस्थुर्नरश्रेष्ठा वैश्यशूद्रगृहाण्यपि॥ अर्चिताश्च नरैः पौरैः पाण्डवा भरतर्षभ। जग्मुरावसथं पश्चात् पुरोचनपुरस्सराः॥ तेभ्यो भक्ष्याणि पानानि शयनानि शुभानि च। आसनानि च मुख्यानि प्रददौ स पुरोचनः॥ तत्र ते स्तकृतास्तेन सुमहार्हपरिच्छदाः। उपास्यमानाः पुरुषैरूषुः पुरनिवासिभिः॥ दशरात्रोषितानां तु तत्र तेषां पुरोचनः। निवेदयामास गृहं शिवाख्यमशिवं तदा॥ तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः। पुरोचनस्य वचनात् कैलासमिव गुह्यकाः॥ तच्चागारमभिप्रेक्ष्य सर्वधर्मभृतां वरः। उवाचाग्नेयमित्येवं भीमसेनं युधिष्ठिरः॥ जिघ्राणोऽस्य वसागन्धं सर्पिर्जतुविमिश्रितम्। कृतं हि व्यक्तमाग्नेयमिदं वेश्म परंतप॥ शणसर्जरसंव्यक्तमानीय गृहकर्मणि। मुञ्जबल्वजवंशादि द्रव्यं सर्वं घृतोक्षितम्॥ शिल्पिभिः सुकृतं ह्याप्तैर्विनीतैर्वेश्मकर्मणि। विश्वस्तं मामयं पापो दग्धुकामः पुरोचनः॥ तथा हि वर्तते मन्दः सुयोधनवसे स्थितः। इमां तु तां महाबुद्धिर्विदुरो दृष्टवांस्तथा॥ आपदं तेन मां पार्थं स सम्बोधितवान् पुरा। ते वयं बोधितास्तेन नित्यमस्मद्धितैषिणा॥ पित्रा कनीयसा स्नेहाद् बुद्धिमन्तोऽशिवं गृहम्। अनार्यैः सुकृतं गूढैर्दुर्योधनवशानुगैः॥ भीमसेन उवाच यदीदं गृहमाग्नेयं विहितं मन्यते भवान्। तथैव साधु गच्छामो यत्र पूर्वोषिता वयम्॥ युधिष्ठिर उवाच इह यत्तैर्निराकारैर्वस्तव्यमिति रोचये। अप्रमत्तैर्विचिन्वद्भिर्गतिमिष्टां ध्रुवामितः॥ यदि विन्देत चाकारमस्माकं स पुरोचनः। क्षिप्रकारी ततो भूत्वा प्रदह्यादपि हेतुतः॥ नायं विभेत्युपक्रोशादधर्माद् वा पुरोचनः। तथा हि वर्तते मन्दः सुयोधनवशे स्थितः॥ अपि चेह प्रदग्धेषु भीष्मोऽस्मासु पितामहः। कोपं कुर्यात् किमर्थं वा कौरवान् कोपयीत सः॥ अथवापीह दग्धेषु भीष्मोऽस्माकं पितामहः। धर्म इत्येव कुष्येरन् ये चान्ये कुरुपुङ्गवाः॥ वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेमहि। स्पशैर्निर्घातयेत् सर्वान् राज्यलुब्धः सुयोधनः॥ अपदस्थान् पदे तिष्ठन्नपक्षान् पक्षसंस्थितः। हीनकोशान् महाकोशः प्रयोगैर्घातयेद् ध्रुवम्॥ तदस्माभिरिमं पापं तं च पापं सुयोधनम्। वञ्चयद्भिर्निवस्तव्यं छन्नावासं क्वचित् क्वचित्॥ ते वयं मृगयाशीलाश्चराम वसुधामिमाम्। तथा नो विदिता मार्गा भविष्यन्ति पलायताम्॥ भौमं च बिलमद्यैव करवाम सुसंवृतम्। गूढश्वासान्न नस्तत्र हुताशः सम्प्रधक्ष्यति॥ वसतोऽत्र यथा चास्मान्न बुध्येत पुरोचनः। पौरो वापि जनः कश्चित् तथा कार्यमतन्द्रितैः॥ वैशम्पायन उवाच विदुरस्य सुहृत् कश्चित् खनकः कुशलो नरः। विविक्ते पाण्डवान् राजन्निदं वचनमब्रवीत्॥ प्रहितो विदुरेणास्मि खनकः कुशलो ह्यहम्। पाण्डवानां प्रियं कार्यमिति किं करवाणि वः॥ प्रच्छन्नं विदुरेणोक्तः श्रेयस्त्वमिति पाण्डवान्। प्रतिपादय विश्वासादिति किं करवाणि वः॥ कृष्णपक्षे चतुर्दश्यां रात्रावस्यां पुरोचनः। भवनस्य तव द्वारि प्रदास्यति हुताशनम्॥ मात्रा सह प्रदग्धव्याः पाण्डवाः पुरुषर्षभाः। इति व्यवसितं तस्य धार्तराष्ट्रस्य दुर्मतेः॥ किंचिच्च विदुरेणोक्तो म्लेच्छवाचासि पाण्डव। त्वया च तत् तथेत्युक्तमेतद् विश्वासकारणम्॥ उवाच तं सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः। अभिजानामि सौम्य त्वां सुहृदं विदुरस्य वै॥ शुचिमाप्तं प्रियं चैव सदा च दृढभक्तिकम्। न विद्यते कवेः किंचिदविज्ञातं प्रयोजनम्॥ यथा तस्य तथा नस्त्वं निर्विशेषा वयं त्वयि। भवतश्च यथा तस्य पालयास्मान् यथा कविः॥ इदं शरणमाग्नेयं मदर्षमिति मे मतिः। पुरोचनेन विहितं धार्तराष्ट्रस्य शासनात्॥ स पापः कोषवांश्चैव ससहायश्च दुर्मतिः। अस्मानपि च पापात्मा नित्यकालं प्रबाधते॥ सभवान् मोक्षयत्वस्मान् यत्नेनास्माद्भुताशनात्। अस्मास्विह हि दग्धेषु सकामः स्यात् सुयोधनः॥ समृद्धमायुधागारमिदं तस्य दुरात्मनः। वप्रान्तं निष्पतीकारमाश्रित्येदं कृतं महत्॥ इदं तदशुभं नूनं तस्य कर्म चिकीर्षितम्। प्रागेव विदुरो वेद तेनास्मानन्वबोधयत्॥ सेयमापदनुप्राप्ता क्षत्ता यां दृष्टवान् पुरा। पुरोचनस्याविदितानस्मांस्त्वं प्रतिमोचय॥ स तथेति प्रतिश्रुत्य खनको यत्नमास्थितः। परिखामुत्किरन्नाम चकार च महाबिलम्॥ चक्रे च वेश्मनस्तस्य मध्येनातिमहद् बिलम्। कपाटयुक्तमज्ञातं समं भूम्याश्च भारत॥ पुरोचनभयादेव व्यदधात् संवृत्तं मुखम्। स तस्य तु गृहद्वारि वसत्यशुभधीः सदा॥ तत्र ते सायुधाः सर्वे वसन्ति स्म क्षपां नृप॥ दिवा चरन्ति मृगयां पाण्डवेया वनाद् वनम्। विश्वस्तवदविश्वस्ता वञ्चयन्तः पुरोचनम्। अतुष्टा तुष्टवद् राजन्नूषुः परमविस्मिताः॥ न चैनानन्वबुध्यन्त नरा नगरवासिनः अन्यत्र विदुरामात्यात् तस्मात् खनकसत्तमात्॥ वैशम्पायन उवाच तांस्तु दृष्ट्वा सुमनसः परिसंवत्सरोषितान्। विश्वस्तानिव संलक्ष्य हर्षं चक्रे पुरोचनः॥ पुरोचने तथा हृष्टे कौन्तेयोऽथ युधिष्ठिरः। भीससेनार्जुनौ चोभौ यमौ प्रोवाच धर्मवित्॥ अस्मानयं सुविश्वस्तान् वेत्ति पापः पुरोचनः। वञ्चितोऽयं नृशंसात्मा कालं मन्ये पलायने॥ आयुधागारमादीप्य दग्ध्वा चैव पुरोचनम्। षट् प्राणिनो निधायेह द्रवामोऽनभिलक्षिताः॥ अथ दानापदेशेन कुन्ती ब्राह्मणभोजनम्। चक्रे निशि महाराज आजग्मुस्तत्र योषितः॥ ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत। जग्मुर्निशि गृहानेव समनुज्ञाप्य माधवीम्॥ निषादी पञ्चपुत्रा तु तस्मिन् भोज्ये यदृच्छया। अन्नार्थिनी समभ्यागात् सपुत्रा कालचोदिता॥ सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला। सह सर्वैः सुतै राजंस्तस्मिन्नेव निवेशने॥ सुष्वाप विगतज्ञाना मृतकल्पा नराधिप। अथ प्रवाते तुमुले निशि सुप्ते जने तदा॥ तदुपादीपयद् भीमः शेते यत्र पुरोचनः। ततो जदुगृहद्वारं दीपयामास पाण्डवः॥ समन्ततो ददौ पश्चादग्नि तत्र निवेशने। ज्ञात्वा तु तद् गृहं सर्वमादीप्तं पाण्डुनन्दनाः॥ सुरङ्गां विविशुस्तूर्णं मात्रा सार्धमरिंदमाः। ततः प्रतापः सुमहाञ्छब्दश्चैव विभावसोः॥ प्रादुरासीत् तदा तेन बुबुधे स जनवजः। तदवेक्ष्य गृहं दीप्तमाहुः पौराः कृशाननाः॥ पौरा ऊचुः दुर्योधनप्रयुक्तेन पापेनाकृतबुद्धिना। गृहमात्मविनाशाय कारितं दाहितं च तत्॥ अहो धिग् धृतराष्ट्रस्य बुद्धिर्नातिसमञ्जसा। यः शुचीन् पाण्डुदायादान् दाहयामास शत्रुवत्॥ दिष्ट्या त्विदानी पापात्मा दग्धोऽयमतिदुर्मतिः। अनागसः सुविश्वस्तान् यो ददाह नरोत्तमान्॥ वैशम्पायन उवाच एवं ते विलपन्ति स्म वारणावतका जनाः। परिवार्य गृहं तच्च तस्थू रात्रौ समन्ततः॥ पाण्डवाश्चापि ते सर्वे सह मात्रा सुदुःखिताः। बिलेन तेन निर्गत्य जग्मुर्दुतमलक्षिताः॥ तेन निद्रोपरोधेन साध्वसेन च पाण्डवाः। न शेकुः सहसा गन्तुं सह मात्रा परंतपाः॥ भीमसेनस्तु राजेन्द्र भीमवेगपराक्रमः। जगाम भ्रातृनादाय सर्वान् मातरमेव च॥ स्कन्धमारोप्य जननी यमावरून वीर्यवान्। पार्थी गृहीत्वा पाणिभ्यां भ्रातरौ सुमहाबलः॥ उरसा पादपान् भञ्जन् महीं पद्भ्यां विदारयन्। स जगामाशु तेजस्वी वातरंहा वृकोदरः॥ वैशम्पायन उवाच अथ रात्र्यां व्यतीतायामशेषो नागरो जनः। तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान्॥ निर्वापयन्तो ज्वलनं ते जना ददृशुस्ततः। जातुषं तद् गृहं दग्धममात्यं च पुरोचनम्॥ नूनं दुर्योधनेनेदं विहितं पापकर्मणा। पाण्डवानां विनाशायेत्येवं ते चुक्रुशुर्जनाः॥ विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः। दग्धवान् पाण्डुदायादान् न ह्येनं प्रतिषिद्धवान्॥ नूनं शांतनवोऽपीह न धर्ममनुवर्तते। द्रोणश्च विदुरश्चैव कृपश्चान्ये च कौरवाः॥ ते वयं धृतराष्ट्रस्य प्रेषयामो दुरात्मनः। संवृत्तस्ते परः काम: पाण्डवान् दग्धवानसि॥ ततो व्यपोहमानास्ते पाण्डवार्थे हुताशनम्। निषादी ददृशुर्दग्धां पञ्चपुत्रामनागसम्॥ खनकेन तु तेनैव वेश्म शोधयता बिलम्। पांसुभिः पिहितं तच्च पुरुषैस्तैर्न लक्षितम्॥ ततस्ते ज्ञापयामासुधृतराष्ट्रस्य नागराः। पाण्डवानग्निना दग्धानमात्यं च पुरोचनम्॥ श्रुत्वा तु धृतराष्ट्रस्तद् राजा सुमहदप्रियम्। विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः॥ अद्य पाण्डुम॒तो राजा मम भ्राता महायशाः। तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः॥ गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम्। सत्कारयन्तु तान् वीरान् कुन्तिराजसुतां च ताम्॥ कारयन्तु च कुल्यानि शुभानि च बृहन्ति च। ये च तत्र मृतास्तेषां सुहृदो यान्तु तानपि॥ एवं गते मया शक्यं यद् यत् कारयितुं हितम्। पाण्डवानां च कुन्त्याश्च तत् सर्वं क्रियतां धनैः॥ एवमुक्त्वा ततश्चक्रे ज्ञातिभिः परिवारितः। उदकं पाण्डुपुत्राणां धृतराष्ट्रोऽम्बिकासुतः॥ रुरुदुः सहिताः सर्वे भृशं शोकपरायणाः। हा युधिष्ठिर कौरव्य हा भीम इति चापरे॥ हा फाल्गुनेति चाप्यन्ये हा यमाविति चापरे। कुन्तीमार्ताश्च शोचन्त उदकं चक्रिरे जनाः॥ अन्ये पौरजनाश्चैवमन्वशोचन्त पाण्डवान्। विदुरस्त्वल्पशश्चक्रे शोकं वेद परं हि सः॥ पाण्डवाश्चापि निर्गत्य नगराद् वारणावतात्। नदीं गङ्गामनुप्राप्ता मातृषष्ठा महाबलाः॥ दाशानां भुजवेगेन नद्याः स्रोतोजवेन च। वायुना चानुकूलेन तूर्णं पारमवाप्नुवन्॥ ततो नावं परित्यज्य प्रययुर्दक्षिणां दिशम्। विज्ञाय निशि पन्थानं नक्षत्रगणसूचितम्॥ यतमाना वनं राजन् गहनं प्रतिपेदिरे। ततः श्रान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः॥ पुनरूचुर्महावीर्यं भीमसेनमिदं वचः। इतः कष्टतरं किं नु यद् वयं गहने वने। दिशश्च न विजानीमो गन्तुं चैव न शक्नुमः॥ तं च पापं न जानीमो यदि दग्धः पुरोचनः। कथं तु विप्रमुच्येम भयादस्मादलक्षिताः॥ पुनरस्मानुपादाय तथैव व्रज भारत। त्वं हि नो बलवानेको यथा सततगस्तथा॥ इत्युक्तो धर्मराजेन भीमसेनो महाबलः। आदाय कुन्तीं भ्रातूंश्च जगामाशु महाबलः॥ वैशम्पायन उवाच तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः। अविदूरे वनात् तस्माच्छालवृक्षं समाश्रितः॥श। क्रूरो मानुषमांसादो महावीर्यपराक्रमः। प्रावृड्जलधरश्यामः पिङ्गाक्षो दारुणाकृतिः॥ दंष्ट्राकरालवदनः पिशितेप्सुः क्षुधादितः। लम्बस्फिग्लम्बजद्दरो रक्तश्मश्रुशिरोरुहः॥ महावृक्षगलस्कन्धः शरूको बिभीषणः। यदृच्छया तानपश्यत् पाण्डुपुत्रान् महारथान्॥ विरूपरूपः पिङ्गाक्षः करालो घोरदर्शनः। पिशितेप्सुः क्षुधार्तश्च तानपश्यद् यदृच्छया॥ ऊर्ध्वाङ्गुलिः स कण्डूयन् धुन्वन् रूक्षान् शिरोरुहान् जृम्भमाणो महावक्त्रः पुनः पुनरवेक्ष्य च॥ हष्टो मानुषमांसस्य महाकायो महाबलः। आघ्राय मानुषं गन्धं भगिनीमिदमब्रवीत्॥ उपपन्नश्चिरस्याद्य भक्षोऽयं मम सुप्रियः। स्नेहस्रवान् प्रस्रवति जिह्वा पर्येति मे सुखम्॥ अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश्चिरस्यापातदुस्सहाः। देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च।॥ आक्रम्य मानुषं कण्द्दमाच्छिद्य धमनीमपि। उष्णं नवं प्रपास्यामि फेनिलं रुधिरं बहु॥ गच्छ जानीहि के त्वेते शेरते वनमाश्रिताः। मानुषो बलवान् गन्धो घ्राणं तर्पयतीव मे॥ हत्वैतान् मानुषान् सर्वानानयस्व ममान्तिकम्। अस्मद्विषयसुप्तेभ्यो नैतेभ्यो भयमस्ति ते॥ एषामुत्कृत्य मांसानि मानुषाणां यथेष्टतः। भक्षयिष्याव सहितौ कुरु तूर्णं वचो मम॥ भक्षयित्वा च मांसानि मानुषाणां प्रकामतः। नृत्याव सहितावायां दत्ततालावनेकशः॥ एवमुक्ता हिडिम्बा तु हिडिम्बेन तदा वने। भ्रातुर्वचनमाज्ञाय त्वरमाणेव राक्षसी॥ जगाम तत्र यत्र स्म पाण्डवा भरतर्षभ। ददर्श तत्र सा गत्वा पाण्डवान् पृथया सह। शयानान् भीमसेनं च जाग्रतं त्वपराजितम्॥ दृष्टैव भीमसेनं सा शालपोतमिवोद्गतम्। राक्षसी कामयामास रूपेणाप्रतिमं भुवि॥ अयं श्यामो महाबाहुः सिंहस्कन्धो महाद्युतिः। कम्बुग्रीवः पुष्कराक्षो भर्ता युक्तो भवेन्मम॥ नाहं भ्रातृवचो जातु कुर्यां क्रूरोपसंहितम्। पतिस्नेहोऽतिबलवान् न तथा भ्रातृसौहृदम्॥ मुहूर्तमेव तृप्तिश्च भवेद् भ्रातुर्ममैव च। हतैरेतैरहत्वा तु मोदिष्ये शाश्वतीः समाः॥ सा कामरूपिणी रूपं कृत्वा मानुषमुत्तमम्। उपतस्थे महाबाहुं भीमसेनं शनैः शनैः॥ लज्जमानेव ललना दिव्याभरणभूषिता। स्मितपूर्वमिदं वाक्यं भीमसेनमथाब्रवीत्॥ कुतस्त्वमसि सम्प्राप्तः कश्चासि पुरुषर्षभ। क इमे शेरते चेह पुरुषा देवरूपिणः॥ केयं वै बृहती श्यामा सुकुमारी तवानघ। शेते वनमिदं प्राप्य विश्वस्ता स्वगृहे यथा॥ नेदं जानाति गहनं वनं राक्षससेवितम्। वसति ात्र पापात्मा हिडिम्बो नाम राक्षसः॥ तेनाहं प्रेषिता भ्रात्रा दुष्टभावेन रक्षसा। बिभक्षयिषता मांसं युष्माकममरोपम॥ साहं त्वामभिसम्प्रेक्ष्य देवगर्भसमप्रभम्। नान्यं भर्तारमिच्छामि सत्यमेतद् ब्रवीमि ते॥ एतद् विज्ञाय धर्मज्ञ युक्तं मयि समाचर। कामोपहतचित्ताङ्गी भजमानां भजस्व माम्॥ त्रास्यामि त्वां महाबाहो राक्षसात् पुरुषादकात्। वत्स्यावो गिरिदुर्गेषु भर्ता भव ममानघ।॥ अन्तरिक्षचरी ह्यस्मि कामतो विचरामि च। अतुलामाप्नुहि प्रीतिं तत्र तत्र मया सह॥ भीमसेन उवाच मातरं भ्रातरं ज्येष्ठं सुखसुप्तान् कथं त्विमान्। परित्यजेत को वद्य प्रभवन्निह राक्षसि॥ को हि सुप्तानिमान् भ्रातॄन् दत्त्वा राक्षसभोजनम्। मातरं च नरो गच्छेत् कामात इव मद्विधः॥ राक्षस्युवाच यत् ते प्रियं तत् करिष्ये सर्वानेतान् प्रबोधय। मोक्षयिष्याम्यहं कामं राक्षसात् पुरुषादकात्॥ भीमसेन उवाच सुखसुप्तान् वने भ्रातृन् मातरं चैव राक्षसि। न भयाद् बोधयिष्यामि भ्रातुस्तव दुरात्मनः॥ न हि मे राक्षसा भीरु सोढुं शक्ताः पराक्रमम्। न मनुष्या न गन्धर्वा न यक्षाश्चारुलोचने॥ गच्छ वा तिष्ठ वा भद्रे यद् वापीच्छसि तत् कुरु तं वा प्रेषय तन्वङ्गि भ्रातरं पुरुषादकम्॥ वैशम्पायन उवाच तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः। अवतीर्य दुमात् तस्मादाजगामाशु पाण्डवान्॥ लोहिताक्षो महाबाहुरूर्ध्वकेशो महाननः। मेघसंघातवर्मा च तीक्ष्णदंष्ट्रो भयानकः॥ तमापतन्तं दृष्टैव तथा विकृतदर्शनम्। हिडिम्बोवाच वित्रस्ता भीमसेनमिदं वचः॥ आपतत्येष दुष्टात्मा संक्रुद्धः पुरुषादकः। साहं त्वां भ्रातृभिः सार्धं यद् ब्रवीमि तथा कुरु॥ अहं कामगमा वीर रक्षोबलसमन्विता। आरुहेमां मम श्रोणि नेष्यामि त्वां विहायसा॥ प्रबोधयैतान् संसुप्तान् मातरं च परंतप। सर्वानेव गमिष्यामि गृहीत्वा वो विहायसा॥ भीम उवाच मा भैस्त्वं पृथुसुश्रोणि नैष कश्चिन्मयि स्थिते। अहमेनं हनिष्यामि प्रेक्षन्त्यास्ते सुमध्यमे॥ नायं प्रतिबलो भीरू राक्षसापसदो मम। सोढुं युधि परिस्पन्दमथवा सर्वराक्षसाः॥ पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाविमौ। ऊरू परिघसंकाशौ संहतं चाप्युरो महत्॥ विक्रमं मे यथेन्द्रस्य साद्य द्रक्ष्यसि शोभने। मावमंस्थाः पृथुश्रोणि मत्वा मामिह मानुषम्॥ हिडिम्बोवाच नावमन्ये नरव्याघ्र त्वामहं देवरूपिणम्। दृष्टप्रभावस्तु मया मानुषेष्वेव राक्षसः॥ वैशम्पायन उवाच तथा संजल्पतस्तस्य भीमसेनस्य भारत। वाचः शुश्राव ताः क्रुद्धो राक्षसः पुरुषादकः॥ अवेक्षमाणस्तस्याश्च हिडिम्बो मानुषं वपुः। स्रग्दामपूरितशिखं समग्रेन्दुनिभाननम्॥ सुभूनासाक्षिकेशान्तं सुकुमारनखत्वचम्। सर्वाभरणसंयुक्तं सुसूक्ष्माम्बरवाससम्॥ तां तथा मानुषं रूपं बिभ्रती सुमनोहरम्। पुंस्कामा शरूमानस्च चुक्रोध पुरुषादकः॥ संक्रुद्धो राक्षसस्तस्या भगिन्याः कुरुसत्तम्। उत्फाल्य विपुले नेत्रे ततस्तामिदमब्रवीत्॥ को हि मे भोक्तुकामस्य विजं चरित दुर्मतिः। न विभेषि हिडिम्बे किं मत्कोपाद् विप्रमोहिता।१७।। धिक् त्वामसति पुंस्कामे मम विप्रियकारिणि। पूर्वेषां राक्षसेन्द्राणां सर्वेषामयशस्करि॥ यानिमानाश्रिताकार्षीर्विप्रियं सुमहन्मम। एष तानद्य वै सर्वान् हनिष्यामि त्वया सह॥ एवमुक्त्वा हिडिम्बां स हिडिम्बो लोहितेक्षणः। वधायाभिपपातैनान् दन्तैर्दन्तानुपस्पृशन्॥ तमापतन्तं सम्प्रेक्ष्य भीमः प्रहरतां वरः। भर्त्सयामास तेजस्वी तिष्ठ तिष्ठेति चाब्रवीत्॥ वैशम्पायन उवाच भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव। भगिनीं प्रति संक्रुद्धमिदं वचनमब्रवीत्॥ किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः। मामासादय दुर्बुद्धे तरसा त्वं नराशन॥ मय्येव प्रहरेहि त्वं न स्त्रियं हन्तुमर्हसि। विशेषतोऽनपकृते परेणापकृते सति॥ न हीयं स्ववशा बाला कामयत्यद्य मामिह। चोदितैषा ह्यनङ्गेन शरीरान्तरचारिणा॥ भगिनी तव दुर्वृत्त रक्षसां वै यशोहर। त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च॥ कामय.यद्य मां भीरुस्तव नैषापराध्यति। अनङ्गेन कृते दोघे नेमां गर्हितुमर्हसि॥ मयि तिष्ठति दुष्टात्मन् न स्त्रियं हन्तुमर्हसि। संगच्छस्व मया सार्धमेकेनैको नराशन॥ अहमेको नयिष्यामि त्वामद्य यमसादनम्। अद्य मद्वलनिष्पिष्टं शिरो राक्षस दीर्यताम्। कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसः॥ अद्य गात्राणि ते कङ्काः श्येना गोमायवस्तथा। कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे॥ क्षणेनाद्य करिष्येऽहमिदं वनमराक्षसम्। पुरा यद् दूषितं नित्यं त्वया भक्षयता नरान्॥ अद्य त्वां भगिनी रक्षः कृष्यमाणं मयासकृत्। द्रक्ष्यत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम्॥ निराबाधास्त्वयि हते मया राक्षसांसन। वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः॥ हिडिम्ब उवाच गर्जितेन वृथा किं ते कत्थितेन च मानुष। कृत्वैतत् कर्मणा सर्वं कत्येथा मा चिरं कृथाः॥ बलिनं मन्यसे यच्चाप्यात्मानं सपराक्रमम्। ज्ञास्यस्यद्य समागम्य मयाऽऽत्मानं बलाधिकम्॥ न तावदेतान् हिंसिष्ये स्वपन्त्वेते यथासुखम्। एष त्वामेव दुर्बुद्धे निहन्म्यद्याप्रियंवदम्॥ पीत्वा तवासृग् गात्रेभ्यस्ततः पश्चादिमानपि। हनिष्यामि ततः पश्चादिमां विप्रियकारिणीम्॥ वैशम्पायन उवाच एवमुक्त्वा ततो बाहुं प्रगृह्य पुरुषादकः। अभ्यद्रवत संक्रुद्धो भीमसेनमरिंदमम्॥ तस्याभिद्रवतस्तूर्णं भीमो भीमपराक्रमः। वेगेन प्रहितं बाहुं निजग्राह हसन्निव॥ निगृह्य तं बलाद् भीमो विस्फुरन्तं चकर्ष ह। तस्माद् देशाद् धनूंष्यष्टौ सिंहः क्षुद्रमृगं यथा॥ ततः स राक्षसः क्रुद्धः पाण्डवेन बलार्दितः। भीमेसनं समालिङ्ग्य व्यनदद् भैरवं रवम्॥ पुनर्भीमो बलादेनं विचकर्ष महाबलः। मा शब्दः सुखसुप्तानां भ्रातृणां मे भवेदिति॥ अन्योन्यं तौ समासाद्य विचकर्षतुरोजसा। हिडिम्बो भीमसेनश्च विक्रमं चक्रतुः परम्॥ बभञ्जतुस्तदा वृक्षाल्लताश्चाकर्षतुस्तदा। मत्ताविव च संरब्धौ वारणौ षष्टिहायनौ॥ तयोः शब्देन महता विबुद्धास्ते नरर्षभाः। सह प्रात्रा च ददृशुर्हिडिम्बामग्रतः स्थिताम्॥ वैशम्पायन उवाच प्रबुद्धास्ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम्। विस्मिताः पुरुषव्याघ्रा बभूवुः पृथया सह॥ ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसम्पदा। उवाच मधुरं वाक्यं सान्त्वपूर्वमिदं शनैः॥ कस्य त्वं सुरगर्भाभे का वासि वरवर्णिनि। केन कार्येण सम्प्राप्ता कुतश्चागमनं तव॥ यदि वास्य वनस्य त्वं देवता यदि वाप्सराः। आचक्ष्व मम तत् सर्वं किमर्थं चेह तिष्ठसि॥ हिडिम्बोवाच यदेतत् पश्यसि वनं नीलमेघनिभं महत्। निवासो राक्षसस्यैष हिडिम्बस्य ममैव च॥ तस्य मां राक्षसेन्द्रस्य भगिनीं विद्धि भाविनी। भ्रात्रा सम्प्रेषितामार्ये त्वां सपुत्रां जिघांसता॥ क्रूरबुद्धेरहं तस्य वचनादागता त्विह। अद्राक्षं नवहेमाभं तव पुत्रं महाबलम्॥ ततोऽहं सर्वभूतानां भावे विचरता शुभे। चोदिता तव पुत्रस्य मन्मथेन वशानुगा॥ ततो वृतो मया भर्ता तव पुत्रो महाबलः। अपनेतुं च यतितो न चैव शकितो मया॥ चिरायमाणां मां ज्ञात्वा ततः स पुरुषादकः। स्वयमेवागतो हन्तुमिमान् सर्वांस्तवात्मजान्॥ स तेन मम कान्तेन तव पुत्रेण धीमता। बलादितो विनिष्पिष्य व्यपनीतो महात्मना॥ विकर्षन्तौ महावेगौ गर्जमानौ परस्परम्। पश्यैवं युधि विक्रान्तावेतौ च नरराक्षसौ॥ वैशम्पायन उवाच तस्याः श्रुत्वैव वचनमुत्पपात युधिष्ठिरः। अर्जुनो नकुलश्चैव सहदेवश्च वीर्यवान्॥ तौ ते ददृशुरासक्तौ विकर्षन्तौ परस्परम्। काडक्षमाणौ जयं चैव सिंहाविव बलोत्कटौ॥ अथान्योन्यं समाश्लिष्य विकर्षन्तौ पुनः पुनः। दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः॥ वसुधारेणुसंवीतौ वसुधाधरसंनिभौ। बभ्राजतुर्यथा शैलौ नीहारेणाभिसंवृतौ॥ राक्षसेन तदा भीमं क्लिश्यमानं निरीक्ष्य च। उवाचेदं वचः पार्थः प्रहसञ्छनकैरिव॥ भीम मा भैर्महाबाहो न त्वां बुध्यामहे वयम्। समेतं भीमरूपेण रक्षसा श्रमकर्शितम्॥ साहाय्येऽस्मि स्थितः पार्थ पातयिष्यामि राक्षसम्। नकुलः सहदेवश्च मातरं गोपयिष्यतः॥ भीम उवाच उदासीनो निरीक्षस्व न कार्यः समभ्रमस्त्वया। न जात्वयं पुनर्जीवेन्मबाह्वन्तरमागतः॥ अर्जुन उवाच किमनेन चिरं भीम जीवता पापरक्षसा। गन्तव्ये न चिरं स्थातुमिह शक्यमरिंदम॥ पुरा संरज्यते प्राची पुरा संध्या प्रवर्तते। रौद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्त्युत॥ त्वरस्व भीम मा क्रीड जहि रक्षो विभीषणम्। पुरा विकुरुते मायां भुजयोः सारमर्पय॥ वैशम्पायन उवाच अर्जुनेनैवमुक्तस्तु भीमो रोषाज्ज्वलन्निव। बलमाहारयामास यद् वायोर्जगतः क्षये॥ ततस्तस्याम्बुदाभस्य भीमो रोषात् तु रक्षसः। उत्क्षिप्याभ्रामयद् देहं तूर्णं शतगुणं तदा॥ भीम उवाच वृथामांसैर्वृथापुष्टो वृथावृद्धो वृथमतिः। वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि॥ क्षेममद्य करिष्यामि यथा वनमकण्टकम्। न पुनर्मानुषान् हत्वा भक्षयिष्यसि राक्षस॥ अर्जुन उवाच यदि वा मन्यसे भारं त्वमिमं राक्षसं युधि। करोमि तव साहाय्यं शीघ्रमेष निपात्यताम्॥ अथवाप्यहमेवैनं हनिष्यामि वृकोदर। कृतकर्मा परिश्रान्तः साधु तावदुपारम॥ वैशम्पायन उवाच तस्य तद् वचनं श्रुत्वा भीमसेनोऽत्यमर्षणः। निष्पिष्यैनं बलाद् भूमौ पशुमारममारयत्॥ स मार्यमाणो भीमेन ननाद विपुलं स्वनम्। पूरयंस्तद् वनं सर्वं जलाई इव दुन्दुभिः॥ बाहुभ्यां योक्त्रयित्वा तं बलवान् पाण्डुनन्दनः। मध्ये भक्त्वाा महाबाहुर्हर्षयामास पाण्डवान्॥ हिडिम्बं निहतं दृष्ट्वा संहृष्टास्ते तरस्विनः। अपूजयन् नरव्याघ्रं भीमसेनमरिंदमम्॥ अभिपूज्य महात्मानं भीमं भीमपराक्रमम्। पुनरेवार्जुनो वाक्यमुवाचेदं वृकोदरम्॥ न दूरं नगरं मन्ये वनादस्मादहं विभो। शीघ्रं गच्छाम भद्रं ते न नो विद्यात् सुयोधनः॥ ततः सर्वे तथेत्युक्त्वा सह मात्रा महारथाः। प्रययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी॥ वैशम्पायन उवाच ते वनेन वनं गत्वा जन्तो मृगगणान् बहून्। अपक्रम्य ययू राजंस्त्वरमाणा महारथाः॥ मत्स्यांस्त्रिगर्तान् पञ्चालान् कीचकानन्तरेण च। रमणीयान् वनोद्देशान् प्रेक्षमाणाः सरांसि च॥ जटाः कृत्वाऽऽत्मनः सर्वे वल्कलाजिनवाससः। सह कुन्त्या महात्मानो बिभ्रतस्तापसं वपुः॥ क्वचिद् वहन्तो जननीं त्वरमाणा महारथाः। क्वचिच्छन्देन गच्छन्तस्ते जग्मुः प्रसभं पुनः॥ ब्राह्यं वेदमधीयाना वेदाङ्गानि च सर्वशः। नीतिशास्त्रं च सर्वज्ञा ददृशुस्ते पितामहम्॥ तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा। तस्थुः प्राञ्जल्यः सर्वे सह मात्रा परंतपाः॥ व्यास उवाच मयेदं व्यसनं पूर्वं विदितं भरतर्षभाः। यथा तु तैरधर्मेण धात्रारष्टैर्विवासिताः॥ तद् विदित्वास्मि सम्प्राप्तश्चिकीर्षुः परमं हितम्। न विषादोऽन्न कर्तव्यः सर्वमेतत् सुखाय वः॥ समास्ते चैव मे सर्वे यूयं न संशयः। दीनतो बालतश्चैव स्नेहं कुर्वन्ति मानवाः। तस्मादभ्यधिकः स्नेहो युष्मासु मम साम्प्रतम्॥ स्नेहपूर्वं चिकीर्षामि हितं वस्तन्निबोधत। इदं नगरमभ्याशे रमणीयं निरामयम्। वसतह प्रतिच्छन्ना ममागमनकाक्षिणः॥ वैशम्पायन उवाच एवं स तान् समाश्वस्य व्यासः सत्यवतीसुतः। एकचक्रामभिगतः कुन्तीमाश्वासयत् प्रभुः॥ व्यास उवाच जीवत्पुत्रि सुतस्तेऽयं धर्मनित्यो युधिष्ठिरः। धर्मेण पृथिवीं जित्वा महात्मा पुरुषर्षभः। पृथिव्यां पार्थिवान् सर्वान् प्रशासिष्यति धर्मराट्॥ पृथिवीमखिलां जित्वा सर्वां सागरमेखलाम्। भीमसेनार्जुनबलाद् भोक्ष्यते नात्र संशयः॥ पुत्रास्तव च माद्याश्च सर्व एव महारथाः। स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसः सदा॥ यक्ष्यन्ति च नरव्याघ्रा निर्जित्य पृथिवीमिमाम्। राजसूयाश्वमेधाद्यैः क्रतुभिर्भूरिदक्षिणैः॥ अनुगृह्य सुहृद्वर्ग भोगैश्वर्यसुखेन च। पितृपैतामहं राज्यमिमे भोक्ष्यन्ति ते सुताः॥ वैशम्पायन उवाच एवमुक्त्वा निवेश्यैनान् ब्राह्मणस्य निवेशने। अब्रवीत् पाण्डवश्रेष्ठमृषिद्वैपायनस्तदा॥ इह मासं प्रतीक्षध्वमागमिष्याम्यहं पुनः। देशकालौ विदित्वैव लप्स्यध्वं परमां मुदम्॥ स तैः प्राञ्जलिभिः सर्वैस्तथेत्युक्तो नराधिप। जगाम भगवान् व्यासो यथागतमृषिः प्रभुः॥ जनमेजय उवाच एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः। अत ऊर्ध्वं द्विजश्रेष्ठ किमकुर्वत पाण्डवाः॥ वैशम्पायन उवाच एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः। ऊषुर्नातिचिरं कालं ब्राह्मणस्य निवेशने॥ रमणीयानि पश्यन्तो वनानि विविधानि च। पार्थिवानपि चोद्देशान् सरितश्च सरांसि च॥ चेसर्भेक्षं तदा ते तु सर्व एव विशाम्पते। बभूवुर्नागराणां च स्वैर्गुणैः प्रियदर्शनाः॥ निवेदयन्ति स्म तदा कुन्त्या भैक्षं सदा निशि। तया विभक्तान् भागांस्ते भुञ्जते स्म पृथक् पृथक्॥ अर्धं ते भुञ्जते वीराः सह मात्रा परंतपाः। अर्धं सर्वस्य भैक्षस्य भीमो भुङ्क्ते महाबलः॥ तथा तु तेषां वसतां तस्मिन् राष्ट्रे महात्मनाम्। अतिचक्राम सुमहान् कालोऽथ भरतर्षभ॥ ततः कदाचिद् भैक्षाय गतास्ते पुरुषर्षभाः। संगत्या भीमसेनस्तु तत्रास्ते पृथया सह॥ अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने। भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत॥ रोरूयमाणांस्तान् दृष्ट्वा परिदेवयतश्च सा। कारुण्यात् साधुभावाच्च कुन्ती राजन् न चक्षमे॥ मथ्यमानेन दुःखेन हृदयेन पृथा तदा। उवाच भीमं कल्याणी कृपान्वितमिदं वचः॥ वसाम सुसुखं पुत्र ब्राह्मणस्य निवेशने। अज्ञाता धार्तराष्ट्रस्य सत्कृता वीतमन्यवः॥ सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम्। प्रियं कुर्यामिति गृहे यत् कुर्युरुषिताः सुखम्॥ एतावान् पुरुषस्तात कृतं यस्मिन् न नश्यति। यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः॥ तदिदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम्। तत्रास्य यदि साहाय्यं कुर्यामुपकृतं भवेत्॥ भीमसेन उवाच ज्ञायतामस्य यद् यतश्चैव समुत्थितम्। विदित्वा व्यवसिष्यामि यद्यपि स्यात् सुदुष्करम्॥ वैशम्पायन उवाच एवं तौ कथयन्तौ च भूयः शुश्रुवतुः स्वनम्। आर्तिजं तस्य विप्रस्य सभार्यस्य विशाम्पते॥ अन्तःपुरं ततस्तस्य ब्राह्मणस्य महात्मनः। विवेश त्वरिता कुन्ती बद्धवत्सेव सौरभी॥ ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन च। दुहित्रा चैव सहितं ददर्शावनताननम्॥ दुःखानामागमो ब्राह्मण उवाच धिगिदं जीवितं लोके गतसारमनर्थकम्। दुःखमूलं पराधीनं भृशमप्रियभागि च॥ जीविते परमं दुःखं जीविते परमो ज्वरः। जीविते वर्तमानस्य ध्रुवः॥ आत्मा ह्येको हि धर्मार्थो कामं चैव निषेवते। एतैश्च विप्रयोगोऽपि दुःखं परमनन्तकम्॥ आहुः केचित् परं मोक्षं स च नास्ति कथंचन। अर्थप्राप्तौ तु नरकः कृत्स्न एवोपपद्यते॥ अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम्। जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम्॥ न हि योगं प्रपश्यामि येन मुच्येयमापदः। पुत्रदारेण वा सार्धं प्राद्रवेयमनामयम्॥ यतितं वै मया पूर्वं वेत्थ ब्राह्मणि तत् तथा। क्षेमं यतस्ततो गन्तुं त्वया तु मम न श्रुतम्॥ इह जाता विवृद्धास्मि पिता चापि ममेति वै। उक्तवत्यसि दुर्मेधे याच्यमाना मयासकृत्॥ स्वर्गतोऽपि पिता वृद्धस्तथा माता चिरं तव। बान्धवा भूतपूर्वाश्च तत्र वासे तु का रतिः॥ सोऽयं ते बन्धुकामाया अशृण्वत्या वचो मम। बन्धुप्रणाशः सम्प्राप्तो भृशं दुःखकरो मम॥ अथवा मद्विनाशोऽयं न हि शक्ष्यामि कंचन। परित्यक्तुमहं बन्धं स्वयं जीवन् नृशंसवत्॥ सहधर्मचरी दान्तां नित्यं मातृसमां मम। सखायं विहितां देवैर्नित्यं परमिकां गतिम्॥ पित्रा मात्रा च विहितां सदा गार्हस्थ्यभागिनीम्। वरयित्वा यथान्यायं मन्त्रवत् परिणीय च॥ कुलीनां शीलसम्पन्नामपत्यजननीमपि। त्वामहं जीवितस्यार्थे साध्वीमनपकारिणीम्॥ परित्यक्तुं न शक्ष्यामि भार्यां नित्यमनुव्रताम्। कुत एव परित्यक्तुं सुतं शक्ष्याम्यहं स्वयम्॥ बालमप्राप्तवयसमजातव्यञ्जनाकृतिम्। भर्तुरर्थाय निक्षिप्तां न्यासं धात्रा महात्मना॥ यया दौहित्रजॉल्लोकानाशंसे पितृभिः सह। स्वयमुत्पाद्य तां बालां कथमुत्स्रष्टुमुत्सहे॥ मन्यते केचिदधिकं स्नेहं पुत्रे पितुर्नराः। कन्यायां केचिदपरे मम तुल्यावुभौ स्मृतौ॥ यस्यां लोकाः प्रसूतिश्च स्थिता नित्यमथो सुखम्। अपापां तामहं बालां कथमुत्स्रष्टुमुत्सहे॥ आत्मानमपि चोत्सृज्य तप्स्यामि परलोकगः। त्यक्ता ह्येते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम्॥ एषां चान्यतमत्यागो नृशंसो गर्हितो बुधैः। आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना॥ स कृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम्। अहो धिक् कां गतिं त्वद्य गमिष्यामि सबान्धवः। सर्वैः सह मृतं श्रेयो न च मे जीवितं क्षमम्॥ ब्राह्मण्युवाच न संतापस्त्वया कार्यः प्राकृतेनेव कर्हिचित्। न हि संतापकालोऽयं वैद्यस्य तव विद्यते॥ अवश्यं निधनं सर्वैर्गन्तव्यमिह मानवैः। अवश्यम्भाविन्यर्थे वै संतापो नेह विद्यते॥ भार्या पुत्रोऽथ दुहिता सर्वमात्मार्थमिष्यते। व्यथां जहि सुबुद्ध्या त्वं स्वयं यास्यामि तत्र च॥ एतद्धि परमं नार्याः कार्यं लोके सनातनम्। प्राणानपि परित्यज्य यद् भर्तृहितमाचरेत्॥ तच्च तत्र कृतं कर्म तवापीदं सुखावहम्। भवत्यमुत्र चाक्षय्यं लोकेऽस्मिंश्च यशस्करम्॥ एष चैव गुरुर्धर्मो यं प्रवक्ष्याम्यहं तव। अर्थश्च तव धर्मश्च भूयानत्र प्रदृश्यते॥ यदर्थमिष्यते भार्या प्राप्तः सोऽर्थस्त्वया मयि। कन्या चैका कुमारश्च कृताहमनृणा त्वया॥ समर्थः पोषणे चासि सुतयो रक्षणे तथा। न त्वहं सुतयोः शक्ता तथा रक्षणपोषणे॥ मम हि त्वद्विहीनायाः सर्वप्राणधनेश्वर। कथं स्यातां सुतौ बालौ भरेयं च कथं त्वहम्॥ कथं हि विधवानाथा बालुपत्रा विना त्वया। मिथुनं जीवयिष्यामि स्थिता साधुगते पथि॥ अहंकृतावलिप्तैश्च प्रार्थ्यमानामिमां सुताम्। अयुक्तैस्तव सम्बन्धे कथं शक्ष्यामि रक्षितुम्॥ उत्सृष्टमामिषं भूमौ प्रार्थयन्ति यथा खगाः प्रार्थयन्ति जनाः सर्वे पतिहीनां तथा स्त्रियम्॥ साहं विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः। स्थातुं पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम्॥ कथं तव कुलस्यैकामिमां बालामनागसम्। पितृपैतामहे मार्गे नियोक्तुमहमुत्सहे॥ कथं शक्ष्यामि बालेऽस्मिन् गुणानाधातुमीप्सितान्। अनाथे सर्वतो लुप्ते यथा त्वं धर्मदर्शिवान्॥ इमामपि च ते बालामनाथां परिभूय माम्। अनर्हाः प्रार्थयिष्यन्ति शूद्रा वेदश्रुति यथा।॥ तां चेदहं न दित्सेयं त्वहगुणैरुपबृंहिताम्। प्रमथ्यैनां हरेयुस्ते हविर्खाङ्क्षा इवाध्वरात्॥ सम्प्रेक्षमाणा पुत्रं ते नानुरूपमिवात्मनः। अनर्हवशमापन्नामिमां चापि सुतां तव॥ अवज्ञाता च लोकेषु तथाऽऽत्मानमजानती। अवलिप्तैनरैर्ब्रह्मन् मरिष्यामि न संशयः॥ तौ च हीनौ मया बालौ त्वया चैव तथाऽऽत्मजौ। विनश्येतां न संदेहो मत्स्याविव जलक्षये॥ त्रितयं सर्वथाप्येवं विनशिष्यत्यसंशयम्। त्वया विहीनं तस्मात् त्वं मां परित्यक्तुमर्हसि॥ व्युष्टिरेषा परा स्त्रीणां पूर्वं भर्तुः परां गतिम्। गन्तुं ब्रह्मन् सपुत्राणामिति धर्मविदो दिदुः॥ परित्यक्तः सुतश्चायं दुहितेयं तथा मया। बान्धवाश्च परित्यक्तास्त्वदर्थं जीवितं च मे॥ यज्ञैस्तपोभिर्नियमैर्दानैश्च विविधैस्तथा। विशिष्यते स्त्रिया भर्तुनित्यं प्रियहिते स्थितिः॥ तदिदं यच्चिकीर्षामि धर्मं परमसम्मतम्। इष्टं चैव हितं चैव तव चैव कुलस्य च॥ इष्टानि चाप्यपत्यानि द्रव्याणि सुहृदः प्रियाः। आपद्धर्मप्रमोक्षाय भार्या चापि सतां मतम्॥ आपदर्थे धनं रक्षेद् दारान् रक्षेद् धनैरपि। आत्मानं सततं रक्षेद् दारैरपि धनैरपि॥ दृष्टादृष्टफलार्थं हि भार्या पुत्रो धनं गृहम्। सर्वमेतद् विधातव्यं बुधानमेष निश्चयः॥ एकतो वा कुलं कृत्स्नमात्मा वा कुलवर्धनः। न समं सर्वमेवेति बुधानामेष निश्चयः॥ स कुरुष्व मया कार्यं तारयात्मानमात्मना। अनुजानीहि मामार्य सुतौ मे परिपालय॥ अवध्यां स्त्रियमित्याहुर्धर्मज्ञा धर्मनिश्चये। धर्मज्ञान् राक्षसानाहुन हन्यात् स च मामपि॥ निस्संशयं वधः पुंसां स्त्रीणां संशयितो वधः। अतो मामेव धर्मज्ञ प्रस्थापयितुमर्हसि॥ भुक्तं प्रियाण्यवाप्तानि धर्मश्च चरितो महान्। त्वत् प्रसूतिः प्रिया प्राप्ता न मां तप्स्यत्यजीवितम्।३३॥ जातपुत्रा च वृद्धा च प्रियकामा च ते सदा। समीक्ष्यैतदहं सर्वं व्यवसायं करोम्यतः॥ उत्सृज्यापि हि मामार्य प्राप्स्यस्यन्यामपि स्त्रियम्। ततः प्रतिष्ठितो धर्मो भविष्यति पुनस्तव॥ न चाप्यधर्मः कल्याण बहुपत्नीकृतां नृणाम्। स्त्रीणामधर्मः सुमहान् भर्तुः पूर्वस्य लङ्घने॥ एतत् सर्वं समीक्ष्य त्वमात्मत्यागं च गर्हितम्। आत्मानं तारयाद्याशु कुलं चेमौ च दारकौ॥ वैशम्पायन उवाच एवमुक्तस्तया भर्ता तां समालिङ्गय भारत। मुमोच बाष्पं शनकैः सभार्यो भृशदुःखितः॥ वैशम्पायन उवाच तयोर्दुःखितयोर्वाक्यमतिमात्रं निशम्य तु। ततो दुःखपरीताङ्गी कन्या तावभ्यभाषत॥ किमेवं भृशदुःखार्ती रोरूयेतामनाथवत्। ममापि श्रूयतां वाक्यं श्रुत्वा च क्रियतां क्षमम्॥ धर्मतोऽहं परित्याज्या युवयोर्नात्र संशयः। त्यक्तव्यां मां परित्यज्य त्राहि सर्वं मयैकया।॥ इत्यर्थमिष्यतेऽपत्यं तारयिष्यति मामिति। अस्मिन्नुपस्थिते काले तरध्वं प्लवन्मया॥ इह वा तारयेद् दुर्गादुत वा प्रेत्य भारत। सर्वथा तारयेत् पुत्रः पुत्र इत्युच्यते बुधैः॥ आकाङ्क्षन्ते च दौहित्रान् मयि नित्यं पितामहाः। तत् स्वयं वै परित्रास्ये रक्षन्ती जीवितं पितुः॥ भ्राता च मम बालोऽयं गते लोकममुं त्वयि। अचिरेणैव कालेन विनश्यत न संशयः॥ तातेऽपि हि गते स्वर्ग विनष्टे च ममानुजे। पिण्डः पितॄणां व्युच्छिद्येत् तत् तेषां विप्रियं भवेत्॥ पित्रा त्यक्ता तथा मात्रा भ्रात्रा चाहमसंशयम्। दुःखाद् दुःखतरं प्राप्य म्रियेयमतथोचिता॥ त्वयि त्वरोगे निर्मुक्ते माता भ्राता च मे शिशुः। संतानश्चैव पिण्डश्च प्रतिष्ठास्यत्यसंशयम्॥ आत्मा पुत्रः सखा भार्या कृच्छं तु दुहिता किला स कृच्छ्रान्मोचयात्मानं मां च धर्मे नियोजय॥ अनाथा कृपणा बाला यत्रक्वचनगामिनी। भविष्यामि त्वया तात विहीना कृपणा सदा॥ अथवाहं करिष्यामि कुलस्यास्य विमोचनम्। फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम्॥ अथवा यास्यसे तत्र त्यक्त्वा मां द्विजसत्तम्। पीडिताहं भविष्यामि तदवेक्षस्व मामपि॥ तदस्मदर्थं धर्मार्थं प्रसवार्थं स सत्तम। आत्मानं परिरक्षस्व त्यक्तव्यां मां च संत्यज॥ अवश्यकरणीये च मा त्वां कालोऽत्यगादयम्। किं त्वतः परमं दुःखं यद् वयं स्वर्गते त्वयि॥ याचमानाः परादन्नं परिधावेमहि श्ववत्। त्वयि त्वरोगे निर्मुक्ते क्लेशादस्मात् सबान्धवे। अमृते वसती लोके भविष्यामि सुखान्विता॥ इतः प्रदाने देवाश्च पितरश्चेति न श्रुतम्। त्वया दत्तेन तोयेन भविष्यन्ति हिताय वै॥ वैशम्पायन उवाच एवं बहुविधं तस्या निशम्य परिदेवितम्। पिता माता च सा चैव कन्या प्ररुरुदुस्त्रयः॥ ततः प्ररुदितान् सर्वान् निशम्याथ सुतस्तदा। उत्फुल्लनयनो बाल: कलमव्यक्तमब्रवीत्॥ मा पिता रुद मा मातर्मा स्वसस्त्विति चाब्रवीत्। प्रहसन्निव सर्वांस्तानेकैकमनुसर्पति॥ ततः स तृणमादाय प्रहृष्टः पुनरब्रवीत्। अनेनाहं हनिष्यामि राक्षसं पुरुषादकम्॥ तथापि तेषां दुःखेन परीतानां निशम्य तत्। बालस्य वाक्यमव्यक्तं हर्षः समभवन्महान्॥ अयं काल इति ज्ञात्वा कुन्ती समुपसृत्य तान्। गतासूनमृतेनेव जीवयन्तीदमब्रवीत्॥ कुन्त्युवाच कुतोमूलमिदं दुःखं ज्ञातुमिच्छामि तत्त्वतः। विदित्वाप्यपकर्षेयं शक्यं चेदपकर्षितुम्॥ ब्राह्मण उवाच उपपन्नं सतामेतद् यद् ब्रवीषि तपोधने। न तु दुःखमिदं शक्यं पानुषेण व्यपोहितम्॥ समीपे नगरस्यास्य बको वसति राक्षसः। ईशो जनपदस्यास्य पुरस्य च महाबलः॥ पुष्टो मानुषमांसेन दुर्बुद्धिः पुरुषादकः। रक्षत्यसुररानित्यमिमं जनपदं बली॥ नगरं चैव देशं च रक्षोबलसमन्वितः। तत्कृते परचक्राच्च भूतेब्यश्च न नो भयम्॥ वेतनं तस्य विहितं शालिवाहस्य भोजनम्। महिषौ पुरुषश्चैको यस्तदादाय गच्छति॥ एकैकश्चापि पुरुषस्तत् प्रयच्छति भोजनम्। स वारो बहुभिर्वर्भवत्यसुकरो नरैः॥ तद्विमोक्षाय ये केचिद् यतन्ति पुरुषाः क्वचित्। सपुत्रदारांस्तान् हत्वा तद् रक्षो भक्षयत्युत॥ वेत्रकीयगृहे राजा नायं नयमिहास्थितः। उपायं तं न कुरुते यत्नादपि स मन्दधीः। अनामयं जनस्यास्य येन स्यादद्य शाश्वतम्॥ एतदर्हा वयं नूनं वसामो दुर्बलस्य ये। विषये नित्यवास्तव्याः कुराजानमुपाश्रिताः॥ ब्राह्मणाः कस्य वक्तव्याः कस्य वाच्छन्दचारिणः। गुणैरेते हि वत्स्यन्ति कामगाः पक्षिणो यथा॥ राजानं प्रथमं विन्देत् ततो भार्यां ततो धनम्। त्रयस्य संचयेनास्य ज्ञातीन् पुत्रांश्च तारयेत्॥ विपरीतं मया चेदं त्रयं सर्वमुपार्जितम्। तदिमामापदं प्राप्य भृशं तप्यामहे वयम्॥ सोऽयमस्माननुप्राप्तो वारः कुलविनाशनः। भोजनं पुरुषश्चैकः प्रदेयं वेतनं मया॥ न च मे विद्यते वित्तं संक्रेतुं पुरुषं क्वचित्। सुहज्जनं प्रदातुं च न शक्ष्यामि कदाचन॥ गतिं चैव न पश्यामि तस्मान्मोक्षाय रक्षसः। सोऽहं दुःखार्णवे मग्नो महत्यसुकरे भृशम्॥ सहैवैतैर्गमिष्यामि बान्धवैरद्य राक्षसम्। ततो नः सहितान् क्षुद्रः सर्वानेवोपभोक्ष्यति॥ कुत्युवाच न विषादस्त्वया कार्यों भयादस्मात् कथंचन। उपायः परिदृष्टोऽत्र तस्मान्मोक्षाय रक्षसः॥ एकस्तव सुतो बालः कन्या चैका तपस्विनी। न चैतयोस्तथा पत्न्या गमनं तव रोचये।॥ मम पञ्च सुता ब्रह्मस्तेषामेको गमिष्यति। त्वदर्थं वलिमादाय तस्य पापस्य रक्षसः॥ ब्राह्मण उवाच नाहमेतत् करिष्यामि जीवितार्थी कथंचन। ब्राह्मणस्यातिथैश्चैव स्वार्थे प्राणान् वियोजयन्॥ न त्वेतदकुलीनासु नाधर्मिष्ठासु विद्यते। यद् ब्राह्मणार्थं विसृजेदात्मानमपि चात्मजम्॥ आत्मनस्तु मया श्रेयो बोद्धव्यमिति रोचते। ब्रह्मवध्याऽऽत्मवध्या वा श्रेयानात्मवधो मम॥ ब्रह्मवध्या परं पापं निष्कृति त्र विद्यते। अबुद्धिपूर्वं कृत्वापि वमात्मवधो मम॥ न त्वहं वधमाकाक्षे स्वयमेवात्मनः शुभे। परैः कृते वधे पापं न किंचिन्मयि विद्यते॥ अभिसंधिकृते तस्मिन् ब्राह्मणस्य वधे मया। निष्कृतिं न प्रपश्यामि नृशंसं क्षुद्रमेव च॥ आगतस्य गृहं त्यागस्तथैव शरणार्थिनः। याचमानस्य च वधो नृशंसो गर्हितो बुधैः॥ कुर्यान्न निन्दितं कर्म न नृशंसं कथंचन। इति पूर्वे महात्मान आपद्धर्मविदो विदुः॥ श्रेयांस्तु सहदारस्य विनाशोऽद्य मम स्वयम्। ब्राह्मणस्य वधं नाहमनुमंस्ये कदाचन॥ कुन्त्युवाच ममाप्येषा मतिर्ब्रह्मन् विप्रा रक्ष्या इति स्थिरा। न चाप्यनिष्टः पुत्रो मे यदि पुत्रशतं भवेत्॥ न चासौ राक्षसः शक्तो मम पुत्रविनाशने। वीर्यवान् मन्त्रसिद्धश्च तेजस्वी च सुतो मम॥ राक्षसाय च तत् सर्वं प्रापयिष्यति भोजनम्। मोक्षयिष्यति चात्मानमिति मे निश्चिता मतिः॥ समागताश्च वीरेण दृष्टपूर्वाश्च राक्षसाः। बलवन्तो महाकाया निहताश्चाप्यनेकशः॥ न त्विदं केषुचिद् ब्रह्मन् व्याहर्तव्यं कथंचन। विद्यार्थिनो हि मे पुत्रान् विप्रकुर्युः कुतूहलात्॥ गुरुणा चाननुज्ञातो ग्राहयेद् यत् सुतो मम। न स कुर्यात् तथा कार्यं विद्ययेति सतां मतम्॥ एवमुक्तस्तु पृथया स विप्रो भार्यया सह। हृष्टः सम्पूजयामास तद्वाक्यममृतोपमम्॥ ततः कुन्ती च विप्रश्च सहितावनिलात्मजम्। तमबूतां कुरुष्वेति स तथेत्यब्रवीच्च तौ॥ वैशम्पायन उवाच करिष्य इति भीमेन प्रतिज्ञातेऽथ भारत। आजग्मुस्ते ततः सर्वे भैक्षमादाय पाण्डवाः॥ आकारेणैव तं ज्ञात्वा पाण्डुपुत्रो युधिष्ठिरः। रहः समुपविश्यैकस्तत: पप्रच्छ मातरम्॥ युधिष्ठिर उवाच किं चिकीर्षत्ययं कर्म भीमो भीमपराक्रमः। भवत्यनुमते कच्चित् स्वयं वा कर्तुमिच्छति॥ कुन्त्युवाच ममैव वचनादेष करिष्यति परंतपः। ब्राह्मणार्थे महत् कृत्यं मोक्षाय नगरस्य च॥ युधिष्ठिर उवाच किमिदं साहसं तीक्ष्णं भवत्या दुष्करं कृतम्। परित्यागं हि पुत्रस्य न प्रशंसन्ति साधवः॥ कथं परसुतस्यार्थे स्वसुतं त्यक्तुमिच्छसि। लोकवेदविरुद्धं हि पुत्रत्यागात् कृतं त्वया॥ यस्य बाहू समाश्रित्य सुखं सर्वे शयामहे। राज्यं चापहृतं क्षुद्रराजिहीर्षामहे पुनः॥ यस्य दुर्योधनो वीर्यं चिन्तयन्नमितौजसः। न शेते रजनी: सर्वा दुःखाच्छकुनिना सह॥ यस्य वीरस्य वीर्येण मुक्ता जतुगृहाद् वयम्। अन्येभ्यश्चैव पापेभ्यो निहतश्च पुरोचनः॥ यस्य वीर्यं समाश्रित्य वसुपूर्णां वसुन्धराम्। इमां मन्यामहे प्राप्तां निहत्य धृतराष्ट्रजान्॥ तस्य व्यवसितस्त्यागो बुद्धिमास्थाय बुद्धिमास्थाय कां त्वया। कच्चिन्नु दुःखैर्बुद्धिस्ते विलुप्ता गतचेतसः॥ कुन्त्युवाच युधिष्ठिर न संतापस्त्वया कार्यो वृकोदरे। न चायं बुद्धिदौर्बल्याद् व्यवसायः कृतो मया॥ इह विप्रस्य भवने वयं पुत्र सुखोषिताः। अज्ञाता धार्तराष्ट्राणां सत्कृतः वीतमन्यवः॥ तस्य प्रतिक्रिया पार्थ मयेयं प्रसमीक्षिता। एतावानेव पुरुषः कृतं यस्मिन् न नश्यति॥ यावच्च कुर्यादन्योऽस्य कुर्याद् बहुगुणं ततः। दृष्ट्वा भीमस्य विक्रान्तं तदा जदुगृहे महत्। हिडिम्बस्य वधाच्चैवं विश्वासो मे वृकोदरे॥ बाह्वोर्बलं हि भीमस्य नागायुतसमं महत्। येन यूयं गजप्रख्या नियूँढा वारणावतात्॥ वृकोदरेण सदृशो बलेनान्यो न विद्यते। योऽभ्युदीयाद् युधि श्रेष्ठमपि वज्रधरं स्वयम्॥ जातमात्रः पुरा चैव ममाङ्कात् पतितो गिरौ। शरीरगौरवादस्य शिला गात्रैविचूर्णिता॥ तदहं प्रज्ञया ज्ञात्वा बलं भीमस्य पाण्डव। प्रतिकार्ये च विप्रस्य ततः कृतवती मतिम्॥ नेदं लोभान्न चाज्ञानान्न च मोहाद् विनिश्चितम्। बुद्धिपूर्वं तु धर्मस्य व्यवसायः कृतो मया॥ अर्थों द्वावपि निष्पन्नौ युधिष्ठिर भविष्यतः। प्रतीकारश्च वासस्य धर्मश्च चरितो महान्॥ यो ब्राह्मणस्य साहाय्यं कुर्यादर्थेषु कहिचित्। क्षत्रियः स शुभाँल्लोकानाप्नुयादिति मे मतिः॥ क्षत्रियस्यैव कुर्वाणः क्षत्रियो वधमोक्षणम्। विपुलां कीर्तिमाप्नोति लोकेऽस्मिंश्च परत्र च॥ वैश्यस्यार्थे च साहाय्यं कुर्वाणः क्षत्रियो भुवि। स सर्वेष्वपि लोकेषु प्रजा रञ्जयते ध्रुवम्॥ शूद्रं तु मोचयेद् राजा शरणार्थिनमागतम्। प्राप्नोतीह कुले जन्म सद्रव्ये राजपूजिते॥ एवं मां भगवान् व्यासः पुरा पौरवन्दना प्रोवाचासुकरप्रज्ञस्तस्मादेवं चिकीर्षितम्॥ युधिष्ठिर उवाच उपपन्नमिदं मातस्त्वया यद् बुद्धिपूर्वकम्। आर्तस्य ब्राह्मणस्यैतदनुक्रोशादिदं कृतम्॥ ध्रुवमेष्यति भीमोऽयं निहत्य पुरुषादकम्। सर्वथा ब्राह्मणस्यार्थे यदनुक्रोशवत्यसि॥ यथा त्विदं न विन्देयुनरा नगरवासिनः। तथायं ब्राह्मणो वाच्यः परिग्राह्यश्च यत्नतः॥ वैशम्पायन उवाच ततो रात्र्यां व्यतीतायामन्नमादाय पाण्डवः। भीमसेनो ययौ तत्र यत्रासौ पुरुषादकः॥ आसाद्य तु वनं तस्य रक्षसः पाण्डवो बली। आजुहाव ततो नाम्ना तदनमुपपादयन्॥ ततः स राक्षसः क्रुद्धो भीमस्य वचनात् तदा। आजगाम सुसंक्रुद्धो यत्र भीमो व्यवस्थितः॥ महाकायो महावेगो दारयन्निव मेदिनीम्। लोहिताक्षः करालश्च लोहितश्मश्रुमूर्धजः॥ आकर्णाद् भिन्नवक्त्रश्च शरूको विभीषणः। त्रिशिस्त्रां भ्रुकुटिं कृत्वा संदश्य दशनच्छदम्॥ भुञ्जानमन्नं तं दृष्ट्वा भीमसेनं स राक्षसः। विवृत्य नयने क्रुद्ध इदं वचनमब्रवीत्॥ कोऽयमन्नमिदं भुङ्क्ते मदर्थमुपकल्पितम्। पश्यतो मम दुर्बुद्धिर्मियासुर्यमसादनम्॥ भीमसेनस्ततः श्रुत्वा प्रहसन्निव भारत। राक्षसं तमनादृत्य भुक्त एव पराङ्मुखः॥ रवं स भैरवं कृत्वा समुद्यम्य करावुभौ। अभ्यद्रवद् भीमसेनं जिघांसुः पुरुषादकः॥ तथापि परिभूयैनं प्रेक्षमाणो वृकोदरः। राक्षसं भुक्त एवान्नं पाण्डवः परवीरहा॥ अमर्षेण तु सम्पूर्णः कुन्तीपुत्रं वृकोदरम्। जघान पृष्ठे पाणिभ्यामुभाभ्यां पृष्ठतः स्थितः॥ तथा बलवता भीमः पाणिभ्यां भृशमाहतः। नैवावलोकयामास राक्षसं भुङ्क्त एव सः॥ ततः स भूयः संक्रुद्धो वृक्षमादाय राक्षसः। ताडयिष्यंस्तदा भीमं पुनरभ्यद्रवद् बली॥ ततो भीमः शनैर्भुक्त्वा तदन्नं पुरुषर्षभः। वायुपस्पृश्य संहृष्टस्तस्थौ युधि महाबलः॥ क्षिप्तं क्रुद्धेन तं वृक्षं प्रतिजग्राह वीर्यवान्। सव्येन पाणिना भीमः प्रहसन्निव भारत॥ ततः स पुनरुद्यम्य वृक्षान् बहुविधान् बली। प्राहिणोद् भीमसेनाय तस्मै भीमश्च पाण्डवः॥ तद् वृक्षयुद्धमभवन्महीरुहविनाशनम्। घोररूपं महाराज नरराक्षसराजयोः॥ नाम विश्राव्य तु बकः समभिदुत्य पाण्डवम्। भुजाभ्यां परिजग्राह भीमसेनं महाबलम्॥ भीमसेनोऽपि तद् रक्षः परिरभ्य महाभुजः। विस्फुरन्तं बलाद् स कृष्यमाणो भीमेन कर्षमाणश्च पाण्डवम्। समयुज्यत तीव्रण क्लमेन पुरुषादकः॥ तयोर्वेगेन महता पृथिवी समकम्पत। पादपांश्च महाकायांचूर्णयामासतुस्तदा॥ महाबाहुं विचकर्ष बली॥ हीयमानं तु तद् रक्षः समीक्ष्य पुरुषादकम्। निष्पिप्य भूमौ जानुभ्यां समाजघ्ने वृकोदरः॥ ततोऽस्य जानुना पृष्ठमवपीड्य बलादिव। बाहुना परिजग्राह दक्षिणेन शिरोधराम्॥ सव्येन च कटीदेशे गृह्य वाससि पाण्डवः। तद् रक्षो द्विगुणं चक्रे रुवन्तं भैरवं रवम्॥ ततोऽस्य रुधिरं वक्त्रात् प्रादुरासीद् विशाम्पते। भज्यमानस्य भीमेन तस्य घोरस्य रक्षसः॥ वैशम्पायन उवाच ततः स भग्नपार्वाङ्गो नदित्वा भैरवं रवम। शैलराजप्रतीकाशो. गतासुरभवद् बकः॥ तेन शब्देन वित्रस्तो जनस्तस्याथ रक्षसः। निष्पपात गृहाद् राजन् सहैव परिचारिभः॥ तान् भीतान् विगतज्ञानान् भीमः प्रहरतां वरः। सान्त्वयामास बलवान् समये च न्यवेशयत्॥ न हिंस्या मानुषा भूयो युष्माभिरिति कर्हिचित्। हिंसतां हि वधः शीघ्रमेवमेव भवेदिति॥ तस्य तद् वचनं श्रुत्वा तानि रक्षांसि भारत। एवमस्त्विति तं प्राहुर्जगृहुः समयं च तम्॥ ततः प्रभृति रक्षांसि तत्र सौम्यानि भारत। नगरे प्रत्यदृश्यन्त नरनगरवासिभिः॥ ततो भीमस्तमादाय गतासुं पुरुषादकम्। द्वारदेशे विनिक्षिप्य जगामानुपलक्षितः॥ दृष्ट्वा भीमबलोद्भूतं बकं विनिहतं तदा। ज्ञातयोऽस्य भयोद्विग्नाः प्रतिजग्मुस्ततस्ततः॥ ततः स भीमस्तं हत्वा गत्वा ब्राह्मणवेश्म तत्। आचचक्षे यथावृतं राज्ञः सर्वमशेषतः॥ ततो नरा विनिष्क्रान्ता नगरात् कल्यमेव तु। ददृशुनिहतं भूमौ राक्षसं रुधिरोक्षितम्॥ तमद्रिकूटसदृशं विनिकीर्णं भयानकम्। दृष्ट्वा संहृष्टरोमाणो बभूवुस्तत्र नागराः॥ एकचक्रां ततो गत्वा प्रवृत्तिं प्रददुः पुरे। ततः सहस्रशो राजन् नरा नगरवासिनः॥ तत्राजग्मुर्बकं दुष्टं सस्त्रीवृद्धकुमारकाः। ततस्ते विस्मिताः सर्वे कर्म दृष्ट्वातिमानुषम्। दैवतान्यर्चयांचक्रुः सर्व एव विशाम्पते॥ ततः प्रगणयामासुः कस्य वारोऽद्य भोजने। ज्ञात्वा चागम्य तं विप्रं पप्रच्छुः सर्व एव ते॥ एवं पृष्टः स बहुशो रक्षमाणश्च पाण्डवान्। उवाच नागरान् सर्वानिदं विप्रर्षभस्तदा॥ आज्ञापितं मामशने रुदन्तं सह बन्धुभिः। ददर्श ब्राह्मणः कश्चिन्मन्त्रसिद्धो महामनाः॥ परिपृच्छ्य स मां पूर्वं परिक्लेशं पुरस्य च। अब्रवीद् ब्राह्मणश्रेष्ठो विश्वास्य प्रहसन्निव॥ प्रापयिष्याम्यहं तस्मा अन्मेतद् दुरात्मने। मन्निमित्तं भयं चापि न कार्यमिति चाब्रवीत्॥ स तदन्नमुपादाय गतो बकवनं प्रति। तेन नूनं भवेदेतत् कर्म लोकहितं कृतम्॥ ततस्ते ब्राह्मणाः सर्वे क्षत्रियाश्च सुविस्मितः। वैश्याः शूद्राश्च मुदिताश्चक्रुर्ब्रह्ममहं तदा।॥ ततो जानपदाः सर्वे आजग्मुर्नगरं प्रति। तदद्भुततमं द्रष्टुं पार्थास्तत्रैव चावसन्॥ ब्राह्मण उवाच गङ्गाद्वारं प्रति महान् बभूवर्षिर्महातपाः। भरद्वाजो महाप्राज्ञः सततं संशितव्रतः॥ सोऽभिषेक्तं गतो गङ्गां पूर्वमेवागतां सतीम्। ददर्शाप्सरसं तत्र घृताचीमाप्लुतामृषिः॥ तस्या वायुर्नदीतीरे वसनं व्यहरत् तदा। अपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे तदा॥ तस्यां संसक्तमनसः कौमारब्रह्मचारिणः। चिरस्य रेतश्चस्कन्द तदृषिोण आदधे॥ तत समभवद् द्रोणः कुमारस्तस्य धीमतः। अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः॥ भरद्वाजस्य तु सखा पृषतो नाम पार्थिवः। तस्यापि दुपदो नाम तदा समभवत् सुतः॥ स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः। चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः॥ ततस्तु पृषतेऽतीते स राजा द्रुपदोऽभवत्। द्रोणोऽपि रामं शुश्राव दित्सन्तं वसु सर्वशः॥ वनं तु प्रस्थितं रामं भरद्वाजसुतोऽब्रवीत्। आगतं वित्तकामं मां विद्धि द्रोणं द्विजोत्तम॥ राम उवाच शरीरमात्रमेवाद्य मया समवशेषितम्। अस्त्राणि वा शरीरं वा ब्रह्मन्नेकतमं वृणु॥ द्रोण उवाच अस्त्राणि चैव सर्वाणि तेषां संहारमेव च। प्रयोगं चैव सर्वेषां दातुमर्हति मे भवान्॥ ब्राह्मण उवाच तथेत्युक्त्वा ततस्तस्मै प्रददौ भृगुनन्दनः। प्रतिगृह्य तदा द्रोणः कृतकृत्योऽभवत् तदा॥ सम्प्रहृष्टमना द्रोणो रामात् परमसम्मतम्। ब्रह्मास्त्रं समनुप्राप्य नरेष्वभ्यधिकोऽभवत्॥ ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान्। अब्रवीत् पुरुषव्याघ्रः सखायं विद्धि मामिति॥ दुपद उवाच नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा। नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते॥ ब्राह्मण उवाच स विनिश्चित्य मनसा पाञ्चाल्यं प्रति बुद्धिमान्। जगाम कुरुमुख्यानां नगरं नागसाह्वयम्॥ तस्मै पौत्रान् समादाय वसूनि विविधानि च। प्राप्ताय प्रददौ भीष्मः शिष्यान् द्रोणाय धीमते॥ द्रोण: शिष्यांस्ततः पार्थानिदं वचनमब्रवीत्। समानीय तु ताशिष्यान् दुपदस्यासुखाय वै॥ आचार्यवेतनं किंचिद्धृदि यद् वर्तते मम। कृतास्त्रैस्तत् प्रदेयं स्यात् तदृतं वदतानघाः। सोऽर्जुनप्रमुखैरुक्तस्तथास्त्विति गुरुस्तदा॥ यदा च पाण्डवाः सर्वे कृतास्त्राः कृतनिश्चयाः। ततो द्रोणोऽब्रवीद् भूयो वेतनार्थमिदं वचः॥ पार्षतो दुपदो नामच्छत्रवत्यां नरेश्वरः। तस्मादाकृष्य तद् राज्यं मम शीघ्रं प्रदीयताम्॥ ततः पाण्डुसुताः पञ्च निर्जित्य द्रुपदं युधि। द्रोणाय दर्शयामासुर्बद्ध्वा ससचिवं तदा।॥ द्रोण उवाच प्रार्थयामि त्वया सख्यं पुनरेव नराधिप। अराजा किल नो राज्ञः सखा भवितुमर्हति॥ अतः प्रयतितं राज्ये यज्ञसेन त्वया सह। राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे॥ ब्राह्मण उवाच एवमुक्तो हि पाञ्चाल्यो भारद्वाजेन धीमता। उवाचास्त्रविदां श्रेष्ठो द्रोणं ब्राह्मणसत्तमम्॥ एवं भवतु भद्रं ते भारद्वाज महामते। सख्यं तदेव भवतु शश्वद् यदभिमन्यसे॥ एवमन्योन्यमुक्त्वा तौ कृत्वा सख्यमनुत्तमम्। जग्मतुर्दोणपाञ्चाल्यौ यथागतमरिंदमौ॥ असत्कारः स तु महान् मुहूर्तमपि तस्य तु। नापैति हृदयाद् राज्ञो दुर्मनाः स कृशोऽभवत्॥ ब्राह्मण उवाच अमर्षी दुपदो राजा कर्मसिद्धान् द्विजर्षभान्। अन्विच्छन् परिचक्राम ब्राह्मणावसथान् बहून्॥ पुत्रजन्म परीप्सन् वै शोकोपहतचेतनः। नास्ति श्रेष्ठमपत्यं मे इति नित्यमचिन्तयत्॥ जातान् पुत्रान् स निर्वेदाद् धिग् बन्धूनिति चाब्रवीत् निःश्वासपरमश्चासीद् द्रोणं प्रतिचिकीर्षया॥ प्रभावं विनयं शिक्षा द्रोणस्य चरितानि च। क्षात्रेण च बलेनास्य चिन्तयन् नाध्यगच्छत्॥ प्रतिकर्तुं नृपश्रेष्ठो यतमानोऽपि भारत। अभितः सोऽथ कल्माषीं गङ्गाकूले परिभ्रमन्॥ ब्राह्मणावसथं पुण्यमाससाद महीपतिः। तत्र नास्नातकः कश्चिन्न चासीदव्रती द्विजः॥ तथैव च महाभागः सोऽपश्यत् संशितव्रतौ। याजोपयाजौ ब्रह्मर्षी शाम्यन्तौ परमेष्ठिनौ॥ संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ। तारणेयौ युक्तरूपौ ब्राह्मणावृषिसत्तमौ॥ स तावामन्त्रयामास सर्वकामैरतन्द्रितः। बुद्धवा बलं तयोस्तत्र कनीयांसमुपह्वरे॥ प्रपेदे छन्दयन् कामैरुपयाजं धृतव्रतम्। पादशुश्रूषणे युक्तः प्रियवाक् सर्वकामदः॥ अर्चयित्वा यथान्यायमुपयाजमुवाच सः। येन मे कर्मणा ब्रह्मन् पुत्रः स्याद् द्रोणमृत्यवे॥ उपयाज कृते तस्मिन् गवां दातास्मि तेऽव॒दम्। यद् वा तेऽन्यद् द्विजश्रेष्ठ मनसः सुप्रियं भवेत्। सर्वं तत् ते प्रदाताहं न हि मे मेऽत्रास्ति संशयः॥ इत्युक्तो नाहमित्येवं तमृषिः प्रत्यभाषत। आराधयिष्यन् दुपदः स तं पर्यचरत् पुनः॥ ततः संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः। उपयाजोऽब्रवीत् काले राजन् मधुरया गिरा॥ ज्येष्ठो भ्राता ममागृहणाद् विचरन् गहने वने। अपरिज्ञातशौचायां भूमौ निपतितं फलम्॥ तदपश्यमहं भ्रातुरसाम्प्रतमनुव्रजन्। विमर्श संकरादाने नायं कुर्यात् कदाचन॥ दृष्ट्वा फलस्य नापश्यद् दोषान् पापानुबन्धकान्। विविनक्ति न शौचं यः सोऽन्यत्रापि कथं भवेत्॥ संहिताध्ययनं कुर्वन् वसन् गुरुकुले च यः। भैक्ष्यमुत्सृष्टमन्येषां भुङ्क्ते स्म च यदा तदा॥ कीर्तयन् गुणमन्नानामघृणी च पुनः पुनः। तं वै फलार्थिनं मन्ये भ्रातरं तर्कचक्षुषा॥ तं वै गच्छस्व नृपते स त्वां संयाजयिष्यति। जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन्।॥ उपयाजवचः श्रुत्वा याजस्याश्रमभ्यगात्। अभिसम्पूज्य पूजार्हमथ याजमुवाच ह॥ अयुतानि ददान्यष्टौ गवां याजय मां विभो। द्रोणवैराभिसंतप्तं प्रह्लादयितुमर्हसि॥ स हि ब्रह्मविदां श्रेष्ठो ब्रह्मास्त्रे चाप्यनुत्तमः। तस्माद् द्रोणः पराजैष्ट मां वै स सखिविग्रहे॥ क्षत्रियो नास्ति तस्यास्यां पृथिव्यां कश्चिदग्रणीः। कौरवाचार्यमुख्यस्य भारद्वाजस्य धीमतः॥ द्रोणस्य शरजालानि प्राणिदेहहराणि च। षडरनि धनुश्चास्य दृश्यते परमं महत्॥ स हि ब्राह्मणवेषेण क्षात्रं वेगमसंशयम्। प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः॥ क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः। तस्य ह्यस्त्रबलं घोरमप्रधृष्यं नरैर्भुवि॥ ब्राह्यं संधारयंस्तेजो हुताहुतिरिवानलः। समेत्य स दहत्याजौ क्षात्रधर्मपुरस्सरः॥ ब्रह्मक्षत्रे च विहिते ब्राह्म तेजो विशिष्यते। सोऽहं क्षात्राद् बलाद्धीनो ब्राह्मं तेजः प्रपेदिवान्॥ द्रोणाद् विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम्। द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम्॥ तत् कर्म कुरु मे याज वितराम्यर्बुदं गवाम्। तथेत्युक्त्वा तु तं याजो याज्यार्थमुपकल्पयत्॥ गुर्वर्थ इति चाकाममुपयाजमचोदयत्। याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः॥ ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः। भाचख्यौ कर्म वैतानं तदा पुत्रफलाय वै॥ स च पुत्रो महावीर्यो महातेजा महाबलः। इष्यते यद्धिधो राजन् भविता ते तथाविधः॥ भारद्वाजस्य हन्तारं सोऽभिसंधाय भूपतिः। आजहें तत् तथा सर्वं द्रुपदः कर्मसिद्धये॥ याजस्तु हवनस्यान्ते देवीमाज्ञापयत् तदा। प्रेहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम्॥ राज्युवाच अवलिप्तं मुखं ब्रह्मन् दिव्यान् गन्धान बिभर्मिच। सुतार्थे नोपलब्धास्मि तिष्ठ याज मम प्रिये॥ याज उवाच याजेन श्रपितं हव्यमुपयाजाभिमन्त्रितम्। कथं कामं न संदध्यात् सा त्वं विप्रेहि तिष्ठ वा॥ ब्राह्मण उवाच एवमुक्त्वा तु याजेन हुते हविषि संस्कृते। उत्तस्थौ पावकात् तस्मात् कुमारो देवसंनिभः॥ ज्वालावर्णो घोररूपः किरीटी वर्म चोत्तमम्। बिभ्रत् सखङ्गः सशरो धनुष्मान् विनदन् मुहुः॥ सोऽध्यारोहद् रथवरं तेन च प्रययौ तदा। ततः प्रणेदुः पञ्चालाः प्रहृष्टाः साधु साध्विति॥ हर्षाविष्टांस्ततश्चैतान् नेयं सेहे वसुंधरा। भयापहो राजपुत्रः पाञ्चालानां यशस्करः॥ राज्ञः शोकापहो जात एष द्रोणवधाय वै। इत्युवाच महद् भूतमदृश्यं खेचरं तदा॥ कुमारी चापि पाञ्चाली वेदमिध्यात् समुत्थिता। सुभगा दर्शनीयाङ्गी स्वसितायतलोचनाः॥ श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा। ताम्रतुङ्गनखी सुभ्रूश्चारुपीनपयोधरा॥ मानुषं विग्रहं कृत्वा साक्षादमरवर्णिनी। नीलोत्पलसमो गन्धो यस्याः क्रोशात् प्रधावति॥ या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि। देवदानवयक्षाणामीप्सितां देवरूपिणीम्॥ तां चापि जातां सुश्रोणी वागुवाचाशरीरिणी। सर्वयाषिद्वरा कृष्णा निनीषुः क्षत्रियान् क्षयम्॥ सुरकार्यमियं काले करिष्यति सुमध्यमा। अस्या हेतोः कौरवाणां महदुत्पत्स्यते भयम्॥ तच्छ्रुत्वा सर्वपाञ्चालाः प्रणेदुः सिंहसङ्घवत्। न चैतान् हर्षसम्पूर्णानियं सेहे वसुंधरा॥ तौ दृष्ट्वा पार्षती याज प्रपेदे वै सुतार्थिनी। न वै मदन्यां जननी जानीयातामिमाविति॥ तथेत्युवाच तं याजो राज्ञः प्रियचिकीर्षया। तयोश्च नामनी चक्रुद्धिजाः सम्पूर्णमानसाः॥ धृष्टत्वादत्यमर्षित्वाद् द्युम्नाद्युत्सम्भवादपि। धृष्टद्युम्नः कुमारोऽयं दुपदस्य भवत्विति॥ कृष्णेत्येबाब्रुवन् कृष्णां कृष्णाभूत् सा हि वर्णतः। तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे।॥ धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं निवेशनम्। उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान्॥ अमोक्षणीयं दैवं हि भावि मत्वा महामतिः। तथा तत् कृतवान् द्रोण आत्मकीर्त्यनुरक्षणात्॥ वैशम्पायन उवाच वसत्सु तेषु प्रच्छन्नं पाण्डवेषु महात्मसु। आजगामाथ तान् द्रष्टुं व्यास: सत्यवतीसुतः॥ तमागतमभिप्रेक्ष्य प्रत्युद्गम्य परंतपाः। प्रणिपत्याभिवाद्यैनं तस्थुः प्राञ्जलयस्तदा॥ समनुज्ञाप्य तान् सर्वानासीनान् मुनिरब्रवीत्। प्रच्छन्नं पूजितः पार्थः प्रीतिपूर्वमिदं वचः॥ अपि धर्मेण वर्तेध्वं शास्त्रेण च परंतपाः। अपि विप्रेषु पूजा वः पूजार्हेषु न हीयते॥ अथ धर्मार्थवद् वाक्यमुक्त्वा स भगवानृषिः। विचित्राश्च कथास्तास्ताः पुनरेवेदमब्रवीत्॥ व्यास उवाच आसीत् तपोवने काचिदृषेः कन्या महात्मनः। विलग्ममध्या सुश्रोणी सुभूः सर्वगुणान्विता॥ कर्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत। नाध्यगच्छत् पतिं सा तु कन्या रूपवती सती॥ ततस्तप्तुमथारेभे पत्यर्थमसुखा ततः। तोषयामास तपसा सा किलोग्रेण शंकरम्॥ तस्या स भगवांस्तुष्टस्तमुवाच यशस्विनीम्। वरं वरय भद्रं ते वरदोऽस्मीति शरूरः॥ अथेश्वरमुवाचेदमात्मनः सा वचो हितम्। पतिं सर्वगुणोपेतमिच्छामीति पुनः पुनः॥ तामथ प्रत्युवाचेदमीशानो वदतां वरः। पञ्च ते पतयो भद्रे भविष्यन्तीति भारताः॥ एवमुक्ता ततः कन्या देवं वरदमब्रवीत्। एकमिच्छाम्यहं देव त्वत्प्रसादात् पतिं प्रभो॥ पुनरेवाब्रवीद् देव इदं वचनमुत्तमम्। पच्कृत्वस्त्वया ह्युक्तः पतिं देहीत्यहं पुनः॥ देहमन्यं गतायास्ते यथोक्तं तद् भविष्यति। दुपदस्य कुले जज्ञे सा कन्या देवरूपिणी॥ निर्दिष्टा भवतां पत्नी कृष्णा पार्षत्यनिन्दिता। पाञ्चालनगरे तस्मान्निवसध्वं महाबलाः। सुखिनस्तामनुप्राप्य भविष्यथ न संशयः॥ एवमुक्त्वा महाभागः पाण्डवान् स पितामहः। पार्थानामन्त्र्य कुन्ती च प्रातिष्ठत महातपाः॥ वैशम्पायन उवाच गते भगवति व्यासे पाण्डवा हृष्टमानसाः। ते प्रतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः॥ आमन्त्र्य ब्राह्मणं पूर्वमभिवाद्यानुमान्य च। समैरुदडमुखैर्मागैर्यथोद्दिष्टं परंतपाः॥ ते त्वगच्छन्नहोरात्रात् तीर्थं सोमाश्रयायणम्। आसेदुः पुरुषव्याघ्रा गङ्गायां पाण्डुनन्दनाः॥ उल्मुकं तु समुद्यम्य तेषामग्रे धनंजयः। प्रकाशार्थं ययौ तत्र रक्षार्थं च महारथः॥ तत्र गङ्गाजले रम्ये विविक्ते क्रीडयन् स्त्रियः। ईर्युगन्धर्वराजो वै जलक्रीडामुपागतः॥ शब्दं तेषां स शुश्राव नदी समुपसर्पताम्। तेन शब्देन चाविष्टश्चक्रोध बलवद् बली॥ स दृष्ट्वा पाण्डवांस्तत्र सह मात्रा परंतपान्। विस्फारयन् धनुर्घोरमिदं वचनमब्रवीत्॥ संध्या संरज्यते घोरा पूर्वरात्रगमेषु या। अशीतिभिर्लवैीनं तन्मुहूर्तं प्रचक्षते॥ विहितं कामचाराणां यक्षगन्धर्वरक्षसाम्। शेषमन्यन्मनुष्याणा कर्मचारेषु वै स्मृतम्॥ लोभात् प्रचारं चरतस्तासु वेलासु वै नरान्। उपक्रान्तानि गृहणीमो राक्षसैः सह बालिशान्॥ अतो रात्रौ प्राप्नुवन्तो जलं ब्रह्मविदो जनाः। गर्हयन्ति नरान् सर्वान् बलस्थान् नृपतीनपि॥ आरात् तिष्ठत मा मह्यं समीपमुपसर्पत।। कस्मान्मां नाभिजानीत प्राप्तं भागीरथीजलम्॥ अङ्गारपर्णं गन्धर्वं वित्त मां स्वबलाश्रयम्। अहं हि मानी चेर्युश्च कुबेरस्य प्रियः सखा॥ अङ्गारपर्णमित्येवं ख्यातं चेदं वनं मम। अनुगङ्गं चरन् कामांश्चित्रं यत्र रमाम्यहम्॥ न कौणपाः शृङ्गिणो वा न देवा न च मानुषाः। इदं समुपसर्पन्ति तत् किं समनुसर्पथ॥ अर्जुन उवाच समुद्रे हिमवत्पार्श्व नद्यामस्यां च दुर्मते। रात्रावहनि संध्यायां कस्य गुप्तः परिग्रहः॥ भुक्तो वाप्यथवाभुक्तो रात्रावहनि खेचर। न कालनियमो ह्यस्ति गङ्गां प्राप्य सरिद्वराम्॥ वयं च शक्तिसम्पन्ना अकाले त्वामधृष्णुम्। अशक्ता हि रणे क्रूरयुष्मानन्ति मानवाः॥ पुरा हिमवतश्चैषा हेमशृङ्गाद् विनिस्सृता। गङ्गा गत्वा समुद्राम्भः सप्तधा समपद्यतः। १९॥ गङ्गां च यमुनां चैव प्लक्षजातां सरस्वतीम्। रथस्थां सरयूं चैव गोमती गण्डकी तथा॥ अपर्युषितपाषास्ते नदीः सप्त पिबन्ति ये। इयं भूत्वा चैकवप्रा शुचिराकाशगा पुनः॥ देवेषु गङ्गा गन्धर्व प्राप्नोत्यलकनन्दताम्। तथा पितृन् वैतरणी दुस्तरा पापकर्मभिः। गङ्गा भवति वै प्राप्य कृष्णद्वैपायनोऽब्रवीत्॥ असम्बाधा देवनदी स्वर्गसम्पादनी शुभा। कथमिच्छसि तां रोर्बु नैष धर्मः सनातनः॥ अनिवार्यमसम्बाधं तव वाचा कथं वयम्। न स्पृशेम यथाकामं पुण्यं भागीरथीजलम्॥ वैशम्पायन उवाच अङ्गारपर्णस्तच्छ्रुत्वा क्रुद्ध आनप्य कार्मुकम्। मुमोच बाणान् निशितानहीनाशीविषानिव॥ उल्मुकं भ्रामयंस्तूर्णं पाण्डवश्चर्म चोत्तरम्। व्यपोहत शरांस्तस्य सर्वानेव धनंजयः॥ अर्जुन उवाच विभीषका वै गन्धर्व नास्त्रज्ञेषु प्रयुज्यते। अस्त्रज्ञेषु प्रयुक्तेयं फेनवत् प्रविलीयते॥ मानुषानति गन्धर्वान् सर्वान् गन्धर्व लक्षये। तस्मादस्त्रेण दिव्येन योत्स्येऽहं न तु मायया॥ पुरास्त्रमिदमाग्नेयं प्रादात् किल बृहस्पतिः। भरद्वाजाय गन्धर्व गुरुर्मान्यः शतक्रतोः॥ भरद्वाजादग्निवेश्यः अग्निवेश्याद् गुरुर्मम। साध्विदं मह्यमददद् द्रोणो ब्राह्मणसत्तमः॥ वैशम्पायन उवाच इत्युक्त्वा पाण्डवः क्रुद्धो गन्धर्वाय मुमोच ह। प्रदीप्तमस्त्रमाग्नेयं ददाहास्य रथं तु तत्॥ विरथं विप्लुतं तं तु स गन्धर्वं महाबलः। अस्त्रतेजः प्रमूढ़ च प्रपतन्तमवाङ्मुखम्॥ शिरोरुहेषु जग्राह माल्यवत्सु धनंजयः। भ्रातृन् प्रति चकर्षाथ सोऽस्त्रपातादचेतसम्॥ युधिष्ठिरं तस्य भार्या प्रपेदे शरणार्थिनी। नाम्ना कुम्भीनसी नाम पतित्राणमभीप्सती॥ गन्धर्युवाच त्रायस्व मां महाभाग पतिं चेमं विमुञ्च मे। गन्धर्वी शरणं प्राप्ता नाम्ना कुम्भीनसी प्रभो॥ युधिष्ठिर उवाच युद्धे जितं यशोहीनं स्त्रीनाथमपराक्रमम्। को निहन्याद् रिपुं तात मुञ्चेमं रिपुसूदन॥ अर्जुन उवाच जीवितं प्रतिपद्यस्व गच्छ गन्धर्व मा शुचः। प्रदिशत्यभयं तेऽद्य कुरुराजो युधिष्ठिरः॥ गन्धर्व उवाच जितोऽहं पूर्वकं नाम मुञ्चाम्यङ्गारपर्णताम्। न च श्लाघे बलेनाङ्गन नाम्ना जनसंसदि॥ साध्विमं लब्धवाँल्लाभं योऽहं दिव्यास्त्रधारिणम्। गान्धर्व्या माययेच्छामि संयोजयितुमर्जुनम्॥ अस्त्राग्निना विचित्रोऽयं दग्धो मे रथ उत्तमः। सोऽहं चित्ररथो भूत्वा नाम्ना दग्धरथोऽभवम्॥ सम्भृता चैव विद्येयं तपसेह मया पुरा। निवेदयिष्ये तामद्य प्राणदाय महात्मने॥ संस्तम्भयित्वा तरसा जितं शरणमागतम्। यो रिपुं योजयेत् प्राणैः कल्याणं किं न सोऽर्हति॥४२ चाक्षुषी नाम विद्येयं यां सोमाय ददौ मनुः। ददौ स विश्वावसवे मम विश्वावसुर्ददौ॥ सेयं कापुरुषं प्राप्ता गुरुदत्ता प्रणश्यति। आगमोऽस्या मया प्रोक्तो वीर्यं प्रतिनिबोध मे॥ यच्चक्षुषा द्रष्टुमिच्छेत् त्रिषु लोकेषु किंचन। तत् पश्येद् यादृशं चेच्छेत् तादृशं द्रष्टुमर्हति॥ एकपादेन षण्मासान् स्थितो विद्यां लभेदिमाम्। अनुनेष्याम्यहं विद्यां स्वयं तुभ्यं व्रतेऽकृते॥ विद्यया ह्यनया राजन् वयं नृभ्यो विशेषिताः। अविशिष्टाश्च देवानामनुभावप्रदर्शिनः॥ गन्धर्वजानामश्वानामहं पुरुषसत्तम। भ्रातृभ्यस्तव तुभ्यं च पृथग्दाता शतं शतम्॥ देवगन्धर्ववाहास्ते दिव्यवर्णा मनोजवाः। क्षीणाक्षीणा भवन्त्येते न हीयन्ते च रंहसः॥ पुरा कृतं महेन्द्रस्य वज्रं वृत्रनिबर्हणम्। दशधा शतधा चैव तच्छीर्णं वृत्रमूर्धनि॥ ततो भागीकृतो देवैर्वज्रभाग उपास्यते। लोके यशो धनं किंचित् सैव वज्रतनुः स्मृता॥ वज्रपाणिर्ब्राह्मण: स्यात् क्षत्रं वज्ररथं स्मृतम्। वैश्या वै दानवज्राश्च कर्मवज्रा यवीयसः॥ क्षत्रवज्रस्य भागेन अवध्या वाजिनः स्मृताः। रथाङ्ग वडवा सूते शूराश्चाश्वेषु ये मताः॥ कामवर्णाः कामजवाः कामतः समुपस्थिताः। 'इति गन्धर्वजाः काम पूरयिष्यन्ति मे हयाः॥ अर्जुन उवाच यदि प्रीतेन मे दत्तं संशये जीवितस्य वा। विद्याधनं श्रुतं वापि न तद् गन्धर्व रोचये॥ गन्धर्व उवाच संयोगो वे प्रीतिकरो महत्सु प्रतिदृश्यते। जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते॥ त्वत्तोऽप्यहं ग्रहीष्यामि अस्त्रमाग्नेयमुत्तमम्। तथा योग्यं बीभत्सो चिराय भरतर्षभ॥ अर्जुन उवाच त्वत्तोऽस्त्रेण वृणोम्यश्वान् संयोगः शाश्वतोऽस्तु नौ सखे तद् ब्रूहि गन्धर्व युष्मभ्यो यद् भयं भवेत्।।५८। कारणं ब्रूहि गन्धर्व किं तद् येन स्म धर्षिताः। यान्तो वेदविदः सर्वे सन्तो रात्रावरिंदमाः॥ गन्धर्व उवाच अनग्नयोऽनाहुतयो न च विप्रपुरस्कृताः। यूयं ततो धर्षिताः स्थ माया वै पाण्डुनन्दनाः॥ यक्षराक्षसगन्धर्वाः पिशाचोरगदानवाः। विस्तरं कुरुवंशस्य धीमन्तः कथयन्ति ते॥ नारदप्रभृतीनां तु देवर्षीणां मया श्रुतम्। गुणान् कथयतां वीर पूर्वेषां तव धीमताम्॥ स्वयं चापि मया दृष्टश्चरता सागराम्बराम्। इमां वसुमती कृत्स्ना प्रभावः सुकुलस्य ते॥ वेदे धनुषि चाचार्यमभिजानामि तेऽर्जुना विश्रुतं त्रिषु लोकेषु भारद्वाजं यशस्विनम्॥ धर्मं वायुं च शक्रं च विजानाम्यश्विनौ तथा। पाण्डं च कुरुशार्दूल षडेतान् कुरुवर्धनान्। पितृनेतानहं पार्थ देवमानुषसत्तमान्॥ दिव्यात्मानो महात्मानः सर्वशस्त्रभृतां वराः। भवन्तो भ्रातरः शूराः सर्वे सुचरितव्रताः॥ उत्तमां च मनोबुद्धिं भवतां भावितात्मनाम्। जानन्नपि च वः पार्थ कृतवानिह धर्षणाम्॥ स्त्रीसकाशे च कौरव्य न पुमान् क्षन्तुमर्हति। धर्षणामात्मनः पश्यन् बाहुद्रविणमाश्रितः॥ नक्तं च बलमस्माकं भूय एवाभिवर्धते। यतस्ततो मां कौन्तेय सदारं मन्युराविशत्॥ सोऽहं त्वयेह विजित: संख्ये तापत्यवर्धन। येन तेनेह विधिना कीर्त्यमानं निबोध मे॥ ब्रह्मचर्यं परो धर्मः स चापि नियतस्त्वयि। यस्मात् तस्मादहं पार्थ रणेऽस्मि विजितस्त्वया॥ यस्तु स्यात् क्षत्रियः कश्चित् कामवृत्तः परंतप। नक्तं च युधि युध्येत न स जीवेत् कथंचन॥ यस्तु स्यात् कामवृत्तोऽपि पार्थ ब्रह्मपुरस्कृतः। जयेन्नक्तंचरान् सर्वान् स पुरोहितधूर्गतः॥ तस्मात् तापत्य यत्किंचिऋणां श्रेय इहेप्सितम्। तस्मिन् कर्मणि योक्तव्या दान्तात्मानः पुरोहिताः।७४। वेदे षडङ्गे निरताः शुचयः सत्यवादिनः। धर्मात्मानः कृतात्मानः स्युर्नृपाणां पुरोहिताः॥ जयश्च नियतो राज्ञः स्वर्गश्च तदनन्तरम्। यस्य स्याद् धर्मविद् वाग्मी पुरोधाः शीलवान् शुचिः।। लाभं लब्धुमलब्धं वा लब्धं वा परिरक्षितुम्। पुरोहितं प्रकुर्वीत राजा गुणसमन्वितम्॥ पुरोहितमते तिष्ठेद् य इच्छेद् भूतिमात्मनः। प्राप्तुं वसुमती सर्वां सर्वशः सागराम्बराम्॥ न हि केवलशौर्येण तापत्याभिजनेन च। जयेदब्राह्मणः कश्चिद् भूमि भूमिपतिः क्वचित्॥ तस्मादेवं विजानीहि कुरूणां वंशवर्धन। ब्राह्मणप्रमुखं राज्यं शक्यं पालयितुं चिरम्॥ अर्जुन उवाच तापत्य इति यद् वाक्यमुक्तवानसि मामिह। तदहं ज्ञातुमिच्छामि तापत्यार्थं विनिश्चितम्॥ तपती नाम का चैषा तापत्या यत्कृते वयम्। कौन्तेया हि वयं साधो तत्त्वमिच्छामि वेदितुम्॥ वैशम्पायन उवाच एवमुक्तः स गन्धर्वः कुन्तीपुत्रं धनंजयम्। विश्रुतां त्रिषु लोकेषु श्रावयामास वै कथाम्॥ गन्धर्व उवाच हन्त तं कथयिष्यामि कथामेतां मनोरमाम्। यथावदखिलां पार्थ सर्वबुद्धिमतां वर॥ उक्तवानस्मि येन त्वां तापत्य इति यद् वचः। तत् तेऽहं कथयिष्यामि शृणुष्वैकमनां भव॥ य एष दिवि धिष्ण्येन नाकं व्याप्नोति तेजसा। एतस्य तपती नाम बभूव सदृशी सुता॥ विवस्वतो वै देवस्य सावित्र्यवरजा विभो। विश्रुता त्रिषु लोकेषु तपती तपसा युता॥ न देवी नासुरी चैव न यक्षी न च राक्षसी। नाप्सरा न च गन्धर्वी तथा रूपेण काचन॥ सुविभक्तानवद्याङ्गी स्वसितायतलोचना। स्वाचारा चैव साध्वी च सुवेषा चैव भामिनी॥ न तस्याः सदृशं कंचित् त्रिषु लोकेषु भारत। भर्तारं सविता मेने रूपशीलगुणश्रुतैः॥ सम्प्राप्तयौवनां पश्यन् देयां दुहितरं तु ताम्। नोपलेभे ततः शान्तिं सम्प्रदानं विचिन्तयन्॥ अथर्भपुत्र: कौन्तेय कुरूणामृषभो बली। सूर्यमाराधयामास नृपः संवरणस्तदा।॥ अर्घ्यमाल्योपहाराद्यैर्गश्च नियतः शुचिः। नियमैरुपवासैश्च तपाभिर्विविधैरपि।॥ शुश्रूषुरनहंवादी शुचिः पौरवनन्दनः। अंशुमन्तं समुद्यन्तं पूजयामास भक्तिमान्॥ ततः कृतज्ञं धर्मज्ञं रूपेणासदृशं भुवि। तपत्याः सदृशं मेने सूर्यः संवरणं पतिम्॥ दातुमैच्छत् ततः कन्यां तस्मै संवरणाय ताम्। नृपोत्तमाय कौरव्य विश्रुताभिजनाय च॥ यथा हि दिवि दीप्तांशुः प्रभासयति तेजसा। तथा भुवि महीपालो दीप्त्या संवरणोऽभवत्॥ यथार्चयन्ति चादित्यमुद्यन्तं ब्रह्मवादिनः। तथा संवरणं पार्थ ब्राह्मणावरजाः प्रजाः॥ स सोममति कान्तत्वादादित्यमति तेजसा। बभूव नृपतिः श्रीमान् सुहृदां दुर्हदामपि।॥ एवंगुणस्य नृपतेस्तथावृत्तस्य कौरव। तस्मै दातुं मनश्चक्रे तपतीं तपनः स्वयम्॥ स कदाचिदथो राजा श्रीमानमितविक्रमः। चचार मृगयां पार्थ पर्वतोपवने किल॥ चरतो मृगयां तस्य क्षुत्पिपासासमन्वितः। ममार राज्ञः कौन्तेय गिरावप्रतिमो हयः॥ स मृताश्वश्चरन् पार्थ पद्भ्यामेव गिरौ नृपः। ददर्शासदृशीं लोके कन्यामायतलोचनाम्॥ स एक एकामासाद्य कन्यां परबलार्दनः। तस्थौ नृपतिशार्दूलः पश्यन्नविचलेक्षणः॥ स हि तां तर्कयामास रूपतो नृपतिः श्रियम्। पुनः संतर्कयामास रवर्धष्टामिव प्रभाम्॥ वपुषा वर्चसा चैव शिखामिव विभावसोः। प्रसन्नत्वेन कान्त्या च चन्द्ररेखामिवामलाम्॥ गिरिपृष्ठे तु सा यस्मिन् स्थिता स्वसितलोचना। विभ्राजमाना शुशुभे प्रतिमेव हिरण्मयी॥ तस्या रूपेण स गिरिवेषण च विशेषतः। स सवृक्षक्षुपलतो हिरण्मय इवाभवत्॥ अवमेने च तां दृष्ट्वा सर्वलोकेषु योषितः। अवाप्तं चात्मनो मेने स राजा चक्षुषः फलम्॥ जन्मप्रभृति यत् किंचिद् दृष्टवान् स महीपतिः। रूपं न सदृशं तस्यास्तर्कयामास किंचन॥ तया बद्धमनुश्चक्षुः पाशैर्गुणमयैस्तदा। न चचाल ततो देशाद् बुबुधे न च किंचन॥ अस्या नूनं विशालाक्ष्याः सदेवासुरमानुषम्। लोकं निर्मथ्य धात्रेदं रूपमाविष्कृतं कृतम्॥ एवं संतर्कयामास रूपद्रविणसम्पदा। कन्यामसदृशीं लोके नृपः संवरणस्तदा॥ तां च दृष्ट्वैव कल्याणी कल्याणाभिजनो नृपः। जगाम मनसा चिन्तां कामबाणेन पीडितः॥ दह्यमानः स तीवेण नृपतिर्मन्मथाग्निना। अप्रगल्भां प्रगल्भस्तां तदोवाच मनोहराम्॥ कासि कस्यासि रम्भोस किमर्थं चेह तिष्ठसि। कथं च निर्जनेऽरण्ये चरस्येका शुचिस्मिते॥ त्वं हि सर्वानवद्याङ्गी सर्वाभरणभूषिता। विभूषणमिवैतेषां भूषणानामभीप्सितम्॥ न देवी नासुरां चैव न यक्षी न च राक्षसीम्। न च भोगवतीं मन्ये न गन्धर्वी न मानुषीम्॥ या हि दृष्टा मया काश्चिच्छ्रुता वापि वराङ्गनाः। न तासां सदृशीं मन्ये मत्वामहं मत्तकाशिनि॥ दृष्ट्वैव चारुवदने चन्द्रात् कान्ततरं तव। वदनं पद्मपत्राक्षं मां मन्यातीव मन्मथः॥ एवं तां स महीपालो बभाषे न तु सा तदा। कामार्तं निर्जनेऽरण्ये प्रत्यभाषत किंचन॥ ततो लालप्यमानस्य पार्थिवस्यायतेक्षणा। सौदामिनीव चाभ्रेषु तत्रैवान्तरधीयत॥ तामन्वेष्टुं स नृपतिः परिचक्राम सर्वतः। वनं वनजपत्राक्षीं भ्रमन्नुन्मत्तवत् तदा।॥ अपश्यमानः स तु तां बहु तत्र विलप्य च। निश्चेष्टः पार्थिवश्रेष्ठो मुहूर्तं स व्यतिष्ठत॥ गन्धर्व उवाच अथ तस्यामदृश्यायां नृपतिः काममोहितः। पातनः शत्रुसङ्घानां पपात धरणीतले॥ तस्मिन् निपतिते भूमावथ सा चारुहासिनी। पुनः पीनायतश्रोणी दर्शयामास तं नृपम्॥ अथाबभाषे कल्याणी वाचा मधुरया नृपम्। तं कुरूणां कुलकरं कामाभिहतचेतसम्॥ उवाच मधुरं वाक्यं तपती प्रहसन्निव। उत्तिष्ठोत्तिष्ठ भद्रं ते न त्वमर्हस्यरिंदम्॥ मोहं नृपतिशार्दूल गन्तुमाविष्कृतः क्षितौ। एवमुक्तोऽथ नृपतिर्वाचा मधुरया गिरा॥ ददर्श विपुलश्रोणी तामेवाभिमुखे स्थिताम्। अथ तामसितापाङ्गीमाबभाषे स पार्थिवः॥ मन्मथाग्निपरीतात्मा संदिग्धाक्षरया गिरा। साधु त्वमसितापाङ्गि कामात मत्तकाशिनि॥ भजस्व भजमानं मां प्राणा हि प्रजहन्ति माम्। त्वदर्थं हि विशालाक्षि मामयं निशितैः शरैः॥ कामः कमलगर्भामे प्रतिविध्यन् न शाम्यति। दष्टमेवमनाक्रन्दे भद्रे काममहाहिना॥ सा त्वं पीनायतश्रोणि मामापनुहि वरानने। त्वदधीना हि मे प्राणाः किन्नरोद्गीतभाषिणि॥१० चारुसर्वानवद्याङ्गि पद्येन्दुप्रतिमानने। न ह्यहं त्वदृते भीरु शक्ष्यामि खलु जीवितुम्॥ कामः कमलपत्राक्षि प्रतिविध्यति मामयम्। तस्मात् कुरु विशालाक्षि मय्यनुक्रोशमङ्गने॥ भक्तं मामसितापाङ्गिन परित्यक्तुमर्हसि। त्वं हि मां प्रीतियोगेन त्रातुमर्हसि भाविनि॥ त्वदर्शनकृतस्नेहं मनश्चलति मे भृशम्। न त्वां दृष्ट्वा पुनश्चान्यां द्रष्टुं कल्याणि रोचते॥ प्रसीद वशगोऽहं ते भक्तं मां भज भाविनि। दृष्ट्वैव त्वां वरारोहे मन्मथो भृशमङ्गने॥ अन्तर्गतं विशालाक्षि विध्यति स्म पतत्रिभिः। मन्मथाग्निसमुद्धतं दाहं कमललोचने॥ प्रीतिसंयोगयुक्ताभिरद्भिः प्रह्लादयस्व मे। पुष्पायुधं दुराधर्ष प्रचण्डशरकार्मुकम्॥ त्वदर्शनसमुद्भूतं विध्यन्तं दुस्सहैः शरैः। उपशामय कल्याणि आत्मदानेन भाविनि॥ गान्धर्वेण विवाहेन मामुपेहि वराङ्गने। विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते॥ तपत्युवाच नाहमीशाऽऽत्मनो राजन् कन्या पितृमती ह्यहम्। मयि चेदस्ति ते प्रीतिर्याचस्व पितरं मम॥ यथा हि ते मया प्राणा: संगृहीता नरेश्वर। दर्शनादेव भूयस्त्वं तथा प्राणान् ममाहरः॥ न चाहमीशा देहस्य तस्मान्नृपतिसत्तम। समीपं नोपगच्छामि न स्वतन्त्रा हि योषितः॥ का हि सर्वेषु लोकेषु विश्रुताभिजनं नृपम्। कन्या नाभिलषेन्नाथं भर्तारं भक्तवत्सलम्॥ तस्मादेवं गते काले याचस्व पितरं मम। आदित्यं प्रणिपातेन तपसा नियमेन च॥ स चेत् कामयते दातुं तव मामरिसूदन। भविष्याम्यद्य ते राजन् सततं वशवर्तिनी॥ अहं हि तपती नाम सावित्र्यवरजा सुता। अस्य लोकप्रदीपस्य सवितुः क्षत्रियर्षभ॥ गन्धर्व उवाच एवमुक्त्वा ततस्तूर्णं जगामोर्ध्वमनिन्दिता। स तु राजा पुनर्भूमौ तत्रैव निपपात ह॥ अन्वेषमाणः सबलस्तं राजानं नृपोत्तमम्। अमात्यः सानुयात्रश्च तं ददर्श महावने॥ क्षितौ निपतितं काले शक्रध्वजमिवोच्छ्रितम्। तं हि दृष्टवा महेष्वासं निरस्तं पतितं भुवि॥ बभूव सोऽस्य सचिवः सम्प्रदीप्त इवाग्निना। त्वरया चोपसंगम्य स्नेहादागतसम्भ्रमः॥ तं समुत्थापयामास नृपतिं काममोहितम्। भूतलाद् भूमिपालेशं पितेव पतितं सुतम्॥ प्रज्ञया वयसा चैव वृद्धः कीर्त्या नयेन च। अमात्यस्तं समुत्थाप्य बभूव विगतज्वरः॥ उवाच चैनं कल्याण्या वाचा मधुरयोत्थितम्। मा भर्मनुजशार्दूल भद्रमस्तु तवानघ॥ क्षुत्पिपासापरिश्रान्तं तर्कयामास वै नृपम्। पतितं पातनं संख्ये शात्रवाणां महीतले॥ वारिणा च सुशीतेन शिरस्तस्याभ्यषेचयत्। अस्फुटन्मुकुटं राज्ञः पुण्डरीकसुगन्धिना॥ ततः प्रत्यागतप्राणस्तद् बलं बलवान् नृपः। सर्वं विसर्जयामास तमेकं सचिवं विना॥ ततस्तस्याज्ञया राज्ञो विप्रतस्थे महद् बलम् स तु राजा गिरिप्रस्थे तस्मिन् पुनरुपाविशत्॥ ततस्तस्मिन् गिरिवरे शुचिर्भूत्वा कृताञ्जलिः। आरिराधयिषुः सूर्यं तस्थावर्ध्वमु तौ॥ जगाम मनसा चैव वसिष्ठमृषिसत्तमम्। पुरोहितममित्रघ्नस्तदा संवरणो नृपः॥ नक्तं दिनमथैकत्र स्थिते तस्मिञ्जनाधिपे। अथाजगाम विप्रर्षिस्तदा द्वादशमेऽहनि॥ स विदित्वैव नृपतिं तपत्या हृतमानसम्। दिव्येन विधिना ज्ञात्वा भावितात्मा महानृषिः॥ तथा तु नियतात्मानं तं नृपं मुनिसत्तमः। आबभाषे स धर्मात्मा तस्यैवार्थचिकीर्षया॥ स तस्य मनुजेन्द्रस्य पश्यतो भगवानृषिः। अर्ध्वमाचक्रमे द्रष्टुं भास्करं भास्करद्युतिः॥ सहस्रांशुं ततो विप्रः कृताञ्जलिरुपस्थितः। वसिष्ठोऽहमिति प्रीत्या स चात्मानं न्यवेदयत्॥ तमुवाच महातेजा विवस्वान् मुनिसत्तमम्। महर्षे स्वागतं तेऽस्तु कथयस्व यथेप्सितम्॥ यदिच्छसि महाभाग मत्तः प्रवदतां वर। तत् ते दद्यामभिप्रेतं यद्यपि स्यात् सुदुष्करम्॥ एवमुक्तः स तेनर्षिर्वसिष्ठः प्रत्यभाषत। प्रणिपत्य विवस्वन्तं भानुमन्तं महातपाः॥ वसिष्ठ उवाच यैषा ते तपती नाम सावित्र्यवरजा सुता। तां त्वां संवरणस्यार्थे वरयामि विभावसो॥ स हि राजा बृहत्कीर्तिर्धमार्थविदुदारधीः। युक्तः संवरणो भर्ता दुहितुस्ते विहंगम॥ इत्युक्तः स तदा तेन ददानीत्येव निश्चितः। प्रत्यभाषत तं विप्रं प्रतिनन्द्य दिवाकरः॥ वरः संवरणो राज्ञां त्वमृषीणां वरो मुने। तपती योषितां श्रेष्ठा किमन्यदपवर्जनात्॥ ततः सर्वानवद्यागी तपती तपनः स्वयम्। ददौ संवरणस्यार्थे वसिष्ठाय महात्मने॥ प्रतिजग्राह तां कन्यां महर्षिस्तपती तदा। वसिष्ठोऽथ विसृष्टस्तु पुनरेवाजगाम ह॥ यत्र विख्यातकीर्तिः स कुरूणामृषभोऽभवत्। स राजा मन्मथाविष्टस्तद्गतेनान्तरात्मना॥ दृष्ट्वा च देवकन्यां तां तपती चारुहासिनीम् वसिष्ठेन सहायान्तीं संहृष्टोऽभ्यधिकं बभौ॥ रुरुचे साधिकं सुभूरापतन्ती नभस्तलात्। सौदामिनीव विभ्रष्टा द्योतयन्ती दिशस्त्विषा॥ कृच्छ्राद् द्वादशरात्रे तु तस्य राज्ञः समाहिते। आजगाम विशुद्धात्मा वसिष्ठोः भगवानृषिः॥ तपसाऽऽराध्य वरदं देवं गोपतिमीश्वरम्। लेभे संवरणो भार्यां वसिष्ठस्यैव तेजसा॥ ततस्तस्मिन् गिरिश्रेष्ठे देवगन्धर्वसेविते। जग्राह विधिवत् पाणिं तपत्याः स नरर्षभः॥ वसिष्ठेनाभ्यनुज्ञातस्तस्मिन्नेव धराधरे। सोऽकामयत राजर्षिविहर्तुं सह भार्यया॥ ततः पुरे च राष्ट्रे च वनेषूपवनेषु च। आदिदेशे महीपालस्तमेव सचिवं तदा॥ नृपति त्वभ्यनुज्ञाप्य वसिष्ठोऽथापचक्रमे। सोऽथ राजा गिरौ तस्मिन् विजहारामरो यथा॥ ततो द्वादश वर्षाणि काननेषु वनेषु च। रेमे तस्मिन् गिरौ राजा तथैव सह भार्यया॥ तस्य राज्ञः पुरे तस्मिन् समा द्वादश सत्तम। न ववर्ष सहस्राक्षो राष्ट्रे चैवास्य भारत॥ ततस्तस्यामनावृष्ट्यां प्रवृत्तायामरिंदम। प्रजाः क्षयमुपाजग्मुः सर्वाः सस्थाणुजङ्गमाः॥ तस्मिंस्तथाविधे काले वर्तमाने सुदारुणे। नावश्यायः पपातोल् ततः सम्यानि नारुहन्॥ ततो विभ्रान्तमनसो जनाः क्षुद्भयपीडिताः। गृहाणि सम्परित्यज्य वभ्रमुः प्रदिशो दिशः॥ ततस्तस्मिन् पुरे राष्ट्रे त्यक्तदारपरिग्रहाः। परस्परममर्यादाः क्षुधार्ता जजिरे जनाः॥ तत् क्षुधातैर्निराहारैः शवभूतैस्तथा नरैः। अभवत् प्रेतराजस्य पुरं प्रेतैरिवावृतम्॥ ततस्तत् तादृशं दृष्ट्वा स एव भगवानृषिः। अभ्यवर्षत धर्मात्मा वसिष्ठो मुनिसत्तमः॥ तं च पार्थिवशार्दूलमानयामास तत् पुरम्। तपत्या सहितं राजन् व्युषितं शाश्वतीः समाः। ततः प्रवृष्टस्तत्रासीद् यथापूर्वं सुरारिहा॥ तस्मिन् नृपतिशार्दूले प्रविष्टे नगरं पुनः। प्रववर्ष सहस्राक्षः सस्यानि जनयन् प्रभुः॥ ततः सराष्ट्र मुमेदे तत् पुरं परया मुदा। तेन पार्थिवमुख्येन भावितं भावितात्मना॥ ततो द्वादश वर्षाणि पुनरीजे नराधिपः। तपत्या सहितः पल्या यथा शच्या मरुत्पतिः॥ गन्धर्व उवाच एवमासीन्महाभागा तपती नाम पौर्विकी। तव वैवस्वती पार्थ तापत्यस्त्वं यया मतः॥ तस्यां संजनयामास कुरुं संवरणो नृपः। तपत्यां तपतां श्रेष्ठ तापत्यस्त्वं ततोऽर्जुन॥ वैशम्पायन उवाच स गन्धर्ववचः श्रुत्वा तत् तदा भरतर्षभ। अर्जुनः परया भक्त्या पूर्णचन्द्र इवाबभौ॥ उवाच च महेष्वासो गन्धर्वं कुरुसत्तमः। जातकौतूहलोऽतीव वसिष्ठस्य तपोबलात्॥ वसिष्ठ इति तस्यैतदृषेर्नाम त्वयेरितम्। एतदिच्छाम्यहं श्रोतुं यथावत् तद् वदस्व मे॥ य एष गन्धर्वपते पूर्वेषां नः पुरोहितः। आसीदेतन्ममाचक्ष्व क एष भगवानृषिः॥ गन्धर्व उवाच ब्रह्मणो मानसः पुत्रो वसिष्ठोऽरुन्धतीपतिः। तपसा निर्जितौ शश्वदजेयावमरैरपि॥ कामक्रोधावुभौ यस्य चरणौ संववाहतुः। इन्द्रियाणां वशकरो वशिष्ट इति चोच्यते॥ यस्तु नोच्छेदनं चक्रे कुशिकानामुदारधीः। विश्वामित्रापराधेन धारयन् मन्युमुत्तमम्॥ पुत्रव्यसनसंतप्तः शक्तिमानप्यशक्तवत्। विश्वामित्रविनाशाय न चक्रे कर्म दारुणम्॥ मृतांश्च पुनराहर्तं शक्त पुत्रान् यमक्षयात्। कृतान्तं नातिचक्राम वेलामिव महोदधिः॥ यं प्राप्य विजितात्मानं महात्मानं नराधिपाः। इक्ष्वाकवो महीपाला लेभिरे पृथिवीमिमाम्॥१० पुरोहितमिमं प्राप्य वसिष्ठमृषिसत्तमम्। ईजिरे क्रतुभिश्चैव नृपास्ते कुरुनन्दने।११॥ स हि तान् याजयामास सर्वान् नृपतिसत्तमान्। ब्रह्मर्षिः पाण्डवश्रेष्ठ बृहस्पतिरिवामरान्॥ तस्माद् धर्मप्रधानात्मा वेदधर्मविदीप्सितः। ब्राह्मणो गुणवान् कश्चित् पुरोधाः प्रतिदृश्यताम्॥ क्षत्रियेणाभिजातेन पृथिवीं जेतुमिच्छता। पूर्वं पुरोहितः कार्यः पार्थ राज्याभिवृद्धये॥ महीं जिगीषता राज्ञा ब्रह्म कार्यं पुरस्सरम्। तस्मात् पुरोहितः कश्चिद् गुणवान् विजितेन्द्रियः। विद्वान् भवतु वो विप्रो धर्मकामार्थतत्त्ववित्॥ अर्जुन उवाच किंनिमित्तमभूद वैरं विश्वामित्रवसिष्ठयोः। वसतोराश्रमे दिव्ये शंस नः सर्वमेव तत्॥ गन्धर्व उवाच इदं वासिष्ठमाख्यानं पुराणं परिचक्षते। पार्थं सर्वेषु लोकेषु यथावत् तन्निबोध मे॥ कान्यकुब्जे महानासीत् पार्थिवो भरतर्षभ। गाधीति विश्रुतो लोके कुशिकस्यात्मसम्भवः॥ तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः। विश्वामित्र इति ख्यातो बभूव रिपुमर्दनः॥ स चचार सहामात्यो मृगयां गहने वने। मृगान् विध्यन् वराहांश्च रम्येषु मरुधन्वसु॥ व्यायामकर्शितः सोऽथ मृगलिप्सुः पिपासितः। आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं प्रति॥ तमागतमभिप्रेक्ष्य वसिष्ठः श्रेष्ठभागृषिः। विश्वामित्रं नरश्रेष्ठं प्रतिजग्राह पूजया॥ पाद्यार्थ्याचमनीयैस्तं स्वागतेन च भारत। तथैव परिजग्राह वन्येन हविषा तदा॥ तस्याथ कामधुग् धेनुर्वसिष्ठस्य महात्मनः। उक्ता कामान् प्रयच्छेति सा कामान् दुह्यते सदा॥ ग्राम्यारण्याश्चौषधीश्च दुदुहे पय एव च। षड्रसं चामृतनिभं रसायनमनुत्तमम्॥ भोजनीयानि पेयानि भक्ष्याणि विविधानि च। लेह्यान्यमृतकल्पानि चोप्याणि च तथार्जुन॥ रत्नानि च महार्हाणि वासांसि विविधानि च। तैः कामैः सर्वसम्पूर्णैः पूजितश्च महीपतिः॥ सामात्यः सबलश्चैव तुतोष स भृशं तदा। षडुन्नतां सुपा.सं पृथुपञ्चसमावृताम्॥ मण्डूकनेत्रा स्वाकारां पीनोधसमनिन्दिताम्। सुबालधिं शकुकर्णां चारुशृङ्गां मनोरमाम्॥ पुष्टायतशिरोग्रीवां विस्मितः सोऽभिवीक्ष्य ताम्। अभिनन्द्य स तां राजा नन्दिनी गाधिनन्दनः॥ अब्रवीच्च भृशं तुष्टः स राजा तमृषि तदा। अर्बुदेन गवां ब्रह्मन् मम राज्येन वा पुनः॥ नन्दिनी सम्प्रयच्छस्व भुक्ष्व राज्यं महामुने। वसिष्ठ उवाच देवतातिथिपित्रर्थं याज्यार्थं च पयस्विनी॥ अदेया नन्दिनीयं वै राज्येनापि तवानघ। विश्वामित्र उवाच क्षत्रियोऽहं भवान् विप्रस्तपस्स्वाध्यायसाधनः॥ ब्राह्मणेषु कुतो वीर्यं प्रशान्तेषु धृतात्मसु। अर्बुदेन गवां यसत्वं न ददासि ममेप्सितम्॥ स्वधर्मं न प्रहास्यामि नेष्यामि च बलेन गाम्। वसिष्ठ उवाच बलस्थश्चासि राजा च बाहुवीर्यश्च क्षत्रियः॥ यथेच्छसि तथा क्षिप्रं कुरु मा त्वं विचारय। गन्धर्व उवाच एवमुक्तस्तथा पार्थ विश्वामित्रो बलादिव॥ हंसचन्द्रप्रतीकाशां नन्दिनीं तां जहार गाम्। कशादण्डप्रणुदितां काल्यमानामितस्ततः॥ हम्भायमाना कल्याणी वसिष्ठस्याथ नन्दिनी। आगम्याभिमुखी पार्थ तस्थौ भगवदुन्मुखी॥ भृशं च ताड्यमाना वै न जगामाश्रमात् ततः। वसिष्ठ उवाच शृणोमि ते रवं भद्रे विनदन्त्याः पुनः पुनः॥ ह्रियसे त्वं बलाद् भद्रे विश्वामित्रेण नन्दिनि। किं कर्तव्यं मया तत्र क्षमावान् ब्राह्मणो ह्यहम्॥ गन्धर्व उवाच सा भयान्नन्दिनी तेषां बलानां भरतर्षभ। विश्वामित्रभयोद्विग्ना वसिष्ठं समुपागमत्॥ गौरुवाच कशाग्रदण्डाभिहतां क्रोशन्ती मामनाथवत्। विश्वामित्रवलैोरैर्भगवन् किमुपेक्षसे॥ गन्धर्व उवाच नन्दिन्यामेवं क्रन्दन्त्यां धर्षितायां महामुनिः। न चुक्षुभे तदा धैर्यान्न चचाल धृतव्रतः॥ वसिष्ठ उवाच क्षत्रियाणां बलं तेजो ब्राह्मणानां क्षमा बलम्। क्षमा मां भजते यस्माद् गम्यतां यदि रोचते॥ नु नन्दिन्युवाच कि त्यक्तास्मि भगवन् यदेवं त्वं प्रभाषसे। अत्यक्ताहं त्वया ब्रह्मन् नेतुं शक्या न वै बलात्॥ वसिष्ठ उवाच न त्वां त्यजामि कल्याणि स्थीयतां यदि शक्यते। दृढेन दाम्ना बद्धवैष वत्सस्ते ह्रियते बलात्॥ गन्धर्व उवाच स्थायतामिति तच्छुत्वा वसिष्ठस्य पयस्विनी। अाञ्चितशिरोग्रीवा प्रबभौ रौद्रदर्शना॥ क्रोधरक्तेक्षणा सा गौहम्भारवधनस्वना। विश्वामित्रस्य तत् सैन्यं व्यद्रावयत सर्वशः॥ कशाग्रदण्डाभिहता काल्यमाना ततस्ततः। क्रोधरक्तेक्षणा क्रोधं भूय एव समादद॥ आदित्य इव मध्याह्ने क्रोधदीप्तवपुर्बभौ। अङ्गारवर्षं मुञ्चन्ती मुहुर्बालधितो महत्॥ असृजत् पह्लवान् पुच्छात् प्रस्रवाद् द्रविडाञ्छकान्। योनिदेशाच्च यवनान् शकृतः शबरान् बहून्॥ मूत्रतश्चासृजत् कांश्चिच्छबरांश्चैव पार्श्वत:। पौण्ड्रान् किरातान् यवनान् सिंहलान् बर्बरान् खसान्॥ चिबुकांश्च पुलिन्दांश्च चीनान् हूणान् सकेरलान्। ससर्ज फेनतः सा गौम्लेंच्छान् बहुविधानायि॥ तैर्विसृष्टर्महासैन्यैर्नानाम्लेच्छगणैस्तदा। नानावरणसंच्छन्नैर्नानायुधधरैस्तथा॥ अवाकीर्यत संरब्धैर्विश्वामित्रस्य पश्यतः। एकैकश्च तदा योधः पञ्चभिः सप्तभिर्वृतः॥ अस्त्रवर्षेण महता वध्यमानं बलं तदा। प्रभग्नं सर्वतस्त्रस्तं विश्वामित्रस्य पश्यतः॥ न च प्राणैर्वियुज्यन्ते केचित् तत्रास्य सैनिकाः। विश्वामित्रस्य संक्रुद्धैर्वासिष्ठैर्भरतर्षभ॥ सा गौस्तत् सकलं सैन्यं कालयामास दूरतः। विश्वामित्रस्य तत् सैन्यं काल्यमानं त्रियोजनम्॥ क्रोशमानं भयोद्विग्नं त्रातारं नाध्यगच्छत। दृष्ट्वा तन्महदाश्चर्यं ब्रह्मतेजोभवे तदा॥ विश्वामित्रः क्षत्रभावानिर्विण्णो वाक्यमब्रवीत्। धिग् बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम्॥ बलाबलं विनिश्चित्य तप एव परं बलम्। स राज्यं स्फीतमुत्सृज्यां तां च दीप्तां नृपश्रियम्॥ भोगांश्च पृष्ठतः कृत्वा तपस्येव मनो दधे। स गत्वा तपसा सिद्धिं लोकान् विष्टभ्य तेजसा॥ तताप सर्वान् दीप्तौजा ब्राह्मणत्वमवाप्तवान्। अपिबच्च ततः सोममिन्द्रेण सह कौशिकः॥ गन्धर्व उवाच कल्माषपाद इत्येवं लोके राजा बभूव ह। इक्ष्वाकुवंशजः पार्थ तेजसा सदृशो भुवि॥ स कदाचिद् वनं राजा मृगयां निर्ययौ पुरात्। मृगान् विध्यन् वराहांश्च चचार रिपुमर्दनः॥ तस्मिन् वने महाघोरे खगांश्च बहुशोऽहनत्। हत्वा च सुचिरं श्रान्तो राजा निववृते ततः॥ अकामयत् तं याज्यार्थे विश्वामित्रः प्रतापवान्। स तु राजा महात्मानं वासिष्ठमृषिसत्तमम्॥ तृषार्तश्च क्षुधार्तश्च एकायनगतः पथि। अपश्यदजित: संख्ये मुनि प्रतिमुखागतम्॥ शक्तिं नाम महाभागं वसिष्ठकुलवर्धनम्। ज्येष्ठं पुत्रं पुत्रशताद् वसिष्ठस्य महात्मनः॥ अपगच्छ पथोऽस्माकमित्येवं पार्थिवोऽब्रवीत्। तथा ऋषिरुवाचैनं सान्त्वयश्लक्ष्णया गिरा॥ मम पन्था महाराज धर्म एष सनातनः। राज्ञा सर्वेषु धर्मेषु देयः पन्था द्विजातये॥ एवं परस्परं तौ तु पथोऽर्थं वाक्यमूचतुः। अपसर्पापसर्पति वागुत्तरमकुर्वताम्॥ ऋषिस्तु नापचक्राम तस्मिन् धर्मपथे स्थितः। नापि राजा मुनेर्मानात् क्रोधाच्चाथ जगाम ह॥ अमुञ्चन्तं तु पन्थानं तमृषि नृपसत्तमः। जघान कशया मोहात् तदा राक्षसवन्मुनिम्॥ कशाप्रहाराभिहतस्ततः स मुनिसत्तमः। तं शशाप नृपश्रेष्ठं वासिष्ठं क्रोधमूर्च्छितः॥ हंसि राक्षसवद् यस्माद् राजापसद तापसम्। तस्मात् त्वमद्यप्रभृति पुरुषादो भविष्यसि॥ मनुष्यपिशिते सक्तश्चरिष्यसि महीमिमाम्। गच्छ राजाधमेत्युक्तः शक्तिना वीर्यशक्तिना॥ ततो याज्यनिमित्ते तु विश्वामित्रवसिष्ठयोः। वैरमासीत् तदा तं तु विश्वामित्रोऽन्वपद्यत॥ तयोर्विवदतोरेवं समीपमुपचक्रमे। ऋषिरुग्रतपाः पार्थ विश्वामित्रः प्रतापवान्॥ ततः स बुबुधे पश्चात् तमृषि नृपसत्तमः। ऋषे पुत्रं वसिष्ठस्य वसिष्ठमिव तेजसा॥ अन्तर्धाय तदाऽऽत्मानं विश्वामित्रोऽपि भारत। तावुभावतिचक्रांम चिर्कीपन्नात्मनः प्रियम्॥ स तु शप्तस्तदा तेन शक्तिना वै नृपोत्तमः। जगाम शरणं शक्तिं प्रसादयितुमर्हयन्॥ तस्य भावं विदित्वा स नृपतेः कुरुसत्तम। विश्वामित्रस्ततो रक्ष आदिदेश नृपं प्रति॥ शापात् तस्य तु विप्रपेर्विश्वामित्रस्य चाज्ञया। राक्षस: किंकरो नाम विवेश नृपतिं तदा॥ रक्षसा तं गृहीतं तु विदित्वा मुनिसत्तमः। विश्वामित्रोऽप्यपाक्रामत् तस्माद् देशादरिंदम॥ ततः स नृपतिस्तेन रक्षसान्तर्गतेन वै। बलवत् पीडितः पार्थ नान्वबुध्यत किंचन॥ ददर्शाथ द्विजः कश्चिद् राजानं प्रस्थितं वनम्। अयाचत क्षुधापन्नः समांसं भोजनं तदा॥ तमुवाचाथ राजर्षिर्द्विजं मित्रसहस्तदा। आस्स्व ब्रह्मंस्त्वमत्रैव मुहूर्त प्रतिपालयन्॥ निवृत्तः प्रतिदास्यामि भोजनं ते यथेप्सितम्। इत्युक्तवा प्रययौ राजा तस्थौ च द्विजसत्तमः॥ ततो राजा परिक्रम्य यथाकामं यथासुखम्। निवृत्तौऽन्तःपुरं पार्थ प्रविवेश महात्मनाः॥ ततोऽर्धरात्र उत्थाय सूदमानाय्य सत्वरम्। उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम्॥ गच्छामुष्मिन् वनोद्देशे ब्राह्मणो मां प्रतीक्षते। अन्नार्थी तं त्वमन्नेन समांसेनोपपादय॥ गन्धर्व उवाच एवमुक्तस्तत: सूदः सोऽनासाद्यामिषं क्वचित्। निवेदयामास तदा तस्मै राज्ञे व्यथान्वितः॥ राजा तु रक्षसाऽऽविष्टः सूदमाद गतव्यथः। अप्येनं नरमांसेन भोजयेति पुनः पुनः॥ तथेत्युक्त्वा तत: सूदः संस्थानं वध्यघातिनाम्। गत्वाऽऽजहार त्वरितो नरमांसमपेतभीः॥ एतत् संस्कृत्य विधिवदन्नोपहितमाशु वै। तस्मै प्रादाद् ब्राह्मणाय क्षुधिताय तपस्विने॥ स सिद्धचक्षुषा दृष्ट्वा तदन्नं द्विजसत्तमः। अभोज्यमिदमित्याह क्रोधपर्याकुलेक्षणः॥ ब्राह्मण उवाच यस्मादभोज्यमन्ने मे ददाति स नृपाधमः। तस्मात् तस्यैव मूढस्य भविष्यत्यत्र लोलुपा॥ सक्तो मानुषभांसेषु यथोक्तः शक्तिना तथा। उद्वेजनीयो भूतानां चरिष्यति महीमिमाम्॥ द्विरनुव्याहृते राज्ञः स शापो बलवानभूत्। रक्षोवलसमाविष्टो विसंज्ञश्चाभवन्नृपः॥ ततः स नृपतिश्रेष्ठो रक्षसापहतेन्द्रियः। उवाच शक्तिं तं दृष्ट्वा न चिरादिव भारत॥ यस्मादसदृशः शापः प्रयुक्तोऽयं मयि त्वया। तस्मात् त्वत्तः प्रवर्तिष्ये खादितुं पुरुषानहम्॥ एवमुक्त्वा ततः सद्यस्तं प्राणैर्विप्रयुज्य च। शक्तिनं भक्षयामास व्याघ्रः पशुमिवेप्सितम्॥ शक्तिनं तु मृतं दृष्ट्वा विश्वामित्रः पुनः पुनः। वसिष्ठस्यैव पुत्रेषु तद् रक्षः संदिदेश ह॥ स ताञ्छक्त्यवरान् पुत्रान् वसिष्ठस्य महात्मनः। भक्षयामास संक्रुद्धः सिंहः क्षुद्रमृगानिव॥ वसिष्ठो घातिताञ्छ्रुत्वा विश्वामित्रेण तान् सुतान्। धारयामास तं शोकं महाद्रिरिव मेदिनीम्॥ चक्रे चात्मविनाशाय बुद्धि स मुनिसत्तमः। न त्वेव कौशिकोच्छेदं मेने मतिमतां वरः॥ स मेरुकूटादात्मानं मुमोच भगवानृपिः। गिरेस्तस्य शिलायां तु तूलराशविवापतत्॥ न ममार च पातेन स यदा तेन पाण्डव। तदाग्निमिद्धं भगवान् संविवेश महावने॥ तं तदा सुसमिद्धोऽपि न ददाह हुताशनः । दीप्यमानोऽप्यमित्रघ्न शीतोऽग्निरभवत् ततः॥ स समुद्रमभिप्रेक्ष्य शोकविष्टो महामुनिः। बद्धवा कण्द्दे शिलां गुरु निपपात तदाम्भसि॥ स समुद्रोर्मिवेगेन स्थले न्यस्तो महामुनिः। न ममार यदा विप्रः कथंचित् संशितव्रतः। जगाम स ततः खिन्नः पुनरेवाश्रमं प्रति॥ गन्धर्व उवाच ततो दृष्ट्वाऽऽश्रमपदं रहितं तैः सुतैर्मुनिः। निर्जगाम सुदुःखार्तः पुनरप्याश्रमात् ततः॥ सोऽपश्यत् सरितं पूर्णां प्रावृटकाले नवाम्भसा। वृक्षान् बहुविधान् पार्थ हरन्ती तीरजान् बहून्॥ अथ चिन्तां समापेदे पुनः कौरवन्दन। अम्भस्यस्या निमज्जेयमिति दुःखसमन्वितः॥ ततः पाशैस्तदाऽऽत्मानं गाढं बद्धवा महामुनिः। तस्या जले महानद्या निममज्ज सुदुःखितः॥ अथ छित्त्वा नदी पाशांस्तस्यारिबलसूदन। स्थलस्थं तमृषि कृत्वा विपाशं समवासृजत्॥ उत्ततार तत: पाशैर्विमुक्तः स महानृषिः। विपाशेति च नामास्या नद्याश्चक्रे महानृषिः॥ शोकबुद्धिं तदा चक्रे न चैकत्र व्यतिष्ठत। सोऽगच्छत पर्वतांश्चैव सरितश्च संरासि च॥ दृष्ट्वा स पुनरेवर्निदीं हैमवतीं तदा। चण्डग्राहवती भीमां तस्याः स्रोतस्यपातयत्॥ सा तमग्निसमं विप्रमनुचिन्त्य सरिद्वरा। शतधा विद्रुता यस्माच्छतदुरिति विश्रुता॥ ततः स्थलगतं दृष्ट्वा तत्राप्यात्मानमात्मना। मर्तुं न शक्यमित्युक्त्वा पुनरेवाश्रमं ययौ॥ स गत्वा विविधाञ्छैलान् देशान् बहुविधांस्तथा। अदृश्यन्त्याख्यया वध्वाथाश्रमेऽनुसृतोऽभवत्॥ अथ शुश्राव संगत्या वेदाध्ययननिः :स्वनम्। पृष्ठतः परिपूर्णार्थं षड्भिरङ्गैरलंकृतम्॥ अनुव्रजति कोन्वेष मामित्येवाथ सोऽब्रवीत्। अहमित्यदृश्यन्तीमं सा स्नुषा प्रत्यभाषत। शक्तेर्भार्या महाभाग तपोयुक्ता तपस्विनी॥ वसिष्ठ उवाच पुत्रि कस्यैष साङ्गम्य वेदस्याध्ययनस्वनः। पुरा साङ्गम्य वेदस्य शक्तेरिव मया श्रुतः॥ अदृश्यन्त्युवाच अयं कुक्षौ समुत्पन्नः शक्तेर्गर्भः सुतस्य ते। समा द्वादश तस्येह वेदानभ्यस्यतो मुने॥ गन्धर्व उवाच एवमुक्तस्तया हृष्टो वसिष्ठः श्रेष्ठभागृषिः। अस्ति संतानमित्युक्त्वा मृत्योः पार्थ न्यवर्तत॥ ततः प्रतिनिवृत्तः स तया वध्वा सहानघ। कल्माषपादमासीनं ददर्श विजने वने।॥ स तु दृष्टैव तं राजा क्रुद्ध उत्थाय भारत। आविष्टो रक्षसोग्रेण इयेषात्तुं तदा मुनिम्॥ अदृश्यन्ती तु तं दृष्ट्वा क्रूरकर्माणमग्रतः। भयसंविग्नया वाचा वसिष्ठमिदमब्रवीत्॥ असौ मृत्युरिवोगेण दण्डेन भगवन्नितः। प्रगृहीतेन काष्ठेन राक्षसोऽभ्येति दारुणः॥ तं निवारयितुं शक्तो नान्योऽस्ति भुवि कश्चन। त्वदृतेऽद्य महाभाग सर्ववेदविदांवर॥ पाहि मां भगवन् पापादस्माद् दारुणदर्शनात्। राक्षसोऽयमिहात्तुं वै नूनमावां समीहते॥ वसिष्ठ उवाच मा भैः पुत्रि न भेतव्यं राक्षसात् तु कथंचन। नैतद् रक्षो भयं यस्मात् पश्यसि त्वमुपस्थितम्॥ राजा कल्माषपादोऽयं वीर्यवान् प्रथितो भुवि। स एषोऽस्मिन् वनोद्देशे निवसत्यतिभीषणः॥ गन्धर्व उवाच तमापतन्तं सम्प्रेक्ष्य वसिष्ठो भगवानृषिः। वारयामास तेजस्वी हुकारेणैव भारत॥ मन्त्रपूतेन च पुनः स तमभ्युक्ष्य वारिणा। मोक्षयामास वै शापात् तस्माद् योगान्नराधिपम्॥ स हि द्वादश वर्षाणि वासिष्ठस्यैव तेजसा। ग्रस्त आसीद् ग्रेहणेव पर्वकाले दिवाकरः॥ रक्षसा विप्रमुक्तोऽथ स नृपस्तददू वनं महत्। तेजसा रञ्जयामास संध्याभ्रमिव भास्करः॥ प्रतिलभ्य ततः संज्ञामभिवाद्य कृताञ्जलिः। उवाच नृपतिः काले वसिष्ठमृषिसत्तमम्॥ सौदासोऽहं महाभाग याज्यस्ते मुनिसत्तम। अस्मिन् काले यदिष्टं ते ब्रूहि किं करवाणि ते॥ वसिष्ठ उवाच वृत्तमेतद् यथाकालं गच्छ राज्यं प्रशाधि वै। ब्राह्मणं तु मनुष्येन्द्र भावमंस्थाः कदाचन।॥ राजोवाच नावमंस्ये महाभाग कदाचिद् ब्राह्मणानहम्। त्वनिदेशे स्थितः सम्यक् पूजयिष्याम्यहं द्विजान्॥ इक्ष्वाकूणां च येनाहमनृणः स्यां द्विजोत्तम। तत् त्वत्तः प्राप्तुमिच्छामि सर्ववेदविदां वर॥ अपत्यमीप्सितं मह्यं दातुमर्हसि सत्तम। शीलरूपगुणोपेतमिक्ष्वाकुकुलवृद्धये॥ गन्धर्व उवाच ददानीत्येव तं तत्र राजानं प्रत्युवाच ह। वसिष्ठः परमेष्वासं सत्यसंधो द्विजोत्तमः॥ ततः प्रतिययौ काले वसिष्ठः सह तेन वै। ख्यातां पुरीमिमां लोकेष्वयोध्यां मनुजेश्वर॥ तं प्रजाः प्रतिमोदन्त्यः सर्वाः प्रत्युद्गतास्तदा। विपाप्मानं महात्मानं दिवौकस इवेश्वरम्॥ सुचिराय मनुष्येन्द्रो नगरी पुण्यलक्षणाम्। विवेश सहिस्तेन वसिष्ठेन महर्षिणा॥ ददृशुस्तं महीपालमयोध्यावासिनो जनाः। पुरोहितेन सहितं दिवाकरमिवोदितम्॥ स च तां पूरयामास लक्ष्या लक्ष्मीवतां वरः। अयोध्यां व्योम शीतांशुः शरत्काल इवोदितः॥ संसिक्तमृष्टपन्थानं पताकाध्वजशोभितम्। मनः प्रह्लादयामास तस्य तत् पुरमुत्तमम्॥ तुष्टपुष्टजनाकीर्णा सा पुरी कुरुनन्दन। अशोभत तदा तेन शक्रेणेवामरावती॥ ततः प्रविष्टे राजर्षों तस्मिंस्तत् पुरमुत्तमम्। राज्ञस्तस्याज्ञया देवी वसिष्ठमुपचक्रमे॥ ऋतावथ महर्षिः स सम्बभूव तया सह। देव्या दिव्येन विधिना वसिष्ठः श्रेष्ठभागृषिः॥ ततस्तस्यां समुत्पन्ने गर्भे स मुनिसत्तमः। राज्ञाभिवादितस्तेन जगाम मुनिराश्रमम्॥ दीर्घकालेन सा गर्भं सुषुवे न तुं तं यदा। तदा देव्यश्मना कुक्षिं निर्विभेद यशस्विनी॥ ततोऽपि द्वादशे वर्षं स जज्ञे पुरुषर्षभः। अश्मको नाम राजर्षिः पौदन्यं यो न्यवेशयत्॥ गन्धर्व उवाच आश्रमस्था ततः पुत्रमदृश्यन्ती व्यजायता शक्तेः कुलकरं राजन् द्वितीयमिव शक्तिनम्॥ जातकर्मादिकास्तस्य क्रियाः स मुनिसत्तमः। पौत्रस्य भरतश्रेष्ठ चकार भगवान् स्वयम्॥ परासुः स यतस्तेन वसिष्ठः स्थापितो मुनिः। गर्भस्तेन ततो लोके पराशर इति स्मृतः॥ अमन्यत स धर्मात्मा वसिष्ठं पितरं मुनिः। जन्मप्रभृति तस्मिंस्तु पितरीवान्ववर्तत॥ स तात इति विप्रर्षिर्वसिष्ठं प्रत्यभाषत। मातुः समक्षं कौन्तेय अदृश्यन्त्याः परंतपः॥ तातेति परिपूर्णार्थं तस्य तन्मधुरं वचः। अदृश्यन्त्यश्रुपूर्णाक्षी शृण्वती तमुवाच ह॥ मा तात तात तातेति ब्रूह्येनं पितरं पितुः। रक्षसा भक्षितस्तात तव तातो वनान्तरे॥ मन्यसे यं त तातेति नैष तातस्तवानघ। आर्य एष पिता तस्य पितुस्तव यशस्विनः॥ स एवमुक्तो दुःखार्तः सत्यवागृषिसत्तमः। सर्वलोकविनाशाय मतिं चक्रे महामनाः॥ तं तथा निश्चितात्मानं स महात्मा महातपाः। ऋषिर्ब्रह्मविदां श्रेष्ठो मैत्रावरुणिरन्त्यधीः॥ वसिष्ठो वारयामास हेतुना येन तच्छृणु। वसिष्ठ उवाच कृतवीर्य इति ख्यातो बभूव पृथिवीपतिः॥ याज्यो वेदविदां लोके भृगूणां पार्थिवर्षभः। स तानग्रभुजस्तात धान्येन च धनेन च॥ सोमान्ते तर्पयामास विपुलेन विशाम्पतिः। तस्मिन् नृपतिशार्दूले स्वर्यातेऽथ कथंचन॥ बभूव तत्कुलेयानां द्रव्यकार्यमुपस्थितम्। ते॥ भृगूणां तु धनं ज्ञात्वा राजानः सर्व एव याचिष्णवोऽभिजग्मुस्तांस्ततो भार्गवसत्तमान्। भूमौ तु निदधुः केचिद् भृगवो धनमक्षयम्॥ ददुः केचिद् द्विजातिभ्यो ज्ञात्वा क्षत्रियतोभयम्। भृगवस्तु ददुः केचित् तेषां वित्तं यथेप्सितम्॥ क्षत्रियाणां तदा तात कारणान्तरदर्शनात्। ततो महीतलं तात क्षत्रियेण यदृच्छया।॥ खनताधिगतं वित्तं केनचिद् भृगुवेश्मनि। तद् वित्तं ददृशुः सर्वे समेताः क्षत्रियर्षभाः॥ अवमन्यः ततः क्रोधाद् भृगूस्ताञ्छरणागतान्। निजघ्नुः परमेष्वासाः सर्वास्तान् निशितैः शरैः॥ आगर्भादवकृन्तन्तश्चेरुः सर्वां वसुन्धराम्। तत उच्छिद्यमानेषु भृगुष्वेवं भयात् तदा॥ भृगुपन्यो गिरिं दुर्गं हिमवन्तं प्रपेदिरे। तासामन्यतमा गर्भ भयाद् दधे महौजसम्॥ ऊरुणैकेन वामोरुर्भर्तुः कुलविवृद्धये। तद् गर्भमुपलभ्याशु ब्राह्मणी या भयार्दिता॥ गत्वैका कथयामास क्षत्रियाणामुपहरे। ततस्ते क्षत्रिया जग्मुस्तं गर्भं हन्तुमुद्यता:॥ ददृशुर्ब्राह्मणी तेऽथ दीप्यमानां स्वतेजसा। अथ गर्भः स भित्त्वोर्स ब्राह्मण्या निर्जगाम ह॥ मुष्णन् दृष्टी: क्षत्रियाणां मध्याह्न इव भास्करः। ततश्चक्षुर्विहीनास्ते गिरिदुर्गेषु बभ्रमुः॥ ततस्ते मोहमापन्ना राजानो नष्टदृष्टयः। ब्राह्मणी शरणं जग्मुर्दृष्ट्यर्थं तामनिन्दिताम्॥ ऊचुश्चैनां महाभागां क्षत्रियास्ते विचेतसः। ज्योतिःप्रहीणा दुःखार्ताः शान्तार्चिष इवाग्नयः॥ भगवत्याः प्रसादेन गच्छेत् क्षत्रं सचक्षुषम्। उपारम्य च गच्छेम सहिताः पापकर्मिणः॥ सपुत्रा त्वं प्रसादं नः कर्तुमर्हसि शोभने। पुनर्दृष्टिप्रदानेन राज्ञः संत्रातुमर्हसि॥ ब्राह्मण्युवाच नाहं गृहणामि वस्ताता दृष्टी स्मि रुषान्विता। अयं तु भार्गवो नूनमूरुज: कुपितोऽद्य वः॥ तेन चढूंषि वस्ताता व्यक्त कोपान्महात्मना। स्मरता निहतान् बन्धूनादत्तानि न संशयः॥ गर्भानपि यदा यूयं भृगूणां जत पुत्रकाः। तदायमूरुणा गर्भो मया वर्षशतं धृतः॥ षडङ्गश्चाखिलो वेद इमं गर्भस्थमेव ह। विवेश भृगुवंशस्य भूयः प्रियचिकीर्षया॥ सोऽयं पितृवधान व्यक्तं क्रोधाद् वो हन्तुमिच्छति। तेजसा तस्य दिव्येन चढूंषि मुषितानि वः॥ तमेव यूयं याचध्वमौर्वं मम सुत्तोत्तमम्। अयं वः प्रणिपातेन तुष्टो दृष्टी: प्रमोक्ष्यति॥ एवमुक्तास्ततः सर्वे राजानस्ते तमूरुजम्। ऊचुः प्रसीदेति तदा प्रसादं च चकार सः॥ अनेनैव च विख्यातो नाम्ना लोकेषु सत्तमः। स और्व इति विप्रर्षिरूकै भित्त्वा व्यजायत॥ चढूंषि प्रतिलस्वा च प्रतिजग्मुस्ततो नृपाः। भार्गवस्तु मुनिमेने सर्वलोकपराभवम्॥ वसिष्ठ उवाच स चक्रे तात लोकानां विनाशाय महामनाः। सर्वेषामेव कात्स्न्येन मनः प्रवणमात्मनः॥ इच्छन्नपचितिं कर्तुं भृगूणां भृगुनन्दनः। सर्वलोकविनाशाय तपसा महतैधितः॥ तापयामास ताँल्लोकान् सदेवासुरमानुषान्। तपसोग्रेण महता नन्दयिष्यन् पितामहान्॥ ततस्तं पितरस्तात विज्ञाय कुलनन्दनम्। पितृलोकादुपागम्य सर्व ऊचुरिदं वचः॥ पितर ऊचुः और्व दृष्टः प्रभावस्ते तपसोग्रस्य पुत्रका प्रसादं कुरु लोकानां नियच्छ क्रोधमात्मनः॥ नानीशैर्हि तदा तात भृगुभिर्भावितात्मभिः। वधो ह्युपेक्षितः सर्वैः क्षत्रियाणां विहिंसताम्॥ आयुषा विप्रकृष्टेन यदा नः खेद आविशत्। तदास्माभिर्वधस्तात क्षत्रियैरीप्सितः स्वयम्॥ निखातं यच्च वै वित्तं केनचिद् भृगुवेश्मनि। वैरायैव तदा न्यस्तं क्षत्रियान् कोपयिष्णुभिः॥ किं हि वित्तेन नः कार्यं स्वर्गेप्सूनां द्विजोत्तम। यदस्माकं धनाध्यक्षः प्रभूतं धनमाहरत्॥ यदा तु मृत्युरादातुं न नः शक्नोति सर्वशः। तदास्माभिरयं दृष्ट उपायस्तात सम्मतः॥ आत्महा च पुमांस्तात न लोकॉल्लभते शुभान्। ततोऽस्माभिः समीक्ष्यैवं नात्मनाऽऽत्मा निपातितः॥ न चैतन्नः प्रियं तात यदिदं कर्तुमिच्छसि। नियच्छेदं मनः पापात् सर्वलोकपराभवात्॥ मा वधीः क्षत्रियांस्तात न लोकान् सप्त पुत्रका दूषयन्तं तपस्तेजः क्रोधमुत्पतितं जहि॥ और्व उवाच उक्तवानस्मि यां क्रोधात् प्रतिज्ञां पितरस्तदा। सर्वलोकविनाशाय न सा मे वितथा भवेत्॥ वृथारोषप्रतिज्ञो वै नाहं भवितुमुत्सहे। अनिस्तीर्णो हि मां रोषो दहेदग्निरिवारणिम्॥ यो हि कारणतः क्रोधं संजातं क्षन्तुमर्हति। नालं स मनुजः सम्यक् त्रिवर्गं परिरक्षितुम्॥ अशिष्टानां नियन्ता हि शिष्टानां परिरक्षिता। स्थाने रोषः प्रयुक्तः स्यान्नृपैः सर्वजिगीषुभिः॥ अश्रौषमहमूरुस्थो गर्भशय्यागतस्तदा। आरावं मातृवर्गस्य भृगूणां क्षत्रियैर्वधे॥ संहारो हि यदा लोके भृगुणां क्षत्रियाधमैः। आगर्भोच्छेदनात् क्रान्तस्तदा मां मन्युराविशत्॥ सम्पूर्णकोशाः किल मे मातरः पितस्तथा। भयात् सर्वेषु लोकेषु नाधिजग्मुः परायणम्॥ तान् भृगूणां यदा दारान् कश्चिन्नाभ्युपपद्यत। माता तदा दधारेयमूरुणैकेन मां शुभा॥ प्रतिषेद्वा हि पापस्य यदा लोकेषु विद्यते। तदा सर्वेषु लोकेषु पापकृन्नोपपद्यते॥ यदा तु प्रतिषेद्धारं पापो न लभते क्वचित्। तिष्ठन्ति बहवो लोकास्तदा पापेषु कर्मसु॥ जानन्नपि च यः पापं शक्तिमान् न नियच्छति। ईशः सन् सोऽपि तेनैव कर्मणा सम्प्रयुज्यते॥ राजभिश्चैश्वरैश्चैव यदि वै पितरो मम। शक्तैर्न शकितास्त्रातुमिष्टं मत्वेह जीवितम्॥ अत एषामहं क्रुद्धो लोकानामीश्वरो ह्ययम्। भवतां च वचो नालमहं समभिवर्तितुम्॥ ममापि चेद् भवेदेवमीश्वरस्य सतो महत्। उपेक्षमाणस्य पुनर्लोकानां किल्बिषाद् भयम्॥ यश्चाहं मन्युजो मेऽग्निर्लोकानादातुमिच्छति। दहेदेष च मामेव निगृहीतः स्वतेजसा॥ भवतां च विजानामि सर्वलोकहितेप्सुताम्। तस्माद् विधध्वं यच्छ्रेयो लोकानां मम चेश्वराः॥ पितर ऊचुः य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति। अप्सु तं मुञ्च भद्रं ते लोका ह्यप्सु प्रतिष्ठिताः॥ आपोमयाः सर्वरसाः सर्वमापोमयं जगत्। तस्मादप्सु विमुञ्चमं क्रोधाग्निं द्विजसत्तम॥ अयं तिष्ठतु ते विप्र यदीच्छसि महोदधौ। मन्युजोऽग्निर्दहन्नापो लोका ह्यापोमयाः स्मृताः॥ एवं प्रतिज्ञा सत्येयं तवानघ भविष्यति। न चैवं सामरा लोंका गमिष्यन्ति पराभवम्॥ वसिष्ठ उवाच ततस्तं क्रोधजं तात और्वोऽग्निं वरुणालये। उत्ससर्ज च चैवाप उपयुङ्क्ते महोदधौ॥ महद्धयशिरो भूत्वा यत् तद् वेदविदो विदुः। तमग्निमुद्रिद् वक्त्रात् पिबत्यापो महोदधौ॥ तस्मात् त्वमपि भद्रं ते न लोकान् हन्तुमर्हसि। पराशर पराँल्लोकान् जानज्ञानवतां वर॥ गन्धर्व उवाच एवमुक्तः स विप्रर्षिर्वसिष्ठेन महात्मना। न्ययच्छदात्मनः क्रोधं सर्वलोकपराभवात्॥ ईजे च स महातेजाः सर्ववेदविदां वरः। ऋषी राक्षससत्रेण शाक्तेयोऽथ पराशरः॥ ततो वृद्धांश्च बालांश्च राक्षसान् स महामुनिः। ददाह वितते यज्ञे शक्तेर्वधमनुस्मरन्॥ न हि तं वारयामास वसिष्ठो रक्षसां वधात्। द्वितीयामस्य मा भाक्षं प्रतिज्ञामिति निश्चयात्॥ त्रयाणां पावकानां च सत्रे तस्मिन् महामुनिः। आसीत् पुरस्ताद् दीप्तानां चतुर्थ इव पावकः॥ तेन यज्ञेन शुभ्रेण हूयमानेन शक्तिजः। तद्विदीपितमाकाशं सूर्येणेव धनात्यये॥ तं वसिष्ठादयः सर्वे मुनयस्तत्र मेनिरे। तेजसा दीप्यमानं वै द्वितीयमिव भास्करम्॥ ततः परमदुष्प्रापमन्यैर्ऋषिरुदारधीः। समापिपयिषुः सत्रं तमत्रिः समुपागमत्॥ तथा पुलस्त्यः पुलहः क्रतुश्चैव महाक्रतुः। तत्राजग्मुरमित्रघ्न रक्षसां जीवितेप्सया॥ पुलस्त्यस्तु वधात् तेषां रक्षसां भरतर्षभ। उवाचेदं वचः पार्थ पराशरमरिंदमम्॥ कच्चित् तातापविलं ते कच्चिन्नन्दसि पुत्रक। अजानतामदोषाणां सर्वेषां रक्षसां वधात्॥ प्रजोच्छेदमिमं मह्यं न हि कर्तुं त्वमर्हसि। नैष तात द्विजातीनां धर्मो दृष्टस्तपस्विनाम्॥ शम एव परो धर्मस्तमाचर पराशर। अधर्मिष्ठं वरिष्ठः सन् कुरुषे त्वं पराशर॥ शक्तिं चापि हि धर्मज्ञं नातिक्रान्तुमिहार्हसि। प्रजायाश्च ममोच्छेदं न चैवं कर्तुमर्हसि॥ शापाद्वि शक्तेर्वासिष्ठ तदा तदुपपादितम्। आत्मजेन स दोषेण शक्तिति इतो दिवम्॥ न हि तं राक्षसः कश्चिच्छक्तो भक्षयितुं मुने। आत्मनैवात्मनस्तेन दृष्टो मृत्युस्तदाभवत्॥ निमित्तभूतस्तत्रासीद् विश्वामित्रः पराशर। राजा कल्माषपादश्च दिवमारुह मोदते॥ ये च शक्त्यवराः पुत्रा वसिष्ठस्य महामुने। ते च सर्वे मुदा युक्ता मोदन्ते सहिताः सुरैः॥ सर्वमेतद् वसिष्ठस्य विदितं वै महामुने। रक्षसां च समुच्छेद एष तात तपस्विनाम्॥ निमित्तभूतस्त्वं चात्र क्रतौ वासिष्ठनन्दन। तत् सत्रं मुञ्च भद्रं ते समाप्तमिदमस्तु ते॥ गन्धर्व उवाच एवमुक्तः पुलस्त्येन वसिष्ठेन च धीमता। तदा समापयामास सत्रं शाक्तो महामुनिः॥ सर्वराक्षससत्राय सम्भृतं पावकं तदा। उत्तरे हिमवत्पार्श्वे उत्ससर्ज महावने॥ स तत्राद्यापि रक्षांसि वृक्षानश्मन एव च। भक्षयन् दृश्यते वह्निः सदा पर्वणि पर्वणि॥ अर्जुन उवाच राज्ञा कल्माषपादेन गुरौ ब्रह्मविदां वरे। कारणं किं पुरस्कृत्य भार्या वै संनियांजिता॥ जानता वै परं धर्मं वसिष्ठेन महात्मना। अगम्यागमनं कस्मात् कृतं तेन महर्षिणा॥ अधर्मिष्ठं वसिष्ठेन कृतं चापि पुरा सखे। एतन्मे संशयं सर्वं छेत्तुमर्हसि पृच्छतः॥ गन्धर्व उवाच धनंजय निबोधेदं यन्मां त्वं परिपृच्छसि। वसिष्ठं प्रति दुर्धर्ष तथा मित्रसहं नृपम्॥ कथितं ते मया सर्वं यथा शप्तः स पार्थिवः। शक्तिना भरतश्रेष्ठ वासिष्ठेन महात्मना॥ स तु शापवशं प्राप्तः क्रोधपर्याकुलेक्षणः। निर्जगाम पुराद् राजा सहदारः परंतपः॥ अरण्यं निर्जनं गत्वा सदारः परिचक्रमे। नानामृगगणाकीर्णं नानासत्त्वसमाकुलम्॥ नानागुल्मलताच्छनं नानाद्रुमसमावृतम्। अरण्यं घोरसंनादं शापग्रस्तः परिभ्रमन्॥ स कदाचित् क्षुधाविष्टो मृगयन् भक्ष्यमात्मनः। ददर्श सुपरिक्लिष्टः कस्मिंश्चिन्निर्जने वने।॥ ब्राह्मणं ब्राह्मणीं चैव मिथुनायोपसंगतौ। तौ तं वीक्ष्य सुवित्रस्तावकृतार्थी प्रधावितौ॥ तयोः प्रद्रवतोर्विप्रं जग्राह नृपतिर्बलात्। दृष्ट्वा गृहीतं भर्तारमथ ब्राह्मण्यभाषत॥ शृणु राजन् मम वचो यत् त्वा वक्ष्यामि सुव्रत। आदित्यवंशप्रभवस्त्वं हि लोके परिश्रुतः॥ अप्रमत्तः स्थितो धर्म गुरुशुश्रूषणे रतः। शापोपहत दुर्धर्ष न पापं कर्तुमर्हसि॥ ऋतुकाले तु सम्प्राप्ते भर्तृव्यसनकर्शिता। अकृतार्था ह्यहं भर्ता प्रसवार्थं समागता॥ प्रसीद नृपतिश्रेष्ठ भर्तायं मे विसृज्यताम्। एवं विक्रोशमानायास्तस्यास्तु स नृशंसवत्॥ भर्तारं भक्षयामास व्याघ्रो मृगमिवेप्सितम्। तस्याः क्रोधाभिभूताया यान्यश्रूण्यपतन भुवि॥ सोऽग्निः समभवद् दीप्तस्तं च देशं व्यदीपयत्। ततः सा शोकसंतप्ता भर्तृव्यसनकर्शिता॥ कल्माषपादं राजर्षिमशपद् ब्राह्मणी रुषा। यस्मान्ममाकृतार्थायास्त्वया क्षुद्र नृशंसवत्॥ प्रेक्षन्त्या भक्षितो मेऽद्य प्रियो भर्ता महायशाः। तस्मात् त्वमपि दुर्बुद्धे मच्छापपरिविक्षतः॥ पत्नीमृतावनुप्राप्य सद्यस्त्यक्ष्यसि जीवितम्। यस्य चर्षेर्वसिष्ठस्य त्वया पुत्रा विनाशिताः॥ तेन संगम्य ते भार्या तनयं जनविष्यति। स ते वंशकरः पुत्रो भविष्यति नृपाधम॥ एवं शप्त्वातु राजानं सा तमाङ्गिरसी शुभा। तस्यैव संनिधौ दीप्तं प्रविवेश हुताशनम्॥ वसिष्ठश्च महाभागः सर्वमेतदवैक्षत। ज्ञानयोगेन महता तपसा च परंतप॥ मुक्तशापश्च राजर्षिः कालेन महता ततः। ऋतुकालेऽभिपतितो मदयन्त्या निवारितः॥ न हि सस्मार स नृपस्तं शापं काममोहितः। देव्याः सोऽथ वचः श्रुत्वा सम्भ्रान्तो नृपसत्तमः॥ तं शापमनुसंस्मृत्य पर्यतष्यद् भृशं तदा। एतस्मात् कारणाद् राजा वसिष्ठं संन्ययोजयत्। स्वदारेषु नरश्रेष्ठ शापदोषसमन्वितः॥ अर्जुन उवाच अस्माकमनुरूपो वै यः स्याद् गन्धर्व वेदवित्। पुरोहितस्तमाचक्ष्व सर्वं हि विदितं तव॥ गन्धर्व उवाच यवीयान् देवलस्यैष वने भ्राता तपस्यति। धौम्य उत्कोचके तीर्थे वृणुध्वं यदीच्छथ॥ वैशम्पायन उवाच ततोऽर्जुनोऽस्त्रमाग्नेयं प्रददौ तद् यथाविधि। गन्धर्वाय तदा प्रीतो वचनं चेदमब्रवीत्॥ त्वय्येव तावत् तिष्ठन्तु हया गन्धर्वसत्तम। कार्यकाले ग्रहीष्यामः स्वस्ति तेऽस्त्विति चाब्रवीत्।।४। तेऽन्योन्यमभिसम्पूज्य गन्धर्वः पाण्डवाश्च ह। रम्याद् भागीरथीतीराद् यथाकामं प्रतस्थिरे॥ तत उत्कोचकं तीर्थं गत्वा धौम्याश्रमं तु ते। तं वत्रुः पाण्डवा धौम्यं पौरोहित्याय भारत॥ तान् धौम्यः प्रतिजग्राह सर्ववेदविदां वरः। वन्येन फलमूलेन पौरोहित्येन चैव ह॥ ते समाशंसिरे लब्धां श्रियं राज्यं च पाण्डवाः। ब्राह्मणं तं पुरस्कृत्य पाञ्चालीं च स्वयंवरे॥ पुरोहितेन तेनाथ गुरुणा संगतास्तदा। नाथवन्तमिवात्मानं मेनिरे भरतर्षभाः॥ स हि वेदार्थतत्त्वज्ञस्तेषां गुरुरुदारधीः। तेन धर्मविदा पार्था याज्या धर्मविदः कृताः॥ वीरांस्तुसहितान् मेने प्राप्तराज्यान् स्वधर्मतः। बुद्धिवीर्यबलोत्साहैर्युक्तान् देवानिव द्विजः॥ कृतस्वस्त्ययनास्तेन ततस्ते मनुजाधिपाः। मेनिरे सहिता गन्तुं पाञ्चाल्यास्तं स्वयंवरम्॥ वैशम्पायन उवाच ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः। प्रययुर्दोपदी द्रष्टुं तं च देशं महोत्सवम्॥ ते प्रयाता नरव्याघ्राः सह मात्रा परंतपाः। ब्राह्मणान् ददृशुर्मार्गे गच्छतः संगतान् बहून्॥ त ऊचुर्ब्राह्मणा राजन् पाण्डवान् ब्रह्मचारिणः। क्व भवन्तो गमिष्यन्ति कुतो वाभ्यागता इह॥ युधिष्ठिर उवाच आगतानेकचक्रायाः सोदर्यानेकचारिणः। भवन्तो वै विजानन्तु सह मात्रा द्विजर्षभाः॥ ब्राह्मणा ऊचुः गच्छताद्यैव पञ्चालान् दुपदस्य निवेशने। स्वयंवरो महांस्तत्र भविता सुमहाधनः॥ एकसार्थं प्रयाताः स्म वयं तत्रैव गामिनः। तत्र ह्यद्भुतसंकाशो भविता सुमहोत्सवः॥ यज्ञसेनस्य दुहिता द्रुपदस्य महात्मनः। वेदीमध्यात् समुत्पन्ना पद्मपत्रनिभेक्षणा॥ दर्शनीयानवद्याङ्गी सुकुमारी मनस्विनी। धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः॥ यो जात: कवची खड्गी सशरः सशरासनः। सुसमिद्धे महाबाहुः पावके पावकोपमः॥ स्वसा तस्यानवद्याङ्गी द्रौपदी तनुमध्यमा। नीलोत्पलसमो गन्धो यस्याः क्रोशात् प्रवाति वै॥ यज्ञसेनस्य च सुतां स्वयंवरकृतक्षणाम्। गच्छामो वै वयं द्रष्टुं तं च दिव्यं महोत्सवम्॥ राजानो राजपुत्राश्च यज्वानो भूरिदक्षिणाः। स्वाध्यायवन्तः शुचयो महात्मानो यतव्रताः॥ तरुणा दर्शनीयाश्च नानादेशसमागताः। महारथा कृतास्त्राश्च समुपैष्यन्ति भूमिपाः॥ ते तत्र विविधान् दायान् विजयार्थं नरेश्वराः। प्रदास्यन्ति धनं गाश्च भक्ष्यं भोज्यं च सर्वशः॥ प्रतिगृह्य च तत् सर्वं दृष्ट्वा चैव स्वयंवरम्। अनुभूयोत्सवं चैव गमिष्यामो यथेप्सितम्॥ नटा वैतालिकास्तत्र नर्तकाः सूतमागधाः। नियोधकाच देशेभ्यः समेष्यन्ति महावलाः॥ एवं कौतूहलं कृत्वा दृष्ट्वा च प्रतिगृह्य च। सहास्माभिर्महात्मानः पुनः प्रतिनिवर्व्यथ॥ दर्शनीयांश्च वः सर्वान् देवरूपानवस्थितान्। समीक्ष्य कृष्णा वरयेत् संगत्यैकतमं वरम्॥ अयं भ्राता तव श्रीमान् दर्शनीयो महाभुजः। नियुज्यमानो विजये संगत्या द्रविणं बहु। आहरिष्यन्नयं नूनं प्रीतिं वो वर्धयिष्यति॥ युधिष्ठिर उवाच परमं भो गमिष्यामो द्रष्टुं चैव महोत्सवम्। भवद्भिः सहिताः सर्वे कन्यायास्तं स्वयंवरम्॥ वैशम्पायन उवाच एवमुक्ताः प्रयातास्ते पाण्डवा जनमेजय। राज्ञा दक्षिणपञ्चालान् दुपदेनाभिरक्षितान्॥ ततस्ते सुमहात्मानं शुद्धात्मानमकल्मषम्। ददृशुः पाण्डवा वीरा मुनि द्वैपायनं तदा॥ तस्मै यथावत् सत्कारं कृत्वा तेन च सत्कृताः। कथान्ते चाभ्यनुज्ञाताः प्रययुर्दुपदक्षयम्॥ पश्यन्तो रमणीयानि वनानि च सरांसि च। तत्र तत्र वसन्तश्च शनैर्जग्मुर्महारथाः॥ स्वाध्यायवन्तः शुचयो मधुराः प्रियवादिनः। आनूपूर्येण सम्प्राप्ताः पञ्चालान् पाण्डुनन्दनाः॥ ते तु दृष्ट्वा पुरं तच्च स्कन्धावारं च पाण्डवाः। कुम्भकारस्य शालायां निवासं चक्रिरे तदा॥ तत्र भैक्षं समाजहुर्ब्राह्मणी वृत्तिमाश्रिताः। तान् सम्प्राप्तांस्तथा वीराञ्जज्ञिरे न नराः क्वचित्॥ यज्ञसेनस्य कामस्तु पाण्डवाय किरीटिने। कृष्णां दद्यामिति सदा न चैतद् विवृणोति सः॥ सोऽन्वेषमाणः कौन्तेयं पाञ्चाल्यो जनमेजय। दृढं धनुरनानम्यं कारयामास भारत॥ यन्त्रं वैहायसं चापि कारयामास कृत्रिमम्। तेन यन्त्रेण समितं राजा लक्ष्यं चकार सः॥ दुपद उवाच इदं सज्यं धनुः कृत्वा सज्जैरेभिश्च सायकैः। अतीत्य लक्ष्यं यो वेद्धा स लब्धा मत्सुतामिति॥ वैशम्पायन उवाच इति स दुपदो राजा स्वयंवरमगोषयत्। तच्छ्रुत्वा पार्थिवाः सर्वे समीयुस्तत्र भारत॥ ऋषयश्च महात्मानः स्वयंवरदिदृक्षवः। दुर्योधनपुरोगाश्च सकर्णाः कुरवो नृप।॥ ब्राह्मणाश्च महाभागा देशेभ्यः समुपागमन्। ततोऽर्चिता राजगणा द्रुपदेन महात्मना॥ उपोपविष्टा मञ्चेषु द्रष्टुकामाः स्वयंवरम्। ततः पौरजनाः सर्वे सागरोद्भूतनि:स्वनाः॥ शिशुमारशिरः प्राप्य न्यविशंस्ते स्म पार्थिवाः। प्रागुत्तरेण नगराद् भूमिभागे समे शुभे। समाजवाटः शुशुभे भवनैः सर्वतो वृतः॥ प्राकारपरिस्त्रोपेतो द्वारतोरणमण्डितः। वितानेन विचित्रेण सर्वतः समलंकृतः॥ तूर्योघशतसंकीर्णः परार्ध्यागुरुधूपितः। चन्दनोदकसिक्तश्च माल्यदामोपशोभितः॥ कैलासशिखरप्रख्यैर्नभस्तलविलेखिभिः। सर्वतः संवृतः शुभैः प्रासादैः सुकृतोच्छ्यैः॥ सुवर्णजालसंवीतैर्मणिकुट्टिमभूषणैः। सुखारोहणसोपानैर्महासनपरिच्छदैः॥ स्रग्दामसमवच्छन्नैरगुरूत्तमवासितैः। हंसांशुवर्णैर्बहुभिरायोजनसुगन्धिभिः॥ असम्बाधशतद्वारैः शयनासनशोभितैः। बहुधा तु पिनद्धाङ्गैर्हिमवच्छिखरैरिव॥ तत्र नानाप्रकारेषु विमानेषु स्वलंकृताः। स्पर्धमानास्तदान्योन्यं निषेदुः सर्वपार्थिवाः॥ तत्रोपविष्टान् ददृशुर्महासत्त्वपराक्रमान्। राजसिंहान् महाभागान् कृष्णागुरुविभूषितान्॥ महाप्रसादान् ब्रह्मण्यान् स्वराष्ट्रपरिरक्षिणः। प्रियान् सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः॥ मञ्चेषु च पराध्र्येषु पौरजानपदा जनाः। कृष्णादर्शनसिद्ध्यर्थं सर्वतः समुपाविशन्॥ ब्राह्मणैस्ते च सहिताः पाण्डवाः समुपाविशन्। ऋद्धिं पाञ्चालराजस्य पश्यन्तस्तामनुत्तमाम्॥ ततः समाजो ववृधे स राजन् दिवसान् बहून्। रत्नप्रदानबहुलः शोभितो नटनर्तकैः॥ वर्तमाने समाजे तु रमणीयेऽछि घोडशे। आप्लुताङ्गी सुवसना सर्वाभरणभूषिता॥ मालां च समुपादाय काञ्चनीं समलंकृताम्। अवतीर्णा ततो रङ्गं द्रौपदी भरतर्षभ॥ पुरोहितः सोमकानां मन्त्रविद् ब्राह्मणः शुचिः। परिस्तीर्य जुहावग्निमाज्येन विधिवत् तदा॥ संतर्पयित्वा ज्वलनं ब्राह्मणान् स्वस्त वाच्य च। वारयामास सर्वाणि वादित्राणि समन्ततः॥ निःशब्दे तु कृते तस्मिन् धृष्टद्युम्नो विशाम्पते। कृष्णामादाय विधिवन्मेघदुन्दुभिनिःस्वनः॥ मे समेताः। रङ्गमध्ये गतस्तत्र मेघगम्भीरया गिरा। वाक्यमुच्चैर्जगादेदं श्लक्ष्णमर्थवदुत्तमम्॥ इदं धनुर्लक्ष्यमिमे च बाणाः शृण्वन्तु भूपतयः छिद्रेण यन्त्रस्य समर्पयध्वं शरैः शितैोमचरैर्दशाधैः॥ एतन्महत् कर्म करोति यो वै कुलेन रूपेणं बलेन युक्तः। तस्याद्य भार्या भगिनी ममेयं कृष्णा भवित्री न मृषा ब्रवीमि॥ तानेवमुक्त्वा दुपदस्य पुत्रः पश्चादिदं तां भगिनीमुवाच। नाम्ना च गोत्रेण च कर्मणा च संकीर्तयन् भूमिपतीन् समेतान्॥ धृष्टद्युम्न उवाच दुर्योधनो दुर्विषहो दुर्मुखो दुष्प्रधर्षणः। विविंशतिर्विकर्णश्च सहो दुःशासनस्तथा॥ युयुत्सुर्वायुवेगश्च भीमवेगरवस्तथा। उग्रायुधो बलाकी च करकायुर्विरोचनः॥ कुण्डकश्चित्रसेनश्च सुवर्चाः कनकध्वजः। नन्दको बाहुशाली च तुहुण्डो विकटस्तथा॥ एते चान्ये च बहवो धार्तराष्ट्रा महाबलाः। कर्णेन सहिता वीरास्त्वदर्थं समुपागताः॥ असंख्याता महात्मानः पार्थिवाः क्षत्रियर्षभाः। शकुनिः सौबलश्चैव वृषकोऽथ बृहद्बलः॥ एते गान्धारराजस्य सुताः सर्वे समागताः। अश्वत्थामा च भोजश्च सर्वशस्त्रभृतां वरौ॥ समवेतौ महात्मानौ त्वदर्थे समलंकृतौ। बृहन्तो मणिमांश्चैव दण्डधारश्च पार्थिवः॥ सहदेवजयत्सेनौ मेघसंधिश्च पार्थिवः। विराटः सह पुत्राभ्यां शड्वेनैवोत्तरेण च॥ वार्द्धक्षेमिः सुशर्मा च सेनाबिन्दुश्च पार्थिवः। सुकेतुः सह पुत्रेण सुनाम्ना च सुवर्चसा॥ सुचित्रः सुकुमारश्च वृकः सत्यधृतिस्तथा। सूर्यध्वजो रोचमानो नीलचित्रायुधस्तथा॥ अंशुमांश्चेकितानश्च श्रेणिमांश्च महाबलः। समुद्रसेनपुत्रश्च चन्द्रसेनः प्रतापवान्॥ जलसंधः पितापुत्रौ विदण्डो दण्ड एव च। पौण्ड्रको वासुदेवश्च भगदत्तश्च वीर्यवान्॥ कालिङ्गस्ताम्रलिप्तश्च पत्तनाधिपतिस्तथा। मद्रराजस्तथा शल्यः सहपुत्रो महारथः॥ रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च। कौरव्यः सोमदत्तश्च पुत्राश्चास्य महारथाः॥ समवेतास्त्रयः शूरा भूरिभूरिश्रवाः शलः। सुदक्षिणश्च काम्बोजो दृढधन्वा च बृहद्बलः सुषेणश्च शिबिरौशीनरस्तथा। पटच्चरनिहन्ता च कारूषाधिपतिस्तथा॥ संकर्षणो वासुदेवो रौस्मिणेयश्च वीर्यवान्। साम्बश्च चारुदेष्णश्च प्राधुम्निः सगदस्तथा॥ पौरवः॥ अक्रूरः सात्यकिश्चैव उद्धवश्च महामतिः। कृतकर्मा च हार्दिक्यः पृथुर्विपृथुरेव च॥ विदूरथश्च करुश्च शरुश्च सगवेषणः। आशावहोऽनिरुद्धश्च शमीकः सारिमेजयः॥ वीरो वातपतिश्चैव झिल्लीपिण्डारकस्तथा। उशीनरश्च विक्रान्तो वृष्णयस्ते प्रकीर्तिताः॥ भागीरथो बृहत्क्षत्रः सैन्धवश्च जयद्रथः। बृहद्रथो बाह्निकश्च श्रुतायुश्च महारथः॥ उलूकः कैतवो राजा चित्राङ्गदशुभाङ्गदौ। वत्सराजश्च मतिमान् कोसलाधिपतिस्तथा॥ शिशुपालश्च विक्रान्तो जरासंधस्तथैव च। एते चान्ये च पहवो नानाजनपदेश्वराः॥ त्वदर्थमागता भद्रे क्षत्रियः प्रथिता भुवि। एते भेत्स्यन्ति विक्रान्तास्त्वदर्थे लक्ष्यमुत्तमम्। विध्येत य इदं लक्ष्यं वरयेथाः शुभेऽद्य तम्॥ वैशम्पायन उवाच तेऽलंकृताः कुण्डलिनो युवानः परस्परं स्पर्धमाना नरेन्द्राः। अस्त्रं बलं चात्मनि मन्यमानाः सर्वे समुत्पेतुरुदायुधास्ते॥ रूपेण वीर्येण कुलेन चैव शीलेन वित्तेन च यौवनेन। समिद्धदर्पा मदवेगभिन्ना मत्ता यथा हैमवता गजेन्द्राः॥ परस्परं स्पर्धया प्रेक्षमाणाः संकल्पजेनाभिपरिप्लुताङ्गाः। कृष्णा ममैवेत्यभिभाषमाणा नृपासनेभ्यः सहसोदतिष्ठन्॥ ते क्षत्रिया रङ्गगताः समेता जिगीपमाणा दुपदात्मजां ताम्। मुमां यथा देवगणाः समेताः॥ कन्दर्पबाणाभिनिपीडिताङ्गाः कृष्णागतैस्ते हृदयैर्नरेन्द्राः। धनेश्वरं च॥ रङ्गावतीर्णा दुपदात्मजार्थं द्वेषं प्रचक्रुः सुहृदोऽपि तत्र॥ अथाययुर्देवगणा विमानै रुद्रादित्या वसवोऽथाश्विनौ च। साध्याश्च सर्वे मरुतस्तथैव यमं पुरस्कृत्य दैत्याः सुपर्णाश्च महोरगाश्च देवर्षयो गुह्यकाश्चारणाश्च। विश्वावसुर्नारदपर्वतौ च गन्धर्वमुख्याः सहसाप्सरोभिः॥ हलायुधस्तत्र जनार्दनश्च वृष्ण्यन्धकाश्चैव यथाप्रधानम्। प्रेक्षां स्म चक्रुर्यदुपुङ्गवास्ते स्थिताश्च कृष्णस्य मते महान्तः॥ दृष्ट्वा तु तान् मत्तगजेन्द्ररूपान् पञ्चाभिपद्मानिव वारणेन्द्रान्। भस्मावृताङ्गानिव हव्यवाहान् कृष्णः प्रदध्यौ यदुवीरमुख्यः॥ शशंस रामाय युधिष्ठिरं स भीमं सजिष्णुं च यमौ च वीरौ। शनैः शनैस्तान् प्रसमीक्ष्य रामो जनार्दनं प्रीतमना ददर्श ह॥ अन्ये तु वीरा नृपपुत्रपौत्राः कृष्णागतैर्नेत्रमन:स्वभावैः। व्यायच्छमाना ददृशुर्न तान् वै संदष्टदन्तच्छदताम्रनेत्राः॥ तथैव पार्थाः पृथुवाहवस्ते वीरौ यमौ चैव महानुभावौ। तां द्रौपदी प्रेक्ष्य तदा स्म सर्वे कन्दर्पबाणाभिहता बभूवुः॥ देवर्षिगन्धर्वसमाकुलं तत् सुपर्णनागासुरसिद्धजुष्टम्। दिव्येन गन्धेन समाकुलं च दिव्यैश्च पुष्पैरवकीर्यमाणम्॥ महास्वनैर्दुन्दुभिनादितैश बभूव तत् संकुलमन्तरिक्षम्। विमानसम्बाधमभूत् समन्तात् सवेणुवीणापणवानुनादम्॥ ततस्तु ते राजगणाः क्रमेण कृष्णानिमित्तं कृतविक्रमाश्च। द्रौणायनिक्राथसुनीथवक्राः॥ कलिङ्गवङ्गाधिपपाण्ड्यपौण्ड्रा विदेहराजो यवनाधिपश्च। अन्ये च नानानृपपुत्रपौत्रा राष्ट्राधिपाः परूजपत्रनेत्राः॥ विभूषिताङ्गाः पृथुवाहवस्ते। अनुक्रम विक्रमसत्त्वयुक्ता बलेन वीर्येण च नर्दमानाः॥ तत् कार्मुकं संहननोपपन्न सज्यं न शेकुर्मनसापि कर्तुम्। ते विक्रमन्तः स्फुरता दृढेन विक्षिप्यमाणा धनुषा नरेन्द्राः॥ विचेष्टमाना धरणीतलस्था यथाबलं शैक्ष्यगुणक्रमाश्च। गतौजसः सस्तकिरीटहारा विनि:स्वसन्तः शमयाम्बभूवुः॥ हाहाकृतं तद् धनुषा दृढेन विस्रस्तहाराङ्गदचक्रबालम्। कृष्णानिमित्तं विनिवृत्तकाम राज्ञां तदा मण्डलमार्तमासीत्॥ सर्वान् नृपांस्तान् प्रसमीक्ष्य को धनुर्धराणां प्रवरो जगाम। उद्धृत्य तूर्णं धनुरुद्यतं तत् सज्यं चकाराशु युयोज बाणान्॥ दृष्ट्वा सूतं मेनिरे पाण्डुपुत्रा भित्त्वा नीतं लक्ष्यवरं धरायाम्। धनुर्धरा रागकृतप्रतिज्ञमत्यग्निसोमार्कमथार्कपुत्रम्॥ दृष्ट्वा तु तं द्रौपदी वाक्यमुच्चैजगाद नाहं वरयामि सूतम्। सामर्षहासं प्रसमीक्ष्य सूर्यं तत्याज कर्णः स्फुरितं धनुस्तत्॥ एवं तेषु निवृत्तेषु क्षत्रियेषु समन्वतः। चेदीनामधिपो वीरो बलवानन्तकोपमः॥ दमघोषसुतो धीरः शिशुपालो महामतिः। धनुरादायमानस्तु जानुभ्यामगमन्महीम्॥ ततो राजा महावीर्यो जरासंधो महाबलः। धनुषोऽभ्याशमागत्य तस्थौ गिरिरिवाचलः॥ धनुषा पीड्यमानस्तु जानुभ्यामगमन्महीम्। तत उत्थाय राजा स स्वराष्ट्राण्यभिजग्मिवान्॥ ततः शल्यो महावीरो मद्रराजो महाबलः। तदप्यारोप्यमाणस्तु जानुभ्यामगमन्महीम्॥ तस्मिंस्तु सम्भ्रान्तजने समाजे विक्षिप्तवादेषु जनाधिपेषु। कुन्तीसुतो जिष्णुरियेष वर्तुं सज्यं धनुस्तत् सरं प्रवीरः॥ वैशम्पायन उवाच यदा निवृत्ता राजानो धनुषः सज्यकर्मणः। अथोदतिष्ठद् विप्राणां मध्याज्जिष्णुरुदारधीः॥ उदक्रोशन् विप्रमुख्या विधुन्वन्तोऽजिनानि च। दृष्ट्वा सम्प्रस्थितं पार्थमिन्द्रकेतुसमप्रभम्॥ केचिदासन् विमनसः केचिदासन् मुदान्विताः। आहुः परस्परं केचिन्निपुणा बुद्धिजीविनः॥ यत् कर्णशल्यप्रमुखैः क्षत्रियैर्लोकविश्रुतैः। नानतं बलवदभिर्हि धनुर्वेदपरायणैः॥ तत् कथं त्वकृतास्त्रेण प्राणतो दुर्बलीयसा। बटुमात्रेण शक्यं हि सज्यं कर्तुं धनुर्द्विजाः॥ अवहास्या भविष्यन्ति ब्राह्मणाः सर्वराजसु। कर्मण्यस्मिन्नसंसिद्धे चापलादपरीक्षिते॥ योष दर्पाद्धर्षाद् वाप्यथ ब्राह्मणचापलात्। प्रस्थितो धनुरायन्तुं वार्यतां साधु मा गमत्॥ नावहास्या भविष्यामो न च लाघवमास्थिताः। न च विद्विष्टतां लोके गमिष्यामो महीक्षिताम्॥ केचिदाहुर्युवा श्रीमान् नागराजकरोपमः। पीनस्कन्धोरुबाहुश्च धैर्येण हिमवानिव॥ सिंहखेलगतिः श्रीमान् मत्तनागेन्द्रविक्रमः। सम्भाव्यमस्मिन् कर्मेदमुत्साहाच्चानुमीयते॥ शक्तिरस्य महोत्साहा न ह्यशक्तः स्वयं व्रजेत्। न च तद्विद्यते किंचित् कर्म लोकेषु यद्भवेत्॥ ब्राह्मणानामसाध्यं च नृषु संस्थानचारिषु। अब्भक्षा वायुभक्षाश्च फलाहारा दृढव्रताः॥ दुर्बला अपि विप्रा हि बलीयांस: स्वतेजसा। ब्राह्मणो नावमन्तव्यः सदसद् वा समाचरन्॥ सुखं दुःखं महद्भस्वं कर्म यत् समुपागतम्। जामदग्न्येन रामेण निर्जिताः क्षत्रिया युधि॥ पीतः समुद्रोऽगस्त्येन ह्यगाधो ब्रह्मतेजसा। तस्माद् ब्रुवन्तु सर्वेऽत्र बटुरेष धनुर्महान्॥ आरोपयतु शीघ्रं वै तथेत्यूचुर्द्विजर्षभाः। एवं तेषां विलपतां विप्राणां विविधा गिरः॥ अर्जुनो धनुषोऽभ्याशे तस्थौ गिरिरिवाचलः। स तद् धनुः परिक्रम्य प्रदक्षिणमथाकरोत्॥ प्रणम्य शिरसा देवमीशानं वरदं प्रभुम्। कृष्णं च मनसा कृत्वा जगृहे चार्जुनो धनुः॥ यत् पार्थिवै रुक्मसुनीथवरैः राधेयदुर्योधनशल्यशाल्वैः। तदा धनुर्वेदपरैर्नृसिंहैः कृतं न सज्यं महतोऽपि यत्नात्॥ स्तदैन्द्रिरिन्द्रावरजप्रभावः। सज्यं च चक्रे निमिषान्तरेण शरांश्च जग्राह दशार्धसंख्यान्॥ विव्याध लक्ष्यं निपपात तच्च छिद्रेण भूमौ सहसातिविद्धम्। ततोऽन्तरिक्षे च बभूव नादः समाजमध्ये च महान् निनादः॥ पुष्पाणि दिव्यानि ववर्ष देवः पार्थस्य मूर्ध्नि द्विषतां निहन्तुः॥ चैलानि विव्यधुस्तत्र ब्राह्मणाश्च सहस्रशः। विलक्षितास्ततश्चक्रुर्हाहाकारांश्च सर्वशः। न्यपतंश्चात्र नभसः समन्तात् पुष्पवृष्टयः॥ शताङ्गानि च तूर्याणि वादकाः समवादयन्। सूतमागधसङ्घाश्चाप्यस्तुवंस्तत्र सुस्वराः॥ तं दृष्ट्वा दुपदः प्रीतो बभूव रिपुसूदनः। सह सैन्यैश्च पार्थस्य साहाय्यार्थमियेष सः॥ तस्मिंस्तु शब्दे महति प्रवृद्धे युधिष्ठिरो धर्मभृतां वरिष्ठः। आवासमेवोपजगाम शीघ्र सार्धं यमाभ्यां पुरुषोत्तमाभ्याम्॥ विद्धं तु लक्ष्यं प्रसमीक्ष्य कृष्णा पार्थं च शक्रप्रतिमं निरीक्ष्य। आदाय शुक्लं वरमाल्यदाम जगाम कुन्तीसुतमुत्स्मयन्ती॥ स तामुपादाय विजित्य रङ्गे द्विजातिभिस्तैरभिपूज्यमानः। रङ्गानिरक्रामदचिन्त्यकर्मा पत्न्या तया चाप्यनुगम्यमानः॥ वैशम्पायन उवाच तस्मै दित्सति कन्यां तु ब्राह्मणाय तदा नृपे। कोप आसीन्महीपानामालोक्यान्योन्यमन्तिकात्॥ अस्मानयमतिक्रम्य तृणीकृत्य च संगतान्। दातुमिच्छति विप्राय द्रौपदी योषितां वराम्॥ अवरोप्येह वृक्षं तु फलकाले निपात्यते। निहन्मैनं दुरात्मानं योऽयमस्मान् न मन्यते॥ न ह्यर्हत्येष सम्मानं नापि वृद्धक्रमं गुणैः। हन्मैनं सह पुत्रेण दुराचारं नृपद्विषम्॥ अयं हि सर्वानाहूय सत्कृत्य च नराधिपान्। गुणवद् भोजयित्वान्नं ततः पश्चान्न मन्यते॥ अस्मिन् राजसमावाये देवानामिव संनये। किमयं सदृशं कञ्चित्रपतिं नैव दृष्टवान्॥ न च विप्रेष्वधीकारो विद्यते वरणं प्रति। स्वयंवरः क्षत्रियाणामितीयं प्रथिता श्रुतिः॥ अथवा यदि कन्येयं न च कञ्चिद् बुभूपति। अग्नावेनां परिक्षिप्य याम राष्ट्राणि पार्थिवाः॥ ब्राह्मणो यदि चापल्याल्लोभाद् वा कृतवानिदम्। विप्रियं पार्थिवेन्द्राणां नैष बध्यः कथंचन॥ ब्राह्मणार्थं हि नो राज्यं जीवितं हि वसूनि च। पुत्रपौत्रं च यच्चान्यदस्माकं विद्यते धनम्॥ अवमानभयाच्चैव स्वधर्मस्य च रक्षणात्। स्वयंवराणामन्येषां मा भूदेवंविधा गतिः॥ इत्युक्त्वा राजशार्दूला हृष्टाः परिघवाहवः। द्रुपदं तु जिघांसन्तः सायुधाः समुपाद्रवन्॥ तान् गृहीतशरावापान् क्रुद्धानापततो बहून्। द्रुपदो वीक्ष्य संत्रासाद् ब्राह्मणाञ्छरणं गतः॥ वेगेनापततस्तांस्तु प्रभिन्नानिव वारणान्। पाण्डुपुत्रौ महेष्वासौ प्रतियातावरिंदमौ॥ ततः समुत्पेतुरुदायुधास्ते महीक्षितो वद्धगोधामुलित्राः। वमर्षयन्तोऽर्जुनभीमसेनौ।॥ ततस्तु भीमोऽद्भुतभीमकर्मा महाबलो वज्रसमानसारः। उत्पाट्य दोर्थ्यां दुममेकबीरो निष्पत्रयामास यथा गजेन्द्रः॥ तं वृक्षमादाय रिपुप्रमाथी दण्डीव दण्डं पितृराज उग्रम्। तस्थौ समीपे पुरुषर्षभस्य पार्थस्य पार्थः पृथुदीर्घबाहुः॥ जिष्णुः स हि भ्रातुरचिन्त्यकर्मा। विसिष्मिये चापि भयं विहाय तस्थौ धनुर्गृह्य महेन्द्रकर्मा॥ जिष्णोः सहभ्रातुरचिन्त्यकर्मा। दामोदरो भ्रातरमुग्रवीर्य हलायुधं वाक्यमिदं बभाषे॥ य एष सिंहर्षभखेलगामी महद्धनुः कर्षति तालमात्रम्। एषोऽर्जुनो नात्र विचार्यमस्ति यद्यस्मि संकर्षण वासुदेवः॥ यस्त्वेष वृक्षं तरसावभज्य राज्ञां निकारे सहसा प्रवृत्तः। वृकोदरान्नान्य इहैतदद्य कर्तुं समर्थः समरे पृथिव्याम्॥ योऽसौ स्तनुर्महासिंहगतिविनीतः। गौरः प्रलम्बोज्ज्वलचारुघोणो विनिःसृतः सोऽच्युत धर्मपुत्रः॥ यौ तौ कुमाराविव कार्तिकेयौ द्वावश्विनेयाविति मे वितर्कः। न्मया श्रुताः पाण्डुसुताः पृथा च॥ तमब्रवीन्निर्जलतोयदाभो हलायुधोऽनन्तरजं प्रतीतः। प्रीतोऽस्मि दृष्ट्वा हि पितृष्वसारं पृथां विमुक्तां सह कौरवावयैः॥ वैशम्पायन उवाच गत्वा तु तां भार्गवकर्मशाला पार्थो पृथां प्राप्य महानुभावौ। तां याज्ञसेनी परमप्रतीतौ भिक्षेत्यथावेदयतां नरावयौ॥ कुटीगता सा त्वनवेक्ष्य पुत्रौ प्रोवाच भुङ्क्तेति समेत्य सर्वे। पश्चाच्च कुन्ती प्रसमीक्ष्य कृष्णां कष्टं मया भाषितमित्युवाच॥ साधर्मभीता परिचन्तयन्ती तां याज्ञसेनी परमप्रतीताम्। पाणौ गृहीत्वोपजगाम कुन्ती युधिष्ठिरे वाक्यमुवाच चेदम्॥ कुन्त्युवाच इयं तु कन्या दुपदस्य राज्ञः तवानुजाभ्यां मयि संनिविष्टा। यथोचितं पुत्र मयापि चोक्तं समेत्य भुङ्क्तेति नृप प्रमादात्॥ मया कथं नानृतमुक्तमद्य भवेत् कुरूणामृषभ ब्रवीहि। पाञ्चालराजस्य सुतामधर्मो न चोपवर्तेत न विभ्रमेच्च॥ वैशम्पायन उवाच स एवमुक्तो मतिमान् नृवीरो मात्रा मुहूर्तं तु विचिन्त्य राजा। कुन्ती समाश्वास्य कुरुप्रवीरो धनंजयं वाक्यमिदं बभाषे॥ फाल्गुन याज्ञसेनी त्वयैव शोभिष्यति राजपुत्री। त्वया जिता प्रज्वाल्यतामग्निरमित्रसाह गृहाण पाणिं विधिवत् त्वमस्या:॥ अर्जुन उवाच मा मां नरेन्द्र त्वमधर्मभाज कृथा न धर्मोऽयमशिष्टदृष्टः। भवान् निवेश्यः प्रथमं ततोऽयं भीमो महाबाहुरचिन्त्यकर्मा॥ अहं ततो नकुलोऽनन्तरं मे पश्चादयं सहदेवस्तरस्वी। नियं च कन्या भवतो नियोज्याः॥ एवं गते यत् करणीयमत्र धर्म्यं यशस्यं कुरु तद् विचिन्त्य। पाञ्चालराजस्य हितं च यत् स्यात् प्रशाधि सर्वे स्म वशे स्थितास्ते॥ वैशम्पायन उवाच जिष्णोर्वचनमाज्ञाय भक्तिस्नेहसमन्वितम्। दृष्टिं निवेशयामासुः पाञ्चाल्यां पाण्डुनन्दनाः॥ दृष्ट्वा ते तत्र पश्यन्तीं सर्वे कृष्णां यशस्विनीम्। सप्रेक्ष्यान्योन्यमासीना हृदयैस्तामधारयन्॥ तेषां तु द्रौपदी दृष्ट्वा सर्वेषामितौजसाम्। सम्प्रमथ्येन्द्रियग्रामं प्रादुरासीन्मनोभवः॥ काम्यं हि रूपं पाञ्चाल्या विधात्रा विहितं स्वयम्। बभूवाधिकमन्याभ्यः सर्वभूतमनोहरम्॥ तेषामाकारभावज्ञः कुन्तीपुत्रो युधिष्ठिरः। द्वैपायनवचः कृत्स्नं सस्मार मनुजर्षभः॥ अब्रवीत सहितान् भ्रातॄन् मिथोभेदभयानृपः। सर्वेषां द्रौपदी भार्या भविष्यति हि नः शुभा॥ वैशम्पायन उवाच भ्रातुर्वचस्तत् प्रसमीक्ष्य सर्वे ज्येष्ठम्य पाण्डोस्तनयास्तदानीम्। तमेवार्थं ध्यायमाना मनोभिः। सर्वे च ते तस्थुरदीनसत्त्वाः॥ नाशंसमानः सहरौहिणेयः। जगाम तां भार्गवकर्मशाला यत्रासते ते पुरुषप्रवीराः॥ तत्रोपविष्टं पृथुदीर्घबाहुं ददर्श कृष्णः सहरौहिणेयः। प्युपोपविष्टाङ्ग्वलनप्रकाशान्॥ ततोऽब्रवीद् वासुदेवोऽभिगम्य कुन्तीसुतं धर्मभृतां वरिष्ठम्। कृष्णोऽहमस्मीति निपीड्य पादौ युधिष्ठिरस्याजमीढस्य राज्ञः॥ स्तौ चापि हृष्टाः कुरवोऽभ्यनन्दन्। वगृहणतां भारतमुख्य पादौ॥ अजातशत्रुश्च कुरुप्रवीरः पप्रच्छ कृष्णं कुशलं विलोक्य। कथं वयं वासुदेव त्वयेह गूढा वसन्तो विदिताश्च सर्वे॥ तमब्रवीद् वासुदेवः प्रहस्य गूढोऽष्यग्निर्ज्ञायत एव राजन्। तं विक्रम पाण्डवेयानतीत्य कोऽन्यः कर्ता विद्यते मानुषेषु॥ दिष्ट्या सर्वे पावकाद् विप्रमुक्ता यूयं घोरात् पाण्डवाः शत्रुसाहाः। दिष्ट्या पापो धृतराष्ट्रस्य पुत्रः सहामात्यो न सकामोऽभविष्यत्॥ भद्रं वोऽस्तु निहितं यद् गुहायां विवर्धध्वं ज्वलना इवैधमानाः। मा वो विदुः पार्थिवाः केचिदेव यास्यावहे शिविरायैव तावत्। सोऽनुज्ञातः पाण्डवेनाव्ययश्री: प्रायाच्छीघ्रं बलदेवेन सार्धम्॥ वैशम्पायन उवाच ततस्तथोक्तः परिहृष्टरूपः पित्रे शशंसाथ स राजपुत्रः। धृष्टद्युम्न: सोमकानां प्रवों वृत्तं यथा येन हृता च कृष्णा॥ धृष्टद्युम्न उवाच योऽसौ युवा व्यायतलोहिताक्षः कृष्णाजिनी देवसमानरूपः। यः कार्मुकाग्र्यं कृतवानधिज्यं लक्ष्यं च यः पातितवान् पृथिव्याम्॥ असज्जमानश्च ततस्तरस्वी वृतो द्विजाग्र्यैरभिपूज्यमानः। चक्राम वज्रीव दितेः सुतेषु सर्वेश्च देवै ऋषिभिश्च जुष्टः॥ कृष्णा प्रगृह्याजिनमन्वयात् तं नागं यथा नागवधूः प्रहृष्टा। अमृष्यमाणेषु नराधिपेषु क्रुद्धेषु वै तत्र समापतत्सु॥ ततोऽपरः पार्थिवसङ्घमध्ये प्रवृद्धमारुज्य महीप्ररोहम्। प्रकालयन्नेव स पार्थिवौघान् क्रुद्धोऽन्तकः प्राणभृतो यथैव॥ तौ पार्थिवानां मिषतां नरेन्द्र कृष्णामुपादाय गतौ नराग्यौ। विभ्राजमानाविव चन्द्रसूर्यो बाह्यां पुराद् भार्गवकर्मशालाम्॥ तत्रोपविष्टार्जिरिवानलस्य तेषां जनित्रीति मम प्रतर्कः। रुपोपविष्टैस्त्रिभिरग्निकल्पैः॥ तस्यास्ततस्तावभिवाद्य पादौ उक्ता च कृष्णा त्वभिवादयेति। स्थितां च तत्रैव निवेद्य कृष्णां भिक्षाप्रचाराय गता नराग्र्याः॥ तेषां तु भैक्षं प्रतिगृह्य कृष्णा दत्त्वा बलिं ब्राह्मणसाच्च कृत्वा। तां चैव वृद्धां परिवेष्य तांश्च नरप्रवीरान् स्वयमष्यभुक्त।॥ सुप्तास्तु ते पार्थिव सर्व एवं कृष्णा च तेषां चरणोपधाने। आसीत् पृथिव्यां शयनं च तेषां दर्भाजिनानास्तरणोपपन्नम्॥ ते नर्दमाना इव कालमेधाः कथा विचित्राः कथयाम्बभूवुः। न वैश्यशूद्रौपयिकी: कथास्ता न च द्विजानां कथयन्ति वीराः॥ नि:संशयं क्षत्रियपुङ्गवास्ते यथा हि युद्धं कथयन्ति राजन्। आशा हि नो व्यक्तमियं समृद्धा मुक्तान् हि पार्थाञ्छृणुमोऽग्निदाहात्॥ यथा हि लक्ष्यं निहतं धनुश्च सज्यं कृतं तेन तथा प्रसा। यथा हि भापन्ति परस्परं ते छन्ना ध्रुवं ते प्रचरन्ति पार्थाः॥ ततः स राजा दुपदः प्रहृष्टः पुरोहितं प्रेषयामास तेषाम्। विद्याम् युष्मानिति भाषमाणो महात्मानः पाण्डुसुतास्तु कच्चित्॥ गृहीतवाक्यो नृपतेः पुरोधा गत्वा प्रंशसामभिधाय तेषाम्। दुवाच चानुक्रमविक्रमेण॥ विज्ञातुमिच्छत्यवनीश्वरो वः पाञ्चालराजो वरदो वरार्हाः। लक्ष्यस्य वेद्धारमिमं हि दृष्ट्वा हर्षस्य नान्तं प्रतिपद्यते सः॥ आख्यात च ज्ञातिकुलानुपूर्वी पदं शिरस्सु द्विषतां कुरुध्वम्। प्रह्लादयध्वं हृदयं ममेदं पाञ्चालराजस्य च सानुगस्य॥ पाण्डुर्हि राजा द्रुपदस्य राज्ञः प्रियः सखा चात्मसमो बभूव। तस्यैष कामो दुहिता ममेयं स्नुषां प्रदास्यामि हि कौरवाय॥ अयं हि कामो दुपदस्य राज्ञो हदि स्थितो नित्यमनिन्दिताङ्गाः। धर्मेण विन्देत सुतां ममैताम्॥ कृतं हि तत्स्यात् सत्कृतं ममेदं यशश्च पुण्यं च हितं तदेतत्। अथोक्तवाक्यं हि पुरोहितं स्थितं ततो विनीतं समुदीक्ष्य राजा॥ समीपतो भीममिदं शशास प्रदीयतां पाद्यमर्थ्य तथास्मै। मान्यः पुरोधा द्रुपदस्य राज्ञः तस्मै प्रयोज्याभ्यधिका हि पूजा॥ भीमस्ततस्तत् कृतवान् नरेन्द्र तां चैव पूजां प्रतिगृह्य हर्षात्। सुखोपविष्टं तु पुरोहितं तदा युधिष्ठरो ब्राह्मणमित्युवाच॥ पाञ्चालराजेन सुता निसृष्टा स्वधर्मदृष्टेन यथा न कामात्। प्रदिष्टशुल्का द्रुपदेन राज्ञा सा तेन वीरेण तथानुवृत्ता॥ न तत्र वर्णेषु कृता विवक्षा न चापि शीले न कुले न गोत्रे। कृतेन सज्येन हि कार्मुकेण विद्धन लक्ष्येण हि सा विसृष्टा॥ सेयं तथानेन महात्मनेह कृष्णा जिता पार्थिवसङ्घमध्ये। नैवंगते सौमकिरद्य राजा संतापमहत्यसुखाय कर्तुम्॥ कामश्च योऽसौ दुपदस्य राज्ञः स चापि सम्पत्स्यति पार्थिवस्य। मिमामहं ब्राह्मण साधु मन्ये॥ न तद् धनुर्मन्दबलेन शक्यं मौळ समायोजयितुं तथा हि। न चाकृतास्त्रेण न हीनजेन लक्ष्यं तथा पातयितुं हि शक्यम्॥ तस्मान्न तापं दुहितुर्निमित्तं पाञ्चालराजोऽर्हति कर्तुमद्या न चापि तत्पातनमन्यथेह कर्तुं हि शक्यं भुवि मानवेन॥ एवं ब्रुवत्येव युधिष्ठिरे तु पाञ्चालराजस्य समीपतोऽन्यः। तत्राजगामाशु नरो द्वितीयो निवेदयिष्यनिह सिद्धमन्नम्॥ दूत उवाच जन्यार्थमन्नं दुपदेन राज्ञा विवाहहेतोरुपसंस्कृतं च। तदाप्नुवध्वं कृतसर्वकार्याः कृष्णां च तत्रैव चिरं न कार्यम्॥ इमे रथाः काञ्चनपद्मचित्राः सदश्वयुक्ता वसुधाधिपार्हाः। एतान् समारुह्य समेत सर्वे पाञ्चालराजस्य निवेशनं तत्॥ वैशंपायन उवाच ततः प्रयाताः कुरुपुङ्गवास्ते पुरोहितं तं परियाप्य सर्वे। आस्थाय यानानि महान्ति तानि कुन्ती च कृष्णा च सहैकयाने॥ श्रुत्वा तु वाक्यानि पुरोहितस्य यान्युक्तवान् भारत धर्मराजः। जिज्ञासयैवाथ कुरूत्तमानां द्रव्याण्यनेकान्युपसंजहार॥ फलानि माल्यानि च संस्कृतानि वर्माणि चर्माणि तथाऽऽसनानि। जानि चान्यानि कृषीनिमित्तम्॥ अन्येषु शिल्पेषु च यान्यपि स्युः सर्वाणि कृत्यान्यखिलेन तत्र। क्रीडानिमित्तान्यपि यानि तत्र सर्वाणि तत्रोपजहार राजा॥ वर्माणि चर्माणि च भानुमन्ति खड्गा महान्तोऽश्वरथाश्च चित्राः। धनूंषि चाडयाणि शराच चित्राः शक्त्य॒ष्टयः काञ्चनभूषणाश्च॥ प्रासा भुशुण्ड यश्च परश्वधाश्च सांग्रामिकं चैव तथैव सर्वम्। शय्यस्नान्युत्तमवस्तुवन्ति तथैव वासो विविधं च तत्र॥ मन्तःपुरं दुपदस्याविवेश। स्त्रियश्च तां कौरवराजपत्नी प्रत्यर्चयामासुरदीनसत्त्वाः॥ तान् सिंहविक्रान्तगतीन् निरीक्ष्य महर्षभाक्षानजिनोत्तरीयान्। प्रलम्बबाहून् पुरुषप्रवीरान्॥ राजा च राज्ञः सचिवाश्च सर्वं पुत्राश्च राज्ञः सुहृदस्तथैव च। प्रेष्याश्च सर्वे निखिलेन राजन् हर्षं समापेतुरतीव तत्र॥ ते तत्र वीराः परमासनेषु सपादपीद्देप्वविशरूमानाः। यथानुपूर्वं विविशुनराग्र्या: तथा महार्हेषु न विस्मयन्तः॥ उच्चावचं पार्थिवभोजनीयं पात्रीषु जाम्बूनदराजतीषु। दासाश्च दास्यश्च सुमृष्टवेषाः सम्भोजकाश्चाप्युपजहरन्नम्॥ ते तत्र भुक्त्वा पुरुषवीरा यथाऽऽत्मकामं सुभृशं प्रतीताः। उत्क्रम्य सर्वाणि वसूनि राजन् सांग्रामिकं ते विविशुनूवीराः॥ तल्लक्षयित्वा दुपदस्य पुत्रो राजा च सर्वैः सह मन्त्रिमुख्यैः। समर्थयामासुरुपेत्य हृष्टाः कुन्तीसुतान् पार्थिव राजपुत्रान्॥ वैशम्पायन उवाच तत आहूय पाञ्चाल्यो राजपुत्रं युधिष्ठिरम्। परिग्रहेण ब्राह्मण परिगृह्य महाद्युतिः॥ पर्यपृच्छददीनात्मा कुन्तीपुत्रं सुवर्चसम्। कथं जानीम भवतः क्षत्रियान् ब्राह्मणानुत॥ वैश्यान् वा गुणसम्पन्नानथवा शूद्रयोनिजान्। मायामास्थाय वा विप्रांश्चरतः सर्वतोदिशम्॥ कृष्णाहेतोरनुप्राप्ता देवा: संदर्शनार्थिनः। ब्रवीतु नो भवान् सत्यं संदेहो ह्यत्र नो महान्॥ अपि नः संशयस्यान्ते मनः संतुष्टिमावहेत्। अपि नो भागधेयानि शुभानि स्युः परंतप॥ इच्छया ब्रूहि तत् सत्यं सत्यं राजसु शोभते। इष्टापूर्तेन च तथा वक्तव्यमनृतं न तु॥ श्रुत्वा ह्यमरसंकाश तव वाक्यमरिंदम। ध्रुवं विवाहकरणमास्थास्यामि विधानतः॥ युधिष्ठिर उवाच मा राजन् विमना भूस्त्वं पाञ्चाल्य प्रीतिरस्तु ते। ईप्सितस्ते ध्रुवः कामः संवृत्तोऽयमसंशयम्॥ वयं हि क्षत्रिया राजन् पाण्डोः पुत्रा महात्मनः। ज्येष्ठं मां विद्धि कौन्तेयं भीसेनार्जुनाविमौ॥ आभ्यां तव सुता राजन् निर्जिता राजसंसदि। यमौ च तत्र कुन्ती च यत्र कृष्णा व्यवस्थिता॥ व्येतु ते मानसं दुःखं क्षत्रिया स्मो नरर्षभ। पद्मिनीव सुतेयं ते ह्रदादन्यह्रदं गता॥ इति तथ्यं महाराज सर्वमेतद् ब्रवीमि ते। भवान् हि गुरुरस्माकं परमं च परायणम्॥ वैशम्पायन उवाच ततः स द्रुपदो राजा हर्षव्याकुललोचनः। प्रतिवक्तुं मुदा युक्तो नाशकत् तं युधिष्ठिरम्॥ यत्नेन तु स तं हर्षं संनिगृह्य परंतपः। अनुरूपं तदा वाचा प्रत्युवाच युधिष्ठिरम्॥ पप्रच्छ चैनं धर्मात्मा यथा प्रदुताः पुरात्। स तस्मै सर्वमाचख्यावानुपूर्वेण पाण्डवः॥ तच्छ्रुत्वा दुपदो राजा कुन्तीपुत्रस्य भाषितम्। विगर्हयमास तदा धृतराष्ट्रं नरेश्वरम्॥ आश्वासयामास च तं कुन्तीपुत्रं युधिष्ठिरम्। प्रतिजज्ञे च राज्याय दुपदो वदतां वरः॥ ततः कुन्ती च कृष्णा च भीमसेनार्जुनावपि। यमौ च राज्ञा संदिष्टं विविशुर्भवनं महत्॥ ते तत्र ते न्यवसन् राजन् यज्ञसेनेन पूजिताः। प्रत्याश्वस्तस्ततो राजा सह पुत्रैरुवाच तम्॥ गृह्णतु विधिवत् पाणिमद्यायं कुरुनन्दनः। पुण्येऽहनि महाबाहुरर्जुनः कुरुतां क्षणम्॥ वैशम्पायन उवाच तमब्रवीत् ततो राजा धर्मात्मा च युधिष्ठिरः। ममापि दारसम्बन्धः कार्यस्तावद् विशाम्पते॥ दुपद उवाच भवान् वा विधिवत् पाणिं गृहणतु दुहितुर्मम्। यस्य वा मन्यसे वीर तस्य कृष्णामुपादिश॥ युधिष्ठिर उवाच सर्वेषां महिषी राजन् द्रौपदी नो भविष्यति। एवं प्रव्याहृतं पूर्वं मम मात्रा विशाम्पते॥ अहं चाप्यनिविष्टिो वै भीमसेनश्च पाण्डवः। पार्थेन विजिता चैषा रत्नभूता सुता तव॥ एष नः समयो राजन् रत्नस्य सह भोजनम्। न च तं हातुमिच्छामः समयं राजसत्तम।॥ सर्वेषां धर्मतः कृष्णा महिषी नो भविष्यति। आनुर्पूव्र्येण सर्वेषां गृहणतु ज्वलने करान्॥ दुपद उवाच एकस्य बढ्यो विहिता महिष्य कुरुनन्दन। नैकस्या बहवः पुंसः श्रूयन्ते पतयः क्वचित्॥ लोकवेदविरुद्धं त्वं नाधर्मं धर्मविच्छुचिः। कर्तुमर्हसि कौन्तेय कस्मता ते बुद्धिरीदृशी॥ युधिष्ठिर उवाच सूक्ष्मो धर्मो महाराज नास्य विद्मो वयं गतिम्। पूर्वेषामानुपूर्येण यातं वानुयामहे॥ न मे वागनृतं प्राह नाधर्मे धीयते मतिः। एवं चैव वदत्यम्बा मम चैतन्मनोगतम्॥ एष धर्मो धर्मो ध्रुवो राजंश्चरैनमविचारयन्। मा च शङ्का तत्र ते स्यात् कथंचिदपि पार्थिव॥ द्रुपद उवाच त्वं च कुन्ती च कौन्तेय धृष्टद्युम्नश्च मे सुतः। कथयन्त्विति कर्तव्यं श्वः काले करवामहे॥ वैशम्पायन उवाच ते समेत्य ततः सर्वे कथयन्ति स्म भारत। अथ द्वैपायनो राजन्नभ्यागच्छद् यदृच्छया।॥ वैशम्पायन उवाच ततस्ते पाण्डवाः सर्वे पाञ्चाल्यश्च महायशाः। प्रत्युत्थाय महात्मानं कृष्णं सर्वेऽभ्यवादयन्॥ प्रतिनन्द्य स तां पूजां पृष्ट्वा कुशलमन्ततः। आसने काञ्चने शुद्धे निषसाद महामनाः॥ अनुज्ञातास्तु ते सर्वे कृष्णेनामिततेजसा। आसनेषु महार्हेषु निषेदुर्द्विपदां वराः॥ ततो मुहूर्तान्मधुरां वाणीमुच्चार्य पार्षतः। पप्रच्छ तं महात्मानं द्रौपद्यर्थं विशाम्पते॥ कथमेका बहूनां स्याद् धर्मपत्नी न संकरः। एतन्मे भगवान् सर्वं प्रब्रवीतु यथातथम्॥ व्यास उवाच अस्मिन् धर्मे विप्रलब्धे लोकवेदविरोधके। यस्य यस्य मतं यद् यच्छ्रोतुमिच्छामि तस्य तत्॥ दुपद उवाच अधर्मोऽयं मम मतो विरुद्धो लोकवेदयोः। न ह्येका विद्यते पत्नी बहुनां द्विजसत्तम॥ न चाप्याचरितः पूर्वैरयं धर्मो महात्मभिः। न चाप्यधर्मो विद्वद्भिश्चरितव्यः कथंचन॥ ततोऽहं न करोम्येनं व्यवसायं क्रियां प्रति। धर्मः सदैव संदिग्धः प्रतिभाति हि मे त्वयम्॥ धृष्टद्युम्न उवाच यवीयसः कथं भार्या ज्येष्ठो भ्राता द्विजर्षभ। ब्रह्मन् समभिवर्तेन सवृत्तः संस्तपोधन॥ न तु धर्मस्य सूक्ष्मत्वाद् गतिं विद्म कथंचन। अधर्मो धर्म इति वा व्यवसायो न शक्यते॥ कर्तुमस्मद्विधैर्ब्रह्मस्ततोऽयं न व्यवस्यते। पञ्चानां महिषी कृष्णा भवत्विति कथंचन॥ युधिष्ठिर उवाच न मे वागनृतं प्राह नाधर्मे धीयते मतिः। वर्तते हि मनो मेऽत्र नैषोऽधर्मः कथंचन॥ श्रूयते हि पुराणेऽपि जटिला नाम गौतमी। ऋषीनध्यासितवती सप्त धर्मभृतां वरा॥ तथैव मुनिजा वाक्षी तपोभिर्भावितात्मनः। संगताभूद् दश भ्रातहनेकनाम्नः प्रचेतसः॥ गुरोर्हि वचनं प्राहुर्धर्म्य धर्मसत्तम। गुरूणां चैव सर्वेषां माता परमको गुरुः॥ सा चाप्युक्तवती वाचं भैक्षवद् भुज्यतामिति। तस्मादेतदहं मन्ये परं धर्मं द्विजोत्तम॥ कुत्युवाच एवमेतद् यथा प्राह धर्मचारी युधिष्ठिर। अनृतान्मे भयं तीव्र मुच्येऽहमनृतात् कथम्॥ व्यास उवाव अनृतान्मोक्ष्यसे भद्रे धर्मश्चैष सनातनः। न तु वक्ष्यामि सर्वेषां पाञ्चाल शृणु मे स्वयम्॥ यथायं विहितो धर्मो यतश्चायं सनातनः। यथा च प्राह कौन्तेय स्तथा धर्मो न संशयः॥ वैशम्पायन उवाच तत उत्थाय भगवान् व्यासो द्वैपायनः प्रभुः। करे गृहीत्वा राजानं राजवेश्म समाविशत्॥ पाण्डवाश्चापि कुन्ती च धृष्टद्युम्नश्च पार्षतः। विविशुर्यत्र तत्रैव प्रतीक्षन्ते स्म तावुभौ॥ ततो द्वैपायनस्तस्मै नरेन्द्राय महात्मने। आचख्यौ तद् यथा धर्मो बहूनामेकपत्निता॥ व्यास उवाच पुरा वै नैमिषारण्ये देवाः सत्रमुपासते। तत्र वैवस्वतो राजशामित्रमकरोत् तदा॥ ततो यमो दीक्षितस्तत्र राजन् नामारयत् कंचिदपि प्रजानाम्। ततः प्रजास्ता बहुला बभूवुः। कालातिपातान्मरणप्रहीणाः॥ सोमश्च शक्रो वरुणः कुबेरः साध्या रुद्रा वसवोऽथाश्चिनौ च। प्रजापतिर्भुवनस्य प्रणेता समाजग्मुस्तत्र देवास्तथान्ये॥ ततोऽब्रुवन् लोकगुरुं समेता भयात् तीव्रान्मानुषाणां च वृद्ध्या। तस्माद् भयादुद्विजन्तः सुखेप्सवः प्रयाम सर्वं शरणं भवन्तम्॥ पितामह उवाच किं वो भय मानुषेभ्यो यूयं सर्वे यदामराः। मा वो मर्त्यसकाशाद् वै भयं भवितुमर्हति॥ देवा ऊचुः मा अमर्त्याः संवृत्ता न विशेषोऽस्ति कश्चन। अविशेषादुद्विजन्तो विशेषार्थमिहागताः॥ श्रीभगवानुवाच स्तेन त्विमे न म्रियन्ते मनुष्याः। तस्मिन्नेकाग्रे कृतसर्वकार्ये तत एषां भवितैवान्तकालः॥ वैवस्वतस्यैव तनुर्विभक्ता वीर्येण युष्माकमुत प्रयुक्ता। सैषामन्तो भविता ह्यन्तकाले न तत्र वीर्यं भविता नरेषु॥ व्यास उवाच ततस्तु ते पूर्वजदेववाक्यं श्रुत्वा जग्मुर्यत्र देवा यजन्ते। समासीनास्ते समेता महाबला भागीरथ्यां ददृशुः पुण्डरीकम्॥ स्तेषामिन्द्रस्तत्र शूरो जगाम। सोऽपश्यद् योषामथ पावकप्रभां यत्र देवी गङ्गा सततं प्रसूता॥ सा तत्र योषा रुदती जलार्थिनी गङ्गां देवीं व्यवगाह्य व्यतिष्ठत्। स्तत् पद्ममासीदथ तत्र काञ्चनम्॥ मपृच्छत् तां योषितमन्तिकाद् वै। र्वाक्यं तथ्यं कामयेऽहं ब्रवीहि॥ स्त्र्युवाच त्वं वेत्स्यसे मामिह यास्मि शक्र चदर्थं चाहं रोदिमि मन्दभाग्या। आगच्छ राजन् पुरतो गमिष्ये द्रष्टासि तद् रोदिमि यत्कृतेऽहम्॥ व्यास उवाच तां गच्छन्तीमन्वगच्छत् तदानीं सोऽपश्यदारात् तरुणं दर्शनीयम्। सिद्धासनस्थं युवतीसहायं क्रीडन्तमैक्षद् गिरिराजमूर्तीि॥ तमब्रवीद् देवराजो ममेदं त्वं विद्धि विद्वन् भुवनं वशे स्थितम्। ईशोऽहमस्मीति समन्युरब्रवीद् दृष्ट्वा तमक्षैः सुभृशं प्रमत्तम्॥ क्रुद्धं च शक्रं प्रसमीक्ष्य देवो जहास शक्रं च शनैरुदैक्षत। स्तेनेक्षितः स्थाणुरिवावतस्थे।॥ यदा तु पर्याप्तमिहास्य क्रीडया तदा देवीं रुदतीं तामुत्राच! नैनं दर्पः पुनरप्याविशेत॥ ततः शक्रः स्पृष्टमात्रस्तया तु सस्तैरङ्गैः पतितोऽभूद् धरण्याम्। तमब्रवीद् भगवानुग्रतेजा मैवं पुनः शक्र कृथाः कथंचित्॥ निवर्तयैनं च महाद्रिराज बलं च वीर्यं च तवाप्रमेयम्। छिद्रस्य चैवाविश मध्यमस्य यत्रासते त्वद्धिधाः सूर्यभासः॥ स्तुल्याश्चितुरोऽन्यान् ददर्श। स तानभिप्रेक्ष्य बभूव दुःखितः कच्चिनाहं भविता वै यथेमे॥ ततो देवो गिरिशो वज्रपाणि विवृत्य नेत्रे कुपितोऽभ्युवाच। दरीमेतां प्रविश त्वं शतक्रतो यन्मां बाल्यादवमंस्थाः पुरस्तात्॥ उक्तस्त्वेवं विभुना देवराजः प्रावेपता” भृशमेवाभिषङ्गात्। मश्वत्थपत्रं गिरिराजमूर्ध्नि॥ स प्राञ्जलिः वृषवाहनेन प्रवेपमानः सहसैवमुक्तः। उवाच देवं बहुरूपमुग्रस्रष्टाशेषस्य भुवनस्य त्वं भवाद्यः॥ तमब्रवीदुग्रवर्चाः प्रहस्य नैवंशीला: शेषमिहाप्नुवन्ति। एतेऽप्येवं भवितारः पुरस्तात् तस्मादेतां दरीमाविश्य शेष्व॥ तत्र ह्येवं भवितारो न संशयो योनि सर्वे मानुषीमाविशध्वम्। तत्र यूयं कर्म कृत्वाविषह्यं बहूनन्यान् निधनं प्रापयित्वा॥ आगन्तारः पुनरेवेन्द्रलोकं स्वकर्मणा पूर्वजितं महार्हम्। सर्वं मया भाषितमेतदेवं कर्तव्यमन्यद् विविधार्थयुक्तम्॥ पूर्वेन्द्रा ऊचुः गमिष्यामो मानुषं देवलोकाद् दुराधरो विहितो यत्र मोक्षः। देवास्त्वस्मानादधीरञ्जनन्यां धर्मो वायुर्मघावानश्विनौ च। अस्त्रैर्दिव्यैर्मानुषान् योधयित्वा आगन्तारः पुनरेवेन्द्रलोकम्॥ व्यास उवाच एतच्छ्रुत्वा वज्रपाणिर्वचस्तु देवश्रेष्ठं पुनरेवेदमाह। दद्यामेषां पञ्चमं मत्प्रसूतम्॥ विश्वभुग्भूतधामा च शिविरिन्द्रः प्रतापवान्। शातिश्चतुर्थस्तेषां वै तेजस्वी पञ्चमः स्मृतः॥ तेषां कामं भगवानुग्रधन्वा प्रादादिष्टं संनिसर्गाद् यथोक्तम्। तां चाप्येषां योषितं लोककान्तां श्रियं भार्यां व्यदधान्मानुषेषु॥ तैरेव सार्धं तु ततः स देवो जगाम नारायणमप्रमेयम्। अनन्तमव्यक्तमजं पुराणं सनातनं विश्वमरन्तरूपम्॥ स चापि तद् व्यदधात् सर्वमेव ततः सर्वे सम्बभूबुर्धरण्याम्। स चापि केशौ हरिरुद्धबह शुक्लमेकमपरं चापि कृष्णम्॥ तौ चापि केशौ निविशेतां यदूनां कुले स्त्रियौ देवकी रोहिणीं च। तयोरेको बलदेवो बभूव योऽसौ श्वेतस्तस्य देवस्य केशः। कृष्णो द्वितीयः केशवः सम्बभूव केशो योऽसौ वर्णतः कृष्ण उक्तः॥ स्तस्यां दर्यां पर्वतस्योत्तरस्य। इहैव ते पाण्डवा वीर्यवन्तः शक्रस्यांशः पाण्डवः सव्यसाची॥ र्ये ते राजन् पूर्वमिन्द्रा बभूवुः। लक्ष्मीश्चैषां पूर्वमेवोपदिष्टा भार्या यैषा द्रौपदी दिव्यरूपा॥ कथं हि स्त्री कर्मणा ते महीतलात् समुत्तिष्ठेदन्यतो दैवयोगात्। यस्या रूपं सोमसूर्यप्रकाशं गन्धश्चास्याः क्रोशमात्रात् प्रवाति॥ इदं चान्यत् प्रीतिपूर्वं नरेन्द्र ददानि ते वरमत्यद्भुतं च। दिव्यं चक्षुः पश्य कुन्तीसुतांस्त्वं पुण्यैर्दिव्यैः पूर्वदेहैरुपेतान्॥ वैशम्पायन उवाच ततो व्यासः परमोदारकर्मा शुचिर्विप्रस्तपसा तस्य राज्ञः। चक्षुर्दिव्यै प्रददौ तांश्च सर्वान् राजाऽपश्यत् पूर्वदेहैर्यथावत्॥ ततो दिव्यान् हेमकिरीटमालिनः शक्रप्रख्यान् पावकादित्यवर्णान्। बद्धापीडांश्चारुरूपांश्च यूनो व्यूढोरस्कांस्तालमात्रान् ददर्श॥ र्माल्यैश्चावयैः शोभमानानतीव। नादित्यान् वा सर्वगुणोपपन्नान्॥ तान् पूर्वेन्द्रानभिवीक्ष्याभिरूपान् शक्रात्मजं चेन्द्ररूपं निशम्य। प्रीतो राजा दुपदो विस्मितश्च दिव्यां मायां तामवेक्ष्याप्रमेयाम्॥ तां चैवावयां स्त्रियमतिरूपयुक्तां दिव्यां साक्षात् सोमवह्निप्रकाशाम्। योग्यां तेषां रूपतेजोयशोभिः पत्नी मत्वा दृष्टवान् पार्थिवेन्द्रः॥ स तद् दृष्ट्वा महदाश्चर्यरूपं जग्राह पादौ सत्यवत्याः सुतस्य। नैतच्चित्रं परमर्षे त्वयीति प्रसन्नचेताः स उवाच चैनम्॥ व्यास उवाच आसीत् तपोवने काचिदृषेः कन्या महात्मनः। नाध्ययगच्छत् पतिं सा तु कन्या रूपवती सती॥४४। तोषयामास तपसा सा किलोग्रेण शंकरम्। तामुवाचेश्वरः प्रीतो वृणु काममिति स्वयम्॥ सैवमुक्ताब्रवीत् कन्या देवं वरदमीश्वरम्। पतिं सर्वगुणोपेतमिच्छामीति पुनः पुनः॥ ददौ तस्यै स देवेशस्तं वरं प्रीतमानसः। पञ्च ते पतयो भद्रे भविष्यन्तीति शंकरः॥ सा प्रसादयती देवमिदं भूयोऽभ्यभाषत। एकं पतिं गुणोपेतं त्वत्तोऽर्हामीति शंकर॥ तां देवदेवः प्रीतात्मा पुनः प्राह शुभं वचः। पञ्चकृत्वस्त्वयोक्तोऽहं पतिं देहीति वै पुनः॥ तत् तथा भविता भद्रे वचस्तद् भद्रमस्तु ते। देहमन्यं गतायास्ते सर्वमेतद् भविष्यति॥ दुपदैषा हि सा जज्ञे सुता वै देवरूपिणी। पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता॥ स्वर्गश्रीः पाण्डवार्थं तु समुत्पन्ना महामखे। सेह तप्त्वा तपो घोरं दुहितृत्वं तवागता॥ सैषा देवी रुचिरा देवजुष्टा पञ्चानामेका स्वकृतेनेह कर्मणा। सृष्टा स्वयं देवपत्नी स्वयम्भुवा श्रुत्वा राजन् दुपदेष्टं कुरुष्व॥ दुपद उवाच अश्रुत्वैवं वचनं ते महर्षे मया पूर्वं यतितं संविधातुम्। न वै शक्यं विहिस्यापयानं तदेवेदमुपपन्नं विधानम्॥ दिष्टस्य ग्रन्थिरनिवर्तनीयः स्वकर्मणा विहितं नेह किंचित् स्तदेवेदमुपपन्नं विधानम्॥ नैकं पतिं मे भगवान् ददातु। स चाप्येवं वरमित्यब्रवीत् तां देवो हि वेत्ता परमं यदत्र॥ यदि चैवं विहितः शंकरेण धर्मोऽधर्मो वा नात्र ममापराध:। गृहणन्त्विमे विधिवत् पाणिमस्या यथोपजोषं विहितैषां हि कृष्णा॥ वैशम्पायन उवाच मद्यैव पुण्याहमुत वः पाण्डवेया अद्य पौष्यं योगमुपैति चन्द्रमाः पाणिं कृष्णायास्त्वं गृहाणाद्य पूर्वम्॥ ततो राजा यज्ञसेनः सपुत्रो जन्यार्थमुक्तं बहु तत् तदग्र्यम्। माप्लाव्य रत्नैर्बहुभिर्विभूष्य॥ ततस्तु सर्वे सुहदो नृपस्य समाजग्मुः सहिता मन्त्रिणश्च। द्रष्टुं विवाहं परमप्रतीता द्विजाश्च पौराश्च यथा प्रधाना॥ ततोऽस्य वेश्मावयजनोपशोभितं विस्तीर्णपद्मोत्पलभूषिताजिरम्। बलौघररत्नौघविचित्रमाबभौ नभो यथा निर्मलतारकान्वितम्॥ ततस्तु ते कौरवराजपुत्रा विभूषिताः कुण्डलिनो युवानः। महार्हवस्त्राम्बरचन्दनोक्षिताः कृताभिषेकाः कृतमङ्गलक्रियाः॥ पुरोहितेनाग्निसमानवर्चसा सहैव धौम्येन यथाविधि प्रभो। क्रमेण सर्वे विविशुस्ततः सदो महर्षभा गोष्ठमिवाभिनन्दितः॥ ततः समाधाय स वेदपारगो जुहाव मन्त्रैर्ध्वलितं हुताशनम्। ततोऽभ्यनुज्ञाय नियोजयामास सहैव कृष्णया॥ प्रदक्षिणं तौ प्रगृहीतपाणी समानयामास स वेदपारगः। तमाजिशोभिनं पुरेहितो राजगृहाद् विनिर्ययौ॥ क्रमेण चानेन नराधिपात्मजा वरस्त्रियस्ते जगृहस्तदा करम्। अहन्यहन्युत्तमरूपधारिणो महारथाः कौरववंशवर्धनाः॥ इदं च तत्राद्भुतरूपमुत्तम जगाद देवर्षिरतीतमानुषम्। महानुभावा किल सा सुमध्यमा बभूव कन्यैव गते गतेऽहनि॥ कृते विवाहे द्रुपदो धनं ददौ महारथेभ्यो बहुरूपसमुत्तमम्। शतं रथानां वरहेममालिनां चतुर्युजां हेमखलीनमालिनाम्॥ शतं गजानामपि पद्मिनां तथा शतं गिरीणामिव हेमशृङ्गिणाम्। तथैव दासीशतमग्र्ययौवनं महार्हवेषाभरणाम्बरस्रजम्॥ पृथक् पृथग् दिव्यदृशां पुनर्ददौ तदा धनं सौमकिरग्निसाक्षिकम्। तथैव वस्त्राणि विभूषणानि प्रभावयुक्तानि महानुभावः॥ कृते विवाहे च ततस्तु पाण्डवाः। प्रभूतरत्नामुपलभ्यं तां श्रियम्। विजहरिन्द्रप्रतिमा महाबलाः पुरे च पाञ्चालनृपस्य तस्य ह॥ वैशम्पायन उवाच पाण्डवैः सह संयोगं गतस्य दुपदस्य ह। न बभूव भयं किंचिद् देवेभ्योऽपि कथंचन॥ कुन्तीमासाद्य ता नार्यो द्रुपदस्य महात्मनः। नाम संकीर्तयन्त्योऽस्या जग्मुः पादौ स्वमूर्धभिः॥ कृष्णा च क्षौमसंवीता कृतकौतुकमङ्गला। कृताभिवादना श्वश्र्वास्तस्थौ प्रह्वा कृताञ्जलिः॥ रूपलक्षणसम्पन्नां शीलाचारसमन्विताम्। द्रौपदीमवदत् प्रेम्णा पृथाऽऽशीवर्चनं स्नुषाम्॥ यथेन्द्राणी हरिहये स्वाहा चैव विभावसो। रोहिणी च यथा सोमे दमयन्ती यथा नले॥ यथा वैश्रवणे भद्रा वसिष्ठे चाप्यरुन्धती। यथा नारायणे लक्ष्मीस्तथा त्वं भव भर्तृषु॥ जीवसूर्वीरसूर्भद्रे बहुसौख्यसमन्विता। सुभगा भोगसम्पन्ना यज्ञपत्नी पतिव्रता॥ अतिथीनागतान् साधून् वृद्धान् बालांस्तथा गुरून्। पूजयन्त्या यथान्यायं शश्वद् गच्छन्तु ते समाः॥ कुरुजाङ्गलमुख्येषु राष्ट्रेषु नगरेषु च। अनु त्वमभिषिच्यस्व नृपति धर्मवत्सला॥ पतिभिर्निर्जितामुर्वी विक्रमेण महाबलैः। कुरु ब्राह्मणसात् सर्वामश्वमेधे महाक्रतौ॥ पृथिव्यां यानि रत्नानि गुणवन्ति गुणान्विते। तान्याप्नुहि त्वं कल्याणि सुखिनी शरदां शतम्॥ यथा च त्वाभिनन्दामि वध्वद्य क्षौमसंवृताम्। तथा भूयोऽभिनन्दिष्ये जातपुत्रां गुणान्विताम्॥ वैशम्पायन उवाच ततस्तु कृतदारेभ्यः पाण्डुभ्यः प्राहिणोद्वरिः। वैदूर्यमणिचित्राणि हैमान्याभरणानि च॥ वासांसि च महार्हाणि नानादेश्यानि माधवः। कम्बलाजिनरत्नानि स्पर्शवन्ति शुभानि च॥ शयनासनयानानि विविधानि महान्ति च। वैदूर्यवज्रचित्राणि शतशो भाजनानि च॥ रूपयौवनदाक्षिण्यैरुपेताश्च स्वलंकृताः। प्रेष्याः सम्प्रददौ कृष्णो नाना देश्याः स्वलंकृताः।।१६। गजान् विनीतान् भद्राश्च सदश्वांश्च स्वलंकृतान्। रथांश्च दान्तान् सौवर्णैः शुभैः पट्टैरलंकृतान्॥ कोटिशश्च सुवर्णं च तेषामकृतकं तथा। वीथीकृतममेयात्मा प्राहिणोन्मधुसूदनः॥ तत् सर्वं प्रतिजग्राह धर्मराजो युधिष्ठिरः। मुदा परमया युक्तो गोविन्दप्रियकाम्यया॥ वैशम्पायन उवाच ततो राज्ञां चरैराप्तैः प्रवृत्तिरुपनीयत। पाण्डवैरुपसम्पन्ना द्रौपदी पतिभिः शुभा॥ येन तद् धनुरादाय लक्ष्यं विद्धं महात्मना। सोऽर्जुनो जयतां श्रेष्ठो महाबाणधनुर्धरः॥ यः शल्यं मद्रराजं वै प्रोक्षिप्यापातयद् बली। त्रासयामास संक्रुद्धो वृक्षेण पुरुषान् रणे॥ न चास्य सम्भ्रमः कश्चिदासीत् तत्र महात्मनः। स भीमो भीमसंस्पर्शः शत्रुसेनाङ्गपातनः॥ ब्रह्मरूपधराज्छ्रुत्वा प्रशान्तान् पाण्डुनन्दनान्। कौन्तेयान् मनुजेन्द्राणां विस्मयः समजायत॥ सपुत्रा हि पुरा कुन्ती दग्धा जतुगृहे श्रुता। पुनर्जातानिव च तांस्तेऽमन्यन्त नराधिपाः॥ धिगकुर्वंस्तदा भीष्मं धृतराष्ट्रं च कौरवम्। कर्मणातिनृशंसेन पुरोचनकृतेन वै॥ वृत्ते स्वयंवरे चैव राजानः सव्र एव ते। यथागतं विप्रजग्मुर्विदित्वा पाण्डवान् वृतान्॥ अथ दुर्योधनो राजा विमना भ्रातृभिः सह। अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च॥ विनिवृत्तो वृतं दृष्ट्वा द्रौपद्या श्वेतवाहनम्। तं तु दुःशासनो वीडन मन्दं मन्दमिवाब्रवीत्॥ यद्यसौ ब्राह्मणो न स्याद् विन्देत द्रौपदी न सः। न हि तं तत्त्वतो राजन् वेद कश्चिद् धनंजयम्॥ दैवं च परमं मन्ये पौरुषं चाप्यनर्थकम्। धिगस्तु पौरुषं तात ध्रियन्ते यत्र पाण्डवाः॥ एवं सम्भाषमाणास्ते निन्दन्तश्च पुरोचनम्। विविशुहा॑स्तिनपुरं दीना विगतचेतसः॥ जस्ता विगतसंकल्पा दृष्ट्वा पार्थान् महौजसः। मुक्तान् हव्यभुजश्चैव संयुक्तान् द्रुपदेन च॥ धृष्टद्युम्नं तु संचिन्त्य तथैव च शिखण्डिनम्। दुपदस्यात्मजांश्चान्यान् सर्वयुद्धविशारदान्॥ विदुरस्त्वथ तां श्रुत्वा द्रौपदीं पाण्डवैर्वृतान्। वीडितान् धार्तराष्ट्रांश्च भग्नदर्पानुपागतान्॥ ततः प्रीतमनाः क्षत्ता धृतराष्ट्र विशाम्पते। उवाच दिष्ट्या कुरवो वर्धन्त इति विस्मितः॥ १७ वैचित्रवीर्यस्तु वचो निशम्य विदुरस्य तत्। अब्रवीत् परमप्रीतो दिष्ट्या दिष्ट्येति भारत॥ मन्यते स वृतं पुत्रं ज्येष्ठं दुपदकन्यया। दुर्योधनमविज्ञानात् प्रशाचक्षुर्नरेश्वरः॥ अथ त्वाज्ञापयामास द्रौपद्या भूषणं बहु। आनीयतां वै कृष्णेति पुत्रं दुर्योधनं तदा॥ अथास्य पश्चाद् विदुर आचख्यौ पाण्डवान् वृतान्। सर्वान् कुशलिनो वीरान् पूजितान् द्रुपदेन ह॥ तेषां सम्बन्धिनश्चान्यान् बहून् बलसमन्वितान्। समागतान् पाण्डवेयैस्तस्मिन्नेव स्वयंवरे॥ यथैव पाण्डोः पुत्रास्तु तथैवाभ्यधिका मम। यथा चाभ्यधिका बुद्धिर्मम तान् प्रति तच्छृणु॥ यत् ते कृशलिनो वीरा मित्रवन्तश्च पाण्डवाः। तेषां सम्बन्धिनश्चान्ये बहवश्च महाबलाः॥ को हि द्रुपदमासाद्य मित्रं क्षत्तः सबान्धवम्। न बुभूषेद् भवेनार्थी गतश्रीरपि पार्थिवः॥ वैशम्पायन उवाच तं तथा भाषमाणं तु विदुरः प्रत्यभाषत। नित्यं भवतु ते बुद्धिरेषा राजञ्छतं समाः। इत्युक्तवा प्रययौ राजन् विदुरः स्वं निवेशनम्॥ ततो दुर्योधनश्चापि राधेयश्च विशाम्पते। धृतराष्ट्रमुपागम्य वचोऽब्रूतामिदं तदा॥ संनिधौ विदुरस्य त्वां वक्तुं न शक्नुवः। विविक्तमिति वक्ष्याव: किं तवेदं चिकीर्षितम्॥ सपत्नवृद्धिं यत् तात मन्यसे वृद्धिमात्मनः। अभिष्टौषि च यत् क्षत्तुः समीपे द्विषतां वर॥ अन्यस्मिन् नृप कर्तव्ये त्वमन्यत् कुरुषेऽनघ। तेषां बलविधातो हि कर्तव्यस्तात नित्यशः॥ ते वयं प्राप्तकालस्य चिकीर्षा मन्त्रयामहे। यथा नो न गसेयुस्ते सपुत्रवलबान्धवान्॥ भीष्म उवाच न रोचते विग्रहो मे पाण्डुपुत्रैः कथंचन। यथैव धृतराष्ट्रो मे तथा पाण्डुरसंशयम्॥ गान्धार्याश्च यथा पुत्रास्तथा कुन्तीसुता मम। यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव॥ यथा च मम राज्ञश्च तथा दुर्योधनस्य ते। तथा कुरूणां सर्वेषामन्येषामपि पार्थिव॥ एवं गते विग्रहं तैर्न रोचे संधाय वीरैर्दीयतामर्धभूमिः। तेषामपीदं प्रपितामहानां राज्यं पितुश्चैव कुरूत्तमानाम्॥ दुर्योधन यथा राज्यं त्वमिदं तात पश्यसि। मम पैतृकमित्येवं तेऽपि पश्यन्ति पाण्डवाः॥ यदि राज्यं न ते प्राप्ताः पाण्डवेया यशस्विनः। कुत एव तवापीदं भारतस्यापि कस्यचित्॥ अधर्मेण च राज्यं त्वं प्राप्तवान् भरतर्षभ। तेऽपि राज्यमनुप्राप्ताः पूर्वमेवेति मे मतिः॥ मधुरेणैव राज्यस्य तेषामधु प्रदीयताम्। एतद्धि पुरुषव्याघ्र हितं सर्वजनस्य च॥ अतोऽन्यथा चेत् क्रियते न हितं नो भविष्यति। तवाप्यकीर्तिः सकला भविष्यति न संशयः॥ कीर्तिरक्षणमातिष्ठ कीर्तिर्हि परमं बलम्। नष्टकीर्तेर्मनुष्यस्य जीवितं ह्यफलं स्मृतम्॥ यावत्कीर्तिर्मनुष्यस्य न प्रणश्यति कौरव। तावज्जीवति गान्धारे नष्टकीर्तिस्तु नश्यति॥ तमिमं समुपातिष्ठ धर्मं कुरुकुलोचितम्। अनुरूपं महाबाहो पूर्वेषामात्मनः कुरु॥ दिष्ट्या ध्रियन्ते पार्था हि दिष्ट्या जीवति सा पृथा। दिष्ट्या पुरोचनः पापो न सकामोऽत्ययं गतः॥ यदा प्रभृति दग्धास्ते कुन्तिभोजसुतासुताः। तदा प्रभृति गान्धारे न शक्नोम्यभिवीक्षितुम्॥ लोके प्राणभृतां कंचिच्छ्रुत्वा कुन्ती तथागताम्। न चापि दोषेण तथा लोको मन्येत् पुरोचनम्। यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति॥ तदिदं जीवितं तेषां तव किल्विपनाशनम्। सम्मन्तव्यं महाराज पाण्डवानां च दर्शनम्॥ न चापि तेषां वीराणां जीवतां कुरुनन्दन। पित्र्योंऽशः शक्य आदातुमपि वज्रभृता स्वयम्॥ ते सर्वेऽवस्थिता धर्मे सर्वे चैवैकचेतसः। अधर्मेण निरस्ताश्च तुल्ये राज्ये विशेषतः॥ यदि धर्मस्त्वया कार्यो यदि कार्यं प्रियं च मे। क्षेमं च यदि कर्तव्यं तेषामधु प्रदीयताम्॥ द्रोण उवाच मन्त्राय समुपानीतैर्धराष्ट्र हितैर्नृप। धर्म्यमर्थ्य यशस्यं च वाच्यमित्यनुशुश्रुम्॥ ममाप्येषा मतिस्तात या भीष्मस्य महात्मनः। संवभिज्यास्तु कौन्तेया धर्म एष सनातनः॥ प्रेष्यतां द्रुपदायाशु नरः कश्चित् प्रियंवदः। बहुलं रत्नमादाय तेषामर्थाय भारत।॥ मिथः कृत्यं च तस्मै च आदाय वसु गच्छतु। वृद्धिं च परमां ब्रूयात् त्वत्संयोगोद्भवां तथा॥ सम्प्रीयमाणं त्वां ब्रूयाद् राजन् दुर्योधनं तथा। असकृद् द्रुपदे चैव धृष्टद्युम्ने च भारत॥ उचितत्वं प्रियत्वं च योगस्यापि च वर्णयेत्। पुनः पुनश्च कौन्तेयान् माद्रीपुत्रौ च सान्त्वयन्॥ हिरण्मयानि शुभ्राणि बहून्याभरणानि च। वचनात् तव राजेन्द्र द्रौपद्याः सम्प्रयच्छतु॥ तथा दुपदपुत्राणां सर्वेषां भरतर्षभ। पाण्डवानां च सर्वेषां कुन्त्या युक्तानि यानि च॥ एवं सान्त्वसमायुक्तं द्रुपदं पाण्डवैः सह। उक्त्वा सोऽनन्तरं ब्रूयात् तेषामागमनं प्रति॥ अनुज्ञातेषु वीरेषु बलं गच्छतु शोभनम्। दुःशासनो विकर्णश्चाप्यानेतुं पाण्डवानिह॥ ततस्ते पाण्डवाः श्रेष्ठाः पूज्यमानाः सदा त्वया। प्रकृतीनामनुमते पदे स्थास्यन्ति पैतृके॥ एतत् तव महाराज पुत्रेषु तेषु चैव हि। वृत्तयौपयिकं मन्ये भीष्मेण सह भारत॥ कर्ण उवाच योजितावर्थमानाभ्यां सर्वकार्येष्वनन्तरौ। न मन्त्रयेतां त्वच्छ्रेयः किमद्भुततरं ततः॥ दुष्टेन मनसा यो वै प्रच्छन्नेनान्तरात्मना। ब्रूयान्निःश्रेयसं नाम कथं कुर्यात् सतां मतम्॥ न मित्राण्यर्थकृच्छ्रेषु श्रेयसे चेतराय वा। विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम्॥ कृतप्रज्ञोऽकृतप्रज्ञो बालो वृद्धश्च मानवः। ससहायोऽसहायश्च सर्वं सर्वत्र विन्दति॥ श्रूयते हि पुरा कश्चिदम्बुवीच इतीश्वरः। आसीद् राजगृहे राजा मागधानां महीक्षिताम्॥ स हीनः करणैः सर्वैरुच्छ्वासपरमो नृपः। अमात्यसंस्थ: सर्वेषु कार्येष्वेवाभवत् तदा॥ तस्यामात्यो महाकर्णिर्बभूवैकेश्वरस्तदा। स लब्धवलमात्मानं मन्यमानोऽवमन्यते॥ स राज्ञ उपभोग्यानि स्त्रियो रत्नधनानि च। आददे सर्वशो मूढ ऐश्वर्यं च स्वयं तदा॥ तदादाय च लुब्धस्य लोभाल्लोभोऽप्यवर्धत। तथा हि सर्वमादाय राज्यमस्य जिहीर्षति॥ हीनस्य करणैः सर्वैरुच्छ्वासपरमस्य च। यतमानोऽपि तद् राज्यं न शशाकेति नः श्रुतम्॥ किमन्यद् विहिता नूनं तस्य सा पुरुषेन्द्रता। यदि ते विहितं राज्यं भविष्यति विशाम्पते॥ मिषतः सर्वलोकस्य स्थास्यते त्वयि तद् ध्रुवम्। अतोऽन्यथा चेद् विहितं यतमानो न लप्स्यसे॥ एवं विद्वन्नपादत्स्व मन्त्रिणां साध्वसाधुताम्। दुष्टानां चैव बोद्धव्यमदुष्टानां च भाषितम्॥ द्रोण उवाच विद्म ते भावदोषेण यदर्थमिदमुच्यते। दुष्ट पाण्डवहेतोस्त्वं दोषमाख्यापयस्युत॥ हितं तु परमं कर्ण ब्रवीमि कुलवर्धनम्। अथ त्वं मन्यसे दुष्टं ब्रूहि यत् परमं हितम्॥ अतोऽन्यथा चेत् क्रियते यद् ब्रवीमि परं हितम्। कुरवो वै विनक्षयन्ति नचिरेणैव मे मतिः॥ धृतराष्ट्र उवाच भीष्मः शांतनवो विद्वान् द्रोणश्च भगवानृषिः। हितं च परमं वाक्यं त्वं च सत्यं ब्रवीषि माम्॥ यथैव पाण्डोस्ते वीराः कुन्तीपुत्रा महारथाः। तथैव धर्मतः सर्वे मम पुत्रा न संशयः॥ यथैव मम पुत्राणामिदं राज्यं विधीयते। तथैव पाण्डुपुत्राणामिदं राज्यं न संशयः॥ क्षत्तरानय गच्छैतान् सह मात्रा सुसत्कृतान्। तया च देवरूपिण्या कृष्णया सह भारत॥ दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा। दिष्ट्या दुपदकन्यां च लब्धवन्तो महारथाः॥ दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरोचनः । दिष्ट्या मम परं दुःखमपनीतं महाद्युते॥ वैशम्पायन उवाच ततो जगाम विदुरो धृतराष्ट्रस्य शासनात्। सकाशं यज्ञसेनम्य पाण्डवानां च भारत॥ समुपादाय रत्नानि वसूनि विविधानि च। द्रौपद्याः पाण्डवानां च यज्ञसेनस्य चैव ह॥ तत्र गत्वा स धर्मज्ञः सर्वशास्त्रविशारदः। दुपदं न्यायतो राजन् संयुक्तमुपतस्थिवान्॥ स चापि प्रतिजग्राह धर्मेण विदुरं ततः। चक्रतुश्च यथान्यायं कुशलप्रश्नसंविदम्॥ ददर्श पाण्डवांस्तत्र वासुदेवं च भारत। स्नेहात् परिष्वज्य स तान् पप्रच्छानामयं ततः॥ तैश्चाप्यमितबुद्धिः स पूजितो हि यथाक्रमम्। वचनाद् धृतराष्ट्रस्य स्नेहयुक्तं पुनः पुनः॥ पप्रच्छानामयं राजंस्ततस्तान् पाण्डुनन्दनान्। प्रददौ चापि रत्नानि विविधानि वसूनि च॥ पाण्डवानां च कुन्त्याश्च द्रौपद्याश्च विशाम्पते। द्रुपदस्य च पुत्राणां यथा दत्तानि कौरवैः॥ प्रोवाच चामितमतिः प्रश्रितं विनयान्वितः। द्रुपदं पाण्डुपुत्राणां संनिधौ केशवस्य च॥ विदुर उवाच राजञ्छृणु सहामात्यः सपुत्रश्च वचो मम। धृतराष्ट्रः सपुत्रस्त्वां सहामात्यः सबान्धवः॥ अब्रवीत् कुशलं राजन् प्रीयमाणः पुनः पुनः। प्रीतिमांस्ते दृढं चापि सम्बन्धेन नराधिप॥ तथा भीष्मः शांतनवः कौरवैः सह सर्वशः। कुशलं त्वां महाप्राज्ञः सर्वतः परिपृच्छति॥ भारद्वाजो महाप्राज्ञो द्रोणः प्रियसखस्तव। समाश्लेषमुपेत्य त्वां कुशलं परिपृच्छति॥ धृतराष्ट्रश्च पाञ्चाल्य त्वया सम्बन्धमीयिवान्। कृतार्थं मन्यतेऽत्मानं तथा सर्वेऽपि कौरवाः॥ न तथा राज्यसम्प्राप्तिस्तेषां प्रीतिकरी मता। यथा सम्बन्धकं प्राप्य यज्ञसेन त्वया सह॥ एतद् विदित्वा तुभवान् प्रस्थापयतु पाण्डवान्। द्रष्टुं हि पाण्डुपुत्रांश्च त्वरन्ति कुरवो भृशम्॥ विप्रोषिता दीर्घकालमेते चापि नरर्षभाः। उत्सुका नगरं द्रष्टुं भविष्यन्ति तथा पृथा॥ कृष्णामपि च पाञ्चालीं सर्वाः कुरुवरस्त्रियः। द्रष्टुकामाः प्रतीक्षन्ते पुरं च विषयाश्च नः॥ स भवान् पाण्डुपुत्राणामाज्ञापयतु मा चिरम्। गमनं सहदाराणामेतदत्र मतं मम॥ निसृष्टेषु त्वया राजन् पाण्डवेषु महात्मसु। ततोऽहं प्रेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान्। आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया॥ दुपद उवाच एवमेतन्महाप्राज्ञ यथाऽऽत्थ विदुराद्य माम्। ममापि परमो हर्षः सम्बन्धेऽस्मिन् कृते प्रभो॥ गमनं चाप युक्तं स्याद् दृढमेषां महात्मनाम्। न तु तावन्मया युक्तमेतद् वक्तुं स्वयं गिरा।॥ यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः। भीमसेनार्जुनो चैव यमौ च पुरुषर्षभौ॥ रामकृष्णौ च धर्मज्ञो तदा गच्छन्तु पाण्डवाः। एतौ हि पुरुषव्याघ्रावेषां प्रियहिते रतौ॥ युधिष्ठिर उवाच परवन्तो वयं राजंस्त्वयि सर्वे सहानुगाः। यथा वक्ष्यसि नः प्रीत्या तत् करिष्यामहे वयम्॥ वैशम्पायन उवाच ततोऽब्रवीद् वासुदेवो गमनं रोचते मम। यथा वा मन्यते राजा दुपदः सर्वधर्मवित्॥ दुपद उवाच यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः। प्राप्तकालं महाबाहुः सा बुद्धिनिश्चिता मम॥ यथैव हि महाभागाः कौन्तेया मम समाप्रतम्। तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः॥ न तद् ध्यायति कौन्तेयः पाण्डुपुत्रो युधिष्ठिरः। यथैषां पुरुषव्याघ्रः श्रेयो ध्यायति केशवः॥ वैशाम्पायन उवाच ततस्ते समनुज्ञाता दुपदेन महात्मना। पाण्डवाश्चैव कृष्णश्च विदुरश्च महीपते॥ आदाय द्रौपदी कृष्णां कुन्तीं चैव यशस्विनीम्। सविहारं सुर जग्मुर्नगरं नागसाह्वयम्॥ श्रुत्वा चाप्यागतान् वीरान् धृतराष्ट्रो जनेश्वरः। प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान्॥ विकर्णं च महेष्वासं चित्रसेनं च भारत। द्रोणं च परमेष्वासं गौतमं कृपमेव च।॥ तैस्ते परिवृता वीराः शोभमाना महाबलाः। नगरं हास्तिनपुरं शनैः प्रविविशुस्तदा॥ कौतूहलेन नगरं दीप्यमानमिवाभवत्। तत्र ते पुरुषव्याघ्राः शोकदुःखविनाशनाः॥ तत उच्चावचा वाचः पौरैः प्रियचिकीर्षुभिः। उदीरिता अशृण्वंस्ते पाण्डवा हृदयंगमाः॥ अयं स पुरुषव्याघ्रः पुनरायाति धर्मवित्। यो नः स्वानिव दायादान् धर्मेण परिरक्षति॥ अद्य पाण्डुर्महाराजो वनादिव जनप्रियः। आगतः प्रियमस्माकं चिकीर्षुर्नात्र संशयः॥ किं नु नाद्य कृतं तात सर्वेषां नः परं प्रियम्। यन्नः कुन्तीसुता वीरा नगरं पुनरागताः॥ यदि दत्तं यदि हुतं विद्यते यदि नस्तपः। तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम्॥ ततस्ते धृतराष्र्ण्य भीष्मस्य च महात्मनः। अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम्॥ कृत्वा तु कुशलप्रश्नं सर्वेण नगरेण च। न्यविशन्ताथ वेश्मानि धृतराष्ट्रस्य शासनात्॥ विश्रान्तास्ते महात्मान: कंचित् कालं महाबलाः। आहूता धृतराष्ट्रेण राज्ञा शांतनवेन च॥ धृतराष्ट्र उवाच भ्रातृभिः सह कौन्तेय निबोध गदतो मम। पुनर्वो विग्रहो मा भूत् खाण्डवप्रस्थमाविश॥ न च वो वसतस्तत्र कश्चिच्छक्तः प्रबाधितुम्। संरक्ष्यमाणान् पार्थेन त्रिदशानिव वज्रिणा॥ अर्धं राज्यस्य सम्प्राप्य खाण्डवप्रस्थमाविश। वैशम्पायन उवाच प्रतिगृह्य तु तद् वाक्यं नृपं सर्वे प्रणम्य च॥ प्रतस्थिरे ततो घोरं वनं तन्मनुजर्षभाः। अर्धं राज्यस्य सम्प्राप्य खाण्डवप्रस्थमाविशन्॥ ततस्ते पाण्डवास्तत्र गत्वा कृष्णपुरोगमाः। मण्डयां चक्रिरे तद् वै परं स्वर्गवदच्युताः॥ ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः। नगरं मापयामासुद्वैपायनपुरोगमाः॥ सागरप्रतिरूपाभिः परिखाभिरलंकृतम्। प्राकारेण च सम्पन्नं दिवमावृत्य तिष्ठता॥ पाण्डुराभ्रप्रकाशेन हिमरश्मिनिभेन च। शुशुभे तत् पुरश्रेष्ठं नागैर्भोगवती यथा॥ द्विपक्षगरुडप्रख्यारैः सौधैश्च शोभितम्। गुप्तमभ्रचयप्रख्यैर्गोपुरैर्मन्दरोपमैः॥ विविधैरपि निर्विः शस्त्रोपेतैः सुसंवृतैः। शक्तिभिश्चावृतं तद्धि द्विजिलैरिव पन्नगैः॥ तल्पैश्चाभ्यासिकैर्युक्तं शुशुभे योधरक्षितम्। तीक्ष्णारूशशतघ्नीभिर्यन्त्रजालैश्च शोभितम्॥ आयसैश्च महाचक्रैः शुशुभे तत् पुरोत्तमम्। सुविभक्तमहारथ्यं देवतावाधवर्जितम्॥ विरोचमानं विविधैः पाण्डुरैर्भवनोत्तमैः। तत् त्रिविष्टपसंकाशमिन्द्रप्रस्थं व्यरोचत॥ मेघवृन्दमिवाकाशे विद्धं विद्युत्समावृतम्। तत्र रम्ये शिवे देशे कौरव्यस्य निवेशनम्॥ शुशुभे धनसम्पूर्ण धनाध्यक्षक्षयोपमम्। तत्रागच्छन् द्विजा राजन् सर्ववेदविदां वराः॥ निवासं रोचयन्ति स्म सर्वभाषाविस्तथा। वणिजश्चाययुस्तत्र नानादिग्भ्यो धनार्थिनः॥ सर्वशिल्पविदस्तत्र वासायाभ्यागमंस्तदा। उद्यानानि च रम्याणि नगरस्य समन्ततः॥ आप्रैराम्रातकैनीपैरशोकैश्चम्पकैस्तथा। पुन्नागैर्नागपुष्पैश्च लकुचैः पनसैस्तथा॥ शालतालतमालैश्च बकुलैश्च सकेतकैः। मनोहरैः सुपुष्पैश्च फलभारावनामितैः॥ प्राचीनामलकैलॊधेरकोलैश्च सुपुष्पितैः। जम्बूभिः पाटलाभिश्च कुब्जकैरतिमुक्तकैः॥ करवीरैः पारिजातैरन्यैश्च विविधैर्दुमैः। नित्यपुष्पफलोपेते नाद्विजगणायुतैः॥ मत्तवहिणसंघुष्टकोकिलैश्च सदामदैः। गृहैरादर्शविमलैर्विविधैश्च लतागृहैः॥ मनोहरैचित्रगृहैस्तथाजगतिपर्वतैः। वापीभिर्विविधाभिश्च पूर्णाभिः परमाम्भसा॥ सरोभिरतिरम्यैश्च पद्मोत्पलसुगन्धिभिः। हंसकारण्डवयुतैश्चक्रवाकोपशोभितैः॥ रम्याश्च विविधास्तत्र पुष्करिण्यो वनावृताः। तडागानि च रम्याणि बृहन्ति सुबहूनि च॥ तेषां पुण्यजनोपेतं राष्ट्रमाविशतां महत्। पाण्डवानां महाराज शश्वत् प्रीतिरवर्धत्॥ तत्र भीष्मेण राज्ञा च धर्मप्रणयने कृते। पाण्डवाः समपद्यन्त खाण्डवप्रस्थवासिनः॥ पञ्चभिस्तैर्महेष्वासैरिन्द्रकल्पैः समन्वितम्। शुशुभे तत् पुरश्रेष्ठं नागैर्भोगवती यथा॥ तां निवेश्य ततो वीरो रामेण सह केशवः। ययौ द्वारवती राजन् पाण्डवानुमते तदा॥ जनमेजय उवाच एवं सम्प्राप्य राज्यं तदिन्द्रप्रस्थं तपोधन। अत ऊर्ध्वं महात्मानः किमकुर्वत पाण्डवाः॥ सर्व एव महासत्त्वा मम पूर्वपितामहाः। द्रौपदी धर्मपत्नी च कथं तानन्ववर्तत।॥ कथं च पञ्च कृष्णायामेकस्यां ते नराधिपाः। वर्तमाना महाभागा नाभिद्यन्त परस्परम्॥ श्रोतुमिच्छाम्यहं सर्वं विस्तरेण तपोधन। तेषां चेष्टितमन्योन्यं युक्तानां कृष्णया सह॥ वैशम्पायन उवाच धृतराष्ट्राभ्यनुज्ञाता: कृष्णया सह पाण्डवाः। रेमिरे खाण्डवप्रस्थे प्राप्तराज्या: परंतपाः॥ प्राप्य राज्यं महातेजाः सत्यसंधो युधिष्ठिरः। पालयामास धर्मेण पृथिवीं भ्रातृभिः सह॥ जितारयो महाप्रज्ञाः सत्यधर्मपरायणाः। मुदं परमिकां प्राप्तास्तत्रोषुः पाण्डुनन्दनाः॥ कुर्वाणां पौरकार्याणि सर्वाणि पुरुषर्षभाः। आसांचक्रुर्महार्हेषु पार्थिवेष्वासनेषु च॥ अथ तेषूपविष्टेषु सर्वेष्वेव महात्मसु। नारदस्त्वथ देवर्षिराजगाम यदृच्छया॥ तमागतमृर्षि दृष्ट्वा प्रत्युद्गम्याभिवाद्यच। आसनं रुचिरं तस्मै प्रददौ स्वं युधिष्ठिरः। देवर्षेरुपविष्टस्य स्वयमर्थ्य यथाविधि॥ प्रादाद् युधिष्ठिरो धीमान् राज्यं तस्मै न्यवेदयत्। प्रतिगृह्य तु तां पूजामृषिः प्रीतमनास्तदा॥ आशीभिर्वर्धयित्वा च तमुवाचास्यतामिति। निषसादाभ्यनुज्ञातस्ततो राजा युधिष्ठिरः॥ कथयामास कृष्णायै भगवन्तमुपस्थितम्। श्रुत्वैतद् द्रौपदी चापि शुचिर्भूत्वा समाहिता॥ जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह। तस्याभिवाद्य चरणौ देवर्षेर्धर्मचारिणी॥ कृताञ्जलिः सुसंवीता स्थिताथ दुपदात्मजा। तस्याश्चापि स धर्मात्माः सत्यवागृषिसत्तमः॥ आशिषो विविधाः प्रोच्य राजपुत्र्यास्तु नारदः। गम्यतामिति होवाच भगवांस्तामनिन्दिताम्॥ गतायामथ कृष्णायां युधिष्ठिरपुरोगमान्। विविक्ते पाण्डवान् सर्वानुवाच भगवानृपिः॥ नारद उवाच पाञ्चाली भवतामेका धर्मपत्नी यशस्विनी। यथा वो नात्र भेदः स्यात् तथा नीतिविधीयताम्॥ सुन्दोपसुन्दौ हि पुरा भ्रातरौ सहितावुभौ। आस्तामवध्यावन्येषां त्रिषु लोकेषु विश्रुतौ॥ एकराज्यावेकगृहावेकश्यायसनाशनौ। तिलोत्तमायास्तौ हेतोरन्योन्यमभिजघ्नतुः॥ रक्ष्यतां सौहृदं तस्मादन्योन्यप्रीतिभावकम्। यथा वो नात्र भेदः स्यात् तत् कुरुष्व युधिष्ठिर॥ युधिष्ठिर उवाच सुन्दोपसुन्दावसुरौ कस्य पुत्रौ महामुने। उत्पन्नश्च कथं भेदः कथं चान्योन्यमनताम्॥ अप्सरा देवकन्या वा कस्य चैषा तिलोत्तमा। यस्याः कामेन सम्मत्तौ जघ्नतुस्तौ परस्परम्॥ एतत् सर्वं यथावृत्तं विस्तरेण तपोधन। श्रोतुमिच्छामहे ब्रह्मन् परं कौतूहलं हि नः॥ नारद उवाच शृणु मे विस्तरेणेममितिहासं पुरातनम्। भ्रातृभिः सहितः पार्थ यथावृत्तं युधिष्ठिर॥ महासुरस्यान्ववाये हिरण्यकशिपोः पुरा। निकुम्भो नाम दैत्येन्द्रस्तेजस्वी बलवानभूत्॥ तस्य पुत्रौ महावी? जातौ भीमपराक्रमौ। सुन्दोपसुन्दौ दैत्येन्द्रौ दारुणौ क्रूरमानसौ॥ तावेकनिश्चयौ दैत्यावेककार्यार्थसम्मतौ। निरन्तरमवर्तेतां समदुःखसुखावुभौ॥ विनान्योन्यं न भुञ्जाते विनान्योन्यं न जल्पतः। अन्योन्यस्य प्रियकरावन्योन्यस्य प्रियंवदौ॥ एकशीलसमाचारौ द्विधैवैकोऽभवत् कृतः। तौ विवृद्धौ महावीर्यो कार्येष्वप्येकनिश्चयौ॥ त्रैलोक्यविजयार्थाय समाधायैकनिश्चयम्। दीक्षां कृत्वा गतौ विन्ध्यं तावुनं तेपतुस्तपः॥ तौ त दीर्पण कालेन तपोयुक्तौ बभूवतुः। क्षुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ। मलोपचितसर्वाङ्गौ वायुभक्षौ बभूवतुः। आत्ममांसानि जुह्वन्तौ पादाङ्गुष्ठाग्रविष्ठितौ। ऊर्ध्ववाहू चानिमिषौ दीर्घकालं धृतव्रतौ॥ तयोस्तपःप्रभावेण दीर्घकालं प्रतापितः। धूमं प्रमुमुचे विन्ध्यस्तद्भुतमिवाभवत्॥ ततो देवा भयं जग्मुरुयं दृष्ट्वा तयोस्तपः। तपोविधातार्थमथो देवा विनानि चक्रिरे॥ रत्नैः प्रलोभयामासुः स्त्रीभिश्चोभौ पुनः पुनः। न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ॥ अथ मायां पुनर्देवास्तयोश्चक्रुर्महात्मनोः। भगिन्यो मातरो भार्यास्तयोश्चात्मजनस्तथा।॥ प्रपात्यमाना विस्रस्ताः शूलहस्तेन रक्षसा। भ्रष्टाभरणकेशान्ता भ्रष्टाभरणवाससः॥ अभिभाष्य ततः सर्वास्तौ त्राहीति विचुक्रुशुः। न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ॥ यदा क्षोभं नोपयाति नार्तिमन्यतरस्तयोः। ततः स्त्रियस्ता भूतं च सर्वमन्तरधीयत॥ ततः पितामहः साक्षादभिगम्य महासुरौ। वरेणच्छन्दयामास सर्वलोकहितः प्रभुः॥ ततः सुन्दोपसुन्दौ तौ भ्रातरौ दृढविक्रमौ। दृष्ट्वा पितामहं देवं तस्थतुः प्राञ्जली तदा॥ ऊचतुश्च प्रभुं देवं ततस्तौ सहितौ तदा। आवयोस्तपसानेन यदि प्रीतः पितामहः॥ मायाविदावस्त्रविदौ बलिनौ कामरूपिणौ। उभावप्यमरौ स्यावः प्रसन्नो यदि नौ प्रभुः।॥ ब्रह्मोवाच ऋतेऽमरत्वं युवयोः सर्वमुक्तं भविष्यति। अन्यद् वृणीतं मृत्योश्च विधानममरैः समम्॥ प्रभविष्याव इति यन्महदभ्युद्यतं तपः। युवयोर्हेतुनानेन नामरत्वं विधीयते॥ त्रैलोक्यविजयार्थाय भवद्भ्यामास्थितं तपः। हेतुनानेन दैत्येन्द्रौ न वा कामं करोम्यहम्॥ सुन्दोपसुन्दावूचतुः त्रिषु लोकेषु यद् भूतं किंचित् स्थावरजङ्गमम्। सर्वस्मान्नो भयं न स्यादृतेऽन्योन्यं पितामह॥ पितामह उवाच यत् प्रार्थितं यथोक्तं च काममेतद् ददानि वाम्। मृत्योर्विधानमेतच्च यथावद् वा भविष्यति॥ नारद उवाच ततः पितामहो दत्त्वा वरमेतत् तदा तयोः। निवर्त्य तपसस्तौ च ब्रह्मलोकं जगाम ह॥ लब्ध्वा वराणि दैत्येन्द्रावथ तौ भ्रातरावुभौ। अवध्यौ सर्वलोकस्य स्वमेव भवनं गतौ॥ तौ तु लब्धवरौ दृष्ट्वा कृतकामौ मनस्विनौ। सर्वः सुहृज्जनस्ताभ्यां प्रहर्षमुपजग्मिवान्॥ ततस्तौ तु जटा भित्त्वा मौलिनौ सम्बभूवतुः। महार्हाभरणोपेतौ विरजोऽम्बरधारिणौ॥ अकालकौमुदी चैव चक्रतुः सार्वकालिकीम्। नित्यप्रमुदितः सर्वस्तयोश्चैव सुहृज्जनः॥ भक्ष्यतां भुज्यतां नित्यं दीयतां रम्यतामिति। गीयतां पीयतां चेति शब्दश्चासीद् गृहे गृहे॥ तत्र तत्र महानादैरुत्कृष्टतलनादितैः। हृष्टं प्रमुदितं सर्वं दैत्यानामभवत् पुरम्॥ तैस्तैर्विहारैर्बहुभिर्दैत्यानां कारुपिणाम्। समाः संक्रीडतां तेषामहरेकमिवाभवत्॥ नारद उवाच उत्सवे वृत्तमात्रे तु त्रैलोक्याकाक्षिणावुभौ। मन्त्रयित्वा ततः सेनां तावाज्ञापयतां तदा॥ सुहृद्भिरप्यनुज्ञातौ दैत्यैर्वृद्धैश्च मन्त्रिभिः। कृत्वा प्रास्थानिकं रात्रौ मघासु ययतुस्तदा॥ गदापट्टिशधारिण्या शूलमुद्गरहस्तया। प्रस्थितौ सह वर्मिण्या महत्या दैत्यसेनया॥ मङ्गलैः स्तुतिभिश्चापि विजयप्रतिसंहितैः। चारणैः स्तूयमानो तौ जग्मतुः परया मुदा॥ तावन्तरिक्षमुत्प्लुत्य दैत्यौ कामगमावुभौ। देवानामेव भवनं जग्मतुर्युद्धदुर्मदौ॥ तयोरागमनं ज्ञात्वा वरदानं च तत् प्रभोः। हित्वा त्रिविष्टपं जग्मुर्ब्रह्मलोकं ततः सुराः॥ ताविन्द्रलोकं निर्जिय यक्षरक्षोगणांस्तदा। खेचराण्यपि भूतानि जनतुस्तीव्रविक्रमौ॥ अन्तर्भूमिगतान् नागाञ्जित्वा तौ च महारथौ। समुद्रवासिनीः सर्वा म्लेच्छजातीर्विजिग्यतुः॥ ततः सर्वां महीं जेतुमारब्धावुग्रशासनौ। सैनिकांश्च समाहूय सुतीक्ष्णं वाक्यमूचतुः॥ राजर्षयो महायज्ञैर्हव्यकव्यैर्द्विजातयः। तेजो बलं च देवानां वर्धयन्ति श्रियं तथा॥ तेषामेवंप्रवृत्तानां सर्वेषामसुरद्विषाम्। सम्भूय सर्वैरस्माभिः कार्यः सर्वात्मना वधः॥ एवं सर्वान् समादिश्य पूर्वतीरे महोदधेः। क्रूरां मतिं समास्थाय जग्मतुः सर्वतोमुखौ॥ यज्ञैर्यजन्ति ये केचिद् याजयन्ति च ये द्विजाः। तान् सर्वान् प्रसभं हत्वा बलिनौ जग्मतुस्ततः॥ आश्रमेष्वग्निहोत्राणि मुनीनां भावितात्मनाम्। गृहीत्वा प्रक्षिपन्त्यप्सु विश्रब्धं संनिकास्तयोः॥ तपोधनैश्च ये क्रुद्धैः शापा उक्ता महात्मभिः। नाक्रामन्त तयोस्तेऽपि वरदाननिराकृताः॥ नाक्रामन्त यदा शापा बाणा मुक्ताः शिलास्विव। नियमान् सम्परित्यज्य व्यद्रवन्त द्विजातयः॥ पृथिव्यां ये तप:सिद्धा दान्ताः शमपरायणाः। तयोर्भयाद् दुदुवुस्ते वैनतेयादिवोरगाः॥ मथितैराश्रमैर्भग्नैर्विकीर्णकलशनुवैः। शून्यमासीज्जगत् सर्वं कालेनेव हतं तदा॥ ततो राजन्नदृश्यद्भिर्ऋषिभिश्च महासुरौ। उभौ विनिश्चयं कृत्वा विकुर्वाते वधैषिणौ॥ प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ। संलीनमपि दुर्गेषु निन्यतुर्यमसादनम्॥ सिंहौ भूत्वा पुनर्व्याघ्रौ पुनश्चान्तर्हितावुभौ। तैस्तैरुपायैस्तौ क्रूरावृषीन् दृष्ट्वा निजजतुः॥ निवृत्तयज्ञस्वाध्याया प्रणष्टनृपतिद्विजा। उत्सन्नोत्सवयज्ञा च बभूव वसुधा तदा॥ हाहाभूता भयार्ता च निवृत्तविपणापणा। निवृत्तदेवकार्या च पुण्योद्वाहविवर्जिता॥ निवृत्तकृषिगोरक्षा विध्वस्तनगराश्रमा। अस्थिकङ्कालसंकीर्णा भूर्वभूवोग्रदर्शना॥ निवृत्तपितृकार्यं च निर्वषट्कारमङ्गलम्। जगत् प्रतिभयाकारं दुष्प्रेक्ष्यमभवत् तदा॥ चन्द्रादित्यौ ग्रहास्तारा नक्षत्राणि दिवौकसः। जग्मुर्विषादं तत् कर्म दृष्ट्वा सुन्दोपसुन्दयोः॥ एवं सर्वा दिशो दैत्यौ जित्वा क्रूरेण कर्मणा। निःसप्नौ कुरुक्षेत्रे निवेशमभिचक्रतुः॥ नारद उवाच जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ। कृत्वा त्रैलोक्यमव्यग्रं कृतकृत्यौ बभूवतुः॥ देवगन्धर्वयक्षाणां नागपार्थिवरक्षसाम्। आदाय सर्वरत्नानि परां तुष्टिमुपागतौ॥ यदा न प्रतिषेद्धारस्तयोः सन्तीह केचन। निरुद्योगौ तदा भूत्वा विजह्रातेऽमराविव॥ स्त्रीभिर्माल्यैश्च गन्धैश्च भक्ष्यभोज्यैः सुपुष्कलैः। पानैश्च विविधैर्हद्यैः परां प्रीतिमवापतुः॥ अन्तःपुरवनोद्याने पर्वतेषु वनेषु च। यथेप्सितेषु देशेषु विजह्रातेऽमराविव॥ ततः कदाचिद् विन्ध्यस्य प्रस्थे समशिलातले। पुष्पिताग्रेषु शालेषु विहारमभिजग्मतुः॥ दिव्येषु सर्वकामेषु समानीतेषु तावुभौ। वरासनेषु संहृष्टौ सह स्त्रीभिर्निषीदतुः॥ ततो वादिनृत्याभ्यामुपातिष्ठन्त तौ स्त्रियः। गीतेश्च स्तुतिसंयुक्तैः प्रीत्या समुपजग्मिरे॥ ततस्तिलोत्तमा तत्र बने पुष्पाणि चिन्वती। वेशं साऽऽक्षिप्तमाधाय रक्तेनैकेन वाससा॥ नदीतीरेषु जातान् सा कर्णिकारान् प्रचिन्वती। शनैर्जगाम तं देशं यत्रास्तां तौ महासुरौ॥ तौ तु पीत्वा वरं पानं मदरक्तान्तलोचनौ। दृष्ट्वैव तां वरारोहां व्यथितौ सम्बभूवतुः॥ तावुत्थायासनं हित्वा जग्मतुर्यत्र सा स्थिता। उभौ च कामसम्मत्तावुभौ प्राथर्यतश्च ताम्॥ दक्षिणे तां करे सुभ्रं सुन्दो जग्राह पाणिना। उपसुन्दोऽपि जग्राह वामे पाणौ तिलोत्तमाम्॥ वरप्रदानमत्तौ तावौरसेन बलेन च। धनरत्नमदाभ्यां च सुरापानमदेन च॥ सवैरतैर्मदैर्मत्तावन्योन्यं भृकुटीकृतौ। मदकामसमाविष्टौ परस्परमथोचतुः॥ मम भार्या तव गुरुरिति सुन्दोऽभ्यभाषत। मम भार्या तव वधूरुपसुन्दोऽभ्यभाषत॥ नैषा तव ममैषेति ततस्तौ मन्युराविशत्। तस्या रूपेण सम्पत्तौ विगतस्नेहसौहृदौ॥ तस्या हेतोर्गदे भीमे संगृहणीतावुभौ तदा। प्रगृह्य च गदे भीमे तस्यां तौ काममोहितौ॥ अहं पूर्वमहं पूर्वमित्यन्योन्यं निजघ्नतुः। तौ गदाभिहतौ भीमौ पेततुर्धरणीतले॥ रुधिरेणावसिक्ताङ्गौ द्वाविवाौं नभश्च्युतौ। ततस्ता विद्रुता नार्यः स च दैत्यगणस्तथा॥ पातालमगमत् सर्वो विषाद्भयकम्पितः। ततः पितामहस्तत्र सह देवैर्महर्षिभिः॥ आजगाम विशुद्धात्मा पूजयंश्च तिलोत्तमाम्। वरेणच्छन्दयामास भगवान् प्रपितामहः॥ वरं दित्सुः स तत्रैनां प्रीतः प्राह पितामहः। आदित्यचरिताल्लोकान् विचरिष्यसि भाविनि॥ तेजसा च सुदृष्टां त्वां न करिष्यति कश्चन। एवं तस्यै वरं दत्त्वा सर्वलोकपितामहः॥ इन्द्रे त्रैलोक्यमाधाय ब्रह्मलोकं गतः प्रभुः। नारद उवाच एवं तौ सहितौ भूत्वा सर्वार्थेष्वेकनिश्चयौ॥ तिलोत्तमार्थं संक्रुद्धावन्योन्यमभिजघ्नतुः। तस्माद् ब्रवीमि वः स्नेहात् सर्वान् भरतसत्तमाः॥ यथा वो नात्र भेदः स्यात् सर्वेषां द्रौपदीकृते। तथा कुरुत भद्रं वो मम चेत् प्रियमिच्छथ॥ वैशम्पायन उवाच एवमुक्ता महात्मानो नारदेन महर्षिणा। समयं चक्रिरे राजस्तेऽन्योन्यवशमागताः। समक्षं तस्य देवर्षेनारदस्यामितौजसः॥ द्रौपद्या नः सहासीनानन्योन्यं योऽभिदर्शयत्। स नो द्वादश वर्षाणि ब्रह्मचारी वने वसेत्॥ कृते तु समये तस्मिन् पाण्डवैर्धर्मचारिभिः। नारदोऽप्यगमत् प्रीत इष्टं देशं महामुनिः॥ एवं तैः समयः पूर्वं कृतो नारदचोदितैः। न चाभिद्यन्त ते सर्वे तदान्योन्येन भारत॥ वैशम्पायन उवाच तं प्रयान्तं महाबाहुं कौरवाणां यशस्करम्। अनुजग्मुर्महात्मानो ब्राह्मणा वेदपारगाः॥ वेदवेदाङ्गविद्वांसस्तथैवाध्यात्मचिन्तकाः। भैक्षाश्च भगवद्भक्ताः सूताः पौराणिकाश्च ये॥ कथकाश्चापरे राजन् श्रमणाश्च वनौकसः। दिव्याख्यानानि ये चापि पद्दन्ति मधुरं द्विजाः॥ एतैश्चान्यैश्च बहुभिः सहायैः पाण्डुनन्दनः। वृतः श्लक्ष्णकथैः प्रायान्मरुद्भिरिव वासवः॥ रमणीयानि चित्राणि वनानि च सरांसि च। सरितः सागरांश्चैव देशानपि च भारत॥ पुण्यान्यपि च तीर्थानि ददर्श भरतर्षभः। स गङ्गाद्वारमाश्रित्य निवेशमकरोत् प्रभुः॥ तत्र तस्याद्भुतं कर्म शृणु त्वं जनमेजय। कृतवान् यद् विशुद्धात्मा पाण्डूनां प्रवरो हि सः॥ निविष्टे तत्र कौन्तेये ब्राह्मणेषु च भारत। अग्निहोत्राणि विप्रास्ते प्रादुश्चक्रुनेकशः॥ तेषु प्रबोध्यमानेषु ज्वलितेषु हुतेषु च। कृतपुष्पोपहारेषु तीरान्तरगतेषु च।॥ कृताभिषेकैर्विद्वद्भिर्नियतैः सत्पथि स्थितैः। शुशुभेऽतीव तद् राजन् गङ्गाद्वारं महात्मभिः॥ तथा पर्याकुले तस्मिन् निवेशे पाण्डवर्षभः। अभिषेकाय कौन्तेयो गङ्गामवततार ह॥ तत्राभिषेकं कृत्वा स तर्पयित्वा पितामहान्। उत्तितीर्घर्जलाद् राजन्नग्निकार्यचिकीर्षया॥ अपकृष्टो महाबाहुर्नागराजस्य कन्यया। अन्तर्जले महाराज उलूप्या कामयानया॥ ददर्श पाण्डवस्तत्र पावकं सुसमाहितः। कौरव्यस्याथ नागस्य भवने परमार्चिते॥ तत्राग्निकार्यं कृतवान् कुन्तीपुत्रो धनंजयः। अशरूमानेन हुतस्तेनातुष्यद्भुताशनः॥ अग्निकार्यं स कृत्वा तु नागराजसुतां तदा। प्रहसन्निव कौन्तेय इदं वचनमब्रवीत्॥ किमिदं साहसं भीरु कृतवत्यसि भाविनि। कश्चायं सुभगे देशः का च त्वं कस्य वाऽत्मजा॥ उलूप्युवाच ऐरावतकुले जातः कौरव्यो नाम पन्नगः। तस्यास्मि दुहिता राजन्नुलूपी नाम पन्नगी॥ साहं त्वामभिषेकार्थमवतीर्णं समुद्रगाम्। दृष्टैव पुरुषव्याघ्र कन्दर्पणाभिमूर्छिता॥ तां मामनङ्गग्लपितां त्वत्कृते कुरुनन्दन। अनन्यां नन्दयस्वाद्य प्रदानेनात्मनोनघ॥ अर्जुन उवाच ब्रह्मचर्यमिदं भद्रे मम द्वादशवार्षिकम्। धर्मराजेन चादिष्टं नाहमस्मि स्वयंवशः॥ तव चापि प्रियं कर्तुमिच्छामि जलचारिणि। अनृतं नोक्तपूर्वं च मया किंचन कर्हिचित्॥ कथं च नानृतं मे स्यात् तव चापि प्रियं भवेत्. न च पीड्येत मे धर्मस्तथा कुर्या भुजङ्गमे॥ उलूप्युवाच जानाम्यहं पाण्डवेय यथा चरसि भेदिनीम्। यथा च ते ब्रह्मचर्यमिदमादिष्टवान् गुरुः॥ परस्परं वर्तमानान् दुपदस्यात्मजां प्रति। यो नोऽनुप्रविशेन्मोहात् स वै द्वादशवार्षिकम्॥ वने चरेद् ब्रह्मचर्यमिति वः समयः कृतः। तदिदं द्रौपदीहेतोरन्योन्यस्य प्रवासनम्॥ कृतवांस्तत्र धर्मार्थमत्र धर्मो न दुष्यति। परित्राणं च कर्तव्यमार्तानां पृथुलोचन॥ कृत्वा मम परित्राणं तव धर्मो न लुप्यते। यदि वाप्यस्य धर्मस्य सूक्ष्मोऽपि स्याद् व्यतिक्रमः॥ स च ते धर्म एव स्याद् दत्त्वा प्राणान् ममार्जुन। भक्तां च भज मां पार्थ सतामेतन्मतं प्रभो॥ न करिष्यसि चेदेवं मृतां मामुपधारय। प्राणदानान्महाबाहो चर धर्ममनुत्तमम्॥ शरणं च प्रपन्नास्मि त्वामद्य पुरुषोत्तम। दीनाननाथान् कौन्तेय परिरक्षसि नित्यशः॥ साहं शरणमभ्येमि रोरवीमि च दुःखिता। याचे त्वां चाभिकामाहं तस्मात् कुरु मम प्रियम्। स त्वमात्मप्रदानेन सकामां कर्तुमर्हसि॥ वैशम्पायन उवाच एवमुक्तस्तु कौन्तेयः पन्नगेश्वरकन्यया। कृतवांस्तत् तथा सर्वं धर्ममुद्दिश्य कारणम्॥ स नागभवने रात्रिं तामुषित्वा प्रतापवान्। उदितेऽभ्युत्थितः सूर्ये कौरव्यस्य निवेशनात्॥ आगतस्तु पुनस्तत्र गङ्गाद्वारं तया सह। परित्यज्य गता साध्वी उलूपी निजमन्दिरम्॥ दत्त्वा वरमजेयत्वं जले सर्वत्र भारत। साध्या जलचराः सर्वे भविष्यन्ति न संशयः॥ वैशम्पायन उवाच कथयित्वा च तत् सव ब्राह्मणेभ्यः स भारत। प्रययौ हिमवत्पार्वं ततो वज्रधरात्मजः॥ अगस्त्यवटमासाद्य वसिष्ठस्य च पर्वतम्। भृगुतुङ्गे च कौन्तेयः कृतवाञ्छौचमात्मनः॥ प्रददौ गोसहस्राणि सुबहूनि च भारत। निवेशांश्च द्विजातिभ्यः सोऽददत् कुरुसत्तमः॥ हिरण्यबिन्दोस्तीर्थे च स्नात्वा पुरुषसत्तमः। दृष्टवान् पाण्डवश्रेष्ठः पुण्यान्यायतनानि च॥ अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत। प्राची दिशमभिप्रेत्सुर्जगाम भरतर्षभः॥ आनुपूर्वेण तीर्थानि दृष्टवान् कुरुसत्तमः। नदी चोत्पलिनी रम्यामरण्यं नैमिषं प्रति॥ नन्दामपरनन्दां च कौशिकी च यशस्विनीम्। महानदीं गयां चैव गङ्गामपि च भारत॥ एवं तीर्थानि सर्वाणि पश्यमानस्तथाऽऽश्रमान्। आत्मनः पावनं कुर्वन् ब्राह्मणेभ्यो ददौ च गाः॥ अगवङ्गकलिङ्गेषु यानि तीर्थानि कानिचित्। जगाम तानि सर्वाणि पुण्यान्यायतनानि च॥ दृष्ट्वा च विधिवत् तानि धनं चापि ददौ ततः। कलिङ्गराष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः। अभ्यनुज्ञाय कौन्तेयमुपावर्तन्त भारत॥ स तु तैरभ्यनुज्ञातः कुन्तीपुत्रो धनंजयः। सहायैरल्पकैः शूरः प्रययौ यत्र सागरः॥ स कलिङ्गानतिक्रम्य देशानायतनानि च। हाणि रमणीयानि प्रेक्षमाणो ययौ प्रभुः॥ महेन्द्रपर्वतं दृष्ट्वा तापसैरुपशोभितम्। समुद्रतीरेण शनैर्मणिपूरं जगाम ह॥ तत्र सर्वाणि तीर्थानि पुण्यान्यायतनानि च। अभिगम्य महाबाहुरभ्यगच्छन्महीपतिम्॥ मणिपूरेश्वरं राजन् धर्मज्ञं चित्रवाहनम्। तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना॥ तां ददर्श पुरे तस्मिन् विचरन्तीं यदृच्छया। दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहनीम्॥ अभिगम्य च राजानमवदत् स्वं प्रयोजनम्। देहि मे खल्विमा राजन् क्षत्रियाय महात्मने॥ तच्छ्रुत्ा त्वब्रवीद् राजा कस्य पुत्रोऽसि नाम किम्। उवाच तं पाण्डवोऽहं कुन्तीपुत्रो धनंजयः॥ तमुवाचाथ राजा स सान्त्वपूर्वमिदं वचः। राजा प्रभञ्जनो नाम कुलेऽस्मिन् सम्बभूव ह॥ अपुत्रः प्रसवेनार्थी तपस्तेपे स उत्तमम्। उग्रेण तपसा तेन देवदेवः पिनाकधृक्॥ ईश्वरस्तोषितः पार्थ देवदेव उमापतिः। स तस्मै भगवान् प्रादादेकैकं प्रसवं कुले॥ एकैकः प्रसवस्तस्माद् भवत्यस्मिन् कुले सदा। तेषां कुमारा: सर्वेषां पूर्वेषां मम जज्ञिरे॥ एका च मम कन्येयं कुलस्योत्पादिनी भृशम्। पुत्रो ममायमिति मे भावना पुरुषर्षभ॥ पुत्रिका हेतुविधिना संज्ञिता भरतर्षभ। तस्मादेकः सुतो योऽस्यां जायते भारत त्वया॥ एतच्छुल्कं भवत्वस्याः कुलकृज्जायतामिह। एतेन समयेनेमां प्रतिगृहणीष्व पाण्डव।॥ स तथेति प्रतिज्ञाय तां कन्यां प्रतिगृह्य च। उवास नगरे तस्मिस्तिस्त्रः कुन्तीसुतः समाः॥ तस्यां सुते समुत्पन्ने परिष्वज्य वराङ्गनाम्। आमन्त्र्य नृपतिं तं तु जगाम परिवर्तितुम्॥ वैशम्पायन उवाच तत: समुद्रे तीर्थानि दक्षिणे भरतर्षभ। अभ्यगच्छत् सुपुण्यानि शोभितानि तपस्विभिः॥ वर्जयन्ति स्म तीर्थानि तत्र पञ्च स्म तापसाः। अवकीर्णानि यान्यासन् पुरस्तात् तु तपस्विभिः॥ अगस्त्यतीर्थं सौभद्रं पौलोमं च सुपावनम्। कारन्धमं प्रसन्नं च हयमेधफलं च तत्॥ भारद्वाजस्य तीर्थं तु पापप्रशमनं महत्। एतानि पञ्च तीर्थानि ददर्श कुरुसत्तमः॥ विविक्तान्युपलक्ष्याथ तानि तीर्थानि पाण्डवः। दृष्ट्वा च वय॑मानानि मुनिभिर्धर्मबुद्धिभिः॥ तपस्विनस्ततोऽपृच्छत् प्राञ्जलिः कुरुनन्दनः। तीर्थानीमानि वय॑न्ते किमर्थं ब्रह्मवादिभिः॥ तापसा ऊचुः ग्राहाः पञ्च वसन्त्येषु हरन्ति च तपोधनान्। तत एतानि वय॑न्ते तीर्थानि कुरुनन्दन।॥ वैशम्पायन उवाच तेषां श्रुत्वा महाबाहुर्वार्यमाणस्तपोधनैः। जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः॥ ततः सौभद्रमासाद्य महर्षेस्तीर्थमुत्तमम्। विगाह्य सहसा शूरः स्नानं चक्रे परंतपः॥ अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान्। जग्राह चरणे ग्राहः कुन्तीपुत्रं धनंजयम्॥ स तमादाय कौन्तेयो विस्फुरन्तं जलेचरम्। उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः॥ उत्कृष्ट एव ग्राहस्तु सोऽर्जुनेन यशस्विना। बभूव नारी कल्याणी सर्वाभरणभूषिता॥ दीप्यमाना श्रिया राजन् दिव्यरूपा मनोरमा। तदद्भुतं महद् दृष्ट्वा कुन्तीपुत्रो धनंजयः॥ तां स्त्रियं परमप्रीत इदं वचनमब्रवीत्। का वै त्वमसि कल्याणि कुतो वासि जलेचरी॥ किमर्थं च महत् पापमिदं कृतवती पुरा। वर्गोवाच अप्सरास्मि महाबाहो देवारण्यविहारिणी॥ इष्टा धनपतेनित्यं वर्गा नाम महाबल। मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः॥ ताभिः सार्धं प्रयातास्मि लोकपालनिवेशनम्। ततः पश्यामहे सर्वा ब्राह्मणं संशितव्रतम्॥ रूपवन्तमधीयानमेकमेकान्तचारिणम्। तस्यैव तपसा राजंस्तद् वनं तेजसाऽऽवृतम्॥ आदित्य इव तं देशं कृत्स्नं सर्वं व्यकाशयत्। तस्य दृष्ट्वा तपस्तादृग् रूपं चाद्भुतमुत्तमम्॥ अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया। अहं च सौरभेयी च समीची बुद्बुदा लता॥ यौगपद्येन तं विप्रमभ्यगच्छाम भारत। गायन्त्योऽथ हसन्त्यश्च लोभयित्वा च तं द्विजम्॥ स च नास्मासु कृतवान् मनो वीर कथंचन। नाकम्पत महातेजाः स्थितस्तपसि निर्मले।॥ सोऽशपत् कुपितोऽस्मासु ब्राह्मणः क्षत्रियर्षभ। ग्राहभूता जले यूयं चरिष्यथ शतं समाः॥ वर्गोवाच ततो वयं प्रव्यथिताः सर्वा भारतसत्तम। अयाम शरणं विप्रं तं तपोधनमच्युतम्॥ रूपेण वयसा चैव कन्दर्पण च दर्पिताः। अयुक्तं कृतवत्यः स्म क्षन्तुमर्हसि नो द्विज॥ एष एव वधोऽस्माकं सुपर्याप्तस्तपोधन। यद् वयं संशितात्मानं प्रलोव्धुं त्वामिहागताः॥ अवध्यास्तु स्त्रियः सृष्टा मन्यन्ते धर्मचारिणः। तस्माद् धर्मेण वर्ध त्वं नास्मान् हिंसितुमर्हसि॥ सर्वभूतेषु धर्मज्ञ मैत्रो ब्राह्मण सत्यो भवतु कल्याण एष वादो मनीषिणाम्॥ शरणं च प्रपन्नानां शिष्टाः कुर्वन्ति पालनाम्। शरणं त्वां प्रपन्नाः स्मस्तस्मात् त्वं क्षन्तुमर्हसि॥ वैशम्पायन उवाच एवमुक्तः स धर्मात्मा ब्राह्मणः शुभकर्मकृत्। प्रसादं कृतवान् वीर रविसोमसमप्रभः॥ उच्यते। ब्राह्मण उवाच शतं शतसहस्रं तु सर्वमक्षय्यवाचकम्। परिमाणं शतं वेतन्त्रेदमक्षय्यवाचकम्॥ यदा च वो ग्राहभूता गृहणन्तीः पुरुषाञ्जले। उत्कर्षति जलात् तस्मात् स्थलं पुरुषसत्तमः॥ तदा यूयं पुनः सर्वाः स्वं रूपं प्रतिपत्स्यथ। अनृतं नोक्तपूर्वं मे हसतापि कदाचन॥ तानि सर्वाणि तीर्थानि ततः प्रभृति चैव ह। नारीतीर्थानि नाम्नेह ख्याति यास्यन्ति सर्वशः। पुण्यानि च भविष्यन्ति पावनानि मनीषिणाम्॥ वर्गोवाच ततोऽभिवाद्य तं विप्रं कृत्वा चापि प्रदक्षिणम्। अचिन्तयामोऽपसृत्य तस्माद् देशात् सुदुःखिताः॥ क्व नु नाम वयं सर्वाः कालेनाल्पेन तं नरम्। समागच्छेम यो नस्तद् रूपमापादयेत् पुनः॥ ता वयं चिन्तयित्वैव मुहूर्तादिव भारत। दृष्टवत्यो महाभागं देवर्षिमुत नारदम्॥ सम्प्रहृष्टाः स्म तं दृष्ट्वा देवर्षिममितद्युतिम्। अभिवाद्य च तं पार्थ स्थिताः स्म वीडिताननाः॥ स नोऽपृच्छद् दुःखमूलमुक्तवत्यो वयं च तम्। श्रुत्वा तत्र यथावृत्तमिदं वचनमब्रवीत्॥ दक्षिणे सागरानूपे पञ्च तीर्थानि सन्ति वै। पुण्यानि रमणीयानि तानि गच्छत मा चिरम्॥ तत्राशु पुरुषव्याघ्रः पाण्डवेयो धनंजयः। मोक्षयिष्यति शुद्धात्मा दुःखादस्मान्न संशयः॥ तस्य सर्वा वयं वीर श्रुत्वा वाक्यमिहागताः। तदिदं सत्यमेवाद्य मोक्षिताहं त्वयानघ॥ एतास्तु मम ताः सख्यश्चतस्रोऽन्या जले श्रिताः। कुरु कर्म शुभं वीर एता: सर्वा विमोक्षय॥ वैशम्पायन उवाच ततस्ताः पाण्डवश्रेष्ठः सर्वा एव विशाम्पते। तस्माच्छापाददीनात्मा मोक्षयामास वीर्यवान्॥ उत्थाय च जलात् तस्मात् प्रतिलभ्य वपुः स्वकम्। तास्तदाप्सरसो राजन्नदृश्यन्त यथा पुरा॥ तीर्थानि शोधयित्वा तु तथानुज्ञाय ताः प्रभुः। चित्राङ्गदां पुनर्द्रष्टुं मणिपूरं पुनर्ययौ॥ तस्यामजनयत् पुत्रं राजानं बभ्रुवाहनम्। तं दृष्ट्वा पाण्डवो राजंश्चित्रवाहनमब्रवीत्॥ चित्राङ्गदायाः शुल्कं त्वं गृहाण बभ्रुवाहनम्। अनेन च भविष्यामि ऋणान्मुक्तो नराधिप॥ चित्राङ्गदां पुनर्वाक्यमब्रवीत् पाण्डुनन्दनः। इह वै भव भद्रं ते वर्धथा बभ्रुवाहनम्॥ इन्द्रप्रस्थनिवासं मे त्वं तत्रागत्य रंस्यसि। कुन्तीं युधिष्ठिरं भीमं भ्रातरौ मे कनीयसौ॥ आगत्य तत्र पश्येथा अन्यानपि च बान्धवान्। बान्धवैः सहिताः सर्वैनन्दसे त्वमनिन्दिते॥ धर्मे स्थितः सत्यधृतिः कौन्तेयोऽथ युधिष्ठिरः। जित्वा तु पृथिवीं सर्वां राजसूयं करिष्यति॥ तत्रागच्छन्ति राजानः पृथिव्यां नृपसंज्ञिताः। बहूनि रत्नान्यादाय आगमिष्यति ते पिता॥ एकसार्थं प्रयातासि चित्रवाहनसेवया। द्रक्ष्यामि राजसूये त्वां पुत्रं पालय मा शुचः॥ बभ्रुवाहननाम्ना तु मम प्राणो महीचरः। तस्माद् भरस्व पुत्रं वै पुरुषं वंशवर्धनम्॥ चित्रवाहनदायादं धर्मात् पौरवनन्दनम्। पाण्डवानां प्रियं पुत्रं तस्मात् पालय सर्वदा॥ विप्रयोगेन संतापं मा कृथास्त्वमनिन्दिते। चित्राङ्गदामेवमुक्त्वा गोकर्णमभितोऽगमत्॥ आद्यं पशुपतेः स्थानं दर्शनादेव मुक्तिदम्। यत्र पापोऽपि मनुजः प्राप्नोत्यभयदं पदम्॥ वैशम्पायन उवाच सोऽपरान्तेषु तीर्थानि पुण्यान्यायतनानि च। सर्वाण्येवानुपूर्येण जगामामितविक्रमः॥ समुद्रे पश्चिमे यानि तीर्थान्यायतनानि च। तानि सर्वाणि गत्वा स प्रभासमुपजग्मिवान्॥ प्रभासदेशं सम्प्राप्तं बीभत्सुमपराजितम्। सुपुण्यं रमणीयं च शुश्राव मधुसूदनः॥ ततोऽभ्यगच्छत् कौन्तेयं सखायं तत्र माधवः। ददृशाते तदान्योन्यं प्रभासे कृष्णपाण्डवौ॥ तावन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने। आस्तां प्रियसखायौ तौ नरनारायणावृषी॥ ततोऽर्जुनं वासुदेवस्तां चर्यां पर्यपृच्छत। किमर्थं पाण्डवैतानि तीर्थान्यनुचरस्युत॥ ततोऽर्जुनो यथावृत्तं सर्वमाख्यातवांस्तदा। श्रुत्वोवाच च वार्ष्णेय एवमेतदिति प्रभुः॥ तौ विहृत्य यथाकामं प्रभासे कृष्णपाण्डवौ। महीधरं रैवतकं वासायैवाभिजग्मतुः॥ पूर्वमेव तु कृष्णस्य वचनात् तं महीधरम्। पुरुषा मण्डयाञ्चक्रुरुपजहश्च भोजनम्॥ प्रतिगृह्यार्जुनः सर्वमुपभुज्य च पाण्डवः। सहैव वासुदेवेन दृष्ट्वान् नटनर्तकान्॥ अभ्यनुज्ञाय तान् सर्वानर्चयित्वा च पाण्डवः। सत्कृतं शयनं दिव्यमभ्यगच्छन्महामतिः॥ ततस्तत्र महाबाहुः शयानः शयने शुभे। तीर्थानां पल्वलानां च पर्वतानां च दर्शनम्। आपगानां वनानां च कथयामास सात्वते॥ एवं स कथयन्नेव निद्रया जनमेजय। कौन्तेयोऽपि हृतस्तस्मिन् शयने स्वर्गसंनिभे॥ मधुरेणैव गीतेन वीणाशब्देन चैव ह। प्रबोध्यमानो बुबुधे स्तुतिभिर्मङ्गलैस्तथा॥ स कृत्वावश्यकार्याणि वार्ष्णेयेनाभिनन्दितः। रथेन काञ्चनाङ्गेन द्वारकामभिजग्मिवान्॥ अलंकृता द्वारका तु बभूव जनमेजय। कुन्तीपुत्रस्य पूजार्थमपि निष्कुटकेष्वपि॥ दिदृक्षन्तश्च कौन्तेयं द्वारकावासिनो जनाः। नरेन्द्रमार्गमाजग्मुस्तूर्णं शतसहस्रशः॥ अवलोकेषु नारीणां सहस्राणि शतानि च। भोजवृष्ण्यन्धकानां च समवायो महानभूत्॥ स तथा सत्कृतः सर्वैर्भोजवृष्ण्यन्धकात्मजैः। अभिवाद्याभिवाद्यांश्च सर्वेश्च प्रतिनन्दितः॥ कुमारैः सर्वशो वीरः सत्कारेणाभिचोदितः। समानवयसः सर्वानाश्लिष्य स पुनः पुनः॥ कृष्णस्य भवने रम्ये रत्नभोज्यसमावृते। उवास सह कृष्णेन बहुलास्तत्र शर्वरीः॥ वैशम्पायन उवाच ततः कतिपयाहस्य तस्मिन् रैरतके गिरौ। वृष्ण्यन्धकानामभवदुत्सवो नृपसत्तम॥ तत्र दानं ददुर्वीरा ब्राह्मणेभ्यः सहस्रशः। भोजवृष्ण्यन्धकाश्चैव महे तस्य गिरेस्तदा।॥ प्रासादै रत्नचित्रैश्च गिरेस्तस्य समन्ततः। स देशः शोभितो राजन् कल्पवृक्षैश्च सर्वशः॥ वादित्राणि च तत्रान्ये वादकाः समवादयन्। ननृतुनर्तकाश्चैव जगुर्गेयानि गायनाः॥ अलंकृताः कुमाराश्च वृष्णीनां सुमहौजसाम्। यानैर्हाटकचित्रैश्च चर्यन्ते स्म सर्वशः॥ पौराश्च पादचारेण यानैरुच्चावचैस्तथा। सदाराः सानुयात्राश्च शतशोऽथ सहस्रशः॥ ततो हलधरः क्षीबो रेवतीसहितः प्रभुः। अनुगम्यमानो गन्धर्वैरचरत् तत्र भारत॥ तथैव राजा वृष्णीनामुग्रसेनः प्रतापवान्। अनुगीयमानो गन्धर्वैः स्त्रीसहस्रसहायवान्॥ रौक्मिणेयश्च साम्बश्च क्षीबौ समरदुर्मदौ। दिव्यमाल्याम्बरधरौ विजह्वातेऽमराविव॥ अक्रूरः सारणश्चैव गदो बभ्रुर्विदूरथः। निशश्चारुदेष्णाश्च पृथुर्विपृथुरेव च॥ सत्यकः सात्यकिश्चैव भङ्गकारमहारवौ। हार्दिक्य उद्धवश्चैव ये चान्ये नानुकीर्तिताः॥ एते परिवृताः स्त्रीभिर्गन्धर्वैश्च पृथक् पृथक्। तमुत्सवं रैवतके शोभयाञ्चक्रिरे तदा॥ चित्रकौतूहले तस्मिन् वर्तमाने महाद्भुते। वासुदेवश्च पार्थश्च सहितौ परिजग्मतुः॥ तत्र चक्रममाणौ तौ वसुदेवसुतां शुभाम्। अलंकृतां सखीमध्ये भद्रां ददृशतुस्तदा॥ दृष्ट्वैव तामर्जुनस्य कन्दर्पः समजायत। तं तदैकाग्रमनसं कृष्णः पार्थमलक्षयत्॥ अब्रवीत् पुरुषव्याघ्रः प्रहसन्निव भारत। वनेचरस्य किमिदं कामेनालोड्यते मनः॥ ममैषा भगिनी पार्थ सारणस्य सहोदरा। सुभद्रा नाम भद्रं ते पितुर्मे दयिता सुता। यदि ते वर्तते बुद्धिर्वक्ष्यामि पितरं स्वयम्॥ अर्जुन उवाच दुहिता वसुदेवस्य वासुदेवस्य च स्वसा। रूपेण चैष सम्पन्ना कमिवैषा न मोहयेत्॥ कृतमेव तु कल्याणं सर्वं मम भवेद् ध्रुवम्। यदि स्यान्मम वार्ष्णेयी महिषीयं स्वसा तव॥ प्राप्तौ तु क उपाय: स्यात् तं ब्रवीहि जनार्दन। आस्थास्यामि तदा सर्वं यदि शक्यं नरेण तत्॥ वासुदेव उवाच स्वयंवरः क्षत्रियाणां विवाहः पुरुषर्षभः। स च संशयितः पार्थ स्वभावस्यानिमित्ततः॥ प्रसह्य हरणं चापि क्षत्रियाणां प्रशस्यते। विवाहहेतुः शूराणामिति धर्मविदो विदुः॥ स त्वमर्जुन कल्याणी प्रसह्य भगिनी मम। हर स्वयंवरे ह्यस्याः को वै वेद चिकीर्षितम्॥ ततोऽर्जुनश्च कृष्णश्च विनिश्चित्येतिकृत्यताम्। शीघ्रगान् पुरुषानन्यान् प्रेषयामासतुस्तदा॥ धर्मराजाय तत् सर्वमिन्द्रप्रस्थगताय वै। श्रुत्वैव च महाबाहुरनुजज्ञे स पाण्डवः॥ वैशम्पायन उवाच उक्तवन्तो यथा वीर्यमसकृत् सर्ववृष्ण्यः। ततोऽब्रवीद् वासुदेवो वाक्यं धर्मार्थसंयुतम्॥ नावमानं कुलस्यास्य गुडाकेशः प्रयुक्तवान्। सम्मानोऽभ्यधिकस्तेन प्रयुक्तोऽयं न संशयः॥ अर्थलुब्धान् न वः पार्थो मन्यते सात्वतान् सदा। स्वयंवरमनाधृष्यं मन्यते चापि पाण्डवः॥ प्रदानमपि कन्यायाः पशुवत् कोऽनुमन्यते। विक्रयं चाप्यपत्यस्य कः कुर्यात् पुरुषो भुवि॥ एतान् दोषांस्तु कौन्तेयो दृष्टवानिति मे मतिः। अतः प्रसह्य हृतवान् कन्यां धर्मेण पाण्डवः॥ उचितश्चैव सम्बन्धः सुभद्रां च यशस्विनीम्। एष चापीदृशः पार्थः प्रसह्य हृतवानिति॥ भरतस्यान्वये जातं शान्तनोश्च यशस्विनः। कुन्तिभोजात्मजापुत्रं को बुभूषेत नार्जुनम्॥ न च पश्यामि यः पार्थं विजयेत रणे बलात्। वर्जयित्वा विरूपाक्षं भगनेत्रहरं हरम्॥ अपि सर्वेषु लोकेषु सेन्द्ररुद्रेषु मारिष। स च नाम रथस्तादृङ्मदीयास्ते च वाजिनः॥ योद्धा पार्थश्च शीघ्रास्त्रः को नु तेन समो भवेत्। तमभिद्रुत्य सान्त्वेन परमेण धनंजयम्॥ न्यवर्तयत् संहृष्टा ममैषा परमा मतिः। यदि निर्जित्य वः पार्थो बलाद् गच्छेत् स्वकं पुरम्।।११ प्रणश्येद् वो यशः सद्यो न तु सान्त्वे पराजयः। तच्छ्रुत्वा वासुदेवस्य तथा चक्रुर्जनाधिप॥ निवृत्तश्चार्जुनस्तत्र विवाहं कृतवान् प्रभुः। उषित्वा तत्र कौन्तेयः संवत्सरपराः क्षपाः॥ विहत्य च यथाकामं पूजितो वृष्णिनन्दनैः। पुष्करे तु ततः शेषं कालं वर्तितवान् प्रभुः॥ पूर्णे तु द्वादशे वर्षे खाण्डवप्रस्थमागतः। अभिगम्य च राजानं नियमेन समाहितः॥ अभ्यर्च्य ब्राह्मणान् पार्थो द्रौपदीमभिजग्मिवान्। तं द्रौपदी प्रत्युवाच प्रणयात् कुरुनन्दनम्॥ तत्रैव गच्छ कौन्तेय यत्र सा सात्वतात्मजा। सुबद्धस्यापि भारस्य पूर्वबन्धः श्लथायते॥ तथा बहुविधं कृष्णां विलपन्ती धनंजयः सान्त्वयामास भूयश्च क्षमयामास चासकृत्॥ सुभद्रां त्वरमाणश्च रक्तकौशेयवासिनीम्। पार्थः प्रस्थापयामास कृत्वा गोपालिकावपुः॥ साधिकं तेन रूपेण शोभमाना यशस्विनी। भवनं श्रेष्ठमासाद्य वीरपत्नी वराङ्गना।॥ ववन्दे पृथुताम्राक्षी पृथां भद्रा यशस्विनी। तां कुन्ती चारुसर्वाङ्गीमुपाजिघ्रत मूर्धनि॥ प्रीत्या परमया युक्ता आशीर्भिर्युञ्जतातुलाम्। ततोऽभिगम्य त्वरिता पूर्णेन्दुसदृशानना॥ ववन्दे द्रौपदी भद्रा प्रेष्याहमिति चाब्रवीत्। प्रत्युत्थाय तदा कृष्णा स्वसारं माधवस्य च॥ परिष्वज्यावदत् प्रीत्या निःसपत्नोऽस्तु ते पतिः। तथैव मुदिता भद्रा तामुवाचैवमस्त्विति॥ ततस्ते हृष्टमनसः पाण्डवेया महारथाः। कुन्ती च परमप्रीता बभूव जनमेजय॥ श्रुत्वा तु पुण्डरीकाक्षः सम्प्राप्तं स्वं पुरोत्तमम्। अर्जुनं पाण्डवश्रेष्ठमिन्द्रप्रस्थगतं तदा॥ आजगाम विशुद्धात्मा सह रामेण केशवः। वृष्ण्यन्धकमहामात्रैः सह वीरैर्महारथैः॥ भ्रातृभिश्च कुमारैश्च योधैश्च बहुभिर्वृतः। सैन्येन महता शौरिरभिगुप्तः परंतपः॥ तत्र दानपतिर्धीमानाजगाम महायशाः। अक्रूरो वृष्णिवीराणां सेनापतिररिंदमः॥ अनाधृष्टिर्महातेजा उद्धवश्च महायशाः। साक्षाद् बृहस्पतेः शिष्यो महाबुद्धिर्महामनाः॥ सत्यकः सात्यकिश्चैव कृतवर्मा च सात्वतः। प्रद्युम्नश्चैव साम्बश्च निशद्दः शरुरेव च॥ चारुदेष्णश्च विक्रान्तो झिल्ली विपृथुरेव च। सारणश्च महाबाहुर्गदश्च विदुषां वरः॥ एते चान्ये च बहवो वृष्णिभोजान्धकास्तथा। आजग्मुः खाण्डवप्रस्थमादाय हरणं बहु॥ ततो युधिष्ठिरो राजा श्रुत्वा माधवमागतम्। प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापयत् तदा॥ ताभ्यां प्रतिगृहीतं तु वृष्णिचक्रं महर्द्धिमत्। विवेश खाण्डवप्रस्थं पताकाध्वजशोभितम्॥ सम्मृष्टसिक्तपन्थानं पुष्पप्रकरशोभितम्। चन्दनस्य रसैः शीतैः पुण्यगन्धैनिषेवितम्॥ दह्यतागुरुणा चैव देशे देशे सुगन्धिना। हृष्टपुष्टजनाकीर्णं वणिम्भिरुपशोभितम्॥ प्रतिपेदे महाबाहुः सह रामेण केशवः। वृष्ण्यन्धकैस्तथा भोजैः समेतः पुरुषोत्तमः॥ सम्पूज्यमानः पौरेश्च ब्राह्मणैश्च सहस्रशः। विवेश भवनं राज्ञः पुरन्दरगृहोपमम्॥ युधिष्ठिरस्तु रामेण समागच्छद् यथाविधि। मूर्षि केशवमाघ्राय बाहुभ्यां परिषस्वजे॥ तं प्रीयमाणो गोविन्दो विनयेनाभिपूजयन्। भीमं च पुरुषव्याघ्रं विधिवत् प्रत्यपूजयत्॥ तांश्च वृष्ण्यन्धक श्रेष्ठान् कुन्तीपुत्रो युधिष्ठिरः। प्रतिजग्राह सत्कारैर्यथाविधि यथागतम्॥ गुरुवत् पूजयामास कांश्चित् कांश्चिद् वयस्यवत्। कांश्चिदभ्यवदत् प्रेम्णा कैश्चिदप्यभिवादितः॥ तेषां ददौ हृषीकेशो जन्यार्थे धनमुत्तमम्। हरणं वै सुभद्राया ज्ञातिदेयं महायशाः॥ रथानां काञ्चनाङ्गानां किरूिणीजालमालिनाम्। चतुर्युजामुपेतानां सूतैः कुशलशिक्षितैः॥ सहस्रं प्रददौ कृष्णो गवामयुतमेव च। श्रीमान् माधुर देश्यानां दोग्ध्रीणां पुण्यवर्चसाम्॥ वडवानां च शुद्धानां चन्द्रांशुसमवर्चसाम्। ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषितम्॥ तथैवाश्वतरीणां च दान्तानां वातरंहसाम्। शतान्यञ्जनकेशीनां श्वेतानां पञ्च पञ्च च॥ स्नानपानोत्सवे चैव प्रयुक्तं वयसान्वितम्। स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम्॥ सुवर्णशतकण्द्दीनामरोमाणां स्वलंकृताम्। परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः॥ पृष्ठ्यनामपि चाश्वानां बालिकानां जनार्दनः। ददौ शतसहस्राख्यं कन्याधनमुत्तमम्॥ कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः। मनुष्यभारान् दाशार्हो ददौ दश जनार्दनः॥ गजानां तु प्रभिन्नानां त्रिधा प्रस्रवतां मदम्। गिरिकूटनिकाशानां समरेष्वनिवर्तिनाम्॥ क्लृप्तानां पटुघण्टानां चारूणां हेममालिनाम्। हस्त्यारोहैरुपेतानां सहस्रं साहसप्रियः॥ रामः पाणिग्रहणिकं ददौ पार्थाय लागली। प्रीयमाणो हलधरः सम्बन्धं प्रतिमानयन्॥ स महाधनरत्नौघौ वस्त्रकम्बलफेनवान्। महागजमहाग्राहः पताकाशैवलाकुलः॥ पाण्डुसागरमाविद्धः प्रविवेश महाधनः। पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत्॥ प्रतिजग्राह तत् सर्वं धर्मराजो युधिष्ठिरः। पूजयामास तांश्चैव वृष्ण्यन्धकमहारथान्॥ ते समेता महात्मानः कुरुवृष्ण्यन्धकोत्तमाः। विजह्वरमरावासे नराः सुकृतिनो यथा॥ तत्र तत्र महानादैरुत्कृष्टतलनादितैः। यथायोगं यथाप्रीति विजह्वः कुरुवृष्णयः॥ एवमुत्तमवीर्यास्ते विहृत्य दिवसान् बहून्। पूजिताः कुरुभिर्जग्मुः पुनरवती प्रति॥ राम पुरस्कृत्य ययुर्वृष्ण्यन्धकमहारथाः। रत्नान्यादाय शुभ्राणि दत्तानि कुरुसत्तमैः॥ वासुदेवस्तु पार्थेन तत्रैव सह भारत। उवास नगरे रम्ये शक्रप्रस्थे महात्मना॥ व्यचरद् यमुनातीरे मृगयां स महायशाः। मृगान् विध्यन् वराहांश्च रेमे सार्धं किरीटिना॥ ततः सुभद्रा सौभद्रं केशवस्य प्रिया स्वसा। जयन्तमिव पौलोमी ख्यातिमन्तमजीजनत्॥ दीर्घबाहुं महोरस्कं वृषभाक्षमरिंदमम्। सुभद्रा सुषुवे वीरमभिमन्युं नरर्षभम्॥ अभिश्च मन्युमांश्चैव ततस्तमरिमर्दनम्। अभिमन्युमिति प्राहुरार्जुनि पुरुषर्षभम्॥ स सात्वत्यामतिरथः सम्बभूव धनंजयात्। मखे निर्मथनेनेव शमीगर्भाद्भुतासनः॥ यस्मिञ्जाते महातेजाः कुन्तीपुत्रो युधिष्ठिरः। अयुतं गा द्विजातिभ्यः प्रादान्निष्कांश्च भारत॥ दयितो वासुदेवस्य बाल्यात् प्रभृति चाभवत्। पितृणामिव सर्वेषां प्रजानामिव चन्द्रमाः॥ जन्मप्रभृति कृष्णाश्च चक्रे तस्य क्रियाः शुभाः। स चापि ववृधे बालः शुक्लपक्षे यथा शशी॥ चतुष्पादं दशविधं धनुर्वेदमरिंदमः। अर्जुनाद् वेद वेदज्ञः सकलं दिव्यमानुषम्॥ विज्ञानेष्वपि चास्त्राणां सौष्ठवे च महाबलः। क्रियास्वपि च सर्वासु विशेषानभ्यशिक्षयत्॥ आगमे च प्रयोगे च चक्रे तुल्यमिवात्मना। तुतोष पुत्रं सौभद्रं प्रेक्षमाणो धनंजयः॥ सर्वसंहननोपेतं सर्वलक्षणलक्षितम्। दुर्धर्षमृषभस्कन्धं व्यात्ताननमिवोरगम्॥ सिंहदष महेष्वासं मत्तमातङ्गविक्रमम्। मेघदुन्दुभिनिर्घोषं पूर्णचन्द्रनिभाननम्॥ कृष्णस्य सदृशं शौर्ये वीर्य रूपे तथाऽकृतौ। ददर्श पुत्रं बीभत्सुर्मघवानिव तं यथा॥ पाञ्चाल्यपि तु पञ्चभ्यः पतिभ्यः शुभलक्षणा। लेभे पञ्च सुतान् वीराश्रेष्ठान् पञ्चाचलानिव॥ युधिष्ठिरात् प्रतिविन्ध्यं सुतसोमं वृकोदरात्। अर्जुनाच्छुतकर्माणं शतानीकं च नाकुलिम्॥ सहदेवाच्छ्रुतसेनमेतान् पञ्च महारथान्। पाञ्चाली सुषुवे वीरानादित्यानदितिर्यथा॥ शास्त्रतः प्रतिविन्ध्यं तमूचुर्विप्रा युधिष्ठिरम्। परप्रहरणज्ञाने प्रतिविध्यो भवत्वयम्॥ सुते सोमसहस्रे तु सोमार्कसमतेजसम्। सुतसोमं महेष्वासं सुषुवे भीमसेनतः॥ श्रुतं कर्म महत् कृत्वा निवृत्तेन किरीटिना। जातः पुत्रस्तथेत्येवं श्रुतकर्मा ततोऽभवत्॥ शतानीकस्य राजर्षेः कौरव्यस्य महात्मनः। चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम्॥ ततस्त्वजजनत् कृष्णा नक्षत्रे वह्निदैवते। सहदेवात् सुतं तस्माच्छ्रुतसेनेति यं विदुः॥ एकवर्षान्तरास्वेते द्रौपदेया यशस्विनः। अन्वजायन्त राजेन्द्र परस्परहितैषिणः॥ जातकर्माण्यानुपूर्व्याच्चूडोपनयनानि च। चकार विधिवद् धौम्यस्तेषां भरतसत्तम॥ कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः। जगृहुः सर्वमिष्वस्त्रमर्जुनाद् दिव्यमानुषम्॥ दिव्यगर्भोपमैः पुत्रैयूंढोरस्कैर्महारथैः। अन्वितो राजशार्दूल पाण्डवा मुदमाप्नुवन्॥ वैशम्पायन उवाच एवमुक्तः स भगवान् धूमकेतुर्हताशनः। चिन्तयामास वरुणं लोकपालं दिदृक्षया॥ आदित्यमुदके देवं निवसन्तं जलेश्वरम्। स च तच्चिन्तितं ज्ञात्वा दर्शयामास पावकम्॥ तमब्रवीद् धूमकेतुः प्रतिगृह्य जलेश्वरम्। चतुर्थं लोकपालानां देवदेवं सनातनम्॥ सोमेन राज्ञा यद् दत्तं धनुश्चैवेषुधी च ते। तत् प्रयच्छोभयं शीघ्रं रथं च कपिलक्षणम्॥ कार्यं च सुमहत् पार्थो गाण्डीवेन करिष्यति। चक्रेण वासुदेववश्च तन्ममाद्य प्रदीयताम्॥ ददानीत्येव वरुणः पावकं प्रत्यभाषत। तदद्भुतं महावीर्यं यश:कीर्तिविवर्धनम्॥ सर्वशस्त्रैरनार सर्वशस्त्रप्रमाथि च। सर्वायुधमहामात्रं परसैन्यप्रधर्षणम्॥ एकं शतसहस्रेण सम्मितं राष्ट्रवर्धनम्। चित्रमुच्चावचैर्वर्णैः शोभितं श्लक्ष्णमव्रणम्॥ देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः। प्रादाच्चैव धनूरत्नमक्षय्ये च महेषुधी॥ रथं च दिव्याश्वयुजं कपिप्रवरकेतनम्। उपेतं राजतैरश्वैर्गान्धर्हममालिभिः॥ पाण्डुराभ्रप्रतीकाशैर्मनोवायुसमैर्जवे। सर्वोपकरणैर्युक्तमजय्यं देवदानवैः॥ भानुमन्तं महाघोषं सर्वरत्नमनोरमम्। ससर्ज यं सुतपसा भौमनो भुवनप्रभुः॥ प्रजापतिरनिर्देश्यं यस्य रूपं रवेरिव। यं स्म सोमः समारुह्य दानवानजयत् प्रभुः॥ नवमेघप्रतीकाशं ज्वलन्तमिव च श्रिया। आश्रितौ तं रथश्रेष्ठं शक्रायुधसमावुभौ॥ तापनीया सुरुचिरा ध्वजयष्टिरनुत्तमा। तस्यां तु वानरो दिव्यः सिंहशार्दूलकेतनः॥ दिधक्षन्निव तत्र स्म संस्थितो मूर्ध्यशोभत। ध्वजे भूतानि तत्रासन् विविधानि महान्ति च॥ नादेन रिपुसैन्यानां येषां संज्ञा प्रणश्यति। स तं नानापताकाभिः शोभितं रथसत्तमम्॥ प्रदक्षिणमुपावृत्य दैवतेभ्यः प्रणम्य च। संनद्धः कवची खङ्गी बद्धगोधाङ्गुलित्रकः॥ आरुरोह तदा पार्थो विमानं सुकृती यथा। तच्च दिव्यं धनुः श्रेष्ठं ब्रह्मणा निर्मितं पुरा॥ गाण्डीवमुपसंगृह्य बभूव मुदितोऽजुनः। हुताशनं पुरस्कृत्य ततस्तदपि वीर्यवान्॥ जग्राह बलमास्थाय ज्यया च युयुजे धनुः। मौ। तु योज्यमानायां बलिना पाण्डवेन ह॥ येऽशृण्वन् कूजितं तत्र तेषां वै व्यथितं मनः। लब्ध्वा रथं धनुश्चैव तथाक्षय्ये महेषुधी॥ बभूव कल्यः कौन्तेयः प्रहृष्टः साह्यकर्मणि। वज्रनाभं ततश्चक्रं ददौ कृष्णाय पावकः॥ आग्नेयमस्त्रं दयितं स च कल्योऽभवत् तदा। अब्रवीत् पावकश्चैवमेतेन मधुसूदन।॥ अमानुषानपि रणे जेष्यसि त्वमसंशयम्। अनेन तु मनुष्याणां देवानामपि चाहवे॥ रक्षःपिशाचदैत्यानां नागानां चाधिकस्तथा। भविष्यसि न संदेहः प्रवरोऽपि निबर्हणे॥ क्षिप्तं क्षिप्तं रणे चैतत् त्वया माधव शत्रुषु। हत्वाप्रतिहतं संख्ये पाणिमेष्यति ते पुनः॥ वरुणश्च ददौ तस्मै गदामशनिनिःस्वनाम्। दैत्यान्तकरणी घोरां नाम्ना कौमोदकी प्रभुः॥ ततः पावकमबूतां प्रहृष्टावर्जुनाच्युतौ। कृतास्त्रौ शस्त्रसम्पन्नौ रथिनौ ध्वजिनावपि॥ कल्यौ स्वो भगवन् योद्धमपि सर्वैः सुरासुरैः। किं पुनर्वज्रिणैकेन पन्नगार्थे युयुत्सता॥ अर्जुन उवाच चक्रपाणिर्हषीकेशो विचरन् युधि वीर्यवान्। चक्रेण भस्मसात् सर्वं विसृष्टेन तु वीर्यवान्। त्रिषु लोकेषु तन्नास्ति यन्न कुर्याज्जनार्दनः॥ गाण्डीवं धनुरादाय तथाक्षय्ये महेषुधी। अहमप्युत्सहे लोकान् विजेतुं युधि पावक॥ सर्वतः परिवायैवं दावमेतं महाप्रभो। कामं सम्प्रज्वलाद्यैव कल्यौ स्वः साह्यकर्मणि॥ वैशम्पायन उवाच एवमुक्तः स भगवान् दाशार्हेणार्जुनेन च। तैजसं रूपमास्थाया दावं दग्धुं प्रचक्रमे॥ सर्वतः परिवार्याथ सप्ताचिर्खलनस्तथा। ददाह खाण्डवं दावं युगान्तमिव दर्शयन्॥ प्रतिगृह्य समाविश्य तद् वनं भरतर्षभ। मेघस्तनितनिर्घोषः सर्वभूतान्यकम्पयत्॥ दह्यतस्तस्य च बभौ रूपं दावस्य भारत। मेरोरिव नगेन्द्रस्य कीर्णस्यांशुमर्तोऽशुभिः॥ वैशम्पायन उवाच तौ रथाभ्यां रथश्रेष्ठौ दावस्योभयतः स्थितौ। दिक्षु सर्वासु भूतानां चक्राते कदनं महत्॥ यत्र यत्र च दृश्यन्ते प्राणिनः खाण्डवालयाः। पलायन्तः प्रवीरौ तौ तत्र तत्राभ्यधावताम्॥ छिद्रं न स्म प्रपश्यन्ति रथयोराशुचारिणोः। आविद्धावेव दृश्येते रथिनौ तौ रथोत्तमौ॥ खाण्डवे दह्यमाने तु भूताः शतसहस्रशः। उत्पेतुर्भेरवान् नादान् विनदन्तः समन्ततः॥ दग्धैकदेशा बहवो निष्टप्ताश्च तथापरे। स्फुटिताक्षा विशीर्णाश्च विप्लुताश्च तथापरे॥ समालिङ्गय सुतानन्ये पितॄन् भ्रातृनथापरे। त्यक्तं न शेकुः स्नेहेन तत्रैव निधनं गताः॥ संदष्टदशनाश्चान्ये समुत्पेतुरनेकशः। ततस्तेऽतीव घूर्णन्तः पुनरग्नौ प्रपेदिरे॥ दग्धपक्षाक्षिचरणा विचेष्टन्तो महीतले। तत्र तत्र स्म दृश्यन्ते विनश्यन्तः शरीरिणः॥ जलाशयेषु तप्तेषु काथ्यमानेषु वह्निना। गतसत्त्वाः स्म दृश्यन्ते कूर्ममत्स्याः समन्ततः॥ शरीरैरपरे दीप्तैर्देहवन्त इवाग्नयः। अदृश्यन्त वने तत्र प्राणिनः प्राणिसंक्षय॥ कांश्चिदुत्पततः पार्थः शरैः संछिद्य खण्डशः। पातयामास विहगान् प्रदीप्ते वसुरेतसि॥ ते शराचितसर्वाङ्गा निनदन्तो महारवान्। ऊर्ध्वमुत्पत्य वेगेन निपेतुः खाण्डवे पुनः॥ शरैरभ्याहतानां च संघशः स्म वनौकसाम्। विरावः शुश्रुवे घोरः समुद्रस्येव मथ्यतः॥ वह्वेश्चापि प्रदीप्तस्य खमुत्पेतुर्महार्चिषः। जनयामासुरुद्वेगं सुमहान्तं दिवौकसाम्॥ तेनार्चिषा सुसंतप्ता देवा: सर्षिपुरोगमाः। ततो जग्मुर्महात्मानः सर्व एव दिवौकसः। शतक्रतुं सहस्राक्षं देवेशमसुरार्दनम्॥ देवा ऊचुः तच्छ्रुत्वा वृत्रहा किं विमे मानवाः सर्वे दह्यन्ते चित्रभानुना। कच्चिन्न संक्षयः प्राप्तो लोकानाममरेश्वर॥ वैशम्पायन उवाच तेभ्यः स्वयमेवान्ववेक्ष्य च। खाण्डवस्य विमोक्षार्थं प्रययौ हरिवाहनः॥ महता रथवृन्देन नानारूपेण वासवः। आकाशं समवाकीर्य प्रववर्ष सुरेश्वरः॥ ततोऽक्षमात्रा व्यसृजन धाराः शतसहस्रशः। चोदिता देवराजेन जलदाः खाण्डवं प्रति॥ असम्प्राप्तास्तु ता धारास्तेजसा जातवेदसः। ख एव समशुष्यन्त न काश्चित् पावकं गताः॥ ततो नमुचिहा क्रुद्धो भृशमर्चिष्मतस्तदा। पुनरेव महामेधैरम्भांसि व्यसृजद् बहु॥ अचिर्धाराभिसम्बद्धं धूमविद्युत्समाकुलम्। बभूव तद् वनं घोरं स्तनयित्नुसमाकुलम्॥ तस्याथ वर्षतो वारि पाण्डव: प्रत्यवारयत्। शरवर्षेण बीभत्सुरुत्तमास्त्राणि दर्शयन्॥ खाण्डवं च वनं सर्वं पाण्डवो बहुभिः शरैः। आच्छादयदमेयात्मा नीहारेणेव चन्द्रमाः॥ न च स्म किंचिच्छक्नोति भूतं निश्चरितुं ततः। संछाद्यमाने खे बाणैरस्यता सव्यसाचिना॥ तक्षकस्तु न तत्रासीन्नागराजो महाबलः। दह्यमाने वने तस्मिन् कुरुक्षेत्रं गतो हि सः॥ निगीर्य च। अश्वसेनोऽभवत् तत्र तक्षकस्य सुतो बली। स यत्नमकरोत् तीव्र मोक्षार्थं जातवेदसः॥ न शशाक स निर्गन्तुं निरुद्धोऽर्जुनपत्रिभिः। मोक्षयामास तं माता निगीर्य भुजगात्मजा॥ तस्य पूर्वं शिरो ग्रस्तं पुच्छमस्य निगीर्यमाणा साक्रामत् सुतं नागी मुमुक्षया॥ तस्याः शरेण तीक्ष्णेन पृथुधारेण पाण्डवः। शिरश्चिच्छेद गच्छन्त्यास्तामपश्यच्छचीपतिः॥ तं मुमोचयिषुर्वज्री वातवर्षेण पाण्डवम्। मोहयामास तत्कालमश्वसेनस्त्वमुच्यत॥ तां च मायां तदा दृष्ट्वा घोरां नागेन वञ्चितः। द्विधा त्रिधा चखगतान् प्राणिनः पाण्डवोऽच्छिनत्।१०।। शशाप तं च संक्रुद्धो बीभत्सुर्जिह्यगामिनम्। पावको वासुदेवश्चाप्यप्रतिष्ठो भविष्यसि॥ ततो जिष्णुः सहस्राक्षं स्वं वितत्याशुगैः शरैः। योधयामास संक्रुद्धो वञ्चनां तामनुस्मरन्॥ देवराजोऽपि तं दृष्ट्वा संरब्धं समरेऽर्जुनम्। स्वमस्त्रमसृजत् तीव्र छादयित्वाखिलं नभः॥ ततो वायुर्महाघोषः क्षोभयन् सर्वसागरान्। वियत्स्थो जनयन् मेघाञ्जलधारासमाकुलान्॥ ततोऽशनिमुचो घोरांस्तडित्स्तनितनि:स्वनान्। तद्विघातार्थमसृजदर्जुनोऽप्यस्त्रमुत्तमम्॥ वायव्यमभिमन्याथ प्रतिपत्तिविशारदः। तेनेन्द्राशनिमेघानां वीर्योजस्तद् विनाशितम्॥ जलधाराश्च ताः शोषं जग्मुर्नेशुश्च विद्युतः। क्षणेन चाभवद् व्योम समप्रशान्तरजस्तमः॥ सुखशीतानिलवहं प्रकृतिस्थार्कमण्डलम्। निष्प्रतीकारहृष्टश्च हुतभुग विविधाकृतिः॥ सिच्यमानो वसौघैस्तैः प्राणिनां देहनिःसृतैः। प्रजज्वालाथ सोऽर्चिष्मान् स्वनादैः पूरयञ्जगत्॥ कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावमहंकृताः। खमुत्पेतुर्महाराज सुपर्णाद्याः पतत्रिणः॥ गरुत्मान् वज्रसदृशैः पक्षतुण्डनखैस्तथा। प्रहर्तुकामो न्यपतदाकाशात् कृष्णपाण्डवौ॥ तथैवोरगसङ्घाताः पाण्डवस्य समीपतः। उत्सृजन्तो विषं घोरं निपेतुर्खलिताननाः॥ तांश्चकर्त शरैः पार्थः सरोषाग्निसमुक्षितैः। विविशुश्चापि तं दीप्तं देहाभावाय पावकम्॥ ततोऽसुराः सगन्धर्वा यक्षराक्षसपन्नगाः। उत्पेतुर्नादमतुलमुत्सृजन्तो रणार्थिनः॥ अयः कणपचक्राश्मभुशुण्ड्युद्यतबाहवः। कृष्णपार्थो जिघांसन्तः क्रोधसम्मूर्छितौजसः॥ तेषामतिव्याहरतां शस्त्रवर्षं प्रमुञ्चताम्। प्रममाथोत्तमाङ्गानि बीभत्सुनिशितैः शरैः॥ कृष्णश्च सुमहातेजाश्चक्रेणारिविनाशनः। दैत्यदानवसङ्घानां चकार कदनं महत्॥ अथापरे शरैर्विद्धाश्चक्रवेगेरितास्तथा। वेलामिव समासाद्य व्यतिष्ठन्नमितौजसः॥ ततः शक्रोऽतिसंक्रुद्धस्त्रिदशानां महेश्वरः। पाण्डुरं गजमास्थाय तावुभौ समुपाद्रवत्॥ वेगेनाशनिमादाय वज्रमस्त्रं च सोऽसृजत्। हतावेताविति प्राह सुरानसुरसूदनः॥ ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम्। जगृहुः सर्वशस्त्राणि स्वानि स्वानि सुरास्तथा।३१॥ कालदण्डं यमो राजन् गदां चैव धनेश्वरः। पाशांश्च तत्र वरुणो विचित्रां च तथाशनिम्॥ स्कन्धः शक्तिं समादाय तस्थौ पेरुरिवाचलः। ओषधीर्दीप्यमानाश्च जगृहातेऽश्विनावपि॥ जगृहे च धनुर्धाता मुसलं तु जयस्तथा। पर्वतं चापि जग्राह क्रुद्धस्त्वष्टा महाबलः॥ अंशस्तु शक्तिं जग्राह मृत्युर्देवः परश्वधम्। प्रगृह्य परिघं घोरं विचचारार्यमा अपि॥ मित्रश्च क्षुरपर्यन्तं चक्रमादाय तस्थिवान्। पूषा भगश्च संक्रुद्धः सविता च विशाम्पते॥ आत्तकार्मुकनिस्त्रिंशाः कृष्णपार्थो प्रदुद्रुवुः। रुद्राश्च वसवश्चैव मरुतश्च महाबलाः॥ विश्वेदेवास्तथा साध्या दीप्यमानाः स्वतेजसा। एते चान्ये च बहवो देवास्तौ पुरुषोत्तमौ॥ कृष्णपार्थो जिघांसन्तः प्रतीयुर्विविधायुधाः। तत्राद्भुतान्यदृश्यन्त निमित्तानि महाहवे॥ युगान्तसमरूपाणि भूतसम्मोहनानि च। तथा दृष्ट्वा सुसंरब्धं शक्रं देवैः सहाच्युतौ॥ अभीतौ युधि दुर्धर्षों तस्थतुः सज्जकार्मुकौ। आगच्छतस्ततो देवानुभौ युद्धवइशारदौ॥ व्यताडयेतां संक्रुद्धौ शरैर्वज्रोपमैस्तदा। असकृद् भग्नसंकल्पा: सुराश्च बहुशः कृताः॥ भयाद् रणं परित्यज्य शक्रमेवाभिशिश्रियुः। दृष्ट्वा निवारितान् देवान् माधवेनार्जुनेन च॥ आश्चर्यमगमंस्तत्र मुनयो नभसि स्थिताः। शक्रश्चापि तयोर्वीर्यमुपलभ्यासकृद् रणे॥ बभूव परमप्रीतो भूयश्चैतावयोधयत् ततोऽश्मवर्षं सुमहद् व्यसृजत् पाकशासनः॥ भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः। तच्छरैरर्जुनो वर्ष प्रतिजघ्नेऽत्यमर्षितः॥ विफलं क्रियमाणं तत् समवेक्ष्य शतक्रतुः। भूयः संवर्धयामास तद्वर्षं पाकशासनः॥ सोऽश्मवर्षं महावेगैरिषुभिः पाकशासनिः। विलयं गमयामास हर्षयन् पितरं तथा॥ तत उत्पाट्य पाणिभ्यां मन्दराच्छिखरं महत्। सदुमं व्यसृजच्छको जिघांसुः पाण्डुनन्दनम्॥ ततोऽर्जुनो वेगवद्भिवलिताप्रैरजिह्मगैः। शरैविध्वंसयामास गिरेः शृङ्गं सहस्रधा॥ गिरेर्विशीर्यमाणस्य तस्य रूपं तदा बभौ। सार्कचन्द्रग्रहस्येव नभसः परिशीर्यतः॥ तेनाभिपतिता दावं शैलेन महता भृशम्। शृङ्गेण निहतास्तत्र प्राणिनः खाण्डवालयाः॥ वैशम्पायन उवाच तथा शैलनिपातेन भीषिताः खाण्डवालयाः। दानवा राक्षसा नागास्तरक्ष्वृक्षवनौकसः॥ द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस्तथा। मृगाश्च महिषाश्चैव शतशः पक्षिणस्तथा॥ समुद्विग्ना विससृपुस्तथान्या भूतजातयः। तं दावं समुदैक्षन्त कृष्णौ चाभ्युद्यतायुधौ॥ उत्पातनादशब्देन त्रासिता इव च स्थिताः। ते वनं प्रसमीक्ष्याथ दह्यमानमनेकधा॥ कृष्णमभ्युद्यतास्त्रं च नादं मुमुचुरुल्बणम्। तेन नादेन रौद्रेण नादेन च विभावसोः॥ ररास गगनं कृत्स्नमुत्पातजलदैरिवा ततः कृष्णो महाबाहुः स्वतेजोभास्वरं महत्॥ चक्रं व्यसृजदत्युग्रं तेषां नाशाय केशवः। तेनार्ता जातयः क्षुद्राः सदानवनिशाचराः॥ निकृत्ताः शतशः सर्वा निपेतुरनलं क्षणात्। तत्रादृश्यन्त ते दैत्याः कृष्णचक्रविदारिताः॥ वसारुधिरसम्पृक्ता: संध्यायामिव तोयदाः। पिशाचान् पक्षिणो नागान् पशृंश्चैव सहस्रशः॥ निघ्नंश्चरति वार्ष्णेयः कालवत् तत्र भारत। क्षिप्तं क्षिप्तं पुनश्चक्रं कृष्णस्यामित्रघातिनः॥ छित्त्वानेकानि सत्त्वानि पाणिमेति पुनः पुनः। तथा तु निघ्नतस्तस्य पिशाचोरगराक्षसान्॥ बभूव रूपमत्युग्रं सर्वभूतात्मनस्तदा। समेतानां च सर्वेषां दानवानां च सर्वशः॥ विजेता नाभवत् कश्चित् कृष्णपाण्डवयोर्मधे। तयोर्बलात् परित्रातुं तं च दावं यदा सुराः॥ नाशक्नुवञ्छमयितुं तदाभूवन् पराङ्मुखाः। शतक्रतुस्तु सम्प्रेक्ष्य विमुखानमरांस्तथा।॥ बभूव मुदितो राजन् प्रशंसन् केशवार्जुनौ। निवृत्तेष्वथ देवेषु वागुवाचाशरीरिणी॥ शतक्रतुं समाभाष्य महागम्भीरनिःस्वना। न ते सखा संनिहितस्तक्षको भुजगोत्तमः॥ दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्यसौ। न च शक्यौ युधा जेतुं कथंचिदपि वासव॥ वासुदेवार्जुनावेतौ निबोध वचनान्मम। नरनारायणावेतौ पूर्वदेवौ दिवि श्रुतौ॥ भवानप्यभिजानाति यद्वी? यत्पराक्रमौ। नैतौ शक्यौ दुराधर्षों विजेतुमजितौ युधि॥ अपि सर्वेषु लोकेषु पुराणावृषिसत्तमौ। पूजनीयतमावेतावपि सर्वैः सुरासुरैः।२०॥ यक्षराक्षसगन्धर्वनरकिन्नरपन्नगैः। तस्मादितः सुरैः सार्धं गन्तुमहर्हसि वासव॥ दिष्टं चाप्यनुपश्यैतत् खाण्डवस्य विनाशनम्। इति वाक्यमुपश्रुत्य तथ्यमित्यमरेश्वरः॥ क्रोधामर्षों समुत्सृज्य सम्प्रतस्थे दिवं तदा। तं प्रस्थितं महात्मानं समवेक्ष्य दिवौकसः॥ सहिताः सेनया राजन्ननुजग्मुः पुरंदरम्। देवराजं तदा यान्तं सह देवैरवेक्ष्य तु॥ वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः। देवराजे गते राजन् प्रहृष्टौ केशवार्जुनौ॥ निर्विशङ्कं वनं वीरौ दाहयामासतुस्तदा। स मारुत इवाभ्राणि नाशयित्वार्जुनः सुरान्॥ व्यधमच्छरसङ्घातैर्देहिनः खाण्डवालयान्। न च स्म किंचिच्छक्नोति भूतं निश्चरितुं ततः॥ संछिद्यमानमिषुभिरस्यता सव्यसाचिना। नाशक्नुवंश्च भूतानि महान्त्यपि रणेऽर्जुनम्॥ निरीक्षितुममोघास्त्रं योद्धं चापि कुतो रणे। शतं चैकेन विव्याध शतेनैकं पतत्त्रिणाम्॥ व्यसवस्तेऽपतन्नग्नौ साक्षात् कालहता इवा न चालभन्त ते शर्म रोधस्सु विषमेषु च॥ पितृदेवनिवासेषु संतापश्चाप्यजायत। भूतसङ्घाश्च बहवो दीनाश्चनुर्महास्वनम्॥ रुरुदुर्वारणाश्चैव तथा मृगतरक्षवः। तेन शब्देन वित्रेसुर्गङ्गोदधिचरा झषाः॥ विद्याधरगणाचैव ये च तत्र वनौकसः। न त्वर्जुनं महाबाहो नापि कृष्णं जनार्दनम्॥ निरीक्षितुं वै शक्नोति कश्चिद् योद्धं कुतः पुनः। एकायनगता येऽपि निष्पेतुस्तत्र केचन॥ राक्षसा दानवा नागा जघ्ने चक्रेण तान् हरिः। ते तु भिन्नशिरोदेहाश्चक्रवेगाद् गतासवः॥ पेतुरन्ये महाकायाः प्रदीप्ते वसुरेतसि। स मांसरुधिरौधैश्च वसाभिश्चापि तर्पितः॥ उपर्याकाशगो भूत्वा विधूमः समपद्यत। दीप्ताक्षो दीप्तजिह्वश्च सम्प्रदीप्तमहाननः॥ दीप्तोर्ध्वकेशः पिङ्गाक्षः पिबन् प्राणभृतां वसाम्। तां स कृष्णार्जुनकृतां सुधां प्राप्य हुताशनः॥ बभूव मुदितस्तृप्तः परां निर्वृतिमागतः। तथासुरं मयं नाम तक्षकस्य निवेशनात्॥ विपद्रवन्तं सहसा ददर्श मधुसूदनः। तमग्निः प्रार्थयामास दिधक्षुर्वातसारथिः॥ शरीरवाञ्जटी भूत्वा नदन्निव बलाहकः। श्रुत्वा मा विज्ञाय दानवेन्द्राणां मयं वै शिल्पिनां वरम्॥ जिघांसुर्वासुदेवस्तं चक्रमुद्यम्य धिष्ठितः। स चक्रमुद्यतं दृष्ट्वा दिधक्षन्तं च पावकम्॥ अभिधावार्जुनेत्येवं मयस्त्राहीति चाब्रवीत्। तस्य भीतस्वनं भैरिति धनंजयः॥ प्रत्युवाच मयं पार्थो जीवयन्निव भारत। तं न भेतव्यमित्याह मयं पार्थो दयापरः॥ तं पार्थेनाभये दत्ते नमुचेर्धातरं मयम्। न हन्तुमैच्छद् दाशार्हः पावको न ददाह च॥ वैशम्पायन उवाच तद् वनं पावको धीमान् दिनानि दश पञ्च च। ददाह कृष्णपार्थाभ्यां रक्षितः पाकशासनात्॥ तस्मिन् वने दह्यमाने षडग्निर्न ददाह च। अश्वसेनं मयं चैव चतुरः शाहूकांस्तथा॥ जनमेजय उवाच किमर्थं शाईकानग्निर्न ददाह तथागते। तस्मिन् वने दह्यमाने ब्रह्मन्नेतत् प्रचक्ष्व मे॥ अदाहे ह्यश्वसेनस्य दानवस्य मयस्य च। कारणं कीर्तितं ब्रह्मञ्छाकाणां न कीर्तितम्॥ तदेतदद्भुतं ब्रह्मञ्छाईकाणामनामयम्। कीर्तयस्वाग्निसम्मः कथं ते न विनाशिताः॥ वैशम्पायन उवाच यदर्थं शाकानग्निर्न ददाह तथागते। तत् ते सर्वं प्रवक्ष्यामि यताभूतमरिंदम॥ धर्मज्ञानां मुख्यतमस्तपस्वी संशितब्रतः। आसीन्महर्षिः श्रुतवान् मन्दपाल इति श्रुतः॥ स मार्गमाश्रितो राजन्नृषीणामूर्ध्वरेतसाम्। स्वाध्यायवान् धर्मरतस्तपस्वी विजितेन्द्रियः॥ स गत्वा तपसः पारं देहमुत्सृज्य भारत। जगाम पितृलोकाय न लेभे तत्र तत्फलम्॥ स लोकानफलान् दृष्ट्वा तपसा निर्जितानपि। पप्रच्छ धर्मराजस्य समीपस्थान् दिवौकसः॥ मन्दपाल उवाच किमर्थमावृता लोका ममैते तपसार्जिताः किं मया न कृतं तत्र यस्यैतत् कर्मणः फलम्॥ तत्राहं तत् करिष्यामि यदर्थमिदमावृतम्। फलमेतस्य तपसः कथयध्वं दिवौकसः॥ देवा ऊचुः ऋणिनो मानवा ब्रह्मन् जायन्ते तेन तच्छृणु। क्रियाभिर्ब्रह्मचर्येण प्रजया च न संशयः॥ तदपाक्रियते सर्वं यज्ञेन तपसा श्रुतैः। तपस्वी यज्ञकृच्चासि न च ते विद्यते प्रजा॥ त इमे प्रसवस्यार्थे तव लोकाः समावृताः। प्रजायस्व ततो लोकानुपभोक्ष्यसि पुष्कलान्॥ पुंनाम्नो नरकात् पुत्रस्त्रायते पितरं श्रुतिः। तस्मादपत्यसंताने यतस्व ब्रह्मसत्तम।॥ वैशम्पायन उवाच तच्छ्रुत्वा मन्दपालस्तु वचस्तेषां दिवौकसाम्। क्व नु शीघ्रमपत्यं स्याद् बहुलं चेत्यचिन्तयत्॥ स चिन्तयन्नभ्यगच्छत् सुबहुप्रसवान् खगान्। शाह्निकां शाट्टिको भूत्वा जरितां समुपेयिवान्॥ तस्यां पुत्रानजनयच्चतुरो ब्रह्मवादिनः। तानपास्य स तत्रैव जगाम लपितां प्रति॥ बालान् स तानण्डगतान् सह मात्रा मुनिर्वने। तस्मिन् गते महाभागे लपितां प्रति भारत॥ अपत्यस्नेहसंयुक्ता जरिता बह्वचिन्तयत्। तेन त्यक्तानसंत्याज्यानृषीनण्डगतान् वने॥ न जहौ पुत्रशोकार्ता जरिता खाण्डवे सुतान्। बभार चैतान् संजातान् स्ववृत्त्या स्नेहविपल्वा॥ ततोऽग्नि खाण्डवं दग्धुमायान्तं दृष्टवानृषिः। मन्दपालश्चरंस्तस्मिन् वने लपितया सह॥ तं संकल्पं विदित्वाग्नेत्विा पुत्रांश्च बालकान्। सोऽभितुष्टाव विप्रर्षिाह्मणो जातवेदसम्॥ पुत्रान् प्रति वदन् भीतो लोकपालं महौजसम्। मन्दपाल उवाच त्वमग्ने सर्वलोकानां मुखं त्वमसि हव्यवाट्॥ त्वमन्तः सर्वभूतानां गूढश्चरसि पावक। त्वामेकमाहुः कवयस यस्त्वामाहुस्त्रिविधं पुनः॥ त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन्। त्वया विश्वमिदं सृष्टं वदन्ति परमर्षयः॥ त्वदृते हि जगत् कृत्स्नं सद्यो नश्येद्भुताशन। तुभ्यं कृत्वा नमो विप्राः स्वकर्मविजितां गतिम्॥ गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम्। त्वामग्ने जलदानाहुः खे विषक्तान् सविद्युतः॥ दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हेतयः। जातवेदस्त्वयैवेदं विश्वं सृष्टं महाद्युते॥ तवैव कर्म विहितं भूतं सर्वं चराचरम्। त्वयाऽऽपो विहिताः पूर्वं त्वयि सर्वमिदं जगत्॥ त्वयि हव्यं च कव्यं च यथावत् सम्प्रतिष्ठितम्। त्वमेव दहनो देव त्वं धाता त्वं बृहस्पतिः॥ त्वमश्विनौ यमौ मित्रः सोमस्त्वमसि चानिलः। वैशम्पायन उवाच एवं स्तुतस्तदा तेन मन्दपालेन पावकः॥ तुतोष तस्य नृपते मुनेरमिततेजसः। उवाच चैन प्रीतात्मा किमिष्टं करवाणि ते॥ तमब्रवीन्मन्दपाल: प्राञ्जलिहव्यवाहनम्। प्रदहन् खाण्डवं दावं मम पुत्रान् विसर्जय॥ तथेति तत् प्रतिश्रुत्य भगवान् हव्यवाहनः। खाण्डवे तेन कालेन प्रजज्वाल दिधक्षया॥ जरितोवाच अस्माद् बिलान्निष्पतितमाखुं श्येनो जहार तम्। क्षुद्रं पद्भ्यां गृहीत्वा च यातो नात्र भयं हि वः॥ शाईका उवाच न हृतं तं वयं विद्यः श्येनोना कथंचन। अन्येऽपि भवितारोऽत्र तेभ्योऽपि भयमेव नः॥ संशयो बछिरागच्छेद् दृष्टं वायोर्निवर्तनम्। मृत्यु! बिलवासिभ्यो बिले स्यान्नात्र संशयः॥ निःसंशयात् संशयितो मृत्युर्मातर्विशिष्यते। चर खे त्वं यथान्यायं पुत्रानाप्स्यसि शोभनान्॥ जरितोवाच अहं वेगेन तं यान्तमद्राक्षं पततां वरम्। बिलादालुं समादाय श्येनं पुत्रा महाबलम्॥ तं पतन्तं महावेगात् त्वरिता पृष्ठतोऽन्वगाम्। आशिषोऽस्य प्रयुञ्जाना हरतो मूषिकं बिलात्॥ यो नो द्वेष्टारमादाय श्यनराज प्रधावसि। भव त्वं दिवमास्थाय निरमित्रो हिरण्मयः॥ स यदा भक्षितस्तेन श्येनेनाखुः पतत्रिणा। तदाहं तमनुज्ञाप्य प्रत्युपायां पुनर्गृहम्॥ प्रविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वो भयम्। श्येनेन मम पश्यन्त्या हृत आखुर्महात्मना॥ शाईका ऊचुः न विद्महे हृतं मातः श्येनेनाखुं कथंचन। अविज्ञाय न शक्यामः प्रवेष्टुं विवरं भुवः॥ जरितोवाच अहं तमभिजानामि हृतं श्येनेन मूषिकम्। नास्ति वोऽत्र भयं पुत्राः क्रियतां वचनं मम॥ शाईका उवाच न त्वं मिथ्योपचारेण मोखयेथा भयाद्धि नः। समाकुलेषु ज्ञानेषु न बुद्धिकृतमेव तत्॥ न चोपकृतमस्माभिनं चास्मान् वेत्थ ये वयम् पीड्यमाना बिभर्घ्यस्मान् का सती के वयं तव॥ तरुणी दर्शनीयासि समर्था भतुरेषणे। अनुगच्छ पतिं मातः पुत्रानाप्स्यसि शोभनान्॥ वयमग्निं समाविश्य लोकानाप्स्याम शोभनान्। अथास्मान् न दहेदग्निरायास्त्वं पुनरेव नः॥ वैशम्पायन उवाच एवमुक्ता ततः शाी पुत्रानुत्सृज्य खाण्डवे। जगाम त्वरिता देशं क्षेममग्नेरनामयम्॥ ततस्तीक्ष्णार्चिरभ्यागात् त्वरितो हव्यवाहनः। यत्र शाॉ बभूवुस्ते मन्दपालस्य पुत्रकाः॥ ततस्तं ज्वलितं दृष्टवा ज्वलनं ते विहगमाः। जरितारिस्ततो वाक्यं श्रावयामास पावकम्॥ जरितारिरुवाच पुरतः कृच्छ्रकालस्य धीमाञ्जागर्ति पूरुषः। स कृच्छ्रकालं सम्प्राप्य व्यथां नैवैति कर्हिचित्॥ यस्तु कृच्छ्रमनुप्राप्तं विचेता नावबुध्यते। स कृच्छ्रकाले व्यथितो न श्रेयो विन्दतं महत्॥ सारिसृक्क उवाच धीर स्त्वमसि मेधावी प्राणकृच्छ्रमिदं च नः। प्राज्ञः शूरो बहूनां हि भवेत्येको न संशयः॥ स्तम्वमित्र उवाच ज्येष्ठस्तातो भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः। ज्येष्ठश्चेन्न प्रजानाति कनीयान् किं करिष्यति॥ द्रोण उवाच हिरण्यरेतास्त्वरितो ज्वलन्नायाति नः क्षयम्। सप्तजिह्वाननः क्रूरो लेलिहानो विसर्पति॥ वैशम्पायन उवाच एवं सम्भाष्य तेऽन्योन्यं मन्दपालस्य पुत्रकाः। तुष्टावः प्रयता भूत्वा यथाग्निं शृणु पार्थिवः॥ जरितारिरुवाच आत्मासि वायोर्खलन शरीरमसि वीरुधाम्। योनिरापश्च ते शुक्रं योनिस्त्वमसि चाम्भसः॥ ऊर्ध्वं चाधश्च सर्पन्ति पृष्ठतः पार्श्वतस्तथा। अर्चिषस्ते महावीर्य रश्मयः सवितुर्यथा।॥ सारिसृक्क उवाच माता प्रणष्टा पितरं न विद्यः पक्षा जाता नैव नो धूमकेतो। स्तस्मादस्मांस्त्राहि बालांस्त्वमग्ने॥ यदग्ने ते शिवं रूपं ये च ते सप्त हेतयः। तेन नः परिपाहि त्वमान्न् वै शरणैषिणः॥ त्वमेवैकस्तपसे जातवेदो नान्यस्तप्ता विद्यते गोषु देव। ऋषिनस्मान् बालकान् पालयस्व परेणास्मान् प्रेहि वै हव्यवाह॥ स्तम्बमित्र उवाच सर्वमग्ने त्वमेवैकस्त्वयि सर्वमिदं जगत्। त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च॥ त्वमग्निहव्यवाहस्त्वं त्वमेव परमं हविः। मनीषिणस्त्वां जानन्ति बहुधा चैकधापि च॥ सृष्ट्वा लोकांस्त्रीनिमान् हव्यवाह काले प्राप्ते पचसि पुनः समिद्धः। स्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा॥ द्रोण उवाच त्वमन्नं प्राणिभिर्भुक्तमन्तर्भूतो जगत्पते। नित्यप्रवृद्धः पचसि त्वयि सर्वं प्रतिष्ठितम्॥ सूर्यो भूत्वा रश्मिभिर्जातवेदो भूमेरम्भो भूमिजातान् रसांश्चा। विश्वानादाय पुनरुत्सृज्य काले दृष्ट्वा वृष्ट्या भावयसीह शुक्र॥ त्वत्त एताः पुनः शुक्र वीरुधो हरितच्छदाः। जायन्ते पुष्करिण्यश्च सुभद्रश्च महोदधिः॥ इदं वै सद्म तिग्मांशो वरुणस्य परायणम्। शिवस्त्राता भवास्माकं मास्मानध विनाशय॥ पिङ्गाश्च लोहितग्रीव कृष्णवर्त्मन् हुताशन। परेण प्रेहि मुञ्चास्मान् सागरस्य गृहानिव॥ वैशम्पायन उवाच एवमुक्तो जातवेदा द्रोणेन बह्मवादिना। द्रोणमाह प्रतीतात्मा मन्दपालप्रतिज्ञया॥ अग्निरुवाच ऋषिोणस्त्वमसि वै ब्रह्म तद् व्याहृतं त्वया। ईप्सितं ते करिष्यामि न च ते विद्यते भयम्॥ मन्दपालेन वै यूयं मम पूर्वं निवेदिताः। वर्जयेः पुत्रकान् मह्यं दहन् दावमिति स्म ह॥ तस्य तद् वचनं द्रोण त्वया यच्चेह भाषितम्। उभयं ते गरीयस्तु ब्रूहि किं करवाणि ते। भृशं प्रीतोऽस्मि भद्रं ते ब्रह्मन् स्तोत्रेण सत्तम।॥ द्रोण उवाच इमे मार्जारकाः शुक्र नित्यमुद्वेजयन्ति नः। एतान् कुरुष्व दग्धांस्त्वं हुताशन सबान्धवान्॥ तथा तत् कृतवानग्निरभ्यनुज्ञाय शाकान्। ददाह खाण्डवं दावं समिद्धो जनमेजय॥ वैशम्पायन उवाच मन्दपालोऽपि कौरव्य चिन्तयामास पुत्रकान्। उक्त्वापि च स तिग्मांशुं नैव शर्माधिगच्छति॥ स तप्यमानः पुत्रार्थे लपितामिदमब्रवीत्। कथं नु शक्ताः शरणे लपिते मम पुत्रकाः॥ वर्धमाने हुतवहे वाते चाशु प्रवायति। असमर्था विमोक्षाय भविष्यन्ति ममात्मजाः॥ कथं त्वशक्ता त्राणाय माता तेषां तपस्विनी। भविष्यति हि शोकार्ता पुत्रत्राणमपश्यती॥ कथमुयनेऽशक्तान् पतने च ममात्मजान्। संतप्यमाना बहुधा वाशमाना प्रधावती॥ जरितारिः कथं पुत्रः सारिसृक्कः कथं च मे। स्तम्बमित्रः कथं द्रोणः कथं सा च तपस्विनी॥ लालप्यमानं तमृषि मन्दपालं तथा वने। लपिता प्रत्युवाचेदं सासूयमिव भारत॥ न तं पुत्रेष्ववक्षास्ति यानृषीनुक्तवानसि। तेजस्विनो वीर्यवन्तो न तेषां ज्वलनाद् भयम्॥ त्वयाग्नौ ते परीताश्च स्वयं हि मम संनिधौ। प्रतिश्रुतं तथा चेति ज्वलनेन महामना॥ लोकपालो न तां वाचमुक्त्वा मिथ्या करिष्यति। समक्षं बन्धुकृत्ये न तेन तं स्वस्थ मानसम्॥ तामेव तु ममामित्रां चिन्तयन् परितप्यसं। ध्रुवं मयि न ते स्नेहो यथा तस्यां पुराभवत्॥ न हि पक्षवता न्याय्यं नि:स्नेहेन सुहृज्जने। पीड्यमान उपद्रष्टुं शक्तेनात्मा कथंचन॥ गच्छ त्वं जरितामेव यदर्थं परितप्यसे। चरिष्याम्यहमप्येका यथा कुपुरुषाश्रिता॥ मन्दपाल उवाच नाहमेवं चरे लोके यथा त्वमभिमन्यसे। अपत्यहेतोर्विचरे तच्च कृच्छ्रगतं मम॥ भूतं हित्वा च भाव्यर्थे योऽवलम्बेत् स मन्दधीः। अवमन्येत तं लोको यथेच्छसि तथा कुरु॥ एष हि प्रज्वलन्नग्निर्लेलिहानो महीरुहान्। आविग्ने हृदि संतापं जनयत्यशिवं मम॥ वैशम्पायन उवाच तस्माद् देशादतिक्रान्ते ज्वलने जरिता पुनः। जगाम पुत्रकानेव त्वरिता पुत्रगृद्धिनी॥ सा तान् कुशलिनः सर्वान् विमुक्ताञ्जातवेदसः। रोरूयमाणान् ददृशे वने पुत्रान् निरामयान्॥ अश्रूणि मुमुचे तेषां दर्शनात् सा पुनः पुनः। एकैकश्येन तान् सर्वान् क्रोशमानान्वपद्यत॥ ततोऽभ्यगच्छत् सहसा मन्दपालोऽपि भारत। अथ ते सर्व एवैनं नाभ्यनन्दंस्तदा सुताः॥ लालप्यमानमेकैकं जरितां च पुनः पुनः। न चैवोचुस्तदा किंचित् तमृषि साध्वसाधु वा॥ मन्दपाल उवाच ज्येष्ठः सुतस्ते कतमः कतमस्तस्य चानुजाः। मध्यमः कतमश्चैव कनीयान् कतमश्च ते॥ एवं ब्रुवन्तं दुःखार्तं किं मां न प्रतिभाषसे। कृतवानपि हि त्यागं नैव शान्तिमितो लभे॥ जरितोवाच किं नु ज्येष्ठेन ते कार्यं किमनन्तरजेन ते। किं वा मध्यमजातेन किं कनिष्ठेन वा पुनः॥ यां त्वं मां सर्वतो हीनामुत्सृज्यासि गतः पुरा। तामेव लपितां गच्छ तरुणी चारुहासिनीम्॥ मन्दपाल उवाच न स्त्रीणां विद्यते किंचिदमुत्र पुरुषान्तरात्। सापत्नकमृते लोके नान्यदर्थविनाशनम्॥ वैराग्निदीपनं चैव भृशमुद्धेगकारि च। सुव्रता चापि कल्याणी सर्वभूतेषु विश्रुता॥ अरुन्धती महात्मानं वसिष्ठं पर्यशरूत। विशुद्धभावमत्यन्तं सदा प्रियहिते रतम्॥ सप्तर्षिमध्यगं धीरमवमेने च तं मुनिम्। अपध्यानेन सा तेन धूमारुणसम्प्रभा। लक्ष्यालक्ष्या नाभिरूपा निमित्तमिव पश्यति॥ अपत्येहेतोः सम्प्राप्तं तथा त्वमपि मामिह। इष्टमेवं गते हि त्वं सा तथैवाद्य वर्तते॥ न हि भार्येति विश्वासः कार्यः पुंसा कथंचन। न हि कार्यमनुध्याति नारी पुत्रवती सती॥ वैशम्पायन उवाच ततस्ते सर्व एवैनं पुत्राः सम्यगुपासते। स च तानात्मजान् सर्वानाश्वासयितुमुद्यतः॥ मन्दपाल उवाच युष्माकमपवर्गार्थं विज्ञप्तो ज्वलनो मया। अग्निना च तथेत्येवं प्रतिज्ञातं महात्मना॥ अग्नेवर्चनमाज्ञाय मातुर्धर्मज्ञतां च वः। भवतां च परं वीर्यं पूर्वं नाहमिहागतः॥ न संतापो हि वः कार्यः पुत्रका हदि मां प्रति। ऋषीन् वेद हुताशोऽपि ब्रह्म तद् विदितं च वः॥ वैशम्पायन उवाच एवमाश्वासितान् पुत्रान् भार्यामादाय स द्विजः। मन्दपालस्ततो देशादन्यं देशं जगाम ह॥ भगवानपि तिग्मांशुः समिद्धः खाण्डवं ततः। ददाह सह कृष्णाभ्यां जनयञ्जगतो हितम्॥ वसामेदोवहाः कुल्यास्तत्र पीत्वा च पावकः। जगाम परमां तृप्तिं दर्शयामास चार्जुनम्॥ ततोऽन्तरिक्षाद् भगवान वतीर्य पुरंदरः। मरुद्गणैर्वृतः पार्थं केशवं चेदमब्रवीत्॥ कृतं युवाभ्यां कर्मेदममरैरपि दुष्करम्। वरं वृणीतं तुष्टांऽस्मि दुर्लभं पुरुषेष्विह॥ पार्थस्तु वरयामास शक्रादस्त्राणि सर्वशः। प्रदातुं तच्च शक्रस्तु कालं चक्रे महाद्युतिः॥ यदा प्रसन्नो भगवान् महादेवो भविष्यति। तदा तुभ्यं प्रदास्यामि पाण्डवास्त्राणि सर्वशः॥ अहमेव च तं कालं वेत्स्यामि कुरुनन्दन। तपसा महता चापि दास्यामि भवतोऽप्यहम्॥ आग्नेयानि च सर्वाणि वायव्यानि च सर्वशः। मदीयानि च सर्वाणि ग्रहीष्यसि धनंजय॥ वासुदेवोऽपि जग्राह प्रीतिं पार्थेन शाश्वतीम्। ददौ सुरपतिश्चैव वरं कृष्णाय धीमते॥ एवं दत्त्वा वरं ताभ्यां सह देवैर्मरुत्पतिः। हुताशनमनुज्ञाप्य जगाम त्रिदिवं प्रभुः॥ पावकश्च तदा दावं दग्ध्वा समृगपक्षिणम्। अहानि पञ्च चैकं च विरराम सुतर्पितः॥ जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च। युक्तः परमया प्रीत्या तावुवाचाच्युतार्जुनौ॥ युवाभ्यां पुरुषाचयाभ्यां तर्पितोऽस्मि यथासुखम्। अनुजानामि वां वीरौ चरतं यत्र वाञ्छितम्॥ एवं तौ समनुज्ञातौ पावकेन महात्मना। अर्जुनो वासुदेवश्च दानवश्च मयस्तथा॥ परिक्रम्य ततः सर्वे त्रयोऽपि भरतर्षभ। रमणीये नदीकूले सहिताः समुपाविशन्॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवी सरस्वतीं व्यासं ततो जयमुदीरयेत्॥ वैशम्पायन उवाच ततोऽब्रवीन्मयः पार्थं वासुदेवस्य संनिधौ। : श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः॥ मय उवाच अस्मात् कृष्णात् सुसंरब्धात् पावकाच्च दिधक्षतः। त्वया बातोऽस्मि कौन्तेय ब्रूहि किं करवाणि ते॥ अर्जुन उवाच कृतमेव त्वया सर्वं स्वस्ति गच्छ महासुर। प्रीतिमान् भव मे नित्यं प्रीतिमन्तो वयं च ते॥ मय उवाच युक्तमेतत् त्वयि विभो यथाऽऽत्था पुरुषर्षभ। प्रीतिपूर्वमहं किंचित् कर्तुमिच्छामि भारत॥ अहं हि विश्वकर्मा वै दानवानां महाकविः। सोऽहं वै त्वत्कृते कर्तुं किंचिदिच्छामि पाण्डव॥ अर्जुन उवाच प्राणकृच्छ्राद् विमुक्तं त्वमात्मानं मन्यसे मया। एवं गते न शक्ष्यामि किंचित् कारयितुं त्वया।॥ न चापि तव संकल्प मोघमिच्छामि दानव। कृष्णस्य क्रियतां किंचित् तथा प्रतिकृतं मयि॥ चोदितो वासुदेवस्तु मयेन भरतर्षभ। मुहूर्तमिव संदध्यौ किमयं चोद्यतामिति॥ ततो विचिन्त्य मनसा लोकनाथः प्रजापतिः। चोदयामास तं कृष्णः सभा वै क्रियतामिति॥ यदि त्वं कर्तुकामोऽसि प्रियं शिल्पवतां वर। धर्मराजस्य दैतेय यादृशीमिह मन्यसे॥ यां कृतां नानुकुर्वन्ति मानवाः प्रेक्ष्य विस्मिताः। मनुष्यलोके सकले तादृशीं कुरु वै सभाम्॥ यत्र दिव्यानभिप्रायान् पश्येम हि कृतांस्त्वया। आसुरान् मानुषांश्चैव सभां तां कुरु वै मय॥ वैशम्पायन उवाच प्रतिगृह्य तु तद्वाक्यं सम्प्रहृष्टो मयस्तदा। विमानप्रतिमां चक्रे पाण्डवस्य शुभां सभाम्॥ ततः कृष्णश्च पार्थश्च धर्मराजे युधिष्ठिरे। सर्वमेतत् समावेद्य दर्शयामासतुर्मयम्॥ तस्मै युधिष्ठिरः पूजां यथार्हमकरोत् तदा। स तु तां प्रतिजग्राह मय: सत्कृत्य भारत॥ स पूर्वदेवचरितं तदा तत्र विशाम्पते। कथयामास दैतेयः पाण्डुपुत्रेषु भारत॥ स कालं कंचिदाश्वस्य विश्वकर्मा विचिन्त्य तु। सभां प्रचक्रमे कर्तुं पाण्डवानां महात्मनाम्॥ अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः। पुण्येऽहनि महातेजाः कृतकौतुकमङ्गलः॥ तर्पयित्वा द्विजश्रेष्ठान् पायसेन सहस्रशः। धनं बहुविधं दत्त्वा तेभ्य एव च वीर्यवान्॥ सर्वर्तुगुणसम्पन्नां दिव्यरूपां मनोरमाम्। दशकिष्कुसहस्रां तां मापयामास सर्वतः॥ वैशम्पायन उवाच उषित्वा खाण्डवप्रस्थे सुखवासं जनार्दनः। पाथैः प्रीतिसमायुक्तैः पूजनार्दोऽभिपूजितः॥ यमनायं मतिं चक्रे पितुर्दर्शनलालसः। धर्मराजमथामन्त्र्य पृथां च पृथुलोचनः॥ ववन्दे चरणौ मूर्धा जगद्वन्द्यः पितृष्वसुः। स तया मूर्युपाघ्रात: परिष्वक्तश्च केशवः॥ ददर्शानन्तरं कृष्णो भगिनीं स्वां महायशाः। तामुपेत्य हृषीकेशः प्रीत्या वाष्पसमन्वितः॥ अर्घ्य तथ्यं हितं वाक्यं लघु युक्तमनुत्तरम्। उवाच भगवान् भद्रां सुभद्रां भद्रभाषिणीम्॥ तया स्वजनगामीनि श्रावितो वचनानि सः। सम्पूजितश्चाप्यसकृच्छिरसा चाभिवादितः॥ तामनुज्ञाय वार्ष्णेयः प्रतिनन्द्य च भामिनीम्। ददर्शानन्तरं कृष्णां धौम्यं चापि जनार्दनः॥ बवन्दे च यथान्यायं धौम्यं पुरुषसत्तमः। द्रौपदी सान्त्वयित्वा च आमन्त्र्य च जनार्दनः॥ भ्रातृनभ्यगमद् विद्वान् पार्थेन सहितो बली। भ्रातृभिः पञ्चभिः कृष्णो वृतः शक्र इवामरैः॥ यात्राकालस्य योग्यानि कर्माणि गरुडध्वजः। कर्तुकामः शुचिर्भूत्वा स्नातवान् समलंकृतः॥ अर्चयामास देवांश्च द्विजांश्च यदुपुङ्गवः। माल्यजाप्यनमस्कारैर्गन्धैरुच्चावचैरपि।॥ स कृत्वा सर्वकार्याणि प्रतस्थे तस्थुषां वरः। उपेत्य स यदुश्रेष्ठो बाह्यकक्षाद् विनिर्गतः॥ स्वस्तिवाच्याहतो विप्रान् दधिपात्रफलाक्षतैः। वसु प्रदाय च ततः प्रदक्षिणमथाकरोत्॥ काञ्चनं रथमास्थाय तार्क्ष्यकेतनमाशुगम्। कदाचक्रासिशायद्यैरायुधैरावृतं शुभम्॥ तिथावप्यथ नक्षत्रे मुहूर्ते च गुणान्विते। प्रययौ पुण्डरीकाक्षः शैब्यसुग्रीववाहनः॥ अन्वारुरोह चाप्येनं प्रेम्णा राजा युधिष्ठिरः। अपास्य चास्य यन्तारं दारुकं यन्तृसत्तमम्॥ अभीषून् सम्प्रजग्राह स्वयं कुरुपतिस्तदा। उपारुह्यार्जुनश्चापि चामरव्यजनं सितम्॥ रुक्मदण्डं बृहद्वाहुर्विदुधाव प्रदक्षिणम्। तथैव भीमसेनोऽपि यमाभ्यां सहितो बली॥ पृष्ठतोऽनुययौ कृष्णमृत्विक्पौरजनैः सह। स तथा भ्रातृभिः सर्वैः केशवः परवीरहाः॥ अन्वीयमानः शुशुभे शिष्यैरिव गुरुः प्रियैः। पार्थमामन्त्र्य गोविन्दः परिष्वज्य सुपीडितम्॥ युधिष्ठिरं पूजयित्वा भीमसेनं यमौ तथा। परिष्वक्तो भृशं तैस्तु यमाभ्यामभिवादितः॥ योजनार्धमथो गत्वा कृष्णः परपुरंजयः। युधिष्ठिरं समामत्र्य निवर्तस्वेति भारत।॥ ततोऽभिवाद्य गोविन्दः पादौ जग्राह धर्मवित्। उत्थाप्य धर्मराजस्तु मूर्युपाघ्राय केशवम्॥ पाण्डवो यादवश्रेष्ठ कृष्णं कमललोचनम्। गम्यतामित्यनुज्ञाप्य धर्मराजो युधिष्ठिरः॥ ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः। निवर्त्य च तथा कृच्छ्रात् पापडवान् सपदानुगान्॥ स्वां पुरी प्रययौ हृष्टो यथा शक्रोऽमरावतीम्। लोचनैरनुजग्मुस्ते तमादृष्टिपथात् तदा॥ मनोभिरनुजग्मुसते कृष्णं प्रीतिसमन्वयात्। अतृप्तमनसामेव तेषां केशवदर्शने॥ क्षिप्रमन्तर्दधे शौरिश्चक्षुषां प्रियदर्शनः। अकामा एव पार्थास्ते गोविन्दगतमानसाः॥ निवृत्योपययुस्तूर्णं स्वं पुरं पुरुषर्षभा। स्यन्दनेनाथ कृष्णोऽपि त्वरितं द्वारकामगात्॥ सात्वतेन च वीरेण पृष्ठतो यायिना तदा। दारुकेण च सूतेन सहितो देवकीसुतः। स गतो द्वारकां विष्णुर्गरुत्मानिव वेगवान्॥ वैशम्पायन उवाच निवृत्य धर्मराजस्तु सह भ्रातृ भिरच्युतः। सुहृत्परिवृतो राजा प्रविवेश पुरोत्तमम्॥ विसृज्य सुहृदः सर्वान् भ्रातृन् पुत्रांश्च धर्मराट्। मुमोद पुरुषव्याघ्रो द्रौपद्या सहितो नृप।॥ केशवोऽपि मुदा युक्तः प्रविवेश पुरोत्तमम्। पूज्यमानो यदुश्रेष्ठस्यसेनमुखैस्तथा॥ आहुकं पितरं वृद्धं मातरं च यशस्विनीम्। अभिवाद्य बलं चैव स्थितः कमललोचनः॥ प्रद्युम्नसाम्बनिशद्दांश्चारुदेष्णं गदं तथा। अनिरुद्धं च भानुं च परिष्वज्य जनार्दनः॥ स वृद्धैरभ्यनुज्ञाातो रुक्मिण्या भवनं ययौ। मयोऽपि स महाभागः सर्वरत्नविभूषिताम्। विधिवत् कल्पयामास सभां धर्मसुताय वै॥ वैशम्पायन उवाच अथ तत्रोपविष्टेषु पाण्डवेषु महात्मसु। महत्सु चोपविष्टेषु गन्धर्वेषु च भारत॥ वेदोपनिषदां वेत्ता ऋषिः सुरगणार्चितः। इतिहासपुराणज्ञः पुराकल्पविशेषवित्॥ न्यायविद् धर्मतत्त्वज्ञः षडङ्गविदनुत्तमः। ऐक्यसंयोगनानात्वसमवायविशारदः॥ वक्ता प्रगल्भो मेधावी स्मृतिमान् नयवित् कविः। परापरविभागज्ञः प्रमाणकृतनिश्चयः॥ पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित्। उत्तरोत्तरवक्ता च वदतोऽपि बृहस्पतेः॥ धर्मकामार्थमोक्षेषु यथावत् कृतनिश्चयः। तथा भुवनकोशस्य सर्वस्यास्य महामतिः॥ प्रत्यक्षदर्शी लोकस्य तिर्यगूर्ध्वमधस्तथा। सांख्ययोगविभागज्ञो निर्विवित्सुः सुरासुरान्॥ संधिविग्रहतत्त्वज्ञस्त्वनुमानविभागवित्। षाड्गुणविधियुक्तश्च सर्वशास्त्रविशारदः॥ युद्धगान्धर्वसेवी च सर्वत्राप्रतिघस्तथा। एतैश्चान्यैश्च बहुभिर्युक्तो गुणगणैर्मुनिः॥ लोकाननुचरन् सर्वानागमत् तां सभां नृप। नारदः सुमहातेजा ऋषिभिः सहितस्तदा॥ पारिजातेन राजेन्द्र पर्वतेन च धीमता। सुमुखेन च सौम्येन देवर्षिरमितद्युतिः॥ सभास्थान् पाण्डवान् द्रष्टुं प्रीयमाणो मनोजवः। जयाशीर्भिस्तु तं विप्रो धर्मराजानमार्चयत्॥ तमागतमृषिं दृष्ट्वा नारदं सर्वधर्मवित्। सहसा पाण्डवश्रेष्ठः प्रत्युत्थायानुजैः सह॥ अभ्यवादयत प्रीत्या विनयावनतस्तदा। तदहमासनं तस्मै सम्प्रदाय यथाविधि॥ गां चैव मधुपर्कं च सम्प्रदायार्घ्यमेव च। अर्चयामास रत्नैश्च सर्वकामैश्च धर्मवित्॥ तुतोष च यथावच्च पूजां प्राप्य युधिष्ठिरात्। सोऽर्चितः पाण्डवैः सर्वैर्महर्षिर्वेदपारगः। धर्मकामार्थसंयुक्तं पप्रच्छेदं युधिष्ठिरम्॥ नारद उवाच कच्चिदर्थाश्च कल्पन्ते धर्मे च रमते मनः। सुखानि चानुभूयन्ते मनश्च न विहन्यते॥ कच्चिदाचरितं पूर्वैर्नरदेव पितामहैः। वर्तसे वृत्तिमक्षुद्रां धर्मार्थसहितां त्रिषु॥ कच्चिदर्थेन वा धर्मं धर्मेणार्थमथापि वा। उभौ वा प्रीतिसारेण न कामेन प्रबाधसे॥ कच्चिदर्थं च धर्मं च कामं च जयतां वर। विभज्य काले कालज्ञः सदा वरद सेवसे॥ कच्चिद् राजगुणैः षड्भिः सप्तोपायांस्तथानघ। बलाबलं तथा सम्यक् चतुर्दश परीक्षसे॥ कच्चिदात्मानमन्वीक्ष्य परांश्च जयतां वर। तथा संधाय कर्माणि अष्टौ भारत सेवसे॥ कच्चित् प्रकृतयः सप्त न लुप्ता भरतर्षभ। आढ्यास्तथा व्यसनिनः स्वनुरक्ताश्च सर्वशः॥ कच्चिन्न कृतकैर्दूतैर्ये चाप्यपरिशङ्किताः। त्वत्तो वा तव चामात्यैर्भिद्यते मन्त्रितं तथा॥ मित्रोदासीनशत्रूणां कच्चिद् वेत्सि चिकीर्षितम्। कच्चित् संधिं यथाकालं विग्रहं चोपसेवसे॥ कच्चिद् वृत्तिमुदासीने मध्यमे चानुमन्यसे। कच्चिादात्मसमा वृद्धाः शुद्धाः सम्बोधन क्षमाः॥ कुलीनाश्चानुरक्ताश्च कृतास्ते वीर मन्त्रिणः। विजयो मन्त्रमूलो हि राज्ञो भवति भारत।॥ कच्चित् संवृतमन्त्रैस्तैरमात्यैः शास्त्रकोविदैः। राष्ट्रं सुरक्षितं तात शत्रुभिर्न विलुप्यते॥ कच्चिन्निद्रावशं नैषि कच्चित् काले विबुद्ध्यसे। कच्चिच्चापररात्रेषु चिन्तयस्थर्थमर्थवित्॥ कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह। कच्चित् ते मन्त्रितो मन्त्रो न राष्ट्रं परिधावति॥ कच्चिदर्थान् विनिश्चित्य लघुमूलान् महोदयान्। क्षिप्रमारभसे कर्तुं न विघ्नयसि तादृशान्॥ कच्चिन्न सर्वे कर्मान्ताः परोक्षास्ते विशङ्किताः। सर्वे वा पुनरुत्सृष्टाः संसृष्टं चात्र कारणम्॥ आप्तैरलुब्धैः क्रमिकैस्ते च कच्चिदनुष्ठिताः। कच्चिद् राजन् कृतान्येव कृतप्रायाणि वा पुनः॥३३। विदुस्ते वीर कर्माणि नानवाप्तानि कानिचित्। कच्चित् कारणिका धर्मे सर्वशास्त्रेषु कोविदाः। कारयन्ति कुमारांश्च योधमुख्यांश्च सर्वशः॥ कच्चित् सहस्रैर्मूर्खाणामेकं क्रीणासि पण्डितम्। पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं परम्॥ कच्चिद् दुर्गाणि सर्वाणि धनधान्यायुधोदकैः। यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः॥ एकोऽप्यमात्यो मेधावी शूरो दान्तो विचक्षणः। राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम्॥ कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च। त्रिभिस्त्रिभिरविज्ञातैत्सि तीर्थानि चारकैः॥ कच्चिद् द्विषामविदितः प्रतिपन्नश्च सर्वदा। नित्ययुक्तो रिपून् सर्वान् वीक्षसे रिपुसूदन॥ कच्चिद् विनयसम्पन्नः कुलपुत्रो बहुश्रुतः। अनसू युरनुप्रष्टा सत्कृतस्ते पुरोहितः॥ कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः। हुतं च होष्यमाणं च काले वेदयते सदा॥ कच्चिदङ्गेषु निष्णातो ज्योतिषः प्रतिपादकः। उत्पातेषु च सर्वेषु दैवज्ञः कुशलस्तव॥ कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः। जघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः॥ अमात्यानुपधातीतान् पितृपैतामहाञ्छुचीन्। श्रेष्ठाञ्छ्रेष्ठेषु कच्चित् त्वं नियोजयसि कर्मसु॥ कच्चिन्नोग्रेण दण्डेन भृशमुद्विजसे प्रजाः। राष्ट्रं तवानुशासन्ति मन्त्रिणो भरतर्षभ॥ कच्चित् त्वां नावजानन्ति याजकाः पतितं यथा। उग्रपतिग्रहीतारं कामयानमिव स्त्रियः॥ कच्चिद्धृष्टश्च शूरश्च मतिमान् धृतिमाञ्छुचिः। कुलीनश्चानुरक्तश्च दक्षः सेनापतिस्तथा॥ ते कच्चिद् बलस्य मुख्याः सर्वयुद्धविशारदाः। धृष्टावदाता विक्रान्तास्त्वया सत्कृत्य मानिताः॥ कच्चिद् बलस्य भक्तं च वेतनं च यथोचितम्। सम्प्राप्तकाले दातव्यं ददासि न विकर्षसि॥ कालातिक्रमणादेते भक्तवेतनयो ताः। भर्तुः कुप्यन्ति यद्धृत्याः सोऽनर्थः सुमहान् स्मृतः॥ कच्चित् सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः! कच्चित् प्राणांस्तवार्थेषु संत्यजन्ति सदा युधि॥ कच्चिनैको बहूनान् सर्वशः साम्परायिकान्। अनुशास्ति यथाकामं कामात्मा शासनातिगः॥ कच्चित् पुरुषकारेण पुरुषः कर्म शोभयन्। लभते मानमधिकं भूयो वा भक्तवेतनम्॥ कच्चिद् विद्याविनीतांश्च नराज्ञानविशारदान्। यथार्ह गुणतश्चैव दानेनाभ्युपपद्यसे॥ कच्चिद् दारान्मनुष्याणां तवार्थे मृत्युमीयुषाम्। व्यसनं चाभ्युपेतानां बिभर्षि भरतर्षभ।। ५५ कच्चिद् भयादुपगतं क्षीणं वा रिपुमागतम्। युद्धे वा विजितं पार्थ पुत्रवत् परिरक्षसि॥ कच्चित् त्वमेव सर्वस्याः पृथिव्याः पृथिवीपते। समश्चानभिशक्यश्च यथा माता यथा पिता॥ कच्चिद् व्यसनिनं शत्रु निशम्य भरतर्षभ। अभियासि जवेनैव समीक्ष्य त्रिविधं बलम्॥ यात्रामारभसे दिष्ट्या प्राप्तकालमरिंदम। पार्णिमूलं च विज्ञाय व्यवसायं पराजयम्। बलस्य च महाराज दत्त्वा वेतनमग्रतः॥ कच्चिच्च बलमुख्येभ्यः परराष्ट्र परंतप। उपच्छन्नानि रत्नानि प्रयच्छसि यथार्हतः॥ कच्चिदात्मानमेवाग्रे विजित्य विजितेन्द्रियः। परान् जिगीषसे पार्थ प्रमत्तानजितेन्द्रियान्॥ कच्चित् ते यास्यतः शत्रून् पूर्वं यान्ति स्वनुष्ठिताः। साम दानं च भेदश्च दण्डश्च विधिवद् गुणाः॥ कच्चिन्मूलं दृढं कृत्वा परान् यासि विशाम्पते। तांश्च विक्रमसे जेतुं जित्वा च परिरक्षसि॥ कच्चिदष्टाङ्गसंयुक्ता चतुर्विधबला चमूः। बलमुख्यैः सुनीता ते द्विषतां प्रतिवर्धिनी॥ कच्चिल्लवं च मुष्टिं च परराष्ट्रे परंतप। अविहाय महाराज निहसि समरे रिपून्।॥ कच्चित् स्वपरराष्ट्रेषु बहवोऽधिकृतास्तव। अर्थान समधितिष्ठन्ति रक्षन्ति च परस्परम्॥ कच्चिदभ्यवहार्याणि गात्रसंस्पर्शनानि च। प्रेयाणि च महाराज रक्षन्त्यनुमतास्तव॥ कच्चित् कोषश्च कोष्ठं च वाहनं द्वारमायुधम्। आयश्च कृतकल्याणैस्तव भक्तैरनुष्ठितः॥ कच्चिदाभ्यन्तरेभ्यश्च बाह्येभ्यश्च विशाम्पते। रक्षस्यात्मानमेवाग्रे तांश्च स्वेभ्यो मिथश्च तान्॥ कच्चिन्न पाने द्यूते वा क्रीडासु प्रमदासु च। प्रतिजानन्ति पूर्वाह्ने व्ययं व्यसनजं तव॥ कच्चिदायस्य चार्धेन चतुर्भागेन वा पुनः। पादभागैस्त्रिभिर्वापि व्ययः संशुद्ध्यते तव॥ कच्चिज्ज्ञातीन् गुरून्वृद्धान्वणिजः शिल्पिनः श्रितान्। अभीक्ष्णमनुगृह्णासि धनधान्येन दुर्गतान्॥ कच्चिच्चायव्यये युक्ताः सर्वे गणकलेखकाः। अनुतिष्ठन्ति पूर्वाह्ने नित्यमायं व्ययं तव॥ कच्चिदर्थेषु सम्प्रौढान् हितकामाननुप्रियान्। नापकर्षसि कर्मभ्यः पूर्वमप्राप्य किल्बिषम्॥ कच्चिद् विदित्वा पुरुषानुत्तमाधममध्यमान्। त्वं कर्मस्वनुरूपेषु नियोजयसि भारत॥ कचिन्न लुब्धाश्चौरा वा वैरिणो वा विशाम्पते। अप्राप्तव्यवहारा वा तव कर्मस्वनुष्ठिताः॥ कच्चिन्न चौरेलुब्धैर्वा कुमारैः स्त्रीबलेन वा। त्वया वा पीड्यते राष्ट्र कच्चित्तुष्टाः कृषीवलः॥७७। कच्चिद् राष्ट्रे तडागानि पूर्णानि च बृहन्ति च। भागशो विनिविष्टानि न कृषिर्देवमातृका॥ कच्चिन्न भक्तं बीजं च कर्षकस्यावसीदति। प्रत्येकं च शतं वृद्ध्या ददास्यृणमनुग्रहम्॥ कच्चित् स्वनुष्ठिता तात वार्ता ते साधुभिर्जनैः। वार्तायां संश्रितस्तात लोकोऽयं सुखमेधते॥ कच्चिच्छूराः कृतप्रज्ञाः पञ्च पञ्च स्वनुष्ठिताः। क्षेमं कुर्वन्ति संहत्य राजञ्जनपदे तव॥ कच्चिन्नगरगुप्त्यर्थं ग्रामा नगरवत् कृताः। ग्रामवच्च कृताः प्रान्तास्ते च सर्वे त्वदर्पणाः॥ कच्चिद् बलेनानुगताः समानि विषमाणि च। पुराणि चौरान निघ्नन्तश्चरन्ति विषये तव॥ कच्चित् स्त्रियः सान्त्वयसि कच्चित् ताश्च सुरक्षिताः कच्चिन्न श्रद्दधास्यासां कच्चिद् गुह्यं न भाषसे॥ कच्चिदात्ययिकं श्रुत्वा तदर्थमनुचिन्त्य च। प्रियाण्यनुभवच्छेषे न त्वमन्त:पुरे नृप॥ कच्चिद् द्वौ प्रथमौ यामौ रात्रेः सुप्त्वा विशाम्पते। संचिन्तयसि धर्मार्थी याम उत्थाय पश्चिमे॥ कच्चिदर्थयसे नित्यं मनुष्यान् समलंकृतः । उत्थाय काले कालज्ञैः सह पाण्डवमन्त्रिभिः॥ कच्चिद् रक्ताम्बरधराः खगहस्ता: स्वलंकृताः। उपासते त्वामभितो रक्षणार्थमरिन्दम॥ कच्चिद् दण्ड्येषु यमवत्पूज्येषु च विशाम्पते। परीक्ष्य वर्तसे सम्यगप्रियेषु प्रियेषु च॥ कच्चिच्छारीरमाबाधमौषधैर्नियमेन वा। मानसं वृद्धसेवाभिः सदा पार्थापकर्षसि॥ कच्चिद् वैद्याश्चिकित्सायामष्टाङ्गायां विशारदाः। सुहृदश्चानुरक्ताश्च शरीरे ते हिताः सदा॥ कच्चिन्न लोभान्मोहाद् वा मानाद् वापि विशामाते। अर्थिप्रत्यर्थिनः प्राप्तान् न पश्यसि कथञ्चन॥ कच्चिन्न लोभान्मोहाद् वा विश्रम्भात् प्रणयेन वा। आश्रितानां मनुष्याणां वृत्तिं त्वं संरुणत्सि वै॥ कच्चिद् पौरा न सहिता ये च ते राष्ट्रवासिनः। त्वया सह विरुध्यन्ते परैः क्रीता कथञ्चन॥ कच्चिन्न दुर्बलः शत्रुर्बलेन परिपीडितः। मन्त्रेण बलवान् कश्चिदुभाभ्यां च कथञ्चन॥ कच्चित् सर्वेऽनुरक्तास्त्वां भूमिपाला: प्रधानतः। कच्चित् प्राणांस्त्वदर्थेषु संत्यजन्ति त्वयाऽऽदृताः॥ कच्चित् ते सर्वविद्यासु गुणतोऽर्चा प्रवर्तते। ब्राह्मणानां च साधूनां तव नैःश्रेयसी शुभा। दक्षिणास्त्वं ददास्येषां नित्यं स्वर्गापवर्गदाः॥ कच्चिद् धर्मे त्रयीमूले पूर्वैराचरिते जनैः। यतमानस्तथा कर्तुं तस्मिन् कर्मणि वर्तसे॥ कच्चित्तव गृहेऽन्नानि स्वादून्यश्नन्ति वै द्विजाः। गुणवन्ति गुणोपेतास्तवाध्यक्षं सदक्षिणम्॥ ॥ कच्चित् क्रतूनेकचित्तो वाजपेयांश्च सर्वशः। पुण्डरीकांश्च कात्स्येन यतसे कर्तुमात्मवान्॥ कच्चिज्ज्ञातीन् गुरून् वृद्धान् दैवतांस्तापसानपि। चैत्यांश्च वृक्षान् कल्याणान् ब्राह्मणांश्च नमस्यसि।। १०१ कच्चिछोको न मन्युर्वा त्वया प्रोत्पाद्यतेऽनघ। अपि मङ्गलहस्तश्च जनः पार्श्वे नु तिष्ठति॥ कच्चिदेषा च ते बुद्धिर्वृत्तिरेषा च तेऽनघ। आयुष्या च यशस्या च धर्मकामार्थदर्शिनी॥ एतया वर्तमानस्य बुद्ध्या राष्ट्रं न सीदति। विजित्य च महीं राजा सोऽत्यन्तसुखमेधते॥ कच्चिदार्यो विशुद्धात्मा क्षारितश्चौरकर्मणि। अदृष्टशास्त्रकुशलैर्न लोभाद् वध्यते शुचिः॥ दुष्टो गृहीतस्तत्कारी तज्ज्ञैर्दृष्टः सकारणः। कच्चिन्न मुच्यते स्तेनो द्रव्यलोभान्नरर्षभ॥ उत्पन्नान् कच्चिदाढ्यस्य दरिद्रस्य च भारत। अर्थान् न मिथ्या पश्यन्ति तवामात्या हृता जनैः।। नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम्। अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम्। एकचिन्तनमनामनर्थज्ञैश्च चिन्तनम्॥ निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम्। मङ्गलाद्यप्रयोगं च प्रत्युत्थानं च सर्वतः॥ कच्चित्वं वर्जयस्येतान् राजदोषांश्चतुर्दश। प्रायशो यैर्विनश्यन्ति कृतमूलापि पार्थिवाः॥ कच्चित् ते सफला वेदाः कच्चितः ते सफलं धनम्। कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम्॥ युधिष्ठिर उवाच कथं वै सफला वेदाः कथं वै सफलं धनम्। कथं वै सफला दाराः कथं वै सफलं श्रुतम्॥ नारद उवाच अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम्। रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम्॥ वैशम्पायन उवाच एतदाख्याय स मुनि रदो वै महातपाः। पप्रच्छानन्तरमिदं धर्मात्मानं युधिष्ठिरम्॥ नारद उवाच कच्चिदभ्यागता दूराद् वणिजो लाभकारणात्। यथोक्तमवहार्यन्ते शुल्कं शुल्कोपजीविभिः॥ कच्चित् ते पुरुषा राजन् पुरे राष्ट्रे च मानिताः। उपानयन्ति पण्यानि उपधाभिरवञ्चिताः॥ कच्चिच्छृणोषि वृद्धानां धर्मार्थ सहिता गिरः। नित्यमर्थविदां तात यथाधर्मार्थदर्शिनाम्॥ कच्चित् ते कृषितन्त्रेषु गोषु पुष्यफलेषु च। धर्मार्थं च द्विजातिभ्यो दीयते मधुसर्पिषी॥ द्रव्योपकरणं किंचित् सर्वदा सर्वशिल्पिनाम्। चातुर्मास्यावरं सम्यनियतं सम्प्रयच्छसि॥ कच्चित् कृतं विजानीषे कर्तारं च प्रशंससि। सतां मध्ये महाराज सत्करोषि च पूजयन्॥ कत्त्वित् सूत्राणि सर्वाणि गृह्णासि भरतर्षभ। हस्तिसूत्राश्वसूत्राणि रथसूत्राणि वा विभो॥ कच्चिदभ्यस्यते सम्यग् गृहे ते भरतर्षभ। धनुर्वेदस्य सूत्रं वै यन्त्रसूत्रं च नागरम्॥ कच्चिदस्त्राणि सर्वाणि ब्रह्मदण्डश्च तेऽनघ। विषयोगास्तथा सर्वे विदिताः शत्रुनाशनाः॥ कच्चिदग्निभयाच्चैव सर्वं व्यालभयात् तथा। रोगरक्षोभयाच्चैव राष्ट्र स्वं परिरक्षसि॥ कच्चिदन्धश्च मूकांश्च पडून् व्यङ्गानबान्धवान्। पितेव पासि धर्मज्ञ तथा प्रव्रजितानपि॥ षडना महाराज कच्चित् ते पृष्ठतः कृताः। निद्राऽऽलस्यं भयं क्रोधोऽमार्दवं दीर्घसूत्रता॥ वैशम्पायन उवाच ततः कुरूणामृषभो महात्मा श्रुत्वा गिरो ब्राह्मणसत्तमस्या प्रणम्य पादावभिवाद्य तुष्टो राजाब्रवीनारदं देवरूपम्॥ युधिष्ठिर उवाच एवं करिष्यामि यथा त्वयोक्तं प्रज्ञा हि मे भूय एवाभिवृद्धा। उक्त्वा तथा चैव चकार राजा लेभे महीं सागरमेखलां च॥ नारद उवाच एवं यो वर्तते राजा चातुर्वर्ण्यस्य रक्षणे। स विहृत्येह सुसुखी शक्रस्यैति सलोकताम्॥ वैशम्पायन उवाच सम्पूज्याथाभ्यनुज्ञातो महर्षेर्वचनात् परम्। प्रत्युवाचानुपूर्येण धर्मराजो युधिष्ठिरः॥ युधिष्ठिर उवाच भगवन् न्याय्यमाहैतं यथावद् धर्मनिश्चयम्। यथाशक्ति यथान्यायं क्रियतेऽयं विधिर्मया॥ राजभिर्यद् यथा कार्य पुरा वैतन्न संशयः। यथान्यायोपनीतार्थं कृतं हेतुमदर्थवत्॥ वयं तु सत्पथं तेषां यातुमिच्छामहे प्रभो। न तु शक्यं तथा गन्तुं यथा तैर्नियतात्मभिः॥ वैशम्पायन उवाच एवमुक्त्वा स धर्मात्मा वाक्यं तदभिपूज्य च। मुहूर्तात् प्राप्तकालं च दृष्ट्वा लोकचरं मुनिम्॥ नारदं सुस्थमासीनमुपासीनो युधिष्ठिरः। अपृच्छत् पाण्डवस्तत्र राजमध्ये महाद्युतिः॥ युधिष्ठिर उवाच भवान् संचरते लोकान् सदा नानाविधान् बहून्। ब्रह्मणा निर्मितान् पूर्वं प्रेक्षमाणो मनोजवः॥ ईदृशी भवता काचिद् दृष्टपूर्वा सभा क्वचित्। इतो वा श्रेयसी ब्रह्मस्तन्ममाचक्ष्व पृच्छतः॥ वैशम्पायन उवाच तच्छ्रुत्वा नारदस्तस्य धर्मराजस्य भाषितम्। पाण्डवं प्रत्युवाचेदं स्पयन् मधुरया गिरा॥ नारद उवाच मानुषेषु न मे तात दृष्टपूर्वा न च श्रुता। सभा मणिमयी राजन् यथेयं तव भारत॥ सभां तु पितृराजस्य वरुणस्य च धीमतः। कथयिष्ये तथेन्द्रस्य कैलासनिलयस्य च॥ ब्रह्मणश्च सभां दिव्यां कथयिष्ये गतक्लमाम्। दिव्यादिव्यैरभिप्रायैरुपेतां विश्वरूपिणीम्॥ देवैः पितृगणैः साध्यैर्यज्वभिर्नियतात्मभिः। जुष्टां मुनिगणैः शान्तैर्वेदयज्ञैः सदक्षिणैः। यदि ते श्रवणे बुद्धिर्वर्तते भरतर्षभा॥ नारदेनैवमुक्तस्तु धर्मराजो युधिष्ठिरः। प्राञ्जलिर्धातृभिः सार्धं तैश्च सर्द्विजोत्तमैः॥ नारदं प्रत्युवाचेदं धर्मराजो महामनाः। सभाः कथय ताः सर्वाः श्रोतुमिच्छामहे वयम्॥ किंद्रव्यास्ताः सभा ब्रह्मन् किंविस्ताराः किमायताः। पितामहं च के तस्यां सभायां पर्युपासते॥ वासवं देवराजं च यमं वैवस्वतं च के। वरुणं च कुबेरं च सभायां पर्युपासते॥ एतत् सर्व यथान्यायं ब्रह्मर्षे वदतस्तवा श्रोतुमिच्छाम सहिताः परं कौतूहलं हि नः॥ एवमुक्तः पाण्डवेन नारदः प्रतयभाषत। क्रमेण राजन् दिव्यास्ताः श्रूयन्तामिह नः सभाः॥ नारद उवाच शक्रस्य तु सभा दिव्या भास्वरा कर्मनिर्मिता। स्वयं शक्रेण कौरव्य निर्जितार्कसमप्रभा॥ विस्तीर्णा योजनशतं शतमध्यर्धमायता। वैहायसी कामगमा पञ्चयोजनमुच्छ्रिता॥ जराशोकक्लमापेता निरातङ्का शिवा शुभा। वेश्मासनवती रम्या दिव्यपादपशोभिता॥ तस्यां देवेश्वरः पार्थ सभायां परमासने। आस्ते शच्या महेन्द्राण्या श्रिया लक्ष्म्या च भारत॥४। बिभ्रद् वपुरनिर्देश्यं किरीटी लोहिताङ्गदः। विरजोऽम्बरश्चित्रमाल्यो ह्रीकीर्तिद्युतिभिः सह॥ तस्यामुपासते नित्यं महात्मानं शतक्रतुम्। मरुतः सर्वशो राजन् सर्वे च गृहमेधिनः॥ सिद्धा देवर्षयश्चैव साध्या देवगणास्तथा। मरुत्वन्तश्च सहिता भास्वन्तो हेममालिनः॥ एते सानुचराः सर्वे दिव्यरूपाः स्वलंकृताः। उपासते महात्मानं देवराजमरिंदमम्॥ तथा देवर्षयः सर्वे पार्थ शक्रमुपासते। अमला धूतपाप्मानो दीप्यमाना इवाग्नयः॥ तेजस्विनः सोमसुतो विशोका विगतज्वराः। पराशरः पर्वतश्च तथा सावर्णिगालवौ॥ शङ्खच लिखितश्चैव तथा गौरशिरा मुनिः। दुर्वासाः क्रोधनः श्येनस्तथा दीर्घतमा मुनिः॥ पवित्रपाणिः सावर्णिर्याज्ञवल्क्योऽथ भालुकिः। उद्दालकः श्वेतकेतुस्ताण्ड्यो भाण्डायनिस्तथा॥ हविष्मांश्च गरिष्ठश्च हरिश्चन्द्रश्च पार्थिवः। हृद्यश्चोदरशाण्डिल्यः पाराशर्यः कृषीवलः॥ वातस्कन्धो विशाखश्च विधाता काल एव च। करालदन्तस्त्वष्टा च विश्वकर्मा च तुम्बुकः॥ अयोनिजा योनिजाश्च वायुभक्षा हुताशिनः। ईशानं सर्वलोकस्य वज्रिणं समुपासते॥ सहदेवः सुनीथश्च वाल्मीकिश्च महातपाः। शमीकः सत्यवाक् चैव प्रचेताः सत्यसंगरः॥ मेधातिथिर्वामदेवः पुलस्त्यः पुलहः क्रतुः। मरुत्तश्च मरीचिश्च स्थाणुश्चात्र महातपाः॥ कक्षीवान् गौतमस्तार्श्वस्तथा वैश्वानरो मुनिः। मुनिः कालकवृक्षीय आश्राव्योऽथ हिरण्मयः॥ संवर्तो देवहव्यश्च विष्वक्सेनश्च वीर्यवान्। दिव्या आपस्तथौषध्यः श्रद्धा मेधा सरस्वती॥ अर्थो धर्मश्च कामश्च विद्युतश्चैव पाण्डव। जलवाहस्तथा मेघा वायवः स्तनयित्नवः॥ प्राची दिग् यज्ञवाहाश्च पावकाः सप्तविंशतिः। अग्नीषोमौ तथेन्द्राग्नी मित्रश्च सवितार्यमा॥ भगो विश्वे च साध्याश्च गुरुः शुक्रस्तथैव च। विश्वावसुश्चित्रसेनः सुमनस्तरुणस्तथा॥ यज्ञाश्च दक्षिणाश्चैवं ग्रहास्ताराश्च भारत। यज्ञवाहश्च ये मन्त्राः सर्वे तत्र समासते॥ तथैवाप्सरसो राजन् गन्धर्वाश्च मनोरमाः। नृत्यवादित्रगीतैश्च हास्यैश्च विविधैरपि।॥ रमयन्ति स्म नृपते देवराजं शतक्रतुम्। स्तुतिभिर्मङ्गलैश्चैव स्तुवन्तः कर्मभिस्तथा॥ विक्रमैश्च महात्मानं बलवृत्रनिषूदनम्। ब्रह्मराजर्षयश्चैव सर्वे देवर्षयस्तथा।॥ विमानैर्विविधैर्दिव्यैर्दीप्यमाना इवाग्नयः। स्रग्विणो भूषिताः सर्वे यान्ति चायान्ति चापरे॥ बृहस्पतिश्च शुक्रश्च नित्यमास्तां हि तत्र वै। एते चान्ये च बहवो महात्मानो यतव्रताः॥ विमानैश्चन्द्रसंकाशैः सोमवत्प्रियदर्शनाः। ब्रह्मणः सदृशा राजन् भृगुः सप्तर्षयस्तथा॥ एषा सभा मया राजन् दृष्टा पुष्करमालिनी। शतक्रतोर्महाबाहो याम्यामपि सभां शृणु॥ नारद उवाच युधिष्ठिर सभा दिव्या वरुणस्यामितप्रभा। प्रमाणेन यथा याम्या शुभप्राकारतोरणा॥ अन्त:सलिलमास्थाय विहिता विश्वकर्मणा। दिव्यै रत्नमयैर्वृक्षैः फलपुष्पप्रदैर्युता॥ नीलपीतासिदश्यामैः सितैलॊहितकैरपि। अवतानैस्तथा गुल्मैर्मञ्जरीजालधारिभिः॥ तथा शकुनयस्तस्यां विचित्रा मधुरस्वराः। अनिर्देश्या वपुष्मन्तः शतशोऽथ सहस्रशः॥ सा सभा सुखसंस्पर्शा न शीता न च धर्मदा। वेश्मासनवती रम्या सिता वरुणपालिता॥ यस्यामास्ते स वरुणो वारण्या च समन्वितः। दिव्यरत्नाम्बरधरो दिव्याभरणभूषितः॥ स्रग्विणो दिव्यगन्धाश्च दिव्यगन्धानुलेपनाः। आदित्यास्तत्र वरुणं जलेश्वरमुपासते॥ वासुकिस्तक्षश्चैव नागचैरावतस्तथा। कृष्णश्च लोहितश्चैव पद्मश्चित्रश्च वीर्यवान्॥ कम्बलाश्वतरौ नागौ धृतराष्ट्रबलाहको। मणिमान् कुण्डधारश्च कर्कोटकधनंजयौ॥ पाणिमान् कुण्डधारश्च बलवान् पृथिवीपते। प्रह्लादो मूषिकादश्च तथैव जनमेजयः॥ पताकिनो मण्डलिनः फणावन्तश्च सर्वशः। एते चान्ये च बहवः सर्पास्तस्यां युधिष्ठिर। उपासते महात्मानं वरुणं विगतक्लमाः॥ बलिर्वैरोचनो राजा नरकः पृथिवींजयः। प्रह्लादो विप्रचित्तिश्च कालखञ्जाश्च दानवाः॥ सुहनुर्दुर्मुखः शङ्खः सुमनाः सुमतिस्ततः। घटोदरो महापार्श्वः क्रथनः पिद्दरस्तथा॥ विश्वरूपः स्वरूपश्च विरूपोऽथ महाशिराः। दशग्रीवश्च वाली च मेघवासा दशावरः॥ टिट्टिभो विटभूतश्च संहादश्चेन्द्रतापनः। दैत्यदानवसङ्घाश्च सर्वे रुचिरकुण्डलाः॥ स्रग्विणो मौलिनश्चैव तथा दिव्यपरिच्छदाः। सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः॥ ते तस्यां वरुणं देवं धर्मपाशधरं सदा। उपासते महात्मानं सर्वे सुचरितव्रताः॥ तथा समुद्राश्चत्वारो नदी भागीरथी च सा। कालिन्दी विदिशा वेणा नर्मदा वेगवाहिनी॥ विपाशा च शतदुश्च चन्द्रभागा सरस्वती। इरावती वितस्ता च सिन्धुर्देवनदी तथा॥ गोदावरी कृष्णवेणा कावेरी च सरिद्वरा। किम्पुना च विशल्या च तथा वैतरणी नदी॥ तृतीया ज्येष्ठिला चैव शोणश्चापि महानदः। चर्मण्वती तथा चैव पर्णाशा च महानदी॥ सरयूरवत्याथ लागली च सरिद्वरा। करतोया तथात्रेयी लौहित्यश्च महानदः॥ लङ्घत्ती गोमती चैव संध्या त्रिःस्रोतसी तथा। एताश्चान्याश्च राजेन्द्र सुतीर्था लोकविश्रुताः॥ सरितः सर्वतश्चान्यास्तीर्थानि च सरांसि च। कूपाश्च सप्रस्रवणा देहवन्तो युधिष्ठिर॥ पल्वलानि तडागानि देहवन्त्यथ भारत। दिशस्तथा मही चैव तथा सर्वे महीधराः॥ उपासते महात्मानं सर्वे जलचरास्तथा। गीतवादित्रवन्तश्च गन्धर्वाप्सरसां गणाः॥ स्तुवन्तो वरुणं तस्यां सर्व एव समासते। महीधरा रत्नवन्तो रसा ये च प्रतिष्ठिताः॥ कथयन्तः सुमधुराः कथास्तत्र समासते। वारुणश्च तथा मन्त्री सुनाभः पर्युपासते॥ पुत्रपौत्रैः परिवृतो गोनाम्ना पुष्करेण च। सर्वे विग्रहवन्तस्ते तमीश्वरमुपासते॥ एषा मया सम्पतता वारुणी भरतर्षभ। दृष्टपूर्वा सभा रम्या कुबेरस्य सभां शृणु॥ नारद उवाच सभा वैश्रवणी राजञ्छतयोजनमायता। विस्तीर्णा सप्ततिश्चैव योजनानि सितप्रभा॥ तपसा निर्जिता राजन् स्वयं वैश्रवणेन सा। शशिप्रभा प्रावरणा कैलासशिखरोपमा।॥ गुह्यकैरुह्यमाना सा खे विषक्तेव शोभते। दिव्या हेममयैरुच्चैः प्रासादैरुपशोभिता॥ महारत्नवती चित्रा दिव्यगन्धा मनोरमा। सिताभ्रशिखराकारा प्लवमानेव दृश्यते॥ दिव्या हेममयैरङ्गैर्विद्युद्भिरिव चित्रिता। तस्यां वैश्रवणो राजा विचित्राभरणाम्बरः॥ स्त्रीसहस्रैर्वृतः श्रीमानास्ते ज्वलितकुण्डलः। दिवाकरनिभे पुण्ये दिव्यास्तरणसंवृते। दिव्यपादोपधाने च निषण्णः परमासने॥ मन्दाराणामुदाराणां वनानि परिलोडयन्। सौगन्धिकवनानां च गन्धं गन्धवहो वहन्॥ नलिन्याचालकाख्याया नन्दनस्य वनस्य च। शीतो हृदयसंह्लादी वायुस्तमुपसेवते॥ तत्र देवाः सगन्धर्वा गणैरप्सरसां वृताः। दिव्यतानैर्महाराज गायन्ति स्म सभागताः॥ मिश्रकेशी च रम्भा च चित्रसेना शुचिस्मिता। चारुनेत्रा घृताची च मेनका पुञ्जिकस्थला॥ विश्वाची सहजन्या च प्रम्लोचा उर्वशी इरा। वर्गा च सौरभेयी च समीची बुद्बुदा लता॥ एताः सहस्रशश्चान्या नृत्यगीतविशारदाः। उपतिष्ठन्ति धनदं गन्धर्वाप्सरसां गणाः॥ अनिशं दिव्यवादित्रैर्नृत्यगीतैश्च सा सभा। अशून्या रुचिरा भाति गन्धर्वाप्सरसां गणैः॥ किन्नरा नाम गन्धर्वा नरा नाम तथा परे॥ मणिभद्रोऽथ धनदः श्वेतभद्रश्च गुह्यकः। कशेरको गण्डकण्डूः प्रद्योतश्च महाबलः॥ कुस्तुम्बुरुः पिशाचश्च गजकर्णो विशालकः। वराहकर्णस्ताम्रोष्ठः फलकक्षः फलोदकः॥ हंसचूडः शिखावर्तो हेमनेत्रो विभीषणः। पुष्पाननः पिङ्गलकः शोणितोदः प्रवालकः॥ वृक्षवास्यनिकेतश्च चीरवासाश्च भारत। एते चान्ये च बहवो यक्षाः सतसहस्रशः॥ सदा भगवती लक्ष्मीस्तत्रैव नलकूबरः। अहं च बहुशस्तस्यां भवन्त्यन्ये च मद्विधाः॥ ब्रह्मर्षयो भवन्त्यत्र तथा देवर्षयोऽपरे। क्रव्यादाश्च तथैवान्ये गन्धर्वाश्च महाबलाः॥ उपासते महात्मानं तस्यां धनदमीश्वरम्। भगवान् भूतसङ्घश्च वृतः शतसहस्रशः॥ उमापतिः पशुपतिः शूलभृद् भगनेत्रहा। त्र्यम्बको राजशार्दूल देवी च विगतक्लमा॥ वामनैर्विकटैः कुब्जैः क्षतजाक्षमहारवैः। मेदोमांसाशनैरुप्रैरुग्रधन्वा महाबलः॥ नानाप्रहरणैस्त्रैर्वातैरिव महाजवैः। वृतः सखायमन्वास्ते सदैव धनदं नृप॥ प्रहृष्टाः शतशश्चान्ये बहुशः सपिरच्छदाः। गन्धर्वाणां च पतयो विश्वावसुहहाहुहूः॥ तुम्बुरुः पर्वतश्चैव शैलूषश्च तथापरः। चित्रसेनश्च गीतज्ञस्तथा चित्ररथोऽपि च॥ एते चान्ये च गन्धर्वा धनेश्वरमुपासते। विद्याधराधिपश्चैव चक्रधर्मा सहानुजैः॥ उपाचरति तत्र स्म धनानामीश्वरं प्रभुम्॥ आसते चापि राजानो भगदत्तपुरोगमाः। दुमः किम्पुरुषेशश्च उपास्ते धनदेश्वरम्॥ राक्षसाधिपतिश्चैव महेन्द्रो गन्धमादनः। सह यक्षैः सगन्धर्वैः सह सर्वैर्निशाचरैः॥ विभीषणश्च धर्मिष्ठ उपास्ते भ्रातरं प्रभुम्। हिमवान् पारियात्रश्च विन्ध्यकैलासमन्दराः॥ मलयो द१रश्चैव महेन्द्रो गन्धमादनः। इन्द्रकीलः सुनाभश्च तथा दिव्यौ च पर्वतौ॥ एते चान्ये च बहवः सर्वे मेरुपुरोगमाः। उपासते महात्मानं धनानामीश्वरं प्रभुम्॥ नन्दीश्वरश्च भगवान् महाकालस्तथैव च। शङ्कुकर्णमुखाः सर्वे दिव्याः पारिषदास्तथा॥ काष्ठः कुटीमुखो दन्ती विजयश्च तपोऽधिकः। श्वेतश्च वृषभस्तत्र नर्दन्नास्ते महाबलः॥ धनदं राक्षसाश्चान्ये पिशाचाश्च उपासते। पारिषदैः परिवृतमुपायान्तं महेश्वरम्॥ सदा हि देवदेवेशं शिवं त्रैलोक्यभावनम्। प्रणम्य मूर्धा पौलस्त्यो बहुरूपमुमापतिम्॥ ततोऽभ्यनुज्ञां सम्प्राप्य महादेवाद् धनेश्वरः। आस्ते कदाचिद् भगवान् भवो धनपते: सखा॥ निधिप्रवरमुख्यौ च शङ्खपद्मौ धनेश्वरौ। सर्वान् निधीन् प्रगृह्याथ उपासाते धनेश्वरम्॥ सा सथा तादृशी रम्या मया दृष्टान्तरिक्षगा। पितामहसभां राजन् कीर्तयिष्ये निबोध ताम्॥ नारद उवाच पितामहसभां तात कथ्यमानां निबोध मे। शक्यते या न निर्देष्टुमेवंरूपेति भारत॥ पुरा देवयुगे राजन्नादित्यो भगवान् दिवः। आगच्छन्मानुषं लोकं दिदृक्षुर्विगतक्लमः॥ चरन् मानुषरूपेण सभां दृष्ट्वा स्वयम्भुवः। स तामकथयन्मह्यं ब्राह्मीं तत्त्वेन पाण्डव॥ अप्रमेयां सभां दिव्यां मानसीं भरतर्षभ। अनिर्देश्यां प्रभावेण सर्वभूतमनोरमाम्॥ श्रुत्वा गुणानहं तस्यां सभायाः पाण्डवर्षभ। दर्शनेप्सुस्तथा राजन्नादित्यमिदमब्रवम्॥ भगवन् द्रष्टुमिच्छामि पितामहसभां शुभाम्। येन वा तपसा शक्या कर्मणा वापि गोपते॥ औषधैर्वा तथा युक्तैरुत्तमा पापनाशिनी। तन्ममाचक्ष्व भगवन् पश्येयं तां सभा यथा॥ स तन्मम वचः श्रुत्वा सहस्रांशुर्दिवाकरः। प्रोवाच भरतश्रेष्ठ व्रतं वर्षसहस्रिकम्॥ ब्रह्मव्रतमुपास्स्व त्वं प्रयतेनान्तरात्मना। ततोऽहं हिमवत्पृष्ठे समारब्धो महाव्रतम्॥ ततः स भगवान् सूर्यो मामुपादाय वीर्यवान्। आगच्छत् तां सभां ब्राह्मीं विपाप्मा विगतक्लमः॥ एवंरूपेति सा शक्या न निर्देष्टुं नराधिप। क्षणेन हि बिभर्त्यन्यदनिर्दैश्यं वपुस्तथा॥ न वेद परिमाणं वा संस्थानं चापि भारत। न च रूपं मया तादृग् दृष्टपूर्वं कदाचन॥ सुसुखा सा सदा राजन् न शीता न च धर्मदा। न क्षुत्पिपासे न ग्लानिं प्राप्य तां प्राप्नुवन्त्युत॥ नानारूपैरिव कृता मणिभिः सा सुभास्वरैः। स्तम्भैर्न च धृता सा तु शाश्वती न च सा क्षरा॥ दिव्यैर्नानाविधैर्भावैर्भासद्भिरमितप्रभैः॥ अति चन्द्रं च सूर्यं च शिखिनं च स्वयम्प्रभा। दीप्यते नाकपृष्ठस्था भर्सयन्तीव भास्करम्॥ तस्यां स भगवानास्ते विदधद् देवमायया। स्वयमेकोऽनिशं राजन् सर्वलोकपितामहः॥ उपतिष्ठन्ति चाप्येनं प्रजानां पतयः प्रभुम्। दक्षः प्रचेताः पुलहो मरीचिः कश्यपः प्रभुः॥ भृगुरत्रिर्वसिष्ठच गौतमोऽथ तथाङ्गिराः। पुलस्त्यश्च क्रुतश्चैव प्रहादः कर्दमस्तथा॥ अथर्वाङ्गिरसश्चैव बालखिल्या मरीचिपाः। मनोऽन्तरिक्षं विद्याश्च वायुस्तेजो जलं मही॥ शब्दस्पर्शी तथा रूपं रसो गन्धश्च भारत। प्रकृतिश्च विकारच यच्चान्यत् कारणं भुवः॥ अगस्त्यश्च महातेजा मार्कण्डेयश्च वीर्यवान्। जगमदग्निर्भरद्वाजः संवर्तश्च्यवनस्तथा॥ दुर्वासाश्च महाभाग ऋष्यशृङ्गश्च धार्मिकः। सनत्कुमारो भगवान् योगाचार्यो महातपाः॥ असितो देवलश्चैव जैगीषव्यश्च तत्त्ववित्। ऋषभो जितशत्रुश्च महावीर्यस्तथा मणिः॥ आयुर्वेदस्तथाष्टाङ्गो देरवांस्तत्र भारत। चन्द्रमाः सह नक्षत्रैरादित्यश्च गभस्तिमान्॥ वायवः क्रतवश्चैव संकल्पः प्राण एव च। मूर्तिमन्तो महात्मानो महाव्रतपरायणाः॥ एते चान्ये च बहवो ब्रह्माणं समुपस्थिताः। अर्थो धर्मश्च कामश्च हर्षो द्वेषस्तपो दमः॥ आयान्ति तस्यां सहिता गन्धर्वाप्सरसां गणाः। विंशतिः सप्त चैवान्ये लोकपालाश्च सर्वशः॥ शुक्रो बृहस्पतिश्चैव बुधोऽङ्गारक एव च। शनैश्चरच राहुश्च ग्रहाः सर्वे तथैव च॥ मन्त्रो स्थन्तरं चैव हरिमान् वसुमानपि। आदित्याः साधिराजानो नामद्वन्द्वैरुदाहृताः॥ मरुतो विश्वकर्मा च वसवश्चैव भारत। तथा पितृगणाः सर्वे सर्वाणि च हवींष्यथ।॥ ऋग्वेदः सामवेदश्च यजुर्वेदच पाण्डव। अथर्ववेदश्च तथा सर्वशास्त्राणि चैव ह॥ इतिहासोपवेदाश्च वेदाङ्गानि च सर्वशः। ग्रहा यज्ञाश्च सोमश्च देवताचापि सर्वशः॥ सावित्री दुर्गतरणी वाणी सप्तविधा तथा। मेधा धृतिः श्रुतिश्चैव प्रज्ञा बुद्धिर्यशः क्षमा॥ सामानि स्तुतिगीतानि गाथाश्च विविधास्तथा। भाष्याणि तर्कयुक्तानि देहवन्ति विशाम्पते।॥ नाटका विविधाः काव्याः कथाख्यायिककारिकाः। तत्र तिष्ठन्ति ते पुण्या ये चान्ये गुरुपूजकाः॥ क्षणा लवा मुहूर्ताश्च दिवारात्रिस्तथैव च। अर्धमासाश्च मासाश्च ऋतवः षट् च भारत॥ संवत्सराः पञ्च युगमहोरात्रश्चतुर्विधः। कालचक्रं च तद् दिव्यं नित्यमक्षयमव्ययम्॥ धर्मचक्रं तथा चापि नित्यमास्ते युधिष्ठिर। अदितिर्दितिर्दनुश्चैव सुरसा विनता इरा॥ कालिका सुरभी देवी सरमा चाथ गौतमी॥ प्रभा कश्च वै देव्यौ देवतानां च मातरः। रुद्राणी श्रीश्च लक्ष्मीश्च भद्रा षष्ठी तथापराः॥ पृथ्वी गां गता देवी ह्रीः स्वाहा कीतिरेव च। सुरा देवी शची चैव तथा पुष्टिररुन्धती॥ संवृत्तिराशा नियति: सृष्टिर्देवी रतिस्तथा। एताश्चान्याश्च वै देव्य उपतस्थुः प्रजापतिम्॥ आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि। विश्वेदेवाश्च साध्याश्च पितरश्च मनोजवाः॥ पितॄणां च गणान् विद्धि सप्तैव पुरुषर्षभ। मूर्तिमन्तो हि चत्वारस्त्रयश्चाप्यशरीरिणः॥ वैराजाश्च महाभागा अग्निष्वात्ताश्च भारत। गार्हपत्या नाकचराः पितरो लोकविश्रुताः॥ सोमपा एकशृङ्गाश्च चतुर्वेदाः कलास्तथा। एते चतुर्पु वर्णेषु पूज्यन्ते पितरो नृप।॥ एतैराप्यायितैः पूर्वं सोमश्चाप्याय्यते पुनः। त एते पितरः सर्वे प्रजापतिमुपस्थिताः॥ उपासते च संहृष्टा ब्रह्माणममितौजसम्। राक्षसाश्च पिशाचाश्च दानवा गुह्यकास्तथा॥ नागाः सुपर्णाः पशवः पितामहमुपासते। स्थावरा जङ्गमाश्चैव महाभूतास्तथापरे॥ पुरंदश्च देवेन्द्रो वरुणो धनदो यमः। महादेवः सहोमोऽत्र सदा गच्छति सर्वशः॥ महासेनश्च राजेन्द्र सदोपास्ते पितामहम्। देवो नारायणस्तस्यां तथा देवर्षयश्च ये॥ ऋषयो बालखिल्याश्च योनिजायोनिचास्तथा। यच्च किंचित् त्रिलोकेऽस्मिन् दृश्यते स्थाणु जङ्गमम्। सर्वं तस्यां मया दृष्टमिति विद्धि नराधिप।॥ अष्टाशीतिसहस्राणि ऋषीणामूर्ध्वरेतसाम्। प्रजावतां च पञ्चाशदृशीणामपि पाण्डव॥ ते स्म तत्र यथाकामं दृष्ट्वा सर्वे दिवौकसः। प्रणम्य शिरसा तस्मै सर्वे यान्ति यथाऽऽगतम्॥ अतिथीनागतान् देवान् दैत्यान् नागांस्तथा द्विजान्। यक्षान् सुपर्णान् कालेयान् गन्धर्वाप्सरसस्तथा॥ महाभागानमितधीब्रह्मा लोकपितामहः। दयावान् सर्वभूतेषु यथार्ह प्रतिपद्यते॥ प्रतिगृह्य तु विश्वात्मा सवयम्भूरमितद्युतिः। सान्त्वमानार्थसम्भोगैर्युनक्ति मनुजाधिप॥ तथा तैरुपयातैश्च प्रतियद्भिश्च भारत। आकुला सा सभा तात भवति स्म सुखप्रदा॥ सर्वतेजोमयी दिव्या ब्रह्मर्षिगणसेविता। ब्राझ्या श्रिया दीप्यमाना शुशुभे विगतक्लमा॥ सा सभा तादृशी दृष्टा मया लोकेषु दुर्लभा। सभेयं राजशार्दूलं मनुष्येषु यथा तव॥ एता मया दृष्टपूर्वाः सभा देवेषु भारत। सभेयं मानुषे लोके सर्वश्रेष्ठतमा तव॥ वैशम्पायन उवाच ऋषेस्तद् वचनं श्रुत्वा निशश्वास युधिष्ठिरः। चिन्तयन् राजसूयेष्टिं न लेभे शर्म भारत॥ राजर्षीणां च तं श्रुत्वा महिमानं महात्मनाम्। यज्वनां कर्मभिः पुण्यैर्लोकप्राप्ति समीक्ष्य च॥ हरिश्चन्द्रं च राजर्षि रोचमानं विशेषतः। यज्वानं यज्ञमाहर्तुं राजसूयमियेष सः॥ युधिष्ठिरस्ततः सर्वानर्चयित्वा सभासदः। प्रत्यर्चितश्च तैः सर्वैर्यज्ञायैव मनो दधे॥ स राजसूयं राजेन्द्र कुरूणामृषभस्तदा। आहर्तुं प्रवणं चक्रे मनः संचिन्त्य चासकृत्॥ भूयश्चाद्भुतवीर्यौजा धर्ममेवानुचिन्तयन्। किं हितं सर्वलोकानां भवेदिति मनो दधे॥ अनुगृह्णन् प्रजाः सर्वाः सर्वधर्मभृतां वरः। अविशेषेण सर्वेषां हितं चक्रे युधिष्ठिरः॥ सर्वेषां दीयतां देयं मुञ्चन् कोपमदावुभौ। साधु धर्मेति धर्मेति नान्यच्छ्रयेत भाषितम्॥ एवंगते ततस्तस्मिन् पितरीवाश्वसञ्जनः। न तस्य विद्यते द्वेष्टा ततोऽस्याजातशत्रुता॥ परिग्रहान्नरेन्द्रस्य भीमस्य परिपालनात्। शत्रूणां क्षपणाच्चैव बीभत्सोः सव्यसाचिनः॥ धीमतः सहदेवस्य धर्माणामनुशासनात्। वैनत्यात् सर्वतश्चैव नकुलस्य स्वभावतः। अविग्रहा वीतभयाः स्वधर्मनिरताः सदा॥ निकामवर्षाः स्फीताश्च आसञ्जनपदास्तथा। वार्धषी यज्ञसत्त्वानि गोरक्षं कर्षणं वणिक्॥ विशेषात् सर्वमेवैतत् संजज्ञे राजकर्मणा। अनुकर्षं च निष्कर्ष व्याधिपावकमूर्च्छनम्॥ सर्वमेव न तत्रासीद् धर्मनित्ये युधिष्ठिरे। दस्युभ्यो वञ्चकेभ्यश्च राज्ञः प्रति परस्परम्॥ राजवल्लभतश्चैव नाश्रूयत मृषा कृतम्। प्रियं कर्तुमुपस्थातुं बलिकर्म स्वकर्मजम्॥ अभिहर्तुं नृपाः षट्सु पृथग् जात्यैश्च नैगमैः। ववृधे विषयस्तत्र धर्मनित्ये युधिष्ठिरे॥ कामतोऽप्युपयुञ्जानै राजसैलॊभजैर्जनैः। सर्वव्यापी सर्वगुणी सर्वसाहः सह सर्वराट्॥ यस्मिन्नधिकृतः सम्राट् भ्राजमानो महायशाः। यत्र राजन् दश दिशः पितृतो मातृतस्तथा। अनुरक्ताः प्रजा आसन्नागोपाला द्विजातयः॥ वैशम्पायन उवाच स मन्त्रिणः समानाय भ्रातूंश्च वदतां वरः। राजसूयं प्रति तदा पुनः पुनरपृच्छत॥ ते पूच्छमानाः सहिता वचोऽर्थ्य मन्त्रिणस्तदा। युधिष्ठिरं महाप्राज्ञं यियक्षुमिदमब्रुवन्॥ येनाभिषिक्तो नृपतिर्वारुणं गुणमृच्छति। तेन राजापि तं कृत्स्नं सम्राङ्गुणमभीप्सति॥ तस्य सम्राङ्गुणार्हस्य भवतः कुरुनन्दन। राजसूयस्य समयं मन्यन्ते सुहृदस्तव।॥ तस्य यज्ञस्य समयः स्वाधीनः क्षत्रसम्पदा। साम्ना षडग्नयो यस्मिश्चीयन्ते शंसितव्रतैः॥ दर्वीहोमानुपादाय सर्वान् यः प्राप्नुते क्रतून्। अभिषेकं च यस्यान्ते सर्वजित् तेन चोच्यते॥ समर्थोऽसि महाबाहो सर्वे ते वशगा वयम्। अचिरात् त्वं महाराज राजसूयमवाप्स्यसि॥ अविचार्य महाराज राजसूये मनः कुरु। सर्वे पृथक् च सह चाब्रुवन्।॥ इत्येवं सुहदः स धर्म्यं पाण्डवस्तेषां वचः श्रुत्वा विशाम्पते। धृष्टमिष्टं वरिष्ठं च जग्राह मनसारिहा॥ श्रुत्वा सुहृद्वचस्तच्च जाश्चाप्यात्मनः क्षमम्। पुनः पुनर्मनो दधे राजसूयाय भारत॥ स भ्रातृभिः पुन/मानृत्विग्भिश्च महात्मभिः। मन्त्रिभिश्चापि सहितो धर्मराजो युधिष्ठिरः। धौम्यद्वैपायनाद्यैश्च मन्त्रयामास मन्त्रवित्॥ युधिष्ठिर उवाच इयं या राजसूयस्य सम्राडर्हस्य सुक्रतोः। श्रद्दधानस्य वदतः स्पृहा मे सा कथं भवेत्॥ वैशम्पायन उवाच एवमुक्तास्तु राजीवलोचन। इदमूचुर्वचः काले धर्मराज युधिष्ठिरम्॥ अर्हस्त्वमसि धर्मज्ञ राजसूयं महाक्रतुम्। अथैवमुक्ते नृपतावृत्विग्भिर्ऋषिभिस्तथा॥ मन्त्रिणो भ्रातरश्चान्ये तद्वचः प्रत्यपूजयन्। स तु राजा महाप्राज्ञः पुनरेवात्मनाऽऽत्मवान्॥ ते तेन राज्ञा भूयो विममृशे पार्थो लोकानां हितकाम्यया। सामर्थ्ययोगं सम्प्रेक्ष्य देशकालौ व्ययागमौ॥ विमृश्य सम्यक् च धिया कुर्वन् प्राज्ञो न सीदति। न हि यज्ञसमारम्भः केवलात्मविनिश्चयात्॥ भवतीति समाज्ञाय यत्नतः कार्यमुद्वहन्। स निश्चयार्थ कार्यस्य कृष्णमेव जनार्दनम्॥ सर्वलोकात् परं मत्वा जगाम मनसा हरिम्। अप्रमेयं महाबाहुं कामाज्जातमजं नृषु॥ पाण्डवस्तर्कयामास कर्मभिर्देवसम्मतैः। नास्य किंचिदविज्ञातं नास्य किंचिदकर्मजम्॥ न स किंचिन्न विषहेदिति कृष्णममन्यत। स तु तां नैष्ठिकी बुद्धिं कृत्वा पार्थो युधिष्ठिरः॥ गुरुवद् भूतगुरवे प्राहिणोद् दूतमञ्जसा। शीघ्रगेन रथेनाशु स दूतः प्राप्य यादवान्॥ द्वारकावासिनं कृष्णं द्वारवत्यां समासदत्। धर्मनाकाक्षिणं पार्थं दर्शनाकाक्षयाच्युतः॥ इन्द्रसेनेन सहित इन्द्रप्रस्थमगात् तदा। व्यतीत्य विविधान् देशांस्त्वरावान् क्षिप्रवाहनः॥ इन्द्रप्रस्थगतं पार्थमभ्यगच्छज्जनार्दनः। स गृहे पितृवद् भ्रात्रा धर्मराजेन पूजितः। भीमेन च ततोऽपश्यत् स्वसारं प्रीतिमान् पितुः॥ प्रीतः प्रीतेन सुहृदा रेमे स सहितस्तदा। अर्जुनेन यमाभ्यां च गुरुवत् पर्युपासितः॥ तं विश्रान्तं शुभे देशे क्षणिनं कल्पमच्युतम्। धर्मराजः समागम्याज्ञापयत् स्वप्रयोजनम्॥ युधिष्ठिर उवाच प्रार्थितो राजसूयो मे न चासौ केवलेप्सया। प्राप्यते येन तत् ते हि विदितं कृष्ण सर्वशः॥ यस्मिन् सर्वं सम्भवति यश्च सर्वत्र पूज्यते। यश्च सर्वेश्वरो राजा राजसूयं स विन्दति॥ तं राजसूयं सुहृदः कार्यमाहुः समेत्य मे। तत्र मे निश्चिततमं तव कृष्ण गिरा भवेत्॥ केचिद्धि सौहृदादेव न दोषं परिचक्षते। स्वार्थहेतोस्तथैवान्ये प्रियमेव वदन्त्युत॥ प्रियमेव परीप्सन्ते केचिदात्मनि यद्धितम्। एवमप्रायाश्च दृश्यन्ते जनवादाः प्रयोजने॥ त्वं तु हेतूनतीत्यैतान् कामक्रोधौ व्युदस्य च। परमं यत् क्षमं लोके यथावद् वक्तुमर्हसि॥ कृष्ण उवाच सर्वैर्गुणैर्महाराज राजसूयं त्वमर्हसि। जानतस्त्वेव ते सर्वं किंचिद् वक्ष्यामि भारत॥ जामदग्न्येय रामेण क्षत्रं यदवशेषितम्। तस्मादवरजं लोके यदिदं क्षत्रसंज्ञितम्॥ कृतोऽयं कुलसंकल्पः क्षत्रियैर्वसुधाधिप। निदेशवाग्भिस्तत् ते ह विदितं भरतर्षभ॥ ऐलस्येक्ष्वाकुवंशस्य प्रकृतिं परिचक्षते। राजानः श्रेणिबद्धाश्च तथान्ये क्षत्रिया भुवि॥ ऐलवंश्याश्च ये राजंस्तथैवेक्ष्वाकवो नृपाः। तानि चैकशतं विद्धि कुलानि भरतर्षभ।॥ ययातेस्त्वेव भोजानां विस्तरो गुणतो महान्। भजतेऽद्य महाराज विस्तरं स चतुर्दिशम्॥ तेषां तथैव तां लक्ष्मी सर्वक्षत्रमुपासते। इदानीमेव वै राजञ्जरासंधो महीपतिः॥ अभिभूय श्रियं तेषां कुलानामभिषेचितः। स्थितो मूर्ध्नि नरेन्द्राणामोजसाऽऽक्रम्य सर्वशः॥ सोऽवनिं मध्यामां भुक्त्वा मिथोभेदममन्यत। प्रभुर्यस्तु परो राजा यस्मिन्नेकवशे जगत्॥ स साम्राज्यं महाराज प्राप्तो भवति योगतः। तं स राजा जरासंधं संश्रित्य किल सर्वशः॥ राजन् सेनापतिर्जातः शिशुपालः प्रतापवान्। तमेव च महाराज शिष्यवत् समुपस्थितः॥ वक्रः करूषाधिपतिर्मायायोधी महाबलः। अपरौ च महावीरों महात्मानौ समाश्रितौ॥ जरासंधं महावीर्यं तौ हंसडिम्भकावुभौ। दन्तवक्रः करूषश्च करभो मेघवाहनः। मूर्धा दिव्यमणिं बिभ्रद् यमद्भुतमणि विदुः॥ मुरं च नरकं चैव शास्ति यो यवनाधिपः। अपर्यन्तबलो राजा प्रतीच्यां वरुणो यथा।॥ भगदत्तो महाराज वृद्धस्तव पितुः सखा। स वाचा प्रणतस्तस्य कर्मणा च विशेषतः॥ स्नेहबद्धश्च मनसा पितृवद् भक्तिमांस्त्वयि। प्रतीच्या दक्षिणं चान्तं पृथिव्याः प्रति यो नृपः॥ मातुलो भवतः शूरः पुरुजित् कुन्तिवर्धनः। स ते सन्नतिमानेकः स्नेहतः शत्रुसूदनः॥ जरासंधं गतस्त्वेव पुरा यो न मया हतः। पुरुषोत्तमविज्ञातो योऽसौ चेदिषु दुर्मतिः॥ आत्मानं प्रतिजानाति लोकेऽस्मिन् पुरुषोत्तमम्। आदत्ते सततं मोहाद् यः स चिह्नं च मामकम्॥ वङ्गपुण्ड्रकिरातेषु राजा बलसमन्वितः। पौण्ड्रको वासुदेवेति योऽसौ लोकेऽभिविश्रुतः॥ चतुर्थभाग महाराज भोज इन्द्रसखो बली। विद्याबलाद् यो व्यजयत् सपाण्ड्यक्रथकैशिकान्॥२१ भ्राता यस्याकृतिः शूरो जामदग्न्यसमोऽभवत्। स भक्तो मागधं राजा भीष्मकः परवीरहा।॥ प्रियाण्याचरतः प्रह्वान् सदा सम्बन्धिनस्ततः। भजतो न भजत्यस्मानप्रियेषु व्यवस्थितः॥ न कुलं स बलं राजन्नभ्यजानात् तथाऽऽत्मनः। एश्यमानो यशो दीप्तं जरासंधमुपस्थितः॥ उदीच्याश्च तथा भोजाः कुलान्यष्टादश प्रभो। जरासंधभयादेव प्रतीची दिशमास्थिताः॥ शूरसेना भद्रकारा बोधाः शाल्वाः पटच्चराः। सुस्थलाश्च सुकुटाश्च कुलिन्दाः कुन्तिभिः सह॥ शाल्वायनाश्च राजानः सोदर्यानुचरैः सह। दक्षिणाये च पञ्चालाः पूर्वाः कुन्तिषु कोशलाः॥ तथोत्तरां दिशं चापि परित्यज्य भयार्दिताः। मत्स्याः संन्यस्तपादाश्च दक्षिणां दिशमाश्रिताः॥ तथैव सर्वपञ्चाला जरासंधभयार्दिताः। स्वराज्यं सम्परित्यज्य विद्रुताः सर्वतो दिशम्॥ कस्यचित् त्वथ कालस्य कंसो निर्मथ्य यादवान्। बार्हद्रथसुते देव्यावुपागच्छद् वृथामतिः॥ अस्तिः प्राप्तिश्च नाम्ना ते सहदेवानुजेऽबले। बलेन तेन स्वज्ञातीनभिभूय वृथामतिः॥ श्रेष्ठ्यं प्राप्तः स तस्यासीदतीवापनयो महान्। भोजराजन्यवृद्धैश्च पीड्यमानैर्दुरात्मना॥ ज्ञातित्राणमभीप्सद्भिरस्मत्सम्भावना कृता। दत्त्वाक्रूराय सुतनुं तामाहुकसुतां तदा॥ संकर्षणद्वितीयेन ज्ञातिकार्यं मया कृतम्। हतौ कंससुनामानौ मया रामेण चाप्युत॥ भये तु समतिक्रान्ते जरासंधे समुद्यते। मन्त्रोऽयं मन्त्रितो राजन् कुलैरष्टादशावरैः॥ अनारभन्तो निघ्नन्तो महास्त्रैः शत्रुघातिभिः। न हन्यामो वयं तस्य त्रिभिर्वर्षशतैर्बलम्॥ तस्य ह्यमरसंकाशौ बलेन बलिनां वरौ। नामभ्यां हंसडिष्भकावशस्त्रनिधनावुभौ॥ तावुभौ सहितौ वीरौ जरासंधश्च वीर्यवान्। त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः॥ न हि केवलमस्माकं यावन्तोऽन्ये च पार्थिवाः। तथैव तेषामासीच्च बुद्धिर्बुद्धिमतां वर॥ अथ हंस इति ख्यातः कश्चिदासीन्महान् नृपः। रामेण स हतस्तत्र संग्रामेऽष्टादशावरे॥ हतो हंस इति प्रोक्तमथ केनापि भारत। तच्छ्रुत्वा डिम्भको राजन् यमुनाम्भस्यमज्जत॥ विना हंसेन लोकेऽस्मिन् नाहं जीवितुमुत्सहे। इत्येतां मतिमास्थाय डिम्भको निधनं गतः॥ तथा तु डिम्भकं श्रुत्वा हंसः परपुरंजयः। प्रपेदे यमुनामेव सोऽपि तस्यां न्यमज्जत॥ तौ स राजा जरासंधः श्रुत्वा च निधनं गतौ। पुरं शून्येन मनसा प्रययौ भरतर्षभ॥ ततो वयममित्रघ्न तस्मिन् प्रतिगते नृपे। पुनरानन्दिनः सर्वे मथुरायां वसामहे॥ यदा त्वभ्येत्य पितरं सा वै राजीवलोचना। कंसभार्या जरासंधं दुहिता मागधं नृपम्। चोदयत्येव राजेन्द्र पतिव्यसनदुःखिता॥ पतिनं मे जहीत्येवं पुनः पुनररिंदम। ततो वयं महाराज तं मन्त्रं पूर्वमन्त्रितम्॥ संस्मरन्तो विमनसो व्यपयाता नराधिप। पृथक्त्वेन महाराज संक्षिप्य महतीं श्रियम्॥ पलायामो भयात् तस्य ससुतज्ञातिबान्धवाः। इति संचिन्त्य सर्वे स्म प्रतीची दिशमाश्रिताः॥ कुशस्थली पुरीं रम्यां रैवतेनोपशोभिताम्। ततो निवेशं तस्यां च कृतवन्तो वयं नृप॥ तथैव दुर्गसंस्कारं देवैरपि दुरासदम्। स्त्रियोऽपि यस्यां युध्येयुः किमु वृष्णिमहारथाः॥ तस्यां वयममित्रघ्न निवसामोऽकुतोभयाः। आलोच्य गिरिमुख्यं तं मागधं तीर्णमेव च॥ माधवाः कुरुशार्दूलं परां मुदमवाप्नुवन्। एवं वयं जरासंधादभितः कृतकिल्बिधाः॥ सामर्थ्यवन्तः सम्बन्धाद् गोमन्तं समुपाश्रिताः। त्रियोजनायतं सद्म त्रिस्कन्धं योजनावधि॥ योजनान्ते शतद्वारं वीरविक्रमतोरणम्। अष्टादशावरैर्नद्धं क्षत्रियैर्युद्धदुर्मदैः॥ अष्टादश सहस्राणि भ्रातृणां सन्ति नः कुले। आहुकस्य शतं पुत्रा एकैकस्त्रिदशावरः॥ चारुदेष्णः सह भ्रात्रा चक्रदेवोऽथ सात्यकिः। अहं च रौहिणेयश्च साम्बः प्रद्युम्न एव च॥ एवमतिरथाः सप्त राजन्नन्यान् निबोध मे। कृतवर्मा ह्यनाधृष्टिः समीकः समिर्तिजयः॥ कङ्कः शङ्कुच कुन्तिश्च सप्तैते वै महारथाः। पुत्रौ चान्धकभोजस्य वृद्धो राजा च ते दश॥ वज्रसंहनना वीरा वीर्यवन्तो महारथाः। स्मरन्तो मध्यमं देशं वृष्णिमध्ये व्यवस्थिताः॥ स त्वं सम्राड्गुणैर्युक्तः सदा भरतसत्तम। क्षत्रे सम्राजमात्मानं कर्तुमर्हसि भारत॥ न तु शक्यं जरासंधे जीवमाने महाबले। राजसूयस्त्वयावाप्तुमेषा राजन् मतिर्मम॥ तेन रुद्धा हि राजानः सर्वे जित्वा गिरिव्रजे। कन्दरे पर्वतेन्द्रस्य सिंहनेव महाद्विपाः॥ स हि राजा जरासंधो यियक्षुर्वसुधाधिपैः। महादेवं महात्मानमुमापतिमरिंदम॥ आराध्य तपसोग्रेण निर्जितास्तेन पार्थिवाः। प्रतिज्ञायाश्च पारं स गतः पार्थिवसत्तम॥ स हि निर्जित्य निर्जित्य पार्थिवान् पृतनागतान्। पुरमानीय बद्धवा च चकार पुरुषव्रजम्॥ वयं चैव महाराज जरासंधभयात् तदा। मथुरां सम्परित्यज्य गता द्वारवतीं पुरीम्॥ यदि त्वेनं महाराज यज्ञं प्राप्तुमभीप्ससि। यतस्व तेषां मोक्षाय जरासंधवधाय च॥ समारम्भो न क्योऽयमन्यथा कुरुनन्दन। राजसूयश्च कात्स्येंन कर्तुं मतिमतां वर॥ इत्येषा मे मती राजन् यथा वा मन्यसेऽनघ। एवंगते ममाचक्ष्व स्वयं निश्चित्य हेतुभिः॥ युधिष्ठिर उवाच उक्तं त्वया बुद्धिमता यन्नान्यो वक्तुमर्हति। संशयानां हि निर्मोक्ता त्वन्नान्यो विद्यते भुवि॥ गृहे गृहे हि राजानः स्वस्य स्वस्य प्रियंकराः। न च साम्राज्यमाप्तास्ते सम्राट्छन्दो हि कृच्छ्रभाक्॥ कथं परानुभावज्ञः स्वं प्रशंसितुमर्हति। परेण समवेतस्तु यः प्रशस्यः स पूज्यते॥ विशाला बहुला भूमिर्बहुरत्नसमाचिता। दूरं गत्वा विजानाति श्रेयो वृष्णिकुलोद्वह॥ शममेव परं मन्ये शमात् क्षेमं भवेन्मम। आरम्भे पारमेष्ठ्ये तु न प्राप्यमिति मे मतिः॥ एवमेते हि जानन्ति कुले जाता मनस्विनः। कश्चित् कदाचिदेतेषां भवेच्छ्रेष्ठो जनार्दन॥ वयं चैव महाभाग जरासंधभयात् तदा। शङ्किताः स्म महाभाग दौरात्म्यात् तस्य चानघ॥ अहं हि तव दुर्द्धर्ष भुजवीर्याश्रयः प्रभो। नात्मानं बलिनं मन्ये त्वयि तस्माद् विशङ्किते॥ त्वत्सकाशाच्च रामाच्च भीमसेनाच्च माधव। अर्जुनाद् वा महाबाहो हन्तुं शक्यो न वेति वै। एवं जानन् हि वार्ष्णेय विमृशामि पुनः पुनः॥ त्वं मे प्रमाणभूतोऽसि सर्वकार्येषु केशव। तच्छ्रुत्वा चाब्रवीद् भीमो वाक्यं वाक्यविशारदः॥ भीम उवाच अनारम्भपरो राजा वल्मीक इव सीदति। दुर्बलश्चानुपायेन बलिनं योऽधितिष्ठति॥ अतन्द्रितश्च प्रायेण दुर्बलो बलिनं रिपुम्। जयेत् सम्यक् प्रयोगेण नीत्यार्थानात्मनो हितान्॥ कृष्णे नयो मयि बलं जयः पार्थे धनञ्जये। मागधं साधयिष्याम इष्टिं त्रय इवाग्नयः॥ कृष्ण उवाच अर्थानारभते बालो नानुबन्धमवेक्षते। तस्मादरिं न मृष्यन्ति बालमर्थपरायणम्॥ जित्वा जय्यान् यौवनाश्विः पालनाच्च भगीरथः। कार्तवीर्यस्तपोवीर्याद् बलात्तु भरतो विभुः॥ ऋद्ध्या मरुत्तस्तान् पञ्च सम्राजस्त्वनुशुश्रुम। साम्राज्यमिच्छतस्ते तु सर्वाकारं युधिष्ठिर।॥ निग्राह्यलक्षणं प्राप्तिर्धर्मार्थनयलक्षणैः॥ बार्हद्रथो जरासंधस्तद् विद्धि भरतर्षभ। न चैनमनुरुद्ध्यन्ते कुलान्येकशतं नृपाः। तस्मादिह बलादेव साम्राज्यं कुरुते हि सः॥ रत्नभाजो हि राजानो जरासंधमुपासते। न च तुष्यति तेनापि वाल्यादनयमास्थितः॥ मूर्धाभिषिक्तं नृपतिं प्रधानपुरुषो बलात्। आदत्ते न च नो हृष्टोऽभागः पुरुषतः क्वचित्॥ एवं सर्वान् वशे चक्रे जरासंधः शतावरान्। तं दुर्बलतरो राजा कथं पार्थ उपैष्यति॥ प्रोक्षितानां प्रमृष्टानां राज्ञां पशुपतेर्गृहे। पशूनामिव का प्रीतिर्जीविते भरतर्षभ॥ क्षत्रियः शस्त्रस्मरणो यदा भवति सत्कृतः। ततः स्म मागधं संख्ये प्रतिबाधेम यद् वयम्॥ षडशीतिः समानीताः शेषा राजश्चतुर्दश। जरासंधेन राजानस्ततः क्रूरं प्रवय॑ते॥ प्राप्नुयात् स यशो दीप्तं तत्र यो विघ्नमाचरेत्। जयेद् यश्च जरासंधं स सम्रानियतं भवेत्॥ युधिष्ठिर उवाच सम्राङ्गणमभीप्सन् वै युष्मान् स्वार्थपरायणः। कथं प्रहिणुयां कृष्ण सोऽहं केवलसाहसात्॥ भीमार्जुनावुभौ नेत्रे मनो मन्ये जनार्दनम्। मनश्चक्षुर्विहीनस्य कीदृशं जीवितं भवेत्॥ जरासन्धबलं प्राप्य दुष्पारं भीमविक्रमम्। यमोऽपि न विजेताऽऽजौ तत्र वः किं विचेष्टितम्॥ अस्मिंस्त्वर्थान्तरे युक्तमनर्थः प्रतिपद्यते। तस्मान्न प्रतपत्तिस्तु कार्या युक्ता मता मम॥ यथाहं विमृशाम्येकस्तत् तावच्छूयतां मम। संन्यासं रोचये साधु कार्यस्यास्य जनार्दन। प्रतिहन्ति मनो मेऽद्य राजसूयो दुराहरः॥ वैशम्पायन उवाच पार्थः प्राप्य धनुः श्रेष्ठमक्षय्ये च महेषुधी। रथं ध्वजं सभां चैव युधिष्ठिरमभाषत॥ अर्जुन उवाच धनुः शस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम्। प्राप्तमेतन्मया राजन् दुष्प्रापं यदभीप्सितम्॥ कुले जन्म प्रशंसन्ति वैद्याः साधु सुनिष्ठिता। बलेन सदृशं नास्ति वीर्यं तु मम रोचते॥ कृतवीर्यकुले जातो निर्वीर्यः किं करिष्यति। निर्वीर्य तु कुले जातो वीर्यवांस्तु विशिष्यते॥ क्षत्रियः सर्वशो राजन् यस्य वृत्तिर्दिषज्ज्ये। सर्वैर्गुणैर्विहीनोऽपि वीर्यवान् हि तरेद् रिपून्॥ सर्वैरपि गुणैर्युक्तो निर्वीयः किं करिष्यति। गुणीभूता गुणाः सर्वे तिष्ठन्ति हि पराक्रमे॥ जयस्य हेतुः सिद्धिर्हि कर्म दैवं च संश्रितम्। संयुक्तो हि बलैः कश्चित् प्रमादान्नोपयुज्यते॥ तेन द्वारेण शत्रुभ्यः क्षीयते सबलो रिपुः॥ दैन्यं यथा बलवति तथा मोहो बलान्विते। तावुभौ नाशकौ हेतू राज्ञा त्याज्यौ जयार्थिना॥ जरासंधविनाशं च राज्ञां च परिरक्षणम्। यदि कुर्याम यज्ञार्थं किं ततः परमं भवेत्॥ अनारम्भे हि नियतो भवेदगुणनिश्चयः। गुणानिः संशया राजन् नैर्गुण्यं मन्यसे कथम्॥ काषायं सुलभं पश्चान्मुनीनां शममिच्छताम्। साम्राज्यं तु भवेच्छक्यं वयं योत्स्यामहे परान्॥ वासुदेव उवाच जातस्य भारते वंशे तथा कुन्त्याः सुतस्य च। या वै युक्ता मतिः सेयमर्जुनेन प्रदर्शिता॥ न स्म मृत्यु विद्म रात्रौ वा यदि वा दिवा। न चापि कंचिदमरमयुद्धेनानुशुश्रुम॥ एतावदेव पुरुषैः कार्य हृदयतोषणम्। नयेन विधिदृष्टेन यदुपक्रमते परान्॥ सुनयस्यानपायस्य संयोगे परमः क्रमः। संगत्या जायतेऽसाम्यं साम्यं च न भवेद् द्वयोः॥ अनयस्यानुपायस्य संयुगे परमः क्षयः। संशयो जायते साम्याज्जयश्च न भवेद् द्वयोः॥ ते वयं नयमास्थाय शत्रुदेहसमीपगाः। कथमन्तं न गच्छेम वृक्षस्येव नदीरयाः। पररन्ध्र पराक्रान्ताः स्वरन्ध्रावरणे स्थिताः॥ व्यूढानीकैरतिबलैर्न युद्ध्येदरिभिः सह। इति बुद्धिमतां नीतिस्तन्ममापीह रोचते॥ अनवद्या ह्यसम्बुद्धाः प्रविष्टाः शत्रुसद्म तत्। शत्रुदेहमुपाक्रम्य तं कामं प्राप्नुयामहे॥ एको ह्येव श्रियं नित्यं बिभर्ति पुरुषर्षभः। अन्तरात्मेव भूतानां तत्क्षणं नैव लक्षये॥ अथवैनं निहत्याजौ शेषेणापि समाहताः। प्राप्नुयाम ततः स्वर्ग ज्ञातित्राणपरायणाः॥ युधिष्ठिर उवाच कृष्ण कोऽयं जरासंधः किंवीर्यः किम्पराक्रमः। यस्त्वां स्पृष्टवाग्निसदृशं न दग्धः शलभो यथा॥ कृष्ण उवाच शृणु राजञ्जरासंधो यद्वीर्यो यत्पराक्रमः। यथा चोपेक्षितोऽस्माभिबहुशः कृतविप्रियः॥ अक्षौहिणीनां तिसृणां पतिः समरदर्पितः। राजा बृहद्रथो नाम मगधाधिपतिर्बली॥ रूपवान् वीर्यसम्पन्नः श्रीमानतुलविक्रमः। नित्यं दीक्षाङ्किततनुः शतक्रतुरिवापरः॥ तेजसा सूर्यसंकाशः क्षमया पृथिवीसमः। यमान्तकसमः क्रोधे श्रिया वैश्रवणोयमः॥ तस्याभिजनसंयुक्तैर्गुणैर्भरतसत्तम। व्याप्तेयं पृथिवी सर्वा सूर्यस्येव गभस्तिभिः॥ स काशिराजस्य सुते यमजे भरतर्षभ। उपयेमे महावीर्यो रूपद्रविणसंयुते। तयोश्चकार समयं मिथः स पुरुषर्षभः॥ नातिवर्तिष्य इत्येवं पत्नीभ्यां संनिधौ तदा। स ताभ्यां शुशुभे राजा पत्नीभ्यां वसुधाधिपः॥ प्रियाभ्यामनुरूपाभ्यां करेणुभ्यामिव द्विपः। तयोर्मध्यगतश्चापि रराज वसुधाधिपः॥ गङ्गायमुनयोर्मध्ये मूर्तिमानिव सागरः। विषयेषु निमग्नस्य तस्य यौवनमभ्यगात्॥ न च वंशकरः पुत्रस्तस्याजायत कश्चन। मङ्गलैर्बहुभिर्होमैः पुत्रकामाभिरिष्टिभिः। नाससाद नृपश्रेष्ठः पुत्रं कुलविवर्धनम्॥ अथ काक्षीवतः पुत्रं गौतमस्य महात्मनः। शुश्राव तपसि श्रान्तमुदारं चण्डकौशिकम्॥ यदृच्छयाऽऽगतं तं तु वृक्षमूलमुपाश्रितम्। पत्नीभ्यां सहितो राजा सर्वरत्नैरतोषयत्॥ तमब्रवीत् सत्यधृतिः सत्यवागृषिसत्तमः। परितुष्टोऽस्मि राजेन्द्र वरं वरय सुव्रत॥ ततः सभार्यः प्रणतस्तमुवाच बृहद्रथः। पुत्रदर्शननैराश्याद् वाष्पसंदिग्धया गिरा॥ राजोवाच भगवन् राज्यमुत्सृज्य प्रस्थितोऽहं तपोवनम्। किं वरेणाल्पभाग्यस्य किं राज्येनाप्रजस्य मे॥ कृष्ण उवाच एतच्छ्रुत्वा मुनिर्ध्यानमगमत् क्षुभितेन्द्रियः। तस्यैव चाम्रवृक्षस्यच्छायायां समुपाविशत्॥ तस्योपविष्टस्य मुनेरुत्सङ्गे निपपात ह। अवातमशुकादष्टमेकमाम्रफलं किल॥ तत् प्रगृह्य मुनिश्रेष्ठो हृदयेनाभिमन्त्र्य च। राज्ञे ददावप्रतिमं पुत्रसम्प्राप्तिकारणम्॥ उवाच च महाप्राज्ञस्तं राजानं महामुनिः। गच्छ राजन् कृतार्थोऽसि निवर्तस्व नराधिप॥ एतच्छ्रुत्वा मुनेर्वाक्यं शिरसा प्रणिपत्य च। मुनेः पादौ महाप्राज्ञः स नृपः स्वगृहं गतः॥ यथासमयमाज्ञाय तदा स नृपसत्तमः। द्वाभ्यामेकं फलं प्रादात् पत्नीभ्यां भरतर्षभ॥ ते तदानं द्विधा कृत्वा भक्षयामासतुः शुभे। भावित्वादपि चार्थस्य सत्यवाक्यतया मुनेः॥ गर्भः फलप्राशनसम्भवः। ते च दृष्ट्वा स नृपतिः परां मुदमवाप ह॥ अथ काले महाप्राज्ञ यथासमयमागते। प्रजायेतामुभे राजञ्छरीरशकले तदा॥ एकाक्षिबाहुचरणे अर्धेदरमुखस्फिचे। दृष्ट्वा शरीरकाले प्रवेपतुरुभे भृशम्॥ तयोः समभवद् उद्विग्ने सह सम्मन्त्र्य ते भगिन्यौ तदाबले। सजीवे प्राणिशकले तत्यजाते सुदुःखिते॥ तथोर्धात्र्यौ सुसंवीते कृत्वा ते गर्भसम्प्लवे। निर्गम्यान्तः पुरद्वारात् समुत्सृज्याभिजग्मतुः॥ ते चतुष्पथनिक्षिप्ते जरा नामाथ राक्षसी। जग्राह मनुजव्याघ्र मांसशोणितभोजना॥ कर्तुकामा सुखवहे शकले सा तु राक्षसी। संयोजयामास तदा विधानबलचोदिता॥४० ते समानीतमात्रे तु शकले पुरुषर्षभ। एकमूर्तिधरो वीरः कुमारः समपद्यत॥ ततः सा राक्षसी राजन् विस्मयोत्फुल्ललोचना। न शशाक समुद्वोढुं वज्रसारमयं शिशुम्॥ बालस्ताम्रतलं मुष्टिं कृत्वा चास्ये निधाय सः। प्राक्रोशदतिसंरब्धः सतोय इव तोयदः॥ तेन शब्देन सम्भ्रान्तः सहसान्तःपुरे जनः। निर्जगाम नरव्याघ्र राज्ञा सह परंतप॥ ते चाबले परिम्लाने पयःपूर्णपयोधरे। निराशे पुत्रलाभाय सहसैवाभ्यगच्छताम्॥ अथ दृष्ट्वा तथाभूते राजानं चेष्टसंततिम्। तं च बालं सुबलिनं चिन्तयामास राक्षसी॥ नार्हामि विषये राज्ञो वसन्ती पुत्रगृद्धिनः। बालं पुत्रमिमं हन्तुं धार्मिकस्य महात्मनः॥ सा तं बालमुपादाय मेघलेखेव भास्करम्। कृत्वा च मानुषं रूपमुवाच वसुधाधिपम्॥ राक्षस्युवाच बृहद्रथ सुतस्तेऽयं मया दत्तः प्रगृह्यताम्। तव पत्नीद्वये जातो द्विजातिवरशासनात्। धात्रीजनपरित्यक्तो मयायं परिरक्षितः॥ श्रीकृष्ण उवाच ततस्ते भरतश्रेष्ठ काशिराजसुते शुभे। तं बालमभिपद्याशु प्रस्रवैरभ्यषिञ्चताम्॥ ततः स राजा संहृष्टः सर्वं तदुपलभ्य च। अपृच्छद्धेगर्भाभां राक्षसी तामराक्षसीम्॥ राजोवाच का त्वं कमलगर्भाभे मम पुत्रप्रदायिनी। कामया ब्रूहि कल्याणि देवता प्रतिभासि मे॥ राक्षस्युवाच जरा नामास्मि भद्रं ते राक्षसी कामरूपिणी। तव वेश्मनि राजेन्द्र पूजिता न्यवसं सुखम्॥ गृहे गृहे मनुष्याणां नित्यं तिष्ठामि राक्षसी। गृहदेवीति नाम्ना वै पुरा सृष्टा स्वयंभुवा॥ दानवानां विनाशाय स्थापिता दिव्यरूपिणी। यो मां भक्त्या लिखेत् कुड्ये सपुत्रां यौवनान्विताम्॥३। गृहे तस्य भवेद् वृद्धिरन्यथा क्षयमाप्नुयात्। त्वद्गृहे तिष्ठमानाहं पूजिताहं सदा विभो॥ लिखिता चैव कुड्येषु पुत्रैर्बहुभिरावृता। गन्धपुष्पैस्तथा धूपैर्भक्ष्यभोज्यैः सुपूजिता॥ साहं प्रत्युपकारार्थं चिन्तयाम्यनिशं तव। तवेमे पुत्रशकले दृष्टवत्यस्मि धार्मिक॥ संश्लेषिते मया दैवात् कुमारः समपद्यत। तव भाग्यान्महाराज हेतुमात्रमहं त्विह॥ मेरुं वा खादितुं शक्ता किं पुनस्त्व बालकम्। गृहसम्पूजनात् तुष्ट्या मया प्रत्यर्पितस्तव॥ श्रीकृष्ण उवाच एवमुक्त्वा तु सा राजंस्तत्रैवान्तरधीयत। स संगृह्य कुमारं तं प्रविवेश गृहं नृपः॥ तस्य बालस्य यत् कृत्यं तच्चकार नृपस्तदा। आज्ञापयच्च राक्षस्या मगधेषु महोत्सवम्॥ तस्य नामाकरोच्चैव पितामहसम: पिता। जरया संधितो यस्माज्जरासंधो भवत्वयम्॥ सोऽवर्धत महातेजा मगधाधिपतेः सुतः। प्रमाणबलसम्पन्नो हुताहुतिरिवानलः। मातापित्रोर्नन्दिकरः शुक्लपक्षे यथा शशी॥ श्रीकृष्ण उवाच कस्यचित् त्वथ कालस्य पुनरेव महातपाः। मगधेषूपचक्राम भगवांश्चण्डकौशिकः॥ तस्यागमनसंहृष्टः सामात्यः पुरःसरः। सभार्य: सह पुत्रेण निर्जगाम बृहद्रथः॥ पाद्यार्थ्याचमनीयैस्तमर्चयामास भारत। स नृपो राज्यसहितं पुत्रं तस्मै न्यवेदयत्॥ प्रतिगृह्य च तां पूजां पार्थिवाद् भगवानृषिः। उवाच मागधं राजन् प्रहृष्टेनान्तरात्मना॥ सर्वमेतन्मया ज्ञातं राजन् दिव्येन चक्षुषा। पुत्रस्तु शृणु राजेन्द्र यादृशोऽयं भविष्यति॥ अस्य रूपं च सत्त्वं च बलमूर्जितमेव च। एष श्रिया समुदितः पुत्रस्तव न संशयः॥ प्रापयिष्यति तत् सर्वं विक्रमेण समन्वितः। अस्य वीर्यवतो वीर्यं नानुयास्यन्ति पार्थिवाः॥ पततो वैनतेयस्य गतिमन्ये यथा खगाः। विनाशमुपयास्यन्ति ये चास्य परिपन्थिनः॥ देवैरपि विसृष्टानि शस्त्राण्यस्य महीपते। न रुजं जनयिष्यन्ति गिरेरिव नदीरयाः॥ सर्वमूर्धाभिषिक्तानामेष मूनि ज्वलिष्यति। प्रभाहरोऽयं सर्वेषां ज्योतिषामिव भास्करः॥ एनमासाद्य राजानः समृद्धबलवाहनाः। विनाशमुपयास्यन्ति शलभा इव पावकम्॥ एष श्रियः समुदिताः सर्वराज्ञां ग्रहीष्यति। वर्षास्विवोदीर्णजला नदीनदनदीपतिः॥ एष धारयिता सम्यक् चातुर्वण्र्यं महाबलः। शुभाशुभमिव स्फीता सर्वसस्यधरा धरा॥ अस्याज्ञावशगाः सर्वे भविष्यन्ति नराधिपाः। सर्वभूतात्मभूतस्य वायोरिव शरीरिणः॥ एष रुद्र महादेवं त्रिपुरान्तकरं हरम्। सर्वलोकेष्वतिबलः साक्षाद् द्रक्ष्यति मागधः॥ एवं ब्रुवन्नेव मुनिः सवकार्यमिव चिन्तयन्। विसर्जयामास नृपं बृहद्रथमथारिहन्॥ प्रविश्य नगरीं चापि ज्ञातिसम्बन्धिभिर्वृतः। अभिषिच्य जरासंधं मगधाधिपतिस्तदा॥ बृहद्रथो नरपतिः परां निर्वृतिमाययौ। अभिषिक्ते जरासंधे तदा राजा बृहद्रथः। पत्नीद्वयेनानुगतस्तपोवनचरोऽभवत्॥ ततो वनस्थे पितरि मात्रोश्चैव विशाम्पते। जरासंध स्ववीर्येण पार्थिवानकरोद् वशे॥ वैशम्पायन उवाच अथ दीर्घस्य कालस्य तपोवनचरो नृपः। सभार्यः स्वर्गमगमत् तपस्तप्त्वा बृहद्रथः॥ जरासंधोऽपि नृपतिर्यथोक्तं कौशिकेन तत्। वरप्रदानमखिलं प्राप्य राज्यमपालयत्॥ निहते वासुदेवेन तदा कंसे महीपतौ। जातो वै वैरनिर्बन्धः कृष्णेन सह तस्य वै॥ भ्रामयित्वा शतगुणमेकोनं येन भारत। गदा क्षिप्ता बलवता मागधेन गिरिव्रजात्॥ तिष्ठतो मथुरायां वै कृष्णस्याद्भुतकर्मणः। एकोनयोजनशते सा पपात गदा शुभा॥ दृष्ट्वा पौरैस्तदा सम्यग् गदा चैव निवेदिता। गदावसानं तत् ख्यातं मथुरायाः समीपतः॥ तस्यास्तां हंसडिम्भकावशस्त्रनिधनावुभौ। मन्त्रे मतिमतां श्रेष्ठौ नीतिशास्त्रे विशारदौ॥ यौ तौ मया ते कथितौ पूर्वमेव महाबलौ। त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः॥ एवमेव तदा वीर बलिभिः कुकुरान्धकैः। वृष्णिभिश्च महाराज नीतिहेतोरुपेक्षितः॥ वासुदेव उवाच पतितौ हंसडिम्भकौ कंसश्च सगणो हतः। जरासंधस्य निधने कालोऽयं समुपागतः॥ न शक्योऽसौ रणे जेतुं सर्वैरपि सुरासुरैः। बाहुयुद्धेन जेतव्यः स इत्युपलभामहे॥ मयि नीतिर्बलं भीमे रक्षिता चावयोर्जयः। मागधं साधयिष्याम इष्टिं त्रय इवाग्नयः॥ त्रिभिरासादितोऽस्माभिर्विजने स नराधिपः। न संदेहो यथा युद्धमेकेनाप्युपयास्यति॥ अवमानाच्च लोभाच्च बाहुवीर्याच्च दर्पितः। भीमसेनेन युद्धाय ध्रुवमप्युपयास्यति॥ अलं तस्य महाबाहुर्भीमसेनो महाबलः। लोकस्य समुदीर्णस्य निधनायान्तको यथा॥ यदि मे हृदयं वेत्सि यदि ते प्रत्ययो मयि। भीमसेनार्जुनौ शीघ्रं न्यासभूतौ प्रयच्छ मे॥ वैशम्पायन उवाच एवमुक्तो भगवता प्रत्युवाच युधिष्ठिरः। भीमार्जुनौ समालोक्य सम्प्रहृष्टमुखौ स्थितौ॥ युधिष्ठिर उवाच अच्युताच्युत मा मैवं व्याहरामित्रकर्शन। पाण्डवानां भवान् नाथो भवन्तं चाश्रिता वयम्॥ यथा वदसि गोविन्द सर्वं तदुपपद्यते। न हि त्वमग्रतस्तेषां येषां लक्ष्मी: पराङ्मुखी॥ निहतश्च जरासंधो मोक्षिताश्च महीक्षितः। राजसूयश्च मे लब्धो निदेशे तव तिष्ठतः॥ क्षिप्रमेव यथा त्वेतत् कार्यं समुपपद्यते। अप्रमत्तो जगन्नाथ तथा कुरु नरोत्तम॥ त्रिभिर्भवद्भिर्हि विना नाहं जीवितुमुत्सहे। धर्मकामार्थरहितो रोगात इव दुःखितः॥ न शौरिणा विना पार्थो न शौरिः पाण्डवं विना। नाजेयोऽस्त्यनयोलोक कृष्णयोरिति मे मतिः॥ अयं च बलिनां श्रेष्ठः श्रीमानपि वृकोदरः। युवाभ्यां सहितो वीरः किं न कुर्यान्महायशाः॥ सुप्रणीतो बलौधो हि कुरुते कार्यमुत्तमम्। अंधं बलं जडं प्राहुः प्रणेतव्यं विचक्षणैः॥ :॥ यतो हि निम्नं भवति नयन्ति हि ततो जलम्। यतश्छिद्रं ततश्चापि नयन्ते धीवरा जलम्॥ तस्मान्नयविधानज्ञं पुरुषं लोकविश्रुतम्। वयमाश्रित्य गोविन्दं यतामः कार्यसिद्धये॥ एवं प्रज्ञानयबलं क्रियोपायसमन्वितम्। पुरस्कुर्वीत कार्येषु कृष्णं कार्यार्थसिद्धये॥ एवमेव यदुश्रेष्ठ यावत्कार्यार्थसिद्धये। अर्जुनः कृष्णमन्वेतु भीमोऽन्वेतु धनंजयम्। नयो जयो बलं चैव विक्रमे सिद्धिमेष्यति॥ वैशम्पायन उवाच एवमुक्तास्ततः सर्वे भ्रातरो विपुलौजसः। वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधं प्रति॥ वर्चस्विनां ब्राह्मणानां स्नातकानां परिच्छदम्। आच्छाद्य सुहृदां वाक्यैर्मनोहरभिनन्दिताः॥ अमर्षादभितप्तानां ज्ञात्यर्थं मुख्यतेजसाम्। रविसोमाग्निवपुषां दीप्तमासीत् तदा वपुः॥ हतं मेने जरासंधं दृष्ट्वा भीमपुरोगमौ। एककार्यसमुद्यन्तौ कृष्णौ युद्धेऽपराजितौ॥ ईशौ हि तौ महात्मानौ सर्वकार्यप्रवर्तिनौ। धर्मकामार्थलोकानां कार्याणां च प्रवर्तकौ॥ कुरुभ्यः प्रस्थितास्ते तु मध्येन कुरुजाङ्गलम्। रम्यं पद्मसरो गत्वा कालकूटमतीत्य च॥ गण्डकी च महाशोणं सदानीरां तथैव च। एकपर्वतके नद्यः क्रमेणैत्याव्रजन्त ते॥ उत्तीर्य सरयूं रम्यां दृष्ट्वा पूर्वांच कोसलान्। अतीत्य जग्मुर्मिथिलां पश्यन्तो विपुला नदीः॥ अतीत्य गङ्गां शोणं च त्रयस्ते प्राङ्मुखास्तदा। कुशचीरच्छदा जग्मुर्मागधं क्षेत्रमच्युताः॥ ते शश्वद् गोधनाकीर्णमम्बुमन्तं शुभदुमम्। गोरथं गिरिमासाद्य ददृशुर्मागधं पुरम्॥ वासुदेव उवाच एष पार्थ महान् भाति पशुमान् नित्यमम्बुमान्। निरामयः सुवेश्माढ्यो निवेशो मागधः शुभः॥ वैहारो विपुलः शैलो वराहो वृषभस्तथा। तथा ऋषिगिरिस्तात शुभाश्चैत्यकपञ्चमाः॥ एते पञ्च महाशृङ्गाः पर्वताः शीतलद्रुमाः। रक्षन्तीवाभिसंहत्य संहताङ्गा गिरिव्रजम्॥ पुष्पवेष्टितशाखाग्रैर्गन्धवद्भिर्मनोहरैः। निगूढा इव लोध्राणां वनैः कामिजनप्रियैः॥ शूद्रायां गौतमो यत्र महात्मा संशितव्रतः। औशीनर्यामजनयत् काक्षीवाद्यान् सुतान् मुनिः॥ गौतमः प्रणयात् तस्माद् यथासौ तत्र सद्मनि। भजते मागधं वंशं स नृपाणामनुग्रहात्॥ अङ्गवङ्गादयश्चैव राजानः सुमहाबलाः। गौतमक्षयमभ्येत्य रमन्ते स्म पुरार्जुन॥ वनराजीस्तु पश्येमाः पिप्पलानां मनोरमाः। पार्थ गौतमौकः समीपजाः॥ अर्बुदः शक्रवापी च पन्नगौ शत्रुतापनौ। स्वस्तिकस्यालयश्चात्र मणिनागस्य चोत्तमः॥ अपिहरार्या मेघानां मागधा मनुना कृताः। कौशिको मणिमांश्चैव चक्राते चाप्यनुग्रहम्॥ एवं प्राप्य पुरं रम्यं दुराधर्षं समन्ततः। अर्थसिद्धिं त्वनुपमा जरासंधोऽभिमन्यते॥ लोध्राणां च शुभाः वयमासादने तस्य दर्पमद्य हरेमहि। वैशम्पायन उवाच एवमुक्तवा ततः सर्वे भ्रातरो विपुलौजसमः॥ वार्ष्णेयः पाण्डवौ चैव प्रतस्थुर्मागधं पुरम्। हृष्टपुष्टजनोपेतं चातुर्वर्ण्यसमाकुलम्॥ स्फीतोत्सवमनाधृष्यमासेदुश्च गिरिव्रजम्। ततो द्वारमनासाद्य पुरस्य गिरिमुच्छ्रितम्॥ बार्हद्रथैः पूज्यमानं तथा नगरवासिभिः। मगधानां सुरुचिरं चैत्यकान्तं समाद्रवन्॥ यत्र मांसादमृषभमाससाद बृहद्रथः। तं हत्वा मासतालाभिस्तिस्रो भेरीरकारयत्॥ स्वपुरे स्थापयामास तेन चानह्य चर्मणा। यत्र ताः प्राणदन् भेर्यो दिव्यपुष्पावचूर्णिताः॥ भङ्क्त्वा भेरीत्रयं तेऽपि चैत्यप्राकारमाद्रवन्। द्वारतोऽभिमुखाः सर्वे ययुर्नानाऽऽयुधास्तदा।॥ मागधानां सुरुचिरं चैत्यकं तं समाद्रवन्। शिरसीव समाघ्नन्तो जरासंधं जिघांसवः॥ स्थिरं सुविपुलं शृङ्गं सुमहत् तत् पुरातनम्। अर्चितं गन्धमाल्यैश्च सततं सुप्रतिष्ठितम्॥ विपुलैर्बाहुभिर्वीरास्तेऽभिहत्याभ्यपातयन्। ततस्ते मागधं हृष्टाः पुरं प्रविविशुस्तदा॥ एतस्मिन्नेव काले तु ब्राह्मणा वेदपारगाः। दृष्ट्वा तु दुर्निमित्तानि जरासंधमदर्शयन्॥ पर्यग्न्यकुर्वश्च नृपं द्विरदस्थं पुरोहिताः। ततस्तच्छान्तये राजा जरासंधः प्रतापवान्। दीक्षितो नियमस्थोऽसावुपवासपरोऽभवत्॥ स्नातकव्रतिनस्ते तु बाहुशस्त्रा निरायुधाः। युयुत्सवः प्रविविशुर्जरासंधेन भारत॥ भक्ष्यमाल्यापणानां च ददृशुः श्रियमुत्तमाम्। स्फीतां सर्वगुणोपेतां सर्वकामसमृद्धिनीम्॥ तां तु दृष्ट्वा समृद्धि ते वीथ्यां तस्यां नरोत्तमाः। राजमार्गेण गच्छन्तः कृष्णभीमधनंजयाः। बलाद् गृहीत्वा माल्यानि मालाकारान्महाबलाः॥ विरागवसनाः सर्वे स्रग्विणो मृष्टकुण्डलाः। निवेशनमथाजग्मुर्जरासंधस्य धीमतः॥ गोवासमिव वीक्षन्तः सिंहा हैमवता यथा। शालस्तम्भनिभास्तेषां चन्दनागुरुरूषिताः॥ अशोभन्त महाराज बाहवो युद्धशालिनाम्। तान् दृष्ट्वा द्विरदप्रख्याशालस्कन्धानिवोद्गतान्। व्यूढोरस्कान् मागधानां विस्मयः: समपद्यत॥ तेत्वतीत्य जनाकीर्णाः कक्षास्तिस्रो नरर्षभाः। अहंकारेण राजानमुपतस्थुर्गतव्यथाः॥ तान् पाद्यमधुपर्कार्हान् गवार्हान् सत्कृतिं गतान्। प्रत्युत्थाय जरासंध उपतस्थे यथाविधि॥ उवाच चैतान् राजासौ स्वागतं वोऽस्त्विति प्रभुः। मौनमासीत् तदा पार्थभीमयोर्जनमेजय॥ तेषां मध्ये महाबुद्धिः कृष्णो वचनमब्रवीत्। वक्तुं नायाति राजेन्द्र एतयोर्नियमस्थयोः॥ अर्वानिशीथात् परतस्त्वया सार्धं वदिष्यतः। यज्ञागारे स्थापयित्वा राजा राजगृहं गतः॥ ततोऽर्धरात्रे सम्प्राप्ते यातो यत्र स्थिता द्विजाः। तस्य ह्येतद् व्रतं राजन् बभूव भुवि विश्रुतम्॥ स्नातकान् ब्राह्मणान् प्राप्ताञ्छ्रुत्वा स समितिंजयः। अत्यर्धरात्रे नृपतिः प्रत्युद्गच्छति भारत॥ तांस्त्वपूर्वेण वेषेण दृष्ट्वा स नृपसत्तमः। उपतस्थे जरासंधो विस्मिताश्चाभवत् तदा॥ ते तु दृष्ट्वैव राजानं जरासंधं नरर्षभाः। इदमूचुरमित्रघ्नाः सर्वे भरतसत्तम।॥ स्वस्त्यस्तु कुशलं राजनिति तत्र व्यवस्थिताः। तं नृपं नृपशार्दूल प्रेक्षमाणाः परस्परम्॥ तानब्रवीज्जरासंधस्तथा पाण्डवयादवान्। आस्यतामिति राजेन्द्र ब्राह्मणच्छद्मसंवृतान्॥ अथोपविविशुः सर्वे त्रयस्ते पुरुषर्षभाः। सम्प्रदीप्तास्त्रयो लक्ष्या महाध्वर इवाग्नयः॥ तानुवाच जरासंधः सत्यसंधो नराधिपः। बिगर्हमाणः कौरव्य वेषग्रहणवैकृतान्। न स्नातकव्रता विप्रा बहिर्माल्यानुलेपनाः॥ भवन्तीति नृलोकेऽस्मिन् विदितं मम सर्वशः। के यूयं पुष्पवन्तश्च भुजाकृतलक्षणैः॥ बिभ्रतः क्षात्रमोजश्च ब्राह्मण्यं प्रतिजानथ। एवं विरागवसना बहिर्माल्यानुलेपनाः॥ चैत्यकस्य गिरेः शृङ्गं भित्त्वा किमिह छद्मना। अद्वारेण प्रविष्टाः स्थ निर्भया राजकिल्बिषात्॥ वदध्वं वाचि वीर्यं च ब्राह्मणस्य विशेषतः। कर्म चैतद् विलिङ्गस्थं किं वोऽद्य प्रसमीक्षितम्॥ एवं च मामुपास्थाय कस्माच्च विधिनार्हणाम्। प्रतीतां नानुगृहणीत कार्य किं वास्मदागमे॥ एवमुक्ते ततः कृष्णः प्रत्युवाच महामनाः। स्निग्धगम्भीरया वाचा वाक्यं वाक्यविशारदः॥ श्रीकृष्ण उवाच स्नातकान् ब्राह्मणान् राजन् विद्ध्यस्मांस्त्वं नराधिप। स्नातकव्रतिनो राजन् ब्राह्मणाः क्षत्रिया विशः॥ विशेषनियमाश्चैषामविशेषाश्च सन्त्युज। विशेषवांश्च सततं क्षत्रियः श्रियमृच्छति॥ पुष्पवत्सु ध्रुवा श्रीश्च पुष्पवन्तस्ततो वयम्। क्षत्रियो बाहुवीर्यस्तु न तथा वाक्यवीर्यवान्। अप्रगल्भं वचस्तस्य तस्माद् बार्हद्रथेरितम्॥ स्ववीर्यं क्षत्रियाणां तु बाह्वोर्धाता न्यवेशयत्। तद् दिदृक्षसि चेद् राजन् द्रष्टास्यद्य न संशयः॥ अद्वारेण रिपोर्गेहं द्वारेण सुहृदो गृहान्। प्रविशन्ति नरा धीरा द्वाराण्येतानि धर्मतः॥ कार्यवन्तो गृहानेत्य शत्रुतो नार्हणां वयम्। प्रतिगृह्णीम तद् विद्धि एतन्नः शाश्वतं व्रतम्॥ वैशम्पायन उवाच ततस्तं निश्चितात्मानं युद्धाय यदुनन्दनः। उवाच वाग्मी राजानं जरासंधमधोक्षजः॥ श्रीकृष्ण उवाच त्रयाणां केन ते राजन् योद्धमुत्सहते मनः। अस्मदन्यतमेनेह सज्जीभवतु को युधि॥ एवमुक्तः स नृपतिर्युद्धं वने महाद्युतिः। जरासंधस्ततो राजा भीमसेनेन मागधः॥ आदाय रोचनां माल्यं मङ्गल्यान्यपराणि च। धारयन्नगदान् मुख्यान् निर्वृतीवेदनानि च। उपतस्थे जरासंधं युयुत्सं वै पुरोहितः॥ कृतस्वस्त्ययनो राजा ब्राह्मणेन यशस्विना। समनह्यज्जरासंधः क्षात्रं धर्ममनुस्मरन्॥ अवमुच्य किरीटं स केशान् समनुगृह्य च। उदतिष्ठज्जरासंधो वेलातिग इवार्णवः॥ उवाच मतिमान् राजा भीमं भीमपराक्रमः। भीम योत्स्ये त्वया सार्धं श्रेयसा निर्जितं वरम्॥ एवमुक्त्वा जरासंधो भीमसेनमरिंदमः। प्रत्युद्ययौ महातेजाः शक्रं बल इवासुरः॥ ततः सम्मन्त्र्य कृष्णेन कृतस्वस्त्ययनो बली। भीमसेनो जरासंधमाससाद युयुत्सया॥ ततस्तौ नरशार्दूलौ बाहुशस्त्रौ समीयतुः। वीरौ परमसंहृष्टावन्योन्यजयकाक्षिणौ॥ करग्रहणपूर्वं तु कृत्वा पादाभिवन्दनम्। कक्षैः कक्षां विधुन्वानावास्फोटं तत्र चक्रतुः॥ स्कन्धे दो• समाहत्य निहत्य च मुहुर्मुहुः। अङ्गमङ्गैः समाश्लिष्य पुनरास्फालनं विभो॥ चित्रहस्तादिकं कृत्वा कक्षाबन्धं च चक्रतुः। गलगण्डाभिघातेन सस्फुलिङ्गेन चाशनिम्॥ बाहुपाशादिकं कृत्वा पादाहतशिरावुभौ। उरोहस्तं ततश्चक्रे पूर्णकुम्भो प्रयुज्य तौ॥ करसम्पीडनं कृत्वा गर्जन्तौ वारणाविव। नर्दन्तौ मेघसंकाशौ बाहुप्रहरणावुभौ॥ तलेनाहन्यमानौ तु अन्योन्यं कृतवीक्षणौ। सिंहाविव सुसंक्रुद्धावाकृष्याकृष्य युध्यताम्॥ अङ्गेनाङ्गं समापीड्य बाहुभ्यामुभयोरपि। आवृत्य बाहुभिश्चापि उदरं च प्रचक्रतुः॥ उभौ कट्यां सुपार्श्वे तु तक्षवन्तौ च शिक्षितौ। अधोहस्तं स्वकण्द्दे तूदरस्योरसि चाक्षिपत्॥ सर्वातिक्रान्तमर्यादं पृष्ठभङ्गं च चक्रतुः। सम्पूर्णमूर्छा बाहुभ्यां पूणकुम्भं प्रचक्रतुः॥ तृणपीडं यथाकामं पूर्णयोगं समुष्टिकम्। एवमादीनि युद्धानि प्रकुर्वन्तौ परस्परम्॥ तयोर्युद्धं ततो द्रष्टुं समेताः पुरवासिनः। ब्राह्मणा वणिजश्चैव क्षत्रियाश्च सहस्रशः॥ शूद्राश्च नरशार्दूल स्त्रियो वृद्धाश्च सर्वशः। निरन्तरमभूत् तत्र जनौधैरभिसंवृतम्॥ तयोरथ भुजाधातान्निग्रहप्रग्रहात् तथा। आसीत् सुभीमसम्पातो वज्रपर्वतयोरिव॥ उभौ परमसंहृष्टौ बलेन बलिनां वरौ। अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ॥ तद् भीममुत्सार्यजनं युद्धमासीदुपप्लवे। बलिनोः संयुगे राजन् वृत्रवासवयोरिव॥ प्रकर्षणाकर्षणाभ्यामनुकर्षविकर्षणैः। आचकर्षतुरन्योन्यं जानुभिश्चावजघ्नतुः॥ ततः शब्देन महता भर्त्सयन्तौ परस्परम्। पाषाणसंघातनिभैः प्रहारैरभिजघ्नतुः॥ व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ। बाहुभिः समसज्जेतामायसैः परिचैरिव॥ कार्तिकस्य तु मासस्य प्रवृत्तं प्रथमेऽहनि। अनाहारं दिवारात्रमविश्रान्तमवर्तत॥ तद् वृत्तं तु त्रयोदश्यां समवेतं महात्मनोः। चतुर्दश्यां निशायां तु निवृत्तो मागध: क्लमात्॥ तं राजानं तथा क्लान्तं दृष्ट्वा राजञ्जनार्दनः। उवाच भीमकर्माणं भीमं सम्बोधयन्निव॥ क्लान्तः शत्रुर्न कौन्तेय लभ्यः पीडयितुं रणे। पीड्यमानो हि कात्स्न्येन जह्याज्जीवितमात्मनः॥ तस्मात् ते नैव कौन्तेय पीडनीयो जनाधिपः। सममेतेन युध्यस्व बाहुभ्यां भरतर्षभ॥ एवमुक्तः स कृष्णेन पाण्डवः परवीरहा। जरासंधस्य तद् रूपं ज्ञात्वा चक्रे मतिं वधे॥ ततस्तमजितं जेतुं जरासंधं वृकोदरः। संरम्भं बलिनां श्रेष्ठो जग्राह कुरुनन्दनः॥ वैशम्पायन उवाच भीमसेनस्ततः कृष्णमुवाच यदुनन्दनम्। बुद्धिमास्थाय विपुलां जरासंधवधेप्सया॥ नायंपापो मया कृष्ण युक्तः स्यादनुरोधितुम्। प्राणेन यदुशार्दूल बद्धकक्षेण वाससा॥ एवमुक्तस्ततः कृष्णः प्रत्युवाच वृकोदरम्। त्वरयन् पुरुषव्याघ्रो जरासंधवधेप्सया॥ यत् ते दैवं परं सत्त्वं यच्च ते मातरिश्वनः। बलं भीम जरासंधे दर्शयाशु तदद्य नः॥ एवमुक्तास्तदा भीमो जरासंधमरिंदमः। उत्क्षिप्य भ्रामयामास बलवन्तं महाबलः॥ भ्रामयित्वा शतगुणं जानुभ्यां भरतर्षभ। बभञ्ज पृष्ठं संक्षिप्य निष्पिष्य विननाद च॥ करे गृहीत्वा चरणं द्वेधा चक्रे महाबलः॥ तस्य निष्यिष्यमाणस्य पाण्डवस्य च गर्जतः। अभवत् तुमुलो नादः सर्वप्राणिभंयकरः॥ चित्रेसुर्मागधाः सर्वे स्त्रीणां गर्भाश्च सुस्रुवुः। भीमसेनस्य नादेन जरासंधस्य चैव ह॥ किं नु स्याद्धिमवान् भिन्नः किं नु स्विद् दीर्यते मही। इति वै मागधा जजुर्भीमसेनस्य नि:स्वनात्॥ ततो राज्ञः कुलद्वारि प्रसुप्तमिव तं नृपम्। रात्रौ गतासुमुत्सृज्य निश्चक्रमररिंदमाः॥ जरासंधरथं कृष्णो योजयित्वा पताकिनम्। आरोप्य भ्रातरौ चैव मोक्षयामास बान्धवान्॥ ते वै रत्नभुजं कृष्णं रत्नार्हाः पृथिवीश्वराः। राजानश्चक्रुरासाद्य मोक्षिता महतो भयात्॥ अक्षतः शस्त्रसम्पन्नो जितारिः सह राजभिः। रथमास्थाय तं दिव्यं निर्जगाम गिरिव्रजात्॥ यः स सोदर्यवान् नाम द्वियोधी कृष्णसारथिः। अभ्यासघाती संदृश्यो दुर्जयः सर्वराजभिः॥ भीमार्जुनाभ्यां योधाभ्यामास्थितः कृष्णसारथिः। शुशुभे रथवर्योऽसौ दुर्जयः सर्वधन्विभिः॥ शक्रविष्णू हि संग्रामे चेरतुस्तारकामये। रथेन तेन वै कृष्ण उपारुह्य ययौ तदा॥ तप्तचामीकराभेण किङ्किणीजालमालिना। मेघनिर्घोषनादेन जैत्रेणामित्रघातिना॥ येन शक्रो दानवानां जघान नवतीनव। तं प्राप्य समहृष्यन्त रथं ते पुरुषर्षभाः॥ ततः कृष्णं महाबाहुं भ्रातृभ्यां सहितं तदा। रथस्थं मागधा दृष्ट्वा समपद्यन्त विस्मिताः॥ हयैर्दिव्यैः समायुक्तो रथो वायुसमो जवे। अधिष्ठितः स शुशुभे कृष्णेनातीव भारत॥ असङ्गो देवविहितस्तस्मिन् रथवरे ध्वजः। योजनाद् ददृशे श्रीमानिन्द्रायुधसमप्रभः॥ चिन्तयामास कृष्णोऽथ गरुत्मन्तं स चाभ्ययात्। क्षणे तस्मिन् स तेनासीच्चैत्यवृक्ष इवोत्थितः॥ व्यादितास्यैर्महानादैः सह भूतैर्ध्वजालयैः। तस्मिन् रथवरे तस्थौ गरुत्मान् पन्नगाशनः॥ दुर्निरीक्ष्यो हि भूतानां तेजसाभ्यधिकं बभौ। आदित्य इव मध्याह्ने सहस्रकिरणावृतः॥ न स सज्जति वृक्षेषु शस्त्रैश्चापि न रिष्यते। दिव्यो ध्वजवरो राजन् दृश्यते चेह मानुषैः॥ तमास्थाय रथं दिव्यं पर्जन्यसमनिःस्वनम्। निर्ययौ पुरुषव्याघ्रः पाण्डवाभ्यां सहाच्युतः॥ यं लेभे वासवाद् राजा वसुस्तस्माद् बृहद्रथः। बृहद्रथात् क्रमेणैव प्राप्तो बार्हद्रथं नृप॥ स निर्याय महाबाहुः पुण्डरीकेक्षणस्ततः। गिरिव्रजाद् बहिस्तस्थौ समदेशे महायशाः॥ तत्रैनं नागराः सर्वे सत्कारेणाभ्ययुस्तदा। ब्राह्मणप्रमुखा राजन् विधिदृष्टेन कर्मणा॥ बन्धनाद् विप्रमुक्ताश्च राजानो मधुसूदनम्। पूजयामासुरूचुश्च स्तुतिपूर्वमिदं वचः॥ नैतच्चित्रं महाबाहो त्वयि देवकिनन्दने। भीमार्जुनबलोपेते धर्मस्य प्रतिपालनम्॥ जरासंधहदे घोरे दुःखपङ्के निमज्जताम्। राज्ञां समभ्युद्धरणं यदिदं कृतमद्य वै॥ विष्णो समवसन्नानां गिरिदुर्गे सुदारुणे। दिष्ट्या मोक्षाद् यशो दीप्तमाप्तं ते यदुनन्दन॥ किं कुर्मः पुरुषव्याघ्र शाधि नः प्रणतिस्थितान्। कृतमित्येव तद् विद्धि नृपैर्यद्यपि दुष्करम्॥ तानुवाच हृषीकेशः समाश्वास्य महामनाः। युधिष्ठिरो राजसूयं क्रतुमाहर्तुमिच्छति॥ तस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः। सर्वैर्भवद्भिर्विज्ञाय साहाय्यं क्रियतामिति॥ ततः सुप्रीतमनसस्ते नृपा नृपसत्तम। तथेत्येवाब्रुवन् सर्वे प्रतिगृह्यास्य तां गिरम्॥ रत्नभाजं च दाशार्हं चक्रुस्ते पृथिवीश्वराः। कृच्छ्राज्जग्राह गोविन्दस्तेषां तदनुकम्पया॥ जरासंधात्मजश्चैव सहदेवो महामनाः। निर्ययौ सजनामात्यः पुरस्कृत्यः पुरोहितम्॥ स नीचैः प्रणतो भूत्वा बहुरत्नपुरोगमः। सहदेवो नृणां देवं वासुदेवमुपस्थितः॥ भयार्ताय ततस्तस्मै कृष्णो दत्त्वाभयं तदा। आददेऽस्य महार्हाणि रत्नानि पुरुषोत्तमः॥ अभ्यषिञ्चत तत्रैव जरासंधात्मजं मुदा। गत्वैकत्वं च कृष्णेन पार्थाभ्यां चैव सत्कृतः॥ विवेश राजा द्युतिमान् बार्हद्रथपुरं नृप। अभिषिक्तो महाबाहुर्जारासंधिर्महात्मभिः॥ कृष्णस्तु सह पार्थाभ्यां श्रिया परमया युतः। रत्नान्यादाय भूरीणि प्रययौ पुरुषर्षभः॥ इन्द्रप्रस्थमुपागम्य पाण्डवाभ्यां सहाच्युतः। समेत्य धर्मराजानं प्रीयमाणोऽभ्यभाषत॥ दिष्ट्या भीमेन बलवाञ्जरासंधो निपातितः। राजानो मोक्षिताश्चैव बन्धनान्नृपसत्तम॥ दिष्ट्या कुशलिनौ चेमौ भीमसेनधनंजयौ। पुनः स्वनगरं प्राप्तावक्षताविति भारत॥ ततो युधिष्ठिरः कृष्णं पूजयित्वा यथार्हतः। भीमेनार्जुनौ चैव प्रहृष्टः परिषस्वजे॥ ततः क्षीणे जरासंधे भ्रातृभ्यां विहितं जयम्। अजातशत्रुरासाद्य मुमुदे भ्रातृभिः सह॥ यथावयः समागम्य भ्रातृभिः सह पाण्डवः। सत्कृत्य पूजयित्वा च विसर्सज नराधिपान्॥ युधिष्ठिराभ्यनुज्ञातास्ते नृपा हृष्टमानसाः। जग्मुः स्वेदशास्त्वरिता यानरुच्चावचैस्ततः॥ एवं पुरुषशार्दूलो महाबुद्धिर्जनार्दनः। पाण्डवैर्घातयामास जरासंधमरिं तदा॥ घातयित्वा जरासंधं बुद्धिपूर्वमरिंदमः। धर्मराजनमनुज्ञाप्य पृथां कृष्णां च भारत॥ सुभद्रां भीमसेनं च फाल्गुनं यमजौ तथा। धौम्यमामन्त्रयित्वा च प्रययौ स्वां पुरीं प्रति॥ तेनैव स्थमुख्येन मनसस्तुल्यगामिना। धर्मराजविसृष्टेन दिव्येनानादयन् दिशः॥ ततो युधिष्ठिरमुखाः पाण्डवा भरतर्षभ। प्रदक्षिणमकुर्वन्त कृष्णमक्लिष्टकारिणम्॥ ततो गते भगवति कृष्णे देवकिनन्दने। यं लब्ध्वा सुविपुलं राज्ञां दत्त्वाभयं तदा॥ संवर्धितं यशो भूयः कर्मणा तेन भारत। द्रौपद्याः पाण्डवा राजन् परां प्रीतिमवर्धयन्॥ तस्मिन् काले तु यद् युक्तं धर्मकामार्थसंहितम्। तद् राजा धर्मतश्चक्रे प्रजापालनकीर्तनम्॥ वैशम्पायन उवाच पार्थः प्राप्य धनुः श्रेष्ठमक्षय्यौ च महेषुधी। रथं ध्वजं सभां चैव युधिष्ठिरमभाषत॥ अर्जुन उवाच धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम्। प्राप्तमेतन्मया राजन् दुष्प्रापं यदभीप्सितम्॥ तत्र कृत्यमहं मन्ये कोशस्य परिवधनम्। करमाहारयिष्यामि राज्ञः सर्वान् नृपोत्तम॥ विजयाय प्रयास्यामि दिशं धनदपालिताम्। तिथावथ मुहूर्ते च नक्षत्रे चाभिपूजिते॥ वैशम्पायन उवाच धनंजयवचः श्रुत्वा धर्मराजो युधिष्ठिरः। स्निग्धगम्भीरनादिन्या तं गिरा प्रत्यभाषत।॥ स्वस्तिवाच्याहतो विप्रान् प्रयाहि भरतर्षभ। दुर्हदामप्रहर्षाय सुहृदां नन्दनाय च॥ विजयस्ते ध्रुवं पार्थ प्रियं काममवाप्स्यसि। इत्युक्तः प्रययौ पार्थः सैन्येन महताऽऽवृतः॥ अग्निदत्तेन दिव्येन रथेनाद्भुतकर्मणा। तथैव भीमसेनोऽपि यमौ च पुरुषर्षभौ॥ ससैन्याः प्रययुः सर्वे धर्मराजेन पूजिताः। दिशं धनपतेरिष्टामजयत् पाकशासनिः॥ भीमसेनस्तथा प्राची सहदेवस्तु दक्षिणाम्। प्रतीची नकुलो राजन् दिशं व्यजयतास्त्रवित्॥ खाण्डवप्रस्थमध्यस्थो धर्मराजो युधिष्ठिरः। आसीत् परमया लक्ष्म्या सुहृद्गणवृतः प्रभुः॥ जनमेजय उवाच दिशामभिजय ब्रह्मन् विस्तरेणानुकीर्तय। न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्॥ वैशम्पायन उवाच धनंजयस्य वक्ष्यामि विजयं पूर्वमेव ते। यौगपद्येन पार्हि निर्जितेयं वसुन्धरा॥ पूर्वं कुलिन्दविषये वशे चक्रे महीपतीन्। धनंजयो महाबाहु तितीव्रण कर्मणा॥ आनर्तान् कालकूटांश्च कुलिन्दांश्च विजित्य सः। सुमण्डलं च विजितं कृतवान् सहसैनिकम्॥ स तेन सहितो राजन् सव्यसाची परंतपः। विजिग्ये शाकलं द्वीपं प्रतिविन्ध्यं च पार्थिवम्॥ शाकलद्वीपवासाश्च सप्तद्वीपेषु ये नृपाः। अर्जुनस्य च सैन्यैस्तैर्विग्रहस्तुमलोऽभवत्॥ स तानपि महेष्वासान् विजिग्ये भरतर्षभ। तैरेव सहितः सर्वैः प्राग्ज्योतिषमुपाद्रवत्॥ तत्र राजा महानासीद् भगदत्तो विशाम्पते। तेनासीत् सुमहद् युद्धं पाण्डवस्य महात्मनः॥ स किरातैश्च चीनैश्च वृतः प्राग्ज्योतिषोऽ ऽभवत्। अन्यैश्च बहुभिर्योधैः सागरानूपवासिभिः॥ ततः स दिवसानष्टौ योधयित्वा धनंजयम्। प्रहसन्नब्रवीद् राजा संग्रामविगतक्लमम्॥ उपपन्नं महाबाहो त्वयि कौरवनन्दन। पाकशासनदायादे वीर्यमाहवशोभिनि॥ अहं सखा महेन्द्रस्य शक्रादनवरो रणे। न शक्ष्यामि च ते तात स्थातुं प्रमुखतो युधि॥ त्वमीप्सितं पाण्डवेय ब्रूहि किं करवाणि ते। यद् वक्ष्यसि महाबाहो तत् करिष्यामि पुत्रक॥ अर्जुन उवाच कुरूणामृषभो राजा धर्मपुत्रो युधिष्ठिरः। धर्मज्ञः सत्यसंधश्च यज्वा विपुलदक्षिणः॥ तस्य पार्थिवतामीप्से करस्तस्मै प्रदीयताम्। भवान् पितृसखा चैव प्रीयमाणो मयापि च। ततो नाज्ञापयामि त्वां प्रीतिपूर्वं प्रदीयताम्॥ भगदत्त उवाच कुन्तीमातर्यथां मे त्वं तथा राजा युधिष्ठिरः। सर्वमेतत् करिष्यामि किं चान्यत् करवाणि ते॥ वैशम्पायन उवाच एवमुक्तः प्रत्युवाच भगदत्तं धनंजयः। अनेनैव कृतं सर्वमनुजानीहि याम्यहम्॥ तं विजित्य महाबाहुः कुन्तीपुत्रो धनंजयः। प्रययावुत्तरां तस्माद् दिशं धनदपालिताम्॥ अन्तर्गिरिं च कौन्तेयस्तथैव च बहिर्गिरिम्। तथैवोपगिरिं चैव विजिग्ये पुरुषर्षभः॥ विजित्य पर्वतान् सर्वान् ये च तत्र नराधिपाः। तान् वशे स्थापयित्वा स धनान्यादाय सर्वशः॥ तैरेव सहितः सर्वैरनुरज्य च तान् नृपान्। उलक्वासिनं राजन् बृहृतमुपजग्मिवान्॥ मृदङ्गवरनादेन रथनेमिस्वनेन च। हस्तिनां च निनादेन कम्पयन् वसुधामिमाम्॥ ततो बृहन्तस्त्वरितो बलेन चतुरङ्गिणा। निष्क्रम्य नगरात् तस्माद् योधयामास फाल्गुनम्॥ सुमहान् संनिपातोऽभूद् धनंजयबृहन्तयोः। न शशाक बृहन्तस्तु सोढुं पाण्डवविक्रमम॥ सोऽविषह्यतमं मत्वा कौन्तेयं पर्वतेश्वरः। उपावर्तत दुर्धर्षो रत्नान्यादाय सर्वशः॥ स तद्राज्यमवस्थाप्य उलूकसहितो ययौ। सेनाबिन्दुमथो राजन् राज्यादाशु समाक्षिपत्॥ मोदापुरं वामदेवं सुदामानं सुसंकुलम्। उलूकानुत्तरांश्चैव तांश्च राज्ञः समानयत्॥ तत्रस्थः पुरुषैरेव धर्मराजस्य शासनात्। किरीटी जितवान् राजन् देशान् पञ्चगणांस्ततः॥ स देवप्रस्थमासाद्य सेनाविन्दोः पुरं प्रति। बलेन चतुरङ्गेण निवेशमकरोत् प्रभुः॥ स तैः परिवृतः सर्वैर्विष्वगंश्वं नराधिपम्। अभ्यगच्छन्महातेजाः पौरवं पुरुषर्षभ॥ विजित्य चाहवे शूरान् पर्वतीयान् महारथान्। जिगाय सेनया राजन् पुरं पौरवरक्षितम्॥ पौरवं युधि निर्जित्य दस्यून् पर्वतवासिनः। गणानुत्सवसंकेतानजयत् सप्त पाण्डवः॥ ततः काश्मीरकान् वीरान् क्षत्रियान् क्षत्रियर्षभः। व्यजयल्लोहितं चैव मण्डलैर्दशभिः सह॥ ततस्त्रिगर्ताः कौन्तेयं दार्वाः कोकनदास्तथा। क्षत्रिया बहवो राजन्नुपावर्तन्त सर्वशः॥ अभिसारी ततो रम्यां विजिग्ये कुरुनन्दनः। उरगावासिनं चैव रोचमानं रणेऽजयत्॥ ततः सिंहपुरं रम्यं चित्रायुधसुरक्षितम्। प्राधमद् बलमास्थाय पाकशासनिराहवे॥ ततः सुह्मांश्च चोलांश्च किरीटी पाण्डवर्षभः। सहितः सर्वसैन्येन प्रामथत् कुरुनन्दनः॥ ततः परमविक्रान्तो बाह्रीकान् पाकशासनिः। महता परिमर्दैन वशे चक्रे दुरासदान्॥ गृहीत्वा तु बलं सारं फाल्गुनः पाण्डुनन्दनः। दरदान् सह काम्बोजैरजयत् पाकशासनिः॥ प्रागुत्तरां दिशं ये च वसन्त्याश्रित्य दस्यवः। निवसन्ति वने ये च तान् सर्वानजयत् प्रभुः॥ लोहान् परमकाम्बोजानृषिकानुत्तरानपि। सहितांस्तान् महाराज व्यजयत् पाकशासनिः॥ ऋषिकेष्वपि संग्रामो बभूवातिभयंकरः। तारकामयसंकाशः परस्त्वृषिकपार्थयोः॥ स विजित्य ततो राजऋषिकान् रणमूर्धनि। शुकोदरसमांस्तत्र हयानष्टौ समानयत्॥ मयूरसदृशानन्यानुत्तरानपरानपि। जवनानाशुगांश्चैव करार्थं समुपानयत्॥ स विनिर्जित्य संग्रामे हिमवन्तं सनिष्कुटम्। श्वेतपर्वतमासाद्य न्यविशत् पुरुषर्षभः॥ वैशम्पायन उवाच ततः कुमारविषये श्रेणिमन्तमथाजयत्। कोसलाधिपतिं चैव बृहद्बलमरिंदमः॥ अयोध्यायां तु धर्मज्ञं दीर्घयज्ञं महाबलम्। अजयत् पाण्डवश्रेष्ठो नातितीव्रण कर्मणा॥ ततो गोपालकक्षं च सोत्तरानपि कोसलान्। मल्लानामधिपं चैव पार्थिवं चाजयत् प्रभुः॥ ततो हिमवतः पार्श्व समभ्येत्य जलोद्भवम्। सर्वमल्पेन कालेन देशं चक्रे वशं बली॥ एवं बहुविधान् देशान् विजिग्ये भरतर्षभः। भल्लाटमभितो जिग्ये शुक्तिमन्तं च पर्वतम्॥ पाण्डवः सुमहावीर्यो बलेन बलिनां वरः। स काशिराजं समरे सुबाहुमनिवर्तिनम्॥ वशे चक्रे महाबाहुर्भीमो भीमपराक्रमः। ततः सुपार्श्वमभितस्तथा राजपतिं क्रथम्॥ युध्यमानं बलात् संख्ये विजिग्ये पाण्डवर्षभः। ततो मत्स्यान् महातेजा मलदांश्च महाबलान्॥ अनघानभयांश्चैव पशुभूमिं च सर्वशः। निवृत्य च महाबाहुर्मदधारं महीधरम्॥ सोमधेयांश्च निर्जित्य प्रययावुत्तरामुखः। वत्सभूमिं च कौन्तेयो विजिग्ये बलवान् बलात्॥ भर्गाणामधिपं चैव निषदाधिपति तथा। विजिग्ये भूमिपालांश्च मणिमत्प्रमुखान् बहून्।॥ ततो दक्षिणमल्लांश्च भोगवन्तं च पर्वतम्। तरसैवाजयद् भीमो नातितीव्रण कर्मणा॥ शर्मकान् वर्मकांश्चैव व्यजयत् सान्त्वपूर्वकम्। वैदेहकं च राजानं जनकं जगतीपतिम्॥ विजिग्ये पुरुषव्याघ्रो नातितीव्रण कर्मणा। शकांश्च बर्बरांश्चैव अजयगच्छद्मपूर्वकम्॥ वैदेहस्थस्तु कौन्तेय इन्द्रपर्वतमन्तिकात्। किरातानामधिपतीनजयत् सप्त पाण्डव॥ ततः सुह्मान् प्रसुह्मांश्च सपक्षानतिवीर्यवान्। विजित्य युधि कौन्तेयो मागधानभ्यधाद् बली॥ दण्डं च दण्डधारं च विजित्य पृथिवीपतीन्। तैरेव सहितैः सर्वैर्गिरिव्रजमुपाद्रवत्॥ जारासंधिं सान्त्वयित्वा करे च विनिवेश्य ह। तैरेव सहितैः सर्वैः कर्णमभ्यद्रवद् बली॥ स कम्पयन्निव महीं बलेन चतुरङ्गिणा। युयुधे पाण्डवश्रेष्ठः कर्णेनामित्रघातिना॥ स कर्णं युधि निर्जित्य वशे कृत्वा च भारत। ततो विजिग्ये बलवान् राज्ञः पर्वतवासिनः॥ अथ मोदागिरौ चैव राजानं बलवत्तरम्। पाण्डवो बाहुवीर्येण निजघान महामृधे॥ ततः पुण्ड्राधिपं वीरं वासुदेवं महाबलम्। कौशिकीकच्छनिलयं राजानं च महौजसम्॥ उभौ बलभृतौ वीरावुभौ तीव्रपराक्रमौ। निर्जित्याजी महाराज वङ्गराजमुपाद्रवत्॥ समुद्रसेनं निर्जित्य चन्द्रसेनं च पार्थिवम्। ताम्रलिप्तं च राजानं कर्वटाधिपतिं तथा॥ सुह्यानामधिपं चैव ये च सागरवासिनः। सर्वान् म्लेच्छगणांश्चैव विजिग्ये भरतर्षभः॥ एवं बहुविधान् देशान् विजित्य पवनात्मजः। वसु तेभ्य उपादाय लौहित्यमगमद् बली॥ स सर्वान् म्लेच्छनृपतीन् सागरानूपवासिनः। करमाहारयामास रत्नानि विविधानि च॥ चन्दनागुरुवस्त्राणि मणिमौक्तिककम्बलम्। काञ्चनं रजत चैव विद्रुमं च महाधनम्॥ ते कोटिशतसंख्येन कौन्तेयं महता तदा। अभ्यवर्षन् महात्मानं धनवर्षेण पाण्डवम्॥ इन्द्रप्रस्थमुपागम्य भीमो भीमपराक्रमः। निवेदयामास तदा धर्मराजाय तद् धनम्॥ वैशम्पायन उवाच तथैव सहदेवोऽपि धर्मराजेन पूजितः। महत्या सेनया राजन् प्रययौ दक्षिणां दिशम्॥ स शूरसेनान् कात्स्न्र्येन पूर्वमेवाजयत् प्रभुः। मत्स्यराजं च कौरव्यो वशे चक्रे बलाद् बली॥ अधिराजाधिपं चैव दन्तवक्रं महाबलम्। जिगाय करदं चैव कृत्वा राज्ये न्यवेशयत्॥ सुकुमारं वशे चक्रे सुमित्रं च नराधिपम्। तथैवापरमत्स्यांश्च व्यजयत् स पटच्चरान्॥ निषादभूमि गोशृङ्गं पर्वतप्रवरं तथा। तरसैवाजयद् धीमान् श्रेणिमन्तं च पार्थिवम्॥ नरराष्ट्रं च निर्जित्य कुन्तिभोजमुपाद्रवत्। प्रीतिपूर्वं च तस्याजौ प्रतिजग्राह शासनम्॥ तत्तश्चर्मण्वतीकूले जम्भकंस्यात्मजं नृपम्। ददर्श वासुदेवेन शेषितं पूर्ववैरिणा॥ चक्रे तेन स संग्राम सहदेवेन भारत। स तमाजौ विनिर्जित्य दक्षिणाभिमुखो ययौ॥ सेकानपरसेकांश्च व्यजयत् सुमहाबलः। करं तेभ्य उपादाय रत्नानि विविधानि च॥ ततस्तेनैव सहितो नर्मदामभितो ययौ। विन्दानुविन्दावावन्त्यौ सैन्येन महताऽऽवृतौ। जिगाय समरे वीरावाश्चिनेयः प्रतापवान्॥ ततो रत्नान्युपादाय पुरं भोजकटं ययौ। तत्र युद्धमभूद् राजन् दिवसद्वयमच्युत्॥ स विजित्य दुराधर्ष भीष्मकं माद्रिनन्दनः। कोसलाधिपतिं चैव तथा वेणातटाधिपम्॥ कान्तारकांश्च समरे तथा प्राक्कोसलान् नृपान्। नाटकेयांश्च समरे तथा हेरम्बकान् युधि॥ मारुधं च विनिर्जित्य रम्यग्राममथो बलात्। नाचीनानर्धकांश्चैव राज्ञश्चैव महाबलः॥ तांस्तानाटविकीन् सर्वानजयत् पाण्डुनन्दनः। वाताधिपं च नृपति वशं चक्रे महाबलः॥ पुलिन्दांश्च रणे जित्वा ययौ दक्षिणतः पुरः। युयुधे पाण्ड्यराजेन दिवसं नकुलानुजः॥ तं जित्वा स महाबाहुः प्रययौ दक्षिणापथम्। गुहामासादयामास किष्किन्धां लोकविश्रुताम्॥ तत्र वानरराजाभ्यां मैन्देन द्विविदेन च। युयुधे दिवसान् सप्त न च तौ विकृतिं गतौ॥ ततस्तुष्टौ महात्मानौ सहदेवाय वानरौ। ऊचतुश्चैव संहृष्टौ प्रीतिपूर्वमिदं वचः॥ गच्छ पाण्डवशार्दूल रत्नान्यादाय सर्वशः। अविघ्नमस्तु कार्याय धर्मराजाय धीमते॥ ततो रत्नान्युपादाय पुरी माहिष्मती ययौ। तत्र नीलेन राज्ञा स चक्रे युद्धं नरर्षभः॥ पाण्डवः परवीरनः सहदेवः प्रतापवान्। ततोऽस्यं सुमहद् युद्धमासीद् भीरुभयंकरम्॥ सैन्यक्षयकरं चैव प्राणानां संशयावहम्। चक्रे तस्य हि साहाय्यं भगवान् हव्यवाहनः॥ ततो रथा हया नागाः पुरुषाः कवचानि च। प्रदीप्तानि व्यदृश्यन्त सहदेवबले तदा॥ ततः सुसम्भ्रान्तमना बभूव कुरुनन्दनः। नोत्तरं प्रतिवक्तुं च शक्तोऽभूज्जनमेजय॥ जनमेजय उवाच किमर्थं भगवान् वह्निः प्रत्यमित्रोऽभवद् युधि। सहदेवस्य यज्ञार्थं घटमानस्य वै द्विज॥ वैशम्पायन उवाच तत्र माहिष्मतीवासी भगवान् हव्यवाहनः। श्रूयते हि गृहीतो वै पुरस्तात् पारदारिकः॥ नीलस्य राज्ञो दुहिता बभूवातीवशोभना। साग्निहोत्रमुपातिष्ठद् बोधनाय पितुः सदा॥ व्यजनै—यमानोऽपि तावत् प्रज्वलते न सः। यावच्चारुपुटौष्ठेन वायुना न विधूयते॥ ततः स भगवानाग्निश्चकमे तां सुदर्शनाम्। नीलस्य राज्ञः सर्वेषामुपनीतश्च सोऽभवत्॥ ततो ब्राह्मणरूपेण रममाणो यदृच्छया। चकमे तां वरारोहां कन्यामुत्पललोचनाम्। तं तु राजा यथाशास्त्रमशासद् धार्मिकस्तदा॥ प्रजज्वाल ततः कोपाद् भगवान् हव्यवाहनः। तं दृष्ट्वा विस्मितो राजा जगाम शिरसावनिम्॥ ततः कालेन तां कन्यां तथैव हि तदा नृपः। प्रददौ विप्ररूपाय वह्नये शिरसा ततः॥ प्रतिगृह्य च तां सुबूं नीलराज्ञः सुतां तदा। चक्रे प्रसादं भगवांस्तस्य राज्ञो विभावसुः॥ वरेणच्छन्दयामास तं नृपं स्विष्टकृत्तमः। अभयं च स जग्राह स्वसैन्ये वै महीपतिः॥ ततः प्रभृति ये केचिदज्ञानात् तां पुरी नृपाः। जिगीषन्ति बलाद् राजंस्ते दह्यन्ते स्म वह्निना॥ तस्यां पुर्यां तदा चैव माहिष्मत्यां कुरूद्वह। बभूवुरनतिग्राह्या योषितश्छन्दतः किल॥ एवमग्निर्वरं प्रादात् स्त्रीणामप्रतिवारणे। वरिण्यस्तत्र नार्यो हि यथेष्टं विचरन्त्युत॥ वर्जयन्ति च राजानस्तत् पुरं भरतर्षभ। भयादग्नेर्महाराज तदाप्रभृति सर्वदा॥ सहदेवस्तु धर्मात्मा सैन्यं दृष्ट्वा भयादितम्। परीतमग्निना राजन् नाकम्पत यथाचलः। उपस्पृश्य शुचिर्भूत्वा सोऽब्रवीत् पावकं ततः॥ सहदेव उवाच त्वदर्थोऽयं समारम्भः कृष्णवर्त्मन् नमोऽस्तु ते। मुखं त्वमसि देवानां यज्ञस्त्वमसि पावक॥ पावनात् पावकश्चासि वहनाद्धव्यवाहनः। वेदास्त्वदर्थं जाता वै जातवेदास्ततो ह्यसि॥ चित्रभानुः सुरेशश्च अनलस्त्वं विभावसो। स्वर्गद्वारस्पृशश्चासि हुताशो ज्वलनः शिखी॥ वैश्वानरस्त्वं पिङ्गेशः प्लवङ्गो भूरितेजसः। कुमारसूस्त्वं भगवान् रुद्रगर्भो हिरण्यकृत्॥ अग्निर्ददातु मे तेजो वायुः प्राणं ददातु मे। पृथिवी बलमादध्याच्छिवं चापो दिशन्तु मे॥ अपांगर्भ महासत्त्व जातवेदः सुरेश्वर। देवानां मुखमग्ने त्वं सत्येन विपुनीहि माम्॥ ऋषिभिर्ब्राह्मणैश्चैव दैवतैरसुरैरपि। नित्यं सुहुत यज्ञेषु सत्येन विपुनीहि माम्॥ धूमकेतुः शिखी च त्वं पापहानिलसम्भवः। सर्वप्राणिषु नित्यस्थः सत्येन विपुनीहि माम्॥ एवं स्तुतोऽसि भगवन् प्रीतेन शुचिना मया। तुष्टिं पुष्टिं श्रुतिं चैव प्रीतिं चाग्ने प्रयच्छ मे॥ वैशम्पायन उवाच इत्येवं मन्त्रमाग्नेयं पठन् यो जुहुयाद् विभुम्। ऋद्धिमान् सततं दान्तः सर्वपापैः प्रमुच्यते॥ सहदेव उवाच यज्ञविजमिमं कर्तुं नार्हस्त्वं हव्यवाहन। एवमुक्त्वा तु माद्रेयः कुशैरास्तीर्य मेदिनीम्॥ विधिवत् पुरुषव्याघ्रः पावकं प्रत्युपाविशत्। प्रमुखे तस्य सैन्यस्य भीतोद्विग्नस्य भारत॥ न चैनमत्यगाद् वह्निर्वेलामिव महोदधिः। तमुपेत्य शनैर्वह्निरुवाच कुरुनन्दनम्॥ सहदेवं नृणां देवं सान्त्वपूर्वमिदं वचः। उत्तिष्ठोत्तिष्ठ कौरव्य जिज्ञासेयं कृता मया। वेदि सर्वमभिप्रायं तद धर्मसुतस्य च॥ मया तु रक्षिताव्येयं पुरी भरतसत्तम। यावद् राज्ञो हि नीलस्य कुले वंशधरा इति॥ ईप्सितं तु करिष्यामि मनसस्तव पाण्डव॥ तत उत्थाय हृष्टात्मा प्राञ्जलिः शिरसा नतः। पूजयामाय माद्रेयः पावकं भरतर्षभ॥ पावके विनिवृत्ते तु नीलो राजाभ्यगात् तदा। पावकस्याज्ञया चैनमर्चयामास पार्थिवः॥ सत्कारेण नरव्याघ्रं सहदेवं युधाम्पतिम्। प्रतिगृह्य च तां पूजां करे च विनिवेश्य च॥ माद्रीसुतस्ततः प्रायाद विजयी दक्षिणां दिशम्। त्रैपुरं स वशे कृत्वा राजानममितौजसम्॥ निजग्राह महाबाहुस्तरसा पौरवेश्वरम्। आकृति कौशिकाचार्य यत्नेन महता ततः॥ वशे चक्रे महाबाहुः सुराष्ट्राधिपतिं तदा। सुराष्ट्रविषयस्थश्च प्रेषयामास रुक्मिणे॥ राजे भोजकटस्थाय महामात्राय धीमते। भीष्मकाय स धर्मात्मा साक्षादिन्द्रसखाय वै॥ स चास्य प्रतिजग्राह ससुतः शासनं तदा। प्रीतिपूर्वं महाराज वासुदेवमवेक्ष्य च॥ ततः स रत्नान्यादाय पुनः प्रायाद् युधाम्पतिः। ततः शूर्पारकं चैव तालाकटमथापि च॥ वशे चक्रे महातेजा दण्डकांश्च महाबलः। सागरद्वीपवासांश्च नृपतीन् म्लेच्छयोनिजान्॥ निषादान् पुरुषादांश्च कर्णप्रावरणानपि। ये च कालमुखा नाम नरराक्षसयोनयः॥ कृत्स्नं कोलागिरिं चैव सुरभीपत्तनं तथा। द्वीपं ताम्राह्वयं चैव पर्वतं रामकं तथा॥ तिमिङ्गिलं च स नृपं वशे कृत्वा महामतिः। एकपादांश्च पुरुषान् केरलान् वनवासिनः॥ नगरी संजयन्ती च पाखण्डं करहाटकम्। दूतैरेव वशे चक्रे करं चैनानदापयत्॥ पाण्ड्यांश्च द्रविडांश्चैव सहितांश्चोण्ड्रकेरलैः। आन्ध्रांस्तालवनांश्चैव कलिङ्गानुष्ट्रकर्णिकान्॥ आटवीं च पुरी रम्यां यवनानां पुरं तथा। दूतैरेव वशे चक्रे करं चैनानदापयत्॥ तत: कच्छगतो धीमान् दूतं माद्रवतीसुतः। प्रेषयामास हैडिम्बं पौलस्त्याय महात्मने। विभीषणाय धर्मात्मा प्रीतिपूर्वमरिंदमः॥ स चास्य प्रतिजग्राह शासनं प्रीतिपूर्वकम्। तच्च कालकृतं धीमानभ्यमन्यत स प्रभुः॥ ततः सम्प्रेषयामास रत्नानि विविधानि च। चन्दनागुरुकाष्ठानि दिव्यान्याभरणानि च॥ वासांसि च महार्हाणि मणींश्चैव महाधनान्। न्यवर्तत ततो धीमान् सहदेवः प्रतापवान्॥ एवं निर्जित्य तरसा सान्त्वेन विजयेन च। करदान् पार्थिवान् कृत्वा प्रत्यागच्छदरिंदमः॥ धर्मराजाय तत् सर्व निवेद्य भरतर्षभ। कृतकर्मा सुखं राजन्नुवास जनमेजय॥ वैशम्पायन उवाच नकुलस्य तु वक्ष्यामि कर्माणि विजयं तथा। वासुदेवजितामाशां यथासावजयत् प्रभुः॥ निर्याय खाण्डवप्रस्थात् प्रतीचीमभितोदिशम्। उद्दिश्य मतिमान् प्रायान्महत्या सेनया सह॥ सिंहनादेन महता योधानां गर्जितेन च। रथनेमिनिनादैश्च कम्पयन् वसुधामिमाम्॥ ततो बहुधनं रम्यं गवाढ्यं धनधान्यवत्। कार्तिकेयस्य दयितं रोहीतकमुपाद्रवत्॥ तत्र युद्धं महच्चासीच्छूरैर्मत्तमयूरकैः। मरुभूमि स कात्स्र्थेन तथैव बहुधान्यकम्॥ च प्रतस्थे शैरीषकं महोत्थं च वशे चक्रे महाद्युतिः। आक्रोशं चैव राजर्षि तेन युद्धमभून्महत्॥ तान् दशार्णान् स जित्वा पाण्डुनन्दनः। शिबींस्त्रिगर्तानम्बष्ठान् मालवान् पञ्चकर्पटान्॥ तथा माध्यमिकांश्चैव वाटधानान् द्विजानथ। पुनश्च परिवृत्याथ पुष्करारण्यवसिनः॥ गणानुत्सवसंकेतान् व्यजयत् पुरुषर्षभः। सिन्धुकूलाश्रिता ये च ग्रामणीया महाबलाः॥ शूद्राभीरगणाश्चैव ये चाश्रित्य सरस्वतीम्। वर्तयन्ति च ये मत्स्यैर्ये च पर्वतवासिनः॥ कृत्स्नं पञ्चनदं चैव तथैवामरपर्वतम्। उत्तरज्योतिषं चैव तथा दिव्यकटं पुरम्॥ द्वारपालं च तरसा वशे चक्रे महाद्युतिः। रामठान् हारहूणांश्च प्रतीच्याश्चैव ये नृपाः॥ तान् सर्वान् स वशे चक्रे शासनादेव पाण्डवः। तत्रस्थः प्रेषयामास वासुदेवाय भारत॥ स चास्य गतभी राजन् प्रतिजग्राह शासनम्। ततः शाकलमभ्येत्य मद्राणां पुटभेदनम्॥ मातुलं प्रीतिपूर्वेण शल्यं चक्रे वशे बली। स तेन सत्कृतो राज्ञा सत्कारार्हो विशाम्पते॥ रत्नानि भूरीण्यादाय सम्प्रतस्थे युधाम्पतिः। ततः सागरकुक्षिस्थान् म्लेच्छान् परमदारुणान्॥ पह्नवान् बर्बरांश्चैव किरातान् यवनाञ्छकान्। ततो रत्नान्युपादाय वशे कृत्वा च पार्थिवान्। न्यवर्तत कुरुश्रेष्ठो नकुलचित्रमार्गवित्॥ करभाणां सहस्राणि कोशं तस्य महात्मनः। ऊहुर्दश महाराज कृच्छ्रादिव महाधनम्॥ इन्द्रप्रस्थगतं वीरमभ्येत्य स युधिष्ठिरम्। ततो माद्रीसुतः श्रीमान् धनं तस्मै न्यवेदयत्॥ एवं विजित्य नकुलो दिशं वरुणपालिताम्। प्रतीची वासुदेवेन निर्जितां भरतर्षभ॥ वैशम्पायन उवाच रक्षणाद् धर्मराजस्य सत्यस्य परिपालनात्। शत्रूणां क्षपणाच्चैव स्वकर्मनिरताः प्रजाः॥ बलीनां सम्यगादानाद् धर्मतश्चानुशासनात्। निकामवर्षी पर्जन्यः स्फीतो जनपदोऽभवत्॥ सर्वारम्भाः सुप्रवृत्ता गोरक्षा कर्षणं वणिक्। विशेषात् सर्वमेवैतत् संजज्ञे राजकर्मणः॥ दस्युभ्यो वञ्चकेभ्यो वा राजन् प्रति परस्परम्। राजवल्लभतश्चैव नाश्रूयन्त मृषा गिरः॥ अवर्षं चातिवर्षं च व्याधिपावकमूर्च्छनम्। सवमेतत् तदा नासीद् धर्मनित्ये युधिष्ठिरे॥ प्रियं कर्तुमुपस्थातुं बलिकर्म स्वभाजवम्। अभिहर्तुं नृपा जग्मुर्नान्यैः कार्यैः कथंचन॥ धय॑र्धनागमैतस्य ववृधे निचयो पहान्। कर्तुं यस्य न शक्येत क्षयो वर्षशतैरपि॥ स्वकोष्ठस्य परीमाणं कोशस्य च महीपतिः। विज्ञाय राजा कौन्तेयो यज्ञायैव मनो दधे॥ सुहृदयश्चैव ये सर्वे पृथक् च सह चाब्रुवन्। यज्ञकालस्तव विभो क्रियतामत्र साम्प्रतम्॥ अथैव ब्रुवतामेव तेषामभ्याययौ हरिः। ऋषिः पुराणो वेदात्मादृश्यश्चैव विजानताम्॥ जगतस्तस्थुषां श्रेष्ठः प्रभवश्चाप्ययश्च ह। भूतभव्यभन्नाथः केशवः केशिसूदनः॥ प्राकारः सर्ववृष्णीनामापत्स्वभयदोऽरिहा। बलाधिकारे निक्षिप्य सम्यगानकदुन्दुभिम्॥ उच्चावचमुपादाय धर्मराजाय माधवः। धनौघं पुरुषव्याघ्रो बलेन महताऽऽवृतः॥ तं धनौघमपर्यन्तं रत्नसागरमक्षयम्। नादयन् स्थघोषेण प्रविवेश पुरोत्तमम्॥ पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत्। असूर्यमिव सूर्येण निवातमिव वायुना।। कृष्णेन समुपेतेन जहषे भारतं पुरम्॥ तं मुदाभिसमागम्य सत्कृत्य च यथाविधि। स पृष्ट्वा कुशलं चैव सुखासीनं युधिष्ठिरः॥ धौम्यद्वैपायनमुखैर्ऋत्विग्भिः पुरुषर्षभ। भीमार्जुनयमैश्चैव सहितः कृष्णमब्रवीत्॥ युधिष्ठिर उवाच त्वत्कृते पृथिवी सर्वा मद्वशे कृष्ण वर्तते। वार्ष्णेय त्वत्प्रसादादुपार्जितम्॥ सोऽहममिच्छामि तत् सर्वं विधिवद् देवकीसुत। उपयोक्तुं द्विजायेभ्यो हव्यवाहे च माधव॥ तदहं यष्टुमिच्छामि दाशार्ह सहितस्त्वया। अनुजैश्च महाबाहो तनमानुज्ञातुमर्हसि॥ धनं च बहु तद् दीक्षाप गोविन्द त्वमात्मानं महाभुजा त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम्॥ मां वाप्यभ्यनुजानीहि स हैमिरनुजैविभो। अनुज्ञातस्त्वया कृष्ण प्राप्नुयां क्रतुमुत्तमम्॥ वैशम्पायन उवाच तं कृष्णः प्रत्युषाचेदं बहूक्त्वा गुणविस्तरम्। त्वमेव राजशार्दूल सम्राडो महाक्रतुम्। सम्प्राप्नुहि त्वया प्राप्ते कृतकृत्यास्ततो वयम्॥ यजस्वाभीप्सितं यज्ञं मयि श्रेयस्यवस्थिते। नियुक्ष्व त्वं च मां कृत्ये सर्वं कर्तास्मि ते वचः॥ युधिष्ठिर उवाच सफलः कृष्ण संकल्पः सिद्धिश्च नियता मम। यस्य मे त्वं हृषीकेश यथेप्सितमुपस्थितः॥ वैशम्पायन उवाच अनुज्ञातस्तु कृष्णेन पाण्वो भ्रातृभिः सह। ईजितुं राजसूयेन साधनान्युपचक्रमे॥ ततस्त्वाज्ञापयामास पाण्डवोऽरिनिबर्हणः। सहदेव युधां श्रेष्ठं मन्त्रिणश्चैव सर्वशः॥ अस्मिन् क्रतौ यथोक्तानि यज्ञाङ्गानि द्विजातिभिः। तथोपकरणं सर्वं मङ्गलानि च सर्वशः॥ अधियज्ञांश्च सम्भारान् धौम्योक्तान् क्षिप्रमेव हि। समानयन्तु पुरुषा यथायोगं यथाक्रमम्॥ इन्द्रसेनो विशोकश्च पूस्चार्जुनसारथिः। अन्नाद्याहरणे युक्ताः सन्तु मत्प्रियकाम्यया॥ सर्वकामाश्च कार्यन्तां रसगन्धसमन्विताः। मनोरथप्रीतिकरा द्विजानां कुरुसत्तम॥ तद्वाक्यसमकालं च कृतं सर्वं न्यवेदयत्। सहदेवो युधां श्रेष्ठो धर्मराजे युधिष्ठिरे॥ ततो द्वैपायनो राजन्नृत्विजः समुपानयत्। वेदान्व महाभागान् साक्षान्मूर्तिमतो द्विजान्॥ स्वयं ब्रह्मत्वमकरोत् तस्य सत्यवतीसुतः। धनंजयानामृषभः सुसामा सामगोऽभवत्॥ याज्ञवल्क्यो बभूबाथ ब्रह्मिष्ठोऽध्वर्युसत्तमः। पैलो होता वसोः पुत्रो धोम्येन सहितोऽभवत्॥ एतेषां पुत्रवर्गाश्च शिष्याश्च भरतर्षभ। बभूवर्होत्रगाः सर्वे वेदवेदाङ्गपारगाः॥ ते वाचयित्वा पुण्याहमूहयित्वा च तं विधिम्। शास्त्रोक्तं पूजयामासुस्तद् देवयजनं महत्॥ तत्र चक्रुरनुज्ञाताः शरणान्युत शिल्पिनः। गन्धवन्ति विशालानि वेश्मानीव दिवौकसाम्॥ तत आज्ञापयामास स राजा राजसत्तमः। सहदेवं तदा सद्यो मन्त्रिणं पुरुषर्षभः॥ आमन्त्रणार्थं दूतांस्त्वं प्रेषयस्वाशुगान् द्रुतम्। उपश्रुत्य वचो राज्ञः स दूतान् प्राहिणोत् तदा॥ आमन्त्रयध्वं राष्ट्रेषु ब्राह्मणान् भूमिपानथ। विशश्च मान्यान् शूद्रांश्च सर्वानानयतेति च॥ वैशम्पायन उवाच समाज्ञप्तास्ततो दूताः पाण्डवेयस्य शासनात्। आमन्त्रयाम्बभूवुश्च आनयंश्चापरान् द्रुतम्। तथा परानपि नरानात्मनः शीघ्रगामिनः॥ ततस्ते तु यथाकालं कुन्तीपुत्रं युधिष्ठिरम्। दीक्षयाञ्चक्रिरे विप्रा राजसूयाय भारत॥ दीक्षितः स तु धर्मात्मा धर्मराजो युधिष्ठरः। जगाम यज्ञायतनं वृतो विप्रैः सहस्रशः॥ भ्रातृभििितभिश्चैव सुहृद्भिः सचिवैः सह। क्षत्रियैश्च मनुष्येन्द्रैर्नानादेशसमागतैः॥ अमात्यैश्च नरश्रेष्ठो धर्मो विग्रहवानिव। आजग्मुर्ब्राह्मणास्तत्र विषयेभ्यस्ततस्ततः॥ सर्वविद्यासु निष्णाता वेदवेदाङ्गपारगाः। तेषामावसथांश्चक्रुर्धर्मराजस्य शासनात्॥ बह्वन्नाच्छादनैयुक्तान् सगणानां पृथक् पृथक्। सर्वर्तुगुणसम्पन्नान् शिल्पिनोऽथ सहस्रशः॥ तेषु ते न्यवसन् राजन् ब्राह्मणानृपसत्कृताः। कथयन्तः कथां बह्वीः पश्यन्तो नटनर्तकान्॥ भुञ्जतां चैव विप्राणां वदतां च महास्वनः। अनिशं श्रूयते तत्र मुदितानां महात्मनाम्॥ दीयतां दीयतामेषां भुज्यतां भुज्यतामिति। एवम्प्रकाराः संजल्पाः श्रूयन्ते स्मात्र नित्यशः॥ गवां शतसहस्राणि शयनानां च भारत। रुक्मस्य योषितां चैव धर्म राजः पृथग् ददौ॥ प्रावर्ततैवं यज्ञः स पाण्डवस्य महात्मनः। पृथिव्यामेकवीरस्य शक्रस्येव त्रिविष्टपे॥ ततो युधिष्ठिरो राजा प्रेषयामास पाण्डवम्। नकुलं हास्तिनपुरं भीष्माय पुरुषर्षभः॥ द्रोणाय धृतराष्ट्राय विदुराय कृपाय च। भ्रातृणां चैव सर्वेषां येऽनुरक्ता युधिष्ठिरे॥ वैशम्पायन उवाच ततोऽभिषेचनीयेऽछि ब्राह्मणा राजभिः सह। अन्तर्वेदी प्रविविशुः सत्कारार्हा महर्षयः॥ नारदप्रमुखास्तस्यामन्तवेद्यां महात्मनः। समासीनाः शुशुभिरे सह राजर्षिभिस्तदा॥ समेता ब्रह्मभवने देवा देवर्षयस्तथा। कर्मान्तरमुपासन्तो जजल्पुरमितौजसः॥ एवमेतन्न चाप्येवमेवं चैतन्न चान्यथा। इत्यूचुर्बहवस्तत्र वितण्डा वै परस्परम्॥ कृशानार्थांस्ततः केचिदकृशांस्तत्र कुर्वते। अकृशांश्च कृशाश्चर्हेतुभिः शास्त्रानिश्चयैः॥ तत्र मेधाविनः केचिदर्थमन्यैरुदीरितम्। टिचिक्षिपुर्यथा धेना नमोगतमिवामिषम्॥ केचिद् धर्मार्थकुशलाः केचित् तत्र महाव्रताः। रेमिरे कथयन्तश्च सर्वभाष्यविदां वरा:॥ सा वेदिर्वेदसम्पन्नैवद्विजमहर्षिभिः। आबभासे समाकीर्णा नक्षत्रैद्यौरिवायता॥ न तस्यां संनिधौ शूद्रः कश्चिदासीन चाव्रती। अन्तर्वेद्यां तदा राजन् युधिष्ठिरनिवेशने॥ तां तु लक्ष्मीवतो लक्ष्मी तदा यज्ञविधानजाम्। तुतोष नारदः पश्यन् धर्मराजस्य धीमतः॥ अथ चिन्तां समापेदे च मुनिर्मनुजाधिप। नारदस्तु तदा पश्यन् सर्वक्षत्रसमागमम्॥ सस्मार च पुरा वृत्तां कथां तां पुरुषर्षभ। अंशावतरणे यासौ ब्रह्मणो भवनेऽभवत्॥ देवानां संगमं तं तु विज्ञाय कुरुनन्दन। नारदः पुण्डरीकाक्षं सस्मार मनसा हरिम्॥ साक्षात् स विबुधारिघ्नः क्षत्रे नारायणो विभुः। प्रतिज्ञां पालयंश्चमां जातः परपुरंजयः॥ संदिदेश पुरायोऽसौ विबुधान् भूतकृत् स्वयम्। अन्योयमभिनिघ्नन्तः पुनर्लोकानवाप्स्यथ॥ इति नारायणः शम्भुर्भगवान् भूतभावनः। आदित्यविबुधान् सर्वानजायत यदुक्षये॥ क्षितावन्धकवृष्णीनां वंशे वंशभूतां वरः। परया शुशुभे लक्ष्या नक्षत्राणामिवोडुराट्॥ यस्य बाहुबलं सेन्द्राः सुराः सर्व उपासते। सोऽयं मानुषवन्नाम हरिरास्तेऽरिमर्दनः॥ अहो बत महद्भूतं स्वयंभूर्यदिदं स्वयम्। आदास्यति पुनः क्षत्रमेवं बलसमन्वितम्॥ इत्येतां नारदश्चिन्तां चिन्तयामास सर्ववित्। हरि नारायणं ध्यात्वा यज्ञैरीज्यन्तमीश्वरम्॥ तस्मिन् धर्मविदां श्रेष्ठो धर्मराजस्य धीमतः। महाध्वरे महाबुद्धिस्तस्थौ स बहुमानतः॥ ततो भीष्मोऽब्रवीद् राजन् धर्मराज युधिष्ठिरम्। क्रियतामहणं राज्ञां यथाहमिति भारत॥ आचार्यमृत्विजं चैव संयुजं च युधिष्ठिर। स्नातकं च प्रियं प्राहुः षडार्हान् नृपं तथा॥ एतानानभिगतानाहुः संवत्सरोषितान्। त इमे कालपूगस्य महतोऽस्मानुपागताः॥ एषामेकैकशो राजन्नय॑मानीयतामिति। अथ चैषां वरिष्ठाय समायोपनीयताम्॥ युधिष्ठिर उवाच कस्मै भवान् मन्यतेऽर्घ्यमेकस्मै कुरुनन्दन। उपनीयमानं युक्तं च तन्मे ब्रूहि पितामह॥ वैशम्पायन उवाच ततो भीष्मः शान्तनवो बुद्ध्याद् निश्चित्य वीर्यवान्। अमन्यत तदा कृष्णमहणीयतमं भुवि॥ भीष्म उवाच एष ह्येषां समस्तानां तेजोवलपराक्रमः। मध्ये तपन्निवाभाति ज्योतिषामिव भास्करः॥ असूर्यमिव सूर्येण निर्वातमिव वायुना। भासितं ह्लादितं चैव कृष्णेनेदं सदो हि नः॥ तस्मै भीष्माभ्यनुज्ञातः सहदेवः प्रतापवान्। उपजह्वेऽथ विधिवद् वार्ष्णेयायार्घ्यमुत्तमम्॥ प्रतिजग्राह तत् कृष्णः शास्त्रदृष्टेन कर्मणा। शिशुपालस्तु तां पूजां वासुदेवे न चक्षमे॥ स उपालभ्य भीष्मं च धर्मराजं च संसदि। अपाक्षिपद् वासुदेवं चेदिराजो महाबलः॥ शिशुपाल उवाच नायमर्हति वार्ष्णेयस्तिष्ठत्स्विह महात्मसु महीपतिषु कौरव्य राजवत् पार्थिवाहणम्॥ नायं युक्तः समाचार: पाण्डवेषु महात्मसु। यत् कामात् पुण्डरीकाक्षं पाण्डवार्चितवानसि॥ बाला यूयं न जानीध्वं धर्मः सूक्ष्मो हि पाण्डवाः। अयं च स्मृत्यतिक्रान्तो ह्यापगेयोऽल्पदर्शनः॥ त्वादृशो धर्मयुक्तो हि कुर्वाणः प्रियकाम्यया। भवत्यभ्यधिकं भीष्म लोकेष्ववमत: सताम्॥ कथं डराजा दाशार्हो मध्ये सर्वमहीक्षिताम्। अर्हणामर्हति तथा यथा युष्माभिरर्चितः॥ अथ वा मन्यसे कृष्णं स्थविरं कुरुपुङ्गव। वसुदेवे स्थिते वृद्धे कथमर्हति तत्सुतः॥ अथ वा वासुदेवोऽपि प्रियकामोऽनुवृत्तवान्। दुपदे तिष्ठति कथं माधवोऽर्हति पूजनम्॥ आचार्यं मन्यसे कृष्णमथ वा कुरुनन्दन। द्रोणे तिष्ठति वार्ष्णेयं कस्मादर्चितवानसि॥ ऋत्विजं मन्यसे कृष्णमथ या कुरुनन्दन। द्वैपायने स्थिते वृद्धे कथं कृष्णोऽर्चितस्त्वया॥ भीष्मे शान्तनवे राजन् स्थिते पुरुषसत्तमे। स्वच्छन्दमृत्युके राजन् कथं कृष्णोऽर्चितस्त्वया॥ अश्वत्थाम्नि स्थिते वीरे सर्वशास्त्रविशारदे। कथं कृष्णस्त्वया राजन्नर्चितः कुरुनन्दन॥ दुर्योधने च राजेन्द्रे स्थिते पुरुषसत्तमे। कृपे च भारताचार्ये कथं कृष्णस्त्वयार्चितः॥ दुमं किम्पुरुषाचार्यमतिक्रम्य तथार्चितः। भीष्मके चैव दुर्धर्षं पाण्डुवत् कृतलक्षणे॥ नृपे च रुक्मिणि श्रेष्ठे एकलव्ये तथैव च। शल्ये मद्राधिपे चैव कथं कृष्णस्त्वयार्चितः॥ अयं च सर्वराज्ञां वै बलश्लाघी महाबलः। जामदग्न्यस्य दयितः शिष्यो विप्रस्य भारत॥ येनात्मबलमाश्रित्य राजानो युधि निर्जिताः। तं च कर्णमतिक्रम्य कथं कृष्णस्त्वयार्चितः॥ नैवविंग् नैव चाचार्यो न राजा मधुसूदनः। अर्चितश्च कुरुश्रेष्ठ किमन्यत्प्रियकाम्यया॥ अथ वाभ्यर्चनीयोऽयं युष्माकं मधुसूदनः। किं राजभिरिहानीवैरवमानाय भारत॥ वयं तु न भयादस्य कौन्तेयस्य महात्मनः। प्रयच्छामः करान्सर्वे न लोभान्न च सान्त्वनात्॥ अस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः। करानस्मै प्रयच्छामः सोऽयमस्मान् न मन्यते॥ किमन्यदवमानाद्वि यदेनं राजसंसदि। अप्राप्तलक्षणं कृष्णमयेणार्चितवानसि॥ अकस्माद् धर्मपुत्रस्य धर्मात्मेति यशो गतम्। को हि धर्मच्युत पूजामेवं युक्तां नियोजयेत्॥ योऽयं वृष्णिकुले जातो राजानं हतवान् पुरा। जरासंधं महात्मानमन्यायेन दुरात्मवान्॥ अद्य धर्मात्मता चैव व्यपकृष्टा युधिष्ठिरात्। दर्शितं कृपणत्वं च कृष्णेऽय॑स्य निवेदनात्॥ यदि भीताश्च कौन्तेयाः कृपणाश्च तपस्विनः। ननु त्वयापि बोद्धव्यं यां पूजां माधवार्हसि॥ अथ वा कृपणैरेतामुपनीतां जनार्दना। पूजामनर्हः कस्मात् त्वमभ्यनुज्ञातवानसि॥ अयुक्तामात्मनः पूजां त्वं पुनर्बहु मन्यसे। हविषः प्राप्य निष्यन्दं प्राशिता श्वेव निर्जने॥ न त्वयं पार्थिवेन्द्राणामपमानः प्रयुज्यते। त्वामेव कुरवो व्यक्तं प्रलम्भन्ते जनार्दन॥ क्लीबे दारक्रिया यादृगन्धे वा रूपदर्शनम्। अराज्ञो राजवत् पूजा तथा ते मधुसूदन॥. दृष्टो युधिष्ठिरो राजा दृष्टो भीष्मश्च यादृशः। वासुदेवोऽप्ययं दृष्टः सर्वमेतद् यथातथम्॥ इत्युक्त्वा शिशुपालस्तानुत्थाय परमासनात्। निर्ययौ सदसस्तस्मात् सहितो राजभिस्तदा॥ वैशम्पायन उवाच एवमुक्त्वा ततो भीष्मो विरराम् महाबलः। व्याजहारोत्तरं तत्र सहदेवोऽर्थवद् वचः॥ केशवं केशिहन्तारमप्रमेयपराक्रमम्। पूज्यमानं मया यो वः कृष्णं न सहते नृपाः॥ सर्वेषां बलिनां मूर्ध्नि भयेदं निहितं पदम्। एवमुक्ते मया सम्यगुत्तरं प्रब्रवीतु सः॥ स एव हि मया वध्यो भविष्यति न संशयः। मतिमन्थश्च ये केचिदाचार्यं पितरं गुरुम्॥ अर्घ्यमर्चितम_हमनुजानन्तु ते नृपाः। ततो न व्याजहारैषां कश्चिद् बुद्धिमतां सताम्॥ मानिनां बलिनां राज्ञां मध्ये वै दर्शिते पदे। ततोऽपतत् पुष्पवृष्टिः सहदेवस्य मूर्धनि॥ अदृश्यरूपा वचाश्चाप्यब्रुवन् साधु साध्विति। आविध्यदजितं कृष्णं भविष्यद्भूतजल्पकः॥ सर्वसंशयनिर्मोक्ता नारदः सर्वलोकवित्। उवाचाखिलभूतानां मध्ये स्पष्टतरं वचः॥ कृष्णं कमलपत्राक्षं नार्चयिष्यन्ति ये नराः। जीवन्मृतास्तु ते ज्ञेया न सम्भाष्याः कदाचन॥ वैशम्पायन उवाच पूजयित्वा च पूजार्हान् ब्रह्मक्षत्रविशेषवित्। सहदेवो नृणां देवः समापद्यत कर्म तत्॥ तस्मिन्नभ्यर्चिते कृष्णे सुनीथः शत्रुकर्षणः। अतिताप्रेक्षणः कोपादुवाच मनुजाधिपान्॥ स्थित: सेनापतिर्योऽहं मन्यध्वं किं तु साम्प्रतम्। युधि तिष्ठाम संना समेतान् वृष्णिपाण्डवान्॥ इति सर्वान् समुत्साह्य राज्ञस्तांश्चेदिपुङ्गवः। यज्ञोपघाताय ततः सोऽमन्त्रयत राजभिः॥ तत्राहूता गताः सर्वे सुनीथप्रमुखा गणाः। समदृश्यन्त संक्रुद्धा विवर्णवदनास्तथा॥ युधिष्ठिराभिषेकं च वासुदेवस्य चाहणम्। न स्याद् यथा तथा कार्यमेवं सर्वे तदाब्रुवन्॥ निष्कर्षानिश्चयात् सर्वे राजानः क्रोधमूर्छिताः। अब्रुवंस्तत्र राजानो निर्वेदादात्मनिश्चयात्॥ सुहृद्भिर्वार्यमाणानां तेषां हि वपुराबभौ। आमिषादपकृष्टानां सिंहानामिव गर्जताम्॥ तं बलौघमपर्यन्तं राजसागरमक्षयम्। कुर्वाणं समयं कृष्णो युद्धाय बुबुधे तदा॥ वैशम्पायन उवाच ततः सागरसंकाशं दृष्ट्वा नृपतिमण्डलम्। संवर्तवाताभिहतं भीमं क्षुब्धमिवार्णवम्॥ रोषात् प्रचलितं सर्वमिदमाह युधिष्ठिरः। भीष्मं मतिमतां मुख्यं वृद्धं कुरुपितामहम्। बृहस्पतिं बृहत्तेजाः पुरुहूत इवारिहा॥ असौ रोषात् प्रचलितो महान् नृपतिसागरः। अत्र यत् प्रतिपत्तव्यं तन्मे ब्रूहि पितामह॥ यज्ञस्य च न विघ्नः स्यात् प्रजानां च हितं भवेत्। यथा सर्वत्र तत् सर्वं ब्रूहि मेऽद्य पितामह॥ इत्युक्तवति धर्मज्ञे धर्मराजे युधिष्ठिरे। उवाचेदं वचो भीष्मस्ततः कुरुपितामहः॥ मा भैस्त्वं कुरुशार्दूल श्वा सिंहं हन्तुमर्हति। शिवः पन्थाः सुनीतोऽत्र मया पूर्वतरं वृतः॥ प्रसुप्ते हि यथा सिंहे श्वानस्तस्मिन् समागताः। भषेयुः सहिताः सर्वे तथेमे वसुधाधिपाः॥ वृष्णिसिंहस्य सुप्तस्य तथामी प्रमुखे स्थिताः। भषन्ते तात संक्रुद्धाः श्वान: सिंहस्य संनिधौ॥ न हि सम्बुध्यते यावत् सुप्तः सिंह इवाच्युतः। तेन सिंहीकरोत्येतान् नृसिंहश्चेदिपुङ्गवः॥ पार्थिवान् पार्थिवश्रेष्ठः शिशुपालोऽप्यचेतनः। सर्वान् सर्वात्मना तात नेतुकामो यमक्षयम्॥ नूनमेतत् समादातुं पुनरिच्छत्यधोक्षजः। यदस्य शिशुपालस्य तेजस्तिष्ठति भारत॥ विप्लुता चास्य भद्रं ते बुद्धिर्बुद्धमतां वर। चेदिराजस्य कौन्तेय सर्वेषां च महीक्षिताम्॥ आदातुं च नरव्याघ्रो यं यमिच्छत्ययं तदा। तस्य विप्लवते बुद्धिरेवं चेदिपतेर्यथा॥ चतुर्विधानां भूतानां त्रिषु लोकेषु माधवः। प्रभवश्चैव सर्वेषां निधनं च युधिष्ठिरः॥ वैशम्पायन उवाच इति तस्य वचः श्रुत्वा ततश्चेदिपतिनृपः। भीष्मं रुक्षाक्षरा वाचः श्रावयामास भारत॥ शिशुपाल उवाच विभीषिकाभिर्बह्वीभिर्भीषयन् सर्वपार्थिवान्। न व्यपत्रपसे कस्माद् वृद्धः सन् कुलपांसन॥ युक्तमेतत् तृतीयायां प्रकृतौ वर्तता त्वया। वक्तुं धर्मादपेतार्थं त्वं हि सर्वकुरूत्तमः॥ नावि नौरिव सम्बद्धा यथान्धो वान्धमन्वियात्। तथाभूता हि कौरव्या येषां भीष्म त्वमग्रणीः॥ पूतनाघातपूर्वाणि कर्माण्यस्य विशेषतः। त्वया कीर्तयतास्माकं भूयः प्रव्यथितं मनः॥ अवलिप्तस्य मूर्खस्य केशवं स्तोतुमिच्छतः। कथं भीष्म न ते जिह्वा शतधेयं विदीर्यते॥ यत्र कुत्सा प्रयोक्तव्या भीष्म बालतरैनरैः। तमिमं ज्ञानवृद्धः सन् गोपं संस्तोतुमिच्छसि॥ यद्यनेन हतो बाल्ये शकुनिश्चित्रमत्र किम्। तौ वाश्ववृषभौ भीष्म यौ न युद्धविशारदौ॥ चेतनारहितं काष्ठं यद्यनेन निपातितम्। पादेन शकटं भीष्म तत्र किं कृतमद्भुतम्॥ वल्मीकमात्रः सप्ताहं यद्यनेन धृतोऽचलः। तदा गोवर्धनो भीष्म न तच्चित्रं मतं मम॥ भुक्तमेतेन बह्वन्नं क्रीडता नगमूर्धनि। इति ते भीष्म शृण्वानाः परे विस्मयमागताः॥ यस्य चानेन धर्मज्ञ भुक्तमन्नं बलीयसः। स चानेन हतः कंस इत्येतन्न महाद्भुतम्॥ न ते श्रुतमिदं भीष्म नूनं कथयतां सताम्। यद् वक्ष्ये त्वामधर्मज्ञं वाक्यं कुरुकुलाधम॥ स्त्रीषु गोषु न शस्त्राणि पातयेद् ब्राह्मणेषु च। यस्य चान्नानि भुञ्जीत यत्र च स्यात् प्रतिश्रयः॥ इति सन्तोऽनुशासन्ति सज्जनं धर्मिणः सदा। भीष्म लोके हि तत् सर्वं वितथं त्वयि दृश्यते॥ ज्ञानवृद्धं च वृद्धं च भूयांसं केशवं मम। अजानत इवाख्यासि संस्तुवन् कौरवाधम॥ गोनः स्त्रीनश्च सन् भीष्म त्वद्वाक्याद् यदि पूज्यते। एवंभूतश्च यो भीष्म कथं संस्तवमर्हति॥ असौ मतिमतां श्रेष्ठो य एथ जगतः प्रभुः। सम्भावयति चाप्येवं त्वद्वाक्याच्च जनार्दनः। एवमेतत् सर्वमिति तत् सर्वं वितथं ध्रुवम्॥ न गाथागाथिनं शास्ति बहु चेदपि गायति। प्रकृति यान्ति भूतानि भूलिङ्गशकुनिर्यथा॥ नूनं प्रकृतिरेषा ते जघन्या नात्र संशयः। अति पापीयसी चैषा पाण्डवानामपीष्यते॥ येषामर्थ्यतमः कृष्णस्त्वं च येषां प्रदर्शकः। धर्मवांस्त्वमधर्मज्ञः सतां मार्गादवप्लुतः॥ को हि धर्मिणमात्मानं जानज्ञानविदां वरः। कुर्याद् यथा त्वया भीष्म कृतं धर्ममवेक्षता॥ चेत् त्वं धर्मं विजानासि यदि प्राज्ञा मतिस्तव। अन्यकामा हि धर्मज्ञा कन्यका प्राज्ञमानिना। अम्बा नामेति भद्रं ते कथं सापहृता त्वया॥ तां त्वयापि हृतां भीष्म कन्यां नैषितवान् यतः। भ्राता विचित्रवीर्यस्ते सतां मार्गमनुष्ठितः॥ दारयोर्यस्य चान्येन मिषतः प्राज्ञमानिनः। तव जातान्यपत्यानि सज्जनाचरिते पथि।॥ को हि धर्मोऽस्ति ते भीष्म ब्रह्मचर्यमिदं वृथा। यद् धारयसि मोहाद् वा क्लीबत्वाद् वा न संशयः।। न त्वहं तव धर्मज्ञ पश्याम्युपचयं क्वचित्। न हि ते सेविता वृद्धा य एवं धर्ममब्रवीः॥ इष्टं दत्तमधीतं च यज्ञाश्च बहुदक्षिणाः। सर्वमेतदपत्यस्य कलां नार्हन्ति षोडशीम्॥ व्रतोपवासैर्बहुभिः कृतं भवति भीष्म यत्। सर्वं तदनपत्यस्य मोघं भवति निश्चयात्॥ सोऽनपत्यश्च वृद्धश्च मिथ्याधर्मानुसारकः। हंसवत् त्वमपीदानीं ज्ञातिभ्यः प्राप्नुया वधम्॥ एवं हि कथयन्त्यन्ये नरा ज्ञानविदः पुरा। भीष्म यत् तदहं सम्यग् वक्ष्यामि तव शृण्वतः॥ वृद्धः किल समुद्रान्ते कश्चिद्वंसोऽभवत् पुरा। धर्मवागन्यथावृत्तः पक्षिणः सोऽनुशास्ति च॥ धर्मं चरत माधर्ममिति तस्य वचः किल। पक्षिणः शुश्रुवुर्भीष्म सततं सत्यवादिनः॥ अथास्य भक्ष्यमाजहः समुद्रजलचारिणः। अण्डजा भीष्म तस्मान्ये धर्मार्थमिति शुश्रुम॥ ते च तस्य समभ्याशे निक्षिप्याण्डानि सर्वशः। समुद्राम्भस्यमज्जन्त चरन्तो भीष्म पक्षिणः। तेषामण्डानि सर्वेषां भक्षयामास पापकृत्॥ स हंसः सम्प्रमत्तानामप्रमत्तः स्वकर्मणि। ततः प्रक्षीयमाणेषु तेषु तेष्वण्डजोऽपरः। अशङ्कत महाप्राज्ञः स कदाचिद् ददर्श ह॥ ततः स कथयामास दृष्ट्वा हंसस्य किल्बिषम्। तेषां परमदुःखार्तः स पक्षी सर्वपक्षिणाम्॥ ततः प्रत्यक्षतो दृष्ट्वा पक्षिणस्ते समीपगाः। निजघ्नुस्तं तदा हंसं मिथ्यावृत्तं कुरूद्वह॥ ते त्वां हंससधर्माणमपीमे वसुधाधिपाः। निहन्युर्भीष्म संक्रुद्धाः पक्षिणस्तं यथाण्डजम्॥ गाथामप्यत्र गायन्ति ये पुराणविदो जनाः। भीष्म यां तां च ते सम्यक् कथयिष्यामि भारत॥३९। अन्तरात्मन्यभिहते रौषि पत्ररथाशुचि। अण्डभक्षणकर्मैतत् तव वाचमतीयते॥ भीष्म उवाच नैषा चेदिपतेर्बुद्धिर्यया त्वाऽऽह्वयतेऽच्युतम्। नूनमेष जगद्धर्तुः कृष्णस्यैव विनिश्चयः॥ को हि मां भीमसेनाद्य क्षितावर्हति पार्थिवः। क्षेप्तुं कालपरीतात्मा यथैष कुलपांसनः॥ एष ह्यस्य महाबाहुस्तेजोऽशश्च हरेधुंवम्। तमेव पुनरादातुमिच्छत्युत तथा विभुः॥ येनेष कुरुशार्दूल शार्दूल इव चेदिराट्। गर्जत्यतीव दुर्बुद्धिः सर्वानस्मानचिन्तयन्।॥ वैशम्पायन उवाच ततो न ममृषे चैद्यस्तद् भीष्मवचनं तदा। उवाच चैनं संक्रुद्धः पुनर्भीष्ममथोत्तरम्॥ शिशुपाल उवाच द्विषतां नो भीष्मैष प्रभावः केशवस्य यः। यस्य संस्तववक्ता त्वं वन्दिवत् सततोत्थितः॥ संस्तवे च मनो भीष्मे परेषां रमते यदि। तदा संस्तौषि राज्ञस्त्वमिमं हित्वा जनार्दनम्॥ दरदं स्तुहि बाह्रीकमिमं पार्थिवसत्तमम्। जायमानेन येनेयमभवद् दारिता मही॥ वङ्गाङ्गविषयाध्यक्षं सहस्राक्षसमं बले। स्तुहि कर्णमिमं भीष्म महाचापविकर्षणम्॥ यस्येमे कुण्डले दिव्ये सहजे देवनिर्मिते। कवचं च महाबाहो बालार्कसदृशप्रभम्॥ वासवप्रतिमो येन जरासंधोऽतिदुर्जयः। विजितो बाहुयुद्धेन देहभेदं च लम्भितः॥ द्रोणं द्रौणिं च साधु त्वं पितापुत्रौ महारथौ। स्तुहि स्तुत्यावुभौ भीष्म सततं द्विजसत्तमौ॥ ययोरन्यतरो भीष्म संक्रुद्धः सचराचराम्। इमां वसुमती कुर्यान्निःशेषामिति मे मतिः॥ द्रोणस्य हि समं युद्धे न पश्यामि नराधिपम्। नाश्वत्थाम्न: समं भीष्म न च तौ स्तोतुमिच्छसि।।१४। पृथिव्यां सागरान्तायां यो वै प्रतिसमो भवेत्। दुर्योधनं त्वं राजेन्द्रमतिक्रम्य महाभुजम्॥ जयद्रथं च राजानं कृतास्त्रं दृढविक्रमम्। दुमं किम्पुरुषाचार्यं लोके प्रथितविक्रमम्। अतिक्रम्य महावीर्यं किं प्रशंससि केशवम्॥ वृद्धं च भारताचार्यं तथा शारद्वतं कृपम्। आत्क्रम्य महावीर्यं किं प्रशंससि केशवम्॥ धनुर्धराणां प्रवरं रुक्मिणं पुरुषोत्तमम्। आत्क्रम्य महावीर्यं किं प्रशंससि केशवम्॥ भीष्मकं च महावीर्यं दन्तवनं च भूमिपम्। भगदत्तं यूपकेतुं जयत्सेनं च मागधम्॥ विराटदुपदौ चोभौ शकुनि च बृहद्बलम्। विन्दानुविन्दावावन्त्यौ पाण्ड्यं श्वेतमथोत्तरम्॥ शङ्ख च सुमहाभागं वृषसेनं च मानिनम्। एकलव्यं च विक्रान्तं कालिङ्गं च महारथम्॥ अतिक्रम्य महावीर्यं किं प्रशंससि केशवम्। शल्यादीनपि कस्मात् त्वं न स्तौषि वसुधाधिपान्। स्तवाय यदि ते बुद्धिवर्तते भीष्म सर्वदा॥ क हि शक्यं मया कर्तुं यद् वृद्धानां त्वया नृप। पुरा कथयतां नूनं न श्रुतं धर्मवादिनाम्॥ आत्मनिन्दाऽऽत्मपूजा च परनिन्दा परस्तवः। अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम्॥ यदस्त्वयमिमं शश्वन्मोहात् संस्तौषि भक्तितः। कंशवं तच्च ते भीष्म न कश्चिदनुमन्यते॥ कथं भोजस्य पुरुषे वर्गपाले दुरात्मनि। समावेशयसे सर्वं जगत् केवलकाम्यया॥ अथ चैषा न ते बुद्धिः प्रकृतिं याति भारत। मयैव कथितं पूर्वं भूलिङ्गशकुनिर्यथा।॥ भूलिङ्गशकुनि म पार्श्वे हिमवतः परे। भीष्म तस्या सदा वाचः श्रूयन्तेऽर्थविगर्हिताः॥ मा साहसमितीदं सा सततं वाशते किल। साहसं चात्मनातीव चरन्ती नावगुध्यते॥ सा हि मांसार्गलं भीष्म मुखात् सिंहस्य खादतः। दन्तान्तरविलग्नं यत् तदादत्तेऽल्पचेतना॥ इच्छतः सा हि सिंहस्य भीष्म जीवत्यसंशयम्। तद्वत् त्वमप्यधर्मिष्ठ सदा वाचः प्रभाषसे॥ इच्छतां भूमिपालानां भीष्म जीवस्य संशयम्। लोकविद्विष्टकर्मा हि नान्योऽस्ति भवता समः॥ वैशम्पायन उवाच ततश्चेदिपते: श्रुत्वा भीष्मः स कटुकं वचः। उवाचेदं वचो राजश्चेदिराजस्य शृण्वतः॥ इच्छतां किल नामाहं जीवाम्येषां महीक्षितान्। सोऽहं न गणयाम्येतांस्तृणेनापि नराधिपान्॥ एवमुक्ते तु भीष्मेण ततः संचक्रुशुर्नृपाः। केचिज्जहषिरे तत्र केचिद् भीष्मं जगहिरे॥ केचिदूचुर्महेष्वासाः श्रुत्वा भीष्मस्य तद् वचः। पापोऽवलिप्तो वृद्धश्च नायं भीष्मोऽर्हति क्षमाम्॥ हन्यतां दुर्मतिर्भीष्मः पशुवत् साध्वयं नृपाः। सर्वैः समेत्य संरब्धैर्दह्यता वा कटाग्निना॥ इति तेषां वचः श्रुत्वा ततः कुरुपितामहः। उवाच मतिमान् भीष्मस्तानेव वसुधाधिपान्॥ उक्तस्योक्तस्य नेहान्तमहं समुपलक्षये। यत् तु वक्ष्यामि तत् सर्वं शृणुध्वं वसुधाधिपाः॥ पशुवद् घातनं वा मे दहनं वा कटाग्निना। क्रियतां मूर्ध्नि वो न्यस्तं मयेदं सकलं पदम्॥ एष तिष्ठति गाविन्दः पूजितोऽस्माभिरच्युतः। यस्य वस्त्वरते बुद्धिर्मरणाय स माधवम्॥ कृष्णमाह्वयतामद्य युद्धे चक्रगदाधरम्। यादवस्यैव देवस्य देहं विशतु पातितः॥ वैशम्पायन उवाच ततः श्रुत्वैव भीष्मस्य चेदिराडुरुविक्रमः। युयुत्सुर्वासुदेवेन वासुदेवमुवाच हः॥ आह्वये त्वां रणं गच्छ मया साधु जनार्दन। यावदद्य निहन्मि त्वां सहितं सर्वपाण्डवैः॥ सह त्वया हि मे वध्याः सर्वथा कृष्ण पाण्डवाः। नृपतीन् समतिक्रम्य यैरराजा त्वमर्चितः॥ ये त्वां दारमराजानं बाल्यादर्चन्ति दुर्मतिम्। अनर्हमर्हवत् कृष्ण वध्यास्त इति मे मतिः॥ इत्युक्त्वा राजशार्दूलस्तस्थौ गर्जनमर्षणः। एवमुक्तस्ततः कृष्णो मृदुपूर्वमिदं वचः। उवाच पार्थिवान् सर्वान् स समक्षं च वीर्यवान्॥ एष नः शत्रुरत्यन्तं पार्थिवाः सात्वतीसुतः। सात्वतानां नृशंसात्मा न हितोऽनपकारिणाम्॥ प्राग्ज्योतिषपुरं यातानस्माज्ञात्वा नृशंसकृत्। अदहद् द्वारकामेष स्वस्रीयः सन् नराधिपाः॥ क्रीडतो भोजराजस्य एष रैवतके गिरौ। हत्वा बद्ध्वा च तान् सर्वानुपायात् स्वपुरं पुरा॥ अश्वमेधे हयं मेध्यमुत्सृष्टं रक्षिभिर्वृतम्। पितुर्मे यज्ञविघ्नार्थमहरत् पापनिश्चयः॥ सौवीरान् प्रति यातां च बभ्रोरेष तपस्विनः। भार्यामभ्यहरन्मोहादकामां तामितो गताम्॥ एष मायाप्रतिच्छन्नः करूषार्थं तपस्विनीम्। जहार भद्रां वैशाली मातुलस्य नृशंसकृत्॥ पितृष्वसुः कृते दुःखं सुमहन्मर्षयाम्यहम्। दिष्ट्या हीदं सर्वराज्ञां संनिधावद्य वर्तते॥ पश्यन्ति हि भवन्तोऽद्य मय्यतीव व्यतिक्रमम्। कृतानि तु परोक्षं मे यानि तानि निबोधत॥ इमं त्वस्य न शक्ष्यामि क्षन्तुमद्य व्यतिक्रमम्। अवलेपाद् वधार्हस्य समग्रे राजमण्डले॥ रुक्मिण्यामस्य मूढस्य प्रार्थनाऽऽसीन्मुमूर्षतः। न च तां प्राप्तवान् मूढः शूद्रो वेदश्रुतीमिव॥ वैशम्पायन उवाच एवमादि ततः सर्वे सहितास्ते नराधिपाः। वासुदेववचः श्रुत्वा चेदिराजं व्यगर्हयन्॥ जातु त्वदन्यो तस्य तद् वचनं श्रुत्वा शिशुपाल् प्रतापवान्। जहास स्वनवद्धासं वाक्यं चेदमुवाच ह॥ मत्पूर्वां रुक्मिणी कृष्ण संसत्सु परिकीर्तयन्। विशेषतः पार्थिवेषु व्रीडां न कुरुषे कथम्॥ मन्यमानो हि कः सत्सु पुरुषः परिकीर्तयेत्। अन्यपूर्वां स्त्रियं मधुसूदनः॥ क्षम वा यदि ते श्रद्धा मा वा कृष्ण मम क्षम। क्रुद्धाद् वापि प्रसन्नाद् वा किं मे त्वत्तो भविष्यति।।२०। तथा ब्रवुत एवास्य भगवान् मधुसूदनः। मनसाचिन्तयच्चक्रं दैत्यवर्गनिषूदनम्॥ एतस्मिन्नेव काले तु चक्रे हस्तगते सति। उवाच भगवानुच्चैर्वाक्यं वाक्यविशारदः॥ शृण्वन्तु मे महीपाला येनैतत् क्षमितं मया। अपराधशतं क्षाम्यं मातुरस्यैव याचने॥ दत्तं मया याचितं च तानि पूर्णानि पार्थिवाः। अधुना वधयिष्यामि पश्यतां वो महीक्षिताम्॥ एवमुक्त्वा यदुश्रेष्ठश्चेदिराजस्य तत्क्षणात्। व्यपाहरच्छिरः क्रुद्धश्चक्रेणामित्रकर्षणः॥ स पपात महाबाहुर्वजाहत इवाचलः। ततश्चेदिपतेर्दैहात् तेजोऽयं ददृशुर्नृपाः॥ उत्पतन्तं महाराज गगनादिव भास्करम्। ततः कमलपत्राक्षं कृष्णं लोकनमस्कृतम्। तेजो विवेश च नराधिप।॥ तदद्भुतममन्यन्त दृष्ट्वा सर्वे महीक्षितः। यद् विवेश महाबाहुं तत् तेजः पुरुषोत्तमम्॥ अनभ्रे प्रववर्ष द्यौः पपात ज्वलिताशनिः। कृष्णेन निहते चैद्ये चचाल च वसुंधरा॥ ततः केचिन्महीपाला नाब्रुवंस्तत्र किंचन। अतीतवाक्पथे काले प्रेक्षमाणा जनार्दनम्॥ ववन्दे तत् तदा "प्तैर्हस्ताग्रमपरे प्रत्यर्पिषन्नमर्षिताः। र दशनैरोष्ठानदशन् क्रोधमूर्छिताः॥ रहश्च केचिद् वार्ष्णेयं प्रशशंसुर्नराधिपाः। केचिदेव सुसंरब्धा मध्यस्थास्त्वपरेऽभवन्॥ प्रहृष्टाः केशवं जग्मुः संस्तुवन्तो महर्षयः। ब्राह्मणाश्च महात्मानः पार्थिवाश्च महाबलाः॥ शशंसुर्निर्वृताः सर्वे दृष्ट्वा कृष्णस्य विक्रमम्। पाण्डवस्त्वब्रबीद् भ्रातॄन् सत्कारेण महीपतिम्॥ दमघोषात्मजं वीरं संस्कारयत मा चिरम्। तथा च कृतवन्तस्ते भ्रातु शासनं तदा॥ चेदीनामाधिपत्ये च पुत्रमस्य महीपतेः। अभ्यषिञ्चत् तदा पार्थः सह तैर्वसुधाधिपः॥ ततः स कुरुराजस्य क्रतुः सर्वसमृद्धिमान्। यूनां प्रीतिकरो राजन् स बभौ विपुलौजसः॥ शान्तविघ्नः सुखारम्भः प्रभूतधनधान्यवान्! अन्नवान् बहुभक्ष्यश्च केशवेन सुरक्षितः॥ समापयामास च तं राजसूयं महाक्रतुम्। तं तु यज्ञं महाबाहुरासमाप्तेर्जनार्दनः। ररक्ष भगवाञ्छौरिः शाईचक्रगदाधरः॥ ततस्त्ववभृथस्नातं धर्मात्मानं युधिष्ठिरम्। समस्तं पार्थिवं क्षत्रमुपगम्येदमब्रवीत्॥ दिष्टया वर्धसि धर्मज्ञ साम्राज्यं प्राप्तवानसि। आजमीढाजमीढानां यशः संवर्धितं त्वया॥ कर्मणैतेन राजेन्द्र धर्मश्च सुमहान् कृतः। आपृच्छामो नरव्याघ्र सर्वकामैः सुपूजिताः॥ स्वराष्ट्राणि गमिष्यामस्तदनुज्ञातुमर्हसि। श्रुत्वा तु वचनं राज्ञां धर्मराजो युधिष्ठिरः॥ यथार्ह पूज्य नृपतीन् भ्रातृन् सर्वानुवाच ह। राजानः सर्व एवैते प्रीत्यास्मान् समुपागताः॥ प्रस्थिता: स्वानि राष्ट्राणि मामापृच्छ्य परंतपाः। अनुव्रजत भद्रं वो विषयान्तं नृपोत्तमान्॥ भ्रातुर्वचनमाज्ञाय पाण्डवा धर्मचारिणः। यथार्ह नृपतीन् सर्वानेककैकं समनुव्रजन्॥ विराटमन्वयात् तूर्णं धृष्टद्युम्नः प्रतापवान्। धनंजयो यज्ञसेनं महात्मानं महारथम्॥ भीष्मं च धृतराष्ट्रं च भीमसेनो महाबलः। द्रोणं तु ससुतं वीरं सहदेवो युधाम्पतिः॥ नकुलः सुबलं राजन् सहपुत्रं समन्वयात्। द्रौपदेयाः ससौभद्राः पर्वतीयान् महारथान्॥ अन्वगच्छंस्तथैवान्यान् क्षत्रियान् क्षत्रियर्षभाः। एवं सुपूजिताः सर्वे जग्मुर्विप्राः सहस्रशः॥ गतेषु पार्थिवेन्द्रेषु सर्वेषु ब्राह्मणेषु च। युधिष्ठिरमुवाचेदं वासुदेवः प्रतापवान्॥ आपृच्छे त्वां गमिष्यामि द्वारकां कुरुनन्दन। राजसूयं क्रतुश्रेष्ठं दिष्ट्या त्वं प्राप्तवानसि॥ तमुवाचैवमुक्तस्तु धर्मराजो जनार्दनम्। तव प्रसादाद् गोविन्द प्राप्तः क्रतुवरो मया॥ क्षत्रं समग्रमपि च त्वत्प्रसादाद् वशे स्थितम्। उपादाय बलिं मुख्यं मामेव समुपस्थितम्॥ कथं त्वद्गमनार्थं मे वाणी वितरतेऽनघ। न ह्यहं त्वामृते वीर रतिं प्राप्नोमि कर्हिचित्॥ अवश्यं चैव गन्तव्या भवता द्वारकापुरी। एवमुक्तः स धर्मात्मा युधिष्ठिरसहायवान्॥ अभिगम्याब्रवीत् प्रीतः पृथां पृथुयशा हरिः। साम्राज्यं समनुप्राप्ताः पुत्रास्तेऽद्य पितृष्वसः॥ सिद्धार्था वसुमन्तश्च सा त्वं प्रीतिमवाप्नुहि। अनुज्ञातस्त्वया चाहं द्वारकां गन्तुमुत्सहे॥ सुभद्रां द्रौपदीं चैव सभाजयत केशवः। निष्क्रम्यान्तःपुरात् तस्माद् युधिष्ठिर सहायवान्॥ सातश्च कृतजप्यश्च ब्राह्मणान् स्वस्ति वाच्य च। ततो मेघवपुःप्रख्यं स्यन्दनं च सुकल्पितम्। योजयित्वा महाबाहुर्दारुकः समुपस्थितः॥ उपस्थितं रथं दृष्ट्वा तायप्रवरकेतनम्। प्रदक्षिणमुपावृत्य समारुह्य महामनाः॥ प्रययौ पुण्डरीकाक्षस्ततो द्वारवती पुरीम्॥ तं पद्भ्यामनुवव्राज धर्मराजो युधिष्ठिरः। भ्रातृभिः सहितः श्रीमान् वासुदेवं महाबलम्॥ ततो मुहूर्तं संगृह्य स्यन्दनप्रवरं हरिः। अब्रवीत् पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम्॥ अप्रमत्तः स्थितो नित्यं प्रजाः पाहि विशाम्पते। पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः॥ बान्धवास्त्वोपजीवन्तु सहस्राक्षमिवामराः। कृत्वा परस्परेणैवं संविदं कृष्णपाण्डवौ॥ अन्योन्यं समनुज्ञाप्य जग्मतुः स्वगृहान् प्रति। गते द्वारवती कृष्णे सात्वतप्रवरे नृप॥ एको दुर्योधनो राजा शकुनिश्चापि सौबलः। तस्यां सभायां दिव्यायामूषतुस्तौ नरर्षभौ॥ वैशम्पायन उवाच समाप्ते राजसूये तु क्रतुश्रेष्ठे सुदुर्लभे। शिष्यैः परिवृतो व्यासः पुरस्तात् समपद्यत॥ सोऽभ्ययादासनात् तूर्णं भ्रातृभिः परिवारितः। पाद्येनासनदानेन पितामहमपूजयत्॥ अथोपविश्य भगवान् काञ्चने परमासने। आस्तामिति चोवाच धर्मराज युधिष्ठिरम्॥ अथोपविष्टं राजानं भ्रातृभिः परिवारितम्। उवाच भगवान् व्यासस्तत्तद्वाक्यविशारदः॥ दिष्ट्या वर्धसि कौन्तेय साम्राज्यं प्राप्य दुर्लभम्। वर्धिताः कुरवः सर्वे त्वया कुरुकुलोद्वह॥ आपृच्छे त्वां गमिष्यामि पूजितोऽस्मि विशाम्पते। एवमुक्तः स कृष्णेन धर्मराजो युधिष्ठिरः॥ अभिवाद्योपसंगृह्य पितामहमथाब्रवीत्। युधिष्ठिर उवाच संशयो द्विपदां श्रेष्ठ ममोत्पन्नः सुदुर्लभः॥ तस्य नान्योऽस्ति वक्ता वै त्वामृते द्विजपुङ्गव। उत्पातांस्त्रिविधान् प्राह नारदो भगवानृषिः॥ दिव्यांश्चैवान्तरिक्षांश्च पार्थिवांश्च पितामह। अपि चैद्यस्य पतनाच्छन्नमौत्पातिकं महत्॥ वैशम्पायन उवाच राज्ञस्तु वचनं श्रुत्वा पराशरसुतः प्रभुः। कृष्णद्वैपायनो व्यास इदं वचनमब्रवीत्॥ त्रयोदश समा राजन्नुत्पातानां फलं महत्। सर्वक्षत्रविनाशाय भविष्यति विशाम्पते॥ त्वामेकं कारणं कृत्वा कालेन भरतर्षभ। समेतं पार्थिवं क्षत्रं क्षयं यास्यति भारत। दुर्योधनापराधेन भीमार्जुनबलेन च॥ स्वप्ने द्रक्ष्यसि राजेन्द्र क्षपान्ते त्वं वृषध्वजम्। नीलकण्दं भवं स्थाणुं कपालं त्रिपुरान्तकम्॥ उग्रं रुद्रं पशुपति महादेवमुमापतिम्। हरं शर्वं वृषं शूलं पिनाकिं कृत्तिवाससम्॥ कैलासकूटप्रतिमं वृषभेऽवस्थितं शिवम्। निरीक्षमाणं सततं पितृराजाश्रितां दिशम्॥ एवमीदृशकं स्वप्नं द्रक्ष्यसि त्वं विशाम्पते। मा तत्कृते ह्यनुध्याहि कालो हि दुरतिक्रमः॥ स्वस्ति तेऽस्तु गमिष्यामि कैलास पर्वतं प्रति। अप्रमत्तः स्थितो दान्तः पृथिवीं परिपालय॥ वैशम्पायन उवाच एवमुक्त्वा स भगवान् कैलासं पर्वतं ययौ। कृष्णद्वैपायनो व्यासः सह शिष्यैः श्रुतानुगैः॥ गते पितामह राजा चिन्ताशोकसमन्वितः। निःश्वसन्नुष्णमसकृत् तमेवार्थं विचिन्तयन्॥ कथं तु दैवं शक्येत पौरुषेण प्रबाधितुम्। अवश्यमेव भविता यदुक्तं परमर्षिणा॥ ततोऽब्रवीन्महातेजाः सर्वान् भ्रातृन् युधिष्ठिरः। श्रुतं वै पुरुषव्याघ्रा यन्मां द्वैपायनोऽब्रवीत्॥ तदा तद्वचनं श्रुत्वा मरणे निश्चिता मतिः। सर्वक्षत्रस्य निधने यद्यहं हेतुरीप्सितः॥ कालेन निर्मितस्तात को ममार्थोऽस्ति जीवतः। एवं ब्रुवन्तं राजानं फाल्गुनः प्रत्यभाषत।॥ मा राजन् कश्मलं घोरं प्रविशो बुद्धिनाशनम्। सम्प्रधार्य महाराज यत् क्षेमं तत् समाचर॥ ततोऽब्रवीत् सत्यधृतिर्धातॄन् सर्वान् युधिष्ठिरः। द्वैपायनस्य वचनं ह्येवं समनुचिन्तयन्॥ अद्यप्रभृति भद्रं वः प्रतिज्ञां मे निबोधत। त्रयोदश समास्तात को ममार्थोऽस्ति जीवतः॥ न प्रवक्ष्यामि परुषं भ्रातृनन्यांश्च पार्थिवान्। स्थितो निदेशे ज्ञातीनां योक्ष्ये तत् समुदाहरन्॥ एवं मे वर्तमानस्य स्वसुतेष्वितरेषु च। भेदो न भविता लोके भेदमूलो हि विग्रहः॥ विग्रहं दूरतो रक्षन् प्रियाण्येव समाचरन्। वाच्यतां न गमिष्यामि लोकेषु मनुजर्षभाः॥ भ्रातुर्येष्ठस्य वचनं पाण्डवाः संनिशम्य तत्। तमेव समवर्तन्त धर्मराजहिते रताः॥ संसत्सु समयं कृत्वा धर्मराड् भ्रातृभिः सह। पितॄस्तर्प्य यथान्यायं देवताश्च विशाम्पते॥ कृतमङ्गलकल्याणो भ्रातृभिः परिवारितः। गतेषु क्षत्रियेन्द्रेषु सर्वेषु भरतर्षभ॥ युधिष्ठिरः सहामात्यः प्रविवेश पुरोत्तमम्। दुर्योधनो महाराज शकुनिश्चापि सौबलः। सभायां रमणीयायां तत्रैवास्ते नराधिप॥ वैशम्पायन उवाच वसन् दुर्योधनस्तस्यां सभायां पुरुषर्षभ। शनैर्ददर्श तां सर्वां सभां शकुनिना सह॥ तस्यां दिव्यानभिप्रायान् ददर्श कुरुनन्दनः। न दृष्टपूर्वा ये तेन नगरे नागसाह्वये॥ स कदाचित् सभामध्ये धार्तराष्ट्रो महीपतिः। स्फाटिकं स्थलमासाद्य जलमित्यभिशङ्कया॥ स्ववस्त्रोत्कर्षणं राजा कृतवान् बुद्धिमोहितः। दुर्मना विमुखश्चैव परिचक्राम तां सभाम्॥ ततः स्थले निपतितो दुर्मना वीडितो नृपः। निःश्वसन् विमुखश्चापि परिचक्राम तां सभाम्॥ ततः स्फाटिकतोयां वै स्फाटिकाम्बुजशोभिताम्। वापी मत्वा स्थलमिव सवासाः प्रापतज्जले॥ जले निपतितं दृष्ट्वा भीमसेनो महाबलः। जहास जहसुश्चैव किंकराश्च सुयोधनम्॥ वासांसि च शुभान्यस्मै प्रददू राजशासनात्। तथागतं तु तं दृष्ट्वा भीमसेनो महाबलः॥ अर्जुनश्च यमौ चोभौ सर्वे ते प्राहसंस्तदा। नामर्षयत् ततस्तेषामवहासममर्षणः॥ आकारं रक्षमाणस्तु न स तान् समुदैक्षत। पुनर्वसनमुत्क्षिप्य प्रतरिष्यन्निव स्थलम्॥ आरुरोह ततः सर्वे जहसुश्च पुनर्जनाः। द्वारं तु पिहिताकारं स्फाटिकं प्रेक्ष्य भूमिपः। प्रविशन्नाहतो मूनि व्याघूर्णित इव स्थितः॥ तादृशं न परं द्वारं स्फाटिकोरुकपाटकम्। विघट्टयन् कराभ्यां तु निष्क्रम्याग्रे पपात ह॥ द्वारं तु वितताकारं समापेदे पुनश्च सः। तद्वत्तं चेति मन्वानो द्वारस्थानादुपारमत्॥ एवं प्रलम्भान् विविधान् प्राप्य तत्र विशाम्पते। पाण्डवेयाभ्यनुज्ञातस्ततो दुर्योधनो नृपः॥ अप्रहृष्टेन मनसा राजसूये महाक्रतौ। प्रेक्ष्य तामद्धतामृद्धिं जगाम गजसाह्वयम्॥ पाण्डवश्रीप्रतप्तस्य ध्यायमानस्य गच्छतः। दुर्योधनस्य नृपतेः पापा मतिरजायत॥ पार्थान् सुमनसो दृष्ट्वा पार्थिवांश्च वशानुगान्। कृत्स्नं चापि हितं लोकमाकुमारं कुरूद्वह॥ महिमानं परं चापि पाण्डवानां महात्मनाम्। दुर्योधनो धार्तराष्ट्रो विवर्णः समपद्यत॥ स तु गच्छन्ननेकाग्रः सभामेकोऽन्वचिन्तयत्। श्रियं च तामनुपमां धर्मराजस्य धीमतः॥ प्रमत्तो धृतराष्ट्रस्य पुत्रो दुर्योधनस्तदा। नाभ्यभाषत् सुबलजं भाषमाणं पुनः पुनः॥ अनेकाग्रं तु तं दृष्ट्वा शकुनिः प्रत्यभाषत। दुर्योधन कुतोमूलं निःश्वसनिव गच्छसि॥ दुर्योधन उवाच दृष्ट्वेमां पृथिवीं कृत्स्नां युधिष्ठिरवशानुगाम्। जितामस्त्रप्रतापेन श्वेताश्वस्य महात्मनः॥ तं च यज्ञं तथाभूतं दृष्ट्वा पार्थस्य मातुला यथा शक्रस्य देवेषु तथाभूतं महाद्युतेः॥ अमर्षेण तु सम्पूर्णो दह्यमानो दिवानिशम्। शुचिशुक्रागमे काले शुष्येत् तोयमिवाल्पकम्॥ पश्य सात्वतमुख्येन शिशुपालो निपातितः। न च तत्र पुमानासीत् कश्चित् तस्य पदानुगः॥ दह्यमाना हि राजानः पाण्डवोत्थेन वह्निना। क्षान्तवन्तोऽपराधं ते को हि तत् क्षन्तुमर्हति॥ वासुदेवेन तत् कर्म यथायुक्तं महत् कृतम्। सिद्धं च पाण्डुपुत्राणां प्रतापेन महात्मनाम्॥ तथा हि रत्नान्यादाय विविधानि नृपा नृपम्। उपातिष्ठन्त कौन्तेयं वैश्या इव करप्रदाः॥ श्रियं तथाऽऽगतां दृष्ट्वा ज्वलन्तीमिव पाण्डवे। अमर्षवशमापन्नो दह्यामि न तथोचितः॥ एवं स निश्चयं कृत्वा ततो वचनमब्रवीत्। पुनर्गान्धारनृपतिं दह्यमान इवाग्निना॥ वह्निमेव प्रवक्ष्यामि भक्षयिष्यामि वा विषम्। अपो वापि प्रवेक्ष्यामि न हि शक्ष्यामि जीवितुम्॥ को हि नाम पुमाँल्लोके मर्पयिष्यति सत्त्ववान्। सपत्नानृङ्ख्यतो दृष्ट्वा हीनमात्मामेव च॥ सोऽहं न स्त्री न चाप्यस्त्री न पुमान्नापुमानपि। योऽहं तां मर्षयाम्यद्य तादृशीं श्रियमागताम्॥ ईश्वरत्वं पृथिव्याश्च वसुमत्तां च तादृशीम्। यज्ञं च तादृशं दृष्ट्वा मादृशः को न संज्वरेत्॥ अशक्तश्चैव एवाहं तामाहर्तुं नृपश्रियम्। सहायांश्च न पश्यामि तेन मृत्यु विचिन्तये॥ दैवमेव परं मन्ये पौरुषं च निरर्थकम्। दृष्ट्वा कुन्तीसुते शुद्धां श्रियं तामहतां तथा॥ कृतो यत्नो मया पूर्वं विनाशे तस्य सौबल। तच्च सर्वमतिक्रम्य संवृद्धोऽप्स्विव पङ्कजम्॥ तेन दैवं परं मन्ये पौरुषं च निरर्थकम्। धार्तराष्ट्राश्च हीयन्ते पार्था वर्धन्ति नित्यशः॥ सोऽहं श्रियं च तां दृष्ट्वा सभां तां च तथाविधाम्। रक्षिभिश्चावहासं तं परितप्ये यथाग्निना॥ स मामभ्यनुजामीहि मातुलाद्य सुदुःखितम्। अमर्षं च समाविष्टं धृतराष्ट्र निवेदय॥ शकुनिरुवाच दुर्योधन न तेऽमर्षः कार्यः प्रति युधिष्ठिरम्। भागधेयानि हि स्वानि पाण्डवा भुञ्जते सदा॥ विधानं विविधाकारं परं तेषां विधानत: । अनेकैरभ्युपायैश्च त्वया न शकिताः पुरा॥ आरब्धाश्च महाराज पुनः पुनरिंदम। विमुक्ताश्च नरव्याघ्रा भागधेयपुरस्कृताः॥ तैर्लब्धा द्रौपदी भार्या द्रुपदश्च सुतैः सह। सहायः पृथिवीलाभे वासुदेवश्च वीर्यवान्॥ लब्धश्चानभिभूतार्थैः पित्र्योंऽशः पृथिवीपते। विवृद्धस्तेजसा तेषां तत्र का परिदेवना॥ धनञ्जयेन गाण्डीवमक्षय्यौ च महेषुधी। लब्धान्यस्त्राणि दिव्यानि तोषयित्वा हुताशनम्॥ तेन कार्मुकमुख्येन बाहुवीर्येण चात्मनः। कृता वशे महीपालास्तत्र का परिदेवना॥ अग्निदाहान्मयं चापि मोक्षयित्वा स दानवम्। सभां तां कारयामास सव्यसाची परंतपः॥ तेन चैव मयेनोक्ताः किंकरा नाम राक्षसाः। वहन्ति तां सभां भीमास्तत्र का परिदेवना॥ यच्चासहायतां राजन्नुक्तवानसि भारत। तन्मिथा भ्रातरो हीमे तव सर्वे वशानुगा॥ द्रोणस्तव महेष्वासः सह पुत्रेण वीर्यवान्। सूतपुत्रश्च राधेयो गौतमश्च महारथः॥ अहं च सह सोदर्यैः सौमदत्तिश्च पार्थिवः। एतैस्त्वं सहितः सर्वैर्जय कृत्स्ना वसुन्धराम्॥ दुर्योधन उवाच त्वया च सहितो राजन्नेतैश्चान्यैर्महारथैः। एतानेव विजेष्यामि यदि त्वमनुमन्यसे॥ एतेषु विजितेष्वद्य भविष्यति मही मम। सर्वे च पृथिवीपालाः सभा सा च महाधना॥ शकुनिरुवाच धनंजयो वासुदेवो भीमसेनो युधिष्ठिरः। नकुलः सहदेवश्च दुपदश्च सहात्मजैः॥ नैते युधि पराजेतुं शक्या देवगणैरपि। महारथा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः॥ अहं तु तद् विजानामि विजेतुं येन शक्यते। युधिष्ठिरं स्वयं राजंस्तन्निबोध जुषस्व च॥ दुर्योधन उवाच अप्रमादेन सुहृदामन्येषां च महात्मनाम्। यदि शक्या विजेतुं ते तन्ममाचक्ष्व मातुल॥ शकुनिरुवाच द्यूतप्रियश्च कौन्तेयो न स जानाति देवितुम्। समाहूतश्च राजेन्द्रो न शक्ष्यति निवर्तितुम्॥ देवने कुशलश्चाहं न मेऽस्ति सदृशो भुवि। त्रिषु लोकेषु कौरव्य तं त्वं द्यूते समाह्वय॥ तस्याक्षकुशलो राजन्नादास्येऽहमसंशयम्। राज्यं श्रियं च तां दीप्तां त्वदर्थं पुरुषर्षभ॥ इदं तु सर्वं त्वं राज्ञे दुर्योधन निवेदय। अनुज्ञातस्तु ते पित्रा विजेष्ये तान् न संशयः॥ दुर्योधन उवाच त्वमेव कुरुमुख्याय धृतराष्ट्राय सौबल। निवेदय यथान्यायं नाहं शक्ष्ये निवेदितुम्॥ वैशम्पायन उवाच अनुभूय तु राज्ञस्तं राजसूयं महाक्रतुम्। युधिष्ठिरस्य नृपतेर्गान्धारीपुत्रसंयुतः॥ प्रियकृन्मतमाज्ञाय पूर्वं दुर्योधनस्य तत्। प्रज्ञाचक्षुषमासीनं शकुनिः सौबलस्तदा।॥ दुर्योधनवचः श्रुत्वा धृतराष्ट्रं जनाधिपम्। उपगम्य महाप्राज्ञं शकुनिर्वाक्यमब्रवीत्॥ शकुनिरुवाच दुर्योधनो महाराज विवर्णो हरिणः कृशः। दीनश्चिन्तापरचैव तं विद्धि मनुजाधिप॥ न वै परीक्षसे सम्यगसह्यं शत्रुसम्भवम्। ज्येष्ठपुत्रस्य हृच्छोकं किमर्थं नावबुध्यसे॥ धृतराष्ट्र उवाच दुर्योधन कुतोमूलं भृशमार्तोऽसि पुत्रक। श्रोतव्यश्चन्मया सोऽर्थो ब्रूहि मे कुरुनन्दन॥ अयं त्वां शकुनिः प्राह विवर्णं हरिणं कृशम्। चिन्तयंश्च न पश्यामि शोकस्य तव सम्भवम्॥ ऐश्वर्यं हि महत् पुत्र त्वयि सर्वं प्रतिष्ठितम्। भ्रातरः सुहृदश्चैव नाचरन्ति तवाप्रियम्॥ आच्छादयसि प्रावारानश्नासि विशदौदनम्। आजानेया वहन्त्यश्वाः केनासि हरिणः कृशः॥ शयनानि महार्हाणि योषितश्च मनोरमाः। गुणवन्ति च वेश्मानि विहाराश्च यथासुखम्॥ देवानामिव ते सर्वं वाचि बुद्धं न संशयः। स दीन इव दुर्धर्ष कस्माच्छोचसि पुत्रकः॥ दुर्योधन उवाच अश्नाम्याच्छादये चाहं यथा कुपुरुषस्तथा। अमर्षं धारये चोग्रं निनिषुः कालपर्ययम्॥ अमर्षण: स्वाः प्रकृतीरभिभूयः परं स्थितः। क्लेशान् मुमुक्षुः परजान् स वै पुरुष उच्यते॥ संतोषो वै श्रियं हन्ति हभिमानं च भारत। अनुक्रोशभये चोभे यैर्वृतो नाश्नुते महत्॥ न मां प्रीणाति मद्भुक्तं श्रियं दृष्ट्वा युधिष्ठिरे। अति ज्वलन्तीं कौन्तेये विवर्णकरणी मम॥ सपत्नानृध्यतोऽऽत्मानं हीयमानं निशम्य च । अदृश्यामपि कौन्तेयश्रियं पश्यन्निवोद्यताम्॥ तस्मादहं विवर्णश्च दीनश्च हरिणः कृशः। अष्टाशीतिसहस्राणि सातका गृहमेधिनः॥ त्रिंशदासीक एकैको यान् बिभर्ति युधिष्ठिरः। दशान्यानि सहस्राणि नित्यं तत्रानमुत्तमम्। भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने॥ कदलीमृगमोकानि कृष्णश्यामारुणानि च। काम्बोजः प्राहिणोत् तस्मै परार्ध्यानपि कम्बलान्। गजयोषिद्गवाश्वस्य शतशोऽथ सहस्रशः॥ त्रिशतं चोष्ट्रवामीनां शतानि विचरन्त्युत। राजन्या बलिमादाय समेता हि नृपक्षये॥ पृथग्विधानि रत्नानि पार्थिवाः पृथिवीपते। आहरन् ऋतुमुख्येऽस्मिन् कुन्तीपुत्राय भूरिशः॥ न क्वचिद्धि मया तादृग् दृष्टपूर्वो न च श्रुतः। यादृग् धनागमो यज्ञे पाण्डुपुत्रस्य धीमतः॥ अपर्यन्तं धनौघं तं दृष्ट्वा शत्रोरहं नृपा शमं नैवाभिगच्छामि चिन्तयानो विशाम्पते।॥ ब्राह्मणा वाटधानाश्च गोमन्तः शतसङ्घशः। त्रिखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः॥ कमण्डलूनुपादाय जातरूपमयाञ्छुभान्। एतद् धनं समादाय प्रवेशं लेभिरे न च॥ यथैव मधु शक्राय धारयन्त्यमरस्त्रियः। तदस्मै कांस्यमाहार्षीद् वारुणं कलशोदधिः॥ शैक्यं रुक्मसहस्रस्य बहुरत्नविभूषितम्। शङ्खप्रवरमादाय वासुदेवोऽभिषिक्तवान्॥ दृष्ट्वा च मम तत् सर्वं ज्वररूपमिवाभवत्। गृहीत्वा तत् तु गच्छन्ति समुद्रौ पूर्वदक्षिणौ॥ तथैव पश्चिमं यान्ति गृहीत्वा भरतर्षभ। उत्तरं तु न गच्छन्ति विना तात पतत्रिणः॥ तत्र गत्वार्जुनो दण्डमाजहारामितं धनम्। इदं चाद्भुतमत्रासीत् तन्मे निगदतः शृणु॥ पूर्णे शतसहस्रे तु विप्राणां परिविष्यताम्। स्थापिता तत्र संज्ञाभूच्छलो ध्मायति नित्यशः॥ मुहुर्मुहुः प्रणदतस्तस्य शङ्खस्य भारत। अनिशं शब्दमश्रौषं ततो रोमाणि मेऽहषन्॥ पार्थिवैर्बहुभिः कीर्णमुपस्थानं दिदृक्षुभिः। अशोभत महाराज नक्षत्रै?रिवामला॥ सर्वरत्नान्युपादाय पार्थिवा वै जनेश्वर। यज्ञे तस्य महाराज पाण्डुपुत्रस्य धीमतः॥ वैश्या इव महीपाला द्विजातिपरिवेषकाः। न सा श्रीर्देवराजस्य यमस्य वरुणस्य च। गुह्यकाधिपतेर्वापि या श्री राजन् युधिष्ठिरे॥ तां दृष्ट्वा पाण्डुपुत्रस्य श्रियं परमिकामहम्। शान्ति न परिगच्छामि दह्यमानेन चेतसा॥ शकुनिरुवाच यामेतामतुलां लक्ष्मी दृष्टवानसि पाण्डवे। तस्याः प्राप्तावुपायं मे शृणु सत्यपराक्रम॥ अहमक्षेष्वभिज्ञातः पृथिव्यामपि भारत। हृदयज्ञः पणज्ञश्च विशेषज्ञश्च देवने॥ द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम्। आहूतश्चैष्यति व्यक्तं द्यूतादपि रणादपि॥ नियतं तं विजेष्यामि कृत्वा तु कपटं विभो। आनयामि समृद्धिं तां दिव्यां चोपाह्वयस्व तम्॥ वैशम्पायन उवाच एवमुक्तः शकुनिना राजा दुर्योधनस्ततः। धृतराष्ट्रमिदं वाक्यमपदान्तरमब्रवीत्॥ अयमुत्सहते राजच्छियमाहर्तुमक्षवित्। द्यूतेन पाण्डुपुत्रस्य तदनुज्ञातुमर्हसि॥ . धृतराष्ट्र उवाच क्षत्ता मन्त्री महाप्राज्ञः स्थितो यस्यास्मि शासने। तेन संगम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम्॥ स हि धर्मं पुरस्कृत्य दीर्घदर्शी परं हितम्। उभयोः पक्षयोर्युक्तं वक्ष्यत्यर्थविनिश्चयम्॥ दुर्योधन उवाच निवर्तयिष्यति त्वासौ यदि क्षत्ता समेष्यति। निवृत्ते त्वयि राजेन्द्र मरिष्येऽहमसंशयम्॥ स त्वं मयि मृते राजन् विदुरेण सुखी भव। भोक्ष्यसे पृथिीं कृत्स्ना किं मया त्वं करिष्यसि॥ वैशम्पायन उवाच आर्तवाक्यं तु तत् तस्य प्रणयोक्तं निशम्य सः। धृतराष्ट्रोऽब्रवीत् प्रेष्यान् दुर्योधनमते स्थितः॥ स्थूणासहस्रैर्वृहतीं शतद्वारा सभां मम। मनोरमां दर्शनीयामाशु कुर्वन्तु शिल्पिनः॥ ततः संस्तीर्य रत्नस्तां तक्ष्ण आनाय्य सर्वशः। सुकृतां सुप्रवेशां च निवेदयत मे शनैः॥ दुर्योधनस्य शान्त्यर्थमिति निश्चित्य भूमिपः। धृतराष्ट्रो महाराज प्राहिणोद् विदुराय वै॥ अपृष्ट्वा विदुरं स्वस्य नासीत् कश्चिद् विनिश्चयः। द्यूते दोषांश्च जानन् स पुत्रस्नेहादकृष्यत॥ तच्छ्रुत्वा विदुरो धीमान् कलिद्वामुपस्थितम्। विनाशमुखमुत्पन्नं धृतराष्ट्रमुपाद्रवत्॥ सोऽभिगम्य महात्मानं भ्राता भ्रातरमग्रजम्। मूर्धा प्रणम्य चरणाविदं वचनमब्रवीत्॥ विदुर उवाच नाभिनन्दामि ते राजन् व्यवसायमिमं प्रभो। पुत्रैर्भेदो यथा न स्याद् द्यूतहेतोस्तथा कुरु॥ धृतराष्ट्र उवाच क्षत्तः पुत्रेषु पुत्रैर्मे कलहो न भविष्यति। यदि देवाः प्रसादं नः करिष्यन्ति न संशयः॥ अशुभं वा शुभं वापि हितं वा यदि वाहितम्। प्रवर्ततां सुहृद्यूतं दिष्टमेतन्न संशयः॥ मयि संनिहिते द्रोणे भीष्मे त्वयि च भारत। अनयो दैवविहितो न कथंचिद् भविष्यति॥ गच्छ त्वं रथमास्थाय हयैर्वातसमैर्जवे। खाण्डवप्रस्थमद्यैव समानय युधिष्ठिरम्॥ न वाच्यो व्यवसायो मे विदुरैतद् ब्रवीमि ते। दैवमेव परं मन्ये येनैतदुपपद्यते॥ इत्युक्तो विदुरो धीमान् नेदमस्तीति चिन्तयन्। आपगेयं महाप्राज्ञमभ्यगच्छत् सुदुःखितः॥ दुर्योधन उवाच यन्मया पाण्डवेयानां दृष्टं तच्छृणु भारत। आहृतं भूमिपालैहि वसु मुख्यं ततस्ततः॥ नाविदं मूढमात्मानं दृष्ट्वाहं तदरेर्धनम्। फलतो भूमितो वापि प्रतिपद्यस्व भारत॥ और्णान् बैलान् वार्षदंशाञ्जातरूपपरिष्कृतान्। प्रावाराजिनमुख्यांश्च काम्बोजः प्रददौ बहून्॥ अश्वांस्तित्तिरिकल्माषांस्त्रिशतं शुकनासिकान्। उष्ट्रवामीस्त्रिंशतं च पुष्टाः पीलुशमीीङ्गुदैः॥ गोवासना ब्राह्मणाश्च दासनीयाश्च सर्वशः। प्रीत्यर्थं ते महाराज धर्मराज्ञो महात्मनः॥ त्रिखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः। ब्राह्मणा वाटधानाच गोमन्तः शतसङ्घशः॥ कमण्डलूनुपादाय जातरूपमयाञ्छुभान्। एवं बलिं समादाय प्रवेशं लेभिरे न च॥ शतं दासीसहस्राणां कासिकनिवासिनाम्॥ श्यामास्तन्व्यो दीर्घकेश्यो हेमाभरणभूषिताः। शूद्रा विप्रोत्तमाएणि राङ्कवाण्यजिनानि च॥ बलिं च कृत्स्नमादाय भरुकच्छनिवासिनः। उपनिन्युर्महाराज हयान् गान्धारदेशजान्॥ इन्द्रकृष्टैर्वतयन्ति धान्यैर्ये च नदीमुखैः। समुद्रनिष्कुटे जाताः पारेसिन्धु च मानवाः॥ ते वैरामां: पारदाश्च आभीराः कितवैः सह। विविधं बलिमादाय रत्नानि विविधानि च॥ अजाविकं गोहिरण्यं खरोष्ट्र फलजं मधु। कम्बलान् विविधांश्चैव द्वारि तिष्ठन्ति वारिताः॥ प्राग्ज्योतिषाधिपः शूरो म्लेच्छानामधिपो बली। यवनैः सहितो राजा भगदत्तो महारथः॥ आजानेयान् हयाञ्छीघ्रानादायानिलरंहसः। बलिं च कृत्स्नमादाय द्वारि तिष्ठति वारितः॥ अश्मसारमयं भाण्डं शुद्धदन्तत्सरूनसीन्। प्राग्ज्योतिषाधिपो दत्त्वा भगदत्तोऽव्रजत् तदा॥ व्यक्षांस्त्र्यक्षाल्ललाटाक्षान् नानादिग्भ्यः समागतान् औष्णीकानन्तवासांश्च रोमकान् पुरुषादकान्॥ एकपादांश्च तत्राहमपश्यं द्वारि वारितान्। राजानो बलिमादाय नानावर्णाननेकशः॥ कृष्णग्रीवान् महाकायान् रासभान् दूरपातिनः। आजहुर्दशसाहस्रान् विनीतान् दिक्षु विश्रुतान्॥ प्रमाणरागसम्पन्नान् वक्षुतीरसमुद्भवान्। बल्यर्थं ददतस्तस्मै हिरण्यं रजतं बहु॥ दत्त्वा प्रवेशं प्राप्तास्ते युधिष्ठिरनिवेशने। इन्द्रगोपकवर्णाभाञ्छुकवर्णान् मनोजवान्॥ तथैवेन्द्रायुधनिभान् संध्याभ्रसदृशानपि। अनेकवर्णानारण्यान् गृहीत्वाश्वान् महाजवान्॥ जातरूपमनर्घ्यं च ददुस्तस्यैकपादकाः। चीनाञ्छकांस्तथा चौड्रान् बर्बरान् वनवासिनः॥ वार्ष्णेयान् हारहूणांश्च कृष्णान् हैमवतांस्तथा। नीपानूपानधिगतान् विविधान् द्वारवारितान्॥ बल्यर्थं ददतस्तस्य नानारूपाननेकशः। कृष्णग्रीवान् महाकायान् रासभाञ्छतपातिनः। अहार्पर्दशसाहस्रान् विनीतान् दिक्षु विश्रुतान्॥ प्रमाणरागस्पर्शाढ्यं बाल्हीचीनसमुद्भवम्। और्णं च राङ्कवं चैव कीटजं पट्टजं तथा॥ कुटीकृतं तथैवात्र कमलाभं सहस्रशः। श्लक्ष्णं वस्त्रमकार्पासमाविकं मृदु चाजिनम्॥ निशितांश्चैव दीर्घासीनृष्टिशक्तिपरश्वधान्। अपरान्तसमुद्भूतांस्तथैव परशूञ्छितान्॥ रसान् गन्धांश्च विविधान् रत्नानि च सहस्रशः। बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः॥ शकास्तुषाराः कङ्काश्च रोमशाः शृङ्गिणो नराः। महागजान् दूरगमान् गणितानर्बुदान् हयान्॥ शतशश्चैव बहुशः सुवर्णं पद्मसम्मितम्। बलिमादाय विविधं द्वारि तिष्ठन्ति वारिताः॥ आसनानि महार्हाणि यानानि शयनानि च। मणिकाञ्चनचित्राणि गजदन्तमयानि च॥ कवचानि विचित्राणि शस्त्राणि विविधानि च। रथांश्च विविधाकाराञ्जातरूपपरिष्कृतान्॥ हयैर्विनीतैः सम्पन्नान् वैयाघ्रपरिवारितान्। विचित्रांश्च परिस्तोमान् रत्नानि विविधानि च॥ नाराचानर्धनाराचाज्छस्त्राणि विविधानि च। एतद् दत्त्वा महद् द्रव्यं पूर्वदेशाधिपा नृपाः। प्रविष्टा यज्ञसदनं पाण्डवस्य महात्मनः॥ दुर्योधन उवाच दायं तु विविधं तस्मै शृणु मे गदतोऽनघ। यज्ञार्थं राजभिर्दत्तं महान्तं धनसंचयम्॥ मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम्। ये ते कीचकवेणूनां छायां रम्यामुपासते॥ खसा एकासना ह्यर्हाः प्रदरा दीर्घवेणवः। पारदाश्च कुलिन्दाश्च तङ्गणाः परतङ्गणाः॥ तद् वै पिपीलिकं नाम उद्धृतं यत् पिपीलिकैः। जातरूपं द्रोणमेयमहायुः पुञ्जशो नृपाः॥ कृष्णाल्ललामांश्चमराज्छुक्लांश्चान्याञ्छशिप्रभान्। हिमवत्पुष्पजं चैव स्वादु क्षौद्रं तथा बहु॥ उत्तरेभ्यः कुरुभ्यश्चाप्यपोढं माल्यमम्बुभिः। उत्तरादपि कैलासादोषधीः सुमहाबलाः॥ पर्वतीया बलिं चान्यमाहृत्य प्रणताः स्थिताः। अजातशत्रोपतेरि तिष्ठन्ति वारिताः॥ ये परार्धे हिमवतः सूर्योदयगिरौ नृपाः। कारूषे च समुद्रान्ते लौहित्यमभितश्च ये॥ फलमूलाशना ये च किराताश्चर्मवाससः। क्रूरशस्त्रा: क्रूरकृतस्तांश्च पश्याम्यहं प्रभो॥ चन्दनागुरुकाष्ठानां भारान् कालीयकस्य च। चर्मरत्नसुवर्णानां गन्धानां चैव राशयः॥ कैरातकीनामयुतं दासीनां च विशाम्पते। आहृत्य रमणीयार्थान् दूरजान् मृगपक्षिणः॥ निचितं पर्वतेभ्यश्च हिरण्यं भूरिवर्चसम्। बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः॥ कैराता दरदा दर्वाः शूरा वै यमकास्तथा। औदुम्बरा दुर्विभागाः पारदा बाह्निकैः सह॥ काश्मीराश्च कुमाराश्च घोरका हंसकायनाः। शिवित्रिगर्तयौधेया राजन्या भद्रकेकयाः॥ अम्बष्ठाः कौकुरास्ताा वस्त्रपाः पह्नवैः सह। वशातलाश्च मौलेयाः सह क्षुद्रकमालवैः॥ शौण्डिकाः कुकुराश्चैव शकाश्चैव विशाम्पते। अङ्गा वङ्गाश्च पुण्ड्राश्च शाणवत्या गयास्तथा॥ सुजातयः श्रेणिमन्तः श्रेयांसः शस्त्रधारिणः। अहार्षुः क्षत्रिया वित्तं शतशोऽजातशत्रवे॥ वङ्गाः कलिङ्गा मगधास्ताम्रलिप्ताः सपुण्ड्रकाः। दौवालिकाः सागरकाः पत्रोर्णाः शैशवास्तथा।॥ कर्णप्रावरणाश्चैव बहवस्तत्र भारता तत्रस्था द्वारपालैस्ते प्रोच्यन्ते राजशासनात्। कृतकालाः सुबलयस्ततो द्वारमवाप्स्यथ॥ ईषादन्तान् हेमकक्षान् पद्मवर्णान् कुथावृतान्। शैलाभान् नित्यमत्तांश्चाप्यभितः काम्यकं सरः॥ दत्त्वैकैको दश शतान् कुञ्जरान् कवचावृतान्। क्षमावन्त: कुलीनाश्च द्वारेण प्राविशंस्तदा॥ एते चान्ये च बहवो गणा दिग्भ्यः समागताः। अन्यैश्चोपाहतान्यत्र रत्नानीह महात्मभिः॥ राजा चित्ररथो नाम गन्धर्वो वासवानुगः। शतानि चत्वार्यददद्धयानां वातरंहसाम्॥ तुम्बुरुस्तु प्रमुदितो गन्धर्वो वाजिनां शतम्। आम्रपत्रसवर्णानामददाद्धेममालिनाम्॥ कृती राजा च कौरव्य शूकराणां विशाम्पते। अददाद् गजरत्नानां शतानि सुबहून्यथ॥ विराटेन तु मत्स्येन बल्यर्थं हेममालिनाम्। कुञ्जराणां सहस्रे द्वे मत्तानां समुपाहते॥ पांशुराष्ट्राद् वसुदानो राजा षड्विंशतिं गजान्। अश्वानां च सहस्र द्वे राजन् काञ्चनमालिनाम्॥ जवसत्त्वोपपन्नानां वयस्थानां नराधिप। बलिं च कृत्स्नमादाय पाण्डवेभ्यो न्यवेदयत्॥ यज्ञसेनेन दासीनां सहस्राणि चतुर्दश। दासानामयुतं चैव सदाराणां विशाम्पते। गजयुक्ता महाराज रथाः षड्विंशतिस्तथा॥ राज्यं च कृत्स्नं पार्थेभ्यो यज्ञार्थं वै निवेदितम्। वासुदेवोऽपि वार्ष्णेयो मानं कुर्वन् किरीटिनः॥ अददाद् गजमुख्यानां सहस्राणि चतुर्दश। आत्मा हि कृष्णः पार्थस्य कृष्णस्यात्मा धनंजयः॥ यद् ब्रूयादर्जुनः कृष्णं सर्वं कुर्यादसंशयम्। कृष्णो धनंजयस्यार्थे स्वर्गलोकमपि त्यजेत्॥ तथैव पार्थः कृष्णार्थे प्राणानपि परित्यजेत्। सुरभीश्चन्दनरसान् हेमकुम्भसमास्थितान्॥ मलयाद् दर्दुराच्चैव चन्दनागुरुसंचयान्। मणिरत्नानि भास्वन्ति काञ्चनं सूक्ष्मवस्त्रकम्॥ चोलपाण्ड्यावपि द्वारं न लेभाते ह्युपस्थितौ। समुद्रसारं वैदूर्यं मुक्तासङ्घांस्तथैव च॥ शतशश्च कुथांस्तत्र सिंहलाः समुपाहरन्। संवृता मणिचीरैस्तु श्यामास्ताम्रान्तलोचनाः॥ ता गृहीत्वा नरास्तत्र द्वारि तिष्ठन्ति वारिताः। प्रीत्यर्थं ब्राह्मणाचैव क्षत्रियाच विनिर्जिताः॥ उपाजहुर्विशश्चैव शूद्राः शुश्रूषवस्तथा। प्रीत्या च बहुमानाच्चाप्युपागच्छन् युधिष्ठिरम्॥ सर्वे म्लेच्छाः सर्ववर्णा आदिमध्यान्तजास्तथा। नानादेशसमुत्यैश्च नानाजातिभिरेव च॥ पर्यस्त इव लोकोऽयं युधिष्ठिरनिवेशने। उच्चावचानुपग्राहान् राजभिः प्रापितान् बहून्॥ शत्रूणां पश्यतो दुःखान्मुमूर्षा मे व्यजायत। भृत्यास्तु ये पाण्डवानां तांस्ते वक्ष्यामि पार्थिव॥ येषामामं च पक्वं च संविधत्ते युधिष्ठिरः। अयुतं त्रीणि पद्मानि गजारोहाः ससादिनः॥ रथानामर्बुदं चापि पादाता बहवस्तथा। प्रमीयमाणमामं च पच्यमानं तथैव च॥ विसृज्यमानं चान्यत्र पुण्याहस्वन एव च। नाभुक्तवन्तं नापीतं नालङ्कृतमसत्कृतम्॥ अपश्यं सर्ववर्णानां युधिष्ठिरनिवेशने। अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः॥ त्रिंशद्दासीक एकैको यान् बिभर्ति युधिष्ठिरः। सुप्रीताः परितुष्टाश्च ते ह्याशंसन्त्यरिक्षयम्॥ दशान्यानि सहस्राणि यतीनामूर्ध्वरेतसाम्। भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने॥ अभुक्तं भुक्तवद् वापि सर्वमाकुब्जवामनम्। अबुञ्जाना याज्ञसेनी प्रत्यवैक्षद् विशाम्पते॥ द्वौ करौ न प्रयच्छेतां कुन्तीपुत्राय भारत। सम्बन्धिकेन पञ्चालाः सख्येनान्धकवृष्णयः॥ दुर्योधन उवाच आर्यास्तु ये वै राजानः सत्यसंधा महाव्रताः। पर्याप्तविद्या वक्तारो वेदोक्तावभृथप्लुताः॥ धृतिमन्तो ह्रीनिषेवा धर्मात्मानो यशस्विनः। मूर्धाभिषिक्तास्ते चैनं राजानः पर्युपासते॥ दक्षिणार्थं समानीता राजभिः कांस्यदोहनाः। आरण्या बहुसाहस्रा अपश्यंस्तत्र तत्र गाः॥ आजहस्तत्र सत्कृत्य स्वयमुद्यम्य भारत। अभिषेकार्थमव्यग्रा भाण्डमुच्चावचं नृपाः॥ बाह्रीको रथमाहार्षीज्जाम्बूनदविभूषितम्। सुदक्षिणस्तु युयुजे श्वेतैः काम्बोजजैर्हयैः॥ सुनीथः प्रीतिमांश्चैव ह्यनुकर्षं महाबलः। ध्वजं चेदिपतिश्चैवमहार्षीत् स्वयमुद्यतम्॥ दाक्षिणात्यः संनहनं स्रगुष्णीषे च मागधः। वसुदानो महेष्वासो गजेन्द्रं षष्टिहायनम्॥ मत्स्यस्त्वक्षान् हेमनद्धानेकलव्य उपानहौ। आवन्त्यस्त्वभिषेकार्थमापो बहुविधास्तथा॥ चेकितान उपासङ्गे धनुः काश्य उपाहरत्। असिं च सुत्सरूं शल्यः शैक्यं काञ्चनभूषणम्॥ अभ्यषिञ्चत् ततो धौम्यो व्यासश्च सुमहातपाः। नारदं च पुरस्कृत्य देवलं चासितं मुनिम्॥ प्रीतिमन्त उपातिष्ठन्नभिषेकं महर्षयः। जामदग्न्येन सहितास्तथान्ये वेदपारगाः॥ अभिजग्मुर्महात्मानो मन्त्रवद् भूरिदक्षिणम्। महेन्द्रमिव देवेन्द्रं दिवि सप्तर्षयो यथा॥ अधारयच्छत्रमस्य सात्यकिः सत्यविक्रमः। धनंजयश्च व्यजने भीमसेनश्च पाण्डवः॥ चामरे चापि शुद्ध द्वे यमौ जगृहतुस्तथा। उपागृहणाद् यमिन्द्राय पुराकल्पे प्रजापतिः॥ तमस्मै शङ्खमाहादि वारुणं कलशोदधिः। शैक्यं निष्कसहस्रेण सुकृतं विश्वकर्मणा॥ तेनाभिषिक्तः कृष्णेन तत्र मे कश्मलोऽभवत्। गच्छन्ति पूर्वादपरं समुद्रं चापि दक्षिणम्॥ उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः। तत्र स्म दध्मुः शतशः शङ्खान् मङ्गलकारकान्॥ प्राणदन्त समाध्मातास्ततो रोमाणि मेऽहषन्। प्रापतन् भूमिपालाश्च ये तु हीनाः स्वतेजसा॥ धृष्टद्युम्नः पाण्डवाश्च सात्यकिः केशवोऽष्टमः। सत्त्वस्था वीर्यसम्पन्ना ह्यन्योन्यप्रियदर्शनाः॥ विसंज्ञान् भूमिपान् दृष्ट्वा मां च ते प्राहसंस्तदा। ततः प्रहृष्टो बीभत्सुः प्रादाद्धेमविषाणिनाम्॥ शतान्यनडुहां पञ्च द्विजमुख्येषु भारत। न रन्तिदेवो नाभागो यौवनाश्वो मनुर्न च॥ न च राजा पृथुर्वैन्यो न चाप्यासीद् भगीरथः। ययातिर्नहुषो वापि यथा राजा युधिष्ठिरः॥ यथातिमात्रं कौन्तेयः श्रिया परमया युतः। राजसूयमवाप्यैवं हरिचन्द्र इव प्रभुः॥ एतां दृष्ट्वा श्रियं पार्थे हरिचन्द्रे यथा विभो। कथं त जीवितं श्रेयो मम पश्यसि भारत॥ अन्धेनेव युगं नद्धं विपर्यस्तं नराधिप। कनीयांसो विवर्धन्ते ज्येष्ठा हीयन्त एव च।॥ एवं दृष्ट्वा नाभिविन्दामि शर्म समीक्षमाणोऽपि कुरुप्रवीर। तेनाहमेवं कृशतां गतश्च विवर्णतां चैव सशोकतां च॥ दुर्योधन उवाच यस्य नास्ति निजा प्रज्ञा केवलं तं बहुश्रुतः। न स जानाति शास्त्रार्थं दर्वी सूपरसानिव॥ जानन् वै मोहयसि मां नावि नौरिव संयता। स्वार्थे किं नावधानं ते उताहो द्वेष्टि मां भवान्॥ न सन्तीमे धार्तराष्ट्रा येषां त्वमनुशासिता। भविष्यमर्थमाख्यासि सर्वदा कृत्यमात्मनः॥ परनेयोऽग्रणीर्यस्य स मार्गान् प्रति मुह्यति। पन्थानमनुगच्छेयुः कथं तस्य पदानुगाः॥ राजन् परिणतप्रज्ञो वृद्धसेवी निजेन्द्रियः। प्रतिपन्नान् स्वकार्येषु सम्मोहयसि नो भृशम्॥ लोकवृत्ताद् राजवृत्तमन्यदाह बृहस्पतिः। तस्माद् राज्ञाप्रमत्तेन स्वार्थश्चिन्त्यः सदैव हि॥ क्षत्रियस्य महाराज जये वृत्तिः समाहिता। स वै धर्मस्त्वधर्मो वा स्ववृत्तौ का परीक्षणा॥ प्रकालयेद् दिशः सर्वाः प्रतोदेनेव सारथिः। प्रत्यमित्रश्रियं दीप्तां जिघृक्षुर्भरतर्षभ।॥ प्रच्छन्नो वा प्रकाशो वा योगो योऽरिं प्रबाधते। तद् वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं स्मृतम्॥ शत्रुश्चैव हि मित्रं च न लेख्यं न च मातृका। यो वै संतापयति यं स शत्रुः प्रोच्यते नृप॥ असंतोषः श्रियो मूलं तस्मात् तं कामयाम्यहम्। समुच्छ्रये यो यतते स राजन् परमो नयः॥ ममत्वं हि न कर्तव्यमैश्वर्ये वा धनेऽपि वा। पूर्वावाप्तं हरन्त्यन्ये राजधर्मं हि तं विदुः॥ अद्रोहसमयं कृत्वा चिच्छेद नमुचेः शिरः। शक्रः साभिमता तस्य रिपौ वृत्तिः सनातनी॥ द्वावेतौ ग्रसते भूमिः सर्पो बिलशयानिव। राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्॥ नास्ति वै जातितः शत्रुः पुरुषस्य विशाम्पते। येन साधारणी वृत्तिः स शत्रुर्नेतरो जनः॥ शत्रुपक्षं समृध्यन्तं यो मोहात् समुपेक्षते। व्याधिराज्यायित इव तस्य मूलं छिनत्ति सः॥ अल्पोऽपि शरिरत्यर्थं वर्धमानः पराक्रमैः। वल्मीको मूलज इव ग्रसते वृक्षमन्तिकात्॥ आजमीढ रिपोर्लक्ष्मीर्मा ते रोचिष्ट भारत। एष भारः सत्त्ववतां नयः शिरसि विष्ठितः॥ जन्मवृद्धिमिवार्थानां यो वृद्धिमभिकाडक्षते। एधते ज्ञातिषु स वै सद्यो वृद्धिर्हि विक्रमः॥ नाप्राप्य पाण्डवैश्वर्यं संशयो मे भविष्यति। अवाप्स्ये वा श्रियं तां हि शयिष्ये वा हतो युधि॥ एतादृशस्य किं मेऽद्य जीवितेन विशाम्पते। वर्धन्ते पाण्डवा नित्यं वयं त्वस्थिरवृद्धयः॥ शकुनिरुवाच यां त्वमेतां श्रियं दृष्ट्वा पाण्डुपुत्रे युधिष्ठिरे। तप्यसे तां हरिष्यामि द्यूतेन जयतां वर॥ आहूयतां परं राजन् कुन्तीपुत्रो युधिष्ठिरः। अगत्वा संशयमहमयुद्ध्वा च चमूमुखे॥ अक्षान् क्षिपन्नक्षतः सन् विद्धानविदुषो जये। ग्लहान् धनूंषि मे विद्धि शरानक्षांश्च भारत॥ अक्षाणां हृदयं मे ज्या रथं विद्धि ममास्तरम्॥ दुर्योधन उवाच अयमुत्सहते राजञ्छ्यिमाहर्तुमक्षवित्। द्यूतेन पाण्डुपुत्रेभ्यस्तदनुज्ञातुमर्हसि॥ धृतराष्ट्र उवाच स्थितोऽस्मि शासने भ्रातुर्विदुरस्य महात्मनः। तेन संगम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम्॥ दुर्योधन उवाच व्यपनेष्यति ते बुद्धिं विदुरो मुक्तसंशयः। पाण्डवानां हिते युक्तो न तथा मम कौरव॥ नारभेतान्यसामर्थ्यात् पुरुषः कार्यमात्मनः। मतिसाम्यं द्वयोर्नास्ति कार्येषु कुरुनन्दन॥ भयं परिहरन् मन्द आत्मानं परिपालयन्। वर्षासु क्लिन्नकटवत् तिष्ठन्नेवावसीदति॥ न व्याधयो नापि यमः प्राप्तुं श्रेयः प्रतीक्षते। यावदेव भवेत् कल्पस्तावच्छ्रेयः समाचरेत्॥ धृतराष्ट्र उवाच सर्वथा पुत्र बलिभिर्विग्रहो मे न रोचते। वैरं विकारं सृजति तद् वै शस्त्रमनायसम्॥ अनर्थमर्थं मन्यसे राजपुत्र संग्रन्थनं कलहस्याति घोरम्। तद् वै प्रवृत्तं तु तथा कथंचित् सृजेदसीन् निशितान् सायकांच॥ दुर्योधन उवाच स्तत्रात्ययो नास्ति न सम्प्रहारः। तद् रोचतां शकुनेर्वाक्यमद्य सभां क्षिप्रं त्वमिहाज्ञापयस्व॥ स्वर्गद्वारं दीव्यतां नो विशिष्टं तद्वर्तिनां चापि तथैव युक्तम्। भवेदेवं ह्यात्मना तुल्यमेव दुरोदरं पाण्डवैस्त्वं कुरुष्व॥ धृतराष्ट्र उवाच वाक्यं न मे रोचते यत् त्वयोक्तं यत् ते प्रियं तत् क्रियतां नरेन्द्र। पश्चात् तप्स्यसे तदुपाक्रम्य वाक्यं न हीदृशं भावि वचो हि धर्म्यम्॥ दृष्टं ह्येतद् विदुरेणैव सर्वं विपश्चिता बुद्धिविद्यानुगेन। तदेवैतदवशस्याभ्युपैति महद् भयं क्षत्रियजीवधाति॥ वैशम्पायन उवाच एवमुक्त्वा धृतराष्ट्रो मनीषी दैवं मत्वा परमं दुस्तरं च। शशासोच्चैः पुरुषान् पुत्रवाक्ये स्थितो राजा दैवसम्मूढचेताः॥ सहस्रस्तम्भां हेमवैदूर्यचित्रां शतद्वारां तोरणस्फाटिकाख्याम्। सभामग्यां क्रोशमात्रायतां मे तद्विस्तारामाशु कुर्वन्तु युक्ताः॥ श्रुत्वा तस्य त्वरिता निर्विशङ्काः प्राज्ञा दक्षास्तां तदा चक्रुराशु। सर्वद्रव्याण्युपजह्वः सभायां सहस्रशः शिल्पिनश्चैव युक्ताः॥ कालेनाल्पेनाथ निष्ठां गतां तां सभां रम्यां बहुरत्नां विचित्राम्। माचख्युस्ते तस्य राज्ञः प्रतीताः॥ मुवाचेदं धृतराष्ट्रो नरेन्द्रः। युधिष्ठिरं राजपुत्रं च गत्वा मद्वाक्येन क्षिप्रमिहानयस्व॥ सभेयं मे बहुरत्ना विचित्रा शय्यासनैरुपपन्ना महाहैः। सा दृश्यतां भ्रातृभिः सार्धमेत्य सुहृद्यूतं वर्ततामत्र चेति॥ :। वैशम्पायन उवाच महाजवैर्बलिभिः साधुदान्तैः। बलान्नियुक्तो धृतराष्ट्रेण राज्ञा मनीषिणां पाण्डवानां सकाशे॥ सोऽभिपत्य तदध्वानमासाद्य नृपतेः पुरम्। प्रविवेश महाबुद्धिः पूज्यमानो द्विजातिभिः॥ स राजगृहमासाद्य कुबेरभवनोपमम्। अभ्यगच्छत धर्मात्मा धर्मपुत्रं युधिष्ठिरम्॥ तं वै राजा सत्यधृतिर्महात्मा अजातशत्रुर्विदुरं यथावत्। स्ततोऽपृच्छद् धृतराष्ट्र सपुत्रम्॥ युधिष्ठिर उवाच विज्ञायते ते मनसोऽप्रहर्षः कच्चित् क्षत्तः कुशलेनागतोऽसि। कच्चित् पुत्राः स्थविरस्यानुलोमा वशानुगाश्चापि विशोऽथ कच्चित्॥ विदुर उवाच राजा महात्मा कुशलौ सपुत्र आस्ते वृतो ज्ञातिभिरिन्द्रकल्पः। विशोक एवात्मरतिर्महात्मा।॥ इदं तु त्वां कुरुराजोऽभ्युवाच पूर्वं पृष्ट्वा कुशलं चाव्ययं च। इयं सभा त्वत्सभातुल्यरूपा भ्रातृणां ते दृश्यतामेत्य पुत्र॥ समागम्य भ्रातृभिः पार्थ तस्यां सुहृद्यूतं क्रियतां रम्यतां च। प्रीयामहे भवतां संगमेन समागताः कुरवश्चापि सर्वे॥ दुरोदरा विहिता ये तु तत्र महात्मना धृतराष्ट्रेण राज्ञा। नित्यागतोऽहं नृपते तज्जुषस्व॥ युधिष्ठिर उवाच द्यूते क्षत्तः कलहो विद्यते नः को वै द्यूतं रोचयेद् बुध्यमानः। किं वा भवान् मन्यते युक्तरूपं भवद्वाक्ये सर्व एव स्थिताः स्म॥॥ विदुर उवाच जानाम्यहं द्यूतमनर्थमूलं कृतश्च यत्नोऽस्य मया निवारणे। राजा च मां प्राहिणोत् त्वत्सकाशं श्रुत्वा विद्वच्छ्रेय इहाचरस्व॥ युधिष्ठिर उवाच के तत्रान्ये कितवा दीव्यमाना विना राज्ञो धृतराष्ट्रस्य पुत्रैः। पृच्छामि त्वां विदुर ब्रूहि न स्तान् यैर्दीव्यामः शतशः संनिपत्य॥ विदुर उवाच गान्धारराजः शकुनिर्विशाम्पते। राजातिदेवी कृतहस्तो मताक्षः। विविंशतिश्चित्रसेनश्च राजा सत्यव्रतः पुरुमित्रो जयश्च॥ युधिष्ठिर उवाच महाभयाः कितवाः संनिविष्टा मायोपधा देवितारोऽत्र सन्ति। धात्रा तु दिष्टस्य वशे किलेदं सर्वं जगत् तिष्ठति न स्वतन्त्रतम्॥ त्र गन्तुमिच्छामि कवे दुरोदरम्। इष्टो हि पुत्रस्य पिता सदैव तदस्मि कर्ता विदुरात्थ मां यथा॥ न चाकाम: शकुनिना देविताहं न चेन्मां जिष्णुराहयिता सभायाम्। आहूतोऽहं न निवर्ते कदाचित् तदाहितं शाश्वतं वै व्रतं मे॥ वैशम्पायन उवाच एवमुक्त्वा विदुरं धर्मराजः प्रायात्रिकं सर्वमाज्ञाप्य तूर्णम्। प्रायाच्छ्वोभूते सगणः सानुयात्रः सह स्त्रीभिद्रौपदीमादि कृत्वा॥ दैवं हि प्रज्ञां मुष्णाति चक्षुस्तेज इवापतत्। धातुश्च वशमन्वेति पाशैरिव नरः सितः॥ इत्युक्तवा प्रययौ राजा सह क्षत्रा युधिष्ठिरः। अमृष्यमाणस्तस्याथ समाह्वानमरिंदमः॥ बाह्रीकेन रथं यत्तमास्थाय परवीरहा। परिच्छन्नो ययौ पार्थो भ्रातृभिः सह पाण्डवः॥ राजश्रिया दीप्यमानो ययौ ब्रह्मपुरःसरः। धृतराष्ट्रेण चाहूतः कालस्य समयेन च॥ स हास्तिनपुरं गत्वा धृतराष्ट्रगृहं ययौ। समियाय च धर्मात्मा धृतराष्ट्रेण पाण्डवः॥ तथा भीष्मेण द्रोणेन कर्णेन च कृपेण च। समियाय यथान्यायं द्रौणिना च विभुः सह॥ समेत्य च महाबाहुः सोमदत्तेन चैव ह। दुर्योधनेन शल्येन सौबलेन च वीर्यवान्॥ ये चान्ये तत्र राजानः पूर्वमेव समागताः। दुःशासनेन वीरेण सर्वैभ्रातृभिरेव च।॥ जयद्रथेन च तथा कुरुभिश्चापि सर्वशः। ततः सर्वैर्महाबाहुभ्रातभिः परिवारितः॥ प्रविवेश गृहं राज्ञो धृतराष्ट्रस्य धीमतः। ददर्श तत्र गान्धारी देवी पतिमनुव्रताम्॥ स्नुषाभिः संवृतां शश्वत् तारा भिरिव रोहिणीम्। अभिवाद्य स गान्धारी तया च प्रतिनन्दितः॥ ददर्श पितरं वृद्धं प्रज्ञाचक्षुषमीश्वरम्॥ राज्ञा मूर्धन्युपाघ्रातास्ते च कौरवनन्दनाः। चत्वारः पाण्डवा राजन् भीमसेनपुरोगमा:॥ ततो हर्षः समभवत् कौरवाणां विशाम्पते। तान् दृष्ट्वा पुरुषव्याघ्रान् पाण्डवान् प्रियदर्शनान्॥ विविशुस्तेऽभ्यनुज्ञाता रत्नवन्ति गृहाणि च। ददृशुश्चोपयातांस्तान् दुःशलाप्रमुखाः स्त्रियः॥ याज्ञसेन्याः परामृद्धिं दृष्ट्वा प्रज्वलितामिव। स्नुषास्ता धृतराष्ट्रस्य नातिप्रमनसोऽभवन्॥ ततस्ते पुरुषव्याघ्रा गत्वा स्त्रीभिस्तु संविदम्। कृत्वा व्यायामपूर्वाणि कृत्यानि प्रतिकर्म च॥ ततः कृताछिकाः सर्वे दिव्यचन्दनभूषिताः। कल्याणमनसश्चैव ब्राह्मणान् स्वस्ति वाच्य च॥ मनोज्ञमशमनं भुक्त्वा विविशुः शरणान्यथा उपगीयमाना नारीभिरस्वपन् कुरुपुङ्गवाः॥ जगाम तेषां सा रात्रिः पुण्या रतिविहारिणाम्। स्तूयमानाश्च विश्रान्ताः काले निद्रामथात्यजन्॥ सुखोषितास्ते रजनी प्रातः सर्वे कृताछिकाः। सभां रम्यां प्रविविशुः कितवैरभिनन्दिताः॥ वैशम्पायन उवाच प्रविश्य तां सभां पार्था युधिष्ठिरपुरोगमाः। समेत्य पार्थिवान् सर्वान् पूजार्हानभिपूज्य च॥ यथावयः समेयाना उपविष्टा यथार्हतः। आसनेषु विचित्रेषु स्पर्ध्यास्तरणवत्सु च॥ तेषु तत्रोपविष्टेषु सर्वेष्वध नृपेषु च। शकुनिः सौबलस्तत्र युधिष्ठिरमभाषत॥ शकुनिरुवाच उपस्तीर्णा सभा राजन् सर्वे त्वयि कृतक्षणाः। अक्षानुप्त्वा देवनस्य समयोऽस्तु युधिष्ठिरः॥ युधिष्ठिर उवाच निकृतिर्देवनं पापं न क्षात्रोऽत्र पराक्रमः। न च नीति_वा राजन् किं त्वं द्यूतं प्रशंससि॥ न हि मानं प्रशंसन्ति निकृतौ कितवस्य हि। शकुने मैव नो जैषीरमार्गेण नृशंसवत्॥ शकुनिरुवाच चेष्टास्वखिन्नः कितवोऽक्षजासु। महामतिर्यश्च जानाति द्यूतं स वै सर्वं सहते प्रक्रियासु॥ स्तेनैव दोषो भवतीह पार्थ। दीव्यामहे पार्थिव मा विशङ्कां कुरुष्व पाणं च चिरं च मा कृथाः॥ युधिष्ठिर उवाच एवमाहायमसितो देवलो मुनिसत्तमः। इमानि लोकद्वाराणि यो वै भ्राम्यति सर्वदा॥ इदं वै देवनं पापं निकृत्या कितवैः सह। धर्मेण तु जयो युद्धे तत्परं न तु देवनम्॥ नार्या म्लेच्छन्ति भाषाभिर्मायया न चरन्त्युत। अजिह्ममशठं युद्धमेतत् सत्पुरुषव्रतम्॥ शक्तितो ब्राह्मणान् नूनं रक्षितुं प्रयतामहे। तद् वै वित्तं मातिदेवीर्मा जैषीः शकुने परान्॥ निकृत्या कामये नाहं सुखान्युत धनानि वा। कितवस्येह कृतिनो वृत्तमेतन्न पूज्यते॥ शकुनिरुवाच श्रोत्रियः श्रोत्रियानेति निकृत्यैव युधिष्ठिर। विद्वानविदुषोऽभ्येति नाहुस्तां निकृतिं जनाः॥ अक्षैर्हि शिक्षितोऽभ्येति निकृत्यैव युधिष्ठिरः। विद्वानविदुषोऽभ्येति नाहुस्तां निकृति जनाः॥ अकृतास्त्रं कृतास्त्रश्चं दुर्बलं बलवत्तरः। एवं कर्मसु सर्वेषु निकृत्यैव युधिष्ठिर। विद्वानविदुषोऽभ्येति नाहुस्तां निकृति जनाः॥ एवं त्वं मामिहाभ्येत्य निकृति यदि मन्यसे। देवनाद् विनिवर्तस्व यदि ते विद्यते भयम्॥ युधिष्ठिर उवाच आहूतो न निवर्तेयमिति मे व्रतमाहितम्। विधिश्च बलवान् राजन् दिष्टस्यामि वशे स्थितः॥ अस्मिन् समागमे केन देवनं मे भविष्यति। प्रतिपाणश्च कोऽन्योऽस्ति ततो द्यूतं प्रवर्तताम्॥ दुर्योधन उवाच अहं दातास्मि रत्नानां धनानां च विशाम्पते॥ मदर्थे देविता चायं शकुनिर्मातुलो मम। युधिष्ठिर उवाच अन्येनान्यस्य वै द्यूतं विषमं प्रतिभाति मे। एतद् विद्वन्नुपादत्स्व काममेवं प्रवर्तताम्॥ वैशम्पायन उवाच उपोह्यमाने द्यूते तु राजानः सर्व एव ते। धृतराष्ट्र पुरस्कृत्य विविशुस्तां सभां ततः॥ भीष्मो द्रोणः कृपश्चैव विदुश्च महामतिः। नातिप्रीतेन मनसा तेऽन्ववर्तन्त भारत॥ ते द्वन्द्वशः पृथक् चैव सिंहग्रीवा महौजसः। सिंहासनानि भूरीणि विचित्राणि च भेजिरे॥ शुशुभे सा सभा राजन् राजभिस्तैः समागतः। देवैरिव महाभागैः समवेतैस्त्रिविष्टपम्॥ सर्वे वेदविदः शूराः सर्वे भास्वरमूर्तयः। प्रावर्तत महाराज सुहृद्यूतमनन्तरम्॥ युधिष्ठिर उवाच अयं बहुधनो राजन् सागरावर्तसम्भवः। मणिर्हारोत्तरः श्रीमान् कनकोत्तमभूषणः॥ एतद् राजन् मम धनं प्रतिपाणोऽस्ति कस्तव। येन मां त्वं महाराज धनेन प्रतिदीव्यसे॥ दुर्योधन उवाच सन्ति मे मणयश्चैव धनानि सुबहूनि च। मत्सरश्च न मेऽर्थेषु जयस्वैनं दुरोदरम्॥ वैशम्पायन उवाच ततो जग्राह शकुनिस्तानक्षानक्षतत्त्ववित्। जितमित्येव शकुनियुधिष्ठिरमभाषत॥ युधिष्ठिर उवाच मत्तः कैतवकेनैव यज्जितोऽस्मि दुरोदरे। शकुने हन्त दीव्यामो ग्लहमानाः परस्परम्॥ सन्ति निष्कसहस्रस्य भाण्डिन्यो भरिताः शुभाः। कोशो हिरण्यमक्षय्यं जातरूपमनेकशः। एतद् राजन् मम धनं तेन दीव्याम्यहं त्वया।॥ वैशम्पायन उवाच कौरवाणां कुलकरं ज्येष्ठं पाण्डवमच्युतम्। इत्युक्तः शकुनिः प्राह जितमित्येव तं नृपम्॥ युधिष्ठिर उवाच अयं सहस्रसमितो वैयाघ्रः सुप्रतिष्ठितः। सुचक्रोपस्करः श्रीमान् किङ्किणीजालमण्डितः॥ संहादनो राजरथो य इहास्मानुपावहत्। जैत्रो रथवरः पुण्यो मेघसागरनिःस्वनः।। अष्टौ यं कुररच्छायाः सदश्वा राष्ट्रसम्मताः॥ वहन्ति नैषां मुच्येत पदाद् भूमिमुपस्पृशन्। एतद् राजन् धनं मह्यं तेन दीव्याम्यहं त्वया॥ वैशम्पायन उवाच एवं श्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनियुधिष्ठिरमभाषत।॥ युधिष्ठिर उवाच शतं दासीसहस्राणि तरुण्यो हेमभद्रिकाः। कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलंकृताः॥ महार्हमाल्याभरणाः सुवस्त्राश्चन्दनोक्षिताः। मणीन् हेम च बिभ्रत्यश्चतुःषष्टिविशारदाः॥ अनुसेवां चरन्तीमाः कुशला नृत्यसामसु। स्नातकानाममात्यानां राज्ञां च मम शासनात्। एतद् राजन् मम धनं तेन दीव्याम्यहं त्वया॥ वैशम्पायन उवाच एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनियुधिष्ठिरमभाषत॥ युधिष्टिर उवाच एतावन्ति च दासानां सहस्राण्युत सन्ति मे। प्रदक्षिणानुलोमाश्च प्रावारवसनाः सदा॥ प्राज्ञा मेधाविनो दान्ता युवानो मृष्टकुण्डलाः। पात्रीहस्ता दिवारात्रमतिथीन् भोजयन्त्युत। एतद् राजन् मम धनं तेन दीव्याम्यहं त्वया॥ वैशम्पायन उवाच एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनियुधिष्ठिरमभाषत॥ युधिष्ठिर उवाच सहस्रसंख्या नागा मे मत्तास्तिष्ठन्ति सौबल। हेमकक्षाः कृतापीडाः पद्मिनो हेममालिनः॥ सुदान्ता राजवहनाः सर्वशब्दक्षमा युधि। ईषादन्ता महाकायाः सर्वे चाष्टकरेणवः॥ सर्वे च पुरभेत्तारो नवमेघनिभा गजाः। एतद् राजन् मम धनं तेन दीव्याम्यहं त्वया॥ वैशम्पायन उवाच इत्येवंवादिनं पार्थं प्रहसन्निव सौबलः। जितमित्येव शकुनियुधिष्ठिरमभाषत॥ युधिष्ठिर उवाच रथास्तावन्त एवेमे हेमदण्डाः पताकिनः। हयैर्विनीतैः सम्पन्ना रथिभिश्चित्रयोधिभिः॥ एकैको ह्यत्र लभते सहस्रपरमां भृतिम्। युध्यतोऽयुध्यतो वापि वेतनं मासकालिकम्। एतद् राजन् मम धनं तेन दीव्याम्यहं त्वया॥ वैशम्पायन उवाच इत्येवमुक्ते वचने कृतवैरो दुरात्मवान्। जितमित्येव शकुनियुधिष्ठिरमभाषत॥ युधिष्ठिर उवाच अश्वास्तित्तिरिकल्माषान् गान्धर्वान् हेममालिनः। ददौ चित्ररथस्तुष्टो यांस्तान् गाण्डीवधन्वने॥ युद्धे जितः पराभूतः प्रीतिपूर्वमरिंदमः। एतद् राजन् मम धनं तेन दीव्याम्यहं त्वया॥ वैशम्पायन उवाच एतच्छ्रुत्वा व्यवसितो निकृति समुपाश्रितः। जितमित्येव शकुनियुधिष्ठिरमभाषत॥ युधिष्ठिर उवाच स्थानां शकटानां च श्रेष्ठानां चायुतानि मे। युक्तान्येव हि तिष्ठन्ति वाहैरुच्चावचैस्तथा॥ एवं वर्णस्य वर्णस्य समुच्चीय सहस्रशः। यथा समुदिता वीराः सर्वे वीरपराक्रमाः॥ क्षीरं पिबन्तस्तिष्ठन्ति भुञ्जानाः शालितण्डुलान्। षष्टिस्तानि सहस्राणि सर्वे विपुलवक्षसः। एतद् राजन् मम धनं तेन दीव्याम्यहं त्वया।॥ वैशम्पायन उवाच एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिथुधिष्ठिरमभाषत॥ युधिष्ठिर उवाच ताम्रलोहैः परिवृता निधयो ये चतुःशताः। पञ्चद्रौणिक एकैकः सुवर्णस्याहतस्य वै॥ जातरूपस्य मुख्यस्य अनर्धेयस्य भारत। एतद् राजन् मम धनं तेन दीव्याम्यहं त्वया॥ वैशम्पायन उवाच एतच्छ्रुत्वा व्यवसितो निकृति समुपाश्रितः। जितमित्येव शकुनियुधिष्ठिरमभाषत॥ वैशम्पायन उवाच एवं प्रवतिते द्यूते घोरे सर्वापहारिणि। सर्वसंशयनिर्मोक्ता विदुरो वाक्यमब्रवीत्॥ विदुर उवाच महाराज विजानीहि यत् त्वां वक्ष्यामि भारत। मुमूर्षोरौषधमिव न रोचेतापि ते श्रुतम्॥ यद् वै पुरा जातमात्रो रुराव गोमायुवद् विस्वरं पापचेताः दुर्योधनो भरतानां कुलनः सोऽयं युक्तो भरथां कालहेतुः॥ गृहे वसन्तं गोमायुं त्वं वै मोहान्न बुध्यसे। दुर्योधनस्य रूपेण शृणु काव्यां गिरं मम॥ मधु वै माध्विको लब्ध्वा प्रपातं नैव बुध्यते। आरुह्य तं मज्जति वा पतनं चाधिगच्छति॥ सोऽयं मत्तोऽक्षयूतेन मधुवन्न परीक्षते। प्रपातं बुध्यते नैव वैरं कृत्वा महारथैः॥ विदितं मे महाप्राज्ञ भोजेष्वेवासमञ्जसम्। पुत्रं संत्यक्तवान् पूर्वं पौराणां हितकाम्यया॥ अन्धका यादवा भोजाः समेताः कंसमत्यजन्। नियोगात् तु हते तस्मिन् कृष्णेनामित्रघातिना॥ एवं ते ज्ञातयः सर्वे मोदमानाः शतं समाः। त्वन्नियुक्तः सव्यसाची निगृह्णातु सुयोधनम्॥ निग्रहादस्य पापस्य मोदन्तां कुरवः सुखम्। काकेनेमांश्चित्रबर्हान् शार्दूलान् क्रोष्टकेन च। क्रीणीष्व पाण्डवान् राजन् मा मज्जी: शोकसागरे॥१० त्यजेत् कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत्। ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्॥ सर्वज्ञः सर्वभावज्ञः सर्वशत्रुभयंकरः। इति स्म भाषते काव्यो जम्भत्यागे महासुरान्॥ हिरण्यष्ठीविनः कांश्चित् पक्षिणो वनगोचरान्। गृहे किल कृतावासान् लोभाद् राजा न्यपीडयत्। स चोपभोगलोभान्धो हिरण्यार्थी परंतप॥ आयतिं च तदात्वं च उभे सद्यो व्यनाशयत्। तदर्थकामस्तद्वत् त्वं मा दुहः पाण्डवान् नृप॥ मोहात्मा तप्स्यसे पश्चात् पत्रिहा पुरुषो यथा। जातं जातं पाण्डवेभ्यः पुष्पमादत्स्व भारत॥ मालाकार इवारामे स्नेहं कुर्वन् पुनः पुनः। वृक्षानङ्गारकारीव मैनान् धाक्षी: समूलकान्। मा गमः ससुतामात्यः सबलश्च यमक्षयम्॥ समवेतान् हि कः पार्थान् प्रतियुध्येत भारत। मरुद्भिः सहितो राजन्नपि साक्षान्मरुत्पतिः॥ विदुर उवाच द्यूतं मूलं कलहस्याभ्युपैति मिथो भेदं महते दारुणाय। यदास्थितोऽयं धृतराष्ट्रस्य पुत्रो दुर्योधनः सृजते वैरमुग्रम्॥ प्रातीपेयाः शान्तनवा भैमसेनाः सबाह्निकाः। दुर्योधनापराधेन कृच्छ्रे प्राप्स्यन्ति सर्वशः॥ दुर्योधनो मदेनैष क्षेमं राष्ट्रादपोहति। विषाणं गौरिव मदात् स्वयमारुजतेऽऽत्मनः॥ यश्चित्तमन्वेति परस्य राजन् वीरः कविः स्वामवमन्य दृष्टिम्। मारुह्य घोरे व्यसने निमज्जेत्॥ दुर्योधनो ग्लहते पाण्डवेन प्रियायसे त्वं जयतीति तच्च। अतिनर्मा जायते सम्प्रहारो यतो विनाशः समुपैति पुंसाम्॥ आकर्षस्तेऽवाक्फलः सुप्रणीतो हृदि प्रौढो मन्त्रपदः समाधिः। मचिन्तितोऽनभिमतः स्वबन्धुना॥ प्रातीपेयाः शान्तनवाः शृणुध्वं काव्यां वाचं संसदि कौरवाणाम्। वैश्वानरं प्रज्वलितं सुघोरं मा यास्यध्वं मन्दमनुप्रपन्नाः॥ र्न संयच्छेदक्षमदाभिभूतः। वृकोदरः सव्यसाची यमौ च कोऽत्र द्वीप: स्यात् तुमुले वस्तदानीम्॥ महाराज प्रभवस्त्वं धनानां पुरा द्यूतान्मनसा यावदिच्छेः। बहुवित्तान् पाण्डवांश्चेज्जयस्त्वं किं ते तत् स्याद् वसु विन्देह पार्थान्॥ जानीमहे देवितं सौबलस्य वेद द्यूते निकृति पर्वतीयः। यतः प्राप्तः शकुनिस्तत्र यातु मा यूयुधो भारत पाण्डवेयान्॥ दुर्योधन उवाच परेषामेव यशसा श्लाघसे त्वं सदा क्षत्तः कुत्सयन् धार्तराष्ट्रान्। जानीमहे विदुर यत् प्रियस्त्वं बालानिवास्मानवमन्यसे नित्यमेव॥ स विज्ञेयः पुरुषोऽन्यत्रकामो निन्दाप्रशंसे हि तथा युनक्ति। जिह्वा कथं ते हृदयं व्यनक्ति यो न ज्यायसः कृथा मनसः प्रातिकूल्यम्॥ उत्सङ्गे च व्याल इवाहितोऽसि मार्जारवत् पोषकं चोपहंसि। स्तस्मात् क्षत्तः किं न बिभेषि पापात्॥ जित्वा शत्रून् फलमाप्तं महद् वै मास्मान् क्षत्तः परुषाणीह वोचः। द्विषद्भिस्त्वं सम्प्रयोगाभिनन्दी मुहुर्द्वषं यासि नः सम्प्रयोगात्॥ अमित्रतां याति नरोऽक्षमं ब्रुवन् निगूहते गुह्यममित्रसंस्तवे। तदाश्रितोऽपत्रप किं नु बाधसे यदिच्छसि त्वं तदिहाभिभाषसे॥ मा नोऽवमंस्था विद्म मनस्तवेदं शिक्षस्व बुद्धिं स्थविराणां सकाशात्। यशो रक्षस्व विदुर सम्प्रणीतं मा व्यापृतः परकार्येषु भूस्त्वम्॥ अहं कर्तेति विदुर मा च मंस्था मा नो नित्यं परुषाणीह वोचः। न त्वां पृच्छामि विदुर यद्धितं मे स्वस्ति क्षत्तर्मा तितिक्षून् क्षिणु त्वम्॥ एकः शास्ता न द्वितीयोऽस्ति शास्ता गर्भे शयानं पुरुषं शास्ति शास्ता। तेनानुशिष्टः प्रवणादिवाम्भो यथा नियुक्तोऽस्मि तथा भवामि॥ भिनत्ति शिरसा शैलमहिं भोजयते च यः। धीरेव कुरुते तस्य कार्याणामनुशासनम्। यो बलादनुशास्तीह सोऽमित्रं तेन विन्दति॥ मित्रतामनुवृत्तं तु समुपेक्षेत पण्डितः। प्रदीप्य यः प्रदीप्ताग्नि प्राक् चिरं नाभिधावति। भस्मापि न स विन्देत शिष्टं क्वचन भारत॥ न वासयेत् पारवर्यं द्विषन्तं विशेषतः क्षत्तरहितं मनुष्यम्। स यत्रेच्छसि विदुर तत्र गच्छ सुसान्त्विता ह्यसती स्त्री जहाति॥ विदुर उवाच एतावता पुरुषं ये त्यजन्ति तेषां वृत्तं साक्षिवद् ब्रूहि राजन्। राज्ञां हि चित्तानि परिप्लुतानि सान्त्वं दत्त्वा मुसलैर्घातयन्ति॥ अबालत्वं मन्यसे राजपुत्र बालोऽहमित्येव सुमन्दबुद्धे। यः सौहदे पुरुषं स्थापयित्वा पश्चादेनं दूषयते स बालः॥ न श्रेयसे नीयते मन्दबुद्धिः स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा। ध्रुवं न रोचेद् भरतषभस्य पतिः कुमार्या इव षष्टिवर्षः॥ अतः प्रियं चेतदनुकाक्षसे त्वं सर्वेषु कार्येषु हिताहितेषु। स्त्रियश्च राजञ्जडपङ्गुकांच पृच्छ त्वं वै तादृशांश्चैव सर्वान्॥ लभ्यते खलु पापीयान् नरो नु प्रियवागिह। अप्रियस्य हि पथ्यस्य वक्ता श्रोता च दुर्लभः॥ यस्तु धर्मपरश्च स्याद्धित्वा भर्तुः प्रियाप्रिये। अप्रियाण्याह पथ्यानि तेन राजा सहायवान्॥ अव्याधिजं कटुजं तीक्ष्णमुष्णं यशोमुषं परुषं पूतिगन्धि। सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य॥ वैचित्रवीर्यस्य यशो धनं च वाञ्छाम्यहं सहपुत्रस्य शश्वत्। यथा तथा तेऽस्तु नमश्च तेऽस्तु ममापि च स्वस्ति दिशन्तु विप्राः॥ आशीविषान् नेत्रविषान् कोपयेन च पण्डितः। एवं तेऽहं वदामीदं प्रयतः कुरुनन्दन॥ शकुनिरुवाच बहु वित्तं पराजैषीः पाण्डवानां युधिष्ठिर। आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम्॥ युधिष्ठिर उवाच मम वित्तमसंख्येयं यदहं वेद सौबल। अथ त्वं शकुने कस्माद् वित्तं समनुपृच्छसि॥ अयुतं प्रयुतं चैव शङ्ख पद्मं तथार्बुदम्। खर्वं शनिखर्वं च महापद्मं च कोटयः॥ मध्यं चैव परार्धं च सपरं चात्र पण्यताम्। एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया॥ वैशम्पायन उवाच एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनियुधिष्ठिरमभाषत॥ युधिष्ठिर उवाच गवाश्वं बहुधेनूकमसंख्येयमजाविकम्। यत् किंचिदनुपर्णाशां प्राक् सिन्धोरपि सौबल। एतन्मम धनं सर्वं तेन दीव्याम्यहं त्वया॥ वैशम्पायन उवाच एतच्छ्रुत्वा व्यवसितो निकृति समुपाश्रितः। जितमित्येव शकुनियुधिष्ठिरमभाषत॥ युधिष्ठिर उवाच पुरं जनपदो भूमिरब्राह्मणधनैः सह। अब्राह्मणाश्च पुरुषा राजञ्छिष्टं धनं मम। एतद् राजन् मम धनं तेन दीव्याम्यहं त्वया॥ वैशम्पायन उवाच एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनियुधिष्ठिरमभाषत॥ युधिष्ठिर उवाच राजपुत्रा इमे राजञ्छोभन्ते यैर्विभूषिताः। कुण्डलानि च निष्काश्च सर्वं राजविभूषणम्। एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया॥ वैशम्पायन उवाच एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनियुधिष्ठिरमभाषत॥ युधिष्ठिर उवाच श्यामो युवा लोहिताक्षः सिंहस्कन्धो महाभुजः। नकुलो ग्लह एवैको विद्ध्येतन्मम तद्धनम्॥ शकुनिरुवाच प्रियस्ते नकुलो राजन् राजपुत्रो युधिष्ठिर। अस्माकं वशतां प्राप्तो भूयः केनेह दीव्यसे॥ वैशम्पायन उवाच एवमुक्त्वा तु तानक्षाञ्छकुनिः प्रत्यदीव्यत। जितमित्येव शकुनियुधिष्ठिरमभाषत॥ युधिष्ठिर उवाच अयं धर्मान् सहदेवोऽनुशास्ति लोके ह्यस्मिन् पण्डिताख्यां गतश्च। अनर्हता राजपुत्रेण तेन दीव्याम्यहं चाप्रियवत् प्रियेण॥ वैशम्पायन उवाच एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनियुधिष्ठिरमभाषत॥ शकुनिरुवाच माद्रीपुत्रौ प्रियौ राजंस्तवेमौ विजितौ मया। गरीयांसौ त ते मन्ये भीमसेनधनंजयौ॥ युधिष्ठिर उवाच अधर्मं चरसे नूनं यो नावेक्षसि वै नयम्। यो नः सुमनसां मूढ विभेदं कर्तुमिच्छसि॥ शकुनिरुवाच गर्ने मत्तः प्रपतते प्रमत्तः स्थाणुमृच्छति। ज्येष्ठो राजन् वरिष्ठोऽसि नमस्ते भरतर्षभ॥ स्वप्ने तानि न दृश्यन्ते जाग्रतो वा युधिष्ठिर। कितवा यानि दीव्यन्तः प्रलपन्त्युत्कटा इव।॥ युधिष्ठिर उवाच यो नः संख्ये नौरिव पारनेता जेता रिपूणां राजपुत्रस्तरस्वी। अनर्हता लोकवीरेण तेन दीव्याम्यहं शकुने फाल्गुनेन॥ वैशम्पायन उवाच एतच्छ्रुत्वा व्यवसितो निकृति समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत।॥ शकुनिरुवाच अयं मया पाण्डवानां धनुर्धरः। पराजितः पाण्डवः सव्यसाची। भीमेन राजन् दयितेन दीव्य यत् कैतवं पाण्डव तेऽवशिष्टम्॥ युधिष्ठिर उवाच यो नो नेता युधि नः प्रणेता यथा वज्री दानवशत्रुरेकः। तिर्यक्प्रेक्षी संनतभूर्महात्मा सिंहस्कन्धो यश्च सदात्यमर्षी॥ बलेन तुल्यो यस्य पुमान् न विद्यते गदाभृतामय इहारिमर्दनः। अनर्हता राजपुत्रेण तेन दीव्याम्यहं भीमसेनेन राजन्॥ वैशम्पायन उवाच एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनियुधिष्ठिरमभाषत॥ शकुनिरुवाच बहु वित्तं पराजैषीर्धातूंश्च सहयद्विपान्। आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम्॥ युधिष्ठिर उवाच अहं विशिष्टः सर्वेषां भ्रातॄणां दयितस्तथा। कुर्यामहं जित: कर्म स्वयमात्मन्युपप्लुते॥ वैशम्पायन उवाच एतच्छ्रुत्वा व्यवसितो निकृति समुपाश्रितः। जितामित्येव शकुनियुधिष्ठिरमभाषत॥ शकुनिरुवाच एतत् पापिष्ठमकरोर्यदात्मानमहारयः। शिष्टे सति धने राजन् पाप आत्मपराजयः॥ वैशम्पायन उवाच एवमुक्त्वा मताक्षस्तान् ग्लहे सर्वानवस्थितान्। पराजयं लोकवीरानुक्त्वा राज्ञां पृथक् पृथक्॥ शकुनिरुवाच अस्ति ते वै प्रिया राजन् ग्लह एकोऽपराजितः। पणस्व कृष्णां पाञ्चालीं तयाऽत्मानं पुनर्जय॥ युधिष्ठिर उवाच नैव ह्रस्वा न महती न कृष्णा नातिरोहिणी। नीलकुञ्चितकेशी च तया दीव्याम्यहं त्वया॥ शारदोत्पलपत्राझ्या शारदोत्पलगन्धया। शारदोत्पलसेविन्या रूपेण श्रीसमानया॥ तथैव स्यादानृशंस्यात् तथा स्याद् रूपसम्पदा। तथा स्याच्छीलसम्पत्त्या यामिच्छेत् पुरुषः स्त्रियम्॥३५ सर्वैगुणैर्हि सम्पन्नामनुकूलां प्रियंवदाम्। यादृशी धर्मकामार्थसिद्धिमिच्छेन्नरः स्त्रियम्॥ चरमं संविशति या प्रथमं प्रतिबुध्यते। आगोपालाविपालेभ्यः सर्वं वेद कृताकृतम्॥ आभाति पद्मवद् वक्त्रं सस्वेदं मल्लिकेव च। वेदिमध्या दीर्घकेशी ताम्रास्या नातिलोमशा॥ तयैवंविधया राजन् पाञ्चाल्याहं सुमध्यया। ग्लहं दीव्यामि चावल्या द्रौपद्या हन्त सौबल॥ वैशम्पायन उवाच एवमुक्ते तु वचने धर्मराजेन धीमता। धिग्धिगित्येव वृद्धानां सभ्यानां निःसृता गिरः॥ चुक्षुभे सा सभा राजन् राज्ञां संजज्ञिरे शुचः। भीष्मद्रोणकृपादीनां स्वेदश्च समजायत॥ शिरो गृहीत्वा विदुरो गतसत्त्व इवाभवत्। आस्ते ध्यायन्नधोवक्त्रो निःश्वसन्निव पन्नगः॥ धृतराष्ट्रस्तु तं हृष्टः पर्यपृच्छत् पुनः पुनः। किं जितं किं जितमिति ह्याकारं नाभ्यरक्षत॥ जहर्ष कर्णोऽतिभृशं सह दुःशासनादिभिः। इतरेषां तु सभ्यानां नेत्रेभ्यः प्राप्तज्जलम्॥ सौबलस्त्वभिधायैवं जितकाशी मदोत्कटः। जितमित्येव तानक्षान् पुनरेवान्वपद्यत॥ दुर्योधन उवाच एहि क्षत्तौपदीमानयस्व प्रियां भार्यां सम्मतां पाण्डवानाम्। सम्मार्जतां वेश्म परैतु शीघ्रं तत्रास्तु दासीभिरपुण्यशीला॥ विदुर उवाचदुर्विभाष भाषितं त्वादृशेन न मन्द सम्बुध्यसि पाशबद्धः।प्रपाते त्वं लम्बमानो न वेत्सि व्याघ्रान् मृगः कोपयसेऽतिवेलम्॥ आशीविषास्ते शिरसि पूर्णकोपा महाविषाः। मा कोपिष्ठाः सुमन्दात्मन् मा गमस्त्वं यमक्षयम्॥ न हि दासीत्वमापन्ना कृष्णा भवितुमर्हति। अनीशेन हि राज्ञैषा पणे न्यस्तेति मे मतिः॥ अयं धत्ते वेणुरिवात्मघाती फलं राजा धृतराष्ट्रस्य पुत्रः। द्यूतं हि वैराय महाभयाय मत्तो न बुध्यत्ययमन्तकालम्॥ नारुन्तुदः स्यान्न नृशंसवादी न हीनतः परमभ्याददीत। ययास्य वाचा पर उद्विजेत न तां वदेदुषती पापलोक्याम्॥ समुच्चरन्त्यतिवादाश्च वक्त्राद् पैराहतः शोचति रात्र्यहानि। परस्य नामर्मसु ते पतन्त तान् पण्डितो नावसृजेत् परेषु॥ अजो हि शस्त्रमगिलत् किलैकः शस्त्रे विपन्ने शिरसास्य भूमौ। निकृन्तनं स्वस्य कण्दस्य घोरं तद्वद् वैरं मा कृथाः पाण्डुपुत्रैः॥ न किंचिदित्थं प्रवदन्ति पार्था वनेचरं वा गृहमेधिनं वा। तपस्विनं वा परिपूर्णविद्यं भषन्ति हैवं श्वनराः सदैव।॥ द्वारं सुघोरं नरकस्य जिह्यं न बुध्यते धृतराष्ट्रस्य पुत्रः। तमन्वेतारो बहवः कुरूणां द्यूतोदये सह दुःशासनेन॥ मज्जन्त्यलावूनि शिलाः प्लवन्ते मुह्यन्ति नावोऽम्भसि शश्वदेव। मूढो राजा धृतराष्ट्रस्य पुत्रो न मे वाचः पथ्यरूपाः शृणोति॥ अन्तो नूनं भवितायं कुरूणां सुदारुणः सर्वहरो विनाशः। वाचः काव्याः सुहृदां पथ्यरूपा न श्रूयन्ते वर्धते लोभ एव॥ वैशम्पायन उवाच धिगस्तु क्षत्तारमिति ब्रुवाणो दर्पण मत्तो धृतराष्ट्रस्य पुत्रः। मुवाच चैनं परमार्यमध्ये॥ दुर्योधन उवाच प्रातिकामिन् द्रौपदीमानयस्व न ते भयं विद्यते पाण्डवेभ्यः। क्षत्ता ह्ययं विवदत्येव भीतो न चास्माकं वृद्धिकामः सदैव॥ वैशम्पायन उवाच एवमुक्तः प्रातिकामी स सूतः प्रायाच्छीघ्रं राजवचो निशम्य। प्रविश्य च श्वेव हि सिंहगोष्ठं समासदन्महिषीं पाण्डवानाम्॥ प्रातिकाम्युवाच युधिष्ठिरो द्यूतमदेन मत्तो दुर्योधनो द्रौपदि त्वामजैषीत्। सा त्वं प्रपद्यस्व धृतराष्ट्रस्य वेश्म न यामि त्वां कर्मणे याज्ञसेनि॥ द्रौपद्युवाच कथं त्वेवं वदसि प्रातिकामिन् को हि दीव्येद् भार्यया राजपुत्रः। मूढो राजा द्यूतमदेन मत्तो ह्यभूनान्यत् कैतवमस्य किंचित्॥ प्रातिकाम्युवाच यदा नाभूत् कैतवमन्यदस्य तदादेवीत् पाण्डवोऽजातशत्रुः। न्यस्ताः पूर्वं भ्रातरस्तेन राज्ञा स्वयं चात्मा त्वमथो राजपुत्रि॥ द्रौपद्युवाच गच्छ त्वं कितवं गत्वा सभायां पृच्छ सूतजा किं नु पूर्वं पराजैषीरात्मानमथवा नु माम्॥ एतज्ज्ञात्वा समागच्छ ततो मां नय सूतज। ज्ञात्वा चिकीर्षितमहं राज्ञो यास्यामि दुःखिता॥ वैशम्पायन उवाच सभां गत्वा स चोवाच द्रौपद्यास्तद् वचस्तदा। युधिष्ठिरं नरेन्द्राणां मध्ये स्थितमिदं वचः॥ कस्येशो नः पराजैषीरिति त्वामाह द्रौपदी। किं नु पूर्वं पराजैषीरात्मानमथवापि माम्॥ युधिष्ठिरस्तु निश्चेता गतसत्त्व इवाभवत्। न तं सूतं प्रत्युवाच वचनं साध्यसाधु वा॥ दुर्योधन उवाच इहैवागत्य पाञ्चाली प्रश्नमेनं प्रभाषताम्। इहैव सर्वे शृण्वन्तु तस्याश्चैतस्य यद् वचः॥ वैशम्पायन उवाच स गत्वा राजभवनं दुर्योधनवशानुगः। उवाच द्रौपदी सूतः प्रातिकामी व्यथान्वितः॥ प्रातिकाम्युवाच सभ्यास्त्वमी राजपुत्र्याह्वयन्ति मन्ये प्राप्तः संक्षयः कौरवाणाम्। न वै समृद्धिं पालयते लघीयान् यस्त्वां सभां नेष्यति राजपुत्रि॥ द्रौपद्युवाच एवं नूनं व्यदधात् संविधाता स्पर्शावुभौ स्पृशतो वृद्धबालौ। धर्मं त्वेकं परमं प्राह लोके स नः शमं धास्यति गोप्यमानः॥ सोऽयं धर्मो मात्यगात् कौरवान् वै सभ्यान् गत्वा पृच्छ धर्म्यं वचो मे। ते मां ब्रूयुनिश्चितं तत् करिष्ये धर्मात्मानो नीतिमन्तो वरिष्ठाः॥ श्रुत्वा सूतस्तद्वचो याज्ञसेन्याः सभां गत्वा प्राह वाक्यं तदानीम्। निर्बन्धं तं धार्तराष्ट्रस्य बुद्ध्वा॥ वैशम्पायन उवाच युधिष्ठिरस्तु तच्छ्रुत्वा दुर्योधनचिकीर्षितम्। द्रौपद्याः सम्मतं दूतं प्राहिणोद् भरतर्षभ।॥ एकवस्त्रा त्वधोनीवी रोदमाना रजस्वला। सभामागम्य पाञ्चालि श्वशुरस्याग्रतो भव॥ अथ त्वामागतां दृष्ट्वा राजपुत्रीं सभां तदा। सभ्याः सर्वे विनिन्देरन् मनोभिधृतराष्ट्रजम्॥ स गत्वा त्वरितं दूतः कृष्णाया भवनं नृप। न्यवेदयन्मतं धीमान् धर्मराजस्य निश्चितम्॥ पाण्डवाश्च महात्मानो दीना दुःखसमन्विताः। सत्येनातिपरीताङ्गा नोदीक्षन्ते स्म किंचन॥ ततस्त्वेषां मुखमालोक्य राजा दुर्योधन: सूतमुवाच हृष्टः। इहैवैतामानय प्रातिकामिन् प्रत्यक्षमस्या: कुरवो ब्रुवन्तु॥ ततः सूतस्तस्य वशानुगामी भीतश्च कोपाद् दुपदात्मजायाः. नुवाच कृष्णां किमहं ब्रवीमि॥ दुर्योधन उवाच दुःशासनैष मम सूतपुत्रो वृकोदरादुद्विजतेऽल्पचेताः। स्वयं प्रगृह्यानय याज्ञसेनी किं ते करिष्यन्त्यवशाः सपत्नाः॥ ततः समुत्थाय स राजपुत्रः श्रुत्वा भ्रातुः शासनं रक्तदृष्टिः। मित्यब्रवीद् द्रौपदी राजपुत्रीम्॥ एह्येहि पाञ्चालि जितासि कृष्णे दुर्योधनं पश्य विमुक्तलज्जा। कुरून् भजस्वायतपत्रनेत्रे धर्मेण लब्धासि सभां परैहि॥ ततः समुत्थाय सुदुर्मनाः सा विवर्णमामृज्य मुखं करेण। आर्ता प्रदुद्राव यतः स्त्रियस्ता वृद्धस्य राज्ञः कुरुपुङ्गवस्य॥ ततो जवेनाभिससार रोषाद् दुःशासनस्तामभिगर्जमानः। दीर्येषु नीलेष्वथ चोर्मिमत्सु जग्राह केशेषु नरेन्द्रपत्नीम्॥ ये राजसूयावभृथे जलेन महाक्रतौ मन्त्रपूतेन सिक्ताः। ते पाण्डवानां परिभूय वीर्य बलात् प्रमृष्टा धृतराष्ट्रजेन॥ मानीय कृष्णामतिदीर्घकेशीम्। च्चकर्ष वायुः कदलीमिवार्ताम्॥ सा कृष्यमाणा नमिताङ्गयष्टिः शनैरुवाचाथ रजस्वलास्मि एकं च वासो मम मन्दबुद्धे सभां नेतुं नार्हसि मामनार्य॥ ततोऽब्रवीत् तां प्रसभं निगृह्य केशेषु कृष्णेषु तदा स कृष्णाम्। कृष्णं च जिष्णुं च हरिं नरं च त्राणाय विक्रोशति याज्ञसेनी॥ दुःशासन उवाच रजस्वला वा भव याज्ञसेनि एकाम्बरा वाप्यथवा विवस्त्रा। द्यूते जिता चासि कृतासि दासी दासीषु वासश्च यथोपजोषम्॥ वैशम्पायन उवाच प्रकीर्णकेशी पतितार्धवस्त्रा दुःशासनेन व्यवधूयमाना। ह्रीमत्यमर्षेण च दह्यमाना। शनैरिदं वाक्यमुवाच कृष्णा॥ द्रौपद्युवाच इमे सभायामुपनीतशास्त्राः क्रियावन्तः सर्व एवेन्द्रकल्पाः। गुरुस्थाना गुरवश्चैव सर्वे तेषामग्रे नोत्सहे स्थातुमेवम्॥ नृशंसकर्मंस्त्वमनार्यवृत्त मा मा विवस्त्रां कुरु मा विकर्षीः। न मर्षयेद्युस्तव राजपुत्राः सेन्द्राश्च देवा यदि ते सहायाः॥ धर्मे स्थितो धर्मसुतो महात्मा धर्मश्च सूक्ष्मो निपुणोपलक्ष्यः। मिच्छामि दोषं न गुणान् विसृज्य॥ इदं त्वकार्यं कुरुवीरमध्ये रजस्वलां यत् परिकर्षसे माम्। न चापि कश्चित् कुरुतेऽत्र कुत्सां ध्रुवं तवेदं मतमभ्युपेताः॥ धिगस्तु नष्टः खलु भारतानां धर्मस्तथा क्षत्रविदां च वृत्तम्। यत्र ह्यतीतां कुरुधर्मवेलां प्रेक्षन्ति सर्वे कुरवः सभायाम्॥ द्रोणस्य भीष्मस्य च नास्ति सत्त्वं क्षत्तुस्तथैवास्य महात्मनोऽपि। राज्ञस्तथा हीममधर्ममुग्रं न लक्षयन्ते कुरुवृद्धमुख्याः॥ वैशम्पायन उवाच तथा ब्रुवन्ती करुणं सुमध्यमा भर्तृन् कटाक्षैः कुपितानपश्यत्। सा पाण्डवान् कोपपरीतदेहान् संदीपयामास कटाक्षपातैः॥ हतेन राज्येन तथा धनेन रत्नैश्च मुख्यैर्न तथा बभूव। यथा त्रपाकोपसमीरितेन कृष्णाकटाक्षेण बभूव दुःखम्॥ मवेक्षमाणां कृपणान् पतीस्तान्। मुवाच दासीति हसन् सशब्दम्॥ कर्णस्तु तद्वाक्यमतीव हृष्टः सम्पूजयामास हसन् सशब्दम्। गान्धारराजः सुबलस्य पुत्र स्तथैव दुःशासनमभ्यनन्दत्॥ सभ्यास्त ये तत्र बभूवुरन्ये ताभ्यामृते धार्तराष्ट्रेण चैवा तेषामभूद् दुःखमतीव कृष्णां दृष्ट्वा सभायां परिकृष्यमाणाम्॥ भीष्म उवाच न धर्मसौक्ष्यात् सुभगे विवेक्तु शक्नोमि ते प्रश्नमिमं यथावत्। अस्वाम्यशक्तः पणितुं परस्वं स्त्रियाश्च भर्तुर्वशतां समीक्ष्य।॥ त्यजेत सर्वां पृथिवीं समृद्धां युधिष्ठिरो धर्ममथो न जह्यात्। उक्तं जितोऽस्मीति च पाण्डवेन तस्मान्न शक्नोमि विवेक्तुमेतत्॥ द्यूतेऽद्वितीयः शकुनि रेषु कुन्तीसुतस्तेन निसृष्टकामः। स्तस्मान्न ते प्रश्नमिमं ब्रवीमि॥ द्रौपद्युवाच र्दुष्टात्मभिरैंकृतिकैः सभायाम्। द्यूतप्रियैर्नातिकृतप्रयत्नः कस्मादयं नाम निसृष्टकामः॥ रबुध्यमानः कुरुपाण्डवायः। सम्भूय सर्वेश्च जितोऽपि यस्मात् पश्चादयं कैतवमभ्युपेतः॥ मीशाः सुतानां च तथा स्नुषाणाम्। समीक्ष्य सर्वे मम चापि वाक्यं विब्रूत मे प्रश्नमिमं यथावत्॥ वैशम्पायन उवाच मवेक्षमाणां कृपणान् पतीस्तान्। दुःशासनः परुषाण्यप्रियाणि वाक्यान्युवाचामधुराणि चैव॥ तां कृष्यमाणां च रजस्वलांच स्रस्तोत्तरीयामतदहमाणाम्। वृकोदरः प्रेक्ष्य युधिष्ठिरं च चकार कोयं परमार्तरूपः॥ भीम उवाच भवन्ति गेहे बन्धक्यः कितवानां युधिष्ठिर। न ताभिरुत दीव्यन्ति दया चैवास्ति तास्वपि॥ काश्यो यद् धनमाहार्षीद् द्रव्यं यच्चान्यदुत्तमम्। तथान्ये पृथिवीपाला यानि रत्नान्युपाहरन्॥ वाहनानि धनं चैव कवचान्यायुधानि च। राज्यमात्मा वयं चैव कैतवेन हृतं परैः॥ न च मे तत्र कोपोऽभूत् सर्वस्येशो हि नो भवान्। इमं त्वतिक्रमं मन्ये द्रौपदी यत्र पण्यते॥ एषा ह्यनहती बाला पाण्डवान् प्राप्य कौरवैः। त्वत्कृते क्लिश्यते क्षुदैर्नृशंसैरकृतात्मभिः॥ अस्याः कृते मन्युरयं त्वयि राजन् निपात्यते। बाहू ते सम्प्रधक्ष्यामि सहदेवाग्निमानय॥ अर्जुन उवाच न पुरा भीमसेन त्वमीदृशीर्वदिता गिरः। परैस्ते नाशितं नूनं नृशंसैर्धर्मगौरवम्॥ न सकामाः परे कार्या धर्ममेवाचरोत्तमम्। भ्रातरं धार्मिकं ज्येष्ठं कोऽतिवर्तितुमर्हति॥ आहूतो हि परै राजा क्षात्रं व्रतमनुस्मरन्। दीव्यते परकामेन तन्नः कीर्तिकरं महत्॥ भीमसेन उवाच एवमस्मिन् कृतं विद्यां यदि नाहं धनंजय। दीप्तेऽग्नौ सहितौ बाहू निर्दहेयं बलादिव॥ वैशम्पायन उवाच तथा तान् दुःखितान् दृष्ट्वा पाण्डवान् धृतराष्ट्रजः। कृष्यमाणां च पाञ्चालीं विकर्ण इदमब्रवीत्॥ विकरण उवाच याज्ञसेन्या यदुक्तं तद् वाक्यं विबूत पार्थिवाः। अविवेकेन वाक्यस्य नरकः सद्य एव नः॥ भीष्मश्च धृतराष्ट्रश्च कुरुवृद्धतमावुभौ। समेत्य नाहतुः किंचिद् विदुरश्च महामतिः॥ भारद्वाजश्च सर्वेषामाचार्यः कृप एव च। कुत एतावपि प्रश्नं नाहतुर्द्विजसत्तमौ॥ ये त्वन्ये पृथिवीपालाः समेताः सर्वतो दिशः। कामक्रोधौ समुत्सृज्य ते ब्रुवन्तु यथामति॥ यदिदं द्रौपदीवाक्यमुक्तवत्यसकृच्छुभा। विमृश्य कस्य कः पक्षः पार्थिवा वदतोत्तरम्॥ वैशम्पायन उवाच एवं स बहुशः सर्वानुक्तवांस्तान् सभासदः। न च ते पृथिवीपालास्तमूचुः साध्वसाधु वा॥ उक्त्वा सकृत् तथा सर्वान् विकर्णः पृथिवीपतीन्। पाणौ पाणिं विनिष्पिष्य निःश्वसन्निदमब्रवीत्॥ विकरण उवाच विद्वत पृथिवीपाला वाक्यं मा वा कथंचन। मन्ये न्याय्यं यदत्राहं तद्धि वक्ष्यामि कौरवाः॥ चत्वार्याहुनश्रेष्ठा व्यसनानि महीक्षिताम्। मृगयां पानमक्षांश्च ग्राम्ये चैवातिरक्तताम्॥ एतेषु हि नरः सक्तो धर्ममुत्सृज्य वर्तते। यथायुक्तेन च कृतां क्रियां लोको न मन्यते॥ तदयं पाण्डुपुत्रेण व्यसने वर्तता भृशम्। समाहूतेन कितवैरास्थितौ द्रौपदीपणः॥ साधारणी च सर्वेषां पाण्डवानामनिन्दिता। जितेन पूर्वं चानेन पाण्डवेन कृतः पणः॥ इयं च कीर्तिता कृष्णा सौबलेन पणार्थिना। एतत् सर्वं विचार्याहं मन्ये न विजितामिमाम्॥ एतच्छ्रुत्वा महान् नादः सभ्यानामुदतिष्ठत। विकर्णं शंसमानानां सौबलं चापि निन्दताम्॥ तस्मिन्नुपरते शब्दे राधेयः क्रोधमूर्च्छितः। प्रगृह्य रुचिरं बाहुमिदं वचनमब्रवीत्॥ कर्ण उवाच दृश्यन्ते वै विकर्णेह वैकृतानि बहून्यपि। तज्जातस्तद्विनाशाय यथाग्निररणिप्रजः॥ एते न किंचिदप्याहुश्चोदिता ह्यपि कृष्णया। धर्मेण विजितामेतां मन्यन्ते दुपदात्मजाम्॥ त्वं तु केवलबाल्येन धार्तराष्ट्र विदीर्यसे। यद् ब्रवीषि सभामध्ये बालः स्थविरभाषितम्॥ न च धर्मं यथावत् त्वं वेत्सि दुर्योधनावर। यद् ब्रवीषि जितां कृष्णां न जितेति सुमन्दधीः॥ कथं ह्यविजितां कृष्णां मन्यसे धृतराष्ट्रज। यदा सभायां सर्वस्वं न्यस्तवान् पाण्डवाग्रजः॥ अभ्यन्तरा च सर्वस्वे द्रौपदी भरतर्षभ। एवं धर्मजितां कृष्णां मन्यसे न जितां कथम्॥ कीर्तिता द्रौपदी वाचा अनुज्ञाता च पाण्डवैः। भवत्यविजिता केन हेतुनैषा मता तव॥ मन्यसे वा सभामेतामानीतामेकवाससम्। अधर्मेणेति तत्रापि शृणु मे वाक्यमुत्तमम्॥ एको भर्ता स्त्रिया देवैर्विहितः कुरुनन्दन। इयं त्वनेकवशगा बन्धकीति विनिश्चिता॥ अस्याः सभामानयनं च चित्रमिति मे मतिः। एकाम्बरध रत्वं वाप्यथ वापि विवस्त्रता॥ यच्चैषां द्रविणं किंचिद् या चैषा ये पाण्डवाः। सौबलेनेह तत् सर्वं धर्मेण विजितं वसु॥ दुःशासन सुबालोऽयं विकर्णः प्राज्ञवादिकः। पाण्डवानां च वासांसि द्रौपद्याश्चाप्युहर॥ तच्छ्रुत्वा पाण्डवाः सर्वे स्वानि वासांसि भारत। अवकीर्योत्तरीयाणि सभायां समुपाविशन्॥ ततो दुःशासनो राजन् द्रौपद्या वसनं बलात्। सभामध्ये समाक्षिप्य व्यपाक्रष्टुं प्रचक्रमे॥ वैशम्पायन उवाच आकृष्यमाणे वसने द्रौपद्याश्चिन्तितो हरिः। गोविन्द द्वारकावासिन् कृष्ण गोपीजनप्रियः॥ कौरवैः परिभूतां मां किं न जानासि केशव हे नाथ हे रमानाथ व्रजनाथार्तिनाशन। कौरवार्णवमग्नां मामुद्धरस्व जनार्दन॥ कृष्ण कृष्ण महायोगिन् विश्वात्मन् विश्वभावन। प्रपन्नां पाहि गोविन्द कुरुमध्येऽवसीदतीम्॥ इत्यनुस्मृत्य कृष्णं सा हरिं त्रिभुवनेश्वरम्। प्रारुदद् दुःखिता राजन् मुखमाच्छाद्य भामिनी॥ याज्ञसेन्या वचः श्रुत्वा कृष्णो गह्वरितोऽभवत्। त्यक्त्वा शय्याऽऽसनं पद्भ्यां कृपालुः कृपयाभ्यगात्॥४५ कृष्णं च विष्णु च हरिं नरं च त्राणाय विक्रोशति याज्ञसेनी। ततस्तु धर्मोऽन्तरितो महात्मा समावृणोद् वै विविधैः सुवस्त्रैः॥ आकृष्यमाणे वसने द्रौपद्यास्तु विशाम्पते। तद्रूपमपरं वस्त्रं प्रादुरासीदनेकशः॥ नानारागविरागाणि वसनान्यथ वै प्रभो। प्रादुर्भवन्ति शतशो धर्मस्य परिपालनात्॥ ततो हलहलाशब्दस्तत्रासीद् घोरदर्शनः। तदद्भुततमं लोको वीक्ष्य सर्वे महीभृतः। शशंसुद्रौपदीं तत्र कुत्सन्तो धृतराष्ट्रजम्॥ शशाप तत्र भीमस्तु राजमध्ये बृहत्स्वनः। क्रोधाद् विस्फुरमाणौष्ठो विनिष्पिष्य करे करम्॥ भीम उवाच इदं मे वाक्यमादध्वं क्षत्रिया लोकवासिनः। नोक्तपूर्वं नरैरन्यैर्न चान्यो यद् वदिष्यति॥ यद्येतदेवमुक्त्वाहं न कुर्यां पृथिवीश्वराः। पितामहानां पूर्वेषां नाहं गतिमवाप्नुयाम्॥ अस्य पापस्य दुर्बुद्धेर्भारतापसदस्य च। न पिबेयं बलाद् वक्षो भित्त्वा चेद् रुधिरं युधि॥ वैशम्पायन उवाच तस्य ते तद् वचः श्रुत्वा रौद्रं लोमप्रहर्षणम्। प्रचक्रुर्बहुलां पूजां कुत्सन्तो धृतराष्ट्रजम्॥ यदा तु वाससां राशिः सभामध्ये समाचितः। ततो दुःशासनः श्रान्तो वीडितः समुपाविशत्॥ धिक्शब्दस्तु ततस्तत्र समभूल्लोमहर्षणः। सभ्यानां नरदेवानां दृष्ट्वा कुन्तीसुतांस्तथा॥ न विब्रुवन्ति कौरव्याः प्रश्नमेतमिति स्म ह। स जनः क्रोशति स्मात्र धृतराष्ट्र विगर्हयन्॥ ततो बाहू समुच्छ्रित्य निवार्य च सभासदः। विदुरः सर्वधर्मज्ञ इदं वचनमब्रवीत्॥ विदुर उवाच द्रौपदी प्रश्नमुक्त्वैवं रोरवति हयनाथवत्। न च विब्रूत तं प्रश्न सभ्या धर्मोऽत्र पीड्यते॥ सभां प्रपद्यते ह्यातः प्रज्वलन्निव हव्यवाट्। तं वै सत्येन धर्मेण सभ्याः प्रशमयन्त्युत॥ धर्मप्रश्नमतो ब्रूयादार्य: सत्येन मानवः। विब्रूयस्तत्र तं प्रश्न कामक्रोधबलातिगाः॥ विकर्णेन यथाप्रज्ञःमुक्तः प्रश्नो नराधिपाः। भवन्तोऽपि हि तं प्रश्न विब्रुवन्तु यथामति॥ यो हि प्रश्न न विब्रूयाद धर्मदर्शी सभां गतः। अनृते या फलावाप्तिस्तस्याः सोऽधू समश्नुते॥ यः पुनर्वितथं ब्रूयाद् धर्मदर्शी सभां गतः। अनृतस्य फलं कृत्स्नं सम्प्राप्नोतीति निश्चयः॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। प्रह्लादस्य च संवादं मुनेराङ्गिरसस्य च॥ प्रह्लादो नाम दैत्येन्द्रस्तस्य पुत्रो विरोचनः। कन्याहेतोराङ्गिरसं सुधन्वानमुपाद्रवत्॥ अहं ज्यायानहं ज्यायानिति कन्येप्सया तदा। तयोर्देवनमत्रासीत् प्राणयोरिति नः श्रुतम्॥ तयोः प्रश्नविवादोऽभूत् प्रह्लादं तावपृच्छताम्। ज्यायान् क आवयोरेकः प्रश्नं प्रब्रूहि मा मृषा॥ स वै विवदनाद् भीत: सुधन्वानं विलोकयन्। तं सुधन्वाब्रवीत् क्रुद्धो ब्रह्मदण्ड इव ज्वलन्॥ यदि वै वक्ष्यसि मृषा प्रह्लादाथ न वक्ष्यसि। शतधा ते शिरो वज्री वज्रेण प्रहरिष्यति॥ सुधन्वना तथोक्तः सन् व्यथितोऽश्वत्थपर्णवत्। जगाम कश्यपं दैत्यः परिप्रष्टुं महौजसम्॥ प्रह्लाद उवाच त्वं वै धर्मस्य विज्ञाता दैवस्येहासुरस्य च। ब्राह्मणस्य महाभाग धर्मकृच्छ्रमिदं शृणु॥ यो वै प्रश्नं न विब्रूयाद् वितथं चैव निर्दिशेत्। के वै तस्य परे लोकास्तन्ममाचक्ष्व पृच्छतः॥ कश्यप उवाच जाननविब्रुवन् प्रश्नान् कामात् क्रोधाद् भयात् तथा। सहस्रं वारुणान् पाशानात्मनि प्रतिमुञ्चति॥ साक्षी वा विब्रुवन् साक्ष्यं गोकर्णशिथिलश्चरन्। सहस्रं वारुणान् पाशानात्मनि प्रतिमुश्चति॥ तस्य संवत्सरे पूर्णे पाश एकः प्रमुच्यते। तस्मात् सत्यं तु वक्तव्यं जानता सत्यमञ्जसा॥ विद्धो धर्मो हाधर्मेण सभां यत्रोपपद्यते। न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः॥ अर्धं हरति वै श्रेष्ठः पादो भवति कर्तृषु। पादश्चैव सभासत्सु ये न निन्दन्ति निन्दितम्॥ अनेना भवति श्रेष्ठों मुच्यन्ते च सभासदः। एनो गच्छति कर्तारं निन्दा) यत्र निन्द्यते॥ वितथं तु वदेयुर्ये धर्म प्रह्लाद पृच्छते। इष्टापूर्तं च ते नन्ति सप्त सप्त परावरान्॥ हृतस्वस्य हि यद् दुःखं हतपुत्रस्य चैव यत्। ऋणिनः प्रति यच्चैव स्वार्थाद् भ्रष्टस्य चैव यत्॥ स्त्रियाः पत्या विहीनाया राज्ञा ग्रस्तस्य चैव यत्। अपुत्रायाश्च यद् दुःखं व्याघ्राघातस्य चैव यत्॥ अध्यूढायाश्च यद् दुःखं साक्षिभिर्विहतस्य च। एतानि वै समान्याहुर्दुःखानि त्रिदिवेश्वराः॥ तानि सर्वाणि दुःखानि प्राप्नोति वितथं ब्रुवन्। समक्षदर्शनात् साक्षी श्रवणाच्चेति धारणात्॥ तस्मात् सत्यं ब्रुवन् साक्षी धर्मार्थाभ्यां न हीयते। कश्यपस्य वचः श्रुत्वा प्रह्लादः पुत्रमब्रवीत्॥ विदुर उवाच श्रेयान् सुधन्वा त्वत्तो वै मत्तः श्रेयांस्तथाङ्गिराः। माता सुधन्वनश्चापि मातृतः श्रेयसी तव। विरोचन सुधन्वायं प्राणानामीश्वरस्तव॥ सुधन्वोवाच पुत्रस्नेहं परित्यज्य यस्त्वं धर्मे व्यवस्थितः। अनुजानामि ते पुत्रं जीवत्वेष शतं समाः॥ विदुर उवाच एवं वै परमं धर्मं श्रुत्वा सर्वे सभासदः। यथाप्रश्नं तु कृष्णाया मन्यध्वं तत्र किं परम्॥ वैशंपायन उवाच विदुरस्य वचः श्रुत्वा नोचुः किंचन पार्थिवाः। कर्णो दुःशासनं त्वाह कृष्णां दासीं गृहान् नय॥ तां वेपमानां सवीडां प्रलपन्तीं स्म पाण्डवान्। दुःशासनः सभामध्ये विचकर्ष तपस्विनीम्॥ द्रौपद्युवाच पुरस्तात् करणीयं मे न कृतं कार्यमुत्तरम्। विह्वलास्मि कृतानेन कर्षता बलिना बलात्॥ अभिवादं करोम्येषां कुरूणां कुरुसंसदि। न मे स्यादपराधोऽयं यदिदं न कृतं मया।॥ वैशम्पायन उवाच सा तेन च समाधूता दुःखेन च तपस्विनी। पतिता विललापेदं सभायामतथोचिता॥ द्रौपद्युवाच स्वयंवरे यास्मि नृपैदृष्टा रङ्गे समागतैः। न दृष्टपूर्वा चान्यत्र साहमद्य सभां गता॥ यां न वायुर्न चादित्यो दृष्टवन्तौ पुरा गृहे। साहमद्य सभामध्ये दृश्यास्मि जनसंसदि॥ यां न मृष्यन्ति वातेन स्पृश्यमानां गृहे पुरा। स्पृश्यमानां सहन्तेऽद्य पाण्डवास्तां दुरात्मना॥ मृष्यन्ति कुरवश्चमे मन्ये कालस्य पर्ययम्। सुषां दुहितरं चैव क्लिश्यमानामनर्हतीम्॥ किं न्वतः कृपणं भूयो यदहं स्त्री सती शुभा। सभामध्यं विगाहेऽद्य क्व नु धर्मो महीक्षिताम्॥ धर्म्या स्त्रियं सभा पूर्वे न नयन्तीति नः श्रुतम्। स नष्टः कौरवेयेषु पूर्वो धर्मः सनातनः॥ कथं हि भार्या पाण्डूनां पार्षतस्य स्वसा सती। वासुदेवस्य च सखी पार्थिवानां सभामियाम्॥ तामिमां धर्मराजस्य भार्यां सदृशवर्णजाम्। बूत दासीमदासीं वा तत् करिष्यामि कौरवाः॥ अयं मां सुदृढं क्षुद्रः कौरवाणां यशोहरः। क्लिश्नाति नाहं तत् सोढुं चिरं शक्ष्यामि कौरवाः॥ जितां वाप्यजितां वापि मन्यध्वं मां यथा नृपाः। तथा प्रत्युक्तमिच्छामि तत् करिष्यामि कौरवाः॥ भीष्म उवाच उक्तवानस्मि कल्याणि धर्मस्य परमा गतिः। लोके न शक्यते ज्ञातुमपि विज्ञैर्महात्मभिः॥ बलवांश्च यथा धर्म लोके पश्यति पूरुषः। स धर्मो धर्मवेलायां भवत्यभिहतः परः॥ न विवेक्तुं च ते प्रश्नमिमं शक्नोमि निश्चयात्। सूक्ष्मत्वाद् गहनत्वाच्च कार्यस्यास्य च गौरवात्॥ नूनमन्तः कुलस्यायं भविता नचिरादिव। तथा हि कुरवः सर्वे लोभमोहपरायणाः॥ कुलेषु जाताः कल्याणि व्यसनैराहता भृशम्। धर्म्यान्मार्गान्न च्यवन्ते येषां नस्त्वं वधूः स्थिता॥ उपपन्नं च पाञ्चालि तवेदं वृत्तमीदृशम्। यत् कृच्छ्रमपि सम्प्राप्ता धर्ममेवान्ववेक्षसे॥ एते द्रोणादयश्चैव वृद्धा धर्मविदो जनाः। शून्यैः शरीरैस्तिष्ठन्ति गतासव इवानताः॥ युधिष्ठिरस्तु प्रश्नेऽस्मिन् प्रमाणमिति मे मतिः। अजितां वा जितां वेति स्वयं व्याहर्तुमर्हति॥ कर्ण उवाच त्रयः किलेमे ह्यधना भवन्ति। दासः पुतश्चास्वतन्त्रा च नारी। दासस्य पत्नी त्वधनस्य भद्रे हीनेश्वरा दासधनं च सर्वम्॥ प्रविश्य राज्ञः परिवारं भजस्व तत् ते कार्यं शिष्टमादिश्यतेऽत्र। ईशास्तु सर्वे तव राजपुत्रि। भवन्ति वै धार्तराष्ट्रा न पार्थाः॥ अन्यं वृणीष्व पतिमाशु भाविनि यस्माद् दास्यं न लभसि देवनेन। नित्यं दास्ये विदितं तत् तवास्तु॥ पराजितो नकुलो भीमसेनो युधिष्ठिरः सहदेवार्जुनौ च। दासीभूता त्वं हि वै याज्ञसेनि पराजितास्ते पतयो नैव सन्ति।॥ प्रयोजनं जन्मनि किं न मन्यते पराक्रमं पौरुषं चैव पार्थः। पाञ्चाल्यस्य दुपदस्यात्मजामिमां सभामध्ये यो व्यदेवीद् ग्लहेषु॥ वैशम्पायन उवाच तद् वै श्रुत्वा भीमसेनोऽत्यमर्षी भृशं निशश्वास तदाऽऽर्तरूपः। राजानुगो धर्मपाशानुबद्धो दहन्निवैनं क्रोधसंरक्तदृष्टिः॥ भीम उवाच नेष सत्यं दासधर्मः प्रदिष्टः। र्नादेवीस्त्वं यद्यनया नरेन्द्र॥ वैशम्पायन उवाच भीमसेनवचः श्रुत्वा राजा दुर्योधनस्तदा। युधिष्ठिरमुवाचेदं तूष्णीम्भूतमचेतनम्॥ भीमार्जुनौ यमौ चैव स्थितौ ते नृप शासने। प्रश्नं ब्रूहि च कृष्णां त्वमजितां यदि मन्यसे॥ एवमुक्त्वा तु कौन्तेयमपोह्य वसनं स्वकम्। स्मयन्नवेक्ष्य पाञ्चालीमैश्वर्यमदमोहितः॥ कदलीस्तम्भसदृशं सर्वलक्षणसंयुतम्। गजहस्तप्रतीकाशं वज्रप्रतिमगौरवम्॥ अभ्युत्स्मयित्वा राधेयं भीममाधर्षयन्निव। द्रौपद्याः प्रेक्षमाणायाः सव्यमूरुमदर्शयत्॥ भीमसेनस्तमालोक्य नेत्रे उत्फाल्य लोहिते। प्रोवाच राजमध्ये तं सभां विश्रावयन्निव॥ पितृभिः सह सालोक्यं मा स्म गच्छेद् वृकोदरः। यद्येतमूरूं गदया न भिन्द्यां ते महाहवे॥ क्रुद्धस्य तस्य सर्वेभ्यः स्रोतोभ्यः पावकर्चिषः। वृक्षस्येव विनिश्चेरुः कोटरेभ्यः प्रदह्यतः॥ विदुर उवाच परं भयं पश्यत भीमसेनात्। तद् बुध्यस्वं धृतराष्ट्रस्य पुत्राः। दैवेरितो नूनमयं पुरस्तात् परोऽनयो भरतेषूदपादि॥ अतिद्यूतं कृतमिदं धार्तराष्ट्रा यस्मात् स्त्रियं विवदध्वं सभायाम्। योगक्षेमौ नश्यतो वः समग्रौ पापान् मन्त्रान् कुरवो मन्त्रयन्ति॥ इमं धर्मं कुरवो जानताशु ध्वस्ते धर्मे परिषत् सम्प्रदुष्येत्। दीशोऽभविष्यदपराजितात्मा॥ देवं मन्ये यस्य दीव्यत्यनीशः। गान्धारराजस्य वचो निशम्य धर्मादस्मात् कुरवो मापयात॥ दुर्योधन उवाच भीमस्य वाक्ये तद्वदेवार्जुनस्य स्थितोऽहं वै यमयोश्चैवमेव। मथो दास्यान्मोक्ष्यसे याज्ञसेनि॥ अर्जुन उवाच ईशो राजा पूर्वमासीद् ग्लहे नः कुन्तीसुतो धर्मराजो महात्मा। ईशस्त्वयं कस्य पराजितात्मा तज्जानीध्वं कुरवः सर्व एव॥ वैशम्पायन उवाच ततो राज्ञो धृतराष्ट्रस्य गेहे गोमायुरुच्चाहरदग्निहोत्रे। तं रासभाः प्रत्यभाषन्त राजन् समन्ततः पक्षिणश्चैव रौद्राः॥ तं वै शब्दं विदुरस्तत्त्ववेदी शुश्राव घोरं सुबलात्मजा च। भीष्मो द्रोणो गौतमश्चापि विद्धान् स्वस्ति स्वस्तीत्यपि चैवाहुरुच्चैः॥ स्तमुत्पातं घोरमालक्ष्य राज्ञे। निवेदयामासतुरातवत् तदा ततो राजा वाक्यमिदं बभाषे॥ धृतराष्ट्र उवाच हतोऽसि दुर्योधन मन्दबुद्धे यस्त्वं सभायां कुरुपुङ्गवानाम्। स्त्रियं समाभाषसि दुर्विनीत विशेषतो द्रौपदी धर्मपत्नीम्॥ एवमुक्त्वा धृतराष्ट्रो मनीषी। हितान्वेषी बान्धवानामपायात्। कृष्णां पाञ्चालीमब्रवीत् सान्त्वपूर्व विमृश्यैतत् प्रज्ञया तत्त्वबुद्धिः॥ धृतराष्ट्र उवाच वरं वृणीष्व पाञ्चालि मत्तो यदभिवाञ्छसि। वधूनां हि विशिष्टा मे त्वं धर्मपरमा सती॥ द्रौपद्युवाच ददासि चेद् वरं मह्यं वृणोमि भरतर्षभ। सर्वधर्मानुगः श्रीमानदासोऽस्तु युधिष्ठिरः॥ मनस्विनमजानन्तो मैवं ब्रूयः कुमारकाः। एष वै दासपुत्रो हि प्रतिविन्ध्यं ममात्मजम्॥ राजपुत्रः पुरा भूत्वा यथा नान्यः पुमान् क्वचित्। राजभिालितस्यास्य न युक्ता दासपुत्रता॥ धृतराष्ट्र उवाच एवं भवतु कल्याणि यथा त्वमभिभाषसे। द्वितीयं ते वरं भद्रे ददानि वरयस्व ह। मनो हि मे वितरति नैकं त्वं वरमर्हसि॥ द्रौपद्युवाच सरथौ सधनुष्कौ च भीमसेनधनेजयौ। यमौ च वरये राजन्नदासान् स्ववशानहम्॥ धृतराष्ट्र उवाच तथास्तु ते महाभागे यथा त्वं नन्दिनीच्छसि। तृतीयं वरयास्मत्तो नासि द्वाभ्यां सुसत्कृता। त्वं हि सर्वस्नुषाणां मे श्रेयसी धर्मचारिणी॥ द्रौपद्युवाच लोभो धर्मस्य नाशाय भगवन् नाहमुत्सहे। अनर्हा वरमादातुं तृतीयं राजसत्तम॥ एकमाहुर्वैश्यवरं द्वौ तु क्षत्रस्त्रिया वरौ। त्रयस्तु राज्ञो राजेन्द्र ब्राह्मणस्य शतं वराः॥ पापीयांस इमे भूत्वा संतीर्णाः पतयो मम। वेत्स्यन्ति चैव भद्राणि राजन् पुण्येन कर्मणा॥ युधिष्ठिर उवाच राजन् किं करवामस्ते प्रशाध्यस्मांस्त्वमीश्वरः। नित्यं हि स्थातुमिच्छामस्तव भारत शासने॥ धृतराष्ट्र उवाच अजातशत्रो भद्रं ते अरिष्टं स्वस्ति गच्छत। अनुज्ञाताः सहधनाः स्वराज्यमनुशासत॥ इदं चैवावबोद्धव्यं वृद्धस्य मम शासनम्। मया निगदितं सर्वं पथ्यं निःश्रेयसं परम्॥ वेत्थ त्वं तात धर्माणां गतिं सूक्ष्मां युधिष्ठिर। विनीतोऽसि महाप्राज्ञ वृद्धानां पर्युपासिता॥ यतो बुद्धिस्ततः शान्तिः प्रशमं गच्छ भारत। नादारुणि पतेच्छस्त्रं दारुण्येतन्निपात्यते॥ न वैराण्यभिजानन्ति गुणान् पश्यन्ति नागुणान्। विरोधं नाधिगच्छन्ति ये त उत्तमपूरुषाः॥ स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि। सन्तः परार्थं कुर्वाणा नावेक्षन्ते प्रतिक्रियाम्॥ संवादे परुषाण्याहुर्युधिष्ठिर नराधमाः। प्रत्याहुर्मध्यामास्त्वेतेऽनुक्ताः परुषमुत्तरम्॥ न चोक्ता नैव चानुक्तास्त्वहिताः परुषा गिरः। प्रतिजल्पन्ति वै धीराः सदा तूत्तमपूरुषा॥ स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि। सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः॥ असम्भिन्नार्थमर्यादाः साधवः प्रियदर्शनाः। तथा चरितमार्येण त्वयास्मिन् सत्समागमे॥ दुर्योधनस्य पारुष्यं तत् तात हृदि मा कृथाः। मातरं चैव गान्धारी मां च त्वं गुणकाझ्या॥ उपस्थितं वृद्धमन्धं पितरं पश्य भारत। प्रेक्षापूर्वं मया द्यूतमिदमासीदुपेक्षितम्॥ मित्राणि द्रष्टुकामेन पुत्राणां च बलाबलम्। अशोच्याः कुरवो राजन् येषां त्वमनुशासिता॥ मन्त्री च विदुरो धीमान् सर्वशास्त्रविशारदः। त्वयि धर्मोऽर्तुने धैर्यं भीमसेने पराक्रमः॥ श्रद्धा च गुरुशुश्रूषा यमयोः परुषग्ययोः। अजातशत्रो भद्रं ते खाण्डवप्रस्थमाविश। भ्रातृभिस्तेऽस्तु सौभ्रानं धर्मे ते धीयतां मनः॥ वैशम्पायन उवाच इत्युक्तो भरतश्रेष्ठ धर्मराजो युधिष्ठिरः। कृत्वाऽऽर्यसमयं सर्वं प्रतस्थे भ्रातृभिः सह॥ ते रथान् मेघसंकाशानास्थास सह कृष्णया। प्रययुर्हष्टमनस इन्द्रप्रस्थं पुरोत्तमम्॥ जनमेजय उवाच अनुज्ञातांस्तान् विदित्वा सरत्नधनसंचयान्। पाण्डवान् धार्तराष्ट्राणां कथमासीन्मनस्तदा॥ वैशम्पायन उवाच अनुज्ञातांस्तान् विदित्वा धृतराष्ट्रेण धीमता। राजन् दुःशासनः क्षिप्रं जगाम भ्रातरं प्रति॥ दुर्योधनं समासाद्य सामात्यं भरतर्षभ। दुःखार्तो भरतश्रेष्ठमिदं वचनमब्रवीत्॥ दुःशासन उवाच दुःखेनैतत् समानीतं स्थविरो नाशयत्यसौ। शत्रुसाद् गमयद् द्रव्यं तद् बुध्यध्वं महारथाः॥ अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः। मिथः संगम्य सहिताः पाण्डवान् प्रति मानिनः॥ वैचित्रवीर्यं राजानं धृतराष्ट्र मनीषिणम्। अभिगम्य त्वरायुक्ताः श्लक्ष्णं वचनमब्रुवन्॥ दुर्योधन उवाच न त्वयेदं श्रुतं राजन् यज्जगाद् बृहस्पतिः। शक्रस्य नीतिं प्रवदन् विद्वान् देवपुरोहितः॥ सर्वोपायैर्निहन्तव्याः शत्रवः शत्रुसूदन। पुरा युद्धाद् बलाद् वापि प्रकुर्वन्ति तवाहितम्॥ ते वयं पाण्डवधनैः सर्वान् सम्पूज्य पार्थिवान्। यदि तान् योधयिष्यामः किं वै नः परिहास्यति॥ अहीनाशीविषान् क्रुद्धान् नाशाय समुपस्थितान्। कृत्वा कण्द्दे च पृष्ठे च कः समुत्स्रष्टुमर्हति॥ आत्तशस्त्रा रथगताः कुपितास्तात पाण्डवाः। निःशेषं वः करिष्यन्ति क्रुद्धा ह्याशीविषा इव॥ संनद्धो ह्यर्जुनो याति विधृत्य परमेषुधी। गाण्डीवं मुहुरादत्ते निःश्वसंश्च निरीक्षते॥ गदां गुर्वी समुद्यम्य त्वरितश्च वृकोदरः। स्वस्थं योजयित्वाऽऽशु निर्यात इति नः श्रुतम्॥ नकुलः खड्गमादाय चर्म चाप्यर्धचन्द्रवत्। सहदेवश्च राजा च चक्रुराकारमिङ्गितैः॥ ते त्वास्थाय रथान् सर्वे बहुशस्त्रपरिच्छदान्। अभिघ्नन्तो रथवातान् सेनायोगाय निर्ययुः॥ न क्षस्यन्ते तथास्माभिर्जातु विप्रकृता हि ते। द्रौपद्याश्च परिक्लेशं कस्तेषां क्षन्तुमर्हति॥ पुनर्दीव्या भद्रं ते वनवासाय पाण्डवैः। एवमेतान् वशे कर्तुं शक्ष्याः पुरुषर्षभः॥ ते वा द्वादश वर्षाणि वयं वा द्यूतनिर्जिताः। प्रविशमे महारण्यमजिनैः प्रतिवासिताः॥ त्रयोदशं च सजने अज्ञाता: परिवत्सरम्। ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश॥ निवसेन वयं ते वा तथा द्यूतं प्रवर्तताम्। अक्षानुप्त्वा पुन तमिदं कुर्वन्तु पाण्डवाः॥ एतत् कृत्यतमं राजन्नस्माकं भरतर्षभ। अयं हि शकुनिर्वेद सविद्यामक्षसम्पदम्॥ दृढमूला वयं राज्ये मित्राणि परिगृह्य च। सारवद् विपुलं सैन्यं सत्कृत्य च दुरासदम्॥ ते च त्रयोदशं वर्षं पारयिष्यन्ति चेद् व्रतम्। जेष्यामस्तान् वयं राजन् रोचतां ते परंतप॥ धृतराष्ट्र उवाच तूर्णं प्रत्यानयस्वैतान् कामं व्यध्वगतानपि। आगच्छन्तु पुन तमिदं कुर्वन्तु पाण्डवाः॥ वैशम्पायन उवाच ततो द्रोणः सोमदत्तो बाह्रीकश्चैव गौतमः। विदुरो द्रोणपुत्रश्च वैश्यापुत्रश्च वीर्यवान्॥ भूरिश्रवाः शान्तनवो विकर्णश्च महारथः। मा द्यूतमित्यभाषन्त शमोऽस्त्विति च सर्वशः॥ अकामानां च सर्वेषां सुहृदामर्थदर्शिनाम्। अकरोत् पाण्डवाह्वानं धृतराष्ट्रः सुतप्रियः॥ वैशम्पायन उवाच अथाब्रवीन्महाराज धृतराष्ट्रं जनेश्वरम्। पुत्रहार्दाद् धर्मयुक्ता गान्धारी शोककर्षिता॥ जाते दुर्योधने क्षत्ता महामतरभाषत। नीयतां परलोकाय साध्वयं कुलपांसनः॥ व्यनदज्जातमात्रो हि गोमायुरिव भारत। अन्तो नूनं कुलस्यास्य कुरवस्तन्निबोधत॥ मा निमज्जीः स्वदोषेण महाप्सु त्वं ह भारत। मा बालानामशिष्टानामभिमंस्था मतिं प्रभो॥ मा कुलस्य क्षये घोरे कारणं त्वं भविष्यसि। बद्धं सेतुं को नु भिन्द्याद् धमेच्छान्तं च पावकम्॥ शमे स्थितान् को नु पार्थान् कोपयेद् भरतर्षभ। स्मरन्तं त्वामाजमीढ स्मारयिष्याम्यहं पुनः॥ शास्त्रं न शास्ति दुर्बुद्धिं श्रेयसे चेतराय च। न वै वृद्धो बालमतिर्भवेद् ग़जन् कथंचन॥ त्वन्नेत्राः सन्तु ते पुत्रा मा त्वां दीर्णाः प्रहासिषुः। तस्मादयं मद्वचनात् त्यज्यतां कुलपांसनः॥ तथा ते न कृतं राजन् पुत्रस्नेहान्नराधिप। तस्य प्राप्तं फलं विद्धि कुलान्तकरणाय यत्॥ शमेन धर्मेण नयेन युक्ता या ते बुद्धिः सास्तु ते मा प्रमादीः। {दुप्रौढा गच्छति पुत्रपौत्रान्॥ अथाब्रवीन्महाराजो गान्धारी धर्मदर्शिनीम्। अन्तः कामं कुलस्यास्तु न शक्नोमि निवारितुम्॥ यथेच्छन्ति तथैवास्तु प्रत्यागच्छन्तु पाण्डवाः। पुन तं च कुर्वन्तु मामकाः पाण्डवैः सह॥ वैशम्पायन उवाच ततो व्यध्वगतं पार्थं प्रातिकामी युधिष्ठिरम्। उवाच वचनाद् राज्ञो धृतराष्ट्रस्य धीमतः॥ उपास्तीर्णा सभा राजन्नक्षानुप्त्वा युधिष्ठिर। एहि पाण्डव दीव्येति पिता त्वाऽऽहेति भारत॥ युधिष्ठिर उवाच धातुर्नियोगाद् भूतानि प्राप्नुवन्ति शुभाशुभम्। न निवृत्तिस्तयोरस्ति देवितव्यं पुनर्यदि॥ अक्षयूते समाह्वानं नियोगात् स्थविरस्य च। जानन्नपि क्षयकरं नातिक्रमितुमुत्सहे॥ वैशम्पायन उवाच स्तथापि रामो लुलुभे मृगाय। प्रायः समासन्नपराभवाणां धियो विपर्यस्ततरा भवन्ति॥ इति ब्रुवन् निववृते भ्रातृभिः सह पाण्डवः। जानंश्च शकुनेर्मायां पार्थो द्यूतमियात् पुनः॥ विविशुस्ते सभां तां तु पुनरेव महारथाः। व्यथयन्ति स्म चेतांसि सुहृदां भरतर्षभाः॥ यथोपजोषमासीनाः पुन तप्रवृत्तये। सर्वलोकविनाशाय दैवेनोपनिपीडिताः॥ शकुनिरुवाच अमुञ्चत् स्थविरो यद् वो धनं पूजितमेव तत्। महाधनं ग्लहं त्वेकं शृणु भो भरतर्षभ।॥ वयं वा द्वादशाब्दानि युष्माभि तनिर्जिताः। प्रविशेम महारण्यं रौरवाजिनवाससः॥ त्रयोदशं च सजने अज्ञाताः परिवत्सरम्। ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश॥ अस्माभिर्निर्जिता यूयं वने द्वादश वत्सरान्। वसध्वं कृष्णया सार्धमजिनैः प्रतिवासिताः॥ त्रयोदशं च सजने अज्ञाताः परिवत्सरम्। ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश॥ त्रयोदशे च निर्वृत्ते पुनरेव यथोचितम्। स्वराज्यं प्रतिपत्तव्यमितरैरथवेतरैः॥ अनेन व्यवसायेन सहास्माभिर्युधिष्ठिर। अक्षानुप्त्वा पुन तमेहि दीव्यस्व भारत॥ अथ सभ्याः सभामध्ये समुच्छ्रितकरास्तदा। ऊचुरुद्विग्नमनसः संवेगात् सर्व एव हि॥ सभ्या ऊचुः अहो धिग बान्धवा नैनं बोधयन्ति महद् भयम्। बुद्ध्या बुध्येन्न वा बुध्येदयं वै भरतर्षभः॥ वैशम्पायन उवाच जनप्रवादान् सुबहूण्वन्नपि नराधिपः। हिया च धर्म संयोगात् पार्थो द्यूतमियात् पुनः॥ जानन्नपि महाबुद्धिः पुन तमवर्तयत्। अप्यासन्नो विनाशः स्यात् कुरूणामिति चिन्तयन्॥ युधिष्ठिर उवाच कथं वै मद्विधो राजा स्वधर्ममनुपालयन्। आहूतो विनिवर्तेत दीव्यामि शकुने त्वया॥ शकुनिरुवाच गवावं बहुधेनूकमपर्यन्तमजाविकम्। गजाः कोशो हिरण्यं च दासीदासाश्च सर्वशः॥ एष नो ग्लह एवैको वनवासाय पाण्डवाः। यूयं वयं वा विजिता वसेम वनमाश्रिताः॥ त्रयोदशं च वै वर्षमज्ञाताः सजने तथा। अनेन व्यवसायेन दीव्याम पुरुषर्षभाः॥ समुत्क्षेपेण चैकेन वनवासाय भारत। प्रतिजग्राह तं पार्थो ग्लहं जग्राह सौबलः। जितमित्येव शकुनियुधिष्ठिरमभाषत॥ वैशम्पायन उवाच ततः पराजिताः पार्था वनवासाय दीक्षिताः। अजिनान्युत्तरीयाणि जगृहुश्च यथाक्रमम्॥ अजिनैः संवृतान् दृष्ट्वा हृतराज्यानरिंदमान्। प्रस्थितान् वनवासाय ततो दुःशासनोऽब्रवीत्॥ प्रवृत्तं धार्तराष्ट्रस्य चक्रं राज्ञो महात्मनः। पराजिताः पाण्डवेया विपत्तिं परमां गताः॥ अद्यैव ते सम्प्रयाताः समैर्वर्त्मभिरस्थलैः। गुणज्येष्ठास्तथा श्रेष्ठाः श्रेयांसो यद् वयं परैः॥ नरकं पातिताः पार्था दीर्घकालमनन्तकम्। सुखाच्च हीना राज्याच्च विनष्टाः शाश्वती: समाः॥ धनेन मत्ता ये ते स्म धार्तराष्ट्रान् प्रहासिषुः। ते निर्जिता हृतधना वनमेष्यन्ति पाण्डवाः॥ चित्रान् सन्नाहानवमुच्य पार्था वासांसि दिव्यानि च भानुमन्ति। विवास्यन्तां रुरुचर्माणि सर्वे यथा ग्लहं सौबलस्याभ्युपेताः॥ न सन्ति लोकेषु पुमांस ईदृशा इत्येव ये भावितबुद्धयः सदा। ज्ञास्यन्ति तेऽऽत्मानमिमेऽद्य पाण्डवा विपर्यये षण्ढतिला इवाफलाः॥ इदं हि वासो यदि वेदृशानां मनस्विनां रौरवमाहवेषु। अदीक्षितानामजिनानि यद्वद् बलीयसां पश्यत पाण्डवानाम्॥ महाप्राज्ञः सौमकिर्यज्ञसेनः कन्यां पाञ्चालीं पाण्डवेभ्यः प्रदाय। अकार्षीद् वै सुकृतं नेह किंचित् क्लीबाः पार्थाः पतयो याज्ञसेन्याः॥ सूक्ष्मप्रावारानजिनोत्तरीयान् दृष्टवारण्ये निर्धनानप्रतिष्ठान्। कां त्वं प्रीति लप्स्यसे याज्ञसेनि पतिं वृणीष्वेह यमन्यमिच्छसि॥ एते हि सर्वे कुरवः समेताः क्षान्ता दान्ताः सुद्रविणोपपन्नाः। एषां वृणीष्वैकतमं पतित्वे न त्वां तपेत् कालविपर्ययोऽयम्॥ यथाफलाः षण्ढतिला यथा चर्ममया मृगाः। तथैव पाण्डवाः सर्वे यथा काकयवा अपि॥ किं पाण्डवांस्ते पतितानुपास्य मोघः श्रमः षण्ढतिलानुपास्य। नश्रावयद् धृतराष्ट्रस्य पुत्रः॥ तद् वै श्रुत्वा भीमसेनोऽत्यमर्षी निर्भत्र्योच्चैः संनिगृह्मैव रोषात्। उवाच चैनं सहसैवोपगम्य सिंहो यथा हैमवतः शृगालम्॥ भीमसेन उवाच क्रूर पापजनैर्जुष्टमकृतार्थं प्रभाषसे। गान्धारविद्यया हि त्वं राजमध्ये विकत्थसे॥ यथा तुदसि मर्माणि वाक्शरैरिह नो भृशम्। तथा स्मारयिता तेऽहं कृन्तन् मर्माणि संयुगे॥ ये च त्वामनुवर्तन्ते क्रोधलोभवशानुगाः! गोप्तारः सानुबन्धास्तान् नेतास्मि यमसादनम्॥ वैशम्पायन उवाच एवं ब्रुवाणमजिनैर्विवासितं दुःशासनस्तं परिनृत्यति स्म। मध्ये कुरूणां धर्मनिबद्धमार्ग गौौरिति स्माह्वयन् मुक्तलज्जः॥ भीमसेन उवाच नृशंस परुषं वक्तुं शक्यं दुःशासन त्वया। निकृत्या हि धनं लब्ध्वा को विकस्थितुमर्हति॥ मैव स्म सुकृताल्लोकान् गच्छेत् पार्थो वृकोदरः। यदि वक्षो हि ते भित्त्वा न पिबेच्छोणितं रणे॥ धार्तराष्ट्रान् रणे हत्वा मिषतां सर्वधन्विनाम्। शां गन्तास्मि नवरात् सत्यमेतद् ब्रवीमि ते॥ वैशम्पायन उवाच तस्य राजा सिंहगतेः सखेलं दुर्योधनो भीमसेनस्य हर्षात्। गतिं स्वगत्यानुचकार मन्दो निर्गच्छतां पाण्डवानां सभायाः॥ नैतावता कृतमित्यब्रवीत् तं वृकोदरः संनिवृत्तार्धकायः। शीघ्रं हि त्वां निहतं सानुबन्ध संस्मार्याहं प्रतिवक्ष्यामि मूढ॥ एवं समीक्ष्यात्मनि चावमानं नियम्य मन्युं बलवान् स मानी। राजांनुगः संसदि कौरवाणां विनिष्क्रामन् वाक्यमुवाच भीमः॥ भीमसेन उवाच अहं दुर्योधनं हन्ता कर्णं हन्ता धनंजयः। शकुनि चाक्षकितवं सहदेवो हनिष्यति॥ इदं च भूयो वक्ष्यामि सभामध्ये बृहद् वचः। सत्यं देवाः करिष्यन्ति यन्नो युद्धं भविष्यति॥ सुयोधनमिमं पापं हन्तास्मि गदया युधि। शिरः पादेन चास्याहमधिष्ठास्यामि भूतले॥ वाक्यशूरस्य चैवास्य परुषस्य दुरात्मनः। दुःशासनस्य रुधिरं पातास्मि मृगराडिव॥ अर्जुन उवाच नैवं वाचा व्यवसितं भीम विज्ञायते सताम्। इतश्चतुर्दशे वर्षे द्रष्टारो यद् भविष्यति॥ भीमसेन उवाच दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः। दुःशासनचतुर्थानां भूमिः पास्यति शोणितम्॥ अर्जुन उवाच असूयितारं द्रष्टारं प्रवक्तारं विकत्थनम्। भीमसेन नियोगात् ते हन्ताहं कर्णमाहवे॥ अर्जुनः प्रतिजानीते भीमस्य प्रियकाम्यया। कर्णं कर्णानुगांश्चैव रणे हन्तास्मि पत्रिभिः॥ ये चान्ये प्रतियोत्स्यन्ति बुद्धिमोहेन मां नृपाः। तांश्च सर्वानहं बाणैर्नेतास्मि यमसादनम्॥ चलेद्धि हिमवान् स्थानानिष्प्रभः स्याद् देवाकरः। शैत्यं सोमात् प्रणश्येत मत्सत्यं विष नेद् यदि॥ न प्रदास्यति चेद् राज्यमितो वर्षे चतुर्दशे। दुर्योधनोऽभिसत्कृत्य सत्यमेतद् भविष्यति॥ वैशम्पायन उवाच इत्युक्तवति पार्थे तु श्रीमान् माद्रवतीसुतः। प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान्॥ सौबलस्य वधं प्रेप्सुरिदं वचनमब्रवीत्। क्रोधसंरक्तनयनो निःश्वसन्निव पन्नगः॥ सहदेव उवाच अक्षान् यान् मन्यसे मूढ गान्धाराणां यशोहर। नैतेऽक्षा निशिता बाणास्त्वयैते समरे वृताः॥ यथा चैवोक्तवान् भीमस्त्वामुद्दिश्य सबान्धवम्। कर्ताहं कर्मणस्तस्य कुरु कार्याणि सर्वशः॥ हन्तास्मि तरसा युद्धे त्वामेवेह सबान्धवम्। यदि स्थास्यसि संग्रामे क्षत्रधर्मेण सौबल॥ सहदेववचः श्रुत्वा नकुलोऽपि विशाम्पते। दर्शनीयतमो नृणामिदं वचनमब्रवीत्॥ नकुल उवाच सुतेयं यज्ञसेनस्य द्यूतेऽस्मिन् धृतराष्ट्रजैः। यैर्वाचः श्राविता रूक्षाः स्थितैर्दुर्योधनप्रिये॥ तान् धार्तराष्ट्रान् दुर्वृत्तान् मुमूर्षुन् कालनोदितान्। गमयिष्यामि भूयिष्ठानहं वैवस्वतक्षयम्॥ निदेशाद् धर्मराजस्य द्रौपद्याः पदवीं चरन्। निर्धार्तराष्ट्रां पृथिवीं कर्तास्मि नचिरादिव॥ वैशम्पायन उवाच एवं ते पुरुषव्याघ्राः सर्वे व्यायतबाहवः। प्रतिज्ञा बहुलः कृत्वा धृतराष्ट्रमुपागमन्॥ युधिष्ठिर उवाच आमन्त्रयामि भरतांस्तथा वृद्धं पितामहम्। राजानं सोमदत्तं च महाराजं च बाह्निकम्॥ द्रोणं कृपं नृपांश्चान्यानश्वत्थामानमेव च। विदुरं धृतराष्ट्रं च धार्तराष्ट्रांश्च सर्वशः॥ युयुत्सुं संजयं चैव तथैवान्यान् सभासदः। सर्वानामन्त्र्य गच्छामि द्रष्टास्मि पुनरेत्य वः॥ वैशम्पायन उवाच न च किंचिदथोचुस्तं ह्रिया सन्ना युधिष्ठिरम्। मनोभिरेव कल्याणं दध्युस्ते तस्य धीमतः॥ विदुर उवाच आर्या पृथा राजपुत्री नारण्यं गन्तुमर्हति। सुकुमारी च वृद्धा च नित्यं चैव सुखोचिता॥ इह वत्स्यति कल्याणी सत्कृता मम वेश्मनि। इति पार्था विजानीध्वमगदं वोऽस्तु सर्वशः॥ वैशम्पायन उवाच तथेत्युक्त्वाब्रुवन् सर्वे यथा नो वदसेऽनघ। त्वं पितृव्यः पितृसमो वयं च त्वत्परायणाः॥ यथाऽऽज्ञापयसे विद्वंस्त्वं हि नः परमो गुरुः। यच्चान्यदपि कर्तव्यं तद् विधत्स्व महामते॥ विदुर उवाच युधिष्ठिर विजानीहि ममेदं भरतर्षभ। नाधर्मेण जितः कश्चिद् व्यथते वै पराजय॥ त्वं वै धर्मं विजानीषे युद्धे जेता धनंजयः। हन्तारीणां भीमसेनो नकुलस्त्वर्थसंग्रही॥ संयन्ता सहदेवस्तु धौम्यो ब्रह्मविदुत्तमः। धर्मार्थकुशला चैव द्रौपदी धर्मचारिणी॥ अन्योन्यस्य प्रियाः सर्वे तथैव प्रियदर्शनाः। परैरभेद्याः संतुष्टाः को वो न स्पृहयेदिह॥ एष वै सर्वकल्याणः समाधिस्तव भारत। नैनं शत्रुर्विषहते शक्रेणापि समोऽप्युत॥ हिमवत्यनुशिष्टोऽसि मेरुसावर्णिना पुरा। द्वैपायनेन कृष्णेन नगरे वारणावते॥ भृगुतुङ्गे च रामेण दृषद्वत्यां च शम्भुना। अश्रौषीरसितस्यापि महर्षेरञ्जनं प्रति॥ कल्माषीतीरसंस्थस्य गतस्त्वं शिष्यतां भृगोः। द्रष्टा सदा नारदस्ते धौम्यस्तेऽयं पुरोहितः॥ मा हासीः साम्पराये त्वं बुद्धि तामृषिपूजिताम्। पुरूरवसमैलं त्वं बुद्ध्या जयसि पाण्डव॥ शक्त्या जयसि राज्ञोऽन्यानृषीन् धर्मोपसेवया। ऐन्द्रे जये धृतमना याम्ये कोपविधारणे॥ तथा विसर्गे कौबेरे वारुणे चैव संयमे। आत्मप्रदानं सौम्यत्वमद्भ्यश्चैवोपजीवनम्॥ भूमेः क्षमा च तेजश्च समग्रं सूर्यमण्डलात्। वायोर्बलं प्राप्नुहि त्वं भूतेभ्यश्चात्मसम्पदम्॥ अगदं वोऽस्तु भद्रं वो द्रष्टास्मि पुनरागतान्। आपद्धर्मार्थकृच्छ्रेषु सर्वकार्येषु वा पुनः॥ यथावत् प्रतिपद्येथाः काले काले युधिष्ठिर। आपृष्टोऽसीह कौन्तेय स्वस्ति प्राप्नुहि भारत॥ कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामः पुनरागतम्। न हि वो वृजिनं किंचिद् वेद कश्चित्पुरा कृतम्।। वैशम्पायन उवाच एवमुक्तस्तथेत्युक्त्वा पाण्डवः सत्यविक्रमः। भीष्मद्रोणौ नमस्कृत्य प्रातिष्ठत युधिष्ठिरः॥ वैशम्पायन उवाच तस्मिन् सम्प्रस्थिते कृष्णा पृथां प्राप्य यशस्विनीम्। अपृच्छद् भृशदुःखार्ता याश्चान्यास्तत्र योषितः॥ यथार्ह वन्दनाश्लेषान् कृत्वा गन्तुमियेष सा। ततो निनादः सुमहान् पाण्डवान्तःपुरेऽभवत्॥ कुन्ती च भृशसंतप्ता द्रौपदी प्रेक्ष्य गच्छतीम्। शोकविह्वलया वाचा कृच्छ्राद् वचनमब्रवीत्॥ कुन्त्युवाच वत्से शोको न ते कार्यः प्राप्येदं व्यसनं महत्। स्त्रीधर्माणामभिज्ञासि शीलाचारवती तथा॥ न त्वां संदेष्टुमर्हासि भर्तृन् प्रति शुचिस्मिते। साध्वीगुणसमापन्ना भूषितं ते कुलद्वयम्॥ सभाग्याः कुरवश्चमे ये न दग्धास्त्वयानचे। अरिष्टं व्रज पन्थानं मदनुध्यानबृंहिता॥ भाविन्यर्थे हि सत्स्त्रीणां वैकृतं नोपजायते। गुरुधर्माभिगुप्ता च श्रेयः क्षिप्रमवाप्स्यसि॥ सहदेवश्च मे पुत्रः सदावेक्ष्योः वने वसन्। यथेदं व्यसनं प्राप्य नायं सीदेमहामतिः॥ तथेत्युक्त्वा तु सा देवी स्रवन्नेत्रजलाविला। शोणिताक्तैकवसना मुक्तकेशी विनिर्ययौ॥ तां क्रोशन्तीं पृथा दुःखादनुवव्राज गच्छतीम्। अथापश्यत् सुतान् सर्वान् हृताभरणवाससः॥ रुरुचर्मावृततनून् ह्रिया किंचिदवाङ्मुखान्। परैः परीतान् संहृष्टैः सुहृद्धिश्चानुशोचितान्॥ तदवस्थान् सुतान् सर्वानुपसृत्यातिवत्सला। स्वजमानावदच्छोकात् तत्तद् विलपती बहु॥ कुन्त्युवाच कथं सद्धर्मचारित्रान् वृत्तस्थितिविभूषितान्। अक्षुद्रान् दृढभक्तांश्च दैवतेज्यापरान् सदा॥ व्यसनं वः समभ्यागात् कोऽयं विधिविपर्ययः। कस्यापध्यानजं चेदं धिया पश्यामि नैव तत्॥ स्यात् तु मद्भाग्यदोषोऽयं याहं युष्मानजीजनम्। दुःखायासभुजोऽत्यर्थं युक्तानप्युत्तमैर्गुणैः॥ कथं वत्स्यथ दुर्गेषु वने ऋद्धिविनाकृताः। वीर्यसत्त्वबलोत्साहतेजोभिरकृशाः कृशाः॥ यद्येतदेवमज्ञास्यं वने वासो हि वि ध्रुवम्। शतशृङ्गन्मृते पाण्डौ नागमिष्यं गजाह्वयम्॥ धन्यं वः पितरं मन्ये तपोमेधान्वितं तथा। यः पुत्राधिमसम्प्राप्य स्वर्गेच्छाम करोत् प्रियाम्॥ धन्यां चातीन्द्रियज्ञानामिमां प्राप्तां परां गतिम्। मन्ये तु माद्रीं धर्मज्ञां कल्याणी सर्वथैव तु॥ रत्या मत्या च गत्या च ययाहमभिसन्धिता। जीवितप्रियतां मह्यं धिमां संक्लेशभागिनीम्॥ पुत्रकान विहास्ये वः कृच्छ्रलब्धान् प्रियान् सतः। साहं यास्यामि हि वनं हा कृष्णे किं जहासि माम्॥ अन्तवत्यसुधर्मेऽस्मिन् धात्रा किं नु प्रमादतः। ममान्तो नैव विहितस्तेनायुर्न जहाति माम्॥ हा कृष्ण द्वारकावासिन् क्वासि संकर्षणानुज। कस्मान्न त्रायसे दुःखान्मां चेमांश्च नरोत्तमान्॥ अनादिनिधनं ये त्वामनुध्यायन्ति वै नराः। तांस्त्वं पासीत्ययं वादः स गतो व्यर्थतां कथम्॥ इमे सद्धर्ममाहात्म्ययशोवीर्यानुवर्तिनः। नार्हन्ति व्यसनं भोक्तुं नन्वेषां क्रियतां दया!॥ सेयं नीत्यर्थविज्ञेषु भीष्मद्रोणकृपादिषु। स्थितेषु कुलनाथेषु कथमापदुपागता॥ हा पाण्डो हा महाराज क्वासि किं समुपेक्षसे। पुत्रान् विवास्यतः साधूनरिभि तनिर्जितान्॥ सहदेव निवर्तस्व ननु त्वमसि मे प्रियः। शरीरादपि माद्रेय मा मा त्याक्षीः कुपुत्रवत्॥ व्रजन्तु भ्रातरस्तेऽमी यदि सत्याभिसंधिनः। मत्परित्राणजं धर्ममिहैव त्वमवाप्नुहि॥ वैशम्पायन उवाच एवं विलपती कुन्तीमभिवाद्य प्रणम्य च। पाण्डवा विगतानन्दा वनायैव प्रवव्रजुः॥ विदुरश्चापि तामा" कुन्तीमाश्वास्य हेतुभिः। प्रावेशयद् गृहं क्षत्ता स्वयमार्ततरः शनैः॥ धार्तराष्ट्रस्त्रियस्ताश्च निखिलेनोपलभ्य तत्। गमनं परिकर्षं च कृष्णाया द्यूतमण्डले॥ रुरुदुः सुस्वनं सर्वा विनिन्दन्त्यः कुरून् भृशम्। दध्युश्च सुचिरं कालं करासक्तमुखाम्बुजाः॥ राजा च धृतराष्ट्रस्तु पुत्राणामनयं तदा। ध्यायन्नुद्विग्नहृदयो न शान्तिमधिजग्मिवान्॥ स चिन्तयन्ननेकाग्रः शोकव्याकुलचेतनः। क्षत्तुः सम्प्रेषयामास शीघ्रमागम्यतामिति॥ ततो जगाम विदुरो धृतराष्ट्रनिवेशनम्। तं पर्यपृच्छत् संविग्नो धृतराष्ट्रो जनाधिपः॥ वैशम्पायन उवाच तमागतमथो राजा विदुरं दीर्घदर्शिनम्। साशरू इव पप्रच्छ धृतराष्ट्रोऽम्बिकासुतः॥ धृतराष्ट्र उवाच कथं गच्छति कौन्तेयो धर्मपुत्रो युधिष्ठिरः। भीमसेनः सव्यसाची माद्रीपुत्रौ च पाण्डवौ॥ धौम्यश्चैव कथं क्षत्तद्रौपदी च यशस्विनी। श्रोतुमिच्छाम्यहं सर्वं तेषां शंस विचेष्टितम्॥ विदुर उवाच वस्त्रेण संवृत्य मुखं कुन्तीपुत्रो युधिष्ठिरः। बाहू विशालौ सम्पश्यन् भीमो गच्छति पाण्डवः॥ सिकता वपन् सव्यसाची राजानमनुगच्छति। माद्रीपुत्रः सहदेवो मुखमालिप्य गच्छति॥ पांसूपलिप्तसर्वाङ्गो नकुलश्चित्तविह्वलः। दर्शनीयतमो लोके राजानमनुगच्छति॥ कृष्णा तु केशैः प्रच्छाद्य मुखमायतलोचना। दर्शनीया प्ररुदती राजानमनुगच्छति॥ धौम्यो रौद्राणि सामानि याम्यानि च विशाम्पते। गायन् गच्छति मार्गेषु कुशानादाय पाणिना॥ धृतराष्ट्र उवाच विविधानीह रूपाणि कृत्वा गच्छन्ति पाण्डवाः। तन्ममाचक्ष्व विदुर कस्मादेवं व्रजन्ति ते॥ विदुर उवाच निकृतस्यापि ते पुत्रैर्हते राज्ये धनेषु च। न धर्माच्चलते बुद्धिर्धर्मराजस्य धीमतः॥ योऽसौ राजा घृणी नित्यं धार्तराष्ट्रेषु भारत। निकृत्या भ्रंशितः क्रोधान्नोन्मीलयति लोचने।॥ नाहं जनं निर्दहेयं दृष्ट्वा घोरेण चक्षुषा। स पिधाय मुखं राजा तस्माद् गच्छति पाण्डवः॥१२। यथा च भीमो व्रजति तन्मे निगदतः शृणु। बाह्वोर्बले नास्ति समो ममेति भरतर्षभ।॥ बाहू विशालौ कृत्वासौ तेन भीमोऽपि गच्छति। बाहू विदर्शयन् राजन् बाहुद्रविणदर्पितः॥ चिकीर्षन् कर्म शत्रुभ्यो बाहुद्रव्यानुरूपतः। प्रदिशञ्छरसम्पातान् कुन्तीपुत्रोऽर्जुनस्तदा॥ सिकता वपन् सव्यसाची राजानमनुगच्छति। असक्ताः सिकतास्तस्य यथा सम्प्रति भारत। असक्तं शरवर्षाणि तथा मोक्ष्यति शत्रुषु॥ न मे कश्चिद् विजानीयान्मुखमद्येति भारत। मुखमालिप्य तेनासौ सहदेवोऽपि गच्छति॥ नाहं मनांस्याददेयं मार्गे स्त्रीणामिति प्रभो। पांसूपलिप्तसर्वाङ्गो नकुलस्तेन गच्छति॥ एकवस्त्रा प्ररुदती मुक्तकेशी रजस्वला। शोणितेनाक्तवसना द्रौपदी वाक्यमब्रवीत्॥ यत्कृतेऽहमिदं प्राप्ता तेषां वर्षे चतुर्दशे। हतपत्यो हतसुता हतबन्धुजनप्रियाः॥ बहुशोणितदिग्धाङ्गयो मुक्तकेशयो रजस्वलः। एवं कृतोदका भार्याः प्रवेक्ष्यन्ति गजाह्वयम्॥ कृत्वा तु नैर्ऋतान् दर्भान् धीरो धौम्यः पुरोहितः। सामानि गायन् याम्यानि पुरतो याति भारत॥ हतेषु भारतेष्वाजौ कुरूणां गुरवस्तदा। एवं सामानि गास्यन्तीत्युक्त्वा धौम्योऽपि गच्छति॥२३ हा हा गच्छन्ति नो नाथाः समवेक्षध्वमीदृशम्। अहो धिक् कुरुवृद्धानां बालानामिव चेष्टितम्॥ राष्ट्रेभ्यः पाण्डुदायादाँल्लोभान्निर्वासयन्ति ये। अनाथाः स्म वयं सर्वे वियुक्ताः पाण्डुनन्दनैः॥ दुर्विनीतेषु लुब्धेषु का प्रीतिः कौरवेषु नः। इति पौराः सुदुःखार्ताः क्रोशन्ति स्म पुनः पुनः॥२६ एवमाकारलिङ्गैस्ते व्यवसायं मनोगतम्। कथयन्तश्च कौन्तेया वनं जग्मुर्मनस्विनः॥ एवं तेषु नरावयेषु निर्यत्सु गजसाह्वयात्। अनभ्रे विद्युतश्चासन् भूमिश्च समकम्पत॥ राहुरग्रसदादित्यमपर्वणि विशाम्पते। उल्का चाप्यपसव्येन पुरं कृत्वा व्यशीर्यत॥ प्रत्याहरन्ति क्रव्यादा गृध्रगोमायुवायसाः। देवायतनचैत्येषु प्राकाराट्टालकेषु च॥ एवमेते महोत्पाताः प्रादुरासन् दुरासदाः। भरतानामभावाय राजन् दुर्मन्त्रिते तव॥ वैशम्पायन उवाच एवं प्रवदतोरेव तयोस्तत्र विशाम्पते। धृतराष्ट्रस्य राज्ञश्च विदुरस्य च धीमतः॥ स्थितः। नारदश्च सभामध्ये कुरूणामग्रतः महर्षिभिः परिवृतो रौद्रं वाक्यमुवाच ह॥ इतश्चतुर्दशे वर्षे विनक्ष्यन्तीह कौरवाः। दुर्योधनापराधेन भीमार्जुनबलेन च॥ इत्युक्त्वा दिवमाक्रम्य क्षिप्रमन्तरधीयत। ब्राह्मीं श्रियं सुविपुलां बिभ्रद् देवर्षिसत्तमः॥ ततो दुर्योधनः कर्णः शकुनिश्चापि सौबलः। द्रोणं द्वीपममन्यन्त राज्यं चास्मै न्यवेदयन्॥ अथाब्रवीत् ततो द्रोणो दुर्योधनममर्षणाम्। दुःशासनं च कर्णं च सर्वानेव च भारतान्॥ अवध्यान् पाण्डवान् प्राहुर्देवपुत्रान् द्विजातयः। अहं वै शरणं प्राप्तान् वर्तमानो यथाबलम्॥ गन्ता सर्वात्मना भक्त्या धार्तराष्ट्रान् सराजकान्। नोत्सहेयं परित्यक्तुं दैवं हि बलवत्तरम्॥ धर्मतः पाण्डुपुत्रा वै वनं गच्छन्ति निर्जिताः। ते च द्वादश वर्षाणि वने वत्स्यन्ति पाण्डवाः॥ चरितब्रह्मचर्याश्च क्रोधामर्षवशानुगाः। वैरं निर्यातयिष्यन्ति महद् दुःखाय पाण्डवाः॥ मया च भ्रंशितो राजन् दुपदः सखिविग्रहे। पुत्रार्थमयजद् राजा वधाय मम भारत॥ याजोपयाजतपसा पुत्रं लेभे स पावकात्। धृष्टद्युम्नं द्रौपदी च वेदीमध्यात् सुमध्यमाम्॥ धृष्टद्युम्नस्तु पार्थानां श्यालः सम्बन्धतो मतः। पाण्डवानां प्रियरतस्तस्मान्मां भयमाविशत्॥ ज्वालावर्णो देवदत्तो धनुष्मान् कवची शरी। मर्त्यधर्मतया तस्मादद्य मे साध्वसो महान्॥ गतो हि पक्षतां तेषां पार्षतः परवीरहा। स्थातिरथसंख्यायां योऽग्रणीरर्जुनो युवा॥ सृष्टप्राणो भृशतरं तेन चेत् संगमो मम। किमन्यद् दुःखमधिकं परमं भुवि कौरवाः॥ धृष्टद्युम्नो द्रोणमृत्युरिति विप्रथितं वचः। मद्वधाय श्रुतोऽप्यष लोके चाप्यति विश्रुतः॥ सोऽयं नूनमनुप्राप्तस्त्वत्कृते काल उत्तमः। त्वरितं कुरुत श्रेयो नैतदेतावता कृतम्॥ मुहूर्तं सुखमेवैतत् तालच्छायेव हैमनी। यजध्वं च महायज्ञैर्भोगानश्नीत दत्त च॥ इतश्चतुर्दशे वर्षे महत् प्राप्यस्यथ वैशसम्। द्रोणस्य वचनं श्रुत्वा धृतराष्ट्रोऽब्रवीदिदम्॥ सम्यगाह गुरुः क्षत्तरुपावर्तय पाण्डवान्। यदि ते न निवर्तन्ते सत्कृता यान्तु पाण्डवाः। सशस्त्ररथपादाता भोगवन्तश्च :॥ पुत्रकाः वैशम्पायन उवाच वनं गतेषु पार्थेषु निर्जितेषु दुरोदरे। धृतराष्ट्र महाराज तदा चिन्ता समाविशत्॥ तं चिन्तयानमासीनं धृतराष्ट्रं जनेश्वरम्। निःश्वसन्तमनेकाग्रमिति होवाच संजयः॥ संजय उवाच अवाप्य वसुसम्पूर्णां वसुधां वसुधाधिप। प्रव्राज्य पाण्डवान् राज्याद् राजन् किमनुशोचसि॥ धृतराष्ट्र उवाच अशोच्यत्वं कुतस्तेषां येषां वैरं भविष्यति। पाण्डवैर्युद्धशौण्डैर्हि बलवद्भिर्महारथैः॥ संजय उवाच तवेदं स्वकृतं राजन् महद् वैरमुपस्थितम्। विनाशो येन लोकस्य सानुबन्धो भविष्यति॥ वार्यमाणो हि भीष्मेण द्रोणेन विदुरेण च। पाण्डवानां प्रियां भार्यां द्रौपदी धर्मचारिणीम्॥ प्राहिणोदानयेहेति पुत्रो दुर्योधनस्तव। सूतपुत्रं सुमन्दात्मा निर्लज्जः प्रातिकामिनम्॥ यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम्। बुद्धिं तस्यापकर्षन्ति सोऽवाचीनानि पश्यति॥ बुद्धौ कलुषभूतायां विनाशे समुपस्थिते। अनयो नयसंकाशो हृदयानापसर्पति॥ अनर्थाश्चार्थरूपेण अर्थाश्चानर्थरूपिणः। उत्तिष्ठन्ति विनाशाय नूनं तच्चास्य रोचते॥ न कालो दण्डमुद्यम्य शिरः कृन्तति कस्यचित्। कालस्य बलमेतावद् विपरीतार्थदर्शनम्॥ आसादितमिदं घोरं तुमुलं लोमहर्षणम्। पाञ्चालीमपकर्षद्भिः सभामध्ये तपस्विनीम्॥ अयोनिजां रूपवती कुले जातां विभावसोः। को नु तां सर्वधर्मज्ञां परिभूय यशस्विनीम्॥ पर्यानयेत् सभामध्ये विना दुर्दूतदेविनम्। स्त्रीधर्मिणी वरारोहा शोणितेन परिप्लुता॥ एकवस्त्राथ पाञ्चाली पाण्डवानभ्यवेक्षता हतस्वान् हतराज्यांश्च हृतवस्त्रान् हृतश्रियः॥ विहीनान् सर्वकामेभ्यो दासभावमुपागतान्। धर्मपाशपरिक्षिप्तानशक्तानिव विक्रमे॥ क्रुद्धां चानर्हती कृष्णां दु:खितां कुरुसंसदि। दुर्योधनश्च कर्णश्च कटुकान्यभ्यभाषताम्॥ इति सर्वमिदं राजन्नाकुलं प्रतिभाति मे। धृतराष्ट्र उवाच तस्याः कृपणचक्षुर्त्यां प्रदह्येतापि मेदिनी॥ अपि शेषं भवेदद्य पुत्राणां मम संजय। भरतानां स्त्रियः सर्वा गान्धार्या सह संगताः॥ प्राक्रोशन् भैरवं तत्र दृष्ट्वा कृष्णां सभागताम्। धर्मिष्ठां धर्मपत्नी च रूपयौवनशालिनीम्॥ प्रजाभिः सह संगम्य ह्यनुशोचन्ति नित्यशः। अग्निहोत्राणि सायाहे न चाहूयन्त सर्वशः॥ ब्राह्मणाः कुपिताश्चासन् द्रौपद्याः परिकर्षणे। आसीनिष्ठानको घोरो निर्घातश्च महानभूत्॥ दिव उल्काश्चापतन्त राहुश्चार्कमुपाग्रसत्। अपर्वणि महाघोरं प्रजानां जनयन् भयम्॥ तथैव रथशालासु प्रादुरासीद्भुताशनः। ध्वजाश्चापि व्यशीर्यन्त भरतानामभूतये॥ दुर्योधनस्याग्निहोत्रे प्राक्रोशन भैरवं शिवाः। तास्तदा प्रत्यभाषन्त रासभाः सर्वतो दिशः॥ प्रातिष्ठत ततो भीष्मो द्रोणेन सह संजय। कृपश्च सोमदत्तश्च बाह्रीकश्च महामनाः॥ ततोऽहमब्रुवं तत्र विदुरेण प्रचोदितः। वरं ददानि कृष्णायै काक्षितं यद् यदिच्छति॥ अवृणोत् तत्र पाञ्चाली पाण्डवानामदासताम्। सरथान् सधनुष्कांश्चाप्यनुज्ञासिषमप्यहम्॥ अथाब्रवीन्महाप्राज्ञो विदुरः सर्वधर्मवित्। एतदन्तास्तु भरता यद् वः कृष्णा सभां गता॥ यैषा पाञ्चालराजस्य सुता सा श्रीरनुत्तमा। पाञ्चाली पाण्डवानेतान् दैवसृष्टोपसर्पति॥ तस्याः पार्थाः परिक्लेशं न ऑस्यन्ते घमर्षणाः। वृष्णयो वा महेष्वासाः पाञ्चाला वा महारथाः॥ तेन सत्याभिसंधेन वासुदेवेन रक्षिताः। आगमिष्यति बीभत्सुः पाञ्चालैः परिवारितः॥ तेषां मध्ये महेष्वासो भीमसेनो महाबलः। आगमिष्यति धुन्वानो गदां दण्डमिवान्तकः॥ ततो गाण्डीवनिर्घोषं श्रुत्वा पार्थस्य धीमतः। गदावेगं च भीमस्य नालं सोढुं नराधिपाः॥ तत्र मे रोचते नित्यं पार्थैः साम न विग्रहः। कुरुभ्यो हि सदा मन्ये पाण्डवान् बलवत्तरान्॥ तथा हि बलवान् राजा जरासंधो महाद्युतिः। बाहुप्रहरणेनैव भीमेन निहतो युधि॥ तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ। उभयोः पक्षयोर्युक्तं क्रियतामविशङ्कया॥ एवं कृते महाराज परं श्रेयस्त्वमाप्स्यसि। एवं गावल्गणे क्षत्ता धर्मार्थसहितं वचः॥ उक्तवान् न गृहीतं वै मया पुत्रहितैषिणा॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवी सरस्वतीं व्यासं ततो जयमुदीरयेत्।। जनमेजय उवाच एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः। धार्तराष्ट्र: सहामात्यैनिकृत्या द्विजसत्तम॥ श्राविता: परुषा वाचः सृजद्भिर्वैरमुत्तमम्। किमकुर्वत कौरव्य मम पूर्वपितामहाः॥ कथं चैश्वर्यविभ्रष्टाः सहसा दुःखमेयुषः। वने विजहिरे पार्थाः शक्रप्रतिमतेजसः॥ के वै तानन्ववर्तन्त प्राप्तान् व्यसनमुत्तमम्। किमाचाराः किमाहाराः क्व च वासो महात्मनाम्॥ कथं च द्वादश समा वने तेषां महामुने। व्यतीयुर्ब्राह्मणश्रेष्ठ शूराणामरिघातिनाम्॥ कथं च राजपुत्री सा प्रवरा सर्वयोषिताम्। पतिव्रता महाभागा सततं सत्यवादिनी॥ वनवासमदुःखार्हा दारुणं प्रत्यपद्यत। एतदाचक्ष्व मे सर्वं विस्तरेण तपोधन॥ श्रोतुमिच्छामि चरितं भूरिद्रविणतेजसाम्। कथ्यमानं त्वया विप्र परं कौतूहलं हि मे॥ वैशम्पायन उवाच एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः। धार्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वयात्॥ वर्धमानपुद्वारदभिनिष्क्रम्य पाण्डवाः। उदङ्मुखाः शस्त्रभृतः प्रययुः सह कृष्णया॥ इन्द्रसेनादयश्चैव भृत्याः परि चतुर्दश। रथैरनुययुः शी।ः त्रिय आदाय सर्वशः॥ गतानेतान् विदित्वा तु पौराः शोकाभिपीडिताः। गर्हयन्तोऽसकृद् भीष्मविदुरद्रोणगौतमान्॥ ऊचुर्विगतसंत्रासाः समागम्य परस्परम्। पौरा ऊचुः नेदमस्ति कुलं सर्वं न वयं न च नो गृहाः॥ यत्र दुर्योधनः पापः सौबलेनाभिपालितः। कर्णदुःशासनाभ्यां च राज्यमेतच्चिकीर्षति॥ न तत् कुलं न चाचारो न धर्मोऽर्थः कुतः सुखम्। यत्र पापसहायोऽयं पापो राज्यं चिकीर्षति॥ दुर्योधनो गुरुद्वेषी त्यक्ताचारसुहृज्जनः। अर्थलुब्धोऽभिमानी च नीचः प्रकृतिनिघृणः॥ नैयमस्ति मही कृत्स्ना यत्र दुर्योधनो नृपः। साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः॥ सानुक्रोशा महात्मानो विजितेन्द्रियशत्रवः। श्रीमन्तः कीर्तिमन्तश्चधर्माचारपरायणाः॥ वैशम्पायन उवाच एवमुक्त्वानुजग्मुस्ते पाण्डवांस्तान् समेत्य च। ऊचुः प्राञ्जलयः सर्वे कौन्तेयान् माद्रिनन्दनान्॥ क्व गमिष्यथ भद्रं वस्त्यक्तवास्मान् दुःखभागिनः। वयमप्यनुयास्यामो यत्र यूयं गमिष्यथ॥ अधर्मेण जिताञ्छूवा युष्मांस्त्यक्तघृणैः परैः। उद्विग्नाः स्मो भृशं सर्वे नास्मान् हातुमिहार्हथ॥ भक्तानुरक्तान् सुहृदः सदा प्रियहिते रतान्। कुराजाधिष्ठिते राज्ये न विनश्येम सर्वशः॥ श्रूयतां चाभिधास्यामो गुणदोषान् नरर्षभाः। शुभाशुभाधिवासेन संसर्गः कुरुते यथा॥ वस्त्रमापस्तिलान् भूमिं गन्धो वासयते यथा। पुष्पाणामधिवासेन तथा संसर्गजा गुणाः॥ मोहजालस्य योनिर्हि मूढेरेव समागमः। अहन्यहनिधर्मस्य योनिः साधुसमागमः॥ तस्मात् प्राज्ञैश्च वृद्धैश्च सुस्वभावैस्तपस्विभिः। सद्भिश्च सह संसर्गः कार्यः शमपरायणैः॥ येषां त्रीण्यवदातानि विद्या योनिश्च कर्म च। ते सेव्यास्तैः समास्या हि शास्त्रेभ्योऽपि गरीयसी। निरारम्भा ह्यपि वयं पुण्यशीलेषु साधुषु। पुण्यमेवाप्नुयामेह पापं पापोपसेवनात्॥ असतां दर्शनात् स्पर्शात् संजल्पाच्च सहासनात् धर्माचाराः प्रहीयन्ते सिद्ध्यन्ति च न मानवाः॥ बुद्धिश्च हीयते पुंसां नीचैः सह समागमात्। मध्यमैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः॥ अनीचैर्नाप्यविषयैर्नाधर्मिष्ठैर्विशेषतः। ये गुणाः कीर्तिता लोकेधर्मकामार्थसम्भवाः। लोकाचारेषु सम्भूता वेदोक्ताः शिष्टसम्मताः॥ ते युष्मासु समस्ताश्च व्यस्ताश्चैवेह सद्गुणाः। इच्छामो गुणवन्मध्ये वस्तुं श्रेयोऽभिकाक्षिणः।। युधिष्ठिर उवाच धन्या वयं यदस्माकं स्नेहकारुण्ययन्त्रिताः। असतोऽपि गुणानाहुर्ब्राह्मणप्रमुखाः प्रजाः॥ तदहं भ्रातृसहितः सर्वान् विज्ञापयामि वः। नान्यथा तद्धि कर्तव्यमस्मत्स्नेहानुकम्पया॥ भीष्म पितामहो राजा विदुरो जननी च में। सुहृज्जनश्च प्रायो मे नगरे नागसाह्वये॥ ते त्वस्मद्धितकामार्थं पालनीयाः प्रयत्नतः। युष्माभिः सहिताः सर्वे शोकसंतापविह्वलाः॥ निवर्ततागता दूरं समागमनशापिताः। स्वजने न्यासभूते मे कार्या स्नेहान्विता मतिः॥ एतद्धि मम कार्याणां परमं हृदि संस्थितम्। कृता तेन तु तुष्टिर्मे सत्कारच भविष्यति॥ वैशम्पायन उवाच तथानुमन्त्रितास्तेनधर्मराजेन ताः प्रजाः। चक्रुरार्तस्वरं घोरं हा राजनिति संहताः॥ गुणान् पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः। अकामाः संन्यवर्तन्त समागम्याथ पाण्डवान्।॥ निवृत्तेषु तु पौरेषु स्थानास्थाय पाण्डवाः। आजग्मुर्जाह्नवीतीरे प्रमाणाख्यं महावटम्॥ ते तं दिवसशेषेण वटं गत्वा तु पाण्डवाः। ऊषुस्तां रजनीं वीराः संस्पृश्य सलिलं शुचि॥ उदकेनैव तां रात्रिमूषुस्ते दुःखकर्षिताः। अनुजग्मुश्च तत्रैतान् स्नेहात् केचिद् द्विजातयः॥ साग्नयोऽनग्नयश्चैव सशिष्यगणबान्धवाः। स तैः परिवृतो राजा शुशुभे ब्रह्मवादिभिः॥ तेषां प्रादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे। ब्रह्मघोषपुरस्कारः संजल्प: समजायत॥ राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराः। आश्वासयन्तो विप्राण्याः क्षपां सर्वां व्यनोदयन्॥ वैशम्पायन उवाच पाण्डवास्तु वने वासमुद्दिश्य भरतर्षभाः। प्रययुर्जाह्नवीकूलात् कुरुक्षेत्रं सहानुगाः॥ सरस्वतीदृषद्वत्यौ यमुनां च निषेव्य ते। ययुर्वनेनैव वनं सततं पश्चिमां दिशम्॥ ततः सरस्वतीकूले समेषु मरुधन्वसु। काम्यकं नाम ददृशुर्वनं मुनिजनप्रियम्॥ तत्र ते न्यवसन् वीरा वने बहुमृगद्विजे। अन्वास्यमाना मुनिभिः सान्त्व्यमानाश्च भारत॥ विदुरस्त्वथ पाण्डूनां सदा दर्शनलालसः। जगामैकरथेनैव काम्यकं वनमृद्धिमत्॥ च्छीढरश्चैर्वाहिना स्यन्दनेन। ददर्शासीनंधर्मात्मानं विविक्ते सार्धं द्रौपद्या भातृभिर्ब्राह्मणैश्च॥ दभ्यायान्तं सत्यसंधः स राजा। अथाब्रवीद् भ्रातरं भीमसेनं किं नु क्षत्ता वक्ष्यति नः समेत्य॥ कच्चिन्नायं वचनात् सौबलस्य समाह्वाता देवनायोपयातः। कच्चित् क्षुद्रः शकुनि युधानि जेष्यत्यस्मान् पुनरेवाक्षवत्याम्॥ समाहूतः केनचिदाद्रवेति नाहं शक्तो भीमसेनापयातुम्। गाण्डीवे च संशयिते कथं नु राज्यप्राप्तिः संशयिता भवेन्नः॥ वैशम्पायन उवाच तत उत्थाय विदुरं पाण्डवेयाः प्रत्यगृहणन् नृपते सर्व एव। तैः सत्कृतः स च तानाजमीढो यथोचितं पाण्डुपुत्रान् समेयात्॥ स्ततोऽपृच्छन्नागमनाय हेतुम्। स चापि तेभ्यो विस्तरतः शशंस यथावृत्तोधृतराष्ट्रोऽम्बिकेयः॥ विदुर उवाच मजातशत्रो परिगृह्याभिपूज्य। एवं गते समतामभ्युपेत्य पथ्यं तेषां मम चैव ब्रवीहि॥ मयाप्युक्तं यत् क्षेमं कौरवाणां हितं पथ्यंधृतराष्ट्रस्य चैव।। तद् वै तस्मै न रुचामभ्युपैति ततश्चाहं क्षेममन्यन्न मन्ये॥ परं श्रेयः पाण्डवेया मयोक्तं न मे तच्च श्रुतवानाम्बिकेयः। यथाऽऽतुरस्येव हि पथ्यमन्नं न रोचते स्मास्य तदुच्यमानम्॥ न श्रेयसे नीयतेऽजातशत्रो स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा। ध्रुवं न रोचेद् भरतर्षभस्य पतिः कुमार्या इव षष्टिवर्षः॥ ध्रुवं विनाशो नृप कौरवाणां न वै श्रेयोधृतराष्ट्रः परैति। यथाच पणे पुष्करस्यावसिक्तं जलं न तिष्ठेत् पथ्यमुक्तं तथास्मिन्॥ ततः क्रुद्धोधृतराष्ट्रोऽब्रवीन्मां यस्मिन् श्रद्धा भारत तत्र याहि। नाहं भूयः कामये त्वां सहायं महीमिमां पालयितुं पुरं वा॥ सोऽहं त्यक्तोधृतराष्ट्रेण राज्ञा प्रशासितुं त्वामुपयातो नरेन्द्र। तद् वै सर्वं यन्मयोक्तं सभायां तद्धार्यतां यत् प्रवक्ष्यामि भूयः॥ क्लेशैस्तीत्रैर्युज्यमानः सपत्नैः क्षमां कुर्वन् कालमुपासते यः। संवर्धयन् स्तोकमिवाग्निमात्मवान् स वै भुङ्क्ते पृथिवीमेक एव॥ स्तस्य दुःखेऽप्यंशभाजः सहायाः। सहायानामेष संग्रहणेऽध्युपायः सहायाप्तौ पृथिवीप्राप्तिमाहुः॥ सत्यं श्रेष्ठं पाण्डव विप्रलापं तुल्यं चान्नं सह भोज्यं सहायैः। आत्मा चैषामग्रतो न स्म पूज्य एवंवृत्तिवर्धते भूमिपालः॥ युधिष्ठिर उवाच एवं करिष्यामि यथा ब्रवीषि परां बुद्धिमुपगम्याप्रमत्तः। यच्चाप्यन्यद्देशकालोपपन्नं तद् वै वाच्यं तत् करिष्यामि कृत्स्नम्॥ वैशम्पायन उवाच गते तु विदुरे राजन्नाश्रमं पाण्डवान् प्रति! धृतराष्ट्रो महाप्राज्ञः पर्यतप्यत् भारत॥ विदुरस्य प्रभावं च संधिविग्रहकारितम्। विवृद्धिं च परां मत्वा पाण्डवानां भविष्यति॥ स सभाद्वारमागम्य विदुरस्मारमोहितः। समक्षं पार्थिवेन्द्राणां पपाताविष्टचेतनः॥ स तु लङ्वा पुनः संज्ञां समुत्थाय महीतलात्। समीपोपस्थितं राजा संजयं वाक्यमब्रवीत्॥ भ्राता मम सुहृच्चैव साक्षाद्धर्म इवापरः। तस्य स्मृत्याद्य सुभृशं हृदयं दीर्यतीव मे॥ तमानयस्वधर्मज्ञं मम भ्रातरमाशु वै। इति ब्रुवन् स नृपतिः कृपणं पर्यदेवयत्॥ पश्चात्तापाभिसंतप्तो विदुरस्मारमोहितः। भ्रातृस्नेहादिदं राजा संजयं वाक्यमब्रवीत्॥ गच्छ संजय जानीहि भ्रातरं विदुरं मम। यदि जीवति रोषेण मया पापेन निथुतः॥ न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किंचन। व्यलीकं कृतपूर्वं वै प्राज्ञेनामितबुद्धिना॥ स व्यलीकं परं प्राप्तो मत्तः परमबुद्धिमान्। त्यक्ष्यामि जीवितं प्राज्ञ तं गच्छानय संजय॥ तस्य तद् वचनं श्रुत्वा राज्ञस्तमनुमान्य च। संजयो बाढमित्युक्त्वा प्राद्रवत् काम्यकं प्रति॥ सोऽचिरेण समासाद्य तद् वनं यत्र पाण्डवाः। रौरवाजिनसंवीतं ददर्शाथ युधिष्ठिरम्॥ विदुरेण सहासीनं ब्राह्मणैश्च सहस्रशः। भ्रातृभिश्चाभिसंगुप्तं देवैरिव पुरंदरम्॥ युधिष्ठिरमुपागम्य पूजयामास संजयः। भीमार्जुनयमाश्चापि तद्युक्तं प्रतिपेदिरे॥ राज्ञा पृष्टः स कुशलं सुखासीनश्च संजयः। शशंसागमने हेतुमिदं चैवाब्रवीद् वचः॥ संजय उवाच राजा स्मरति ते क्षत्तद्धृतराष्ट्रोऽम्बिकासुतः। तं पश्य गत्वा त्वं क्षिप्रं संजीवय च पार्थिवम्॥ सोऽनुमान्य नरश्रेष्ठान् पाण्डवान् कुरनन्दनान्। नियोगाद् राजसिंहस्य गन्तुमर्हसि सत्तम॥ वैशम्पायन उवाच एवमुक्तस्तु विदुरोधीमान् स्वजनवल्लभः। युधिष्ठिरस्यानुमते पुनरायाद् गजाह्वयम्॥ तमब्रवीन्महातेजाधृतराष्ट्रोऽम्बिकासुतः। दिष्ट्या प्राप्तोऽसिधर्मज्ञ दिष्ट्या स्मरसि मेऽनघ॥ अद्य रात्रौ दिवा चाहं त्वत्कृते भरतर्षभ। प्रजागरे प्रपश्यामि विचित्रं देहमात्मनः॥ सोऽङ्कमानीय विदुरं मूर्धन्याघ्राय चैव ह। क्षम्यतामिति चोवाच यदुक्तोऽसि मयानघ॥ विदुर उवाच क्षान्तमेव मया राजन् गुरुर्मे परमो भवान्। एषोऽहमागतः शीघ्रं त्वदर्शनपरायणः॥ भवन्ति हि नरव्याघ्र पुरुषाधर्मचेतसः। दीनाभिपातिनो राजन् नात्र कार्या विचारणा॥ पाण्डोः सुता यादृशा मे तादृशास्तव भारत। दीना इतीव मे बुद्धिरभिपन्नाद्य तान् प्रति॥ वैशम्पायन उवाच अन्योन्यमनुनीयैवं भ्रातरौ द्वौ महाद्युती। विदुरोधृतराष्ट्रश्च लेभाते परमां मुदम्॥ वैशम्पायन उवाच श्रुत्वा च विदुरं प्राप्तं राज्ञा च परिसान्त्वितम्। धृतराष्ट्रात्मजो राजा पर्यतप्यत दुर्मतिः॥ स सौबलेयमानाय्य कर्णदुःशासनौ तथा। अब्रवीद् वचनं राजा प्रविश्याबुद्धिजं तमः॥ एष प्रत्यागतो मन्त्रोधृतराष्ट्रस्यधीमतः। विदुरः पाण्डुपुत्राणां सुहृद् विद्वान् हिते रतः॥ यावदस्य पुनर्बुद्धिं विदुरो नापकर्षति। पाण्डवानयने तावन्मन्त्रयध्वं हितं मम॥ अथ पश्याम्यहं पार्थान् प्राप्तानिह कथंचन। पुनः शोषं गमिष्यामि निरम्बुर्निरवग्रहः॥ विषमुद्बन्धनं चैव शस्त्रमग्निप्रवेशनम्। करिष्ये न हि तानृद्धान् पुनर्द्रष्टुमिहोत्सहे॥ शकुनिरुवाच किं बालिशमतिं राजन्नास्थितोऽसि विशाम्पते। गतास्ते समयं कृत्वा नैतदेवं भविष्यति॥ सत्यवाक्यस्थिताः सर्वे पाण्डवा भरतर्षभ। पितुस्ते वचनं तात न ग्रहीष्यन्ति कर्हिचित्॥ अथवा ते ग्रहीष्यन्ति पुनरेष्यन्ति वा पुरम्। निरस्य समयं सर्वे पणोऽस्माकं भविष्यति॥ सर्वे भवामो मध्यस्था राज्ञश्छन्दानुवर्तिनः। छिद्रं बहु प्रपश्यन्तः पाण्डवानां सुसंवृताः॥ दुःशासन उवाच एवमेतन्महाप्राज्ञ यथा वदसि मातुल। नित्यं हि मे कथयतस्तव बुद्धिर्विरोचते॥ कर्ण उवाच काममीक्षामहे सर्वे दुर्योधन तवेप्सितम्। ऐकमत्यं हि नो राजन् सर्वेषामेव लक्षये।॥ नाममिष्यन्ति तेधीरा अकृत्वा कालसंविदम्। आगमिष्यन्ति चेन्मोहात् पुन तेन ताञ्जय॥ वैशम्पायन उवाच एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा। नातिहृष्टमनाः क्षिप्रेमभवत् स पराङ्मुखः॥ उपलभ्य ततः कर्णो विवृत्य नयने शुभे। रोषाद् दुःशासनं चैव सौबलं च तमेव च॥ उवाच परमक्रुद्ध उद्यम्यात्मानमात्मना। अथो मम मतं यत् तु तन्निबोधत भूमिपाः॥ प्रियं सर्वे करिष्यामो राज्ञः किङ्करपाणयः। न चास्य शक्नुमः स्थातुं प्रिये सर्वे ह्यतन्द्रिताः॥ वयं तु शस्त्राण्यादाय रथानास्थाय दंशिताः। गच्छामः सहिता हन्तुं पाण्डवान् वनगोचरान्॥ तेषु सर्वेषु शान्तेषु गतेष्वविदितां गतिम्। निर्विवादा भविष्यन्तिधार्तराष्ट्रास्तथा वयम्॥ यावदेव परिघूना यावच्छोकपरायणाः। यावन्मित्रविहीनाश्च तावच्छक्या मतं मम॥ तस्य तद् वचनं श्रुत्वा पूजयन्तः पुनः पुनः। बाढमित्येव ते सर्वे प्रत्यूचुः सतजं तदा॥ एवमुक्त्वा सुसंरब्धा रथैः सर्वे पृथक्पृथका निर्ययुः पाण्डवान् हन्तुं सहिताः कृतनिश्चयाः॥ तान् प्रस्थितान् परिज्ञाय कृष्णद्वैपायनः प्रभुः। आजगाम विशुद्धात्मा दृष्ट्वा दिव्येन चक्षुषा॥ प्रतिषिध्याथ तान् सर्वान् भगवाँल्लोकपूजितः। प्रज्ञाचक्षुषमासीनमुवाचाभ्येत्य सत्वरम्॥ धृतराष्ट्र उवाच एवमेतन्महाप्राज्ञ यथा वदसि नो मुने। अहं चैव विजानामि सर्वे चेमे नराधिपाः॥ भवांश्च मन्यते साधु यत् कुरूणां महोदयम्। तदेव विदुरोऽप्याह भीष्मो द्रोणश्च मां पुने॥ यदि त्वहमनचाह्यः कौरव्येषु दया यदि। अन्वशाधि दुरात्मानं पुत्रं दुर्योधनं मम॥ व्यास उवाच अयमायाति वै राजन् मैत्रेयो भगवानृषिः। अन्विष्य पाण्डवान् भ्रातृनिहैत्यस्मद्दिदृक्षया॥ एष दुर्योधनं पुत्रं तव राजन् महानृषिः। अनुशास्ता यथान्यायं शमायास्य कुलस्य च॥ ब्रूयाद् यदेष कौरव्य तत् कार्यमविशङ्कया। अक्रियायां तु कार्यस्य पुत्रं ते शप्स्यते रुषा॥ वैशम्पायन उवाच एवमुक्त्वा ययौ व्यासो मैत्रेयः प्रत्यदृश्यता पूजया प्रतिजग्राह सपुत्रस्तं नराधिपः॥ अर्ध्याद्याभिः क्रियाभिर्वै विश्रान्तं मुनिसत्तमम्। प्रश्रयेणाब्रवीद् राजाधृतराष्ट्रोऽम्बिकासुतः॥ सुखेनागमनं कच्चिद् भगवन् कुरुजाङ्गलान्। कच्चित् कुशलिनो वीरा भ्रातरः पञ्च पाण्डवाः॥ समये स्थातुमिच्छन्ति कच्चिच्च भरतर्षभाः। कच्चित् कुरूणां सौभ्रात्रमव्युच्छिन्नं भविष्यति॥ मैत्रेय उवाच तीर्थयात्रामनुकामन् प्राप्तोऽस्मि कुरुजाङ्गलान्। यदृच्छयाधर्मराजं दृष्टवान् काम्यके वने॥ तं जटाजिनसंवीतं तपोवननिवासिनम्। समाजग्मुर्महात्मानं द्रष्टुं मुनिगणाः प्रभो॥ तत्राश्रौषं महाराज पुत्राणां तव विभ्रमम्। अनयं द्यूतरूपेण महाभयमुपस्थितम्॥ कौरवाणामवेक्षया। सदा ह्यभ्यधिकः स्नेहः प्रीतिश्च त्वयि मे प्रभो॥ ततोऽहं त्वामनुप्राप्तः नैतदौपयिकं राजंस्त्वयि भीष्मे च जीवति। यदन्योन्येन ते पुत्रा विरुध्यन्ते कथंचन॥ मेढीभूतः स्वयं राजन् निग्रहे प्रग्रहे भवान्। किमर्थमनयं घोरमुत्पद्यन्तमुपेक्षसे॥ दस्यूनामिव यद् वृत्तं सभायां कुरुनन्दन। तेन न भ्राजसे राजस्तापसानां समागमे॥ वैशम्पायन उवाच ततो व्यावृत्य राजानं दुर्योधनममर्षणम्। उवाच श्लक्ष्णया वाचा मैत्रेयो भगवानृषिः॥ मैत्रेय उवाच दुर्योधन महाबाहो निबोध वदतां वर। वचनं मे महाभाग ब्रुवतो यद्धितं तव॥ मा दुहः पाण्डवान् राजन् कुरुष्व प्रियमात्मनः। पाण्डवानां कुरूणां च लोकस्य च नरर्षभ॥ ते हि सर्वे नरव्याघ्राः शूरा विक्रान्तयोधिनः। सर्वे नागायुतप्राणा वज्रसंहनना दृढाः॥ सत्यव्रतधराः सर्वे सर्वे पुरुषमानिनः। हन्तारो देवशत्रूणां रक्षसां कामरूपिणाम्॥ हिडिम्बबकमुख्यानां किर्मीरस्य च रक्षसः। इतः प्रद्रवतां रात्रौ यः स तेषां महात्मनाम्॥ आवृत्य मार्ग रौद्रात्मा तस्थौ गिरिरिवाचलः। तं भीमः समरश्लाघी बलेन बलिनां वरः॥ जघान पशुमारेण व्याघ्रः क्षुद्रमृगं यथा। पश्य दिग्विजये राजन् यथा भीमेन पातितः॥ जरासंधो महेष्वासो नागायुतबलो युधि। सम्बन्धी वासुदेवश्च श्याला: सर्वे च पार्षताः॥ कस्तान् युधि समासीत जरामरणवान् नरः। तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ॥ कुरु मे वचनं राजन् मा मन्युवशमन्वगाः। वैशम्पायन उवाच एवं तु ब्रुवतस्तस्य मैत्रेयस्य विशाम्पते॥ ऊरूं गजकराकारं करेणाभिजधान सः। दुर्योधनः स्मितं कृत्वा चरणेनोल्लिखन् महीम्॥ न किंचिदुक्त्वा दुर्मेधास्तस्थौ किंचिदवाङ्मुखः तमशुश्रूषमाणं तु विलिखन्तं वसुंधराम्॥ दृष्ट्वा दुर्योधनं राजन् मैत्रेयं कोप आविशत्। स कोपवशमापनो मैत्रेयो मुनिसत्तमः॥ विधिना सम्प्रणुदितः शापायास्य मनो दधे। ततः स वार्युपस्पृश्य कोपसंरक्तलोचनः। मैत्रेयोधार्तराष्ट्रं तमशपद् दुष्टचेतसम्॥ यस्मात् त्वं मामनादृत्य नेमां वाचं चिकीर्षसि। तस्मादस्याभिमानस्य सद्यः फलमवाप्नुहि॥ त्वदभिद्रोहसंयुक्तं युद्धमुत्पत्स्यते महत्। तत्र भीमो गदाधातैस्तवोरुं भेत्स्यते बली॥ इत्येवमुक्ते वचनेधृतराष्ट्रो महीपतिः। प्रसादयामास मुनि नैतदेवं भवेदिति॥ मैत्रेय उवाच शमं यास्यति चेत् पुत्रस्तव राजन् यदा तदा। शापो न भविता तात विपरीते भविष्यति॥ मैत्रेयं प्राह वैशम्पायन उवाच विलक्षयंस्तु राजेन्द्रो दुर्योधनपिता तदा। किर्मीरः कथं भीमेन पातितः॥ मैत्रेय उवाच नाहं वक्ष्यामि ते भूयो न ते सुश्रूषते सुतः। एष ते विदुरः सर्वमाख्यास्यति गते मयि॥ वैशम्पायन उवाच इत्येवमुक्त्वा मैत्रेयः प्रातिष्ठत यथाऽऽगतम्। किर्मीरवधसंविग्नो बहिर्दुर्योधनो ययौ॥ धृतराष्ट्र उवाच किर्मीरस्य वधं क्षत्तः श्रोतुमिच्छामि कथ्यताम्। रक्षसा भीमसेनस्य कथमासीत् समागमः॥ विदुर उवाच शृणु भीमस्य कर्मेदमतिमानुषकर्मणः। श्रुतपूर्वं मया तेषां कथान्तेषु पुनः पुनः॥ इतः प्रयाता राजेन्द्र पाण्डवा द्यूतनिर्जिताः। जग्मुस्त्रिभिरहोरात्रैः काम्यकं नाम तद् वनम्॥ रात्रौ निशीथे त्वाभीले गतेऽर्धसमये नृप। प्रचारे पुरुषादानां रक्षसां घोरकर्मणाम्॥ तद् वनं तापसा नित्यं गोपाश्च वनचारिणः। दूरात् परिहरन्ति स्म पुरुषादभयात् किल॥ तेषां प्रविशतां तत्र मार्गमावृत्य भारत। दीप्ताक्षं भीषणं रक्षः सोल्मुकं प्रत्यपद्यत॥ बाहू महान्तौ कृत्वा तु तथाऽऽस्यं च भयानकम् स्थितमावृत्य पन्थानं येन यान्ति कुरूद्वहाः॥ स्पष्टाष्टदंष्ट्रं ताम्राक्षं प्रदीप्तोर्ध्वशिरोरुहम्। सार्करश्मितडिच्चक्रं सबलाकमिवाम्बुदम्॥ सृजन्तं राक्षसी मायां महानादनिनादितम्। मुञ्चन्तं विपुलान् नादान् सतोयमिव तोयदम्॥ तस्य नादेन संत्रस्ताः पक्षिण: सर्वतोदिशम्। विमुक्तनादाः सम्पेतुः स्थलजा जलजैः सह॥ सम्प्रद्रुतमृगद्वीपिमहिषर्भसमाकुलम्। तद् वनं तस्य नादेन सम्प्रस्थितमिवाभवत्॥ तस्योरूवाताभिहतास्ताम्रपल्लवबाहवः। विदूरजाताश्च लताः समाश्लिष्यन्ति पादपान्॥ तस्मिन् क्षणेऽथ प्रववौ मारुतो भृशदारुणः। रजसा संवृतं तेन नष्टज्योतिरभून्नभः॥ पञ्चानां पाण्डुपुत्राणामविज्ञातो महारिपुः। पञ्चानामिन्द्रियाणां तु शोकावेश इवातुलः॥ स दृष्ट्वा पाण्डवान् दूरात् कृष्णाजिनसमावृतान् आवृणोत् तद्वनद्वारं मैनाक इव पर्वतः ॥ तं समासाद्य वित्रस्ता कृष्णा कमललोचना। अदृष्टपूर्वं संत्रासान्यमीलयत लोचने॥ दुःशासनकरोत्सृष्टविप्रकीर्णशिरोरुहा। पञ्चपर्वतमप्यस्था नदीवाकुलतां गता॥ मोमुह्यमानां तां तत्र जगृहुः पञ्च पाण्डवाः। इन्द्रियाणि प्रसक्तानि विषयेषु यथा रतिम्॥ अथ तां राक्षसी मायामुत्थितां घोरदर्शनाम्। रक्षोनैर्विविधैर्मन्त्रैर्बोम्यः सम्यक्प्रयोजितैः॥ पश्यतां पाण्डुपुत्राणां नाशयामास वीर्यवान्। स नष्टमायोऽतिबलः क्रोधविस्फारितेक्षणः॥ काममूर्तिधरः क्रूरः कालकल्पो व्यदृश्यत। तमुवाच ततो राजा दीर्घप्रज्ञो युधिष्ठिरः॥ को भवान् कस्य वा किं ते क्रियता कार्यमुच्यताम्। प्रत्युवाचाथ तद् रक्षोधर्मराज युधिष्ठिरम्॥ अहं बकस्य वै भ्राता किसर इति विश्रुतः। वनेऽस्मिन् काम्यके शून्ये निवसामि गतज्वरः॥ युधि निर्जित्य पुरुषानाहारं नित्यमाचरन्। के यूयमभिसम्प्राप्ता भक्ष्यभूता ममान्तिकम्। युधि निर्जित्य वः सर्वान् भक्षयिष्ये गतज्वरः॥ वैशम्पायन उवाच युधिष्ठिरस्तु तच्छ्रुत्वा वचस्तस्य दुरात्मनः। आचचक्षे ततः सर्वं गोत्रनामादि भारत॥ युधिष्ठिर उवाच पाण्डवोधर्मराजोऽहं यदि ते श्रोत्रमागतः। सहितो भ्रातृभिः सर्वैर्भीमसेनार्जुनादिभिः॥ हृतराज्यो वने वासं वस्तुं कृतमतिस्ततः। वनमभ्यागतो घोरमिदं तव परिग्रहम्॥ विदुर उवाच किर्मीरस्तवब्रवीदेनं दिष्ट्या देवैरिदं मम। उपपादितमोह चिरकालान्मनोगतम्॥ भीमसेनवधार्थं हि नित्यमभ्युद्यतायुधः। चराम पृथिवीं कृत्स्नां नैनं चासादयाम्यहम्॥ सोऽयमासादितो दिष्ट्या भ्रातृहा काक्षितश्चिरम् अनेन हि मम भ्राता बको विनिहतः प्रियः॥ वैत्रकीयवने राजन् ब्राह्मणच्छद्मरूपिणा। विद्याबलमुपाश्रित्य न ह्यस्त्यस्यौरसं बलम्॥ हिडिम्बश्च सखा मह्यं दयितो वनगोचरः। हतो दुरात्मनानेन स्वसा चास्य हृता पुरा॥ सोऽयमभ्यागतो मूढो ममेदं गहनं वनम्। प्रचारसमयेऽस्माकमर्धरात्रे स्थिते स मे॥ अद्यास्य यातयिष्यामि तद् वैरं चिरसम्भृतम्। तर्पयिष्यामि च बकं रुधिरेणास्य भूरिणा॥ अद्याहमनृणो भूत्वा भ्रातुः सख्युस्तथैव च। शान्तिं लब्धास्मि परमां हत्वा राक्षसकण्टकम्॥ यदि तेन पुरा मुक्तो भीमसेनो बकेन वै। अद्यैनं भक्षयिष्यामि पश्यतस्ते युधिष्ठिर॥ एनं हि विपुलप्राणमद्य हत्वा वृकोदरम्। सम्भक्ष्य जरयिष्यामि यथागस्त्यो महासुरम्॥ एवमुक्तस्तुधर्मात्मा सत्यसंधो युधिष्ठिरः। नैतदस्तीति सक्रोधो भर्त्सयामास राक्षसम्॥ ततो भीमो महाबाहुरारुज्य तरसा दुमम्। दशव्याममथोद्विद्धं निष्पत्रमकरोत् तदा॥ चकार सज्यं गाण्डीवं वज्रनिष्पेषगौरवम्। निमेषान्तरमात्रेण तथैव विजयोऽर्जुनः॥ निवार्य भीमो जिष्णुं तं तद् रक्षो मेघनि:स्वनम्। अभिद्रुत्याब्रवीद् वाक्यं तिष्ठ तिष्ठेति भारत॥ इत्युक्त्वैनमतिक्रुद्धः कक्ष्यामुत्पीड्य पाण्डवः। निष्पिष्य पाणिना पाणिं संदष्टौष्ठपुटो बली॥ तमभ्यधावद् वेगेन भीमो वृक्षायुधस्तदा। यमदण्डप्रतीकाशं ततस्तं तस्य मूर्धनि॥ पातयामास वेगेन कुलिशं मघवानिव। असम्भ्रान्तं तु तद् रक्षः समरे प्रत्यदृश्यत॥ चिक्षेप चोल्मुकं दीप्तमशनिं ज्वलितामिव। तदुदस्तमलातं तु भीमः प्रहरतां वरः॥ पदा सव्येन चिक्षेप तद् रक्षः पुनराव्रजत्। किर्मीरश्चापि सहसा वृक्षमुत्पाट्य पाण्डवम्॥ दण्डपाणिरिव क्रुद्धः समरे प्रत्यधावत। तद् वृक्षयुद्धमभवन्महीरुहविनाशनम्॥ वालिसुग्रीवयोर्धात्रोर्यथा स्त्रीकाक्षिणोः पुरा। शीर्षयोः पतिता वृक्षा बिभिदु:कधा तयोः॥ यथैवौत्पलपत्राणि मत्तयोर्द्विपयोस्तथा। मुञ्जवज्जर्जरीभूता बहवस्तत्र पादपाः॥ चीराणीव व्युदस्तानि रेजुस्तत्र महावने। तद् वृक्षयुद्धमभवन्मुहूर्तं भरतर्षभ। राक्षसानां च मुख्यस्य नराणामुत्तमस्य च॥ ततः शिलां समुक्षिप्य भीमस्य युधि तिष्ठतः। प्राहिणोद् राक्षसः क्रुद्धो भीमश्च न चचाल ह॥ तं शिलाताडनजडं पर्यधावत राक्षसः। बाहुविक्षिप्तकिरणः स्वर्भानुरिव भास्करम्॥ तावन्योन्यं समाश्लिष्य प्रकर्षन्तौ परस्परम्। उभावपि चकाशेते प्रवृद्धौ वृषभाविव॥ तयोरासीत् सुतुमुलः सम्प्रहारः सुदारुणः। नखदंष्ट्रायुधवतोर्व्याघ्रयोरिव दृप्तयोः॥ दुर्योधननिकाराच्च बाहुवीर्याच्च दर्पितः। कृष्णानयनदृष्टश्च व्यवर्धत वृकोदरः॥ अभिपद्य च बाहुभ्यां प्रत्यगृहणादमर्षितः। मातङ्गमिव मातङ्गः प्रभिन्नकरटामुखम्॥ स चाप्येनं ततो रक्षः प्रतिजग्राह वीर्यवान्। तमाक्षिपद् भीमसेनो बलेन बलिनां वरः॥ तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा। शब्दः समभवद् घोरो वेणुस्फोटसमो युधि॥ अथैनमाक्षिप्य बलाद् गृह्य मध्ये वृकोदरः। धूनयामास वेगेन वायुश्चण्ड इव दुमम्॥ स भीमेन परामृष्टो दुर्बलो बलिना रणे। व्यस्पन्दत यथाप्राणं विचकर्ष च पाण्डवम्॥ तत एनं परिश्रान्तमुपलक्ष्य वृकोदरः। योक्त्रयामास बाहुभ्यां पशुं रशनया यथा॥ विनदन्तं महानादं भिन्नभेरीस्वनं बली। भ्रामयामास सुचिरं विस्फुरन्तमचेतसम्॥ तं विषीदन्तमाज्ञाय राक्षसं पाण्डुनन्दनः। प्रगृह्य तरसा दो• पशुमारममारयत्॥ आक्रम्य च कटीदेशे जानुना राक्षसाधमम्। पीडयामास पाणिभ्यां कण्ठं तस्य वृकोदरः॥ अथ जर्जरसर्वाङ्गं व्यावृत्तनयनोल्वणम्। भूतले भ्रामयामास वाक्यं चेदमुवाच ह॥ हिडिम्बबकयोः पाप न त्वमश्रुप्रमार्जनम्। करिष्यसि गतश्चापि यमस्य सदनं प्रति॥ स्तं राक्षसं क्रोधपरीतचेताः। मुद्घान्तचित्तं व्यसुमुत्ससज॥ तस्मिन् हते तोयदतुल्यरूपे कृष्णां पुरस्कृत्य नरेन्द्रपुत्राः। भीमं प्रशरयाथ गुणैरनेकैहृष्टास्ततो द्वैतवनाय जग्मुः॥ विदुर उवाच एवं विनिहतः संख्ये किर्मीरो मनुजाधिप। भीमेन वचनात् तस्यधर्मराजस्य कौरव॥ ततो निष्कण्टकं कृत्वा वनं तदपराजितः। द्रौपद्या सहधर्मज्ञो वसतिं तामुवास ह॥ समाश्वास्य च ते सर्वे द्रौपदीं भरतर्षभाः। प्रहृष्टमनसः प्रीत्या प्रशशंसुर्वृकोदरम्॥ भीमबाहुबलोत्पिष्टे विनष्टे राक्षसे ततः। विविशुस्ते वनं वीराः क्षेमं निहतकण्टकम्॥ स मया गच्छता मार्गे विनिकीर्णो भयावहः। वने महति दुष्टात्मा दृष्टो भीमबलाद्धतः॥ तत्राश्रौषमहं चैतत् कर्म भीमस्य भारत। ब्राह्मणानां कथयतां ये तत्रासन् समागताः॥ वैशम्पायन उवाच एवं विनिहतं संख्ये किर्मीरं रक्षसां वरम्। श्रुत्वाध्यानपरो राजा निशश्वासार्तवत् तदा॥ वासुदेव उवाच नैतत् कृच्छ्रमनुप्राप्तो भवान् स्याद् वसुधाधिप। यद्यहं द्वारकायां स्यां राजन् संनिहितः पुरा॥ आगच्छेयमहं द्यूतमनाहूतोऽपि कौरवैः। आम्बिकेयेन दुर्धर्ष राज्ञा दुर्योधनेन च। वारयेयमहं द्यूतं बहून् दोषान् प्रदर्शयन्॥ भीष्मद्रोणौ समानाय्य कृपं बाह्रीकमेव च। वैचित्रवीर्यं राजानमलं द्यूतेन कौरव॥ पुत्राणां तव राजेन्द्र त्वनिमित्तमिति प्रभो। तत्राचक्षमहं दोषान् यैर्भवान् व्यतिरोपितः॥ वीरसेनसुतो यैस्तु राज्यात् प्रभ्रंशितः पुरा। अतर्कितविनाश्च देवनेन विशाम्पते॥ सातत्यं च प्रसङ्गस्य वर्णयेयं यथातथम्॥ स्त्रियोऽक्षा मृगया पानमेतत् कामसमुत्थितम्। दुःखं चतुष्टयं प्रोक्तं यैर्नरो भ्रश्यते श्रियः॥ तत्र सर्वत्र वक्तव्यं मन्यन्ते शास्त्रकोविदाः। विशेषतश्च वक्तव्यं छूते पश्यन्ति तद्विदः॥ एकाहाद् द्रव्यनाशोऽत्रध्रुवं व्यसनमेव च। अभुक्तनाशश्चार्थानां वाक्पारुष्यं च केवलम्॥ एतच्चान्यच्च कौरव्य प्रसङ्गिकटुकोदयम्। द्यूते ब्रूयां महाबाहो समासाद्याम्बिकासुतम्॥ एवमुक्तो यदि मया गृहणीयाद् वचनं मम। अनामयं स्याद्धर्मश्च कुरूणां कुरुवर्धन॥ न चेत् स मम राजेन्द्र गृहणीयान्मधुरं वचः। पथ्यं च भरतश्रेष्ठ निगृहणीयां बलेन तम्॥ अथैनमपनीतेन सुहृदो नाम दुहृदः। सभासदोऽनुवर्तेरंस्तांश्च हन्यां दुरोदरान्॥ असांनिध्यं तु कौरव्य ममानर्तेष्वभूत् तदा। येनेदं व्यसनं प्राप्ता भवन्तो द्यूतकारितम्॥ सोऽहमेत्य कुरुश्रेष्ठ द्वारकां पाण्डुनन्दन। अश्रौषं त्वां व्यसनिनं युयुधानाद् यथातथम्॥ श्रुत्वैव चाहं राजेन्द्र परमोद्विग्नमानसः। तूर्णमभ्यागतोऽस्मि त्वां द्रष्टुकामो विशाम्पते॥ अहो कृच्छ्रमनुप्राप्ताः सर्वे स्म भरतर्षभ। सोऽहं त्वां व्यसने मग्नं पश्यामि सह सोदरैः॥ युधिष्ठिर उवाच असांनिध्यं कथं कृष्ण तवासीद् वृष्णिनन्दन। क्व चासीद् विप्रवासस्ते किं चाकार्षीः प्रवासतः॥ श्रीकृष्ण उवाच शाल्वस्य नगरं सौभं गतोऽहं भरतर्षभ। निहन्तुं कौरवश्रेष्ठ तत्र मे शृणु कारणम्॥ महातेजा महाबाहुर्यः स राजा महायशाः। दमघोषात्मजो वीरः शिशुपालो मया हतः॥ यज्ञे ते भरतश्रेष्ठ राजसूयेऽर्हणां प्रति। स रोषवशमापन्नो नामृष्यत दुरात्मवान्॥ श्रुत्वा तं निहतं शाल्वस्तीव्ररोषसमन्वितः। उपायाद् द्वारकां शून्यामिहस्थे मयि भारत॥ स तत्र योधितो राजन् कुमारैर्वृष्णिपुङ्गवैः। आगतः कामगं सौभमारुह्मैव नृशंसवत्॥ ततो वृष्णिप्रवीरांस्तान् बालान् हत्वा बहूस्तदा। पुरोद्यानानि सर्वाणि भेदयामास दुर्मतिः॥ पुनस्तत्र तत्र प्रधावति। उक्तवांश्च महाबाहो क्वासौ वृष्णिकुलाधमः। वासुदेवः स मन्दात्मा वसुदेवसुतो गतः॥ तस्य युद्धार्थिनो दर्प युद्धे नाशयितास्म्यहम्। आनर्ताः सत्यमाख्यात तत्र गन्तास्मि यत्र सः॥ तं हत्वा विनिवर्तिष्ये कंसकेशिनिषूदनम्। अहत्वा न निवर्तिष्ये सत्येनायुधमालभे॥ क्वासौ क्वासाविति मया किल रणे योद्धं काक्षमाणः स सौभराट्। ११॥ अद्य तं पापकर्माणं क्षुद्रं विश्वासघातिनम्। शिशुपालवधामर्षाद् गमयिष्ये यमक्षयम्॥ मम पापस्वभावेन भ्राता येन निपातितः। शिशुपालो महीपालस्तं वधिष्ये महीपते॥ भ्राता बालश्च राजा च न च संग्राममूर्धनि। प्रमत्तश्च हतो वीरस्तं हनिष्ये जनार्दनम्॥ एवमादि महाराज विलप्य दिवमास्थितः। कामगेन स सौभेन क्षिप्त्वा मां कुरुनन्दन॥ तमश्रौषमहं गत्वा यथावृत्तः स दुर्मतिः। मयि कौरव्य दुष्टात्मा मार्तिकावतको नृपः॥ ततोऽहमपि कौरव्य रोषव्याकुलमानस:। निश्चित्य मनसा राजन् वधायास्य मनो दधे॥ आनर्तेषु विमर्दं च क्षेपं चात्मनि कौरव। प्रवृद्धमवलेपं च तस्य दुष्कृतकमणः॥ ततः सौभवधायाहं प्रतस्थे पृथिवीपते। स मया सागरावर्ते दृष्ट आसीत् परीप्सता॥ आहूय शाल्वं समरे ततः प्रध्माप्य जलजं पाञ्चजन्यमहं नृप। युद्धाय समवस्थितः॥ तन्मुहूर्तमभूद् युद्धं तत्र मे दानवैः सह। वशीभूताश्च मे सर्वे भूतले च निपातिताः॥ एतत् कार्यं महाबाहो येनाहं नागमं तदा। श्रुत्वैव हास्तिनपुरं द्यूतं चाविनयोत्थितम्। द्रुतमागतवान् युष्मान् द्रष्टुकामः सुदुःखितान्॥ युधिष्ठिर उवाच वासुदेव महाबाहो विस्तरेण महामते। सौभस्य वधमाचक्ष्व न हि तृष्यामि कथ्यतः॥ वासुदेव उवाच हतं श्रुत्वा महाबाहो मया श्रौतश्रवं नृप। उपायाद् भरतश्रेष्ठ शाल्वो द्वारवतीं पुरीम्॥ अरुन्धत्तां सुदुष्टात्मा सर्वतः पाण्डुनन्दन। शाल्वो वैहायसं चापि तत् पुरं व्यूह्य विष्ठितः॥ तत्रस्थोऽथ महीपालो योधयामास तां पुरीम्। अभिसारेण सर्वेण तन युद्धमवर्तत॥ पुरी समन्ताद् विहिता सपताका सतोरणा। सचक्रा सहुडा चैव सयन्त्रखनका तथा॥ सोपशल्यप्रतोलीका साट्टाट्टालकगोपुरा। सचक्रग्रहणी चैव सोल्कालातावपोथिका॥ सोष्ट्रिका भरतश्रेष्ठ सभेरीपणवानका। सतोमराङ्कुशा राजन् सशतघ्नीकलाङ्गला॥ सभुशुण्ड्यश्मगुडका सायुधा सपरश्वधा। लोहचर्मवती चापि साग्निः सगुडशृङ्गिका॥ शास्त्रदृष्टेन विधिना सुयुक्ता भरतर्षभ। रथैरनेकैर्विविधैर्गदसाम्बोद्धवादिभिः॥ पुरुषैः कुरुशार्दूल समर्थैः प्रतिवारणे। अतिख्यातकुलैवीरैर्दृष्टवीर्यैश्च संयुगे॥ मध्यमेन च गुल्मेन रक्षिभिः सा सुरक्षिता। उत्क्षिप्तगुल्मैश्च तथा हयैश्च सपताकिभिः॥ आघोषितं च नगरे न पातव्या सुरेति वै। प्रमादं परिरक्षद्भिरुचसेनोद्धवादिभिः॥ प्रमत्तेष्वभिघातं हि कुर्याच्छाल्वो नराधिपः। इति कृत्वाप्रमत्तास्ते सर्वे वृष्ण्यन्धकाः स्थिताः॥ आनश्चि तथा सर्वे नटा नर्तकगायनाः। बहिनिर्वासिताः क्षिप्रं रक्षद्भिर्वित्तसंचयम्॥ संक्रमा भेदिताः सर्वे नावश्च प्रतिषेधिताः। परिखाश्चापि कौरव्य कालैः सुनिचिताः कृताः॥ उदपानाः कुरुश्रेष्ठ तथैवाप्यम्बरीषकाः। समन्तात् क्रोशमानं च कारिता विषमा च भूः॥ प्रकृत्या विषमं दुर्गं प्रकृत्या च सुरक्षितम्। प्रकृत्या चायुधोपेतं विशेषेण तदानघ॥ सुरक्षितं सुगुप्तं च सर्वायुधसमन्वितम्। तत् पुरं भरतश्रेष्ठ यथेन्द्रभवनं तथा॥ न चामुद्रोऽभिनिर्याति न चामुद्रः प्रवेश्यते। वृष्ण्यन्धकपुरे राजस्तदा सौभसमागमे॥ अनुरथ्यासु सर्वासु चत्वरेषु च कौरव। बलं बभूव राजेन्द्र प्रभूतगजवाजिमत्॥ दत्तवेतनभक्तं च दत्तायुधपरिच्छदम्। कृतोपधानं च तदा बलमासीन्महाभुज॥ न कुप्यवेतनी कश्चिन्न चातिक्रान्तवेतनी। नानुग्रहभृतः कश्चित्र चादृष्टपराक्रमः॥ एवं सुविहिता राजन् द्वारका भूरिदक्षिणा। आहुकेन सुगुप्ता च राज्ञा राजीवलोचन॥ वासुदेव उवाच एवमुक्त्वा रौक्मिणेयो यादवान् भरतर्षभ। दंशितैर्हरिभिर्युक्तं रथमाथाय काञ्चनम्॥ उच्छ्रित्य मकरं केतुं व्यात्ताननमिवान्तकम्। उत्पतद्भिरिवाकाशं तैर्हयैरन्वयात् परान्॥ विक्षिपन् नादयंश्चापिधनुः श्रेष्ठं महाबलः। तूणखड्गधरः शूरो बद्धगोधाङ्गुलित्रवान्॥ स विद्युच्छुरितं चापं विहरन् वै तलात् तलम्। मोहयामास दैतेयान् सर्वान् सौभनिवासिनः॥ तस्य विक्षिपतश्चापं संदधानस्य चासकृत्। नान्तरं ददृशे कश्चिन्निघ्नत: शात्रवान् रणे॥ मुखस्य वर्णो न विकल्पतेऽस्य चेलुश्च गात्राणि न चापि तस्य। सिंहोन्नतं चाप्यभिगर्जतोऽस्य शुश्राव लोकोऽद्भुतवीर्यमवयम्॥ जलेचरः काञ्चयष्टिसंस्थो व्यात्ताननः सर्वतिमिप्रमाथी। वित्रासयन् राजति वाहमुख्ये शाल्वस्य सेनाप्रमुखध्वजावयः॥ ततस्तूर्णं विनिष्पत्य प्रद्युम्नः शत्रुकर्षणः। शाल्वमेवाभिदुद्राव विधित्सुः कलहं नृप॥ अभियानं तु वीरेण प्रद्युम्नेन महारणे। नामर्षयत संक्रुद्धः शाल्वः कुरुकुलोद्वह॥ स रोषमदमत्तो वै कामगादवरुह्य च। प्रद्युम्नं योधयामास शाल्वः परपुरंजयः॥ तयोः सुतुमुलं युद्धं शाल्ववृष्णिप्रवीरयोः। समेता ददृशुर्लोका बलिवासवयोरिव॥ तस्य मायामयो वीर रथो हेमपरिष्कृतः। सपताकः सध्वजश्च सानुकर्षः स तूणवान्॥ स तं रथवरं श्रीमान् समारुह्य किल प्रभो। मुमोच बाणान् कौरव्य प्रद्युम्नाय महाबलः॥ ततो बाणमयं वर्ष व्यसृजत् तरसा रणे। प्रद्युम्नो भुजवेगेन शाल्वं सम्मोहयन्निव॥ स तैरभिहतः संख्ये नामर्षयत सौभराट्। शरान् दीप्ताग्निसंकाशान् मुमोच तनये मम॥ तमापतन्तं बाणौघं स चिच्छेद महाबलः। ततश्चान्याञ्छरान् दीप्तान् प्रचिक्षेप सुते मम॥ स शाल्वबाणै राजेन्द्र विद्धो रुक्मिणिनन्दनः। मुमोच बाणं त्वरितो मर्मभेदिनमाहवे॥ तस्य वर्म विभिद्याशु स बाणो मत्सुतेरितः। विव्याध हृदयं पत्री स मुमोह पपात च॥ तस्मिन् निपतिते वीरे शाल्वराजे विचेतसि। सम्प्राद्रवन् दानवेन्द्रा दारयन्तो वसुंधराम्॥ हाहाकृतमभूत् सैन्यं शाल्वस्य पृथिवीपते। नष्टसंज्ञे निपतिते तदा सौभपतौ नृपे॥ तत उत्थाय कौरव्य प्रतिलभ्य च चेतनाम्। मुमोच बाणान् सहसा प्रद्युम्नाय महाबलः॥ तैः स विद्धो महाबाहुः प्रद्युम्नः समरे स्थितः। जत्रुदेशे भृशं वीरो व्यवासीदद् रथे तदा॥ तं स विद्ध्वा महाराज शाल्वो रुक्मिणिनन्दनम्। ननाद सिंहनादं वै नादेनापूरयन् महीम्॥ ततो मोहं समापन्ने तनये मम भारत। मुमोच बाणांस्त्वरितः पुनरन्यान् दुरासदान्॥ स तैरभिहतो बाणैर्बहुभिस्तेन मोहितः। निश्चेष्टः कौरवश्रेष्ठ प्रद्युम्नोऽभूद् रणाजिरे॥ वासुदेव उवाच एवमुक्तस्तु कौन्तेय सूतपुत्रस्ततोऽब्रवीत्। प्रद्युम्नं बलिनां श्रेष्ठं मधुरं श्लक्ष्णमञ्जसा॥ न मे भयं रौक्मिणेय संग्रामे यच्छतो हयान्। युद्धज्ञोऽस्मि च वृष्णीनां नात्र किंचिदतोऽन्यथा॥ आयुष्मन्नुपदेशस्तु सारथ्ये वर्ततां स्मृतः। सर्वार्थेषु रथी रक्ष्यस्त्वं चापि भृशपीडितः॥ त्वं हि शाल्वप्रयुक्तेन शरेणाभिहतो भृशम्। कश्मलाभिहतो वीर ततोऽहमपयातवान्॥ स त्वं सात्वतमुख्याध लब्धसंज्ञो यदृच्छया। पश्य मे हयसंयाने शिक्षा केशवनन्दन॥ दारुकेणाहमुत्पन्नो यथावच्चैव शिक्षितः। वीतभीः प्रविशाम्येतां शाल्वस्य प्रथितां चमूम्॥ वासुदेव उवाच एवमुक्त्वा ततो वीर हयान् संचोद्य संगरे। रश्मिभिस्तु समुद्यम्य जवेनाभ्यपतत् तदा॥ मण्डलानि विचित्राणि यमकानीतराणि च। सव्यानि च विचित्राणि दक्षिणानि च सर्वशः॥ प्रतोदेनाहता राजन् रश्मिभिश्च समुद्यताः। उत्पतन्त इवाकाशे व्यचरंस्ते हयोत्तमाः॥ ते हस्तलाघवोपेतं विज्ञाय नृप दारुकिम्। दह्यमाना इव तदा नास्पृशंश्चरणैर्महीम्॥ सोऽपसव्यां चमूं तस्य शाल्वस्य भरतर्षभ। चकार नातियत्नेन तदद्भुतमिवाभवत्॥ अमृष्यमाणोऽपसव्यं प्रद्युम्नेन च सौभराट्। यन्तारमस्य सहसा त्रिभिर्बाणैः समार्दयत्॥ दारुकस्य सुतस्तत्र बाणवेगमचिन्तयन्। भूय एव महाबाहो प्रययावपसव्यतः॥ ततो बाणान् बहुविधान् पुनरेव स सौभराट्। मुमोच तनये वीर मम रुक्मिणिनन्दने॥ तानप्राप्ताञ्छितैर्बाणैश्चिच्छेद परवीरहा। रौक्मिणेयः स्मितं कृत्वा दर्शयन् हस्तलाघवम्॥ छिन्नान् दृष्ट्वा तु तान् बाणान् प्रद्युम्नेन च सौभराट्। आसुरीं दारुणीं मायामास्थाय व्यसृजच्छरान्॥ प्रयुज्यमानमाज्ञाय दैतेयास्त्रं महाबलम्। ब्रह्मास्त्रेणान्तराच्छित्त्वा मुमोचान्यान् पतत्रिणः। ते तदस्त्रं विधूयाशु विव्यधू रुधिराशनाः। शिरस्युरसि वक्त्रे च स मुमोह पपात च॥ तस्मिन् निपतिते क्षुद्रे शाल्वे बाणप्रपीडिते। रौक्मिणेयो परं बाणं संदधे शत्रुनाशनम्॥ राशीविषाग्निज्वलनप्रकाशम्। दृष्ट्वा शरं ज्यामभिनीयमानं बभूव हाहाकृतमन्तरिक्षम्॥ ततो देवगणाः सर्वे सेन्द्राः सहधनेश्वराः। नारदं प्रेषयामासुः श्वसनं च मनोजवम्॥ तौ रौक्मिणेयमागम्य वचोऽब्रूतां दिवौकसाम्। नैष वध्यस्त्वया वीर शाल्वराजः कथंचन॥ संहरस्व पुनर्बाणमवध्योऽयं त्वया रणे। एतस्य च शरस्याजौ नावध्योऽस्ति पुमान् क्वचित्।। मृत्युरस्य महाबाहो रणे देवकिनन्दनः। कृष्णः संकल्पितोधात्रा तन्मिथ्या न भवेदिति॥ ततः परमसंहृष्टः प्रद्युम्नः शरमुत्तमम्। संजहारधनुःश्रेष्ठात् तूणे चैव न्यवेशयत्॥ तत उत्थाय राजेन्द्र शाल्वः परमदुर्मनाः। व्यपायात् सबलस्तूर्णं प्रद्युम्नशरपीडितः॥ स द्वारकां परित्यज्य क्रूरो वृष्णिभिरादितः। सौभमास्थाय राजेन्द्र दिवमाचक्रमे तदा।॥ वासुदेव उवाच आनर्तनगरं मुक्तं ततोऽहमगमं तदा। महाक्रतौ राजसूये निवृत्ते नृपते तव॥ अपश्यं द्वारकां चाहं महाराज हतत्विषम्। निःस्वाध्यायवषट्कारां निर्भूषणवरस्त्रियम्॥ अनभिज्ञेयरूपाणि द्वारकोपवनानि च। दृष्ट्वा शङ्कोपपन्नोऽहमपृच्छं हृदिकात्मजम्॥ अस्वस्थनरनारीकमिदं वृष्णिकुलं भृशम्। किमिदं नरशार्दूल श्रोतुमिच्छामि तत्त्वतः॥ एवमुक्तः स तु मया विस्तरेणेदमब्रवीत्। रोधं मोक्षं च शाल्वेन हार्दिक्यो राजसत्तम॥ ततोऽहं भरतश्रेष्ठ श्रुत्वा सर्वमशेषतः। विनाशे शाल्वराजस्य तदैवाकरवं मतिम्॥ ततोऽहं भरतश्रेष्ठ समाश्वास्य पुरे जनम्। राजानमाहुकं चैव तथैवानकदुन्दुभिम्॥ सर्वान् वृष्णिप्रवीरांश्च हर्षयन्नब्रुवं तदा। अप्रमादः सद कार्यो नगरे यादवर्षभाः॥ शाल्वराजविनाशाय प्रयातं मां निबोधत। नाहत्वा तं निवर्तिष्ये पुरी द्वारवतीं प्रति॥ सशाल्वं सौभनगरं हत्वा द्रष्टास्मि वः पुनः। त्रि: समाहन्यतामेषा दुन्दुभिः शत्रुभीषणा॥ ते मयाऽऽश्वासिता वीरा यथावद् भरतर्षभ। सर्वे मामब्रुवन् हृष्टाः प्रयाहि जहि शात्रवान्॥ तैः प्रहृष्टात्मभिवीरैराशीर्भिरभिनन्दितः। वाचयित्वा द्विजश्रेष्ठान् प्रणम्य शिरसा भवम्॥ शैब्यसुग्रीवयुक्तेन रथेनानादयन् दिशः। प्रघ्माप्य शङ्खप्रवरं पाञ्चजन्यमहं नृप॥ प्रयातोऽस्मि नरव्याघ्र बलेन महता वृतः। क्लुप्तेन चतुरङ्गेण यत्तेन जितकाशिना॥ समतीत्य बहून् देशान् गिरीश्च बहुपादपान्। सरांसि सरितश्चैव मार्तिकावतमासदम्॥ तत्राश्रौषं नरव्याघ्र शाल्वं सागरमन्तिकात्। प्रयान्तं सौभमास्थाय तमहं पृष्ठतोऽन्वयाम्॥ ततः सागरमासाद्य कुक्षौ तस्य महोर्मिणः। समुद्रनाभ्यां शाल्वोऽभूत् सौभमास्थाय शत्रुहन्॥ स समालोक्य दूरान्मां स्मयन्निव युधिष्ठिर। आह्वयामास दुष्टात्मा युद्धायैव मुहुर्मुहुः॥ तस्य शाईविनिर्मुक्तैर्बहुभिर्मर्मभेदिभिः। पुरं नासाद्यत शरैस्ततो मां रोष आविशत्॥ स चापि पापप्रकृतिदैतेयापसदो नृप। मय्यवर्षत दुर्धर्षः शरधाराः सहस्रशः॥ सैनिकान् मम सूतं च हयांश्च समवाकिरत्। अचिन्तयन्तस्तु शरान् वयं युध्याम भारत॥ ततः शतसहस्राणि शराणां नतपर्वणाम्। चिक्षिपुः समरे वीरा मयि शाल्वपदानुगाः॥ ते हयांश्च रथं चैव तदा दारुकमेव च। छादयामासुरसुरास्तैर्बाणैर्मर्मभेदिभिः॥ न हया न रथो वीर न यन्ता मम दारुकः। अदृश्यन्त शरैश्छन्नास्तथाहं सैनिकाश्च मे॥ ततोऽहमपि कौन्तेय शराणामयुतान् बहून्। आमन्त्रितानांधनुषा दिव्येन विधिनाक्षिपम्॥ न तत्र विषयस्त्वासीन्मम सैन्यस्य भारत। खे विषक्तं हि तत् सौभं क्रोशमात्र इवाभवत्॥ ततस्ते प्रेक्षकाः सर्वे रङ्गवाट इव स्थिताः। हर्षयामासुरुच्चैर्मी सिंहनादतलस्वनैः॥ मत्कराग्रविनिर्मुक्ता दानवानां शरास्तथा। अङ्गेषु रुचिरापाङ्गा विविशुः शलभा इव॥ ततो हलहलाशब्दः सौभमध्ये व्यवर्धत। वध्यतां विशिखैस्तीक्ष्णैः पततां च महार्णवे॥ ते निकृत्तभुजस्कन्धाः कवन्धाकृतिदर्शनाः। नदन्तो भैरवान् नादान् निपतन्ति स्म दानवाः॥ पतितास्तेऽपि भक्ष्यन्ते समुद्राम्भोनिवासिभिः। ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभम्॥ जलजं पाञ्चजन्यं वै प्राणेनाहमपूरयम्। तान् दृष्ट्वा पतितास्तत्र शाल्व: सौभपतिस्ततः॥ मायायुद्धेन महता योधयामास मां युधि। ततो गदा हलाः प्रासाः शूलशक्तिपरश्वधाः॥ असयः शक्तिकुलिशपाशटिकनपाः शराः। पट्टिशाश्च भुशुण्ड्यश्च प्रपतन्त्वनिशं मयि॥ तामहं माययैवाशु प्रतिगृह्य व्यनाशयम्। तस्यां हतायां मायायां गिरिशृङ्गैरयोधयत्॥ ततोऽभवत् तम इव प्रकाश इव चाभवत्। दुर्दिनं सुदिनं चैव शीतमुष्णं च भारत॥ अङ्गारपांशुवर्षे च शस्त्रवर्षं च भारत। एवं मायां प्रकुर्वाणो योधयामास मां रिपुः॥ विज्ञाय तदहं सर्वं माययैव व्यनाशयम्। यथाकालं तु युद्धेन व्यधमं सर्वतः शरैः।।३८ ततो व्योम महाराज शतसूर्यमिवाभवत्। शतचन्द्रं च कौन्तेय सहस्रायुततारकम्॥ ततो नाज्ञायत तदा दिवारानं तथा दिशः। ततोऽहं मोहमापन्नः प्रज्ञास्त्रं समयोजयम्॥ ततस्तदस्त्रं कौन्तेयधूतं तूलमिवानलैः। तथा तदभवद् युद्धं तुमुलं लोमहर्षणम्। लब्धालोकस्तु राजेन्द्र पुनः शत्रुमयोधयम्॥ वासुदेव उवाच एवं स पुरुषव्याघ्र शाल्वराजो महारिपुः। युध्यमानो मया संख्ये वियदभ्यगमत् पुनः॥ ततः शतघ्नीश्च महागदाश्च दीप्तांश्च शूलान् मुसलानसींश्च। चिक्षेप रोपान्मयि मन्दबुद्धिः शाल्वो महाराज जयाभिकाक्षी॥ तानाशुगैरापततोऽहमाशु निवार्य हन्तुं खगमान् ख एव। स्ततोऽन्तरिक्षे निनदो बभूव॥ ततः शतसहस्रेण शराणां नतपर्वणाम्। दारुकं वाजिनश्चैव रथं च समवाकिरत्॥ ततो मामब्रवीद् वीर दारुको विह्वलनिव। रथातव्यमिति तिष्ठामि शाल्वबाणप्रपीडितः। अवस्थातुं न शक्नोमि अझं मे व्यवसीदति॥ इति तस्य निशम्याहं सारथेः करुणं वचः। अवेक्षमाणो यन्तारमपश्यं शरपीडितम्॥ न तस्योरसि नो मूर्भि न काये न भुजद्वये। अन्तरं पाण्डवश्रेष्ठ पश्याम्यनिचितं शरैः॥ स तु बाणवरोत्पीडाद् विस्रवत्यसृगुल्वणम्। अभिवृष्टे यथा मेधे गिरिगैरिकधातुमान्॥ अभीषुहस्तं तं दृष्ट्वा सीदन्तं सारथिं रणे। अस्तम्भयं महाबाहो शाल्वबाणप्रपीडितम्॥ अथ मां पुरुषः कश्चिद् द्वारकानिलयोऽब्रवीत्। त्वरिता रथमभ्येत्य सौहृदादिव भारत॥ आहुकस्य वचो वीर तस्यैव परिचारकः। विषण्णः सन्नकण्ठेन तन्निबोध युधिष्ठिर॥ द्वारकाधिपतिर्वीर आह त्वामाहुको वचः। केशवैहि विजानीष्व यत् त्वां पितृसखोऽब्रवीत्॥ उपयायाद्य शाल्वेन द्वारकां वृष्णिनन्दन। विषक्ते त्वयि दुर्धर्ष हतः शूरसुतो बलात्॥ तदलं साधु युद्धेन निवर्तस्व जनार्दन। द्वारकामेव रक्षस्व कार्यमेतन्महत् तव॥ इत्यहं तस्य वचनं श्रुत्वा परमदुर्मनाः। निश्चयं नाधिगच्छामि कर्तव्यस्येतरस्य च॥ सात्यकिं बलदेवं च प्रद्युम्नं च महारथम्। जगहें मनसा वीर तच्छ्रुत्वा महदप्रियम्॥ अहं हि द्वारकायाश्च पितुश्च कुरुनन्दन। तेषु रक्षां समाधाय प्रयातः सौभपातने।॥ बलदेवो महाबाहुः कच्चिज्जीवति शत्रुहा। सात्यकी रौक्मिण्येश्च चारुदेष्णश्च वीर्यवान्॥ साम्बप्रभृतयश्चैवेत्यहमासं सुदुर्मनाः। एतेषु हि नरव्याघ्र जीवत्सु न कथंचन॥ शक्यः शूरसुतो हन्तुमपि वज्रभृता स्वयम्। हतः शूरसुतो व्यक्तं चैते परासवः॥ बलदेवमुखाः सर्व इति मे निश्चिता मतिः। सोऽहं सर्वविनाशं तं चिन्तयानो मुहुर्मुहुः। अविह्वलो महाराज पुनः शाल्वमयोधयम्॥ ततोऽपश्यं महाराज प्रपतन्तमहं तदा। सौभाच्छूरसुतं वीर ततो मां मोह आविशत्॥ तस्य रूपं प्रपततः पितुर्मम नराधिप। ययातेः क्षीणपुण्यस्य स्वर्गादिव महीतलम्॥ विशीर्णमलिनोष्णीषः प्रकीर्णाम्बरमूर्धजः। प्रपतन् दृश्यते ह स्म क्षीणपुण्य इव ग्रहः॥ ततः शाधिनुःश्रेष्ठं करात् प्रपतितं मम। मोहापन्नश्च कौन्तेय रथोपस्थ उपाविशम्॥ ततो हाहाकृतं सर्वं सैन्यं मे गतचेतनम्। मां दृष्ट्वा रथनीडस्थं गतासुमिव भारत॥ प्रसार्य प्रसार्य चरणावपि। रूपं पितुर्मे विबभौ शकुनेः पततो यथा॥ तं पतन्तं महाबाहो शूलपट्टिशपाणयः। अभिघ्नन्तो भृशं वीर मम चेतो ह्यकम्पयन्॥ बाहू पततः महं तदा वीर महाविमर्दे। न तत्र सौभं न रिपुं च शाल्वं पश्यामि वृद्धं पितरं न चापि॥ ततो ममासीन्मनसि मायेयमिति निश्चितम्। प्रबुद्धोऽस्मि ततो भूयः शतशोऽवाकिरं शरान्।॥ वासुदेव उवाच ततोऽहं भरतश्रेष्ठ प्रगृह्य रुचिरंधनुः। शरैरपातयं सौभाच्छिरांसि विबुधद्विषाम्॥ शरांश्चाशीविषाकारानूर्ध्वगांस्तिग्मतेजसः। प्रेषयं शाल्वराजाय शामुक्तान् सुवाससः॥ ततो नादृश्यत तदा सौभं कुरुकुलोद्वह। अन्तर्हितं माययाभूत ततोऽहं विस्मितोऽभवम्॥ अथ दानवसङ्घास्ते विकृताननमूर्धजाः। उदक्रोशन् महाराज विष्ठिते मयि भारत॥ ततोऽस्त्रं शब्दसाहं वै त्वरमाणो महारणे। अयोजयं तद्वधाय ततः शब्द उपारमत्॥ हतास्ते दानवाः सर्वे यैः स शब्द उदीरित। शरैरादित्यसंकाशैर्ध्वलितैः शब्दसाधनैः॥ तस्मिन्नुपरते शब्दे पुनरेवान्यतोऽभवत्। शब्दोऽपरो महाराज तत्रापि प्राहरं शरैः॥ एवं दश दिशः सर्वास्तिर्यगूर्ध्वं च भारत। नादयामासुरसुरास्ते चापि निहता मया॥ ततः प्राग्ज्योतिषं गत्वा पुनरेव व्यदृश्यत। सौभं कामगमं वीर मोहयन्मम चक्षुषी॥ ततो लोकान्तकरणो दानवो दारुणाकृतिः। शिलावर्षेण महता सहसा मां समावृणोत्॥ सोऽहं पर्वतवर्षेण वध्यमानः पुनः पुनः। वल्मीक इव राजेन्द्र पर्वतोपचितोऽभवम्॥ ततोऽहं पर्वतचितः सहयः सहसारथिः। अप्रख्यातिमियां राजन् सर्वतः पर्वतैश्चितः॥ ततो वृष्णिप्रवीरा ये ममासन् सैनिकास्तदा। ते भयार्ता दिशः सर्वे सहसा विप्रदुद्रुवुः॥ ततो हाहाकृतमभूत् सर्वं किल विशाम्पते। द्यौश्च भूमिश्च खं चैतादृश्यमाने तथा मयि॥ ततो विषण्णमनसो मम राजन् सुहृज्जनाः। रुरुदुशुक्रुशुश्चैव दुःखशोकसमन्विताः॥ द्विषतां च प्रहर्षोऽभूदार्तिश्चाद्विषतामपि। एवं विजितवान् वीर पश्चादश्रौषमच्युत॥ ततोऽहमिन्द्रदयितं सर्वपाषाणभेदनम्। वज्रमुद्यम्य तान् सर्वान् पर्वतान् समशातयम्॥ ततः पर्वतभारार्ता मन्दप्राणविचेष्टिताः। हया मम महाराज वेपमाना इवाभवन्॥ मेघजालमिवाकाशे विदार्याभ्युदितं रविम्। दृष्ट्वा मां बान्धवाः सर्वे हर्षमाहारयन् पुनः॥ ततः पर्वतभारार्त्तान् मन्दप्राणविचेष्टितान्। हयान् संदृश्य मां सूतः प्राह तात्कालिकं वचः॥ साधु सम्पश्य वार्ष्णेय शाल्वं सौभपतिं स्थितम्। अलं कृष्णावमन्यैनं साधु यत्नं समाचर॥ मार्दवं सखितां चैव शाल्वादद्य व्यपाहर। जहि शाल्वं महाबाहो मैनं जीवय केशव॥ सर्वैः पराक्रमैर्वीर वध्यः शत्रुरमित्रहन्। न शत्रुरवमन्तव्यो दुर्बलोऽपि बलीयसा॥ योऽपि स्यात् पीठगः कश्चित् किं पुनः समरे स्थितः स त्वं पुरुषशार्दूल सर्वयत्नौरिमं प्रभो॥ जहि वृष्णिकुलश्रेष्ठ मा त्वां कालोऽत्यगात् पुनः नैष मार्दवसाध्यो वै मतो नापि सखा तव॥ येन त्वं योधितो वीर द्वारका चावमर्दिता। एवमादि तु कौन्तेय श्रुत्वाहं सारथेर्वचः॥ तत्त्वमेतदिति ज्ञात्वा युद्धे मतिमधारयम्। वधाय शाल्वराजस्य सौभस्य च निपातने॥ दारुकं चाब्रुवं वीर मुहूर्त स्थीयतामिति। ततोऽप्रतिहतं दिव्यमभेद्यमतिवीर्यवत्॥ आग्नेयमस्त्रं दयितं सर्वसाहं महाप्रभम्। योजयं तत्रधनुषा दानवान्तकरं रणे॥ यक्षाणां राक्षसानां च दानवानां च संयुगे। राज्ञां च प्रतिलोमानां भस्मान्तकरणं महत्॥ क्षुरान्तममलं चक्रं कालान्तकयमोपमम्। अनुमन्त्र्याहमतुलं द्विषतां विनिबर्हणम्॥ जहि सौभं स्ववीर्येण ये चात्र रिपवो ममा इत्युक्त्वा भुजवीर्येण तस्मै प्राहिणवं रुषा॥ रूपं सुदर्शनस्यासीदाकाशे पततस्तदा। द्वितीयस्येव सूर्यस्य युगान्ते प्रपतिष्यतः॥ तत् समासाद्य नगरं सौभं व्यपगतत्विषम्। मध्येन पाटयामास क्रकचो दार्विवोच्छ्रितम्॥ द्विधा कृतं ततः सौभं सुदर्शनबलाद्धतम्। महेश्वरशरोद्भूतं पपात त्रिपुरं यथा।॥ तस्मिन् निपतिते सौभे चक्रमागात् करं मम। पुनश्चादाय वेगेन शाल्वायेत्हमब्रुवम्॥ ततः शाल्वं गदां गुर्वीमाविध्यन्तं महाहवे। द्विधा चकार सहसा प्रजज्वाल च तेजसा॥ तस्मिन् विनिहते वीरे दानवास्त्रस्तचेतसः। हाहाभूता दिशो जग्मुरर्दिता मम सायकैः॥ ततोऽहं समवस्थाप्य रथं सौभसमीपतः। शङ्ख प्रध्माप्य हर्षेण सुहृदः पर्यहर्षयम्॥ तन्मेरुशिखराकारं विध्वस्ताट्टालगोपुरम्। दह्यमानमभिप्रेक्ष्य स्त्रियस्ताः सम्प्रदुद्रुवुः॥ एवं निहत्य समरे सौभं शाल्वं निपात्य च। आनान् पुनरागम्य सुहृदां प्रीतिमावहम्॥ तदेतत् कारणं राजन् यदहं नागसाह्वयम्। नागमं परवीरन न हि जीवेत् सुयोधनः॥ मय्यागतेऽथवा वीर द्यूतं न भविता तथा। अद्याहं किं करिष्यामि भिन्नसेतुरिवोदकम्॥ वैशम्पायन उवाच एवमुक्त्वा महाबाहुः कौरवं पुरुषोत्तमः। आमन्त्र्य प्रययौ श्रीमान् पाण्डवान् मधुसूदनः॥ अभिवाद्य महाबाहुर्धर्मराज युधिष्ठिरम्। राज्ञा मूर्धन्युपाघ्रातो भीमेन च महाभुजः॥ परिष्वक्तश्चार्जुनेन यमाभ्यां चाभिवादितः। सम्मानितश्चधौम्येन द्रौपद्या चार्चितोऽश्रुभिः॥ सुभद्रामभिमन्युं च रथमारोप्य काञ्चनम्। आरुरोह रथं कृष्णः पाण्डवैरभिपूजितः॥ शैब्यसुग्रीवयुक्तेन रथेनादित्यवर्चसा। द्वारकां प्रययौ कृष्णः समाश्वास्य युधिष्ठिरम्॥ ततः प्रयाते दाशार्हेधृष्टद्युम्नोऽपि पार्षतः। द्रौपदेयानुपादाय प्रययौ स्वरं तदा॥ धृष्टकेतुः स्वसारं च समादायाथ चेदिराट्। जगाम पाण्डवान् दृष्ट्वा रम्यां शुक्तिमती पुरीम्॥ केकयाश्चाप्यनुज्ञाताः कौन्तेयेनामितौजसा। आमन्त्र्य पाण्डवान् सर्वान् प्रययुस्तेऽपि भारत॥ ब्राह्मणाच विशश्चैव तथा विषयवासिनः। विसृज्यमानाः सुभृशं न त्यजन्ति स्म पाण्डवान्॥ समवायः स राजेन्द्र सुमहाद्भुतदर्शनः। आसीन्महात्मनां तेषां काम्यके भरतर्षभ॥ युधिष्ठिरस्तु विप्रांस्ताननुमान्य महामनाः। शशास पुरुषान् काले रथान् योजयतेति वै॥ वैशम्पायन उवाच ततस्तेषु प्रयातेषु कौन्तेयः सत्यसंगरः। अभ्यभाषतधर्मात्मा भ्रातृन् सर्वान् युधिष्ठिरः॥ द्वादशेमानि वर्षाणि वस्तव्यं निर्जने वने। समाक्षध्य महारण्ये देश बहुमृगद्विमम्॥ बहुपुष्पफलं रम्यं शिवं पुण्यजनावृतम्। यत्रेमाः शरदः सर्वाः सुखं प्रतिवसेमहि॥ एवमुक्ते प्रत्युवाचधर्मराजंधनंजयः। मुरुवन्मानवगुरुं मानयित्वा मनस्विनम्॥ अर्जुन उवाच भवानेव महर्षीणां वृद्धानां पर्युपासिता। अज्ञातं मानुषे लोके भवतो नास्ति किंचन॥ त्वया झुपासिता नित्यं ब्राह्मणा भरतर्षभ। द्वैपायनप्रभृतयो नारदश्च महातपाः॥ यः सर्वलोकद्वाराणि नित्यं संचरते वशी। देवलोकाद् ब्रह्मलोकं गन्धर्वाप्सरसामपि।॥ अनुभावांश्च जानासि ब्राह्मणानां च संशयः। प्रभावांश्चैव वेत्थ त्वं सर्वेषामेव पार्थिव॥ त्वमेव राजानासि श्रेयःकारणमेव च। यत्रेच्छसि महाराज निवासं तत्र कुर्महे॥ इदं द्वैतवनं नाम सरः पुण्यजलोचितम्। बहुपुष्पफलं रम्यं नानाद्विजनिषेवितम्॥ अत्रेपा द्वादश समा विहरेमेति रोचये। यदि तेऽनुमतं राजन् किमन्यन्मन्यते भवान्॥ युधिष्ठिर उवाच ममाप्येतन्मतं पार्थ त्वया यत् समुदाहृतम्। गच्छामः पुण्यविख्यातं महद् द्वैतवनं सरः॥ वैशम्पायन उवाच ततस्ते प्रययुः सर्वे पाण्डवाधर्मचारिणः। ब्राह्मणैर्बहुभिः सार्धं पुण्यं द्वैतवनं सरः॥ ब्राह्मणाः साग्निहोत्राश्च तथैव च निरग्नयः। स्वाध्यायिनो भिक्षवश्च तथैव वनवासिनः॥ बहवो ब्राह्मणास्तत्र परिवव॒र्युधिष्ठिरम्। तप:सिद्धा महात्मानः शतशः संशितव्रताः॥ ते यात्वा पाण्डवास्तत्र ब्राह्मणैर्बहुभिः सह। पुण्यं द्वैतवनं रम्यं विविशुर्भरतर्षभाः॥ कदम्बसर्जार्जुनकर्णिकारैः। तपात्यये पुष्पधरैरुपेतं महावनं राष्ट्रपतिर्ददर्श॥ मनोरमां वाचमुदीरयन्तः। स्तस्मिन् वने बर्हिणकोकिलाश्च॥ करेणुयूथैः सह यूथपानां मदोत्कटानामचलप्रभाणाम्। महान्ति यूथानि महाद्विपानां तस्मिन् वने राष्ट्रपतिर्ददर्श॥ मनोरमां भोगवतीमुपेत्य पूतात्मनां चीरजटाधराणाम्। तस्मिन् वनेधर्मभृतां निवासे ददर्श सिद्धर्षिगणाननेकान्॥ ततः स यानादवरुहा राजा सभ्रातृकः सजनः काननं तत्। स्त्रिविष्टपं शक्र इवामितौजाः॥ दिदृक्षवश्चारणसिद्धसङ्घाः। वनौकसचापि नरेन्द्रसिंह मनस्विनं तं परिवार्य तस्थुः॥ स तत्र सिद्धानभिवाद्य सर्वान् प्रत्यर्चितो राजवद् देववच्च। विवेश सर्वैः सहितो द्विजावयैः कृताञ्जलिर्धर्मभृतां वरिष्ठः॥ स पुण्यशीलः पितृवन्महात्मा तपस्विभिर्धर्मपरैरुपेत्य प्रत्यर्चितः पुष्पधरस्य मूले महाद्रुमस्योपविवेश राजा॥ भीमश्च कृष्णा चधनंजयश्च यमौ च ते चानुचरा नरेन्द्रम्। विमुच्य वाहानवशाश्च सर्वे तत्रोपतस्थुर्भरतप्रबर्हाः॥ महाद्रुमः पञ्चभिरेवधन्विभिः। महागिरिर्वारणयूथपैरिव॥ वैशम्पायन उवाच तत् काननं प्राप्य नरेन्द्रपुत्राः सुखोचिता वासमुपेत्य कृच्छ्रम्। विजह्वरिन्द्रप्रतिमाः शिवेषु सरस्वतीशालवनेषु तेषु॥ स्तस्मिन् वने मूलफलैरुदगः। द्विजातिमुख्यानृषभः कुरूणां संतर्पयामास महानुभावः॥ इष्टीश्च पित्र्याणि तथा क्रियाश्च महावने वसतां पाण्डवानाम्। पुरोहितस्तत्र समृद्धतेजाश्चकारधौम्यः पितृवन्नृपाणाम्॥ मृषिः पुराणोऽतिथिराजगाम। तमाश्रमं तीव्रसमृद्धतेजा मार्कण्डेयः श्रीमतां पाण्डवानाम्॥ तमागतं ज्वलितहुताशनप्रभं महामनाः कुरुवृषभो युधिष्ठिरः। अपूजयत् सुरऋषिमानवार्चितं महामुनि ह्यनुपमसत्त्ववीर्यवान्॥ स सर्वविद् द्रौपदी वीक्ष्य कृष्णां युधिष्ठिरं भीमसेनार्जुनौ च। संस्मृत्य रामं मनसा महात्मा तपस्विमध्येऽस्मयतामितौजाः॥ तंधर्मराजो विमना इवाब्रवीत् सर्वे ह्रिया सन्ति तपस्विनोऽमी। स्तपस्विनां पश्यतां मामुदीक्ष्य॥ मार्कण्डेय उवाच न तात हृष्यामि न च स्पयामि प्रहर्षजो मां भजते न दर्पः। तवापदं त्वद्य समीक्ष्य राम सत्यव्रतं दाशरथिं स्मरामि॥ स चापि राजा सह लक्ष्मणेन वने निवासं पितुरेव शासनात्। धन्वी चरन् पार्थ मयैव दृष्टो गिरेः पुरा ऋष्यमूकस्य सानौ॥ सहस्रनेत्रप्रतिमो महात्मा यमस्य नेता नमुचेश्च हन्ता। पितुर्निदेशादनघः स्वधर्म वासं वने दाशरथिश्चकार॥ स चापि शक्रस्य समप्रभावो महानुभावः समरेष्वजेयः। विहाय भोगानचरद् वनेषु नेशे बलस्येति चरेदधर्मम्॥ भूपाश्च नाभागभगीरथादयो महीमिमां सागरान्तां विजित्य। सत्येन तेऽप्यजयंस्तात लोकान् नेशे बलस्येति चरेदधर्मम्॥ अलर्कमाहुर्नरवर्य सन्तं सत्यव्रतं काशिकरूपराजम्। विहाय राज्यानि वसूनि चैव नेशे बलस्येति चरेदधर्मम्॥ स्तं पूजयन्तो नरवय सन्तः। सप्तर्षयः पार्थ दिवि प्रभान्ति नेशे बलस्येति चरेदधर्मम्॥ महाबलान् पर्वतकूटमात्रान् विषाणिनः पश्य गजान् नरेन्द्र। नेशे बलस्येति चरेदधर्मम्॥ सर्वाणि भूतानि नरेन्द्र पश्य तथा यथावद् विहितं विधात्रा। स्वयोनितः कर्म सदा चरन्ति नेशे बलस्येति चरेदधर्मम्॥ सत्येनधर्मेण यथार्हवृत्त्या ह्रिया तथा सर्वभूतान्यतीत्य। यशश्च तेजश्च तवापि दीप्तं विभावसो स्करस्येव पार्थ॥ यथाप्रतिज्ञं च महानुभाव कृच्छ्रे वने वासमिमं निरुष्य। मादास्यसे पार्थिव कौरवेभ्यः॥ वैशम्पायन उवाच स्तपस्विमध्ये सहितं सुहृद्भिः। स्ततः प्रतस्थे दिशमुत्तरां सः॥ वैशम्पायन उवाच ततो वनगता: पार्थाः सायाह्ने सह कृष्णया। उपविष्टाः कथाश्चक्रुर्दुःखशोकपरायणाः॥ प्रिया च दर्शनीया च पण्डिता च पतिव्रता। अथ कृष्णाधर्मराजमिदं वचनमब्रवीत्॥ द्रौपद्युवाच न नूनं तस्य पापस्य दुःखमस्मासु किंचन। विद्यतेधार्तराष्ट्रस्य नृशंसस्य दुरात्मनः॥ यस्त्वां वां राजन् मया सार्धमजिनैः प्रतिवासितम्। वनं प्रस्थाप्य दुष्टात्मा नान्वतप्यत दुर्मतिः॥ आयसं हृदयं नूनं तस्य दुष्कृतकर्मणः। यस्त्वांधर्मपरं श्रेष्ठं रूक्षाण्यश्रावयत् तदा॥ सुखोचितमदुःखाहँ दुरात्मा ससुहृद्गणः। ईदृशं दुःखमानीय मोदते पापपूरुषः॥ चतुर्णामेव पापानामा न पतितं तदा। त्वयि भारत निष्क्रान्ते वनायाजिनवाससि॥ दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः। दुर्धातुस्तस्य चोचस्य राजन् दुःशासनस्य च॥ इतरेषां तु सर्वेषां कुरूणां कुरुसत्तम्। दुःखेनाभिपरीतानां नेत्रेभ्यः प्राप्तज्जलम्॥ इदं च शयनं दृष्ट्वा यच्चासीत् ते पुरातनम्। शोचामि त्वां महाराज दुःखान/ सुखोचितम्॥ दान्तं यच्च सभामध्य आसनं रत्नभूषितम्। दृष्ट्वा कुशवृषी चेमा शोको मां प्रदहत्ययम्॥ यदपश्यं सभायां त्वां राजभिः परिवारितम्। तच्च राजन्नपश्यन्त्याः का शान्तिर्हदयस्य मे॥ या त्वाहं चन्दनादिग्धमपश्यं सूर्यवर्चसम्। सा त्वां पङ्कमलादिग्धं दृष्ट्वा मुह्यामि भारत॥ या त्वाहं कौशिकैर्वस्त्रैः शुभैराच्छादितं पुरा। दृष्टवत्यस्मि राजेन्द्र सा त्वां पश्यामि चीरिणम्॥ यच्च तदुक्मपात्रीभिर्ब्राह्मणेभ्यः सहस्रशः। ह्रियते ते गृहादन्नं संस्कृतं सार्वकामिकम्॥ यतीनामगृहाणां ते तथैव गृहमेधिनाम्। दीयते भोजनं राजन्नतीवगुणवत् प्रभो॥ सत्कृतानि सहस्राणि सर्वकामैः पुरा गृहे। सर्वकामैः सुविहितैर्यदपूजयथा द्विजान्॥ तच्च राजन्नपश्यन्त्याः का शान्तिर्हदयस्य मे। यत् ते भ्रातृन् महाराज युवानो मृष्टकुण्डलाः॥ अभोजयन्त मिष्टान्नैः सूदाः परमसंस्कृतैः। सर्वांस्तानद्य पश्यामि वने वन्येन जीविनः॥ अदुःखार्हान् मनुष्येन्द्र नोपशाम्यति मे मनः। भीमसेनमिमं चापि दुःखितं वनवासिनम्॥ ध्यायत: किं न मन्युस्ते प्राप्ते काले विवर्धते। भीमसेनं हि कर्माणि स्वयं कुर्वाणमन्युतम्॥ सुखा/ दुःखितं दृष्ट्वा कस्मान्मन्युर्न वर्धते। सत्कृतं विविधैर्यानैर्वस्त्रैरुच्चावचैस्तथा॥ तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते। अयं कुरून् रणे सर्वान् हन्तुमुत्सहते प्रभुः॥ त्वत्प्रतिज्ञा प्रतीक्षस्तु सहतेऽयं वृकोदरः। योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना॥ शरावमर्दे शीघ्रत्वात् कालान्तकयमोपमः। यस्य शस्त्रप्रतापेन प्रणताः सर्वपार्थिवाः॥ यज्ञे तव महाराज ब्राह्मणानुपतस्थिरे। तमिमं पुरुषव्याघ्र पूजितं देवदानवैः॥ ध्यायन्तमर्जुनं दृष्ट्वा कस्माद् राजन् न कुप्यसि। दृष्ट्वा वनगतं पार्थमदुःखार्ह सुखोचितम्॥ न च ते वर्धते मन्युस्तेन मुह्यामि भारत। यो देवांश्च मनुष्यांश्च सर्वांश्चैकरथोऽजयत्॥ तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते। यो यानैरद्धृताकारैर्हयैर्नागैश्च संवृतः॥ प्रसह्य वित्तान्यादत्त पार्थिवेभ्यः परंतप। क्षिपत्येकेन वेगेन पञ्चबाणशतानि यः॥ तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते। श्यामं बृहन्तं तरुणं चर्मिणामुत्तमं रणे॥ दृष्ट्वा कस्मान्मन्युर्न वर्धते। नकुलं ते वने दर्शनीयं च शूरं च माद्रीपुत्रं युधिष्ठिर॥ सहदेवं वने दृष्ट्वा कस्मात् क्षमसि पार्थिव। नकुलं सहदेवं च दृष्ट्वा ते दुःखितावुभौ॥ अदुःखार्ही मनुष्येन्द्र कस्मान्मन्युर्न वर्धते। दुपदस्य कुले जातां स्नुषां पाण्डोर्महात्मनः॥ धृष्टद्युम्नस्य भगिनीं वीरपत्नीमनुव्रताम्। मां वै वनगतां दृष्ट्वा कस्मात् क्षमसि पार्थिव॥ नूनं च तव वै नास्ति मन्युर्भरतसत्तम्। यत् ते भ्रातूंश्च मां चैव दृष्ट्वा न व्यथते मनः॥ न निर्मन्युः क्षत्रियोऽस्ति लोके निर्वचनं स्मृतम्। तदद्य त्वयि पश्यामि क्षत्रिये विपरीतवत्॥ यो न दर्शयते तेजः क्षत्रियः काल आगते। सर्वभूतानि तं पार्थ सदा परिभवन्त्युत॥ तत् त्वया न क्षमा कार्या शत्रुन् प्रति कथंचन। तेजसैव हि ते शक्या निहन्तुं नात्र संशयः॥ तथैव यः क्षमाकाले क्षत्रियो नोपशाम्यति। अप्रियः सर्वभूतानां सोऽमुत्रेह च नश्यति॥ द्रौपद्युवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। प्रह्लादस्य च संवादं बलेर्वैरोचनस्य च।।।। असुरेन्द्रं महाप्राज्ञंधर्माणामागतागमम्। बलिः पप्रच्छ दैत्येन्द्र प्रह्लादं पितरं पितुः॥ बलिरुवाच क्षमा स्विच्छ्रेयसी तात उताहो तेज इत्युत। एतन्मे संशयं तात यथावद् ब्रूहि पृच्छते॥ श्रेयो यदत्रधर्मज्ञ ब्रूहि मे तदसंशयम्। करिष्यामि हि तत् सर्वं यथावदनुशासनम्॥ तस्मै प्रोवाच पृष्टः पितामहः। सर्वनिश्चयवित् प्राज्ञः संशयं परिपृच्छते॥ तत् सर्वमेवं प्रह्लाद उवाच न श्रेयः सततं तेजो न नित्यं श्रेयसी क्षमा। इति तात विजानीहि द्वयमेतदसंशयम्॥ यो नित्यं क्षमते तथा बहून् दोषान् स विन्दति। भृत्याः परिभवन्त्येनमुदासीनास्तथारयः॥ सर्वभूतानि चाप्यस्य न नमन्ति कदाचन। तस्मान्नित्यं क्षमा तात पण्डितैरपि वर्जिता।।। अवज्ञाय हि तं भृत्या भजन्ते बहुदोषताम्। आदातुं चास्य वित्तानि प्रार्थयन्तेऽल्पचेतसः॥ यानं वस्त्राण्यलंकाराञ्छयनान्यासनानि च। भोजनान्यथ पानानि सर्वोपकरणानि च॥ आददीरनधिकृता यथाकाममचेतसः। प्रदिष्टानि च देयानि न दद्युभर्तृशासनात्॥ न चैनं भर्तृपूजाभिः पूजयन्ति कथंचन। अवज्ञानं हि लोकेऽस्मिन् मरणादपि गर्हितम्॥१२ क्षमिणं तादृशं तात ब्रुवन्ति कटुकान्यपि। प्रेष्याः पुत्राश्च भृत्याश्च तथोदासीनवृत्तयः॥ अथास्य दारानिच्छन्ति परिभूय क्षमावतः। दाराश्चास्य प्रवर्तन्ते यथाकाममचेतसः॥ तथा च नित्यमुदिता यदि नाल्पमपीश्वरात्। दण्डमर्हन्ति दुष्यन्ति दुष्टाश्चाप्यपकुर्वते॥ एते चान्ये च बहवो नित्यं दोषाः क्षमावताम्। अथ वैरोचने दोषानिमान् विद्वयक्षमावताम॥ अस्थाने यदि वा स्थाने सततं रजसाऽऽवृतः। क्रुद्धो दण्डान् प्रणयति विविधान् स्वेन तेजसा॥ मित्रैः सह विरोधं प्राप्नुते तेजसाऽऽवृतः। आप्नोति द्वेष्यतां चैव लोकात् स्वजनतस्तथा॥ सोऽवमानादर्थहानिमुपालम्भमनादरम्। संतापद्वेषमोहांश्च शत्रूश्च लभते नरः॥ क्रोधाद् दण्डान्मनुष्येषु विविधान् पुरुषोऽनयात्। भ्रश्यते शीघ्रमैश्वर्यात् प्राणेभ्यः स्वजनादपि॥ योपकर्तश्च हर्तश्च तेजसैवोपगच्छति। तस्मादुद्विजते लोकः सर्पाद् वेश्मगतादिव॥ यस्मादुद्विजते लोकः कथं तस्य भवो भवेत्। अन्तरं तस्य दृष्टैव लोको विकुरुतेध्रुवम्॥ तस्मान्नात्युत्सृजेत् तेजो न च नित्यं मृदुर्भवेत्। काले काले तु सम्प्राप्ते मृदुस्तीक्ष्णोऽपि वा भवेत्।२३।। काले मृदुर्यो भवति काले भवति दारुणः। स वै सुखमवाप्नोति लोकेऽमुष्मिन्निहैव च॥ क्षमाकालांस्तु वक्ष्यामि शृणु मे विस्तरेण तान्। ये ते नित्यमसंत्याज्या यथा प्राहुर्मनीषिणः॥ पूर्वोपकारी यस्ते स्यादपराधे गरीयसि। उपकारेण तत् तस्य क्षन्तव्यमपराधिनः॥ अबुद्धिमाश्रितानां तु क्षन्तव्यमपराधिनाम्। न हि सर्वत्र पाण्डित्यं सुलभं पुरुषेण वै॥ अथ चेद् बुद्धिजं कृत्वा ब्रूयुस्ते तदबुद्धिजम्। पापान् स्वल्पेऽपि तान् हन्यादपराधे तथानृजून्॥ सर्वस्यैकोऽपराधस्ते क्षन्तव्यः प्राणिनो भवेत्। द्वितीये सति वध्यस्तु स्वल्पेऽप्यपकृते भवेत्॥ अजानता भवेत् कश्चिदपराधः कृतो यदि। क्षन्तव्यमेव तस्याहुः सुपरीक्ष्य परीक्षया॥ मृदुना दारुणं हन्ति मृदुना हन्त्यदारुणम्। नासाध्यं मृदुना किंचित् तस्मात् तीव्रतरं मृदु॥ देशकालौ तु सम्प्रेक्ष्य बलाबलमथात्पनः। नादेशकाले किंचित् स्याद् देशकालौ प्रतीक्षताम् तथा लोकभयाच्चैव क्षन्तव्यमपराधिनः॥ एत एवंविधाः कालाः क्षमायाः परिकीर्तिताः। अतोऽन्यथानुवर्तत्सु तेजसः काल उच्यते॥ तदहं तेजसः कालं तव मन्ये नराधिप। धार्तराष्ट्रेषु लुब्धेषु सततं चापकारिषु॥ न हि कश्चित् क्षमाकालो विद्यतेऽद्य कुरून् प्रति। तेजसश्चागते काले तेज उत्स्रष्टुमर्हसि॥ मृदुर्भवत्यवज्ञातस्तीक्ष्णादुद्विजते जनः। काले प्राप्ते द्वयं चैतद् यो वेद स महीपतिः॥ युधिष्ठिर उवाच क्रोधो हन्ता मनुष्याणां क्रोधो भावयिता पुनः। इति विद्धि महाप्राज्ञे क्रोधमूलौ भवाभवौ॥ यो हि संहरते क्रोधं भवस्तस्य सुशोभने। वः पुनः पुरुषः क्रोधं नित्यं न सहते शुभे। तस्याभावाय भवथि क्रोधः परमदारुणः॥ क्रोधमूलो विनाशो हि प्रजानामिह दृश्यते। तत् कथं मादृशः क्रोधमुत्सृजेल्लोकनाशनम्॥ क्रुद्धः पापं नरः कुर्यात् क्रुद्धो हन्याद् गुरूनपि। क्रुद्धः परुषया वाचा श्रेयसोऽप्यवमन्यते॥ वाच्यावाच्ये हि कुपितो न प्रजानाति कर्हिचित्। नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते तथा॥ हिंस्यात् क्रोधादवध्यांस्तु वध्यान् सम्पूजयीत च आत्मानमपि च क्रुद्धः प्रेषयेद् यमसादनम्॥ एतान् दोषान् प्रपश्यद्भिर्जितः क्रोधो मनीषिभिः। इच्छद्भिः परमं श्रेय इह चामुत्र चोत्तमम्॥ तं क्रोधं वर्जितंधीरैः कथमस्मद्विधश्चरत्। एतद् द्रौपदि संधाय न मे मन्युः प्रवर्धते॥ आत्मानं च परांश्चैव त्रायते महतो भयात्। क्रुध्यन्तमप्रतिक्रुध्यन् द्वयोरेष चिकित्सकः॥ मूढो यदि क्लिश्यमानः क्रुध्यतेऽशक्तिमान् नरः। बलीयसां मनुष्याणां त्यजत्यात्मानमात्मना॥ तस्यात्मानं संत्यजतो लोका नश्यन्त्यनात्मनः। तस्माद् द्रौपद्यशक्तस्य मन्योर्नियमनं स्मृतम्॥ विद्वांस्तथैव यः शक्तः क्लिश्यमानो न कुप्यति। अनाशयित्वा क्लेष्टारं परलोके च नन्दति॥ तस्माद् बलवता चैव दुर्बलेन च नित्यदा। क्षन्तव्यं पुरुषेणाहुरापत्स्वपि विजानता॥ मन्योर्हि विजयं कृष्णे प्रशंसन्तीह साधवः। क्षमावतो जयो नित्यं साधोरिह सतां मतम्॥ सत्यं चानृततः श्रेयो नृशंस्याच्चानृशंसता। तमेवं बहुदोषं तु क्रोधं साधुविवर्जितम्॥ मादृशः प्रसृजेत् कस्मात् सुयोधनवधादपि। तेजस्वीति यमा हुर्वै पण्डिता दीर्घदर्शिनः॥ न क्रोधोऽभ्यन्तरस्तस्य भवतीति विनिश्चितम्। यस्तु क्रोधं समुत्पन्नं प्रज्ञया प्रतिबाधते॥ तेजस्विनं तं विद्वांसो मन्यन्ते तत्त्वदर्शिनः क्रुद्धो हि कार्यं सुश्रोणि न यथावत् प्रपश्यति। नाकार्यं न च मर्यादां नरः क्रुद्धोऽनुपश्यति॥ हन्त्यवध्यानपि क्रुद्धो गुरून् क्रुद्धस्तुदत्यपि। तस्मात् तेजसि कर्तव्यः क्रोधो दूरे प्रतिष्ठितः॥ दाक्ष्यं घमर्ष: शौर्यं च शीघ्रत्वमिति तेजसः। गुणाः क्रोधाभिभूतेन न शक्याः प्राप्तुमञ्जसा॥ क्रोधं त्यक्त्वा तु पुरुषः सम्यक् तेजोऽभिपद्यते। कालयुक्तं महाप्राज्ञे क्रुद्धस्तेज: सुदुःसहम्॥ क्रोधस्त्वपण्डितैः शश्वत् तेज इत्यभिनिश्चितम्। रजस्तु लोकनाशाय विहितं मानुषं प्रति॥ तस्माच्छश्वत् त्यजेत् क्रोधं पुरुषः सम्यगाचरन्। श्रेयान् स्वधर्मानपगो न क्रुद्ध इति निश्चितम्॥ यदि सर्वमबुद्धीनामतिक्रान्तमचेतसाम्। अतिक्रमो मद्विधस्य कथंस्वित् स्यादनिन्दिते॥ यदि न स्युर्मानुषेषु क्षमिणः पृथिवीसमाः। न स्यात् संधिर्मनुष्याणां क्रोधमूलो हि विग्रहः॥ अभिषक्तो ह्यभिषजेदाहन्याद् गुरुणा हतः। एवं विनाशो भूतानामधर्मः प्रथितो भवेत्॥ आक्रुष्टः पुरुषः सर्वं प्रत्याक्रोशेदनन्तरम्। प्रतिहन्याद्धतश्चैव तथा हिंस्याच्च हिंसितः॥ हंन्युर्हि पितरः पुत्रान् पुत्राश्चापि तथा पितृन्। हन्युश्च पतयो भार्याः पतीन् भार्यास्तथैव च॥ एवं संकुपिते लोके शमः कृष्णे न विद्यते। प्रजानां संधिमूलं हि शमं विद्धि शुभानने॥ ताः क्षिपेरन् प्रजाः सर्वाः क्षिप्रं द्रौपदि तादृशे। तस्मान्मन्युर्विनाशाय प्रजानामभवाय च॥ यस्मात् तु लोके दृश्यन्ते क्षमिणः पृथिवीसमाः। तस्माज्जनम् च भूतानां भवश्च प्रतिपद्यते॥ क्षन्तव्यं पुरुषेणेह सर्वापत्सु सुशोभने। क्षमावतो हि भूतानां जन्म चैव प्रकीर्तितम्॥ आक्रुष्टस्ताडितः क्रुद्धः क्षमते यो बलीयसा। यश्च नित्यं जितक्रोधो विद्वानुत्तमपूरुषः॥ प्रभाववानपि नरस्तस्य लोकाः सनातनाः। क्रोधनस्त्वल्पविज्ञानः प्रेत्य चेह न नश्यति॥ अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम्। गीताः क्षमावता कृष्णे काश्यपेन महात्मना॥ क्षमाधर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम्। य एतदेवं जानाति स सर्वं क्षन्तुमहति॥ क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च। क्षमा तपः क्षमा शौचं क्षमयेदंघृतं जगत्॥ अति यज्ञविदां लोकान् क्षमिणः प्राप्नुवन्ति च। अति ब्रह्मविदां लोकानति चापि तपस्विनाम्॥ अन्ये वै यजुषां लोकाः कर्मिणामपरे तथा। क्षमावतां ब्रह्मलोके लोकाः परमपूजिताः॥ क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम्। क्षमा सत्यं सत्यवतां क्षमा यज्ञः क्षमा शमः॥ तां क्षमा तादृशीं कृष्णे कथमस्मद्विधस्त्यजेत्। यस्यां ब्रह्म च सत्यं च यज्ञा लोकाश्च धिष्ठिताः॥ क्षन्तव्यमेव सततं पुरुषेण विजानता। यदा हि क्षमते सर्वं ब्रह्म सम्पद्यते तदा।॥ क्षमावतामयं लोकः परश्चैव क्षमावताम्। इह सम्मानमृच्छन्ति परत्र च शुभां गतिम्॥ येषां मन्युर्मनुष्याणां क्षमयाभिहतः सदा। तेषां परतरे लोकास्तस्मात् क्षान्तिः परा मता॥ इति गीताः काश्यपेन गाथा नित्यं क्षमावताम्। श्रुत्वा गाथाः क्षमायास्त्वं तुष्य द्रौपदि मा क्रुधः।४५॥ पितामहः शान्तनवः शमं सम्पूजयिष्यति। कृष्णाश्च देवकीपुत्रः शमं सम्पूजयिष्यति॥ आचार्यो विदुरः क्षत्ता शममेव वदिष्यतः। कृपश्च संजयश्चैव शममेव वदिष्यतः॥ सोमदत्तो युयुत्सुश्च द्रोणपुत्रस्तथैव च। पितामहाश्च नो व्यासः शमं वदति नित्यशः॥ एतैर्हि राजा नियतं चोद्यमानः शमं प्रति। राज्यं दातेति मे बुद्धिर्न चेल्लोभान्नशिष्यति॥ कालोऽयं दारुणः प्राप्तो भरतानामभूतये। निश्चितं मे सदैवैतत् पुरस्तादपि भाविनि॥ सुयोधनो नाहतीति क्षमामेवं न विन्दति। अर्हस्तत्राहमित्येवं तस्मान्मां विन्दते क्षमा॥ एतदात्मवतां वृत्तमेषधर्मः सनातनः। क्षमा चैवानृशंस्यं च तत् कर्तास्म्यहमञ्जसा॥ द्रौपद्युवाच नमोधात्रे विधाने च यौ मोहं चक्रतुस्तव। पितृपैतामहे वृत्ते वोढव्ये तेऽन्यथा मतिः॥ कर्मभिश्चिन्तितो लोको गत्यां गत्यां पृथग्विधः। तस्मात् कर्माणि नित्यानि लोभान्मोक्षं यियासति॥ नेहधर्मानृशंस्याभ्यां च क्षान्त्या नार्जवेन च। पुरुषः श्रियमाप्नोति न घृणित्वेन कर्हिचित्॥ त्वां च व्यसनमभ्यागादिदं भारत दुःसहम्। यत् त्वं नार्हसि नापीमे भ्रातरस्ते महौजसः॥ न हि तेऽध्यगमञ्जानु तदानीं नाद्य भारत। धर्मात् प्रियतरं किंचिदपि चेज्जीवितादिह॥ धर्मार्थमेव ते राज्यधर्मार्थं जीवितं च ते। ब्राह्मणा गुरुवश्चैव जानन्त्यपि च देवताः॥ भीमसेनार्जुनौ चोभौ माद्रेयौ च मया सह। त्यजेस्त्वमिति मे बुद्धिर्न तुधर्मं परित्यजेः॥ राजानंधर्मगोप्तारंधर्मो रक्षति रक्षितः। इति में श्रुतमार्याणां त्वां तु मन्ये न रक्षति॥ अनन्या हि नरव्याघ्र नित्यदाधर्ममेव ते। बुद्धिः सततमन्वेतिच्छायेव पुरुषं निजा॥ नावमंस्था हि सदृशान् नावराञ्छ्रेयसः कुतः। अवाप्य पृथिवीं कृत्स्नां न ते शृङ्गमवर्धत॥ स्वाहाकारैः स्वधाभिश्च पुजाभिरपि च द्विजान्। दैवतानि पितॄश्चैव सततं पार्थ सेवसे।॥ ब्राह्मणाः सर्वकामैस्ते सततं पार्थ तर्पिताः। यतयो मोक्षिणश्चैव गृहस्थाश्चैव भारत॥ भुञ्जते रुक्मपात्रीभिर्यत्राहं परिचारिका। आरण्यकेभ्यो लौहानि भाजनानि प्रयच्छसि। नादेयं ब्राह्मणेभ्यस्ते गृहे किंचन विद्यते॥ यदिदं वैश्वदेवं ते शान्तये क्रियते गृहे। तद् दत्त्वातिथिभूतेभ्यो राजञ्छिष्टेन जीवसि॥ इष्टयः पशुबन्धाश्च काम्यनैमित्तिकाश्च ये। वर्तन्ते पाकयज्ञाश्च यज्ञकर्म च नित्यदा॥ अस्मिन्नपि महारण्ये विजने दस्युसेविते। राष्ट्रादपेत्य वसतोधर्म स्तेनावसीदति॥ अश्वमेधो राजसूयः पुण्डरीकोऽथ गोसवः। एतैरपि महायज्ञैरिष्टं ते भूरिदक्षिणैः॥ राजन् परीतया बुद्ध्या विषमेऽक्षपराजये। राज्यं वसून्यायुधानि भ्रातृन् मां चासि निर्जितः॥ ऋजोर्मदोर्वदान्यस्य ह्रीमतः सत्यवादिनः। कथमक्षव्यसनजा बुद्धिरापतिता तव॥ अतीव मोहमायाति मनश्च परिभूयते। निशाम्य ते दुःखमिदमिमां चापदमीदृशीम्॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। ईश्वरस्य वशे लोकास्तिष्ठन्ते नात्यनो यथा॥ धातैव खलु भूतानां सुखदुःखे प्रियाप्रिये। दधाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन्॥ यथा दारुमयी योषा नरवीर समाहिता। ईरयत्यङ्गमङ्गानि तथा राजनिमा: प्रजाः॥ आकाश इव भूतानि व्याप्य सर्वाणि भारत। ईश्वरो विदधातीह कल्याणं यच्च पापकम्॥ शकुनिस्तन्तुबद्धो वा नियतोऽयमनीश्वरः। ईश्वरस्य वशे तिष्ठेन्नान्येषां नात्मनः प्रभुः॥ मणिः सूत्र इव प्रोतो नस्योत इव गोवृषः। स्रोतसो मध्यमापन्नः कूलाद् वृक्ष इव च्युतः॥ धातुरादेशमन्वेति तन्मयो हि तदर्पणः। आत्माधीनो मनुष्योऽयं कालं भजति कंचन॥ अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत् स्वर्ग नरकमेव च॥ यथा वायोस्तृणाचाणि वशं यान्ति बलीयसः। धातुरेवं वशं यान्ति सर्वभूतानि भारत॥ आर्ये कर्मणि युञ्जानः पापे वा पुनरीश्वरः। व्याप्य भूतानि चरते न चायमिति लक्ष्यते॥ हेतुमात्रमिदंधातुः शरीरं क्षेत्रसंज्ञितम्। येन कारयते कर्म शुभाशुभफलं विभुः॥ पश्य मायाप्रभावोऽयमीश्वरेण यथा कृतः। यो हन्ति भूतैर्भूतानि मोहयित्वाऽऽत्ममायया॥ अन्यथा परिदृष्टानि मुनिभिस्तत्त्वदर्शिभिः। अन्यथा परिवर्तन्ते वेगा इव नभस्वतः॥ अन्यथैव ही मन्यन्ते पुरुषास्तानि तानि च। अन्यथैव प्रभुस्तानि करोति विकरोति च॥ यथा काष्ठेन वा काष्ठमश्मानं चाश्मना पुनः। अयसा चाप्ययश्छिन्द्यानिर्विचेष्टमचेतनम्॥ एवं स भगवान् देवः स्वयम्भूः प्रपितामहः। हिनस्ति भूतैर्भूतानिच्छद्म कृत्वा युधिष्ठिर॥ सम्प्रयोज्य वियोज्यायं कामकारकरः प्रभुः। क्रीडते भगवान् भूतैर्बालः क्रीडनकैरिव॥ न मातृपितृवद् राजन्धाता भूतेषु वर्तते। रोषादिव प्रवृत्तोऽयं यथायमितरो जनः॥ आर्याञ्छोलवतो दृष्ट्वा ह्रीमतो वृत्तिकर्शितान्। अनार्यान् सुखिनश्चैव विह्वलामीव चिन्तया।॥ तवेमामापदं दृष्ट्वा समृद्धिं च सुयोधने। धातारं गर्हये पार्थ विषमं योऽनुपश्यति॥ आर्यशास्त्रातिगे क्रूर लुब्धेधर्मापचायिनि। धार्तराष्ट्र श्रियं दत्त्वाधाता किं फलमश्नुते॥ कर्म चेत् कृतमन्वेति कर्तारं नान्यमृच्छति। कर्मणा तेन पापेन लिप्यते नूनमीश्वरः॥ अथ कर्म कृतं पापं न चेत् कर्तारमृच्छति। कारणं बलमेवेह जनाञ्छोचामि दुर्बलान्॥ युधिष्ठिर उवाच वल्गु चित्रपदं श्लक्ष्णं याज्ञसेनि त्वया वचः। उक्तं तच्छ्रुतमस्माभिर्नास्तिक्यं तु प्रभाषसे॥ नाहं कर्मफलान्वेषी राजपुत्रि चराम्युत। ददामि देयमित्येव यजै यष्टव्यमित्युत॥ अस्तु वात्र फलं मा वा कर्तव्यं पुरुषेण यत्। गृहे वा वसता कृष्णे यथाशक्ति करोमि तत्॥ धर्मं चरामि सुश्रोणि नधर्मफलकारणात्। आगमाननतिक्रम्य सतां वृत्तमवेक्ष्य च॥ धर्म एव मनः कृष्णे स्वभावाच्चैव मेधृतम्। धमवाणिज्यको हीनो जघन्योधर्मवादिनाम्॥ नधर्मफलमाप्नोति योधर्मं दोग्धुमिच्छति। यश्चैनं शङ्कते कृत्वा नास्तिक्यात् पापचेतनः॥ अतिवादाद् वदाम्येष माधर्ममभिशङ्किथाः। धर्माभिशङ्की पुरुषस्तिर्यग्गतिपरायणः॥ धर्मो यस्याभिशक्यः स्यादाष वा दुर्बलात्मनः। वेदाच्छूद्र इवापेयात् स लोकादजरामरात्॥ वेदाध्यायीधर्मपरः कुले जातो मनस्विनि। स्थविरेषु स योक्तव्यो राजर्षिर्धर्मचारिभिः॥ पापीयान् स हि शूद्रेभ्यस्तस्करेभ्यो विशिष्यते। शास्त्रातिगो मन्दबुद्धिर्योधर्ममभिशङ्कते॥ प्रत्यक्षं हि त्वया दृष्ट ऋषिर्गच्छन् महातपाः। मार्कण्डेयोऽप्रमेयात्माधर्मेण चिरजीविता॥ व्यासो वसिष्ठो मैत्रेयो नारदो लोमशः शुकः। अन्ये च ऋषयः सर्वेधर्मेणैव सुचेतसः॥ प्रत्यक्षं पश्यसि ह्येतान् दिव्ययोगसमन्वितान्। शापानुग्रहणे शक्तान् देवेभ्योऽपि गरीयसः॥ एते हिधर्ममेवादौ वर्णयन्ति सदानघे। कर्तव्यममरप्रख्याः प्रत्यक्षागमबुद्धयः॥ अतो नार्हसि कल्याणिधातारंधर्ममेव च। राज्ञि मूढेन मनसा क्षेप्तुं शङ्कितुमेव च।॥ उन्मत्तान् मन्यते बाल: सर्वानागतनिश्चयान्। धर्माभिशङ्को नान्यस्मात् प्रमाणमधिगच्छति॥ आत्मप्रमाण उन्नद्धः श्रेयसो ह्यवमन्यकः। इन्द्रियप्रीतिसम्बद्धं यदिदं लोकसाक्षिकम्। एतावन्मन्यते बालो. मोहमन्यत्र गच्छति॥ प्रायश्चित्तं न तस्यास्ति योधर्ममभिशङ्कते। ध्यायन् स कृपणः पापो न लोकान् प्रतिपद्यते॥ प्रमाणाद्धि निवृत्तो हि वेदशास्त्रार्थनिन्दकः। कामलोभातिगो मूढो नरकं प्रतिपद्यते॥ यस्तु नित्यं कृतमतिर्धर्ममेवाभिपद्यते। अशङ्कमानः कल्याणि सोऽमुत्रानन्त्यमश्नुते॥ आर्षं प्रमाणमुत्क्रम्यधर्मं न प्रतिपालयन्। सर्वशास्त्रातिगो मूढः शं जन्मसु न विन्दति॥ यस्य नार्षं प्रमाणं स्याच्छिष्टाचारच भाविनि। न वै तस्य परो लोको नायमस्तीति निश्चयः॥ शिष्टैराचरितंधर्मं कृष्णे मा स्माभिशङ्किथाः। पुराणमृषिभिः प्रोक्तं सर्वज्ञैः सर्वदर्शिभिः॥ धर्म एव प्लवो नान्यः स्वर्ग द्रौपदि गच्छताम्। सैव नौः सागरस्येव वणिजः पारमिच्छतः॥ अफलो यदिधर्मः स्याच्चरितोधर्मचारिभिः। अप्रतिष्ठे तमस्येतज्जगन्मज्जेदनिन्दिते॥ निर्वाणं नाधिगच्छेयुर्जीवेयुः पशुजीविकाम्। विद्यां ते नैव युज्येयुर्न चार्थ केचिदाप्नुयुः॥ तपश्च ब्रह्मचर्यं च यज्ञः स्वाध्याय एव च। दानमार्जवमेतानि यदि स्युरफलानि वै॥ नाचरिष्यन् परेधर्म परे परतरे च ये। विप्रलम्भोऽयमत्यन्तं यदि स्युरफलाः क्रियाः॥ ऋषयश्चैव देवाश्च गन्धर्वासुरराक्षसाः। ईश्वराः कस्य हेतोस्ते चरेयुर्धर्ममादृताः॥ फलदं त्विह विज्ञायधातारं श्रेयसिध्रुवम्। धर्मं ते व्यचरन् कृष्णे तद्धि श्रेयः सनातनम्॥ ह नायमफलोधर्मो नाधर्मोऽफलवानपि। दृश्यन्तेऽपि हि विद्यानां फलानि तपसां तथा॥ त्वमात्मनो विजानीहि जन्म कृष्णेयथा श्रुतम्। वेत्थ चापि यथा जातोधृष्टद्युम्नः प्रतापवान्॥ एतावदेव पर्याप्तमुपमानं शुचिस्मिते। कर्मणां फलमाप्नोतिधीरोऽल्पेनापि तुष्यति॥ बहुनापि ह्यविद्वांसो नैव तुष्यन्त्यबुद्धयः। तेषां नधर्मजं किंचित् प्रेत्य शर्मास्ति वा पुनः॥ कर्मणां श्रुतपुण्यानां पापानां च फलोदयः। प्रभवश्चात्ययश्चैव देवगुह्यानि भाविनि॥ नैतानि वेद यः कश्चिन्मुह्यन्तेऽत्र प्रजा इमाः। अपि कल्पसहस्रेण न स श्रेयोऽधिगच्छति॥ रक्ष्यान्येतानि देवानां गूढमाया हि देवताः। कृताशाश्च व्रताशाश्च तपसा दग्धकिल्बिषाः। प्रसादैर्मानसैर्युक्ताः पश्यन्त्येतानि वै द्विजाः॥ न फलादर्शनाद्धर्मः शङ्कितव्यो न देवताः। यष्टव्यं च प्रयत्नेन दातव्यं चानसूयता॥ कर्मणां फलमस्तीह तथैतद्धर्मशासनम्। ब्रह्मा प्रोवाच पुत्राणां यदृषिर्वेद कश्यपः॥ तस्मात् ते संशयः कृष्णे नीहार इव नश्यतु। व्यवस्य सर्वमस्तीति नास्तिक्यं भावमुत्सृज॥ ईश्वरं चापि भूतानांधातारं मा च वै क्षिप। शिक्षस्वैनं नमस्वैनं मा तेऽभूद् बुद्धिरीदृशी॥ यस्य प्रसादात् तद्भक्तो मर्यो गच्छत्यमर्त्यताम्। उत्तमां देवतां कृष्णे मावमंस्थाः कथंचन॥ द्रौपद्युवाच नावमन्ये न गर्हे चधर्मं पार्थ कथंचन। ईश्वरं कुत एवाहमवमस्ये प्रजापतिम्॥ आर्ताहं प्रलपामीदमिति मां विद्धि भारत। भूयश्च विलपिष्यामि सुमनास्त्वं निबोध मे॥ कर्म खल्विह कर्तव्यं जानतामित्रकर्शन। अकर्माणो हि जीवन्ति स्थावरा नेतरे जनाः॥ यावद्गोस्तनपानाच्च यावच्छायोपसेवनात्। जन्तवः कर्मणा वृत्तिमाप्नुवन्ति युधिष्ठिर॥ जङ्गमेषु विशेषेण मनुष्या भरतर्षभ। इच्छन्ति कर्मणा वृत्तिमवाप्तुं प्रेत्य चेह च॥ उत्थानमभिजानन्ति सर्वभूतानि भारत। प्रत्यक्षं फलमश्नन्ति कर्मणां लोकसाक्षिकम्॥ सर्वे हि स्वं समुत्थानमुपजीवन्ति जन्तवः। अपिधाता विधाता च यथायमुदके बकः॥ अकर्मणां वै भूतानां वृत्तिः स्यान्न हि काचन। तदेवाभिप्रपद्येत न विहन्यात् कदाचन॥ स्वकर्म कुरु मा ग्लासी: कर्मणा भव दंशितः। कृतं हि योऽभिजानाति सहस्रे सोऽस्ति नास्ति च॥ तस्य चापि भवेत् कार्यं विवृद्धौ रक्षणे तथा। भक्ष्यमाणो ह्यनादानात् क्षीयेत् हिमवानपि॥ उत्सीदेरन् प्रजाः सर्वा न कुर्युः कर्म चेद् भुवि। तथा ह्येता न वधैरन् कर्म चेदफलं भवेत्॥ अपि चाप्यफलं कर्म पश्यामः कुर्वतो जनान्। नान्यथा ह्यपि गच्छन्ति वृत्ति लोकाः कथंचन॥ यश्च दिष्टपरो लोके यश्चापि हठवादिकः। उभावपि शठावेतौ कर्मबुद्धिः प्रशस्यते॥ यो हि दिष्टमुपासीनो निर्विचेष्टः सुखं शयेत्। अवसीदेत् स दुर्बुद्धिरामो घट इवोदके॥ तथैव हठदुर्बुद्धिः शक्तः कर्मण्यकर्मकृत्। आसीत न चिरं जीवेदनाथ इव दुर्बलः॥ अकस्मादिह यः कश्चिदर्थं प्राप्नोति पूरुषः। तं हठेनेति मन्यन्ते स हि यत्नो न कस्यचित्॥ यच्चापि किंचित् पुरुषो दिष्टं नाम भजत्युत। दैवेन विधिना पार्थ तद् दैवमिति निश्चितम्॥ यत् स्वयं कर्मणा किंचित् फलमाप्नोति पूरुषः। प्रत्यक्षमेतल्लोकेषु तत् पौरुषमिति श्रुतम्॥ स्वभावतः प्रवृत्तो यः प्राप्नोत्यर्थं न कारणात्। तत् स्वभावात्मकं विद्धि फलं पुरुषसत्तम॥ एवं हठाच्च दैवाच्च स्वभावात् कर्मणस्तथा। यानि प्राप्नोति पुरुषस्तत् फलं पूर्वकर्मणाम्।।२ धातापि हि स्वकर्मैव तैस्तैर्हेतुभिरीश्वरः। विदधाति विभज्येह फलं पूर्वकृतं नृणाम्॥ यद्ध्ययं पुरुषः किंचित् कुरुते वै शुभाशुभम्। तद्धातृविहितं विद्धि पूर्वकर्मफलोदयम्॥ कारणं तस्य देहोऽयंधातुः कर्मणि वर्तते। स यथा प्रेरयत्येनं तथायं कुरुतेऽवशः॥ तेषु तेषु हि कृत्येषु विनियोक्ता महेश्वरः। सर्वभूतानि कौन्तेय कारयत्यवशान्यपि॥ मनसार्थान् विनिश्चित्य पश्चात् प्राप्नोति कर्मणा। बुद्धिपूर्वं स्वयं वीर पुरुषस्तत्र कारणम्॥ संख्यातुं नैव शक्यानि कर्माणि पुरुषर्षभ। अगारनगराणां हि सिद्धिः पुरुषहैतुकी॥ तिले तैलं गवि क्षीरं काष्ठे पावकमन्ततः। धियाधीरो विजानीयादुपायं चास्य सिद्धये॥ ततः प्रवर्तते पश्चात् कारणैस्तस्य सिद्धये। तां सिद्धिमुपजीवन्ति कर्मजामिह जन्तवः॥ कुशलेन कृतं कर्म क; साधु स्वनुष्ठितम्। इदं त्वकुशलेनेति विशेषादुपलभ्यते॥ इष्टापूर्तफलं न स्यान्न शिष्यो न गुरुर्भवेत्। पुरुषः कर्मसाध्येषु स्याच्चेदयमकारणम्॥ कर्तृत्वादेव पुरुषः कर्मसिद्धौ प्रशस्यते। असिद्धौ निन्द्यते चापि कर्मनाशात् कथं त्विह॥ सर्वमेव हठेनैके दैवेनैके वदन्त्युत। पुंसः प्रयत्न केचित्त्रैधमेतन्निरुच्यते॥ न चैवेतावता कार्यं मन्यन्त इति चापरे। अस्ति सर्वमदृश्यं तु दिष्टं चैव तथा हठः॥ दृश्यते हि हठाच्चैव दिष्टाच्चार्थस्य संततिः। किंचिद् दैवाद्धठात् किंचित् किंचिदेव स्वभावतः।३४॥ पुरुषः फलमाप्नोति चतुर्थं नात्र कारणम्। कुशलाः प्रतिजानन्ति ये वै तत्त्वविदो जनाः॥ तथैवधाता भूतानामिष्टानिष्टफलप्रदः। यदि न स्यान्न भूतानां कृपणो नाम कश्चन॥ यं यमर्थमभिप्रेप्सुः कुरुते कर्म पूरुषः। तत्तत् सफलमेव स्याद् यदि न स्यात् पुरा कृतम्। त्रिद्वारामर्थसिद्धिं तु नानुपश्यन्ति ये नराः। तथैवानर्थसिद्धिं च यथा लोकास्तथैव ते॥ कर्तव्यमेव कर्मेति मनोरेष विनिश्चयः। एकान्तेन ह्यनीहोऽयं पराभवति पूरुषः॥ कुर्वतो हि भवत्येव प्रायेणेह युधिष्ठिर। एकान्तफलसिद्धिं तु न विन्दत्यलसः क्वचित्॥ असम्भवे त्वस्य हेतुः प्रायश्चित्तं तु लक्षयेत्। कृते कर्मणि राजेन्द्र तथानृण्यमवाप्नुते॥ अलक्ष्मीराविशत्येनं शयानमलसं नरम्। नि:संशयं फलं लब्ध्वा दक्षो भूतिमुपाश्नुते॥ अनर्थाः संशयावस्थाः सिद्ध्यन्ते मुक्त संशयाः। धीरा नराः कर्मरता ननु निःसंशयाः क्वचित्॥ एकान्तेन ह्यनर्थोऽयं वर्ततेऽस्मासु साम्प्रतम्। स तु निःसंशयं न स्यात् त्वयि कर्मण्यवस्थिते॥ अथवा सिद्धिरेव स्यादभिमानं तदेव ते। वृकोदरस्य बीभत्सोमा॑त्रोश्च यमयोरपि॥ अन्येषां कर्म सफलमस्माकमपि वा पुनः। विप्रकर्षण बुध्येत कृतकर्मा यथाफलम्।॥ पृथिवीं लागलेनेह भित्त्वा बीजं वपत्युत। आस्तेऽथ कर्षकस्तूष्णीं पर्जन्यस्तत्र कारणम्॥ वृष्टिश्चेन्नानुगृहणीयादनेनास्तत्र कर्षकः। यदन्यः पुरुषः कुर्यात् तत् कृतं सफलं मया॥ तच्चेदं फलमस्माकमपराधो न मे क्वचित्। इतिधीरोऽन्ववेक्ष्यैव नात्मानं तत्र गर्हयेत्।। कुर्वतो नार्थसिद्धिर्मे भवतीति ह भारत। निर्वेदो नात्र कर्तव्यो द्वावन्यौ ह्या कारणम्॥ सिद्धिर्वाप्यथवासिद्धिरप्रवृत्तिरतोऽन्यथा। बहूनां समवाये हि भावानां कर्म सिद्ध्यति॥ गुणाभावे फलं न्यूनं भवत्यफलमेव च। अनारम्भे हि न फलं न गुणो दृश्यते क्वचित्॥ देशकालावुपायांश्च मङ्गलं स्वस्तिवृद्धये। युनक्ति मेधयाधीरो यथाशक्ति यथाबलम्॥ अप्रमत्तेन तत् कार्यमुपदेष्टा पराक्रमः। भूयिष्ठं कर्मयोगेषु दृष्ट एव पराक्रमः॥ यत्रधीमानवेक्षेत श्रेयांसं बहुभिर्गुणैः। साम्नैवार्थं ततो लिप्सेत् कर्म चास्मै प्रयोजयेत्॥ व्यसनं वास्य काक्षेत विवासं वा युधिष्ठिर। अपि सिन्धोगिरेर्वापि किं पुनर्मर्त्यधर्मिणः॥ उत्थानयुक्तः सततं परेषामन्तरैषौ। आनृण्यमाप्नोति नरः परस्यात्मन एव च॥ न त्वेवात्मावमन्तव्यः पुरुषेण कदाचन। न ह्यात्मपरिभूतस्य भूतिर्भवति शोभना॥ एवंसंस्थितिका सिद्धिरियं लोकस्य भारत। तत्र सिद्धिर्गतिः प्रोक्ता कालावस्थाविभागतः॥ ब्राह्मणं मे पिता पूर्वं वासयामास पण्डितम्। सोऽपि सर्वामिमां प्राह पित्रे मे भरतर्षभ॥ नीति बृहस्पतिप्रोक्ता भ्रातृन् मेऽचाहयत् पुरा। तेषां सकाशादौषमहमेतां तदा गृहे॥ स मां राजन् कर्मवतीमागतामाह सान्त्वयन्। शुश्रूषमाणामासीनां पितुरङ्के युधिष्ठिर॥ वैशम्पायन उवाच याज्ञसेन्या वचः श्रुत्वा भीमसेनो झमर्षणः। निःश्वसन्नुपसंगम्य क्रुद्धो राजानमब्रवीत्॥ राज्यस्य पदवीधयां व्रज सत्पुरुषोचिताम्। धर्मकामार्थहीनानां किं नो वस्तुं तपोवने॥ नैवधर्मेण तद् राज्यं नार्जवेन न चौजसा। अक्षकूटमधिष्ठाय हृतं दुर्योधनेन वै॥ गोमायुनेव सिंहानां दुर्बलेन बलीयसाम्। आमिषं विघसाशेन तद्वद् राज्यं हि नो हृतम्॥ धर्मलेशप्रतिच्छन्नः प्रभवंधर्मकामयोः। अर्थमुत्सृज्य किं राजन् दुःखेषु परितप्यसे॥ भवतोऽनवधानेन राज्यं नः पश्यतां हृतम्। अहार्यमपि शक्रेण गुप्तं गाण्डीवधन्वना॥ कुणीनामिव बिल्वानि पशूनामिवधेनवः। हृतमैश्वर्यमस्माकं जीवतां भवतः कृते॥ भवत: प्रियमित्येवं महद् व्यसनमीदृशम्। धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत॥ कर्शयामः स्वमित्राणि नन्दयामश्च शात्रवान्। आत्मानं भवतां शास्त्रैर्नियम्य भरतर्षभ।॥ यद् वयं न तदैवैतान्धार्तराष्ट्रान् निहन्महि। भवतः शास्त्रमादाय तन्नस्तपति दुष्कृतम्॥ अथैनामन्ववेक्षस्व मृगचर्यामिवात्मनः। दुर्बलाचरितां राजन् न बलस्थैनिषेविताम्॥ यां न कृष्णो न बीभत्सु भिमन्युर्न संजयाः। न चाहमभिनन्दामि न च माद्रीसुतावुभौ॥ भवान्धर्मोधर्म इति सततं व्रतकर्शितः। कच्चिद् राजन् न निर्वेदादापन्नः क्लीबजीविकाम्।। दुर्मनुष्या हि निर्वेदमफलं स्वार्थघातकम्। अशक्ताः श्रियमाहर्तुमात्मनः कुर्वते प्रियम्॥ स भवान् दृष्टिमाञ्छक्तः पश्यन्नस्मासु पौरुषम्। आनृशंस्यपरो राजन् नानर्थमवबुध्यसे॥ अस्मानमीधार्तराष्ट्राः क्षममाणानलं सतः। अशक्तानिव मन्यन्ते तद् दुःखं नाहवे वधः॥ तत्र चेद् युध्यमानानामजिह्ममनिवर्तिनाम्। सर्वशो हि वधः श्रेयान् प्रेत्य लोकान् लभेमहि॥ अथवा वयमेवैतान् निहत्य भरतर्षभ। आददीमहि गां सर्वां तथापि श्रेय एव नः॥ सर्वथा कार्यमेतन्नः स्वधर्मनुतिष्ठताम्। काक्षतां विपुलां कीर्तिं वैरं प्रतिचिकीर्षताम्॥ आत्मार्थं युध्यमानानां विदिते कृत्यलक्षणे। अन्यैरपि हृते राज्ये प्रशंसैव न गर्हणा॥ कर्शनार्थो हि योधर्मो मित्राणामात्मनस्तथा। व्यसनं नाम तद् राजन् नधर्मः स कुधर्म तत्॥ सर्वथाधर्मनित्यं तु पुरुषंधर्मदुर्बलम्। त्यजतस्तात्धर्मार्थों प्रेतं दुःखसुखे यथा॥ यस्यधर्मो हिधर्मार्थं क्लेशभाङ् न स पण्डितः। न सधर्मस्य वेदार्थं सूर्यस्यान्धः प्रभामिव॥ यस्य चार्थार्थमेवार्थः स च नार्थस्य कोविदः। रक्षेत भृतकोऽरण्ये यथा गास्तादृगेव सः॥ अतिबेलं हि योऽर्थार्थी नेतरावनुतिष्ठति। स वध्यः सर्वभूतानां ब्रह्महेव जुगुप्सितः॥ सततं यश्च कामार्थी नेतरावनुतिष्ठति। मित्राणि तस्य नश्यन्तिधर्मार्थाभ्यां च हीयते॥ तस्यधर्मार्थहीनस्य कामान्ते निधनंध्रुवम्। कामतो रममाणस्य मीनस्येवाम्भसः क्षये॥ तस्माद्धर्मार्थयोर्नित्यं न प्रमाद्यन्ति पण्डिताः। प्रकृतिः सा हि कामस्य पावकस्यारणिर्यथा॥ सर्वथाधर्ममूलोऽर्थोधर्मश्चार्थपरिग्रहः। इतरेतरयो तौ विद्धि मेघोदधी यथा॥ द्रव्यार्थस्पर्शसंयोगे या प्रीतिरुपजायते। स कामश्चित्तसंकल्पः शरीरं नास्य दृश्यते॥ अर्थार्थी पुरुषो राजन् बृहन्तंधर्ममिच्छति। अर्थमिच्छति कामार्थी न कामादन्यमिच्छति॥ न हि कामेन कामोऽन्यः साध्यते फलमेव तत्। उपयोगात् फलस्यैव काष्ठाद् भस्मेव पण्डितैः॥ इमाञ्छकुनकान् राजन् हन्ति वैतंसिको यथा। एतद् रूपमधर्मस्य भूतेषु हि विहिंसता॥ कामाल्लोभाच्चधर्मस्य प्रकृति यो न पश्यति। स बध्यः सर्वभूतानां प्रेत्य चेह च दुर्मतिः॥ व्यक्तं ते विदितो राजत्रों द्रव्यपरिग्रहः। प्रकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम्॥ तस्य नाशे विनाशे वा जरया मरणेन वा। अनर्थ इति मन्यन्ते सोऽयमस्मासु वर्तते॥ इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च। विषये वर्तमानानां या प्रीतिरुपजायते॥ स काम इति मे बुद्धिः कर्मणां फलमुत्तमम्। एवमेव पृथग् दृष्ट्वाधर्मार्थो काममेव च।॥ नधर्मपर एव स्यान्न चार्थपरमो नरः। न कामपरमो वा स्यात् सर्वान् सेवेत सर्वदा॥ धर्म पूर्वेधनं मध्ये जघन्ये काममाचरेत्। अहन्यनुचरेदेवमेष शास्त्रकृतो विधिः॥ काम पूर्वेधनं मध्ये जघन्येधर्ममाचरेत्। वयस्यनुचरेदेवमेष शास्त्रकृतो विधिः॥ धर्मं चार्थं च कामं च यथावद् वदतां वर। विभज्य काले कालज्ञः सर्वान् सेवेत पण्डितः॥ मोक्षो वा परमं श्रेय एष राजान् सुखार्थिनाम्। प्राप्तिर्वा बुद्धिमास्थाय सोपायां कुरुनन्दन॥ तद् वाऽऽशु क्रियतां राजन् प्राप्तिर्वाप्यधिगम्यताम्। जीवितं ह्यातुरस्येव दुःखमन्तरवर्तिनः॥ विदितश्चैव मेधर्मः सततं चरितश्च ते। जानन्तस्त्वयि शसन्ति सुहृदः कर्मचोदनाम्॥ दानं यज्ञाः सतां पूजा वेदधारणमार्जवम्। एषधर्मः परो राजन् बलवान् प्रेत्य चेह च॥ एष नार्थविहीनेन शक्यो राजन् निषेवितुम्। अखिलाः पुरुषव्याघ्र गुणाः स्युर्यद्यपीतरे॥ धर्ममूलं जगद् राजन् नान्यद्धर्माद् विशिष्यते। धर्मश्चार्थेन महता शक्यो राजन् निषेवितुम्॥ न चार्थो भैक्ष्यचर्येण नापि क्लैब्येन कर्हिचित्। वेत्तुं शक्यः सदा राजन् केवलंधर्मबुद्धिना॥ प्रतिषिद्धा हि ते याचा यया सिद्ध्यति वै द्विजः। तेजसैवार्थलिप्सायां यतस्व पुरुषर्षभ॥ भैक्ष्यचर्या न विहिता न च विट्शूद्रजीविका। क्षत्रियस्य विशेषेणधर्मस्तु बलमौरसम्॥ स्वधर्म प्रतिपद्यस्व जहि शत्रून् समागतान्। धार्तराष्ट्रवनं पार्थ मया पार्थेन नाशय॥ उदारमेव विद्वांसोधर्मं प्राहुर्मनीषिणः। उदारं प्रतिपद्यस्व नावरे स्थातुमर्हसि॥ अनुबुध्यस्व राजेन्द्र वेत्थधर्मान् सनातनान्। क्रूरकर्माभिजातोऽसि यस्मादुद्विजते जनः॥ प्रजापालनसम्भूतं फलं तव न गर्हितम्। एष ते विहितो राजन्धानाधर्मः सनातनः॥ तस्मादपचितः पार्थ लोके हास्यं गमिष्यसि। स्वधर्माद्धि मनुष्याणां चलनं न प्रशस्यते॥ स क्षात्रं हृदयं कृत्वा त्यक्तवेदं शिथिलं मनः। वीर्यमास्थाय कौरव्यधुरमुबहधुर्यवत्॥ न हि केवलधर्मात्मा पृथिवीं जातु कश्चन। पार्थिवो व्यजयद् राजन् न भूतिं न पुनः श्रियम्॥ जिह्वां दत्त्वा बहूनां हि क्षुद्राणां लुब्धचेतसाम्। निकृत्या लभते राज्यमाहारमिव शल्यकः॥ भ्रातरः पूर्वजाताश्च सुसमृद्धाश्च सर्वशः। निकृत्या निर्जिता देवैरसुराः पार्थिवर्षभ॥ एवं बलवतः सर्वमिति बुद्ध्वा महीपते। जहि शत्रून् महाबाहो परां निकृतिमास्थितः॥ न ह्यर्जुनसमः कश्चिद् युधि योद्धाधनुर्धरः। भविता वा पुमान् कश्चिन्मत्समो वा गदाधरः॥ सत्त्वेन कुरुते युद्धं राजन् सुबलवानपि। अप्रमादी महोत्साही सत्त्वस्थो भव पाण्डव॥ ते सत्त्वं हि मूलमर्थस्य वितथं यदतोऽन्यथा। न तु प्रसक्तं भवति वृक्षच्छायेव हैमनी॥ अर्थत्यागोऽपि कार्यः स्यादर्थं श्रेयांसमिच्छता। बीजौपम्येन कौन्तेय मा भूदन्न संशयः॥ अर्थेन तु समो नार्थो यत्र लभ्येत नोदयः। न तत्र विपणः कार्यः खरकण्डूयनं हि तत्॥ एवमेव मनुष्येन्द्रधर्मं त्यक्त्वाल्पकं नरः। बृहन्तंधर्ममाप्नोति स बुद्ध इति निश्चितम्॥ अमित्रं मित्रसम्पन्नं मित्रैर्भिन्दन्ति पण्डिताः। भिन्नैर्मित्रैः परित्यक्तं दुर्बलं कुर्वते वशम्॥ सत्त्वेन कुरुते युद्धं राजन् सुबलवानपि। नोद्यमेन न होत्राभिः सर्वाः स्वीकुरुते प्रजाः॥ सर्वथा संहतैरेव दुर्बलैर्बलवानपि। अमित्रः शक्यते हन्तुं मधुहा भ्रमरैरिव॥ यथा राजन् प्रजाः सर्वाः सूर्यः पति गभस्तिभिः। अत्ति चैव तथैव त्वं सदृशः सवितुर्भव॥ एतच्चापि तपो राजन् पुराणमिति नः श्रुतम्। विधिना पालनं भूमेर्यत् कृतं न पितामहैः॥ न तथा तपसा राजैल्लोकान् प्राप्नोति क्षत्रियः। यथा सृष्टेन युद्धेन विजयेनेतरेण वा॥ अपेयात् किल भाः सूर्याल्लक्ष्मीश्चन्द्रमसस्तथा। इति लोको व्यवसितो दृष्ट्वेमां भवतो व्यथाम्॥ भवतश्च प्रशंसाभिर्निन्दाभिरितरस्य च। कथायुक्ताः परिषदः पृथग राजन् समागताः॥ इदमभ्यधिकं राजन् ब्राह्मणाः कुरवश्च ते। समेताः कथयन्तीह मुदिताः सत्यसंधताम्॥ यन्न मोहान्न कार्पण्या लोभान भयादपि। अनृतं किंचिदुक्तं ते न कामानार्थकारणात्॥ यदेनः कुरुते किंचिद् राजा भूमिमवाप्नुवन्। सर्वं तन्नुदते पश्चाद् यज्ञैर्विपुलदक्षिणैः॥ ब्राह्मणेभ्यो ददद् ग्रामान् गाश्च राजन् सहस्रशः। मुच्यते सर्वपापेभ्यस्तमोभ्य इव चन्द्रमाः॥ पौरजानपदाः सर्वे प्रायशः कुरुनन्दन। सवृद्धबालसहिताः शंसन्ति त्वां युधिष्ठिर॥ श्वदृतौ क्षीरमासक्तं ब्रह्म वा वृषले यथा। सत्यं स्तेने बलं नार्यो राज्यं दुर्योधने तथा॥ इति लोके निर्वचनं पुरश्चरति भारत। अपि चैताः स्त्रियो बाला: स्वाध्यायमधिकुर्वते॥ इमामवस्थां च गते सहास्माभिररिंदम। हन्त नष्टाः स्म सर्वे वै भवतोपद्रवे सति॥ स भवान् रथमास्थाय सर्वोपकरणान्वितम्। त्वरमाणोऽभिनिर्यातु विप्रेभ्योऽर्थविभावकः॥ वाचयित्वा द्विजश्रेष्ठानद्यैव गजसाह्वयम्। अस्त्रविद्भिः परिवृतो भ्रातृभिर्दृढधन्विभिः॥ आशीविषसमैवीरैर्मरुद्भिरिव वृत्रहा। अमित्रांस्तेजसा मृद्गन्नसुरानिव वृत्रहा। श्रियमादत्स्व कौन्तेयधार्तराष्ट्रान् महावल॥ न हि गाण्डीवमुक्तानां शराणां गार्धवाससाम्। स्पर्शमाशीविषाभानां मर्त्यः कश्चन संसहेत्॥ न स वीरो न मातङ्गो न च सोऽश्वोऽस्ति भारत। यः सहेत गदावेगं मम क्रुद्धस्य संयुगे॥ सृञ्जयैः सह कैकेयैर्वृष्णीनां वृषभेण च। कथंस्विद् युधि कौन्तेय न राज्यं प्राप्नुयामहे॥ शत्रुहस्तगतां राजन् कथंस्विन्नाहरेर्महीम्। इह यत्नमुपाहृत्य बलेन महतान्वितः॥ वैशम्पायन उवाच स एवमुक्तस्तु महानुभावः सत्यव्रतो भीमसेनेन राजा। अजातशत्रुस्तदनन्तरं वै धैर्यान्वितो वाक्यमिदं बभाषे॥ युधिष्ठिर उवाच असंशयं भारत सत्यमेतद् यन्मां तुदन् वाक्यशल्यैः क्षिणोषि। न त्वां विगहें प्रतिकूलमेव ममानयाद्धि व्यसनं व आगात्॥ अहं ह्यक्षानन्वपद्यं जिहीर्षन् राज्यं सराष्ट्रधृतराष्ट्रस्य पुत्रात्। तन्मां शठः कितवः प्रत्यदेवीत् सुयोधनार्थं सुबलस्य पुत्रः॥ महामायः शकुनिः पर्वतीयः सभामध्ये प्रवपन्नक्षपूगान्। अमायिनं मायया प्रत्यजैषीत् ततोऽपश्यं वृजिनं भीमसेन॥ अक्षांश्च दृष्ट्वा शकुनेर्यथावत् कामानुकूलानयुजो युजश्च। शक्यो नियन्तुमभविष्यदात्मा मन्युस्तु हन्यात् पुरुषस्यधैर्यम्॥ यन्तुं नात्मा शक्यते पौरुषेण मानेन वीर्येण च तात नद्धः। न ते वाचो भीमसेनाभ्यसूये मन्ये तथा तद् भवितव्यमासीत्॥ स नो राजाधृतराष्ट्रस्य पुत्रो न्यपातयद् व्यसने राज्यमिच्छन्। दास्यं च नोऽगमयद् भीमसेन यत्राभवच्छरणं द्रौपदी नः॥ त्वं चापि तद् वेत्थधनंजयश्च पुन तायागतानां सभां नः। यन्माऽब्रवीद्धृतराष्ट्रस्य पुत्र एकग्लहार्थं भरतानां समक्षम्॥ वने समा द्वादश राजपुत्र यथाकामं विदितमजातशत्रो। अथापरं चाविदितं चरेथाः। सर्वैः सह भ्रातृभिश्छद्मगूढः॥ मवभोत्स्यन्ते भरतानां चराश्च। अन्यांश्चरेथास्तावतोऽब्दांस्तथा त्वं निश्चित्य तत् प्रतिजानीहि पार्थ॥ चरेश्चेन्नोऽविदितः कालमेतं युक्तो राजन् मोहयित्वा मदीयान्। ब्रवीमि सत्यं कुरुसंसदीह तवैव ता. भारत पञ्च नद्यः॥ वयं चैतद् भारत सर्व एव त्वया जिताः कालमपास्य भोगान्। वसेम इत्याह पुरा स राजा मध्ये कुरूणां स मयोक्तस्तथेति॥ तत्र द्यूतमभवन्नो जघन्यं तस्मिञ्जिताः प्रव्रजिताश्च सर्वे। इत्थं तु देशाननुसंचरामो वनानि कृच्छ्राणि च कृच्छ्ररूपाः॥ सुयोधनश्चापि न शान्तिमिच्छन् भूयः स मन्योर्वशमन्वगच्छत्। उद्योजयामास कुरूंश्च सर्वान् ये चास्य केचिद् वशमन्वगच्छन्॥ को नाम जह्यादिह राज्यहेतोः। आर्यस्य मन्ये मरणाद् गरीयो यद्धर्ममुत्क्रम्य महीं प्रशासेत्॥ तदैव चेद् वीर कर्माकरिष्यो यदा द्यूते परिघं पर्यमृक्षः। बाहू दिधक्षन् वारितः फाल्गुनेन किं दुष्कृतं भीम तदाभविष्यत्॥ प्रागेव चैवं समयक्रियायाः किं नाब्रवीः पौरुषमाविदानाः। प्राप्तं तु कालं त्वभिपद्य पश्चात् किं मामिदानीमतिवेलमात्य॥ भूयोऽपि दुःखं मम भीमसेन दूये विषस्येव रसं हि पीत्वा। यद् याज्ञसेनी परिक्लिश्यमानां संदृश्य तत् क्षान्तमिति स्म भीम॥ न त्वद्य शक्यं भरतप्रवीर कृत्वा यदुक्तं कुरुवीरमध्ये। कालं प्रतीक्षस्व सुखोदयस्य पक्तिं फलानामिव बीजवापः॥ यदा हि पूर्वं निकृतो निकृन्तेद् वैरं सपुष्पं सफलं विदित्वा। महागुणं हरति हि पौरुषेण तदा वीरो जीवति जीवलोके॥ श्रियं च लोके लभते समग्रां मन्ये चास्मै शत्रवः संनमन्ते। मित्राणि चैनमचिराद् भजन्ते देवा इवेन्द्रमुपजीवन्ति चैनम्॥ मम प्रतिज्ञां च निबोध सत्यां वृणेधर्मममृताज्जीविताच्च। राज्यं च पुत्राश्च यशोधनं च सर्वं न सत्यस्य कलामुपैति॥ भीमसेन उवाच संधिं कृत्वैव कालेन ह्यन्तकेन पतत्त्रिणा। अनन्तेनाप्रमेयेण स्रोतसा सर्वहारिणा॥ प्रत्यक्षं मन्यसे कालं मर्त्यः सन् कालबन्धनः। फेनधर्मा महाराज फलधर्मा तथैव च॥ निमेषादपि कौन्तेय यस्यायुरपचीयते। सूच्येवाञ्जनचूर्णस्य किमिति प्रतिपालयेत्॥ यो नूनममितायुः स्यादथवापि प्रमाणवित्। स कालं वै प्रतीक्षेत सर्वप्रत्यक्षदर्शिवान्॥ प्रतीक्ष्यमाणः कालो न: समा राजस्त्रयोदश। आयुषोऽपचयं कृत्वा मरणायोपनेष्यति।॥ शरीरिणां हि मरणं शरीरे नित्यमाश्रितम्। प्रागेव मरणात् तस्माद् राज्यायैव घटामहे॥ यो न याति प्रसंख्यानमस्पष्टो भूमिवर्धनः। अयातयित्वा वैराणि सोऽवसीदति गौरिव॥ यो न यातयते वैरमल्पसत्त्वोद्यमः पुमान्। अफलं जन्म तस्याहं मन्ये दुर्जातजायिनः॥ हैरण्यौ भवतो बाहू श्रुतिर्भवति पार्थिवी। हत्वा द्विषन्तं संग्रामे भुड्क्ष्व बाहुजितं वसु॥ हत्वा वै पुरुषो राजन् निकर्तारमरिदम्। अह्राय नरकं गच्छेत् स्वर्गेणास्य स सम्मितः॥ अमर्षजो हि संतापः पावकाद् दीप्तिमत्तरः। येनाहमभिसंतप्तो न नक्तं न दिवा शये॥ अयं च पार्थो बीभत्सुर्वरिष्ठो ज्याविकर्षणे। आस्ते परमसंतप्तो नूनं सिंह इवाशये॥ योऽयमेकोऽभिमनुते सर्वान् लोकेधनुर्भृतः। सोऽयमात्मजमूष्माणं महाहस्तीव यच्छति॥ नकुलः सहदेवश्च वृद्धा माता च वीरसूः। तवैव प्रियमिच्छन्त आसते जडमूकवत्॥ सर्वे ते प्रियमिच्छन्ति बान्धवाः सह सृञ्जयैः। अहमेकश्च संतप्तो माता च प्रतिविन्ध्यतः॥ प्रियमेव तु सर्वेषां यद् ब्रवीम्युत किंचन। सर्वे हि व्यसनं प्राप्ताः सर्वे युद्धाभिनन्दिनः॥ नातः पापीयसी काचिदापद् राजन् भविष्यति। यन्नो नीचरैल्पबलै राज्यमाच्छिद्य भुज्यते॥ शीलदोषाद् घृणाविष्ट आनृशंस्यात् परंतप। क्लेशांस्तितिक्षसे राजन् नान्यः कश्चित् प्रशंसति॥ श्रोत्रियस्येव ते राजन् मन्दकस्याविपश्चितः। अनुवाकहता बुद्धिर्नैषा तत्त्वार्थदर्शिनी॥ घृणी ब्राह्मणरूपोऽसि कथं क्षत्रेऽभ्यजायथाः। अस्यां हि योनौ जायन्ते प्रायशः क्रूरबुद्धयः॥ अश्रौषीस्त्वं राजधर्मान् यथा वै मनुरब्रवीत्। क्रूरान् निकृतिसम्पन्नान् विहितानशमात्मकान्॥ धार्तराष्ट्रान् महाराज क्षमसे किं दुरात्मनः। कर्तव्ये पुरुषव्याघ्र किमास्से पीठसर्पवत्॥ बुद्ध्या वीर्येण संयुक्तः श्रुतेनाभिजनेन च। तृणानां मुष्टिनैकेन हिमवन्तं च पर्वतम्॥ छन्नमिच्छसि कौन्तेय योऽस्मान् संवर्तुमिच्छसि। अज्ञातचर्या गूढेन पृथिव्यां विश्रुतेन च॥ दिवीव पार्थ सूर्येण न शक्याचरितं त्वया। बृहच्छाल इवानूपे शाखापुष्यपलाशवान्॥ हस्ती श्वेत इवाज्ञातः कथं जिष्णुश्चरिष्यति। इमौ च सिंहसंकाशौ भ्रातरौ सहितौ शिशू॥ नकुलः सहदेवश्च कथं पार्थ चरिष्यतः। पुण्यकीर्ती राजपुत्री द्रौपदी वीरसूयिरम्॥ विश्रुता कथमज्ञाता कृष्णा पार्थ चरिष्यति। मां चापि राजञ्जानन्ति ह्याकुमारमिमाः प्रजाः॥ नाज्ञातचर्यां पश्यामि मेरोरिव निगूहनम्। तथैव बहवोऽस्माभी राष्ट्रेभ्यो विप्रवासिताः॥ राजानो राजपुत्राश्चधृतराष्ट्रमनुव्रताः। न हि तेऽप्युपशाम्यन्ति निकृता वा निराकृताः॥ अवश्यं तैर्निकर्तव्यमस्माकं तत्प्रियैषिभिः। तेऽप्यस्मासु प्रयुञ्जीरन् प्रच्छन्नान् सुबहूंश्चरान्। आचक्षीरंश्च नो ज्ञात्वा तत: स्यात् सुमहद् भयम्।३१।। अस्माभिरुषिताः सम्यग्वने मासास्त्रयोदश। परिमाणेन तान् पश्य तावतः परिवत्सरान्॥ अस्ति मास: प्रतिनिधिर्यथा प्राहुर्मनीषिणः। पूतिकामिव सोमस्य तथेदं क्रियतामिति॥ अथवानडुहे राजन् साधवे साधुवाहिने। सौहित्यदानादेतस्मादेनसः प्रतिमुच्यते॥ तस्माच्छत्रुवधे राजन् क्रियतां निश्चयस्त्वया। क्षत्रियस्य हि सर्वस्य नान्योधर्मोऽस्ति संयुगात्॥ वैशम्पायन उवाच कस्यचित् त्वथ कालस्यधर्मराजो युधिष्ठिरः। संस्मृत्य मुनिसंदेशमिदं वचनमब्रवीत्॥ विविक्ते विदितप्रज्ञमर्जुनं पुरुषर्षभ। सान्त्वपूर्वं स्मितं कृत्वा पाणिना परिसंस्पृशन्॥ स मुहूर्तमिवध्यात्वा वनवासमरिंदमः। धनंजयधर्मराजो रहसीदमुवाच॥ युधिष्ठिर उवाच भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे च भारत। धनुर्वेदश्चतुष्पाद एतेष्वद्य प्रतिष्ठितः॥ दैवं ब्राह्मं मानुषं च संयलं सचिकित्सितम्। सर्वास्त्राणां प्रयोगं च अभिजानन्ति कृत्स्नशः॥ ते सर्वेधृतराष्ट्रस्य पुत्रेण परिसान्त्विताः। संविभक्ताश्च तुष्टाश्च गुरुवत् तेषु वर्तते॥ सर्वयोधेषु चैवास्य सदा प्रीतिरनुत्तमा। आचार्या मानितास्तुष्टाः शान्तिं व्यवहरन्त्युत॥ शक्तिं न हापयिष्यन्ति ते काले प्रतिपूजिताः। अद्य चेयं मही कृत्स्ना दुर्योधनवशानुगा॥ सग्रामनगरा पार्थ ससागरवनाकरा। भवानेव प्रियोऽस्माकं त्वयि भारः समाहितः॥ अत्र कृत्यं प्रपश्यामि प्राप्तकालमरिदम। कृष्णद्वैपायनात् तात गृहीतोपनिषन्मया।॥ तया प्रयुक्तया सम्यग् जगत् सर्वं प्रकाशते। तेन त्वं ब्रह्मणा तात संयुक्तः सुसमाहितः॥ देवतानां यथाकालं प्रसादं प्रतिपालय। तपसा योजयात्मानमुग्रेण भरतर्षभ॥ धनुष्मान् कवची खड्गी मुनिः साधुव्रते स्थितः। न कस्यचिद् ददन्मार्गं गच्छ तातोत्तरां दिशम्॥ इन्द्रे ह्यस्त्राणि दिव्यानि समस्तानिधनंजय। वृत्राद् भीतैर्बलं देवैस्तदा शक्रे समर्पितम्॥ तान्येकस्थानि सर्वाणि ततस्त्वं प्रतिपत्स्यसे। शक्रमेव प्रपद्यस्व स तेऽस्त्राणि प्रदास्यति॥ दीक्षितोऽद्यैव गच्छ त्वं द्रष्टुं देवं पुरंदरम्। वैशम्पायन उवाच एवमुक्त्वाधर्मराजस्तमध्यापयत प्रभुः॥ दीक्षितं विधिनानेनधृतवाक्कायमानसम्। अनुजज्ञे तदा वीरं भ्राता भ्रातरमग्रजः॥ निदेशाधर्मराजस्य द्रष्टुकामः पुरंदरम्। धनुर्गाण्डीवमादाय तथाक्षय्ये महेषुधी॥ कवची सतलत्राणो बद्धगोधाङ्गुलित्रवान्। हुत्वाग्निं ब्राह्मणान्निष्कैः स्वस्ति वाच्यं महाभुजः।१९।। प्रातिष्ठत महाबाहुः प्रगृहीतशरासनः। वधायधार्तराष्ट्राणां निःश्वस्योर्ध्वमुदीक्ष्य च॥ तं दृष्ट्वा तत्र कौन्तेयं प्रगृहीतशरासनम्। अब्रुवन् ब्राह्मणाः सिद्धा भूतान्यन्तर्हितानि च॥ क्षिप्रमाप्नुहि कौन्तेय मनसा यद् यदिच्छसि। अब्रुवन् ब्राह्मणाः पार्थमिति कृत्वा जयाशिषः॥ संसाधयस्व कौन्तेयध्रुवोऽस्तु विजयस्तव। तं तथा प्रस्थितं वीरं शालस्कन्धोरुमर्जुनम्॥ मनांस्यादाय सर्वेषां कृष्णा वचनमब्रवीत्। कृष्णोवाच यत् ते कुन्ती महाबाहो जातस्यैच्छद्धनंजय॥ तत् तेऽस्तु सर्वं कौन्तेय यथा च स्वयमिच्छसि। आस्माकं क्षत्रियकुले जन्म कश्चिदवाप्नुयात्॥ ब्राह्मणेभ्यो नमो नित्यं येषां भैक्ष्येण जीविका। इदं मे परमं दुःखं यः स पापः सुयोधनः॥ दृष्ट्वा मां गौरिति प्राह प्रहसन् राजसंसदि। तस्माद् दुःखादिदं दुःखं गरीय इति मे मतिः॥ यत् तत् परिषदो मध्ये बह्वयुक्तमभाषत। नूनं ते भ्रातरः सर्वे त्वत्कथाभिः प्रजागरे॥ रंस्यन्ते वीर कर्माणि कथयन्तः पुनः पुनः। नैव नः पार्थ भोगेषु नधने नोत जीविते॥ तुष्टिबुद्धिर्भवित्री वा त्वयि दीर्घप्रवासिनि। त्वयि नः पार्थ सर्वेषां सुखदुःखे समाहिते।॥ जीवितं मरणं चैव राज्यमैश्चर्यमेव च। आपृष्टो मेऽसि कौन्तेय स्वस्ति प्राप्नुहि भारत॥ बलवद्भिर्विरुद्धं न कार्यमेतत् त्वयानघ। प्रयाह्यविघ्नेनैवाशु विजयाय महाबला नमोधात्रे विधात्रे च स्वस्ति गच्छ ह्यनामयम्॥ ह्रीः श्रीः कीर्तिर्युतिः पुष्टिरुमा लक्ष्मीः सरस्वती। इमा वै तव पान्थस्य पालयन्तुधनंजय॥ ज्येष्ठापचायी ज्येष्ठस्य भ्रातुर्वचनकारकः। प्रपद्येऽहं वसून् रुद्रानादित्यान् समरुद्गणान्॥ विश्वेदेवांस्तथा साध्याञ्छान्त्यर्थं भरतर्षभ। स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च भारत॥ दिव्येभ्यश्चैव भूतेभ्यो ये चान्ये परिपन्थिनः। वैशम्पायन उवाच एवमुक्त्वाऽऽशिषः कृष्णा विरराम यशस्विनी॥ ततः प्रदक्षिणं कृत्वा भ्रातृन्धौम्यं च पाण्डवः। प्रातिष्ठत महाबाहुः प्रगृह्य रुचिरंधनुः॥ तस्य मार्गादपाक्रामन् सर्वभूतानि गच्छतः। युक्तस्यैन्द्रेण योगेन पराक्रान्तस्य शुष्मिणः॥ सोऽगच्छत् पर्वतांस्तात तपोधननिषेवितान्। दिव्यं हैमवतं पुण्यं देवजुष्टं परंतपः॥ अगच्छत् पर्वतं पुण्यमेकाद्वैव महामनाः। मनोजवगतिर्भूत्वा योगयुक्तो यथानिलः॥ हिमवन्तमतिक्रम्य गन्धमादनमेव च। अत्यक्रामत् स दुर्गाणि दिवारात्रमतन्द्रितः॥ इन्द्रकीलं समासाद्य ततोऽतिष्ठद्धनंजयः। अन्तरिक्षेऽतिशुश्राव तिष्ठेति स वचस्तदा॥ तच्छ्रुत्वा सर्वतो दृष्टिं चारयामास पाण्डवः। अथापश्यत् सव्यसाची वृक्षमूले तपस्विनम्॥ ब्राह्मया श्रिया दीप्यमानं पिङ्गलं जटिलं कृशम्। सोऽब्रवीदर्जुनं तत्र स्थितं दृष्ट्वा महातपाः॥ कस्त्वं तातेह सम्प्राप्तोधनुष्मान् कवची शरी। निबद्धासितलत्राणः क्षत्रधर्ममनुव्रतः॥ नेह शस्त्रेण कर्तव्यं शान्तानामेष आलयः। विनीतक्रोधहर्षाणां ब्राह्मणानां तपस्विनाम्॥ नेहास्तिधनुषा कार्यं न संचामोऽत्र कर्हिचित्। निक्षिपैतद्धनुस्तात प्राप्तोऽसि परमां गतिम्॥ ओजसा तेजसा वीर यथा नान्यः पुमान् क्वचित् तथा हसन्निवाभीक्ष्णं ब्राह्मणोऽर्जुनमब्रवीत्। न चैनं चालयामासधैर्यात् सुधृतनिश्चयम्॥ तमुवाच ततः प्रीतः स द्विजः प्रहसन्निवा वरं वृणीष्व भद्रं ते शक्रोऽहमरिसूदन॥ एवमुक्तः सहस्राक्षं प्रत्युवाचधनंजयः। प्राञ्जलिः प्रणतो भूत्वा शूरः कुरुकुलोद्वहः॥ ईप्सितो ह्येष वै कामो वरं चैनं प्रयच्छ मे। त्वत्तोऽद्य भगवन्नस्त्रं कृत्स्नमिच्छामि वेदितुम्॥ प्रत्युवाच महेन्द्रस्तं प्रीतात्मा प्रहसन्निव। इह प्राप्तस्य किं कार्यमस्त्रैस्तवधनंजय॥ कामान् वृणीष्व लोकांस्त्वं प्राप्तोऽसि परमां गतिम्। एवमुक्तः प्रत्युवाच सहस्राक्षंधनंजयः॥ न लोभान्न पुनः कामान्न देवत्वं पुनः सुखम्। न च सर्वामरैश्वर्यं कामये त्रिदशाधिप।॥ भ्रार्तृस्तान् विपिने त्यक्त्वा वैरमप्रतियात्य च। अकीर्तिं सर्वलोकेषु गच्छेयं शाश्वतीः समाः॥ एवमुक्तः प्रत्युवाच वृत्रहा पाण्डुनन्दनम्। सान्त्वयञ्छ्लक्ष्णया वाचा सर्वलोकनमस्कृतः॥ यदा द्रक्ष्यसि भूतेशं त्र्यक्षं शूलधरं शिवम्। तदा दातास्मि ते तात दिव्यान्यस्त्राणि सर्वशः॥ क्रियतां दर्शने यत्नो देवस्य परमेष्ठिनः। दर्शनात् तस्य कौन्तेय संसिद्धः स्वर्गमेष्यसि॥ इत्युक्त्वा फाल्गुनं शक्रो जगामादर्शनं पुनः। अर्जुनोऽप्यथ तत्रैव तस्थौ योगसमन्वितः॥ जनमेजय उवाच भगवञ्छ्रोतुमिच्छामि पार्थस्याक्लिष्टकर्मणः। विस्तरेण कथामेतां यथास्त्राण्युपलब्धवान्॥ यथा च पुरुषव्याघ्रो दीर्घबाहुर्धनंजयः। वनं प्रविष्टस्तेजस्वी निर्मनुष्यमभीतवत्॥ किं च तेन कृतं तत्र वसता ब्रह्मवित्तम। कथं च भगवान् स्थाणुर्देवराजश्च तोषितः॥ एतदिच्छाभ्यहं श्रोतुं त्वत्प्रसादाद् द्विजोत्तम। त्वं हि सर्वज्ञ दिव्यं च मानुषं चैव वेत्थ ह॥ अत्यद्भुततमं ब्रह्मन् रोमहर्षणमर्जुनः। भवेन सह संग्रमं चकाराप्रतिम किल॥ पुरा प्रहरतां श्रेष्ठः संग्रमेष्वपराजितः। यच्छ्रुत्वा नरसिंहानां दैन्यहर्षातिविस्मयात्॥ शूराणामपि पार्थानां हृदयानि चकम्पिरे। यद् यच्च कृतवानन्यत् पार्थस्तदखिलं वद॥ न ह्यस्य निन्दितं जिष्णोः सुसूक्ष्ममपि लक्षये। चरितं तस्य शूरस्य तन्मे सर्वं प्रकीर्तय॥ वैशम्पायन उवाच कथयिष्यामि ते तात कथामेतां महात्मनः। दिव्यां पौरवशार्दूल महतीमद्भुतोपमाम्॥ गात्रसंस्पर्शसम्बद्धां त्र्यम्बकेण सहानघ। पार्थस्य देवदेवेन शृणु सम्य समागमम्॥ युधिष्ठिरनियोगात् स जगामामितविक्रमः। शक्रं सुरेश्वरं द्रष्टुं देवदेवं च शंकरम्॥ दिव्यं तद्धनुरादाय खङ्गं च कनकत्सरुम्। महाबलो महाबाहुरर्जुनः कार्यसिद्धये॥ दिशं [दीची कौरव्यो हिमवच्छिखरं प्रति। ऐन्द्रिः स्थिरमना राजन् सर्वलोकमहारथः॥ त्वरया परया युक्तस्तपसेधृतनिश्चयः। वनं कण्टकितं घोरमेक एवान्वपद्यत॥ नानापुष्पफलोपेतं नानापक्षिनिषेवितम्। नानामृगगणाकीर्णं सिद्धचारणसेवितम्॥ ततः प्रयाते कौन्तेये वनं मानुषवर्जितम्। शङ्खानां पटहानां च शब्दः समभवद् दिवि॥ पुष्पवर्षं च सुमहन्निपपात महीतले। मेघजालं च विततं छादयामास सर्वतः॥ सोऽतीत्य वनदुर्गाणि संनिकर्षे महागिरेः। शुशुभे हिमवत्पृष्ठे वसमानोऽर्जुनस्तदा॥ तत्रापश्यद् दुमान् फुल्लान् विहगैर्वल्गुनादितान् नदीश्च विपुलावर्ता वैदूर्यविमलप्रभाः॥ हंसकारण्डवोद्गीताः सारसाभिरुतास्तथा। पुस्कोकिलरुताश्चैव क्रौञ्चबर्हिणनादिताः॥ मनोहरत्नोपेतास्तस्पितिरथोऽर्जुनः। पुण्यशीतामलजलाः पश्यन् प्रीतमनाभवत्॥ रमणीये वनोद्देशे रममाणोऽर्जुनस्तदा। तपस्युचे वर्तमान उग्रतेजा महामनाः॥ दर्भचीरं निवस्याथ दण्डाजिनविभूषितः। शीर्णं च पतितं भूमौ पर्णं समुपयुक्तवान्।॥ पूर्णे पूर्णे त्रिरात्रे तु मासमेकं फलाशनः। द्विगुणेन हि कालेन द्वितीयं मासमत्ययात्॥ तृतीयमपि मासं स पक्षणाहारमाचरन्। चतुर्थे त्वथ सम्प्राप्ते मासे भरतसत्तमः॥ वायुभक्षो महाबाहुरभवत् पाण्डुनन्दनः। ऊर्ध्वबाहुर्निरालम्बः पादाङ्गुष्ठाचविष्ठितः॥ सदोपस्पर्शनाच्चास्य बभूवुरमितौजसः। विद्युदम्भोरुहनिभा जटास्तस्य महात्मनः॥ ततो महर्षयः सर्वे जग्मुर्देवं पिनाकिनम्। निवेदयिषवः पार्थं तपस्युचे समास्थितम्॥ तं प्रणम्य महादेवं शशंसुः पार्थकर्म तत्। एष पार्थो महातेजा हिमवत्पृष्ठमास्थितः॥ उग्रे तपसि दुष्पारे स्थितोधूमाययन् दिशः। तस्य देवेश न वयं विद्मः सर्वे चिकीर्षितम्॥ संतापयति नः सर्वानसौ साधु निवार्यताम्। तेषां तद्वचनं श्रुत्वा मुनीनां भावितात्मनाम्॥ उमापतिर्भूतपतिर्वाक्यमेतदुवाच ह। महादेव उवाच न वो विषादः कर्तव्यः फाल्गुनं प्रति सर्वशः॥ शीघ्रं गच्छत संहृष्टा यथागतमतन्द्रिताः। अहमस्य विजानामि संकल्पं मनसि स्थितम्॥ नास्य स्वर्गस्पृहा काचिन्नैश्वर्यस्य तथाऽऽयुषः। यत् तस्य काक्षितं सर्वं तत् करिष्येऽहमद्य वै॥ वैशम्पायन उवाच तच्छ्रुत्वा शर्ववचनमृषयः सत्यवादिनः। प्रहृष्टमनसो जग्मुर्यथा स्वान् पुनरालयान्॥ वैशम्पायन उवाच गतेषु तेषु सर्वेषु तपस्विषु महात्मसु। पिनाकपाणिर्भगवान् सर्वपापहरो हरः॥ कैरातं वेषमास्थाय काञ्चनदुमसंनिभम्। विभ्राजमानो विपुलो गिरिर्मेरुरिवापरः॥ श्रीमद्धनुरुपादाय शरांश्चाशीविषोपमान्। निष्पपात महावेगो दहनो देहवानिव॥ देव्या सहोमया श्रीमान् समानव्रतवेषया। नानावेषधरैर्हष्टैर्भूतैरनुगतस्तदा॥ किरातवेषसंच्छन्नः स्त्रीभिश्चापि सहस्रशः। अशोभत तदा राजन् स देशोऽतीव भारत॥ क्षणेन तद् वनं सर्वं निःशब्दमभवत् तदा। नादः प्रस्रवणानां च पक्षिणां चाप्युपारमत्॥ स संनिकर्षमागम्य पार्थस्याक्लिष्टकर्मणः। मूकं नाम दनोः पुत्रं ददर्शाद्भुतदर्शनम्॥ वाराहं रूपमास्थाय तर्कयन्तमिवार्जुनम्। हन्तुं परं दीप्यमानं तमुवाचाथ फाल्गुनः॥ गाण्डीवं धनुरादाय शरांचाशीविषोपमान्। सज्यंधनुर्वरं कृत्वा ज्याघोषेण निनादयन्॥ यन्मां प्रार्थयसे हन्तुमनागसमिहागतम्। तस्मात् त्वां पूर्वमेवाहं नेताद्य यमसादनम्॥ दृष्ट्वा तं प्रहरिष्यन्तं फाल्गुनं दृढधन्विनम्। किरातरूपी सहसा वारयामास शङ्करः॥ मयैष प्रार्थितः पूर्वमिन्द्रकीलसमप्रभः। अनादृत्य च तद् वाक्यं प्रजहाराथ फाल्गुनः॥ किरातश्च समं तस्मिन्नेकलक्ष्ये महाद्युतिः। प्रमुमोचाशनिप्रख्यं शरमग्निशिखोपमम्॥ तौ मुक्तौ सायको ताभ्यां समं तत्र निपेततुः। मूकस्य गात्रे विस्तीर्णे शैलसंहनने तदा॥ यथाशनेर्विनिर्घोषो वज्रस्येव च पर्वते। तथा तयोः संनिपातः शरयोरभवत् तदा॥ स विद्धो बहुभिर्बाणैर्दीप्तास्यैः पन्नगैरिव। ममार राक्षसं रूपं भूयः कृत्वा बिभीषणम्॥ स ददर्श ततो जिष्णुः पुरुषं काञ्चनप्रभम्। किरातवेषसंच्छन्नं स्त्रीसहायममित्रहा॥ तमब्रवीत् प्रीतमनाः कौन्तेयः प्रहसन्निव। को भवानटते शून्ये वने स्त्रीगणसंवृतः॥ न त्वमस्मिन् वने घोरे बिभेषि कनकप्रभा किमर्थं च त्वया विद्वो वराहो मत्परिग्रहः॥ मयाभिपन्नः पूर्वं हि राक्षसोऽयमिहागतः। कामात् परिभवाद् वापि न मे जीवन् विमोक्ष्यसे।२०॥ न ह्येष मृगयाधर्मो यस्त्वयाद्य कृतो मयि। तेन त्वां भ्रंशयिष्यामि जीवितात् पर्वताश्रयम्॥ इत्युक्तः पाण्डवेयेन किरातः प्रहसन्निव। उवाच श्लक्ष्णया वाचा पाण्डवं सव्यसाचिनम्॥ न मत्कृते त्वया वीर भी: कार्या वनमन्तिकात्। इयं भूमिः सदास्माकमुचिता वसतां वने।॥ त्वया तु दुष्करः कस्मादिह वासः प्ररोचितः। वयं तु बहुसत्त्वेऽस्मिन् नवसामस्तपोधन॥ भवांस्तु कृष्णवाभः सुकुमार: सुखोचितः। कथं शून्यमिमं देशमेकाकी विचरिष्यति॥ अर्जुन उवाच गाण्डीवमाश्रयं कृत्वा नाराचांश्चाग्निसंनिभान्। निवसामि महारण्ये द्वितीय इव पावकिः॥ एष चापि मया जन्तुर्मंगरूपं समाश्रितः। राक्षसो निहतो घोरो हन्तुं मामिह चागतः॥ किरात उवाच मयैषधन्वनिर्मुक्तैस्ताडितः पूर्वमेव हि। बाणैरभिहतः शेते नीतश्च यमसादनम्॥ ममैष लक्ष्यभूतो हि मम पूर्वपरिग्रहः। ममैव च प्रहारेण जीविताद् व्यपरोपितः॥ दोषान् स्वान् नार्हसेऽन्यस्मै वक्तुं स्वबलदर्पितः। अविलप्तोऽसि मन्दात्मन् न मे जीवन् विमोक्ष्यसे।३०।। स्थिरो भवस्व मोक्ष्यामि सायकानशनीनिव। घटस्व परया शक्त्या मुञ्च त्वमपि सायकान्॥ तस्य तद् वचनं श्रुत्वा किरातस्यार्जुनस्तदा। रोषमाहारयामास ताडयामास चेषुभिः॥ ततो हृष्टेन मनसा प्रतिजग्राह सायकान्। भूयो भूय इति प्राह मन्दमन्देत्युवाच ह॥ प्रहरस्व शरानेतान् नाराचान् मर्मभेदिनः। इत्युक्तो बाणवर्षं स मुमोच सहसार्जुनः॥ ततस्तौ तत्र संरब्धौ राजमानौ मुहुर्मुहुः। शरैराशीविषाकारैस्ततक्षाते परस्परम्॥ ततोऽर्जुनः शरवर्षं किराते समवासृजत्। तत् प्रसन्नेन मनसा प्रतिजग्राह शङ्करः॥ मुहूर्तं शरवर्षं तत् प्रतिगृह्य पिनाकधृक्। अक्षतेन शरीरेण तस्थौ गिरिरिवाचलः॥ स दृष्ट्वा बाणवर्ष तु मोघीभूतंधनंजयः। परमं विस्मयं चक्रे साधु साध्विति चाब्रवीत्॥ अहोऽयं कुसुमाराङ्गो हिमवच्छिखराश्रयः। गाण्डीवमुक्तान् नाराचान् प्रतिगृहणात्यविह्वलः॥ कोऽयं देवो भवेत् साक्षाद् रुद्रो यक्षः सुरोऽसुरः विद्यते हि गिरिश्रेष्ठे त्रिदशानां समागमः॥ न हि मद्वाणजालानामुत्सृष्टानां सहस्रशः। शक्तोऽन्यः सहितुं वेगमते देवं पिनाकिनम्॥ देवो वा यदि वा यक्षो रुद्रादन्यो व्यवस्थितः। अहमेनं शरैस्तीक्ष्णैर्नयामि यमसादनम्॥ ततो हृष्टमना जिष्णुाराचान् मर्मभेदिनः। व्यसृजच्छतधा राजन् मयूखानिव भास्करः॥ तान् प्रसन्नेन मनसा भगवाल्लोकभावनः। शूलपाणिः प्रत्यगृहणाच्छिलावर्षमिवाचलः॥ क्षणेन क्षीणबाणोऽथ संवृत्तः फाल्गुनस्तदा। भीश्चैनमाविशत् तीव्रा तं दृष्ट्वा शरसंक्षयम्॥ चिन्तयामास जिष्णुस्तु भगवन्तं हुताशनम्। पुरस्तादक्षयौ दत्तौ तूणौ येनास्य खाण्डवे॥ किं नु मोक्ष्यामिधनुषा यन्मे बाणाः क्षयं गताः। अयं च पुरुषः कोऽपि बाणान् चसति सर्वशः॥ हत्वा चैनंधनुष्कोट्या शूलाचेणेव कुञ्जरम्। नयामि दण्डधारस्य यमस्य सदनं प्रति॥ प्रगृह्याथधनुष्कोट्या ज्यापाशेनावकृष्य च। मुष्टिभिश्चापि हतवान् वज्रकल्पैर्महाद्युतिः॥ सम्प्रयुद्धोधनुष्कोट्या कौन्तेयः परवीरहा। तदप्यस्यधनुर्दिव्यं जग्राह गिरिगोचरः॥ ततोऽर्जुनो चस्तधनुः खङ्गपाणिरतिष्ठत। युद्धस्यान्तमभीप्सन् वै वेगेनाभिजगाम् तम्॥ तस्य मूर्ध्नि शितं खङ्गमसक्तं पर्वतेष्वपि। मुमोच भुजवीर्येण विक्रम्य कुरुनन्दनः॥ तस्य मूर्धानमासाद्य पफालासिवरो हि सः। ततो वृक्षः शिलाभिश्च योधयामास फाल्गुनः॥ तदा वृक्षान् महाकायः प्रत्यगृहणादथो शिलाः। किरातरूपी भगवांस्ततः पार्थो महाबलः॥ मुष्टिभिर्वज्रसंकाशै—ममुत्पादयन् मुखे। प्रजहार दुराधर्षे किरातसमरूपिणि॥ ततः शक्राशनिसमैर्मुष्टिभिर्भृशदारुणैः। किरातरूपी भगवानर्दयामास फाल्गुनम्॥ ततश्चटचटाशब्दः सुघोरः समपद्यत। पाण्डवस्य च मुष्टीनां किरातस्य च युध्यतः॥ सुमुहूर्तं तु तद् युद्धमभवल्लोमहर्षणम्। भुजप्रहारसंयुक्तं वृत्रवासवयोरिव॥ जघानाथ ततो जिष्णुः किरातमुरसा बली। पाण्डवं च विचेष्टं किरातोऽप्यहनद् बली॥ तयोर्भुजविनिष्पेषात् संघर्षणोरसोस्तथा। समजायत गात्रेषु पावकोऽङ्गारधूमवान्॥ तत एनं महादेवः पीड्य गात्रैः सुपीडितम्। तेजसा व्यक्रमद् रोषाच्चेतस्तस्य विमोहयन्॥ ततोऽभिपीडितैर्गात्रैः पिण्डीकृत इवाबभौ। फाल्गुनो गात्रसंरुद्धो देवदेवेन भारत॥ निरुच्छ् वासोऽभवच्चैव संनिरुद्धो महात्मना। पपात भूम्यां निश्चेष्टो गतसत्त्व इवाभवत्॥ स मुहूर्तं तथा भूत्वा सचेताः पुनरुत्थितः। रुधिरेणाप्लुताङ्गस्तु पाण्डवो भृशदुःखितः॥ शरण्यं शरणं गत्वा भगवन्तं पिनाकिनम्। मृन्मयं स्थण्डिलं कृत्वा माल्येनापूजयद् भवम्॥ तच्च माल्यं तदा पार्थः किरातशिरसि स्थितम्। अपश्यत् पाण्डवश्रेष्ठो हर्षेण प्रकृतिं गतः॥ पपात पादयोस्तस्य ततः प्रीतोऽभवद् भवः। उवाच चैनं वचसा मेघगम्भीरगीहरः। जातविस्मयमालोक्य तपःक्षीणाङ्गसंहतिम्॥ भव उवाच भो भोः फाल्गुन तुष्टोऽस्मि कर्मणाप्रतिमेन ते। शौर्येणानेनधृत्या च क्षत्रियो नास्ति ते समः॥ समं तेजश्च वीर्यं च ममाद्य तव चानघ। प्रीतस्तेऽहं महाबाहो पश्य मां भरतर्षभ॥ ददामि ते विशालाक्ष चक्षुः पूर्वऋषिर्भवान्। विजेष्यसि रणे शत्रू नपि सर्वान् दिवौकसः॥ प्रीत्या च तेऽहं दास्यामि यदस्त्रमनिवारितम्। त्वं हि शक्तो मदीयं तदस्त्रंधारयितुं क्षणात्॥ वैशम्पायन उवाच ततो देवं महादेवं गिरिशं शूलपाणिनम्। ददर्श फाल्गुनस्तत्र सह देव्या महाद्युतिम्॥ स जानुभ्यां महीं गत्वा शिरसा प्रणिपत्य च। प्रसादयामास हरं पार्थः परपुरंजयः॥ अर्जुन उवाच कपर्दिन् सर्वदेवेश भगनेत्रनिपातन। देवदेव महादेव नीलग्रीव जटाधर॥ कारणानां च परमं जाने त्वां त्र्यम्बकं विभुम्। देवानां च गतिं देव त्वत्प्रसूतमिदं जगत्॥ अजेयस्त्वं त्रिभिर्लोकः सदेवासुरमानुषैः। शिवाय विष्णुरूपाय विष्णवे शिवरूपिणे॥ दक्षयज्ञविनाशाय हरिरुद्राय वै नमः। ललाटाक्षाय शर्वाय मीढुषे शूलपाणये॥ पिनाकगोप्जे सूर्याय मङ्गल्याय च वेधसे। प्रसादये त्वां भगवन् सर्वभूतमहेश्वर॥ गणेशं जगतः शम्भुं लोककारणकारणम्। प्रधानपुरुषातीतं परं सूक्ष्मतरं हरम्॥ व्यतिक्रमं मे भगवन् क्षन्तुमर्हसि शंकर। भगवन् दर्शनाकाक्षी प्राप्तोऽस्मीमं महागिरिम्॥ दयितं तव देवेश तापसालयमुत्तमम्। प्रसादये त्वां भगवन् सर्वलोकनमस्कृतम्॥ न मे स्यादपराधोऽयं महादेवातिसाहसात्। कृतो मयायमज्ञानाद् विमर्दो यस्त्वया सह। शरणं प्रतिपन्नाय तत् क्षमस्वाद्य शंकर॥ वैशम्पायन उवाचत तमुवाच महातेजाः प्रहस्यवृषभध्वजः। प्रगृह्य रुचिरं बाहुं क्षान्तमित्येव फाल्गुनम्॥ परिष्वज्य च बाहुभ्यां प्रीतात्मा भगवान् हरः। पुनः पार्थं सान्त्वपूर्वमुवाच वृषभध्वजः॥ देवदेव उवाच नरसवं पूर्वदेहे वै नारायणसहायवान्। बदाँ तप्तवानुचं तपो वर्षायुतान् बहून्॥ त्वयि वा परमं तेजो विष्णौ वा पुरुषोत्तमे। युवाभ्यां पुरुषाच्याभ्यां तेजसाधार्यते जगत्॥ शक्राभिषेके सुमहद्धनुर्जलदनिःस्वनम्। प्रगृह्य दानवाः शस्तास्त्वया कृष्णेन च प्रभो॥ तदेतदेव गाण्डीवं तव पार्थ करोचितम्। मायामास्थाय यद् चस्तं मया पुरुषसत्तम॥ तूणौ चाप्यक्षयौ भूयस्तव पार्थ यथोचितौ। भविष्यति शरीरं च नीरुजं कुरनन्दन॥ प्रीतिमानस्मि ते पार्थ भवान् सत्यपराक्रमः! गृहाण वरमस्मत्तः काक्षितं पुरुषोत्तम्॥ न त्वया पुरुषः कश्चित् पुमान् मर्येषु मानद। दिवि वा वर्तते क्षत्रं त्वत्प्रधानमरिंदम्॥ अर्जुन उवाच भगवन् ददासि चेन्मह्यं कामं प्रीत्या वृषध्वज। कामये दिव्यमस्त्रं तद् घोरं पाशुपतं प्रभो॥ यत् तद् ब्रह्मशिरो नाम रौद्रं भीमपराक्रमम्। युगान्ते दारुणे प्राप्ते कृत्स्नं संहरते जगत्॥ कर्णभीष्मकृपद्रोणैर्भविता तु महाहवः। त्वत्प्रसादान्महादेव जयेयं तान् यथा युधि॥ दहेयं थेन संग्रमे दानवान् राक्षसांस्तथा। भूतानि च पिशाचाश्च गन्धर्वानथ पन्नगान्॥ यस्मिञ्छूलसहस्राणि गदाश्चोचप्रदर्शनाः। शराश्चाशीविषाकारा: सम्भवन्त्यनुमन्त्रिते॥ युध्येयं येन भीष्मेण द्रोणेन च कृपेण च। सूतपुत्रेण च रणे नित्यं कटुकभाषिणा॥ एष कामो मे प्रथमः भगवन् भगनेत्रहन्। त्वत्प्रसादाद् विनिर्वृत्तः समर्थः स्यामहं यथा॥ भव उवाच ददामि तेऽस्त्रं दयितमहं पाशुपतं विभो। समर्थोधारणे मोक्षे संहारे चासि पाण्डव॥ नैतद् वेद महेन्द्रोऽपि न यमो न च यक्षराट्। वरुणोऽप्यथवा वायुः कुतो वेत्स्यन्ति मानवाः॥ न त्वेतत् सहसा पार्थ मोक्तव्यं पुरुषे क्वचित्। जगद् विनाशयेत् सर्वमल्पतेजसि पातितम्॥ अवध्यो नाम नास्त्यत्र त्रैलोक्ये सचराचरे। मनसा चक्षुषा वाचाधनुषा च निपातयेत्॥ वैशम्पायन उवाच तच्छ्रुत्वा त्वरितः पार्थः शुचिर्भूत्वा समाहितः। उपसंगम्य विश्वेशमधीष्वेत्यथ सोऽब्रवीत्॥ ततस्त्वध्यापयामास सरहस्यनिवर्तनम्। तदस्त्रं पाण्डवश्रेष्ठं मूर्तिमन्तमिवान्तकम्॥ उपतस्थे च तत् पार्थं यथा त्र्यक्षमुमापतिम्। प्रतिजग्राह तच्चापि प्रीतिमानर्जुनस्तदा॥ ततश्चचाल पृथिवी सपर्वतवनद्रुमा। ससागरवनोद्देशा संग्रमनगराकरा॥ शङ्खदुन्दुभिघोषाश्च भेरीणां च सहस्रशः। तस्मिन् मुहूर्ते सम्प्राप्ते निर्घातश्च महानभूत्॥ अथास्त्रं जाज्वलद् घोरं पाण्डवस्यामितौजसः। मूर्तिमद् वै स्थितं पार्वे ददृशुर्देवदानवाः॥ स्पृष्टस्य त्र्यम्बकेणाथ फाल्गुनस्यामितौजसः। यत् किंचिदशुभं देहे तत् सर्वं नाशमीयिवत्॥ स्वर्ग गच्छेत्यनुज्ञातस्त्र्यम्बकेण तदार्जुनः। प्रणम्य शिरसा राजन् प्राञ्जालर्देवमैक्षत॥ ततः प्रभुस्त्रिदिवनिवासिनां वशी महामतिर्गिरिश उमापतिः शिवः। धनुर्महद दितिजपिशाचसूदनं ददौ भवः पुरुषवराय गाण्डिवम्॥ ततः शुभं गिरिवरमीश्वरस्तदा। सहोमया सिततटसानुकन्दरम्। विहाय तं पतगमहर्षिसेवितं जगाम खं पुरुषवरस्य पश्यत॥ वैशम्पायन उवाच तस्य सम्पश्यतस्त्वेव पिनाकी वृषभध्वजः। जगामादर्शनं भानुलॊकस्येवास्तमीयिवान्॥ ततोऽर्जुनः परं चक्रे विस्मयं परवीरहा। मया साक्षान्महादेवो दृष्ट इत्येव भारत॥ धन्योऽस्म्यनुगृहीतोऽस्मि यन्मया त्र्यम्बको हरः। पिनाकी वरदो रूपी दृष्टः स्पृष्टश च पाणिना॥ कृतार्थं चावगच्छामि परमात्मानमाहवे। शत्रूश्च विजितान् सर्वान् निर्वृत्तं च प्रयोजनम्॥ इत्येवं चिन्तयानस्य पार्थस्यामिततेजसः। ततो वैदूर्यवर्णाभो भासयन् सर्वतो दिशः। यादोगणवृतः श्रीमानाजगाम जलेश्वरः॥ नागैर्नदैर्नदीभिश्च दैत्यैः साध्यैश्च दैवतैः। वरुणो यादसां भर्ता वशी तं देशमागमत्॥ अथ जाम्बूनदवपुर्विमानेन महार्चिषा। कुबेरः समनुप्राप्तो यक्षैरनुगतः प्रभुः॥ विद्योतयन्निवाकाशमद्भुतोपमदर्शनः। धनानामीश्वरः श्रीमानर्जुनं द्रष्टुमागतः॥ तथालोकान्तकृच्छ्रीमान् यमः साक्षात् प्रतापवान् मर्त्यमूर्तिधरैः सार्धं पितृभिर्लोकभावनैः॥ दण्डपाणिरचिन्त्यात्मा सर्वभूतविनाशकृत्। वैवस्वतोधर्मराजो विमानेनावभासयन्॥ त्री ल्लोकान् गुह्यकांश्चैव गन्धर्वांश्च सपन्नगान्। द्वितीय इव मार्तण्डो युगान्ते समुपस्थिते॥ ते भानुमन्ति चित्राणि शिखराणि महागिरेः। समास्थायार्जुनं तत्र ददृशस्तपसान्वितम्॥ ततो मुहूर्ताद् भगवानरावतशिरोगतः। आजगाम सहेन्द्राण्या शक्रः सुरगणैर्वृतः॥ पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि। शुशुभे तारकाराजः सितमभ्रमिव स्थितः॥ संस्तूयमानो गन्धर्वैर्ऋषिभिश्च तपोधनैः। शृङ्गं गिरेः समासाद्य तस्थौ सूर्य इवोदितः॥ अथ मेघस्वनोधीमान् व्याजहार शुभां गिरम्। यमः परमधर्मज्ञो दक्षिणां दिशमास्थितः॥ अर्जुनार्जुन पश्यास्माल्लोकपालान् समागतान्। दृष्टिं ते वितरामोऽद्य भवानर्हति दर्शनम्॥ पूर्वर्षिरमितात्मा त्वं नरो नाम महाबलः। नियोगाद् ब्रह्मणस्तात मर्त्यतां समुपागतः॥ त्वया च वसुसम्भूतो महावीर्यः पितामहः। भीष्मः परमधर्मात्मा संसाध्यश्च रणेऽनघ॥ क्षत्रं चाग्निसमस्पर्श भारद्वाजेन रक्षितम्। दानवाश्च महावीर्या ये मनुष्यत्वमागताः॥ निवातकवचाश्चैव दानवाः कुरुनन्दन। पितुर्ममांशु देवस्य सर्वलोकप्रतापिनः॥ कर्णश्च सुमहावीर्यस्त्वया वध्योधनंजय। अंशाच क्षितिसम्प्राप्ता देवदानवरक्षसाम्॥ त्वया निपातिता युद्धे स्वकर्मफलनिर्जिताम्। गतिं प्राप्स्यन्ति कौन्तेय यथास्वमरिकर्षण॥ अक्षया तव कीर्तिश्च लोके स्थास्यति फाल्गुन। त्वया साक्षान्महादेवस्तोषितो हि महामृधे॥ लध्वी वसुमती चापि कर्तव्या विष्णुना सह। गृहाणास्त्रं महाबाहो दण्डमप्रतिवारणम्। अनेनास्त्रेण सुमहत् त्वं हि कर्म करिष्यसि॥ वैशम्पायन उवाच प्रतिजग्राह तत् पार्थो विधिवत् कुरुनन्दनः। समन्त्रं सोपचारं च समोक्षविनिवर्तनम्॥ ततो जलधरश्यामो वरुणो यादसां पतिः। पश्चिमो दिशमास्थाय गिरमुच्चारयन् प्रभुः॥ पार्थ क्षत्रियमुख्यस्त्वं क्षत्रधर्मे व्यवस्थितः। पश्य मां पृथुताम्राक्ष वरुणोऽस्मि जलेश्वरः॥ मया समुद्यतान् पाशान् वारुणानविारितान्। प्रतिगृहणेष्व कौन्तेय सरहस्यनिवर्तनम्॥ एभिस्तदा मया वीर संग्रामे तारकामये। दैतेयानां सहस्राणि संयतानि महात्मनाम्॥ तस्मदिमान् महासत्त्व मत्प्रसादसमुत्थितान्। गृहाण न हि ते मुच्येदन्तकोऽप्याततायिनः॥ अनेन त्वं यदास्त्रेण संग्रामे विचरिष्यसि। तदा निःक्षत्रिया भूमिर्भविष्यति न संशयः॥ वैशम्पायन उवाच ततः कैलासनिलयोधनाध्यक्षोऽभ्यभाषत। दत्तेष्वस्त्रेषु दिव्येषु वरुणेन यमेन च॥ प्रीतोऽहमपि ते प्राज्ञ पाण्डवेय महाबल। त्वया सह समागम्य अजितेन तथैव च॥ सव्यसाचिन् महाबाहो पूर्वदेव सनातन। सहास्माभिर्भवाञ्छ्रान्तः पुराकल्पेषु नित्यशः॥ दर्शनात् ते त्विदं दिव्यं प्रदिशामि नरर्षभ। अमनुष्यान् महाबाहो दुर्जयानपि जेष्यसि॥ मत्तश्चैव भवानाशु गृहणात्वस्त्रमनुत्तमम्। अनेन त्वमनीकानिधार्तराष्ट्रस्यधक्ष्यसि॥ तदिदं प्रतिगृहणीष्व अन्तर्धानं प्रियं मम। ओजस्तेजोद्युतिकरं प्रस्वायनमरातिनुत्॥ महात्मना शङ्करेण त्रिपुरं निहतं यदा। तदैतदस्त्रं निर्मुक्तं येन दग्धा महासुराः॥ त्वदर्थमुद्यतं चेदं मया सत्यपराक्रम। त्वम)धारणे चास्य मेरुप्रतिमगौरव॥ ततोऽर्जुनो महाबाहुर्विधिवत् कुरुनन्दनः। कौबेरमधिजग्राह दिव्यमस्त्रं महाबलः॥ ततोऽब्रवीद् देवराजः पार्थमक्लिष्टकारिणम्। सान्त्वयश्लक्ष्णया वाचा मेघदुन्दुभिनि:स्वनः॥ कुन्तीमातर्महाबाहो त्वमीशान: पुरातनः। परां सिद्धिमनुप्राप्तः साक्षाद् देवगतिं गतः॥ देवकार्यं तु सुमहत् त्वया कार्यमरिंदम आरोढव्यस्त्वया स्वर्गः सज्जीभव महाद्युते॥ रथो मातलिसंयुक्त आगन्ता त्वत्कृते महीम्। तत्र तेऽहं प्रदास्यामि दिव्यान्यस्त्राणि कौरव॥ तान् दृष्ट्वा लोकपालांस्तु समेतान् गिरिमूर्धनि। जगाम विस्मयंधीमान् कुन्ती पुत्रोधनंजयः॥ ततोऽर्जुनो महातेजा लोकपालान् समागतान्। पूजयामास विधिवद् वाग्भिरद्भिः फलैरपि॥ ततः प्रतिययुर्देवाः प्रतिमान्यधनंजयम्। यथागतेन विबुधाः सर्वे काममनोजवाः॥ ततोऽर्जुनो मुदं लेभे लब्धास्त्रः पुरुषर्षभः। कृतार्थमथ चात्मानं स मेने पूर्णमानसम्॥ वैशम्पायन उवाच गतेषु लोकपालेषु पार्थः शत्रुनिबर्हणः। चिन्तयामास राजेन्द्र देवराजरथं प्रति।।।। ततश्चिन्तयमानस्य गुडाकेशस्यधीमतः। रथो मातलिसंयुक्त आजगाम महाप्रभः॥ नभो वितिमिरं कुर्वञ्जलदान् पाटयन्निव। दिशः सम्पूरयन् नादैर्महामेघरवोपमैः॥ असयः शक्तयो भीमा गदाश्चोग्रप्रदर्शनाः। दिव्यप्रभावाः प्रासाश्च विद्युतश्च महाप्रभाः॥ तथैवाशनयश्चैव चक्रयुक्तास्तुलागुडाः। वायुस्फोटाः सनिर्घाता महामेघस्वनास्तथा॥ तत्र नागा महाकाया ज्वलितास्याः सुदारुणाः। सिताभ्रकूटप्रतिमाः संहताश्च तथोपलाः॥ दशवाजिसहस्राणिः हरीणां वातरंहसाम्। वहन्ति यं नेत्रमुषं दिव्यं मायामयं रथम्॥ तत्रापश्यन्महानीलं वैजयन्तं महाप्रभम्। ध्वजमिन्दीवरश्यामं वंशं कनकभूषणम्॥ तस्मिन् रथे स्थितं सूतं तप्तहेमविभूषितम्। दृष्ट्वा पार्थो महाबाहुर्देवमेवान्वतर्कयत्॥ तथा तर्कयतस्तस्य फाल्गुनस्याथ मातलिः। संनतः प्रस्थितो भूत्वा वाक्यमर्जुनमब्रवीत्॥ मातलिरुवाच भो भोः शक्रात्मज श्रीमाञ्छक्रस्त्वां द्रष्टुमिच्छति आरोहतु भवाञ्छीघ्रं रथमिन्द्रस्य सम्मतम्॥ आह माममरश्रेष्ठः पिता तव शतक्रतुः। कुन्तीसुतमिह प्राप्तं पश्यन्तु त्रिदशालयाः॥ एष शक्रः परिवृतो देवैर्ऋषिगणैस्तथा। गन्धर्वैरप्सरोभिश्च त्वां दिदृक्षुः प्रतीक्षते॥ अस्माल्लोकाद् देवलोकं पाकशासनशासनात्। आरोह त्वं मया साधु लब्धास्त्रः पुनरेष्यसि॥ अर्जुन उवाच मातले गच्छ शीघ्रं त्वमारोहस्व रथोत्तमम्। राजसूयाश्वमेधानां शतैरपि सुदुर्लभम्॥ पार्थिवैः सुमहाभागैर्यज्वभिर्भूरिदक्षिणैः। दैवतैर्वा समारोढुं दानवैर्वा रथोत्तमम्॥ नातप्ततपसा शक्य एष दिव्यो महारथः। द्रष्टुं वाप्यथवा स्प्रष्टुमारोढुं कुत एव च॥ त्वयि प्रतिष्ठिते साधो रथस्थे स्थिरवाजिनि। पश्चादहमथारोक्ष्ये सुकृती सत्पथ यथा।॥ वैशम्पायन उवाच तस्य तद् वचनं श्रुत्वा मातलिः शक्रसारथिः। आरुरोह रथं शीघ्रं हयान् येमे च रश्मिभिः॥ ततोऽर्जुनो हृष्टमना गङ्गायामाप्लुतः शुचिः। जजाप जप्यं कौन्तेयो विधिवत् कुरुनन्दनः॥ ततः पितृन् यथान्यायं तर्पयित्वा यथाविधि। मन्दरं शैलराजं तमाप्रष्टुमुपचक्रमे॥ साधूनां पुण्यशीलानां मुनीनां पुण्यकर्मणाम्। त्वं सदा संश्रयः शैल स्वर्गमार्गाभिकाक्षिणाम्॥ त्वत्प्रसादात् सदा शैल ब्राह्मणाः क्षत्रिया विशः। स्वर्ग प्राप्ताश्चरन्ति स्म देवैः सह गतव्यथा।॥ अद्रिराज महाशैल मुनिसंश्रय तीर्थवन्। गच्छाम्यामन्त्रयामि त्वां सुखमस्म्युषितस्त्वयि॥ तव सानूनि कुञ्जाश्च नद्यः प्रस्रवणानि च। तीर्थानि च सुपुण्यानि मया दृष्टान्यनेकशः॥ फलानि च सुगन्धीनि भक्षितानि ततस्ततः। सुसुगन्धाश्च वार्योधास्त्वच्छरीरविनिःसृताः॥ अमृतास्वादनीया मे पीताः प्रस्रवणोदकाः। शिशुर्यथा पितुरङ्के सुसुखं वर्तते नग॥ तथा तवाङ्के ललितं शैलराज मया प्रभो। अप्सरोगणसंकीर्णे ब्रह्मघोषानुनादिते॥ सुखमस्म्युषितः शैल तव सानुषु नित्यदा। एवमुक्त्वार्जुनः शैलमामन्त्र्य परवीरहा॥ आरुरोह रथं दिव्यं द्योतयन्निव भास्करः। स तेनादित्यरूपेण दिव्येनाद्भुतकर्मणा॥ ऊर्ध्वमाचक्रमेधीमान् प्रहृष्टः कुरुनन्दनः। सोऽदर्शनपथं यातो मानांधर्मचारिणाम्॥ ददर्शाद्भुतरूपाणि विमानानि सहस्रशः। न तत्र सूर्यः सोमो वा द्योतते न च पावकः॥ स्वयैव प्रभया तत्र द्योतन्ते पुण्यलब्धया। तारारूपाणि यानीह दृश्यन्ते द्युतिमन्ति वै॥ दीपवद् विप्रकृष्टत्वात् तनूनि सुमहान्त्यपि। तानि तत्र प्रभास्वन्ति रूपवन्ति च पाण्डवः॥ ददर्श स्वेषु धिष्ण्येषु दीप्तिमन्तः स्वयार्चिषा। तत्र राजर्षयः सिद्धा वीराश्च निहता युधि॥ तपसा च जितं स्वर्गं सम्पेतुः शतसङ्घशः। गन्धर्वाणां सहस्राणि सूर्यज्वलिततेजसाम्॥ गुह्यकानामृषीणां च तथैवाप्सरसां गणान्। लोकानात्मप्रभान् पश्यन् फाल्गुनो विस्मयान्वितः।३७॥ पप्रच्छ मातलिं प्रीत्या स चाप्येनमुवाच ह। एते सुकृतिनः पार्थ स्वेषु धिष्ण्येष्ववस्थिताः॥ तान् दृष्टवानसि विभो तारारूपाणि भूतले। ततोऽपश्यत् स्थितं द्वारि शुभं वैजयिनं गजम्॥ ऐरावतं चतुर्दन्तं कैलासमिव शृङ्गिणम्। स सिद्धमार्गमाक्रम्य कुरुपाण्डवसत्तमः॥ व्यरोचत यथापूर्वं मान्धाता पार्थिवोत्तमः। अभिचक्राम लोकान् स राज्ञां राजीवलोचनः॥ एवं स संक्रमंस्तत्र स्वर्गलोके महायशाः। ततो ददर्श शक्रस्य पुरी ताममरावतीम्॥ वैशम्पायन उवाच ददर्श स पुरी रम्यां सिद्धचारणसेविताम्। सर्वर्तुकुसुमैः पुण्यैः पादपैरुपशोभिताम्॥ तत्र सौगन्धिकानां च पुष्पाणां पुण्यगन्धिनाम्। उद्वीज्यमानो मिश्रेण वायुना पुण्यगन्धिना॥ नन्दनं च वनं दिव्यमप्सरोगणसेवितम्। ददर्श दिव्यकुसुमैराह्वयद्भिरिव दुमैः॥ नातप्ततपसा शक्यो द्रष्टुं नानाहिताग्निना। स लोकः पुण्यकर्तृणां नापि युद्धे पराडमुखैः॥ नायज्वभिर्नावतिकैर्न वेदश्रुतिवर्जितैः। नानाप्लुताङ्गैस्तीर्थेषु यज्ञदानबहिष्कृतैः॥ नापि यज्ञहनैः क्षुद्रैर्द्रष्टुं शक्यः कथंचन। पानपैर्गुरुतल्पैश्च मांसादैर्वा दुरात्मभिः॥ स तद् दिव्यं वनं पश्यन् दिव्यगीतनिनादितम्। प्रविवेश महाबाहुः शक्रस्य दयितां पुरीम्॥ तत्र देवविमानानि कामगानि सहस्रशः। संस्थितान्यभियातानि ददर्शायुतशस्तदा॥ संस्तूयमानो गन्धर्वैरप्सरोभिश्च पाण्डवः। पुष्पगन्धवहैः पुण्यैर्वायुभिश्चानुवीजितः॥ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। हृष्टाः सम्पूजयामासुः पार्थमक्लिष्टकारिणम्॥ आशीर्वादैः स्तूयमानो दिव्यवादिनि:स्वनैः। प्रतिपेदे महाबाहुः शङ्खदुन्दुभिनादितम्॥ नक्षत्रमार्ग विपुलं सुरवीथीति विश्रुतम्। इन्द्राज्ञया ययौ पार्थः स्तूयमानः समन्ततः॥ तत्र साध्यास्तथा विश्वे मरुतोऽथाश्चिनौ तथा। आदित्या वसवो रुद्रास्तथा ब्रह्मर्षयोऽमलाः॥ राजर्षयश्च बहवो दिलीपप्रमुखा मृपाः। तुम्बुरुर्नारदचैव गन्धर्वी च ह हाहुहूः॥ तान् स सर्वान् समागम्य विधिवत् कुरुनन्दनः। ततोऽपश्यद् देवराजं शतक्रतुमरिंदम्॥ ततः पार्थो महाबाहुरवतीर्य रथोत्तमात्। ददर्श साक्षाद् देवेशं पितरं पाकशासनम्॥ पाण्डुरेणातपत्रेण हेमदण्डेन चारुणा। दिव्यगन्धाधिवासेन व्यजनेन विधूयता॥ विश्वावसुप्रभृतिभिर्गन्धर्वैः स्तुतिवन्दनैः। स्तूयमानं द्विजावयैश्च ऋग्यजुः सामसम्भवैः॥ ततोऽभिगम्य कौन्तेयः शिरसाभ्यगमद् बली। स चैनं वृत्तपीनाभ्यां बाहुभ्यां प्रत्यगृहणत॥ ततः शक्रासने पुण्ये देवर्षिगणसेविते। शक्रः पाणौ गृहीत्वैनमुपावेशयदन्तिके॥ मूर्ध्नि चैनमुपाघ्राय देवेन्द्रः परवीरहा। अङ्कमारोपयामास प्रश्रयावनतं तदा॥ सहस्राक्षनियोगात् स पार्थः शक्रासनं गतः। अध्यक्रामदमेयात्मा द्वितीय इव वासवः॥ ततः प्रेम्णा वृत्रशत्रुरर्जुनस्य शुभं मुखम्। पस्पर्श पुण्यगन्धेन करेण परिसान्त्वयन्॥ प्रमार्जमानः शनकैर्बाहू चास्यायतौ शुभौ। ज्याशरक्षेपकठिनौ स्तम्भाविव हिरण्मयौ॥ वज्रग्रहणचिह्नन करेण परिसान्त्वयन्। मुहुर्मुहुर्वज्रधरो बाहू चास्फोटयच्छनैः॥ स्मयन्निव गुडाकेशं प्रेक्षमाणः सहस्रदृक्। हर्षेणोत्फुल्लनयनो न चातृप्यत वृत्रहा।॥ एकासनोपविष्टौ तौ शोभयांचक्रतुः सभाम्। सूर्याचन्द्रमसौ व्योम चतुर्दश्यामिवोदितौ॥ तत्र स्म गाथा गायन्ति साम्ना परमवल्गुना। गन्धर्वास्तुम्बुरुश्रेष्ठाः कुशला गीतसामसु॥ घृताची मेनका रम्भा पूर्वचित्तिः स्वयंप्रभा। उर्वशी मिश्रकेशी च दण्डगौरी वरूथिनी॥ गोपाली सहजन्या च कुम्भयोनिः प्रजागरा। चित्रसेना चित्रलेखा सहा च मधुरस्वरा॥ एताश्चान्याश्च ननृतुस्तत्र तत्र सहस्रशः। चित्तप्रसादने युक्ताः सिद्धानां पद्मलोचनाः॥ महाकटितटश्रोण्यः कम्पमानैः पयोधरैः। कटाक्षहावमाधुर्यैश्चेतोबुद्धिमनोहरैः॥ वैशम्पायन उवाच ततो देवाः सगन्धर्वाः समादायार्घ्यमुत्तमम्। शक्रस्य मतमाज्ञाय पार्थमानचुरञ्जसा॥ पाद्यमाचमनीयं च प्रतिग्राह्य नृपात्मजम्। प्रवेशयामासुरथो पुरन्दरनिवेशनम्॥ एवं सम्पूजितो जिष्णुरुवास भवने पितुः। उपशिक्षन महास्त्राणि ससंहाराणि पाण्डवः॥ शक्रस्य हस्ताद् दयितं वज्रमस्त्रं च दुःसहम्। अशनीश्च महानादा मेघबर्हिणलक्षणाः॥ गृहीतास्त्रस्तु कौन्तेयो भ्रातन् सस्मार पाण्डवः। पुरन्दरनियोगाच्च पञ्चाब्दानवसत् सुखी॥ ततः शक्रोऽब्रवीत् पार्थं कृतास्त्रं काल आगते। नृत्यं गीतं च कौन्तेय चित्रसेनादवाप्नुहि॥ वादित्रं देवविहितं नृलोके यन्न विद्यते। तदर्जयस्व कौन्तेय श्रेयो वै ते भविष्यति॥ सखायं प्रददौ चास्य चित्रसेनं पुरन्दरः। स तेन सह संगम्य रेमे पार्थो निरामयः॥ गीतवादित्रनृत्यानि भूय एवादिदेश ह। तथापि नालभच्छर्म तपस्वी द्यूतकारितम्॥ दुःशासनवधामर्षी शकुनेः सौबलस्य च। ततस्तेनातुलां प्रीतिमुपागम्य क्वचित् क्वचित्। गान्धर्वमतुलं नृत्यं वादित्रं चोपलब्धवान्॥ स शिक्षितो नृत्यगुणाननेकान्। वादित्रगीतार्थगुणांश्च सर्वान्। न शर्म लेभे परवीरहन्ता भ्रातृन् स्मरन् मातरं चैव कुन्तीम्॥ वैशम्पायन उवाच आदावेवाथ तं शक्रश्चित्रसेनं रहोऽब्रवीत्। पार्थस्य चक्षुरुर्वश्यां सक्तं विज्ञाय वासवः॥ गन्धर्वराज गच्छाद्य प्रहितोऽप्सरसां वराम्। उर्वशी पुरुषव्याघ्र सोपातिष्ठतु फाल्गुनम्॥ यथार्चितो गृहीतास्त्रो विद्यया मन्नियोगतः। तथा त्वया विधातव्यं स्त्रीषु संगविशारदः॥ एवमुक्तस्तथेत्युक्त्वा सोऽनुज्ञां प्राप्य वासवात्। गन्धर्वराजोऽप्सरसमभ्यगादुर्वशी वराम्॥ तां दृष्ट्वा विदितो हृष्टः स्वागतेनार्चितस्तया। सुखासीनः सुखासीनां स्मितपूर्वं वचोऽब्रवीत्॥ विदितं तेऽस्तु सुश्रोणि प्रहितोऽहमिहागतः। त्रिदिवस्यैकराजेन त्वत्प्रसादाभिनन्दिना॥ वस्तु देवमनुष्येषु प्रख्यातः सहजैर्गुणैः। श्रिया शीलेन रूपेण व्रतेन च दमेन च। प्रख्यातो बलवीर्येण सम्मतः प्रतिभानवान्॥ वर्चस्वी तेजसा युक्तः क्षमावान् वीतमत्सरः। साङ्गोपनिषदान् वेदांश्चतुराख्यानपञ्चमान्॥ योऽधीते गुरुशुश्रूषां मेधां चाष्टगुणाश्रयामा ब्रह्मचर्येण दाक्ष्येण प्रसवैर्वयसापि च॥ एको वै रक्षिता चैव त्रिदिवं मघवानिव। अकत्यनो मानयिता स्थूललक्ष्यः प्रियंवदः॥ सुहृदश्चान्नपानेन विविधेनाभिवर्षति। सत्यवाक् पूजितो वक्ता रूपवाननहंकृतः॥ भक्तानुकम्पी कान्तश्च प्रियश्च स्थिरसंगरः। प्रार्थनीयैर्गुणगणैर्महेन्द्रवरुणोपमः॥ विदितस्तेऽर्जुनो वीरः स स्वर्गफलमाप्नुयात्। त्वं तु शक्राभ्यनुज्ञाता तस्य पादान्तिकं व्रज। तदेवं कुरु कल्याणि प्रसन्नस्त्वांधनंजयः॥ एवमुक्ता स्मितं कृत्वा सम्मानं बहु मन्य च। प्रत्युवाचोर्वशी प्रीता चित्रसेनमनिन्दिता॥ यस्त्वस्य कथित: सत्यो गुणोद्देशस्त्वया मम। तं श्रुत्वाव्यथयं पुंसो वृणुयां किमतोऽर्जुनम्॥ महेन्द्रस्य नियोगेन त्वत्तः सम्प्रणयेन च। तस्य चाहं गुणौघेन फाल्गुने जातमन्मथा। गच्छ त्वं हि यथाकाममागमिष्याम्यहं सुखम्॥ वैशम्पायन उवाच ततो विसृज्य गन्धर्वं कृतकृत्यं शुचिस्मिता। उर्वशी चाकरोत् स्नानं पार्थदर्शनलालसा॥ स्नानालंकरणैर्हद्यैर्गन्धमाल्यैश्च सुप्रभैः। धनंजयस्य रूपेण शरैर्मन्मथचोदितैः॥ अतिविद्धेन मनसा मन्मथेन प्रदीपिता। दिव्यास्तरणसंस्तीर्णे विस्तीर्णे शयनोत्तमे॥ चित्तसंकल्पभावेन सुचित्तानन्यमानसा। मनोरथेन सम्प्राप्तं रमन्त्येनं हि फाल्गुनम्॥ निर्गस्य चन्द्रोदयने विगाढे रजनीमुखे। प्रस्थिता सा पृथुश्रोणी पार्थस्य भवनं प्रति॥ मृदुकुञ्चितदीर्घेण कुमुदोत्करधारिणा। केशहस्तेन ललना जगामाथ विराजती॥ भ्रक्षेपालापमाधुपैः कान्त्या सौम्यतया पे च। शशिनं वक्त्रचन्द्रेण साऽऽह्वयन्तीव गच्छति॥ दिव्याङ्गरागौ सुमुखो दिव्यचन्दनरूषितौ। गच्छन्त्या हाररुचिरौ स्तनौ तस्या ववल्गतुः॥ स्तनोद्वहनसंक्षोभान्नम्यमाना पदे पदे। त्रिवलीदामचित्रेण मध्येमातीवशोभिना।॥ अधो भूधरविस्तीर्णं नितम्बोन्नतपीवरम्। मन्मथायतनं शुभं रसनादामभूषितम्॥ ऋषीणामपि दिव्यानां मनोव्याघातकारणम्। सूक्ष्मवस्त्रधरं रेजे जघनं निरवद्यवत्॥ गूढगुल्फधरौ पादौ ताम्रायततलाङ्गुली। कूर्मपृष्ठोन्नतौ चापि शोभेते किङ्किणीकिणौ॥ सीधुपानेन चाल्पनं तुष्ट्याथ मदनेन च। विलासनैश्च विविधैः प्रेक्षणीयतराभवत्॥ सिद्धचारणगन्धर्वैः सा प्रयाता विलासिनी। बह्वाश्चर्येऽपि वै स्वर्गे दर्शनीयतमाकृतिः॥ सुसूक्ष्मणोत्तरीयेण मेघवर्णेन राजता। तनुरभ्रावृता व्याम्नि चन्द्रलेखेव गच्छति॥ ततः प्राप्ता क्षणेनैव मन:पवनगामिनी। भवनं पाण्डुपुत्रस्य फाल्गुनस्य शुचिस्मिता॥ तत्र द्वारमनुप्राप्ता द्वारस्थेश्व निवेदिता। अर्जुनस्य नरश्रेष्ठ उर्वशी शुभलोचना॥ उपातिष्ठत तद् वेश्म निर्मलं सुमनोहरम्। स शङ्कितमना राजन् प्रत्युद्गच्छत तां निशि॥ दृष्ट्वैव चोर्वशी पार्थो लज्जासंवृतलोचनः। तदाभिवादनं कृत्वा गुरुपूजां प्रयुक्तवान्॥ अर्जुन उवाच अभिवादये त्वां शिरसा प्रवराप्सरसां वरे। किमाज्ञापयसे देवि प्रेष्यस्तेऽहमुपस्थितः॥ फाल्गुनस्य वचः श्रुत्वा गतसंज्ञा तदोर्वशी। गन्धर्ववचनं सर्वं श्रावयामास तं तदा॥ उर्वश्युवाच यथा ते चित्रसेनेन कथितं मनुजोत्तम। तत् तेऽहं सम्प्रवक्ष्यामि यथा चाहमिहागता॥ उपस्थाने महेन्द्रस्य वर्तमाने मनोरमे। तवागमनतो वृत्ते स्वर्गस्य परमोत्सवे॥ रुद्राणां चैव सांनिध्यमादित्यानां च सर्वशः। समागमेऽश्विनोश्चैव वसूनां च नरोत्तम॥ महर्षीणां च संघेषु राजर्षिप्रवरेषु च। सिद्धचारणयक्षेषु महोरगगणेषु च॥ उपविष्टेषु सर्वेषु स्थानमानप्रभावतः। ऋद्ध्या प्रज्वलमानेषु अग्निसोमार्कवर्मसु॥ वीणासु वाद्यमानासु गन्धर्वैः शक्रनन्दन। दिव्ये मनोरमे गेये प्रवृत्ते पृथुलोचन॥ सर्वाप्सरःसु मुख्यासु प्रनृत्तासु कुरूद्वह। त्वं किलानिमिषः पार्थ मामेकां तत्र दृष्टवान्।॥ तत्र वावभृथे तस्मिन्नुपस्थाने दिवौकसाम्। तव पित्राभ्यनुज्ञाता गताः स्वं स्वं गृहं सुराः॥ तथैवाप्सरसः सर्वा विशिष्टाः स्वगृहं गताः। अपि चान्याश्च शत्रुघ्न तव पित्रा विसर्जिताः।॥ ततः शक्रेण संदिष्टश्चित्रसेनो ममान्तिकम्। प्राप्तः कमलपत्राक्ष स च मामब्रवीदथ॥ त्वत्कृतेऽहं सुरेशेन प्रेषितो वरवर्णिनि। प्रियं कुरु महेन्द्रस्य मम चैवात्मनश्च ह॥ शक्रतुल्यं रणे शूरं सदौदार्यगुणान्वितम्। पार्थ प्रार्थय सुश्रोणि त्वमित्येवं तदाब्रवीत्॥ ततोऽहं समनुज्ञाता तेन पित्रा च तेऽनघ। तवान्तिकमनुप्राप्ता शुश्रूषितुमरिदम्॥ त्वद्गुणाकृष्टचित्ताहमनङ्गवशमागता। चिराभिलषितो वीर ममाप्येष मनोरथः॥ वैशम्पायन उवाच तां तथा ब्रुवतीं श्रुत्वा भृशं लज्जाऽऽवृतोऽर्जुनः उवाच कर्णौ हस्ताभ्यां पिधाय त्रिदशालये॥ दुःश्रुतं मेऽस्तु सुभगे यन्मां वदसि भाविनि। गुरुदारैः समाना मे निश्चयेन वरानने॥ यथा कुन्ती महाभागा यथेन्द्राणी शची मम। तथा त्वमपि कल्याणी नात्र कार्या विचारणा॥ यच्चेक्षितासि विस्पष्टं विशेषेण मया शुभे। तच्च कारणपूर्वं हि शृणु सत्यं शुचिस्मिते॥ इयं पौरववंशस्य जननी मुदितेति ह। त्वामहं दृष्टवांस्तत्र विज्ञायोत्फुल्ललोचनः॥ न मामर्हसि कल्याणि अन्यथाध्यातुमप्सरः। गुरोर्गुरुतरा मे त्वं मम त्वं वंशवर्धिनी॥ उर्वश्युवाच अनावृताश्च सर्वाः स्म देवराजाभिनन्दन। गुरुस्थाने न मां वीर नियोक्तुं त्वमिहार्हसि॥ पूरोर्वशे हि ये पुत्रा नप्तारो वा त्विहागताः। तपसा रमयन्त्यस्मान्न च तेषां व्यतिक्रमः॥ तत् प्रसीद न मामात विसर्जयितुमर्हसि। हृच्छयेन च संतप्तं भक्तां च भज मानद॥ अर्जुन उवाच शृणु सत्यं वरारोहे यत् त्वां वक्ष्याम्यनिन्दिते। शृण्वन्तु मे दिशश्चैव विदिशश्च सदेवताः॥ यथा कुन्ती च माद्री च शची चैव ममानघे। तथा च वंशजननी त्वं हि मेऽद्य गरीयसी॥ गच्छ मूर्धा प्रपन्नोऽस्मि पादौ ते वरवर्णिनि। त्वं हि मातृवत् पूज्या रक्ष्योऽहं पुत्रवत् त्वया॥ वैशम्पायन उवाच एवमुक्ता तु पार्थेन उर्वशी क्रोधमूर्च्छिता। वेपन्ती भृकुटीवक्रा शशापाथधनंजयम्॥ उर्वश्युवाच तव पित्राभ्यनुज्ञातां स्वयं च गृहमागताम्। यस्मान्मां नाभिनन्देथाः कामबाणवशंगताम्॥ तस्मात् त्वं नर्तनः पार्थ स्त्रीमध्ये मानवर्जितः। अपुमानिति विख्यातः षण्ढवद् विचरिष्यसि॥ एवं दत्त्वार्जुने शापं स्फुरदोष्ठी श्वसन्त्यथ। पुन: प्रत्यागता क्षिप्रमुर्वशी गृहमात्मनः॥ ततोऽर्जुनस्त्वरमाणश्चित्रसेनमरिंदमः। सम्प्राप्य रजनीवृत्तं तदुर्वश्या यथातथम्॥ निवेदयामास तदा चित्रसेनाय पाण्डवः। तत्र चैवं यथावृत्तं शापं चैव पुनः पुनः॥ अवेदयच्च शक्रस्य चित्रसेनोऽपि सर्वशः। तत आनाय्य तनयं विविक्ते हरिवाहनः॥ सान्त्वयित्वा शुभैर्वाक्यैः स्मयमानोऽभ्यभाषत। सुपुत्राद्य पृथा तात त्वया पुत्रेण सत्तम॥ ऋषयोऽपि हिधैर्येण जिता वै ते महाभुजा यत् तु दत्तवती शापमुर्वशी तव मानद॥ स चापि तेऽर्थकृत् तात साधकश्च भविष्यति॥ अज्ञातवासो वस्तव्यो भवद्भिर्भूतलेऽनघ। वर्षे त्रयोदशे वीर तत्र त्वं क्षपयिष्यसि॥ तेन नर्तनवेषेण अपुंस्त्वेन तथैव च। वर्षमेकं विहृत्यैव ततः पुंस्त्वमवाप्स्यसि॥ एवमुक्तस्तु शक्रेण फाल्गुनः परवीरहा। मुदं परमिकां लेभे न च शापं व्यचिन्तयत्॥ चित्रसेनेन सहितो गन्धर्वेण यशस्विना। रेमे स स्वर्गभवने पाण्डुपुत्रोधनंजयः॥ इदं यः शृणुयाद् वृत्तं नित्यं पाण्डुसुतस्य वै। न तस्य कामः कामेषु पापकेषु प्रवर्तते॥ इदममरवरात्मजस्य घोरं शुचि चरितं विनिशम्य फाल्गुनस्य। स्त्रिदिवगता विरमन्ति मानवेन्द्राः॥ वैशम्पायन उवाच कदाचिदटमानस्तु महर्षिरुत लोमशः। जगाम शक्रभवनं पुरन्दरदिदृक्षया॥ स समेत्य नमस्कृत्य देवराज महामुनिः। ददर्शार्धासनगतं पाण्डवं वासवस्य हि॥ ततः शक्राभ्यनुज्ञात आसने विष्टरोत्तरे। निषसाद द्विजश्रेष्ठः पूज्यमानो महर्षिभिः॥ तस्य दृष्ट्वाभवद् बुद्धिः पार्थमिन्द्रासने स्थितम् कथं नु क्षत्रियः पार्थः शक्रासनमवाप्तवान्॥ किं त्वस्य सुकृतं कर्म के लोका वै विनिर्जिताः। स एवमनुसम्प्राप्तः स्थानं देवनमस्कृतम्॥ तस्य विज्ञाय संकल्पं शक्रो वृत्रनिषूदनः। लोमशं प्रहसन् वाक्यमिदमाह शचीपतिः॥ ब्रह्मर्षे श्रूयतां यत् ते मनसैतद् विवक्षितम्। नायं केवलमर्यो वै मानुषत्वमुपागतः॥ महर्षे मम पुत्रोऽयं कुन्त्यां जातो महाभुजः। अस्त्रहेतोरिह प्राप्तः कस्पाच्चित् कारणान्तरात्॥ अहो नैनं भवान् वेत्ति पुराणमृषिसत्तमम्। शृणु मे वदतो ब्रह्मन् योऽयं यच्चास्य कारणम्॥ नरनारायणौ यौ तौ पुराणावृषिसत्तमौ। ताविमावनुजानीहि हृषीकेशधनंजयौ॥ विख्यातौ त्रिषु लोकेषु नरनारायणावृषी। कार्यार्थमवतीर्णौ तौ पृथ्वीं पुण्यप्रतिश्रयाम्॥ यन्न शक्यं सुरैर्द्रष्टुमृषिभिर्वा महात्मभिः। तदाश्रमपदं पुण्यं बदरीनाम विश्रुतम्॥ स निवासोऽभवद् विप्र विष्णोर्जिष्णोस्तथैव च। यत् प्रववृते गङ्गा सिद्धचारणसेविता॥ तौ मन्नियोगाद् ब्रह्मर्षे क्षितौ जातौ महाद्युती। भूमे रावतरणं महावीरों करिष्यतः॥ उद्धृत्ता ह्यसुराः केचिन्निवातकवचा इति। विप्रियेषु स्थितास्माकं वरदानेन मोहिताः॥ तर्कयन्ते सुरान् हन्तुं बलदर्पसमन्विताः। देवान् न गणयन्त्येते तथा दत्तवरा हि ते॥ पातालवासिनो रौद्रा दनोः पुत्रा महाबलाः। सर्वदेवनिकाया हि नालं योधयितुं हि तान्॥ योऽसौ भूमिगतः श्रीमान् विष्णुर्मधुनिषूदनः। कपिलो नाम देवोऽसौ भगवानजितो हरिः॥ येन पूर्वं महात्मानः खनमाना रसातलम्। दर्शनादेव निहताः सगरस्यात्मजा विभो॥ तेन कार्यं महत् कार्यमस्माकं द्विजसत्तम। पार्थेन च महायुद्धे समेताभ्यां न संशयः॥ सोऽसुरान् दर्शनादेव शक्तो हन्तुं सहानुगान्। निवातकवचान् सर्वान् नागानिव महाह्रदे॥ किं तु नाल्पेन कार्येण प्रबोध्यो मधुसूदनः। तेजसः सुमहाराशिः प्रबुद्धः प्रदहेज्जगत्॥ अयं तेषां समस्तानां शक्तः प्रतिसमासने। तान् निहत्य रणे शूरः पुनर्यास्यति मानुषान्॥ भवानस्मन्नियोगेन यातु तावन्महीतलम्। काम्यके द्रक्ष्यसे वीरं निवसन्तं युधिष्ठिरम्॥ स वाच्यो मम संदेशाद्धर्मात्मा सत्यसंगरः। नोत्कण्ठा फाल्गुने कार्या कृतास्त्रः शीघ्रमेष्यति॥ नाशुद्धबाहुवीर्येण नाकृतास्त्रेण वा रणे। भीष्मद्रोणादयो युद्धे शक्याः प्रतिसमासितुम्॥ गृहीतास्त्रो गुडाकेशो महाबाहुर्महामनाः। नृत्यवादित्रगीतानां दिव्यानां पारमीयिवान्॥ भवानपि विविक्तानि तीर्थानि मनुजेश्वर। भ्रातृभिः सहितः सर्वैर्द्रष्टुमर्हत्यरिंदम॥ तीर्थेष्वाप्लुत्य पुण्येषु विपाप्मा विगतज्वरः। राज्यं भोक्ष्यसि राजेन्द्र सुखी विगतकल्मष।॥ भवांश्चैनं द्विजश्रेष्ठ पर्यटन्तं महीतलम्। त्रातुमर्हति विप्राक्य तपोबलसमन्वितः।॥ गिरिदुर्गेषु च सदा देशेषु विषमेषु च। वसन्ति राक्षसा रौद्रास्तेभ्यो रक्षां विधास्यति॥ एवमुक्तो महेन्द्रेण बीभत्सुरपि लोमशम्। उवाच प्रयतो वाक्यं रक्षेथाः पाण्डुनन्दनम्॥ यथा गुप्तस्त्वया राजा चरेत् तीर्थानि सत्तम। दानं दद्याद् यथा चैव तथा कुरु महामुने॥ वैशम्पायन उवाच तथेति सम्प्रतिज्ञाय लोमशः सुमहातपाः। काम्यकं वनमुद्दिश्य समुपायान्महीतलम्॥ ददर्श तत्र कौन्तेयंधर्मराजमरिदमम्। तापसै भ्रातभिश्चैव सर्वतः परिवारितम्॥ संजय उवाच यदेतत् कथितं राजंस्त्वया दुर्योधनं प्रति। सर्वमेतद् यथात्त्वं नैतन्मिथ्या महीपते।।शा मन्युना हि समाविष्टाः पाण्डवास्ते महौजसः। दृष्ट्वा कृष्णां सभां नीतांधर्मपत्नी यशस्विनीम्॥ दुःशासनस्य ता वाचः श्रुत्वा ते दारुणोदयाः। कर्णस्य च महाराज जुगुप्सन्तीति मे मतिः॥ श्रुतं हि मे महाराज यथा पार्थेन संयुगे। एकादशतनुः स्थाणुर्धनुषा परितोषितः॥ कैरातं वेषमास्थाय योधयामास फाल्गुनम्। जिज्ञासुः सर्वदेवेशः कपर्दी भगवान् स्वयम्॥ तत्रैनं लोकपालास्ते दर्शयामासुरर्जुनम्। अस्त्रहेतोः पराक्रान्तं तपसा कौरवर्षभम्॥ नैतदुत्सहते चान्यो लब्धुमन्यत्र फाल्गुनात्। साक्षाद् दर्शनमेतेषामीश्वराणां नरो भुवि।॥ महेश्वरेण यो राजन् न जीर्णो ह्यष्टमूर्तिना। कस्तमुत्सहते वीरो युद्धे जरयितुं पुमान्॥ आसादितमिदं घोरं तुमुलं लोमहर्षणम्। द्रौपदी परिकर्षद्भिः कोपयद्धिश्च पाण्डवान्॥ यत् तु प्रस्फुरमाणौष्ठौ भीमः प्राह वचोऽर्थवत्। दृष्ट्वा दुर्योधनेनोरू द्रौपद्या दर्शितावुभौ॥ ऊरू भेत्स्यामि ते पाप गदया भीमवेगया। त्रयोदशानां वर्षाणामन्ते दुर्दूतदेविनः॥ सर्वे प्रहरतां श्रेष्ठाः सर्वे चामिततेजसः। सर्वे सर्वास्त्रविद्वांस देवैरपि सुदुर्जयाः॥ पन्ये मन्यु समुद्भूताः पुत्राणां तव संयुगे। अन्तं पार्थाः करिष्यन्ति भार्यामर्षसमन्विताः॥ धृतराष्ट्र उवाच किं कृतं सूत कर्णेन वदता परुषं वचः। पर्याप्तं वैरमेतावद् यत् कृष्णा सा सभां गता॥ अपीदानीं मम सुतास्तिष्ठेरन् मन्दचेतसः। येषां भ्राता गुरुज्येष्ठो विनये नावतिष्ठते॥ ममापि वचनं सूत न शुश्रूषति मन्दभाक्। दृष्ट्वा मां चक्षुषा हीनं निर्विचेष्टमचेतसम्॥ ये चास्य सचिवा मन्दाः कर्णसौबलकादयः। ते तस्य भूयसो दोषान् वर्धयन्ति विचेतसः॥ स्वैरमुक्ता ह्यपि शरा: पार्थेनामिततेजसा। निर्दहेयुर्मम सुतान् किं पुनर्मन्युनेरिताः॥ पार्थबाहुबलोत्सृष्टा महाचापविनिःसृताः। दिव्यास्त्रमन्त्रमुदिताः सादयेयुः सुरानपि॥ यस्य मन्त्री च गोप्ता च सुहच्चैव जनार्दनः। हरिस्त्रैलोक्यनाथः स किं नु तस्य न निर्जितम्॥ इदं हि सुमहच्चित्रमर्जुनस्येह संजय। महादेवेन बाहुभ्यां यत् समेत इति श्रुति॥ प्रत्यक्षं सर्वलोकस्य खाण्डवे यत् कृतं पुरा। फाल्गुनेन सहायार्थे वह्नर्दामोदरेण च॥ सर्वथा न हि मे पुत्राः सहामात्याः ससौबलाः। क्रुद्ध पार्थे च भीमे च वासुदेवे च सात्वते॥ जनमेजय उवाच यदिदं शोचितं राज्ञाधृतराष्ट्रेण वै मुरे। प्रव्राज्य पाण्डवान् वीरान् सर्वमेतन्निरर्थकम्॥ कथं च राजा पुत्रं तमुपेक्षेताल्पचेतसम्। दुर्योधनं पाण्डुपुत्रान् कोपयानं महारथान्॥ किमासीत् पाण्डुपुत्राणां वने भोजनमुच्यताम्। वानेयमथवा कृष्टमेतदाख्यातु नो भवान्॥ वैशम्पायन उवाच वानेयांश्च मृगांश्चैव शुद्धैर्बाणैर्निपातितान्। ब्राह्मणानां निवेद्याचमभुञ्जन् पुरुषर्षभाः॥ तांस्तु शूरान् महेष्वासांस्तदा निवसतो वने। अन्वयुाह्मणा राजन् साग्नयोऽनग्नयस्तथा॥ ब्राह्मणानां सहस्राणि स्रातकानां महात्मनाम्। दश मोक्षविदां तत्र यान् बिभर्ति युधिष्ठिरः॥ रुरून् कृष्णमृगांश्चैव मेध्यांश्चान्यान् वनेचरान्। बाणैरुन्मथ्य विविधैर्ब्राह्मणेभ्यो न्यवेदयत्॥ न तत्र कश्चिद् दुर्वर्णो व्याधितो वापि दृश्यते। कृशो वा दुर्बलो वापि दीनो भीतोऽपि वा पुनः॥ पुत्रानिव प्रियान् भ्रातृज्ञातीनिव सहोदरान्। पुपोष कौरवश्रेष्ठोधर्मराजो युधिष्ठिरः॥ पतींश्च द्रौपदी सर्वान् द्विजातींश्च यशस्विनी। मातृवद् भोजयित्वाचे शिष्टमाहारयत् तदा॥ प्राची राजा दक्षिणां भीमसेनो यमौ प्रतीचीमथ वाप्युदीचीम्। धनुर्धराणां सहितो मृगाणां क्षयं चक्रुर्नित्यमेवोपगम्य॥ तथा तेषां वसतां काम्यके वै विहीनानामर्जुनेनोत्सुकानाम्। रधीयतां जपतां जुह्वतां च॥ जनमेजय उवाच अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि। युधिष्ठिरप्रभृतयः किमकुर्वत पाण्डवाः॥ वैशम्पायन उवाच अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि। आवसन् कृष्णया साधु काम्यके भरतर्षभाः॥ ततः कदाचिदेकान्ते विविक्त इव शाद्वले। दुःखार्ता भरतश्रेष्ठा निषेदुः सह कृष्णया॥ धनंजयं शोचमानाः साश्रुकण्ठाः सुदुःखिताः। तद्वियोगार्दितान् सर्वाञ्छोकः समभिपुप्लुवे॥ धनंजयवियोगाच्च राज्यभ्रंशाच्च दुःखिताः। अथ भीमो महाबाहुर्युधिष्ठिरमभाषत॥ निदेशात् ते महाराज गतोऽसौ भरतर्षभः। अर्जुनः पाण्डुपुत्राणां यस्मिन् प्राणाः प्रतिष्ठिताः॥ यस्मिन् विनष्टे पाञ्चालाः सह पुत्रैस्तथा वयम्। सात्यकिर्वासुदेवश्च विनश्येयुर्न संशयः॥ योऽसौ गच्छतिधर्मात्मा बहून् क्लेशान् विचिन्तयन् भवन्नियोगाद् बीभत्सुस्ततो दुःखतरं नु किम्॥ यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः। मन्यामहे जिताना तौ परान् प्राप्ता च मेदिनीम्॥ यस्य प्रभावान्न मया सभामध्येधनुष्मतः। नीता लोसममुं सर्वेधार्तराष्ट्राः ससौबलाः॥ ते वयं बाहुबलिनः क्रोधमुत्थितमात्मनः। सहामहे भवन्मूलं वासुदेवेन पालिताः॥ वयं हि सह कृष्णेन हत्वा कर्णमुखान् परान्। स्वबाहुविजितां कृत्स्ना प्रशासेम वसुन्धराम्॥ भवतो द्यूतदोषेण सर्वे वयमुपप्लुताः। अहीनपौरुषा बाला बलिभिर्बलवत्तराः॥ क्षात्रधर्म महाराज त्वमवेक्षितुमर्हसि। न हिधर्मो महाराज क्षत्रियस्य वनाश्रयः॥ राज्यमेव परंधर्मं क्षत्रियस्य विदुर्बुधाः। स क्षत्रधर्मविद् राजा माधर्म्यान्नीनशः पथः॥ प्राग् द्वादशसमा राजन्धार्तराष्ट्रान् निहन्महि। निवर्त्य च वनात् पार्थमानाय्य च जनार्दनम्॥ व्यूढानीकान् महाराज जवनेव महामते। धार्तराष्ट्रानमुं लोकं गमयामि विशाम्पते।॥ सर्वानहं हनिष्यामिधार्तराष्ट्रान् ससौबलान्। दुर्योधनं च कर्णं च यो वान्यः प्रतियोत्स्यते॥ मया प्रशमिते पश्चात् त्वमेष्यसि वनात् पुनः। एवं कृते न ते दोषा भविष्यन्ति विशाम्पते॥ यज्ञैश्च विविधैस्तात कृतं पापमरिंदम। अवधूय महाराज गच्छेम स्वर्गमुत्तमम्॥ एवमेतद् भवेद् राजन् यदि राजा न बालिशः। अस्माकं दीर्घसूत्रः स्याद् भवान्धर्मपरायणः॥ निकृत्या निकृतिप्रज्ञा हन्तव्या इति निश्चयः। न हि नैकृतिकं हत्वा निकृत्या पापमुच्यते॥ तथा भारतधर्मेषुधर्मज्ञैरिह दृश्यते। अहोरात्रं महाराज तुल्यं संवत्सरेण ह॥ तथैव वेदवचनं श्रूयते नित्यदा विभो। संवत्सरो महाराज पूर्णो भवति कृच्छ्रतः॥ यदि वेदाः प्रमाणास्ते दिवसादूर्ध्वमच्युत। त्रयोदश समाः कालो ज्ञायतां परिनिष्ठितः॥ कालो दुर्योधनं हन्तुं सानुबन्धमरिंदम। एकाचां पृथिवीं सर्वां पुरा राजन् करोति सः॥ द्यूतप्रियेण राजेन्द्र तथा तद् भवता कृतम्। प्रायेणाज्ञातचर्यायां वयं सर्वे निपातिताः॥ न तं देशं प्रपश्यामि यत्र सोऽस्मान् सुदुर्जनः। न विज्ञास्यति दुष्टात्मा चारैरिति सुयोधनः॥ अधिगम्य च सर्वान् नो वनवासमिमं ततः। प्रव्राजयिष्यति पुनर्निकृत्याधमपूरुषः॥ यद्यस्मानभिगच्छेत पापः स हि कथंचन। अज्ञातचर्यामुत्तीर्णान् दृष्ट्वा च पुनराह्वयेत्॥ द्यूतेन ते महाराज पुन तमवर्तत। भवांश्च पुनराहतो द्यूते नैवापनेष्यति॥ स तथाक्षेषु कुशलो निश्चितो गतचेतनः। चरिष्यसि महाराज वनेषु वसतीः पुनः॥ यद्यस्मान् सुमहाराज कृपणान् कर्तुमर्हसि। यावज्जीवमवेक्षस्व वेदधर्मांश्च कृत्स्नशः॥ निकृत्या निकृतिप्रज्ञो हन्तव्य इति निश्चयः। अनुज्ञातस्त्वया गत्वा यावच्छक्ति सुयोधनम्॥ यथैव कक्षमुत्सृष्टो दहेदनिलसारथिः। हनिष्यामि तथा मन्दमनुजानातु मे भवान्॥ वैशम्पायन उवाच एवं ब्रुवाणं भीमं तुधर्मराजो युधिष्ठिरः। उवाच सान्त्वयन् राजा मूर्युपाघ्राय पाण्डवम्॥ असंशयं महाबाहो हनिष्यसि सुयोधनम्। वर्षात् त्रयोदशादूर्ध्वं सह गाण्डीवधन्वना॥ यत् त्वमाभाषसे पार्थ प्राप्तः काल इति प्रभो। अनृतं नोत्सहे वक्तुं न ह्येतन्मम विद्यते॥ अन्तरेणापि कौन्तेय निकृति पापनिश्चयम्। हन्ता त्वमसि दुर्धर्ष सानुबन्धं सुयोधनम्॥ एवं ब्रुवति भीमं तुधर्मराजे युधिष्ठिरे। आजगाम महाभागो बृहदश्वो महानृषिः॥ तमभिप्रेक्ष्यधर्मात्मा सम्प्राप्तधर्मचारिणम्। शास्त्रवन्मधुपर्केण पूजयामासधर्मराट्॥ आश्वस्तं चैनमासीनमुपासीनो युधिष्ठिरः। अभिप्रेक्ष्य महाबाहुः कृपणं बह्वभाषत॥ अक्षयूते च भगवन्धनं राज्यं च मे हृतम्। आहूय निकृतिप्रज्ञैः कितवैरक्षकोविदैः॥ अनक्षज्ञस्य हि सतो निकृत्या पापनिश्चयैः। भार्या च मे सभां नीता प्राणेभ्योऽपि गरीयसी॥ पुन तेन मां जित्वा वनवासं सुदारुणम्। प्रावाजयन् महारण्यमजिनैः परिवारितम्॥ अहं वने दुर्वसतीर्वसन् परमदुःखितः। अक्षयूताधिकारे च गिरः शृण्वन् सुदारुणाः॥ आतोनां सुहृदां वाचो द्यूतप्रभृति शंसताम्। अहं हृदि श्रिताः स्मृत्वा सर्वरात्रीविचिन्तयन्॥ यस्मिश्चैव समस्तानां प्राणा गाण्डीवधन्वनि। विना महात्मना तेन गतसत्त्व इवाभवम्॥ कदा द्रक्ष्यामि बीभत्सुं कृतास्त्रं पुनरागतम्। प्रियवादिनमक्षुद्रं दयायुक्तमतन्द्रितः॥ अस्ति राजा मया कश्चिदल्पभाग्यतरो भुवि। भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा क्वचित्। न मत्तो दुःखिततरः पुमानस्तीति मे मतिः॥ बृहदश्व उवाच यद् ब्रवीषि महाराज न मत्तो विद्यते क्वचित्। अल्पभाग्यतरः कश्चित् पुमानस्तीति पाण्डव॥ अत्र ते वर्णयिष्यामि यदि शुश्रूषसेऽनघ। यस्त्वत्तो दुःखितारो राजाऽऽसीत् पृथिवीपते॥ वैशम्पायन उवाच अथैनमब्रवीद् राजा ब्रवीतु भगवानिति। इमामवस्थां सम्प्राप्तं श्रोतुमिच्छामि पार्थिवम्॥ बृहदश्व उवाच शृणु राजन्नवहितः सह भ्रातृभिरच्युत। यस्त्वत्तो दुःखिततरो राजाऽऽसीत् पृथिवीपते॥ निषधेषु महीपालो वीरसेन इति श्रुतः। तस्य पुत्रोऽभवन्नामा नलोधर्मार्थकोविदः॥ स निकृत्या जितो राजा पुष्करेणेति नः श्रुतम्। वनवासं सुदुःखार्तो भार्यया न्यवसत् सह॥ न तस्य दासा न रथो न भ्राता न च बान्धवाः। वने निवसतो राजच्छिष्यन्ते स्म कदाचन॥ भवान् हि संवृतो वीरैर्धातृभिर्देवसम्मितैः। ब्रह्मकल्पैर्द्विजावयैश्च तस्मान्नार्हसि शोचितुम्॥ युधिष्ठिर उवाच विस्तरेणाहमिच्छामि नलस्य सुमहात्मनः। चरितं वदतां श्रेष्ठ तन्ममाख्यातुमर्हसि॥ बृहदश्च उवाच दमयन्ती तु तच्छ्रुत्वा वचो हंसस्य भारत। ततः प्रभृति न स्वस्था नलं प्रति बभूव सा॥ ततश्चिन्तापरा दीना विवर्णवदना कृशा। बभूव दमयन्ती तु निःश्वासपरमा तदा॥ ऊर्ध्वदृष्टिानपरा बभूवोन्मत्तदर्शना। पाण्डुवर्णा क्षणेनाथ हृच्छयाविष्टचेतना॥ न शय्यासनभोगेषु रतिं विन्दति कर्हिचित्। न नक्तं न दिवा शेते हाहेति रुदती पुनः॥ तामस्वस्थां तदाकारां सख्यस्ता जजुरिङ्गितः। ततो विदर्भपतये दमयन्त्याः सखीजनः॥ न्यवेदयत् तामस्वस्थां दमयन्ती नरेश्वरे। तच्छ्रुत्वा नृपतिर्भीमो दमयन्ती सखीगणात्॥ चिन्तयामास तत् कार्यं सुमहत् स्वां सुतां प्रति। किमर्थं दुहिता मेऽद्य नातिस्वस्थेव लक्ष्यते॥ स समीक्ष्य महीपाल: स्वां सुतां प्राप्तयौवनाम्। अपश्यदात्मना कार्यं दमयन्त्याः स्वयंवरम्॥ तेषां भीमो महाबाहुः स संनिमन्त्रयामास महीपालान् विशाम्पतिः। एषोऽनुभूयतां वीरा: स्वयंवर इति प्रभो॥ श्रुत्वा तु पार्थिवाः सर्वे दमयन्त्याः स्वयंवरम्। अभिजग्मुस्ततो भीमं राजानो भीमशासनात्॥ हस्त्यश्वरथघोषेण पूरयन्तो वसुन्धराम्। विचित्रमाल्याभरणैर्बलैर्दृश्यैः स्वलंकृतैः॥ पार्थिवानां महात्मनाम्। यथार्हमकरोत् पूजां तेऽवसंस्तत्र पूजिताः॥ एतस्मिन्नेव काले तु सुराणामृषिसत्तमौ। अटमानौ महात्मानाविन्द्रलोकमितो गतौ॥ नारदः पर्वतश्चैव महाप्राज्ञौ महाव्रतौ। देवराजस्य भवनं विविशाते सुपूजितौ॥ तावर्चयित्वा मघवा ततः कुशलमव्ययम्। पप्रच्छानामयं चापि तयोः सर्वगतं विभुः॥ नारद उवाच आवयोः कुशलं देव सर्वत्रगतमीश्वर। लोके च मघवन् कृत्स्ने नृपाः कुशलिनो विभो॥ बृहदश्व उवाच नारदस्य वचः श्रुत्वा पप्रच्छ बलवृत्रहा। धर्मज्ञाः पृथिवीपालास्त्यक्तजीवितयोधिनः॥ शस्त्रेण निधनं काले ये गच्छन्त्यपराङ्मुखाः। अयं लोकोऽक्षयस्तेषां यथैव मम कामधुक्॥ क्व नु ते क्षत्रियाः शूरा न हि पश्यामि तानहम्। आगच्छतो महीपालान् दयितानतिथीन् मम॥ एवमुक्तस्तु शक्रेण नारदः प्रत्यभाषत। नारद उवाच शृणु मे मघवन् येन न दृश्यन्ते महीक्षितः॥ विदर्भराज्ञो दुहिता दमयन्तीति विश्रुता। रूपेण समतिक्रान्ता पृथिव्यां सर्वयोषितः॥ तस्याः स्वयंवरः शक्र भविता न चिरादिव। तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः॥ तां रत्नभूतां लोकस्य प्रार्थयन्तो महीक्षितः। काक्षन्ति स्म विशेषेण बलवृत्रनिषूदन॥ सर्वे एतस्मिन् कथ्यमाने तु लोकपालाश्च साग्निकाः। आजग्मुर्देवराजस्य समीपममरोत्तमाः॥ ततस्ते सुश्रुवुः नारदस्य वचो महत्। श्रुत्वैव चाब्रुवन् हृष्टा गच्छामो वयमप्युत।॥ ततः सर्वे महाराज सगणा: सहवाहनाः। विदर्भानभिजग्मुस्ते यतः सर्वे महीक्षितः॥ नलोऽपि राजा कौन्तेय श्रुत्वा राज्ञां समागमम्। अभ्यगच्छददीनात्मा दमयन्तीमनुव्रतः॥ अथ देवाः पथि नलं ददृशुर्भूतले स्थितम्। साक्षादिव स्थितं मूर्त्या मन्मथं रूपसम्पदा॥ तं दृष्ट्वा लोकपालास्ते भ्राजमानं यथा रविम्। तस्युर्विगतसंकल्पा विस्मिता रूपसम्पदा॥ ततोऽन्तरिक्षे विष्टभ्य विमानानि दिवौकसः। अब्रुवन् नैषधं राजन्नवतीर्य नभस्तलात्॥ भो भो निषधराजेन्द्र नल सत्यव्रतो भवान्। अस्माकं कुरु साहाय्यं दूतो भव नरोत्तम॥ बृहदश्व उवाच तेभ्यः प्रतिज्ञाय नल: करिष्य इति भारत। अर्थतान् परिपप्रच्छ कृताञ्जलिरुपस्थितः॥ के वै भवन्तः कश्चासौ यस्याहं दूत ईप्सितः। किं च तद् वो मया कार्यं कथयध्वं यथातथम्॥ एवमुक्तो नैषधेन मघवानभ्यभाषत। अमरान् वै निबोधास्मान् दमयन्त्यर्थमागतान्॥ अहमिन्द्रोऽयमग्निश्च तथैवायमपां पतिः। शरीरान्तकरो नृणां यमोऽयमपि पार्थिव॥ त्वं वै समागतानस्मान् दमयन्त्यै निवेदय। लोकपाला महेन्द्राधाः समायान्ति दिदृक्षवः॥ प्राप्तुमिच्छन्ति देवास्त्वां शक्रोऽग्निर्वरुणो यमः। तेषामन्यतम् देवं पतित्वे वरयस्व ह॥ एवमुक्तः स शक्रेण नलः प्राञ्जलिरब्रवीत्। एकार्थं समुपेतं मां न प्रेषयितुमर्हथ॥ कथं तु जातसंकल्प: स्त्रियमुत्सृजते पुमान्। परार्थमीदृशं वक्तुं तत् क्षमन्तु महेश्वरराः॥ देवा ऊचुः करिष्य इति संश्रुत्य पूर्वमस्मासु नैषध। न करिष्यसि कस्मात् त्वं व्रज नैषध मा चिरम्॥ वृहदश्व उवाच एवमुक्तः स देवैस्तैर्नैषधः पुनरब्रवीत्। सुरक्षितानि वेश्मानि प्रवेष्टुं कथमुत्सहे॥ प्रवेक्ष्यसीति तं शक्रः पुनरेवाभ्यभाषत। जगाम स तथेत्युक्त्वा दमयन्त्या निवेशनम्॥ ददर्श तत्र वैदर्भी सखीगणसमावृताम्। श्रिया च वरवर्णिनीम्॥ देदीप्यमानां वपुषा अतीवसुकुमाराङ्गीं तनुमध्यां सुलोचनाम्। आक्षिपन्तीमिव प्रभां शशिनः स्वेन तेजसा॥ तस्य दृष्ट्वैव बवृधे कामस्तां चारुहासिनीम्। सत्यं चिकीर्षमाणस्तुधारयामास हच्छयम्॥ ततस्ता नैषधं दृष्ट्वा सम्भ्रान्ताः परमाङ्गनाः। आसनेभ्यः समुत्पेतुस्तेजसा तस्यधर्षिताः॥ प्रशशंसुश्च सुप्रीता नलं ता विस्मयान्विताः। न चैनमभ्यभाषन्त मनोभिस्त्वभ्यपूजयन्॥ अहो रूपमहो कान्तिरहोधैर्य महात्मनः। कोऽयं देवोऽथवा यक्षो गन्धर्वो वा भविष्यति॥ न तास्तं शक्नुवन्ति स्म व्याहर्तुमपि किंचन। तेजसाधर्षितास्तस्य लज्जावत्यो वराङ्गनाः॥ अथैनं स्मयमानं तु स्मितपूर्वाभिभाषिणी। दमयन्ती नलं वीरमभ्यभाषत विस्मिता॥ कस्त्वं सर्वानवद्याङ्ग मम हृच्छयवर्धन। प्राप्तोऽस्यमरवद् वीर ज्ञातुमिच्छामि तेऽनघ।॥ कथमागमनं चेह कथं चासि न लक्षितः। सुरक्षितं हि मे वेश्म राजा चैवोचशासनः॥ एवमुक्तस्तु वैदा नलस्तां प्रत्युवाच ह। नल उवाच नलं मां विद्धि कल्याणि देवदूतमिहागतम्॥ देवास्त्वां प्राप्तुमिच्छन्ति शक्रोऽचिर्वरुणो यमः। तेषामन्यतमं देवं पतिं वरय शोभने।॥ तेषामेव प्रभावेण प्रविष्टोऽहमलक्षितः। प्रविशन्तं न मां कश्चिदपश्यन्नाप्यवारयत्॥ एतदर्थमहं भद्रे प्रेषितः सुरसत्तमैः। एतच्छ्रुत्वा शुभे बुद्धिं प्रकुरुष्व यथेच्छसि॥ बृहदश्व उवाच सा नमस्कृत्य देवेभ्यः प्रहस्य नलमब्रवीत्। प्रणयस्व यथाश्रद्धं राजन् किं करवाणि ते॥ अहं चैव हि यच्चान्यन्ममास्ति वसु किंचन। तत् सर्वं तव विश्रब्धं कुरु प्रणयमीश्वर॥ हंसानां वचनं यत् तु तन्मां दहति पार्थिव। त्वत्कृते हि मया वीर राजानः संनिपातिता:॥ यदि त्वं भजमानां मां प्रत्याख्यास्यसि मानद। विषमग्नि जलं रज्जुमास्थास्ये तव कारणात्॥ एवमुक्तस्तु वैदा नलस्तां प्रत्युवाच हा तिष्ठत्सु लोकपालेषु कथं मानुषमिच्छसि॥ येषामहं लोककृतामीश्वराणां महात्मनाम्। न पादरजसा तुल्यो मनस्ते तेषु वर्तताम्॥ विप्रियं ह्याचरन् मयों देवानां मृत्युमृच्छति। त्राहि मामनवद्याङ्गि वरयस्व सुरोत्तमान्॥ विरजांसि च वासांसि दिव्याश्चित्रा: स्रजस्तथा। भूषणानि तु मुख्यानि देवान् प्राप्य तु भुक्ष्व वै॥ य इमां पृथिवीं कृत्स्नां संक्षिप्य चसते पुनः। हुताशमीशं देवानां का तं न वरयेत् पतिम्॥ यस्य दण्डभयात् सर्वे भूतग्रमाः समागताः। धर्ममेवानुरुध्यन्ति का तं न वरयेत् पतिम्॥ धर्मात्मानं महात्मानं दैत्यदानवमर्दनम्। महेन्द्रं सर्वदेवानां का तं न वरयेत् पतिम्॥ क्रियतामविशङ्केन मनसा यदि मन्यसे। वरुणं लोकपालानां सुहृद्वाक्यमिदं शृणु॥ नैषधेनैवमुक्ता सा दमयन्ती वचोऽब्रवीत्। समाप्लुताभ्यां नेत्राभ्यां शोकजेनाथ वारिणा॥ देवेभ्योऽहं नमस्कृत्य सर्वेभ्यः पृथिवीपते। वृणे त्वामेव भर्तारं सत्यमेतद् ब्रवीमि ते॥ तामुवाच ततो राजा वेपमानां कृताञ्जलिम्। दौत्येनागत्य कल्याणि तथा भद्रे विधीयताम्॥ कथं ह्यहं प्रतिश्रुत्य देवतानां विशेषतः। परार्थे यत्नमारभ्य कथं स्वार्थमिहोत्सहे॥ एषधर्मो यदि स्वार्थो ममापि भविता ततः। एवं स्वार्थं करिष्यामि तथा भद्रे विधीयताम्॥ ततो बाष्पाकुलां वाचं दमयन्ती शुचिस्मिता। प्रत्याहरन्ती शनकैर्नलं राजानमब्रवीत्॥ उपायोऽयं मया दृष्टो निरपायो नरेश्वर। येन दोषो न भविता तव राजन् कथंचन॥ त्वं चैव हि नरश्रेष्ठ देवाश्चन्द्रपुरोगमाः। आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः॥ ततोऽहं लोकपालानां संनिधौ त्वां नरेश्वर। वरयिष्ये नरव्याघ्र नैवं दोषो भविष्यति॥ एवमुक्तस्तु वैदा नलो राजा विशाम्पते। आजगाम पुनस्तत्र यत्र देवाः समागताः॥ तमपश्यंस्तथाऽऽयानं लोकपाला महेश्वराः। दृष्ट्वा चैनं ततोऽपृच्छन् वृत्तान्तं सर्वमेव तम्॥ कच्चिद् दृष्टा त्वया राजन् दमयन्ती शुचिस्मिता। किमब्रवीच्च नः सर्वान् वद भूमिप तेऽनघ॥ नल उवाच भवद्भिरहमादिष्टो दमयन्त्या निवेशनम्। प्रविष्टः सुमहाकक्षं दण्डिभिः स्थविरैर्वृतम्॥ प्रविशन्तं च मां तत्र न कश्चिद् दृष्टवान् नरः। ऋते तां पार्थिवसुतां भवतामेव तेजसा॥ सख्यश्चास्या मया दृष्टास्ताभिश्चाप्युपलक्षितः। विस्मिताश्चाभवन् सर्वा दृष्ट्वा मां विबुधेश्वराः॥ वर्ण्यमानेषु च मया भवत्सु रुचिरानना। मामेव गतसंकल्पा वृणीते सा सुरोत्तमाः॥ अब्रवीच्चैव मां बाला आयान्तु सहिताः सुराः। त्वया सह नरव्याघ्र मम यत्र स्वयंवरः॥ तेषामहं संनिधौ त्वां वरयिष्यामि नैषध। एवं तव महाबाहो दोषो न भवितेति ह॥ एतावदेव विबुधा यथावृत्तमुपाहृतम्। मयाशेषे प्रमाणं तु भवन्तस्त्रिदशेश्वराः॥ बृहदश्व उवाच अथ काले शुभे प्राप्ते तिथौ पुण्ये क्षणे तथा। आजुहाव महीपालान् भीमो राजा स्वयंवरे॥ तच्छ्रुत्वा पृथिवीपाला: सर्वे हृच्छयपीडिताः। त्वरिताः समुपाजग्मुर्दमयन्तीमभीप्सवः॥ कनकस्तभरुचिरं तोरणेन विराजितम्। विविशुस्ते नृपा रङ्गं महासिंहा इवाचलम्॥ तत्रासनेषु विविधेष्वासीनाः पृथिवीक्षितः। सुरभिस्रग्धराः सर्वे प्रमृष्टमणिकुण्डलाः॥ तां राजसमिति पुण्यां नागैर्भोगवतीमिव। सम्पूर्णां पुरुषव्याङ्ग्रा।गिरिगुहामिव॥ तत्र स्म पीना दृश्यन्ते बाहवः परिघोपमाः। आकारवर्णसुश्लक्ष्णाः पञ्चशीर्षा इवोरगाः॥ सुकेशान्तानि चारुणि सुनासाक्षिभ्रुवाणि च। मुखानि राज्ञां शोभन्ते नक्षत्राणि यथा दिवि॥ दमयन्ती ततो रङ्गं प्रविवेश शुभानना। मुष्णन्ती प्रभया राज्ञां चढूंषि च मनांसि च॥ तस्या गात्रेषु पतिता तेषां दृष्टिर्महात्मनाम्। तत्र तत्रैव सक्ताभून चचाल च पश्यताम्॥ ततः संकीर्त्यमानेषु राज्ञां नामसु भारत। ददर्श भैमी पुरुषान् पञ्चतुल्याकृतीनिह॥ तान् समीक्ष्य ततः सर्वान् निर्विशेषाकृती स्थितान। संदेहादथ वैदर्भी नाभ्यजानान्नलं नृपम्॥ यं यं हि ददृशे तेषां तं तं मेने नलं नृपम्। सा चिन्तयन्ती तर्कयामास भाविनी॥ बुद्ध्याथ कथं हि देवाञ्जानीयां कथं विद्यां नलं नृपम्। एवं संचिन्तयन्ती सा वैदर्भी भृशदुःखिता॥ श्रुतानि देवलिङ्गानि तर्कयामास भारत। देवानां यानि लिङ्गानि स्थविरेभ्यः श्रुतानि मे॥ तानीह तिष्ठतां भूमावेकस्यापि न लक्षये। सा विनिश्चित्य बहुधा विचार्य च पुनः पुनः॥ शरणं प्रति देवानां प्राप्तकालममन्यत। वाचा च मनसा चैव नमस्कारं प्रयुज्य सा॥ देवेभ्यः प्राञ्जलिर्भूत्वा वेपमानेदमब्रवीत्। हंसानां वचनं श्रुत्वा यथा मे नैषधो वृतः। पतित्वे तेन सत्येन देवास्तं प्रदिशन्तु मे॥ मनसा वचसा चैव यथा नाभिचराम्यहम्। तेन सत्येन विबुधास्तमेव प्रदिशन्तु मे॥ यथा देवैः स मे भर्ता विहितो निषधाधिपः। तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे॥ यथेदं व्रतमारब्धं नलस्याराधने मया। तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे॥ स्वं चैव रूपं कुर्वन्तु लोकपाला महेश्वराः। यथाहमभिजानीयां पुण्यश्लोकं नराधिपम्॥ निशम्य दमयन्त्यास्तत् करुणं प्रतिदेवितम्। निश्चयं परमं तथ्यमनुरागं च नैषधे॥ मनोविशुद्धिं बुद्धिं च भक्तिं रागं च नैषधे। यथोक्तं चक्रिरे देवाः सामर्थ्य लिङ्गधारणे॥ सापश्यद् विबुधान् सर्वानस्वेदान् स्तब्धलोचनान्। हृषितस्रग्रजोहीनान् स्थितानस्पृशतः क्षितिम्॥ छायाद्वितीयो म्लानस्रग्रजः स्वेदसमन्वितः। भूमिष्ठो नैषधश्चैव निमेषेण च सूचितः॥ सा समीक्ष्य तु तान् देवान् पुण्यश्लोकं च भारत। नैषधं वरयामास भैमीधर्मेण पाण्डव॥ विलज्जमाना वस्त्रान्तं जग्राहायतलोचना। स्कन्ध देशेऽसृजत् तस्य स्रजं परमशोभनाम्॥ वरयामास चैवैनं पतित्वे वरवर्णिनी। ततो हाहेति सहसा मुक्तः शब्दो नराधिपः॥ देवैर्महर्षिभिस्तत्र साधु साध्विति भारत। विस्मितैरीरितः शब्दः प्रशंसद्भिर्नलं नृपम्॥ दमयन्तीं तु कौरव्य वीरसेनसुतो नृपः। आश्वासयद् वरारोहां प्रहृष्टेनान्तरात्मना।॥ तस्मान्मां विद्धि भर्तारमेवं ते वचने रतम्॥ यावच्च मेधरिष्यन्ति प्राणा देहे शुचिस्मिते। तावत् त्वयि भविष्यामि सत्यमेतद् ब्रवीमि ते॥ दमयन्ती तथा वाग्भिरभिनन्द्य कृताञ्जलिः। तौ परस्परतः प्रीतौ दृष्ट्वा त्वग्निपुरोगमान्॥ तानेव शरणं देवाञ्जग्मतुर्मनसा तदा। वृते तु नैषधे भैम्या लोकपाला महौजसः॥ प्रहृष्टमनसः सर्वे नलायाष्टौ वरान् ददुः। प्रत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम्॥ नैषधाय ददौ शक्रः प्रीयमाणः शचीपतिः। अग्निरात्मभवं प्रादाद् यत्र वाञ्छति नैषधः॥ लोकानात्मप्रभांश्चैव ददौ तस्मै हुताशनः। यमस्त्वन्नरसं प्रादाद्धर्म च परमां स्थितिम्॥ अपां पतिरपां भावं यत्र वाञ्छति नैषधः। स्रजश्चोत्तमगन्धाढ्याः सर्वे च मिथुनं ददुः॥ वरानेवं प्रदायास्य देवास्ते त्रिदिवं गताः। पार्थिवाश्चानुभूयास्य विवाहं विस्मयान्विताः॥ दमयन्त्याश्च मुदिताः प्रतिजग्मुर्यथागतम्। गतेषु पार्थिवेन्द्रेषु भीमः प्रीतो महामनाः॥ विवाहं कारयामास दमयन्त्या नलस्य च। उष्य तत्र यथाकामं नैषधो द्विपदां वरः॥ भीमेन समनुज्ञातो जगाम नगरं स्वकम्। अवाप्य नारीरत्नं तु पुण्यश्लोकोऽपि पार्थिवः॥ रेमे सह तया राजञ्छच्येव बलवृत्रहा। अतीव मुदितो राजा भ्राजमानोंऽशुमानिव॥ अरञ्जयत् प्रजा वीरोधर्मेण परिपालयन्। ईजे चाप्यश्वमेधेन ययातिरिव नाहुषः॥ अन्यैश्च बहुभिर्धीमान् क्रतुभिश्चातदक्षिणैः। पुनश्च रमणीयेषु वनेषूपवनेषु च॥ दमयन्त्या सह नलो विजहारामरोपमः। जनयामास च ततो दमयन्त्यां महामनाः। इन्द्रसेनं सुतं चापि इन्द्रसेनां च कन्यकाम्॥ एवं स यजमानश्च विहरंश्च नराधिपः। ररक्ष वसुसम्पूर्णां वसुधां वसुधाधिपः॥ बृहदश्व उवाच वृते तु नैषधे भैम्या लोकपाला महौजसः। यान्तो ददृशुरायान्तं द्वापरं कलिना सह॥ अथाब्रवीत् कलिं शक्रः सम्प्रेक्ष्य बलवृत्रहा। द्वापरेण सहायेन कले ब्रूहि क्व यास्यसि॥ ततोऽब्रवीत् कलिः शक्रं दमयन्त्याः स्वयंवरम्। गत्वा हि वरयिष्ये तां मनो हि मम तां गतम्॥ तमब्रवीत् प्रहस्येन्द्रो निर्वृत्तः स स्वयंवरः। वृतस्तया नलो राजा पतिरस्मत्समीपतः॥ एवमुक्तस्तु शक्रेण कलिः कोपसमन्वितः। देवानामन्त्र्य तान् सर्वानुवाचेदं वचस्तदा॥ देवानां मानुषं मध्ये यत् सा पतिमविन्दत। ततस्तस्या भवेन्न्याय्यं विपुलं दण्डधारणम्॥ एवमुक्ते तु कलिना प्रत्यूचुस्ते दिवौकसः। अस्माभिः समनुज्ञाते दमयन्त्या नलो वृतः॥ का च सर्वगुणोपेतं नाश्रयेत नलं नृपम्। यो वेदधर्मानखिलान् यथावच्चरितव्रतः॥ योऽधीते चतुरो वेदान् सर्वानाख्यानपञ्चमान्। नित्यं तृप्ता गृहे यस्य देवा यज्ञेषुधर्मतः। अहिंसानिरतो यश्च सत्यवादी दृढव्रतः॥ यस्मिन् दाक्ष्यंधृतिर्ज्ञानं तपः शौचं दमः शमः। ध्रुवाणि पुरुषव्याने लोकपालसमे नृपे॥ एवंरूपं नलं यो वै कामयेच्छपितुं कले। आत्मानं स शपेन्मूढो हन्यादात्मानमात्मना॥ एवंगुणं नलं यो वै कामयेच्छपितुं कले। कृच्छ्रे स नरके मज्जेदगाधे विपुले ह्रदे। एवमुक्त्वा कलिं देवा द्वापरं च दिवं ययुः॥ ततो गतेषु देवेषु कलिपरमब्रवीत्। संहर्तुं नोत्सहे कोपं नले वत्स्यामि द्वापर॥ भ्रंशयिष्यामि तं राज्यान्न भैम्या सह रंस्यते। त्वमप्यक्षान् समाविश्य साहाय्यं कर्तुमर्हसि॥ बृहदश्व उवाच एवं स समयं कृत्वा द्वापरेण कलिः सह। आजगाम ततस्तत्र यत्र राजा स नैषधः॥ स नित्यमन्तरप्रेप्सुनिषधेष्ववसच्चिरम्। अथास्य द्वादशे वर्षे ददर्श कलिरन्तरम्॥ कृत्वा मूत्रमुपस्पृश्य संध्यामन्वास्त नैषधः। अकृत्वा पादयोः शौचं तत्रै कलिराविशत्॥ स समाविश्य च नलं समीपं पुष्करस्य च। गत्वा पुष्करमाहेदमेहि दीव्य नलेन वै॥ अक्षयूते नलं जेता भवान् हि सहितो मया। निषधान् प्रतिपद्यस्व जित्वा राज्यं नलं नृपम्॥ एवमुक्तस्तु कलिना पुष्करो नलमभ्ययात्। कलिश्चैव वृषो भूत्वा गवां पुष्करमभ्ययात्॥ आसाद्य तु नलं वीरं पुष्करः परवीरहा। दीव्यावेत्यब्रवीद् भ्राता वृषेणेति मुहुर्मुहुः।। न चक्षमे ततो राजा समाह्वानं महामनाः। वैदाः प्रेक्षमाणायाः पणकालममन्यत॥ हिरण्यस्य सुवर्णस्य यानयुग्यस्य वाससाम्। आविष्टः कलिना द्यूते जीयते स्म नलस्तदा॥ तमक्षमदसम्मत्तं सुहृदां न तु कश्चन। निवारणेऽभवच्छतो दीव्यमानमरिदमम्॥ ततः पौरजनाः सर्वे मन्त्रिभिः सह भारत। राजानं द्रष्टुमागच्छन् निवारयितुमातुरम्॥ तत: सूत उपागम्य दमयन्त्यै न्यवेदयत्। पौरजनो देवि द्वारि तिष्ठति कार्यवान्॥ निवेद्यतां नैषधाय सर्वाः प्रकृतयः स्थिताः। अमृष्यमाणा व्यसनं राज्ञोधर्मार्थदर्शिनः॥ ततः सा बाष्पकलया वाचा दुःखेन कर्शिता। उवाच नैषधं भैमी शोकोपहतचेतना॥ राजन् पौरजनो द्वारि त्वां दिदृक्षुरवस्थितः। मन्त्रिभिः सहितः सर्वे राजभक्तिपुरस्कृतः॥ तं द्रष्टुमर्हसीत्येवं पुनः पुनरभाषत। तां तथा रुचिरापाङ्गी विलपन्तीं तथाविधाम्॥ आविष्टः कलिना राजा नाभ्यभाषत किंचन। ततस्ते मन्त्रिणः सर्वे ते चैव पुरवासिनः॥ नायमस्तीति दुःखार्ता वीडिता जग्मुरालयान्। तथा तदभवद् द्यूतं पुष्करस्य नलस्य च। युधिष्ठिर बहून् मासान् पुण्यश्लोकस्त्वजीयत॥ बृहदश्व उवाच दमयन्ती ततो दृष्ट्वा पुण्यश्लोकं नराधिपम्। उन्मत्तवदनुन्मत्ता देवने गतचेतसम्॥ भयशोकसमाविष्टा राजन् भीमसुता ततः। चिन्तयामास तत् कार्यं सुमहत् पार्थिवं प्रति॥ सा शङ्कमाना तत् पापं चिकीर्षन्ती च तत्प्रियम्। नलं च हृतसर्वस्वमुपलभ्येदमब्रवीत्॥ बृहत्सेनामतियशां तांधात्री परिचारिकाम्। हितां सर्वार्थकुशलामनुरक्तां सुभाषिताम्॥ बृहत्सेने व्रजामात्यानानाय्य नलशासनात्। आचक्ष्व यद्भूतं द्रव्यमवशिष्टं च यद् वसु॥ ततस्ते मन्त्रिणः सर्वे विज्ञाय नलशासनम्। अपि नो भागधेयं स्यादित्युक्त्वा नलमाव्रजन्॥ तास्तु सर्वाः प्रकृतयो द्वितीयं समुपस्थिताः। न्यवेदयद् भीमसुता न च तत् प्रत्यनन्दत॥ वाक्यमप्रतिनन्दन्तं भर्तारमभिवीक्ष्य सा। दमयन्ती पुनर्वेश्म वीडिता प्रविवेश ह॥ निशम्य सततं चाक्षान् पुण्यश्लोकपराङ्मुखान्। नलं च हृतसर्वस्वंधात्री पुनरुवाच ह॥ बृहत्सेने पुनर्गच्छ वार्ष्णेयं नलशासनात्। सूतमानय कल्याणि महत् कार्यमुपस्थितम्॥ बृहत्सेना तु सा श्रुत्वा दमयन्त्याः प्रभाषितम्। वार्ष्णेयमानयामास पुरुषैराप्तकारिभिः॥ वार्ष्णेयं तु ततो भैमी सान्त्वयश्लक्ष्णया गिरा। उवाच देशकालज्ञा प्राप्तकालमनिन्दिता॥ जानीषे त्वं यथा राजा सम्यग् वृत्तः सदा त्वयि। तस्य त्वं रिषमस्थस्य साहाय्यं कर्तुमर्हसि॥ यथा यथा हि नृपतिः पुष्करेणैव जीयते। तथा तथास्य वै छूते रागो भूयोऽभिवर्धते॥ यथा च पुष्करस्याक्षाः पतन्ति वशवर्तिनः। तथा विपर्ययश्चापि नलस्याक्षेषु दृश्यते॥ सुहृत्स्वजनवाक्यानि यथावन्न शृणोति च। ममापि च तथा वाक्यं नाभिनन्दति मोहितः॥ नूनं मन्ये न दोषोऽस्ति नैषधस्य महात्मनः। यत् तु मे वचनं राजा नाभिनन्दति मोहितः॥ शरणं त्वां प्रपन्नास्मि सारथे कुरु मद्वचः। न हि मे शुध्यते भावः कदाचिद् विनशेदपि॥ नलस्य दयितानश्वान् योजयित्वा मनोजवान्। इदमारोप्य मिथुनं कुण्डिनं यातुमर्हसि॥ मम ज्ञातिषु निक्षिप्य दारको स्यन्दनं तथा। अश्वांश्चमान् यथाकामं वस वान्यत्र गच्छ वा॥ दमयन्त्यास्तु तद् वाक्यं वार्ष्णेयो नलसारथिः। न्यवेदयशेषेण नलामात्येषु मुख्यशः॥ तैः समेत्य विनिश्चित्य सोऽनुज्ञातो महीपते। ययौ मिथुनमारोग्य विदर्भास्तेन वाहिना॥ हयांस्तत्र विनिक्षिप्य सूतो रथवरं च तम्। इन्द्रसेनां च तां कन्यामिन्द्रसेनं च बालकम्॥ आमन्त्र्य भीमं राजानमार्तः शोचन् नलं नृपम्। अटमानस्ततोऽयोध्या जगाम नगरी तदा॥ ऋतुपर्णं स राजानमुपतस्थे सुदुःखितः। भृति चोपययौ तस्य सारथ्येन महीपते॥ नल उवाच यथा राज्यं तव पितुस्तथा मम न संशयः। न तु तत्र गमिष्यामि विषमस्थः कथंचन॥ कथं समृद्धो गत्वाहं तव हर्षविवर्धनः। परिच्युतो गमिष्यामि तव शोकविवर्धनः॥ बृहदश्व उवाच इति ब्रुवन् नलो राजा दमयन्तीं पुनः पुनः। सान्त्वयामास कल्याणी वाससोऽर्धेन संवृताम्॥ तावेकवस्त्रसंवीतावटमानावितस्ततः। क्षुत्पिपासापरिश्रान्तौ सभां कांचिदुपेयतुः॥ तां सभामुपसम्प्राप्य तदा स निषधाधिपः। वैदा सहितो राजा निषसाद महीतले॥ स वै विवस्त्रो विकटो मलिनः पांसुगुण्ठितः। दमयन्त्या सह श्रान्तः सुष्वापधरणीतले॥ दमयन्त्यपि कल्याणी निद्रयापहृता ततः। सहसा दुःखमासाद्य सुकुमारी तपस्विनी॥ सुप्तायां दमयन्त्यां तु नलो राजा विशाम्यते। शोकोन्मथितचित्तात्मा न स्म शेते तथा पुरा॥ स तद् राज्यापहरणं सुहृत्त्यागं च सर्वशः। वने च तं परिध्वंसं प्रेक्ष्य चिन्तामुपेयिवान्॥ नु किं मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः। किं नु मे मरणं श्रेयः परित्यागो जनस्य वा॥ मामियं हनुरक्तवं दुःखमाप्नोति मत्कृते। मद्विहीना त्वियं गच्छेत् कदाचित् स्वजनं प्रति॥ मयि नि:संशयं दुःखमियं प्राप्स्यत्यनुव्रता। उत्सर्गे संशयः स्यात् तु विन्देतापि सुखं क्वचित्।। स विनिश्चित्य बहुधा विचार्य च पुनः पुनः। उत्सर्ग मन्यते श्रेयो दमयन्त्या नराधिप॥ न चैषा तेजसा शक्या कैश्चिद्धर्षयितुं पथि। यशस्विनी महाभागा मद्भक्तेयं पतिव्रता॥ एवं तस्य तदा बुद्धिर्दमयन्त्यां न्यवर्तत। कलिना दुष्टभावेन दमयन्त्या विसर्जने।॥ सोऽवस्त्रताममात्मनश्च तस्याश्चाप्येकवस्त्रताम्। चिन्तयित्वाध्यगाद् राजा वस्त्रार्धस्यावकर्तनम्॥ कथं वासो विकर्तेयं न च बुध्येत मे प्रिया। विचिन्त्यैवं नलो राजा सभां पर्यचरत्तदा॥ परिधावनथ नल इतश्चेतश्च भारत। आससाद सभोद्देशे विकोशं खङ्गमुत्तमम्॥ तेनार्धं वाससश्छित्त्वा निवस्य च परंतपः। सुप्तामुत्सृज्य वैदर्भी प्राद्रवद् गतचेतनाम्॥ ततो निवृत्तहृदयः पुनरागम्य तां सभाम्। दमयन्तीं तदा दृष्ट्वा सरोद निषधाधिपः॥ यां न वायुर्न चादित्यः पुरा पश्यति मे प्रियाम्। सेयमद्य सभामध्ये शेते भूमावनाथवत्॥ इयं वस्त्रावकर्तेन संवीता चारुहासिनी। उन्मत्तेव वरारोहा कथं बुद्ध्वा भविष्यति॥ कथमेका सती भैमी मया विरहिता शुभा। चरिष्यति वने घोरे मृगव्यालनिषेविते॥ आदित्या वसवो रुद्रा अश्विनौ समरुद्गणौ। रक्षन्तु त्वां महाभागेधर्मेणासि समावृता॥ एवमुक्तवा प्रियां भार्यां रूपेणाप्रतिमां भुवि। कलिनापहतज्ञानो नलः प्रातिष्ठदुद्यतः॥ गत्वा गत्वा नलो राजा पुनरेति सभां मुहुः। आकृष्यमाणः कलिना सौहृदेनावकृष्यते॥ द्विधेव हृदयं तस्य दुःखितस्याभवत् तदा। दोलेव मुहुरायाति याति चैव सभां प्रति॥ अवकृष्टस्तु कलिना मोहितः प्राद्रवन्नलः। सुप्तामुत्सृज्य तां भार्यां विलप्य करुणं बहु॥ नष्टात्मा कलिना स्पृष्टस्तत् तद् विगणयन् नृपः। जगामैकां वने शून्ये भार्यामुत्सृज्य दुःखितः॥ वृहदश्व उवाच अपक्रान्ते नले राजन् दमयन्ती गतक्लमा। अबुध्यत वरारोहा संत्रस्ता विजने वने॥ अपश्यमाना भर्तारं शोकदुःखसमन्विता। प्राक्रोशदुच्चैः संत्रस्ता महाराजेति नैषधम्॥ हा नाथ हा महाराज हा स्वामिन् किं जहासि माम् हा हतास्मि विनष्टास्मि भीतास्मि विजने वने॥ ननु नाम महाराजधर्मज्ञः सत्यवागसि। कथमुक्त्वा तथा सत्यं सुप्तामुत्सृज्य कानने॥ कथमुत्सृज्य गन्तासि दक्षां भार्यामनुव्रताम्। विशेषतोऽनपकृते परेणापकृते सति॥ शक्यसे ता गिरः सम्यक् कर्तुं मयि नरेश्वर। यास्तेषां लोकपालानां संनिधौ कथिताः पुरा॥ नाकाले विहितो मृत्युर्मानां पुरुषर्षभ। तत्र कान्ता त्वयोत्सृष्टा मुहूर्तमपि जीवति॥ पर्याप्तः परिहासोऽयमेतावान् पुरुषर्षभ। भीताहमतिदुर्धर्ष दर्शयात्मानमीश्वर॥ दृश्यसे दृश्यसे राजन्नेष दृष्टोऽसि नैषध। आवार्य गुल्मैरात्मानं किं मां न प्रतिभाषसे॥ नृशंसं बत राजेन्द्र यन्मामेवंगतामिह। विलपन्तीं समागम्य नाश्वासयसि पार्थिव॥ न शोचाम्यहमात्मानं न चान्यदपि किंचन। कथं नु भवितास्येक इति त्वां नृप शोचिमि॥ कथं नु राजंस्तृषितः क्षुधितः श्रमकर्षितः। सायाह्ने वृक्षमूलेषु मामपश्यन् भविष्यसि॥ ततः सा तीव्रशोकार्ता प्रदीप्तेव च मन्युना। इतश्चेतश्च रुदती पर्यधावत दुःखिता॥ मुहुरुत्पतते बाला मुहुः पतति विह्वला। मुहुरालीयते भीता मुहुः क्रोशति रोदिति॥ अतीव शोकसंतप्ता मुहुनि:श्वस्य विह्वला। उवाच भैमी निःश्वस्य रुदत्यथ पतिव्रता॥ यस्याभिशापाद् दुःखार्तो दुःखं विन्दति नैषधः। तस्य भूतस्य नो दुःखाद् दुःखमप्यधिकं भवेत्॥ अपापचेतसं पापो य एवं कृतवान् नलम्। तस्माद् दुःखतरं प्राप्य जीवत्वसुखजीविकाम्॥ एवं तु विलपन्ती सा राज्ञो भार्या महात्मनः। अन्वेषमाणा भर्तारं वने श्वापदसेविते॥ उन्मत्तवद् भीमसुता विलपन्ती इतस्ततः। हा हा राजनिति मुहुरितश्चेतश्चधावति॥ तां क्रन्दमानामत्यर्थं कुररीमिव वाशतीम्। करुणं बहु शोचन्तीं विलपन्तीं मुहुर्मुहुः सहसाभ्यागतां भैमीमभ्याशपरिवर्तिनीम्। जग्राहाजगरो ग्राहो महाकायः क्षुधान्वितः॥ सा ग्रस्यमाना ग्राहेण शोकेन च परिप्लुता। नात्मानं शोचति तथा यथा शोचति नैषधम्॥ हा नाथ मामिह वने ग्रस्यामानामनाथवत्। ग्राहेणानेन विजने किमर्थं नानुधावसि॥ कथं भविष्यसि पुनर्मामनुस्मृत्य नैषधा कथं भवाञ्जगामाद्य मामुत्सृज्य वने प्रभो॥ पापान्मुक्तः पुनर्लब्ध्वा बुद्धिं चेतोधनानि च। श्रान्तस्य ते क्षुधार्तस्य परिग्लानस्य नैषध। कः श्रमं राजशार्दूल नाशयिष्यति तेऽनघ॥ ततः कश्चिन्मृगव्याधो विचरन् गहने वने। आक्रन्दमानां संश्रुत्य जवेनाभिससार ह॥ तां तु दृष्ट्वा तथा ग्रस्तामुरगेणायतेक्षणाम्। त्वरमाणो मृगव्याधः समभिक्रम्य वेगतः॥ मुखतः पाटयामास शस्त्रेण निशितेन च। निर्विचेष्टं भुजङ्गं तं विशस्य मृगजीवनः॥ मोक्षयित्वा स तां व्याधः प्रक्षाल्य सलिलेन ह। समाश्वास्य कृताहारामथ पप्रच्छ भारत॥ कस्य त्वं मृगशावाक्षि कथं चाभ्यागता वनम्। कथं चेदं महत् कृच्छ्रे प्राप्तवत्यसि भाविनि॥ दमयन्ती तथा तेन पृच्छ्यमाना विशाम्यते। सर्वमेतद् यथावृत्तमाचचक्षेऽस्य भारत॥ तामर्धवस्त्रसंवीतां पीनश्रोणिपोधराम्। सुकुमारानवद्याडी पूर्णचन्द्रनिभाननाम्॥ अरालपक्ष्मनयनां तथा मधुरभाषिणीम्। लक्षयित्वा मृगव्याधः कामस्य वशमीयिवान्॥ तामेवं श्लक्ष्णया वाचा लुब्धको मृदुपूर्वया। सान्त्वयामास कामार्तस्तदबुध्यत भाविनी॥ दमयन्त्यपि तं दुष्टमुपलभ्य पतिव्रता। तीव्ररोषसमाविष्टा प्रजज्वालेव मन्युना॥ स तु पायमतिः क्षुद्रः प्रधर्षयितुमातुरः। दुर्धर्षां तर्कयामासा दीप्तामग्निशिखामिव॥ दमयन्ती तु दुःखार्ता पतिराज्यविनाकृता। अतीतवाक्पथे काले शशापैनं रुषान्विता॥ यद्यहं नैषधादन्यं मनसापि न चिन्तये। तथायं पततां क्षुद्रो परासुर्मुगजीवनः॥ उक्तमात्रे त वचने तथा स मृगजीवनः। व्यसुः पपात मेदिन्यामग्निदग्ध इव दुमः॥ बृहदश्व उवाच सा निहत्य मृगव्याधं प्रतस्थे कमलेक्षणा। वनं प्रतिभयं शून्यं झिल्लिकागणनादितम्॥ सिंहद्वीपिरुरुव्याघ्रमहिषर्क्षगणैर्युतम्। नानापक्षिगणाकीर्णं म्लेच्छतस्करसेवितम्॥ शालवेणुधवाश्वत्थतिन्दुकेगदकिंशुकैः। अर्जुनारिष्टसंछन्नं स्यन्दनैश्च सशाल्मलैः॥ जम्ब्वाम्रलोध्रखदिरसालवेत्रसमाकुलम्। पद्मकामलकप्लक्षकदम्बोदुम्बरावृतम्॥ बदरीबिल्वसंछन्नं न्यग्रोधैश्च समाकुलम्। प्रियालतालखर्जूरहरीतकबिभीतकैः॥ नानाधानुशतैर्नद्धान् विविधानपि चाचलान्। निकुञ्जान् परिसंघुष्टान् दरीश्चाद्भुतदर्शनाः॥ नदीः सरांसि वापीश्च विविधांश्च मृगद्विजान्। सा बहून् भीमरूपांश्च पिशाचोरगराक्षसान्॥ पल्वलानि तडागानि गिरिकूटानि सर्वशः। सरितो निर्झराश्चैव ददर्शाद्भुतदर्शनान्॥ यूथशो ददृशे चात्र विदर्भाधिपनन्दिनी। महिषांश्च वराहांश्च ऋक्षांश्च वनपन्नगान्॥ तेजसा यशसा लक्ष्म्या स्थित्या च परया युता। वैदर्भी विचरत्येका नलमन्वेषती तदा॥ नाबिभ्यत् सा नृपसुता भैमी तत्राथ कस्यचित्। दारुणामटवीं प्राप्य भर्तृव्यसनपीडिता॥ विदर्भतनया राजन् विललाप सुदुःखिता। भर्तृशोकपरीताङ्गी शिलातलमथाश्रिता॥ दमयन्त्युवाच व्यूढोरस्क महाबाहो नैषधानां जनाधिप। क्व नु राजन् गतोऽस्यद्य विसृज्यविजने वने॥ अश्वमेधादिभिर्वीर क्रतुभिर्भूरिदक्षिणैः। कथमिष्ट्वा नरव्याघ्र मयि मिथ्या प्रवर्तसे॥ यत् त्वयोक्तं नरश्रेष्ठ तत् समक्षं महाद्युते। स्मर्तुमर्हसि कल्याणा वचनं पार्थिवर्षभ॥ यच्चोक्तं विहगैर्हसैः समीपे तव भूभिप। मत्समक्षं यदुक्तं च तदवेक्षितुमर्हसि॥ चत्वार एकतो वेदाः साङ्गोपाङ्गाः सविस्तराः। स्वधीता मनुजव्याघ्र सत्यमेकं किलैकतः॥ तस्मादर्हसि शत्रुघ्न सत्यं कर्तुं नरेश्वर। उक्तवानसि यद् वीर मत्सकाशे पुरा वचः॥ हा वीर नल नामाहं नष्टा किल तवानघा अस्यामटव्यां घोरायां किं मां न प्रतिभाषसे॥ कर्षयत्येष मां रौद्रो व्यात्तास्यो दारुणाकृतिः। अरण्यराट् क्षुधाविष्टः किं मां न त्रातुमर्हसि॥ न मे त्वदन्या काचिद्धि प्रियास्तीत्यब्रवीः सदा। तामृतां कुरु कल्याण पुरोक्तां भारती नृप॥ उन्मत्तां विलपन्ती मां भार्यामिष्टां नराधिप। ईप्सितामीप्सितोऽसि त्वं किं मां न प्रतिभाषसे॥ कृशां दीनां विवर्णां च मलिनां वसुधाधिय। वस्त्रार्धप्रावृतामेकां विलपन्तीमनाथवत॥ यूथभ्रष्टामिवैकां मां हरिणीं पृथुलोचन। न मानयसि मामार्य रुदन्तीमरिकर्शन॥ महाराज महारण्ये अहमेकाकिनी सती। दमयन्त्यभिभाषे त्वां किं मां न प्रतिभाषसे।॥ कुलशीलोपसम्पन्न चारुसर्वाङ्गशोभन। नाद्य त्वां प्रतिपश्यामि गिरावस्मिन् नरोत्तम॥ वने चास्मिन् महाघोरे सिंहव्याघ्रनिषेविते। शयानमुपविष्टं वा स्थितं वा निषधाधिय॥ प्रस्थितं वा नरश्रेष्ठ मम शोकविवर्धन। कं नु पृच्छामि दुःखार्ता त्वदर्थे शोककर्शिता॥ कच्चिद् दृष्टस्त्वयारण्ये संगत्येह नलो नृपः। को नु मे वाथ प्रष्टव्यो वनेऽस्मिन् प्रस्थितं नलम्॥ अभिरूपं महात्मानं परव्यूहविनाशनम्। यमन्वेषसि राजानं नलं पद्मनिभेक्षणम्॥ अयं स इति कस्याद्य श्रोष्यामि मधुरां गिरम्। अरण्यराडयं श्रीमांश्चतुर्दष्ट्रो महाहनुः॥ शार्दूलोऽभिमुखोऽभ्येति व्रजाम्येनमशङ्किता। भवान् मृगाणामधिपस्त्वमस्मिन् कानने प्रभुः॥ विदर्भराजतनयां दमयन्तीति विद्धि माम्। निषधाधिपतेर्भार्यां नलस्यामित्रघातिनः॥ पतिमन्वेषतीमेकां कृपणां शोककर्शिताम्। आश्वासय मृगेन्द्रेह यदि दृष्टस्त्वया नलः॥ अथवा त्वं वनपते नलं यदि न शंससि। मां खादय मृगश्रेष्ठ दुःखादस्माद् विमोचय॥ श्रुत्वारण्ये विलपितं न मामाश्वासयत्ययम्। यात्येतां स्वादुसलिलामापगां सागरंगमाम्॥ इमं शिलोच्चयं पुण्यं शृङ्गैर्बहुभिरुच्छ्रितैः। विराजद्भिरिवानेकै कवणमनोरमैः॥ नानाधातुसमाकीर्णं विविधोपलभूषितम्। अस्यारण्यस्य महतः केतुभूतमिवोत्थितम्॥ सिंहशार्दूलमातङ्गवराह‘मृगायुतम्। पतत्रिभिर्बहुविधैः समन्तादनुनादितम्॥ किंशुकाशोकबकुलपुन्नागैरुपशोभितम्। कर्णिकारधवप्लक्षैः सुपुष्पैरुपशोभितम्॥ सरिद्भिः सविहङ्गाभिः शिखरैश्च समाकुलम्। गिरिराजमिमं तावत् पृच्छामि नृपतिं प्रति॥ भगवनचलश्रेष्ठ दिव्यदर्शन विश्रुत्। शरण्य बहुकल्याण नमस्तेऽस्तु महीधर॥ प्रणमाम्यभिगम्याहं राजपुत्रीं निबोध माम्। राज्ञः स्नुषां राजभार्यां दमयन्तीति विश्रुताम्॥ राजा विदर्भाधिपति: पिता मम महारथः। भीमो नाम क्षितिपतिश्चातुर्वर्ण्यस्य रक्षिता॥ राजसूयाश्वमेधानां क्रतूनां दक्षिणावताम्। आहर्ता पार्थिवश्रेष्ठः पृथुचार्वञ्चितेक्षणः॥ ब्रह्मण्यः साधुवृत्तश्च सत्यवागनसूयकः। शीलवान् वीर्यसम्पन्नः पृथुश्रीधर्मविच्छुचिः॥ सम्यग् गोप्ता विदर्भाणां निर्जितारिगणः प्रभुः। तस्य मां विद्धि तनयां भगवंस्त्वामुपस्थिताम्॥ निषधेषु महाराजः श्वशुरो मे नरोत्तमः। गृहीतनामा विख्यातो वीरसेन इति स्म ह॥ तस्य राज्ञः सुतो वीरः श्रीमान् सत्यपराक्रमः। क्रमप्राप्तं पितुः स्वं यो राज्यं समनुशास्ति ह॥ नलो नामारिहा श्यामः पुण्यश्लोक इति श्रुतः। ब्रह्मण्यो वेदविद् वाग्मी पुण्यकृत् सोमपोऽग्निमान्।। यष्टा दाता च योद्धा च सम्यक् चैव प्रशासिता। तस्य मामबलां श्रेष्ठां विद्धि भार्यामिहागताम्॥ त्यक्तश्रियं भर्तृहीनामनाथां व्यसनान्विताम्। अन्वेषमाणां भर्तारं त्वं मां पर्वतसत्तम॥ समुल्लिखद्भिरेतैर्हि त्वया शृङ्गशतैर्नृपः। कच्चिद् दृष्टोऽचलश्रेष्ठ वनेऽस्मिन् दारुणेनलः॥ गजेन्द्रविक्रमोधीमान् दीर्घबाहुरमर्षणः। विक्रान्तः सत्त्ववान् वीरो भर्ता मम महायशाः॥ निषधानामधिपतिः कच्चिद् दृष्टस्त्वया नलः। विपलतीं किमेकां मां पर्वतश्रेष्ठ विह्वलाम्॥ गिरानाश्वासयस्यद्य स्वां सुतामिव दुःखिताम्। वीर विक्रान्तधर्मज्ञ सत्यसंध महीपते॥ यद्यस्यस्मिन् वने राजन् दर्शयात्मानमात्मना। कदा सुस्निग्धगम्भीरां जीमूतस्वनसंनिभाम्॥ श्रोष्यामि नैषधस्याहं वाचं ताममृतोपमाम्। वैदर्भीत्येव विस्पष्टां शुभां राज्ञो महात्मनः॥ आम्नायसारिणीमृद्धां मम शोकविनाशिनीम्। भीतामाश्वासयत मां नृपतेधर्मवत्सल॥ इति सा तं गिरिश्रेष्ठमुक्त्वा पार्थिवनन्दिनी। दमयन्ती ततो भूयो जगाम दिशमुत्तराम्॥ सा गत्वा तीनहोरात्रान् ददर्श परमाङ्गना। तापसारण्यमतुलं दिव्यकाननशोभितम्॥ वसिष्ठभृग्वत्रिसमैस्तापसैरुपशोभितम्। नियतैः संयताहारैर्दमशौचसमन्वितैः॥ अब्भक्षैर्वायुभक्षैश्च पत्राहारैस्तथैव च। जितेन्द्रियैर्महाभागैः स्वर्गमार्गदिदृक्षुभिः॥ वल्कलाजिनसंवीतैर्मुनिभिः संयतेन्द्रियैः। तापसाध्युषितं रम्यं ददर्शाश्रममण्डलम्॥ नानामृगगणैर्जुष्टं शाखामृगगणायुतम्। तापसैः समुपेतं च सा दृष्ट्वैव समाश्वसत्॥ सुभूः सुकेशी सुश्रोणी सुकुचा सुद्विजानना। वर्चस्विनी सुप्रतिष्ठा स्वसितायतलोचना॥ सा विवेशाश्रमपदं वीरसेनसुतप्रिया। योषिद्रत्नं महाभागा दमयन्ती तपस्विनी॥ साभिवाद्य तपोवृद्धान् विनयावनता स्थिता। स्वागतं त इति प्रोक्ता तैः सर्वैस्ताप्रसोत्तमैः॥ पूजां चास्या यथान्यायं कृत्वा तत्र तपोधनाः। आस्यतामित्यथोचुस्ते ब्रूहि किं करवामहे॥ तानुवाच वरारोहा कच्चिद् भगवतामिह। तपःस्वग्निषुधर्मेषु मृगपक्षिषु चानघाः॥ कुशलं वो महाभागाः स्वधर्माचरणेषु च। तैरुक्ता कुशलं भद्रे सर्वत्रेति यशस्विनि॥ ब्रूहि सर्वानवद्याङ्गि का त्वं किं च चिकीर्षसि। दृष्ट्वैव ते परं रूपं द्युतिं च परमामिह॥ विस्मयो नः समुत्पन्न: समाश्वसिहि मा शुचः। अस्यारण्यस्य देवी त्वमुताहोऽस्य महीभृतः॥ अस्याश्च नद्याः कल्याणि वद सत्यमनिन्दिते। साव्रवीत् तानृपीन् नाहमरण्यस्यास्य देवता॥ न चाप्यस्य गिरेविप्रा नैव नद्याश्च देवता। मानुषीं मां विजानीत यूयं सर्वे तपोधनाः॥ विस्तरेणाभिधास्यामि तन्मे शृणुत सर्वशः। विदर्भेषु महीपालो भीमो नाम महीपतिः॥ तस्य मां तनयां सर्वे जानीत द्विजसत्तमाः। निषधाधिपतिर्धीमान् नलो नाम महायशाः॥ वीरः संचामजिद् विद्वान् मम भर्ता विशाम्पतिः। देवताभ्यर्चनपरो द्विजातिजनवत्सलः॥ गोप्ता निषधवंशस्य महातेजा महाबलः। सत्यवान्धर्मवित् प्राज्ञः सत्यसंधोऽरिमर्दनः॥ ब्रह्मण्यो दैवतरपरः श्रीमान् परपुरंजयः। नलो नाम नृपश्रेष्ठो देवराजसमद्युतिः॥ मम भर्ता विशालाक्षः पूर्णेन्दुवदनोऽरिहा। आहर्ता क्रतुमुख्यानां वेदवेदाङ्गपारगः॥ सपत्नानां मृधे हन्ता रविसोमसमप्रभः। स कैश्चिनिकृतिप्रज्ञैरनार्यैरकृतात्मभिः॥ आहूय पृथिवीपालः सत्यधर्मपरायणः। देवने कुशलैर्जिर्हितं राज्यं वसूनि च॥ तस्य मामवगच्छध्वं भार्यां राजर्षभस्य वै। दमयन्तीति विख्यातां भर्तुर्दर्शनलालसाम्॥ सा वनानि गिरीश्चैव सरांसि सरितस्तथा। पल्वलानि च सर्वाणि तथारण्यानि सर्वशः॥ अन्वेषमाणा भर्तारं नलं रणविशारदम्। महात्मानं कृतास्त्रं च विचरामीह दुःखिता॥ कच्चिद् भगवतां रम्यं तपोवनमिदं नृपः। भवेत् प्राप्तो नलो नाम निषधानां जनाधिपः॥ यत्कृतेऽहमिदं ब्रह्मन् प्रपन्ना भृशदारुणम्। वनं प्रतिभयं घोरं शार्दूलमृगसेवितम्॥ यदि कैश्चिदहोरात्रैर्न द्रक्ष्यामि नलं नृपम्। आत्मानं श्रेयसा योक्ष्ये देहस्यास्य विमोचनात्॥ को नु मे जीवितेनार्थस्तमृते पुरुषर्षभम्। कथं भविष्याम्यद्याहं भर्तृशोकाभिपीडिता॥ तथा विलपतीमेकामरण्ये भीमनन्दिनीम्। दमयन्तीमथोचुस्ते तापसा: सत्यदर्शिनः॥ उदर्कस्तव कल्याणि कल्याणो भविता शुभे। वयं पश्याम तपसा क्षिप्रं द्रक्ष्यसि नैषधम्॥ निषधानामधिपति नलं रिपुनिपातिनम्। भैमिधर्मभृतां श्रेष्ठं द्रक्ष्यसे विगतज्वरम्॥ विमुक्तं सर्वपापेभ्यः सर्वरत्नसमन्वितम्। तदेव नगरं श्रेष्ठं प्रशासतमरिंदमम्॥ द्विषतां भयकर्तारं सुहृदां शोकनाशनम्। पतिं द्रक्ष्यसि कल्याणि कल्याणाभिजनं नृपम्॥ एवमुक्त्वा नलस्येष्टां महिषी पार्थिवात्मजाम्। अन्तर्हितास्तापसास्ते साग्निहोत्राश्रमास्तथा॥ सा दृष्ट्वा महदाश्चर्यं विस्मिता ह्यभवत् तदा। दमयन्त्यनवद्याङ्गी वीरसेननृपस्नुषा॥ किं नु स्वपो मया दृष्टः कोऽयं विधिरिहाभवत्। क्व नु ते तापसा: सर्वे क्व तदाश्रममण्डलम्॥ क्व सा पुण्यजला रम्या नदी द्विजनिषेविता। क्व नु ते ह नगा हृद्याः फलपुष्पोपशोभिताः॥ ध्यात्वा चिरं भीमसुता दमयन्ती शुचिस्मिता। भर्तृशोकपरा दीना विवर्णवदनाभवत्॥१००। सा गत्वाथापरां भूमि बाष्पसंदिग्धया गिरा। विललापाश्रुपूर्णाक्षी दृष्ट्वाशोकतरुं ततः॥ । उपगम्य तरुश्रेष्ठमशोकं पुष्पितं वने। पल्लवापीडितं हृद्यं विहङ्गैरनुनादितम्॥ अहो बतायमगमः श्रीमानस्मिन् वनान्तरे। आपीडैर्बहुभिर्भाति श्रीमान् पर्वतराडिव॥ विशोकां कुरु मां क्षिप्रमशोक प्रियदर्शन। वीतशोकभयाबाधं कच्चित् त्वं दृष्टवान् नृपम्॥ नलं नामारिदमनं दमयन्त्याः प्रियं पतिम्। निघधानामधिपतिं दृष्टवानसि मे प्रियम्॥ एकवस्त्रार्धसंवीतं सुकुमारतनुत्वचम्। व्यसनेनार्दितं वीरमरण्यमिदमागतम्॥ यथा विशोका गच्छेयमशोकनग तत् कुरु। सत्यनामा भवाशोक अशोकः शोकनाशनः॥ एवं साशोकवृक्षं तमार्ता वै परिगम्य ह। जगाम दारुणतरं देशं भैमी वराङ्गना॥ सा ददर्श नगान् नैकान् नैकाश्च सरितस्तथा। नैकांश्च पर्वतान् रम्यान् नैकांश्च मृगपक्षिणः॥ कन्दरांश्च नितम्बांश्च नदीश्चाद्भुतदर्शनाः। ददर्श तान् भीमसुता पतिमन्वेषती तदा॥ गत्वा प्रकृष्टमध्वानं दमयन्ती शुचिस्मिता। ददर्शाथ महासार्थं हस्त्यश्वरथसंकुलम्॥ उत्तरन्तं नदी रम्यां प्रसन्नसलिलां शुभाम्। सुशीततोयां विस्तीर्णां ह्रदिनीं वेतसैर्वृताम्॥ प्रो ष्टां क्रौञ्चकुररैश्च क्रवाकोपकूजिताम्। कूर्मचाहझषाकीर्णां विपुलद्वीपशोभिताम्॥ सा दृष्ट्वैव महासार्थं नलपत्नी यशस्विनी। उपसर्प्य वरारोहा जनमध्यं विवेश ह॥ उन्मत्तरूपा शोकार्ता तथा वस्त्रार्धसंवृता। कृशा विवर्णा मलिना पांसुध्वस्तशिरोरुहा॥ तां दृष्ट्वा तत्र मनुजाः केचिद् भीताः प्रदुद्रुवुः। केचिच्चिन्तापरा जग्मुः केचित् तत्र विचुक्रुशुः॥ प्रहसन्ति स्म तां केचिदभ्यसूयन्ति चापरे। अकुर्वत दयां केचित् पप्रच्छुश्चापि भारत॥ कासि कस्यासि कल्याणि किं वा मृगवसे वने। त्वां दृष्ट्वा व्यथिताः स्मेह कच्चित् त्वमसि मानुषी। वद सत्यं वनस्यास्य पर्वतस्याथवा दिशः। देवता त्वं हि कल्याणि त्वां वयं शरणं गताः॥ यक्षी वा राक्षसी वा त्वमुताहोऽसि वराङ्गना। सर्वथा कुरु नः स्वस्ति रक्ष वास्माननिन्दिते॥ यथायं सर्वथा सार्थः क्षेमी शीघ्रमितो व्रजेत्। तथा विधत्स्व कल्याणि यथा श्रेयो हि नो भवेत्।। तथोक्ता तेन सार्थेन दमयन्ती नृपात्मजा। प्रत्युवाच ततः साध्वी भर्तृव्यसनपीडिता॥ सार्थवाहं च सार्थं च जना ये चात्र केचन। युवस्थविरबालाश्च सार्थस्य च पुरोगमाः॥ मानुषीं मां विजानीत मनुजाधिपतेः सुताम्। नृपस्नुषां राजभार्यां भर्तृदर्शनलालसाम्॥ विदर्भराण्मम पिता भर्ता राजा च नैषधः। नलो नाम महाभागस्तं मृग्याम्यपराजितम्॥ यदि जानीत नृपतिं क्षिप्रं शंसत मे प्रियम्। नलं पुरुषशार्दूलममित्रगणसूदनम्॥ तामुवाचानवद्याङ्गीं सार्थस्य महतः प्रभुः। सार्थवाहः शुचिर्नाम शृणु कल्याणि मद्वचः॥ अहं सार्थस्य नेता वै सार्थवाहः शुचिस्मिते। मनुष्यं नलनामानं न पश्यामि यशस्विनि॥ कुञ्जरद्वीपिमहिषशार्दूलर्भमृगानपि। पश्याम्यस्मिन् वने कृत्स्ने ह्यमनुष्यनिषेविते॥ ऋते त्वां मानुषी मर्यं न पश्यामि महावने। तथा नो यक्षराडद्य मणिभद्रः प्रसीदतु॥ साब्रवीद् वणिज: सर्वान् सार्थवाहं च तं ततः। क्व नु यास्यति सार्थोऽयमेतदाख्यातुमर्हसि॥ सार्थवाह उवाच सार्थोऽयं चेदिराजस्य सुबाहोः सत्यदर्शिन: क्षिप्रं जनपदं गन्ता लाभाय मनुजात्मजे॥ बृहदश्व उवाच सा तच्छ्रुत्वानवद्याङ्गी सार्थवाहवचस्तदा। जगाम सह तेनैव सार्थेन पतिलालसा॥ अथ काले बहुतिथे वने महति दारुणे। तडागं सर्वतोभद्रं पद्मसौगन्धिकं महत्॥ ददृशुर्वणिजो रम्यं प्रभूतयवसेन्धनम्। बहुपुष्पफलोपेतं नानापक्षिनिषेवितम्॥ निर्मलस्वादुसलिलं मनोहारि सुशीतलम्। सुपरिश्रान्तवाहास्ते निवेशाय मनो दधुः॥ सम्मते सार्थवाहस्य विविशुर्वनमुत्तमम्। उवास सार्थः सुमहान् वेलामासाद्य पश्चिमाम्॥ अथार्धरात्रसमये नि:शब्दस्तिमिते तदा। सुप्ते सार्थे परिश्रान्ते हस्तियूथमुपागमत्॥ पानीपार्थं गिरिनदीं मदप्रस्रवणाविलाम्। अथापश्यत सार्थं तं सार्थजान् सुबहून् गजान्॥ तान् चाम्यगजान् दृष्ट्वा सर्वे वनगजास्तदा। समाद्रवन्त वेगेन जिघांसन्तो मदोत्कटाः॥ तेषामापततां वेग: करिणां दुःसहोऽभवत्। नगाचादिव शीर्णानां शृङ्गाणां पततां क्षितौ।॥ स्पन्दतामपि नागानां मार्गा नष्टा वनोद्भवाः। मार्ग संस्थ्य संसुप्तं पद्मिन्याः सार्थमुत्तमम्॥ ते तं ममर्दुः सहसा चेष्टमानं महीतले। हाहाकारं प्रमुञ्चन्तः सार्थिकाः शरणार्थिनः॥ ते वनगुल्मांश्चधावन्तो निद्राधा बहवोऽभवन्। केचिद् दन्तैः करैः केचित् केचित् पद्भ्यां हता गजैः।। निहतोष्ट्राश्वबहुलाः पदातिजनसंकुलाः। भयादाधावमानाश्च परस्परहतास्तदा॥ घोरान् नादान विमुञ्चन्तो निपेतुर्धरणीतले। वृक्षेष्वारुह्य संरब्धाः पतिता विषमेषु च॥ एवं प्रकारैर्बहुभिर्दैवेनाक्रम्य हस्तिभिः। राजन् विनिहतं सर्वं समृद्धं सार्थमण्डलम्॥ आराव: सुमहांश्चासीत् त्रैलोक्यभयकारकः। एषोऽग्निरुत्थितः कष्टस्त्रायध्वंधावताधुना॥ रत्नराशिर्विशीर्णोऽयं गृहणीध्वं की प्रधावत। सामान्यमेतद् द्रविणं न मिथ्यावचनं मम॥ एवमेवाभिभाषन्तो विद्रवन्ति भयात् तदा। पुनरेवाभिधास्यामि चिन्तयध्वं सुकातराः॥ तस्मिंस्तथा वर्तमाने दारुणे जनसंक्षये। दमयन्ती च बुबुधे भयसंत्रस्तमानसा॥ अपश्यद् वैशसं तत्र सर्वलोकभयंकरम्। अदृष्टपूर्वं तद् दृष्ट्वा बाला पद्मनिभेक्षणा॥ संसक्तवदनाश्वासा उत्तस्थौ भयविह्वला। ये तु तत्र विनिर्मुक्ताः सार्थात् केचिदविक्षताः॥ तेऽब्रुवन् सहिताः सर्वे कस्येदं कर्मणः फलम्। नूनं न पूजितोऽस्माभिर्मणिभद्रो महायशाः॥ तथा यक्षाधिपः श्रीमान् न वै वैश्रवणः प्रभुः। न पूजा विघ्नकर्तृणामथवा प्रथमं कृता॥ शकुनानां फलं वाथ विपरीतमिदंध्रुवम्। ग्रहा न विपरीतास्तु किमन्यदिदमागतम्॥ अपरे त्वब्रुवन् दीना ज्ञातिद्रव्यविनाकृताः। यासावध महासार्थे नारी हुन्मत्तदर्शना॥ प्रविष्टा विकृताकारा कृत्वा रूपममानुषम्। तयेयं विहिता पूर्वं माया परमदारुणा॥ राक्षसी वाध्रुवं यक्षी पिशाची वा भयंकरी। तस्याः सर्वमिदं पापं नात्र कार्या विचारणा॥ पश्यामो यदि तां पापां सार्थनीं नैकदुःखदाम्। लोष्टभिः पांसुभिश्चैव तृणैः काष्ठैश्च मुष्टिभिः॥ अवश्यमेव हन्यामः सार्थस्य किल कृत्यकाम्। दमयन्ती तु तच्छ्रुत्वा वाक्यं तेषां सुदारुणम्॥ ह्रीता भीता च संविग्ना प्राद्रवद् यत्र काननम्। आशङ्कमाना तत्पापमात्मानं पर्यदेवयत्॥ अहो ममोपरि विधेः संरम्भो दारुणो महान्। नानुबध्नाति कुशलं कस्येदं कर्मणः फलम्॥ न स्मराम्यशुभं किचित् कृतं कस्यचिदण्वपि। कर्मणा मनसा वाचा कस्येदं कर्मणः फलम्॥ नूनं जन्मान्तरकृतं पापमापतितं महत्। अपश्चिमामिमां कष्टामापदं प्राप्तवत्यहम्॥ भर्तृराज्यापहरणं स्वजनाच्च पराजयः। भ! सह वियोगश्च तनयाभ्यां च विच्युतिः॥ निर्नाथता वने वासो बहुव्यालनिषेविते। अथापरेयुः सम्प्राप्ते हतशिष्टा जनास्तदा॥ देशात् तस्माद् विनिष्क्रम्य शोचन्ते वैशसं कृतम्। भ्रातरं पितरं पुत्रं सखायं च नराधिप।॥ अशोचत् तत्र वैदर्भी किं नु मे दुष्कृतं कृतम्। योऽपि मे निर्जनेऽरण्ये सम्प्राप्तोऽयं जनार्णवः॥ स हतो हस्तियूथेन मन्दभाग्यान्ममैव तत्। प्राप्तव्यं सुचिरं दुःखं नूनमद्यापि वै मया॥ नाप्राप्तकालो म्रियते श्रुतं वृद्धानुशासनम्। या नाहमद्य मृदिता हस्तियूथेन दुःखिता।॥ न ह्यदैवकृतं किंचिन्नराणामिह विद्यते। न च मे बालभावेऽपरि किंचित् पापकृतं कृतम्॥ कर्मणा मनसा वाचा यदिदं दुःखमागतम्। मन्ये स्वयंवरकृते लोकपालाः समागताः॥ प्रत्याख्याता मया तत्र नलस्यार्थाय देवताः। नूनं तेषां प्रभावेण वियोगं प्राप्तवत्यहम्॥ एवमादीनि दुःखार्ता सा विलप्य वराङ्गना। प्रलापानि तदा तानि दमयन्ती पतिव्रता॥ हतशेषैः सह तदा ब्राह्मणैर्वेदपारगैः। अगच्छद् राजशार्दूल चन्द्रलेखेव शारदी॥ गच्छन्ती साचिराद् बाला पुरमासादयन्महत्। सायाह्ने चेदिराजस्य सुबाहोः सत्यदर्शिनः॥ अथ वस्त्रार्धसंवीता प्रविवेश पुरोत्तमम्। तां विह्वलां कृशां दीनां मुक्तकेशीममार्जिताम्॥ उन्मत्तामिव गच्छन्तीं ददृशुः पुरवासिनः। प्रविशन्तीं तु तां दृष्ट्वा चेदिराजपुरीं तदा॥ अनुजग्मुस्तत्र बाला चामिपुत्राः कुतूहलात्। सा तैः परिवृतागच्छत् समीपं राजवेश्मनः॥ तां प्रासादगतापश्यद् राजमाता जनैर्वृताम्। धात्रीमुवाच गच्छैनामानयेह ममान्तिकम्॥ जनेन क्लिश्यते बाला दुःखिता शरणार्थिनी। तादृग् रूपं च पश्यामि विद्योतयति मे गृहम्॥ उन्मत्तवेषा कल्याणी श्रीरिवायतलोचना। सा जनं वारयित्वा तं प्रासादतलमुत्तमम्॥ आरोग्य विस्मिता राजन् दमयन्तीमपृच्छत। एवमप्यसुखाविष्टा बिभर्षि परमं वपुः॥ भासि विद्युदिवाभ्रेषु शंस मे कासि कस्य वा। न हि ते मानुषं रूपं भूषणैरपि वर्जितम्॥ असहाया नरेभ्यश्च नोद्विजस्यमरप्रभे। तच्छ्रुत्वा वचनं तस्या भैमी वचनमब्रवीत्॥ मानुषीं मां विजानीहि भर्तारं समनुव्रताम्। सैरन्ध्रीजातिसम्पन्नं भुजिष्यां कामवासिनीम्॥ फलमूलाशनामेकां यत्रसायंप्रतिश्रयाम्। असंख्येयगुणो भर्ता मां च नित्यमनुव्रतः॥ भक्तामहपि तं वीरं छायेवानुगता पथि। तस्य दैवात् प्रसङ्गोऽभूदतिमात्रं सुदेवने॥ द्यूते स निर्जितश्चैव वनमेक उपेयिवान्। तमेकवसनं वीरमुन्मत्तमिव विह्वलम्॥ आश्वासयन्ती भर्तारमहमप्यगमं वनम्। स कदाचिद् वने वीरः कस्मिंश्चित् कारणान्तरे॥ क्षुत्परीतस्तु विमनास्तदप्येकं व्यसर्जयत्। तमेकवसना नग्नमुन्मत्तवदचेतसम्॥ अनुव्रजन्ती बहुला न स्वपामि निशास्तदा। ततो बहुतिथे काले सुप्तामुत्सृज्य मां क्वचित्॥ वाससोऽर्धं परिच्छिद्य त्यक्तवान् मामनागसम्। तं मार्गमाणा भर्तारं दह्यमाना दिवानिशम्॥ साहं कमलगर्भाभमपश्यन्ती हृदि प्रियम्। न विन्दाम्यमरप्रख्यं प्रियं प्राणेश्वरं प्रभुम्॥ तामश्रुपरिपूर्णाक्षीं विलपन्ती तथा बहु। राजमाताब्रवीदार्ता भैमीमार्तस्वरां स्वयम्॥ वसस्व मयि कल्याणि प्रीतिमें परमा त्वयि। मृगयिष्यन्ति ते भद्रे भर्तारं पुरुषा मम॥ अपि वा स्वयमागच्छेत् परिधावन्नितस्ततः। इहैव वसती भद्रे भर्तारमुपलप्स्यसे॥ राजमातुर्वचः श्रुत्वा दमयन्ती वचोऽब्रवीत्। समयेनोत्सहे वस्तुं त्वयि वीरप्रजायिनि॥ उच्छिष्टं नैव भुञ्जीयां न कुर्यां पादधावनम्। न चाहं पुरुषानन्यान् प्रभाषेयं कथंचन॥ प्रार्थयेद् यदि मां कश्चिद् दण्ड्यस्ते स पुमान् भवेत्। वध्यश्च तेऽसकृन्मन्द इति मे व्रतमाहितम्॥ भर्तुरन्वेषणार्थं तु पश्येयं ब्राह्मणानहम्। यद्येवमिह वत्स्यामि त्वत्सकाशे न संशयः॥ अतोऽन्यथा न मे वासो वर्तते हृदये क्वचित्। तां प्रहष्टेन मनसा राजमातेदमब्रवीत्॥ सर्वमेतत् करिष्यामि दिष्ट्या ते व्रतमीदृशम्। एवमुक्त्वा ततो भैमी राजमाता विशाम्पते॥ उवाचेदं दुहितरं सुनन्दा नाम भारत। सैरन्ध्रीमभिजानीष्व सुनन्दे देवरूपिणीम्॥ वयसा तुल्यतां प्राप्ता सखी तव भवत्वियम्। एतया सह मोदस्व निरुद्विग्नमनाः सदा॥ ततः परमसंहष्टा सुनन्दा गृहमागमत्। दमयन्तीमुपादाय सखीभिः परिवारिता॥ स तत्र पूज्यमाना वै दमयन्ती व्यनन्दत। सर्वकामैः सुविहितैर्निरुद्वेगावसत् तदा॥ वृहदश्व उवाच तस्मिन्नन्तहिते नागे प्रययौ नैषधो नलः। ऋतुपर्णस्य नगरं प्राविशद् दशमेऽहनि॥ स राजानमुपातिष्ठद् बाहुकोऽहमिति ब्रुवन्। अश्वानां वाहने युक्तः पृथिव्यां नास्ति मत्समः॥ अर्थकृच्छ्रेषु चैवाहं प्रष्टव्यो नैपुणेषु च। अन्नसंस्कारमपि च जानाम्यन्यैर्विशेषतः॥ यानि शिल्पानि लोकेऽस्मिन् यच्चैवान्यत् सुदुष्करम् सर्वं यतिष्ये तत् कर्तुमृतुपर्ण भरस्व माम्॥ ऋतुपर्ण उवाच वस बाहुक भद्रं ते सर्वमेतत् करिष्यसि। शीघ्रयाने सदा बुद्धिर्धियते मे विशेषतः॥ स त्वमातिष्ठ योगं तं येन शीघ्रा हया ममा भवेयुरश्वाध्यक्षोऽसि वेतनं ते शतं शतम्॥ त्वामुपस्थास्यतश्चैव नित्यं वार्ष्णेयजीवलौ। एताभ्यां रंस्यसे सार्धं वस वै मयि बाहुक॥ बृहदश्व उवाच एवमुक्तो नलस्तेन न्यवसत् तत्र पूजितः। ऋतुपर्णस्य नगरे सहवार्ष्णेयजीवलः॥ स वै तत्रावसद् राजा वैदर्भीमनुचिन्तयन्। सायं सायं सदा चेमं श्लोकमेकं जगाद ह॥ क्व नु सा क्षुत्पिपासार्ता श्रान्ता शेते तपस्विनी। स्मरन्ती तस्य मन्दस्य कं वा साद्योपतिष्ठति॥ एवं ब्रुवन्तं राजानं निशायां जीवलोऽब्रवीत्। कामेनां शोचसे नित्यं श्रोतुमिच्छामि बाहुक॥ आयुष्मन् कस्य वा नारी यामेवमनुशोचसि। तमुवाच नलो राजा मन्दप्रज्ञस्य कस्यचित्॥ आसीद् बहुमता नारी तस्यादृढतरं वचः। स वै केनचिदर्थेन तया मन्दो व्ययुज्यत॥ विप्रयुक्तः स मन्दात्मा भ्रमत्यसुखपीडितः। दह्यमानः स शोकेन दिवारानमतन्द्रितः॥ निशाकाले स्मरंस्तस्याः श्लोकमेकं स्म गायति। स विभ्रमन् महीं सर्वां क्वचिदासाद्य किंचन॥ वसत्यनहर्हस्तद् दुःखं भूय एवानुसंस्मरन्। सा तु तं पुरुषं नारी कृच्छ्रेऽप्यनुगता वने।॥ त्यक्ता तेनाल्पपुण्येन दुष्करं यदि जीवति। एका बालानभिज्ञा च मार्गाणामतथोचिता॥ क्षुत्पिपासापरीताङ्गी दुष्करं यदि जीवति। श्वापदाचरिते नित्यं वने महति दारुणे॥ त्यक्ता तेनाल्पभाग्यन मन्दप्रज्ञेन मारिष। इत्येवं नैषधो राजा दमयन्तीमनुस्मरन्। अज्ञातवासं न्यवसद् राज्ञस्तस्य निवेशने॥ बृहदश्व उवाच हृतराज्ये नले भीमः सभार्ये च वनं गते। द्विजान् प्रस्थापयामास नलदर्शनकाझया।।।। संदिदेश च तान् भीमो वसु दत्त्वा च पुष्कलम्। मृगयध्वं नलं चैव दमयन्तीं च मे सुताम्॥ अस्मिन् कर्मणि सम्पन्ने विज्ञाते निषधाधिपे। गवां सहस्रं दास्यामि यो वस्तावानयिष्यति॥ अग्रहारांश्च दास्यामि ग्राम नगरसम्मितम्। न चेच्छक्याविहानेतुं दमयन्ती नलोऽपि वा॥ ज्ञातमात्रेऽपि दास्यामि गवां दशशतं धनम्। इत्युक्तास्ते ययुर्हष्टा ब्राह्मणाः सर्वतो दिशम्॥ पुरराष्ट्राणि चिन्वन्तो नैषधं सह भार्यया। नैव क्वापि प्रपश्यन्ति नलं वा भीमपुत्रिकाम्॥ ततश्चेदिपुरी रम्यां सुदेवो नाम वै द्विजः। विचिन्वानोऽथ वैदर्भीमपश्यद् राजवेश्मनि॥ पुण्याहवाचने राज्ञः सुनन्दासहितां स्थिताम्। मन्दं प्रख्यायमानेन रूपेणाप्रतिमेन ताम्॥ निबद्धां धूमजालेन प्रभामिव विभावसोः। तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम्। तर्कयामास भैमीति कारणैरुपपादयन्॥ सुदेव उवाच यथेयं मे पुरा दृष्टा तथारूपेयमङ्गना। कृतार्थोऽस्म्यद्य दृष्ट्वेमा लोककान्तामिव श्रियम्॥ पूर्णचन्द्रनिभां श्यामां चारुवृत्तपयोधराम्। वन्तीं प्रभया देवी सर्वा वितिमिरा दिशः॥ चारुपद्मविशालाक्षी मन्मथस्य रतीमिव। इष्टां समस्तलोकस्य पूर्णचन्द्रप्रभामिव॥ विदर्भसरसस्तस्माद् दैवदोषादिवोद्धताम्। मलपङ्कानुलिप्ताङ्गी मृणालीमिव चोद्धृताम्॥ पौर्णमासीमिव निशां राहुग्रस्तनिशाकराम्। पतिशोकाकुलां दीनां शुष्कस्रोतां नदीमिव॥ विध्वस्तपर्णकमलां वित्रासितविहंगमाम्। हस्तिहस्तपरामृष्टां व्याकुलामिव पद्मिनीम्॥ सुकुमारी सुजाताङ्गी रत्नगर्भगृहोचिताम्। दह्यमानामिवार्केण मृणालीमिव चोद्धृताम्॥ रूपौदार्यगुणोपेतां मण्डनार्हाममण्डिताम्। चन्द्रलेखामिव नवां व्योम्नि नीलाभ्रसंवृताम्॥ कामभोगैः प्रियीनां हीनां बन्धुजनेन च। देहं संधारयन्ती हि भर्तृदर्शनकाझ्या॥ भर्ता नाम परं नार्या भूषणं भूषणैर्विना। एषा हि रहिता तेन शोभमाना न शोभते॥ दुष्करं कुरुतेऽत्यन्तं हीनो यदनया नलः। धारयत्यात्मनो देहं न शोकेनापि सीदति॥ इमामसितकेशान्तां शतपत्रायतेक्षणाम्। सुखाहाँ दुःखितां दृष्ट्वा ममापि व्यथते मनः॥ कदा नु खलु दुःखस्य पारं यास्यति वै शुभा। भर्तुः समागमात् साध्वी रोहिणी शशिनो यथा॥ अस्या नूनं पुनर्लाभान्नैषधः प्रीतिमेष्यति। राजा राज्यपरिभ्रष्टः पुनर्लब्ध्वा च मेदिनीम्॥ तुल्यशीलवयोयुक्तां तुल्याभिजनसंवृताम्। नैषधोऽर्हति वैदर्भी तं चेयमसितेक्षणा॥ युक्तं तस्याप्रमेयस्य वीर्यसत्त्ववतो मया। समाश्वासयितुं भार्यां पतिदर्शनलालसाम्॥ अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम्। अदृष्टपूर्वां दुःखस्य दुःखाध्यिानतत्पराम्॥ बृहदश्व उवाच एवं विमृश्य विविधैः कारणैर्लक्षणैश्च ताम्। उपागम्य ततो भैमी सुदेवो ब्राह्मणोऽब्रवीत्॥ अहं सुदेवो वैदर्भि भ्रातुस्ते दयितः सखा। भीमस्य वचनाद् राज्ञस्त्वामन्वेष्टुमिहागतः॥ कुशली ते पिता राज्ञि जननी भ्रातरश्च ते। आयुष्मन्तौ कुशलिनौ तत्रस्थौ दारकौ च तौ॥ त्वत्कृते बन्धुवर्गाश्च गतसत्त्वा इवासते। अन्वेष्टारो ब्राह्मणाश्च भ्रमन्ति शतशो महीम्॥ बृहदश्व उवाच अभिज्ञाय सुदेवं तं दमयन्ती युधिष्ठिर। पर्यपृच्छत तान् सर्वान् क्रमेण सुहृदः स्वकान्॥ रुरोद च भृशं राजन् वैदर्भी शोककर्शिता। दृष्ट्वा सुदेवं सहसा भ्रातुरिष्टं द्विजोत्तमम्॥ रुदतीं तामथो दृष्ट्वा सुनन्दा शोककर्शिता। सुदेवेन सहैकान्ते कथयन्तीं च भारत॥ जनित्र्यै कथयामास सैरन्ध्री रोदितीति च। ब्राह्मणेन सहागम्य तां वेद यदि मन्यसे॥ अथ चेदिपतेर्माता राज्ञश्चान्तःपुरात् तदा। जगाम यत्र सा बाला ब्राह्मणेन सहाभवत्॥ ततः सुदेवमानाय्य राजमाता विशाम्यते। पप्रच्छ भार्या कस्येयं सुता वा कस्य भाविनी॥ कथं च नष्टा ज्ञातिभ्यो भर्तुर्वा वामलोचना। त्वया च विदिता विप्र कथमेवगंता सती॥ एतदिच्छाम्यहं श्रोतुं त्वत्तः सर्वमशेषतः। तत्त्वेन हि ममाचक्ष्व पृच्छन्त्या देवरूपिणीम्॥ एवमुक्तस्तया राजन् सुदेवो द्विजसत्तमः। सुखोपविष्ट आचष्ट दमयन्त्या यथातथम्॥ सुदेव उवाच विदर्भराजोधर्मात्मा भीमो नाम महाद्युतिः। सुतेयं तस्य कल्याणी दमयन्तीति विश्रुता॥ राजा तु नैषधो नाम वीरसेनसुतो नलः। भार्येयं तस्य कल्याणी पुण्यश्लोकस्यधीमतः॥ स घृतेन जितो भ्रात्रा हृतराज्यो महीपतिः। दमयन्त्या गतः सार्धं न प्राज्ञायत कस्यचित्॥ ते वयं दमयन्त्यर्थे चरामः पृथिवीमिमाम्। सेयमासादिताः बाला तव पुत्रनिवेशने॥ अस्या रूपेण सदृशी मानुषी न हि विद्यते। अस्या ह्येष भ्रवोर्मध्ये सहज: पिप्लुरुत्तमः॥ श्यामाया: पद्मसंकाशो लक्षितोऽन्तर्हितो मया। मलेन संवृतो ह्यस्याश्छन्नोऽभ्रेणेव चन्द्रमाः॥ चिह्नभूतो विभूत्यर्थमयंधात्रा विनिर्मितः। प्रतिपत्कलुषस्येन्दोर्लेखा नातिविराजते॥ न चास्य नश्यते रूपं वपुर्मलसमाचितम्। असंस्कृतमभिव्यक्तं भाति काञ्चनसंनिभम्॥ अनेन वपुषा बाला पिप्लुनानेन सूचिता। लक्षितेयं मया देवी निभृतोऽग्निरिवोष्मणा॥ तच्छ्रुत्वा वचनं तस्य सुदेवस्य विशाम्पते। सुनन्दा शोधयामास पिप्लुप्रच्छादनं मलम्॥ स मलेनापकृष्टेन पिप्लुस्तस्या व्यरोचत। दमयन्त्या यथा व्यभ्रे नभसीव निशाकरः॥ पिप्लुं दृष्ट्वा सुनन्दा च राजमाता च भारत। रुदत्यौ तां परिष्वज्य मुहूर्तमिव तस्थतुः॥ उत्सृज्य बाष्पं शनकै राजमातेदमब्रवीत्। भगिन्या दुहिता मेऽसि पिप्लुनानेन सूचिता॥ अहं च तव माता च राज्ञस्तस्य महात्मनः। सुते दशार्णाधिपतेः सुदाम्नश्चारुदर्शने॥ भीमस्य राज्ञः सा दत्ता वीरबाहोरहं पुनः। त्वं जाता मया दृष्टा दशार्णेषु पितुहे॥ यथैव ते पितुर्गेहं तथैव मम भामिनि। यथैव च ममैश्वर्यं दमयन्ति तथा तव॥ तां प्रहप्टेन मनसा दमयन्ती विशाम्पते। प्रणम्य मातुर्भगिनीमिदं वचनमब्रवीत्॥ अज्ञायमानापि सती सुखमसम्युषिता त्वयि। सर्वकामैः सुविहिता रक्ष्यमाणा सदा त्वया॥ तु सुखात् सुखतरो वासो भविष्यति न संशयः। चिरविप्रोषितां मातामनुज्ञातुमर्हसि॥ दारकौ च हि मे नीतौ वसतस्तत्र बालकौ। पित्रा विहीनौ शोकातॊ मया चैव कथं नु तौ॥ यदि चापि प्रियं किंचिन्मयि कर्तुमिहेच्छसि। विदर्भान् यातुमिच्छामि शीघ्रं मे यानमादिश॥ बाढमित्येव तामुक्त्वा हृष्टा मातृष्वसा नृप। गुप्तां बलेन महता पुत्रस्यानुमते ततः॥ प्रास्थापयद् राजमाता श्रीमती नरवाहिना। यानेन भरतश्रेष्ठ स्वन्नपानपरिच्छदाम्॥ ततः सा न चिरादेव विदर्भानगमत् पुनः। तु बन्धुजनः सर्वः प्रहृष्टः समपूजयत्॥ सर्वान् कुशलिनो दृष्ट्वा बान्धवान् दारकौ च तौ मातरं पितरं चोभौ सर्वं चैव सखीजनम्॥ देवताः पूजयामास ब्राह्मणांश्च यशस्विनी। परेण विधिना देवी दमयन्ती विशाम्यते॥ अतर्पयत् सुदेवं च गोसहस्रेण पार्थिवः। प्रीतो दृष्ट्वैव तनयां ग्रामेण द्रविणेन च॥ सा व्युष्टा रजनीं तत्र पितुर्वेश्मनि भाविनी। विश्रान्ता मातरं राजन्निदं वचनमब्रवीत्॥ दमयन्त्युवाच मां चेदिच्छसि जीवन्ती मातः सत्यं ब्रवीमि ते। नलस्य नरवीरस्य यतस्वानयने पुनः॥ दमयन्त्या तथोक्ता सा देवी भृशदुःखिता। बाष्पेणापिहिता राज्ञी नोत्तरं किंचिदब्रवीत्॥ तदवस्थां तु तां दृष्ट्वा सर्वमन्तःपुरं तदा। हाहाभूतमतीवासीद् भृशं च प्ररुरोद ह॥ ततो भीमं महाराजं भार्या वचनमब्रवीत्। दमयन्ती तव सुता भर्तारमनुशोचति॥ अपकृष्य च लज्जां सा स्वयमुक्तवती नृप। प्रयतन्तां तव प्रेष्याः पुण्यश्लोकस्य मार्गणे॥ तया प्रदेशितो राजा ब्राह्मणान् वशवर्तिनः। प्रास्थापयद् दिशः सर्वा यतध्वं नलमार्गणे॥ ततो विदर्भाधियतेर्नियोगाद् ब्राह्मणास्तदा। दमयन्तीमथो सृत्वा प्रस्थिता:स्मेत्यथाब्रुवन्।॥ अथ तानब्रवीद् भैमी सर्वराष्ट्रेष्विदं वचः। ब्रुवध्वं जनसंसत्सु तत्र तत्र पुनः पुनः॥ क्व नु त्वं कितवच्छित्त्वा वस्त्रार्धं प्रस्थितो मम। उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय॥ सा वै यथा त्वया दृष्टा तथाऽऽस्ते त्वत्प्रतीक्षिणा दह्यमाना भृशं वाला वस्त्रार्थेनाभिसंवृता॥ तस्या रुदत्याः सततं तेन शोकेन पार्थिव। प्रसादं कुरु वै वीर प्रतिवाक्यं ददस्व च॥ एवमन्यच्च वक्तव्यं कृपां कुर्याद् यथा मयि) वायुनाधूयमानो हि वनं दहति पावकः॥ भर्तव्या रक्षणीया च पत्नी पत्या हि सर्वदा। तन्नष्टमुभयं कस्माद्धर्मज्ञस्य सतस्तव॥ ख्यातः प्राज्ञः कुलीनश्च सानुक्रोशो भवान् सदा। संवृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात्॥ तत् कुरुष्व नरव्याघ्र दयां मयि नरर्षभ। आनृशंस्यं परोधर्मस्त्वत्त एव हि मे श्रुतः॥ एवं ब्रुवाणान् यदि वः प्रतिब्रूयात् कथंचन। स नरः सर्वथा ज्ञेयः कश्चासौ क्व नु वर्तते॥ यश्चैवं वचनं श्रुत्वा ब्रूयात् प्रतिवचो नरः। तदादाय वचस्तस्य ममावेद्यं द्विजोत्तमाः॥ यथा च वो न जानीयाद् ब्रुवतो मम शासनात्। पुनरागमनं चैव तथा कार्यमतन्द्रितैः॥ यदि वासौ समृद्धः स्याद् यदि वाप्यधनो भवेत्। यदि वाप्यसमर्थः स्याज्ज्ञेयमस्य चिकीर्षितम्॥ एवमुक्तास्त्वगच्छंस्ते ब्राह्मणाः सर्वतो दिशम्। ते पुराणि नलं मृगयितुं राजंस्तदा व्यसनिनं तथा॥ सराष्ट्राणि ग्रामान् घोषांस्तथाऽऽश्रमान्। अन्वेषन्तो नलं राजन् नाधिजग्मुर्द्विजातयः॥ तच्च वाक्यं तथा सर्वे तत्र तत्र विशाम्यते। श्रावयांचक्रिरे विप्रा दमयन्त्या यथेरितम्॥ बृहदश्व उवाच अथ दीर्घस्य कालस्य पर्णादो नाम वै द्विजः। प्रत्येत्य नगरं भैमीमिदं वचनमब्रवीत्॥ नैषधं मृगयानेन दमयन्ति मया नलम्। अयोध्या नगरी गत्वा भाङ्गासुरिमुपस्थितः॥ श्रावितश्च मया वाक्यं त्वदीयं स महाजने। ऋतुपर्णो महाभागो यथोक्तं वरवर्णिनि॥ तच्छुत्वा नाब्रवीत् किंचिदृतुपर्णो नराधिपः। न च पारिषदः कश्चिद् भाष्यमाणो मयासकृत्॥ अनुज्ञातं तु मां राज्ञा विजने कश्चिदब्रवीत्। ऋतुपर्णस्य पुरुषो बाहुको नाम नामतः॥ सूतस्तस्य नरेन्द्रस्य विरूपो ह्रस्वबाहुकः। शीघ्रयानेषु कुशलो मृष्टकर्ता च भोजने॥ स विनिःश्वस्य बहुशो रुदित्वा च पुनः पुनः। कुशलं चैव मां पृष्ट्वा पश्चादिदमभाषत।॥ वैषम्यमपि सम्प्राप्ता गोपायन्ति कुलस्त्रियः। आत्मानमात्मना सत्यो जित: स्वर्गो न संशयः॥ रहिता भर्तृभिश्चैव न कुप्यन्ति कदाचन। प्राणांश्चारित्रकवचान्धारयन्ति वरस्त्रियः॥ विषमस्थेन मूढेन परिभ्रष्टसुखेन च। यत् सा तेन परित्यक्ता तत्र न क्रोद्भुमर्हति॥ प्राणयात्रां परिप्रेप्सोः शकुनैर्हतवाससः। आधिभिर्दह्यमानस्य श्यामा न क्रोद्भुमर्हति॥ सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम्। भ्रष्टराज्यं श्रिया हीनं क्षुधितं व्यसनाप्लुतम्॥ तस्य तद् वचनं श्रुत्वा त्वरितोऽहमिहागतः। श्रुत्वा प्रमाणं भवती राज्ञश्चैव निवेदय॥ एतच्छ्रुत्वाश्रुपूर्णाक्षी पर्णादस्य विशाम्पते। दमयन्ती रहोऽभ्येत्य मातरं प्रत्यभाषत॥ अयमर्थो न संवेद्यो भीमे मातः कदाचन। त्वत्संनिधौ नियोक्ष्येऽहं सुदेवं द्विजसत्तमम्॥ यथा न नृपतिर्भीमः प्रतिपद्येत मे मतम्। तथा त्वया प्रकर्तव्यं मम चेत् प्रियमिच्छसि॥ यथा चाहं समानीता सुदेवेनाशु बान्धवान्। तेनैव मङ्गलेनाशु सुदेवो यातु मा चिरम्॥ समानेतुं नलं मातरयोध्यां नगरीमितः। विश्रान्तं तु ततः पश्चात् पर्णादं द्विजसत्तमम्॥ अर्चयामास वैदर्भाधनेनातीव भाविनी। नले चेहागते तत्र भूयो दास्यामि ते वसु॥ त्वया हि मे बहु कृतं यदन्यो न करिष्यति। यद् भाहं समेष्यामि शीघ्रमेव द्विजोत्तम॥ स एवमुक्तोऽथाश्वास्य आशीर्वादैः सुमङ्गलैः। गृहानुपययौ चापि कृतार्थः सुमहामनाः॥ ततः सुदेवमाभाष्य दमयन्ती युधिष्ठिर। अब्रवीत् संनिधौ मातुर्दुःखशोकसमन्विता॥ गत्वा सुदेव नगरीमयोध्यावासिनं नृपम्। ऋतुपर्णं वचो ब्रूहि सम्पतन्निव कामगः॥ आस्थास्यति पुनर्भमी दमयन्ती स्वयंवरम्। तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः॥ तथा च गणितः कालः श्वोभूते स भविष्यति। यदि सम्भावनीयं ते गच्छ शीघ्रमरिंदम्॥ सूर्योदये द्वितीयं सा भर्तारं वरयिष्यति। न हि स ज्ञायते वीरो नलो जीवति वा न वा॥ एवं तया यथोक्तो वै गत्वा राजानमब्रवीत्। ऋतुपर्ण महाराज सुदेवो ब्राह्मणस्तदा।॥ बृहदश्व उवाच श्रुत्वा वचः सुदेवस्य ऋतुपर्णो नराधिपः। सान्त्वयश्लक्ष्णया वाचा बाहुकं प्रत्यभाषत॥ विदर्भान् यातुमिच्छामि दमयन्त्याः स्वयंवरम्। एकाला हयतत्त्वज्ञ मन्यसे यदि बाहुक॥ एवमुक्तस्य कौन्तेय तेन राज्ञा नलस्य ह। व्यदीर्यत मनो दुःखात् प्रदध्यौ च महामनाः॥ दमयन्ती वदेदेतत् कुर्याद् दुःखेन मोहिता। अस्मदर्थे भवेद् वायमुपायश्चिन्तितो महान्॥ नृशंसं बत वैदर्भी भर्तृकामा तपस्विनी। मया क्षुद्रेण निकृता कृपणा पापबुद्धिना॥ स्त्रीस्वभावश्चलो लोके मम दोषश्च दारुणः। स्यादेवभपि कुयात् सा विवासाद् गतसौहृदा॥ मम शोकेन संविग्ना नैराश्यात् तनुमध्यमा। नैवं सा कर्हिचित् कुर्यात् सापत्या च विशेषतः॥ यदत्र सत्यं वासत्यं गत्वा वेत्स्यामि निश्चयम्। ऋतुपर्णस्य वै काममात्मार्थं च करोम्यहम्॥ इति निश्चित्य मनसा बाहुको दीनमानसः। कृताञ्जलिरुवाचेदमृतुपर्णं जनाधिपम्॥ प्रतिजानामि ते वाक्यं गमिष्यामि नराधिप। एकाह्रा पुरुषव्याघ्र विदर्भनगरी नृप॥ ततः परीक्षामश्वानां चक्रे राजन् स बाहुकः। अश्वशालामुपागम्य भागासुरिनृपाज्ञया॥ स त्वर्यमाणो बहुश ऋतुपर्णेन बाहुकः। अश्वाञ्जिज्ञासमानो वै विचार्य च पुनः पुनः। अभ्यगच्छत् कृशानश्वान् समर्थानध्वनि क्षमान्॥ तेजोबलसमायुक्तान् कुलशीलसमन्वितान्। वर्जिताँल्लक्षणैर्हनिः पृथुप्रोथान् महाहनून्॥ शुद्धान् दशभिरावर्तेः सिन्धुजान् वातरंहसः। दृष्ट्वा तानब्रवीद् राजा किंचित् कोपसमन्वितः॥ किमिदं प्रार्थितं कर्तुं प्रलब्धव्या न ते वयम्। कथमल्पबलप्राणा वक्ष्यन्तीमे हया मम। महदध्वानमपि च गन्तव्यं कथमीदृशैः॥ बाहुक उवाच एको ललाटे द्वौ मूर्ध्नि द्वौ द्वौ पार्थोपपार्श्वयोः। द्वौ द्वौ वक्षसि विज्ञेयौ प्रयाणे चैक एव तु॥ एते हया गमिष्यन्ति विदर्भान् नात्र संशयः॥ यानन्यान् मन्यसे राजन् ब्रूहि तान् योजयामि ते॥ ऋतुपर्ण उवाच त्वमेव हयतत्त्वज्ञः कुशलो ह्यसि बाहुक। यान् मन्यसे समर्थांस्त्वं क्षिप्रं तानेव योजय॥ ततः सदश्वांश्चतुरु कुलशीलसमन्वितान्। योजयामास कुशलो जवयुक्तान् रथे नलः॥ ततो युक्तं रथं राजा समारोहत् त्वरान्वितः। अथ पर्यपतन् भूमौ जानुभिस्ते हयोत्तमाः॥ ततो नरवरः श्रीमान् नलो राजा विशाम्पते। सान्त्वयामास तानश्वांस्तेजोबलसमन्वितान्॥ रश्मिभिश्च समुद्यम्य नलो यातुमियेष सः। सूतमारोप्य वार्ष्णेयं जवमास्थाय वै परम्॥ ते चोद्यमाना विधिवद् बाहुकेन हयोत्तमाः। समुत्पेतुरथाकाशं रथिनं मोहयन्निव॥ तथा तु दृष्ट्वा तानश्वान् वहतो वातरंहसः। अयोध्याधिपतिः श्रीमान् विस्मयं परमं ययौ॥ रथघोषं तु तं श्रुत्वा हयसंग्रहणं च तत्। वार्ष्णेयश्चिन्तयामास बाहुकस्य हयज्ञताम्॥ किं नु स्यान्मातलिरयं देवराजस्य सारथिः। तथा तल्लक्षणं वीरे बाहुके दृश्यते महत्॥ शालिहोत्रोऽथ किं नु स्याद्धयानां कुलतत्त्ववित्। मानुषं समनुप्राप्तो वपुः परमशोभनम्॥ उताहोस्विद् भवेद् राजा नल: परपुरंजयः। सोऽयं नृपतिरायात इत्येवं समचिन्तयत्॥ अथ चेह नलो विद्यां वेत्ति तामेव बाहुकः। तुल्यं हि लक्षये ज्ञानं बाहुकस्य नलस्य च॥ अपि चेदं वयस्तुल्यं बाहुकस्य नलस्य च। नायं नलो महावीर्यस्तद्धिद्यश्च भविष्यति॥ प्रच्छन्ना हि महात्मानश्चरन्ति पृथिवीमिमाम्। दैवेन विधिना युक्ताः शास्त्रोक्तैश्च निरूपणैः॥ भवेन्न मतिभेदो मे गात्रवैरूप्यतां प्रति। प्रमाणात् परिहीनस्तु भवेदिति मतिर्मम॥ वय:प्रमाणं तत्तुल्यं रूपेण तु विपर्ययः। नलं सर्वगुणैर्युक्तं मन्ये बाहुकमन्ततः॥ एवं विचार्य बहुशो वार्ष्णेयः पर्यचिन्तयत्। हृदयेन महाराज पुण्यश्लोकस्य सारथिः॥ ऋतुपर्णश्च राजेन्द्रो बाहुकस्य हयज्ञताम्। चिन्तयन् मुमुदे राजा सहवार्ष्णेयसारथिः॥ ऐकाग्र्यं च तथोत्साहं हयसंग्रहणं च तत्। परं यत्नं च सम्प्रेक्ष्य परां मुदमवाप ह॥ बृहदश्व उवाच ततो विदर्भान् सम्प्राप्तं सायाह्ने सत्यविक्रमम्। ऋतुपर्णं जना राज्ञे भीमाय प्रत्यवेदयन्॥ स भीमवचनाद् राजा कुण्डिनं प्राविशत् पुरम्।। नादयन् रथघोषेण सर्वाः स विदिशो दिशः॥ ततस्तं रथनिर्घोषं नलाश्वास्तत्र शुश्रुवुः। श्रुत्वा तु समहृष्यन्त पुरेव नलसंनिधौ॥ दमयन्ती तु शुश्राव रथघोषं नलस्य तम्। यथा मेघस्य नदतो गम्भीरं जलदागमे॥ परं विस्मयमापन्ना श्रुत्वा नादं महास्वनम्। नलेन संगृहीतेषु पुरेव नलवाजिषु। सदृशं स्थनिर्घोषं मेने भैमी तथा हयाः॥ प्रासादस्थाश्च शिखिनः शालास्थाश्चैव वारणाः। हयाश्च शुश्रुवुस्तस्य रथघोषं पहीपतेः॥ तच्छुत्वा रथनिर्घोषं वारणा: शिखिनस्तथा। प्रणेदुरुन्मुखा राजन् मेघनाद् इवोत्सुकाः॥ दमयन्त्युवाच यथासौ रथनिर्घोषः पूरयन्निव मेदिनीम्। ममाह्लादयते चेतो नल एष महीपतिः॥ अद्य चन्द्राभवक्त्रं तं न पश्यामि नलं यदि। असंख्येगुणं वीरं विनश्यामि न संशयः॥ यदि वै तस्य वीरस्य बाह्वोर्नाद्याहमन्तरम्। प्रविशामि सुखस्पर्श न भविष्याम्यसंशयम्॥ यदि मां मेघनिर्घोषो नोपगच्छति नैषधः। अद्य चामीकरप्रख्यं प्रवेक्ष्यामि हुताशनम्॥ यदि मां सिंहविक्रान्तो मत्तवारणविक्रमः। नाभिगच्छति राजेन्द्रो विनइक्ष्यामि न संशयः॥ न स्मराम्यनृतं किंचिन्न स्मराम्यपकारताम्। न च पर्युषितं वाक्यं स्वैरेष्वपि कदाचन॥ प्रभुः क्षमावान् वीरश्च दाता चाप्यधिको नृपः। रहोऽनीचानुवर्ती च क्लीबवन्मम नैषधः॥ गुणांस्तस्य स्मरन्त्या मे तत्पराया दिवानिशम्। हृदयं दीर्यत इदं शोकात् प्रियविनाकृतम्॥ एवं विलपमाना सा नष्टसंज्ञेव भारत। आरुरोह महद् वेश्म पुण्यश्लोकदिदृक्षया॥ ततो मध्यमकक्षायां ददर्श रथमास्थितम्। ऋतुपर्णं महीपालं सहवार्ष्णेयबाहुकम्॥ वै ततोऽवतीर्य वार्ष्णेयो बाहुकश्च रथोत्तमात्। हयांस्तानवमुच्याथ स्थापयामास रथम्॥ सोऽवतीर्य रथोपस्थादृतुपर्णो नराधिपः। उपतस्थे महाराज भीमं भीमपराक्रमम्॥ तं भीमः प्रतिजग्राह पूजया परया ततः। स तेन पूजितो राज्ञा ऋतुपर्णो नराधिपः॥ स तत्र कुण्डिने रम्ये वसमानो महीपतिः। न च किंचित् तदापश्यत् प्रेक्षमाणो मुहुर्मुहुः। स तु राज्ञा समागम्य विदर्भपतिना तदा॥ अकस्मात् सहसा प्राप्तं स्त्रीमन्त्रं न स्म विन्दति। किं कार्यं स्वागतं तेऽस्तु राजा पृष्टः स भारत॥ नाभिजज्ञे स नृपतिर्दुहित्रर्थे समागतम्। ऋतुपर्णोऽपि राजा सधीमान् सत्यपराक्रमः॥ राजानं राजपुत्रं वा न स्म पश्यति कंचन। नैव स्वयंवरकथां न च विप्रसमागमम्॥ ततो व्यगणयद् राजा मनसा कोसलाधिपः। आगतोऽस्मीत्युवाचैनं भवन्तमभिवादकः॥ राजापि च स्मयन् भीमो मनसा समचिन्तयन्। अधिकं योजनशतं तस्यागमनकारणम्॥ ग्रमान् बहूनतिक्रम्य नाध्यगच्छद् यथातथम्। अल्पकार्य विनिर्दिष्टं तस्यागमनकारणम्॥ पश्चादुदर्के ज्ञास्यामि कारणं यद् भविष्यति। नैतदेवं स नृपतिस्तं सत्कृत्य व्यसर्जयत्॥ विश्राम्यतामित्युवाच क्लान्तोऽसीति पुनः पुनः। स सत्कृतः प्रहृष्टात्मा प्रीतः प्रीतेन पार्थिवः॥ राजप्रेष्यैरनुगतो दिष्टं वेश्म समाविशत्। ऋतुपर्णे गते राजन् वार्ष्णेयसहिते नृपे॥ बाहुको रथमादाय रथशालामुपागमत्। स मोचयित्वा तानश्वानुपचर्य च शास्त्रतः॥ स्वयं चैतान् समाश्वास्य रथोपस्थ उपविशत्। दमयन्त्यपि शोकार्ता दृष्ट्वा भागासुरिं नृपम्॥ सुतपुत्रं च वार्ष्णेय बाहुकं च तथाविधम्। चिन्तयामास वैदर्भी कस्यैष रथनिःस्वनः॥ नलस्येव महानासीन च पश्यामि नैषधम्। वार्ष्णेयेन भवेन्नूनं विद्या सैवोपशिक्षिता॥ तेनाद्य रथनिर्घोषो नलस्येव महानभूत्। आहोस्विदूतुपर्णोऽपि यथा राजा नलस्तथा। यथायं स्थनिर्घोषो नैषधस्येव लक्ष्यते॥ एवं सा तर्कयित्वा तु दमयन्ती विशाम्पत। दूतीं प्रस्थापयामास नैषधान्वेषणे शुभा॥ बृहदश्व उवाच सर्वं विकारं दृष्ट्वा तु पुण्यश्लोकस्यधीमतः। आगत्य केशिनी सर्वं दमयन्त्यै न्यवेदयत्॥ दमयन्ती ततो भूयः प्रेषयामास केशिनीम्। मातुः सकाशं दुःखार्ता नलदर्शनकाक्षया॥ परीक्षितो मे बहुशो बाहुको नलशङ्कया। रूपे मे संशयस्त्वेकः स्वयमिच्छामि वेदितुम्॥ स वा प्रवेश्यतां माताँ वानुज्ञातुमर्हसि। विदितं वाथवा ज्ञातं पितुर्मे संविधीयताम्॥ एवमुक्ता तु वैदा सा देवी भीममब्रवीत्। दुहितुस्तमभिप्रायमन्वजानात् स पार्थिवः॥ सा वै पित्राभ्यनुज्ञाता मात्रा च भरतर्षभ। नलं प्रवेशयामास यत्र तस्याः प्रतिश्रयः॥ तां स्म दृष्ट्वैव सहसा दमयन्ती नलो नृपः। आविष्टः शोकदुःस्वाभ्यां बभूवाश्रुपरिप्लुतः॥ तं तु दृष्ट्वा तथायुक्तं दमयन्ती नलं तदा। तीव्रशोकसमाविष्टा बभूव वरवर्णिनी॥ ततः काषायवसना जटिला मलपङ्किनी। दमयन्ती महाराज बाहुकं वाक्यमब्रवीत्॥ पूर्वं दृष्टस्त्वया कश्चिद्धर्मज्ञो नाम बाहुका सुप्तामृत्सृज्य विपिने गतो यः पुरुषः स्त्रियम्॥ अनागसं प्रियां भार्यां विजने श्रममोहिताम्। अपहाय तु को गच्छेत् पुण्यश्लोकमृते नलम्॥ किमु तस्य मया बाल्यादपराद्धं महीपतेः। यो मामुत्सृज्य विपिने गतवान् निद्रयार्दिताम्॥ साक्षाद् देवानपाहाय वृतो यः स पुरा मया। अनुव्रतां साभिकामां पुत्रिणीं त्यक्तवान् कथम्॥ अग्नौ पाणिं गृहीत्वा तु देवानामग्रतस्तथा। भविष्यामीति सत्यं तु प्रतिश्रुत्य क्व तद् गतम्॥ दमयन्त्या ब्रुवन्त्यास्तु सर्वमेतदरिंदम्। शोकजं वारि नेत्राभ्यामसुखं प्रास्रवद् बहु॥ अतीव कृष्णसाराभ्यां रक्तान्ताभ्यां जलं तु तत्। परिस्रवन् नलो दृष्ट्वा शोकार्तामिदमब्रवीत्।॥ मम राज्यं प्रणष्टं यन्नाहं तत् कृतवान् स्वयम्। कलिना तत् कृतं भीरु यच्च त्वामहमत्यजम्॥ यत् त्वयाधर्मकृच्छ्रे तु शापेनाभिहतः पुरा। वनस्थया दुःखितया शोचन्त्या मां दिवानिशम्॥ स मच्छरीरे त्वच्छापाद् दह्यमानोऽवसत् कलिः। त्वच्छापदग्धः सततं सोऽग्नावग्निरिवाहितः॥ मम च व्यवसायेन तपसा चैव निर्जितः। दुःखस्यान्तेन चानेन भवितव्यं हि नौ शुभे॥ विमुच्य मां गतः पापस्ततोऽहमिह चागतः। त्वदर्थं विपुलश्रोणि न हि मेऽन्यत् प्रयोजनम्॥ कथं नु नारी भर्तारमनुरक्तमनुव्रतम्। उत्सृज्य वरयेदन्यं यथा त्वं भीरु कर्हिचित्॥ दूताश्चरन्ति पृथिवीं कृत्स्नां नृपतिशासनात्। भैमी किल स्म भर्तारं द्वितीयं वरयिष्यति॥ स्वैरवृत्ता यथाकाममनुरूपमिवात्मनः। श्रुत्वैव चैवं त्वरितो भाङ्गासुरिरुपस्थितः॥ दमयन्ती तु तच्छ्रुत्वा नलस्य परिदेवितम्। प्राञ्जलिर्वेपमाना च भीता वचनमब्रवीत्॥ दमयन्त्युवाच न मामर्हसि कल्याण दोषेण परिशङ्कितुम्। मया हि देवानुत्सृज्य वृतस्त्वं निषधाधिप॥ तवाभिगमनार्थं तु सर्वतो ब्राह्मणा गताः। वाक्यानि मम गाथाभिर्गायमाना दिशो दश॥ ततस्त्वां ब्राह्मणो विद्वान् पर्णादो नाम पार्थिव। अभ्यगच्छत् कोसलायामृतुपर्णनिवेशने॥ तेन वाक्ये कृते सम्यक् प्रतिवाक्ये तथाऽऽहते। उपायोऽयं मया दृष्टो नैषधानयने तव॥ त्वामृते न हि लोकेऽन्य एकाह्ना पृथिवीपते। समर्थो योजनशतं गन्तुमश्चैवर्नराधिप॥ स्पृशेयं तेन सत्येन पादावेतौ महीपते। यथा नासत्कृतं किंचिन्मनसापि चराम्यहम्॥ अयं चरति लोकेऽस्मिन् भूतसाक्षी सदागतिः। एव मे मुञ्चतु प्राणान् यदि पापं चराम्यहम्॥ यथा चरति तिग्मांशुः परेण भुवनं सदा। स मुञ्चतु मम प्राणान् यदि पापं चराम्यहम्॥ चन्द्रमाः सर्वभूतानामन्तश्चरति साक्षिवत्। स मुञ्चतु मम प्राणान् यदि पापं चराम्यहम्॥ एते देवास्त्रयः कृत्स्नं त्रैलोक्यंधारयन्ति वै। विब्रुवन्तु यथा सत्यमेतद् देवास्त्यजन्तु माम्॥ एवमुक्तस्तथा वायुरन्तरिक्षादभाषत। नैषा कृतवती पापं नल सत्यं ब्रवीमि ते॥ राजज्छीलनिधिः स्फीतो दमयन्त्या सुरक्षितः साक्षिणो रक्षिणश्चास्या वयं त्रीन् परिवत्सरान्॥ उपायो विहितश्चायं त्वदर्थमतुलोऽनया। न ह्यकोछा शतं गन्ता त्वामृतेऽन्यः पुमानिह॥ उपपन्ना त्वया भैमी त्वं च भैम्या महीपते। नात्र शङ्का त्वया कार्या संगच्छ सह भार्यया॥ तथा ब्रुवति वायौ तु पुष्पवृष्टिः पपात ह। देवदुन्दुभयो नेदुर्ववौ च पवनः शिवः॥ तदद्भुतमयं दृष्ट्वा नलो राजाथ भारत। दमयन्त्यां विशङ्कां तामुपाकर्षदरिंदमः॥ ततस्तद् वस्त्रमजरं प्रावृणोद् वसुधाधिपः। संस्मृत्य नागराजं तं ततो लेभे स्वकं वपुः॥ स्वरूपिणं तु भर्तारं दृष्ट्वा भीमसुता तदा। प्राक्रोशदुच्चैरालिङ्गय पुण्यश्लोकमनिन्दिता॥ भैमीमपि नलो राजा भ्राजमनो यथा पुरा। सस्वजे स्वसुतौ चापि यथावत् प्रत्यनन्दत॥ ततः स्वोरसि विन्यस्य वक्त्रं तस्य शुभानना। परीता तेन दुःखेन निशश्वासायतेक्षणा॥ तथैव मलदिग्धाङ्गी परिष्वज्य शुचिस्मिताम्। सुचिरं पुरुषव्याघ्रस्तस्थौ शोकपरिप्लुतः॥ ततः सर्वं यथावृत्तं दमयन्त्या नलस्य च। भीमायाकथयत् प्रीत्या वैदा जननी नृप॥ ततोऽब्रवीन्महाराजः कृतशौचमहं नलम्। दमयन्त्या सहोपेतं कल्ये द्रष्टा सुखोषितम्॥ ततस्तौ सहितौ रात्रिं कथयन्तौ पुरातनम्। वने विचरितं सर्वमूषतुर्मुदितौ नृप॥ गृहे भीमस्य नृपतेः परस्परसुखैषिणौ। वसेतां हृष्टसंकल्पौ वैदर्भी च नलश्च ह॥ स चतुर्थे ततो वर्षे संगम्य सह भार्यया। सर्वकामैः सुसिद्धार्थो लब्धवान् परमां मुदम्॥ दमयन्त्यपि भर्तारमासाद्याप्यायिता भृशम्। अर्धसंजातसस्येव तोयं प्राप्य वसुंधरा॥ सैवं समेत्य व्यपनीय तन्द्रां शान्तज्वरा हर्षविवृद्धसत्त्वा। रराज भैमी समवाप्तकामा शीतांशुना रात्रिरिवोदितेन॥ बृहदश्व उवाच अथ तां व्युषितो रात्रि नलो राजा स्वलंकृतः। वैदा सहितः काले ददर्श वसुधाधिपम्॥ ततोऽभिवादयामास प्रयतः श्वशुरं नलः। ततोऽनु दमयन्ती च ववन्दे पितरं शुभा॥ तं भीमः प्रतिजग्राह पुत्रवत् परया मुदा। यथार्ह पूजयित्वा च समाश्वासयत प्रभुः॥ नलेन सहितां तत्र दमयन्ती पतिव्रताम्। तामहणां नलो राजा प्रतिगृह्य यथाविधि॥ परिचर्यां स्वकां तस्मै यथावत् प्रत्यवेदयत्। ततो बभूव नगरे सुमहान् हर्षजः स्वनः॥ जनस्य सम्प्रहृष्टस्य नलं दृष्ट्वा तथाऽऽगतम्। अशोभयच्च नगरं पताकाध्वजमालिनम्॥ सिक्ताः सुमृष्टपुष्पाढ्या राजमार्गाः स्वलंकृताः। द्वारि द्वारि च पौराणां पुष्पभङ्गः प्रकल्पितः॥ अर्चितानि च सर्वाणि देवतायतनानि च। ऋतुपर्णोऽपि सुश्राव बाहुकच्छद्मिनं नलम्॥ दमयन्त्या समायुक्तं जहषे च नराधिपः। तमानाय्य नलं राजा क्षमयामास पार्थिवम्॥ स च तं क्षमयामास हेतुभिर्बुद्धिसम्मितः। स सत्कृतो महीपालो नैषधं विस्मिताननः॥ उवाच वाक्यं तत्त्वज्ञो नैषधं वदतां वरः। दिष्ट्या समेतो दारैः स्वैर्भवानित्यभ्यनन्दत॥ किंचित् तु नापराधं ते कृतवानस्मि नैषध। अज्ञातवासे वसतो मद्गृहे वसुधाधिप॥ यदिवाबुद्धिपूर्वाणि यदि बुद्ध्यापि कानिचित्। मया कृतान्यकार्याणि तानि त्वं क्षन्तुमर्हसि॥ नल उवाच न मेऽपराधं कृतवांस्त्वं स्वल्पमपि पार्थिव। कृतेऽपि च न मे कोपः क्षन्तव्यं हि मया तव॥ पूर्वं ह्यपि सखा मेऽसि सम्बन्धी च जनाधिप। अत ऊर्ध्वं तु भूयस्त्वं प्रीतिमाहर्तुमर्हसि॥ सर्वकामैः सुविहितैः सुखमसम्युषितस्त्वयि। न तथा स्वगृहे राजन् यथा तव गृहे सदा॥ इदं चैव हयज्ञानं त्वदीयं मयि तिष्ठति। तदुपाकर्तुमिच्छामि मन्यसे यदि पार्थिवा एवमुक्त्वा ददौ विद्यामृतुपर्णाय नैषधः॥ स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा। गृहीत्वा चाश्वहदयं राजन् भागासुरिर्नृपः॥ निषधाधिपतेश्चापि दत्त्वाक्षहृदयं नृपः। सूतमन्यमुपादाय ययौ स्वपुरमेव ह॥ ऋतुपर्णे गते राजन् नलो राजा विशाम्पते। नगरे कुण्डिने कालं नातिदीर्घमिवावसत्॥ बृहदश्व उवाच प्रशान्ते तु पुरे हृष्टे सम्प्रवृत्ते महोत्सवे। महत्या सेनया राजा दमयन्तीमुपानयत्॥ दमयन्तीमपि पिता सत्कृत्य परवीरहा। प्रास्थापयदमेयात्मा भीमो भीमपराक्रमः॥ अगतायां तु वैदर्त्यां सपुत्रायां नलो नृपः। वर्तयामास मुदितो देवराडिव नन्दने॥ तथा प्रकाशतां यातो जम्बुद्वीपे स राजसु। पुनः शशास तद् राज्यं प्रत्याहृत्य महायशाः॥ ईजे च विविधैर्यज्ञैर्विधिवच्चाप्तदक्षिणैः। तथा त्वमपि राजेन्द्र ससुहृद् यक्ष्यसेऽचिरात्॥ दुःखमेतादृशं प्राप्तो नल: परपुरंजयः। देवनेन नरश्रेष्ठ सभार्यो भरतर्षभ।॥ एकाकिनैव सुपहन्नलेन पृथिवीपते। दुःखमासादितं घोरं प्राप्तश्चाभ्युदयः पुनः॥ त्वं पुनर्धातृसहितः कृष्णाया चैव पाण्डव। रमसेऽस्मिन् महारण्येधर्ममेवानुचिन्तयन्॥ ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः। नित्यमन्वास्यसे राजंस्तत्र का परिदेवना॥ कर्कोटकस्य नागस्य दमयन्त्या नलस्य च। ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम्॥ इतिहासमिमं चापि कलिनाशनमच्युत। शक्यमाश्वसितुं श्रुत्वा त्वद्विधेन विशाम्यते॥ अस्थिरत्वं च संचिन्त्य पुरुषार्थस्य नित्यदा। तस्योदये व्यये चापि न चिन्तयितुमर्हसि॥ श्रुत्वेतिहासं नृपते समाश्वसिहि मा शुचः। व्यसने त्वं महाराज न विषीदितुमर्हसि॥ विषमावस्थिते दैवे पौरुषेऽफलतां गते। विषादयन्ति नात्मानं सत्त्वोपाश्रयिणो नराः॥ ये चेदं कथयिष्यन्ति नलस्य चरितं महत्। श्रोष्यन्ति चाप्यभीक्ष्णं वै नालक्ष्मीस्तान् भजिष्यति।१५।। अर्थास्तस्योपपत्स्यन्तेधन्यतां च गमिष्यति। इतिहासमिमं श्रुत्वा पुराणं शश्वदुत्तमम्॥ पुत्रान् पौत्रान् पशृंश्चापि लभते नृषु चावयताम्। आरोग्यप्रीतिमांश्चैव भविष्यति न संशयः॥ भयात् त्रस्यसि यच्च त्वमाह्वयिष्यति मां पुनः। अक्षज्ञ इति तत् तेऽहं नाशयिष्यामि पार्थिव॥ वेदाक्षहृदयं कृत्स्नमहं सत्यपराक्रम। उपपद्यस्व कौन्तेय प्रसन्नोऽहं ब्रवीमि ते॥ वैशम्पायन उवाच ततो हृष्टमना राजा वृहदश्वमुवाच ह। भगवन्नक्षहृदयं ज्ञातुमिच्छामि तत्त्वतः॥ ततोऽक्षहृदयं प्रादात् पाण्डवाय महात्मने। दत्त्वा चाश्वशिरोऽगच्छदुपस्प्रष्टुं महातपाः॥ बृहदश्वे गते पार्थमश्रौषीत् सव्यसाचिनम्। वर्तमानं तपस्युग्रे वायुभक्षं मनीषिणम्॥ ब्राह्मणेभ्यस्तपस्विभ्यः सम्पतझ्यस्ततस्ततः। तीर्थशैलवनेभ्यश्च समेतेभ्यो दृढव्रतः॥ इति पार्थो महावाहुर्दुरापं तप आस्थितः। न तथा दृष्टपूर्वोऽन्यः कश्चिदुग्रतपा इति॥ यथाधनंजयः पार्थस्तपस्वी नियतव्रतः। मुनिरेकचरः श्रीमान्धर्मो विग्रहवानिव॥ तं श्रुत्वा पाण्डवो राजंस्तव्यमानं महावने। अन्वशोचत कौन्तेयः प्रियं वै भ्रातरं जयम्॥ दह्यमानेन तु हृदा शरणार्थी महावने। ब्राह्मणान् विविधज्ञानान् पर्यपृच्छद् युधिष्ठिरः॥ जनमेजय उवाच भगवन् काम्यकात् पार्थे गते मे प्रपितामहे। पाण्डवाः किमकुर्वंस्ते तमृते सव्यसाचिनम्॥ स हि तेषां महेष्वासो गतिरासीदनीकजित्। आदित्यानां यथा विष्णुस्तथैव प्रतिभाति मे॥ तेनेन्द्रसमवीर्येण संग्रामेष्वनिवर्तिना। विनाभूता वने वीराः कथमासन् पितामहाः॥ वैशम्पायन उवाच गते तु पाण्डवे तात काम्यकात् सत्यविक्रमे। बभूवुः पाण्डवेयास्ते दुःखशोकपरायणाः॥ आक्षिप्तसूत्रा मणयश्छिन्नपक्षा इव द्विजाः। अप्रीतमनसः सर्वे बभूवुरथ पाण्डवाः॥ वनं तु तदभूत् तेन हीनमक्लिष्टकर्मणा। कुबेरेण यथा हीनं वनं चैत्ररथं तथा॥ तमृते ते नरव्याघ्राः पाण्डवा जनमेजय। मुदमप्राप्नुवन्तो वै काम्यके न्यवसंस्तदा॥ ब्राह्मणार्थे पराक्रान्ता: शुद्धैर्बाणैर्महारथाः। निघ्नन्तो भरतश्रेष्ठ मेध्यान् बहुविधान् मृगान्॥ नित्यं हि पुरुषव्याघ्रा वन्याहारमरिदमाः। उपाकृत्य उपाहृत्य ब्राह्मणेभ्यो न्यवेदयन्॥ सर्वे संन्यवसंस्तत्र सोत्कण्ठाः पुरुषर्षभाः। अहृष्टमनसः सर्वे गते राजन्धनंजये।॥ विशेषतस्तु पाञ्चाली स्मरन्ती मध्यमं पतिम्। उद्विग्नं पाण्डवश्रेष्ठमिदं वचनमब्रवीत्॥ योऽर्जुनेनार्जुनस्तुल्यो द्विवाहुबहुबाहुना। तमृते पाण्डवश्रेष्ठ वनं न प्रतिभाति मे॥ शून्यामिव प्रपश्यामि तत्र तत्र महीमिमाम्। बह्लाश्चर्यमिदं चापि वनं कुसुमितदुमम्॥ न तथा रमणीयं वै तमृते सव्यसाचिनम्। नीलाम्बुदसमप्रख्यं मत्तमातङ्गगामिनम्॥ तमृते पुण्डरीकाक्षं काम्यकं नातिभाति मे। यस्य वाधनुषो घोषः श्रूयते चाशनिस्वनः। न लभे शर्म वै राजन् स्मरन्ती सव्यसाचिनम्॥ तथा लालप्यमानां तां निशम्य परवीरहा। भीमसेनो महाराज द्रौपदीमिदमब्रवीत्॥ भीम उवाच मनःप्रीतिकरं भद्रे यद् ब्रवीषि सुमध्यमे। तन्मे प्रीणाति हृदयममृतप्राशनोपमम्॥ यस्य दी? समौ पीनौ भुजौ परिघसंनिभौ। मौर्वीकृतकिणौ वृत्तौ खङ्गायुधधनुर्धरौ॥ निष्काइदकृतापीडौ पञ्चशीर्षाविवोरगौ। तमृते पुरुषव्याघ्रं नष्टसूर्यमिवाम्बरम्॥ यमाश्रित्य महाबाहुं पाञ्चालाः कुरवस्तथा। सुराणामपि मत्तानां पृतनासुन बिभ्यति॥ यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः। मन्यामहे जितानाजौ परान् प्राप्तां च मेदिनीम्॥ तमृते फाल्गुनं वीरं न लभे काम्यकेधृतिम्। पश्यामि च दिशः सर्वास्तिमिरेणावृता इव। ततोऽब्रवीत् साश्रुकण्ठो नकुलः पाण्डुनन्दनः॥ नकुल उवाच यस्मिन् दिव्यानि कर्माणि कथयन्ति रणाजिरे। देवा अपि युधां श्रेष्ठं तमृते का रतिर्वने॥ उदीची यो दिशं गत्वा जित्वा युधि महाबलान्। गन्धर्वमुख्याञ्छतशो हयाँल्लेभे महाद्युतिः॥ राज्ञे तित्तिरिकल्माषाञ्छ्रीमतोऽनिलरंहसः। प्रादाद् भ्रात्रे प्रियः प्रेम्णा राजसूये महाक्रतौ॥ तमृते भीमधन्वानं भीमादवरजं वने। कामये काम्यके वासं नेदानीममरोपमम्॥ सहदेव उवाच योधनानि च कन्याश्च युधि जित्वा महारथः। आजहार पुरा राजे राजसूये महाक्रतौ॥ यः समेतान् मृधे जित्वा यादवानमितद्युतिः। सुभद्रामाजहारैको वासुदेवस्य सम्मते॥ तस्य जिष्णोतसीं दृष्ट्वा शून्यामिव निवेशने। हृदयं मे महाराज न शाम्यति कदाचन॥ वनादस्माद् विवासं तु रोचयेऽहमरिंदम्। न हि नस्तमृते वीरं रमणीयमिदं वनम्॥ पुलस्त्य उवाच अनेन तवधर्मज्ञ प्रश्रयेण दमेन च। सत्येन च महाभाग तुष्टोऽस्मि तव सुव्रत॥ यस्येदृशस्तेधर्मोऽयं पितृभक्त्याश्रितोऽनघ। तेन पश्यसि मां पुत्र प्रीतिश्च परमा त्वयि॥ अमोघदर्शी भीष्माहं ब्रूहि किं करवाणि ते। यद् वक्ष्यसि कुरुश्रेष्ठ तस्य दातास्मि तेऽनघ॥ भीष्म उवाच प्रीते त्वयि महाभाग सर्वलोकाभिपूजिते। कृतमेतावता मन्ये यदहं दृष्टवान् प्रभुम्॥ यदि त्वहमनुग्राह्यस्तवधर्मभृतां वर। संदेहं ते प्रवक्ष्यामि तन्मे त्वं छेत्तुमर्हसि॥ अस्ति मे हृदये कश्चित् तीर्थेभ्योधर्मसंशयः। तमहं श्रोतुमिच्छामि तद् भवान् वक्तुमर्हति॥ प्रदक्षिणां यः पृथिवीं करोत्यमरसंनिभ। किं फलं तस्य विप्रर्षे तन्मे ब्रूहि सुनिश्चितम्॥ पुलस्त्य उवाच हन्त ते कथयिष्यामि यदृषीणां परायणम्। तदेकाग्रमनाः पुत्र शृणु तीर्थेषु यत् फलम्॥ यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम्। विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते॥ प्रतिग्रहादपावृत्तः संतुष्टो येन केनचित्। अहंकारनिवृत्तश्च स तीर्थफलमश्नुते॥ अकल्कको निरारम्भो लघ्वाहारो जितेन्द्रियः। विमुक्तः सर्वपापेभ्यः स तीर्थफलमश्नुते॥ अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः। आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते॥ ऋषिभिः क्रतवः प्रोक्ता देवेष्विह यथाक्रमम्। फलं चैव यथातथ्यं प्रेत्य चेह च सर्वशः॥ न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते। बहूपकरणा यज्ञा नानासम्भारविस्तराः॥ प्राप्यन्ते पार्थिवैरेते समृद्धैर्वा नरैः क्वचित्। नार्थन्यूनै वगणैरेकात्मभिरसाधनैः॥ यो दरिद्रैरपि विधिः शक्यः प्राप्तुं नरेश्वर। तुल्यो यज्ञफलैः पुण्यैस्तुं निबोध युधां वर॥ ऋषीणां परमं गुह्यमिदं भरतसत्तम। तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते॥ अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च। अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते॥ अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः। न तत् फलमवाप्नोति तीर्थाभिगमनेन यत्॥ नृलोके देवदेवस्य तीर्थं त्रैलोक्यविश्रुतम्। पुष्करं नाम विख्यातं महाभागः समाविशेत्॥ दशकोटिसहस्राणि तीर्थानां वै महामते। सांनिध्यं पुष्करे येषां त्रिसंध्यं कुरुनन्दन॥ आदित्या वसवो रुद्राः साध्याश्च समरुद्गणाः। गन्धर्वाप्सरसश्चैव नित्यं संनिहिता विभो॥ यत्र देवास्तपस्तत्त्वा दैत्या ब्रह्मर्षयस्तथा। दिव्ययोगा महाराज पुण्येन महतान्विताः॥ मनसाप्यभिकामस्य पुष्कराणि मनस्विनः। पूयन्ते सर्वपापानि नाकपृष्ठे च पूज्यते॥ तस्मिंस्तीर्थे महाराज नित्यमेव पितामहः। उवास परमप्रीतो भगवान् कमलासनः॥ पुष्करेषु महाभाग देवाः सर्षिगणाः पुरा। सिद्धिं समभिसम्प्राप्ताः पुण्येन महतान्विताः॥ तत्राभिषेकं यः कुर्यात् पितृदेवार्चने रतः। अश्वमेधाद् दशगुणं फलं प्राहुर्मनीषिणः॥ अप्येकं भोजयेद् विप्रं पुष्करारण्यमाश्रितः। तेनासौ कर्मणा भीष्म प्रेत्य चेह च मोदते॥ शाकैर्मूलैः फलैर्वापि येन वर्तयते स्वयम्। तद् वै दद्याद् ब्राह्मणाय श्रद्धावाननसूयकः॥ तेनैव प्राप्नुयात् प्राज्ञो हयमेधफलं नरः। ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वा राजसत्तम॥ न वै योनौ प्रजायन्ते सघतास्तीर्थे महात्मनः। कार्तिकी तु विशेषेण योऽभिगच्छति पुष्करम्॥ प्राप्नुयात् स नरो लोकान् ब्रह्मणः सदनेऽक्षयान्। सायं प्रातः स्मरेद् यस्तु पुष्कराणि कृताञ्जलिः॥ उपस्पृष्टं भवेत् तेन सर्वतीर्थेषु भारत। जन्मप्रभृति यत् पापं स्त्रिया वा पुरुषेण वा॥ पुष्करे स्नातमात्रस्य सर्वमेव प्रणश्यति। यथा सुराणां सर्वेषामादिस्तु मधुसूदनः॥ तथैव पुष्करं राजंस्तीर्थानामादिरुच्यते। उष्ट्वा द्वादश वर्षाणि पुष्करे नियतः शुचिः॥ क्रतून् सर्वानवाप्नोति ब्रह्मलोकं स गच्छति। यस्तु वर्षशतं पूर्णमग्निहोत्रमुपासते।॥ कार्तिकी वा वसेदेकां पुष्करे सममेव तत्॥ त्रीणि शृङ्गाणि शुभ्राणि त्रीणि प्रस्रवणानि च। पुष्कराण्यादिसिद्धानि न विद्मस्तत्र कारणम्॥ दुष्करं पुष्करे गन्तुं दुष्करं पुष्करे तपः। दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम्॥ उष्य द्वादशरात्रं तु नियतो नियताशन:। प्रदक्षिणमुपावृत्य जम्बूमार्गं समाविशेत्॥ जम्बूमार्ग समाविश्य देवर्षिपितृसेवितम्। अश्वमेधमवाप्नोति सर्वकामसमन्वितः॥ तत्रोष्य रजनी: पञ्च पूतात्मा जायते नरः। न दुर्गतिमवाप्नोति सिद्धिं प्राप्नोति चोत्तमाम्॥ जम्बूमार्गादुपावृत्य गच्छेत् तन्दुलिकाश्रमम्। न दुर्गतिमवाप्नोति ब्रह्मलोकं च गच्छति॥ आगस्त्यं सर आसाद्य पितृदेवार्चने रतः। त्रिरात्रोपोषितो राजन्नाग्निष्टोमफलं लभेत्॥ शाकवृत्तिः फलैर्वापि कौमारं विन्दते परम्। कण्वाश्रमं ततो गच्छेच्छ्रीजुष्टं लोकपूजितम्॥ धर्मारण्यं हि तत् पुण्यमाद्यं च भरतर्षभ। यत्र प्रविष्टमात्रो वै सर्वपापैः प्रमुच्यते॥ अर्चयित्वा पितॄन् देवान् नियतो नियताशनः। सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते॥ प्रदक्षिणं ततः कृत्वा ययातिपतनं व्रजेत्। हयमेधस्य यज्ञस्य फलं प्राप्नोति तत्र वै॥ महाकालं ततो गच्छेन्नियतो नियताशनः। कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत्॥ ततो गच्छेत्धर्मज्ञः स्थाणोस्तीर्थमुमापतेः। नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम्॥ तत्राभिगम्य चेशानं गोसहस्रफलं लभेत्। महादेवप्रसादाच्च गाणपत्यं च विन्दति॥ समृद्धमसपत्नं च श्रिया युक्तं नरोत्तमः। नर्मदां तु समासाद्य नदीं त्रैलोक्यविश्रुताम्॥ तर्पयित्वा पितॄन् देवानग्निष्टोमफलं लभेत्। दक्षिणं सिन्धुमासाद्य ब्रह्मचारी जितेन्द्रियः॥ अग्निष्टोममवाप्नोति विमानं चाधिरोहति। चर्मण्वतीं समासाद्य नियतो नियताशनः। रन्तिदेवाभ्यनुज्ञातमग्निष्टोमफलं लभेत्॥ ततो गच्छेतधर्मज्ञ हिमवत्सुतमर्बुदम्। पृथिव्यां यत्र वै छिद्रं पूर्वमासीद् युधिष्ठिर॥ तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः। तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्॥ पिङ्गतीर्थमुपस्पृश्य ब्रह्मचारी जितेन्द्रियः। कपिलानां नरश्रेष्ठ शतस्य फलमश्नुते॥ ततो गच्छेत राजेन्द्र प्रभासं तीर्थमुत्तमम्। तत्र संनिहितो नित्यं स्वयमेव हुताशनः॥ देवतानां मुखं वीर ज्वलनोऽनिलसारथिः। तस्मिंस्तीर्थे नरः स्नात्वा शुचिः प्रयतमानसः॥ अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः। ततो गत्वा सरस्वत्याः सागरस्य च संगमे॥ गोसहस्रफलं तस्य स्वर्गलोकं च विन्दति। प्रभया दीप्यते नित्यमग्निवद् भरतर्षभ॥ तीर्थ सलिलराजस्य स्नात्वा प्रयतमानसः। त्रिरात्रमुषित: स्नातस्तर्पयेत् पितृदेवताः॥ प्रभासते यथा सोमः सोऽश्वमेधं च विन्दति। वरदानं ततो गच्छेत् तीर्थं भरतसत्तम॥ विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर। वरदाने नरः स्नात्वा गोसहस्रफलं लभेत्॥ ततो द्वारवतीं गच्छेन्नियतो नियताशनः। पिण्डारके नरः स्नात्वा लभेद् बहु सुवर्णकम्॥ तस्मिंस्तीर्थे महाभाग पद्मलक्षणलक्षिताः। अद्यापि मुद्रा दृश्यन्ते तदद्भुतमरिंदम्॥ त्रिशूलाङ्कानि पानि दृश्यन्ते कुरुनन्दन। महादेवस्य सांनिध्यं तत्र वै पुरुषर्षभ॥ सागरस्य च सिन्धोश्च संगम प्राप्य भारत। तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः॥ तर्पयित्वा पितॄन् देवानृषीश्च भरतर्षभ। प्राप्नोति वारुणं लोकं दीप्यमानं स्वतेजसा॥ शकुकर्णेश्वरं देवमर्चयित्वा युधिष्ठिर। अश्वमेधाद् दशगुणं प्रवदन्ति मनीषिणः॥ प्रदक्षिणमुपावृत्य गच्छेत् भरतर्षभ। तीर्थं कुरुवरश्रेष्ठ त्रिषु लोकेषु विश्रुतम्॥ दमीति नाम्ना विख्यातं सर्वपापप्रणाशनम्। तत्र ब्रह्मादयो देवा उपासन्ते महेश्वरम्॥ तत्र स्नात्वा च पीत्वा च रुद्रं देवगणैर्वृतम्। जन्मप्रभृति यत् पापं तत् स्नातस्य प्रणश्यति॥ दमी चात्र नरश्रेष्ठ सर्वदेवैरभिष्टुतः। तत्र स्नात्वा नरव्याघ्र हयमेधमवाप्नुयात्॥ गत्वा यत्र महाप्राज्ञ विष्णुना प्रभविष्णुना। पुरा शौचं कृतं राजन् हत्वा दैतेयदानवान्॥ ततो गच्छेतधर्मज्ञ वसोर्धारामभिष्टुताम्। गमनादेव तस्यां हि हयमेधफलं लभेत्॥ स्नात्वा कुरुवरश्रेष्ठ प्रयतात्मा समाहितः। तर्घ्य देवान् पितॄश्चैव विष्णुलोके महीयते॥ तीर्थे चात्र सरः पुण्यं वसूनां भरतर्षभ। तत्र स्नात्वा च पीत्वा च वसूनां सम्मतो भवेत्॥ सिन्धूत्तममिति ख्यातं सर्वपापप्रणाशनम्। तत्र स्नात्वा नरश्रेष्ठ लभेद् बहु सुवर्णकम्॥ भद्रतुङ्गं समासाद्य शुचिः शीलसमन्वितः। ब्रह्मलोकमवाप्नोति गतिं च परमां व्रजेत्॥ कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम्। तत्र स्नात्वा नरः क्षिप्रं स्वर्गलोकमवाप्नुयात्॥ रेणुकायाश्च तत्रैव तीर्थं सिद्धनिषेवितम्। तत्र स्नात्वा भवेद् विप्रो निर्मलश्चन्द्रमा यथा॥ अथ पञ्चनदं गत्वा नियतो नियताशनः। पञ्चयज्ञानवाप्नोति क्रमशो येऽनुकीर्तिताः॥ ततो गच्छेत राजेन्द्र भीमायाः स्थानमुत्तमम्। तत्र सषत्वा तु योन्यां वै नरो भरतसत्तम॥ देव्याः पुत्रो भवेद् राजंस्तप्तकुण्डलविग्रहः। गवां शतसहस्रस्य फलं प्राप्नोति मानवः॥ श्रीकुण्डं तु समासाद्य त्रिषु लोकेषु विश्रुतम्। पितामहं नमस्कृत्य गोसहस्रफलं लभेत्॥ ततो गच्छेतधर्मज्ञ विमलं तीर्थमुत्तमम्। अद्यापि यत्र दृश्यन्ते मत्स्याः सौवर्णराजताः॥ तत्र स्नात्वा नरः क्षिप्रं वासवं लोकमाप्नुयात्। सर्वपापविशुद्धात्मा गच्छेत परमां गतिम्॥ वितस्तां च समासाद्य संतर्घ्य पितृदेवताः। नरः फलमवाप्नोति वाजपेयस्य भारत॥ काश्मीरेष्वेव नागस्य भवनं तक्षकस्य च। वितस्ताख्यमिति ख्यातं सर्वपापप्रमोचनम्॥ तत्र स्नात्वा नरो नूनं वाजपेयमवाप्नुयात्। सर्वपापविशुद्धात्मा गच्छेच्च परमां गतिम्॥ ततो गच्छेत वडवां त्रिषु लोकेषु विश्रुताम्। पश्चिमायां तु संध्यायामुपस्पृश्य यथाविधि॥ चरूं सप्तार्चिषे राजन् यथाशक्ति निवेदयेत्। पितृणामक्षयं दानं प्रवदन्ति मनीषिणः॥ ऋषयः पितरो देवा गन्धर्वापसरसां गणाः। गुह्यकाः किन्नरा यक्षाः सिद्धा विद्याधरा नराः॥ राक्षसा दितिजा रुद्रा ब्रह्मा च मनुजाधिप। नियतः परमां दीक्षामास्थायाब्दसहस्रिकीम्॥ विष्णोः प्रसादनं कुर्वश्चरुं च श्रपयंस्तथा। सप्तभिः सप्तभिश्चैव ऋग्भिस्तुष्टाव केशवम्॥ ददावष्टगुणैश्वर्यं तेषां तुष्टस्तु केशवः। यथाभिलषितानन्यान् कामान् दत्त्वा महीपते॥ तत्रैवान्तरर्दधे देवो विद्युदभ्रेषु वै यथा। नाम्ना सप्तचरूं तेन ख्यातं लोकेषु भारत॥ गवां शतसहस्रेण राजसूयशतेन च। अश्वमेधसहस्रेण श्रेयान् सप्तार्चिषे चरुः॥ ततो निवृत्तो राजेन्द्र रुद्रं पदमथाविशेत्। अर्चयित्वा महादेवमश्वमेधफलं लभेत्॥ मणिमन्तं समासाद्यं ब्रह्मचारी समाहितः। एकरात्रोषितो राजन्नग्निष्टोमफलं लभेत्॥ अथ गच्छेत राजेन्द्र देविकां लोकविश्रुताम्। प्रसूतिर्यत्र विप्राणां श्रूयते भरतर्षभ॥ त्रिशूलपाणे: स्थानं च त्रिषु लोकेषु विश्रुतम्। देविकायाः नरः स्नात्वा समभ्यर्च्य महेश्वरम्॥ यथाशक्ति चरूं तत्र निवेद्य भरतर्षभ। सर्वकामसमृद्धस्य यज्ञस्य लभते फलम्॥ कामाख्यं तत्र रुद्रस्य तीर्थं देवनिषेवितम्। तत्र स्नात्वा नरः क्षिप्रं सिद्धिं प्राप्नोति भारत॥ यजनं याजनं चैव तथैव ब्रह्म वालुकाम्। पुष्पाम्भश्च उपस्पृश्य न शोचेन्मरणं गतः॥ अर्धयोजनविस्तारा पञ्चयोजनमायता। एतावती वेदिका तु पुण्या देवर्षिसेविता॥ ततो गच्छेतधर्मज्ञ दीर्घसत्रं यथाक्रमम्। तत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षयः॥ दीर्घसत्रमुपासन्ते दीक्षिता नियतव्रताः॥ गमनादेव राजेन्द्र दीर्घसत्रमरिंदम्। राजसूयाश्वमेधाभ्यां फलं प्राप्नोति भारत॥ ततो विनशनं गच्छेनियतो नियताशनः। गच्छत्यन्तर्हिता यत्र मेरुपृष्ठे सरस्वती।१११॥ चमसेऽथ शिवोद्भेदे नागोद्भेदे च दृश्यते। स्नात्वा तु चमसोद्भेदे अग्निष्टोमफलं लभेत्॥ शिवोद्भेदे नरः स्नात्वा गोसहस्रफलं लभेत्। नागोद्भेदे नरः स्नात्वा नागलोकमवाप्नुयात्॥ शशयानं च राजेन्द्र तीर्थमासाद्य दुर्लभम्। शशरूपप्रतिच्छन्नाः पुष्करा यत्र भारत॥ सरस्वत्यां महाराज अनुसंवत्सरं च ते। दृश्यन्ते भरतश्रेष्ठ वृत्तां वै कार्तिकी सदा॥ तत्र स्नात्वा नरव्याघ्र द्योतते शशिवत् सदा। गोसहस्रफलं चैव प्राप्नुयाद् भरतर्षभ॥ कुमारकोटिमासाद्य नियत: कुरुनन्दन। तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः॥ गवामयुतमाप्नोति कुलं चैव समुद्धरेत्। ततो गच्छेतधर्मज्ञ रुद्रकोटि समाहितः॥ पुरा यत्र महाराज मुनिकोटिः समागता। हर्षेण महताविष्टा रुद्रदर्शनकाझ्या॥ अहं पूर्वमहं पूर्वं द्रक्ष्यामि वृषभध्वजम्। एवं सम्प्रस्थिता राजऋषयः किल भारत॥ ततो योगेश्वरेणापि योगमास्थाय भूपते। तेषां मन्युप्रणाशार्थमृषीणाां भावितात्मनाम्॥ सृष्टा कोटीति रुद्राणामृषीणामग्रतः स्थिता। मया पूर्वतरं दृष्ट इति ते मेनिरे पृथक्॥ तेषां तुष्टो महादेवो मुनीनां भावितात्मनाम्। भक्त्या परमया राजन् वरं तेषां प्रदिष्टवान्॥ अद्यप्रभृति युप्माकंधर्मवृद्धिर्भविष्यति। तत्र स्नात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः॥ अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत्। ततो गच्छेत राजेन्द्र संगमं लोकविश्रुतम्॥ सरस्वत्या महापुण्यं केशवं समुपासते। यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः॥ अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम्। तत्र स्नात्वा नरव्याघ्र विन्देद् बहुसुवर्णकम्। सर्वपापविशुद्धात्मा ब्रह्मलोकं च गच्छति॥ ऋषीणां यत्र सत्राणि समाप्तानि नराधिप। तत्रावसानमासाद्य गोसहस्रफलं लभेत्॥ पुलस्त्य उवाच ततो गच्छेन्महाराजधर्मतीर्थमनुत्तमम्। यत्रधर्मो महाभागस्तप्तवानुत्तमं तपः॥ तेन तीर्थं कृतं पुण्यं स्वेन नाम्ना च विश्रुतम्। तत्र स्नात्वा नरो राजन्धर्मशीलः समाहितः॥ आसप्तमं कुलं चैव पुनीते नात्र संशयः। ततो गच्छेत राजेन्द्र ज्ञानपावनमुत्तमम्॥ अग्निष्टोममवाप्नोति मुनिलोकं च गच्छति। सौगन्धिकवनं राजंस्ततो गच्छेत मानवः॥ तत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः। सिद्धचारणगन्धर्वाः किंनराश्च महोरगाः॥ तद् वनं प्रविशन्नेव सर्वपापैः प्रमुच्यते। ततश्चापि सरिच्छ्रेष्ठा नदीनामुत्तमा नदी॥ प्लक्षादेवी स्रता राजन् महापुण्या सरस्वती। तत्राभिषेकं कुर्वीत वल्मीकान्निःसृते जले॥ अर्चयित्वा पितृन् देवानश्वमेधफलं लभेत्। ईशानाध्युषितं नाम तत्र तीर्थं सुदुर्लभम्॥ घट्सु शम्यानिपातेषु वल्मीकादिति निश्चयः। कपिलानां सहस्रं च वाजिमेधं च विन्दति॥ तत्र स्नात्वा नरव्याघ्र दृष्टमेतत् पुरातनैः। सुगन्धां शतकुम्भां च पञ्चयज्ञां च भारत॥ अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते। त्रिशूलखातं तत्रैव तीर्थमासाद्य भारत॥ तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः। गाणपत्यं च लभते देहं त्यक्त्वा न संशयः॥ ततो गच्छेत राजेन्द्र देव्याः स्थानं सुदुर्लभम्। शाकम्भरीति विख्याता त्रिषु लोकेषु विश्रुता॥ दिव्यं वर्षसहस्रं हि शाकेन किल सुव्रता। आहारं सा कृतवती मासि मासि नराधिप॥ ऋषयोऽभ्यागतास्तत्र देव्या भक्त्या तपोधनाः। आतिथ्यं च कृतं तेषां शाकेन किल भारत॥ ततः शाकम्भरीत्येव नाम तस्याः प्रतिष्ठितम्। शाकम्भरी समासाद्य ब्रह्मचारी समाहितः॥ त्रिरात्रमुषितः शाकं भक्षयित्वा नरः शुचिः। शाकाहारस्य यत् किंचिद् वर्षेञदशभिः कृतम्॥ तत् फलं तस्य भवति देव्याश्छन्देन भारत। ततो गच्छेत् सुवर्णाख्यं त्रिषु लोकेषु विश्रुतम्॥ तत्र विष्णुः प्रसादार्थं रुद्रमाराधयत् पुरा। वरांश्च सुबहल्लेभे दैवतेषु सुदुर्लभान्॥ उक्तश्च त्रिपुरघ्नेन परितुष्टेन भारत। अपि च त्वं प्रियतरो लोके कृष्ण भविष्यसि॥ त्वन्मुखं च जगत् सर्वं भविष्यति न संशयः। तत्राभिगम्य राजेन्द्र पूजयित्वा वृषध्वजम्॥ अश्वमेधमवाप्नोति गाणपत्यं च विन्दति। धूमावतीं ततो गच्छेत् त्रिरात्रोपोषितो नरः॥ मनसा प्रार्थितान् कामाँल्लभते नात्र संशयः। देव्यास्तु दक्षिणार्धेन रथावर्तो नराधिप॥ तत्रारोहेतधर्मज्ञ श्रद्दधानो जितेन्द्रियः। महादेवप्रसादाद्धि गच्छेत परमां गतिम्॥ प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ। धारां नाम महाप्राज्ञः सर्वपापप्रमोचनीम्॥ तत्र स्नात्वा नरव्याघ्र न शोचति नराधिप। ततो गच्छेतधर्मज्ञ नमस्कृत्य महागिरिम्॥ स्वर्गद्वारेण यत् तुल्यं गङ्गाद्वारं न संशयः। तत्राभिषेकं कुर्वीत कोटितीर्थे समाहितः॥ पुण्डरीकमवाप्नोति कुलं चैव समुद्धरेत्। उष्यैकां रजनीं तत्र गोसहस्रफलं लभेत्॥ सप्तगङ्गे त्रिगङ्गे च शक्रावर्ते च तर्पयन्। देवान् पितॄश्च विधिवत् पुण्ये लोके महीयते॥ ततः कनखले स्नात्वा त्रिरात्रोपोषितो नरः। अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति॥ कपिलावटं ततो गच्छेत् तीर्थसेवी नराधिप। उपोष्य रजनीं तत्र गोसहस्रफलं लभेत्॥ नागराजस्य राजेन्द्र कपिलस्य महात्मनः। तीर्थं कुरुवरश्रेष्ठ सर्वलोकेषु विश्रुतम्॥ तत्राभिषेकं कुर्वीत नागतीर्थे नराधिप। कपिलानां सहस्रस्य फलं विन्दति मानवः॥ ततो ललितकं गच्छेच्छान्तनोस्तीर्थमुत्तमम्। तत्र स्नात्वा नरो राजन् न दुर्गतिमवाप्नुयात्॥ गङ्गायमुनयोर्मध्ये स्नाति यः संगमे नरः। दशाश्वमेधानाप्नोति कुलं चैव समुद्धरेत्॥ ततो गच्छेत राजेन्द्र सुगंधां लोकविश्रुताम्। सर्वपापविशुद्धात्मा ब्रह्मलोके महीयते॥ रुद्रावर्तं ततो गच्छेत् तीर्थसेवी नराधिप। तत्र स्नात्वा नरो राजन् स्वर्गलोकं च गच्छति॥ गङ्गायाश्च नरश्रेष्ठ सरस्वत्याश्च संगमे। स्नात्वाश्वमेधं प्राप्नोति स्वर्गलोकं च गच्छति॥ भद्रकर्णेश्वरं गत्वा देवमर्च्य यथाविधि। न दुर्गतिमवाप्नोति नाकपृष्ठे च पूज्यते॥ ततः कुब्जाम्रकं गच्छेत् तीर्थसेवी नराधिप। गोसहस्रमवाप्नोति स्वर्गलोकं च गच्छति॥ अरुन्धतीवटं गच्छेत् तीर्थसेवी नराधिप। सामुद्रकमुपस्पृश्य ब्रह्मचारी समाहितः॥ अश्वमेधमवाप्नोति त्रिरात्रोपोषितो नरः। गोसहस्रफलं विद्यात् कुलं चैव समुद्धरेत्॥ ब्रह्मावर्तं ततो गच्छेद् ब्रह्मचारी समाहितः। अश्वमेधमवाप्नोति सोमलोकं च गच्छति॥ यमुनाप्रभवं गत्वा समुपस्पृश्य यामुनम्। अश्वमेधफलं लब्ध्वा स्वर्गलोके महीयते॥ दर्वीसंक्रमणं प्राप्य तीर्थं त्रैलोक्यपूजितम्। अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति॥ सिन्धोश्च प्रभवं गत्वा सिद्धगन्धर्वसेवितम्। तत्रोष्य रजनीः पञ्च विन्देद् बहुसुवर्णकम्॥ अथ वेदी समासाद्य नरः परमदुर्गमाम्। अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति॥ ऋषिकुल्यां समासाद्य वासिष्ठं चैव भारत। वासिष्ठी समतिक्रम्य सर्वे वर्णा द्विजातयः॥ ऋषिकुल्या समासाद्य नरः स्नात्वा विकल्मषः। देवान् पितॄश्चार्चयित्वा ऋषिलोकं प्रपद्यते॥ यदि तत्र वसेन्मासं शाकाहारो नराधिप। भृगुतुङ्गं समासाद्य वाजिमेधफलं लभेत्॥ गत्वा वीरप्रमोक्षं च सर्वपापैः प्रमुच्यते। कृत्तिकामघयोश्चैव तीर्थमासाद्य भारत॥ अग्निष्टोमातिरात्राभ्यां फलमाप्नोति मानवः। तत्र संध्यां समासाद्य विद्यातीर्थमनुत्तमम्॥ उपस्पृश्य च वै विद्यां यत्र तत्रोपपद्यते। महाश्रमे वसेद् रात्रिं सर्वपापप्रमोचने॥ एककालं निराहारो लोकानावसते शुभान्। षष्ठकालोपवासेन मासमुष्य महालये॥ सर्वपापविशुद्धात्मा विन्देद् बहुसुवर्णकम्। दशापरान् दश पूर्वान् नरानुद्धरते कुलम्॥ अथ वेतसिकां गत्वा पितामहनिषेविताम्। अश्वमेधमवाप्नोति गच्छेदौशनसीं गतिम्॥ अथ सुन्दरिकातीर्थं प्राप्य सिद्धनिषेवितम्। रूपस्य भागी भवति दृष्टमेतत् पुरातनैः॥ ततो वै ब्राह्मणीं गत्वा ब्रह्मचारी जितेन्द्रियः। पावर्णेन यानेन ब्रह्मलोकं प्रपद्यते॥ ततस्तु नैमिषं गच्छेत् पुण्यं सिद्धनिषेवितम्। तत्र नित्यं निवसति ब्रह्मा देवगणैः सह॥ नैमिषं मृगयानस्य पापस्यार्धं प्रणश्यति। प्रविष्टमात्रस्तु नरः सर्वपापैः प्रमुच्यते॥ तत्र मासं वसेद्धीरो नैमिषे तीर्थतत्परः। पृथिव्यां यानि तीर्थानि तानि तीर्थानि नैमिषे॥ कृताभिषेकस्तत्रैव नियतो नियताशनः। गवां मेधस्य यज्ञस्य फलं प्राप्नोति भारत॥ पुनात्यासप्तमं चैव कुलं भरतसत्तम। यस्त्यजेन्नैमिषे प्राणानुपवासपरायणः॥ स मोदेत् सर्वलोकेषु एवमाहुर्मनीषिणः। नित्यं मेध्यं च पुण्यं च नैमिषं नृपसत्तम॥ गङ्गोद्भेदं समासाद्य त्रिरात्रोपोषितो नरः। वाजपेयमवाप्नोति ब्रह्मभूतो भवेत् सदा॥ सरस्वतीं समासाद्य तर्पयेत् पितृदेवताः। सारस्वतेषु लोकेषु मोदते नात्र संशयः॥ ततश्च बाहुदां गच्छेद् ब्रह्मचारी समाहितः। तत्रोष्य राजनीमेकां स्वर्गलोके महीयते॥ देवसत्रस्य यज्ञस्य फलं प्राप्नोति कौरवा ततः क्षीरवतीं गच्छेत् पुण्यां पुण्यतरैर्वृताम्॥ पितृदेवार्चनपरो वाजपेयमवाप्नुयात्। विमलाशोकमासाद्य ब्रह्मचारी समाहितः॥ तत्रोष्य रजनीमेकां स्वर्गलोके महीयते। गोप्रतारं ततो गच्छेत् सरय्वास्तीर्थमुत्तमम्॥ यत्र रामो गत: स्वर्गं सभृत्यबलवाहनः। स च वीरो महाराज तस्य तीर्थस्य तेजसा॥ रामस्य च प्रसादेन व्यवसायाच्च भारत। तस्मिंस्तीर्थे नरः स्नात्वा गोप्रतारे नराधिप॥ सर्वपापविशुद्धात्मा स्वर्गलोके महीयते। रामतीर्थे नरः स्नात्वा गोमत्यां कुरुनन्दन॥ अश्वमेधमवाप्नोति पुनाति च कुलं नरः। शतसाहस्रकं तीर्थं तत्रैव भरतर्षभ॥ तत्रोपस्पर्शनं कृत्वा नियतो नियताशनः। गोसहस्रफलं पुण्यं प्राप्नोति भरतर्षभ॥ ततो गच्छेत राजेन्द्र भर्तृस्थानमुत्तमम्। अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः॥ कोटितीर्थे नरः स्नात्वा अर्चयित्वा गुहं नृप। गोसहस्रफलं विद्यात् तेजस्वी च भवेन्नरः॥ ततो वाराणसीं गत्वा अर्चयित्वा वृषध्वजम्। कपिलाह्रदे नरः स्नात्वा राजसूयमवाप्नुयात्॥ अविमुक्तं समासाद्य तीर्थसेवी कुरूद्वह। दर्शनाद् देवदेवस्य मुच्यते ब्रह्महत्यया॥ प्राणानुत्सृज्य तत्रैव मोक्षं प्राप्नोति मानवः। मार्कण्डेयस्य राजेन्द्र तीर्थमासाद्य दुर्लभम्॥ गोमतीगङ्गयोश्चैव संगमे लोकविश्रुते। अग्निष्टोममवाप्नोति कुलं चैव समुद्धरेत्॥ ततो गयां समासाद्य ब्रह्मचारी समाहितः। अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत्॥ तत्राक्षयवटो नाम त्रिषु लोकेषु विश्रुतः। तत्र दत्तं पितृभ्यस्तु भवत्यक्षयमुच्यते॥ महानद्यामुपस्पृश्य तर्पयेत् पितृदेवताः। अक्षयान् प्राप्नुयाल्लोकान् कुलं चैव समुद्धरेत्॥ ततो ब्रह्मसरो गत्वाधर्मारण्योपशोभितम्। ब्रह्मलोकमवाप्नोति प्रभातामेव शर्वरीम्॥ ब्रह्मणा तत्र सरसि यूपश्रेष्ठः समुच्छ्रितः। यूपं प्रदक्षिणं कृत्वा वाजपेयफलं लभेत्॥ ततो गच्छेत राजेन्द्रधेनुकं लोकविश्रुतम्। एकरात्रोषितो राजन् प्रयच्छेत् तिलधेनुकाम्॥ सर्वपापविशुद्धात्मा सोमलोकं व्रजेध्रुवम्। तत्र चिह्न महद् राजन्नद्यापि सुमहद् भृशम्॥ कपिलायाः सवत्सायाश्चरन्त्याः पर्वते कृतम्। सवत्सायाः पदानि स्म दृश्यन्तेऽद्यापि भारत॥ तेषूपस्पृश्य राजेन्द्र पदेषु नृपसत्तम। यत् किंचिदशुभं कर्म तत् प्रणश्यति भारत॥ ततो गृध्रवटं गच्छेत् स्थानं देवस्यधीमतः। स्नायीत भस्मना तत्र अभिगम्य वृषध्वजम्॥ ब्राह्मणेन भवेच्चीर्णं व्रतं द्वादशवार्षिकम्। इतरेषां तु वर्णानां सर्वपापं प्रणश्यति॥ उद्यन्तं च ततो गच्छेत् पर्वतं गीतनादितम्। सावित्र्यास्तु पदं तत्र दृश्यते भरतर्षभ॥ तत्र संध्यामुपासीत ब्राह्मणः संशितव्रतः। तेन ह्युपास्ता भवति संध्या द्वादशवार्षिकी॥ योनिद्वारं च तत्रैव विश्रुतं भरतर्षभ। तत्राभिगम्य मुच्येत पुरुषो योनिसंकटात्॥ कृष्णशुल्कावुभौ पक्षौ गयायां यो वसेन्नरः। पुनात्यासप्तमं राजन् कुलं नास्त्यत्र संशयः॥ एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्। यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत्॥ ततः फल्गुं व्रजेद् राजस्तीर्थसेवी नराधिय। अश्वमेधमवाप्नोति सिद्धिं च महतीं व्रजेत्॥ ततो गच्छेत राजेन्द्रधर्मप्रस्थं समाहितः। तत्रधर्मो महाराज नित्यमास्ते युधिष्ठिर॥ तत्र कूपोदकं कृत्वा तेन स्नातः शुचिस्तथा। पितॄन् देवांस्तु संतर्प्य मुक्तपापो दिवं व्रजेत्॥ मतङ्गस्याश्रमस्तत्र महर्षे वितात्मनः। तं प्रविश्याश्रमं श्रीमच्छ्रमशोकविनाशनम्॥ गवामयनयज्ञस्य फलं प्राप्नोति मानवः। धर्म तत्राभिसंस्पृश्य वाजिमेधमवाप्नुयात्॥ ततो गच्छेत राजेन्द्र ब्रह्मस्थानमनुत्तमम्। तत्राभिगम्य राजेन्द्र ब्रह्माणं पुरुषर्षभ॥ राजसूयाश्वमेधाभ्यां फलं विन्दति मानवः। ततो राजगृहं गच्छेत् तीर्थसेवी नराधिप॥ उपस्पृश्य ततस्तत्र कक्षीवानिव मोदते। यक्षिण्या नैत्यकं तत्र प्राश्नीत पुरुषः शुचिः॥ यक्षिण्यास्तु प्रसादेन मुच्यते ब्रह्महत्यया। मणिनागं ततो गत्वा गोसहस्रफलं लभेत्॥ तैर्थिकं भुञ्जते यस्तु मणिनागस्य भारत्। दष्टस्याशीविषेणापि न तस्य क्रमते विषम्॥ तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्। ततो गच्छेत ब्रह्मौतमस्य वनं प्रियम्॥ अहल्याया ह्रदे स्नात्वा व्रजेत परमां गतिम्। अभिगम्याश्रमं राजन् विन्दते श्रियमात्मनः॥ तत्रोदपानधर्मज्ञ त्रिषु लोकेषु विश्रुतम्। तत्राभिषेकं कृत्वा तु वाजिमेधमवाप्नुयात्॥ जनकस्य तु राजर्षेः कूपस्त्रिदशपूजितः। तत्राभिषेकं कृत्वा तु विष्णुलोकमवाप्नुयात्॥ ततो विनशनं गच्छेत् सर्वपापप्रमोचनम्। वाजपेयमवाप्नोति सोमलोकं च गच्छति॥ गण्डकी तु समासाद्य सर्वतीर्थजलोद्भवाम्। वाजपेयमवाप्नोति सूर्यलोकं च गच्छति॥ ततो विशल्यामासाद्य नदीं त्रैलोक्यविश्रुताम्। अग्निष्टोममवाप्नोति स्वर्गलोकं च गच्छति॥ ततोऽधिवॉधर्मज्ञ समाविश्य तपोवनम्। गुह्यकेशु महाराज मोदते नात्र संशयः॥ कम्पनां तु समासाद्य नदी सिद्धनिषेविताम्। पुण्डरीकमवाप्नोति स्वर्गलोकं च गच्छति॥ अथ माहेश्वरीधारां समासाद्यधराधिप। अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत्॥ दिवौकसां पुष्करिणीं समासाद्य नराधिप। न दुर्गतिमवाप्नोति वाजिमेधं च विन्दति॥ अथ सोमपदं गच्छेद् ब्रह्मचारी समाहितः। माहेश्वरपदे स्नात्वा वाजिमेधफलं लभेत्॥ तत्र कोटिस्तु तीर्थानां विश्रुता भरतर्षभ। कूर्मरूपेण राजेन्द्र ह्यसुरेण दुरात्मना॥ ह्रियमाणा हृता राजन् विष्णुना प्रभविष्णुना। तत्राभिषेकं कुर्वीत तीर्थकोट्यां युधिष्ठिर॥ पुण्डरीकमवाप्नोति विष्णुलोकं च गच्छति। ततो गच्छेत राजेन्द्र स्थानं नारायणस्य च॥ सदा संनिहितो यत्र विष्णुर्वसति पारत। यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः॥ आदित्य वसवो रुद्रा जनार्दनमुपासते। शालग्रम इति ख्यातो विष्णुरद्भुतकर्मकः॥ अभिगम्य त्रिलोकेशं वरदं विष्णुमव्ययम्। अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति॥ तत्रोदपानधर्मज्ञ सर्वपापप्रमोचनम्। समुद्रास्तत्र चत्वारः कूपे संनिहिताः सदा॥ तत्रोपस्पृश्य राजेन्द्र न दुर्गतिमवाप्नुयात्। अभिगम्य महादेवं वरदं रुद्रमव्ययम्॥ विराजति यथा सोमो मेधैर्मुक्तो नराधिप। जातिस्मरमुपस्पृश्य शुचिः प्रयतमानसः॥ जातिस्मरत्वमाप्नोति स्नात्वा तत्र न संशयः। माहेश्वरपुरं गत्वा अर्चयित्वा वृषध्वजम्॥ ईप्सिताल्लभते कामानुपवासान्न संशयः। ततस्तु वामनं गत्वा सर्वपापप्रमोचनम्॥ अभिगम्य हरिं देवं न दुर्गतिमवाप्नुयात। कुशिकास्वाश्रमं गच्छेत् सर्वपापप्रमोचनम्॥ कौशिकी तत्र गच्छेत महापापप्रणाशिनीम्। राजसूयस्य यज्ञस्य फलं प्राप्नोति मानवः॥ ततो गच्छेत राजेन्द्र चम्पकारण्यमुत्तमम्। तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्॥ अथ ज्येष्ठिमासाद्य तीर्थं परमदुर्लभम्। तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्॥ तत्र विश्वेश्वरं दृष्ट्वा देव्या सह महाद्युतिम्। मित्रावरुणयोर्लोकानाप्नोति पुरुषर्षभ॥ त्रिरात्रोपोषितस्तत्र अग्निष्टोमफलं लभेत्। कन्यासंवेद्यमासाद्य नियतो नियताशनः॥ मनोः प्रजापतेर्लोकानाप्नोति पुरुषर्षभ। कन्यायां ये प्रयच्छन्ति दानमण्वपि भारत॥ तदक्षय्यमिति प्राहुर्ऋषयः संशितव्रताः। निश्चीरां च समासाद्य त्रिषु लोकेषु विश्रुताम्॥ अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति। ये त दानं प्रयच्छन्ति निश्चीरासंगमे नराः॥ ते यान्ति नरशार्दूल शक्रलोकमनामयम्। तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः॥ तत्राभिषेकं कुर्वाणो वाजपेयमवाप्नुयात्। देवकूटं समासाद्य ब्रह्मर्षिगणसेवितम्॥ अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत्। ततो गच्छेत राजेन्द्र कौशिकस्य मुनेह्रदम्॥ यत्र सिद्धि परां प्राप्तो विश्वामित्रोऽथ कौशिकः। तत्र मासं वसेद् वीर कौशिक्यां भरतर्षभ॥ अश्वमेधस्य यत् पुण्यं तन्मासेनाधिगच्छति। सर्वतीर्थवरे चैव यो वसेत महाह्रदे॥ न दुर्गतिमवाणोति विन्देद् बहु सुवर्णकम्। कुमारमभिगम्याथ वीराश्रमनिवासिनम्॥ अश्वमेधमवाप्नोति नरो नास्त्यत्र संशयः। अग्निधारां समासाद्य त्रिषु लोकेषु विश्रुताम्॥ तत्राभिषेकं कुर्वाणो ह्यग्निष्टोममवाप्नुयात्। अधिगम्य महादेवं वरदं विष्णुमव्ययम्॥ पितामहसरो गत्वा शैलराजसमीपतः। तत्राभिषेकं कुर्वाणो ह्यग्निष्टोममवाप्नुयात्॥ पितामहस्य सरसः प्रस्रुता लोकपावनी। कुमारधारा तत्रैव त्रिषु लोकेषु विश्रुता॥ यत्र स्नात्वा कृतार्थोऽस्मीत्यात्मानमवगच्छति। षष्ठकालोपवासेन मुच्यते ब्रह्महत्यया॥ ततो गच्छेतधर्मज्ञ तीर्थसेवनतत्परः। शिखरं वै महादेव्या गौर्यास्त्रैलोक्यविश्रुतम्॥ समारुह्य नरश्रेष्ठ स्तनकुण्डेषु संविशेत्। स्तनकुण्डमुपस्पृश्य वाजपेयफलं लभेत्॥ तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः। हयमेधमवाप्नोति शक्रलोकं च गच्छति॥ ताम्रारुणं समासाद्य ब्रह्मचारी समाहितः। अश्वमेधमवाप्नोति ब्रह्मलोकं च गच्छति॥ नन्दिन्यां च समासाद्य कूपं देवनिषेवितम्। नरमेधस्य यत् पुण्यं तदाप्नोति नराधिप॥ कालिकासंगमे स्नात्वा कौशिक्यरुणयोर्गतः। त्रिरात्रोपोषितो राजन् सर्वपापैः प्रमुच्यते॥ उर्वशीतीर्थमासाद्य ततः सोमाश्रमं बुधः। कुम्भकर्णाश्रमं गत्वा पूज्यते भुवि मानवः॥ कोकामुखमुपस्पृश्य ब्रह्मचारी यतव्रतः। जातिस्मरत्वमाप्नोति दृष्टमेतत् पुरातनैः॥ प्राड्नदीं च समासाद्य कृतात्मा भवति द्विजः। सर्वपापविशुद्धात्मा शक्रलोकं च गच्छति॥ ऋषभद्वीपमासाद्य मेध्यं क्रौञ्चनिषूदनम्। सरस्वत्यामुपस्पृश्य विमानस्थो विराजते॥ औद्दालकं महाराज तीर्थं मुनिनिषेवितम्। तत्राभिषेकं कृत्वा वै सर्वपापैः प्रमुच्यते॥ धर्मतीर्थं समासाद्य पुण्यं ब्रह्मर्षिसेवितम्। वाजपेयमवाप्नोति विमानस्थश्च पूज्यते॥ पुलस्त्य उवाच अथ संध्यां समासाद्य संवेद्यं तीर्थमुत्तमम्। उपस्पृश्य नरो विद्यां लभते नात्र संशयः॥ रामस्य च प्रभावेण तीर्थं राजन् कृतं पुरा। तल्लौहित्यं समासाद्य विन्द्याद् बहु सुवर्णकम्॥ करतोयां समासाद्य त्रिरात्रोपोषितो नरः। अश्वमेधमवाप्नोति प्रजापतिकृतो विधिः॥ गङ्गायास्तत्र राजेन्द्र सागरस्य च संगमे। अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः॥ गङ्गायास्त्वपरं पारं प्राप्य यः स्नाति मानवः। त्रिरात्रमुषितो राजन् सर्वपापैः प्रमुच्यते॥ ततो वैतरणी गच्छेत् सर्वपापप्रमोचनीम्। विरजं तीर्थमासाद्य विराजति यथा शशी॥ प्रतरेच्च कुलं पुण्यं सर्वपापं व्यपोहति। गोसहस्रफलं लब्ध्वा पुनाति स्वकुलं नरः॥ शोणस्य ज्योतिरथ्यायाः संगमे नियतः शुचिः। तर्पयित्वा पितृन् देवानग्निष्टोमफलं लभेत्॥ शोणस्य नर्मदायाश्च प्रभवे कुरुनन्दन। वंशगुल्म उपस्पृश्य वाजिमेधफलं लभेत्॥ ऋषभं तीर्थमासाद्य कोसलायां नराधिप। वाजपेयमवाप्नोति त्रिरात्रोपोषितो नरः॥ गोसहस्रफलं विन्द्यात् कुलं चैव समुद्धरेत्। कोसलां तु समासाद्य कालतीर्थमुपस्पृशेत्॥ वृषभैकादशफलं लभते नात्र संशयः। पुष्पवत्यामुपस्पृश्य त्रिरात्रोपोषितो नरः॥ गोसहस्रफलं लब्ध्वा पुनाति स्वकुलं नृप। ततो बदरिकातीर्थं स्नात्वा भरतसत्तम॥ दीर्घमायुरवाप्नोति स्वर्गलोकं च गच्छति। अथ चम्पां समासाद्य भागीरथ्यां कृतोदकः॥ दण्डाख्यमभिगम्यैव गोसहस्रफलं लभेत्। लपेटिकां ततो गच्छेत् पुण्यां पुण्योपशोभिताम्॥ वाजपेयमवाप्नोति देवैः सर्वैश्च पूज्यते। ततो महेन्द्रमासाद्य जामदग्न्यनिषेवितम्॥ रामतीर्थे नरः स्नात्वा अश्वमेधफलं लभेत्। मतङ्गस्य तु केदारस्तत्रैव कुरुनन्दन॥ तत्र स्नात्वा कुरुश्रेष्ठ गोसहस्रफलं लभेत्। श्रीपर्वतं समासाद्य नदीतीरमुपस्पृशेत्॥ अश्वमेधमवाप्नोति पूजयित्वा वृषध्वजम्। श्रीपर्वते महादेवो देव्या सह महाद्युतिः॥ न्यवसत् परमप्रीतो ब्रह्मा च त्रिदशैः सह। तत्र देवह्रदे स्नात्वा शुचिः प्रयतमानसः॥ अश्वमेधमवाप्नोति परां सिद्धिं च गच्छति। ऋषभं पर्वतं गत्वा पाण्ड्ये दैवतपूजितम्। वाजपेयमवाप्नोति नाकपृष्ठे च मोदते॥ ततो गच्छेत कावेरी वृतामप्सरसां गणैः। तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत्॥ ततस्तीरे समुद्रस्य कन्यातीर्थमुपस्पृशेत्। तत्रोपस्पृश्य राजेन्द्र सर्वपापैः प्रमुच्यते॥ अथ गोकर्णमासाद्य त्रिषु लोकेषु विश्रुतम्। समुद्रमध्ये राजेन्द्र सर्वलोकनमस्कृतम्॥ यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः। भूतयक्षपिशाचाश्च किंनराः समहोरगाः॥ सिद्धचारणगन्धर्वमानुषाः पन्नगास्तथा। सरितः सागराः शैला उपासन्त उमापतिम्॥ तत्रेशानं समभ्यर्च्य त्रिरात्रोपोषितो नरः। अश्वमेधमवाप्नोति गाणपत्यं च विन्दति॥ उष्य द्वादशरात्रं तु पूतात्मा च भवेन्नरः। तत एव च गायत्र्याः स्थानं त्रैलोक्यपूजितम्॥ त्रिरात्रमुषितस्तत्र गोसहस्रफलं लभेत्। निदर्शनं च प्रत्यक्षं ब्राह्मणानां नराधिप॥ गायत्री पठते यस्तु योनिसंकरजस्तथा। गाथा च गाथिका चापि तस्य सम्पद्यते नृप॥ अब्राह्मणस्य सावित्री पठतस्तु प्रणश्यति। संवर्तस्य तु विप्रर्वापीमासाद्य दुर्लभाम्॥ रूपस्य भागी भवति सुभगश्च प्रजापते। ततो वेणां समासाद्य त्रिरात्रोपोषितो नरः॥ मयूरहंससंयुक्तं विमानं लभते नरः। ततो गोदावरी प्राप्य नित्यं सिद्धनिषेविताम्॥ गवां मेधमवाप्नोति वासुकेर्लोकमुत्तमम्। वेणायाः संगमे स्नात्वा वाजिमेधफलं लभेत्॥ वरदासंगमे स्नात्वा गोसहस्रफलं लभेत्। ब्रह्मस्थानं समासाद्य त्रिरात्रोपोषितो नरः॥ गोसहस्रफलं विन्द्यात् स्वर्गलोकं च गच्छति। कुशप्लवनमासाद्य ब्रह्मचारी समाहितः॥ त्रिरात्रमुषितः स्नात्वा अश्वमेधफलं लभेत्। ततो देवह्रदेऽरण्ये कृष्णवेणाजलोद्भवे॥ जातिस्मरहदे स्नात्वा भवेज्जातिस्मरो नरः। यत्र क्रतुशतैरिष्ट्वा देवराजो दिवं गतः॥ अग्निष्टोमफलं विन्द्याद् गमनादेव भारत। सर्वदेवह्रदे स्नात्वा गोसहस्रफलं लभेत्॥ ततो वापी महापुण्यां पयोष्णीं सरितां वराम्। पितृदेवार्चनरतो गोसहस्रफलं लभेत्॥ दण्डकारण्यमासाद्य पुण्यं राजन्नुपस्पृशेत्। गोसहस्रफलं तस्य स्नातमात्रस्य भारत॥ शरभङ्गाश्रमं गत्वा शुकस्य च महात्मनः। न दुर्गतिमवाप्नोति पुनाति च कुलं नरः॥ ततः शूर्पारकं गच्छेज्जामदग्न्यनिषेवितम्। रामतीर्थे नरः स्नात्वा विन्द्याद् बहुसुवर्णकम्॥ सप्तगोदावरे स्नात्वा नियतो नियताशनः। महत् पुण्यमवाप्नोति देवलोकं च गच्छति॥ ततो देवपथं गत्वा नियतो नियताशनः। देवसत्रस्य यत् पुण्यं तदेवाप्नोति मानवः॥ तुङ्गकारण्यमासाद्य ब्रह्मचारी जितेन्द्रियः। वेदानध्यापयत् तत्र ऋषिः सारस्वतः पुरा॥ तत्र वेदेषु नष्टेषु मुनेरङ्गिरसः सुतः। ऋषीणामुत्तरीयेषु सूपविष्टो यथासुखम्॥ ओङ्कारेण यथान्यायं सम्यगुच्चारितेन ह। येन यत् पूर्वमभ्यस्तं तत् सर्वं समुपस्थितम्॥ ऋषयस्तत्र देवाश्च वरुणोऽग्निः प्रजापतिः। हरिर्नारायणस्तत्र महादेवस्तथैव च।॥ पितामहश्च भगवान् देवैः सह महाद्युतिः। भृगु नियोजयामास याजनार्थे महाद्युतिम्॥ ततः स चक्रे भगवानृषीणां विधिवत् तदा। सर्वेषां पुनराधानं विधिदृष्टेन कर्मणा॥ आज्यभागेन तत्राग्नि तर्पयित्वा यथाविधि। देवाः स्वभवनं याता ऋषयश्च यथाक्रमम्॥ तदरण्यं प्रविष्टस्य तुङ्गकं राजसत्तम्। पापं प्रणश्यत्यखिलं स्त्रियो वा पुरुषस्य वा॥ तत्र मासं वसेद्धीरो नियतो नियताशन:। ब्रह्मलोकं व्रजेद् राजन् कुलं चैव समुद्धरेत्॥ मेधाविकं समासाद्य पितृन् देवांश्च तर्पयेत्। अग्निष्टोममवाप्नोति स्मृति मेधां च विन्दति॥ अत्र कालञ्जरं नाम पर्वतं लोकविश्रुतम्। तत्र देवह्रदे स्नात्वा गोसहस्रफलं लभेत्॥ योः स्नातः साधयेत् तत्र गिरौ कालञ्जरे नृप। स्वर्गलोके महीयेत नरो नास्त्यत्र संशयः॥ ततो गिरिवरश्रेष्ठे चित्रकूटे विशाम्पते। मन्दाकिनी समासाद्य सर्वपापप्रणाशिनीम्॥ तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः। अश्वमेधमवाप्नोति गतिं च परमां व्रजेत्॥ ततो गच्छेतधर्मज्ञ भर्तृस्थानमनुत्तमम्। यत्र नित्यं महासेनो गुहः संनिहितो नृप॥ तत्र गत्वा नृपश्रेष्ठ गमनादेव सिध्यति। कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत्॥ प्रदक्षिणमुपावृत्य ज्येष्ठस्थानं व्रजेन्नरः। अभिगम्य महादेवं विराजति यथा शशी॥ तत्र कूपे महाराज विश्रुता भरतर्षभ। समुद्रास्तत्र चत्वारो निवसन्ति युधिष्ठिर॥ तत्रोपस्पृश्य राजेन्द्र पितृदेवार्चने रतः। नियतात्मा नरः पूतो गच्छेत परमां गतिम्॥ ततो गच्छेत राजेन्द्र शृङ्गवेरपुरं महत्। यत्र तीर्णो महाराज रामो दाशरथिः पुरा॥ तस्मिंस्तीर्थे महाबाहो स्नात्वा पापैः प्रमुच्यते। गङ्गायां तु नरः स्नात्वा ब्रह्मचारी समाहितः॥ विधूतपाप्मा भवति वाजपेयं च विन्दति। ततो मुञ्जवटं गच्छेत् स्थानं देवस्यधीमतः॥ अभिगम्य महादेवमभिवाद्य च भारत। प्रदक्षिणमुपावृत्य गाणपत्यमवाप्नुयात्॥ तस्मिस्तीर्थे तु जाह्नव्यां स्नात्वा पापैः प्रमुच्यते। ततो गच्छेत राजेन्द्र प्रयागमृषिसंस्तुतम्॥ तत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः। लोकपालाश्च साध्याश्च पितरो लोकसम्मताः॥ सनत्कुमारप्रमुखास्तथैव परमर्षयः। अङ्गिरःप्रमुखाश्चैव तथा ब्रह्मर्षयोऽमलाः॥ तथा नागाः सुपर्णाश्च सिद्धाश्चक्रचरास्तथा। सरितः सागराश्चैव गन्धर्वाप्सरसोऽपि च॥ हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः। तत्र त्रीण्यग्निकुण्डानि येषां मध्येन जाह्नवी॥ वेगेन समतिक्रान्ता सर्वतीर्थपुरस्कृता। तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता॥ यमुना गड्या साधू संगता लोकपावनी। गङ्गायमुनयोर्मध्यं पृथिव्या जघनं स्मृतम्॥ प्रयागं जघनस्थानमुपस्थमृषयो विदुः। प्रयागं सप्रतिष्ठानं कम्बलाश्वतरौ तथा॥ तीर्थं भोगवती चैव वेदिरेषा प्रजापतेः। तत्र वेदाश्च यज्ञाश्च मूर्तिमन्तो युधिष्ठिर॥ प्रजापतिमुपासन्ते ऋषयश्च तपोधनाः। यजन्ते क्रतुभिर्देवास्तथा चक्रधरा नृपाः॥ तत: पुण्यतमं नाम त्रिषु लोकेषु भारत। प्रयागं सर्वतीर्थभ्यः प्रवदन्त्यधिकं विभो॥ गमनात् तस्य तीर्थस्य नामसंकीर्तनादपि। मृत्युकालभयाच्चापि नर: पापात् प्रमुच्यते॥ तत्राभिषेकं यः कुर्यात् संगमे लोकविश्रुते। पुण्यं स फलमाप्नोति राजसूयाश्वमेधयोः॥ एषा यजनभूमिर्हि देवानामभिसंस्कृता। तत्र दत्तं सूक्ष्ममपि महद् भवति भारत॥ न वेदवचनात् तात न लोकवचनादपि। मतिरुत्क्रमणीया ते प्रयागमरणं प्रति॥ दश तीर्थसहस्राणि षष्टिः कोट्यस्तथापराः। येषां सांनिध्यमत्रैव कीर्तितं कुरुनन्दन॥ चतुर्विद्ये च यत् पुण्यं सत्यवादिषु चैव यत्। स्नात एव तदाप्नोति गङ्गायमुनसंगमे॥ तत्र भोगवती नाम वासुकेस्तीर्थमुत्तमम्। तत्राभिषेकं यः कुर्यात् सोऽश्वमेधफलं लभेत्॥ तत्र हंसप्रपतनं तीर्थं त्रैलोक्यविश्रुतम्। दशाश्वमेधिकं चैव गङ्गायां कुरुनन्दन॥ कुरुक्षेत्रसमा गङ्गा यत्र तत्रावगाहिता। विशेषो वै कनखले प्रयागे परमं महत्॥ यद्यकार्यशतं कृत्वा कृतं गङ्गाभिषेचनम्। सर्वं तत् तस्य गङ्गाम्भो दहत्यग्निरिवेन्धनम्॥ सर्वं कृतयुगे पुण्यं त्रेतायां पुष्करं स्मृतम्। द्वापरेऽपि कुरुक्षेत्रं गङ्गा कलियुगे स्मृता॥ पुष्करे तु तपस्तप्येद् दानं दद्यान्महालये। मलये त्वग्निमारोहेद् भृगुतुङ्गे त्वनाशनम्॥ पुष्करे तु कुरुक्षेत्रे गङ्गायां मध्यमेषु या स्नात्वा तारयते जन्तुः सप्तसप्तावरांस्तथा॥ पुनाति कीर्तिता पापं दृष्टा भद्रं प्रयच्छति। अवगाढा च पीता च पुनात्यासप्तमं कुलम्॥ यावदस्थि मनुष्यस्य गङ्गाया स्पृशते जलम्। तावत् स पुरुषो राजन् स्वर्गलोके महीयते॥ यथा पुण्यानि तीर्थानि पुण्यान्यायतनानि च। उपास्य पुण्यं लब्ध्वा च भवत्यमरलोकभाक्॥ न गङ्गासदृशं तीर्थं न देवः केशवात् परः। ब्राह्मणेभ्यः परं नास्ति एवमाह पितामहः॥ यत्र गङ्गा महाराज स देशस्तत् तपोवनम्। सिद्धिक्षेत्रं च तज्ज्ञेयं गङ्गातीरसमाश्रितम्॥ इदं सत्यं द्विजातीनां साधूनामात्मजस्य च। सुहृदां च जपेत् कर्णे शिष्यस्यानुगतस्य च॥ इदंधन्यमिदं मेध्यमिदं स्वर्ग्यमनुत्तमम्। इदं पुण्यमिदं रम्यं पावनधर्म्यमुत्तमम्॥ महर्षीणामिदं गुह्यं सर्वपापप्रमोचनम्। अधीत्य द्विजमध्ये च निर्मलः स्वर्गमाप्नुयात्॥ श्रीमत् स्वयँ तथा पुण्यं सपत्नशमनं शिवम्। मेधाजननमवयं वै तीर्थवंशानुकीर्तनम्॥ अपुत्रो लभते पुत्रमधनोधनमाप्नुयात्। महीं विजयते राजा वैश्योधनमवाप्नुयात्॥ शूद्रोः यथेप्सितान् कामान् ब्राह्मणः पारगः पठन्। यश्चेदं शृणुयान्नित्यं तीर्थपुण्यं नरः शुचिः॥ जाती: स स्मरते बह्वी कपृष्ठे च मोदते। गम्यान्यपि च तीर्थानि कीर्तितान्यगमानि च॥ मनसा तानि गच्छेत सर्वतीर्थसमीक्षया। एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः॥ ऋषिभिर्देवकल्पैश्च स्नातानि सुकृतैषिभिः। एवं त्वमपि कौरव्य विधिनानेन सुव्रत॥ व्रज तीर्थानि नियतः पुण्यं पुण्येन वर्धयन्। भावितैः करणैः पूर्वमास्तिक्याच्छ्रुतिदर्शनात्॥ प्राप्यन्ते तानि तीर्थानि सद्भिः शास्त्रानुदर्शिभिः। नाव्रती नाकृतात्मा च नाशुचिर्न च तस्करः॥ स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः। त्वया तु सम्यग्वृत्तेन नित्यंधर्मार्थदर्शिना॥ पिता पितामहश्चैव सर्वे च प्रपितामहाः। पितामहपुरोगाश्च देवाः सर्षिगणा नृप॥ तवधर्मेणधर्मज्ञ नित्यमेवाभितोषिताः। अवाप्स्यसि त्वं लोकान् वै वसूनां वासवोपम्। कीर्तिं च महतीं भीष्म प्राप्स्यसे भुवि शाश्वतीम्।१११।। नारद उवाच एवमुक्त्वाभ्यनुज्ञाय पुलस्त्यो भगवानृषिः। प्रीतः प्रीतेन मनसा तत्रैवान्तरधीयत॥ भीष्मश्च कुरुशार्दूल शास्त्रतत्त्वार्थदर्शिवान्। पुलस्त्यवचनाच्चैव पृथिवीं परिचक्रमे॥ एवमेषा महाभाग प्रतिष्ठाने प्रतिष्ठिता। तीर्थयात्रा महापुण्या सर्वपापप्रमोचनी॥ अनेन विधिना यस्तु पृथिवीं संचरिष्यति। अश्वमेधशतस्याङ्वयं फलं प्रेत्य स भोक्ष्यति॥ ततश्चाष्टगुणं पार्थ प्राप्स्यसेधर्ममुत्तमम्। भीष्मः कुरूणां प्रवरो यथापूर्वमवाप्तवान्॥ नेता च त्वमृषीन् यस्मात् तेन तेऽष्टगुणं फलम्। रक्षोगणविकीर्णानि तीर्थान्येतानि भारत! न गतानि मनुष्येन्द्रस्त्वामृते कुरुनन्दन॥ इदं देवर्षिचरितं सर्वतीर्थाभिसंवृत्तम्। यः पठेत् कल्यमुत्थाय सर्वपापैः प्रमुच्यते॥ ऋषिमुख्याः सदा यत्र वाल्मीकिस्त्वथ कश्यपः। आत्रेयः कुण्डजठरो विश्वामित्रोऽथ गौतमः॥ असितो देवलश्चैव मार्कण्डेयोऽथ गालवः। भरद्वाजो वसिष्ठश्च मुनिरुद्दालकस्तथा॥ शौनकः सह पुत्रेण व्याश्च तपतां वरः। दुर्वासाश्च मुनिश्रेष्ठो जावालिश्च महातपाः॥ एते ऋषिवराः सर्वे त्वत्प्रतीक्षास्तपोधनाः। एभिः सह महाराज तीर्थान्येतान्यनुव्रज॥ एष ते लोमशो नाम महर्षिरमितद्युतिः। समेष्यति महाराज तेन सार्धमनुव्रज॥ मयापि सहधर्मज्ञ तीर्थान्येतान्यनुक्रमात्। प्राप्स्यसे महतीं कीर्तिं यथा राजा महाभिषः।।१२४ यथा ययातिधर्मात्मा यथा राजा पुरूरवाः। तथा त्वं राजशार्दूल स्वेनधर्मेण शोभसे॥ यथा भगीरथो राजा यथा रामश्च विश्रुतः। तथा त्वं सर्वराजभ्यो भ्राजसे रश्मिवानिव॥ यथा मनुर्यथेक्ष्वाकुर्यथा पूरुर्महायशाः। यथा वैन्यो महाराज तथा त्वमपि विश्रुतः॥ यथा च वृत्रहा सर्वान् सपत्नान् निर्दहन् पुरा। त्रैलोक्यं पालयामास देवराड् विगतज्वरः॥ तथा शत्रुक्षयं कृत्वा त्वं प्रजाः पालयिष्यसि। स्वधर्मविजितामुर्वी प्राप्य राजीवलोचन॥ ख्यातिं यास्यसिधर्मेण कार्तवीर्यार्जुनो यथा॥ वैशम्पायन उवाच एवमाश्वास्य राजानं नारदो भगवानृषिः। अनुज्ञाप्य महाराज तत्रैवान्तरधीयत॥ युधिष्ठिरोऽपिधर्मात्मा तमेवार्थं विचिन्तयन्। तीर्थयात्राश्रितं पुण्यमृषीणां प्रत्यवेदयत्॥ वैशम्पायन उवाच भ्रातृणां मतमाज्ञाय नारदस्य चधीमतः। पितामहसमंधौम्यं प्राह राजा युधिष्ठिरः॥ मया स पुरुषव्याघ्रो जिष्णुः सत्यपराक्रमः। अस्त्रहेतोर्महाबाहुरमितात्मा विवासितः॥ स हि वीरोऽनुरक्तश्च समर्थश्च तपोधनः। कृती च भृशमप्यस्त्रे वासुदेव इव प्रभुः॥ अहं ह्येतावुभौ ब्रह्मन् कृष्णावरिविघातिनौ। अभिजानामि विक्रान्तौ तथा व्यासः प्रतापवान्॥ त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनंजयौ। नारदोऽपि तथा वेद योऽप्यशंसत् सदा मम॥ तथाहमपि जानामि नरनारायणावृषी। शक्तोऽयमित्यतो मत्वा मया स प्रेषितोऽर्जुनः॥ इन्द्रादनवरः शक्रं सुरसूनुः सुराधिपम्। द्रष्टुमस्त्राणि चादातुमिन्द्रादिति विवासितः॥ भीष्मद्रोणावतिरथौ कृपो द्रौणिश्च दुर्जयः। धृतराष्ट्रस्य पुत्रेण वृता युधि महारथाः॥ सर्वे वेदविदः शूराः सर्वास्त्रविदुषस्तथा। योद्धुकामाश्च पार्थेन सततं ये महाबलाः। स च दिव्यास्त्रवित् कर्णः सूतपुत्रो महारथः॥ योऽस्त्रवेगानिलबलः शरार्चिस्तलनिःस्वनः। रजोधूमोऽस्त्रसम्पातोधार्तराष्ट्रानिलोद्धतः॥ निसृष्ट इव कालेन युगान्ते ज्वलनो महान्। मम सैन्यमयं कक्षं प्रधक्ष्यति न संशयः॥ तं स कृष्णानिलोद्भूतो दिव्यास्त्रज्वलनो महान्। श्वेतवाजिबलाकाभृद् गाण्डीवेन्द्रायुधोल्बणः॥ संरब्धः शरधाराभिः सुदीप्तं कर्णपावकम्। अर्जुनोदीरितो मेघः शमयिष्यति संयुगे॥ स साक्षादेव सर्वाणि शक्रात् परपुरंजयः। दिव्यान्यस्त्राणि बीभत्ससुस्ततश्च प्रतिपत्स्यते॥ अलं स तेषां सर्वेषामिति मेधीयते मतिः। नास्ति त्वतिकृतार्थानां रणेऽरीणां प्रतिक्रिया॥ ते वयं पाण्डवं सर्वे गृहीतास्त्रमरिंदमम्। द्रष्टारो न हि बीभत्सुर्भारमुद्यम्य सीदति॥ वयं तु तमृते वीरं वनेऽस्मिन् द्विपदां वर। अवधानं न गच्छामः काम्यके सह कृष्णया।॥ भवानन्यद् वनं साधु बह्वन्नं फलवच्छुचि। आख्यातु रामणीयं च सेवितं पुण्यकर्मभिः॥ यत्र कंचिद् वयं कालं वसन्तः सत्यविक्रमम्। प्रतीक्षामोऽर्जुनं वीरं वृष्टिकामा इवाम्बुदम्॥ विविधानाश्रमान् कांश्चिद् द्विजातिभ्यः प्रतिश्रुतान्। सरांसि सरितश्चैव रमणीयांश्च पर्वतान्॥ आचक्ष्व न हि मे ब्रह्मन् रोचते तमृतेऽर्जुनम्। वनेऽस्मिन् काम्यके वासो गच्छामोऽन्यां दिशं प्रति॥ वैशम्पायन उवाच तान् सर्वानुत्सुकान् दृष्ट्वा पाण्डवान् दीनचेतसः। आश्वासयंस्तथाधौम्यो बृहस्पतिसमोऽब्रवीत्॥ ब्राह्मणानुमतान् पुण्यानाश्रमान् भरतर्षभ। दिशस्तीर्थानि शैलांश्च शृणु मे वदतोऽनघ॥ याञ्छ्रुत्वा गदतो राजन् विशोको भवितासि हो द्रौपद्या चानया सार्धं भ्रातृभिश्च नरेश्वर॥ श्रवणाच्चैव तेषां त्वं पुण्यमाप्स्यसि पाण्डव। गत्वा शतगुणं चैव तेभ्य एव नरोत्तम॥ पूर्वं प्राची दिशं राजन् राजर्षिगणसेविताम्। रम्यां ते कथयिष्यामि युधिष्ठिर यथास्मृति॥ तस्यां देवर्षिजुष्टायां नैमिषं नाम भारत। यत्र तीर्थानि देवानां पुण्यानि च पृथक् पृथक्॥ यत्र सा गोमती पुण्या रम्या देवर्षिसेविता। यज्ञभूमिश्च देवानां शामित्रं च विवस्वतः॥ तस्यां गिरिवरः पुण्यो गयो राजर्षिसत्कृतः। शिवं ब्रह्मसरो यत्र सेवितं त्रिदशर्षिभिः॥ यदर्थे पुरुषव्याघ्र कीर्तयन्ति पुरातनाः। एष्टव्या बहवः पुत्रा योकोऽपि गयां व्रजेत्॥ यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत्। उत्तारयति संतत्या दशपूर्वान् दशावरान्॥ महानदी च तत्रैव तथा गयशिरो नृप। यत्रासौ कीर्त्यते विगैरक्षय्यकरणो वटः॥ यत्र दत्तं पितृभ्योऽन्नमक्षय्यं भवति प्रभो। सा च पुण्यजला तत्र फल्गु म महानदी॥ बहुमूलफला चापि कौशिकी भरतर्षभ। विश्वामित्रोऽध्यगाद् यत्र ब्राह्मणत्वं तपोधनः॥ गङ्गा यत्र नदी पुण्या यस्यास्तीरे भगीरथः। अयजत् तत्र बहुभिः क्रतुभिर्भूरिदक्षिणैः॥ पञ्चालेषु च कौरव्य कथयन्त्युत्पलावनम्। विश्वामित्रोऽयजद् यत्र पुत्रेण सह कौशिकः॥ यत्रानुवंशं भगवाञ्जामदग्न्यस्तथा जगौ। विश्वामित्रस्य तां दृष्ट्वा विभूतिमतिमानुषीम्॥ कान्यकुब्जेऽपिबत् सोममिन्द्रेण सह कौशिकः। ततः क्षत्रादपाक्रामद् ब्राह्मणोऽस्मीति चाब्रवीत्॥ पवित्रमृषिभिर्जुष्टं पुण्यं पावनमुत्तमम्। गङ्गायमुनयोर्वीर संगमं लोकविश्रुतम्॥ यत्रायजत भूतात्मा पूर्वमेव पितामहः। प्रयागमिति विख्यातं तस्माद् भरतसत्तम॥ अगस्त्यस्य तु राजेन्द्र तत्राश्रमवरो नृप। तत् तथा तापसारण्यं तापसैरुपशोभितम्॥ हिरण्यबिन्दुः कथितो गिरौ कालञ्जरे महान्। आगस्त्यपर्वतो रम्यः पुण्यो गिरिवरः शिवः॥ महेन्द्रो नाम कौरव्य भार्गवस्य महात्मनः। अयजत् तत्र कौन्तेय पूर्वमेव पितामहः॥ यत्र भागीरथी पुण्या सरस्यासीद् युधिष्ठिर। यत्र सा ब्रह्मशालेति पुण्या ख्याता विशाम्पते॥ धूतपाप्मभिराकीर्णा पुण्यं तस्याश्च दर्शनम्। पवित्रो मङ्गलीयश्च ख्यातो लोके महात्मनः॥ केदारश्च मतङ्गस्य महानाश्रम उत्तमः। कुण्डोदः पर्वतो रम्यो बहुमूलफलोदकः॥ नैषधस्तृषितो यत्र जलं शर्म च लब्धवान्। यत्र देववनं पुण्यं तापसैरुपशोभितम्॥ बाहुदा च नदी यत्र नन्दा च गिरिमूर्धनि। तीर्थानि सरितः शैलाः पुण्यान्यायतनानि च॥ प्राच्यां दिशि महाराज कीर्तितानि मया तव। तिसृष्वन्यानि पुण्यानि दिक्षु तीर्थानि मे शृणु। सरितः पर्वतांश्चैव पुण्यान्यायतनानि च॥ धौम्य उवाच दक्षिणस्यां तु पुण्यानि शृणु तीर्थानि भारत। विस्तरेण यथाबुद्धि कीर्त्यमानानि तानि वै॥ यस्यामाख्यायते पुण्या दिशि गोदावरी नदी। बहरामा बहुजला तापसाचरिता शिवा॥ वेणा भीमरथी चैव नद्यौ पापभयापहे। मृगद्विजसमाकीर्णे तापसालयभूषिते॥ राजर्षेस्तस्य च सरिनृगस्य भरतर्षभ। रम्यतीर्था बहुजला पयोष्णी द्विजसेविता॥ अपि चात्र महायोगी मार्कण्डेयो महायशाः। अनुवंश्यां जगौ गाथां नृगस्यधरणीपतेः॥ मृगस्य यजमानस्य प्रत्यक्षमिति नः श्रुतम्। अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः॥ पयोष्ण्यां यजमानस्य वाराहे तीर्थ उत्तमे। उद्धृतं भूतलस्थं वा वायुना समुदीरितम्। पयोष्ण्या हरते तोयं पापमामरणान्तिकम्॥ स्वर्गादुत्तुङ्गममलं विषाणं यत्र शूलिनः। स्वमात्मविहितं दृष्ट्वा मर्त्यः शिवपुरं व्रजेत्॥ गङ्गाद्याः सलिलोच्चयाः। पयोष्णी चैकतः पुण्या तीर्थेभ्यो हि मता मम॥ एकतः सरितः सर्वा माठरस्य वनं पुण्यं बहुमूलफलं शिवम्। यूपश्च भरतश्रेष्ठ वरुणस्रोतसे गिरौ॥ प्रवेण्युत्तरमार्गे तु पुण्ये कण्वाश्रमे तथा। तापसानामरण्यानि कीर्तितानि यथाश्रुति॥ वेदी शूर्पारके तात जगदग्नेर्महात्मनः। रम्या पाषाणतीर्था च पुनश्चन्द्रा च भारत॥ अशोकतीर्थं तत्रैव कौन्तेय बहुलाश्रयम्। अगस्त्यतीर्थं पाण्ड्येषु वारुणं च युधिष्ठिर॥ कुमार्यः कथिताः पुण्याः पाण्ड्येष्वेव नरर्षभ। ताम्रपर्णी तु कौन्तेय कीर्तयिष्यामि तां शृणु॥ यत्र देवैस्तपस्तप्तं महदिच्छद्भिराश्रमे। गोकर्ण इति विख्यातस्त्रिषु लोकेषु भारत॥ शीततोयो बहुजलः पुण्यस्तात शिव: शुभः। ह्रदः परमदुष्प्रापो मानुषैरकृतात्मभिः॥ तत्र वृक्षतृणाद्यैश्च सम्पन्नः फलमूलवान्। आश्रमोऽगस्त्यशिष्यस्य पुण्यो देवसमो गिरिः॥ वैदूर्यपर्वतस्तत्र श्रीमान् मणिमयः शिवः। अगस्त्यस्याश्रमश्चैव बहुमूलफलोदकः॥ सुराष्ट्रेष्वपि वक्ष्यामि पुण्यान्यायतनानि च। आश्रमान् सरितश्चैव सरांसि च नराधिप॥ चमसोद्भेदनं विप्रास्तत्रापि कथयन्त्युत। प्रभासं चोदधौ तीर्थं त्रिदशानां युधिष्ठिर॥ तत्र पिण्डारकं नाम तापसाचरितं शिवम्। उज्जयन्तश्च शिखरी क्षिप्रं सिद्धिकरो महान्॥ तत्र देवर्षिवर्येण नारदेनानुकीर्तितः। पुराणः श्रूयते श्लोकस्तं निबोध युधिष्ठिर॥ पुण्ये गिरौ सुराष्ट्रेषु मृगपक्षिनिषेविते। उज्जयन्ते स्म तप्ताङ्गो नाकपृष्ठे महीयते॥ पुण्या द्वारवती तत्र यत्रासौ मधुसूदनः। साक्षाद् देवः पुराणोऽसौ स हिधर्मः सनातनः॥ ये च वेदविदो विप्रा ये चाध्यात्मविदो जनाः। ते वदन्ति महात्मानं कृष्णंधर्म सनातनम्॥ पवित्राणां हि गोविन्दः पवित्रं परमुच्यते। पुण्यानामपि पुण्योऽसौ मङ्गलानां च मङ्गलम्। त्रैलोक्ये पुण्डरीकाक्षो देवदेवः सनातनः॥ अव्ययात्मा व्ययात्मा च क्षेत्रज्ञः परमेश्वरः। आस्ते हरिरचिन्त्यात्मा तत्रैव मधुसूदनः॥ धौम्य उवाच उदीच्यां राजशार्दूल दिशि पुण्यानि यानि वै। तानि ते कीर्तयिष्यामि पुण्यान्यायतनानि च।॥ शृणुष्वावहितो भूत्वा मम मन्त्रयतः प्रभो। कथाप्रतिग्रहो वीर श्रद्धां जनयते शुभाम्॥ सरस्वती महापुण्या ह्रदिनी तीर्थमालिनी। समुद्रगा महावेगा यमुना यत्र पाण्डव॥ यत्र पुण्यतरं तीर्थं प्लक्षावतरणं शुभम्। यत्र सारस्वतैरिष्टवा गच्छन्त्यवभृथैर्द्विजाः॥ पुण्यं चाख्यायते दिव्यं शिवमग्निशिरोऽनघ। सहदेवोऽयजद् यत्र शम्याक्षेपेण भारत॥ एतस्मिन्नेव चार्थेऽसाविन्द्रगीता युधिष्ठिर। गाथा चरति लोकेऽस्मिन् गीयमाना द्विजातिभिः॥ अग्नयः सहदेवेन सेविता यमुनामनु। ते तस्य कुरुशार्दूल सहस्रशतदक्षिणा:॥ तत्रैव भरतो राजा चक्रवर्ती महायशाः। विंशतिः सप्त चाष्टौ च हयमेधानुपाहरत्॥ कामकृद् यो द्विजातीनां श्रुतस्तात यथा पुरा। अत्यन्तमाश्रमः पुण्यः शरभङ्गस्य विश्रुतः॥ सरस्वती नदी सद्भिः सततं पार्थ पूजिता। बालखिल्यैर्महाराज यत्रेष्टमृषिभिः पुरा॥ दृषद्वती महापुण्या यत्र ख्याता युधिष्ठिर। न्यचोधाख्यस्तु पुण्याख्यः पाञ्चाल्यो द्विपदांवर॥ दाल्भ्यघोषश्च दाल्भ्यश्चधरणीस्थो महात्मनः। कौन्तेयानन्तयशसः सुव्रतस्यामितौजसः॥ आश्रमः ख्यायते पुण्यस्त्रिषु लोकेषु विश्रुतः। एतावर्णाववर्णौ च विश्रुतौ मनुजाधिप॥ वेदज्ञौ वेदविद्वांसौ वेदविद्याविदावुभौ। ईजाते क्रतुभिर्मुख्यैः पुण्यैर्भरतसत्तम॥ समेत्य बहुशो देवाः सेन्द्राः सवरुणाः पुरा। विशाखयूपेऽतप्यन्त तेन पुण्यतमश्च सः॥ ऋधिर्महान् महाभागो जमदग्निर्महायशाः। पलाशकेषु पुण्येषु रम्येष्वयजत प्रभुः॥ यत्र सर्वाः सरिच्छेष्ठाः साक्षात् तमृषिसत्तमम्। स्वं स्वं तोयमुपादाय परिवार्योपतस्थिरे॥ अपि चात्र महाराज स्वयं विश्वांवसुर्जगौ। इमं श्लोकं तदा वीर प्रेक्ष्य दीक्षां महात्मनः॥ यजमानस्य वै देवाञ्जमदग्नेर्महात्मनः। आगम्य सरितो विप्रान् मधुना समतर्पयन्॥ गन्धर्वयक्षरक्षोभिरप्सरोभिश्च सेवितम्। किरातकिन्नरावासं शैलं शिखारेणां वरम्॥ विभेद तरसा गङ्गा गङ्गाद्वारं युधिष्ठिर। पुण्यं तत् ख्यायते राजन् ब्रह्मर्षिगणसेवितम्॥ सनत्कुमारः कौरव्य पुण्यं कनखलं तथा। पवर्तश्च पुरुर्नाम यत्र यातः पुरूरवाः॥ भृगुर्यत्र तपस्तेपे महर्षिगणसेविते। राजन् स आश्रमः ख्यातो भृगुतुङ्गो महागिरिः॥ यः स भूतं भविष्यच्च भवच्च भरतर्षभ। नारायणः प्रभुर्विष्णुः शाश्वतः पुरुषोत्तमः॥ तस्यातियशसः पुण्यां विशालां बदरीमनु। आश्रमः ख्यायते पुण्यस्त्रिषु लोकेषु विश्रुतः॥ उष्णतोयवहा गङ्गां शीततोयवहा पुरा। सुवर्णसिकता राजन् विशालां बदरीमनु॥ ऋषये यत्र देवाश्च महाभागा महौजसः। प्राप्य नित्यं नमस्यन्ति देवं नारायणं प्रभुम्॥ यत्र नारायणो देवः परमात्मा सनातनः। तत्र कृत्स्नं जगत् सर्वं तीर्थान्यायतनानि च।॥ तत् पुण्यं परमं ब्रह्म तत् तीर्थं तत् तपोवनम्। तत् परं परमं देवं भूतानां परमेश्वरम्॥ शाश्वतं परमं चैवधातारं परमं पदम्। यं विदित्वा न शोचन्ति विद्वांसः शास्त्रदृष्टयः॥ तत्र देवर्षयः सिद्धाः सर्वे चैव तपोधनाः। आदिदेवो महायोगी यत्रास्ते मधुसूदनः॥ पुण्यानामपि तत् पुण्यमत्र ते संशयोऽस्तु मा। एतानि राजन् पुण्यानि पृथिव्यां पृथिवीपते॥ कीर्तितानि नरश्रेष्ठ तीर्थान्यायतनानि च। एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः॥ ऋषिभिर्देवकल्पैश्च सेवितानि महात्मभिः। चरन्नेतानि कौन्तेय सहिता ब्राह्मणर्षभैः। भ्रातृभिश्च महाभागैरुत्कण्ठां विहरिष्यसि॥ वैशम्पायन उवाच एवं सम्भाषमाणे तुधौम्ये कौरवनन्दन। लोमशः स महातेजा ऋषिस्तत्राजगाम ह॥ तं पाण्डवाचजो राजा सगणो ब्राह्मणाश्च ते। उपातिष्ठन्महाभागं दिवि शक्रमिवामराः॥ समभ्यर्च्य यथान्यायंधर्मपुत्रो युधिष्ठिरः। पप्रच्छागमने हेतुमटने च प्रयोजनम्॥ स पृष्टः पाण्डुपुत्रेण प्रीयमाणो महामनाः। उवाच श्लक्ष्णया वाचा हर्षयन्निव पाण्डवान्॥ संचरन्नस्मि कौन्तेय सर्वाल्लँकोकान् यदृच्छया। गतः शक्रस्य भवनं तत्रापश्यं सुरेश्वरम्॥ तव च भ्रातरं वीरमपश्यं सव्यसाचिनम्। शक्रस्यार्धासनगतं तत्र मे विस्मये महान्॥ आसीत् पुरषशार्दूल दृष्टवा पार्थं तथागतम्। आह मां तत्र देवेशो गच्छ पाण्डुसुतान् प्रति॥ सोऽहमभ्यागतः क्षिप्रं दिदृक्षुस्त्वां सहाजुनम्। वचनात् पुरुहूतस्य पार्थस्य च महात्मनः॥ आख्यास्ये ते प्रियं तात महत् पाण्डवनन्दन। ऋषिभिः सहितो राजन् कृष्णया चैव तच्छृणु॥ यत् त्वयोक्तो महाबाहुरस्त्रार्थं भरतर्षभ। तदस्त्रमाप्तं पार्थेन रुद्रादप्रतिमं विभो॥ यत् तद् ब्रह्मशिरो नाम तपसा रुद्रमागमत्। अमृतादुत्थितं रौद्रं तल्लब्धं सव्यसाचिना॥ तत् समन्त्रं ससंहारं सप्रायश्चित्तमङ्गलम्। वज्रमस्त्राणि चान्यानि दण्डादीनि युधिष्ठिर॥ यमात् कुबेराद् वरुणादिन्द्राच्च कुरुनन्दन। अस्त्राण्यधीतवान् पार्थो दिव्यान्यमितविक्रमः॥ विश्वावसोस्तु तनयाद् गीतं नृत्यं च साम च। वादित्रं च यथान्यायं प्रत्यविन्दद् यथाविधि॥ एवं कृतास्त्रः कौन्तेयो गान्धर्वं वेदमाप्तवान्। सुखं वसति बीभत्सुरनुजस्यानुजस्तव॥ यदर्थं मां सुरश्रेष्ठ इदं वचनमब्रवीत्। तच्च ते कथयिष्यामि युधिष्ठिर निबोध मे॥ भवान् मनुष्यलोकेऽपि गमिष्यति न संशयः। ब्रूयाद् युधिष्ठिरं तत्र वचनान्मे द्विजोत्तम॥ आगमिष्यति ते भ्राता कृतास्त्रः क्षिप्रमर्जुनः। सुरकार्यं महत् कृत्वा यदशक्यं दिवौकसाम्॥ तपसापि त्वमात्मानं योजय भ्रातृभिः सह। तपसो हि परं नास्ति तपसा विन्दते महत्॥ अहं च कर्णं जानामि यथावद् भरतर्षभ। सत्यसंधं महोत्साहं महावीर्यं महाबलम्॥ महाहवेष्वप्रतिमं महायुद्धविशारदम्। महाधनुर्धरं वीरं महास्त्रं वरवर्णिनम्॥ महेश्वरसुतप्रख्यमादित्यतनयं प्रभुम्। तथार्जुनमतिस्कन्दं सहजोल्बणपौरुषम्॥ न स पार्थस्य संग्रमे कलामर्हति षोडशीम्। यच्चापि ते भयं कर्णान्मनसिस्थमरिंदम॥ तच्चाप्यपहरिष्यामि सव्यसाचिन्युपागते। यच्च ते मानसं वीर तीर्थयात्रामिमां प्रति। स महर्षिर्लोमशस्ते कथयिष्यत्यसंशयम्॥ यच्च किंचित् तपोयुक्तं फलं तीर्थेषु भारत! ब्रह्मर्षिरेष ब्रूयात् ते तच्छ्रद्धेयं न चान्यथा॥ लोमश उवाच धनंजयेन चाप्युक्तं यत् तच्छृणु युधिष्ठिर। युधिष्ठिरं भ्रातरं मे योजयेर्धर्म्यया श्रिया॥ त्वं हिधर्मान् परान् वेत्थ तपांसि च तपोधन। श्रीमतां चापि जानासिधर्मं राज्ञां सनातनम्॥ स भवान् परमं वेद पावनं पुरुषं प्रति। तेन संयोजयेथास्त्वं तीर्थपुण्येन पाण्डवान्॥ यथा तीर्थानि गच्छेत गाश्च दद्यात् स पार्थिवः। तथा सर्वात्मना कार्यमिति मामर्जुनोऽब्रवीत्॥ भवता चानुगुप्तोऽसौ चरेत् तीर्थानि सर्वशः। रक्षोभ्यो रक्षितव्यश्च दुर्गेषु विषमेषु च॥ दधीच इव देवेन्द्रं यथा चाप्यङ्गिरा रविम्। तथा रक्षस्व कौन्तेयान् राक्षसेभ्यो द्विजोत्तम॥ यातुधाना हि बहवो राक्षसाः पर्वतोपमाः। त्वयाभिगुप्तं कौन्तेयं न विवर्तेयुरन्तिकम्॥ सोऽहमिन्द्रस्य वचनान्नियोगादर्जुनस्य च। रक्षमाणो भयेभ्यस्त्वां चरिष्यामि त्वया सह॥ द्विस्तीर्थानि मया पूर्वं दृष्टानि कुरुनन्दन। इदं तृतीयं द्रक्ष्यामि तान्येव भवता सह॥ इयं राजर्षिभिर्याता पुण्यकृद्भिर्युधिष्ठिर। मन्वादिभिर्महाराज तीर्थयात्रा भयापहा॥ नानृजुर्नाकृतात्मा च नाविद्यो न च पापकृत्। स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः॥ त्वं तुधर्ममतिर्नित्यंधर्मज्ञः सत्यसंगरः। विमुक्तः सर्वसङ्गेभ्यो भूय एव भविष्यसि॥ यथा भागीरथो राजा राजानश्च गयादयः। यथा ययातिः कौन्तेय तथा त्वमपि पाण्डव॥ युधिष्ठिर उवाच न हर्षात् सम्प्रपश्यामि वाक्यस्यास्योत्तरं क्वचित्। स्मरेद्धि देवराजो यं को नामाभ्यधिकस्ततः॥ भवता संगमो यस्य भ्राता चैवधनंजयः। वासवः स्मरते यस्य को नामाभ्यधिकस्ततः॥ यच्च मां भगवानाह तीर्थानां दर्शनं प्रति। धौम्यस्य वचनादेषा बुद्धिः पूर्वं कृतव मे॥ तद् यदा मन्यसे ब्रह्मन् गमनं तीर्थदर्शने। तदैव गन्तास्मि तीर्थान्येष मे निश्चयः परः॥ वैशम्पायन उवाच गमने कृतबुद्धिं तु पाण्डवं लोमशोऽब्रवीत्। लघुर्भव महाराज लघुः स्वैरं गमिष्यसि॥ युधिष्ठिर उवाच भिक्षाभुजो निवर्तन्तां ब्राह्मणा यतयश्च ये। क्षुत्तृडध्वश्रमायासशीतार्तिमसहिष्णवः॥ ते सर्वे विनिवर्तन्तां ये च मिष्टभुजो द्विजाः। पक्वान्नलेह्यपानानां मांसानां च विकल्पकाः॥ तेऽपि सर्वे निवर्तन्ता ये च सूदानुयायिनः। मया यथोचिताजीव्यैः संविभक्ताश्च वृत्तिभिः॥ चाप्यनुरताः पौरा राजभक्तिपुरः सराः। धृतराष्ट्र महाराजमभिगच्छन्तु ते च वै॥ स दास्यति यथाकालमुचिता यस्य या भृतिः। स चेद् यथोचितां वृत्तिं न दद्यान्मनुजेश्वरः॥ अस्मत्प्रियहितार्थाय पाञ्चाल्यो वः प्रदास्यति॥ वैशम्पायन उवाच ततो भूयिष्ठशः पौरा गुरुभारप्रपीडिताः। विप्राश्च यतयो मुख्या जग्मुर्नागपुरं प्रति॥ तान् सर्वान्धर्मराजस्य प्रेम्णा राजाम्बिकासुतः। प्रतिजग्राह विधिवद्धनैश्च समतर्पयत्॥ ततः कुन्तीसुतो राजा लघुभिाह्मणैः सह। लोमशेन च सुप्रीतस्त्रिरात्रं काम्यकेऽवसत्॥ वैशम्पायन उवाच ततः प्रयान्तं कौन्तेयं ब्राह्मणा वनवासिनः। अभिगम्य तदा राजन्निदं वचनमबृदन्॥ राजस्तीर्थानि गन्तासि पुण्यानि भ्रातृभिः सह। ऋषिणा चैव सहितो लोमशेन महात्मना॥ अस्मानपि महाराज नेतुमर्हसि पाण्डव। अस्माभिर्हि न शक्यानि त्वदृते तानि कौरव॥ श्वापदैरुपसृष्टानि दुर्गाणि विषमाणि च। अगम्यानि नरैरल्पैस्तीर्थानि मनुजेश्वर॥ भवतो भ्रातरः शूराधनुर्धरवसः सदा। भवद्भिः पालिताः शूरैर्गच्छामो वयमप्युत॥ भवत्प्रसादाद्धि वय प्राप्नुयाम सुखं फलम्। तीर्थानां पृथिवीपाल वनानां च विशाम्पते॥ तव वीर्यपरित्राताः शुद्धास्तीर्थपरिप्लुताः। भवेमधूतपाप्मानस्तीर्थसंदर्शनानृप॥ भवानपि नरेन्द्रस्य कार्तवीर्यस्य भारत। अष्टकस्य च राजर्लोमपादस्य चैव ह॥ भरतस्य च वीरस्य सार्वभौमस्य पार्थिव। ध्रुवं प्राप्स्यसि दुष्प्रापॉल्लोकांस्तीर्थपरिप्लुतः॥ प्रभासादीनि तीर्थानि महेन्द्रादींश्च पर्वतान्। गङ्गाद्याः सरितश्चैव प्लक्षादींश्च वनस्पतीन्॥ त्वया सह महीपाल द्रष्टुमिच्छामहे वयम्। यदि ते ब्राह्मणेष्वस्ति काचित् प्रीतिर्जनाधिप।॥ कुरु क्षिप्रं वचोऽस्माकं ततः श्रेयोऽभिपत्स्यसे। तीर्थानि हि महाबाहो तपोविघ्नकरैः सदा॥ अनुकीर्णानि रक्षोभिस्तेभ्यो नस्त्रातुमर्हसि। तीर्थान्युक्तानिधौम्येन नारदेन चधीमता॥ यान्युवाच च देवर्षिर्लोमशः सुमहातपाः। विधिवत् तानि सर्वाणि पर्यटस्व नराधिप॥ धूतपाप्मा सहास्माभिर्लोमशेनाभिपालितः। स राजा पूज्यमानस्तैर्हर्षादश्रुपरिप्लुतः॥ भीमसेनादिभिवीरैर्धातृभिः परिवारितः। बाढमित्यब्रवीत् सर्वांस्तानृषीन् पाण्डवर्षभः॥ लोमशं समनुज्ञाप्यधौम्यं चैव पुरोहितम्। ततः स पाण्डवश्रेष्ठो भ्रातृभिः सहितो वशी॥ द्रौपद्या चानवद्याझ्या गमनाय मनो दधे। अथ व्यासो महाभागस्तथा पर्वतनारदौ॥ काम्यके पाण्डवं द्रष्टुं समाजग्मुर्मनीषिणः। तेषां युधिष्ठिरो राजा पूजां चक्रे यथाविधि। सत्कृतास्ते महाभागा युधिष्ठिरमथाब्रुवन्॥ ऋषय ऊचुः युधिष्ठिर यमौ भीम मनसा कुरुतार्जवम्। मनसा कृतशौचा वै शुद्धास्तीर्थानि यास्यथ॥ शरीरनियमं प्राहुर्ब्राह्मणा मानुषं व्रतम्। मनोविशुद्धां बुद्धिं च दैवमाहुव्रतं द्विजाः॥ मनो ह्यदुष्टं शौचाय पर्याप्तं वै नराधिप। मैत्री बुद्धिं समास्थाय शुद्धास्तीर्थानि द्रक्ष्यथ॥ ते यूयं मानसैः शुद्धाः शरीरनियमव्रतैः। दैवं व्रतं समास्थाय यथोक्तं फलमाप्स्यथ॥ ते तथेति प्रतिज्ञाय कृष्णया सह पाण्डवाः। कृतस्वस्त्ययनाः सर्वे मुनिभिर्दिव्यमानुषैः।।२१ लोमशस्योपसंगृह्य पादौ द्वैपायनस्य च। नारदस्य च राजेन्द्र देवर्षेः पर्वतस्य च॥ ॥ धौम्येन सहिता वीरास्तथा तैर्वनवासिभिः। मार्गशीर्ध्यामतीतायां पुष्येण प्रययुस्ततः॥ कठिनानि समादाय चीराजिनजटाधराः। अभेद्यैः कवचैर्युक्तास्तीर्थान्यन्वचरंस्ततः॥ इन्द्रसेनादिभिर्भूत्यै रथैः परिचतुर्दशैः। महानसव्यापृतैश्च तथान्यैः परिचारकैः॥ सायुधा बद्धनिस्त्रिशास्तूणवन्तः समार्गणाः। प्राङ्मुखाः प्रययुर्वीराः पाण्डवा जनमेजय॥ वैशम्पायन उवाच ते तथा सहिता वीरा वसन्तस्तत्र तत्र ह। क्रमेण पृथिवीपाल नैमिषारण्यमागताः॥ ततस्तीर्थेषु पुण्येषु गोमत्याः पाण्डवा नृप। कृताभिषेकाः प्रददुर्गाश्च वित्तं च भारत॥ तत्र देवान् पितॄन् विप्रांस्तर्पयित्वा पुनः पुनः। कन्यातीर्थेऽश्वतीर्थे च गवां तीर्थे च भारत। कालकोट्यां वृषप्रस्थे गिरावुष्य च पाण्डवाः॥ बाहुदायां महीपाल चक्रुः सर्वेऽभिषेचनम्। प्रयागे देवयजने देवानां पृथिवीपते॥ ऊषुराप्लुत्य गात्राणि तपश्चातस्थुरुत्तमम्। गङ्गयामुनयोश्चैव संगमे सत्यसंगराः॥ विपाप्मानो महात्मानो विप्रेभ्यः प्रददुर्वसु। तपस्विजनजुष्टां च ततो वेदी प्रजापतेः॥ जग्मुः पाण्डुसुता राजन् ब्राह्मणैः सह भारत। तत्र ते न्यवसन् वीरास्तपश्चातस्थुरुत्तमम्॥ संतर्पयन्तः सततं वन्येन हविषा द्विजान्। ततो महीधरं जग्मुर्धर्मज्ञेनाभिसंस्कृतम्॥ राजर्षिणा पुण्यकृता गयेनानुपमद्युते। नगो गयशिरो यत्र पुण्या चैव महानदी॥ वानीरमालिनी रम्या नदी पुलिनशोभिता। दिव्यं पवित्रकूटं च पवित्रंधरणीधरम्॥ ऋषिजुष्टं सुपुण्यं तत् तीर्थं ब्रह्मसरोत्तमम्। अगस्त्यो भगवान् यत्र गतो वैवस्वतं प्रति॥ उवास च स्वयं तत्रधर्मराजः सनातनः। सर्वासां सरितां चैव समुद्भेदो विशाम्पते॥ यत्र संनिहितो नित्यं महादेवः पिनाकधृक्। तत्र ते पाण्डवा वीराश्चातुर्मास्यैस्तदेजिरे॥ ऋषियज्ञेन महता यत्राक्षयवटो महान्। अक्षये देवयजने अक्षयं यत्र वै फलम्॥ ते तु तत्रोपवासांस्तु चक्रुनिश्चितमानसाः। ब्राह्मणास्तत्र शतशः समाजग्मुस्तपोधनाः॥ चातुर्मास्येनायजन्त आर्षेण विधिना तदा। तत्र विद्यातपोवृद्धा ब्राह्मणा वेदपारगाः। कथां प्रचक्रिरे पुण्यां सदसिस्था महात्मनाम्॥ तत्र विद्याव्रतस्तातः कौमारं व्रतमास्थितः। शमथोऽकथयद् राजन्नामूर्तरयसं गयम्॥ शमथ उवाच अमूर्तरयसः पुत्रो गयो राजर्षिसत्तमः। पुण्यानि यस्य कर्माणि तानि मे शृणु भारत॥ यस्य यज्ञो बभूवेह बह्वन्नो बहुदक्षिणः। यत्रानपर्वता राजशतशोऽथ सहस्रशः॥ घृतकुल्याश्च दध्नश्च नद्यो बहुशतास्तथा। व्यञ्जनानां प्रवाहाश्च महार्हाणां सहस्रशः॥ अहन्यहनि चाप्येवं याचतां सम्प्रदीयते। अन्ये च ब्राह्मणा राजन् भुञ्जतेऽन्नं सुसंस्कृतम्॥ तत्र वै दक्षिणाकाले ब्रह्मघोषो दिवं गतः। न च प्रज्ञायते किंचिद् ब्रह्मशब्देन भारत॥ पुण्येन चरता राजन् भूर्दिशः खं नभस्तथा। आपूर्णमासीच्छब्देन तदप्यासीन्महाद्भुतम्॥ यत्र स्म गाथा गायन्ति मनुष्या भरतर्षभ। अन्नपानैः शुभैस्तृप्ता देशे देशे सुवर्चसः॥ गयस्य यज्ञे के त्वद्य प्राणिनो भोक्तुमीप्सवः। तत्र भोजनशिष्टस्य पर्वताः पञ्चविंशतिः॥ न तत् पूर्वे जनाचक्रुर्न करिष्यन्ति चापरे। गयो यदकरोद् यज्ञे राजर्षिरमितद्युतिः॥ कथं तु देवा हविषा गयेन परितर्पिताः। पुनः शक्ष्यन्त्युपादातुमन्यैर्दत्तानि कानिचित्॥ सिकता वा यथा लोके यथा वा दिवि तारकाः। यथा वा वर्षतोधारा असंख्येयाः स्म केनचित्। तथा गणयितुं शक्या गययज्ञे न दक्षिणाः॥ एवंविधा: सुबहवस्तस्य यज्ञा महीपतेः। बभूवुरस्य सरसः समीपे कुरुनन्दन॥ वैशम्पायन उवाच ततः सम्प्रस्थितो राजा कौन्तेयो भूरिदक्षिणः। अगस्त्याश्रममासाद्य दुर्जयायामुवास हा॥ तत्रैव लोमशं राजा पप्रच्छ वदतां वरः। अगस्त्येनेह वातापिः किमर्थमुपशामितः॥ आसीद्वा किं प्रभावश्च स दैत्यो मानवान्तकः। किमर्थं चोदितो मन्युरगस्त्यस्य महात्मनः॥ लोमश उवाच इल्वलो नाम दैतेय आसीत् कौरवनन्दन। मणिमत्यां पुरि पुरा वातापिस्तस्य चानुजः॥ स ब्राह्मणं तपोयुक्तमुवाच दितिनन्दनः। पुत्रं मे भगवानेकमिन्द्रतुल्यं प्रयच्छतु॥ तस्मै स ब्राह्मणो नादात् पुत्रं वासवसम्मितम्। चुक्रोध सोऽसुरस्तस्य ब्राह्मणस्य ततो भृशम्॥ तदाप्रभृति राजेन्द्र इल्वलो ब्रह्महासुरः। मन्युमान् भ्रातरं छागं मायावी ह्यकरोत् ततः॥ मेघरूपी च वातापि: कामरूप्यभवत् क्षणात्। संस्कृत्य च भोजयति ततो विप्रं जिघांसति॥ स चाह्वयति यं वाचा गतं वैवस्वतक्षयम्। स पुनर्देहमास्थाय जीवन् स्म प्रत्यदृश्यत॥ ततो वातापिमसुरं छागं कृत्वा सुसंस्कृतम्। तं ब्राह्मणं भोजयित्वा पुनरेव समाह्वयत्॥ तामिल्वलेन महता स्वरेण वाचमीरिताम्। श्रुत्वातिमायो बलवान् क्षिप्रं ब्राह्मणकण्टकः॥ तस्य पार्श्व विनिर्भिद्य ब्राह्मणस्य महासुरः। वातापिः प्रहसन् राजन् निश्चक्राम विशाम्पते॥ एवं स ब्राह्मणान् राजन् भोजयित्वा पुनः पुनः। हिंसयामास दैतेय इल्वलो दुष्टचेतनः॥ अगस्त्यश्चापि भगवानेतस्मिन् काल एव तु। . पितृन् ददर्श गर्ने वै लम्बमानानधोमुखान्॥ सोऽपृच्छल्लम्बमानांस्तान् भवन्त इव कम्पिताः। संतानहेतोरिति ते प्रत्यूचुर्ब्रह्मवादिनः॥ ते तस्मै कथयामासुर्वयं ते पितरः स्वकाः। गर्तमेतमनुप्राप्ता लम्बामः प्रसवार्थिनः॥ यदि नो जनयेथास्त्वमगस्त्यापत्यमुत्तमम्। स्यान्नोऽस्मान्निरयान्मोक्षस्त्वं च पुत्राप्नुया गतिम्॥ स तानुवाच तेजस्वी सत्यधर्मपरायणः। करिष्ये पितरः कामं व्येतु वो मानसो जवरः॥ ततः प्रसवसंतानं चिन्तयन् भगवानृषिः। आत्मनः प्रसवस्यार्थे नापश्यत् सदृशी स्त्रियम्॥ स तस्य तस्य सत्त्वस्य तत् तदङ्गमनुत्तमम्। संगृह्य तत्समैरङ्गैर्निर्मिमे स्त्रियमुत्तमाम्॥ स तां विदर्भराजस्य पुत्रार्थं तप्यतस्तपः। निर्मितामात्मनोऽर्थाय मुनिः प्रादान्महातपाः॥ सा तत्र जज्ञे सुभगा विद्युत् सौदामनी यथा। विभ्राजमाना वपुषा व्यवर्धत शुभानना।॥ जातमात्रां च तां दृष्ट्वा वैदर्भः पृथिवीपतिः। प्रहर्षेण द्विजातिभ्यो न्यवेदयत भारत॥ अभ्यनन्दन्त तां सर्वे ब्राह्मणा वसुधाधिप। लोपामुद्रेति तस्याश्च चक्रिरे नाम ते द्विजाः॥ ववृधे सा महाराज बिभ्रती रूपमुत्तमम्। अप्स्विवोत्पलिनी शीघ्रमग्नेरिव शिखा शुभा।॥ तां यौवनस्थां राजेन्द्र शतं कन्याः स्वलंकृताः। दास्यः शतं च कल्याणीमुपातस्थुर्वशानुगाः॥ सा स्म दासीशतवृता मध्ये कन्याशतस्य च। आस्ते तेजस्विनी कन्या रोहिणीव दिवि प्रभा॥ यौवनस्थामपि च तां शीलाचारसमन्विताम्। न वव्रे पुरुषः कश्चिद् भयात् तस्य महात्मनः॥ सा तु सत्यवती कन्या रूपेणाप्सरसोऽप्यति। तोषयामास पितरं शीलेन स्वजनं तथा॥ वैदर्भी तु तथायुक्तां युवतीं प्रेक्ष्य वै पिता। मनसा चिन्तयामास कस्मै दद्यामिमां सुताम्॥ लोमश उवाच यदा त्वमन्यतागस्त्यो गार्हस्थ्ये तां क्षमामिति। तदाभिगम्य प्रोवाच वैदर्भ पृथिवीपतिम्॥ राजन् निवेशे बुद्धिर्मे वर्तते पुत्रकारणात्। वरये त्वां महीपाल लोपामुद्रां प्रयच्छ मे॥ एवमुक्तः स मुनिना महीपालो विचेतनः। प्रत्याख्यानाय चाशक्तः प्रदातुं चैव नैच्छत॥ ततः स भार्यामभ्येत्य प्रोवाच पृथिवीपतिः। महर्षिर्वीर्यवानेष क्रुद्धः शापाग्निना दहेत्॥ तं तथा दुःखितं दृष्ट्वा सभार्यं पृथिवीपतिम्। लोपामुद्राभिगम्येदं काले वचनमब्रवीत्॥ न मत्कृते महीपाल पीडामभ्येतुमर्हसि। प्रयच्छ मामगस्त्याय वाह्यात्मानं मया पितः॥ दुहितुर्वचनाद् राजा सोऽगस्त्याय महात्मने। लोपामुद्रां ततः प्रादाद् विधिपूर्वं विशाम्पते॥ प्राप्य भार्यामगस्त्यस्तु लोपामुद्रामभाषत। महार्हाण्युत्सृजैतानि वासांस्याभरणानि च॥ ततः सा दर्शनीयानि महार्हाणि तनूनि च। समुत्ससर्ज रम्भोरुर्वसनान्यायतेक्षणा॥ ततश्चीराणि जग्राह वल्कलान्यजिनानि च। समानवतचर्या च बभूवायतलोचना॥ गङ्गाद्वारमथागम्य भगवानृषिसत्तमः। उग्रमातिष्ठत तपः सह पल्यानुकूलया॥ सा प्रीता बहुमानाच्च पतिं पर्यचरत् तदा। अगस्त्यश्च परां प्रीति भार्यायामचरत् प्रभुः॥ ततो बहुतिथे काले लोपामुद्रां विशाम्पते। तपसा द्योतितां स्नातां ददर्श भगवानृषिः॥ स तस्याः परिचारेण शौचेन च दमेन च। श्रिया रूपेण च प्रीतो मैथुनायाजुहाव ताम्॥ ततः सा प्राञ्जलिर्भूत्वा लज्जमानेव भाविनी। तदा सप्रणयं वाक्यं भगवन्तमथाब्रवीत्॥ असंशयं प्रजाहेतोर्भार्यां पतिरविन्दत। या तु त्वयि मम प्रीतिस्तामृषे कर्तुमर्हसि॥ यथा पितुर्गृहे विप्र प्रासादे शयनं मम। तथाविधे त्वं शयने मामुपैतुमिहार्हसि॥ इच्छामि त्वां स्रग्विणं च भूषणैश्च विभूषितम्। उपसर्तुं यथाकामं दिव्याभरणभूषिता॥ अन्यथा नोपतिष्ठेयं चीरकाषायवासिनी। नैवापवित्रो विप्रर्षे भूषणोऽयं कथंचन॥ अगस्त्य उवाच न तेधनानि विद्यन्ते लोपामुद्रे तथा मम। यथाविधानि कल्याणि पितुस्तव सुमध्यमे॥ लोपामुद्रोवाच ईशोऽसि तपसा सर्वं समाहर्तुं तपोधन। क्षणेन जीवलोके यद् वसु किंचन विद्यते॥ अगस्त्य उवाच एवमेतद् यथाऽऽत्य त्वं तपोव्ययकरं तु तत्। यथा तु मे न नश्येत तपस्तन्मां प्रचोदय।॥ लोपामुद्रोवाच अल्पावशिष्टः कालोऽयमृतोर्मम तपोधन। न चान्यथाहमिच्छामि त्वामुपैतुं कथंचन॥ न चापिधर्ममिच्छामि विलोप्तुं तु कथंचन। एवं तु मे यथाकाम सम्पादयितुमर्हसि॥ अगस्त्य उवाच यद्येष कामः सुभगे तव बुद्ध्या विनिश्चितः। हर्तुं गछाम्यहं भद्रे चर काममिह स्थिता॥ लोमश उवाच ततो जगाम कौरव्य सोऽगस्त्यो भिक्षितुं वसु। श्रुतर्वाणं महीपालं यं वेदाभ्यधिकं नृपः॥ स विदित्वा तु नृपतिः कुम्भयोनिमुपागतम्। विषयान्ते सहामात्यः प्रत्यगृहणात् सुसत्कृतम्॥ तस्मै चार्घ्यं यथान्यायमानीय पृथिवीपतिः। प्राञ्जलिः प्रयतो भूत्वा पप्रच्छागमनेऽर्थिताम्॥ अगस्त्य उवाच वित्तार्थिनमनुप्राप्तं विद्धि मां पृथिवीपते। यथाशक्त्यविहिंस्यान्यान् संविभागं प्रयच्छ मे॥ लोमश उवाच तत आयव्ययौ पूर्णौ तस्मै राजा न्यवेदयत्। अतो विद्वन्नुपादत्स्व यदत्र वसु मन्यसे॥ तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः। सर्वथा प्राणिनां पीडामुपादानादमन्यत॥ स श्रुतर्वाणमादाय नश्वमगमत् ततः। स च तौ विषयस्यान्ते प्रत्यगृहणाद् यथाविधि॥ तयोरय॑ च पाद्यं च ब्रनश्वः प्रत्यवेदयत्। अनुज्ञाप्य च पप्रच्छ प्रयोजनमुपक्रमे॥ अगस्त्य उवाच वित्तकामाविह प्राप्तौ विद्ध्यावां पृथिवीपते। यथाशक्त्यविहिस्यान्यान् संविभागं प्रयच्छ नौ॥ लोमश उवाच तत आयव्ययौ पूर्णौ ताभ्यां राजा न्यवेदयत्। अतो ज्ञात्वा तु गृहणीतं यदत्र व्यतिरिच्यते॥ तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः। सर्वथा प्राणिनां पीडामुपादानामन्यत॥ पौरुकुत्सं ततो जग्मुस्त्रसदस्युं महाधनम्। अगस्त्यश्च श्रुतर्वा च ब्रधनश्वश्च महीपतिः॥ त्रसदस्युस्तु तान् दृष्ट्वा प्रत्यगृहणाद् यथाविधि। अभिगम्य महाराज विषयान्ते महामनाः॥ अर्चयित्वा यथान्यायमिक्ष्वाकू राजसत्तमः। समस्तांश्च ततोऽपृच्छत् प्रयोजनमुपक्रमे॥ अगस्त्य उवाच वित्तकामानिह प्राप्तान् विद्धि नः पृथिवीपते। यथाशक्त्यविहिंस्यान्यान् संविभागं प्रयच्छ नः॥ लोमश उवाच तत आयव्ययौ पूर्णौ तेषां राजा न्यवेदयत्। एतज्ज्ञात्वा ह्यपादध्वं यदत्र व्यतिरिच्यते॥ तत् आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः। सर्वथा प्राणिनां पीडामुपादानादमन्यत॥ ततः सर्वे समेत्याथ ते नृपास्तं महामुनिम्। इदमूचुर्महाराज समवेक्ष्य परस्परम्॥ अयं वै दानवो ब्रह्मन्निल्वलो वसुमान् भुवि। तमतिक्रम्य सर्वेऽद्य वयं चार्थामहे वसु॥ लोमश उवाच तेषां तदासीदुचितमिल्वलस्यैव भिक्षणम्। ततस्ते सहिता राजनिल्वलं समुपाद्रवन्॥ लोमश उवाच इल्वलस्तान् विदित्वा तु महर्षिसहितान् नृपान्। उपस्थितान् सहामात्यो विषयान्ते ह्यपूजयत्॥ तेषां ततोऽसुरश्रेष्ठस्त्वातिथ्यमकरोत् तदा। सुसंस्कृतेन कौरव्य भ्रात्रा वातापिना यदा॥ ततो राजर्षयः सर्वे विषण्णा गतचेतसः। वातापिं संस्कृतं दृष्ट्वा मेषभूतं महासुरम्॥ अथाब्रवीदगस्त्यस्तान् राजर्षीनृषिसत्तमः। विषादो वो न कर्तव्यो ह्यहं भोक्ष्ये महासुरम्॥ धुर्यासनमथासाद्य निषसाद महानृषिः। तं पर्यवेषद् दैत्येन्द्र इल्वलः प्रहसन्निव॥ अगस्त्य एव कृत्स्नं तु वातापिं वुभुजे ततः। भुक्तवत्यसुरोऽऽह्वानमकरोत् तस्य चेल्वलः॥ ततो वायुः प्रादुरभूदधस्तस्य महात्मनः। शब्देन महता तात गर्जन्निव यथा घनः॥ वातापे निष्क्रमस्वेति पुनः पुनरुवाच ह। तं प्रहस्याब्रवीद् राजन्नगस्त्यो मुनिसत्तमः॥ कुतो निष्क्रमितुं शक्तो मया जीर्णस्तु सोऽसुरः। इल्वलस्तु विषण्णोऽभूद् दृष्ट्वा जीर्ण महासुरम्॥ प्राञ्जलिश्च सहामात्यैरिदं वचनमब्रवीत्। किमर्थमुपयाताः स्थ ब्रूत किं करवाणि वः॥ प्रत्युवाच ततोऽगस्त्यः प्रहसन्निल्वलं तदा। ईशं सुर विद्मस्त्वां वयं सर्वेधनेश्वरम्॥ एते च नातिधनिनोधनार्थश्च महान् मम। यथाशक्त्यविहिंस्यान्यान् संविभागं प्रयच्छ नः॥ ततोऽभिवाद्य तमृषिमिल्वलो वाम्यमब्रवीत्। दित्सितं यदि वेत्सि त्वं ततो दास्यामि ते वसु॥ अगस्त्य उवाच गवां दशसहस्राणि राज्ञामेकैकशोऽसुर। तावदेव सुवर्णस्य दित्सितं ते महासुर॥ मां ततो वै द्विगणं रथश्चैव हिरण्मयः। मनोजवौ वाजिनौ च दित्सितं ते महासुर॥ लोमश उवाच जिज्ञास्यमानः स रथः कौन्तेयासीद्धिरण्मयः। ततः प्रव्यथितो दैत्यो ददावभ्यधिकं वसु॥ विरावश्च सुरावश्च तस्मिन् युक्तौ रथे हयौ। ऊहतुः सवसूनाशु तावगस्त्याश्रमं प्रति॥ अगस्त्येनाभ्यनुज्ञाता जग्मू राजर्षयस्तदा। कृतवांश्च मुनिः सर्वं लोपामुद्राचिकीर्षितम्॥ लोपामुद्रोवाच कृतवानसि तत् सर्वं भगवन् मम काक्षितम्। उत्पादय सकृन्मह्यमपत्यं वीर्यवत्तरम्॥ अगस्त्य उवाच तुष्टोऽहमस्मि कल्याणि तव वृत्तन शोभने। विचारणामपत्ये तु तव वक्ष्यामि तां शृणु।॥ सहस्रं तेऽस्तु पुत्राणां शतं वा दशसम्मितम्। दश वा शततुल्याः स्युरेको वापि सहस्रजित्॥ लोपामुद्रोवाच सहस्रसम्मितः पुत्र एकोऽप्यस्तु तपोधन। एकोहि बहुभिः श्रेयान् विद्वान् साधुरसाधुभिः॥ लोमश उवाच स तथेति प्रतिज्ञाय तया सम्भवन्मुनिः। समये समशीलिन्या श्रद्दावाञ्छ्रद्दधानया॥ तत आधाय गर्भं तमगमद् वनमेव सः। तस्मिन् वनगते गर्भो ववृधे सप्त शारदान्॥ सप्तमेऽब्दे गते चापि प्राच्यवत् स महाकविः। ज्वलन्निव प्रभावेण दृढस्युर्नाम भारत॥ साङ्गोपनिषदान् वेदाञ्जपन्निव महातपाः। तस्य पुत्रोऽभवदृषेः स तेजस्वी महाद्विजः॥ स बाल एव तेजस्वी पितुस्तस्य निवेशने। इध्मानां भारमाजहे इध्मवाहस्ततोऽभवत्॥ तथायुक्तं तु तं दृष्ट्वा मुमुदे स मुनिस्तदा। एवं स जनयामास भारतापत्यमुत्तमम्॥ लेभिरे पितरश्चास्य लोकान् राजन् यथेप्सितान्। तत अर्ध्वमयं ख्यातस्त्वगस्त्यस्याश्रमो भुवि॥ प्राह्लादिरेवं वातापिरगस्त्येनोपशामितः। तस्यायमाश्रमो राजन् रमणीयैर्गुणैर्युतः॥ एषा भागीरथी पुण्या देवगन्धर्वसेविता। वातेरिता पताकेव विराजति नभस्तले॥ प्रतार्यमाणा कूटेषु यथा निम्नेषु नित्यशः। शिलातलेषु संत्रस्ता पन्नगेन्द्रवधूरिव॥ दक्षिणां वै दिशं सर्वां प्लावयन्ती च मातृवत्। पूर्वं शम्भोर्जटाभ्रष्टा समुद्रमहिषी प्रिया। अस्यां नद्यां सुपुण्यायां यथेष्टमवगाह्यताम्॥ युधिष्ठिर निबोधेदं त्रिषु लोकेषु विश्रुतम्। भृगोस्तीर्थं महाराज महर्षिगणसेवितम्॥ यत्रोपस्पृष्टवान् रामो हृतं तेजस्तदाऽऽप्तवान्। अत्र त्वां भ्रातृभिः सार्धं कृष्णया चैव पाण्डव॥ दुर्योधनहृतं तेजः पुनरादातुमर्हसि। कृतवैरेण रामेण यथा चोपहृतं पुनः॥ वैशम्पायन उवाच स तत्र भ्रातृभिश्चैव कृष्णाया चैव पाण्डवः। स्नात्वा देवान् पितॄश्चैव तर्पयामास भारत॥ तस्य तीर्थस्य रूपं वै दीप्ताद् दीप्ततरं बभौ। अप्रधृष्यतरवासीच्छात्रवाणां नरर्षभ॥ अपृच्छच्चैव राजेन्द्र लोमशं पाण्डुनन्दनः। भगवन् किमर्थं रामस्य हृतमासीद् वपुः प्रभो। कथं प्रत्याहृतं चैव एतदाचक्ष्व पृच्छतः॥ लोमश उवाच शृणु रामस्य राजेन्द्र भार्गवस्य चधीमतः। जातो दशरथस्यासीत् पुत्रो रामो महात्मनः॥ विष्णुः स्वेन शरीरेण रावणस्य वधाय वै। पश्यामस्तमयोध्यायां जातं दाशरथिं ततः॥ ऋचीकनन्दनो रामो भार्गवो रेणुकासुतः। तस्य दाशरथेः श्रुत्वा रामस्याक्लिष्टकर्मणः॥ कौतूहलान्वितो रामस्त्वयोध्यामगमत् पुनः। धनुरादाय तद् दिव्यं क्षत्रियाणां निबर्हणम्॥ जिज्ञासमानो रामस्य वीर्यं दाशरथेस्तदा। तं वै दशरथः श्रुत्वा विषयान्तमुपागतम्॥ प्रेषयामास रामस्य रामं पुत्रं पुरस्कृतम्। स तमभ्यागतं दृष्ट्वा उद्यतास्त्रमवस्थितम्॥ प्रहसनिव कौन्तेय रामो वचनमब्रवीत्। कृतकालं हि राजेन्द्रधनुरेतन्मया विभो॥ समारोपय यत्नेन यदि शक्नोषि पार्थिव। इत्युक्तस्त्वाह भगवंस्त्वं नाधिक्षेप्तुमर्हसि॥ नाहमप्यधमोधर्मे क्षत्रियाणां द्विजातिषु। इक्ष्वाकूणां विशेषेण बाहुवीर्ये न कत्थनम्॥ तमेवंवादिनं तत्र रामो वचनमब्रवीत्। अलं वै व्यपदेशेनधनुरायच्छ राघव॥ ततो जग्राह रोषेण क्षत्रियर्षभसूदनम्। रामो दाशरथिर्दिव्यं हस्ताद् रामस्य कार्मुकम्॥ धनुरारोपयामास सलील इव भारत। ज्याशब्दमकरोच्चैव स्मयमानः स वीर्यवान्॥ तस्य शब्दस्य भूतानि वित्रसन्त्यशनेरिव। अथाब्रवीत् तदा रामो रामं दाशरथिस्तदा॥ इदमारोपितं ब्रह्मन् किमन्यत् करवाणि ते। तस्य रामो ददौ दिव्यं जामदग्न्यो महात्मनः। शरमाकर्णदेशान्तमयमाकृष्यतामिति॥ लोमश उवाच एतच्छ्रुत्वाब्रवीद् रामः प्रदीप्त इव मन्युना। श्रूयते क्षम्यते चैव दर्पपूर्णोऽसि भार्गव॥ त्वया ह्यधिगतं तेजः क्षत्रियेभ्यो विशेषतः। पितामहप्रसादेन तेन मां क्षिपसिध्रुवम्॥ पश्य मां स्वेन रूपेण चक्षुस्ते वितराम्यहम्। ततो रामशरीरे वै रामः पश्यति भार्गवः॥ आदित्यान् सवसून् रुद्रान् साध्यांश्च समरुद्गणान्। पितरो हुताशनश्चैव नक्षत्राणि ग्रहास्तथा॥ गन्धर्वा राक्षसा यक्षा नद्यस्तीर्थानि यानि च। ऋषयो बालखिल्याश्च ब्रह्मभूताः सनातनाः॥ देवर्षयश्च कात्स्न्र्येन समुद्राः पर्वतास्तथा। वेदाश्च सोपनिषदो वषट्कारैः सहाध्वरैः॥ चेतोमन्ति च सामानिधनुर्वेदश्च भारत। मेघवृन्दानि वर्षाणि विद्युतश्च युधिष्ठिर॥ ततः स भगवान् विष्णुस्तं वै बाणं मुमोच ह। शुष्काशनिसमाकीर्णं महोल्काभिश्च भारत॥ पांसुवर्षेण महता मेघवर्षेश्च भूतलम्। भूमिकम्पैश्च निर्घातै दैश्च विपुलैरपि॥ स रामं विह्वलं कृत्वा तेजश्चाक्षिष्य केवलम्। आगच्छज्ज्वलितो बाणो रामबाहुप्रचोदितः॥ स तु विह्वलतां गत्वा प्रतिलभ्य च चेतनाम्। रामः प्रत्यागतप्राणः प्राणमद् विष्णुतेजसम्॥ विष्णुना सोऽभ्यनुज्ञातो महेन्द्रमगमत् पुनः। भीतस्तु तत्र न्यवसद् व्रीडितस्तु महातपाः॥ ततः संवत्सरेऽतीते हतौजसमवस्थितम्। निर्मदं दुःखितं दृष्ट्वा पितरो राममब्रुवन्॥ पितर ऊचुः न वै सम्यगिदं पुत्र विष्णुमासाद्य वै कृतम्। स हि पूज्यश्च मान्यश्च त्रिषु लोकेषु सर्वदा॥ गच्छ पुत्र नदी पुण्यां वधूसरकृताह्वयाम्। तत्रोपस्पृश्य तीर्थेषु पुनर्वपुरवाप्स्यसि॥ दीप्तोदं नाम तत् तीर्थं यत्र ते प्रपितामहः। भृगुर्देवयुगे राम तप्तवानुत्तमं तपः॥ तत् तथा कृतवान् रामः कौन्तेय वचनात् पितुः। प्राप्तवांश्च पुनस्तेजस्तीर्थेऽस्मिन् पाण्डुनन्दन॥ एतदीदृशकं तात रामेणाक्लिष्टकर्मणा। प्राप्तमासीन्महाराज विष्णुमासाद्य वै पुरा॥ युधिष्ठिर उवाच भूय एवाहमिच्छामि महर्षेस्तस्यधीमतः। कर्मणां विस्तरं श्रोतुमगस्त्यस्य द्विजोत्तम॥ लोमश उवाच शृणु राजन् कथां दिव्यामद्भुतामतिमानुषीम्। अगस्त्यस्य महाराज प्रभावममितौजसः॥ आसन् कृतयुगे घोरा दानवा युद्धदुर्मदाः। कालकेया इति ख्याता गणाः परमदारुणाः॥ ते तु वृत्रं समाश्रित्य नानाप्रहरणोद्यताः। समन्तात् पर्यधावन्त महेन्द्रप्रमुखान् सुरान्॥ ततो वृत्रवधे यत्नमकुर्वंस्त्रिदशाः पुरा। पुरंदरं पुरस्कृत्य ब्रह्माणमुपतस्थिरे॥ कृताञ्जलींस्तु तान् सर्वान् परमेष्ठीत्युवाच ह। विदितं मे सुराः सर्वं यद् वः कार्यं चिकीर्पितम्॥ तमुपायं प्रवक्ष्यामि यथा वृत्रं वधिष्यथा दधीच इति विख्यातो महानृषिरुदारधीः॥ तं गत्वा सहिताः सर्वे वरं वै सम्प्रयाचत। स वो दास्यतिधर्मात्मा सुप्रीतेनान्तरात्मना॥ स वाच्यः सहितैः सर्वैर्भवद्भिर्जयकाक्षिभिः । स्वान्यस्थीनि प्रयच्छेति त्रैलोक्यस्य हिताय वै॥ स शरीरं समुत्सृज्य स्वान्यस्थीनि प्रदास्यति। तस्यास्थिभिर्महाघोरं वज्रं संस्क्रियतां दृढम्॥ महच्छत्रुहणं घोरं षडधे भीमनिःस्वनम्। तेन वज्रेण वै वृत्रं वधिष्यति शतक्रतुः॥ एतद् वः सर्वमाख्यातं तस्माच्छीघ्रं विधीयताम्। एवमुक्तास्ततो देवा अनुज्ञाप्य पितामहम्॥ नारायणं पुरस्कृत्य दधीचस्याश्रमं ययुः। सरस्वत्याः परे पारे नानादुमलतावृतम्॥ षट्पदोद्गीतनिनदैविघुष्टं सामगैरिव। पुंस्कोकिलरवोन्मिश्रं जीवं जीवकनादितम्॥ महिषैश्च वराहैश्च सृमरैश्चमरैरपि। तत्र तत्रानुचरितं शार्दूलभयवर्जितैः॥ करेणुभिर्वारणैश्च प्रभिन्नकरटामुखैः। सरोऽवगाडैः क्रीडद्भिः समन्तादनुनादितम्॥ सिंहव्यात्रैर्महानादानदगिरनुनादितम्। अपरैश्चापि संलीनैर्गुहाकन्दरशायिभिः॥ तेषु तेष्ववकाशेषु शोभितं सुमनोरमम्। त्रिविष्टपसमप्रख्यं दधीचाश्रममागमन्॥ तत्रापश्यन् दधीचं ते दिवाकरसमद्युतिम्। जाज्वल्यमानं वपुषा यथा लक्ष्या पितामहम्॥ तस्य पादौ सुरा राजन्नभिवाद्य प्रणम्य च। अयाचन्त वरं सर्वं यथोक्तं परमेष्ठिना॥ ततो दधीचः परमप्रतीतः सुरोत्तमांस्तानिदमभ्युवाच। करोमि यद् वो हितमद्य देवाः स्वं चापि देहं स्वयमुत्सृजामि॥ स एवमुक्त्वा द्विपदां वरिष्ठः प्राणान् वशी स्वान् सहसोत्ससर्ज। ततः सुरास्ते जगृहुः परासोरस्थीनि तस्याथ यथोपदेशम्॥ स्त्वष्टारमागम्य तमर्षमूचुः। त्वष्टा तु तेषां वचनं निशम्य प्रहृष्टरूपः प्रयतः प्रयत्नात्॥ चकार वज्रं भृशमुचरूपं कृत्वा च शक्रं स उवाच हृष्टः। अनेन वज्रप्रवरेण देव भस्मीकुरुष्वाद्य सुरारिमुचम्॥ ततो हतारिः सगणः सुखं वै प्रशाधि कृत्स्नं त्रिदिवं दिविष्ठः। त्वष्ट्रा तथोक्तस्तु पुरंदरस्तद् वज्रं प्रहृष्टः प्रयतो ह्यगृहणात्॥ लोमश उवाच ततः स वज्री बलिभिर्दैवतैरभिरक्षितः। आससाद ततो वृत्रं स्थितमावृत्य रोदसी॥ कालकेयैर्महाकायैः समन्तादभिरक्षितम्। समुद्यतप्रहरणैः सशृङ्गैरिव पर्वतैः॥ ततो युद्धं समभवद् देवानां दानवैः सह। मुहूर्तं भरतश्रेष्ठ लोकत्रासकरं महत्॥ उद्यतप्रतिपिष्टानां खङ्गानां वीरबाहुभिः। आसीत् सुतुमुलः शब्दः शरीरेष्वभिपात्यताम्॥ शिरोभिः प्रपतद्भिश्चाप्यन्तरिक्षान्महीतलम्। तालैरिव महाराज वृन्ताद् भ्रष्टैरदृश्यत॥ ते हेमकवचा भूत्वा कालेयाः परिघायुधाः। त्रिदशानभ्यवर्तन्त दावदग्धा इवाद्रयः॥ तेषां वेगवतां वेगं साभिमानं प्रधावताम्। न शेकुस्त्रिदशाः सोढुं ते भग्नाः प्राद्रवन् भयात्॥ तान् दृष्ट्वा द्रवतो भीतान् सहस्राक्षः पुरंदरः। वृत्रे विवर्धमाने च कश्मलं महदाविशत्॥ कालेयभयसंत्रस्तो देवः साक्षात् पुरंदरः। जगाम शरणं शीघ्रं तं तु नारायणं प्रभुम्॥ तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः। स्वतेजो व्यदधाच्छने बलमस्य विवर्धयन्॥ विष्णुना गोपितं शक्रं दृष्ट्वा देवगणास्ततः। सर्वे तेजः समादध्युस्तथा ब्रह्मर्षयोऽमलाः॥ स समाप्यायितः शक्रो विष्णुना दैवतैः सह। ऋषिभिश्च महाभागैर्बलवान् समपद्यता॥ ज्ञात्वा बलस्थं त्रिदशाधिपं तु ननाद वृत्रो महतो निनादान। तस्य प्रणादेनधरा दिशश्च खं द्यौर्नगाश्चापि चचाल सर्वम्॥ ततो महेन्द्रः परमाभितप्तः श्रुत्वा रवं घोररूपं महान्तम्। भये निमग्नस्त्वरितो मुमोच वज्रं महत् तस्य वधाय राजन्॥ स शक्रवज्राभिहतः पपात महासुरः काञ्चनमाल्यधारी। यथा महाशैलवरः पुरस्तात् स मन्दरो विष्णुकराद् विमुक्तः॥ तस्मिन् हते दैत्यवरे भयातः शक्रः प्रदुद्राव सरः प्रवेष्टुम्। वज्रं स मेने न कराद् विमुक्तं वृत्रं भयाच्चापि हतं न मेने॥ सर्वे च देवा मुदिताः प्रहृष्टा महर्षयश्चेन्द्रभिष्टुवन्तः। सर्वांश्च दैत्यांस्त्वरिताः समेत्य जघ्नुः सुरा वृत्रवधाभितप्तान्॥ तैस्त्रास्यमानास्त्रिदशैः समेतैः समुद्रमेवाविविशुर्भयार्ताः। प्रविश्य चैवोदधिमप्रमेयं झषाकुलं नक्रसमाकुलं च॥ स्त्रैलोक्यनाशार्थमभिस्मयन्तः। स्तांस्तानुपायानुपवर्णयन्ति॥ तेषां तु तत्र क्रमकालयोगाद् घोरा मतिश्चिन्तयतां बभूव। स्तेषां विनाशः प्रथमं तु कार्यः॥ लोका हि सर्वे तपसा ध्रियन्ते तस्मात् त्वरध्वं तपसः क्षयाय। ये सन्ति केचिच्च वसुंधरायां तपस्विनोधर्मविदश्च तज्ज्ञाः॥ तेषां वधः क्रियतां क्षिप्रमेव तेषु प्रणष्टेषु जगत् प्रणष्टम्। एवं हि सर्वे गतबुद्धिभावा जगद्विनाशे परमप्रहृष्टाः॥ दुर्गं समाश्रित्य महोमिमन्तं रत्नाकरं वरुणस्यालयं स्म॥ देवा ऊचुः तव प्रसादाद् वर्धन्ते प्रजाः सर्वाश्चतुर्विधाः। ता भाविता भावयन्ति हव्यकव्यैर्दिवौकसः।१।। लोका ह्येवं विवर्धन्ते ह्यन्योन्यं समुपाश्रिताः। त्वत्प्रसादान्निरुद्विग्नास्त्वयैव परिरक्षिताः॥ इदं च समनुप्राप्तं लोकानां भयमुत्तमम्। न च जानीम केनेमे रात्रौ वध्यन्ति ब्राह्मणाः॥ क्षीणेषु च ब्राह्मणेषु पृथिवी क्षयमेष्यति। ततः पृथिव्यां क्षीणायां त्रिदिवं क्षयमेष्यति॥ त्वत्प्रसादान्महाबाहो लोकाः सर्वे जगत्पते। विनाशं नाधिगच्छेयुस्त्वया वै परिरक्षिताः॥ विष्णुरुवाच विदितं मे सुराः सर्वं प्रजानां क्षयकारणम्। भवतां चापि वक्ष्यामि शृणुध्वं विगतज्वराः॥ कालेय इति विख्यातो गणः परमदारुणः। तैश्च वृत्रं समाश्रित्य जगत् सर्वं प्रमाथितम्॥ ते वृत्रं निहतं दृष्ट्वा सहस्राक्षेणधीमता। जीवितं परिरक्षन्तः प्रविष्टा वरुणालयम्॥ ते प्रविश्योदधिं घोरं नक्रग्राहसमाकुलम्। उत्सादनार्थं लोकानां रात्रौ घ्नन्ति ऋषीनिह॥ न तु शक्या: क्षयं नेतुं समुद्राश्रयगा हि ते। समुद्रस्य क्षये बुद्धिर्भवद्भिः सम्प्रधार्यताम्॥ अगस्त्येन विना को हि शक्तोऽन्योऽर्णवशोषणे। अन्यथा हि न शक्यास्ते विना सागरशोषणम्॥ एतच्छ्रुत्वा तदा देवा विष्णुना समुदाहृतम्। परमेष्ठिनमाज्ञाप्य अगस्त्यस्याश्रमं ययुः॥ तत्रापश्यन् महात्मानं वारुणिं दीप्ततेजसम्। उपास्यमानमृषिभिर्देवैरिव पितामहम्॥ तेऽभिगम्य महात्मानं मैत्रावरुणिमच्युतम्। आश्रमस्थं तपोराशि कर्मभिः स्वैरभिष्टुवन्॥ देवा ऊचुः नहुषेणाभितप्तानां त्वं लोकानां गतिः पुरा। भ्रंशितश्च सुरैश्वार्यात् स्वर्लोकाल्लोककण्टकः॥ क्रोधात् प्रवृद्धः सहसा भास्करस्य नगोत्तमः। वचस्तवानतिक्रामन् विन्ध्यः शैलो न वर्धते॥ तमसा चावृते लोके मृत्युनाभ्यर्दिताः प्रजाः। त्वामेव नाथमासाद्य निर्वृत्तिं परमां गताः॥ अस्माकं भयभीतानां नित्यशो भगवान् गतिः। ततस्त्वार्ताः प्रयाग्रमो वरं त्वां वरदो ह्यसि॥ लोमश उवाच समुद्रं स समासाद्य वारुणिर्भगवानृषिः। उवाच सहितान् देवानृषींश्चैव समागतान्॥ अहं लोकहितार्थं वै पिबामि वरुणालयम्। भवद्भिर्यदनुष्ठेयं तच्छीघ्रं संविधीयताम्॥ एतावदुक्त्वा वचनं मैत्रावरुणिरच्युतः। समुद्रमपिबत् क्रुद्धः सर्वलोकस्य पश्यतः॥ पीयमानं समुद्रं तं दृष्ट्वा सेन्द्रास्तदामराः। विस्मयं परमं जग्मुः स्तुतिभिश्चाप्यपूजयन्॥ त्वं नस्त्राता विधाता च लोकानां लोकभावना त्वत्प्रसादात् समुच्छेदं न गच्छेत् सामरं जगत्॥ स पूज्यमानस्त्रिदशैर्महात्मा गन्धर्वतूर्येषु नदत्सु सर्वशः। दिव्यैश्च पुष्पैरवकीर्यमाणो महार्णवं नि:सलिलं चकार॥ दृष्ट्वा कृतं नि:सलिलं महार्णवं सुराः समस्ताः परमप्रहृष्टाः। प्रगृह्य दिव्यानि वरायुधानि तान् दानवाञ्जनुरदीनसत्त्वाः॥ महाबलैर्वेगिभिरुन्नदद्भिः। न सेहिरे वेगवतां महात्मनां वेगं तदाधारयितुं दिवौकसाम्॥ ते वध्यमानास्त्रिदशैर्दानवा भीमनि:स्वनाः। चक्रुः सुतुमुलं युद्धं मुहूर्तमिव भारत॥ ते पूर्वं तपसा दग्धा मुनिभिर्भावितात्मभिः। यतमानाः परं शक्त्या त्रिदशैर्विनिषूदिताः॥ ते हेमनिष्काभरणा: कुण्डलाङ्गदधारिणः। निहता बह्वशोभन्त पुष्पिता इव किंशुकाः॥ हतशेषास्ततः केचित् कालेया मनुजोत्तम। विदार्य वसुधां देवीं पातालतलमास्थिताः॥ निहतान् दानवान् दृष्ट्वा त्रिदशा मुनिपुङ्गवम्। तुष्टुवुर्विविधैर्वाक्यैरिदं वचनमब्रुवन्॥ त्वत्प्रसादान्महाभागलोकैः प्राप्तं महत् सुखम्। त्वत्तेजसा च निहताः कालेयाः क्रूरविक्रमाः॥ पूरयस्व महाबाहो समुद्रं लोकभावन। यत् त्वया सलिलं पीतं तदस्मिन् पुनरुत्सृज्॥ एवमुक्तः प्रत्युवाच भगवान् मुनिपुङ्गवः। जीर्णं तद्धि मया तोयमुपायोऽन्यः प्रचिन्त्यताम्॥ पूरणार्थं समुद्रस्य भवद्भिर्यत्नमास्थितैः। एतच्छ्रुत्वा तु वचनं महर्षे वितात्मनः॥ विस्मिताश्च विषण्णाश्च बभूवुः सहिताः सुराः। परस्परमनुज्ञाप्य प्रणम्य मुनिपुङ्गवम्॥ प्रजाः सर्वा महाराज विप्रजग्मुर्यथागतम्। त्रिदशा विष्णुना साधुमुपजग्मुः पितामहम्॥ पूरणार्थं समुद्रस्य मन्त्रयित्वा पुनः पुनः। ऊचुः प्राञ्जलय: सर्वे सागरस्याभिपूरणम्॥ लोमश उवाच तानुवाच समेतांस्तु ब्रह्मा लोकपितामहः। गच्छध्वं विबुधाः सर्वे यथाकामं यथेप्सितम्॥ महता कालयोगेन प्रकृतिं यास्यतेऽर्णवः। ज्ञातीश्च कारणं कृत्वा महाराजो भगीरथः॥ पूरयिष्यति तोयौघैः समुद्र निधिमम्भसाम्। पितामहवचः श्रुत्वा सर्वे विबुधसत्तमाः। कालयोगं प्रतीक्षन्तो जग्मुश्चापि यथागतम्॥ युधिष्ठिर उवाच कथं वै ज्ञातयो ब्रह्मन् कारणं चात्र किं मुने। कथं समुद्रः पूर्णश्च भगीरथप्रतिश्रयात्॥ एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन। कथ्यमानं त्वया विप्र राज्ञां चरितमुत्तमम्॥ वैशम्पायन उवाच एवमुक्तस्तु विप्रेन्द्रोधर्मराज्ञा महात्मना। कथयामास माहात्म्यं सगरस्य महात्मनाः॥ लोमश उवाच इक्ष्वाकूणां कुले जातः सगरो नाम पार्थिवः। रूपसत्त्वबलोपेतः स चापुत्रः प्रतापवान्॥ स हैहयान् समुत्साद्य तालजङ्घांश्च भारत। वशे च कृत्वा राजन्यान् स्वराज्यमन्वशासत॥ तस्य भार्ये त्वभवतां रूपयौवनदर्पिते। वैदर्भी भरतश्रेष्ठ शैब्या च भरतर्षभ॥ स पुत्रकामो नृपतिस्तप्यते स्म महत्तपः। पत्नीभ्यां सह राजेन्द्र कैलासं गिरिमाश्रितः॥ स तप्यमानः सुमहत् तपो योगसमन्वितः। आससाद महात्मानं त्र्यक्षं त्रिपुरमर्दनम्॥ शंकरं भवमीशानं शूलपाणिं पिनाकिनम्। त्र्यम्बकं शिवमुग्रेशं बहुरूपमुमापतिम्॥ स तं दृष्ट्वैव वरदं पत्नीभ्यां सहितो नृपः। प्रणिपत्य महाबाहुः पुत्रार्थे समयाचत॥ तं प्रीतिमान् हरः प्राह सभार्यं नृपसत्तमम्। यस्मिन् वृतो मुहूर्तेऽहं त्वयेह नृपते वरम्॥ षष्टिः पुत्रसहस्राणि शूराः परमदर्पिताः। एकस्यां सम्भविष्यन्ति पल्यां नरवरोत्तम॥ ते चैव सर्वे सहिताः क्षयं यास्यन्ति पार्थिव। एको वंशधरः शूर एकस्यां सम्भविष्यति॥ एवमुक्त्वा तु तं रुद्रस्तत्रैवान्तरधीयत। स चापि सगरो राजा जगाम स्वं निवेशनम्॥ पत्नीभ्यां सहितस्तत्र सोऽतिहृष्टमनास्तदा। तस्य ते मनुजश्रेष्ठ भार्ये कमललोचने॥ वैदर्भी चैव शैब्या च गर्भिण्यौ सम्बभूवतुः। ततः कालेन वैदर्भी गर्भालावं व्यजायत॥ शैब्या च सुषुवे पुत्रं कुमारं देवरूपिणम्। तदालावू समुत्स्रष्टुं मनश्चक्रे स पार्थिवः॥ अथान्तरिक्षाच्छुश्राव वाचं गम्भीर निःस्वनाम्। राजन् मा साहसं कार्षीः पुत्रान् न त्यक्तुमर्हसि॥ अलावुमध्यान्निष्कृष्य बीजं यलेन गोप्यताम्। सोपस्वेदेषु पात्रेषु घृतपूर्णेषु भागशः॥ ततः पुत्रसहस्राणि षष्टिं प्राप्स्यसि पार्थिव। महादेवेन दिष्टं ते पुत्रजन्म नराधिप। अनेन क्रमयोगेन मा ते बुद्धिरतोऽन्यथा।॥ लोमश उवाच एतच्छ्रुत्त्वान्तरिक्षाच्च स राजा राजसत्तमः। यथोक्तं तच्चकाराथ श्रद्दधद् भरतर्षभ॥ एकैकशस्ततः कृत्वा बीजं बीजं नराधिपः। घृतपूर्णेषु कुम्भेषु तान् भागान् विदधे ततः॥ धात्रीश्चैकैकशः प्रादात् पुत्ररक्षणतत्परः। ततः कालेन महता समुत्तस्थुर्महाबलाः॥ षष्टिः पुत्रसहस्राणि तस्याप्रतिमतेजसः। रुद्रप्रसादाद् राजर्षेः समजायन्त पार्थिव॥ ते घोराः क्रूरकर्माण आकाशपरिसर्पिणः। बहुत्वाच्चावजानन्तः सर्वांल्लोकान् सहामरान्।।५ त्रिदशांश्चाप्यबाधन्त तथा गन्धर्वराक्षसान्। सर्वाणि चैव भूतानि शूराः समरशालिनः॥ वध्यमानास्ततो लोकाः सागरैर्मन्दबुद्धिभिः। ब्रह्माणं शरणं जग्मुः सहिताः सर्वदैवतैः॥ तानुवाच महाभागः सर्वलोकपितामहः। गच्छध्वं त्रिदशा: सर्वे लोकैः सार्धं यथागतम्॥ नातिदीर्पण कालेन सागराणां क्षयो महान्। भविष्यति महाघोरः स्वकृतैः कर्मभिः सुराः॥ एवमुक्तास्तु ते देवा लोकाश्च मनुजेश्वर। पितामहमनुज्ञाप्य विप्रजग्मुर्यथागतम्॥ ततः काले बहुतिथे व्यतीते भरतर्षभ। दीक्षितः सगरो राजा हयमेधेन वीर्यवान्॥ तस्याश्वो व्यचरद् भूमिं पुत्रैः स परिरक्षितः। समुद्रं स समासाद्य निस्तोयं भीमदर्शनम्॥ रक्ष्यमाणः प्रयत्नेन तत्रैवान्तरधीयत। ततस्ते सागरास्तात हृतं मत्वा हयोत्तमम्॥ आगम्य पितुराचख्युरदृश्यं तुरगं हृतम्। तेनोक्ता दिक्षु सर्वासु सर्वे मार्गत वाजिनम्॥ ततस्ते पितुराज्ञाय दिक्षु सर्वासु तं हयम्। अमार्गन्त महाराज सर्वं च पृथिवीतलम्॥ ततस्ते सागराः सर्वे समुपेत्य परस्परम्। नाध्यगच्छन्त तुरगमश्वहर्तारमेव च॥ आगम्य पितरं चोचुस्ततः प्राञ्जलयोऽग्रतः। ससमुद्रवनद्वीपा सनदीनदकन्दरा॥ सपर्वतवनोद्देशा निखिलेन मही नृप। अस्माभिर्विचिता राजञ्छासनात् तव पार्थिव॥ न चाश्वमधिगच्छामो नाश्वहर्तारमेव च। श्रुत्वा तु वचनं तेषां स राजा क्रोधमूछितः॥ उवाच वचनं सर्वांस्तदा दैववशानृप। अनागमाय गच्छध्वं भूयो मार्गत वाजिनम्॥ यज्ञियं तं विना ह्यश्वं नागन्तव्यं हि पुत्रकाः। प्रतिगृह्य तु संदेशं पितुस्ते सगरात्मजाः॥ भूय एव महीं कृत्स्ना विचेतुमुपचक्रमुः। अथापश्यन्त ते वीराः पृथिवीमवदारिताम्॥ समासाद्य बिलं तच्चाप्यखनन् सगरात्मजाः। कुद्दालैर्तेषुकैश्चैव समुद्रं यत्नमास्थिताः॥ स खन्यमानः सहितैः सागरैर्वरुणालयः। अगच्छत् परमामार्ति दीर्यमाण: समन्ततः॥ असुरोरगरक्षांसि सत्त्वानि विविधानि च। आर्तनादमकुर्वन्त वध्यमानानि सागरैः॥ छिन्नशीर्षा विदेहाश्च भिन्नवगस्थिसंधयः। प्राणिनः समदृश्यन्त शतशोऽथ सहस्रशः॥ एवं हि खनतां तेषां समुद्रं वरुणालयम्। व्यतीत: सुमहान् कालो न चाश्वः समदृश्यत॥ ततः पूर्वोत्तरे देशे समुद्रस्य महीपते। विदार्य पातालमथ संक्रुद्धाः सगरात्मजाः॥ अपश्यन्त हयं तत्र विचरन्तं महीतले। कपिलं च महात्मानं तेजोराशिमनुत्तमम्। तेजसा दीप्यमानं तु ज्वालाभिरिव पावकम्॥ ते तं दृष्ट्वा हयं राजन् सम्प्रहृष्टतनूरुहाः। अनादृत्य महात्मानं कपिलं कालचोदिताः॥ संक्रुद्धाः सम्प्रधावन्त अश्वग्रहणकाक्षिणः। ततः क्रुद्धो महाराज कपिलो मुनिसत्तमः॥ वासुदेवेति यं प्राहुः कपिलं मुनिपुङ्गवम्। स चक्षुर्विकृतं कृत्वा तेजस्तेषु समुत्सृजन्॥ ददाह सुमहातेजा मन्दबुद्धीन् स सागरान्। तान् दृष्ट्वा भस्मसाद् भूतान् नारदः सुमहातपाः॥ सगरान्तिकमागच्छत् तच्च तस्मै न्यवेदयत्। स तच्छ्रुत्वा वचो घोरं राजा मुनिमुखोद्गतम्॥ मुहूर्तं विमना भूत्वा स्थाणोर्वाक्यमचिन्तयत्। अंशुमन्तं समाहूय असमञ्जःसुतं तदा॥ पौत्रं भरतशार्दूल इदं वचनमब्रवीत्। षष्टिस्तानि सहस्राणि पुत्राणाममितौजसाम्॥ कापिलं तेज आसाद्य मत्कृते निधनं गताः। तव चापि पिता तात परित्यक्तो मयानघ। धर्म संरक्षमाणेन पौराणां हितमिच्छता॥ युधिष्ठिर उवाच किमर्थं राजशार्दुल: सगरः पुत्रमात्मजम्। त्यक्तवान् दुस्त्यजं वीरं तन्मे ब्रूहि तपोधन॥ लोमश उवाच असमञ्जा इति ख्यातः सगरस्य सुतो ह्यभूत्। यं शैब्या जनयामास पौराणां स हि दारकान्॥ गलेषु क्रोशतो गृह्य नद्यां चिक्षेप दुर्बलान्। ततः पौरा: समाजग्मुर्भयशोकपरिप्लुताः॥ सगरं चाभ्यभाषन्त सर्वे प्राञ्जलयः स्थिताः। त्वं नस्त्राता महाराज परचक्रादिभिर्भयात्॥ असमञ्जोभयाद् घोरात् ततो नस्त्रातुमर्हसि। पौराणां वचनं श्रुत्वा घोरं नृपतिसत्तमः॥ मुहूर्तं विमना भूत्वा सचिवानिदमब्रवीत्। असमञ्जाः पुरादद्य सुतो मे विप्रवास्यताम्॥ यदि वो मत्प्रियं कार्यमेतच्छीघ्रं विधीयताम्। एवमुक्ता नरेन्द्रेण सचिवास्ते नराधिप॥ यथोक्तं त्वरिताश्चक्रुर्यथाऽज्ञापितवान् नृपः। एतत् ते सर्वमाख्यातं यथा पुत्रो महात्मना॥ पौराणां हितकामेन सगरेण विवासितः। अंशुमांस्तु महेष्वासो यदुक्तः सगरेण हि। तत् ते सर्वं प्रवक्ष्यामि कीर्त्यमानं निबोध मे॥ सगर उवाच पितुश्च तेऽहं त्यागेन पुत्राणां निधनेन च। अलाभेन तथाश्वस्य परितप्यामि पुत्रक॥ तस्माद् दुःखाभिसंतप्तं यज्ञविघ्नाच्च मोहितम्। हयस्यानयनात् पौत्र नरकान्मां समुद्धर॥ अंशुमानेवमुक्तस्तु सगरेण महात्मना। जगाम दुःखात् तं देशं यत्र वै दारिता मही॥ स तु तेनैव मार्गेण समुद्रं प्रविवेश ह। अपश्यच्च महात्मानं कपिलं तुरगं च तम्॥ स दृष्ट्वा तेजसो राशिं पुराणमृषिसत्तमम्। प्रणम्य शिरसा भूमौ कार्यमस्मै न्यवेदयत्॥ ततः प्रीतो महाराज कपिर्लोऽशुमतोऽभवत्। उवाच चैनधर्मात्मा वरदोऽस्मीति भारत॥ स ववे तुरगं तत्र प्रथमं यज्ञकारणात्। द्वितीयं वरकं ववे पितृणां पावनेच्छया।॥ तमुवाच महातेजाः कपिलो मुनिपुङ्गवः। ददानि तव भद्रं ते यद् यत् पार्थयसेऽनघ।॥ त्वयि क्षमा चधर्मश्च सत्यं चापि प्रतिष्ठितम्। त्वया कृतार्थः सगरः पुत्रवांश्च त्वया पिता॥ तव चैव प्रभावेण स्वर्गं यास्यन्ति सागराः। पौत्रश्च ते त्रिपथगां त्रिदिवादानयिष्यति॥ पावनार्थं सागराणां तोषयित्वा महेश्वरम्। हयं नयस्व भद्रं ते यज्ञियं नरपुङ्गव॥ यज्ञः समाप्यतां तात सगरस्य महात्मनः। अंशुमानवमुक्तस्तु कपिलेन महात्मना॥ आजगाम हयं गृह्य यज्ञवाटं महात्मनः। सोऽभिवाद्य ततः पादौ सगरस्य महात्मनः॥ मूर्ध्नि तेनाप्युपाघ्रातस्तस्मै सर्वं न्यवेदयत्। यथा दृष्टं श्रुतं चापि सागराणां क्षयं तथा॥ तं चास्मै हयमाचष्ट यज्ञवाटमुपागतम्। तच्छ्रुत्वा सगरो राजा पुत्रजं दुःखमत्यजत्॥ अंशुमन्तं च सम्पूज्य समापयत तं क्रतुम्। समाप्तयज्ञः सगरो देवैः सर्वैः सभाजितः॥ पुत्रत्वे कल्पयामास समुद्रं वरुणालयम्। प्रशास्य सुचिरं कालं राज्यं राजीवलोचनः॥ पौत्रे भारं समावेश्य जगाम त्रिदिवं तदा। अंशुमानपिधर्मात्मा महीं सागरमेखलाम्॥ प्रशशास महाराज यथैवास्य पितामहः। तस्य पुत्रः समभवद् दिलीपो नामधर्मवित्॥ तस्मै राज्यं समाधाय अंशुमानपि संस्थितः। दिलीपस्तु ततः श्रुत्वा पितृणां निधनं महत्॥ पर्यतप्यत दुःखेन तेषां गतिमचिन्तयत्। गङ्गावतरणे यत्नं सुमहच्चाकरोनृपः॥ न चावतारयामास चेष्टमानो यथाबलम्। तस्य पुत्रः समभवच्छ्रीमान्धर्मपरायणः॥ भगीरथ इति ख्यातः सत्यवागनसूयकः। अभिषिच्य तु तं राज्ये दिलीपो वनमाश्रितः॥ तप:सिद्धिसमायोगात् स राजा भरतर्षभ। वनाज्जगाम त्रिदिवं कालयोगेन भारत॥ लोमश उवाच स तु राजा महेष्वासश्चक्रवर्ती महारथः। बभूव सर्वलोकस्य मनोनयननन्दनः॥ स शुश्राव महाबाहुः कपिलेन महात्मना। पितृणां निधनं घोरमप्राप्तिं त्रिदिवस्य च॥ स राज्यं सचिवे न्यस्य हृदयेन विदूयता। जगाम हिमवत्पाद्यं तपस्तप्तुं नरेश्वरः॥ आरिराधयिषुर्गङ्गां तपसा दग्धकिल्बिषः। सोऽपश्यत नरश्रेष्ठ हिमवन्तं नगोत्तमम्॥ शृङ्गैर्बहुविधाकारैर्धातुमद्भिरलंकृतम्। पवनालम्बिभिर्मेधैः परिषिक्तं समन्ततः॥ नदीकुञ्जनितम्बैश्च प्रासादैरुपशोभितम्। गुहाकन्दरसंलीनसिंहव्याघ्रनिषेवितम्॥ शकुनैश्च विचित्राङ्गैः कूजद्भिर्विविधा गिरः। भृङ्गराजैस्तथा हंसैर्दात्यूहैर्जलकुक्कुटैः॥ मयूरैः शतपत्रैश्च जीवंजीवककोकिलैः। चकोरैरसितापाङ्गैस्तथा पुत्रप्रियैरपि।॥ जलस्थानेषु रम्येषु पद्मिनीभिश्च संकुलम्। सारसानां च मधुरैाहतैः समलंकृतम्॥ किन्नरैरप्सरोभिश्च निषेवितशिलातलम्। दिग्वारणविषाणग्रैः समन्ताद्धृष्टपादपम्॥ विद्याधरानुचरितं नानारत्नसमाकुलम्। विषोल्बणभुजंगैश्च दीप्तजिह्वनिषेवितम्॥ क्वचित् कनकसंकाशं क्वचिद् रजतसंनिभम्। क्वचिदञ्जनपुञ्जाभं हिमवन्तमुपागमत्॥ स तु तत्र नरश्रेष्ठस्तपो घोरं समाश्रितः। फलमूलाम्बुसम्भक्षः सहस्रपरिवत्सरान्॥ संवत्सरसहस्रे तु गते दिव्ये महानदी। दर्शयामास तं गङ्गा तदा मूर्तिमती स्वयम्॥ गङ्गोवाच किमिच्छसि महाराज मत्तः किं च ददानि ते। तद् ब्रवीहि नरश्रेष्ठ करिष्यामि वचस्तव॥ एवमुक्तः प्रत्युवाच राजा हैमवती तदा। पितामहा मे वरदे कपिलेन महानदि॥ अन्वेषमाणास्तुरगं नीता वैवस्वतक्षयम्। षष्टिस्तानि सहस्राणि सागराणां महात्मनाम्॥ कपिलं देवमासाद्य क्षणेन निधनं गताः। तेषामेवं विनष्टानां स्वर्गे वासो न विद्यते॥ यावत् तानि शरीराणि त्वं जलै भिषिञ्चसि। तावत् तेषां गतिर्नास्ति सागराणां महानदि॥ स्वर्गं नय महाभागे मत्पितॄन् सगरात्मजान्। तेषामर्थेन याचामि त्वामहं वै महानदि॥ लोमश उवाच एतच्छ्रुत्वा वचो राज्ञो गङ्गा लोकनमस्कृता। भगीरथमिदं वाक्यं सुप्रीता समभाषत॥ । करिष्यामि महाराज वचस्ते नात्र संशयः। वेगं तु मम दुर्धार्यं पतन्त्या गगनाद् भुवम्॥ न शक्तस्त्रिषु लोकेषु कश्चिद्धारयितुं नृप। अन्यत्र विबुधश्रेष्ठान्नीलकण्ठान्महेश्वरात्॥ तं तोषय महाबाहो तपसा वरदं हरम्। स तु मां प्रच्युतां देवः शिरसाधारयिष्यति॥ स करिष्यति ते काम पितृणां हितकाम्यया। एतच्छ्रुत्वा ततो राजन् महाराजो भगीरथः॥ कैलास पर्वतं गत्वा तोषयामास शंकरम्। तपस्तीव्रमुपागम्य कालयोगेन केनचित्॥ अगृहणाच्च वरं तस्माद् गङ्गायाधारणे नृप। स्वर्गे वासं समुद्दिश्य पितॄणां स नरोत्तमः॥ लोमश उवाच भगीरथवचः श्रुत्वा प्रियार्थं च दिवौकसाम्। एवस्त्विति राजानं भगवान् प्रत्यभाषत॥ धारयिष्ये महाभाग गगनात् प्रच्युतां शिवाम्। दिव्यां देवनदी पुण्यां त्वत्कृते नृपसत्तम॥ एवमुक्त्वा महाबाहो हिमवन्तमुपागमत्। वृतः पारिषदैर्घोरैर्नानाप्रहरणोद्यतैः॥ तत्र स्थित्वा नरश्रेष्ठं भगीरथमुवाच ह। प्रयाचस्व महाबाहो शैलराजसुतां नदीम्॥ पतमानां सरिच्छेष्ठांधारयिष्ये त्रिविष्टपात्। एतच्छ्रुत्वा वचो राजा शर्वेण समुदाहृतम्॥ प्रयतः प्रणतो भूत्वा गङ्गां समनुचिन्तयत्। ततः पुण्यजला रम्या राज्ञा समनुचिन्तिता॥ ईशानं च स्थितं दृष्ट्वा गगनात् सहसा च्युता। तां प्रच्युतामथो दृष्ट्वा देवाः सार्धं महर्षिभिः॥ गन्धर्वोरगयक्षाश्च समाजग्मुर्दिदृक्षवः। ततः पपात गगनाद् गङ्गा हिमवतः सुता॥ समुद्धृतमहावर्ता मीनग्राहसमाकुला। तां दधार हरो राजन् गङ्गां गगनमेखलाम्॥ ललाटदेशे पतितां मालां मुक्तामयीमिव। सा बभूव विसर्पन्ती त्रिधा राजन् समुद्रगा॥ फेनपुञ्जाकुलजला हंसानामिव पङ्क्तयः। क्वचिदाभोगकुटिला प्रस्खलन्ती क्वचित् क्वचित्।१।। सा फेनपटसंवीता मत्तेव प्रमदाब्रजत्। क्वचित् सा तोयनिनदैर्नदन्ती नादमुत्तमम्॥ एवंप्रकारान् सुबहून् कुर्वती गगनाच्च्युता। पृथिवीतलमासाद्य भगीरथमथाब्रवीत्॥ दर्शयस्व महाराज मार्ग केन व्रजाम्यहम्। त्वदर्थमवतीर्णास्मि पृथिवीं पृथिवीपते॥ एतच्छ्रुत्वा वचो राजा प्रातिष्ठत भगीरथः। यत्र तानि शरीराणि सागराणां महात्मनाम्॥ प्लावनार्थं नरश्रेष्ठ पुण्येन सलिलेन च। गङ्गायाधारणं कृत्वा हरो लोकनमस्कृतः॥ कैलास पर्वतश्रेष्ठं जगाम त्रिदशैः सह। समासाद्य समुद्रं च गङ्गया सहितो नृपः॥ पूरयामास वेगेन समुद्रं वरुणालयम्। दुहितृत्वे च नृपतिर्गङ्गां समनुकल्पयत्॥ पितृणां चोदकं तत्र ददौ पूर्णमनोरथः। एतत् ते सर्वमाख्यातं गङ्गा त्रिपथगा यथा॥ पूरणार्थं समुद्रस्य पृथिवीमवतारिता। समुद्रश्च यथा पीतः कारणार्थं महात्मना।॥ वातापिश्च यथा नीतः क्षयं स ब्रह्महा प्रभो। अगस्त्येन महाराज यन्मां त्वं परिपृच्छसि॥ वैशम्पायन उवाच ततः प्रयातः कौन्तेयः क्रमेण भरतर्षभ। नन्दामपरनन्दां च नद्यौ पापभयापहे॥ पर्वतं स समासाद्य हेमकूटमनामयम्। अचिन्त्यानद्भुतान् भावान् ददर्श सुबहून् नृपः॥ वाताबद्धा भवन्मेघा उपलाश्च सहस्रशः। नाशक्नुवंस्तमारोढुं विषण्णमनसो जनाः॥ वायुर्नित्यं ववौ तत्र नित्यं देवश्च वर्षति। स्वाध्यायघोषश्च तथा श्रूयते न च दृश्यते॥ सायं प्रातश्च भगवान् दृश्यते हव्यवाहनः। मक्षिकाश्चादशंस्तत्र तपसः प्रतिघातिकाः॥ निर्वेदो जायते तत्र गृहाणि स्मरते जनः। एवं बहुविधान् भावानद्भुतान् वीक्ष्य पाण्डवः। लोमशं पुनरेवाथ पर्यपृच्छत् तदद्भुतम्॥ लोमश उवाच यथाश्रुतमिदं पूर्वमस्माभिररिकर्शन। तदेकाग्रमना राजन् निबोध गदतो मम॥ अस्मिन्नृषभकूटेऽभूदृषभो नाम तापसः। अनेकशतवर्षायुस्तपस्वी कोपनो भृशम्॥ स वै सम्भाष्यमाणोऽन्यैः कोपाद् गिरिमुवाच ह। य इह व्याहरेत् कश्चिदुपलानुत्सृजेस्तथा॥ वातं चाहूय मा शब्दमित्युवाच स तापसः। व्याहरंश्चेह पुरुषो मेघशब्देन वार्यते॥ एवमेतानि कर्माणि राजंस्तेन महर्षिणा। कृतानि कानिचित् क्रोधात् प्रतिषिद्धानि कानिचित्।। नन्दां त्वभिगता देवाः : पुरा राजनिति श्रुतिः। अन्वपद्यन्त सहसा पुरुषा देवदर्शिनः॥ ते दर्शनं त्वनिच्छन्तो देवाः शक्रपुरोगमाः। दुर्ग चक्रुरिमं देशं गिरि प्रत्यूहरूपकम्॥ तदाप्रभृति कौन्तेय नरा गिरिमिमं सदा। नाशक्नुवन्नभिद्रष्टुं कुत एवाधिरोहितुम्॥ नातप्ततपसा शक्यो द्रष्टुमेष महागिरिः। आरोढुं वापि कौन्तेय तस्मानियतवाग भव॥ इह देवास्तदा सर्वे यज्ञानाजहरुत्तमान्। तेषामेतानि लिङ्गानि दृश्यन्तेऽद्यापि भारत॥ कुशाकारेव दुर्वेयं संस्तीर्णेव च भूरियम्। यूपप्रकारा बहवो वृक्षाश्चेमे विशाम्पते॥ देवाश्च ऋषयश्चैव वसन्त्यद्यापि भारत। तेषां सायं तथा प्रातर्दृश्यते हव्यवाहनः॥ इहाप्लुतानां कौन्तेय सद्यः पाप्माभिहन्यते। कुरुश्रेष्ठाभिषेकं वै तस्मात् कुरु सहानुजः॥ ततो नन्दाप्लुताङ्गस्त्वं कौशिकीमभियास्यसि। विश्वामित्रेण यत्रोग्रं तपस्तप्तमनुत्तमम्॥ वैशम्पायन उवाच ततस्तत्र समाप्लुत्य गात्राणि सगणो नृपः। जगाम कौशिकी पुण्यां रम्यां शीतजलां शुभाम्॥ लोमश उवाच एषा देवनदी पुण्या कौशिकी भरतर्षभ। विश्वामित्राश्रमो रम्य एष चात्र प्रकाशते॥ आश्रमश्चैव पुण्याख्य: काश्यपस्य महात्मनः। ऋष्यशृङ्गः सुतो यस्य तपस्वी संयतेन्द्रियः॥ तपसो यः प्रभावेण वर्षयामास वासवम्। अनावृष्ट्यां भयाद् यस्य ववर्ष बलवृत्रहा॥ मृग्यां जातः स तेजस्वी काश्यपस्य सुतः प्रभुः। विषये लोमपादस्य यश्चकाराद्भुतं महत्॥ निर्वर्तितेषु सस्येषु यस्मै शान्तं ददौ नृपः। लोमपादो दुहितरं सावित्री सविता यथा।॥ युधिष्ठिर उवाच ऋष्यशृङ्गः कथं मृग्यामुत्पन्नः काश्यपात्मजः। विरुद्धे योनिसंसर्गे कथं च तपसा युतः॥ किमर्थं च भयाच्छक्रस्तस्य बालस्यधीमतः। अनावृष्ट्यां प्रवृत्तायां ववर्ष बलवृत्रहा।॥ कथंरूपा च सा शान्ता राजपुत्री यतव्रता। लोभयामास या चेतो मृगभूतस्य तस्य वै॥ लोमपादश्च राजर्षिर्यदाश्रूयतधार्मिकः। कथं वै विषये तस्य नावर्षत् पाकशासनः॥ एतन्मे भगवन् सर्वं विस्तरेण यथातथम्। वक्तुमर्हसि शुश्रूषोर्ऋष्यशृङ्गस्य चेष्टितम्॥ लोमश उवाच विभाण्डकस्य विप्रस्तपसा भावितात्मनः। अमोघवीर्यस्य सतः प्रजापतिसमद्युतेः॥ शृणु पुत्रो यथा जात ऋष्यशृङ्गः प्रतापवान्। महार्हस्य महातेजा बालः स्थविरसम्मतः॥ महाह्रदं समासाद्य काश्यपस्तपसि स्थितः। दीर्घकालं परिश्रान्त ऋषिः स देवसम्मितः॥ तस्य रेतः प्रचस्कन्द दृष्ट्वाप्सरसमुर्वशीम्। अप्सूपस्पृशतो राजन् मृगी तच्चापिबत् तदा॥ सह तोयेन तृषिता गर्भिणी चाभवत् ततः। सा पुरोक्ता भगवता ब्रह्मणा लोककर्तृणा॥ देवकन्या मृगी भूत्वा मुनि सूय विमोक्ष्यसे। अमोघत्वाद् विधेश्चैव भावित्वाद् दैवनिर्मितात्॥ तस्यां मृग्यां समभवत् तस्य पुत्रो महानृषिः। ऋष्यशृङ्गस्तपोनित्यो वन एवाभ्यवर्तत॥ तस्यर्षेः शृङ्गं शिरसि राजन्नासीन्महात्मनः। तेनर्ण्यशृङ्ग इत्येवं तदा स प्रथितोऽभवत्॥ न तेन दृष्टपूर्वोऽन्यः पितुरन्यत्र मानुषः। तस्मात् तस्य मनो नित्यं ब्रह्मचर्येऽभवन्नृप॥ एतस्मिन्नेव काले तु सखा दशरथस्य लोमपाद इति ख्यातो ह्यङ्गानामीश्वरोऽभवत्॥ तेन कामात् कृतं मिथ्या बाह्मणस्येति नः श्रुतिः। स ब्राह्मणैः परित्यक्तस्ततो वै जगतः पतिः॥ पुरोहितापचाराच्च तस्य राज्ञो यदृच्छया। न ववर्ष सहस्राक्षास्ततोऽपीड्यन्त वै प्रजाः॥ स ब्राह्मणान् पर्यपृच्छत् तपोयुक्तान् मनीषिणः। प्रवर्षणे सुरेन्द्रस्य समर्थान् पृथिवीपते॥ कथं प्रवर्षेत् पर्जन्य उपायः परिदृश्यताम्। तमूचुश्चोदितास्ते तु स्वमतानि मनीषिणः॥ तत्र त्वेको मुनिवरस्तं राजानमुवाच ह। कुपितास्तव राजेन्द्र ब्राह्मणा निष्कृतिं चर॥ ऋष्यशृङ्गं मुनिसुतमानयस्व च पार्थिव। वानेयमनभिज्ञं च नारीणामार्जवे रतम्॥ स चेदवतरेद् राजन् विषयं ते महातपाः। सद्यः प्रवर्षेत् पर्जन्य इति मे नात्र संशयः॥ एतच्छु त्वा वचो राजन् कृत्वा निष्कृतिमात्मनः। स गत्वा पुनरागच्छत् प्रसन्नेषु द्विजातिषु॥ राजानमागतं श्रुत्वा प्रतिसंजहषुः प्रजाः। ततोऽङ्गपतिराहूय सचिवान् मन्त्रकोविदान्॥ ऋष्यशृङ्गागमे यत्नमकरोन्मन्त्रनिश्चये। सोऽध्यगच्छदुपायं तु तैरमात्यैः सहाच्युतः॥ शास्त्रज्ञैरलमर्थज्ञैर्नीत्यां च परिनिष्ठितः। ततश्चानाययामास वारमुख्या महीपतिः॥ वेश्याः सर्वत्र निष्णातास्ता उवाच स पार्थिवः। ऋष्यशृङ्गमषेः पुत्रमानयध्वमुपायतः॥ लोभयित्वाभिविश्वास्य विषयं मम शोभनाः। ता राजभयभीताश्च शापभीताश्च योषितः॥ अशक्यमूचुस्तत् कार्यं विवर्णा गतचेतसः। तत्र त्वेका जरद्योषा राजानमिदमब्रवीत्॥ प्रयतिष्ये महाराज तमानेतुं तपोधनम्। अभिप्रेतांस्तु मे कामांस्त्वमनुज्ञातुमर्हसि॥ ततः शक्ष्याम्यानयितुमृष्यशृङ्गमृषेः सुतम्। तस्याः सर्वमभिप्रेतमन्वजानात् स पार्थिवः॥ धनं च प्रददौ भूरि रत्नानि विविधानि च। ततो रूपेण सम्पन्ना वयसा च महीपते। स्त्रिय आदाय काश्चित् सा जगाम वनमञ्जसा॥ लोमश उवाच सा तु नाव्याश्रमं चक्रे राजकार्यार्थसिद्धये। संदेशाच्चैव नृपतेः स्वबुद्ध्या चैव भारत॥ नानापुष्पफलैर्वृक्षः कृत्रिमैरुपशोभितैः। नानागुल्मलतोपेतैः स्वादुकामफलप्रदैः॥ अतीव रमणीयं तदतीव च मनोहरम्। चक्ने नाव्याश्रमं रम्यमद्भुतोपमदर्शनम्॥ ततो निबध्य तां नावमदूरे काश्यपाश्रमात्। चारयामास पुरुषैर्विहारं तस्य वै मुनेः॥ ततो दुहितरं वेश्यां समाधायेतिकार्यताम्। दृष्ट्वान्तरं काश्यपस्य प्राहिणोद् बुद्धिसम्मताम्॥ सा तत्र गत्वा कुशला तपोनित्यस्य संनिधौ। आश्रमं तं समासाद्य ददर्श तमृषेः सुतम्॥ वेश्योवाच कच्चिन्मुने कुशलं तापसानां कच्चिच्च वो मूलफलं प्रभूतम्। स्त्वां वै द्रष्टुं साम्प्रतमागतोऽस्मि॥ कच्चित् तपो वर्धते तापसानां पिता च ते कच्चिदहीनतेजाः। कच्चित् त्वया प्रीयते चैव विप्र कच्चित् स्वाध्यायः क्रियते चर्घ्यशृङ्ग॥ ऋष्यशृङ्ग उवाच ऋद्ध्या भवाङ्योतिरिव प्रकाशते। मन्ये चाहं त्वामभिवादनीयम्। पाद्यं वै ते सम्प्रदास्यामि कामाद् यथाधर्मं फलमूलानि चैव॥ कौश्यां वृष्यामास्स्व यथोपजोषं कृष्णाजिनेनावृतायां सुखायाम्। क्व चाश्रमस्तव किं नाम चेदं व्रतं ब्रह्मश्चरसि हि देववत् त्वम्॥ वेश्योवाच स्त्रियोजनं शैलमिमं परेण। तत्र स्वधर्मो नाभिवादनं मे न चोदकं पाद्यमुपस्पृशामि॥ भवता नाभिवाद्योऽहमभिवाद्यो भवान् मया। व्रतमेतादृशं ब्रह्मन् परिष्वज्यो भवान् मया॥ ऋष्यशृङ्ग उवाच फलानि पक्वानि ददानि तेऽहं भल्लातकान्यामलकानि चैवा करूषकाणीङ्गुदधन्वनानि पिप्पलानां कामकारं कुरुष्व॥ लोमश उवाच सा तानि सर्वाणि विवर्जयित्वा भक्ष्याण्यनर्हाणि ददौ ततोऽस्य। तान्युष्यशृङ्गस्य महारसानि भृशं सुरूपाणि रुचिं ददुर्हि॥ ददौ च माल्यानि सुगन्धवन्ति चित्राणि वासांसि च भानुमन्ति। पेयानि चाचयाणि ततो मुमोद चिक्रीड चैव प्रजहास चैव॥ सा कन्दुकेनारमतास्य मूले विभज्यमाना फलिता लतेव। गात्रैच गात्राणि निषेवमाणा समाश्लिषच्चासकृदृष्यशृङ्गम्॥ सर्जानशोकांस्तिलकांश्च वृक्षान् सुपुष्पितानवनाम्यावभज्य। विलज्जमानेव मदाभिभूता प्रलोभयामास सुतं महर्षेः॥ अथर्घ्यशृङ्गं विकृतं समीक्ष्य पुनः पुनः पीड्य च कायमस्य। अवेक्ष्यमाणा शनकैर्जगाम कृत्वाग्निहोत्रस्य तदापदेशम्॥ तस्यां गतायां मदनेन मत्तो विचेतनश्चाभवदृष्यशृङ्गः। तामेव भावेन गतेन शून्ये विनिःश्वसन्नार्तरूपो बभूव॥ ततो मुहूर्ताद्धरिपिङ्गलाक्षः। प्रवेष्टितो रोमभिरानखाग्रात्। स्वाध्यायवान् वृत्तसमाधियुक्तो विभाण्डकः काश्यपः प्रादुरासीत्॥ सोऽपश्यदासीनमुपेत्य पुत्रं ध्यायन्तमेकं विपरीतचित्तम्। विनिःश्वसन्तं मुहुरूर्ध्वदृष्टिं विभाण्डकः पुत्रमुवाच दीनम्॥ न कल्प्यन्ते समिधः किं नु तात कच्चिद्भुतं चाग्निहोत्रं त्वयाद्य। सुनिर्णिक्तं झुक्नुवं होमधेनुः कच्चित् सवत्साद्य कृता त्वया च॥ न वै यथापूर्वमिवासि पुत्र चिन्तापरश्चासि विचेतनश्च। दीनोऽतिमात्रं त्वमिहाद्य किं नु पृच्छामि त्वां क इहाद्यागतोऽभूत्॥ ऋष्यशृङ्ग उवाच इहागतो जटिलो ब्रह्मचारी न वै ह्रस्वो नातिदीर्घो मनस्वी। सुवर्णवर्ण: कमलायताक्षः स्वतः सुराणामिव शोभमानः॥ समृद्धरूपः सवितेव दीप्तः सुश्लक्ष्णकृष्णाक्षिरतीव गौरः। नीलः प्रसन्नाश्च जटाः सुगन्धा हिरण्यरज्जुग्रथिताः सुदीर्घाः॥ आश्चर्यरूपा पुनरस्य कण्ठे विभ्राजते विद्युदिवान्तरिक्षे। दजातरोमौ सुमनोहरौ च॥ विलग्नमध्यश्च स नाभिदेशे कटिश्च तस्यातिकृतप्रमाणा। तथास्य चीरान्तरतः प्रभाति हिरण्मयी मेखला मे यथेयम्॥ अन्यच्च तस्याद्भुतदर्शनीयं विकूजितं पादयोः सम्प्रभाति। पाण्योश्च तद्वत् स्वनवन्निबद्धौ कलापकावक्षमाला यथेयम्॥ विचेष्टमानस्य च तस्य तानि कूजन्ति हंसाः सरसीव मत्ताः। चीराणि तस्याद्भुतदर्शनानि नेमानि तद्वन्मम रूपवन्ति॥ वक्त्रं च तस्याद्भुतदर्शनीयं प्रव्याहृतं ह्लादयतीव चेतः। पुंस्कोकिलस्येव च तस्य वाणी तां शृण्वतो मे व्यथितोऽन्तरात्मा।॥ यथा वनं माधवमासि मध्ये समीरितं श्वसनेनेव भाति। तथा स भात्युत्तमपुण्यगन्धी निषेव्यमाणः पवनेन तात॥ सुसंयताश्चापि जटा विषक्ता द्वैधीकृता नातिसमा ललाटे। कर्णौ च चित्रैरिव चक्रवाकैः समावृतौ तस्य सुरूपवद्भिः॥ तथा फलं वृत्तमथो विचित्रं समाहरत् पाणिना दक्षिणेन। तद् भूमिमासाद्य पुनः पुनश्च समुत्पतत्यद्भुतरूपमुच्चैः॥ तच्चाभिहत्य परिवर्ततेऽसौ वातेरितो वृक्ष इवावघूर्णन्। तं प्रेक्षतः पुत्रमिवामराणां प्रीतिः परा तात रतिश्च जाता॥ स मे समाश्लिष्य पुनः शरीरं जटासु गृह्याभ्यवनाम्य वक्त्रम्। वक्त्रेण वक्त्रं प्रणिधाय शब्द चकार तन्मेऽजनयत् प्रहर्षम्॥ न चापि पाद्यं बहु मन्यतेऽसौ फलानि चेमानि मयाऽऽहतानि। एवंव्रतोऽस्मीति च मामवोचत् फलानि चान्यानि समाददन्मे।॥ मयोपयुक्तनि फलानि यानि नेमानि तुल्यानि रसेन तुषाम्। न चापि तेषां त्वगियं यथैषां साराणि नैषामिव सन्ति तेषाम्॥ तोयानि चैवातिरसानि मह्यं प्रादात् स व पातुमुदाररूपः। पीत्वैव यान्यभ्यधिकः प्रहर्षो ममाभवद् भूश्चलितेव चासीत्॥ इमानि चित्राणि च गन्धवन्ति माल्यानि तस्योद्चथितानि पट्टैः। यानि प्रकीर्येह गतः स्वमेव स आश्रमं तपसा द्योतमानः॥ गतेन तेनास्मि कृतो विचेता गात्रं च मे सम्परिदह्यतीव। इच्छामि तस्यान्तिकमाशु गन्तुं तं चेह नित्यं परिवर्तमानम्॥ गच्छामि तस्यान्तिकमेव तात का नाम सा ब्रह्मचर्या च तस्या इच्छाम्यहं चरितुं तेन साधु यथा तपः स चरत्यार्यधर्मा॥ चर्तुं तथेच्छा हृदये ममास्ति दुनोति चित्तं यदि तं न पश्ये॥ विभाण्डक उवाच रक्षांसि चैतानि चरन्ति पुत्र रूपेण तेनाद्भुतदर्शनेन। अतुल्यवीर्याण्यभिरूपवन्ति विघ्नं सदा तपसश्चिन्तयन्ति॥ सुरूयरूपाणि च तानि तात प्रलोभयन्ते विविधैरुपायैः। सुखाच्च लोकाच्च निपातयन्ति तान्युग्ररूपाणि मुनीन् वनेषु॥ न तानि सेवेत मुनिर्यतात्मा सतां लोकान् प्रार्थयानः कथंचित्। कृत्वा त्रिनं तापसानां रमन्ते पापाचारास्तापसस्तान् न पश्येत्॥ असज्जनेनाचरितानि पुत्र पापान्यपेयानि मधूनि तानि। माल्यानि चैतानि न वै मुनीनां स्मृतानि चित्रोज्जवलगन्धवन्ति॥ रक्षांसि तानीति निवार्य पुत्रं विभाण्डकस्तां मृगयाम्बभूव। नासादयामास यदा त्र्यहेण तदा स पर्याववृतेऽऽश्रमाय॥ यदा पुनः काश्यपो वै जगाम फलान्याहतु विधिनाऽऽश्रमात् सः। तदा पुनर्लोभयितुं जगाम सा वेशयोषा मुनिमृष्यशृङ्गम्॥ दृष्ट्वैव तामृष्यशृङ्गः प्रहृष्टः सम्भ्रान्तरूपोऽभ्यपतत् तदानीम्। प्रोवाच चैनां भवतः श्रमाय गच्छाव यावन्न पिता ममैति॥ ततो राजन् काश्यपस्यैकपुत्रं प्रवेश्य योगेन विमुच्य नावम्। राजग्मुरङ्गाधिपतेः समीपम्॥ संस्थाप्य तामाश्रमदर्शने तु संतारितां नावमथातिशुभ्राम्। नीरादुपादाय तथैव चक्रे नाव्याश्रमं नाम वनं विचित्रम्॥ अन्तःपुरे तं तु निवेश्य राजा। विभाण्डकस्यात्मजमकेपुत्रम्। मापूर्यमाणं च जगज्जलेन॥ स लोमपादः परिपूर्णकामः सुतां ददावृष्यशृङ्गाय शान्ताम्। क्रोधप्रतीकारकरं च चक्रे गाश्चैव मार्गेषु च कर्षणानि॥ विभाण्डकस्याव्रजत: स राजा पशून् प्रभूतान् पशुपांश्च वीरान्। विभाण्डकः परिपृच्छेद् यदा वः॥ स वक्तव्यः प्राञ्जलिभिर्भवद्भिः पुत्रस्य ते पशवः कर्षणं च। किं ते प्रियं वै क्रियतां महर्षे दासाः स्म सर्वे तव वाचि बद्धाः॥ अथोपायात् स मुनिश्चण्डकोपः स्वमाश्रमं मूलफलं गृहीत्वा। अन्वेषमाणश्च न तत्र पुत्रं ददर्श चुक्रोध ततो भृशं सः॥ ततः स कोपेन विदीर्यमाण आशङ्कमानो नृपतेर्विधानम्। स्तमङ्गराजं सपुरं सराष्ट्रम्॥ स वै श्रान्तः क्षुधितः काश्यपस्तान् घोषान् समासादितवान् समृद्धान् गोपैश्च तैर्विधिवत् पूज्यमानो राजेव तां रात्रिमुवास तत्र॥ अवाप्य सत्कारमतीव तेभ्यः प्रोवाच कस्य प्रथिताः स्थ गोपाः। ऊचुस्ततस्तेऽभ्युपगम्य सर्वे धनं तवेदं विहितं सुतस्य।॥ स्तांश्चैव शृण्वन् मधुरान् प्रलापान्। प्रशान्तभूयिष्ठरजाः प्रहृष्टः समाससादाङ्गपतिं पुरस्थम्॥ स पूजितस्तेन नरर्षभेण ददर्श पुत्रं दिवि देवं यथेन्द्रम्। शान्तां स्नुषां चैव ददर्श तत्र सौदामनीमुच्चरन्तीं यथैव॥ ग्रामांश्च घोषांश्च सुतस्य दृष्ट्वा शान्तां च शान्तोऽस्य परः स कोपः। चकार तस्यैव परं प्रसादं विभाण्डको भूमिपतेनरेन्द्र॥ रुवाच सूर्याग्निसमप्रभावः। जाते च पुत्रे वनमेवाव्रजेथा राज्ञः प्रियाण्यस्य सर्वाणि कृत्वा॥ स तद्वचः कृतवानृष्यशृङ्गो ययौ च यत्रास्य पिता बभूव। शान्ता चैनं पर्यचरन्नरेन्द्र खे रोहिणी सोममिवानुकूला॥ अरुन्धती वा सुभगा वसिष्ठं लोपामुद्रा वा यथा ह्यगस्त्यम्। नलस्य वै दमयन्ती यथाभूद्। यथा शची वज्रधरस्य चैव॥ नारायणी चेन्द्रसेना बभूव वश्या नित्यं मुद्गलस्याजमीढ। तथा शान्ता ऋष्यशृङ्गं वनस्थं प्रीत्या युक्ता पर्यचरनरेन्द्र।॥ तस्याश्रमः पुण्य एषोऽवभाति महाह्रदं शोभयन् पुण्यकीर्तिः। स्तीर्थान्यन्यान्यनुसंयाहि राजन्॥ वैशम्पायन उवाच ततः प्रयातः कौशिक्याः पाण्डवो जनमेजय। आनुपूर्येण सर्वाणि जगामायतनान्यथ॥ स सागरं समासाद्य गङ्गायाः संगमे नृप। नदीशतानां पञ्चानां मध्ये चक्रे समाप्लवम्॥ ततः समुद्रतीरेण जगाम वसुधाधिपः। भ्रातृभिः सहितो वीरः कालिङ्गान् प्रति भारत॥ लोमश उवाच एते कलिङ्गाः कौन्तेय यत्र वैतरणी नदी। यत्रायजतधर्मोऽपि देवाञ्छरणमेत्य वै॥ ऋषिभिः समुपायुक्तं यज्ञियं गिरिशोभितम्। उत्तरं तीरमेतद्धि सततं द्विजसेवितम्॥ समानं देवयानेन पथा स्वर्गमुपेयुषः। अत्र वै ऋषयोऽन्येऽपि पुरा क्रतुभिरीजिरे॥ अत्रैव रुद्रो राजेन्द्र पशुमादत्तवान् मखे। पशुमादाय राजेन्द्र भागोऽयमिति चाब्रवीत्॥ हते पशौ तदा देवास्तमूचुर्भरतर्षभ। मा परस्व मभिद्रोग्धा माधर्मान् सकलान् वशीः॥ ततः कल्याणरूपाभिर्वाग्भिस्ते रुद्रपस्तुवन्। इष्ट्या चैनं तर्पयित्वा मानयांचक्रिरे तदा॥ ततः स पशुमुत्सृज्य देवयानेन जग्मिवान्। तत्रानुवंशो रुद्रस्य तं निबोध युधिष्ठिर॥ अयातयामं सर्वेभ्यो भागेभ्यो भागमुत्तमम्। देवाः संकल्पयामासुर्भयाद् रुद्रस्य शाश्वतम्॥ इमां गाथामत्र गायन्नपः स्पृशति यो नरः। देवयानोऽस्य पन्थाश्च चक्षुषाभिप्रकाशते॥ वैशम्पायन उवाच ततो वैतरणी सर्वे पाण्डवा द्रौपदी तथा। अवतीर्य महाभागास्तर्पयांचक्रिरे पितॄन्।॥ युधिष्ठिर उवाच उपस्पृश्येह विधिवदस्यां नद्यां तपोबलात्। मानुषादस्मि विषयादपेतः पश्य लोमश॥ सर्वा ल्लोकान् प्रपश्यामि प्रसादात् तव सुव्रत। वैखानसानां जपतामेष शब्दो महात्मनाम्॥ लोमश उवाच त्रिशतं वै सहस्राणि योजनानां युधिष्ठिर। यत्रध्वनि शृणोष्येनं तूष्णीमास्स्व विशाम्पते॥ एतत् स्वयम्भुवो राजन् वनं दिव्यं प्रकाशते। यत्रायजत राजेन्द्र विश्वकर्मा प्रतापवान्॥ यस्मिन् यज्ञे हि भूर्दत्ता कश्यपाय महात्मने। सपर्वतवनोद्देशा दक्षिणार्थे स्वयम्भुवा॥ अवासीदच्च कौन्तेय दत्तमात्रा मही तदा। उवाच चापि कुपिता लोकेश्वरमिदं प्रभुम्॥ न मां माय भगवन् कस्मैचिद् दातुमर्हसि। प्रदानं मोघमेतत् ते यास्याम्येषा रसातलम्॥ विषीदन्ती तु तां दृष्ट्वा कश्यपो भगवानृषिः। प्रसादयाम्बभूवाथ ततो भूमिं विशाम्पते॥ ततः प्रसन्ना पृथिवी तपसा तस्य पाण्डव। पुनरुनह्य सलिलाद् वेदीरूपा स्थिता बभौ॥ सैषा प्रकाशते राजन् वेदी संस्थानलक्षणा। आरुह्यात्र महाराज वीर्यवान् वै भविष्यसि॥ सैषा सागरमासाद्य राजन् वेदी समाश्रिता। एतामारुह्य भद्रं ते त्वमेकस्तर सागरम्॥ अहं च ते स्वस्त्ययनं प्रयोक्ष्ये यथा त्वमेनामधिरोहसेऽद्या मेषा वेदी प्रविशत्याजमीढ॥ ॐ नमो विश्वगुप्ताय नमो विश्वपराय ते। सांनिध्यं कुरु देवेश सागरे लवणाम्भसि॥ अग्निर्मित्रायोनिरापोऽथ देव्यो विष्णो रेतस्त्वममृतस्य नाभिः। एवं ब्रुवन् पाण्डव सत्यवाक्यं वेदीमिमां त्वं तरसाधिरोह॥ अग्निश्च ते योनिरिडा च देहो रेतोधा विष्णोरमृतस्य नाभिः। एवं जपन् पाण्डव सत्यवाक्यं ततोऽवगाहेत पति नदीनाम्॥ अन्यथा हि कुरुश्रेष्ठ देवयोनिरपां पतिः। कुशाग्रेणापि कौन्तेय न स्प्रष्टव्यो महोदधिः॥ वैशम्पायन उवाच ततः कृतस्वस्त्ययनो महात्मा युधिष्ठिरः सागरमभ्यगच्छत्। कृत्वा च तच्छासनमस्य सर्वं महेन्द्रमासाद्य निशामुवास॥ वैशम्पायन उवाच स तत्र तामुषित्वैकां रजनीं पृथिवीपतिः। तापसानां परं चक्रे सत्कारं भ्रातृभिः सह॥ लोमशस्तस्य तान् सर्वानाचख्यौ तत्र तापसान्। भृगूनाङ्गिरसश्चैव वसिष्ठानथ काश्यपान्॥ तान् समेत्य स राजर्षिरभिवाद्य कृताञ्जलिः। रामस्यानुचारं वीरमपृच्छदकृतव्रणम्॥ कदा तु रामो भगवांस्तापसान् दर्शयिष्यति। तेनैवाहं प्रसंगेन द्रष्टुमिच्छामि भार्गवम्॥ अकृतव्रण उवाच आयानेवासि विदितो रामस्य विदितात्मनः। प्रीतिस्त्वयि च रामस्य क्षिप्रं त्वां दर्शयिष्यति॥ चतुर्दशीमष्टमी च रामं पश्यन्ति तापसाः। अस्यां रात्र्यां व्यतीतायां भवित्री वश्चतुर्दशी॥ युधिष्ठिर उवाच भवाननुगतो रामं जामदग्न्यं महाबलम्। प्रत्यक्षदर्शी सर्वस्य पूर्ववृत्तस्य कर्मणः॥ स भवान् कथयत्वद्य यथा रामेण निर्जिताः। आहवे क्षत्रिया: सर्वे कथं केन च हेतुना॥ अकृतव्रण उवाच हन्त ते कथयिष्यामि महादाख्यानमुत्तमम्। भृगूणां राजशार्दूल वंशे जातस्य भारत।॥ रामस्य जामदग्न्यस्य चरितं देवसम्मितम्। हैहयाधिपतेश्चैव कार्तवीर्यस्य भारत॥ रामेण चार्जुनो नाम हैहयाधिपतिर्हतः। तस्य बाहुशतान्यासंस्त्रीणि सप्त च पाण्डव॥ दत्तात्रेयप्रसादेन विमानं काञ्चनं तथा। ऐश्वर्यं सर्वभूतेषु पृथिव्यां पृथिवीपते॥ अव्याहतगतिश्चैव रथस्तस्य महात्मनः। रथेन तेन तु सदा वरदानेन वीर्यवान्॥ ममर्द देवान् यक्षांश्च ऋषींश्चैव समन्ततः। भूतांश्चैव स सर्वांस्तु पीडयामास सर्वतः॥ ततो देवाः समेत्याहुर्ऋषयश्च महाव्रताः। देवदेवं सुरारिनं विष्णुं सत्यपराक्रमम्॥ भगवन् भूतरक्षार्थमर्जुनं जहि वै प्रभो। विमानेन च दिव्येन हैहयाधिपतिः प्रभुः॥ शचीसहायं क्रीडन्तं धर्षयामास वासवम्। ततस्तु भगवान् देवः शक्रेण सहितस्तदा। कार्तवीर्यविनाशार्थ मन्त्रयामास भारत॥ यत् तद् भूतहितं कार्यं सुरेन्द्रेण निवेदितम्। सम्प्रतिश्रुत्य तत् सर्वं भगवाँल्लोकपूजितः॥ जगाम बदरीं रम्यां स्वमेवाश्रममण्डलम्। एतस्मिन्नेव काले तु पृथिव्यां पृथिवीपतिः॥ कान्यकुब्जे महानासीत् पार्थिवः सुमहाबलः। गाधीति विश्रुतो लोके वनवासं जगाम ह॥ वने तु तस्य वसतः कन्या जज्ञेऽप्सर:समा। ऋचीको भार्गवस्तां च वरयामास भारत॥ तमुवाच ततो गाधिर्ब्राह्मणं संशितव्रतम्। उचितं नः कुले किंचित् पूर्वैर्यत् सम्प्रवर्तितम्॥ एकत: श्यामकर्णानां पाण्डुराणां तरस्विनाम्। सहस्रं वाजिनां शुल्कमिति विद्धि द्विजोत्तम॥ न चापि भगवान् वाच्यो दीयतामिति भार्गव। देया मे दुहिता चैव त्वद्विधाय महात्मने।॥ ऋचीक उवाच एकतः श्यामकर्णानां पाण्डुराणां तरस्विनाम्। दास्याम्यश्वसहस्रं ते मम भार्या सुतास्तु ते॥ अकृतव्रण उवाच स तथेति प्रतिज्ञाय राजन् वरुणमब्रवीत्। एकतः श्यामकर्णानां पाण्डुराणां तरस्विनाम्॥ सहस्रं वाजिनामेकं शुल्कार्थं मे प्रदीयताम्। तस्मै प्रादात् सहस्रं वै वाजिनां वरुणस्तदा॥ तदश्वतीर्थं विख्यातमुत्थिता यत्र ते हयाः। गङ्गायां कान्यकुब्जे वै ददौ सत्यवतीं तदा।॥ ततो गाधिः सुतां चास्मै जन्याश्चासन् सुरास्तदा। लब्वा हयसहस्रं तु तांश्च दृष्ट्वा दिवौकसः॥ धर्मेण लब्ध्वा तां भार्यामृचीको द्विजसत्तमः। यथाकामं यथाजोषं तया रेमे सुमध्यया॥ तं विवाहे कृते राजन् सभार्यमवलोककः। आजगाम भृगुः श्रेष्ठं पुत्रं दृष्ट्वा ननन्द ह॥ भार्यापती तमासीनं गुरुं सुरगणार्चितम्। अर्चित्वा पर्युपासीनौ प्राञ्जली तस्थतुस्तदा।॥ ततः स्नुषां स भगवान् प्रहृष्टो भृगुरब्रवीत्। वरं वृणीष्व सुभगे दाता ह्यस्मि तवेप्सितम्॥ सा वै प्रसादयामास तं गुरुं पुत्रकारणात्। आत्मनश्चैव मातुश्च प्रसादं च चकार सः॥ भृगुरुवाच ऋतौ त्वं चैव माता च स्नाते पुंसवनाय वै। आलिङ्गेतां पृथग् वृक्षौ साश्वत्थं त्वमुदुम्बरम्॥ चरुद्वयमिदं भद्रे जनन्याश्च तवैव च। विश्वमावर्तयित्वा तु मया यत्नेन साधितम्॥ प्राशितव्यं प्रयत्नेन चेत्युक्त्वादर्शनं गतः। आलिङ्गने चरौ चैव चक्रतुस्ते विपर्ययम्॥ ततः पुनः स भगवान् काले बहुतिथे गते। दिव्यज्ञानाद् विदित्वा तु भगवानागतः पुनः॥ अथोवाच महातेजा भृगुः सत्यवतीं स्नुषाम्। उपयुक्तश्चरुर्भद्रे वृक्षे चालिङ्गनं कृतम्॥ विपरीतेन ते सुभूर्मात्रा चैवासि वञ्चिता। ब्राह्मणः क्षत्रवृत्तिः तव पुत्रो भविष्यति॥ क्षत्रियो ब्राह्मणाचारो मातुस्तव सुतो महान्। भविष्यति महावीर्यः साधूगां मार्गमास्थितः॥ ततः प्रसादयामास श्वशुरं सा पुनः पुनः। न मे पुत्रो भवेदीदृक कामं पौत्रो भवेदिति॥ एवमस्त्विति सा तेन पाण्डव प्रतिनन्दिता। जमदग्निं ततः पुत्रं जज्ञे सा काल आगते॥ तेजसा वर्चसा चैव युक्तं भार्गवनन्दनम्। स वर्धमानस्तेजस्वी वेदस्याध्यनेन च॥ बहूनृषीन् महातेजाः पाण्डवेयात्यवर्तत। तं तु कृत्स्नोधनुर्वेदः प्रत्यभाद् भरतर्षभ। चतुर्विधानि चास्त्राणि भास्करोपमवर्चसम्॥ वैशम्पायन उवाच गच्छन् स तीर्थानि महानुभावः पुण्यानि रम्याणि ददर्श राजा। सर्वाणि विप्रैरुपशोभितानि क्वचित् क्वचिद् भारत सागरस्य॥ स वृत्तवांस्तेषु कृताभिषेकः सहानुजः पार्थिवपुत्रपौत्रः। समुद्रगां पुण्यतमा प्रशस्तां जगाम पारिक्षित पाण्डुपुत्रः॥ तत्रापि चाप्लुत्य महानुभावः संतर्पयामास पितृन् सुरांचा द्विजातिमुख्येषुधनं विसृज्य गोदावरी सागरगामगच्छत्॥ ततो विपाप्मा द्रविडेषु राजन् समुद्रमासाद्य च लोकपुण्यम्। अगस्त्यतीर्थं च महापवित्रं नारीतीर्थान्यथ वीरो ददर्श॥ तत्रार्जुनस्यायधनुर्धरस्य निशम्य तत् कर्म नरैरशक्यम्। सम्पूज्यमानः परमर्षिसङ्घः परां मुदं पाण्डुसुतः स लेभे॥ स तेषु तीर्थेष्वभिषिक्तगात्रः कृष्णासहाय: सहितोऽनुजैश्च। सम्पूजयन् विक्रममर्जुनस्य रेमे महीपाल पतिः पृथिव्याः॥ ततः सहस्राणि गवां प्रदाय तीर्थेषु तेष्वम्बुधरोत्तमस्य। हृष्टः सह भ्रातृभिरर्जुनस्य संकीर्तयामास गवां प्रदानम्॥ स तानि तीर्थानि च सागरस्य पुण्यानि चान्यानि बहूनि राजन्। क्रमेण गच्छन् परिपूर्णकाम: शूर्पारकं पुण्यतमं ददर्श॥ तत्रोदधे: कंचिदतीत्य देशं ख्यातं पृथिव्यां वनमाससाद। दिष्टं तथा पुण्यपरैर्नरेन्द्रैः॥ स तत्र तामङ्घयधनुर्धरस्य वेदी ददर्शायतपीनबाहुः। ऋचीकपुत्रस्य तपस्विसङ्घः समावृतां पुण्यकृदर्चनीयाम्॥ ततो वसूनां वसुधाधिपः स मरुद्गणानां च तथाश्विनोश्च। मिन्द्रस्य विष्णोः सवितुर्विभोश्च॥ भवस्य चन्द्रस्य दिवाकरस्य पतेरपां साध्यगणस्य चैव। धातुः पितृणां च तथा महात्मा रुद्रस्य राजन् सगणस्य चैव॥ सरस्वत्याः सिद्धगणस्य चैव पुण्याश्च ये चाप्यमरास्तथान्ये। पुण्यानि चाप्यायतनानि तेषां ददर्श राजा सुमनोहराणि॥ तेषूपवासान विबुधानुपोष्य दत्त्वा च रत्नानि महान्ति राजा। तीर्थेषु सर्वेषु परिप्लुताङ्गः पुनः स शूर्पारकमाजगाम्॥ स तेन तीर्थेन तु सागरस्य पुनः प्रयातः सह सोदरीयैः। स्तीर्थं प्रभासं समुपाजगाम॥ तत्राभिषिक्तः पृथुलोहिताश्च सहानुजैर्देवगणान् पितॄश्चा संतर्पयामास तथैव कृष्णा ते चापि विप्राः सह लोमशेन।॥ स द्वादशाहं जलवायुभक्षः। कुर्वन् क्षपाहःसु तदाभिषेकम्। समन्ततोऽग्नीनुपदीपयित्वा तेपे तपोधर्मभृतां वरिष्ठः॥ तमुग्रमास्थाय तपश्चरन्तं शुश्राव रामश्च जनार्दनश्च। तौ सर्ववृष्णिप्रवरौ ससैन्यौ युधिष्ठिरं जग्मतुराजमीढम्॥ वृष्णयः पाण्डुसुतान् समीक्ष्य भूमौ शयानान् मलदिग्धगावान्। ते ॥ अनर्हती द्रौपदों चापि दृष्ट्वा सुदुःखिताश्चक्रुशुरातनादम्॥ ततः स रामं च जनार्दनं च काणि च साम्बं च शिनेश्च पौत्रम्। अन्यांश्च वृष्णीनुपगम्य पूजा चक्रे यथाधर्ममहीनसत्त्वः॥ स्तैः सत्कृताः पाण्डुसुतैस्तथैव। नुपाविशन् देवगणा यथेन्द्रम्॥ तेषां स सर्वं चरितं परेषां वने च वासं परमप्रतीतः। अस्त्रार्थमिन्द्रस्य गतं च पार्थं निवेशन हृष्टमनाः शशंस॥ स्तांश्चापि दृष्ट्वा सुकृशानतीव। नेत्रोद्भवं सम्मुमुचुमहारे दुःखार्तिजं वारि महानुभावाः॥ जनमजेय उवाच प्रभासतीर्थमासाद्य पाण्डवा वृष्णयस्तथा। किमकुर्वन् कथाश्चैषां कास्तत्रासंस्तपोधन॥ ते हि सर्वे महात्मनः सर्वशास्त्रविशारदाः। वृष्णयः पाण्डवाश्चैव सुहदश्च परस्परम्॥ वैशम्पायन उवाच प्रभासतीर्थं सम्प्राप्य पुण्यं तीर्थं महोदधेः। वृष्णयः पाण्डवान् वीराः परिवार्योपतस्थिरे॥ ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभः। वनमाली हली रामो बभाषे पुष्करेक्षणम्॥ बलदेव उवाच न कृष्णधर्मश्चरितो भवाय जन्तोरधर्मश्च पराभवाय। युधिष्ठिरो यत्र जटी महात्मा वनाश्रयः क्लिश्यति चीरवासाः॥ दुर्योधनश्चापि महीं प्रशास्ति न चास्य भूमिर्विवरं ददाति। नितीव मन्येत नरोऽल्पबुद्धिः॥ दुर्योधने चापि विवर्धमाने युधिष्ठिरे चासुखमात्तराज्ये। किं त्वत्र कर्तव्यमिति प्रजाभिः शङ्का मिथः संजनिता नराणाम्॥ अयं सधर्मप्रभावो नरेन्द्रो धर्मेधृतः सत्यधृतिः प्रदाता। चलेद्धि राज्याच्च सुखाच्च पार्थो धर्मादपेतस्तु कथं विवर्धेत्॥ कथं नु भीष्मश्च कृपश्च विप्रो द्रोणश्च राजा च कुलस्य वृद्धः। प्रव्राज्य पार्थान् सुखमाप्नुवन्ति धिक् पापबुद्धीन् भरतप्रधानान्॥ किं नाम वक्ष्यत्यवनिप्रधानः पितॄन् समागम्य परत्र पापः। पुत्रेषु सम्यक् चरितं मयेति पुत्रानपापान् व्यपरोप्य राज्यात्॥ नासौ धिया सम्प्रति पश्यति स्म किं नाम कृत्वाहमचक्षुरेवम्। जातः पृथिव्यामिति पार्थिवेषु प्रवाज्य कौन्तेयमिति स्म राज्यात्॥ नूनं समृद्धान् पितृलोकभूमौ चामीकराभान् क्षितिजान् प्रफुल्लान्। विचित्रवीर्यस्य सुतः सपुत्रः कृत्वा नृशंसं बत पश्यति स्म॥ व्यूढोत्तरांसान् पृथुलोहिताक्षान् नेमान् स्म पृच्छन् स शृणोति नूनम्। प्रास्थापयद् यत् सवनं सशङ्को युधिष्ठिरं सानुजमात्तशस्त्रम्॥ योऽयं परेषां पृतनां समृद्धां निरायुधो दीर्घभुजो निहन्यात्। श्रुत्वैव शब्दं हि वृकोदरस्य मुञ्चन्ति सैन्यानि शकृत् समूत्रम्॥ स क्षुत्पिपासाध्वकृशस्तरवी समेत्य नानायुधबाणपाणिः। वने स्मरन् वासमिमं सुघोरं शेषं न कुर्यादिति निश्चितं मे॥ न ह्यस्य वीर्येण बलेन कश्चित्। समः पृथिव्यापपि विद्यतेऽन्यः। स शीतवातातपकर्शिताङ्गो न शेषमाजावसुहृत्सु कुर्यात्॥ प्राच्यां नृपानेकरथेन जित्वा वृकोदरः सानुचरान् रणेषु। स्वस्त्यागमद् योऽतिरथस्तरस्वी सोऽयं वने क्लिश्यति चीरवासाः॥ यः सिन्धुकूले व्यजयवृदेवान् समागतान् दाक्षिणात्यान् महीपान्। तं पश्यतेमं सहदेवमद्य तरस्विनं तापसवेषरूपम्॥ यः पार्थिवानेकरथेन जिग्ये दिशं प्रतीची प्रति युद्धशौण्डः। अटी चरत्यद्य मलाचिताङ्गः॥ सत्रे समृद्धेऽतिरथस्य राज्ञो वेदीतलादुत्पतिता सुता या। सेयं वने वासमिमं सुदुःखं कथं सहत्यद्य सती सुखार्हा॥ त्रिवर्गमुख्यस्य समीरणस्य देवेश्वरस्याप्यथवाश्विनोश्च। एषां सुराणां तनयाः कथं नु वनेऽचरन् ह्यस्तसुखाः सुखार्हाः॥ जिते हिधर्मस्य सुते सभार्य सभ्रातृके सानुचरे निरस्ते। दुर्योधने चापि विवर्धमाने कथं न सीदत्यवनिः सशैला।॥ सात्यकिरुवाच न राम कालः परिदेवनाय यदुत्तरं त्वत्र तदेव सर्वे। समाचरामो हनतीतकालं युधिष्ठिरो यद्यपि नाह किंचित्॥ ये नाथवन्तोऽद्य भवन्ति लोके ते नात्मना कर्म समारभन्ते। तेषां तु कार्येषु भवन्ति नाथा: शिव्यादयो राम यथा ययातः॥ येषां तथा राम समारभन्ते कार्याणि नाथाः स्वमतेन लोके। ते नाथवन्तः पुरुषप्रवीरा नानाथवत् कृच्छ्रमवाप्नुवन्ति॥ कस्मादिमौ रामजनार्दनौ च प्रद्युम्नसाम्वौ च मया समेतौ। स्त्रैलोक्यनाथानभिगम्य पार्थाः॥ निर्यातु साध्वद्य दशार्हसेना प्रभूतनानायुधचित्रवर्मा। यमक्षयं गच्छतुधार्तराष्ट्रः सबान्धवो वृष्णिबलाभिभूतः॥ त्वं ह्येव कोपात् पृथिवीमपीमां संवेष्टयेस्तिष्ठस्तु शार्ङ्गधन्वा। सधार्तराष्ट्र जहि सानुबन्धं वृत्रं यथा देवपतिर्महेन्द्रः॥ भ्राता च मे यः स सखा गुरुश्च जनार्दनस्यात्मसमश्च पार्थः। यदर्थमैच्छन् मनुजाः सुपुत्रं शिष्यं गुस्श्चाप्रतिकूलवादम्॥ यदर्थमभ्युद्यतमुत्तमं तत् करोति कर्माचयमपारणीयम्। विहत्य सर्वाणि रणेऽभिभूया।८॥ कायाच्छिरः सर्पविषाग्निकल्पैः शरोत्तमैरुन्मथितास्मि रामा खड्न चाहं निशितेन संख्ये कायाच्छिरस्तस्य बलात् प्रमथ्य।॥ ततोऽस्य सर्वाननुगान् हनिष्ये दुर्योधनं चापि कुरुश्च सर्वान्। आत्तायुधं मामिह रौहिणेय पश्यन्तु भैमा युधि जातहर्षाः॥ नग्निं महाकक्षमिवान्तकाले। प्रद्युम्नमुक्तान् निशितान् न शक्ताः सोढुं कृपद्रोणविकर्णकर्णाः॥ जानामि वीर्यं च जयात्मजस्य काणिर्भवत्येष यथा रणस्थः। साम्बः ससूतं सरथं भुजाभ्यां दुःखासनं शास्तु बलात् प्रमथ्य॥ न विद्यते जाम्बवतीसुतस्य रणे विषां हि रणोत्कटस्य। एतेन बालेन हि शम्बरस्य दैत्यस्य सैन्यं सहसा प्रणुन्नम्॥ रेतेन संख्ये निहतोऽश्वचक्रः। को नाम साम्बस्य महारथस्य रणे समक्षं रथमभ्युदयात्॥ यथा प्रविश्यान्तरमन्तकस्य काले मनुष्यो न विनिष्क्रमेता तथा प्रविश्यान्तरमस्य संख्ये को नाम जीवन् पुनराव्रजेत्॥ द्रोणं च भीष्मं च महारथौ तौ सुतैर्वृतं चाप्यथ सोमदत्तम्। सर्वाणि सन्यानि च वासुदेवः प्रधक्ष्यते सायकवह्निजालैः॥ किं नाम लोकेष्वविषयमस्ति कृष्णस्य सर्वेषु सदेवकेषु। श्चक्रायुधस्याप्रतिमस्य युद्धे॥ महीमिमांधार्तराष्ट्रर्विसंज्ञैः। हृतोत्तमाङ्गैनिहतैः करोतु कीर्णां कुशैर्वेदिमिवाध्वरेषु॥ गदोल्मुको बाहुकभानुनीथाः शूरच संख्ये निशथः कुमारः। रणोत्कटौ सारणचारुदेष्णौ कुलोचितं विप्रथयन्तु कर्म॥ सवृष्णिभोजान्धकयोधमुख्या समागता सात सात्वतशूरसेना। ल्लोके यशः स्फीतमुपाकरोतु॥ ततोऽभिमन्युः पृथिवीं प्रशास्तु यावद् व्रतधर्मभृतां वरिष्ठः। युधिष्ठिरः पारयते महात्मा द्यूते यथोक्तं कुरुसत्तमेन॥ स्ततो महीं भोक्ष्यतिधर्मराजः। मेतद्धि नः कृत्यतमं यशस्यम्॥ वासुदेव उवाच असंशयं माधव सत्यमेतद् गृहणीम ते वाक्यमदीनसत्त्व। स्वाभ्यां भुजाभ्यामजितां तु भूमि नेच्छेत् कुरूणामृषभः कथंचित्॥ न ह्येष कामान्न भयान्न लोभाद् युधिष्ठिरो जातु जह्यात् स्वधर्मम्। भीमार्जुनौ चातिरथौ यमौ च तथैव कृष्णा दुपदात्मजेयम्॥ उभौ हि युद्धेऽप्रतिमौ पृथिव्यां वृकोदरश्चैवधनंजयश्च। न्माद्रीसुताभ्यां च पुरस्कृतोऽयम्॥ यदा तु पञ्चालपतिर्महात्मा सकेकयश्चेदिपतिर्वयं च। स्तदैव सर्वे रिपवो हि न स्युः॥ युधिष्ठिर उवाच नेदं चित्रं माधव यद् ब्रवीषि सत्यं तु मे रक्ष्यतमं न राज्यम्। कृष्णस्तु मां वेद यथावदेकः कृष्णं च वेदाहमथो यथावत्॥ यदैव कालं पुरुषप्रवीरो वेत्स्यत्ययं माधव विक्रमस्य। तदा रणे त्वं च शिनिप्रवीर सुयोधनं जेष्यसि केशवश्च॥ प्रतिप्रयान्त्वद्य दशार्हवीरा दृष्टोऽस्मि नाथैर्नरलोकनाथैः। धर्मेऽप्रमादं कुरुताप्रमेया द्रष्टास्मि भूयः सुखिनः समेतान्॥ तेऽन्योन्यमामन्त्र्य तथाभिवाद्य वृद्धान् परिष्वज्य शिशुंश्च सर्वान्। स्ते चापि तीर्थान्यनुसंविचेरुः॥ विसृज्य कृष्णं त्वथधर्मराजो विदर्भराजोपचितां सुतीर्थाम्। जगाम पुण्यां सरितं पयोष्णी सभ्रातृभृत्यः सह लोमशेन॥ सुतेन सोमेन विमिश्रतोयां पयः पयोष्णीं प्रति सोऽध्युवास। द्विजातिमुख्यैर्मुदितैर्महात्मा संस्तूयमानः स्तुतिभिर्वराभिः॥ लोमश उवाच नृगेण यजमानेन सोमेनेह पुरंदरः। तर्पितः श्रूयते राजन् स तृप्तो मुदमभ्यगात्॥ इह देवैः सहेन्द्रश्च प्रजापतिभिरेव च। इष्टं बहुविधैर्यज्ञैर्महद्भिर्भूरिदक्षिणैः॥ आमूर्तरयसश्चेह राजा वज्रधरं प्रभुम्। तर्पयामास सोमेन हयमेधेषु सप्तसु॥ तस्य सप्तसु यज्ञेषु सर्वमासीद्धिरण्मयम्। वानस्पत्यं च भौमं च यद्रव्यं नियतं मखे॥ चषालयूपचमसाः स्थाल्यः पात्र्यः स्रुचः सुवाः। तेष्वेव चास्य यज्ञेषु प्रयोगाः सप्त विश्रुताः॥ सप्तैकैकस्य यूपस्य चषालाचोपरि स्थिताः। तस्य स्म यूपान् यज्ञेषु भ्राजमानान् हिरण्मयान्॥ स्वयमुत्थापयामासुर्देवा: सेन्द्रा युधिष्ठिर। तेषु तस्य मखावयेषु गयस्य पृथिवीपतेः॥ अमाद्यदिन्द्रः सोमेन दक्षिणाभिजिातयः। प्रसंख्यानानसंख्येयान् प्रत्यगृहणन् द्विजातयः॥ सिकता वा यथा लोके यथा वा दिवि तारकाः। यथा वा वर्षतोधारा असंख्येयाः स्म केनचित्॥ तथैव तदसंख्येयंधनं यत् प्रददौ गयः। सदस्येभ्यो महाराज तेषु यज्ञेषु सप्तसु॥ भवेत् संख्येयमेतद्धि यदेतत् परिकीर्तितम्। न तस्य शक्याः संख्यातुं दक्षिणा दक्षिणावतः॥ हिरण्मयीभिर्गोभिश्च कृताभिर्विश्वकर्मणा। ब्राह्मणांस्तर्पयामास नानादिग्भ्यः समागतान्॥ अल्पावशेषा पृथिवी चैत्यैरासीन्महात्मनः। गयस्य यजमानस्य तत्र तत्र विशाम्पते।॥ स लोकान् प्राप्तवानन्द्रान् कर्मणा तेन भारत। सलोकतां तस्य गच्छेत् पयोष्ण्यां य उपस्पृशेत्॥ तस्मात् त्वमत्र राजेन्द्र भ्रातृभिः सहितोऽच्युत। उपस्पृश्य महीपालधूतपाप्मा भविष्यसि॥ वैशम्पायन उवाच स पयोष्ण्यां नरश्रेष्ठः स्नात्वा वै भ्रातृभिः सह। वैदूर्यपर्वतं चैव नर्मदां च महानदीम्॥ समागमत तेजस्वी भ्रातृभिः सहितोऽनघ। तत्रास्य सर्वाण्याचख्यौ लोमशो भगवानृषिः॥ तीर्थानि रमणीयानि पुण्यान्यायतनानि च। यथायोगं यथाप्रीति प्रययौ भ्रातृभिः सह। तत्र तत्राददाद् वित्तं ब्राह्मणेभ्यः सहस्रशः॥ लोमश उवाच देवानामेति कौन्तेय तथा राज्ञां सलोकताम्। वैदूर्यपर्वतं दृष्ट्वा नर्मदामवतीर्य च॥ संधिरेष नरश्रेष्ठ त्रेताया द्वापरस्य च। एनमासाद्य कौन्तेय सर्वपापैः प्रमुच्यते॥ एष शर्यातियज्ञस्य देशस्तात प्रकाशते। साक्षाद् यत्रापिबत् सोममश्विभ्यां सह कौशिकः॥ चुकोप भार्गक्श्चापि महेन्द्रस्य महातपाः। संस्तम्भयामास च तं वासवं च्यवनः प्रभुः। सुकन्यां चापि भार्यां स राजपुत्रीमवाप्तवान्।॥ युधिष्ठिर उवाच कथं विष्टम्भितस्तेन भगवान् पाकशासनः। किमर्थं भार्गवश्चापि कोपं चक्रे महातपाः॥ नासत्यौ च कथं ब्रह्मन् कृतवान् सोमपीथिनौ। एतत् सर्वं यथावृत्तमाख्यातु भगवान् मम॥ लोमश उवाच ततः शुश्राव शर्यातिर्वयस्थं च्यवनं कृतम्। सुहृष्टः सेनया सार्धमुपायाद् भार्गवाश्रमम्॥ च्यवनं च सुकन्यां च दृष्ट्वा देवसुताविवा रेमे सभार्यः शर्याति: कृत्स्नां प्राप्य महीमिव॥ ऋषिणा सत्कृतस्तेन सभार्यः पृथिवीपतिः। उपोपविष्टः कल्याणी: कथाश्चक्रे मनोरमाः॥ अथैनं भार्गवो राजन्नुवाच परिसान्त्वयन्। याजयिष्यामि राजंस्त्वां सम्भारानवकल्पय॥ ततः परमसंहष्टः शतिरवनीपतिः। च्यवनस्य महाराज तद् वाक्यं प्रत्यपूजयत्॥ प्रशस्तेऽहनि यज्ञीये सर्वकामसमृद्धिमत्। कारयामास शर्यातिर्यज्ञायतनमुत्तमम्॥ तत्रैनं च्यवनो राजन् याजयामास भार्गवः। अद्भुतानि च तत्रासन् यानि तानि निबोध मे॥ अगृहणाच्च्यवनः सोममश्विनोर्देवयोस्तदा। तमिन्द्रो वारयामास गृहणानं स तयोर्ग्रहम्॥ इन्द्र उवाच उभावेतौ न सोमा) नासत्याविति मे मतिः। भिषजौ दिवि देवानां कर्मणा तेन नार्हतः॥ च्यवन उवाच महोत्साहौ महात्मानौ रूपद्रविणवत्तरौ। यो चक्रतुर्मां मघवन् वृन्दारकमिवाजरम्॥ ऋते त्वां विबुधांश्चान्यान् कथं वै नार्हतः सवम्। अश्विनावपि देवेन्द्र देवौ विद्धि पुरंदर॥ इन्द्र उवाच चिकित्सको कर्मकरी कामरूपसमन्वितौ। लोके चरन्तौ मानां कथं सोममिहार्हतः॥ लोमश उवाच एतदेव यदा वाक्यामाप्रेडयति देवराट्। अनादृत्य ततः शक्रं ग्रहं जग्राह भार्गवः॥ ग्रहीष्यन्तं तु तं सोममश्विनोरुत्तमं तदा। समीक्ष्य बलभिद् देव इदं वचनमब्रवीत्॥ आभ्यामर्थाय सोमं त्वं ग्रहीष्यसि यदि स्वयम्। वज्रं ते प्रहरिष्यामि घोररूपमनुत्तमम्॥ एवमुक्तः स्मयन्निन्द्रमभिवीक्ष्य स भार्गवः। जग्राह विधिवत् सोममश्विभ्यामुत्तमं ग्रहम्॥ ततोऽस्मै प्राहरद् वज्रं घोररूपं शचीपतिः। तस्य प्रहरतो बाहुं स्तम्भयामास भार्गवः॥ तं स्तम्भयित्वा च्यवनो जुहुवे मन्त्रतोऽनलम्। कृत्यार्थी सुमहातेजा देवं हिंसितुमुद्यतः॥ ततः कृत्याथ संजज्ञे मुनेस्तस्य तपोबलात्। मदो नाम महावीर्यो बृहत्कायो महासुरः॥ शरीरं यस्य निर्देष्टुमशक्यं तु सुरासुरैः। तस्यास्यमभवद् घोरं तीक्ष्णाग्रदशनं महत्॥ हनुरेका स्थिता त्वस्य भूमावेका दिवं गता। चतस्रश्चायता दंष्ट्रा योजनानां शतं शतम्॥ इतरे तस्य दशना बभूवुर्दशयोजनाः। प्रासादशिखराकाराः शूलाग्रसमदर्शनाः॥ बाहू पर्वतसंकाशावायतावयुतं समौ। नेत्रे रविशशिप्रख्ये वक्त्रं कालाग्निसंनिभम्॥ लेलिहञ्जिह्वया वक्त्रं विद्युच्चपललोलया। व्यात्ताननो घोरदृष्टिप्रुसन्निव जगद् बलात्॥ स भक्षयिष्यन् संक्रुद्धः शतक्रतुमुपाद्रवत्। महता घोररूपेण लोकाञ्छब्देन नादयन्॥ लोमश उवाच तं दृष्ट्वा घोरवदनं मदं देवः शतक्रतुः। आयान्तं भक्षयिष्यन्तं व्यात्ताननमिवान्तकम्॥ भयात् संस्तम्भितभुजः सृक्किणी लेलिहन् मुहुः। ततोऽब्रवीद् देवराजश्च्यवनं भयपीडितः॥ सोमाविश्विनावेतावद्यप्रभृति भार्गव भविष्यतः सत्यमेतद् वचो विप्रः प्रसीद मे॥ न ते मिथ्या समारम्भो भवत्वेष परो विधिः। जानामि चाहं विप्रर्षे न मिथ्या त्वं करिष्यसि॥ सोमाविश्विनावेतौ यथा वाद्य कृतौ त्वया। भूय एव तु ते वीर्यं प्रकाशेदिति भार्गव॥ सुकन्यायाः पितुश्चास्य लोके कीर्तिः प्रथेदिति। अतो मयैतद् विहितं तव वीर्यप्रकाशनम्॥ तस्मात् प्रसादं कुरु मे भवत्वेवं यथेच्छसि। एवमुक्तस्य शक्रेण भार्गवस्य महात्मनः॥ स मन्युर्व्यगमच्छीघ्नं मुमोच च पुरंदरम्। मदं च व्यभजद् राजन् पाने स्त्रीषु च वीर्यवान्॥ अक्षेषु मृगयायां च पूर्वसृष्टं पुनः पुनः। तदा मदं विनिक्षिष्य शक्रं संतर्प्य चेन्दुना॥ अश्विभ्यां सहितान् देवान् याजयित्वा च तं नृपम्। विख्याप्य वीर्यं लोकेषु सर्वेषु वदतां वरः॥ सुकन्यया सहारण्ये विजहारानुकूलया। तस्यैतद् द्विजसंघुष्टं सरो राजन् प्रकाशते॥ अत्र त्वं सह सोदर्यैः पितृन् देवांश्च तर्पया एतद् दृष्ट्वा महीपाल सिकताक्षं च भारत॥ सैन्धवारण्यमासाद्य कुल्यानां कुरु दर्शनम्। पुष्करेषु महाराज सर्वेषु च जलं स्पृश॥ स्थाणोर्मन्त्राणि च जपन् सिद्धि प्राप्स्यसि भारत। संधियोर्नरश्रेष्ठ त्रेताया द्वापरस्य च॥ अयं हि दृश्यते पार्थ सर्वपापप्रणाशनः। अत्रोपस्पृश्य चैव त्वं सर्वपापप्रणाशने॥ आर्चीकपर्वतश्चैव निवासो वै मनीषिणाम्। सदाफलः सदास्रोतो मरुतां स्थानमुत्तमम्॥ चैत्याश्चैते बहुविधास्त्रिदशानां युधिष्ठिर। एतच्चन्द्रमसस्तीर्थमृषयः पर्युपासते। वैखानसा बालखिल्या: पावका वायुभोजनाः॥ शृङ्गाणि त्रीणि पुण्यानि त्रीणि प्रस्रवणानि च। सर्वाण्यनुपरिक्रम्य यथाकाममुपस्पृश।॥ शान्तनुश्चात्र राजेन्द्र शुनश्च नराधिपः। नरनारायणौ चोभौ स्थान प्राप्ताः सनातनम्॥ इह नित्यशया देवाः पितरश्च महर्षिभिः। अर्चीकपर्वते तेपुस्तान् यजस्व युधिष्ठिर।॥ इह ते वै चरून् प्राश्नऋषयश्च विशाम्पते। यमुना चाक्षयस्रोता कृष्णश्छेह तपोरतः॥ यमौ च भीमसेनाश्च कृष्णा चामित्रकर्शन। सर्वे चात्र गमिष्यामस्त्वयैव सह पाण्डव॥ एतत् प्रस्रवणं पुण्यमिन्द्रस्य मनुजेश्वर। यत्रधाता विधाता च वरुणश्चोर्ध्वमागताः॥ इह तेऽप्यवसन् राजन् क्षान्ताः परमधर्मिणः। मैत्राणामृजुबुद्धीनामयं गिरिवरः शुभः॥ एषा सा यमुना राजन् महर्षिगणसेविता। नानायज्ञचिता राजन् पुण्या पापभयापहा॥ अत्र राजा महेष्वासो मान्धातायजत स्वयम्। साहदेविश्व कौन्तेय सोमको ददतां वरः॥ युधिष्ठिर उवाच मान्धाता राजशार्दूलस्त्रिषु लोकेषु विश्रुतः। कथं जातो महाब्रह्मन् यौवनाश्वो नृपोत्तमः॥ कथं चैनां परां काष्ठां प्राप्तवानमितद्युतिः। यस्य लोकास्त्रयो वश्या विष्णोरिव महात्मनः॥ एतदिच्छाम्यहं श्रोतुं चरितं तस्यधीमतः। यथा मान्धातृशब्दश्च तस्य शक्रसमद्युतेः। जन्म चाप्रतिवीर्यस्य कुशलो ह्यसि भाषितुम्॥ लोमश उवाच शृणुष्वावहितो राजन् राज्ञस्तस्य महात्मनः। यथा मान्धातृशब्दो वै लोकेषु परिगीयते॥ इक्ष्वाकुवंशप्रभातो युवनाश्वो महीपतिः। सोऽयजत् पृथिवीपालः क्रतुभिर्भूरिदक्षिणैः॥ अश्वमेधसहस्रं च प्राप्यधर्मभृतां वरः। अन्यैश्च क्रतुभिर्मुख्यैरयजत् स्वाप्तदक्षिणैः॥ अनपत्यस्तु राजर्षिः स महात्मा महाव्रतः। मन्त्रिष्वाधाय तद् राज्यं वननित्यो बभूव ह॥ शास्त्रदृष्टेन विधिना संयोज्यात्मानमात्मवान्। स कदाचिनृपो राजन्नुपवासेन दुःखितः॥ पिपासाशुष्कहदयः प्रविवेशाश्रमं भृगोः। तामेव रात्रिं राजेन्द्र महात्मा भृगुनन्दनः॥ इष्टिं चकार सौद्युम्नेर्महर्षिः पुत्रकारणात्। सम्भृतो मन्त्रपूतेन वारिणा कलशो महान्॥ तत्रातिष्ठत राजेन्द्र पूर्वमेव समाहितः। यत् प्राश्य प्रसवेत् तस्य पत्नी शक्रसमं सुतम्॥ तं न्यस्य वेद्यां कलशं सुषुपुस्ते महर्षयः। रात्रिजागरणाच्छ्रान्तान् सौद्युम्नि: समतीत्य तान्॥ शुष्ककण्ठः पिपासातः पानीयार्थी भृशं नृपः। तं प्रविश्याश्रमं शान्तः पानीयं सोऽभ्ययाचत्॥ तस्य श्रान्तस्य शुष्केण कण्ठेन क्रोशतस्तदा। नाश्रौषीत् कश्चन तदा शकुनेरिव वाशतः॥ ततस्तं कलशं दृष्ट्वा जलपूर्णं स पार्थिवः। अभ्यद्रवत वेगेन पीत्वा चाम्भो व्यवासृजत्॥ स पीत्वा शीतलं तोयं पिपासातॊ महीपतिः। निर्वाणमगमद्धीमान् सुसुखी चाभवत् तदा॥ ततस्ते प्रत्यबुध्यन्त मुनयः सतपोधनाः। निस्तोयं तं च कलशं ददृशुः सर्व एव ते॥ कस्य कर्मेदमिति ते पर्यपृच्छन् समागताः। युवनाश्वो ममेत्येवं सत्यं समभिपद्यत॥ न युक्तमिति तं प्राह भगवान् भार्गवस्तदा। सुतार्थं स्थापिता ह्यापस्तपसा चैव सम्भृताः॥ मया पत्राहितं ब्रह्म तप आस्थाय दारुणम्। पुत्रार्थं तव राजर्षे महाबलपराक्रम॥ महाबलो महावीर्यस्तपोबलसमन्वितः। यः शक्रमपि वीर्येण गमयेद् यमसादनम्॥ अनेन विधिना राजन् मयैतदुपपादितम्। अभक्षणं त्वया राजन् न युक्तं कृतमद्य वै॥ न त्वद्य शक्यमस्माभिरेतत् कर्तुमतोऽन्यथा। नूनं दैवकृतं ह्येतद् यदेवं कृतवानसि॥ पिपासितेन याः पीता विधिमन्त्रपुरस्कृताः। आपस्त्वया महाराज मत्तपोवीर्यसम्भृताः॥ ताभ्यस्त्वमात्मना पुत्रमीदृशं जनयिष्यसि। विधास्यामो वयं तत्र तवेष्टिं परमाद्भुताम्॥ यथा शक्रसमं पुत्रं जनयिष्यसि वीर्यवान्। गर्भधारण वापि न खेदं समवाप्स्यसि॥ ततो वर्षशते पूर्णे तस्य राज्ञो महात्मनः। वाम पार्श्व विनिर्भिद्य सुतः सूर्य इव स्थितः॥ निश्चक्राम महातेजा न च तं मृत्युराविशत्। युवनाश्वं नरपतिं तदद्भुतमिवाभवत्॥ ततः शक्रो महातेजास्तं दिदृक्षुरुपागमत्। ततो देवा महेन्द्रं तमपृच्छन्धास्यतीति किम्॥ प्रदेशिनी ततोऽस्यास्ये शक्रः समभिसंदधे। मामयंधास्यतीत्येवं भाषिते चैव वज्रिणा॥ मान्धातोति च नामास्य चक्रुः सेन्द्रा दिवौकसः।।३१। प्रदेशिनीं शक्रदत्तामास्वाद्य स शिशुस्तदा। अवर्धत महातेजाः किकून् राजंस्त्रयोदश॥ वेदास्तं सधनुर्वेदा दिव्यान्यस्त्राणि चेश्वरम्। उपतस्थुर्महाराजध्यातमात्रस्य सर्वशः॥ आजगवं नामधनुः शराः शृङ्गोद्भवाश्च ये। अभेद्यं कवचं चैव सद्यस्तमुपशिश्रियुः॥ सोऽभिषिक्तो मघवता स्वयं शक्रेण भारत। धर्मेण व्यजयल्लोकांस्त्रीन् विष्णुरिव विक्रमैः॥ तस्याप्रतिहतं चक्रं प्रावर्तत महात्मनः। रत्नानि चैव राजर्षि स्वयमेवोपतस्थिरे॥ तस्यैवं वसुसम्पूर्णा वसुधा वसुधाधिप। तेनेष्टं विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः॥ चितचैत्यो महातेजाधर्मान् प्राप्य च पुष्कलान्। शक्रस्यार्धासनं राजंल्लब्धवानमितद्युतिः॥ एकाहात् पृथिवी तेनधर्मनित्येनधीमता। विजिता शासनादेव सरत्नाकरपत्तना॥ तस्य चैत्यैर्महाराज क्रतूनां दक्षिणावताम्। चतुरन्ता मही व्याप्ता नासीत् किंचिदनावृतम्॥ तेन पद्मसहस्राणि गवां दश महात्मना। ब्राह्मणानां महाराज दत्तानीति प्रचक्षते॥ तेन द्वादशवार्षिक्यामनावृष्ट्यां महात्मना। वृष्टं सस्यविवृद्ध्यर्थं मिषतो वज्रपाणिनः॥ तेन सोमकुलोत्पन्नो गान्धाराधिपतिर्महान्। गर्जन्निव महामेघः प्रमथ्य निहतः शरैः॥ प्रजाश्चतुर्विधास्तेन त्राता राजन् कृतात्मना। तेनात्मतपसा लोकास्तापिताश्चातितेजसा॥ तस्यैतद् देवयजनं स्थानमादित्यवर्चसः। पश्य पुण्यतमे देशे कुरुक्षेत्रस्य मध्यतः॥ एतत् ते सर्वमाख्यातं मान्धातुश्चरितं महत्। जन्म चाचयं महीपाल यन्मां त्वं परिपृच्छसि॥ वैशम्पायन उवाच एवमुक्तः स कौन्तेयो लोमशेन महर्षिणा। पप्रच्छानन्तरं भूयः सोमकं प्रति भारत॥ युधिष्ठिर उवाच कथंवीर्यः स राजाभूत् सोमको वदतां वर। कर्माण्यस्य प्रभावं च श्रोतुमिच्छामि तत्त्वतः॥ लोमश उवाच युधिष्ठिरासीनृपतिः सोमको नामधार्मिकः। तस्य भार्याशतं राजन् सदृशीनामभूत् तदा।॥ स वै यत्नेन महता तासु पुत्रं महीपतिः। कंचित्रासादयामास कालेन महता ह्यपि॥ कदाचित् तस्य वृद्धस्य घटमानस्य यत्नतः। जन्तु म सुतस्तस्मिन् स्त्रीशते समजायत॥ तं जातं मातरः सर्वाः परिवार्य समासत। सततं पृष्ठतः कृत्वा कामभोगान् विशाम्पते॥ ततः पिपीलिका जन्तुं कदाचिददशत् स्फिचि। स दष्टो व्यनदन्नादं तेन दुःखेन बालकः॥ ततस्ता मातरः सर्वाः प्राक्रोशन् भृशदुःखिताः। प्रवार्य जन्तुं सहसा स शब्दस्तुमुलोऽभवत्॥ तमार्तनादं सहसा शुश्राव स महीपतिः। अमात्यपर्षदो मध्ये उपविष्टः सहर्विजा॥ ततः प्रस्थापयामास किमेतदिति पार्थिवः। तस्मै क्षत्ता यथावृत्तमाचचक्षे सुतं प्रति॥ त्वरमाणः स चोत्थाय सोमकः सह मन्त्रिभिः। प्रविश्यान्तःपुरं पुत्रमाश्वासयदरिंदमः॥ सान्त्वयित्वा तु तं पुत्रं निष्क्रम्सयान्त:पुरानृपः। ऋत्विजा सहितो राजन् सहामात्य उपाविशत्॥ सोमक उवाच धिगस्त्विहैकपुत्रत्वमपुत्रत्वं वरं भवेत्। नित्यातुरत्वाद् भूतानां शोक एवैकपुत्रता॥ इदं भार्याशतं ब्रह्मन् परीक्ष्य सदृशं प्रभो। पुत्रार्थिना मया वोढं न तासां विद्यते प्रजा॥ एकः कथंचिदुत्पन्नः पुत्रो जन्तुरयं मम। यतमानासु सर्वासु किं नु दुःखमतः परम्॥ वयश्च समतीतं मे सभार्यस्य द्विजोत्तमा आसां प्राणा: समायत्ता मम चात्रैकपुत्रके॥ स्यात्तु कर्म तथा युक्तं येन पुत्रशतं भवेत्। महता लघुना वापि कर्मणा दुष्करेण वा॥ ऋत्विगुवाच अस्ति चैतादृशं कर्म येन पुत्रशतं भवेत्। यदि शक्नोषि तत् कर्तुमथ वक्ष्यामि सोमक।।१७। सोमक उवाच कार्यं वा यदि वाकार्यं येन पुत्रशतं भवेत्। कृतमेवेति तद् विद्धि भगवान् प्रब्रवीतु मे॥ ऋत्विगुवाच यजस्व जन्तुना राजंस्त्वं मया वितते क्रतौ। ततः पुत्रशतं श्रीमद् भविष्यत्यचिरेण ते॥ वपायां हूयमानायांधूममाघ्राय मातरः। ततस्ताः सुमहावीर्याञ्जनयिष्यन्ति ते सुतान्।॥ तस्यामेव तु ते जन्तुर्भविता पुनरात्मजः। उत्तरे चास्य सौवर्णं लक्ष्म पार्श्वे भविष्यति॥ सोमक उवाच ब्रह्मन् यद् यद् यथा कार्यं तत् कुरुष्व तथा तथा। पुत्रकामतया सर्वं करिष्यामि वचस्तव॥ लोमश उवाच तत: स याजयामास सोमकं तेन जन्तुना। मातरस्तु बलात् पुत्रमपाकर्षः कृपान्विताः॥ हा हताः स्मेति वाशन्त्यस्तीव्रशोकसमाहताः। रुदन्त्यः करुणं वापि गृहीत्वा दक्षिणे करे॥ सव्ये पाणौ गृहीत्वा तु याजकोऽपि स्म कर्षति। कुररीणामिवार्तानां समाकृष्य तु तं सुतम्॥ विशस्य चैनं विधिवद् वपामस्य जुहाव सः। वपायां हूयमानायां गन्धमाघ्राय मातरः॥ आर्ता निपेतुः सहसा पृथिव्यां कुरुनन्दन। सर्वाश्च गर्भानलभंस्ततस्ताः परमाङ्गनाः॥ ततो दशसु मासेषु सोमकस्य विशाम्पते। जज्ञे पुत्रशतं पूर्ण तासु सर्वासु भारत॥ जन्तुर्येष्ठः समभवज्जनित्र्यामेव पार्थिव। स तासामिष्ट एवासीन्न तथा ते निजाः सुताः॥ तच्च लक्षणमस्यासीत् सौवर्णं पार्श्व उत्तरे। तस्मिन् पुत्रशते चावयः स बभूव गुणैरपि॥ ततः स लोकमगमत् सोमकस्य गुरुः परम्। अथ काले व्यतीते तु सोमकोऽप्यगमत् परम्॥ अथ तं नरके घोरे पच्यमानं ददर्श सः। तमपृच्छत् किमर्थं त्वं नरके पच्यसे द्विज॥ तमब्रवीद् गुरुः सोऽथ पच्यमानोऽग्निना भृशम्। त्वं मया याजितो राजंस्तस्येदं कर्मणः फलम्॥ एतच्छ्रुत्वा स राजर्षिर्धर्मराजमथाब्रवीत्। अहमत्र प्रवेक्ष्यामि मुच्यतां मम याजकः॥ मत्कृते हि महाभागः पच्यते नरकाग्निना। धर्म उवाच नान्यः कर्तुः फलं राजन्नुपभुङ्क्ते कदाचन। इमानि तव दृश्यन्ते फलानि वदतां वर॥ सोमक उवाच पुण्यान्न कामये लोकानृतेऽहं ब्रह्मवादिनम्। इच्छाम्यहमनेनैव सह वस्तुं सुरालये॥ नरके वाधर्मराज कर्मणास्य समो ह्यहम्। पुण्यापुण्यफलं देव सममस्त्वावयोरिदम्॥ धर्मराज उवाच यद्येवमीप्सितं राजन् भुड्क्ष्वास्य सहितः फलम्। तुल्यकालं सहानेन पश्चात् प्राप्स्यसि सद्गतिम्॥ लोमश उवाच स चकार तथा सर्वं राजा राजीवलोचनः। क्षीणपापश्च तस्मात् स विमुक्तो गुरुणा सह॥ लेभे कामाशुभान् राजन् कर्मणा निर्जितान् स्वयम्। सह तेनैव विप्रेण गुरुणा स गुरुप्रियः॥ एष तस्याश्रमः पुण्यो य एषोऽग्रे विराजते। क्षान्त उष्यात्र षड्रात्रं प्राप्नोति सुगतिं नरः॥ एतस्मिन्नपि राजेन्द्र वत्स्यामो विगतज्वराः। षड्रात्रं नियतात्मानः सज्जीभव कुरूद्वह॥ लोमश उवाच अस्मिन् किल स्वयं राजन्निष्टवान् वै प्रजापतिः। सत्रमिष्टीकृतं नाम पुरा वर्षसहस्रिकम्॥ अम्बरीषश्च नाभाग इष्टवान् यमुनामनु। यत्रेष्ट्वा दश पद्मानि सदस्येभ्योऽभिसृष्टवान्॥ यज्ञैश्च तपसा चैव परां सिद्धिमवाप सः। देशश्च नाहुषस्यायं यज्वनः पुण्यकर्मणः॥ सार्वभौमस्य कौन्तेय ययातेरमितौजसः। स्पर्धमानस्य शक्रेण तस्येदं यज्ञवास्त्विह॥ पश्य नानाविधाकारैरग्निभिर्निचितां महीम्। मज्जन्तीमिव चाक्रान्तां ययातेर्यज्ञकर्मभिः॥ एषा शम्येकपत्रा या सरकं चैतदुत्तमम्। पश्य रामह्रदानेतान् पश्य नारायणाश्रमम्॥ एतच्च कपुत्रस्य योगैर्विचरतो महीम्। प्रसर्पणं महीपाल रौप्यायाममितौजसः॥ अत्रानुवंशं पठतः शृणु मे कुरुनन्दन। उलूखलैराभरणैः पिशाची यदभाषत॥ युगन्धरे दधि प्राश्य उषित्वा चाच्युतस्थले। तद्वद् भूतलये स्नात्वा सपुत्रा वस्तुमर्हसि॥ एकरात्रमुषित्वेह द्वितीयं यदि वत्स्यसि। एतद् वै ते दिवावृत्तं रात्रौ वृत्तमतोऽन्यथा॥ अद्य चात्र निवत्स्यामः क्षपां भरतसत्तम। द्वारमेतत् तु कौन्तेय कुरुक्षेत्रस्य भारत॥ अत्रैव नाहुषो राजा राजन् क्रतुभिरिष्टवान्। ययातिर्बहुरत्नौधैर्यवेन्द्रो मुदमभ्यगात्॥ एतत प्लक्षावतरणं यमुनातीर्थमुत्तमम्। एतद् वै नाकपृष्ठस्य द्वारमाहुर्मनीषिणः॥ अन्न सारस्वतैर्यज्ञैरीजानाः परमर्षयः। यूपोलूखलिकास्तात गच्छन्त्यवभृथप्लवम्॥ अत्र वै भरतो राजा राजन् क्रतुभिरिष्टवान्। हयमेधेन यज्ञेन मेध्यमश्वमवासृजत्॥ असकृत् कृष्णसारङ्गंधर्मेणाप्य च मेदिनीम्। अत्रैव पुरुषव्याघ्र मरुत्तः सत्रमुत्तमम्॥ प्राप चैवर्षिमुख्येन संवर्तेनाभिपालितः। अत्रोपस्पृश्य राजेन्द्र सर्वा ल्लोकान् प्रपश्यति। पूयते दुष्कृताच्चैव अत्रापि समुपस्पृश॥ वैशम्पायन उवाच तत्र सभ्रातृकः स्नात्वा स्तूयमानो महर्षिभिः। लोमशं पाण्डवश्रेष्ठ इदं वचनमब्रवीत्॥ सर्वाल्लोकान् प्रपश्यामि तपसा सत्यविक्रम। इहस्थः पाण्डवश्रेष्ठं पश्यामि श्वेतवाहनम्॥ लोमश उवाच एवमेतन्महाबाहो पश्यन्ति परमर्षयः। सरस्वतीमिमां पुण्यां पुण्यैकशरणावृताम्॥ यत्र स्नात्वा नरश्रेष्ठधूतपाप्मा भविष्यसि। इह सारस्वतैर्यज्ञैरिष्टवन्तः सुरर्षयः। ऋषयश्चैव कौन्तेय तथा राजर्षयोऽपि च॥ वेदी प्रजापतेरेषा समन्तात् पञ्चयोजना। कुरोर्वै यज्ञशीलस्य क्षेत्रमेतन्महात्मनः॥ लोमश उवाच इह मास्तनूस्त्यक्तवा स्वर्गं गच्छन्ति भारता मर्तुकामा नरा राजनिहायान्ति सहस्रशः॥ एवमाशीः प्रयुक्ता हि दक्षेण यजता पुरा। इह ये वै मरिष्यन्ति ते वै स्वर्गजितो नराः॥ एषा सरस्वती रम्या दिव्या चौघवती नदी। एतद् विनशनं नाम सरस्वत्या विशाम्पते॥ द्वारं निषादराष्ट्रस्य येषां दोषात् सरस्वती। प्रविष्टा पृथिवीं वीर मा निषादा हि मां विदुः॥ एष वै चमसोद्देदो यत्र दृश्या सरस्वती। यौनामभ्यवर्तन्त सर्वाः पुण्याः समुद्रगाः॥ एतत् सिन्धोर्महत् तीर्थं यत्रागस्त्यमरिंदम्। लोपामुद्रा समागम्य भर्तारमवृणीत वै॥ एतत् प्रकाशते तीर्थं प्रभासं भास्कराते। इन्द्रस्य दयितं पुण्यं पवित्रं पापनानम्॥ एतद् विष्णुपदं नाम दृश्यते तीर्थमुत्तमम्। एषा रम्या विपाशा च नदी परमपावनी॥ अत्र वै पुत्रशोकेन वसिष्ठो भगवानृषिः। बद्ध्वाऽऽत्मानं निपतितो विपाशः पुनरुत्थितः॥ काश्मीरमण्डलं चैतत् सर्वपुण्यमरिंदम्। महर्षिभिश्चाध्युषितं पश्येदं भ्रातृभिः सह॥ यत्रोत्तराणां सर्वेषामृषीणां नाहुषस्य च। अग्नेश्चैवात्र संवादः काश्यपस्य च भारत॥ एतद् द्वारं महाराज मानसस्य प्रकाशते। वर्षमस्य गिरेमध्ये रामेण श्रीमता कृतम्॥ एष वातिकपण्डो वै प्रख्यातः सत्यविक्रमः। नात्यवर्तत यद्द्वारं विदेहादुत्तरं च यः॥ इदमाश्चर्यमपरं देशेऽस्मिन् पुरुषर्षभ। क्षीणे युगे तु कौन्तेय शर्वस्य सह पार्षदैः॥ सहोमया च भवति दर्शनं कामरूपिणः। अस्मिन् सरसि सत्रैर्वै चैत्रे मासि पिनाकिनम्॥ यजन्ते याजकाः सम्यक् परिवारं शुभार्थिनः। अत्रोपस्पृश्य सरसि श्रद्दधानो जितेन्द्रियः॥ क्षीणपापः शुभाँल्लोकान् प्राप्नुते नात्र संशयः। एष उज्जानको नाम पावकिर्यत्र शान्तवान्। अरुन्धतीसहायश्च वसिष्ठो भगवानृषिः॥ ह्रदश्च कुशवानेष यत्र पद्मं कुशेशयम्। आश्रमश्चैव रुक्मिण्या यत्राशाम्यदकोपना॥ समाधीनां समासस्तु पाण्डवेय श्रुतस्त्वया। तं द्रक्ष्यसि महाराज भृगुतुझं महागिरिम्॥ वितस्तां पश्य राजेन्द्र सर्वपापप्रमोचनीम्। महर्षिभिश्चाध्युषितां शीततोयां सुनिर्मलाम्॥ जलां चोपजलां चैव यमुनामभितो नदीम्। उशीनरो वै यत्रेष्ट्वा वासवादत्यरिच्यत॥ तां देवसमिति तस्य दासवश्च विशाम्पते। अभ्यागच्छन्नृपवरं ज्ञातुमग्निश्च भारत॥ जिज्ञासमानौ वरदौ महात्मानमुशीनरम्। इन्द्रःश्येनः कपोतोऽग्निर्भूत्वा यज्ञेऽभिजग्मतुः॥ ऊरू राज्ञः समासाद्य कपोतः श्येनजाद् भयात्। शरणार्थी तदा राजन् निलिल्ये भयपीडितः॥ लोमश उवाच रौद्दालकिः श्वेतकेतुः पृथिव्याम्। तस्याश्रमं पश्य नरेन्द्र पुण्यं सदाफलैरुपपन्नं महीजैः॥ साक्षादत्र श्वेतकेतुर्ददर्श सरस्वतीं मानुषदेहरूपाम्। वेत्स्यामि वाणीमिति सम्प्रवृत्तां सरस्वतीं श्वेतकेतुर्बभाषे।॥ वास्तां मुनी मातुलभागिनेयौ। रौद्दालकिः श्वेतकेतुः पृथिव्याम्॥ विदेहराजस्य महीपतेस्तौ विप्रावुभौ मातुलभागिनेयौ। प्रविश्य यज्ञायतनं विवादे बन्दिं निजग्राहतुरप्रमेयौ॥ उपास्व कौन्तेय सहानुजस्त्वं तस्याश्रमं पुण्यतमं प्रविश्य। योऽसौ बन्दिं जनकस्याथ यज्ञे॥ वादी विप्रायो बाल एवाभिगम्य वादे भक्त्वा मज्जयामास नद्याम्॥ युधिष्ठिर उवाच स्तथाभूतं यो निजग्राह बन्दिम्। अष्टावक्र: केन चासौ बभूव तत् सर्वं मे लोमश शंस तत्त्वम्॥ लोमश उवाच उद्दालकस्य नियतः शिष्य एको नाम्ना कहोड इति विश्रुतोऽभूत्। शुश्रूषुराचार्यवशानुवर्ती दीर्घ कालं सोऽध्ययनं चकार॥ स्तां च ज्ञात्वा परिचर्यां गुरुः सः। तस्मै प्रादात् सद्य एव श्रुतं च भार्यां च वै दुहितरं स्वां सुजाताम्॥ तस्या गर्भः समभवदग्निकल्प: सोऽधीयानं पितरं चाप्युवाच। सर्वां रात्रिमध्ययनं करोषि नेदं पितः सम्यगिवोपवर्तते॥ उपालब्धः शिष्यमध्ये महर्षिः स तं कोपादुदरस्थं शशाप। यस्मात् कुक्षौ वर्तमानो ब्रवीषि तस्माद् वक्रो भवितास्यष्टकृत्वः॥ दष्टावक्रः प्रथितो वै महर्षिः। अस्यासीद् वै मातुलः श्वेतकेतुः स तेन तुल्यो वयसा बभूव॥ सम्पीड्यमाना तु तदा सुजाता सा वर्धमानेन सुतेन कुक्षौ। उवाच भर्तारमिदं रहोगता प्रसाद्य हीनं वसुनाधनार्थिनी॥ कथं करिष्याम्यधुना महर्षे मासश्चायं दशमो वर्तते मे। नैवास्ति ते वसु किंचित् प्रजाता येनाहमेतामापदं निस्तरेयम्॥ उक्तस्त्वेवं भार्यया वै कहोडो वित्तस्यार्थे जनकमथाभ्यगच्छत्। वै तदा वादविदा निगृह्य निमज्जितो बन्दिनेहाप्सु विप्रः॥ उद्दालकस्तं तु तदा निशम्य सूतेन वादेऽप्सु निमज्जितं तथा। उवाच तां तत्र ततः सुजातामष्टावक्रे गृहितव्योऽयमर्थः॥ ररक्ष सा चापि तमस्य मन्त्रं जातोऽप्यसौ नैव शुश्राव विप्रः। उद्दालकं पितृवच्चापि मेने तथाष्टावक्रो भ्रातृवच्छ्वेतकेतुम्॥ रष्टावक्रं पितुरङ्के निषण्णम्। अपाकर्षद् गृह्य पाणौ रुदन्तं नायं तवारू: पितुरित्युक्तवांश्च॥ यत् तेनोक्तं दुरुक्तं तत् तदानीं हृदि स्थितं तस्य सुदुःखिमासीत्। गृहं गत्वा मातरं सोऽभिगम्य पप्रच्छेदं क्व नु तातो ममेति॥ ततः सुजाता परमार्तरूपा शापाद् भीता सर्वमेवाचचक्षे। वित्यब्रवीच्छ्वेतकेतुं स विप्रः॥ गच्छाव यज्ञं जनकस्य राज्ञो बह्वाश्चर्यः श्रूयते तस्य यज्ञः। मर्थं चायं तत्र भोक्ष्यावहे च॥ विचक्षणत्वं च भविष्यते नौ शिवश्च सौम्यश्च हि ब्रह्मघोषः॥ तौ जग्मतुर्मातुलभागिनेयौ यज्ञं समृद्ध जनकस्य राज्ञः। अष्टावक्रं पथि राज्ञा समेत्य प्रोत्सार्यमाणो वाक्यमिदं जगाद॥ अष्टावक्र उवाच अन्धस्य पन्था बधिरस्य पन्थाः स्त्रियः पन्था भारवाहस्य पन्थाः। राज्ञः पन्था ब्राह्मणेनासमेत्य समेत्य तु ब्राह्मणस्यैव पन्थाः॥ राजोवाच पग्था अयं तेऽद्य मयातिदिष्टो येनेच्छसि तेन कामं व्रजस्व। निन्द्रोऽपि नित्यं नमते ब्राह्मणानाम्॥ अष्टावक्र उवाच प्राप्तौ स्व यज्ञं नृप संदिद्दसू कौतूहलं नौ बलवन्नरेन्द्र। प्राप्ताविहावामतिथी प्रवेशं काक्षावहे द्वारपतेस्तवाज्ञाम्॥ ऐन्द्रद्युम्ने यज्ञदृशाविहावां विवक्षू वै जनकेन्द्रं दिदृक्षा वयं च नौ द्वारपालो रुणद्धि॥ द्वारपाल उवाच बन्देः समादेशकरा वयं स्म निबोध वाक्यं च मयेर्यमाणम्। न वै बालाः प्रविशन्त्यत्र विप्रा वृद्धा विदग्धाः प्रविशन्त्यत्र विप्राः॥ अष्टावक्र उवाच यद्यत्र वृद्धेषु कृतः प्रवेशो युक्तं प्रवेष्टुं मम द्वारपाल। वयं हि वृद्धाश्चरितव्रताश्च वेदप्रभावेण समन्विताश्च॥ शुश्रूषवश्चापि जिन्द्रियाश्च ज्ञानागमे चापि गताः स्म निष्ठाम्। र्बालोऽप्यग्निहति स्पृश्यमानः॥ द्वारपाल उवाच मेकाक्षरां बहुरूपां विराजम्। अङ्गात्मानं समवेक्षस्व बालं किं श्लाघसे दुर्लभो वै मनीषी॥ अष्टावक्र उवाच र्यथाष्ठीला शाल्मलेः सम्प्रवृद्धा। ह्रस्वोऽल्पकायः फलितो विवृद्धो यश्चाफलस्तस्य न वृद्धभावः॥ द्वारपाल उवाच वृद्धेभ्य एवेह मतिं स्म बाला गृहणन्ति कालेन भवन्ति वृद्धाः। न हि ज्ञानमल्पकालेन शक्यं कस्माद् बालः स्थविर इव प्रभाषसे॥ अष्टावक्र उवाच । न तेन स्थविरे भवति येनास्य पलितं शिरः। बालोऽपि यः प्रजानाति तं देवा: स्थविरं विदुः॥ न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः। ऋषयश्चक्रिरेधर्मं योऽनूचान: स नो महान्॥ दिदृक्षुरस्मि सम्प्राप्तो वन्दिनं राजसंसदि। निवेदयस्व मां द्वा:स्थ राज्ञे पुष्करमालिने।॥ द्रष्टास्यद्य वदतोऽस्मान् द्वारपाल मनीषिभिः। सह वादे विवृद्धे तु बन्दिनं चापि निर्जितम्॥ पश्यन्तु विप्राः परिपूर्णविद्याः सहैव राज्ञा सपुरोधमुख्याः। उताहो वाप्युच्चतां नीचता वा तूष्णीभूतेष्वेव सर्वेष्वथाद्य॥ द्वारपाल उवाच कथं यज्ञं दशवर्षो विशेस्त्वं विनीतानां विदुषां सम्प्रवेशम्। उपायतः प्रयतिष्ये तवाहं प्रवेशने कुरु यत्नं यथावत्॥ अष्टावक्र उवाच भो भो राजञ्जनकानां वरिष्ठ त्वं वै सम्राट् त्वयि सर्वं समृद्धम्। त्वं वा कर्ता कर्मणां यज्ञियानां ययातिरेको नृपतिर्वा पुरस्तात्॥ वृद्धान् बन्दी वादविदो निगृह्य वादे भग्नानप्रतिशङ्कमानः। जले सर्वान् मज्जयतीति नः श्रुतम्॥ सोऽहं श्रुत्वा ब्राह्मणानां सकाशाद् ब्रह्माद्वैत कथयितुमागतोऽस्मि। क्वासौ बन्दी यावदेनं समेत्य नक्षत्राणीव सविता नाशयामि॥ राजोवाच मविज्ञाय त्वं वाक्यबलं परस्य। विज्ञातवीर्यैः शक्यमेवं प्रवक्तुं दृष्टचासौ ब्राह्मणैर्वेदशीलैः॥ मविज्ञाय तु बलं बन्दिनोऽस्य। समागता ब्राह्मणास्तेन पूर्वं न शोभन्ते भास्करेणेव ताराः॥ स्तस्यान्तिकं प्राप्य विलुप्तशोभाः। विज्ञानमत्ता नि:सृताश्चैव तात कथं सदस्यैर्वचनं विस्तरेयुः॥ अष्टावक्र उवाच विवादितोऽसौ न हि मादृशैर्हि सिंहीकृतस्तेन वदत्यभीतः। समेत्य मां निहतः शेष्यतेऽद्य मार्गे भग्नं शकटमिवाचलाक्षम्॥ राजोवाच त्रिंशकद्वादशांशस्य चतुर्विंशतिपर्वणः। यस्त्रिषष्टिशतारस्य वेदार्थं स परः कविः॥ अष्टावक्र उवाच चतुर्विंशतिपर्व त्वां षण्नाभि द्वादशप्रधि। तत् त्रिषष्टिशतारं वै चक्रं पातु सदागति॥ राजोवाच वडवे इव संयुक्ते श्येनपाते दिवौकसाम्। कस्तयोर्गर्भमाधत्ते गर्भं सुषुवतुश्च कम्॥ अष्टावक्र उवाच मा स्म ते ते गृहे राजञ्छात्रवाणामपिध्रुवम्। वातसारथिरागन्ता गर्भं सुषुवतुश्च तम्॥ राजोवाच किंस्वित् सुप्तं न निमिषति किंस्विज्जातं न चोपति। कस्य स्विद्धृदयं नास्ति किं स्विद् वेगेन वर्धते॥ अष्टावक्र उवाच मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति। अश्मनो हृदयं नास्ति नदी वेगेन वर्धते॥ राजोवाच न त्वां मन्ये मानुषं देवसत्त्वं न त्वं बाल: स्थविरः सम्मतो मे। न ते तुल्यो विद्यते वाक्प्रलापे तस्माद् द्वारं वितराम्येष बन्दी॥ अष्टावक्र उवाच अत्रोग्रसेन समितेषु राजन् समागतेष्वप्रतिमेषु राजसु। नावैमि बन्दिं वरमत्र वादिनां महाजले हंसमिवाददामि॥ न मेऽद्य वक्ष्यस्यतिवादिमानिन् ग्लहं प्रपन्नः सरितामिवागमः। हुताशनस्येव समिद्धतेजसः स्थिरो भवस्वेह ममाद्य बन्दिन्॥ बन्धुवाच व्याघ्र शयानं प्रति मा प्रबोधय आशीविषं सृक्किणी लेलिहानम्। पदाहतस्येह शिरोऽभिहत्य नादष्टो वै मोक्ष्यसे तन्निबोध॥ यो वै दर्पात् संहननोपपन्नः। सुदुर्बलः पर्वतमाविहन्ति। तस्यैव पाणिः सनखो विदीर्यते न चैव शैलस्य हि दृश्यते व्रणः॥ अष्टावक्र उवाच सर्वे राज्ञो मैथिलस्य मैनाकस्येव पर्वताः। निकृष्टभूता राजानो वत्सा अनडुहो यथा॥ यथा महेन्द्रः प्रवरः सुराणां नदीषु गङ्गा प्रवरा यथैव। तथा नृपाणां प्रवरस्त्वमेको बन्दिं समभ्यानय मत्सकाशम्॥ लोमश उवाच जातक्रोधो बन्दिनमाह राजन्। उक्ते वाक्ये चोत्तरं मे ब्रवीहि वाक्यस्य चाप्युत्तरं ते ब्रवीमि॥ बन्धुवाच एक एवग्निर्बहुधा समिध्यते एकः सूर्यः सर्वमिदं विभाति। एको वीरो दोवराजऽरिन्ता यमः पितृणामीश्वरश्चैक एव॥ अष्टावक्र उवाच द्वाविन्द्राग्नी चरतो वै सखायौ द्वौ देवर्षी नारदपर्वतौ च। द्वावश्विनौ द्वे रथस्यापि चक्रे भार्यापती द्वौ विहितौ विधात्रा॥ बन्धुवाच त्रिः सूयते कर्मणा वै प्रजेयं त्रयो युक्ता वाजपेयं वहन्ति। अध्वर्यवस्त्रिसवनानि तन्वते त्रयो लोकास्त्रीणि ज्योतींषि चाहुः॥ अष्टावक्र उवाच चतुष्टयं ब्राह्मणानां निकेतं चत्वारो वर्णा यज्ञमिमं वहन्ति। दिशश्चतस्रो वर्णचतुष्टयं च चतुष्पदा गौरपि शश्वदुक्ता॥ बन्धुवाच र्यज्ञाः पञ्चैवाप्यथ पञ्चेन्द्रियाणि। दृष्टा वेदे पञ्चचूडाप्सराश्च लोके ख्यातं पञ्चनदं च पुण्यम्॥ अष्टावक्र उवाच षडाधाने दक्षिणामाहुरेके षट् चैवेमे ऋतवः कालचक्रम्। षडिन्द्रियाण्युत षट् कृत्तिकाश्च षट् साद्यस्काः सर्ववेदेषु दृष्टाः॥ बन्धुवाच सप्त ग्राम्याः पशवः सप्त वन्याः सप्तच्छन्दांसि क्रतुमेकं वहन्ति। सप्तर्षयः सप्त चाप्यर्हणानि सप्ततन्त्री प्रथिता चैव वीणा॥ अष्टावक्र उवाच अष्टौ शाणाः शतमानं वहन्ति तथाष्टपादः शरभः सिंहघाती। अष्टौ वसूशुश्रुम देवतासु यूपश्चाष्टास्त्रिर्विहितः सर्वयज्ञे।॥ बन्धुवाच नवैवोक्ताः सामिधेन्यः पितृणां तथा प्राहुर्नवयोगं विसर्गम्। नवाक्षरा बृहती सम्प्रदिष्टा नवयोगो गणनामेति शश्वत्॥ अष्टावक्र उवाच दिशो दशोक्ताः पुरुषस्य लोके सहस्रमाहुर्दशपूर्णं शतानि। दशैव मासान् बिभ्रति गर्भवत्यो दशैरका दश दाशा दशार्हाः॥ बन्धुवाच मेकादशैवात्र भवन्ति यूपाः। एकादश प्राणभृतां विकारा एकादशोक्ता दिवि देवेषु रुद्राः॥ अष्टावक्र उवाच जगत्याः पादो द्वादशैवाक्षराणि। द्वादशाहः प्राकृतो यज्ञ उक्तो द्वादशादित्यान् कथयन्तीहधीराः॥ बन्धुवाच त्रयोदशी तिथिरुक्ता प्रशस्ता त्रयोदशद्वीपवती मही च। लोमश उवाच एतावदुक्त्वा विरराम बन्दी। श्लोकस्यार्धं व्याजहाराष्टवक्रः। अष्टावक्र उवाच त्रयोदशाहानि ससार केशी त्रयोदशादीन्यतिच्छन्दांसि चाहुः॥ स्तूष्णीभूतं सूतपुत्रं निशम्या मष्टावक्रं चाप्युदीर्यन्तमेव॥ तस्मिंस्तथा संकुले वर्तमाने स्फीते यज्ञे जनकस्योत राज्ञः। विप्राः सर्वे प्राञ्जलयः प्रतीताः॥ अष्टावक्र उवाच अनेनैव ब्राह्मणाः शुश्रुवांसो वादे जित्वा सलिले मज्जिताः प्राक्। तानेवधर्मानयमद्य बन्दी प्राप्नोतु गृह्याप्सु निमज्जयैनम्॥ बन्धुवाच स्तत्रास सत्रं द्वादशवार्षिकं वै। सत्रेण ते जनक तुल्यकालं तदर्थं ते प्रहिता मे द्विजाच्याः॥ ते तु सर्वे वरुणस्योत यज्ञं द्रष्टुं गता इह आयान्ति भूयः। अष्टावक्रं पूजये पूजनीयं यस्य हेतोर्जनितारं समेष्ये॥ अष्टावक्र उवाच विप्राः समुद्राम्भसि मज्जिता ये वाचा जिता मेधया वा विदानाः। तां मेधया वाचमथोज्जहार यथा वाचमवचिन्वन्ति सन्तः॥ अग्निर्दहञ्जातवेदाः सतां गृहान् विसर्जयस्तेजसा न स्मधाक्षीत्। बालेषु पुत्रेषु कृपणं वदत्सु तथा वाचमवचिन्वन्ति सन्तः॥ श्लेष्मातकी क्षीणवर्चाः शृणोषि उताहो त्वां स्तुतयो मादयन्ति। हस्तीव त्वं जनक विनुद्यमानो न मामिकां वाचमिमां शृणोषि।॥ जनक उवाच ममानुषी दिव्यरूपोऽसि साक्षात्। अजैषीर्यद् बन्दिनं त्वं विवादे निसृष्ट एष तव कामोऽद्य बन्दी॥ अष्टावक्र उवाच नानेन जीवता कश्चिदर्थो मे बन्दिना नृप। पिता यद्यस्व वरुणो मज्जयैनं जलाशये॥ बन्धुवाच अहं पुत्रो वरुणस्योत राज्ञो न मे भयं विद्यते मज्जितस्य। मष्टावक्रश्चिरनष्टं कहोडम्॥ लोमश उवाच ततस्ते पूजिता विप्रा वरुणेन महात्मना। उदतिष्ठंस्ततः सर्वे जनकस्य समीपतः॥ कहोड उवाच इत्यर्थमिच्छन्ति सुताञ्जना जनक कर्मणा। यदहं नाशकं कर्तुं तत् पुत्रः कृतवान् मम॥ उताबलस्य बलवानुत बालस्य पण्डितः। उत वाविदुषो विद्धान् पुत्रो जनक जायते॥ शितेन ते परशुना स्वयमेवान्तको नृप। शिरांस्यपाहरत्वाजौ रिपूणां भद्रमस्तु ते॥ महदौक्थ्यं गीयते साम चावयं सम्यक् सोमः पीयते चात्र सत्रे। शुचीन् भगान् प्रतिजगृहुश्च हृष्टाः साक्षाद् देवा जनकस्योत राज्ञः॥ लोमश उवाच समुत्थितेष्वथ सर्वेषु राजन् विप्रेषु तेष्वधिकं सुप्रभेषु। अनुज्ञातो जनकेनाथ राज्ञा विवेश तोयं सागरस्योत बन्दी॥ अष्टावक्र: पितरं पूजयित्वा सम्पूजितो ब्राह्मणैस्तैर्यथावत्। प्रत्याजगामाश्रममेव चावयं जित्वा सौतिं सहितो मातुलेन॥ ततोऽष्टावक्रमातुरथान्तिके पिता नदीं समङ्गां शीघ्रमिमां विशस्व। प्रोवाच चैनं स तथा विवेश समैरङ्गैश्चापि बभूव सद्यः॥ नदी समङ्गा च बभूव पुण्या यस्यां स्नातो मुच्यते किल्बिषाद्धिा त्वमप्येनां स्नानपानावगाहैः सभ्रातृकः सहभार्यो विशस्व॥ अत्र कौन्तेय सहितो भ्रातृभिस्त्वं सुखोषितः सह विप्रैः प्रतीतः। र्मया साधू चरितस्याजमीढ॥ लोमश उवाच एषा मधुविला राजन् समङ्गा सम्प्रकाशते। एतत् कर्दमिलं नाम भरतस्याभिषेचनम्॥ अलक्ष्म्या किल संयुक्तो वृत्रं हत्वा शचीपतिः। आप्लुतः सर्वपापेभ्यः समझायां व्यमुच्यत॥ एतद् विनशनं कुक्षौ मैनाकस्य नरर्षभ। अदितिर्यत्र पुत्रार्थं तदन्नमपचत् पुरा॥ एनं पर्वतराजानमारुह्य भरतर्षभाः। अयशस्यामसंशब्द्यामलक्ष्मी व्यपनोत्स्यथ॥ एते कनखला राजन्तृषीणां दयिता नगाः। एषा प्रकाशते गङ्गा युधिष्ठिर महानदी।॥ सनत्कुमारो भगवानत्र सिद्धिमगात् पुरा। आजमीढावगायैनां सर्वपापैः प्रमोक्ष्यसे॥ अपां ह्रदं च पुण्याख्यं भृगुतुङ्गं च पर्वतम्। उष्णीगङ्गे च कौन्तेय सामात्यः समुपस्पृश॥ आश्रमः स्थूलशिरसो रमणीयः प्रकाशते। अत्र मानं च कौन्तेय क्रोधं चैव विवर्जय॥ एष रैभ्याश्रमः श्रीमान् पाण्डवेय प्रकाशते। भारद्वाजो यत्र कविर्यवक्रीतो व्यनश्यत॥ युधिष्ठिर उवाच कथं युक्तोऽभवदृषिर्भरद्वाजः प्रतापवान्। किमर्थं च यवक्रीतः पुत्रोऽनश्यत वै मुनेः॥ एतत् सर्वं यथावृत्तं श्रोतुमिच्छामि तत्त्वतः। कर्मभिर्देवकल्पानां कीर्त्यमानै शं रमे॥ लोमश उवाच भरद्वाजश्च रैभ्यश्च सखायौ सम्बभूवतुः। तावूषतुरिहात्यन्तं प्रीयमाणावनन्तरम्॥ रैभ्यस्य तु सुतावास्तामर्वावसुपरावसू। आसीद् यवक्रीः पुत्रस्तु भरद्वाजस्य भारत॥ रैभ्यो विद्वान् सहापत्यस्तपस्वी चेतरोऽभवत्। तयोश्चाप्यतुला कीर्तिर्बाल्यात् प्रभृति भारत॥ यवक्री: पितरं दृष्ट्वा तपस्विनमसत्कृतम्। दृष्ट्वा च सत्कृतं विप्रै रैभ्यं पुत्रैः सहानघ॥ पर्यतप्यत तेजस्वी मन्युनाभिपरिप्लुतः। तपस्तेपे ततो घोरं वेदज्ञानाय पाण्डव॥ स समिद्धे महत्यग्नौ शरीरमुपतापयन्। जनयामास संतापमिन्द्रस्य सुमहातपाः॥ तत इन्द्रो यवक्रीतमुपगम्य युधिष्ठिर। अब्रवीत् कस्य हेतोस्त्वमास्थितस्तप उत्तमम्॥ यवक्रीत उवाच द्विजानामनधीत वै वेदाः सुरगणार्चित। प्रतिभान्त्विति तप्येऽहमिदं परमकं तपः॥ स्वाध्यायार्थ समारम्भो ममायं पाकशासन। तपसा ज्ञातुमिच्छामि सर्वज्ञानानि कौशिक॥ कालेन महता वेदाः : शक्या गुरुमुखाद् विभो। प्राप्तुं तस्मादयं यत्नः परमो मे समास्थितः॥ इन्द्र उवाच अमार्ग एष विप्रर्षे येन त्वं यातुमिच्छसि। किं विघातेन ते विप्र गच्छाधीहि गुरोर्मुखात्॥ लोमश उवाच एवमुक्त्वा गतः शक्रो यवक्रीरपि भारत। भूय एवाकरोद् यत्नं तपस्यमितविक्रमः॥ घोरेण तपसा राजस्तप्यमानो महत् तपः। संतापयामास भृशं देवेन्द्रमिति नः श्रुतम्॥ तं तथा तप्यमानं तु तपस्तीव्र महामुनिम्। उपेत्य बलभिद् देवो वारयामास वै पुनः॥ अशक्योऽर्थः समारब्धो नैतद् बुद्धिकृतं तव। प्रतिभास्यन्ति वै वेदास्तव चैव पितुश्च ते॥ यवक्रीत उवाच न चैतदेवं क्रियते देवराज ममेप्सितम्। महता नियमेनाहं तप्स्ये घोरतरं तपः॥ समिद्धेऽग्नावुपकृत्याङ्गमङ्गं होष्यामि वा मघवंस्तन्निबोध। यद्येतदेवं न करोषि कामं ममेप्सितं देवराजेह सर्वम्॥ लोमश उवाच निश्चयं तमभिज्ञाय मुनेस्तस्य महात्मनः। प्रतिवारणहेत्वर्थं बुद्ध्या संचिन्त्य बुद्धिमान्॥ तत इन्द्रोऽकरोद् रूपं ब्राह्मणस्य तपस्विनः। अनेकशतवर्षस्य दुबर्लस्य सयक्ष्मणः॥ यवक्रीतस्य यत् तीर्थमुचितं शौचकर्मणि। भागीरथ्यां तत्र सेतुं बालुकाभिश्चकार स:॥ यदास्य वदतो वाक्यं न स चक्रे द्विजोत्तमः। बालुकाभिस्ततः शक्रो गङ्गां समभिपूरयन्॥ वालुकामुष्टिमनिशं भागीरथ्यां व्यसर्जयत्। सेतुमभ्यारभच्छको यवक्रीतं निदर्शयन्॥ तं ददर्श यवक्रीतो यत्नवन्तं निबन्धने। प्रहसंश्चाब्रवीद् वाक्यमिदं स मुनिपुङ्गवः॥ किमिदं वर्तते ब्रह्मन् किं च ते ह चिकीर्षितम्। अतीव हि महान् यत्नः क्रियतेऽयं निरर्थकः॥ इन्द्र उवाच बन्धिष्ये सेतुना गङ्गां सुखः पन्था भविष्यति। क्लिश्यते हि जनस्तात तरमाणः पुनः पुनः॥ यवक्रीत उवाच नायं शक्यस्त्वया बड़े महानोघस्तपोधन। अशक्याद् विनिवर्तस्व शक्यमर्थं समारभ॥ इन्द्र उवाच यथैव भवता चेदं तपो वेदाथमुद्यतम्। अशक्यं तद्वदस्माभिरयं भारः समाहितः॥ यवक्रीत उवाच यथा तव निरर्थोऽयमारम्भस्त्रिदशेश्वर। तथा यदि ममापीदं मन्यसे पाकशासन॥ क्रियतां यद् भवेच्छक्यं त्वया सुरगणेश्वर। वरांश्च मे प्रयच्छान्यान् यैरन्यान् भवितास्म्यति॥ लोमश उवाच तस्मै प्रादाद् वरानिन्द्र उक्तवान् यान् महातपाः। प्रतिभास्यन्ति ते वेदाः पित्रा सह यथेप्सिताः॥ यच्चान्यत् काक्षसे कामं यवक्रीर्गम्यतामिति। स लब्धकामः पितरं समेत्याथेदमब्रवीत्॥ यवक्रीत उवाच प्रतिभास्यन्ति वै वेदा मम तातस्य चोभयोः। अति चान्यान् भविष्यावो वरा लब्धास्तदा मया॥ भरद्वाज उवाच दपस्ते भविता तात वसल्लब्ध्वा यथेप्सितान्। स दर्पपूर्णः कृपणः क्षिप्रमेव विनक्ष्यसि॥ अत्राप्युदाहरन्तीमा गाथा देवैरुदाहृताः। मुनिरासीत् पुरा पुत्र बालधिर्नाम वीर्यवान्॥ स पुत्रशोकादुद्विग्नस्तपस्तेपे सुदुष्करम्। भवेन्मम सुतोऽमर्त्य इति तं लब्धवांश्च सः॥ तस्य प्रसादो वै देवैः कृतो न त्वमरैः समः। नामयो विद्यते मर्यो निमित्तायुर्भविष्यति॥ बालधिरुवाच यथेमे पर्वताः शश्वत् तिष्ठन्ति सुरसत्तमाः। अक्षयास्तन्निमित्तं मे सुतस्यायुभविष्यति॥ भरद्वाज उवाच तस्य पुत्रस्तदा जज्ञे मेधावी क्रोधनस्तदा। स तच्छ्रुत्वाकरोद् दर्पमृषींश्चैवावमन्यत॥ विकुर्वाणो मुनीनां च व्यचरत् स महीमिमाम्। आससाद महावीर्यं धनुषाक्षं मनीषिणम्॥ तस्यापचने मेधावी तं शशाप स वीर्यवान्। भव भस्मेति चोक्तः स न भस्म समपद्यत॥ धनुषाक्षस्तु तं दृष्ट्वा मेधाविनमनामयम्। निमित्तमस्य महिषैर्भेदयामास वीर्यवान्॥ स निमित्त विनष्टे तु ममार सहसा शिशुः। तं मृतं पुत्रमादाय विललाप ततः पिता।॥ लालप्यमानं तं दृष्ट्वा मुनयः परमार्तवत्। ऊचुर्वेदविदः सर्वे गाथां यां तां निबोध मे॥ न दिष्टमर्थमत्येतुमीशो मर्त्यः कथंचन। महिषैर्भेदयामासधनुषाक्षो महीधरान्॥ एवं लब्ध्वा वरान् बाला दर्पपूर्णास्तपस्विनः। क्षिप्रमेव विनश्यन्ति यथा न स्यात् तथा भवान्॥ एष रेभ्यो महावीर्यः पुत्रौ चास्य तथाविधौ। तं यथा पुत्र नाभ्येषि तथा कुर्यास्त्वतन्द्रितः॥ स हि क्रुद्धः समर्थस्त्वां पुत्र पीडयितुं रुषा। रैभ्यश्चापि तपस्वी च कोपनश्च महानृषिः॥ यवक्रीत उवाच एवं करिष्ये मा तापं तात कार्षीः कथंचन। यथा हि मे भवान् मान्यस्तथा रैथ्यः पिता मम॥५९। लोमश उवाच उक्त्वा स पितरं श्लक्ष्णं यवक्रीरकुतोभयः। विप्रकुर्वनृषीनन्यानतुष्यत् परया मुदा॥ लोमश उवाच चक्रम्यमाणः स तदा यवक्रीरकुतोभयः। जगाम माधवे मासि रैभ्याश्रमपदं प्रति॥शा स ददर्शाश्रमे रम्ये पुष्पितदुमभूषिते। विचरन्तीं स्नुषां तस्य किन्नरीमिव भारत॥ यवक्रीस्तामुवाचेदमुपातिष्ठस्व मामिति। निर्लज्जो लज्जया युक्तां कामेन हतचेतनः॥ सा तस्य शीलमाज्ञाय तस्माच्छापाच्च बिभ्यती। तेजस्वितां च रैभ्यस्य तथेत्युक्त्वाऽऽजगाम ह॥ तत एकान्तमुन्नीय मज्जयामास भारत। आजगाम तदा रैभ्यः स्वमाश्रममरिदमा।५।। रुदतीं च स्नुषां दृष्ट्वा भार्यामाः परावसोः। सान्त्वयश्लक्ष्णया वाचा पर्यपृच्छद् युधिष्ठिर॥ सा तस्मै सर्वमाचष्ट यवक्रीतभाषितं शुभा। प्रत्युक्तं च यवक्रीतं प्रेक्षापूर्वं तथाऽऽत्मना॥ शृण्वानस्यैव रैभ्यस्य यवक्रीत विचेष्टितम्। दहन्निव तदा चेतः क्रोधः समभवन्महान्॥ स तदामन्युनाऽऽविष्टस्तपस्वी कोपनो भृशम्। अवलुच्य जटामेकां जुहावाग्नौ सुसंस्कृते॥ ततः समभवन्नारी तस्या रूपेण सम्मिता। अवलुच्यापरां चापि जुहावाग्नौ जटां पुनः॥ ततः समभवद् रक्षो घोराक्षं भीमदर्शनम्। अब्रूतां तौ तदा रैभ्यं किं कार्यं करवावहै॥ तावब्रवीदृषिः क्रुद्धो यवक्रीर्वध्यतामिति। जग्मतुस्तौ तथेत्युक्त्वा यवक्रीतजिघांसया॥ ततस्तं समुपास्थाय कृत्या सृष्टा महात्मना। कमण्डलुं जहारास्य मोहयित्वेव भारत॥ उच्छिष्टं तु यवक्रीतमपकृष्टकमण्डलुम्। तत उद्यतशूलः स राक्षसः समुपाद्रवत्॥ तमापतन्तं सम्प्रेक्ष्य शूलहस्तं जिघांसया। यवक्री: सहसोत्थाय प्राद्रवद् येन वै सरः॥ जलहीनं सरो दृष्ट्वा यवक्रीस्त्वरितः पुनः। जगाम सरितः सर्वास्ताश्चाप्यासन् विशोषिताः॥ स काल्यमानो घोरेण शूलहस्तेन रक्षसा। अग्निहोत्रं पितुर्भीत: सहसा प्रविवेश ह॥ स वै प्रविशमानस्तु शूद्रेणान्धेन रक्षिणा। निगृहीतो बलाद् द्वारि सोऽवातिष्ठत पार्थिव॥ निगृहीतं तु शूद्रेण यवक्रीतं स राक्षसः। ताडयामास शूलेन स भिन्नहृदयोऽपतत्॥ यवक्रीतं स हत्वा तु राक्षसो रैम्यमागमत्। अनुज्ञातंस्तु रैभ्येण तया नार्या सहावसत्॥ लोमश उवाच भरद्वाजस्तु कौन्तेय कृत्वा स्वाध्यायमाछिकम्। समित्कलापमादाय प्रविवेश स्वमाश्रयम्॥ तं स्म दृष्टवा सर्वे प्रत्युत्तिष्ठन्ति पावकाः। न त्वेनमुपतिष्ठन्ति हतपुत्रं तदाग्नथः॥ वैकृतं त्वग्निहोत्रे स लक्षयित्वा महातपाः। तमन्धं शूद्रमासीनं गृहपालमथाब्रवीत्॥ किं नु मे नाग्नयः शूद्र प्रतिनन्दन्ति दर्शनम्। त्वं चापि न यथापूर्वं कच्चित् क्षेममिहाश्रमे॥ कम्चिन्न रैभ्यं पुत्रो मे गतवानल्पचेतनः। एतदाचक्ष्व मे शीघ्रं न हि शुद्ध्यति मे मनः॥ शूद्र उवाच रैभ्यं यातो नूनमयं पुत्रस्ते मन्दचेतनः। तथा हि निहतः शेते राक्षसेन बलीयसा॥ प्रकाल्यमानस्तेनायं शृलहप्तेन रक्षसा। अग्न्यागारं प्रति द्वारि मया दोऱ्यां निवारितः॥ ततः स विहताशोऽत्र जलकामोऽशुचिर्भुवम्। निहतः सोऽतिवेगेन शूलहस्तेन रक्षसा॥ भरद्वाजस्तु तच्छ्रुत्वा शूद्रस्य विप्रियं महत्। गतासुं पुत्रमादाय विललाप सुदुःखितः॥ भरद्वाज उवाच ब्राह्मणानां किलार्थाय ननु त्वं तप्तवांस्तपः। द्विजानामनधीता वै वेदाः सम्प्रतिभान्त्विति॥ तथा कल्याणशीलस्त्वं ब्राह्मणेषु महात्मसु। अनागाः सर्वभूतेषु कर्कशत्वमुपेयिवान्॥ प्रतिषिद्धो मया तात रैभ्यावसथदर्शनात्। गतवानेव तं द्रष्टुं कालान्तकयमोपमम्॥ यः स जानन महातेजा वृद्धस्यैकं ममात्मजम्। गतवानेव कोपस्य वशं परमदुर्मतिः॥ पुत्रशोकमनुप्राप्त एष रैभ्यस्य कर्मणा। त्यक्ष्यामि त्वामृते पुत्र प्राणानिष्टतमान् भुवि॥ यथाहं पुत्रशोकेन देहं त्यक्ष्यामि किल्विषी। तथा ज्येष्ठः सुतो रैभ्यं हिंस्याच्छीघ्रमनागसम्॥ सुखिनो वै नरा येषां जात्या पुत्रो न विद्यते। ते पुत्रशोकमप्राप्य विचरन्ति यथासुखम्॥ ये तु पुत्रकृताच्छोकाद् भृशं व्याकुलचेतसः। शपन्तीष्टान् सखीनार्तास्तेभ्यः पापतरो नु कः॥ परासुश्च सुतो दृष्टः शप्तश्चेष्टः सखा मया। ईदृशीमापदं कोऽत्र द्वितीयोऽनुभविष्यति॥ लोमश उवाच विलप्यैवं बहुविधं भरद्वाजोऽदहत् सुतम्। सुसमिद्धं ततः पश्चात् प्रविवेश हुताशनम्॥ लोमश उवाच एतस्मिन्नेव काले तु बृहद्युम्नो महीपतिः। सत्रं तेने महाभागो रैभ्ययाज्य: प्रतापवान्॥ तेन रैभ्यस्य वै पुत्रावर्वावसुपरावसू। वृतौ संहायौ सत्रार्थं बृहद्द्युम्नेनधीमता॥ तत्र तौ समनुज्ञातौ पित्रा कौन्तेय जग्मतुः। आश्रमे त्वभवद् रैभ्यो भार्या चैव परावसोः॥ अथावलोककोऽगच्छद् गृहानेकः परावसुः। कृष्णाजिनेन संवीतं ददर्श पितरं वने।॥ जघन्यरात्रे निद्रान्धः सावशेषे तमस्यपि। चरन्तं गहनेऽरण्ये मेने स पितरं मृगम्॥ मृगं तु मन्यमानेन पिता वै तेन हिंसितः। अकामयानेन तदा शरीरत्राणमिच्छता॥ करोतु वै भवान् सत्रं तस्य स प्रेतकार्याणि कृत्वा सर्वाणि भारत। पुनरागम्य तत् सत्रमब्रवीद् भ्रातरं वचः॥ इदं कर्म न शक्तस्त्वं वोढुमेकः कथंचन। मया तु हिंसितस्तातो मन्यमानेन तं मृगम्॥ सोऽस्मदर्थे व्रतं तात चर त्वं ब्रह्महिंसनम्। समर्थोऽप्यहमेकाकी कर्म कर्तुमिदं मुने॥ अर्वावसुरुवाच बृहद्युम्नस्यधीमतः। ब्रह्मवध्यां चरिष्येऽहं त्वदर्थं नियतेन्द्रियः॥ लोमश उवाच स तस्य ब्रह्मवध्यायाः पारं गत्वा युधिष्ठिर। अर्वावसुस्तदा सत्रमाजगाम पुनर्मुनिः॥ ततः परावसुर्दृष्ट्वा भ्रातरं समुपस्थितम्। बृहद्युम्नमुवाचेदं वचनं हषगद्गदम्॥ एष ते ब्रह्महा यज्ञं मा द्रष्टुं प्रविशेदिति। ब्रह्महा प्रेक्षितेनापि पीडयेत् त्वामसंशयम्॥ लोमश उवाच तच्छ्रुत्वैव तदा राजा प्रेष्यानाह स विट्यते। प्रेष्यैरुत्सार्यमाणस्तु राजन्नर्वावसुस्तदा॥ न मया ब्रह्महत्येयं कृतेत्याह पुनः पुनः। उच्यमानोऽसकृत्प्रेष्यैर्ब्रह्महन्निति भारत॥ नैव स्म प्रतिजानाति ब्रह्मवध्यां स्वयंकृताम्। मम भ्रात्रा कृतमिदं मया स परिमोक्षितः॥ स तथा प्रवदन् क्रोधात् तैश्च प्रेष्यैः प्रभाषितः। तूष्णीं जगाम ब्रह्मर्षिर्वनमेव महातपाः॥ उग्रं तप: समास्थाय दिवाकरमथाश्रितः। रहस्यवेदं कृतवान् सूर्यस्य द्विजसत्तमः॥ मूर्तिमांस्तं ददर्शाथ स्वयमग्रभुगव्ययः। लोमश उवाच प्रीतास्तस्याभवन् देवाः कर्मणार्वावसोनूप॥ तं ते प्रवरयामासुर्निरासुश्च परावसुम्। ततो देवा वरं तस्मै ददुरग्निपुरोगमाः॥ स चापि वरयामास पितुरुत्थानमात्मनः। अनागस्त्वं ततो भ्रातुः पितुश्चास्मरणं वधे॥ भरद्वाजस्य चोत्थानं यवक्रीतस्य चोभयोः। प्रतिष्ठां चापि वेदस्य सौरस्य द्विजसत्तमः। एवमस्त्विति तं देवाः प्रोचुश्चापि वरान् ददुः॥ ततः प्रादुर्बभूवुस्ते सर्व एव युधिष्ठिर। अथाब्रवीद् यवक्रीतो देवाग्निपुरोगमान्॥ समधीतं मया ब्रह्म व्रतानि चरितानि च। कथं च रैभ्यः शक्तो मामधीयानं तपस्विनम्॥ तथायुक्तेन विधिना निहन्तुममरोत्तमाः। देवा ऊचुः मैवं कृथा यवक्रीत यथा वदसि वै मुने। ऋते गुरुमधीता हि सुखं वेदास्त्वया पुरा॥ अनेन तु गुरून् दुःखात् तोषयित्वाऽऽत्मकर्मणा। कालेन महता क्लेशाद् ब्रह्माधिगतमुत्तमम्॥ लोमश उवाच यवक्रीतमथोक्त्वैवं देवाः साग्निपुरोगमाः। संजीवयित्वा तान् सर्वान् पुनर्जग्मुस्त्रिविष्टपम्॥ आश्रमस्तस्य पुण्योऽयं सदापुष्पफलद्रुमः। अत्रोष्य राजशादूल सर्वं पापं प्रमोक्ष्यसि॥ लोमश उवाच उशीरबीजं मैनाकं गिरि श्वेतं च भारत। समतीतोऽसि कौन्तेय कालशैलं च पार्थिव।।।। एषा गङ्गा सप्तविधा राजते भरतर्षभ। स्थानं विरजसं पुण्यं यत्राग्निर्नित्यमिध्यते॥ एतद् वै मानुषेणाद्य न शक्यं द्रष्टुमद्भुतम्। समाधि कुरुताव्यग्रास्तीर्थान्येतानि द्रक्ष्यथ॥ एतद् द्रक्ष्यसि देवानामाक्रीडं चरणाङ्कितम्। अतिक्रान्तोऽसि कौन्तेय कालशैलं च पर्वतम्॥ श्वेतं गिरि प्रवेक्ष्यामो मन्दरं चैव पर्वतम्। यत्र माणिवरो यक्षः कुबेरचैव यक्षराट्॥ अष्टाशीतिसहस्राणि गन्धर्वाः शीघ्रगामिनः। तथा किंपुरुषा राजन् यक्षाश्चैव चतुर्गुणाः॥ अनेकरूपसंस्थाना नानाप्रहरणाश्च ते। यक्षेन्द्रं मनुजश्रेष्ठ माणिभद्रमुपासते॥ तेषामृद्धिरतीवात्र गतौ वायुसमाश्च ते। स्थानात् प्रच्यावयेयुर्ये देवराजमपि ध्रुवम्॥ तैस्तात बलिभिर्गुप्ता यातुधानैश्च रक्षिताः। दुर्गमाः पर्वताः पार्थ समाधि परमं कुरु॥ कुबेरसचिवाश्चान्ये सैद्रा मैत्राश्च राक्षसाः। तैः समेष्याम कौन्तेय संयतो विक्रमेण च॥ कैलासः पर्वतो राजन् षड्योजनसमुच्छ्रितः। यत्र देवा समायान्ति विशाला यत्र भारत॥ असंख्येयास्तु कौन्तेय यक्षराक्षसकिनराः। नागाः सुपर्णा गन्धर्वाः कुबेरसदनं प्रति॥ तान् विगाहस्व पार्थाद्य तपसा च दमेन च। रक्ष्यमाणो मया राजन् भीमसेनबलेन च॥ स्वस्ति ते वरुणो राजा यमश्च समितिंजयः। गङ्गा च यमुना चैव पर्वतश्च दधातु ते॥ मरुतश्च सहाश्विभ्यां सरितश्च सरांसि च। त्वस्ति देवासुरेभ्यश्च वसुभ्यश्च महाद्युते॥ इन्द्रस्य जाम्बूनपर्वताद् वै शृणोमि घोषं तव देवि गङ्गे। गोपायैनं त्वं सुभगे गिरिभ्यः। सर्वाजमीढापचितं नरेन्द्रम्॥ ददस्व शर्म प्रविविक्षतोऽस्य शैलानिमाछैलसुते नृपम्य। उक्त्वा तथा सागरगां स विप्रो यत्तो भवस्वेति शशास पार्थम्॥ युधिष्ठिर उवाच अपूर्वोऽयं सम्भ्रमो लोमशस्य कृष्णां सर्वे रक्षत मा प्रमादम्। देशो ह्ययं दुर्गतमो मतोऽस्य तस्मात् परं शौचमिहाचरध्वम्॥ वैशम्पायन उवाच ततोऽब्रवीद् भीममुदारवीर्य कृष्णां यत्तः पालय भीमसेन। शून्येऽर्जुनेऽसंनिहिते च तात त्वामेव कृष्णा भजते भयेषु॥ ततो महात्मा स यमौ समेत्य मूर्धन्युपाघ्राय विमृज्य गात्रे। उवाच तौ बाप्पकलं स राजा मा भैष्टमागच्छतमप्रमत्तौ।॥ युधिष्ठिर उवाच अन्तर्हितानि भूतानि बलवन्ति महान्ति च। अग्निना तपसा चैव शक्यं गन्तुं वृकोदर।॥ संनिवतय कौन्तेय क्षुत्पिपासे बलाश्रयात्। ततो बलं च दाक्ष्यं च संश्रयस्व वृकोदर॥ ऋषेस्त्वया श्रुतं वाक्यं कैलास पर्वतं प्रति। बुद्ध्या प्रपश्य कौन्तेय कथं कृष्णा गमिष्यति॥ अथवा सहदेवेनधौम्येन च समं विभो। सूतैः पौरोगवैश्चैव सर्वेश्च परिचारकैः॥ रथैरश्चैश्च ये चान्ये विप्राः क्लेशासहाः पथि। सर्वैस्त्वं सहितो भीम निवर्तस्वायतेक्षण॥ त्रयो वयं गमिष्यामो लध्वाहारा यतव्रताः। अहं च नकुलश्चैव लोमशश्च महातपाः॥ ममागमनमाकाङ्क्षन् गङ्गाद्वारे समाहितः। वसेह द्रौपदी रक्षन् यावदागमनं मम॥ भीम उवाच राजपुत्री श्रमेणार्ता दुःखार्ता चैव भारत। व्रजत्येव हि कल्याणी श्वेतवाहदिदृक्षया॥ तव चाप्यरतिस्तीता वर्तते तमपश्यतः। गुडाकेशं महात्मानं संग्रामेष्वपलायिनम्॥ किं पुनः सहदेवं च मां च कृष्णां च भारत। द्विजाः कामं निवर्तन्तां सर्वे च परिचारकाः॥ सूताः पौरोगवाश्चैव यं च मन्येत नो भवान्। न ह्यहं हातुमिच्छामि भवन्तमिह कर्हिचित्॥ शैलेऽस्मिन् राक्षसाकीर्णे दुर्गेषु विषमेषु च। इयं चापि महाभागा राजपुत्री पतिव्रता।॥ त्वामृते पुरुषव्याघ्र नोत्सहेद् विनिवर्तितुम्। तथैव सहदेवोऽयं सततं त्वामनुव्रतः॥ न जातु विनिवर्तेत मनोज्ञो ह्यहमस्य वै। अपि चात्र महाराज सव्यसाचिदिदृक्षया॥ सर्वे लालसभूताः स्म तस्माद् यास्यामहे सह। यद्यशक्यो स्थैर्गन्तुं शैलोऽयं बहुकन्दरः॥ पद्भिरेव गमिष्यामो मा राजन् विमना भव। अहं वहिष्ये पाञ्चालीं यत्र यत्र न शक्ष्यति॥ इति मे वर्तते बुद्धिर्मा राजन् विमना भव। सुकुमारौ तथा वीरौ माद्रीनन्दिकरावुभौ। दुर्गे संतारयिष्यामि यत्राशक्तौ भविष्यतः॥ युधिष्ठिर उवाच एवं ते भाषमाणस्य बलं भीमाभिवर्धताम्। यत् त्वमुत्सहसे वोढुं पाञ्चालीं च यशस्विनीम्॥ यमजौ चापि भद्रं ते नैतन्यत्र विद्यते। बलं तव यशश्चैवधर्मः कीर्तिश्च वर्धताम्॥ यत् त्वमुत्सहसे नेतुं भ्रातरौ सह कृष्णया। मा ते ग्लानिर्महाबाहो मा च तेऽस्तु पराभवः॥ वैशम्पायन उवाच ततः कृष्णाब्रवीद् वाक्यं प्रहसन्ती मनोरमा। गमिष्यामि न संतापः कार्यो मां प्रति भारत॥ लोमश उवाच तपसा शक्यते गन्तुं पर्वतो गन्धमादनः। तपसा चैव कौन्तेय सर्वे योक्ष्यामहे वयम्॥ नकुलः सहदेवश्च भीमसेनश्च पार्थिवा अहं च त्वं च कौन्तेय द्रक्ष्यामः श्वेतवाहनम्॥ वैशम्पायन उवाच एवं सम्भाषमाणास्ते सुबाहुविषयं महत्। ददृशुर्मुदिता राजन् प्रभूतगजवाजिमत्॥ किराततङ्गणाकीर्णं पुलिन्दशतसंकुलम्। हिमवत्यमरैर्जुष्टं बह्वाश्चर्यसमाकुलम्। सुबाहुश्चापि तान् दृष्ट्वा पूजया प्रत्यगृहणत॥ विषयान्ते कुलिन्दानामीश्वरः प्रीतिपूर्वकम्। ततस्ते पूजितास्तेन सर्व एव सुखोषिताः॥ प्रतस्थुर्विमले सूर्ये हिमवन्तं गिरि प्रति। इन्द्रसेनमुखांश्चापि भृत्यान् पौरोगवांस्तथा॥ सूदांश्च पारिबहाँश्च द्रौपद्याः सर्वशो नृप। राज्ञः कुलिन्दाधिपते: परिदाय महारथाः॥ पद्भिरेव महावीर्या ययुः कौरवनन्दनाः। ते शनैः प्राद्रवन् सर्वे कृष्णया सह पाण्डवाः। तस्माद् देशात् सुसंहृष्टा द्रष्टुकामाधनंजयम्॥ वैशम्पायन उवाच ते शूरास्ततधन्वानस्तूणवन्तः समार्गणाः। बद्धगोधाङ्गलित्राणाः खड्गवन्तोऽमितौजसः॥ परिगृह्य द्विजश्रेष्ठाज्येष्ठाः सर्वधनुष्मताम्। पाञ्चालीसहिता राजन् प्रययुर्गन्धमादनम्॥ सरांसि सरितश्चैव पर्वतांश्च वनानि च। वृक्षांश्च बहुलच्छायान् ददृशुगिरिमूर्धनि॥ नित्यपुष्पफलान् देशान् देवर्षिगणसेवितान्। आत्मन्यात्मानमाधाय वीरा मूलफलाशिनः॥ चेरुरुच्चावचाकारान् देशान् विषमसंकटान्। पश्यन्तो मृगजातानि बहूनि विविधानि च॥ ऋषिसिद्धामरयुतं गन्धर्वाप्सरसां प्रियम्। विविशुस्ते महात्मानः किन्नराचरितं गिरिम्॥ प्रविशत्स्वथ वीरेषु पर्वतं गन्धमादनम्। चण्डवातं महद् वर्ष प्रादुरासीत् विशाम्पते।॥ ततो रेणुः समुद्भूतः सपत्रबहुलो महान्। पृथिवीं चान्तरिक्षं च द्यां चैव सहसाऽऽवृणोत्॥ न स्म प्रज्ञायते किंचिदावृते व्योम्नि रेणुना। न चापि शेकुस्तत् कर्तुमन्योन्यस्याभिभाषणम्॥ न चापश्यंस्ततोऽन्योन्यं तमसावृतचक्षुषः। आकृष्यमाणा वातेन साश्मचूर्णेन भारत॥ दुमाणां वातभग्नानां पततां भूतलेऽनिशम्। अन्येषां च महीजानां शब्दः समभवन्महान्॥ द्यौः स्वित् पतति किं भूमिर्दीर्यते पर्वतो नु किम्। इति ते मेनिरे सर्वे पवनेनापि मोहिताः॥ ते पथानन्तरान् वृक्षान् वल्मीकान् विषमाणि च। पाणिभिः परिमार्गन्तो भीता वायोर्निलिल्यिरे॥ ततः कार्मुकमादाय भीमसेनो महाबलः। कृष्णामादाय संगम्य तस्थावाश्रित्य पादपम्॥ धर्मराजश्चधौम्यश्च निलिल्याते महावने। अग्निहोत्राण्युपादाय सहदेवस्तु पर्वते॥ नकुलो ब्राह्मणाश्चान्ये लोमशश्च महातपाः। वृक्षानासाद्य संत्रस्तास्तत्र तत्र निलिल्यिरे॥ मन्दीभूते तु पवने तस्मिन् रजसि शाम्यति। महद्भिर्जलधारौघैर्वर्षमभ्याजगाम ह॥ भृशं चटचटाशब्दो वज्राणां क्षिप्यतामिव। ततस्ताश्चञ्चलाभासश्चेरुरभ्रेषु विद्युतः॥ ततोऽश्मसहिताधाराः संवृण्वन्त्यः समन्ततः। प्रपेतुरनिशं तत्र शीघ्रवातसमीरिताः॥ तत्र सागरागा ह्यापः कीर्यमाणाः समन्ततः। प्रादुरासन् सकलुषाः फेनवत्यो विशाम्पते।॥ वहन्त्यो वारि बहुलं फेनोडुपपरिप्लुतम्। परिसस्रुर्महाशब्दाः प्रकर्षन्त्यो महीरुहान्॥ तस्मिन्नुपरते शब्दे वाते च समतां गते। गते ह्यम्भसि निम्नानि प्रादुर्भूते दिवाकरे॥ निर्जग्मुस्ते शनैः सर्वे समाजग्मुश्च भारत। प्रतस्थिरे पुनर्वीराः पर्वतं गन्धमादनम्॥ युधिष्ठिर उवाच धर्मज्ञों बलवाञ्शूरः सत्यो राक्षसपुङ्गवः। भक्तोऽस्मानौरसः पुत्रो भीम गृहणातु मा चिरम्॥ तव भीम सुतेनाहमतिभीमपराक्रम। अक्षतः सह पाञ्चाल्या गच्छेयं गन्धमादनम्॥ वैशम्पायन उवाच भ्रातुर्वचनमाज्ञाय भीमसेनो घटोत्कचम्। आदिदेश नरव्याघ्रस्तनयं शत्रुकर्शनम्॥ भीमसेन उवाच हैडिम्बेय परिश्रान्ता तव मातापराजित। त्वं च कामगमस्तात बलवान् वह तां खग॥ स्कन्धमारोप्य भद्रं ते मध्येऽस्माकं विहायसा। गच्छ नीचिकया गत्या यथा चैनां न पीडयेः॥ घटोत्कच उवाच धर्मराजं चधौम्यं च कृष्णां च यमजौ तथा। एकोऽप्यहमलं वोढुं किमुताद्य सहायवान्।॥ अन्ये च शतशः शूरा विहङ्गाः कामरूपिणः। सर्वान् वो ब्राह्मणैः सार्धं वक्ष्यन्ति सहितानघ॥ एवमुक्त्वा ततः कृष्णामुवाह स घटोत्कचः। पाण्डूनां मध्यगो वीरः पाण्डवानपि चापरे॥ लोमशः सिद्धमार्गेण जगामानुपमद्युतिः। स्वेनैव स प्रभावेण द्वितीय इव भास्करः॥ ब्राह्मणांश्चापि तान् सर्वान् समुपादाय राक्षसाः। नियोगाद् राक्षसेन्द्रस्य जग्मुर्भीमपराक्रमाः॥ एवं सुरमणीयानि वनान्युपवनानि च। आलोकयन्तस्ते जग्मुर्विशालां बदरी प्रति॥ ते त्वाशुगतिभिर्वीरा राक्षसैस्तैर्महाजवैः। उह्यमाना ययुः शीघ्रं दीर्घमध्वानमल्पवत्॥ देशान् म्लेच्छजनाकीर्णान् नानारत्नाकरायुतान्। ददृशुर्गिरि पादांश्च नानाधातुसमाचितान्॥ विद्याधरसमाकीर्णान् युतान् वानरकिन्नरैः। तथा किंपुरुषैश्चैव गन्धर्वैश्च समन्ततः॥ मयूरैश्चमरैश्चैव वानरै रुरुभिस्तथा। वराहैर्गवयैश्चैव महिषैश्च समावृतान्॥ नदीजालसमाकीर्णान् नानापक्षियुतान् बहून्। नानाविधमृगैर्जुष्टान् वानरैश्चोपशोभितान्॥ समदैश्चापि विहगैः पादपैरन्वितास्तथा। तेऽवतीर्य बहून् देशानुत्तमच्छिसमन्वितान्॥ ददृशुर्विविधाश्चर्यं कैलास पर्वतोत्तमम्। तस्याभ्याशे तु ददृशुर्नरनारायणाश्रमम्॥ उपेतं पापैर्दिव्यैः सदापुष्पफलोपगैः। ददृशुस्तां च बदरी वृत्तस्कन्धां मनोरमाम्॥ स्निग्धामविरलच्छायां श्रिया परमया युताम्। पत्रैः स्निग्धैरविरलैरुपेतां मृदुभिः शुभाम्॥ विशालशाखा विस्तीर्णामतिद्युतिसमन्विताम्। फलैरुपचितैर्दिव्यैराचितां स्वादुभि शम्॥ मधुस्रवैः सदा दिव्यां महर्षिगणसेविताम्। मदप्रमुदितैर्नित्यं नानाद्विजगणैर्युताम्॥ अदंशमशके देशे बहुमूलफलोदके। नीलशाद्वलसंच्छन्ने देवगन्धर्वसेविते॥ सुसमीकृतभूभागे स्वभावविहिते शुभे। जातां हिममृदुस्पर्शे देशेऽपहतकण्टके॥ तामुपेत्य महात्मानः सह तैर्ब्राह्मणर्षभैः। अवतेरुस्ततः सर्वे राक्षसस्कन्धतः शनैः॥ ततस्तमाश्रमं रम्यं नरनारायणाश्रितम्। ददृशुः पाण्डवा राजन् सहिता द्विजपुङ्गवैः॥ तमसा रहितं पुण्यमनामृष्टं रवेः करैः। क्षुत्तृट्शीतोष्णदोषैश्च वर्जितं शोकनाशनम्॥ महर्षिगणसम्बाधं ब्राह्म या लक्ष्या समन्वितम्। दुष्प्रवेशं महाराज नरैर्धर्मबहिष्कृतैः॥ बलिहोमार्चितं दिव्यं सुसम्मृष्टानुलेपनम्। दिव्यपुष्योपहारैश्च सर्वतोऽभिविराजितम्॥ विशालैरग्निशरणैः उम्भाण्डैराचितं शुभैः। महद्भिस्तोयकलशैः कठिनैश्चोपशोभितम्॥ शरण्यं सर्वभूतानां ब्रह्मघोषनिनादितम्। दिव्यमाश्रयणीयं तमाश्रमं श्रमनाशनम्॥ श्रिया युतमनिर्देश्यं देवचर्योपशोभितम्। फलमूलाशनैर्दान्तैश्चारुकृष्णाजिनाम्बरैः॥ सूर्यवैश्वानरसमैस्तपसा भावितात्मभिः। महर्षिभिर्मोक्षपरैर्यतिभिर्नियतेन्द्रियैः॥ ब्रह्मभूतैर्महाभागैरुपेतं ब्रह्मवादिभिः। सोऽभ्यगच्छन्महातेजास्तानृषीन् प्रयतः शुचिः॥ भ्रातृभिः सहितोधीमान्धर्मपुत्रो युधिष्ठिरः। दिव्यज्ञानोपपन्नास्ते दृष्ट्वा प्राप्तं युधिष्ठिरम्॥ अभ्यगच्छन्त सुप्रीताः सर्व एव महर्षयः। आशीर्वादान् प्रयुञ्जानाः स्वाध्यायनिरता भृशम्॥ प्रीतास्ते तस्य सत्कारं विधिना पावकोपमाः। उपाजहुश्च सलिलं पुष्पमूलफलं शुचि॥ स तैः प्रीत्याथ सत्कारमुपनीतं महर्षिभिः। प्रयतः प्रतिगृह्याथधर्मराजो युधिष्ठिरः॥ तं शक्रसदनप्रख्यं दिव्यगन्धं मनोरमम्। प्रीतः स्वर्गापमं पुण्यं पाण्डवः सह कृष्णया॥ विवेश शोभया युक्तं भ्रातृभिश्च सहानघ। ब्राह्मणैर्वेदवेदाङ्गपारगैश्च सहस्रशः॥ तत्रापश्यतधर्मात्मा देवदेवर्षिपूजितम्।। नरनारायणस्थानं भागीरथ्योपशोभितम्॥ पश्यन्तस्ते नरव्याघ्रा रेमिरे तत्र पाण्डवाः। मधुस्रवफलं दिव्यं ब्रह्मर्षिगणसेवितम्॥ तदुपेत्य महात्मानस्तेऽवसन् ब्राह्मणैः सह। मुदा युक्ता महात्मानो रेमिरे तत्र ते तदा॥ आलोकयन्तो मैनाकं नानाद्विजगणायुतम्। हिरण्यशिखरं चैव तच्च बिन्दुसरः शिवम्॥ तस्मिन् विहरमाणाश्च पाण्डवाः सह कृष्णया। मनोज्ञे काननवरे सर्वर्तुकुसुमोज्ज्वले॥ पादपैः पुष्पविकचैः फलभारावनामिभिः। शोभिते सर्वतो रम्यैः पुंस्कोकिलगणायुतैः॥ स्निग्धपत्रैरविरलैः शीतच्छायैर्मनोरमैः। सरांसि च विचित्राणि प्रसन्नसलिलानि च॥ कमलैः सोत्पलैश्चैव भ्राजमानानि सर्वशः। पश्यन्तश्चारुरूपाणि रेमिरे तत्र पाण्डवाः॥ पुण्यगन्धःसुखस्पर्शो ववौ तत्र समीरणः। ह्लादयन् पाण्डवान् सर्वान् द्रौपद्या सहितान् प्रभो॥ भागीरथी सुतीर्थां च शीतां विमलपङ्कजाम्। मणिप्रवालप्रस्तारां पादपैरुपशोभिताम्॥ दिव्यपुष्पसमाकीर्णां मनःप्रीतिविवर्धिनीम्। वीक्षमाणा महात्मानो विशाला बदरीमनु॥ तस्मिन् देवर्षिचरिते देशे परमदुर्गमे। भागीरथीपुण्यजले तर्पयांचक्रिरे तदा॥ देवानृषींश्च कौन्तेयाः परमं शौचमास्थिताः। तत्र ते तर्पयन्तश्च जपन्तश्च कुरूद्वहाः॥ ब्राह्मणैः सहिता वीरा ह्यवसन् पुरुषर्षभाः। कृष्णायास्तत्र पश्यन्तः क्रीडितान्यमरप्रभाः। विचित्राणि नरव्याघ्रा रेमिरे तत्र पाण्डवाः॥ वैशम्पायन उवाच तत्र ते पुरुषव्याघ्राः परमं शौचमास्थिताः। षड्रात्रमवसन् वीराधनंजयदिदृक्षवः॥ ततः पूर्वोत्तरे वायुः प्लवमानो यदृच्छया। सहस्रपत्रमर्काभं दिव्यं पद्ममुपाहरत्॥ तदवैक्षत पाञ्चाली दिव्यगन्धं मनोरमम्। अनिलेनाहृतं भूमौ पतितं जलजं शुचि॥ तच्छुभा शुभमासाद्य सौगन्धिकमनुत्तमम्। अतीव मुदिता राजन् भीमसेनमथाब्रवीत्॥ पश्य दिव्यं सुरुचिरं भीम पुष्पमनुत्तमम्। गन्धसंस्थानसम्पन्नं मनसो मम नन्दनम्॥ इदं चधर्मराजाय प्रदास्यामि परंतप। हरेदं मम कामाय काम्यके पुनराश्रमे॥ यदि तेऽहं प्रिया पार्थ बहूनीमान्युपाहर। तान्यहं नेतुमिच्छामि काम्यकं पुनराश्रमम्॥ एवमुक्त्वा शुभापाङ्गी भीमसेननिन्दिता। जगाम पुष्यमादायधर्मराजाय तत् तदा॥ अभिप्रायं तु विज्ञाय महिष्याः पुरुषर्षभः। प्रियायाः प्रियकामः स प्रायाद् भीमो महाबलः॥ वातं तमेवाभिमुखो यतस्तत् पुष्पमागतम्। आजिहीर्षुर्जगामाशु स पुष्पाण्यपराण्यपि॥ रुक्मपृष्ठंधनुर्गृह्य शरांश्चाशीविषोपमान्। मृगराडिव संक्रुद्धः प्रभिन्न इव कुञ्जरः॥ ददृशुः सर्वभूतानि महाबाणधनुर्धरम्। न ग्लानि च वैकलव्यं न भयं न च सम्भ्रमः॥ कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः। द्रौपद्याः प्रियमन्विच्छन् स बाहुबलमाश्रितः॥ व्यपेतभयसम्मोहः शैलमभ्यपतद् बली। स ते द्रुमलतागुल्मच्छन्नं नीलशिलातलम्॥ गिरि चचारारिहरः किन्नराचरितं शुभम्। नानावर्णधरैश्चित्रंधातुदुममृगाण्डजैः॥ सर्वभूषणसम्पूर्ण भूमेर्भुजमिवोच्छ्रितम्। सर्वत्र रमणीयेषु गन्धमादनसानुषु॥ सक्तचक्षुरभिप्रायान् हृदयेनानुचिन्तयन्। पुस्कोकिलनिनादेषु षट्पदाचरितेषु च।॥ बद्धश्रोत्रमनश्चक्षुर्जगामामितविक्रमः। आजिघ्रन् स महातेजाः सर्वर्तुकुसुमोद्भवम्॥ गन्धमुद्धतमुद्दामो वने मत्त इव द्विपः। वीज्यमानः सुपुण्येन नानाकुसुमगन्धिना॥ पितुः संस्पर्शशीतेन गन्धमादनवायुना। ह्रियमाणश्रमः पित्रा सम्प्रहृष्टतनूरुहः॥ स यक्षगन्धर्वसुरब्रह्मर्षिगणसेवितम्। विलोकयामास तदा पुष्पहेतोररिदमः॥ विषमच्छदैरचितैरनुलिप्त इवाङ्गुलैः। वलिभिर्धातुविच्छेदैः काञ्चनाञ्जनराजतैः। सपक्षमिव नृत्यन्तं पार्श्वलग्नैः पयोधरैः॥ मुक्ताहारैरिव चितं च्युतैः प्रस्रवणोदकैः। अभिरामदरीकुञ्जनिर्झरोदककन्दरम्॥ अप्सरोनूपुररवैः प्रनृत्तवरबर्हिणम्। दिग्वारणविषाणग्रैर्घष्टोपलशिलातलम्॥ स्रस्तांशुकमिवाक्षोभ्यैर्निम्नगानिः सृतैर्जलैः। सशष्पकवलैः स्वस्थैदूरपरिवर्तिभिः॥ भयानभिज्ञैर्हरिणैः कौतूहलनिरीक्षितः। चालयन्नुरुवेगेन लताजालान्यनेकशः॥ आक्रीडमानो हृष्टात्मा श्रीमान् वायुसुतो ययौ। प्रियामनोरथं कर्तुमुद्यतश्चारुलोचनः॥ प्रांशु कनकवर्णाभः सिंहसंहननो युवा। मत्तवारणविक्रान्तो मत्तवारणवेगवान्॥ मत्तवारणताम्राक्षो मत्तवारणवारणः। प्रियपार्थोपविष्टाभिर्व्यावृत्ताभिर्विचेष्टितैः॥ यक्षगन्धर्वयोषाभिरदृश्याभिर्निरीक्षितः। नवावतारो रूपस्य विक्रीडनिव पाण्डवः॥ चचार रमणीयेषु गन्धमादनसानुषु। संस्मरन् विविधान् क्लेशान् दुर्योधनकृतान् बहून्।। द्रौपद्या वनवासिन्याः प्रियं कर्तुं समुद्यतः। सोऽचिन्तयद् गते स्वर्गमर्जुने मयि चागते॥ पुष्पहेतोः कथं त्वार्यः करिष्यति युधिष्ठिरः। स्नेहान्नरवरो नूनमविश्वासाद् बलस्य च॥ नकुलं सहदेवं च न मोक्ष्यति युधिष्ठिरः। कथं तु कुसुमावाप्तिः स्याच्छीघ्रमिति चिन्तयन्।।३४। प्रतस्थे नरशार्दूलः पक्षिराडिव वेगितः। सज्जमानमनोदृष्टिः फुल्लेषु गिरिसानुषु॥ द्रौपदीवाक्यपाथेयो भीमः शीघ्रतरं ययौ। कम्पयन् मेदिनी पद्भ्यां निर्घात इव पर्वसु॥ त्रासयन् गजयूथानि वातरंहा वृकोदरः। सिंहव्याघ्रमृगांश्चैव मर्दयानो महाबलः॥ उन्मूलयन् महावृक्षान् पोथयंस्तरसा बली। लतावल्लीश्च वेगेन विकर्षन् पाण्डुनन्दनः। उपर्युपरि शैलाग्रमारुरुक्षुरिव द्विपः॥ विनर्दमानोऽतिभृशं सविधुदिव तोयदः। तेन शब्देन महता भीमस्य प्रतिबोधिता:॥ गुहां संतत्यजुर्व्याघ्रो निलिल्युर्वनवासिनः। समुत्पेतुः खगास्त्रस्ता मृगयूथानि दुद्रुवुः॥ ऋक्षाश्चोत्ससृजुर्वृक्षांस्तत्यजुर्हरयो गुहाम्। व्यजृम्भन्त महासिंहा महिषाश्चावलोकयन्॥ तेन वित्रासिता नागाः करेणुपरिवारिताः। तद् वनं स परित्यज्य जग्मुरन्यन्महावनम्॥ वराहमृगसंघाश्च महिषाश्च वनेचराः। व्याघ्रगोमायुसंघाश्च प्रणेदुर्गवयैः सह।॥ रथाङ्गसाह्वदात्यूहा हंसकारण्डवप्लवा:। शुकाः पुंस्कोकिला: क्रौञ्चा विसंज्ञा भेजिरे दिशः॥ तथान्ये दर्पिता नागा: करेणुशरपीडिताः। सिंहव्याघ्राश्च संक्रुद्धा भीमसेनमथाद्रवन्॥ शकृन्मूत्रं च मुञ्चानां भयविभ्रान्तमानसाः। व्यादितास्या महारौद्रा व्यनदन् भीषणान् रवान्॥ ततो वायुसुतः क्रोधात् स्वबाहुबलमाश्रितः। गजेनान्यान् गजाञ्छ्रीमान् सिंहं सिंहेन वा विभुः।।४७। तलप्रहारैरन्यांश्च व्यहनत् पाण्डवो बली। ते वध्यमाना भीमेन सिंहव्याघ्रतरक्षवः॥ भयाद् विससृजुर्भीमं शकृन्मूत्रं च सुनुवुः। प्रविवेश ततः क्षिप्रं तानपास्य महाबलः॥ वनं पाण्डुसुतः श्रीमाञ्छब्देनापूरयन् दिशः। अथापश्यन्महाबाहुर्गन्धमादनसानुषु॥ सुरम्यं कदलीषण्ड बहुयोजनविस्तृतम्। तमभ्यगच्छद् वेगेन क्षोभयिष्यन् महाबलः॥ महागज इवास्रावी प्रभञ्जन् विविधान् दुमान्। उत्पाट्य कदलीस्तम्भान् बहुतालसमुच्छ्यान्॥ चिक्षेप तरसा भीमः समन्ताद् बलिनां वरः। विनदन् सुमहातेजा नृसिंह इव दर्पितः॥ ततः सत्त्वान्युपाक्रामद् बहूनि सुमहान्ति च। रुरुवानर सिंहांश्च महिषांश्च जलाशयान्।॥ तेन शब्देन चैवाथ भीमसेनरवेण च। वनान्तरगताश्चापि वित्रेसुगपक्षिणः॥ तं शब्द सहसा श्रुत्वा मृगपक्षिसमीरितम्। जलार्द्रपक्षा विहगाः समुत्पेतुः सहस्रशः॥ तानौदकान् पक्षिगणान् निरीक्ष्य भरतर्षभः। तानेवानुसरन् रम्यं ददर्श सुमहत् सरः॥ काञ्चनैः कदलीषण्डैर्मन्दमारुतकम्पितैः। वीज्यमानमिवाक्षोभ्यं तीरात् तीरविसर्पिभिः॥ तत् सरोऽथावतीर्याशु प्रभूतनलिनोत्पलम्। महागज इवोद्दामश्चिक्रीड बलवद् बली॥ विक्रीड्य तस्मिन् सुचिरमुत्ततारामितद्युतिः। ततोऽध्यगन्तुं वेगेन तद् वनं बहुपादपम्॥ दध्मौ च शङ्ख स्वनवत् सर्वप्राणेन पाण्डवः आस्फोटयच्च बलवान् भीमः संनादयन् दिशः॥ तस्य शङ्खस्य शब्देन भीमसेनरवेण च। बाहुशब्देन चोग्रेण नदन्तीव गिरेगुहाः॥ तं वज्रनिष्पेषसममास्फोटितमहारवम्। श्रुत्वा शैलगुहासुप्तैः सिंहैर्मुक्तो महास्वनः॥ सिंहनादभयत्रस्तैः कुञ्जरैरपि भारत। मुक्तो विरावः सुमहान् पर्वतो येन पूरितः॥ तं तु नादं ततः श्रुत्वा मुक्तं वारणपुङ्गवैः। भ्रातरं भीमसेनं तु विज्ञाय हनुमान् कपिः॥ दिवंगमं रुरोधाथ मार्ग भीमस्य कारणात्। अनेन हि पथा मा वै गच्छेदिति विचार्य सः॥ आस्त एकायने मार्गे कदलीषण्डमण्डिते। भ्रातुर्भोमस्य रक्षार्थं तं मार्गमवरुध्य वै॥ मात्र प्राप्स्यति शापं वाधर्षणां वेति पाण्डवः। कदलीषण्डमध्यस्थो ह्येवं संचिन्त्य वानरः॥ प्राजृम्भत महाकायो हनूमान् नाम वानरः। कदलीषण्डमध्यस्थो निद्रावशगतस्तदा॥ जृम्भमाणः सुविपुलं शक्रध्वजमिवोच्छ्रितम्। आस्फोटयच्च लाडूलमिन्द्राशनिसमस्वनम्॥ तस्य लाडूलनिनदं पर्वतः सुगुहामुखैः। उद्गारमिव गौर्नर्दनुत्ससर्ज समन्ततः॥ लाङ्कलास्फोटशब्दाच्च चलितः स महागिरिः। विघूर्णमानशिखरः समन्तात् पर्यशीर्यत॥ स लाडूलरवस्तस्य मत्तवारणनि:स्वनम्। अन्तर्धाय विचित्रेषु चचार गिरिसानुषु॥ स भीमसेनस्तच्छ्रुत्त्वा सम्प्रहृष्टतनूरुहः। शब्दप्रभवमन्विच्छंश्चचार कदलीवनम्॥ कदलीवनमध्यस्थमथ पीने शिलातले। ददर्श सुमहाबाहुर्वानराधिपति तदा॥ विद्युत्सम्पातदुष्प्रेक्षं विद्युत्सम्पातपिङ्गलम्। विद्युत्सम्पातनिनदं विद्युत्सम्पातचञ्चलम्॥ बाहुस्वस्तिकविन्यस्तपीनह्रस्वशिरोधरम्। स्कन्धभूयिष्ठकायत्वात् तनुमध्यकटीतटम्॥ किंचिच्चाभुग्नशीर्षेण दीर्घरोमाञ्चितेन च। लाडूलेनोर्ध्वगतिनाध्वजेनेव विराजितम्॥ ह्रस्वौष्ठं ताम्रजिह्वास्यं रक्तकणं चलद्धृवम्। विवृत्तदंष्ट्रादशनं शुक्लतीक्ष्णाग्रशोभितम्॥ अपश्यद् वदनं तस्य रश्मिवन्तमिवोडुपम्। वदनाभ्यन्तरगतैः शुक्लैर्दन्तैरलंकृतम्॥ केसरोत्करसम्मिश्रमशोकानामिवोत्करम्। हिरण्मयीनां मध्यस्थं कदलीनां महाद्युतिम्॥ दीप्यमानेन वपुषा स्वर्चिष्मन्तमिवानलम्। निरीक्षन्तममित्रघ्नं लोचनैर्मधुपिङ्गलैः॥ तं वानरवरंधीमानतिकायं महाबलम्। स्वर्गपन्थानमावृत्य हिमवन्तमिव स्थितम्॥ दृष्ट्वा चैनं महाबाहुरेकं तस्मिन् महावने। अथोपसृज्य तरसा विभीर्भीमस्ततो बली॥ सिंहनादं चकारोग्रं वज्राशनिसमं बली। तेन शब्देन भीमस्य वित्रेसुमंगपक्षिणः॥ हनूमांश्च महासत्त्व ईषदुन्मील्य लोचने। दृष्ट्वा तमथ सावज्ञं लोचनैमधुपिङ्गलैः। स्मितेन चैनमासाद्य हनूमानिदमब्रवीत्॥ हनूमानुवाच किमर्थं सरुजस्तेऽहं सुखसुप्तः प्रबोधितः। ननु नाम त्वया कार्या दया भूतेषु जानता॥ वयंधर्मं न जानीमस्तिर्यग्योनिमुपाश्रिताः। नरास्तु बुद्धिसम्पन्ना दया कुर्वन्ति जन्तुषु॥ रेषु कर्मसु कथं देहवाक्चित्तदूषिषु। धर्मघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः॥ न त्वंधर्म विजानासि बुधा नोपासितास्त्वया। अल्पबुद्धितया बाल्यादुत्सादयसि यन्मृगान्॥ ब्रूहि कस्त्वं किमर्थं वा किमिदं वनमागतः। वर्जितं मानुषैर्भावैस्तथैव पुरुषैरपि॥ क्व च त्वयाद्य गन्तव्यं प्रब्रूहि पुरुषर्षभ। अतः परमगम्योऽयं पर्वत: सुदुरारुहः॥ विना सिद्धगति वीर गतिरत्र न विद्यते। देवलोकस्य मार्गोऽयमगम्यो मानुषैः सदा॥ कारुण्यात् त्वामहं वीर वारयामि निबोध मे। नातः परं त्वया शक्यं गन्तुमाश्वसिहि प्रभो॥ स्वागतं सर्वथैवेह तवाद्य मनुजर्षभ। इमान्यमृतकल्पानि मूलानि च फलानि च॥ भक्षयित्वा निवर्तस्व मा वृथा प्राप्स्यसे वधम्। ग्राह्यं यदि वचो मह्यं हितं मनुजपुङ्गव॥ वैशम्पायन उवाच एतच्छ्रुत्वा वचस्तस्य वानरेन्द्रस्यधीमतः। भीमसेनस्तदा वीरः प्रोवाचामित्रकर्षणः॥ भीम उवाच को भवान् किं निमित्तं वा वानरं वपुरास्थितः। ब्राह्मणानन्तरो वर्णः क्षत्रियस्त्वां तु पृच्छति॥ कौरवः सोमवंशीयः कुन्त्या गर्भेणधारितः। पाण्डवो वायुतनयो भीमसेन इति श्रुतः॥ स वाक्यं कुरुवीरस्य स्मितेन प्रतिगृह्य तत्। हनूमान् वायुतनयो वायुपुत्रमभाषत।॥ हनूमानुवाच वानरोऽहं न ते मार्ग प्रदास्यामि यथेप्सितम्। साधु गच्छ निवर्तस्व मा त्वं प्राप्स्यसि वैशसम्॥ भीमसेन उवाच वैशसं वास्तु यद्वान्यन्न त्वां पृच्छामि वानर। प्रयच्छ मार्गमुत्तिष्ठ मा मत्तः प्राप्स्यसे व्यथाम्॥ हनूमानुवाच नास्ति शक्तिर्ममोत्थातुं व्याधिना क्लेशितो ह्यहम्। यद्यवश्यं प्रयातव्यं लवयित्वा प्रयाहि माम्॥ भीम उवाच निर्गुणः परमात्मा तु देहं व्याप्यावतिष्ठते। तमहं ज्ञानविज्ञेयं नावमन्ये न लवये॥ यद्यागमैर्न विद्यां च तमहं भूतभावनम्। क्रमेयं त्वां गिरि चैव हनूमानिव सागरम्॥ हनूमानुवाच कएष हनुमान् नाम सागरो येन लवित्तः। पृच्छामि त्वां नरश्रेष्ठ कथ्यतां यदि शक्यते॥ भीम उवाच भ्राता मम गुणश्लाघ्यो बुद्धिसत्त्वबलान्वितः। रामायणेऽतिविख्यातः श्रीमान् वानरपुङ्गवः॥ रामपत्नीकृते येन शतयोजनविस्तृतः। सागर: प्लवगेन्द्रेण क्रमेणैकेन लवित्तः॥ स मे भ्राता महावीर्यस्तुल्योऽहं तस्य तेजसा। बले पराक्रमे युद्धे शक्तोऽहं तव निग्रहे॥ उत्तिष्ठ देहि मे मार्ग पश्य चाद्य पौरुषम्। मच्छासनमकुर्वाणं त्वां वा नेष्ये यमक्षयम्॥ मे वैशम्पायन उवाच विज्ञाय तं बलोन्मत्तं बाहुवीर्येण दर्पितम्। हृदयेनावहस्यैनं हनूमान् वाक्यमब्रवीत्॥ हनूमानुवाच प्रसीद नास्ति मे शक्तिरुत्थातुं जरयानघ। ममानुकम्पया त्वेतत् पुच्छमुत्सार्य गम्यताम्॥ वैशम्पायन उवाच एवमुक्ते हनुमता हीनवीर्यपराक्रमम्। मनसाचिन्तयद् भीमः स्वबाहुबलदर्पितः॥ पुच्छे प्रगृह्य तरसा हीनवीर्यपराक्रमम्। सालोश्यमन्तकस्यैनं नयाम्यद्येह वानरम्॥ सावज्ञमथ वामेन स्मयञ्जग्राह पाणिना। न चाशकच्चालयितुं भीमः पुच्छं महाकपेः॥ उच्चिक्षेप पुनर्दोवा॑मिन्द्रायुधमिवोच्छ्रितम्। नोद्धर्तुमशकद् भीमो दोर्ध्यामपि महाबलः॥ उत्क्षिप्तभूर्विवृत्ताक्षः संहतभृकुटीमुखः। स्विन्नगात्रोऽभवद् भीमो न चोद्धर्तुं शशाक तम्॥ यत्नवानपि तु श्रीमॉल्लाङ्कलोद्धरणोद्धरः। कयेः पार्श्वगतो भीमस्तस्थौ व्रीडानताननः॥ प्रणिपत्य च कौन्तेयः प्राञ्जलिर्वाक्यमब्रवीत्। प्रसीद कपिशार्दूल दुरुक्तं क्षम्यतां मम॥ सिद्धो वा यदि वा देवो गन्धर्वो वाथ गुह्यकः। पृष्टः सन् काम्यया ब्रूहि कस्त्वं वानररूपधृक्॥ न चेद् गुह्यं महाबाहो श्रोतव्यं चेद् भवेन्मम्। शिष्यवत् त्वां तु पृच्छामि उपपन्नोऽस्मि तेऽनघ॥ हनूमानुवाच यत् ते मम परिज्ञाने कौतूहलमरिदम। तत् सर्वमखिलेन त्वं शृणु पाण्डवनन्दन॥ अहं केसरिणः क्षेत्रे वायुना जगदायुषा। जातः कमलपत्राक्ष हनूमान् नाम वानरः॥ सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम्। सर्वे वानरराजानस्तथा वानरयूथपाः॥ उपतस्थुर्महावीर्या मम चामित्रकर्षण। सुग्रीवेणाभवत् प्रीतिरनिलस्याग्निना यथा॥ निकृत: स ततो भ्रात्रा कस्मिश्चित् कारणान्तरे। ऋष्यमूके मया सार्धं सुग्रीवो न्यवसच्चिरम्॥ अथ दाशरथिर्वीरो रामो नाम महाबलः। विष्णुर्मानुषरूपेण चचार वसुधातमल्॥ स पितुः प्रियमन्विच्छन् सहभार्यः सहानुजः। सधनुर्धन्विनां श्रेष्ठो दण्डकारण्यमाश्रितः॥ तस्या भार्या जनस्थानाच्छलेनापाहृता बलात्। राक्षसेन्द्रेण बलिना रावणेन दुरात्मना।॥ सुवर्णरत्नचित्रेण मृगरूपेण रक्षसा। वञ्चयित्वा नरव्याघ्रं मारीचेन तदानघ॥ हनूमानुवाच हृतदारः सह भ्रात्रा पत्नी मार्गन् स राघवः। दृष्टवाशैलशिखरे सुग्रीवं वानरर्षभम्॥ तेन तस्याभवत् सख्यं राघवस्य महात्मनः। स हत्वा वालिनं राज्ये सुग्रीवमभिषिक्तवान्॥ स राज्यं प्राप्य सुग्रीवं सीतायाः परिमार्गणे। वानरान् प्रेषयामास शतशोऽथ सहस्रशः॥ ततो वानरकोटीभिः सहितोऽहं नरर्षभ। सीतां मार्गन्महाबाहो प्रयातो दक्षिणां दिशम्॥ ततः प्रवृत्तिः सीताया गृध्रेण सुमहात्मना। सम्पातिना समाख्याता रावणस्य निवेशने॥ ततोऽहं कार्यसिद्ध्यर्थं रामस्याक्लिष्टकर्मणः। शतयोजनविस्तीर्णमर्णवं सहसाऽऽप्लुतः॥ अहं स्ववीर्यादुत्तीर्य सागरं मकरालयम्। सुत जनकराजस्य सीतां सुरसुतोपमाम्॥ दृष्टवान् भरतश्रेष्ठ रावणस्य निवेशने। समेत्य तामहं देवीं वैदेहीं राघवप्रियाम्॥ दग्ध्वा लङ्कामशेषेण साट्टप्राकारतोरणाम्। प्रत्यागतश्चास्य पुनर्नाम तत्र प्रकाश्य वै॥ मद्वाक्यं चावधार्याशु रामो राजीवलोचनः। स बुद्धिपूर्वं सैन्यस्य बद्ध्वा सेतुं महोदधौ।॥ वृतो वानरकोटीभिः समुत्तीर्णो महार्णवम्। ततो रामेण वीरेण हत्वा तान् सर्वराक्षसान्॥ रणे तु राक्षसगणं रावणं लोकरावणम्। निशाचरेन्द्रं हत्वा तु सभ्रातृसुतबान्धवम्॥ राज्येऽभिषिच्य लङ्कायां राक्षसेन्द्रं विभीषणम्। धार्मिकं भक्तिमन्तं च भक्तानुगतवत्सलम्॥ ततः प्रत्याहृता भार्या नष्टा वेदश्रुतिर्यथा। तयैव सहितः साध्व्या पल्या रामो महायशाः॥ गत्वा ततोऽतित्वरितः स्वां पुरी रघुनन्दनः। अध्यावसत् ततोऽयोध्यामयोध्यां द्विषतां प्रभुः॥ ततः प्रतिष्ठितो राज्ये रामो नृपतिसत्तमः। वरं मया याचितोऽसौ रामो राजीवलोचनः॥ यावद् राम कथेयं ते भवेल्लोकेषु शत्रुहन्। तावज्जीवेयमित्येवं तथास्त्विति च सोऽब्रवीत्॥ सीताप्रसादाच्च सदा मामिहस्थमरिदम। उपतिष्ठन्ति दिव्या हि भोगा भीम यथेप्सिताः॥ दशवर्षसहस्राणि दशवर्षशतानि च। राज्यं कारितवान् रामस्ततः स्वभवनं गतः॥ तदिहाप्सरसस्तात गन्धर्वाश्च सदानघ। तस्य वीरस्य चरितं गायन्तो रमयन्ति माम्॥ अयं च मार्गो मर्त्यानामगम्य: कुरुनन्दन। ततोऽहं रुद्धवान् मार्गं तवेमं देवसेवितम्॥ धर्षयेद् वा शपेद् वापि मा कश्चिदिति भारत। दिव्यो देवपथो ह्येष नात्र गच्छन्ति मानुषाः। यदर्थमागतश्चासि अत एव सरश्च तत्॥ वैशम्पायन उवाच एवमुक्तो महाबाहुर्भीमसेनः प्रतापवान्। प्रणिपत्य ततः प्रीत्या भ्रातरं हृष्टमानसः॥ उवाच श्लक्ष्णया वाचा हनूमन्तं कपीश्वरम्। मयाधन्यतरो नास्ति यदार्यं हृष्टवानहम्॥ अनुग्रहो मे सुमहांस्तृप्तिश्च तव दर्शनात्। एकं तु कृतमिच्छामि त्वयाद्य प्रियमात्मनः॥ यत् ते तदाऽऽसीत् प्लवतः सागरं मकरालयम्। रूपमप्रतिमं वीर तदिच्छामि निरीक्षितुम्॥ एवं तुष्टो भविष्यामि श्रद्धास्यामि च ते वचः। एवमुक्तः स तेजस्वी प्रहस्य हरिरब्रवीत्॥ न तच्छक्यं त्वया द्रष्टुं रूपं नान्येन केनचित्। कालावस्था तदा ह्यन्या वर्तते सा न साम्प्रतम्॥ अन्यः कृतयुगे कालस्त्रेतायां द्वापरे परः। अयं प्रध्वंसन: कालो नाद्य तद् रूपमस्ति मे॥ भूमिर्नद्यो नगाः शैलाः सिद्धा देवा महर्षयः। कालं समनुवर्तन्ते यथा भावा युगे युगे।॥ बलवर्णप्रभावा हि प्रहीयन्त्युद्भवन्ति च। तदलं वत तद् रूपं द्रष्टुं कुरुकुलोद्वह। युगं समनुवामि कालो हि दुरतिक्रमः॥ भीम उवाच युगसंख्यां समाचक्ष्व आचारं च युगे युगे। धर्मकामार्थभावांश्च कर्मवीर्ये भवाभवौ॥ हनूमानुवाच कृतं नाम युगं तात यत्रधर्मः सनातनः। कृतमेव न कर्तव्यं तस्मिन् काले युगोत्तमे॥ न तत्रधर्माः सीदन्ति क्षीयन्ते न च वै प्रजाः। ततः कृतयुगं नाम कालेन गुणतां गतम्॥ देवदानवगन्धर्वयक्षराक्षसपन्नगाः। नासन् कृतयुगे तात तदा न क्रयविक्रयः॥ न सामऋग्यजुर्वर्णाः क्रिया नासीच्च मानवी। अभिध्याय फलं तत्रधर्मः संन्यास एव च॥ न तस्मिन् युगसंसर्गे व्याधयो नेन्द्रियक्षयः। नासूया नापि रुदितं न दो नापि वैकृतम्॥ न विग्रहः कुतस्तन्द्री न द्वेषो न च पैशुनम्। न भयं नापि संतापो न चेा न च मत्सरः॥ ततः परमकं ब्रह्म सा गतियोगिनां परा। आत्मा च सर्वभूतानां शुक्लो नारायणस्तदा॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः। कृते युगे समभवन् स्वकर्मनिरताः प्रजाः॥ समाश्रयं समाचारं समज्ञानं च केवलम्। तदा हि समकर्माणो वर्णाधर्मानवाप्नुवन्॥ एकदेवसदायुक्ता एकमन्त्रविधिक्रियाः। पृथग्धर्मास्त्वेकवेदाधर्ममेकमनुव्रताः॥ चातुराश्रम्ययुक्तेन कर्मणा कालयोगिना। अकामफलसंयोगात् प्राप्नुवन्ति परां गतिम्॥ आत्मयोगसमायुक्तोधर्मोऽयं कृतलक्षणः। कृते युगे चतुष्पादश्चातुर्वण्यस्य शाश्वतः॥ एतत् कृतयुगं नाम त्रैगुण्यपरिवर्जितम्। त्रेतामपि निबोध त्वं यस्मिन् खत्रं प्रवर्तते।॥ पादेन हसतेधर्मो रक्ततां याति चाच्युतः। सत्यप्रवृत्ताश्च नराः क्रियाधर्मपरायणाः॥ ततो यज्ञाः प्रवर्तन्तेधर्माश्च विविधाः क्रियाः। त्रेतायां भावसंकल्पाः क्रियादानफलोपगाः॥ प्रचलन्ति न वैधर्मात् तपोदानपरायणाः। स्वधर्मस्थाः क्रियावन्तो नरास्त्रेतायुगेऽभवन्॥ द्वापरे च युगेधर्मो द्विभागोनः प्रवर्तते। विष्णुर्वै पीततां याति चतुर्धा वेद एव च॥ ततोऽन्ये च चतुर्वेदास्त्रिवेदाश्च तथापरे। द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथापरे॥ एवं शास्त्रेषु भिन्नेषु बहुधा नीयते क्रिया। तपोदानप्रवृत्ता च राजसी भवति प्रजा॥ एकवेदस्य चाज्ञानाद् वेदास्ते बहवः कृताः। सत्त्वस्य चेह विभ्रंशात् सत्ये कश्चिदवस्थितः॥ सत्यात् प्रच्यवमानानां व्याधयो बहवोऽभवन्। कामाचोपद्रवाश्चैव तदा वै दैवकारिताः॥ यैरर्यमानाः सुभृशं तपस्तष्यन्ति मानवाः। कामकामाः स्वर्गकामा यज्ञांस्तन्वन्ति चापरे॥ एवं द्वापरमासाद्य प्रजाः क्षीयन्त्यधर्मतः। पादेनैकेन कौन्तेयधर्मः कलियुगे स्थितः॥ तामसं युगमासाद्य कृष्णो भवति केशवः। वेदाचाराः प्रशाम्यन्तिधर्मयज्ञक्रियास्तथा॥ ईतयो व्याधयस्तन्द्री दोषाः क्रोधादयस्तथा। उपद्रवाः प्रवर्तन्ते आधयः क्षुद्भयं तथा॥ युगेष्वावर्तमानेषुधर्मो व्यावर्तते पुनः। धर्मे व्यावर्तमाने तु लोको व्यावर्तते पुनः॥ लोके क्षीणे क्षयं यान्ति भावा लोकप्रवर्तकाः। युगक्षयकृताधर्माः प्रार्थनानि विकुर्वते॥ एतत् कलियुगं नाम अचिराद् यत् प्रवर्तते। युगानुवर्तनं त्वेतत् कुर्वन्ति चिरजीविनः॥ यच्च ते मत्परिज्ञाने कौतूहलमरिंदम। अनर्थकेषु को भावः पुरुषस्य विजानतः॥ एतत् ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि। युगसंख्यां महाबाहो स्वस्ति प्राप्नुहि गम्यताम्॥ भीमसेन उवाच पूर्वरूपमदृष्ट्वा ते न यास्यामि कथंचन। यदि तेऽहमनुग्राह्यो दर्शयात्मानमात्मना॥ वैशम्पायन उवाच एवमुक्तस्तु भीमेन स्मितं कृत्व प्लवगंमः। तद् रूपं दर्शयामास यद् वै सागरलङ्घने।॥ भ्रातुः प्रियमभीप्सन् वै चकार सुमहद् वपुः। देहस्तस्य ततोऽतीव वर्धत्यायामविस्तरैः॥ सदुमं कदलीषण्डं छादयन्नमितद्युतिः। गिरेश्वोच्छ्रयमाक्रम्य तस्थौ तत्र च वानरः॥ समुच्छ्रितमहाकायो द्वितीय इव पर्वतः। ताम्रक्षणस्तीक्ष्णंष्ट्रो भृकुटीकुटिलाननः॥ दीर्घलाङ्गलमाविध्य दिशो व्याप्य स्थितः कपिः। तद् रूपं महदालक्ष्य भ्रातुः कौरवनन्दनः॥ विसिष्मिये तदा भीमो जहषे च पुनः पुनः। तमर्कमिव तेजोभिः सौवर्णमिव पर्वतम्॥ प्रदीप्तमिव चाकाशं दृष्ट्वा भीमो न्यमीलयत्। आवभाषे च हनुमान् भीमसेनं स्मयन्निव॥ एतावदिह शक्तस्त्वं द्रष्टुं रूपं ममानघ। वर्धेऽहं चाप्यतो भूयो यावन्मे मनसि स्थितम्। भीमशत्रुषु चात्यर्थं वर्धते मूर्तिरोजसा॥ वैशम्पायन उवाच तदद्भुतं महारौद्रं विन्ध्यपर्वतसंनिभम्। दृष्ट्वा हनूमतो वर्म सम्भ्रान्तः पवनात्मजः॥ प्रत्युवाच ततो भीम: सम्प्रहृष्टतनूरुहः। कृताञ्जलिरदीनात्मा हनूमन्तमवस्थितम्॥ दृष्टं प्रमाणं विपुलं शरीरस्यास्य ते विभो। संहरस्व महावीर्य स्वयमात्मानमात्मना॥ न हि शक्नोमि त्वां द्रष्टुं दिवाकरमिवोदितम्। अप्रमेयमनाघृष्यं मैनाकमिव पर्वतम्॥ विस्मयश्चैव मे वीर सुमहान् मनसोऽद्य वै। यद् रामस्त्वयि पार्श्वस्थे स्वयं रावणमभ्यगात्॥ त्वमेव शक्तस्तां लङ्कां सयोधां सहवाहनाम्। स्वबाहुबलमाश्रित्य विनाशयितुमञ्जसा॥ न हि ते किंचिदप्राप्यं मारुतात्मज विद्यते। तव नैकस्य पर्याप्तो रावणः सगणो युधि॥ वैशम्पायन उवाच एवमुक्तस्तु भीमेन हनूमान् प्लवगोत्तमः। प्रत्युवाच ततो वाक्यं स्निग्धगम्भीरया गिरा॥ हनूमानुवाच एवमेतन्महाबाहो यथा वदसि भारत। भीमसेन न पर्याप्तो ममासौ राक्षसाधमः॥ मया तु निहते तस्मिन् रावणे लोककण्टके। कीर्तिनश्येद् राघवस्य तत एतदुपेक्षितम्॥ तेन वीरेण तं हत्वा सगणं राक्षसाधमम्। आनीता स्वपुरं सीता कीर्तिश्चाख्यापिता नृषु॥ तद् गच्छ विपुलप्रज्ञ भ्रातुः प्रियहिते रतः। अरिष्टं क्षेममध्वानं वायुना परिरक्षितः॥ एष पन्थाः कुरुश्रेष्ठ सौगन्धिकवनाय ते। द्रक्ष्यसेधनदोद्यानं रक्षितं यक्षराक्षसैः॥ न च ते तरसा कार्यः कुसुमावचयः स्वयम्। दैवतानि हि मान्यानि पुरुषेण विशेषतः॥ बलिहोमनमस्कारैर्मन्त्रैश्च भरतर्षभ। दैवतानि प्रसादं हि भक्त्या दुर्वन्ति भारत।॥ मा तात साहसं कार्षीः स्वधर्म परिपालय। स्वधर्मस्थः परंधर्मं बुध्यस्व गमयस्व च॥ न हिधमविज्ञाय वृद्धाननुपसेव्य च। धर्मार्थो वेदितुं शक्यौ बृहस्पतिसमैरपि॥ अधर्मो यत्रधर्माख्योधर्मश्चाधर्मसंज्ञितः। स विज्ञेयो विभागेन यत्र मुह्यन्त्यबुद्धयः॥ आचारसम्भवोधर्मोधर्मे वेदाः प्रतिष्ठिताः। वेदैर्यज्ञाः समुत्पन्ना यज्ञैर्देवाः प्रतिष्ठिताः॥ वेदाचारविधानोक्तैर्यज्ञैर्धार्यन्ति देवताः। बृहस्पत्युशन: प्रोक्तैर्नयैर्धार्यन्ति मानवाः॥ पण्याकरवणिज्याभिः कृष्यागोजाविपोषणैः। विद्ययाधार्यते सर्वधरतौर्द्विजातिभिः॥ त्रयी वार्ता दण्डनीतिस्तिस्रो विद्या विजानताम्। ताभिः सम्यक् प्रयुक्ताभिर्लोकयात्रा विधीयते॥ सा चेद्धर्मकृता न स्यात् त्रयीधर्ममृते भुवि। दण्डनीतिमृते चापि निर्मर्यादमिदं भवेत्॥ वार्ताधर्मे ह्यवर्तिन्यो विनश्येयुरिमाः प्रजाः। सुप्रवृत्तैस्त्रिभिद्येतैर्धर्मं सूयन्ति वै प्रजाः॥ द्विजातीनामृतंधर्मो ह्येश्चैवैकलक्षणः। यज्ञाध्ययनदानानि त्रयः साधारणाः स्मृताः॥ याजनाध्यापनं विप्रेधर्मश्चैव प्रतिग्रहः। पालनं क्षत्रियाणां वै वैश्यधर्मश्च पोषणम्॥ शुश्रूषा च द्विजातीनां शूद्राणां धर्म उच्यते। भैक्ष्यहोमव्रतैींनास्तथैव गुरुवासिताः॥ क्षत्रधर्मोऽत्र कौन्तेय तवधर्मोऽत्र रक्षणम्। स्वधर्म प्रतिपद्यस्व विनीतो नियतेन्द्रियः॥ वृद्धैः सम्मन्त्र्य सद्धिश्च बुद्धिमद्भिः श्रुतान्वितैः। आस्थितः शास्ति दण्डेन व्यसनी परिभूयते॥ निग्रहानुग्रहैः सम्यग् यदा राजा प्रवर्तते। तदा भवन्ति लोकस्य मर्यादा: सुव्यवस्थिताः॥ तस्माद् देशे च दुर्गे च शत्रुमित्रबलेषु च। नित्यं चारेण बोद्धव्यं स्थानं वृद्धिः क्षयस्तथा॥ राज्ञामुपायश्चाश्च बुद्धिमत्रपराक्रमाः। निग्रहप्रग्रहौ चैव दाक्ष्यं वै कार्यसाधकम्॥ साम्ना दानेन भेदेन दण्डेनोपक्षणेन च। साधनीयानि कर्माणि समासव्यासयोगतः॥ मन्त्रमूला नया: भरतर्षभ। सुमन्त्रितेन या सिद्धिस्तां द्विजैः सह मन्त्रयेत्॥ स्त्रिया मूढेन बालेन लुब्धेन लघुनापि वा। सर्वे चाराश्च न मन्त्रयीत गुह्यानि येषु चोन्मादलक्षणम्॥ मन्त्रयेत् सह विद्वद्भिः शक्तैः कर्माणि कारयेत्। स्निग्धैश्च नीतिविन्यासान् मूर्खान् सर्वत्र वर्जयेत्॥ धार्मिकान्धर्मकार्येषु अर्थकार्येषु पण्डितान्। स्त्रीषु क्लीबान् नियुञ्जीत क्रूरान् क्रूरेषु कर्ममु॥ स्वेभ्यश्चैव परेभ्यश्च कार्याकार्यसमुद्भवा। बुद्धिः कर्मसु विज्ञेया रिपूणां च बलाबलम्॥ बुद्ध्या स्वप्रतिपन्नेषु कुर्यात् साधुष्वनुग्रहम्। निग्रहं चाप्यशिष्टेषु निर्मर्यादेषु कारयेत्॥ निग्रहे प्रग्रहे सम्यग् यदा राजा प्रवर्तते। तदा भवति लोकस्य मर्यादा सुव्यवस्थिता॥ एष तेऽभिहितः पार्थ घोरोधर्मो दुरन्वयः। तं स्वधर्मविभागेन विनयस्थोऽनुपालय॥ तपोधर्मदमेज्याभिर्विप्रा यान्ति यथा दिवम्। दानातिथ्यक्रियाधमैर्यान्ति वैश्याच सद्गतिम्॥ क्षत्रं याति तथा स्वर्गं भुवि निग्रहपालनैः। सम्यक् प्रणीतदण्डा हि कामद्वेषविवर्जिताः। अलुब्धा विगतक्रोधाः सतां यान्ति सलोकताम्॥ वैशम्पायन उवाच ततः संहत्य विपुलं तद् वपुः कामतः कृतम्। भीमसेनं पुनर्दोर्ध्या पर्यष्वजत वानरः॥ परिष्वक्तस्य तस्याशु भ्रात्रा भीमस्य भारत। श्रमो नाशमुपागच्छत् सर्वं चासीत् प्रदक्षिणम्॥ बलं चातिबलो मेने न मेऽस्ति सदृशो महान्। ततः पुनरथोवाच पर्यश्रुनयनो हरिः॥ भीममाभाष्य सौहार्दाद् वाष्पगद्गदया गिरा। गच्छ वीर स्वमावासं स्मर्तव्योऽस्मि कथान्तरे॥ इहस्थश्च कुरुश्रेष्ठ न निवेद्योऽस्मि कर्हिचित्। धनदस्यालयाच्चापि विसृष्टानां महाबल॥ देशकाल इहायातुं देवगन्धर्वयोषिताम्। ममापि सफलं चक्षुः स्मारितश्चास्मि राघवम्॥ रामाभिधानं विष्णुं हि जगद्धृदयनन्दनम्। सीतावक्त्रारविन्दाङ दशास्यध्वान्तभास्करम्॥ मानुषं गात्रसंस्पर्शं गत्वा भीम त्वया सह। तदस्मद्दर्शनं वीर कौन्तेयामोघमस्तु ते॥ भ्रातृत्वं त्वं पुरस्कृत्य वरं वरय भारता यदि तावन्मया क्षुद्रा गत्वा वारणसाह्वयम्॥ धार्तराष्ट्रा निहन्तव्या यावदेतत् करोम्यहम्। शिलया नगरं वापि मर्दितव्यं मया यदि॥ बद्ध्वा दुर्योधनं चाद्य आनयामि तवान्तिकम्। यावदेतत् करोम्यद्य कामं तव महावल॥ वैशम्पायन उवाच भीमसेनस्तु तद् वाक्यं श्रुत्वा तस्य महात्मनः। प्रत्युवाच हनूमन्तं प्रहृष्टेनान्तरात्मना॥ कृतमेव त्वया सर्वं मम वानरपुङ्गवा स्वस्ति तेऽस्तु महाबाहो कामये त्वां प्रसीद मे॥ सनाथाः पाण्डवाः सर्वे त्वया नाथेन वीर्यवन्। तवैव तेजसा सर्वान् विजेष्यामो वयं परान्॥ एवमुक्तस्तु हनुमान् भीमसेनमभाषत। भ्रातृत्वात् सौहृदाच्चैव करिष्यामि प्रियं तव॥ चमू विगाह्य शत्रूणां शरशक्तिसमाकुलाम्। यदा सिंहरवं वीर करिष्यसि महाबला॥ तदाहं बृहयिष्यामि स्वरवेण रवं तव। विजयस्यध्वजस्थश्च नादान् मोक्ष्यामि दारुणान्॥ शत्रूणां ये प्राणहराः सुखं येन हनिष्यथ। एवमाभाष्य हनुमांस्तदा पाण्डवनन्दनम्॥ मार्गमाख्याय भीमाय तत्रैवान्तरधीयत॥ वैशम्पायन उवाच स गत्वा नलिनी रम्यां राक्षसैरभिरक्षिताम्। कैलासशिखराभ्याशे ददर्श शुभकाननाम्॥ कुबेरभवनाभ्याशे जातां पर्वतनिर्झरैः। सुरम्यां विपुलच्छायां नानादुमलताकुलाम्॥ हरिताम्बुजसंच्छन्नां दिव्यां कनकपुष्कराम्। नानापक्षिजनाकीर्णां सूपतीर्थामकर्दमाम्॥ अतीवरम्यां सुजला जातां पर्वतसानुषु। विचित्रभूतां लोकस्य शुभामद्भुतदर्शनाम्॥ तत्रामृतरसं शीतं लघु कुन्तीसुतः शुभम्। ददर्श विमलं तोयं पिबंश्च बहु पाण्डवः॥ तां तु पुष्करिणी रम्यां दिव्यसौगन्धिकावृताम्। जातरूपमयैः पद्मश्छन्नां परमगन्धिभिः॥ वैदूर्यवरनालैश्च बहुचित्रैमनोरमैः। हंसकारण्डवोद्भूतैः सृजद्भिरमलं रजः॥ आक्रीडं राजराजस्य कुबेरस्य महात्मनः। गन्धर्वैरप्सरोभिश्च देवैश्च परमार्चिताम्॥ सेवितामृषिभिर्दिव्यैर्यक्षैः किम्पुरुषैस्तथा। राक्षसैः किन्नरैश्चापि गुप्तां वैश्रवणेन च॥ तां च दृष्टवैव कौन्तेयो भीमसेनो महाबलः। बभूव परमप्रीतो दिव्यं सम्प्रेक्ष्य तत् सरः॥ तच्च क्रोधवशा नाम राक्षसा राजशासनात्। रक्षन्ति शतसाहस्रश्चित्रायुधपरिच्छदाः॥ ते तु दृष्ट्वैव कौन्तेयमजिनैः प्रतिवासितम्। रुक्माङ्गदधरं वीरं भीमं भीमपराक्रमम्॥ सायुधं बद्धनिस्त्रिंशमशङ्कितमरिदमम्। पुष्करेप्सुमुपायान्तमन्योन्यमभिचक्रुशुः॥ अयं पुरुषशार्दूल: सायुधोऽजिनसंवृतः। यच्चिकीर्षुरिह प्राप्तस्तत् सम्प्रष्टुमिहार्हथ॥ ततः सर्वे महाबाहु समासाद्य वृकोदरम्। तेजोयुक्तमपृच्छन्त कस्त्वमाख्यातुमर्हसि॥ मुनिवेषधरश्चैव सायुधश्चैव लक्ष्यसे। यदर्थमभिसम्प्राप्तस्तदाचक्ष्व महामते॥ भीम उवाच पाण्डवो भीमसेनोऽहंधर्मराजादनन्तरः। विशाला बदरीं प्राप्तो भ्रातृभिः सह राक्षसाः॥ अपश्यत् तत्र पाञ्चाली सौगन्धिकमनुत्तमम्। अनिलोढमितो नूनं सा बहूनि परीप्सति॥ तस्या मामनवद्याझ्याधर्मपल्याः प्रिये स्थितम्। पुष्पाहारमिह प्राप्तं निबोधत निशाचराः॥ राक्षसा ऊचुः आक्रीडोऽयं कुबेरस्य दयितः पुरुषर्षभ। नेह शक्यं मनुष्येण विहर्तुं मर्त्यधर्मणा॥ देवर्षयस्तथा यक्षा देवाश्चात्र वृकोदर। आमन्त्र्य यक्षप्रवरं पिबन्ति रमयन्ति च। गन्धर्वाप्सरसश्चैव विहरन्त्यत्र पाण्डव॥ अन्यायेनेह यः कश्चिदवमान्यधनेश्वरम्। विहर्तुमिच्छेद् दुर्वृत्तः स विनश्येन्न संशयः॥ तमनादृत्य पद्मानि जिहीर्षसि बलादृतः। धर्मराजस्य चात्मानं ब्रवीषि भ्रातरं कथम्॥ आमन्त्र्य यक्षराजं वै ततः पिब हरस्व च। नातोऽन्यथा त्वया शक्यं किंचित् पुष्करमीक्षितुम्।।८। भीमसेन उवाच राक्षसास्तं न पश्यामिधनेश्वरमिहान्तिके। दृष्ट्वापि च महाराजं नाहं याचितुमुत्सहे॥ न हि याचन्ति राजान एषधर्मः सनातनः। न चाहं हातुमिच्छामि क्षात्रधर्मं कथंचन॥ इयं च नलिनी रम्या जाता पर्वतानिर्झरे। नेयं भवनमासाद्य कुबेरस्य महात्मनः॥ तुल्या हि सर्वभूतानामियं वैश्रवणस्य च। एवं गतेषु द्रव्येषु कः कं याचितुमर्हति॥ वैशम्पायन उवाच इत्युक्त्वा राक्षसान् सर्वान् भीमसेनो ह्यमर्षणः। व्यगाहत महाबाहुर्नलिनी तां महाबलः॥ ततः स राक्षसैर्वाचा प्रतिषिद्धः प्रतापवान्। मा मैवमिति सक्रोधैर्भर्त्सयद्भिः समन्ततः॥ कद कृत्य तु स तान् राक्षसान् भीमविक्रमः। व्यगाहत महातेजास्ते तं सर्वे न्यवारयन्॥ गृहणीत बध्नीत विकर्ततेमं पचाम खादाम च भीमसेनम्। क्रुद्धा ब्रुवन्तोऽभिययुटुंतं ते शस्त्राणि चोद्यम्य विवृत्तनेत्राः॥ ततः स गुर्वी यमदण्डकल्पां महागदां काञ्चनपट्टनद्धाम्। प्रगृह्य तानभ्यपतत् तरस्वी ततोऽब्रवीत् तिष्ठत तिष्ठतेति॥ ते तं तदा तोमरपट्टिशाद्यैर्व्याविद्धशस्त्रैः सहसा निपेतुः। जिघांसवः क्रोधवशाः सुभीमा भीमं समन्तात परिवव्र रुग्राः॥ वातेन कुन्त्यां बलवान् सुजात: शूरस्तरस्वी द्विषतां निहन्ता। सत्ये चधर्मे च रतः सदैव पराक्रमे शत्रुभिरप्रधृष्यः॥ तेषां स मार्गान् विविधान् महात्मा विहत्य शस्त्राणि च शात्रवाणाम्। यथा प्रवीरान् निजघान भीमः। परं शतं पुष्करिणीसमीपे॥ ते तस्य वीर्यं च बलं च दृष्ट्वा विद्याबलं बाहुबलं तथैव। अशक्नुवन्तः सहितं समन्ताद् दुतं प्रवीराः सहसा निवृत्ताः॥ माकाशमास्थाय विमूढसंज्ञाः। कैलासशृङ्गाण्यभिदुद्रुवुस्ते भीमार्दिताः क्रोधवशा: प्रभग्नाः॥ स शक्रवद् दानवदैत्यसङ्घान् विक्रम्य जित्वा च रणेऽरिसङ्घान्। विगाह्य तां पुष्करिणी जितारिः कामाय जग्राह ततोऽम्बुजानि॥ ततः स पीत्वामृतकल्पमम्भो भूयो बभूवोत्तमवीर्यतेजसाः। उत्पाट्य जग्राह च सोऽम्बुजानि सौगन्धिकान्युत्तमगन्धवन्ति॥ ततस्तु ते क्रोधवशाः समेत्य धनेश्वरं भीमबलप्रणुनाः। भीमस्य वीर्यं च बलं च संख्ये यथावदाचख्युरतीव भीताः॥ तेषां वचस्तत् तु निशम्य देवः प्रहस्य रक्षांसि ततोऽभ्युवाच। गृहणातु भीमो जलजानि कामात् कृष्णानिमित्तं विदितं ममैतत्॥ ततोऽभ्यनुज्ञाप्यधनेश्वरं ते जग्मुः कुरूणां प्रवरं विरोधाः। भीमं च तस्यां ददृशुर्नलिन्यां यथोपजोषं विहरन्तमेकम्॥ वैशम्पायन उवाच ततस्तानि महार्हाणि दिव्यानि भरतर्षभ। बहूनि बहुरूपाणि विरजांसि समादद॥ ततो वायुर्महाशीघ्रो नीचैः शर्करकर्षणः। प्रादुरासीद् खरस्पर्शः संग्राममभिचोदयन्॥ पपात महती चोल्का सनिर्घाता महाभया। निष्प्रभश्चाभवत् सूर्यश्छन्नरश्मिस्तमोवृतः॥ निर्घातश्चाभवद् भीमो भीमे विक्रममास्थिते। चचाल पृथिवी चापि पांसुवर्षं पपात च॥ सलोहिता दिशश्चासन् खरवाचो मृगद्विजाः। तमोवृतमभूत् सर्वं न प्राज्ञायत किंचन॥ अन्ये च बहवो भीमा उत्पातास्तत्र जज्ञिरे। तदद्भुतमभिप्रेक्ष्यधर्मपुत्रो युधिष्ठिरः॥ उवाच वदतां श्रेष्ठः कोऽस्मानभिभविष्यति। सज्जीभवत भद्रं वः पाण्डवा युद्धदुर्मदाः॥ यथारूपाणि पश्यामि स्वभ्यग्रो नः पराक्रमः। एवमुक्त्वा ततो राजा वीक्षांश्चक्रे समन्ततः॥ अपश्यमानो भीमं तुधर्मपुत्रो युधिष्ठिरः। ततः कृष्णां यमौ चापि समीपस्थावरिंदमः॥ पप्रच्छ भ्रातरं भीमं भीमकर्माणमाहवे। कच्चित् क्व भीमः पाञ्चालि किंचित् कृत्यं चिकीर्षति।। कृतवानपि वा वीरः साहसं साहसप्रियः। इमे ह्यकस्मादुत्पाता महासमरदर्शनाः॥ दर्शयन्तो भयं तीव्र प्रादुर्भूताः समन्ततः। तं तथावादिनं कृष्णा प्रत्युवाच मनस्विनी। प्रिया प्रियं चिकीर्षन्ती महिषी चारुहासिनी॥ द्रौपद्युवाच यत् तत् सौगन्धिकं राजन्नाहृतं मातरिश्वना। तन्मया भीमसेनस्य प्रीतयाद्योपपादितम्॥ अपि चोक्तो मया वीरो यदि पश्येर्बहून्यपि। तानि सर्वाण्युपादाय शीघ्रमागम्यतामिति॥ स तु नूनं महाबाहुः प्रियार्थं मम पाण्डवः। प्रागुदीची दिशं राजंस्तान्याहर्तुमितो गतः॥ उक्तस्त्वेवं तया राजा यमाविदमथाब्रवीत्। गच्छाम सहितास्तूर्णं येन यातो वृकोदरः॥ वहन्तु राक्षसा विप्रान् यथाश्रान्तान् यथाकृशान्। त्वयध्यमरसंकाश वह कृष्णां घटोत्कच॥ व्यक्तं दूरमितो भीमः प्रविष्ट इति मे मतिः। चिरं च तस्य कालोऽयं स च वायुसमो जवे॥ तरस्वी वैनतेयस्य सदृशो भुवि लङ्घने। उत्पतेदपि चाकाशं निपतेच्च यथेच्छकम्॥ तमन्वियाम भवतां प्रभावाद् रजनीचराः। पुरा स नापरानोति सिद्धानां ब्रह्मवादिनाम्॥ तथेत्युक्त्वा तु ते सर्वे हैडिम्बप्रमुखास्तदा। उद्देशज्ञाः कुबेरस्य नलिन्या भरतर्षभ॥ आदाय पाण्डवांश्चैव तांश्च विप्राननेकशः। लोमशेनैव सहिताः प्रययुः प्रीतमानसाः॥ ते सर्वे त्वरिता गत्वा ददृशुः शुभकाननाम्। पद्मसौगन्धिकवती नलिनी सुमनोरमाम्॥ तं च भीमं महात्मानं तस्यास्तीरे मनस्विनम्। ददृशुनिहतांश्चैव यक्षांश्च विपुलेक्षणान्॥ भिन्नकायाक्षिबाहूरून् संचूर्णितशिरोधरान्। तं च भीमं महात्मानं तस्यास्तीरे व्यवस्थितम्॥ सक्रोधं स्तब्धनयनं संदष्टशनच्छदम्। उद्यम्य च गदां दो• नदीतीरेष्ववस्थितम्॥ प्रजासंक्षेपसमये दण्डहस्तमिवान्तकम्। तं दृष्ट्वाधर्मराजस्तु परिष्वज्य पुनः पुनः॥ उवाच श्लक्ष्णया वाचा कौन्तेय किमिदं कृतम्। साहसं बत भद्रं ते देवानामथ चाप्रियम्॥ पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम्। अनुशिष्य तु कौन्तेयं पद्मानि परिगृह्य च॥ तस्यामेव नलिन्यां तु विजह्वरमरोपमाः। एतस्मिन्नेव काले तु प्रगृहीतशिलायुधाः॥ प्रादुरासन् महाकायास्तस्योद्यानस्य रक्षिणः। ते दृष्ट्वाधर्मराजानं महर्षि चापि लोमशम्॥ विनयेन नताः सर्वे प्रणिपत्य च भारत॥ सान्त्विताधर्मराजेन प्रसेदुः क्षणदाचराः। विदिताश्च कुबेरस्य तत्र ते कुरुपुङ्गवाः॥ ऊषु तिचिरं कालं रममाणाः कुरूद्वहाः। प्रतीक्षमाणा बीभत्सुं गन्धमादनसानुषु॥ वैशम्पायन उवाच तस्मिन् निवसमानोऽथधर्मराजो युधिष्ठिरः। कृष्णया सहितान् भ्रातृनित्युवाच सहद्विजान्॥ दृष्टानि तीर्थान्यस्माभिः पुण्यानि च शिवानि च। मनसो ह्लादनीयानि वनानि च पृथक् पृथक्॥ देवैः पूर्वं विचीर्णानि मुनिभिश्च महात्मभिः। यथाक्रमविशेषेण द्विजैः सम्पूजितानि च॥ ऋषीणां पूर्वचरितं तथा कर्म विचेष्टितम्। राजर्षीणां च चरितं कथाश्च विविधाः शुभाः॥ शृण्वानास्तत्र तत्र स्म आश्रमेषु शिवेषु च। अभिषेकं द्विजैः सार्धं कृतवन्तो विशेषतः॥ अर्चिताः सततं देवाः पुष्पैरद्भिः सदा च वः। यथालब्धैर्मूलफलैः पितरचापि तर्पिताः॥ पर्वतेषु च रम्येषु सर्वेषु च सरस्सु च। उदधौ च महापुण्ये सूपस्पृष्टं महात्मभिः॥ इला सरस्वती सिन्धुर्यमुना नर्मदा तथा। नानातीर्थेषु रम्येषु सूपस्पृष्टं सह द्विजैः॥ गङ्गाद्वारमतिक्रम्य बहवः पर्वताः शुभाः। हिमवान् पर्वतश्चैव नानाद्विजगणायुतः॥ विशाला बदरी दृष्टा नरनारायणाश्रमः। दिव्या पुष्करिणी दृष्टा सिद्धदेवर्षिपूजिता॥ यथाक्रमविशेषेण सर्वाण्यायतनानि च। दर्शितानि द्विजश्रेष्ठा लोमशेन महात्मना॥ इमं वैश्रवणावासं पुण्यं सिद्धनिषेवितम्। कथं भीम गमिष्यामो गतिरन्तरधीयताम्।१२।। वैशम्पायन उवाच एवं ब्रुवति राजेन्द्रे वागुवाचाशरीरिणी। न शक्यो दुर्गमो गन्तुमितो वैश्रवणाश्रमात्॥ अनेनैव पथा राजन् प्रतिगच्छ यथागतम्। नरनारायणस्थानं बदरीत्यभिविश्रुतम्॥ तस्माद् यास्यसि कौन्तेय सिद्धचारणसेवितम्। बहुपुष्पफलं रम्यमाश्रमं वृषपर्वणः॥ अतिक्रम्य च तं पार्थ त्वाष्टिषेणाश्रमे वसेः। ततो द्रक्ष्यसि कौन्तेय निवेशंधनदस्य च॥ एतस्मिन्नन्तरे वायुर्दिव्यगन्धवहः शुचिः। सुखप्रह्लादनः शीत: पुष्पवर्षं ववर्ष च॥ श्रुत्वा तु दिव्यामाकाशाद् वाचं सर्वे विसिस्मियुः। ऋषीणां ब्राह्मणानां च पार्थिवानां विशेषतः॥ श्रुत्वा तन्महदाश्चर्यं द्विजोधौम्योऽब्रवीत् तदा। न शक्यमुत्तरं वक्तुमेवं भवतु भारत॥ ततो युधिष्ठिरो राजा प्रतिजग्राह तद् वचः। प्रत्यागम्य पुनस्तं तु नरनारायणाश्रमम्॥ भीमसेनादिभिः सर्वैर्धातृभिः परिवारितः। पाञ्चाल्या ब्राह्मणाश्चैव न्यवसन्त सुखं तदा॥ वैशम्पायन उवाच ततस्तान् परिविश्वस्तान् वसतस्तत्र पाण्डवान्। पर्वतेन्द्रे द्विजैः सार्धं पार्थागमनकाझ्या॥ गतेषु तेषु रक्षःसु भीमसेनात्मजेऽपि च। रहितान् भीमसेनेन कदाचित् तान् यदृच्छया।॥ जहारधर्मराजानं यमौ कृष्णां च राक्षसः। ब्राह्मणो मन्त्रकुशलः सर्वशास्त्रविदुत्तमः॥ इति ब्रुवन् पाण्डवेयान् पर्युपास्ते स्म नित्यदा। परीप्समानः पार्थानां कलापानिधनूंषि च॥ अन्तर सम्परिप्रेप्सुयॊपद्या हरणं प्रति। दुष्टात्मा पापबुद्धिः स नाम्ना ख्यातो जटासुरः॥ पोषणं तस्य राजेन्द्र चक्रे पाण्डवनन्दनः। बुबुधे न च तं पापं भस्मच्छन्नमिवानलम्॥ स भीमसेने निष्क्रान्ते मृगयार्थमरिन्दम। घटोत्कचं सानुचरं दृष्ट्वा विप्रद्रुतं दिशः॥ लोमशप्रभृतींस्तांस्तु महर्षीच समाहितान्। स्नातुं विनिर्गतान् दृष्ट्वा पुष्पार्थं च तपोधनान्॥ रूपमन्यत् समास्थाय विकृतं भैरवं महत्। गृहीत्वा सर्वशस्त्राणि द्रौपदी परिगृह्य च॥ प्रातिष्ठत स दुष्टात्मा त्रीन् गृहीत्वा च पाण्डवान्। सहदेवस्तु यत्नेन ततोऽपक्रम्य पाण्डवः॥ विक्रम्य कौशिकं खङ्गं मोक्षयित्वा ग्रहं रिपोः। आक्रन्दद् भीमसेनं वै येन यातो महाबलः॥ तमब्रवीद्धर्मराजो ह्रियमाणो युधिष्ठिरः। धर्मस्ते हीयते मूढ न तत्त्वं समवेक्षसे॥ येऽन्ये क्वचिन्मनुष्येषु तिर्यग्योनिगताश्च ये। धर्मं ते समवेक्षन्ते रक्षांसि च विशेषतः॥ धर्मस्य राक्षसा मूलंधर्मं ते विदुरुत्तमम्। एतत् परीक्ष्य सर्वं त्वं समीपे स्थातुमर्हसि॥ देवाश्च ऋषयः सिद्धाः पितरश्चापि राक्षस। गन्धर्वोरगरक्षांसि वयांसि पशवस्तथा॥ तिर्यग्योनिगताचैव अपि कीटपिपीलिकाः। मनुष्यानुपजीवन्ति ततस्त्वमपि जीवसि॥ समृद्ध्या ह्यस्य लोकस्य लोको युष्माकमध्यति। इमं च लोकं शोचन्तमनुशोचन्ति देवताः॥ पूज्यमानाश्च वर्धन्ते हव्यकव्यैर्यथाविधि। वयं राष्ट्रस्य गोप्तारो रक्षितारश्च राक्षस॥ राष्ट्रस्यारक्ष्यमाणस्य कुतो भूतिः कुतः सुखम्। न च राजावमन्तव्यो राक्षसा जात्वनागसि॥ अणुरप्यपचारश्च नास्त्यस्माकं नराशन। विघसाशान् यथाशक्त्या कुर्महे देवतादिषु॥ गुरूंश्च ब्राह्मणांश्चैव प्रणामप्रवणा: सदा। द्रोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित्॥ येषां चान्नानि भुञ्जीत यत्र च स्यात् प्रतिश्रयः। स त्वं प्रतिश्रयेऽस्माकं पूज्यमानः सुखोषितः॥ भुक्त्वा चान्नानि दुष्प्रज्ञ कथमस्मान् जिहीर्षसि। एवमेव वृथाचारो वृथावृद्धो वृथामतिः॥ वृथामरणमर्हश्च वृथाद्य न भविष्यसि। अथ चेद् दुष्टबुद्धिस्त्वं सर्वैर्धर्विवर्जितः॥ प्रदाय शस्त्राण्यस्माकं युद्धेन द्रौपदी हर। अथ चेत् त्वमविज्ञानादिदं कर्म करिष्यसि॥ अधर्मं चाप्यकीर्ति च लोके प्राप्स्यसि केवलम्। एतामद्य परामृश्य स्त्रियं राक्षस मानुषीम्॥ विषमेतत् समालोड्य कुम्भेन प्राशितं त्वया। ततो युधिष्ठिरस्तस्य गुरुकः समपद्यत॥ स तु भाराभिभूतात्मा न तथा शीघ्रगोऽभवत्। अथाब्रवीद् द्रौपदी च नकुलं च युधिष्ठिरः॥ मा भैष्ट राक्षसान्मूढाद् गतिरस्य मया हृता। नातिदूरे महाबाहुर्भविता पवनात्मजः॥ अस्मिन् मुहूर्ते सम्प्राप्ते न भविष्यति राक्षसः। सहदेवस्तु तं दृष्ट्वा राक्षसं मूढचेतनम्॥ उवाच वचनं राजन् कुन्तीपुत्रं युधिष्ठिरम्। राजन् किंनाम सत्कृत्यं क्षत्रियस्यास्त्यतोऽधिकम्॥ यद् युद्धेऽभिमुखः प्राणांस्त्यजेच्छठे जयेत वा। एष चास्मान् वयं चैनं युद्ध्यमानाः परंतप॥ सूदयेम महाबाहो देशकालो ह्ययं नृप। क्षत्रधर्मस्य सम्प्राप्तः कालः सत्यपराक्रमः॥ जयन्तो हन्यमाना वा प्राप्तुमर्हाम सद्गतिम्। राक्षसे जीवमानेऽद्य रविरस्तमियाद् यदि॥ नाहं ब्रूयां पुनर्जातु क्षत्रियोऽस्मीति भारत। भो भो राक्षस तिष्ठस्व सहदेवोऽस्मि पाण्डवः॥ हत्वा वा मां नयस्वैनां हतो वाद्येह स्वप्स्यसि। तदा ब्रुवति माद्रेये भीमसेनो यदृच्छया।॥ प्रत्यदृश्यद् गदाहस्तः सवज्र इव वासवः। सोऽपश्यद् भ्रातरौ तत्र द्रौपदी च यशस्विनीम्॥ क्षितिस्थं सहदेवं च क्षिपन्तं राक्षसं तदा। मार्गाच्च राक्षसं मूढं कालोपहतचेतसम्॥ भ्रमन्तं तत्र तत्रैव देवेन विनिवारितम्। भ्रातृस्तान् ह्रियतो दृष्ट्वा द्रौपदी च महाबलः॥ क्रोधमाहारयद् भीमो राक्षसं चेदमब्रवीत्। विज्ञातोऽसि मया पूर्वं पाप शस्त्रपरीक्षणे॥ आस्था तु त्वयि मे नास्ति यतोऽसि न हतस्तदा। ब्रह्मरूपप्रतिच्छन्नो न नो वदसि चाप्रियम्॥ प्रियेषु रममाणं त्वां न चैवाप्रियकारिणम्। अतिथिं ब्रह्मरूपं च कथं हन्यामनागसम्॥ राक्षसं जानमानोऽपि यो हन्यानरकं व्रजेत्। अपक्वस्य च कालेन वधस्तव न विद्यते॥ नूनमद्यासि सम्पक्वो यथा ते मतिरीदृशी। दत्ता कृष्णापहरणे कालेनाद्भुतकर्मणा॥ बडिशोऽयं त्वया ग्रस्तः कालसूत्रेण लम्बितः। मत्स्योऽम्भसीव स्यूतास्यः कथमद्यभविष्यसि॥ यं चासि प्रस्थितो देशं मनः पूर्वं गतं च ते। न तं गन्तासि गन्तासि मार्ग बकहिडिम्बयोः। :॥ एवमुक्तस्तु भीमेन राक्षसः कालचोदितः। भीत उत्सृज्य तान् सर्वान् युद्धाय समुपस्थितः॥ अब्रवीच्च पुनर्भीमं रोषात् प्रस्फुरिताधरः। न मे मूढा दिशः पाप त्वदर्थं मे विलम्बितम्॥ श्रुता मे राक्षसा ये ये त्वया विनिहता रणे। तेषामद्य करिष्यामि तवास्रेणोदकक्रियाम्॥ एवमुक्तस्ततो भीमः सृक्किणी परिसंलिहन्। स्मयमान इव क्रोधात् साक्षात् कालान्तकोपमः।॥ बाहुसंरम्भमेवैक्षन्नभिदुद्राव राक्षसम्। राक्षसोऽपि तदा भीमं युद्धार्थिनमवस्थितम्॥ मुहुर्मुहुाददानः सृक्किणी परिसंलिहन्। अभिदुद्राव संरब्धो बलिर्वज्रधरं यथा॥ वर्तमाने तदा ताभ्यां बाहुयुद्धे सुदारुणे। माद्रीपुत्रावतिक्रुद्धावुभावप्यभ्यधावताम्॥ न्यवारयत् तौ प्रहसन् कुन्तीपुत्रो वृकोदरः। शक्तोऽहं राक्षसस्येति प्रेक्षध्वमिति चाब्रवीत्॥ आत्मना भ्रातृभिश्चैवधर्मेण सुकृतेन च। इष्टेन च शपे राजन् सूदयिष्यामि राक्षसम्॥ इत्येवमुक्त्वा तौ वीरौ स्पर्धमानौ परस्परम्। बाहुभ्यां समसज्जेतामुभौ रक्षोवृकोदरौ॥ तयोरासीत् सम्प्रहारः क्रुद्धयोर्भीमरक्षसोः। अमृष्यमाणयोः सङ्घये देवदानवयोरिव॥ आरुज्यारुज्य तौ वृक्ष्यानन्योन्यमभिजघ्नतुः। जीमूताविव गर्जन्तौ निनदन्तौ महाबलौ॥ बभञ्जतुर्महावृक्षानूरुभिर्बलिनां वरौ। अन्योन्येनाभिसंरब्धौ परस्परवधैषिणौ॥ तद् वृक्षयुद्धमभवन्महीरुहविनाशनम्। वालिसुग्रीवयोर्धात्रोः पुरा स्त्रीकाक्षिणोर्यथा॥ आविध्याविध्य तौ वृक्षान् मुहूर्तमितरेतरम्। ताडयामासतुरुभौ विनदन्तौ मुहुर्मुहुः॥ तस्मिन् देशे यदा वृक्षाः सर्व एव निपातिताः। पुञ्जीकृताश्च शतशः परस्परवधेप्सया॥ तत: शिलाः समादाय मुहूर्तमिव भारत। महाभैरिव शैलेन्द्रौ युयुधाते महाबलौ॥ शिलाभिरुग्ररूपाभिवृहतीभिः परस्परम्। वचैरिव महावेगैराजघ्नतुरमर्षणौ॥ अभिद्रुत्य च भूयस्तावन्योन्यं बलदर्पितौ। भुजाभ्यां परिगृह्याथ चकर्षाते गजाविव॥ मुष्टिभिश्च महाघोरैरन्योन्यमभिजघ्नतुः। ततः कटकटाशब्दो बभूव सुमहात्मनोः॥ ततः संहृत्य मुष्टिं तु पञ्चशीर्षमिवोरगम्। वेगेनाभ्यहनद् भीमो राक्षसस्य शिरोधराम्॥ ततः श्रान्तं तु तद् रक्षो भीमसेनभुजाहतम्। सुपरिश्रान्तमालक्ष्य भीमसेनोऽभ्यवर्तत॥ तत एनं महाबाहुर्बाहुभ्याममरोपमः। समुत्क्षिप्य बलाद् भीमो विनिष्पिष्य महीतले॥ तस्य गात्राणि सर्वाणि चूर्णयामास पाण्डवः। अरनिना चाभिहत्य शिरः कायादपाहरत्॥ संदष्टौष्ठं विवृत्ताक्षं फलं वृक्षादिव च्युतम्। जटासुरस्य तु शिरो भीमसेनबलाद्धतम्॥ पपात रुधिरादिग्धं संदष्टदशनच्छदम्। तं निहत्य महेष्वासो युधिष्ठिरमुपागमत्। स्तूयमानो द्विजावयैस्तु मरुद्भिरिव वासवः॥ वैशम्पायन उवाच निहते राक्षसे तस्मिन् पुनर्नारायणाश्रमम्। अभ्येत्य राजा कौन्तेयो निवासमकरोत् प्रभुः॥ स समानीय तान् सर्वान् भ्रातृनित्यब्रवीद् वचः। द्रौपद्या सहितान् काले संस्मरन् भ्रातरं जयम्॥ समाश्चतस्रोऽभिगताः शिवेन चरतां वने। कृतोद्देशः स बीभत्सु पञ्चमीमभितः समाम्॥ प्राप्य पर्वतराजानं श्वेतं शिखरिणां वरम्। पुष्पितैर्दुमषण्डैश्च मत्तकोकिलषट्पदैः॥ मयूरैश्चातकैश्चापि नित्योत्सवविभूषितम्। व्याप्रैर्वराहैर्महिषैर्गवयैर्हरिणैस्तथा॥ श्वापदैर्व्यालरूपैश्च रुरुभिश्च निषेवितम्। फुल्लैः सहस्रपत्रैश्च शतपत्रैस्तथोत्पलैः॥ प्रफुल्लैः कमलैश्चैव तथा नीलोत्पलैरपि। महापुण्यं पवित्रं च सुरासुरनिषेवितम्॥ तत्रापि च कृतोद्देशः समागमदिदृक्षुभिः। कृतश्च समयस्तेन पार्थेनामिततेजसा॥ पञ्चवर्षाणि वत्स्यामि विद्यार्थीति पुरा मयि। अत्र गाण्डीवधन्वानमवाप्तास्त्रमरिन्दमम्॥ देवलोकादिमं लोकं द्रक्ष्यामः पुनरागतम्। इत्युक्त्वा ब्राह्मणान् सर्वानामन्त्रयत पाण्डवः॥ कारणं चैव तत् तेषामाचचक्षे तपस्विनाम्। तानुग्रतपसः प्रीतान् कृत्वा पार्थाः प्रदक्षिणाम्॥ ब्राह्मणास्तेऽन्वमोदन्त शिवेन कुशलेन च। सुखोदकमिमं क्लेशमचिराद् भरतर्षभ।॥ क्षत्रधर्मेणधर्मज्ञ तीर्खा गां पालयिष्यसि। तत् तु राजा वचस्तेषां प्रतिगृह्य तपस्विनाम्॥ प्रतस्थे सह विप्रैस्तैर्धातृभिश्च परन्तपः। राक्षसैरनुयातो वै लोमशेनाभिरक्षितः॥ क्वचित् पद्भ्यां ततोऽगच्छद् राक्षसैरुह्यते क्वचित्। तत्र तत्र महातेजा भ्रातृभिः सह सुव्रतः॥ ततो युधिष्ठिरो राजा बहून् क्लेशान् विचिन्तयन्। सिंहव्याघ्रगजाकीर्णामुदीची प्रययौ दिशम्॥ अवेक्षमाणः कैलासं मैनाकं चैव पर्वतम्। गन्धमादनपादांश्च श्वेतं चापि शिलोच्चयम्॥ उपर्युपरि शैलस्य बह्वीश्च सरितः शिवाः। पृष्ठं हिमवतः पुण्यं ययौ सप्तदशेऽहनि॥ ददृशुः पाण्डवा राजन् गन्धमादनमन्तिकात्। पृष्ठे हिमवतः पुण्ये नानाद्रुमलतावृते॥ सलिलावर्तसंजातैः पुष्पितैश्च महीरुहैः। समावृतं पुण्यतममाश्रमं वृषपर्वणः॥ तमुपागम्य राजर्षिधर्मात्मानमरिन्दमाः। पाण्डवा वृषपर्वाणमवन्दन्त गतक्लमाः॥ अभ्यनन्दत् स राजर्षिः पुत्रवद् भरतर्षभान्। पूजिताश्चावसंस्तत्र सप्तरात्रमरिन्दमाः॥ अष्टमेऽहनि सम्प्राप्ते तमृषि लोकविश्रुतम्। आमन्त्र्य वृषपर्वाणं प्रस्थानं प्रत्यरोचयन्॥ एकैकशश्च तान् विप्रान् निवेद्य वृषपर्वणि। न्यासभूतान् यथाकालं बन्धूनिव सुसत्कृतान्॥ पारिबर्ह च तं शेषं परिदाय महात्मने। ततस्ते यज्ञपात्राणि रत्नान्याभरणानि च।॥ न्यदधुः पाण्डवा राजन्नाश्रमे वृषपर्वणः। अतीतानागते विद्वान् कुशलः सर्वधर्मवित्॥ अन्वशासत् सधर्मज्ञः पुत्रवद्भरतर्षभान्। तेऽनुज्ञाता महात्मानः प्रययुर्दिशमुत्तराम्॥ तान् प्रस्थितानभ्यगच्छद् वृषपर्वा महीपतिः। उपन्यस्य महातेजा विप्रेभ्यः पाण्डवांस्तदा॥ अनुसंसार्य कौन्तेयानाशीर्भिरभिनन्द्य च। वृषपर्वा निववृते पन्थानमुपदिश्य च॥ नानामृगगणैर्जुष्टं कौन्तेयः सत्यविक्रमः। पदातिर्धातृभिः सार्धं प्रातिष्ठत युधिष्ठिरः॥ नानाद्रुमनिरोधेषु वसन्तः शैलसानुषु। पर्वतं विविशुः श्वेतं चतुर्थेऽहनि पाण्डवाः॥ महाभ्रघनसंकाशं सलिलोपहितं शुभम्। मणिकाञ्चनरूप्यस्य शिलानां च समुच्चयम्॥ ते समासाद्य पन्थानं यथोक्तं वृषपर्वणा। अनुससुर्यथोद्देशं पश्यन्तो विविधान्नगान्॥ उपर्युपरिः शैलस्य गुहाः परमदुर्गमाः। सुदुर्गमांस्ते सुबहून् सुखेनैवाभिचक्रमुः॥ धौम्यः कृष्णा च पार्थाश्च लोमशश्च महानृषिः। अगच्छन् सहितास्तत्र न कश्चिदवहीयते॥ ते मृगद्विजसंघुष्टं नानादुमलतायुतम्। शाखामृगगणैश्चैव सेवितं सुमनोरमम्॥ पुण्यं पद्मसरोयुक्तं सपल्वलमहावनम्। उपतस्थुर्महाभागा माल्यवन्तं महागिरिम्॥ ततः किम्पुरुषावासं सिद्धचारणसेवितम्। ददृशुर्हष्टरोमाणः पर्वतं गन्धमादनम्॥ विद्याधरानुचरितं किन्नरीभिस्तथैव च। गजसङ्घसमावासं सिंहव्याघ्रगणायुतम्॥ शरभोन्नादसंघुष्टं नानामृगनिषेवितम्। ते गन्धमादनवनं तन्नन्दनवनोपमम्॥ मुदिताः पाण्डुतनया मनोहृदयनन्दनम्। विविशुः क्रमशो वीराः शरण्यं शुभकाननम्॥ द्रौपदीसहिता वीरास्तैश्च विप्रैर्महात्मभिः। शृण्वन्तः प्रीतिजननान् वल्गून् मदकलाञ्छुभान्॥ श्रोत्ररम्यान् सुमधुराज्छब्दान् खगमुखरितान्। सर्वर्तुफलभाराढ्यान् सर्वर्तुकुसुमोज्ज्वलान्॥ पश्यन्तः पादपांश्चापि फलभारावनामितान्। आम्रनाम्रातकान् भव्यान् नारिकेलान् सतिन्दुकान्॥ मुञ्जातकांस्तथाञ्जीरान् दाडिमान् बीजपूरकान्। पनसॉल्लकुचान् मोचान् खजूरानम्लवेतसान्॥ पारावतांस्तथा क्षौद्रान् नीपांश्चापि मनोरमान्। बिल्वान् कपित्थाञ्जम्बूंश्च काश्मरीबंदरीस्तथा॥ प्लक्षानुदुम्बरबटानश्वत्थान् क्षीरिकांस्तथा। भल्लातकानामलकीहरीतकबिभीतकान्॥ इङ्गुदान् करमर्दाश्च तिन्दुकांश्च महाफलान्। एतानन्यांश्च विविधान् गन्धमादनसानुषु॥ फलैरमृतकल्पैस्तानाचितान् स्वादुभिस्तरून्। तथैव चम्पकाशोकान् केतकान् बकुलांस्तथा॥ पुन्नागान् सप्तपर्णाश्च कर्णिकारान् सकेतकान्। पाटलान् कुटजान् रम्यान् मन्दारेन्दीवरांस्तथा॥ पारिजातान् कोविदारान् देवदारुदुमांस्तथा। शालांस्तालास्तमालांच पिप्पलान् हिङ्गुकांस्तथा॥ शाल्मली: किंशुकाशोकाञ्छिशपाः सरलांस्तथा। चकोरैः शतपत्रैश्च भृङ्गराजैस्तथा शुकैः॥ कोकिलैः कलविहेच हारितैर्जीवजीविकैः। प्रियकैश्चातकैश्चैव तथान्यैर्विविधै खगैः॥ ओत्ररम्यं सुमधुरं कूजद्भिश्चात्यधिष्ठितान्। सरांसि च मनोज्ञानि समन्ताज्जलचारिभिः॥ कुमुदैः पुण्डरीकैश्च तथा कोकनदोत्पलैः। कलारैः कमलैश्चैव आचितानि समन्ततः॥ कादम्बैश्चक्रवाकैश्च कुररैर्जलकुक्कुटैः। कारण्डवैः प्लवैहसैर्बकैर्महगुभिरेव च॥ एतैश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः। हृष्टैस्तथा तामरसरसासवमदालसैः॥ पद्मोदरच्युतरजः किंजल्कारुणरञ्जितैः। मञ्जुस्वरैर्मधुकरैर्विरुतान् कमलाकरान्॥ अपश्यंस्ते नरव्याघ्रा गन्धमादनसानुषु। तथैव पद्मपण्डैश्च मण्डितांश्च समन्ततः॥ शिखण्डिनीभिः सहिताँल्लतामण्डलकेषु च। मेघतूर्यरवोद्दाममदनाकुलितान् भृशम्॥ कृत्वैव केकामधुरं संगीतं मधुरस्वरम्। चित्रान् कलापान् विस्तीर्य सविलासान् मदालसान्।। मयूरान् ददृशुर्हष्टान् नृत्यतो वनलालसान्। कांश्चित् प्रियाभिः सहितान् रममाणान् कलापिनः॥६२। वल्लीलतासंकटेषु कुटजेषु स्थितांस्तथा। कांश्चिच्च कुटजानां तु विटपेषूत्कटानिव्र॥ कलापरुचिराटोपनिचितान् मुकुटानिव। विवरेषु तरूणां च रुचिरान् ददृशुश्च ते॥ सिन्धुवारांस्तथोदारान् मन्मथस्येव तोमरान्। सुवर्णवर्णकुसुमान् गिरीणां शिखरेषु च॥ कर्णिकारान् विकसितान् कर्णपूरानिवोत्तमान्। तथापश्यन् कुरबकान् वनराजिषु पुष्पितान्॥ कामवश्यौत्सुक्यकरान् कामस्येव शरोत्करान्। तथैव वनराजीनामुदारान् रचितानिव॥ विराजमानांस्तेऽपश्यस्तिलकांस्तिलकानिव। तथानङ्गशराकारान् सहकारान् मनोरमान्॥ अपश्यन् भ्रमरारावान् मञ्जरीभिर्विराजितान्। हिरण्यसदृशैः पुष्पैर्दावाग्निसदृशैरपि॥ लोहितैरञ्जनाभैश्च वैदूर्यसदृशैरपि। अतीव वृक्षा राजन्ते पुष्पिता: शैलसानुषु॥ तथा शालांस्तमालांश्च पाटलान् बकुलानपि। माला इव समासक्ताः शैलानां शिखरेषु च॥ विमलस्फाटिकाभानि पाण्डुरच्छदनैर्द्विजैः। कलहंसैरुपेतानि सारसाभिरुतानि च॥ सरांसि बहुशः पार्थाः पश्यन्तः शैलासनुषु। पद्मोत्पलविमिश्राणि सुखशीतजलानि च।॥ एवं क्रमेण ते वीरा वीक्षमाणाः समन्ततः। गन्धवन्त्यथ माल्यानि रसवन्ति फलानि च॥ सरांसि च मनोज्ञानि वृक्षांश्चातिमनोरमान्। विविशुः पाण्डवाः सर्वे विस्मयोत्फुल्ललोचनाः॥ कमलोत्पलकह्लारपुण्डरीकसुगन्धिना। सेव्यमाना वने तस्मिन् सुखस्पर्शेन वायुना॥ ततो युधिष्ठिरो भीममाहेदं प्रीतिमद् वचः। अहो श्रीमदिदं भीम गन्धमादनकाननम्॥ वने ह्यस्मिन् मनोरम्ये दिव्याः काननजा द्रुमाः। लताश्च विविधाकाराः पत्रपुष्पफलोपगा:॥ भान्त्येते पुष्पविकचाः पुंस्कोकिलकुलाकुलाः। नात्र कण्टकिनः केचिन्न च विद्यन्त्यपुष्पिताः॥ स्निग्धपत्रफला वृक्षा गन्धमादनसानुषु। भ्रमरारावमधुरा नलिनी: फुल्लपङ्कजाः॥ विलोड्यमानाः पश्येमाः करिभिः सकरेणुभिः। पश्येमां नलिनी चान्यां कमलोत्पलमालिनीम्॥ स्रग्धरां विग्रहवती साक्षाच्छ्रियमिवापराम्। नानाकुसुमगन्धाढ्यास्तस्येमाः काननोत्तमे॥ उपगीयमाना भ्रमरै राजन्ते वनराजयः। पश्य भीम शुभान् देशान् देवाक्रीडान् समन्ततः॥८३। अमानुषगति प्राप्ताः संसिद्धाः स्म वृकोदर। लताभिः पुष्पिताग्राभिः पुष्पिताः पादपोत्तमाः॥ संश्लिष्टाः पार्थ शोभन्ते गन्धमादनसानुषु। शिखण्डिनीभिश्चरतां सहितानां शिखण्डिनाम्॥ नदतां शृणु निर्घोषं भीम पर्वतसानुषु। चकोराः शतपत्राश्च मत्तकोकिलसारिकाः॥ पत्रिणः पुष्पितानेतान् संपतन्नि महाद्दुमान्। रक्तपीतारुणाः पार्थ पादपाग्रगताः खगाः॥ परस्परमुदीक्षन्ते बहवो जीवजीवकाः। हरितारुणवर्णानां शाद्वलानां समीपतः॥ सारसाः प्रतिदृश्यन्ते शैलप्रस्रवणेष्वपि। वदन्ति मधुरा वाचः सर्वभूतमनोरमाः॥ भृङ्गराजोपचक्राश्च लोहपृष्ठाः पतत्त्रिणः। चतुर्विषाणाः पद्माभाः कुञ्जराः सकरेणवः॥ एते वैदूर्यवर्णाभं क्षोभयन्ति महत् सरः। बहुतालसमुत्सेधाः शैलशृङ्गपरिच्युताः॥ नानाप्रस्रवणेभ्यश्च वारिधाराः पतन्ति च। भास्कराभाः प्रभाभिश्च शारदाभ्रधनोपमाः॥ शोभयन्ति महाशैलं नानारजतधातवः। क्वचिदञ्जनवर्णाभाः क्वचित् काञ्चनसंनिभाः॥ धातवो हरितालस्य क्वचिद्धिमुलकस्य च। मनः शिलागुहाश्चैव सन्ध्याभ्रनिकरोपमाः॥ शशलोहितवर्णाभाः क्वचिनैरिकधातवः। सितासिताभ्रप्रतिमा बालसूर्यसमप्रभाः॥ एते बहुविधाः शैलं शोभयन्ति महाप्रभाः। गन्धर्वाः सह कान्ताभिर्यथोक्तं वृषपर्वणा॥ दृश्यन्ते शैलशृङ्गेषु पार्थ किम्पुरुषैः सह। गीतानां समतालानां तथा साम्नां च निःस्वनः॥ श्रूयते बहुधा भीम सर्वभूतमनोहरः। महागङ्गामुदीक्षस्व पुण्यां देवनदी शुभाम्॥ कलहंसगणैर्जुष्टामृषिकिन्नरसेविताम् धातुभिश्च सरिदिश्च किन्नरैर्मृगपक्षिभिः॥ गन्धर्वैप्सरोभिश्च काननैश्च मनोरमैः। व्यालैश्च विविधाकारैः शतशीषैः समन्ततः॥ उपेतं पश्य कौन्तेय शैलराजमरिन्दम। वैशम्पायन उवाच ते प्रीतमनसः शूराः प्राप्ता गमिमनुत्तमाम्॥ नातृप्यन् पर्वतेन्द्रस्य दर्शनेन परन्तपाः। उपेतमथ माल्यैश्च फलवद्भिश्च पादपैः॥ आष्टिषेणस्य राजर्षेराश्रमं ददृशुस्तदा। ततस्ते तिग्मतपसं कृशंधमनिसंततम्। पारगं सर्वधर्माणामार्टिषेणमुपागमन्॥ वैशम्पायन उवाच युधिष्ठिरस्तमासाद्य तपसा दग्धकिल्बिषम्। अभ्यवादयत प्रीतः शिरसा नाम कीर्तयन्॥ ततः कृष्णा च भीमश्च यमौ च सुतपस्विनौ। शिरोभिः प्राप्य राजर्षि परिवार्योपतस्थिरे॥ तथैवधौम्योधर्मज्ञः पाण्डवानां पुरोहितः। यथान्यायमुपाक्रान्तस्तमृषि संशितव्रतम्॥ कच्चित् ते अन्वजानात् सधर्मज्ञो मुनिर्दिव्येन चक्षुषा। पाण्डोः पुत्रान् कुरुश्रेष्ठानास्यतामिति चाब्रवीत्॥ कुरूणामृषभं पार्थं पूजयित्वा महातपाः। सह भ्रातृभिरासीनं पर्यपृच्छदनामयम्॥ नानृते कुरुषे भावं कच्चिद्धर्मे प्रवर्तसे। मातापित्रोश्च ते वृत्तिः कच्चित् पार्थ न सीदति॥ गुरवः सर्वे वृद्धा वैद्याश्च पूजिताः। कच्चिन्न कुरुषे भावं पार्थ पापेषु कर्मसु॥ सुकृतं प्रतिकर्तुं च कच्चिद्धातुं च दुष्कृतम्। यथान्यायं कुरुश्रेष्ठ जानासि न विकत्यसे॥ यथार्ह मानिताः कच्चित् त्वया नन्दन्ति साधवः। वनेष्वपि वसन् कच्चिद्धर्ममेवानुवर्तसे॥ कच्चिद्धौम्यस्त्वदाचारैर्न पार्थ परितप्यते। दानधर्मतप:शौचैरार्जवेन तितिक्षया॥ पितृपैतामहं वृत्तं कच्चित् पार्थानुवर्तसे। कच्चिद् राजर्षियातेन पथा गच्छसि पाण्डव॥ स्वे स्वे किल कुले जाते पुत्रे नप्तरि वा पुनः। पितरः पितृलोकस्था: शोचन्ति च हसन्ति च॥ किं तस्य दुष्कृतेऽस्माभिः सम्प्राप्तव्यं भविष्यति। किं चास्य सुकृतेऽस्माभिः प्राप्तव्यमिति शोभनम्॥ पिता माता तथैवाग्निर्गुरुरात्मा च पञ्चमः। यस्यैते पूजिताः पार्थ तस्या लोकावुभौ जितौ॥ युधिष्ठिर उवाच भगवन्नार्थ माहैतद् यथावद्धर्मनिश्चयम्। यथाशक्ति यथान्यायं क्रियते विधिवन्मया॥ आष्टिषेण उवाच अभक्षा वायुभक्षाश्च प्लवमाना विहायसा। जुषन्ते पर्वतश्रेष्ठमृषयः पर्वसंधिषु॥ कामिनः सह कान्ताभिः परस्परमनुव्रताः। दृश्यन्ते शैलशृङ्गस्था यथा किम्पुरुषा नृप॥ अरजांसि च वासांसि वसानाः कौशिकानि च। दृश्यन्ते बहवः पार्थ गन्धर्वाप्सरसां गणाः॥ विद्याधरगणाश्चैव स्रग्विणः प्रियदर्शनाः। महोरगगणाश्चैव सुपर्णाश्चोरगादयः॥ अस्य चोपरि शैलस्य श्रूयते पर्वसंधिषु। भेरीपणपवशङ्खानां मृदङ्गानां च निःस्वनः॥ इहस्थैरेव तत् सर्वं श्रोतव्यं भरतर्षभाः। न कार्या वः कथंचित् स्यात् तत्राभिगमने मतिः॥ न चाप्यतः परं शक्यं गन्तुं भरतसत्तमाः। विहारो ह्यत्र देवानाममानुषगतिस्तु सा॥ ईषच्चपलकर्माणं मनुष्यमिह भारत। द्विषन्ति सर्वभूतानि ताडयन्ति च राक्षसाः॥ अस्यातिक्रम्य शिखरं कैलासस्य युधिष्ठिर। गतिः परमसिद्धानां देवर्षीणां प्रकाशते॥ चापलादिह गच्छन्तं पार्थ यानमितः परम्। अयः शूलादिभिर्जन्ति राक्षसाः शत्रुसूदन॥ अप्सरोभिः परिवृतः समृद्ध्या नरवाहनः। इह वैश्रवणस्तात पर्वसंधिषु दृश्यते॥ शिखरस्थं समासीनमधिपं यक्षरक्षसाम्। प्रेक्षन्ते सर्वभूतानि भानुमन्तमिवोदितम्॥ देवदानवसिद्धानां तथा वैश्रवणस्य च। गिरेः शिखरमुद्यानमिदं भरतसत्तम।॥ उपासीनस्यधनदं तुम्बुरोः पर्वसंधिषु। गीतसामस्वनस्तात श्रूयते गन्धमादने॥ एतदेवंविधं चित्रमिह तात युधिष्ठिर। प्रेक्षन्ते सर्वभूतानि बहुशः पर्वसंधिषु॥ भुञ्जाना मुनिभोज्यानि रसवन्ति फलानि च। वसध्वं पाण्डवश्रेष्ठा यावदर्जुनदर्शनात्॥ न तात चफ्लैर्भाव्यमिह प्राप्तैः कथंचन। उषित्वेह यथाकामं यथाश्रद्धं विहृत्य च। ततः शस्त्रजितां तात पृथिवीं पालयिष्यसि॥ जनमेजय उवाच आर्टिषेणाश्रमे तस्मिन् मम पूर्वपितामहाः। पाण्डोः पुत्रा महात्मानः सर्वे दिव्यपराक्रमाः॥ कियन्तं कालमवसन् पर्वते गन्धमादने। किं च चक्रुर्महावीर्याः सर्वेऽतिबलपौरुषाः॥ कानि चाभ्यवहार्याणि तत्र तेषां महात्मनाम्। वसतां लोकवीराणामासंस्तद् ब्रूहि सत्तम॥ विस्तरेण च मे शंस भीमसेनपराक्रमम्। यद् यच्चक्रे महाबाहुस्तस्मिन् हैमवते गिरौ॥ न खल्वासीत् पुनयुद्धं तस्य यक्षैर्द्विजोत्तम। कच्चित् समागमस्तेषामासीद् वैश्रवणस्य च॥ तत्र ह्यायातिधनद आर्टिषेणो यथाब्रवीत्। एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन॥ न हि मे शृण्वतस्तृप्तिरस्ति तेषां विचेष्टितम्। वैशम्पायन उवाच एतदात्महितं श्रुत्वा तस्याप्रतिमतेजसः॥ शासनं सततं चक्रुस्तथैव भरतर्षभाः। भुञ्जाना मुनिभोज्यानि रसवन्ति फलानि च॥ मेध्यानि हिमवत्पृष्ठे मधूनि विविधानि च। एवं ते न्यवसंस्तत्र पाण्डवा भरतर्षभाः॥ तथा निवसतां तेषां पञ्चमं वर्षमभ्यगात्। शृण्वतां लोमशोक्तानि वाक्यानि विविधान्युत॥ कृत्यकाल उपस्थास्य इति चोक्त्वा घटोत्कचः। राक्षसैः सह सर्वैश्च पूर्वमेव गतः प्रभो॥ आर्टिषेणाश्रमे तेषां वसतां वै महात्मनाम्। अगच्छन् बहवो मासाः पश्यतां महदद्भुतम्॥ तैस्तत्र विहरद्भिश्च रममाणैश्च पाण्डवैः। प्रीतिमन्तो महाभागा मुनय.श्चारणास्तथा॥ आजग्मुः पाण्डवान् द्रष्टुं शुद्धात्मानो यतव्रताः। ते तैः सह कथां चक्रुर्दिव्यां भरतसत्तमाः॥ ततः कतिपयाहस्य महाह्रदनिवासिनम्। ऋद्धिमन्तं महानागं सुपर्णः सहसाऽऽहरत्॥ प्राकम्पत महाशैलः प्रामृद्यन्त महाद्रुमाः। ददृशुः सर्वभूतानि पाण्डवाश्च तदद्भुतम्॥ ततः शैलोत्तमस्याचात् पाण्डवान् प्रति मारुतः। अवहत् सर्वमाल्यानि गन्धवन्ति शुभानि च॥ तत्र पुष्पाणि दिव्यानि सुहृद्भिः सह पाण्डवाः। ददृशुः पञ्चवर्णानि द्रौपदी च यशस्विनी॥ भीमसेनं ततः कृष्णा काले वचनमब्रवीत्। विविक्ते पर्वतोद्देशे सुखासीनं महाभुजम्॥ सुपर्णानिलवेगेन श्वसनेन महाचलात्। पञ्चवर्णानि पात्यन्ते पुष्पाणि भरतर्षभ।॥ प्रत्यक्षं सर्वभूतानां नदीमश्वरथां प्रति। खाण्डवे सत्यसंधेन भ्रात्रा तव महात्मना॥ गन्धर्वोरगरक्षांसि वासवश्च निवारितः। हता मायाविनश्चोचाधनुः प्राप्तं च गाण्डिवम्॥ तवापि सुमहत् तेजो महद् बाहुबलं च ते। अविषह्यमनाधृष्यं शक्रतुल्यपराक्रम॥ त्वद्वाहुबलवेगेन त्रासिताः सर्वराक्षसाः। हित्वा शैलं प्रपद्यन्तां भीमसेन दिशो दश।॥ ततः शैलोत्तमस्याचं चित्रमाल्यधरं शिवम्। व्यपेतभयसम्मोहाः पश्यन्तु सुहृदस्तव॥ एवं प्रणिहितं भीम चिरात् प्रभृति मे मनः। द्रष्टुमिच्छामि शैलाचं त्वद्वाहुबलपालिता।॥ ततः क्षिप्तमिवात्मानं द्रौपद्या स परंतपः। नामृष्यत महाबाहुः प्रहारमिव सद्भवः॥ सिंहर्षभगतिः श्रीमानुदारः कनकप्रभः। मनस्वी बलवान् दृप्तो मानी शूरश्च पाण्डवः॥ लोहिताक्षः पृथुव्यंसो मत्तवारणविक्रमः। सिंहदंष्ट्रो बृहत्स्कन्धः शालपोत इवोद्गतः॥ महात्मा चारुसर्वाङ्गः कम्बुग्रीवो महाभुजः। रुक्मपृष्ठंधनुः खङ्गं तूणांश्चाप परामृशत्॥ स केसरीव चोत्सिक्तः प्रभिन्न इव वारणः। व्यपेतभयसम्मोहः शैलमभ्यपतद् बली॥ तं मृगेन्द्रमिवायान्तं प्रभिन्नमिव वारणम्। ददृशुः सर्वभूतानि बाणकार्मुकधारिणम्॥ द्रौपद्या वर्धयन् हर्षं गदामादाय पाण्डवः। व्यपेतभयसम्मोहः शैलराजं समाश्रितः॥ न ग्लानि च कातर्यं न वैक्लव्यं न मत्सरः। कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः॥ तदेकायनमासाद्य विषमं भीमदर्शनम्। बहुतालोच्छ्रयं शृङ्गमारुरोह महाबलः॥ सकिन्नरमहानागमुनिगन्धर्वराक्षसान्। हर्षयन् पर्वतस्याचमारुह्य स महाबलः॥ ततो वैश्रवणावासं ददर्श भरतर्षभः। काञ्चनैः स्फाटिकैश्चैव वेश्मभिः समलंकृतम्॥ प्राकारेण परिक्षिप्तं सौवर्णेन समन्ततः। सर्वरत्नद्युतिमता सर्वोद्यानवता तथा॥ शैलादभ्युच्छ्यवता चयाट्टालकशोभिना। द्वारतोरणनिर्वृहध्वजसंवाहशोभिना॥ विलासिनीभिरत्यर्थं नृत्यन्तीभिः समन्ततः। वायुनाधूयमानाभिः पताकाभिरलंकृतम्॥ धनुष्कोटिमवष्टभ्य वक्रभावेन बाहुना। पश्यमानः स खेदेन द्रविणाधिपतेः पुरम्॥ मोदयन् सर्वभूतानि गन्धमादनसम्भवः। सर्वगन्धवहस्तत्र मारुतः सुसुखो ववौ॥ चित्रा.विविधवर्णाभाश्चित्रमञ्जरिधारिणः। अचिन्त्या विविधास्तत्र दुमाः परमशोभिनः॥ रत्नजालपरिक्षिप्तं चित्रमाल्यविभूषितम्। राक्षसाधिपतेः स्थानं ददृशे भरतर्षभः॥ गदाखड्गधनुष्पाणिः समभित्यक्तजीवितः। भीमसेनो महाबाहुस्तस्थौ गिरिरिवाचलः॥ ततः शङ्खमुपाध्मासीद द्विषतां लोमहर्षणम्। ज्याघोषतलशब्दं च कृत्वा भूतान्यमोहयत्॥ ततः प्रहृष्टरोमाणस्तं शब्दमभिदुद्रुवुः। यक्षराक्षसगन्धर्वाः पाण्डवस्य समीपतः॥ गदापरिघनिस्त्रिंशशूलशक्तिपरश्वधाः। प्रगृहीता व्यरोचन्त यक्षराक्षसबाहुभिः॥ ततः प्रववृते युद्धं तेषां तस्य च भारत। : प्रयुक्तान् महामायैः शूलशक्तिपरश्वधान्॥ भल्लैर्भीमः प्रचिच्छेद भीमवेगतरैस्ततः। अन्तरिक्षगतानां च भूमिष्ठानां च गर्जताम्॥ शरैविव्याध गात्राणि राक्षसानां महाबलः। सा लोहितमहावृष्टिरभ्यवर्षन्महाबलम्॥ गदापरिघपाणीनां रक्षसां कायसम्भवाः। कायेभ्यः प्रच्युताधारा राक्षसानां समन्ततः॥ तैः भीमबाहुबलोत्सृष्टैरायुधैर्यक्षरक्षसाम्। विनिकृत्तानि दृश्यन्ते शरीराणि शिरांसि च॥ प्रच्छाद्यमानं रक्षोभिः पाण्डवं प्रियदर्शनम्। ददृशुः सर्वभूतानि सूर्यमभ्रगणैरिव॥ स रश्मिभिरिवादित्यः शरैररिनिधातिभिः। सर्वानार्छन्महाबाहुर्बलवान् सत्यविक्रमः॥ अभितर्जयमानाश्च रुवन्तश्च महारवान्। न मोहं भीमसेनस्य ददृशुः सर्वराक्षसाः॥ यक्षा विकृतसर्वाङ्गा भीमसेनभयार्दिताः। भीममार्तस्वरं चक्रुर्विप्रकीर्णमहायुधाः॥ उत्सृज्य ते गदाशूलानसिशक्तिपरश्वधान्। दक्षिणां दिशमाजग्मुस्त्रासिता दृढधन्वना॥ तत्र शूलगदापाणियूंढोरस्को महाभुजः। सखा वैश्रवणस्यासीन्मणिमात्राम राक्षसः॥ अदर्शयदधीकारं पौरुषं च महाबलः। स तान् दृष्ट्वा परावृत्तान् स्मयमान इवाब्रवीत्॥ एकेन बहवः सङ्खये मानुषेण पराजिताः। प्राप्य वैश्रवणावासं किं वक्ष्यथधनेश्वरम्॥ एवमाभाष्य तान् सर्वानभ्यवर्तत राक्षसः। शक्तिशूलगदापाणिरभ्यधावत् स पाण्डवम्॥ तमापतन्तं वेगेन प्रभिन्नमिव वारणम्। वत्सदन्तैस्त्रिभिः पार्श्वे भीमसेनः समार्दयत्॥ मणिमानपि संक्रुद्धः प्रगृह्य महतीं गदाम्। प्राहिणोद् भीमसेनाय परिगृह्य महाबलः॥ विद्युदूपां महाघोरामाकाशे महतीं गदाम्। शरैबर्हभिरभ्या द् भीमसेनः शिलाशितैः॥ प्रत्यहन्यन्त ते सर्वे गदामासाद्य सायकाः। न वेगंधारयामासुर्गदावेगस्य वेगिताः॥ गदायुद्धसमाचारं बुद्ध्यमानः स वीर्यवान्। व्यंसयामास तं तस्य प्रहारं भीमविक्रमः॥ ततः शक्तिं महाधोरां रुक्मदण्डामयस्मयीम्। तस्मिन्नेवान्तरेधीमान् प्रजहाराथ राक्षसः॥ सा भुर्ज भीमनिर्हादा भित्त्वा भीमस्य दक्षिणम्। साग्निज्वाला महारौद्रा पपात सहसा भुवि॥ सोऽतिविद्धो महेष्वासः शक्त्यामितपराक्रमः। गदां जचाह कौन्तेयः क्रोधपर्याकुलेक्षणः॥ रक्मपट्टपिनद्धां तां शत्रूणां भयवर्धिनीम्। प्रगृह्याथ नदन भीमः शैक्यां सर्वायसीं गदाम्॥ तरसा चाभिदुद्राव मणिमन्तं महाबलम्। दीप्यमानं महाशूलं प्रगृह्य मणिमानपि॥ प्राहिणोद् भीमसेनाय वेगेन महता नदन्। भक्त्वा शूलं गदाचेण गदायुद्धविशारदः॥ अभिदुद्राव तं हन्तुं गरुत्मानिव पन्नगम्। सोऽन्तरिक्षमवप्लुत्य विधूय सहसा गदाम्॥ प्रविक्षेप महाबाहुर्विनद्य रणमूर्धनि। सेन्द्राशनिरिवेन्द्रेण विसृष्टा वातरंहसा॥ हत्वा रक्षः क्षितिं प्राप्य कृत्येव निपपात ह। तं राक्षसं भीमबलं भीमसेनेन पातितम्॥ ददृशुः सर्वभूतानि सिंहेनेव गवां पतिम्। तं प्रेक्ष्य निहतं भूमौ हतशेषा निशाचराः। भीममार्तस्वरं कृत्वा जग्मुः प्राची दिशं प्रति॥ वैशम्पायन उवाच श्रुत्वा बहुविधैः शब्दैर्नाद्यमानां गिरेर्गुहाम्। अजातशत्रुः कौन्तेयो माद्रीपुत्रावुभावपि॥ धौम्यः कृष्णा च विप्राश्च सर्वे च सुहृदस्तथा। भीमसेनमपश्यन्तः सर्वे विमनसोऽभवन्॥ द्रौपदीमार्षिणाय सम्प्रधार्य महारथाः। सहिताः सायुधाः शूराः शैलमारुरुहुस्तदा।॥ ततः सम्प्राप्य शैलाचं वीक्षमाणा महारथाः। ददृशुस्ते महेष्वासा भीमसेनमरिंदमाः॥ स्फुरतश्च महाकायान् गतसत्त्वांश्च राक्षसान्। महाबलान् महासत्त्वान् भीमसेनेन पातितान्॥ शुशुभे स महाबाहुर्गदाखड्गधनुधरः। निहत्य समरे सर्वान् दानवान् मघवानिव॥ ततस्ते भ्रातरं दृष्ट्वा परिष्वज्य महारथाः। तत्रोपविविशुः पार्थाः प्राप्ता गतिमनुत्तमाम्॥ तैश्चतुर्भिर्महेष्वासैर्गिरिशृङ्गमशोभता लोकपालैर्महाभागैर्दिवं देववरैरिव॥ कुबेरसदनं दृष्ट्वा राक्षसांश्च निपातितान्। भ्राता भ्रातरमासीनमब्रवीत् पृथिवीपतिः॥ युधिष्ठिर उवाच साहसाद् यदि वा मोहाद् भीम पापमिदं कृतम्। नैतत् ते सदृशं वीर मुनेरिव मृषा वधः॥ राजद्विष्टं न कर्तव्यमितिधर्मविदो विदुः। त्रिदशानामिदं द्विष्टं भीमसेन त्वया कृतम्॥ अर्थधर्मावनादृत्य यः पापे कुरुते मनः। कर्मणां पार्थ पापानां स फलं विन्दतेधुवम्। पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम्॥ वैशम्पायन उवाच एवमुक्त्वा सधर्मात्मा भ्राता भ्रातरमच्युतम्। अर्थतत्त्वविभागज्ञः कुन्तीपुत्रो युधिष्ठिरः॥ विरराम महातेजास्तमेवार्थं विचिन्तयन्। ततस्ते हतशिष्टा ये भीमसेनेन राक्षसाः॥ सहिताः प्रत्यपद्यन्त कुबेरसदनं प्रति। ते जवेन महावेगाः प्राप्य वैश्रवणालयम्॥ भीममार्तस्वरं चक्रुर्भीमसेनभयार्दिताः। न्यस्तशस्त्रायुधाः क्लान्तः शोणिताक्ततनुच्छदाः॥ प्रकीर्णमूर्धजा राजन् यक्षाधिपतिमब्रुवन्। गदापरिघनिस्त्रिंशतोमरप्रासयोधिनः॥ राक्षसा निहताः सर्वे तव देव पुरःसराः। प्रमृद्य तरसा शैलं मानुषेणधनेश्वर।॥ एकेन सहिताः सङ्घये रणे क्रोधवशा गणाः।। प्रवरा राक्षसेन्द्राणां यक्षाणां च नराधिप॥ शेरते निहता देव गतसत्त्वाः परासवः। लब्धशेषा वयं मुक्ता मणिमांस्ते सखा हतः॥ मानुषेण कृतं कर्म विधत्स्व यदनन्तरम्। स तच्छ्रुत्वा तु संक्रुद्धः सर्वयक्षगणाधिपः॥ कोपसंरक्तनयनः कथमित्यब्रवीद् वचः। द्वितीयमपराध्यन्तं भीमं श्रुत्वाधनेश्वरः॥ चुक्रोध यक्षाधिपतिर्युज्यतामिति चाब्रवीत्। अथाभ्रघनसंकाशं गिरिशृङ्गमिवोच्छ्रितम्॥ रथं संयोजयामासुर्गन्धर्हममालिभिः। तस्य सर्वगुणोपेता विमलाक्षा हयोत्तमाः॥ तेजोबलगुणोपेता नानारत्नविभूषिताः। शोभमाना रथे युक्तास्तरिष्यन्त इवाशुगाः॥ द्वेषयामासुरन्योन्यं हृषितैर्विजयावहैः। स तामस्थाय भगवान् राजराजो महारथम्॥ प्रययौ देवगन्धर्वैः स्तूयमानो महाद्युतिः। तं प्रयान्तं महात्मानं सर्वे यक्षाधनाधिपम्॥ रक्ताक्षा हेमसंकाशा महाकाया महाबलाः। सायुधा बद्धनिस्त्रिंशा यक्षा दशशतावराः॥ ते जवेन महावेगाः प्लवमाना विहायसा। गन्धमादनमाजग्मुः प्रकर्षन्त इवाम्बरम्॥ तत् केसरिमहाजालंधनाधिपतिपालितम्। कुबेरं च महात्मानं यक्षरक्षोगणावृतम्॥ ददृशुर्हष्टरोमाणः पाण्डवाः प्रियदर्शनम्। कुबेरस्तु महासत्त्वान् पाण्डोः पुत्रान् महारथान्॥ आत्तकार्मुकनिस्त्रिंशान् दृष्ट्वा प्रीतोऽभवत् तदा। देवकार्यं चिकीर्षन् स हृदयेन तुतोष ह॥ ते पक्षिण इवापेतुर्गिरिशृङ्ग महाजवाः। तस्थुस्तेषां समभ्याशेधनेश्वरपुरःसराः॥ ततस्तं हृष्टमनसं पाण्डवान् प्रति भारत। समीक्ष्य यक्षगन्धर्वा निर्विकारमवस्थिताः॥ पाण्डवाश्च महात्मानः प्रणम्यधनदं प्रभुम्। नकुलः सहदेवश्चधर्मपुत्रश्चधर्मवित्॥ अपराद्धमिवात्मानं मन्यमाना महारथाः। तस्थुः प्राञ्जलयः सर्वे परिवार्यधनेश्वरम्॥ स ह्यासनवरं श्रीमत् पुष्पकं विश्वकर्मणा। विहितं चित्रपर्यन्तमातिष्ठतधनाधिपः॥ तमासीनं महाकायाः शङ्कुकर्णा महाजवाः। उपोपविविशुर्यक्षा राक्षसाश्च सहस्रशः॥ शतशश्चापि गन्धर्वास्तथैवाप्सरसां गणाः। परिवार्योपतिष्ठन्त यथा देवाः शतक्रतुम्॥ काञ्चनीं शिरसा बिभ्रद् भीमसेनः स्रजं शुभाम्। पाशखड्गधनुष्पाणिरुदैक्षतधनाधिपम्॥ भीमसेनस्य न ग्लानिर्विक्षतस्यापि राक्षसैः। आसीत् तस्यामवस्थायां कुबेरमपि पश्यतः॥ आददानं शितान् बाणान् यो काममवस्थितम्। दृष्ट्वा भीमंधर्मसुतमब्रवीन्नरवाहनः॥ विदुस्त्वां सर्वभूतानि पार्थ भूतहिते रतम्। निर्भयश्चापि शैलाचे वस त्वं भ्रातृभिः सह॥ न च मन्युस्त्वया कार्यो भीमसेनस्य पाण्डव। कालेनैते हताः पूर्वं निमित्तमनुजस्त्व।॥ व्रीडा चात्र न कर्तव्या साहसं यदिदं कृतम्। दृष्टश्चापि सुरैः पूर्वं विनाशो यक्षरक्षसाम्॥ न भीमसेने कोपो मे प्रीतोऽस्मि भरतरर्षभ। कर्मणः भीमसेनस्य मम तुष्टिरभूत् पुरा॥ वैशम्पयान उवाच एवमुक्त्वा तु राजानं भीमसेनमभाषत। नैतन्मनसि मे तात वर्तते कुरुसत्तम॥ यदिदं साहसं भीम कृष्णार्थे कृतवानसि। मामनादृत्य देवांश्च विनाशं यक्षरक्षसाम्॥ स्वबाहुबलमाश्रित्य तेनाहं प्रीतिमांस्त्वयि। शापादद्य विनिर्मुक्तो घोरदस्मि वृकोदर॥ अहं पूर्वमगस्त्येन कुद्धेन परमर्षिणा। शप्तोऽपराधे कस्मिंश्चित् तस्यैषा निष्कृतिः कृता॥ दृष्टो हि मम संक्लेशः पुरा पाण्डवनन्दन। न तवात्रापराधोऽस्ति कथंचिदपि पाण्डव॥ युधिष्ठिर उवाच कथं शप्तोऽसि भगवन्नगस्त्येन महात्मना। श्रोतुमिच्छाम्यहं देव तवैतच्छापकारणम्॥ इदं चाश्चर्यभूतं मे यत् क्रोधात् तस्यधीमतः। तदैव त्वं न निर्दग्धः सबल: सपदानुगः॥ धनेश्वर उवाच देवतानामभू-मन्त्रः कुशवत्यां नरेश्वर। वृतस्तत्राहमगमं महापद्मशतैस्त्रिभिः॥ यक्षाणां घोररूपाणां विविधायुधधारिणाम्। अध्वन्यहमथापश्यमगस्त्यमृषिसत्तमम्॥ उग्रं तपस्तप्यमानं यमुनातीरमाश्रितम्। नानापक्षिगणाकीर्णं पुष्पितद्रुमशोभितम्॥ तमूर्ध्वबाहुं दृष्टैव सूर्यस्याभिमुखे स्थितम्। तेजोराशिं दीप्यमानं हुताशनमिवैधितम्॥ राक्षसाधिपतिः श्रीमान् मणिमानाम मे सखा। मौदज्ञानभावाच्च दर्पान्मोहाच्च पार्थिव॥ न्यष्ठीवदाकाशगतो महर्षेस्तस्य मूर्धनि। स कोपान्मामुवाचेदं दिशः सर्वा दहन्निव॥ मामवज्ञाय दुष्टात्मा यस्मादेव सखा तव। धर्षणां कृतवानेतां पश्यतस्तेधनेश्वर॥ तस्मात् सहैभिः सैन्यैस्ते वधं प्राप्स्यति मानुषात्। त्वं चाप्येभिर्हतैः सैन्यैः क्लेशं प्राप्येह दुर्मतिः। तमेव मानुषं दृष्ट्वा किल्बिषाद् विप्रमोक्ष्यसे॥ सैन्यानां तु तवैतेषां पुत्रपौत्रबलान्वितम्। न शापं प्राप्यते घोरं तत् तवाज्ञां करिष्यति॥ एष शापो मय प्राप्तः प्राक् तस्मादृषिसत्तमात्। स भीमेन महाराज भ्रात्रा तव विमोक्षितः॥ धनद उवाच युधिष्ठिरधृतिर्दाक्ष्यं देशकालपराक्रमाः। लोकतन्त्रविधानानामेष पञ्चविधो विधिः॥ धृतिमन्तश्च दक्षाश्च स्वे स्वे कर्मणि भारत। पराक्रमविधानज्ञा नरा कृतयुगेऽभवन्॥ धृतिमान् देशकालज्ञः सर्वधर्मविधानवित्। क्षत्रियः क्षत्रियश्रेष्ठ प्रशास्ति पृथिवी चिरम्॥ य एवं वर्तते पार्थ पुरुषः सर्वकर्मसु। स लोके लभते वीर यशः प्रेत्य च सद्गतिम्॥ देशकालान्तरप्रेप्सुः कृत्वा शक्रः पराक्रमम्। सम्प्राप्तस्त्रिदिवे राज्यं वृत्रहा वसुभिः सह॥ यस्तु केवलसंरम्भात् प्रपातं न निरीक्षते। पापात्मा पापबुद्धिर्यः पापमेवानुवर्तते॥ कर्मणामविभागज्ञः प्रेत्य चेह विनश्यति। अकालज्ञः सुदुर्मेधाः कार्याणामविशेषवित्॥ वृथाऽचारसमारम्भः प्रेत्य चेह विनश्यति। साहसे वर्तमानानां निकृतीनां दुरात्मनाम्॥ सर्वसामर्थ्यलिप्सूनां पापो भवति निश्चयः। अधर्मज्ञोऽवलिप्तश्च बालबुद्धिरमर्षणः॥ निर्भयो भीमसेनोऽयं तं शाधि पुरुषर्षभ। आर्टिषेणस्य राजर्षेः प्राप्य भूयस्त्वमाश्रमम्॥ तामिस्रं प्रथमं पक्षं वीतशोकभयो वस। अलकाः सह गन्धर्वैर्यक्षाश्च सह किन्नरैः॥ मन्नियुक्ता मनुष्येन्द्र सर्वे च गिरिवासिनः। रक्षिष्यन्ति महाबाहो सहितं द्विजसत्तमैः॥ साहसादनुसम्प्राप्तः प्रतिबुध्य वृकोदरः। वार्यतां साध्वयं राजंस्त्वयाधर्मभृतां वर॥ अतः परं च वो राजन् द्रक्ष्यन्ति वनगोचराः। उपस्थास्यन्ति वो राजन् रक्षिष्यन्ते च वः सदा॥ तथैव चान्नपानानि स्वादूनि च बहूनि च। आहरिष्यन्ति मत्प्रेष्याः सदा वः पुरुषर्षभाः॥ यथा जिष्णुर्महेन्द्रस्य यथा वायोवृकोदरः। धर्मस्य त्वं यथा तात योगोत्पन्नो निजः सुतः॥ आत्मजावात्मसम्पन्नौ यमौ चोभौ यथाश्विनोः। रक्ष्यास्तद्वन्ममापीह यूयं सर्वे युधिष्ठिर॥ अर्थतत्त्वविधानज्ञः सर्वधर्मविधानवित्। भीमसेनादवरजः फाल्गुनः कुशली दिवि॥ याः काश्चन मता लोके स्वाः परमसम्पदः। जन्मप्रभृति ताः सर्वाः स्थितास्तातधनंजये।॥ दमो दानं बलं बुद्धिींकृतिस्तेज उत्तमम्। एतान्यपि महासत्त्वे स्थितान्यमिततेजसि॥ न मोहात् कुरुते जिष्णुः कर्म पाण्डव गर्हितम्। न पार्थस्य मृषोक्तानि कथयन्ति नरा नृषु॥ स देवपितृगन्धर्वैः कुरूणां कीर्तिवर्धनः। मानितः कुरुतेऽस्त्राणि शक्रसद्मनि भारत।॥ योऽसौ सर्वान् महीपालान् धर्मेण वशमानयत्। स शान्तनुर्महातेजाः पितुस्तव पितामहः॥ प्रीयते पार्थ पार्थेन दिवि गाण्डीवधन्वना। सम्यक् चासौ महावीर्यः कुलधुर्येण पार्थिवः॥ पितॄन् देवानृषीन् विप्रान् पूजयित्वा महातपाः। सप्त मुख्यान् महामेधानाहरद् यमुनां प्रति॥ अधिराजः स राजंस्त्वां शान्तनुः प्रपितामहः। स्वर्गजिच्छक्रलोकस्थः कुशलं परिपृच्छति॥ वैशम्पायन उवाच एतच्छ्रुत्वा तु वचनंधनदेन प्रभाषितम्। पाण्डवाश्च ततस्तेन बभूवुः सम्प्रहर्षिताः॥ ततः शक्तिं गदां खड्धनुश्च भरतर्षभः। प्राध्वं कृत्वा नमश्चक्रे कुबेराय वृकोदरः॥ ततोऽब्रवीद्धनाध्यक्षः शरण्यः शरणागतम्। मानहा भव शत्रूणां सुहृदां नन्दिवर्धनः॥ स्वेषु वेश्मसु रम्येषु वसतामित्रतापनाः। काभान्न परिहास्यन्ति यक्षा वो भरतर्षभाः।॥ शीघ्रमेव गुडाकेशः कृतास्त्रः पुनरेष्यति। साक्षान्मघवता सृष्टः सम्प्राप्स्यतिधनंजयः॥ एवमुत्तमकर्माणमनुशिष्य युधिष्ठिरम्। श्वेतं गिरिवरश्रेष्ठं प्रययौ गुह्यकाधिपः॥ तं परिस्तोमसंकीर्णैर्नानारत्नविभूषितैः। यानैरनुययुर्यक्षा राक्षसाश्च सहस्रशः॥ पक्षिणामिव निर्घोषः कुबेरसदनं प्रति। बभूव परमाश्वानामैरावतपथे यथा॥ ते जग्मुस्तूर्णमाकाशंधनाधिपतिवाजिनः। प्रकर्षन्त इवाभ्राणि पिबन्त इव मारुतम्॥ ततस्तानि शरीराणि गतसत्त्वानि रक्षसाम्। अपाकृष्यन्त शैलाचाद्धनाधिपतिशासनात्॥ तेषां हि शापकालः स कृतोऽगस्त्येनधीमता। समरे निहतास्तस्माच्छापस्यान्तोऽभवत् तदा॥ पाण्डवाश्च महात्मानस्तेषु वेश्मसु तां क्षपाम्। सुखमूषुर्गतोद्वेगा: पूजिताः सर्वराक्षसैः॥ वैशम्पायन उवाच ततः सूर्योदयेधौम्यः कृत्वाऽऽछिकमरिंदम्। आर्टिषेणेन सहितः पाण्डवानभ्यवर्तत॥ तेऽभिवाद्याष्टिषेणस्य पादौधौम्यस्य चैव ह। ततः प्राञ्जलयः सर्वे ब्राह्मणांस्तानपूजयन्॥ ततो युधिष्ठिरंधौम्यो गृहीत्वा दक्षिणे करे। प्राची दिशमभिप्रेक्ष्य महर्षिरिदमब्रवीत्॥ असौ सागरपर्यन्तां भूमिमावृत्य तिष्ठति। शैलराजो महाराज मन्दरोऽति विराजते॥ इन्द्रवैश्रवणावेतां दिशं पाण्डव रक्षतः। पर्वतैश्च वनान्तैश्च काननैश्चैव शोभिताम्॥ एतदाहुर्महेन्द्रस्य राज्ञो वैश्रवणस्य च। ऋषयः सर्वधर्मज्ञाः सद्म तात मनीषिणः॥ अतश्चोद्यन्तमादित्यमुपतिष्ठन्ति वै प्रजाः। ऋषयश्चापिधर्मज्ञाः सिद्धाः साध्याश्च देवताः॥ यमस्तु राजाधर्मज्ञः सर्वप्राणभृतां प्रभुः। प्रेतसत्त्वगतिं ह्येनां दक्षिणामाश्रितो दिशम्॥ एतत् संयमनं पुण्यमतीवाद्भुतदर्शनम्। प्रेतराजस्य भवनमृद्ध्या परमया युतम्॥ यं प्राप्य सविता राजन् सत्येन प्रतितिष्ठति। अस्तं पर्वताराजानमेतमाहुर्मनीषिणः॥ एतं पर्वतराजानं समुद्रं च महोदधिम्। आवसन् वरुणो राजा भूतानि परिरक्षति॥ उदीची दीपयन्नेष दिशं तिष्ठति वीर्यवान्। महामेरुर्महाभाग शिवो ब्रह्मविदां गतिः॥ यस्मिन् ब्रह्मसदश्चैव भूतात्मा चावतिष्ठते। प्रजापतिः सृजन् सर्वं यत् किञ्चिज्जङ्गमागमम्॥ यानाहुर्ब्रह्मणः पुत्रान् मानसान् दक्षसप्तमान्। तेषामपि महामेरुः शिवं स्थानमनामयम्॥ अत्रैव प्रतितिष्ठन्ति पुनरेवोदयन्ति च। सप्त देवर्षयस्तात वसिष्ठप्रमुखाः सदा॥ देशं विरजसं पश्य मेरोः शिखरमुत्तमम्। यत्रात्मतृप्तरध्यास्ते देवैः सह पितामहः॥ यमाहुः सर्वभूतानां प्रकृतेः प्रकृतिंध्रुवम्। अनादिनिधनं देवं प्रभुं नारायणं परम्॥ ब्रह्मणः सदनात् तस्य परं स्थान प्रकाशते। देवा अपि न पश्यन्ति सर्वतेजोमयं शुभम्॥ अत्यर्कानलदीप्तं तत् स्थानं विष्णोर्महात्मनः। स्वयैव प्रभया राजन् दुष्प्रेक्ष्यं देवदानवैः॥ प्राच्यां नारायणस्थानं मेरावतिविराजते। यत्र भूतेश्वरस्तात सर्वप्रकृतिरात्मभूः॥ भासयन् सर्वभूतानि सुश्रियाभिविराजते। नात्र ब्रह्मर्षयस्तात कुत एव महर्षयः॥ प्राप्नुवन्ति गतिं ह्येतां यतीनां भावितात्मनाम्। न तं ज्योतींषि सर्वाणि प्राप्य भासन्ति पाण्डव॥ परेण तपसा युक्ता स्वयं प्रभुरचिन्त्यात्मा तत्र ह्यतिविराजते। यतयस्तत्र गच्छन्ति भक्त्या नारायणं हरिम्॥ भाविताः कर्मभिः शुभैः। योगसिद्धा महात्मानस्तमोमोहविवर्जिताः॥ तत्र गत्वा पुनर्नेमं लोकमायान्ति भारत। स्वयम्भुवं महात्मानं देवदेवं सनातनम्॥ स्थानमेतन्महाभागध्रुवमक्षयमव्ययम्। ईश्वरस्य सदा ह्येतत् प्रणमात्र युधिष्ठिर॥ एनं त्वहरहर्मेसं सूर्याचन्द्रमसौध्रुवम्। प्रदक्षिणमुपावृत्य कुरुतः कुरुनन्दन।॥ ज्योतींषि चाप्यशेषेण सर्वाण्यनघ सर्वतः। परियान्ति महाराज गिरिराजं प्रदक्षिणम्॥ एतं ज्योतींषि सर्वाणि प्रकर्षन् भगवानपि। कुरुते वितमस्कर्मा आदित्योऽभिप्रदक्षिणम्॥ अस्तं प्राप्य ततः संध्यामतिक्रम्य दिवाकरः। उदीची भजते काष्ठां दिशमेष विभावसुः॥ पर्वसंधिषु। स मेरुमनुवृत्तः सन् पुनर्गच्छति पाण्डव। प्राङ्मुखः सविता देवः सर्वभूतहिते रतः॥ स मासान् विभजन् काले बहुधा तथैव भगवान् सोमो नक्षत्रैः सह गच्छति॥ एवमेतं त्वतिक्रम्य महामेरुमतन्द्रितः। भावयन् सर्वभूतानि पुनर्गच्छति मन्दरम्॥ तथा तमिस्रहा देवो मयूखैर्भावयञ्जगत्। मार्गमेतदसम्बाधमादित्यः परिवर्तते॥ सिसृक्षुः शिशिराण्येव दक्षिणां भजते दिशम्। ततः सर्वाणि भूतानि कालोऽभ्यर्च्छति शैशिरः॥ स्थावराणां च भूतानां जगमानां च तेजसा। तेजांसि समुपादत्ते निवृत्तः स विभावसुः॥ ततः स्वेदक्लमौ तन्द्री ग्लानिश्च भजते नरान्। प्राणिभिः सततं स्वपो ह्यभीक्ष्णं च निषेव्यते॥ एवमेतदनिर्देश्यं मार्गमावृत्य भानुमान्। पुनः सृजति वर्षाणि भगवान् भावयन् प्रजाः॥ वृष्टिमारुतसंतापैः सुखैः स्थावरजङ्गमान्। वर्धयन् सुमहातेजाः पुनः प्रतिनिवर्तते॥ एवमेष चरन् पार्थ कालचक्रमतन्द्रितः। प्रकर्षन् सर्वभूतानि सविता परिवर्तते॥ संतता गतिरेतस्य नैष तिष्ठति पाण्डव। आदायैव तु भूतानां तेजो विसृजते पुनः॥ विभजन् सर्वभूतानामायुः कर्म च भारत। अहोरात्रं कलाः काष्ठाः सृजत्येष सदा विभुः॥ वैशम्पायन उवाच तस्मिन् नगेन्द्रे वसतां तु तेषां महात्मनां सद्बतमास्थितानाम्। रतिः प्रमोदश्च बभूव तेषामाकाङ्क्षतां दर्शनमर्जुनस्य॥ स्तेजस्विनः सत्यधृतिप्रधानान्। र्गन्धर्वसङ्घाश्च महर्षयश्च॥ तं पादपैः पुष्पधरैरुपेतं नगोत्तमं प्राप्य महारथानाम्। मनःप्रसादः परमो बभूव यथा दिवं प्राप्य मरुद्गणानाम्॥ मयूरहंसस्वननादितानि पुष्पोपकीर्णानि महाचलस्य। शृङ्गाणि सानूनि च पश्यमाना गिरेः परं हर्षमवाप्य तस्थुः॥ साक्षात् कुबेरेण कृताश्च तस्मिन् नगोत्तमे संवृतकूलरोधसः। कादम्बकारण्डवहंसजुष्टाः पद्माकुलाः पुष्करिणीरपश्यन्॥ क्रीडाप्रदेशांश्च समृद्धरूपान् सुचित्रमाल्यावृतजातशोभान्। मणिप्रकीर्णाश्च मनोरमांश्च यथा भवेयुर्धनदस्य राज्ञः॥ अनेकवर्णश्च सुगन्धिभिश्च महाद्रुमैः संततमभ्रजालैः। तपःप्रधानाः सततं चरन्तः शृङ्गं गिरेश्चिन्तयितुं न शेकुः॥ स्वतेजसा तस्य नगोत्तमस्य महौषधीनां च तथा प्रभावात्। दहोनिशानां पुरुषप्रवी॥ यमास्थितः स्थावरजङ्गमानि विभावसुर्भावयतेऽमितौजाः। स्तत्र स्थितास्ते ददृशुर्नृसिंहाः॥ रवेस्तमिस्रागमनिर्गमांस्ते तथोदयं चास्तमनं च वीराः। समावृताः प्रेक्ष्य तमोनुदस्य गभस्तिजालैः प्रदिशो दिशश्च॥ स्वाध्यायवन्तः सततक्रियाश्च धर्मप्रधानाश्च शुचिव्रताश्च। सत्ये स्थितास्तस्य महारथस्य सत्यव्रतस्यागमनप्रतीक्षाः॥ इहैव हर्षोऽस्तु समागतानां क्षिप्रं कृतास्त्रेणधनंजयेन। इति ब्रुवन्तः परमाशिषस्ते पार्थास्तपोयोगपरा बभूवुः॥ दृष्ट्वा विचित्राणि गिरौ वनानि किरीटिनं चिन्तयतामभीक्ष्णम्। बभूव रात्रिदिवसश्च तेषां संवत्सरेणैव समानरूपः॥ यदैवधौम्यानुमते महात्मा कृत्वा जटां प्रव्रजित: स जिष्णुः। तदैव तेषां न बभूव हर्षः कुतो रतिस्तद्गतमानसानाम्॥ भ्रातुर्नियोगात् तु युधिष्ठिरस्य वनादसौ वारणमत्तगामी। स्तदैव ते शोकहता बभूवुः॥ मस्त्रार्थिनं वासवमभ्युपेतम्।। स्तस्मिन् नगे भारत भारतानाम्॥ उषित्वा पञ्च वर्षाणि सहस्राक्षनिवेशने। अवाप्य दिव्यान्यस्त्राणि सर्वाणि विबुधेश्वरात्॥ आग्नेयं वारुणं सौम्यं वायव्यपथ वैष्णवम्। ऐन्द्रं पाशुपतं ब्राह्मं पारमेष्ठ्यं प्रजापतेः॥ यमस्यधातुः सवितुस्त्वष्टुर्वैश्रवणस्य च। तानि प्राप्य सहस्राक्षादभिवाद्य शतक्रतुम्॥ अनुज्ञातस्तदा तेन कृत्वा चापि प्रदक्षिणम्। आगच्छदर्जुनः प्रीतः प्रहृष्टो गन्धमादनम्॥ वैशम्पायन उवाच ततः कदाचिद्धरिसम्प्रयुक्तं महेन्द्रवाहं सहसोपयातम्। विद्युत्प्रभं प्रेक्ष्य महारथानां हर्षोऽर्जुनं चिन्तयतां बभूव॥ स दीप्यमानः सहसान्तरिक्षं प्रकाशयन् मातलिसंगृहीतः। बभौ महोल्केव घनान्तरस्था शिखेव चाग्नेर्खलिता विधूमा॥ तमास्थित: संददृशे किरीटी स्रग्वीनवान्याभरणानि बिभ्रत्। धनंजयो वज्रधरप्रभावः श्रिया ज्वलन् पर्वतमाजगाम॥ स शैलमासाद्य किरीटमाली महेन्द्रवाहादवरुह्य तस्मात्। नजातशत्रोस्तदनन्तरं च॥ वृकोदरस्यापि च वन्द्यपादौ माद्रीसुताभ्यामभिवादितश्च। समेत्य कृष्णां परिसान्त्व्य चैनां प्रह्वोऽभवद् भ्रातुरुपह्वरे सः॥ बभूव तेषां स्तेनाप्रमेयेण समागतानाम्। स चापि तान् प्रेक्ष्य किरीटमाली ननन्द राजानमभिप्रशंसन्॥ यमास्थितः सप्त जघान पूगान् दितेः सुतानां नमुचेनिहन्ता। तमिन्द्रवाहं समुपेत्य पार्था: प्रदक्षिणं चक्रुरदीनसत्त्वाः॥ ते मातलेश्चक्रुरतीव हृष्टाः सत्कारमवयं सुरराजतुल्यम्। सर्वान् यथावच्च दिवौकसस्ते पप्रच्छुरेनं कुरुराजपुत्राः॥ तानप्यसौ मातलिरभ्यनन्दत् पितेव पुत्राननुशिष्य पार्थान्। ययौ रथेनाप्रतिमप्रभेण पुनः सकाशं त्रिदिवेश्वरस्य॥ गते तु तस्मिन् नरदेववर्यः शक्रात्मजः शक्ररिपुप्रमाथी। शक्रेण दत्तानि ददौ महात्मा महाधनान्युत्तमरूपवन्ति॥ दिवाकराभाणि विभूषणानि प्रियः प्रियायै सुतसोममात्रे। ततः स तेषां कुरुपुङ्गवानां तेषां च सूर्याग्निसमप्रभाणाम्॥ विप्रर्षभाणामुपविश्य मध्ये सर्वं यथावत् कथयांबभूवा एवं मयास्त्राण्युपशिक्षितानि शक्राच्च वाताच्च शिवाच्च साक्षात्॥ तथैव शीलेन समाधिनाथ प्रीताः सुरा मे सहिताः सहेन्द्राः। संक्षेपतो वै स विशुद्धकर्मा तेभ्यः समाख्याय दिवि प्रवासम्॥ माद्रीसुताभ्यां सहितः किरीटी सुष्वाप तामावसतिं प्रतीतः॥ वैशम्पायन उवाच ततो रजन्यां वयुष्टायांधर्मराज युधिष्ठिरम्। भ्रातृभिः सहितः सर्वैरवन्दतधनंजयः॥ एतस्मिन्नेव काले सर्ववादित्रनिःस्वनः। बभूव तुमुल: शब्दस्त्वन्तरिक्षे दिवौकसाम्॥ रथनेमिस्वनश्चैव घण्टाशब्दश्च भारत। पृथग् व्यालमृगाणां च पक्षिणामिव सर्वशः॥ ते समन्तादनुययुर्गन्धर्वाप्सरसां गणाः। विमानैः सूर्यसंकाशैर्देवराजमरिंदमम्॥ ततः स हरिभिर्युक्तं जाम्बूनदपरिष्कृतम्। मेघनादिनमारुह्य श्रिया परमया ज्वलन्॥ पार्थानभ्याजगामाथ देवराजः पुरंदरः। आगत्य च सहस्राक्षो स्थादवरुरोह वै॥ तं दृष्ट्वैव महात्मानंधर्मराजो युधिष्ठिरः। भ्रातृभिः सहितः श्रीमान् देवराजमुपागमत्॥ पूजयामास चैवाथ विधिवद् भूरिदक्षिणः। यथार्हममितात्मानं विधिदृष्टेन कर्मणा॥ धनंजयश्च तेजस्वी प्रणिपत्य पुरंदरम्। भृत्यवत् प्रणतस्तस्थौ देवराजसमीपतः॥ आप्यायत महातेजाः कुन्तीपुत्रो युधिष्ठिरः। धनंजयमभिप्रेक्ष्य विनीत स्थितमन्तिके॥ जटिलं देवराजस्य तपोयुक्तमकल्मषम्। हर्षेण महताऽऽविष्टः फाल्गुनस्याथ दर्शनात्॥ बभूव परमप्रीतो देवराजं च पूजयन्। तं तथादीनमनसं राजानं हर्षसम्लुतम्॥ सर्वाणि मत्तः उवाच वचनंधीमान् देवराजः पुरंदरः। त्वमिमां पृथिवीं राजन् प्रशासिष्यसि पाण्डव। स्वस्ति प्राप्नुहि कौन्तेय काम्यकं पुनराश्रमम्॥ अस्त्राणि लब्धानि च पाण्डवेन प्रयतेन राजन्। कृतप्रियश्चास्मिधनंजयेन जेतुं न शक्यस्त्रिभिरेष लोकैः॥ एवमुक्त्वा सहस्राक्षः कुन्तीपुत्रं युधिष्ठिरम्। जगाम त्रिदिवं हृष्टः स्तूयमानो महर्षिभिः॥ धनेश्वरगृहस्थानां पाण्डवानां समागमम्। शक्रेण य इदं विद्वानधीयीत् समाहितः॥ संवत्सरं ब्रह्मचारी नियतः संशितव्रतः। स जीवेद्धि निराबाधः स सुखी शरदां शतम्॥ अर्जुन उवाच ततस्तामवसं प्रीतो रजनीं तत्र भारत। प्रसादाद् देवदेवस्य त्र्यम्बकस्य महात्मनः॥ व्युषितो रजनीं चाहं कृत्वा पौर्वाहिणकीः क्रियाः। अपश्यं तं द्विजश्रेष्ठं दृष्टवानस्मि यं पुरा॥ तस्मै चाहं यथावृत्तं सर्वमेव न्यवेदयम्। भगवन्तं महादेवं समेतोऽस्मीति भारत॥ स मामुवाच राजेन्द्र प्रीयमाणो द्विजोत्तमः। दृष्टस्त्वया महादेवो यथा नान्येन केनचित्॥ समेत्य लोकपालैस्तु सर्वैर्वैवस्वतादिभिः। द्रष्टास्यनघ देवेन्द्रं स च तेऽस्त्राणि दास्यति॥ एवमुक्त्वा स मां राजन्नाश्लिष्य च पुनः पुनः अगच्छत् स यथाकामं ब्राह्मण: सूर्यसंनिभः॥ अथापराह्ने तस्याह्नः प्रावात् पुण्यः समीरणः। पुनर्नवमिमं लोकं कुर्वन्निव सपत्नहन्।॥ दिव्यानि चैव माल्यानि सुगन्धीनि नवानि च। शैशिरस्य गिरेः पादे प्रादुरासन् समीपतः॥ वादित्राणि च दिव्यानि सुघोराणि समन्ततः। स्तुतयश्चेन्द्रसंयुक्ता अश्रूयन्त मनोहराः॥ गणाश्चाप्सरसां तत्र गन्धर्वाणां तथैव च। पुरस्ताद् देवदेवस्य जगुर्गीतानि सर्वशः॥ मरुतां च गणास्तत्र देवयानैरुपागमन्। महेन्द्रानुचरा ये च ये च सद्मनिवासिनः॥ ततो मरुत्वान् हरिभिर्युक्तैर्वाहैः स्वलङ्कतैः। शची सहायस्तत्रायात् सह सर्वैस्तदामरैः॥ एतस्मिन्नेव काले तु कुबेरो नरवाहनः। दर्शयामास मां राजॅल्लक्ष्म्या परमया युतः॥ दक्षिणस्यां दिशि यमं प्रत्यपश्यं व्यवस्थितम्। वरुणं देवराजं च यथास्थानमवस्थितम्॥ ते मामूचुर्महाराज सान्त्वयित्वा नरर्षभ। सव्यसाचिन् निरीक्षास्मॉल्लोकपालानवस्थितान्॥ सुरकार्यार्थसिद्ध्यर्थं दृष्टवानसि शङ्करम्। अस्मत्तोऽपि गृहाण त्वमस्त्राणीति समन्ततः॥ ततोऽहं प्रयतो भूत्वा प्रणिपत्य सुरर्षभान्। प्रत्यगृहणं तदास्त्राणि महान्ति विधिवद् विभो॥ गृहीतास्त्रस्ततो देवैरनुज्ञातोऽस्मि भारत। अथ देवा ययुः सर्वे यथागतमरिदम॥ मघवानपि देवेशो रथमारुह्य सुप्रभम। उवाच भगवान् स्वर्गं गन्तव्यं फाल्गुन त्वया॥ पुरैवागमनादस्माद् वेदाहं त्वांधनंजय। अतः परं त्वहं वै त्वां दर्शये भरतर्षभ॥ त्वया हि तीर्थेषु पुरा समाप्लावः कृतोऽसकृत्। तपश्चेदं महत् तप्तं स्वर्ग गन्तासि पाण्डव॥ भूयश्चैव च तप्तव्यं तपश्चरणमुत्तमम्। स्वर्गं त्ववश्यं गन्तव्यं त्वया शत्रुनिषूदन॥ मातलिमन्नियोगात् त्वां त्रिदिवं प्रापयिष्यति। विदितस्त्वं हि देवानां मुनीनां च महात्मनाम्।२३॥ इहस्थः पाण्डवश्रेष्ठ तपः कुर्वन् सुदुष्करम्। ततोऽहमब्रुवं शक्रं प्रसीद भगवन् मम। आचार्यं वरयेयं त्वामस्त्रार्थं त्रिदशेश्वर।॥ इन्द्र उवाच क्रूरकर्मास्त्रवित् तात भविष्यसि परंतप। यदर्थमस्त्राणीप्सुस्त्वं तं काम पाण्डवाप्नुहि॥ ततोऽहमब्रुवं नाहं दिव्यान्यस्त्राणि शत्रुहन्। मानुषेषु प्रयोक्ष्यामि विनास्त्रप्रतिघातनात्॥ तानि दिव्यानि मेऽस्त्राणि प्रयच्छ विबुधाधिप। लोकांश्चास्त्रजितान् पश्चाल्लभेयं सुरपुड़व॥ इन्द्र उवाच परीक्षार्थं मयैतत् ते वाक्यमुक्तंधनंजय। ममात्मजस्य वचनं सूपपन्नमिदं तव॥ शिक्ष मे भवनं गत्वा सर्वाण्यस्त्राणि भारत। वायोरग्नेर्वसुभ्योऽपि वरुणात् समरुद्गणात्॥ साध्यं पैतामहं चैव गन्धर्वोरंगरक्षसाम्। वैष्णवानि च सर्वाणि नैर्ऋतानि तथैव च॥ मद्गतानि च जानीहि सर्वास्त्राणि कुरूद्वह। एवमुक्त्वा तु मां शक्रस्तत्रैवान्तरधीयत॥ अथापश्यं हरियुतं रथमैन्द्रमुपस्थितम्। दिव्यं मायामयं पुण्यं यत्तं मातलिना नृप।॥ लोकपालेषु यातेषु मामुवाचाथ मातलिः। द्रष्टुमिच्छति शक्रस्त्वां देवराजो महायुते॥ संसिद्ध्यस्व महाबाहो कुरु कार्यमनन्तरम्। पश्य पुण्यकृताँल्लोकान् सशरीरो दिवं व्रज॥ देवराजः सहस्राक्षस्त्वां दिदृक्षति भारत। इत्युक्तोऽहं मातलिना गिरिममामन्त्र्य शैशिरम्॥ प्रदक्षिणमुपावृत्य समारोहं रथोत्तमम्। चोदयामास स हयान् मनोमारुतहंसः॥ मातलिहयतत्त्वज्ञो यथावद् भूरिदक्षिण: अवैक्षत च मे वर्क स्थितस्याथ स सारथिः॥ तथा भ्रान्ते रथे राजन् विस्मितश्चेदमब्रवीत्। अत्यद्भुतमिदं त्वद्य विचित्रं प्रतिभाति मे॥ यदास्थितो रथं दिव्यं पदान चलितः पदम्। देवराजोऽपि हि मया नित्यमत्रोपलक्षितः॥ विचलन् प्रथमोत्पाते हयानां भरतर्षभ। त्वं पुनः स्थित एवात्र रथे भ्रान्ते कुरूद्वह॥ अतिशक्रमिदं सर्वं तवेति प्रतिभाति मे। इत्युक्त्वाऽऽकाशमाविश्य मातलिर्विबुधालयान्॥ दर्शयामास मे राजन् विमानानि च भारत। स रथो हरिभिर्युक्तो अ॒र्ध्वमाचक्रमे ततः॥ ऋषयो देवताश्चैव पूजयन्ति नरोत्तम। ततः कामगमॉल्लोकानपश्यं वै सुरर्षिणाम्॥ गन्धर्वाप्सरसां चैव प्रभावममितौजसाम्। नन्दनादीनि देवानां वनान्युपवनानि च॥ दर्शयामास मे शीघ्रं मातलिः शक्रसारथिः। ततः शक्रस्य भवनमपश्यममरावतीम्॥ दिव्यैः कामफलैर्वृक्ष रत्नैश्च समलङ्कृताम्। न तत्र सूर्यस्तपति न शीतोष्णे न च क्लमः॥ न बाधते तत्र रजस्तत्रास्ति न जरा नृप। न तत्र शोको दैन्यं वा दौर्बल्यं चोपलक्ष्यते॥ दिवौकसां महाराज न ग्लानिररिमर्दन। न क्रोधलोभौ तत्रास्तां सुरादीनां विशाम्पते॥ नित्यतुष्टाश्च ते राजन् प्राणिनः सुरवेश्मनि। नित्यपुष्पफलास्तत्र पादपा हरितच्छदाः॥ पुष्करिण्यश्च विविधाः पद्मसौगन्धिकायुताः। शीतस्तत्र ववौ वायुः सुगन्धी जीवनः शुचिः॥ सर्वरत्नविचित्रा च भूमिः पुष्पबिभूषिता। मृगद्विजाश्च बहवो रुचिरा मधुरस्वरा:॥ विमानगामिनश्चात्र दृश्यन्ते बहवोऽम्बरे। ततोऽपश्यं वसून् रुद्रान् साध्यांश्च समरुद्गणान्॥ आदित्यानश्चिनौ चैव तान् सर्वान् प्रत्यपूजयम्। ते मां वीर्येण यशसा तेजसा च बलेन च॥ अस्त्रैश्चाप्यन्वजानन्त संग्रामे विजयेन च। प्रविश्य तां पुरीं दिव्यां देवगन्धर्वपूजिताम्॥ देवराजं सहस्राक्षमुपातिष्ठं कृताञ्जलिः। ददावर्धासनं प्रीतः शक्रो मे ददतां वरः॥ बहुमानाच्च गात्राणि पस्पर्श मम वासवः। तत्राहं देवगन्धर्वैः सहितो भूरिदक्षिण॥ अस्त्रार्थमवसं स्वर्गे शिक्षाणोऽस्त्राणि भारत। विश्वावसोश्च वै पुत्रश्चित्रसेनोऽभवत् सखा॥ स च गान्धर्वमखिलं ग्राहयामास मां नृप। तत्राहमवसं राजन् गृहीतास्त्रः सुपूजितः॥ सुखं शक्रस्य भवने सर्वकामसमन्वितः। शृण्वन् वै गीतशब्दं च तूर्यशब्दं च पुष्कलम्। पश्यंश्चाप्सरसः श्रेष्ठा नृत्यन्तीर्भरतर्षभ॥ तत् सर्वमनवज्ञाय तथ्यं विज्ञाय भारत। अत्यर्थं प्रतिगृह्याहमस्त्रेष्वेव व्यवस्थितः॥ ततोऽतुष्यत् सजस्राक्षस्तेन कामेन मे विभुः। एवं मे वसतो राजन्नेष कालोऽत्यगाद् दिवि॥ कृतास्त्रमतिविश्वस्तमथ मां हरिवाहनः। संस्पृश्य मूर्ध्नि पाणिभ्यामिदं वचनमब्रवीत्॥ न त्वमद्य युधा जेतुं शक्यः सुरगणैरपि। किं पुनर्मानुषे लोके मानुषैरकृतात्मभिः॥ अप्रमेयोऽप्रधृष्यश्च युद्धेष्वप्रतिमस्तथा। अजेयस्त्वं हि संग्रामे सर्वैरपि सुरासुरैः। अथाब्रवीत् पुनर्देवः सम्प्रहृष्टतनूरुहः॥ अस्त्रयुद्धे समो वीर न ते कश्चिद् भविष्यति। अप्रमत्तः सदा दक्षः सत्यवादी जितेन्द्रियः॥ ब्रह्मण्यश्चास्त्रविच्चासि शूरश्चासि कुरूद्वह। अस्त्राणि समवाप्तानि त्वया दश च पञ्च च॥ पञ्चभिर्विधिभिः पार्थ विद्यते न त्वया समः। प्रयोगमुपसंहारमावृत्तिं चधनंजय॥ प्रायश्चित्तं च वेत्थ त्वं प्रतीघातं च सर्वशः। ततो गुर्वर्थकालोऽयं समुत्पन्नः परंतप॥ प्रतिजानीष्व तं कर्तुं ततो वेत्स्याम्यहं परम्। ततोऽहमब्रुवं राजन् देवराजमिदं वचः॥ विषह्यं यन्मया कर्तुं कृतमेव निबोध तत्। ततो मामब्रवीद् राजन् प्रहसन् बलवृत्रहा॥ नाविषह्यं तवाद्यास्ति त्रिषु लोकेषु किंचन। निवातकवचा नाम दानवा मम शत्रवः॥ समुद्रकुक्षिमाश्रित्य दुर्गे प्रतिवसन्त्युत। तिस्रः कोट्य: समाख्यातास्तुल्यरूपबलप्रभाः॥ तांस्तत्र जहि कौन्तेय गुर्वर्थस्ते भविष्यति। ततो मातलिसंयुक्तं मयूरसमरोमभिः॥ हयैरुपेतं प्रादान्मे रथं दिव्यं महाप्रभम्। बबन्ध चैव मे मूर्ध्नि किरीटमिदमुत्तमम्॥ स्वरूपसदृशं चैव प्रादादङ्गविभूषणम्। अभेद्यं कवचं चेदं स्पर्शरूपवदुत्तमम्॥ अजरां ज्यामिमां चापि गाण्डीवे समयोजयत्। ततः प्रायामहं तेन स्यन्दनेन विराजता॥ येनाजयद् देवपतिर्बलिं वैरोचनि पुरा। ततो देवाः सर्व एव तेन घोषेण बोधिताः॥ मेऽनघाः। मन्वाना देवराजं मां समाजग्मुर्विशाम्पते। दृष्ट्वा च मामपृच्छन्त किं करिष्यसि फाल्गुन॥ तानब्रुवं यथाभूतमिदं कर्तास्मि संयुगे। निवातकवचानां तु प्रस्थितं मां वधैषिणम्॥ निबोधत महाभागाः शिवं चाशास्त ततो वाग्भिः प्रशस्ताभिस्त्रिदशाः पृथिवीपते। तुष्टुवुर्मी प्रसन्नास्ते यथा देवं पुरंदरम्॥ रथेनानेन मघवा जितवान् शम्बरं युधि। नमुचिं बलवृत्रौ च प्रह्लादनरकावपि॥ बहूनि च सहस्राणि प्रयुतान्यर्बुदान्यपि। रथेनानेन दैत्यानां जितवान् मघवा युधि॥ त्वमप्यनेन कौन्तेय निवातकवचान् रणे। विजेता युधि विक्रम्य पुरेव मघवा वशी॥ अयं च शङ्खप्रवरो येन जेतासि दानवान्। अनेन विजिता लोकाः शक्रेणापि महात्मना।1८४॥ प्रदीयमानं देवैस्तं देवदत्तं जलोद्भवम्। प्रत्यगृहणं जयायैनं स्तूयमानस्तदामरैः॥ स शडी कवची बाणी प्रगृहीतशरासनः। दानवालयमत्युग्रं प्रयातोऽस्मि युयुत्सया॥ अर्जुन उवाच ततोऽहं स्तूयमानस्तु तत्र तत्र महर्षिभिः। अपश्यमुदधिं भीममपां पतिमथाव्ययम्॥ फेनवत्यः प्रकीर्णाश्च संहताश्च समुत्थिताः। ऊर्मयश्चात्र दृश्यन्ते वल्गन्त इव पर्वताः॥ नावः सहस्रशस्तत्र रत्नपूर्णाः समन्ततः। नभसीव विमानानि विचरन्त्यो विरेजिरे। तिमिङ्गिलाः कच्छपाश्च तथा तिमितिमिड्गिलाः॥ मकराश्चात्र दृश्यन्ते जले मग्ना इवाद्रयः। शङ्खानां च सहस्राणि मग्नान्यप्सु समन्ततः॥ दृश्यन्ते स्म यथा रात्रौ तारास्तन्वभ्रसंवृताः। तथा सहस्रशस्तत्र रत्नसङ्घाः प्लवन्त्युत॥ वायुश्च घूर्णते भीमस्तदद्भुतमिवाभवत्। तमुदीक्ष्य महावेगं सर्वाम्भोनिधिमुत्तमम्॥ अपश्यं दानवाकीर्णं तद् दैत्यपुरमन्तिकात्। तत्रैव मातलिस्तूर्णं निपत्य पृथिवीतले।॥ रथं तं तु समाश्लिष्य प्राद्रवद् रथयोगवित्। त्रासयन् रथघोषेण तत् पुरं समुपाद्रवत्॥ रथघोषं तु तं श्रुत्वा स्तनयित्लोरिवाम्बरे। मन्वाना देवराजं मामाविग्ना दानवाभवन्॥ सर्वे सम्भ्रान्तमनसः शरचापधराः स्थिताः। तथासिशूलपरशुगदामुसलपाणयः॥ ततो द्वाराणि पिदधुर्दानवास्त्रस्तचेतसः। संविधाय पुरे रक्षां न स्म कश्चन दृश्यते॥ ततः शङ्खमुपादाय देवदत्तं महास्वनम्। परमां मुदमाश्रित्य प्राधमं तं शनैरहम्॥ स तु शब्दो दिवं स्तम्वा प्रतिशब्दमजीजनत्। वित्रेसुश्च निलिल्युश्च भूतानि सुमहान्त्यपि॥ ततो निवातकवचा: सर्व एव स्वलंकृताः। दंशिता विविधैस्त्राणैर्विचित्रायुधपाणयः॥ आयसैश्च महाशूलैर्गदाभिर्मुसलैरपि। पट्टिशैः करवालैश्च रथचक्रैश्च भारत॥ शतघ्नीभिर्भुशुण्डीभिः खङ्गैश्चित्रैः स्वलंकृतैः। प्रगृहीतैर्दितेः पुत्राः प्रादुरासन् सहस्रशः॥ ततो विचार्य बहुशो रथमार्गेषु तान् हयान्। प्राचोदयत् समे देशे मातलिर्भरतर्षभ॥ तेन तेषां प्रणुन्नानामाशुत्वाच्छीघ्रगामिनाम्। नान्वपश्यं तदा किंचित् तन्मेऽद्भुतमिवाभवत्॥ ततस्ते दानवास्तत्र वादित्राणि सहस्रशः। विकृतस्वररूपाणि भृशं सर्वाण्यनादयन्॥ तेन शब्देन सहसा समुद्रे पर्वतोपमाः। आप्लवन्त गतैः सत्त्वैर्मत्स्याः शतसहस्रशः॥ ततो वेगेन महता दानवा मामुपाद्रवन् विमुञ्चन्तः शितान् बाणान् शतशोऽथ सहस्रशः॥ स सम्प्रहारस्तुमुलस्तेषां च मम भारत। अवर्तत महाघोरो निवातकवचान्तकः॥ ततो देवर्षयश्चैव तथान्ये च महर्षयः। ब्रह्मर्षयश्च सिद्धाश्च समाजग्मुर्महामृधे॥ ते वै मामनुरूपाभिर्मधुराभिर्जयैषिणः। अस्तुवन् मुनयो वाग्भिर्यथेन्द्रं तारकामये।॥ अर्जुन उवाच ततोऽश्मवर्षं सुमहत् प्रादुरासीत् समन्ततः। नगमात्रैः शिलाखण्डैस्तन्मां दृढमपीडयत्॥ तदहं वज्रसंकाशैर्महेन्द्रास्त्रप्रचोदितैः। अचूर्णयं वेगवद्भिः शरजालैर्महाहवे॥ चूर्ण्यमानेऽश्मवर्षे तु पावकः समजायत। तत्राश्मचूर्णान्यपतन् पावकप्रकरा इव॥ ततोऽश्मवर्षे विहते जलवर्षं महत्तरम्। धाराभिरक्षमात्राभिः प्रादुरासीन्ममान्तिके॥ नभसः प्रच्युताधारास्तिग्मवीर्याः सहस्रशः। आवृण्वन् सर्वतो व्योम दिशश्चोपदिशस्तथा॥ धाराणां च निपातेन वायोर्विस्फूर्जितेन च। गर्जितेन च दैत्यानां न प्राज्ञायत किंचन॥ धारा दिवि च सम्बद्धा वसुधायां च सर्वशः। व्यामोहयन्त मां तत्र निपतन्त्योऽनिशं भुवि॥ तत्रोपदिष्टमिन्द्रेण दिव्यमस्त्रं विशोषणम्। दीप्तं प्राहिणवं घोरमशुष्यत् तेन तज्जलम्॥ हतेऽश्मवर्षे च मया जलवर्षे च शोषिते। मुमुचुर्दानवा मायामग्निं वायुं च भारत॥ ततोऽहमग्निं व्यधमं सलिलास्त्रेण सर्वशः। शैलेन च महास्त्रेण वायोर्वेगमधारयम्॥ तस्यां प्रतिहतायां च दानवा युद्धदुर्मदाः। प्राकुर्वन् विविधां मायां योगपद्येन भारत॥ ततो वर्ष प्रादुरभूत् सुमहल्लोमहर्षणम्। अस्त्राणां घोररूपाणामग्नेर्वायोस्तथाश्मनाम्॥ सा तु मायामयी वृष्टिः पीडयामास मां युधि। अथ घोरं तमस्तीव्र प्रादुरासीत् समन्ततः॥ तमसा संवृते लोके घोरेण परुषेण च। हरयो विमुखाश्चासन् प्रास्खलच्चापि मातलिः॥ हस्ताद्धि रश्मयश्चास्य प्रतोदः प्रापतद् भुवि। असकृच्चाह मां भीत: क्वासीति भरतर्षभा॥ मां च भीराविशत् तीव्रा तस्मिन् विगतचेतसि। स च मां विगतज्ञानः संत्रस्तमिदमब्रवीत्॥ सुराणामसुराणां च संग्रामः सुमहानभूत्। अमृतार्थं पुरा पार्थ स च दृष्टो मयानघ॥ शम्बरस्य वधे घोरः संग्रामः सुमहानभूत्। सारथ्यं देवराजस्य तत्रापि कृतवानहम्॥ तथैव वृत्रस्य वधे संगृहीता हया मया। वैरोचनेर्महायुद्धं दृष्टं चापि सुदारुणम्॥ एते मया महाघोराः संग्रामाः पर्युपासिताः। न चापि विगतज्ञानोऽभूतपूर्वोऽस्मि पाण्डव॥ पितामहेन संहारः प्रजानां विहितोध्रुवम्। न हि युद्धमिदं युक्तमन्यत्र जगतः क्षयात्॥ तस्य तद् वचनं श्रुत्वा संस्तभ्यात्मानमात्मना। मोहयिष्यन् दानवानामहं मायाबलं महत्॥ अब्रुवं मातलिं भीतं पश्य मे भुजयोर्बलम्। अस्त्राणां च प्रभावं वैधनुषो गाण्डिवस्य च॥ अद्यास्त्रमाययैतेषां मायामेतां सुदारुणाम्। विनिहन्मि तमश्चोग्रं मा भैः सूत स्थिरो भव॥ एवमुक्त्वाहमसृजमस्त्रमायां नराधिप। मोहनी सर्वभूतानां हिताय त्रिदिवौकसाम्॥ पाड्यमानासु मायासु तासु तास्वसुरोत्तमाः। पुनर्बहुविधा मायाः प्राकुर्वन्नमितौजसः॥ पुनः प्रकाशमभवत् तमसा ग्रस्यते पुनः। भवत्यदर्शनो लोकः पुनरप्सु निमज्जति॥ सुसंगृहीतैर्हरिभिः प्रकाशे सति मातलिः। व्यचरत् स्यन्दनायेण संग्रामे लोमहर्षणे॥ ततः पर्यपतन्नुग्रा निवातकवचा मयि। तानहं विवरं दृष्ट्वा प्राहिण्वं यमसादनम्॥ वर्तमाने तथा युद्धे निवातकवचान्तके। नापश्यं सहसा सर्वान् दानवान् माययाऽवृतान्॥ अर्जुन उवाच अदृश्यमानास्ते दैत्या योधयन्ति स्म मायया। अदृश्येनास्त्रवीर्येण तानप्यहमयोधयम्॥ गाण्डीवमुक्ता विशिखाः सम्यगस्त्रप्रचोदिताः। अच्छिन्दत्रुत्तमाङ्गानि यत्र यत्र स्म तेऽभवन्॥ ततो निवातकवचा वध्यमाना मया युधि। संहृत्य मायां सहसा प्राविशन् पुरमात्मनः॥ व्यपयातेषु दैत्येषु प्रादुर्भूते च दर्शने। अपश्यं दानवांस्तत्र हतान् शतसहस्रशः॥ विनिष्पिष्टानि तत्रैषां शस्त्राण्याभरणानि च। शतशः स्म प्रदृश्यन्ते गात्राणि कवचानि च॥ हयानां नान्तरं ह्यासीत् पदाद् विचलितुं पदम्। उत्पत्य सहसा तस्थुरन्तरिक्षगमास्ततः॥ ततो निवातकवचा व्योम संछाद्य केवलम्। अदृश्या ह्यत्यवर्तन्त विसृन्तः शिलोच्चयान्॥ अन्तर्भूमिगताश्चान्ये हयानां चरणान्यथ। व्यगृहणन् दानवा घोरा रथचक्रे च भारता॥ विनिगृह्य हरीनश्वान् रथं च मम युध्यतः। सर्वतो मामविध्यन्त सरथंधरणीधरैः॥ पर्वतैरुपचीयद्भिः पतमानैस्तथापरैः। स देशो यत्र वर्ताम गुहेव समपद्यत॥ पर्वतैश्छाद्यमानोऽहं निगृहीतैश्च वाजिभिः। अगच्छं परमामार्तं मातलिस्तदलक्षयत्॥ लक्षयित्वा च मां भीतमिदं वचनमब्रवीत्। अर्जुनार्जुन मा भैस्त्वं वज्रमस्त्रमुदीरय॥ ततोऽहं तस्य तद् वाक्यं श्रुत्वा वज्रमुदीरयम्। देवराजस्य दयितं भीममस्त्रं नराधिप॥ अचलं स्थानमासाद्य गाण्डीवमनुमन्त्र्य च। अमुञ्चं वज्रसंस्पर्शानायसान् निशितान् शरान्॥ ततो मायाश्च ताः सर्वा निवातकवचांश्च तान्! ते वज्रचोदिता बाणा वज्रभूताः समाविशन्॥ ते वज्रवेगविहता दानवाः पर्वतोपमाः। इतरेतरमाश्लिष्य न्यपतन् पृथिवीतले॥ अन्तर्भूमौ च येऽगृहणन् दानवा रथवाजिनः। अनुप्रविश्य तान् बाणाः प्राहिण्वन् यमसादनम्॥ हतैर्निवातकवचैर्निरस्तैः पर्वतोपमैः। समाच्छाद्यत देशः स विकीर्णैरिव पर्वतैः॥ न हयानां क्षति: काचिन्न रथस्य न मातलेः। मम चादृश्यत तदा तदद्भुतमिवाभवत्॥ ततो मां प्रहसन् राजन् मातलि: प्रत्यभाषत। नैतदर्जुन देवेषु त्वयि वीर्यं यदीक्ष्यते॥ हतेष्वसुरसंघेषु दारास्तेषां तु सर्वशः। प्राक्रोशन नगरे तस्मिन् यथा शरदि सारसाः॥ ततो मातलिना सार्धमहं तत् पुरमभ्ययाम्। त्रासयन् स्थघोषेण निवातकवचस्त्रियः॥ तान् दृष्ट्वा दशसाहस्रान् मयूरसदृशान् हयान्। रथं च रविसंकाशं प्राद्रवन् गणशः स्त्रियः॥ ताभिराभरणैः शब्दस्वासिताभिः समीरितः। शिलानामिव शैलेषु पतन्तीनामभूत् तदा॥ वित्रस्ता दैत्यनार्यस्ताः स्वानि वेश्मान्यथाविशन्। बहुरलविचित्राणि शातकुम्भमयानि च॥ तदद्भुताकारमहं दृष्ट्वा नगरमुत्तमम्। विशिष्टं देवनगरादपृच्छं मातलिं ततः॥ इदमेवंविधं कस्माद् देवा नावासयन्त्युत। पुरंदरपुराद्धीदं विशिष्टमिति लक्षये॥ मातलिरुवाच आसीदिदं पुरा पार्थ देवराजस्य नः पुरम्। ततो निवातकवचैरितः प्रच्याविताः सुराः॥ तपस्तप्त्वा महत् तीव्र प्रसाद्य च पितामहम्। इदं वृतं निवासाय देवेभ्यश्चाभयं युधि॥ ततः शक्रेण भगवान् स्वयंभूरिति चोदितः। विधत्तां भगवानन्तमात्मनो हितकाम्यया॥ तत उक्तो भगवता दिष्टमत्रेति भारत। भवितान्तस्त्वमप्येषां देहेनान्येन शत्रुहन्॥ तत एषां वधार्थाय शक्रोऽस्त्राणि ददौ तव। न हि शक्याः सुरैर्हन्तुं य एते निहतास्त्वया॥ कालस्य परिणामेन ततस्त्वमिह भारत। एषामन्तकरः प्राप्तस्तत् त्वया च कृतं तथा॥ दानवानां विनाशाय अस्त्राणां परमं बलम्। चाहितस्त्वं महेन्द्रेण पुरुषेन्द्र तदुत्तमम्॥ अर्जुन उवाच ततः प्रशाम्य नगरं दानवांश्च निहत्य तान्। पुनर्मातलिना सार्धमगच्छं देवसद्म तत्॥ अर्जुन उवाच निवर्तमानेन मया महद् दृष्टं ततोऽपरम्। कामचरं दिव्यं पावकार्कसमप्रभम्॥ रत्नदुममयश्चित्रैः सुस्वरैश्च पतत्रिभिः। पौलोमैः कालकजैश्च नित्यहृष्टैरधिष्ठितम्॥ गोपुराट्टालकोपेतं चतुरं दुरासदम्। सर्वरत्नमयं दिव्यमद्भुतोपमदर्शनम्॥ दुमैः पुष्यफलोपेतैः सर्वरत्नमयैर्वृतम्। तथा पतत्रिभिर्दिव्यैरुपेतं सुमनोहरैः॥ असुरैनित्यमुदितैः शूलटिमुसलायुधैः। चापमुद्गरहस्तैश्च स्रग्विभिः सर्वतो वृतम्॥ तदहं प्रेक्ष्य दैत्यानां पुरमद्भुतदर्शनम्। अपृच्छं मातलिं राजन् किमिदं वर्ततेऽद्भुतम्॥ मातलिरुवाच पुलोमा नाम दैतेयी कालका च महासुरी। दिव्यं वर्षसहस्रं ते चेरतुः परमं तपः॥ तपसोऽन्ते ततस्ताभ्यां स्वयम्भूरदद् वरम्। अगृहणीतां वरं ते तु सुतानामल्पदुःखताम्॥ अवध्यतां च राजेन्द्र सुरराक्षसपन्नगैः। पुरं सुरमणीयं च खचरं सुमहाप्रभम्॥ सर्वरत्नैः समुदितं दुर्धर्षममरैरपि। महर्षियक्षगन्धर्वपन्नगासुरराक्षसैः॥ सर्वकामगुणोपेतं वीतशोकमनामयम्। ब्रह्मणा भरतश्रेष्ठ कालकेयकृते कृतम्॥ तदेतत् खपुरं दिव्यं चरत्यमरवर्जितम्। पौलोमाध्युषितं वीर कालकझैश्च दानवैः॥ हिरण्यपुरमित्येवं ख्यायते नगरं महत्। रक्षितं कालकेयैश्च पौलोमैश्च महासुरैः॥ त एते मुदिता राजन्नवध्याः सर्वदैवतैः। निवसन्त्यत्र राजेन्द्र गतोद्वेगा निरुत्सुकाः॥ मानुषान्मृत्युरेतेषां निर्दिष्टो ब्रह्मणा पुरा। एतानपि रणे पार्थ कालकञ्जान् दुरासदान्। वज्रास्त्रेण नयस्वाशु विनाशं सुमहाबलान्॥ अर्जुन उवाच सुरासुरैरवध्यं तदहं ज्ञात्वा विशाम्पते। अब्रुवं मातलिं हृष्टो याह्येतत् पुरमञ्जसा॥ त्रिदशेशद्विषो यावत् क्षयमस्त्रैर्नयाम्यहम्। न कथञ्चिद्धि मे पापा न वध्या ये सुरद्विषः॥ उवाह मां ततः शीघ्रं हिरण्यपुरमन्तिकात्। रथेन तेन दिव्येन हरियुक्तेन मातलिः॥ ते मामालक्ष्य दैतेया विचित्राभरणाम्बराः। समुत्पेतुर्महावेगा रथानास्थाय दंशिताः॥ ततो नालीकनाराचैर्भल्लैः शक्त्यष्टितोमरैः। प्रत्यघ्नन् दानवेन्द्रा मां क्रुद्धास्तीव्रपराक्रमाः॥ तदहं शरवर्षेण महता प्रत्यवारयम्। शस्त्रवर्षं महद् राजन् विद्याबलमुपाश्रितः॥ व्यामोहयं च तान् सर्वान् रथमार्गश्चरन् रणे। तेऽन्योन्यमभिसम्मूढाः पातयन्ति स्म दानवान्।॥ तेषामेवं विमूढानामन्योन्यमभिधावताम्। शिरांसि विशिस्त्रैर्दीप्तै→हनं शतसङ्घशः॥ ते वध्यमाना दैतेयाः पुरमास्थाय तत् पुनः खमुत्पेतुः सनगरा मायामास्थाय दानवीम्॥ ततोऽहं शरवर्षेण महता कुरुनन्दन। मार्गमावृत्य दैत्यानां गतिं चैषामवारयम्॥ तत् पुरं खचरं दिव्यं कामगं सूर्यसप्रभम्। दैतेयैर्वरदानेनधार्यते स्म यथासुखम्॥ अन्तर्भूमौ निपतति पुनरूज़ प्रतिष्ठते। पुनस्तिर्यक् प्रयात्याशु पुनरप्सु निमज्जति॥ अमरावतिसंकाशं तत् पुरं कामगं महत्। अहमस्त्रैर्वहुविधैः प्रत्यगृहं परंतप॥ ततोऽहं शरजालेन दिव्यास्त्रनुदितेन च। व्यगृहणं सह दैतेयैस्तत् पुरं पुरुषर्षभ॥ विक्षतं चायसैर्बाणैर्मत्प्रयुक्तैरजिह्मगैः। महीमभ्यपतद् राजन् प्रभग्नं पुरमासुरम्॥ ते वध्यमाना मद्वाणैर्वज्रवेगैरयस्मयैः। यथोर्मयः। पर्यध्रमन्त वै राजन्नसुराः कालचोदिताः॥ ततो मातलिरारुह्य पुरस्तानिपतन्निव। महीमवातरत् क्षिप्रं रथेनादित्यवर्चसा॥ ततो रथसहस्राणि षष्टिस्तेषाममर्षिणाम्। युयुत्सूनां मया सार्धं पर्यवर्तन्त भारत। तान्यहं निशितैर्बाणैर्व्यधमं गार्धराजितैः॥ ते युद्धे सन्यवर्तन्त समुद्रस्य नेमे शक्या मानुषेण युद्धेनेति प्रचिन्त्य तत्॥ ततोऽहमानुपूर्येण दिव्यान्यस्त्राण्ययोजयम्। ततस्तानि सहस्राणि रथिनां चित्रयोधिनाम्॥ अस्त्राणि मम दिव्यानि प्रत्यघ्नन् शनकैरिव। रथमार्गान् विचित्रांस्ते विचरन्तो महाबलाः॥ प्रत्यदृश्यन्त संचामे शतशोऽथ सहस्रशः। विचित्रमुकुटापीडा विचित्रकवचध्वजाः॥ विचित्राभरणाश्चैव नन्दयन्तीव मे मनः। अहं तु शरवर्षैस्तानस्त्रप्रचुदितै रणे।॥ नाशक्नुवं पीडयितुं ते तु मां प्रत्यपीडयन्। तैः पीड्यमानो बहुभिः कृतास्त्रैः कुशलैयुधि॥ व्यथितोऽस्मि महायुद्धे भयं चागान्महन्मम। ततोऽहं देवदेवाय रुद्राय प्रयतो रणे॥ स्वस्ति भूतेभ्य इत्युक्त्वा महास्त्रं समचोदयम्। यत् तद् रौद्रमिति ख्यातं सर्वामित्रविनाशनम्॥ ततोऽपश्यं त्रिशिरसं पुरुषं नवलोचनम्। त्रिमुखं षड्भुजं दीप्तमर्कज्वलनमूर्धजम्॥ लेलिहानैर्महानागैः कृतचीरममित्रहन्। विभीस्ततस्तदस्त्रं तु घोरं रौद्रं सनातनम्॥ दृष्ट्वा गाण्डीवसंयोगमानीय भरतर्षभ। नमस्कृत्वा त्रिनेत्राय शर्वायामिततेजसे॥ मुक्तवान् दानवेन्द्राणां पराभावाय भारत। मुक्तमात्रे ततस्तस्मिन् रूपाण्यासन् सहस्रशः॥ मृगाणामथ सिंहानां व्याघ्राणां च विशाम्पते। ऋक्षाणां महिषाणां च पन्नगानां तथा गवाम्॥ शरभाणां गजानां च वानराणां च सङ्घशः। ऋषभाणां वराहाणां मार्जाराणां तथैव च॥ शालावृकाणां प्रेतानां भुरुण्डानां च सर्वशः। गृध्राणां गरुडानां च चमराणां तथैव च॥ देवानां च ऋषीणां च गन्धर्वाणां च सर्वशः। पिशाचानां सयक्षाणां तथैव च सुरद्विषाम्॥ गुह्यकानां च संचामे नैर्ऋतानां तथैव च। झषाणां गजवक्त्राणामुलूकानां तथैव च।॥ मीनवाजिसरूपाणां नानाशस्त्रासिपाणिनाम्। तथैव यातुधानानां गदामुद्गरधारिणाम्॥ एतैश्चान्यैश्च बहुभिर्नानारूपधरैस्तथा। सर्वमासीज्जगद् व्याप्त तस्मिन्नस्त्रे विसर्मिते॥ त्रिशिरोभिश्चतुर्दष्ट्रेश्चतुरास्यैश्चतुर्भुजैः। अनेकरूपसंयुक्तैर्मीसमेदोवसास्थिभिः॥ अभीक्ष्णं वध्यमानास्ते दानवा नाशमागताः। अर्कज्वलनतेजोभिर्वज्राशनिसमप्रभैः॥ अद्रिसारमयैश्चान्यैर्बाणैरपि निबर्हणैः। न्यहनं दानवान् सर्वान् मुहूर्तेनैव भारत॥ गाण्डीवास्त्रप्रणुन्नांस्तान् गतासून् नभसश्च्युतान्। दृष्ट्वाहं प्राणमं भूयस्त्रिपुरघ्नाय वेधसे॥ तथा रौद्रास्त्रनिष्पिष्टान् दिव्याभरणभूषितान्। निशम्य परमं हर्षमगमद् देवसारथिः॥ तदसां कृतं कर्म देवैरपि दुरासदम्। दृष्ट्वा मां पूजयामास मातलिः शक्रसारथिः॥ उवाच वचनं चेदं प्रीयमाणः कृताञ्जलिः। सुरासुरैरसह्यं हि कर्म यत् साधितं त्वया॥ न ह्येतत् संयुगे कर्तुमपि शक्तः सुरेश्वरः। सुरासुरैरवध्यं हि पुरमेतत् खगं महत्॥ त्वया विमथितं वीर स्ववीर्यतपसो बलात्। विध्वस्ते स्वपुरे तस्मिन् दानवेषु हतेषु च॥ विनदन्त्यः स्त्रियः सर्वा निष्येतुर्नगराद् बहिः। प्रकीर्णकेश्यो व्यथिताः कुरर्य इव दुःखिताः॥ पेतुः पुत्रान् पितॄन् भ्रातृन् शोचमाना महीतले। रुदत्यो दीनकण्ठ्यस्तु निनदन्त्यो हतेश्वराः॥ उरांसि परिनिघ्नन्त्यो विस्रस्तस्रग्विभूषणाः। तच्छोकयुक्तमश्रीकं दुःखदैन्यसमाहतम्॥ न बभौ दानवपुरं हतत्विट्कं हतेश्वरम्। गन्धर्वनगराकारं हतनागमिव हृदम्॥ शुष्कवृक्षमिवारण्यमदृश्यमभवत् पुरम्। भां तु संहष्टमनसं क्षिप्रं मातलिरानयत्॥ देवराजस्य भवनं कृतकर्माणमाहवात्। हिरण्यपुरमुत्सृज्य निहत्य च महासुरान्॥ निवातकवचांश्चैव ततोऽहं शक्रमागमम्। मम कर्म च देवेन्द्रं मातलिविस्तरेण तत्॥ सर्वं विश्रावयामास यथाभूतं महाद्युते। हिरण्यपुरघातं च मायानां च निवारणम्॥ निवातकवचानां च वधं संख्ये महौजसाम्। तच्छ्रुत्वा भगवान् प्रीतः सहस्राक्षः पुरंदरः॥ मरुद्भिः सहितः श्रीमान् साधु साध्वित्यथाब्रवीत्। ततो मां देवराजो वै समाश्वास्य पुनः पुनः॥ अब्रवीद् विबुधैः सार्धमिदं स मधुरं वचः। अतिदेवासुरं कर्म कृतमेव त्वया रणे॥ गुर्वर्थश्च कृतः पार्थ महाशत्रून् घनता मम। एवमेव सदा भाव्यं स्थिरेणाजौधनंजय॥ असम्मूढेन चास्त्राणां कर्तव्यं प्रतिपादनम्। अविषह्यो रणे हि त्वं देवदानवराक्षसैः॥ सयक्षासुरगन्धर्वैः सपक्षिगणपन्नगैः। वसुधां चापि कौन्तेय त्वद्वाहुबलनिर्जिताम्। पालयिष्यतिधर्मात्मा कुन्तीपुत्रो युधिष्ठिरः॥ वैशम्पायन उवाच तस्यां रात्र्यां व्यतीतायांधर्मराजो युधिष्ठिरः। उत्थायावश्यकार्याणि कृतवान् भ्रातृभिः सह॥ ततः संचोदयामास सोऽर्जुनं भ्रातृनन्दनम्। दर्शयास्त्राणि कौन्तेय यैर्जिता दानवास्त्वया॥ ततोधनंजयो राजन् देवैर्दत्तानि पाण्डवः। अस्त्राणि तानि दिव्यानि दर्शयामास भारत॥ यथान्यायं महातेजा; शौचं परममास्थितः। गिरिकूबरपादाक्षं शुभवेणु त्रिवेणुमत्॥ पार्थिवं रथमास्थाय शोभमानोधनंजयः। दिव्येन संवृतस्तेन कवचेन सुवर्चसा॥ धनुरादाय गाण्डीवं देवदत्तं स वारिजम्। शोशुभ्यमान: कौन्तेय आनुपूर्व्यान्महाभुजः॥ अस्त्राणि तानि दिव्यानि दर्शनायोपचक्रमे। अथ प्रयोक्ष्यमाणेषु दिव्येष्वस्त्रेषु तेषु वै॥ समाक्रान्ता मही पद्भ्यां समकम्पत सदुमा। क्षुभिताः सरितश्चैव तथैव च महोदधिः॥ शैलाथापि व्यदीर्यन्त न ववौ च समीरणः। न बभासे सहस्रांशुर्न जज्वाल च पावकः॥ न वेदाः प्रतिभान्ति स्म द्विजातीनां कथंचन। अन्तर्भूमिगता ये च प्राणिनो जनमेजय॥ पीड्यमानाः समुत्थाय पाण्डवं पर्यवारयन्। वेपमानाः प्राञ्जलयस्ते सर्वे विकृताननाः॥ दह्यमानास्तदास्त्रैस्ते याचन्ति स्मधनंजयम्। ततो ब्रह्मर्षयश्चैव सिद्धा ये च महर्षयः॥ जङ्गमानि च भूतानि सर्वाण्येवावतस्थिरे। देवर्षयश्च प्रवरास्तथैव च दिवौकसः॥ यक्षराक्षसगन्धर्वास्तथैव च पतत्रिणः। खेचराणि च भूतानि सर्वाण्येवावतस्थिरे॥ ततः पितामहश्चैव लोकपालाश्च सर्वशः। भगवांश्च महादेवः सगणोऽभ्याययौ तदा॥ ततो वायुमहाराज दिव्यैर्माल्यैः सुगन्धिभिः। अभितः पाण्डवं चित्ररवचक्रे समन्ततः॥ जगुश्च गाथा विविधा गन्धर्वाः सुरचोदिताः। ननृतुः सङ्घशश्चैव राजन्नप्सरसां गणाः॥ तस्मिंश्च तादृशे काले नारदचोदितः सुरैः। आगम्याह वचः पार्थं श्रवणीयमिदं नृप॥ अर्जुनार्जुन मा युक्ष्व दिव्यान्यस्त्राणि भारत। नैतानि निरधिष्ठाने प्रयुज्यन्ते कथंचन॥ अधिष्ठाने न वानातः प्रयुञ्जीत कदाचन। प्रयोगेषु महान् दोषो ह्यस्त्राणां कुरुनन्दन॥ एतानि रक्ष्यमाणानिधनंजय यथागमम्। बलवन्ति सुखार्हाणि भविष्यन्ति न संशयः॥ अरक्ष्यमाणान्येतानि त्रैलोक्यस्यापि पाण्डव। भवन्ति स्म विनाशाय मैवं भूयः कृथाः क्वचित्।।२२। अजातशत्रो त्वं चैव द्रक्ष्यसे तानि संयुगे। योज्यमानानि पार्थेन द्विषतामवमर्दने॥ वैशम्पायन उवाच निवार्याथ ततः पार्थं सर्वे देवा यथागतम्। जग्मुरन्ये च ये तत्र समाजग्मुर्नरर्षभ॥ तेषु सर्वेषु कौरव्य प्रतियातेषु पाण्डवाः। तस्मिन्नेव वने हृष्टास्त अषुः सह कृष्णया।॥ जनमेजय उवाच तस्मिन् कृतास्त्रे रथिनां प्रवीरे प्रत्यागते भवनाद् वृत्रहन्तुः। अतः परं किमकुर्वन्त पार्थाः समेत्य शूरेणधनंजयेन॥ वैशम्पायन उवाच वनेषु तेष्वेव तु ते नरेन्द्राः सहार्जुनेनेन्द्रसमेन वीराः। तस्मिंश्च शैलप्रवरे सुरम्ये धनेश्वराक्रीडगता विजह्वः वेश्मानि तान्यप्रतिमानि पश्यन् क्रीडाश्च नानादुमसंनिबद्धाः। चचारधन्वी बहुधा नरेन्द्रः सोऽस्त्रेषु यत्तः सततं किरीटी॥ अवाप्य वासं नरदेवपुत्राः प्रसादजं वैश्रवणस्य राज्ञः। न प्राणिनां ते स्पृहयन्ति राजन् शिवश्च कालः स बभूव तेषाम्॥ समेत्य पार्थेन यथैकरात्र मूषुः समास्तत्र तदा चतस्रः। पूर्वाश्च षट् ता दश पाण्डवानां शिवा बभूवुर्वसतां वनेषु॥ ततोऽब्रवीद् वायुसुतस्तरस्वी जिष्णुश्च राजानमुपोपविश्य। यमौ च वीरौ सुरराजकल्पावेकान्तमास्थाय हितं प्रियं च॥ तव प्रतिज्ञां कुरुराज सत्यां चिकीर्षमाणास्तदनु प्रियं च। ततो न गच्छाम वनान्यपास्य सुयोधनं सानुचरं निहन्तुम्॥ एकादशं वर्षमिदं वसाम: सुयोधनेनात्तसुखाः सुखार्हाः। मज्ञातवासं सुखमाप्नुयाम॥ तवाज्ञया पार्थिव निर्विशङ्का विहाय मानं विचरन् वनानि। समीपवासेन विलोभितास्ते ज्ञास्यन्ति नास्मानपकृष्टदेशान्॥ संवत्सरं तत्र विहृत्य गूढं नराधमं तं सुखमुद्धरेम। निर्यात्य वैरं सफलं सपुष्पं तस्मै नरेन्द्राधमपूरुषाय॥ सुयोधनायानुचरैर्वृताय ततो महीमावसधर्मराज। स्वर्गोपमं देशमिमं चरद्भिः शक्यो विहन्तुं नरदेव शोकः॥ कीर्तिस्तु ते भारत पुण्यगन्धा नश्येद्धि लोकेषु चराचरेषु। तत् प्राप्य राज्यं कुरुपुङ्गवानां शक्यं महत् प्राप्तुमथ क्रियाश्च॥ इदं तु शक्यं सततं नरेन्द्र प्राप्तुं त्वया यल्लभसे कुबेरात्। कुरुष्व बुद्धिं द्विषतां वधाय कृतागसां भारत निग्रहे च॥ तेजस्तवोग्रं न सहेत राजन् समेत्य साक्षादपि वज्रपाणिः। न हि व्यथं जातु करिष्यतस्तौ समेत्य देवैरपिधर्मराज॥ तवार्थसिद्ध्यर्थमपि प्रवृत्ती सुपर्णकेतुश्च शिनेश्च नप्ता। तथैव कृष्णोऽप्रतिमो बलेन तथैव चाहं नरदेववर्य॥ तवार्थसिद्ध्यर्थमभिप्रपन्नो यथैव कृष्णः सह यादवैस्तैः। तथैव चाहं नरदेववर्य यमौ च वीरौ कृतिनौ प्रयोगे॥ त्वदर्थयोगप्रभवप्रधानाः शमं करिष्याम परान् समेत्य।। वैशम्पायन उवाच ततस्तदाज्ञाय मतं महात्मा तेषां चधर्मस्य सुतो वरिष्ठः॥ प्रदक्षिणं वैश्रवणाधिवासं चकारधर्मार्थविदुत्तमौजाः। आमन्त्र्य वेश्मनिः नदी: सरांसि सर्वाणि रक्षांसि चधर्मराजः॥ यथागतं मार्गमवेक्षमाणः। पुनर्गिरि चैव निरीक्षमाणः। ततो महात्मा स विशुद्धबुद्धिः सम्प्रार्थयामास नगेन्द्रवर्यम्॥ र्जित्वा सपत्नान् प्रतिलभ्य राज्यम्। शैलेन्द्र भूयस्तपसे जितात्मा द्रष्टा तवास्मीति मतिं चकार॥ वृतश्च सर्वैरनुजैर्द्विजैश्च तेनैव मार्गेण पतिः कुरूणाम्। उवाह चैतान् गणशस्तथैव घटोत्कचः पर्वतनिर्झरेषु॥ तान् प्रस्थितान् प्रीतमना महर्षिः पितेव पुत्राननुशिष्य सर्वान्। स लोमशः प्रीतमना जगाम दिवौकसां पुण्यतमं निवासम्॥ स्तीर्थानि रम्याणि तपोवनानि। महान्ति चान्यानि सरांसि पार्थाः सम्पश्यमानाः प्रययुनरावयाः॥ वैशम्पायन उवाच नगोत्तमं प्रस्रवणैरुपेतं दिशां गजैः किन्नरपक्षिभिश्च। सुखं निवासं जहतां हि तेषां न प्रीतिरासीद् भरतर्षभाणाम्॥ ततस्तु तेषां पुनरेव हर्षः कैलासमालोक्य महान् बभूव। कुबेरकान्तं भरतर्षभाणां महीधरं वारिधरप्रकाशम्॥ समुच्छ्रयान् पर्वतसंनिरोधरान् गोष्ठान् हरीणां गिरिसेतुमालाः। बहून् प्रपातांश्च समीक्ष्य वीराः स्थलानि निम्नानि च तत्र तत्र॥ तथैव चान्यानि महावनानि मृगद्विजानेकपसेवितानि। स्तेधन्विनः खड्गधरा नरावयाः॥ वनानि रम्याणि नद्यो सरांसि गुहा गिरीणां गिरिगह्वराणि। दिवानिशं प्राप्य नरर्षभाणाम्॥ ते दुर्गवासं बहुधा निरुष्य व्यतीत्य कैलासमचिन्त्यरूपम्। आसेदुरत्यर्थमनोरमं ते तमाश्रमाचयं वृषपर्वणस्तु॥ समेत्य राज्ञा वृषपर्वणा ते प्रत्यर्चितास्तेन च वीतमोहाः। शशंसिरे विस्तरशः प्रवासं गिरौ यथावद् वृषपर्वणस्ते॥ सुखोषितास्तस्य त एकरात्रं पुण्याश्रमे देवमहर्षिजुष्टे। अभ्याययुस्ते बदरौं विशाला सुखेन वीराः पुनरेव वासम्॥ ऊषुस्ततस्तत्र महानुभावा नारायणस्थानगताः समग्रा:। कुबेरकान्तां नलिनी विशोकाः सम्पश्यमानाः सुरसिद्धजुष्टाम्॥ तां चाथ दृष्टवा नलिनी विशोकाः पाण्डोः सुताः सर्वनरप्रधानाः। ते रेमिरे नन्दनवासमेत्य द्विजर्षयो वीतमला यथैव॥ ततः क्रमेणोपययुर्दैवीरा यथागतेनैव पथा समग्राः। विहत्य मासं सुखिनो बदाँ किरातराज्ञो विषयं सुबाहोः॥ पीनांस्तुषारान् दरदांश्च सर्वान् देशान् कुलिन्दस्य च भूमिरलान्। अतीत्य दुर्गं हिमवत्प्रदेशं पुरं सुबाहोर्ददृशुर्नृवीराः॥ श्रुत्वा च तान् पार्थिवपुत्रपौत्रान्। प्राप्तान् सुबाहुर्विषये समग्रान्। प्रत्युद्ययौ प्रीतियुतः स राजा तं चाभ्यनन्दन वृषभाः कुरूणाम्॥ समेत्य राज्ञा तु सुबाहुना सूतैर्विशोकप्रमुखैश्च सर्वे। सहेन्द्रसेनैः परिचारिकैश्च पौरोगवैर्ये च महानसस्था:॥ ते सुखोषितास्तत्र त एकरात्रं सूतान् समादाय रथांश्च सर्वान्। घटोत्कचं सानुचरं विसृज्य ततोऽभ्ययुर्यामुनमदिराजम्॥ हिमोत्तरीयारुणपाण्डुसानौ। स्तदा निवासं पुरुषप्रवीराः॥ वराहनानामृगपक्षिजुष्टं महावनं चैत्ररथप्रकाशम्। शिवेन पार्था मृगयाप्रधानाः संवत्सरं तत्र वने विजहुः॥ तत्राससादातिबलं भुजङ्गं क्षुधादितं मृत्युमिवोग्ररूपम्। वृकोदरः पर्वतकन्दरायां विषादमोहव्यथितान्तरात्मा॥ द्वीपोऽभवद् यत्र वृकोदरस्य युधिष्ठिरोधर्मभृतां वरिष्ठः। अमोक्षयद् यस्तमनन्ततेजा ग्राहेण संवेष्टितसर्वगात्रम्॥ ते द्वादशं वर्षमुपोपयातं वने विहर्तुं कुरवः प्रतीताः। तस्माद् वनाच्चैत्ररथप्रकाशात श्रिया ज्वलन्तस्तपसा च युक्ताः॥ ततश्च यात्वा मरुधन्वपार्श्व सदाधनुर्वेदरतिप्रधानाः। सरस्वतीमेत्य निवासकामाः सरस्ततो द्वैतवनं प्रतीयुः॥ समीक्ष्य तान् द्वैतवने निविष्टान् निवासिनस्तत्र ततोऽभिजग्मुः। स्तृणोदपात्रावरणाश्मकुट्टाः॥ प्लक्षाक्षरैहीतकवेतसाच तथा बदर्यः खदिराः शिरीषाः। बिल्वेड्दा: पीलुशमीकरीराः सरस्वतीतीररुहा बभूवुः॥ मागारभूतामिव देवतानाम्। सरस्वतीं प्रीतियुताश्चरन्तः सुखं विजहुर्नरदेवपुत्राः॥ जनमेजय उवाच कथं नागायुतप्राणो भीमो भीमपराक्रमः। भयमाहारयत् तीव्र तस्मादजगरान्मुने॥ पौलस्त्यंधनदं युद्धे च आह्वयति दर्पितः। नलिन्यां कदनं कृत्वा निहन्ता यक्षरक्षसाम्॥ तं शंससि भयाविष्टमापन्नमरिसूदनम्। एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे॥ वैशम्पायन उवाच बह्वाश्चर्ये वने तेषां वसतामुग्धन्विनाम्। प्राप्तानामाश्रमाद् राजन् राजर्षवृषपर्वणः॥ यदृच्छयाधनुष्पाणिर्बद्धखङ्गो वृकोदरः। ददर्श तद् वनं रम्यं देवगन्धर्वसेवितम्॥ स ददर्श शुभान् देशान् गिरेहिमवतस्तदा। देवर्षिसिद्धचरितानप्सरोगणसेवितान्॥ चकोरैरुपचक्रैश्च पक्षिभिर्जीवजीवकैः। कोकिलै ङ्गराजैश्च तत्र तत्र निनादितान्॥ नित्यपुष्पफलैर्वृक्षैर्हिमसंस्पर्शकोमलैः। उपेतान् बहुलच्छायैर्मनोनयननन्दनैः॥ स सम्पश्यन् गिरिनदीर्वैदूर्यमणिसंनिभैः। सलिलैर्हिमसंकाशैहँसकारण्डवायुतैः॥ वनानि देवदारूणां मेघानामिव वागुराः। हरिचन्दनमिश्राणि तुङ्गकालीयकान्यपि॥ मृगयां परिधावन् स समेषु मस्धन्वसु। विध्यन् मृगान् शरैः शुद्धैश्चचार स महाबलः॥ भीमसेनस्तु विख्यातो महान्तं दंष्ट्रिणं बलात्। निघ्नन् नागशतप्राणो वने तस्मिन् महाबलः॥ मृगाणां स वराहाणां महिषाणां महाभुजः। विनिघ्नंस्तत्र तत्रैव भीमो भीमपराक्रमः॥ स मातङ्गशतप्राणो मनुष्यशतवारणः। सिंहशार्दूलविक्रान्तो वने तस्मिन् महाबलः॥ वृक्षानुत्पाटयामास तरसा वै बभञ्ज च। पृथिव्याश्च प्रदेशान् ववै नादयंस्तु वनानि च॥ पर्वताग्राणि वै मृद्गन् नादयानश्च विज्वरः। प्रक्षिपन् पादपांश्चापि नादेनापूरयन् महीम्॥ वेगेन न्यपतद् भीमो निर्भयश्च पुनः पुनः। आस्फोटयन् क्ष्वेडयंश्च तलतालांश्च वादयन्॥ चिरसम्बद्धदर्पस्तु भीमसेनो वने तदा। गजेन्द्राश्च महासत्त्वा मृगेन्द्राश्च महाबलाः॥ भीमसेनस्य नादेन व्यमुञ्चन्त गुहा भयात्। क्वचित् प्रधावंस्तिष्ठंश्च क्वचिच्चोपविशंस्तथा॥ मृगप्रेप्सुर्महारौद्रे वने चरति निर्भयः। स तत्र मनुजव्याघ्रो वने वनचरोपमः॥ पद्भ्यामभिसमापेदे भीमसेनो महाबलः। स प्रविष्टो महारण्ये नादान् नदति चाद्भुतान्॥ त्रासयन् सर्वभूतानि महासत्त्वपराक्रमः। ततो भीमस्य शब्देन भीताः सर्पा गुहाशया:॥ अतिक्रान्तास्तु वेगेन जगामानुसृतः शनैः। ततोऽमरवरप्रख्यो भीमसेनो महाबलः॥ स ददर्श महाकायं भुजङ्गं लोमहर्षणम्। गिरिदुर्गे समापन्नं कायेनावृत्य कन्दरम्॥ पर्वताभोगवर्माणमतिकायं महाबलम्। चित्राङ्गमङ्गजैचित्रैर्हरिद्रासदृशच्छविम्॥ गुहाकारेण वक्त्रेण चतुर्दष्ट्रेण राजता। दीप्ताक्षणातिताप्रेण लिहानं सृक्किणी मुहुः॥ त्रासनं सर्वभूतानां कालान्तकयमोपमम्। निःश्वासक्ष्वेडनादेन भत्सर्यन्तमिव स्थितम्॥ स भीमं सहसाभ्येत्य पृदाकुः कुपितो भृशम्। जग्राहाजगरो ग्राहो भुजयोरुभयोर्बलात्॥ तेन संस्पृष्टगात्रस्य भीमसेनस्य वै तदा। संज्ञा मुमोह सहसा वरदानेन तस्य हि॥ दशनागसहगाणिधारयन्ति हि यद् बलम्। तद् बलं भीमसेनस्य भुजयोरसमं परैः॥ स तेजस्वी तथा तेन भुजगेन वशीकृतः। विस्फुरन् शनकैर्भीमो न शशाक विचेष्टितुम्॥ नागायुतसमप्राणः सिंहस्कन्धो महाभुजः। गृहीतो व्यजहात् सत्त्वं वरदानविमोहितः॥ स हि प्रयत्नमकरोत् तीव्रमात्मविमोक्षणे। न चैनमशकद् वीरः कथंचित् प्रतिबाधितुम्॥ वैशम्पायन उवाच स भीमसेनस्तेजस्वी तथा सर्पवशं गतः। चिन्तयामास सर्पस्य वीर्यमत्यद्भुतं महत्॥ उवाच च महासधैं कामया ब्रूहि पन्नग। कस्त्वं भो भुजगश्रेष्ठ किं मया च करिष्यसि॥ पाण्डवो भीमसेनोऽहंधर्मराजादनन्तरः। नागायुतसमप्राणस्त्वया नीतः कथं वशम्॥ सिंहाः केसरिणो व्याघ्रा महिषा वारणास्तथा। समागताश्च शतशो निहताश्च मया युधि॥ राक्षसाश्च पिशाचाश्च पन्नगाश्च महाबलाः। भुजवेगमशक्ता मे सोढुं पन्नगसत्तम॥ नु किं विद्याबलं किं नु वरदानमथो तव। उद्योगमपि कुर्वाणो वशगोऽस्मि कृतस्त्वया॥ असत्यो विक्रमो नृणामिति मेधीयते मतिः। यथेदं मे त्वया नाग बलं प्रतिहतं महत्॥ वैशम्पायन उवाच इत्येवंवादिनं वीरं भीममक्लिष्टकारिणम्। भोगेन महता गृह्य समन्तात् पर्यवेष्टयत्॥ निगृह्येनं महाबाहुं ततः स भुजगस्तदा। विमुच्यास्य भुजौ पीनाविदं वचनमब्रवीत्॥ दिष्टस्त्वं क्षुधितस्याद्य देवैर्भक्षो महाभुज। दिष्ट्या कालस्य महतः प्रियाः प्राणा हि देहिनाम्।। यथा त्विदं मया प्राप्तं सर्वरूपमरिंदम। तथावश्यं मया ख्याप्यं तवाद्य शृणु सत्तम॥ इमामवस्थां सम्प्राप्तो ह्यहं कोपान्मनीषिणाम्। शापस्यान्तं परिप्रेप्सुः सर्वं तत् कथयामि ते॥ नहुषो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः तवैव पूर्वः पूर्वेषामायोर्वंशधरः सुतः॥ सोऽहं शापादगस्त्यस्य ब्राह्मणानवमन्य च। इमामवस्थामापन्नः पश्य दैवमिदं मम॥ त्वां चेदवध्यं दायादमतीव प्रियदर्शनम्। अहमद्योपयोक्ष्यामि विधानं पश्य यादृशम्॥ न हि मे मुच्यते कश्चित् कथंचित् प्रग्रहं गतः। गजो वा महिषो वापि षष्ठे काले नरोत्तम॥ नासि केवलसर्पण तिर्यग्योनिषु वर्तता। गृहीतः कौरवश्रेष्ठ वरदानमिदं मम॥ पतता हि विमानायान्मया शक्रासनाद् द्रुतम्। कुरु शापान्तमित्युक्तो भगवान् मुनिसत्तमः॥ स मामुवाच तेजस्वी कृपयाभिपरिप्लुतः। मोक्षस्ते भविता राजन् कस्माच्चित् कालपर्ययात्॥ ततोऽस्मि पतितो भूमौ न च मामजहात् स्मृतिः। स्मार्तमस्ति पुराणं मे यथैवाधिगतं तथा।॥ यस्तु ते व्याहतान् प्रश्नान् प्रतिब्रूयाद् विभागवित्। स त्वां मोक्षयिता शापादिति मामब्रवीदृषिः॥ गृहीतस्य त्वया राजन् प्राणिनोऽपि बलीयसः। सत्त्वभ्रंशोऽधिकस्यापि सर्वस्याशु भविष्यति॥ इति चाप्यहमश्रौषं वचस्तेषां दयावताम्। मयि संजातहार्दनामथ तेऽन्तर्हिता द्विजाः॥ सोऽहं परमदुष्कर्मा वसामि निरयेऽशुचौ। सर्पयोनिमिमां प्राप्य कालकाक्षी महाद्युते॥ तमुवाच महाबाहुर्भीमसेनो भुजङ्गमम्। न च कुप्ये महासर्प न चात्मानं विगर्हये।।२५। यस्मादभावी भावी वा मनुष्यः सुखदुःखयोः। आगमे यदि वापाये न तत्र ग्लपयेन्मनः॥ दैवं पुरुषकारेण को वञ्चयितुमर्हति। दैवमेव परं मन्ये पुरुषार्थो निरर्थकः॥ पश्य दैवोपघाताद्धि भुजवीर्यव्यपाश्रयम्। इमामवस्थां सम्प्राप्तमनिमित्तमिहाद्य माम्॥ किंतु नाद्यानुशोचामि तथाऽऽत्मानं विनाशितम्। यथा तु विपिने न्यस्तान् भ्रातृन् राज्यपरिच्युतान्।।२९। हिमवांश्च सुदुर्गोऽयं यक्षराक्षससंकुलः। मां समुद्रीक्षमाणास्ते प्रपतिष्यन्ति विह्वलाः॥ विनष्टमथ मां श्रुत्वा भविष्यन्ति निरुद्यमाः। धर्मशीला मया ते हि बाध्यन्ते राज्यगृद्धिना॥ अथवा नार्जुनोधीमान् विषादमुपयास्यति। सर्वास्त्रविदनाधृष्यो देवगन्धर्वराक्षसैः॥ समर्थः स महाबाहुरेकोऽपि सुमहाबलः। देवराजमपि स्थानात् प्रच्यावयितुपञ्जसा॥ किं पुनधृतराष्ट्रस्य पुत्रं दुर्दूतदेविनम्। विद्विष्टं सर्वलोकस्य दम्भमोहपरायणम्॥ मातरं चैव शोचामि कृपणां पुत्रगृद्धिनीम्। यास्माकं नित्यमाशास्ते महत्त्वमधिकं परैः॥ तस्याः कथं त्वनाथाया मद्विनाशाद् भुजङ्गमा सफलास्ते भविष्यन्ति मयि सर्वे मनोरथाः॥ नकुलः सहदेवश्च यमौ च गुरुवर्तिनौ। मद्बाहुबलसंगुप्तौ नित्यं पुरुषमानिनौ।॥ भविष्यतो निरुत्साहौ भ्रष्टवीर्यपराक्रमौ। मद्विनाशात् परिघुनाविति मे वर्तते मतिः॥ एवंविधं बहु तदा विललाप वृकोदरः। भुजङ्गभोगसंरुद्धो नाशकच्च विचेष्टितुम्॥ युधिष्ठिरस्तु कौन्तेयो बभूवास्वस्थचेतनः। अनिष्टदर्शनान् घोरानुत्पातान् परिचिन्तयन्॥ दारुणं ह्यशिवं नादं शिवा दक्षिणतः स्थिता। दीप्तायां दिशि वित्रस्ता रौति तस्याश्रमस्य ह॥ एकपक्षाक्षिचरणा वर्तिका घोरदर्शना। रक्तं वमन्ती ददृशे प्रत्यादित्यमभासुरा॥ प्रववौ चानिलो रूक्षश्चण्डः शर्करकर्षणः। अपसव्यानि सर्वाणि मृगपक्षिरुतानि च॥ पृष्ठतो वायसः कृष्णो याहि याहीति शंसति। मुहुर्मुहुः स्फुरति च दक्षिणोऽस्य भुज-तथा॥ हृदयं चरणश्चापि वामोऽस्य परितप्यति। सव्यस्याक्ष्णो विकारश्चाप्यनिष्टः समपद्यत॥ धर्मराजोऽपि मेधावी मन्यमानो महद् भयम्। द्रौपदी परिपप्रच्छ क्व भीम इति भारत॥ शशंस तस्मै पाञ्चाली चिरयातं वृकोदरम्। स प्रतस्थे महाबाहुधौम्येन सहितो नृपः॥ द्रौपद्या रक्षणं कार्यमित्युवाचधनंजयम्। नकुलं सहदेवं च व्यादिदेश द्विजान् प्रति॥ स तस्य पदमुन्नीय तस्मादेवाश्रमात् प्रभुः। मृगयामास कौन्तेयो भीमसेनं महावने॥ स प्राची दिशमास्थाय महतो गजयूथपान्। ददर्श पृथिवीं चिट्ठीमस्य परिचिछिताम्॥ ततो मृगसहराणि मृगेन्द्राणां शतानि च। पतितानि वने दृष्ट्वा मार्ग तस्याविशनृपः॥ धावतस्तस्य वीरस्य मृगार्थं वातरंहसः। ऊरुवातविनिर्भग्ना द्रुमा व्यावर्जिताः पथि॥ स गत्वा तैस्तदा चिद्वैर्ददर्श गिरिगह्वरे। रूक्षमारुतभूयिष्ठे निष्पत्रदुमसंकुले।॥ ईरिणे निर्जले देशे कण्टकिदुमसंकुले। अश्मस्थाणुक्षुपाकीर्णे सुदुर्गे विषमोत्कटे। गृहीतं भुजगेन्द्रेण निश्चेष्टमनुजं तदा॥ वैशम्पायन उवाच युधिष्ठिरस्तमासाद्य सर्पभोगेन वेष्टितम्। दयितं भ्रातरधीमानिदं वचनमब्रवीत्॥ कुन्तीमातः कथमिमापापदं त्वमवाप्तवान्। कश्शायं पर्वताभोगप्रतिमः पन्नगोत्तमः॥ सधर्मराजमालक्ष्य भ्राता भ्रातरमग्रजम्। कथयामास तत् सर्वं ग्रहणादि विचेष्टितम्॥ भीम उवाच अयमार्य महासत्त्वो भक्षार्थं मां गृहीतवान्। नहुषो नाम राजर्षिः प्राणवानिव संस्थितः॥ युधिष्ठिर उवाच मुच्यतामयमायुष्मन् भ्राता मेऽमितविक्रमः। वयमाहारमन्यं ते दास्यामः क्षुनिवारणम्॥ सर्प उवाच आहारो राजपुत्रोऽयं मया प्राप्तो मुखागतः। गम्यतां नेह स्थातव्यं श्वो भवानपि मे भवेत्॥ व्रतमेतन्महाबाहो विषयं मम यो व्रजेत्। स मे भक्षो भवेत् तात त्वं चापि विषये मम॥ चिरेणाद्य मयाऽऽहारः प्राप्तोऽयमनुजस्तव। नाहमेनं विमोक्ष्यामि न चान्यमभिकाझये।॥ युधिष्ठिर उवाच देवो वा यदि वा दैत्य उरगो वा भवान् यदि। सत्यं सर्प वचो ब्रूहि पृच्छति त्वां युधिष्ठिरः। किमर्थं च त्वया चस्तो भीमसेनो भुजङ्गम॥ किमाहृत्य विदित्वा वा प्रीतिस्ते स्याद् भुजङ्गम्। किमाहारं प्रयच्छामि कथं मुञ्चेद् भवानिमम्॥ सर्प उवाच नहुषो नाम राजाहमासं पूर्वस्तवानघ। प्रथितः पञ्चमः सोमादायोः पुत्रो नराधिप।॥ क्रतुभिस्तपसा चैव स्वाध्यायेन दमेन च। त्रैलोक्यैश्चर्यमव्यचं प्राप्तोऽहं विक्रमेण च॥ तदैश्वर्यं समासाद्य दो मामगमत् तदा। सह्रां हि द्विजातीनामुवाह शिबिकां मम॥ ऐश्वर्यमदमत्तोऽहमवमन्य ततो द्विजान्। इमामगस्त्येन दशामानीतः पृथिवीपते॥ न तु मामजहात् प्रज्ञा यावदद्येति पाण्डव। तस्यैवानुग्रहाद् राजन्नगस्त्यस्य महात्मनः॥ षष्ठे काले मयाऽऽहारः प्राप्तोऽयमनुजस्तव। नाहमेनं विमोक्ष्यामि न चान्यदपि कामये।॥ प्रश्नानुच्चारितानद्य व्याहरिष्यसि चेन्मम। अथ पश्चाद् विमोक्ष्यामि भ्रातरं ते वृकोदरम्॥ युधिष्ठिर उवाच ब्रूहि सर्प यथाकामं प्रतिवक्ष्यामि ते वचः। अपि चेच्छक्नुयां प्रीतिमाहर्तुं ते भुजङ्गम्॥ वेद्यं च ब्राह्मणेनेह तद् भवान् वेत्ति केवलम्। सर्पराज ततः श्रुत्वा प्रतिवक्ष्यामि ते वचः॥ सर्प उवाच ब्राह्मणः को भवेद् राजन् वेद्यं किं च युधिष्ठिर। ब्रवीह्यतिमतिं त्वां हि वाक्यैरनुमिमीमहे॥ युधिष्ठिर उवाच सत्यं दानं क्षमा शीलमानृशंस्यं तपो घृणा। दृश्यन्ते यत्र नागेन्द्र स ब्राह्मण इति स्मृतः॥ वेद्यं सर्प परं ब्रह्म निर्दुःखमसुखं च यत्। यत्र गत्वा न शोचन्ति भवतः किं विवक्षितम्॥ सर्प उवाच चातुर्वण्र्यं प्रमाणं च सत्यं च ब्रह्म चैव हि। शूद्रेष्वपि च सत्यं च दानमक्रोध एव च। आनृशंस्यमहिंसा च घृणा चैव युधिष्ठिर॥ वेद्यं यच्चात्र निर्दुःखमसुखं च नराधिप। ताभ्यां हीनं पदं चान्यन्न तदस्तीति लक्षये॥ युधिष्ठिर उवाच शूद्रे तु यद् भवेल्लम द्विजे तच्च न विद्यते। न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः॥ यत्रैतल्लक्ष्यते सर्प वृत्तं स ब्राह्मणः स्मृतः। यत्रैतन्न भवेत् सर्प तं शूद्रमिति निर्दिशेत्॥ यत् पुनर्भवता प्रोक्तं न वेद्यं विद्यतीति च। ताभ्यां हीनमतोऽन्यत्र पदमस्तीति चेदपि॥ एवमेतन्मतं सर्प ताभ्यां हीनं न विद्यते। यथा शीतोष्णयोर्मध्ये भवेन्नोष्णं न शीतता॥ एवं वै सुखदुःखाभ्यां हीनमस्ति पदं क्वचित्। एषा मम मतिः सर्प यथा वा मन्यते भवान्॥ सर्प उवाच यदि ते वृत्ततो राजन् ब्राह्मणः प्रसमीक्षितः। वृथा जातिस्तदाऽऽयुष्मन् कृतिर्यावन्न विद्यते॥ युधिष्ठिर उवाच जातिरत्र महासर्प मनुष्यत्वे महामते। संकरात् सर्ववर्णानां दुष्परीक्ष्येति मे मतिः॥ सर्वे सर्वास्वपत्यानि जनयन्ति सदा नराः। वाङ्मथुनमथो जन्म मरणं च समं नृणाम्॥ इदमाएं प्रमाणं च ये यजामह इत्यपि। तस्माच्छीलं प्रधानेष्टं विदुर्ये तत्त्वदर्शिनः॥ प्राङ् नाभिवर्धनात् पुंसो जातकर्म विधीयते। तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते॥ तावच्छूद्रसमो ह्येष यावद् वेदे न जायते। तस्मिन्नेवं मतिद्वैधे मनुः स्वायम्भुवोऽब्रवीत्॥ कृतकृत्याः पुनर्वर्णा यदि वृत्तं न विद्यते। संकरस्त्वत्र नागेन्द्र बलवान् प्रसमीक्षितः॥ यत्रेदानीं महासर्प संस्कृतं वृत्तमिष्यते। तं ब्राह्मणमहं पूर्वमुक्तवान् भुजगोत्तम॥ सर्प उवाच श्रुतं विदितवेद्यस्य तव वाक्यं युधिष्ठिर। भक्षयेयमहं कस्माद् भ्रातरं ते वृकोदरम्॥ वैशम्पायन उवाच निदाघान्तकरः कालः सर्वभूतसुखावहः। तत्रैव वसतां तेषां प्रावृट् समभिपद्यत॥ छादयन्तो महाघोषाः खं दिशश्च बलाहकाः। प्रववर्षुर्दिवारात्रमसिताः सततं तदा॥ तापत्ययनिकेताश्च शतशोऽथ सहाशः। अपेतार्कप्रभाजालाः सविद्युद्विमलप्रभाः॥ विरूढशष्याधरणी मत्तदंशसरीसृपा। बभूव पयसा सिक्ता शान्ता सर्वमनोरमा॥ न स्म प्रज्ञायते किंचिदम्भसा समवस्तृते। समं वा विषमं वापि नद्यो वा स्थावराणि च॥ क्षुब्धतोया महावेगाः श्वसमाना इवाशुगाः। सिन्धवः शोभयांचक्रुः काननानि तपात्यये॥ नदतां काननान्तेषु श्रूयन्ते विविधाः स्वनाः। वृष्टिभिश्च्छाद्यमानानां वराहमृगपक्षिणाम्॥ स्तोकका: शिखिनश्चैव पुंस्कोकिलगणैः सह। मत्ताः परिपतन्ति स्म दर्दुराश्चैव दर्पिताः॥ तथा बहुविधाकारा प्रावृण्मेघानुनादिता। अभ्यतीता शिवा तेषां चरतां मरुधन्वसु॥ क्रौञ्चहंससमाकीर्णा शरत् प्रमुदिताभवत्। रूढकक्षवनप्रस्था प्रसन्नजलनिम्नगा।॥ विमलाकाशनक्षत्रा शरत् तेषां शिवाभवत्। मृगद्विजसमाकीर्णा पाण्डवानां महात्मनाम्॥ दृश्यन्ते शान्तरजसः क्षपा जलदशीतलाः। ग्रहनक्षत्रसङ्घश्च सोमेन च विराजिताः॥ कुमुदैः पुण्डरीकैश्च शीतवारिधराः शिवाः। नदीः पुष्करिणीश्चैव ददृशुः समलंकृताः॥ आकाशनीकाशतटां तीरवानीरसंकुलाम्। बभूव चरतां हर्षः पुण्यतीर्थां सरस्वतीम्॥ ते वै मुमुदिरे वीराः प्रसन्नसलिलां शिवाम्। पश्यन्तो दृढधन्वानः परिपूर्णां सरस्वतीम्॥ तेषां पुण्यतमा रात्रिः पर्वसंधौ स्म शारदी। तत्रैव वसतामासीत् कार्तिकी जनमेजय॥ पुण्यकृद्भिर्महासत्त्वैस्तापसैः सह पाण्डवाः। तत् सर्वे भरतश्रेष्ठाः समूहुर्योगमुत्तमम्॥ तमिगाभ्युदये तस्मिन्धौम्येन सह पाण्डवाः। सूतैः पौरोगवैश्चैव काम्यकं प्रययुर्वनम्॥ वैशम्पायन उवाच काम्यकं प्राप्य कौरव्य युधिष्ठिरपुरोगमाः। कृतातिथ्या मुनिगणैनिषेदुः सह कृष्णया॥ ततस्तान् परिविश्वस्तान् वसतः पाण्डुनन्दनान्। ब्राह्मणा बहवस्तत्र समन्तात् पर्यवारयन्॥ अथाब्रवीद् द्विजः कश्चिदर्जुनस्य प्रियः सखा। स एष्यति महाबाहुर्वशी शौरिरुदारधीः॥ विदिता हि हरे यमिहायाताः कुरूद्वहाः। सदा हि दर्शनाकाक्षी श्रेयोऽन्वेषी च वो हरिः॥ बहुवत्सरजीवि च मार्कण्डेयो महातपाः। स्वाध्यायतपसा युक्तःक्षिप्रं युष्मान् समेष्यति॥ तथैव ब्रुवतस्तस्य प्रत्यदृश्यत केशवः। शैब्यसुग्रीवयुक्तेन रथेन रथिनां वरः॥ मघवानिव पौलोम्या सहितः सत्यभामया। उपायाद् देवकीपुत्रो दिदृक्षुः कुरुसत्तमान्॥ अवतीर्य रथात् कृष्णोधर्मराजं यथाविधि। ववन्दे मुदितोधीमान् भीमं च बलिनां वरम्॥ पूजयामासधौम्यं च यमाभ्यामभिवादितः। परिष्वज्य गुडाकेशं द्रौपदी पर्यसान्त्वयत्॥ स दृष्ट्वा फाल्गुनं वीरं चिरस्य प्रियमागतम्। पर्यष्वजत दाशार्हः पुनः पुनररिंदमः॥ तथैव सत्यभामापि द्रौपदी परिषस्वजे। पाण्डवानां प्रियां भार्यां कृष्णस्य महिषी प्रिया॥ ततस्ते पाण्डवाः सर्वे सभार्याः सपुरोहिताः। आनर्चुः पुण्डरीकाक्षं परिवत्रुश्च सर्वशः॥ कृष्णस्तु पार्थेन समेत्य विद्वान् धनंजयेनासुरतर्जनेन। बभौ यथा भूतपतिर्महात्मा समेत्य साक्षाद् भगवान् गुहेन॥ ततः समस्तानि किरीटमाली वनेषु वृत्तानि गदाचजाय। उक्त्वा यथावत् पुनरन्वपृच्छत् कथं सुभद्रां च स चाभिमन्युः॥ स पूजयित्वा मधुहा यथावत् पार्थं च कृष्णां च पुरोहितं चा उवाच राजानमभिप्रशंसन् युधिष्ठिरं तत्र सहोपविश्य॥ धर्मः परः पाण्डव राज्यलाभात् तस्यार्थमाहुस्तप एव राजन्। सत्यार्जवाभ्यां चरता स्वधर्म जितस्त्वयायं च परश्च लोकः॥ अधीतमग्रे चरता व्रतानि सम्यग्धनुर्वेदमवाप्य कृत्स्नम्। क्षात्रेणधर्मेण वसूनि लब्ध्वा सर्वे ह्यवाप्ताः क्रतव; पुराणाः॥ न चाम्यधर्मेषु रतिस्तवास्ति कामान किंचित् कुरुषे नरेन्द्र। न चार्थलोभात् प्रजहासिधर्म तस्मात् प्रभावादसिधर्मराजः॥ दानं च सत्यं च तपश्च राजन् श्रद्धा च बुद्धिश्च क्षमाधृतिश्च। नेपा परा पार्थ सदा रतिस्ते॥ यदा जनौघः कुरुजाङ्गलानां कृष्णां सभायामवशामपश्यत्। अपेतधर्मव्यवहारवृत्तं सहेत तत् पाण्डव कस्त्वदन्यः॥ असंशयं सर्वसमृद्धकामः क्षिप्रं प्रजाः पालयितासि सम्यक्। इमे वयं निग्रहणे कुरूणां यदि प्रतिज्ञा भवतः समाप्ता॥ धौम्यं च भीमं च युधिष्ठिरं च यमौ च कृष्णां च दशार्हसिंहः। उवाच दिष्ट्या भवतां शिवेन प्राप्तः किरीटी मुदितः कृतास्त्रः॥ प्रोवाच कृष्णामपि याज्ञसेनी दशाहभर्ता सहितः सुहृद्भिः। दिष्ट्या समग्रासिधनंजयेन समागतेत्येवमुवाच कृष्णः॥ स्तवात्मजास्ते शिशव: सुशीलाः। श्चरन्ति पुत्रास्तव याज्ञसेनि॥ राज्येन राष्ट्रैश्च निमन्त्र्यमाणाः पित्रा च कृष्णे तव सोदरैश्च। य यज्ञसेनस्य न मातुलाना गृहेषु बाला रतिमाप्नुवन्ति॥ आनर्तमेवाभिमुखाः शिवेन गत्वाधनुर्वेदरतिप्रधानाः। तवात्मजा वृष्णिपुरं प्रविश्य न दैवतेभ्यः स्पृहयन्ति कृष्णे॥ यथा त्वमेवार्हसि तेषु वृत्तं प्रयोक्तुमार्या च तथैव कुन्ती। तेष्वप्रमादेन तथा करोति तथैव भूयश्च तथा सुभद्रा॥ र्यथा सुनीथस्य यथैव भानोः। तथा विनेता च गतिश्च कृष्णे तरात्मजानामपि रौक्मिणेयः॥ नस्त्रेषु शिक्षासु रथाश्वयाने। स्तांश्चाभिमन्युः सततं कुमारः॥ स चापि सम्यक् प्रणिधाय शिक्षा शस्त्राणि चैषां विधिवत् प्रदाय। तवात्मजानां च तथाभिमन्यो: पराक्रमैस्तुष्यति रौक्मिणेयः॥ यदा विहारं प्रसमीक्षमाणाः प्रयान्ति पुत्रास्तव याज्ञसेनि। एकैकमेषामनुयान्ति तत्र रथाश्च यानानि च दन्तिनश्च॥ अथाब्रवीद्धर्मराजं तु कृष्णो दशाहयोधाः कुकुरान्धकाश्चा स्तिष्ठन्तु यत्रेच्छसि तत्र राजन्॥ आवर्ततां कार्मुकवेगवाता हलायुधप्रग्रहणा मधूनाम्। सेना तवार्थेषु नरेन्द्र यत्ता ससादिपत्त्यश्वरथा सनागा॥ प्रस्थाप्यतां पाण्डवधार्तराष्ट्र: सुयोधनः पापकृतां वरिष्ठः। स सानुबन्धः ससुद्गणश्च भौमस्य सौभाधिपतेश्च मार्गम्॥ कामं तथा तिष्ठ नरेन्द्र तस्मिन् यथा कृतस्ते समयः सभायाम्। दाशार्हयोधैस्तु हतारियोधं प्रतीक्षतां नागपुरं भवन्तम्॥ व्यपेतमन्युर्व्यपनीतपाप्मा विहृत्य यत्रेच्छसि तत्र कामम्। ततः प्रसिद्धं प्रथमं विशोकः प्रपत्स्यसे नागपुरं सुराष्ट्रम्॥ ततस्तदाज्ञाय मतं महात्मा यथावदुक्तं पुरुषोत्तमेन। प्रशस्य विप्रेक्ष्य चधर्मराजः कृताञ्जलि: केशवमित्युवाचः॥ असंशयं केशव पाण्डवानां भवान् गतिस्त्वच्छरणा हि पार्थाः। कालोदये तच्च ततश्च भूयः कर्ता भवान् कर्म न संशयोऽस्ति।॥ यथाप्रतिज्ञं विहतश्च कालः सर्वाः समा द्वादश निर्जनेषु। अज्ञातचर्यां विधिवत् समाप्य भवद्गताः केशव पाण्डवेयाः॥ एषैव बुद्धिर्जुषतां सदा त्वां सत्ये स्थिताः केशव पाण्डवेयाः। सदानधर्माः सजनाः सदारा: सबान्धवास्त्वच्छरणा हि पार्थाः॥ वैशम्पायन उवाच तथा वदति वार्ष्णेयेधर्मराजे च भारता अथ पश्चात् तपोवृद्धो बहुवर्षसहाधृक्॥ प्रत्यदृश्यतधर्मात्मा मार्कण्डेयो महातपाः। अजरश्चामरश्चैव रूपौदार्यगुणान्वितः॥ व्यदृश्यत तथा युक्तो यथा स्यात् पञ्चविंशकः। तमागतमृषि वृद्ध बहुवर्षसहरिणम्॥ आनर्ब्राह्मणाः सर्वे कृष्णश्च सह पाण्डवैः। तमर्चितं सुविश्वस्तमासीनमृषिसत्तमम्। ब्राह्मणानां मतेनाह पाण्डवानां च केशवः॥ कृष्ण उवाच शुश्रूषवः पाण्डवास्ते ब्राह्मणाश्च समागताः। द्रौपदी सत्यभामा च तथाहं परमं वचः॥ पुरावृत्ताः कथाः पुण्याः सदाचारान् सनातनान्। राज्ञा स्त्रीणामृपीणां च मार्कण्डेय विचक्ष्व नः॥ वैशम्पायन उवाच तेषु तत्रोपविष्टेषु देवर्षिरपि नारदः। आजगाम विशुद्धात्मा पाण्डवानवलोककः॥ तमप्यथ महात्मानं सर्वे ते पुरुषर्षभाः। पाद्यार्थ्याभ्यां यथान्यायमुपतस्थुर्मनीषिणः॥ नारदस्त्वथ देवर्षित्वा तांस्तु कृतक्षणान्। मार्कण्डेयस्य वदतस्तां कथामन्वमोदत॥ उवाच चैनं कालज्ञः स्मयन्निव सनातनः। ब्रह्मर्षे कथ्यतां यत् ते पाण्डवेषु विवक्षितम्॥ एवमुक्तः प्रत्युवाच मार्कण्डेयो महातपाः। क्षणं कुरुध्वं विपुलमाख्यातव्यं भविष्यति॥ एवमुक्ताः क्षणं चक्रुः पाण्डवाः सह तैर्द्विजैः। मध्यन्दिने यथाऽऽदित्यं प्रेक्षन्तस्ते महामुनिम्॥ वैशम्पायन उवाच तं विवक्षन्तमालक्ष्य कुरुराजो महामुनिम्। कथासंजननार्थाय चोदयामास पाण्डवः॥ भवान् दैवतदैत्यानामृषीणां च महात्मनाम्। राजर्षीणां च सर्वेषां चरितज्ञः पुरातनः॥ सेव्यश्चोपासितव्यश्च मतो नः काक्षितश्चिरम्। अयं च देवकीपुत्रः प्राप्तोऽस्मानवलोककः॥ भवत्येव हि मे बुद्धिर्दृष्ट्वाऽऽत्मानं सुखाच्च्युतम्। धार्तराष्ट्रांश्च दुर्वृत्तानृध्यतः प्रेक्ष्य सर्वशः॥ कर्मणः पुरुषः कर्ता शुभस्याप्यशुभस्य वा। स फलं तदुपाश्नाति कथं कर्ता स्विदीश्वरः॥ कुतो वा सुखदुःखेषु नृणां ब्रह्मविदां वर। इह वा कृतमन्वेति परदेहेऽथ वा पुनः॥ देही च देहं संत्यज्य मृग्यमाणः शुभाशुभैः। कधं संयुज्यते प्रेत्य इह वा द्विजसत्तम॥ ऐहलौकिकमेवेह उताहो पारलौकिकम्। क्व च कर्माणि तिष्ठन्ति जन्तोः प्रेतस्य भार्गव॥ मार्कण्डेय उवाच त्वयुक्तोऽयमनुप्रश्नो यथावद् वदतां वर। विदितं वेदितव्यं ते स्थित्यर्थं त्वं तु पृच्छसि॥ अत्र ते कथयिष्यामि तदिहैकमनाः शृणु। यथेहामुत्र च नरः सुखदुःखमुपाश्नुते॥ निर्मलानि शरीराणि विशुद्धानि शरीरिणाम्। ससर्जधर्मतन्त्राणि पूर्वोत्पन्नः प्रजापतिः॥ अमोघफलसंकल्पा: सुव्रताः सत्यवादिनः । ब्रह्मभूता नराः पुण्याः पुराणाः कुरुसत्तम॥ सर्वे देवैः समायान्ति स्वच्छन्देन नभस्तलम्। ततश्च पुनरायान्ति सर्वे स्वच्छन्दचारिणः॥ स्वच्छन्दमरणाश्चासन् नरा: स्वच्छन्दचारिणः। अल्पबाधा निरातङ्काः सिद्धार्था निरुपद्रवाः॥ द्रष्टारो देवसङ्घानामृषीणां च महात्मनाम्। प्रत्यक्षाः सर्वधर्माणां दान्ता विगतमत्सराः॥ आसन् वर्षसहरीयास्तथा पुत्रसहहिरणः। तत: कालान्तरेऽन्यस्मिन् पृथिवीतलचारिणः॥ कामक्रोधाभिभूतास्ते मायाव्याजोपजीविनः। लोभमोहाभिभूताश्च त्यक्ता देहैस्ततो नराः॥ अशुभैः कर्मभिः पापास्तिर्यनिरयगामिनः। संसारेषु विचित्रेषु पच्यमानाः पुनः पुनः॥ मोघेष्टा मोसंकल्पा मोघज्ञाना विचेतसः। सर्वाभिशङ्किनश्चैव संवृत्ताः क्लेशदायिनः॥ अशुभैः कर्मभिश्चापि प्रायशः परिचिछिताः। दौष्कुल्या व्याधिबहुला दुरात्मानोऽप्रतापिनः॥ 'भवन्त्यल्पायुषः पापा रौद्रकर्मफलोदयाः। नाथन्तः सर्वकामानां नास्तिका भिन्नचेतसः॥ जन्तोः प्रेतस्य कौन्तेय गतिः स्वैरिह कर्मभिः। प्राज्ञस्य हीनबुद्धेश्च कर्मकोशः क्व तिष्ठति॥ क्वस्थस्तत् समुपाश्नाति सुकृतं यदि वेतरत्। इति ते दर्शनं यच्च तत्राप्यनुनयं शृणु॥ अयमादिशरीरेण देवसृष्टेन मानवः। शुभानामशुभानां च कुरुते संचयं महत्॥ आयुषोऽन्ते प्रहायेदं क्षीणप्रायं कलेवरम्। सम्भवत्येव युगपद् योनौ नास्त्यन्तराभवः॥ तत्रास्य स्वकृतं कर्म छायेवानुगतं सदा। फलत्यथ सुखा) वा दुःखार्हो वाथ जायते॥ कृतान्तविधिसंयुक्तः स जन्तुर्लक्षणैः शुभैः। अशुभैर्वा निरादानो लक्ष्यते ज्ञानदृष्टिभिः॥ एषा तावदबुद्धीनां गतिरुक्ता युधिष्ठिर। अतः परं ज्ञानवतां निबोध गतिमुत्तमाम्॥ मनुष्यास्तप्ततपसः सर्वागमपरायणाः। स्थिरव्रताः सत्यपरा गुरुशुश्रूषणे रताः॥ सुशीलाः शुक्लजातीयाः क्षान्ता दान्ताः सुतेजसः। शुचियोन्यन्तरगताः प्रायशः शुभलक्षणाः॥ जितेन्द्रियत्वाद् वशिनः शुक्लत्वान्मन्दरोगिणः। अल्पाबाधपरित्रासाद् भवन्ति निरुपद्रवाः॥ च्यवन्तं जायमानं च गर्भस्थं चैव सर्वशः। स्वमात्मानं परं चैव बुध्यन्ते ज्ञानचक्षुषा॥ ऋषयस्ते महात्मानः प्रत्यक्षागमबुद्धयः। कर्मभूमिमिमां प्राप्य पुनर्यान्ति सुरालयम्॥ किंचिद् दैवाद्धद्दात् किंचित् किंचिदेव स्वकर्मभिः। प्राप्नुवन्ति नरा राजन् मा तेऽस्त्वन्या विचारणा॥ इमामत्रोपमां चापि निबोध वदतां वर। मनुष्यलोके यच्छ्रेयः परं मन्ये युधिष्ठिर॥ इह वैकस्य नामुत्र अमुत्रैकस्य नो इह। इह वामुत्र चैकस्य नामुत्रैकस्य नो इह॥ धनानि येषां विपुलानि सन्ति नित्यं रमन्ते सुविभूषिताङ्गाः। तेषामयं शत्रुवरघ्न लोको नासौ सदा देहसुखे रतानाम्॥ ते योगयुक्तास्तपसि प्रसक्ताः स्वाध्यायशीला जरयन्ति देहान्। स्तेषामसौ नायमरिन लोकः॥ येधर्ममेव प्रथमं चरन्ति धर्मेण लब्वा चधनानि काले। न चापि दारानवाप्य क्रतुभिर्यजन्ते तेषामयं चैव परश्च लोकः॥ ये नैव विद्यां न तपो न दानं मूढाः प्रजने यतन्ति। स्तेषामयं नैव परच लोकः॥ सर्वे भवन्तस्त्वतिवीर्यसत्त्वा दिव्यौजसः संहननोपपन्नाः। लोकादमुष्मादवनि प्रपन्नाः स्वधीतविद्याः सुरकार्यहेतोः॥ स्तपोदमाचारविहारशीलाः। देवानृषीन् प्रेतगणांश्च सर्वान् संतर्पयित्वा विधिना परेण॥ स्वर्गं परं पुण्यकृतो निवासं क्रमेण सम्प्राप्स्यथ कर्मभिः स्वैः। मा भूद् विशङ्का तव कौरवेन्द्र दृष्ट्वाऽऽत्मनः क्लेशमिमं सुखार्हम्॥ वैशम्पायन उवाच मार्कण्डेयं महात्मानमूचुः पाण्डुसुतास्तदा। माहात्म्यं द्विजमुख्यानां श्रोतुमिच्छाम कथ्यताम्॥ एवमुक्तः स भगवान् मार्कण्डेयो महातपाः। उवाच सुमहातेजाः सर्वशास्त्रविशारदः॥ मार्कण्डेय उवाच हैहयानां कुलकरो राजा परपुरंजयः। कुमारो रूपसम्पन्नो मृगयां व्यचरद् बली॥ चरमाणस्तु सोऽरण्ये तृणवीरुत्समावृते। कृष्णाजिनोत्तरासङ्गं ददर्श मुनिमन्तिके॥ स तेन निहतोऽरण्ये मन्यमानेन वै मृगम्। व्यथितः कर्म तत् कृत्वा शोकोपहतचेतनः॥ जगाम हैहयानां वै सकाशं प्रथितात्मनाम्। राज्ञां राजीवनेत्रोऽसौ कुमारः पृथिवीपतिः। तेषां च तद् यथावृत्तं कथयामास वै तदा॥ तं चापि हिसितं तात मुनि मूलफलाशिनम्। श्रुत्वा दृष्ट्वा च ते तत्र बभूवुर्दीनमानसाः॥ कस्यायमिति ते सर्वे मार्गमाणास्ततस्ततः। जग्मुश्चारिष्टनेम्नोऽथ तार्श्वस्वाश्रममञ्जसा॥ तेऽभिवाद्य महात्मानं तं मुनि नियतव्रतम्। तस्थुः सर्वे स तु मुनिस्तेषां पूजामथाहरत्॥ ते तमूचुर्महात्मानं न वयं सत्क्रियां मुने। त्वत्तोऽर्हाः कर्मदोषेण ब्राह्मणो हिसितो हि नः॥ तानब्रवीत् स विप्रर्षिः कथं वो ब्राह्मणो हतः। क्व चासौ ब्रूत सहिताः पश्यध्वं मे तपोबलम्॥ ते तु तत् सर्वमखिलमाख्यायास्मै यथातथम्। नापश्यंस्तमृषिं तत्र गतासुं ते समागताः॥ अन्वेषमाणाः सव्रीडाः स्वप्नवद्गतचेतनाः। तानब्रवीत् तत्र मुनिस्तार्क्ष्यः परपुरंजय॥ स्यादयं ब्राह्मणः सोऽथ युष्माभिर्यो विनाशितः। पुत्रो ह्ययं मम नृपास्तपोबलसमन्वितः॥ ते च दृष्ट्वैव तमृर्षि विसमयं परमं गताः। महदाश्चर्यमिति वै ते ब्रुवाणा महीपते॥ मृतो ह्ययमुपानीतः कथं जीवितमाप्तवान्। किमेतत् तपसो वीर्यं येनायं जीवितः पुनः॥ श्रोतुमिच्छामहे विप्र यदि श्रोतव्यमित्युत। स तानुवाच नास्माकं मृत्युः प्रभवते नृपाः॥ कारणं वः प्रवक्ष्यामि हेतुयोगसमासतः। सत्यमेवाभिजानीमो नानृते कुर्महे मनः। स्वधर्ममनुतिष्ठामस्तस्मान्मृत्युभयं न नः॥ यद् ब्राह्मणानां कुशलं तदेषां कथयामहे। नैषां दुश्चरितं ब्रूमस्तस्मान्मृत्युभयं न नः॥ अतिथीनन्नपानेन भृत्यानत्यशेनन च। सम्भोज्य शेषमनीमस्तस्मान्मृत्युभयं न नः॥ शान्ता दान्ताः क्षमाशीलास्तीर्थदानपरायणाः। पुण्यदेशनिवासाच्च तस्मान्मृत्युभयं न नः। तेजस्विदेशवासाच्च तस्मान्मृत्युभयं न नः॥ एतद् वै लेशमात्रं वः समाख्यातं विमत्सराः। गच्छतध्वं सहिताः सर्वे न पापाद् भयमस्ति वः॥ एवमस्त्विति ते सर्वे प्रतिपूज्य महामुनिम्। स्वदेशमगमन् हृष्टा राजानो भरतर्षभ॥ मार्कण्डेय उवाच भूय एव महाभाग्यं ब्राह्मणानां निबोध मे। वैन्यो नामेह राजर्षिरश्वमेधाय दीक्षितः॥ तमत्रिर्गन्तुमारेभे वित्तार्थमिति नः श्रुतम्। भूयोऽर्थं नानुरुध्यत् सधर्मव्यक्तिनिदर्शनात्॥ स विचिन्त्य महातेजा वनमेवान्वरोचयत्। धर्मपत्नी समाहूय पुत्रांश्चेदमुवाच ह॥ प्राप्स्यामः फलमत्यन्तं बहुलं निरुपद्रवम्। अरण्यगमनं क्षिप्रं रोचतां वो गुणाधिकम्॥ तं भार्या प्रत्युवाचाथधर्ममेवानुतन्वती। वैन्यं गत्वा महात्मानमर्थयस्वधनं बहु॥ स ते दास्यति राजर्षियजमानोऽर्थितोधनम्। तत आदाय विप्रर्षे प्रतिगृह्यधनं बहु॥ भृत्यान् सुतान् संविभज्य ततो व्रज यथेप्सितम्। एष वै परमोधर्मोधर्मविद्भिदाहृतः॥ अत्रिरुवाच कथितो मे महाभागे गौतमेन महात्मना। वैन्योधर्मार्थसंयुक्तः सत्यव्रतसमन्वितः॥ द्वेष्टारः किंतु नः सन्ति वसन्तस्तत्र वै द्विजाः। यथा मे गौतमः प्राह ततो न व्यवसाम्यहम्॥ तत्र स्म वाचं कल्याणीधर्मकामार्थसंहिताम्। मयोक्तामन्यथा ब्रूयुस्ततस्ते वै निरर्थिकाम्॥ गमिष्यामि महाप्राज्ञे रोचते मे वचस्तव। गाश्च मे दास्यते वैन्यः प्रभूतं चार्थसंचयम्॥ एवमुक्त्वा जगामाशु वैन्ययज्ञं महातपाः। गत्वा च यज्ञायतनमत्रिस्तुष्टाव तं नृपम्॥ वाक्यैर्मङ्गलसंयुक्तैः पूजयानोऽब्रवीद् वचः। अत्रिरुवाच राजन् धन्यस्तवमीशश्च भुवि त्वं प्रथमो नृपः॥ स्तुवन्ति त्वां मुनिगणास्त्वदन्यो नास्तिधर्मवित्। तमब्रवीदृषिः क्रुद्धो वचनं वै महातपाः॥ गौतम उवाच ते मैवमत्रे पुन या न प्रज्ञा समाहिता। अत्र नः प्रथमं स्थाता महेन्द्रो वै प्रजापतिः॥ अथात्रिरपि राजेन्द्र गौतमं प्रत्यभाषत। अयमेव विधाता हि यथैवेन्द्रः प्रजापतिः। त्वमेव मुह्यसे मोहान्न प्रज्ञानं तवास्ति ह॥ गौतम उवाच जानामि नाहं मुह्यामि त्वमेवात्र विमुह्यते। स्तौषि त्वं दर्शनप्रेप्सू राजानं जनसंसदि॥ न वेत्थ परमंधर्मं न चावैषि प्रयोजनम्। बालस्त्वमसि मूढश्च वृद्धः केनापि हेतुना॥ विवदन्तौ तथा तौ तु मुनीनां दर्शने स्थितौ। ये तस्य यज्ञे संवृत्तास्तेऽपृच्छन्त कथं त्विमौ॥ प्रवेशः केन दत्तोऽयमुभयोर्वैन्यसंसदि। उच्चैः समभिभाषन्तौ केन कार्येण धिष्ठितौ॥ ततः परमधर्मात्मा काश्यपः सर्वधर्मवित्। विवादिनावनुप्राप्तौ तावुभौ प्रेत्यवेदयत्॥ अथाब्रवीत् सदस्यांस्तु गौतमो मुनिसत्तमान्। आवयोर्व्याहृतं प्रश्नं शृणुत द्विजसत्तमाः॥ वैन्यं विधातेत्याहात्रिरत्र नौ संशयो महान्। श्रुत्वैव तु महात्मानो मुनयोऽभ्यद्रवन् दुतम्॥ सनत्कुमारंधर्मज्ञं संशयच्छेदनाय वै। स च तेषां वचः श्रुत्वा यथातत्त्वं महातपाः। प्रत्युवाचाथ तानेवंधर्मार्थसहितं वचः॥ सनत्कुमार उवाच ब्रह्म क्षत्रेण सहितं क्षत्रं च ब्रह्मणा सह! संयुक्तौ दहतः शत्रून् वनानीवाग्निमारुतौ॥ राजा वै प्रथितोधर्मः प्रजानां पतिरेव च। स एव शक्रः शुक्रश्च सधाता च बृहस्पतिः॥ प्रजापतिविराट् सम्राट् क्षत्रियो भूपतिर्नृपः। य एभिः स्तूयते शब्दैः कस्तं नार्चितुमर्हति॥ पुरायोनियुधाजिच्च अभिया मुदितो भवः। स्वर्णेता सहजिद् बभुरिति राजाभिधीयते॥ सत्ययोनिः पुराविच्च सत्यधर्मप्रवर्तकः। अधर्मादृषयो भीता बलं क्षत्रे समादधन्॥ आदित्यो दिवि देवेषु तमो नुदति तेजसा। तथैव नृपतिर्भूमाबधर्मान्नुदते भृशम्॥ ततो राज्ञः प्रधानत्वं शास्त्रप्रामाण्यदर्शनात्। उत्तरः सिद्ध्यते पक्षो येन राजेति भाषितम्॥ मार्कण्डेय उवाच ततः स राजा संहृष्टः सिद्धे पक्षे महामनाः। तमत्रिमब्रवीत् प्रीतः पूर्वं येनाभिसंस्तुतः॥ यस्मात् पूर्वं मनुष्येषु ज्यायांसं मामिहाब्रवीः। सर्वदेवैश्च विप्रर्षे सम्मितं श्रेष्ठमेव च।॥ तस्मात् तेऽहं प्रदास्यामि विविधं वसु भूरि च। दासीसहरं श्यामानां सुवस्त्राणामलंकृतम्॥ दशकोटीर्हिरण्यस्य रुक्मभारांस्तथा दश। एतद् ददामि विप्रर्षे सर्वज्ञस्त्वं मतो हि मे॥ तदत्रिया॑यतः सर्वं प्रतिगृह्याभिसत्कृतः। प्रत्युज्जगाम तेजस्वी गृहानेव महातपाः॥ प्रदाय चधनं प्रीतः पुत्रेभ्यः प्रयतात्मवान्। पः समभिसंधाय वनमेवान्वपद्यत॥ वैशम्पायन उवाच ततः स पाण्डवो विप्रं मार्कण्डेयमुवाच ह। कथयस्वेति चरितं मनोवैवस्वतस्य च॥शा मार्कण्डेय उवाच विवस्वतः सुतो राजन् महर्षिः सुप्रतापवान्। बभूव नरशार्दूल प्रजापतिसमद्युतिः॥ ओजसा तेजसा लक्ष्या तपसा च विशेषतः। अतिचक्राम पितरं मनुः स्वं च पितामहम्॥ अर्श्वबाहुर्विशालायां बदर्यां स नराधिप। एकपादस्थितस्तीव्र चकार सुमहत् तपः॥ अवाक्शिरास्तथा चापि नेत्रैरनिमिषैर्दढम्। सोऽतप्यत तपो घोरं वर्षाणामयुतं तदा॥ तं कदाचित् तपस्यन्तमार्द्रचीरजटाधरम्। चीरिणीतीरमागम्य मत्स्यो वचनमब्रवीत्॥ भगवन् क्षुद्रमत्स्योऽस्मि बलवद्भ्यो भयं मम। मत्स्येभ्यो हि ततो मां त्वं त्रातुमर्हसि सुव्रत॥ दुर्बलं बलवन्तो हि मत्स्या मत्स्य विशेषतः। आस्वदन्ति सदा वृत्तिर्विहिता नः सनातनी॥ तस्माद् भयौघान्महतो मज्जन्तं मां विशेषतः। त्रातुमर्हसि कर्तास्मि कृते प्रतिकृतं तव॥ स मत्स्यवचनं श्रुत्वा कृपयाभिपरिप्लुतः। मनुर्वैवस्वतोऽगृहणात् तं मत्स्य पाणिना स्वयम्।।१०। उदकान्तमुपानीय मत्स्यं वैवस्वतो मनुः। अलिञ्जरे प्राक्षिपत् तं चन्द्रांशुसदृशप्रभम्॥ स तत्र ववृधे राजन् मत्स्यः परमसत्कृतः। पुत्रवत् स्वीकरोत् तस्मै मनुर्भावं विशेषतः॥ अथ कालेन महता स मत्स्यः सुमहानभूत्। अलिञ्जरे यथा चैव नासौ समभवत् किल॥ अथ मत्स्यो मनुं दृष्ट्वा पुनरेवाभ्यभाषत। भगवन् साधु मेऽद्यान्यत् स्थानं सम्प्रतिपादय॥ उद्धृत्यालिञ्जरात् तस्मात् ततः स भगवान् मनुः। तं मत्स्यमनयद् वापी महतीं स मनुस्तदा॥ तत्र तं प्राक्षिपच्चापि मनुः परपुरंजय। अथावर्धत मत्स्यः स पुनर्वर्षगणान् बहून्॥ द्वियोजनायता वापी विस्तृता चापि योजनम्। तस्यां नासौ समभवन्मत्स्यो राजीवलोचन॥ विचेष्टितुं च कौन्तेय मत्स्यो वाप्यां विशाम्पते। मनु मत्स्यस्ततो दृष्ट्वा पुनरेवाभ्यभाषत॥ नयं मा भगवन् साधो समुद्रमहिषीं प्रियाम्। गङ्गां तत्र निवत्स्यामि यथा वा तात मन्यसे॥ निदेशे हि मया तुभ्यं स्थातव्यमनसूयता। वृद्धिर्हि मया प्राप्ता त्वत्कृते हि मयानघ॥ एवमुक्तो मनुर्मत्स्यमनयद् भगवान् वशी। नदीं गङ्गां तत्र चैनं स्वयं प्राक्षिपदच्युतः॥ स तत्र ववृधे मत्स्यः किंचित्कालमरिदम। ततः पुनर्मनुं दृष्ट्वा मत्स्यो वचनमब्रवीत्॥ गङ्गायां हि न शक्नोमि बृहत्वाच्चेष्टितुं प्रभो। समुद्रं नय मामाशु प्रसीद भगवन्निति॥ उद्धृत्य गङ्गासलिलात् ततो मत्स्यं मनुः स्वयम्। समुद्रमनयत् पार्थ तत्र चैनमवासृजत्॥ सुमहानपि मत्स्यस्तु स मनोनयतस्तदा। आसीद् यथेष्टहार्यश्च स्पर्शगन्धसुखस्य वै॥ यदा समुद्रे प्रक्षिप्तः स मत्स्यो मनुना तदा। तत एनमिदं वाक्यं स्पयमान इवाब्रवीत्।॥ भगवन् हि कृता रक्षा त्वया सर्वा विशेषतः। प्राप्तकालं तु यत् कार्यं त्वया तच्छूयतां मम॥ अचिराद् भगवन् भौममिदं स्थावरजङ्गमम्। सर्वमेव महाभाग प्रलयं वै गमिष्यति॥ सम्प्रक्षालनकालोऽयं लोकानां समुपस्थितः। तस्मात् त्वां बोधयाम्यद्य यत् ते हितमनुत्तमम्॥ त्रसानां स्थावराणां च यच्चेङ्गं यच्च नेङ्गति। तस्य सर्वस्य सम्प्राप्तः कालः परमदारुणः॥ नौश्च कारयितव्या ते दृढा युक्तवटारका। तत्र सप्तर्षिभिः सार्धमारुहेथा महामुने॥ बीजानि चैव सर्वाणि यथोक्तानि द्विजैः पुरा। तस्यामारोहयेर्नावि सुसंगुप्तानि भागशः॥ नौस्थश्च मां प्रतीक्षेथास्ततो मुनिजनप्रिय। आगमिष्याम्यहं शृङ्गी विज्ञेयस्तेन तापस॥ एवमेतत् त्वया कार्यमापृष्टोऽसि व्रजाम्यहम्। ता न शक्या महत्यो वै आपस्ततु मया विना॥ नाभिशक्यमिदं चापि वचनं मे त्वया विभो। एवं करिष्य इति तं स मत्स्यं प्रत्यभाषत॥ जग्मतुश्च यथाकाममनुज्ञाप्य परस्परम्। ततो मनुर्महाराज यथोक्तं मत्स्यकेन ह॥ बीजान्यादाय सर्वाणि सागरं पुप्लुवे तदा। नौकया शुभया वीर महोर्मिणमरिंदम॥ चिन्तयामास च मनुस्तं पृथिवीपते। स च तच्चिन्तितं ज्ञात्वा मत्स्यः परपुरंजय॥ शृङ्गी तत्राजगामाशु तदा भरतसत्तम। तं दृष्ट्वा मनुजव्याघ्र मनुर्मत्स्यं जलार्णवे॥ शृङ्गिणं तं यथोक्तेन रूपेणादिमिवोच्छ्रितम्। वटारकमयं पाशमथ मत्स्यस्य मूर्धनि॥ मनुर्मनुजशार्दूल तस्मिन् शृङ्गे न्यवेशयत्। संयतस्तेन पाशेन मत्स्यः परपुरंजय॥ वेगेन महता नावं प्राकर्षल्लवणाम्भसि। स च तांस्तारयन् नावा समुद्रं मनुजेश्वर॥ नृत्यमानमिवोर्मीभिर्गर्जमानमिवाम्भसा। क्षोभ्यमाणा महाबातैः सा नौस्तस्मिन् महोदधौ॥ घूर्णते चपलेव स्त्री मत्ता परपुरंजय। नैव भूमिर्न च दिशः प्रदिशो वा चकाशिरे॥ सर्वमाम्भसमेवासीत् खं द्योश्च नरपुङ्गव। एवंभूते तदा लोके संकुले भरतर्षभ॥ अदृश्यन्तर्षयः सप्त मनुर्मत्स्यस्तथैव च। एवं बहून् वर्षगणांस्तां नावं सोऽथ मत्स्यकः॥ चकर्षातन्द्रितो राजंस्तस्मिन् सलिलसंचये। ततो हिमवतः शृङ्ग यत् परं भरतर्षभ।॥ तत्राकर्षत् ततो नावं स मत्स्यः कुरुनन्दन। अथाब्रवीत् तदा मत्स्यस्तानृषीन् प्रहसन् शनैः॥ अस्मिन् हिमवतः शृङ्गे नावं बध्नीत मा चिरम्। सा बद्धा तत्र तैस्तूर्णमृषिभिर्भरतर्षभ॥ नौमत्स्यस्य वचः श्रुत्वा शृङ्गे हिमवतस्तदा। तच्च नौबन्धनं नाम शृङ्गं हिमवतः परम्॥ ख्यातमद्यापि कौन्तेय तद् विद्धि भरतर्षभ। अथाब्रवीदनिमिषस्तानृषीन् सहितस्तदा॥ अहं प्रजापतिर्ब्रह्मा मत्परं नाधिगम्यते। मत्स्यरूपेण यूयं च मयास्मान्मोक्षिता भयात्॥ मनुना च प्रजाः सर्वाः सदेवासुरमानुषाः। इष्टव्याः सर्वलोकाश्च यच्चेङ्गं यच्च नेङ्गति॥ तपया चापि तीव्रण प्रतिभास्य भविष्यति। मत्प्रसादात् प्रजासर्गे न च मोहं गमिष्यति॥ इत्युक्त्वा वचनं मत्स्यः क्षणेनादर्शनं गतः। इष्टुकामः प्रजाश्चापि मनुर्वैवस्वतः स्वयम्॥ प्रमूढोऽभूत् प्रजासर्गे तपस्तेपे महत् ततः। तपसा महता युक्तः सोऽथ उरष्टुं प्रचक्रमे॥ सर्वाः प्रजा मनुः साक्षाद् यथावद् भरतर्षभ। इत्येतन्मात्स्यकं नाम पुराणं परिकीर्तितम्॥ आख्यानमिदमाख्यातं सर्वपापहरं मया। य इदं शृणुयान्नित्यं मनोश्चरितमादितः। स सुखी सर्वपूर्णार्थः सर्वलोकमियान्नरः॥ वैशम्पायन उवाच ततः स पुनरेवाथ मार्कण्डेयं यशस्विनम्। पप्रच्छ विनयोपेतोधर्मराजो युधिष्ठिरः॥ नैके युगसलान्तास्त्वया दृष्टा महामुने। न चापीह समः कश्चिदायुष्मान् दृश्यते तव॥ वर्जयित्वा महात्मानं ब्रह्माणं परमेष्ठिनम्। न तेऽस्ति सदृशः कश्चिदायुषा ब्रह्मवित्तम॥ अनन्तरिक्षे लोकेऽस्मिन् देवदानववर्जिते। त्वमेव प्रलये विप्र ब्रह्माणमुपतिष्ठसे॥ प्रलये चापि निर्वृत्ते प्रबुद्धे च पितामहे। त्वमेकः सृज्यमानानि भूतानीह प्रपश्यसि॥ चतुर्विधानि विप्रर्षे यथावत् परमेष्ठिना। वायुभूता दिशः कृत्वा विक्षिप्यापस्ततस्ततः॥ त्वया लोकगुरुः साक्षात् सर्वलोकपितामहः। आराधितो द्विजश्रेष्ठ तत्परेण समाधिना॥ स्वप्रमाणमथो विप्र त्वया कृतमनेकशः। घोरेणाविश्य तपसा वेधसो निर्जितास्त्वया॥ नारायणाङ्कप्रख्यस्त्वं साम्परायेऽतिपठ्यसे। भगवाननेकशः कृत्वा त्वया विष्णोश्च विश्वकृत्॥ कर्णिकोद्धरणं दिव्यं ब्रह्मणः कामरूपिणः। रत्नालंकारयोगाभ्यां दृग्भयां दृष्टस्त्वया पुरा॥ तस्मात् तवान्तको मृत्युर्जरा वा देहनाशिनी। न त्वां विशति विप्रर्षे प्रसादात् परमेष्ठिनः॥ यदा नैवं रविर्नाग्निर्न वायुर्न च चन्द्रमाः। नैवान्तरिक्षं नैवोर्वी शेषं भवति किंचन॥ तस्मिन्नेकार्णवे लोके नष्टे स्थावरजङ्गमे। नष्टे देवासुरगणे समुत्सन्नमहोरगे॥ शयानममितात्मानं पद्मोत्पलनिकेतनम्। त्वमेकः सर्वभूतेशं ब्रह्माणमुपतिष्ठसि।॥ एतत् प्रत्यक्षतः सर्वं पूर्वं वृत्तं द्विजोत्तम। तस्मादिच्छाम्यहं श्रोतुं सर्वहेत्वात्मिकां कथाम्॥ अनुभूतं हि बहुशस्त्वयैकेन द्विजोत्तमा न तेऽस्त्यविदितं किंचित् सर्वलोकेषु नित्यदा॥ मार्कण्डेय उवाच हन्त ते वर्णयिष्यामि नमस्कृत्वा स्वयम्भुवे। पुरुषाय पुराणाय शाश्वतायाव्ययाय च॥ अव्यक्ताय सुसूक्ष्माय निर्गुणाय गुणात्मने। स एष पुरुषव्याघ्र पीतवासा जनार्दनः॥ एष कर्ता विकर्ता च भूतात्मा भूतकृत् प्रभुः। अचिन्त्यं महदाश्चर्यं पवित्रमिति चोच्यते॥ अनादिनिधनं भूतं विश्वमव्ययमक्षयम्। एष कर्ता न क्रियते कारणं चापि पौरुषे॥२० यद्येष पुरुषो वेद वेदा अपि न तं विदुः। सर्वमाश्चर्यमेवैतन्निर्वृत्तं राजसत्तम॥ आदितो मनुजव्याघ्रकृत्स्नस्य जगत: क्षये। चत्वार्याहुः सहाणि वर्षाणां तत् कृतं युगम्॥ तस्य तावच्छती संध्या संध्यांशश्च तथाविधः। त्रीणि वर्षसलराणि त्रेतायुगमिहोच्यते॥ तस्य तावच्छती संध्या संध्यांशश्च ततः परम्। तथा वर्षसहहरे द्वे द्वापरं परिमाणतः॥ तस्यापि द्विशती संध्या संध्यांशश्च तथाविधः। सहरमेकं वर्षाणां ततः कलियुगं स्मृतम्॥ तस्य वर्षशतं संधिः संध्यांशश्च ततः परम्। संधिसंध्यांशयोस्तुल्यं प्रमाणमुपधारय॥ क्षीणे कलियुगे चैव प्रवर्तेत कृतं युगम्। एषा द्वादशसाही युगाख्या परिकीर्तिता॥ एतत् सहरपर्यन्तमहो ब्राह्ममुदाहृतम्। विश्वं हि ब्रह्मभवने सर्वतः परिवर्तते॥ लोकानां मनुजव्याघ्र प्रलयं तं विदुर्बुधाः। अल्पावशिष्टे तु तदा युगान्ते भरतर्षभ॥ सहगन्ते नराः सर्वे प्रायशोऽनृतवादिनः। यज्ञप्रतिनिधिः पार्थ दानप्रतिनिधिस्तथा॥ व्रतप्रतिनिधिश्चैव तस्मिन् काले प्रवर्तते। ब्राह्मणाः शूद्रकर्माणस्तथा शूद्राधनार्जकाः॥ क्षत्रधर्मेण वाप्यत्र वर्तयन्ति गते युगे। निवृत्तयज्ञस्वाध्याया दण्डाजिनविवर्जिताः॥ ब्राह्मणाः सर्वभक्षाश्च भविष्यन्ति कलौ युगे। अजपा ब्राह्मणास्तात शूद्रा जपपरायणाः॥ विपरीते तदा लोके पूर्वरूपं क्षयस्य तत्। बहवो म्लेच्छराजानः पृथिव्यां मनुजाधिप॥ मृषानुशासिनः पापा मृषावादपरायणाः। आन्ध्राः शकाः पुलिन्दाश्च यवनाश्च नराधिपाः॥ काम्बोजा बाह्निकाः शूरास्तथाऽऽभीरा नरोत्तम। न तदा ब्राह्मणः कश्चित् स्वधर्ममुपजीवति॥ क्षत्रियाश्चापि वैश्याश्च विकर्मस्था नराधिपा। अल्पायुषः स्वल्पबलाः स्वल्पवीर्यपराक्रमाः॥ अल्पसाराल्पदेहाश्च तथा सत्याल्पभाषिणः। बहुशून्या जनपदा मृगव्यालावृता दिशः॥ युगान्ते समनुप्राप्ते वृथा च ब्रह्मवादिनः। भोवादिनस्तथा शूद्रा ब्राह्मणाश्चार्यवादिनः॥ युगान्ते मनुजव्याघ्र भवन्ति बहुजन्तवः। न तथा घ्राणयुक्ताश्च सर्वगन्धा विशाम्पते॥ रसाश्च मनुजव्याघ्र न तथा स्वादुयोगिनः। बहुप्रजा ह्रस्वदेहाः शीलाचारविवर्जिताः। मुखे भगाः स्त्रियो राजन् भविष्यन्ति युगक्षये॥ अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः। केशशूलाः स्त्रियो राजन् भविष्यन्ति युगक्षये॥ अल्पक्षीरास्तथा गावो भविष्यन्ति जनाधिप। अल्पपुष्पफलाचापि पादपा बहुवायसाः॥ ब्रह्मवध्यानुलिप्तानां तथा मिथ्याभिशंसिनाम्। नृपाणां पृथिवीपाल प्रतिगृहणन्ति वै द्विजाः॥ लोभमोहपरीताच मिथ्याधर्मध्वजावृताः। भिक्षार्थं पृथिवीपाल चयूर्यन्ते द्विजैर्दिशः॥ करभारभयाद् भीता गृहस्थाः परिमोषकाः। मुनिच्छद्माकृतिच्छन्ना वाणिज्यमुपजीविनः॥ मिथ्या च नखरोमाणिधारयन्ति तदा द्विजाः। अर्थलोभान्नरव्याघ्र तथा च ब्रह्मचारिणः॥ आश्रमेषु वृथाचाराः पानपा गुरुतल्पगाः। इह लौकिकमीहन्ते मांसशोणितवर्धनम्॥ बहुपाषण्डसंकीर्णाः परान्नगुणवादिनः। आश्रमा मनुजव्याघ्र भविष्यन्ति युगक्षये॥ यथर्तुवर्षी भगवान् न तथा पाकशासनः। न चापि सर्वबीजानि सम्यग् रोहन्ति भारत॥ हिंसाभिरामश्च जनस्तथा सम्पद्यतेऽशुचिः। अधर्मफलमत्यर्थं तदा भवति चानघा॥ तदा च पृथिवीपाल यो भवेद्धर्मसंयुतः। अल्पायुः स हि मन्तव्यो न हिधर्मोऽस्ति कश्चन।।५२। भूयिष्ठं कूटमानैश्च पण्यं विक्रीणते जनाः। वणिजश्च नरव्याघ्र बहुमाया भवन्त्युत॥ धर्मिष्ठाः परिहीयन्ते पापीयान् वर्धते जनः। धर्मस्य बलहानिः स्यादधर्मश्च बली तथा॥ अल्पायुषो दरिद्राश्चधर्मिष्ठा मानवास्तथा। दीर्घायुषः समृद्धाश्च विधर्माणो युगक्षये॥ नागराणां विहारेषु विधर्माणो युगक्षये। अधर्मिष्ठरुपायैश्च प्रजा व्यवहरन्त्युत॥ संचयेन तथाल्पेन भवन्त्याढ्यमदान्विताः। धनं विश्वासतो न्यस्तं मिथो भूयिष्ठशो नराः॥ हर्तु व्यवसिता राजन् पापाचारसमन्विताः। नैतदस्तीति मनुजा वर्तन्ते निरपत्रपाः॥ पुरुषादानि सत्त्वानि पक्षिणोऽथ मृगास्तथा। नगराणां विहारेषु चैत्येष्वपि च शेरते॥ सप्तवर्षाष्टवर्षाश्च स्त्रियो गर्भधरा नृप। दशद्वादशवर्षाणां पुंसां पुत्रः प्रजायते॥ भवन्ति षोडशे वर्षे नराः पलितिनस्तथा। आयुःक्षयो मनुष्याणां क्षिप्रमेव प्रपद्यते॥ क्षीणायुषो महाराज तरुणो वृद्धशीलिनः। तरुणानां च यच्छील तद् वृद्धेषु प्रजायते॥ विपरीतास्तदा नार्यो वञ्चयित्वार्हतः पतीन्। व्युच्चरन्त्यपि दुःशीला दासैः पशुभिरेव च॥ वीरपल्यस्तथा नार्यः संश्रयन्ति नरान् नृप। भर्तारमपि जीवन्तमन्यान् व्यभिचरन्त्युत॥ तस्मिन् युगसलरान्ते सम्प्राप्ते चायुषः क्षये। अनावृष्टिर्महाराज जायते बहुवार्षिकी॥ ततस्तान्यल्पसारणि सत्त्वानि क्षुधितानि वै। प्रलयं यान्ति भूयिष्ठं पृथिव्यां पृथिवीपते॥ ततो दिनकरैर्दीप्तैः सप्तभिर्मनुजाधिप। पीयते सलिलं सर्वं समुद्रेषु सरित्सु च॥ यच्च काष्ठं तृणं चापि शुष्कं चार्दै च भारत। सर्वं तद् भस्मसाद् भूतं दृश्यते भरतर्षभ॥ ततः संवर्तको वह्निर्वायुना सह भारत। लोकमाविशते पूर्वमादित्यैरुपशोषितम्॥ ततः स पृथिवीं भित्त्वा प्रविश्य च रसातलम्। देवदानवयक्षाणां भयं जनयते महत्॥ निर्दहन् नागलोकं च यच्च किञ्चित् क्षिताविह। अधस्तात् पृथिवीपाल सर्वं नाशयते क्षणात्॥ ततो योजनविंशानां साणि शतानि च। निर्दहत्यशिवो वायुः स च संवर्तकोऽनलः॥ सदेवासुरगन्धर्वं सयक्षोरगराक्षसम्। ततो दहति दीप्तः स सर्वमेव जगद् विभुः॥ ततो गजकुलप्रख्यास्तडिन्मालाविभूषिताः। उत्तिष्ठन्ति महामेधा नभस्यद्भुतदर्शनाः॥ केचिन्नीलोत्पलश्यामाः केचित् कुमुदसंनिभाः। केचित् किञ्जल्कसंकाशाः केचित् पीताः पयोधराः॥७५ केचिद्धारिद्रसंकाशा: कारण्डवनिभास्तथा। केचित् कमलपत्राभाः केचिद्धिगुलसप्रभा:॥ केचित् पुरवराकाराः केचिद् गजकुलोपमाः। केचिदञ्जनसंकाशाः केचिन्मकरसंनिभाः॥ विद्युन्मालापिनद्धाङ्गाः समुत्तिष्ठन्ति वै घनाः। घोररूपा महाराज घोरस्वननिनादिताः। ततो जलधराः सर्वे व्याप्नुवन्ति नभस्तलम्॥ तैरियं पृथिवीं सर्वा सपर्वतवनाकरा। आपूर्यते महाराज सलिलौघपरिप्लुता॥ ततस्ते जलदा घोरा राविणः पुरुषर्षभ। सर्वत: प्लावयन्त्याशु चोदिताः परमेष्ठिना॥ वर्षमाणा महत् तोयं पूरयन्तो वसुंधराम्। सुघोरमशिवं रौद्रं नाशयन्ति च पावकम्॥ ततो द्वादशवर्षाणि पयोदास्त उपप्लवे। धाराभिः पूरयन्तो वै चोद्यमाना महात्मना।1८२॥ ततः समुद्रः स्वां वेलामतिक्रामति भारत। पर्वताश्च विदीर्यन्ते मही चाप्सु निमज्जति॥ सर्वतः सहसा भ्रान्तास्ते पयोदा नभस्तलम्। संवेष्टयित्वा नश्यन्ति वायुवेगपराहताः॥ ततस्तं मारुतं घोरं स्वयम्भूर्मनुजाधिप। आदिः पद्मालयो देवः पीत्वा स्वपिति भारत॥ तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे। नष्टे देवासुरगणे यक्षराक्षसवर्जिते॥ निर्मनुष्ये महीपाल निःश्वापदमहीरुहे। अनन्तरिक्षे लोकेऽस्मिन् भ्रमाम्येकोऽहमाहतः॥ एकार्णवे जले घोरे विचरन् पार्थिवोत्तम। अपश्यन् सर्वभूतानि वैक्लव्यमगमं ततः॥ ततः सुदीर्घ गत्वाहं प्लवमानो नराधिप। श्रान्तः क्वचिन शरणं लभाम्यहमतन्द्रितः॥ ततः कदाचित् पश्यामि तस्मिन् सलिलसंचये। न्यग्रोधं सुमहान्तं वै विशालं पृथिवीपते॥ शाखायां तस्य वृक्षस्य विस्तीर्णायां नराधिप। पर्यङ्के पृथिवीपाल दिव्यास्तरणसंस्तुते॥ उपविष्टं महाराज पद्मेन्दुसदृशाननम्। फुल्लपद्मविशालाक्षं बालं पश्यामि भारत॥ ततो मे पृथिवीपाल विस्मयः सुमहानभूत्। कथं त्वयं शिशुः शेते लोके नाशमुपागते॥ तपसा चिन्तयंश्चापि तं शिशुं नोपलक्षये। भूतं भव्यं भविष्यं च जानन्नपि नराधिप॥ अतसीपुष्पवर्णाभः श्रीवत्सकृतभूषणः। साक्षाल्लक्ष्म्या इवावासः स तदा प्रतिभाति मे॥ ततो मामब्रवीद् बालः स पद्यनिभलोचनः। श्रीवत्सधारी द्युतिमान् वाक्यं श्रुतिसुखावहम्॥ जानामि त्वां परिश्रान्तं ततो विश्रामकाक्षिणम्। मार्कण्डेय इहास्स्व त्वं यावदिच्छसि भार्गव॥ अभ्यन्तरं शरीरे मे प्रविश्य मुनिसत्तम। आस्स्व भो विहितो वासः प्रसादस्ते कृतो मया॥ ततो बालेन तेनैवमुक्तस्यासीत् तदा मम। निर्वेदो जीविते दीर्घ मनुष्यत्वे च भारत॥ ततो बालेन तेनास्यं सहसा विवृतं कृतम्। तस्याहमवशो वक्त्रे दैवयोगात् प्रवेशितः॥ ततः प्रविष्टस्तत्कुक्षिं सहसा मनुजाधिप। सराष्ट्रनगराकीर्णां कृत्स्नां पश्यामि मेदिनीम्॥ गङ्गां शतदुं सीतां च यमुनामथ कौशिकाम्। चर्मण्वती वेत्रवती चन्द्रभागां सरस्वतीम्॥ सिन्धुं चैव विपाशां च नदी गोदावरीमपि। वस्वोकसारां नलिनी नर्मदां चैव भारत॥ नदी तानां च वेणां च पुण्यतोयां शुभावहाम्। सुवेणां कृष्णवेणां च इरामां च महानदीम्॥ वितस्तां च महाराज कावेरी च महानदीम्। शोणं च पुरुषव्याघ्र विशल्यां किम्पुनामपि॥ एताश्चान्याश्च नद्योऽहं पृथिव्यां या नरोत्तम। परिक्रामन् प्रपश्यामि तस्य कुक्षौ महात्मनः॥ ततः समुद्रं पश्यामि यादोगणनिषेवितम्। रत्नाकरममित्रघ्न पयसो निधिमुत्तमम्॥ तत्र पश्यामि गगनं चन्द्रसूर्यविराजितम्। जाज्वल्यमानं तेजोभिः पावकार्कसमप्रभम्॥ पश्यामि च महीं राजन् काननैरुपशोभिताम्। यजन्ते हि तदा राजन् ब्राह्मणा बहुभिर्मखैः। :॥ क्षत्रियाश्च प्रवर्तन्ते सर्ववर्णानुरंजनैः। वैश्याः कृषि यथान्यायं कारयन्ति नराधिप॥ शुश्रूषायां च निरता द्विजानां वृषलास्तदा। ततः परिपतन् राजंस्तस्य कुक्षौ महात्मनः॥ हिमवन्तं च पश्यामि हेमकूटं च पर्वतम्। निषधं चापि पश्यामि श्वेतं च रजतान्वितम्॥ पश्यामि च महीपाल पर्वतं गन्धमादनम्। मन्दर मनुजव्याघ्र नीलं चापि महागिरिम्॥ पश्यामि च महाराज मेरुं कनकपर्वतम्। महेन्द्रं चैव पश्यामि विन्ध्यं च गिरिमुत्तमम्॥ मलयं चापि पश्यामि पारियात्रं च पर्वतम्। एते चान्ये च बहवो यावन्तः पृथिवीधराः॥ तस्योदरे मया दृष्टाः सर्वे रत्नविभूषिताः। सिंहान् व्याघ्रान् वराहांश्च पश्यामि मनुजाधिप॥ पृथिव्यां यानि चान्यानि सत्त्वानि जगतीपते। तानि सर्वाण्यहं तत्र पश्यन् पर्यचरं तदा॥ कुक्षौ तस्य नरव्याघ्र प्रविष्टः संचरन् दिशः। शक्रादींश्चापि पश्यामि कृत्स्नान् देवगणानहम्॥ साध्यान् रुद्रांस्तथाऽऽदित्यान् गुह्यकान् पितरस्तदा। सर्पान् नागान् सुपर्णाश्च वसूनप्यश्विनावपि॥ गन्धर्वाप्सरसो यक्षानृषींश्चैव महीपते। दैत्यदानवसङ्घांश्च नागांश्च मनुजाधिप॥ सिंहिकातनयांश्चापि ये चान्ये सुरशत्रवः। यच्च किंचिन्मया लोके दृष्टं स्थावरजङ्गमम्॥ सर्वं पश्याम्यहं राजस्तस्य कुक्षौ महात्मनः। चरमाणः फलाहारः कृत्स्नं जगदिदं विभो॥ अन्तःशरीरे तस्याहं वर्षाणामधिकं शतम्। न च पश्यामि तस्याहं देहस्यान्तं कदाचन॥ सततधावमानश्च चिन्तयानो विशाम्पते। आसदयामि नैवान्तं तस्य राजन् महात्मनः॥ ततस्तमेव शरणं गतोऽस्मि विधिवत् तदा। वरेण्यं वरदं देवं मनसा कर्मणैव च॥ ततोऽहं सहसा राजन् वायुवेगेन निःसृतः। महात्मनो मुखात् तस्य विवृतात् पुरुषोत्तम॥ ततस्तस्यैव शाखायां न्यग्रोधस्य विशाम्पते। आस्ते मनुजशार्दूल कृत्स्नमादाय वै जगत्॥ तेनैव बालवेषेण श्रीवत्सकृतलक्षणम्। आसीनं तं नरव्याघ्र पश्याम्यमिततेजसम्॥ ततो मामब्रवीद् बाल: स प्रीतः प्रहसन्निव। श्रीवत्सधारी द्युतिमान् पीतवासा महाद्युतिः॥ अपीदानीं शरीरेऽस्मिन् मामके मुनिसत्तम। उषितस्त्वं सुविश्रान्तो मार्कण्डेय ब्रवीहिमे॥ मुहूर्तादथ मे दृष्टिः प्रादुर्भूता पुनर्नवा। यया निर्मुक्तमात्मानमपश्यं लब्धचेतसम्॥ तस्य ताम्रतलौ तात चरणौ सुप्रतिष्ठितौ। सुजातौ मृदुरक्ताभिरङ्गुलीभिर्विराजितौ॥ प्रयत्लेन मया मूर्धा गृहीत्वा ह्यभिवन्दितौ। दृष्ट्वा परिमितं तस्य प्रभावममितौजसः॥ विनयेनाञ्जलिं कृत्वा प्रयत्नेनोपगम्य ह। दृष्टो मया स भूतात्मा देवः कमललोचनः॥ तमहं प्राञ्जलिर्भूत्वा नमस्कृत्येदमब्रुवम्। ज्ञातुमिच्छामि देव त्वां मायां चैतां तवोत्तमाम्॥ आस्येनानुप्रविष्टोऽहं शरीरे भगवंस्तव। दृष्टवानखिलान् सर्वान् समस्तान् जठरे हि ते॥ तव देव शरीरस्था देवदानवराक्षसाः। यक्षगन्धर्वनागाश्च जगत् स्थावरजङ्गमम्॥ त्वत्प्रसादाच्च मे देव स्मृतिर्न परिहीयते। दुतमन्तःशरीरे ते सततं परिवर्तिनः॥ निर्गतोऽहमकामस्तु इच्छया ते महाप्रभो। इच्छामि पुण्डरीकाक्ष ज्ञातुं त्वाहमनिन्दितम्॥ इह भूत्वा शिशुः साक्षात् किं भवानवतिष्ठते। पीत्वा जगदिदं सर्वमेतदाख्यातुमर्हसि॥ किमर्थं च जगत् सर्वं शरीरस्थं तवानघ। कियन्तं च त्वया कालमिह स्थेयमरिदम॥ त्वत्तः एतदिच्छामि देवेश श्रोतुं ब्राह्मणकाम्यया। कमलपत्राक्ष विस्तरेण यथातथम्॥ महद्ध्येतदचिन्त्यं च यदहं दृष्टवान् प्रभो। इत्युक्तः स मया श्रीमान् देवदेवो महाद्युतिः। सान्त्वयन् मामिदं वाक्यमुवाच वदतां वरः॥ देव उवाच कामं देवा अपि न मां विप्र जानन्ति तत्त्वतः। त्वत्प्रीत्या तु प्रवक्ष्यामि यथेदं विसृजाम्यहम्॥ पितृभक्तोऽसि विप्रर्षे मां चैव शरणं गतः। ततो दृष्टोऽस्मि ते साक्षाद् ब्रह्मचर्यं च ते महत्॥ अपां नारा इति पुरा संज्ञाकर्म कृतं मया। तेन नारायणोऽप्युक्तो मम तत् त्वयनं सदा॥ अहं नारायणो नाम प्रभवः शाश्वतोऽव्ययः। विधाता सर्वभूतानां संहर्ता च द्विजोत्तम॥ अहं विष्णोरहं ब्रह्मा शक्रश्चाहं सुराधिपः। अहं वैश्रवणो राज यमः प्रेताधिपस्तथा॥ अहं शिवश्च सोमश्च कश्यपोऽथ प्रजापतिः। अहंधाता विधाता च यज्ञश्चाहं द्विजोत्तम॥ अग्निरास्यं क्षितिः पादौ चन्द्रादित्यौ च लोचने। द्यौर्मूर्धा खं दिशः श्रोत्रे तथाऽप: स्वेदसम्भवाः॥ सदिशं च नभः कायो वायुमनसि मे स्थितः। मया क्रतुशतैरिष्टं बहुभिः स्वाप्तदक्षिणैः॥ यजन्ते वेदविदुषो मां देवयजने स्थितम्। पृथिव्यां क्षत्रियेन्द्राश्च पार्थिवाः स्वर्गकाक्षिणः॥ यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषया। चतु:समुद्रपर्यन्तां मेरुमन्दरभूषणाम्॥ शेषो भूत्वाहमेवैतांधारयामि वसुन्धराम। वाराहं रूपमास्थाय मयेयं जगती पुरा॥ मज्जामाना जले विप्र वीर्येणासीत् समुद्धृता। अग्निश्च वडवावक्त्रो भूत्वाहं द्विजसत्तम॥ पिबाम्यपः सदा विद्वंस्ताश्चैवं विसृजाम्यहम्। ब्रह्म वक्त्रं भुजौ क्षत्रमूरू मे संस्थिता विशः॥ पादौ शूद्रा भवन्तीमे विक्रमेण क्रमेण च। ऋग्वेदः सामवेदश्च यजुर्वेदोऽप्यथर्वणः॥ मत्तः प्रादुर्भवन्त्येते मामेव प्रविशन्ति च। यतयः शान्तिपरमा यतात्मानो बुभुत्सवः॥ कामक्रोधद्वेषमुक्ता नि:संगा वीतकल्मघाः। सत्त्वस्था निरहङ्कारा नित्यमध्यात्मकोविदाः॥ मामेव सततं विप्राश्चिन्तयन्त उपासते। अहं संवर्तको वह्निरहं संवर्तकोऽनलः॥ अहं संवर्तकः सूर्यस्त्वहं संवर्तकोऽनिलः। तारारूपाणि दृश्यन्ते यान्येतानि नभस्तले॥ मम वै रोमकूपाणि विद्धि त्वं द्विजसत्तम। रत्नाकरा: समुद्राश्च सर्व एव चतुर्दिशम्॥ वसनं शयनं चैव विलयं चैव विद्धि मे। मयैव सुविभक्तास्ते देवकार्यार्थसिद्धये॥ काम क्रोधं च हर्षं च भयं मोहं तथैव च। ममैव विद्धि रोमाणि सर्वाण्येतानि सत्तम॥ प्राप्नुवन्ति नरा विप्र यत् कृत्वा कर्म शोभनम्। सत्यं दानं तपश्चोग्रमहिंसा चैव जन्तुषु॥ मद्विधानेन विहिता मम देहविहारिणः। मयाऽऽविर्भूतविज्ञाना विचेष्टन्ते न कामतः॥ सम्यग् वेदमधीयाना यजन्ते विविधैर्मखैः। शान्तात्मानो जितक्रोधाः प्राप्नुवन्ति द्विजातयः॥ प्राप्तुं न शक्यो यो विद्वन् नरैर्दुष्कृतकर्मभिः। लोभाभिभूतैः कृपणेनार्यैरकृतात्मभिः॥ तं मां महाफलं विद्धि नराणां भावितात्मनाम्। सुदुष्प्रापं विमूढानां मार्ग योगैर्निषेवितम्॥ यदा यदा चधर्मस्य ग्लानिर्भवति सत्तम। अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम्॥ दैत्या हिंसानुरक्ताश्च अवध्याः सुरसत्तमैः। राक्षसाश्चापि लोकेऽस्मिन् यदोत्पत्स्यन्ति दारुणाः॥ तदाहं सम्प्रसूयामि गृहेषु शुभकर्मणाम्। प्रविष्टो मानुषं देहं सर्वं प्रशमयाम्यहम्॥ सृष्ट्वा देवमनुष्यांस्तु गन्धर्वोरगराक्षसान्। स्थावराणि च भूतानि संहराम्यात्ममायया॥ कर्मकाले पुनर्देहमविचिन्त्यं सृजाम्यहम्। आविश्य मानुषं देहं मर्यादाबन्धकारणात्॥ श्वेतः कृतयुगे वर्णः पीतस्त्रेतायुगे मम। रक्तो द्वापमासाद्य कृष्णः कलियुगे तथा॥ त्रयो भागा ह्यधर्मस्य तस्मिन् काले भवन्ति च। अकाले च समाप्ते कालो भूत्वातिदारुणः॥ त्रैलोक्यं नाशयाम्येकः कृत्स्नं स्थावरजङ्गमम्। अहं त्रिवा विश्वात्मा सर्वलोकसुखावहः॥ आविर्भूः सर्वगोऽनन्तो हृषीकेश उरुक्रमः। कालचक्रं नयाम्येको ब्रह्मन्नहमरूपकम्॥ शमनं सर्वभूतानां सर्वलोककृतोद्यमम्। एवं प्रणिहितः सम्यङ् ममात्मा मुनिसत्तम। सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश्चन॥ सर्वलोके च मां भक्ताः पूजयन्ति च सर्वशः। यच्च किंचित्त्वया प्राप्तं मयि क्लेशात्मकं द्विज॥ सुखोदयाय तत् सर्वं श्रेयसे च तवानघ। यच्च किंचित् त्वया लोके दृष्टं स्थावरजङ्गमम्॥ विहितः सर्वथैवासौ ममात्मा भूतभावनः। अर्धं मम शरीरस्य सर्वलोक पितामहः॥ अहं नारायणो नाम शङ्खचक्रगदाधरः। यावद्युगानां विप्रचे सहपरिवर्तनात्॥ तावत् स्वपिमि विश्वात्मा सर्वभूतानि मोहयन्। एवं सर्वमहं कालमिहास्से मुनिसत्तम॥ अशिशुः शिशुरूपेण यावद्ब्रह्मा न बुध्यते। मया च दत्तो विप्रावय वरस्ते ब्रह्मरूपिणा॥ असकृत् परितुष्टेन विप्रर्षिगणपूजिता सर्वमेकार्णवं दृष्ट्वा नष्टं स्थावरजङ्गमम्॥ विक्लवोऽसि मया ज्ञातस्ततस्ते दर्शितं जगत्। अभ्यन्तरं शरीरस्य प्रविष्टोऽसि यदा मम॥ दृष्ट्वा लोकं समस्तं च विस्मितो नावबुध्यसे। ततोऽसि वक्त्राद् विप्रर्षे द्रुतं निःसारितो मया॥ आख्यातस्ते मया चात्मा दुर्जेयो हि सुरासुरैः॥ यावत् स भगवान् ब्रह्मा न बुध्येत महातपाः। तावत् त्वमिह विप्रर्षे विश्रब्धश्चर वै सुखम्॥ ततो विबुद्धे तस्मिंस्तु सर्वलोकपितामहे। एकीभूतो हि हरक्ष्यामि शरीराणि द्विजोत्तम॥ आकाशं पृथिवीं ज्योतिर्वायु सलिलमेव च। लोके यच्च भवेच्छेषमिह स्थावरजङ्गमम्॥ मार्कण्डेय उवाच इत्युक्तवान्तर्हितस्तात स देवः परमाद्भुतः। प्रजाश्चेमाः प्रपश्यामि विचित्रा विविधाः कृताः॥ एवं दृष्टं मया राजंस्तस्मिन् प्राप्ते युगक्षये। आश्चर्यं भरतश्रेष्ठ सर्वधर्मभृतां वर॥ यः य देवो मया दृष्टः पुरा पद्मायतेक्षणः। स एष पुरुषव्याघ्र सम्बन्धी ते जनार्दनः॥ अस्यैव वरदानाद्धिस्मृतिर्न प्रजहाति माम्। दीर्घमायुश्च कौन्तेय स्वच्छन्दमरणं मम॥ स एष कृष्णो वार्ष्णेयः पुराणपुरुषो विभुः। आस्ते हरिरचिन्त्यात्मा क्रीडन्निव महाभुजः॥ एषधाता विधाता च संहर्ता चैव शाश्वतः। श्रीवत्सवक्षा गोविन्दः प्रजापतिपतिः प्रभुः॥ दृष्ट्वेमं वृष्णिप्रवरं स्मृतिर्मामियामागता। आदिदेवमयं जिष्णुं पुरुषं पीतवाससम्॥ सर्वेषामेव भूतानां पिता माता च माधवः। गच्छध्वमेनं शरणं शरण्यं कौरवर्षभाः॥ वैशम्पायन उवाच एवमुक्ताश्च ते पार्था यमौ च पुरुषर्षभौ। द्रौपद्या सहिताः सर्वे नभश्चक्रुर्जनार्दनम्॥ स चैतान् पुरुषव्याघ्र साम्ना परमवल्गुना। सान्त्वयामास मानार्हो मन्यमानो यथाविधि॥ मार्कण्डेय उवाच ततश्चोरक्षयं कृत्वा द्विजेभ्यः पृथिवीमिमाम्। वाजिमेधे महायज्ञे विधिवत् कल्पयिष्यति॥ स्थापयित्वा च मर्यादाः स्वयम्भुविहिताः शुभाः। वनं पुण्ययश:कर्मा रमणीयं प्रवेक्ष्यति॥ तच्छीलमनुवय॑न्ति मनुष्या लोकवासिनः। विप्रैश्चोरक्षये चैव कृते क्षेमं भविष्यति॥ कृष्णाजिनानि शक्तीश्च त्रिशूलान्यायुधानि च। स्थापयन् द्विजशार्दूलो देशेषु विजितेषु च॥ संस्तूयमानो विप्रेन्द्रर्मानयानो द्विजोत्तमान्। कल्की चरिष्यति महीं सदा दस्युवधे रतः॥ हा मातस्तात पुत्रेति तास्ता वाचः सुदारुणाः। विक्रोशमानान् सुभृशं दस्यून् नेष्यति संक्षयम्॥ ततोऽधर्मविनाशो वैधर्मवृद्धिश्च भारत। भविष्यति कृते प्राप्ते क्रियावांश्च जनस्तथा॥ आरामाश्चैव चैत्याश्च तटाकावसथास्तथा। पुष्करिण्यश्च विविधा देवतायतनानि च।॥ यज्ञक्रियाश्च विविधा भविष्यन्ति कृते युगे। ब्राह्मणाः साधवश्चैव मुनयश्च तपस्विनः॥ आश्रमा हतपाखण्डाः स्थिता: सत्यरताः प्रजाः। जनिष्यन्ते च बीजानि रोप्यमाणानि चैव ह॥ सर्वेष्वृतुषु राजेन्द्र सर्वं सस्यं भविष्यति। नरा दानेषु निरता व्रतेषु नियमेषु च॥ जपयज्ञपरा विप्रा धर्मकामा मुदा युताः। पालयिष्यन्ति राजानोधर्मेणेमां वसुन्धराम्॥ व्यवहाररता वैश्या भविष्यन्ति कृते युगे। षट्कर्मनिरता विप्राः क्षत्रिया विक्रमे रताः॥ शुश्रूषायां रताः शूद्रास्तथा वर्णत्रयस्य च। एषधर्मः कृतयुगे त्रेतायां द्वापरे तथा॥ पश्चिमे युगकाले च यः स ते सम्प्रकीर्तितः। सर्वलोकस्य विदिता युगसंख्या च पाण्डव॥ एतत् ते सर्वमाख्यातमतीतानागतं तथा। वायुप्रोक्तमनुस्मृत्य पुराणमृषिसंस्तुतम्॥ एवं संसारमार्गा मे बहुशश्चिरजीविना। दृष्टाश्चैवानुभूताश्च तांस्ते कथितवानहम्॥ इदं चैवापरं भूयः सह भ्रातृभिरच्युत। धर्मसंशयमोक्षार्थं निबोध वचनं मम॥ धर्मे त्वयाऽऽत्मा संयोज्यो नित्यंधर्मभृतां वर। धर्मात्मा हि सुखं राजन् प्रेत्य चेह च नन्दति॥ निबोध च शुभां वाणी यां प्रवक्ष्यामि तेऽनघ। न ब्राह्मणे परिभवः कर्तव्यस्ते कदाचन॥ ब्राह्मणः कुपितो हन्यादपि लोकान् प्रतिज्ञया। वैशम्पायन उवाच मार्कण्डेयवचः श्रुत्वा कुरूणां प्रवरो नृपः॥ उवाच वचनं धीमान् परमं परमद्युतिः। कस्मिन् धर्मे मया स्थेयं प्रजा: संरक्षता मुने॥ कथं च वर्तमानो वैन च्यवेयं स्वधर्मतः। मार्कण्डेय उवाच दयावान् सर्वभूतेषु हितो रक्तोऽनसूयकः॥ सत्यावादी मृदुर्दान्तः प्रजानां रक्षणे रतः। चरधर्मं त्यजाधर्मं पितृन् देवांश्च पूजय॥ प्रमादाद् यत् कृतं तेऽभूत् सम्यग् दानेन तज्जया अलं ते मानमाश्रित्य सततं परवान् भव॥ विजित्य पृथिवीं सर्वां मोदमानः सुखी भव। एषे भूतो भविष्यच्चधर्मस्ते समुदीरितः॥ न तेऽस्त्यविदितं किञ्चिदतीतानागतं भुवि। तस्मादिमं परिक्लेशं त्वं तात हृदि मा कृथाः।।२७। प्राज्ञास्तात न मुह्यन्ति कालेनापि प्रपीडिताः। एष कालो महाबाहो अपि सर्वदिवौकसाम्॥ मुह्यन्ति हि प्रजास्तात कालेनापि प्रचोदिताः। मा च तत्र विशङ्काभूद् यन्मयोक्तं तवानघ॥ आशङ्कय मद्वचो ह्येतद्धर्मलोपो भवेत् तवा जातोऽसि प्रथिते वंशे कुरूणां भरतर्षभ॥ कर्मणा मनसा वाचा सर्वमेतत् समाचार। युधिष्ठिर उवाच यत् त्वयोक्तं द्विजश्रेष्ठ वाक्यं श्रुतिमनोहरम्॥ तथा करिष्ये यत्नेन भवतः शासनं विभो। न मे लोभोऽस्ति विप्रेन्द्र न भयं न च मत्सरः॥ करिष्यामि हि तत् सर्वमुक्तं यत् ते मयि प्रभो। वैशम्पायन उवाच श्रुत्वा तु वचनं तस्य मार्कण्डेयस्यधीमतः॥ संहृष्टाः पाण्डवा राजन् सहिताः शाईधन्वना। विप्रर्षभाच ते सर्वे ये तत्रासन् समागताः॥ तथा कथां शुभां श्रुत्वा मार्कण्डेयस्यधीमतः। विस्मिताः समपद्यन्त पुराणस्य निवेदनात्॥ वैशम्पायन उवाच भूय एव ब्राह्मणमहाभाग्यं वक्तुमर्हसीत्यब्रवीत् पाण्डवेयो मार्कण्डेयम्॥ अथाचष्ट मार्कण्डेयोऽपूर्वमिदं श्रूयतां ब्राह्मणानां चरितम्॥ अयोध्यायामिक्ष्वाकुकुलोद्वहः पार्थिवः परिक्षिन्नाम मृगयामगमत्॥ तमेकाश्वेन मृगमनुसरन्तं मृगो दूरमपाहरत्॥ अध्वनि जातश्रमः क्षुत्तृष्णाभिभूतश्चैकस्मिन् देशे नीलं गहनं वनखण्डमपश्यत्॥ तच्च विवेश ततस्तस्य वनखण्डस्य मध्येऽतीव रमणीयं सरो दृष्ट्वा साश्च एव व्यगाहत॥ अथाश्वस्तः स बिसमृणालमश्वायाग्रतो निक्षिप्य पुष्करिणीतीरे संविवेश। ततः शयानो मधुरं गीतमशृणोत्॥ स श्रुत्वाचिन्तयन्नेह मनुष्यगतिं पश्यामि कस्य खल्वयं गीतशब्द इति॥ अथापश्यत् कन्यां परमरूपदर्शनीयां पुष्पाण्यवचिन्वन्ती गायन्तीं च। अथ सा राज्ञः समीपे पर्यक्रामत्॥ तामब्रवीद् राजा कस्यासि भद्रे का वा त्वमिति। सा तां प्रत्युवाच कन्या स्मीति राजोवाचार्थी त्वयाहमिति॥ अथोवाच कन्या समयेनाहं शक्या त्वया लब्धुं नान्यथेति राजा तां समयमपृच्छत्। कन्योवाच नोदकं मे दर्शयितव्यमिति॥ स राजा तां बाढमित्युक्त्वा तामुपयेमे कृतोद्वाहश्च राजा परिक्षित् क्रीडपानो मुदा परमया युक्तस्तूष्णीं सङ्गम्य तया सहास्ते॥ ततस्तत्रैवासीने राजनि सेनान्वगच्छत्॥ सा सेनोपविष्टं राजानं परिवार्यातिष्ठत्। पर्याश्वस्तश्च राजा तयैव सह शिबिकया प्रायादवघोटितया स स्वं नगरमनुप्राप्य रहसि तया सहास्ते॥ तत्राभ्याशस्थोऽपि कश्चिन्नापश्यदथ प्रधानामात्योऽभ्याशचरास्तस्य स्त्रियोऽपृच्छत्॥ किमत्र प्रयोजनं वर्तते इत्यथाब्रुवंस्ताः स्त्रियः॥ अपूर्वमिव पश्याम उदकं नात्र नीयत इत्यथामात्योऽनुदकं वनं कारयित्वोदारवृक्षं। बहुपुष्पफलमूलं तस्य मध्ये मुक्ताजालमायीं पार्श्वे वापी गूढां सुधासलिललिप्तां स रहस्युपगम्य राजान-मब्रवीत्॥ वनमिदमुदारकं साध्वत्र रम्यतामिति॥ स तस्य वचनात् तयैव सह देव्या तद् वनं प्राविशत्। स कदाचित् तस्मिन् कानने रम्ये तयैव सह व्यवाहरदथ क्षुत्तृष्णार्दितः श्रान्तोऽतिमुक्तकागार-मपश्यत्॥ तत् प्रविश्य राजा सह प्रियया सुधाकृतां विमला सलिलपूर्णां वापीमपश्यत्॥ दृष्ट्वैव च तां तस्याश्च तीरे सहैव तया देव्यावातिष्ठत्॥ अथ तां देवीं राजाब्रवीत् साध्ववतर वापीसलिलमिति। सा तद्वचः श्रुत्वावतीर्य वापी न्यमज्जन्न पुनरुदमज्जत्॥ तां स मृगयमाणो राजा नापश्यद् वापीमथ निःस्राव्य मण्डूकं श्वभ्रमुखे दृष्ट्वा क्रुद्ध आज्ञापयामास स राजा॥ सर्वत्र मण्डूकवधः क्रियतामिति यो मयार्थी स मां मृतमण्डूकोपायनमदायोपतिष्ठेदिति॥ अथ मण्डूकवधे तीरे क्रियमाणे दिक्षु सर्वासु मण्डूकान् भयमाविवेश। ते भीता मण्डूकराज्ञे यथावृत्तं न्यवेदयन्॥ ततो मण्डूकाराट् तापसवेषधारी राजानमभ्यगच्छदुपेत्य चैनमुवाच॥ मा राजन् क्रोधवशं गमः प्रसादं कुरु नार्हसि मण्डूकानामनपराधिनां वधं कर्तुमिति। श्लोकौ चात्र भवतः॥ मा मण्डूकान् जिघांस त्वं कोपं संधारयाच्युत। प्रक्षीयतेधनोद्रेको जनानामविजानताम्॥ प्रतिजानीहि नैतांस्त्वं प्राप्य क्रोधं विमोक्ष्यसि। अलं कृत्वा तवाधर्मं मण्डूकैः किं हतैर्हि ते॥ तमेवंवादिनमिष्टजनशोकपरीतात्मा राजाथोवाच॥ न हि क्षम्यते तन्मया हनिष्याम्येतानेतैर्दुरात्मभिः प्रिया मे भक्षिता सर्वथैव मे वध्या मण्डूका नार्हसि विद्वन् मामुपरो मिति॥ स तद् वाक्यमुपलभ्य व्यथितेन्द्रियमनाः प्रोवाच प्रसीद राजन्नहमायुर्नाम मण्डूकराजो मम सा दुहिता सुशोभना नाम। तस्या हि दौःशील्यमेतद् बवहस्त्या राजानो विप्रलब्धाः पूर्वा इति॥ तमब्रवीद् राजा तया समर्थी सा मे दीयतामिति। अथैनां राज्ञे पितादादब्रवीच्चैनामेनं राजानं शुश्रूषस्वेति॥ स एवमुक्त्वा दुहितरं क्रुद्धः शशाप यस्मात् त्वया राजानो विप्रलब्धा बहवस्तस्माद ब्रह्मण्यानि तवापत्यानि भविष्यन्त्यानृतिकत्वात् तवेति॥ स च राजा तामुपलभ्य तस्यां सुरतगुणानिवद्धहृदयो लोकत्रयैश्वर्यमिवोपलभ्य हर्षेण वाष्पकलया वाचा प्रणिपत्याभिपूज्य मण्डूकराजमब्रवादनुगृहीतोऽस्मीति।। स च मण्डूकराजो दुहितरमनुज्ञाप्य यथागतमगच्छत्॥ अथ कस्यचित् कालस्य तस्यां कुमारास्त्रयस्तस्य राज्ञः सम्बभूवुः शलो दलो बलश्चेति। ततस्तेषां ज्येष्ठं शलं समये पिता राज्येऽभिषिच्य तपसि धृतात्मा वनं जगाम्॥ अथ कदाचिच्छलो मृगयामनुचरन् मृगमासाद्य रथेनान्वधावत्॥ सूतं चोवाच शीघ्रं मां वहस्वेति स तथोक्तः सूतो राजानमब्रवीत्॥ न क्रियतामनुबन्धो नैष शक्यस्त्वया मृगोऽयं ग्रहीतुं यद्यपि ते रथे युक्तौ वाम्यौ स्यातामिति।।ततोऽब्रवीद् राजा सूतमाचक्ष्व मे वाम्यौ हन्मि च त्वामिति। स एवमुक्तो राजभयभीत: सूतो वामदेवशापभीतश्च सन् नाचख्यौ राज्ञे। ततः पुनः स राजा खङ्गमुद्यम्य शीघ्रं कथयस्वेति तमाह हनिय॑ त्वामिति। स तदाऽऽह राजभयभीतः सूतो वामदेवस्याश्चौ वाम्यौ मनोजवाविति॥ अथैनमेवं ब्रुवाणमब्रवीद् राजा वामदेवाश्रमं प्रयाहीति स गत्वा वामदेवाश्रमं तमृषिमब्रवीत्॥ भगवन् मृगो मे विद्धः पलायते सम्भावयितुमर्हसि वाम्यौ दातुमिति। तमब्रवीदृषिर्ददानि ते वाम्यौ कृतकार्येण भवता ममैव वाम्यौ निर्यात्यौ क्षिप्रमिति। स च तावश्वौ प्रतिगृह्यानुज्ञाप्य ऋषिं प्रायाद् वामीप्रयुक्तेन रथेन मृगं प्रतिगच्छंश्चाब्रवीत् सूतमश्वरत्नाविमावयोग्यौ ब्राह्मणानां नैतौ प्रतिदेयौ वामदेवायेत्युक्त्वा मृगमवाप्य स्वनगरमेत्याश्वावन्तः पुरेऽस्थापयत्॥ अथर्षिश्चिन्तयामास तरुणो राजपुत्रः कल्याणं पत्रमासाद्य रमते न प्रतिनिर्यातयत्यहो कष्टमिति॥ स मनसा विचिन्त्य मासि पूर्णे शिष्यमब्रवीत्॥ गच्छात्रेय राजानं ब्रूहि यदि पर्याप्तं निर्यातयोपाध्यायवाम्याविति। स गत्वैवं तं राजानमब्रवीत् तं राजा प्रत्युवाच राज्ञामेतद्वाहनमनर्हा ब्राह्मणा रत्नानामेवंविधानां किं ब्राह्मणानामश्वैः कार्यं साधु गम्यताम्॥ स गत्वैतदुपाध्यायाचष्ट तच्छ्रुत्वा वचनमप्रियं वामदेवः क्रोधपरीतात्मा स्वयमेव राजानमभिगम्याश्वार्थमचोदयन्न चाददद् राजा॥ वामदेव उवाच प्रयच्छ वाम्यौ मम पार्थिव त्वं कृतं हि ते कार्यमाभ्यामशक्यम्। मा त्वा वधीद् वरुणो घोरपाशौब्रह्मक्षत्रस्यान्तरे वर्तमानम्॥ राजोवाच अनड्वाहौ सुव्रतौ साधु दान्तावेतद् विप्राणां वाहनं वामदेव। ताभ्यां याहि त्वं तत्र कामो महर्षे छन्दांसि वै त्वादृशं संवहन्ति॥ वामदेव उवाच छन्दांसि वै मादृशं संवहन्ति लोकेऽमुष्मिन् पार्थिव यानि सन्ति। अस्मिन्स्तु लोके मम यानमेतदस्मद्विधानामपरेषां च राजन्॥ राजोवाच चत्वारस्त्वां वा गर्दभाः संवहन्तु श्रेष्ठाश्वतर्यो हरयो वातरंहाः। तैस्त्वं याहि क्षत्रियस्यैष वाहो ममैव वाम्यौ न तवैतौ हि विद्धि॥ वामदेव उवाच घोरं व्रतं ब्राह्मणस्यैतदाहुरेतद् राजन् यदिहाजीवमानः। अयस्मया घोररूपा महान्तश्चत्वारो वा यातुधानाः सुरौद्राः। मया प्रयुक्तास्त्वद्वधमीप्समाना वहन्तु त्वां शितशूलाश्चतु॥ राजोवाच ये त्वां विदुर्ब्राह्मणं वामदेव वाचा हन्तुं मनसा कर्मणा वा। ते त्वां सशिष्यमिह पातयन्तु मद्वाक्यनुन्नाः शितशूलासिहस्ता:॥ वामदेव उवाच ममैतौ वाम्यौ प्रतिगृह्य राजन् पुनर्ददानीति प्रपद्य त्वम्। प्रयच्छ शीघ्रं मम वाम्यौ त्वमश्वौ यद्यात्मानं जीवितुं ते क्षमं स्यात्॥ राजोवाच न ब्राह्मणेभ्यो मृगया प्रसूता न त्वानुशास्म्यद्यप्रभृति हसत्यम्। तवैवाज्ञां सम्प्रणिधाय सर्वां तथा ब्रह्मन् पुण्यलोकं लभेयम्॥ वामदेव उवाच नानुयोगा ब्राह्मणानां भवन्ति मे वाचा राजन् मनसा कर्मणा वा। स्तेन श्रेष्ठो भवति हि जीवमानः॥ मार्कण्डेय उवाच एवमुक्ते वामदेवेन राजन् समुत्तस्थू राक्षसा घोररूपाः। तैः शूलहस्तैर्वध्यमानः स राजा प्रोवाचेदं वाक्यमुच्चैस्तदानीम्॥ विधेया मे यदि चेमे विशोऽपि। नोत्स्रक्ष्येऽहं वामदेवस्य वाम्यौ नैवंविधाधर्मशीला भवन्ति॥ हतो जगामाशु महीं क्षितीशः। मिक्ष्वाकवो वै दलमभ्यषिञ्चन्॥ राज्ये तदा तत्र गत्वा स विप्रः प्रोवाचेदं वचनं वामदेवः। मेवं राजन् सर्वधर्मेषु दृष्टम्॥ विभेषि चेत् त्वमधर्मान्नरेन्द्र प्रयच्छ मे शीघ्रमेवाद्य वाम्यौ। एतच्छ्रुत्वा वामदेवस्य वाक्यं स पार्थिवः सूतमुवाच रोषात॥ एकं हि मे सायकं चित्ररूपं दिग्धं विषेणाहर संगृहीतम्। येन विद्धो वामदेवः शयीत संदश्यमानः श्वभिरार्तरूपः॥ वामदेव उवाच जानामि पुत्रं दशवर्षं तवाह जातं महिष्यां श्येनजितं नरेन्द्र। स्तूर्णं प्रियं सायकै?ररूपैः॥ मार्कण्डेय उवाच वन्तःपुरे राजपुत्रं जघाना स सायकस्तिग्मतेजा विसृष्टः श्रुत्वा दलस्तत्र वाक्यं बभाषे॥ राजोवाच इक्ष्वाकवो हन्त चरामि वः प्रियं निहन्मीमं विप्रमद्य प्रमथ्य। आनीयतामपरस्तिग्मतेजाः पश्यध्वं मे वीर्यमद्य क्षितीशाः॥ वामदेव उवाच यत् त्वमेनं सायकं घोररूपं विषेण दिग्धं मम संदधासि। न त्वेतं त्वं शरवर्षं विमोक्तुं संधातुं वा शक्यसे मानवेन्द्र॥ राजोवाच इक्ष्वाकवः पश्यत मां गृहीतं न वै शक्नोम्येष शरं विमोक्तुम्। न चास्य कर्तुं नाशमभ्युत्सहामि आयुष्मान् वै जीवतु वामदेवः॥ वामदेव उवाच संस्पृश्यैनां महिषी सायकेन ततस्तस्मादेनसो मोक्ष्यसे त्वम्। ततस्तथा कृतवान् पार्थिवस्तु ततो मुनि राजपुत्री बभाषे॥ राजपुत्र्युवाच यथा युक्ता वामदेवाहमेनं दिने दिने संदिशन्ती नृशंसम्। ब्राह्मणेभ्यो मृगयती सूनृतानि तथा ब्रह्मन् पुण्यलोकं लभेयम्॥ वामदेव उवाच त्वया त्रातं राजकुलं शुभेक्षणे वरं वृणीष्वाप्रतिमं ददानि ते। प्रशाधीमं स्वजनं राजपुत्रि इक्ष्वाकुराज्यं सुमहच्चाप्यनिन्द्ये॥ राजपुत्र्युवाच वरं वृणे भगवंस्त्वेवमेष विमुच्यतां किल्बिषादद्य भर्ता। शिवेन चाध्याहि सपुत्रबान्धवं वरो वृतो ह्येष मया द्विजावय॥ मार्कण्डेय उवाच स्तथास्त्विति प्राह कुरुप्रवीर। ततः स राजा मुदितो बभूव वाम्यौ चास्मै प्रददौ सम्प्रणम्य॥ वैशम्पायन उवाच मार्कण्डेयमृषयो ब्राह्मणा युधिष्ठिश्च पर्यपृच्छन्नृषिः केन दीर्घायुरासीद् बको मार्कण्डेयस्तु तान् सर्वानुवाच॥ महातपा दीर्घायुश्च बको दीर्घायुश्च बको राजन् नात्र कार्या विचारणा॥ एतच्छ्रुत्वा तु कौन्तेया भ्रातृभिः सह भारत। मार्कण्डेयं पर्यपृच्छधर्मराजो युधिष्ठिरः॥ श्रूयते हि महाभाग बाको दाल्भ्यो महातपाः। प्रियः सखा च शक्रस्य चिरजीवी च सत्तम॥ एतदिच्छामि भगवन् बकशक्रसमागमम्। सुखदुःखसमायुक्तं तत्त्वेन कथयस्व मे॥ मार्कण्डेय उवाच वृत्ते देवासुरे राजन् संग्रामे लोमहर्षणे। त्रयाणामपि लोकानामिन्द्रो लोकाधिपोऽभवत्॥ सम्यग् वर्षति पर्जन्ये सस्यसम्पद उत्तमाः। निरामयाः सुधर्मिष्ठाः प्रजाधर्मपरायणाः॥ मुदितश्च जनः सर्वः स्वधर्मेषु व्यवस्थितः। ता: प्रजा मुदिताः सर्वा दृष्टवा बलनिषूदनः॥ ततस्तु मुदितो राजन् देवराजः शतक्रतुः। ऐरावतं समास्थाय ताः पश्यन् मुदिताः प्रजाः॥ आश्रमांश्च विचित्रांश्च नदीश्च विविधाः शुभाः। नगराणि समृद्धानि खेटान् जनपदांस्तथा॥ प्रजापालनदक्षांश्च नरेन्द्रान्धर्मचारिणः। उदपानं प्रपा वापी तडागानि सरांसि च॥ नाना ब्रह्मसमाचारैः सेवितानि द्विजोत्तमैः। ततोऽवतीर्य रम्यायां पृथ्व्यां राजञ्छतक्रतुः॥ तत्र रम्ये शिवे देशे बहुवृक्षसमाकुले। पूर्वस्यां दिशि रम्यायां समुद्राभ्याशतो नृप॥ तत्राश्रमपदं रम्यं मृगद्विजनिषेवितम्। तत्राश्रमपदे रम्ये बकं पश्यति देवराट्॥ बकस्तु दृष्ट्वा देवेन्द्रं दृढं प्रीतमनाभवत्। पाद्यासनार्घ्यदानेन फलमूलैरथार्चयत्॥ सुखोपविष्टो वरदस्ततस्तु बलसूदनः। ततः प्रश्नं बकं देव उवाच त्रिदशेश्वरः॥ शतं वर्षसहस्राणि मुने जातस्य तेऽनघ। समाख्याहि मम ब्रह्मन् किं दुःखं चिरजीविनाम्॥ बक उवाच अप्रियैः सह संवासः प्रियैश्चापि विनाभवः। असद्भिः सम्प्रयोगाश्च तद् दुःखं चिरजीविनाम्॥ पुत्रदारविनाशोऽत्र ज्ञातीनां सुहृदामपि। परेष्वायत्तताकृच्छ, किं नु दुःखतरं ततः॥ नान्यद् दुःखतरं किञ्चिल्लोकेषु प्रतिभाति मे अथैविहीनः पुरुषः परैः सम्परिभूयते॥ अकुलानां कुले भावं कुलीनानां कुलक्षयम्। संयोगं विप्रयोगं च पश्यन्ति चिरजीविनः॥ अपि प्रत्यक्षमेवैतत् तव देव शतक्रतो। अकुलानां समृद्धानां कथं कुलविपर्ययः॥ देवदानवगन्धर्वमनुष्योरगराक्षसाः। प्राप्नुवन्ति विपर्यासं किं नु दुःखतरं ततः॥ कुले जाताश्च क्लिश्यन्ते दौष्कुलेयवशानुगाः। आढ्यैर्दरिद्राश्चाक्रान्ता: किं नु दुःखतरं ततः॥ लोके वैधर्म्यमेतत् तु दृश्यते बहुविस्तरम्। हीनज्ञानाश्च हृष्यन्ते क्लिश्यन्ते प्राज्ञकोविदाः॥ बहुदुःखपरिक्लेशं मानुष्यमिह दृश्यते। इन्द्र उवाच पुनरेव महाभाग देवर्षिगणसेवित॥ समाख्याहि मम ब्रह्मन् किं सुखं चिरजीविनाम्। बक उवाच अष्टमे द्वादशे वापि शाकं यः पचते गृहे॥ कुमित्राण्यनपाश्रित्य किं वै सुखतरं ततः। यत्राहानि न गण्यन्ते नैनमाहुर्महाशनम्॥ अपि शाकं पचानस्य सुखं वै मघवन् गृहे। अर्जितं स्वेन वीर्येण नाप्यपाश्रित्य कञ्चन॥ फलशाकमपि श्रेयो भोक्तुं शकृपणं गृहे। परस्य तु गृहे भोक्तुः परिभूतस्य नित्यशः॥ सुमृष्टमपि न श्रेयो विकल्पोऽयमतः सताम्। श्ववत् कोलालपो यस्तु परान्नं भोक्तुमिच्छति॥ धिगस्तु तस्य तद् भुक्तं कृपणस्य दुरात्मनः। यो दत्त्वातिथिभूतेभ्यः पितृभ्यश्च द्विजोत्तमः॥ शिष्टान्यन्नानि यो भुङ्क्ते किं वै सुखतरं ततः। अतो मृष्टतरं नान्यत् पूतं किञ्चिच्छतक्रतो॥ दत्त्वा यस्त्वतिथिभ्यो वै भुङ्क्ते तेनैव नित्यशः। यावतो ह्यन्धसः पिण्डानश्नाति सततं द्विजः॥ तावतां गोसहस्राणां फलं प्राप्नोति दायकः। यदेनो यौवनकृतं तत् सर्वं नश्यतेध्रुवम्॥ सदक्षिणस्य भुक्तस्य द्विजस्य तु करे गतम्। यद् वारि वारिणा सिञ्चत् तद्ध्येनस्तरते क्षणात्॥ एताश्चान्याश्च वै बह्वीः कथयित्वा कथाः शुभाः। बकेन सह देवेन्द्र आपृच्छय त्रिदिवं गतः॥ वैशम्पायन उवाच भूय एव महाभाग्यं कथ्यतामित्यब्रवीत् पाण्डवः॥ अथाचष्ट मार्कण्डेयो महाराज वृषदर्भसेदुकनामानौ राजानौ नीतिमार्गरतावस्त्रोपास्त्रकृतिनौ॥ सेदुको वृषदर्भस्य बालस्यैव उपांशुव्रतमभ्यजानात् कुप्यमदेयं ब्राह्मणस्य॥ अथ तं सेदुकं ब्राह्मणः कश्चिद् वेदाध्ययनसम्पन्न आशिषं दत्त्वा गुर्वर्थी भिक्षितवान्॥ अश्वसहस्रं मे भवान् ददात्विति तं सेदुको ब्राह्मणमब्रवीत्॥ नास्ति सम्भवो गुर्वर्थं दातुमिति॥ स त्वं गच्छ वृषदर्भसकाशम्। राजा परमधर्मज्ञो ब्राह्मण तं भिक्षस्व। स ते दास्यति तस्यैतदुपांशुव्रतमिति॥ अथ ब्राह्मणो वृषदर्भसकाशं गत्वा अश्वसहस्रमयाचत्। स राजा तं कशेनाताडयत्॥ तं ब्राह्मणोऽब्रवीत्। किं हिस्यनागसं मामिति॥ एवमुक्त्वा तं शपन्तं राजाऽऽह। विप्र कि यो न ददाति तुभ्यमुताहोस्विद् ब्राह्मण्यमेतत्॥ ब्राह्मण उवाच राजाधिराज तव समीपं सेदुकेन प्रेषितो भिक्षितुमागतः। तेनानुशिष्टेन मया त्वं भिक्षितोऽसि॥ राजोवाच पूर्वाह्ने ते दास्यामि यो मेऽद्य बलिरागमिष्यति। यो हन्यते कशया कथं मोघं क्षेपणं तस्य स्यात्॥ इत्युक्त्वा ब्राह्मणाय दैवसिकामुत्पत्तिं प्रादात्। अधिकस्याश्वसहस्रस्य मूल्यमेवादादिति॥ वैशम्पायन उवाच भूय एव महाभाग्यं कथ्यतामित्यब्रवीत् पाण्डवो मार्कण्डेयम्। अथाचष्ट मार्कण्डेयः। अष्टकस्य वैश्वामित्रेरश्वमेधे सर्वे राजानः प्रागच्छन्॥ भ्रातरश्चास्य प्रतर्दनो वसुमना: शिबिरौशीनर इति। स च समाप्तयज्ञो भ्रातृभिः सह रथेन प्रायात्। ते च नारदमागच्छन्तमभिवाद्यारोहतु भवान् स्थमित्यब्रुवन्॥ तांस्तथेत्युक्त्वा रथमारुरोह। अथ तेषामेकः सुरर्षि नारदमब्रवीत्। प्रसाद्य भगवन्तं किचिदिच्छेयं प्रष्टुमिति॥ पृच्छेत्यब्रवीदृषिः। सोऽब्रवीदायुष्मन्तः सर्वगुणप्रमुदिताः। अथायुष्मन्तं स्वर्गस्थानं चतुर्भिर्यातव्यं स्यात् कोऽवतरेत्। अयमष्टकोऽवतरेदित्यब्रवीदृषिः॥ किं कारणमित्यपृच्छत्। अथाचष्टाष्टकस्य गृहे मया उषितं स मां रथेनानुप्रावहदथापश्यमनेकानि गोसहस्राणि वर्णशो विविक्तानि तमहमपृच्छं कस्येमा गाव इति सोऽब्रवीत्। मया निसृष्टा इत्येतास्तेनैव स्वयं श्लाघति कथितेन। एषोऽवतरेदथ त्रिभिर्यातव्यं साम्प्रतं कोऽवतरेत्॥ प्रतर्दन इत्यब्रवीदृषिः। तत्र किं कारणं प्रतर्दनस्यापि गृहे मयोषितं स मां रथेनानुप्रावहत्॥ अथैनं ब्राह्मणोऽभिक्षेताश्वं मे ददातु भवान् निवृत्तो दास्यामीत्यब्रवीद् ब्राह्मणं त्वरितमेव दीयतामित्यब्रवीद् ब्राह्मणस्त्वरितमेव स ब्राह्मणस्यैवमुक्त्वा दक्षिणं पार्श्वमददत्॥ अथान्योऽप्यश्वार्थी ब्राह्मण आगच्छत्। तथैव चैनमुक्त्वा वामपाणिमभ्यदादथ प्रायात् पुनरपि चान्योऽप्यश्वार्थी ब्राह्मण आगच्छत् त्वरितोऽथ तस्मै अपना वाम धुर्यमददत्॥ अथ प्रायात् पुनरन्य आगच्छदश्वार्थी ब्राह्मणस्तमब्रवीदतियातो दास्यामि त्वरितमेव त्वरितमेव मे दीयतामित्यब्रवीद् ब्राह्मणस्तस्मै दत्त्वाचं रथधुरं गृहणता व्याहृतं ब्राह्मणानां साम्प्रतं नास्ति किंचिदिति॥ य एष ददाति चासूयति च तेन व्याहतेन तथावतरेत्। अथ द्वाभ्यां यातव्यमिति कोऽवतरेत्॥ वसुमना अवतरेदित्यब्रवीदृषिः॥ किं कारणमित्यपृच्छदधाचष्ट नारदः। अहं परिभ्रमन् वसुमनसो गृहमुपस्थितः॥ स्वस्तिवचनमासीत् पुष्परथस्य प्रयोजनेन तमहमन्वगच्छं स्वस्तिवाचितेषु ब्राह्मणेषु रथो ब्राह्मणानां दर्शितः॥ तमहं रथं प्राशंसमथ राजाब्रवीद् भगवता रथः प्रशस्तः। एष भगवतो रथ इति॥ अथ कदाचित् पुनरप्यहमुपस्थितः पुनरेव च रथप्रयोजनमासीत्। सम्यगयमेष भगवत इत्येवं राजाब्रवीदिति पुनरेव तृतीयं स्वस्तिवाचनं समभावयमथ राजा ब्राह्मणानां दर्शयन् मामभिप्रेक्ष्याब्रवीत्। अथो भगवता पुष्परथस्य स्वस्तिवाचनानि सुष्ठु सम्भावितानि एतेन द्रोहवचनेनावतरेत्॥ अथैकेन यातव्यं स्यात् कोऽवतरेत् पुनर्नारद आह शिबिर्यायादहमवतरेयमत्र किं कारणमित्यब्रवीत्। असावहं शिबिना समो नास्मि यतो ब्राह्मणः कश्चिदेनमब्रवीत्।।१६ शिबे अन्नार्यस्मीति तमब्रवीच्छिबिः कि क्रियतामाज्ञापयतु भवानिति॥ अथैनं ब्राह्मणोऽब्रवीद् य एष ते पुत्रो बृहद्गर्भो नाम एष प्रमातव्य इति तमेनं संस्कुरु अन्नं चोपपादय ततोऽहं प्रतीक्ष्य इति। ततः पुत्रं प्रमाथ्य संस्कृत्य विधिना साधयित्वा पाश्यामर्पयित्वा शिरसा प्रतिगृह्य ब्राह्मणममृगयत्॥ अथास्य मृगयमाणस्य कश्चिदाचष्ट एष ते ब्राह्मणो नगरं प्रविश्य दहति ते गृहं कोशागारमायुधागारं स्त्र्यगारमश्वशालां हस्तिशालां च क्रुद्ध इति॥ अथ शिबिस्तथैवाविकृतमुखवर्णो नगरं प्रविश्य ब्राह्मणं तमब्रवीत् सिद्धं भगवन्नन्नमिति ब्राह्मणो न किंचिद् व्याजहार विस्मयादधोमुखश्चासीत्॥ ततः प्रासादयद् ब्राह्मणं भगवन् भुज्यतामिति। मुहूर्तादुद्वीक्ष्य शिविमब्रवीत्॥ त्वमेवैतदशानेति तत्राह तथेति शिबिस्तथैवाविमना महित्वा कपालमभ्युद्धार्य भोक्तुमैच्छत्॥ अथास्य ब्राह्मणो हस्तमगृहणात्। अब्रवीचैनं जितक्रोधोऽसि न ते किञ्चिदपरित्याज्यं ब्राह्मणार्थे ब्राह्मणोऽपि तं महाभागं सभाजयत्॥ स झुद्वीक्षमाणः पुत्रमपश्यदग्रे तिष्ठन्तं देवकुमारमिव पुण्यगन्धान्वितमलङ्कृतं सर्वं तमर्थं विधाय ब्राह्मणोऽन्तरधीयत॥ तस्य राजर्षेर्विधाता तेनैव वेषेण परीक्षार्थमागत इति तस्मिन्नन्तर्हिते अमात्या राजानमुचूः। किं प्रेप्सुना भवता इदमेवं जानता कृतमिति॥ शिविरुवाच नैवाहमेतद् यशसे ददानि न चार्थहेतोर्न च भोगतृष्णया। पापैरनासेवित एष मार्ग इत्येवमेतत् सकलं करोमि॥ सद्भिः सदाध्यासितं तु प्रशस्तं तस्मात् प्रशस्तं श्रयते मतिमें। एतन्महाभाग्यवरं शिबेस्तु तस्मादहं वेद यथावदेतत्॥ वैशम्पायन उवाच मार्कण्डेयमृषयः पाण्डवाः पर्यपृच्छन्नस्ति कश्चिद् भवतश्चिरजाततर इति॥शा स तानुवाचास्ति खलु राजर्षिरिन्द्रद्युम्नो नाम क्षीणपुण्यस्त्रिदिवात् प्रच्युतः कीर्तिस्ते व्युच्छिन्नेति स मामुपातिष्ठदथ प्रत्यभिजानाति मां भवानिति॥ तमहमब्रुवं कार्यचेष्टाकुलत्वान्न वयं वासायनिका ग्रामैकरात्रवासिनो प्रत्यभिजानीमोऽप्यात्मनोऽर्थानामनुष्ठानं न शरीरोपतापेनात्मनः समारभामो ऽर्थानामनुष्ठानम्॥ अस्ति खलु हिमवति प्रावारको नामोलूकः प्रतिवसति। स मत्तश्चिरजातो भवन्तं यदि जानीयादितः प्रकृष्टे चाध्वनि हिमवांस्तत्रासौ प्रतिवसतीति॥ ततः स मामश्वो भूत्वा तत्रावहद् यत्र बभूवोलूकः। अथैनं स राजा पप्रच्छ प्रतिजानाति मां भवानिति॥ स मुहूर्तमिव ध्यात्वाब्रवीदेनं नाभिजानामि भवन्तमिति स एवमुक्त इन्द्रद्युम्नः पुनस्तमुलूकमब्रवीद् राजर्षिः॥ अथास्ति कश्चिद् भवतः सकाशाच्चिरजात इति स एवमुक्तोऽब्रवीदस्ति खल्विन्द्रद्युम्नं नाम सरस्तस्मिन् नाडीजलो नाम बकः प्रतिवसति सोऽस्मत्तश्चिरजाततरस्तं पृच्छेति तत इन्द्रद्युम्नो मां चोलूकमादाय तत् सरोऽगच्छद् यत्रासौ नाडीजचो नाम बको बभूव॥ सोऽस्माभिः पृष्टो भवानिममिन्द्रद्युम्नं राजानमभिजानातीति एवं मुहूर्त ध्यात्वाब्रवीनाभिजानाम्यहमिन्द्रद्युम्नं राजानमिति। ततः सोऽस्माभिः पृष्टः कश्चिद् भवतोऽन्यश्चिरजाततरोऽस्तीति। स नोऽब्रवीदस्ति खल्वस्मिन्नेव सरस्यकूपारो नाम कच्छपः प्रतिवसति। स मत्तश्चिरजाततरः। स यदि कथंचिदभिजानीयादिम राजानं तमकूपारं पृच्छध्वमिति॥ ततः स बकस्तमकूपारं कच्छपं विज्ञापयामास। अस्माकमभिप्रेतं भवन्तं किञ्चिदर्थमभिप्रष्टुं साध्वागम्यतां तावदिति तच्छ्रुत्वा कच्छपस्तस्मात् सरस उत्थायाभ्यगच्छद् यत्र तिष्ठामो वयं तस्य सरसस्तीरे आगतं चैनं वयमपृच्छाम भवानिन्द्रद्युम्नं राजानमभिजानातीति॥ न स मुहूर्तं ध्यात्वा बाष्पसम्पूर्णनयन उद्विग्नहृदयो वेपमानो विसंज्ञकल्पः प्राञ्जलिरब्रवीत्। किमहमेनं प्रत्यभिज्ञास्यामीह ह्यनेन सहस्रकृत्वश्चितिषु यूपा आहिताः॥ सरचेदमस्य दक्षिणाभिर्दत्ताभिगोभिरतिक्रममाणाभिः कृतम्। अत्र चाहं प्रतिवसामीति॥ अथैतत् सकलं कच्छपेनोदाहृतं श्रुत्वा तदनन्तरं देवलोकाद् देवरथः प्रादुरासीद् वाचश्चाश्रूयन्तेन्द्रद्युम्नं प्रति प्रस्तुतस्ते स्वर्गो स्वर्गो यथोचितं स्थानं प्रतिपद्यस्व कीर्तिमानस्यव्यग्रो याहीति॥ भवन्ति चात्र श्लोकाःदिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः। यावत् स शब्दो भवति तावत् पुरुष उच्यते॥ अकीर्तिः कीर्त्यते लोके यस्य भूतस्य कस्यचित्। स पतत्यधमाँल्लोकान् यावच्छब्दः प्रकीर्त्यते॥ दनन्ताय नरः सदा। विहाय चित्तं पापिष्ठं धर्ममेव समाश्रयेत्॥ इत्येतच्छ्रुत्वा स राजाब्रवीत् तिष्ठ तावद् यावदिमौ वृद्धौ यथास्थानं प्रतिपादयामीति॥ स मां प्रावारकर्णं चोलूकं यथोचिते स्थाने प्रतिपाद्य तेनैव यानेन संस्थितो यथोचितं स्थानं प्रतिपेदे। तन्मयानुभूतं चिरजीविनेदृशमिति पाण्डवानुवाच मार्कण्डेयः॥ पाण्डवाश्चोचुः साधु शोभनं भवता कृतं राजानमिन्द्रद्युम्नं स्वर्गलोकाच्च्युतं स्वे स्थाने प्रतिपादयतेत्यथैतानब्रवीदसौ ननु देवकीपुत्रेणापि कृष्णेन कृष्णेन नरके मज्जामानो राजर्षिर्तृगस्तस्मात् कृच्छ्रात् पुनः समुद्धृत्य स्वर्ग प्रापित इति॥ मार्कण्डेय उवाच इक्ष्वाको संस्थिते राजन् शशादः पृथिवीमिमाम्। प्राप्तः परमधर्मात्मा सोऽयोध्यायां नृपोऽभवत्॥ शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान्। अनेनाश्चापि काकुत्स्थः पृथुश्चानेनसः सुतः॥ विष्वगश्वः पृथोः पुत्रस्तस्मादद्रिश्च जज्ञिवान्। अद्रेश्च युवनाश्वस्तु श्रावस्तस्यात्मजोऽभवत्॥ तस्य श्रावस्तको ज्ञेयः श्रावस्ती येन निर्मिता। श्रावस्तकस्य दायादो बृहदश्वो महाबलः॥ बृहदश्वस्य दायादः कुवलाश्व इति स्मृतः। कुवलाश्वस्य पुत्राणां सहस्राण्येकविंशतिः॥ सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः। कुवलाश्वश्च पितृतो गुणैरभ्यधिकोऽभवत्॥ समये तं पिता राज्ये बृहदश्वोऽभ्यषेचयत्। कुवलाश्वं महाराज शूरमुत्तमधार्मिकम्॥ पुत्रसंक्रामितश्रीस्तु बृहदश्वो महीपतिः। जगाम तपसे धीमांस्तपोवनममित्रहा॥ अथ शुश्राव राजर्षि तमुत्तको नराधिप। वनं सम्प्रस्थितं राजन् बृहदश्वं द्विजोत्तमः॥ तमुत्तको महातेजाः सर्वास्त्रविदुषां वरम्। न्यवारयदमेयात्मा समासाद्य नरोत्तमम्॥ उत्तङ्क उवाच भवता रक्षणं कार्यं तत् तावत् कर्तुमर्हसि। निरुद्विग्ना वयं राजंस्त्वत्प्रसादाद् भवेमहि॥ त्वया हि पृथिवी राजन् रक्ष्यमाणा महात्मना। भविष्यति निरुद्विग्ना नारण्यं गन्तुमर्हसि॥ पालने हि महान् धर्मः प्रजानामिह दृश्यते। न तथा दृश्यतेऽरण्ये माभूत् ते बुद्धिरीदृशी॥ ईदृशो न हि राजेन्द्र धर्मः क्वचन दृश्यते। प्रजानां पालने यो वै पुरा राजर्षिभिः कृतः॥ रक्षितव्याः प्रजा राज्ञा तास्त्वं रक्षितुमर्हसि। निरुद्विग्नस्तपश्चर्तुं न हि शक्नोमि पार्थिव॥ ममाश्रमसमीपे वै समेषु मरुधन्वसु। समुद्रो बालुकापूर्ण उज्जालक इति स्मृतः॥ बहुयोजनविस्तीर्णो बहुयोजनमायतः। तत्र रौद्रो दानवेन्द्रो महावीर्यपराक्रमः॥ मधुकैटभयोः पुत्रो धुन्धुर्नाम सुदारुणः। अन्तर्भूमिगतो राजन् वसत्यमितविक्रमः॥ तं निहत्य महाराज वनं त्वं गन्तुमर्हसि। शेते लोकविनाशाय तप आस्थाय दारुणम्॥ त्रिदशानां विनाशाय लोकानां चापि पार्थिव। अवध्यो दैवतानां हि दैत्यानामथ रक्षसाम्॥ नागानामथ यक्षाणां गन्धर्वाणां च सर्वशः। अवाप्य स वरं राजन् सर्वलोकपितामहात्॥ तं विनाशय भद्रं ते मा ते बुद्धिरतोऽन्यथा। प्राप्स्यसे महतीं कीर्ति शाश्वतीमव्ययां ध्रुवाम्॥ क्रूरस्य तस्य स्वपतो बालुकान्तर्हितस्य च। संवत्सरस्य पर्यन्ते निःश्वासः सम्प्रवर्तते।॥ यदा तदा भूश्चलति सशैलवनकानना। तस्य निःश्वासवातेन रज उद्भूयते महत्॥ आदित्यपथमाश्रित्य सप्ताहं भूमिकम्पनम्। सविस्फुलिङ्गं सज्वालं धूममिश्रं सुदारुणम्॥ तेन राजन् न शक्नोमि तस्मिन् स्थातुं स्व आश्रमे तं विनाशय राजेन्द्र लोकानां हितकाम्यया॥ लोकाः स्वस्था भविष्यन्ति तस्मिन् विनिहतेऽसुरे त्वं हि तस्य विनाशाय पर्याप्त इति मे मतिः॥ तेजसा तव तेजश्च विष्णुराप्याययिष्यति। विष्णुना च वरो दत्तः पूर्वं मम महीपते॥ यस्तं महासुरं रौद्रं वधिष्यति महीपतिः। तेजस्तं वैष्णवमिति प्रवेक्ष्यति दुरासदम्॥ तत् तेजस्त्वं समाधाय राजेन्द्र भुवि दुःसहम्। तं निषूदय राजेन्द्र दैत्यं रौद्रपराक्रमम्॥ न हि धुन्धुर्महातेजास्तेजसाल्पेन शक्यते। निर्दग्धुं पृथिवीपाल स हि वर्षशतैरपि॥ मार्कण्डेय उवाच स एवमुक्तो राजर्षिरुत्तङ्केनापराजितः। उत्तवं कौरवश्रेष्ठ कृताञ्जलिरथाब्रवीत्॥ न तेऽभिगमनं ब्रह्मन् मोघमेतद् भविष्यति। पुत्रो ममायं भगवन् कुवलाश्व इति स्मृतः॥ धृतिमान् क्षिप्रकारी च वीर्येणाप्रतिमो भुवि। प्रियं च ते सर्वमेतत् करिष्यति न संशयः॥ पुत्रैः परिवृतः सर्वैः शूरैः परिघबाहुभिः। विसर्जयस्व मां ब्रह्मन् न्यस्तशस्त्रोऽस्मि साम्प्रतम्॥ तथास्त्विति च तेनोक्तो मुनिनामिततेजसा। स तमादिश्य तनयमुत्तङ्काय महात्मने॥ क्रियतामिति राजर्षिर्जगाम वनमुत्तमम्। युधिष्ठिर उवाच क एष भगवन् दैत्यो महावीर्यस्तपोधन॥ कस्य पुत्रोऽथ नप्ता वा एतदिच्छामि वेदितुम्। एवं महाबलो दैत्यो न श्रुतो मे तपोधन॥ एतदिच्छामि भगवन् याथातथ्येन वेदितुम्। सर्वमेव महाप्राज्ञ विस्तरेण तपोधन॥ मार्कण्डेय उवाच शृणु राजन्निदं सर्वं यथावृत्तं नराधिप। कथ्यमानं महाप्राज्ञ विस्तरेण यथातथम्॥ एकार्णवे तदा लोके नष्टे स्थावरजङ्गमे। प्रणष्टेषु च भूतेषु सर्वेषु भरतर्षभ॥ प्रभवं लोककर्तारं विष्णुं शाश्वतमव्ययम्। यमाहुर्मुनयः सिद्धाः सर्वलोकमहेश्वरम्॥ सुष्वाप भगवान् विष्णुरप्सु योगत एव सः। नागस्य भोगे महति शेषस्यामिततेजसः॥ लोककर्ता महाभाग भगवानच्युतो हरिः। नागभोगेन महता परिरभ्य महीमिमाम्॥ स्वपतस्तस्य देवस्य पद्मं सूर्यसमप्रभम्। नाभ्यां विनिःसृतं दिव्यं तत्रोत्पन्नः पितामहः॥ साक्षाल्लोकगुरुर्ब्रह्मा पद्मे सूर्यसमप्रभः। चतुर्वेदश्चतुर्मूर्तिस्तथैव च चतुर्मुखः॥ स्वप्रभावाद् दुराधर्षो महाबलपराक्रमः। कस्यचित् त्वथ कालस्य दानवौ वीर्यवत्तमौ॥ मधुश्च कैटभश्चैव दृष्टवन्तौ हरिं प्रभुम्। शयानं शयने दिव्ये नागभोगे महाद्युतिम्॥ बहुयोजनविस्तीर्णे बहुयोजनमायते। किरीटकौस्तुभधरं पीतकौशेयवाससम्॥ दीप्यमानं श्रिया राजंस्तेजसा वपुषा तथा। सहस्रसूर्यप्रतिममद्भुतोपमदर्शनम्॥ विस्मयः सुमहानासीन्मधुकैटभयोस्तथा। दृष्ट्वा पितामहं चापि पद्म पद्मनिभेक्षणम्॥ वित्रासयेतामथ तौ ब्रह्माणममितौजसम्। वित्रस्यमानो बहुशो ब्रह्मा ताभ्यां महायशाः॥ अकम्पयत् पद्मनालं ततोऽबुध्यत केशवः। अथापश्यत गोविन्दो दानवौ वीर्यवत्तरौ॥ दृष्ट्वा तावब्रवीद् देवः स्वागतं वां महाबलौ। ददामि वां वरं श्रेष्ठं प्रीतिमर्हि मम जायते॥ तौ प्रहस्य हृषीकेशं महादौ महाबलौ। प्रत्यबूतां महाराज सहितौ मधुसूदनम्॥ आवां वरय देव त्वं वरदौ स्वः सुरोत्तम। दातारौ स्वो वरं तुभ्यं तद् ब्रवीह्यविचारयन्॥ श्रीभगवानुवाच प्रतिगृहणे वरं वीरावीप्सितश्च वरो मम। युवां हि वीर्यसम्पन्नौ न वामस्ति समः पुमान्॥ वध्यत्वमुपगच्छेतां मम सत्यपराक्रमौ। एतदिच्छाम्यहं कामं प्राप्तुं लोकहिताय वै॥ मधुकैटभावूचतुः अनृतं नोक्तपूर्वं नौ स्वैरेष्वपि कुतोऽन्यथा। सत्ये धर्मे च निरतौ विद्ध्यावां पुरुषोत्तम॥ बले रूपे च शौर्ये च न शमे च समोऽस्ति नौ। धर्मे तपसि दाने च शीलसत्त्वदमेषु च॥ उपप्लवो महानस्मानुपावर्तत केशव। उक्तं प्रतिकुरुष्व त्वं कालो हि दुरतिक्रमः॥ आवामिच्छावहे देव कृतमेकं त्वया विभो। अनावृतेऽस्मिन्नाकाशे वधं सुरवरोत्तम॥ पुत्रत्वमधिगच्छाव तव चापि सुलोचन। वर एष वृतो देव तद् विद्धि सुरसत्तम॥ अनृतं मा भवेद् देव यद्धि नौ संश्रुतं तदा। श्रीभगवानुवाच बाढमेवं करिष्यामि सर्वमेतद् भविष्यति॥ स विचिन्त्याथ गोविन्दो नापश्यद् यदनावृतम्। अवकाशं पृथिव्यां वा दिवि वा मधुसूदनः॥ स्वकावनावृतावूरू दृष्ट्वा देववरस्तदा। मधुकैटभयो राजन् शिरसी मधुसूदनः। चक्रेण शितधारेण न्यकृन्तत महायशाः॥ मार्कण्डेय उवाच धुन्धुर्नाम महाराज तयोः पुत्रो महाद्युतिः। स तपोऽतप्यत महन्महावीर्यपराक्रमः॥ अतिष्ठदेकपादेन कृशो धमनिसंततः। तस्मै ब्रह्मा ददौ प्रीतो वरं वव्रे स च प्रभुम्॥ देवदानवयक्षाणां सर्पगन्धर्वरक्षसाम्। अवध्योऽहं भवेयं च वर एष वृतो मया।॥ एवं भवतु गच्छेति तमुवाच पितामहः। स एवमुक्तस्तत्पादौ मूर्धा स्पृश्य जगाम ह॥ स तु धुन्धुर्वरं लब्वा महावीर्यपराक्रमः। अनुस्मरन् पितृवधं दुतं विष्णुमुपागमत्॥ स तु देवान् सगन्धर्वान् जित्वा धुन्धुरमर्षणः। बबाध सर्वानसकृद् विष्णुं देवांश्च वै भृशम्॥ समुद्रे बालुकापूर्णे उज्जालक इति स्मृते। आगम्य च स दुष्टात्मा तं देशं भरतर्षभ।॥ बाधते स्म परं शक्त्या तमुत्तकाश्रमं विभो। अन्तर्भूमिगतस्तत्र बालुकान्तर्हितस्तथा॥ मधुकैटभयोः पुत्रो धुन्धुर्भीमपराक्रमः। शेते लोकविनाशाय तपोबलमुपाश्रितः॥ उत्तङ्कस्याश्रमाभ्याशे निःश्वसन् पावकार्चिषः। एतस्मिन्नेव काले तु राजा सबलवाहनः॥ उत्तङ्कविप्रसहितः : कुवलाश्वो महीपतिः। पुत्रैः सह महीपालः प्रययौ भरतर्षभ॥ सहस्ररेकविंशत्या पुत्राणामरिमर्दनः। कुवलाश्वो नरपतिरन्वितो बलशालिनाम्॥ तमाविशत् ततो विष्णुर्भगवांस्तेजसा प्रभुः। उत्तङ्कस्य नियोगेन लोकानां हितकाम्यया।॥ तस्मिन् प्रयाते दुर्धर्षे दिवि शब्दो महानभूत्। एष श्रीमानवध्योऽद्य धुन्धुमारो भविष्यति॥ दिव्यैश्च पुष्पैस्तं देवाः समन्तात् पर्यवारयन्। देवदुन्दुभयश्चापि नेदुः स्वयमनीरिताः॥ शीतश्च वायुः प्रववौ प्रयाणे तस्य धीमतः। विपांसुलां महीं कुर्वन् ववर्ष च सुरेश्वरः॥ अन्तरिक्षे विमानादि देवतानां युधिष्ठिर। तत्रैव समदृश्यन्त धुन्धुर्यत्र महासुरः॥ कुवलाश्वस्य धुन्धोश्च युद्धकौतूहलान्विताः। देवगन्धर्वसहिताः समवैक्षन् महर्षयः॥ नारायणेन कौरव्य तेजसाऽऽप्यायितस्तदा। स गतो नृपतिः क्षिप्रं पुत्रैस्तैः सर्वतो दिशम्॥ अर्णवं खानयामास कुवलाश्वो महीपतिः। कुवलाश्वस्य पुत्रैश्च तस्मिन् वै बालुकार्णवे॥ सप्तभिर्दिवसैः खात्वा दृष्टो धुन्धुर्महाबलः। आसीद् घोरं वपुस्तस्य बालुकान्तर्हितं महत्॥ दीप्यमानं यथा सूर्यस्तेजसा भरतर्षभ। ततो धुन्धुर्महाराज दिशमावृत्य पश्चिमाम्॥ सुप्तोऽभूद् राजशार्दूल कालानलसमद्युतिः। कुवलाश्वस्य पुत्रैस्तु सर्वतः परिवारितः॥ अभिद्रुतः शरैस्तीक्ष्णैर्गदाभिर्मुसलैरपि। पट्टिशैः परियैः प्रासैः खङ्गैच विमलैः शितैः॥ स वध्यमानः संक्रुद्धः समुत्तस्थौ महाबलः। क्रुद्धश्चाभक्षयत् तेषां शस्त्राणि विविधानि च।॥ आस्याद् वमन् पावकं स संवर्तकसम तदा। तान् सर्वान् नृपतेः पुत्रानदहत् स्वेन तेजसा॥ मुखजेनाग्निना क्रुद्धो लोकानुद्वर्तयन्निव। क्षणेन राजशार्दूल पुरेव कपिलः प्रभुः॥ सगरस्यात्मजान् क्रुद्धस्तदद्भुतमिवाभवत्। तेषु क्रोधाग्निदग्धेषु तदा भरतसत्तम॥ तं प्रबुद्धं महात्मानं कुम्भकर्णमिवापरम्। आससाद महातेजाः कुवलाश्वो महीपतिः॥ तस्य वारि महाराज सुस्राव बहु देहतः। तदापीय ततस्तेजो राजा वारिमयं नृप॥ योगी योगेन वछि च शमयामास वारिणा। ब्रह्मास्त्रेण च राजेन्द्र दैत्यं क्रूरपराक्रमम्॥ ददाह भरतश्रेष्ठ सर्वलोकभवाय वै। सोऽस्त्रेण दग्ध्वा राजर्षिः कुवलाश्वो महासुरम्॥ सुरशत्रुममित्रघ्नं त्रैलोक्येश इवापरः। धुन्धोर्वधात् तदा राजा कुवलाश्वो महामनाः॥ धुन्धुमार इति ख्यातो नाम्नाप्रतिरथोऽभवत्। प्रीतैश्च त्रिदशैः सर्वैमहर्षिसहितैस्तदा॥ वरं वृणीष्वेत्युक्तः स प्राञ्जलिः प्रणतस्तदा। अतीव मुदितो राजन्निदं वचनमब्रवीत्॥ दद्यां वित्तं द्विजावयेभ्यः शत्रूणां चापि दुर्जयः। सख्यं च विष्णुना मे स्याद् भूतेष्वद्रोह एव च॥ धर्मे रतिश्च सततं स्वर्गे वासस्तथाक्षयः। तथास्त्विति ततो देवैः प्रीतैरुक्तः स पार्थिवः॥ ऋषिभिश्च सगन्धर्वैरुक्तङ्केन च धीमता। सम्भाष्य चैनं विविधैराशीर्वादैस्ततो नृप॥ देवा महर्षयश्चापि स्वानि स्थानानि भेजिरे। तस्य पुत्रास्त्रयः शिष्टा युधिष्ठिर तदाभवन्॥ दृढाश्वः कपिलाश्वश्च चन्द्राश्वश्चैव भारत। तेभ्यः परम्परा राजनिक्ष्वाकूणां महात्मनाम्॥ वंशस्य सुमहाभाग राज्ञाममिततेजसाम्। एवं स निहतस्तेन कुवलाश्वेन सत्तम॥ धुन्धुर्नाम महादैत्यो मधुकैटभयोः सुतः। कुवलाश्वश्च नृपतिधुन्धुमार इति स्मृतः॥ नाम्ना च गुणसंयुक्तस्तदाप्रभृति सोऽभवत्। एतत् ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि॥ धौन्धुमारमुपाख्यानं प्रथितं यस्य कर्मणा। इदं तु पुण्यमाख्यानं विष्णो:समनुकीर्तनम्॥ शृणुयाद् यः स धर्मात्मा पुत्रवांश्च भवेन्नरः। आयुष्मान् भूतिमांश्चैव श्रुत्वा भवति पर्वसु। न च व्याधिभयं किंचित् प्राप्नोति विगतज्वरः॥ वैशम्पायन उवाच ततो युधिष्ठिरो राजा मार्कण्डेयं महाद्युतिम्। पप्रच्छ भरतश्रेष्ठ धर्मप्रश्नं सुदुर्विदम्॥ श्रोतुमिच्छामि भगवन् स्त्रीणां माहात्म्यमुत्तमम्। कथ्यमानं त्वया विप्र सूक्ष्मं धर्म्यं च तत्त्वतः॥ प्रत्यक्षमिह विप्रर्षे देवा दृश्यन्ति सत्तम। सूर्याचन्द्रमसौ वायुः पृथिवी वह्निरेव च॥ पिता माता च भगवन् गुरुरेव च सत्तम्। यच्चान्यद् देवविहितं तच्चापि भृगुनन्दन॥ मान्या हि गुरवः सर्वे एकपत्न्यस्तथा स्त्रियः। पतिव्रतानां शुश्रूषा दुष्करा प्रतिभाति मे॥ पतिव्रतानां माहात्म्यं वक्तुमर्हसि नः प्रभो। निरुद्ध्य चेन्द्रियग्रामं मनः संरुध्य चानघ॥ पतिं दैवतवच्चापि चिन्तयन्त्यः स्थिता हि याः। भगवन् दुष्करं त्वेतत् प्रतिभाति मम प्रभो॥ मातापित्रोश्च शुश्रूषा स्त्रीणां भर्तरि च द्विजा स्त्रीणां धर्मात् सुघोराद्धि नान्यं पश्यामि दुष्करम्॥ साध्वाचाराः स्त्रियो ब्रह्मन् यत् कुर्वन्ति सदाऽऽदृताः। दुष्करं खलु कुर्वन्ति पितरं मातरं च वै॥ एकपल्यश्च या नार्यो याश्च सत्यं वदन्त्युत। कुक्षिणा दश मासांश्च गर्भं संधारयन्ति याः॥ नार्यः कालेन सम्भूय किमद्भुततरं ततः। संशयं परमं प्राप्य वेदनामतुलामपि॥ प्रजायन्ते सुतान् नार्यो दुःखेन महता विभो। पुष्णन्ति चापि महता स्नेहेन द्विजपुङ्गव॥ याश्च क्रूरेषु सत्त्वेषु वर्तमाना जुगुप्सिताः। स्वकर्म कुर्वन्ति सदा दुष्करं तच्च मे मतम्॥ क्षत्रधर्मसमाचारतत्त्वं व्याख्याहि मे द्विज। धर्मः सुदुर्लभो विप्र नृशंसेन महात्मनाम्॥ एतदिच्छामि भगवन् प्रश्नं प्रश्नविदां वर। श्रोतुं भृगुकुलश्रेष्ठ शुश्रूषे तव सुव्रत॥ मार्कण्डेय उवाच हन्त तेऽहं समाख्यास्ये प्रश्नमेतं सुदुर्वचम्। तत्त्वेन भरतश्रेष्ठ गदतस्तन्निबोध मे॥ मातृस्तु गौरवादन्ये पितृनन्ये तु मेनिरे। दुष्करं कुरुते माता विवर्धयति या प्रजाः॥ तपसा देवतेज्याभिवन्दनेन तितिक्षया। सुप्रशस्तैरुपायैश्चापीहन्ते पितरः सुतान्॥ एवं कृच्छ्रेण महता पुत्र प्राप्य सुदुर्लभम्। चिन्तयन्ति सदा वीर कीदृशोऽयं भविष्यति॥ आशंसते हि पुत्रेषु पिता माता च भारत। यशः कीर्तिमथैश्वर्यं प्रजा धर्मं तथैव च॥ तयोराशां तु सफलां यः करोति स धर्मवित्। पिता माता च राजेन्द्र तुष्यतो यस्य नित्यशः॥ इह प्रेत्य च तस्याथ कीर्तिर्धर्मश्च शाश्वतः। नैव यज्ञक्रियाः काश्चिन्न श्राद्धं नोपवासकम्॥ या तु भर्तरि शुश्रूषा तया सवर्गं जयत्युता। एतत् प्रकरणं राजन्नधिकृत्य युधिष्ठिर॥ पतिव्रतानां नियतं धर्मं चावहितः शृणु॥ मार्कण्डेय उवाच कश्चिद् द्विजातिप्रवरो वेदाध्यायी तपोधनः। तपस्वी धर्मशीलश्च कौशिको नाम भारत॥ साङ्गोपनिषदो वेदानधीते द्विजसत्तमः। स वृक्षमूले कस्मिंश्चिद् वेदानुच्चारयन् स्थितः॥ उपरिष्टाच्च वृक्षस्य बलाका संन्यलीयत। तया पुरीषमुत्सृष्टं ब्राह्मणस्य तदोप॥ि३॥ तामवेक्ष्य ततः क्रुद्धः समपध्यायत द्विजः। भृशं क्रोधाभिभूतेन बलाका सा निरीक्षिता॥ अपध्याता च विप्रेण न्यपतद् धरणीतले। बलाकां पतितां दृष्ट्वा गतसत्त्वामचेतनाम्॥ कारुण्यादभिसंतप्तः पर्यशोचत तां द्विजः। अकार्यं कृतवानस्मि रोषरागबलात्कृतः॥ मार्कण्डेय उवाच इत्युक्त्वा बहुशो विद्वान् चामं भक्ष्याय संश्रितः। चामे शुचीनि प्रचरन् कुलानि भरतर्षभ॥ प्रविष्टस्तत् कुलं यत्र पूर्वं चरितवांस्तु सः। देहीति याचमानोऽसौ तिष्ठेत्युक्तः स्त्रिया ततः॥ शौचं तु यावत् कुरुते भाजनस्य कुटुम्बिनी। एतस्मिन्नन्तरे राजन् क्षुधासम्पीडितो भृशम्॥ भर्ता प्रविष्टः सहसा तस्या भरतसत्तम। सा तु दृष्ट्वा पतिं साध्वी ब्राह्मणं व्यवहाय तम्॥ पाद्यमाचमनीयं वै ददौ भर्तुस्तथाऽऽसनम्। प्रह्वा पर्यचरच्चापि भर्तारमसितेक्षणा॥ आहारेणाथ भक्ष्यैश्च भोज्यैः सुमधुरैस्तथा। उच्छिष्टं भाविता भर्तुर्भुङ्क्ते नित्यं युधिष्ठिर॥ दैवतं च पति मेने भर्तुश्चित्तानुसारिणी। कर्मणा मनसा वाचा नान्यचित्ताभ्यगात् पतिम्॥ तं सर्वभावोपगता पतिशुश्रूषणे रता। साध्वाचारा सुचिर्दक्षा कुटुम्बस्य हितैषिणी॥ भर्तुश्चापि हितं यत् तत् सततं सानुवर्तते। देवतातिथिभृत्यानां श्वश्रूश्वशुरयोस्तथा॥ शुश्रूषणपरा नित्यं सततं संयतेन्द्रिया। सा ब्राह्मणं तदा दृष्ट्वा संस्थितं भैक्ष्यकाक्षिणम्। कुर्वती पतिशुश्रूषां सस्माराथ शुभेक्षणा॥ वीडिता साभवत् साध्वी तदा भरतसत्तम। भिक्षामादाय विप्राय निर्जगाम यशस्विनी॥ ब्राह्मण उवाच किमिदं भवति त्वं मां तिष्ठेत्युक्त्वा वराङ्गने। उपरोधं कृतवती न विसर्जितवत्यसि॥ मार्कण्डेय उवाच ब्राह्मणं क्रोधसंतप्तं ज्वलन्तमिव तेजसा। दृष्ट्वा साध्वी मनुष्येन्द्र सान्त्वपूर्वं वचोऽब्रवीत्॥ स्त्र्युवाच क्षन्तुमर्हसि मे विद्वन् भर्ता मे दैवतं महत्। स चाप क्षुधितः श्रान्तः प्राप्तः शुश्रूषितो मया॥ ब्राह्मण उवाच ब्राह्मणा न गरीयांसो गरीयांस्ते पतिः कृतः। गृहस्थधर्मे वर्तन्ती ब्राह्मणानवमन्यसे॥ इन्द्रोऽप्येषां प्रणमते किं पुनर्मानवो भुवि। अवलिप्ते न जानीषे वृद्धानां न श्रुतं त्वया॥ ब्राह्मणा ह्यग्निसदृशा दहेयुः पृथिवीमपि। स्त्र्युवाच नाहं बलाका विप्रर्षे त्यज क्रोधं तपोधन॥ अनया क्रुद्धया दृष्ट्या क्रुद्धः किं मां करिष्यसि। नावजानाम्यहं विप्रान् देवैस्तुल्यान् मनस्विनः॥ अपराधमिमं विप्र क्षन्तुमर्हसि मेऽनघ। जानामि तेजो विप्राणां महाभाग्यं च धीमताम्॥ अपेयः सागरः क्रोधात् कृतो हि लवणोदकः। तथैव दीप्ततपसां मुनीनां भावितात्मनाम्॥ येषां क्रोधाग्निरद्यापि दण्डके नोपशाम्यति। ब्राह्मणानां परिभवाद् वातापिः सुदुरात्मवान्॥ अगस्त्यमृषिमासाद्य जीर्णः क्रूरो महासुरः। बहुप्रभावाः श्रूयन्ते ब्राह्मणानां महात्मनाम्॥ क्रोधः सुविपुलो ब्रह्मन् प्रसादश्च महात्मनाम्। अस्मिंस्त्वतिक्रमे ब्रह्मन् क्षन्तुमर्हसि मेऽनघ॥ पतिशुश्रूषया धर्मो य: स मे रोचते द्विज। दैवतेष्वपि सर्वेषु भर्ता मे दैवतं परम्॥ अविशेषेण तस्याहं कुर्यां धर्मं द्विजोत्तम्। शुश्रूषायाः फलं पश्य यत्युाह्मण यादृशम्॥ बलाका हि त्वया दग्धा रोषात् तद् विदितं मया क्रोधः शत्रुः शरीरस्थो मनुष्याणां द्विजोत्तम॥ यः क्रोधमोहौ त्यजति तं देवा ब्राह्मणं विदुः। यो वदेदिह सत्यानि गुरुं संतोषयेत च॥ हिंसितश्च न हिंसेत तं देवा ब्राह्मणं विदुः। जितेन्द्रियो धर्मपरः स्वाध्यायनिरतः शुचिः॥ कामक्रोधौ वशौ यस्य तं देवा ब्राह्मणं विदुः। यस्य चात्मसमो लोको धर्मज्ञस्य मनस्विनः॥ सर्वधर्मेषु च रतस्तं देवा ब्राह्मणं विदुः। योऽध्यापयेदधीयीत यजेद् वा याजयीत वा॥ दद्याद् वापि यथाशक्ति तं देवा ब्राह्मणं विदुः। ब्रह्मचारी वदान्यो योऽधीयीत् द्विजपुङ्गवः॥ स्वाध्यायवानमत्तो वै तं देवा ब्राह्मणं विदुः। यद् ब्राह्मणानां कुशलं तदेषां परिकीर्तयेत्॥ सत्यं तथा व्याहरतां नानृते रमते मनः। धर्म तु ब्राह्मणस्याहुः स्वाध्यायं दममार्जवम्॥ इन्द्रियाणां निग्रहं च शाश्वतं द्विजसत्तम। सत्यार्जवे धर्ममाहुः परं धर्मविदो जनाः॥ दुर्जेयः शाश्वतो धर्मः स च सत्ये प्रतिष्ठितः। श्रुतिप्रमाणो धर्मः स्यादिति वृद्धानुशासनम्॥ बहुधा दृश्यते धर्मः सूक्ष्म एव द्विजोत्तम। भवानपि च धर्मज्ञः स्वाध्यायनिरतः शुचिः॥ न तु तत्त्वेन भगवन् धर्मं वेत्सीति मे मतिः। यदि विप्र न जानीघे धर्मं परमकं द्विज॥ धर्मव्याधं ततः पृच्छ गत्वा तु मिथिलां पुरीम्। मातापितृभ्यां शुश्रूषुः सत्यवादी जितेन्द्रियः॥ मिथिलायां वसेद् व्याधः स ते धर्मान् प्रवक्ष्यति। तत्र गच्छस्व भद्रं ते यथाकामं द्विजोत्तम॥ अत्युक्तमपि मे सर्वं क्षन्तुमर्हस्यानिन्दित। स्त्रियो ह्यवध्याः सर्वेषां ये च धर्मविदो जनाः॥ ब्राह्मणं उवाच प्रीतोऽस्मि तव भद्रं ते गतः क्रोधश्च शोभने। उपालम्भस्त्वयात्युक्तो मम निःश्रेयसं परम्। स्वस्ति तेऽस्तु गमिष्यामि साधयिष्यामि शोभने।॥ मार्कण्डेय उवाच तया विसृष्टो निर्गम्य स्वमेव भवनं ययौ। विनिन्दन् स स्वमात्मानं कौशिको द्विजसत्तमः॥ मार्कण्डेय उवाच स तु विप्रमथोवाच धर्मव्याधो युधिष्ठिर। यदहमाचरे कर्म घोरमेतदसंशयम्॥ विधिस्तु बलवान् ब्रह्मन् दुस्तरं हि पुरा कृतम्। पुरा कृतस्य पापस्य कर्मदोषो भवत्ययम्॥ दोषस्यैतस्य वै ब्रह्मन् विघाते यत्नवानहम्। विधिना हि हते पूर्वं निमित्तं घातको भवेत्॥ निमित्तभूता हि वयं कर्मणोऽस्य द्विजोत्तम। येषां हतानां मांसानि विक्रीणामीह वै द्विज॥ तेषामपि भवेद् धर्म उपयोगे न भक्षणे। देवतातिथिभृत्यानां पितृणां चापि पूजनम्॥ ओषध्यो वीस्थश्चैव पशवो मृगपक्षिणः। अनादिभूता भूतानामित्यपि श्रूयते श्रुतिः॥ आत्ममांसप्रसादेन शिबिरौशीनरो नृपः। स्वर्ग सुदुर्गमं प्राप्तः क्षमावान् द्विजसत्तम॥ स्वधर्म इति कृत्वा तु न त्यजामि द्विजोत्तम। पुरा कृतमिति ज्ञात्वा जीवाम्येतेन कर्मणा॥ स्वकर्म त्यजतो ब्रह्मन्नधर्म इह दृश्यते। स्वकर्मनिरतो यस्तु धर्मः स इति निश्चयः॥ पूर्वं हि विहितं कर्म देहिनं न विमुञ्चति। धात्रा विधिरयं दृष्टो बहुधा कर्मनिर्णये॥ द्रष्टव्या तु भवेत् प्रज्ञा क्रूरे कर्मणि वर्तता। कथं कर्म शुभं कुर्यां कथं मुच्ये पराभवात्॥ कर्मणस्तस्य घोरस्य बहुधा निर्णयो भवेत्। दाने च सत्यवाक्ये च गुरुशुश्रूषणे तथा॥ द्विजातिपूजने चाहं धर्मे च निरतः सदा। अभिमानातिवादाभ्यां निवृत्तोऽस्मि द्विजोत्तम॥ कृषि साध्विति मन्यन्ते तत्र हिंसा परा स्मृता। कर्षन्तो लाइलैः पुंसोध्नन्ति भूमिशयान् बहून्। जीवानन्यांश्च बहुशस्तत्र किं प्रतिभाति ते॥ धान्यबीजानि यान्याहुज्ह्यादीनि द्विजोत्तम। सर्वाण्येतानि जीवानि तत्र किं प्रतिभाति ते॥ अध्याक्रम्य पशूश्चापि नन्ति वै भक्षयन्ति च। वृक्षांस्तथौषधीश्चापि छिन्दन्ति पुरुषा द्विज॥ जीवा हि बहवो ब्रह्मन् वृक्षेषु च फलेषु च। उदके बहवश्चापि तत्र किं प्रतिभाति ते॥ सर्वं व्याप्तमिदं ब्रह्मन् प्राणिभिः प्राणिजीवनैः। मत्स्यान् चसन्ते मत्स्याश्च तत्र किं प्रतिभाति ते॥ सत्त्वैः सत्त्वानि जीवन्ति बहुधा द्विजसत्तम। प्राणिनोऽन्योन्यभक्षाश्च तत्र किं प्रतिभाति ते॥ चक्रम्यमाणा जीवांश्च धरणीसंश्रितान् बहून्। पद्भ्यां नन्ति नरा विप्र तत्र किं प्रतिभाति ते॥ उपविष्टाः शयानाश्च मन्ति जीवाननेकशः। ज्ञानविज्ञानवन्तश्च तत्र किं प्रतिभाति ते॥ जीदैर्चस्तमिदं सर्वमाकाशं पृथिवी तथा। अविज्ञानाच्च हिंसन्ति तत्र किं प्रतिभाति ते॥ अहिंसेति यदुक्तं हि पुरुषैर्विस्मितैः पुरा। के न हिंसन्ति जीवान् वैलोकेऽस्मिन् द्विजसत्तम बहु संचित्य इति वै नास्ति कश्चिदहिंसकः॥ अहिंसायां तु निरता यतयो द्विजसत्तम। कुर्वन्त्येव हि हिंसां ते यत्नादल्पतरा भवेत्॥ आलक्ष्याश्चैव पुरुषाः कुले जाता महागुणाः। महाघोराणि कर्माणि कृत्वा लज्जन्ति वै द्विज॥ सुहृदः सुहृदोऽन्यांश्च दुर्हदश्चापि दुहृदः। सम्यक प्रवृत्तान् पुरुषान् न सम्यगनुपश्यतः॥ समृद्धैश्च न नन्दन्ति बान्धवा बान्धवैरपि। गुरूंश्चैव विनिन्दन्ति मूढाः पण्डितमानिनः॥ बहु लोके विपर्यस्तं दृश्यते द्विजसत्तम। धर्मयुक्तमधर्मं च तत्र किं प्रतिभाति ते॥ वक्तुं बहुविधं शक्यं धर्माधर्मेषु कर्मसु। स्वकर्मनिरतो यो ह स यशः प्राप्नुयान्महत्॥ मार्कण्डेय उवाच धर्मव्याधस्तु निपुणं पुनरेव युधिष्ठिर। विप्रर्षभमुवाचेदं सर्वधर्मभृतां वर॥ व्याध उवाच श्रुतिप्रमाणो धर्मोऽयमिति वृद्धानुशासनम्। सूक्ष्मा गतिर्हि धर्मस्य बहुशाखा ह्यनन्तिका॥ प्राणान्तिके विवाहे च वक्तव्यमनृतं भवेत्। अनृतेन भवेत् सत्यं सत्येनैवानृतं भवेत्॥ यद् भूतहितमत्यन्तं तत् सत्यमिति धारणा। विपर्ययकृतोऽधर्मः पश्य धर्मस्य सूक्ष्मताम्॥ यत् करोत्यशुभं कर्म शुभं वा यदि सत्तम। अवश्यं तत् समाप्नोति पुरुषो नात्र संशयः॥ विषमां च दशां प्राप्तो देवान् गर्हति वै भृशम्। आत्मनः कर्मदोषाणि न विजानात्यपण्डितः॥ मूढो नैकृतिकश्चापि चपलश्च द्विजोत्तम। सुखदुःखविपर्यासान् सदा समुपपद्यते॥ नैनं प्रज्ञा सुनीतं वा त्रायते नैव पौरुषम्। योऽयमिच्छेद् यथा कामं तं तं कामं स आप्नुयात्।८॥ यदि स्यादपराधीनं पौरुषस्य क्रियाफलम्। संयताश्चापि दक्षाश्च मतिमन्तश्च मानवाः॥ दृश्यन्ते निष्फलाः सन्तः प्रहीणाः सर्वकर्मभिः। भूतानामयरः कश्चिद्धिंसायां सततोत्थितः॥ वञ्चनायां च लोकस्य स सुखी जीवते सदा। अचेष्टमपि चासीनं श्री: कंचिदुपतिष्ठति॥ कश्चित् कर्माणि कुर्वन् हि न प्राप्यमधिगच्छति। देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृद्धिभिः॥ दशमासधृता गर्भे जायन्ते कुलपांसनाः। अपरे धनधान्यैश्च भोगैश्च पितृसंचितैः॥ विपुलैरभिजायन्ते लब्धास्तैरेव मङ्गलैः। कर्मजा हि मनुष्याणां रोगा नास्त्यत्र संशयः॥ आधिभिश्चैव बाध्यन्ते व्याधैः क्षुद्रमृगा इव। ते चापि कुशलैवैद्यैर्निपुणैः सम्भृतौषधैः॥ व्याधयो विनिवार्यन्ते मृगा व्याधैरिव द्विज। येषामस्ति च भोक्तव्यं ग्रहणीदोषपीडिताः॥ न शक्नुवन्ति ते भोक्तुं पश्य धर्मभृतां वर। अपरे बाहुबलिन: क्लिश्यन्ते बहवो जनाः॥ दुःखेन चाधिगच्छन्ति भोजनं द्विजसत्तम। इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम्॥ स्रोतसासकृदाक्षिप्तं ह्रियमाणं बलीयसा। न प्रियेयुर्न जीर्येयुः सर्वे स्युः सार्वकामिकाः॥ नाप्रियं प्रतिपश्येयुर्वशित्वं यदि वै भवेत्। उपर्युपरि लोकस्य सर्वो गन्तुं समीहते। यतते च यथाशक्ति न च तद् वर्तते तथा॥ बहवः सम्प्रदृश्यन्ते तुल्यनक्षत्रमङ्गलाः। महच्च फलवैषम्यं दृश्यते कर्मसंधिषु॥ न केचिदीशते ब्रह्मन् स्वयंचाह्यस्य सत्तम। कर्मणां प्राक् कृतानां वै इह सिद्धिः प्रदृश्यते॥ यथाश्रुतिरियं ब्रह्मन् जीवः किल सनातनः। शरीरमध्रुवं लोके सर्वेषां प्राणिनामिह॥ वध्यमाने शरीरे तु देहनाशो भवत्युत। जीवः सङ्क्रमतेऽन्यत्र कर्मबन्धनिबन्धनः॥ ब्राह्मण उवाच कथं धर्मविदां श्रेष्ठ जीवो भवति शाश्वतः। एतदिच्छाम्यहं ज्ञातुं तत्त्वेन वदतां वर॥ व्याध उवाच न जीवनाशोऽस्ति हि देहभेदे मिथ्यैतदाहुर्मियते किलेति। जीवस्तु देहान्तरितः प्रयाति दशार्धतैवास्य शरीरभेदः॥ अन्यो हि नाश्नाति कृतं हि कर्म मनुष्यलोके मनुजस्य कश्चित्। यत् तेन किंचिद्धि कृतं हि कर्म तदश्नुते नास्ति कृतस्य नाशः॥ सुपुण्यशीला हि भवन्ति पुण्या नराधमाः पापकृतो भवन्ति। स्ततः समुत्पद्यति भावितस्तैः॥ ब्राह्मण उवाच कथं सम्भवते योनौ कथं वा पुण्यपापयोः। जातीः पुण्यास्त्वपुण्याश्च कथं गच्छति सत्तम॥ व्याध उवाच गर्भाधानसमायुक्तं कर्मेदं सम्प्रदृश्यते। समासेन तु ते क्षिप्रं प्रवक्ष्यामि द्विजोत्तम॥ यथा सम्भृतसम्भारः पुनरेव प्रजायते। शुभकृच्छुभयोनीषु पापकृत् पापयोनिषु॥ शुभैः प्रयोगैर्देवत्वं व्यामिश्रर्मानुषो भवेत्। मोहनीयैर्वियोनीषु त्वधोगामी च किल्बिषी॥ जातिमृत्युजरादुःखैः सततं समभिद्रुतः। संसारे पच्यमानश्च दोषैरात्मकृतैर्नरः॥ तिर्यग्योनिसहस्राणि गत्वा नरकमेव च। जीवाः सम्परिवर्तन्ते कर्मबन्धनिबन्धनाः॥ जन्तुस्तुकर्मभिस्तैस्तैः स्वकृतैः प्रेत्य दुःखितः। तदुःखप्रतिघातार्थमपुण्यां योनिमाप्नुते॥ ततः कर्म समादत्ते पुनरन्यं नवं बहु। पच्यते तु पुनस्तेन भुक्त्वापथ्यमिवातुरः॥ अजस्रमेव दुःखार्तोऽदुःखितः सुखसंज्ञितः। ततोऽनिवृत्तबन्धत्वात् कर्मणामुदयादपि॥ परिक्रामति संसारे चक्रवद् बहुवेदनः। स वृत्तबन्धस्तु विशुद्धश्चापि कर्मभिः॥ तपोयोगसमारम्भं कुरुते द्विजसत्तम। कर्मभिर्बहुभिश्चापि लोकानश्नाति मानवः॥ स चेन्निवृत्तबन्धस्तु विशुद्धश्चापि कर्मभिः। प्राप्नोति सुकृताँल्लोकान् यत्र गत्वा न शोचति॥ पापं कुर्वन् पापवृत्तः पापस्यान्तं न गच्छति। तस्मात् पुण्यं यतेत् कर्तुं वर्जयीत च पापकम्॥ अनसूयुः कृतज्ञश्च कल्याणानि च सेवते। सुखानि धर्ममर्थं च स्वर्गं च लभते नरः॥ संस्कृतस्य च दान्तस्य नियतस्य यतात्मनः। प्राज्ञस्यानन्तरा वृत्तिरिह लोके परत्र च॥ सतां धर्मेण वर्तेत क्रियां शिष्टवदाचरेत्। असंक्लेशेन लोकस्य वृत्तिं लिप्सेत वै द्विज॥ सन्ति ह्यागमविज्ञानाः शिष्टाः शास्त्रे विचक्षणाः। स्वधर्मेण क्रिया लोके कर्मणः सोऽप्यसंकरः॥ प्राज्ञो धर्मेण रमते धर्मं चैवोपजीवति। तस्माद् धर्मादवाप्तेन घनेन द्विजसत्तम॥ तस्यैव सिञ्चते मूलं गुणान् पश्यति तत्र वै। धर्मात्मा भवति ह्येवं चित्तं चास्य प्रसीदति॥ स मित्रजनसंतुष्ट इह प्रेत्य च नन्दति। शब्दं स्पर्श तथा रूपं गन्धानिष्टांश्च सत्तम॥ प्रभुत्वं लभते चापि धर्मस्यैतत् फलं विदुः। धर्मस्य च फलं लख्वा न तृप्यति महाद्विज॥ अतृप्यमाणो निर्वेदमापेदे ज्ञानचक्षुषा। प्रज्ञानक्षुर्नर इह दोषं नैवानुरुध्यते॥ विरज्यति यथाकामं न च धर्मं विमुञ्चति। सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम्॥ ततो मोक्षे प्रयतते नानुपायादुपायतः। एवं निर्वेदमादत्ते पापं कर्म जहाति च॥ धार्मिक्श्चापि भवति मोक्षं च लभते परम्। तपो निःश्रेयसं जन्तोस्तस्य मूलं शमो दमः॥ तेन सर्वानवाप्नोति कामान् यान् मनसेच्छति। इन्द्रियाणां निरोधेन सत्येन च दमेन च। ब्रह्मणः पदमाप्नोति यत् परं द्विजसत्तम।॥ ब्राह्मण उवाच इन्द्रियाणि तु यान्याहुः कानि तानि यतव्रत। निग्रहश्च कथं कार्यो निग्रहस्य च किं फलम्॥ कथं च फलमाप्नोति तेषां धर्मभृतां वर। एतदिच्छामि तत्त्वेन धर्मं ज्ञातुं निबोध मे॥ मार्कण्डेय उवाच एवमुक्तस्तु विप्रेण धमव्याधो युधिष्ठिर। प्रत्युवाच यथा विप्रं तच्छृणुष्व नराधिप॥ व्याध उवाच विज्ञानार्थं मनुष्याणां मनः पूर्वं प्रवर्तते। तत् प्राप्य कामं भजते क्रोधं च द्विजसत्तम॥ ततस्तदर्थं यतते कर्म चारभते महत्। इष्टानां रूपगन्धानामभ्यासं च निषेवते॥ ततो रागः प्रभवति द्वेषश्च तदनन्तरम्। ततो लोभः प्रभवति मोहश्च तदनन्तरम्॥ ततो लोभाभिभूतस्य रागद्वेषहतस्य च। न धर्मे जायते बुद्धिर्व्याजाद् धर्मं करोति च॥ व्याजेन चरते धर्ममर्थ व्याजेन रोचते। व्याजेन सिध्यमानेषु धनेषु द्विजसत्तम॥ तत्रैव रमते बुद्धिस्तत: पापं चिकीर्षति। सुहद्भिर्वार्यमाणश्च पण्डितैश्च द्विजोत्तम॥ उत्तरं श्रुतिसम्बद्धं ब्रवीत्यश्रुतियोजितम्। अधर्मस्त्रिविधस्तस्य वर्तते रागदोषजः॥ पापं चिन्तयते चैव ब्रवीति च करोति च। तस्याधर्मप्रवृत्तस्य गुणा नश्यन्ति साधवः॥ एकशीलैश्च मित्रत्वं भजन्ते पापकर्मिणः। स तेन दुःखमाप्नोति परत्र च विपद्यते॥ पापात्मा भवति ह्येवं धर्मलाभं तु मे तु में शृणु। यस्त्वेतान् प्रज्ञया दोषान् पूर्वमेवानुपश्यति॥ कुशलः सुखदुःखेषु साधूंश्चाप्युपसेवते। तस्य साधुसमारम्भाद् बुद्धिर्धर्मेषु राजते॥ ब्राह्मण उवाच ब्रवीषि सूनृतं धर्म्य यस्य वक्ता न विद्यते। दिव्यप्रभावः सुमहानृषिरेव मतोऽसि मे॥ व्याध उवाच ब्राह्मणा वै महाभागाः पितरोऽचभुजः सदा। तेषां सर्वात्मना कार्यं प्रियं लोके मनीषिणा॥ यत् तेषां च प्रियं तत् ते वक्ष्यामि द्विजसत्तम। नमस्कृत्वा ब्राह्मणेभ्यो ब्राह्मी विद्यां निबोध मे॥ जगत् सर्वमजय्यं चापि सर्वशः। महाभूतात्मकं ब्रह्म नातः परतरं भवेत्॥ इदं विश्वं महाभूतानि खं वायुरग्निरापस्तथा च भूः। शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तहगुणाः॥ तेषामपि गुणाः सर्वे गुणवृत्तिः परस्परम्। पूर्वपूर्वगुणाः सर्वे क्रमशो गुणिषु त्रिषु॥ षष्ठस्तु चेतना नाम मन इत्यभिधीयते। सप्तमी तु भवेद् बुद्धिरहंकारस्ततः परम्॥ इन्द्रियाणि च पञ्चात्मा रजः सत्त्वं तमस्तथा। इत्येष सप्तदशको राशिरव्यक्तसंज्ञकः॥ सर्वैरिहेन्द्रियार्थैस्तु व्यक्ताव्यक्तैः सुसंवृतः। चतुर्विंशक इत्येष व्यक्ताव्यक्तमयो गुणः। एतत् ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि॥ मार्कण्डेय उवाच एवं तु सूक्ष्मे कथिते धर्मव्याधेन भारत। ब्राह्मणः स पुनः सूक्ष्मं पप्रच्छ सुसमाहितः॥ ब्राह्मण उवाच सत्त्वस्य रजसश्चैव तमसश्च यथातथम्। गुणांस्तत्त्वेन मे ब्रूहि यथावदिह पृच्छतः॥ व्याध उवाच हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि। एषां गुणान् पृथक्त्वेन निबोध गदतो मम॥ मोहात्मकं तमस्तेषां रज एषां प्रवर्तकम्। प्रकाशबहुलत्वाच्च सत्त्वं ज्याय इहोच्यते॥ अविद्याबहुलो मूढः स्वप्नशीलो विचेतनः। दुर्हषीकस्तमोध्वस्तः सक्रोधस्तामसोऽलसः॥ प्रवृत्तवाक्यो मन्त्री च यो नरावयोऽनसूयकः। विधित्समानो विप्रर्षे स्तब्धो मानी स राजसः॥ प्रकाशबहुलो धीरो निर्विधित्सोऽनसूयकः। अक्रोधनो नरो धीमान् दान्तश्चैव स सात्त्विकः॥ सात्त्विकस्त्वथ सम्बुद्धो लोकवृत्तेन क्लिश्यते। यदा बुध्यति बोद्धव्यं लोकवृत्तं जुगुप्सते॥ वैराग्यस्य च रूपं तु पूर्वमेव प्रवर्तते। मृदुर्भवत्यहङ्कारः प्रसीदत्यार्जवं च यत्॥ ततोऽस्य सर्वद्वन्द्वानि प्रशाम्यन्ति परस्परम्। न चास्य संशयो नाम क्वचिद् भवति कश्चन॥ शूद्रयोनौ हि जातस्य सहगुणानुपतिष्ठतः। वैश्यत्वं लभते ब्रह्मन् क्षत्रियत्वं तथैव च॥ आर्जवे वर्तमानस्य ब्राह्मण्यमभिजायते। गुणास्ते कीर्तिताः सर्वे किं भूयः श्रोतुमिच्छसि॥ ब्राह्मण उवाच पार्थिव धातुमासाद्य शारीरोऽग्निः कथं भवेत्। अवकाशविशेषेण कथं वर्तयतेऽनिलः।।।। मार्कण्डेय उवाच प्रश्नमेतं समुद्दिष्टं ब्राह्मणेन युधिष्ठिर। व्याधस्तु कथयामास ब्राह्मणाय महात्मने।॥ व्याध उवाच मूर्धानमाश्रितो वह्निः शरीरं परिपालयन्। प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते॥ भूतं भव्यं भविष्यं च सर्वं प्राणे प्रतिष्ठितम्। श्रेष्ठं तदेव भूतानां ब्रह्मयोनिमुपास्महे॥ स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः। महान् बुद्धिरहङ्कारो भूतानां विषयश्च सः॥ एवं त्विह स सर्वत्र प्राणेन परिपाल्यते। पृष्ठतस्तु समानेन स्वां स्वां गतिमुपाश्रितः॥ बस्तिमूलं गुदं चैव पावकं समुपाश्रितः। वहन् मूत्रं पूरीषं वाप्यपान: परिवर्तते॥ प्रयत्ने कर्मणि बले स एष त्रिषु वर्तते। उदानमिति तं प्राहुरध्यात्मविदुषो जनाः॥ संधौ संधौ संनिविष्टः सर्वेष्वपि तथानिलः। शरीरेषु मनुष्याणां व्यान इत्युपदिश्यते॥ धातुष्वग्निस्तु विततः स तु वायुसमीरितः। रसान् धातूंश्च दोषांश्च वर्तयन् परिधावति॥ प्राणानां संनिपातात् तु संनिपातः प्रजायते। ऊष्मा चाग्निरिति ज्ञेयो योऽन्नं पचति देहिनाम्॥ समानोदानयोर्मध्ये प्राणापानौ समाहितौ। समर्थितस्त्वधिष्ठानं सम्यक् पचति पावकः॥ अस्यापि पायुपयन्तस्तथा स्याद् गुदसंज्ञितः। स्रोतांसि तस्माज्जायन्ते सर्वप्राणेषु देहिनाम्॥ अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते। स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम्॥ पक्काशयस्त्वधो नाभ्यामूर्ध्वमामाशयः स्थितः। नाभिमध्ये शरीरस्य प्राणाः सर्वे प्रतिष्ठिताः॥ प्रवृत्ता हृदयात् सर्वे तिर्यगूर्ध्वमधस्तथा। वहन्त्यन्नरसान् नाड्यो दशप्राणप्रचोदिताः॥ योगिनामेष मार्गस्तु येन गच्छन्ति तत् परम्। जितक्लमाः समा धीरा मूर्धन्यात्मानमादधुः। एवं सर्वेषु विततौ प्राणापानौ हि देहिषु॥ एकादशविकारात्मा कलासम्भारसम्भृतः। मूर्तिमन्तं हि तं विद्धि नित्यं योगजितात्मकम्॥ तस्मिन् यः संस्थितो ह्यग्निर्नित्यं स्थाल्यामिवाहितः। आत्मानं तं विजानीहि नित्यं योगजितात्मकम्॥ देवो यः संस्थितस्तस्मिन्नबिन्दुरिव पुष्करे। क्षेत्रज्ञं तं विजानीहि नित्यं योगजितात्मकम्॥ जीवात्मकानि जानीहि रजः सत्त्वं तमस्तथा। जीवमात्मगुणं विद्धि तथाऽऽत्मानं परात्मकम्॥ अचेतनं जीवगुणं वदन्ति स चेष्टते चेष्टयते च सर्वम्। ततः परं क्षेत्रविदो वदन्ति प्राक्लपयद् यो भुवनानि सप्त॥ एवं सर्वेषु भूतेषु भूतात्मा सम्प्रकाशते। दृश्यते त्वङ्घयया बुद्ध्या सूक्ष्मया ज्ञानवेदिभिः॥ चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम्। प्रसन्नात्माऽऽत्मनि स्थित्वा सुखमानन्त्यमश्नुते॥ लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत्। निवाते वा यथा दीपो दीप्येत् कुशलदीपितः॥ पूर्वरात्रे परे चैव युञ्जानः सततं मनः। लध्वाहारो विशुद्धात्मा पश्यन्नात्मानमात्मनि॥ प्रदीप्तेनेव दीपेन मनोदीपेन पश्यति। दृष्ट्वाऽऽत्मानं निरात्मानं स तदा विप्रमुच्यते॥ सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः एतत् पवित्रं लोकानां तपो वै संक्रमो मतः॥ नित्यं क्रोधात् तपो रक्षेद् धर्म रक्षेच्च मत्सरात्। विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः॥ आनृशंस्यं परो धर्मः क्षमा च परम बलम्। आत्मज्ञानं परं ज्ञानं सत्यं व्रतपरं व्रतम्॥ सत्यस्य वचनं श्रेयः सत्यं ज्ञानं हितं भवेत्। यद् भूतहितमत्यन्तं तद् वै सत्यं परं मतम्॥ यस्य सर्वे समारम्भा निराशीर्बन्धनाः सदा। त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान्॥ यतो न गुरुरप्येनं श्रावयेदुपपादयेत्। तं विद्याद् ब्रह्मणो योगं वियोग योगसंज्ञितम्॥ न हिंस्यात् सर्वभूतानि मैत्रायगणतश्चरेत्। नेदं जीवितमासाद्य वैरं कुर्वीत केनचित्॥ आकिञ्चन्यं सुसंतोषो निराशित्वमचापलम्। एतदेव परं ज्ञानं सदात्मज्ञानमुत्तमम्॥ परिग्रहं परित्यज्य भवेद् बुद्ध्या यतव्रतः। अशोकं स्थानमाश्रित्य निश्चलं प्रेत्य चेह च॥ तपोनित्येन दान्तेन मुनिना संयतात्मना। अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना॥ गुणागुणमनासङ्गमेककार्यमनन्तरम्। एतत् तद् ब्रह्मणो वृत्तमाहुरेकपदं सुखम्॥ परित्यजति यो दुःखं सुखं चाप्युभयं नरः। ब्रह्म प्राप्नोति सोऽत्यन्तमसङ्गेन च गच्छति॥ यथाश्रुतमिदं सर्वं समासेन द्विजोत्तम। एतत् ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि॥ मार्कण्डेय उवाच एवं संकथिते कृत्स्ने मोक्षधर्मे युधिष्ठिर। दृढप्रीतमना विप्रो धर्मव्याधमुवाच ह॥ न्याययुक्तमिदं सर्वं भवता परिकीर्तितम्। न तेऽस्त्यविदितं किंचिद् धर्मेष्विह हि दृश्यते॥ व्याध उवाच प्रत्यक्षं मम यो धर्मस्तं च पश्य द्विजोत्तम। येन सिद्धिरियं प्राप्ता मया ब्राह्मणपुङ्गव॥ उत्तिष्ठ भगवन् क्षिप्रं प्रविश्याभ्यन्तरं गृहम्। द्रष्टुमर्हसि धर्मज्ञ मातरं पितरं च मे॥ मार्कण्डेय उवाच इत्युक्तः स प्रविश्याथ ददर्श परमार्चितम्। सौधं हृद्यं चतुःशालमतीव च मनोरमम्॥ देवतागृहसंकाशं दैवतैश्च सुपूजितम्। शयनासनसम्बाधं गन्धैश्च परमैयुतम्॥ तत्र शुक्लाम्बरधरौ पितरावस्य पूजितौ। कृताहारौ तु संतुष्टावुपविष्टौ वरासने। धर्मव्याधस्तु तौ दृष्ट्वा पादेषु शिरसापतत्॥ वृद्धावूचतुः उत्तिष्ठोत्तिष्ठ धर्मज्ञ धर्मस्त्वामभिरक्षतु। प्रीतौ स्वस्तव शौचेन दीर्घमायुरवाप्नुहि॥ गतिमिष्टां तपो ज्ञानं मेधां च परमां गतः। सत्पुत्रेण त्वया पुत्र नित्यं काले सुपूजितौ॥ न तेऽन्यद् दैवतं किंचिद् दैवतेष्वपि वर्तते। प्रयतत्वाद् द्विजातीनां दमेनासि समन्वितः॥ पितुः पितामहा ये च तथैव प्रपितामहाः। प्रीतास्ते सततं पुत्र दमेनावां च पूजया॥ मनसा कर्मणा वाचा शुश्रूषा नैव हीयते। न चान्या हि तथा बुद्धिदृश्यते साम्प्रतं तव॥ जामदग्न्येन रामेण यथा वृद्धौ सुपूजितौ। तथा त्वया कृतं सर्वं तद्विशिष्टं च पुत्रक॥ ततस्तं ब्राह्मणं ताभ्यां धर्मव्याधो न्यवेदयत्। तौ स्वागतेन तं विप्रमर्चयामासतुस्तदा॥ प्रतिपूज्य च तां पूजां द्विजः पप्रच्छ तावुभौ। सुपुत्राभ्यां सभृत्याभ्यां कच्चिद् वां कुशलं गृहे॥ अनामयं च वां कच्चित् सदैवेह शरीरयोः। वृद्धावूचतुः कुशलं नौ गृहे विप्र भृत्यवर्गे च सर्वशः। कच्चित् त्वमप्यविघ्नेन सम्प्राप्तो भगवन्निति॥ मार्कण्डेय उवाच बाढमित्येव तौ विप्रः प्रत्युवाच मुदान्वितः। धर्मव्याधो निरीक्ष्याथ ततस्तं वाक्यमब्रवीत्॥ व्याध उवाच पिता माता च भगवन्नेतौ मदैवतं परम्। यद् दैवतेभ्यः कर्तव्यं तदेताभ्यां करोम्यहम्॥ त्रयस्त्रिंशद् यथा देवाः सर्वे शक्रपुरोगमाः। सम्पूज्याः सर्वलोकस्य तथा वृद्धाविमौ मम॥ उपाहारनाहरन्तो देवतानां यथा द्विजाः। कुर्वन्ति तद्वदेताभ्यां करोम्यहमतन्द्रितः॥ एतौ मे परमं ब्रह्मन् पिता माता च दैवतम्। एतौ पुष्पैः फलै रस्स्तोषयामि सदा द्विज॥ एतावेवाग्नयो मह्यं यान् वदन्ति मनीषिणः। यज्ञा वेदाच चत्वारः सर्वमेतौ मम द्विज॥ एतदर्थं मम प्राणा भार्या पुत्रः सुहृज्जनः। सपुत्रदारः सुश्रूषां नित्यमेव करोम्यहम्॥ स्वयं च स्नापयाम्येतौ तथा पादौ प्रधावये। आहारं च प्रयच्छामि स्वयं च द्विजसत्तम॥ अनुकूलं तथा वच्मि विप्रियं परिवर्जये। अधर्मेणापि संयुक्तं प्रियमाभ्यां करोम्यहम्॥ धर्ममेव गुरुं ज्ञात्वा करोमि द्विजसत्तम। अतन्द्रितः सदा विप्र शुश्रूषां वै करोम्यहम्॥ पञ्चैव गुरवो ब्रह्मन् पुरुषस्य बुभूषतः। पिता माताग्निरात्मा च गुस्च द्विजसत्तम॥ एतेषु यस्तु वर्तेत सम्यगेव द्विजोत्तम। भवेयुरग्नयस्तस्य परिचीर्णास्तु नित्यशः। गार्हस्थ्ये वर्तमानस्य एष धर्मः सनातनः॥ मार्कण्डेय उवाच गुरुं निवेद्य विप्राय तौ मातापितरावुभौ। पुनरेव स धर्मात्मा व्याधो ब्राह्मणमब्रवीत्॥ प्रवृत्तचक्षुर्जातोऽस्मि सम्पश्य तपसो बलम्। यदर्थमुक्तोऽसि तया गच्छ त्वं मिथिलामिति॥ पतिशुश्रूषपरया दान्तया सत्यशीलया। मिथिलायां वसेद् व्याधः स ते धर्मान् प्रवक्ष्यति॥ ब्राह्मण उवाच पतिव्रतायाः सत्यायाः शीलाढ्याया यतव्रता संस्मृत्य वाक्यं धर्मज्ञ गुणवानसि मे मतः॥ व्याध उवाच यत् तदा त्वं द्विजश्रेष्ठ तयोक्तो मां प्रति प्रभो। दृष्टमेव तया सम्यगेकपल्या न संशयः॥ त्वदनुग्रहबुद्ध्या तु विप्रेतद् दर्शितं मया। वाक्यं च शृणु मे तात यत् ते वक्ष्ये हितं द्विज॥ त्वया विनिकृता माता पिता च द्विजसत्तम। अनिसृष्टोऽसि निष्क्रान्तो गृहात् ताभ्यामनिन्दित॥ वेदोच्चारणकार्यार्थमयुक्तं तत् त्वया कृतम्। तव शोकेन वृद्धौ तावन्धीभूतौ तपस्विनौ॥ तौ प्रसादयितुं गच्छ मा त्वां धर्मोऽत्यगादयम्। तपस्वी त्वं महात्मा च धर्मे च निरतः सदा॥ सर्वमेतदपार्थं ते क्षिप्रं तौ सम्प्रसादय। श्रद्दधस्व मम ब्रह्मन् नान्यथा कर्तुमर्हसि। गम्यतामद्य विप्रर्षे श्रेयस्ते कथयाम्यहम्॥ ब्राह्मण उवाच यदेतदुक्तं भवथा सर्वं सत्यमसंशयम्। प्रीतोऽस्मि तव भद्रं ते धर्माचारगुणान्वित॥ व्याध उवाच दैवतप्रतिमो हि त्वं यस्त्वं धर्ममनुव्रतः। पुराणं शाश्वतं दिव्यं दुष्प्राप्यमकृतात्मभिः॥ मातापित्रोः सकाशं हि गत्वा त्वं द्विजसत्तम। अतन्द्रितः कुरु क्षिप्रं मातापित्रोर्हि पूजनम्। अतः परमहं धर्मं नान्यं पश्यामि कंचन॥ ब्राह्मण उवाच इहाहमागतो दिष्ट्या दिष्ट्या मे सङ्गतं त्वया। ईदृशा दुर्लभा लोके नरा धर्मप्रदर्शकाः॥ एको नरसहस्रेषु धर्मविद् विद्यते न वा। प्रीतोऽस्मि तव सत्येन भद्रं ते पुरुषर्षभ॥ पतमानोऽद्य नरके भवतास्मि समुद्धृतः। भवितव्यमथैवं च यद् दृष्टोऽसि मयानघ।॥ राजा ययातिौहित्रैः पतितस्तारितो यथा। सद्भिः पुरुषशार्दूल तथाहं भवता द्विजः॥ मातापितृभ्यां शुश्रूषां करिष्ये वचनात् तव। नाकृतात्मा वेदयति धर्माधर्मविनिश्चयम्॥ दुर्जेयः शाश्वतो धर्मः शूद्रयोनौ हि वर्तते। न त्वां शूद्रमहं मन्ये भवितव्यं हि कारणम्॥ येन कर्मविशेषेण प्राप्तेयं शूद्रता त्वया। एतदिच्छामि विज्ञातुं तत्त्वेन हि महामते। कामया ब्रूहि मे सर्वं सत्येन प्रयतात्मना॥ व्याध उवाच अनतिक्रमणीया वै ब्राह्मणा मे द्विजोत्तम। शृणु सर्वमिदं वृत्तं पूर्वदेहे ममानघ॥ अहं हि ब्राह्मणः पूर्वमासं द्विजवरात्मजः। वेदाध्यायी सुकुशलो वेदाङ्गानां च पारगः॥ आत्मदोषकृतैर्ब्रहान्नवस्थामाप्तवानिमाम्। कश्चिद् राजा मम सखा धनुर्वेदपरायणः॥ संसर्गाद् धनुषि श्रेष्ठस्ततोऽहमभवं द्विज) एतस्मिन्नेव काले तु मृगयां निर्गतो नृपः॥ सहितो योधमुख्यैश्च मन्त्रिभिश्च सुसंवृतः। ततोऽभ्यहन् मृगांस्तत्र सुबहूनाश्रमं प्रति॥ अथ क्षिप्तः शरो घोरो मयापि द्विजसत्तम। ताडितश्च ऋषिस्तेन शरेणानतपर्वणा॥ भूमौ निपतितो ब्रह्मन्नुवाच प्रतिनादयन्। नापराध्याम्यहं किंचित् केन पापमिदं कृतम्॥ मन्वानस्तं मृगं चाहं सम्प्राप्तः सहसा प्रभो। अपश्यं तमृषि विद्धं शरेणानतपर्वणा॥ अकार्यकरणाच्चापि भृशं मे व्यथितं मनः। तमुचतपसं विप्रं निष्टनन्तं महीतले॥ अजानता कृतमिदं मयेत्यहमथाब्रुवम्। क्षन्तुमर्हसि मे सर्वमिति चोक्तो मया मुनिः॥ ततः प्रत्यब्रवीद् वाक्यमृषिर्मा क्रोधमूर्छितः। व्याधस्त्वं भविता क्रूर शूद्रयोनाविति द्विज॥ व्याध उवाच एवं शप्तोऽहमृषिणा तदा द्विजवरोत्तम। अभिप्रसादयमृषि गिरा त्राहीति मां तदा॥ अजानता मयाकार्यमिदमद्य कृतं मुने। क्षन्तुमर्हसि तत् सर्वं प्रसीद भगवन्निति॥ ऋषिरुवाच नान्यथा भविता शाप एवमेतदसंशयम्। आनृशंस्यात् त्वहं किञ्चित् कर्तानुग्रहमद्य ते॥ शूद्रयोन्यां वर्तमानो धर्मज्ञो हि भविष्यसि। मातापित्रोश्च शुश्रूषां करिष्यसि न संशयः॥ तया शुश्रूषया सिद्धिं महत्त्वं समवाप्स्यसि। जातिस्मरश्च भविता स्वर्गं चैव गमिष्यसि॥ शापक्षये तु निर्वृत्ते भवितासि पुनर्द्विजः। एवं शप्तः पुरा तेन ऋषिणास्य्युचतेजसा॥ प्रसादश्च कृतस्तेन ममैव द्विपदां वर। शरं चोद्धृतवानस्मि तस्य वै द्विजसत्तम॥ आश्रमं च मया नीतो न च प्राणैर्व्ययुज्यत। एतत् ते सर्वमाख्यातं यथा मम पुराभवत्॥ अभितश्चापि गन्तव्यं मया स्वर्गं द्विजोत्तम॥ ब्राह्मण उवाच एवमेतानि पुरुषा दुःखानि च सुखानि च। आप्नुवन्ति महाबुद्धे नोत्कण्ठां कर्तुमर्हसि॥ दुष्करं हि कृतं कर्म जानता जातिमात्मनः। लोकवृत्तान्ततत्त्वज्ञ नित्यं धर्मपरायण॥ कर्मदोषश्च वै विद्वन्नात्मजातिकृतेन ते। कञ्चित् कालमुष्यतां वै ततोऽसि भविता द्विजः॥ साम्प्रतं च मतो मेऽसि ब्राह्मणो नात्र संशयः। ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु॥ दाम्भिको दुष्कृतः प्रायः शूद्रेण सदृशो भवेत्। यस्तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः॥ तं ब्राह्मणमहं मन्ये वृत्तेन हि भवेद् द्विजः। कर्मदोषेण विषमां गतिमाप्नोति दारुणाम्॥ क्षीणदोषमहं मन्ये चाभितस्त्वां नरोत्तम। कर्तुमर्हसि नोत्कण्ठां त्वद्विधा ह्यविषादिनः। लोकवृत्तानुवृत्तज्ञा नित्यं धर्मपरायणाः॥ व्याध उवाच प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः। एतद् विज्ञानसामर्थ्य न बालैः समतामियात्॥ अनिष्टसम्प्रयोगाच्च विप्रयोगात् प्रियस्य च। मनुष्या मानसैर्दुःखैर्युज्यन्ते चाल्पबुद्धयः॥ गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च। सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते॥ अनिष्टं चान्वितं पश्यंस्तथा क्षिप्रं विरज्यते। ततश्च प्रतिकुर्वन्ति यदि पश्यन्त्युपक्रमात्॥ शोचतो न भवेत् किंचित् केवलं परितप्यते। परित्यजन्ति ये दुःखं सुखं वाप्युभयं नराः॥ त एव सुखमेधन्ते ज्ञानतृप्ता मनीषिणः। असंतोषपरा मूढाः संतोषं यान्ति पण्डिताः॥ असंतोषस्य नास्त्यन्तस्तुष्टिस्तु परमं सुखम्। न शोचन्ति गताध्वानः पश्यन्तः परमां गतिम्॥ न विषादे मनः कार्यं विषादो विषमुत्तमम्। मारयत्यकृतप्रज्ञं बालं क्रुद्ध इवोरगः॥ यं विषादोऽभिभवति विक्रमे समुपस्थिते। तेजसा तस्य हीनस्य पुरुषार्थो न विद्यते॥ अवश्यं क्रियमाणस्य कर्मणो दृश्यते फलम्। न हि निर्वेदमागम्य किंचित् प्राप्नोति शोभनम्॥ अथाप्युपायं पश्येत दुःखस्य परिमोक्षणे। अशोचन्नारभेतैवं मुक्तश्चाव्यसनी भवेत्॥ भूतेष्वभावं संचिन्त्य ये तु बुद्धेः परं गताः। न शोचन्ति कृतप्रज्ञाः पश्यन्तः परमां गतिम्॥ न शोचामि च वै विद्वन् कालाकाक्षी स्थितो ह्यहम् एतैर्निदर्शनैर्ब्रह्मन् नावसीदामि सत्तम॥ ब्राह्मण उवाच कृतप्रज्ञोऽसि मेधावी बुद्धिर्हि विपुला तव। नाहं भवन्तं शोचामि ज्ञानतृप्तोऽसि धर्मवित्॥ आपृच्छे त्वां स्वस्ति तेऽस्तु धर्मस्त्वां परिरक्षतु। अप्रमादस्तु कर्तव्यो धर्मे धर्मभृतां वर॥ पार्कण्डेय उवाच बाढमित्येव तं व्याधः कृताञ्जलिरुवाच ह। प्रदक्षिणमथो कृत्वा प्रस्थितो द्विजसत्तमः॥ स तु गत्वा द्विजः सर्वां शुश्रूषां कृतवांस्तदा। मातापितृभ्यां वृद्धाभ्यां यथान्यायं सुशंसितः॥ एतत् ते सर्वमाख्यातं निखिलेन युधिष्ठिर। पृष्टवानसि यं तात धर्मं धर्मभृतां वर॥ पतिव्रताया माहात्म्यं ब्राह्मणस्य च सत्तम। मातापित्रोश्च शुश्रूषा धर्मव्याधेन कीर्तिता॥ युधिष्ठिर उवाच अत्यद्भुतमिदं ब्रह्मन् धर्माख्यानमनुत्तमम्। सर्वधर्मविदां श्रेष्ठ कथितं मुनिसत्तम॥ सुखश्रव्यतया विद्वन् मुहूर्त इव मे गतः। न हि तृप्तोऽस्मि भगवन् शृण्वानो धर्ममुत्तमम्॥ वैशम्पायन उवाच श्रुत्वेमां धर्मसंयुक्तां धर्मराजः कथां शुभाम्। पुनः पप्रच्छ तमृषि मार्कण्डेयमिदं तदा॥ युधिष्ठिर उवाच कथमग्निर्वनं यातः कथं चाप्यङ्गिराः पुरा। नष्टेऽग्नौ हव्यमवहदग्निर्भूत्वा महाद्युतिः॥ अग्निर्यदा त्वेक एव बहुत्वं चास्य कर्मसु। दृश्यते भगवन् सर्वमेतदिच्छामि वेदितुम्॥ कुमारश्च यथोत्पन्नो यथा चाग्नेः सुतोऽभवत्। यथा रुद्राच्च सम्भूतो गङ्गायां कृत्तिकासु च॥ एतदिच्छाम्यहं त्वत्तः श्रोतुं भार्गवसत्तम। कौतूहलसमाविष्टो याथातथ्यं महामुने॥ मार्कण्डेय उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। यथा क्रुद्धो हुतवहस्तपस्तप्तुं वनं गतः॥ यथा च भगवानग्निः स्वयमेवाङ्गिराऽभवत्। संतापयंश्च प्रभया नाशयस्तिमिराणि च॥ पुराङ्गिरा महाबाहो चचार तप उत्तमम्। आश्रमस्थो महाभागो हव्यवाहं विशेषयन्। तथा स भूत्वा तु तदा जगत् सर्वं व्यकाशयत्॥ तपश्चरंस्तु हुतभुक् संतप्तस्तस्य तेजसा। भृशं ग्लानश्च तेजस्वी न च किंचित् प्रजज्ञिवान्॥ अथ संचिन्तयामास भगवान् हव्यवाहनः। अन्योऽग्निरिह लोकानां ब्रह्मणा सम्प्रकल्पितः॥ अग्नित्वं विप्रणष्टं हि तप्यमानस्य मे तपः। कथमग्निः पुनरहं भवेयमिति चिन्त्य सः॥ अपश्यदग्निवल्लोकांस्तापयन्तं महामुनिम्। सोपासर्पच्छनैतिस्तमुवाच तदाङ्गिराः॥ शीघ्रमेव भवस्वाग्निस्त्वं पुनर्लोकभावनः। विज्ञातश्चासि लोकेषु त्रिषु संस्थानचारिषु॥ त्वमग्निः प्रथमं सृष्टो ब्रह्मणा तिमिरापहः। स्वस्थानं प्रतिपद्यस्व शीघ्रमेव तमोनुद॥ अग्निरुवाच नष्टकीर्तिरहं लोके भवान् जातो हुताशनः। भवन्तमेव ज्ञास्यन्ति पावकं न तु मां जनाः॥ निक्षिपाम्यहमग्नित्वं त्वमग्निः प्रथमो भव। भविष्यामि द्वितीयोऽहं प्राजापत्यक एव च॥ अङ्गिरा उवाच कुरु पुण्यं पुरजास्वयं भवाग्निस्तिमिरापहः। मां च देव कुरुष्वाग्ने प्रथम पुत्रमञ्जसा॥ मार्कण्डेय उवाच तच्छ्रुत्वाङ्गिरसो वाक्यं जातवेदास्तथाकरोत्। राजन् बृहस्पति भ तस्याप्यङ्गिरसः सुतः॥ ज्ञात्वा प्रथमजं तं तु वढेराङ्गिरसं सुतम्। उपेत्य देवाः पप्रच्छुः कारणं तत्र भारत॥ स तु पृष्टस्तदा देवैस्तत: कारणमब्रवीत्। प्रत्यगृह्णस्तु देवाश्च तद् वचोऽङ्गिरसस्तदा॥ तत्र नानाविधानग्नीन् प्रवक्ष्यामि महाप्रभान्। कर्मभिर्बहुभिः ख्यातान् नानार्थान् ब्राह्मणेष्विह॥ मार्कण्डेय उवाच ब्रह्मणो यस्तृतीयस्तु पुत्रः कुरुकुलोद्वह। तस्याभवत् सुभा भार्या प्रजास्तस्यां च मे शृणु॥ बृहत्कीर्तिवृहज्ज्योतिर्वृहद्ब्रह्मा बृहन्मनाः। बृहन्मन्त्रो बृहद्भासस्तथा राजन् बृहस्पतिः॥ प्रजासु तासु सर्वासु रूपेणाप्रतिमाभवत्। देवी भानुमती नाम प्रथमाङ्गिरसः सुता॥ भूतानामेव सर्वेषां यस्यां रागस्तदाभवत्। रागाद्रागेति यामाहुर्द्वितीयाङ्गिरसः सुता॥ यां कपर्दिसुतामाहुद्देश्यादृश्येति देहिनः। तनुत्वात्सा सिनीवाली तृतीयाङ्गिरसः सुता॥ पश्यत्यर्चिष्मती भाभिर्हविभिश्च हविष्मती। षष्ठीमङ्गिरसः कन्यां पुण्यामाहुर्महिष्मतीम्॥ महामखेष्वाङ्गिरसी दीप्तिमत्सु महामते। महामतीति विख्याता सप्तमी कथ्यते सुता।॥ यां तु दृष्ट्वा भगवतीं जनः कुहुकुहायते। एकानशेति तामाहुः कुहूमङ्गिरसः सुताम्॥ मार्कण्डेय उवाच बृहस्पतेश्चान्द्रमसी भार्याऽऽसीद् या यशस्विनी। अग्नीन् साजनयत् पुण्यान् षडेकां चापि पुत्रिकाम्॥ आहुतिष्वेव यस्याग्नेहविषाद्यं विधीयते। सोऽग्निद्र्हस्पतेः पुत्रः शंयुर्नाम महाव्रतः॥ चातुर्मास्येषु यस्येष्टमश्वमेधेऽचजः प्रभुः। दीप्तो ज्वालैरनेकाभैरग्निरेकोऽथ वीर्यवान्॥ शंयोरप्रतिमा भार्या सत्या सत्याथ धर्मजा। अग्निस्तस्य सुतो दीप्तस्तिस्रः कन्याश्च सुव्रताः॥ प्रथमेनाज्यभागेन पूज्यते योऽग्निरध्वरे। अग्निस्तस्य भरद्वाजः प्रथमः पुत्र उच्यते॥ पौर्णमासेषु सर्वेषु हविषाऽऽज्यं स्रुवोद्यतम्। भरतो नामतः सोऽग्निर्द्वितीयः शंयुतः सुतः॥ तिस्रः कन्या भवन्त्यन्या यासां स भरतः पतिः। भरतस्तु सुतस्तस्य भरत्येका च पुत्रिका॥ भरतो भरतस्याग्नेः पावकस्तु प्रजापतेः। महानत्यर्थमहितस्तथा भरतसप्तम॥ भरद्वाजस्य भार्या तु वीरा वीरस्य पिण्डदा। प्राहुराज्येन तस्येज्यां सोमस्येव द्विजाः शनैः॥ हविषा यो द्वितीयेन सोमेन सह युज्यते। रथप्रभू रथध्वानः कुम्भरेताः स उच्यते॥ सरय्वां जनयत् सिद्धिं भानु भाभिः समावृणोत्। आग्नेयमानयन् नित्यमाह्वाने ह्येष सूयते॥ यस्तु न च्यवते नित्यं यशसा वर्चसा श्रिया। अग्निनिश्च्यवनो नाम पृथिवीं स्तौति केवलम्॥ विपाप्मा कलुषैर्मुक्तो विशुद्धश्चार्चिषा ज्वलन्। विपापोऽग्निः सुतस्तस्य सत्यः समयधर्मकृत्॥ आक्रोशतां हि भूतानां यः करोति हि निष्कृतिम्। अग्निः स निष्कृति म शोभयत्यभिसेविते॥ अनुकूजन्ति येनेह वेदनार्ताः स्वयं जनाः। तस्य पुत्रः स्वनो नाम पावकः स रुजस्करः॥ यस्तु विश्वस्य जगतो बुद्धिमाक्रम्य तिष्ठति। तं प्राहुरध्यात्मविदो विश्वजिन्नाम पावकम्॥ अन्तराग्निः स्मृतो यस्तु भुक्तं पचति देहिनाम्। स जज्ञे विश्वभुड्नाम सर्वलोकेषु भारत॥ ब्रह्मचारी यतात्मा च सततं विपुलव्रतः। ब्राह्मणाः पूजयन्त्येनं पाकयज्ञेषु पावकम्॥ पवित्रा गोमती नाम नदी यस्याभवत् प्रिया। तस्मिन् कर्माणि सर्वाणि क्रियन्ते धर्मकर्तृभिः॥ वडवाग्निः पिबत्यम्भो योऽसौ परमदारुणः। ऊर्श्वभागूर्ध्वभाङ्नाम कविः प्राणाश्रितस्तु यः॥ उदग्द्वारं हविर्यस्य गृहे नित्यं प्रदीयते। ततः स्विष्टं भवेदाज्यं स्विष्टकृत् परमः स्मृतः॥ यः प्रशान्तेषु भूतेषु मन्युर्भवति पावकः। क्रुद्धस्य तु रसो जज्ञे मन्युतीव्रा च पुत्रिका। स्वाहेति दारुणा क्रूरा सर्वभूतेषु तिष्ठति॥ त्रिदिवे यस्य सदृशो नास्ति रूपेण कश्चन। अतुलत्वात् कृतो देवैर्नाम्ना कामस्तु पावकः॥ संहर्षाद् धारयन् क्रोधं धन्वी स्रग्वी रथे स्थितः। समरे नाशयेच्छनमोघो नाम पावकः॥ उक्थो नाम महाभाग त्रिभिरुक्थैरभिष्टुतः। महावाचं त्वजनयत् समाश्वासं हि यं विदुः॥ मार्कण्डेय उवाच गुरुभिर्नियमैर्युक्तो भरतो नाम पावकः। अग्निः पुष्टिमतिर्नाम तुष्टः पुष्टिं प्रयच्छति। भरत्येष प्रजाः सर्वास्ततो भरत उच्यते॥ अग्नियश्च शिवो नाम शक्तिपूजापरश्च सः। दुःखार्तानां च सर्वेषां शिवकृत् सततं शिवः॥ तपसस्तु फलं दृष्ट्वा सम्प्रवृद्धं तपो महत्। उद्धर्तुकामो मतिमान् पुत्रो जज्ञे पुरंदरः॥ ऊष्मा चैवोष्मणो जज्ञे सोऽग्निधूतस्य लक्ष्यते। अग्निश्चापि मनु म प्राजापत्यमकारयत्॥ शम्भुमग्निमथ प्राहुर्ब्राह्मणा वेदपारगाः। आवसथ्यं द्विजाः प्राहुर्दीप्तमग्नि महाप्रभम्॥ ऊर्जस्करान् हव्यवाहान् सुवर्णसदृशप्रभान्। ततस्तपो ह्यजनयत् पञ्च यज्ञसुतानिह॥ प्रशान्तेऽग्निर्महाभाग परिश्रान्तो गवां पतिः। असुरान् जनयन् घोरान् मांश्चैव पृथग्विधान्॥ तपसश्च मनुं पुत्रं भानु चाप्यङ्गिराः सृजत्। बृहद्भानुं तु तं प्राहुर्ब्राह्मणा वेदपारगाः॥ भानोर्भार्या सुप्रजा तु बृहद्भासा तु सूर्यजा। असृजेतां तु षट् पुत्रान् शृणु तासां प्रजाविधिम्॥ दुर्बलानां तु भूतानामसून् यः सम्प्रयच्छति। तमग्नि बलदं प्राहुः प्रथमं भानुतः सुतम्॥ यः प्रशान्तेषु भूतेषु मन्युर्भवति दारुणः। अग्निः स मन्युमानाम द्वितीयो भानुतः सुतः॥ दर्श च पौर्णमासे च यस्येह हविरुच्यते। विष्णुर्नामेह योऽग्निस्तु धृतिमान्नाम सोऽङ्गिराः॥ इन्द्रेण सहितं यस्य हविराचयणं स्मृतम्। अग्निराचयणो नाम भानोरेवान्वयस्तु सः॥ चातुर्मास्येषु नित्यानां हविषा योनिरग्रहः। चतुर्भिः सहितः पुत्रैर्भानोरेवान्वयः स्तुभः॥ निशा त्वजनयत् कन्यामग्नीषोमावुभौ तथा। मनोरेवाभवद् भार्या सुषुवे पञ्च पावकान्॥ पूज्यते हविषाग्येण चातुर्मास्येषु पावकः। पर्जन्यसहितः श्रीमानग्निर्वैश्वानरस्तु सः॥ अस्य लोकस्य सर्वस्य यः प्रभुः परिपठ्यते। सोऽग्निविश्वपति म द्वितीयो वै मनोः सुतः॥ तत: स्विष्टं भवेदाज्यं स्विष्टकृत् परमस्तु सः। कन्या सा रोहिणी नाम हिरण्यकशिपोः सुता॥ कर्मणासौ बभौ भार्या स वह्निः स प्रजापतिः। प्राणानाश्रित्य यो देहं प्रवर्तयति देहिनाम्। तस्य संनिहितो नाम शब्दरूपस्य साधनः॥ शुक्लकृष्णगतिर्देवो यो बिभर्ति हुताशनम्। अकल्मषः कल्मषाणां कर्ता क्रोधाश्रितस्तु सः॥ कपिलं परमर्षि च यं प्राहुर्यतयः सदा। अग्निः स कपिलो नाम सांख्ययोगप्रवर्तकः॥ अचं यच्छन्ति भूतानां येन भूतानि नित्यदा। कर्मस्विह विचित्रेषु सोऽचणीर्वह्निरुच्यते॥ इमानन्यान् समसृजत् पावकान् प्रथितान् भुवि। अग्निहोत्रस्य दुष्टस्य प्रायश्चित्तार्थमुल्बणान्॥ संस्पृशेयुर्यदान्योन्यं कथञ्चिद् वायुनाग्नयः। इष्टिरष्टाकपालेन कार्या वै शुचयेऽग्नये॥ दक्षिणाग्निर्यदा द्वाभ्यां संसृजेत तदा किला इष्टिरष्टाकपालेन कार्या वै वीतयेऽग्नये॥ यद्यग्नयो हि स्पृश्येयुनिवेशस्था दवाग्निना। इष्टिरष्टाकपालेन कार्या तु शुचयेऽग्नये॥ अग्नि रजस्वला वै स्त्री संस्पृशेदग्निहोत्रिकम्। इष्टिरष्टाकपालेन कार्या वसुमतेऽग्नये।॥ मृतः श्रूयेत यो जीवः परेयुः पशवो यदा। इष्टिरष्टाकपालेन कार्या सुरभिमतेऽग्नये॥ आर्तो न जुहुयादग्नि त्रिरात्रं यस्तु ब्राह्मणः। इष्टिरष्टाकपालेन कार्या स्यादुत्तराग्नये॥ दर्श च पौर्णमासं च यस्य तिष्ठेत् प्रतिष्ठितम्। इष्टिरष्टाकपालेन कार्या पथिकृतेऽग्नये।॥ सूतिकाग्निर्यदा चाग्नि संस्पृशेदग्निहोत्रिकम्। इष्टिरष्टाकपालेन कार्या चाग्निमतेऽग्नये॥ मार्कण्डेय उवाच अग्नीनां विविधा वंशाः कीर्तितास्ते मयानघ। शृणु जन्म तु कौरव्य कार्तिकेयस्य धीमतः॥ अद्भुतस्याद्भुतं पुत्रं प्रवक्ष्याम्यमितौजसम्। जातं ब्रह्मर्षिभार्याभिर्ब्रह्मण्यं कीर्तिवर्धनम्॥ देवासुराः ए । यत्ता विनिघ्नन्तः परस्परम्। तत्राजयन् सदा देवान् दानवा घोररूपिणः॥ वध्यमानं बलं दृष्ट्वा बहुशस्तैः पुरंदरः। स सैन्यनायकार्थाय चिन्तामाप भृशं तदा॥ देवसेनां दानवैर्हि भग्नां दृष्ट्वा महाबलः। पालयेद् वीर्यमाश्रित्य स ज्ञेयः पुरुषो मया॥ स शैलं मानसं गत्वा ध्यायनर्थमिदं भृशम्। शुश्रावार्तस्वरं घोरमय मुक्तं स्त्रिया तदा॥ अभिधावतु मां कश्चित् पुरुषस्त्रातु चैव ह। पतिं च मे प्रदिशतु स्वयं वा पतिरस्तु मे॥ पुरंदरस्तु तामाह मा भर्नास्ति भयं तव। एवमुक्त्वा ततोऽपश्यत् केशिनं स्थितमग्रतः॥ किरीटिनं गदापाणि धातुमन्तमिवाचलम्। हस्ते गृहीत्वा कन्यां तामथैनं वासवोऽब्रवीत्॥ अनार्यकर्मन् कस्मात् त्वमिमां कन्यां जिहीर्षसि। वलिाणं मां विजानीहि विरमास्याः प्रबाधनात्॥ केश्युवाच विसृजस्व त्वमेवैनां शत्रैषा प्रार्थिता मया। क्षमं ते जीवतो गन्तुं स्वपुरं पाकशासन॥ एवमुक्त्वा गदां केशी चिक्षेपेन्द्रवधाय वै। तामापतन्तीं चिच्छेद मध्ये वलोण वासवः॥ अथास्य शैलशिखरं केशी क्रुद्धो व्यवासृजत्। तदा पतन्तं सम्प्रेक्ष्य शैलशृङ्गं शतक्रतुः॥ बिभेद राजन् वलोण भुवि तन्निपपात ह। पतता तु तदा केशी तेन शृङ्गेण ताडितः॥ हित्वा कन्यां महाभागां प्राद्रवद् भृशपीडितः। अपयातेऽसुरे तस्मिंस्तां कन्यां वासवोऽब्रवीत्। कासि कस्यासि किछेह कुरुषे त्वं शुभानने॥ कन्योवाच अहं प्रजापतेः कन्या देवसेनेति विश्रुता। भगिनी दैत्यसेना मे सा पूर्वं केशिना हृता॥ सदैवावां भगिन्यौ तु सखीभिः सह मानसम्। आगच्छावेह रत्यर्थमनुज्ञाप्य प्रजापतिम्॥ नित्यं चावां प्रार्थयते हर्तुं केशी महासुरः। इच्छत्येनं दैत्यसेना न चाहं पाकशासन॥ सा हृतानेन भगवन् मुक्ताहं त्वद्बलेन तु। त्वया देवेन्द्र निर्दिष्टं पतिमिच्छामि दुर्जयम्॥ इन्द्र उवाच मम मातृष्वसेयी त्वं माता दाक्षायणी मम। आख्यातुं त्वहमिच्छामि स्वयमात्मबलं त्वया।॥ कन्योवाच अबलाहं महाबाहो पतिस्तु बलवान् मम। वरदानात् पितुर्भावी सुरासुरनमस्कृतः॥ इन्द्र उवाच कीदृशं तु बलं देवि पत्युस्तव भविष्यति। एतदिच्छाम्यहं श्रोतुं तव वाक्यमनिन्दिते॥ कन्योवाच देवदानवयक्षाणां किन्नरोरगरक्षसाम्। जेता यो दुष्टदैत्यानां महावीर्यो महाबलः॥ यस्तु सर्वाणि भूतानि त्वया सह विजेष्यति। स हि मे भविता भर्ता ब्रह्मण्यः कीर्तिवर्धनः॥ मार्कण्डेय उवाच इन्द्रस्तस्या वचः श्रुत्वा दुःखितोऽचिन्तयद् भृशम्। अस्या देव्याः पतिर्नास्ति यादृशं सम्प्रभाषते॥ अथापश्यत् स उदये भास्करं भास्करद्युतिः। सोमं चैव महाभागं विशमानं दिवाकरम्॥ अमावास्यां प्रवृत्तायां मुहूर्ते रौद्र एव तु। देवासुरं च संग्रामं सोऽपश्यदुदये गिरौ॥ लोहितैश्च घनैर्युक्तां पूर्वां संध्यां शतक्रतुः। अपश्यल्लोहितोदं च भगवान् वरुणालयम्॥ भृगुभिश्चाङ्गिरोभ्यश्च हुतं मन्त्रैः पृथग्विधैः। हव्यं गृहीत्वा वह्निं च प्रविशन्तं दिवाकरम्॥ पर्व चैव चतुर्विशं तदा सूर्यमुपस्थितम्। तथा धर्मगतं रौद्रं सोमं सूर्यगतं च तम्॥ समालोक्यैकतामेव शशिनो भास्करस्य च। समवायं तु तं रौद्रं दृष्ट्वा शक्रोऽन्वचिन्तयत्॥ सूर्याचन्द्रमसोधैरं दृश्यते परिवेषणम्। एतस्मिन्नेव रात्र्यन्ते महद् युद्धं तु शंसति॥ सरित्सिन्धुरपीयं तु प्रत्यसृग्वाहिनी भृशम्। शृगालिन्यग्निवक्त्रा च प्रत्यादित्यं विराविणी॥ एष रौद्रश्च सङ्घातो महान् युक्तश्च तेजसा। सोमस्य वह्निसूर्याभ्यामद्भुतोऽयं समागमः॥ जनयेद् यं सुतं सोमः सोऽस्या देव्याः पतिर्भवेत्। अग्निश्चैतैर्गुणैर्युक्तः सर्वैरग्निश्च देवता॥ एष चेज्जनयेद् गर्भ सोऽस्या देव्याः पतिर्भवेत्। एवं संचिन्त्य भगवान् ब्रह्मलोकं तदा गतः॥ गृहीत्वा देवसेनां तामवदत् स पितामहम्। उवाच चास्या देव्यास्त्वं साधुशूरं पतिं दिश॥ ब्रह्मोवाच मयतच्चिन्तितं कार्यं त्वया दानवसूदन। तथा स भविता गर्भो बलवानुरुविक्रमः॥ स भविष्यति सेनानीस्त्वया सह शतक्रतो। अस्या देव्याः पतिश्चैव स भविष्यति वीर्यवान्॥ एतच्छ्रुत्वा नमस्तस्मै कृत्वासौ सह कन्यया। तत्राभ्यगच्छद् देवेन्द्रो यत्र देवर्षयोऽभवन्॥ वसिष्ठप्रमुखा मुख्या विप्रेन्द्राः सुमहाबलाः। भागार्थं तपसो धातुं तेषां सोमं तथाध्वरे॥ पिपासवो ययुर्देवा: शतक्रतुपुरोगमाः। इष्टि कृत्वा यथान्यायं सुसमिद्धे हुताशने॥ जुहुवुस्ते महात्मानो हव्यं सर्वदिवौकसाम्। समाहूतो हुतवहः सोऽद्भुतः सूर्यमण्डलात्॥ विनिःसृत्य ययौ वह्निर्वाग्यतो विधिवत् प्रभुः। आगम्याहवनीयं वै तैर्द्विजैर्मन्त्रतो हुतम्॥ स तत्र विविधं हव्यं प्रतिगृह्य हुताशनः। ऋषिभ्यो भरतश्रेष्ठ प्रायच्छत दिवौकसाम्॥ निष्क्रामंश्चाप्यपश्यत् स पत्नीस्तेषां महात्मनाम्। स्वेष्वासनेषूपविष्टाः स्वपन्तीश्च तथा सुखम्॥ रुक्मवेदिनिभास्तास्तु चन्द्रलेखा इवामलाः। हुताशनार्चिप्रतिमाः सर्वास्तारा इवाद्भुताः॥ स तत्र तेन मनसा बभूव क्षुभितेन्द्रियः। पत्नीदृष्ट्वा द्विजेन्द्राणां वह्निः कामवशं ययौ।॥ भूयः संचिन्तयामास न न्याय्यं क्षुभितो ह्यहम्। साध्व्यः पत्न्यो द्विजेन्द्राणामकामाः कामयाम्यहम्॥ नैताः शक्या मया द्रष्टुं स्प्रष्टुं वाप्यनिमित्ततः। गार्हपत्यं समाविश्य तस्मात् पश्याम्यभीक्ष्णशः॥ मार्कण्डेय उवाच संस्पृशन्निव सर्वास्ताः शिखाभिः काञ्चनप्रभाः। पश्यमानश्च मुमुदे गार्हपत्यं समाश्रितः॥ निरुष्य तत्र सुचिरमेवं वह्रिर्वशं गतः। मनस्तासु विनिक्षिप्य कामयानो वराङ्गनाः॥ कामसंतप्तहदयो देहत्यागविनिश्चितः। अलाभे ब्राह्मणस्त्रीणामग्निर्वनमुपागमत्॥ स्वाहा तं दक्षदुहिता प्रथमं कामयत् तदा। सा तस्य छिद्रमन्वैच्छच्चिरात्प्रभृति भाविनी॥ अप्रमत्तस्य देवस्य न च पश्यत्यनिन्दिता। सा तं ज्ञात्वा यथावत् तु वह्नि वनमुपागतम्॥ तत्त्वतः कामसंतप्तं चिन्तयामास भाविनी। अहं सप्तर्षिपत्नीनां कृत्वा रूपाणि पावकम्॥ कामयिष्यामि कामार्ता तासां रूपेण मोहितम्। एवं कृते प्रीतिरस्य कामावाप्तिश्च मे भवेत्॥ मार्कण्डेय उवाच शिवा भार्या त्वङ्गिरसः शीलरूपगुणान्विता। तस्याः सा प्रथमं रूपं कृत्वा देवी जनाधिप॥ जगाम पावकाभ्याशं तं चोवाच वराङ्गना। मामग्ने कामसंतप्तां त्वं कामयितुमर्हसि॥ करिष्यसि न चेदेवं मृतां मामुपधारय। अहमङ्गिरसो भार्या शिवा नाम हुताशन। शिष्टाभिः प्रहिता प्राप्ता मन्त्रयित्वा विनिश्चयम्॥ अग्निरुवाच कथं मां त्वं विजानीये कामार्तमितराः कथम्। यास्त्वता कीर्तिताः सर्वाः सप्तर्षीणां प्रियाः स्त्रियः। शिवोवाच अस्माकं त्वं प्रियो नित्यं बिभीमस्तु वयं तव। त्वच्चित्तमिङ्गित्तैख़त्वा प्रेषितास्मि तवान्तिकम्॥ मैथुनायेह सम्प्राप्ता कामं प्राप्तं दुतं चर। जामयो मां प्रतीक्षन्ते गमिष्यामि हुताशन॥ मार्कण्डेय उवाच ततोऽग्निरुपयेमे तां शिवां प्रीतिमुदायुतः। प्रीत्या देवी समायुक्ता शुक्रं जग्राह पाणिना॥ अचिन्तयन्ममेदं ये रूपं द्रक्ष्यन्ति कानने। ते ब्राह्मणीनामनृतं दोषं वक्ष्यन्ति पावक॥ तस्मादेतद् रक्ष्यमाणा गरुडी सम्भवाम्यहम्। वनानिर्गमनं चैव सुख मम भविष्यति॥ मार्कण्डेय उवाच सुपर्णी सा तदा भूत्वा निर्जगाम महावनात्। अपश्यत् पर्वतं श्वेतं शरस्तम्बैः सुसंवृतम्॥ दृष्टीविषैः सप्तशीर्षैर्गुप्तं भोगिभिरद्भुतैः। रक्षोभिश्च पिशाचैश्च रौद्रैर्भूतगणैस्तथा॥ राक्षसीभिश्च सम्पूर्णमनेकैश्च मृगद्विजैः। सा तत्र सहसा गत्वा शैलपृष्ठं सुदुर्गमम्॥ प्राक्षिपत् काञ्चने कुण्डे शुक्रं सा त्वरिता शुभा। सप्तानामपि सा देवी सप्तर्षीणां महात्मनाम्॥ पत्नीसरूपतां कृत्वा कामयामास पावकम्। दिव्यरूपमरुन्धत्याः कर्तुं न शकितं तया॥ तस्यास्तपःप्रभावेण भर्तृशुश्रूषणेन च। षट्कृत्वस्तत् तु निक्षिप्तमग्ने रेतः कुरूत्तम॥ तस्मिन् कुण्डे प्रतिपदि कामिन्या स्वाहया तदा। तत् स्कन्नं तेजसा तत्र संवृतं जनयत् सुतम्॥ ऋषिभिः पूजितं स्कन्नमनयत् स्कन्दतां ततः। षशिरा द्विगुणश्रोत्रो द्वादशाक्षिभुजक्रमः॥ एकग्रीवैकजठरः कुमारः समपद्यत। द्वितीयायामभिव्यक्तस्तृतीयायां शिशुर्बभौ॥ अङ्गप्रत्यङ्गसम्भूतश्चतूर्थ्यामभवद् गुहः। लोहिताभ्रेण महता संवृतः सह विद्युताः॥ लोहिताभ्रे सुमहति भाति सूर्य इवोदितः। गृहीतं तु धनुस्तेन विपुलं लोमहर्षणम्॥ न्यस्तं यत् त्रिपुरघ्नेन सुरारिविनिकृन्तनम्। तद् गृहीत्वा धनुः श्रेष्ठं ननाद बलवांस्तदा॥ सम्मोहयन्निवेमान् स त्रील्लोकान् सचराचरान्। तस्य तं निनदं श्रुत्वा महामेघौघनिः स्वनम्॥ उत्पेततुर्महानागौ चित्रश्चैरावतश्च ह। तावापतन्तौ सम्प्रेक्ष्य स बालोऽर्कसमद्युतिः॥ द्वाभ्यां गृहीत्वा पाणिभ्यां शक्ति चान्येन पाणिना अपरेणाग्निदायादस्ताम्रचूडं भुजेन सः॥ महाकायमुपश्लिष्टं कुक्कुटं बलिनां वरम्। गृहीत्वा व्यनदद् भीमं चिक्रीड च महाभुजः॥ द्वाभ्यां भुजाभ्यां बलवान् गृहीत्वा शङ्खमुत्तमम्। प्राध्यापयत भूतानां त्रासनं बलिनामपि॥ द्वाभ्यां भुझाभ्यामाकाशं बहुशो निजधान ह। क्रीडन् भाति महासेनस्त्रील्लोकान् वदनैः पिबन्॥ पर्वताचेऽप्रमेयात्मा रश्मिमानुदये यथा। स तस्य पर्वतस्याचे निषण्णोऽद्भुतविक्रमः॥ व्यलोकयदमेयात्मा मुखैर्नानाविधैर्दिशः। स पश्यन् विविधान् भावांश्चकार निनदं पुनः॥ तस्य तं निनदं श्रुत्वा न्यपतन् बहुधा जनाः। भीताश्चोद्विग्नमनसस्तमेव शरणं ययुः॥ ये तु तं संश्रिता देवं नानावर्णास्तदा जनाः। तानप्याहुः पारिषदान् ब्राह्मणाः सुमहाबलान्॥ स तूत्थाय महाबाहुरुपसान्त्व्य च तान् जनान्। धनुर्विकृष्य व्यसृजद् बाणान् श्वेते महागिरौ।॥ बिभेद स शरैः शैलं क्रौचं हिमवतः सुतम्। तेन हंसाश्च गृध्राश्च मेरुं गच्छन्ति पर्वतम्॥ स विशीर्णोऽपतच्छैलो भृशमार्तस्वरान् रुवन्। तस्मिन् निपतिते त्वन्ये नेदुः शैला भृशं तदा॥ स तं नादं भृशार्तानां श्रुत्वापि बलिनां वरः। न प्राच्यवदमेयात्मा शक्तिमुद्यम्य चानदत्॥ सा तदा विमला शक्तिः क्षिप्ता तेन महात्मना। बिभेद शिखरं घोरं श्वेतस्य तरसा गिरेः॥ स तेनाभिहतो दीर्णो गिरिः श्वेतोऽचलैः सह। उत्पपात महीं त्यक्त्वा भीतस्तस्मान्महात्मनः॥ ततः प्रव्यथिता भूमिळशीर्यत समन्ततः। आर्ता स्कन्दं समासाद्य पुनर्बलवती बभौ॥ पर्वताश्च नमस्कृत्य तमेव पृथिवीं गताः। अथैनमभजल्लोकः स्कन्दं शुक्लस्य पञ्चमीम्॥ मार्कण्डेय उवाच स्कन्दपारिषदान् घोराशृणुष्वाद्भुतदर्शनान्। वलाप्रहारात् स्कन्दस्य जजुस्तत्र कुमारकाः॥ ये हरन्ति शिशूञातान् गर्भस्थांश्चैव दारुणाः। वलाप्रहारात् कन्याश्च जज्ञिरेऽस्य महाबलाः॥ कुमारास्ते विशाखं च पितृत्वे समकल्पयन्। स भूत्वा भगवान् संख्ये रक्षश्छागमुखस्तदा॥ वृतः कन्यागणैः सर्वैरात्मीयैः सह पुत्रकैः। मातृणां प्रेक्षमाणानां भद्रशाखश्च कौसलः॥ ततः कुमारपितरं स्कन्दमाहुर्जना भुवि। रुद्रमग्निमुमां स्वाहां प्रदेशेषु महाबलाम्॥ यजन्ति पुत्रकामाश्च पुत्रिणश्च सदा जनाः। यास्तास्त्वजनयत् कन्यास्तपो नाम हुताशनः॥ किं करोमीति ताः स्कन्दं सम्प्राप्ताः समभाषयन्। कुमार्य ऊचुः भवेम सर्वलोकस्य मातरो वयमुत्तमाः॥ प्रसादात् तव पूज्याश्च प्रियमेतत् कुरुष्व नः। सोऽब्रवीद् बाढमित्येवं भविष्यध्वं पृथग्विधाः॥ शिवाश्चैवाशिवाश्चैव पुनः पुनरुदारधीः। ततः संकल्प्य पुत्रत्वे स्कन्दं मातृगणोऽगमत्॥ काकी च हलिमा चैव मालिनी बृहता तथा। आर्या पलाला वैमित्रा सप्तैताः शिशुमातरः॥ एतासां वीर्यसम्पन्नः शिशु मातिदारुणः। स्कन्दप्रसादजः पुत्रो लोहिताक्षो भयंकरः॥ एष वीराष्टकः प्रोक्तः स्कन्दमातृगणोद्भवः। छागवक्त्रेण सहितो नवकः परिकीर्त्यते॥ षष्ठं छागमयं वक्त्रं स्कन्दस्यैवेति विद्धि तत्। घशिरोऽभ्यन्तरं राजन् नित्यं मातृगणार्चितम्॥ घण्णां तु प्रवरं तस्य शीर्षाणामिह शब्द्यते। शक्तिं येनासृजद् दिव्यां भद्रशाख इति स्म ह॥ इत्येतद् विविधाकारं वृत्तं शुक्लस्य पञ्चमीम्। तत्र यद्धं महाघोरं वृत्तं षष्ठ्यां जनाधिप॥ मार्कण्डेय उवाच श्रिया जुष्टं महासेनं देवसेनापतिं कृतम्। सप्तर्षिपत्न्यः षड् देव्यस्तत्सकाशमथागमन्॥ ऋषिभिः सम्परित्यक्ता धर्मयुक्ता महाव्रताः। द्रुतमागम्य चोचुस्ता देवसेनापतिं प्रभुम्॥ वयं पुत्र परित्यक्ता भर्तृभिर्देवसम्मितैः। अकारणाद् रुषा तैस्तु पुण्यस्थानात् परिच्युताः॥ अस्माभिः किल जातस्त्वमिति केनाप्युदाहृतम्। तत् सत्यमेतत् संश्रुत्य तस्मान्नस्त्रातुमर्हसि॥ अक्षयश्च भवेत् स्वर्गस्त्वत्प्रसादाद्धि नः प्रभो। त्वां पुत्रं चाप्यभीप्सामः कृत्वैतदनृणो भव॥ स्कन्द उवाच मातरो हि भवत्यो मे सुतो वोऽहमनिन्दिताः। यद्वापीच्छत तत् सर्वं सम्भविष्यति वस्तथा॥ मार्कण्डेय उवाच विवक्षन्तं ततः शक्रं किं कार्यमिति सोऽब्रवीत्। उक्तः स्कन्देन ब्रूहीति सोऽब्रवीद् वासवस्ततः॥ अभिजित् स्पर्धमाना तु रोहिण्या अनुजा स्वसा। इच्छन्ती ज्येष्ठतां देवी तपस्तप्तुं वनं गता॥ तत्र मूढोऽस्मि भद्रं ते नक्षत्रं गगनाच्च्युतम्। कालं त्विमं परं स्कन्द ब्रह्मणा सह चिन्तय॥ धनिष्ठादिस्तदा कालो ब्रह्मणा परिकल्पितः। रोहिणी ह्यभवत् पूर्वमेवं संख्या समाभवत्॥ एवमुक्ते तु शक्रेण त्रिदिवं कृत्तिका गताः। नक्षत्रं सप्तशीर्षाभं भाति तद् वह्निदैवतम्॥ विनता चाब्रवीत् स्कन्दं मम त्वं पिण्डदः सुतः। इच्छामि नित्यमेवाहं त्वया पुत्र सहासितुम्॥ स्तुताः। स्कन्द उवाच एवमस्तु नमस्तेऽस्तु पुत्रस्नेहात् प्रशाधि माम्। स्नुषया पूज्यमाना वै देवि वत्स्यसि नित्यदा॥ मार्कण्डेय उवाच अथ मातृगणः सर्वः स्कन्दं वचनमब्रवीत्। वयं सर्वस्य लोकस्य मातरः कविभिः इच्छामो मातरस्तुभ्यं भवितुं पूजयस्व नः॥ स्कन्द उवाच मातरो हि भवत्यो मे भवतीनामहं सुतः। उच्यतां यन्मया कार्यं भवतीनामथेप्सितम्॥ मातर ऊचुः यास्तु ता मातरः पूर्वं लोकस्यास्य प्रकल्पिताः। अस्माकं तु भवेत् स्थानं तासां चैव न तद् भवेत्।१६।। भवेम पूज्या लोकस्य न ताः पूज्याः सुरर्षभ। प्रजाऽस्माकं हृतास्ताभिस्त्वत्कृते ताः प्रयच्छ न:॥ स्कन्द उवाच वृत्ताः प्रजा न ताः शक्या भवतीभिनिषेवितुम्। अन्यां वः कां प्रयच्छामि प्रजां यां मनसेच्छथा।१८।। मातर ऊचुः इच्छाम तासां मातृणां प्रजा भोक्तुं प्रयच्छ नः। त्वया सह पृथग्भूता ये च तासामथेश्वराः॥ स्कन्द उवाच प्रजा वो दयि कष्टं तु भवतीभिरुदाहृतम्। परिरक्षत भद्रं वः प्रजाः साधु नमस्कृताः॥ मातर ऊचुः परिरक्षाम भद्रं ते प्रजाः स्कन्द यथेच्छसि। त्वया नो रोचते स्कन्द सहवासश्चिरं प्रभो॥ स्कन्द उवाच यावत् घोडश वर्षाणि भवन्ति तरुणाः प्रजाः। प्रबाधत मनुष्याणां तावद्रूपैः पृथग्विधैः॥ अहं च वः प्रदास्यामि रौद्रमात्मानमव्ययम्। परमं तेन सहिताः सुखं वत्स्यथ पूजिताः॥ मार्कण्डेय उवाच ततः शरीरात् स्कन्दस्य पुरुषः पावकप्रभः। भोक्तुं प्रजाः स मर्त्यानां निष्पपात महाप्रभः॥ अपतत् सहसा भूमौ विसंज्ञोऽथ क्षुधादितः। स्कन्देन सोऽभ्यनुज्ञातो रौद्ररूपोऽभवद् ग्रहः॥ स्कन्दापस्मारमित्याहुर्चहं तं द्विजसत्तमाः। विनता तु महारौद्रा कथ्यते शकुनिग्रहः॥ पूतनां राक्षसी प्राहुस्तं विद्यात् पूतनाग्रहम्। कष्टा दारुणरूपेण घोररूपा निशाचरी॥ पिशाची दारुणाकारा कथ्यते शीतपूतना। गर्भान् सा मानुषीणां तु हरते घोरदर्शना॥ अदितिं रेवतीं प्राहुर्चहस्तस्यास्तु रैवतः। सोऽपि बालान् महाघोरो बाधते वै महाग्रहः॥ दैत्यानां या दितिर्माता तामाहुर्मुखण्डिकाम्। अत्यर्थं शिशुमांसेन सम्प्रहृष्टा दुरासदा॥ कुमाराश्च कुमार्यश्च ये प्रोक्ता: स्कन्दसम्भवाः। तेऽपि गर्भभुजः सर्वे कौरव्य सुमहाग्रहाः॥ तासामेव पत्नीनां पतयस्ते प्रकीर्तिताः। आजायमानान् गृहणन्ति बालकान् रौद्रकर्मिणः॥ तु गवां माता तु या प्राज्ञैः कथ्यते सुरभिर्नृप। शकुनिस्तामथारुह्य सह भुङ्क्ते शिशून् भुवि॥ सरमा नाम या माता शुनां देवी जनाधिप। सापि गर्भान् समादत्ते मानुषीणां सदैव हि॥ पादपानां च या माता करञ्जनिलया हि सा। वरदा सा हि सौम्या च नित्यं भूतानुकम्पिनी॥ करञ्जे तां नमस्यन्ति तस्मात् पुत्रार्थिनो नराः। इमे त्वष्टादशान्ये वै ग्रहा मांसमधुप्रियाः॥ द्विपञ्चरात्रं तिष्ठन्ति सततं सूतिकागृहे। कदूः सूक्ष्मवपुर्भूत्वा गर्भिणी प्रविशत्यथ॥ भुङ्क्ते सा तत्र तं गर्भं सा तु नागं प्रसूयते। गन्धर्वाणां तु या माता सा गर्भ गृह्य गच्छति॥ ततो विलीनगर्भा सा मानुषी भुवि दृश्यते। या जनित्री त्वप्सरसां गर्भमास्ते प्रगृह्य सा॥ उपनष्टं ततो गर्भ कथयन्ति मनीषिणः। लोहितस्योदधेः कन्या धात्री स्कन्दस्य सा स्मृता॥ लोहितायनिरित्येवं कदम्बे सा हि पूज्यते। पुरुषेषु यथा रुद्रस्तथाऽऽर्या प्रमदास्वपि॥ आर्या माता कुमारस्य पृथक् कामार्थमिज्यते। एवमेते कुमाराणां मया प्रोक्ता महाग्रहाः॥ यावत् षोडश वर्षाणि शिशूनां ह्यशिवास्ततः। ये च मातृगणाः प्रोक्ताः पुरुषाश्चैव ये ग्रहाः॥ सर्वे स्कन्दग्रहा नाम ज्ञेया नित्यं शरीरिभिः। तेषां प्रशमनं कार्यं स्नानं धूपमथाञ्जनम्। बलिकार्मोपहाराच स्कन्दस्यज्याविशेषतः॥ एवमभ्यर्चिताः सर्वे प्रयच्छन्ति शुभं नृणाम्। आयुर्वीर्यं च राजेन्द्र सम्यक्पूजानमस्कृताः॥ ऊर्ध्वं तु षोडशाद् वर्षाद् ये भवन्ति ग्रहा नृणाम् तानहं सम्प्रवक्ष्यामि नमस्कृत्य महेश्वरम्॥ यः पश्यति नरो देवान् जाचद् वा शयितोऽपि वा। उन्माद्यति स तु क्षिप्रं तं तु देवग्रहं विदुः॥ आसीनश्च शयानश्च यः पश्यति नरः पितृन्। उन्माद्यति स तु क्षिप्रं स ज्ञेयस्तु पितृग्रहः॥ अवमन्यति यः सिद्धान् क्रुद्धाश्चापि शपन्ति यम्। उन्माद्यति स तु क्षिप्रं ज्ञेयः सिद्धग्रहस्तु सः॥ उपाघ्राति च यो गन्धान् रसांश्चापि पृथग्विधान्। उन्माद्यति स तु क्षिप्रं स ज्ञेयो राक्षसो ग्रहः॥ गन्धर्वाश्चापि यं दिव्याः संविशन्ति नरं भुवि। उन्माद्यति स तु क्षिप्रं ग्रहो गान्धर्व एव सः॥ अधिरोहन्ति यं नित्यं पिशाचा: पुरुषं प्रति। उन्माद्यति स तु क्षिप्रं ग्रहः पैशाच एव सः॥ आविशन्ति च यं यक्षाः पुरुषं कालपर्यये। उन्माद्यति स तु क्षिप्रं ज्ञेयो यक्षग्रहस्तु सः।।५३ यस्य दोषैः प्रकुपितं चित्तं मुह्यति देहिनः। उन्माद्यति स तु क्षिप्रं साधनं तस्य शास्त्रतः॥ वैक्लव्याच्च भयाच्चैव घोराणां चापि दर्शानात् उन्माद्यति स तु क्षिप्रं सान्त्वं तस्य तु साधनम्॥ कश्चित् क्रीडितुकामो वै भोक्तुकामस्तथापरः। अभिकामस्तथैवान्य इत्येष त्रिविधो ग्रहः॥ यावत् सप्ततिवर्षाणि भवन्त्येते ग्रहा नृणाम्। अतः परं देहिनां तु ग्रहतुल्यो भवेज्ज्वरः॥ अप्रकीर्णेन्द्रियं दान्तं शुचिं नित्यमतन्द्रितम्। आस्तिकं श्रद्दधानं च वर्जयन्ति सदा ग्रहाः॥ इत्येष ते ग्रहोद्देशो मानुषाणां प्रकीर्तितः। न स्पृशन्ति ग्रहा भक्तान् नरान् देवं महेश्वरम्॥ मार्कण्डेय उवाच यदा स्कन्देन मातृणामेवमेतत् प्रियं कृतम्। अथैनमब्रवीत् स्वाहा मम पुत्रस्त्वमौरसः॥ इच्छाम्यहं त्वया दत्तां प्रीतिं परमदुर्लभाम्। तामब्रवीत् ततः स्कन्दः प्रीतिमिच्छसि कीदृशीम्॥ स्वाहोवाच दक्षस्याहं प्रिया कन्या स्वाहा नाम महाभुजा बाल्यात्प्रभृति नित्यं च जातकामा हुताशने॥ न स मां कामिनी पुत्र सम्यक् जानाति पावकः। इच्छामि शाश्वतं वासं वस्तुं पुत्र सहाग्निना॥ स्कन्द उवाच हव्यं कव्यं च यत्किचिद् द्विजानां मन्त्रसंस्तुतम्। होष्यन्त्यग्नौ सदा देवि स्वाहेत्युक्त्वा समुद्धृतम्॥ अद्यप्रभृति दास्यन्ति सुवृत्ताः सत्पथे स्थिताः। एवमग्निस्त्वया सार्धं सदा वत्स्यति शोभने॥ मार्कण्डेय उवाच एवमुक्ता ततः स्वाहा तुष्टा स्कन्देन पूजिता। पावकेन समायुक्ता भर्ना स्कन्दमपूजयत्॥ ततो ब्रह्मा महासेनं प्रजापतिरथाब्रवीत्। अभिगच्छ महादेवं पितरं त्रिपुरार्दनम्॥ रुद्रेणाग्नि समाविश्य स्वाहामाविश्य चोमया। हितार्थं सर्वलोकानां जातस्त्वमपराजितः॥ उमायोन्यां च रुद्रेण शुक्रं सिक्तं महात्मना। अस्मिन् गिरौ निपतितं मिञ्जिकामिञ्जिकं यतः॥ सम्भूतं लोहितोदे तु शुक्रशेषमवापतत्। सूर्यरश्मिषु चाप्यन्यदन्यच्चैवापतद् भुवि॥ आसक्तमन्यद् वृक्षेषु तदेवं पञ्चधापतत्। तत्र ते विविधाकारा गणा ज्ञेया मनीषिभिः। तव पारिषदा घोरा य एते पिशिताशिनः॥ एवमस्त्विति चाप्युक्त्वा महासेनो महेश्वरम्। अपूजयदमेयात्मा पितरं पितृवत्सलः॥ मार्कण्डेय उवाच अर्कपुष्पैस्तु ते पञ्च गणाः पूज्या धनार्थिभिः। व्याधिप्रशमनार्थं च तेषां पूजां समाचरेत्॥ मिञ्जिकामिञ्जिकं चैव मिथुनं रुद्रसम्भवम्। नमस्कार्यं सदैवेह बालानां हितमिच्छता॥ स्त्रियो मानुषमांसादा वृद्धिका नाम नामतः। वृक्षेषु जातास्ता देव्यो नमस्कार्याः प्रजार्थिभिः॥ एवमेते पिशाचानामसंख्येय गणाः स्मृताः। घण्टायाः सपताकायाः शृणु मे सम्भवं नृप॥ ऐरावतस्य घण्टे द्वे वैजयन्त्याविति श्रुते। गुहस्य ते स्वयं दत्ते क्रमेणानाय्य धीमता॥ एका तत्र विशाखस्य घण्टा स्कन्दस्य चापरा। पताका कार्तिकेयस्य विशाखस्य च लोहिता॥ यानि क्रीडनकान्यस्य देवैर्दत्तानि वै तदा। तैरेव रमते देवो महासेनो महाबलः॥ स संवृतः पिशाचानां गणैर्देवगणैस्तथा। शुशुभे काञ्चने शैले दीप्यमानः श्रिया वृतः॥ तेन वीरेण शुशुभे स शैलः शुभकाननः। आदित्येनेवांशुमता मन्दरश्चारुकन्दरः॥ संतानकवनैः फुल्लैः करवीरवनैरपि। पारिजातवनैश्चैव जपाशोकवनैस्तथा।।२३। कदम्बतरुषण्डैश्च दिव्यैर्मगगणैरपि। दिव्यैः पक्षिगणैश्चैव शुशुभे श्वेतपर्वतः॥ तत्र देवगणा: सर्वे सर्वे देवर्षयस्तथा। मेघतूर्यरवाश्चैव क्षुब्धोदधिसमस्वनाः॥ तन्त्र दिव्याच गन्धर्वा नृत्यन्तेऽप्सररास्तथा! इष्टानां तत्र भूतानां श्रूयते निनदो महान्॥ एवं सेन्द्रं जगत् सर्वं श्वेतपर्वतसंस्थितम्। प्रहृष्टं प्रेक्षते स्कन्दं न च ग्लायति दर्शनात्॥ मार्कण्डेय उवाच यदाभिषिक्तो भगवान सैनापत्येन पावकिः। तदा सम्प्रस्थितः श्रीमान् हृष्टो भद्रवटं हरः॥ रथेनादित्यवर्णेन पार्वत्या सहितः प्रभुः। सहस्रं तस्य सिंहानां तस्मिन् युक्तं रथोत्तमे॥ उत्पपात दिवं शुभं कालेनाभिप्रचोदितम्। ते पिबन्त इवाकाशं त्रासयन्तश्चराचरान्॥ सिंहा नभस्यगच्छन्त नदन्तश्चारुकेसराः। तस्मिन् रथे पशुपतिः स्थितो भात्युमया सह॥ विद्युता सहितः सूर्यः सेन्द्रचापे घने यथा। अचतस्तस्य भगवान् धनेशो गुह्यकैः सह॥ आस्थाय रुचिरं याति पुष्पकं नरवाहनः। ऐरावतं समास्थाय शक्रश्चापि सुरैः सह॥ पृष्ठतोऽनुययौ यान्तं वरदं वृषभध्वजम्। जृम्भकैर्यक्षरक्षोभिः स्रग्विभिः समलङ्कृतः॥ यात्यमोघो महायक्षो दक्षिणं पक्षमास्थितः। तस्य दक्षिणतो देवा बहवश्चित्रयोधिनः॥ गच्छन्ति वसुभिः सार्धं रुदैश्च सह सङ्गताः। यमश्च मृत्युना सार्धं सर्वतः परिवारितः॥ घोरैर्व्याधिशतैर्याति घोररूपवपुस्तथा। यमस्य पृष्ठतश्चैव घोरस्त्रिशिखरः शितः॥ विजयो नाम रुद्रस्य याति शूल: स्वलकृतः। तमुचपाशो वरुणो भगवान् सलिलेश्वरः॥ परिवार्य शनैर्याति यादोभिर्विविधैर्वृतः। पृष्ठतो विजयस्यापि याति रुद्रस्य पट्टिशः॥ गदामुसलशक्त्याद्यैर्वृतः प्रहरणोत्तमैः। पट्टिशं त्वन्वगाद् राजञ्छनं रौद्रं महाप्रभम्॥ कमण्डलुश्चाप्यनु तं महर्षिगणसेवितः। तस्य दक्षिणतो भाति दण्डो गच्छन् श्रियो वृतः॥ भृग्वङ्गिरोभिः सहितो दैवतैश्चानुपूजितः। एषां तु पृष्ठतो रुद्रो विमले स्यन्दने स्थितः॥ याति संहर्षयन् सर्वांस्तेजसा त्रिदिवौकसः। ऋषयश्चापि देवाश्च गन्धर्वा भुजगास्तथा॥ नद्यो ह्रदाः समुद्राश्च तथैवाप्सरसां गणाः। नक्षत्राणि ग्रहाश्चैव देवानां शिशवश्च ये॥ स्त्रियश्च विविधाकारा यान्ति रुद्रस्य पृष्ठतः। सृजन्त्यः पुष्पवर्षाणि चारुरूपा वराङ्गनाः॥ पर्जन्यश्चाप्यनुययौ नमस्कृत्य पिनाकिनम्। छत्रं च पाण्डुरं सोमस्तस्य मूर्धन्यधारयत्॥ चामरे चापि वायुश्च गृहीत्वाग्निश्च धिष्ठितौ। शक्रश्च पृष्ठतस्तस्य याति राजच्छ्रिया वृतः॥ सह राजर्षिभिः सर्वैः स्तुवानो वृषकेतनम्। गौरी विद्याथ गान्धारी केशिनी मित्रसाह्वया॥ सावित्र्या सह सर्वास्ताः पार्वत्या यान्ति पृष्ठतः। तत्र विद्यागणा: सर्वे ये केचित् कविभिः कृताः॥ तस्य कुर्वन्ति वचनं सेन्द्रा देवाश्चमूमुखे। गृहीत्वा तु पताकां वै यात्यचे राक्षसो ग्रहः॥ व्यापृतस्तु श्मशाने यो नित्यं रुद्रस्य वै सखा। पिङ्गलो नाम यक्षेन्द्रो लोकस्यानन्ददायकः॥ एभिश्च सहितो देवस्तत्र याति यथासुखम्। अचतः पृष्ठतश्चैव न हि तस्य गतिर्बुवा॥ रुद्र सत्कर्मभिर्माः पूजयन्तीह दैवतम्। शिवमित्येव यं प्राहुरीशं रुद्रं पितामहम्॥ भावस्तु विविधाकारैः पूजयन्ति महेश्वरम्। देवसेनापतिस्त्वेवं देवसेनाभिरावृतः। अनुगच्छति देवेशं ब्रह्मण्यः कृत्तिकासुतः॥ अथावबीन्महासेनं महादेवो बृहद् वचः। सप्तमं मारुतस्कन्धं रक्ष नित्यमतन्द्रितः॥ स्कन्द उवाच सप्तमं मारुतस्कन्धं पालयिष्याम्यहं प्रभो। यदन्यदपि में कार्यं देव तद् वद माचिरम्॥ रुद्र उवाच कार्येष्वहं त्वया पुत्र संद्रष्टव्यः सदैव हि। दर्शनान्मम भक्त्या च श्रेयः परमवाप्स्यसि॥ मार्कण्डेय उवाच इत्युक्त्वा विससर्जेनं परिष्वज्य महेश्वरः। विसर्जिते ततः स्कन्दे बभूवौत्पातिकं महत्॥ सहसैव महाराज देवान् सर्वान् प्रमोहयत्। जज्वाल खं सनक्षत्रं प्रमूढं भुवनं भृशम्॥ चचाल व्यनदच्चोर्वी तमोभूतं जगद् बभौ। ततस्तद् दारुणं दृष्ट्वा क्षुभितः शङ्करस्तदा॥ उमा चैव महाभागा देवाश्च समहर्षयः। ततस्तेषु प्रमूढेषु पर्वताम्बुदसंनिभम्॥ नानाप्रहरणं घोरमदृश्यत् महद् बलम्। तद् वै घोरमसंख्येयं गर्जच्च विविधा गिरः॥ अभ्यद्रवद् रणे देवान् भगवन्तं च शङ्करम्। तैर्विसृष्टान्यनीकेषु बाणजालान्यनेकशः॥ पर्वताश्च शतघ्यश्च प्रासासिपरिघा गदाः। निपतद्भिश्च तैोरैर्देवानीकं महायुधैः॥ क्षणेन व्यद्रवत् सर्वं विमुखं चाप्यदृश्यत। निकृत्तयोधनागाश्वं कृत्तायुधमहारथम्॥ दानवैरर्दितं सैन्यं देवानां विमुखं बभौ। असुरैर्वध्यमानं तत् पावकैरिव काननम्॥ अपतद् दग्धभूयिष्ठं महाद्रुमवनं यथा। ते विभिन्नशिरोदेहाः प्राद्रवन्तो दिवौकसः॥ न नाथमधिगच्छन्ति वध्यमाना महारणे। अथ तद् विद्रुतं सैन्यं दृष्ट्वा देवः पुरंदरः॥ आश्वासयन्नुवाचेदं बलभिद् दानवादितम्। भयं त्यजत भद्रं वः शूराः शस्त्राणि गृहणत॥ कुरुध्वं विक्रमे बुद्धि मा वः काचिद् व्यथा भवेत् जयतैनात् सुदुर्वृत्तान् दानवान् घोरदर्शनान्॥ अभिद्रवत भद्रं वो मया सह महासुरान्। शक्रस्य वचनं श्रुत्वा समाश्वस्ता दिवौकसः॥ दानवान् प्रत्ययुध्यन्त शक्रं कृत्वा व्यपाश्रयम्। ततस्ते त्रिदशाः सर्वे मरुतश्च महाबलाः॥ प्रत्युद्ययुर्महाभागाः साध्याश्च वसुभिः सह। तैर्विसृष्टान्यनीकेषु क्रुद्धः शस्त्राणि संयुगे॥ शराश्च दैत्यकायेषु पिबन्ति रुधिरं बहु। तेषां देहान् विनिर्भिद्य शरास्ते निशितास्तदा॥ निपतन्तोऽभ्यदृश्यन्त नगेभ्य इव पन्नगाः। तानि दैत्यशरीराणि निर्भिन्नानि स्म सायकैः॥ अपतन् भूतले राजंश्छिन्नाभ्राणीव सर्वशः। ततस्तद् दानवं सैन्यं सर्वैर्देवगणैर्युधि॥ त्रासितं विविधैर्बाणैः कृतं चैव पराङ्मुखम्। अथोत्क्रुष्टं तदा हृष्टैः सर्वैर्देवैरुदायुधैः॥ संहतनि च तूर्याणि प्रावाद्यन्त ह्यनेकशः। एवमन्योन्यसंयुक्तं युद्धमासीत् सुदारुणम्॥ देवानां दानवानां च मांसशोणितकर्दमम्। अनयो देवलोकस्य सहसैवाभ्यदृश्यत॥ तथा हि दानवा घोरा विनिघ्नन्ति दिवौकसः। ततस्तूर्यप्रणादाश्च भेरीणां च महास्वनः॥ बभूवुर्दानवेन्द्राणां सिहनादाश्च दारुणाः। अथ दैत्यवलाद् घोरान्निष्पपात महाबलः॥ दानवो महिषो नाम प्रगृह्य विपुलं गिरिम्। ते तं घरिवादित्यं दृष्ट्वा सम्परिवारितम्॥ तमुद्यतगिरिं राजन् व्यद्रवन्त दिवौकसः। अथाभिदुत्य महिषो देवांश्चिक्षेप तं गिरिम्॥ पतता तेन गिरिणा देवसैन्यस्य पार्थिव। भीमरूपेण निहतमयुतं प्रापतद् भुवि॥ अथ तैर्दानवैः सार्धं महिषस्त्रासयन् सुरान्। अभ्यद्रवद् रणे तूर्णं सिंहः क्षुद्रमृगानिव॥ तमापतन्तं महिषं दृष्ट्वा सेन्द्रा दिवौकसः। व्यद्रवन्त रणे भीता विकीर्णायुधकेतनाः॥ ततः स महिषः क्रुद्धस्तूर्णं रुद्ररथं ययौ। अभिद्रुत्य च जग्राह रुद्रस्य रथकूबरम्॥ यदा रुद्ररथं क्रुद्धो महिषः सहसा गतः। रेसतू रोदसी गाढं मुमुहुश्च महर्षयः॥ अनदंश्च महाकाया दैत्या जलधरोपमाः। आसीच्च निश्चितं तेषां जितमस्माभिरित्युत॥ तथाभूते तु भगवान् नावधीन्महिषं रणे। सस्मार च तदा स्कन्दं मृत्यु तस्य दुरात्मनः॥ महिषोऽपि रथं दृष्ट्वा रौद्रोरुद्रस्य चानदत्। देवान संत्रासयंश्चापि दैत्यांश्चापि प्रहर्षयन्॥ ततस्तस्मिन् भये घोरे देवानां समुपस्थिते। आजगाम महासेनः क्रोधात् सूर्य इव ज्वलन्॥ लोहिताम्बरसंवीतो लोहितस्त्रग्विभूषणः। लोहिताश्वो महाबाहुर्हिरण्यकवचः प्रभुः॥ रथमादित्यसंकाशमास्थितः कनकप्रभम्। तं दृष्ट्वा दैत्यसेना सा व्यद्रवत् सहसा रणे॥ स चापि तां प्रज्वलितां महिषस्य विदारिणीम्। मुमोच शक्ति राजेन्द्र महासेनो महाबलः॥ सा मुक्ताभ्यहरत् तस्य महिषस्य शिरो महत्। पपात भिन्ने शिरसि महिषस्त्यक्तजीवितः॥ पतता शिरसा तेन द्वारं षोडशयोजनम्। पर्वताभेन पिहितं तदागम्यं ततोऽभवत्॥ उत्तराः कुरवस्तेन गच्छन्त्यद्य यथासुखम्। क्षिप्ताक्षिप्ता तु सा शक्तिहत्वा शत्रून् सहस्रशः॥ स्कन्दहस्तमनुप्राप्ता दृश्यते देवदानवैः। प्रायः शरैर्विनिहता महासेनेन धीमता॥ शेषा दैत्यगणा घोरा भीतास्त्रस्ता दुरासदैः। स्कन्दपारिषदैर्हत्वा भक्षिताश्च सहस्रशः॥ दानवान् भक्षयन्तस्ते प्रपिबन्तश्च शोणितम्। क्षणान्निनवं सर्वमकार्षु शहर्षिताः॥ तमांसीव यथा सूर्यो वृक्षानग्निर्घनान् खगः। तथा स्कन्दोऽजयच्छत्रून् स्वेन वीर्येण कीर्तिमान्।१०२॥ सम्पूज्यमानस्त्रिदशैरभिवाद्य महेश्वरम्। शुशुभे कृत्तिकापुत्रः प्रकीर्णांशुरिवांशुमान॥ नष्टशत्रुर्यदा स्कन्दः प्रयातस्तु महेश्वरम्। तदाब्रवीन्महासेनं परिष्वज्य पुरंदरः॥ ब्रह्मदत्तवरः स्कन्द त्वयायं महिषो हतः। देवास्तृणसमा यस्य बभूवुर्जयतां वर॥ सोऽयं त्वया महाबाहो शमितो देवकण्टकः। शतं महिषतुल्यानां दानवानां त्वया रणे॥ निहतं देवशत्रूणां यैर्वयं पूर्वतापिताः। तावकैर्भक्षिताश्चान्ये दानवाः शतसङ्घशः॥ अजेयस्त्वं रणेऽरीणामुमापतिरिव प्रभुः। एतत् ते प्रथमं देव ख्यातं कर्म भविष्यति॥ त्रिषु लोकेषु कीर्तिश्च तवाक्षय्या भविष्यति। वशगाश्च भविष्यन्ति सुरास्तव महाभुज॥ एवमुक्त्वा महासेनं निवृत्तः सह दैवतैः। अनुज्ञातो भगवता त्र्यम्बकेण शचीपतिः॥ गतो भद्रवट रुद्रो निवृत्ताश्च दिवौकसः। उक्ताश्च देवा रुद्रेण स्कन्दं पश्यत मामिव॥ स हत्वा दानवगणान् पूज्यमानो महर्षिभिः। एकाद्वैवाजयत् सर्वं त्रैलोक्यं वह्निनन्दनः॥ स्कन्दस्य य इदं विप्रः पठेज्जन्म समाहितः। स पुष्टिमिह सम्प्राप्य स्कन्दसालोक्यमाप्नुयात्॥ वैशम्पायन उवाच उपासीनेषु विप्रेषु पाण्डवेषु महात्मसु। द्रौपदी सत्यभामा च विविशाते तदा समम्॥ जाहस्यमाने सुप्रीते सुखं तत्र निषीदतुः। चिरस्य दृष्ट्वा राजेन्द्र तेऽन्योन्यस्य प्रियंवदे॥ कथयामासतुश्चित्राः कथा: कुरुयत्थिताः। अथाब्रवीत् सत्यभामा कृष्णस्य महिषी प्रिया।॥ सात्राजिती याज्ञसेनी रहसीदं सुमध्यमा। केन द्रौपदि वृत्तेन पाण्डवानधितिष्ठसि॥ लोकपालोपमान् वीरान् पुन: परमसंहतान्। कथं च वशगास्तुभ्यं न कुप्यन्ति च ते शुभे॥ तव वश्या हि सततं पाण्डवाः प्रियदर्शने। मुखप्रेक्षाश्च ते सर्वे तत्त्वमेतद् ब्रवीहि मे॥ व्रतचर्या तपो वापि स्नानमन्त्रौषधानि वा। विद्यावीर्यं मूलवीर्यं जपहोमागदास्तथा॥ ममाद्याचक्ष्व पाञ्चालि यशस्यं भगदैवतम्। येन कृष्णे भवेन्नित्यं मम कृष्णो वशानुगः॥ एवमुक्त्वा सत्यभामा विरराम यशस्विनी। पतिव्रता महाभागा द्रौपदी प्रत्युवाच ताम्॥ असत्स्त्रीणां समाचारं सत्ये मामनुपृच्छसि। असदाचरिते मार्गे कथं स्यादनुकीर्तनम्॥ अनुप्रश्नः संशयो वा नैतत् त्वय्युपपद्यते। तथा छुपेता बुद्ध्या त्वं कृष्णस्य महिषी प्रिया॥ यदैव भर्ता जानीयान्मन्त्रमूलपरां स्त्रियम्। उद्विजेत तदैवास्याः सर्पाद् वेश्मगतादिव।॥ उद्विग्नस्य कुतः शान्तिरशान्तस्य कुतः सुखम्। न जातु वशगो भर्ता स्त्रियाः स्यान्मन्त्रकर्मणा॥ अमित्रप्रहितांश्चापि गदान् परमदारुणान्। मूलप्रचारैर्हि विषं प्रयच्छन्ति जिघांसवः॥ जिह्वया यानि पुरुषस्त्वचा वाप्युपसेवते। तत्र चूर्णानि दत्तानि हन्युः क्षिप्रमसंशयम्॥ जलोदरसमायुक्ताः श्चित्रिणः पलितास्तथा। अपुमांसः कृताः स्त्रीभिर्जडान्धबधिरास्तथा॥ पापानुगास्तु पापास्ताः पतीनुपसृजन्त्युत। न जातु विप्रियं भर्तुः स्त्रिया कार्यं कथंचन॥ वर्ताम्यहं तु यां वृत्तिं पाण्डवेषु महात्मसु। तां सर्वां शृणु मे सत्यां सत्यभामे यशस्विनि॥ अहंकारं विहायाहं कामक्रोधौ च सर्वदा। सदारान् पाण्डवान् नित्यं प्रयतोपचराम्यहम्॥ प्रणयं प्रतिसंहृत्य निधायात्मानमात्मनि। शुश्रुषुनिरहंमाना पतीनां चित्तरक्षिणी॥ दुर्व्याहताच्छङ्कमाना दुःस्थिताद् दुरवेक्षितात्। दुरासिताद् दुर्वजितादिङ्गिताध्यासितादपि॥ सूर्यवैश्वानरसमान् सोमकल्पान् महारथान्। सेवे चक्षुर्हणः पार्थानुचवीर्यप्रतापिनः॥ देवो मनुष्यो गन्धर्वो युवा चापि स्वलंकृतः। द्रव्यवानभिरूपो वा न मेऽन्यः पुरुषो मतः॥ नाभुक्तवति नास्नाते नासंविष्टे च भर्तरि। न संविशामि नाश्नामि सदा कर्मकरेष्वपि॥ क्षेत्राद् वनाद् वा ग्रामाद् वा भर्तारं गृहमागतम्। अभ्युत्थायाभिनन्दामि आसनेनोदकेन च॥ प्रमृष्टभाण्डा मृष्टान्ना काले भोजनदायिनी। संयता गुप्तधान्या च सुसम्मृष्टनिवेशना॥ अतिरस्कृतसम्भाषा दुःस्त्रियो नानुसेवती। अनुकूलवती नित्यं भवाम्यनलसा सदा॥ अनर्म चापि हसितं द्वारि स्थानमभीक्षणशः। अवस्करे चिरस्थानं निष्कुटेषु च वर्जये॥ अतिहासातिरोषौ च क्रोधस्थानं च वर्जये। निरताहं सदा सत्ये भर्तृणामुपसेवने।॥ सर्वथा भर्तृरहितं न ममेष्ट कथंचन। यदा प्रवसते भर्ता कुटुम्बार्थेन केनिचत्॥ सुमनोवर्णकापेता भवामि व्रतचारिणी। यच्च भर्ता न पिवति यच्च भर्ता न सेवते॥ यच्च नाश्नाति मे भर्ता सर्वं तद् वर्जयाम्यहम्। यथोपदेशं नियता वर्तमाना वराङ्गने॥ स्वलंकृता सुप्रयता भर्तुः प्रियहिते रता। ये च धर्माः कुटुम्बेषु श्वश्र्वा मे कथिताः पुरा॥ भिक्षाबलिश्राद्धमिति स्थालीपाकाच पर्वसु। मान्यानां मानसत्कारा ये चान्ये विदिता मम॥ तान् सर्वाननुवर्तेऽहं दिवारात्रमतन्द्रिता। विनयान् नियमांश्चैव सदा सर्वात्मना श्रिता॥ मृदून् सतः सत्यशीलान् सत्यधर्मानुपालिनः। आशीविषानिव क्रुद्धान् पतीन् परिचराम्यहम्॥ पत्याश्रयो हि मे धर्मो मतः स्त्रीणां सनातनः। स देवः सा गतिर्नान्या तस्य का विप्रियं चरेत्॥ अहं पतीन् नातिशये नात्यश्ने नातिभूषये। नापि श्वश्रू परिवदे सर्वदा परियन्त्रिता॥ अवधानेन सुभगे नित्योत्थिततयैव च। भर्तारो वशगा मह्यं गुरुशुश्रूषयैव च॥ नित्यमार्यामहं कुन्तीं वीरसूं सत्यवादिनीम्। स्वयं परिचराम्येतां पानाच्छादनभोजनैः॥ नैतामतिशये जातु वस्त्रभूषणभोजनैः। नापि परिवदे चाहं तां पृथां पृथिवीरामाम्॥ अष्टावचे ब्राह्मणानां सहस्राणि स्म नित्यदा। भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने॥ अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः। त्रिंशद्दासीक एकैको यान् बिभर्ति युधिष्ठिरः॥ दशाऱ्यानि सहस्राणि येषामन्नं सुसंस्कृतम्। ह्रियते रुक्मपात्रीभिर्यतीनामूवरेतसाम्॥ तान् सर्वानग्रहारेण ब्राह्मणान् वेदवादिनः। यथार्ह पूजयामि स्म पानाच्छादनभोजनैः॥ शतं दासीसहस्राणि कौन्तेयस्य महात्मनः। कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलकृताः॥ महार्हमाल्याभरणाः सुवर्णाश्चन्दनोक्षिताः। मणीन् हेम च बिभ्रत्यो नृत्यगीतविशारदाः॥ तासां नाम च रूपं च भोजनाच्छादनानि च। सर्वासामेव वेदाहं कर्म चैव कर्म चैव कृताकृतम्॥ शतं दासीसहस्राणि कुन्तीपुत्रस्य धीमतः। पात्रीहस्ता दिवारात्रमतिथीन् भोजयन्त्युत॥ शतमश्वसहस्राणि दशनागायुतानि च। युधिष्ठिरस्यानुयात्रमिन्द्रप्रस्थनिवासिनः॥ एतदासीत् तदा राज्ञो यन्महीं पर्यपालयत्। येषां संख्याविधिं चैव प्रदिशामि शृणोमि च॥ अन्तःपुराणां सर्वेषां भृत्यानां चैव सर्वशः। आगोपालाविपालेभ्यः सर्वं वेद कृताकृतम्॥ सर्वं राज्ञः समुदयमायं च व्ययमेव च। एकाहं वेधि कल्याणि पाण्डवानां यशस्विनि॥ मयि सर्वं समासज्य कुटुम्ब भरतर्षभाः। उपासनरताः सर्वे घटयन्ति वरानने॥ तमहं भारमासक्तमनाधृष्यं दुरात्मभिः। सुखं सर्वं परित्यज्य राज्यहानि घटामि वै॥ अधृष्यं वरुणस्येव निधिपूर्णमिवोदधिम्। एकाहं वेद्मि कोशं वै पतीनां धर्मचारिणाम्॥ अनिशायां निशायां च सहा या क्षुत्पिपासयोः। आराधयन्त्याः कौरव्यांस्तुल्या रात्रिरहश्च मे॥ प्रथमं प्रतिबुध्यामि चरमं संविशामि च। नित्यकालमहं सत्ये एतत् संवननं मम॥ एतज्जानाम्यहं कर्तुं भर्तृसंवननं महत्। असत्स्त्रीणां समाचार नाहं कुर्यां न कामये॥ वैशम्पायन उवाच तच्छ्रुत्वा धर्मसहितं व्याहृतं कृष्णया तदा। उवाच सत्या सत्कृत्य पाञ्चालीं धर्मचारिणीम्॥ अभिपन्नास्मि पाञ्चालि याज्ञसेनि क्षमस्व मे। कामकारः सखीनां हि सोपहासं प्रभाषितम्॥ द्रौपद्युवाच इमं तु ते मार्गमपेतमोहं वक्ष्यामि चित्तग्रहणाय भर्तुः। अस्मिन् यथावत् सखि वर्तमाना भर्तारमाच्छेत्स्यसि कामिनीभ्यः॥ नैतादृशं दैवतमस्ति सत्ये सर्वेषु लोकेषु सदेवकेषु। यथा पतिस्तस्य त सर्वकाम लभ्याः प्रसादात् कुपितश्च हन्यात्॥ तस्मादपत्यं विविधाश्च भोगाः शय्यासनान्युत्तमदर्शनानि। वस्त्राणि माल्यानि तथैव गन्धाः स्वर्गश्च लोको विपुला च कीर्तिः॥ सुखं सुखेनेह न जातु लभ्यं दुःखेन साध्वी लभते सुखानि। सा कृष्णमाराधय सौहदेन प्रेम्णा च नित्यं प्रतिकर्मणा च॥ र्दाक्षिण्ययोगैर्विविधैश्च गन्धैः। अस्याः प्रियोऽस्मीति यथा विदित्वा त्वामेव संश्लिष्यति तद् विधस्त्व॥ श्रुत्वा स्वरं द्वारगतस्य भर्तुः प्रत्युत्थिता तिष्ठ गृहस्य मध्ये। दृष्ट्वा प्रविष्टं त्वरिताऽऽसनेन पायेन चैनं प्रतिपूजयस्व॥ मुत्थाय सर्वं स्वयमेव कार्यम्। जानातु कृष्णस्तव भावमेतं सर्वात्मना मां भजतीति सत्ये॥ त्वत्संनिधौ यत् कथयेत् पतिस्ते यद्यप्यगुह्यं परिरक्षितव्यम्। काचित् सपत्नी तव वासुदेवं प्रत्यादिशेत् तेन भवेद् विरागः॥ स्तान् भोजयेथा विविधैरुपायैः। द्वेष्यैरुपेक्ष्यैरहितैश्च तस्य भिद्यस्व नित्यं कुहकोद्यतैश्च॥ मदं प्रमादं पुरुषेषु हित्वा संयच्छ भावं प्रतिगृह्य मौनम्। प्रद्युम्नसाम्बावपि ते कुमारी नोपासितव्यौ रहिते कदाचित्॥ महाकुलीनाभिरपापिकाभिः स्त्रीभिः सतीभिस्तव सख्यमस्तु। चण्डाश्च शौण्डाश्च महाशनाश्च चौराश्च दुष्टाश्चपलाश्च वाः॥ एतद् यशस्यं भगदैवतं च स्वार्थं तथा शत्रुनिबर्हणं च। महार्हमाल्याभरणाङ्गरागा भर्तारमाराधय पुण्यगन्धा॥ वैशम्पायन उवाच मार्कण्डेयादिभिर्विप्रैः पाण्डवैश्च महात्मभिः। कथाभिरनुकूलाभिः सह स्थित्वा जनार्दनः॥ ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः। आरुरुक्षू रथं सत्यामाह्वयामास केशवः॥ सत्यभामा ततस्तत्र स्वजित्वा दुपदात्मजाम्। उवाच वचनं हृद्यं यथाभावं समाहितम्॥ कृष्णे मा भूत् तवोत्कण्ठा मा व्यथा मा प्रजागरः। भर्तृभिर्देवसंकाशैर्जितां प्राप्स्यसि मेदिनीम्॥ न ह्येवं शीलसम्पन्ना नैवं पूजितलक्षणाः। प्राप्नुवन्ति चिरं क्लेशं यथा त्वमसितेक्षणे॥ अवश्यं च त्वया भूमिरियं निहतकण्टका। भर्तृभिः सह भोक्तव्या निर्द्वन्द्वेति श्रुतं मया।॥ धार्तराष्ट्रवधं कृत्वा वैराणि प्रतियात्य च। युधिष्ठिरस्थां पृथिवीं द्रक्ष्यसि दुपदात्मजे॥ यास्ताः प्रव्रजमानां त्वां प्राहसन् दर्पमोहिताः। ता: क्षिप्रं हतसंकल्पा द्रक्ष्यसि त्वं कुरुस्त्रियः॥ तव दुःखोपपन्नाया यैराचरितमप्रियम्। विद्धि सम्प्रस्थितान् सर्वांस्तान् कृष्णे यमसादनम्॥ पुत्रस्ते प्रतिविन्ध्यश्च सुतसोमस्तथाविधः। श्रुतकर्मार्जुनिश्चैव शतानीकश्च नाकुलिः॥ सहदेवाच्च यो जातः श्रुतसेनस्तवात्मजः। सर्वे कुशलिनो वीराः कृतास्त्राश्च सुतास्तव॥ अभिमन्युरिव प्रीता द्वारवत्यां रता भृशम्। त्वमिवैषां सुभद्रा च प्रीत्या सर्वात्मना स्थिता।॥ प्रीयते तव निर्द्वन्द्वा तेभ्यश्च विगतज्वरा। दुःखिता तेन दुःखेन सुखेन सुखिता तथा॥ भजेत् सर्वात्मना चैव प्रद्युम्नजननी तथा। भानुप्रभृतिभिश्चैनान् विशिनष्टि च केशवः॥ भोजनाच्छादने चैषां नित्यं मे श्वशुराः स्थितः। रामप्रभृतयः सर्वे भजन्त्यन्धकवृष्णयः॥ तुल्यो हि प्रणयस्तेषां प्रद्युम्नस्य च भाविनि। एवमादि प्रियं सत्यं हृद्यमुक्त्वा मनोऽनुगम्॥ गमनाय मनश्चक्रे वासुदेवरथं प्रति। तां कृष्णां कृष्णमहिषी चकाराभिप्रदक्षिणम्॥ आरुरोह रथं शौरेः सत्यभामाथ भाविनी। स्मयित्वा तु यदुश्रेष्ठो द्रौपदी परिसान्त्व्य च। उपावर्त्य ततः शीघैर्हयैः : प्रायात् पुरं स्वकम्॥ जनमेजय उवाच एवं वने वर्तमाना नराम्याः शीतोष्णवातातपकर्शिताङ्गाः। सरस्तदासाद्य वनं च पुण्यं ततः परं किमकुर्वन्त पार्थाः॥ वैशम्पायन उवाच सरस्तदासाद्य तु पाण्डुपुत्रा जनं समुत्सृज्य विधाय वेशम्। वनानि रम्याण्यथ पर्वतांश्च नदीप्रदेशांश्च तदा विचेरुः॥ तथा वने तान् वसतः प्रवीरान् स्वाध्यायवन्तश्च तपोधनाचा स्तान् पूजयामासुरथो नरायाः॥ ततः कदाचित् कुशल: कथासु विप्रोऽभ्यगच्छद् भुवि कौरवेयान्। स तैः समेत्याथ यदृच्छयैव वैचित्रवीर्यं नृपमभ्यगच्छत्॥ अथोपविष्टः प्रतिसत्कृतश्च वृद्धेन राज्ञा कुरुसत्तमेन। प्रचोदित: संकथयाम्बभूव धर्मानिलेन्द्रप्रभवान् यमौ च॥ कृशांश्च वातातपकर्शिताङ्गान् दुःखस्य चोचस्य मुखे प्रपन्नान्। तां चाप्यनाथामिव वीरनाथां कृष्णां परिक्लेशगुणेन युक्ताम्॥ ततः कथास्तस्य निशभ्य राजा वैचित्रवीर्यः कृपयाभितप्तः। वने तथा पार्थिवपुत्रपौत्रान् श्रुत्वा तथा दुःखनदी प्रपन्नान्॥ प्रोवाच दैन्याभिहतान्तरात्मा निःश्वासवातोपहतस्तदानीम्। वाचं कथंचित् स्थिरतामुपेत्य तत् सर्वमात्मप्रभवं विचिन्त्या८॥ कथं नु सत्यः शुचिरार्यवृत्तो ज्येष्ठः सुतानां मम धर्मराजः। अजातशत्रुः पृथिवीतले स्म शेते पुरा राङ्कवकूटशायी॥ नित्यं स्तुवद्भिः स्वयमिन्द्रकल्पः। पतत्त्रिसझै स जघन्यरात्रे प्रबोध्यते नूनमिडातलस्थः॥ कथं नु वातातपकर्शिताङ्गो वृकोदरः कोपपरिप्लुताङ्गः। शेते पृथिव्यामतथोचिताङ्गः कृष्णासमक्षं वसुधातलस्थः॥ तथार्जुनः सुकुमारो मनस्वी वशे स्थितो धर्मसुतस्य राज्ञः। धुवं न शेते वसतीरमर्षात्॥ यमौ च कृष्णां च युधिष्ठिरं च भीमं च दृष्ट्वा सुखविप्रयुक्तम्। विनिःश्वसन् सर्प इवोचतेजा ध्रुवं न शेते वसतीरमर्षात्॥ तथा यमौ चाप्यसुखौ सुखार्हो समृद्धरूपावमरौ दिवीव। प्रजागरस्थौ ध्रुवमप्रशान्तौ धर्मेण सत्येन च वार्यमाणौ॥ समीरणेनाथ समो बलेन समीरणस्यैव सुतो बलीयान्। स धर्मपाशेन सितोऽचजेन ध्रुवं विनिःश्वस्य सहत्यमर्षम्॥ स चापि भूमौ परिवर्तमानो वधं सुतानां मम काक्षमाणः। सत्येन धर्मेण च वार्यमाणः कालं प्रतीक्षत्यधिको रणेऽन्यैः॥ अजातशत्रौ तु जिते निकृत्या दुःशासनो यत् परुषाण्यवोचत्। तानि प्रविष्टानि वृकोदराङ्गं दहन्ति कक्षाग्निरिवेन्धनानि॥ न पापकं ध्यास्यति धर्मपुत्रो धनंजयश्चाप्यनुवय॑ते तम्। अरण्यवासेन विवर्धते तु भीमस्य कोपोऽग्निरिवानिलेन॥ स तेन कोपेन विदह्यमानः करं करेणाभिनिपीड्य वीरः। विनिःश्वसत्युष्णमतीव घोरं दहन्निवेमान् मम पुत्रपौत्रान्॥ गाण्डीवधन्वा च वृकोदरश्च संरम्भिणावन्तककालकल्पौ। न शेषयेतां युधि शत्रुसेनां शरान् किरन्तावशनिप्रकाशान्॥ दुर्योधनः शकुनिः सूतपुत्रो दुःशासनश्चापि सुमन्दचेताः। मधु प्रपश्यन्ति न तु प्रपातं यद् द्यूतमालम्ब्य हरन्ति राज्यम्॥ शुभाशुभं कर्म नरो हि कृत्वा प्रतीक्षते तस्य फलं स्म कर्ता। स तेन मुह्यत्यवशः फलेन मोक्षः कथं स्यात् पुरुषस्य तस्मात्॥ क्षेत्रे सुकृष्टे ह्यपिते च बीजे देवे च वर्षत्यूतुकालयुक्तम्। रन्यत्र दैवादिति चिन्तयामि॥ कृतं मताक्षेण यथा न साधु साधुप्रवृत्तेन च पाण्डवेन। मया च दुष्पुत्रवशानुगेन तथा कुरूणामयमन्तकालः॥ गर्भिणी या। ध्रुवं प्रवास्यत्यसमीरितोऽपि ध्रुवं प्रजास्यत्युत स्तथा क्षपादौ च दिनप्रणाशः॥ वित्तं न दद्युः पुरुषाः कथंचित्। प्राप्यार्थकालं च भवेदनर्थ: कथं न तत् स्यादिति तत् कुतः स्यात्॥ कथं न भिद्येत न च स्रवेत न च प्रसिच्येदिति रक्षितव्यम्। अरक्ष्यमाणं शतधा प्रकीर्येद् ध्रुवं न नाशोऽस्ति कृतस्य लोके॥ गतो हरण्यादपि शक्रलोकं धनंजयः पश्यत वीर्यमस्य। अस्त्राणि दिव्यानि चतुर्विधानि ज्ञात्वा पुनर्लोकमिमं प्रपन्नः॥ स्वर्गं हि गत्वा सशरीर एव को मानुषः पुनरागन्तुमिच्छेत्। अन्यत्र कालोपहताननेकान् समीक्षमाणस्तु कुरून् मुमूर्षुन्॥ धनुर्चाहश्चार्जुनः सव्यसाची धनुश्च तद् गाण्डिवं भीमवेगम्। अस्त्राणि दिव्यानि च तानि तस्य त्रयस्य तेजः प्रसहेत कोऽत्र॥ निशम्य तद् वचनं पार्थिवस्य दुर्योधनं रहिते सौबलोऽथ। अबोधयत् कर्णमुपेत्य सर्वं स चाप्यहृष्टोऽभवदल्पचेताः॥ वैशम्पायन उवाच धृतराष्ट्रस्य तद् वाक्यं निशम्य शकुनिस्तदा। दुर्योधनमिदं काले कर्णेन सहितोऽब्रवीत्॥ प्रव्राज्य पाण्डवान् वीरान् स्वेन वीर्येण भारत। भुक्ष्येमां पृथिवीमेको दिवि शम्बरहा यथा॥ प्राच्याश्च दाक्षिणात्याश्च प्रतीच्योदीच्यवासिनः। कृताः करप्रदाः सर्वे राजानस्ते नराधिप।॥ या हि सा दीप्यमानेव पाण्डवानभजत् पुरा। साद्य लक्ष्मीस्त्वया राजन्नवाप्ता भ्रातृभिः सह॥ इन्द्रप्रस्थगते यां तां दीप्यमानां युधिष्ठिरे। अपश्याम श्रियं राजन् दृश्यते सा तवाद्य वै॥ शत्रवस्तव राजेन्द्र न चिरं शोककर्शिताः। सा तु बुद्धिबलेनेयं राज्ञस्तस्माद् युधिष्ठिरात्॥ त्वयाऽऽक्षिप्ता महाबाहो दीप्यमानेव दृश्यते। तथैव तव राजेन्द्र राजानः परवीरहन्॥ शासनेऽधिष्ठिताः सर्वे किं कुर्म इति वादिनः। तवेयं पृथिवी राजन् निखिला सागराम्बरा॥ सपर्वतवना देवी सग्रामनगराकरा। नानावनोद्देशवती पर्वतैरुपशोभिता।॥ वन्द्यमानो द्विजै राजन् पूज्यमानश्च राजभिः। पौरुषाद् दिवि देवेषु भ्राजसे रश्मिवानिव॥ सबैरिव यमो राजा मरुद्भिरिव वासवः। कुरुभिस्त्वं वृतो राजन् भासि नक्षत्रराडिव॥ यैः स्म ते नाद्रियेताज्ञा न च ये शासने स्थिताः। पश्यामस्तान् श्रिया हीनान् पाण्डवान् वनवासिनः॥ श्रूयते हि महाराज सरो द्वैतवनं प्रति। वसन्तः पाण्डवाः सार्धं ब्राह्मणैर्वनवासिभिः॥ स प्रयाहि महाराज श्रिया परमया युतः। तापयन् पाण्डुपुत्रांस्त्वं रश्मिवानिव तेजसा॥ स्थितो राज्ये च्युतान् राज्याच्छ्यिा हीनाञ्छ्यिा वृतः। असमृद्धान् समृद्धार्थः पश्य पाण्डुसुतान् नृप॥ महाभिजनसम्पन्नं भद्रे महति संस्थितम्। पाण्डवास्त्वाभिवीक्षन्तां ययातिमिव नाहुषम्॥ यां श्रियं सुहृदश्चैव दुर्हदश्च विशाम्पते। पश्यन्ति पुरुषे दीप्तां सा समर्था भवत्युत॥ समस्थो विषमस्थान् हि दुर्हदो योऽभिवीक्षते। जगतीस्थानिवाद्रिस्थः किमतः परमं सुखम्॥ न पुत्रधनलाभेन न राज्येनापि विन्दति। प्रीतिं नृपतिशार्दूल याममित्राघदर्शनात्॥ किं नु तस्य सुखं न स्यादाश्रमे यो धनंजयम्। अभिवीक्षेत सिद्धार्थो वल्कलाजिनवाससम्॥ सुवाससो हि ते भार्या वल्कलाजिनसंवृताम्। पश्यन्तु दुःखितां कृष्णां सा च निर्विद्यतां पुनः॥ विनिन्दतां तथाऽऽत्मानं जीवितं च धनच्युतम्। न तथा हि सभामध्ये तस्या भवितुमर्हति। वैमनस्यं यथा दृष्ट्वा तव भार्याः स्वलंकृताः॥ वैशम्पायन उवाच एवमुक्त्वा तु राजानं कर्णः शकुनिना सह। तूष्णीम्बभूवतुरुभौ वाक्यान्ते जनमेजय॥ वैशम्पायन उवाच कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्ततः। हृष्टो भूत्वा पुनर्दीन इदं वचनमब्रवीत्॥ ब्रवीषि यदिदं कर्ण सर्वं मनसि मे स्थितम्। न त्वभ्यनुज्ञा लप्स्यामि गमने यत्र पाण्डवाः॥ परिदेवति तान् वीरान् धृतराष्ट्रो महीपतिः। मन्यतेऽभ्यधिकांश्चापि तपोयोगेन पाण्डवान्॥ अथवाप्यनुबुध्येत नृपोऽस्माकं चिकीर्षितम्। एवमप्यायतिं रक्षन् नाभ्यनुज्ञातुमर्हति॥ न हि द्वैतवने किंचिद् विद्यतेऽन्यत् प्रयोजनम्। उत्सादनमृते तेषां वनस्थानां महाद्युते॥ जानासि हि यथा क्षत्ता द्यूतकाल उपस्थिते। अब्रवीद् यच्च मां त्वां च सौबलं वचनं तदा॥ तानि सर्वाणि वाक्यानि यच्चान्यत् परिदेवितम्। विचिन्त्य नाधिगच्छामि गमनायेतराय वा॥ ममापि हि महान् हर्षो यदहं भीमफाल्गुनौ। क्लिष्टावरण्ये पश्येयं कृष्णया सहिताविति।॥ न तथा ह्याप्नुयां प्रीतिमवाप्य वसुधामिमाम्। दृष्ट्वा यथा पाण्डुसुतान् वल्कलाजिनवाससः॥ किं नु स्यादधिकं तस्माद् यदहं दुपदात्मजाम्। द्रौपदी कर्ण पश्येयं काषायवसनां वने।॥ यदि मां धर्मराजश्च भीमसेनश्च पाण्डवः। युक्तं परमया लक्ष्या पश्येतां जीवितं भवेत्॥ उपायं न तु पश्यामि येन गच्छेम तद् वनम्। यथा चाभ्यनुजानीयाद् गच्छन्तं मां महीपतिः॥ स सौबलेन सहितस्तथा दुःशासनेन च। उपायं पश्य निपुणं येन गच्छेम तद् वनम्॥ अहमष्यद्य निश्चित्य गमनायेतराय च। कल्यमेव गमिष्यामि समीपं पार्थिवस्य ह॥ मयि तत्रोपविष्टे तु भीष्मे च कुरुसत्तमे। उपायो यो भवेद् दृष्टस्तं ब्रूयाः सहसौबलः॥ वचो भीष्मस्य राज्ञश्च निशम्य गमनं प्रति। व्यवसायं करिष्येऽहमनुनीय पितामहम्॥ तथेत्युक्त्वा तु ते सर्वे जग्मुरावसथान् प्रति। व्युषितायां रजन्यां तु कर्णो राजानमभ्ययात्॥ ततो दुर्योधनं कर्णः प्रहसन्निदमब्रवीत्। उपायः परिदृष्टोऽयं तं निबोध जनेश्वर।॥ घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप। घोषयात्रापदेशेन गमिष्यामो न संशयः॥ उचितं हि सदा गन्तुं घोषयात्रां विशाम्पते। एवं च त्वां पिता राजन् समनुज्ञातुमर्हति॥ तथा कथयमानौ तौ घोषयात्राविनिश्चयम्। गान्धारराजः शकुनिः प्रत्युवाच हसन्निव॥ उपायोऽयं मया दृष्टो गमनाय निरामयः। अनुज्ञास्यति नो राजा बोधयिष्यति चाप्युत॥ घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप। घोषयात्रापदेशेन गमिष्यामो न संशयः॥ ततः प्रहसिताः सर्वे तेऽन्योन्यस्य तलान् ददुः। तदेव च विनिश्चित्य ददृशुः कुरुसत्तमम्॥ वैशम्पायन उवाच धृतराष्ट्र ततः सर्वे ददृशुर्जनमेजय। पृष्ट्वा सुखमथो राज्ञः पृष्टा राज्ञा च भारत॥ ततस्तैर्विहितः पूर्वं समङ्गो नाम बल्लवः। समीपस्थास्तदा गावो धृतराष्ट्र न्यवेदयत्॥ अनन्तरं च राधेयः शकुनिश्च विशाम्पते। आहतुः पार्थिवश्रेष्ठं धृतराष्ट्र जनाधिपम्॥ रमणीयेषु देशेषु घोषाः सम्प्रति कौरव। स्मारणे समयः प्राप्तो वत्पानामपि चाङ्कनम्॥ मृगया चोचिता राजन्नस्मिन् काले सुतस्य ते। दुर्योधनस्य गमनं समनुज्ञातुमर्हसि॥ धृतराष्ट्र उवाच मृगया शोभना तात गवां हि समवेक्षणम्। विश्रम्भस्तु न गन्तव्यो वल्लवानामिति स्मरे॥ ते तु तत्र नरव्याघ्राः समीप इति नः श्रुतम्। अतो नाभ्यनुजानामि गमनं तत्र वः स्वयम्॥ छद्मना निर्जितास्ते तु कर्शिताश्च महावने। तपोनित्याश्च राधेय समर्थाश्च महारथाः॥ धर्मराजो न संक्रुद्ध्येद् भीमसेनस्त्वमर्षणः। यज्ञसेनस्य दुहिता तेज एव तु केवलम्॥ यूयं चाप्यपराध्येयुर्दर्पमोहसमन्विताः। ततो विनिर्दहेयुस्ते तपसा हि समन्विताः॥ अथवा सायुधा वीरा मन्युनाभिपरिप्लुताः। सहिता बद्धनिस्त्रिंशा दहेयुः शस्त्रतेजसा॥ वै अथ यूयं बहुत्वात् तानभियात कथंचन। अनार्यं परमं तत् स्यादशक्यं तच्च मतम्॥ उषितो हि महाबाहुरिन्द्रलोके धनंजयः। दिव्यान्यस्त्राण्यवाप्याथ ततः प्रत्यागतो वनम्॥ अकृतास्त्रेण पृथिवी जिता बीभत्सुना पुरा। किं पुनः स कृतास्त्रोऽद्य न हन्याद् वो महारथः॥ अथवा मद्वचः श्रुत्वा तत्र यत्ता भविष्यथा उद्विग्नवासो विश्रम्भाद् दुःखं तत्र भविष्यति॥ अथवा सैनिकाः केचिदपकुर्युर्युधिष्ठिरम्। तदबुद्धिकृतं कर्म दोषमुत्पादयेच्च वः॥ तस्माद् गच्छन्तु पुरुषाः स्मारणायाप्तकारिणः। न स्वयं तत्र गमनं रोचये तव भारत॥ शकुनिरुवाच धर्मज्ञः पाण्डवो ज्येष्ठः प्रतिज्ञातं च संसदि। तेन द्वादश वर्षाणि वस्तव्यानीति भारत।॥ अनुवृत्ताश्च ते सर्वे पाण्डवा धर्मचारिणः। युधिष्ठिरस्तु कौन्तेयो न नः कोपं करिष्यति॥ मृगयां चैव नो गन्तुमिच्छा संवर्तते भृशम्। स्मारणं तु चिकीर्षामो न तु पाण्डवदर्शनम्॥ न चानार्यसमाचारः कश्चित् तत्र भविष्यति। न च तत्र गमिष्यामो यत्र तेषां प्रतिश्रयः॥ वैशम्पायन उवाच एवमुक्तः शकुनिना धृतराष्ट्रो जनेश्वरः। दुर्योधनं महामात्यमनुजज्ञे न कामतः॥ अनुज्ञातस्तु गान्धारिः कर्णेन सहितस्तदा। निर्ययौ भरतश्रेष्ठो बलेन महता वृतः॥ दुःशासनेन च तथा सौबलेन च धीमता। संवृतो भ्रातृभिश्चान्यैः स्त्रीभिश्चापि सहस्रशः॥ तं निर्यान्तं महाबाहुं द्रष्टुं द्वैतवनं सरः। पौराश्चानुययुः सर्वे सहदारा वनं च तत्॥ अष्टौ रथसहस्राणि त्रीणि नागायुतानि च। पत्तयो बहुसाहस्रा हयाश्च नवतिः शताः॥ शकटापणवेशाश्च वणिजो वन्दिनस्तथा। नराश्च मृगयाशीलाः शतशोऽथ सहस्रशः॥ ततः प्रयाणे नृपतेः सुमहानभवत् स्वनः। प्रावृषीव महावायोरुद्धतस्य विशाम्पते॥ गव्यूतिमात्रे न्यवसद् राजा दुर्योधनस्तदा। प्रयातो वाहनैः सर्वैस्ततो द्वैतवनं सरः॥ वैशम्पायन उवाच अथ दुर्योधनो राजा तत्र वने वसन्। जगाम घोषानभितस्तत्र चक्रे निवेशनम्॥ रमणीये समाज्ञाते सोदके समहीरहे। देशे सर्वगुणोपेते चक्रुरावसथान् पराः॥ तथैव तत्समीपस्थान् पृथगावसथान् बहून्। कर्णस्य शकुनेश्चैव भ्रातृणां चैव सर्वशः॥ ददर्श स तदा गावः शतशोऽथ सहस्रशः। अङ्कुर्लक्षैश्च ताः सर्वा लक्षयामास पार्थिवः॥ अङ्कयामास वत्सांश्च जज्ञे चोपसृतांस्त्वपि। बालवत्साश्च या गावः कालयामास ता अपि॥ अथ स स्मारणं कृत्वा लक्षयित्वा त्रिहायनान्। वृतो गोपालकैः प्रीतो व्यहरत् कुरुनन्दनः॥ स च पौरजनः सर्वः सैनिकाच सहस्रशः। यथोपजोषं चिक्रीडुर्वने तस्मिन् यथामराः॥ ततो गोपाः प्रगातारः कुशला नृत्यवादने। धार्तराष्ट्रमुपातिष्ठन् कन्याश्चैव स्वलंकृताः॥ स स्त्रीगणावृतो राजा प्रहृष्टः प्रददौ वसु। तेभ्यो यथार्हमन्नानि पानानि विविधानि च॥ ततस्ते सहिताः सर्वे तरखून् महिषान् मृगान्। गवयर्डवराहांश्च समन्तात् पर्यकालयन्॥ स ताञ्छरैर्विनिर्भिद्य गजांश्च सुबहून् वने। रमणीयेषु देशेषु ग्राहयामास वै मृगान्॥ गोरसानुपयुञ्जान उपभोगांश्च भारत। पश्यन् स रणमीयानि वनान्युपवनानि च।॥ मत्तभ्रमरजुष्टानि बर्हिणाभिरुतानि च। अगच्छदानुपूर्येण पुण्यं द्वैतवनं सरः॥ मत्तभ्रमरसंजुष्टं नीलकण्ठरवाकुलम्। सप्तच्छदसमाकीर्णं पुन्नागबकुलैर्युतम्॥ ऋद्ध्या परमया युक्तो महेन्द्र इव वलाभृत्। यदृच्छया च तत्रस्थो धर्मपुत्रो युधिष्ठिरः॥ ईजे राजर्षियज्ञेन साद्यस्केन विशाम्पते। दिव्येन विधिना चैव वन्येन कुरुसत्तम॥ कृत्वा निवेशमभितः सरसस्तस्य कौरव। द्रौपद्या सहिता धीमान् धर्मपल्या नराधिपः॥ ततो दुर्योधनः प्रेष्यानादिदेश सहस्रशः। आक्रीडावसथा: क्षिप्नं क्रियन्तामिति भारत॥ ते तथेत्येव कौरव्यमुक्त्वा वचनकारिणः। चिकीर्षन्तस्तदाऽऽक्रीडाञ्जग्मुद्वैतवनं सरः॥ प्रविशन्तं वनद्वारि गन्धर्वाः समवारयन्। सेनाच्यं धार्तराष्ट्रस्य प्राप्तं द्वैतवनं सरः॥ तत्र गन्धर्वराजो वै पूर्वमेव विशाम्पते। कुबेरभवनाद् राजन्नाजगाम गणावृतः॥ गणैरप्सरसां चैव त्रिदशानां तथाऽऽत्मजैः। विहारशीलः क्रीडार्थं तेन तत् संवृतं सरः॥ तेन तत् संवृतं दृष्ट्वा ते राजपरिचारकाः। प्रतिजग्मुस्ततो राजन् यत्र दुर्योधनो नृपः॥ स तु तेषां वचः श्रुत्वा सैनिकान् युद्धदुर्मदान्। प्रेषयामास कौरव्य उत्सारयत तानिति॥ तस्य तद् वचनं श्रुत्वा राज्ञः सेनाचयायिनः। सरो द्वैतवनं गत्वा गन्धर्वानिदमब्रुवन्॥ राजा दुर्योधनो नाम धृतराष्ट्रसुतो बली। विजिहीर्षुरिहायाति तदर्थमपसर्पत॥ एवमुक्तास्तु गन्धर्वाः प्रहसन्तो विशाम्पते। प्रत्यब्रुवंस्तान् पुरुषानिदं हि परुषं वचः॥ न चेतयति वो राजा मन्दबुद्धिः सुयोधनः। योऽस्मानाज्ञापयत्येवं वैश्यानिव दिवौकसः॥ यूयं मुमूर्षवश्चापि मन्दप्रज्ञा न संशयः। ये तस्य वचनादेवमस्मान् ब्रूत विचेतसः॥ गच्छध्वं त्वरिताः सर्वे यत्र राजा स कौरवः। न चेदद्यैव गच्छध्वं धर्मराजनिवेशनम्॥ एवमुक्तास्तु गन्धर्वै राज्ञः सेनाचयायिनः। सम्प्राद्रवन् यतो राजा धृतराष्ट्रसुतोऽभवत्॥ वैशम्पायन उवाच ततस्ते सहिताः सर्वे दुर्योधनमुपागमन्। अब्रुवंश्च महाराज यदूचुः कौरवं प्रति॥शा गन्धर्वैर्वारिते सैन्ये धार्तराष्ट्रः प्रतापवान्। अमर्षपूर्णः सैन्यानि प्रत्यभाषत भारत॥ शासतैनानधर्मज्ञान् मम विप्रियकारिणः। यदि प्रक्रीडते सर्वैर्देवैः सह शतक्रतुः॥ दुर्योधनव चः श्रुत्वा धार्तराष्ट्रा महाबलाः। सर्व एवाभिसंनद्धा योधाश्चापि सहस्रशः॥ ततः प्रमथ्य सर्वांस्तांस्तद् वनं विविशुर्बलात्। सिंहनादेन महता पूरयन्तो दिशो दश॥ ततोऽपरैरवार्यन्त गन्धर्वैः कुरुसैनिकाः। ते वार्यमाणा गन्धर्वैः साम्नैव वसुधाधिप॥ ताननादृत्य गन्धर्वांस्तद् वनं विविशुर्महत्। यदा वाचा न तिष्ठन्ति धार्तराष्ट्राः सराजकाः॥ ततस्ते खेचराः सर्वे चित्रसेने न्यवेदयन्। गन्धर्वराजस्तान् सर्वानब्रवीत् कौरवान् प्रति॥ अनार्याञ्छासतेत्येतांश्चित्रसेनोऽत्यमर्षणः। अनुज्ञाताश्च गन्धर्वाश्चित्रसेनेन भारत॥ प्रगृहीतायुधाः सर्वे धार्तराष्ट्रानभिद्रवन्। तान् दृष्ट्वा पततः शीघ्रान् गन्धर्वानुद्यतायुधान्॥ प्राद्रवंस्ते दिशः सर्वे धार्तराष्ट्रस्य पश्यतः। तान् दृष्ट्वा द्रवतः सर्वान् धार्तराष्ट्रान् पराङ्मुखान्।११।। राधेयस्तु तदा वीरो नासीत् तत्र पराङ्मुखः। आपतन्ती तु सम्प्रेक्ष्य गन्धर्वाणां महाचमूम्॥ महता शरवर्षेण राधेयः प्रत्यवारयत्। क्षुरप्रैर्विशिखैभल्लैर्वत्सदन्तैस्तथाऽऽयसैः॥ गन्धर्वाञ्छतशोऽभ्य ल्लघुत्वात् सूतनन्दनः। पातयन्नुत्तमाङ्गानि गन्धर्वाणां महारथः॥ क्षणेन व्यधमत् सर्वां चित्रसेनस्य वाहिनीम्। ते वध्यमाना गन्धर्वाः सूतपुत्रेण धीमता॥ भूय एवाभ्यवर्तन्त शतशोऽथ सहस्रशः। गन्धर्वभूता पृथिवी क्षणेन समपद्यत॥ आपतद्भिर्महावेगैश्चित्रसेनस्य सैनिकैः। अथ दुर्योधनो राजा शकुनिश्चापि सौबलः॥ दुःशासनो विकर्णश्च ये चान्ये धृतराष्ट्रजाः। न्यहनस्तत् तदा सैन्यं स्थैर्गरुडनिःस्वनैः॥ भूयश्च योधयामासुः कृत्वा कर्णमथाचतः। महता रथसङ्ग्रेन रथचारेण चाप्युत॥ वैकर्तनं परीप्सन्तो गन्धर्वान् समवाकिरन्। ततः संन्यपतन् सर्वे गन्धर्वाः कौरवैः सह॥ तदा सुतुमुलं युद्धमभवल्लोमहर्षणम्। ततस्ते मृदवोऽभूवन् गन्धर्वाः शरपीडिताः॥ उच्चुक्रुशुश्च कौरव्या गन्धर्वान् प्रेक्ष्य पीडितान्। गन्धर्वास्त्रासितान् दृष्ट्वा चित्रसेनो ह्यमर्षणः॥ उत्पपातासनात् क्रुद्धो वधे तेषां समाहितः। ततो मायास्त्रमास्थाय युयुधे चित्रमार्गवित्। तयामुह्यन्त कौरव्याचित्रसेनस्य मायया।॥ एकैको हि तदा योधो धार्तराष्ट्रस्य भारत। पर्यवर्तत गन्धर्वैर्दशभिर्दशभिः सह।॥ ततः सम्पीड्यमानास्ते बलेन महता तदा। प्राद्रवन्त रणे भीता ये च राजञ्जिगीषवः॥ भज्यमानेष्वनीकेषु धार्तराष्ट्रेषु सर्वशः। कर्णो वैकर्तनो राजंस्तस्थौ गिरिरिवाचलः॥ दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः। गन्धर्वान् योधयामासुः समरे भृशविक्षताः॥ सर्व एव तु गन्धर्वाः शतशोऽथ सहस्रशः। जिघांसमानाः सहिताः कर्णमभ्यद्रवन् रणे॥ असिभिः पट्टिशैः शूलैर्गदाभिश्च महाबलाः। सूतपुत्रं जिघांसन्तः समन्तात् पर्यवाकिरन्।॥ अन्येऽस्य युगमच्छिन्दन् ध्वजमन्ये न्यपातयन्। ईषामन्ये हयानन्ये सूतमन्ये न्यपातयन्॥ अन्ये छत्रं वरूथं च बन्धुरं च तथापरे। गन्धर्वा बहुसाहस्रास्तिलशो व्यधमन् रथम्॥ ततो रथादवप्लुत्य सूतपुत्रोऽसिचर्मभृत्। विकर्णरथमास्थाय मोक्षायाश्वानचोदयत्॥ वैशम्पायन उवाच गन्धर्वैस्तु महाराज भग्ने कर्णे महारथे। सम्प्राद्रवच्चमूः सर्वा धार्तराष्ट्रस्य पश्यतः॥ तान् दृष्ट्वा द्रवतः सर्वान् धार्तराष्ट्रान् पराङ्मुखान्। दुर्योधनो महाराजो नासीत् तत्र पराङ्मुखः॥ तामापतन्ती सम्प्रेक्ष्य गन्धर्वाणां महाचमूम्। महता शरवर्षेण सोऽभ्यवर्षदरिंदमः॥ अचिन्त्य शरवर्षं तु गन्धर्वास्तस्य तं रथम्। दुर्योधनं जिघांसन्तः समन्तात् पर्यवारयन्॥ युगमीषां वरूथं च तथैव ध्वजसारथी। अश्वांस्त्रिवेणुं तल्पं च तिलशो व्यधमञ्छरैः॥ दुर्योधनं चित्रसेनो विरथं पतितं भुवि। अभिद्रुत्य महाबाहुर्जीवग्राहमथाग्रहीत्॥ तस्मिन् गृहीते राजेन्द्र स्थितं दुःशासनं रथे। पर्यगृह्णन्त गन्धर्वाः परिवार्य समन्ततः॥ विविंशतिं चित्रसेनमादायान्ये विदुद्रुवुः। विन्दानुविन्दावपरे राजदारांश्च सर्वशः॥ सैन्यं तद् धार्तराष्ट्रस्य गन्धर्वैः समभिद्रुतम्। पूर्वं प्रभग्नाः सहिताः पाण्डवानभ्ययुस्तदा॥ शकटापणवेशाश्च यानयुग्यं च सर्वशः। शरणं पाण्डवाञ्जग्मुह्रियमाणे महीपतौ।॥ सैनिका ऊचुः प्रियदर्शी महाबाहुर्धार्तराष्ट्रो महाबलः। गन्धर्वैह्रियते राजा पार्थास्तमनुधावत॥ दुःशासनो दुर्विषहो दुर्मुखो दुर्जयस्तथा। बद्ध्वा ह्रियन्ते गन्धर्वै राजदाराश्च सर्वशः॥ इति दुर्योधनामात्याः क्रोशन्तो राजगृद्धिनः। आर्ता दीनाप्ततः सर्वे युधिष्ठिरमुपागमन्॥ तांस्तथा व्यथितान् दीनान् भिक्षमाणान् युधिष्ठिरम्। वृद्धान् दुर्योधनामात्यान् भीमसेनोऽभ्यभाषत॥ महता हि प्रयत्नेन संना गजवाजिभिः। अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम्॥ अन्यथा वर्तमानानामर्थो जातोऽयमन्यथा। दुर्मन्त्रितमिदं तावद् राज्ञो दुर्दूतदेविनः॥ द्वेष्टारमन्ये क्लीबस्य पातयन्तीति नः श्रुतम्। इदं कृतं नः प्रत्यक्षं गन्धर्वैरतिमानुषम्॥ दिष्ट्या लोके पुमानस्ति कश्चिदस्मत्प्रिये स्थितः। येनास्माकं हृतो भार आसीनानां सुखावहः॥ शीतवातातपसहांस्तपसा चैव कर्शितान्। समस्थो विषमस्थान् हि द्रष्टुमिच्छति दुर्मतिः॥ अधर्मचारिणस्तस्य कौरव्यस्य दुरात्मनः। ये शीलमनुवर्तन्ते ते पश्यन्ति पराभवम्॥ अधर्मो हि कृतस्तेन येनैतदुपशिक्षितम्। अनृशंसास्तु कौन्तेयास्तत् प्रत्यक्षं ब्रवीमि वः॥ एवं ब्रुवाणं कौन्तेयं भीमसेनमपस्वरम्। न काल: परुषस्यायमिति राजाभ्यभाषत॥ वैशम्पायन उवाच युधिष्ठिरवचः श्रुत्वा भीमसेनपुरोगमाः। प्रहृष्टवदनाः सर्वे समुत्तस्थुर्नरर्षभाः॥ अभेद्यानि ततः सर्वे समनह्यन्त भारत। जाम्बूनदविचित्राणि कवचानि महारथाः॥ आयुधानि च दिव्यानि विविधानि समादधुः। ते दंशिता रथैः सर्वे ध्वजिनः सशरासनाः॥ पाण्डवाः प्रत्यदृश्यन्त ज्वलिता इव पावकाः। तान् रथान् साधुसम्पन्नान् संयुक्ताञ्जवनैर्हयैः॥ आस्थाय रथशार्दूलाः शीघ्रमेव ययुस्ततः। ततः कौरवसैन्यानां प्रादुरासीन्महास्वनः॥ प्रयातान् सहितान् दृष्ट्वा पाण्डुपुत्रान् महारथान् जितकाशिनश्च खचरास्त्वरिताश्च महारथाः॥ क्षणेनैव वने तस्मिन् समाजग्मुरभीतवत्। न्यवर्तन्त ततः सर्वे गन्धर्वा जितकाशिनः॥ दृष्ट्वा रथागतान् वीरान् पाण्डवांश्चतुरो रणे। तांस्तु विभाजितान् दृष्ट्वा लोकपालानिवोद्यताम्॥ व्यूढानीका व्यतिष्ठन्त गन्धमादनवासिनः। राज्ञस्तु वचनं स्मृत्वा धर्मपुत्रस्य धीमतः॥ क्रमेण मृदुना युद्धमुपक्रान्तं च भारत। न त गन्धर्वराजस्य सैनिका मन्दचेतसः॥ शक्यन्ते मृदुना श्रेयः प्रति श्रेयः प्रतिपादयितुं तदा। ततस्तान् युधि दुर्धर्षान् सव्यसाची परंतपः॥ सान्त्वपूर्वमिदं वाक्यमुवाच खचरान् रणे। विसर्जयत राजानं भ्रातरं मे सुयोधनम्॥ त एवमुक्ता गन्धर्वाः पाण्डवेन यशस्विना। उत्स्मयन्तस्तदा पार्थमिदं वचनमब्रुवन्॥ एकस्यैव वयं तात कुर्याम वचनं भुवि। यस्य शासनमाज्ञाय चरामो विगतज्वराः॥ तेनैकेन यथाऽऽदिष्टं तथा वर्ताम भारत। न शास्ता विद्यतेऽस्माकमन्यस्तस्मात् सुरेश्वरात्॥ एवमुक्तः स गन्धर्वैः कुन्तीपुत्रो धनंजयः। गन्धर्वान् पुनरेवेदं वचनं प्रत्यभाषत॥ न तद् गन्धर्वराजस्य युक्तं कर्म जुगुप्सितम्। परदाराभिमर्शश्च मानुषैश्च समागमः॥ उत्सृज्यध्वं महावीर्यान् धृतराष्ट्रसुतानिमान्। दारांश्चैषां विमुञ्चध्वं धर्मराजस्य शासनात्॥ यदा साम्ना न मुञ्चध्वं गन्धर्वा धृतराष्ट्रजान्। मोक्षयिष्यामि विक्रम्य स्वयमेव सुयोधनम्॥ एवमुक्त्वा ततः पार्थः सव्यसाची धनंजयः। ससर्जनिशितान् बाणान् खचरान् खचरान् प्रति॥ तथैव शरवर्षेण गन्धर्वास्ते बलोत्कटाः। पाण्डवानभ्यवर्तन्त पाण्डवाश्च दिवौकसः॥ ततः सुतुमुलं युद्धं गन्धर्वाणां तरस्विनाम्। बभूव भीमवेगानां पाण्डवानां च भारत॥ वैशम्पायन उवाच ततो दिव्यास्त्रसम्पन्ना गन्धर्वा हेममालिनः। विसृजन्तः शरान् दीप्तान् समन्तात् पर्यकारयन्॥ चत्वारः पाण्डवा वीरा गन्धर्वाश्च सहस्रशः। रणे संन्यपतन् राजंस्तदद्भुतमिवाभवत्॥ यथा कर्णस्य च रथो धार्तराष्ट्रस्य चोभयोः। गन्धर्वैः शतशश्छिन्नौ तथा तेषां प्रचक्रिरे॥ तान् समापततो राजन् गन्धर्वाञ्छतशो रणे। प्रत्यगृह्णन् नरव्याघ्राः शरवर्षैरनेकशः॥ ते कीर्यमाणाः खगमाः शरवर्षेः समन्ततः। न शेकुः पाण्डुपुत्राणां समीपे परिवर्तितुम्॥ अभिक्रुद्धानभिक्रुद्धो गन्धर्वानर्जुनस्तदा। लक्षयित्वाथ दिव्यानि महास्त्राण्युपचक्रमे॥ सहस्राणां सहस्राणि प्राहिणोद् यमसादनम्। आग्नेयेनार्जुनः संख्ये गन्धर्वाणां बलोत्कटः॥ तथा भीमो महेष्वासः संयुगे बलिनां वरः। गन्धर्वाञ्छतशो राजञ्जघान निशितैः शरैः॥ ते शकुन्ता इव पञ्जरे। माद्रीपुत्रावपि तथा युध्यमानौ बलोत्कटौ। परिगृह्याचतो राजञ्जघ्नतुः शतशः परान्॥ ते वध्यमाना गन्धर्वा दिव्यैरस्त्रैर्महारथैः। उत्पेतुः खमुपादाय धृतराष्ट्रसुतांस्ततः॥ स तानुत्पतितान् दृष्ट्वा कुन्तीपुत्रो धनंजयः। महता शरजालेन समन्तात् पर्यवारयत्॥ बद्धाः शरजालेन ववर्षुरर्जुनं क्रोधाद् गदाशक्त्यष्टिवृष्टिभिः॥ गदाशक्त्यृष्टिवृष्टीस्ता निहत्य परमास्त्रवित्। गात्राणि चाहनद् भल्लैर्गन्धर्वाणां धनंजयः॥ शिरोभिः प्रपतद्भिश्च चरणैर्बाहुभिस्तथा। अश्मवृष्टिरिवाभाति परेषामभवद् भयम्॥ ते वध्यमाना गन्धर्वाः पाण्डवेन महात्मना। भूमिष्ठमन्तरिक्षस्थाः शरवर्षैरवाकिरन्॥ तेषां तु शरवर्षाणि सव्यसाची परंतपः। अस्त्रैः संवार्य तेजस्वी गन्धर्वान् प्रत्यविध्यत।॥ स्थूणाकर्णेन्द्रचालं च सौरं चापि तथार्जुनः। आग्नेयं चापि सौम्यं च ससर्ज कुरुनन्दनः॥ ते दह्यमाना गन्धर्वाः कुन्तीपुत्रस्य सायकैः। दैतेया इव शक्रेण विषादमगमन् परम्॥ ऊर्ध्वमाक्रममाणाश्च शरजालेन वारिताः। विसर्पमाणा भल्लैश्च वार्यन्ते सव्यसाचिना॥ गन्धर्वांस्त्रासितान् दृष्ट्वा कुन्तीपुत्रेण भारत। चित्रसेनो गदां गृह्य सव्यसाचिनमाद्रवत्॥ तस्याभिपततस्तूर्णं गदाहस्तस्य संयुगे। गदां सर्वायसी पार्थः शरैश्चिच्छेद सप्तधा॥ स गदा बहुधा दृष्ट्वा कृत्तां बाणैस्तरस्विना। संवृत्य विद्ययाऽऽत्मानं योधयामास पाण्डवम्॥ अस्त्राणि तस्य दिव्यानि सम्प्रयुक्तानि सर्वशः। दिव्यैरस्स्तदा वीरः पर्यवारयदर्जुनः॥ स वार्यमाणस्तैरस्त्रैरर्जुनेन महात्मना। गन्धर्वराजो बलवान् माययान्तर्हितस्तदा॥ अन्तर्हितं तमालक्ष्य प्रहरन्तमथार्जुनः। ताडयामास खचरैर्दिव्यास्त्रप्रतिमन्त्रितैः॥ अन्तर्धानवधं चास्य चक्रे क्रुद्धोऽर्जुनस्तदा। शब्दवेधं समाश्रित्य बहुरूपो धनंजयः॥ स वध्यमानस्तैरस्त्रैरर्जुनेन महात्मना। ततोऽस्यदर्शयामास तदाऽऽत्मानं प्रियः सखा।॥ चित्रसेनस्तथोवाच सखायं युधि विद्धि माम्। चित्रसेनमथालक्ष्य सखायं युधि दुर्बलम्॥ संजहारास्त्रमथ तत् प्रसृष्टं पाण्डवर्षभः। दृष्ट्वा तु पाण्डवाः सर्वे संहतास्त्रं धनंजयम्॥ संजह्वः प्रदुतानश्वाञ्छरवेगान् धनूंषि च। चित्रसेनश्च भीमश्च सव्यसाची यमावपि। पृष्ट्वा कौशलमन्योन्यं रथेष्वेवारतस्थिरे॥ वैशम्पायन उवाच ततोऽर्जुनश्चित्रसेनं प्रहसन्निदमब्रवीत्। मध्ये गन्धर्वसैन्यानां महेष्वासो महाद्युतिः॥ किं ते व्यवसितं वीर कौरवाणां विनिग्रहे। किमर्थं च सदारोऽयं निगृहीत: सुयोधनः॥ चित्रसेन उवाच विदितोऽयमभिप्रायस्तत्रस्थेन दुरात्मनः। दुर्योधनस्य पापस्य कर्णस्य च धनंजय॥ वनस्थान् भवतो ज्ञात्वा क्लिश्यमानाननाथवत्। समस्थो विषमस्थांस्तान् द्रक्ष्यामीत्यनवस्थितान्॥ इमेऽवहसितुं प्राप्ता द्रौपदी च यशस्विनीम्। ज्ञात्वा चिकीर्षितं चैषां मामुवाच सुरेश्वरः॥ गच्छ दुर्योधनं बद्ध्वा सहामात्यमिहानय। धनंजयश्च ते रक्ष्यः सह भ्रातृभिराहवे।॥ स च प्रियः सखा तुभ्यं शिष्यश्च तव पाण्डवः। वचनाद् देवराजस्य ततोऽस्मीहागतो द्रुतम्॥ अयं दुरात्मा बद्धश्च गमिष्यामि सुरालयम्। नेष्याम्येनं दुरात्मानं पाकशासनशासनात्॥ अर्जुन उवाच उत्सृज्यतां चित्रसेन भ्रातास्माकं सुयोधनः। धर्मराजस्य संदेशान्मम चेदिच्छसि प्रियम्॥ चित्रसेन उवाच पापोऽयं नित्यसंतुष्टो न विमोक्षणमर्हति। प्रलब्धा धर्मराजस्य कृष्णायाश्च धनंजय॥ नेदं चिकीर्षितं तस्य कुन्तीपुत्रो युधिष्ठिरः। जानाति धर्मराजो हि श्रुत्वा कुरु यथेच्छसि॥ वैशम्पायन उवाच ते सर्व एव राजानमभिजग्मुर्युधिष्ठिरम्। अभिगम्य च तत् सर्वं शशंसुस्तस्य चेष्टितम्॥ अजातशत्रुस्तच्छ्रुत्वा गन्धर्वस्य वचस्तदा। मोक्षयामास तान् सर्वान् गन्धर्वान् प्रशशंस च॥ दिष्ट्या भवद्भिर्बलिभिः शक्तैः सर्वैर्न हिंसितः। दुर्वृत्तो धार्तराष्ट्रोऽयं सामात्यज्ञातिबान्धवः॥ उपकारो महांस्तात कृतोऽयं मम खेचरैः। कुलं न परिभूतं मे मोक्षणेऽस्य दुरात्मनः॥ आज्ञापयध्वनिमिष्टानि प्रीयामो दर्शनेन वः। प्राप्य सर्वानभिप्रायांस्ततो व्रजत मा चिरम्॥ अनुज्ञातास्तु गन्धर्वाः पाण्डुपुत्रेण धीमता। सहाप्सरोभिः संहृष्टाश्चित्रसेनमुखा ययुः॥ देवराडपि गन्धर्वान् मृतांस्तान् समजीवयत्। दिव्येनामृतवर्षेण ये हताः कौरवैर्युधि॥ ज्ञातींस्तानवमुच्याथ राजदारांश्च सर्वशः। कृत्वा च दुष्करं कर्म प्रीतियुक्ताश्च पाण्डवाः॥ सस्त्रीकुमारैः कुरुभिः पूज्यमाना महारथाः। बभ्राजिरे महात्मानः क्रतुमध्ये यथाग्नयः॥ ततो दुर्योधनं मुक्तं भ्रातृभिः सहितस्तदा। युधिष्ठिरस्तु प्रणयादिदं वचनमब्रवीत्॥ मा स्म तात पुनः कार्षीरीदृशं साहसं क्वचित्। न हि साहसकर्तारः सुखमेधन्ति भारत॥ स्वस्तिमान् सहितः सर्वैर्धातृभिः कुरुनन्दन। गृहान् व्रज यथाकामं वैमनस्यं च मा कृथाः॥ वैशम्पायन उवाच पाण्डवेनाभ्यनुज्ञातो राजा दुर्योधनस्तदा। प्रणम्य धर्मपुत्रं तु गतेन्द्रिय इवातुरः॥ विदीर्यमाणो व्रीडावाञ्जगाम नगरं प्रति। तस्मिन् गते कौरवेये कुन्तीपुत्रो युधिष्ठिरः॥ भ्रातृभिः सहितो वीरः पूज्यमानो द्विजातिभिः। तपोधनैश्च तैः सर्वैर्वृतः शक्र इवामरैः॥ तथा द्वैतवने तस्मिन् विजहार मुदा युतः॥ जनमेजय उवाच शत्रुभिर्जितबद्धस्य पाण्डवैश्च महात्मभिः। मोक्षितस्य युधा पश्चान्मानिनः सुदुरात्मनः॥ कत्थनस्यावलिप्तस्य गर्वितस्य च नित्यशः। सदा च पौरुषौदार्यैः पाण्डवानवमन्यतः॥ दुर्योधनस्य पापस्य नित्याहंकारवादिनः। प्रवेश हास्तिनपुरे दुष्करः प्रतिभाति मे॥ तस्य लज्जान्वितस्यैव शोकव्याकुलचेतसः। प्रवेशं विस्तरेण त्वं वैशम्पायन कीर्तय॥ वैशम्पायन उवाच धर्मराजनिसृष्टस्तु धार्तराष्ट्रः सुयोधनः। लज्जयाधोमुखः सीदन्नुपपासर्पत् सुदुःखितः॥ स्वपुरं प्रययौ राजा चतुरङ्गबलानुगः। शोकोपहतया बुद्ध्या चिन्तयानः पराभवम्॥ विमुच्य पथि यानानि देशे सुयवसोदके। सनिविष्टः शुभे रम्ये भूमिभागे यथेप्सितम्॥ हस्त्यश्वरथपादातं यथास्थानं न्यवेशयत्। अथोपविष्टं राजानं पर्यङ्के ज्वलनप्रभे॥ उपप्लुतं यथा सोमं राहुणा रात्रिसंक्षये। उपागम्याब्रवीत् कर्णो दुर्योधनमिदं तदा।॥ दिष्ट्या जीवसि गान्धारे दिष्ट्या नः सङ्गमः पुनः। दिष्ट्या त्वया जिताश्चैव गन्धर्वाः कामरूपिणः॥ दिष्ट्या समग्रान् पश्यामि भ्रातूंस्ते कुरुनन्दन। विजिगीषन् रणे युक्तान् निर्जितारीन् महारथान्॥ अहं त्वभिद्रुतः सर्वैर्गन्धर्वैः पश्यतस्तव। नाशक्नुवं स्थापयितुं दीर्यमाणां च वाहिनीम्॥ शरक्षताङ्गश्च भृशं व्यपयातोऽभिपीडतः। इदं त्वत्यद्भुतं मन्ये यद् युष्मानिह भारत॥ अरिष्टानक्षतांश्चापि सदारबलवाहनान्। विमुक्तान् सम्प्रपश्यामि युद्धात् तस्मादमानुषात्॥ नैतस्य कर्ता लोकेऽस्मिन् पुमान् भारत विद्यते। यत् कृतं ते महाराज सह भ्रातृभिराहवे।॥ वैशम्पायन उवाच एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा। उवाच चाङ्गराजानं वाष्पगद्गदया गिरा॥ दुर्योधन उवाच अजानतस्ते राधेय नाभ्यसूयाम्यहं वचः। जानासि त्वं जिताञ्छत्रून् गन्धर्वांस्तेजसा मया॥ आयोधितास्तु गन्धर्वाः सुचिरं सोदरैर्मम। मया सह महाबाहो कृतश्चोभयतः क्षयः॥ मायाधिकास्त्वयुध्यन्त यदा शूरा वियद्गताः। तदा नो न समं युद्धमभवत् खेचरैः सह॥ पराजयं च प्राप्ताः स्मो रणे बन्धनमेव च। सभृत्यामात्यपुत्राश्च सदारबलवाहनाः॥ उच्चैराकाशमार्गेण हता:स्मस्तैः सुदुःखिताः। अथ नः सैनिकाः केचिदमात्याश्च महारथाः॥ उपगम्याब्रुवन् दीनाः पाण्डवाञ्छरणप्रदान्। एष दुर्योधनो राजा धार्तराष्ट्रः सहानुजः॥ सामात्यदारो ह्रियते गन्धर्वैर्दिवमाश्रितैः। तं मोक्षयत भद्रं वः सहदारं नराधिपम्॥ पराभवो मा भविष्यत् कुरुदारेषु सर्वशः। एवमुक्ते तु धर्मात्मा ज्येष्ठः पाण्डुसुतस्तदा॥ प्रसाद्य पाण्डवान् सर्वानाज्ञापयत मोक्षणे। अथागम्य तमुद्देशं पाण्डवाः पुरुषर्षभाः॥ सान्त्वपूर्वमयाचन्त शक्ताः सन्तो महारथाः। यदा चास्मान् न मुमुचुर्गन्धर्वाः सान्त्विता अपि॥ ततोऽरर्जुनश्च भीमश्च यमजौ न बलोत्कटौ। मुमुचुः शरवर्षाणि गन्धर्वान् प्रत्यनेकशः॥ अथ सर्वे रणं मुक्त्वा प्रयाताः खेचरा दिवम्। अस्मानेवाभिकर्षन्तो दीनान् मुदितमानसाः॥ ततः समन्तात् पश्यामः शरजालेन वेष्टितम्। अमानुषाणि चास्त्राणि प्रमुञ्चन्तं धनंजयम्॥ समावृता दिशो दृष्ट्वा पाण्डवेन शितैः शरैः। धनंजयसखाऽऽत्मानं दर्शयामास वै तदा॥ चित्रसेनः पाण्डवेन समाश्लिष्य परस्परम्। कुशलं परिपप्रच्छ तैः पृष्टश्चाप्यनामयम्॥ ते समेत्य तथान्योन्यं सन्नाहान् विप्रमुच्य च। एकीभूतास्ततो वीरा गन्धर्वाः सह पाण्डवैः। अपूजयेतामन्योन्यं चित्रसेनधनंजयौ॥ दुर्योधन उवाच चित्रसेनं समागम्य प्रहसनर्जुनस्तदा। इदं वचनकक्लीबमब्रवीत् परवीरहा॥ भ्रातृनर्हसि मे वीर मोक्तुं गन्धर्वसत्तम। अनर्हधर्षणा हीमे जीवमानेषु पाण्डुषु॥ एवमुक्तस्तु गन्धर्वः पाण्डेवन महात्मना। उवाच यत् कर्ण वयः मन्त्रयन्तो विनिर्गताः॥ द्रष्टारः स्म सुखाद्धीनान् सदारान् पाण्डवानिति। तस्मिन्नुच्चार्यमाणे तु गन्धर्वेण वचस्तथा॥ भूमेर्विवरमन्वैच्छं प्रवेष्टुं व्रीडयान्वितः। युधिष्ठिरमथागम्य गन्धर्वाः सह पाण्डवैः॥ अस्महुर्मन्त्रितं तस्मै बद्धांश्चास्मान् न्यवेदयन्। स्त्रीसमक्षमहं दीनो बद्धः शत्रुवशं गतः॥ युधिष्ठिरस्योपहृतः किं नु दुःखमतः परम्। ये मे निराकृता नित्यं रिपुर्येषामहं सदा॥ तैर्मोक्षितोऽहं दुर्बुद्धिर्दत्तं तैरेव जीवितम्। प्राप्त: स्यां यद्यहं वीर वधं तस्मिन् महारणे॥ श्रेयस्तद् भविता मह्यं नैवंभूतस्य जीवितम्। भवेद् यशः पृथिव्यां मे ख्यातं गन्धर्वतो वधात्॥ प्राप्ताश्च पुण्यलोकाः स्युर्महेन्द्रसदनेऽक्षयाः। यत् त्वद्य मे व्यवसितं तच्छृणुध्वं नरर्षभाः॥ इह प्रायमुपासिष्ये यूयं व्रजत वै गृहान्। भ्रातरश्चैव मे सर्वे यान्त्वद्य स्वपुरं प्रति॥ कर्णप्रभृतयश्चैव सुहृदो बान्धवाश्च ये। दुःशासनं पुरस्कृत्य प्रयान्वद्य पुरं प्रति॥ न ह्यहं सम्प्रयास्यामि पुरं शत्रुनिराकृतः। शत्रुमानापहो भूत्वा सुहृदां मानकृत् तथा॥ स सुहृच्छोकदो जातः शत्रूणां हर्षवर्धनः। वारणाह्वयमासाद्य किं वक्ष्यामि जनाधिपम्॥ भीष्मद्रोणौ कृपद्रौणी विदुरः संजयस्तथा। बाह्रीकः सौमदत्तिश्च ये चान्ये वृद्धसम्मताः॥ ब्राह्मणाः श्रेणिमुख्याश्च तथोदासीनवृत्तयः। किं मां वक्ष्यन्ति किं चापि प्रतिवक्ष्यामि तानहम्॥ रिपूणां शिरसि स्थित्वा तथा विक्रम्य चोरसि। आत्मदोषात् परिभ्रष्टः कथं वक्ष्यामि तानहम्॥ दुर्विनीता: श्रियं प्राप्य विद्यामैश्वर्यमेव च। तिष्ठन्ति न चिरं भद्रे यथाहं मदगर्वितः॥ अहो नाहमिदं कर्म कष्टं दुश्चरितं कृतम्। स्वयं दुर्बुद्धिना मोहाद् येन प्राप्तोऽस्मि संशयम्॥ तस्मात् प्रायमुपासिष्ये हि शक्ष्यामि जीवितुम्। चेतयानो हि को जीवेत् कृच्छ्राच्छत्रुभिरुद्धतः॥ शत्रुभिश्चावहसितो मानी पौरुषवर्जितः। याण्डवैविक्रमाढ्यैश्च सावमानमवेक्षितः॥ वैशम्पायन उवाच एवं चिन्तापरिगतो दुःशासनमथाब्रवीत्। दुःशासन निबोधेदं वचनं मम भारत॥ प्रतीच्छ त्वं मया दत्तमभिषेकं नृपो भव। प्रशाधि पृथिवीं स्फीतां कर्णसौबलपालिताम्॥ भ्रातृन् पालय विस्रब्धं मरुतो वृत्रहा यथा। बान्धवाश्चोपजीवन्तु देवा इव शतक्रतुम्॥ ब्राह्मणेषु सदा वृत्तिं कुर्वीथाश्चाप्रमादतः। बन्धूनां सुहृदां चैव भवेथस्त्वं गतिः सदा॥ ज्ञातींश्चाप्यनुपश्येथा विष्णुर्देवगणान् यथा। गुरवः पालनीयास्ते गच्छ पालय मेदिनीम्॥ नन्दयन् सुहृदः सर्वान् शात्रवांश्चावभर्सयन्। कण्ठे चैनं परिष्वज्य गम्यतामित्युवाच ह॥ तस्य तद् वचनं श्रुत्वा दीनो दुःशासनोऽब्रवीत्। अश्रुकण्ठः सुदुःखार्तः प्राञ्जलिः प्रणिपत्य च॥ सगद्गदमिदं वाक्यं भ्रातरं ज्येष्ठमात्मनः। प्रसीदेत्यपतद् भूमौ दूयमानेन चेतसा॥ दुःखितः पादयोस्तस्य नेत्रजं जलमुत्सृजन्। उक्तवांश्च नरव्याघ्रो नैतदेवं भविष्यति॥ विदीर्येत् सकला भूमियोश्चापि शकलीभवेत्। रविरात्मप्रभा जह्यात् सोमः शीतांशुतां त्येजत्॥ वायुः शैयमथो जह्याद्धिमवांश्च परिव्रजेत्। शुष्येत् तोयं समुद्रेषु वह्निरप्युष्णतां त्येजत्॥ न चाहं त्वदृते राजन् प्रशासेयं वसुन्धराम्। पुनः पुनः प्रसीदेति वाक्यं चेदमुवाच ह॥ त्वमेव नः कुले राजा भविष्यसि शतं समाः। एवमुक्त्वा स राजानं सुस्वरं प्ररुरोद ह॥ पादौ संस्पृश्य मानार्हो भ्रातुर्येष्ठस्य भारत। तथा तौ दुःखितौ दृष्ट्वा दुःशासनसुयोधनौ।॥ अधिगम्य व्यधाविष्टः कर्णस्तौ प्रत्यभाषत। विषीदथः किं कौरव्यौ बालिश्यात् प्राकृताविव॥ न शोकः शोचमानस्य विनिवर्तेत कर्हिचित्। यदा च शोचतः शोको व्यसनं नापकर्षति॥ सामर्थ्य किं ततः शोके शोचमानौ प्रपश्यथः। धृतिं गृहणीतमा शत्रून् शोचन्तौ नन्दयिष्यथः॥ कर्तव्यं हि कृतं राजन् पाण्डवैस्तव मोक्षणम्। नित्यमेव प्रियं कार्यं राज्ञो विषयवासिभिः॥ पाल्यमानास्त्वया ते हि निवसन्ति गतज्वराः। नार्हस्येवंगते मन्युं कर्तुं प्राकृतवद् यथा॥ विषण्णास्त्व सोदर्यास्त्वयि प्रायं समास्थिते। उत्तिष्ठ व्रज भद्रं ते समाश्वासय सोदरान्॥ कर्ण उवाच राजन्नाधावगच्छामि तवेह लघुसत्त्वताम्। किमत्र चित्रं यद् वीर मोक्षितः पाण्डवैरसि॥ सद्यो वशं समापन्नः शत्रूणां शत्रुकर्शन। सेनाजीवैश्च कौरव्य तथा विषयवासिभिः॥ अज्ञातैर्यदि वा ज्ञातैः कर्तव्यं नृपतेः प्रियम्। प्राय: प्रधानाः पुरुषाः क्षोभयन्त्यरिवाहिनीम्॥ निगृह्यन्ते च युद्धेषु मोक्ष्यन्ते चैव सैनिकैः। सेनाजीवाश्च ये राज्ञां विषये सन्ति मानवाः॥ तैः सङ्गम्य नृपार्थाय यतितव्यं यथातथम्। यद्येवं पाण्डवै राजन् भवद्विषयवासिभिः॥ यदृच्छया मोक्षितोऽसि तत्र का परिदेवना। न चैतत् साधु यद् राजन् पाण्डवास्त्वां नृपोत्तमम्॥ स्वसेनया सम्प्रयान्तं नानुयान्ति स्म पृष्ठतः। शूराश्च बलवन्तश्च संयुगेष्वपलायिनः॥ भवतस्ते सहाया वै प्रेष्यतां पूर्वमागताः। पाण्डवेयानि रत्नानि त्वमद्याप्युपभुञ्जसे॥ सत्त्वस्थान् पाण्डवान् पश्य न ते प्रायमुपाविशन् उत्तिष्ठ राजन् भद्रं ते न चिरं कर्तुमर्हसि॥ अवश्यमेव नृपते राज्ञो विषयवासिभिः। प्रियाण्याचरितव्यानि तत्र का परिदेवना॥ मद्वाक्यमेतद् राजेन्द्र यद्येवं न करिष्यसि। स्थास्यामीह भवत्पादौ शुश्रूषन्नरिमर्दन॥ नोत्सहे जीवितुमहं त्वविहीनो नरर्षभ। प्रायोपविष्टस्तु नृप राज्ञां हास्यो भविष्यसि॥ वैशम्पायन उवाच एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा। नैवोत्यातुं मनश्चक्रे स्वर्गाय कृतनिश्चयः॥ वैशम्पायन उवाच प्रायोपविष्टं राजानं दुर्योधनममर्षणम्। उवाच सान्त्वयन् राजञ्छकुनिः सौबलस्तदा॥ शकुनिरुवाच सम्यगुक्तं हि कर्णेन तच्छ्रुतं कौरव त्वया। मया हृतां श्रियं स्फीतां तां मोहादपहाय किम्॥ त्वमल्पबुद्ध्या नृपते प्राणानुत्स्रष्टुमर्हसि। अथवाप्यवगच्छामि न वृद्धाः सेवितास्त्वया।॥ यः समुत्पतितं हर्ष दैन्यं वा न नियच्छति। स नश्यति श्रियं प्राप्य पात्रमाममिवाम्भसि॥ अतिभीरुमतिक्लीबं दीर्घसूत्रं प्रमादिनम्। व्यसनाद् विषयाक्रान्तं न भजन्ति नृपं प्रजाः॥ सत्कृतस्य हि ते शोको विपरीते कथं भवेत्। मा कृत शोभनं पाथैः शोकमालम्ब्य नाशया।६।। यत्र हर्षस्त्वया कार्यः सत्कर्तव्याश्च पाण्डवाः। तत्र शोचसि राजेन्द्र विपरीतमिदं तव।॥ प्रसीद मा त्यजात्मानं तुष्टश्च सुकृतं स्मर। प्रयच्छ राज्यं पार्थानां यशो धर्ममवाप्नुहि॥ क्रियामेतां समाज्ञाय कृतज्ञस्त्वं भविष्यसि। सौभ्रानं पाण्डवैः कृत्वा समवस्थाप्य चैव तान्॥ पित्र्यं राज्यं प्रयच्छैषां ततः सुखमवाप्स्यसि। वैशम्पायन उवाच शकुनेस्तु वचः श्रुत्वा दुःशासनमवेक्ष्य च।॥ पादयोः पतितं वीरं विकृतं भ्रातृसौहृदम्। बाहुभ्यां साधुजाताभ्यां दुःशासनमरिंदमम्॥ उत्थाप्य सम्परिष्वज्य प्रीत्याजिघ्नत मूर्धनि। कर्णसौबलयोश्चापि संश्रुत्य वचनान्यसौ॥ निर्वेदं परमं गत्वा राजा दुर्योधनस्तदा। व्रीडयाभिपरीतात्मा नैराश्यमगमत् परम्॥ तच्छ्रुत्वा सुहृदश्चैव समन्युरिदमब्रवीत्। न धर्मधनसौख्येन नैश्चर्येण न चाज्ञया॥ नैव भोगैश्च मे कार्यं मा वहन्यत गच्छत। निश्चितेयं मम मतिः स्थिता प्रायोपवेशने॥ गच्छध्वं नगरं सर्वे पूज्याश्च गुरवो मम। त एवमुक्ताः प्रत्यूचू राजानमरिमर्दनम्॥ या गतिस्तव राजेन्द्र सास्माकमपि भारत। कथं वा सम्प्रवेक्ष्यामस्त्वविहीनाः पुरं वयम्॥ वैशम्पायन उवाच स सुहृद्भिरमात्यैश्च भ्रातृभिः स्वजनेन च। बहुप्रकारमप्युक्तो निश्चयान्न विचाल्यते॥ दर्भास्तरणमास्तीर्य निश्चयाद् धृतराष्ट्रजः। संस्पृश्यापः शुचिर्भूत्वा भूतले समुपस्थितः॥ कुशचीराम्बरधरः परं नियममास्थितः। वाग्यतो राजशार्दूलः स स्वर्गगतिकाम्यया॥ मनसोपचितिं कृत्वा निरस्य च बहिः क्रियाः। अथ तं निश्चयं तस्य बुद्ध्वा दैतेयदानवाः॥ पातालवासिनो रौद्राः पूर्वं देवैर्विनिर्जिताः। ते स्वपक्षक्षयं तं तु ज्ञात्वा दुर्योधनस्य वै॥ आह्वानाय तदा चक्रुः कर्म वैतानसम्भवम्। बृहस्पतत्युशनोक्तैश्च मन्त्रैर्मन्त्रविशारदाः॥ अथर्ववेदप्रोक्तैश्च याश्योपनिषदि क्रिया:। मन्त्रजप्यसमायुक्तास्तास्तदा समवर्तयन्॥ जुह्वत्यग्नौ हविः क्षीरं मन्त्रवत् सुसमाहिताः। ब्राह्मणा वेदवेदाङ्गपारगाः सुदृढव्रताः॥ कर्मसिद्धौ तदा तत्र जृम्भमाणा महाद्भुता। कृत्या समुत्थिता राजन् किं करोमीति चाब्रवीत्॥ आहुदैत्याश्च तां तत्र सुप्रीतेनान्तरात्मना। प्रायोपविष्टं राजानं धार्तराष्ट्रमिहानय॥ तथेति च प्रतिश्रुत्य सा कृत्या प्रययौ तदा। निमेषादगमच्चापि यत्र राजा सुयोधनः॥ समादाय च राजानं प्रविवेश रसातलम्। दानवानां मुहूर्ताच्च तमानीतं न्यवेदयत्। तमानीतं नृपं दृष्ट्वा रात्रौ संगत्य दानवाः॥ प्रहृष्टमनसः सर्वे किंचिदुत्फुल्ललोचनाः। साभिमानमिदं वाक्यं दुर्योधनमथाब्रुवन्॥ जनमेजय उवाच वसमानेषु पार्थेषु वने तस्मिन् महात्मसु। धार्तराष्ट्रा महेष्वासाः किमकुर्वत सत्तमाः॥ कर्णो वैकर्तनश्चैव शकुनिश्च महाबलः। भीष्मद्रोणकृपाश्चैव तन्मे शंसितुमर्हसि॥ वैशम्पायन उवाच एवं गतेषु पार्थेषु विसृष्टे च सुयोधने। आगते हास्तिनपुरं मोक्षिते पाण्डुनन्दनैः॥ भीष्मोऽब्रवीन्महाराज धार्तराष्ट्रमिदं वचः। उक्तं तात यथा पूर्वं गच्छतस्ते तपोवनम्॥ गमनं मे न रुचितं तव तत्र कृतं च ते। तत: प्राप्तं त्वया वीर ग्रहणं शत्रुभिर्बलात्॥ मोक्षितश्चासि धर्मज्ञैः पाण्डवैर्न च लज्जसे। प्रत्यक्षं तव गान्धारे ससैन्यस्य विशाम्पते॥ सूतपुत्रोऽपयाद् भीतो गन्धर्वाणां तदा रणात्। क्रोशतस्तव राजेन्द्र ससैन्यस्य नृपात्मज॥ दृष्टस्ते विक्रमश्चैव पाण्डवानां महात्मनाम्। कर्णस्य च महाबाहो सूतपुत्रस्य दुर्मतेः॥ न चापि पादभाक् कर्णः पाण्डवानां नृपोत्तम। धनुर्वेद च शौर्ये च धर्मे वा धर्मवत्सल॥ तस्मादहं क्षमं मन्ये पाण्डवैस्तैर्महात्मभिः। संधिं संधिविदां श्रेष्ठ कुलस्यास्य विवृद्धये॥ एवमुक्तश्च भीष्मेण धार्तराष्ट्रो जनेश्वरः। प्रहस्य सहसा राजन् विप्रतस्थे ससौबलः॥ तं तु प्रस्थितमाज्ञाय कर्णदुःशासनादयः। अनुजग्मुर्महेष्वासा धार्तराष्ट्र महाबलम्॥ तांस्तु सम्प्रस्थितान् दृष्ट्वा भीष्मः कुरुपितामहः। लज्जया वीडितो राजञ्जगाम स्वं निवेशनम्॥ गते भीष्मे महाराज धार्तराष्ट्रो जनेश्वरः। पुनरागम्य तं देशममन्त्रयत मन्त्रिभिः॥ किमस्माकं भवेच्छ्रेयः किं कार्यमवशिष्यते। कथं च सुकृतं तत् स्यान्मन्त्रयामोऽद्य यद्धितम्॥ कर्ण उवाच दुर्योधन निबोधेदं यत् त्वां वक्ष्यामि कौरव। भीष्मोऽस्मान् निन्दति सदा पाण्डवांश्च प्रशंसति॥ त्वद् द्वेषाच्च महाबाहो ममापि द्वेष्टुमर्हति। विगर्हते च मां नित्यं त्वत्समीपे नरेश्वर॥ सोऽहं भीष्मवचस्तद् वै न मृष्यामीह भारत! त्वत्समक्षं यदुक्तं च भीष्मेणामित्रकर्षण॥ पाण्डवानां यशो राजंस्तव निन्दां च भारता अनुजानीहि मां राजन् सभृत्यबलवाहनम्॥ जेष्यामि पृथिवीं राजन् सशैलवनकाननाम्। जिता च पाण्डवैर्भूमिश्चतुर्भिर्बलशालिभिः॥ तामहं ते विजेष्यामि एक एव न संशयः। सम्पश्यतु सुदुर्बुद्धिर्भीष्मः कुरुकुलाधमः॥ अनिन्धं निन्दते यो हि अप्रशंस्यं प्रशंसति। स पश्यतु बलं मेऽद्य आत्मानं तु विगर्हतु॥ अनुजानीहि मां राजन् ध्रुवो हि विजयस्तव। प्रतिजानामि ते सत्यं राजन्नायुधमालभे॥ तच्छ्रुत्वा तु वचो राजन् कर्णस्य भरतर्षभ। प्रीत्या परमया युक्तः कर्णमाह नराधिपः॥ धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे त्वं महाबलः हितेषु वर्तसे नित्यं सफलं जन्म चाद्य मे॥ यदा च मन्यसे वीर सर्वशत्रुनिबर्हणम्। तदा निर्गच्छ भद्रं ते ह्यनुशाधि च मामिति॥ एवमुक्तस्तदा कर्णो धार्तराष्ट्रेण धीमता। सर्वमाज्ञापयामास प्रायात्रिकमरिंदम॥ प्रययौ च महेष्वासो नक्षत्रे शुभदैवते। शुभे तिथौ मुहूर्ते च पूज्यमानो द्विजातिभिः॥ मङ्गलैश्च शुभैः स्नातो वाग्भिश्चापि प्रपूजितः। नादयन् रथघोषेण त्रैलोक्यं सचराचरम्॥ वैशम्पायन उवाच ततः कर्णो महेष्वासो बलेन महता वृतः। द्रुपदस्य पुरं रम्यं रुरोध भरतर्षभ।।।। युद्धेन महता चैनं चक्रे वीरं वशानुगम्। सुवर्ण रजतं चापि रत्नानि विविधानि च॥ करं च दापयामास दुपदं नृपसत्तम। तं विनिर्जित्य राजेन्द्र राजानस्तस्य येऽनुगाः॥ तान् सर्वान् वशगांश्चक्रे करं चैनानदापयत्। अथोत्तरां दिशं गत्वा वशे चक्रे नराधिपान्॥ भगदत्तं च निर्जित्य राधेयो गिरिमारुहत्। हिमवन्तं महाशैलं युध्यमानश्च शत्रुभिः॥ प्रययौ च दिशः सर्वान् नृपतीन् वशमानयत्। स हैमवतिकाञ्जित्वा करं सर्वानदापयत्॥ नेपालविषये ये च राजानस्तानवाजयत्। अवतीर्य ततः शैलात् पूर्वां दिशमभिद्रुतः॥ अङ्गान् वङ्गान् कलिंगांश्च शुण्डिकान् मिथिलानथ मागधान् कर्कखण्डांश्च निवेश्य विषयेऽऽत्मनः॥ आवशीरांश्च योध्यांश्च अहिक्षत्रं च निर्जयत्। पूर्वां दिशं विनिर्जित्य वत्सभूमिं तथागमत्॥ वत्सभूमिं विनिर्जित्य केवलां मृत्तिकावतीम्। मोहं पत्तनं चैव त्रिपुरी कोसलां तथा॥ एतान् सर्वान् विनिर्जित्य करमादाय सर्वशः। दक्षिणां दिशमास्थाय कर्णो जित्वा महारथान्॥ रुक्मिणं दाक्षिणात्येषु योधयामास सूतजः। स युद्धं तुमुलं कृत्वा रुक्मी प्रोवाच सूतजम्॥ प्रीतोऽस्मि तव राजेन्द्र विक्रमेण बलेन च। न ते विघ्नं करिष्यामि प्रतिज्ञां समपालयम्॥ प्रीत्या चाहं प्रयच्छामि हिरण्यं यावदिच्छसि। समेत्य रुक्मिणा कर्णः पाण्ड्यं शैलं च सोऽगमत्।।१४। स केरलं रणे चैव नीलं चापि महीपतिम्। वेणुदारिसुतं चैव ये चान्ये नृपसत्तमाः॥ दक्षिणस्यां दिशि नृपान् करान् सर्वानदापयत्। शैशुपालिं ततो गत्वा विजिग्ये सूतनन्दनः॥ पार्श्वस्थांश्चापि नृपतीन् वशे चक्रे महाबलः। आवन्त्यांश्च वशे कृत्वा साम्ना च भरतर्षभ। वृष्णिभिः सह संगम्य पश्चिमामपि निर्जयत्॥ वारुणी दिशमागम्य यवनान् बर्बरांस्तथा। नृपान् पश्चिमभूमिस्थान् दापयामास वैकरान्॥ विजित्य पृथिवीं सर्वां स पूर्वापरदक्षिणाम्। सम्लेच्छाटविकान् वीरः सपर्वतनिवासिनः॥ भद्रान् रोहितकांश्चैव आचेयान् मालवानपि। गणान् सर्वान् विनिर्जित्य नीतिकृत् प्रहसन्निव॥ शशकान् यवनांश्चैव विजिग्ये सूतनन्दनः। नग्नजित्प्रमुखांश्चैव गणाञ्जित्वा महारथान्॥ एवं स पृथिवीं सर्वां वशे कृत्वा महारथः। विजित्य पुरुषव्याघ्रो नागसाह्वयमागमत्॥ तमागतं महेष्वासं धार्तराष्ट्रो जनाधिपः। प्रत्युद्गम्य महाराज सभ्रातृपितृबान्धवः॥ अर्चयामास विधिना कर्णमाहवशोभिनम्। आश्रावयच्च तत् कर्म प्रीयमाणो जनेश्वरः॥ यन्न भीष्मान्न च द्रोणान्न कृपान्न च बाह्निकात्। प्राप्तवानस्मि भद्रं ते त्वत्त: प्राप्तं मया हि तत्॥ बहुना च किमुक्तेन शृणु कर्म वचो मम। सनाथोऽस्मि महाबाहो त्वया नाथेन सत्तम॥ न हि ते पाण्डवाः सर्वे कलामर्हन्ति षोडशीम्। अन्ये वा पुरुषव्याघ्र राजानोऽभ्युदितोदिताः॥ स भवान् धृतराष्ट्रं तं गान्धारी च यशस्विनीम्। पश्य कर्ण महेष्वास अदितिं वलाभृद् यथा।॥ ततो हलहलाशब्दः प्रादुरासीद् विशाम्पते। हाहाकाराश्च बहवो नगरे नागसाह्वये॥ केचिदेनं प्रशंसन्ति निन्दन्ति स्म तथापरे। तूष्णीमासंस्तथा चान्ये नृपास्तत्र जनाधिप॥ एवं विजित्य राजेन्द्र कर्णः शस्त्रभृतां वरः। सपर्वतवनाकाशां ससमुद्रां सनिष्कुटाम्॥ देशैरुच्चावचैः पूर्णा पत्तनैर्नगरैरपि। द्वीपैश्चानूपसम्पूर्णैः पृथिवीं पृथिवीपते॥ कालेन नातिदीर्पण वशे कृत्वा तु पार्थिवान्। अक्षयं धनमादाय सूतजो नृपमभ्ययात्॥ प्रविश्य च गृहं राजन्नभ्यन्तरमरिंदम। गान्धारीसहितं वीरो धृतराष्ट्रं ददर्श सः॥ पुत्रवच्च नरव्याघ्र पादौ जग्राह धर्मवित्। धृतराष्ट्रेण चाश्लिष्य प्रेम्णा चापि विसर्जितः॥ तदा प्रभृति राजा च शकुनिश्चापि सौबलः। जानते निर्जितान् पार्थान् कर्णेन युधि भारत॥ वैशम्पायन उवाच जित्वा तु पृथिवीं राजन् सूतपुत्रो जनाधिप। अब्रवीत् परवीरघ्नो दुर्योधनमिदं वचः॥ कर्ण उवाच दुर्योधन निबोधेदं यत् त्वां वक्ष्यामि कौरव। श्रुत्वा वाचं तथा सर्वं कर्तुमर्हस्यरिंदम॥ तवाद्य पृथिवी वीर नि:सपत्ना नृपोत्तम। तां पालय यथा शक्रो हतशत्रुर्महामनाः॥ वैशम्पायन उवाच एवमुक्तस्तु कर्णेन कर्णं राजाब्रवीत् पुनः। न किंचिद् दुर्लभं तस्य यस्य त्वं पुरुषर्षभ॥ सहायश्चानुरक्तश्च मदर्थं च समुद्यतः। अभिप्रायस्तु मे कश्चित् तं वै शृणु यथातथम्॥ राजसूयं पाण्डवस्य दृष्ट्वा क्रतुवरं महत्। मम स्पृहा समुत्पन्ना तां सम्पादय सूतज॥ एवमुक्तस्ततः कर्णो राजानमिदमब्रवीत्। तवाद्य पृथिवीपाला वश्याः सर्वे नृपोत्तम॥ आहूयन्तां द्विजवराः सम्भाराश्च यथाविधि। सम्भ्रियन्तां कुरुश्रेष्ठ यज्ञोपकरणानि च॥ ऋत्विजश्च समाहूता यथोक्ता वेदपारगाः। क्रियां कुर्वन्तु ते राजन् यथाशास्त्रमरिंदम॥ बन्नपानसंयुक्तः सुसमृद्धगुणान्वितः। प्रवर्ततां महायज्ञस्तवापि भरतर्षभ॥ एवमुक्तस्तु कर्णेन धार्तराष्ट्रो विशाम्पते। पुरोहितं समानाय्य वचनं चेदमब्रवीत्॥ राजसूयं क्रतुश्रेष्ठं समाप्तवरदक्षिणम्। आहर त्वं मम कृते यथान्यायं यथाक्रमम्॥ स एवमुक्तो नृपतिमुवाच द्विजसत्तमः। न स शक्यः क्रतुश्रेष्ठो जीवमाने युधिष्ठिरे॥ आहर्तुं कौरवश्रेष्ठ कुले तव नृपोत्तमा दीर्घायुर्जीवति च ते धृतराष्ट्र: पिता नृप।॥ अतश्चापि विरुद्धस्ते क्रतुरेष नृपोत्तम। अस्ति त्वन्यन्महत् सत्रं राजसूयसमं प्रभो॥ तेन त्वं यज राजेन्द्र शृणु चेदं वचो मम। य इमे पृथिवीपालाः करदास्तव पार्थिव॥ ते करान् सम्प्रयच्छन्तु सुवर्णं च कृताकृतम्। तेन ते क्रियतामद्य लागलं नृपसत्तम॥ यज्ञवाटस्य ते भूमिः कृष्यतां तेन भारत। तत्र यज्ञो नृपश्रेष्ठ प्रभूतान्नः सुसंस्कृतः॥ प्रवर्ततां यथान्यायं सर्वतो ह्यनिवारितः। एष ते वैष्णवो नाम यज्ञः सत्पुरुषोचितः॥ एतेन नेष्टवान् कश्चिदृते विष्णुं पुरातनम्। राजसूयं क्रतुश्रेष्ठं स्पर्धत्येष महाक्रतुः॥ अस्माकं रोचते चैव श्रेयश्च तव भारत। निर्विघ्नश्च भवत्येष सफला स्यात् स्पृहा तव॥ एवमुक्तस्तु तैविप्रैर्धारिष्ट्रो महीपतिः। कर्णं च सौबलं चैव भ्रातूंश्चैवेदमब्रवीत्॥ रोचते मे वचः कृत्स्नं ब्राह्मणानां न संशयः। रोचते यदि युष्माकं तस्मात् प्रब्रूत मा चिरम्॥ एवमुक्तास्तु ते सर्वे तथेत्यूचुर्नराधिपम्। संदिदेश ततो राजा व्यापारस्थान् यथाक्रमम्॥ हलस्य करणे चापि व्यादिष्टाः सर्वशिल्पिनः। यथोक्तं च नृपश्रेष्ठ कृतं सर्वं यथाक्रमम्॥ जनमेजय उवाच दुर्योधनं मोक्षयित्वा पाण्डुपुत्रा महाबलाः। किमकार्षुर्वने तस्मिंस्तन्ममाख्यातुमर्हसि॥ वैशम्पायन उवाच ततः शयानं कौन्तेयं रात्रौ द्वैतवने मृगाः। स्वप्नान्ते दर्शयामासुर्वाष्पकण्ठा युधिष्ठिरम्॥ भवतो भ्रातरः शूराः तानब्रवीत् स राजेन्द्रो वेपमानान् कृताञ्जलीन्। ब्रूत यद् वक्तु कामाः स्थ के भवन्तः किमिष्यते॥ एवमुक्ताः पाण्डवेन कौन्तेयेन यशस्विना। प्रत्यब्रुवन् मृगास्तत्र हतशेषा युधिष्ठिरम्॥ वयं मृगा द्वैतवने हतशिष्टास्तु भारत। नोत्सीदेम महाराज क्रियतां वासपर्ययः॥ सर्व एवास्त्रकोविदाः। कुलान्यल्पावशिष्टानि कृतवन्तो वनौकसाम्॥ बीजभूता वयं केचिदविशष्टा महामते। विवर्धेमहि राजेन्द्र प्रसादात् ते युधिष्ठिर।॥ तान् वेपमानान् वित्रस्तान् बीजमात्रावशेषितान्। मृगान् दृष्ट्वा सुदुःखार्तो धर्मराजो युधिष्ठिरः॥ तांस्तथेत्यब्रवीद् राजा सर्वभूतहिते रतः। यथा भवन्तो ब्रुवते करिष्यामि च तत् तथा॥ इत्येवं प्रतिबुद्धः स रात्र्यन्ते राजसत्तमः। अब्रवीत् सहितान् भ्रातॄन् दयापन्नो मृगान् प्रति॥ ते उक्तो रात्रौ मृगैरस्मि स्वप्नान्ते हतशेषितैः। तन्तुभूताः स्म भद्रं ते दया नः क्रियतामिति॥ सत्यमाहुः कर्तव्या दयास्माभिर्वनौकसाम्। साष्टमासं हि नो वर्षं यदेतदुपयुक्ष्महे॥ पुनर्बहुमृगं रम्यं काम्यकं काननोत्तमम्। मरुभूमेः शिरःस्थानं तृणबिन्दुसरः प्रति॥ तत्रेमां वसतिं शिष्टां विहरन्तो रमेमहि। ततस्ते पाण्डवाः शीघ्रं प्रययुर्धर्मकोविदाः॥ ब्राह्मणैः सहिता राजन् ये च तत्र सहोषिताः। इन्द्रसेनादिभिश्चैव प्रेष्यैरनुगतास्तदा।॥ ते यात्वानुसृतैर्मार्ग: स्वनैः शुचिजलान्वितैः। ददृशुः काम्यकं पुण्यमाश्रमं तापसायुतम्॥ विविशुस्ते स्म कौरव्या वृता विप्रर्षभैस्तदा। तद् वनं भरतश्रेष्ठाः स्वर्ग सुकृतिनो यथा॥ वैशम्पायन उवाच वने निवसतां तेषां पाण्डवानां महात्मनाम्। वर्षाग्येकादशातीयुः कृच्छ्रेण भरतर्षभ॥ फलमूलाशनास्ते हि सुखाहाँ दुःखमुत्तमम्। प्राप्तकालमनुध्यान्तः सेहिरे वरपूरुषाः॥ युधिष्ठिरस्तु राजर्षिरात्मकर्मापराधजम्। चिन्तयन् स महाबाहुर्धातृणां दुःखमुत्तमम्॥ न सुष्वाप सुखं राजा हृदि शल्यैरिवार्पितैः। दौरात्म्यमनुपश्यंस्तत् काले द्यूतोद्भवस्य हि॥ संस्मरन् परुषा वाचः सूतपुत्रस्य पाण्डवः। निःश्वासपरमो दीनो बिभ्रत् कोपविषं महत्॥ अर्जुनो यमजौ चोभौ द्रौपदी च यशस्विनी। स च भीमो महातेजाः सर्वेषामुत्तमो बली॥ युधिष्ठिरमुदीक्षन्तः सेहुर्दुःखमनुत्तमम्। अवशिष्टमल्पकालं मन्वानाः पुरुषर्षभाः॥ वपुरन्यदिवाकार्षुरुत्साहामर्षचेष्टितैः। कस्यचित् त्वथ कालस्य व्यासः सत्यवतीसुतः॥ आजगाम महायोगी पाण्डवानवलोककः। तमागतमभिप्रेक्ष्य कुन्तीपुत्रो युधिष्ठिरः॥ प्रत्युद्गम्य महात्मानं प्रत्यगृह्णाद् यथाविधि। तमासीनमुपासीनः शुश्रूषुर्नियतेन्द्रियः॥ तोषयन् प्रणिपातेन व्यासं पाण्डवनन्दनः। तानवेक्ष्य कृशान् पौत्रान् वने वन्येन जीवतः॥ महर्षिरनुकम्पार्थमब्रवीद्वाष्पगद्गदम्। युधिष्ठिर महाबाहो शृणु धर्मभृतां वर॥ नातप्ततपसो लोके प्राप्नुवन्ति महासुखम्। सुखदुःखे हि पुरुषः पर्यायेणोपसेवते॥ न ह्यनन्तं सुखं कश्चित् प्राप्नोति पुरुषर्षभ। प्रज्ञावांस्त्वेव पुरुषः संयुक्तः परया धिया॥ उदयास्तमनज्ञो हि न हृष्यति न शोचति। सुखमापतितं सेवेद् दुःखमापतितं वहेत्॥ कालप्राप्तमुपासीत सस्यानामिव कर्षकः। तपसो हि परं नास्ति तपसा विन्दते महत्॥ नासाध्यं तपस: किंचिदिति बुद्ध्यस्व भारत। सत्यमार्जवमक्रोधः संविभागो दमः शमः।।१७। अनसूयाविहिंसा च शौचमिन्द्रियसंयमः। पावनानि महाराज नराणां पुण्यकर्मणाम्॥ अधर्मरुचयो मूढास्तिर्यग्गतिपरायणाः। कृच्छ्रां योनिमनुप्राप्ता न सुखं विन्दते जनाः॥ इह यत् क्रियते कर्म तत् परत्रोपयुज्यते। तस्माच्छरीरं युञ्जीत तपसा नियमेन च॥ यथाशक्ति प्रयच्छेत सम्पूज्याभिप्रणम्य च। काले प्राप्ते च हृष्टात्मा राजन् विगतमत्सरः॥ सत्यवादी लभेतायुरनायासमथार्जवम्। अक्रोधनोऽनसूयश्च निर्वृतिं लभते पराम्॥ दान्तः शमपरः शश्वत् परिक्लेशं न विन्दति। न च तप्यति दान्तात्मा दृष्ट्वा परगतां श्रियम्॥ संविभक्ता च दाता च भोगवान् सुखवान् नरः। भवत्यहिंसकश्चैव परमारोग्यमश्नुते॥ मान्यमानयिता जन्म कुले महति विन्दति। व्यसनैर्न त संयोगं प्राप्नोति विजितेन्द्रियः॥ शुभानुशयबुद्धिर्हि संयुक्तः कालधर्मणा। प्रादुर्भवति तद्योगात् कल्याणमतिरेव सः॥ युधिष्ठिर उवाच भगवन् दानधर्माणां तपसो वा महामुने। किंस्विद् बहुगुणं प्रेत्य किं वा दुष्करमुच्यते॥ व्यास उवाच दानान्न दुष्करं तात पृथिव्यामस्ति किंचन। अर्थ च महती तृष्णा स च दुःखेन लभ्यते॥ परित्यज्य प्रियान् प्राणान् धनार्थं हि महामते। प्रविशन्ति नरा वीराः समुद्रमटवीं तथा॥ कृषिगोरक्ष्यमित्येके प्रतिपद्यन्ति मानवाः। पुरुषाः प्रेष्यतामेके निर्गच्छन्ति धनार्थिनः॥ तस्माद् दुःखार्जितस्यैव परित्यागः सुदुष्करः। न दुष्करतरं दानात् तस्माद् दानं मतं मम॥ विशेषस्त्वत्र विज्ञेयो न्यायेनोपार्जितं धनम्। पात्रे काले च देशे च साधुभ्यः प्रतिपादयेत्॥ अन्यायात् समुपात्तेन दानधर्मो धनेन यः। क्रियते न स कर्तारं त्रायते महतो भयात्॥ पात्रे दानं स्वल्पमपि काले दत्तं युधिष्ठिर। मनसा हि विशुद्धेन प्रेत्यानन्तफलं स्मृतम्॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। व्रीहिद्रोणपरित्यागाद् यत् फलं प्राप मुद्गलः॥ युधिष्ठिर उवाच व्रीहिद्रोणः परित्यक्तः कथं तेन महात्मना। कस्मै दत्तश्च भगवन् विधिना केन चास्थ मे॥ प्रत्यक्षधर्मा भगवान् यस्य तुष्टो हि कर्मभिः। सफलं तस्य जन्माहं मन्ये सद्धर्मचारिणः॥ व्यास उवाच शिलोच्छवृत्तिर्धर्मात्मा मुद्गलः संयतेन्द्रियः। आसीद् राजन् कुरुक्षेत्रे सत्यवागनसूयकः॥ अतिथिव्रती क्रियावांश्च कापोती वृत्तिमास्थितः। सत्रमिष्टीकृतं नाम समुपास्ते महातपाः॥ सपुत्रदारो हि मुनिः पक्षाहारो बभूव ह। कपोतवृत्त्या पक्षण व्रीहिद्रोणमुपार्जयत्॥ दर्श च पौर्णमासं च कुर्वन् विगतमत्सरः। देवतातिथिशेषेण कुरुते देहयापनम्॥ तस्येन्द्रः सहितो देवैः साक्षात् त्रिभुवनेश्वरः। प्रत्यगृह्णान्महाराज भागं पर्वणि पर्वणि॥ स पर्वकालं कृत्वा तु मुनिवृत्त्या समन्वितः। अतिथिभ्यो ददावनं प्रहृष्टेनान्तरात्मना॥ व्रीहिद्रोणस्य तद्ध्यस्य ददतोऽन्नं महात्मनः। शिष्टं मात्सर्यहीनस्य वर्धतेऽतिथिदर्शनात्॥ तच्छतान्यपि भुञ्जन्ति ब्राह्मणानां मनीषिणाम्। मुनेस्त्यागविशुद्ध्या तु तदन्नं वृद्धिमृच्छति॥ तं तु शुश्राव धर्मिष्ठं मुद्गलं संशितव्रतम्। दुर्वासा नृप दिग्वासास्तमथाभ्याजगाम ह॥ बिभ्रच्चानियतं वेषमुन्मत्त इव पाण्डव। विकचः परुषा वाचो व्याहरन् विविधा मुनिः॥ अभिगम्याथ तं विप्रमुवाच मुनिसत्तमः। अन्नार्थिनमनुप्राप्तं विद्धि मां द्विजसत्तम॥ स्वागतं तेऽस्त्विति मुनि मुद्गलः प्रत्यभाषत। पाद्यमाचमनीयं च प्रतिपाद्यार्थ्यमुत्तमम्॥ प्रादात् स तापसायान्नं क्षुधितायातिथिव्रती। उन्मत्ताय परां श्रद्धामास्थाय स धृतव्रतः॥ ततस्तदन्नं रसवत् स एव क्षुधयान्वितः। बुभुजे कृत्स्नमुन्मत्तः प्रादात् तस्मै च मुद्गलः॥ भुक्त्वा चान्नं ततः सर्वमुच्छिष्टेनात्मनस्ततः। अथाङ्गं लिलिपेऽनेन यथागतमगाच्च सः॥ एवं द्वितीये सम्प्राप्ते यथाकाले मनीषिणाः। आगम्य बुभुजे सर्वमन्नमुच्छोपजीविनः॥ निराहारस्तु स मुनिरुञ्छमार्जयते पुनः। न चैनं विक्रियां नेतुमशकन्मुद्गलं क्षुधा।॥ न क्रोधो न च मात्सर्यं नावमानो न सम्भ्रमः। सपुत्रदारमुञ्छन्तमाविवेश द्विजोत्तमम्॥ तथा तमुच्छधर्माणं दुर्वासा मुनिसत्तमम्। उपतस्थे यथाकालं षट्कृत्वः कृतनिश्चयः॥ न चास्य मनसा कंचिद् विकारं ददृशे मुनिः। शुद्ध सत्त्वस्य शुद्धं स ददृशे निर्मलं मनः॥ तमुवाच ततः प्रीतः स मुनिर्मुद्गलं ततः। त्वत्समो नास्ति लोकेऽस्मिन् दाता मात्सर्यवर्जितः॥२३। क्षुद् धर्मसंज्ञा प्रणुदत्यादत्ते धैर्यमेव च। रसानुसारिणी जिह्वा कर्षत्येव रसान् प्रति॥ आहारप्रभवाः प्राणा मनो दुर्निग्रहं चलम्। मनसश्चेन्द्रियाणां चाप्यैकाग्यं निश्चितं तपः॥ श्रमेणोपार्जितं त्यक्तुं दुःखं शुद्धेन चेतसा। तत् सर्वं भवता साधो यथावदुपपादितम्॥ प्रीताः स्मोऽनुगृहीताश्च समेत्य भवता सह। इन्द्रियाभिजयो धैर्यं संविभागो दमः शमः॥ दरा सत्यं च धर्मश्च त्वयि सर्वं प्रतिष्ठितम्। जितास्ते कर्मभिर्लोकाः प्राप्तोऽसि परमां गतिम्॥ अहो दानं विधुष्टं ते सुमहत् स्वर्गवासिभिः। सशरीरो भवान् गन्ता स्वर्ग सुचरितव्रत॥ इत्येवं वदतस्तस्य तदा दुर्वाससो मुनेः। देवदूतो विमानेन मुद्गलं प्रत्युपस्थितः॥ हंससारसयुक्तेन किङ्किणीजालमालिना। कामगेन विचित्रेण दिव्यगन्धवता तथा॥ उवाच चैनं विप्रर्षि विमानं कर्मभिर्जितम्। समुपारोह संसिद्धि प्राप्तोऽसि परमां मुने॥ तमेवंवादिनमृषिदेवदूतमुवाच हा इच्छामि भवता प्रोक्तान् गुणान् स्वर्गनिवासिनाम्॥ के गुणास्तत्र वसतां किं तपः कश्च निश्चयः। स्वर्गे तत्र सुखं किं च दोषो वा देवदूतक॥ सतां साप्तपदं मैत्रमाहुः सन्तः कुलोचिताः। मित्रतां च पुरस्कृत्य पृच्छामि त्वामहं विभो॥ यदत्र तथ्यं पथ्यं च तद् ब्रवीह्यविचारयन्। श्रुत्वा तथा करिष्यामि व्यवसायं गिरा तव।॥ देवदूत उवाच महर्षे आर्यबुद्धिस्त्वं यः स्वर्गसुखमुत्तमम्। सम्प्राप्तं बहु मन्तव्यं विमृशस्यबुधो यथा॥ उपरिष्टादसौ लोको योऽयं स्वरिति संज्ञितः। ऊर्ध्वगः सत्पथः शश्वद् देवयानचरो मुने॥ नातप्ततपसः पुंसो नामहायज्ञयाजिनः। नानृता नास्तिकाश्चैव तत्र गच्छन्ति मुद्गल॥ धर्मात्मानो जितात्मानः शान्ता दान्ता विमत्सराः। दानधर्मरता मर्त्याः शूराश्चाहवलक्षणाः॥ तत्र गच्छन्ति धर्माग्र्यं कृत्वा शमदमात्मकम्। लोकान् पुण्यकृतां ब्रह्मन् सद्भिराचरितान् नृभिः॥ देवाः साध्यास्तथा विश्वे तथैव च महर्षयः। यामा धामाश्च मौद्गल्य गन्धर्वाप्सरसस्तथा।॥ एषां देवनिकायानां पृथक् पृथगनेकशः। भास्वन्त: कामसम्पन्ना लोकास्तेजोमयाः शुभाः॥ त्रयस्त्रिंशत्सहस्राणि योजनानि हिरण्मयः। मेरुः पर्वतराट् यत्र देवोद्यानानि मुद्गल॥ नन्दनादीनि पुण्यानि विहाराः पुण्यकर्मणाम्। न क्षुत्पिपासे न ग्लानिर्न शीतोष्णे भयं तथा॥ बीभत्समशुभं वापि तत्र किंचिन्न विद्यते। मनोज्ञाः सर्वतो गन्धाः सुखस्पर्शाश्च सर्वशः॥ शब्दाः श्रुतिमनोचाह्याः सर्वतस्तत्र वै मुने। न शोको न जरा तत्र नायासपरिदेवने।॥ ईदृशः स मुने लोकः स्वकर्मफलहेतुकः। सुकृतैस्तत्र पुरुषाः सम्भवन्त्यात्मकर्मभिः॥ तैजसानि शरीराणि भवन्त्यत्रोपपद्यताम्। कर्मजान्येव मौद्गल्य न मातृपितृजान्युत॥ न संस्वेदो न दौर्गन्ध्यं पुरीषं मूत्रमेव च। तेषां न च रजो वस्त्रं बाधते तत्र वै मुने॥ न म्लायन्ति स्रजस्तेषां दिव्यगन्धा मनोरमाः। संयुज्यन्ते विमानैश्च ब्रह्मन्नेवंविधैश्च ते॥ ईर्ष्याशोकक्लमापेता मोहमात्सर्यवर्जिताः। सुखं स्वर्गजितस्तत्र वर्तयन्ते महामुने॥ तेषां तथाविधानां तु लोकानां मुनिपुङ्गवा उपर्युपरि लोकस्य लोका दिव्या गुणान्विताः॥ पुरस्ताद् ब्राह्मणास्तत्र लोकास्तेजोमयाः शुभाः। यत्र यान्त्यषयो ब्रह्मन् पूताः स्वैः कर्मभिः शुभैः॥ ऋभवो नाम तत्रान्ये देवानामपि देवताः। तेषां लोकात् परतरे यान् यजन्तीह देवताः॥ स्वयंप्रभास्ते भास्वन्तो लोका: कामदुधाः परे। न तेषां स्त्रीकृतस्तापो न लोकैश्वर्यमत्सरः॥ न वर्तयन्त्याहुतिभिस्ते नाष्यमृतभोजनाः। तथा दिव्यशरीरास्ते न च विग्रहमूर्तयः॥ न सुखे सुखकामास्ते देवदेवाः सनातनाः। न कल्पपरिवर्तेषु परिवर्तन्ति ते तथा॥ जरा मृत्युः कुतस्तेषां हर्षः प्रीतिः सुखं न च। न दुःखं न सुखं चापि रागद्वेषौ कुतो मुने॥ देवानामपि मौद्गल्य काक्षिता सा गतिः परा। दुष्प्रापा परमा सिद्धिरगम्या कामगोचरैः॥ त्रयस्त्रिंशदिमे देवा येषां लोका मनीषिभिः। गम्यन्ते नियमैः श्रेष्ठैर्दानैर्वा विधिपूर्वकैः॥ सेयं दानकृता व्युष्टिरनुप्राप्ता सुखं त्वया। तां भुक्ष्व सुकृतैर्लब्धां तपसा द्योतितप्रभः॥ एतत् स्वर्गसुखं विप्र लोका नानाविधास्तथा। गुणाः स्वर्गस्य प्रोक्तास्ते दोषानपि निबोध मे॥ कृतस्य कर्मणस्तत्र भुज्यते यत् फलं दिवि। न चान्यत् क्रियते कर्म मूलच्छेदेन भुज्यते॥ सोऽत्र दोषो मम मतस्तस्यान्ते पतनं च यत्। सुखव्याप्तमनस्कानां पतनं यच्च मुद्गल॥ असंतोषः परीतापो दृष्ट्वा दीप्ततराः श्रियः। यद् भवत्यवरे स्थाने स्थितानां तत् सुदुष्करम्॥ संज्ञामोहश्च पततां रजसा च प्रधर्षणम्। प्रम्लानेषु च माल्येषु ततः पिपतिषोर्भयम्॥ आब्रह्मभवनादेते दोषा मौद्गल्य दारुणाः। नाकलोके सुकृतिनां गुणास्त्वयुतशो नृणाम्॥ अयं त्वन्यो गुणः श्रेष्ठश्च्युतानां स्वर्गतो मुने। शुभानुशययोगेन मनुष्येषूपजायते॥ तत्रापि स महाभागः सुखभागभिजायते। न चेत् सम्बुध्यते तत्र गच्छत्यधमतां ततः॥ इह यत् क्रियते कर्म तत् परत्रोपभुज्यते। कर्मभूमिरियं ब्रह्मन् फलभूमिरसौ मता॥ मुद्गल उवाच महान्तस्तु अमी दोषास्त्वया स्वर्गस्य कीर्तिताः। निर्दोष एव यस्त्वन्यो लोकं तं प्रवदस्व मे॥ देवदूत उवाच ब्रह्मणः सदनादूर्ध्वं तद् विष्णोः परमं पदम्। शुद्धं सनातनं ज्योतिः परं ब्रह्मेति यद् विदुः॥ न तत्र विप्र गच्छन्ति पुरुषा विषयात्मकाः। दम्भलोभमहाक्रोधमोहद्रोहैरभिद्रुताः॥ निर्ममा निरहङ्कारा निर्द्वन्द्वाः संयतेन्द्रियाः। ध्यानयोगपराश्चैव तत्र गच्छन्ति मानवाः॥ एतत् ते सर्वमाख्यातं यन्मां पृच्छसि मुद्गल। तवानुकम्पया साधो साधु गच्छाम मा चिरम्॥ व्यास उवाच एतच्छ्रुत्वा मौद्गल्यो वाक्यं विममृशे धिया। विमृश्य च मुनिश्रेष्ठो देवदूतमुवाच ह॥ देवदूत नमस्तेऽस्तु गच्छ तात यथासुखम्। महादेषेण मे कार्यं न स्वर्गेण सुखेन वा॥ पतनान्ते महद् दुःखं परितापः सुदारुणः। स्वर्गभाजश्चरन्तीह तस्मात् स्वर्गं न कामये॥ यत्र गत्वा न शोचन्ति न व्यथन्ति चलन्ति वा। तदहं स्थानमत्यन्तं मार्गयिष्यामि केवलम्॥ इत्युक्त्वा स मुनिर्वाक्यं देवदूतं विसृज्य तम्। शिलोच्छवृत्तिर्धर्मात्मा शममातिष्ठदुत्तमम्॥ तुल्यनिन्दास्तुतिर्भूत्वा समलोष्टाश्मकाञ्चनः। ज्ञानयोगेन शुद्धेन ध्याननित्यो बभूव ह॥ ध्यानयोगाद् बलं लब्ध्वा प्राप्य बुद्धिमनुत्तमाम्। जगाम शाश्वती सिद्धिं परां निर्वाणलक्षणाम्॥ तस्मात् त्वमपि कौन्तेय न शोकं कर्तुमर्हसि। राज्यात् स्फीतात् परिभ्रष्टस्तपसा तदवाप्स्यसि॥ सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्। पर्यायेणोपसर्पन्ते नरं नेमिमरा इव॥ पितृपैतामहं राज्यं प्राप्स्यस्यमितविक्रम। वर्षात् त्रयोदशादूर्ध्वं व्येतु ते मानसो ज्वरः॥ वैशम्पायन उवाच स एवमुक्त्वा भगवान् व्यासः पाण्डवनन्दनम्। जगाम तपसे धीमान् पुनरेवाश्रमं प्रति॥ जनमेजय उवाच वसत्स्वेवं वने तेषु पाण्डवेषु महात्मसु। रममाणेषु चित्राभिः कथाभिर्मुनिभिः सह॥ सूर्यदत्ताक्षयान्नेन कृष्णाया भोजनावधि। ब्राह्मणांस्तर्पमाणेषु ये चान्नार्थमुपागताः॥ धार्तराष्ट्रा दुरात्मानः सर्वे दुर्योधनादयः। कथं तेष्वन्ववर्तन्त पापाचारा महामुने॥ दुःशासनस्य कर्णस्य शकुनेश्च मते स्थिताः। एतदाचक्ष्व भगवन् वैशम्पायन पृच्छतः॥ वैशम्पायन उवाच श्रुत्वा तेषां तथा वृत्तिं नगरे वसतामिव। दुर्योधनो महाराज तेषु पापमरोचयत्॥ तथा तैनिकृतिप्रज्ञैः कर्णदुःशासनादिभिः। नानोपायैरघं तेषु चिन्तयत्सु दुरात्मसु॥ अभ्यागच्छत् स धर्मात्मा तपस्वी सुमहायशाः। शिष्यायुतसमोपेतो दुर्वासा नाम कामतः॥ तमागतमभिप्रेक्ष्य मुनि परमकोपनम्। दुर्योधनो विनीतात्मा प्रश्रयेण दमेन च॥ सहितो भ्रातृभिः श्रीमानातिथ्येन न्यमन्त्रयत्। विधिवत् पूजयामास स्वयं किङ्करवत् स्थितः॥ अहानि कतिचित् तत्र तस्थौ स मुनिसत्तमः। तं च पर्यचरद् राजा दिवारानमतन्द्रितः॥ दुर्योधनो महाराज शापात् तस्य विशङ्कितः। क्षुधितोऽस्मि ददस्वान्नं शीघ्रं मम नराधिप॥ इत्युक्त्वा गच्छति स्नातुं प्रत्यागच्छति वै चिरात्। न भोक्ष्याम्यद्य मे नास्ति क्षुधेत्युक्त्वैत्यदर्शनम्॥ अकस्मादेत्य च ब्रूते भोजयास्मांस्त्वरान्वितः। कदाचिच्च निशीथे स उत्थाय निकृतौ स्थितः॥ पूर्ववत् कारयित्वान्नं न भुङ्क्ते गर्हयन् स्म सः। वर्तमाने तथा तस्मिन् यदा दुर्योधनो नृपः॥ विकृति नैति न क्रोधं तदा तुष्टोऽभवन्मुनिः। आह चैनं दुराधर्षो वरदोऽस्मीति भारत।॥ दुर्वासा उवाच वरं वरय भद्रं ते यत् मनसि वर्तते। मयि प्रीते तु यद् धर्म्य नालभ्यं विद्यते तव॥ वैशम्पायन उवाच एतच्छ्रुत्वा वचस्तस्य महर्षर्भावितात्मनः। अमन्यत पुनर्जातमात्मानं स सुयोधनः॥ प्रागेव मन्त्रितं चासीत् कर्णदुःशासनादिभिः। याचनीयं मुनेस्तुष्टादिति निश्चित्य दुर्मतिः॥ अतिहर्षान्वितो राजन् वरमेनमयाचत। शिष्यैः सह मम ब्रह्मन् यथा जातोऽतिथिर्भवान्॥ अस्मत्कुले महाराजो ज्येष्ठः श्रेष्ठो युधिष्ठिरः। वने वसति धर्मात्मा भ्रातृभिः परिवारितः॥ गुणवान् शीलसम्पन्नस्तस्य त्वमतिथिर्भव। यदा च राजपुत्री सा सुकुमारी यशस्विनी॥ भोजयित्वा द्विजान् सर्वान् पतींश्च वरवर्णिनी। विश्रान्ता च स्वयं भुक्त्वा सुखासीना भवेद् यदा।।२२। तदा त्वं तत्र गच्छेथा यद्यनुचाह्यता मयि। तथा करिष्ये त्वत्प्रीत्येत्येवमुक्त्वा सुयोधनम्॥ दुर्वासा अपि विप्रेन्द्रो यथागतमगात् ततः। कृतार्थमपि चात्मानं तदा मेने सुयोधनः॥ करेण च करं गृह्य कर्णस्य मुदितो भृशम्। कर्णोऽपि भ्रातृसहितमित्युवाच नृपं मुदा॥ कर्ण उवाच दिष्ट्या कामः सुसंवृत्तो दिष्ट्या कौरव वर्धसे। दिष्ट्या ते शत्रवो मग्ना दुस्तरे व्यसनार्णवे॥ दुर्वासः क्रोधजे वह्नौ पतिताः पाण्डुनन्दनाः। स्वैरेव ते महापापैर्गता वै दुस्तरं तमः॥ वैशम्पायन उवाच इत्यं ते निकृतिप्रज्ञा राजन् दुर्योधनादयः। हसन्तः प्रीतमनसो जग्मुः स्वं स्वं निकेतनम्॥ वैशम्पायन उवाच तस्मिन् बहुमृगेऽरण्ये अटमाना महारथाः। काम्यके भरतश्रेष्ठा विजहस्ते यथामराः॥ प्रेक्षमाणा बहुविधान् वनोद्देशान् समन्ततः। यथर्तुकालरम्याश्च वनराजीः सुपुष्पिताः॥ पाण्डवा मृगयाशीलाश्चरन्तस्तन्महद् वनम्। विजहुरिन्द्रप्रतिमाः कञ्चित् कालमरिंदम॥ ततस्ते यौगपद्येन ययुः सर्वे चतुर्दिशम्। मृगयां पुरुषव्याघ्रा ब्राह्मणार्थे परंतपाः॥ द्रौपदीमाश्रमे न्यस्य तृणबिन्दोरनुज्ञया। महर्षेर्दीप्ततपसो धौम्यस्य च पुरोधसः॥ ततस्तु राजा सिन्धूनां वार्द्धक्षत्रिर्महायशाः। विवाहकामः शाल्वेयान् प्रयात: सोऽभवत् तदा॥ महता परिबहेण राजयोग्येन संवृतः। राजभिर्बहुभिः सार्धमुपायात् काम्यक च सः॥ वपुषा बिभ्रती तां तत्रापश्यत् प्रियां भार्यां पाण्डवानां यशस्विनीम्। तिष्ठन्तीमाश्रमद्वारि द्रौपदी निर्जने वने।॥ विभ्राजमानां रूपमुत्तमम्। भ्राजयन्तीं वनोद्देशं नीलाभ्रमिव विद्युतम्॥ अप्सरा देवकन्या वा माया वा देवनिर्मिता। इति कृत्वाञ्जलिं सर्वे ददृशुस्तामनिन्दिताम्॥ ततः स राजा सिन्धूनां वार्द्धक्षत्रिर्जयद्रथः। विस्मितस्त्वनवद्यागीं दृष्ट्वा दुष्टमानसः॥ स कोटिकास्यं राजानमब्रवीत् काममोहितः। कस्य त्वेषानवद्याङ्गी यदि वापि न मानुषी॥ विवाहार्थो न मे कश्चिदिमां प्राप्यातिसुन्दरीम्। एतामेवाहमादाय गमिष्यामि स्वमालयम्॥ गच्छ जानीहि सौम्येमां कस्य वात्र कुतोऽपि वा। किमर्थमागता सुभूरिदं कण्टकितं वनम्॥ अपि नाम वरारोहा मामेषा लोकसुन्दरी। भजेदद्यायतापाङ्गी सुदती तनुमध्यमा॥ अप्यहं कृतकामः स्यामिमां प्राप्य वरस्त्रियम्। गच्छ जानीहि को न्वस्या नाथ इत्येव कोटिक॥ स कोटिकास्यस्तच्छ्रुत्वा रथात् प्रस्कन्द्य कुण्डली। उपेत्य पप्रच्छ तदा क्रोष्टा व्याघ्रवधूमिव॥ कोटिक उवाच मेकाऽऽश्रमे तिष्ठसि शोभमाना। देदीप्यमानाग्निशिखेव नक्तं व्याधूयमाना पवनेन सुभूः॥ अतीव रूपेण समन्विता त्वं न चाप्यरण्येषु बिभेषि किं नु। देवी नु यक्षी यदि दानवी वा वराप्सरा दैत्यवराङ्गना वा॥ वपुष्मती वोरगराजकन्या वनेचरी वा क्षणदाचरस्त्री। यद्येव राज्ञो वरुणस्य पत्नी यमस्य सोमस्य धनेश्वरस्य॥ धातुर्विधातुः सवितुर्विभोर्वा शक्रस्य वा त्वं सदनात् प्रपन्ना। न ह्येव नः पृच्छसि ये वयं स्म न चापि जानीम् तवेह नाथम्॥ वयं हि मानं तव वर्धयन्तः पृच्छाम भद्रे प्रभवं प्रभुं च। आचक्ष्व बन्धूंश्च पतिं कुलं च तत्त्वेन यच्चेह करोषि कार्यम्॥ अहं तु राज्ञः सुरथस्य पुत्रो कोटिकास्येति विदुर्मनुष्याः। असौ तु यस्तिष्ठति काञ्चनाङ्गे रथे हुतोऽग्निश्चयने यथैव॥ त्रिगर्तराजः कमलायताक्षि क्षेमङ्करो नाम स एष वीरः। अस्मात् परस्त्वेष महाधनुष्मान्। पुत्रः कुलिन्दाधिपतेर्वरिष्ठः॥ निरीक्षते त्वां विपुलायताक्षः सुपुष्पितः पर्वतवासनित्यः। असौ तु यः पुष्करिणीसमीपे श्यामो युवा तिष्ठति दर्शनीयः॥ इक्ष्वाकुराज्ञः सुबलस्य पुत्रः स एव हन्ता द्विषतां सुगात्रि। यस्यानुचक्रं ध्वजिनः प्रयान्ति सौवीरका द्वादश राजपुत्राः॥ शोणाश्वयुक्तेषु रथेषु सर्वे मखेषु दीप्ता इव हव्यवाहाः। अङ्गारकः कुञ्जरो गुप्तकश्च शत्रुञ्जयः संजयसुप्रवृद्धौ॥ भयंकरोऽथ भ्रमरो रविश्व शूरः प्रतापः कुहनश्च नामा यं घट सहस्रा रथिनोऽनुयान्ति नागा हयाश्चैव पदातिनश्च॥ जयद्रथो नाम यदि श्रुतस्ते सौवीरराजः सुभगे स एषः। तस्यापरे भ्रातरोऽदीनसत्त्वा बलाहकानीकविदिारणाद्याः॥ सौवीरवीराः प्रवरा युवानो राजानमेते बलिनोऽनुयान्ति। एतैः सहायैरुपयाति राजा मरुद्गणैरिन्द्र इवाभिगुप्तः॥ अजानतां ख्यापय नः सुकेशि कस्यासि भार्या दुहिता च कस्य॥ वैशम्पायन उवाच अथाब्रवीद् द्रौपदी राजपुत्री पृष्टा शिबीनां प्रवरेण तेन। अवेक्ष्य मन्दं प्रविमुच्य शाखां संगृह्णती कौशिकमुत्तरीयम्॥ बुद्ध्याभिजानामि नरेन्द्रपुत्र न मादृशी त्वामभिभाष्टुमर्हति। मन्यो नरो वाप्यथवपि नारी॥ एका ह्यहं सम्प्रति तेन वाचं ददामि वै भद्र निबोध चेदम्। अहं शरण्ये कथमेकमेका त्वामालपेयं निरता स्वधर्मे॥ जानामि च त्वां सुरथस्य पुत्रं यं कोटिकास्येति विदुर्मनुष्याः। माख्यामि बन्धून् प्रथितं कुलं च॥ अपत्यमस्मि द्रुपदस्य राज्ञः कृष्णेति मां शैब्य विदुर्मनुष्याः। साहं वृणे पञ्च जनान् पतित्वे ये खाण्डवप्रस्थगताः श्रुतास्ते॥ युधिष्ठिरो भीमसेनार्जुनौ च माझ्याश्च पुत्रौ पुरुषप्रवीरौ। ते मां निवेश्येह दिशश्चतस्रो विभज्य पार्था मृगयां प्रयाताः॥ प्राची राजा दक्षिणां भीमसेनो जयः प्रतीची यमजावुदीचीम्। मन्ये त तेषां रथसत्तमानां कालोऽभितः प्राप्त इहोपयातुम्॥ सम्मानिता यास्यथ तैर्यथेष्टं विमुच्य वाहानवरोहयध्वम्। प्रियातिथिर्धर्मसुतो महात्मा प्रोतो भविष्यत्यभिवीक्ष्य युष्मान्॥ एतावदुक्त्वा दुपदात्मजा सा शैव्यात्मजं चन्द्रमुखी प्रतीता। विवेश तां पर्णशालां प्रशस्तां संचिन्त्य तेषामतिथित्वमर्थे॥ वैशम्पायन उवाच तथाऽऽसीनेषु सर्वेषु तेषु राजसु भारत। यदुक्तं कृष्णया सार्धं तत् सर्वं प्रत्यवेदयत्॥ कोटिकास्यवचः श्रुत्वा शैब्यं सौवीरकोऽब्रवीत्। यदा वाचं व्याहरन्त्यामस्यां मे रमते मनः॥ सीमन्तिनीनां मुख्यायां विनिवृत्तः कथं भवान्। एतां दृष्ट्वा स्त्रियो मेऽन्या यथा शाखामृगस्त्रियः॥ प्रतिभान्ति महाबाहो सत्यमेतद् ब्रवीमि ते। दर्शनादेव हि मनस्तया मेऽपहृतं भृशम्॥ तां समाचक्ष्व कल्याणी यदि स्याच्छैव्य मानुषी। कोटिक उवाच एषा वै दो दी कृष्णा राजपुत्री यशस्विनी॥ पञ्चानां पाण्डुपुत्राणां महिषी सम्मता भृशम्। सर्वेषां चैव पार्थानां प्रिया बहुमता सती॥ तया समेत्य सौवीर सौवीराभिमुखो व्रजा वैशम्पायन उवाच एवमुक्तः प्रत्युवाच पश्यामि द्रौपदीमिति॥ पति: सौवीरसिन्धूनां दुष्टभावो जयद्रथः। स प्रविश्याश्रमं पुण्यं सिंहगोष्ठं वृको यथा।॥ आत्मना सप्तमः कृष्णामिदं वचनमब्रवीत्। कुशलं ते वरारोहे भर्तारस्तेऽप्यनामयाः॥ येषां कुशलकामासि तेऽपि कच्चिदनामयाः। द्रौपद्युवाच अपि ते कुशलं राजन् राष्ट्र कोशे बले तथा॥ कच्चिदेकः शिबीनाढ्यान् सौवीरान् सह सिन्धुभिः। अनुतिष्ठसि धर्मेण ये चान्ये विजितास्त्वया॥ कौरव्यः कुशली राजा कुन्तीपुत्रो युधिष्ठिरः। अहं च भ्रातरश्चास्य यांश्चान्यान् परिपृच्छसि॥ पाद्यं प्रतिगृहाणेदमासनं च नृपात्मज। जयद्रथ उवाच एहि मे रथमारोह सुखमाप्नुहि केवलम्॥ गतश्रीकांश्च्युतान् राज्यात् कृपणान् गतचेतसः। अरण्यवासिनः पार्थान् नानुरोढुं त्वमर्हसि॥ नैव प्राज्ञा गतश्रीकं भर्तारमुपयुञ्जते। युञ्जानमनुयुञ्जीत न श्रियः संक्षये वसेत्॥ श्रिया विहीना राष्ट्राच्च विनष्टाः शाश्वतीः समाः। अलं ते पाण्डुपुत्राणां भक्त्या क्लेशमुपासितुम्॥ भार्या मे भव सुश्रोणि त्यजैनान् सुखमाप्नुहि। अखिलान् सिन्धुसौवीरानाप्नुहि त्वं मया सह॥ वैशम्पायन उवाच इत्युक्ता सिन्धुराजेन वाक्यं हृदयकम्पनम्। कृष्णा तस्मादपाक्रामद् देशात् सभृकुटीमुखी॥ अवमत्यास्य तद् वाक्यमाक्षिप्य च सुमध्यमा। मैवमित्यब्रवीत् कृष्णा लज्जस्वेति च सैन्धव॥ सा काक्षमाणा भर्तृणामुपयातमनिन्दिता। विलोभयामास परं वाक्यैर्वाक्यानि युञ्जती॥ वैशम्पायन उवाच सरोषरागोपहतेन वल्गुना सरागनेत्रेण नतोन्नतभ्रुवा। मुखेन विस्फूर्य सुवीरराष्ट्रपं ततोऽब्रवीत् तं दुपदात्मजा पुनः॥ नभिब्रुवन् मूढ न लज्जसे कथम्। महेन्द्रकल्पान् निरतान् स्वकर्मसु स्थितान् समूहेष्वपि यक्षरक्षसाम्॥ न किंचिदीड्यं प्रवदन्ति पापं वनेचरं वा गृहमेधिनं वा। तपस्विनं सम्परिपूर्णविद्यं भषन्ति हैवं श्वनराः सुवीरा॥ देतादृशे क्षत्रियसंनिवेशे। यस्त्वाद्य पातालमुखे पतन्तं पाणौ गृहीत्वा प्रतिसंहरेत्॥ मुपत्यकां हैमवती चरन्तम्। दण्डीव यूथादपसेधसि त्वं यो जेतुमाशंससि धर्मराजम्॥ बाल्यात् प्रसुप्तस्य महाबलस्य सिंहस्य पक्ष्माणि मुखाल्लुनासि। पदा समाहत्य पलायमानः क्रुद्धं यदा द्रक्ष्यसि भीमसेनम्॥ महाबलं घोरतरं प्रवृद्धं जातं हरिं पर्वतकन्दरेषु। प्रसुप्तमुचं प्रपदेन हंसि यः क्रुद्धमायोत्स्यसि जिष्णुमुचम्॥ कृष्णोरगौ तीक्ष्णमुखौ द्विजिह्वौ मत्तः पदाऽऽक्रामसि पुच्छदेशे। यः पाण्डवाभ्यां पुरुषोत्तमाभ्यां जघन्यजाभ्यां प्रयुयुत्ससे त्वम्॥ यथा च वेणुः कदली नलो वा फलन्त्यभावाय भूतयेऽऽत्मनः। मादास्यसे कर्कटकीव गर्भम्॥ जयद्रथ उवाच जानामि कृष्णे विदितं ममैतद् यथाविधास्ते नरदेवपुत्राः न त्वेवमेतेन विभीषणेन शक्या वयं त्रासयितुं त्वयाद्य॥ वयं पुनः सप्तदशेषु कृष्णे कुलेषु सर्वेऽनवमेषु जाताः। घड्भ्योगुणेभ्योऽभ्यधिका विहीनान् मन्यामहे द्रौपदि पाण्डुपुत्रान्॥ सा क्षिप्रमातिष्ठ गजं रथं वा न वाक्यमात्रेण वयं हि शक्याः। आशंस वा त्वं कृपणं वदन्ती सौवीरराजस्य पुनः प्रसादम्॥ द्रौपद्युवाच महाबला किंत्विह दुर्बलेव सौवीरराजस्य मताहमस्मि। नाहं प्रमाथादिह सम्प्रतीता सौवीरराजं कृपणं वदेयम्॥ यस्या हि कृष्णौ पदवी चरेतां समास्थितावेकरथे समेतौ। न्मनुष्यमात्रः कृपणः कुतोऽन्यः॥ यदा किरीटी परवीरघाती निघ्नन् रथस्थो द्विषतां मनांसि। मदन्तरे त्वद्ध्वजिनीं प्रवेष्टा कक्षं दहनग्निरिवोष्णगेषु॥ जनार्दनः सान्धकवृष्णिवीरो महेष्वासाः केकयाश्चापि सर्वे। एते हि सर्वे मम राजपुत्राः प्रहृष्टरूपाः पदवी चरेयुः॥ मौर्वीविसृष्टाः स्तनयित्नुघोषा गाण्डीवमुक्तास्त्वतिवेगवन्तः। हस्तं समाहत्य धनंजयस्य भीमाः शब्दं घोरतरं नदन्ति॥ गाण्डीवमुक्तांश्च महाशरौघान् पतंगसङ्घानिव शीघ्रवेगान्। यदा द्रष्टास्यर्जुनं वीर्यशालिनं तदा स्वबुद्धिं प्रतिनिन्दितासि॥ सशङ्खघोषः सतलत्रघोषो गाण्डीवधन्वा मुहुरुद्वहंश्च। यदा शरानर्पयिता तवोरसि तदा मनस्ते किमिवाभविष्यत्॥ गदाहस्तं भीममभिद्रवन्तं माद्रीपुत्रौ सम्पतन्तौ दिशश्च। अमर्षजं क्रोधविषं वमन्तौ दृष्ट्वा चिरं तापमुपैष्यसेऽधम॥ यथा वाहं नातिचरे कथंचित् पतीन् महार्हान् मनसापि जातु। तेनाद्य सत्येन वशीकृतं त्वां द्रष्टास्मि पाथैः परिकृष्यमाणम्॥ न सम्भ्रमं गन्तुमहं हि शक्ष्ये त्वया नृशंसेन विकृष्यमाणा। समागताहं हि कुरुप्रवीरैः पुनर्वनं काम्यकमागतास्मि॥ वैशम्पायन उवाच सा ताननुप्रेक्ष्य विशालनेत्रा जिघृक्षमाणानवभर्ल्सयन्ती। प्रोवाच मा मा स्पृशतेति भीता धौम्यं प्रचुक्रोश पुरोहितं सा॥ जग्राह तामुत्तरवस्त्रदेशे जयद्रथस्तं समवाक्षिपत् सा। तया समाक्षिप्ततनुः स पाप: पपात शाखीव निकृत्तमूलः॥ प्रगृह्यमाणा तु महाजवेन मुहुविनिःश्वस्य च राजपुत्री। सा कृष्यमाणा रथमारोह धौम्यस्य पादावभिवाद्य कृष्णा॥ धौम्य उवाच नेयं शक्या त्वया नेतुमविजित्य महारथान्। धर्मं क्षत्रस्य पौराणमवेक्षस्व जयद्रथ॥ क्षुद्रं कृत्वा फलं पापं त्वं प्राप्स्यसि न संशयः। आसाद्य पाण्डवान् वीरान् धर्मराजपुरोगमान्॥ वैशम्पायन उवाच इत्युक्त्वा ह्रियमाणां तां राजपुत्रीं यशस्विनीम्। अन्वगच्छत् तदा धौम्यः पदातिगणमध्यगः॥ वैशम्पायन उवाच संतिष्ठत प्रहरत तूर्णं विपरिधावत। इति स्म सैन्धवो राजा चोदयामास तान् नृपान्॥ ततो घोरतमः शब्दो रणे समभवत् तदा। भीमार्जुनयमान् दृष्ट्वा सैन्यानां सयुधिष्ठिरान्॥ शिबिसौवीरसिन्धूनां विषादश्चाप्यजायत। तान् दृष्ट्वा पुरुषव्याघ्रान् व्याघ्रानिव बलोत्कटान्॥ हेमचित्रसमुत्सेधां सर्वशैक्यायसीं गदाम्। प्रगृह्याभ्यद्रवद् भीम: सैन्धवं कालचोदितम्॥ तदन्तरमथावृत्य कोटिकास्योऽभ्यहारयत्। महता रथवंशेन परिवार्य वृकोदरम्॥ शक्तितोमरनाराचैर्वीरबाहुप्रचोदितैः। कीर्यमाणोऽपि बहुभिर्न स्म भीमोऽभ्यकम्पत॥ गजं तु सगजारोहं पदातींश्च चतुर्दश। जघान गदया भीमः सैन्धवध्वजिनीमुखे॥ पार्थः पञ्च शतान् शूरान् पर्वतीयान् महारथान्। परीप्समानः सौवीरं जघान ध्वजिनीमुखे॥ राजा स्वयं सुवीराणां प्रवराणां प्रहारिणाम्। निमेषमात्रेण शतं जघान समरे तदा॥ ददृशे नकुलस्तत्र स्थात् प्रस्कन्ध खड्गधृक्। शिरांसि पादरक्षाणां बीजवत् प्रवपन् मुहुः॥ सहदेवस्तु संयाय रथेन गजयोधिनः। पातयामास नाराचैर्दुमेभ्य इव बर्हिणः॥ ततस्त्रिगर्तः सधनुरवतीर्य महारथात्। गदया चतुरो वाहान् राज्ञस्तस्य तदावधीत्॥ तमभ्याशगतं राजा पदाति कुन्तिनन्दनः। अर्धचन्द्रेण बाणेन विव्याधोरसि धर्मराट्॥ स भिन्नहृदयो वीरो वक्त्राच्छोणितमुद्वमन्। पपाताभिमुखः पार्थं छिन्नमूल इव दुमः॥ इन्द्रसेनद्वितीयस्तु रथात् प्रस्कन्ध धर्मराट्। हताश्वः सहदेवस्य प्रतिपेदे महारथम्॥ नकुलं त्वभिसंधाय क्षेमङ्करमहामुखौ। उभावुभयतस्तीक्ष्णैः शरवर्षैरवर्षताम्॥ तोमरैरभिवर्षन्तौ जीमूताविव वार्षिको। एकैकेन विपाठेन जघ्ने माद्रवतीसुतः॥ त्रिगर्तराजः सुरथस्तस्याथ रथधूर्गतः। रथमाक्षेपयामास गजेन गजयानवित्॥ नकुलस्त्वपभीस्तस्माद् रथाच्चर्मासिपाणिमान्। उद्भ्रान्तं स्थानमास्थाय तस्थौ गिरिरिवाचलः॥ सुरथस्तं गजवरं वधाय नकुलस्य तु। प्रेषयामास सक्रोधमत्युच्छ्रितकरं ततः॥ नकुलस्तस्य नागस्य समीपपरिवर्तिनः। सविषाणं भुजं मूले खड्न निरकृन्तत॥ स विनद्य महानादं गजः किङ्किणभूषणः। पतन्नवाक्शिरा भूमौ हस्त्यारोहमपोथयत्॥ स तत् कर्म महत् कृत्वा शूरो माद्रवतीसुतः। भीमसेनरथं प्राप्य शर्म लेभे महारथः॥ भीमस्त्वापततो राज्ञः कोटिकास्यस्य सङ्गरे। सूतस्य नुदतो वाहान् क्षुरेणापाहरच्छिरः॥ न बुबोध हतं सूतं स राजा बाहुशालिना। तस्याश्वा व्यद्रवन् संख्ये हतसूतास्ततस्ततः॥ विमुखं हतसूतं तं भीमः प्रहरतां वरः। जघान तलयुक्तेन प्रासेनाभ्येत्य पाण्डवः॥ द्वादशानां तु सर्वेषां सौवीराणां धनंजयः। चकर्त निशितैर्भल्लैर्धनूंषि च शिरांसि च॥ शिबीनिक्ष्वाकुमुख्यांश्च त्रिगर्तान् सैन्धवानपि। जघानातिरथः संख्ये बाणगोचरमागतान्॥ सादिताः प्रत्यदृश्यन्त बहवः सव्यसाचिना। सपताकाच मातङ्गाः सध्वजाश्च महारथाः॥ प्रच्छाद्य पृथिवीं तस्थुः सर्वमायोधनं प्रति। शरीराण्यशिरस्कानि विदेहानि शिरांसि च॥ श्वगृध्रकङ्ककाकोलभासगोमायुवायसाः। अतृप्यंस्तत्र वीराणां हतानां मांसशोणितैः॥ हतेषु तेषु वीरेषु सिन्धुराजो जयद्रथः। विमुच्य कृष्णां संत्रस्त: पलायनपरोऽभवत्॥ स तस्मिन् संकुले सैन्ये द्रौपदीमवतार्य ताम्। प्राणप्रेप्सुरुपाधावद् वनं येन नराधमः॥ द्रौपदी धर्मराजस्तु दृष्ट्वा धौम्यपुरस्कृताम्। माद्रीपुत्रेण वीरेण रथमारोपयत् तदा॥ ततस्तद् विद्रुतं सैन्यमपयाते जयद्रथे। आदिश्यादिश्य नाराचैराजघान वृकोदरः॥ सव्यसाची तु तं दृष्ट्वा पलायन्तं जयद्रथम्। वारयामास निघ्नन्तं भीमं सैन्धवसैनिकान्॥ अर्जुन उवाच यस्यापचारात् प्राप्तोऽयमस्मान् क्लेशो दुरासदः तमस्मिन् समरोद्देशे न पश्यामि जयद्रथम्॥ तमेवान्विष भद्रं ते किं ते योधैर्निपातितः। अनामिषमिदं कर्म कथं वा मन्यते भवान्॥ वैशम्पायन उवाच इत्युक्तो भीमसेनस्तु गुडाकेशेन धीमता। युधिष्ठिरमभिप्रेक्ष्य वाग्मी वचनमब्रवीत्॥ हतप्रवीरा रिपवो भूयिष्ठं विदुता दिशः। गृहीत्वा द्रौपदी राजन् निवर्ततु भवानितः॥ यमाभ्यां सह राजेन्द्र धौम्येन च महात्मना। प्राप्याश्रमपदं राजन् द्रौपदी परिसान्त्वय॥ न हि मे मोक्ष्यते जीवन मूढः सैन्धवको नृपः। पातालतलसंस्थोऽपि यदि शक्रोऽस्य सारथिः॥ युधिष्ठिर उवाच न हन्तव्यो महाबाहो दुरात्मापि स सैन्धवः। दुःशलामभिसंस्मृत्य गान्धारीं च यशस्विनीम्॥ वैशम्पायन उवाच तच्छ्रुत्वा द्रौपदी भीममुवाच व्याकुलेन्द्रिया। कुपिता ह्रीमती प्राज्ञा पती भीमार्जुनावुभौ॥ कर्तव्यं चेत् प्रियं मह्यं वध्यः स पुरुषाधमः। सैन्धवापसदः पापो दुर्मतिः कुलपांसनः॥ भार्याभिहर्ता वैरी यो यश्च राज्यहरो रिपुः। याचमानोऽपि संग्रामे न मोक्तव्यः कथंचन॥ इत्युक्तौ तौ नरव्याघ्रौ ययतुर्यत्र सैन्धवः। राजा निववृते कृष्णामादाय सपुरोहितः॥ स प्रविश्याश्रमपदमपविद्धबृसीमठम्। मार्कण्डेयादिभिर्विप्रैरनुकीर्णं ददर्श ह॥ द्रौपदीमनुशोचद्भिाह्मणैस्तैः समाहितैः। समिमाय महाप्राज्ञः सभार्यो भ्रातृमध्यगः॥ ते स्म तं मुदिता दृष्ट्वा पुन: प्रत्यागतं नृपम्। जित्वा तान् सिन्धु सौवीरान् द्रौपदीं चाहतां पुनः॥ स तैः परिवृतो राजा तत्रैवोपविवेश ह। प्रविवेशाश्रमं कृष्णा यमाभ्यां सह भाविनी॥ भीमसेनार्जुनौ चापि श्रुत्वा क्रोशगतं रिपुम्। स्वयमश्वांस्तुदन्तौ तौ जवेनैवाभ्यधावताम्॥ इदमत्यद्भुतं चात्र चकार पुरुषोऽर्जुनः। कोशमात्रगतानश्वान् सैन्धवस्य जघान यत्॥ स हि दिव्यास्त्रसम्पन्नः कृच्छ्रकालेऽप्यसम्भ्रमः। अकरोद् दुष्करं कर्म शरैरस्त्रानुमन्त्रितैः॥ ततोऽभ्यधावतां वीरावुभौ भीमधनंजयौ। हताश्वं सैन्धवं भीतमेकं व्याकुलचेतसम्॥ सैन्धवस्तु हतान् दृष्ट्वा तथाश्वान् स्वान् सुदुःखितः। अतिविक्रमकर्माणि कुर्वाणं च धनंजयम्॥ पलायनकृतोत्साहः प्राद्रवद् येन वै वनम्। सैन्धवं त्वभिसम्प्रेक्ष्य पराक्रान्तं पलायने॥ अनुयाय महाबाहुः फाल्गुनो वाक्यमब्रवीत्। अनेन वीर्येण कथं स्त्रियं प्रार्थयसे बलात्॥ राजपुत्र निवर्तस्व न ते युक्तं पलायनम्। कथं ह्यनुचरान् हित्वा शत्रुमध्ये पलायसे॥ इत्युच्यमानः पार्थेन सैन्धवो न न्यवर्तत। तिष्ठ तिष्ठेति तं भीमः सहसाभ्यद्रवद् बली। मा वधीरिति पार्थस्तं दयावान् प्रत्यभाषत॥ वैशम्पायन उवाच जयद्रथस्तु सम्प्रेक्ष्य भ्रातरावुद्यतावुभौ। प्राधावत् तूर्णमव्यचो जीवितेऽप्सुः सुदुःखिताः॥ तं भीमसेनो धावन्तमवतीर्य रथाद् बली। अभिदुत्य निजग्राह केशपक्षे ह्यमर्षणः॥ समुद्यम्य च तं भीमो निष्पिपेष महीतले। शिरो गृहीत्वा राजानं ताडयामास चैव ह॥ पुनः संजीवमानस्य तस्योत्पतितुमिच्छतः। पदा मूर्ध्नि महाबाहुः प्राहरद् विलपिष्यतः॥ तस्य जानू ददौ भीमो जघ्ने चैनमरलिना। स मोहमगमद् राजा प्रहारवरपीडितः॥ सरोषं भीमसेनं तु वारयामास फाल्गुनः। दुःशलायाः कृते राजा यत् तदाहेति कौरव॥ भीमसेन उवाच नायं पापसमाचारो मत्तो जीवितुमर्हति। कृष्णायास्तदनस्याः परिक्लेष्टा नराधमः॥ किं नु शक्यं मया कर्तुं यद् राजा सततं घृणी। त्वं च बालिशया बुद्ध्या सदैवास्मान् प्रबाधसे॥ एवमुक्त्वा सटास्तस्य पञ्च चक्रे वृकोदरः। अर्धचन्द्रेण बाणेन किंचिदब्रुवतस्तदा॥ विकत्थयित्वा राजानं ततः प्राह वृकोदरः। जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु॥ दासोऽस्मीति तथा वाच्यं संसत्सु च सभासु च) एवं ते जीवितं दद्यामेष युद्धजितो विधिः॥ एवमस्त्विति तं राजा कृष्यमाणो जयद्रथः। प्रोवाच पुरुषव्याघ्र भीममहावशोभिनम्॥ तत एनं विचेष्टन्तं बद्ध्वा पार्थो वृकोदरः। रथमारोपयामास विसंज्ञं पांसुगुण्ठितम्॥ ततस्तं रथमास्थाय भीमः पार्थानुगस्तदा। अभ्येत्याश्रममध्यस्थमभ्यगच्छद् युधिष्ठिरम्॥ दर्शयामास भीमस्तु तदवस्थं जयद्रथम्। तं राजा प्राहसद् दृष्ट्वा मुच्यतामिति चाब्रवीत्॥ राजानं चाब्रवीद् भीमो द्रौपद्याः कथ्यतामिति। दासभावगतो ह्येष पाण्डूनां पापचेतनः॥ तमुवाच ततो ज्येष्ठो भ्राता सप्रणयं वचः। मुञ्चैनमधमाचारं प्रमाणा यदि ते वयम्॥ द्रौपदी चाब्रवीद् भीममभिप्रेक्ष्य युधिष्ठिरम्। दासोऽयं मुच्यतां राज्ञस्त्वया पञ्चसटः कृतः॥ स मुक्तोऽभ्येत्य राजानमभिवाद्य युधिष्ठिरम्। ववन्दे विह्वलो राजस्तांश्च दृष्ट्वा मुनींस्तदा॥ तमुवाच घृणी राजा धर्मपुत्रो युधिष्ठिरः। तथा जयद्रथं दृष्ट्वा गृहीतं सव्यसाचिना॥ अदासो गच्छ मुक्तोऽसि मैवं कार्षीः पुनः क्वचित्। स्त्रीकामं वा धिगस्तु त्वां क्षुद्रः क्षुद्रसहायवान्॥ एवंविधं हि कः कुर्यात् त्वदन्यः पुरुषाधमः। गतसत्त्वमिव ज्ञात्वा कर्तारमशुभस्य तम्॥ सम्प्रेक्ष्य भरतश्रेष्ठः :: कृपां चक्रे नराधिपः। धर्मे ते वर्धतां बुद्धिर्मा चाधर्मे मनः कृथाः॥ साश्वः सरथपादातः स्वस्ति गच्छ जयद्रथ। एवमुक्तस्तु सव्रीडं तूष्णीं किंचिदवाड्मुखः॥ जगाम राजन् दुःखार्तो गङ्गाद्वाराय भारत। स देवं शरणं गत्वा विरूपाक्षमुमापितम्॥ तपश्चचार विपुलं तस्य प्रीतो वृषध्वजः। बलिं स्वयं प्रत्यगृह्णात् प्रीयणाणस्त्रिलोचनः॥ वरं चास्मै ददौ देवः स जग्राह च तच्छृणु। समस्तान् सरथान् पञ्च जयेयं युधि पाण्डवान्॥ इति राजाब्रवीद् देवं नेति देवस्तमब्रवीत्। अजय्यांश्चाप्यवध्यांश्च वारयिष्यसि तान् युधि॥ ऋतेऽर्जुनं महाबाहुं नरं नाम सुरेश्वरम्। बदाँ तप्ततपसं नारायणसहायकम्॥ अजितं सर्वलोकानां देवैरपि दुरासदम्। मया दत्तं पाशुपतं दिव्यमप्रतिमं शरम्। अवाप लोकपालेभ्यो वलादीन् स महाशरान्॥ देवदेवो ह्यनन्तात्मा विष्णुः सुरगुरुः प्रभुः। प्रधानपुरुषोऽव्यक्तो विश्वात्मा विश्वमूर्तिमान्॥ युगान्तकाले सम्प्राप्ते कालाग्निर्दहते जगत्। सपर्वतार्णवद्वीपं सशैलवनकाननम्॥ निर्दहन् नागलोकांश्च पातालतलचारिणः। अथान्तरिक्षे सुमहन्नानावर्णाः पयोधराः॥ घोरस्वरा विनदिनस्तडिन्मालावलम्बिनः। समुत्तिष्ठन् दिशः सर्वा विवर्षन्तः समन्ततः॥ ततोऽग्नि नाशयामासुः संवर्ताग्निनियामकाः। अक्षमात्रैश्च धाराभिस्तिष्ठन्त्यापूर्य सर्वशः॥ एकार्णवे तदा तस्मिन्नुपशान्तचराचरे। नष्टचन्द्रार्कपवने ग्रहनक्षत्रवर्जिते॥ चतुर्युगसहस्रान्ते सलिलेनाप्लुता मही। ततो नारायणाख्यस्तु सहस्राक्षः सहस्रपात्॥ सहस्रशीर्षाः पुरुषः स्वप्तुकामस्त्वतीन्द्रियः। फटासहस्रविकटं शेषं पर्यङ्कभाजनम्॥ सहस्रमिव तिग्मांशुसंघातममितद्युतिम्। कुन्देन्दुहारगोक्षीरमृणालकुमुदप्रभम्॥ तत्रासौ भगवान् देवः स्वपञ्जलनिधौ तदा। नैशेन तमसा व्याप्तां स्वां रात्रिं कुरुते विभुः॥ सत्त्वोद्रेकात् प्रबुद्धस्तु शून्यं लोकमपश्यत। इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति॥ आपो नारास्तत्तनव इत्यपां नाम शुश्रुम। अयनं तेन चैवास्ते तेन नारायणः स्मृतः॥ प्रध्यानसमकालं तु प्रजाहेतोः सनातनः। ध्यातमात्रे तु भगवन्नाभ्यां पद्मः समुत्थितः॥ ततश्चतुर्मुखो ब्रह्मा नाभिपद्माद् विनिःसृतः। तत्रोपविष्टः सहसा पद्मे लोकपितामहः॥ शून्यं दृष्ट्वा जगत् कृत्स्नं मानसानात्मनः समान् ततो मरीचिप्रमुखान् महर्षीनसृजन्नव॥ तेऽसृजन् सर्वभूतानि त्रसानि स्थावराणि च। यक्षराक्षसभूतानि पिशाचोरगमानुषान्॥ सृज्यते ब्रह्ममूर्तिस्तु रक्षते पौरुषी तनुः। रौद्रीभावेन शमयेत् तिस्रोऽवस्थाः प्रजापतेः॥ न श्रुतं ते सिन्धुपते विष्णोरद्भुतकर्मणः। कथ्यमानानि मुनिभिर्ब्राह्मणैर्वेदपारगैः॥ जलेन समनुप्राप्ते सर्वतः पृथिवीतले। तदा चैकार्णवे तस्मिन्नेकाकाशे प्रभुश्चरन्।॥ निशायामिव खद्योतः प्रावृट् काले समन्ततः। प्रतिष्ठानाय पृथिवीं मार्गमाणस्तदाभवत्॥ जले निमग्नां गां दृष्ट्वा चोद्धर्तुं मनसेच्छति। किं नु रूपमहं कृत्वा सलिलादुद्धरे महीम्॥ एवं संचिन्त्य मनसा दृष्ट्वा दिव्येन चक्षुषा। जलक्रीडाभिरुचितं वाराह रूपमस्मरत्॥ कृत्वा वराहवपुषं वाङ्मयं वेदसम्मितम्। दशयोजनविस्तीर्णमायतं शतयोजनम्॥ महापर्वतवभिं तीक्ष्णदंष्ट्र प्रदीप्तिमत्। महामेघौघनिर्घोषं नीलजीमूतसंनिभम्॥ भूत्वा यज्ञवराहो वै अपः सम्प्राविशत् प्रभुः। दंष्ट्रेणैकेन चोद्धृत्य स्वे स्थाने न्यविशन्महीम्॥ पुनरेव माहाबहुरपर्वां तनुमाश्रितः। नरस्य कृत्वार्धतर्नु सिंहस्यार्धतर्नु प्रभुः॥ दैत्येन्द्रस्य सभां गत्वा पाणिं संस्पृश्य पाणिना। दैत्यानामादिपुरुषः सुरारिदितिनन्दनः॥ दृष्ट्वा चापूर्वपुरुषं क्रोधात् संरक्तलोचनः। शूलोद्यतकरः स्रग्वी हिरण्यकशिपुस्तदा॥ मेघस्तनितनि?षो नीलाभ्रचयसंनिभः। देवारिदितिजो वीरो नृसिंहं समुपाद्रवत्॥ समुपेत्य ततस्तीक्ष्णैर्मृगेन्द्रेण बलीयसा। नारसिंहेन वपुषा दारित: करजैर्भृशम्॥ एवं निहत्य भगवान् दैत्येन्द्रं रिपुघातिनम्। भूयोऽन्यः पुण्डरीकाक्षः प्रभुलॊकहिताय च॥ कश्यपस्यात्मजः श्रीमानदित्या गर्भधारितः। पूर्णे वर्षसहस्रे तु प्रसूता गर्भमुत्तमम्॥ दुर्दिनाम्भोदसदृशो दीप्ताक्षो वामनाकृतिः। दण्डी कमण्डलुधरः श्रीवत्सोरसि भूषितः॥६३। जटी यज्ञोपवीती च भगवान् बालरूपधृक्। यज्ञवाटं गतः श्रीमान् दानवेन्द्रस्य वै तदा॥ बृहस्पतिसहायोऽसौ प्रविष्टो बलिनो मखे। तं दृष्ट्वा वामनतनुं प्रहष्टो बलिरब्रवीत्॥ प्रीतोऽस्मि दर्शने विप्र ब्रूहि त्वं किं ददानि ते। एवमुक्तस्तु बलिना वामनः प्रत्युवाच ह॥ स्वस्तीत्युक्त्वा बलिं देवः स्मयमानोऽभ्यभाषत। मेदिनी दानवपते देहि मे विक्रमत्रयम्॥ बलिर्ददौ प्रसन्नात्मा विप्रायामिततेजसे। ततो दिव्याद्भुततमं रूपं विक्रमतो हरेः॥ विक्रमैस्त्रिभिरक्षोभ्यो जहाराशु स मेदिनीम्। ददौ शक्राय च महीं विष्णुर्देवः सनातनः॥ एष ते वामनो नाम प्रादुर्भावः प्रकीर्तितः। तेन देवाः प्रादुरासन् वैष्णवं चोच्यते जगत्॥ असतां निग्रहार्थाय धर्मसंरक्षणाय च। अवतीर्णो मनुष्याणामजायत यदुक्षये॥ स एवं भगवान् विष्णुः कृष्णेति परिकीर्त्यते। अनाद्यन्तमजं देवं प्रभुं लोकनमस्कृतम्॥ यं देवं विदुषो गान्ति तस्य कर्माणि सैन्धव। यामाहुरजितं कृष्णं शङ्खचक्रगदाधरम्॥ श्रीवत्सधारिणं देवं पीतकौशेयवाससम्। प्रधानः सोऽस्त्रविदुषां तेन कृष्णेन रक्ष्यते॥ सहायः पुण्डरीकाक्षः श्रीमानतुलविक्रमः। समानस्यन्दने पार्थमास्थाय परवीरहा॥ न शक्यते तेन जेतुं त्रिदशैरपि दुःसहः। कः पुनर्मानुषो भावो रणे पार्थं विजेष्यति॥ तमेकं वर्जयित्वा तु सर्वं यौधिष्ठरं बलम्। चतुरः पाण्डवान् राजन् दिनैकं जेष्यसे रिपून्॥ वैशम्पायन उवाच इत्येवमुक्त्वा नृपतिं सर्वपापहरो हरः। उमापतिः पशुपतिर्यज्ञहा त्रिपुरार्दनः॥ वामनैर्विकटैः कुब्जैरुच श्रवणदर्शनैः। वृतः पारिषदैर्पोरैर्नानाप्रहरणोद्यतैः॥ त्र्यम्बको राजशार्दूलो भगनेत्रनिपातनः। उमासहायो भगवांस्तत्रैवान्तरधीयत॥ जयद्रथोऽपि मन्दात्मा स्वमेव भवनं ययौ। पाण्डवाश्च वने तस्मिन् न्यवसन् काम्यके तथा॥ जनमेजय उवाच एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम्। अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः॥ वैशम्पायन उवाच एवं कृष्णां मोक्षयित्वा विनिर्जित्य जयद्रथम्। आसांचक्रे मुनिगणैर्धर्मराजो युधिष्ठिरः॥ तेषां मध्ये महर्षीणां शृण्वतामनुशोचताम्। मार्कण्डेयमिदं वाक्यमब्रवीत् पाण्डुनन्दनः॥ युधिष्ठिर उवाच भगवन् देवर्षीणां त्वं ख्यातो भूतभविष्यवित्। संशयं परिपृच्छामि छिन्धि मे हृदि संस्थितम्॥ दुपदस्य सुता ह्येषा वेदिमध्यात् समुत्थिता। अयोनिजा महाभागा स्नुषा पाण्डोर्महात्मनः॥ मन्ये कालश्च भगवान् दैवं च विधिनिर्मितम्। भवितव्यं च भूतानां यस्य नास्ति व्यतिक्रमः॥ इमां हि पत्नीमस्माकं धर्मज्ञां धर्मचारिणीम्। संस्पृशेदीदृशो भावः शुचिं स्तैन्यमिवानृतम्॥ न हि पापं कृतं किंचित् कर्म वा निन्दितं क्वचित् द्रौपद्या ब्राह्मणेष्वेव धर्मः सुचरितो महान्॥ तां जहार बलाद् राजा मूढबुद्धिर्जयद्रथः। तस्याः संहरणात् पापः शिरसः केशपातनम्॥ पराजयं च संग्रामे ससहायः समाप्तवान्। प्रत्याहृता तथास्माभिर्हत्वा तत् सैन्धवं बलम्॥ तद् दारहरणं प्राप्तमस्माभिरवितर्कितम्। ज्ञातिभिर्विप्रवासश्च मिथ्याव्यवसितैरियम्॥ अस्ति नूनं मया कश्चिदल्पभाग्यतरो नरः। भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत्॥ मार्कण्डेय उवाच प्राप्तमप्रतिमं दुःखं रामेण भरतर्षभ। रक्षसा जानकी तस्य हृता भार्या बलीयसा॥ आश्रमाद् राक्षसेन्द्रेण रावणेन दुरात्मना। मायामास्थाय तरसा हत्वा गृधं जटायुषम्॥ प्रत्याजहार तां रामः सुग्रीवबलमाश्रितः। बद्ध्वा सेतुं समुद्रस्य दग्ध्वा लङ्कां शितैः शरैः॥ युधिष्ठिर उवाच कस्मिन् रामः कुले जातः किंवीर्यः किम्पराक्रमः। रावणः कस्य पुत्रो वा किं वैरं तस्य तेन ह॥ सर्वं सम्यगाख्यातुमर्हसि। श्रोतुमिच्छामि चरितं रामस्याक्लिष्टकर्मणः॥ मार्कण्डेय उवाच अजो नामाभवद् राजा महानिक्ष्वाकुवंशजः। तस्य पुत्रो दशरथः शश्वतस्वाध्यायवाञ्छुचिः॥ एतन्मे भगवन् अभवंस्तस्य चत्वारः पुत्रा धर्मार्थकोविदाः। रामलक्ष्मणशत्रुघ्ना भरतश्च महाबलः॥ रामस्य माता कौसल्य कैकेयी भरतस्य तु। सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रायाः परंतपौ॥ विदेहराजो जनकः सीता तस्यात्मजा विभो। यां चकार स्वयं त्वष्टा रामस्य महिषीं प्रियाम्॥ एतद् रामस्य ते जन्म सीतायाश्च प्रकीर्तितम्। रावणस्यापि ते जन्म व्याख्यास्यामि जनेश्वर।॥ पितामहो रावणस्य साक्षाद् देवः प्रजापतिः। स्वयम्भूः सर्वलोकानां प्रभुः स्रष्टा महातपाः॥ पुलस्त्यो नाम तस्यासीन्मानसो दयितः सुतः। तस्य वैश्रवणो नाम गवि पुत्रोऽभवत् प्रभुः॥ पितरं स समुत्सृज्य पितामहमुपस्थितः। तस्य कोपात् पिता राजन् ससर्जात्मानमात्मा॥ स जज्ञे विश्रवा नाम तस्यात्मार्धेन वै द्विजः। प्रतीकाराय सक्रोधस्ततो वैश्रवणस्य वै॥ पितामहस्तु प्रीतात्मा ददौ वैश्रवणस्य ह। अमरत्वं धनेशत्वं लोकपालत्वमेव च॥ ईशानेन तथा सख्यं पुत्रं च नलकूबरम्। राजधानीनिवेशं च लङ्कां रक्षोगणान्विताम्॥ विमानं पुष्पकं नाम कामगं च ददौ प्रभुः। यक्षाणामाधिपत्यं च राजराजत्वमेव च॥ मार्कण्डेय उवाच पुलस्त्यस्य तु यः क्रोधादर्धदेहोऽभवन्मुनिः। विश्रवा नाम सक्रोधः स वैश्रवणमैक्षत॥ बुबुधे तं तु सक्रोधं पितरं राक्षसेश्वरः। कुबेरस्तत्प्रसादार्थं यतते स्म सदा नृप॥ स राजराजो लङ्कायां न्यवसन्नरवाहनः। राक्षसीः प्रददौ तिस्रः पितुर्वै परिचारिकाः॥ ताः सदा तं महात्मानं संतोषयितुमुद्यताः। ऋषि भरतशार्दूल नृत्यगीतविशारदाः॥ पुष्पोत्कटा च राका च मालिनी च विशाम्पते। अन्योन्यस्पर्धया राजन् श्रेयस्कामाः सुमध्यमाः॥ स तासां भगवांस्तुष्टो महात्मा प्रददौ वरान्। लोकपालोपमान् पुत्रानेकैकस्या यथेप्सितान्॥ पुष्पोत्कटायां जज्ञाते द्वौ पुत्रौ राक्षसेश्वरौ। कुम्भकर्णदशग्रीवौ बलेनाप्रतिमौ भुवि॥ मालिनी जनयामास पुत्रमेकं विभीषणम्। राकायां मिथुनं जज्ञे खरः शूर्पणखा तथा॥ विभीषणस्तु रूपेण सर्वेभ्योऽभ्यधिकोऽभवत्। स बभूव महाभागो धर्मगोप्ता क्रियारतिः॥ दशग्रीवस्तु सर्वेषां श्रेष्ठो राक्षसपुङ्गवः। महोत्साहो महावीर्यो महासत्त्वपराक्रमः॥ कुम्भकर्णो बलेनासीत् सर्वेभ्योऽभ्यधिको युधि। मायावी रणशौण्डश्च रौद्रश्च रजनीचरः॥ खरो धनुषि विक्रान्तो ब्रह्मविट् पिशिताशनः। सिद्धविघ्नकरी चापि रौद्री शूर्पणाखा तथा॥ सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः। ऊषुः पित्रा सह रता गन्धमादनपर्वते॥ ततो वैश्रवणं तत्र ददृशुर्नरवाहनम्। पित्रा सार्धं समासीनमृद्ध्या परमया युतम्॥ जातामर्षास्ततस्ते तु तपसे धृतनिश्चयाः। ब्रह्माणं तोषयामासुघरिण तपसा तदा॥ अतिष्ठदेकपादेन सहस्रं परिवत्सरान्। वायुभक्षो दशग्रीवः पञ्चाग्निः सुसमाहितः॥ अध:शायी कुम्भकर्णो यताहारो यतव्रतः। विभीषणः शीर्णपर्णमेकमभ्यवहारयन्॥ उपवासरतिर्धीमान् सदा जप्यपरायणः। तमेव कालमातिष्ठत् तीव्र तप उदारधीः॥ खरः शूर्पणखा चैव तेषां वै तप्यतां तपः। परिचर्यां च रक्षां च चक्रतुर्हष्टमानसौ॥ पूर्णे वर्षसहस्रे तु शिरश्छित्त्वा दशाननः। जुहोत्यग्नौ दुराधर्षस्तेनातुष्यज्जगत्प्रभुः॥ ततो ब्रह्मा स्वयं गत्वा तपसस्तान् न्यवारयत्। प्रलोभ्य वरदानेन सर्वानेव पृथक् पृथक्॥ ब्रह्मोवाच प्रीतोऽस्मि वो निवर्तध्वं वरान् वृणुत पुत्रकाः। यद् यदिष्टमृते त्वेकममरत्वं तथास्तु तत्॥ यद् यदग्नौ हुतं सर्वं शिरस्ते महदीप्सया। तथैव तानि ते देहे भविष्यन्ति यथेप्सया॥ वैरूप्यं च न ते देहे कामरूपधरस्तथा। भविष्यसि रणेऽरीणां विजेता न च संशयः॥ रावण उवाच गन्धर्वदेवासुरतो यक्षराक्षसतस्तथा। सर्पकिन्नरभूतेभ्यो न मे भूयात् पराभवः॥ ब्रह्मोवाच य एते कीर्तिताः सर्वे न तेभ्योऽस्ति भयं तव। ऋते मनुष्याद् भद्रं ते तथा तद् विहितं मया।॥ मार्कण्डेय उवाच एवमुक्तो दशग्रीवस्तुष्टः समभवत् तदा। अवमेने हि दुर्बुद्धिर्मनुष्यान् पुरुषादकः॥ कुम्भकर्णमथोवाच तथैव प्रपितामहः। स वढे महतीं निद्रां तमसा चस्तचेतनः॥ तथा भविष्यतीत्युक्त्वा विभीषणमुवाच ह। वरं वृष्णीष्व पुत्र त्वं प्रीतोऽस्मीति पुनः पुनः॥ विभीषण उवाच परमापद्गतस्यापि नाधर्मे मे मतिर्भवेत्। अशिक्षितं च भगवन् ब्रह्मास्त्रं प्रतिभातु मे॥ ब्रह्मोवाच यस्माद् राक्षसयोनौ ते जातस्यामित्रकर्शन्। नाधर्मे धीयते बुद्धिरमरत्वं ददानि ते॥ मार्कण्डेय उवाच राक्षसस्तु वरं लब्ध्वा दशग्रीवो विशाम्पते। लङ्कायाश्च्यावयामास युधि जित्वा धनेश्वरम्॥ हित्वा स भगवाँल्लङ्कामाविशद् गन्धमादनम्। गन्धर्वयक्षानुगतो रक्षःकिम्पुरुषैः सह॥ विमानं पुष्पकं तस्य जहाराक्रम्य रावणः। शशाप तं वैश्रवणो न त्वामेतद् वहिष्यति॥ यस्तु त्वां समरे हन्ता तमेवैतद् वहिष्यति। अवमन्य गुरुं मां च क्षिप्रं त्वं न भविष्यसि॥ विभीषणस्तु धर्मात्मा सतां मार्गमनुस्मरन्। अन्वगच्छन्महाराज श्रिया परमया युतः॥ तस्मै स भगवांस्तुष्टो भ्राता भ्रात्रे धनेश्वरः। सैनापत्यं ददौ धीमान् यक्षराक्षससेनयोः॥ राक्षसाः पुरुषादाश्च पिशाचाश्च महाबलाः। सर्वे समेत्य राजानमभ्यषिञ्चन् दशाननम्॥ दशग्रीवश्च दैत्यानां देवानां च बलोत्कटः। आक्रम्य रत्नान्यहरत् कामरूपी विहङ्गमः॥ रावयामास लोकान् यत् तस्माद्रावण उच्यते। दशग्रीवः कामबलो देवानां भयमादधत्॥ मार्कण्डेय उवाच ततो ब्रह्मर्षयः सर्वे सिद्धा देवर्षयस्तथा। हव्यवाहं पुरस्कृत्य ब्रह्माणं शरणं गताः॥ अग्निरुवाच योऽसौ विश्रवसः पुत्रो दशग्रीवो महाबलः। अवध्यो वरदानेन कृतो भगवता पुरा॥ स बाधते प्रजाः सर्वा विप्रकारैर्महाबलः। ततो नस्त्रातु भगवन् नान्यस्त्राता हि विद्यते॥ ब्रह्मोवाच न स देवासुरैः शक्यो युद्धे जेतुं विभावसो। विहितं तत्र यत् कार्यमभितस्तस्य निग्रहः॥ तदर्थमवतीर्णोऽसौ मन्नियोगाच्चतुर्भुजः। विष्णुः प्रहरतां श्रेष्ठः स तत् कर्म करिष्यति।॥ मार्कण्डेय उवाच पितामहस्ततस्तेषां संनिधौ शक्रमब्रवीत्। सर्वैर्दवगणैः सार्धं सम्भव त्वं महीतले॥ विष्णोः सहायानृक्षीषु वानरीषु च सर्वशः। जनयध्वं सुतान् वीरान् कामरूपबलान्वितान्॥ ततो भागानुभागेन देवगन्धर्वपन्नगाः। अवतर्तुं महीं सर्वे मन्त्रयामासुरञ्जसा॥ तेषां समक्षं गन्धर्वी दुन्दुभी नाम नामतः। शशास वरदो देवो गच्छ कार्यार्थसिद्धये॥ पितामहवचः श्रुत्वा गन्धर्वी दुन्दुभी ततः। मन्थरा मानुषे लोके कुब्जा समभवत् तदा॥ शक्रप्रभृतयश्चैव सर्वे ते सुरसत्तमाः। वानरक्षवरस्त्रीषु जनयामासुरात्मजान्॥ तेऽन्ववर्तन् पितृन् सर्वे यशसा च बलेन च। भेत्तारो गिरिशृङ्गाणां शालतालशिलायुधाः॥ वलासंहननाः सर्वे सर्वे चौघबलास्तथा। कामवीर्यबलाश्चैव सर्वे युद्धविशारदाः॥ वनौकसः॥ नागायुतसमप्राणा वायुवेगसमा जवे। यत्रेच्छकनिवासाश्च केचिदत्र एवं विधाय तत् सर्वं भगवाँल्लोकभावनः। मन्थरां बोधयामास यद् यत् कार्यं यथा यथा॥ सा तद्वचः समाज्ञाय तथा चक्रे मनोजवा। इतश्चेतश्च गच्छन्ती वैरसन्धुक्षणे रता॥ युधिष्ठिर उवाच उक्तं भगवता जन्म रामादीनां पृथक् पृथक्। प्रस्थानकारणं ब्रह्मच्छ्रोतुमिच्छामि कथ्यताम्॥ कथं दाशरथी वीरौ भ्रातरौ रामलक्ष्मणौ। सम्प्रस्थितौ वने ब्रह्मन् मैथिली च यशस्विनी॥ मार्कण्डेय उवाच जातपुत्रो दशरथः प्रीतिमानभवनृप। क्रियारतिधर्मरतः सततं वृद्धसेविता॥ क्रमेण चास्य ते पुत्रा व्यवर्धन्त महौजसः। वेदेषु सरहस्येषु धनुर्वेदेषु पारगाः॥ चरितब्रह्मचर्यास्ते कृतदाराश्च पार्थिव। यदा तदा दशरथः प्रीतिमानभवत् सुखी॥ ज्येष्ठो रामोऽभवत् तेषां रमयामास हि प्रजाः। मनोहरतया धीमान् पितुर्हदयनन्दनः॥ ततः स राजा मतिमान् मत्वाऽऽत्मानं वयोऽधिकम्। मन्त्रयामास सचिवैधर्मज्ञैश्च पुरोहितैः॥ अभिषेकाय रामस्य यौवराज्येन भारत। प्राप्तकालं च ते सर्वे मेनिरे मन्त्रिसत्तमाः॥ लोहिताक्षं महाबाहुं मत्तमातङ्गगामिनम्। कम्बुग्रीवं महोरस्कं नीलकुञ्चितमूर्धजम्॥ दीप्यमानं श्रिया वीरं शक्रादनवरं रणे। पारगं सर्वधर्माणां बृहस्पतिसमं मतौ॥ सर्वानुरक्तप्रकृति सर्वविद्याविशारदम्। जितेन्द्रियममित्राणामपि दृष्टिमनोहरम्॥ नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम्। धृतिमन्तनाधृष्यं जेतारमपराजितम्॥ पुत्रं राजा दशरथः कौसल्यानन्दवर्धनम्। संदृश्य परमां प्रीतिमगच्छत् कुरुनन्दन॥ चिन्तयंश्च महातेजा गुणान् रामस्य वीर्यवान्। अभ्यभाषत भद्रं ते प्रीयमाणः पुरोहितम्॥ अद्य पुष्यो निशि ब्रह्मन् पुण्यं योगमुपैष्यति। सम्भाराः सम्भियन्तां मे रामश्चोपनिमन्त्र्यताम्॥ इति तद् राजवचनं प्रतिश्रुत्याथ मन्थरा। कैकेयीमभिगम्येदं काले वचनमब्रवीत्॥ अद्य कैकेयि दौर्भाग्यं राज्ञा ते ख्यापितं महत्। आशीविषस्त्वां संक्रुद्धश्चण्डो दशतु दुर्भगे॥ सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते। कुतो हि तव सौभाग्यं यस्याः पुत्रो न राज्यभाक्।।१८। सा तद्वचनमाज्ञाय सर्वाभरणभूषिता। देवी विलग्नमध्येव बिभ्रती रूपमुत्तमम्॥ विविक्ते पतिमासाद्य हसन्तीव शुचिस्मिता। प्रणयं व्यञ्जयन्तीव मधुरं वाक्यमब्रवीत्॥ सत्यप्रतिज्ञ यन्मे त्वं काममेकं निसृष्टवान्। उपाकुरुष्व तद् राजस्तस्मान्मुच्यस्व संकटात्॥ राजोवाच वरं ददानि ते हन्त तद् गृहाण यदिच्छसि। अबध्यो बध्यतां कोऽद्य बध्यः कोऽद्यविमुच्यताम्॥ धनं ददानि कस्याद्य ह्रियतां कस्य वा पुनः। ब्राह्मणस्वादिहान्यत्र यत् किंचिद् वित्तमस्ति मे॥ पृथिव्यां राजराजोऽस्मि चातुर्वर्ण्यस्य रक्षिता। यस्तेऽभिलषित: कामो ब्रूहि कल्याणि मा चिरम्॥ सा तद्वचनमाज्ञाय परिगृहा नराधिपम्। आत्मनो बलमाज्ञाय तत एनमुवाच ह॥ आभिषेचनिकं यत् ते रामार्थमुपकल्पिपतम्। भरतस्तदवाप्नोतु वनं गच्छतु राघवः॥ स तद् राजा वचः श्रुत्वा विप्रियं दारुणोदयम्। दुःखार्तो भरतश्रेष्ठ न किंचिद् व्याजहार ह॥ ततस्तथोक्तं पितरं रामो विज्ञाय वीर्यवान्। वनं प्रतस्थे धर्मात्मा राजा सत्यो भवत्विति॥ तमन्वगच्छल्लक्ष्मीवान् धनुष्मॉल्लक्ष्मणस्तदा। सीता च भार्या भद्रं ते वैदेही जनकात्मजा॥ ततो वनं गते रामे राजा दशरथस्तदा। समयुज्यत देहस्य कालपर्यायधर्मणा॥ रामं तु गतमाज्ञाय राजानं च तथागतम्। आनाय्य भरतं देवी कैकेयी वाक्यमब्रवीत्॥ गतो दशरथः स्वर्ग वनस्थौ रामलक्ष्मणौ। गृहाण राज्यं विपुलं क्षेमं निहतकण्टकम्॥ तामुवाच स धर्मात्मा नृशंसं वत ते कृतम्। पतिं हत्वा कुलं चेदमुत्साद्य धनलुब्धया।॥ अयशः पातयित्वा मे मूर्ध्नि त्वं कुलपांसने। सकामा भव मे मातरित्युक्त्वा प्ररुरोद ह॥ स चारित्रं विशोध्याथ सर्वप्रकृतिसंनिधौ। अन्वयाद् भ्रातरं रामं विनिवर्तनलालसः॥ कौसल्यां च सुमित्रां च कैकेयीं च सुदुःखितः। अचे प्रस्थाप्य यानैः स शत्रुघ्नसहितो ययौ॥ वसिष्ठवामदेवाभ्यां विप्रैश्चान्यैः सहस्रशः। पौरजानपदैः सार्धं रामानयनकाझया।॥ ददर्श चित्रकूटस्थं स रामं सहलक्ष्मणम्। तापसानामलंकारं धारयन्तं धनुर्धरम्॥ विसर्जित: स रामेण पितुर्वचनकारिणा। नन्दिग्रामेऽकरोद् राज्यं पुरस्कृत्यास्य पादुके॥ रामस्तु पुनराशङ्कय पौरजानपदागमम्। प्रविवेश महारण्यं शरभङ्गाश्रमं प्रति॥ सत्कृत्य शरभङ्गं स दण्डकारण्यमाश्रितः। नदी गोदावरी रम्यामाश्रित्य न्यवसत् तदा॥ वसतस्तस्य रामस्य ततः शूर्पणखाकृतम्। खरेणासीन्महद् वैरं जनस्थाननिवासिना॥ रक्षार्थं तापसानां तु राघवो धर्मवत्सलः। चतुर्दश सहस्राणि जघान भुवि रक्षसाम्॥ दूषणं च खरं चैव निहत्य सुमहाबलौ। चक्रे क्षेमं पुनर्धीमान् धर्मारण्यं स राघवः॥ हतेषु तेषु रक्षःसु ततः शूर्पणखा पुनः। ययौ निकृत्तनासोष्ठी लङ्का भ्रातुर्निवेशनम्॥ ततो रावणमभ्येत्य राक्षसी दुःखमूर्च्छिता। पपात पादयोर्धातुः संशुष्करुधिरानना॥ तां तथा विकृतां दृष्ट्वा रावणः क्रोधमूर्च्छितः। उत्पपातासनात् क्रुद्धो दन्तैर्दन्तानुपस्पृशन्॥ स्वानमात्यान् विसृज्याथ विविक्ते तामुवाच सः। केनास्येवं कृता भद्रे मामचिन्त्यावमन्य च॥ कः शूलं तीक्ष्णमासाद्य सर्वगात्रैनिषेवते। कः शिरसस्यग्निमाघाय विश्वस्तः स्वपते सुखम्॥ आशीविषं घोरतरं पादेन स्पृशतीह कः। सिंह केसरिणं कश्च दंष्ट्रायां स्पृश्य तिष्ठति॥ इत्येवं ब्रुवतस्तस्य स्रोतोभ्यस्तेजसोऽचिषः। निश्चेरुर्दह्यतो रात्रौ वृक्षस्येव स्वरन्ध्रतः॥ तस्य तत् सर्वमाचख्यौ भगिनी रामविक्रमम्। खरदूषणसंयुक्तं राक्षसानां पराभवम्॥ स निश्चित्य ततः कृत्यं स्वसारमुपसान्त्व्य च। ऊर्ध्वमाचक्रमे राजा विधाय नगरे विधिम्॥ त्रिकूटं समतिक्रम्य कालपर्वतमेव च। ददर्श मकरावासं गम्भीरोदं महोदधिम्॥ तमतीत्याथ गोकर्णमभ्यगच्छद् दशाननः। दयितं स्थानमव्यचं शूलपाणेर्महात्मनः॥ तत्राभ्यगच्छन्मारीचं पूर्वामात्यं दशाननः। पुरा समभयादेव तापस्यं समुपाश्रितम्॥ मार्कण्डेय उवाच मारीचस्त्वथ सम्भ्रान्तो दृष्ट्वा रावणमागतम्। पूजयामास सत्कारैः फलमूलादिभिस्ततः॥ विश्रान्तं चैनमासीनमन्वासीनः स राक्षसः। उवाच प्रश्रितं वाक्यं वाक्यज्ञो वाक्यकोविदम्॥ न ते प्रकृतिमान् वर्ण: कच्चित् क्षेमं पुरे तव। कच्चित् प्रकृतयः सर्वा भजन्ते त्वां यथा पुरा॥ किमिहागमने चापि कार्यं ते राक्षसेश्वर। कृतमित्येव तद् विद्धि यद्यपि स्यात् सुदुष्करम्॥ शशंस रावणस्तस्मै तत् सर्वं रामचेष्टितम्। समासेनैव कार्याणि क्रोधामर्षसमन्वितः॥ मारीचस्त्वब्रवीच्छ्रुत्वा समासनैव रावणम्। अलं ते राममासाद्य वीर्यज्ञो ह्यस्मि तस्य वै॥ बाणवेगं हि कस्तस्य शक्तः सोढुं महात्मनः। प्रव्रज्यायां हि मे हेतुः स एव पुरुषर्षभः॥ विनाशमुखमेतत् वे केनाख्यातं दुरात्मना। तमुवाचाथ सक्रोधो रावणः परिभर्स्यन्॥ अकुर्वतोऽस्मद्वचनं स्यान्मृत्युरपि ते ध्रुवम्। मारीचश्चिन्तयामास विशिष्टान्मरणं वरम्॥ अवश्यं मरणे प्राप्ते करिष्याम्यस्य यन्मतम्। ततस्तं प्रत्युवाचाथ मारीचो रक्षसां वरम्॥ किं ते साह्यं मया कार्यं करिष्याम्यवशोऽपि तत्। तमब्रवीद् दशग्रीवो गच्छ सीतां प्रलोभय॥ रत्नशृङ्गो मृगो भूत्वा रत्नचित्रतनूरूहः। ध्रुवं सीता समालक्ष्य त्वां रामं चोदयिष्यति॥ अपक्रान्ते च काकुत्स्थे सीता वश्या भविष्यति। तामादायापनेष्यामि ततः स न भविष्यति॥ भार्यावियोगाद् दुर्बुद्धिरेतत् साह्यं कुरुष्व मे। इत्येवमुक्तो मारीचः कृत्वोदकमथात्मनः॥ रावणं पुरतो यान्तमन्वगच्छत् सुदुःखितः। ततस्तस्याश्रमं गत्वा रामस्थाक्लिष्टकर्मणः॥ चक्रतुस्तद् तथा सर्वमुभौ यत् पूर्वमन्त्रितम्। रावणस्तु यतिर्भूत्वा मुण्डः कुण्डी त्रिदण्डधृक्॥ मृगश्च भूत्वा मारीचस्तं देशमुपजग्मतुः। दर्शयामास मारीचो वैदेहीं मृगरूपधृक॥ चोदयामास तस्यार्थे सा रामं विधिचोदिता। रामस्तस्याः प्रियं कुर्वन् धनुरादाय सत्वरः॥ रक्षार्थे लक्ष्मणं न्यस्य प्रययौ मृगलिप्सया। स धन्वी बद्धतूणीरः खङ्गगोधाङ्गुलित्रवान्॥ अन्वधावन्मृगं रामो रुद्रस्तारामृगं यथा। सोऽन्तर्हितः पुनस्तस्य दर्शनं राक्षसो व्रजन्॥ चकर्ष महदध्वानं रामस्तं बुबुधे ततः। निशाचरं विदित्वा तं राघवः प्रतिभानवान्॥ अमोघं शरमादाय जघान मृगरूपिणम्। स रामबाणाभिहतः कृत्वा रामस्वरं तदा।॥ हा सीते लक्ष्मणेत्येवं चुक्रोशार्तस्वरेण ह। शुश्राव तस्य वैदेही ततस्तां करुणां गिरम्॥ सा प्राद्रवद् यतः शब्दस्तामुवाचाथ लक्ष्मणः। अलं ते शङ्कया भीरु को रामं प्रहरिष्यति॥ मुहूर्ताद् द्रक्ष्यसे रामं भर्तारं त्वं शुचिस्मिते। इत्युक्ता सा प्ररुदती पर्यशङ्कत लक्ष्मणम्॥ हता वै स्त्रीस्वभावेन शुक्लचारित्रभूषणा। सा तं परुषमारब्धा वक्तुं साध्वी पतिव्रता॥ नैघ कामो भवेन्मूढ यं त्वं प्रार्थयसे हृदा। अप्यहं शस्त्रमादाय हन्यामात्मानमात्मना॥ पतेयं गिरिशृङ्गाद वा विशेयं वा हुताशनम्। रामं भर्तारमुत्सृज्य न त्वहं त्वां कथंचन॥ निहीनमुपतिष्ठेयं शार्दूली क्रोष्टुकं यथा। एतादृशं वचः श्रुत्वा लक्ष्मणः प्रियराघवः॥ पिधाय को सद्वत्तः प्रस्थितो येन राघवः। स रामस्य पदं गृह्य प्रससार धनुर्धरः॥ अवीक्षमाणो बिम्बोष्ठी प्रययौ लक्ष्मणस्तदा। एतस्मिन्नन्तरे रक्षो रावणः प्रत्यदृश्यत॥ अभव्यो भव्यरूपेण भस्मच्छन्न इवानलः। यतिवेषप्रतिच्छन्नो जिहीर्षुस्तामनिन्दिताम्॥ सा तमालक्ष्य सम्प्राप्तं धर्मज्ञा जनकात्मजा। निमन्त्रयामास तदा फलमूलाशनादिभिः॥ अवमन्य ततः सर्वं स्वरूपं प्रत्यपद्यत। सान्त्वयामास वैदेहीमिति राक्षसपुङ्गवः॥ सीते राक्षसराजोऽहं रावणो नाम विश्रुतः। मम लङ्का पुरी नाम्ना रम्या पारे महोदधेः॥ तत्र त्वं नरनारीषु शोभिष्यसि मया सह। भार्या मे भव सुश्रोणि तापसं त्यज राघवम्॥ एवमादीनि वाक्यानि श्रुत्वा तस्याथ जानकी। पिधाय की सुश्रोणी मैवमित्यब्रवीद् वचः॥ प्रपतेद् द्यौः सनक्षत्रा पृथिवी शकलीभवेत्। शैत्यमग्निरियानाहं त्यजेयं रघुनन्दनम्॥ कथं हि भिन्नकरटं पद्मिनं वनगोचरम्। उपस्थाय महानागं करेणुः सूकरं स्पृशेत्॥ कथं हि पीत्वा माध्वीकं पीत्वा च मधुमाधवीम्। लोभं सौवीरके कुर्यान्नारी काचिदिति स्मरेत्॥ इति सा तं समाभाष्य प्रविवेशाश्रमं ततः। क्रोधात् प्रस्फुरमाणौष्ठी विधुन्वाना करौ मुहुः॥ तामभिद्रुत्य सुश्रोणी रावणः प्रत्यषेधयत्। भर्त्सयित्वा तु रूक्षेण स्वरेण गतचेतनाम्॥ मूर्धजेषु निजग्राह ऊर्ध्वमाचक्रमे ततः। तां ददर्श ततो गृध्रो जटायुर्गिरिगोचरः। रुदतीं राम रामेति ह्रियमाणां तपस्विनीम्॥ मार्कण्डेय उवाच सखा दशरथस्यासीज्जटायुरुणात्मजः। गृध्रराजो महावीरः सम्पातिर्यस्य सोदरः॥ स ददर्श तदा सीतां रावणाङ्कगतां स्नुषाम्। सक्रोधोऽभ्यद्रवत् पक्षी रावणं राक्षसेश्वरम्॥ अथैनमब्रवीद् गृध्रो मुञ्च मुञ्चेति मैथिलीम्। ध्रियमाणे मयि कथं हरिष्यसि निशाचर॥ न हि मे मोक्ष्यसे जीवन् यदि नोत्सृजसे वधूम्। उक्त्वैवं राक्षसेन्द्रं तं चकर्त नखरै शम्॥ पक्षतुण्डप्रहारैश्च शतशो जर्जरीकृतम्। चक्षार रुधिरं भूरि गिरिः प्रस्रवणैरिव॥ स वध्यमानो गृध्रेण रामप्रियहितैषिणा। खङ्गमादाय चिच्छेद भुजौ तस्य पतत्रिणः॥ निहत्य गृध्रराजं स भिन्नाभ्रशिखरोपमम्। ऊर्ध्वमाचक्रमे सीतां गृहीत्वाङ्केन राक्षसः॥ यत्र यत्र तु वैदेही पश्यत्याश्रममण्डलम्। सरो वा सरितो वापि तत्र मुञ्चति भूषणम्॥ सा ददर्श गिरिप्रस्थे पञ्च वानरपुङ्गवान्। तत्र वासो महद्दिव्यमुत्ससर्ज मनस्विनी॥ तत् तेषां वानरेन्द्राणां पपात पवनोद्धतम्। मध्ये सुपीतं पञ्चानां विद्युन्मेघान्तरे यथा॥ अचिरेणातिचक्राम खेचरः खे चरनिव। ददर्शाथ पुरीं रम्यां बहुद्वारा मनोरमाम्॥ प्राकारवप्रसम्बाधां निर्मितां विश्वकर्मणा। प्रविवेश पुरी लङ्कां ससीतो राक्षसेश्वरः॥ एवं हृतायां वैदेह्यां रामो हत्वा महामृगम्। निवृत्तो ददृशे धीमान् भ्रातरं लक्ष्मणं तथा॥ कथमुत्सृज्य वैदेहीं वने राक्षससेविते। इति तं भ्रातरं दृष्ट्वा प्राप्तोऽसीति व्यगर्हयत्।१४॥ मृगरूपधेरणाथ रक्षसा सोऽपकर्षणम्। भ्रातुरागमनं चैव चिन्तयन् पर्यतप्यत॥ गर्हयन्नेव रामस्तु त्वरितस्तं समासदत्। अपि जीवति वैदेही नेति पश्यामि लक्ष्मणा॥ तस्य तत् सर्वमाचख्यौ सीताया लक्ष्मणो वचः। यदुक्तवत्यसदृशं वैदेही पश्चिमं वचः॥ दह्यमानेन तु हृदा रामोऽभ्यपतदाश्रमम्। स ददर्श तदा गृधं निहतं पर्वतोपमम्॥ राक्षसं शङ्कमानस्तं विकृष्य बलवद् धनुः। अभ्यधावत काकुत्स्थस्ततस्तं सहलक्ष्मणः॥ स तावुवाच तेजस्वी सहितौ रामलक्ष्मणौ। गृध्रराजोऽस्मि भद्रं वां सखा दशरथस्य वै॥ तस्य तद् वचनं श्रुत्वा संगृह्य धनुषी शुभे। कोऽयं पितरमस्माकं नाम्नाऽऽहेत्यूचतुश्च तौ॥ ततो ददृशतुस्तौ तं छिन्नपक्षद्वयं खगम्। तयोः शशंस गृध्रस्तु सीतार्थे रावणाद् वधम्॥ अपृच्छद् राघवो गृधं रावण: कां दिशं गतः। तस्य गृध्रः शिरः कम्पैराचचक्षे ममार च॥ दक्षिणामिति काकुत्स्थो विदित्वास्य तदिङ्गितम्। संस्कारं लम्भयामास सखायं पूजयन् पितुः॥ ततो दृष्ट्वाऽऽश्रमपदं व्यपविद्धबृसीमठम्। विध्वस्तकलशं शून्यं गोमायुशतसंकुलम्॥ दुःखशोकमाविष्टौ वैदेहीहरणार्दितौ। जग्मतुर्दण्डकारण्यं दक्षिणेन परंतपौ॥ वने महति तस्मिंस्तु रामः सौमित्रिणा सह। ददर्श मृगयूथानि द्रवमाणानि सर्वशः॥ शब्दं च घोरं सत्त्वानां दावाग्नेरिव वर्धतः। अपश्येतां मुहूर्ताच्च कबधं घोरदर्शनम्॥ मेघपर्वतसंकाशं शालस्कन्धं महाभुजम्। उरोगतविशालाक्षं महोदरमहामुखम्॥ यदृच्छयाथ तद् रक्षः करे जग्राह लक्ष्मणम्। विषादमगमत् सद्यः सौमित्रिरथ भारत॥ स राममभिसम्प्रेक्ष्य कृष्यते येन तन्मुखम्। विषण्णश्चाब्रवीद् रामं पश्यावस्थामिमां मम॥ हरणं चैव वैदेह्या मम चायमुपप्लवः। राज्यभ्रंशश्च भवतस्तातस्य मरणं तथा॥ नाहं त्वां सह वैदेह्या समेतं कोसलागतम्। द्रक्ष्यामि पृथिवीराज्ये पितृपैतामहे स्थितम्॥ द्रक्ष्यन्त्यार्यस्य धन्या ये कुशलाजशमीदलैः। अभिषिक्तस्य वदनं सोमं शान्तघनं यथा।॥ एवं बहुविधं धीमान् विललाप स लक्ष्मणः। तमुवाचाथ काकुत्स्थः सम्भ्रमेष्वप्यसम्भ्रमः॥ मा विषीद नरव्याघ्र नैष कश्चिन्मयि स्थिते। छिन्थ्यस्य दक्षिणं बाहुं छिन्नः सव्यो मया भुजः॥ इत्येवं वदता तस्य भुजो रामेण पातितः खड्नेन भृशतीक्ष्णेन निकृत्तस्तिलकाण्डवत्॥ ततोऽस्य दक्षिणं बाहुं खङ्गेनाजनिवान् बली। सौमित्रिरपि सम्प्रेक्ष्य भ्रातरं राघवं स्थितम्॥ पुनर्जघान पार्श्वे वै तद् रक्षो लक्ष्मणो भृशम्। गतासुरपतद् भूमौ कबन्धः सुमहांस्ततः॥ तस्य देहाद् विनिःसृत्य पुरुषो दिव्यदर्शनः। ददृशे दिवमास्थाय दिवि सूर्य इव ज्वलन्॥ पप्रच्छ रामस्तं वाग्मी कस्त्वं प्रब्रूहि पृच्छतः। कामया किमिदं चित्रमाश्चर्यं प्रतिभाति मे॥ तस्याचचक्षे गन्धर्वो विश्वावसुरहं नृप। प्राप्तो ब्राह्मणशापेन योनि राक्षससेविताम्॥ रावणेन हृता सीता राज्ञा लङ्काधिवासिना। सुग्रीवमभिगच्छस्व स ते साह्यं करिष्यति॥ एषा पम्पा शिवजला हंसकारण्डवायुता। ऋष्यमूकस्य शैलस्य संनिकर्षे तटाकिनी॥ वसते तत्र सुग्रीवश्चतुर्भिः सचिवैः सह। भ्राता वानरराजस्य वालिनो हेममालिनः॥ तेन त्वं सह संगम्य दुःखमूलं निवेदय। समानशीलो भवतः साहाय्यं स करिष्यति॥ एतावच्छक्यमस्माभिर्वक्तुं द्रष्टासि जानकीम्। ध्रुवं वानरराजस्य विदितो रावणालयः॥ इत्युक्त्वान्तर्हितो दिव्यः पुरुषः सह महाप्रभः। विस्मयं जग्मतुश्चोभौ प्रवीरौ रामलक्ष्मणौ॥ मार्कण्डेय उवाच ततोऽविदूरे नलिनी प्रभूतकमलोत्पलाम्। सीताहरणदुःखार्तः पम्पां रामः समासदत्॥ मारुतेन सुशीतेन सुखेनामृतगन्धिना। सेव्यमानो वने तस्मिञ्जगाम मनसा प्रियाम्॥ विललाप स राजेन्द्रस्तत्र कान्तामनुस्मरन्। कामबाणाभिसंतप्तः सौमित्रिस्तमथाब्रवीत्॥ न त्वामेवंविधो भावः स्प्रष्टुमर्हति मानद। आत्मवन्तमिव व्याधिः पुरुषं वृद्धशीलिनम्॥ प्रवृत्तिरुपलब्धा ते वैदेह्या रावणस्य च। तां त्वं पुरुषकारेण बुद्ध्या चैवोपपादय॥ अभिगच्छाव सुग्रीवं शैलस्थं हरिपुङ्गवम्। मयि शिष्ये च भृत्ये च सहाये च समाश्वस॥ एवं बहुविधैर्वाक्यैर्लक्ष्मणेन स राघवः। उक्तः प्रकृतिमापेदे कार्ये चानन्तरोऽभवत्॥ निषेव्य वारि पम्पायास्तर्पयित्वा पितृनपि। प्रतस्थतुरुभौ वीरौ भ्रातरौ रामलक्ष्मणौ॥ तावृष्यमूकमभ्येत्य बहुमूलफलद्रुमम्। गिर्यचे वानरान् पञ्च वीरौ ददृशतुस्तदा॥ सुग्रीवः प्रेषयामास सचिवं वानरं तयोः। बुद्धिमन्तं हनूमन्तं हिमवन्तमिव स्थितम्॥ तेन सम्भाध्य पूर्वं तौ सुग्रीवमभिजग्मतुः। सख्यं वानरराजेन चक्रे रामस्तदा नृप॥ तद् वासो दर्शयामासुस्तस्य कार्ये निवेदिते। वानराणां तु यत् सीता ह्रियमाणा व्यपासृजत्॥ तत् प्रत्ययकरं लस्वा सुग्रीवं प्लवगाधिपम्। पृथिव्यां वानरैश्वर्ये स्वयं रामोऽभ्यषेचयत्॥ प्रतिजज्ञे च काकुत्स्थः समरे वालिनो वधम्। सुग्रीवश्चापि वैदेह्याः पुनरानयनं नृप॥ इत्युक्त्वा समयं कृत्वा विश्वास्य च परस्परम्। अभ्येत्य सर्वे किष्किन्धा तस्थुर्युद्धाभिकाक्षिणः।।१५। सुग्रीवः प्राप्य किष्किन्धां ननादौघनिभस्वनः। नास्य तन्ममृषे वाली तारा तं प्रत्यषेधयत्॥ यथा नदति सुग्रीवो बलवानेष वानरः। मन्ये चाश्रयवान् प्राप्तो न त्वं निष्क्रान्तुमर्हसि॥ हेममाली ततो वाली तारां ताराधिपाननाम्। प्रोवाच वचनं वाग्मी तां वानरपतिः पतिः॥ सर्वभूतरुतज्ञा त्वं पश्य बुद्ध्या समन्विता। केन चाश्रयवान् प्राप्तो ममैष भ्रातृगन्धिकः॥ चिन्तयित्वा मुहूर्तं तु तारा ताराधिप्रभा। पतिमित्यब्रवीत् प्राज्ञा शृणु सर्वं कपीश्वर।॥ हृतदारो महासत्त्वो रामो दशरथात्मजः। तुल्यारिमित्रतां प्राप्तः सुग्रीवेण धनुर्धरः॥ भ्राता चास्य महाबाहुः सौमित्रिरपराजितः। लक्ष्मणो नाम मेधावी स्थितः कार्यार्थसिद्धये॥ मैन्दा द्विविदश्चापि हनूमांश्चानिलात्मजः। जाम्बवानृक्षराजश्च सुग्रीवसचिवाः स्थिताः॥ सर्व एते महात्मानो बुद्धिमन्तो महाबलाः। अलं तव विनाशाय रामवीर्यबलाश्रयात्॥ तस्यास्तदाक्षिप्य वचो हितमुक्तं कपीश्वरः। पर्यशङ्कत तामीर्षुः सुग्रीवगतमानसाम्॥ तारां परुषमुक्त्वा तु निर्जगाम गुहामुखात्। स्थितं माल्यवतोऽभ्याशे सुग्रीवं सोऽभ्यभाषत॥ असकृत् त्वं मया पूर्वं निर्जितो जीवितप्रियः। मुक्तो ज्ञातिरिति ज्ञात्वा का त्वरा मरणे पुनः॥ इत्युक्तः प्राह सुग्रीवो भ्रातरं हेतुमद् वचः। प्राप्तकालममित्रघ्नो रामं सम्बोधयन्निव॥ हतराज्यस्य में राजन् हृतदारस्य च त्वया। किं मे जीवितसामर्थ्यमिति विद्धि समागतम्॥ एवमुक्त्वा बहुविधं ततस्तौ संनिपेततुः। समरे वालिसुग्रीवौ शालतालशिलायुधौ।॥ उभौ जघ्नतुरन्योन्यमुभौ भूमौ निपेततुः। उभौ ववल्गतुश्चित्रं मुष्टिभिश्च निजघ्नतुः॥ उभौ रुधिरसंसिक्तौ नखदन्तपरिक्षतौ। शुशुभाते तदा वीरौ पुष्पिताविव किंशुकौ॥ न विशेषस्तयोर्युद्धे यदा कश्चन् दृश्यते। सुग्रीवस्य तदा मालां हनुमान् कण्ठ आसजत्॥ स मालया तदा वीरः शुशुभे कण्ठसक्तया। श्रीमानिव महाशैलो मलयो मेघमालया॥ कृतचिह्नं तु सुग्रीवं रामो दृष्ट्वा महाधनुः। विचकर्ष धनुः श्रेष्ठं वालिमुद्दिश्य लक्ष्यवत्॥ विस्फारस्तस्य धनुषो यन्त्रस्येव तदा बभौ। वितत्रास तदा वाली शरेणाभिहतोरसि॥ स भिन्नहदयो वाली वक्राच्छोणितमुद्वमन्। ददर्शावस्थितं रामं ततः सौमित्रिणा सह॥ गर्हयित्वा स काकुत्स्थं पपात भुवि मुर्छितः। तारा ददर्श तं भूमौ तारापतिसमौजसम्॥ हते वालिनि सुग्रीवः किष्किन्धा प्रत्यपद्यता तां च तारापतिमुखीं तारां निपतितेश्वराम्॥ रामस्तु चतुरो मासान् पृष्ठे माल्यवत: शुभे। निवासमकरोद् धीमान् सुग्रीवेणाभ्युपस्थितः॥ रावणोऽपि पुरीं गत्वा लङ्कां कामबलात्कृतः। सीतां निवेशयामास भवने नन्दनोपमे॥ अशोकवनिकाभ्याशे तापसाश्रमसंनिभे। भर्तृस्मरणतन्वङ्गी तापसीवेषधारिणी॥ उपवासतप:शीला तत्रास पृथुलेक्षणा। उवास दुःखवसतिं फलमूलकृताशना॥ दिदेश राक्षसीस्तत्र रक्षणे राक्षसाधिपः। सासिलशूलपरशुमुद्गरालातधारिणीः॥ व्यक्षीं त्र्यक्षीं ललाटाक्षीं दीर्घजिह्वामजिबिकाम्। त्रिस्तनीमेकपादां च त्रिजटामेकलोचनाम्॥ एताश्चान्याश्च दीप्ताक्ष्यः करभोत्कटमूर्द्धजाः। परिवार्यासते सीतां दिवारानमतन्द्रिताः॥ तास्तु तामायतापाङ्गी पिशाच्यो दारुणस्वराः। तर्जयन्ति सदा रौद्राः परुषव्यञ्जनस्वराः॥ खादाम पाटयामैनां तिलश: प्रविभज्य ताम्। येयं भर्तारमस्माकमवमन्येह जीवति॥ इत्येवं परिभर्त्सन्तीस्त्रास्यमाना पुनः पुनः। भर्तृशोकसमाविष्टा निःश्वस्येदमुवाच ताः॥ आर्याः खादत मां शीघ्रं न मे लोभोऽस्ति जीविते। विना तं पुण्डरीकाक्षं नीलकुञ्चितमूर्धजम्॥ अप्येवाहं निराहारा जीवितप्रियवर्जिता। शोषयिष्यामि गात्राणि व्याली तालगता यथा॥ न त्वन्यमभिगच्छेयं पुमांसं राघवादृते। इति जानीत सत्यं मे क्रियतां यदनन्तरम्॥ तस्यास्तद् वचनं श्रुत्वा राक्षस्यस्ताः खरस्वनाः। आख्यातुं राक्षसेन्द्राय जग्मुस्तत् सर्वमादृताः॥ गतासु तासु सर्वासु त्रिजटा नाम राक्षसी। सान्त्वयामास वैदेहीं धर्मज्ञा प्रियवादिनी॥ सीते वक्ष्यामि ते किंचिद् विश्वासं कुरु मे सखि। भयं त्वं त्यज वामोरु शृणु चेदं वचो मम॥ अविन्ध्यो नाम मेधावी वृद्धो राक्षसपुङ्गवः। स रामस्य हितान्वेषी त्वदर्थे हि स मावदत्॥ सीता मद्वचनाद् वाच्या समाश्वास्य प्रसाद्य च। भर्ता ते कुशली रामो लक्ष्मणानुगतो बली॥ सख्यं वानरराजेन शक्रप्रतिमतेजसा। कृतवान् राघवः श्रीमांस्त्वदर्थे च समुद्यतः॥ मा च तेऽस्तु भयं भीरु रावणाल्लोकगहितात्। नलकूबरशापेन रक्षिता ह्यसि नन्दिनि॥ शप्तो ह्येष पुरा पापो वधू रम्भां परामृशन्। न शक्नोत्यवशां नारीमुपैतुमजितेन्द्रियः॥ क्षिप्रमेष्यति ते भर्ता सुग्रीवेणाभिरक्षितः। सौमित्रिसहितो धीमांस्त्वां चेतो मोक्षयिष्यति॥ स्वप्ना हि सुमहाघोरा दृष्टा मेऽनिष्टदर्शनाः। विनाशायास्य दुर्बुद्धेः पौलस्त्यकुलघातिनः॥ दारुणो ह्येष दुष्टात्मा क्षुद्रकर्मा निशाचरः। स्वभावाच्छीलदोषेण सर्वेषां भयवर्धनः॥ स्पर्धते सर्वदेवैर्यः कालोपहतचेतनः। मया विनाशलिङ्गानि स्वप्ने दृष्टानि तस्य वै॥ तैलाभिषिक्तो विकचो मज्जन् पङ्के दशाननः। असकृत् खरयुक्ते तु रथे नृत्यन्निव स्थितः॥ कुम्भकर्णादयश्चेमे नग्नाः पतितमूर्धजाः। गच्छन्ति दक्षिणामाशां रक्तमाल्यानुलेपनाः॥ श्वेतातपत्रः सोष्णीषः शुक्लमाल्यानुलेपनः। श्वेतपर्वतमारूढ एक एव विभीषणः॥ सचिवाश्चास्य चत्वारः शुक्लमाल्यानुलेपनाः। श्वेतपर्वतमारूढा मोक्ष्यन्तेऽस्मान्महाभयात्॥ रामस्यास्त्रेण पृथिवी परिक्षिप्ता ससागरा। यशसा पृथिवीं कृत्स्ना पूरयिष्यति ते पतिः॥ अस्थिसंचयमारूढो भुञ्जानो मधुपायसम्। लक्ष्मणश्च मया दृष्टो दिधक्षुः सर्वतो दिशम्॥ रुदती रुधिरार्द्राङ्गी व्याघ्रण परिरक्षिता। असकृत् त्वं मया दृष्टा गच्छन्ती दिशमुत्तराम्॥ हर्षमेष्यसि वैदेहि क्षिप्रं भ; समन्विता। राघवेण सह भ्रात्रा सीते त्वमचिरादिव॥ इत्येतन्मृगशावाक्षी तच्छ्रुत्वा त्रिजटावचः। बभूवाशावती बाला पुनर्भर्तृसमागमे॥ यावदभ्यागता रौद्राः पिशाच्यस्ताः सुदारुणाः। ददृशुस्तां त्रिजटया सहासीनां यथा पुरा॥ मार्कण्डेय उवाच ततस्तां भर्तृशोकार्ता दीनां मलिनवाससम्। मणिशेषाभ्यलङ्कारां रुदतीं च पतिव्रताम्॥ राक्षसीभिरुपास्यन्ती समासीनां शिलातले। रावणः कामबाणातॊ ददर्शोपससर्प च॥ देवदानवगन्धर्वयक्षकिम्पुरुषैर्युधि। अजितोऽशोकवनिकां ययौ कन्दर्पपीडितः॥ दिव्याम्बरधरः श्रीमान् सुमृष्टमणिकुण्डलः। विचित्रमाल्यमुकुटो वसन्त इव मूर्तिमान्॥ न कल्पवृक्षसदृशो यत्नादपि विभूषितः। श्मशानचैत्यगुमवद् भूषितोऽपि भयंकरः॥ स तस्यास्तनुमध्यायाः समीपे रजनीचरः। ददृशे रोहिणीमेत्य शनैश्चर इव ग्रहः॥ स तामामन्त्र्य सुश्रोणी पुष्पकेतुशराहतः। इदमित्यब्रवीद् वाक्यं त्रस्तां रोहीमिवाबलाम्॥ सीते पर्याप्तमेतावत् कृतो भर्तुरनुग्रहः। प्रसादं कुरु तन्वङ्गि क्रियतां परिकर्म ते॥ भजस्व मां वरारोहे महार्हाभरणाम्बरा। भव मे सर्वनारीणामुत्तमा वरवर्णिनी॥ सन्ति मे देवकन्याश्च गन्धर्वाणां च योषितः। सन्ति दानवकन्याश्च दैत्यानां चापि योषितः॥ चतुर्दश पिशाचानां कोट्यो मे वचने स्थिताः। द्विस्तावत् पुरुषादानां रक्षसां भीमकर्मणाम्॥ ततो मे त्रिगुणा यक्षा ये मद्वचनकारिणः। केचिदेव धनाध्यक्षं भ्रातरं मे समाश्रिताः॥ गन्धर्वाप्सरसो भद्रे मामापानगतं सदा। उपतिष्ठन्ति वामोरु यथैव भ्रातरं मम॥ पुत्रोऽहमपि विप्रर्षेः साक्षाद् विश्रवसो मुनेः। पञ्चमो लोकपालानामिति मे प्रथितं यशः॥ दिव्यानि भक्ष्यभोज्यानि पानानि विविधानि च। यथैव त्रिदशेशस्य तथैव मम भाविनि॥ क्षीयतां दुष्कृतं कर्म वनवासकृतं तव। भार्या मे भव सुश्रोणि यथा मन्दोदरी तथा॥ इत्युक्ता तेन वैदेही परिवृत्य शुभानना। तृणमन्तरतः कृत्वा तमुवाच निशाचरम्॥ अशिवेनातिवामोरूरजलं नेत्रवारिणा। स्तनावपतितौ बाला संहतावभिवर्षती॥ उवाच वाक्यं तं क्षुद्रं वैदेही पतिदेवता। असकृद् वदतो वाक्यमीदृशं राक्षसेश्वर॥ विषादयुक्तमेतत् ते मया श्रुतमभाग्यया। तद् भद्रसुख भद्रं ते मानसं विनिवर्त्यताम्॥ परदारासयलभ्या च सततं च पतिव्रता। न चैवोपयिकी भार्या मानुषी कृपणा तव॥ विवशां धर्षयित्वा च कां त्वं प्रीतिमवाप्स्यसि। प्रजापतिसमो विप्रो ब्रह्मयोनिः पिता तव॥ न च पालयसे धर्मं लोकपालसमः कथम्। भ्रातरं राजराजानं महेश्वरसखं प्रभुम्॥ धनेश्वरं व्यपदिशन् कथं त्विह न लज्जसे। इत्युक्त्वा प्रारुदत् सीता कम्पयन्ती पयोधरौ॥ शिरोधरां च तन्वङ्गी मुखं प्रच्छाद्य वाससा। तस्या रुदत्या भाविन्या दीर्धा वेणी सुसंयता॥ ददृशे स्वसिता स्रिग्धा काली व्यालीव मूर्धनि। श्रुत्वा तद् रावणो वाक्यं सीतयोक्तं सुनिष्ठुरम्॥ प्रत्याख्यातोऽपि दुर्मेधाः पुनरेवाब्रवीद् वचः। काममङ्गानि मे सीते दुनोतु मकरध्वजः॥ न त्वामकामां सुश्रोणी समेष्ये चारुहासिनीम्। किं नु शक्यं मया कर्तुं यत् त्वमद्यापि मानुषम्॥ आहारभूतमस्माकं राममेवानुरुध्यसे॥ इत्युक्त्वा तामनिन्द्यागी स राक्षसमहेश्वरः। तत्रैवान्तर्हितो भूत्वा जगामाभिमतां दिशम्॥ राक्षसीभिः परिवृता वैदेही शोककर्शिता। सेव्यमाना त्रिजटया तत्रैव न्यवसत् तदा।॥ मार्कण्डेय उवाच राघवः सहसौमित्रिः सुग्रीवेणाभिपालितः। वसन् माल्यवतः पृष्ठे ददृशे विमलं नभः॥ स दृष्ट्वा विमले व्योम्नि निर्मलं शशलक्षणम्। ग्रहनक्षत्रताराभिरनुयातममित्रहा॥ कुमुदोत्पलपद्मानां गन्धमादाय वायुना। महीधरस्थः शीतेन सहसा प्रतिबोधित: ॥ प्रभाते लक्ष्मणं वीरमभ्यभाषत दुर्मनाः। सीतां संस्मृत्य धर्मात्मा रुद्धां राक्षसवेश्मनि॥ गच्छ लक्ष्मण जानीहि किष्किन्धायां कपीश्वरम्। प्रमत्तं चाम्यधर्मेषु कृतघ्नं स्वार्थपण्डितम्॥ योऽसौ कुलाधमो मूढो मया राज्येऽभिषेचितः। सर्ववानरगोपुच्छा यमृक्षाश्च भजन्ति वै॥ यदर्थं निहतो वाली मया रघुकुलोद्वह। त्वया सह महाबाहो किष्किन्धोपवने तदा॥ कृतघ्नं तमहं मन्ये वानरापसदं भुवि। यो मामेवंगतो मूढो न जानीतेऽद्य लक्ष्मण॥ असौ मन्ये न जानीते समयप्रतिपालनम्। कृतोपकारं मा नूनमवमन्याल्पया धिया।॥ यदि तावदनुयुक्तः शेते कामसुखात्मकः। नेतव्यो वालिमार्गेण सर्वभूतगति त्वया।॥ अथापि घटतेऽस्माकमर्थे वानरपुङ्गवः। तमादायैव काकुत्स्थ त्वरावान् भव मा चिरम्॥ इत्युक्तो लक्ष्मणो भ्रात्रा गुरुवाक्यहिते रतः। प्रतस्थे रुचिरं गृह्य समार्गणगुणं धनुः॥ किष्किन्धाद्वारमासाद्य प्रविवेशानिवारितः। सक्रोध इति तं मत्वा राजा प्रत्युद्ययौ हरिः॥ तं सदारो विनीतात्मा सुग्रीवः प्लवगाधिपः। पूजया प्रतिजग्राह प्रीयमाणस्तदर्हया॥ तमब्रवीद् रामवचः सौमित्रिरकुतोभयः। सर्वमशेषेण श्रुत्वा प्रह्वः कृताञ्जलिः॥ सभृत्यदारो राजेन्द्र सुग्रीवो वानराधिपः। इदमाह वचः प्रीतो लक्ष्मणं नरकुञ्जरम्॥ स तत् नास्मि लक्ष्मण दुर्मेधा नाकृतज्ञो न निघृणः। श्रूयतां यः प्रयत्नो मे सीतापर्येषणे कृतः॥ दिशः प्रस्थापिताः सर्वे विनीता हरयो मया। सर्वेषां च कृतः कालो मासेनागमनं पुनः॥ वैरियं सवना साद्रिः सपुरा सागराम्बरा। विचेतव्या मही वीर सचमनगराकरा॥ स मासः पञ्चरात्रेण पूर्णो भवितुमर्हति। ततः श्रोष्यसि रामेण सहितः सुमहत् प्रियम्॥ इत्युक्तो लक्ष्मणस्तेन वानरेन्द्रेण धीमता। त्यक्त्वा रोषमदीनात्मा सुग्रीवं प्रत्यपूजयत्॥ स रामं सहसुग्रीवो माल्यवत्पृष्ठमास्थितम्। अभिगम्योदयं तस्य कार्यस्य प्रत्यवेदयत्॥ इत्येवं वानरेन्द्रास्ते समाजग्मुः सहस्रशः। दिशस्तिस्रो विचित्याथ न तु ये दक्षिणां गताः॥ आचख्युस्तत्र रामाय महीं सागरमेखलाम्। विचितां न तु वैदेह्या दर्शनं रावणस्य वा॥ गतास्तु दक्षिणामाशां ये वै वानरपुङ्गवाः। आशावांस्तेषु काकुत्स्थः प्राणानार्तोऽभ्यधारयत्॥ द्विमासोपरमे काले व्यतीते प्लवगास्ततः। सुग्रीवमभिगम्येदं त्वरिता वाक्यमब्रुवन्॥ रक्षितं वालिना यत् तत् स्फीतं मधुबनं महत्। त्वया च प्लवगश्रेष्ठ तद् भुङ्क्ते पवनात्मजः॥ वालिपुत्रोऽङ्गदश्चैव ये चान्ये प्लवगर्षभाः। विचेतुं दक्षिणामाशां राजन् प्रस्थापितास्त्वया॥ तेषामपनयं श्रुत्वा मेने स कृतकृत्यताम्। कृतार्थानां हि भृत्यानामेतद् भवति चेष्टितम्॥ स तद् रामाय मेधावी शशंस प्लवगर्षभः। रामश्चाप्यनुमानेन मेने दृष्टां तु मैथिलीम्॥ हनुमत्प्रमुखाश्चापि विश्रान्तास्ते प्लवङ्गमाः। अभिजग्मुर्हरीन्द्रं तं रामलक्ष्मणसंनिधौ॥ गतिं च मुखवर्णं च दृष्ट्वा रामो हनूमतः। अगमत् प्रत्यय भूयो दृष्टा सीतेति भारत।॥ हनुमत्प्रमुखास्ते तु वानराः पूर्णमानसाः। प्रणेतुर्विधिवद् रामं सुग्रीवं लक्ष्मणं तथा॥ तानुवाचानतान् रामः प्रगृह्य सशरं धनुः। अपि मां जीवयिष्यध्वमपि वः कृतकृत्यता॥ अपि राज्यमयोध्यायां कारयिष्याम्यहं पुनः। निहत्य समरे शत्रूनाहत्य जनकात्मजाम्॥ अमोक्षयित्वा वैदेहीमहत्वा च रणे रिपून्। हृतदारोऽवधूतश्च नाहं जीवितुमुत्सहे॥ इत्युक्तवचनं रामं प्रत्युवाचानिलात्मजः। प्रियमाख्यामि ते राम दृष्टा सा जानकी मया॥ विचित्य दक्षिणामाशां सपर्वतवनाकराम्। श्रान्ताः काले व्यतीते स्म दृष्टवन्तो महागुहाम्॥ प्रविशामो वयं तां तु बहुयोजनमायताम्। सान्धकारां सुविपिनां गहनां कीटसेविताम्॥ गत्वा सुमहदध्वानमादित्यस्य प्रभां ततः। दृष्टवन्तः स्म तत्रैव भवनं दिव्यमन्तरा॥ मयस्य किल दैत्यस्य तदासीद् वेश्म राघव। तत्र प्रभावती नाम तपोऽतप्यत तापसी॥ तया दत्तानि भोज्यानि पानानि विविधानि च। भुक्त्वा लब्धबलाः सन्तस्तयोक्तेन पथा ततः॥ निर्याय तस्मादुद्देशात् पश्यामो लवणाम्भसः। समीपे सह्यमलयौ दर्दुरं च महागिरिम्॥ ततो मलयमारुह्य पश्यन्तो वरुणालयम्। विषण्णा व्यथिताः खिन्ना निराशा निराशा जीविते भृशम्॥ अनेकशतविस्तीर्णं योजनानां महोदधिम्। निमिनक्रझपा ।सं चिन्तयन्तः सुदुःखिताः॥ तत्रानशनसंकल्पं कृत्वाऽऽसीना वयं तदा। ततः कथान्ते गृध्रस्य जटायोरभवत् कथा॥ ततः पर्वतशृङ्गाभं घोररूपं भयावहम्। पक्षिणं दृष्टवन्तः स्म वैनतेयमिवापरम्॥ सोऽस्मानतळयद् भोक्तुमथाभ्येत्य वचोऽब्रवीत्। भोः क एष मम भ्रातुर्जटायोः कुरुते कथाम्॥ सम्पातिर्नाम तस्याहं ज्येष्ठो भ्राता खगाधिपः। अन्योन्यस्पर्धयारूढावावामादित्यसत्पदम्॥ ततो दग्धाविमौ पक्षौ न दग्धौ तु जटायुषः। तदा मे चिरदृष्टः स भ्राता गृध्रपतिः प्रियः॥ निर्दग्धपक्षः पतितो ह्यहमस्मिन् महागिरौ। तस्यैवं वदतोऽस्माभिर्हतो भ्राता निवेदितः॥ व्यसनं भवतश्चेदं संक्षेपाद् वै निवेदितम्। स सम्पातिस्तदा राजञ्छ्रुत्वा सुमहदप्रियम्॥ विषण्णचेताः पप्रच्छ पुनरस्मानरिंदम। कः स रामः कथं सीता जटायुश्च कथं हतः॥ इच्छामि सर्वमेवैतच्छ्रोतुं प्लवगसत्तमाः। तस्याहं सर्वमेवैतद् भवतो व्यसनागमम्॥ प्रायोपवेशने चैव हेतुं विस्तरशोऽब्रुवम्। सोऽस्मानुत्थापयामास वाक्येनानेन पक्षिराट्॥ रावणो विदितो मह्यं लङ्का चास्य महापुरी। दृष्टा पारे समुद्रस्य त्रिकूटगिरिकन्दरे॥ भवित्री तत्र वैदेही न मेऽस्त्यत्र विचारणा। इति तस्य वचः श्रुत्वा वयमुत्थाय सत्वराः॥ सागरक्रमणे मन्त्रं मन्त्रयामः परंतप। नाध्यवास्यद् यदा कश्चित् सागरस्य विलङ्घनम्॥ ततः पितरमाविश्य पुप्लवेऽहं महार्णवम्। शतयोजनविस्तीर्णं निहत्य जलराक्षसीम्॥ तत्र सीता मया दृष्टा रावणान्तःपुरे सती। उपवासतप:शीला भर्तृदर्शनलालसा॥ जटिला मलदिग्धाङ्गी कृशा दीना तपस्विनी। निमित्तैस्तामहं सीतामुपलभ्य पृथग्विधैः॥ उपसृत्याब्रुवं चार्यामभिगम्य रहोगताम्। सीते रामस्य दूतोऽहं वानरो मारुतात्मजः॥ त्वदर्शनमभिप्रेप्सुरिह प्राप्तो विहायसा। राजपुत्रौ कुशलिनौ भ्रातरौ रामलक्ष्मणौ॥ सर्वशाखामृगेन्द्रेण सुग्रीवेणाभिपालितौ। कुशलं त्वाब्रवीद् रामः सीते सौमित्रिणा सह॥ सखिभावाच्च सुग्रीवः कुशलं त्वानुपृच्छति। क्षिप्रमेष्यति ते भर्ता सर्वशाखामृगैः सह॥ प्रत्ययं कुरु मे देवि वानरोऽस्मि न राक्षसः। मुहूर्तमिव च ध्यात्वा सीता मां प्रत्युवाच ह॥ अवैमि त्वां हनूमन्तमविन्ध्यवचनादहम्। अविन्ध्यो हि महाबाहो राक्षसो वृद्धसम्मतः॥ कथितस्तेन सुग्रीवस्त्वद्विधैः सचिवैर्वृतः। गम्यतामिति चोक्त्वा मां सीता प्रादादिमं मणिम्॥ धारिता येन वैदेही कालमेतमनिन्दिता। प्रत्ययार्थं कथां चेमां कथयामास जानकी॥ क्षिप्तामिषीका काकाय चित्रकूटे महागिरौ। भवता पुरुषव्याघ्र प्रत्यभिज्ञानकारणात्॥ ग्राहयित्वाहमात्मानं ततो दग्ध्वा च तां पुरीम्। सम्प्राप्त इति तं रामः प्रियवादिनमार्चयत्॥ मार्कण्डेय उवाच ततस्तत्रैव रामस्य समासीनस्य तैः सह। समाजग्मुः कपिश्रेष्ठाः सुग्रीववचनात् तदा।॥ वृतः कोटिसहस्रेण वानराणां तरस्विनाम्। श्वशुरो वालिनः श्रीमान् सुषेणो राममभ्ययात्॥ कोटीशतवृतो वापि गजो गवय एव च। वानरेन्द्रौ महावी? पृथक् पृथगदृश्यताम्॥ षष्टिकोटिसहरू णि प्रकर्षन् प्रत्यदृश्यत। गोलाङ्गलो महाराज गवाक्षो भीमदर्शनः॥ गन्धमादनवासी तु प्रथितो गन्धमादनः। कोटीशतसहस्राणि हरीणां समकर्षत॥ पनसो नाम मेधावी वानरः सुमहाबलः। कोटीर्दश द्वादश च त्रिंशत् पञ्च प्रकर्षति॥ श्रीमान् दधिमुखोनाम हरिवृद्धोऽतिवीर्यवान्। प्रचकर्ष महासैन्यं हरीणां भीमतेजसाम्॥ कृष्णानां मुखपुण्ड्राणामृक्षाणां भीमकर्मणाम्। कोटीशतसहस्रेण जाम्बवान् प्रत्यदृष्यत॥ एते चान्ये च बहवो हरियूथपयूथपाः। असंख्येया महाराज समीयू रामकारणात्॥ गिरिकूटनिभाङ्गानां सिंहानामिव गर्जताम्। श्रूयते तुमुलः शब्दस्तत्र तत्र प्रधावताम्॥ गिरिकूटनिभाः केचित् केचिन्महिषसंनिभाः। शरदभ्रप्रतीकाशा: केचिद्धिङ्गलकाननाः॥ उत्पतन्तः पतन्तश्च प्लवमानाश्च वानराः। उद्धन्वन्तोऽपरे रेणून् समाजग्मुः समन्ततः॥ स वानरमहासैन्यः पूर्णसागरसंनिभः। निवेशमकरोत् तत्र सुग्रीवानुमते तदा॥ ततस्तेषु हरीन्द्रेषु समावृत्तेषु सर्वशः। तिथौ प्रशस्ते नक्षत्रे मुहूर्ते चाभिपूजिते॥ तेन व्यूढेन सैन्येन लोकानुद्वर्तयन्निव। प्रययौ राघवः श्रीमान् सुग्रीवसहितस्तदा॥ मुखमासीत् तु सैन्यस्य हनूमान् मारुतात्मजः। जघनं पालयामास सौमित्रितरकुतोभयः॥ बद्धगोधाङ्गुलित्राणौ राघवौ तत्र जग्मतुः। वृतौ हरिमहामात्रैश्चन्द्रसूर्यौ ग्रहैरिव॥ प्रबभौ हरिसैन्यं तत् सालतालशिलायुधम्। सुमहच्छालिभवनं यता सूर्योदयं प्रति॥ नलनीलाङ्गदक्राथमैन्दद्विविदपालिता। ययौ सुमहती सेना राघवस्यार्थसिद्धये।॥ विविधेषु प्रशस्तेषु बहुमूलफलेषु च। प्रभूतमधुमूलेषु वारिमत्सु शिवेषु च॥ निवसन्ती निराबाधा तथैव गिरिसानुषु। उपायाद्धरिसेना सा क्षारोदमथ सागरम्॥ द्वितीयसागरनिभं तद् बलं बहुलध्वजम्। वेलावनं समासाद्य निवासमकरोत् तदा॥ ततो दाशरथिः श्रीमान् सुग्रीवं प्रत्यभाषत। मध्ये वानरमुख्यानां प्राप्तकालमिदं वचः॥ उपायः को नु भवतां मतः सागरलडने। इयं हि महती सेना सागरचातिदुस्तरः॥ तत्रान्ये व्याहरन्ति स्म वानरा बहुमानिनः। समर्था लङ्घने सिन्धोर्न तु तत् कृत्स्नकारकम्॥ केचिन्नौभिर्व्यवस्यन्ति केचिच्च विविधैः प्लवैः। नेति रामस्तु तान् सर्वान् सान्त्वयन् प्रत्यभाषत॥ शतयोजनविस्तारं न शक्ताः सर्ववानराः। क्रान्तुं तोयनिधिं वीरा नैषा वो नैष्ठिकी मतिः॥ नावो न सन्ति सेनाया बयस्तारयितुं तथा। वणिजामुपघातं च कथमस्मद्विधश्चरेत्॥ विस्तीर्णं चैव नः सैन्यं हन्याच्छिद्रेण वै परः। प्लवोडुपप्रतारश्च नैवात्र मम रोचते॥ अहं त्विमं जलनिधि समारप्स्याम्युपायतः। प्रतिशेष्याम्युपवसन् दर्षयिष्यति मां ततः॥ न चेद् दर्शयिता मार्ग धक्ष्याम्येनमहं ततः। महास्त्रैरप्रतिहतैरत्यग्निपवनोज्ज्वलैः॥ इत्यक्तुवा सह सौमित्रिरुपस्पृश्याथ राघवः। प्रतिशिश्ये जलनिधिं विधिवत् कुशसंस्तरे॥ सागरस्तु ततः स्वप्ने दर्शयामास राघवम्। देवो नदनदीभर्ता श्रीमान् यादोगणैर्वृतः॥ कौसल्यामातरित्येवमाभाष्य मधुरं वचः। इदमित्याह रत्नानामाकरैः शतशो वृतः॥ ब्रूहि किं ते करोम्यत्र साहाय्यं पुरुषर्षभ। ऐक्ष्वाको ह्यस्मि ते ज्ञातिरिति रामस्तमब्रवीत्॥ मार्गमिच्छामि सैन्यस्य दत्तं नदनदीपते। येन गत्वा दशग्रीवं हन्यां पौलस्त्यपांसनम्॥ यद्येवं याचतो मार्ग न प्रदास्यति मे भवान्। शरैस्त्वां शोषयिष्यामि दिव्यास्त्रप्रतिमन्त्रितैः॥ इत्येवं ब्रुवतः श्रुत्वा रामस्य वरुणालयः। उवाच व्यथितो वाक्यमिति बद्धाञ्जलिः स्थितः॥ नेच्छामि प्रतिघातं ते नास्मि विघ्नकरस्तव। शृणु चेदं वचो राम श्रुत्वा कर्तव्यमाचर॥ यदि दास्यामि ते मार्गं सैन्यस्य व्रजतोऽऽज्ञया। अन्ये व्याज्ञापयिष्यन्ति मामेवं धनुषो बलात्॥ अस्ति त्वत्र नलो नाम वानरः शिल्पिसम्मतः। त्वष्टुर्देवस्य तनयो बलवान् विश्वकर्मणः॥ स यत् काष्ठं तृणं वापि शिलां वा क्षेप्स्यते मयि। सर्वं तद् धारयिष्याभि स ते सेतुर्भविष्यति॥ इत्युक्त्वान्तहिते तस्मिन् रामो नलमुवाच ह। कुरु सेतुं समुद्रे त्वं शक्तो ह्यसि मतो मम॥ तेनोपायेन काकुत्स्थः सेतुबन्धमकारयत्। दशयोजनविस्तारमायतं शतयोजनम्॥ नलसेतुरिति ख्यातो योऽद्यापि प्रथितो भुवि। रामस्याज्ञां पुरस्कृत्य निर्यातो गिरिसंनिभः॥ तत्रस्थं स तु धर्मात्मा सभागच्छद् विभीषणः। भ्राता वै राक्षसेन्द्रस्य चतुर्भिः सचिवैः सह॥ प्रतिजग्राह रामस्तं स्वागतेन महामनाः। सुग्रीवस्य तु शङ्काभूत् प्रणिधिः स्यादिति स्म ह॥ राघवः सत्यचेष्टाभिः सम्यक् च चरितेङ्गितैः। यदा तत्त्वेन तुष्टोऽभूत् तत एनमपूजयत्॥ सर्वराक्षसराज्ये चाप्यभ्यषिञ्चद् विभीषणम्। चक्रे च मन्त्रसचिवं सुहृदं लक्ष्मणस्य च॥ विभीषणमते चैव सोऽत्यकामन्महार्णवम्। ससैन्यः सेतुना तेन मासेनैव नराधिप॥ ततो गत्वा समासाद्य लङ्कोद्यानान्यनेकशः। भेदयामास कपिभिर्महान्ति च बहूनि च॥ ततस्तौ रावणामात्यौ मन्त्रिणौ शुकसारणौ। चरौ वानररूपेण तौ जग्राह विभीषणः॥ प्रतिपन्नौ यदा रूपं राक्षसं तौ निशाचरौ। दर्शयित्वा ततः सैन्यं रामः पश्चादवासृजत्॥ निवेश्योपवने सैन्यं तत् पुरः प्राज्ञवानरम्। प्रेषयामास दौत्येन रावणस्य ततोऽङ्गदम्॥ मार्कण्डेय उवाच प्रभूतान्नोदके तस्मिन् बहुमूलफले वने। सेनां निवेश्य काकुत्स्थो विधिवत् पर्यरक्षत॥ रावणः संविधं चक्रे लङ्कायां शास्त्रनिर्मिताम्। प्रकृत्यैव दुराधर्षा दृढप्राकारतोरणा॥ अगाधतोयाः परिखा मीननक्रसमाकुलाः। बभूवुः सप्त दुर्धर्षाः खादिरैः शङ्कुभिश्चिताः॥ कपाटयन्त्रदुर्धर्षा बभूवुः सहुडोपलाः। साशीविषघटायोधाः ससर्जरसपांसवः॥ मुसलालातनाराचतोमरासिपरश्वधैः। अन्विताश्च शतघ्नीभिः समधूच्छिष्टमुद्गराः॥ पुरद्वारेषु सर्वेषु गुल्म: स्थावरजङ्गमाः। बभूवुः पत्तिबहुलाः प्रभूतगजवाजिनः॥ अगदस्त्वथ लङ्काया द्वारदेशमुपागतः। विदितो राक्षसेन्द्रस्य प्रविवेश गतव्यथः॥ मध्ये राक्षसकोटीनां बह्वीनां सुमहाबलः। शुशुभे मेघमालाभिरादित्य इव संवृतः॥ स समासाद्य पौलस्त्यममात्यैरभिसंवृतम्। रामसंदेशमामन्त्र्य वाग्मी वक्तुं प्रचक्रमे॥ आह त्वां राघवो राजन् कोसलेन्द्रो महायशाः। प्राप्तकालमिदं वाक्यं तदादत्स्व कुरुष्व च॥ अकृतात्मानमासाद्य राजानमनये रतम्। विनश्यन्त्यनयाविष्टा देशाश्च नगराणि च॥ त्वयैकेनापराद्धं मे सीतामाहरता बलात्। वधायानपराद्धानामन्येषां तद् भविष्यति॥ ये त्वया बलदर्पाभ्यामाविष्टेन वनेचराः। ऋषयो हिंसिताः पूर्वं देवाश्चाप्यवमानिताः॥ राजर्षयश्च निहता रुदत्यश्च हृताः स्त्रियः। तदिदं समनुप्राप्तं फलं तस्यानयस्य ते॥ हन्तास्मि त्वां सहामात्यैर्युध्यस्व पुरुषो भव। पश्य मे धनुषो वीर्यं मानुषस्य निशाचर॥ मुच्यतां जानकी सीता न मे मोक्ष्यसि कर्हिचित्। अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः॥ इति तस्य ब्रुवाणस्य दूतस्य परुषं वचः। श्रुत्वा न ममृषे राजा रावणः क्रोधमूर्छितः॥ इशितज्ञास्ततो भर्तुश्चत्वारो रजनीचराः। चतुर्भुङ्गेषु जगृहुः शार्दूलमिव पक्षिणः॥ तांस्तथाङ्गेषु संसक्तानङ्गदो रजनीचरान्। आदायैव खमुत्पत्य प्रासादतलमाविशत्॥ वेगेनोत्पततस्तस्य पेतुस्ते रजनीचराः। भुवि सम्भिन्नहृदयाः प्रहारवरपीडिताः॥ संसक्तो हर्म्यशिखरात् तस्मात् पुनरवापतत्। लवयित्वा पुरीं लङ्कां सुवेलस्य समीपतः॥ कोसलेन्द्रमथागम्य सर्वमावेद्य वानरः। विशश्राम स तेजस्वी राघवेणाभिनन्दितः॥ ततः सर्वाभिसारेण हरीणां वातरंहसाम्। भेदयामास लङ्कायाः प्राकारं रघुनन्दनः॥ विभीषणाधिपती पुरस्कृत्याथ लक्ष्मणः। दक्षिणं नगरद्वारमवामृद्गाद् दुरासदम्॥ करभारुणपाण्डूनां हरीणां युद्धशालिनाम्। कोटीशतसहस्रेण लङ्कामभ्यपपत् तदा॥ प्रलम्बबाहूरुकरजवान्तरविलम्बिनाम्। ऋक्षाणां धूम्रवर्णानां तिस्रः कोट्यो व्यवस्थिताः॥ उत्पतद्भिः पतद्भिश्च नियतद्भिश्च वानरैः। नादृश्यत तदा सूर्यो रजसा नाशितप्रभः॥ शालिप्रसूनसदृशैः शिरीषकुसुमप्रभैः। तरुणादित्यसदृशैः शणगौरैश्च वानरैः॥ प्राकारं ददृशुस्ते तु समन्तात् कपिलीकृतम्। राक्षसा विस्मिता राजन् सस्त्रीवृद्धाः समन्ततः॥ बिभिदुस्ते मणिस्तम्भान् कर्णाट्टशिखराणि च। भग्नोन्मथितशृङ्गाणि यन्त्राणि च विचिक्षिपुः॥ परिगृह्य शतघ्नीश्च सचक्राः सहुडोपलाः। चिक्षिपुर्भुजवेगेन लङ्कामध्ये महास्वनाः॥ प्राकारस्थाश्च ये केचिनिशाचरगणास्तथा। प्रदुद्रुवुस्ते शतशः कपिभिः समभिद्रुताः॥ ततस्तु राजवचनाद् राक्षसाः कामरूपिणः। निर्ययुर्विकृताकाराः सहस्रशतसङ्घशः॥ शस्त्रवर्षाणि वर्षन्तो द्रावयित्वा वनौकसः। प्राकारं शोभयन्तस्ते परं विक्रममास्थिताः॥ स माषराशिसदृशैर्बभूव क्षणदाचरैः। कृतो निर्वानरो भूयः प्राकारो भीमदर्शनैः॥ पेतुः शूलविभिन्नाङ्गा बहवो वानरर्षभाः। स्तम्भतोरणभग्नाश्च पेतुस्तत्र निशाचरा:॥ केशाकेश्यभवद् युद्धं रक्षसां वानरैः सह। नखैर्दन्तैश्च वीराणां खादतां वै परस्परम्॥ निष्टनन्तो [भयतस्तत्र वानरराक्षसाः। हता निपतिता भूमौ न मुञ्चन्ति परस्परम्॥ रामस्तु शरजालानि ववर्ष जलदो यथा। तानि लङ्कां समासाद्य जघ्नुस्तान् रजनीचरान्॥ सौमित्रिरपि नाराजैर्दृढधन्वा जितक्लमः। आदिश्यादिश्य दुर्गस्थान् पातयामास राक्षसान्॥ ततः प्रत्यवहारोऽभूत् सैन्यानां राघवाज्ञया। कृते विमर्दे लङ्कायां लब्धलक्ष्यो जयोत्तरः॥ मार्कण्डेय उवाच ततो निविशमानांस्तान् सैनिकान् रावणानुगाः। अभिजग्मुर्गणानेके पिशाचक्षुद्ररक्षसाम्॥ पर्वणः पतनो जम्भः खरः क्रोधवशो हरिः। प्ररुजश्चारुजश्चैव प्रघसश्चैवमादयः॥ ते ततोऽभिपततां तेषामदृश्यानां दुरात्मनाम्। अन्तर्धानवधं तज्ज्ञश्चकार स विभीषणः॥ दृश्यमाना हरिभिर्बलिभिर्दूरपातिभिः। निहताः सर्वशो राजन् महीं जग्मुर्गतासवः॥ अमृष्यमाण: सबलो रावणो निर्ययावथ। राक्षसानां बलैघरिः पिशाचानां च संवृतः।५।। युद्धशास्त्रविधानज्ञ उशना इव चापरः। व्यह्य चौशनसं व्यूहं हरीनभ्यवहारयत्॥ राघवस्तु विनिर्यान्तं व्यढानीकं दशाननम्। बार्हस्पत्यं विधिं कृत्वा प्रत्यव्यूहनिशाचरम्॥ समेत्य युयुधे तत्र ततो रामेण रावणः। युयुधे लक्ष्मणश्चापि तथैवेन्द्रजिता सह॥ विरूपाक्षेण सुग्रीवस्तारेण च निखर्वटः। तुण्डेन च नलस्तत्र पटुश: पनसेन च।॥ विषह्यं यं हि यो मेने स स तेन समेयिवान्। युयुधे युद्धवेलायां स्वबाहुबलमाश्रितः॥ स सम्प्रहारो ववृधे भीरूणां भयवर्धनः। लोमसंहर्षणो घोरः पुरा देवासुरे यथा।॥ रावणो राममानर्छच्छक्तिशूलासिवृष्टिभिः। निशितैरायसैस्तीक्ष्णै रावणं चापि राघवः॥ तथैवेन्द्रजितं यत्तं लक्ष्मणो मर्मभेदिभिः। इन्द्रजिच्चापि सौमित्रिं बिभेद बहुभिः शरैः॥ विभीषणः प्रहस्तं च प्रहस्तश्च विभीषणम्। खगपत्रैः शरैस्तीक्ष्णैरभ्यवर्षद् गतव्यथः॥ तेषां बलवतामासीन्महास्त्राणां समागमः। विव्यथुः सकला येन त्रयो लोकाश्चराचराः॥ मार्कण्डेय उवाच ततः प्रहस्तः सहसा समभ्येत्य विभीषणम्। गतया ताडयामास विनद्य रणकर्कशः॥ स तयाभिहतो धीमान् गदया भीमवेगया। नाकम्पत महाबाहुर्हिमवानिव सुस्थिरः॥ ततः प्रगृह्य विपुलां शतघण्टां विभीषणः। अनुमन्त्र्य महाशक्तिं चिक्षेपास्य शिरः प्रति॥ पतन्त्या स तया वेगाद् राक्षसोऽशनिवेगया। हृतोत्तमाङ्गो ददृशे वातरुग्ण इव दुमः॥ तं दृष्ट्वा निहतं संख्ये प्रहस्तं क्षणदाचरम्। अभिदुद्राव धूम्राक्षो वेगेन महता कपीन्॥ तस्य मेघोपमं सैन्यमापतद् भीमदर्शनम्। दृष्ट्वैव सहसा दीर्णा रणे वानरपुङ्गवाः॥ ततस्तान् सहसा दीर्णान् दृष्ट्वा वानरपुङ्गवान्। निर्ययौ कपिशार्दूलो हनूमान् मारुतात्मजः॥ तं दृष्ट्वावस्थितं संख्ये हरयः पवनात्मजम्। महत्या त्वरया राजन् संन्यवर्तन्त सर्वशः॥ ततः शब्दो महानासीत् तुमुलो लोमहर्षणः। रामरावणसैन्यानामन्योन्यमभिधावताम्॥ तस्मिन् प्रवृत्ते संग्रामे घोरे रुधिरकर्दमे। धूम्राक्षः कपिसैन्यं तद् द्रावयामास पत्रिभः॥ तं स रक्षोमहामात्रमापतन्तं सपत्निजत्। प्रतिजग्राह हनुमांस्तरसा पवनात्मजः॥ तयोर्युद्धमभूद् घोरं हरिराक्षसवीरयोः। जिगीषतोयुधान्योन्यमिन्द्रप्रह्लादयोरिव॥ गदाभिः परिघेश्चैव राक्षसो जनिवान् कपिम्। कपिञ्च जनिवान् रक्षः सस्कन्धविटपैर्दुमैः॥ ततस्तमतिकोपेन साश्चं सरथसारथिम्। धूम्राक्षमवधीत् क्रुद्धो हनूमान् मारुतात्मजः॥ ततस्तं निहतं दृष्ट्वा धूम्राक्षं राक्षसोत्तमम्। हरयो जातविस्रम्भा जघ्नुरन्ये च सैनिकान्॥ ते वध्यमाना हरिभिर्बलिभिर्जितकाशिभिः। राक्षसा भग्नसंकल्पा लङ्कामभ्यपतन् भयात्॥ तेऽभिपत्य परुं भग्ना हतशेषा निशाचराः। सर्वं राज्ञे यथावृत्तं रावणाय न्यवेदयन्॥ श्रुत्वा तु रावणस्तेभ्यः प्रहस्तं निहतं युधि। धूम्राक्षं च महेष्वासं ससैन्यं वानरर्षभैः॥ सुदीर्घमिव निःश्वस्य समुत्पत्य वरासनात्। उवाच कुम्भकर्णस्य कर्मकालोऽयमागतः॥ इत्येवमुक्त्वा विविधैर्वादित्रैः सुमहास्वनैः। शयानमतिनिद्रालुं कुम्भकर्णमबोधयत्॥ प्रबोध्य महता चैनं यत्नेनागतसाध्वसः। स्वस्थमासीनमव्यचं विनिद्रं राक्षसाधिपः॥ ततोऽब्रवीद् दशग्रीवः कुम्भकर्णं महाबलम्। धन्योऽसि यस्य ते निद्रा कुम्भकर्णेयमीदृशी॥ य इदं दारुणाकारं न जानीषे महाभयम्। एष तीर्वार्णवं रामः सेतुना हरिभिः सह॥ अवमन्येह नः सर्वान् करोति कदनं महत्। मया त्वपहृता भार्या सीता नामास्य जानकी॥ तां नेतुं स इहायातो बद्ध्वा सेतुं महार्णवे। तेन चैव प्रहस्तादिमहान् नः स्वजनो हतः॥ तस्य नान्यो निहन्तास्ति त्वामृते शत्रुकर्शन। स दंशितोऽमिनिर्याय त्वमद्य बलिनां वरा॥ रामादीन् समरे सर्वाञ्जहि शत्रूनरिंदमा दूषणावरजौ चैव वलावेगप्रमाथिनौ॥ तौ त्वां बलेन महता सहितावनुयास्यतः। इत्युक्त्वा राक्षसपति: कुम्भकर्णं तरस्विनम्। संदिदेशेतिकर्तव्यं वलावेगप्रमाथिनौ॥ तथेत्युक्त्वा तु तौ वीरौ रावणं दूषणानुजौ। कुम्भकर्णं पुरस्कृत्य तूर्णं निर्ययतुः पुरात्॥ मार्कण्डेय उवाच ततो निर्याय स्वपुरात् कुम्भकर्णः सहानुगः। अपश्यत् कपिसैन्यं तज्जितकाश्यचतः स्थितम्॥ स वीक्षमाणस्तत् सैन्यं रामदर्शनकाक्षया अपश्यच्चापि सौमित्रिं धनुष्पाणिं व्यवस्थितम्॥ तमभ्येत्याशु हरयः परिवः समन्ततः। अभ्यघ्नंश्च महाकायैर्बहुभिर्जगतीरुहै:॥ करजैरतुदंश्चान्ये विहाय भयमुत्तमम्। बहुधा युध्यमानास्ते युद्धमार्गः प्लवङ्गमाः॥ नानाप्रहरणैर्भीमै राक्षसेन्द्रमताडयन्। स ताड्यमानः प्रहसन् भक्षयामास वानरान्॥ बलं चण्डबलाख्यं च वल्लाबाहुं च वानरम्। तद् दृष्ट्वा व्यथनं कर्म कुम्भकर्णस्य रक्षसः॥ उदक्रोशन् परित्रस्तास्तारप्रभृतयस्तदा। तानुच्चैः क्रोशतः सैन्याञ्छ्रुत्वा स हरियूथपान्॥ अभिदुद्राव सुग्रीवः कुम्भकर्णमपेतभीः। ततो निपत्य वेगेन कुम्भकर्णं महामनाः॥ शालेन जनिवान् मूर्ध्नि बलेन कपिकुञ्जरः। स महात्मा महावेगः कुम्भकर्णस्य मूर्धनि॥ बिभेद शालं सुग्रीवो न चैवाव्यथयत् कपिः। ततो विनय सहसा शालस्पर्शविबोधितः॥ दोर्ध्यामादाय सुग्रीवं कुम्भकर्णोऽहरद् बलात्। ह्रियमाणं तु सुग्रीवं कुम्भकर्णेन रक्षसा॥ अवेक्ष्याभ्यद्रवद् वीरः सौमित्रर्मित्रनन्दनः। सोऽभिपत्य महावेगं रुक्मपुङ्ख महाशरम्॥ प्राहिणोत् कुम्भकर्णाय लक्ष्मणः परवीरहा। स तस्य देहावरणं भित्त्वा देहं च सायकः॥ जगाम दारयन् भूमि रुधिरेण समुक्षितः। तथा स भिन्नहृदयः समुत्सृज्य कपीश्वरम्॥ कुम्भकर्णो महेष्वासः प्रगृहीतशिलायुधः। अभिदुद्राव सौमित्रिमुद्यम्य महतीं शिलाम्॥ तस्याभिपततस्तूर्णं क्षुराभ्यामुच्छ्रितौ करौ। चिच्छेद निशिताचाभ्यां स बभूव चतुर्भुजः॥ तानप्यस्य भुजान् सर्वान् प्रगृहीतशिलायुधान्। क्षुचिच्छेद लघ्वस्त्रं सौमित्रिः प्रतिदर्शयन्॥ स बभूवातिकायश्च बहुपादशिरोभुजः। तं ब्रह्मास्त्रेण सौमित्रिर्ददाराद्रिचयोपमम्॥ स पपात महावीर्यो दिव्यास्त्राभिहतो रणे। महाशनिविनिर्दग्धः पादपोऽङ्कुरवानिव॥ तं दृष्ट्वा वृत्रसंकाशं कुम्भकर्णं तरस्विनम्। गतासुं पतितं भूमौ राक्षसाः प्राद्रवन् भयात्॥ तथा तान् द्रवतो योधान् दृष्ट्वा तौ दूषणानुजौ। अवस्थाप्याथ सौमित्रिं संक्रुद्धावभ्यधावताम्॥ तावाद्रवन्तौ संक्रुद्धौ वलावेगप्रमाथिनौ। अभिजग्राह सौमित्रिर्विनियोभौ पतत्रिभिः॥ ततः सुतुमुलं युद्धमभवल्लोमहर्षणम्। दूषणानुजयोः पार्थ लक्ष्मणस्य च धीमतः॥ महता शरवर्षेण राक्षसौ सोऽभ्यवर्षत। तौ चापि वीरौ संक्रुद्धावुभौ तं समवर्षताम्॥ मुहूर्तमेवमभवद् वलावेगप्रमाथिनोः। सौमित्रेश्च महाबाहोः सम्प्रहारः सुदारुणः॥ अथाद्रिशृङ्गमादाय हनुमान् मारुतात्मजः। अभिद्रुत्याददे प्राणान् वलावेगस्य रक्षसः॥ नीलश्च महता चाव्णा दूषणावरजं प्रमाथिनमभिद्रुत्य प्रममाथ महाबलः॥ ततः प्रावर्तत पुनः संग्रामः कटुकोदयः। रामरावणसैन्यानामन्योन्यमभिधावताम्॥ शतशो नैर्ऋतान् वन्या जनुर्वन्यांश्च नैर्ऋताः। नैर्ऋतास्तत्र वध्यन्ते प्रायेण न तु वानराः॥ मार्कण्डेय उवाच ततः श्रुत्वा हतं संख्ये कुम्भकर्णं सहानुगम्। प्रहस्तं च महेष्वासं धूम्राक्षं चातितेजसम्॥ पुत्रमिन्द्रजितं वीरं रावणः प्रत्यभाषत। जहि रामममित्रघ्न सुग्रीवं च सलक्ष्मणम्॥ त्वया हि मम सत्पुत्र यशो दीप्तमुपार्जितम्। जित्वा वलाधरं संख्ये सहस्राक्षं शचीपतिम्॥ अन्तर्हितः प्रकाशो वा दिव्यैर्दत्तवरैः शरैः। जहि शत्रूनमित्रघ्न मम शस्त्रभृतां वर॥ रामलक्ष्मणसुग्रीवाः शरस्पर्श न तेऽनघ। समर्थाः प्रतिसोढुं च कुतस्तदनुयायिनः॥ अकृता या प्रहस्तेन कुम्भकर्णेन चानघ। खरस्यापचिति: संख्ये तां गच्छ त्वं महाभुज॥ त्वमद्य निशितैर्बाणैर्हत्वा शत्रून् ससैनिकान्। प्रतिनन्दन मां पुत्र पुरा जित्वेव वासवम्॥ इत्युक्तः स तथेत्युक्त्वा रथमास्थाय दंशितः। प्रययाविन्द्रजिद् राजस्तूर्ममायोधनं प्रति॥ ततो विश्राव्य विस्पष्टं नाम राक्षसपुङ्गवः। आह्वयामास समरे लक्ष्मणं शुभलक्षणम्॥ तं लक्ष्मणोऽभ्यधावच्च प्रगृह्य सशरं धनुः। त्रासयंस्तलघोषेण सिंहः क्षुद्रमृगान् यथा॥ तयोः समभवद् युद्धं सुमहज्जयगृद्धिनोः। दिव्यास्त्रविदुषोस्तीव्रमन्योन्यस्पर्धिनोस्तदा॥ रावणिस्तु यदा नैनं विशेषयति सायकैः। ततो गुरुतरं यत्नमातिष्ठद् बलिनां वरः॥ तत एनं महावेगैरर्दयामास तोमरैः। तानागतान् स चिच्छेद सौमित्रिर्निशतैः शरैः॥ ते निकृत्ताः शरैस्तीक्ष्णैर्यपतन् धरणीतले। तमङ्गदो वालिसुतः श्रीमानुद्यम्य पादपम्॥ अभिद्रुत्य महावेगस्ताडयामास मूर्धनि। तस्येन्द्रजिदसम्भ्रान्तः प्रासेनोरसि वीर्यवान्॥ प्रहर्तुमैच्छत् तं चास्य प्रासं चिच्छेद लक्ष्मणः। तमभ्याशगतं वीरमगदं रावणात्मजः॥ गदयाताडयत् सव्ये पार्श्वे वानरपुङ्गवम्। तमचिन्त्य प्रहारं स बलवान् वालिनः सुतः॥ ससर्जेन्द्रजित: क्रोधाच्छालस्कन्धं तथाङ्गदः। सोऽङ्गदेन रुषोत्सृष्टो वधायेन्द्रजितस्तरुः॥ जघानेन्द्रजितः पार्थ रथं साश्वं ससारथिम्। ततो हताश्वात् प्रस्कन्ध रथात् स हतसारथिः॥ तत्रैवान्तर्दधे राजन् मायया रावणात्मजः। अन्तर्हितं विदित्वा तं बहुमायं च राक्षसम्॥ रामस्तं देशमागम्य तत् सैन्यं पर्यरक्षत। स राममुद्दिश्य शरैस्ततो दत्तवरैस्तदा॥ 'विव्याध सर्वगात्रेषु लक्ष्मणं च महाबलम्। तमदृश्यं शरैः शूरौ माययान्तर्हितं तदा॥ योधयामासतुरुभौ रावणिं रामलक्ष्मणौ। स रुषा सर्वगात्रेषु तयोः पुरुषसिंहयोः॥ व्यसृजत् सायकान् भूयः शतशोऽथ सहस्रशः। तमदृश्यं विचिन्वन्तः सृजन्तमनिशं शरान्॥ हरयो विविशुफ्रेम प्रगृह्य महती: शिलाः। तांश्च तौ चाप्यदृश्यः स शरैर्विव्याधराक्षसः॥ स भृशं ताडयामास रावणिर्माययाऽऽवृतः। तौ शरैराचितौ वीरौ भ्रातरौ रामलक्ष्मणौ। पेततुर्गगनाद् भूमिं सूर्याचन्द्रमसाविव॥ मार्कण्डेय उवाच तावुभौ पतितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ। बबन्ध रावणिर्भूयः शरैर्दत्तवरैस्तदा॥ तौ वीरौ शरबन्धेन बद्धाविन्द्रजिता रणे। रेजतुः पुरुषव्याघ्रौ शकुन्ताविव पञ्जरे॥ तौ दृष्ट्वा पतितौ भूमौ शतशः सायकैश्चितौ। सुग्रीवः कपिभिः सार्धं परिवार्य ततः स्थितः॥ सुषेणमैन्दद्विविदैः कुमुदेनाङ्गदेन च। हनुमन्नीलतारैश्च नलेन च कपीश्वरः॥ ततस्तं देशमागम्य कृतकर्मा विभीषणः। बोधयामास तौ वीरौ प्रज्ञास्त्रेण प्रबोधितौ॥ विशल्यौ चापि सुग्रीवः क्षणेनैतौ चकार ह। विशल्यया महौषध्या दिव्यमन्त्रप्रयुक्तया॥ तौ लब्धसंज्ञौ नृवरौ विसल्यावुदतिष्ठताम्। गततन्द्रीक्लमौ चापि क्षणैनैतौ महारथौ॥ ततो विभीषणः पार्थ राममिक्ष्वाकुनन्दनम्। उवाच विज्वरं दृष्ट्वा कृताञ्जलिरिदं वचः॥ इदमम्भो गृहीत्वा तु राजराजस्य शासनात्। गुह्यकोऽभ्यागतः श्वेतात् त्वत्सकाशमरिन्दम॥ इदमम्भः कुबेरस्ते महाराजः प्रयच्छति। अन्तर्हितानां भूतानां दर्शनार्थं परंतप॥ अनेन मृष्टनयनो भूतान्यन्तर्हितान्युत। भवान् द्रक्ष्यति यस्मै च प्रदास्यति नरः स तु॥ तथेति रामस्तद् वाारि प्रतिगृह्याभिसंस्कृतम्। चकार नेत्रयोः शौचं लक्ष्मणश्च महामनाः॥ सुग्रीवजाम्बवन्तौ च हनुमानङ्गदस्तथा। मैन्दद्विविदनीलाश्च प्रायः प्लवगसत्तमाः॥ तथा समभवच्चापि यदुवाच विभीषणः। क्षणेनातीन्द्रियाण्येषां चढूंष्यासन् युधिष्ठिर॥ इन्द्रजित् कृतकर्मा च पित्रे कर्म तदाऽऽत्मनः। निवेद्य पुनरागच्छत् त्वरयाऽऽजिशिरः प्रति॥ तमापतन्तं संक्रुद्धं पुनरेव युयुत्सया। अभिदुद्राव सौमित्रिविभीषणमते स्थितः॥ अकृताह्निकमेवैनं जिघांसुर्जितकाशिनम्। शरैर्जघान संक्रुद्धः कृतसंज्ञोऽथ लक्ष्मणः।१७।। तयोः समभवद् युद्धं तदान्योन्यं जिगीषतोः। अतीव चित्रमाश्चर्यं शक्रप्रह्लादयोरिव॥ अविध्यदिन्द्रजित् तीक्ष्णैः सौमित्रिं मर्मभेदिभिः। सौमित्रिश्चानलस्पर्शेरविध्यद् रावणि शरैः॥ सौमित्रिशरसंस्पर्शाद् रावणिः क्रोधमूर्च्छितः। असृजल्लक्ष्मणायाष्टौ शरानाशीविषोपमान्॥ तस्यासून् पावकस्पर्शः सौमित्रिः पत्रिभिस्त्रिभिः। यथा निरहरद् वीरस्तन्मे निगदतः शृणुः॥ एकेनास्य धनुष्मन्तं बाहुं देहादपातयत्। द्वितीयेन सनाराचं भुजं भूमौ न्यपातयत्॥ तृतीयेन तु बाणेन पृथुधारेण भास्वता। जहार सुनसं चापि शिरो भ्राजिष्णुकुण्डलम्॥ विनिकृत्तभुजस्कन्धं कबन्धं भीमदर्शनम्। तं हत्वा सूतमप्यस्त्रैर्जघान बलिनां वरः॥ लङ्कां प्रवेशयामासुस्तं रथं वाजिनस्तदा। ददर्श रावणस्तं च रथं पुत्रविनाकृतम्॥ स पुत्रं निहतं ज्ञात्वा त्रासात् सम्भ्रान्तमानसः। रावणः शोकमोहा” वैदेहीं हन्तुमुद्यतः॥ अशोकवनिकास्थां तां रामदर्शनलालसाम्। खङ्गमादाय दुष्टात्मा जवेनाभिपपात ह॥ तं दृष्ट्वा तस्य दुर्बुद्धेरविन्ध्यः पापनिश्चयम्। शमयामास संक्रुद्धं श्रूयतां येन हेतुना॥ महाराज्ये स्थितो दीप्ते न स्त्रियं हन्तुमर्हसि। हतैवैषा यदा स्त्री च बन्धनस्था च ते वशे॥ न चैषा देहभेदेन हता स्यादिति मे मतिः। जहि भर्तारमेवास्याहते तस्मिन् हता भवेत्॥ न हि ते विक्रमे तुल्यः साक्षादपि शतक्रतुः। असकृद्धि त्वया सेन्द्रास्त्रासितास्त्रिदशा युधि॥ एवं बहुविधैर्वाक्यैरविन्थ्यो रावणं तदा। क्रुद्धं संशमयामास जगृहे च स तद्वचः॥ निर्याणे स मतिं कृत्वा निधायासिं क्षपाचरः। आज्ञापयामास तदा रथो मे कल्प्यतामिति॥ मार्कण्डेय उवाच ततः क्रुद्धो दशग्रीवः प्रिये पुढे निपातिते। निर्ययौ रथमास्थाय हेमरत्नविभूषितम्॥ स वृतो राक्षसैोरैर्विविधायुधपाणिभिः। अभिदुद्राव रामं स योधयन् हरियूथपान्॥ तमाद्रवन्तं संक्रुद्धं मैन्दनीलनलाङ्गदाः। हनूमाञ्जाम्बवांश्चैव ससैन्याः पर्यवारयन्॥ ते दशग्रीवसैन्यं तदृक्षावनरपुङ्गवाः। दुमैविध्वंसयांचक्रुर्दशग्रीवस्य पश्यतः॥ ततः स सैन्यमालोक्य वध्यमानमरातिभिः। मायावी चासृजन्मायां रावणो राक्षसाधिपः॥ तस्य देहविनिष्क्रान्ताः शतशोऽथ सहस्रशः। राक्षसाः प्रत्यदृश्यन्त शरशक्त्वृष्टिपाणयः॥ तान् रामो जघ्निवान् सर्वान् दिव्येनास्त्रेण राक्षसान्। अथ भूयोऽपि मायां स व्यदधाद् राक्षसाधिपः॥ कृत्वा रामस्य रूपाणि लक्ष्मणस्य च भारत। अभिदुद्राव रामं च लक्ष्मणं च दशाननः॥ ततस्ते राममार्छन्तो लक्ष्मणं च क्षपाचराः। अभिपेतुस्तदा रामं प्रगृहीतशरासनाः॥ तां दृष्ट्वा राक्षसेन्द्रस्य मायाभिक्ष्वाकुनन्दनः। उवाच रामं सौमित्रिरसम्भ्रान्तो बृहद् वचः॥ जहीमान् राक्षसान् पापानात्मनः प्रतिरूपकान्। जधान रामस्तांश्चान्यानात्मनः प्रतिरूपकान्॥ ततो हर्यश्वयुक्तेन रथेनादित्यवर्चसा। उपतस्थे रणे रामं मातलिः शक्रसारथिः॥ मातलिरुवाच अयं हर्यश्वयुग जैत्रो मघोनः स्पन्दनोत्तमः। अनेन शक्रः काकुत्स्थ समरे दैत्यदानवान्॥ शतशः पुरुषव्याघ्र रथोदारेण जजिवान्। तदनेन नरव्याघ्र मया यत्तेन संयुगे।॥ स्पन्दनेन जहि क्षिप्रं रावणं मा चिरं कृथाः। इत्युक्तो राघवस्तथ्यं वचोऽशङ्कत मातलेः॥ मायैषा राक्षसस्येति तमुवाच विभीषणः। नेयं माया नरव्याघ्र रावणस्य दुरात्मनः॥ तदातिष्ठ रथं शीघ्रमिममैन्द्रं महायुते। ततः प्रहृष्टः काकुत्स्थस्तथेत्युक्त्वा विभीषणम्॥ रथेनाभिपपाताथ दशग्रीवं रुषान्वितः। हाहाकृतानि भूतानि रावणे समभिद्रुते॥ सिंहनादाः सपटहा दिवि दिव्यास्तथानदन्। दशकन्धरराजसून्वोस्तथा युद्धमभून्महत्॥ अलब्धोपममन्यत्र तयोरेव तथाभवत्। स रामाय महाघोरं विससर्ज निशाचरः॥ शूलमिन्द्राशनिप्रख्यं ब्रह्मदण्डभिवोद्यतम्। तच्छूलं सत्वरं रामश्चिच्छेद निशितैः शरैः॥ तद् दृष्ट्वा दुष्करं कर्म रावणं भयमाविशत्। ततः क्रुद्धः ससर्जाशु दशग्रीवः शिताञ्छरान्॥ सहस्रायुतशो रामे शस्त्राणि विविधानि च। ततो भुशुण्डीः शूलानि मुसलानि परश्वधान्॥ शक्तीश्च विविधाकाराः शतमीश्च शितान् क्षुरान्। तां मायां विकृतां दृष्ट्वा दशग्रीवस्य रक्षसः॥ भयात् प्रदुदुवः सर्वे वानराः सर्वतोदिशम्। ततः सुपत्रं सुमुखं हेमपुल शरोत्तमम्॥ तूणादादाय काकुत्स्थो ब्रह्मास्त्रेण युयोज ह। तं बाणवर्यं रामेण ब्रह्मास्त्रेणानुमन्त्रितम्॥ जहषुर्देवगन्धर्वा दृष्ट्वा शक्रपुरोगमाः। अल्पावशेषमायुश्च ततोऽमन्यन्त रक्षसः॥ ब्रह्मास्त्रोदीरणाच्छनोर्देवदानवकिन्नराः। ततः ससर्ज तं रामः शरमप्रतिमौजसम्॥ रावणान्तकरं घोरं ब्रह्मदण्डमिवोद्यतम्। मुक्तमात्रेण रामेण दूराकृष्टेन भारत॥ स तेन राक्षसश्रेष्ठः सरथः साश्चसारथिः। प्रजज्वाल महाज्वालेनाग्निनाभिपरिप्लुतः॥ ततः प्रहृष्टास्त्रिदशाः सहगन्धर्वचारणाः। निहतं रावणं दृष्ट्वा रामेणाक्लिष्टकर्मणा॥ तत्यजुस्तं महाभागं पञ्च भूतानि रावणम्। भ्रंशितः सर्वलोकेभ्यः स हि ब्रह्मास्त्रतेजसा॥ शरीरधातवो ह्यस्य मांसं रुधिरमेव च। नेशुर्ब्रह्मास्त्रनिर्दग्धा न च भस्माप्यदृश्यत॥ मार्कण्डेय उवाच स हत्वा रावणं क्षुद्रं राक्षसेन्द्रं सुरद्विषम्। बभूव हृष्टः ससुहृद् रामः सौमित्रिणा सह॥ ततो हते दशग्रीवे देवाः सर्षिपुरोगमाः। आशीर्भिर्जययुक्ताभिरानचुस्तं महाभुजम्॥ रामं कमलपत्राक्षं तुष्टुवुः सर्वदेवताः। गन्धर्वाः पुष्पवर्षेच वाग्भिश्च त्रिदशालयाः॥ पूजयित्वा यथा रामं प्रतिजग्मुर्यथागतम्। तन्महोत्सवसंकाशमासीदाकाशमच्युत॥ ततो हत्वा दशग्रीवं लङ्कां रामो महायशाः। विभीषणाय प्रददौ प्रभुः परपुरञ्जयः॥ ततः सीतां पुरस्कृत्य विभीषणपुरस्कृताम्। अविध्यो नाम सुप्रज्ञो वृद्धामात्यो विनिर्ययौ॥ उवाच च महात्मानं काकुत्स्थं दैन्यमास्थितः। प्रतीच्छ देवीं सद्वृत्तां महात्मञ्जानकीमिति॥ एतच्छ्रुत्वा वचस्तस्मादवतीर्य रथोत्तमात्। बाष्पेणापिहितां सीतां ददशेक्ष्वाकुनन्दनः॥ तां दृष्ट्वा चारुसर्वाङ्गी यानस्थां शोककर्शिताम् मलोपचितसर्वाङ्गी जटिलां कृष्णवाससम्॥ उवाच रामो वैदेही परामर्शविशङ्कितः। गच्छ वैदेहि मुक्ता त्वं यत् कार्यं तन्मया कृतम्॥ मामासाद्य पतिं भद्रे न त्वं राक्षसवेश्मनि। जरां व्रजेथा इति मे निहतोऽसौ निशाचरः॥ कथं ह्यस्मद्विधो जातु जानन् धर्मविनिश्चयम्। परहस्तगतां नारी मुहूर्तमपि धारयेत्॥ सुवृत्तामसुवृत्तां वाप्यहं त्वामद्य मैथिलि। नोत्सहे परिभोगाय श्वावलीढं हविर्यथा॥ ततः सा सहसा बाला तच्छ्रुत्वा दारुणं वचः। पपात देवी व्यथिता निकृत्ता कदली यथा॥ योऽप्यस्या हर्षसम्भूतो मुखरागस्तदाभवत्। क्षणेन स पुनर्नष्टो निःश्वास इव दर्पणे॥ ततस्ते हरयः सर्वे तच्छ्रुत्वा रामभाषितम्। गतासुकल्पा निश्चेष्टा बभूवुः सहलक्ष्मणाः॥ ततो देवो विशुद्धात्मा विमानेन चतुर्मुखः। पायोनिर्जगत्स्रष्टा दर्शयामास राघवम्॥ शक्रश्चाग्निश्च वायुश्च यमो वरुण एव च। यक्षाधिपश्च भगवांस्तथा सप्तर्षयोऽमलाः॥ राजा दशरथश्चैव दिव्यभास्वरमूर्तिमान्। विमानेन महाहेण हंसयुक्तेन भास्वता॥ ततोऽन्तरिक्षं तत् सर्वं देवगन्धर्वसंकुलम्। शुशुभे तारकाचित्रं शरदीव नभस्तलम्॥ तत उत्थाय वैदेही तेषां मध्ये यशस्विनी। उवाच वाक्यं कल्याणी रामं पृथुलवक्षसम्॥ राजपुत्र न ते दोषं करोमि विदिता हि ते। गतिः स्त्रीणां नराणां च शृणु चेदं वचो मम॥ अन्तश्चरति भूतानां मातरिश्वा सदागतिः। स मे विमुञ्चतु प्राणान् यदि पापं चराम्यहम्॥ अग्निरापस्तथाऽऽकाशं पृथिवी वायुरेव च। विमुञ्चन्तु मम प्राणान् यदि पापं चराम्यहम्॥ यथाहं त्वदृते वीर नान्यं स्वप्नेऽप्यचिन्तयम्। तथा मे देवनिर्दिष्टस्त्वमेव हि पतिर्भव॥ ततोऽन्तरिक्षे वागासीत् सुभगा लोकसाक्षिणी। पुण्या संहर्षणी तेषां वानराणां महात्मनाम्॥ वायुरुवाच भो भो राघव सत्यं वै वायुरस्मि सदागतिः। अपापा मैथिली राजन् संगच्छ सह भार्यया॥ अग्निरुवाच अहमन्तःशरीरस्थो भूतानां रघुनन्दन। सुसूक्ष्ममपि काकुत्स्थ मैथिली नापराध्यति॥ वरुण उवाच रसा वै मतप्रसूता हि भूतदेहेषु राघव। अहं वै त्रां प्रब्रवीमि मैथिली प्रतिगृह्यताम्॥ ब्रह्मोवाच पुत्र नैतदिहाश्चर्यं त्वयि राजर्षिधर्मणि। साधो सद्वृत्त काकुत्स्थ शृणु चेदं वचो मम॥ शत्रुरेष त्वया वीर देवगन्धर्वभोगिनाम्। यक्षाणां दानवानां च महर्षीणां च पातितः॥३.।। अवध्यः सर्वभूतानां मत्प्रसादात् पुराभवत्। कस्माच्चित् कारणात् पापः कञ्चित् कालमुपेक्षितः॥ वधार्थमात्मनस्तेन हृता सीता दुरात्मना। नलकूबरशापेन रक्षा चास्याः कृता मया॥ यदि ह्यकामा सेवेत स्त्रियमन्यामपि ध्रुवम्। शतधास्य फलेन्मूर्धा इत्युक्तः सोऽभवत् पुरा॥ नात्र शङ्का त्वया कार्या प्रतीच्छेमां महाद्युते। कृतं त्वया महत् कार्यं देवानाममरप्रभ॥ दशरथ उवाच प्रीतोऽस्मि वत्स भद्रं ते पिता दशरथोऽस्मिते। अनुजानामि राज्यं च प्रशाधि पुरुषोत्तम॥ राम उवाच अभिवादये त्वां राजेन्द्र यदि त्वं जनको मम। गमिष्यामि पुरीं रम्यामयोध्यां शासनात् तव॥ मार्कण्डेय उवाच तमुवाच पिता गच्छायोध्यां प्रशाधीति रामं रक्तान्तलोचनम्॥ सम्पूर्णानीह वर्षाणि चतुर्दश महाद्युते। ततो देवान् नमस्कृत्य सुहृद्भिरभिनन्दितः॥ महेन्द्र इव पौलोम्या भार्यया स समेयिवान्। ततो वरं ददौ तस्मै ह्यविध्याय परंतपः॥ त्रिजटां चार्थमानाभ्यां योजयामास राक्षसीम्। भूयः प्रहृष्टो भरतर्षभ। तमुवाच ततो ब्रह्मा देवैः शक्रपुरोगमैः॥ कौसल्यामातरिष्टांस्ते वरानद्य ददानि कान्। वने रामः स्थितिं धर्मे शत्रुभिश्चापराजयम्॥ राक्षसैनिहतानां च वानराणां समुद्भवम्। ततस्ते ब्रह्मणा प्रोक्ते तथेति वचने तदा॥ समुत्तस्थुर्महाराज वानरा लब्धचेतसः। सीता चापि महाभागा वरं हनुमते ददौ॥ रामकीर्त्या समं पुत्र जीवितं ते भविष्यति। दिव्यास्त्वामुपभोगाश्च मत्प्रसादकृताः सदा॥ उपस्थास्यन्ति हनुमन्निति स्म हरिलोचन। ततस्ते प्रेक्षमाणानां तेषामक्लिष्टकर्मणाम्॥ अन्तर्धानं ययुर्देवाः सर्वे शक्रपुरोगमाः। दृष्ट्वा रामं तु जानक्या संगतं शक्रसारथिः॥ उवाच परमप्रीतः सुहृन्मध्य इदं वचः। वगन्धर्वयक्षाणां मानुषासुरभोगिनाम्॥ अपनीतं त्वया दुःखमिदं सत्यपराक्रम। सदेवासुरगन्धर्वा यक्षराक्षसपन्नगाः॥ कथयिष्यन्ति लोकास्त्वां यावद् भूमिर्धरिष्यति। इत्येवमुक्त्वानुज्ञाप्य रामं शस्त्रभृतां वरम्॥ सम्पूज्यापाक्रमत् तेन रथेनादित्यवर्चसा। ततः सीतां पुरस्कृत्य रामः सौमित्रिणा सह॥ सुग्रीवप्रमुखैश्चैव सहितः सर्ववानरैः। विधाय रक्षां लङ्कायां विभीषणपुरस्कृतः॥ संततार पुनस्तेन सेतुना मकरालयम्। पुष्पकेण विमानेन खेचरेण विराजता॥ कामगेन यथामुख्यैरमात्यैः संवृतो वशी। ततस्तीरे समुद्रस्य यत्र शिश्ये स पार्थिवः॥ तत्रैवोवास धर्मात्मा सहितः सर्ववानरैः। अथैनान् राघवः काले समानीयाभिपूजय च।॥ विसर्जयामास तदा रत्नैः संतोष्य सर्वशः। गतेषु वानरेन्द्रेषु गोपुच्छर्केषु तेषु च।॥ सुग्रीवसहितो रामः किष्किन्धां पुनरागमत्। विभीषणेनानुगतः सुग्रीवसहितस्तदा॥ पुष्पकेण विमानेन वैदेह्या दर्शयन् वनम्। किष्किन्धांत समासाद्य रामः प्रहरतां ववः॥ अङ्गदं कृतकर्माणं यौवराज्येऽभ्यषेचयत्। ततस्तैरेव सहितो रामः सौमित्रिणा सह॥ यथागतेन मार्गेण प्रययौ स्वपुरं प्रति। अयोध्यां स समासाद्य पुरीं राष्ट्रपतिस्ततः॥ भरताय हनूमन्तं दूतं प्रास्थापयत् तदा। लक्षयित्वेङ्गितं सर्वं प्रियं तस्मै निवेद्य वै॥ वायुपुत्रे पुनः प्राप्ते नन्दिग्राममुपागमत्। स तत्र मलदिग्धाङ्गं भरतं चीरवाससम्॥ अचतः पादुके कृत्वा ददर्शासीनमासने। संगतो भरतेनाथ शत्रुघ्नेन च वीर्यवान्॥ राघवः सहसौमित्रिर्मुमुदे भरतर्षभ। ततो भरतशत्रुघ्नौ समेतौ गुरुणा तदा॥ वैदेह्या दर्शनेनोभौ प्रहर्षं समवापतुः। तस्मै तद् भरतो राज्यमागतायातिसत्कृतम्। न्यासं निर्यातयामास युक्तः परमया मुदा॥ ततस्तं वैष्णवे शूरं नक्षत्रेऽभिमतेऽहनि। वसिष्ठो वामदेवश्च सहितावभ्यषिञ्चताम्॥ सोऽभिषिक्तः कपिश्रेष्ठं सुग्रीवं ससुहृज्जनम्। विभीषणं च पौलस्त्यमन्वजानाद् गृहान् प्रति॥ अभ्यर्च्य विविधैर्भोगैः प्रीतियुक्तौ मुदा युतौ। समाधायेतिकर्तव्यं दुःखेन विससर्ज ह॥ पुष्पकं च विमानं तत् पूजयित्वा स राघवः। प्रादाद् वैश्रवणायैव प्रीत्या स रघुनन्दनः॥ ततो देवर्षिसहितः सरितं गोमतीमनु। दशाश्वमेधानाजढे जारूथ्यान् स निरर्गलान्॥ मार्कण्डेय उवाच एवमेतन्महाबाहो रामेणामिततेजसा। प्राप्तं व्यसनमत्युचं वनवासकृतं पुरा॥ मा शुचः पुरुषव्याघ्र क्षत्रियोऽसि परंतप। बाहुवीर्याश्रिते मार्गे वर्तसे दीप्तनिर्णये॥ न हि ते वृजिनं किंचिद् वर्तते परमण्वपि। अस्मिन् मार्गे निषीदेयुः सेन्द्रा अपि सुरासुराः॥ संहत्य निहतो वृत्रो मरुद्भिर्वलापाणिना। नमुचिश्चैव दुर्धर्षो दीर्घजिह्वा च राक्षसी॥ सहायवति सर्वार्थाः संतिष्ठन्तीह सर्वशः। किं नु तस्याजितं संख्ये यस्य भ्राता धनंजयः॥ अयं च बलिनां श्रेष्ठो भीमो भीमपराक्रमः। युवानौ च महेष्वासौ वीरौ माद्रवतीसुतौ॥ एभिः सहायैः कस्मात् त्वं विषीदसि परंतप। य इमे वलिाणः सेनां जयेयुः समरुद्गणाम्॥ त्वमप्येभिर्महेष्वासैः सहायैर्देवरूपिभिः। विजेष्यसे रणे सर्वानमित्रान् भरतर्षभ॥ इतश्च त्वमिमां पश्य सैन्धवेन बलिना वीर्यमत्तेन हृतामेभिर्महात्मभिः॥ आनीतां द्रौपदी कृष्णां कृत्वा कर्म सुदुष्करम्। जयद्रथं च राजानं विजितं वशमागतम्॥ असहायेन रामेण वैदेही पुनराहता। हत्वा संख्ये दशग्रीवं राक्षसं भीमविक्रमम्॥ दुरात्मना। यस्य शाखामृगा मित्राण्यक्षाः कालमुखास्तथा। जात्यन्तरगता राजन्नेतद् बुद्ध्यानुचिन्तय॥ तस्मात् स त्वं कुरुश्रेष्ठ मा शुचो भरतर्षभ। त्वद्विधा हि महात्मानो न शोचन्ति परंतप॥ वैशम्पायन उवाच एवमाश्वासितो राजा मार्कण्डेयेन धीमता। त्यक्त्वा दुःखमदीनात्मा पुनरप्येनमब्रवीत्॥ मार्कण्डेय उवाच अथ मद्राधिपो राजा नारदेन समागतः। उपविष्टः सभामध्ये कथायोगेन भारत॥ ततोऽभिगम्य तीर्थानि सर्वाण्येवाश्रमांस्तथा। आजगाम पितुर्वेश्म सावित्री सह मन्त्रिभिः॥ नारदेन सहासीनं सा दृष्ट्वा पितरं शुभा। उभयोरेव शिरसा चक्रे पादाभिवादनम्॥ नारद उवाच क्व गदाभूत् सुतेयं ते कुतश्चैवागता नृप। किमर्थं युवती भत्रे न चैनां सम्प्रयच्छसि॥ अश्वपतिरुवाच कार्येण खल्वनेनैव प्रेषितायैव चागता। एतस्याः शृणु देवर्षे भर्तारं योऽनया वृतः॥ मार्कण्डेय उवाच सा ब्रूहि विस्तरेणेति पित्रा संचोदिता शुभा। तदैव तस्य वचनं प्रतिगृह्येदमब्रवीत्॥ सावित्र्युवाच आसीच्छाल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः। धुमत्सेन इति ख्यातः पश्चाच्चान्धो बभूव ह॥ विनष्टचक्षुषस्तस्य बालपुत्रस्य धीमतः। सामीप्येन हृतं राज्यं छिद्रेऽस्मिन् पूर्ववैरिणा॥ स बालवत्सया साधु भार्यया प्रस्थितो वनम्। महारण्यं गतश्चापि तपस्तेपे महाव्रतः॥ तस्य पुत्र पुरे जातः संवृद्धश्च तपोवने। सत्यवाननुरूपो मे भर्तेति मनसा वृतः॥ नारद उवाच अहो बत महत् पापं सावित्र्या नृपते कृतम्। अजानन्त्या यदनया गुणवान् सत्यवान् वृतः॥ सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते। तथास्य ब्राह्मणाश्चक्रुर्नामैतत् सत्यवानिति॥ बालस्याश्वाः प्रियाश्चास्य करोत्यश्वांश्च मृन्मयान्। चित्रेऽपि विलिखत्यश्वांश्चित्राश्व इति चोच्यते॥ राजोवाच अपीदानी स तेजस्वी बुद्धिमान् वा नृपात्मजः। क्षमावानपि वा शूरः सत्यवान् पितृवत्सलः॥ नारद उवाच विवस्वानिव तेजस्वी बृहस्पतिसमो मतौ। महेन्द्र इव वीस्थ वसुधेव समन्वितः॥ अश्वपतिरुवाच अपि राजात्मजो दाता ब्रह्मण्यश्चापि सत्यवान्। रूपवानप्युदारो वाप्यथवा प्रियदर्शनः॥ नारद उवाच सांकृते रन्तिदेवस्य स्वशक्त्या दानतः समः। ब्रह्मण्यः सत्यवादी न शिबिरौशीनरो यथा॥ ययातिरिव चोदारः सोमवत् प्रियदर्शनः। रूपेणान्यतमोऽश्विभ्यां धुमत्सेनसुतो बली॥ स दान्तः स मृदुः शूरः स सत्यः संयतेन्द्रियः। स मैत्रः सोऽनसूयश्च स ह्रीमान् द्युतिमांश्च सः॥ नित्यशश्चार्जवं तस्मिन् स्थितिस्तस्यैव च ध्रुवा। संक्षेपतस्तपोवृद्धैः शीलवृद्धश्च कथ्यते॥ अश्वपतिरुवाच गुणैरुपेतं सर्वैस्तं भगवन् प्रब्रवीषि मे। दोषानष्यस्य मे ब्रूहि यदि सन्तीह केचन॥ नारद उवाच एक एवास्य दोषो हि गुणानाक्रम्य तिष्ठति। स च दोषः प्रयत्नेन न शक्यमतिवर्तितुम्॥ एको दोषोऽस्ति नान्योऽस्य सोऽद्यप्रभृति सत्यवान्। संवत्सरेण क्षीणायुहन्यासं करिष्यति॥ राजोवाच एहि सावित्रि गच्छस्व अन्यं वरय शोभने। तस्य दोषो महानेको गुणानाक्रम्य च स्थितः॥ यथा मे भगवानाह नारदो देवस्तकृतः। संवत्सरेण सोऽल्पायुहन्यासं करिष्यति॥ सावित्र्युवाच सकृदंशो निपतति सकृत् कन्या प्रदीयते। सकृदाह ददानीति त्रीण्येतानि सकृत् सकृत्॥ दीर्घायुरथवाल्पायुः सगुणो निर्गुणोऽपि वा। सकृद् वृतो मया भर्ता न द्वितीयं वृणोम्यहम्॥ मनसा निश्चयं कृत्वा ततो वाचाभिधीयते। क्रियते कर्मणा पश्चात् प्रमाणं मे मनस्ततः॥ नारद उवाच स्थिरा बुद्धिर्नरश्रेष्ठ सावित्र्या दुहितुस्तव। नैष वारयितुं शक्या धर्मादस्मात् कथंचन॥ नान्यस्मिन् पुरुषे सन्ति ये सत्यवति वै गुणाः। प्रदानमेव तस्मान्मे रोचते दुहितुस्तव॥ राजोवाच अविचाल्यं तदुक्तं यत् तथ्यं भगवता वचः। करिष्याम्येतदेवं च गुरुर्हि भगवान् मम॥ नारद उवाच अविघ्नमस्तु सावित्र्याः प्रदाने दुहितुस्तव। साधयिष्याम्यहं तावत् सर्वेषां भद्रमस्तु वः॥ मार्कण्डेय उवाच एवमुक्त्वा समुत्पत्य नारदस्त्रिदिवं गतः। राजापि दुहितुः सज्जं वैवाहिकमकारयत्॥ मार्कण्डेय उवाच अथ कन्याप्रदाने स तमेवार्थं विचिन्तयन्। समानिन्ये च तत् सर्वं भाण्डं वैवाहिकं नृपः॥ ततो वृद्धान् द्विजान् सर्वानृत्विजः सपुरोहितान्। समाहूय दिने पुण्ये प्रययौ सह कन्यया॥ मेध्यारण्यं स गत्वा च धुमत्सेनाश्रमं नृपः। पद्भ्यामेव द्विजैः सार्धं राजर्षि तमुपागमत्॥ तत्रापश्यन्महाभाग शालवृक्षमुपाश्रितम्। कौश्यां बृस्यां समासीनं चक्षुर्हीनं नृपं तदा॥ स राजा तस्य राजर्षेः कृत्वा पूजां यथार्हतः। वाचा सुनियतो भूत्वा चकारात्मनिवेदनम्॥ तस्यार्थ्यमासनं चैव गां चावेद्य स धर्मवित्। किमागमनमित्येवं राजा राजानमब्रवीत्॥ तस्य सर्वमभिप्रायमितिकर्तव्यतां च ताम्। सत्यवन्तं समुद्दिश्य सर्वमेव न्यवेदयत्॥ अश्वपतिरुवाच सावित्री नाम राजर्षे कन्येयं मम शोभना। तां स्वधर्मेण धर्मज्ञ स्नुषार्थे त्वं गृहाण मे॥ धुमत्सेन उवाच श्वराम धर्म नियतास्तपस्विनः। कथं त्वनीं वनवासमाश्रमे निवत्स्यते क्लेशमिमं सुता तव॥ अश्वपतिरुवाच सुखं च दुःखं च भवाभवात्मकं यदा विजानाति सुताहमेव च। न मद्विधे युज्यति राक्यमीदृशं विनिश्चयेनाभिगतोऽस्मि ते नृप॥ आशां नार्हसि मे हन्तुं सौहृदात् प्रणतस्य च। अभितश्चागतं प्रेम्णा प्रत्याख्यातुं न मार्हसि॥ अनुरूपो हि युक्तश्च त्वं ममाहं तवापि च। स्नुषां प्रतीच्छ मे कन्यां भार्यां सत्यवतः सतः॥ धुमत्सेन उवाच पूर्वमेवाभिलषितः सम्बन्धो मे त्वया सह। भ्रष्टराज्यस्त्वहमिति तत एतद् विचारितम्॥ अभिप्रायस्त्वयं यो मे पूर्वमेवाभिकाक्षितः। स निर्वर्ततु मेऽद्यैव काक्षितो ह्यसि मेऽतिथिः॥ ततः सर्वान् समानाय्य द्विजानाश्रमवासिनः। यथाविधि समुद्वाहं कारयामासतुनृपौ॥ दत्त्वा सोऽश्वपतिः कन्यां यथार्ह सपिरच्छदम्। ययौ स्वमेव भवनं युक्तः परमया मुदा॥ सत्यवानपि तां भार्यां लब्ध्वा सर्वगुणान्विताम्। मुमुदे सा च तं लब्ध्वा भर्तारं मनसेप्सितम्॥ गते पितरि सर्वाणि संन्यस्याभरणानि सा। जगृहे वल्कलान्येव वस्त्रं काषायमेव च॥ परिचारैर्गुणैश्चैव प्रश्रयेण दमेन च। सर्वकामक्रियाभिश्च सर्वेषां तुष्टिमादधे॥ शुश्रू शरीरसत्कारैः सर्वैराच्छादनादिभिः। श्वशुरं देवसत्कारैर्वाचः संयमनेन च॥ तथैव प्रियवादेन नैपुणेन शमेन च। रहाचैवोपचारेण भर्तारं पर्यतोषयत्॥ एवं तत्राश्रमे तेषां तदा निवसतां सताम्। कालस्तपस्यतां कश्चिदपाक्रामत भारत॥ सावित्र्या ग्लायमानायास्तिष्ठन्त्यास्तु दिवानिशम्। नारदेन यदुक्तं तद् वाक्यं मनसि वर्तते॥ मार्कण्डेय उवाच ततः काले बहुतिथे व्यतिक्रान्ते कदाचन। प्राप्तः स कालो मर्तव्यं यत्र स्तयवता नृप॥ गणयन्त्याश्च सावित्र्या दिवसे दिवसे गते। यद् वाक्यं नारदेनोक्तं वर्तते हृदि नित्यशः॥ चतुर्थेऽहनि मर्तव्यमिति संचिन्त्य भाविनी। व्रतः त्रिरात्रमुद्दिश्य दिवारानं स्थिताभवत्॥ तं श्रुत्वा नियमं तस्या भृशं दुःखान्वितो नृपः। उत्थाय वाक्यं सावित्रीमब्रवीत् परिसान्त्वयन्॥ द्युमत्सेन उवाच अतितीव्रोऽयमारम्भस्त्वयाऽऽरब्धो नृपात्मजे। तिसृणां वससीतनां हि स्थानं परमदुश्चरम्॥ सावित्र्युवाच न कार्यस्तात संताप: पारयिष्याम्यहं व्रतम्। व्यवसायकृतं हीदं व्यवसायश्च कारणम्॥ धुमत्सेन उवाच व्रतं भिन्धीति वक्तुं त्वां नास्मि शक्तः कथञ्चन। पारयस्येति वचनं युक्तमस्मद्विधो वदेत्॥ मार्कण्डेय उवाच एवमुक्त्वा धुमत्सेनो विरराम महामनाः। तिष्ठन्ती चैव सावित्री काष्ठभूतेव लक्ष्यते॥ श्वोभूते भर्तृमरणे सावित्र्या भरतर्षभ। दुःखान्वितायास्तिष्ठन्त्याः सा रात्रिर्व्यत्यवर्तत॥ अद्य तद् दिवसं चेति हुत्वा दीप्तं हुताशनम्। युगमात्रोदिते सूर्ये कृत्वा पौर्वाहिणकी: क्रियाः॥ ततः सर्वान् द्विजान् वृद्धान् श्व श्वशुरमेव च। अभिवाद्यानुपूर्येण प्राञ्जलिर्नियता स्थिता॥ अवैधव्याशिषस्ते तु सावित्र्यर्थं हिताः शुभाः। ऊचुस्तपस्विनः सर्वे तपोवननिवासिनः॥ एवमस्त्विति सावित्री ध्यानयोगपरायणा। मनसा ता गिरः सर्वा प्रत्यगृह्णात् तपस्विनाम्॥ तं कालं तं मुहूर्तं च प्रतीक्षन्ती नृपात्मजा। यथोक्तं नारदवचश्चिन्तयन्ती सुदुःखिता॥ ततस्तु श्वश्रूश्वशुरावूचतुस्तां नृपात्मजाम्। एकान्तमास्थितां वाक्यं प्रीत्या भरतसत्तम॥ श्वशुरावूचतुः व्रतं यथोपदिष्टं तु तथा तत् पारितं त्वया। आहारकालः सम्प्राप्तः क्रियतां यदनन्तरम्॥ सावित्र्युवाच अस्तं गते मयाऽऽदित्ये भोक्तव्यं कृतकामया। एष मे हृदि संकल्प: समयश्च कृतो मया॥ मार्कण्डेय उवाच एवं सम्भाषणाणायाः सावित्र्या भोजनं प्रति। स्कन्धे परशुमादाय सत्यवान् प्रस्थितो वनम्॥ सावित्री त्वाह भर्तारं नैकस्त्वं गन्तुमर्हसि। सह त्वया गमिष्यामि न हि त्वां हातुमुत्सहे॥ सत्यावानुवाच वनं न गतपूर्वं ते दुःखः पन्थाश्च भाविनि। व्रोतपवासक्षामा च कथं पद्भ्यां गमिष्यसि॥ सावित्र्युवाच उपवासान्न मे ग्लानिर्नास्ति चापि परिश्रमः। गमने च कृतोत्साहां प्रतिषेढुं न मार्हसि।॥ सत्यवानुवाच यदि ते गमनोत्साहः करिष्यामि तव प्रियम्। मम त्वामन्त्रय गुरून् न मां दोषः स्पृशेदयम्॥ मार्कण्डेय उवाच साभिवाद्याब्रवीच्छ्वधू श्वशुरं च महाव्रता। अयं गच्छति मे भर्ता फलाहारो महावनम्॥ इच्छेयमभ्यनुज्ञाता आर्यया श्वशुरेण ह। अनेन सह निर्गन्तुं न मेऽद्य विरहः क्षमः॥ गुर्वग्निहोत्रार्थकृते प्रस्थितश्च सुतस्तव। न निवार्यो निवार्यः स्यादन्यथा प्रस्थितो वनम्॥ संवत्सरः किंचिदूनो न निष्क्रान्ताहमाश्रमात्। वनं कुसुमितं द्रष्टुं परं कौतूहलं हि मे॥ द्युमत्सेन उवाच यतः प्रभृति सावित्री पित्रा दत्ता स्नुषा मम। नानयाभ्यर्थनायुक्तमुक्तपूर्वं स्मराम्यहम्॥ तदेषा लभतां कामं यथाभिलषितं वधूः। अप्रमादश्च कर्तव्यः पुत्रि सत्यवतः पथि॥ मार्कण्डेय उवाच उभाब्यामभ्यनुज्ञाता सा जगाम यशस्विनी। सह भ; हसन्तीव हृदयेन विदूयता॥ सा वनानि विचित्राणि रमणीयानि सर्वशः। मयूरगणजुष्टानि ददर्श विपुलेक्षणा॥३ नदीः पुण्यवहाश्चैव पुष्पितांश्च नगोत्तमान्। सत्यवानाह पश्येति सावित्री मधुरं वचः॥ निरीक्षमाणा भर्तारं स्रवावस्थमनिन्दिता। मृतमेव हि भर्तारं काले मुनिवचः स्मरन्॥ अनुव्रजन्ती भर्तारं जगाम मृदुगामिनी। द्विधेष हृदयं कृत्वा तं च कालमवेक्षती॥ मार्कण्डेय उवाच अथ भार्यासहायः स फलान्यादाय वीर्यवान्। कठिनं पूरयामास ततः काष्ठान्यपाटयत्॥ तस्य पाटयतः काष्ठं स्वेदो वै समजायत। व्यायामेन च तेनास्य जज्ञे शिरसि वेदना॥ सोऽभिगम्य प्रियां भार्यामुवाच श्रमपिडितः। सत्यावानुवाच व्यायामेन ममानेन जाता शिरसि वेदना॥ अङ्गानि चैव सावित्रि हृदयं दूयतीव च। अस्वस्थमिव चात्मानं लक्षये मितभाषिणी॥ शूलैरिव शिरो विद्धमिदं संलक्षयाम्यहम्। तत् खप्तुमिच्छे कल्याणि न स्थातुं शक्तिरस्ति मे॥ सा समासाद्य सावित्री भर्तारमुपगम्य च। उत्सङ्गेऽस्य शिरः कृत्वा निषसाद महीतले॥ ततः सा नारदवचो विमृशन्ती तपस्विनी। तं मुहूर्त क्षणं बेला दिवसं च युयोज ह॥ मुहूर्तादेव चापश्यत् पुरुषं रक्तवाससम्। बद्धमौलिं वपुष्मन्तमादित्यसमतेजसम्॥ श्यामावदातं रक्ताक्षं पाशहस्तं भयावहम्। स्थितं सत्यवतः पार्श्वे निरीक्षन्तं तमेव च॥ तं दृष्ट्वा सहसोत्थाय भर्तुर्यस्य शनैः शिरः। कृताञ्जलिरुवाचार्ता हृदयेन प्रवेपती॥ सावित्र्युवाच दैवतं त्वाभिजानामि वपुरेतद्ध्यमानुषम्। कामया ब्रूहि देवेश कस्त्वं किं च चिकीर्षसि॥ यम उवाच पतिव्रततासि सावित्रि तथैव च तपोऽन्विता। अतस्त्वामबिबाषामि विद्धि मां त्वं शुभे यमम्॥ अयं ते सत्यवान भर्ता क्षीणायुः पार्थिवात्मजः। नेष्यामि तमहं बद्ध्वा विद्ध्यतन्मे चिकीर्षितम्॥ सावित्र्युवाच श्रूयते भगवन् दूतास्तवागच्छन्ति मानवान्। नेतुं किल भवान् कस्मादागतोऽसि स्वयं प्रभो॥ मार्कण्डेय उवाच इत्युक्तः पितृराजस्तां भगवान् स्वचिकीर्षितम्। यथावत् सर्वमाख्यातुं तत्प्रियार्थं प्रचक्रमे॥ अयं च धर्मसंयुक्तो रूपवान् गुणसागरः। ना) मत्पुरुषैर्नेतुमतोऽस्मि स्वयमागतः॥ ततः सत्यवतः कायात् पाशबद्धं वशं गतम्। अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्॥ ततः समुद्धृतप्राणं गतश्वासं हतप्रभम्। निर्विचेष्टं शरीरं तद् बभूवाप्रियददर्शनम्॥ यमस्तु तं ततो बद्ध्वा प्रयातो दक्षिणामुखः। सावित्री चैव दुःखार्ता यममेवान्वगच्छत। नियमव्रतसंसिद्धा महाभागा पतिव्रता॥ यम उवाच निवर्त गच्छ सावित्री कुरुष्वास्यौर्ध्वदेहिकम्। कृतं भर्तुस्त्वयाऽऽनृण्यं यावद् गम्यं गतं त्वया॥ सावित्र्युवाच यत्र मे नीयते भर्ता स्वयं वा यत्र गच्छति। मया च तत्र गन्तव्यमेष धर्मः सनातनः॥ तपसा गुरुभक्त्या च भर्तुः स्नेहाद् व्रतेन च। तव चैव प्रसादेन न मे प्रतिहता गतिः॥ प्राहुः साप्तपदं मैत्रं बुधास्तत्त्वार्थदर्शिनः। मित्रतां च पुरस्कृत्य किञ्चिद् वक्ष्यामि तच्छृणु॥ नानात्मवन्तस्तु वने चरन्ति धर्मं च वासं च परिश्रमं च। विज्ञानतो धर्ममुदाहरन्ति तस्मात् सन्तो धर्ममाहुः प्रधानम्॥ एकस्य धर्मेण सतां मतेन सर्वे स्म तं मार्गमनुप्रपन्नाः। मा वै द्वितीयं मा तृतीयं च वाञ्छेत् तस्मात् सन्तो धर्ममाहुः प्रधानम्॥ यम उवाच निवर्त तुष्टोऽस्मि तवानया गिरा स्वराक्षरव्यञ्जनहेतुयुक्तया। वरं वृणीष्वेह विनास्य जीवितं ददानि ते सर्वमनिन्दिते वरम्॥ सावित्र्युवाच च्युतः स्वराज्याद् वनवासमाश्रितो विनष्टचक्षुः श्वशुरो ममाश्रमे। स्तव प्रसादाज्ज्दलनार्क संनिभः॥ यम उवाच ददानि तेऽहं तमनिन्दिते वरं यथा त्वयोक्तं भविता च तत् तथा। तवाध्वना ग्लानिमिवोपलक्षये निवर्त गच्छस्व न ते श्रमो भवेत्॥ सुरेश भूयश्च सावित्र्युवाच श्रमः कुतो भर्तृसमीपतो हि मे यतो हि भर्ता मम सा गतिधुवा। यतः पति नेष्यसि तत्र मे गतिः वचो निबोध मे॥ सतां सकृत्संगतमीप्सितं परं ततः परं मित्रमिति प्रचक्षते। न चाफलं सत्पुरुषेण सङ्गतं ततः सतां सन्निवसेत् सपागमे॥ यम उवाच मनोऽनुकूलं बुधबुद्धिवर्धनं त्वया यदुक्तं वचनं हिताश्रयम्। विना पुनः सत्यवतोऽस्य जीवितं वरं द्वितीयं वरयस्व भामिनि॥ सावित्र्युवाच हृतं पुरा मे स्वशुरस्य धीमतः स्वमेव राज्यं लभतां स पार्थिवः। जह्यात् स्वधर्मं न च मे गुरुर्यथा द्वितीयमेतद् वरयामि ते वरम्॥ यम उवाच न च स्वधर्मात् परिहास्यते नृपः। कृतेन कामेन मया नृपात्मजे निवर्तगच्छस्व न ते श्रमो भवेत्॥ सावित्र्युवाच पतास्त्वयैता नियमेन संयता नियम्य चैता नयसे निकामया। ततो यमत्वं तव देव विश्रुतं निबोध चेमां गिरमीरितां मया॥ अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा। अनुग्रहश्च दानं च सतां धर्मः सनातनः॥ एवंप्रायश्च लोकोऽयं मनुष्याः शक्तिपेशलाः। सन्तस्त्वेवाप्यमित्रेषु दयां प्राप्तेषु कुर्वते॥ यम उवाच स्तथा त्वया वाक्यमिदं समीरितम्। विना पुनः सत्यवतोऽस्य जीवितं वरं वृणीष्वेह शुभे यदिच्छसि॥ सावित्र्युवाच ममानपत्यः पृथिवीपतिः पिता भवेत् पितुः पुत्रशतं तथौरसम्। कुलस्य सन्तानकरं च यद् भवेत् तृतीयमेतद् वरयामि ते वरम्॥ यम उवाच कुलस्य सन्तानकरं सुवर्चसं शतं सुतानां पितुरस्तु ते शुभे! कृतेन कामेन नराधिपात्मजे निवर्त दूरं हि पथस्त्वमागता॥ सावित्र्युवाच न दूरमेतन्मम भर्तृसंनिधौ मनो हि मे दूरतरं प्रधावति। अथ व्रजन्नेव गिरं समुद्यतां मयोच्यमानां शृणु भूय एव च॥ स्ततो हि वैवस्वत उच्यसे बुधैः। स्ततस्तवेहेश्वर धर्मराजता॥ आत्मन्यपि न विश्वासस्तथा भवति सत्सु यः। तस्मात् सत्सु विशेषेण सर्वः प्रणयमिच्छति॥ सौहृदात् सर्वभूतानां विश्वासो नाम जायते। तस्मात् सत्सु विशेषेण विश्वासं कुरुते जनः॥ यम उवाच उदाहृतं ते वचनं यदङ्गने शुभे न तादृक् त्वदृते श्रुतं मया। अनेन तुष्टोऽस्मि विनास्य जीवितं वरं चतुर्थं वरयस्व गच्छ च॥ सावित्र्युवाच ममात्मजं सत्यवतस्तथौरसं भवेदुभाभ्यामिह यत् कुलोद्वहम्। मिदं चतुर्थं वरयामि ते वरम्॥ यम उवाच शतं सुतानां बलवीर्यशालिनां भविष्यति प्रीतिकरं तवाबले। परिश्रमस्ते न भवेनृपात्मजे निवर्त दूरं हि पथस्त्वमागता॥ सावित्र्युवाच सतां सदा शाश्वतधर्मवृत्तिः सन्तो न सीदन्ति न च व्यथन्ति। सतां सद्धि फलंः सङ्गमोऽस्ति सद्भयो भयं नानुवर्तन्ति सन्तः॥ सन्तो हि सत्येन नयन्ति सूर्यं सन्तो भूमिं तपसा धारयन्ति। सन्तो गतिर्भूतभव्यस्य राजन् सतां मध्ये नावसीदन्ति सन्तः॥ आर्यजुष्टमिदं वृत्तमिति विज्ञाय शाश्वतम्। सन्तः परार्थं कुर्वाणा नावेक्षन्ति परस्परम्॥ न च प्रसादः सत्पुरुषेषु मोघो न चाप्यर्थो नश्यति नापि मानः। यस्मादेतन्नियतं सत्सु नित्यं तस्मात् सन्तो रक्षितारो भवन्ति॥ यम उवाच यथा यथा भाषसि धर्मसंहितं मनोऽनुकूलं सुपदं महार्थवत्। तथा तथा मे त्वयि भक्तिरुत्तमा वरं वृणीष्वाप्रतिमं पतिव्रते॥ सावित्र्युवाच स्तथा यथान्येषु वरेषु मानद। वरं वृणे जीवतु सत्यवानयं यथा मृता ह्येवमहं पतिं विना॥ न कामये भर्तृविनाकृता सुखं न कामये भर्तृविनाकृता दिवम्। न कामये भर्तृविनाकृता श्रियं न भर्तृहीना व्यवसामि जीवितुम्॥ वरातिसर्ग: शतपुत्रता मम त्वयैव दत्तो ह्रियते च मे पतिः। वरं वृणे जीवतु सत्यवानयं तवैव सत्यं वचनं भविष्यति॥ मार्कण्डेय उवाच तथेत्युक्त्वा तु तं पाशं मुक्त्वा वैवस्वतो यमः। धर्मराजः प्रहृष्टात्मा सावित्रीमिदमब्रवीत्॥ एष भद्रे मया मुक्तो भर्ता ते कुलनन्दिनि। अरोगस्तव नेयश्च सिदार्थः स भविष्यति॥ चतुर्वर्षशतायुश्च त्वया सार्धमवाप्स्यति। इष्ट्वा यज्ञैश्च धर्मेण ख्यातिं लोके गमिष्यति॥ त्वयि पुत्रशतं चैव सत्यवाञ्जनयिष्यति। ते चापि सर्वे राजानः क्षत्रियाः पुत्रपौत्रिणः॥ ख्यातास्त्वन्नामधेयाश्च भविष्यन्तीह शाश्वताः। पितुश्च ते पुत्रशतं भविता तव मातरि॥ मालव्यां मालवा नाम शाश्वताः पुत्रपौत्रिणः। भ्रातरस्ते भविष्यन्ति क्षत्रियास्त्रिदशोपमाः॥ एवं तस्यै वरं दत्त्वा धर्मराजः प्रतापवान्। निवर्तयित्वा सावित्रीं स्वमेव भवनं ययौ॥ सावित्र्यपि यमे याते भर्तारं प्रतिलभ्य च। जगाम तत्र यत्रास्या भर्तुः शावं कलेवरम्॥ सा भूमौ प्रेक्ष्य भर्तारमुपसृत्योपगृह्य च। उत्सङ्गे शिर आरोप्य भूमावुपविवेश ह॥ संज्ञां च स पुनर्लब्ध्वा सावित्रीमभ्यभाषत। प्रोष्यागत इव प्रेम्णा पुनः पुनरुदीक्ष्य वै॥ सत्यवानुवाच सुचिरं बत सुप्तोऽस्मि किमर्थं नावबोधितः। क्व चासौ पुरुष: श्यामो योऽसौ मां संचकर्ष ह।।६५। सावित्र्युवाच सुचिरं त्वं प्रसुप्तोऽसि ममाङ्के पुरुषर्षभ। गतः स भगवान् देवः प्रजायसंयमनो यमः॥ विश्रान्तोऽसि महाभाग विनिद्रश्च नृपात्मज! यदि शक्यं समुत्तिष्ठ विगाढां पश्य शर्वरीम्॥ मार्कण्डेय उवाच उपलभ्य ततः संज्ञां सुखसुप्त इवोत्थितः। दिशः सर्वा वनान्तांश्च निरीक्ष्योवाच सत्यवान्॥ फलाहारोऽस्मि निष्क्रान्तस्त्वया सह सुमध्यमे। ततः पाटयत: काष्ठं शिरसो मे रुजाभवत्॥ शिरोऽभितापसंतप्तः स्थातुं चिरमशक्नुवन्। तवोत्सङ्गे प्रसुप्तोऽस्मि इति सर्वं स्मरे शुभे॥ त्वयोपगूढस्य च मे निद्रयापहृतं मनः। ततोऽपश्यं तमो घोरं पुरुषं च महौजसम्॥७११ तद् यदि त्वं विजानासि किं तद् ब्रूहि सुमध्यमे। स्वप्नो मे यदि वा दृष्टो यदि वा सत्यमेव तत्॥ तमुवाचाथ सावित्री रजनी व्यवगाहते। वस्ते सर्वं यथावृत्तमाख्यास्यामि नृपात्मज॥ उत्तिष्ठोत्तिष्ठ भद्रं ते पितरौ पश्य सुव्रत। विगाढा रजनी चेयं निवृत्तश्च दिवाकरः॥ नक्तंचराचरन्त्येते हृष्टाः क्रूराभिभाषिणः। श्रूयन्ते पर्णशब्दाश्च मृगाणां चरतां वने॥ एता घोरं शिवा नादान दिशं दक्षिणपश्चिमाम्। आस्थाय विरुवन्त्युचाः कम्पयन्त्यो मनो मम॥ सत्यवानुवाच वनं प्रतिभयाकारं घनेन तमसाऽऽवृतम्। न विज्ञास्यसि पन्थानं गन्तुं चैव न शक्ष्यसि॥ सावित्र्युवाच अस्मिन्नद्य वने दग्धे शुष्कवृक्षः स्थितो ज्वलन्। वायुना धम्यमानोऽत्र दृश्यतेऽग्निः क्वचित् क्वचित्।।७८ ततोऽग्निमानयित्वेह ज्वालयिष्यामि सर्वतः। काष्ठानीमानि सन्तीह जहि सन्तापमात्मनः॥ यदि नोत्सहसे गन्तुं सरुजं त्वां हि लक्षये। न च ज्ञास्यसि पन्थानं तमसा संवृते वने॥ श्वः प्रभाते वने दृश्ये यास्यावोऽनुमते तव। वसावेह क्षपामेकां रुचितं यदि तेऽनघ॥ सत्यवानुवाच शिरोरुजा निवृत्ता मे स्वस्थान्यङ्गानि लक्षये। मातापितृभ्यामिच्छामि संगमं त्वत्प्रसादजम्॥ न कदाजिद् विकालं हि गतपूर्वो मयाऽऽश्रमः। अनागतायां सन्ध्यायां माता मे प्ररुणद्धि माम्॥ दिवापि मयि निष्क्रान्ते संतष्येते गुरू मम। विचिनोति हि मां तातः सहैवाश्रमवासिभिः॥ मात्रा पित्रा च सुभृशं दुःखिताभ्यामहं पुरा। उपालब्धश्च बहुशश्चिरेणागच्छसीति ह॥ का त्ववस्था तयोरद्य मदर्थमिति चिन्तये। तयोरदृश्ये मयि च महद् दुःखं भविष्यति॥ पुरा मामूचतुश्चैव रात्रावस्रायमाणको। भृशं सुदुःखितौ वृद्धौ बहुशः प्रीतिसंयुतौ॥ त्वया हीनौ न जीवाव मुहूर्तमपि पुत्रका यावद् धरिष्यसे पुत्र तावन्नौ जीवितं ध्रुवम्॥ वृद्धयोरन्धयोदृष्टिस्त्वयि वंशः प्रतिष्ठितः। त्वयि पिण्डश्च कीर्तिश्च संतानं चावयोरिति॥ माता वृद्धा पिता वृद्धस्तयोर्यष्टिरहं किल। तौ रात्रौ मामपश्यन्तौ कामवस्थां गमिष्यतः॥ निद्रायाश्चाभ्यसूयामि यस्या हेतोः पिता मम। माता च संशयं प्राप्ता मत्कृतेऽनपकारिणी॥ अहं च संशयं प्राप्तः कृच्छ्रामापदमास्थितः। मातापितृभ्यां हि विना नाहं जीवितुमुत्सहे॥ व्यक्तमाकुलया बुद्ध्या प्रज्ञाचक्षुः पिता मम। एकैकमस्यां वेलायां पृच्छत्याश्रमवासिनम्॥ नात्मानमनुशोचामि यथाहं पितरं शुभे। भर्तारं चाप्यनुगतां मातरं परिदुर्बलाम्॥ मत्कृतेन हि तावद्य सन्तापं परमेध्यतः। जीवन्तावनुजीवामि भर्तव्यौ तौ मयेति ह॥ तयोः प्रियं मे कर्तव्यमिति जानामि चाप्यहम्। मार्कण्डेय उवाच एवमुक्त्वा स धर्मात्मा गुरुभक्तो गुरुप्रियः॥ उच्छ्रित्य बाहू दुःखार्तः सुस्वरं प्ररुरोद ह। ततोऽब्रवीत् तथा दृष्ट्वा भर्तारं शोककर्शितम्॥ प्रमृज्याश्रूणि नेत्राभ्यां सावित्री धर्मचारिणी। यदि मेऽस्ति तपस्तप्तं यदि दत्तं हुतं यदि॥ शुश्रूश्वशुरभर्तृणां मम पुण्यास्तु शर्वरी। न स्मराम्युक्तपूर्वं वै स्वैरेष्वप्यनृतां गिरम्॥ तेन सत्येन तावद्य ध्रियेतां श्वशुरौ ममा सत्यवानुवाच कामये दर्शनं पित्रोर्याहि सावित्रि मा चिरम्॥ पुरा मातुः पितुर्वापि यदि पश्यामि विप्रियम्। न जीविष्ये वरारोहे सत्येनात्मानमालभे॥ यदि धर्मे च ते बुद्धिर्मा चेज्जीवन्तमिच्छसि। मम प्रियं वा कर्तव्यं गच्छावाश्रममन्तिकात्॥ मार्कण्डेय उवाच सावित्री तत उत्थाय केशान् संयम्य भाविनी। पतिमुत्थापयामास बाहुभ्यां परिगृह्य वै॥ उत्थाय सत्यवांश्चापि प्रमृज्याङ्गानि पाणिना। सर्वा दिशः समालोक्य कठिने दृष्टिमादधे॥ तमुवाचाथ सावित्री श्वः फलानि हरिष्यसि। योगक्षेमार्थमेतं ते नेष्यामि परशुं त्वहम्॥ कृत्वा कठिनभारं सा वृक्षशाखावलम्बिनम्। गृहीत्वा परशुं भर्तुः सकाशे पुनरागमत्॥ वामे स्कन्धे तु वामोरूर्भर्तुर्बाहुं निवेश्य च। दक्षिणेन परिष्वज्य जगाम गजगामिनी॥ सत्यवानुवाच अभ्यासगमनाद् भीरु पन्थानो विदिता मम। वृक्षान्तरालोकितया ज्योत्स्नया चापि लक्षये॥ आगतौ स्वः पथा येन पलान्यवचितानि च। यथागतं शुभे गच्छ पन्थानं मा विचारय॥ पलाशखण्डे चैतस्मिन् पन्था व्यावर्तते द्विधा। तस्योत्तरेण यः पन्थास्तेन गच्छ त्वरस्व च॥ स्वस्थोऽस्मि बलवानस्मि दिदृक्षुः पितरावुभौ। मार्कण्डेय उवाच ब्रुवन्नेवं त्वरायुक्तः सम्प्रायादाश्रमं प्रति॥ मार्कण्डेय उवाच एतस्मिन्नेव काले तु धुमत्सेनो महाबलः। लब्धचक्षुः प्रसन्नायां दृष्ट्यां सर्वं ददर्श ह॥ स सर्वानाश्रमान् गत्वा शैब्यया सह भार्यया। पुत्रहेतोः परामाति जगाम भरतर्षभ॥ तावाश्रमान् नदीश्चैव वनानि च सरांसि च। तस्यां निशि विचिन्वन्तौ दम्पती परिजग्मतुः॥ श्रुत्वा शब्दं तु यं कञ्चिदुन्मुखौ सुतशङ्कया। सावित्रीसहितोऽभ्येति सत्यवानित्यभाषताम्॥ भिन्नैश्च परुषैः पादैः सव्रणैः शोणितोक्षितैः। कुशकण्टकविद्धाङ्गावुन्मत्ताविव धावतः॥ ततोऽभिसृत्य तैर्विप्रैः सर्वैराश्रमवासिभिः। परिवार्य समाश्वास्य तावानीतौ स्वमाश्रमम्॥ तत्र भार्यासहायः स वृतो वृद्धैस्तपोधनैः। आश्वासितोऽपि चित्रार्थैः पूर्वराज्ञां कथाश्रयैः॥ ततस्तौ पुनराश्वस्तौ वृद्धौ पुत्रदिदृक्षया। बाल्यवृत्तानि पुत्रस्य स्मरन्तौ भृशदुःखितौ॥ पुनरुक्त्वा च करुणां वाचं तौ शोककर्शितौ। हा पुत्र हा साध्वि वधूः क्वासि क्वासीत्यरोदताम्। ब्राह्मणः सत्यवाक् तेषामुवाचेदं तयोर्वचः॥ सुवर्चा उवाच ययास्य भार्या सावित्री तपसा च दमेन च। आचारेण च संयुक्ता तथा जीवति सत्यवान्॥ गौतम उवाच वेदाः साङ्गा मयाधीतास्तपो मे संचितं महत्। कौमारब्रह्मचर्यं च गुरवोऽग्निश्च तोषिताः॥ समाहितेन चीर्णानि सर्वाण्येव व्रतानि मे। वायुभक्षोपवासश्च कृतो मे विधिवत् पुरा॥ अनेन तपसा वेद्मि सर्वं परचिकीर्षितम्। सत्यमेतन्निबोधध्वं ध्रियते सत्यवानिति॥ शिष्य उवाच उपाध्यायस्य मे वक्त्राद् यथा वाक्यं विनिःसृतम् नैव जातु भवेन्मिथ्या तथा जीवति सत्यवान्॥ ऋषय ऊचुः यथास्य भार्या सावित्री सर्वैरेव सुलक्षणैः। अवैधव्यकरैर्युक्ता तथा जीवति सत्यवान्॥ भारद्वाज उवाच यथास्य भार्या सावित्री तपसा च दमेन च। आचारेण च संयुक्ता तथा जीवति सत्यवान्॥ दाल्भ्य उवाच यथा दृष्टिः प्रवृत्ता ते सावित्र्याश्च यथा व्रतम्। गताऽऽहारमकृत्वा च तथा जीवति सत्यवान्॥ आपस्तम्ब उवाच यथा वदन्ति शान्तायां दिशि वै मृगपक्षिणः। पार्थिवी च प्रवृत्तिस्ते तथा जीवति सत्यवान्॥ धौम्य उवाच सर्वैर्गुणैरुपेतस्ते यथा पुत्रो जनप्रियः। दीर्घायुर्लक्षणोपेतस्तथा जीवति सत्यवान्॥ मार्कण्डेय उवाच एवमाश्वासितस्तैस्तु सत्यवाग्भिस्तपस्विभिः। तांस्तान् विगणयन् सर्वांस्ततः स्थिर इवाभवत्॥ ततो मुहूर्तात् सावित्री भ; सत्यवता सह। आजगामाश्रमं रात्रौ प्रहृष्टा प्रविवेश ह॥ ब्राह्मणा ऊचुः पुत्रेण संगतं त्वां तु चक्षुष्मन्तं निरीक्ष्य च। सर्वे वयं वै पृच्छामो वृद्धिं वै पृथिवीपते।॥ समागमेन पुत्रस्य सावित्र्या दर्शनेन च। चक्षुषश्चात्मनो लाभात् त्रिभिर्दिष्ट्या विवर्धसे॥ सर्वैरस्माभिरुक्तं यत् तथा तन्नात्र संशयः। भूयोभूयः समृद्धिस्ते क्षिप्रमेव भविष्यति॥ ततोऽग्नि तत्र संज्वाल्य द्विजास्ते सर्व एव हि। उपासांचक्रिरे पार्थ धुमत्सेनं महीपतिम्॥ शैब्या च सत्यवांश्चैव सावित्री चैकतः स्थिताः। सर्वैस्तैरभ्यनुज्ञाता विशोकाः समुपाविशन्।॥ ततो राज्ञा सहासीनाः सर्वे ते वनवासिनः। जातकौतूहलाः पार्थं पप्रच्छुर्नृपतेः सुतम्॥ ऋषय ऊचुः प्रागेव नागतं कस्मात् सभार्येण त्वया विभो। विरात्रे चागतं कस्मात् कोऽनुबन्धस्तवाभवत्॥ संतापित: पिता माता वयं चैव नृपात्मज! कस्मादिति न जानीमस्तत् सर्वं वक्तुमर्हसि॥ सत्यवानुवाच पित्राहमभ्यनुज्ञातः सावित्री सहितो गतः। अथ मेऽभूच्छिरोदुःखं वने काष्ठानि भिन्दतः॥ सुप्तश्चाहं वेदनया चिरमित्युपलक्षये। तावत् कालं न च मया सुप्तपूर्वं कदाचन॥ सर्वेषामेव भवतां संतापो मा भवेदिति। अतो विरात्रागमनं नान्यदस्तीह कारणम्॥ गौतम उवाच अकस्माच्चक्षुषः प्राप्तिर्युमत्सेनस्य ते पितुः। नास्य त्वं कारणं वेत्सि सावित्री वक्तुमर्हति॥ श्रोतुमिच्छामि सावित्रि त्वं हि वेत्थ परावरम्। त्वां हि जानामि सावित्रि सावित्रीमिव तेजसा॥ त्वमत्र हेतुं जानीषे तस्मात् सत्यं निरुच्यताम्। रहस्यं यदि ते नास्ति किंचिदत्र वदस्व नः॥ सावित्र्युवाच एवमेतद् यथा वेत्थ संकल्पो नान्यथा हि वः। न हि किंचिद् रहस्यं मे श्रूयतां तथ्यमेव यत्॥ मृत्युर्मे पत्युराख्यातो नारदेन महात्मना। स चाद्य दिवसः प्राप्तस्ततो नैनं जहाम्यहम्॥ सुप्तं चैनं यमः साक्षादुपागच्छत् सकिङ्करः। स एनमनयद् बद्ध्वा दिशं पितृनिषेविताम्॥ अस्तौषं तमहं देवं सत्येन वचसा विभुम्। पञ्च वै तेन मे दत्ता वराः शृणुत तान् मम॥ चक्षुषी च स्वराज्यं च द्वौ वरौ श्वशुरस्य मे। लब्धं पितुः पुत्रशतं पुत्राणां चात्मनः शतम्॥ चतुर्वर्षशतायुर्मे भर्ता लब्धश्च सत्यवान्। भर्तुर्हि जीवितार्थं तु मया चीर्णं त्विदं व्रतम्॥ एतत् सर्वं मयाऽऽख्यातं कारणं विस्तरेण वः। यथावृत्तं सुखोदर्कमिदं दुःखं महन्मम॥ ऋषय ऊचुः निमज्जमानं व्यसनैरभिद्रुतं कुलं नरेन्द्रस्य तमोमये ह्रदे। त्वया सुशीलव्रतपुण्यया कुलं समुद्भूतं साध्वि पुनः कुलीनया॥ मार्कण्डेय उवाच तथा प्रशस्य ह्यभिपूज्य चैव वरस्त्रियं तामृषयः समागताः। नरेन्द्रमामन्त्र्य सपुत्रमञ्जसा शिवेन जग्मुर्मुदिताः स्वमालयम्॥ कर्ण उवाच भगवन्तमहं भक्तो यथा मां वेत्थ गोपते। तथा परमतिग्मांशो नास्त्यदेयं कथंचन॥ न मे दारा न मे पुत्रा न चात्मा सुहृदो न च। तथेष्टा वै सदा भक्त्या यथा त्वं गोपते मम॥ इष्टानां च महात्मानो भक्तानां च न संशयः। कुर्वन्ति भक्तिमिष्टां च जानीषे त्वं च भास्कर।॥ इष्टो भक्तश्च मे कर्णो न चान्यद् दैवतं दिवि। जानीत इति वै कृत्वा भगवानाह मद्धितम्॥ भूयश्च शिरसा याचे प्रसाद्य च पुनः पुनः। इति ब्रवीमि तिग्मांशो त्वं तु मे क्षन्तुमर्हसि॥ विभेमि न तथा मृत्योर्यथा बिभ्येऽनृतादहम्। विशेषेण द्विजातीनां सर्वेषां सर्वदा सताम्॥ प्रदाने जीवितस्यापि न मेऽत्रास्ति विचारणा। यच्च मामात्थ देव त्वं पाण्डवं फाल्गुनं प्रति॥ व्येतु संतापजं दुःखं तव भास्कर मानसम्। अर्जुनप्रतिमं चैव विजेष्यामि रणेऽर्जुनम्॥ तवापि विदितं देव ममाप्यस्त्रबलं महत्। जामदग्न्यादुपात्तं यत् तथा द्रोणान्महात्मनः॥ इदं त्वमनुजानीहि सुरश्रेष्ठ व्रतं मम। भिक्षते वलिाणे दद्यामपि जीवितमात्मनः॥ सूर्य उवाच यदि तात ददास्येते वलिाणे कुण्डले शुभे। त्वमप्येनमथो ब्रूया विजयार्थं महाबलम्॥ नियमेन प्रदद्यां ते कुण्डले वै शतक्रतो। अवध्यो ह्यसि भूतानां कुण्डलाभ्यां समन्वितः।१२॥ अर्जुनेन विनाशं हि तव दानवसूदनः। प्रार्थयानो रणे वत्स कुण्डले ते जिहीर्षति॥ स त्वमप्येनमाराध्य सूनृताभिः पुनः पुनः। अभ्यर्थयेथा देवेशममोघार्थं पुरन्दरम्॥ अमोघां देहि मे शक्तिममित्रविनिबर्हिणीम्। दास्यामि ते सहस्राक्ष कुण्डले वर्म चोत्तमम्॥ इत्येव नियमेन त्वं दद्याः शक्राय कुण्डले। तया त्वं कर्ण संग्रामे हनिष्यसि रणे रिपून्।॥ नाहत्वा हि महाबाहो शत्रूनेति करं पुनः। सा शक्तिर्देवराजस्य शतशोऽथ सहस्रशः॥ वैशम्पायन उवाच एवमुक्त्वा सहस्रांशुः सहसान्तरधीयत। ततः सूर्याय जप्यान्ते कर्णः स्वप्नं न्यवेदयत्॥ यथादृष्टं यथातत्त्वं यथोक्तमुभयोर्निशि। तत् सर्वमानुपूर्वेण शशंसास्मै वृषस्तदा॥ तच्छ्रुत्वा भगवान् देवो भानुः स्वर्भानुसूदनः। उवाच तं तथेत्येव कर्णं सूर्यः स्मयन्निव॥ ततस्ततत्वमिति ज्ञात्वा राधेयः परवीरहा। शक्तिमेवाभिकाङ्क्षन् वै वासवं प्रत्यपालयत्॥ जनमेजय उवाच किं तद् गुह्यं न चाख्यातं कर्णायेहोष्णरश्मिना। कीदृशे कुण्डले ते च कवचं चैव कीदृशम्॥१ कुतश्च कवचं तस्य कुण्डले चैव सत्तम। एतदिच्छाम्यहं श्रोतुं तन्मे ब्रूहि तपोधन॥ वैशम्पायन उवाच अयं राजन् ब्रवीम्येतत् तस्य गुह्यं विभावसोः। यादृशे कुण्डले ते च कवचं चैव यादृशम्॥ कुन्तिभोज पुरा राजन् ब्राह्मणः पर्युपस्थितः। तिग्मतेजा महाप्रांशुः श्मश्रुदण्डजटाधरः॥ दर्शनीयोऽनवद्याङ्गस्तेजसा प्रज्वलनिव। मधुपिङ्गो मधुरवाक् तप:स्वाध्यायभूषणः॥ स राजानं कुन्तिभोजमब्रवीत् सुमहातपाः। भिक्षामिच्छामि वै भोक्तुं तव गेहे विमत्सर॥ न मे व्यलीकं कर्तव्यं त्वया वा तव चानुगैः। एवं वत्स्यामि ते गेहे यदि ते रोचतेऽनघ॥ यथाकामं च गच्छेयमागच्छेयं तथैव च। शय्यासने च मे राजन् नापराध्येत कश्चन॥ तमब्रवीत् कुन्तिभोजः प्रीतियुक्तमिदं वचः। एवमस्तु परं चेति पुनश्चैनमथाब्रवीत्॥ मम कन्या महाप्राज्ञ पृथा नाम यशस्विनी। शीलवृत्तान्विता साध्वी नियता चैव भाविनी॥ उपस्थास्यति सा त्वां वै पूजयानवमन्य च। तस्याश्च शीलवृत्तेन तुष्टिं समुपयास्यसि॥ एवमुक्त्वा तु तं विप्रमभिपूज्य यथाविधि। उवाच कन्यामभ्येत्य पृथां पृथुललोचनाम्॥ अयं वत्से महाभागो ब्राह्मणो वस्तुमिच्छति। मम गेहे मया चास्य तथेत्येवं प्रतिश्रुतम्॥ त्वयि वत्से पराश्वस्य ब्राह्मणस्याभिराधनम्। तन्मे वाक्यममिथ्या त्वं कर्तुमर्हसि कर्हिचित्॥ अयं तपस्वी भगवान् स्वाध्यायनियतो द्विजः। यद् यद् ब्रूयान्महातेजास्तत्तद् देयममत्सरात्॥ ब्राह्मणो हि परं तेजो ब्राह्मणो हि परं तपः। ब्राह्मणानां नमस्कारैः सूर्यो दिवि विराजते॥ अमानयन् हि मानार्हान् वातापिश्च महासुरः। निहतो ब्रह्मदण्डेन तालजङ्घस्तथैव च।॥ सोऽयं वत्से महाभार आहितस्त्वयि साम्प्रतम्। त्वं सदा नियता कुर्या ब्राह्मणस्याभिराधनम्॥ जानामि प्रणिधानं ते बाल्यात् प्रभृति नन्दिनि। ब्राह्मणेष्विह सर्वेषु गुरुबन्धुषु चैव ह॥ तथा प्रेष्येषु सर्वेषु मित्रसम्बन्धिमातृषु। मयि चैव यथावत् त्वं सर्वमावृत्य वर्तसे॥ न हतुष्टो जनोऽस्तीह पुरे चान्तःपुरे च ते। सम्यग्वृत्त्यानवद्याङ्गि तव भृत्यजनेष्वपि॥ संदेष्टव्यां तु मन्ये त्वां द्विजाति कोफ्नं प्रति। पृथे बालेति कृत्वा वै सुता चासि ममेति च॥ वृष्णीनां च कुले जाता शूरस्य दयिता सुता। दत्ता प्रीतिमता मह्यं पित्रा बाला पुरा स्वयम्॥ वसुदेवस्य भगिनी सुतानां प्रवरा मम। अग्र्यमग्रे प्रतिज्ञाय तेनासि दुहिता मम॥ तादृशे हि कुले जाता कुले चैव विवर्धिता। सुखात् सुखमनुप्राप्ता ह्रदाद्धदमिवागता।॥ दौष्कुलेया विशेषेण कथंचित् प्रग्रहं गताः। बालभावाद् विकुर्वन्ति प्रायशः प्रमदाः शुभे॥ पृथे राजकुले जन्म रूपं चापि तवाद्भुतम्। तेन तेनासि सम्पन्ना समुपेता च भाविनी॥ सा त्वं दर्पं परित्यज्य दम्भं मानं च भाविनि। आराध्य वरदं विप्रं श्रेयसा योक्ष्यसे पृथे॥ एवं प्राप्स्यसि कल्याणि कल्याणमनघे ध्रुवम्। कोपिते च द्विजश्रेष्ठे कृत्स्नं दह्येत मे कुलम्॥ कुन्त्युवाच ब्राह्मणं यन्त्रिता राजन्नुपस्थास्यामि पूजया। यथाप्रतिज्ञं राजेन्द्र न च मिथ्या ब्रवीम्यहम्॥ एष चैव स्वभावो मे पूजयेयं द्विजानिति। तव चैव प्रियं कार्यं श्रेयश्च परमं मम॥ यद्येवैष्यति सायाह्ने यदि प्रातरथो निशि। यद्यर्धरात्रे भगवान् न मे कोपं करिष्यति॥ लाभो ममैष राजेन्द्र यद् वै पूजयती द्विजान्। आदेशे तव तिष्ठन्ती हितं कुर्यां नरोत्तम॥ विस्रब्धो भव राजेन्द्र न व्यलीकं द्विजोत्तमः। वसन् प्राप्स्यति ते गेहे सत्यमेतद् ब्रवीमि ते॥ यत् प्रियं च द्विजस्यास्य हितं चैव तवानघ। यतिष्यामि तथा राजन् व्येतु ते मानसो ज्वरः॥ ब्राह्मणा हि महाभागाः पूजिताः पृथिवीपते। तारणाय समर्थाः स्युर्विपरीते वधाय च॥ साहमेतद् विजानन्ती तोषयिष्ये द्विजोत्तमम्। न मत्कृते व्यथां राजन् प्राप्स्यसि द्विजसत्तमात्॥ अपराधेऽपि राजेन्द्र राज्ञामश्रेयसे द्विजाः। भवन्ति च्यवनो यद्वत् सुकन्यायाः कृते पुरा॥ नियमेन परेणाहमुपस्थाये द्विजोत्तमम्। यथा त्वया नरेन्द्रेदं भाषितं ब्राह्मणं प्रति॥ एवं ब्रुवन्तीं बहुशः परिष्वज्य समर्थ्य च। इति चेति च कर्तव्यं राजा सर्वमथादिश॥ एवमेतत् त्वया भद्रे कर्तव्यमविशङ्कया। मद्धितार्थं तथाऽऽत्मार्थं कुलार्थं चाप्यनिन्दिते॥ राजोवाच एवमुक्त्वा तु तां कन्यां कुन्तिभोजो महायशाः। पृथां परिददौ तस्मै द्विजाय द्विजवत्सलः॥ इयं ब्रह्मन् मम सुता बाला सुखविवर्धिता। अपराध्येत यत् किंचिन्न कार्यं हृदि तत् त्वया॥ द्विजातयो महाभागा वृद्धबालतपस्विषु। भवन्त्यक्रोधनाः प्रायो ह्यपराद्धेषु नित्यदा।॥ सुमहत्यपराधेऽपि क्षान्ति: कार्या द्विजातिभिः। यथाशक्ति यथोत्साहं पूजा चाह्या द्विजोत्तम॥ तथेति ब्राह्मणेनोक्तं स राजा प्रीतमानसः। हंसचन्द्रांशुसंकाशं गृहमस्मै न्यवेदयत्॥ तत्राग्निशरणे क्लृप्तमासनं तस्य भानुमत्। आहारादि च सर्वं तत् तथैव प्रत्यवेदयत्॥ निक्षिप्य राजपुत्री तु तन्द्रीं मानं तथैव च। आतस्थे परमं यत्नं ब्राह्मणस्याभिराधने॥ तत्र सा ब्राह्मणं गत्वा पृथा शौचपरा सती। विधिवत् परिचारार्ह देववत् पर्यतोषयत्॥ वैशम्पायन उवाच गते तस्मिन् द्विजश्रेष्ठे कस्मिंश्चित् कारणान्तरे। चिन्तयामास सा कन्या मन्त्रग्रामबलाबलम्॥ अयं वै कीदृशस्तेन मम दत्तो महात्मना। मन्त्रचामो बलं तस्य ज्ञास्ये नातिचिरादिति॥ एवं संचिन्तयन्ती सा ददर्शर्तुं यदृच्छया। वीडिता साभवद् बाला कन्याभावे रजस्वला॥ ततो हर्म्यतलस्था सा महार्हशयनोचिता। प्राच्यां दिशि समुद्यन्तं ददर्शादित्यमण्डलम्॥ तत्र बद्धमनोदृष्टिरभवत् सा सुमध्यमा। न चातप्यत रूपेण भानोः संध्यागतस्य सा॥ तस्या दृष्टिरभूद् दिव्या सापश्यद् दिव्यदर्शनम्। आमुक्तकवचं देवं कुण्डलाभ्यां विभूषितम्॥ तस्याः कौतूहलं त्वासीन्मन्त्रं प्रति नराधिप। आह्वानमकरोत् साथ तस्य देवस्य भाविनी॥ प्राणानुपस्पृश्य तदा ह्याजुहाव दिवाकरम्। आजगाम ततो राजंस्त्वरमाणो दिवाकरः॥ मधुपिङ्गो महाबाहुः कम्बुग्रीवो हसन्निव। अङ्गदी बद्धमुकुटो दिशः प्रज्वालयन्निव॥ योगात् कृत्वा द्विधाऽऽत्मानमाजगाम तताप च। आबभाषे ततः कुन्ती साम्ना परमवल्गुना॥ आगतोऽस्मि वशं भद्रे तव मन्त्रबलात्कृतः। किं करोमि वशो राज्ञि ब्रूहि कर्ता तदस्मि ते॥ कुन्त्युवाच गम्यतां भगवंस्तत्र यत एवागतो ह्यसि। कौतूहलात् समाहूतः प्रसीद भगवन्निति॥ सूर्य उवाच गमिष्येऽहं यथा मां त्वं ब्रवीषि तनुमध्यमे। न तु देवं समाहूय न्याय्यं प्रेषयितुं वृथा॥ तवाभिसंधिः सुभगे सूर्यात् पुत्रो भवेदिति। वीर्येणाप्रतिमो लोके कवची कुण्डलीति च॥ सा त्वमात्मप्रदानं वै कुरुष्व गजगामिनि। उत्पत्स्यति हि पुत्रस्ते यथासंकल्पमङ्गने॥ अथ गच्छाम्यहं भद्रे त्वया संगम्य सुस्मिते। यदि त्वं वचनं नाद्य करिष्यसि मम प्रियम्॥ शपिष्ये त्वामहं क्रुद्धो ब्राह्मणं पितरं च ते। त्वत्कृते तान् प्रधक्ष्यामि सर्वानपि न संशयः॥ पितरं चैव ते मूढं यो न वेत्ति तवानयम्। तस्य च ब्राह्मणस्याद्य योऽसौ मन्त्रमदात् तव॥ शीलवृत्तमविज्ञाय धास्यामि विनयं परम्। एते हि विबुधाः सर्वे पुरन्दरमुखा दिवि॥ त्वया प्रलब्धं पश्यन्ति स्पयन्त इव भाविनि। पश्य चैनान् सुरगणान् दिव्यं चक्षुरिदं हि ते। पूर्वमेव मया दत्तं दृष्टवत्यसि येन माम्॥ वैशम्पायन उवाच ततोऽपश्यत् त्रिदशान् राजपुत्री सर्वानेव स्वेषु धिष्ण्येषु खस्थान्। प्रभावन्तं भानुमन्तं महान्तं यथाऽऽदित्यं रोचमानांस्तथैव॥ सा तान् दृष्ट्वा वीडमानेव बाला सूर्यं देवी वचनं प्राह भीता। गच्छ त्वं वै गोपते स्वं विमानं कन्याभावाद् दुःख एवापचारः॥ पिता माता गुरवश्चैव येऽन्ये देहस्यास्य प्रभवन्ति प्रदाने। नाहं धर्म लोपयिष्यामि लोके स्त्रीणां वृत्तं पूज्यते देहरक्षा॥ मया मन्त्रबलं ज्ञातुमाहूतस्त्वं विभावसो। बाल्याद् बालेति तत् कृत्वा क्षन्तुमर्हसि मे विभो।।२४। सूर्य उवाच बालेति कृत्वानुनयं तवाह ददानि नान्यानुनयं लभेत। आत्मप्रदानं कुरु कुन्तिकन्ये शान्तिस्तवैवं हि भवेच्च भीरु॥ न चापि गन्तुं युक्तं हि मया मिथ्याकृतेन वै। असमेत्य त्वया भीरु मन्त्राहूतेन भाविनि॥ गमिष्याम्यनवद्याङ्गि लोके समवहास्यताम्। सर्वेषां विबुधानां च वक्तव्यः स्यां तथा शुभे॥ सा त्वं मया समागच्छ लप्स्यसे मादृशं सुतम्। विशिष्टा सर्वलोकेषु भविष्यसि न संशयः॥ वैशम्पायन उवाच सा तु कन्या बहुविदं ब्रुवन्ती मधुरं वचः। अनुनेतुं सहस्रांशुं न शशाक मनस्विनी॥ न शशाक यदा बाला प्रत्याख्यातुं तमोनुदम्। भीता शापात् ततो राजन् दध्यौ दीर्घमथान्तरम्॥ अनागसः पितुः शापो ब्राह्मणस्य तथैव च। मनिमित्तः कथं न स्यात् क्रुद्धादस्माद् विभावसोः॥ बालेनापि सता मोहाद् भृशं पापकृतान्यपि। नाभ्यासादयितव्यानि तेजांसि च तपांसि च॥ साहमद्य भृशं भीता गृहीता च करे भृशम। कथं त्वकार्यं कुर्यां वै प्रदानं ह्यात्मनः स्वयम्॥ वैशम्पायन उवाच सा वै शापपरित्रस्ता बहु चिन्तयती हृदा। मोहेनाभिपरीताङ्गी स्मयमाना पुनः पुनः॥ तं देवमब्रवीद् भीता बन्धूनां राजसत्तम। व्रीडाविह्वलया वाचा शापत्रस्ता विशाम्पते॥ कुन्त्युवाच पिता मे ध्रियते देव माता चान्ये च बान्धवाः। न तेषु ध्रियमाणेषु विधिलोपो भवेदयम्॥ त्वया तु संगमो देव यदि स्याद् विधिवर्जितः। मन्निमित्तं कुलस्यास्य लोके कीर्तिनशेत् ततः॥ अथवा धर्ममेतं त्वं मन्यसे तपतां वर। ऋते प्रदानाद् बन्धुभ्यस्तव कामं करोम्यहम्॥ आत्मप्रदानं दुधर्ष तव कृत्वा सती त्वहम्। त्वयि धर्मो यशश्चैव कीर्तिरायुश्च देहिनाम्॥ सूर्य उवाच न ते पिता न ते माता गुरवो वा शुचिस्मिते। प्रभवन्ति वरारोहे भद्रं ते शृणु मे वचः॥ सर्वान् कामयते यस्मात् कमेर्धातोश्च भाविनि। तस्मात् कन्येह सुश्रोणि स्वतन्त्रा वरवर्णिनि॥ नाधर्मश्चरितः कश्चित् त्वया भवति भाविनि। अधर्मं कुत एवाहं वरेयं लोककाम्यया॥ अनावृताः स्त्रियः सर्वा नराश्च वरवर्णिनि। स्वभाव एष लोकानां विकारोऽन्य इति स्मृतः॥ सा मया सह संगम्य पुनः कन्या भविष्यसि। पुत्रश्च ते महाबाहुर्भविष्यति महायशाः॥ कुन्त्युवाच यदि पुत्रो मम भवेत् त्वत्तः सर्वतमोनुद। कुण्डली कवची शूरो महाबाहुर्महाबलः॥ सूर्य उवाच भविष्यति महाबाहुः कुण्डली दिव्यवर्मभृत्। उभयं चामृतमयं तस्य भद्रे भविष्यति॥ कुन्त्युवाच यद्येतदमृतादस्ति कुण्डले वर्म चोत्तमम्। मम पुत्रस्य यं वै त्वं मत्त उत्पादयिष्यसि॥ अस्तु मे सङ्गमो देव यथोक्तं भगवंस्त्वया। त्वद्वीर्यरूपसत्त्वौजा धर्मयुक्तो भवेत् स च॥ सूर्य उवाच अदित्या कुण्डले राज्ञि दत्ते मे मत्तकाशिनि। तेऽस्य दास्यामि वै भीरु वर्म चैवेदमुत्तमम्॥ कुन्त्युवाच परमं भगवन्नेवं संगमिष्ये त्वया सह। यदि पुत्रो भवेदेवं यथा वदसि गोपते॥ वैशम्पायन उवाच तथेत्युक्त्वा तु तां कुन्तीमाविवेश विहङ्गमः। स्वर्भानुशत्रुर्योगात्मा नाभ्यां पस्पर्श चैव ताम्॥ ततः सा विह्वलेवासीत् कन्या सूर्यस्य तेजसा। पपात चाथ सा देवी शयने मूढचेतना॥ सूर्य उवाच साधयिष्यामि सुश्रोणि पुत्रं वै जनयिष्यसि। सर्वशस्त्रभृतां श्रेष्ठं कन्या चैव भविष्यसि॥ वैशम्पायन उवाच ततः सा वीडिता बाला तदा सूर्यमथाब्रवीत्। एवमस्त्विति राजेन्द्र प्रस्थितं भूरिवर्चसम्॥ इति स्मोक्ता कुन्तिराजात्मजा सा विवस्वन्तं याचमाना सलज्जा। तस्मिन् पुण्ये शयनीये पपात मोहाविष्टा भज्यमाना लतेव॥ तिग्मांशुस्तां तेजसा मोहयित्वा योगेनाविश्यात्मसंस्थां चकार। न चैवैनां दूषयामास भानुः संज्ञां लेभे भूय एवाथ बाला॥ वैशम्पायन उवाच ततो गर्भः समभवत् पृथायाः पृथिवीपते। शुक्ले दशोत्तरे पक्षे तारापतिरिवाम्बरे॥ सा बान्धवभयाद् बाला गर्भं तं विनिगूहती। धारयामास सुश्रोणी न चैनां बुबुधे जनः॥ न हि तां वेद नार्यन्या काचिद् धात्रेयिकामृते। कन्यापुरगतां बालां निपुणां परिरक्षणे॥ ततः कालेन सा गर्भं सुषुवे वरवर्णिनी। कन्यैव तस्य देवस्य प्रसादादमरप्रभम्॥ तथैवाबद्धकवचं काकोज्ज्वलकुण्डलम्। हर्यक्षं वृषभस्कन्धं यथास्य पितरं तथा॥ जातमात्रं च तं गर्भ धान्या सम्मन्य भाविनी। मञ्जूषायां समाधाय स्वास्तीर्णायां समन्ततः॥ मधूच्छिष्टस्थितायां सा सुखायां रुदती तथा। श्लक्ष्णायां सुपिधानायामश्वनद्यामवासृजत्॥ जानती चाप्यकर्तव्यं कन्याया गर्भधारणम्। पुत्रस्नेहेन सा राजन् करुणं पर्यदेवयत्॥ समुत्सृजन्ती मञ्जूषामश्वनद्यां तदा जले। उवाच रुदती कुन्ती यौनि वाक्यानि तच्छृणु॥ स्वस्ति ते चान्तरिक्षेभ्यः पार्थिवेभ्यश्च पुत्रका दिव्येभ्यश्चैव भूतेभ्यस्तथा तोयचराश्च ये॥ शिवास्ते सन्तु पन्थानो मा च ते परिपन्थिनः। आगताच तथा पुत्र भवन्त्वद्रोहचेतसः॥ पातु त्वां वरुणो राजा सलिले सलिलेश्वरः। अन्तरिक्षेऽन्तरिक्षस्थः पवनः सर्वगस्तथा॥ पिता त्वां पातु सर्वत्र तपनस्तपतां वरः। येन दत्तोऽसि मे पुत्र दिव्येन विधिना किल॥ आदित्या वसवो रुद्राः साध्या विश्वे च देवताः। मरुतश्च सहेन्द्रेण दिशश्च दसिगीश्वराः॥ रक्षन्तु त्वां सुराः सर्वे समेषु विषमेषु च। वेत्स्यामि त्वां विदेशेऽपि कवचेनाभिसूचितम्॥ धन्यस्ते पुत्र जनको देवो भानुर्विभावसुः। यस्त्वां द्रक्ष्यति दिव्येन चक्षुषा वाहिनीगतम्॥ धन्या सा प्रमदा या त्वां पुत्रत्वे कल्पयिष्यति। यस्यास्त्वं तृषितः पुत्र स्तनं पास्यसि देवज॥ को नु स्वप्नस्तया दृष्टो या त्वामादित्यवर्चसम्। दिव्यवर्मसमायुक्तं दिव्यकुण्डलभूषितम्॥ पद्मायतविशालाक्षं पद्मताम्रदलोज्वलम्। सुललाटं सुकेशान्तं पुत्रत्वे कल्पयिष्यति॥ धन्या द्रक्ष्यन्ति पुत्र त्वां भूमौ संसर्पमाणकम्। अव्यक्तकलवाक्यानि वदन्तं रेणुगुण्ठितम्॥ धन्या द्रक्ष्यन्ति पुत्र त्वां पुनर्योवनगोचरम्। हिमवद्वनसम्भूतं सिंहं केसरिणं यथा॥ एवं बहुविधं राजन् विलप्य करुणं पृथा। अवासृजत मञ्जूषामश्वनद्यास्तदा जले॥ रुदती पुत्रशोकार्ता निशीथे कमलेक्षणा। धात्र्या सह पृथा राजन् पुत्रदर्शनलालसा॥ विसर्जयित्वा मञ्जूषां सम्बोधनभयात् पितुः। विवेश राजभवनं पुनः शोकातुरा ततः॥ मञ्जूषा त्वश्वनद्याः सा ययौ चर्मण्वती नदीम्। चर्मण्वत्याश्च यमुनां ततो गङ्गां जगाम ह॥ गङ्गायाः सूतविषयं चप्पामनुययौ पुरीम्। स मञ्जूषागतो गर्भस्तरङ्गरुह्यमानकः॥ अमृतादुत्थितं दिव्यं तनुवर्म सकुण्डलम्। धारयामास तं गर्भं दैवं च विधिनिर्मितम्॥ वैशम्पायन उवाच एतस्मिन्नेव काले तु धृतराष्ट्रस्य वै सखा। सूतोऽधिरथ इत्येव सदारो जाह्नवीं ययौ॥ तस्य भार्याभवद् राजन् रूपेणासदृशी भुवि। राधा नाम महाभागा न सा पुत्रमविन्दत॥ अपत्यार्थे परं यत्नमकरोच्च विशेषतः। सा ददर्शाथ मञ्जूषामुह्यमानां यदृच्छया॥ दत्तरक्षाप्रतिसरामन्वालम्भनशोभनाम्। ऊर्मीतरङ्गैर्जाह्नव्याः समानीतामुपह्वरम्॥ सा तु कौतूहलात् प्राप्तां ग्राहयामास भाविनी। ततो निवेदयामास सूतस्याधिरथस्य वै॥ स तामुद्धृत्य मञ्जूषामुत्सार्य जलमन्तिकात्। यन्त्रैरुद्धाटयामास सोऽपश्यत् तत्र बालकम्॥ तरुणादित्यसंकाशं हेमवर्मधरं तथा। मृष्टकुण्डलयुक्तेन वदनेन विराजता॥ स सूतो भार्यया सार्धं विस्मयोत्फुल्ललोचनः। अङ्कमारोप्य तं बालं भार्यां वचनमब्रवीत्॥ इदमत्यद्भुतं भीरु यतो जातोऽस्मि भाविनी। दृष्टवान् देवगर्भोऽयं मन्येऽस्मान् समुपागतः॥ अनपत्यस्य पुत्रोऽयं देवैर्दत्तो ध्रुवं मम। इत्युक्त्वा तं ददौ पुत्रं राधायै स महीपते॥ प्रतिजग्राह तं राधा विधिवद् दिव्यरूपिणम्। पुत्रं कमलगर्भामं देवगर्भं श्रिया वृतम्॥ पुपोष चैनं विधिवद् ववृधे स च वीर्यवान्। ततः प्रभृति चाप्यन्ये प्रभावन्नौरसाः सुताः॥ वसुवर्मधरं दृष्ट्वा तं बालं हेमकुण्डलम्। नामास्य वसुषेणेति ततश्चक्रुर्द्विजातयः॥ एवं स सूतपुत्रत्वं जगामामितविक्रमः। वसुषेण इति ख्यातो वृष इत्येव च प्रभुः॥ सूतस्य ववृधेऽङ्गेषु श्रेष्ठः पुत्रः स वीर्यवान्। चारेण विदितश्चासीत् पृथया दिव्यवर्मभृत्॥ सूतस्त्वधिरथः पुत्रं विवृद्धं समयेन तम्। दृष्ट्वा प्रस्थापयामास पुरं वारणसाह्वयम्॥ तत्रोपसदनं चक्रे द्रोणस्येष्वस्त्रकर्णमि। सख्यं दुर्योधनेनैवमगमत् स च वीर्यवान्॥ द्रोणात् कृपाच्च रामाच्च सोऽस्त्रग्रामं चतुर्विधम् लब्ध्वा लोकेऽभवत् ख्यातः परमेष्वासतां गतः॥ संधाय धार्तराष्ट्रेण पार्थानां विप्रिये रतः। योद्धमाशंसते नित्यं फाल्गुनेन महात्मना॥ सदा हि तस्य स्पर्धाऽऽसीदर्जुनेन विशाम्पते। अर्जुनस्य च कर्णेन यतो दृष्टो बभूव सः॥ एतद् गुह्यं महाराज सूर्यस्यासीन्न संशयः। यः सूर्यसम्भवः कर्णः कुन्त्यां सूतकुले तथा॥ तं तु कुण्डलिनं दृष्ट्वा वर्मणा च समन्वितम्। अवध्यं समरे मत्वा पर्यतप्यद् युधिष्ठिरः॥ यदा च कर्णो राजेन्द्र भानुमन्तं दिवाकरम्। स्तौति मध्यन्दिने प्राप्ते प्राञ्जलिः सलिले स्थितः॥ तत्रैनमुपतिष्ठन्ति ब्राह्मणा धनहेतुना। नादेयं तस्य तत्काले किञ्चिदस्ति द्विजातिषु॥ तमिन्द्रो ब्राह्मणो भूत्वा भिक्षां देहीत्युपस्थितः। स्वागतं चेति राधेयस्तमथ प्रत्यभाषत॥ वैशम्पायन उवाच देवराजमनुप्राप्तं ब्राह्मणच्छद्मना वृतम्। दृष्ट्वा स्वागतमित्याह न बुबोधास्य मानसम्॥ हिरण्यकण्ठी: प्रमदा ग्रामान् वा बहुगोकुलान्। किं ददानीति तं विप्रमुवाचाधिरथिस्ततः॥ ब्राह्मण उवाच हिरण्यकण्ठ्यः प्रमदा यच्चान्यत् प्रीतिवर्धनम्। नाहं दत्तमिहेच्छामि तदर्थभ्यः प्रदीयताम्॥ यदेतत् सहजं वर्म कुण्डले च तवानघ। एतदुत्कृत्य मे देहि यदि सत्यव्रतो भवान्।॥ एतदिच्छाम्यहं क्षिप्रं त्वया दत्तं परंतप। एष मे सर्वलाभानां लाभः परमको मतः॥ कर्ण उवाच अवनि प्रमदा गाश्च निवापं बहुवार्षिकम्। तते ते विप्र प्रदास्यामि न तु वर्म सकुण्डलम्॥ वैशम्पायन उवाच एवं बहुविधैर्वाक्यैर्याच्यमानः स तु द्विजः। कर्णेन भरतश्रेष्ठ नान्यं वरमयाचत॥ सान्वितश्च यथाशक्ति पूजितश्च यथाविधि। न चान्यं स द्विजश्रेष्ठः कामयामास वै वरम्॥ यदा नान्यं प्रवृणुते वरं वै द्विजसत्तमः। तदैनमब्रवीद् भूयो राधेयः प्रहसन्निव॥ सहजं वर्म मे विप्र कुण्डले चामृतोद्भवे। तेनावध्योऽस्मि लोकेषु ततो नैतज्जहाम्यहम्॥ विशालं पृथिवीराज्यं क्षेमं निहतकण्टकम्। प्रतिगृहणीष्व मत्तस्त्वं साधु ब्राह्मणपुङ्गव॥ कुण्डलाभ्यां विमुक्तोऽहं वर्मणा सहजेन च। गमनीयो भविष्यामि शत्रूणां द्विजसत्तम॥ वैशम्पायन उवाच यदान्यं न वरं ववे भगवान् पाकशासनः। ततः प्रहस्य कर्णस्तं पुनरित्यब्रवीद् वचः॥ विदितो देवदेवेश प्रागेवासि मम प्रभो। न तु न्याय्यं मया दातुं तव शक्र वृथा वरम्॥ त्वं हि देवेश्वरः साक्षात् त्वया देयो वरो मम। अन्येषां चैव भूतानामिश्वरो ह्यसि भूतकृत्॥ यदि दास्यामि ते देव कुण्डले कवचं तथा। वध्यतामुपयास्यामि त्वं च शक्रावहास्यताम्॥ तस्माद् विनिमयं कृत्वा कुण्डले वर्म चोत्तमम्। हरस्व शक्र कामं मे न दद्यामहमन्यथा॥ शक्र उवाच विदितोऽहं रवेः पूर्वमायानेव तवान्तिकम्। तेन ते सर्वमाख्यातमेवमेतन्न संशयः॥ काममस्तु तथा तात तव कर्ण यथेच्छसि। वर्जयित्वा तु मे वलां प्रवृणीष्व यथेच्छसि॥ वैशम्पायन उवाच ततः कर्णः प्रहृष्टस्तु उपसंगम्य वासवम्। अमोघां शक्तिमभ्येत्य वव्रे सम्पूर्णमानसः॥ कर्ण उवाच वर्मणा कुण्डलाभ्यां च शक्तिं मे देहि वासव। अमोघां शत्रुसंघानां घातिनी पृतनामुखे॥ ततः संचिन्त्य मनसा मुहूर्तमिव वासवः। शक्त्यर्थं पृथिवीपाल कर्णं वाक्यमथाब्रवीत्॥ कुण्डले मे प्रयच्छस्व वर्म चैव शरीरजम्। गृहाण कर्ण शक्तिं त्वमनेन समयेन च॥ अमोघा हन्ति शतशः शत्रून् मम करच्युता। पुनश्च पाणितमभ्येति मम दैत्यान् विनिघ्नतः॥ सेयं तव करप्राप्ता हत्वैकं रिपुमूर्जितम्। गर्जन्तं प्रतपन्तं च मामेवैष्यति सूतज॥ कर्ण उवाच एकमेवाहमिच्छामि रिपुं हन्तुं महाहवे। गर्जन्तं प्रतपन्तं च यतो मम भयं भवेत्॥ इन्द्र उवाच एकं हनिष्यसि रिपुं गर्जन्तं बलिनं रणे। त्वं तु यं प्रार्थयस्येकं रक्ष्यते स महात्मना॥ यमाहुर्वेदविद्वांसो वरार्हमपराजितम्। नारायणमचिन्त्यं च तेन कृष्णेन रक्ष्यते॥ कर्ण उवाच एवमप्यस्तु भगवन्नेकवीरवधे मम। अमोघां देहि मे शक्तिं यथा हन्यां प्रतापिनम्॥ उत्कृत्य तु प्रदास्यामि कुण्डले कवचं च ते। निकृत्तेषु तु गात्रेषु न मे बीभत्सता भवेत्॥ इन्द्र उवाच न ते बीभत्सता कर्ण भविष्यति कथञ्चन। व्रपाश्चैव न गात्रेषु यस्त्वं नानृतमिच्छसि॥ यादृशस्ते पितुर्वर्णस्तेजश्च वदतां वर। तादृशेनैव वर्णेन त्वं कर्ण भविता पुनः॥ विद्यमानेषु शस्त्रेषु यद्यमोघामसंशये। प्रमत्तो मोक्ष्यसे चापि त्वय्येवैषा पतिष्यति॥ कर्ण उवाच संशयं परमं प्राप्य विमोक्ष्ये वासवीमिमाम्। यथा मामात्थ शक्र त्वं सत्यमेतद् ब्रवीमि ते॥ वैशम्पायन उवाच ततः शक्तिं प्रज्वलितां प्रतिगृह्य विशाम्पते। शस्त्रं गृहीत्वा निशितं सर्वगात्राण्यकृन्तत॥ ततो देवा मानवा दानवाश्च निकृन्तन्तं कर्णमात्मानमेवम्। न ह्यस्यासीन्मुखजो वै विकारः॥ ततो दिव्या दुन्दुभयः प्रणेदुः पपातोच्चैः पुष्पवर्षं च दिव्यम्। दृष्ट्वा कर्णं शस्त्रसंकृत्तगात्रं मुहुश्चापि स्मयमानं नृवीरम्॥ ततश्छित्त्वा कवचं दिव्यमङ्गात् तथैवार्दै प्रददौ वासवाय। तथोत्कृत्य प्रददौ कुण्डले ते कर्णात् तस्मात् कर्मणा तेन कर्णः॥ ततः शक्रः प्रहसन् वञ्चयित्वा कर्णं लोके यशसा योजयित्वा। कृतं कार्यं पाण्डवानां हि मेने ततः पश्चाद् दिवमेवोत्पपात॥ श्रुत्वा कर्णं मुषितं धार्तराष्ट्रा दीनाः सर्वे भग्नदर्पा इवासन्। तां चावस्थां गमितं सूतपुत्रं श्रुत्वा पार्था जहषुः काननस्थाः॥ जनमेजय उवाच क्वस्था वीराः पाण्डवास्ते बभूवुः। कुतश्चैते श्रुतवन्तः प्रियं तत्। किं वाकार्पर्द्वादशेऽब्दे व्यतीते तन्मे सर्वं भगवान् व्याकरोतु॥ वैशम्पायन उवाच लम्वा कृष्णां सैन्धवं द्रावयित्वा विप्रैः सार्धं काम्यकादाश्रमात् ते। मार्कण्डेयाच्छृतवन्तः पुराणं देवर्षीणां चरितं विस्तरेण॥ वैशम्पायन उवाच स ददर्श हतान् भ्रातृन् लोकपालानिव च्युतान्। युगान्ते समनुप्राप्ते शक्रप्रतिमगौरवान्॥ विनिकीर्णधनुर्बाणं दृष्ट्वा निहतमर्जुनम्। भीमसेनं यमौ चैव निर्विचेष्टान् गतायुषः॥ स दीर्घमुष्णं नि:श्वस्य शोकवाष्पपरिप्लुतः। तान् दृष्ट्वा पतितान् भ्रातृन् सर्वांश्चिन्तासमन्वितः॥ धर्मपुत्रो महाबाहुर्विललाप सुविस्तरम्। ननु त्वया महाबाहो प्रतिज्ञातं वृकोदरा॥ सुयोधनस्य भेत्स्यामि गदया सक्थिनी रणे। व्यर्थं तदद्य मे सर्वं त्वयि वीर निपातिते॥ महात्मनि महाबाहो कुरूणां कीर्तिवर्धने। मनुष्यसम्भवा वाचो विधर्मिण्य: प्रतिश्रुताः॥ भवतां दिव्यवाचस्तु ता भवन्तु कथं मृषा। देवाश्चापि यदावाचन सूतके त्वां धनंजय॥ सहस्राक्षादनवरः कुन्ति पुत्रस्तवेति वै। उत्तरे पारियात्रे च जगुर्भूतानि सर्वशः॥ विप्रणष्टां श्रियं चैषामाहर्ता पुनरञ्जसा। नास्य जेता रणे कश्चिदजेता नैष कस्यचित्॥ सोऽयं मृत्युवंश यातः कथं जिष्णुमहाबलः। अयं ममाशां संहत्य शेते भूमौ धनंजयः॥ आश्रित्य यं वयं नाथं दुःखान्येतानि सेहिम। रणे प्रमत्तौ वीरौ च सदा शत्रुनिबर्हणौ॥ कथं रिपुवशं यातौ कुन्तीपुत्रौ महाबलौ। यौ सर्वास्त्राप्रतिहतौ भीमसेनधनंजयौ॥ अश्मसारमयं नूनं हृदयं ममम दुहृदः। यमौ यदेतौ दृष्ट्वाद्य पतितौ नावदीर्यते॥ शास्त्रज्ञा देशकालज्ञास्तपोयुक्ताः क्रियान्विताः। अकृत्वा सदृशं कर्म किं शेध्वं पुरुषर्षभाः॥ अविक्षतशरीराश्चाप्यप्रमृष्टशरासनाः। असंज्ञा भुवि संगम्य किं शेध्वमपराजिताः॥ सानूनिवारेः संसुप्तान् दृष्ट्वा भ्रातृन् महामतिः। सुखं प्रसुप्तान् प्रस्विनः खिन्नः कष्टां दशां गतः॥ एवमेवेदमित्युक्त्वा धर्मात्मा स नरेश्वरः। शोकसागरमध्यस्थो दध्यौ कारणमाकुलः॥ इतिकर्तव्यतां चेति देशकालविभागवित्। नाभिपेदे महाबाहुश्चिन्तयानो महामतिः॥ अथ संस्तभ्य धर्मात्मा तदाऽऽत्मानं तपोयुतः। एवं विलप्य बहुधा धर्मपुत्रो युधिष्ठिरः॥ बुद्ध्या विचिन्तयामास वीराः केन निपातिताः॥ नैषां शस्त्रप्रहारोऽस्ति पदं नेहास्ति कस्यचित्। भूतं महदिदं मन्ये भ्रातरो येन मे हताः॥ एकाचं चिन्तयिष्यामि पीत्वा वेत्स्यामि वा जलम्। स्यात् तु दुर्योधनेनेदमुपांशुविहितं कृतम्॥ गान्धारराजरचितं सततं जिह्मबुद्धिना। यस्य कार्यमकार्यं वा सममेव भवत्युत॥ कस्तस्य विश्वसेद् वीरो दुष्कृतेकृतात्मनः। अथवा पुरुषैर्गुढैः प्रयोगोऽयं दुरात्मनः॥ भवेदिति महाबुद्धिर्बहुधा तदचिन्तयत्। तस्यासीन्न विषेणेदमुदकं दूषितं यथा॥ मृतानामपि चैतेषां विकृतं नैव जायते। मुखवर्णाः प्रसन्ना मे भ्रातृणामित्यचिन्तयत्॥ एकैकशश्चौघबलानिमान् पुरुषसत्तमान्। कोऽन्यः प्रतिसमासेत कालान्तकयमादृते॥ एतेन व्यवसायेन तत् तोयं व्यवगाढवान्। गाहमानश्च तत् तोयमन्तरिक्षात् स शुश्रुवे॥ यक्ष उवाच अहं बकः शैवलमत्स्यभक्षो नीता मया प्रेतवशं तवानुजाः। त्वं पञ्चमो भविता राजपुत्र न चेत् प्रश्नान् पृच्छतो व्याकरोषि॥ मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः। प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च॥ युधिष्ठिर उवाच रुद्राणां वा वसूनां वा मरुतां वा प्रधानभाक्। पृच्छामि को भवान् देवो नैतच्छकुनिना कृतम्॥ हिमवान् पारियात्रश्च विन्ध्यो मलय एव च। चत्वारः पर्वताः केन पातिता भूरितेजसः॥ अतीव ते महत् कर्म कृतं च बलिनां वर। यान् न देवा न गन्धर्वा नासुराश्च न राक्षसाः॥ विषहेरन् महायुद्धे कृतं ते तन्महाद्भुतम्। न ते जानामि यत् कार्यं नाभिजानामि काक्षितम्॥ कौतूहलं महज्जातं साध्वसं चागतं मम। येनास्म्युद्विग्नहदयः समुत्पन्नशिरोज्वरः॥ पृच्छामि भगवंस्तस्मात् को भवानिह तिष्ठति। यक्ष उवाच यक्षोऽहमस्मि भद्रं ते नास्मि पक्षी जलेचरः॥ मयैते निहताः सर्वे भ्रातरस्ते महौजसः। वैशम्पायन उवाच ततस्तामशिवां श्रुत्वा वाचं स परुषाक्षराम्॥ यक्षस्य ब्रुवतो राजन्नुपक्रम्य तदा स्थितः। विरूपाक्षं महाकायं यक्षं तालसमुच्छ्रयम्॥ ज्वलनार्कप्रतीकाशमधृष्यं पर्वतोपमम्। वृक्षमाश्रित्य तिष्ठन्तं ददर्श भरतर्षभः॥ मेघगम्भीरनादेन तर्जयन्तं महास्वनम्। यक्ष उवाच इमे ते भ्रातरो राजन् वार्यमाणा मयासकृत्॥ बलात् तोयं जिहीर्षन्तस्ततो वै मृदिता मया। न पेयमुदकं राजन् प्राणानिह परीप्सता॥ पार्थ मा साहसं कार्मिम पूर्वपरिग्रहः। प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च।॥ युधिष्ठिर उवाच न चाहं कामये यक्ष तव पूर्वपरिग्रहम्। कामं नैतत् प्रशंसन्ति सन्तो हि पुरुषाः सदा॥ यदात्मना स्वमात्मानं प्रशंसे पुरुषर्षभ। यथाप्रज्ञं तु ते प्रश्नान् प्रतिवक्ष्यामि पृच्छ माम्॥ यक्ष उवाच किं स्विदादित्यमुन्नयति के च तस्याभितश्चराः। कश्नमस्तं नयति कस्मिश्च प्रतितिष्ठति॥ युधिष्ठिर उवाच ब्रह्मादित्यमुन्नयति देवास्तस्याभितश्चराः। धर्मश्चास्तं नयति च सत्ये च प्रतितिष्ठति॥ यक्ष उवाच केनस्विच्छ्रोत्रियो भवति केनस्विद् विन्दते महत्। केनस्विद् द्वितीयवान् भवति राजन् केन च बुद्धिमान्।४७ युधिष्ठिर उवाच श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत्। धृत्या द्वितीयवान् भवति बुद्धिमान् वृद्धसेवया॥ यक्ष उवाच किं ब्राह्मणानां देवत्वं कश्च धर्मः सतामिव। कश्चैषां मानुषो भावः किमेषामसतामिव॥ युधिष्ठिर उवाच स्वाध्याय एषां देवत्वं तप एषां सतामिव। मरणं मानुषो भावः परिवादोऽसतामिव॥ यक्ष उवाच किं क्षत्रियाणां देवत्वं कश्च धर्मः सतामिव। कश्चैषां मानुषो भावः किमेषामसतामिव।॥ युधिष्ठिर उवाच इष्वस्त्रमेषां देवत्वं यज्ञ एषां सतामिव। भयं वै मानुषो भावः परित्यागोऽसतामिव॥ यक्ष उवाच किमेकं यज्ञियं साम किमेकं यज्ञियं यजुः। का चैषां वृणुते यज्ञं कां यज्ञो नातिवर्तते॥ युधिष्ठिर उवाच प्राणो वै यज्ञियं साम मनो वै यज्ञियं यजुः। ऋगेका वृणुते यज्ञं तां यज्ञो नातिवर्तते॥ यक्ष उवाच किंस्विदावपतां श्रेष्ठं किंस्विन्निवपतां वरम्। किंस्वित् प्रतिष्ठमानानां किंस्वित् प्रसवतां वरम्॥ युधिष्ठिर उवाच वर्षमावपतां श्रेष्ठं बीजं निवपतां वरम्। गाव: प्रतिष्ठमानानां पुत्रः प्रसवतां वरः॥ यक्ष उवाच इन्द्रियार्थाननुभवन् बुद्धिमॉल्लोकपूजितः। सम्मतः सर्वभूतानामुच्छ्वसन् को न जीवति॥ युधिष्ठिर उवाच देवतातिथिभृत्यानां पितृणामात्मनश्च यः। न निर्वपति पञ्चानामुच्छ्वसन् न स जीवति॥ यक्ष उवाच किंस्विद् गुरुतरं भूमेः किस्विदुच्चतरं च खात्। किंस्विच्छीघ्रतरं वायोः किंस्विद् बहुतरं तृणात्॥ युधिष्ठिर उवाच माता गुरुतरा भूमेः खात् पितोच्चतरस्तथा। मनः शीघ्रतरं वाताच्चिन्ता बहुतरी तृणात्॥ यक्ष उवाच किंस्वित् सुप्तं न निमिषति किंस्विज्जातं न चोपति। कस्यस्विद्धदयं नास्ति किंस्विद् वेगेन वर्धते॥ युधिष्ठिर उवाच मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति। अश्मनो हृदयं नास्ति नदी वेगेन वर्धते॥ यक्ष उवाच किंस्वित् प्रवसतो मित्रं किंस्विन्मित्रं गृहे सतः। आतुरस्य च किं मित्रं किंस्विन्मित्रं मरिष्यतः॥ युधिष्ठिर उवाच सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः। आतुरस्य भिषमित्रं दानं मित्रं मरिष्यतः॥ यक्ष उवाच कोऽतिथिः सर्वभूतानां किंस्विद् धर्मं सनातनम्। अमृतं किंस्विद् राजेन्द्र किंस्वित् सर्वमिदं जगत्॥ युधिष्ठिर उवाच अतिथिः सर्वभूतानामग्निः सोमो गवामृतम्। सनातनोऽमृतो धर्मो वायुः सर्वमिदं जगत्॥ यक्ष उवाच किंस्विदेको विचरते जातः को जायते पुनः। किंस्विद्धिमस्य भैषज्यं किंस्विदावपनं महत्॥ युधिष्ठिर उवाच सूर्य एको विचरते चन्द्रमा जायते पुनः। अग्निहिमस्य भैषज्यं भूमिरावपनं महत्॥ यक्ष उवाच किंस्विदेकपदं धर्म्य किंस्विदेकपदं यशः। किंस्विदेकपदं स्वर्णं किंस्विदेकपदं सुखम्॥ युधिष्ठिर उवाच दाक्ष्यमेकपदं धर्म्य दानमेकपदं यशः। सत्यमेकपदं स्वयं शीलमेकपदं सुखम्॥ यक्ष उवाच किंस्विदात्मा मनुष्यस्य किंस्विद् दैवकृतः सखा। उपजीवनं किंस्विदस्य किंस्विदस्य परायणम्॥ युधिष्ठिर उवाच पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा। उपजीवनं च पर्जन्यो दानमस्य परायणम्॥ यक्ष उवाच धन्यानामुत्तमं किंस्विद् धनानां स्यात् किमुत्तमम्। लाभानामुत्तमं किं स्यात् सुखानां स्यात् किमुत्तमम्।७३। युधिष्ठिर उवाच धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम्। लाभानां श्रेय आरोग्यं सुखानां तुष्टिरुत्तमा॥ यक्ष उवाच कश्च धर्मः परो लोके कश्च धर्मः सदाफलः। किं नयम्य न शोचन्ति कैश्च संधिर्न जीर्यते॥ युधिष्ठिर उवाच आनृशंस्यं परो धर्मस्त्रयोधर्मः सदाफलः। मनो यम्य न शोचन्ति संधिः सद्भिर्न जीर्यते॥ यक्ष उवाच किं नु हित्वा प्रियो भवति किं नु हित्वा न शोचति। । किं नु हित्वार्थवान् भवति किं नु हित्वा सुखी भवेत्॥ युधिष्ठिर उवाच मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति। कामं हित्वार्थवान् भवति लोभं हित्वा सुखी भवेत्।।७८। यक्ष उवाच किमर्थं ब्राह्मणे दानं किमर्थं नटनर्तके। किमर्थं चैव भृत्येषु किमर्थं चैव राजसु॥ युधिष्ठिर उवाच धर्मार्थं ब्राह्मणे दानं यशोऽर्थं नटनर्तके। भृत्येषु भरणार्थं वै भयार्थं चैव राजसु॥ यक्ष उवाच केनस्विदावृतो लोकः केनस्विन्न प्रकाशते। केन त्यजति मित्राणि केन स्वर्गं न गच्छति॥ युधिष्ठिर उवाच अज्ञानेनावृतो लोकस्तमसा न प्रकाशते। लोभात् त्यजति मित्राणि संगात् स्वर्ग न गच्छति॥ यक्ष उवाच मृतः कथं स्यात् पुरुषः कथं राष्ट्रं मृतं भवेत्। श्राद्धं मृतं कथं वा स्यात् कथं यज्ञो मृतो भवेत्।।८३। युधिष्ठिर उवाच मृतो दरिद्रः पुरुषो मृतं राष्ट्रमराजकम्। मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणः॥ यक्ष उवाच का दिक् किमुदकं प्रोक्तं किमन्नं किं च वै विषम्। श्राद्धस्य कालमाख्याहि ततः पिब हरस्व च॥ युधिष्ठिर उवाच सन्तो दिग् जलमाकाशं गौरनं प्रार्थना विषम्। श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष मन्यसे॥ यक्ष उवाच तपः किंलक्षणं प्रोक्तं को दमश्च प्रकीर्तितः। क्षमा च का परा प्रोक्ता का च ह्रीः परिकीर्तिता॥ युधिष्ठिर उवाच तपः स्वधर्मवर्तित्वं मनसो दमनं दमः। क्षमा द्वन्द्वसहिष्णुत्वं ह्रीरकार्यनिवर्तनम्॥ यक्ष उवाच किं ज्ञानं प्रोच्यते राजन् कः शमश्च प्रकीर्तितः। दया च क परा प्रोक्ता किं चार्जवमुदाहृतम्॥ युधिष्ठिर उवाच ज्ञानं तत्त्वार्थसम्बोधः शमश्चित्तप्रशान्तता। दया सर्वसुखैषित्वमार्जवं समचित्तता॥ यक्ष उवाच कः शत्रुर्दुर्जयः पुंसां कश्च व्याधिरनन्तकः। कीदृशश्च स्मृतः साधुरसाधुः कीदृशः स्मृतः॥ युधिष्ठिर उवाच क्रोधः सुदुर्जयः शत्रुर्लोभो व्याधिरनन्तकः। सर्वभूतहितः साधुरसाधुर्निर्दयः स्मृतः॥ यक्ष उवाच को मोहः प्रोच्यते राजन् कश्च मानः प्रकीर्तितः। किमालस्यं च विज्ञेयं कश्च शोकः प्रकीर्तितः॥ युधिष्ठिर उवाच मोहो हि धर्ममूढत्वं मानस्त्वात्माभिमानिता। धर्मनिष्क्रियताऽऽलस्यं शोकस्त्वज्ञानमुच्यते॥ यक्ष उवाच किं स्थैर्यगृषिभिः प्रोक्तं किं च धैर्यमुदाहृतम्। स्नानं च किं परं प्रोक्तं दानं च किमिहोच्यते॥ युधिष्ठिर उवाच स्वधर्मे स्थिरता स्थैर्य धैर्यमिन्द्रियनिग्रहः। स्नानं मनोमलत्यागो दानं वै भूतरक्षणम्॥ यक्ष उवाच कः पण्डितः पुमाज्ञेयो नास्तिकः कश्च उच्यते। को मूर्खः कश्च कामः स्यात् को मत्सर इति स्मृतः॥ युधिष्ठिर उवाच धर्मज्ञः पण्डितो ज्ञेयो नास्तिको मूर्ख उच्यते। कामः संसारहेतुश्च हृत्तापो मत्सरः स्मृतः॥ यक्ष उवाच कोऽहङ्कार इति प्रोक्तः कश्च दम्भः प्रकीर्तितः। किं तद् दैवं परं प्रोक्तं किं तत् पैशुन्यमुच्यते॥ युधिष्ठिर उवाच महाज्ञानमहङ्कारो दम्भो धर्मो ध्वजोच्छ्रयः। दैवं दानफलं प्रोक्तं पैशुन्यं परदूषणम्॥१००। यक्ष उवाच धर्मश्चार्थश्च कामश्च परस्परविरोधिनः। एषां नित्यविरुद्धानां कथमेकत्र संगमः॥ युधिष्ठिर उवाच यदा धर्मश्च भार्या च परस्परवशानुगौ। तदा धर्मार्थकामानां त्रयाणामपि संगमः॥ यक्ष उवाच अक्षयो नरकः केन प्राप्यते भरतर्षभ। एतन्मे पृच्छतः प्रश्नं तच्छीघ्रं वक्तुमर्हसि॥ युधिष्ठिर उवाच ब्राह्मणं स्वयमाहूय याचमानमकिञ्चनम्। पश्चाननास्तीति यो ब्रूयात् सोऽक्षयं नरकं व्रजेत्।।१०४। वेदेषु धर्मशास्त्रेषु मिथ्या यो वै द्विजातिषु। देवेषु पितृधर्मेषु सोऽक्षयं नरकं व्रजेत्॥ विद्यमाने धने लोभाद् दानभोगविवर्जितः। पश्चान्नास्तीति यो ब्रूयात् सोऽक्षयं नरकं व्रजेत्॥ यक्ष उवाच राजन् कुलेन वृत्तेन स्वाध्यायेन श्रुतेन वा। ब्राह्मण्यं केन भवति प्रब्रूह्येतत् सुनिश्चितम्॥ युधिष्ठिर उवाच शृणु यक्ष कुलं तात न स्वाध्यायो न च श्रुतम्। कारणं हि द्विजत्वे च वृत्तमेव न संशयः॥ वृत्तं यत्नेन संरक्ष्यं ब्राह्मणेन विशेषतः। अक्षीणवृत्तो न क्षीणो वृत्ततस्तु हतो हतः॥ पठकाः पाठकाश्चैव ये चान्ये शास्त्रचिन्तकाः। सर्वे व्यसनिनो मूर्खा यः क्रियावान् स पण्डितः॥११० चतुर्वेदोऽपि दुर्वृत्तः स शूद्रादतिरिच्यते। योऽग्निहोत्रपरो दान्तः स ब्राह्मण इति स्मृतः॥ यक्ष उवाच प्रियवचनवादी किं लभते विमृशितकार्यकरः किं लभते। बहुमित्रकरः किं लभते धर्मरत किं लभते कथय॥ युधिष्ठिर उवाच प्रियवचनवादी प्रियो भवति विमृशितकार्यकरोऽधिकं जयति। बहुमित्रकरः सुखं वसते यश्च धर्मरतः स गतिं लभते॥ यक्ष उवाच को मोदते किमाश्चर्यं कः पन्थाः का च वार्तिका। ममैतांश्चतुरः प्रश्नान् कथयित्वा जलं पिब॥ युधिष्ठिर उवाच पञ्चमेऽहनि षष्ठे वा शाकं पचति स्वे गृहे। अनृणी चाप्रवासी च स वारिचर मोदते॥ अहन्यहनि भूतानि गच्छन्तीह यमालयम्। शेषाः स्थावरमिच्छन्ति किमाश्चर्यमतः परम्॥ तर्कोऽप्रतिष्ठः श्रुतयो विभिन्ना नैको ऋषिर्यस्य मतं प्रमाणम्। धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः॥ अस्मिन् महामोहमये कटाहे सूर्याग्निना रात्रिदिवेन्धनेन। मासर्तुदर्वीपरिघट्टटेन भूतानि कालः पचतीति वार्ता।।११८। यक्ष उवाच व्याख्याता मे त्वया प्रश्ना याथातथ्यं परंतप। पुरुषं त्विदानी व्याख्याहि यश्च सर्वधनी नरः॥ युधिष्ठिर उवाच दिवं स्पृशति भूमिं च शब्दः पुण्येन कर्मणा। यावत् स शब्दो भवति तावत् पुरुष उच्यते॥ तुल्ये प्रियाप्रिये यस्य सुखदुःखे तथैव च। अतीतानागते चोभे स वै सर्वधनी नरः॥ यक्ष उवाच व्याख्यातः पुरुषो राजन् यश्च सर्वधनी नरः। तस्मात् त्वमेकं भ्रातृणां यमिच्छसि स जीवतु॥ युधिष्ठिर उवाच श्यामो य एष रक्ताक्षो बृहच्छाल इवोत्थितः। व्यूढोरस्को महाबाहुर्नकुलो यक्ष जीवतु॥ यक्ष उवाच प्रियस्ते भीमसेनोऽयमर्जुनो वः परायणम्। स कस्मान्नकुलं राजन् सापलं जीवमिच्छसि॥ यस्य नागसहस्रेण दशसंख्येन वै बलम्। तुल्यं तं भीममुत्सृज्य नकुलं जीवमिच्छसि॥ तथैनं मनुजाः प्राहुर्भीमसेनं प्रियं तव। अथ केनानुभावेन सापत्नं जीवमिच्छसि॥ यस्य बाहुबलं सर्वे पाण्डवाः समुपासते अर्जुनं तमयाहाय नकुलं जीवमिच्छसि॥ युधिष्ठिर उवाच धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः। तस्माद् धर्मं न त्यजामि मा नो धर्मो हतोऽवधीत्॥ आनृशंस्यं परो धर्मः परमार्थाच्च मे मतम्। आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु॥ धर्मशीलंः सदा राजा इति मां मानवा विदुः। स्वधर्मान्न चलिष्यामि नकुलो यक्ष जीवतु॥ कुन्ती चैव तु माद्री च द्वे भार्ये तु पितुर्मम। उभे सपुत्रे स्यातां वै इति मे धीयते मति॥ यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः। मातृभ्यां सममिच्छामि नकुलो यक्ष जीवतु॥ यक्ष उवाच तस्य तेऽर्थाच्च कामाच्च आनृशंस्यं परं मतम्। तस्मात् ते भ्रातरः सर्वे जीवन्तु भरतर्षभ।१३३॥ वैशम्पायन उवाच ततस्ते यक्षवचनादुदतिष्ठन्त पाण्डवाः। क्षुत्पिपासे च सर्वेषां क्षणेन व्यपगच्छताम्॥ युधिष्ठिर उवाच सरस्येकेन पादेन तिष्ठन्तमपराजितम्। पृच्छामि को भवान् देवो न मे यक्षो मतो भवान्॥ वसूनां वा भवानेको रुद्राणामथवा भवान्। अथवा मरुतां श्रेष्ठो वलशी वा त्रिदशेश्वरः॥ मम हि भ्रातर इमे सहस्रशतयोधिनः। तं योधं न प्रपश्यामि येन सर्वे निपातिताः॥ सुखं प्रतिप्रबुद्धानामिन्द्रियाण्युपलक्षये। स भवान् सुहृदोऽस्माकमथवा न: पिता भवान्॥ यक्ष उवाच अहं ते जनकस्तात् धर्मोऽमृदुपराक्रम। त्वां दिदृक्षुरनुप्राप्तो विद्धि मां भरतर्षभ॥ यशः सत्यं दमः शौचमार्जवं ह्रीरचापलम्। दानं तपो ब्रह्मचर्यमित्येतास्तनवो मम॥ अहिंसा समता शान्तिरानृशंस्यममत्सरः। द्वाराण्येतानि मे विद्धि प्रियो ह्यसि सदा मम॥ दिष्ट्या पञ्चसुरक्तोऽसि दिष्ट्या तेषट्पदी जिता। द्वे पूर्वे मध्यमे द्वे च द्वे चान्ते साम्परायिके॥ धर्मोऽहमिति भद्रं ते जिज्ञासुस्त्वामिहागतः। आनृशंस्येन तुष्टोऽस्मि वरं दास्यामि तेऽनघ॥ वरं वृणीष्व राजेन्द्र दाता ह्यस्मि तवानघ। ये हि मे पुरुषा भक्ता न तेषामस्ति दुर्गतिः॥ युधिष्ठिर उवाच अरणीसहितं यस्य मृगो ह्यादाय गच्छति। तस्याग्नयो न लुप्येरन् प्रथमोऽस्तु वरो मम॥ यक्ष उवाच अरणीसहितं ह्यस्य ब्राह्मणस्य हृतं मया। मृगवेषेण कौन्तेय जिज्ञासार्थं तव प्रभो॥ वैशम्पायन उवाच ददानीत्येव भगवानुत्तरं प्रत्यपद्यत। अन्यं वरय भद्रं ते वरं त्वममरोपम॥ युधिष्ठिर उवाच वर्षाणि द्वादशारण्ये त्रयोदशमुपस्थितम्। तत्र नो नाभिजानीयुर्वसतो मनुजाः क्वचित्॥ वैशम्पायन उवाच ददानीत्येव भगवानुत्तरं प्रत्यपद्यत। भूयश्चाश्वासयामास कौन्तेयं सत्यविक्रमम्॥ यद्यपि स्वेन रूपेण चरिष्यथ महीमिमाम्। न वो विज्ञास्यते कश्चित् त्रिषु लोकेषु भारत॥ वर्षं त्रयोदशमिदं मत्प्रसादात् कुरूद्वहाः। विराटनगरे गूढा अविज्ञाताश्चरिष्यथ॥ यद् वः संकल्पितं रूपं मनसा यस्य यादृशम्। तादृशं तादृशं सर्वे छन्दतो धारयिष्यथ॥ अरणीसहितं चेदं ब्राह्मणाय प्रयच्छत। जिज्ञासार्थं मया ह्येतदाहृतं मृगरूपिणा॥ प्रवृणीष्वापरं सौम्य वरमिष्टं ददानि ते। न तृष्यामि नरश्रेष्ठ प्रयच्छन् वै वरांस्तथा।॥ तृतीयं गृह्यतां पुत्र वरमप्रतिमं महत्। त्वं हि मत्प्रभवो राजन् विदुरश्च ममांशजः॥ युधिष्ठिर उवाच देवदेवो मया दृष्टो भवान् साक्षात् सनातनः। यं ददासि वरं तुष्टस्तं ग्रहीष्याम्यहं पितः॥ जयेयं लोभमोहौ च क्रोधं चाहं सदा विभो। दाने तपसि सत्ये च मनो मे सततं भवेत्॥ धर्म उवाच उपपन्नो गुणैरेतैः स्वभावेनासि पाण्डव। भवान् धर्मः पुनश्चैव यथोक्तं ते भविष्यति॥ वैशम्पायन उवाच इत्युक्त्वान्तर्दधे धर्मो भगवाँल्लोकभावनः। समेताः पाण्डवाश्चैव सुखसुप्ता मनस्विनः॥ उपेत्य चाश्रमं वीराः सर्व एव गतक्लमाः। आरणेयं ददुस्तस्मै ब्राह्मणाय तपस्विने॥ इदं समुत्थानसमागतं महत्। पितुश्च पुत्रस्य च कीर्तिवर्धनम्। पठन् नरः स्याद् विजितेन्द्रियो वशी सपुत्रपौत्रः शतवर्षभाग् भवेत्॥ न चाप्यधर्मे न सुहृद्विभेदने परस्वहारे परदारमर्शने। कदर्यभावे न रमेन्मनः सदा नृणां सदाख्यानमिदं विजानताम्॥ वैशम्पायन उवाच धर्मेण तेऽभ्यनुज्ञाताः पाण्डवाः सत्यविक्रमाः। अज्ञातवासं वत्स्यन्तश्च्छन्ना वर्ष त्रयोदशम्॥ उपोपविष्टा विद्वांसः सहिताः संशितव्रताः। ये तद्भक्ता वसन्ति स्म वनवासे तपस्विनः॥ तानब्रुवन् महात्मानः स्थिताः प्राञ्जलयस्तदा। अभ्यनुज्ञापयिष्यन्तस्तं निवासं धृतव्रताः॥ विदितं भवतां सर्वं धार्तराष्ट्रर्यथा वयम्। छाना हृतराज्याश्चानयाश्च बहुशः कृताः॥ उषिताश्च वने कृच्छ्रे वयं द्वादश वत्सरान्। अज्ञातवाससमयं शेषं वर्षं त्रयोदशम्॥ तद् वसामो वयं छन्नास्तदनुज्ञातुमर्हथ। सुयोधनश्च दुष्टात्मा कर्णश्च सहसौबलः॥ जानन्तो विषमं कुर्युरस्मास्वत्यन्तवैरिणः। युक्तचाराश्च युक्ताश्च पौरस्य स्वजनस्य च॥ अपि नस्तद् भरेद् भूयो यद् वयं ब्राह्मणैः सह। समस्ताः स्वेषु राष्ट्रेषु स्वराज्यस्था भवेमहि ॥ वैशम्पायन उवाच इत्युक्त्वा दुःखशोकार्तः शुचिर्धर्मसुतस्तदा। सम्मूर्छितोऽभवद् राजा साश्रुकण्ठो युधिष्ठिरः॥ तमथाश्वासयन् सर्वे ब्राह्मणा भ्रातृभिः सह। अथ धौम्योऽब्रवीद् वाक्यं महार्थं नृपतिं तदा॥ राजन् विद्वान् भवान् दान्तः सत्यसंधो जितेन्द्रियः। नैवंविधाः प्रमुह्यन्ते नराः कस्याञ्चिदापदि॥ देवैरप्यापदः प्राप्ताश्च्छन्नैश्च बहुशस्तथा। तत्र तत्र सपत्नानां निग्रहार्थं महात्मभिः॥ इन्द्रेण निषधान् प्राप्य गिरिप्रस्थाश्रमे तदा। छन्नेनोष्य कृतं कर्म द्विषतां च विनिग्रहे।॥ विष्णुनाश्वशिरः प्राप्य तथादित्यां निवत्स्यता। गर्भ वधार्थं दैत्यानामज्ञातेनोषितं चिरम्॥ प्राप्य वामनरूपेण प्रच्छन्नं ब्रह्मरूपिणा। बलेर्यथा हृतं राज्यं विक्रमैस्तच्च ते श्रुतम्॥ हुताशनेन यच्चापः प्रविश्यच्छन्नमासता। विबुधानां कृतं कर्म तच्च सर्वं श्रुतं त्वया॥ प्रच्छन्नं चापि धर्मज्ञ हरिणारिविनिग्रह। वलां प्रविश्य शक्रस्य यत् कृतं तच्च ते श्रुतम्॥ और्वेण वसता छन्नमूरौ ब्रह्मर्षिणा तदा। यत् कृतं तात देवेषु कर्म तत्तेऽनघ श्रुतम्॥ एवं विवस्वता तात छन्नेनोत्तमतेजसा। निर्दग्धाः शात्रवाः सर्वे वसता भुवि सर्वशः॥ विष्णुना वसता चापि गृहे दशरथस्य वै। दशग्रीवो हतश्छन्नं संयुगे भीमकर्मणा॥ एवमेव महात्मानः प्रच्छन्नास्तत्र तत्र ह। अजयञ्छात्रवान् युद्धे तथा त्वमपि जेष्यसि॥ तथा धौम्येन धर्मज्ञो वाक्यैः सम्परितोषितः। शास्त्रबुद्ध्या स्वबुद्ध्या च न चचाल युधिष्ठिरः॥ अथाब्रवीन्महाबाहुर्भीमसेनो महाबलः। राजानं बलिनां श्रेष्ठो गिरा सम्परिहर्षयन्॥ अवेक्षया महाराज तव गाण्डीवधन्वना। धर्मानुगतया बुद्ध्या न किञ्चित् साहसं कृतम्॥ सहदेवो मया नित्यं नकुलश्च निवारितौ। शक्तौ विध्वंसने तेषां शत्रूणां भीमविक्रमौ॥ न वयं तत् प्रहास्यामो यस्मिन् योक्ष्यति नो भवान्। भवान् विधत्तां तत् सर्वं क्षिप्रं जेष्यामहे रिपून्।॥ इत्युक्ते भीमसेनेन ब्राह्मणः परमाशिषा। उक्त्वा चापृच्छ्य भरतान्यथास्वान्स्वान्ययुगुहान्॥ सर्वे वेदविदो मुख्या यतयो मुनयस्तथा। आसेदुस्ते यथान्यायं पुनर्दर्शनकाझया॥ सह धौम्येन विद्वांसस्तथा पञ्च च पाण्डवाः। उत्थाय प्रययुर्वीराः कृष्णामादाय धन्विनः॥ क्रोशमात्रमुपागम्य तस्माद् देशान्निमित्ततः। श्वोभूते मनुजव्याघ्राश्छन्नवासार्थमुद्यताः॥ पृथक्छास्त्रविदः सर्वे सर्वे मन्त्रविशारदाः। संधिविग्रहकालज्ञा मन्त्राय समुपाविशन्॥ नारायणं नमस्कृत्यं नरं चैव नरोत्तमम्। देवी सरस्वतीं व्यासं ततो जयमुदीरयेत्॥ जनमेजय उवाच कथं विराटनगरे मम पूर्वपितामहाः। अज्ञातवासमुषिता दुर्योधनभयार्दिताः॥ पतिव्रतः महाभागा सततं ब्रह्मवादिनी। द्रौपदी च कथं ब्रह्मन्नज्ञाता दुःखितावसत्॥ वैशम्पायन उवाच यथा विराटनगरे तव पूर्वपितामहाः। अज्ञातवासमुषितास्तच्छृणुष्व नराधिप॥ तथा स तु वरॉल्लब्ध्वा धर्मो धर्मभृतां वरः। गत्वाऽऽश्रमं ब्राह्मणेभ्य आचख्यौ सर्वमेव तत्॥ कथयित्वा तु तत् सर्वं ब्राह्मणेभ्यो युधिष्ठिरः। अरणीसहितं तस्मै ब्राह्मणाय न्यवेदयत्॥ ततो युधिष्ठिरो राजा धर्मपुत्रो महामनाः। संनिवर्त्यानुजान् सर्वानिति होवाच भारत॥ द्वादशेमानि वर्षाणि राज्यविप्रोषिता वयम्। त्रयोदशोऽयं सम्प्राप्तः कृच्छ्रात् परमदुर्वसः॥ स साधु कौन्तेय इतो वासमर्जुन रोचय। संवत्सरमिमं यत्र वसेमाविदिताः परैः॥ अर्जुन उवाच तस्यैव वरदानेन धर्मस्य मनुजाधिप। अज्ञाता विचरिष्यामो नराणां नात्र संशयः॥ तत्र वासाय राष्ट्राणि कीर्तयिष्यामि कानिचित्। रमणीयानि गुप्तानि तेषां किञ्चित् स्म रोचया॥ सन्ति रम्या जनपदा बनाः परितः कुरून्। पाञ्चालाचैदिमत्स्याश्च शूरसेनाः पटच्चराः॥ दशार्णा नवराष्ट्राश्च मल्लाः शाल्वा युगन्धराः। कुन्तिराष्ट्रं च विपुलं सुराष्ट्रावन्तयस्तथा॥ एतेषां कतमो राजन् निवासस्तव रोचते। यत्र वत्स्यामहे राजन् संवत्सरमिमं वयम्॥ युधिष्ठिर उवाच श्रुतमेतन्महाबाहो यथा स भगवान् प्रभुः। अब्रवीत् सर्वभूतेशस्तत् तथा न तदन्यथा॥ अवश्यं त्वेव वासार्थं रमणीयं शिवं सुखम्। सम्मन्त्र्य सहितैः सर्वैर्वस्तव्यमकुतोभयैः॥ मत्स्यो विराटो बलवानभिरक्तोऽथ पाण्डवान्। धर्मशीलो वदान्यश्च वृद्धश्च सततं प्रियः॥ विराटनगरे तात संवत्सरमिमं वयम्। कुर्वन्तस्तस्य कर्माणि विहरिष्याम भारत॥ तत् कर्म यानि यानि च कर्माणि तस्य वक्ष्यामहे वयम्। आसाद्य मत्स्यं प्रबूत कुरुनन्दनाः॥ अर्जुन उवाच नरदेव कथं तस्य राष्ट्रे कर्म करिष्यसि। विराटनगरे साधो रंस्यसे केन कर्मणा॥ मृदुर्वदान्यो ह्रीमांश्च धार्मिकः सत्यविक्रमः। राजंस्त्वमापदाऽऽकृष्टः किं करिष्यसि पाण्डव॥ न दुःखमुचितं किञ्चिद् राजन् वेद यथा जनः। स इमामापदं प्राप्य कथं घोरां तरिष्यसि॥ युधिष्ठिर उवाच शृणुध्वं यत् करिष्यामि कर्म वै कुरुनन्दनाः। विराटमनुसम्प्राप्य राजानं पुरुषर्षभाः॥ सभास्तारो भविष्यामि तस्य राज्ञो महात्मनः। कङ्को नाम द्विजो भूत्वा मताक्षः प्रियदेवनः॥ वैदूर्यान् काञ्चनान् दान्तान् फलैर्योतीरसैः सह। कृष्णाँल्लोहितवर्णाश्च निर्वामि मनोरमान्॥ विराटराजं रमयन् सामात्यं सहबान्धवम्। न च मां वेत्स्यते कश्चित् तोषयिष्ये च तं नृपम्।।२६ आसं युधिष्ठिरस्याहं पुरा प्राणसमः सखा। इति वक्ष्यामि राजानं यदि मां सोऽनुयोक्ष्यते॥ इत्येतद् वो मयाऽऽख्यातं विहरिष्याम्यहं यथा। वृकोदर विराटे त्वं रंस्यसे केन हेतुना॥ वैशम्पायन उवाच स्तथार्जुनो धर्मभृतां वरिष्ठः। वाक्यं तथासौ विरराम भूयो नृपोऽपरं भ्रातरमाबभाषे॥ युधिष्ठिर उवाच किं त्वं नकुल कुर्वाणस्तत्र तात चरिष्यसि। कर्म तत् त्वं समाचक्ष्व राज्ये तस्य महीपतेः। सुकुमारश्च शूरश्च दर्शनीयः सुखोचितः॥ नकुल उवाच अश्वबन्धो भविष्यामि विराटनृपतेरहम्। सर्वथा ज्ञानसम्पन्नः कुशलः परिरक्षणे॥ ग्रन्थिको नाम नाम्नाहं कमैतत् सुप्रियं मम। कुशलोऽस्म्यश्वशिक्षायां तथैवाश्वचिकित्सने।। प्रियाश्च सततं मेऽश्वाः कुरुराज यथा तव॥ ये मामामन्त्रयिष्यन्ति विराटनगरे जनाः। तेभ्य एवं प्रवक्ष्यामि विहरिष्याम्यहं यथा॥ पाण्डवेन पुरा तात अश्वेष्वधिकृतः : पुरा। विराटनगरे छन्नश्चरिष्यामि महीपते॥ युधिष्ठिर उवाच सहदेव कथं तस्य समीपे विहरिष्यसि। किं वा त्वं कर्म कुर्वाणः प्रच्छन्नो विहरिष्यसि॥ सहदेव उवाच गोसंख्याता भविष्यामि विराटस्य महीपतेः। प्रतिषेद्धा च दोग्धा च संख्याने कुशलो गवाम्॥ तन्तिपाल इति ख्यातो नाम्नाहं विदितस्त्वथ। निपुणं च चरिष्यामि व्येतु ते मानसो ज्वरः॥ अहं हि सततं गोषु भवता प्रहितः पुरा। तत्र मे कौशलं सर्वमवबुद्धं विशाम्पते।॥ लक्षणं चरितं चापि गवां यच्चापि मङ्गलम्। तत् सर्वं मे सुविदितमन्यच्चापि महीपते॥ वृषभानपि जानामि राजन् पूजितलक्षणान्। येषां मूत्रमुपाघ्राय अपि वध्या प्रसूयते॥ सोऽहमेवं चरिष्यामि प्रीतिरत्र हि मे सदा। न च मां वेत्स्यते कश्चित् तोषयिष्ये च पार्थिवम्॥१३ युधिष्ठिर उवाच इयं हि नः प्रिया भार्या प्राणेभ्योऽपि गरीयसी। मातेव परिपाल्या च पूज्या ज्येष्ठेव च स्वसा॥ केन स्म द्रौपदी कृष्णा कर्मणा विचरिष्यति। न हि किञ्चिद् विजानाति कर्म कर्तुं यथा स्त्रियः।।१५ सुकुमारी च बाला च राजपुत्री यशस्विनी। पतिव्रता महाभागा कथं नु विचरिष्यति॥ माल्यगन्धानलङ्कारान् वस्त्राणि विविधानि च। एतान्येवाभिजानाति यतो जाता हि भामिनी॥ द्रौपधुवाच सैरन्ध्रयो रक्षिता लोके भुजिष्याः सन्ति भारत। नैवमन्याः स्त्रियो यान्ति इति लोकस्य निश्चयः।। साहं ब्रुवाणा सैरन्ध्री कुशला केशकर्मणि॥ युधिष्ठिरस्य गेहे वै द्रौपद्याः परिचारिका। उषितास्मीति वक्ष्यामि पृष्टा राज्ञा च भारत॥ आत्मगुप्ता चरिष्यामि यन्मां त्वं परिपृच्छसि।॥ सुदेष्णां प्रत्युपस्थास्ये राजभार्यां यशस्विनीम्। सा रक्षिष्यति मां प्राप्तां मा भूत् ते दुःखमीदृशम्।।२१ युधिष्ठिर उवाच कल्याणं भाषसे कृष्णे कुले जातासि भामिनि। न पापमभिजानासि साध्वी साधुव्रते स्थिता॥ यथा न दुहृदः पापा भवन्ति सुखिनः पुनः। कुर्यास्तत् त्वं हि कल्याणि लक्षयेयुर्न ते तथा॥ युधिष्ठिर उवाच कर्माण्युक्तानि युष्माभिर्यानि यानि करिष्यथ। मम चापि यथा बुद्धिरुचिता विधिनिश्चयात्॥ पुरोहितोऽयमस्माकमग्निहोत्राणि रक्षतु। सूदपौरोगवैः सार्द्ध दुपदस्य निवेशने॥ इन्द्रसेनमुखाश्चेमे रथानादाय केवलान्। यान्तु द्वारवतीं शीघ्रमिति मे वर्तते मतिः॥ इमाश्च नार्यो द्रौपद्याः सर्वाश्च परिचारिकाः। पाञ्चालानेव गच्छन्तु सूदपौरोगवैः सह॥ सर्वैरपि च वक्तव्यं न प्राज्ञायन्त पाण्डवाः। गता ह्यस्मानपाहाय सर्वे द्वैतवनादिति॥ वैशम्पायन उवाच एवं तेऽन्योन्यमामन्त्र्य कर्माण्युक्त्वा पृथक् पृथक् धौम्यमामन्त्रयामासुः स च तान् मन्त्रमब्रवीत्॥ धौम्य उवाच विहितं पाण्डवाः सर्वं ब्राह्मणेषु सुहृत्सु च। याने प्रहरणे चैव तथैवाग्निषु भारत॥ त्वया रक्षा विधातव्या कृष्णायाः फाल्गुनेन च। विदितं वो यथा सर्वं लोकवृत्तमिदं तव।॥ विदिते चापि वक्तव्यं सुहृद्भिरनुरागतः। एष धर्मश्च कामश्च अर्थश्चैव सनातनः॥ अतोऽहमपि वक्ष्यामि हेतुमत्र निबोधत। हन्तेमां राजवसतिं राजपुत्रा ब्रवीम्यहम्॥ यथा राजकुलं प्राप्य सर्वान् दोषांस्तरिष्यथ। दुर्वसं चैव कौरव्य जानता राजवेश्मनि॥ अमानितैर्मानितैर्वा अज्ञातैः परिवत्सरम्। ततश्चतुर्दशे वर्षे चरिष्यथ यथासुखम्॥ दृष्टद्वारो लभेद् द्रष्टुं राजस्वेषु न विश्वसेत्। तदेवासनमन्विच्छेद् यत्र नाभिपतेत् परः॥ यो न यानं न पर्यत न पीठं न गजं रथम्। आरोहेत् सम्मतोऽस्मीति स राजवसतिं वसेत्॥ यत्र यत्रैनमासीनं शङ्करन् दुष्टचारिणः। न तत्रोपविशेद् यो वै स राजवसतिं वसेत्॥ न चानुशिष्याद् राजानमपृच्छन्तं कदाचन। तूष्णीं त्वेनमुपासीत काले समभिपूजयेत्॥ असूयन्ति हि राजानो जनाननृतवादिनः। तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा॥ नैषां दारेषु कुर्वीत मैत्री प्राज्ञः कदाचन। अन्तःपुरचरा ये च द्वेष्टि यानहिताश्च ये॥ विदिते चास्य कुर्वीत कार्याणि सुलघून्यपि। एवं विचरतो राज्ञि न क्षतिर्जायते क्वचित्॥ गच्छन्नपि परां भूमिमपृष्टो ह्यनियोजितः। जात्यन्ध इव मन्येत मर्यादामनुचिन्तयन्॥ न हि पुत्रं न नप्तारं न भ्रातरमरिंदमाः। समतिक्रान्तमर्यादं पूजयन्ति नराधिपाः॥ यत्नाच्चोपचरेदेनमग्निवद् देववत् त्विह। अनृतेनोपचीर्णो हि हन्यादेव न संशयः॥ यद् यद् भर्तानुयुट्टीत तत् तदेवानुवर्तयेत्। प्रमादमवलेपं च कोप च परिवर्जयते॥ समर्थनासु सर्वासु हितं च प्रियमेव च। संवर्णयेत् तदेवास्य प्रियादपि हितं भवेत्॥ अनुकूलो भवेच्चास्य सर्वार्थेषु कथासु च। अप्रियं चाहितं यत् स्यात् तदस्मै नानुवर्णयेत्॥ नाहमस्य प्रियोऽस्मीति मत्वा सेवेत पण्डितः। अप्रमत्तश्च सततं हितं कुर्यात् प्रियं च यत्॥ नास्यानिष्टानि सेवेत नाहितैः सह संवदेत्। स्वस्थानान्न विकम्पेत स राजवसतिं वसेत्॥ दक्षिणं वाथ वामं वा पार्श्वमासीत् पण्डितः। रक्षिणां ह्यात्तशस्त्राणां स्थानं पश्चाद् विधीयते॥ नित्यं हि प्रतिषिद्धं तु पुरस्तादासनं महत्। न च संदर्शने किञ्चित् प्रवृत्तमपि संजयेत्॥ अपि ह्येतद् दरिद्राणां व्यलीकस्थानमुत्तमम्। न मृषाभिहितं राज्ञां मनुष्येषु प्रकाशयेत्॥ असूयन्ति हि राजानो नराननृतवादिनः। तथैव चावमन्यन्ते नरान् पण्डितमानिनः॥ शूरोऽस्मीति न दृप्तः स्याद् बुद्धिमानिति वा पुनः। प्रियमेवाचरन् राज्ञः प्रियो भवति भोगवान्॥ ऐश्वर्यं प्राप्य दुष्प्रापं प्रियं प्राप्य च राजतः। अप्रमत्तो भवेद् राज्ञः प्रियेषु च हितेषु च॥ यस्य कोपो महाबाधः प्रसादश्च महाफलः। कस्तस्य मनसापीच्छेदनर्थं प्राज्ञसम्मतः॥ न चोष्ठौ न भुजौ जानू न च वाक्यं समाक्षिपेत्। सदा वातं च वाचं च ष्ठीवनं चाचरेच्छनैः॥ हास्यवस्तुषु चान्यस्य वर्तमानेषु केषुचित्। नातिगाढं प्रहृष्येत न चाप्युन्मत्तवद्धसेत्॥ न चातिधैर्येण चरेद् गुरुतां हि व्रजेत् ततः। स्मितं तु मृदुपूर्वेण दर्शयेत प्रसादजम्॥ लाभे न हर्षयेद् यस्तु न व्यथेद् योऽवमानितः। असम्मूढश्च यो नित्यं स राजवसतिं वसेत्॥ राजानं राजपुत्रं वा संवर्णयति यः सदा। अमात्यः पण्डितो भूत्वा स चिरं तिष्ठते प्रियः॥ प्रगृहीतश्च योऽमात्यो निगृहीतस्त्वकारणैः। न निर्वदति राजानं लभते सम्पदं पुनः॥ प्रत्यक्षं च परोक्षं च गुणवादी विचक्षणः। उपजीवी भवेद् राज्ञो विषये योऽपि वा भवेत्॥ अमात्यो हि बलाद् भोत्तुंक्क राजानं प्रार्थयेत यः। न स तिष्ठेच्चिरं स्थानं गच्छेच्च प्राणसंशयम्॥ श्रेयः दृष्ट्वा परं राज्ञा न संवदेत्। विशेषयेच्च राजानं योग्यभूमिषु सर्वदा॥ अम्लानो बलवाञ्छूरश्छायेवानुगतः सदा। सत्यवादी मृदुर्दान्तः स राजवसतिं वसेत्॥ अन्यस्मिन् प्रेष्यमाणे तु पुरस्ताद् यः समुत्पतेत्। अहं किं करवाणीति स राजवसतिं वसेत्॥ सदाऽऽत्मनो आन्तरे चैव बाह्ये च राज्ञा यश्चाथ सर्वदा। आदिष्टो नैव कम्पेत स राजवसतिं वसेत्॥ यो वै गृहेभ्यः प्रवसन् प्रियाणां नानुसंस्मरेत्। दुःखेन सुखमन्विच्छेत् स राजवसतिं वसेत्॥ समवेषं न कुर्वीत नोच्चैः संनिहितो वसेत्। न मन्त्रं बहुधा कुर्यादेवं राज्ञः प्रियो भवेत्॥ न कर्मणि नियुक्तः सन् धनं किञ्चिदपि स्पृशेत्। प्राप्नोति हि हरन् द्रव्यं बन्धनं यदि वा वधम्॥ यानं वस्त्रमलङ्कारं यच्चान्यत् सम्प्रयच्छति। तदेव धारयेन्नित्यमेवं प्रियतरो भवेत्॥ एवं संयम्य चित्तानि यत्नतः पाण्डुनन्दनाः। संवत्सरमिमं तात तथाशीला बुभूषत। अथ स्वविषयं प्राप्य यथाकामं करिष्यथ॥ युधिष्ठिर उवाच अनुशिष्टाः स्म भद्रं ते नैतद् वक्तास्ति कश्चन्। कुन्तीमृते मातरं नो विदुरं वा महामतिम्॥ यदेवानन्तरं कार्य तद् भवान् कर्तुमर्हति। तारणायास्य दुःखस्य प्रस्थानाय जयाय च॥ वैशम्पायन उवाच एवमुक्तस्ततो राज्ञा धौम्योऽथ द्विजसत्तमः। अकरोद् विधिवत् सर्वं प्रस्थाने यद् विधीयते॥ तेषां समिध्य तानग्नीन् मन्त्रवच्च जुहाव सः। समृद्धिवृद्धिलाभाय पृथिवीविजयाय च॥ अग्नीन् प्रदक्षिणीकृत्य ब्राह्मणांश्च तपोधनान्। याज्ञसेनी पुरस्कृत्य षडेवाथ प्रवव्रजुः॥ गतेषु तेषु वीरेषु धौम्योऽथ जपतां वरः। अग्निहोत्राण्युपादाय पाञ्चालानभ्यगच्छत॥ इन्द्रसेनाद्रयश्चैव यथोक्ताः प्राप्य यादवान्। रथानश्वांश्च रक्षन्तः सुखमूषुः सुसंवृताः॥ वैशम्पायन उवाच ते वीरा बद्धनिस्त्रिंशास्तथा बद्धकलापिनः। बद्धगोधाङ्गुलित्राणा: कालिन्दीमभितो ययुः॥ ततस्ते दक्षिणं तीरमन्वगच्छन् पदातयः। निवृत्तवनवासा हि स्वराष्ट्र प्रेप्सवस्तदा। वसन्तो गिरिदुर्गेषु वनदुर्गेषु धन्विनः॥ विध्यन्तो मृगजातानि महेष्वासा महाबलाः। उत्तरेण दशार्णांस्ते पञ्चालान् दक्षिणेन च॥ अन्तरेण यकृल्लोमान् शूरसेनांश्च पाण्डवाः। लुब्धा ब्रुवाणा मत्स्यस्य विषयं प्राविशन् वनात्॥ धन्विनो बद्धनिस्त्रिंशा विवर्णाः श्मश्रुधारिणः। ततो जनपदं प्राप्य कृष्णा राजानमब्रवीत्॥ पश्यैकपद्यो दृश्यन्ते क्षेत्राणि विविधानि च। व्यक्तं दूरे विराटस्य राजधानी भविष्यति। वसामेहापरां रात्रिं बलरान् मे परिश्रमः॥ युधिष्ठिर उवाच धनंजय समुद्यम्य पाञ्चालीं वह भारत। राजधान्यां निवत्स्यामो विमुक्ताश्च वनादितः॥ वैशम्पायन उवाच तामादायार्जनुस्तूर्णं द्रौपदीं गजराडिव। सम्प्राप्य नगराभ्याशमवतारयदर्जुनः॥ स राजधानी सम्प्राप्य कौन्तेयोऽर्जुनमब्रवीत्। क्वायुधानि समासज्ज्य प्रवेक्ष्यामः पुरं वयम्॥ सायुधाश्च प्रवेक्ष्यामो वयं तात पुरं यदि। समुद्वेगं जनस्यास्य करिष्यामो न संशयः॥ गाण्डीवं च महद् गाढं लोके च विदितं नृणाम्। तच्चेदायुधमादाय गच्छामो नगरं वयम्। क्षिप्रमस्मान् विजानीयुर्मनुष्या नात्र संशयः॥ ततो द्वादश वर्षाणि प्रवेष्टव्यं वने पुनः। एकस्मिन्नपि विज्ञाते प्रतिज्ञातं हि नस्तथा॥ अर्जुन उवाच इयं कूटे मनुष्येन्द्र गहना महती शमी। भीमशास्त्रा दुरारोहा श्मशानस्य समीपतः॥ न चापि विद्यते कश्चन्मनुष्य इति मे मतिः। योऽस्मान् निदधतो द्रष्टा भवेच्छस्त्राणि पाण्डवाः।।१४। उत्पथे हि वने जाता गृगव्यालनिषेविते। समीपे च श्मशानस्य गहनस्य विशेषतः॥ समाधायायुधं शम्यां गच्छामो नगरं प्रति। एवमत्र यथायोगं विहरिष्याम भारत॥ वैशम्पायन उवाच एवमुक्त्वा स राजानं धर्मराज युधिष्ठिरम्। प्रचक्रमे निधानाय शस्त्राणां भरतर्षभ॥ येन देवान् मनुष्यांश्च सर्वांश्चैकरथोऽजयत्। स्फीताञ्जानपदांश्चान्यानजयत् कुरुपुङ्गवः॥ तदुदारं महाघोषं सम्पन्नबलसूदनम्। अपज्यमकरोत् पार्थो गाण्डीवं सुभयङ्करम्॥ येन वीरः करुक्षेत्रमभ्यरक्षत् परंतपः। अमुञ्चद् धनुषस्तस्य ज्यामक्षय्यां युधिष्ठिरः॥ पाञ्चालान् येन संग्रामे भीमसेनोऽजयत् प्रभुः। प्रत्यषेधद् बहूनेकः सपत्नांश्चैव दिग्जये॥ निशम्य यस्य विस्फारं व्यद्रवन्त रणात् परे। पर्वतस्येव दीर्णस्य विस्फोटमशनेरिव॥ सैन्धवं येन राजानं पर्यामृषितवानथ। ज्यापाशं धनुषस्तस्य भीमसेनोऽवतारयत्॥ अजयत् पश्चिमामाशां धनुषा येन पाण्डवः। माद्रीपुत्रो महाबाहुस्ताम्रास्यो मितभाषिता॥ तस्य मौर्वीमपाकर्षच्छूरः संक्रन्दनो युधि। कुले नास्ति समो रूपे यस्येति नकुलः स्मृतः।।२५। दक्षिणां दक्षिणाचारो दिशं येनाजयत् प्रभुः। अपज्यमकरोद् वीरः सहदेवस्तदायुधम्॥ खगांश्च दीप्तान् दीर्घाश्च कलापांश्च महाधनान्। विपाठान् क्षुरधारांश्च धनुर्भिनिदधुः सह॥ वैशम्पायन उवाच अथान्वशासन्नकुलं कुन्तीपुत्रो युधिष्ठिरः। आरुह्येमां शमी वीर धनूंष्येतानि निक्षिप॥ तामुपारुह्य नकुलो धनूंषि निदधे स्वयम्। यानि तस्यावकाशानि दिव्यरूपाण्यमन्यत॥ यत्र चापश्यत स वै तिरोवर्षाणि वर्षति। तत्र तानि दृढैः पाशैः सुगाढं पर्यबन्धत॥ शरीरं च मृतस्यैकं समबनन्त पाण्डवाः। विवर्जयिष्यन्ति नरा दूरादेव शमीमिमाम्॥ आबद्धं शवमत्रेति गन्धमाघ्राय पूतिकम्। अशीतिशतवर्षेयं माता न इति वादिनः॥ कुलधर्मोऽयमस्माकं पूर्वैराजरितोऽपि वा। समासज्ज्याथ वृक्षेऽस्मिन्निति वै व्याहरन्ति ते॥ आगोयालाविपालेभ्य आचक्षाणाः परंतपाः। आजग्मुर्नगराभ्याशं पार्थाः शत्रुनिबर्हणाः॥ जयो जयन्तो विजयो जयत्सेनो जयद्बलः। इति गुह्यानि नामानि चक्रे तेषां युधिष्ठिरः॥ ततो यथाप्रतिज्ञाभिः प्राविशान् नगरं महत्। अज्ञातचर्यां वत्स्यन्तो राष्ट्र वर्षं त्रयोदशम्॥ वैशम्पायन उवाच विराटनगरं रम्यं गच्छमानो युधिष्ठिरः। अस्तुवन्मनसा देवी दुर्गा त्रिभुवनेश्वरीम्॥ यशोदागर्भसम्भूतां नारायणवरप्रियाम्। नन्दगोपकुले जातां मङ्गल्यां कुलवर्धिनीम्॥ कंसविद्रावणकरीमसुराणां क्षयंकरीम्। शिलातटविनिक्षिप्तामाकाशं प्रति गामिनीम्॥ वासुदेवस्य भगिनी दिव्यमाल्यविभूषिताम्। दिव्याम्बरधरां देवी खड्गखेटकधारिणीम्॥ भारावतरणे पुण्ये ये स्मरन्ति सदाशिवाम्। तान् वै तारयसे पापात् पङ्के गामिव दुर्बलाम्॥ स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसम्भवैः। आमन्त्र्य दर्शनाकाक्षी राजा देवीं सहानुजः॥ नमोऽस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि। बालार्कसदृशाकारे पूर्णचन्द्रनिभानने।॥ चतुर्भुजे चतुर्वक्त्रे पीनश्रोणिपयोधरे। मयूरपिच्छवलये केयूराङ्गदधारिणि। भासि देवि यथा पद्मा नारायणपरिग्रहः॥ स्वरूपं ब्रह्मचर्यं च विशदं गगनेश्वरी। कृष्णच्छविसमा कृष्णा संकर्षणसमानना॥ बिभ्रती विपुलौ बाहू शक्रध्वजसमुच्छ्यौ। पात्री च परूजी घण्टी स्त्रीविशुद्धा च या भुवि॥ पाशं धनुर्महाचक्रं विविधान्यायुधानि च। कुण्डलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता॥ चन्द्रविस्पर्द्धिना देवि मुखेन त्वं विराजसे। मुकुटने विचित्रेण केशबन्धेन शोभिना॥ भुजङ्गाभोगवासेन श्रोणिसूत्रेण राजता। विभ्राजसे चाबद्धेन भोगेनेवेह मन्दरः॥ ध्वजेन शिखिपिच्छानामुच्छ्रितेन विराजसे। कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया।॥ तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च। त्रैलोक्यरक्षणार्थाय महिषासुरनाशिनि। प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव॥ जया त्वं विजया चैव संग्रामे च जयप्रदा। ममापि विजयं देहि वरदा त्वं च साम्प्रतम्॥ विन्ध्ये चैव नगरश्रेष्ठे तव स्थानं हि शाश्वतम्। कालि कालि महाकालि खड्गखट्वाङ्गधारिणि॥ कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणि। भारावतारे ये च त्वां संस्मरिष्यन्ति मानवाः॥ प्रणमन्ति च ये त्वां हि प्रभाते तु नरा भुवि। न तेषां दुर्लभं किंचित् पुत्रतो धनतोऽपि वा।॥ दुर्गात् तारयसे दुर्गे तत् त्वं दुर्गा स्मृता जनैः। कान्तारेष्ववसन्नानां मग्नानां च महार्णवे॥ दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम्। जलप्रतरणे चैव कान्तारेष्वटवीषु च॥ ये स्मरन्ति महादेवि न च सीदन्ति ते नराः। त्वं कीर्तिः श्रीतिः सिद्धिीविद्या संततिर्मतिः॥ संध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कान्तिः क्षमा दया। नृणां च बन्धनं मोहं पुत्रनाशं धनक्षयम्॥ व्याधिं मृत्यु भयं चैव पूजिता नाशयिष्यसि। सोऽहं राज्यात् परिभ्रष्टः शरणं त्वां प्रपन्नवान्॥ प्रणतश्च यथा मूर्धा तव देवि सुरेश्वरि। त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः॥ शरणं भव मे दुर्गे शरण्ये भक्तवत्सले। एवं स्तुता हि सा देवी दर्शयामास पाण्डवम्॥ उपगम्य तु राजानमिदं वचनमब्रवीत्। देव्युवाच शृणु राजन् महाबाहो मदीयं वचनं प्रभो॥ भविष्यत्यचिरादेव संग्रामे विजयस्तव। मम प्रसादानिर्जित्य हत्वा कौरवाहिनीम्॥ राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः। भ्रातृभिः सहितो राजन् प्रीतिं प्राप्स्यसि पुष्कलाम्।। मत्प्रसादाच्च ते सौख्यमारोग्यं च भविष्यति। ये च संकीर्तयिष्यन्ति लोके विगतकल्मषाः॥ तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुः सुतम्। प्रवासे नगरे चापि संग्रामे शत्रुसंकटे॥ अटव्यां दुर्गकान्तारे सागरे गहने गिरौ। ये स्मरिष्यन्ति मां राजन् यथाहं भवता स्मृता॥ न तेषां दुर्लभं किंचिदस्मिस्मल्लोके भविष्यति। इदं स्तोत्रवरं भक्त्या शृणुयाद् वा पठेत वा॥ तस्य सर्वाणि कार्याणि सिद्धिं यास्यन्ति पाण्डवाः। मत्प्रसादाच्च वः सर्वान् विराटनगरे स्थितान्॥ न प्रज्ञास्यन्ति कुरवो नरा वा तन्निवासिनः। इत्युक्त्वा वरदा देवी युधिष्ठिरमरिंदमम्। रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत॥ वैशम्पायन उवाच ततो विराटं प्रथमं युधिष्ठिरो राजा सभायामुपविष्टमाव्रजत्। नक्षान् स कक्षे परिगृह्य वाससा॥ नराधिपो राष्ट्रपति यशस्विनं महायशाः कौरववंशवर्धनः। महानुभावो नरराजसत्कृतो दुरासदस्तीक्ष्णविषो यथोरगः॥ नपूर्वरूपेण यथामरस्तथा। र्यथानलो भस्मवृतश्च वीर्यवान्॥ तमापतन्तं प्रसमीक्ष्य पाण्डवं विराटराडिन्दुमिवाभ्रसंवृतम्। समागतं पूर्णशशिप्रभाननं महानुभावं न चिरेण दृष्टवान्॥ मन्त्रिद्विजान् सूतमुखान् विशस्तथा ये चापि केचित् परितः समासते। पप्रच्छ कोऽयं प्रथम समेयिवान् नृपोपमोऽयं समवेक्षते सभाम्॥ न तु द्विजोऽयं भविता नरोत्तमः पतिः पृथिव्या इति मे मनोगतम्। न चास्य दासो न रथो न कुढारः समीपतो भ्राजति चायमिन्द्रवत्॥ शरीरलिङ्गैरूपसूचितो ह्ययं मूर्द्धाभिषिक्त इति मे मनोगतम्। समीपमायाति च मे गतव्यथो यथा गजस्तामरसी मदोत्कटः॥ वितर्कयन्तं तु नरर्षभस्तथा युधिष्ठिरोऽभ्येत्य विराटमब्रवीत्। सम्राड्विजानात्विह जीवनार्थिनं विनष्टसर्वस्वमुपागतं द्विजम्॥ इहाहमिच्छामि तवानघान्तिके वस्तुं यथा कामचरस्तथा विभो। तमब्रवीत् स्वागतमित्यनन्तरं राजा प्रहृष्टः प्रतिसंगृहाण च॥ तं राजसिंहं प्रतिगृह्य राजा प्रीत्याऽऽत्मना चैनमिदं बभाषे। कामेन ताताभिवदाम्यहं त्वां कस्यासि राज्ञो विषयादिहागतः॥ गोत्रं च नामापि च शंस तत्त्वतः। किं चापि शिल्पं तव विद्यते कृतम्॥ युधिष्ठिर उवाच युधिष्ठिरस्यासमहं पुरा सखा वैयाघ्रपद्यः पुनरस्मि विप्रः। अक्षान् प्रयोक्तुं कुशलोऽस्मि देविनां कङ्केति नाम्नास्मि विराट विश्रुतः॥ विराट उवाच ददामि ते हन्त वरं यमिच्छसि प्रशाधि मत्स्यान् वशगो ह्यहं तव। प्रियाश्च धूर्ता मम देविनः सदा भवांश्च देवोपम राज्यमर्हति॥ युधिष्ठिर उवाच प्राप्तो विवादः प्रथमं विशाम्पते न विद्यते कं च न मत्स्य हीनतः। न मे जितः कश्चन धारयेद् धनं वरो ममैषोऽस्तु तव प्रसादजः॥ विराट उवाच हन्यामवश्यं यदि तेऽप्रियं चरेत् प्रव्राजयेयं विषयाद् द्विजांस्तथा। शृण्वन्तु में जानपदा: समागताः कङ्को यथाहं विषये प्रभुस्तथा॥ समानयानो भवितासि मे सखा प्रभूतवस्त्रो बहुपानभोजनः। पश्येस्त्वमन्तश्च बहिश्च सर्वदा कृतं च ते द्वारमपावृतं मया॥ ये त्वानुवादेऽयुरवृत्तिकर्शिता ब्रूयाश्च तेषां वचनेन मां सदा। दास्यामि सर्वं तदहं न संशयो न ते भयं विद्यति संनिधौ मम॥ वैशम्पायन उवाच एवं स लब्वा तु वरं समागम विराटराजेन नरर्षभस्तदा। उवास धीरः परमार्चितः सुखी न चापि कश्चिच्चरितं बुबोध तत्॥ वैशम्पायन उवाच त्रुपाययौ सिंहविलासविक्रमः। नसिं च कालाङ्गमकोशमव्रणम्॥ स सूदरूपः परमेण वर्चसा रविर्यथा लोकमिमं प्रकाशयन्। स्तं मत्स्यराजं समुपेत्य तस्थिवान्॥ तं प्रेक्ष्य राजा रमयन्नुपागतं ततोऽब्रवीज्जानपदान् समागतान्। सिंहोन्नतांसोऽयमतीव रूपवान् प्रदृश्यते को नु नरर्षभो युवा॥ अदृष्टपूर्वः पुरुषो रविर्यथा वितर्कयन् नास्य लभामि निश्चयम्। तथास्य चित्तं ह्यपि संवितर्कयन् नरर्षभस्यास्य न यामि तत्त्वतः॥ दृष्ट्वैव चैनं तु विचारयाम्यह गन्धर्वराजो यदि वा पुरंदरः। जानीत कोऽयं मम दर्शने स्थितो यदीप्सितं तल्लभतां च मा चिरम्॥ विराटवाक्येन च तेन चोदिता नरा विराटस्य सुशीघ्रगामिनः। उपेत्य कौन्तेयमथाब्रुवंस्तदा यथा स राजावदताच्युतानुजम्॥ स्त्वदीनरूपं वचनं महामनाः। उवाच सूदोऽस्मि नरेन्द्र बल्लवो भजस्व मां व्यढानकारमुत्तमम्॥ विराट उवाच न सूदतां बल्लव श्रद्दधामि ते सहस्रनेत्रप्रतिमो विराजसे। श्रिया च रूपेण च विक्रमेण च प्रभाससे त्वं नृवरो नरेष्विव॥ भीम उवाच नरेन्द्र परिचारकोऽस्मि ते जानामि सूपान् प्रथमं च केवलान्। आस्वादिता ये नृपते पुराभवन् युधिष्ठिरेणापि नृपेण सर्वशः॥ सूदः बलेन तुल्यश्च न विद्यते मया नियुद्धशीलश्च सदैव पार्थिवा गजैश्च सिंहैश्च समेयिवानहं सदा करिष्यामि तवानघ प्रियम्॥ विराट उवाच ददामि ते हन्त वरान् महानसे तथा च कुर्याः कुशलं प्रभाषसे। न चैव मन्ये तव कर्म यत् समं समुद्रनेमि पृथिवीं त्वमर्हसि॥ तथा हि कामो भवतस्तथा कृतं महानसे त्वं भव मे पुरस्कृतः। नराश्च ये तत्र समाहिताः पुरा भवांश्च तेषामधिपो मया कृतः॥ वैशम्पायन उवाच तथा स भीमो विहितो महानसे विराटराज्ञो दयितोऽभवद् दृढम्। उवास राज्ये न च तं पृथग् जनो बुबोध तत्रानुचराश्च केचन॥ वैशम्पायन उवाच ततः केशान् समुत्क्षिप्य वेल्लिताग्राननिन्दितान्। कृष्णान्सूक्ष्मान्मृदुन्दीर्घान् समुद्ग्रथ्य शुचिस्मिता॥ जुगूहे दक्षिणे पार्श्वे मृदूनसितलोचना। वासश्च परिधायैकं कृष्णा सुमलिनं महत्॥ कृत्वा वेषं च सैरन्ध्रयास्ततो व्यचरदार्तवत्। तां नराः परिघावन्ती स्त्रियश्च समुपाद्रवन्॥ अपृच्छंश्चैव तां दृष्ट्वा का त्वं किं च चिकीर्षसि। सा तानुवाच राजेन्द्र सैरर्थ्यहमिहागता॥ कर्म चेच्छामि वै कर्तुं तस्य यो मां युयुक्षति। तस्या रूपेण वेषेण श्लक्ष्णया च तथा गिरा। न श्रद्दधत तां दासीमन्नहेतोरूपस्थिताम्॥ विराटस्य तु कैकेयी भार्या परमसम्मता। आलोकयन्ती ददृशे प्रासादाद् द्रुपदात्मजाम्॥ सा समीक्ष्य तथारूपमनाथामेकवाससम्। समाहूयाब्रवीद् भद्रे का त्वं किं च चिकीर्षसि॥ सा तामुवाच राजेन्द्र सैरन्ध्यहमुपागता। कर्म चेच्छाम्यहं कर्तुं तस्य यो मां युयुक्षति॥ सुदेष्णोवाच नैवंरूपा भवन्त्येव यथा वदसि भामिनि। प्रेषयन्तीव वै दासीर्दासांश्च विविधान् बहून्॥ नोच्चगुल्फा संहतोरुस्त्रिगम्भीरा षडुन्नता। रक्ता पञ्चसु रक्तेषु हंसगद्गदभाषिणी॥ सुकेशी सुस्तनी श्यामा पीनश्रोणिपयोधरा। तेन तेनैव सम्पन्ना काश्मीरीव तुरङ्गमी॥ अरालपक्ष्मनयना बिम्बोष्ठी तनुमध्यमा। कम्बुग्रीवा गूढशिरा पूर्णचन्द्रनिभानना॥ शारदोत्पलपत्राक्ष्या शारदोत्पलगन्धया। शारदोत्पलसेविन्या रूपेण सदृशी श्रिया॥ का त्वं ब्रूहि यथा भद्रे नासि दासी कथंचना यक्षी वा यदि वा देवी गन्धर्वी यदि वाप्सराः॥ देवकन्या भुजङ्गी वा नगरस्याथ देवता। विद्याधरी किन्नरी वा यदि वा रोहिणी स्वयम्॥ अलम्बुषा मिश्रकेशी पुण्डरीकाथ मालिनी। इन्द्राणि वारुणी वा त्वं त्वष्टुर्धातुः प्रजापतेः। देव्यो देवेषु विख्यातास्तासां त्वं कतमा शुभे॥ द्रौपद्युवाच नास्मि देवी न गन्धर्वी नासुरी न च राक्षसी। सैरन्ध्री तु भुजिष्यास्मि सत्यमेतद् ब्रवीमि ते॥ केशाञ्जानाम्यहं कर्तुं पिंधे साधु विलेपनम्। मल्लिकोत्पलपद्मानां चम्पकानां तथा शुभे॥ ग्रथयिष्ये विचित्राश्च स्रजः परमशोभनाः। आराधयं सत्यभामां कृष्णस्य महिषीं प्रियाम्॥ कृष्णां च भार्यां पाण्डूनां कुरूणामेकसुन्दरीम्। तत्र तत्र चराम्येवं लभमाना सुभोजनम्॥ वासांसि यावन्ति लभे तावत् तावद् रमे तथा। मालिनीत्येव मे नाम स्वयं देवी चकार सा। साहमद्यागता देवि सुदेष्णे त्वन्निवेशनम्॥ सुदेष्णोवाच मूर्ध्नि त्वां वासयेयं वै संशयो मे न विद्यते। न चेदिच्छति राजा त्वां गच्छेत् सर्वेण चेतसा॥ स्त्रियो राजकुले याश्च याश्चेमा मम वेश्मनि। प्रसक्तास्त्वां निरीक्षन्ते पुमांसं कं न मोहयेः॥ वृक्षांश्चावस्थितान् पश्य य इमे मम वेश्मनि। तेऽपि त्वां संनमन्तीव पुमांसं कं न मोहयेः॥ राजा विराटः सुश्रोणि दृष्ट्वा वपुरमानुषम्। विहाय मां वरारोहे गच्छेत् सर्वेण चेतसा॥ यं हि त्वमनवद्याङ्गि तरलायतलोचने। प्रसक्तमभिवीक्षेथाः स कामवशगो भवेत्॥ यश्च त्वां सततं पश्येत् पुरुषश्चारुहासिनि। एवं सर्वानवद्याङ्गि स चानङ्गवशो भवेत्॥ अध्यारोहेद् यथा वृक्षान् वधायैवात्मनो नरः। राजवेश्मनि ते सुभ्रु गृहे तु स्यात् तथा मम॥ यथा च कर्कटी गर्भमाधत्ते मृत्युमात्मनः :1 तथाविधमहं मन्ये वासं तव शुचिस्मिते॥ द्रौपद्युवाच नास्मि लभ्या विराटेन न चान्येन कदाचन। गन्धर्वाः पतयो मह्यं युवानः पञ्च भामिनि॥ पुत्रा गन्धर्वराजस्य महासत्त्वस्य कस्यचित्। रक्षन्ति ते च मां नित्यं दुःखाचारा तथा ह्यहम्॥ यो मे न दद्यादृच्छिष्टं न च पादौ प्रधावयेत्। प्रीणेरंस्तेन वासेन गन्धर्वाः पतयो मम॥ यो हि मां पुरुषो गृद्ध्येद् यथान्याः प्राकृताः स्त्रियः। तामेव निवसेद् रात्रिं प्रविश्य च परां तनुम्॥ न चाप्यहं चालयितुं शक्या केनचिदङ्गने। दुःखशीला हि गन्धर्वास्ते च मे बलिनः प्रियाः॥ सुदेष्णोवाच प्रच्छन्नाश्चापि रक्षन्ति ते मां नित्यं शुचिस्मिते। एवं त्वां वासयिष्यामि यथा त्वं नन्दिनीच्छसि॥ न च पादौ न चोच्छिष्टं स्प्रक्ष्यसि त्वं कथंचन। वैशम्पायन उवाच एवं कृष्णा विराटस्य भार्यया परिसान्त्विता॥ उवास नगरे तस्मिन् पतिधर्मवती सती। न चैनां वेद तत्रान्यस्तत्त्वेन जनमेजय॥ वैशम्पायन उवाच सहदेवोऽपि गोपानां कृत्वा वेषमनुत्तमम्। भाषां चैषां समास्थाय विराटमुपयादथ॥ गोष्टमासाद्य तिष्ठन्तं भवनस्य समीपतः। राजाथ दृष्ट्वा पुरुषान् प्राहिणोज्जातविस्मयः॥ तमायान्तमभिप्रेक्ष्य भ्राजमानं नरर्षभम्। समुपस्थाय वै राजा पप्रच्छ कुरुनन्दनम्॥ कस्य वा त्वं कुतो वा त्वं किंवा त्वं तु चिकीर्षसि। न हि मे दृष्टपूर्वस्त्वं तत्त्वं ब्रूहि नरर्षभ॥ सम्प्राप्य राजानममित्रतापनं ततोऽब्रवीन्मेघमहौघनिःस्वनः। गोसंख्य आसं कुरुपुङ्गवानाम्॥ वस्तुं त्वयीच्छामि विशां वरिष्ठ तान् राजसिंहान् न हि वेद्मि पार्थान्। न शक्यते जीवितुमप्यकर्मणा न च त्वदन्यो मम रोचते नृपः॥ विराट उवाच त्वं ब्राह्मणो यदि वा क्षत्रियोऽसि समुद्रनेमीश्वररूपवानसि। आचक्ष्व मे तत्त्वममित्रकर्शन न वैश्यकर्म त्वयि विद्यते क्षमम्॥ कस्यासि राज्ञो विषयादिहागतः किं वापि शिल्पं तव विद्यते कृतम्। कथं त्वमस्मासु निवत्स्यसे सदा वदस्व किं चापि तवेह वेतनम्॥ सहदेव उवाच पञ्चानां पाण्डुपुत्राणां ज्येष्ठो भ्राता युधिष्ठिरः। तस्याष्टशतसाहस्रा गवां वर्गाः शतं शतम्॥ अपरे शतसाहस्रा विस्तावन्तस्तथा परे। तेषां गोसंख्य आसं वै तन्तिपालेति मां विदुः॥ भूतं भव्यं भविष्यं च यच्च संख्यागतं गवाम्। न मेऽस्त्यविदितं किंचित् समन्ताद् दशयोजनम्॥ गुणाः सुविदिता ह्यासन् मम तस्य महात्मनः। असकृत् स मया तुष्टः कुरुराजो युधिष्ठिरः॥ क्षिप्रं च गावो बहुला भवन्ति न तासु रोगो भवतीह कश्चना देतानि शिल्पानि मयि स्थितानि॥ ऋषभाँश्चापि जानामि राजन् पूजितलक्षणान्। येषां मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते॥ विराट उवाच शतं सहस्राणि समाहितानि सवर्णवर्णस्य विमिश्रितान् गुणैः। पशून् सपालान् भवते ददाम्यहं त्वदाश्रया मे पशवो भवन्त्विह॥ वैशम्पायन उवाच रुवास तत्रैव सुखं नरोत्तमः। न चैनमन्येऽपि विदुः कथंचन प्रादाच्च तस्मै भरणं यथेप्सितम्॥ वैशम्पायन उवाच अथापरोऽदृश्यत रूपसम्पदा स्त्रीमाणलङ्कारधरो बृहत्पुमान्। प्राकारवप्रे प्रतिमुच्य कुण्डले दीर्घ च कम्बूपरि हाटके शुभे॥ बाहू च दीर्घान् प्रविकीर्य मूर्धजान् महाभुजो वारणतुल्यविक्रमः। गतेन भूमि प्रतिकम्पयंस्तदा विराटमासाद्य सभासमीपतः॥ तं प्रेक्ष्य राजोपगतं सभातले व्याजात् प्रतिच्छन्नमरिप्रमाथिनम्। विराजमानं परमेण वर्चसा सुतं महेन्द्रस्य गजेन्द्र विक्रमम्॥ सर्वानपृच्छच्च सभानुचारिणः कुतोऽयमायाति पुरा न मे श्रुतः। न चैनमूचुर्विदितं तदा नराः सविस्मयं वाक्यमिदं नृपोऽब्रवीत्॥ सत्त्वोपपन्नः पुरुषोऽमरोपमः श्यामो युवा वारणयूथपोपमः। आमुच्य कम्बूपरि हाटके शुभे विमुच्य वेणीमपिना कुण्डले॥ स्रग्वी सुकेशः परिधाय चान्यथा शुशोभ धन्वी कवची शरीयथा। आरुह्य यानं परिधावतां भवान् सुतैः समो मे भव वा मया समः॥ वृद्धो ह्यहं वै परिहारकामः सर्वान् मत्स्यांस्तरसा पालयस्व। नैवंविधाः क्लीपरूपा भवन्ति कथंचनेति प्रतिभाति मे मनः॥ अर्जुन उवाच गायामि नृत्याम्यथ वादयामि भद्रोऽस्मि नृत्ये कुशलोऽस्मि गीते। त्वमुत्तरायै प्रदिशस्व मां स्वयं भवामि देव्या नरदेव नर्तकः॥ इदं तु रूपं मम येन किं तव प्रकीर्तयित्वा भृशशोकवर्धनम्। बृहन्नलां मां नरदेव विद्धि सुतं सुतां वा पितृमातृवर्जिताम्॥ विराट उवाच ददामि ते हन्त वरं बृहन्नले सुतां च मे नर्तय याश्च तादृशीः। इदं तु ते कर्म समं न मे मतं समुद्रनेमि पृथिवीं त्वमर्हसि॥ वैशम्पायन उवाच बृहन्नलां तामभिवीक्ष्य मत्स्यराट कलासु नृत्येषु तथैव वादिते। सम्मन्त्र्य राजा विविधैः स्वमन्त्रिभिः परीक्ष्य चैनं प्रमदाभिराशु वै॥ अपुस्त्वमप्यस्य निशम्य च स्थिरं ततः कुमारीपुरमुत्ससर्ज तम्। स शिक्षयामास च गीतवादितं सुतां विराटस्य धनंजयः प्रभुः॥ सखींश्च तस्याः परिचारिकास्तथा प्रियश्च तासां स बभूव पाण्डवः॥ तथा स सत्रेण धनंजयो वसन् प्रियाणि कुर्वन् सह ताभिरात्मवान्। तथा च तं तत्र न जज्ञिरे जना बहिश्चरा वाप्यथ चान्तरेचराः॥ वैशम्पायन उवाच विराटराजं तरसा समेयिवान्। तमापतन्तं ददृशे पृथग्जनो विमुक्तमभ्रादिव सूर्यमण्डलम्॥ स वै हयानैक्षत तांस्ततस्ततः समीक्षमाणं स ददर्श मत्स्यराट्। ततोऽब्रवीत् ताननुगान् नरेश्वरः कुतोऽयमायाति नरोऽमरोपमः॥ स्वयं हयानीक्षति मामकान् दृढं ध्रुवं हयज्ञो भविता विचक्षणः। प्रवेश्यतामेष समीपामाशु मे विभाति वीरो हि यथामरस्तथा॥ ज्जयोऽस्तु ते पार्थिव भद्रमस्तु वः। हयेषु युक्तो नृप सम्मतः सदा तराश्वसूतो निपुणो भवाम्यहम्॥ विराट उवाच ददामि यानानि धनं निवेशनं ममाश्वसूतो भवितुं त्वमर्हसि। कुतोऽसि कस्यासि कथं त्वमागतः प्रब्रूहि शिल्पं तव विद्यते च यत्॥ नकुल उवाच पञ्चानां पाण्डुपुत्राणां ज्येष्ठो भ्राता युधिष्ठिरः। तेनाहमश्वेषु पुरा नियुक्तः शत्रुकर्शन॥ अश्वानां प्रकृति वेद्मि विनयं चापि सर्वशः। दुष्टानां प्रतिपत्तिं च कृत्स्नं चैव चिकित्सितम्॥ न कातरं स्यान्मम जातु वाहनं न मेऽस्ति दुष्टा वडवा कुतो हयाः। जनस्तु मामाह स चापि पाण्डवो युधिष्ठिरो ग्रन्थिकमेव नामतः॥ विराट उवाच यदस्ति किंचिन्मम वाजिवाहनं तदस्तु सर्वं त्वदधीनमद्य वै। स्त्वदाश्रयाः सारथयश्च सन्तु मे॥ इदं तवेष्टं यदि वै सुरोपम ब्रवीहि यत् ते प्रसमीक्षितं वसु। न तेऽनुरूपं हयकर्म विद्यते प्रभासि राजेव हि सम्मतो मम॥ युधिष्ठिरस्येव हि दर्शनेन मे समं तवेदं प्रियमत्र दर्शनम्। कथं तु भृत्यैः स विनाकृतो वने वसत्यनिन्द्यो रमते च पाण्डवः॥ वैशम्पायन उवाच तथा स गन्धर्ववरोपमो युवा विराटराज्ञा मुदितेन पूजितः। न चैनमन्येऽपि विदुः कथंचन प्रियाभिरामं विचरन्तमन्तरा॥ एवं हि मत्स्ये न्यवसन्त पाण्डवा यथाप्रतिज्ञाभिरमोघदर्शनाः। अज्ञातचर्यां व्यचरन् समाहिताः समुद्रनेमीपतयोऽतिदुःखिताः॥ वैशम्पायन उवाच प्रत्याख्यातो राजपुत्र्या सुदेष्णां कीचकोऽब्रवीत्। अमर्यादेन कामेन घोरेणाभिपरिप्लुतः॥ यथा कैकेयि सैरन्ध्री समेयात् तद् विधीयताम्। येनोपायेन सैरन्ध्री भजेन्मां गजगामिनी। तं सुदेष्णे परीप्सस्व प्राणान् मोहात् प्रहासिषम्॥ वैशम्पायन उवाच तस्य सा बहुशः श्रुत्वा वाचं विलपतस्तदा। विराटमहिषी देवी कृपां चक्रे मनस्विनी॥ स्वमन्त्रमभिसंधाय तस्यार्थमनुचिन्त्य च। उद्योगं चैव कृष्णायाः सुदेष्णा सूतमब्रवीत्॥ पर्वणि त्वं समुद्दिश्य सुरामन्नं च कारय। तत्रैनां प्रेषयिष्यामि सुराहारी तवान्तिकम्॥ तत्र सम्प्रेषितामेनां विजने निरवग्रह। सान्त्वयेथा यथाकामं सान्त्व्यमाना रमेद् यदि॥ वैशम्पायन उवाच इत्युक्तः स विनिष्क्रम्य भगिन्या वचनात् तदा। सुरामाहारयामास राजाहाँ सुपरिष्कृताम्॥ भक्ष्यांश्च विविधाकारान् बहूंचोच्चावचांस्तदा। कारयामास कुशलैरन्नं पानं सुशोभनम्॥ तस्मिन् कृते तदा देवी कीचकेनोपमन्त्रिता। सुदेष्णा प्रेषयामास सैरन्ध्रीं कीचकालयम्॥ सुदेष्णोवाच उत्तिष्ठ गच्छ सैरन्ध्र कीचकस्य निवेशनम्। पानमानय कल्याणि पिपासा मां प्रबाधते॥ सैरन्ध्युवाच न गच्छेयमहं तस्य राजपुत्रि निवेशनम्। त्वमेव राज्ञि जानासि यथा स निरपत्रपः॥ न चाहमनवद्याङ्गि तव वेश्मनि भामिनि। कामवृत्ता भविष्यामि पतीनां व्यभिचारिणी॥ त्वं चैव देवि जानासि यथा स समयः कृतः। प्रविशन्त्या मया पूर्वं तव वेश्मनि भामिनि॥ कीचकस्तु सुकेशान्ते मूढो मदनदर्पितः। सोऽवमंस्यति मां दृष्ट्वा न यास्ये तत्र शोभने॥ सन्ति बयस्तव प्रेष्या राजपुत्रि वशानुगाः। अन्यां प्रेषय भद्रं ते स हि मामवमंस्यते॥ सुदेष्णोवाच नव त्वां जातु हिंस्यात् स इतः सम्प्रेषितां मया। इत्युक्त्वा प्रददौ पात्रं सपिधानं हिरण्मयम्॥ सा शङ्कमाना रुदती दैवं शरणमीयुषी। प्रातिष्ठत सुराहारी कीचकस्य निवेशनम्॥ सैरभ्युवाच यथाहमन्यं भर्तृभ्यो नाभिजानामि कंचन। तेन सत्येन मां प्राप्तां मा कुर्यात् कीचको वशे।।१८। वैशम्पायन उवाच उपातिष्ठत सा सूर्यं मुहूर्तमबला ततः। स तस्यास्तनुमध्यायाः सर्वं सूर्योऽवबुद्धवान्॥ अन्तर्हितं ततस्तस्या रक्षो रक्षार्थमादिशत्। तच्चैनां नाजहात् तत्र सर्वावस्थास्वनिन्दिताम्॥ तां मृगीमिव संत्रस्तां दृष्ट्वा कृष्णां समीपगाम्। उदतिष्ठन्मुदा सूतो नावं लब्वेव पारगः॥ कीचक उवाच स्वागतं ते सुकेशान्ते सुव्युष्टा रजनी मम। स्वामिनी त्वमनुप्राप्ता प्रकुरुष्व मम प्रियम्॥ सुवर्णमालाः कम्बूश्च कुण्डले परिहाटके। नानापत्तनजे शुभ्रे मणिरत्नं च शोभनम्॥ आहरन्तु च वस्त्राणि कौशिकान्यजिनानि च। अस्ति मे शयनं दिव्यं त्वदर्थमुपक्लिपतम्। एहि तत्र मया सार्द्धं पिबस्व मधुमाधवीम्॥ द्रौपद्युवाच अप्रैषीद् राजपुत्री मां सुराहारी तवान्तिकम्। पानमाहर मे क्षिप्रं पिपासा मेऽति चाब्रवीत्॥ कीचक उवाच अन्या भद्रे नयिष्यन्ति राजपुत्र्याः प्रतिश्रुतम्। इत्येतां दक्षिणे पाणौ सूतपुत्रः परामृशत्॥ द्रौपद्युवाच यथैवाहं नाभिचरे कदाचित् पतीन् मदाद् वै मनसापि जातु। तेनैव सत्येन वशीकृतं त्वां द्रष्टास्मि पापं परिकृष्यमाणम्॥ वैशम्पायन उवाच स तामभिप्रेक्ष्य विशालनेत्रां जिघृक्षमाणः परिभर्सयन्तीम्। जग्राह तामुत्तरवस्त्रदेशे स कीचकस्तां सहसाऽऽक्षिपन्तीम्॥ प्रगृह्यमाणा तु महाजवेन मुहुर्विनिःश्वस्य च राजपुत्री। तया समाक्षिप्ततनुः स पापः पपात शाखीव निकृत्तमूलः॥ सा गृहीता विधुन्वाना भूमावाक्षिप्य कीचकम्। सभां शरणमागच्छद् यत्र राजा युधिष्ठिरः॥ तां कीचकः प्रधावन्ती केशपाशे परामृशत्। अथैनां पश्यतो राज्ञः पातयित्वा पदावधीत्॥ तस्य योऽसौ तदार्केण राक्षसः संनियोजितः। स कीचकमपोवाह वातवेगेन भारत॥ स पपात तदा भूमौ रक्षोबलसमाहतः। विघूर्णमानो निश्चेष्टश्छिन्नमूल इव दुमः॥ तां चासीनौ ददृशतुर्भीमसेनयुधिष्ठिरौ। अमृष्यमाणौ कृष्णायाः कीचकेन पराभवन्॥ तस्य भीमो वधं प्रेप्सुः कीचकस्य दुरात्मनः। दन्तैर्दन्तांस्तदा रोषान्निष्पिपेष महामनाः॥ धूमच्छाया ह्यभजतां नेत्रे चोच्छ्रित श्मणी। सस्वेदा भृकुटी चोग्रा ललाटे समवर्तत॥ हस्तेन ममृजे चैव ललाटं परवीरहा। भूयश्च त्वरितः क्रुद्धः सहसोत्थातुमैच्छत॥ अथावमृद्गादङ्गुष्ठमङ्गुष्ठेन युधिष्ठिरः। प्रबोधनभयाद् राजा भीमं तं प्रत्यषेधयत्॥ तं मत्तमिव मातङ्गं वीक्षमाणं वनस्पतिम्। स तमावारयामास भीमसेनं युधिष्ठिरः॥ आलोकयसि किं वृक्षं सूद दारुकृतेन वै। यदि ते दारुभिः कृत्यं बहिर्वक्षान्निगृह्यताम्॥ सा सभाद्वारमासाद्य रुदती मत्स्यमब्रवीत्। अवेक्षमाणा सुश्रोणी पतीस्तान् दीनचेतसः॥ आकारमभिरक्षन्ती प्रतिज्ञाधर्मसंहिता। दह्यमानेव रौद्रेण चक्षुषा दुपदात्मजा॥ येषां वैरी न स्वपिति षष्ठेऽपि विषये वसन्। तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत्॥ ये दधुर्न च याचेयुर्ब्रह्मण्याः सत्यवादिनः। तेषां मां मानिनी भार्यां सूतपुत्रः पदावधीत्॥ येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयतेऽनिशम्। तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत्॥ ये च तेजस्विनी दान्ता बलवन्तोऽतिमानिनः। तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत्॥ सर्वलोकमिमं हन्युर्धर्मपाशसितास्तु ये। तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत्॥ शरणं ये प्रपन्नानां भवन्ति शरणार्थिनाम्। चरन्ति लोके प्रच्छन्नाः क्व नु तेऽद्य महारथाः॥ कथं ते सूतपुत्रेण वध्यमानां प्रियां सतोम्। मर्षयन्ति यथा क्लीबा बलवन्तोऽमितौजसः॥ क्व नु तेषाममर्षश्च वीर्य तेजश्च वर्तते। न परीप्सन्ति ये भार्यां वध्यमानां दुरात्मना॥ मयात्र शक्यं किं कर्तुं विराटे धर्मदूषके। यः पश्यन् मां मर्षयति वध्यमानामनागसम्॥ न राजा राजवत् किंचित् समाचरति कीचके। दस्यूनामिव धर्मस्ते न हि संसदि शोभते॥ नाहमेतेन युक्तं वै हन्तुं मत्स्य तवान्तिके। सभासदोऽत्र पश्यन्तु कीचकस्य व्यतिक्रमम्॥ कीचको न च धर्मज्ञो न च मत्स्यः कथंचन। सभासदोऽप्यधर्मज्ञा य एनं पर्युपासते।॥ वैशम्पायन उवाच एवंविधैर्वचोभिः सा तदा कृष्णाश्रुलोचना। उपलाभत राजानं मत्स्यानां वरवर्णिनी॥ विराट उवाच परोक्षं नाभिजानामि विग्रहं युवयोरहम्। अर्थतत्त्वमविज्ञाय किं नु स्यात् कौशलं मम॥ वैशम्पायन उवाच ततस्तु सभ्या विज्ञाय कृष्णां भूयोऽभ्यपूजयन्। साधु साध्विति चाप्याहुः कीचकं च व्यगर्हयन्॥ सभ्या ऊचुः यस्येयं चारुसर्वाङ्गी भार्या स्यादायतेक्षणा। परो लाभस्तु तस्य स्यान्न च शोचेत् कथंचन॥ न हीदृशी मनुष्येषु सुलभा वरवर्णिनी। नारी सर्वानवद्याङ्गी देवीं मन्यामहे वयम्॥ वैशम्पायन उवाच एवं सम्पूजयन्तस्ते कृष्णां प्रेक्ष्य सभासदः। युधिष्ठिरस्य कोपात् तु ललाटे स्वेद आगमत्॥ अथाब्रवीद् राजपुत्री कौरव्यो महिषीं प्रियाम्। गच्छ सैरन्ध्र मात्र स्थाः सुदेष्णाया निवेशनम्॥ भर्तारमनुरुन्धन्त्यः क्लिश्यन्ते वीरपत्नयः। शुश्रूषया क्लिश्यमानाः पतिलोकं जयन्त्युत॥ मन्ये न कालं क्रोधस्य पश्यन्ति पतयस्तव। तेन त्वां नाभिधावन्ति गन्धर्वाः सूर्यवर्चसः॥ अकालज्ञासि सैरन्ध्र शैलूषीव विरोदिषि। विघ्नं करोषि मत्स्यानां दीव्यतां राजसंसदि॥ गच्छ सैरन्ध्र गन्धर्वाः करिष्यन्ति तव प्रियम्। व्यपनेष्यन्ति ते दुःखं येन ते विप्रियं कृतम्॥ सैरभ्युवाच अतीव तेषां घृणिनामर्थेऽहं धर्मचारिणी। तस्य तस्यैव ते वध्या येषां ज्येष्ठोऽक्षदेविता॥ वैशम्पायन उवाच इत्युक्त्वा प्राद्रवत् कृष्णा सुदेष्णाया निवेशनम्। केशान् मुक्त्वा च सुश्रोणी संरम्भाल्लोहितेक्षणा।।४६ शुशुभे वदनं तस्या रुदत्याः सुचिरं तदा। मेघलेखाविनिर्मुक्तं दिवीव शशिमण्डलम्॥ सुदेष्णोवाच कस्त्वावधीद् वरारोहे कस्माद् रोदिषि शोभने। कस्याद्य न सुखं भद्रे केन ते विप्रियं कृतम्॥ द्रौपद्युवाच कीचको मावधीत् तत्र सुराहारीं गतां तवा सभायां पश्यतो राज्ञो यथैव विजने वने॥ सुदेष्णोवाच घातयामि सुकेशान्ते कीचकं यदि मन्यसे। योऽसौ त्वां कामसम्मत्तो दुर्लभामवमन्यते॥ सैन्ध्युवाच अन्ये चैनं वधिष्यन्ति येषामागः करोति सः। मन्ये चैवाद्य सुव्यक्तं यमलोकं गमिष्यति॥ वैशम्पायन उवाच सा हता सूतपुत्रेण राजपत्नी यशस्विनी। वधं कृष्णा परीप्सन्ती सेनावाहस्य भामिनी।।।। जगामावासमेवाथ सा तदा द्रुपदात्मजा। कृत्वा शौचं यथान्यायं कृष्णा सा तनुमध्यमा।॥ गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा। चिन्तयामास रुदती तस्य दुःखस्य निर्णयम्॥ किं करोमि क्व गच्छामि कथं कार्यं भवेन्मम। इत्येवं चिन्तयित्वा सा भीमं वै मनसागमत्॥ नान्यः कर्ता ऋते भीमान्ममाद्य मनसः प्रियम्। तत उत्थाय रात्रौ सा विहाय शयनं स्वकम्॥ प्राद्रवन्नाथमिच्छन्ती कृष्णा नाथवती सती। भवनं भीमसेनस्य क्षिप्रमायतलोचना॥ दुःखेन महता युक्ता मानसेन मनस्विनी। सैरन्ध्युवाच तस्मिञ्जीवति पापिष्ठे सेनावाहे मम द्विषि॥ तत् कर्म कृतवानद्य कथं निद्रां निषेवसे। वैशम्पायन उवाच एवमुक्त्वाथ तां शालां प्रविवेश मनस्विनी॥ यस्यां भीमस्तथा शेते मृगराज इव श्वसन्। तस्या रूपेण सा शाला भीमस्य च महात्मनः॥ सम्मूर्छितेव कौरव्य प्रजज्वाल च तेजसा। सा वै महानसं प्राप्य भीमसेनं शुचिस्मिता॥ सर्वश्वेतेव माहेयी वने जाता त्रिहायणी। उपातिष्ठत पाञ्चाली वासितेव नरर्षभम्॥ सा लतेव महाशालं फुल्लं गोमतितीरजम्। परिष्वजत पाञ्चाली मध्यमं पाण्डुनन्दनम्॥ बाहुभ्यां परिरभ्यैनं प्राबोधयदनिन्दिता। सिंहं सुप्तं वने दुर्गे मृगराजवधूरिव।॥ भीमसेनमुपाश्लिष्यद्धस्तिनीव महागजम्। वीणेव मधुरालापा गान्धारं साधु मूर्छती। अभ्यभाषत पाञ्चाली भीमसेनमनिन्दिता॥ उत्तिष्ठोत्तिष्ठ किं शेषे भीमसेन यथा मृतः। नामृतस्य हि पापीयान् भार्यामालभ्य जीवति॥ स सम्प्रहाय शयनं राजपुत्र्या प्रबोधितः। उपातिष्ठत मेधाभः पर्यङ्के सोपसंग्रहे॥ अथाब्रवीद् राजपुत्री कौरव्यो महिषीं प्रियाम्। केनास्यर्थेन सम्प्राप्ता त्वरितेव ममान्तिकम्॥ न ते प्रकृतिमान् वर्णः कृशा पाण्डुश्च लक्ष्यसे। आचक्ष्व परिशेषेण सर्वं विद्यामहं यथा॥ सुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम्। यथावत् सर्वमाचक्ष्व श्रुत्वा ज्ञास्यामि यत् क्षमम्।।१९ अहमेव हि ते कृष्णा विश्वास्यः सर्वकर्मसु। अहमापत्सु चापि त्वां मोक्षयामि पुनः पुनः॥ शीघ्रमुक्त्वा यथाकामं यत् ते कार्यं विवक्षितम्। गच्छ वै शयनायैव पुरा नान्येन बुध्यते॥ द्रौपयुवाच इदं तु ते महद् दुःखं यत् प्रवक्ष्यामि भारत। न मेऽभ्यसूया कर्तव्या दुःखादेतद् ब्रवीम्यहम्॥ सूदकर्मणि हीने त्वमसमे भरतर्षभ। ब्रुवन् बल्लवजातीयः कस्य शोकं न वर्धयेः॥ सूपकारं विराटस्य बल्लवं त्वां विदुर्जनाः। प्रेष्यत्वं समनुप्राप्त ततो दुःखतरं नु किम्॥ यदा महानसे सिद्धे विराटमुपतिष्ठसि। ब्रुवाणो बल्लव: सूदस्तदा सीदति मे मनः॥ यदा प्रहृष्टः सम्राट् त्वां संयोधयति कुवारैः। हसन्त्यन्तःपुरे नार्यो मम तूद्विजते मनः॥ शार्दूलैर्महिषैः सिंहैरागारे योध्यसे यदा। कैकेय्याः प्रेक्षमाणायास्तदा मे कश्मलं भवेत्॥ तत उत्थाय कैकेयी सर्वास्ताः प्रत्यभाषत। प्रेष्याः समुत्थिताश्चापि कैकेयीं ताः स्त्रियोऽब्रुवन्॥ प्रेक्ष्य मामनवद्यागी कश्मलोपहतामिव। स्नेहात् संवासजाद् धर्मात् सूदमेषा शुचिस्मिता॥ योद्ध्यमानं महावीर्यमियं समनुशोचति। कल्याणरूपा सैरन्ध्री बल्लवश्चापि सुन्दरः॥ स्त्रीणां चित्तं च दुर्जेयं युक्तरूपौ च मे मतौ। सैरन्ध्री प्रियसंवासान्नित्यं करुणवादिनी॥ अस्मिन् राजकुले चेमौ तुल्यकालनिवासिनौ। इति ब्रुवाणा वाक्यानि सा मां नित्यमतर्जयत्॥ क्रुध्यन्तीं मां च सम्प्रेक्ष्य समशङ्कत मां त्वयि। तस्यां तथा ब्रुवत्यां तु दुःखं मां महदाविशत्॥ त्वय्येवं निरयं प्राप्ते भीमे भीमपराक्रमे। शोके यौधिष्ठिरे मग्ना नाहं जीवितुमुत्सहे॥ यः सदेवान् मनुष्यांश्च सर्वांश्चैकरथोऽजयत्। सोऽयं राज्ञो विराटस्य कन्यानां नर्तको युवा॥ योऽतर्पयदमेयात्मा खाण्डवे जातवेदसम्। सोऽन्तःपुरगतः पार्थ कूपेऽग्निरिव संवृतः॥ यस्माद् भयममित्राणां सदैव पुरुषर्षभात्। स लोकपरिभूतेन वेषेणास्ते धनंजयः॥ यस्य ज्याक्षेपकठिनौ बाहू परिघसंनिभौ। स शङ्खपरिपूर्णाभ्यां शोचन्नास्ते धनंजयः॥ यस्य ज्यातलनिर्घोषात् समकम्पन्त शत्रवः। स्त्रियो गीतस्वनं तस्य मुदिताः पर्युपासते॥ किरीटं सूर्यसंकाशं यस्य मूर्धन्यशोभत। वेणीविकृतकेशान्तः सोऽयमद्य धनंजयः॥ तं वेणीकृतकेशान्तं भीमधन्वानमर्जुनम्। कन्यापरिवृतं दृष्ट्वा भीम सीदति मे मनः॥ यस्मिन्नस्त्राणि दिव्यानि समस्तानि महात्मनि। आधारः सर्वविद्यानां स धारयति कुण्डले॥ स्प्रष्टुं राजसहस्राणि तेजसाप्रतिमानि वै। समरे नाभ्यवर्तन्त वेलामिव महार्णवः॥ सोऽयं राज्ञो विराटस्य कन्यानां नर्तको युवा। आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः॥ यस्य स्म रथघोषेण समकम्पत मेदिनी। सपर्वतवना भीम सहस्थावरजङ्गमा।॥ यस्मिट्ठाते महाभागे कुन्त्याः शोको व्यनश्यता स शोचयति मामद्य भीमसेन तवानुजः॥ भूषितं तमलंकारैः कुण्डलैः परिहाटकैः। कम्बुपाणिनमायान्तं दृष्ट्वा सीदति मे मनः॥ यस्य नास्ति समो वीर्ये कश्चिदुर्व्या धनुर्धरः। सोऽद्य कन्यापरिवृतो गायन्नास्ते धनंजयः॥ धर्मे शौर्ये च सत्ये च जीवलोकस्य सम्मतम्। स्त्रीवेषविकृतं पार्थं दृष्ट्वा सीदति मे मनः॥ यदा ह्येनं परिवृतं कन्याभिर्देवरूपिणम्। प्रभिन्नमिव मातङ्गं परिकीर्णं करेणुभिः॥ मत्स्यमर्थपतिं पार्थं विराटं समुपस्थितम्। पश्यामि तूर्यमध्यस्थं दिशो नश्यन्ति मे तदा॥ नूनमार्या न जानाति कृच्छ्रे प्राप्तं धनंजयम्। अजातशत्रु कौरव्यं मग्नं दुर्दूतदेविनम्॥ तथा दृष्ट्वा यवीयांसं सहदेवं गवां पतिम्। गोषु गोवेषमायान्तं पाण्डुभूतास्मि भारत॥ सहदेवस्य वृत्तानि चिन्तयन्ती पुनः पुनः। न निद्रामभिगच्छामि भीमसेन कुतो रतिम्॥ न विन्दामि महाबाहो सहदेवस्य दुष्कृतम्। यस्मिन्नेववंविधं दुःखं प्राप्नुयात् सत्यविक्रमः॥ दूयामि भरतश्रेष्ठ दृष्ट्वा ते भ्रातरं प्रियम्। गोषु गोवृषसंकाशं मत्स्येनाभिनिवेशितम्॥ संरब्धं रक्तनेपथ्यं गोपालानां पुरोगमम्। विराटमभिनन्दन्तमथ मे भवति ज्वरः॥ सहदेवं हि मे वीर नित्यमार्या प्रशंसति। महाभिजनसम्पन्नः शीलवान् वृत्तवानिति॥ ह्रीनिषेवो मधुरवाकधार्मिकश्च प्रियश्च मे। स तेऽरण्येषु वोढव्यो याज्ञसेनि क्षपास्वपि॥ सुकुमारश्च शूरच राजानं चाप्यनुव्रतः। ज्येष्ठापचायिनं वीरं स्वयं पाज्ञालि भोजये:।३९॥ इत्युवाच हि मां कुन्ती रुदती पुत्रगृद्धिनी। प्रव्रजन्तं महारण्यं तं परिष्वज्य तिष्ठती॥ तं दृष्ट्वा व्यापृतं गोषु वत्सचर्मक्षपाशयम्। सहदेवं युधां श्रेष्ठं किं नु जीवामि पाण्डव।॥ यस्त्रिभिनित्यसम्पन्नो रूपेणास्त्रेण मेधया। सोऽश्वबन्धो विराटस्य पश्य कालस्य पर्ययम्॥ अभ्यकीर्यन्त वृन्दानि दामग्रन्थिमुदीक्ष्य तम्। विनयन्तं जवेनाश्वान् महाराजस्य पश्यतः॥ अपश्यमेनं श्रीमन्तं मत्स्यं भ्राजिष्णुमुत्तमम्। विराटमुपतिष्ठन्तं दर्शयन्तं च वाजिनः॥ किं नु मां मन्यसे पार्थ सुखिनीति परंतप। एवं दुःखशताविष्टा युधिष्ठिरनिमित्ततः॥ अतः प्रतिविशिष्टानि दुःखान्यन्यानि भारत। वर्तन्ते मयि कौन्तेय वक्ष्यामि शृणु तान्यपि॥ युष्मासु ध्रियमाणेषु दुःखानि विविधान्युत। शोषयन्ति शरीरं मे किं नु दुःखमतः परम्॥ द्रौपद्युवाच अहं सैरन्ध्रवेषेण चरन्ती राजवेश्मनि। शौचदास्मि सुदेष्णाया अक्षधूर्तस्य कारणात्॥ विक्रियां पश्य मे तीव्रां राजपुत्र्याः परंतप। आत्मकालमुदीक्षन्ती सर्वं दुःखं किलान्तवत्।।२। अनित्या किल मानामर्थसिद्धिर्जयाजयौ। इति कृत्वा प्रतीक्षामि भर्तृणामुदयं पुनः॥ चक्रवत्परिवर्तन्ते ह्याश्च व्यसनानि च। इति कृत्वा प्रतीक्षामि भर्तृणामुदयं पुनः॥ य एव हेतुर्भवति पुरुषस्य जयावहः। पराजये च हेतुश्च स इति प्रतिपालये। किं मां न प्रतिजानीषे भीमसेन मृतामिव॥ दत्त्वा याचन्ति पुरुषा हत्वा वध्यन्ति चापरे। पातयित्वा च पात्यन्ते परैरिति च मे श्रुतम्॥ न दैवस्यातिभारोऽस्ति न चैवास्यातिवर्तनम्। इति चाप्यागमं भूयो दैवस्य प्रतिपालये॥ स्थितं पूर्वं जलं यत्र पुनस्तत्रैव गच्छति। इति पर्यायमिच्छन्ती प्रतीक्षे उदयं पुनः॥ दैवेन किल यस्यार्थ: सुनीतोऽपि विपद्यते। दैवस्य चागमे यत्नस्तेन कार्यो विजानता॥ यत् तु मे वचनस्यास्य कथितस्य प्रयोजनम्। पृच्छ मां दु:खितां तत्त्वं पृष्टा चात्र ब्रवीमि ते॥ महिषी पाण्डुपुत्राणां दुहिता दुपदस्य च। इमामवस्थां सम्प्राप्ता मदन्या का जिजीविषेत्॥ कुरून् परिभवेत् सर्वान् पञ्चालानपि भारत। पाण्डवेयांश्च सम्प्राप्तो मम क्लेशो ह्यरिंदम॥ भ्रातृभिः श्वशुरैः पुत्रैर्बहुभिः परिवारिता। एवं समुदिता नारी का त्वन्या दुःखिता भवेत्॥ नूनं हि बालया धातुर्मया वै विप्रियं कृतम्। यस्य प्रसादाद् दुर्नीतं प्राप्तास्मि भरतर्षभ॥ वर्णावकाशमपि मे पश्य पाण्डव यादृशम्। तादृशो मे न तत्रासीद् दुःखे परमके तदा॥ त्वमेव भीम जानीषे यन्मे पार्थ सुखं पुरा। साहं दासीत्वमापन्ना न शान्तिमवशा लभे॥ नादैविकमहं मन्ये यत्र पार्थो धनंजयः। भीमधन्वा महाबाहुरास्ते छन्न इवानलः॥ अशक्या वेदितुं पार्थ प्राणिनां वै गतिर्नरैः। विनिपातमिमं मन्ये युष्माकं ह्यविचिन्तिततम्॥ यस्या मम मुखप्रेक्षा यूयमिन्द्रसमाः सदा। सा प्रेक्षे मुखमन्यासामवराणां वरा सती॥ पश्य पाण्डव मेऽवस्थां यथा नार्हामि वै तथा। युष्मासु ध्रियमाणेषु पश्य कालस्य पर्ययम्॥ यस्याः सागरपर्यन्ता पृथिवी वशवर्तिनी। आसीत् साद्य सुदेष्णाया भीताहं वशवर्तिनी॥ यस्याः पुरःसरा आसन् पृष्ठतश्चानुगामिनः। साहमद्य सुदेष्णायाः पुरः पश्चाच्च गामिनी॥ इदं तु दुःखं कौन्तेय ममासा निबोध तत्। या न जातु स्वयं पिंपे गात्रोद्वर्तनमात्मनः। अन्यत्र कुन्त्या भद्रं ते सा पिनष्यद्य चन्दनम्॥ पश्य कौन्तेय पाणी मे नैवाभूतां हि यौ पुरा। इत्यस्य दर्शयामास किणवन्तौ करावुभौ॥ विभेमि कुन्त्या या नाहं युष्माकं वा कदाचन। साद्याग्रतो विराटस्य भीता तिष्ठामि किङ्करी॥ किं नु वक्ष्यति सम्राण्मां वर्णकः सुकृतो न वा। नान्यपिष्टं हि मत्स्यस्य चन्दनं किल रोचते॥ वैशम्पायन उवाच सा कीर्तयन्ती दुःखानि भीमसेनस्य भामिनी। सरोद् शनकैः कृष्णा भीमसेनमुदीक्षती॥ सा वाष्पकलया वाचा निःश्वसन्ती पुनः पुनः। हृदयं भीमसेनस्य घयन्तीदमब्रवीत्॥ नाल्पं कृतं मया भीम देवानां किल्बिषं पुरा। अभाग्या यत्र जीवामि कर्तव्ये सति पाण्डव॥ वैशम्पायन उवाच ततस्तस्याः करौ सूक्ष्मौ किणबद्धौ वृकोदरः। मुखमानीय वै पल्या रुरोद परवीरहा॥ तौ गृहीत्वा च कौन्तेयो बाष्पमुत्सृज्य वीर्यवान्। ततः परमदुःखार्त इदं वचनमब्रवीत्॥ भीमसेन उवाच धिगस्तु मे बाहुबलं गाण्डीवं फाल्गुनस्य च। यत् ते रक्तौ पुरा भूत्वा पाणी कृतकिणाविमौ॥ सभायां तु विराटस्य करोमि कदनं महत्। तत्र मे कारणं भाति कौन्तेयो यत् प्रतीक्षते॥ अथवा कीचकस्याहं पोथयामि पदा शिरः। ऐश्वर्यमदमत्तस्य क्रीडन्निव महाद्विपः॥ अपश्यं त्वां यदा कृष्णे कीचकेन पदा हताम्। तदैवाहं चिकीर्षामि मत्स्यानां कदनं महत्॥ तत्र मां धर्मराजस्तु कटाक्षेण न्यवारयत्। तदहं तस्य विज्ञाय स्थित एवास्मि भामिनि॥ यच्च राष्ट्रात् प्रच्यवनं कुरूणामवधश्च यः। सुयोधनस्य कर्णस्य शकुनेः सौबलस्य च॥ दुःशासनस्य पापस्य यन्मया नाहृतं शिरः। तन्मे दहति गात्राणि हृदि शल्यमिवार्पितम्। मा धर्मं जहि सुश्रोणि क्रोधं जहि महामते॥ इमं तु समुपालम्भं त्वत्तो राजा युधिष्ठिरः। शृणुयाद्वापि कल्याणि कृत्स्नं जह्यात्स जीवितम्॥ धनंजयो वा सुश्रोणि यमौ वा तनुमध्यमे। लोकान्तरगतेष्वेषु नाहं शक्ष्यामि जीवितुम्॥ पुरा सुकन्या भार्या च भार्गवं च्यवनं वने। वल्मीकभूतं शाम्यन्तमन्वपद्यत भामिनी॥ नारायणी चेन्द्रसेना रूपेण यदि ते श्रुता। पतिमन्वचरद् वृद्धं पुरा वर्षसहस्रिणम्॥ दुहिता जनकस्यापि वैदेही यदि ते श्रुता। पतिमन्वचरत् सीता महारण्यनिवासिनम्॥ रक्षसा निग्रहं प्राप्य रामस्य महिषी प्रिया। क्लिश्यमानापि सुश्रोणि राममेवान्वपद्यत॥ लोपामुद्रा तथा भीरु वयोरूपसमन्विता। अगस्तिमन्वयाद्धित्वा कामान् सर्वानमानुषान्॥ धुमत्सेनसुतं वीरं सत्यवन्तमनिन्दिता। सावित्र्यनुचचारैका यमलोकं मनस्विनी॥ यथैताः कीर्तिता नार्यो रूपवत्यः पतिव्रताः। तथा त्वमपि कल्याणि सर्वैः समुदिता गुणैः॥ मादीर्घ क्षम कालं त्वं मासधर्मं च सम्मितम्। पूर्णे त्रयोदशे वर्षे राज्ञां राज्ञी भविष्यसि॥ द्रौपद्युवाच आर्तयैतन्मया भीम कृतं बाष्पप्रमोचनम्। अपारयन्त्या दुःखानि न राजानमुपालभे॥ किमुक्तेन व्यतीतेन भीमसेन महाबल। प्रत्युपस्थितकालस्य कार्यस्यानन्तरो भव॥ ममेह भीम कैकेयी रूपाभिभवशङ्कया। नित्यमुद्विजते राजा कथं नेयादिमामिति॥ तस्या विदित्वा तं भावं स्वयं चानृतदर्शनः। कीचकोऽयं सुदुष्टात्मा सदा प्रार्थयते हि माम्॥ तमहं कुपिता भीम पुनः कोपं नियम्य च। अब्रुवं कामसम्मूढमात्मानं रक्ष कीचक॥ गन्धर्वाणमहं भार्या पञ्चानां महिषी प्रिया। ते त्वां निहन्युः कुपिताः शूराः साहसकारिणः॥ एवमुक्तः सुदुष्टात्मा कीचकः प्रत्युवाच ह। नाहं बिभेमि सैरन्ध्र गन्धर्वाणां शुचिस्मिते॥ शतं शतसहस्राणि गन्धर्वाणामहं रणे। समागतं हनिष्यामि त्वं भीरु कुरु मे क्षणम्॥ इत्युक्ते चाब्रुवं मत्तं कामातुरमहं पुनः। न त्वं प्रतिबलश्चैषां गन्धर्वाणां यशस्विनाम्॥ धर्मे स्थितास्मि सततं कुलशीलसमन्विता। नेच्छामि कंचिद् वध्यन्तं तेन जीवसि कीचक॥ एवमुक्तः स दुष्टात्मा प्राहसत् स्वनवत् तदा। अथ मां तत्र कैकेयी प्रेषयत् प्रणयेन तु॥ तेनैव देशिता पूर्वं भ्रातृप्रियचीकीर्पया। सुरामानय कल्याणि कीचकस्य निवेशनात्॥ सूतपुत्रस्तु मां दृष्ट्वा महत् सान्त्वमवर्तयत्। सान्त्वे प्रतिहते क्रुद्धः परामर्शमनाभवत्।॥ विदित्वा तस्य संकल्पं कीचकस्य दुरात्मनः। तथाहं राजशरणं जवेनैव प्रधाविता॥ संदर्शने तु मां राज्ञः सूतपुत्रः परामृशत्। पातयित्वा तु दुष्टात्मा पदाहं तेन ताडिता॥ प्रेक्षते स्म विराटस्तु कङ्कस्तु बहवो जनाः। रथिनः पीठमर्दाश्च हस्त्यारोहाच नैगमाः॥ उपालब्धो मया राजा कङ्कश्चापि पुनः पुनः। ततो न वारितो राज्ञा न तस्याविनयः कृतः॥ योऽयं राज्ञो विराटस्य कीचको नाम सारथिः। त्यक्तधर्मा नृशंसश्च नरस्त्रीसम्मतः प्रियः॥ शूरोऽभिमानी पापात्मा सर्वार्थेषु च मुग्धवान्। दारामर्शी महाभाग लभतेऽर्थान् बहूनपि॥ आहरेदपि वित्तानि परेषां क्रोशतामपि। न तिष्ठति स्म सन्मार्गे न च धर्मं बुभूषति॥ पापात्मा पापभावश्च कामबाणवशानुगः। अविनीतश्च दुष्टात्मा प्रत्याख्यातः पुनः पुनः॥ दर्शने दर्शने हन्याद् यदि जह्यां च जीवितम्। तद् धर्मे यतमानानां महान् धर्मो नशिष्यति॥ समयं रक्षमाणानां भार्या वो न भविष्यति। भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता॥ प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः। आत्मा हि जायते तस्यां तेन जायां विदुर्बुधाः॥ भर्ता तु भार्यया रक्ष्यः कथं जायान्ममोदरे। वदतां वर्णधर्माश्च ब्राह्मणानामिति श्रुतः॥ क्षत्रियस्य सदा धर्मो नान्यः शत्रुनिबर्हणात्। पश्यतो धर्मराजस्य कीचको मां पदावधीत्॥ तव चैव समक्षे वै भीमसेन महाबल। त्वया ह्यहं परित्राता तस्माद् घोराज्जटासुरात्॥ जयद्रथं तथैव त्वमजैषीर्धातृभिः सह। जहीममपि पापिष्ठं योऽयं मामवमन्यते॥ कीचको राजवाल्लभ्याच्छोककृन्मम भारत। तमेवं कामसम्मत्तं भिन्धि कुम्भमिवाश्मनि॥ यो निमित्तमनर्थानां बहूनां मम भारत। तं चेज्जीवन्तमादित्यः प्रातरभ्युदयिष्यति॥ विषमालोड्य पास्यामि मा कीचकवशं गमम्। श्रेयो हि मरणं मह्यं भीमसेन तवाग्रतः॥ वैशम्पायन उवाच इत्युक्त्वा प्रारुदत् कृष्णा भीमस्योर:समाश्रिता। भीमश्च तां परिष्वज्य महत् सान्त्वं प्रयुज्य च॥ आश्वासयित्वा बहुशो भृशमा सुमध्यमाम्। हेतुतत्त्वार्थसंयुक्तैर्वचोभिर्दुपदात्मजाम्॥ प्रमृज्य वदनं तस्याः पाणिनाश्रुसमाकुलम्। कीचकं मनसागच्छत् सृक्किणी परिसंलिहन्। उवाच चैनां दुःखार्ती भीमः क्रोधसमन्वितः॥ भीमसेन उवाच तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे। अद्य तं सूदयिष्यामि कीचकं सहबान्धवम्॥ अस्याः प्रदोषे शर्वर्याः कुरुष्वानेन संगतम्। दुःखं शोकं च निर्धूय याज्ञसेनि शुचिस्मिते॥ यैषा नर्तनशालेह मत्स्यराजेन कारिता। दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम्॥ तत्रास्ति शयनं दिव्यं दृढाङ्गं सुप्रतिष्ठितम्। तत्रास्य दर्शयिष्यामि पूर्वप्रेतान् पितामहान्॥ यथा च त्वां न पश्येयुः कुर्वाणां तेन संविदम्। कुर्यास्तथा त्वं कल्याणि यथा संनिहितो भवेत्॥ वैशम्पायन उवाच तथा तौ कथयित्वा तु वाष्पमुत्सृज्य दुःखितौ। रात्रिशेषं तमत्युग्रं धारयामासतुर्हदि॥ तस्यां रात्र्यां व्यतीतायां प्रातरुत्थाय कीचकः। गत्वा राजकुलायैव द्रौपदीमिदमब्रवीत्॥ सभायां पश्यतो राज्ञः पातयित्वा पदाहनम्। न चैवालभसे त्राणमभिपन्ना बलीयसा॥ प्रवादेनेह मत्स्यानां राजा नाम्नायमुच्यते। अहमेव हि मत्स्यानां राजा वै वाहिनीपतिः॥ मां सुखं प्रतिपद्यस्व दासो भीरु भवामि ते। अह्नाय तव सुश्रोणि शतं निष्कान् ददाम्यहम्॥ दासीशतं च ते दद्यां दासानामपि चापरम्। रथं चाश्वतरीयुक्तमस्तु नौ भीरु संगमः॥ द्रौपद्युवाच एवं मे समयं त्वद्य प्रतिपद्यस्व कीचका न त्वां सखा वा भ्राता वा जानीयात् संगतं मया।।१२। अनुप्रवादाद् भीतास्मि गन्धर्वाणां यशस्विनाम्। एवं मे प्रतिजानीहि ततोऽहं वशगा तव॥ कीचक उवाच एवमेतत् करिष्यामि यथा सुश्रोणि भाषसे। एको भद्रे गमिष्यामि शून्यमावसथं तव॥ समागमार्थ रम्भोरु त्वया मदनमोहितः। यथा त्वां नैव पस्येयुर्ग-धर्वा: सूर्यवर्चसः॥ द्रौपद्युवाच यदेतनर्तनागारं मत्स्यराजेन कारितम्। दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम्॥ तमिस्र तत्र गच्छेथा गन्धर्वास्तन्न जानते। तत्र दोषः परिहतो भविष्यति न संशयः॥ वैशम्पायन उवाच तमर्थमपि जल्पन्त्याः कृष्णायाः कीचकेन ह। दिवसाधु समभवन्मासेनैव समं नृप॥ कीचकोऽथ गृहं गत्वा भृशं हर्षपरिप्लुतः। सैरन्ध्रीरूपिणं मूढो मृत्युं तं नावबुद्धवान्॥ गन्धाभरणमाल्येषु व्यासक्तः सविशेषतः। अलंचक्रे तदाऽऽत्मानं सत्वरः काममोहितः॥ तस्य तत् कुर्वतः कर्म कालो दीर्घ इवाभवत्। अनुचिन्तयतश्चापि तामेवायतलोचनाम्॥ आसीदभ्यधिका चापि श्रीः श्रियं प्रमुमुक्षतः। निर्वाणकाले दीपस्य वर्तीमिव दिधक्षतः॥ कृतसम्प्रत्ययस्तस्याः कीचकः काममोहितः। नाजानाद् दिवसं यान्तं चिन्तयानः समागमम्॥ ततस्तु द्रौपदी गत्वा तदा भीमं महानसे। उपातिष्ठत कल्याणी कौरव्यं पतिमन्तिकम्॥ तमुवाच सुकेशान्ता कीचकस्य मया कृतः। संगमो नर्तनागारे यथावोचः परंतप॥ शून्यं स नर्तनागारमागमिष्यति कीचकः। एको निशि महाबाहो कीचकं तं निषूदय॥ तं सूतपुत्रं कौन्तेय कीचकं मददर्पितम्। गत्वा त्वं नर्तनागारं निर्जीवं कुरु पाण्डव।॥ दोश्च सूतपुत्रोऽसौ गन्धर्वानवमन्यते। तं त्वं प्रहरतां श्रेष्ठ ह्रदानागमिवोद्धर॥ अश्रु दुःखाभिभूताया मम माजस्व भारत। आत्मनश्चैव भद्रं ते कुरु मानं कुलस्य च॥ भीमसेन उवाच स्वागतं ते वरारोहे यन्मां वेदयसे प्रियम्। न ह्यन्यं कञ्चिदिच्छामि सहायं वरवर्णिनी॥ या मे प्रीतिस्त्वयाऽऽख्याता कीचकस्य समागमे। हत्वा हिडिम्बं सा प्रीतिर्ममासीद् वरवर्णिनी॥ सत्यं भ्रातूंश्च धर्मं च पुरस्कृत्य ब्रवीमि ते। कीचकं निहनिष्यामि वृत्रं देवपतिर्यथा।॥ तं गहरे प्रकाशे वा पोथयिष्यामि कीचकम्। अथ चेदपि योत्स्यन्ति हिंसे मत्स्यानपि ध्रुवम्॥ ततो दुर्योधनं हत्वा प्रतिपत्स्ये वसुन्धराम्। कामं मत्स्यमुपास्तां हि कुन्तीपुत्रो युधिष्ठिरः॥ द्रौपद्युवाच यथा न संत्यजेथास्त्वं सत्यं वै मत्कृते विभो। निगूढस्त्वं तथा पार्थ कीचकं तं निषूदय॥ भीमसेन उवाच एवमेतत् करिष्यामि यथा त्वं भीरु भाषसे। अद्य तं सूदयिष्यामि कीचकं सह बान्धवैः॥ अदृश्यमानस्तस्याथ तमस्विन्यामनिन्दिते। नागो बिल्वमिवाक्रम्य पोथयिष्याम्यहं शिरः। अलभ्यामिच्छतस्तस्य कीचकस्य दुरात्मनः॥ वैशम्पायन उवाच भीमोऽथ प्रथमं गत्वा रात्रौ छन्न उपाविशत्। मृगं हरिरिवादृश्यः प्रत्याकाङ्क्षत कीचकम्॥ कीचकश्चाप्यलंकृत्य यथाकाममुपागमत्। तां वेलां नर्तनागारं पाञ्चालीसंगमाशया॥ मन्यमानः स संकेतमागारं प्राविशच्च तत्। प्रविश्य च स तद् वेश्म तसमा संवृतं महत्॥ पूर्वागतं ततस्तत्र भीममप्रतिमौजसम्। एकान्तावस्थितं चैनमाससाद स दुर्मतिः॥ शयानं शयने तत्र सूतपुत्रः परामृशत्। जाज्वल्यमानं कोपेन कृष्णाधर्षणजेन ह॥ उपसंगम्य चैवैनं कीचकः काममोहितः। हर्षोन्मथितचित्तात्मा स्मयमानोऽभ्यभाषत॥ प्रापितं ते मया वित्तं बहुरूपमनन्तकम्। यत् कृतं धनरत्नाढ्यं दासीशतपरिच्छदम्॥ रूपलावण्ययुक्ताभिर्युवतीभिरलंकृतम्। गृहं चान्तःपुरं सुभ्र क्रीडारतिविराजितम्। तत् सर्वं त्वां समुद्दिश्य सहसाहमुपागतः॥ अकस्मान्मां प्रशंसन्ति सदा गृहगताः स्त्रियः। सुवासा दर्शनीयश्च नान्योऽस्ति त्वादृशः पुमान्॥ भीमसेन उवाच दिष्ट्या त्वं दर्शनीयोऽथ दिष्ट्याऽऽत्मानं प्रशंससि। ईदृशस्तु त्वया स्पर्शः स्पृष्टपूर्वो न कर्हिचित्॥ स्पर्श वेत्सि विदग्धस्त्वं कामधर्मविचक्षणः। स्त्रीणां प्रीतिकरो नान्यस्त्वत्समः पुरुषस्त्विह॥ वैशम्पायन उवाच इत्युक्त्वा तं महाबाहुर्भीमो भीमपराक्रमः। सहसोत्पत्य कौन्तेयः प्रहस्येदमुवाच ह॥ अद्य त्वां भगिनी पापं कृष्यमाणं मया भुवि। द्रक्ष्यतेऽद्रिप्रतीकाशं सिंहेनेव महागजम्॥ निराबाधा त्वयि हते सैरन्ध्री विचरिष्यति। सुखमेव चरिष्यन्ति सैरन्ध्याः पतयः सदा॥ ततो जग्राह केशेषु माल्यवत्सु महाबलः। स केशेषु परामृष्टो बलेन बलिनां वरः॥ आक्षिप्य केशान् वेगेन बाह्वोर्जग्राह पाण्डवम्। बाहुयुद्धं तयोरासीत् क्रुद्धयोर्नरसिंहयोः॥ वसन्ते वासिताहेतोर्बलवद्गजयोरिव। कीचकानां तु मुख्यस्य नराणामुत्तमस्य च॥ वालिसुग्रीवयोर्धात्रोः पुरेव कपिसिंहयोः। अन्योन्यमपि संरब्धौ परस्परजयैषिणौ॥ ततः समुद्यम्य भुजौ पञ्चशीर्षाविवोरगौ। नखदंष्ट्राभिरन्योन्यं घतः क्रोधविषोद्धतौ॥ वेगेनाभिहतो भीमः कीचकेन बलीयसा। स्थिरप्रतिज्ञः स रणे पदान्न चलितः पदम्॥ तावन्योन्यं समाश्लिष्य प्रकर्षन्तौ परस्परम्। उभावपि प्रकाशेते प्रवृद्धौ वृषभाविव॥ तयोासीत् सुतुमुलः सम्प्रहारः सुदारुणः। नखदन्तायुधवतोाघ्योरिव दृप्तयोः॥ अभिपत्याथ बाहुभ्यां प्रत्यगृह्णादमर्षितः। मातङ्ग इव मातङ्गं प्रभिन्नकरटामुखम्॥ स चाप्येनं तदा भीमः प्रतिजग्राह वीर्यवान्। तमाक्षिपत् कीचकोऽथ बलेन बलिनां वरः॥ तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा। शब्दः समभवद् घोरो वेणुस्फोटसमो युधि॥ अथैनमाक्षिप्य बलाद् गृहमध्ये वृकोदरः। धूनयामास वेगेन वायुश्चण्ड इव दुमम्॥ भीमेन च परामृष्टो दुर्बलो बलिना रणे। प्रास्पन्दत यथाप्राणं विचकर्ष च पाण्डवम्॥ ईषदाकलितं चापि क्रोधाद् दुतपदं स्थितम्। कीचको बलवान् भीमं जानुभ्यामाक्षिपद् भुवि॥ पातितो भुवि भीमस्तु कीचकेन बलीयसा। उत्पपाताथ वेगेन दण्डपाणिरिवान्तकः॥ स्पर्धया च बलोन्मत्तौ तावुभौ सूतपाण्डवौ। निशीथे पर्यकर्षेतां बलिनौ निर्जने स्थले॥ ततस्तद् भवनं श्रेष्ठं प्राकम्पत मुहुर्मुहुः। बलवच्चापि संक्रुद्धावन्योन्यं प्रति गर्जतः॥ तलाभ्यां स तु भीमेन वक्ष्स्यभिहतो बली। कीचको रोषसंतप्तः पदान्न चलितः पदम्॥ मुहूर्तं तु स तं वेगं सहित्वा भुवि दुःसहम्। बलादहीयत तदा सूतो भीमबलादितः॥ तं हीयमानं विज्ञाय भीमसेनो महाबलः। वक्षस्थानीय वेगेन ममर्दैनं विचेतसम्॥ क्रोधाविष्टो विनिःश्वस्य पुनश्चैनं वृकोदरः। जग्राह जयतां श्रेष्ठः केशेष्वेव तदा भृशम्॥ गृहीत्वा कीचकं भीमो विरराज महाबलः। शार्दूलः पिशिताकाक्षी गृहीत्वेव महामृगम्॥ तत एनं परिश्रान्तमुपलभ्य वृकोदरः। योक्त्रयामास बाहुभ्यां पशुं रशनया यथा॥ नदन्तं च महानादं भिन्नभेरीसमस्वनम्। भ्रामयामास सुचिरं विस्फुरन्तमचेतसम्॥ प्रगृह्य तरसा दोर्भ्यां कण्ठं तस्य वृकोदरः। अपीडयत कृष्णायास्तदा कोपोपशान्तये॥ अथ तं भग्नसर्वाङ्गं व्याविद्धनयनाम्बरम्। आक्रम्य च कटीदेशे जानुना कीचकाधमम्। अपीडयत बाहुभ्यां पशुमारममारयत्॥ तं विषीदन्तमाज्ञाय कीचकं पाण्डुनन्दनः। भूतले भ्रामयामास वाक्यं चेदमुवाच ह॥ अद्याहमनृणो भूत्वा भ्रातुर्भार्यापहारिणम्। शान्तिं लब्धास्मि परमां हत्वा सैरन्ध्रकण्टकम्॥ स्तं कीचकं क्रोधसरागनेत्रः। मुद्धान्तनेत्रं व्यसुमुत्ससर्ज॥ निष्पिष्य पाणिना पाणिं संदष्टौष्ठपुटं बली। समाक्रम्य च संक्रुद्धो बलेन बलिनां वरः॥ तस्य पादौ च पाणी च शिरो ग्रीवां च सर्वशः। काये प्रवेशयामास पशोरिव पिनाकधृक्॥ तं सम्मथितसर्वाङ्गं मांसपिण्डोपमं कृतम्। कृष्णाया दर्शयामास भीमसेनो महाबलः॥ उवाच च महातेजा द्रौपदी योषितां वराम्। पश्यैनमेहि पाञ्चालि कामुकोऽयं यथा कृतः॥ एवमुक्त्वा महाराज भीमो भीमपराक्रमः। पादेन पीडयामास तस्य कायं दुरात्मनः॥ ततोऽग्नि तत्र प्रज्वाल्य दर्शयित्वा तु कीचकम्। पाञ्चालीं स तदा वीर इदं वचनमब्रवीत्॥ प्रार्थयन्ति सुकेशान्ते ये त्वां शीलगुणान्विताम्। एवं ते भीरु वध्यन्ते कीचकः शोभते यथा॥ तत् कृत्वा दुष्करं कर्म कृष्णायाः प्रियमुत्तमम्। तथा स कीचकं हत्वा गत्वा रोषस्य वै शमम्॥ आमन्त्र्य द्रौपदी कृष्णां क्षिप्रमायान्महानसम्। कीचकं घातयित्वा तु द्रौपदी योषितां वरा। प्रहृष्टा गतसंतापा सभापालानुवाच ह॥ कीचकोऽयं हतः शेते गन्धर्वैः पतिभिर्ममा परस्त्रीकामसम्मत्तस्तत्रागच्छत पश्यत॥ तच्छ्रुत्वा भाषितं तस्या नर्तनागाररक्षिणः। सहसैव समाजग्मुरादायोल्काः सहस्रशः॥ ततो गत्वाथ तद् वेश्म कीचकं विनिपातितम्। गतासुं ददृशुर्भूमौ रुधिरेण समुक्षितम्॥ पाणिपादविहीनं तु दृष्ट्वा च व्यथिताऽभवन्। निरीक्षन्ति ततः सर्वे परं विस्मयमागताः॥ अमानुषं कृतं कर्म तं दृष्ट्वा विनिपातितम्। क्वास्य ग्रीवा क्व चरणौ क्व पाणी क्व शिरस्तथा इति स्म तं परीक्षन्ते गन्धर्वेण हतं तदा॥ वैशम्पायन उवाच तस्मिन् काले समागम्य सर्वे तत्रास्य बान्धवाः। रुरुदुः कीचकं दृष्ट्वा परिवार्य समन्ततः॥ सर्वे संहृष्टरोमाणः संत्रस्ताः प्रेक्ष्य कीचकम्। तथा सम्भिन्नसर्वाङ्गं कूर्म स्थल इवोद्भुतम्॥ पोथितं भीमसेनेन तमिन्द्रेणेव दानवम्। संस्कारयितुमिच्छन्तो बहिर्नेतुं प्रचक्रमुः॥ ददृशुस्ते ततः कृष्णां सूतपुत्राः समागताः। अदूराच्चानवद्याङ्गी स्तम्भमालिङ्गय तिष्ठतीम्॥ समवेतेषु सर्वेषु तामूचुरुपकीचकाः। हन्यतां शीघ्रमसती यत्कृते कीचको हतः॥ अथवा नैव हन्तव्या दह्यतां कामिना सह। मृतस्यापि प्रियं कार्यं सूतपुत्रस्य सर्वथा।॥ ततो विराटमूचुस्ते कीचकोऽस्याः कृते हतः। सहानेनाद्य दह्येम तदनुज्ञातुमर्हसि॥ पराक्रमं तु सूतानां मत्वा राजान्वमोदत। सैरन्याः सूतपुत्रेण सह दाहं विशाम्पतिः॥ तां समासाद्य वित्रस्तां कृष्णां कमललोचनाम्। पोमुह्यमानां ते तत्र जगृहुः कीचका भृशम्॥ ततस्तु तां समारोप्य निबध्य च सुमध्यमाम्। जग्मुरुद्यम्य ते सर्वे श्मशानाभिमुखास्तदा॥ ह्रियमाणा तु सा राजन् सूतपुत्रैरनिन्दिता। प्राक्रोशन्नाथमिच्छन्ती कृष्णा नाथवती सती॥ द्रौपद्युवाच जयो जयन्तो विजयो जयत्सेनो जयद्वलः। ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम्॥ येषां ज्यातलनिर्घोषो विस्फूर्जितमिवाशनेः। व्यश्रूयत महायुद्धे भीमघोषस्तरस्विनाम्॥ स्थघोषश्च बलवान् गन्धर्वाणां तरस्विनाम्। ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम्॥ वैशम्पायन उवाच तस्यास्ताः कृपणा वाचः कृष्णायाः परिदेवितम्। श्रुत्वैवाभ्यापतद् भीमः शयनादविचारयन्॥ भीमसेन उवाच अहं शृणोमि ते वाचं त्वया सैरन्ध्र भाषिताम्। तस्मात् ते सूतपुत्रेभ्यो भयं भीरु न विद्यते॥ वैशम्पायन उवाच इत्युक्त्वा स महाबाहुर्विजजृम्भे जिघांसया। ततः स व्यायतं कृत्वा वेषं विपरिवर्त्य च॥ अद्वारेणाभ्यवस्कन्ध निर्जगाम बहिस्तदा। स भीमसेनः प्राकारादारुह्य तरसा दुमम्॥ श्मशानाभिमुखः प्रायाद् यत्र ते कीचका गताः। स लवयित्वा प्राकारं नि:सृत्य च पुरोत्तमात्। जवेन पतितो भीमः सूतानामग्रतस्तदा॥ चितासमीपे गत्वा स तत्रापश्यद् वनस्पतिम्। तालमात्रं महास्कन्धं मूर्धशुष्कं विशाम्पते।॥ तं नागवदुपक्रम्य बाहुभ्यां परिरभ्य च। स्कन्धमारोपयामास दशव्यामं परंतपः॥ स तं वृक्षं दशव्यामं सस्कन्धविटपं बली। प्रगृह्याभ्यद्रवत् सूतान् दण्डपाणिरिवान्तकः॥ ऊरुवेगेन तस्याथ न्यग्रोधाश्वत्यकिंशुकाः। भूमौ निपतिता वृक्षाः सङ्घशस्तत्र शेरते॥ तं सिंहमिव संक्रुद्ध दृष्ट्वा गन्धर्वमागतम्। वित्रेसुः सर्वशः सूता विषादभयकम्पिताः॥ गन्धर्वो बलवानेति क्रुद्ध उद्यम्य पादपम्। सैरन्ध्री मुच्यतां शीघ्रं यतो नो भयमागतम्॥ ते तु दृष्ट्वा तदाऽऽविद्धं भीमसेनेन पादपम्। विमुच्य द्रौपदी तत्र प्राद्रवन्नगरं प्रति॥ द्रवतस्तांस्तु सम्प्रेक्ष्य स वज्री दानवानिव। शतं पञ्चाधिकं भीमः प्राहिणोद् यमसादनम्॥ वृक्षेणैतेन राजेन्द्र प्रभवानसुतो बली। तत आश्वासयत् कृष्णां स विमुच्य विशाम्पते।॥ उवाच च महाबाहुः पाञ्चालीं तत्र द्रौपदीम्। अश्रुपूर्णमुखीं दीनां दुर्धर्षः स वृकोदरः॥ एवं ते भीरु वध्यन्ते ये त्वां क्लिश्यन्त्यनागसम्। प्रैहि त्वं नगरं कृष्णे न भयं विद्यते तव॥ अन्येनाहं गमिष्यामि विराटस्य महानसम्॥ वैशम्पायन उवाच पञ्चाधिकं शतं तच्च निहतं तेन भारत। महावनमिवच्छिन्नं शिश्ये विगलितगुमम्॥ एवं ते निहता राजञ्छतं पञ्च च कीचकाः। स च सेनापतिः पूर्वमित्येतत् सूतषट्शतम्॥ तद् दृष्ट्वा महदाश्चर्यं नरा नार्यश्च संगताः। विस्मयं परमं गत्वा नोचुः किञ्चन भारत॥ वैशम्पायन उवाच ते दृष्ट्वा निहतान् सूतान् राज्ञे गत्वा न्यवेदयन्। गन्धर्वैनिहता राजन् सूतपुत्रा महाबलाः॥ यथा वज्रेण वै दीर्ण पर्वतस्य महच्छिरः। व्यतिकीर्णाः प्रदृश्यन्ते तथा सूता महीतले॥ सैरन्ध्री च विमुक्तासौ पुनरायाति ते गृहम्। सर्वं संशयितं राचन् नगरं ते भविष्यति॥ यथारूपा च सैरन्ध्री गन्धर्वाश्च महाबलाः। पुंसामिष्टश्च विषयो मैथुनाय न संशयः॥ यथा सैरन्ध्रदोषेण न ते राजनिदं पुरम्। विनाशमेति वै क्षिप्रं तथा नीतिविधीयताम्॥ तेषां तद् वचनं श्रुत्वा विराटो वाहिनीपतिः। अब्रवीत् क्रियतामेषां सूतानां परमक्रिया॥ एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने। दह्यन्तां कीचकाः शीघ्रं रत्नैर्गन्धैश्च सर्वशः॥ सुदेष्णामब्रवीद् राजा महिषीं जातसाध्वसः। सैरन्ध्रीमागतां ब्रूया ममैव वचनादिदम्॥ गच्छ सैरन्ध्र भद्रं ते यथाकामं वरानने। बिभेति राजा सुश्रोणि गन्धर्वेभ्यः पराभवात्॥ न हि त्वामुत्सहे वक्तुं स्वयं गन्धर्वरक्षिताम्। स्त्रियास्त्वदोषस्तां वक्तुमतस्त्वां प्रब्रवीम्यहम्॥ वैशम्पायन उवाच अथ मुक्ता भयात् कृष्णा सूतपुत्रान् निरस्य च। मोक्षिता भीमसेनेन जगाम नगरं प्रति॥ त्रासितेव मृगी बाला शार्दूलेन मनस्विनी। गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा॥ तां दृष्ट्वा पुरुषा राजन् प्राद्रवन्त दिशो दश। गन्धर्वाणां भयत्रस्ताः केचिद् दृष्ट्वा न्यमीलयन्।।१३। ततो महानसद्वारि भीमसेनमवस्थितम्। ददर्श राजन् पाञ्चाली यथा मत्तं महाद्विपम्॥ तं विस्मयन्ती शनकैः संज्ञाभिरिदमब्रवीत्। गन्धर्वराजाय नमो येनास्मि परिमोचिता॥ भीमसेन उवाच ये पुरा विचरन्तीह पुरुषा वशवर्तिनः। तस्यास्ते वचनं श्रुत्वा ह्यनृणा विहरन्त्वतः॥ वैशम्पायन उवाच ततः सा नर्तनागारे धनंजयमपश्यता राज्ञः कन्या विराटस्य नर्तयानं महाभुजम्॥ ततस्ता नर्तनागाराद् विनिष्क्रम्य सहार्जुनाः। कन्या ददृशुरायान्तीं क्लिष्टां कृष्णामनागसम्॥ कन्या ऊचुः दिष्ट्या सैरन्ध्र मुक्तासि दिष्ट्यासि पुनरागता। दिष्ट्या विनिहताः सूता ये त्वां क्लिश्यन्त्यनागसम्॥ बृहन्नलोवाच कथं सैरन्ध्रि मुक्तासि कथं पापाश्च ते हताः। इच्छामि वै तव श्रोतुं सर्वमेव यथातथम्॥ सैरन्ध्युवाच बृहन्नले किं नु तव सैरन्ध्या कार्यमद्य वै। या त्वं वससि कल्याणि सदा कन्यापुरे सुखम्॥ न हि दुःखं समाप्नोषि सैरन्ध्री यदुपाश्नुते। तेन मां दुःखितामेवं पृच्छसे प्रहसन्निव॥ बृहन्नलोवाच बृहन्नलापि कल्याणि दुःखमाप्नोत्यनुत्तमम्। तिर्यग्योनिगता बाले न चैनामवबुध्यसे॥ त्वया सहोषिता चास्मि त्वं च सर्वैः सहोषिता। क्लिश्यन्त्यां त्वयि सुश्रोणि को नु दुःखं न चिन्तयेत्।।२४ न तु केनचिदत्यन्तं कस्यचिद्धृदयं क्वचित्। वेदितुं शक्यते नूनं तेन मां नावबुध्यसे॥ वैशम्पायन उवाच ततः सहैव कन्याभिद्रौपदी राजवेश्म तत्। प्रविवेश सुदेष्णायाः समीपमुपगामिनी॥ तामब्रवीद् राजपुत्री विराटवचनादिदम्। सैरन्ध्र गम्यतां शीघ्रं यत्र कामयसे गतिम्॥ राजा बिभेति ते भद्रे गन्धर्वेभ्यः पराभवात्। त्वं चापि तरुणी सुभ्र रूपेणाप्रतिमा भुवि। पुंसामिष्टश्च विषयो गन्धर्वाश्चातिकोपनाः॥ सैरभ्युवाच त्रयोदशाहमात्रं मे राजा क्षाम्यतु भामिनि। कृतकृत्या भविष्यन्ति गन्धर्वास्ते न संशयः॥ ततो मामुपनेष्यन्ति करिष्यन्ति च ते प्रियम्। ध्रुवं च श्रेयसा राजा योक्ष्यते सह बान्धवैः॥ वैशम्पायन उवाच कीचकस्य तु घातेन अत्याहितं चिन्तयित्वा व्यस्मयन्त पृथग् जनाः॥ सानुजस्य विशाम्पते। तस्मिन् पुरे जनपदे संजल्पोऽभूच्च सङ्घशः। शौर्याद्धि वल्लभो राज्ञो महासत्त्वः स कीचकः॥ आसीत् प्रहर्ता सैन्यानां दारामर्शी च दुर्मतिः। स हतः खलु पापात्मा गन्धर्वैर्दुष्टपूरुषः॥ इत्यजल्पन् महाराज परानीकविनाशनम्। देशे देशे मनुष्याश्च कीचकं दुष्प्रधर्षणम्॥ अथ वै धार्तराष्ट्रेण प्रयुक्ता ये बहिश्चराः। मृगयित्वा बहून् ग्रामान् राष्ट्राणि नगराणि च॥ संविधाय यथादृष्टं यथादेशप्रदर्शनम्। कृतकृत्या न्यवर्तन्त ते चरा नगरं प्रति॥ तत्र दृष्ट्वा तु राजानं कौरव्यं धृतराष्ट्रजम्। द्रोणकर्णकृपैः साधु भीष्मेण च महात्मना॥ संगतं भ्रातृभिश्चापि त्रिगर्तेश्च महारथैः। दुर्योधनं सभामध्ये आसीनमिदमब्रुवन्॥ चरा ऊचुः कृतोऽस्माभिः परो यत्नस्तेषामन्वेषणे सदा। पाण्डवानां मनुष्येन्द्र तस्मिन् महति कानने॥ निर्जने मृगसंकीर्णे नानादुमलताकुले। लताप्रतानबहुले नानागुल्मसमावृते॥ न च विद्मो गता येन पार्थाः सुदृढविक्रमाः। मार्गमाणाः पदन्यासं तेषु तेषु तथा तथा॥ गिरिकूटेषु तुङ्गेषु नानाजनपदेषु च। जनाकीर्णेषु देशेषु खवटेषु पुरेषु च।॥ नरेन्द्र बहुशोऽन्विष्टा नैव विद्यश्च पाण्डवान्। अत्यन्तं वा विनष्टास्ते भद्रं तुभ्यं नरर्षभ॥ वर्मन्यन्वेष्यमाणा वै रथिनां रथिसत्तम। न हि विद्मो गतिं तेषां वासं हि नरसत्तम॥ किंचित्काले मनुष्येन्द्र सूतानामनुगा वयम्। मृगयित्वा यथान्यायं वेदितार्थाः स्म तत्त्वतः॥ प्राप्ता द्वारवती सूता विना पार्थः परंतप। न तत्र कृष्णा राजेन्द्र पाण्डवाश्च महाव्रताः॥ सर्वथा विप्रणष्टास्ते नमस्ते भरतर्षभ। न हि विद्मो मतिं तेषां वासं वापि महात्मनाम्॥ पाण्डवानां प्रवृत्तिं च विद्मः कर्मापि वा कृतम्। स नः शाधि मनुष्येन्द्र अत ऊर्ध्वं विशाम्पते॥ अन्वेषणे पाण्डवानां भूयः किं करवामहे। इमां च नः प्रियां वीर वाचं भद्रवतीं शृणु॥ येन त्रिगर्ता निहता बलेन महता नृप। सूतेन राज्ञो मत्स्यस्य कीचकेन बलीयसा॥ स हतः पतितः शेते गन्धर्वैर्निशि भारत। अदृश्यमानैर्दुष्टात्मा भ्रातृभिः सह सोदरैः॥ प्रियमेतदुपश्रुत्य शत्रूणां च पराभवम्। कृतकृत्यश्च कौरव्य विधत्स्व यदनन्तरम्॥ वैशम्पायन उवाच ततो दुर्योधनो राजा ज्ञात्वा तेषां वचस्तदा। चिरमन्तर्मना भूत्वा प्रत्युवाच सभासदः॥ सुदुःखा खलु कार्याणां गतिर्विज्ञातुमन्ततः। तस्मात् सर्वे निरीक्षध्वं क्व नु ते पाण्डवा गताः।।२। अल्पावशिष्टं कालस्य गतभूयिष्ठमन्ततः। तेषामज्ञातचर्यायामस्मिन् वर्षे त्रयोदशे॥ अस्य वर्षस्य शेषं चेद् व्यतीयुरिह पाण्डवाः। निवृत्तसमयास्ते हि सत्यव्रतपरायणाः॥ क्षरन्त इव नागेन्द्राः सर्वे ह्याशीविषोपमाः। दुःखा भवेयुः संरब्धाः कौरवान् प्रति ते ध्रुवम्॥ सर्वे कालस्य वेत्तारः कृच्छ्ररूपधराः स्थिताः। प्रविशेयुर्जितक्रोधास्तावदेव पुनर्वनम्॥ तस्मात् क्षिप्रं बुभूषध्वं यथा तेऽत्यन्तमव्ययम्। राज्यं निर्द्वन्द्वमव्यग्रं निःसपत्नं चिरं भवेत्॥ अथाब्रवीत् ततः कर्णः क्षिप्रं गच्छन्तु भारत। अन्ये धूर्ता नरा दक्षा निभृताः साधुकारिणः॥ चरन्तु देशान् संवीताः स्फीताञ्जानपदाकुलान्। तत्र गोष्ठीषु रम्यासु सिद्धप्रव्रजितेषु च।॥ परिचारेषु तीर्थेषु विविधेष्वाकरेषु च। विज्ञातव्या मनुष्यैस्तैस्तर्कया सुविनीतया॥ विविधैस्तत्परैः सम्यक् तज्जैनिपुणसंवृतैः। अन्वेष्टव्याः सुनिपुणैः पाण्डवाश्छन्नवासिनः॥ नदीकुट्ठोषु तीर्थेषु ग्रामेषु नगरेषु च। आश्रमेषु च रम्येषु पर्वतेषु गुहासु च॥ अथाग्रजानन्तरजः पापभावानुरागवान्। ज्येष्ठं दुःशासनस्तत्र भ्राता भ्रातरमब्रवीत्॥ येषु नः प्रत्ययो राजंश्चारेषु मनुजाधिप। ते यान्तु दत्तदेया वै भूयस्तान् परिमार्गितुम्॥ एतच्च कर्णो यत् प्राह सर्वमीहामहे तथा। यथोद्दिष्टं चराः सर्वे मृगयन्तु यतस्ततः॥ एते चान्ये च भूयांसो देशाद् देशं यथाविधि। न तु तेषां गतिर्वासः प्रवृत्तिश्चोपलभ्यते॥ अत्यन्तं वा निगूढास्ते पारं चोर्मिमतो गताः। व्यालैश्चापि महारण्ये भक्षिताः शूरमानिनः॥ अथवा विषमं प्राप्य विनष्टाः शाश्वतीः समाः। तस्मान्मानसमव्यग्रं कृत्वा त्वं कुरुनन्दन। कुरु कार्यं महोत्साहं मन्यसे यन्नराधिप॥ वैशम्पायन उवाच अथाब्रवीन्महावीर्यो द्रोणस्तत्त्वार्थदर्शिवान्। न तादृशा विनश्यन्ति न प्रयान्ति पराभवम्॥ शूराश्च कृतविद्याश्च बुद्धिमन्तो जितेन्द्रियाः। धर्मज्ञाश्च कृतज्ञाश्च धर्मराजमनुव्रताः॥ नीतिधर्मार्थतत्त्वज्ञं पितृवच्च समाहितम्। धर्मे स्थितं सत्यधृति ज्येष्ठं ज्येष्ठानुयायिनः॥ अनुव्रता महात्मानं भ्रातरो भ्रातरं नृप। अजातशत्रु श्रीमन्तं सर्वभ्रातृननुव्रतम्॥ तेषां तथा विधेयानां निभृतानां महात्मनाम्। किमर्थं नीतिमान् पार्थः श्रेयो नैषां करिष्यति॥ तस्माद् यत्नात् प्रतीक्षन्ते कालस्योदयमागतम्। न हि ते नाशमृच्छेयुरिति पश्याम्यहं धिया॥ साम्प्रतं चैव यत् कार्यं तच्च क्षिप्रमकालिकम्। क्रियतां साधु संचिन्त्य वासश्चैषां प्रचिन्त्यताम्॥ यथावत् पाण्डुपुत्राणां सर्वार्थेषु धृतात्मनाम्। दुर्जेयाः खलु शूरास्ते दुरापास्तपसा वृताः॥ शुद्धात्मा गुणवान् पार्थः सत्यवान् नीतिमाशुचिः। तेजोराशिरसंख्येयो गृह्णीयादपि चक्षुषा॥ विज्ञाय क्रियतां तस्माद् भूयश्च मृगयामहे। ब्राह्मणैश्चारकैः सिद्धर्ये चान्ये तद्विदो जनाः॥ वैशम्पायन उवाच ततः शान्तनवो भीष्मो भरतानां पितामहः। श्रुतवान् देखकालज्ञस्तत्त्वज्ञः सर्वधर्मवित्॥ आचार्यवाक्योपरमे तद्वाक्यमभिसंदधत्। हितार्थं समुवाचैनां भारती भारतान् प्रति॥ युधिष्ठिरे समासक्तां धर्मज्ञे धर्मसंवृताम्। असत्सु दुर्लभां नित्यं सतां चाभिमतां सदा॥ भीष्मः समवदत् तत्र गिरं साधुभिरर्चिताम्। यश्चैष ब्राह्मणः प्राह द्रोणः सर्वार्थतत्त्ववित्॥ सर्वलक्षणसम्पन्नाः साधुव्रतसमन्विताः। श्रुतवर्तोपपन्नाश्च नानाश्रुतिसमन्विताः॥ वृद्धानुशासने युक्ताः सत्यव्रतपरायणाः। समयं समयज्ञास्ते पालयन्तः शुचिव्रताः॥ क्षत्रधर्मरता नित्यं केशवानुगता: सदा। प्रवीरपुरुषास्ते वै महात्मानो महाबलाः। नावसीदितुमर्हन्ति उद्वहन्तः सतां धुरम्॥ धर्मतश्चैव गुप्तास्ते सुवीर्येण च पाण्डवाः। न नाशमधिगच्छेयुरिति मे धीयते मतिः॥ तत्र बुद्धिं प्रवक्ष्यामि पाण्डवान् प्रति भारत। न तु नीतिः सुनीतस्य शक्यतेऽन्वेषितुं परैः॥ यत् तु शक्यमिहास्माभिस्तान् वै संचिन्त्य पाण्डवान्। बुद्ध्या प्रयुक्तं न द्रोहात् प्रवक्ष्यामि निबोध तत्।।१०। न त्वियं मादृशेर्नीतिस्तस्य वाच्या कथंचन) सा त्वियं साधु वक्तव्या न त्वनीतिः कथंचन॥ वृद्धानुशासने तात तिष्ठता सत्यशीलिना। अवश्यं त्विह धीरेण सतां मध्ये विवक्षता॥ यथाहमिह वक्तव्यं सर्वथा धर्मलिप्सया। तत्र नाहं तथा मन्ये यतायमितरो जनः॥ निवासं धर्मराजस्य वर्षेऽस्मिन् वै त्रयोदश। तत्र तात न तेषां हि राज्ञां भाव्यमसाम्प्रतम्॥ पुरे जनपदे चापि यत्र राजा युधिष्ठिरः। दानशीलो वदान्यश्च निभृतो ह्रीनिषेवकः। जनो जनपदे भाव्यो यत्र राजा युधिष्ठिरः॥ प्रियवादी सदा दान्तो भव्यः सत्यपरो जनः। हृष्टः पुष्टः शुचिर्दक्षो यत्र राजा युधिष्ठिरः॥ नासूयको न चापीर्नाभिमानी न मत्सरी। भविष्यति जनस्तत्र स्वयं धर्ममनुव्रतः॥ ब्रह्मघोषाश्च भूयांसः पूर्णाहुत्यस्तथैव च। क्रतवश्च भविष्यन्ति भूयांसो भूरिदक्षिणाः॥ सदा व तत्र पर्जन्यः सम्यग्वर्षी न संशयः। सम्पन्नसस्या च मही निरातङ्का भविष्यति॥ गुणवन्ति च धान्यानि रसवन्ति फलानि च। गन्धवन्ति च माल्यानि शुभशब्दा च भारती॥ वायुश्च सुखसंस्पर्शो निष्प्रतीपं च दर्शनम्। न भयं त्वाविशेत् तत्र यत्र राजा युधिष्ठिरः॥ गावश्च बहुलास्तत्र न कृशा न च दुर्बलाः। पयांसि दधिसपीषि रसवन्ति हितानि च॥ गुणवन्ति च पेयानि भोज्यानि रसवन्ति च। तत्र देशे भविष्यन्ति यत्र राजा युधिष्ठिरः॥ रसाः स्पर्शाश्च गन्धाश्च शब्दाश्चापि गुणान्विताः। दृश्यानि च प्रसन्नानि यत्र राजा युधिष्ठिरः॥ धर्माश्च तत्र सर्वैस्तु सेविताश्च द्विजातिभिः। स्वैः स्वैर्गुणैश्च संयुक्ता अस्मिन् वर्षे त्रयोदश॥ देशे तस्मिन् भविष्यन्ति तात पाण्डवसंयुते। सम्प्रीतिमाढानस्तत्र संतुष्टः शुचिरव्ययः॥ देवतातिथिपूजासु सर्वभावानुरागवान्। इष्टदानो महोत्साहः स्वस्वधर्मपरायणः॥ अशुभाद्धि शुभप्रेप्सुरिष्टयज्ञः शुभव्रतः। भविष्यति जनस्तत्र यत्र राजा युधिष्ठिरः॥ त्यक्तवाक्यानृतस्तात शुभकल्याणमङ्गलः। शुभार्थेप्सुः शुभमतिर्यत्र राजा युधिष्ठिरः॥ भविष्यति जनस्तत्र नित्यं चेष्टप्रियव्रतः। धर्मात्मा शक्यते ज्ञातुं नापि तात द्विजातिभिः॥ किं पुनः प्राकृतैस्तात पार्थो विज्ञायते क्वचित्। यस्मिन् सत्यं धृतिर्दानं परा शान्तिधूवा क्षमा॥ ह्रीः श्रीः कीर्तिः परं तेज आनृशंस्यमथार्जवम्। तस्मात् तत्र निवासं तु छन्नं यत्नेन धीमतः। गतिं च परमां तत्र नोत्सहे वत्तुक्कमन्यथा॥ एवमेतत् तु संचिन्त्य यत्कृते मन्यसे हितम्। तत् क्षिप्रं कुरु कौरव्य यद्येवं श्रद्दधासि मे॥ वैशम्पायन उवाच तत: शारद्वतो वाक्यमित्युवाच कृपस्तदा। युक्तं प्राप्तं च वृद्धेन पाण्डवान् प्रति भाषितम्॥ धर्मार्थसहितं श्लक्ष्णं तत्त्वतश्च सहेतुकम्। तत्रानुरूपं भीष्मेण ममाप्यत्र गिरं शृणु।॥ तेषां चैव गतिस्तीर्थैर्वासश्चैषां प्रचिन्त्यताम्। नीतिर्विधीयतां चापि साम्प्रतं या हिता भवेत्॥ नावज्ञेयो रिपुस्तात प्राकृतोऽपि बुभूषता। किं पुनः पाण्डवास्तात सर्वास्त्रकुशला रणे॥ तस्मात् सत्रं प्रविष्टेषु पाण्डवेषु महात्मसु। गूढभावेषु छन्नेषु काले चोदयमागते॥ स्वराष्ट्र परराष्ट्रे च ज्ञातव्यं बलमात्मनः। उदयः पाण्डवानां च प्राप्ते काले न संशयः॥ निवृत्तसमयाः पार्था महात्मानो महाबलाः। महोत्साहा भविष्यन्ति पाण्डवा ह्यमितौजसः॥ तस्माद् बलं च कोषश्च नीतिश्चापि विधीयताम्। यथा कालोदये प्राप्ते सम्यक् तैः संदधामहे॥ तात बुद्ध्यापि तत् सर्वं बुध्यस्व बलमात्मनः। नियतं सर्वमित्रेषु बलवत्स्वबलेषु च॥ उच्चावचं बलं ज्ञात्वा मध्यस्थं चापि भारत। प्रहृष्टमप्रहृष्टं च संदधाम तथा परैः॥ साम्ना दानेन भेदेन दण्डेन बलिकर्मणा। न्यायेनाक्रम्य च परान् बलाच्चानभ्य दुर्बलान्॥ सान्त्वयित्वा तु मित्राणि बलं चाभाष्यतां सुखम्। सुकोषबलसंवृद्धः सम्यक् सिद्धिमवाप्स्यसि॥ योत्स्यसे चापि बलिभिररिभिः प्रत्युपस्थितैः। अन्यस्त्वं पाण्डवैर्वापि हीनैः स्वबलवाहनैः एवं सर्वं विनिश्चित्य व्यवसायं स्वधर्मतः। यथाकालं मनुष्येन्द्र चिरं सुखमवाप्स्यसि॥ वैशम्पायन उवाच अथ राजा त्रिगर्तानां सुशर्मा रथयूथपः। प्राप्तकालमिदं वाक्यमुवाच त्वरितो बली॥ असकृनिकृताः पूर्वं मत्स्यशाल्वेयकैः प्रभो। सूतेनैव च मत्स्यस्य कीचकेन पुनः पुनः॥ बाधितो बन्धुभिः सार्धं बलाद् बलवता विभो। स कर्णमभ्युदीक्ष्याथ दुर्योधनमभाषत॥ असकृन्मत्स्यराज्ञा मे राष्ट्र बाधितमोजसा। प्रणेता कीचकस्तस्य बलवानभवत् पुरा॥ क्रूरोऽमर्षी स दुष्टात्मा भुवि प्रख्यातविक्रमः। निहतः स तु गन्धर्वैः पापकर्मा नृशंसवान्॥ तस्मिन् विनिहते राजा हतदर्पो निराश्रयः। भविष्यति निरुत्साहो विराट इति मे पतिः॥ तत्र यात्रा मम मता यदि ते रोचतेऽनघ। कौरवाणां च सर्वेषां कर्णस्य च महात्मनः॥ एतत् प्राप्तमहं मन्ये कार्यमात्ययिकं हि नः। राष्ट्रं तस्याभियास्यामो बहुधान्यसमाकुलम्॥ आददामोऽस्य रत्नानि विविधानि वसूनि च। ग्रामान राष्ट्राणि वा तस्य हरिष्यामो विभागशः॥ अथवा गोसहस्राणि शुभानि च बहूनि च। विविधानि हरिष्यामः प्रतिपीड्य पुरं बलात्॥ कौरवैः सह संगत्य त्रिगर्तेश्च विशाम्पते। गास्तस्यापहरामोऽद्य सर्वेश्चैव सुसंहताः॥ निबनीमोऽस्य पौरुषम्। हत्वा चास्य चमूं कृत्स्नां वशमेवानयामहे॥ तं वशे न्यायतः कृत्वा सुखं वत्स्यामहे वयम्। भवतां बलवृद्धिश्च भविष्यति न संशयः॥ तच्छ्रुत्वा वचनं तस्य कर्णो राजानमब्रवीत्। सूक्तं सुशर्मणा वाक्यं प्राप्तकालं हितं च नः॥ संविभागेन कृत्वा तु तस्मात् क्षिप्रं विनिर्यामो योजयित्वा वरूथिनीम्। विभज्य चाप्यनीकानि यथा वा मन्यसेऽनघ॥ प्राज्ञो वा कुरुवृद्धोऽयं सर्वेषां नः पितामहः। आचार्यश्च यथा द्रोणः कृपः शारद्वतस्तथा। मन्यन्ते ते यथा सर्वे तथा यात्रा विधीयताम्॥ सम्मन्त्र्य चाशु गच्छामः साधनार्थं महीपतेः। किं च नः पाण्डवैः कार्यं हीनार्थबलपौरुषैः॥ अत्यन्तं वा प्रणष्टास्ते प्राप्ता वापि यमक्षयम्। यामो राजन् निरुद्विग्ना विराटनगरं वयम्। आदास्यामो हि गास्तस्य विविधानि वसूनि च॥ वैशम्पायन उवाच ततो दुर्योधनो राजा वाक्यमादाय तस्य तत्। वैकर्तनस्य कर्णस्य क्षिप्रमाज्ञापयत् स्वयम्॥ शासने नित्यसंयुक्तं दुःशासनमनन्तरम्। सह वृद्धस्तु सम्मन्त्र्य क्षिप्रं योजय वाहिनीम्॥ ते यथोद्देशं च गच्छामः सहितास्तत्र कौरवैः। सुशर्मा च यथोद्दिष्टं देशं यातु महारथः। त्रिगर्तेः सहितो राजा समग्रबलवानहः॥ प्रागेव हि सुसंवीतो मत्स्यस्य विषयं प्रति। जघन्यतो वयं तत्र यास्यामो दिवसान्तरे! विषयं मत्स्यराजस्य सुसमृद्धं सुसंहताः॥ यान्तु सहितास्तत्र विराटनगरं प्रति। क्षिप्रं गोपान् समासाद्य गृह्णन्तु विपुलं धनम्॥ गवां शतसहस्राणि श्रीमन्ति गुणवन्ति च। वयमप्यनुगृहीमो द्विधा कृत्वा वरूथिनीम्॥ वैशम्पायन उवाच ते स्म गत्वा यथोद्दिष्टां दिशं वह्वेर्महीपते। संनद्धा रथिनः सर्वे सपदाता बलोत्कटाः॥ प्रति वैरं चिकीर्षन्तो गोषु गृद्धा महाबलाः। आदातुं गा: सुशर्माथ कृष्णपक्षस्य सप्तमीम्॥ अपरे दिवसे सर्वे राजन् सम्भूय कौरवाः। अष्टम्यां ते न्यगृह्णन्त गोकुलानि सहस्रशः॥ वैशम्पायन उवाच ततस्तेषां महाराज तत्रैवामिततेजसाम्। छद्मलिङ्गप्रविष्टानां पाण्डवानां महात्मनाम्॥ व्यतीतः समयः सम्यग् वसतां वै पुरोत्तमे। कुर्वतां तस्य कर्माणि विराटस्य महीपतेः। :॥ कीचके तु हते राजा विराटः परवीरहा। परां सम्भावनां चक्रे कुन्तीपुत्रे युधिष्ठिरे॥ ततस्त्रयोदशस्यान्ते तस्य वर्षस्य भारत। सुशर्मणा गृहीतं तद् गोधनं तरसा बहु॥ ततो जवेन महता गोपः पुरमथाव्रजत्। स दृष्ट्वा मत्स्यराजं च रथात् प्रस्कन्ध कुण्डली॥५। शूरैः परिवृतं योधैः कुण्डलाङ्गदधारिभिः। संवृतं मन्त्रिभिः सार्धं पाण्डवैस्च महात्मभिः॥ तं सभायां महाराजमासीनं राष्ट्रवर्धनम्। सोऽब्रवीदुपसंगम्य विराटं प्रणतस्तदा॥ अस्मान् युधि विनिर्जित्य परिभूय सबान्धवान्। गवां शतसहस्राणि त्रिगर्ताः कालयन्ति ते॥ तान् परीप्सस्व राजेन्द्र मा नेशुः पशवस्तव। तच्छ्रुत्वा नृपतिः सेनां मत्स्यानां समयोजयत्।।९। रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम्। राजानो राजपुत्राश्च तनुत्राण्यथ भेजिरे॥ भानुमन्ति विचित्राणि शूरसेव्यानि भागशः। सवज्रायसग तु कवचं तत्र काञ्चनम्॥ विराटस्य प्रियो भ्राता शतानीकोऽभ्यहारयत्। सर्वपारसवं वर्म कल्याणपटलं दृढम्॥ शतानीकादवरजो मदिराक्षोऽभ्यहारयत्। शतसूर्यं शतावर्ती शतबिन्दु शताक्षिमत्॥ अभेद्यकल्पं मत्स्यानां राजा कवचमाहरत्। उत्सेधे यस्य पद्मानि शतं सौगन्धिकानि च॥ सुवर्णपृष्ठं सूर्याभं सूर्यदत्तोऽभ्यहारयत्। दृढमायसगर्भं च श्वेतं वर्म शताक्षिमत्॥ विराटस्य सुतो ज्येष्ठो वीरः शङ्खोऽभ्यहारयत्। शतशश्च तनुत्राणि यथास्वं ते महारथाः॥ योत्स्यमाना अनह्यन्त देवरूपाः प्रहारिणः। सूपस्करेषु शुभ्रेषु महत्सु च महारथाः॥ पृथक् काञ्चनसंनाहान् रथेष्वश्वानयोजयन्। सूर्यचन्द्रप्रतीकाशे रथे दिव्ये हिरण्मये॥ महानुभावो मत्स्यस्य ध्वज उच्छिश्रिये तदा। अथान्यान् विविधाकारान् ध्वजान् हेमपरिष्कृतान्।।१९ यथास्वं क्षत्रियाः शूरा रथेषु समयोजयन्। अथ मत्स्योऽब्रवीद् राजा शतानीकं जघन्यजम्॥ कङ्कबल्लवगोपाला जामग्रन्थिश्च वीर्यवान्। युद्ध्येयुरिति मे बुद्धिवर्तते नात्र संशयः॥ एतेषामपि दीयन्तां रथा ध्वजपताकनः। कवचानि च चित्राणि दृढानि च मृदूनि च॥ प्रतिमुढान्तु गात्रेषु दीयन्तामायुधानि च। वीराङ्गरूपाः पुरुषा नागराजकरोपमाः॥ नेमे जातु न युध्येरन्निति मे धीयते मतिः। एतच्छ्रुत्वा तु नृपतेर्वाक्यं त्वरितमानसः। शतानीकस्तु पार्थेभ्यो स्थान् राजन् समादिशत्॥ सहदेवाय राज्ञे च भीमाय नकुलाय च। तान् प्रहृष्टांस्तत: सूता राजभक्तिपुरस्कृताः॥ निर्दिष्टा नरदेवेन रथाञ्छीघ्रमयोजयन्। कवचानि विचित्राणि मृदूनि च दृढानि च।॥ विराटः प्रादिशद् यानि तेषामक्लिष्टकर्मणाम्। तान्यामुच्य शरीरेषु दंशितास्ते परंतपाः॥ रथान् हयैः सुसम्पन्नानास्थाय च नरोत्तमाः। निर्ययुर्मुदिताः पार्थाः शत्रुसंघावमर्दिनः॥ तरस्विनश्छन्नरूपाः सर्वे युद्धविशारदाः। रथान् हेमपरिच्छन्नानास्थाय च महारथाः॥ विराटमन्वयुः पार्थाः सहिताः कुरुपुङ्गवाः। चत्वारो भ्रातरः शूराः पाण्डवाः सत्यविक्रमाः॥ भीमाश्च मत्तमातङ्गा प्रभिन्नकरटामुखाः। क्षरन्तश्चैव नागेन्द्राः सुदन्ताः षष्टिहायनाः॥ स्वारूढा युद्धकुशलैः शिक्षिता हस्तिसादिभिः। राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः॥ विशारदानां मुख्यानां हृष्टानां चारुजीविनाम्। अष्टौ रथसहस्राणि दश नागशतानि च॥ षष्टिश्चाश्वसहस्राणि मत्स्यानामभिनिर्ययुः। तदनीकं विराटस्य शुशुभे भरतर्षभ॥ सम्प्रयातं तदा राजन् निरीक्षन्तं गवां पदम्। तद् बलाग्यं विराटस्य सम्प्रस्थितमशोभत। दृढायुधजनाकीर्णं गजाश्वरथसंकुलम्॥ वैशम्पायन उवाच तमसाभिप्लुते लोके रजसा चैव भारत। अतिष्ठन् वै मुहूर्तं तु व्यूढानीका: प्रहारिणः॥ ततोऽन्धकारं प्रणुदन्नुदतिष्ठत चन्द्रमाः। कुर्वाणो विमलां रात्रि नन्दयन् क्षत्रियान् युधि॥ ततः प्रकाशमासाद्य पुनर्युद्धमवर्तत। घोररूपं ततस्ते स्म नावैक्षन्त परस्परम्॥ ततः सुशर्मा त्रैगर्तः सह भ्रात्रा यवीयसा। अभ्यद्रवन्मत्स्यराजं रथवातेन सर्वशः॥ ततो रथाभ्यां प्रस्कन्ध भ्रातरौ क्षत्रियर्षभौ। गदापाणी सुसंरब्धौ समभ्यद्रवतां रथान्॥ तथैव तेषां तु बलानि तानि क्रुद्धान्यथान्योन्यमभिद्रवन्ति। गदासिख श्च परश्वधैश्च प्रासैश्च तीक्ष्णाग्रसुपीतधारैः॥ बलं तु मत्स्यस्य बलेन राजा सर्वं त्रिगर्ताधिपतिः सुशर्मा। प्रमथ्य जित्वा च प्रसह्य मत्स्यं विराटमोजस्विनमभ्यधावत्।॥ तौ निहत्य पृथग् धुर्यावुभौ तौ पार्ष्णसारथी। विरथं मत्स्यराजानं जीवग्राहमगृह्णताम्॥ तमुन्मथ्य सुशर्माथ युवतीमिव कामुकः। स्यन्दनं स्वं समारोप्य प्रययौ शीघ्रवाहनः॥ तस्मिन् गृहीते विरथे विराटे बलवत्तरे। प्राद्रवन्त भयान्मत्स्यास्त्रिगर्तेरर्दिता भृशम्॥ तेषु संत्रस्यमानेषु कुन्तीपुत्रो युधिष्ठिरः। प्रत्यभाषन्महाबाहुं भीमसेनमरिंदमम्॥ मत्स्यराजः परामृष्टस्त्रिगर्तेन सुशर्मणा। तं मोचय महाबाहो न गच्छेद् द्विषतां वशम्॥ उषिताः स्म सुखं सर्वे सर्वकामैः सुपूजिताः। भीमसेन त्वया कार्या तस्य वासस्य निष्कृतिः॥ भीमसेन उवाच अहमेनं परित्रास्ये शासनात् तव पार्थिवा पश्य युध्यतः सह शत्रुभिः॥ मे सुमहत् कर्म स्वबाहुबलमाश्रित्य तिष्ठ त्वं भ्रातृभिः सह। एकान्तमाश्रितो राजन् पश्य मेऽद्य पराक्रमम्॥ सुस्कन्धोऽयं महावृक्षो गदारूप इव स्थितः। अहमेनमपारुज्य द्रावयिष्यामि शात्रवान्॥ वैशम्पायन उवाच तं मत्तमिव मातङ्गं वीक्षमाणं वनस्पतिम्। अब्रवीद् भ्रातरं वीरं धर्मराजो युधिष्ठिरः॥ मा भीम साहसं कार्षीस्तिष्ठत्वेष वनस्पतिः। मा त्वां वृक्षण कर्माणि कुर्वाणमतिमानुषम्॥ जनाः समवबुध्येरन् भीमोऽयमिति भारत। अन्यदेवायुधं किंचित् प्रतिपद्यस्व मानुषम्॥ चापं वा यदि वा शक्तिं निस्त्रिंशं वा परश्वधम्। यदेव मानुषं भीम भवेदन्यैरलक्षितम्॥ तदेवायुधमादाय मोक्षयाशु महीपतिम्। यमौ च चक्ररक्षौ ते भवितारौ महाबलौ॥ सहिताः समरे तत्र मत्स्यराज परीप्सत। वैशम्पायन उवाच एवमुक्तस्तु वेगेन भीमसेनो महाबलः॥ गृहीत्वा तु धनुः श्रेष्ठं जवेन सुमहाजवः। व्यमुञ्चच्छरवर्षाणि सतोय इव तोयदः॥ तं भीमो भीमकर्माणं सुशर्माणमथाद्रवत्। विराटं समवीक्ष्यैनं तिष्ठ तिष्ठेति चावदत्॥ सुशर्मा चिन्तयामास कालान्तकयमोपमम्। तिष्ठ तिष्ठेति भाषन्तं पृष्ठतो रथपुङ्गवः। पश्यतां सुमहत् कर्म महद् युद्धमुपस्थितम्॥ परावृत्तो धनुर्गृह्य सुशर्मा भ्रातृभिः सह। निमेषान्तरमात्रेण भीमसेनेन ते रथाः॥ रथानां च गजानां च वाजिनां च ससादिनाम्। सहस्रशतसङ्घाता शूराणामुग्रधन्विनाम्॥ पातिता भीमसेनेन विराटस्य समीपतः। पत्तयो निहतास्तेषां गदां गृह्य महात्मना॥ तद् दृष्ट्वा तादृशं युद्धं सुशर्मा युद्धदुर्मदः। चिन्तयामास मनसा किं शेषं हि बलस्य मे। अपरो दृश्यते सैन्ये पुरा मग्नो महाबले॥ आकर्मपूर्णेन तदा धनुषा प्रत्यदृश्यत। सुशर्मा सायकांस्तीक्ष्णान् क्षिपते च पुनः पुनः॥ ततः समस्तास्ते सर्वे तुरगानभ्यचोदयन्। दिव्यमस्त्रं विकुर्वाणास्त्रिगर्तान् प्रत्यमर्षणाः॥ तान् निवृत्तरथान् दृष्ट्वा पाण्डवान् सा महाचमूः। वैराटिः परमक्रुद्धो युयुधे परमाल्लुतम्॥ सहस्रमवधीत् तत्र कुन्तीपुत्रो युधिष्ठिरः। भीमः सप्त सहस्राणि यमलोकमदर्शयत्॥ नकुलश्चापि सप्तैव शतानि प्राठिोच्छरैः। शतानि त्रीणि शूराणां सहदेवः प्रतापवान्॥ युधिष्ठिरसमादिष्टो निजघ्ने पुरुषर्षभः। ततोऽभ्यपतदत्युग्रः सुशर्माणमुदायुधः॥ हत्वा तां महती सेनां त्रिगर्तानां महारथः। ततो युधिष्ठिरो राजा त्वरमाणो महारथः॥ अभिपत्य सुशर्माणं शरैरभ्याहन भृशम्। सुशर्मापि सुसंरब्धस्त्वरमाणो युधिष्ठिरम्॥ अविध्यन्नवभिर्बाणैश्चतुर्भिश्चतुरो हयान्। ततो राजन्नाशुकारी कुन्तीपुत्रो वृकोदरः॥ समासाद्य सुशर्माणमश्वानस्य व्यपोथयत्। पृष्ठगोपांश्च तस्याथ हत्वा परमसायकैः॥ अथास्य सारथिं क्रुद्धो रथोपस्थादपातयत्। चक्ररक्षश्च शूरो वै मदिराक्षोऽतिविश्रुतः॥ समायाद् विरथं दृष्ट्वा त्रिगर्तं प्राहरत् तदा। ततो विराटः प्रस्कन्ध रथादथ सुशर्मणः॥ गदां तस्य परामृश्य तमेवाभ्यद्रवद् बली। स चचार गदापाणिर्वृद्धोऽपि तरुणो यथा।॥ पलायमानं त्रैगर्त दृष्ट्वा भीमोऽभ्यभाषत। राजपुत्र निवर्तस्व न ते युक्तं पलायनम्॥ अनेन वीर्येण कथं गास्त्वं प्रार्थयसे बलात्। कथं चानुचरांस्त्यक्त्वा शत्रुमध्ये विषीदसि॥ इत्युक्तः स तु पार्थेन सुशर्मा रथयूथपः। तिष्ठ तिष्ठेति भीमं स सहसाऽभ्यद्रवद् बली॥ भीमस्तु भीमसंकाशो रथात् प्रस्कन्ध पाण्डवः। प्राद्रवत् तूर्णमव्यग्रो जीवितेप्सुः सुशर्मणः॥४६ तं भीमसेनो धावन्तमभ्यधावत वीर्यवान्। त्रिगर्तराजमादातुं सिंहः क्षुद्रमृगं यथा॥ अभिद्रुत्य सुशर्माणं केशपक्षे परामृशत्। समुद्यम्य तु रोषात् तं निष्पिपेष महीतले॥ पदा मूर्ध्नि महाबाहुः प्राहरद् विलपिष्यतः। तस्य जानुं ददौ भीमो जने चैनमरलिना। स मोहमगमद् राजा प्रहारवरपीडितः॥ तस्मिन् गृहीते विरथे त्रिगर्तानां महारथे। अभज्यत बलं सर्वं त्रैगर्तं तद् भयातुरम्॥ निवर्त्य गास्ततः सर्वा: पाण्डुपुत्रा महारथाः। अवजित्य सुशर्माणं धनं चादाय सर्वशः॥ स्वबाहुबलसम्पन्ना ह्रीनिषेवा यतव्रताः। विराटस्य महात्मानः परिक्लेशविनाशनाः॥ स्थिताः समक्षं ते सर्वे त्वथ भीमोऽभ्यभाषत॥ नायं पापसमाचारो मत्तो जीवितुमर्हति। किं तु शक्यं मया कर्तुं यद् राजा सततं घृणी॥५४। गले गृहीत्वा राजानमानीय विवशं वशम्। तत एनं विचेष्टन्तं बद्धवा पार्थो वृकोदरः॥ रथमारोपयामास विसंज्ञं पांसुगुण्ठितम्। अभ्येत्य रणमध्यस्थमभ्यगच्छद् युधिष्ठिरम्॥ दर्शयामास भीमस्तु सुशर्माणं नराधिपम्। प्रोवाच पुरुषव्याघ्रो भीममाहवशोभिनम्॥ तं राजा प्राहसद् दृष्ट्वा मुच्यतां वै नराधमः। एवमुक्तोऽब्रवीद् भीमः सुशर्माणं महाबलम्॥ भीम उवाच जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु। दासोऽस्मीति त्वया वाच्यं संसत्सु च सभासु च।।५९ एवं ते जीवितं दद्यामेष युद्धजितो विधिः। तमुवाच ततो ज्येष्ठो भ्राता सप्रणयं वचः॥ युधिष्ठिर उवाच मुञ्च मुञ्चाधमाचारं प्रमाणं यदि ते वयम्। दासभावं गतो ह्येष विराटस्य महीपतेः। अदासो गच्छ मुक्तोऽसि मैवं कार्षीः कदाचन॥ वैशम्पायन उवाच एवमुक्ते तु सव्रीडः सुशर्माऽऽसीदधोमुखः। स मुक्तोऽभ्येत्य राजानमभिवाद्य प्रतस्थिवान्॥ विसृज्य तु सुशर्माणं पाण्डवास्ते हतद्विषः। स्वबाहुबलसम्पन्ना ह्रीनिषेवा यतव्रताः॥ संग्रामशिरसो मध्ये तां रात्रिं सुखिनोऽवसन्। ततो विराटः कौन्तेयानतिमानुषविक्रमान्। अर्चयामास वित्तेन मानेन च महारथान्॥ विराट उवाच यथैव मम रत्नानि युष्माकं तानि वै तथा। कार्यं कुरुत वै सर्वे यथाकामं यथासुखम्॥ ददाम्यलंकृताः कन्या वसूनि विविधानि च। मनसश्चाप्यभिप्रेतं युद्धे शत्रुनिबर्हणाः॥ युष्माकं विक्रमादद्य मुक्तोऽहं स्वस्तिमानिह। तस्माद् भवन्तो मत्स्यानामीश्वराः सर्व एव हि॥ वैशम्पायन उवाच तथेतिवादिनं मत्स्यं कौरवेयाः पृथक् पृथक्। ऊचुः प्राढालयः सर्वे युधिष्ठिरपुरोगमाः॥ प्रतिनन्दाम ते वाक्यं सर्वं चैव विशाम्पते। एतेनैव प्रतीताः स्म यत् त्वं मुक्तोऽद्य शत्रुभिः॥ ततोऽब्रवीत् प्रीतमना मत्स्यराजो युधिष्ठिरम्। पुनरेव महाबाहुर्विराटो राजसत्तमः॥ एहि त्वामभिषेक्ष्यामि मत्स्यराजस्तु नो भवान्॥ मनसश्चाप्यभिप्रेतं यथेष्टं भुवि दुर्लभम्। तत् तेऽहं सम्प्रदास्यामि सर्वमर्हति नो भवान्॥ रत्नानि गाः सुवर्णं च मणिमुक्तमथापि च। वैयाघ्रपद्य विप्रेन्द्र सर्वथैव नमोऽस्तु ते॥ त्वत्कृते ह्यद्य पश्यामि राज्यं संतानमेव च। यतश्च जातसंरम्भो न च शत्रुवशं गतः॥ ततो युधिष्ठिरो मत्स्यं पुनरेवाभ्यभाषत। प्रतिनन्दामि ते वाक्यं मनोज्ञं मत्स्य भाषसे॥ आनृशंस्यपरो नित्यं सुसुखी सततं भव। गच्छन्तु दूतास्त्वरितं नगरं तव पार्थिव।॥ सुहृदां प्रियमाख्यातुं घोषयन्तु च ते जयम्। ततस्तद्वचनान्मत्स्यो दूतान् राजा समादिशत्।।१६ आचक्षध्वं पुरं गत्वा संग्रामविजयं मम। कुमार्यः समलंकृत्य पर्यागच्छन्तु मे पुरात्॥ वादित्राणि च सर्वाणि गणिकाश्च स्वलंकृताः। एतां चाज्ञां ततः श्रुत्वा राज्ञा मत्स्येन नोदिताः। तामाज्ञां शिरसा कृत्वा प्रस्थिता हृष्टमानसाः॥ ते गत्वा तत्र तां रात्रिमथ सूर्योदयं प्रति। विराटस्य पुराभ्याशे दूता जयमघोषयन्॥ वैशम्पायन उवाच याते त्रिगर्तान् मत्स्ये तु पशूस्तान् वै परीप्सति। दुर्योधनः सामात्यो विराटमुपयादथ॥ भीष्मो द्रोणश्च कर्णश्च कृपश्च परमास्त्रवित्। द्रौणिश्च सौबलश्चैव तथा दुःशासन प्रभो॥ विविंशतिर्विकर्णश्च चित्रसेनश्च वीर्यवान्। दुर्मुखो दुःशलश्चैव ये चैवान्ये महारथाः॥ एते मत्स्यानुपागम्य विराटस्य महीपतेः। घोषान् विद्राव्य तरा गोधनं जहरोजसा॥ षष्टिं गवां सहस्राणि कुरवः कालयन्ति च। महता रथवंशेन परिवार्य समन्ततः॥ गोपालानां तु घोषस्य हन्यतां तैर्महारथैः। आरावः सुमहानासीत् सम्प्रहारे भयंकरे॥ गोपध्याक्षो भयत्रस्तो रथमास्थाय सत्वरः। जगाम नगरायैव परिक्रोशंस्तदाऽऽर्तवत्॥ स प्रविश्य पुरं राज्ञो नृपवेश्माभ्ययात् ततः। अवतीर्य रथात् तूर्णमाख्यातुं प्रविवेश ह॥ दृष्ट्वा भूमिजयं नाम पुत्रं मत्स्यस्य मानिनम्। तस्मै तत् सर्वमाचष्ट राष्ट्रस्य पशुकर्षणम्॥ षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते। तद् विजेतुं समुत्तिष्ठ गोधनं राष्ट्रवर्धन॥ राजपुत्र हितप्रेप्सुः क्षिप्रं निर्याहि च स्वयम्। त्वां हि मत्स्यो महीपाल: शून्यपालमिहाकरोत्॥ त्वया परिषदो मध्ये श्लाघते स नराधिपः। पुत्रो ममानुरूपश्च शूरश्चेति कुलोद्वहः॥ इष्वस्त्रे निपुणो योधः सदा वीरश्च मे सुतः। तस्य तत् सत्यमेवास्तु मनुष्येन्द्रस्य भाषितम्॥ आवर्तय कुरूढिात्वा पशून् पशुमतां वर। निर्दहैषामनीकानि भीमेन शरतेजसा॥ धनुश्च्युतै रुक्मपुङ्खैः शरैः संनतपर्वभिः। द्विषतां भिन्ध्यनीकानि गजानामिव युथपः॥ पाशोपधानां ज्यातन्त्री चापदण्डां महास्वनाम्। शरवर्णां धनुर्वीणां शत्रुमध्ये प्रवादय॥ श्वेता रजतसंकाशा रथे युज्यन्तु ते हयाः। ध्वजं च सिंहं सौवर्णमुच्छ्रयन्तु तव प्रभो॥ रुक्मपुङ्खाः प्रसन्नाया मुक्ता हस्तवता त्वया। छादयन्तु शराः सूर्यं राज्ञां मार्गनिरोधकाः॥ रणे जित्वा कुरून् सर्वान् वज्रपाणिरिवासुरान्। यशो महदवाप्य त्वं प्रविशेदं पुरं पुनः॥ त्वं हि राष्ट्रस्य परमा गतिर्मत्स्यपतेः सुतः। यथा हि पाण्डुपुत्राणामर्जुनो जयतां वरः॥ एवमेव गतिर्नूनं भवान् विषयवासिनाम्। गतिमन्तो वयं त्वद्य सर्वे विषयवासिनः॥ वैशम्पायन उवाच स्त्रीमध्य उक्तस्तेनासौ तद् वाक्यमभयंकरम्। अन्त:पुरे श्लाघमान इदं वचनमब्रवीत्॥ उत्तर उवाच अद्याहमनुगच्छेयं दृढधन्वा गवां पदम्। यदि मे सारथिः कश्चिद् भवेदश्वेषु कोविदः॥ तं त्वहं नावगच्छामि यो मे यन्ता भवेन्नरः। पश्यध्वं सारथिं क्षिप्रं मम युक्तं प्रयास्यतः॥ अष्टाविंशतिरात्रं वा मासं वा नूनमन्ततः। यत् तदासीन्महद् युद्धं तत्र मे सारथिर्हतः॥ स लभेयं यदा त्वन्यं हययानविदं नरम्। त्वरावानद्य यात्वाहं समुच्छितमहाध्वजम्॥ विगाह्य तत् परानीकं गजवाजिरथाकुलम्। शस्त्रप्रतापनिर्वीर्यान् कुरूढिीत्वाऽऽनये पशून्॥ दुर्योधनं शान्तनवं कर्णं वैकर्तनं कृपम्। द्रोणं च सह पुत्रेण महेष्वासान् समागतान्॥ वित्रासयित्वा संग्रामे दानवानिव वज्रभृत्। अनेनैव मुहूर्तेन पुनः प्रत्यानये पशून्॥ शून्यमासाद्य कुरवः प्रयान्त्यादाय गोधनम्। किं नु शक्यं मया कर्तुं यदहं तत्र नाभवम्॥ पश्येयुरद्य मे वीर्यं कुरवस्ते समागताः। किं नु पार्थोऽर्जुन: साक्षादयमस्मान् प्रबाधते॥ वैशम्पायन उवाच श्रुत्वा तदर्जुनो वाक्यं राज्ञः पुत्रस्य भाषतः। अतीतसमये काले प्रियां भार्यामनिन्दिताम्॥ दुपदस्य सुतां तन्वीं पाञ्चालीं पावकात्मजाम्। सत्यार्जवगुणोपेतां भर्तुः प्रियहिते रताम्॥ उवाच रहसि प्रीतः कृष्णां सर्वार्थकोविदः। उत्तरं ब्रूहि कल्याणि क्षिप्रं मद्वचनादिदम्॥ अयं वै पाण्डवस्यासीत् सारथिः सम्मतो दृढः। महायुद्धेषु संसिद्धः स ते यन्ता भविष्यति॥ वैशम्पायन उवाच तस्य तद् वचनं स्त्रीषु भाषतश्च पुनः पुनः। न सामर्षत पाञ्चाली बीभत्सोः पकिकीर्तनम्॥ अथैनमुपसंगम्य स्त्रीमध्यात् सा तपस्विनी। व्रीडमानेव शनकैरिदं वचनमब्रवीत्॥ योऽसौ बृहद्वारणाभो युवा सुप्रियदर्शनः। बृहन्नलेति विख्यातः पार्थस्यासीत् स सारथिः॥ धनुष्यनवरचासीत् तस्य शिष्यो महात्मनः। दृष्टपूर्वो मया वीर चरन्त्या पाण्डवान् प्रति॥ यदा तत् पावको दावमदहत् खाण्डवं महत्। अर्जुनस्य तदानेन संगृहीता हयोत्तमाः॥ तेन सारथिना पार्थः सर्वभूतानि सर्वशः। अजयत् खाण्डवप्रस्थे न हि यन्तास्ति तादृशः॥ उत्तर उवाच सैरन्ध्र जानासि तथा युवानं नपुंसको नैव भवेद् यथासौ। अहं न शक्नोमि बृहन्नला शुभे वक्तुं स्वयं यच्छ हयान् ममेति वै॥ द्रौपद्युवाच येयं कुमारी सुश्रोणी भगिनी ते यवीयसी। अस्याः स वीर वचनं करिष्यति न संशयः॥ यदि वै सारथिः स स्यात् कुरून् सर्वान् न संशयः। जित्वा गाश्च समादाय ध्रुवमागमनं भवेत्॥ एवमुक्तः स सैरन्ध्या भगिनीं प्रत्यभाषत। गच्छ त्वमनवद्याङ्गि तामानय बृहन्नलाम्॥ सा भ्रात्रा प्रेषिता शीघ्रमगच्छन्नर्तनागृहम्। यत्रास्ते स महाबाहुश्छन्नः सत्रेण पाण्डवः॥ वैशम्पायन उवाच सा प्राद्रवत् काञ्चनमाल्यधारिणी ज्येष्ठेन भ्रात्रा प्रहिता यशस्विनी। सुदक्षिणा वेदिविलग्नमध्या सा पद्मपत्राभनिभा शिखण्डिनी॥ तन्वी शुभाङ्गी मणिचित्रमेखला मत्स्यस्य राज्ञो दुहिता श्रिया वृता। तन्नर्तनागारमरालपक्षमा शतह्रदा मेघमिवान्वपद्यत॥ सा हस्तिहस्तोपमसंहितोरूः स्वनिन्दिता चारुदती सुमध्यमा। आसाद्य तं वै वरमाल्यधारिणी पार्थं शुभा नागवधूरिव द्विपम्॥ सा रत्नभूता मनसः प्रियार्चिता सुता विराटस्य यथेन्द्रलक्ष्मीः। सुदर्शनीया प्रमुखे यशस्विनी प्रीत्याब्रवीदर्जुनमायतेक्षणा॥ सुसंहतोरुं कनकोज्ज्वलत्वचं पार्थः कुमारी स तदाभ्यभाषत। किमागमः काञ्चनमाल्यधारिणी मृगाक्षि किं त्वं त्वरितेव भामिनि।। माचक्ष्व तत्त्वं मम शीघ्रमङ्गने॥ वैशम्पायन उवाच स तां दृष्ट्वा विशालाक्षीं राजपुत्री सखीं तथा। प्रहसन्नब्रवीद राजन् किमागमनमित्युत॥ तमब्रवीद् राजयुत्री समुपेत्य नरर्षभम्। प्रणयं भावयन्ती सा सखीमध्य इदं वचः॥ गावो राष्ट्रस्य कुरुभिः काल्यन्ते नो बृहन्नले। ता विजेतुं मम भ्राता प्रयास्यति धनुर्धरः॥ नाचिरं निहतस्तस्य संग्रामे रथसारथिः। तेन नास्ति समः सूतो योऽस्य सारथ्यमाचरेत्॥ तस्मै प्रयतमानाय सारथ्यर्थं बृहन्नले। आचचक्षे हयज्ञाने सैरन्ध्री कौशलं तव॥ अर्जुनस्य किलासीस्त्वं सारथिर्दयितः पुरा। त्वयाजयत् सहायेन पृथिवीं पाण्डवर्षभः॥ सा सारथ्यं मम भ्रातुः कुरु साधु बृहन्नले। पुरा दूरतरं गावो ह्रियन्ते कुरुभिर्हि नः॥ अथैतद् वचनं मेऽद्य नियुक्ता न करिष्यसि। प्रणयादुच्यमाना त्वं परित्यक्ष्यामि जीवितम्॥ एवमुक्तस्तु सुश्रोण्या तया सख्या परंतपः। जगाम राजपुत्रस्य सकाशममितौजसः॥ तमाव्रजन्तं त्वरितं प्राभन्नमिव कुवारम्। अन्वगच्छद् विशालक्षी गजं गजवधूरिव॥ दूरादेव तु तां प्रेक्ष्य राजपुत्रोऽभ्यभाषत। त्वया सारथिना पार्थः खाण्डवेऽग्निमतर्पयत॥ पृथिवीमजयत् कृत्स्नां कुन्तीपुत्रो धनंजयः। सैरन्ध्री त्वां समाचष्टे सा हि जानाति पाण्डवान्।।१७। संयच्छ मामकानश्वांस्तथैव त्वं बृहन्नले। कुरुभिर्योत्स्यमानस्य गोधनानि परीप्सतः॥ अर्जुनस्य किलासीस्त्वं सारथिर्दयित: पुरा। त्वयाजयत् सहायेन पृथिवीं पाण्डवर्षभः॥ एवमुक्ता प्रत्युवाच राजपुत्रं बृहन्नला। का शक्तिर्मम सारथ्यं कर्तुं संग्राममूर्धनि॥ गीतं वा यदि वा नृत्यं वादिनं वा पृथग्विधम्। तत् करिष्यामि भद्रं ते सारथ्यं तु कुतो मम॥ उत्तर उवाच बृहन्नले गायनो वा नर्तनो वा पुनर्भव। क्षिप्रं मे रथमास्थाय निगृह्णीष्व हयोत्तमान्॥ वैशम्पायन उवाच स तत्र नर्मसंयुक्तमकरोत् पाण्डवो बहु। उत्तरायाः प्रमुखतः सर्वं जाननरिंदमः॥ ऊर्ध्वमुत्क्षिप्य कवचं शरीरे प्रत्यमुञ्चत। कुमार्यस्तत्र तं दृष्ट्वा प्राहसन् पृथुलोचनाः॥ स तु दृष्ट्वा विमुह्यन्तं स्वयमेवोत्तरस्ततः। कवचेन महार्हेण समनह्यद् बृहन्नलाम्॥ स बिभ्रत् कवचं चाइयं स्वयमप्यंशुमत्प्रभम्। ध्वजं च सिंहमुच्छ्रिस्य सारथ्ये समकल्पयत्॥ धनूंषि च महार्हाणि बाणांश्च रुचिरान् बहून्। आदाय प्रययौ वीरः स बृहन्नलसारथिः॥ अथोत्तरा च कन्याश्च सख्यस्तामब्रुवंस्तदा। बृहन्नले आनयेथा वासांसि रुचिराणि च॥ पाञ्चालिकार्थं चित्राणि सूक्ष्माणि च मृदूनि च। विजित्य संग्रामगतान् भीष्मद्रोणमुखान् कुरून्॥ एवं ता ब्रुवतीः कन्याः सहिताः पाण्डुनन्दनः। प्रत्युवाच हसन् पार्थो मेघदुन्दुभिनि:स्वनः॥ बृहन्नलोवाच यद्युत्तरोऽयं संग्रामे विजेष्यति महारथान्। अथाहरिष्ये वासांसि दिव्यानि रुचिराणि च।॥ वैशम्पायन उवाच एवमुक्त्वा तु बीभत्सुस्ततः प्राचोदयद्धयान्। कुरूनभिमुखः शूरो नानाध्वजपताकिनः॥ तमुत्तरं वीक्ष्य रथोत्तरे स्थितं बृहन्नलायाः सहितं महाभुजम्। स्त्रियश्च कन्याश्च द्विजाश्च सुव्रताः प्रदक्षिणं चक्रुरथोचुरङ्गनाः॥ यदर्जुनस्यर्षभतुल्यगामिनः पुराभवत् खाण्डवदाहमङ्गलम्। कुरून् समासाद्य रणे बृहन्नले सहोत्तरेणाद्य तदस्तु मङ्गलम्॥ वैशम्पायन उवाच स राजधान्या निर्याय वैराटिरकुतोभयः। प्रयाहीत्यब्रवीत् सूतं यत्र ते कुरवो गताः॥ समवेताम् कुरून् सर्वाढिागीषूनवजित्य वै। गास्तेषां क्षिप्रमादाय पुनरेष्याम्यहं पुरम्॥ ततस्तांश्चोदयामास सदश्वान् पाण्डुनन्दनः। ते हया नरसिंहेन नोदिता वातरंहसः। आलिखन्त इवाकाशमूहः काञ्चनमालिनः॥ नातिदूरमथो गत्वा मत्स्यपुत्रधनंजयौ। अवेक्षताममित्रघ्नौ कुरूणां बलिनां बलम्॥ श्मशानमभितो गत्वा आससाद कुरूनथ। तां शमीमन्ववीक्षेतां व्यढानीकांश्च सर्वशः॥ तदनीकं महत् तेषां विबभौ सागरोपमम्। सर्पमाणमिवाकाशे वनं बहुलपादपम्॥ ददृशे पार्थिवो रेणुर्जनितस्तेन सर्पता। दृष्टिप्रणाशो भूतानां दिवस्पृक् कुरुसत्तम॥ तदनीकं महद् दृष्ट्वा गजाश्वरथसंकुलम्। कर्णदुर्योधनकृपैर्गुप्तं शान्तनवेन च॥ द्रोणेन च सपुत्रेण महेष्वासेन धीमता। हृष्टरोमा भयोद्विग्नः पार्थं वैराटिरब्रवीत्॥ उत्तर उवाच नोत्सहे कुरुभिर्योद्धं रोमहर्षं हि पश्य मे। बहुप्रवीरमत्युग्रं देवैरपि दुरासदम्॥ प्रतियोद्धं न शक्ष्यामि कुरुसैन्यमनन्तकम्। नाशंसे भारती सेनां प्रवेष्टुं भीमकार्मुकम्॥ रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम्। दृष्ट्वैव हि परानाजौ मनः प्रव्यथतीव मे॥ यत्र द्रोणच भीष्मश्च कृपः कर्णो विविंशतिः। अश्वत्थामा विकर्णश्च सोमदत्तश्च बा िकः॥ दुर्योधनस्तथा वीरो राजा च रथिनां वरः। द्युतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः॥ दृष्ट्वैव हि कुरूनेतान् व्यूढानीकान् प्रहारिणः। हृषितानि च रोमाणि कश्मलं चागतं मम॥ वैशम्पायन उवाच अविजातो विजातस्य मौाद् धूर्तस्य पश्यतः। परिदेवयते मन्दः सकाशे सव्यसाचिनः॥ त्रिगर्तान् मे पिता यातः शून्ये सम्प्रणिधाय माम्। सर्वां सेनामुपादाय न मे सन्तीह सैनिकाः॥ सोऽहमेको बहून् बालः कृतास्त्रानकृतश्रमः। प्रतियोद्धुं न शक्ष्यामि निवर्तस्व बृहन्नले॥ बृहन्नलोवाच भयेन दीनरूपोऽसि द्विषतां हर्षवर्धनः। न च तावत् कृतं कर्म परैः किंचिद् रणाजिरे॥ स्वयमेव च मामात्य वह मां कौरवान् प्रति। सोऽहं त्वां तत्र नेष्यामि यत्रैते बहुला ध्वजाः॥ मध्यमामिषगृध्राणां कुरूणामाततायिनाम्। नेष्यामि त्वां महाबाहो पृथिव्यामपि युध्यताम्॥ तथा स्त्रीषु प्रतिश्रुत्य पौरुषं पुरुषेषु च। कत्थमानोऽभिनिर्याय किमर्थं न युयुत्ससे॥ न चेद् विजित्य गास्तास्त्वं गृहान् वै प्रतियास्यसि। प्रहसिष्यन्ति वीरास्त्वां नरा नार्यश्च संगताः॥ अहमप्यत्र सैरन्ध्या ख्याता सारथ्यकर्मणि। न च शक्ष्याम्यनिर्जित्य गाः प्रयातुं पुरं प्रति॥ स्तोत्रेण चैव सैरन्ध्यास्तव वाक्येन तेन च। कथं न युध्येयमहं कुरून् सर्वान् स्थिरो भव॥ उत्तर उवाच कामं हरन्तु मत्स्यानां भूयांसः कुरवो धनम्। प्रहसन्तु च मां नार्यो नरा वापि बृहन्नले॥ संग्रामे न च कार्यं मे गावो गच्छन्तु चापि मे। शून्यं मे नगरं चापि पितुश्चैव बिभेग्यहम्॥ वैशम्पायन उवाच इत्युक्त्वा प्राद्रवत् भीतो रथात् प्रस्कन्ध कुण्डली। त्यक्त्वा मानं च दर्षं च विसृज्य सशरं धनुः॥ बृहन्नलोवाच नैष शूरैः स्मृतो धर्मः क्षत्रियस्य पलायनम्। श्रेयस्तु मरणं युद्धे न भीतस्य पलायनम्॥ वैशम्पायन उवाच एवमुक्त्वा तु कौन्तेयः सोऽवप्लुत्य रथोत्तमात्। तमन्वधावद् धावन्तं राजपुत्रं धनंजयः॥ दीर्घा वेणी विधुन्वानः साधु रक्ते च वाससी। विधूय वेणी धावन्तमजानन्तोऽर्जुनं तदा॥ सैनिकाः प्राहसन् केचित् तथारूपमवेक्ष्य तम्। तं शीघ्रमभिधावन्तं सम्प्रेक्ष्य कुरवोऽब्रुवन्॥ क एष वेषसंच्छन्नो भस्मन्येव हुताशनः । किंचिदस्य यथा पुंसः किंचिदस्य यथा स्त्रियः॥ सारूप्यमर्जुनस्येव क्लीपरूपं बिभर्ति च। तदेवैतच्छिरो ग्रीवं तौ बाहू परिघोपमौ। तद्वदेवास्य विक्रान्तं नायमन्यो धनंजयात्॥ अमरेष्विव देवेन्द्रो मानुषेषु धनंजयः। एकः कोऽस्मानुपायायादन्यो लोके धनंजयात्॥ एकः पुत्रो विराटस्य शून्ये संनिहितः पुरे। स एष किल निर्यातो बालभावान्न पौरुषात्॥ सत्रेण नूनं छन्नं हि चरन्तं पार्थमर्जुनम्। उत्तर: सारथिं नगराद् बहिः॥ स नो मन्यामहे दृष्ट्वा भीत एष पलायते। तं नूनमेष धावन्तं जिघृक्षति धनंजयः॥ वैशम्पायन उवाच इति स्म कुरवः सर्वे विमृशन्तः पृथक् पृथक्। न च व्यवसितुं किंचिदुत्तरं शक्नुवन्ति ते॥ छन्नं तथा तं सत्रेण पाण्डवं प्रेक्ष्य भारत। उत्तरं तु प्रधावन्तमभिद्रुत्य धनंजयः। गत्वा पदशतं तूर्णं केशपक्षे परामृशत्॥ सोऽर्जुनेन परामृष्टः पर्यदेवयदार्तवत्। बहुलं कृपणं चैव विराटस्य सुतस्तदा॥ कृत्वा निर्यातो उत्तर उवाच शृणुयास्त्वं हि कल्याणि बृहन्नले सुमध्यमे। निवर्तय रथं क्षिप्रं जीवन् भद्राणि पश्यति॥ शातकुम्भम्य शुद्धस्य शतं निष्कान् ददामि ते। मणीनष्टौ च वैदूर्यान् हेमबद्धान् महाप्रभान्॥ हेमदण्डप्रतिच्छन्नं रथं युक्तं च सुव्रतैः। मत्तांश्च दश मातङ्गान् मुञ्च मां त्वं बृहन्नले॥ वैशम्पायन उवाच एवमादीनि वाक्यानि विलपन्तमचेतसम्। प्रहस्य पुरुषव्याघ्रो रथस्यान्तिकमानयत्॥ अथैनमब्रवीत् पार्थो भयार्तं नष्टचेतसम्। यदि नोत्सहसे योद्धं शत्रुभिः शत्रुकर्षण। एहि मे त्वं हयान् यच्छ युध्यमानस्य शत्रुभिः॥ प्रयाह्येतद् रथानीकं मद्बाहुबलरक्षितः। अप्रधृष्यतमं घोरं गुप्तं वीरैमहारथैः॥ मा भैस्त्वं राजपुत्राय क्षत्रियोऽसि परंतप। कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि॥ अहं वै कुरुभिर्योत्स्ये विजेष्यामि च ते पशून्। प्रविश्यैतद् रथानीकमप्रधृष्यं दुरासदम्॥ यन्ता भव नरश्रेष्ठ योत्स्येऽहं कुरुभिः सह। एवं ब्रुवाणो बीभत्सुर्वैराटिमपराजितः। समाश्वास्य मुहूर्तं तमुत्तरं भरतर्षभ॥ तत एनं विचेष्टन्तमकामं भयपीडितम्। रथमारोपयामास पार्थः प्रहरतां वरः॥ वैशम्पायन उवाच तं दृष्ट्वा क्लीबवेषेण रथस्थं नरपुङ्गवम्। शमीमभिमुखं यान्तं रथमारोप्य चोत्तरम्॥ भीष्मद्रोणमुखास्तत्र कुरवो रथिसत्तमाः। वित्रस्तमनसः सर्वे धनंजयकृताद् भयात्॥ तानवेक्ष्य हतोत्साहानुत्पातानपि चाद्भुतान्। गुरुः शस्त्रभृतां श्रेष्ठो भारद्वाजोऽभ्यभाषत॥ चण्डाश्च वाता: संवान्ति रूक्षाः शर्करवर्षिणः। भस्मवर्णप्रकाशेन तमसा संवृतं नमः॥ रुक्षवर्णाश्च जलदा दृश्यन्तेऽद्भुतदर्शनाः। निःसरन्ति च कोशेभ्यः शस्त्राणि विविधानि च।॥ शिवाश्च विनदन्त्येता दीप्तायां दिशि दारुणाः। हयाश्चाश्रूणि मुञ्चन्ति ध्वजाः कम्पन्त्यकम्पिताः॥ यादृशान्यत्र रूपाणि संदृश्यन्ते बहूनि च। यत्ता भवन्तस्तिष्ठन्तु साध्वसं समुपस्थितम्॥ रक्षध्वमपि चात्मानं व्यूहध्वं वाहिनीमपि। वैशसं च प्रतीक्षध्वं रक्षध्वं चापि गोधनम्॥ एष वीरो महेष्वासः सर्वशस्त्रभृतां वरः। आगतः क्लीबवेषेण पार्थो नास्त्यत्र संशयः॥ नगाह्वयो नाम नगारिसूनुः। एषोऽङ्गनावेषधरः किरीटी जित्वा वयं नेष्यति चाद्य गावः॥ स एष पार्थो विक्रान्तः सव्यसाची परंतपः। नायुद्धेन निवर्तेत सर्वैरपि सुरासुरैः॥ क्लेशितश्च वने शूरो वासवेनापि शिक्षितः। अमर्षवशमापन्नो वासवप्रतिमो युधि। नेहास्य प्रतियोद्धारमहं पश्यामि कौरवाः॥ महादेवोऽपि पार्थेन श्रूयते युधि तोषितः। किरातवेषप्रच्छन्नो गिरौ हिमवति प्रभुः॥ कर्ण उवाच सदा भवान् फाल्गुनस्य गुणैरस्मान् विकत्यसे। न चार्जुनः कलापूर्णो मम दुर्योधनस्य च॥ दुर्योधन उवाच योष पार्थो राधेय कृतं कार्यं भवेन्मम। ज्ञाताः पुनश्चरिष्यन्ति द्वादशाब्दान् विशाम्पते॥ अथैष कश्चिदेवान्यः क्लीबवेषेण मानवः। शरैरेनं सुनिशितैः पातयिष्यामि भूतले॥ वैशम्पायन उवाच तस्मिन् ब्रुवति तद् वाक्यं धार्तराष्ट्रे परंतप। भीष्मो द्रोणः कृपो द्रौणिः पौरुषं तदपूजयन्॥ वैशम्पायन उवाच तां शमीमुपसंगम्य पार्थो वैराटिमब्रवीत्। सुकुमारं समाज्ञाय संग्रामे नातिकोविदम्॥ समादिष्टो मया क्षिप्रं धनूंष्यवहरोत्तर। नेमानि हि त्वदीयानि सोढुं शक्ष्यन्ति मे बलम्। भारं चापि गुरुं वोढुं कुवारं वा प्रमर्दितुम्॥ मम वा बाहुविक्षेपं शत्रूनिह विजेष्यतः। तस्माद् भूमिजयारोह शमीमेतां पलाशिनीम्॥ अस्यां हि पाण्डुपुत्राणां धनूंषि निहितान्युत। युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा॥ ध्वजाः शराश्च शूराणां दिव्यानि कवचानि च। अत्र चैतन्महावीर्यं धनुः पार्थस्य गाण्डिवम्॥ एकं शतसहस्रेण सम्मितं राष्ट्रवर्धनम्। व्यायामसहमत्यर्थं तृणराजसमं महत्॥ सर्वायुधमहामात्रं शत्रुसम्बाधकारकम्। सुवर्णविकृतं दिव्यं श्लक्ष्णमायतमव्रणम्॥ अलं भारं गुरुं वोढुं दारुणं चारुदर्शनम्। तादृशान्येव सर्वाणि बलवन्ति दृढानि च। युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा॥ उत्तर उवाच अस्मिन् वृक्षे किलोद्वद्धं शरीरमिति नः श्रुतम्। तदहं राजपुत्रः सन् स्पृशेयं पाणिना कथम्॥ नैवंविधं मया युक्तमालब्धु क्षत्रयोनिना। महता राजपुत्रेण मन्त्रयज्ञविदा सता॥ स्पृष्टवन्तं शरीरं मां शववाहमिवाशुचिम्। कथं वा व्यवहार्यं वै कुर्वीथास्त्वं बृहन्नले॥ बृहन्नलोवाच व्यवहार्यश्च राजेन्द्र शुचिश्चैव भविष्यसि। धनूंष्येतानि मा भैस्त्वं शरीरं नात्र विद्यते॥ दायादं मत्स्यराजस्य कुले जातं मनस्विनाम्। त्वां कथं निन्दितं कर्म कारयेयं नृपात्मज॥ वैशम्पायन उवाच एवमुक्तः स पार्थेन रथात् प्रस्कन्द्य कुण्डली। आरुरोह शमीवृक्षं वैराटिरवशस्तदा॥ तमन्वशासच्छत्रुनो रथे तिष्ठन् धनंजयः। अवरोपय वृक्षाग्राद् धनूंष्येतानि मा चिरम्॥ परिवेष्टनमेतेषां क्षिप्रं चैव व्यपानुदा सोऽपहृत्य महार्हाणि धनूंषि पृथुवक्षसाम्। परिवेष्टनपत्राणि विमुच्य समुपानयत्॥ तथा संनहनान्येषां परिमुच्य समन्ततः। अपश्यद् गाण्डिवं तत्र चतुर्भिरपरैः सह॥ तेषां विमुच्यमानानां धनुषामर्कवर्चसाम्। विनिश्चेरुः प्रभा दिव्या ग्रहाणामुदयेष्विव॥ स तेषां रूपमालोक्य भोगिनामिव जृम्भताम्। हृष्टरोमा भयोद्विग्नः क्षणेन समपद्यत॥ संस्पृश्य तानि चापानि भानुमन्ति बृहन्ति च। वैरारिर्जुनं राजन्निदं वचनमब्रवीत्॥ उत्तर उवाच बिन्दवो जातरूपस्य शतं यस्मिन् निपातिताः। सहस्रकोटि सौवर्णाः कस्यैतद् धनुरुत्तमम्॥ वारणा यत्र सौवर्णाः पृष्ठे भासन्ति दंशिताः। सुपार्श्व सुग्रहं चैव कस्यैतद् धनुरुत्तमम्॥ तपनीयस्य शुद्धस्य षष्टिर्यस्येन्द्रगोपकाः। पृष्ठे विभक्ताः शोभन्ते कस्यैतद् धनुरुत्तमम्॥ सूर्या यत्र च सौवर्णास्त्रयो भासन्ति दंशिताः। तेजसा प्रज्वलन्तो हि कस्यैतद् धनुरुत्तमम्॥ शलभा यत्र सौवर्णास्तपनीयविभूषिताः। सुवर्णमणिचित्रं च कस्यैतद् धनुरुत्तमम्॥ इमे च कस्य नाराचाः साहस्रा लोमवाहिनः। समन्तात् कलधौदाग्रा उपासंगे हिरण्मये॥ विपाठा: पृथवः कस्य गार्धपत्राः शिलाशिताः। हारिद्रवर्णाः सुमुखा: पीताः सर्वायसाः शराः॥ कम्पायमसितश्चापः पञ्चशार्दूललक्षणः। वराहकर्णव्यामिश्रान् शरान् धारयते दश॥ कस्येमे पृथवो दीर्घाश्चन्द्रबिम्बार्धदर्शनाः। शतानि सप्त तिष्ठन्ति नाराचा रुधिराशनाः॥ कस्येमे शुकपत्राभैः पूर्वैरभैः सुवाससः। उत्तरैरायसैः पीतैर्हेमपुङ्खः शिलाशितैः॥ गुरुभारसहो दिव्यः शात्रवाणां भयंकरः। कस्यायं सायको दीर्घः शिलीपृष्ठः शिलीमुखः॥ वैयाघ्रकोशे निहितो हेमचित्रो दुरासदः। सुफलचित्रकोशश्च किङ्किणीसायको महान्॥ कस्य हेमत्सरुर्दिव्यः खङ्गः परमनिमलः। कस्यायं विमलः खड्गो गव्ये कोशे समर्पितः॥ हेमत्सरुरनाधृष्यो नैषध्यो भारसाधनः। कस्य पाचनखे कोशे सायको हेमविग्रहः॥ प्रमाणरूपसम्पन्नः पीत आकाशसंनिभः। कस्य हेममये कोशे सुतप्ते पावकप्रभ॥ निस्त्रिंशोऽयं गुरुः पीतः सायक: परनिर्वणः। कस्यायमसितः खड्गो हेमबिन्दुभिरावृतः॥ आशीविषसमस्पर्शः परकायप्रभेदनः। गुरुभारसहो दिव्यः सपत्नानां भयप्रदः॥ निर्दिशस्व यथातत्त्वं मया पृष्टा बृहन्नले। विस्मयो मे परो जातो दृष्ट्वा सर्वमिदं महत्॥ उत्तर उवाच सुवर्णविकृतानिमान्यायुधानि महात्मनाम्। रुचिराणि प्रकाशन्ते पार्थानामाशुकारिणाम्॥ क्व नु स्विदर्जुन: पार्थः कौरव्यो वा युधिष्ठिरः। नकुलः सहदेवश्च भीमसेनश्च पाण्डवः॥ सर्व एव महात्मानः सर्वामित्रविनाशनाः। राज्यमक्षैः पराकीर्य न श्रूयन्ते कथंचन॥ द्रौपदी क्व च पाञ्चली स्त्रीरत्नमिति विश्रुता। जितानक्षैस्तदा कृष्णा तानेवावगमद् वनम्॥ अर्जुन उवाच अहमसम्यर्जुनः पार्थः सभास्तारो युधिष्ठिरः। बल्लवो भीमसेनस्तु पितुस्ते रसपाचकः॥ अश्वबन्धोऽथ नकुलः सहदेवस्तु गोकुले। सैरन्ध्रीं द्रौपदीं विद्धि यत्कृते कीचका हताः॥ उत्तर उवाच दश पार्थस्य नामानि यानि पूर्वं श्रुतानि मे। प्रब्रूयास्तानि यदि मे श्रद्दध्यां सर्वमेव ते॥ अर्जुन उवाच हन्त तेऽहं समाचक्षे दश नामानि यानि मे। वैराटे शृणु तानि त्वं यानि पूर्वं श्रुतानि ते॥ एकाग्रमानसो भूत्वा शृणु सर्वं समाहितः। अर्जुनः फाल्गुनो जिष्णुः किरीटी श्वेतवाहनः। बीभत्सुर्विजयः कृष्णः सव्यसाची धनंजयः॥ उत्तर उवाच केनासि विजयो नाम केनासि श्वेतवाहनः। किरीटी नाम केनासि सव्यसाची कथं भवान्।॥ अर्जुनः फाल्गुनो जिष्णुः कृष्णो बीभत्सुरेव च। धनंजयश्च केनासि ब्रूहि तन्मम तत्त्वतः॥ श्रुता मे तस्य वीरस्य केवला नामहेतवः। तत् सर्वं यदि मे बूयाः श्रद्दध्यां सर्वमेव ते॥ अर्जुन उवाच सर्वाजानपदाञ्जित्वा वित्तमादाय केवलम्। मध्ये धनस्य तिष्ठामि तेनाहुर्मी धनंजयम्॥ अभिप्रयामि संग्रामे यदहं युद्धदुर्मदान्। नाजित्वा विनिवर्तामि तेन मां विजयं विदुः॥ श्वेताः काञ्चनसंनाहा रथे युज्यन्ति मे हयाः। संग्रामे युध्यमानस्य तेनाहं श्वेतवाहनः॥ उत्तराभ्यां फल्गुनीभ्यां नक्षत्राभ्यामहं दिवा। जातो हिमवतः पृष्ठे तेन मां फाल्गुनं विदुः॥ पुरा शक्रेण मे दत्तं युध्यतो दानवर्षभैः। किरीटं मूर्ध्नि सूर्याभं तेनाहुर्मी किरीटिनम्॥ न कुर्यां कर्म बीभत्सं युध्यमानः कथंचन। तेन देवमनुष्येषु बीभत्सुरिति विश्रुतः॥ उभौ मे दक्षिणौ पाणी गाण्डीवस्य विकर्षणे। तेन देवमनुष्येषु सव्यसाचीति मां विदुः॥ पृथिव्यां चतुरन्तायां वर्णो मे दुर्लभः समः। करोमि कर्म शुक्लं च तस्मान्मामर्जुन: विदुः॥ अहं दुरापो दुर्धर्षो दमनः पाकशासनिः। तेन देवमनुष्येषु जिष्णुर्नामास्मि विश्रुतः॥ कृष्ण इत्येव दशमं नाम चक्रे पिता मम। कृष्णावदातस्य ततः प्रियत्वाद् बालकस्य वै॥ वैशम्पायन उवाच ततः स पार्थं वैराटिरभ्यवादयदन्तिकात्। अहं भूमिजयो नाम नाम्नाहमपि चोत्तरः॥ दिष्ट्या त्वां पार्थ पश्यामि स्वागतं ते धनंजय। लोहिताक्ष महाबाहो नागराजकरोपम॥ यदज्ञानादवोचं त्वां क्षन्तुमर्हसि तन्मम। यतस्त्वया कृतं पूर्वं चित्रं कर्म सुदुष्करम्। अतो भयं व्यतीतं मे प्रीतिश्च परमा त्वयि॥ उत्तर उवाच आस्थाय रुचिरं वीर रथं सारथिनां मया। कतमं यास्यसेऽनीकमुक्तो यास्याम्यहं त्वया॥ अर्जुन उवाच प्रीतोऽस्मि पुरुषव्याघ्र न भयं विद्यते तव। सर्वान् नुदामि ते शत्रून् रणे रणविशारद॥ स्वस्थो भव महाबाहो पश्य मां शत्रुभिः सह। युध्यामानं विमर्देऽस्मिन् कुर्वाणं भैरवं महत्॥ एतान् सर्वानुपासङ्गान् क्षिप्रं बध्नीहि मे रथे। एकं चाहर निस्त्रिंशं जातरूपपरिष्कृतम्॥ वैशम्पायन उवाच अर्जुनस्य वचः श्रुत्वा त्वरावानुत्तरस्तदा। अर्जुनस्यायुधान् गृह्य शीघेणावातरत् ततः॥ अर्जुन उवाच अहं वै कुरुभिर्योत्स्याम्यवजेष्यामि ते पशून्॥ संकल्पपक्षविक्षेपं बाहुप्राकारतोरणम्। त्रिदण्डतूणसम्बाधमनेकध्वजसंकुलम्॥ ज्याक्षेपणं क्रोधकृतं नेमीनिनददुन्दुभि। नगरं ते मया गुप्तं रथोपस्थं भविष्यति॥ अधिष्ठितो मया संख्ये रथो गाण्डीवधन्वना। अजेयः शत्रुसैन्यानां वैराटे व्येतु ते भयम्॥ उत्तर उवाच बिभेमि नाहमेतेषां जानामि त्वां स्थिरं युधि। केशवेनापि संग्रामे साक्षादिन्द्रेण वा समम्॥ इदं तु चिन्तयन्नेवं परिमुह्यामि केवलम्। निश्चयं चापि दुर्मेधा च गच्छामि कथंचन॥ एवं युक्ताङ्गरूपस्य लक्षणैः सूचितस्य च। केन कर्मविपाकेन क्लीबत्वमिदमागतम्॥ मन्ये त्वां क्लीबवेषेण चरन्तं शूलपाणिनम्। गन्धर्वराजप्रतिमं देवं वापि शतक्रतुम्॥ अर्जुन उवाच भ्रातुर्नियोगाज्ज्येष्ठस्य संवत्सरमिदं व्रतम्। चरामि व्रतचर्यं च सत्यमेतद् ब्रवीमि ते॥ नास्मि क्लीबो महाबाहो परवान् धर्मसंयुतः। समाप्तव्रतमुर्तीर्णं विद्धि मां त्वं नृपात्मज॥ उत्तर उवाच परमोऽनुग्रहो मेऽद्य यतस्तर्को न मे वृथा। न हीदृशाः क्लीबरूपा भवन्ति तु नरोत्तम॥ सहायवानस्मि रणे युध्येयममरैरपि। साध्वसं हि प्रणष्टं मे किं करोमि ब्रवीहि मे।॥ अहं ते संग्रहीष्यामि हयान् शत्रुरथारुजान्। शिक्षितो ह्यस्मि सारथ्ये तीर्थतः पुरुषर्षभ॥ दारुको वासुदेवस्य यथा शक्रस्य मातलिः। तथा मां विद्धि सारथ्ये शिक्षितं नरपुङ्गव॥ यस्य याते न पश्यन्ति भूमौ क्षिप्तं पदं पदम्। दक्षिणां यो धुरं युक्तः सुग्रीवसदृशो हयः॥ योऽयं धुरं धुर्यवरो वामा वहति शोभनः। तं मन्ये मेघपुष्पस्य जवेन सदृशं हयम्॥ योऽयं काञ्चनसंनाहः पाणिं वहति शोभन:। समं शैब्यस्य तं मन्ये जवेन बलवत्तरम्॥ योऽयं वहति मे पार्णि दक्षिणामभितः स्थितः। बलाहकादपि मतः स जवे वीर्यवत्तरः॥ त्वामेवायं रथो वोढुं संग्रामेऽर्हति धन्विनम्। त्वं चेमं रथमास्थाय योद्धुम) मतो मम॥ वैशम्पायन उवाच ततो विमुच्य बाहुभ्यां वलयानि स वीर्यवान्। चित्रे काञ्चनसंनाहे प्रत्यमुञ्चत् तदा तले॥ कृष्णान् भङ्गिमतः केशान् श्वेतेनोद्ग्रथ्य वाससा। अथासौ प्राङ्मुखो भूत्वा शुचिः प्रयतमानसः। अभिदध्यौ महाबाहुः सर्वास्त्राणि रथोत्तमे॥ ऊचुश्च पार्थं सर्वाणि प्राञ्जलीनि नृपात्मजम्। इमे स्म परमोदाराः किंकराः पाण्डुनन्दन॥ प्रणिपत्य ततः पार्थः समालभ्य च पाणिना। सर्वाणि मानसानीह भवतेत्यभ्यभाषत॥ प्रतिगृह्य ततोऽस्त्राणि प्रहृष्टवदनोऽभवत्। अधिज्यं तरसा कृत्वा गाण्डीवं व्याक्षिपद् धनुः॥ तस्य विक्षिप्यमाणस्य धनुषोऽभून्महाध्वनिः। यथा शैलस्य महतः शैलेनैवावजघ्नतः॥ स निर्घातोऽभवद् भूभिद् दिक्षु वायुर्ववौ भृशम्। पपात महती चोल्का दिशो न प्रचकाशिरे। भ्रान्तध्वजं खं तदासीत् प्रकम्पितमहाद्रुमम्॥ तं शब्दं कुरवोऽजानन् विस्फोटमशनेरिवा यदर्जुनो धनुःश्रेष्ठं बाहुभ्यामाक्षिपद् रथे॥ उत्तर उवाच एकस्त्वं पाण्डवश्रेष्ठ बहूनेतान् महारथान्। कथं जेष्यसि संग्रामे सर्वशस्त्रास्त्रपारगान्॥ असहायोऽसि कौन्तेय ससहायाश्च कौरवाः। अतएव महाबाहो भीतस्तिष्ठामि तेऽग्रतः॥ उवाच पार्थो मा भैषीः प्रहस्य स्वनवत् तदा।३५॥ युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः। सहायो घोषयात्रायां कस्तदाऽऽसीत्सखा मम॥ तथा प्रतिभये तस्मिन् देवदानवसंकुले। खाण्डवे युध्यमानस्य कस्तदाऽऽसीत्सखा मम॥ निवातकवचैः सार्धं पौलोमैश्च महाबलैः। युध्यतो देवराजार्थे कः सहायस्तदाभवत्॥ स्वयंवरे तु पाञ्चाल्या राजभिः सह संयुगे। युध्यतो बहुभिस्तात कः सहायस्तदाभवत्॥ उपजीव्य गुरुं द्रोणं शक्रं वैश्रवणं यमम्। वरुणं पावकं चैव कृपं कृष्णं च माधवम्॥ पिनाकपाणिनं चैव कथमेतान् न योधये। रथं वाहय मे शीघ्रं व्येतु ते मानसो ज्वरः॥ वैशम्पायन उवाच उत्तरं सारथि कृत्वा शमीं कृत्वा प्रदक्षिणम्। आयुधं सर्वमादाय प्रययौ पाण्डवर्षभः॥ ध्वजं सिंहं स्थात् तस्मादपनीय महारथिः। प्रणिधाय शमीमूले प्रायादुत्तरसारथः॥ दैवीं मायां रथे युक्तां विहितां विश्वकर्मणा। काञ्चनं सिंहलाङ्गलं ध्वजं वानरलक्षणम्॥ मनसा चिन्तयामास प्रसादं पावकस्य च। स च तच्चिन्तितं ज्ञात्वा ध्वजे भूतान्यदेशयत्॥ सपताकं विचित्राङ्गं सोपासङ्गं महाबलम्। खात् पपात रथे तूर्णं दिव्यरूपं मनोरमम्॥ रथं तमागतं दृष्ट्वा दक्षिणं प्राकरोत् तदा। रथमास्थाय बीभत्सुः कौन्तेयः श्वेतवाहनः॥ बद्धगोधाङ्गुलित्राणः प्रगृहीतशरासनः। ततः प्रायादुदीचिं च कपिप्रवरकेतनः॥ स्वनवन्तं महाशङ्ख बलवानरिमर्दनः। प्राधमद् बलमास्थाय द्विषतां लोमहर्षणम्॥ ततस्ते जवना धुर्या जानुभ्यामगमन्महीम्। उत्तरश्चापि संत्रस्तो रथोपस्थ उपाविशत्॥ संस्थाप्य चाश्वान् कौन्तेयः समुद्यम्य च रश्मिभिः। उत्तरं च परिष्वज्य समाश्वासयदर्जुनः॥ अर्जुन उवाच मा भैस्त्वं राजपुत्राग्य क्षत्रियोऽसि परंतप। कथं तु पुरुषव्याघ्र शत्रुमध्ये विषीदसि॥ श्रुतास्ते शङ्खशब्दाश्च भेरीशब्दाश्च पुष्कलाः। कुञ्चराणां च नदतां व्यूढानीकेषु तिष्ठताम्॥ स त्वं कथमिहानेन शङ्खशब्देन भीषितः। विवर्णरूपो वित्रस्तः पुरुषः प्राकृतो यथा॥ उत्तर उवाच श्रुता मे शङ्खशब्दाश्च भेरीशब्दाश्च पुष्कलाः। कुट्ठाराणां निनदतां व्यूढानीकेषु तिष्ठताम्॥ नैवंविधः शङ्खशब्दः पुरा जातु मया श्रुतः। ध्वजस्य चापि रूपं मे दृष्टपूर्वं न हीदृशम्॥ धनुष्श्चैव निर्घोषः श्रुतपूर्वो न मे क्वचित्। अस्य शङ्खस्य शब्देन धनुषो निस्वनेन च॥ अमानुषाणां शब्देन भूतानां ध्वजवासिनाम्। रथस्य च निनादेन मनो मुह्यति मे भृशम्॥ व्याकुलाश्च दिशः सर्वा हृदयं व्यथतीव मे। ध्वजेन पिहिताः सर्वा दिशो न प्रतिभान्ति मे॥ गाण्डीवस्य च शब्देन की मे बधिरीकृतौ। स मुहूर्त प्रयातं तु पार्थो वैराटिमब्रवीत्॥ अर्जुन उवाच एकान्तं रथमास्थाय पद्भ्यां त्वमवपीडयन्। दृढं च रश्मीन् संयच्छ शङ्खध्मास्याम्यहं पुनः॥ वैशम्पायन उवाच ततः शङ्खमुपाध्मासीद् दारयन्निव पर्वतान्। गुहा गिरीणां च तदा दिशः शैलांस्तथैव च। उत्तरश्चापि संलीनो रथोपस्थ उपाविशत्॥ तस्य शङ्खस्य शब्देन स्थनेमिस्वनेन च। गाण्डीवस्य च घोषेण पृथिवी समकम्पत॥ तं समाश्वासयामास पुनरेव धनंजयः॥ द्रोण उवाच यथा रथस्य निर्घोषो यथा मेघ उदीर्यते। कम्पते च यथा भूमि षोऽन्यः सव्यसाचिनः॥ शस्त्राणि न प्रकाशन्ते न प्रहृष्यन्ति वाजिनः। अग्नयश्च न भासन्ते समिद्धास्तन्न शोभनम्॥ प्रत्यादित्यं च नः सर्वे मृगा घोरप्रवादिनः। ध्वजेषु च निलीयन्ते वायसास्तन्न शोभनम्॥ शकुनाश्चापसव्या नो वेदयन्ति महद् भयम्॥ गोमायुरेष सेनांयां रुदन् मध्येन धावति। अनाहतश्च निष्क्रान्तो महद् वेदयते भयम्॥ भवतां रोमकूपाणि प्रहृष्टान्युपलक्षये। ध्रुवं विनाशो युद्धेन क्षत्रियाणां प्रदृश्यते॥ ज्योतींषि न प्रकाशन्ते दारुणा मृगपक्षिणः। उत्पाता विविधा घोरा दृश्यन्ते क्षत्रनाशनाः॥ विशेषत इहास्माकं निमित्तानि विनाशने। उल्काभिश्च प्रदीप्ताभिर्बाध्यते पृतना तव। वाहनान्यप्रहृष्टानि रुदन्तीव विशाम्पते॥ उपासते च सैन्यानि गृध्रास्तव समन्ततः। तप्स्यसे वाहिनीं दृष्ट्वा पार्थवाणप्रपीडिताम्। पराभूता च वः सेना न कश्चिद् योद्भुमिच्छति॥ विवर्णमुखभूयिष्ठाः सर्वे योधा विचेतसः। गाः सम्प्रस्थाप्य तिष्ठामो व्यूढानीकाः प्रहारिणः॥ कर्ण उवाच सर्वानायुष्मतो भीतान् संत्रस्तानिव लक्षये। अयुद्धमनसश्चैव सर्वांश्चैवानवस्थितान्॥ यद्येष राजा मत्स्यानां यदि बीभत्सुरागतः। अहमावारयिष्यामि वेलेव मकरालयम्॥ मम चापप्रयुक्तानां शराणां नतपर्वणाम्। नावृत्तिर्गच्छतां तेषां सर्पाणामिव सर्पताम्॥ रुक्मपुङ्खाः सुतीक्ष्णाग्रा मुक्ता हस्तवता मया। छादयन्तु शराः पार्थं शलभा इव पादपम्॥ शराणां पुखसक्तानां मौर्व्याभिहतया दृढम्। श्रूयतां तलयोः शब्दो भेर्योराहतयोरिव॥ समाहितो हि बीभत्सुर्वर्षाण्यष्टौ च पञ्च च। जातस्नेहश्च युद्धेऽस्मिन् मयि सम्प्रहरिष्यति॥ पात्रीभूतश्च कौन्तेयो ब्राह्मणो गुणवानिव। शरौघान् प्रतिगृह्णातु मया मुक्तान् सहस्रशः॥ एष चैव महेष्वासस्त्रिषु लोकेषु विश्रुतः। अहं चापि नरश्रेष्ठादर्जुनान्नावरः क्वचित्॥ इतश्चेतश्च निर्मुक्तैः काञ्चनैर्गार्धवाजितैः। दृश्यतामद्य वै व्योम खद्योतैरिव संवृतम्॥ अद्याहमृणमक्षय्यं पुरा वाचा प्रतिश्रुतम्। धार्तराष्ट्राय दास्यामि निहत्य समरेऽर्जुनम्॥ अन्तराच्छिद्यमानानां पुडानां व्यतिशीर्यताम्। शलभानामिवाकाशे प्रचारः सम्प्रदृश्यताम्॥ इन्द्राशनिसमस्पर्शेर्महेन्द्रसमतेजसम्। अर्दयिष्याम्यहं पार्थमुल्काभिरिव कुञ्जरम्॥ रथादतिरथं शूरं सर्वशस्त्रभृतां वरम्। विवशं पार्थमादास्ये गरुत्मानिव पन्नगम्॥ तमग्निमिव दुर्धर्षमसिशक्तिशरेन्धनम्। पाण्डवाग्निमहं दीप्तं प्रदहन्तमिवाहितम्॥ अश्ववेगपुरोवातो रथौघस्तनयित्नुमान्। शरधारो महामेघः शमयिष्यामि पाण्डवम्॥ मत्कार्मुकविनिर्मुक्ता: पार्थमाशीविषोपमाः। शराः समभिसर्पन्तु वल्मीकमिव पन्नगाः॥ सुतेजनै रुक्मपुकैः सुधौतेर्नतपर्वभिः। आचितं पश्य कौन्तेयं कर्णिकारिवाचलम्॥ जामदग्न्यान्मया शस्त्रं यत् प्राप्तमृषिसत्तमात्। तदुपाश्रित्य वीर्यं च युध्येयमपि वासवम्॥ ध्वजाग्रे वानरस्तिष्ठन् भल्लेन निहतो मया। अद्यैव पततां भूमौ विनदन् भैरवान् रवान्॥ शत्रोर्मया विपन्नानां भूतानां ध्वजवासिनाम्। दिशः प्रतिष्ठमानानामस्तु शब्दो दिवंगमः॥ अद्य दुर्योधनस्याहं शल्यं हृदि चिरस्थितम्। समूलमुद्धरिष्यामि बीभत्सुं पातयन् रथात्॥ हताश्वं विरथं पार्थं पौरुषे पर्यवस्थितम्। निःश्वसन्तं यथा नागमद्य पश्यन्तु कौरवाः॥ कामं गच्छन्तु कुरवो धनमादाय केवलम्। रथेषु वापि तिष्ठन्तो युद्धं पश्यन्तु मामकम्॥ अश्वत्थामोवाच न च तावज्जिता गावो न च सीमान्तरं गताः। न हास्तिनपुरं प्राप्तास्त्वं च कर्ण विकत्थसे॥ संग्रामांश्च बहूञ्जित्वा लब्ध्वा च विपुलं धनम्। विजित्य च परां सेनां नाहुः किंचन पौरुषम्॥ दहत्यग्निरवाक्यस्तु तूष्णीं भाति दिवाकरः। तूष्णीं धारयते लोकान् वसुधा सचराचरान्॥ चातुर्वर्ण्यस्य कर्माणि विहितानि स्वयम्भुवा। धनं यैरधिगन्तव्यं यच्च कुर्वन् न दुष्यति॥ अधीत्य ब्राह्मणो वेदान् याजयेत यजेत वा। क्षत्रियो धनुराश्रित्य यजेच्चैव न याजयेत्॥ वैश्योऽधिगम्य वित्तानि ब्रह्मकर्माणि कारयेत्। शूद्रः शुश्रूषणं कुर्यात् त्रिषु वर्णेषु नित्यशः। वन्दनायोगविधिभिर्वैतसी वृत्तिमास्थितः॥ वर्तमाना यथाशास्त्रं प्राप्य चापि महीमिमाम्। सत्कुर्वन्ति महाभागा गुरून् सुविगुणानपि॥ प्राप्य द्यूतेन को राज्यं क्षत्रियस्तोष्टुमर्हति। तथा नृशंसरूपोऽयं धार्तराष्ट्रश्च निघृणः॥ तथाधिगम्य वित्तानि को विकत्थेद् विचक्षणः। निकृत्या वञ्चनायोगैश्चरन् वैतंसिको यथा।॥ कतमद् द्वैरथं युद्धं यत्राजैषीर्धनंजयम्। नकुलं सहदेवं वा धनं येषां त्वया हतम्॥ युधिष्ठिरो जित: कस्मिन् भीमश्च बलिनां वरः। इन्द्रप्रस्थं त्वया कस्मिन् संग्रामे निर्जितं पुरा॥ तथैव कतमद् युद्धं यस्मिन् कृष्णा जिता त्वया। एकवस्त्रा सभां नीता दुष्टकर्मन् रजस्वला॥ मूलमेषां महत् कृत्तं साराथी चन्दनं यथा। कर्म कारयिथाः सूत तत्र किं विदुरोऽब्रवीत्॥ यथाशक्ति मनुष्याणां शममालक्षयामहे। अन्येषामपि सत्त्वानामपि कीटपिपीलिकैः। द्रौपद्याः सम्परिक्लेशं न क्षन्तुं पाण्डवोऽर्हति॥ क्षयाय धार्तराष्ट्राणां प्रादुर्भूतो धनंजयः। त्वं पुनः पण्डितो भूत्वा वाचं वक्तुमिहेच्छसि॥ वैरान्तकरणो जिष्णुर्न नः शेषं करिष्यति॥ नैष देवान् न गन्धर्वान् नासुरान् न च राक्षसान्। भयादिह न युध्येत कुन्तीपुत्रो धनंजयः॥ यं यमेषोऽतिसंक्रुद्धः संग्रामे निपतिष्यति। वृक्षं गरुत्मान् वेगेन विनिहत्य तमेष्यति॥ त्वत्तो विशिष्टं वीर्येण धनुष्यमरराट्समम्। वासुदेवसमं युद्धे तं पार्थं को न पूजयेत्॥ देवं दैवेन युध्येत मानुषेण च मानुषम्। अस्त्रं ह्यस्त्रेण यो हन्यात् कोऽर्जुनेन समः पुमान्।।२० पुत्रादनन्तरं शिष्य इति धर्मविदो विदुः। एतेनापि निमित्तेन प्रियो द्रोणस्य पाण्डवः॥ यथा त्वमकरो तमिन्द्रप्रस्थं यथाऽऽहरः। यथाऽऽनैषीः सभां कृष्णां तथा युध्यस्व पाण्डवम्॥ अयं ते मातुल: प्राज्ञः क्षत्रधर्मस्य कोविदः। दुर्दूतदेवी गान्धारः शकुनियुध्यतामिह॥ नाक्षान् क्षिपति गाण्डीवं न कृतं द्वापरं न च। ज्वलतो निशितान् बाणांस्तांस्तान् क्षिपति गाण्डिवम्॥ न हि गाण्डीवनिर्मुक्ता गार्धपक्षाः सुतेजनाः। नान्तरेष्ववतिष्ठन्ते गिरीणामपि दारणाः॥ अन्तकः पवनो मृत्युस्तथाग्निर्वडवामुखः। कुर्युरेते क्वचिच्छेषं न तु क्रुद्धो धनंजयः॥ यथा सभायां द्यूतं त्वं मातुलेन सहाकरोः। तथा युध्यस्व संग्रामे सौबलेन सुरक्षितः॥ युध्यन्तां कामतो योधा नाहं योत्स्ये धनंजयम्। मत्स्यो ह्यस्माभिरायोध्यो यद्यागच्छेद् गवां पदम्॥२८। भीष्म उवाच कलाः काष्ठाश्च युज्यन्ते मुहूर्ताश्च दिनानि च। अर्धमासाश्च मासाश्च नक्षत्राणि ग्रहास्तथा॥ ऋतक्श्चापि युज्यन्ते तथा संवत्सरा अपि। एवं कालविभागेन कालचक्र प्रवर्तते॥ तेषां कालातिरेकेण ज्योतिषां च व्यतिक्रमात्। पञ्चमे पञ्चमे वर्षे द्वौ मासावुपजायतः॥ एषामभ्यधिका मासाः पञ्च च द्वादश क्षपाः। त्रयोदशानां वर्षाणामिति मे वर्तते मतिः॥ सर्वं यथावच्चरितं यद् यदेभिः प्रतिश्रुतम्। एवमेतद् ध्रुवं ज्ञात्वा ततो बीभत्सुरागतः॥ सर्वे चैव महात्मानः सर्वे धर्मार्थकोविदाः। येषां युधिष्ठिरो राजा कस्माद् धर्मेऽपराध्नुयुः॥ अलुब्धाश्चैव कौन्तेयाः कृतवन्तश्च दुष्करम्। न चापि केवलं राज्यमिच्छेयुस्तेऽनुपयतः॥ तदैव ते हि विक्रान्तुमीषुः कौरवनन्दनाः। धर्मपाशनिबद्धास्तु न चेलुः क्षत्रियव्रतात्॥ यच्चानृत इति ख्यायाद् यः स गच्छेत् पराभवम्। णुयुर्मरणं पार्था नानृतत्वं कथंचन॥ प्राप्तकाले तु प्राप्तव्यं नोत्सृजेयुनरर्षभाः। अपि वज्रभृता गुप्तं तथावीर्या हि पाण्डवाः॥ प्रतियुध्येम समरे सर्वशस्त्रभृतां वरम्। तस्माद् यदत्र कल्याणं लोके सिद्धिरनुष्ठितम्। तत् संविधीयतां शीघ्रं मा वो ह्यर्थोऽभ्यगात् परम्।। न हि पश्यामि संग्रामे कदाचिदपि कौरव। एकान्तसिद्धिं राजेन्द्र सम्प्राप्तश्च धनंजयः॥ सम्प्रवृत्ते तु संग्रामे भावाभावौ जयाजयौ। अवश्यमेकं स्पृशतो दृष्टमेतदसंशयम्॥ तस्माद् युद्धोचितं कर्म कर्म वा धर्मसंहितम्। क्रियतामाशु राजेन्द्र सम्प्राप्तश्च धनंजयः॥ दुर्योधन उवाच नाहं राज्यं प्रदास्यामि पाण्डवानां पितामह। युद्धोपचारिक यत् तु तच्छीघ्रं प्रविधीयताम्॥ भीष्म उवाच अत्र या मामिका बुद्धिः श्रूयतां यदि रोचते। सर्वथा हि मया श्रेयो वक्तव्यं कुरुनन्दन॥ क्षिप्रं बलचतुर्भागं गृह्य गच्छ पुरं प्रति। ततोऽपरश्चतुर्भागो गाः समादाय गच्छतु॥ वयं चार्धन सैन्यस्य प्रतियोत्स्याम पाण्डवम्। अहं द्रोणश्च कर्णश्च अश्वत्थामा कृपस्तथा। प्रतियोत्स्याम बीभत्सुमागतं कृतनिश्चयम्॥ मत्स्यं वा पुनरायातमागतं वा शतक्रतुम्। अहमावारयिष्यामि वेलेव मकरालयम्॥ वैशम्पायन उवाच तद वाक्यं रुरुचे तेषां भीष्मेणोक्तं महात्मना। तथा हि कृतवान् राजा कौरवाणामनन्तरम्।॥ भीष्मः प्रस्थाप्य राजानं गोधनं तदनन्तरम्। सेनामुख्यान् व्यवस्थाप्य व्यूहितुं सम्प्रचक्रमे॥ भीष्म उवाच आचार्य मध्ये तिष्ठ त्वमश्वत्थामा तु सव्यतः। कृपः शारद्वतो धीमान् पार्श्व रक्षतु दक्षिणम्॥ अग्रतः सूतपुत्रस्तु कर्णस्तिष्ठतु दंशितः। अहं सर्वस्य सैन्यस्य पश्चात् स्थास्यामि पालयन्।।२३ वैशम्पायन उवाच तथा व्यूढेष्वनीकेषु कौरवेयेषु भारत। उपायादर्जुनस्तूर्णं रथघोषेण नादयन्॥ ददृशुस्ते ध्वजाग्रं वै शुश्रुवुश्च महास्वनम्। दोधूयमानस्य भृशं गाण्डीवस्य च निस्वनम्॥ ततस्तु सर्वमालोक्य द्रोणो वचनमब्रवीत्। महारथमनुप्राप्तं दृष्ट्वा गाण्डीवधन्विनम्॥ द्रोण उवाच एतद् ध्वजाग्रं पार्थस्य दूरतः सम्प्रकाशते। एष घोषः स रथजो रोरवीति च वानरः॥ एष तिष्ठन् रथश्रेष्ठे रथे च रथिनां वरः। उत्कर्षति धनुः श्रेष्ठं गाण्डीवमशनिस्वनम्॥ इमौ च बाणौ सहितौ पादयोर्मे व्यवस्थतौ। अपरौ चाप्यतिक्रान्तौ कर्णौ संस्पृश्य मे शरौ॥ निरुष्य हि वने वासं कृत्वा कर्मातिमानुषम्। अभिवादयते पार्थः श्रोत्रे च परिपृच्छति॥ चिरदृष्टोऽयमस्माभिः प्रज्ञावान् बान्धवप्रियः। अतीव ज्वलितो लक्ष्म्या पाण्डुपुत्रो धनंजयः॥ रथी शरी चारुतली निषङ्गी शङ्खी पताकी कवची किरीटी। खड्गी च धन्वी च विभाति पार्थः शिखी वृतः स्रुग्भिरिवाज्यसिक्तः॥ अर्जुन उवाच इषुपाते च सेनाया हयान् संयच्छ सारथे। यावत् समीक्षे सैन्येऽस्मिन् क्वासौ कुरुकुलाधमः॥१० सर्वानेताननादृत्य दृष्ट्वा तमतिमानिनम्। तस्य मूर्ध्नि पतिष्यामि तत एते पराजिताः॥ एष व्यवस्थितो द्रोणो द्रौणिश्च तदनन्तरम्। भीष्मः कृपश्च कर्णश्च महेष्वासाः समागताः॥ राजानं नात्र पश्यामि गाः समादाय गच्छति। दक्षिणं मार्गमास्थाय शङ्के जीवपरायणः॥ उत्सृजैतद् रथानीकं गच्छ यत्र सुयोधनः। तत्रैव योत्स्ये वैराटे नास्ति युद्धं निरामिषम्। तु तं जित्वा विनिवर्तिष्ये गा: समादाय वै पुनः॥ वैशम्पायन उवाच एवमुक्तः स वैराटिर्हयान् संयम्य यत्नतः। नियम्य च ततो रश्मीन् यत्र ते कुरुपुङ्गवाः। अचोदयत् ततो वाहान् यत्र दुर्योधनो गतः॥ उत्सृज्य रथवंशं प्रयाते श्वेतवाहने। अभिप्रायं विदित्वा च कृपो वचनमब्रवीत्॥ नैषोऽन्तरेण राजानं बीभत्सुः स्थातुमिच्छति। तस्य पाणिं ग्रहीष्यामो जवेनाभिप्रयास्यतः॥ न ह्येनमतिसंक्रुद्धमेको युध्येत संयुगे। अन्यो देवात् सहस्राक्षात् कृष्णाद् वा देवकीसुतात्। आचार्याश्च सपुत्राद् वा भारद्वाजान्महारथात्॥ किं नो गावः करिष्यन्ति धनं वा विपुलं तथा। दुर्योधनः पार्थजले पुरा नौरिव मज्जति॥ तथैव गत्वा बीभत्सुर्नाम विश्राव्य चात्मनः। शलभैरिव तां सेनां शरैः शीघ्रमवाकिरत्॥ कीर्यमाणाः शरौघैस्तु योधास्ते पार्थचोदितैः। नापश्यन्नावृतां भूमिं नान्तरिक्षं च पत्रिभिः॥ तेषामापततां युद्धे नापयानेऽभवन्मतिः। शीघ्रत्वमेव पार्थस्य पूजयन्ति स्म चेतसा॥ ततः शङ्ख प्रदध्मौ स द्विषतां लोमहर्षणम्। विस्फार्य च धनुःश्रेष्ठं ध्वजे भूतान्यचोदयत्॥ तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च। गाण्डीवस्य च घोषेण पृथिवी समकम्पत॥ अमानुषाणां भूतानां तेषां च ध्वजवासिनाम्। ऊर्ध्वं पुच्छान् विधुन्वाना रेभमाणाः समन्ततः। गावः प्रतिन्यवर्तन्त दिशमास्थाय दक्षिणाम्॥ वैशम्पायन उवाच अपयाते तु राधेये दुर्योधनपुरोगमाः। अनीकेन यथास्वेन शनैरार्छन्त पाण्डवम्॥ बहुधा तस्य सैन्यस्य व्यूढस्याप्ततः शरैः। अधारयत वेगं स वेलेव तु महोदधेः॥ ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः। दिव्यमस्त्रं प्रकुर्वाणः प्रत्यायाद् रथसत्तमः॥ यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम्। तथा गाण्डीवनिर्मुक्तैः शरैः पार्थो दिशो दश॥ न रथानां न चाश्वानां न गजानां न वर्मणाम्। अनिविद्धं शितैर्बाणैरासीद द्वयङ्गुलमन्तरम्॥ दिव्ययोगाच्च पार्थस्य हयानामुत्तरस्य च। शिक्षाशिल्पोपपन्नत्वादस्त्राणां च परिक्रमात्। वीर्यवत्त्वं दुतं चाग्नयं दृष्ट्वा जिष्णोरपूजयन्॥ कालाग्निमिव बीभत्सुं निर्दहन्तमिव प्रजाः। नारयः प्रेक्षितुं शेकुर्व्वलन्तमिव पावकम्॥ तानि ग्रस्तान्यनीकानि रेजुरर्जुनमार्गणैः। शैलं प्रति बलाभ्राणि व्याप्तानीवार्करश्मिभिः॥ अशोकानां वनानीवच्छननानि बहुशः शुभैः। रेजुः पार्थशरैस्तत्र तदा सैन्यानि भारत॥ स्रजोऽर्जुनशरैः शीर्णं शुष्यत्पुष्पं हिरण्मयम्। छत्राणि च पताकाश्च खे दधार सदागतिः॥ स्वबलत्रासनात्रस्ता: परिपेतुर्दिशो दश। रथाङ्गदेशानादाय पार्थच्छिन्नयुगा हयाः॥ कर्णकक्षविषाणेषु अन्तरोष्ठेषु चैव ह। मर्मस्वङ्गेषु चाहत्यापातयत् समरे गजान्॥ कौरवाग्रगजानां तु शरीरैर्गतचेतसाम्। क्षणेन संवृता भूमिर्मेधैरिव नभस्तलम्॥ युगान्तसमये सर्वं यथा स्थावरजङ्गमम्। कालक्षयमशेषेण दहत्यग्रशिखः शिखी। तद्वत् पार्थो महाराज ददाह समरे रिपू॥ ततः सर्वास्त्रतेजोभिर्धनुषो निस्वनेन च शब्देनामानुषाणां च भूतानां ध्वजवासिनाम्। भैरवं शब्दमत्यर्थं वानरस्य च कुर्वतः॥ दैवारिपाच्च बीभत्सुस्तस्मिन् दौर्योधने वने। भयमुत्पादयामास बलवानरिमर्दनः॥ रथशक्तिममित्राणां प्रागेव निपतद् भुवि। सोऽपयात् सहसा पश्चात् साहसाच्चाभ्युपेयिवान्॥ शरवातैः सुतीक्ष्णाप्रैः समादिष्टैः खगेरिव। अर्जुनस्तु खमावतें लोहितप्राशनैः खगैः॥ अत्र मध्ये यथार्कस्य रश्मयस्तिग्मतेजसः। दिशासु च तथा राजन्नसंख्याताः शरास्तदा।॥ सकृदेवानतं शेकू स्थमभ्यसितुं परे। अलभ्यः पुनस्श्वैस्तु रथात् सोऽतिप्रपादयेत्॥ ते शरा द्विट्शरीरेषु यथैव न ससज्जिरे। द्विडनीकेषु बीभत्सोर्न ससज्जे रथस्तदा॥ स तद् विक्षोभयामास ह्यरातिबलवासा। अनन्तभोगो भुजगः क्रीडन्निव महार्णवे॥ अस्यतो नित्यमत्यर्थं सर्वमेवातिगस्तथा। अश्रुतः श्रूयते भूतैर्धनुर्घोषः किरीटिनः॥ संततास्तत्र मातङ्गा बाणैरल्पान्तरान्तरे। संवृतास्तेन दृश्यन्ते मेघा इव गभस्तिभिः॥ दिशोऽनुभ्रमतः सर्वाः सव्यदक्षिणमस्यतः। सततं दृश्यते युद्धे सायकासनमण्डलम्॥ पतन्त्यरूपेषु यथा चक्षूर्षि न कदाचन। नालक्ष्येषु शराः पेतुस्तथा गाण्डीवधन्वनः॥ मार्गो गजसहस्रस्य युगपद् गच्छतो वने। यथा भवेत् तथा जज्ञे रथमार्गः किरीटिनः॥ नूनं पार्थजयैषित्वाच्छक्रः सर्वामरैः सह। हन्त्यस्मानित्यमन्यन्त पार्थेन निहताः परे॥ कालमर्जुनरूपेण संहरन्तमिव प्रजाः॥ घ्नन्तमत्यर्थमहितान् विजयं तत्र मेनिरे। कुरुसेनाशरीराणि पार्थेनैवाहतान्यपि। सेदुः पार्थहतानीव पार्थकर्मानुशासनात्॥ ओषधीनां शिरांसीव द्विषच्छीर्षाणि सोऽन्वयात्। अवनेशुः कुरूणां हि वीर्याण्यर्जुनजाद् भयात्॥ अर्जुनानिलभिन्नानि वनान्यर्जुनविद्विषाम्। चक्रुर्लोहितधाराभिर्धरणी लोहितान्तराम्॥ लोहितेन समायुक्तः पांसुभिः पवनोद्धृतैः। बभूवुर्लोहितास्तत्र भृशमादित्यरश्मयः॥ सार्क खं तत्क्षणेनासीत् संध्यायामिव लोहितम्। अप्यस्तं प्राप्य सूर्योऽपि निवर्तेत न पाण्डवः॥ तान सर्वान् समरे शूरः पौरुषे समवस्थितान्। दिव्धरस्त्रैरचिन्त्यात्मा सर्वानाछेद् धनुर्धरान्॥ स तु द्रोणं त्रिसप्तत्या क्षुरप्राणां समार्पयत्। दुःसहं दशभिर्बाणैौणिमष्टाभिरेव च।॥ दुःशासनं द्वादशभिः कृपं शारद्वतं त्रिभिः। भीष्मं शान्तनवं षष्ट्या राजानं च शतेन ह। कर्णं च कर्णिना कर्णे विव्याध परवीरहा॥ तस्मिन् विद्धे महेष्वासे कर्णे सर्वास्त्रकोविदे। हताश्वसूते विरथे ततोऽनीकमभज्यत॥ तत् प्रभन्नं बलं दृष्ट्वा पार्थमाजिस्थितं पुनः। अभिप्रायं समाज्ञाय वैराटिरिदमब्रवीत्॥ आस्थाय रुचिरं जिष्णो रथं सारथिना मया। कतमं यास्यसेऽनीकमुक्तो यास्याम्यहं त्वया॥ अर्जुन उवाच लोहिताश्वमरिष्टं यं वैयाघ्रमनुपश्यसि। नीलां पताकामाश्रित्य रथे तिष्ठन्तमुत्तर॥ कृपस्यैतदनीकाग्न्यं प्राप्यस्वैतदेव माम्। एतस्य दर्शयिष्यामि शीघ्रास्त्रं दृढधन्विनः॥ ध्वजे कमण्डलुर्यस्य शातकौम्भमयः शुभः। आचार्य एष हि द्रोण: सर्वशस्त्रभृतां वरः॥ सदा ममैष मान्यस्तु सर्वशस्त्रभृतामपि। सुप्रसन्नं महावीरं कुरुष्वैनं प्रदक्षिणम्॥ अत्रैव वावरोहैनमेष धर्मः सनातनः। यदि मे प्रथमं द्रोणः शरीरे प्रहरिष्यति। ततोऽस्य प्रहरिष्यामि नास्य कोपो भवेदिति॥ अस्याविदूरे हि धनुर्ध्वजाये यस्य दृश्यते! आचार्यस्यैष पुत्रो वै अश्वत्थामा महारथः॥ सदा ममैष मान्यस्तु सर्वशस्त्रभृतामपि। एतस्य त्वं रथं प्राप्य निवर्तेथाः पुनः पुनः॥ य एष तु स्थानीके सुवर्णकवचावृतः। सेनाग्न्येण तृतीयेन व्यावहार्येण तिष्ठति॥ यस्य नागो ध्वजाग्रेऽसौ हेमकेतनसंवृतः। धृतराष्ट्रात्मजः श्रीमानेष राजा सुयोधनः॥ एतस्याभिमुखं वीर रथं पररथारुजम्। प्रापयस्वैष राजा हि प्रमाथी युद्धदुर्मदः॥ एष द्रोणस्य शिष्याणां शीघ्रास्त्रे प्रथमो मतः। एतस्य दर्शयिष्यामि शीघ्रास्त्रं विपुलं रणे॥ नागकक्षा तु रुचिरा ध्वजाग्रे यस्य तिष्ठति। एष वैकर्तनः कर्णो विदितः पूर्वमेव ते॥ एतस्य रथमास्थाय राधेयस्य दुरात्मनः। यत्तो भवेथाः संग्रामे स्पर्धते हि सदा मया॥ यस्तु नीलानुसारेण पञ्चतारेण केतुना। हस्तावापी बृहद्धन्वा रथे तिष्ठति वीर्यवान्॥ यस्य तारार्कचित्रोऽसौ ध्वजो स्थवरे स्थितः। यस्यैतत् पाण्डुरं छत्रं विमलं मूर्ध्नि तिष्ठति॥ महतो रथवंशस्य नानाध्वजपताकिनः। बलाहकाये सूर्यो वा य एष प्रमुखे स्थितः॥ हैमं चन्द्रार्कसंकाशं कवचं यस्य दृश्यते। जातरूपशिरस्त्राणं मनस्तापयतीव मे॥ एष शान्तनवो भीष्मः सर्वेषां नः पितामहः। राजश्रियाभिवृद्धश्च सुयोधनवशानुगः॥ पश्चादेष प्रयातव्यो न मे विजकरो भवेत्। एतेन युध्यमानस्य यत्त: संयच्छ मे हयान्॥ ततोऽभ्यवहदव्यग्रो वैराटिः सव्यसाचिनाम्। यत्रातिष्ठत् कृपो राजन् योत्स्यमानो धनंजयम्॥ वैशम्पायन उवाच तान्यनीकान्यदृश्यन्त कुरूणामुग्रधन्विनाम्। संसर्पन्ते यथा मेघा धर्मान्ते मन्दमारुताः॥ अभ्याशे वाजिनस्तस्थुः समारूढाः प्रहारिणः। भीमरूपाश्च मातङ्गास्तोमराङ्कुशनोदिताः। महामात्रैः समारूढा विचित्रकवचोज्ज्वलाः॥ ततः शक्रः सुरगणैः समारुह्य सुदर्शनम्। सहोपायात् तदा राजन् विश्वाश्चिमरुतां गणैः॥ तद् देवयक्षगन्धर्वमहोरगसमाकुलम्। शुशुभेऽभ्रविनिर्मुक्तं ग्रहाणामिव मण्डलम्॥ अस्त्राणां च बलं तेषां मानुषेषु प्रयुञ्जताम्। तच्च भीमं महद् युद्धं कृपार्जुनसमागमे। द्रष्टुमभ्यागता देवाः स्वविमानैः पृथक् पृथक्॥ शतं शतसहस्राणां यत्र स्थूणा हिरण्मयी। मणिरत्नमयी चान्या प्रासादं तदधारयत्॥ ततः कामगमं दिव्यं सर्वरलविभूषितम्। विमानं देवराजस्य शुशुभे खेचरं तदा॥ तत्र देवास्त्रयस्त्रिंशत् तिष्ठन्ति सहवासवाः। गन्धर्वा राक्षसाः सर्पाः पितरश्च महर्षिभिः॥ तथा राजा वसुमना बलाक्षः सुप्रतर्दनः। अष्टकश्च शिविश्चैव ययातिर्नहुषो गयः॥ मनुः पूरू रघुर्भानुः कृशाश्वः सगरो नलः। विमाने देवराजस्य समदृश्यन्त सुप्रभाः॥ अग्नेरीशस्य सोमस्य वरुणस्य प्रजापतेः। तथा धातुर्विधातुश्च कुबेरस्य यमस्य च॥ अलम्बुषोग्रसेनानां गन्धर्वस्य च तुम्बुरोः। यथामानं यथोद्देशं विमानानि चकाशिरे॥ सर्वदेवनिकायाच सिद्धाश्च परमर्षयः। अर्जुनस्य कुरूणां च द्रष्टुं युद्धमुपागताः॥ दिव्यानां सर्वमाल्यानां गन्धः पुण्योऽथ सर्वशः। प्रससार वसन्ताग्रे वनानामिव भारत॥ तत्र रत्नानि देवानां समदृश्यन्त तिष्ठताम्। आतपत्राणि वासांसि सजश्च व्यजनानि च॥ उपाशाम्यद् रजो भौमं सर्वं व्याप्तं मरीचिभिः। दिव्यगन्धानुपादाय वायुर्योधानसेवत॥ प्रभासितमिवाकाशं चित्ररूपमलंकृतम्। सम्पतद्धिः स्थितैश्चापि नानारत्नविभासितैः॥ विमानैर्विविधैश्चित्ररुपानीतैः सुरोत्तमैः। वज्रभृच्छुशुभे तत्र विमानस्थैः सुरैर्वृतः॥ बिभ्रन्मालां महातेजाः पद्मोत्पलसमायुताम्। विप्रेक्ष्यमाणो बहुभिर्नातृप्यत् सुमहाहवम्॥ वैशम्पायन उवाच दृष्ट्वा व्यूढान्यनीकानि कुरूणां कुरुनन्दन। तत्र वैराटिमामन्त्र्य पार्थो वचनमब्रवीत्॥ जाम्बूनदमयी वेदी ध्वजे यस्य प्रदृश्यते। तस्य दक्षिणतो याहि कृपः शारद्वतो यतः॥ वैशम्पायन उवाच धनंजयवचः श्रुत्वा वैराटिस्त्वरितस्ततः। हयान् रजतसंकाशान् हेमभाण्डानचोदयत्॥ आनुपूर्व्यात् तु तत् सर्वमास्थाय जवमुत्तमम्। प्राहिणोच्चन्द्रसंकाशान् कुपितानिव तान् हयान्॥ स गत्वा कुरुसेनायाः समीपं हयकोविदः। पुनरावर्तयामास तान् हयान् वातरंहसः॥ प्रदक्षिणमुपावृत्य मण्डलं सव्यमेव च। कुरून् सम्मोहयामास मत्स्यो यानेन तत्त्ववित्॥ कृपस्य रथमास्थाय वैराटिरकुतोभयः। प्रदक्षिणमुपावृत्य तस्थौ तस्याग्रतो बली॥ ततोऽर्जुनः शङ्खवरं देवदत्तं महारवम्। प्रदध्मौ बलमास्थाय नाम विश्राव्य चात्मनः॥ तस्य शब्दो महानासीद् धम्यमानस्य जिष्णुना। तथा वीर्यवता संख्ये पर्वतस्येव दीर्यतः॥ पूजयांचक्रिरे शङ्ख कुरवः सहसैनिकाः। अर्जुनेन तथा ध्मातः शतधा यन्न दीर्यते॥ दिवमावृत्य शब्दस्तु निवृत्तः शुश्रुवे पुनः। सृष्टो मघवता वज्रः प्रपतन्निव पर्वते॥ एतस्मिन्नन्तरे वीरो बलवीर्यसमन्वितः। अर्जुनं प्रति संरब्धः कृपः परमदुर्जयः। अमृष्यमाणस्तं शब्दं कृपः शारद्वतस्तदा॥ अर्जुनं प्रति संरब्धो युद्धार्थी स महारथः। महोदधिजमादाय दध्मौ वेगेन वीर्यवान्॥ स तु शब्देन लोकांस्त्रीनावृत्य रथिनां वरः। धनुरादाय सुमहज्ज्याशब्दमकरोत् तदा॥ तौ रथौ सूर्यसंकाशौ योत्स्यमानौ महाबलौ। शारदाविव जीमूतौ व्यरोचेतां व्यवस्थितौ॥ ततः शारद्वतस्तूर्णं पार्थं दशभिराशुगैः। विव्याध परवीरघ्नं निशितैर्मर्मभेदिभिः॥ पार्थोऽपि विश्रुतं लोके गाण्डीवं परमायुधम्। विकृष्य चिक्षेप बहून् नाराचान् मर्मभेदिनः॥ तान् प्राप्ताञ्छितैर्बाणैर्नाराचान् रक्तभोजनान्। कृपश्चिच्छेद पार्थस्य शतशोऽथ सहस्रशः॥ ततः पार्थस्तु संक्रुद्धश्चित्रान् मार्गान् प्रदर्शयन्। दिशः संछादयन् बाणैः प्रदिशश्च महारथः। एकच्छायमिवाकाशमकरोत् सर्वतः प्रभुः॥ प्राच्छादयदमेयात्मा पार्थः शरशतैः कृपम्। स शरैरर्दितः क्रुद्धः शितैरग्निशिखोपमैः॥ तूर्णं दशसहस्रेण पार्थमप्रतिमौजसम्। अर्दयित्वा महात्मानं ननर्द समरे कृपः॥ ततः कनकपर्वाग्रैर्वीरः संनतपर्वभिः। त्वरन् गाण्डीवनिर्मुक्तैरर्जुनस्तस्य वाजिनः॥ चतुर्भिश्चतुरस्तीक्ष्णैरविध्यत् परमेषुभिः। हया निशितैर्बाणैर्व्वलद्भिरिव पन्नगैः। उत्पेतुः सहसा सर्वे कृपः स्थानादथाच्यवत्॥ च्युतं तु गौतमं स्थानात् समीक्ष्य कुरुनन्दनः। ते नाविध्यत् परवीरघ्नो रक्षमाणोऽस्य गौरवम्॥ स तु लब्ध्वा पुनः स्थानं गौतमः सव्यसाचिनम्। विव्याध दशभिर्बाणैस्त्वरितः कङ्कपत्रिभिः॥ ततः पार्थो धनुस्तस्य भल्लेन निशितेन ह। चिच्छेदैकेन भूयश्च हस्तावापमथाहरत्॥ अथास्य कवचं बाणैर्निशितैर्मर्मभेदिभिः। व्यधमन्न च पार्थोऽस्य शरीरमवपीडयत्॥ तस्य निर्मुच्यमानस्य कवचात् काय आवभौ। समये मुच्यमानस्य सर्पस्येव तनुर्यथा॥ छिन्ने धनुषि पार्थेन सोऽन्यदादाय कार्मुकम्। चकार गौतमः सज्यं तदद्भुतमिवाभवत्॥ स तदप्यस्य कौन्तेयश्चिच्छेद नतपर्वणा। एवमन्यानि चापानि बहूनि कृतहस्तवत्। शारद्वतस्य चिच्छेद पाण्डवः परवीरहा॥ सच्छिन्नधनुरादाय रथशक्तिं प्रतापवान्। प्राहिणोत् पाण्डुपुत्राय प्रदीप्तामशनीमिव।॥ तामर्जुनस्तदाऽऽयान्तीं शक्तिं हेमविभूषिताम्। वियद्गतां महोल्काभां चिच्छेद दशभिः शरैः॥ सापतद् शतधा छिन्ना भूमौ पार्थेन धीमता॥ युगपच्चैव भल्लैस्तु ततः सज्यधनुः कृपः। तमाशु निशितैः पार्थं बिभेद दशभिः शरैः॥ ततः पार्थो महातेजा विशिखानग्नितेजसः। चिक्षेप समरे क्रुद्धस्त्रयोदश शिलाशितान्॥ अथास्य युगमेकेन चतुर्भिश्चतुरो हयान्। षष्ठेन च शिरः कायाच्छरेण रथसारथेः॥ त्रिभिस्त्रिवेणुं समरे द्वाभ्यामक्षं महारथः। द्वादशेन तु भल्लेन चकर्तास्य ध्वजं तदा॥ ततो वज्रनिकाशेन फाल्गुनः प्रहसन्निव। त्रयोदशेनेन्द्रसमः कृपं वक्षस्यविध्यत॥ सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः। गदापाणिरवप्लुत्य तूर्णं चिक्षेप तां गदाम्॥ सा च मुक्ता गदा गुर्वी कृपेण सुपरिष्कृता। अर्जुनेन शरैर्नुन्ना प्रतिमार्गमथागमत्॥ तं तु योधाः परीप्सन्तः शारद्वतममर्षणम्। सर्वतः समरे पार्थं शरवर्षेरवाकिरन्॥ ततो विराटस्य सुतः सव्यमावृत्य वाजिनः। यमकं मण्डलं कृत्वा तान् योधान् प्रत्यवारयत्॥ ततः कृपमुपादाय विरथं ते नरर्षभाः। अपजहुर्महावेगा कुन्तीपुत्राद् धनंजयात्॥ वैशम्पायन उवाच कृपेऽपनीते द्रोणस्तु प्रगृह्य सशरं धनुः। अभ्यद्रवदनाधृष्यः शोणाश्वः श्वेतवाहनम्॥ स तु रुक्मरथं दृष्ट्वा गुरुमायान्तमन्तिकात्। अर्जुनो जयतां श्रेष्ठ उत्तरं वाक्यमब्रवीत्॥ अर्जुन उवाच यत्रैषा काञ्चनी वेदी ध्वजे यस्य प्रकाशते। उच्छ्रिता प्रवरे दण्डे पताकाभिलरकृता। अत्र मां वह भद्रं ते द्रोणानीकाय सारथे॥ अश्वाः शोणाः प्रकाशन्ते बृहन्तश्चारुवाहिनः। स्निग्धविदुमसंकाशास्ताम्रास्याः प्रियदर्शनाः। युक्ता रथवरे यस्य सर्वशिक्षाविशारदाः॥ दीर्घबाहुर्महातेजा बलरूपसमन्वितः। सर्वलोकेषु विक्रान्तो भारद्वाजः प्रतापवान्॥ बुद्ध्या तुल्यो ह्युशनसा बृहस्पतिसमो नये। वेदास्तथैव चत्वारो ब्रह्मचर्यं तथैव च॥ ससंहाराणि सर्वाणि दिव्यान्यस्त्राणि मारिष। धनुर्वेदश्च कात्र्येन यस्मिन् नित्यं प्रतिष्ठितः॥ क्षमा दमश्च सत्यं च आनृशंस्यमथार्जवम्। एते चान्ये च बहवो यस्मिन् नित्यं द्विजे गुणाः॥ तेनाहं योद्धमिच्छामि महाभागेन संयुगे। तस्मात् तं प्रापयाचार्यं क्षिप्रमुत्तर वाहय॥ वैशम्पायन उवाच अर्जुननैवमुक्तस्तु वैराटिहेमभूषणान्। चोदयामास तानश्वान् भारद्वाजथं प्रति॥ तमापतन्तं वेगेन पाण्डवं रथिनां वरम्। द्रोणः प्रत्युद्ययौ पार्थं मत्तो मत्तमिव द्विपम्॥ ततः प्राध्मापयच्छङ्ख भेरीशतनिनादिनम्। प्रचुक्षुभे बलं सर्वमुद्भूत इव सागरः॥ अथ शोणान् सदश्वांस्तान् हंसवर्णैमनोजवैः। मिश्रितान् समरे दृष्ट्वा व्यस्मयन्त रणे नराः॥ तौ स्थौ वीर्यसम्पन्नौ दृष्ट्वा संग्राममूर्धनि। आचार्यशिष्यावजितौ कृतविद्यौ मनस्विनौ॥ समाश्लिष्टौ तदान्योन्यं द्रोणपार्थो महाबलौ। दृष्ट्वा प्राकम्पत मुहुर्भरतानां महद् बलम्॥ हर्षयुक्तस्ततः पार्थः प्रहसन्निव वीर्यवान्। रथं रथेन द्रोणस्य समासाद्य महारथः॥ अभिवाद्य महाबाहुः सामपूर्वमिदं वचः। उवाच श्लक्ष्णया वाचा कौन्तेयः परवीरहा।॥ उषिताः स्मो वने वासं प्रतिकर्म चिकीर्षवः। कोपं नार्हसि नः कर्तुं सदा समरदुर्जय॥ अहं तु प्रहते पूर्वं प्रहरिष्यामि तेऽनघ। इति मे वर्तते बुद्धिस्तद् भवान् कर्तुमर्हति॥ ततोऽस्मै प्राहिणोद् द्रोणः शरानधिकविंशतिम्। अप्राप्तांश्चैव तान् पार्थश्चिच्छेद कृतहस्तवत्॥ ततः शरसहस्रेण रथं पार्थस्य वीर्यवान्। अवाकिरत् ततो द्रोणः शीघ्रमस्त्रं विदर्शयन्॥ हयांश्च रजतप्रख्यान कङ्कपत्रैः शिलाशितैः। अवाकिरदमेयात्मा पार्थं संकोपयन्निव॥ एवं प्रववृते युद्धं भारद्वाजकिरीटिनोः। समं विमुञ्चतो संख्ये विशिस्वान् दीप्ततेजसः॥ तावुभौ ख्याकर्माणावुभौ वायुसमौ जवे। उभौ दिव्यास्त्रविदुषावुभावुत्तमतेजसौ। क्षिपन्तौ शरजालानि मोहयामासतुर्नुपान्॥ व्यस्मयन्त ततो योधा ये तत्रासन् समागताः। शरान् विसृजतोस्तूर्णं साधु साध्वित्यपूजयन्॥ द्रोणं हि समरे कोऽन्यो योद्धुमर्हति फाल्गुनात्। रौद्रः क्षत्रियधर्मोऽयं गुरुणा यदयुध्यता इत्यब्रुवढानास्तत्र संग्रामशिरसि स्थिताः॥ वीरौ तावभिसंरब्धौ संनिकृष्टौ महाभुजौ। छादयेतां शरव्रातैरन्योन्यमपराजितौ॥ विस्फार्य सुमहच्चापं हेमपृष्ठं दुरासदम्। भारद्वाजोऽथ संक्रुद्धः फाल्गुनं प्रत्यविध्यत॥ स सायकमयैर्जालैरर्जुनस्य रथं प्रति। भानुमद्भिः शिलाघौतैर्भानोराच्छादयत् प्रभाम्॥ पार्थं च सुमहाबाहुर्महावेगैर्महारथः। विव्याध निशितैर्बाणैर्मेघो वृष्ट्येव पर्वतम्॥ तथैव दिव्यं गाण्डीवं धनुरादाय पाण्डवः। शत्रुघ्नं वेगवान् हृष्टो भारसाधनमुत्तमम्॥ विससर्ज शरांश्चित्रान् सुवर्णविकृतान् बहून्। नाशयन् शरवर्षाणि भारद्वाजस्य वीर्यवान्। तूर्णं चापविनिर्मुक्तैस्तदद्भुतमिवाभवत्॥ स रथेन चरन् पार्थः प्रेक्षणीयो धनंजयः। युगपद् दिक्षु सर्वासु सर्वतोऽस्त्राण्यदर्शयत्॥ एकच्छायमिवाकाशं बाणैश्चक्रे समन्ततः। नादृश्यत तदा द्रोणो नीहारेणेव संवृतः॥ तस्याभवत् तदा रूपं संवृतस्य शरोत्तमैः। जाज्वल्यमानस्य तदा पर्वतस्येव सर्वतः॥ दृष्ट्वा तु पार्थस्य रणे शरैः स्वरथमावृतम्। स विस्फार्य धनुः श्रेष्ठं मेघस्तनितनिस्वनम्॥ अग्निचक्रोपमं घोरं व्यकर्षत् परमायुधम्। व्यशातयच्छरांस्तांस्तु द्रोणः समितिशोभनः॥ महानभूत् ततः शब्दो वंशानामिव दह्यताम्॥ जाम्बूनदमयैः पुढेश्चित्रचापविनिर्गतैः। प्राच्छादयदमेयात्मा दिशः सूर्यस्य च प्रभाम्॥ ततः कनकपुङ्खानां शराणां नतपर्वणाम्। वियच्चराणां वियति दृश्यन्ते बहरो व्रजाः॥ द्रोणस्य पुङ्खसक्ताच प्रभवन्तः शरासनात्। एको दीर्घ इवादृश्यदाकाशे संहतः शरः॥ एवं तौ स्वर्णविकृतान् विमुञ्चन्तौ महाशरान्। आकाशं संवृतं वीरावुल्काभिरिव चक्रतुः॥ शरास्तयोस्तु विबभुः कङ्कबर्हिणवाससः। पङ्क्त्यः शरदि खस्थानां हंसानां चरतामिव॥ युद्धं समभवत् तत्र सुसंरब्धं महात्मनोः। द्रोणपाण्डवयो?रं वृत्रवासवयोरिव॥ तौ गजाविव चासाद्य विषाणाप्रैः परस्परम्। शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः॥ तौ व्यवाहरतां युद्धे संरब्धौ रणशोभिनौ। उदीरयन्तौ समरे दिव्यान्यस्त्राणि भागशः॥ अथ त्वाचार्यमुख्येन शरान् सृष्टाञ्छिलाशितान्। न्यवारयच्छितैर्बाणैर्जुनो जयतां वरः॥ दर्शयन् वीक्षमाणानामस्त्रमुग्रपराक्रमः। इषुभिस्तूर्णमाकाशं बहुभिश्च समावृणोत्॥ जिघांसन्तं नरव्याघ्रमर्जुनं तिग्मतेजसम्। आचार्यमुख्यः समरे द्रोणः शस्त्रभृतां वरः। अर्जुनेन सहाक्रीडच्छरैः संनतपर्वभिः॥ दिव्यान्यस्त्राणि वर्षन्तं तस्मिन् वै तुमुले रणे। अस्त्रैरस्त्राणि संवार्य फाल्गुनं समयोधयत्॥ तयोरासीत् सम्प्रहारः क्रुद्धयोर्नरसिंहयोः। अमर्षिणोस्तदान्योन्यं देवदानवयोरिव॥ ऐन्द्र वायव्यमाग्नेयमस्त्रमस्त्रेण पाण्डवः। द्रोणेन मुक्तमानं तु ग्रसति स्म पुनः पुनः॥ एवं शूरौ महेष्वासौ विसृजन्तौ शिताञ्छरान्। एकच्छायं चक्रतुस्तावाकाशं शरवृष्टिभिः॥ तत्रार्जुनेन मुक्तानां पततां वै शरीरिषु। पर्वतेष्विव वज्राणां शराणां श्रूयते स्वनः॥ ततो नागा रथाश्चैव वाजिनश्च विशाम्पते। शोणिताक्ता व्यदृश्यन्त पुष्पिता इव किंशुकाः॥ बाहुभिश्च सकेयूरैर्विचित्रैश्च महारथैः। सुवर्णचित्रैः कवचैर्ध्वजैश्च विनिपातितैः॥ योधैश्च निहतैस्तत्र पार्थबाणप्रपीडितैः। बलमासीत् समुद्घान्तं द्रोणार्जुनसमागमे॥ विधुन्वानौ तु तौ तत्र धनुषी भारसाधने। आच्छादयेतामन्योन्यं ततक्षतुरथेषुभिः॥ तयोः समभवद् युद्धं तुमुलं भरतर्षभ। द्रोणकौन्तेययोस्तत्र बलिवासवयोरिव॥ अथ पूर्णायतोत्सृष्टैः शरैः संनतपर्वभिः। व्यदारयेतामन्योन्यं प्राणद्यूते प्रवर्तिते॥ अथान्तरिक्षे नादोऽभूद् द्रोणं तत्र प्रशंसताम्। दुष्करं कृतवान् द्रोणो यदर्जुनमयोधयत्॥ प्रमाथिनं महावीर्यं दृढमुष्टिं दुरासदम्। जेतारं देवदैत्यानां सर्वेषां च महारथम्॥ अविभ्रमं च शिक्षां च लाघवं दूरपातिताम्। पार्थस्य समरे दृष्ट्वा द्रोणस्याभूच्च विस्मयः॥ अथ गाण्डीवमुद्यम्य दिव्य धनुरमर्षणः। विचकर्ष रणे पार्थो बाहुभ्यां भरतर्षभ॥ तस्य बाणमयं वर्षं शलभानामिवायतिम्। दृष्ट्वा ते विस्मिताः सर्वे साधु साध्वित्यपूजयन्॥६५। न च बाणान्तरे वायुरस्य शक्नोति सर्पितम्। अनिशं संदधानस्य शरानुत्सृजतस्तथा॥ ददर्श नान्तरं कश्चित् पार्थस्याददतोऽपि च॥ तथा शीघ्रास्त्रयुद्धे तु वर्तमाने सुदारुणे। शीघ्रं शीघ्रतरं पार्थः शरानन्यानुदीरयत्॥ ततः शतसहस्राणि शराणां नतपर्वणाम्। युगपत् प्रापतस्तत्र द्रोणस्य रथमन्तिकात्॥ कीर्यमाणे तदा द्रोणे शरैर्गाण्डीवधन्वना। हाहाकारो महानासीत् सैन्यानां भरतर्षभ॥ पाण्डवस्य तु शीघ्रास्त्रं मघवा प्रत्यपूजयत्। गन्धर्वाप्सरसाचैव ये च तत्र समागताः॥ ततो वृन्देन महता स्थानां रथयूथपः। आचार्यपुत्रः सहसा पाण्डवं पर्यवारयत्॥ अश्वत्थामा तु तत् कर्म हृदयेन महात्मनः। पूजयामास पार्थस्य कोपं चास्याकरोद् भृशम्॥ स मन्युवशमापन्नः पार्थमभ्यद्रवद् रणे। किरज्छरसहस्राणि पर्जन्य इव वृष्टिमान्॥ आवृत्य तु महाबाहुर्यतो द्रौणिस्ततो हयान्। अन्तरं प्रददौ पार्थो द्रोणस्य व्यपसर्पितुम्॥ स तु लब्ध्वान्तरं तूर्णमपायाज्जवनैर्हयैः। छिन्नवर्मध्वजः शूरो निकृत्तः परमेषुभिः॥ वैशम्पायन उवाच ततो द्रौणिर्महाराज प्रययावर्जुनं रणे। तं पार्थः प्रतिजग्राह वायुवेगमिवोद्धतम्। शरजालेन महता वर्षमाणमिवाम्बुदम्॥ तयोर्देवासुरसमः संनिपातो महानभूत्। किरतोः शरजालानि वृत्रवासवयोरिव॥ न स्म सूर्यस्तदा भाति न च वाति समीरणः। शरजालावृते व्योम्निच्छायाभूते समन्ततः॥ महांश्चटचटाशब्दो योधयोर्हन्यमानयोः। दह्यतामिव वेणूनामासीत् परपुरंजय॥ हयानस्यार्जुनः सर्वान् कृतवानल्पजीवितान्। राजन् न प्रजानन्त दिशं काञ्चन मोहिताः॥ ततो द्रौणिर्महावीर्यः पार्थस्य विचरिष्यतः। विवरं सूक्ष्ममालोक्य ज्यां चिच्छेद क्षुरेण ह। तदस्यापूजयन् देवाः कर्म दृष्ट्वातिमानुषम्॥ द्रोणो भीष्मश्च कर्णश्च कृपश्चैव महारथाः। साधु साध्विति भाषन्तोऽपूजयन् कर्म तस्य तत्॥ ततो द्रौणिर्धनुः श्रेष्ठमपकृष्य स्थर्षभम्। पुनरेवाहनत् पार्थं हृदये कङ्कपत्रिभिः॥ ते ततः पार्थो महाबाहुः प्रहस्य स्वनवत् तदा। योजयामास नवया मौळ गाण्डीवमोजसा॥ ततोऽर्धचन्द्रमावृत्य तेन पार्थः समागमत्। वारणेनेव मत्तेन मत्तो वारणयूथपः॥ ततः प्रववृते युद्धं पृथिव्यामेकवीरयोः। रणमध्ये द्वयोरेवं सुमहल्लोमहर्षणम्॥ तौ वीरौ ददृशुः सर्वे कुरवो विस्मयान्विताः। युध्यमानौ महावीर्यो यूथपाविव संगतौ॥ तौ समाजघ्नतुर्वीरावन्योन्यं पुरुषर्षभौ। शरैराशीविषाकारैर्बलद्धिरिव पन्नगैः॥ अक्षय्याविषुधी दिव्यौ पाण्डवस्य महात्मनः। तेन पार्थो रणे शूरस्तस्थौ गिरिरिवाचलः॥ अश्वत्थाम्नः पुनर्बाणा: क्षिप्रमभ्यस्यतो रणे। जग्मुः परिक्षयं तूर्ममभूत् तेनाधिकोऽर्जुनः॥ ततः कर्णो महाचापं विकृष्याभ्यधिकं तदा। अवाक्षिपत् ततः शब्दो हाहाकारो महानभूत्॥ ततश्चक्षुर्दधे पार्थो यत्र विस्फार्यते धनुः। ददर्श तत्र राधेयं तस्य कोपो व्यवर्धत॥ स रोषवशमापन्नः कर्णमेव जिघांसया। तमैक्षत विवृत्ताभ्यां नेत्राभ्यां कुरुपुङ्गवः॥ तथा तु विमुखे पार्थे द्रोणपुत्रस्य सायकान्। त्वरिताः पुरुषा राजन्नुपाजह्वः सहस्रशः॥ उत्सृज्य च महाबाहुद्रौणपुत्रं धनंजयः। अभिदुद्राव सहसा कर्णमेव सपत्नजित्॥ तमभिद्रुत्य कौन्तेयः क्रोधसंरक्तलोचनः। कामयन् द्वैरथं तेन युद्धं वचनमब्रवीत्॥ यत् ते सभामध्ये अर्जुन उवाच कर्ण बहु वाचा विकत्थितम्। न मे युधि समोऽस्तीति तदिदं समुपस्थितम्॥ सोऽद्य कर्ण मया साधु व्यवहृत्य महामृधे। ज्ञास्यस्यबलमात्मानं न चान्यानवमंस्यसे॥ अवोचः परुषा वाचो धर्ममुत्सृज्य केवलम्। इदं तु दुष्करं मन्ये यदिदं ते चिकीर्षितम्॥ यत् त्वया कथितं पूर्व मामनासाद्य किंचना तदद्य कुरु राधेय कुरुमध्ये मया सह॥ यत् सभायां स पाञ्चालीं क्लिश्यमानां दुरात्मभिः। दृष्टवानसि तस्याद्य फलमाप्नुहि केवलम्॥ धर्मपाशनिबद्धेन यन्मया मर्षितं पुरा। तस्य राधेय कोपस्यं विजयं पश्य मे मृधे॥ वने द्वादश वर्षाणि यानि सोढानि दुर्मते। तस्याद्य प्रतिकोपस्य फलं प्राप्नुहि सम्प्रति॥ एहि कर्ण मया साधू प्रतियुध्यस्व सङ्गरे। प्रेक्षकाः कुरवः सर्वे भवन्तु तव सैनिकाः॥ कर्ण उवाच ब्रवीषि वाचा यत् पार्थ कर्मणा तत् समाचर। अतिशेते हि ते वाक्यं कर्मैतत् प्रथितं भुवि॥ यत् त्वया मर्षितं पूर्वं तदशक्तेन मर्षितम्। इतो गृह्णीमहे पार्थ तव दृष्ट्वा पराक्रमम्॥ धर्मपाशनिबद्धेन यत् त्वया मर्षितं पुरा। तथैव बद्धमात्मानमबद्धमिव मन्यसे॥ यदि तावद् वने वासो यथोक्तश्चरितस्त्वया। तत् त्वं धर्मार्थवित् क्लिष्टः स मया योद्भुमिच्छसि। यदि शक्रः स्वयं पार्थ युध्यते तव कारणात्। तथापि न व्यथा काचिन्मम स्याद् विक्रमिष्यतः।।१३। अयं कौन्तेय कामस्ते नचिरात् समुपस्थितः। योत्स्यसे हि मया सार्धमद्य द्रक्ष्यसि मे बलम्॥ अर्जुन उवाच इदानीमेव तावत् त्वमपयातो रणान्मम। तेन जीवसि राधेय निहतस्त्वनुजस्तव॥ भ्रातरं घातयित्वा कस्त्यक्त्वा रणशिरच कः। त्वदन्यः कः पुमान् सत्सु ब्रूयादेवं व्यवस्थितः॥ वैशम्पायन उवाच इति कर्ण ब्रुवन्नेव बीभत्सुरपराजितः। अभ्ययाद् विसृजन् बाणान् कायावरणभेदिनः॥ प्रतिजग्राह तं कर्णः प्रीयमाणो महारथः। महता शरवर्षेण वर्षमाणमिवाम्बुदम्॥ उत्पेतुः शरजालानि घोररूपाणि सर्वशः। अविध्यदश्वान बाह्वोच हस्तावापं पृथक् पृथक्॥ सोऽमृष्यमाण: कर्णस्य निषङ्गस्यावलम्बनम्। चिच्छेद निशिताग्रेण शरेण नतपर्वणा॥ उपासनादुपादाय कर्णो बाणानथापरान्। विव्याध पाण्डवं हस्ते तस्य मुष्टिरशीर्यत॥ ततः पार्थो महाबाहुः कर्णस्य धनुरच्छिनत्। स शक्तिं प्राहिणोत् तस्मै तां पार्थो व्यधमच्छरैः॥ ततोऽनुपेतुर्बहवो राधेयस्य पदानुगाः। तांश्च गाण्डीवनिर्मुक्तैः प्राहिणोद् यमसादनम्॥ ततोऽस्याश्वाञ्छरैस्तीक्ष्णैर्बीभत्सु रसाधनैः। आकर्णमुक्तैरवधीत् ते हताः प्रापतन् भुवि॥ अथापरेण बाणेन ज्वलितेन महौजसा। विव्याध कर्णं कौन्तेयस्तीक्ष्णेनोरसि वीर्यवान्॥ तस्य भित्त्वा तनुत्राणं कायमभ्यगमच्छरः। ततः स तमसाऽऽविष्टो न स्म किंचित् प्रजज्ञिवान्॥ स गाढवेदनो हित्वा रणं प्रायादुदङ्मखः। ततोऽर्जुन उदक्रोशदुत्तरश्च महारथः॥ वैशम्पायन उवाच ततो वैकर्तनं जित्वा पार्थो वैराटिमब्रवीत्। एतन्मां प्रापयानीकं यत्र तालो हिरण्मयः॥ अत्र शान्तनवो भीष्मो रथेऽस्माकं पितामहः। काङ्क्षमाणो मया युद्धं तिष्ठत्यमरदर्शनः॥ अथ सैन्यं महद् दृष्ट्वा रथनागहयाकुलम्। अब्रवीदुत्तरः पार्थमपविद्धः शरैर्भृशम्॥ नाहं शक्ष्यामि वीरेह नियन्तुं ते हयोत्तमान्। विषीदन्ति मम प्राणा मनो विह्वलतीव मे॥ अस्त्राणामिव दिव्यानां प्रभावः सम्प्रयुज्यताम्। त्वया च कुरुभिश्चैव द्रवन्तीव दिशो दश॥ गन्धेन मूर्च्छितश्चाहं वसारुधिरमेदसाम्। द्वैधीभूतं मनो मेऽद्य तव चैव प्रपश्यतः॥ अदृष्टपूर्वः शूराणां मया संख्ये समागमः। पदापातेन महता शङ्खानां निस्वनेन च॥ सिंहनादैश्च शूराणां गजानां बृंहितैस्तथा। गाण्डीवशब्देन भृशमशनिप्रतिमेन च। श्रुतिः स्मृतिश्च मे वीर प्रणष्टा मूढचेतसः॥ अलातचक्रप्रतिमं मण्डलं सततं त्वया। व्याक्षिप्यमाणं समरे गाण्डीवं च प्रकर्षता। दृष्टिः प्रचलिता वीर हृदयं दीर्यतीव मे॥ वपुश्चोग्रं तव रणे क्रुद्धस्येव पिनाकिनः। व्यायच्छतस्तव भुजं दृष्ट्वा भीमं भवत्यपि॥ नाददानं न संधानं न मुञ्चन्तं शरोत्तमान्। त्वामहं सम्प्रपश्यामि पश्यन्नपि न चेतनः॥ अवसीदन्ति मे प्राणा भूरियं चलतीव च। न च प्रतोदं रश्मींश्च संयन्तुं शक्तिरस्ति मे॥ अर्जुन उवाच मा भैषीः स्तम्भयात्मानं त्वयापि नरपुङ्गवा अत्यद्भुतानि कर्माणि कृतानि रणमूर्धनि॥ राजपुत्रोऽसि भद्रं ते कुले मत्स्यस्य विश्रुते। जातस्त्वं शत्रुदमने नावसीदितुमर्हसि।॥ धृतिं कृत्वा सुविपुलां राजपुत्र रथे मम। युध्यमानस्य समरे हयान् संयच्छ शत्रुहन्।॥ वैशम्पायन उवाच एवमुक्त्वा महाबाहुर्वैराटि नरसत्तमः। अर्जुनो रथिनां श्रेष्ठ उत्तरं वाक्यमब्रवीत्॥ सेनाग्रमाशु भीष्मस्य प्रापयस्वैतदेव माम्। आच्छेत्स्याम्यहमेतस्य धनुर्ध्यामपि चाहवे॥ अस्यन्तं दिव्यमस्त्रं मां चित्रमद्य निशामय। शतह्रदामिवायान्तीं स्तनयित्नोरिवाम्बरे॥ सुवर्णपृष्ठं गाण्डीवं द्रक्ष्यन्ति कुरवो मम। दक्षिणेनाथ वामेन कतरेण स्विदस्यति॥ इति मां सङ्गताः सर्वे तर्कयिष्यन्ति शत्रवः। शोणितोदां रथावर्ती नागनक्रां दुरत्ययाम्। नदी प्रस्कन्दयिष्यामि परलोकप्रवाहिनीम्॥ पाणिपादशिरः पृष्ठबाहुशाखानिरन्तरम्। वनं कुरूणां छेत्स्यामि शरैः संनतपर्वभिः॥ जयतः कौरवीं सेनामेकस्य मम धन्विनः। शतं मार्गा भविष्यन्ति पावकस्येव कानने॥ मया चक्रमिवाविद्धं सैन्यं द्रक्ष्यसि केवलम्। इष्वस्त्रे शिक्षितं चित्रमहं दर्शयितास्मि ते॥ असम्भ्रान्तो रथे तिष्ठ समेषु विषमेषु च। दिवमावृत्य तिष्ठन्तं गिरिं भिन्द्यां स्म पत्रिभिः॥ अहमिन्द्रस्य वचनात् संग्रामेऽभ्यहनं पुरा। पौलोमान् कालखढ्वांश्च सहस्राणि शतानि च॥ अहमिन्द्राद् दृढां मुष्टिं ब्रह्मणः कृतहस्तताम्। प्रगाढे तुमुलं चित्रमिति विद्धि प्रजापतेः॥ अहं पारे समुद्रस्य हिरण्यपुरवासिनाम्। जित्वा षष्टिं सहस्राणि रथिनामुग्रधन्विनाम्॥ शीर्यमाणानि कूलानि प्रवृद्धेनेव वारिणा। मया कुरूणां वृन्दानि पात्यमानानि पश्य वै॥ ध्वजवृक्षं पत्तितृणं रथसिंहगणायुतम्। वनमादीपयिष्यामि कुरूणामस्वतेजसा॥ तानहं रथनीडेभ्यः शरैः संनतपर्वभिः। यत्तान् सर्वानतिबलान् योत्स्यमानानवस्थितान्। एकः संकालयिष्यामि वज्रपाणिरिवासुरान्।।३ रौद्र रुद्राद्रहं शस्त्रं वारुणं वरुणादपि। अस्त्रमाग्नेयमग्नेश्च वायव्यं मातरिश्वनः। वज्रादीनि तथास्त्राणि शक्रादहमवाप्तवान्॥ धार्तराष्ट्रवनं घोर नरसिंहाभिरक्षितम्। अहमुत्पाटयिष्यामि वैराटे व्येतु ते भयम्॥ वैशम्पायन उवाच एवमाश्चासितस्तेन वैराटिः सव्यसाचिना। व्यवागाहद् स्थानीकं भीमं भीष्माभिरक्षितम्॥ तमायान्तं महाबाहुं जिगीषन्तं रणे कुरून्। अभ्यवारयदव्यग्रः कूरकर्माऽऽपगासुतः॥ तस्य जिष्णुरुपावृत्य ध्वजं मूलादपातयत्। विकृष्य कलधौताप्रैः स विद्धः प्रापतद् भुवि॥ तं चित्रमाल्याभरणाः कृतविद्या मनस्विनः। आगच्छन् भीमधन्वानं चत्वारच महाबलाः॥ दुःशासनो विकर्णश्च दुःसहोऽथ विविंशतिः। आगत्य भीमधन्वानं बीभत्सुं पर्यवारयन्॥ दुःशासनस्तु भल्लेन विद्ध्वा वैराटमुत्तरम्। द्वितीयेनार्जुनं वीरः प्रत्यविध्यत् स्तनान्तरे॥ तस्य जिष्णुरुपावृत्य पृथुधारेण कार्मुकम्। चकर्त गापत्रेण जातरूपपरिष्कृतम्॥ अथैनं पञ्चभिः पश्चात् प्रत्यविध्यत् स्तनान्तरे। सोऽपयातो रणं हित्वा पार्थबाणप्रपीडितः॥ तं विकर्णः शरैस्तीक्ष्णैर्गध्रपत्रैरजिह्मगैः। विव्याध परवीरनमर्जुनं धृतराष्ट्रजः॥ ततस्तमपि कौन्तेयः शरेणानतपर्वणा। ललाटेऽभ्यहनत् तूर्णं स विद्धः प्रापतद् रथात्॥ ततः पार्थमभिद्रुत्य दुःसहः सविविंशतिः। अवाकिरच्छरैस्तीक्ष्णैः परीप्सुर्धातरं रणे॥ तावुभौ गार्धपत्राभ्यां निशिताभ्यां धनंजयः। विद्ध्वा युगपदव्यग्रस्तयोर्वाहानसूदयत्॥ तौ हताश्वौ विभिनाङ्गौ धृतराष्ट्रात्मजावुभौ। अभिपत्य रथैरन्यैरपनीतौ पदानुगैः॥ सर्वा दिशश्चान्यपतद् बीभत्सुरपराजितः। किरीटमाली कौन्तेयो लब्धलक्षो महाबलः॥ वैशम्पायन उवाच अथ संगम्य सर्वे ते कौरवाणां महारथाः। अर्जुनं सहिता यत्ताः प्रत्ययुध्यन्त भारत॥ स सायकमयैर्जालैः सर्वतस्तान् महारथान्। प्राच्छादयदमेयात्मा नीहारेणेव पर्वतान्॥ नदद्धिश्च महानागैर्हेषमाणैश्च वाजिभिः। भेरीशङ्खनिनादैश्च स शब्दस्तुमुलोऽभवत्॥ नराश्वकायान् निर्भिद्य लौहानि कवचानि च। पार्थस्य शरजालानि विनिष्पेतुः सहस्रशः॥ त्वरमाणः शरानस्यन् पाण्डवः प्रबभौ रणे। मध्यंदिनगतोऽर्चिष्माञ्छरदीव दिवाकरः॥ उपपल्वन्ति चित्रस्ता रथेभ्यो रथिनस्तथा। सादिनचाश्वपृष्ठेभ्यो भूमौ चैव पदातयः॥ शरैः संछिद्यमानानां कवचानां महात्मनाम्। ताम्रराजतलौहानां प्रादुरासीन्महास्वनः॥ छन्नमायोधनं सर्वं शरीरैर्गतचेतसाम्। गजाश्वसादिनां तत्र शितबाणात्तजीवितैः॥ रथोपस्थाभिपतितैरास्तृता मानवैर्मही। प्रनृत्यतीव संग्रामे चापहस्तो धनंजयः॥ श्रुत्वा गाण्डीवनिर्घोषं विस्कूर्जितमिवाशनेः। त्रस्तानि सर्वसैन्यानि व्यपागच्छन् महाहवात्॥ कुण्डलोष्णीषधारीणि जातरूपस्रजस्तथा। पतितानि स्म दृश्यन्ते शिरांसि रणमूर्धनि॥ विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः। सहस्ताभरणैश्चान्यैः प्रच्छन्ना भादि मेदिनी॥ शिरसां पात्यमानानामन्तरा निशितैः शरैः। अश्मवृष्टिरिवाकाशादभवद् भरतर्षभ॥ दर्शयित्वा तथाऽऽत्मानं रौद्रं रुद्रपराक्रमः। अवरुद्धोऽचरत् पार्थो वर्षाणि त्रिदशानि च। क्रोधाग्निमुत्सृजन् वीरो धार्तराष्ट्रेषु पाण्डवः॥ तस्य तद् दहतः सैन्यं दृष्ट्वा चैव पराक्रमम्। सर्वे शान्तिपरा योधा धार्तराष्ट्रस्य पश्यतः॥ वित्रासयित्वा तत् सैन्यं द्रावयित्वा महारथान्। अर्जुनो जयतां श्रेष्ठः पर्यवर्तत भारत॥ प्रावर्तयन्नदी घोरां शोणितोदां तरङ्गिणीम्। अस्थिशैवालसम्बाधां युगान्ते कालनिर्मिताम्॥ शरचापप्लवां घोरां केशशैवलशाद्वलाम्। तनुत्रोष्णीषसम्बाधाः नागकूर्ममहाद्विपाम्॥ मेदोवसाहप्रवहां महाभयविवर्धिनीम्। रौद्ररूपां महाभीमां श्वापदैरभिनादिताम्॥ तीक्ष्णशस्त्रमहाग्राहां क्रव्यादगणसेविताम्। मुक्ताहारोर्मिकलिलां चित्रालंकारबुबुदाम्॥ शरसंघमहावर्ती नागनक्रां दुरत्ययाम्। महारथमहाद्वीपां शङ्खदुन्दुभिनिस्वनाम्। चकार च तदा पार्थो नदी दुस्तरशोणिताम्॥ आददानस्य हि शरान् संधाय च विमुञ्चतः। विकर्षतश्च गाण्डीवं न कश्चिद् ददृशे जनः॥ वैशम्पायन उवाच ततो दुर्योधनः कर्णो दुःशासनविविंशती। द्रोणश्च सह पुत्रेण कृपश्चापि महारथः॥ पुनर्ययुश्च संरब्धा धनंजयजिघांसवः। विस्फारयन्तश्चापानि बलवन्ति दृढानि च।॥ तान् विकीर्णपताकेन रथेनादित्यवर्चसा। प्रत्युद्ययौ महाराज समन्ताद् वानरध्वजः॥ ततः कृपश्च कर्णश्च द्रोणश्च रथिनां वरः। तं महास्त्रैर्महावीर्यं परिवार्य धनंजयम्॥ शरोधान सम्यगस्यन्तो जीमूता इव वार्षिकाः। ववर्षुः शरवर्षाणि पातयन्तो धनंजयम्॥ इषुभिर्बहुभिस्तूर्णं समरे लोमवाहिभिः। अदूरात् पर्यवस्थाप्य पूरयामासुरादृताः॥ तथा तैरवकीर्णस्य दिव्यैरस्त्रैः समन्ततः। न तस्य व्यङ्गुलमपि विवृतं सम्प्रदृश्यते॥ ततः प्रहस्य बीभत्सुर्दिव्यमैन्द्रं महारथः। अस्त्रमादित्यसंकाशं गाण्डीवे समयोजयत॥ शररश्मिरिवादित्यः प्रतस्थे समरे बली। किरीटमाली कौन्तेयः सर्वान प्राच्छादयत् कुरून्॥ यथा बलाहके विद्युत् पावको वा शिलोच्चये। तथा गाण्डीवमभवदिन्द्रायुधमिवानतम्॥ द्योतयन्ती दिशः सर्वाः पृथिवीं च समन्ततः॥ तथा दश दिशः सर्वाः पतद्गाण्डीवमावृणोत्। नागाश्च रथिनः सर्वे मुमुहुस्तत्र भारत॥ सर्वे शान्तिपरा योधाः स्वचित्तानि न लेभिरे। संग्रामे विमुखाः सर्वे योधास्ते हतचेतसः॥ एवं सर्वाणि सैन्यानि भग्नानि भरतर्षभ। व्यद्रवन्त दिशः सर्वा निराशानि स्वजीविते॥ वैशम्पायन उवाच ततः शान्तनवो भीष्मो भरतानां पितामहः। वध्यमानेषु योधेषु धनंजयमुपाद्रवत्॥ प्रगृह्य कार्मुकश्रेष्ठं जातरूपपरिष्कृतम्। शरानादाय तीक्ष्णाग्रान् मर्मभेदान् प्रमाथिनः॥ पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि। शुशुभे स नरव्याघ्रो गिरिः सूर्योदये यथा।॥ प्रध्याय शङ्ख गाङ्गेयो धार्तराष्ट्रान् प्रहर्षयन्। प्रदक्षिणमुपावृत्य बीभत्सुं समवारयत्॥ तमुदीक्ष्य समायान्तं कौन्तेयः परवीरहा। प्रत्यगृह्णात् प्रहृष्टात्मा धाराधरमिवाचलः॥ ततो भीष्मः शरानष्टौ ध्वजे पार्थस्य वीर्यवान्। समार्पयन्महावेगाञ्छ्वसमानानिवोरगान्॥ ते ध्वजं पाण्डुपुत्रस्य समासाद्य पतत्रिणः। ज्वलन्तं कपिमाजघ्नुर्ध्वजाग्रनिलयांश्च तान्॥ ततो भल्लेन महता पृथुधारेण पाण्डवः। छत्रं चिच्छेद भीष्मस्य तूर्णं तदपतद् भुवि॥ ध्वजं चैवास्य कौन्तेयः शरैरभ्यहनन् भृशम्। शीघ्रकृद् रथवाहांश्च तथोभौ पार्ष्णिसारथी॥ अमृष्यमाणस्तद् भीष्मो जानन्नपि स पाण्डवम्। दिव्येनास्त्रेण महता धनंजयप्रवाकिरत्॥ तथैव पाण्डवो भीष्मे दिव्यमस्त्रमुदीरयन्। प्रत्यगृह्णादमेयात्मा महामेघमिवाचलः॥ तयोस्तदभवद् युद्धं तुमुलं लोमहर्षणम्। प्रेक्षन्त कुरवः भीष्मस्य सह पार्थेन बलिवासवयोरिव।॥ सर्वे योधाश्च सहसैनिकाः भल्लैर्भल्लाः समागम्य भीष्मपाण्डवयोर्युधि। अन्तरिक्षे व्यराजन्त खद्योताः प्रावृषीव हि॥ अग्निचक्रमिवाविद्धं सव्यदक्षिणमस्यतः। गाण्डीवमभवद् राजन् पार्थस्य सृजतः शरान्॥ ततः संछादयामास भीष्मं शरशतैः शितैः। पर्वतं वारिधाराभिश्छादयन्निव तोयदः॥ तां स वेलामिवोद्धतां शरवृष्टिं समुत्थिताम्। व्यधमत् सायकैर्भीष्मः पाण्डवं समवारयत्॥ ततस्तानि निकृत्तानि शरजालानि भागशः। समरे च व्यशीर्यन्त फाल्गुनस्य रथं प्रति॥ ततः कनकपुङ्खानां शरवृष्टिं समुत्थिताम्। पाण्डवस्य रथात् तूर्णं शलमानामिवायतिम्। व्यधमत् तां पुनस्तस्य भीष्मः शरशतैः शितैः॥ ततस्ते कुरवः सर्वे साधु साध्विति चाब्रुवन्। दुष्करं कृतवान् भीष्मो यदर्जुनमयोधयत्॥ बलवांस्तरुणो दक्षः क्षिप्रकारी धनंजयः। कोऽन्यः समर्थः पार्थस्य वेगं धारयितुं रणे॥ ऋते शान्तनवाद् भीष्मात् कृष्णाद् वा देवकीसुतात्। आचार्यप्रवराद् वापि भारद्वाजान्महाबलात्॥ अस्त्रैरस्त्राणि संवार्य क्रीडन्तौ भरतर्षभौ। चढूंषि सर्वभूतानां मोहयन्तौ महाबलौ॥ प्राजापत्यं तथैवैन्द्रमाग्नेयं रौद्रदारुणम्। कौबेरं वारुणं चैव याम्यं वायव्यमेव च। प्रयुञ्जानौ महात्मानौ समरे तौ विचेरतुः॥ विस्मितान्यथ भूतानि तौ दृष्ट्वा संयुगे तदा। साधु पार्थ महाबाहो साधु भीष्मेति चाब्रुवन्॥ नायं युक्तो मनुष्येषु योऽयं संदृश्यते महान्। महास्त्राणां सम्प्रयोगः समरे भीष्मपार्थयोः॥ वैशम्पायन उवाच एवं सर्वास्त्रविदुषोरस्त्रयुद्धमवर्तत। अस्त्रयुद्धे तु निर्वृत्ते शरयुद्धमवर्तत॥ अथ जिष्णुरुपावृत्य क्षुरधारेण कार्मुकम्। चकर्त भीष्मस्य तदा जातरूपपरिष्कृतम्॥ निमेषान्तरमात्रेण भीष्मोऽन्यत् कार्मुकं रणे। समादाय महाबाहुः सज्यं चक्रे महारथः। शरांश्च सुबहून् क्रुद्धो मुमोचाशु धनंजये॥ अर्जुनोऽपि शरांस्तीक्ष्णान् भीष्माथ निशितान् बहून्। चिक्षेप सुमहातेजास्तथा भीष्मश्च पाण्डवे॥ तयोदिव्यास्त्रविदुषोरस्यतोर्निशिताञ्छरान्। विशेषस्तदा राजल्लँक्ष्यते स्म महात्मनोः॥ अथावृणोद् दश दिशः शरैरतिरथस्तदा। किरीटमाली कौन्तेयः शूरः शान्तनवस्तथा॥ अतीव पाण्डवो भीष्मं भीष्मश्चातीव पाण्डवम्। बभूव तस्मिन् संग्रामे राजंल्लोके तदद्भुतम्॥ पाण्डवेन हताः शूरा भीष्मस्य स्थरक्षिणः। शेरते स्म तदा राजन कौन्तेयस्याभितो स्थम्॥ ततो गाण्डीवनिर्मुक्ता निरमित्रं चिकीर्षवः। आगच्छन् पुडसंश्लिष्टाः श्वेतवाहनपत्रिणः॥ निष्यतन्तो रथात् तस्य धौता हिरण्यवाससः। आकाशे समदृश्यन्त हंसानामिवपङ्क्तयः॥ तस्य तद् दिव्यमस्त्रं हि विगाढं चित्रमस्यतः। प्रेक्षन्ते स्मान्तरिक्षस्थाः सर्वे देवाः सवासवाः॥ तं दृष्ट्वा परमप्रीतो गन्धर्वश्चित्रमद्भुतम्। शशंस देवराजाय चित्रसेनः प्रतापवान्॥ पश्येमान् पार्थनिर्मुक्तान् संसक्तानिव गच्छतः। चित्ररूपमिदं जिष्णोदिव्यमस्त्रमुदीर्यतः॥ नेदं मनुष्याः संदध्युन हीदं तेषु विद्यते। पौराणानां महास्त्राणां विचित्रोऽयं समागमः॥ आददानस्य हि शरान् संधाय च विमुञ्चतः। विकर्षतश्च गाण्डीवं नान्तरं समदृश्यत॥ मध्यंदिनगतं सूर्यं प्रतपन्तमिवाम्बरे। नाशक्नुवन्त सैन्यानि पाण्डवं प्रति वीक्षितुम्॥ तथैव भीष्मं गाङ्गेयं द्रष्टुं नोत्सहते जनः॥ उभौ विश्रुतकर्माणावुभौ तीव्रपराक्रमौ। उभौ सदृशकर्माणावुभौ युधि सुदुर्जयौ॥ इत्युक्तो देवराजस्तु पार्थभीष्मसमागमम्। पूजयामास दिव्येन पुष्पवर्षेण भारत॥ ततः शान्तनवो भीष्मो वाम पार्श्वमताडयत्। पश्यतः प्रतिसंधाय विध्यतः सव्यसाचिनः॥ ततः प्रहस्य बीभत्सुः पृथुधारेण कार्मुकम्। चिच्छेद गार्धपत्रेण भीष्मस्यादित्यतेजसः॥ अथैनं दशभिर्बाणैः प्रत्यविध्यत् स्तनान्तरे। यतमानं पराक्रान्तं कुन्तीपुत्रो धनंजयः॥ स पीडितो महाबाहुर्गृहीत्वा रथकूबरम्। गाङ्गेयो युद्धदुर्धर्षस्तस्थौ दीर्घमिवान्तरम्॥ तं विसंज्ञमपोवाह संयन्ता रथवाजिनाम्। उपदेशमनुस्मृत्य रक्षमाणो महारथम्॥ वैशम्पायन उवाच आहूयमानश्च स तेन संख्ये महात्मना वै धृतराष्ट्रपुत्रः। निवर्तितस्तस्य गिराङ्कुशेन महागजो मत्त इवाङ्कुशेन॥ सोऽमृष्यमाणो वचसाभिमृष्टो महाराथनातिरथस्तरस्वी। पर्याववाथ रथेन वीरो भोगी यथा पादतलाभिमृष्टः॥ तं प्रेक्ष्य कर्णः परिवर्तमानं निवर्त्य संस्तथ्य च विद्धगात्रम्। ॥ दुर्योधनस्योत्तरतोऽभ्यगच्छत् पार्थं नृवीरो युधि हेममाली॥ भीष्मस्ततः शान्तनवो विवृत्य हिरण्यकक्षस्त्वरयाभिषङ्गी। दुर्योधनं पश्चिमतोऽभ्यरक्षत् पार्थान्महाबाहुरधिज्यधन्वा॥ द्रोणः कृपश्चैव विविंशतिश्च दुःशासनश्चैव विवृत्य शीघ्रम्। सर्वे पुरस्ताद् विततोरुचापा दुर्योधनार्थं त्वरिताऽभ्युपेयुः॥ न्यालोक्य पूर्णौधनिभानि पार्थः। हंसो यथा मेघमिवापतन्तं धनंजयः प्रत्यतपत् तरस्वी॥ मस्त्राणि दिव्यानि समाददानाः। न्मेघा यथा भूधरमम्बुवर्गः॥ ततोऽस्त्रमस्त्रेण निवार्य तेषां गाण्डीवधन्वा कुरुपुङ्गवानाम्। सम्मोहनं शत्रुसहोऽन्यदस्त्रं प्रादुश्चकारैन्द्रिरपारणीयम्॥ ततो दिशश्चानुदिशो विवृत्य शरैः सुधारैर्निशितैः सुपत्रैः। गाण्डीवघोषेण मनांसि तेषां महाबलः प्रव्यथयाञ्चकार॥ ततः पुनर्भीमरवं प्रगृह्य दो महाशङ्खमुदारघोषम्। व्यनादयत् स प्रदिशो दिशः खं भुवं च पार्थो द्विषतां निहन्ता॥ ते शङ्खनादेन कुरुप्रवीराः सम्मोहिताः पार्थसमीरितेन। उत्सृज्य चापानि दुरासदानि सर्वे तदा शान्तिपरा बभूवुः॥ तथा विसंज्ञेषु च तेषु पार्थः स्मृत्वा च वाक्यानि तथोत्तरायाः। मुवाच यावत् कुरवो विसंज्ञाः॥ आचार्यशारद्वतयोः सुशुक्ले कर्णस्य पीतं रुचिरं च वस्त्रम्। द्रौणेश्च राज्ञश्च तथैव नीले वस्त्रे समादत्स्व नरप्रवीर॥ भीष्मस्य संज्ञां तु तथैव मन्ये जानाति सोऽस्त्रप्रतिघातमेषः। मेवं हि यातव्यममूढसंज्ञैः॥ रश्मीन् समुत्सृज्य ततो महात्मा रथादवप्लुत्य विराटपुत्रः। वस्त्राण्युपादाय महारथानां तूर्णं पुन: स्वं रथमारुरोह॥ ततोऽन्वशासच्चतुरः सदश्वान् पुत्रो विराटस्य हिरण्यकक्षान्। ते तद् व्यतीयुर्ध्वजिनामनीकं श्वेता वहन्तोऽर्जुनमाजिमध्यात्॥ तथानुयान्तं पुरुषप्रवीरं भीष्मः शरैरभ्यहनत् तरस्वी। स चापि भीष्मस्य हयान् निहत्य विव्याध पार्थो दशभिः पृषत्कैः॥ ततोऽर्जुनो भीष्ममपास्य युद्धे विद्ध्वास्य यन्तारमरिष्टधन्वा। न्मेधं विदार्येव सहस्ररश्मिः॥ लम्वा हि संज्ञां तु कुरुप्रवीराः पार्थं निरीक्ष्याथ सुरेन्द्रकल्पम्। रणे विमुक्तं स्थितमेकमाजौ स धार्तराष्ट्रस्त्वरितं बभाषे॥ स्तथा प्रमनीत यथा न मुच्येत्। तमब्रवीच्छान्तनवः प्रहस्य क्व ते गता बुद्धिरभूत् क्व वीर्यम्॥ रुत्सृज्य बाणांश्च धनुर्विचित्रम्॥ त्वेष बीभत्सुरलं नृशंसं कर्तुं न पापेऽस्य मनो विशिष्टिम्॥ त्रैलोक्यहेतोर्न जहेत् स्वधर्म सर्वे न तस्मानिहता रणेऽस्मिन्। क्षिप्रं कुरून् याहि कुरुप्रवीर विजित्य गाश्च प्रतियातु पार्थः। मा ते स्वकोऽर्थो निपतेत मोहात् तत् संविदातव्यमरिष्टबन्धम्॥ वैशम्पायन उवाच दुर्योधनस्तस्य तु तन्निशम्य पितामहस्यात्महितं वचोऽथ। अतीतकामो युधि सोऽत्यमर्षी राजा विनिःश्वस्य बभूव तूष्णीम्॥ तद् भीष्मवाक्यं हितमीक्ष्य सर्वे धनंजयाग्निं च विवर्धमानम्। दुर्योधनं ते परिरक्षमाणाः॥ तान् प्रस्थितान् प्रीतमनाः स पार्थो धनंजयः प्रेक्ष्य कुरुप्रवीरान्। अभाषमाणोऽनुनयं मुहूर्त वचोब्रवीत् सम्परिहत्य भूयः॥ पितामहं शान्तनवं च वृद्धं द्रोणं गुरुं च प्रणिपत्य मू । ज्छरैर्विचित्रैरभिवाद्य चैव॥ दुर्योधनस्योत्तमरत्नचित्रं चिच्छेद पार्थो मुकुटं शरेण। आमन्त्र्य वीरांश्च तथैव मान्यान्। गाण्डीवघोषेण विनाद्य लोकान्॥ स देवदत्तं सहसा विनाद्य विदार्य वीरो द्विषतां मनांसि। ध्वजेन सर्वानभिभूय शत्रून् सहेममालेन विराजमानः॥ दृष्ट्वा प्रयातांस्तु कुरून् किरीटी हृष्टोऽब्रवीत् तत्र स मत्स्यपुत्रम्। आवर्तयाश्वान् पशवो जितास्ते याताः परे याहि पुरं प्रहृष्टः॥ देवास्तु दृष्ट्वा महदद्भुतं तद् युद्धं कुरूणां सह फाल्गुनेन। जग्मुर्यथास्वं भवनं प्रतीताः पार्थस्य कर्माणि विचिन्तयन्तः॥ वैशम्पायन उवाच ततो विजित्य संग्रामे कुरून् स वृषभेक्षणः। समानयामास तदा विराटस्य धनं महत्॥ गतेषु च प्रभग्नेषु धार्तराष्ट्रेषु सर्वतः। वनान्निष्क्रम्य गहनाद् बहवः कुरुसैनिकाः॥ भयात् संत्रस्तमनसः समाजग्मुस्ततस्ततः। मुक्तकेशास्त्वदृश्यन्त स्थिताः प्राहालयस्तदा॥ क्षुत्पिपासापरिश्रान्ता विदेशस्था विचेतसः। ऊचुः प्रणम्य सम्भ्रान्ताः पार्थ किं करवाम ते॥ स्वस्ति व्रजत वो भद्रं न भेतव्यं कथंचन। नाहमार्ताब्दिाघांसामि भृशमाश्वासयामि वः॥ वैशम्पायन उवाच तस्य तामभयां वाचं श्रुत्वा योधाः समागताः। आयुः कीर्तियशोदाभिस्तमाशीर्भिरनन्दयन्॥ मुत्सृज्य शत्रून् विनिवर्तमानम्। विराटराष्ट्राभिमुखं प्रयान्तं नाशक्नुवंस्तं कुरवोऽभियातुम्॥ ततः स तन्मेपमिवापतन्तं विद्राव्य पार्थः कुरुसैन्यवृन्दम्। मत्स्यस्य पुत्रं द्विषतां निहन्ता वचोऽब्रवीत् सम्परिरभ्य भूयः॥ पितुः सकाशे तव तात सर्वे वसन्ति पार्था विदितं तवैव। तान् मा प्रशंसेनगरं प्रविश्य भीतः प्रणश्यद्धि स मत्स्यराजः॥ मया जिता सा ध्वजिनी कुरूणां मया च गावो विजिता द्विषद्भ्यः। पितुः सकाशं नगरं प्रविश्य त्वमात्मनः कर्म कृतं ब्रवीहि॥ उत्तर उवाच यत् ते कृतं कर्म न पारणीयं तत् ते कर्म कर्तुं मम नास्ति शक्तिः। न त्वां प्रवक्ष्यामि पितुः सकाशे यावन्न मां वक्ष्यसि सव्यसाचिन्॥ वैशम्पायन उवाच राच्छिद्य सर्वं च धनं कुरुभ्यः। मभ्येत्य तस्थौ शरविक्षताङ्गः॥ ततः स वह्निप्रतिमो महाकपिः सहैव भूतैर्दिवमुत्पपात। तथैव माया विहिता बभूव ध्वजं च सैंह युयुजे रथे पुनः॥ विधाय तच्चायुधमाजिवर्धनं कुरूत्तमानामिषुधीः शरांस्तथा। प्रायात् स मत्स्यो नगरं प्रहृष्टः किरीटिना सारथिना महात्मना॥ पार्थस्तु कृत्वा परमार्यकर्म निहत्य शत्रून् द्विषतां निहन्ता। चकार वेणी च तथैव भूयो जग्राह रश्मीन् पुनरुत्तरस्य। विवेश हृष्टो नगरं महामना बृहन्नलारूपमुपेत्य सारथिः॥ वैशम्पायन उवाच ततो निवृत्ताः कुरवः प्रभग्ना वशमास्थिनाः। हस्तिनापुरमुद्दिश्य सर्वे दीना ययुस्तदा॥ पन्थानमुपसङ्गम्य फाल्गुनो वाक्यमब्रवीत्॥ राजपुत्र प्रत्यवेक्ष समानीतानि सर्वशः। गोकुलानि महाबाहो वीर गोपालकैः सह॥ ततोऽपराठे यास्यामो विराटनगरं प्रति। आश्वास्य पाययित्वा च परिप्लाव्य च वाजिनः॥ गच्छन्तु त्वरिताश्चेमे गोपालाः प्रेषितास्त्वया। नगरे प्रियमाख्यातुं घोषयन्तु च ते जयम्॥ वैशम्पायन उवाच नाज्ञापयद् वचनात् फाल्गुनस्य। आचक्षध्वं विजयं पार्थिवस्य भग्नाः परे विजिताश्चापि गावः॥ इत्येवं तौ भारतमत्स्यवीरौ सम्मन्त्र्य सङ्गम्य ततः शमी ताम्। वुत्सृष्टमारोपयतां स्वभाण्डम्॥ माच्छिद्य सर्वं च धनं कुरुभ्यः। वैराटिरायानगरं प्रतीतोथ बृहन्नलासारथिना प्रवीरः॥ वैशम्पायन उवाच धनं चापि विजित्याशु विराटो वाहिनीपतिः। विवेश नगरं हृष्टश्चतुर्भिः पाण्डवैः सह॥ जित्वा त्रिगर्तान् संग्रामे गाश्चैवादाय सर्वशः। अशोभत महाराज सहपार्थः श्रिया वृतः॥ तमासनगतं वीरं सुहृदां हर्षवर्धनम्। उपासाञ्चक्रिरे सर्वे सह पाथैः परंतपाः॥ उपतस्थुः प्रकृतयः समस्ता ब्राह्मणैः सह। सभाजित: ससैन्यस्तु प्रतिनन्द्याथ मत्स्यराट्॥ विसर्जयामास तदा द्विजांश्च प्रकृतीस्तथा। तथा स राजा मत्स्यानां विराटो वाहिनीपतिः॥ उत्तरं परिपप्रच्छ क्व यात इति चाब्रवीत्। आचख्युस्तस्य तत्सर्वं स्त्रियः कन्याश्च वेश्मनि॥ अन्तःपुरचराश्चैव कुरुभिर्गोधनं हृतम्। विजेतुमभिसंरब्ध एक एवातिसाहसात्। बृहन्नलासहायश्च निर्गतः पृथिवीठ्ठायः॥ उपयातानतिरथान् भीष्मं शान्तवनं कृपम्। कर्णं दुर्योधनं द्रोणं द्रोणपुत्रं च षड् रथान्॥ वैशम्पायन उवाच राजा विराटोऽथ भृशाभितप्तः श्रुत्वा सुतं त्वेकरथेन यातम्। बृहन्नलासारथिमाजिवर्धनं प्रोवाच सर्वानथ मन्त्रिमुख्यान्॥ सर्वथा कुरवस्ते हि ये चान्ये वसुधाधिपाः। त्रिगर्तान् निःसृताञ्छ्रुत्वा न स्थास्यन्ति कदाचन।।१०। तस्माद् गच्छन्तु मे योधा बलेन महता वृताः। उत्तरस्य परीप्सार्थं ये त्रिगतैरविक्षताः॥ हयांश्च नागांश्च रथांस्च शीघ्रं पदातिसङ्घांश्च ततः प्रवीरान्। प्रस्थापयामास सुतस्य हेतोविचित्रशस्त्राभरणोपपन्नान्॥ एवं स राजा मत्स्यानां विराटो वाहिनीपतिः। व्यादिदेशाथ तां क्षिप्रं वाहिनी चतुरङ्गिणीम्॥ कुमारमाशु जानीत यदि जीवति वा न वा। यस्य यन्ता गतः षण्ढो मन्येऽहं स न जीवति॥ वैशम्पायन उवाच तमब्रवीद् धर्मराजो विहस्य विराटराजं तु भृशाभितप्तम्। बृहन्नला सारथिश्चेन्नरेन्द्र परे न नेष्यन्ति तवाद्य गास्ताः॥ सर्वान् महीपान् सहितान् कुरुश्च तथैव देवासुरसिद्धयक्षान्। अलं विजेतुं समरे सुतस्ते स्वनुष्ठितः सारथिना हि तेन॥ वैशम्पायन उवाच अथोत्तरेण प्रहिता दूतास्ते शीघ्रगामिनः। विराटनगरं प्राप्य विजयं समवेदयन्॥ राज्ञस्तत् सर्वमाचख्यौ मन्त्री विजयमुत्तमम्। पराजयं कुरूणां चाप्युपायान्तं तथोत्तरम्॥ सर्वा विनिर्जिता गावः कुरवश्च पराजिताः। उत्तरः सह सूतेन कुशली च परंतपः॥ युधिष्ठिर उवाच दिष्ट्या विनिर्जिता गावः कुरवश्च पलायिताः। नाद्भुतं त्वेव मन्येऽहं यत् ते पुत्रोऽजयत् कुरून्।।२०। ध्रुव एव जयस्तस्य यस्य यन्ता बृहन्नला। वैशम्पायन उवाच ततो विराटो नृपतिः सम्प्रहृष्टतनूरुहः॥ श्रुत्वा स विजयं तस्य कुमारस्यामितौजसः। आच्छादयित्वा दूतांस्तान्मन्त्रिणं सोऽभ्यचोदयत्।।२२ राजमार्गाः क्रियन्तां मे पताकाभिरलंकृताः। पुष्पोपहारैरय॑न्तां देवताश्चापि सर्वशः॥ कुमारा योधमुख्याश्च गणिकाश्च स्वलंकृताः। वादित्राणि च सर्वाणि प्रत्युद्यान्तु सुतं मम॥ घण्टावान मानवः शीघ्रं मत्तमारुह्य वारणम्। शृङ्गाटकेषु सर्वेषु आख्यातुं विजयं मम॥ उत्तरा च कुमारीभिर्बह्वीभिः परिवारिता। शृङ्गारवेषाभरणा प्रत्युद्यातुं सुतं मम॥ वैशम्पायन उवाच श्रुत्वा चेदं वचनं पार्थिवस्य सर्वं पुरं स्वस्तिकपाणिभूतम्। भेर्यश्च तूर्याणि च वारिजाश्च वेषैः पराध्यैः प्रमदाः शुभाश्च॥ तथैव सूतैः सह मागधैश्च नान्दीवाधाः पणवास्तूर्यवाद्याः। अक्षानाहर सैरन्ध्रि पुराद् विराटस्य महाबलस्य प्रत्युद्ययुः पुत्रमनन्तवीर्यम्॥ प्रस्थाप्य सेनां कन्याश्च गणिकाश्च स्वलकृताः। मत्स्यराजो महाप्राज्ञः प्रहृष्ट इदमब्रवीत्॥ कङ्क द्यूतं प्रवर्तताम्। तं तथावादिनं दृष्ट्वा पाण्डवः प्रत्यभाषत।॥ न देवितव्यं हृष्टेन कितवेनेति नः श्रुतम्। तं त्वामद्य मुदा युक्तं नाहं देवितुमुत्सहे। प्रियं त ते चिकीर्षामि वर्ततां यदि मन्यसे॥ विराट उवाच स्त्रियो गावो हिरण्यं च यच्चान्यद् वसु किञ्चन। न मे किञ्चित् त्वया रक्ष्यमन्तरेणापि देवितुम्॥ कङ्क उवाच किं ते द्यूतेन राजेन्द्र बहुदोषेण मानद। देवने बहवो दोषास्तस्मात् तत् परिवर्जयेत्॥ श्रुतस्ते यदि वा दृष्टः पाण्डवेयो युधिष्ठिरः। स राष्ट्रं सुमहत् स्फीतं भ्रातृ॑श्च त्रिदशोपमान्॥ राज्यं हारितवान् सर्वं तस्माद् द्यूतं न रोचये। अथवा मन्यसे राजन् दीव्याम यदि रोचते॥ वैशम्पायन उवाच प्रवर्तमाने द्यूते तु मत्स्यः पाण्डवमब्रवीत्। पस्य पुत्रेण मे युद्धे तादृशाः कुरवो जिताः॥ ततोऽब्रवीन्महात्मा स एनं राजा युधिष्ठिरः। बृहन्नला यस्य यन्ता कथं स न जयेद् युधि॥ इत्युक्तः कुपितो राजा मत्स्यः पाण्डवमब्रवीत्। समं पुत्रेण मे षण्ढं ब्रह्मबन्धो प्रशंससि॥ वाच्यावाच्यं न जानीघे नूनं मामवमन्यसे। भीष्मद्रोणमुखान् सर्वान् कस्मान्न स विजेष्यति॥ वयस्यत्वात् तु ते ब्रह्मन्नपराधमिमं क्षमे। नेदृशं तु पुनर्वाच्यं यदि जीवितुमिच्छसि॥ युधिष्ठिर उवाच यत्र द्रोणस्तथा भीष्मो द्रौणिर्वैकर्तनः कृपः। दुर्योधनश्च राजेन्द्रस्तथान्ये च महारथाः॥ मरुद्गणैः परिवृतः साक्षादपि मरुत्पतिः। कोऽन्यो वृहन्नलायास्तान् प्रतियुध्येत सङ्गतान्॥ यस्य बाहुबले तुल्यो न भूतो न भविष्यति। अतीव समरं दृष्ट्वा हर्षो यस्योपजायते॥ योऽजयत् सङ्गत्तान् सर्वान् ससुरासुरमानवान्। तादृशेन सहायेन कस्मात् स न विजेष्यते॥ विराट उवाच बहुशः प्रतिषिद्धोऽसि न च वाचं नियच्छसि। नियन्ता चेन्न विद्येत न कश्चिद् धर्ममाचरेत्॥ वैशम्पायन उवाच ततः प्रकुपितो राजा तमक्षेणानहद् भृशम्। मुखे युधिष्ठिरं कोपान्नैवमित्येव भर्सयन्॥ बलवत् प्रतिविद्धस्य नस्तः शोणितमावहत्। तद्प्राप्तं महीं पार्थः पाणिभ्यां प्रत्यगृह्णत॥ अवैक्षत स धर्मात्मा द्रौपदी पार्श्वत: स्थिताम्। सा ज्ञात्वा तमभिप्रायं भर्तुश्चित्तवशानुगा॥ पात्रं गृहीत्वा सौवर्णं जलपूर्णमनिन्दिता। तच्छोणितं प्रत्यगृह्णाद् यत् प्रसुस्राव नस्ततः॥ अथोत्तरः शुभैर्गन्धैर्माल्यैश्च विविधैस्तथा। अवकीर्यमाण: संहृष्टो नगरं स्वैरमागतः॥ सभाज्यमानः पौरेश्च स्त्रीभिर्जानपदैस्तथा। आसाद्य भवनद्वारं पित्रे सम्प्रत्यवेदयत्॥ ततो द्वाः स्थः प्रविश्यैव विराटमिदमब्रवीत्। बृहन्नलासहायश्च पुत्रो द्वार्युत्तरः स्थितः॥ ततो हृष्टो मत्स्यराजः क्षत्तारमिदमब्रवीत्। प्रवेश्यतामुभौ तूर्णं दर्शनेप्सुरहं तयोः॥ क्षत्तारं कुरुराजस्तु शनैः कर्ण उपाजपत्। उत्तरः प्रविशत्वेको न प्रवेश्या बृहन्नला॥ एतस्य हि महाबाहो व्रतमेतत् समाहितम्। यो ममाङ्गे व्रणं कुर्याच्छोणितं वापि दर्शयेत्। अन्यत्र संग्रामगान स जीवेत् कथञ्चन॥ न मृष्याद् भृशसंक्रुद्धो मां दृष्ट्वा तु सशोणितम्। विराटमिह सामात्यं हन्यात् सबलवाहनम्॥ वैशम्पायन उवाच ततो राज्ञः सुतो ज्येष्ठः प्राविशत् पृथिवीट्टायः। सोऽभिवाद्य पितुः पादौ ककं चाप्युपतिष्ठत॥ ततो रुधिरसंयुक्तमनेकाग्रमनागसम्। भूमावासीनमेकान्ते सैरभ्या प्रत्युपस्थितम्॥ तत: पप्रच्छ पितरं त्वरमाण इवोत्तरः। केनायं ताडितो राजन् केन पापमिदं कृतम्॥ विराट उवाच मयायं ताडितो जिह्मो न चाप्येतावदर्हति। प्रशस्यमाने यच्छूरे त्वयि षण्ढं प्रशंसति॥ उत्तर उवाच अकार्यं ते कृतं राजन् क्षिप्रमेव प्रसाद्यताम्। मा त्वां ब्रह्मविषं घोरं समूलमिह निर्दहेत्॥ वैशम्पायन उवाच स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्रवर्धनः। क्षमयामास कौन्तेयं भस्मच्छन्नमिवानलम्॥ क्षमयन्तं तु राजानं पाण्डवः प्रत्यभाषत। चिरं क्षान्तमिदं राजन् न मन्युर्विद्यते मम॥ यदि ह्येतत् पतेद् भूमौ रुधिरं मम नस्ततः सराष्ट्रस्त्वं महाराज विनश्येथा न संशयः॥ न दूषयामि ते राजन् यद् वै हन्याददूषकम्। बलवन्तं प्रभुं राजन् क्षिप्रं दारुणमाप्नुयात्॥ वैशम्पायन उवाच शोणिते तु व्यतिक्रान्ते प्रविवेश बृहन्नला। अभिवाद्य विराटं तु ककं चाप्युपतिष्ठत॥ क्षामयित्वा तु कौरव्यं रणादुत्तरमागतम्। प्रशशंस ततो मत्स्यः शृण्वत: सव्यसाचिनः॥ त्वया दायादवानस्मि कैकेयीनन्दिवर्धन। त्वया मे सदृशः पुत्रो न भूतो न भविष्यति॥ पदं पदसहस्रेण यश्चरन् नापरानुयात्। तेन कर्णेन ते तात कथमासीत् समागमः॥ मनुष्यलोके सकले यस्य तुल्यो न विद्यते। तेन भीष्मेण ते तात कथमासीत् समागमः॥ आचार्यो वृष्णिवीराणां कौरवाणां च यो द्विजः। सर्वक्षत्रस्य चाचार्यः सर्वशस्त्रभृतां वरः। तेन द्रोणेन ते तात कथमासीत् समागमः॥ आचार्यपुत्रो यः शूरः सर्वशस्त्रभृतामपि। अश्वत्थामेति विख्यातस्तेनासीत् संगरः कथम्॥ रणे यं प्रेक्ष्य सीदन्ति हतस्वा वणिजो यथा। कृपेण तेन ते तात कथमासीत् समागमः॥ पर्वतं योऽभिविध्येत राजपुत्रो महेषुभिः। दुर्योधनेन ते तात कथमासीत् समागमः॥ अवगाढा द्विषन्तो मे सुखो वातोऽभिवाति माम्। यस्त्वं धनमथाजैषीः कुरुभिम्रस्तमाहवे॥ तेषां भयाभिपन्नानां सर्वेषां बलशालिनाम्। नूनं प्रकाल्य तान् सर्वांस्त्वया युधि नरर्षभ। आच्छिन्नं गोधनं सर्वं शार्दूलेनामिषं यथा॥ उत्तर उवाच न मया निर्जिता गावो न मया निर्जिताः परे। कृतं तत् सकलं तेन देवपुत्रेण केनचित्॥ स हि भीतं द्रवन्तं मां देवपुत्रो न्यवर्तयत्। स चातिष्ठद् रथोपस्थे वज्रसंहननो युवा॥ तेन ता निर्जिता गावः कुरुवश्च पराजिताः। तस्य तत् कर्म वीरस्य न मया तात तत् कृतम्॥ स हि शारद्वतं द्रोणं द्रोणपुत्रं च घड् रथान्। सूतपुत्रं च भीष्मं च चकार विमुखाञ्छरैः॥ दुर्योधनं विकर्णं च सनागमिव यूथपम्। प्रभग्नमब्रवीद् भीतं राजपुत्रं महाबलः॥ न हास्तिनपुरे त्राणं तव पश्यामि किंचन। व्यायामेन परीप्सस्व जीवितं कौरवात्मज॥ न मोक्ष्यसे पलायंस्त्वं राजन् युद्धे मनः कुरु। पृथिवीं भोक्ष्यसे जित्वा हतो वा स्वर्गमाप्स्यसि॥ स निवृत्तो नरव्याघ्रो मुञ्चन् वज्रनिभाञ्छरान्। सचिवैः संवृतो राजा रथे नाग इव श्वसन्॥ तं दृष्ट्वा रोमहर्षोऽभूदूरुकम्बश्च मारिष। स तत्र सिंहसंकाशमनीकं व्यधमच्छरैः॥ तत् प्रणुद्य रथानीकं सिंहसंहननो युवा। कुरूंस्तान् प्रहसन् राजन् संस्थितान् हृतवाससः॥१०। एकेन तेन वीरेण षड् रथा: परिनिर्जिताः। शार्दूलेनेव मत्तेन यथा वनचरा मृगाः॥ विराट उवाच क्व स वीरो महाबाहुर्देवपुत्रो महायशाः। यो मे धनमथाजैषीत् कुरुभिर्मस्तमाहवे॥ इच्छामि तमहं द्रष्टुमचितुं च महाबलम्। येन मे त्वं च गावश्च रक्षिता देवसूनुना॥ उत्तर उवाच अन्तर्धानं गतस्तत्र देवपुत्रो महाबलः। स तु श्वो वा परश्वो वा मन्ये प्रादुर्भविष्यति।॥ वैशम्पायन उवाच एवमाख्यायमानं तु छन्नं सत्रेण पाण्डवम्। वसन्तं तत्र नाज्ञासीद् विराटो वाहिनीपतिः॥ ततः पार्थोऽभ्यनुज्ञातो विराटेन महात्मना। प्रददौ तानि वासांसि विराटदुहितुः स्वयम्॥ उत्तरा तु महार्हाणि विविधानि नवानि च। प्रतिगृह्याभवत् प्रीता तानि वासांसि भामिनी॥ मन्त्रयित्वा तु कौन्तेय उत्तरेण महात्मना। इतिकर्तव्यतां सर्वां राजन् पार्थे युधिष्ठिरे॥ ततस्तथा तद् व्यदधाद् यथावत् पुरुषर्षभ। सह पुत्रेण मत्स्यस्य प्रहृष्टा भरतर्षभाः॥ वैशम्पायन उवाच ततस्तृतीये दिवसे भ्रातरः पञ्च पाण्डवाः। स्नाता: शुक्लाम्बरधराः समये चरितव्रताः॥ युधिष्ठिरं पुरस्कृत्य सर्वाभरणभूषिताः। द्वारि मत्ता यथा नागा भ्राजमाना महारथाः॥ विराटस्य सभां गत्वा भूमिपालासनेष्वथ। निषेदुः पावकप्रख्याः सर्वे धिष्ण्येष्विवागनयः॥ तेषु तत्रोपविष्टेषु विराटः पृथिवीपतिः। आजगाम सभां कर्तुं राजकार्याणि सर्वशः॥ श्रीमतः पाण्डवान् दृष्ट्वा ज्वलतः पावकानिव। मुहूर्तमिव च ध्यात्वा सरोषः पृथिवीपतिः॥ अथ मत्स्योऽब्रवीत् कवं देवरूपमिव स्थितम्। मरुद्गणैरुपासीनं त्रिदशानामिवेश्वरम्॥ स किलाक्षातिवापस्त्वं सभास्तारो मया वृतः। अथ राजासने कस्मादुपविष्टस्त्वलंकृतः॥ वैशम्पायन उवाच परिहासेप्सया वाक्यं विराटस्य निशम्य तत्। स्मयमानोऽर्जुनो राजन्निदं वचनमब्रवीत्॥ अर्जुन उवाच इन्द्रस्यार्धासनं राजन्नयमारोढुमर्हति। ब्रह्मण्यः श्रुतवांस्त्यगी यज्ञशीलो दृढव्रतः॥ एष विग्रहवान् धर्म एष वीर्यवतां वरः। एष बुद्ध्याधिको लोके तपसां च परायणम्॥ एषोऽस्त्रं विविधं वेत्ति त्रैलोक्ये सचराचरे। न चैवान्यः पुमान् वेत्ति न वेत्स्यति कदाचन॥ न देवा नासुराः केचिन्न मनुष्या न राक्षसाः। गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः॥ दीर्घदर्शी महातेजाः पौरजानपदप्रियः। पाण्डवानामतिरथो यज्ञधर्मपरो वशी॥ महर्षिकल्पो राजर्षिः सर्वलोकेषु विश्रुतः। बलवान् धृतिमान् दक्षः सत्यवादी जितेन्द्रियः। धनैश्च सञ्चयैश्चैव शक्रवैश्रवणोपमः॥ यथा मनुर्महातेजा लोकानां परिरक्षिता। एवमेष महातेजाः प्रजानुग्रहकारकः॥ अयं कुरूणामृषभो धर्मराजो युधिष्ठिरः। अस्य कीर्तिः स्थिता लोके सूर्यस्येवोद्यतः प्रभा।।१६। संसरन्ति दिशः सर्वा यशसोऽस्य इवांशवः। उदितस्येव सूर्यस्य तेजसोऽनु गभस्तयः॥ एनं दशसहस्राणि कुञ्जराणां तरस्विनाम्। अन्वयुः पृष्ठतो राजन् यावदध्यावसत् कुरून्॥ त्रिंशदेनं सहस्राणि रथाः काञ्चनमालिनः। सदश्वरूपसम्पन्नाः पृष्ठतोऽनुययुस्तदा।॥ एनमष्टशताः सूताः सुमृष्टमणिकुण्डलाः। अब्रुवन् मागधैः सार्धं पुरा शक्रमिवर्षयः॥ एनं नित्यमुपासन्त कुरवः किंकरा यथा। सर्वे च राजन् राजानो धनेश्वरमिवामराः॥ एष सर्वान् महीपालान् करदान् समकारयत्। वैश्यानिव महाभागो विवशान् स्ववशानपि॥ अष्टाशीतिसहस्राणि स्नातकानां महात्मनाम्। उपजीवन्ति राजानमेनं सुचरितव्रतम्॥ एष वृद्धाननाथांश्च पङ्गुनन्धांश्च मानवान्। पुत्रवत् पालयामास प्रजा धर्मेण वै विभुः॥ एष धर्मे दमे चैव क्रोधे चापि जितव्रतः। महाप्रसादो ब्रह्मण्यः सत्यवादी च पार्थिवः॥ शीघ्रं तापेन चैतस्य तप्यते स सुयोधनः। सगणः सह कर्णेन सौबलेनापि वा विभुः॥ न शक्यन्ते ह्यस्य गुणाः प्रसंख्यातुं नरेश्वर। एष धर्मपरो नित्यमानृशंसश्च पाण्डवः॥ एवं युक्तो महाराजः पाण्डव: पार्थिवर्षभः। कथं नार्हति राजार्हमासनं पृथिवीपते।॥ विराट उवाच यद्येष राजा कौरव्यः कुन्तीपुत्रो युधिष्ठिरः। कतमोऽस्यार्जुनो भ्राता भीमश्च कतमो बली॥ नकुलः सहदेवो वा द्रौपदी वा यशस्विनी। यदा द्यूतजिताः पार्था न प्राज्ञायन्त ते क्वचित्॥ अर्जुन उवाच य एष बल्लवो ब्रूते सूदस्तव नराधिप। एष भीमो महाराज भीमवेगपराक्रमः॥ एष क्रोधवशान् हत्वा पर्वते गन्धमादने। सौगन्धिकानि दिव्यानि कृष्णार्थे समुपाहरत्॥ गन्धर्व एष वै हन्ता कीचकानां दुरात्मनाम्। । व्याघ्रानृक्षान् वराहांश्च हतवान् स्त्रीपुरे तव॥ यश्चासीदश्वबन्धस्ते नकुलोऽयं परंतपः। गोसङ्ख्यः सहदेवश्च माद्रीपुत्रौ महारथौ॥ शृङ्गारवेषाभरणौ रूपवन्तौ यशस्विनौ। महारथसहस्राणां समर्थो भरतर्षभौ॥ एषा पद्मपलाशाक्षी सुमध्या चारुहासिनी। सैरन्ध्री द्रौपदी राजन् यस्यार्थे कीचका हताः॥ अर्जुनोऽहं महाराज व्यक्तं ते श्रोत्रमागतः। भीमादवरजः पार्थो यमाभ्यां चापि पूर्वजः॥ उषिताः स्मो महाराज सुखं तव निवेशने। अज्ञातवासमुषिता गर्भवास इव प्रजाः॥ वैशम्पायन उवाच यदार्जुनेन ते वीराः कथिताः पञ्च पाण्डवाः। तदार्जुनस्य वैराटिः कथयामास विक्रमम्॥ पुनरेव च तान् पार्थान् दर्शयामास चोत्तरः॥ उत्तर उवाच तनुर्महान् सिंह इव प्रवृद्धः। स्ताम्रायताक्षः कुरुराज एषः॥ अयं पुनर्मत्तगजेन्द्रगामी प्रतप्तचामीकरशुद्धगौरः। वृकोदरः पश्यत पश्यतैनम्॥ यस्त्वेव पार्श्वेऽस्य महाधनुष्मान् श्यामो युवा वारणयूथपोपमः। सिंहोन्नतांसो गजराजगामी पद्मायताक्षोऽर्जुन एष ऽर्जुन एष वीरः॥ राज्ञः समीपे पुरुषत्तमौ तु यमाविमौ विष्णुमहेन्द्रकल्पौ। मनुष्यलोके सकले समोऽस्ति ययोर्न रूपे न बले न शीले।॥ आभ्यां तु पार्श्वे कनकोत्तमाङ्गी यैषा प्रभा मूर्तिमतीव गौरी। नीलोत्पला भा सुरदेवतेव कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः॥ वैशम्पायन उवाच एवं निवेद्य तान् पार्थान् पाण्डवान् पञ्च भूपतेः। ततोऽर्जुनस्य वैराटिः कथयामास विक्रमम्॥ उत्तर उवाच अयं स द्विषतां हन्ता मृगाणामिव केसरी। अचरद् रथवृन्देषु निघ्नंस्तांस्तान् वरान् रथान्॥ अनेन विद्धो मातङ्गो महानेकेषुणा हतः। सुवर्णकक्षः संग्रामे दन्ताभ्यामगमन्महीम्॥ अनेन विजिता गावो जिताश्च कुरवो युधि। अन्य शङ्खप्रणादेन की मे बधिरीकृतौ॥ वैशम्पायन उवाच तस्य तद् वचनं श्रुत्वा मत्स्यराजः प्रतापवान्। उत्तरं प्रत्युवाचेदमभिपनो युधिष्ठिरे॥ प्रसादनं पाण्डवस्य प्राप्तकालं हि रोचते। उत्तरां च प्रयच्छामि पार्थाय यदि मन्यसे॥ उत्तर उवाच आर्याः पूज्याश्च मान्याश्च प्राप्तकालं च मे मतम्। पूज्यन्तां पूजनाश्चि महाभागाश्च पाण्डवाः॥ विराट उवाच अहं खल्वपि संग्रामे शत्रूणां वशमागतः। मोक्षितो भीमसेनेन गावश्चापि जितास्तथा॥ एतेषां बाहुवीर्येण अस्माकं विजयो मृधे। एवं सर्वे सहामात्याः कुन्तीपुत्रं युधिष्ठिरम्। प्रसादयामो भद्रं ते सानुजं पाण्डवर्षभम्॥ यदस्माभिरजानद्धिः किंचिदुक्तो नराधिपः। क्षन्तुमर्हति तत् सर्वं धर्मात्मा ह्येष पाण्डवः॥ वैशम्पायन उवाच ततो विराट: परमाभितुष्टः समेत्य राजा समयं चकार। राज्यं च सर्वं विससर्ज तस्मै सदण्डकोश सपुरं महात्मा॥ पाण्डवांश्च ततः सर्वान् मत्स्यराजः प्रतापवान्। धनंजयं पुरस्कृत्य दिष्ट्या दिष्ट्येति चाब्रवीत्॥ समुपाघ्राय मूर्धानं संश्लिष्य च पुनः पुनः। युधिष्ठिरं च भीमं च माद्रीपुत्रो च पाण्डवौ॥ नातृप्यद् दर्शने तेषां विराटो वाहिनीपतिः। स प्रीयमाणो राजानं युधिष्ठिरमथाब्रवीत्॥ दिष्ट्या भवन्तः सम्प्राप्ताः सर्वे कुशलिनो वनात्। दिष्ट्या सम्पालितं कृच्छ्रमज्ञातं वै दुरात्मभिः॥ इदं च राज्यं पार्थाय यच्चान्यदपि किञ्चन। प्रतिगृह्णन्तु तत् सर्वं पाण्डवा अविशङ्कया।॥ उत्तरां प्रतिगृह्णातु सव्यसाची धनंजयः। अयं ह्यौपयिको भर्ता तस्याः पुरुषसत्तमः॥ एवमुक्तो धर्मराजः पार्थमैक्षद् धनंजयम्। ईक्षितश्चार्जुनो भ्रात्रा मत्स्यं वचनमब्रवीत्॥ प्रतिगृह्णाम्यहं राजन् स्नुषां दुहितरं तव। युक्तश्चावां हि सम्बन्धो मत्स्यभारतयोरपि॥ विराट उवाच किमर्थं पाण्डवश्रेष्ठ भार्यां दुहितरं मम। प्रतिग्रहीतुं नेमां त्वं मया दत्तामिहेच्छसि॥ अर्जुन उवाच अन्तःपुरेऽहमुषितः सदा पश्यन् सुतां तव। रहस्यं च प्रकाशं च विश्वस्ता पितृवन्मयि॥ प्रियो बहुतमश्चासं नर्तको गीतकोविदः। आचार्यवच्च मां नित्यं मन्यते दुहिता तव॥ वयःस्थया तया राजन् सह संवत्सरोषितः। अतिशङ्का भवेत् स्थाने तव लोकस्य वा विभो॥ तस्मान्निमन्त्रयेऽहं ते दुहितां मनुजाधिप। शुद्धो जितेन्द्रियो दान्तस्तस्याः शुद्धिः कृता मया।॥ स्नुषायां दुहितुर्वापि पुत्रे चात्मनि वा पुनः। अत्र शङ्कां न पश्यामि तेन शुद्धिर्भविष्यति॥ अभिशापादहं भीतो मिथ्यावादात् परंतप। स्नुषार्थमुत्तरां राजन् प्रतिगृह्णामि ते सुताम्॥ स्वस्रीयो वासुदेवस्य साक्षाद् देवशिशुर्यथा। दयितश्चक्रहस्तस्य सर्वास्त्रेषु च कोविदः॥ अभिमन्युर्महाबाहुः पुत्रो मम विशाम्पते। जामाता तव युक्तो वै भर्ता च दुहितुस्तव॥ विराट उवाच उपपन्नं कुरुश्रेष्ठे कुन्तीपुत्र धनंजये। य एवं धर्मनित्यश्च जातज्ञानश्च पाण्डवः॥ यत् कृत्यं मन्यसे पार्थ क्रियतां तदनन्तरम्। सर्वे कामाः समृद्धा मे सम्बन्धी यस्य मेऽर्जुनः॥ वैशम्पायन उवाच एवं ब्रुवति राजेन्द्रे कुन्तीपुत्रो युधिष्ठिरः। अन्वशासत् स संयोगं समये मत्स्यपार्थयोः॥ ततो मित्रेषु सर्वेषु वासुदेवं च भारत। प्रेषयामास कौन्तेयो विराटश्च महीपतिः॥ ततस्त्रयोदशे वर्षे निवृत्ते पञ्च पाण्डवाः। उपप्लव्यं विराटस्य समपद्यन्त सर्वशः॥ अभिमन्युं च बीभत्सुरानिनाय जनार्दनम्। आनर्तेभ्योऽपि दाशार्हानानयामास पाण्डवः॥ काशिराजश्च शैब्यश्च प्रीयमाणौ युधिष्ठिरे। अक्षौहिणीभ्यां सहितावागतौ पृथिवीपती॥ अक्षौहिण्या च सहितो यज्ञसेनो महाबलः। द्रौपद्याश्च सुता वीराः शिखण्डी चापराजितः॥ धृष्टद्युम्नश्च दुर्धर्षः सर्वशस्त्रभृतां वरः। समस्ताक्षौहिणीपाला यज्वानो भूरिदक्षिणाः। वेदावभृथसम्पन्नाः सर्वे शूरास्तनुत्यजः॥ तानागतानभिप्रेक्ष्य मत्स्यो धर्मभृतां वरः। पूजयामास विधिवत् सभृत्यबलवाहनान्॥ प्रीतोऽभवद् दुहितरं दत्त्वा तामभिमन्यवे। ततः प्रत्युपयातेषु पार्थिवेषु ततस्ततः॥ तत्रागमद् वासुदेवो वनमाली हलायुधः। कृतवर्मा च हार्दिक्यो युयुधानश्च सात्यकिः॥ अनाधृष्टिस्तथाक्रूरः साम्बो निश एव च। अभिमन्युमुपादाय सह मात्रा परंतपाः॥ इन्द्रसेनादयश्चैव रथैस्तैः सुसमाहितैः। आययुः सहिताः सर्वे परिसंवत्सरोषिताः॥ दशनागसहस्राणि हयानां द्विगुणं तथा। रथानामयुतं पूर्णं नियुतं च पदातिनाम्॥ वृष्ण्यन्धकाश्च बहवो भोजाश्च परमौजसः। अन्वयुर्वृष्णिशार्दूलं वासुदेवं महाद्युतिम्॥ पारिबर्ह ददौ कृष्णः पाण्डवानां महात्मनाम्। स्त्रियो रत्नानि वासांसि पृथक् पृथगनेकशः॥ ततो विवाहो विधिवद् ववृधे मत्स्यपार्थयोः। ततः शङ्खाश्च भेर्यश्च गोमुखा डम्बरास्तथा॥ पार्थैः संयुज्यमानस्य नेदुर्मत्स्यस्य वेश्मनि। भक्ष्यान्नभोज्यपानानि प्रभूतान्यभ्यहारयन्॥ गायनाख्यानशीलाच नटवैतालिकास्तथा। स्तुवन्तस्तानुपातिष्ठान् सूताश्च सह मागधैः॥ सुदेष्णां च पुरस्कृत्य मत्स्यानां च वरस्त्रियः। आजग्मुश्चारुसर्वाङ्गयः सुमृष्टमणिकुण्डलाः॥ वर्णोपपन्नास्ता नार्यो रूपवत्यः स्वलंकृताः। सर्वाश्चाभ्यभवन् कृष्णा रूपेण यशसा श्रिया॥ परिवार्योत्तरां तास्तु राजपुत्रीमलंकृताम्। सुतामिव महेन्द्रस्य पुरस्कृत्योपतस्थिरे॥ तां प्रत्यगृह्णात् कौन्तेयः सुतस्यार्थे धनंजयः। सौभद्रस्यानवद्याङ्गी विराटतनयां तदा॥ तत्रातिष्ठन्महाराजो रूपमिन्द्रस्य धारयन्। स्नुषां तां प्रतिजग्राह कुन्तीपुत्रो युधिष्ठिरः॥ प्रतिगृह्य च तां पार्थः पुरस्कृत्य जनार्दनम्। विवाहं कारयामास सौभद्रस्य महात्मनः॥ तस्मै सप्त सहस्राणि हयानां वातरंहसाम्। द्वे च नागशते मुख्ये प्रादाद् बहुधनं तदा॥ हुत्वा सम्यक् समिद्धाग्निमर्चयित्वा द्विजन्मनः। राज्यं बलं च कोशं च सर्वमात्मानमेव च॥ कृते विवाहे तु तदा धर्मपुत्रो युधिष्ठिरः। ब्राह्मणेभ्यो ददौ वित्तं यदुपाहरदच्युतः॥ गोसहस्राणि रत्नानि वस्त्राणि विविधानि च। भूषणानि च मुख्यानि यानानि शयनानि च॥ भोजनानि च हृद्यानि पानानि विविधानि च। तन्महोत्सवसंकाशं हृष्टपुष्टजनायुतम्। नगरं मत्स्यराजस्य शुशुभे भरतर्षभ।॥ बलदेव उवाच श्रुतं भवद्भिर्गदपूर्वजस्य वाक्यं यथा धर्मवदर्थवच्च। अजातशत्रोश्च हितं हितं च दुर्योधनस्यापि तथैव राज्ञः।। अर्धं हि राज्यस्य विसृज्य वीराः कुन्तीसुतास्तस्य कृते यतन्ते। प्रदाय चार्घं धृतराष्ट्रपुत्रः सुखी सहास्माभिरतीव मोदेत्॥ लब्ध्वा हि राज्यं पुरुषप्रवीराः सम्यक्प्रवृत्तेषु परेषु चैवा स्तेषां प्रशान्तिश्च हितं प्रजानाम्॥ दुर्योधनस्यापि मतं च वेत्तुं वक्तुं च वाक्यानि युधिष्ठिरस्य। प्रियं च मे स्याद् यदि तत्र कश्चिद् व्रजेच्छमार्थं कुरुपाण्डवानाम्॥ स भीष्मामन्त्र्य कुरुप्रवीरं वैचित्रवीर्यं च महानुभावम्। द्रोणं सपुत्रं विदुरं कृपं च गान्धारराजं च ससूतपुत्रम्।। सर्वे च येऽन्ये धृतराष्ट्रपुत्रा बलप्रधाना निगमप्रदधानाः। स्थिताश्च धर्मेषु तथा स्वकेषु लोकप्रवीराः श्रुतकालवृद्धाः॥ एतेषु सर्वेषु समागतेषु पौरेषु वृद्धेषु च संगतेषु। ब्रवीतु वाक्यं प्रणिपातयुक्तं कुन्तीसुतस्यार्थकरं यथा स्यात्॥ सर्वास्ववस्थासु च ते न कोप्या प्रस्तो हि सोऽर्थो बलमाश्रितैस्तैः। प्रियाभ्युपेतस्य युधिष्ठिरस्य द्यते प्रसक्तस्य हृतं च राज्यम्॥ निवार्यमाणश्च कुरुप्रवीरः सर्वैः सुहृद्भियमप्यतज्ज्ञः। स दीव्यमानः प्रतिदीव्य चैनं गान्धारराजस्य सुतं मताक्षम्॥ हित्वा हि कर्णं च सुयोधनं च समाह्वयद् देवितुमाजमीढः। दुरोदरास्तत्र सहक्रस्रशोऽन्ये युधिष्ठिरो यान् विषहेत जेतुम्॥ उत्सृज्य तान् सौबलमेव चायं समाह्वयत् तेन जितोऽक्षवत्याम्। स दीव्यमानः प्रतिदेवनेन अक्षेषु नित्यं तु पराङ्मुखेषु॥ संरम्भमाणो विजितः प्रसा तत्रापराधः शकुनेर्न कश्चित्। तस्मात् प्रणम्यैव वचो ब्रवीतु वैचित्रवीर्यं बहुसामयुक्तम्॥ तथा हि शक्यो धृतराष्ट्रपुत्रः स्वार्थं नियोक्तुं पुरुषेण तेन। अयुद्धमाकाक्षत कौरवाणां साम्नैव दुर्योधनमाह्वयध्वम्॥ साम्ना जितोऽर्थोऽर्थकरो भवेत युद्धेऽनयो भविता नेह सोऽर्थः॥ वैशम्पायन उवाच एवं ब्रुवत्येव मधुप्रवीरे शिनिप्रवीरः सहसोत्पपात। तच्चापि वाक्यं परिनिन्द्य तस्य समाददे वाक्यमिदं समन्युः॥ सात्यकिरुवाच यादृशः पुरुषस्यात्मा तादृशं सम्प्रभाषते। यथारूपोऽन्तरात्मा ते तथारूपं प्रभाषसे।।।। सन्ति वै पुरुषाः शूराः सन्ति कापुरुषास्तथा। उभावेतौ दृढौ पक्षौ दृश्यते पुरुषान् प्रति॥ एकस्मिन्नेव जायेते कुले क्लीबमहाबलौ। फलाफलवती शाखे यथैकस्मिन् वनस्पतौ॥ नाभ्यसूयामि ते वाक्यं ब्रुवतो लाङ्गलध्वज। ये तु शृण्वन्ति ते वाक्यं तानसूयामि माधव॥ कथं हि धर्मराजस्य दोषमल्पमपि ब्रुवन्। लभते परिषन्मध्ये व्याहर्तुमकुतोभयः॥ समाहूय महात्मानं जितवन्तोऽक्षकोविदाः। अनक्षज्ञं यथाश्रद्धं तेषु धर्मजयः कुतः॥ एवमप्ययमत्यन्तं यदि कुन्तीसुतं गेहे क्रीडन्तं भ्रातृभिः सह। अभिगम्य जयेयुस्ते तत् तेषां धर्मतो भवेत्। समाहूय तु राजानं क्षत्रधर्मरतं सदा॥ निकृत्या जितवन्तस्ते किं नु तेषां परं शुभम्। कथं प्रणिपतेच्चायमिह कृत्वा पणं परम्॥ वनवासाद् विमुक्तस्तु प्राप्तः पैतामहं पदम्। यद्ययं पापवित्तानि कामयेत युधिष्ठिरः॥ परान् नार्हति याचितुम्। कथं च धर्मयुक्तास्ते न च राज्यं जिहीर्षवः॥ निवृत्तवासान् कौन्तेयान् य आहुर्विदिता इति। अनुनीता हि भीष्मेण द्रोणेन विदुरेण च॥ न व्यवस्यन्ति पाण्डूनां प्रदातुं पैतृकं वसु। अहं तु ताञ्छितैर्बाणैरनुनीय रणे बलात्॥ पादयोः पातयिष्यामि कौन्तेयस्य महात्मनः। अथ ते न व्यवस्यन्ति प्रणिपाताय धीमतः॥ न हि ते गमिष्यन्ति सहामात्या यमस्य सदनं प्रति। युयुधानस्य संरब्धस्य युयुत्सतः॥ वेगं समर्थाः संसोढुं वज्रस्येव महीधराः। को हि गाण्डीवधन्वानं कश्च चक्रायुधं युधि।१५।। मां चापि विषहेत् क्रुद्धं कश्च भीमं दुरासदम्। यमौ च दृढधन्वानौ यमकालोपमद्युती। विराटद्रुपदौ वीरौ यमकालोपमद्युती॥ को जिजीविषुरासादेद् धृष्टद्युम्नं च पार्षतम्। पञ्चैतान् पाण्डवेयांस्तु द्रौपद्याः कीर्तिवर्धनान्॥ समप्रमाणान् पाण्डूनां समवीर्यान् मदोत्कटान्। सौभद्रं च महेष्वासममरैरपि दुःसहम्॥ गदप्रद्युम्नसाम्बांश्च कालसूर्यानलोपमान्। ते वयं धृतराष्ट्रस्य पुत्रं शकुनिना सह॥ कर्णं चैव निहत्याजावभिषेक्ष्याम पाण्डवम्। नाधर्मो विद्यते कश्चिच्छत्रून् हत्वाऽऽततायिनः॥ अधर्म्यमयशस्यं च शात्रवाणां प्रयाचनम्। हृद्गतस्तस्य य: कामस्तं कुरुध्वमतन्द्रिताः॥ निसृष्टं धृतराष्ट्रेण राज्यं प्राप्नोतु पाण्डवः। अद्य पाण्डुसुतो राज्यं लभतां वा युधिष्ठिरः॥ निहता वा रणे सर्वे स्वप्स्यन्ति वसुधातले॥ दुपद उवाच एवमेतन्महाबाहो भविष्यति न संशयः। न हि दुर्योधनो राज्यं मधुरेण प्रदास्यति॥ अनुवय॑ति तं चापि धृतराष्ट्रः सुतप्रियः। भीष्मद्रोणौ च कार्पण्यान्माद् राधेयसौबलौ॥ बलदेवस्य वाक्यं तु मम ज्ञाने न युज्यते। एतद्धि पुरुषेणारे कार्यं सुनयमिच्छता॥ न तु वाच्यो मृदुवचो धार्तराष्ट्रः कथंचन। न हि मार्दवसाध्योऽसौ पापबुद्धिर्मतो मम॥ गर्दभे मार्दवं कुर्याद् गोषु तीक्ष्णं समाचरेत्। मृदु दुर्योधने वाक्यं यो ब्रूयात् पापचेतसि॥ मृदुं वै मन्यते पापो भाषमाणमशक्तिकम्। जितम) विजानीयादबुधो मार्दवे सति॥ एतच्चैव करिष्यामो यत्नश्च क्रियतामिह। प्रस्थापयाम मित्रेभ्यो बलान्युद्योजयन्तु नः॥ शल्यस्य धृष्टकेतोश्च जयत्सेनस्य वा विभो। केकयानां च सर्वेषां दूता गच्छन्तु शीघ्रगाः॥ स च दुर्योधनो नूनं प्रेषयिष्यति सर्वशः। पूर्वाभिपन्नाः सन्तश्च भजन्ते पूर्वचोदनम्॥ तत् त्वरध्वं नरेन्द्राणां पूर्वमेव प्रचोदने। महद्धि कार्यं वोढव्यमिति मे वर्तते मतिः॥ शल्यस्य प्रेष्यतां शीघ्रं ये च तस्यानुगा नृपाः। भगदत्ताय राज्ञे च पूर्वसागरवासिने॥ अमितौजसे तथोग्राय हार्दिक्यायान्धकाय च। दीर्घप्रज्ञाय शूराय रोचमानाय वा विभो॥ आनीयतां बृहन्तश्च सेनाबिन्दुश्च पार्थिवः। सेनजित् प्रतिविन्ध्यश्च चित्रवर्मा सुवास्तुकः॥ बाह्रीको मुञ्जकेशश्च चैद्याधिपतिरेव च। सुपार्श्वश्च सुबाहुश्च पौरवश्च महारथः॥ शकानां पह्लवानां च दरदानां च ये नृपाः। सुरारिश्च नदीजश्च कर्णवेष्टश्च पार्थिवः॥ नीलश्च वीरधर्मा च भूमिपालश्च वीर्यवान्। दुर्जयो दन्तवक्त्रश्च रुक्मी च जनमेजयः॥ आषाढो वायुवेगश्च पूर्वपाली च पार्थिवः। भूरितेजा देवकश्च एकलव्यः सहात्मजैः॥ कारूषकाच राजानः क्षेमधूर्तिश्च वीर्यवान्। काम्बोजा ऋषिका ये च पश्चिमानूपकाश्च ये॥ जयत्सेनश्च काश्यश्च तथा पञ्चनदा नृपाः। क्राथपुत्रश्च दुर्धर्षः पार्वतीयाश्च ये नृपाः॥ जानकिश्च सुशर्मा च मणिमान् योतिमत्सकः। पांशुराष्ट्राधिपश्चैव धृष्टकेतुश्च वीर्यवान्।॥ तुण्डश्च दण्डधारश्च बृहत्सेनश्च वीर्यवान्। अपराजितो निषादस्व श्रेणिमान् वसुमानपि॥ बृहद्बलो महौजाश्च बाहुः परपुरञ्जयः। समुद्रसेनो राजा च सह पुत्रेण वीर्यवान्।॥ उद्भवः क्षेमकश्चैव वाटधानश्च पार्थिवः। श्रुतायुश्च दृढायुश्च शाल्वपुत्रश्च वीर्यवान्॥ कुमारश्च कलिङ्गानामीश्वरो युद्धदुर्मदः। एतेषां प्रेष्यतां शीघ्रमेतद्धि मम रोचते।॥ अयं च ब्राह्मणो विद्वान् मम राजन् पुरोहितः। प्रेष्यतां धृतराष्ट्राय वाक्यमस्मै प्रदीयताम्॥ यथा दुर्योधनो वाच्यो यथा शान्तनवो नृपः। धृतराष्ट्रो यथा वाच्यो द्रोणश्च रथिनां वरः॥ वासुदेव उवाच उपपन्नमिदं वाक्यं सोमकानां धुरंधरे। अर्थसिद्धिकरं राज्ञः पाण्डवस्यामितौजसः॥ एतच्च पूर्वं कार्यं नः सुनीतमभिकाङ्क्षताम्। अन्यथा ह्याचरन् कर्म पुरुषः स्यात् सुबालिशः॥ किं तु संभन्धकं तुल्यमस्माकं कुरुपाण्डुषु। यथेष्टं वर्तमानेषु पाण्डवेषु च तेषु च॥ ते विवाहार्थमानीता वयं सर्वे तथा भवान्। कृते विवाहे मुदिता गमिष्यामो गृहान् प्रति॥ भवान् वृद्धतमो राज्ञां वयसा च श्रुतेन च। शिष्यवत् ते वयं सर्वे भवामेह न संशयः॥ भवन्तं धृतराष्ट्रश्च सततं बहु मन्यते। आचार्ययोः : सखा चासि द्रोणस्य च कृपस्य च॥ स भवान् प्रेषयत्वद्य पाण्डवार्थकरं वचः। सर्वेषां निश्चितं तन्नः प्रेषयिष्यति यद् भवान्॥ यदि तावच्छमं कुर्यान्यायेन कुरुपुङ्गवः। न भवेत् कुरुपाण्डूनां सौभ्रात्रेण महान् क्षयः॥ अथ दर्यान्वितो मोहान्न कुर्याद् धृतराष्ट्रजः। अन्येषां प्रेषयित्वा च पश्चादस्मान् समाह्वये॥ ततो दुर्योधनो मन्दः सहामात्यः सबान्धवः। निष्ठामापत्स्यते मूढः क्रुद्धे गाण्डीवधन्वनि॥ वैशम्पायन उवाच ततः सत्कृत्य वार्ष्णेयं विराटः पृथिवीपतिः। गृहान् प्रस्थापयामास सगणं सहबान्धवम्॥ द्वारकां तु गते कृष्णे युधिष्ठिरपुरोगमाः। चक्रुः सांग्रामिकं सर्वं विराटश्च महीपतिः॥ ततः सम्प्रेषयामास विराट: सह बान्धवैः। सर्वेषां भूमिपालानां द्रुपदश्च महीपतिः॥ वचनात् कुरुसिंहानां मत्स्यपाञ्चालयोश्च ते। समाजग्मुर्महीपालाः सम्प्रहृष्टा महाबलाः॥ तच्छ्रुत्वा पाण्डुपुत्राणां समागच्छन्महबलम्। धृतराष्ट्रसुताश्चापि समानिन्युर्महीपतीन्॥ समाकुला मही राजन् कुरुपाण्डवकारणात्। तदा समभवत् कृत्स्ना सम्प्रयाणे महीक्षिताम्॥ संकुला च तदा भूमिश्चतुरङ्गबलान्विता। बलानि तेषां वीराणामागच्छन्ति ततस्ततः॥ चालयन्तीव गां देवीं सपर्वतवनामिमाम्। ततः प्रज्ञावयोवृद्ध पाञ्चाल्यः स्वपुरोहितम्। कुरुभ्यः प्रेषयामास युधिष्ठिरमते स्थितः॥ वैशम्पायन उवाच पुरोहितं ते प्रस्थाप्य नगरं नागसाह्वयम्। दूतान् प्रस्थापयामासुः पार्थिवेभ्यस्ततस्ततः॥ प्रस्थाप्य दूतानन्यत्र द्वारकां पुरुषर्षभः। स्वयं जगाम कौरव्यः कुन्तीपुत्रो धनंजयः॥ गते द्वारवती कृष्णे बलदेवे च माधवे। सह वृष्ण्यन्धकैः सर्वैर्भोजैश्च शतशस्तदा।॥ सर्वमागमयामास पाण्डवानां विचेष्टितम्। धृतराष्ट्रात्मजो राजा गूढैः प्रणिहितैश्चरैः॥ स श्रुत्वा माधवं यान्त सदश्वैरनिलोपमैः। बलेन नातिमहता द्वारकामभ्ययात् पुरीम्॥ तमेव दिवसं चापि कौन्तेयः पाण्डुनन्दनः। आनर्तनगरी रम्या जगामाशु धनंजयः॥ तौ यात्वा पुरुषव्याघ्रौ द्वारकां कुरुनन्दनौ। सुप्तं ददृशतुः कृष्णं शयानं चाभिजग्मतुः॥ ततः शयाने गोविन्दे प्रविवेश सुयोधनः। उच्छीर्षतश्च कृष्णस्य निषसाद वरासने॥ ततः किरीटी तस्यानुप्रविवेश महामनाः। पश्चाच्चैव स कृष्णस्य प्रह्वोऽतिष्ठत् कृताञ्जलिः॥ प्रतिबुद्धः स वार्ष्णेयो ददर्शाग्रे किरीटिनम्। स तयोः स्वागतं कृत्वा यथावत् प्रतिपूज्य तौ॥ तदागमनजं हेतुं पप्रच्छ मधुसूदनः। ततो दुर्योधनः कृष्णमुवाच प्रहसन्निव॥ विग्रहेऽस्मिन् भवान् साह्यं मम दातुमिहार्हति। समं हि भवतः सख्यं मम चैवार्जुनेऽपि च॥ तथा सम्बन्धकं तुल्यमस्माकं त्वयि माधव। अहं चाभिगतः पूर्वं त्वामद्य मधुसूदन॥ पूर्वं चाभिगतं सन्तो भजन्ते पूर्वसारिणः। त्वं च श्रेष्ठतमो लोके सतामद्य जनार्दन। सततं सम्मतश्चैव सद्वृत्तमनुपालय॥ कृष्ण उवाच भवानभिगतः पूर्वमत्र मे नास्ति संशयः। दृष्टस्तु प्रथमं राजन् मया पार्थो धनंजयः॥ तव पूर्वाभिगमनात् पूर्वं चाप्यस्य दर्शनात्। साहाय्यमुभयोरेव करिष्यामि सुयोधन॥ प्रवारणं तु बालानां पूर्वं कार्यमिति श्रुतिः। तस्मात् प्रवारणं पूर्वमर्हः पार्थो धनंजयः॥ मत्संहननतुल्यानां गोपानामर्बुद महत्। नारायणा इति ख्याताः सर्वे संग्रामयोधिनः॥ ते वा युधि दुराधर्षा भवन्त्वेकस्य सैनिकाः। अयुध्यमानः संग्रामे न्यस्तशस्त्रोऽहमेकतः॥ आभ्यामन्यतरं पार्थ यत् ते हृद्यतरं मतम्। तद वृणीतां भवानग्रे प्रवार्यस्त्वं हि धर्मतः॥ वैशम्पायन उवाच एवमुक्तस्तु कृष्णेन कुन्तीपुत्रो धनंजयः। अयुध्यमानं संग्रामे वरयामास केशवम्॥ नारायणममित्रघ्नं कामाज्जातमजं नृषु। सर्वक्षत्रस्य पुरतो देवदानवयोरपि॥ दुर्योधनस्तु तत् सैन्यं सर्वमावरयत् तदा। सहस्राणां सहस्रं तु योधानां प्राप्य भारत॥ कृष्णं चापहृतं ज्ञात्वा सम्प्राय परमां मुदम्। दुर्योधनस्तु तत् सैन्यं सर्वमादाय पार्थिवः॥ ततोऽभ्ययाद् भीमबलो रौहिणेयं महाबलम्। सर्वं चागमने हेतुं स तस्मै संन्यवेदयत्। प्रत्युवाच ततः शौरिर्द्धार्तराष्ट्रमिदं वचः॥ बलदेव उवाच विदितं ते नरव्याघ्र सर्वं भवितुमर्हति। यन्मयोक्तं विराटस्य पुरा वैवाहिके तदा॥ निगृह्योक्तो हृषीकेशस्त्वदर्थं कुरुनन्दन। मया सम्बन्धकं तुल्यमिति राजन् पुनः पुनः॥ न च तद् वाक्यमुक्तं वै केशवं प्रत्यपद्यत। न चाहमुत्सहे कृष्णं विना स्थातुमपि क्षणम्॥ नाहं सहायः पार्थस्य नापि दुर्योधनस्य वै। इति मे निश्चिता बुद्धिर्वासुदेवमवेक्ष्य ह॥ जातोऽसि भारते वंशे सर्वपार्थिवपूजिते। गच्छ युद्धस्व धर्मेण क्षात्रेण पुरुषर्षभा॥ वैशम्पायन उवाच इत्येवमुक्तस्तु तदा परिष्वज्य हलायुधम्। कृष्णं चापहतं ज्ञात्वा युद्धान्मने जितं जयम्॥ सोऽभ्ययात् कृतवर्माणं धृतराष्ट्रसुतो नृपः। कृतवर्मा ददौ तस्य सेनामक्षौहिणी तदा॥ स तेन सर्वसैन्येन भीमेन कुरुनन्दनः। वृतः परिययौ हृष्टः सुहृदः सम्प्रहर्षयन्॥ ततः पीताम्बरधरो जगत्स्रष्टा जनार्दनः। गते दुर्योधने कृष्णः किरीटिनमथाब्रवीत्। अयुध्यमानः कां बुद्धिमास्थायाहं वृतस्त्वया॥ अर्जुन उवाच भवान् समर्थस्तानं सर्वान् निहन्तु नात्र संशयः। निहन्तुमहमष्येकः समर्थः पुरुषर्षभ॥ भवांस्तु कीर्तिमाँल्लोके तद् यशस्त्वां गमिष्यति। यशसां चाहमप्यर्थी तस्मादसि मया वृतः॥ सारथ्यं तु त्वया कार्यमिति मे मानसं सदा। चिररात्रेप्सितं कामं तद् भवान् कर्तुमर्हति॥ वासुदेव उवाच उपपत्रमिदं पार्थ यत् स्पर्धसि मया सह। सारथ्यं ते करिष्यामि कामः सम्पद्यतां तव॥ वैशम्पयान उवाच एवं प्रमुदितः पार्थः कृष्णेन सहितस्तदा। वृतो दशाहप्रवरैः पुनरायाद् युधिष्ठिरम्॥ वैशम्पायन उवाच शल्यः श्रुत्वा तु दूतानां सैन्येन महता वृतः। अभ्ययात् पाण्डवान् राजन् सह पुत्रैर्महारथैः॥ तस्य सेनानिवेशोऽभूदध्यर्धमिव योजनम्। तथा हि विपुलां सेनां बिभर्ति स नरर्षभः॥ अक्षौहिणीपती राजन् महावीर्यपराक्रमः। विचित्रकवचाः शूरा विचित्रध्वजकार्मुकाः॥ विचित्राभरणाः सर्वे विचित्ररथवाहनाः। विचित्रस्रग्धराः सर्वे विचित्राम्बरभूषणाः॥ स्वदेशवेषाभरणा वीराः शतसहस्रशः। तस्य सेनाप्रणेतारो बभूवुः क्षत्रियर्षभाः॥ व्यथयन्निव भूतानि कम्पयन्निव मेदिनीम्। शनैर्विश्रामयन् सेनां स ययौ येन पाण्डवः॥ ततो दुर्योधनः श्रुत्वा महात्मानं महारथम्। उपायान्तमभिद्रुत्य स्वयमानर्च भारत॥ कारयामास पूजार्थं तस्य दुर्योधनः सभाः। रमणीयेषु देशेषु रत्नचित्राः स्वलंकृताः॥ शिल्पिभिर्विविधैश्चैव क्रीडास्तत्र प्रयोजिताः। तत्र माल्यानि मांसानि भक्ष्यं पेयं च सत्कृतम्॥ कूपाश्च विविधाकारा मनोहर्षविवर्धनाः। वाष्यश्च विविधाकारा औदकानि गृहाणि च॥ स ताः सभाः समासाद्य पूज्यमानो यथाऽमरः। दुर्योधनस्य सचिवैर्देशे देशे समन्ततः॥ आजगाम सभामन्यां देवावसथवर्चसम्। स तत्र विषयैर्युक्तः कल्याणैरतिमानुषैः॥ मेनेऽभ्यधिकमात्मानमवमेने पुरंदरम्। पप्रच्छ स ततः प्रेष्यान् प्रहृष्टः क्षत्रियर्षभः॥ आनीयन्तां सभाकाराः प्रदेयारे हि मे मताः॥ प्रसादमेषां दास्यामि कुन्तीपुत्रोऽनुमन्यताम्। दुर्योधनाय तत् सर्वं कथयन्ति स्म विस्मिताः॥ सम्प्रहृष्टो यदा शल्यो दिदित्सुरपि जीवितम्। गूढो दुर्योधनस्तत्र दर्शयामास मातुलम्॥ तं दृष्ट्वा मद्रराजश्च ज्ञात्वा यत्नं च तस्य तम्। परिष्वज्याब्रवीत् प्रीत इष्टोऽर्थो गृह्यतामिति॥ दुर्योधन उवाच सत्यवान् भव कल्याण वरो वै मम दीयताम्। सर्वसेनाप्रणेता वै भवान् भवितुमर्हति॥ वैशम्पायन उवाच कृतमित्यब्रवीच्छल्यः किमन्यत् क्रियतामिति। कृतमित्येव गान्धारिः प्रत्युवाच पुनः पुनः॥ शल्य उवाच गच्छ दुर्योधन पुरं स्वकमेव नरर्षभ। अहं गमिष्ये द्रष्टुं वै युधिष्ठिरमरिंदमम्॥ दृष्ट्वा युधिष्ठिरं राजन् क्षिप्रमेध्ये नराधिप। अवश्यं चापि द्रष्टव्यः पाण्डवः पुरुषर्षभः॥ दुर्योधन उवाच क्षिप्रमागम्यतां राजन् पाण्डवं वीक्ष्य पार्थिव। त्वय्यधीनः स्म राजेन्द्र वरदानं स्मरस्व नः॥ शल्य उवाच क्षिप्रमेष्यामि भद्रं ते गच्छस्व स्वपुरं नृप। परिष्वज्य तथाऽन्योन्यं शल्यदुर्योधनावुभौ॥ स तथा शल्यमामन्त्र्य पुनरायात् स्वकं पुरम्। शल्यो जगाम कौन्तेयानाख्यातुं कर्म तस्य तत्॥ उपप्लव्यं स गत्वा तु स्कन्धावारं प्रविश्य च। पाण्डवानथ तान् सर्वान् शल्यस्तत्र ददर्श ह॥ समेत्य च महाबाहुः शल्यः पाण्डुसेतैस्तदा। पाद्यमयं च गां चैव प्रत्यगृह्णाद् यथाविधि॥ ततः कुशलपूर्वं हि मद्रराजोऽरिसूदनः। प्रीत्या परमया युक्तः समाश्लिष्यद् युधिष्ठिरम्॥ तथा भीमार्जुनौ कृष्णौ स्वस्रीयौ च यमावुभौ। आसने चोपविष्टस्तु शल्यः पार्थमुवाच ह॥ कुशलं राजशार्दूलं कच्चित् ते कुरुनन्दन। अरण्यवासाद् दिष्ट्यासि विमुक्तो जयतां वर॥ सुदुष्करं कृतं राजन् निर्जने वसता त्वया। भ्रातृभिः सह राजेन्द्र कृष्णया चानया सह।॥ अज्ञातवासं घोरं च वसता दुष्करं कृतम्। दुःखमेव कुतः सौख्यं भ्रष्टराज्यस्य भारत॥ दुःखस्यैतस्य महतौ धार्तराष्ट्रकृतस्य वै। अवाप्स्यसि सुखं राजन् हत्वा शत्रून् परंतप॥ विदितं ते महाराज लोकतन्त्रं नराधिप। तस्माल्लोभकृतं किञ्चित् तव तात न विद्यते॥ राजर्षीणां पुराणानां मार्गमन्विच्छ भारत। दाने तपसि सत्ये च भव तात युधिष्ठिर॥ क्षमा दमश्च सत्यं च अहिंसा च युधिष्ठिर। अद्भुतश्च पुनर्लोकस्त्वयि राजन् प्रतिष्ठितः॥ मृदुर्वदान्यो ब्रह्मण्यो दाता धर्मपरायणः। धर्मास्ते विदिता राजन् बहवो लोकसाक्षिकाः॥ सर्वं जगदिदं तात विदितं ते परंतप। दिष्ट्या कृच्छ्रमिदं राजन् पारितं भरतर्षभ॥ दिष्ट्या पश्यामि राजेन्द्र धर्मात्मानं सहानुगम्। निस्तीर्णं दुष्करं राजंस्त्वा धर्मनिचयं प्रभो॥ वैशम्पायन उवाच ततोऽस्याकथयद् राजा दुर्योधनसमागमम्। तच्च शुश्रूषितं सर्वं वरदानं च भारत॥ युधिष्ठिर उवाच सुकृतं ते कृतं राजन् प्रहृष्टेनान्तरात्मना। दुर्योधनस्य यद् वीर त्वया वाचा प्रतिश्रुतम्॥ एकं त्विच्छामि भद्रं ते क्रियमाणं महीपते। राजन्नकर्तव्यमपि कर्तुमर्हसि सत्तम॥ ममत्ववेक्षया वीर शृणु विज्ञापयामि ते। भवानिह च सारथ्ये वासुदेवसमो युधि॥ कर्णार्जुनाभ्यां सम्प्राप्ते द्वैरथे राजसत्तम। कर्णस्य भवता कार्यं सारथ्यं नात्र संशयः॥ तत्र पाल्योऽर्जुनो राजन् यदि मत्प्रियमिच्छसि। तेजोवधश्च ते कार्य: सौतेरस्मज्जयावहः॥ अकर्तव्यमपि ह्येतत् कर्तुमर्हसि मातुल। शल्य उवाच शृणु पाण्डव ते भद्रं यद् ब्रवीषि महात्मनः। तेजोवधनिमित्तं मां सूतपुत्रस्य सङ्गमे॥ अहं तस्य भविष्यामि संग्रामे सारथिध्रुवम्। वासुदेवेन हि समं नित्यं मां स हि मन्यते॥ तस्याहं कुरुशार्दूल प्रतीपमहितं वचः। ध्रुवं संकथयिष्यामि योद्धुकामस्य संयुगे॥ यथा स हतदर्पश्च हृततेजाश्च पाण्डव। भविष्यति सुखं हन्तु सत्यमेतद् ब्रवीमि ते॥ एवमेतत् करिष्यामि यथा तात त्वमात्थ माम्। यच्चान्यदपिशक्ष्यामि तत् करिष्यामि ते प्रियम्॥ यच्च दुःखं त्वया प्राप्तं द्यूते वै कृष्णया सह। परुषाणि च वाक्यानि सूतपुत्रकृतानि वै॥ जटासुरात् परिक्लेश: कीचकाच्च महाद्युते। द्रौपद्याधिगतं सर्वं दमयन्त्या यथाऽशुभम्॥ सर्वं दुःखमिदं वीर सुखोदकं भविष्यति। नात्र मन्युस्त्वया कार्यो विधिर्हि बलवत्तरः॥ दुःखानि हि महात्मानः प्राप्नुवन्ति युधिष्ठिर। देवैरपि हि दुःखानि प्राप्तानि जगतीपते॥ इन्द्रेण श्रूयते राजन् सभार्येण महात्मना। अनुभूतं महद् दुःखं देवराजेन भारत॥ युधिष्ठिर उवाच कथमिन्द्रेण राजेन्द्र सभार्येण महात्मना। दुःखं प्राप्तं परं घोरमेतदिच्छामि वेदितुम्।।।। शल्य उवाच शृणु राजन् पुरावृत्तमितिहासं पुरातनम्। सभार्येण यथा प्राप्तं दुःखमिन्द्रेण भारत॥ त्वष्टा प्रजापति सीद् देवश्रेष्ठो महातपाः। स पुत्रं वै त्रिशिरसमिन्द्रद्रोहात् किलासृजत्॥ ऐन्द्रं स प्रार्थयत् स्थान् विश्वरूपो महाद्युतिः। तैस्त्रिभिर्वदनै।रैः सूर्येन्दुज्वलनोपमैः॥ वेदानेकेन सोऽधीते सुरामेकेन चापिबत्। एकेन च दिशः सर्वाः पिबन्निव निरीक्षते॥ स तपस्वी मृदुर्दान्तो धर्मं तपसि चोद्यतः। तपस्तस्य महत् तीव्र सुदुश्चरमरिन्दम॥ तस्य दृष्ट्वा तपोवीर्यं सत्यं चामिततेजसः। विषादमगमच्छक इन्द्रोऽयं मा भवेदिति॥ कथं सज्जेच्च भोगेषु न च तप्येन्महत् तपः। विवर्धमानस्त्रिशिराः सर्वं हि भुवनं ग्रसेत्॥ इति संचिन्त्य बहुधा बुद्धिमान् भरतर्षभ। आज्ञापयत् सोऽप्सरसस्त्वट्टपुत्रप्रलोभने।॥ यथा स सज्जेत् त्रिशिराः कामभोगेषु वै भृशम्। क्षिप्रं कुरुत गच्छध्वं प्रलोभयत् मा चिरम्॥ शृङ्गारवेषाः सुश्रोण्यो हारैर्युक्ता मनोहरैः। हावभावसमायुक्ताः सर्वाः सौन्दर्यशोभिताः॥ प्रलोभयत् भद्रं वः शमयध्वं भयं मम। अस्वस्थं ह्यात्मनाऽऽत्मानं लक्ष्यामि वराङ्गनाः। भयं तन्मे महाघोरं क्षिप्रं नाशयताबलाः॥ अप्सरस ऊचुः तथा यत्नं करिष्यामः शक्र तस्य प्रलोभने। यथा नावाप्स्यसि भयं तस्माद् बलनिषूदन॥ निर्दहन्निव चक्षुर्त्यां योऽसावास्ते तपोनिधिः। तं प्रलोभयितुं देव गच्छामः सहिता वयम्॥ यतिष्यामो वशे कर्तुं व्यपनेतुं च ते भयम्। शल्य उवाच इन्द्रेण तास्त्वनुज्ञाता जग्मुस्त्रिशिरसोऽन्तिकम्। तत्र ता विविधैर्भावैलॊभयन्त्यो वराङ्गनाः॥ नित्यं संदर्शयामासुस्तथैवाङ्गेषु सौष्ठवम्। नाभ्यगच्छत् प्रहर्षं ताः स पश्यन् सुमहातपाः॥ इन्द्रियाणि वशे कृत्वा पूर्वसागरसंनिभः। तास्तु यत्नं परं कृत्वा पुनः शक्रमुपस्थिताः॥ कृताञ्जलिपुटाः सर्वा देवराजमथाब्रुवन्। न स शक्यः सुदुर्धर्षो धैर्याच्चालयितुं प्रभो॥ यत् ते कार्यं महाभाग क्रियतां तदनन्तरम्। सम्पूज्याप्सरसः शक्रो विसृज्य च महामतिः॥ चिन्तयामास तस्यैव वधोपायं युधिष्ठिर। स तूष्र्णी चिन्तयन् वीरो देवराजः प्रतापवान्।॥ विनिश्चितमतिर्धीमान् वधे त्रिशिरसोऽभवत्। वज्रमस्य क्षिपाम्यद्य स क्षिप्रं न भविष्यति॥ शत्रुः प्रवृद्धो नोपेक्ष्यो दुर्बलोऽपि बलीयसा। शास्त्रबुद्धया विनिश्चित्य कृत्वा बुद्धिं वधे दृढाम्॥ अथ वैश्वानरनिभं घोररूपं भयावहम्। मुमोच वज्रं संक्रुद्धः शक्रस्त्रिशिरसं प्रति॥ स पपात हतस्तेन वज्रेण दृढमाहतः। पर्वतस्येव शिखरं प्रणुन्नं मेदिनीतले॥ तं तु वज्रहतं दृष्ट्वा शयानमचलोपमम्। न शर्म लेभे देवेन्द्रो दीपितस्तस्य तेजसा॥ हतोऽपि दीप्ततेजाः स जीवन्निव हि दृश्यते। घातितस्य शिरांस्याजौ जीवन्तीवाद्धतानि वै॥ ततोऽतिभीतगात्रस्तु शक्र आस्ते विचारयन्। अथाजगाम परशुं स्कन्धेनादाय वर्धकिः॥ तदरण्यं महाराज यत्रास्तेऽसौ निपातितः। स भीतस्तत्र तक्षाणं घटमानं शचीपतिः॥ अपश्यदब्रवीच्चैनं सत्वरं पाकशासनः। क्षिप्रं छिन्धि शिरांस्यस्य कुरुष्व वचनं मम॥ तक्षोवाच महास्कन्धो भृशं ह्येष परशुर्न भविष्यति। कर्तुं चाहं न शक्ष्यामि कर्म सद्भिर्विगर्हितम्॥ इन्द्र उवाच मा भेस्त्वं शीघ्रमेतद् वै कुरुष्व वचनं मम। मत्प्रसादाद्धि ते शस्त्रं वज्रकल्पं भविष्यति॥ तक्षोवाच कं भवन्तमहं विद्यां घोरकर्माणमद्य वै। एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथयस्व मे॥ इन्द्र उवाच अहमिन्द्रो देवराजस्तक्षन् विदितमस्तु ते। कुरुष्वैतदद् यथोक्तं मे तक्षन् माऽत्र विचारय॥ तक्षोवाच क्रूरेण नापत्रपसे कथं शक्रेह कर्मणा। ऋषिपुत्रमिमं हत्वा ब्रह्महत्याभयं न ते॥ शक्र उवाच पश्चाद् धर्मं चरिष्यामि पावनार्थं सुदुश्चरम्। शत्रुरेष महावीर्यो वज्रेण निहतो मया।॥ अद्यापि चाहमुद्विग्नस्तक्षन्नस्माद् बिभेमि वै। क्षिप्रं छिन्धि शिरांसि त्वं करिष्येऽनुग्रहं तव॥ शिरः पशोस्ते दास्यस्ति भागं यज्ञेषु मानवाः। एष तेऽनुग्रहस्तक्षन् क्षिप्रं कुरु मम प्रियम्॥ शल्य उवाच एतच्छ्रुत्वा तु तक्षा स महेन्द्रवचनात् तदा। शिरांस्यथ त्रिशिरसः कुठारेणाच्छिनत् तदा॥ निकृत्तेषु ततस्तेषु निष्क्रामन्नण्डजास्त्वथा कपिञ्जलास्तित्तिराश्च कलविङ्काश्च सर्वशः।॥ येन वेदानधीते स्म पिबते सोममेव च। तस्माद् वक्त्राद् विनिश्चेरुः क्षिप्रं तस्य कपिञ्जलाः॥४० येन सर्वा दिशो राजन् पिबन्निव निरीक्षते। तस्माद् वक्त्राद् विनिश्चेरुस्तित्तिरास्तस्य पाण्डव॥ यत् सुरापं तस्यासीद् वक्त्रं त्रिशिरसस्तदा। कलविङ्काः समुत्पेतुः श्येनाश्च भरतर्षभ।॥ ततस्तेषु निकृत्तेषु विज्वरो मघवानथ। जगाम त्रिदिवं हृष्टस्तक्षऽपि स्वगृहान् ययौ॥ मेने कृतार्थमात्मानं हत्वा शत्रु सुरारिहा। त्वष्टा प्रजापतिः श्रुत्वा शक्रेणाथं हतं सुतम्॥ क्रोधसंरक्तनयन इदं वचनमब्रवीत्। त्वष्टोवाच तष्यमानं तपो नित्यं क्षान्तं दान्तं जितेन्द्रियम्। विनाऽपराधेन यतः पुत्रं हिंसितवान् मम॥ तस्माच्छकविनाशाय वृत्रमुत्पादयाम्यहम्। लोकाः पश्यन्तु मे वीर्यं तपसश्च बलं महत्॥ स च पश्यतु देवेन्द्रो दुरात्मा पापचेतनः। उपस्पृश्य ततः क्रुद्धस्तपस्वी सुमहायशाः॥ अग्नौ हुत्वा समुत्पाद्य घोरं वृत्रमुवाच ह। इन्द्रशत्रो विवर्धस्व प्रभावात् तपसो मम॥ सोऽवर्धत दिवं स्तब्वा सूर्यवैश्वानरोपमः। किं करोमीति चोवाच कालसूर्य इवोदितः॥ शक्रं जहीति चाप्युक्तो जगाम त्रिदिवं ततः। ततो युद्धं समभवद् वृत्रवासवयोर्महत्॥ संक्रुद्धयोर्महाघोरं प्रसक्तं कुरुसत्तम। ततो जग्राह देवेन्द्रं वृत्रो वीरः शतक्रतुम्॥ अपावृत्याक्षिपद् वक्त्रे शक्रं कोपसमन्वितः। ग्रस्ते वृत्रेण शक्रे तु सम्भ्रान्तास्त्रिदिवेश्वराः॥ असृजस्ते महासत्त्वा जृम्भिकां वृत्रनाशिनीम्। विजृम्भमाणस्य ततो वृत्रस्यास्यादपावृतात्॥ स्वान्यङ्गान्यभिसंक्षिप्य निष्क्रान्तो बलनाशनः। ततः प्रभृति लोकस्य जृम्भिका प्राणसंश्रिता॥ जहषुश्च सुराः सर्वे शक्रं दृष्ट्वा विनिःसृतम्। ततः प्रववृते युद्धं वृत्रवासवयोः पुनः॥ संरब्धयोस्तदा घोरं सुचिरं भरतर्षभ। यदा व्यवर्धत रणे वृत्रो बलसमन्वितः॥ त्वष्टस्तेजोबलाविद्धस्तदा शक्रो न्यवर्तत। निवृत्ते च तदा देवा विषादमगमन् परम्॥ समेत्य सह शक्रेण त्वष्टस्तेजोविमोहिताः। अमन्त्रयन्त ते सर्वे मुनिभिः सह भारत॥ किं कार्यमिति वै राजन् विचिन्त्य भयमोहिताः। जग्मुः सर्वे महात्मानं मनोभिर्विष्णुमव्ययम्। उपविष्टा मन्दराग्नेये सर्वे वृत्रवधेप्सवः॥ इन्द्र उवाच सर्वं व्याप्तमिदं देवा वृत्रेण जगदव्ययम्। न ह्यस्य सदृशं किंचित् प्रतिघाताय यद् भवेत्॥ समर्थो ह्यभवं पूर्वमसमर्थोऽस्मि साम्प्रतम्। कथं नु कार्यं भद्रं वो दुर्धर्षः स हि मे मतः॥ तेजस्वी च महात्मा च युद्धे चामितविक्रमः। ग्रसेत् त्रिभुवन् सर्वं सदेवासुरमानुषम्॥ तस्माद् विनिश्चयमिमं शृणुध्वं त्रिदिवौकसः। विष्णोः क्षयमुपागम्य समेत्य च महात्मना। तेन सम्मन्त्र्य वेत्स्यामो वधोपायं दुरात्मनः॥ शल्य उवाच एवमुक्ते मघवता देवाः सर्षिगणास्तदा। शरण्यं शरणं देवं जग्मुर्विष्णुं महाबलम्॥ ऊचुश्च सर्वे देवेशं विष्णुं वृत्रभयार्दिताः। त्रयो लोकास्त्वया क्रान्तास्त्रिभिर्विक्रमणैः पुरा॥ अमृतं चाहृतं विष्णो दैत्याच निहता रणे। बलिं बद्ध्वा महादैत्यं शक्रो देवाधिपः कृतः॥ त्वं प्रभुः सर्वदेवानां त्वया सर्वमिदं ततम्। त्वं हि देवो महादेव सर्वलोकनमस्कृतः॥ गतिर्भव त्वं देवानां सेन्द्राणाममरोत्तम। जगद् व्याप्तमिदं सर्वं वृत्रेणासुरसूदन॥ विष्णुरुवाच अवश्यं करणीयं मे भवतां हितमुत्तमम्। तस्मादुपायं वक्ष्यामि यथाऽसौ न भविष्यति॥ गच्छध्वं सर्षिगन्धर्वा यत्रासौ विश्वरूपधृक्। साम तस्य प्रयुञ्जध्वं तत एनं विजेष्यथ॥ भविष्यति जयो देवाः शक्रस्य मम तेजसा। अदृश्यश्च प्रवेक्ष्यामि वज्रे ह्यस्यायुधोत्तमे॥ गच्छध्वमृषिभिः सार्धं गन्धर्वैश्च सुरोत्तमाः। वृत्रस्य सह शक्रेण सन्धिं कुरुत मा चिरम्॥ शल्य उवाच एवमुक्ते तु देवेन ऋषयस्त्रिदशास्तथा। ययुः समेत्य सहिताः शक्रं कृत्वा पुरःसरम्॥ समीपमेत्य च यदा सर्व एव महौजसः। तं तेजसा प्रज्वलितं प्रतपन्तं दिशो दश॥ ग्रसन्तमिव लोकांस्त्रीन् सूर्याचन्द्रमसौ यथा। ददृशुस्ते ततो वृत्रं शक्रेण सह देवताः॥ ऋषयोऽथ ततोऽभ्येत्य वृत्रमूचुः प्रियं वचः। व्याप्तं जगदिदं सर्वं तेजसा तव दुर्जय॥ अ च शक्नोषि निर्जेतुं वासवं बलिनां वर। युध्यतोश्चापि वां कालो व्यतीतः सुमहानिह॥ पीड्यन्ते च प्रजाः सर्वाः सदेवासुरमानुषाः। सख्यं भवतु ते वृत्र शक्रेण सह नित्यदा॥ अवाप्स्यसि सुखं त्वं च शक्रलोकांश्च शाश्वतान्। ऋषिवाक्यं निशम्याथ वृत्रः स तु महाबलः॥ उवाच तानृषीन् सर्वान् प्रणम्य शिरसाऽसुरः। सर्वे यूयं महाभागा गन्धर्वाश्चैव सर्वशः॥ यद् बूथ तच्छतं सर्वं ममापि शृणुतानघाः। संधिः कथं वै भविता मम शक्रस्य चोभयोः। तेजसोहि द्वयोर्देवाः सख्यं वै भविता कथम्॥ ऋषय ऊचुः सकृत् सतां संगतं लिप्सितव्यं ततः परं भविता भव्यमेव। नातिकामेत् सत्पुरुषेण संगतं तस्मात् सतां संगत् लिप्सितव्यम्॥ दृढं सतां संगतं चापि नित्यं ब्रूयाच्चा) ह्यर्थकृच्छ्रेषु धीरः। महार्थवत् सत्पुरुषेण संगतं तस्मात् सन्तं न जिघांसेत धीरः॥ इन्द्रः सतां सम्मतश्च निवासश्च महात्मनाम्। सत्यवादी ह्यनिन्द्यश्च धर्मवित् सूक्ष्मनिश्चयः॥ तेन ते सह शक्रेण संधिर्भवतु नित्यदा। एवं विश्वासमागच्छ मा तेऽभूद् बुद्धिरन्यथा।॥ शल्य उवाच महर्षिवचनं श्रुत्वा तानुवाच महाद्युतिः। अवश्यं भगवन्तो मे माननीयास्तपस्विनः॥ ब्रवीमि यदहं देवास्तत् सर्वं क्रियते यदि। ततः सर्वं करिष्यामि यदूचुर्मी द्विजर्षभाः॥ न शुष्केण न चाद्रेण नाश्मना न च दारुणा। न शस्त्रेण न चास्त्रेण न दिवा न तथा निशि॥ वध्यो भवेयं विप्रेन्द्राः शक्रस्य सह दैवतैः। एवं मे रोचते सन्धिः शक्रेण सह नित्यदा।॥ बाढमित्येव ऋषयस्तमूचुर्भरतर्षभ। एवंवृत्ते तु संधाने वृत्रः प्रमुदितोऽभवत्॥ युक्तः सदाभवच्चापि शक्रो हर्षसमन्वितः। वृत्रस्य वधसंयुक्तानुपायानन्वचिन्तयत्॥ छिद्रान्वेषी समुद्विग्नः सदा वसति देवराट्। स कदाचित् समुद्रान्ते समपश्यन्महासुरम्॥ संध्याकालं उपावृत्ते मुहुर्ते चातिदारुणे। ततः संचिन्त्य भगवान् वरदानं महात्मनः॥ संध्येयं वर्तते रौद्रा ना रात्रिर्दिवसं न च। वृत्रश्चावश्यवध्योऽयं मम सर्वहरो रिपुः॥ यदि वृत्रं न हम्यद्य वञ्चयित्वा महासुरम्। महाबलं महाकायं न मे श्रेयो भविष्यति॥ एवं संचिन्तयन्नेव शक्रो विष्णुमनुस्मरन्। अथ फेनं तदाऽपश्यत् समुद्रे पर्वतोपमम्॥ नायं शुष्को न चाद्रोऽयं न च शस्त्रमिदं तथा। एनं क्षेप्स्यामि वृत्रस्य क्षणादेव नशिष्यति॥ सवज्रमथ फेनं तं क्षिप्रं वृत्रे निसृष्टवान्। प्रविश्य फेन तं विष्णुरथ वृत्रं व्यनाशयत्॥ निहते तु ततो वृत्रे दिशो वितिमिराऽभवन्। प्रववौ च शिवो वायुः प्रजाश्च जहषुस्तथा॥ ततो देवाः सगन्धर्वा यक्षरक्षोमहोरगाः। ऋषयश्च महेन्द्रं तमस्तुवन् विविधैः स्तवैः॥ नमस्कृतः सर्वभूतैः सर्वभूता सान्त्वयत्। हत्वा शत्रु प्रहृष्टात्मा वासवः सह दैवतैः॥ विष्णुं त्रिभुवनश्रेष्ठं पूजयामास धर्मवित्। ततो हते महावीर्ये वृत्रे देवभयंकरे॥ अनृतेनाभिभूतोऽभूच्छक्रः परमदुर्मनाः। त्रैशीर्षयाभिभूतश्च स पूर्वं ब्रह्महत्यया॥ सोऽन्तमाश्रित्य लोकानां नष्टसंज्ञो विचेतनः। न प्राज्ञायत देवेन्द्रस्त्वभिभूतः स्वकल्मषैः॥ प्रतिच्छन्नोऽवसच्चाप्सु चेष्टमान इवोरगः। ततः प्रनष्टे देवेन्द्रे ब्रह्महत्याभयादिते॥ भूमिः प्रध्वस्तसंकाशा निर्वृक्षा शुष्ककानना। विच्छिन्नस्रोतसो नद्यः सरांस्यनुदकानि च।॥ संक्षोभश्चापि सत्त्वानामनावृष्टिकृतोऽभवत्। देवाश्चापि भृशं त्रस्तास्तथा सर्वे महर्षयः॥ अराजकं जगत् सर्वमभिभूतमुपद्रवैः। ततो भीताऽभवन् देवाः को नो राजा भरेदिति॥ दिवि देवर्षयश्चापि देवराजविनाकृताः। न स्म कश्चन देवानां राज्ये वै कुरुते मतिम्॥ शल्य उवाच ऋषयोऽथाब्रुवन् सर्वे देवाश्च त्रिदिवेश्वराः। अयं वै नहुष: श्रीमान् देवराज्येऽभिषिच्यताम्॥ तेजस्वी च यशस्वी च धार्मिकश्चैव नित्यदा। ते गत्वा त्वब्रुवन् सर्वे राजा नो भव पार्थिव॥ स तानुवाच नहुषो देवानृषिगणंस्तथा। पितृभिः सहितान् राजन् परीप्सन हितमात्मनः॥ दुर्बलोऽहं न मे शक्तिर्भवतां परिपालने। बलवाञ्जायते राजा बलं शक्रे हि नित्यदा॥ तमब्रुवन् पुनः सर्वे देवा ऋषिपुरोगमाः। अस्माकं तपसा युक्तः पाहि राज्यं त्रिविष्टपे॥ परस्परभयं घोरमस्माकं हि न संशयः। अभिषिच्यस्व राजेन्द्र भव राजा त्रिविष्टपे॥ देवदानवयक्षाणामृषीणां रक्षसां तथा। पितृगन्धर्वभूतानां चक्षुर्विषयवर्तिनाम्॥ तेज आदास्यसे पश्यन् बलवांश्च भविष्यसि। धर्म पुरस्कृत्य सदा सर्वलोकाधिपो भव॥ ब्रह्मर्षीश्चापि देवांश्च गोपायस्व त्रिविष्टपे। अभिषिक्तः स राजेन्द्र ततो राजा त्रिविष्टपे॥ धर्मं पुरस्कृत्य तदा सर्वलोकाधिपोऽभवत्। सुदुर्लभं वरं लब्ध्वा प्राप्य राज्यं त्रिविष्टपे॥ धर्मात्मा सततं भूत्वा कामात्मा समपद्यत। देवोद्यानेषु सर्वेषु नन्दनोपवनेषु च॥ कैलासे हिमवत्पृष्ठे मन्दरे श्वेतपर्वते। सह्ये महेन्द्र मलये समुद्रेषु सरित्सु च॥ अप्सरोभिः परिवृतो देवकन्यासमावृतः। नहुषो देवराजोऽथ क्रीडन् बहुविधं तदा॥ शृण्वन् दिव्या बहुविधाः कथाः श्रुतिमनोहराः। वादित्राणि च सर्वाणि गीतं च मधुरस्वनम्॥ विश्वावसुर्नारदश्च गन्धर्वाप्सरसां गणाः। ऋतवः षट् च देवेन्द्रं मूर्तिमन्त उपस्थिताः॥ मारुतः सुरभिर्वाति मनोज्ञः सुखशीतलः। एवं च क्रीडतस्तस्य नहुषस्य दुरात्मनः॥ सम्प्राप्ता दर्शनं देवी शक्रस्य महिषी प्रिया। स तां संदृश्य दुष्टात्मा प्राह सर्वान् सभासदः॥ इन्द्रस्य महिषी देवी कस्मान्मां नोपतिष्ठति। अहमिन्द्रोऽस्मि देवानां लोकानां च तथेश्वरः॥ आगच्छतु शची मह्यं क्षिप्रमद्य निवेशनम्। तच्छ्रुत्वा दुर्मना देवी बृहस्पतिमुवाच ह॥ रक्ष मां नहुषाद् ब्रह्मंस्त्वामस्मि शरणं गता। सर्वलक्षणसम्पन्नां ब्रह्मंस्त्वं मां प्रभाषसे॥ देवराजस्य दयितामत्यन्तं सुखभागिनीम्। अवैधव्येन युक्तां चाप्येकपत्नी पतिव्रताम्॥ उक्तवानसि मां पूर्वमृतां तां कुरु वै गिरम्। नोक्तपूर्वं च भगवन् वृथा ते किंचिदीश्वर॥ तस्मादेतद् भवेत् सत्यं त्वयोक्तं द्विजसत्तम। बृहस्पतिरथोवाच शक्राणी भयमोहिताम्॥ यदुक्ताऽसि मया देवि सत्यं ध्रुवम्। तद् भविता द्रक्ष्यसे देवराजानमिन्द्रं शीघ्रमिहागतम्॥ न भेतव्यं च नहुषात् सत्यमेतद् ब्रवीमि ते। समानयिष्ये शक्रेण न चिराद् भवतीमहम्॥ अथ शुश्राव नहुषः शक्राणी शरणं गताम्। बृहस्पतेरङ्गिरसचक्रोध स नृपस्तदा॥ शल्य उवाच क्रुद्धं तु नहुषं दृष्ट्वा देवा ऋषिपुरोगमाः। अब्रुवन् देवराजानां नहुषं घोरदर्शनम्॥ देवराज जहि क्रोधं त्वयि क्रुद्धे जगद् विभो। त्रस्तं सासुरगन्धर्वं सकिन्नरमहोरगम्॥ जहि क्रोधमिमं साधो न कुप्यन्ति भवधिधाः। परस्य पत्नी सा देवी प्रसीदस्व सुरेश्वर॥ निवर्तय मनः पापात् परदाराभिमर्शनात्। देवराजोऽसि भद्रं ते प्रजा धर्मेण पालय॥ एवमुक्तो न जग्राह तद्वचः काममोहितः। अथ देवानुवाचेदमिन्द्रं प्रति सुराधिपः॥ अहल्या थर्षिता पूर्वमृषिपत्नी यशस्विनी। जीवतो भर्तुरिन्द्रेण स वः किं न निवारितः॥ बहूनि च नृशंसानि कृतानीन्द्रेण वै पुरा। वैधाण्युपधाश्चैव स वः किं न निवारितः॥ उपतिष्ठतु देवी पामेतदस्या हितं परम्। युष्याकं च सदा देवाः शिवमेवं भविष्यति॥ देवा ऊचुः इन्द्राणीमानयिष्यामो यथेच्छसि दिवस्पते। जहि क्रोधमिमं वीर प्रीतो भव सुरेश्वर॥ शल्य उवाच इत्युक्त्वा तं तदा देवा ऋषिभिः सह भारत। जग्मुर्ब्रहस्पतिं वक्तुमिन्द्राणीं चाशुभं वचः॥ जानीमः शरण प्राप्तामिन्द्राणीं तव वेश्मनि। दत्ताभयां च विप्रेन्द्र त्वया देवर्षिसत्तम॥ ते त्वां देवाः सगन्धर्वा ऋषयश्च महाद्युते। प्रसादयन्ति चेन्द्राणी नहुषाय प्रदीयताम्॥ इन्द्रादं विशिष्टो नहुषो देवराजो महाद्युतिः। वृणोत्विमं वरारोहा भर्तृत्वे वरवर्णिनी॥ एवमुक्ते तु सा देवी बाष्पमुत्सृज्य सस्वनम्। उवाच रुदती दीना बृहस्पतिमिदं वचः॥ नाहमिच्छामि नहुषं पतिं देवर्षिसत्तम। शरणागतास्मि ते ब्रह्मस्त्रायस्व महतो भयात्॥ बृहस्पतिरुवाच शरणागतं न त्यजेयमिद्राणि मम निश्चयः। धर्मज्ञां सत्यशीलां च न त्यजेयमनिन्दिते॥ नाकार्यं कर्तुमिच्छामि ब्राह्मणः सन् विशेषतः। श्रुतधर्मा सत्यशीलो जानन् धर्मानुशासनम्॥ नाहमेतत् करिष्यामि गच्छध्वं वै सुरोत्तमाः। अस्मिंश्चार्थं पुरा गीतं ब्रह्मणा श्रुयतामिदम्॥ न तस्य बीजं रोहति रोहकाले न तस्य वर्ष वर्षति वर्षकाले। भीतं प्रपन्नं प्रददति शत्रवे न स त्रातारं लभते त्राणमिच्छन्॥ मोघमन्नं विन्दति चाप्यचेताः स्वर्गाल्लोकाद् भ्रश्यति नष्टचेष्टः। भीतं प्रपन्नं प्रददाति यो वै न तस्य हव्यं प्रगतिगृह्णन्ति देवाः॥ प्रमीयते चास्य प्रजा ह्यकाले सदाविवासं पितरोऽस्य कुर्वते। भीतं प्रपन्नं प्रददाति शत्रवे सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम्॥ एतदेवं विजानन् वै न दास्यामि शचीमिमाम्। इन्द्राणी विश्रुतां लोके शक्रस्य महिषीं प्रियाम्॥ अस्या हितं भवेद् यच्च मम चापि हितं भवेत्। क्रियातां तत् सुरश्रेष्ठा नहि दास्याम्यहं शचीम्॥ शल्य उवाच अथ देवाः सगन्धर्वा गुरुमाहुरिदं वचः। कथं सुनीतं नु भवेन्मन्त्रयस्व बृहस्पते॥ बृहस्पतिरुवाच नहुषं याचतां देवी किंचित् कालान्तरं शुभा। इन्द्राणी हितमेतद्वि तथाऽस्माकं भविष्यति॥ बहुविनः सुराः कालः कालः कालं नयिष्यति। गर्वितो बलवांश्चापि नहुषो वरसंश्रयात्॥ शल्य उवाच ततस्तेन तथोक्ते तु प्रीता देवास्तथाऽब्रुवन्। ब्रह्मन् साध्विदमुक्तं ते हितं सर्वदिवौकसाम्॥ एवमेतद् द्विजश्रेष्ठ देवी चेयं प्रसाद्यताम्। ततः समस्ता इन्द्राणी देवाश्चाग्निपुरोगमाः। ऊचुर्वचनमव्यग्रा लोकानां हितकाम्यया॥ देवा ऊचुः त्वया जगदिदं सर्वं धृतं स्थावजङ्गमम्। एकपल्यसि सत्या च गच्छस्व नहुषं प्रति॥ क्षिप्रं त्वामभिकामश्च विनशिष्यति पापकृत्। नहुषो देवि शक्रश्च सुरेश्वर्यमवाप्स्यति॥ एवं विनिश्चयं कृत्वा इन्द्राणी कार्यसिद्धये। अभ्यगच्छत सव्रीडा नहुषं घोरदर्शनम्॥ दृष्ट्वा तां नहुषश्चापि वयोरूपसमन्विताम्। समहष्यत दुष्टात्मा कामोपहतचेतनः॥ शल्य उवाच अथैनां रूपिणि साध्वीमुपातिष्ठदुपश्रुतिः। तां वयोरूपसम्पन्नां दृष्ट्वा देवीमुपस्थिताम्॥ इन्द्राणी सम्प्रहृष्टात्मा सम्पूज्यनामथाब्रवीत्। इच्छामि त्वामहं ज्ञातुं का त्वं ब्रूहि वरानने॥ उपश्रुतिरुवाच उपश्रुतिरहं देवि तवान्तिकमुपागता। दर्शनं चैव सम्प्राप्ता तव सत्येन भाविनि॥ पतिव्रता च युक्ता च यमेन नियमेन च। दर्शयिष्यामि ते शक्रं देवं वृत्रनिषूदनम्॥ क्षिप्रमन्वेहि भद्रं ते द्रक्ष्यसे सुरसत्तमम्। ततस्तां प्रहितां देवीमिन्द्राणी सा समन्वगात्॥ देवारण्यान्यतिक्रम्य पर्वतांश्च बहूंस्ततः। हिमवन्तमतिक्रम्य उत्तरं पार्श्वमागमत्॥ समुद्रं च समासाद्य बहुयोजनविस्तृतम्। आससाद महाद्वीपं नानादुमलतावृतम्॥ तत्रापश्यत् सरो दिव्यं नानाशकुनिभिर्वृतम्। शतयोजनविस्तीर्णं तावदेवायतं शुभम्॥ तत्र दिव्यानि पद्मानि पञ्चवर्णानि भारत। षट्पदैरुपगीतानि प्रफुल्लानि सहस्रशः॥ सरसस्तस्य मध्ये तु पद्मिनी महती शुभा। गौरेणोन्नतनालेन पद्मेन महता वृता॥ पद्मस्य भित्त्वा नालं च विवेश सहिता तया। विसतन्तुप्रविष्टं च तत्रापश्यच्छतक्रतुम्॥ तं दृष्ट्वा च सुसूक्ष्मेण रूपेणावस्थितं प्रभुम्। सूक्ष्मरूपधरा देवी बभूवोपश्रुतिश्च सा॥ इन्द्रं तुष्टाव चेन्द्राणी विश्रुतैः पूर्वकर्मभिः। स्तूयमानस्ततो देवः शचीमाह पुरन्दरः॥ किमर्थमसि सम्प्राप्ता विज्ञातश्च कथं त्वहम्। ततः सा कथयामास नहुषस्य विचेष्टितम्॥ इन्द्रत्वं त्रिषु लोकेषु प्राप्य वीर्यसमन्वितः। दाविष्टश्च दुष्टात्मा मामुवाच शतक्रतो॥ उपतिष्ठेति स. क्रूरः कालं च कृतवान् मम। यदि न त्रास्यसि विभो करिष्यति स मां वशे॥ एतेन चाहं सम्प्राप्ता द्रुतं शक्र तवान्तिकम्। जहि रौद्रं महाबाहो नहुषं पापनिश्चयम्॥ प्रकाशयात्मनाऽऽत्मानं दैत्यदानवसूदन। तेजः समाप्नुहि विभो देवराज्यं प्रशाधि च॥ बृहस्पतिरुवाच त्वमग्ने सर्वदेवानां मुखं त्वमसि हव्यवाट्। त्वमन्तः सर्वभूतानां गूढश्चरसि साक्षिवत्॥ त्वामाहुरेकं कवयस्त्वामाहुस्त्रिविधं पुनः। त्वया त्यक्तं जगच्चेदं सद्यो नश्येद्भुताशन॥ कृत्वा तुभ्यं नमो विप्राः स्वकर्मविजितां गतिम्। गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम्॥ त्वमेवाग्ने हव्यवाहस्त्वमेव परमं हविः। जयन्ति सत्रैस्त्वामेव यज्ञैश्च परमाध्वरे॥ सृष्ट्वा लोकांस्त्रीनिमान् हव्यवाह प्राप्ते काले पचसि पुनः समिद्धः। स्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा॥ त्वामग्ने जलदानाहुर्विद्युतश्च मनीषिणः। दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हेतयः॥ त्वय्यापो निहिताः सर्वास्त्वयि सर्वमिदं जगत्। न तेऽस्त्यविदितं किंचित् त्रिषु लोकेषु पावक॥ स्वयोनि भजते सर्वो विशस्वापोऽविशङ्कितः। अहं त्वां वर्धयिष्यामि ब्राझैर्मन्त्रैः सनातनैः॥ एवं स्तुतो हव्यवाट् स भगवान् कविरुत्तमः। बृहस्पतिमथोवाच प्रीतिमान् वाक्यमुत्तमम्। दर्शयिष्यामि ते शक्रं सत्यमेतद् ब्रवीमि ते॥ शल्य उवाच प्रविश्यापस्ततो वह्निः ससमुद्राः सपल्वलाः। आससाद सरस्तच्च गूढो यत्र शतक्रतुः॥ अथ तत्रापि पद्मानि विचिन्वन् भरतर्षभ। अपश्यत् स तु देवेन्द्र बिसमध्यगतं स्थितम्॥ आगत्य च ततस्तूर्णं तमाचष्ट बृहस्पतेः। अणुमात्रेण वपुषा पद्मतन्त्वाश्रितं प्रभुम्॥ गत्वा देवर्षिगन्धर्वैः सहितोऽथ बृहस्पतिः। पुराणैः कर्मभिर्देवं तुष्टाव बलसूदनम्॥ महासुरे हतः शक्र नमुचिर्दारुणस्त्वया। शम्बरच बलश्चैव तथोभौ घोरविक्रमौ॥ शथक्रतो विवर्धस्व सर्वाञ्छत्रुन् निषूदय। उत्तिष्ठ शक्र सम्पश्य देवर्षीश्च समागतान्॥ महेन्द्र दानवान् हत्वा लोकास्त्रातास्त्वया विभो। अपां फेन समासाद्य विष्णुतेजोऽतिबृंहितम्। त्वया वृत्रो हतः पूर्वं देवराज जगत्पते॥ स्त्वया समं विद्यते नेह भूतम्। त्वया धार्यन्ते सर्वभूतानि शक्त त्वं देवानां महिमानं चकर्थ॥ पाहि सर्वांश्च लोकांश्च महेन्द्र बलमाप्नुहि। एवं संस्तूयमानश्च सोऽवर्धत शनैः शनैः॥ स्वं चैव वपुरास्थाय बभूव स बलान्वितः। अब्रवीच्च गुरुं देवो बृहस्पतिमवस्थितम्॥ किं कार्यमवशिष्टं वो हतस्त्वाष्ट्रो महासुरः। वृत्रश्च सुमहाकायो यो वै लोकाननाशयत्॥ बृहस्पतिरुवाच मानुषो नहुषो राजा देवर्षिगणतेजसा। देवराज्यमनुप्राप्तः सर्वान् नो बाधते भृशम्॥ कथं च नहुषो राज्यं देवानां प्राप दुर्लभम्। तपसा केन वा युक्तः किंवीर्यो वा बृहस्पते।॥ बृहस्पतिरुवाच देवा भीताः शक्रमकामयन्त त्वया त्यक्तं महदैन्द्रं पदं तत्। तदा देवाः पितरोऽथर्षयश्च गन्धर्वमुख्याश्च समेत्य सर्वे॥ गत्वाब्रुवन् नहुषं तत्र शक्र त्वं नो राजा भव भुवनस्य गोप्ता। तानब्रवीनहुषो नास्मि शक्त आप्यायध्वं तपसा तेजसा माम्॥ एवमुक्तैर्वर्धितश्चापि देव राजाभवन्नहुषो घोरवीर्यः। त्रैलोक्ये च प्राप्य राज्य महर्षीन् कृत्वा वाहान् याति लोकान् दुरात्मा॥ तेजोहरं दृष्टिविषं सुधोरं मा त्वं पश्येर्नहुषं वै कदाचित्। देवाश्च सर्वे नहुषं भृशार्ता न पश्यन्ते गूढरूपाश्चरन्तः॥ शल्य उवाच एवं वदत्यङ्गिरसां वरिष्ठे बृहस्पतौ लोकपालः कुबेरः। वैवस्वतश्चैव यमः पुराणो देवश्च सोमो वरुणचाजगाम॥ दिष्ट्या त्वाष्ट्रो निहतश्चैव वृत्रः। दिष्ट्या च त्वां कुशलिनमक्षतं च पश्यामो वै निहतारिं च शक्र।।२८।' स तान् यथावच्च हि लोकपालान् समेत्य वै प्रीतमना महेन्द्रः। उवाच चैनान प्रतिभाष्य शक्रः संचोदयिष्यन्नहुषस्यान्तरेण॥ स्तत्र साह्यं दीयतां मे भवद्भिः। ते चाब्रुवन् नहुष घोररूपो दृष्टीविषस्तस्य विभीम ईश॥ स्ततो वयं भागमर्हाम शक्र। र्यमः कुबेरच मयाऽभिषेकम्॥ सम्प्राप्नुवन्त्वद्य सहैव दैवतै रिपुं जयाम तं नहुषं घोरदृष्टिम्। ततः शक्रं ज्वलनोऽप्याह भागं प्रयच्छ मह्यं तव साह्यं करिष्ये। तमाह शक्रो भविताग्ने तवापि चेन्द्राग्न्योर्वे भाग एको महाक्रतौ॥ शल्य उवाच एवं संचिन्त्य भगवान् महेन्द्रः पाकशासनः। कुबेरं सर्वयक्षाणां धनानां च प्रभुं तथा॥ वैवस्वतं पितृणां च वरुणं चाप्यपां तथा। आधिपत्यं ददौ शक्रः संचिन्त्य वरदस्तथा॥ शल्य उवाच अथ संचिन्तयानस्य देवराजस्य धीमतः। नहुषस्य वधोपायं लोकपालैः सदैवतैः॥ तपस्वी तत्र भगवानगस्त्यः प्रत्यदृश्यत। सोऽब्रवीदर्घ्य देवेन्द्रं दिष्ट्या वै वर्धते भवान्॥ विश्वरूपविनाशेन वृत्रासुरवधेन च। दिष्ट्याद्य नहुषो भ्रष्टो देवराज्यात् पुरंदर। दिष्ट्या हतारिं पश्यामि भवन्तं बलसूदन॥ इन्द्र उवाच स्वागतं ते महर्षेऽस्तु प्रीतोऽहं दर्शनात् तव। पाद्यमाचमनीयं च गामर्थ्य च प्रतीच्छ मे॥ शल्य उवाच पूजितं चोपविष्टं तमासने मुनिसत्तमम्। पर्यपृच्छत देवेशः प्रहृष्टो ब्राह्मणर्षमम्॥ एतदिच्छामि भगवन् कथ्यमानं द्विजोत्तम। परिभ्रष्टः कथं स्वर्गान्नहुषः पापनिश्चयः॥ अगस्त्य उवाच शृणु शक्र प्रियं वाक्यं यथा राजा दुरात्मवान्। स्वर्गाद् भ्रष्टो दुराचारो नहुषो बलदर्पितः॥ श्रमाश्चि वहन्तस्तं नहुषं पापकारिणम्। देवर्षयो महाभागास्तथा ब्रह्मर्षयोऽमला:॥ पप्रच्छुर्नहुषं देव संशयं जयतां वर। य इमे ब्रह्मणा प्रोक्ता मन्त्रा वै प्रोक्षणे गवाम्॥ एते प्रमाणं भवत उताहो नेति वासव। नहुषो नेति तानाह तमसा मूढचेतनः॥ ऋषय ऊचुः अधर्मे सम्प्रवृत्तस्त्वं धर्मं न प्रतिपद्यसे। प्रमाणमेतदस्माकं पूर्वं प्रोक्तं महर्षिभिः॥ अगस्त्य उवाच ततो विवदमानः स मुनिभिः सह वासव। अथ मामस्पृशन्मूर्ध्नि पादेनाधर्मपीडितः॥ तेनाभूद्धततेजाश्च नि:श्रीकश्च महीपतिः। ततस्तं तमसाऽऽविग्नमवोचं भृशपीडितम्॥ यस्मात् पूर्वैः कृतं राजन् ब्रह्मर्षिभिरनुष्ठितम्। अदुष्टं दूषयसि मे यच्च मूर्ध्यस्पृशः पदा॥ यच्चापि त्वमृषीन् मूढ ब्रह्मकल्पान् दुरासदान्॥ वाहान् कृत्वा वाहयसि तेन स्वर्गाद्धतप्रभः। ध्वसं पाप परिभ्रष्टः क्षीणपुण्यो महीतले॥ दशवर्षसहस्राणि सर्परूपधरो महान्। विचरिष्यसि पूर्णेषु पुनः स्वर्गमवाप्स्यसि॥ एवं भ्रष्टो दुरात्मा स देवराज्यादरिंदम। दिष्ट्या वर्धामहे शक्र हतो ब्राह्मणकण्टकः॥ त्रिविष्टपं प्रपद्यस्व पाहि लोकाञ्छचीपते। जितेन्द्रियो जितामित्रः स्तयूमानो महर्षिभिः॥ शल्य उवाच ततो देवा भृशं तुष्टा महर्षिगणसंवृताः। पितरश्चैव यक्षाच भुजगा राक्षसास्तथा॥ गन्धर्वा देवकन्याच सर्वे चाप्सरसां गणाः। सरांसि सरितः शैलाः सागराश्च विशाम्पते॥ उपागम्याब्रुवन् सर्वे दिष्ट्या वर्धसि शत्रुहन्। हतश्च नहुषः पापो दिष्ट्यागस्त्येन धीमता। दिष्ट्या पापसमाचारः कृतः सर्पो महीतले॥ वैशम्पायन उवाच युयुधानस्ततो वीरः सात्वतानां महारथः। महता चतुरङ्गेण बलेनागाद् युधिष्ठिरम्॥ तस्य योधा महावीर्या नानादेशसमागताः। नानाप्रहरणा वीराः शोभयाञ्चक्रिरे बलम्॥ परश्वधैर्भिन्दिपालैः शूलतोमरमुद्गरैः। परिधैर्यष्टिभिः पाशैः करवालैश्च निर्मलैः॥ खगकार्मुकनियूँहैः शरैश्च विविधैरपि। तैलधौतैः प्रकाशद्भिसदाऽशोभत वै बलम्॥ तस्य मेघप्रकाशस्य सौवर्णैः शोभितस्य च। बभूव रूपं सैन्यस्य मेघस्येव सविद्युतः॥ अक्षौहिणी तु सा सेना तदा यौधिष्ठिरं बलम्। प्रविश्यान्तर्दधे राजन् सागरं कुनदी यथा॥ तथैवाक्षौहिणी गृह्य चेदीनामृषभो बली। धृष्टकेतुरुपागच्छत् पाण्डवानमितौजसः॥ मागधश्च जयत्सेनो जारासन्धिर्महाबलः। अक्षौहिण्यैव सैन्यस्य धर्मराजमुपागमत्॥ तथैव पाण्ड्यो राजेन्द्र सागरानूपवासिभिः। वृतो बहुविधैर्योधैर्युधिष्ठिरमुपागमत्॥ तस्य सैन्यमतीवासीत् तस्मिन् बलसमागमे। प्रेक्षणीयतरं राजन् सुवेषं बलवत् तदा॥ दुपदस्याप्यभूत् सेना नानादेशसमागतैः। शोभिता पुरुषैः शूरैः पुत्रैश्चास्य महारथैः॥ तथैव राजा मत्स्यानां विराटो वाहिनीपतिः। पर्वतीयैर्महीपालैः सहितः पाण्डवानियात्॥ इतश्चेतश्च पाण्डूनां समाजग्मुर्महात्मनाम्। अक्षौहिण्यस्तु सप्तैता विविधध्वजसंकुलाः॥ युयुत्समानाः कुरुभिः पाण्डवान् समहर्षयन्। तथैव धार्तराष्ट्रस्य हर्षं समभिवर्धयन्॥ भगदत्तो महीपालः सेनामक्षौहिणीं ददौ। तस्य चीनैः किरातैश्च काञ्चनैरिव संवृतम्॥ बभौ बलमनाधृष्यं कर्णिकारवनं यथा। तथा भूरिश्रवाः शूरः शल्यश्च कुरुनन्दन॥ दुर्योधनमुपायातावक्षौहिण्या पृथक् पृथक्। कृतवर्मा च हार्दिक्यो भोजान्धकुकुरैः सह॥ अक्षौहिण्यैव सेनाया दुर्योधनमुपागमत्। तस्य तैः पुरुषव्याप्रैर्वनमालाधरैर्बलम्॥ अशोभत यथा मत्तैर्वनं प्रक्रीडितैर्गजैः। जयद्रथमुखाश्चान्ये सिन्धुसौवीरवासिनः॥ आजग्मुः पृथिवीपालाः कम्पयन्त इवाचलान्। तेषामक्षौहिणी सेना बहुला विबभौ तदा॥ विधूयमानो वातेन बहुरूप इवाम्बुदः। सुदक्षिणश्च काम्बोजो यवनैश्च शकैस्तथा॥ उपाजगाम कौरव्यमक्षौहिण्या विशाम्पते। तस्य सेनासमावायः शलभानामिवाबभौ॥ स च सम्प्राप्य कौरव्यं तत्रैवान्तर्दधे तदा। तथा माहिष्मतीवासी नीलो नीलायुधैः सह॥ महीपालो महावीर्यैर्दक्षिणापथवासिभिः। आवन्त्यौ च महीपालौ महाबलसुसंवृतौ॥ पृथगक्षौहिणीभ्यां तावभियातौ सुयोधनम्। केकयाश्च नरव्याघ्राः सोदर्याः पञ्च पार्थिवाः॥ सहर्षयन्तः कौरव्यमक्षौहिण्या समाद्रवन्। ततस्ततस्तु सर्वेषां भूमिपानां महात्मनाम्॥ तिस्रोऽन्याः समवर्तन्त वाहिन्यो भरतर्षभ। एवमेकादशावृत्ताः सेना दुर्योधनस्य ताः॥ युयुत्समानाः कौन्तेयान् नानाध्वजसमाकुलाः। न हास्तिनपुरे राजन्नवकाशोऽभवत् तदा॥ राज्ञां स्वबलमुख्यानां प्राधान्येनापि भारत। ततः पञ्चनदं चैव कृत्स्नं च कुरुजाङ्गलम्॥ तथा रोहितकारण्य मरुभूमिश्च केवला। अहिच्छत्रं कालकूटं गङ्गाकूलं च भारत॥ वारणं वाटधानं च यामुनश्चैव पर्वतः। एष देश: सुविस्तीर्णः प्रभूतधनधान्यवान्॥ बभूव कौरवेयाणां बलेनातीव संवृतः। तत्र सैन्यं तथा युक्तं ददर्श स पुरोहितः॥ यः स पाञ्चालराजेन प्रेषितः कौरवान् प्रति॥ वैशम्पायन उवाच स च कौरव्यमासाद्य द्रुपदस्य पुरोहितः। सत्कृतो धृतराष्ट्रेण भीष्मेण विदुरेण च॥ सर्वं कौशल्यमुक्त्वाऽऽदौ पृष्ट्वा चैवमनामयम्। सर्वसेनाप्रणेतृणां मध्ये वाक्यमुवाच ह॥ सर्वैर्भवद्भिर्विदितो राजधर्मः सनातनः। वाक्योपादानहेतोस्तु वक्ष्यामि विदिते सति॥ धृतराष्ट्रश्च पाण्डुश्च सुतावेकस्य विश्रुतौ। तयोः समानं द्रविणं पैतृकं नात्र संशयः॥ धृतराष्ट्रस्य ये पुत्राः प्राप्तः तैः पैतृकं वसु। पाण्डुपुत्राः कथं नाम न प्राप्ताः पैतृकं वसु॥ एवंगते पाण्डवेयैर्विदितं वः पुरा यथा। न प्राप्तं पैतृकं द्रव्यं धृतराष्ट्रेण संवृतम्॥ प्राणान्तिकैरप्युपायैः प्रयतद्भिरनेकशः। शेषवन्तो न शकिता नेतुं वै यमसादनम्॥ पुनश्च वर्धितं राज्यं स्वबलेन महात्मभिः। छद्मनापहृतं क्षुदैर्धार्तराष्ट्रैः ससौबलैः॥ तदप्यनुमतं कर्म यथायुक्तमनेन वै। वासिताश्च महारण्ये वर्षाणीह त्रयोदश॥ सभायां क्लेशितैवीरैः सहभायैस्तथा भृशम्। अरण्येविविधा: क्लेशाः सम्प्राप्तास्तैः सुदारुणाः।।१० तथा विराटनगरे योन्यन्तरगतैरिव। प्राप्तः परमसंक्लेशो यथा पापैर्महात्मभिः॥ ते सर्वं पृष्ठतः कृत्वा तत् सर्वं पूर्वकिल्बिषम्। सामैव कुरुभिः सार्धमिच्छन्ति कुरुपुङ्गवाः॥ तेषां च वृत्तमाज्ञाय वृत्तं दुर्योधनस्य च। अनुनेतुमिहार्हन्ति धार्तराष्ट्र सुहृज्जनाः॥ न हि ते विग्रहं वीराः कुर्वन्ति कुरुभिः सह। अविनाशेन लोकस्य काइक्षन्ते पाण्डवाः स्वकम्॥१४। यश्चापि धार्तराष्ट्रस्य हेतुः स्याद् विग्रहं प्रति। स च हेतुर्न मन्तव्यो बलीयांसस्तथा हि ते॥ अक्षौहिण्यश्च सप्तैव धर्मपुत्रस्य संगताः। युयुत्समानाः कुरुभिः प्रतीक्षन्तेऽस्य शासनम्॥ अपरे पुरुषव्याघ्राः सहस्राक्षौहिणीसमाः। सात्यकिर्भीमसेनश्च यमौ च सुमहाबलौ॥ एकादशैताः पृतना एकतश्च समागताः। एकतश्च महाबाहुर्बहुरूपी धनंजयः॥ यथा किरीटी सर्वाभ्यः सेनाब्यो व्यतिरिच्यते। एवमेव महाबाहुर्वासुदेवो महाद्युतिः॥ बहुलत्वं च सेनानां विक्रमं च किरीटिनः। बुद्धिमत्त्वं च कृष्णस्य बुद्ध्वा युध्येत को नरः॥ ते भवन्तो यथाधर्मं यथासमयमेव च। प्रयच्छन्तु प्रदातव्यं मा व: कालोऽत्यगादयम्॥ वैशम्पायन उवाच तस्य तद् वचनं श्रुत्वा प्रज्ञावृद्धो महाद्युतिः। सम्पूज्यैनं यथाकालं भीष्मो वचनमब्रवीत्॥ दिष्ट्या कुशलिन: सर्वे सह दामोदरेण ते। दिष्ट्या सहायवन्तश्चदिष्ट्या धर्मे च ते रताः॥ दिष्ट्या च संधिकामास्ते भ्रातरः कुरुनन्दनाः। दिष्ट्या न युद्धमनसः पाण्डवाः सह बान्धवैः॥ भवता सत्यमुक्तं तु सर्वमेतन्न संशयः। अतितीक्ष्णं तु ते वाक्यं ब्राह्मण्यादिति मे मतिः॥ असंशयं क्लेशितास्ते वने चेह च पाण्डवाः। प्राप्ताश्च धर्मतः सर्वं पितुर्धनमसंशयम्॥ किरीटी बलवान् पार्थः कृतास्त्रश्च महारथः। को हि पाण्डुसुतं युद्धे विषहेत धनंजयम्॥ अपि वज्रधरः साक्षात् किमुतान्ये धनुर्भृतः। त्रयाणामपि लोकानां समर्थ इति मे मतिः॥ भीष्मे ब्रुवति तद् वाक्यं धृष्टमाक्षिप्य मन्युना। दुर्योधनं समालोक्य कर्णो वचनमब्रवीत्॥ न तत्राविदितं ब्रह्माल्लोके भूतेन केनचित्। पुनरुक्तेन किं तेन भाषितेन पुनः पुनः॥ दुर्योधनार्थं शकुनि ते निर्जितवान् पुरा। समयेन गतोऽरण्यं पाण्डुपुत्रो युधिष्ठिरः॥ स तं समयमाश्रित्य राज्यं नेच्छति पैतृकम्। बलमाश्रित्य मत्स्यानां पञ्चालानां च मूर्खवत्॥ दुर्योधनो भयाद् विद्वन् न दद्यात् पादमन्ततः। धर्मतस्तु महीं कृत्स्नां प्रदद्याच्छत्रवेऽपि च॥ यदि काक्षन्ति ते राज्यं पितृपैतामहं पुनः। यथाप्रतिज्ञं कालं तं चरन्तु वनमाश्रिताः॥ ततो दुर्योधनस्याङ्के वर्तन्तामकुतोभयाः। अधार्मिकी तु मा बुद्धि मौात् कुर्वन्तु केवलात्।।१४। अथ ते धर्ममुत्सृज्य युद्धमिच्छन्ति पाण्डवाः। आसाद्येमान् कुरुश्रेष्ठान् स्मरिष्यन्ति वचो मम॥ भीष्म उवाच किं नु राधेय वाचा ते कर्म तत् स्मर्तुमर्हसि। एक एव यदा पार्थः षड्रस्थाञ्जितवान् युधि॥ बहुशो जीयमानस्य कर्म दृष्टं तदैव ते। न चेदेवं करिष्यामो यदयं ब्राह्मणोऽब्रवीत्। ध्रुवं यधि हतास्तेन भक्षयिष्याम पांसुकान्॥ वैशम्पायन उवाच धृतराष्ट्रस्ततो भीष्ममनुमान्य प्रसाद्य च। अवभय॑ च राधेयमिदं वचनमब्रवीत्॥ अस्मद्धितं वाक्यमिदं भीष्मः शान्तनवोऽब्रवीत्। पाण्डवानां हितं चैव सर्वस्य जगतस्तथा॥ चिन्तयित्वा तु पार्थेभ्यः प्रेषयिष्यामि संजयम्। स भवान् प्रति यात्वद्य पाण्डवानेव मा चिरम्॥ स तं सत्कृत्य कौरव्यः प्रेषयामास पाण्डवान्। सभामध्ये समाहूय संजयं वाक्यमब्रवीत्॥ धृतराष्ट्र उवाच प्राप्तानाहुः संजय पाण्डपुत्रानुपप्लव्ये तान् विजानीहि गत्वा। अजातशत्रु च समाजयेथा दिष्ट्याऽऽनह्य स्थानमुपस्थितस्त्वम्॥ सर्वान् वदेः संजय स्वस्तिमन्तः कृच्छ्रे वासमतदर्हान् निरुष्य। तेषां शान्तिर्विद्यतेऽस्मासु शीघ्रं मिथ्यापेतानामुपकारिणां सताम्॥ नाहं क्वचित् संजय पाण्डवानां मिथ्यावृत्ति काञ्चन जात्वपश्यम्। सर्वां श्रियं ह्यात्मवीर्येण लब्धां पर्याकार्षुः पाण्डवा मह्यमेव॥ दोषं ह्येषां नाध्यगच्छं परीच्छन् नित्यं कंचिद् येन ग¥य पार्थान्। धर्मार्थाभ्यां कर्म कुर्वन्ति नित्यं सुखप्रिये नानुरुध्यन्ति कामात्॥ धर्मं शीतं क्षुत्पिपासे तथैव निद्रां तन्द्रीं क्रोधहर्षो प्रमादम्। धृत्या चैव प्रज्ञया चाभिभूय धर्मार्थयोगात् प्रयतन्ति पार्थाः॥ त्यजन्ति मित्रेषु धनानि काले न संवासाज्जीर्यति तेषु मैत्री। स्तेषां द्वेष्टा नास्त्याजमीढस्य पक्षे॥ दुर्योधनात् क्षुद्रतराच्च कर्णात्। तेषां हीमो हीनसुखप्रियाणां महात्मनां संजनयतो हि तेजः॥ उत्थानवीर्यः सुखमेधमानो दुर्योधनः सुकृतं मन्यते तत्। तेषां भागं यच्च मन्येत बाल: शक्यं हर्तुं जीवतां पाण्डवानाम्॥ यस्यार्जुनः पदवीं केशवश्च वृकोदरः सात्यकोऽजातशत्रोः। माद्रीपुत्रौ सृजयाश्चापि यान्ति पुरा युद्धात् साधु तस्य प्रदानम्॥ स ह्येवैकः पृथिवीं सव्यसाची गाण्डीवधन्वा प्रणुदेद् रथस्थः। तथा जिष्णुः केशवोऽप्यप्रधृष्यो लोकत्रयस्याधिपतिर्महात्मा।॥ तिष्ठेत कस्तस्य मर्त्यः पुरस्ताद् यः सर्वलोकेषु वरेण्य एकः। पर्जन्यघोषान् प्रवपञ्छरौघान् पतङ्गसङ्घानिव शीघ्रवेगान्॥ दिशं धुंदीचीमपि चोत्तरान् कुरून् गाण्डीवधन्वैकरथो जिगाय। धनं चैषामाहरत् सव्यसाची सेनानुगान् द्रविडांश्चैव चक्रे॥ यश्चैव देवान् खाण्डवे सव्यसाची गाण्डीवधन्वा प्रजिगाय सेन्द्रान्। उपाहरत् पाण्डवो जातवेदसे यशो मानं वर्धयन् पाण्डवानाम्॥ द्धस्त्यारोहो नास्ति समश्च तस्य। रथेऽर्जुनादाहुरहीनमेनं बाह्वोर्बलेनायुतनागवीर्यम्॥ सुशिक्षितः कृतवैरस्तरस्वी दहेत् क्षुद्रांस्तरसा धार्तराष्ट्रान्। सदात्यमर्षी न बलात् स शक्यो युद्धे जेतु वासवेनापि माक्षात्॥ सुचेतसौ बलिनौ शीघ्रहस्तौ सुशिक्षितौ भ्रातरौ फाल्गुनेन। श्येनौ यथा पक्षिपूगान् रुजन्तौ माद्रीपुत्रौ शेषयेतां न शत्रून्॥ एतद् बलं पूर्णमस्माकमेवं यत् सत्यं तान् प्राप्य नास्तीति मन्ये। तेषां मध्ये वर्तमानस्तरस्वी धृष्टद्युम्नः पाण्डवानामिहैकः॥ सहाभात्यः सोमकानां प्रबर्हः संत्यक्तात्मा पाण्डवार्थं श्रुतो मे। अजातशत्रु प्रसहेत कोऽन्यो येषां स स्यादग्रणीवृष्णिसिंहः॥ सहोषितश्चरितार्थो वयस्थो मात्स्येयानामधिपो वै विराटः। स वै सपुत्रः पाण्डवार्थं च शश्वद् युधिष्ठिरं भक्त इति श्रुतं मे॥ अवरुद्धा रथिनः केकयेभ्यो महेष्वासा भ्रातरः पञ्च सन्ति। केकयेभ्यो राज्यमाकाङ्क्षमाणा युद्धार्थनश्चानवसन्ति पार्थान्।।२० सर्वांश्च वीरान् पृथिवीपतीनां समागतान् पाण्डवार्थं निविष्टान्। शूरानहं भक्तिमतः शृणोमि प्रीत्या युक्तान् संश्रितान् धर्मराजम्॥ गिर्याश्रया दुर्गनिवासिनश्च योधाः पृथिव्यां कुलजातिशुद्धाः। म्लेच्छाश्च नानायुधवीर्यवन्तः समागताः पाण्डवार्थं निविष्टाः॥ पाण्ड्यश्च राजा समितीन्द्रकल्पो योधप्रवीरैर्बहुभिः समेतः। समागतः पाण्डवार्थं महात्मा लोकप्रवीरोऽप्रतिवीर्यतेजाः॥ अस्त्रं द्रोणादर्जुनाद् वासुदेवात् कृपाद् भीष्माद् येन वृतं शृणोमि। यं तं कार्ष्णिप्रतिममाहुरेकं स सात्यकिः पाण्डवार्थ निविष्टः॥ उपाश्रिताश्चेदिकरूपषकाश्च सर्वोद्योगैर्भूमिपालाः समेताः। तेषां मध्ये सूर्यमिवातपन्तं श्रिया वृतं चेदिपतिं ज्वलन्तम्॥ अस्तम्भनीयं युधि मन्यमानो ज्यां कर्षतां श्रेष्ठतमं पृथिव्याम्। सर्वोत्साहं क्षत्रियाणां निहत्य प्रसह्य कृष्णस्तरसा सम्ममर्द॥ यशोमानौ वर्धयन् पाण्डवानां पुराऽभिनच्छिशुपालं समीक्ष्य। यस्य सर्वे वर्धयन्ति स्म मानं करूषराजप्रमुखा नरेन्द्राः॥ तमसा केशवं तत्र मत्वा सुग्रीवयुक्तेन रथेन कृष्णम्। केप्राद्रवंश्चेदिपति विहाय सिंहं दृष्ट्वा क्षुद्रमृगा इवान्ये॥ दाशंसमानो द्वैरथे वासुदेवम्। तेनेवोन्मथितः कर्णिकारः॥ पराक्रमं मे यदवेदयन्त तेषामर्थं संजय केशवस्य। र्गावल्गणे नाधिगच्छामि शान्तिम्॥ न जातु ताञ्छत्रुरन्यः सहेत येषां स स्यादग्रणीवृष्णिसिंहः। प्रवेपते मे हृदयं भयेन श्रुत्वा कृष्णावेकरथे समेतौ॥ स्ताभ्यां लभेच्छर्म तदा सुतो मे। मिन्द्राविष्णू दैत्यसेनां यथैव॥ मतो हि मे शक्रसमो धनंजयः सनातनो वृष्णिवीरच विष्णुः। धर्मारामो ह्रीनिषेवस्तरस्वी कुन्तीपुत्रः पाण्डवोऽजातशत्रुः॥ दुर्योधनेन निकृतो मनस्वी नो चेत् क्रुद्धः प्रदहेद् धार्तराष्ट्रान्। नाहं तथा हर्जुनाद् वासुदेवाद् भीमाद् वाहं यमयोर्वा बिभेमि॥ यथा राज्ञः क्रोधदीप्तस्य सूत मन्योरहं भीततरः सदैव। महातपा ब्रह्मचर्येण युक्तः संकल्पोऽयं मानसस्तस्य सिद्ध्येत्॥ तस्य क्रोधं संजयाह समीक्ष्य स्थाने जानन् भृशमस्म्यद्य भीतः। स गच्छ शीघ्रं प्रहितो रथेन पाञ्चालराजस्य चमूनिवेशनम्॥ अजातशत्रु कुशलं स्म पृच्छेः पुनः पुनः प्रीतियुक्तं वदेस्त्वम्। जनार्दनं चापि समेत्य तात महामात्रं वीर्यवतामुदारम्॥ धृतराष्ट्रः पाण्डवैः शान्तिमीप्सुः। न तस्य किंचिद् वचनं न कुर्यात् कुन्तीपुत्रो वासुदेवस्य सूत॥ प्रियश्चैषामात्मसमश्च कृष्णो विद्वांश्चैषां कर्मणि नित्ययुक्तः। समानीतान् पाण्डवान् सृजयांश्च जनार्दनं युयुधानं विराटम्॥ अनामयं मद्वचनेन पृच्छेः सर्वांस्तथा द्रौपदेयांश्च पञ्च। स्त्वं मन्येथा भारतानां हितं च। तद् भाषेथाः संजय राजमध्ये न मूर्च्छयेद् यन्न च युद्धहेतुः॥ संजय उवाच यथाऽऽत्य मे पाण्डव तत् तथैव कुरून् कुरुश्रेष्ठ जनं च पृच्छसि। अनामयास्तात मनस्विनस्ते कुरुश्रेष्ठान् पृच्छसि पार्थ यांस्त्वम्॥ सन्त्येव वृद्धाः साधवो धार्तराष्ट्र सन्त्येव पापाः पाण्डव तस्य विद्धि। दद्याद् रिपुभ्योऽपि हि धार्तराष्ट्रः कुतो दायाँल्लोपयेद् ब्राह्मणानाम्॥ मगुग्धेषु दुग्धवत् तन्न साधु। मित्रध्रुक स्याद् धृतराष्ट्रः सपुत्रो युष्मान् द्विषन् साधुवृत्तानसाधुः॥ न चानुजानाति भृशं च तप्यते शोचत्यन्तः स्थविरोऽजातशत्रो। शृणोति हि ब्राह्मणानां समेत्य मित्रद्रोहः पातकेभ्यो गरीयान्॥ स्मरन्ति तुभ्यं नरदेव संयुगे युद्धे च जिष्णोश्च युधां प्रणेतुः। समुत्कृष्टे दुन्दुभिशङ्खशब्दे गदापाणिं भीमसेनं स्मरन्ति॥ माद्रीसुतौ चापि रणाजिमध्ये सर्वा दिशः सम्पतन्तौ स्मरन्ति। सेनां वर्षन्तौ शरवरजस्त्रं महारथौ समरे दुष्प्रकम्पौ॥ ननागतं ज्ञायते यद् भविष्यम्। त्वं चेत् तथा सर्वधर्मोपपन्नः प्राप्तः क्लेशं पाण्डव कृच्छ्ररूपम्। त्वमेवैतत् कृच्छ्रगतश्च भूयः समीकुर्याः प्रज्ञयाऽजातशत्रो॥ न कामार्थं संत्यजेयुर्हि धर्म पाण्डोः सुताः सर्व एवेन्द्रकल्पाः। त्वमेवैतत् प्रज्ञयाऽजातशत्रो समीकुर्या येन शर्माप्नुयुस्ते॥ धार्तराष्ट्राः पाण्डवा संजयाश्च ये चाप्यन्ये संनिविष्टा नरेन्द्राः। मजातशत्रो वचनं पिता ते॥ सहामात्यः सहपुत्रश्च राजन् समेत्य तां वाचमिमां निबोध॥ युधिष्ठिर उवाच समागताः पाण्डवाः सुंजयाश्च जनार्दनो युयुधानो विराटः। यत् ते वाक्यं धृतराष्ट्रानुशिष्टं गावल्गणे ब्रूहि तत् सूतपुत्र॥ संजय उवाच अजातशत्रु च वृकोदरं च धनंजय माद्रवतीसुतौ च। आमन्त्रये वासुदेवं च शौरिं युयुधान् चेकितान विराटम्॥ पञ्चालानामधिपं चैव वृद्धं धृष्टद्युम्नं पार्ष याज्ञसेनिम्। सर्वे वाचं शृणुतेमा मदीयां वक्ष्यामि यां भूतिमिच्छन् कुरूणाम्॥ नयोजयत् त्वरमाणो रथं मे। स्तद् रोचतां पाण्डवानां शमोऽस्तु॥ सर्वैर्धर्मः समुपेतास्तु पार्थाः संस्थानेन मार्दवेनार्जवेन। जाताः कुले ह्यनृशंसा वदान्या ह्रीनिषेवाः कर्मणां निश्चयज्ञाः॥ न युज्यते कर्म युष्मासु हीनं सत्त्वं हि वस्तादृशं भीमसेनाः। उद्भासते ह्यञ्जनबिन्दवक्त च्छुभ्र वस्त्रे यद् भवेत् किल्बिषं वः॥ सर्वक्षयो दृश्यते यत्र कृत्स्नः पापोदयो निरयोऽभावसंस्थः। कस्तत्र् कुर्याज्जातु कर्म प्रजानन् पराजयो यत्र समो जयश्च॥ ते वै धन्या यैः कृतं ज्ञातिकार्य ते वै पुत्राः सुहृदो बान्धवाश्च। र्यतः कुरूणां नियतो वैभव: स्यात्॥ ते चेत् कुरूननुशिष्याथ पार्था निर्णीय सर्वान् द्विषतो निगृह्य। समं वस्तज्जीवितं मृत्युना स्याद् यज्जीवध्वं ज्ञातिवधे न साधु॥ को ह्येव युष्मान् सह केशवेन सचेकितानान् पार्षतबाहुगुप्तान्। ससात्यकीन् विषहेत प्रजेतुं लध्वाऽपि देवान् सचिवान् सहेन्द्रान्॥ नश्वत्थाम्ना शल्यकृपादिभिश्च। रणे विजेतुं विषहेत राजन् राधेयगुप्तान् सह भूमिपालैः॥ महद् बलं धार्तराष्ट्रस्य राज्ञः को वै शक्तो हन्तुमक्षीयमाणः। सोऽहं जये चैव पराजये च निःश्रेयसं नाधिगच्छामि किञ्चित्॥ कथं हि नीचा इव दौष्कुलेया निर्धर्मार्थं कर्म कुर्युश्च पार्थाः। सोऽहं प्रसाद्य प्रणतो वासुदेवं पञ्चालानामधिपं चैव वृद्धम्॥ कृताञ्जलिः शरणं वः प्रपद्ये कथं स्वस्ति स्यात् कुरुसंजयानाम्। न ह्येवमेवं वचनं वासुदेवो धनंजयो वा जातु किंचिन्न कुर्यात्॥ देतद् विद्वन् साधनार्थं ब्रवीमि। एतद् राज्ञो भीष्मपुरोगमस्य मतं यद् वः शान्तिरिहोत्तमा स्यात्॥ युधिष्ठिर उवाच कां नु वाचं संजय मे शृणोषि युद्धैषिणी येन युद्धाद् बिभेषि। अयुद्धं वै तात युद्धाद् गरीयः कस्तल्लब्ध्वा जातु युद्ध्येत सूत॥ अकुर्वतश्चेत् पुरुषस्य संजय सिद्ध्येत् संकल्पो मनसा ये यमिच्छेत्। दन्यत्र युद्धाद् बहु यल्लघीयः॥ कुतो युद्धं जातु नरोऽवगच्छेत् को देवशप्तो हि वृणीत युद्धम्। सुखैषिणः कर्म कुर्वन्ति पार्था धर्मादहीनं यच्च लोकस्य पथ्यम्॥ धर्मोदयं सुखमाशंसमानाः कृच्छ्रोपायं तत्त्वतः कर्म दुःखम्। सुखं प्रेप्सुर्विजिघांसुश्च दुःखं य इन्द्रियाणां प्रीतिरसानुगामी॥ कामाभिध्या स्वशरीरं दुनोति यया प्रमुक्तो न करोति दुःखम्। यथेध्यमानस्य समिद्धतेज़सो भूयो बलं वर्धते पावकस्य॥ कामार्थलाभेन तथैव भूयो न तृप्यते सर्पिषेवाग्निरिद्धः। सम्पश्येमं भोगचयं महान्तं सहास्माभिधृतराष्ट्रस्य राज्ञः॥ नाश्रेयानीश्वरो विग्रहाणां नाश्रेयान् वै गीतशब्दं शृणोति। नाश्रेयान् वै सेवते माल्यगन्धान् न चाप्यश्रेयाननुलेपनानि॥ नाश्रेयान् वै प्रावारान् संविवस्ते कथं त्वस्मान् सम्प्रणुदेत् कुरुभ्यः। अत्रैव स्यादबुधस्यैव कामः प्रायः शरीरे हृदयं दुनोति॥ स्वयं राजा विषमस्थः परेषु सामर्थ्यमन्विच्छति तन्न साधु। यथाऽऽत्मनः पश्यति वृत्तमेव तथा परेषामपि सोऽभ्युपैति॥ आसन्नमग्नि तु निदाघकाले गम्भीरकक्षे गहने विसृज्य। यथा विवृद्धं वायुवसेन शोचेत् क्षेमं मुमुक्षुः शिशिरव्यपाये॥ प्राप्तैश्वर्यो धृतराष्ट्रोऽद्य राजा लालप्यते संजय कस्य हेतोः। प्रगृह्य दुर्बुद्धिमनार्जवे रतं पुत्रं मन्दं मूढममन्त्रिणं तु॥ अनाप्तवच्चाप्ततमस्य वाचः सुयोधनो विदुरस्यावमत्या सुतस्य राजा धृतराष्ट्रः प्रियैषी सम्बुध्यमानो विशतेऽधर्ममेव॥ मेधाविनं ह्यर्थकामं कुरूणां बहुश्रुतं वाग्मिनं शीलवन्तम्। स तं राजा धृतराष्ट्रः कुरुभ्यो न सस्मार विदुरं पुत्रकाम्यात्॥ माननस्यासौ मानकामस्य चे!ः संरम्भिणश्चार्थधर्मातिगस्य। दुर्भाषिणो मन्युवशानुगस्य कामात्मनो दौ«दैर्भावितस्य॥ मित्रदुहः संजय पापबुद्धेः। सुतस्य राजा धृतराष्ट्रः प्रियैषी प्रपश्यमानः प्राजहाद् धर्मकामौ॥ न्मतिः कुरूणामागतः स्यादभावः। काव्यां वाचं विदुरो भाषमाणो न विन्दते यद् धार्तराष्ट्रात् प्रशंसाम्॥ क्षत्तुर्यदा नान्ववर्तन्त बुद्धि कृच्छ्रे कुरून् सूत तदाभ्याजगाम्। यावत् प्रज्ञामन्ववर्तन्त तस्य तावत् तेषां राष्ट्रवृद्धिर्बभूव॥ तदर्थलुब्धस्य निबोध मेऽद्य ये मन्त्रिणो धार्तराष्ट्रस्य सूत। दुःशासनः शकुनिः सूतपुत्रो गावल्गणे पश्य सम्मोहमस्य॥ सोऽहं न पश्यामि परीक्षमाणः कथं स्वस्ति स्यात् कुरुसुंजयानाम्। आत्तैश्वर्यो धृतराष्ट्रः परेभ्यः प्रवाजिते विदुरे दीर्घदृष्टो॥ आशंसते वै धृतराष्ट्रः सपुत्रो महाराज्यमसपत्नं पृथिव्याम्। तस्मिञ्छमः केवलं नोपलभ्यः सर्वं स्वकं मद्गते मन्यतेऽर्थम्॥ यत् तत् कर्णो मन्यते पारणीयं युद्धे गृहीतायुधमर्जुनं वै। आसंश्च युद्धानि पुरा महान्ति कथं कर्णो नाभवद् द्वीप एषाम्॥ कर्णश्च जानाति सुयोधनश्च द्रोणश्च जानाति पितामहश्च। अन्ये च कर कुरवस्तत्र सन्ति यथार्जुनान्नास्त्यपरो धनुर्धरः॥ जानन्त्येतत् कुरवः सर्व एव ये चाप्यन्ये भूमिपालाः समेताः। दुर्योधने राज्यमिहाभवद् यथा अरिंदमे फाल्गुने विद्यमाने॥ तेनानुबन्धं मन्यते धार्तराष्ट्रः शक्यं हर्तुं पाण्डवानां ममत्वम्। किरीटिना तालमात्रायुधेन तद्वेदिना संयुगं तत्र गत्वा॥ वशृण्वाना धार्तराष्ट्रा ध्रियन्ते। क्रुद्धं न चेदीक्षते भीमसेनं सुयोधनो मन्यते सिद्धमर्थम्॥ इन्द्रोऽप्येतन्नोत्सहेत् तात हर्तु मैश्वर्यं नो जीवति भीमसेने। धनंजये नकुले चैव सूत तथा वीरे सहदेवे सहिष्णौ॥ स चेदेता प्रतिपद्येत बुद्धि वृद्धो राजा सह पुत्रेण सूत। एवं रणे पाण्डवकोपदग्धा न नश्येयुः संजय धार्तराष्ट्राः॥ जानासि त्वं क्लेशमस्मासु वृत्तं त्वां पूजयन् संजयाहं क्षमेयम्। यच्चास्माकं कौरवैर्भूतपूर्व या नो वृत्तिर्धार्तराष्ट्र तदाऽऽसीत्॥ अद्यापि तत् तत्र तथैव वर्ततां शान्तिं गमिष्यामि यथात्वमात्थ। इन्द्रप्रस्थे भवतु ममैव राज्यं सुयोधनो यच्छतु भारताग्रयः॥ संजय उवाच धर्मनित्या पाण्डव ते विचेष्टा लोके श्रुता दृश्यते चापि पार्थ। महाश्रावं जीवितं चाप्यनित्यं सम्पश्यत्वं पाण्डव मा व्यनीनशः॥ न चेद् भागं कुरवोऽन्यत्र युद्धात् प्रयच्छेरंस्तुभ्यमजातशत्रो। भैक्षचर्यामन्धकवृष्णिराज्ये श्रेयो मन्ये न तु युद्धेन राज्यम्॥ अल्पकालं जीवितं यन्मनुष्ये महास्रावं नित्यदुःखं चलं च। भूयश्च तद् यशसो नानुरूपं तस्मात् पापं पाण्डव मा कृथास्त्वम्॥ कामा मनुष्यं प्रसजन्त एते धर्मस्य ये विघ्नमूलं नरेन्द्र। पूर्वं नरस्तान् मतिमान् प्रणिघल्लोके प्रशंसां लभतेऽनवद्याम्॥ निबन्धनी ह्यर्थतृष्णेह पार्थ तामिच्छता बाध्यते धर्म एव। धर्मं तु यः प्रवृणीते स बुद्धः कामे गृध्नो हीयतेऽर्थानुरोधात्॥ धर्म कृत्वा कर्मणां तात मुख्यं महाप्रतापः सवितेव भाति। हीनो हि धर्मेण महीमपीमां लब्ध्वा नरः सीदति पापबुद्धिः॥ वेदोऽधीतश्चरितं ब्रह्मचर्य यज्ञैरिष्टं ब्राह्मणेभ्यश्च दत्तम्। परं स्थानं मन्यमानेन भूय आत्मा दत्तो वर्षपूगं सुखेभ्यः॥ सुखप्रिये सेवमानोऽतिवेलं योगाभ्यासे यो न करोति कर्म। वित्तक्षये हीनसुखोऽतिवेलं दुःखं शेते कामवेगप्रणुन्नः॥ एवं पुनर्ब्रह्मचर्याप्रसक्तो हित्वा धर्मं यः प्रकरोत्यधर्मम्। अश्रद्दधत् परलोकाय मूढो हित्वा देहं तप्यते प्रेत्य मन्दः॥ न कर्मणा विप्रणाशोऽस्त्यमुत्र पुण्यानां वाप्यथवा पापकानाम्। पूर्वं कर्तुर्गच्छति पुण्यपापं पश्चात् त्वेनमनुयात्येव कर्ता॥ न्यायोपेतं ब्राह्मणेभ्योऽथ दत्तं श्रद्धापूतं गन्धरसोपपन्नम्। अन्वाहार्येषूत्तमदक्षिणेषु तथारूपं कर्म विख्यायते ते॥ इह क्षेत्रे क्रियते पार्थ कार्य न वै किञ्चित् क्रियते प्रेत्य कार्यम्। कृतं त्वया पारलौक्यं च कर्म पुण्यं महत् सद्भिरतिप्रशस्तम्॥ जहाति मृत्युं च जरां भयं च न क्षुत्पिपासे मनसोऽप्रियाणि। दन्यत्र वै चेन्द्रियप्रीणनाद्धि॥ एवंरूपं कर्मफलं नरेन्द्र मात्रावहं हृदयस्य प्रियेण। स क्रोधज पाण्डव हर्षजं च लोकावुभौ मा प्रहासीश्चिराय॥ अन्तं गत्वा कर्मणां मा प्रजह्याः सत्यं दमं चार्जवमानृशंस्यम्। अश्वमेधं राजसूयं तथज्याः पापस्यान्तं कर्मणो मा पुनर्गाः॥ तच्चेदेवं द्वेषरूपेण पार्थाः करिष्यध्वं कर्म पापं चिराय। निवसध्वं वर्षपूगान् वनेषु दुःखं वासं पाण्डवा धर्म एव॥ दात्माधीनं यद् बलं ह्येतदासीत्। नित्यं च वश्याः सचिवास्तवेमे जनार्दनो युयुधानश्च वीरः॥ मत्स्यो राजा रुक्मरथः सपुत्रः प्रहारिभिः सह पुत्रैविराटः। राजानश्च ये विजिताः पुरस्तात् त्वामेव ते संश्रयेयुः समस्ताः॥ महासहायः प्रतपन् बलस्थः पुरस्कृतो वासुदेवार्जुनाभ्याम्। वरान् हनिष्यन् द्विपतो रङ्गमध्ये व्यनेष्यथा धार्तराष्ट्रस्य दर्पम्॥ बलं कस्माद् वर्धयित्वा परस्य निजान् कस्मात् कर्शयित्वा सहायान्। निरुष्य कस्माद् वर्षपूगान् वनेषु युयुत्ससे पाण्डव हीनकालम्॥ ऽधर्मज्ञो वा भूतिमथोऽभ्युपैति। प्रज्ञावान् वा बुध्यमानोऽपि धर्म संस्तम्भाद् वा सोऽपि भूतेरपैति॥ न संरम्भात् कर्म चकर्थ पापम्। आत्थ किं तत् कारणं यस्य हेतोः प्रज्ञाविरुद्ध कर्म चिकीर्षसीदम्॥ अव्याधिजं कटुकं शीर्षरोगि यशोमुषं पापफलोदयं वा। सतां पेयं यनन पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य॥ पापानुबन्धं को नु तं कामयेत क्षमैव ते ज्यासी नोत भोगाः। यत्र भीष्मः शान्तनवो हतः स्याद् यत्र द्रोणः सहपुत्रो हतः स्यात्॥ कृपः शल्यः सौमदत्तिर्विको विविंशतिः कर्णदुर्योधनौ च। एतान् हत्वा कीदृशं तत् सुखं स्याद् यद् विन्देथास्तदनु ब्रूहि पार्थ॥ लब्ध्वापीमां पृथिवीं सागरान्तां जरामृत्यू नैव हि त्वं प्रजह्याः। नेवं विद्वान् नैव युद्धं कुरु त्वम्॥ रेवं युक्तं कर्म चिकीर्षसि त्वम्। अपक्रामे: स्वं प्रदायैव तेषां मा गास्त्वं वै देवयानात् पथोऽद्य॥ युधिष्ठिर उवाच असंशयं संजय सत्यमेतद् धर्मो वरः कर्णणां यत् त्वमात्थ। ज्ञात्वा तु मां संजय गर्हयेस्त्वं यदि धर्मं यद्यधर्मं चरेयम्॥ यत्राधर्मो धर्मरूपाणि धत्ते धर्मः कृत्स्नो दृश्यतेऽधर्मरूपः। बिभ्रद् धर्मो धर्मरूपं तथा च विद्वांसस्तं सम्प्रपश्यन्ति बुद्ध्या॥ एवं तथैवापदि लिङ्गमेतद् धर्माधर्मी नित्यवृत्ती भजेताम्। मापद्धर्मं संजय तं निबोध॥ लुप्तायां तु प्रकृतौ येन कर्म निष्पादयेत् तत् परीप्सेद् विहीनः। प्रकृतिस्थश्चादि वर्तमान उभौ गौ भवतः संजयैतौ॥ अविनाशमिच्छतां ब्राह्मणानां प्रायश्चित्तं विहितं यद् विधात्रा। सम्पश्येथाः कर्मसु वर्तमानान् विकर्मस्थान् संजय गर्हयेस्त्वम्॥ सर्वोत्सङ्गं साधु मनीषिणां सत्त्वविच्छेदनाय विधीयते सत्सु वृत्तिः सदैवा अब्राह्मणाः सन्ति तु ये न वैद्याः मन्येत तेभ्यः॥ तदध्वानः पितरो ये च पूर्वे पितामहा ये च तेभ्यः परेऽन्ये। र्नान्यं ततो नास्तिकोऽस्मीति मन्ये॥ यत् किंचनेदं वित्तमस्यां पृथिव्यां यद् देवानां त्रिदशानां परं यत्। प्राजापत्यं त्रिदिवं ब्रह्मलोकं नाधर्मतः संजय कामयेयम्॥ प्युपासिता ब्राह्मणानां मनीषी। नानाविधांश्चैव महाबलांश्च राजन्यभोजाननुशास्ति कृष्णः॥ यदि ह्यहं विसृजन् साम गर्यो नियुध्यमानो यदि जह्या स्वधर्मम्। महायशाः केशवस्तद् ब्रवीतु वासुदेवस्तूभयोरर्थकामः॥ शैनेयोऽयं चेदयश्चान्धकाश्च वार्ष्णेयभोजाः कुकुरा: संजयाश्च। उपासीना वासुदेवस्य बुद्धिं निगृह्य शत्रून् सुहृदो नन्दयन्ति॥ वृष्ण्यन्धका एग्रसेनादयो वै कृष्णप्रणीताः सर्व एवेन्द्रकल्पाः। मनस्विनः सत्यपरायणाश्च महाबला यादवा भोगवन्तः॥ काश्यो बर्भुः श्रियमुत्तमां गतो लब्ध्वा कृष्णं भ्रातरमीशितारम्। यस्मै कामान् वर्षति वासुदेवो चीष्मात्यये मेघ इव प्रजाभ्यः॥ ईदृशोऽयं केशवस्तात विद्वान् विद्धि ह्येनं कर्मणां निश्चयज्ञम्। प्रियश्च नः साधुतमश्च कृष्णो नातिक्रामे वचनं केशवस्य॥ वासुदेव उवाच मिच्छाम्यहं भूतिमेषां प्रियं च। तथा राज्ञो धृतराष्ट्रस्य सूत समाशंसे बहुपुत्रस्य वृद्धिम्॥ कामो हि मे संजय नित्यमेव नान्यद् व्रयां तान् प्रति शाम्यतेति। राज्ञश्च हि प्रियमेतच्छृणोमि मन्ये चैतत् पाण्डवानां समक्षम्॥ सुदुष्करस्तत्र शमो हि नूनं प्रदर्शितः संजय पाण्डवेन। यस्मिन् गृद्धो धृतराष्ट्रः सपुत्रः कस्मादेषां कलहो नावमूछेत्॥ न त्वं धर्मं विचरं संजयेह मत्तश्चं जानासि युधिष्ठिराच्च। अथो कस्मात् संजय पाण्डवस्य उत्साहिनः पूरयतः स्वकर्म॥ यथाऽऽख्यातमावसतः कुटुम्बे पुरा कस्मात् साधुविलोपमात्या दुच्चावचा मतयो ब्राह्मणानाम्॥ कर्मणाऽऽहुः सिद्धिमेके परत्र हित्वा कर्म विद्यया सिद्धिमेके। नाभुञ्जानो भक्ष्यभोज्यस्य तृप्येद् विद्वानपीह विहितं ब्राह्मणानाम्॥ या वै विद्याः साधयन्तीह कर्म तासां फलं विद्यते नेतरासाम्। तत्रेह वै दृष्टफलं तु कर्म पीत्वोदकं शाम्यति तृष्णयाऽऽतः॥ सोऽयं विधिर्विहितः कर्मणैव संवर्तते संजय तत्र कर्मी तत्र योऽन्यत् कर्मणः साधु मन्येन्मोघं तस्यालपितं दुर्बलस्य॥ कर्मणाऽमी भान्ति देवाः परत्र कर्मणैवेह प्लवते मातरिश्वा। अहोरात्रे विदधत् कर्मणैव अतन्द्रितो नित्यमुदेति सूर्यः॥९ नतन्द्रितश्चन्द्रमाश्चाभ्युपैति। अतन्द्रितो दहते जातवेदाः समिद्धयमानः कर्म कुर्वन् प्रजाभ्यः॥ अतन्द्रिता भारमिमं महान्तं बिभर्ति देवी पृथिवी बलेन। अतन्द्रिताः शीघ्रमपो वहन्ति संतर्पयन्त्यः सर्वभूतानि नद्यः॥ अतन्द्रितो वर्षति भूरितेजाः संनादयन्नन्तरिक्षं दिशश्च। अतन्द्रितो ब्रह्मचर्यं चचार श्रेष्ठत्वमिच्छन् बलभिद् देवतानाम्॥ हित्वा सुखं मनसश्च प्रियाणि तेन शक्रः कर्मणा श्रेष्ठ्यमाप। सत्यं धर्मं पालयन्त्रप्रमत्तो दमं तितिक्षां मतां प्रियं च॥ एतानि सर्वाण्युपसेवमानः स देवराज्यं मघवान् प्राप मुख्यम्। बृहस्पतिर्ब्रह्मचर्यं चचार समाहितः संशितात्मा यथावत्॥ हित्वा सुखं प्रतिध्येन्द्रियाणि तेन देवानामगमद् गौरवं सः। तथा नक्षत्राणि कर्मणामुत्र भान्ति रुद्रादित्या वसवोऽथापि विश्वे॥ यमो राजा वैश्रवणः कुवेरो गन्धर्वयक्षाप्सरसश्च सूत। ब्रह्मविद्या ब्रह्मचर्य क्रिया च निषेवमाणा ऋषयोऽमुत्र भान्ति॥ जानन्निमं सर्वलोकस्य धर्म विप्रेन्द्राणां क्षत्रियाणां विशां च। स कस्मात् त्वं जानतां ज्ञानवान् सन् व्यायच्छसे संजय कौरवार्थे॥ आम्नायेषु नित्यसंयोगमस्य तथाश्वमेधे राजसूये च विद्धिा संयुज्यते धनुषा वर्मणा च हस्यश्वाथै रथशस्त्रैश्च भूयः॥ मवगच्छेयुरवधेनैव पार्थाः। दार्ये वृत्ते भीमसेनं निगृह्य॥ ते चेत् पित्र्ये कर्मणि वर्तमाना आपोरन् दिष्टवशेन मृत्युम्। यथाशक्त्या पूरयन्तः स्वकर्म तदप्येषां निधनं स्यात् प्रशस्तम्॥ उताहो त्वं मन्यसे शाम्यमेव राज्ञां युद्धे वर्तते धर्मतन्त्रम्। अयुद्धे वा वरतते धर्मतन्त्रं तथैव ते वाचमिमां शृणोमि॥ मवेक्ष्य त्वं संजय स्वं च कर्म। निशम्याथो पाण्डवानां च कर्म प्रशंस वा निन्द वा या मतिस्ते॥ अधीयीत ब्राह्मणो वै यजेत दद्यादीयात् तीर्थमुख्यानि चैवा अध्यापयेद् याजयेच्चापि याज्यान् प्रतिग्रहान् वा विहितान् प्रतीच्छेत्॥ तथा राजन्यो रक्षणं वै प्रजानां कृत्वा धर्मेणाप्रमत्तोऽथ दत्त्वा। यज्ञैरिष्ट्वा सर्ववेदानधीत्य दारान् कृत्वा पुण्यकृदावसेद् गृहान्॥ स धर्मात्मा धर्ममधीत्य पुण्यं यदिच्छया व्रजति ब्रह्मलोकम्। वित्तं चिन्वन् पालयन्नप्रमत्तः॥ प्रियं कुर्वन् ब्राह्मणक्षत्रियाणां धर्मशीलः पुण्यकृदावसेद् गृहान्। परिचर्या वन्दनं ब्राह्मणानां नाधीयीत प्रतिषिद्धोऽस्य यज्ञः। देवं स्मृतः शूद्रधर्म: पुराणः॥ एतान् राजा पालयन्त्रप्रमत्तो नियोजयन् सर्ववर्णान् स्वधर्मे। अकामात्मा समवृत्तिः प्रजासु नाधार्मिकाननुरुध्येत कामान्॥ दभिज्ञातः सर्वधर्मोपपन्नः। स तं दुष्टुमनुशिष्यात् प्रजानां न चैतद् बुध्येदिति तस्मिन्नसाधुः॥ यदा गृध्येत् परभूतौ नृशंसो विधिप्रकोपाद् बलमाददानः। ततो राज्ञामभवद् युद्धमेतत् तत्र जातं वर्म शस्त्रं धनुश्च॥ इन्द्रेणैतद् दस्युवधाय कर्म उत्पादितं वर्म शस्त्रं धनुश्च॥ तत्र पुण्यं दस्युवधेन लभ्यते सोऽयं दोषः कुरुभिस्तीव्ररूपः। अधर्मज्ञैर्धर्ममबुध्यमानैः प्रादुर्भूतः संजय साधु तन्न।॥ तत्र राजा धृतराष्ट्रः सपुत्रो धन॑ हरेत् पाण्डवानामकस्मात्। नावेक्षन्ते राजधर्मं पुराणं तदन्वयाः कुरवः सर्व एव॥ स्तेनो हरेद् यत्र धनं ह्यदृष्टः प्रसह्य वा यत्र हरेत दृष्टः। उभौ गौं भवतः संजयैतौ किं वै पृथक्त्वं धृतराष्ट्रस्य पुत्रे॥ सोऽयं लोभान्मन्यते धर्ममेतं यमिच्छति क्रोधवशानुगामी। स्तं नः कस्मादाददीरन् परे वै॥ अस्मिन् पदे युध्यतां नो वधोऽपि श्लाध्य: पित्र्यं परराज्याद् विशिष्टम्। नाचक्षीथाः संजय राजमध्ये॥ एते मदान्मृत्युवशाभिपन्नाः समानीता धार्तराष्ट्रेण मूढाः। इदं पुन: कर्म पापीय एव सभामध्ये पश्य वृत्तं कुरूणाम्॥ प्रियां भार्यां द्रौपदी पाण्डवानां यशस्विनी शीलवृत्तोपपन्नाम्। यदुपैक्षन्त कुरवो भीष्ममुख्या: कामानुगेनोपरुद्धां व्रजन्तीम्॥ तं चेत् तदा ते सकुमारवृद्धा अवारयिष्यन् कुरवः समेताः। मम प्रियं धृतराष्ट्रोऽकरिष्यत् पुत्राणां च कृतमस्थाभविष्यत्॥ दुःशासन: प्रातिलोम्यान्निनाय सभामध्ये श्वशुराणां च कृष्णाम्। सा तत्र नीता करुणं व्यपेक्ष्य नान्यं क्षत्तु थमवाप किंचित्॥ कार्पण्यादेव सहितास्तत्र भूपा नाशक्नुवन् प्रतिवक्तुं सभायाम्। एकः क्षत्ता धर्म्यमर्थं ब्रुवाणो धर्मबुद्ध्या प्रत्युवाचाल्पबुद्धिम्॥ मथेच्छसे पाण्डवस्योपदेष्टुम्। कृष्णा त्वेतत् कर्म चकार शुद्धं सुदुष्करं तत्र सभां समेत्य॥ येन कृच्छ्रात् पाण्डवानुज्जहार तथाऽऽत्मानं नौरिव सागरौघात्। यत्राब्रवीत् सूतपुत्रः सभायां कृष्णां स्थितां श्वशुराणां समीपे॥ न ते गतिविद्यते याज्ञसेनि प्रपद्य दासी धार्तराष्ट्रस्य वेश्म। पराजितास्ते पतयो न सन्ति पतिं चान्यं भाविनि त्वं वृणीष्व॥ दस्थिच्छिन्दन् मर्मघाती सुघोरः। कर्णाच्छरो वाङ्मयस्तिग्मतेजाः प्रतिष्ठितो हृदये फाल्गुनस्य॥ कृष्णाजिनानि परिधित्समानान् दुःशासनः कटुकान्यभ्यभाषत्। एते सर्वे षण्ढतिला विनष्टाः क्षयं गता नरकं दीर्घकालम्॥ गान्धारराजः शकुनिर्निकृत्या यदब्रवीत् द्यूतकाले स पार्थम्। पराजितो नन्दनः किं तवास्ति कृष्णया त्वं दीव्य वै याज्ञसेन्या॥ जानासि त्वं संजय सर्वमेतद् द्यूते वाक्यं गहमेवं यथोक्तम्। स्वयं त्वहं प्रार्थये तत्र गन्तुं समाधातुं कार्यमेतद् विपन्नम्॥ अहापयित्वा यदि पाण्डवार्थ शमं कुरूणामपि चेच्छकेयम्। पुण्यं च मे स्याच्चरितं महोदयं मुच्येरंश्च कुरवो मृत्युपाशात्॥ अपि मे वाचं भाषमाणस्य काव्यां धर्मारामामर्थवतीमहिनाम्। अवेक्षेरन् धार्तराष्ट्राः समक्षं मां च प्राप्तं कुरवः पूजयेयुः॥ अतोऽन्यथा रथिना फाल्गुनेन भीमेन चैवाहवदंशितेन। परासिक्तान् धार्तराष्ट्रांश्च विद्धि प्रदह्यमानान् कर्मणा स्वेन पापान्॥ पराजितान् पाण्डवेयांस्तु वाचो रौद्रा रूक्षा भाषते धार्तराष्ट्रः। गदाहस्तो भीमसेनोऽप्रमत्तो दुर्योधनं स्मारयिता हि काले॥ सुयोधनो मन्युमयो महाद्रुमः स्कन्धः कर्णः शकुनिस्तस्य शाखाः। दुःशासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रोऽमनीषी॥ युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः। माद्रीपुत्रौ पुष्पफले समृद्धे मूलं त्वहं ब्रह्म च ब्राह्मणाश्च।। वनं राजा धृतराष्ट्रः सपुत्रो व्याघ्रास्ते वै संजय पाण्डुपुत्राः॥ मा वनं छिन्धि सव्यानं मा व्याघ्राऽनीनशन्वनात्॥ निर्वनो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम्। तस्माद् व्याघ्रो वनं रक्षेद् वनं व्याघ्रं च पालयेत्॥ लताधर्मा धार्तराष्ट्राः शाला: संजय पाण्डवाः। न लता वर्धते जातु महाद्रुममनाश्रिता॥ स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्भुमरिंदमाः। यत् कृत्यं धृतराष्ट्रस्य तत् करोतु नराधिपः॥ स्थिताः शमे महात्मानः पाण्डवा धर्मचारिणः। योधाः समर्थास्तद् विद्वन्नाचक्षीथा यथातथम्॥ संजय उवाच आमन्त्रये त्वां नरदेवदेव गच्छाम्यहं पाण्डव स्वस्ति तेऽस्तु। दुच्चारितं मे मनसोऽभिषङ्गात्॥ जनार्दनं भीमसेनार्जुनौ च माद्रीसुतौ सात्यकिं चेकितानम्। आमन्त्र्य गच्छामि शिवं सुखः वः सौम्येन मां पश्यत चक्षुषा नृपाः॥ युधिष्ठिर उवाच अनुज्ञातः संजय स्वस्ति गच्छ न नः स्मरस्यप्रियं जातु विद्वन्। विद्मश्च त्वां ते च वयं च सर्वे शुद्धात्मानं मध्यगतं सभास्थम्॥ आप्तो दूतः संजय सुप्रियोऽसि कल्याणवाक् शीलवांस्तृप्तिमांश्च। न मुह्येस्त्वं संजय जातु मत्या न च क्रुद्ध्येरुच्यमानो दुरुक्तैः॥ न मर्मगां जादु वक्तासि रूक्षां नोपश्रुतिं कटुकां नोत मुक्ताम्। मेतां वाचं तव जानीम सूत॥ त्वमेव नः प्रियतमोऽसि दूत इहागच्छेद् विदुरो वा द्वितीयः। अभीक्ष्णदृष्टोऽसि पुरा हि नस्त्वं धनंजयस्यात्मसमः सखाऽसि॥ इतो गत्वा संजय क्षिप्रमेव उपातिष्ठेथा ब्राह्मणान् ये तदर्हाः। विशुद्धवीर्याश्चरणोपपन्नाः कुले जाताः सर्वधर्मोपपन्नाः॥ स्वाध्यायिनो ब्राह्मणा भिक्षवश्च तपस्विनो ये च नित्या वनेषु। स्तथेतरेषां कुशलं वदेथाः॥ स्तथाऽऽचार्यानृत्विजो ये च तस्य। तैश्च त्वं तात सहितैर्यथार्ह संगच्छेथाः कुशलेनैव सूत॥ अश्रोत्रिया ये च वसन्ति वृद्धा मनस्विनः शीलबलोपपन्नाः। आशंसन्तोऽस्माकमनुस्मरन्तो यथाशक्ति धर्ममात्रां चरन्तः॥ श्लाघस्व मां कुशलिनं स्म तेभ्यो ह्यनामयं तात पृच्छेर्जघन्यम्। ये जीवन्ति व्यवहारेण राष्ट्र ये पालयन्तो निवसन्ति राष्ट्रे॥ आचार्य इष्टो नयगो विधेयो वेदानभीप्सन् ब्रह्मचर्यं चचार। योऽस्त्रं चतुष्पात् पुनरेव चक्रे द्रोणः प्रसन्नोऽभिवाद्यस्त्वयाऽसौ॥ अधीतविद्यश्चरणोपपन्नो योऽस्त्रं चतुष्पात् पुनरेव चक्रे। गन्धर्वपुत्रप्रतिम तरस्विनं तमश्वत्थामानं कुशलं स्म पृच्छेः॥ शारद्वतस्यावसथं स्म गत्वा महारथस्यात्मविदां वरस्या त्वं मामभीक्ष्णं परिकीर्तयन् वै कृपस्य पादौ संजय पाणिना स्पृशेः॥ यस्मिशौर्यमानृशंस्य तपश्च प्रज्ञा शीलं श्रुतिसत्त्वे धृतिश्च। पादौ गृहीत्वा कुरुसत्तमस्य भीष्मस्य मां तत्र निवेदयेथाः॥ प्रज्ञाचक्षुर्यः प्रणेता कुरूणां बहुश्रुतो वृद्धसेवी मनीषी। तस्मै राज्ञे स्थविरायाभिवाद्य आचक्षीथाः संजय मामरोगम्॥ ज्येष्ठः पुत्रो धृतराष्ट्रस्य मन्दो मूर्खः शठः संजय पापशीलः। प्रशास्ता वै पृथिवीं येन सर्वां सुयोधनं कुशलं तात पृच्छेः॥ स्तथाशीलः संजय सोऽपि शश्वत्। महेष्वासः शूरतमः कुरूणां दुःशासनः कुशलं तात वाच्यः॥ यस्य कामो वर्तते नित्यमेव नान्यः शमाद् भारतानामिति स्म। स बाह्निकानामृषभो मनीषी त्वंयाभिवाद्यः संजय साधुशीलः॥ गुणैरनेकैः प्रवरैश्च युक्तो विज्ञानवान् नैव च निष्ठुरो यः। स्नेहादमर्षं सहते सदैव स सोमदत्तः पूजनीयो मतो मे॥ अर्हत्तमः कुरुषु सौमदत्तिः स नो भ्राता संजय मत्सखा च। महेष्वासो रथिनामुत्तमोऽर्हः सहामात्यः कुशलं तस्य पृच्छेः॥ ये चैवान्ये कुरुमुख्या युवानः पुत्रा: पौत्रा भ्रातरश्चैव ये नः। यं यमेषां मन्यसे येन योग्यं तत् तत् प्रोच्यानामयं सूत वाच्याः॥ ये राजानः पाण्डवायोधनाय समानीता धार्तराष्ट्रण केचित्। वशातयः शाल्वकाः केकयाश्च तथाम्बष्ठा ये त्रिगर्ताश्च मुख्याः॥ स्तथा प्रतीच्याः पर्वतीयाश्च सर्वे। स्तेषां सर्वेषां कुशलं सूत पृच्छेः॥ हस्त्यारोहा रथिन: सादिनश्च पदातयश्चार्यसङ्घाः महान्तः। मनामयं परिपृच्छेः समग्रान्॥ तथा राज्ञो ह्यर्थयुक्तानमात्यान् दौवारिकान् ये च सेनां नयन्ति। मर्थांश्च ये महतश्चिन्तयन्ति॥ वृन्दारकं कुरुमध्येष्वमूढ़ महाप्रज्ञं सर्वधर्मोपपन्नम्। न तस्य युद्धं रोचते वै कदाचिद् वैश्यापुत्रं कुशलं तात पृच्छेः॥ श्छन्नोपधः साधुदेवी मताक्षः। यो दुर्जयो देवस्थेन संख्ये स चित्रसेनः कुशलं तात वाच्यः॥ गान्धारराजः शकुनिः पर्वतीयो निकर्तने योऽद्वितीयोऽक्षदेवी। मानं कुर्वन् धार्तराष्ट्रस्य सूत मिथ्याबुद्धेः कुशलं तात पृच्छेः॥ यः पाण्डवानेकरथेन वीरः समुत्सहत्यप्रधृष्यान् विजेतुम्। यो मुह्यतां मोहयिताद्वितीयो वैकर्तनः कुशलं तस्य पृच्छेः॥ स एव भक्तः स गुरुः स भर्ता स वै पिता स च माता सुहृच्च। अगाधबुद्धिर्विदुरो दीर्घदर्शी स नो मन्त्री कुशलं तं स्म पृच्छेः॥ वृद्धाः स्त्रियो याश्च गुणोपपन्ना ज्ञायन्ते न: संजय मातरस्ताः। ताभिः सर्वाभिः सहिताभिः समेत्य स्त्रीभिर्वृद्धाभिरभिवादं वदेथाः॥ कच्चित् पुत्रा जीवपुत्राः सुसम्यम् वर्तन्ते वो वृत्तिमनृशंसरूपाः। दजातशत्रुः कुशली सपुत्रः॥ या नो भार्याः संजय वेत्थ तत्र तासां सर्वासां कुशलं तात पृच्छेः। सुसंगुप्ताः सुरभयोऽनवद्या: कच्चिद् गृहानावसथाप्रमत्ताः॥ कच्चिद् वृत्तिं श्वशुरेषु भद्राः कल्याणी वर्तध्वमनृशंसरूपाम्। स्तथा वृत्तिमात्मनः स्थापयध्वम्॥ या नः स्नुषाः संजय वेत्थ तत्र प्राप्ताः कुलेभ्यश्च गुणोपपन्नाः। प्रजावत्यो ब्रूहि समेत्य ताच युधिष्ठिरो वोऽभ्यवदत् प्रसन्नः॥ कन्याः स्वजेथाः सदनेषु संजय अनामयं मद्वचनेन पृष्ट्वा। कल्याणाः वः सन्तु पतयोऽनकूला यूयं पतीनां भवतानुकूलाः॥ अलंकृता वस्त्रवत्यः सुगन्धा अबीभत्साः सुखिता भोगवत्यः। लघु यासां दर्शनं वाक् च लध्वी वेशस्त्रियः कुशलं तात पृच्छेः॥ दास्यः स्युर्या ये च दासाः कुरूणां तदाश्रया बहवः कुब्जखञ्जाः। ऽप्यनामयं परिपृच्छेर्जघन्यम्॥ कच्चिद् वृत्ति वर्तते वै पुराणी कच्चिद् भोगान् धार्तराष्ट्रो ददाति। अङ्गहीनान् कृपणान् वामनान् वा यानानृशंस्यो धृतराष्ट्रो बिभति॥ अन्धांश्च सर्वान् स्थविरांस्तथैव हस्त्याजीवा बहवो येऽत्र सन्ति। ऽप्यनामयं परिपृच्छेर्जघन्यम्॥ मा भैष्ट दुःखेन कुजीवितेन नूनं कृतं परलोकेषु पापम्। निगृह्य शत्रून् सुहृदोऽनुगृह्या वासोभिरनेन च वो भरिष्ये॥ सन्त्येव मे ब्राह्मणेभ्यः कृतानि भावीन्यथो नो बत वर्तयन्ति। तान् पश्यामि युक्तरूपांस्तथैव तामेव सिद्धिं श्रावयेथा नृपं तम्॥ मात्मन्येव प्रयतन्तेऽथ मूढाः। ह्यस्मद्वाक्यात् कुशलं तात पृच्छेः॥ ये चाप्यन्ते संश्रिता धार्तराष्ट्रान् नानादिग्भ्योऽभ्यागताः सूतपुत्र। दृष्ट्वा तांश्चैवार्हतश्चापि सर्वान् सम्पृच्छेथाः कुशलं चाव्ययं च॥ एवं सर्वानागताभ्यागतांश्च राज्ञो दूतान् सर्वदिग्भ्योऽभ्युपेतान्। पृष्ट्वा सर्वान् कुशलं तांश्च सूत पश्चादहं कुशली तेषु वाच्यः॥ न हीदृशाः सन्त्यपरे पृथिव्यां ये योधका धार्तराष्ट्रेण लब्धाः। धर्मस्तु नित्यो मम धर्म एव महाबलः शत्रुनिबर्हणाय॥ इदं पुनर्वचनं धार्तराष्ट्र सुयोधनं संजय श्रावयेथाः। यस्ते शरीरे हृदयं दुनोति कामः कुरूनसपत्नोऽनुशिष्याम्॥ त्रैवंविधाः स्याम यथा प्रियं ते। ददस्व वा शक्रपुरी ममैव युध्यस्व वा भारतमुख्य वीर॥ वैशम्पायन उवाच अनुज्ञातः पाण्डवेन प्रययौ संजयस्तदा। शासनं धृतराष्ट्रस्य सर्वं कृत्वा महात्मनः॥ सम्प्राप्य हास्तिनपुरं शीघ्रमेव प्रविश्य च। अन्तःपुरं समास्थाय द्वा:स्थं वचनमब्रवीत्॥ आचक्ष्व धृतराष्ट्राय द्वाःस्थ मां समुपागतम्। सकाशात् पाण्डुपुत्राणां संजयं मा चिरं कृथाः॥ जागर्ति चेदभिवदेस्त्वं हि द्वाःस्थ प्रविशेयं विदितो भूमिपस्य। निवेद्यमत्रात्ययिकं हि मेऽस्ति द्वाःस्थोऽथ श्रुत्वा नृपति जगाम्॥ द्वा:स्थ उवाच संजयोऽथ भूमिपते नमस्ते दिदृक्षया द्वारमुपागतस्ते। प्राप्तो दूतः पाण्डवानां सकाशात् राजन् किमयं करोतु।॥ प्रशाधि है धृतराष्ट्र उवाच आचक्ष्व मां कुशलिनं कल्पमस्मै प्रवेश्यतां स्वागतं संजयाय। न चाहमेतस्य भवाम्यकल्पः स मे कस्माद् द्वारि तिष्ठेच्च सक्तः॥ वैशम्पायन उवाच ततः प्रविश्यानुमते नृपस्य महद् वेश्म प्राज्ञशूरार्यगुप्तम्। सिंहासनस्थं पार्थिवमाससाद वैचित्रवीर्यं प्राञ्जलि: सूतपुत्रः॥ संजय उवाच संजयोऽहं भूमिपते नमस्ते प्राप्तोऽस्मि गत्वा नरदेव पाण्डवान्। अभिवाद्य त्वां पाण्डुपुत्रो मनस्वी युधिष्ठिरः कुशलं चान्वपृच्छत्॥ स ते पुत्रान् पृच्छति प्रीयमाण: कच्चित् पुत्रैः परीयसे नप्तृभिश्च। तथा सुहृद्भिः सचिवैश्च राजन् ये चापि त्वामुपजीवन्ति तैश्च॥ धृतराष्ट्र उवाच अभिनन्द्यत्वां तात वदामि संजय अजातशत्रु च सुखेन पार्थम्। कच्चित् स राजा कुशली सपुत्रः सहामात्यः सानुजः कौरवाणाम्॥ संजय उवाच सहामात्यः कुशली पाण्डुपुत्रो बुभूषते यच्च तेऽग्रेऽऽत्मनोऽभूत्। निर्णिक्तधर्मार्थकरो मनस्वी बहुश्रुतो दृष्टिमाञ्छीलवांश्च॥ परो धर्मात् पाण्डवस्यानृशंस्य धर्मः परो वित्तचयान्मतोऽस्या नपार्थेऽनुरुध्यते भारत तस्य बुद्धिः॥ परप्रयुक्तः पुरुषो विचेष्टते सूत्रप्रोता दारुमयीव योषा। इमं दृष्ट्वा नियमं पाण्डवस्य मन्ये परं कर्म दैवं मनुष्यात्॥ इमं च दृष्ट्वा तव कर्मदोषं पापोदकं घोरमवर्णरूपम्। यावत् परः कामयतेऽतिवेलं तावन्नरोऽयं लभते प्रशंसाम्॥ अजातशत्रुस्तु विहाय पापं जीर्णां त्वचं सर्प इवासमाम्। विरोचतेऽहार्यवृत्तेन वीरो युधिष्ठिरस्त्वयि पापं विसृज्या॥ हन्तात्मनः कर्म निबोध राजन् धर्मार्थयुक्तादार्यवृत्तादपेतम्। उपक्रोशं चेह गतोऽसि राजन् भूयश्च पापं प्रसजेदमुत्र॥ राशंससे पुत्रवशानुगोऽस्या अधर्मशब्दश्च महान् पृथिव्यां नेदं कर्म त्वत्समं भारताग्रय॥ हीनप्रज्ञो दौष्कुलेयो नृशंसो दीर्घ वैरी क्षत्रविद्यास्वधीरः। हीनवीर्यो यश्च भवेदशिष्टः॥ कुले जातो बलवान् यो यशस्वी बहुश्रुतः सुखजीवी यतात्मा। धर्माधर्मी ग्रथितौ यो बिभर्ति स ह्यस्य वशादुपैति॥ कथं हि मन्त्राग्रयधरो मनीषी धर्मार्थयोरापदि सम्प्रणेता। एवं युक्तः सर्वमन्त्रैरहीनो नरो नृशंसं कर्म कुर्यादमूढः॥ तव ह्यमी मन्त्रविदः समेत्य समासते कर्मसु नित्ययुक्ताः। तेषामयं बलवान् निश्चयश्च कुरुक्षये नियमेनोदपादि॥ अकालिकं कुरवो नाभविष्यन् पापेन चेत् पापमजातशत्रुः। इच्छेज्जातु त्वयि पापं विसृज्य निन्दा चेयं तव लोकेऽभविष्यत्॥ किमन्यत्र विषयादीश्वराणां यत्र पार्थः परलोकं स्म दुष्टम्। न संशयो नास्ति मनुष्यकारः॥ एतान् गुणान् कर्मकृतानवेक्ष्य भावाभावौ वर्तमानावनित्यौ। बलिहि राजा पारमविन्दमानो नान्यत् कालात् कारणं तत्र मेने॥ चक्षुः श्रोत्रे नासिकात्वक् च जिह्वा ज्ञानस्यैतान्यायतनानि जन्तोः। तानि प्रीतान्येव तान्यव्यथो दुःखहीनः प्रणुद्यात्॥ न त्वेव मन्ये पुरुषस्य कर्म संवर्तते सुप्रयुक्तं यथावत्। मातुः पितुः कर्मणाभिप्रसूत: संवर्धते विधिवद् भोजनेन॥ प्रियाप्रिये सुखदुःखे च राजन् निन्दाप्रशंसे च भजन्त एव। परस्त्वेनं गर्हयतेऽपराधे प्रशंसते साधुवृत्तं तमेव॥ तृष्णाक्षयान्ते दन्तो नूनं भवितायं प्रजानाम्। नो चेदिदं तव कर्मापराधात् कुरून् देहत् कृष्णवर्मेव कक्षम्॥ त्वमेवैको जातु पुत्रस्य राजन् वशं गत्वा सर्वलोके नरेन्द्र। कामात्मनः श्लाघनो द्युतकाले नागाः शमं पश्य विपाकमस्य॥ अनाप्तानां संग्रहात् त्वं नगेन्द्र तथाऽऽप्तानां निग्रहाच्चैव राजन्। मशक्तस्त्वं रक्षितुं कौरवेय।॥ अनुज्ञातो स्थवेगावधूतः श्रान्तोऽभिपद्ये शयनं नृसिंह। मजातशत्रोर्वचनं समेताः॥ धृतराष्ट्र उवाच अनुज्ञातोऽस्यावसथं परेहि प्रपद्यस्व शयनं सूतपुत्र। मजातशत्रोर्वचनं त्वयोक्तम्॥ वैशम्पायन उवाच द्वा:स्थं प्राह महाप्राज्ञो धृतराष्ट्रो महीपतिः। विदुरं द्रष्टुमिच्छामि तमिहानय मा चिरम्॥ प्रहितो धृतराष्ट्रेण दूतः क्षत्तारमब्रवीत्। ईश्वरस्त्वां महाराजो महाप्राज्ञ दिदृक्षति॥ एवमुक्तस्तु विदुरः प्राप्य राजनिवेशनम्। अब्रवीद् धृतराष्ट्राय द्वा:स्थ मां प्रतिवेदय॥ द्वाःस्थ उवाच विदुरोऽयमनुप्राप्तो राजेन्द्र तव शासनात्। द्रष्टुमिच्छति ते पादौ किं करोतु प्रशाधिमाम्॥ धृतराष्ट्र उवाच प्रवेशय महाप्राज्ञं विदुरं दीर्घदर्शिनम्। अहं हि विदुरस्यास्य नाकल्यो जातु दर्शने॥ द्वा:स्थ उवाच प्रविशान्तःपुरं क्षत्तर्महाराजस्य धीमतः। नहि ते दर्शनेऽकल्पो जातु राजाऽब्रवीद्धि माम्॥ वैशम्पायन उवाच ततः प्रविश्य विदुरो धृतराष्ट्रनिवेशनम्। अब्रवीत् प्राञ्जलिर्वाक्यं चिन्तयानं नराधिपम्॥ विदुरोऽहं महाप्राज्ञ सम्प्राप्तस्तव शासनात्। यदि किंचन कर्तव्यमयमस्मि प्रशाधि माम्॥ धृतराष्ट्र उवाच संजयो विदुर प्राज्ञो गर्हयित्वा च मां गतः। अजातशत्रोःश्वो वाक्यं सभामध्ये स वक्ष्यति॥ तस्याद्य कुरुवीरस्य न विज्ञातं वचो मया। तन्मे दहति गात्राणि तदकार्षित् प्रजागरम्॥ जाग्रतो दह्यमानस्य श्रयो यदनुपश्यसि। तद् ब्रूहि त्वं हि नस्तात धर्मार्थकुशलो ह्यसि॥ यतः प्राप्त: संजयः पाण्डवेभ्यो न मे यथावन्मनसः प्रशान्तिः। सर्वेन्द्रियाण्यप्रकृतिं गतानि किं वक्ष्यतीत्येव मेऽद्य प्रचिन्ता॥ विदुर उवाच अभियुक्तं बलवता दुर्बलं हीनसाधनम्। हृतस्वं कामिनं चोरमाविशन्ति प्रजागराः॥ कच्चिदेतैर्महादोषैर्न स्पृष्टोऽसि नराधिप। कच्चिच्च परवित्तेषु गृद्धन् न परितप्यसे।॥ धृतराष्ट्र उवाच श्रोतुमिच्छामि ते धर्म्यं परं नैःश्रेयसं वचः। अस्मिन् राजर्षिवंशे हि त्वमेकः प्राज्ञसम्मतः॥ विदुर उवाच निषेवते प्रशस्तानि निन्दितानि न सेवते। अनास्तिकः श्रद्दधान एतत् पण्डितलक्षणम्॥ राजालक्षण संपन्नस्त्रैलोकस्याधिपो भवेत्। आत्मज्ञानं समारम्भणततिक्षा धर्मनित्यता। यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते॥ यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे। कृतमेवास्य जानन्ति स वै पण्डित उच्यते॥ यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः। समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते॥ यस्य संसारिणी प्रज्ञा धर्मार्थावनुवर्तते। कामादर्थं वृणीते यः स वै पण्डित उच्यते॥ यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते। न किंचिदवमन्यन्ते नराः पण्डितबुद्धयः॥ क्षिप्रं विजानाति चिरं शृणोति विज्ञाय चार्थं भजते न कामात्। नासम्पृष्टो व्युपयुक्ते परार्थे तत् प्रज्ञानं प्रथमं पण्डितस्य॥ नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम्। आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः॥ निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः। अवन्ध्यकालो वश्यात्मा स वै पण्डित उच्यते॥ आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते। हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ॥ न हृष्यत्यात्मसम्माने नावमानेन तप्यते। गाङ्गो ह्रद इवाक्षोभ्यो यः स पण्डित उच्यते॥ तत्त्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम्। उपाज्ञो मनुष्याणां नरः पण्डित उच्यते॥ प्रवृत्तवाक् चित्रकथ ऊहवान् प्रतिभानवान्। आशु ग्रन्थस्य वक्ता च यः स पण्डित उच्यते॥ श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा। असम्भिन्नार्यमर्यादः पण्डिताख्यां लभेत सः॥ अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः। अर्थाश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः॥ स्वमर्थं यः परित्यज्य परार्थमनुतिष्ठति। मिथ्या चरति मित्रार्थं यश्च मूढः स उच्यते॥ अकामान् कामयति यः कामयानान् परित्यजेत्। बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम्॥ अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च। कर्म चारभते दुष्टं तमाहुर्मूढचेतसम्॥ संसारयति कृत्यानि सर्वत्र विचिकित्सते। चिरं करोति क्षिप्रार्थं स मूढो भरतर्षभ।॥ श्राद्धं पितृभ्यो न ददाति दैवतानि न चार्चति। सुहन्मित्रं न लभते तमाहुर्मूढचेतसम्॥ अनाहूतः प्रविशति अपृष्टो बहु भाषते। अविश्वस्त विश्वसिति मूढचेता नराधमः॥ परं क्षिपति दोषेण वर्तमानः स्वयं तथा। यश्च क्रुध्यत्यनीशानः स च मूढतमो नरः॥ आत्मनो बलमज्ञाय धर्मार्थपरिवर्जितम्। अलभ्यमिच्छन् नैष्कर्म्यान्मूढबुद्धिरिहोच्यते॥ अशिष्यं शास्ति यो राजन् यश्च शून्यमुपासते। कदर्यं भजते यश्च तमाहुर्मूढचेतसम्॥ अर्थं महान्तमासाद्य विद्यामैश्वर्यमेव वा। विचरत्यसमुन्नद्धो यः स पण्डित उच्यते॥ एकः सम्पन्नमश्नाति वस्ते वासश्च शोभनम्। योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः॥ एकः पापानि कुरुते फलं भुङ्क्ते महाजनः। भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते॥ एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता। बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद् राष्ट्र सराजकम्॥ एकया द्वे विनिश्चित्य त्रीश्चतुर्भिर्वशे कुरु। पञ्च जित्वा विदित्वा षट् सप्त हित्वा सुखी भव।।४४ एकं विषरसो हन्ति शस्त्रेणैकश्च बध्यते। सराष्ट्र सप्रजं हन्ति राजानं मन्त्रविप्लवः॥ एकः स्वादु न भुञ्जीत एकश्चार्थान् न चिन्तयेत्। एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात्॥ एकमेवाद्वितीयं तद् यद् राजन् नावबुध्यसे। सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव॥ एकः क्षमावतां दोषो द्वितीयो नोपपद्यते। यदेनं क्षमया युक्तमशक्तं मन्यते जनः॥ सोऽस्य दोषो न मन्तव्यः क्षमा हि परमं बलम्। क्षमा गुणो ह्यशक्तानां भूषणं क्षमा॥ क्षमा वशीकृतिलोक क्षमया किं न साध्यते। शान्तिखङ्गः करे यस्य किं करिष्यति दुर्जनः॥ अतृणे पतितो वह्निः स्वयमेवोपशाम्यति। अक्षमावान् परं दोषेरात्मानं चैव योजयेत्॥ एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा विद्यैका परमा तृप्तिरहिंसैका सुखावहा॥ द्वाविमौ ग्रसते भूमिः सर्पो बिलशयानिवा राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्।।५३ द्वे कर्मणी नरः कुर्वन्नस्मिल्लोके विरोचते। अब्रुवन् परुषं किंचिदसतोऽनर्चयंस्तथा॥ द्वाविमौ पुरुषव्याघ्र परप्रत्ययकारिणौ। स्त्रियः कामितकामिन्यो लोकः पूजितपूजकः॥ द्वाविमौ कण्टको तीक्ष्णौ शरीरपरिशोषिणौ। यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः॥ द्वावेव न विराजेते विपरीतेन कर्मणा। गृहस्थश्च निरारम्भः कार्यवांश्चैव भिक्षुकः॥ द्वाविमौ पुरुषौ राजन् स्वर्गस्योपरि तिष्ठतः। प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान्॥ न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वावतिक्रमौ। अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम्॥ द्वावम्भसि निवेष्टव्यौ गले बद्ध्वा दृढां शिलाम्। धनवन्तमदातारं दरिद्रं चातपस्विनम्॥ द्वाविमौ पुरुषव्याघ्र सूर्यमण्डलभेदिनौ। परिवाड् योगयुक्तश्च रणे चाभिमुखो हतः॥ त्रयो न्याया मनुष्याणां श्रूयन्ते भरतर्षभ। कनीयानं मध्यमः श्रेष्ठ इति वेदविदो विदुः॥ त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः। नियोजयेद् यथावत् तांस्त्रिविधेष्वेव कर्मसु॥ त्रय एवाधना राजन् भार्या दासस्तथा सुतः। यत् ते समधिगच्छन्ति यस्य ते तस्य तद् धनम्॥ हरणं च परस्वानां परदाराभिमर्शनम्। सुहृदश्च परित्यागस्त्रयो दोषाः क्षयावहाः॥ त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः। कामः क्रोधस्तथा लोभस्तस्मादेतत् त्रयं त्यजेत्॥ वरप्रदानं राज्यं च पुत्रजन्म च भारत। शत्रोश्च मोक्षणं कृच्छ्रात् त्रीणि चैकं च तत्समम्॥ भक्तं च भजमानं च तवास्मीति च वादिनम्। त्रीनेतांश्छरणं प्राप्तान् विषमेऽपि न संत्यजेत्॥ चत्वारि राज्ञा तु महाबलेन वान्याहुः पण्डितस्तानि विद्यात्। न दीर्घसूत्रै रभसैश्चारणैश्च॥ चत्वारि ते तात गृहे वसन्तु श्रियाभिजुष्टस्य गृहस्थधर्मे। वृद्धो ज्ञातिरवसन्नः कुलीनः सखादरिद्रो भगिनी चानपत्या॥ चत्वार्याह महाराज साधस्कानि बृहस्पतिः। पृच्छते त्रिदशेन्द्राय तानीमानि निबोध मे॥ देवतानां च संकल्पमनुभावं च धीमताम्। विनयं कृतविद्यानां विनाशं पापकर्मणाम्॥ चत्वारि कर्माण्यभयंकराणि भयं प्रयच्छन्त्ययथाकृतानि। मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः॥ पञ्चाग्नयो मनुष्येण परिचर्याः प्रयत्नतः। पिता माताग्निरात्मा च गुस्श्च भरतर्षभ॥ पञ्चैव पूजयँल्लोके यशः प्राप्नोति केवलम्। देवान् पितॄन् मनुष्यांश्च भिक्षूनतिथिपञ्चमान्॥ पञ्च त्वानुगमिष्यन्ति यत्र यत्र गमिष्यसि। मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः॥ पञ्चेन्द्रियस्य मर्त्यस्यच्छिद्रं चेदेकमिन्द्रियम्। ततोऽस्य स्रवति प्रज्ञा दृतेः पात्रादिवोदकम्॥ षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता। निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता॥ घडिमान् पुरुषो जह्याद् भिन्नां नावमिवार्णवे। अप्रवक्तारमाचार्यमनधीयानमृत्विजम्॥ अरक्षितारं राजानं भार्यां चाप्रियवादिनीम्। ग्रामकामं च गोपालं वनकामं च नापितम्॥ घडेव तु गुणाः पुंसा न हातव्याः कदाचन। सत्यं दानमनालस्यमनसूया क्षमा धृतिः॥ अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च। वश्यश्च पुत्रोऽर्थकरी च विद्या षड् जीवलोकस्य सुखानि राजन्॥ घण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति। न स पापैः कुतोऽनथैर्युज्यते विजितेन्द्रियः॥ षडिमे षट्सु जीवन्ति सप्तमो नोपलभ्यते। चौराः प्रमत्ते जीवन्ति व्याधितेषु चिकित्सकाः॥ प्रमदाः कामयानेषु यजमानेषु याजकाः। राजा विवदमानेषु नित्यं मूर्खेषु पण्डिताः॥ पडिमानि विनश्यन्ति मुहूर्तमनवेक्षणात्। गाव: सेवा कृषिर्भार्या विद्या वृषलसंगतिः॥ षडेते ह्यवमन्यन्ते नित्यं पूर्वोपकारिणम्। आचार्य शिक्षिताः शिष्याः कृतदाराश्च मातरम्॥ नारी विगतकामास्तु कृतार्थाश्च प्रयोजकम्। नावं निस्तीर्णकान्तारा आतुराश्च चिकित्सकम्॥ आरोग्यमानृण्यमविप्रवासः सद्भिर्मनुष्यैः सह सम्प्रयोगः। स्वप्रत्यया वृत्तिरभीतवासः षड् जीवलोकस्य सुखानि राजन्॥ ईयो घृणी नसंतुष्टः क्रोधनो नित्यशङ्कितः। परभाग्योपजीवी च षडेते नित्यदुःखिताः॥ सप्त दोषाः सदा राज्ञा हतव्या व्यसनोदयाः। प्रायशो यैर्विनश्यन्ति कृतमूला अपीश्वराः॥ स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम्। महच्च दण्डपारुष्यमर्थदूषणमेव च॥ अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः। ब्राह्मणान् प्रथमं द्वेष्टि ब्राह्मणैश्च विरुध्यते॥ ब्राह्मणस्वानि चादत्ते ब्राह्मणांश्च जिघांसति। रमते निन्दया चैषां प्रशंसां नाभिनन्दति॥ नैनान् स्मरति कृत्येषु याचितश्चाभ्यसूयति। एतान् दोषान् नरः प्राज्ञो बुध्येद् बुद्ध्वा विसर्जयेत्।। अष्टाविमानि हर्षस्य नवनीतानि भारत। वर्तमानानि दृश्यन्ते तान्येव स्वसुखान्यपि॥ समागमश्च सखिभिर्महांश्चैव धनागमः। पुत्रेण च परिष्वङ्गः संनिपातश्च मैथुने॥ समये च प्रियालाप: स्वयूथ्येषु समुन्नतिः। अभिप्रेतस्य लाभश्च पूजा च जनसंसदि॥ अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च। पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च॥ नवद्वारमिदं वेश्म त्रिस्थूणं पञ्चसाक्षिकम्। क्षेत्रज्ञाधिष्ठितं विद्वान् यो वेद स परः कविः॥ दश धर्म न जानन्ति धृतराष्ट्र निबोध तान्। भत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः॥ त्वरमाणश्च लुब्धश्च भीत: कामी च ते दश। तस्मादेतेषु सर्वेषु न प्रसज्जेत पण्डितः॥ अत्रैवोदाहरन्तीममितिहासं पुरातनम्। पुत्रार्थमसुरेन्द्रेण गीतं चैव सुधन्वना॥ यः काममन्यू प्रजहाति राजा पात्रे प्रतिष्ठापयते धनं च। विशेषविच्छ्रुतवान् क्षिप्रकारी तं सर्वलोकः कुरुते प्रमाणम्॥ जानाति विश्वासयितुं मनुष्यान् विज्ञातदोषेषु दधाति दण्डम्। जानाति मात्रां च तथा क्षमा च तं तादृशं श्रीर्जुषते समग्र॥ सुदुर्बलं नावजानाति कंचिद् युक्तो रिपुं सेवते बुद्धिपूर्वम्। न विचहं रोचयते बलस्थैः काले च यो विक्रमते स धीरः॥ दुद्योगमन्विच्छति चाप्रमत्तः। दुःखं च काले सहते महात्मा धुरन्धरस्तस्य जिताः सपत्नाः॥ अनर्थकं विप्रवासं गृहेभ्यः पापैः सन्धि परदाराभिमर्शम्। दम्भं स्तैन्यं पैशुनं मद्यपानं न सेवते यश्च सुखी सदैव॥ माकारितः शंसति तत्त्वमेव। न मित्रार्थ रोचयते विवाद नापूजितः कुप्यति चाप्यमूढः॥ न योऽभ्यसूयत्यनुकम्पते च न दुर्बलः प्रातिभाव्यं करोति। नात्याह किंचित् क्षमते विवादं सर्वत्र तादृग् लभते प्रशंसाम्॥ यो नोद्धतं कुरुते जातु वेषं न पौरुषेणापि विकत्यतेऽन्यान्। न मूर्छितः कटुकान्याहं किंचित् प्रियं सदा तं कुरुते जनो हि॥ न वैरमुद्दीपयति प्रशान्तं न दर्पमारोहति नास्तमेति। न दुर्गतोऽस्मीति करोत्यकार्य तमार्यशीलं परमाहुरार्याः॥ न स्वे सुखे वै कुरुते प्रहर्ष नान्यस्य दुःखे भवति प्रहृष्टः। दत्त्वा न पश्चात् कुरुतेऽनुतापं स कथ्यते सत्पुरुषार्यशीलः॥ देशाचारान् समयाञ्जातिधर्मान् बुभूषते यः स परावरज्ञः। स यत्र तत्राभिगतः सदैव महाजनस्याधिपत्यं करोति॥ दम्भं मोहं मत्सरं पापकृत्यं राजद्विष्टं पैशुनं पूगवैरम्। मत्तोन्मत्तैर्दुर्जनैश्चापि धादं यः प्रज्ञावान् वर्जयेत् स प्रधानः॥ दानं होमं दैवतं मङ्गलानि प्रायश्चित्तान् विविधाँल्लोकवादान्। एतानि यः कुरुते नैत्यकानि तस्योत्थानं देवता राधयन्ति॥ समैर्विवाहं कुरुते न हीनैः समैः सख्यं व्यवहारं कथां च। गुणैविंशोष्टांश्च पुरो दधाति विपश्चितस्तस्य नयाः सुनीताः॥ मितं भुङ्क्ते संविभज्याश्रितेभ्यो मितं स्वपित्यमितं कर्म कृत्वा। स्तमात्मवन्तं प्रजहत्यनाः॥ चिकीर्षितं विप्रकृतं च यस्य नान्ये जनाः कर्म जानन्ति किंचित्। मन्त्रे गुप्ते सम्यगनुष्ठिते च नाल्पोऽप्यस्थच्यवते कश्चिदर्थः॥ यः सर्वभूतप्रशमे निविष्टः सत्यो मृदुर्मानकृच्छुद्धभावः। अतीव स ज्ञायते ज्ञातिमध्ये महामणिर्जात्य इव प्रसन्नः॥ य आत्मनापनपते भृशं नरः स सर्वलोकस्य गुरुर्भवत्युता अनन्ततेजा: सुमनाः समाहितः स तेजसा सूर्य इवावभासते॥ वने जाता: शापदग्धस्य राज्ञः पाण्डोः पुत्राः पञ्च पञ्चेन्द्रकल्पाः। त्वयैव बाला वर्धिताः शिक्षिताश्च तवादेशं पालयन्त्याम्बिकेय॥ प्रदायैषामुचितं तात राज्यं सुखी पुत्रैः सहितो मोदमानः। न देवानां नापि च मानुषाणां भविष्यसि त्वं तर्कणीयो नरेन्द्र॥ धृतराष्ट्र उवाच जाग्रतो दह्यमानस्य यत् कार्यमनुपश्यसि। तद् ब्रूहि त्वं हि नस्तात धर्मार्थकुशलो ह्यसि॥ त्वं मां यथावदं विदुर प्रशाधिं प्रज्ञापूर्वं सर्वमजातशत्रोः। यन्मन्यसे पथ्यमदीनसत्त्व श्रेयस्करं ब्रूहि तद् वै कुरूणाम्॥ पापाशङ्की पापमेवानुपश्यन् पृच्छामि त्वां व्याकुलेनात्मनाहम्। न्मनीषितं सर्वमजातशत्रोः॥ विदुर उवाच शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियम्। अपृष्टस्तस्य तद् ब्रूयाद् यस्य नेच्छेत् पराभवम्॥ तस्माद् वक्ष्यामि ते राजन् हितं यत् स्यात् कुरून् प्रति। वचः श्रेयस्करं धयं ब्रुवतस्तन्निबोध मे॥ मिथ्योपेतानि कर्माणि सिद्धेयुर्यानि भारत। अनुपायप्रयुक्तानि मा स्म तेषु मनः कृथाः॥ तथैव योगविहितं यत्तु तु कर्म न सिध्यति। उपाययुक्तं मेधावी न तत्र ग्लपयेन्मनः॥ अनुबन्धानपेक्षेत सानुबन्धेषु कर्मसु। सम्प्रधार्य च कुर्वीत न वेगेन समाचरेत्॥ अनुबन्धं च सम्प्रेक्ष्य विपाकं चैव कर्मणाम्। उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा॥ यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये। कोशे जनपदे दण्डे न स राज्येऽवतिष्ठते॥ यस्त्वेतनि प्रमाणानि यथोक्तान्यनुपश्यति। युक्तो धर्मार्थवोर्ज्ञाने स राज्यमधिगच्छति॥ न राज्यं प्राप्तमित्येव वर्तितव्यमसाम्प्रतम्। श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तम्॥ भक्ष्योत्तमप्रतिच्छन्नं मत्स्यो बडिशमायसम्। लोभाभिपाति ग्रसते नानुबन्धमवेक्षते॥ यच्छक्यं ग्रसितुं चस्यं चस्तं परिणमेच्च यत्। हितं च परिणामे यत् तदाद्यं भूतिमिच्छता॥ वनस्पतेरपक्वानि फलानि प्रचिनोति यः। स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति॥ यस्तु पक्वमुपादत्ते काले परिणतं फलम्। फलाद् रसं स लभते बीजाच्चैव फलं पुनः॥ यथा मधु समादत्ते रक्षन् पुष्पाणि षट्पदः। तद्वदर्थान् मनुष्येभ्य आदद्यादविहिंसया॥ पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत्। मालाकार इवारामे न यथाऽङ्गारकारकः॥ केन्नु मे स्यादिदं कृत्वा किनु मे स्यादकुर्वतः। इति कर्माणि संचिन्त्य कुर्याद् वा पुरुषो न वा॥ अनारभ्या भवन्त्याः केचिन्नित्यं तथागताः। कृतः पुरुषकारो हि भवेद् येषु निरर्थकः॥ प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः। न तं भर्तारमिच्छन्ति षण्डं पतिमिव स्त्रियः॥ कांश्चिदर्थान् नरः प्राज्ञोलघुमूलान् महाफलान्। क्षिप्रमारभते कर्तुं न विघ्नयति तादृशान्॥ ऋजु पश्यति यः सर्वं चक्षुषानुपिबन्निव। आसीनमपि तूष्णीकमनुरज्यन्ति तं प्रजाः॥ सुपुष्पितः स्यादफल: फलित: स्याद् दुरारुहः। अपक्तः पक्वसंकाशो न तु शीर्येत कर्हिचित्॥ चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम्। प्रसादयति यो लोकं लोकोऽनुप्रसीदति॥ यस्मात् त्रस्यन्ति भूतानि मृगव्याधान्मृगा इव। सागरान्तामपि महीं लब्वा स परिहीयते॥ पितृपैतामहं राज्यं प्राप्तवान् स्वेन कर्मणा। वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः॥ धर्ममाचरतो राज्ञः सद्धिश्चरितमादितः। वसुधा वसुसम्पूर्णा वर्धते भूतिवर्धिनी॥ अथ संत्यजतो धर्ममधर्मं चानुतिष्ठतः। प्रतिसंवेष्टते भूमिरग्नौ चर्माहितं यथा।॥ य एव यत्नः क्रियते परराष्ट्रविमर्दने। स एव यत्नः कर्तव्यः स्वराष्ट्रपरिपालने॥ धर्मेण राज्यं विन्देत धर्मेण परिपालयेत्। धर्ममूलां श्रियं प्राप्य न जहाति न हीयते॥ अप्युन्मत्तात् प्रलपतो बालाच्च परिजल्पतः। सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम्॥ सुव्याहृतानि सूक्तानि सुकृतानि ततस्ततः। संचिन्वन् धीर आसीत शिलाहारी शिलं यथा।॥ गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः। चारैः पश्यन्ति राजानश्चक्षुर्ष्यामितरे जनाः॥ भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा। अथ या सुदुहा राजन् नैव तां वितुदन्त्यपि॥ यदतप्तं प्रणमति न तत् संतापयन्त्यपि। यच्च स्वयं नतं दारु न तत् सन्तापयन्त्यपि॥ एतयोपमया धीरः संनमेत बलीयसे। इन्द्राय स प्रणमते नमते यो बलीयसे॥ पर्जन्यनाथाः पशवो राजानो मन्त्रिवान्धवाः। पतयो बान्धवाः स्त्रीणां ब्राह्मणा वेदबान्धवाः॥ सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते। मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते॥ मानेन रक्ष्यते धान्यमश्वान् रक्षत्यनुक्रमः। अभीक्ष्णदर्शनं गाश्च स्त्रियो रक्ष्याः कुचैलतः।। :॥ न कुलं वृत्तहीनस्य प्रमाणमिति मे मतिः। अन्तेष्वपि हि जातानां वृत्तमेव विशिष्यते॥ य ईर्षुः परवित्तेषु रूपे वीर्ये कुलान्वये। सुखसौभाग्यसत्कारे तस्य व्याधिरनन्तकः॥ अकार्यकरणाद् भीतः कार्याणां च विवर्जनात्। अकाले मन्त्रभेदाच्च येन मायेन्न तत् पिबेत्॥ विद्यामदो धनमदस्तृतीयोऽभिजनो मदः। मदा एतेऽवलिप्तानामेत एव सतां दमाः॥ तावन तस्य सुकृतं किंचित्कार्ये कदाचन। मन्यन्ते सन्तमात्मानमसन्तमपि विश्रुतम्॥ गतिरात्मवतां सन्तः सन्त एवं सतां गतिः। असतां च गतिः सन्तो न त्वसन्तः सतां गतिः॥ जिता सभा वस्त्रवता मिष्टाशा गोमता जिता। अध्वा जितो यानवता सर्वं शीलवता जितम्॥ शीलं प्रधानं पुरुषे तद् यस्येह प्रणश्यति। न तस्य जीवितेनार्थो न धनेन न बन्धुभिः॥ आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम्। तैलोत्तरं दरिद्राणां भोजनं भरतर्षभ॥ सम्पन्नतरमेवान्नं दरिद्रा भुञ्जते सदा। क्षुत् स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा॥ प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते। जीर्यन्त्यपि हि काष्ठानि दरिद्राणां महीपते॥ अवृत्तिर्भयमन्त्यानां मध्यानां मरणाद् भयम्। उत्तमानां तु मानामवमानात् परं भयम्॥ ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः। ऐश्वर्यमदमत्तो हि नापतित्वा विबुध्यते॥ इन्द्रियैरिन्द्रियार्थेषु वर्तमानैरनिग्रहैः। तैरयं ताप्यते लोको नक्षत्राणि चहैरिवा॥ यो जितः पञ्चवर्गेण सहजेनात्मकर्षिणा। आपदस्तस्य वर्धन्ते शुक्लपक्ष इवोडुराट्॥ अविजित्य य आत्मानममात्यान् विजिगीषते। अमित्रान् वाजितामात्यः सोऽवशः परिहीयते॥ आत्मानमेव प्रथमं द्वेष्यरूपेण यो जयेत्। ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते॥ वश्येन्द्रियं जितात्मानं धृतदण्डं विकारिषु। परीक्ष्य कारिणं धीरमत्यन्तं धीरमत्यन्तं श्रीनिषेवते।।५८ त्रात्मा नियन्तेन्द्रियाण्यस्य चाश्वाः। र्दान्तः सुखं याति रथीव धीरः॥ एतान्यनिगृहीतानि व्यापादयितुमप्यलम्। अविधेया इवादान्ता हयाः पथि कुसारथिम्॥ अनर्थमर्थतः पश्यन्नर्थ चैवाप्यनर्थतः। इन्द्रियैरजितैर्बाल: सुदुः :खं मन्यते सुखम्॥ धर्मार्थो यः परित्यज्य स्यादिन्द्रियवशानुगः। श्रीप्राणधनदारेभ्यः क्षिप्रं स परिहीयते॥ अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः। इन्द्रियाणामनैश्वर्यादैश्वर्याद् भ्रश्यते हि सः॥ आत्मनाऽऽत्मानमन्विच्छेन्मनोबुद्धीन्द्रियैर्यतैः। आत्मा ह्येवात्मनो बन्धुरात्मैव रिपुरात्मनः॥ बन्धुरात्माऽऽत्मनस्तस्य येनैवात्माऽऽत्मना जितः। स एव नियतो बन्धुः स एव नियतो रिपुः॥ क्षुद्राक्षेणेव जालेन झपावपिहितावुरू। कामश्च राजन् क्रोधश्च तौ प्रज्ञानं विलुम्पतः॥ समवेक्ष्येह धर्मार्थो सम्भारान् योऽधिगच्छति। स वै सम्भृतसम्भारः सततः सुखमेधते॥ यः पञ्चाभ्यन्तराञ्छत्रूनविजित्य मनोमयान्। जिगीषति रिपूनन्यान् रिपवोऽभिभवन्ति तम्॥ दृश्यन्ते हि महात्मानो बध्यमानाः स्वकर्मभिः। इन्द्रियाणामनीशत्वाद् राजानो राज्यविभ्रमैः॥ स्तुल्यो दण्डः स्पृशते मिश्रभावात्। शुष्केणार्दै दह्यते मिश्रभावात् तस्मात् पापैः सह सन्धिं न कुर्यात्॥ निजानुत्पततः शत्रून् पञ्च पञ्चप्रयोजनान्। यो मोहान निगृह्णाति तमापद् ग्रसते नरम्॥ अनसूयाऽऽर्जवं शौचं संतोषः प्रियवादिता। दमः सत्यमनायासो न भवन्ति दुरात्मनाम्॥ आत्मज्ञानमनायासीत्ततिक्षा धर्मनित्यता। वाक् चैव गुप्ता दानं च नैतान्यन्त्येषु भारत॥ आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा वुधान्। वक्ता पापमुपादत्ते क्षममाणो विमुच्यते॥ हिंसा बलमसाधूनां राज्ञां दण्डविधिर्बलम्। शुश्रूषा तु बलं स्त्रीणां क्षमा गुणवतां बलम्॥ वाक्संयमो हि नृपते सुदुष्करतमो मतः। अर्थवच्च विचित्रं च न शक्यं बहु भाषितुम्॥ अभ्यावहति कल्याणं विविधं वाक् सुभाषिता। सैव दुर्भाषिता राजन्ननायोपपद्यते॥ रोहते सायकैर्विद्धं वनं परशुना हतम्। वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम्॥ कर्णिनालीकनाराचान् निर्हरन्ति शरीरतः। वाक्शल्यस्तु न निर्हर्तुं शक्यो हृदिशयोहिसः॥ वाक्सायका वदनानिष्पतन्ति यैराहतः शोचति रात्र्यहानि। परस्य नामर्मसु ते पतन्ति तान् पण्डितो नावसृजेत् परेभ्यः॥ यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम्। बुद्धि तस्यापकर्षन्ति सोऽवाचीनानि पश्यति॥ बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते। अनयो नयसंकाशो हृदयानापसर्पति॥ सेयं बुद्धिः परीता ते पुत्राणां भरतर्षभ। पाण्डवानां विरोधेन न चैनानवबुध्यसे॥ राजा लक्षणसम्पन्नस्त्रैलोक्यस्यापि यो भवेत्। शिष्यस्ते शासिता सोऽस्तु धृतराष्ट्रा युधिष्ठिरः॥ अतीत्य सर्वान् पुत्रांस्ते भागधेयपुरस्कृतः। तेजसा प्रज्ञया चैव युक्तो धर्मार्थतत्त्ववित्॥ अनुक्रोशादानृशंस्याद् योऽसौ धर्मभृतां वरः। गौरवात् तव राजेन्द्र बहून् क्लेशांस्तितिक्षति॥ धृतराष्ट्र उवाच ब्रूहि भूयो महाबुद्ध धर्मार्थसहितं वचः। शृण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे॥ विदुर उवाच सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम्। उभे त्वेते समे स्यातामार्जवं वा विशिष्यते॥ आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो। इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि॥ यावत् कीर्तिर्मनुष्यस्य पुण्या लोके प्रगीयते। तावत् स पुरुषव्याघ्र स्वर्गलोके महीयते॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। विरोचनस्य संवादं केशिन्यर्थं सुधन्वना॥ स्वयंवरे स्थिता कन्या केशिनी नाम नामतः। रूपेणाप्रतिमा राजन् विशिष्टपतिकाम्यया।॥ विरोचनोऽथ दैतेयस्तदा तत्राजगाम ह। प्राप्तुमिच्छंस्ततस्तत्र दैत्येन्द्रं प्राह केशिनी॥ केशिन्युवाच किं ब्राह्मणा: स्विच्छ्रेयांसो दितिजाः स्विद् विरोचन। अथ केन स्म पर्यवं सुधन्वा नाधिरोहति॥ विरोचन उवाच प्राजापत्यास्तु वै श्रेष्ठा वयं केशिनि सत्तमाः। अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः॥ केशिन्युवाच इहैवावां प्रतीक्षाव उपस्थाने विरोचन। सुधन्वा प्रातरागन्ता पश्येयं वां समागतौ॥ विरोचन उवाच तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे। सुधन्वानं च मां चैव प्रातर्दृष्टासि संगतौ॥ विदुर उवाच अतीतायां च शर्वर्यामुदिते सूर्यमण्डले। अथाजगाम तं देशं सुधन्वा राजसत्तम। विरोचनो यत्र विभो केशिन्या सहितः स्थितः॥ सुधन्वा च समागच्छत् प्राहादि केशिनी तथा। समागतं द्विजं दृष्ट्वा केशिनी भरतर्षभ। प्रत्युत्थायासनं तस्मै पाद्यमयं तदौ पुनः॥ सुधन्वोवाच अन्वालभे हिरण्मयं प्राह्रादे ते वरासनम्। एकत्वमुपसम्पन्नो न त्वासेऽहं त्वया सह॥ विरोचन उवाच तवाहते तु फलकं कूर्च वाप्यथवा बृसी। सुधन्वन्न त्वमोऽसि मया सह समासनम्॥ सुधन्वोवाच पितापुत्रौ सहासीतां द्वौ विप्रौ क्षत्रियावपि। वृद्धौ वैश्यौ च शूद्रौ च न त्वन्यावितरेतरम्॥ पिता हि ते समासीनमुपासीतैव मामधः। बालः सुखैधितो गेहे न त्वं किंचन बुध्यसे॥ विरोचन उवाच हिरण्यं च गवावं च यद् वित्तमसुरेषु नः। सुधन्वन् विपणे तेन प्रश्नं पृच्छाव ये विदुः॥ सुधन्वोवाच हिरण्यं च गवाश्चं च तवैवास्तु विरोचना प्राणयोस्तु पणं कृत्वा प्रश्नं पृच्छाव ये विदुः॥ विरोचन उवाच आवां कुत्र गमिष्यावः प्राणयोविपणे कृते। न तु देवेष्वहं स्थाता न मनुष्येषु कहिचित्॥ सुधन्वोवाच पितरं ते गमिष्यावः प्राणयोर्विपणे कृते। पुत्रस्यापि स हेतोहि प्रह्लाद नानृतं वदेत्॥ विदुर उवाच एवं कृतपणौ क्रुद्धौ तत्राभिजग्मतुस्तदा। विरोचनसुधन्वानौ प्रह्लाद यत्र तिष्ठति॥ प्रह्लाद उवाच इमौ तौ सम्प्रदृश्येते याभ्यां न चरितं सह। आशीविषाविव क्रुद्धावेकमार्गाविहागतौ॥ किं वै सहैवं चरथो न पुरा चरथः सह। विरोचनैतत् पृच्छामि किं ते सख्यं सुधन्वना॥ विरोचन उवाच न मे सुधन्वना सख्यं प्राणयोर्विपणावहे। प्रह्लाद तत्त्वं पृच्छामि मा प्रश्नमनृतं वदेः॥ प्रह्लाद उवाच उदकं मधुपर्क वाप्यानयन्तु सुधन्वने। ब्रह्मन्नभ्यर्चनीयोऽसि श्वेता गौः पीवरी कृता।॥ सुधन्वोवाच उदकं मधुपर्कं च पथिष्वेवार्पितं मम। प्रह्लाद त्वं तु मे तथ्यं प्रश्न प्रबूहि पृच्छतः। किं ब्राह्मणाः स्विच्छ्रेयांस उताहो स्विद् विरोचनः।। प्रह्लाद उवाच पुत्र एको मम ब्रह्मंस्त्वं च साक्षादिहास्थितः। तयोर्विवदतोः प्रश्नं कथमस्मद्विधो वदेत्॥ सुधन्वोवाच गां प्रदद्यास्त्वौरसाय यद्वान्यत् स्यात् प्रियं धनम्। द्वयोर्विवदतोस्तथ्यं वाच्यं च मतिमंस्वया॥ प्रह्लाद उवाच अथ यो नैव प्रब्रूयात् सत्यं वा यदि वानृतम्। एतत् सुधन्वन् पृच्छामि दुर्विवक्ता स्म किं वसेत्॥ सुधन्वोवाच यां रात्रिमधिविन्ना स्त्री यां चैवाक्षपराजितः। यां च भाराभितप्ताङ्गो दुर्विवक्ता स्म तां वसेत्॥ नगरे प्रतिरुद्धः सन् बहिरे बुभुक्षितः। अमित्रान् भूयसः पश्येद् यः साक्ष्यमनृतं वदेत्॥ पञ्च पश्चनृते हन्ति दश हन्ति गवानृते। शतमश्वानृते हन्ति सहस्रं पुरुषानृते।॥ हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन्। सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदेः॥ प्रहाद उवाच मत्तः श्रेयानङ्गिरा वै सुधन्वा स्वद्विरोचन। मातास्य श्रेयसी मातुस्तस्मात् त्वं तेन वै जितः॥ विरोचन सुधन्वाऽयं प्राणानामीश्वरस्तव। सुधन्वन् पुनरिच्छामि त्वया दत्तं विरोचनम्॥ सुधन्वोवाच यद् धर्ममवृणीथास्त्वं न कामादनृतं वदीः। पुनर्ददामि ते पुत्रं तस्मात् प्रह्लाद दुर्लभम्॥ एष प्रह्लाद पुत्रस्ते मया दत्तो विरोचनः। पादप्रक्षालनं कुर्यात् कुमार्याः संनिधौ मम॥ विदुर उवाच तस्माद् राजेन्द्र भूम्यर्थं नानृतं वक्तुमर्हसि। मा गम: ससुतामात्यो नाशं पुत्रार्थमब्रुवन्॥ न देवा दण्डमादाय रक्षन्ति पशुपालवत्। यं तु रक्षितुमिच्छन्ति बुद्ध्या संविभजन्ति तम्॥ यथा यथा हि पुरुषः कल्याणे कुरुते मनः। तथा तथाऽस्य सर्वार्थाः सिद्ध्यन्ते नात्र संशयः॥ नैनं छन्दांसि वृजिनात् तारयन्ति मायाविनं मायया वर्तमानम्। श्छन्दांस्येन प्रजहत्यन्तकाले॥ मद्यपानं कलहं पूगवैरं भार्यापत्योरन्तरं ज्ञातिभेदम्। राजद्विष्टं स्त्रीपुंसयोविवाद वान्याहुर्यश्च पन्थाः प्रदुष्टः॥ सामुद्रिकं वणिजं चोरपूर्वं शलाकधूर्तं च चिकित्सकं च। अरिं च मित्रं च कुशीलवं च नैतान् साक्ष्ये त्वधिकुर्वीत सप्त॥ मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः। एतानि चत्वार्यभयंकराणि भयं प्रयच्छन्त्ययथाकृतानि।। अगारदाही गरदः कुण्डाशी सोमविक्रयी। पर्वकारश्च सूची मित्रधुक् पारदारिकः॥ भ्रूणहा गुरुतल्पी च यश्च स्यात् पानपो द्विजः। अतितीक्ष्णश्च काकच नास्तिको वेदनिन्दकः॥ स्रुवप्रग्रहणो व्रात्य: कीनाशश्चात्मवानपि। रक्षेत्युक्तश्च यो हिंस्यात् सर्वे ब्रह्महभिः समाः॥ तृणोल्कया ज्ञायते जातरूपं वृत्तेन भद्रो व्यवहारेण साधुः। शूरो भयेष्वर्थकृच्छ्रेषु धीरः कृच्छ्रेष्वापत्सु सुहृदश्चारयश्च॥ जरा रूपं हरति हि धैर्यमाशा मृत्युः प्राणान् धर्मचर्यामसूया। क्रोधः श्रियं शीलमनार्यसेवा ह्रियं कामः सर्वमेवाभिमानः॥ श्रीमङ्गलात् प्रभवति प्रागल्भ्यात् सम्प्रवर्धते। दाक्ष्यात् तु कुरुते मूलं संयमात् प्रतितिष्ठति।॥ अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च। पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च॥ एतान् गुणांस्तात महानुभावानेको गुणः संश्रयते प्रसह्या राजा यदा सत्कुरुते मनुष्यं सर्वान् गुणानेष गुणो विभाति॥ अष्टौ नृपेमानि मनुष्यलोके स्वर्गस्य लोकस्य निदर्शनानि। श्चत्वारि चैषामनुयान्ति सन्तः॥ यज्ञो दानमध्ययनं तपश्च चत्वार्येतान्यन्ववेतानि सद्भिः। दमः सत्यमार्जवमानृशंस्यं चत्वार्येतान्यनुयान्ति सन्तः।। इज्याध्ययनदानानि तपः सत्यं क्षमा घृणा। अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः॥ तत्र पूर्वचतुर्वर्गो दम्भार्थमपि सेव्यते। उत्तरश्च चतुर्वर्गो नामहात्मसु तिष्ठति॥ न सा सभा यत्र न सन्ति वृद्धा वृद्धा ये न वदन्ति धर्मम्। नासौ धर्मो यत्र न सत्यमस्ति न तत् सत्यं यच्छलेनाभ्युपेतम्॥ सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम्। शौर्यं च चित्रभाष्यं च दशेमे स्वर्गयोनयः॥ पापं कुर्वन् पापकीर्तिः : पापमेवाश्नुते फलम्। पुण्यं कुर्वन् पुण्यकीर्तिः पुण्यमत्यन्तमश्नुते॥ तस्मात् पापं न कुर्वीत पुरुषः शंसितव्रतः। पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः॥ नष्टप्रज्ञः पापमेव नित्यमारभते नरः। पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः॥ वृद्धप्रज्ञः पुण्यमेव नित्यमारभते नरः। पुण्यं कुर्वन् पुण्यकीर्तिः पुण्यं स्थानं स्म गच्छति। तस्मात् पुण्यं निषेवेत पुरुषः सुसमाहितः॥ असूयको दन्दशूको निष्ठुरो वैरकृच्छठः। स कृच्छ्रे महदाप्नोति न चिरात् पापमाचरन्॥ अनसूयुः कृतप्रज्ञः शोभनान्याचरन् सदा। नकृच्छ्रे महदाप्नोति सर्वत्र च विरोचते॥ प्रज्ञामेवागमयति यः प्राज्ञेभ्यः स पण्डितः। प्राज्ञो ह्यवाप्य धर्मार्थों शक्नोति सुखमेधितुम्॥ दिवसेनैव तत् कुर्याद् येन रात्रो सुखं वसेत्। अष्टमासेन तत् कुर्याद् येन वर्षाः सुखं वसेत्॥ पूर्वे वयसि तत् कुर्याद् येन वृद्धः सुखं वसेत्। यावज्जीवेन तत् कुर्याद् येन प्रेत्य सुखं वसेत्॥ जीर्णमन्नं प्रशंसन्ति भार्यां च गतयौवनाम्। शूरं विजितसंग्रामं गतपारं तपस्विनम्॥ धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते। असंवृतं तद् भवथि ततोऽन्यदवदीर्यते॥ गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम्। अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः॥ ऋषीणां च नदीनां च कुलानां च महात्मनाम्। प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च।॥ द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी। क्षत्रियः शीलभाग् राजंश्चिरं पालयते महीम्॥ सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः। शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम्॥ बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत। तानि जवाजघन्यानि भारप्रत्यवराणि च॥ दुर्योधनेऽथ शकुनौ मूढे दुःशासने तथा। कर्णे चैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि॥ सर्वैर्गुणैरुपेतास्तु पाण्डवा भरतर्षभ। पितृवत् त्वयि वर्तन्ते तेषु वर्तस्व पुत्रवत्॥ विदुर उवाच अत्रैवोदाहरन्तीममितिहासं पुरातनम्। आत्रेयस्य च संवाद साध्यानां चेति नः श्रुतम्॥ चरन्तं हसरूपेण महर्षिं संशितव्रतम्। साध्या देवा महाप्राज्ञं पर्यपृच्छन्त वै पुरा॥ साध्या ऊचुः साध्या देवा वयमेते महर्षे दृष्ट्वा भवन्तं न शक्नुमोऽनुमातुम्। श्रुतेन धीरो बुद्धिमांस्त्वं मतो नः काव्यां वाचं वक्तुमर्हस्युदाराम्॥ हंस उवाच एतत् कार्यममराः संश्रुतं मे धृतिः शमः सत्यधर्मानुवृत्तिः। ग्रन्धि विनीय हृदयस्य सर्वं प्रियाप्रिये चात्मसमं नयीत॥ आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति॥ नाक्रोशी स्यान्नावमानी परस्य मित्रद्रोही नोत नीचोपसेवी। न चाभिमानी न च हीनवृत्तो रुक्षां वाचं रुषती वर्जयीत॥ मर्माण्यस्थीनि हृदयं तथासून् रूक्षा वाचो निर्दहन्तीह पुंसाम्। तस्माद् वाचमुषती रूक्षरूपां धर्मारामो नित्यशो वर्जयीत॥ अरुन्तुदं परुष रूक्षवाचं वाक्कण्टकैर्वितुदन्तं मनुष्यान्। विद्यादलक्ष्मीकतमं जनानां मुखे निबद्धां निर्ऋतिं वै वहन्तम्॥ भृशं सुतीक्ष्णैरनलार्कदीप्तैः। स विध्यमानोऽप्यतिदह्यमानो विद्यात् कविः सुकृतं मे दधाति॥ यदि सन्तं सेवति सद्यसन्तं तपस्विनं यदि वा स्तेनमेवा वासो यथा रङ्गवशं प्रयाति तथा स तेषां वशमभ्युपैति॥ अतिवादं न प्रवदेन वादयेद् योऽनाहतः प्रतिहन्यान्न घातयेत्। हन्तुं च यो नेच्छति पापकं वै तस्मै देवाः स्पृहयन्त्यागताय॥ अव्याहृतं व्याहृताच्छ्रेय आहुः सत्यं वदेद् व्याहृतं तद् द्वितीयम्। प्रियं वदेद् व्याहृतं तत् तृतीयं धर्म वदेद् व्याहृतं तच्चतुर्थम्॥ यादृशैः संनिविंशते यादृशांश्चोपसेवते। यादृगिच्छेच्च भवितुं तादृग् भवति पूरुषः॥ यतो यतो निवर्तते ततस्ततो विमुच्यते। निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि॥ न जीयते चानुजिगीषतेऽन्यान् न वैरकृच्चाप्रतिघातकश्चा निन्दाप्रशंसासु समस्वभावो न शोचते हृष्यति नैव चायम्॥ भावमिच्छति सर्वस्य नाभावे कुरुते मनः। सत्यवादी मृदुर्दान्तो य: स उत्तमपूरुषः॥ नानर्थकं सान्त्वयति प्रतिज्ञाय ददाति च। रन्ध्र परस्य जानाति यः स मध्यमपूरुषः॥ दुःशासनस्तूपहतोऽभिशस्तो नावर्तते मन्युवशात् कृतघ्नः। न कस्यचिन्मित्रमथो दुरात्मा कलाश्चैता अधमस्येह पुंसः॥ न श्रद्दधाति कल्याणं परेभ्योऽप्यात्मशङ्कितः। निराकरोति मित्राणि यो वै सोऽधमपूरुषः॥। उत्तमानेव सेवेत प्राप्तकाले तु मध्यमान्। अधमांस्तु न सेवेत य इच्छेद् भूतिमात्मनः॥ प्राप्नोति वै चित्तमसद्वलेन नित्योत्थानात् प्रज्ञया पौरुषेण। न त्वेव सम्यग् लभते प्रशंसा न वृत्तमाप्नोति महाकुलानाम्॥ धृतराष्ट्र उवाच महाकुलेभ्यः स्पृहयन्ति देवा धर्मार्थनित्याश्च बहुश्रुताश्चा पृच्छामि त्वां विदुर प्रश्नमेतं भवन्ति वै कानि महाकुलानि॥ विदुर उवाच तपो दमो ब्रह्मवित्तं वितानाः पुण्या विवाहाः सततान्नदानम्। येष्वेवैते सप्त गुणा वसन्ति सम्यग्वृत्तास्तानि महाकुलानि॥ श्चित्तप्रसादेन चरन्ति धर्मम्। ते कीर्तिमिच्छन्ति कुले विशिष्टां त्यक्तानृतास्तानि महाकुलानि॥ अनिज्यया कुविवाहैर्वेदस्योत्सादनेन च। कुलान्यकुलतां यान्ति धर्मस्यातिक्रमेण च॥ देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च। कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च॥ ब्राह्मणानां परिभवात् परिवादाच्च भारत। कुलान्यकुलतां यान्ति न्यासापहरणेन च॥ कुलानि समुपेतानि गोभिः पुरुषतोऽर्थतः। कुलसंख्यां न गच्छन्ति यानि हीनानि वृत्ततः॥ वृत्ततस्त्वविहीनानि कुलान्यल्पधनान्यपि। कुलसंख्यां च गच्छन्ति कर्षन्ति च महद् यशः॥ वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च। अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः॥ गोभिः पशुभिरश्चैश्च कृष्या च सुसमृद्धया। कुलानि न प्ररोहन्ति यानि हीनानि वृत्ततः॥ मा नः कुले वैरकृत् कश्चिदस्तु राजाऽमात्यो मा परस्वापहारी। मित्रद्रोही नैकृतिकोऽनृती वा पूर्वाशी वा पितृदेवातिथिभ्यः॥ यश्च नो ब्राह्मणान् हन्याद् यश्च नो ब्राह्मणान् द्विषेत्। न नः स समिति गच्छेद् यश्च नो निर्वपेत् कृषिम्।।३३। तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता। सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन॥ श्रद्धया परया राजन्नुपनीतानि सत्कृतिम्। प्रवृत्तानि महाप्राज्ञ धर्मिणां पुण्यकर्मिणाम्॥ सूक्ष्मोऽपि भारं नृपते स्यन्दनो वै शक्तो वोढुं न तथान्ये महीजाः। एवं युक्ता भारसहा भवन्ति महाकुलीना न तथान्ये मनुष्याः॥ न तन्मित्रं यस्य कोपाद् बिभेति यद् वा मित्रं शङ्कितेनोपचर्यम्। यस्मिन् मित्रे पितरीवाश्वसीत तद् वै मित्रं सङ्गत्तानीतराणि॥ यः कश्चिदप्यसम्बद्धो मित्रभावेन वर्तते। स एव बन्धुस्तन्मित्रं सा गतिस्तत् परायणम्॥ चलचित्तस्य वै पुंसो वृद्धाननुपसेवतः। पारिप्लवमतेर्नित्यमध्रुवो मित्रसंग्रहः॥ चलचित्तमनात्मानमिन्द्रियाणां वशानुगम्। अर्थाः समभिवर्तन्ते हंसाः शुष्कं सरो यथा।॥ अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः। शीलमेतदसाधूनाम, पारिप्लवं यथा।॥ सत्कृताश्च कृतार्थाश्च मित्राणां न भवन्ति ये। तान् मृतानपि क्रव्यादाः कृतघ्नान् नोपभुञ्जते॥ अर्चयेदेव मित्राणि सति वाऽसति वा धने। नानर्थयन् प्रजानाति मित्राणां सारफल्गुताम्॥ संतापाद् भ्रश्यते रूपं संतापाद् भ्रश्यते बलम्। संतापाद् भ्रश्यते ज्ञानं संतापाद् व्याधिमृच्छति॥ अनवाप्यं च शोकेन शरीरं चोपतप्यते। अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः॥ पुनर्नरो म्रियते जायते च पुनर्नरो हीयते वर्धते च। पुनर्नरो याचति याच्यते च पुनर्नरः शोचति शोच्यते च॥ सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च। पर्यायशः सर्वमेते स्पृशन्ति तस्माद् धीरो न च हृष्येन्न शोचेत्॥ चलानि हीमानि षडिन्द्रियाणि तेषां यद् यद् वर्धते यत्र यत्र। ततस्तत: स्रवते बुद्धिरस्य छिद्रोदकुम्भादिव नित्यमम्भः॥ धृतराष्ट्र उवाच तनुरुद्धः शिखी राजा मिथ्योपचरितो मया। मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति॥ नित्योद्विग्नमिदं सर्वं नित्योद्विग्नमिदं मनः। यत् तत् पदमनुद्विग्नं तन्मे वद महामते॥ विदुर उवाच नान्यत्र विद्यातपसोर्नान्यत्रेन्द्रियनिग्रहात्। नान्यत्र लोभसंत्यागाच्छान्तिं पश्यामि तेऽनघ।५।। बुद्ध्या भयं प्रणुदति तपसा विन्दते महत्। गुरुशुश्रूषया ज्ञानं शान्तिं योगेन विन्दति॥ अनाश्रिता दानपुण्यं वेदपुण्यमनाश्रिताः। रागद्वेषविनिर्मुक्ता विचरन्तीह मोक्षिणः॥ स्वधीतस्य सुयुद्धस्य सुकृतस्य च कर्मणः। तपसश्च सुतप्तस्य तस्यान्ते सुखमेधते॥ स्वास्तीर्णानि शयनानि प्रपन्ना न वै भिन्ना जातु निद्रां लभन्ते। न स्त्रीषु राजन् रतिमाप्नुवन्ति न मागधैः स्तूयमाना न सूतैः॥ न वै भिन्ना जातु चरन्ति धर्म न वै शुकं प्राप्नुवन्तीह भिन्नाः। न वै भिन्ना गौरवं प्राप्नुवन्ति न वै भिन्नाः प्रशमं रोचयन्ति॥ न वै तेषां स्वदते पथ्यमुक्तं योगक्षेमं कल्पते नैव तेषाम्। भिन्नानां वै मनुजेन्द्र परायणं न विद्यते किंचिदन्यद् विनाशात्॥ सम्पन्नं गोषु सम्भाव्यं सम्भाव्यं ब्राह्मणे तपः। सम्भाव्यं चापलं स्त्रीषु सम्भाव्यं ज्ञातितो भयम्॥ तन्तवोऽs: प्यायिता नित्यं तनवो बहुलाः समाः। बहून् बहुत्वादायासान् सहन्तीत्युपमासताम्॥ धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च। धृतराष्ट्रोल्मकानीव ज्ञातयो भरतर्षभ॥ ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु गोषु च। वृन्तादिव फलं पक्वं धृतराष्ट्र पतन्ति ते॥ महानप्येकजो वृक्षो बलवान् सुप्रतिष्ठितः। प्रसह्य एव वातेन सस्कन्धो मर्दितु क्षणात्॥ अथ ये सहिता वृक्षाः सघशः सुप्रतिष्ठिताः। ते हि शीघ्रतमान् वातान् सहन्तेऽन्योन्यसंश्रयात्॥ एवं मनुष्यमप्येकं गुणैरपि समन्वितम्। शक्यं द्विषन्तो मन्यन्ते वायुर्दुममिवैकजम्॥ अन्योन्यसमुपष्टम्भादन्योन्यापाश्रयेण च। ज्ञातयः सम्प्रवर्धन्ते सरसीवोत्पलान्युत।॥ अवध्या ब्राह्मणा गावो ज्ञातयः शिशवः स्त्रियः। येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः॥ न मनुष्ये गुणः कश्चिद् राजन् सधनतामृते। अनातुरत्वाद् भद्रं ते मृतकल्पा हि रोगिणः॥ अव्याधिजं कटुकं शीर्षरोगि पापानुबन्धं परुषं तीक्ष्णमुष्णम्। सतां पेयं यन्न पिबन्त्यसन्तो मन्यु महाराज पिब प्रशाम्य॥ रोगार्दिता न फलान्याद्रियन्ते न वै लभन्ते विषयेषु तत्त्वम्। दुःखोपेता रोगिणो नित्यमेव न बुध्यन्ते धनभोगान् न सौख्यम्॥ पुरा ह्युक्तं नाकरोस्त्वं वचो मे द्यूते जितां द्रौपदी प्रेक्ष्य राजन्। दुर्योधनं वारयेत्यक्षवत्यां कितवत्वं पण्डिता वर्जयन्ति॥ न तद् बलं यन्मृदुना विरुध्यते सूक्ष्मो धर्मस्तरसा सेवितव्यः। {दुप्रौढा गच्छति पुत्रपौत्रान्॥ धार्तराष्ट्राः पाण्डवान् पालयन्तु पाण्डोः सुतास्तव पुत्रांश्च पान्तु। एकारिमित्राः कुरवो ह्येककार्या जीवन्तु राजन् सुखिनः समृद्धाः॥ मेढीभूतः कौरवाणां त्वमद्य त्वय्याधीनं कुरुकुलमाजमीढ। पार्थान् बालान् वनबासप्रतप्तान् गोपायस्व स्वं यशस्तात रक्षन्॥ र्मा तेऽन्तरं रिपव: प्रार्थयन्तु। सत्ये स्थितास्ते नरदेव सर्वे दुर्योधनं स्थापय त्वं नरेन्द्र॥ विदुर उवाच सप्तदशेमान् राजेन्द्र मनुः स्वायम्भुवोऽब्रवीत्। वैचित्रवीर्य पुरुषानाकाशं मुष्टिभिनतः॥ दानवेन्द्रस्य च धनुरनाम्यं नमतोऽब्रवीत्। अथो मरीचिनः पादानग्राह्यान् गृह्णतस्तथा॥ यश्चाशिष्यं शास्ति वै यश्च तुष्येद् यश्चातिबेलं भजते द्विषन्तम्। स्त्रियश्च यो रक्षति भद्रमश्नुते यशायाच्यं याचते कत्थते वा ॥ यश्चाभिजातः प्रकरोत्यकार्य यश्चाबलो बलिना नित्यवैरी। अश्रद्दधानाय च यो ब्रवीति यश्चाकाम्यं कामयते नरेन्द्र॥ बध्वावहासं श्वशुरो मन्यते यो वध्वा वसन्नभयो मानकामः। परक्षेत्रे निर्वपति यश्चबीजं स्त्रियः च यः परिवदतेऽतिवेलम्॥ यश्चापि लब्ध्वा न स्मरामीति वादी दत्त्वा च यः कत्थि याच्यमानः। यश्चासतः सत्त्वमुपानयीत एतान् नयन्ति निरयं पाशहस्ताः॥ यस्मिन् यथा वर्तते यो मनुष्यस्तस्मिंस्तथा वर्तितव्यं स धर्मः। मायाचारो मायया वर्तितव्यः साध्वाचारः साधुना, प्रत्युपेयः॥ जरा रूपं हरति हि धैर्यमाशा मृत्युः प्राणान् धर्मचर्यामसूया। कामो ह्रियं वृत्तमनार्यसेवा क्रोधः श्रियं सर्वमेवाभिमानः॥ धृतराष्ट्र उवाच शतायुरुक्तः पुरुषः सर्ववेदेषु वै यदा। नाप्नोत्यथ च तत् सर्वमायुः केनेह हेतुना॥ विदुर उवाच अंतिमानोऽतिवादश्च तथात्यागो नराधिप। क्रोधश्चात्मविधित्सा च मित्रद्रोहश्च तानि षट्॥ एत एवासयस्तीक्ष्णा कृन्तन्त्यायूंषि देहिनाम्। एतानि मानवान् प्रन्ति न मृत्युर्भद्रमस्तु ते॥ विश्वस्तस्यैति यो दारान् यश्चापि गुरुतल्पगः। वृषलीपतिर्द्विजो यश्च पानपश्चैव भारत।॥ आदेशकृद् वृत्तिहन्ता द्विजानां प्रेषकश्च यः। शरणागतहा चैव सर्वे ब्रह्महणः समाः। एतैः समेत्य कर्तव्यं प्रायश्चित्तमिति श्रुतिः॥ गृहीतवाक्यो नयविद् वदान्यः शेषानभोक्ता ह्यविहिंसकश्च। नानर्थकृत्याकुलितः कृतज्ञः सत्यो मृदुः स्वर्गमुपैति विद्वान्॥ सुलभाः पुरुषा राजन् सततं प्रियवादिनः। अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः॥ यो हि धर्मं समाश्रित्य भर्तुः प्रियाप्रिये। अप्रियाण्याहं पथ्यानि तेन राजा सहायवान्।॥ त्यजेत् कुलार्थं पुरुषं ग्रामस्यार्थं कुलं त्यजेत्। ग्रामं जनपदस्यार्थं आत्मार्थं पृथिवीं त्यजेत्॥ आपदर्थं धनं रक्षेद् दारान् रक्षेद् धनैरपि। आत्मानं सततं रक्षेद् दारैरपि धनैरपि॥ द्यूतमेतत् पुराकल्पे दृष्टं वैरकरं नृणाम्। तस्माद् द्यूतं न सेवेत हास्यार्थमपि बुद्धिमान्॥ उक्तं मया द्यूतकालेऽपि राजन् नेदं युक्तं वचनं प्रातिपेया तदौषधं पथ्यमिवातुरस्य न रोचते तव वैचित्रवीर्य।।२० काकैरिमांश्चित्रबर्हान् मयूरान् पराजयेथाः पाण्डवान् धार्तराष्ट्रैः। हित्वा सिंहान् क्रोष्टकान् गृहमान: प्राप्ते काले शोचिता त्वं नरेन्द्रः॥ यस्तात न क्रुध्यति सर्वकालं भृत्यस्य भक्तस्य हिते रतस्य। तस्मिन् भृत्या भर्तरि विश्वसन्ति न चैनमापत्सु परित्यजन्ति॥ न भृत्यानां वृत्तिसंरोधनेन राज्यं धनं संजिघृक्षेदपूर्वम्। त्यजन्ति होनं वञ्चिता वै विरुद्धाः स्निग्धा ह्यमात्याः परिहीनभोगाः॥ ण्यायव्यये चानुरूपा च वृत्तिम्। संगृह्णीयादनुरूपान् सहायान् सहायसाध्यानि हि दुष्कराणि॥ अभिप्रायं यो विदित्वा तु भर्तुः सर्वाणि कार्याणि करोत्यतन्द्री। वक्ता हितानामनुक्त आर्य: शक्तिज्ञः आत्मेव हि सोऽनुकम्प्यः॥ वाक्यं तु यो नाद्रियतेऽनुशिष्टः प्रत्याह यश्चापि नियुज्यमानः। प्रज्ञाभिमानी प्रतिकूलवादी त्याज्यः स तादृक् त्वरयैक भृत्यः॥ अस्तब्धमक्लीबमदीर्घसूत्रं सानुक्रोशं श्लक्ष्णमहार्यमन्यैः। अरोगजातीयमुदारवाक्यं दूतं वदन्त्यष्टगुणोपपन्नम्॥ न विश्वासाज्जातु परस्य गेहे गच्छेन्नरशेतयानो विकाले। न चत्वरे निशि तिष्ठेन्निगूढो न राजकाम्यां योषितं प्रार्थयीत॥ न निछवं मन्त्रगतस्य गच्छेत् संसृष्टमन्त्रस्य कुसङ्गतस्य। न च ब्रूयान्नाश्वसिमि त्वयीति सकारणं व्यपदेशं तु कुर्यात्॥ घृणी राजा पुंश्चली राजभृत्यः पुत्रो भ्राता विधवा बालपुत्रा। सेनाजीवी चोद्धृतभूतिरेव व्यवहारेषु वर्जनीयाः स्युरेते॥ अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च श्रुतं दमश्च। पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च॥ नेको गुण: संश्रयते प्रसह्या राजा यदा सत्कुरुते मनुष्यं सर्वान् गुणानेष गुणो बिभर्ति॥ गुणा दश स्नानशीलं भजन्ते बलं रूपं स्वरवर्णप्रशुद्धिः। स्पर्शश्च गन्धश्च विशुद्धता च श्री: सौकुमार्य प्रवराश्च नार्यः॥ गुणाश्च पण्मितभुक्तं भजन्ते आरोग्यमायुश्च बलं सुखं च। अनाविलं चास्य भवत्यपत्यं न चैनमायून इति क्षिपन्ति॥ अकर्मशीलं च महाशनं च लोकद्विष्टं बहुमायं नृशंसम्। अदेशकालज्ञमनिष्टवेषमेतान् गृहे न प्रतिवासयेत॥ कदर्यमाक्रोशकमश्रुतं च वनौकसं धूर्तममान्यमानिनम्। मेतान् भृशार्तोऽपि न जातु याचेत्॥ संक्लिष्टकर्माणतिप्रमादं नित्यानृतं चादृढभक्तिकं च। विसृष्टरागं पटुमानिनं चाप्येतान् न सेवेत नराधमान् षट्॥ सहायबन्धना ह्याः सहायाश्चार्थबन्धना। अन्योन्यबन्धनावेतौ विनान्योन्यं न सिद्ध्यतः॥ उत्पाद्य पुत्राननृणांश्च कृत्वा वृत्तिं च तेभ्योऽनुविधाय कांचित्। स्थाने कुमारी: प्रतिपाद्य सर्वा अरण्यसंस्थोऽथ मुनिळूभूषेत्॥ हितं यत् सर्वभूतानामात्मनश्च सुखावहम्। तत् कुर्यादीश्वरे ह्येतन्मूलं सर्वार्थसिद्धये॥ वृद्धिः प्रभावस्तेजश्च सत्त्वमुत्थानमेव च। व्यवसायश्च यस्य स्यात् तस्यावृत्तिभयं कुतः॥ पश्य दोषान् पाण्डवैविचहे त्वं यत्र व्यथेयुरपि देवाः सशक्राः। पुत्रैर्वैरं नित्यमुद्विग्नवासो यशःप्रणाशो द्विषतां च हर्षः॥ भीष्मस्य कोपस्तव चैवेन्द्रकल्प द्रोणस्य राज्ञश्च युधिष्ठिरस्य। उत्सादयेल्लोकमिमं प्रवृद्धः श्वेतो चहस्तियेगिवापतन् खे॥ तव पुत्रशतं चैव कर्णः पञ्च च पाण्डवाः। पृथिवीमनुशासेयुरखिलां सागराम्बराम्॥ धार्तराष्ट्रा वनं राजन् व्याघ्राः पाण्डुसुता मताः। मा वनं छिन्धि सव्यानं मा व्याघ्रान नीनशन् वनात्॥ न स्याद् वनमृते व्याघ्रान् व्याघ्रा न स्युर्ऋते वनम्। वनं हि रक्ष्यते व्याघैर्व्याघ्रान् रक्षति काननम्॥ न तथेच्छन्ति कल्याणान् परेषां वेदितुं गुणान्। यथैषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतसः॥ अर्थसिद्धिं परामिच्छन् धर्ममेवादितश्चरेत्। न हि धर्मादपैत्यर्थः स्वर्गलोकादिवामृतम्॥ यस्यात्मा विरतः पापात् कल्याणे च निवेशितः। तेन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च य॥ यो धर्ममर्थं कामं च यथाकालं निषेवते। धर्मार्थकामसंयोगं सोऽमुत्रेह च विन्दति॥ संनियच्छति यो वेगमुत्थितं क्रोधहर्षयोः। स श्रियो भाजनं राजन् यश्चापत्सु न मुह्यति॥ बलं पञ्चविधं नित्यं पुरुषाणां निबोध मे। यत् तु बाहुबलं नाम कनिष्ठं बलमुच्यते॥ अमात्यलाभो भद्रं ते द्वितीयं बलमुच्यते। तृतीयं धनलाभं तु बलमाहुर्मनीषिणः॥ यत् त्वस्य सहजं राजन् पितृपैतामहं बलम्। अभिजातबलं नाम तच्चतुर्थं बलं स्मृतम्॥ येन त्वेतानि सर्वाणि संगृहीतानि भारत। यद् बलानां बलं श्रेष्ठं तत् प्रज्ञाबलमुच्यते॥ महते योऽपकाराय नरस्यं प्रभवेन्नरः। तेन वैरं समासज्य दूरस्थोऽस्मीति नाश्वसेत्॥ स्त्रीधू राजसु सर्पषु स्वाध्यायप्रभुशत्रुषु। भोगेष्वायुषि विश्वासं कः प्राज्ञः कर्तुमर्हति॥ चिकित्सकाः सन्ति न चौषधानि। न होममन्त्रा न च मङ्गलानि नाथर्वणा नाप्यगदाः सुसिद्धाः॥ सर्पश्चाग्निश्च सिंहश्च कुलपुत्रश्च भारत। नावज्ञेया मनुष्येण सर्वे ह्येतेऽतितेजसः॥ अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु। न चोपयुक्ते तद् दारु यावन्नोद्दीप्यते परैः॥ स एव खलु दारुभ्यो यदा निर्मथ्य दीप्यते। तद् दारु च वनं चान्यन्निर्दहत्याशु तेजसा॥ एवमेव कुले जाताः पावकोपमतेजसः। क्षमावन्तो निराकाराः काष्टेऽग्निरिव शेरते॥ लताधर्मा त्वं सपुत्रः शालाः पाण्डुसुता मताः। न लता वर्धते जातु महाद्रुममनाश्रिता॥ वनं राजंस्तव पुत्रोऽऽम्बिकेय सिंहान् वने पाण्डवांस्तात विद्धि। सिंहैविहीनं हि वनं विनश्येत् सिंहा विनश्येयुर्ऋते वनेन॥ विदुर उवाच ऊर्ध्वं प्राणा [त्क्रामन्ति यून: स्थविर आयति। प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते॥ पीठं दत्त्वा साधवेऽभ्यागताय आनीयाप: परिनिर्णिज्य पादौ। सुखं पृष्ट्वा प्रतिवेद्यात्मसंस्थां ततो दद्यादन्नमवेक्ष्य धीरः॥ यस्योदकं मधुपर्कं च गां च न मन्त्रवित् प्रतिगृह्णाति गेहे। लोभाद् भयादथ कार्पण्यतो वा तस्यानर्थं जीवितमाहुरायः॥ चिकित्सकः शल्यकर्तावकीर्णी स्तनः क्रूरो मद्यपो भ्रूणहा च। सेनाजीवी श्रुतिविक्रायक्श्च भृशं प्रियोऽप्यतिथि!दकाहः। :॥ अविक्रयं लवणं पक्वमन्त्रं दधि क्षीरं मधु तैलं घृतं चा तिला मांसं फलमूलानि शाकं रक्तं वासः सर्वगन्धा गुणाश्च॥ अरोषणो यः समलोष्ठाश्मकाञ्चनः प्रहीणशोको गतसन्धिविग्रहः। निन्दाप्रशंसोपरतः प्रियाप्रिये त्यजन्नुदासीनवदेष भिक्षुकः॥ नीवारमूलेदशाकवृत्तिः सुसंयतात्माग्निकार्येषु चोद्यः। वने वसन्नतिथिष्वप्रमत्तो धुरन्धरः पुण्यकृदेष तापसः॥ अपकृत्य बुद्धिमतो दूरस्थोऽस्मीति नाश्वसेत्। दीर्थी बुद्धिमतोबाहू याभ्यां हिंसति हिंसितः॥ न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्। विश्वासाद् भयमुत्पन्नं मूलान्यपि निकृन्तति॥ अनीपुंर्गुप्तदाश्च संविभागी प्रियंवदः। श्लक्ष्णो मधुरवाक् स्त्रीणां न चासां वशगो भवेत्॥१० पूजनीया महाभागाः पुण्याश्च गृहदीप्तयः। स्त्रियः श्रियो गृहस्योक्तास्तस्माद् रक्ष्या विशेषतः॥ पितुरन्तःपुरं दद्यान्मातुर्दद्यान्महानसम्। गोषु चात्मसम दद्यात् स्वयमेव कृषि व्रजेत्॥ भृत्यैर्वाणिज्यचारं च पुत्रैः सेवेत च द्विजान्। अद्ध्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुस्थितम्॥ तेषां सर्वत्रगं तेज: स्वासु योनिषु शाम्यति। नित्यं सन्तः कुले जाताः पावकोपमतेजसः॥ क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते। यस्य मन्त्रं न जानन्ति बाहाचाभ्यन्तराश्च ये॥ स राजा सर्वतश्चक्षुश्चिरमैश्वर्यमश्नुते। करिष्यन् न प्रभाषेत कृतान्येव तु दर्शयेत्॥ धर्मकामार्थकार्याणि तथा मन्त्रो न भिद्यते। गिरिपृष्ठमुपारुह्य प्रासादं वा रहोगतः॥ अरण्ये निःशलाके वा तत्र मन्त्रोऽभिधीयते। नासुहृत् परमं मन्त्रं भारतार्हति वेदितुम्॥ अपण्डितो वापि सुहृत् पण्डितो वाप्यनात्मवान्। नापरीक्ष्य महीपालः कुर्यात् सचिवमात्मनः॥ अमात्ये ह्यर्थलिप्सा च मन्त्ररक्षणामेव च। कृतानि सर्वकार्याणि यस्य पारिषदा विदुः॥ धर्मे चार्थे च कामे च स राजा राजसत्तमः। गूढमन्त्रस्य नृपतेस्तस्य सिद्धिरसंशयम्॥ अप्रशस्तानि कार्याणि यो मोहादनुतिष्ठति। स तेषां विपरिभ्रंशाद् भ्रंश्यते जीवितादपि।॥ कर्मणां तु प्रशस्तानामनुष्ठानं सुखावहम्। तेषामेवाननुष्ठानं पश्चात्तापकरं मतम्॥ अनधीत्य यथा वेदान् न विप्रः श्राद्धमर्हति। एवमश्रुतषाङ्गण्यो न मन्त्रं श्रोतुमर्हति॥ स्थानवृद्धिक्षयज्ञस्य षाडण्यविदितात्मनः। अनवज्ञातशीलस्य स्वाधीना पृथिवी नृप॥ अमोधक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षिणः। आत्मप्रत्ययकोशस्य वसुदैव वसुन्धरा॥ नाममात्रेण तुष्येत छत्रेण च महीपतिः। भृत्येभ्यो विसृजेदर्थान् नैकः सर्वहरो भवेत्॥ ब्राह्मणं ब्राह्मणो वेद भर्ता वेद स्त्रियं तथा। अमात्यं नृपतिर्वेद राजा राजानमेव च॥ न शत्रुर्वशमापन्नो मोक्तव्यो वध्यतां गतः। न्यग्भूत्वा पर्युपासीत वध्यं हन्याद् बले सति। अहताद्धि भयं तस्माज्जायते नचिरादिव॥ दैवतेषु प्रयत्नेन राजसु ब्राह्मणेषु च। नियन्तव्यः सदा क्रोधो वृद्धबालातुरेषु च।॥ निरर्थं कलहं प्राज्ञो वर्जयेन्मूढसेवितम्। कीर्ति च लभते लोके न चानर्थेन युज्यते॥ प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः। न तं भर्तारमिच्छन्ति षण्डं पतिमिव स्त्रियः॥ न बुद्धिर्धनलाभाय न जाड्यसमृद्धये। लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः॥ विद्याशीलवयोवृद्धान् बुद्धिवृद्धांश्च भारत। धनाभिजातवृद्धांश्च नित्यं मूढोऽवमन्यते॥ अनार्यवृत्तमप्राज्ञमसूयकमधार्मिकम्। अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा॥ अविसंवादनं दानं समयस्याव्यतिक्रमः आवर्तयन्ति भूतानि सम्यकप्रणिहिता च वाक्॥ अविसंवादको दक्षः कृतज्ञो मतिमानृजुः। अपि संक्षीणकोशोऽपि लभते परिवारणम्॥ धृतिः शमो दमः शौचं कारुण्यं वागनिष्ठुरा। मित्राणां चानभिद्रोहः सप्तैताः समिधः श्रियः॥ असंविभागी दुष्टात्मा कृतघ्नो निरपत्रपः। तादृड्नराधिपो लोके वर्जनीयो नराधिप॥ न च रात्रौ सुखं शेते ससर्प इव वेश्मनि। यः कोपयति निर्दोष सदोषोऽभ्यन्तरं जनम्॥ येषु दुष्टेषु दोषः स्याद् योगक्षेमस्य भारत। सदा प्रसादनं तेषां देवतानामिवाचरेत्॥ येऽर्थाः स्त्रीषु समायुक्ताः प्रमत्तपतितेषु च। ये चानार्ये समासक्ताः सर्वे ते संशयं गताः॥ यत्र स्त्री यत्र कितवो बालो यत्रानुशासिता। मज्जन्ति तेऽवशा राजन् नद्यामश्मप्लवा इव॥ प्रयोजनेषु ये सक्ता न विशेषेषु भारत। तानहं पण्डितान् मन्ये विशेषा हि प्रसङ्गिनः॥ यं प्रशंसन्ति कितवा यं प्रशंसन्ति चारणाः। यं प्रशंसन्ति बन्धक्यो न स जीवति मानवः॥ हित्वा तान् परमेष्वासान् पाण्डवानमितौजसः। आहितं भारतैश्वर्यं त्वया दुर्योधने महत्॥ तं द्रक्ष्यसि परिभ्रष्टं तस्मात् त्वमचिरादिव। ऐश्वर्यमदसम्मूढं बलिं लोकत्रयादिव॥ धृतराष्ट्र उवाच अनीश्वरोऽयं पुरुषो भवाभवे सूत्रप्रोता दारुमयीव योषा। धात्रा तु दिष्टस्य वशे कृतोऽयं तस्माद् वद त्वं श्रवणो धृतोऽहम्॥ विदुर उवाच अप्राप्तकाल वचनं बृहस्पतिरपि ब्रुवन्। लभते बुद्ध्यवज्ञानमवमानं च भारत॥ प्रियो भवति दानेन प्रियवादेन चापरः। मन्त्रमूलबलेनान्यो य: प्रियः प्रिय एव सः॥ द्वेष्यो न साधुर्भवति न मेधावी न पण्डितः। प्रिये शुभानि कार्याणि द्वेष्ये पापानि चैव ह॥ उक्तं मया जातमात्रेऽपि राजन् दुर्योधनं त्यज पुत्रं त्वमेकम्। रस्यात्यागात् पुत्रशतस्य नाशः॥ न वृद्धिर्बहु मन्तव्या या वृद्धिः क्षयमावहेत्। क्षयोऽपि बहु मन्तव्यो यः क्षयो वृद्धिमावहेत्॥ न स क्षयो महाराज यः क्षयो वृद्धिमावहेत्। क्षयः स त्विह मन्तव्यो लङ्वा बहु नाशयेत्॥ समृद्धा गुणत: केचिद् भवन्ति धनतोऽपरे। धनवृद्धान् गुणै_नान् धृतराष्ट्र विवर्जय॥ धृतराष्ट्र उवाच सर्वं त्वमायतीयुक्तं भाषसे प्राज्ञसम्मतम्। न चोत्सहे सुतं त्यक्तुं यतो धर्मस्ततो जयः॥ विदुर उवाच अतीवगुणसम्पन्नो न जातु विनयान्वितः। सुसूक्ष्ममपि भूतानामुपमर्दमुपेक्षते॥ परापवादनिरताः परदुःखोदयेषु च। परस्परविरोधे च यतन्ते सततोत्थिताः॥ सदोषं दर्शनं येषां संवासे सुमहद् भयम्। अर्थादाने महान् दोषः प्रदाने च महद् भयम्॥ ये वै भेदनशीलास्तु सकामा निस्त्रपाः शठाः। ये पापा इति विख्याताः संवासे परिगर्हिताः॥ युक्ताश्चान्यैहादोषैर्ये नरास्तान् विवर्जयेत्। निवर्तमाने सौहार्दे प्रीतिर्नीचे प्रणश्यति॥ या चैव फलनिर्वृत्तिः सौहृदे चैव यत् सुखम्। यतते चापवादाय यत्नमारभते क्षये।॥ अल्पेऽप्यपकृते मोहान शान्तिमधिगच्छति। तादृशैः संगतं नीचैर्नृशंसैरकृतात्मभिः॥ निशम्य निपुणं बुद्ध्या विद्वान् दूराद् विवर्जयेत्। यो ज्ञातिमनुगृह्णाति दरिद्रं दीनमातुरम्॥ स पुत्रपशुभिवृद्धिं श्रेयश्चानन्त्यमश्नुते। ज्ञातयो वर्धनीयास्तैर्य इच्छन्त्यात्मनः शुभम्॥ कुलवृद्धिं च राजेन्द्र तस्मात् साधु समाचर। श्रेयसा योक्ष्यते राजन् कुर्वाणो ज्ञातिसक्रियाम्॥ विगुणा ह्यपि संरक्ष्या ज्ञातयो भरतर्षभ। किं पुनर्गुणवन्तस्ते त्वत्प्रसादाभिकाक्षिणः॥ प्रसादं कुरु वीराणां पाण्डवानां विशाम्पते। दीयन्तां ग्रामकाः केचित् तेषां वृत्त्यर्थमीश्वर॥ एवं लोके यशः प्राप्तं भविष्यति नराधिप। वृद्धेन हि त्वया कार्यं पुत्राणां तात शासनम्॥ मया चापि हितं वाच्, विद्धि मां त्वद्धितैषिणम्। ज्ञातिभिर्विचहस्तात न कर्तव्यः शुभार्थिना। सुखानि सह भोज्यानि ज्ञातिभिर्भरतर्षभ।॥ सम्भोजनं संकथनं सम्प्रीतिश्च परस्परम्। ज्ञातिभिः सह कार्याणि न विरोधः कदाचन॥ ज्ञातयस्तारयन्तीह ज्ञातयो मज्जयन्ति च। सुवृत्तास्तारयन्तीह दुर्वृत्ता मज्जयन्ति च॥ सुवृत्तो भव राजेन्द्र पाण्डवान् प्रति मानद। अधर्षणीयः शत्रूणां तैर्वृतस्त्वं भविष्यसि॥ श्रीमन्तं ज्ञातिमासाद्य यो ज्ञातिरवसीदति। दिग्धहस्तं मृग इव स एनस्तस्य विन्दति॥ पश्चादपि नरश्रेष्ठं तव तापो भविष्यति। तान् वा हतान् सुतान् वापि श्रुत्वा तदनुचिन्तय॥ येन खट्वां समारूढः परितप्येत कर्मणा। आदावेव न तत् कुर्यादध्रुवे जीविते सति॥ न कश्चिन्नापनयते पुमानन्यत्र भार्गवात्। शेषसम्प्रतिपत्तिस्तु बुद्धिमत्स्वेव तिष्ठति॥ दुर्योधनेन यद्येतत् पापं तेषु पुरा कृतम्। त्वया तत् कुलवृद्धेन प्रत्यानेनं नरेश्वर॥ तांस्त्वं पदे प्रतिष्ठाप्य लोके विगतकल्मषः। भविष्यसि नरश्रेष्ठ पूजनीयो मनीषिणाम्॥ सुव्याहृतानि धीराणां फलतः परिचिन्त्य यः। अध्यवस्यति कार्येषु चिरं यशसि तिष्ठति॥ असम्यगुपयुक्तं हि ज्ञानं सुकुशलैरपि। उपलभ्यं चाविदितं विदितं चाननुष्ठितम्॥ पापोदयफलं विद्वान् यो नारभति वर्धते। यस्तु पूर्वकृतं पापमविमृश्यानुवर्तते। अगाधपङ्गे दुर्मेधा विषमे विनिपात्यते॥ मन्त्रभेदस्य षट् प्राज्ञो द्वाराणीमानि लक्षयेत्। अर्थसंततिकामश्च रक्षेदेतानि नित्यशः॥ मदं स्वप्नमविज्ञानमाकारं चात्मसम्भवम्। दुष्टामात्येषु विश्रम्भं दूताच्चाकुशलादपि॥ द्वाराण्येतानि यो ज्ञात्वा संवृणोति सदा नृप। त्रिवर्गाचरणे युक्तः स शत्रूनधितिष्ठति॥ न वै श्रुतमविज्ञाय वृद्धाननुपसेव्य वा। धर्मार्थों वेदितुं शक्यौ बृहस्पतिसमैरपि।॥ नष्टं समुद्रे पतितं नष्टं वाक्यमशृण्वति। अनात्मनि श्रुतं नष्टं नष्ट हुतमनग्निकम्॥ मत्या परीक्ष्य मेधावी बुद्ध्या सम्पाद्य चासकृत्। श्रुत्वा दृष्ट्वाथ विज्ञाय प्राझैमैत्री समाचरेत्॥ अकीर्ति विनयो हन्ति हन्त्यनर्थं पराक्रमः। हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणम्॥ परिच्छदेन क्षेत्रेण वेश्मना परिचर्यया। परीक्षेत कुलं राजन् भोजनाच्छादनेन च॥ उपस्थितस्य कामस्य प्रतिवादो न विद्यते। अपि निर्मुक्तदेहस्य कामरक्तस्य किं पुनः॥ प्राज्ञोपसेविनं वैद्यं धार्मिकं प्रियदर्शनम्। मित्रवन्तं सुवाक्यं च सुहृदं परिपालयेत्॥ दुष्कुलीनः कुलीनो वा मर्यादां यो न लङ्घयेत्। धर्मापेक्षी मृदुह्रीमान् स कुलीनशताद् वरः॥ ययोश्चित्तेन वा चित्तं निभृतं निभृतेन वा। समेति प्रज्ञया प्रज्ञा तयोमैत्री न जीर्यति॥ दुर्बुद्धिमकृतप्रज्ञं छन्नं कूपं तृणैरिवा विवर्जयीत मेधावी तस्मिन् मैत्री प्रणश्यति॥ अवलिप्तेषु मूर्खेषु रौद्रसाहसिकेषु च। तथैवापेतधर्मेषु न मैत्रीमाचरेद् बुधः॥ कृतज्ञं धार्मिकं सत्यमक्षुद्रं दृढभक्तिकम्। जितेन्द्रियं स्थितं स्थित्यां मित्रमत्यागि चेष्यते॥ इन्द्रियाणामनुत्सर्गो मृत्युनापि विशिष्यते। अत्यर्थं पुनरुत्सर्गः सादयेद् दैवतान्यपि॥ मार्दवं सर्वभूतानामनसूया क्षमा धृतिः। आयुष्याणि बुधाः प्राहुर्मित्राणां चाविमानना॥ अपनीतं सुनीतेन योऽर्थं प्रत्यानिनीषते। मतिमास्थाय सुदृढां तदकापुरुषव्रतम्॥ आयत्यां प्रतिकारशस्तदात्वे दृढनिश्चयः। अतीते कार्यशेषज्ञो नरोऽथैर्न प्रहीयते॥ कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते। तदेवापहरत्येनं तस्मात् कल्याणमाचरेत्॥ मङ्गलालम्भनं योगः श्रुतमुत्थानमार्जवम्। भूतिमेतानि कुर्वन्ति सतां चाभीक्ष्णदर्शनम्॥ अनिर्वेदः श्रियो मूलं लाभस्य च शुभस्य च। महान् भवत्यनिर्विण्णः सुखं चानन्त्यमश्नुते॥ नातः श्रीमत्तरं किंचिदन्यत् पथ्यतमं पतम्। प्रभविष्णोर्यथा तात क्षमा सर्वत्र सर्वदा॥ क्षमेदशक्तः सर्वस्य शक्तिमान् धर्मकारणात्। अर्थानौ समौ यस्य तस्य नित्यं क्षमा हिता॥ यत् सुखं सेवमानोऽपि धर्मार्थाभ्यां न हीयते। कामं तदुपसेवेत न मूढव्रतमाचरेत्॥ दुःखार्तेषु प्रमत्तेषु नास्तिकेष्वलसेषु च। न श्रीर्वसत्यदान्तेषु ये चोत्साहविवर्जिताः॥ आर्जवेन नरं युक्तमार्जवात् सव्यपत्रपम्। अशक्तं मन्यमानास्तु धर्षयन्ति कुबुद्धयः॥ अत्यार्यमतिदातारमतिशूरमतिव्रतम्। प्रज्ञाभिमानिनं चैव श्रीयानोपसर्पति॥ न चातिगुणवत्स्वेषा नात्यन्तं निर्गुणेषु च। नैषा गुणान् कामयते नैर्गुण्यानानानुरज्यते। उन्मत्ता गौरिवान्धा श्रीः क्वचिदेवावतिष्ठते॥ अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम्। रतिपुत्रफला नारी दत्तभुत्तफलं धनम्॥ अधर्मोपार्जितैरथैर्यः करोत्यौदेहिकम्। न स तस्य फलं प्रेत्य भुङ्क्तेऽर्थस्य दुरागमात्॥ कान्तारे वनदुर्गेषु कृच्छ्रास्वापत्सु सम्भ्रमे। उद्येतेषु च शस्त्रेषु नास्ति सत्त्ववता भयम्॥ उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः। समीक्ष्य च समारम्भो विद्धि मूलं भवस्य तु॥ तपो बलं तापसानां ब्रह्म ब्रह्मविदां बलम्। हिंसा बलमसाधूनां क्षमा गुणवतां बलम्॥ अष्टौ तान्यव्रतनानि आपो मूलं फलं पयः। हविर्ब्रह्मणकाम्या च गुरोर्वचनमौषधम्॥ न तत् परस्य संदध्यात् प्रतिकूलं यदात्मनः। संग्रहेणैष धर्मः स्यात् कामादन्यः प्रवर्तते॥ अक्रोधेन जयेत् क्रोधमसाधु साधुना जयेत्। जयेत् कदर्यं दानेन जयेत् सत्येन चानृतम्॥ स्त्रीधूर्तकेऽलसे भीरौ चण्डे पुरुषमानिनि। चौरे कृतघ्ने विश्वासो न कार्यो न च नास्तिके॥ अभिवादनशीलस्य नित्यं वृद्धोसेविनः। चत्वारि सम्प्रवर्धन्ते कीर्तिरायुर्यशो बलम्॥ अतिक्लेशेन येऽर्थाः स्युर्धर्मस्यातिक्रमेण वा। अरेर्वा प्रणिपातेन मा स्म तेषु मनः कृथाः॥ अविद्यः पुरुषः शोच्यः शोच्यं मैथुनमप्रजम्। निराहाराः प्रजाः शोच्याः शोच्यं राष्ट्रमराजकम्॥ अध्वा जरा देहवतां पर्वतानां जलं जरा। असम्भोगो जरा स्त्रीणां वाक्शल्यं मनसो जरा॥ अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम्॥ मलं पृथिव्या बाह्रीकाः पुरुषस्यानृतं मलम्। कौतूहलमला साध्वी विप्रवासमला: स्त्रियः॥ सुवर्णस्य मलं रूप्यं रूप्यस्यापि मलं त्रपु। ज्ञेयं त्रपुमलं सीसं सीसस्यापि मलं मलम्॥ न स्वप्नेन जयेन्निद्रां न कामेन जयेत् स्त्रियः। नेन्धनेन जयेदग्नि न पानेन सुरां जयेत्॥ यस्य दानजितं मित्रं शत्रवो युधि निर्जिताः। अन्नपानजिता दाराः सफलं तस्य जीवितम्॥ सहस्रिणोऽपि जीवन्ति जीवन्ति शतिनस्तथा। धृतराष्ट्र विमुञ्चेच्छां न कथञ्चिन्न जीव्यते॥ यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः। नालमेकस्य तत् सर्वमिति पश्यन् न मुह्यति॥ राजन् भूयो ब्रवीमि त्वां पुत्रेषु सममाचर। समता यदि ते राजन् स्वेषु पाण्डुसुतेषु वा॥ विदुर उवाच योऽभ्यर्चितः सद्भिरसज्जमानः करोत्यर्थं शक्तिमहापयित्वा। मलं प्रसन्ना हि सुखाय सन्तः॥ महान्तमप्यर्थमधर्मयुक्तं यः संत्यजत्यनपाकृष्ट एव। सुखं सुदुःखान्यवमुच्य शेते जीर्णां त्वचं सर्प इवावमुच्य॥ अनृते च समुत्कर्षो राजगामि च पैशुनम्। गुरोचालीकनिर्बन्धः समानि ब्रह्महत्यया॥ असूयैकपदं मृत्युरतिवादः श्रियो वधः। अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रयः॥ आलस्यं मदमोहौ च चापलं गोष्ठिरेव च। स्तब्धता चाभिमानित्वं तथात्यागित्वमेव च। एते वै सप्त दोषाः स्युः सदा विद्यार्थिनां मताः॥ सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम्। सुखार्थी वा त्येजद् विद्या विद्यार्थी वा त्यजेत् सुखम्।। नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः। नान्तकः सर्वभूतानां न पुंसां वामलोचना॥ आशा धृति हन्ति समृद्धिमन्तकः क्रोधः श्रियं हन्ति कदर्यता। त्रेकः क्रुद्धो ब्राह्मणो हन्ति राष्ट्रम्॥ अजाश्च कांस्यं रजतं च नित्यं मध्वाकर्षः शुकनिः श्रोत्रियश्च। वृद्धो ज्ञातिरवसन्नः कुलीन एतानि ते सन्तु गृहे सदैव।॥ अजोक्षा चन्दनं वीणा आदर्शो मधुसर्पिषी। विषमौदुम्बरं शङ्खः स्वर्णनाभोऽथ रोचना॥ गृहे स्थापयितव्यानि धन्यानि मनुरब्रवीत्। देवब्राह्मणपूजार्थमतिथीनां च भारत॥ इदं च त्वां सर्वपरं ब्रवीमि पुण्यं पदं तात महाविशिष्टम्। न जातु कामान भयान्न लोभाद् धर्मं जह्याज्जीवितस्यापि हेतोः॥ नित्यो धर्मः सुखदुःखे त्वनित्ये जीवो नित्यो हेतुरस्य त्वनित्यः। त्यक्त्वानित्यं प्रतितिष्ठस्व नित्ये संतुष्य त्वं तोषपरो हि लाभः॥ महाबलान् पश्य महानुभावान् प्रशास्य भूमिं धनधान्यपूर्णाम्। राज्यानि हित्वा विपुलांश्च भोगान् गतान् नरेन्द्रान् वशमन्तकस्य॥ मृतं पुत्रं दुःखपुष्टं मनुष्या उत्क्षिप्य राजन् स्वगृहान्निर्हरन्ति। तं मुक्तकेशाः करुणं रुदन्ति चितामध्ये काष्ठमिव क्षिपन्ति॥ अन्यो धनं प्रेतगतस्य भुङ्क्ते वयांसि चाग्निश्च शरीरधातून्। द्वाभ्यामयं सह गच्छत्यमुत्र पुण्येन पापेन च वेष्ट्यमानः॥ उत्सृज्य विनिवर्तन्ते ज्ञातयः सुहृदः सुताः। अपुष्पानफलान् वृक्षान् यथा तात पतत्रिणः॥ अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयंकृतम्। तस्मात् तु पुरुषो यत्नाद् धर्मं संचिनुयाच्छनैः॥ अस्माल्लोकादूर्ध्वममुष्य चाधो महत् तमस्तिष्ठति ह्यन्धकारम्। तद् वै महामोहनमिन्द्रियाणां बुध्यस्व मा त्वां प्रलभेत राजन्॥ निशम्य सर्वं प्रतिपत्तुमेव। यशः परं प्राप्स्यसि जीवलोके भयं न चामुत्र न चेह तेऽस्ति।॥ आत्मा नदी भारत पुण्यतीर्था सत्योदका धृतिकूला दयोर्मिः। तस्यां स्नातः पूयते पुम्यकर्मा पुण्यो ह्यात्मा नित्यमलोभ एव॥ कामक्रोधग्राहवतीं पञ्चेन्द्रियजला नदीम्। नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर॥ प्रज्ञावृद्धं धर्मवृद्धं स्वबन्धु विद्यावृद्धं वयसा चापि वृद्धम्। कार्याकार्ये पूजयित्वा प्रसाद्य यः सम्पृच्छेन्न स मुह्येत् कदाचित्॥ धृत्या शिश्नोदरं रक्षेत् पाणिपादं च चक्षुषा। चक्षुःश्रोत्रे च मनसा मनो वाचं च कर्मणा॥ नित्योदकी नित्ययज्ञोपवीती नित्यस्वाध्यायी पतितान्नवर्जी। सत्यं ब्रुवन् गुरवे कर्म कुर्वन् न ब्राह्मणश्च्यवते ब्रह्मलोकात्॥ निष्ट्वा यज्ञैः पालयित्वा प्रजाश्च। गोब्राह्मणार्थ शस्त्रपूतान्तरात्मा हतः संग्रामे क्षत्रियः स्वर्गमेति॥ वैश्योऽधीत्य ब्राह्मणान् क्षत्रियांश्च धनैः काले संविभज्याश्रितांश्च। त्रेतापूतं धूममाघ्राय पुण्यं प्रेत्य स्वर्गे दिव्यसुखानि भुङ्क्ते॥ ब्रह्म क्षत्रं वैश्यवर्णं च शूद्रः क्रमेणैतान् न्यायतः पूजयानः। स्त्यक्त्वा देहं स्वर्गसुखानि भुङ्क्ते॥ चातुर्वर्ण्यस्यैष धर्मस्तवोक्तो हेतुं चानुब्रुवतो मे निबोध। स्तं त्वं राजन् राजधर्मे नियुक्ष्वा॥ धृतराष्ट्र उवाच एवमेतद् यथा त्वं मामनुशाससि नित्यदा। ममापि च मतिः सौम्य भवत्येवं यथाऽऽत्य माम्॥३० सा तु बुद्धिः कृताप्येवं पाण्डवान् प्रति मे सदा। दुर्योधनं समासाद्य पुनर्विपरिवर्तते॥ न दिष्टमभ्यतिक्रान्तुं शक्यं भूतेन केनचित्। दिष्टमेव ध्रुवं मन्ये पौरुषं तु निरर्थकम्॥ धृतराष्ट्र उवाच अनुक्तं यदि ते किंचिद् वाचा विदुर विद्यते। तन्मे शुश्रूषतो ब्रूहि विचित्राणि हि भाषसे।॥ विदुर उवाच धृतराष्ट्र कुमारो वै यः पुराणः सनातनः। सनत्सुजातः प्रोवाच मृत्यु स्तीति भारत॥ स ते गुह्यान् प्रकाशांश्च सर्वान् हृदयसंश्रयान्। प्रवक्ष्यति महाराज सर्वबुद्धिमतां वरः॥ धृतराष्ट्र उवाच किं त्वं न वेद तद् भूयो ब्रूयात् सनातनः। त्वमेव विदुर ब्रूहि प्रज्ञाशेषोऽस्ति चेत् तव॥ विदुर उवाच शूद्रयोनावहं जातो नातोऽन्यद् वक्तुमुत्सहे। कुमारस्य तु या बुद्धिर्वेद तां शाश्वतीमहम्॥ ब्राह्मी हि योनिमापन्नः सुगुह्यमपि यो वदेत्। न तेन गह्यो देवानां तस्मादेतद् ब्रवीमि ते॥ धृतराष्ट्र उवा ब्रवीहि विदुर त्वं मे पुराणं तं सनातनम्। कथमेतेन देहेन स्यादिहैव समागमः॥ वैशम्पायन उवाच चिन्तयामास विदुरस्तमृषि शंसितव्रतम्। स च तच्चिन्तितं ज्ञात्वां दर्शयामास भारत॥ स चैनं प्रतिजग्राह विधिदृष्टेन कर्मणा। सुखोपविष्टं विश्रान्तमथैनं विदुरोऽब्रवीत्॥ भगवन् संशयः कश्चिद् धृतराष्ट्रस्य मानसः। यो न शक्यो मया वक्तुं त्वमस्मै वक्तुमर्हसि॥ यं श्रुत्वायं मनुष्येन्द्रः सर्वदुःखातिगो भवेत्। लाभालाभौ प्रियद्वेष्यौ यथैनं न जरान्तकौ॥ विषहेरन् भयामर्षी क्षुत्पिपासे मदोद्भवौ। अरतिश्चैव तन्द्री च कामक्रोधौ क्षयोदयौ॥ वैशम्पायन उवाच ततो राजा धृतराष्ट्रो मनीषी सम्पूज्य वाक्यं विदुरेरितं तत्। सनत्सुजातं रहिते महात्मा पप्रच्छ बुद्धि परमां बुभूषन्।॥ धृतराष्ट्र उवाच सनत्सुजात यदिदं शृणोमि न मृत्युरस्तीति तव प्रवादम्। देवासुरा ह्याचरन् ब्रह्मचर्यममृत्यवेतत्कतरन्नु सत्यम्।।२। सनत्सुजात उवाच अपृच्छः कर्मणा केचिन्मृत्युर्नास्तीति चापरमु। शृणु मे ब्रुवतो राजन् यथैतन्मा विशङ्किथाः॥ उभे सत्ये क्षत्रियैतस्य विद्धि मोहान्मृत्युः सम्मतोऽयं कवीनाम्। प्रमादं वै मृत्युमहं ब्रवीमि तथाप्रमादममृतत्वं ब्रवीमि॥ प्रमादाद् वै असुराः पराभवनप्रमादाद ब्रह्मभूताः भवन्ति। नैव मृत्युर्व्याघ्र इवात्ति जन्तून् न ह्यस्य रूपमुपलभ्यते हि॥ रात्मावसन्नममृतं ब्रह्मचर्यम्। पितृलोके राज्यमनुशास्ति देवः शिवः शिवानामशिवोऽशिवानाम्॥ अस्यादेशानिःसरते नराणां क्रोधः प्रमादो लोभरूपश्च मृत्युः। अहंगतेनैव चरन् विमार्गान् न चात्मनो योगमुपैति कश्चित्॥ ते मोहितास्तद्वशे वर्तमाना इतः प्रेतास्तत्र पुनः पतन्ति। ततस्तान् देवा अनुविप्लवन्ते अतो मृत्युर्मरणाख्यामुपैति॥ स्तत्रानु ते यान्ति न तरन्ति मृत्युम्। सदर्थयोगानवगमात् समन्तात् प्रवर्तते भोगयोगेन देही॥ तद् वै महामोहनमिन्द्रियाणां मिथ्यार्थयोगस्य गतिहि नित्या। मिथ्यार्थयोगामिहतान्तरात्मा स्मरनुपास्ते विषयान् समन्तात्॥ अभिध्या वै प्रथमं हन्ति लोकान् कामक्रोधावनुगृह्याशु पश्चात्। एते बालान् मृत्यवे प्रापयन्ति धीरास्तु धैर्येण तरन्ति मृत्युम्॥ दनादरेणाप्रतिबुध्यमानः। नैनं मृत्युर्मृत्युरिवात्ति भूत्वा एवं विद्वान् यो विनिहन्ति कामान्॥ कामानुसारी पुरुषः कामाननु विनश्यति। कामान् व्युदस्य धुनुते यत् किंचित् पुरुषो रजः॥ तमोऽप्रकाशो भूतानां नरकोऽयं प्रदृश्यते। मुह्यन्त इव धावन्ति गच्छन्तः शुभ्रवत् सुखम्॥ अमूढवृत्तेः पुरुषस्येह कुर्यात् किं वै मृत्युस्तार्ण इवास्य व्याघ्रः। नाधीयीत निर्गुदनिवास्य चायुः॥ स क्रोधलोभौ मोहवानन्तरात्मा स वै मृत्युस्त्वच्छरीरे य एषः। एवं मृत्यु जायमानं विदित्वा ज्ञाने तिष्ठन् न बिभेतीह मृत्योः। र्मृत्योर्यथा विषयं प्राप्य मर्त्यः॥ धृतराष्ट्र उवाच यानेवाहुरिज्यया साधुलोकान् द्विजातीनां पुण्यतमान् सनातनान्। तेषां परार्थं कथयन्तीह वेदा एतद् विद्वान् नोपैति कथं नु कर्म॥ सनत्सुजात उवाच एव ह्यविद्वानुपयाति तत्र तत्रार्थजातं च वदन्ति वेदाः। अनीह आयाति परं परात्मा प्रयाति मार्गेण निहत्य मार्गान्॥ धृतराष्ट्र उवाच कोऽसौ नियुङ्क्ते तमजं पुराणं स चेदिदं सर्वमनुक्रमेणा किं वास्य कार्यमथवा सुखं च तन्म विद्वन् ब्रूहि सर्वं यथावत्॥ सनत्सुजात उवाच दोषो महानत्र विभेदयोगे ह्यनादियोगेन भवन्ति नित्याः। दनादियोगेन भवन्ति पुंसः॥ य एतद् वा भगवान् स नित्यो विकारयोगेन तथा च तच्छक्तिरिति स्म मन्यते तथार्थयोगे च भवन्ति वेदाः॥ करोति विश्वम्। धृतराष्ट्र उवाच येऽस्मिन्धर्मान् नाचरन्तीह केचित् तथा धर्मान् केचिदिहाचरन्ति। दुताहो धर्मः प्रतिहन्ति पापम्॥ सनत्सुजात उवाच उभयमेव तत्रोपयुज्यते फलं धर्मस्यैवेतरस्य च॥ तस्मिन् स्थितो वाप्युभयं हि नित्यं ज्ञानेन विद्वान् प्रतिहन्ति सिद्धम्। तथान्यथा पुण्यमुपैति देही तथागतं पापमुपैति सिद्धम्॥ गत्वोभय कर्मणा युज्यतेऽस्थिरं शुभस्य पापस्य स चापि कर्मणा। धर्मेण पापं प्रणुदतीह विद्वान् धर्मो बलीयानिति तस्य सिद्धिः॥ धृतराष्ट्र उवाच यानिहाहुः स्वस्य धर्मस्य लोकान् द्विजातीनां पुण्यकृतां सनातनान्। तेषां क्रमान् कथय ततोऽपि चान्यान् नैतद् विद्वन् वेत्तुमिच्छामि कर्म॥ सनत्सुजात उवाच येषां व्रतेऽथ विस्पर्धा बले बलवतामिव। ते ब्राह्मणा इतः प्रेत्य ब्रह्मलोकप्रकाशकाः॥ येषां धर्मे च विस्पर्धा तेषां तज्ज्ञानसाधनम्। ते ब्राह्मणा इतो मुक्ताः स्वर्ग यान्ति त्रिविष्टपम्॥ तस्य सम्यक् समाचारमाहुर्वेदविदो जनाः। नैनं मन्येत भूयिष्ठं बाह्यमाभ्यन्तरं जनम्॥ यत्र मन्येत भूयिष्ठं प्रावृषीव तृणोपलम्। अन्नं पानं ब्राह्मणस्य तज्जीवेन्नानुसंज्वरेत्॥ यत्राकथयमानस्य प्रयच्छत्यशिवं भयम्। अतिरिक्तमिवाकुर्वन् स श्रेयान् नेतरो जनः॥ यो वा कथयमानस्य ह्यात्मान् नानुसंज्वरेत्। ब्रह्मस्वं नोपभुञ्जीत तदन्नं सम्मतं सताम्॥ यथा स्वं वान्तमश्नाति श्वा वै नित्यमभूतये। एवं ते वान्तमश्नन्ति स्ववीर्यस्योपसेवनात्॥ नित्यमज्ञातचर्या मे इति मन्येत ब्राह्मणः। ज्ञातीनां तु वसन् मध्ये तं विदुर्ब्राह्मणं बुधाः॥ को हनन्तरमात्मानं ब्राह्मणो हन्तुमर्हति। निर्लिङ्गमचलं शुद्धं सर्वद्वैतविवर्जितम्॥ तस्माद्धि क्षत्रियस्यापि ब्रह्मावसति पश्यति॥ योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते। किं तेन न कृतं पापं चौरेणात्मापहारिणा॥ अश्रान्तः स्यादनादाता सम्मतो निरुपद्रवः। शिष्टो न शिष्टवत् स स्याद् ब्राह्मणो ब्रह्मवित् कविः।। अनाढ्या मानुषे वित्ते आढ्या दैवे तथा क्रतौ। ते दुर्धर्षा दुष्प्रकम्प्यास्तान् विद्याद् ब्रह्मणस्तनुम्॥ सर्वान् स्विष्टकृतो देवान् विद्याद् इह कश्चन। न समानो ब्राह्मणस्य तस्मिन् प्रयतते स्वयम्॥ यमप्रयतमानं तु मानयन्ति स मानितः। न मान्यमानो मन्येत न मान्यमभिसंज्वरेत्॥ लोकः स्वभाववृत्तिर्हि निमेषोन्मेषवत् सदा। विद्वांसो मानयन्तीह इति मन्येत मानितः॥ अधर्मनिपुणा मूढा लोके मायाविशारदाः। न मान्यं मानयिष्यन्ति मान्यानामवमानिनः॥ न वै मानं च मौनं च सहितौ वसतः सदा। अयं हि लोको मानस्य असौ मौनस्य तद् विदुः।।४४ श्रीः सुखस्येह संवासः सा चापि परिपन्थिनी। ब्राह्मी सुदुर्लभा श्रीहि प्रज्ञाहीनेन क्षत्रिय॥ द्वाराणि तस्येह वदन्ति सन्तो बहुप्रकाराणि दुराधराणि। सत्यार्जवे ह्रीर्दमशौचविद्या यथा न मोहप्रतिबोधनानि।। धृतराष्ट्र उवाच कस्यैष मौनः कतरन्नु मौनं प्रब्रूहि विद्वन्निह मौनभावम्। मौनेन विद्वानुत याति मौनं कथं मुने मौनमिहाचरन्ति॥ सनत्सुजात उवाच मनुप्रविशन्ति ततोऽथमौनम्। यत्रोत्थितो वेदशब्दस्तथाऽयं स तन्मयत्वेन विभाति राजन्॥ धृतराष्ट्र उवाच ऋचो यजूंषि यो वेद सामवेदं च वेद यः। पापानि कुर्वन् पापेन लिप्यते किं न लिप्यते॥ सनत्सुजात उवाच नैनं सामान्यूचो वापि न यजूंष्यविचक्षणम्। त्रायन्ते कर्मणः पापान ते मिथ्या ब्रवीम्यहम्॥ नच्छन्दांसि वृजिनात् तारयन्ति मायाविनं मायया वर्तमानम्। श्छन्दांस्येनं प्रजहत्यन्तकाले॥ धृतराष्ट्र उवाच न चेद् वेदा विना धर्मं त्रातुं शक्ता विचक्षण। अथ कस्मात् प्रलापोऽयं ब्राह्मणानां सनातनः॥ सनत्सुजात उवाच तस्यैव नामादिवेशेषरूपैरिदं जगद् भाति महानुभाव। निर्दिश्य सम्यक् प्रवदन्ति वेदास्तद् विश्वरैरूप्यमुदाहरन्ति॥ ताभ्यामसौ पुण्यमुपैति विद्वान्। पुण्येन पापं विनिहत्य पश्चात् संजायते ज्ञानविदीपितात्मा॥ नथान्यथा वर्गफलानुकाक्षी। ममुत्र भुङ्क्ते पुनरेति मार्गम्॥ अस्मॅिल्लोके तपस्तप्तं फलमन्यत्र भुज्यते। ब्राह्मणानामिमे लोका धात्वे तपसि तिष्ठताम्॥ धृतराष्ट्र उवाच कथं समृद्धमसमृद्धं तपो भवति केवलम्। सनत्सुजात् तद् ब्रूहि यथा विद्याम तद् वयम्॥ सनत्सुजात उवाच निष्कल्मषं तपस्त्वेतत् केवलं परिचक्षते। एतत् समृद्धमप्युद्धं तपो भवति केवलम्॥ तपोमूलमिदं सर्वं यन्मां पृच्छसि क्षत्रिय। तपसा वेदविद्वांसः परं त्वतमाप्नुयुः॥ धृतराष्ट्र उवाच कल्मषं तपसो ब्रूहि श्रुतं निष्कल्मषं तपः। सनत्सुजात येनेदं विद्यां गुह्यं सनातनम्॥ सनत्सुजात उवाच स्तथा नृशंसानि दशत्रि राजन्। धर्मादयो द्वादशैते पितॄणां शास्त्रे गुणा ये विदिता द्विजानाम्॥ क्रोधः कामो लोभमोहौ विधित्सा कृपासूये मानशौको स्पृहा चा ईर्ष्या जुगुप्सा च मनुष्यदोषा वाः सदा द्वादशैते नराणाम्॥ एकैकः पर्युपास्ते ह मनुष्यान् मनुजर्षभ। लिप्समानोऽन्तरं तेषां मृगाणामिव लुब्धकः॥ विकत्थनः स्पृहयालुर्मनस्वी बिभ्रत् कोपं चपलोऽरक्षणाश्च। एतान् पापाः षण्नराः पापधर्मान् प्रकुर्वते नोत्रसन्तः सुदुर्गे॥ सम्भोगसंविद् विषमोऽतिमानी दत्तानुतापी कृपणो बलीयान्। वर्गप्रशंसी वनितासु द्वेष्टा एते परे सप्त नृशंसवर्गाः॥ धर्मश्च सत्यं च दमस्तपश्च अमात्सर्यं ह्रीस्तितिक्षानसूया। यज्ञश्च दानं च धृतिः श्रुतं च व्रतानि वै द्वादश ब्राह्मणस्य॥ यस्त्वेतेभ्यः प्रभवेद् द्वादशभ्यः सर्वामपीमां पृथिवीं स शिष्यात्। स्तस्य स्वमस्तीति स वेदितव्यः॥ दमस्त्यागोऽप्रमादश्च एतष्वमृतमाहितम्। तानि सत्यमुखान्याहुर्ब्राह्मणा ये मनीषिणः॥ दमो ह्यष्टादशगुणः प्रतिकूलं कृताकृते। अनृतं चाभ्यसूया च कामार्थौ च तथा स्पृहा।॥ क्रोधः शोकस्तथा तृष्णा लोभः पैशुन्यमेव च। मत्सरच विहिंसा च परितापस्तथाऽरतिः॥ अपस्मारश्चातिवादस्तथा सम्भावनाऽऽत्मनि। एतैर्विमुक्तो दोषैर्यः स दान्तः सद्भिरुच्यते॥ मदोऽष्टादशदोषः स्यात् त्यागो भवति षड् विधः। विपर्ययाः स्मृता एते मददोषा उदाहृताः॥ श्रेयांस्तु षड्विधस्त्यागस्तृतीयो दुष्करो भवेत्। तेन दुःखं तरत्येव भिन्नं तस्मिन् जितं कृते॥ श्रेयांस्तु षड्विधस्त्यागः श्रियः प्राप्य न हृष्यति। इष्टापूर्ते द्वितीयं स्यान्नित्यवैराग्ययोगतः॥ कामत्यागश्च राजेन्द्र स तृतीय इति स्मृतः। अप्यवाच्यं वदन्त्येतं स तृतीयो गुणः स्मृतः॥ त्यक्तैर्द्रव्यैर्यद् भवति नोपयुक्तैश्च कामतः। न च द्रव्यैस्तद भवति नोपयुक्तैश्च कामतः॥ न च कर्मस्वसिद्धेषु दुःखं तेन च न ग्लपेत्। सर्वैरेव गुणैर्युक्तो द्रव्यवानपि यो भवेत्॥ अप्रिये च समुत्पन्ने व्यथां जातु न गच्छति। इष्टान् पुत्रांश्च दारांश्च न याचेत कदाचन।॥ अर्हते याचमानाय प्रदेयं तच्छुभं भवेत्। अप्रमादी भवेदेतैः स चाप्यष्टगुणो भवेत्॥ सत्यं ध्यानं समाधानं चोद्यं वैराग्यमेव च। अस्तेयं ब्रह्मचर्यं च तथा संचहमेव च।॥ एवं दोषां मदस्योक्तास्तान् दोषान् परिवर्जयेत्। तथा त्यागोऽप्रमादश्च स चाप्यष्टगुणो मतः॥ अष्टौ दोषाः प्रमादस्य तान् दोषान् परिवर्जयेत्। इन्द्रियेभ्यश्च पञ्चभ्यो मनसश्चैव भारत। अतीतानागतेभ्यश्च मुक्त्युपेतः सुखी भवेत्॥ सत्यात्मा भव राजेन्द्र सत्ये लोकाः प्रतिष्ठिताः। तांस्तु सत्यमुखानाहुः सत्ये ह्यमृतमाहितम्॥ निवृत्तेनैव दोषेण तपोव्रतभिहाचरेत्। एतद् धातृकृतं वृत्तं सत्यमेव सतां व्रतम्॥ दोषैरेतैर्वियुक्तस्तु गुणैरेतैः समन्वितः। एतत् समृद्धमत्यर्थं तपो भवति केवलम्॥ यन्मां पृच्छसि राजेन्द्र संक्षेपात् प्रब्रवीमि ते। एतत् पापहरं पुण्यं जन्ममृत्युजरापहम्॥ धृतराष्ट्र उवाच आख्यानपञ्चमैर्वेदैर्भूयिष्ठं कथ्यते जनः। तथा चान्ये चतुर्वेदास्त्रिवेदाश्च तथा परे॥ द्विवेदाश्चैकवेदाश्चाष्यनृचश्च तथा परे। तेषां तु कतरः स स्याद् यमहं वेद वै द्विजम्॥ सनत्सुजात उवाच एकस्य वेदस्याज्ञानाद् वेदास्ते बहवः कृताः। सत्यस्यैकस्य राजेन्द्र सत्ये कश्चिदवस्थितः॥ एवं वेदमविज्ञाय प्राज्ञोऽहमिति मन्यते। दानमध्ययनं यज्ञो लोभादेतत् प्रवर्तते॥ सत्यात् प्रच्यवमानानां संकल्पश्च तथा भवेत्। ततो यज्ञः प्रतायेत सत्यस्यैवावधारणात्॥ मनसान्यस्य भवति वाचान्यस्याथ कर्मणा। संकल्पसिद्धः पुरुषः संकल्पानधितिष्ठति॥ अनैभृत्येन चैतस्य दीक्षितव्रतमाचरेत्। नामैतद् धातुनिर्वृत्तं सत्यमेव सतां परम्॥ ज्ञानं वै नाम प्रत्यक्षं परोक्षं जायते तपः। विद्याद् बहु पठन्तं तु द्विजं वै बहुपाठिनम्॥ तस्मात् क्षत्रिय मा मंस्था जल्पितेनैव वै द्विजम्। व एव सत्यान्नापैति स ज्ञेयो ब्राह्मणस्त्वया॥ छन्दांसि नाम क्षत्रिय तान्यथर्वा पुरा जगौ महर्षिसङ्घ एषः। छन्दोविदस्ते य उत नाधीतवेदा न वेदवेद्यस्य विदुर्हि तत्त्वम्॥ छन्दांसि नाम द्विपदां वरिष्ठ स्वच्छन्दयोगेन भवन्ति तत्र। छन्दोविदस्तेन च तानधीत्य गता न वेदस्य न वेद्यमार्याः॥ न वेदानां वेदिता कश्चिदस्ति कश्चित् त्वेतान् बुध्यते वाऽपि राजन्। यो वेद वेदान् न स वेद वेद्यं सत्ये स्थितो यस्तु स वेद वेद्यम्॥ न वेदानां वेदितां कश्चिदस्ति वेद्येन वेदं न विदुर्न वेद्यम्। यो वेद वेदं स च वेद वेद्यं यो वेद वेद्यं न स वेद सत्यम्॥ यो वेद वेदान् स च वेद वेद्यं न तं विदुर्वेदविदो न वेदाः। तथापि वेदेन विदन्ति वेदं ब्राह्मणा वेदविदो भवन्ति।॥ धामांशभागस्य तथा हि वेदा यथा च शाखा हि महीरुहस्य। संवेदने चैव यथाऽऽमनन्ति तस्मिन् हि सत्ये परमात्मनोऽर्थे॥ अभिजानामि ब्राह्मणं व्याख्यातारं विचक्षणम्। यश्छिन्नविचिकित्स: स व्याचष्टे सर्वसंशयान्॥ नास्य पर्येषणं गच्छेत् प्राचीनं नीत दक्षिणम्। नार्वाचीनं कुतस्तिर्यङ् नादिशं तु कथञ्चन॥ तस्य पर्येषणं गच्छेत् प्रत्यर्थिषु कथञ्चन। अविचिन्वनिमं वेदे तपः पश्यति तं प्रभुम्॥ तूष्णीम्भूत उपासीत न चेष्टेन्मनसाऽपि च। उपावर्तस्व तद् ब्रह्म अन्तरात्मनि विश्रुतम्॥ मौनान्न स मुनिर्भवति नारण्यवसनान्मुनिः। स्वलक्षणं तु यो वेद स मुनिः श्रेष्ठ उच्यते॥ सर्वार्थानां व्याकरणाद् वैयाकरण उच्यते। तन्मूलतो व्याकरणं व्याकरोतीति तत् तथा॥ प्रत्यक्षदर्शी लोकानां सर्वदर्शी भवेन्नरः। सत्ये वै ब्राह्मणस्तिष्ठंस्तद् विद्वान् सर्वविद् भवेत्।।६२ धर्मादिषु स्थितोऽप्येवं क्षत्रिय ब्रह्म पश्यति। वेदानां चानुपूर्येण एतद् बुद्ध्या ब्रवीमि ते॥ सनत्सुजात उवाच यत् तच्छूक्रं महज्ज्योतिर्दीप्यमानं महद् यशः। तद् वै देवा उपासते तस्मात् सूर्यो विराजते। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्॥ शुक्राद् ब्रह्म प्रभवति ब्रह्म शुक्रेण वर्धते। तच्छु– ज्योतिषां मध्येऽतप्तं तपति तापनम्। योगिनस्तं प्रपश्यन्ति भगवन्त सनातनम्॥ अपोऽथ अद्भ्यः सलिलस्य मध्ये उमौ देवो शिश्रियातेऽन्तरिक्षे। नुभो बिभर्ति पृथिवीं दिवं च। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्॥ उभौ च देवौ पृथिवीं दिवं च दिशः शुक्रो भुवनं बिभर्ति। तस्माद् दिशः सरितश्च स्रवन्ति तस्मात् समुद्रा विहिता महान्ताः। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्॥ चक्रे रथस्य तिष्ठन्तोऽध्रुवस्याव्ययकर्मणः। केतुमन्तं वहन्त्यश्वास्त दिव्यमजरं दिवि। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्॥ न सादृश्ये तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चिदेनम्। मनीषयाथो मनसा हृदा च य एनं विदुरमृतास्ते भवन्ति। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्॥ द्वादशपूगां सरितं पिबन्तो देवरक्षिताम्। मध्वीक्षन्तश्च ते तस्याः संचरन्तीह घोराम्। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्॥ तदर्धमासं पिबति संचित्य भ्रमरो मधु। ईशानः सर्वभूतेषु हरिर्भूतमकल्पयत्। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्॥ हिरण्यपर्णमश्वत्थमभिपद्य ह्यपक्षकाः। ते तत्र पक्षिणो भूत्वा प्रपतन्ति यथा दिशम्। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्॥ पूर्णात् पूर्णान्युद्धरन्ति पूर्णात् पूर्णानि चक्रिरे। हरन्ति पूर्णात् पूर्णानि पूर्णमेवावशिष्यते। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्॥ तस्माद् वै वायुरायातस्तस्मिंश्च प्रयतः सदा। तस्मादग्निश्च सोमश्च तस्मिश्च प्राण आततः॥ सर्वमेव ततो विद्यात् तत् तद् वक्तुं न शक्नुमः। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्॥ अपानं गिरति प्राणः प्राणं गिरति चन्द्रमाः। आदित्यो गिरते चन्द्रमादित्यं गिरते परः। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्॥ एकं पादं नोत्क्षिपति सलिलाद्धंस उच्चरन्। तं चेत् संततमूर्ध्वाय न मृत्युर्नामृतं भवेत्। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्॥ अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा लिङ्गस्य योगेन स याति नित्यम्। तमीशमीड्यमनुकल्पमाद्यं पश्यन्ति मूढा न विराजमानम्। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्॥ असाधना वापि ससाधना वा समानमेतद् दृश्यते मानुषेषु। समानमेतदमृतस्येतरस्य मुक्तास्तत्र मध्व उत्सं समापुः। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्॥ उभौ लोकौ विद्यया व्याप्य याति तदा हुतं चाहुतमग्निहोत्रम्। मा ते ब्राह्मी लघुतामादधीत प्रज्ञानं स्यानाम धीरा लभन्ते। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्॥ एवंरूपो महात्मा स पावकं पुरुषो गिरन्। यो वै तं पुरुषं वेद तस्येहार्थो न रिष्यते। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्॥ यः सहस्रं सहस्राणां पक्षान् संतत्य सम्पतेत्। मध्यमे मध्य आगच्छेदपि चेत् स्यान्मनोजवः। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्॥ न दर्शने तिष्ठति रूपमस्य पश्यन्ति चैनं सुविशुद्धसत्त्वाः। हितो मनीषी मनसा न तप्यते ये प्रव्रजेयुरमृतास्ते भवन्ति। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्॥ गृहन्ति सर्पा इव गह्वराणि स्वशिक्षया स्वेन वृत्तेन माः। तेषु प्रमुह्यन्ति जना विमूढा यथाध्वानं मोहयन्ते भयाय। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्॥ चामृत्युरमृतं मे कुतः स्यात्। सत्यानृते सत्यसमानबन्धे सतश्च योनिरसतश्चैक एवा योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्॥ न साधुना नोत असाधुना वासमानमेतद् दृश्यते मानुषेषु। देवंयुक्तो मधु तद् वै परीप्सेत्। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्॥ नास्यातिवादा हृदयं तापयन्ति नानधीतं नाहुतमग्निहोत्रम्। मनो ब्राह्मी लघुतामादधीत प्रज्ञां चास्मै नाम धीरा लभन्ते। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्॥ एवं यः सर्वभूतेषु आत्मानमनुपश्यति। अन्यत्रान्यत्र युक्तेषु किं स शोचेत् ततः परम्॥ यथोदपाने महति सर्वतः सम्प्लुतोदके। एवं सर्वेषु वेदेषु आत्मानमनुजानतः॥ अङ्गुष्ठमात्रः पुरुषो महात्मा न दृश्यते सौहृदि संनिविष्टः। अजश्चरो दिवारानमतन्द्रितश्च स तं मत्वा कविरास्ते प्रसन्नः॥ अहमेव स्मृतो माता पिता पुत्रोऽस्म्यहं पुनः। आत्माऽहमपि सर्वस्य यच्च नास्ति यदस्ति च॥ पितामहोऽस्मि स्थविरः पिता पुत्रश्च भारत। ममैव यूयमात्मस्था न मे यूयं न वो वयम्॥ आत्मैव स्थानं मम जन्म चात्मा ओतप्रोतोऽहमजरप्रतिष्ठः। अजश्चरो दिवारात्रमतन्द्रितोऽहं मां विज्ञाय कविरास्ते प्रसन्नः॥ अणोरणीयान् सुमनाः सर्वभूतेषु जाग्रति। पितरं सर्वभूतेषु पुष्करे निहितं विदुः॥ वैसम्पायन उवाच एवं सनत्सुजातेन विदुरेण च धीमता। साधु कथयतो राज्ञः सा व्यतीयाय शर्वरी॥॥ तस्यां रजन्यां व्युष्टायां राजानः सर्व एव ते। सभामाविविशुहृष्टाः सूतस्योपदिदृक्षया॥ शुश्रुषमाणाः पार्थानां वाचो धर्मार्थसंहिताः। धृतराष्ट्रमुखाः सर्वे ययू राजसभां शुभाम्॥ सुधावदातां विस्तीर्णा कनकाजिरभूषिताम्। चन्द्रप्रभां सुरुचिरां सिक्तां चन्दनवारिणा॥ रुचिरैरासनैस्तीर्णां काञ्चनैरवैरपि। अश्मसारमयैर्दान्तैः स्वास्तीर्णैः सोत्तरच्छदैः॥ भीष्मो द्रोणः कृपः शल्यः कृतवर्मा जयद्रथः। अश्वत्थामा विकर्णश्च सोमदत्तश्च बाह्निकः॥ विदुरच महाप्राज्ञो युयुत्सुश्च महारथः। सर्वे च सहिताः शूराः पार्थिवा भरतर्षभ॥ धृतराष्ट्रं पुरस्कृत्य विविशुस्ता सभां शुभाम्। दुःशासनश्चित्रसेन: शकुनिश्चापि सौबलः॥ दुर्मुखो दुःसहः कर्ण उलूकोऽथ विविंशतिः। कुरुराजं पुरस्कृत्य दुर्योधनममर्षणम्॥ विविशुस्तां सभां राजन् सुराः शक्रसदो यथा। आविशद्भिस्तदा राजन्शूरैः परिघबाहुभिः॥ शुशुभे सा सभा राजन् सिंहैरिव गिरेर्गुहा। ते प्रविश्य महेष्वासाः सभां सर्वे महौजसः॥ आसनानि विचित्राणि भेजिरे सूर्यवर्चसः। आसनस्थेषु सर्वेषु तेषु राजसु भारत॥ द्वा:स्थो निवेदयामास सूतपुत्रमुपस्थितम्। अयं स रथ आयाति योऽयासीत् पाण्डवान् प्रति॥ दूतो नस्तूर्णमायातः सैन्धवैः साधुवाहिभिः। उपेयाय स तु क्षिप्रं रथात् प्रस्कन्द्य कुण्डली। प्रविवेश सभां पूर्णां महीपालैर्महात्मभिः॥ संजय उवाच प्राप्तोऽस्मि पाण्डवान् गत्वा तं विजानीत कौरवाः। यथावयः कुरून् सर्वान् प्रतिनन्दन्ति पाण्डवाः॥ अभिवादयन्ति वृद्धाश्च वयस्यांश्च वयस्यवत्। यूनश्चाभ्यवदन् पार्थाः प्रतिपूज्य यथावयः॥ यथाहं धृतराष्ट्रेण शिष्टः पूर्वमितो गतः। अब्रुवं पाण्डवान् गत्वा तन्निबोधत पार्थिवाः॥ धृतराष्ट्र उवाच पृच्छामि त्वां संजय राजमध्ये किमब्रवीद् वाक्यमदीनसत्त्वः। धनंजयस्तात युधां प्रणेता दुरात्मनां जीवितच्छिन्महात्मा॥ सञ्जय उवाच दुर्योधनो वाचमिमां शृणोतु यदब्रवीदर्जुनो योत्स्यमानः। युधिष्ठिरस्यानुमते महात्मा धनंजयः शृण्वतः केशवस्य॥ अन्वत्रस्तो बाहुवीर्यं विदान उपह्वरे वासुदेवस्य धीरः। अवोचमा योत्स्यमानः किरीटी मध्ये ब्रूया धार्तराष्ट्र कुरूणाम्॥ संशृण्वतस्तस्य दुर्भाषिणो वै दुरात्मनः सूतपुत्रस्य सूता यो योद्धमाशंसति मां सदैव मन्दप्रज्ञः कालपक्वोऽतिमूढः॥ ये वै राजानः पाण्डवायोधनाय समानीताः शृण्वतां चापि तेषाम्। यथा समग्रं वचनं मृयोक्तं सहामात्यं श्रावयेथा नृपं तत्॥ यथा नूनं देवराजस्य देवाः शुश्रूषन्ते वज्रहस्तस्य सर्वे। तथाशृण्वन् पाण्डवा: संजयाश्च किरीटिना वाचमुक्तां समर्थाम्॥ इत्यब्रवीदर्जुनो योत्स्यमानो गाण्डीवधन्वा लोहितपद्मनेत्रः। न चेद् राज्यं मुञ्चति धार्तराष्ट्रो युधिष्ठिरस्याजमीढस्य राज्ञः॥ दनिर्विष्टं पापकं धार्तराष्ट्रः। येषां युद्धं भीमसेनार्जुनाभ्यां तथाश्विभ्यां वासुदेवेन चैव॥ शैनेयेन ध्रुवमात्तायुधेन धृष्टद्युम्नेनाथ शिखण्डिना च। युधिष्ठिरेणेन्द्रकल्पेन चैव योऽपध्यानान्निर्दहेद् गां दिवं च॥ तैश्चेद् योद्धं मन्यते धार्तराष्ट्रो निर्वृत्तोऽर्थः सकलः पाण्डवानाम्। रुपैहि युद्धं यदि मन्यसे त्वम्॥ यां तां वने दुःखशय्यामवात्सीत् प्रव्राजितः पाण्डवो धर्मचारी। आप्नोतु तां दुःखतरामनर्थामन्त्यां शय्यां धार्तराष्ट्रः परासुः॥ ह्रिया ज्ञानेन तपसा दमेन शौर्येणाथो धर्मगुप्त्या धनेन। नध्यातिष्ठद् धार्तराष्ट्रो दुरात्मा॥ मायोपधः प्रणिपातार्जवाभ्यां तपोदमाभ्यां धर्मगुप्त्या बलेना स्तितिक्षमाणः क्लिश्यमानोऽतिवेलम्॥ यदा ज्येष्ठः पाण्डवः संशितात्मा क्रोधं यत्तं वर्षपूगान् सुघोरम्। स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्॥ कृष्णवर्मेव ज्वलितः समिद्धो यथा दहेत् कक्षमग्निर्निदाघे। एवं दग्धा धार्तराष्ट्रस्य सेना युधिष्ठिरः क्रोधदीप्तोऽन्ववेक्ष्य॥ यदा द्रष्टा भीमसेनं रथस्थं गदाहस्तं क्रोधविषं वमन्तम्। अमर्षणं पाण्डवं भीमवेगं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्॥ सेनानगं दंशितं भीमसेनं स्वालक्षणं वीरहणं परेषाम्। मन्तं चमूमन्तकसंनिकाशं तदा स्मर्ता वचनस्यातिमानी॥ यदा द्रष्टा भीमसेनेन नागान् निपातितान् गिरिकूटप्रकाशान्। स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्॥ महासिंहो गा व इव प्रविश्य गदापाणिर्धार्तराष्ट्रानुपेत्य। यदा भीमो भीमरूपो निहन्ता तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्॥ महाभये वीतभयः कृतास्रः समागमे शत्रुबलामर्दी। सकृद् रथेनाप्रतिमान रथौघान् पदातिसंघान् गदयाऽभिनिघ्नन्॥ शैक्येन नागांस्तरसा विगृह्णन् यदा छेत्ता धार्तराष्ट्रस्य सैन्यम्। स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्॥ तृणप्रायं ज्वलनेनेव दग्धं ग्रामं यथा धार्तराष्ट्रान् समीक्ष्य। पक्वं सस्यं वैद्युतेनेव दग्धं परासिक्तं विपुलं स्वं बलौघम्॥ हतप्रवीरं विमुखं भयात पराङ्मुखं प्रायशोऽधृष्टयोधम्। शस्त्रार्चिषा भीमसेनेन दग्धं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्॥ उपासंगानाचरेद् दक्षिणेन वराङ्गानां नकुलचित्रयोधी। यदा रथाग्यो रथिनः प्रणेता तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्॥ रथैः शुभैः सुखोचितो दुःखशय्यां वनेषु दीर्घ कालं नकुलो यामशेत। आशीविषः क्रुद्ध इवोद्वमन् विषं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्॥ त्यक्तात्मानः पार्थिवा योधनाय समादिष्टा धर्मराजेन सूत। सैन्यमभिद्रवन्तो दृष्ट्वा पश्चात् तप्स्यते धार्तराष्ट्रः॥ शिशून् कृतास्त्रानशिशुप्रकाशान् यदा द्रष्टा कौरवः पञ्च शूरान्। स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्॥ यदा गतोद्वाहमकूजनाक्षं सुवर्णतारं रथमाततायीः। दान्तैर्युक्तं सहदेवोऽधिरूढः शिरांसि राज्ञां क्षेप्स्यते मार्गणौघैः॥ महाभये सम्प्रवृत्ते रथस्थं विवर्तमानं समरे कृतास्त्रम्। सर्वा दिशः सम्पतन्तं समीक्ष्य तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्॥ ह्रीनिषेवो निपुणः सत्यवादी महाबलः सर्वधर्मोपपन्नः। गान्धारिमार्छस्तुमुले क्षिप्रकारी क्षेप्ता जनान् सहदेवस्तरस्वी॥ यदा द्रष्टा द्रौपदेयान् महेषून् शूरान् कृतास्त्रान् रथयुद्धकोविदान्। स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्॥ यदाभिमन्युः परवीरघाती शरैः परान् मेघ इवाभिवर्षन्। स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्।॥ यदा द्रष्टा बालमबालवीर्य द्विषच्चामूं मृत्युमिवोत्पतन्तम्। सौभद्रमिन्द्रप्रतिमं कृतास्त्रं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्॥ प्रभद्रकाः शीघ्रतरा युवानो विशारदाः सिंहसमानवीर्याः। स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्॥ वृद्धौ विराटदुपदौ महारथौ पृथक् चमूभ्यामभिवर्तमानौ। स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्॥ यदा कृतास्त्रो दुपदः प्रचिन्वन् शिरांसि यूनां समरे रथस्थः। स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्॥ यदा विराटः परवीरघाती रणान्तरे शत्रुचमूं प्रवेष्टा। स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्॥ ज्येष्ठं मात्स्यमनृशंसार्यरूपं विराटपुत्रं रथिनं पुरस्तात्। यदा द्रष्टा दंशितं पाण्डवार्थे तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्॥ रणे हते कौरवाणां प्रवीरे शिखण्डिना सत्तमे शान्तनूजे। न जातु नः शत्रवो धारयेयुरसंशयं सत्यमेतद् ब्रवीमि।। यदा शिखण्डी रथिनः प्रचिन्वन् भीष्मं रथेनाभियाता वरूथी। स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्॥ यदा द्रष्टा संजयानामनीके धृष्टद्युम्नं प्रमुखे रोचमानम्। अस्त्रं यस्मै गुह्यमुवाच धीमान् द्रोणस्तदा तप्स्यति धार्तराष्ट्रः॥ यदा स सेनापतिरप्रमेयः परामृद्नन्निषुभिर्धार्तराष्ट्रान्। द्रोणं रणे शत्रुसहोऽभियाता तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्॥ ह्रीमान् मनीषी बलवान् मनस्वी स लक्ष्मीवान् सोमकानां प्रबर्हः। न जातु तं शत्रवोऽन्ये सहेरन् येषां स स्यादग्रणीर्वृष्णिसिंहः॥ इदं च ब्रूया मा वृणीष्वेति लोके युद्धेऽद्वितीयं सचिवं रथस्थम्। शिनेर्नप्तारं प्रवृणीम सात्यकि महाबलं वीतभयं कृतास्त्रम्॥ महोरस्को दीर्घबाहुः प्रमाथी युद्धेऽद्वितीयः परमास्त्रवेदी। शिनेर्नप्ता तालमात्रायुधोऽयं महारथो वीतभयः कृतास्त्रः॥ यदा शिनीनामधिपो मयोक्तः शरैः परान् मेघ इव प्रवर्षन्। स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्॥ यदा धृतिं कुरुते योत्स्यमानः स दीर्घबाहुर्दृढधन्वा महात्मा। सिंहस्येव गन्धमाघ्राय गावः संचेष्टन्ते शत्रवोऽस्माद् रणाग्रे॥ स दीर्घबाहुर्दृढधन्वा महात्मा भिन्द्याद् गिरीन् संहरेत् सर्वलोकान्। अस्त्रे कृती निपुणः क्षिप्रहस्तो दिवि स्थितः सूर्य इवाभिमाति॥ चित्रः सूक्ष्मः सुकृतो यादवस्य अस्त्रे योगो वृष्णिसिंहस्य भूयान्। यथाविधं योगमाहुः प्रशस्तं सर्वैर्गुणैः सात्यकिस्तैरुपेतः॥ र्यदा युक्तं स्यन्दनं माघवस्या स्तदा तप्स्यत्यकृतात्मा स मन्दः॥ यदा रथं हेममणिप्रकाशं श्वेताश्वयुक्तं वानरकेतुमुचम्। द्रष्टा ममाप्यास्थितं केशवेन तदा तप्स्यत्यकृतात्मा स मन्दः॥ यदा मौास्तलनिष्पेषमुग्रं महाशब्दं वज्रनिष्पेषतुल्यम्। विधूयमानस्य महारणे मया स गाण्डिवस्य श्रोष्यति मन्दबुद्धिः॥ स्तप्ता युद्धे दुर्मतिर्दुःसहायः। दृष्ट्रा सैन्यं बाणवर्षान्धकारे प्रभज्यन्तं गोकुलवद् रणाचे॥ बलाहकादुच्चरतः सुभीमान् विद्युत्स्फुलिङ्गानिव घोररूपान्। सहस्रघ्नान् द्विषतां सङ्गरेषु अस्थिच्छिदो मर्मभिदः सुपुङ्खान्॥ यदा द्रष्टा ज्यामुखाद् बाणसंघान् गाण्डीवमुक्तानापतत: शिताग्रान्। स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्॥ यदा मन्दः परबाणान् विमुक्तान् ममे षुभिर्जियमाणान् प्रतीपम्। स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्॥ यदा विपाठा मद्भुजविप्रमुक्ता द्विजाः फलानीव महीरुहाग्रात्। प्रचेतार उत्तमाङ्गानि यूनां तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्॥ यदा द्रष्टा पततः स्यन्दनेभ्यो महागजेभ्योऽश्वगतान् सुयोधनान्। शरैर्हतान् पातितांश्चैव रङ्गे तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्॥ असम्प्राप्तानस्त्रपथं परस्य तदा द्रष्टा नश्यतो धार्तराष्ट्रान्। अकुर्वतः कर्म युद्धे समन्तात् तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्॥ पदातिसंघान् रथसंघान् समन्ताद् ह्यात्ताननः काल इवाततेषुः। प्रणोत्स्यामि ज्वलितैर्बाणवषैः शत्रूस्तदा तप्स्यति मन्दबुद्धिः॥ सर्वा दिशः सम्पतता रथेन रजोध्वस्तं गाण्डिवेन प्रकृत्तम्। यदा द्रष्टा स्वबलं सम्प्रमूढं तदा पश्चात् तप्स्यति मन्दबुद्धिः॥ कान्दिग्भूतं छिन्नगात्रं विसंज्ञं दुर्योधनो द्रक्ष्यति सर्वसैन्यम्। हताश्ववीराग्रयनरेन्द्रनागं पिपासितं श्रान्तपत्रं भयार्तम्॥ आर्तस्वरं हन्यमानं हतं च विकीर्णकेशास्थिकपालसंघम्। प्रजापतेः कर्म यथार्थनिष्ठितं तदा दृष्ट्वा तप्स्यति मन्दबुद्धिः॥ यदा रथे गाण्डिवं वासुदेवं दिव्यं शङ्ख पाञ्चजन्यं हयांश्च। तूणावक्षय्यौ देवदत्तं च मां च द्रष्ट्वा युद्धे धार्तराष्ट्रोऽन्वतप्स्यत्॥ उद्वर्तयन् दस्युसङ्घान् समेतान् प्रवर्तयन् युगमन्यद् युगान्ते। स्तदा तप्ता धृतराष्ट्रः सपुत्रः॥ सभ्राता वै सहसैन्यः सभृत्यो भ्रष्टैश्वर्व्यः क्रोधवशोऽल्पचेताः। दर्पस्यान्ते निहतो वेपमानः पश्चान्मन्दस्तप्स्यति धार्तराष्ट्रः॥ पूर्वाह्ने मां कृतजप्यं कदाचिद् विप्रः प्रोवाचोदकान्ते मनोज्ञम्। कर्तव्यं ते दुष्करं कर्म पार्थ योद्धव्यं ते शत्रुभिः सव्यसाचिन्॥ इन्द्रो वा ते हरिमान् वज्रहस्तः पुरस्ताद् यातु समरेऽरीन् विनिघ्नन्। सुग्रीवयुक्तेन रथेन वा ते पश्चात् कृष्णो रक्षतु वासुदेवः॥ दस्मिन् युद्धे वासुदेवं सहायम्। स मे लब्धो दस्युवधाय कृष्णो मन्ये चैतद् विहितं दैवतैर्मे॥ अयुद्ध्यमानो मनसाऽपि यस्य जयं कृष्णः पुरुषस्याभिनन्देत्। एवं सर्वान् स व्यतीयादमित्रान् सेन्द्रान् देवान् मानुषे नास्ति चिन्ता॥ न्महोदधिं सलिलस्याप्रमेयम्। तेजस्विनं कृष्णमत्यन्तशूरं युद्धेन यो वासुदेवं जिगीषेत्॥ गिरिं य इच्छेत् तु तलेन भेत्तुं शिलोच्चयं श्वेतमतिप्रमाणम्। न चापि किंचित् स गिरेस्तु कुर्यात्॥ अग्नि समिद्धं शमयेद् भुजाभ्यां चन्द्रं च सूर्यं च निवारयेत। हरेद् देवानाममृतं प्रसह्य युद्धेन यो वासुदेवं जिगीषेत्॥ नुत्साद्य राज्ञः समरे प्रसह्या उवाह भार्या यशसा ज्वलन्ती यस्यां जज्ञे रौक्मिणेयो महात्मा॥ अयं गान्धारांस्तरसा सम्प्रमथ्य जित्वा पुत्रान् नग्नजित: समग्रान्। बद्धं मुमोच विनदन्तं प्रसह्य सुदर्शनं वै देवतानां ललामम्॥ अय कपाटेन जघान पाण्ड्यं तथा कलिङ्गान् दन्तकूरे ममर्द। अनेन दग्धा वर्षपूगान् विनाथा वाराणसी नगरी सम्बभूव॥ अयं स्म युद्धे मन्यतेऽन्यैरजेयं तमेकलव्यं नाम निषादराजम्। वेगेनैव शैलमभिहत्य जम्भः शेते स कृष्णेन हतः परासुः॥ तथोडग्रसेनस्य सुतं सुदुष्टं वृष्ण्यन्धकानां मध्यगतं समास्थम्। अपातयद् बलदेवद्वितीयो हत्वा ददौ चोग्रसेनाय राज्यम्॥ अयं सौभं योधयामास स्वस्थं विभीषणं मायया शाल्वराजम्। सौभद्वारि प्रत्यगृह्णाच्छतघ्नीं दो• क एनं विषहेत मर्त्यः॥ प्राग्जोतिषं नाम बभूव दुर्गं पुरं घोरमसुराणामसह्यम्। महाबलो नरकस्तत्र भौमो जहारादित्या मणिकुण्डले शुभे॥ न तं देवाः सह शक्रेण शेकुः समागता युधि मृत्योरभीताः। दृष्ट्वा च तं विक्रम केशवस्य बलं तथैवास्त्रमवारणीयम्॥ जानन्तोऽस्य प्रकृति केशवस्य न्ययोजयन् दस्युवधाय कृष्णम्। मैश्वर्यवान् सिद्धिषु वासुदेवः॥ निर्मोचने षट् सहस्राणि हत्वा संच्छिद्य पाशान् सहसा क्षुरान्तान्। मुरं हत्वा विनिहत्यौघरक्षौ निर्मोचनं चापि जगाम वीरः॥ तत्रैव तेनास्य बभूव युद्धं महाबलेनातिबलस्य विष्णोः। तेनेवोन्मथितः कर्णिकारः॥ आहृत्य कृष्णो मणिकुण्डले ते हत्वा च भौमं नरकं मुरं च। श्रिया वृतो यशसा प्रत्याजगामाप्रतिमप्रभावः॥ चैव विद्वान् अस्मै ववाण्यददंस्तत्र देवा दृष्ट्वा भीमं कर्म कृतं रणे तत्। दाकाशे चाप्सु च ते क्रमः स्यात्॥ नित्येव कृष्णश्च ततः कृतार्थः। एवंरूपे वासुदेवेऽप्रमेये महाबले गुणसम्पत् सदैव॥ माशंसते धार्तराष्ट्रो विजेतुम्। सदा ह्येनं तर्कयते दुरात्मा तच्चाप्ययं सहतेऽस्मान् समीक्ष्य॥ पर्यागतं मम कृष्णस्य चैव यो मन्यते कलहं सम्प्रसह्य। शक्यं हर्तुं पाण्डवानां ममत्वं तद् वेदिता संयुगं तत्र गत्वा॥ चैव। नमस्कृत्वा शान्तनवाय राज्ञे द्रोणायाथो सहपुत्राय शारद्वतायाप्रतिद्वन्द्विने च योत्स्याम्यहं राज्यमभीप्समानः॥ धर्मेणाप्तं निधनं तस्य मन्ये यो योत्स्यते पाण्डवैः पापबुद्धिः। मिथ्या ग्लहे निर्जिता वै नृशंसैः संवत्सरान् वै द्वादश राजपुत्राः॥ वास: कृच्छ्रो विहितश्चाप्यरण्ये दीर्घ कालं चैकमज्ञातवर्षम्। ते हि कस्माज्जीवतां पाण्डवानां नन्दिष्यन्ते धार्तराष्ट्राः पदस्थाः॥ वैर्महेन्द्रप्रमुखैः सहायैः। स्ततो ध्रुवं नास्ति कृतं च साधु॥ न चेदिमं पुरुषं कर्मबद्धं न चेदस्मान् मन्यतेऽसौविशिष्टान्। आशंसेऽहं वासुदेवद्वितीयो दुर्योधनं सानुबन्धं निहन्तुम्॥ न चेदिदं कर्म नरेन्द्र वध्यं न चेद् भवेत् सुकृतं निष्फलं वा। इदं च तच्चाभिसमीक्ष्य नूनं पराजयो धार्तराष्ट्रस्य साधुः॥ प्रत्यक्षं वः कुरवो यद् ब्रवीमि युध्यमाना धार्तराष्ट्रा न सन्ति। न युद्धे वै शेष इहास्ति कश्चित्॥ हत्वा त्वहं धार्तराष्ट्रान् सकर्णान् राज्यं कुरूणामवजेता समग्रम्। यद् वः कार्यं तत् कुरुध्वं यथास्वमिष्ठान् दारानात्मभोगान् भजध्वम्॥ अप्येवं नो ब्राह्मणाः सन्ति वृद्धा बहुश्रुताः शीलवन्तः कुलीनाः। सांवत्सरा ज्योतिषि चाभियुक्ता नक्षत्रयोगेषु च निश्चयज्ञाः॥ उच्चावचं दैवयुक्तं रहस्यं दिव्यः प्रश्ना मृगचक्रा मुहूर्ताः। क्षयं महान्तं कुरुसुंजयानां निवेदयन्ते पाण्डवानां जयं च॥ यथा हि नो मन्यतेऽजातशत्रुः संसिद्धार्थो द्विषतां निग्रहाय। जनार्दनश्चाप्यपरोक्षविद्यो न संशयं पश्यति वृष्णिसिंहः॥ अहं तथैवं खलु भाविरूपं पश्यामि बुद्ध्या स्वयमप्रमत्तः। दृष्टिश्च मे न व्यथते पुराणी संयुध्यमाना धार्तराष्ट्रा न सन्ति॥ रनाहता कम्पति मे धनुर्ला। बाणाश्च मे तूणमुखाद् विसृत्य मुहुर्मुहुर्गन्तुमुशन्ति चैव॥ खङ्गः कोशान्निःसरति प्रसन्नो हित्वेव जीर्णीमुरगस्त्वचं स्वाम्। ध्वजे वाचो रौद्ररूपा भवन्ति कदा रथो योक्ष्यते ते किरीटिन्॥ गोमायुसंघाश्च नदन्ति रात्रौ रक्षांस्यथो निष्पतन्त्यन्तरिक्षात्। मृगाः शृगाला: शितिकण्ठाश्च काका गृध्रा बकाश्चैव तरक्षवश्च॥ सुवर्णपत्राश्च पतन्ति पश्चाद् दृष्ट्वा रथं श्वेतहयप्रयुक्तम्। अहं ह्येकः पार्थिवान् सर्वयोधान् शरान् वर्षन् मृत्युलोकं नयेयम्॥ समाददानः पृथगस्त्रमार्गान् यथाग्निरिद्धो गहन् निदाघे। स्थूणाकर्णं पाशुपतं महास्त्रं ब्राह्मं चास्त्रं यच्च शक्रोऽप्यदान्मे॥ वधे धृतो वेगवतः प्रमुञ्चन् नाहं प्रजाः किंचिदिहावशिष्ये। शान्ति लप्स्ये परमो ह्येष भाव: स्थिरो मम ब्रूहि गावल्गणे तान्॥ ये वै जय्याः समरे देवानपीन्द्रप्रमुखान् समेतान्। सूत लब्वा तैर्मन्यते कलहं सम्प्रसह्य स धार्तराष्ट्रः पश्यत मोहमस्य॥ वृद्धो भीष्मः शान्तनवः कृपश्च द्रोणः सपुत्रो विदुरश्च धीमान्। एते सर्वे यद् वदन्ते तदस्तु आयुष्मन्तः कुरवः सन्तु सर्वे॥ वैशम्पायन उवाच समवेतेषु सर्वेषु तेषु राजसु भारत। दुर्योधनमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत्॥ बृहस्पतिश्चोशना च ब्रह्माणं पर्युपस्थितौ। मरुतश्च सहेन्द्रेण वसवश्चाग्निना सह॥ आदित्याश्चैव साध्याश्च ये च सप्तर्षयो दिवि। विश्वावसुश्च गन्धर्वः शुभाश्चाप्सरसां गणाः॥ नमस्कृत्योपजग्मुस्ते लोकवृद्धं पितामहम्। परिवार्य च विश्वेशं पर्यासत दिवौकसः॥ तेषां मनश्च तेजश्चाप्याददानाविवौजसा। पूर्वदेवौ व्यतिक्रान्तौ नरनारायणावृषी॥ बृहस्पतिस्तु पप्रच्छ ब्रह्माणं काविमाविति। भवन्तं नोपतिष्ठेते तौ नः शंस पितामहः॥ ब्रह्मोवाच यावेतौ पृथिवीं द्यां च भासयन्तौ तपस्विनौ। ज्वलन्तौ रोचमानौ च व्याप्यातीतौ महाबलौ॥ नरनारायणावेतौ लोकाल्लोकं समास्थितौ। ऊर्जितौ स्वेन तपसा महासत्त्वपराक्रमौ॥ एतौ हि कर्मणा लोकं नन्दयामासतुवि॒वम्। द्विधाभूतौ महाप्राज्ञौ विद्धि ब्रह्मन् परंतपौ। असुराणां विनाशाय देवगन्धर्वपूजितौ॥ वैशम्पायन उवाच जगाम शक्रस्तच्छुत्वा यत्र तौ तेपतुस्तपः। सार्धं देवगणः सर्वैर्वृहस्पतिपुरोगमैः॥ तदा देवासुरे युद्धे भये जाते दिवौकसाम्। अयाचत महात्मानौ नरनारायणौ वरम्॥ तावब्रूतां वृणीष्वेति तदा भरतसत्तम। अथैतावब्रवीच्छक्रः साह्यं नः क्रियतामिति॥ ततस्तौ शक्रमब्रूतां करिष्यावो यदिच्छसि। ताभ्यां च सहितः शक्रो विजिग्ये दैत्यदानवान्॥ नर इन्द्रस्य संग्रामे हत्वा शत्रून् परन्तपः। पौलोमान् कालखमांश्च सहस्राणि शतानि च॥ एषं भ्रान्ते रथे तिष्ठन् भल्लेनापाहरच्छिरः। जम्भस्य ग्रसमानस्य तदा ह्यर्जुन आहवे॥ एष पारे समुद्रस्य हिरण्यपुरमारुजत्। जित्वा षष्टिं सहस्राणि निवातकवचान् रणे॥ एष देवान् सहेन्द्रेण जित्वा परपुरञ्जयः। अतर्पयन्महाबाहुरर्जुनो जातवेदसम्॥ नारायणस्तथैवात्र भूयसोऽन्याञ्जघान ह। एवमेतौ महावीर्यौ तौ पश्यत समागतौ॥ वासुदेवार्जुनौ वीरौ समवेतौ महारथौ। नरनारायणौ देवौ पूर्वदेवाविति श्रुतिः॥ अजेयौ मानुषे लोके सेन्ट्रैरपि सुरासुरैः। एष नारायणः कृष्णः फाल्गुनश्च नरः स्मृतः। नारायणो नरश्चैव सत्त्वमेकं द्विधा कृतम्॥ एतौ हि कर्मणा लोकानश्नुवातेऽक्षयान् ध्रुवान्। तत्र तत्रैव जायते युद्धकाले पुनः पुनः॥ तस्मात् कर्मैव कर्तव्यमिति होवाच नारदः। एतद्धि सर्वमाचष्ट वृष्णिचक्रस्य वेदवित्॥ शङ्खचक्रगदाहस्तं यदा द्रक्ष्यसि केशवम्। पर्याददानं चास्त्राणि भीमधन्वानमर्जुनम्॥ सनातनौ महात्मानौ कृष्णावेकरथे स्थितौ। दुर्योधन तदा तात स्मर्ताऽसि वचनं मम॥ नोचेदयमभाव: स्यात् कुरूणां प्रत्युपस्थितः। अर्थाच्च तात धर्माच्च तव बुद्धिरुपप्लुता॥ न चेद् ग्रहीष्यसे वाक्यं श्रोतासि सुबहून् हतान्। तवैव हि मतं सर्वे कुरवः पर्युपासते॥ त्रयाणामेव च मतं तत् त्वमेकोऽनुमन्यसे। रामेण चैव शप्तस्य कर्णस्य भरतर्षभ॥ दुर्जातेः सूतपुत्रस्य शकुनेः सौबलस्य च। तथा क्षुद्रस्य पापस्य भ्रातुर्दुःशासनस्य च॥ कर्ण उवाच नैवमायुष्मता वाच्यं यन्मामात्थ पितामह। क्षत्रधर्मे स्थितो ह्यस्मि स्वधर्मादनपेयिवान्॥ किं चान्यन्मयि दुर्वृत्तं येन मां परिगर्हसे। न हि मे वृजिनं किंचिद् धार्तराष्ट्रा विदुः क्वचित्।।३० नाचरं वृजिनं किंचिद् धार्तराष्ट्रस्य नित्यशः। अहं हि पाण्डवान् सर्वान् हनिष्यामि रणेस्थितान्॥ प्राग्विरुद्धैः शमं सद्धिः कथं वा क्रियते पुनः। राज्ञो हि धृतराष्ट्रस्य सर्वं कार्यं प्रियं मया। तथा दुर्योधनस्यापि स हि राज्ये समाहितः॥ वैशम्पायन उवाच कर्णस्य तु वचः श्रुत्वा भीष्मः शान्तनवः पुनः। धृतराष्ट्रः महाराज सम्भाष्येदं वचोऽब्रवीत्॥ यदयं कत्थते नित्यं हन्ताहं पाण्डवानिति। नायं कलापि सम्पूर्णा पाण्डवानां महात्मनाम्॥ अनयो योऽयमागन्ता पुत्राणां ते दुरात्मनाम्। तदस्य कर्म जानीहि सूतपुत्रस्य दुर्मतेः॥ एतमाश्रित्य पुत्रस्ते मन्दबुद्धिः सुयोधनः। अवामन्यत तान् वीरान् देवपुत्रानरिंदमान्॥ किं चाप्येतेन तत्कर्म कृतपूर्वं सुदुष्करम्। तैर्यथा पाण्डवैः सर्वैरेकैकेन कृतं पुरा॥ दृष्ट्वा विराटनगरे भ्रातरं निहतं प्रियम्। धनंजयेन विक्रम्य किमनेन तदा कृतम्॥ सहितान् हि कुरून् सर्वानभियातो धनंजयः। प्रमथ्य चाच्छिनद् वासः किमयं प्रोषितस्तदा॥ गन्धर्वैर्घोषयात्रायां ह्रियते यत् सुतस्तव। क्व तदा सूतपुत्रोऽभूद् य इदानीं वृषायते॥ ननु तत्रापि भीमेन पार्थेन च महात्मना। यमाभ्यामेव संगम्य गन्धर्वास्ते पराजिताः॥ एतान्यस्य मृषोक्तानि बहूनि भरतर्षभ। विकत्थनस्य भद्रं ते सदा धर्मार्थलोपिनः॥ भीष्मस्य तु वचः श्रुत्वा भारद्वाजो महामनाः। धृतराष्ट्रमुवाचेदं राजमध्येऽभिपूजयन्॥ यदाह भरतश्रेष्ठो भीष्मस्तत् क्रियतां नृप। न काममर्थलिप्सूनां वचनं कर्तुमर्हसि॥ पुरा युद्धात् साधु मन्ये पाण्डवैः सह संगतम्। यद् वाक्यमर्जुनेनोक्तं संजयेन निवेदितम्॥ सर्वं तदपि जानामि करिष्यति च पाण्डवः। न ह्यस्य त्रिषु लोकेषु सदृशोऽन्ति धनुर्धरः॥ अनादृत्य तु तद् वाक्यमर्थवद् द्रोणभीष्मयोः। ततः स संजयं राजा पर्यपृच्छत पाण्डवान्॥ तदैव कुरवः सर्वे निराशा जीवितेऽभवन्। भीष्मद्रोणौ यदा राजा न सम्यगनुभाषते॥ धृतराष्ट्र उवाच किमसौ पाण्डवौ राजा धर्मपुत्रोऽभ्यभाषत। श्रुत्वेह बहुला: सेनाः प्रीत्यर्थं नः समागताः॥ किमसौ चेष्टते सूत योत्स्यमानो युधिष्ठिरः। के वास्य भ्रातृपुत्राणां पश्यन्त्याज्ञेप्सवो मुखम्॥ के स्विदेनं वारयन्ति युद्धाच्छाम्येति वा पुनः। निकृत्या कोपितं मन्दैर्धर्मज्ञं धर्मचारिणम्॥ संजय उवाच राज्ञो मुखमुदीक्षन्ते पञ्चालाः पाण्डवै सह। युधिष्ठिरस्य भद्रं ते स सर्वाननुशास्ति च॥ पृथग्भूताः पाण्डवानां पञ्चालानां रथव्रजाः। आयान्तमभिनन्दन्ति कुन्तीपुत्रं युधिष्ठिरम्॥ नभः सूर्यमिवोद्यन्तं कौन्तेयं दीप्ततेजसम्। पञ्चालाः प्रतिनन्दन्ति तेजोराशिमिवोदितम्॥ आगोपालाविपालाश्च नन्दमाना युधिष्ठिरम्। पञ्चाला: केकया मत्स्याः प्रतिनन्दन्ति पाण्डवम्॥ ब्राह्मण्यो राजपुत्र्यश्च विशां दुहितरश्च याः। क्रीडन्त्योऽभिसमायान्ति पार्थं संनद्धमीक्षितुम्॥ धृतराष्ट्र उवाच संजयाचक्ष्व येनास्मान् पाण्डवा अभ्ययुञ्जत। धृष्टद्युम्नस्य सैन्येन सोमकानां बलेन च॥ वैशम्पायन उवाच गावल्गणिस्तु तत्पृष्टः सभायां कुरुसंसदि। निःश्वस्य सुभृशं दीर्घ मुहुः संचिन्तयन्निव॥ तत्रानिमित्ततो दैवात् सूतं कश्मलमाविशत्। तदाऽऽचचक्षे विदुरः सभायां राजसंसदि॥ संजयोऽयं महाराज मूर्च्छितः पतितो भुवि। वाचं न सृजते कांचिद्धीनप्रज्ञोऽल्पचेतनः॥ धृतराष्ट्र उवाच अपश्यत् संजयो नूनं कुन्तीपुत्रान् महारथान्। तैरस्य पुरुषव्याघे शमुद्वेजितं मनः॥ वैशम्पायन उवाच संजयश्चेतनां लब्ध्वा प्रत्याश्वस्येदमब्रवीत्। धृतराष्ट्र महाराज सभायां कुरुसंसदि॥ संजय उवाच दृष्टवानस्मि राजेन्द्र कुन्तीपुत्रान् महारथान्। मत्स्यराजगृहावासनिरोधेनावकर्शितान्॥ शृणु यैर्हि महाराज पाण्डवा अभ्ययुञ्जत। धृष्टद्युम्नेन वीरेण युद्धे वस्तेऽब्ययुञ्जत॥ यो नैव रोषान्न भयान्न लोभान्नार्थकारणात्। न हेतुवादाद् धर्मात्मा सत्यं जह्यात् कदाचन॥ यः प्रमाणं महाराज धर्मं धर्मभृतां वरः। अजातशत्रुणा तेन पाण्डवा अभ्ययुञ्जत॥ यस्य बाहुबले तुल्यः पृथिव्यां नास्ति कश्चन। यो वै सर्वान् महीपालान् वशे चक्रे धनुर्धरः। यः काशीनङ्गमगधान् कलिङ्गाश्च युधाऽजयत्॥ तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत। यस्य वीर्येण सहसा चत्वारो भुवि पाण्डवाः॥ निःसृत्य जतुगेहाद् वै हिडिम्बात् पुरुषादकात्। यश्चैषामभवद् द्वीपः कुन्तीपुत्रो वृकोदरः॥ याज्ञसेनीमथो यत्र सिन्धुराजोऽपकृष्टवान्। तत्रैषामभवद् द्वीपः कुन्तीपुत्रो वृकोदरः॥ यश्च तान् संगतान् सर्वान् पाण्डवान् वारणावते। दह्यतो मोचयामास तेन वस्तेऽभ्ययुञ्जत॥ कृष्णायां चरता प्रीतिं येन क्रोधवशा हताः। प्रविश्य विषमं घोरं पर्वतं गन्धमादनम्॥ यस्य नागायुतैर्वीर्यं भुजयोः सारमर्पितम्। तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत॥ कृष्णाद्वितीयो विक्रम्य तुष्ट्यर्थं जातवेदसः। अजयद् य: पुरा वीरो युध्यमानं पुरंदरम्॥ यः स साक्षान्महादेवं गिरिशं शूलपाणिनम्। तोषयामास युद्धेन देवदेवमुमापतिम्॥ यश्च सर्वान् वशे चक्रे लोकपालान् धनुर्धरः। तेन वो विजयेनाजौ पाण्डवा अभ्ययुञ्जत।॥ यः प्रतीची दिशं चक्रे वशे म्लेच्छगणायुताम्। स तत्र नकुलो योद्धा चित्रयोधी व्यवस्थितः॥ तेन वो दर्शनीयेन वीरेणातिधनुर्भूता। माद्रीपुत्रेण कौरव्य पाण्डवा अभ्ययुञ्जत॥ यः काशीनङ्गमगधान् कलिङ्गांश्च युधाजयत्। तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत॥ यस्य वीर्येण सदृशाश्चत्वारो भुवि मानवाः। अश्वत्थामा धृष्टकेतू रुक्मी प्रद्युम्न एव च॥ तेन वः सहदेवेन युद्धं राजन् महात्ययम्। यवीयसा नृवीरेण माद्रीनन्दिकरेण च॥ तपश्चचार या घोरं काशिकन्या पुरा सती। भीष्मस्य वधमिच्छन्ती प्रेत्यापि भरतर्षभ॥ पाञ्चालस्य सुता जज्ञे दैवाच्च स पुनः पुमान्। स्त्रीपुंसोः पुरुषव्याघ्र यः स वेद गुणागुणान्॥ यः कलिङ्गान् समापेदे पाञ्चाल्यो युद्धदुर्मदः। शिखण्डिना वः कुरवः कृतास्त्रेणाभ्ययुञ्जत॥ यं यक्षः पुरुषं चक्रे भीष्मस्य निधनेच्छया। महेष्वासेन रौद्रेण पाण्डवा अभ्ययुञ्जत॥ महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः। आमुक्तकवचाः शूरास्तैश्च वस्तेऽभ्ययुञ्जत॥ यो दीर्घबाहुः क्षिप्रास्त्रो धृतिमान् सत्यविक्रमः। तेन वो वृष्णिवीरेण युयुधानेन संगरः॥ य आसीच्छरणं काले पाण्डवानां महात्मनाम्। रणे तेन विराटेन भविता वः समागमः॥ यः स काशिपती राजा वाराणस्यां महारथः। स तेषामभवद् योद्धा तेन वस्तेऽभ्ययुञ्जत॥ शिशुभिर्दुर्जयैः संख्ये द्रौपदेयैर्महात्मभिः। आशीविषसमस्पर्शः पाण्डवा अभ्ययुञ्जत॥ यः कृष्णसदृशो वीर्ये युधिष्ठिरसमो दमे। तेनाभिमन्युना संख्ये पाण्डवा अभ्ययुञ्जत॥ यश्चैवाप्रतिमो वीर्ये धृष्टकेतुर्महायशाः। दुःसहः समरे क्रुद्धः शैशुपालिमहारथः॥ तेन वश्चेदिराजन पाण्डवा अभ्ययुञ्जत। अक्षौहिण्या परिवृतः पाण्डवान् योऽभिसंश्रितः॥ यः संश्रयः पाण्डवानां देवानामिव वासवः। तेन वो वासुदेवेन पाण्डवा अभ्ययुञ्जत॥ तथा चेदिपतेर्धाता शरभो भरतर्षभ। करकर्षेण सहितस्ताभ्यां वस्तेऽभ्ययुञ्जत॥ जारासंधिः सहदेवो जयत्सेनश्च तावुभौ। युद्धेऽप्रतिस्थौ वीरौ पाण्डवार्थं व्यवस्थितौ॥ द्रुपदश्च महातेजा बलेन महता वृतः। त्यक्तात्मा पाण्डवार्थाय योत्स्यमानो व्यवस्थितः॥ एते चान्ये च बहवः प्राच्योदीच्या महीक्षितः। शतशो यानुपाश्रित्य धर्मराजो व्यवस्थितः॥ धृतराष्ट्र उवाच सर्व एते महोत्साहा ये त्वया परिकीर्तिताः। एकतस्त्वेव ते सर्वे समेता भीम एकतः॥ भीमसेनाद्धि मे भूयो भयं संजायते महत्। क्रुद्धादमर्षणात् तात व्याघ्रादिव महारुरोः॥ जागर्मि रात्रयः सर्वा दीर्घमुष्णं च निःश्वसन्। भीतो वृकोदरात् तात सिंहात् पशुरिवापरः॥ न हि तस्य महाबाहोः शक्रप्रतिमतेजसः। सैन्येऽस्मिन् प्रतिपश्यामि य एनं विषहेद् युधि॥ अमर्षणश्च कौन्तेयो दृढवैरच पाण्डवः। अनर्महासी सोन्मादस्तिर्यकप्रेक्षी महास्वनः॥ महावेगो महोत्साहो महाबाहुर्महाबलः। मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति॥ ऊरुचाहगृहीतानां गदां बिभ्रद् वृकोदरः। कुरूणामृषभो युद्धो दण्डपाणिरिवान्तकः॥ अष्टानिमायसी घोरां गदां काञ्चनभूषणाम्। मनसाऽहं प्रपश्यामि ब्रह्मदण्डमिवोद्यतम्॥ यथा मृगाणां यूथेषु सिंहो जातबलश्चरेत्। मामकेषु तथा भीमो बलेषु विचरिष्यति॥ सर्वेषां मम पुत्राणां स एकः क्रूरविक्रमः। बह्वाशी विप्रतीपश्च बाल्येऽपि रभसः सदा॥ उद्वेपते मे हृदयं ये मे दुर्योधनादयः। बाल्येऽपि तेन युध्यन्तो वारणेनेव मर्दिताः॥ तस्य वीर्येण संक्लिष्टा नित्यमेव सुता मम। स एव हेतुर्भेदस्य भीमो भीमपराक्रमः॥ ग्रसमानमनीकानि नरवारणवाजिनाम्। पश्यामीवाग्रतो भीमं क्रोधमूर्च्छितमाहवे॥ अस्त्रे द्रोणार्जुनसमं वायुवेगसमं जवे। महेश्वरसमं क्रोधे को हन्याद् भीममाहवे॥ संजयाचक्ष्व मे शूरं भीमसेनममर्षणम्। अतिलाभं तु मन्येऽहं यत् तेन रिपुघातिना॥ सर्वे येन भीमबला यक्षा राक्षसाश्च पुरा हताः॥ कथं तस्य रणे वेगं मानुषः प्रसहिष्यति। न स जातु वशे तस्थौ मम बाल्येऽपि संजय॥ किं पुनर्मम दुष्पुत्रैः क्लिष्टः सम्प्रति पाण्डवः। निष्ठुरो रोषणोऽत्यर्थं भज्येतापि न संनमेत्। तदैव न हताः पुत्रा मम मनस्विना। तिर्यक्प्रेक्षी संहतभूः कथं शाम्येद् वृकोदरः॥ शूरस्तथाप्रतिबलो गौरस्ताल इवोन्नतः। प्रमाणतो भीसेनः प्रादेशेनाधिकोऽर्जुनात्॥ जवेन वाजिनोऽत्येति बलेनात्येति कुञ्चरान्। अव्यक्तजपी मध्वक्षो मध्यमः पाण्डवो बली॥ इति बाल्ये श्रुतः पूर्वं मया व्यासमुखात् पुरा। रूपतो वीर्यतश्चैव याथातथ्येन पाण्डवः॥ आयसेन स दण्डेन रथान् नागान् नरान् हयान्। हनिष्यति रणे क्रुद्धो रौद्रः क्रूरपराक्रमः॥ अमर्षी नित्यसंरब्धो भीमः प्रहरतां वरः। मया तात प्रतीपानि कुर्वन् पूर्वं विमानितः॥ निष्कर्णामायसी स्थूलां सुपार्छा काञ्चनीं गदाम्। शतघ्नीं शतनिर्हादां कथं शक्ष्यन्ति मे सुताः॥ अपारमप्लवागाधं समुद्रं शरवेधिनम्। भीमसेनमयं दुर्गं तात मन्दास्तितीर्षवः॥ क्रोशतो मे न शृण्वन्ति बालाः पण्डितमानिनः। विषमं न हि मन्यन्ते प्रपातं मधुदर्शिनः॥ संयुगं ये गमिष्यन्ति नररूपेण मृत्युना। नियतं चोदिता धात्रा सिंहेनेव महामृगाः॥ शैक्यां तात चतुष्किष्कुं षडस्रिममितौजसम्। प्रहितां दुःखसंस्पर्शी कथं शक्ष्यन्ति मे सुताः॥ कदां भ्रामयतस्तस्य भिन्दतो हस्तिमस्तकान्। सृक्किणी लेलिहानस्य वाष्यमुत्सृजतो मुहुः॥ उद्दिश्य नागान् पततः कुर्वतो भैरवान् रवान्। प्रतीपं पततो मत्तान् कुञ्जरान् प्रतिगर्जतः॥ विगाह्य रथमार्गेषु वरानुद्दिश्य निघ्नतः। अग्नेः प्रज्वलितस्येव अपि मुच्येत मे प्रजा॥ वीथीं कुर्वन् महाबाहुर्द्रावयन् मम वाहिनीम्। नृत्यन्निव गदापाणिर्युगान्तं दर्शयिष्यति॥ प्रभिन्न इव मातङ्गः प्रभञ्जन् पुष्पितान् द्रमान्। प्रवेक्ष्यति रणे सेनां पुत्राणां मे वृकोदरः॥ कुर्वन् रथान् विपुरुषान् विसारथिहयध्वजान्। आरुजन् पुरुषव्याघ्रो रथिनः सादिनस्तथा॥ गङ्गावेग इवानूपांस्तीरजान् विविधान् दुमान्। प्रभक्षयति रणे सेनां पुत्राणां मम संजय॥ दिशो नूनं गमिष्यन्ति भीमसेनभयार्दिताः। मम पुत्राञ्च भृत्याश्च राजानश्चैव संजय॥ येन राजा महावीर्यः प्रविश्यान्तःपुरं पुरा। वासुदेवसहायेन जरासंधो निपातितः॥ कृत्स्नेयं पृथिवी देवी जरासंधेन धीमता। मागधेन्द्रेण बलिना वशे कृत्वा प्रतापिताः॥ भीष्मप्रतापात् कुरवो नयेनान्धकवृष्णयः। यन्न तस्य वशे जग्मुः केवलं दैवमेव तत्॥ स गत्वा पाण्डुपुत्रेण तरसा बाहुशालिना। अनायुधेन वीरेण निहतः किं ततोऽधिकम्॥ दीर्घकालसमासक्तं विषमाशीविषो यथा। स मोक्ष्यति रणे तेजः पुत्रेषु मम संजय॥ महेन्द्र इव वज्रेण दानवान् देवसत्तमः। भीमसेनो गदापाणिः सूदयिष्यति मे सुतान्॥ अविषह्यमनावार्य तीव्रवेगपराक्रमम्। पश्यामीवातिताम्राक्षमापतन्तं वृकोदरम्॥ अगदस्याप्यधनुषो विरथस्य विवर्मणः। बाहुभ्यां युद्ध्यमानस्य कस्तिष्ठेग्रतः पुमान्॥ भीष्मो द्रोणश्च विप्रोऽयं कृपः शारद्वतस्तथा। जानन्त्येते यथैवाहं वीर्यज्ञस्तस्य धीमतः॥ आर्यव्रतं तु जानन्तः संगरान्तं विधित्सवः। सेनामुखेषु स्थास्यन्ति मामकानां नरर्षभाः॥ बलीयः सर्वतो दिष्ठं पुरुषस्य विशेषतः। पश्यन्नपि जयं तेषां न नियच्छामि यत् सुतान्॥ ते पुराणं महेष्वासा मार्गमैन्द्रं समास्थिताः। त्यक्ष्यन्ति तुमुले प्राणान् रक्षन्तः पार्थिवं यशः॥ यथैषां मामकास्तात तथैषां पाण्डवा अपि। पौत्रा भीष्मस्य शिष्याश्च द्रोणस्य च कृपस्य च॥ यदस्मदाश्रयं किंचिद् दत्तमिष्टं च संजय। तस्यापचितिमार्यत्वात् कर्तारः स्थविरास्त्रयः॥ आददानस्य शस्त्रं हि क्षत्रधर्मं परीप्सतः। निधनं क्षत्रियस्याजौ वरमेवाहुरुत्तमम्॥ स वै शोचामि सर्वान् वै ये युयुत्सन्ति पाण्डवैः। विक्रुष्टं विदुरेणादौ तदेतद् भयमागतम्॥ न तु मन्ये विघाताय ज्ञानं दुःखस्य संजय। भवत्यतिबलं ह्येतज्ज्ञानस्याप्युपघातकम्॥ ऋषयो ह्यपि निर्मुक्ताः पश्यन्तो लोकसंग्रहान्। सुखैर्भवन्ति सुखिनस्तथा दुःखेन दुःखिताः॥ किं पुनर्मोहमासक्तस्तत्र तत्र सहस्रधा। पुत्रेषु राज्यदारेषु पौत्रेष्वपि च बन्धुषु॥ संशये तु महत्यस्मिन् किं नु मे क्षममुत्तरम्। विनाशं ह्येव पश्यामि कुरूणामनुचिन्यन्॥ द्यूतप्रमुखमाभाति कुरूणां व्यसनं महत्। मन्देनैश्चर्यकामेन लोभात् पापमिदं कृतम्॥ मन्ये पर्यायधर्मोऽयं कालस्यात्यन्तगामिनः। चक्रे प्रधिरिवासक्तो नास्य शक्यं पलायितुम्॥ किनुं कुर्यां कथं कुर्यां क्व नु गच्छामि संजय। एते नश्यन्ति कुरवो मन्दाः कालवशं गताः॥ अवशोऽहं तदा तात पुत्राणां निहते शते। श्रोष्यामि निनदं स्त्रीणां कथं मां मरणं स्पृशेत्॥ यथा निदाघे ज्वलनः समिद्धो दहेत् कक्षं वायुना चोद्यमानः। गदाहस्तः पाण्डवो वै तथैव हन्ता मदीयान् सहितोऽर्जुनेन॥ धृतराष्ट्र उवाच यस्य वै नानृता वाचः कदाचिदनुशुश्रुम। त्रैलोक्यमपि तस्य स्याद् योद्धा यस्य धनंजयः॥ तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः। अनिशं चिन्तयानोऽपि यः प्रतीयाद् रथेन तम्॥ अस्यत: कर्णिनालीकान् मार्गणआन् हृदयच्छिदः। प्रत्येता न समः कश्चिद् युधि गाण्डीवधन्वनः॥ द्रोणकर्णी प्रतीयातां यदि वीरौ नरर्षभौ। कृतास्त्रौ बलिनां श्रेष्ठौ समरेष्वपराजितौ॥ महान् स्यात् संशयो लोके न त्वस्ति विजयो मम। घृणी कर्णः प्रमादी च आचार्याः स्थविरो गुरुः॥ बलवान् पार्थो समर्थो दृढधन्वा जितक्लमः। भवेत् सुतमुलं युद्धं सर्वशोऽप्यपराजयः॥ सर्वे शस्त्रविदः शूराः सर्वे प्राप्ता महद् यशः। अपि सर्वामरैश्वव्यं त्यजेयुर्न पुनर्जयम्॥ वधे नूनं भवेच्छान्तिस्तयोर्वा फाल्गुनस्य च। न तु हन्तार्जुनस्यास्ति जेता चास्य न विद्यते॥ मन्युस्तस्य कथं शाम्येन्मन्दान् प्रति य उत्थितः। अन्येऽप्यस्त्राणि जानन्ति जीयन्ते च जयन्ति च॥ एकान्तविजयस्त्वेव श्रूयते फाल्गुनस्य ह। त्रयस्त्रिंशत् समाहूय खाण्डवेऽग्निमतर्पयत्॥ जिगाय च सुरान् सर्वान् नास्य विद्मः पराजयम्। यस्य यन्ता हृषीकेशः शीलवृत्तसमो युधि॥ ध्रुवस्तस्य जयस्तात यथेन्द्रस्य जयस्तथा। कृष्णावेकरथे यत्तावधिज्यं गाण्डिवं धनुः॥ युगपत् त्रीणि तेजांसि समेतान्यनुशुश्रुभ। नैवास्ति नो धनुस्तादृक् न योद्धा न च सारथिः॥ तच्च मन्दा न जानन्ति दुर्योधनवशानुगाः। शेषयेदशनिर्दीप्तो विपतन् मूर्ध्नि संजय॥ न तु शेषं शरास्तात कुर्युरस्ताः किरीटिना। अपि चास्यन्निवाभाति निघ्नन्निव धनंजयः॥ उद्धरन्निव कायेभ्यः शिरांसि शरवृष्टिभिः। अपि बाणमयं तेजः प्रदीप्तमिव सर्वतः॥ गाण्डीवोत्थं दहेताजौ पुत्राणां मम वाहिनीम्। अपि सारथ्यघोषेण भयार्ता सव्यसाचिनः॥ वित्रस्ता बहुधा सेना भारती प्रतिभाति मे। यथा कक्षं महानग्निः प्रदहेत् सर्वतश्चरन्। महार्चिरनिलोद्भूतस्तद्वद् धक्ष्यति मामकान्॥ स्तानाततायी समरे किरीटी। सृष्टोऽन्तकः सर्वहरो विधात्रा यथा भवेत् तद्वदपारणीयः॥ तदा ह्यभीक्ष्णं सुबहून् प्रकारान् श्रोतास्मि तानावसथे कुरूणाम्। तेषां समन्ताच्च तथा रणाग्रे क्षयः किलायं भरतानुपैति॥ धृतराष्ट्र उवाच यथैव पाण्डवाः सर्वे पराक्रान्ता जिगीषवः। तथैवाभिसरास्तेषां त्यक्तात्मानो जये धृताः॥ त्वमेव हि पराक्रान्तानाचक्षीथाः परान् मम। पञ्चालान् केकयान् मत्स्यान् मागधान् वत्सभूमिपान्॥२ यश्च सेन्द्रानिमाल्लोकानिच्छन् कुर्याद् वशे बली। स स्रष्टा जगतः कृष्णः पाण्डवानां जये धृतः॥ समस्तामर्जुनाद् विद्यां सात्यकिः क्षिप्रमाप्तवान्। शैनेयः समरे स्थाता बीजवत् प्रवपञ्छरान्॥ धृष्टद्युम्नश्च पाञ्चाल्यः क्रूरकर्मा महारथः। मामकेषु रणं कर्ता बलेषु परमास्त्रवित्॥ युधिष्ठिरस्य च क्रोधादर्जुनस्य च विक्रमात्। यमाभ्यां भीमसेनाच्च भयं मे तात जायते॥ अमानुषं मनुष्येन्द्रैर्जालं विततमन्तरा। न मे सैन्यास्तरिष्यन्ति ततः क्रोशामि संजय॥ दर्शनीयो मनस्वी च लक्ष्मीवान् ब्रह्मवर्चसी। मेधावी सुकृतप्रज्ञो धर्मात्मा पाण्डुनन्दनः॥ मित्रामात्यैः सुसम्पन्नः सम्पन्नो युद्धयोजकैः। भ्रातृभिः श्वशुरैर्वीरैरुपपन्नो महारथैः॥ धृत्या च पुरुषव्याघ्रो नैभृत्येन च पाण्डवः। अनृशंसो वदान्यश्च ह्रीमान् सत्यपराक्रमः॥ बहुश्रुतः कृतात्मा च वृद्धसेवी जितेन्द्रियः। तं सर्वगुणसम्पन्नं समिद्धमिव पावकम्॥ तपन्तमभि को मन्दः पतिष्यति पतङ्गवत्। पाण्डवाग्निमनावार्यं मुमूर्षुर्नष्टचेतनः॥ तनुरुद्धः शिखी राजा मिथ्योपचरितो मया। मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति॥ तैरयुद्धं साधु मन्ये कुरवस्तन्निबोधत। युद्धे विनाशः कृत्स्नस्य कुलस्य भविता ध्रुवम्॥ एषा मे परमा बुद्धिर्यया शाम्यति मे मनः। यदि त्वयुद्धमिष्टं वो वयं शान्त्यै यतामहे॥ न तु नः क्लिश्यमानानामुपेक्षेत युधिष्ठिरः। जुगुप्सति ह्यधर्मेण मामेवोद्दिश्य कारणम्॥ संजय उवाच एवमेतन्महाराज यथा वदसि भारत। युद्धे विनाशः क्षत्रस्य गाण्डीवेन प्रदृश्यते॥ इदं तु नाभिजानामि तव धीरस्य नित्यशः। यत् पुत्रवशमागच्छेस्तत्त्वज्ञः सव्यसाचिनः॥ नैष कालो महाराज तव शश्वत् कृतागसः। त्वया ह्येवादितः पार्था निकृता भरतर्षभ।॥ पिता श्रेष्ठः सुहृद् यश्च सम्यक् प्रणिहितात्मवान्। आस्थेयं हि हितं तेन न द्रोग्धा गुरुरुच्यते॥ इदं जितमिदं लब्धमिति श्रुत्वा पराजितान्। द्यूतकाले महाराज स्मयसे स्म कुमारवत्॥ परुषाण्युच्यमानांश्च पुरा पार्थानुपेक्षसे। कृत्स्नं राज्यं जयन्तीति प्रपातं नानुपश्यसि॥ पित्र्यं राज्यं महाराज कुरुवस्ते सजाङ्गलाः। अथ वीरैर्जितामुर्वीमखिलां प्रत्यपद्यथाः॥ बाहुवीर्यार्जिता भूमिस्तव पार्थेनिवेदिता। मयेदं कृतमित्येव मन्यसे राजसत्तम॥ चस्तान् गन्धर्वराजेन मज्जतो ह्यप्लवेऽम्भसि। आनिनाय पुनः पार्थः पुत्रांस्ते राजसत्तम॥ कुमारवच्च स्मयसे छूते विनिकृतेषु यत्। पाण्डवेषु वने राजन् प्रव्रजत्सु पुनः पुनः॥ प्रवर्षतः शरवातानर्जुनस्य शितान् बहून्। अप्यर्णवा विशुष्येयुः किं पुनर्मांसयोनयः॥ अस्यतां फाल्गुनः श्रेष्ठोगाण्डीवं धनुषां वरम्। केशवः सर्वभूतानामायुधानां सुदर्शनम्॥ वानरो रोचमानश्च केतुः केतुमतां वरः। एवमेतानि सरयो वहू वेतहयो रणे॥ क्षपयिष्यति नो राजन् कालचक्रमिवोद्यतम्। तस्याद्य वसुधा राजन् निखिला भरतर्षभ॥ यस्य भीमार्जुनौ योधौ स राजा राजसत्तम। तथा भीमहतप्रायां मज्जन्तीं तव वाहिनीम्॥ दुर्योधनमुखा दृष्ट्वा क्षयं यास्यन्ति कौरवाः। न भीमार्जुनयोर्भीता लप्स्यन्ते विजयं विभो॥ तव पुत्रा महाराज राजानश्चानुसारिणः। मत्स्यास्त्वामद्य नार्चन्ति पञ्चालाश्च सकेकयाः॥ शाल्वेयाः शूरसेनाश्च सर्वे त्वामवजानते। पार्थं ह्येते गताः सर्वे वीर्यज्ञास्तस्य धीमतः।।१८। भक्त्या ह्यस्य विरुध्यन्ते तव पुत्रैः सदैव ते। अनर्हानेव तु वधे धर्मयुक्तान् विकर्मणा॥ योऽक्लेशयत् पाण्डुपुत्रान् यो विद्वेष्ट्यधुनापि वै। सर्वोपायनियन्तव्यः सानुगः पापपूरुषः॥ तव पुत्रो महाराज नानुशोचितुमर्हसि। द्यूतकाले मया चोक्तं विदुरेण च धीमता॥ यदिदं ते विलपितं पाण्डवान् प्रति भारत। अनीशेनेव राजेन्द्र सर्वमेतन्निरर्थकम्॥ दुर्योधन उवाच अक्षौहिणी: सप्त लब्ध्वा राजभिः सह संजय। किंस्विदिच्छति कौन्तेयो युद्धप्रेप्सुर्युधिष्ठिरः।।शा संजय उवाच अतीव मुदितो राजन् युद्धप्रेप्सुर्युधिष्ठिरः। भीमसेनार्जुनौ चोभौ यमावपि न बिभ्यतः॥ रथं तु दिव्यं कौन्तेयः सर्वा विभ्राजयन् दिशः। मन्त्रं जिज्ञासमानः सन् बीभत्सुः समयोजयत्॥ तमपश्याम संनद्धं मेघं विद्युद्युतं यथा। समन्तात् समभिध्याय हृष्यमाणोऽभ्यभाषत॥ पूर्वरूपमिदं पश्य वयं जेष्याम संजय। बीभत्सुर्मा यथोवाच तथावैम्यहमप्युत॥ दुर्योधन उवाच प्रशंसस्यभिनन्दस्तान् पार्थानक्षपराजितान्। अर्जुनस्य रथे ब्रूहि कथमश्वाः कथं ध्वजाः॥ संजय उवाच भौमनः सह शक्रेण बहुचित्रं विशाम्पते। रूपाणि कल्पयामास त्वष्टा धाता सदा विभो॥ ध्वजे हि तस्मिन् रूपाणि चक्रुस्ते देवमायया। महाधनानि दिव्यानि महान्ति च लघूनि च॥ भीमसेनानुरोधाय हनूमान् मारुतात्मजः। आत्मप्रतिकृति तस्मिन् ध्वज आरोपयिष्यति॥ सर्वा दिशो योजनमात्रमन्तरं स तिर्यगूज़ च रुरोध वै ध्वजः। न सज्जत्यऽसौ तरुभिः संवृतोऽपि तथा हि माया विहता भौमनेन॥ यथाऽऽकाशे शक्रधनुः प्रकाशते न चैकवर्णं न च वेद्मि किं नु तत्। तथा ध्वजो विहितो भौमनेन बह्वाकारं दृश्यते रूपमस्य॥ यथाग्निधूमो दिवमेति रुद्ध्वा वर्णान् बिभ्रत् तैजसाचित्ररूपान्। तथा ध्वजो विहितो भौमनेन न चेद् भारो भविता नोत रोधः॥ श्वेतास्तस्मिन् वातवेगाः सदश्वा दिव्या युक्ताश्चित्ररथेन दत्ताः। भुव्यन्तरिक्षे दिवि वा नरेन्द्र येषां गतिहीयते नात्र सर्वा। शतं यत् तत् पूर्यते नित्यकालं हतं हतं दत्तवरं पुरस्तात्॥१३। तथा राज्ञो दन्तवर्णा बृहन्तो रथे युक्ता भान्ति तद्वीर्यतुल्याः। ऋक्षप्रख्या भीमसेनस्य वाहा रथे वायोस्तुल्यवेगा बभूवुः॥ कल्माषाङ्गास्तित्तिरिचित्रपृष्ठा भ्रात्रा दत्ताः प्रीयता फाल्गुनेन। भ्रातुर्वीरस्य स्वैस्तुरङ्गैर्विशिष्टा मुदा युक्ताः सहदेवं वहन्ति॥ माद्रीपुत्रं नकुलं त्वाजमीढ महेन्द्रदत्ता हरयो वाजिमुख्याः। समा वायोर्बलवन्तस्तरस्विनो वहन्ति वीरं वृत्रशत्रु यथेन्द्रम्॥ तुल्य चैभिर्वयसा विक्रमेण महाजवाश्चित्ररूपाः सदश्वाः। सौभद्रादीन् द्रौपदेयान् कुमारान् वहन्त्यश्वा देवदत्ता बृहन्तः॥ धृतराष्ट्र उवाच कांस्तत्र संजयापश्यः प्रीत्यर्थेन समागतान्। ये योत्स्यन्ते पाण्डवार्थं पुत्रस्य मम वाहिनीम्॥ संजय उवाच मुख्यमन्धकवृष्णीनामपश्यं कृष्णमागतम्। चेकितान् च तत्रैव युयुधानं च सात्यकिम्॥ पृथगक्षौहिणीभ्यां तु पाण्डवानभिसंश्रितौ। महारथौ समाख्यातावुभौ पुरुषमानिनौ॥ अक्षौहिण्याथ पाञ्चाल्यो दशभिस्तनयैर्वृतः। सत्यजित्प्रमुखैवीरैधृष्टद्युम्नपुरोगमैः॥ दुपदो वर्धयन् मानं शिखण्डिपरिपालितः। उपायात् सर्वसैन्यानां प्रतिच्छाद्य तदा वपुः॥ विराटः सह पुत्राभ्यां शङ्खनैवोत्तरेण च। सूर्यदत्तादिभिर्वीरैर्मदिराक्षपुरोगमैः॥ सहितः पृथिवीपालो भ्रातृभिस्तनयैस्तथा। अक्षौहिण्यैव सैन्यानां वृतः पार्थं समाश्रितः॥ जारासंधिर्मागधश्च धृष्टकेतुश्च चेदिराट्। पृथक् पृथगनुप्राप्तौ पृथगक्षौहिणीवृतौ॥ केकया भ्रातरः पञ्च सर्वे लोहितकध्वजाः। अक्षौहिणीपरिवृताः पाण्डवानभिसंश्रिताः॥ एतानेतावतस्तत्र तानपश्यं समागतान्। ये पाण्डवार्थं योत्स्यन्ति धार्तराष्ट्रस्य वाहिनीम्॥ यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम्। स तत्र सेनाप्रमुखे धृष्टद्युम्नो महारथः॥ भीष्मः शान्तनवो राजन् भागः क्लृप्तः शिखण्डिनः। तं विराटोऽनुसंयाता सार्धं मत्स्यैः प्रहारिभिः॥ ज्येष्ठस्य पाण्डुपुत्रस्य भागो मद्राधिपो बली। तौ तु तत्राब्रुवन् केचिद् विषमौ नो मताविति॥ दुर्योधनः सहसुतः सार्धं भ्रातृशतेन च। प्राच्याश्च दाक्षिणात्याश्च भीमसेनस्य भागतः॥ अर्जुनस्य तु भागेन कर्णो वैकर्तनो मतः। अश्वत्थामा विकर्णश्च सैन्धवश्च जयद्रथः॥ अशक्याश्चैव ये केचिद् पृथिव्यां शूरमानिनः। सर्वांस्तानर्जुनः पार्थः कल्पयामास भागतः॥ महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः। केकयानेव भागेन कृत्वा योत्स्यन्ति संयुगे॥ तेषामेव कृतो भागो मालवाः शाल्वकास्तथा। त्रिगर्तानां चैव मुख्यौ यौ तौ संशप्तकाविति॥ दुर्योधनसुताः सर्वे तथा दुःशासनस्य च। सौभद्रेण कृतो भागो राजा चैव बृहद्बलः॥ द्रौपदेया महेष्वासाः सुवर्णविकृतध्वजाः। धृष्टद्युम्नमुखा द्रोणमभियास्यन्ति भारत।॥ चेकितान: सोमदत्तं द्वैरथे योद्धमिच्छति। भोजं तु कृतवर्माणं युयुधानो युयुत्सति॥ सहदेवस्तु माद्रेयः शूरः संक्रन्दनो युधि। स्वमंशं कल्पयामास श्यालं ते सुबलात्मजम्॥ उलूकं चैव कैतव्यं ये च सारस्वता गणाः। नकुलः कल्पयामास भागं माद्रवतीसुतः॥ ये चान्ये पार्थिवा राजन् प्रत्युद्यास्यन्ति सङ्गरे। समाह्वानेन तांश्चापि पाण्डुपुत्रा अकल्पयन्॥ एवमेषामनीकानि प्रविभक्तानि भागशः। यते ते कार्य सपुत्रस्य क्रियतां तदकालिकम्॥ धृतराष्ट्र उवाच न सन्ति सर्वे पुत्रा मे मूढा दु तदेविनः। येषां युद्धं बलवता भीमेन रणमूर्धनि॥ राजानः पार्थिवाः सर्वे प्रोक्षिताः कालधर्मणा। गाण्डीवाग्नि प्रवेक्ष्यन्ति पतङ्गा इव पावकम्॥ विद्रुतां वाहिनीं मन्ये कृतवैरैर्महात्मभिः। तां रणे केऽनुयास्यन्ति प्रभग्नां पाण्डवैर्युधि॥ सर्वे ह्यतिरथाः शूराः कीर्तिमन्तः प्रतापिनः। सूर्यपावकयोस्तुल्यास्तेजसा समितिञ्जयाः॥ येषां युधिष्ठिरो नेता गोप्ता च मधुसूदनः। योधौ च पाण्डवौ वीरौ सव्यसाचिवृकोदरौ॥ नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः। सात्यकिर्दुपदश्चैव धृष्टकेतुश्च सानुजः॥ उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः। शिखण्डी क्षत्रदेवश्च तथा वैराटिरुत्तरः॥ काशयश्चेदयश्चैव मत्स्याः सर्वे च सुंजयाः। विराटपुत्रो बभ्रुश्च पञ्चालाश्च प्रभद्रकाः॥ येषामिन्द्रोऽप्यकामानां न हरेत् पृथिवीमिमाम्। वीराणां रणधीराणां ये भिन्द्युः पर्वतानपि॥ तान् सर्वगुणसम्पन्नानमनुष्यप्रतापिनः। क्रोशतो मम दुष्पुत्रो योद्भुमिच्छति संजय॥ दुर्योधन उवाच उभौ स्व एकजातीयौ तथोभौ भूमिगोचरौ। अथ कस्मात् पाण्डवानामेकतो मन्यसे जयम्॥ पितामहं च द्रोणं च कृपं कर्णं च दुर्जयम्। जयद्रथं सोमदत्तमश्वत्थामानमेव च।॥ सुतेजसो महेष्वासानिन्द्रोऽपि सहितोऽमरैः। अशक्तः समरे जेतुं किं पुनस्तात पाण्डवाः॥ सर्वे च पृथिवीपाला मदर्थं तात पाण्डवान्। आर्याः शस्त्रभृतः शूराः समर्थाः प्रतिबाधितुम्॥ न मामकान् पाण्डवास्ते समर्थाः प्रतिवीक्षितुम्। पराक्रान्तो ह्यहं पाण्डून् सपुत्रान् योद्धमोहवे॥ मप्रियं पार्थिवाः सर्वे ये चिकीर्षन्ति भारत। ते तानावारयिष्यन्ति ऐणेयानिव तन्तुना॥ महता रथवंशेन शरजालैश्च मामकैः। अभिद्रुता भविष्यन्ति पाञ्चालाः पाण्डवैः सह॥ धृतराष्ट्र उवाच उन्मत्त इव मे पुत्रो विलपत्येष संजय। न हि शक्तो रणे जेतुं धर्मराज युधिष्ठिरम्॥ जानाति हि यथा भीष्मः पाण्डवानां यशस्विनाम्। बलवत्तां सपुत्राणां धर्मज्ञानां महात्मनाम्॥ यतो नारोचयदयं विग्रहं तैर्महात्मभिः। किं तु संजय मे ब्रूहि पुनस्तेषां विचेष्टितम्॥ कस्तांस्तरस्विनो भूयः संदीपयति पाण्डवान्। अर्चिष्मतो महेष्वासान् हविषा पावकानिव॥ संजय उवाच धृष्टद्युम्नः सदैवैतान् संदीपयति भारत। युद्ध्यध्वमिति मा भैष्ट युद्धाद् भरतसत्तमाः॥ ये केचित् पार्थिवास्तत्र धार्तराष्ट्रेण संवृताः। युद्धे समागमिष्यन्ति तुमुले शस्त्रसंकुले॥ तान् सर्वानाहवे क्रुद्धान् सानुबन्धान् समागतान्। अहमेकः समादास्ये तिमिर्मत्स्यानिवौदकात्॥ भीष्मं द्रोणं कृपं कर्णं द्रौणि शल्यं सुयोधनम्। एतांश्चापि निरोत्स्यामि वेलेव मकरालयम्॥ तथा ब्रुवन्तं धर्मात्मा प्राह राजा युधिष्ठिरः। तव धैर्यं च वीर्यं पाञ्चालाः पाण्डवैः सह॥ सर्वे समधिरूढाः स्म संग्रामानः समुद्धर। जानामि त्वां महाबाहो क्षत्रधर्मे व्यवस्थितम्॥ समर्थमेकं पर्याप्तं कौरवाणां विनिग्रहे। पुरस्तादुपयातानां कौरवाणां युयुत्सताम्॥ स त्वं भवता यद् विधातव्यं तन्नः श्रेयः परंतप। संग्रामादपयातानां भग्नानां शरणैषिणाम्॥ पौरुषं दर्शयशूरो यस्तिष्ठेदग्रतः पुमान्। क्रीणीयात् तं सहस्रेण इति नीतिमतां मतम्॥ शूरच वीरश्च विक्रान्तश्च नरर्षभ। भयार्तानां परित्राता संयुगेषु न संशयः॥ एवं ब्रुवति कौन्तेये धर्मात्मनि युधिष्ठिरे। धृष्टद्युम्न उवाचेदं मां वचो गतसाध्वसम्। सर्वाञ्जनपदान् सूत योधा दुर्योधनस्य ये॥ सबाह्निकान् कुरून् ब्रूयाः प्रातिपेयाशरद्वतः। सूतपुत्रं तथा द्रोणं सहपुत्रं जयद्रथम्॥ दुःशासनं विकर्णं च तथा दुर्योधनं नृपम्। भीष्मं च ब्रूहि त्वमाशु गच्छ च मा चिरम्॥ युधिष्ठिरः साधुनैवाभ्युपेयो मा वो वधीदर्जुनो देवगुप्तः। राज्यं दद्ध्वं धर्मराजस्य तूर्णं याचध्वं वै पाण्डवं लोकवीरम्॥ नैतादृशो हि योधोऽस्ति पृथिव्यामिह कश्चन। यथाविधः सव्यसाची पाण्डवः सत्यविक्रमः॥ देवैर्हि सम्भृतो दिव्यो रथो गाण्डीवधन्वनः। न स जेयो मनुष्येण मा स्म कृदूध्वं मनो युधि॥ धृतराष्ट्र उवाच क्षत्रतेजा ब्रह्मचारी कौमारादपि पाण्डवः। तेन संयुगमेष्यन्ति मन्दा विलपतो मम॥ दुर्योधन निवर्तस्व युद्धाद् भरतसत्तम। न हि युद्धं प्रशंसन्ति सर्वावस्थमरिंदम॥ अलमर्धं पृथिव्यास्ते सहामात्यस्य जीवितुम्। प्रयच्छ पाण्डुपुत्राणां यथोचितमरिंदम॥ एतद्धि कुरवः सर्वे मन्यन्ते धर्मसंहितम्। यत् त्वं प्रशान्ति मन्येथाः पाण्डुपुत्रैर्महात्मभिः॥ अङ्गेमां समवेक्षस्व पुत्र स्वामेव वाहिनीम्। जात एष तवाभावस्त्वं तु मोहान बुध्यसे॥ न त्वहं युद्धमिच्छामि नैतदिच्छति बाह्निकः। न च भीष्मो न च द्रोणो नाश्वत्थामा न संजयः॥ न सोमदत्तो न शलो न कृपो युद्धमिच्छति। सत्यव्रतः पुरुमित्रो जयो भूरिश्रवास्तथा॥ येषु सम्प्रतितिष्ठेयुः कुरवः पीडिताः परैः। ते युद्धं नाभिनन्दन्ति तत् तुभ्यं तातरोचताम्॥ न त्वं करोषि कामेन कर्णः कारयिता तव। दुःशासनश्च पापात्मा शकुनिश्चापि सौबलः॥ दुर्योधन उवाच नाह भवति न द्रोणे नाश्वत्थाम्नि न संजये। न भीष्मे न च काम्बोजे न कृपे न च बाह्निके॥ सत्यव्रते पुरुमित्रे भूरिश्रवसि वा पुनः। अन्येषु वा तावकेषु भारं कृत्वा समाह्वयम्॥ अहं च तात कर्णश्च रणयज्ञं वितत्य वै। युधिष्ठिरं पशुं कृत्वा दीक्षितौ भरतर्षभ॥ रथो वेदी स्रुवः खङ्गो गदा सुकू कवचं सदः। चातुर्होत्रं च धुर्या मे शरा दर्भा हविर्यशः॥ आत्मयज्ञेन नृपते इष्ट्वा वैवस्वतं रणे। विजित्य च समेष्यावो हतामित्रौ श्रिया वृतौ॥ अहं च तात कर्णश्च भ्राता दुःशासनश्च मे। एते वयं हनिष्यामः पाण्डवान् समरे त्रयः॥ अहं हि पाण्डवान् हत्वा प्रशास्ता पृथिवीमिमाम्। मां वा हत्वा पाण्डुपुत्रा भोक्तारः पृथिवीमिमाम्॥ त्यक्तं मे जीवितं राज्यं धनं सर्वं च पार्थिव। न जातु पाण्डवैः सार्धं वसेयमहमच्युत॥ यावद्धि सूच्यास्तीक्ष्णाया विध्येदग्रेण मारिष। तावदप्यपरित्याज्यं भूमेनः पाण्डवान् प्रति॥ धृतराष्ट्र उवाच सर्वान् वस्तात शोचामि त्यक्तो दुर्योधनो मया। ये मन्दमनुयास्यध्वं यान्तं वैवस्वतक्षयम्॥ रुरूणामिव यूथेषु व्याघ्राः प्रहरतां वराः। वरान् वरान् हनिष्यन्ति समेता युधि पाण्डवाः॥ प्रतीपमिव मे भाति युयुधानेन भारती। व्यस्ता सीमन्तिनी ग्रस्ता प्रमृष्टा दीर्घबाहुना॥ सम्पूर्णं पूरयन् भूयो धनं पार्थस्य माधवः। शैनेयः समरे स्थाता बीजवत् प्रवपशरान्॥ सेनामुखे प्रयुद्धानां भीमसेनो भविष्यति। तं सर्वे संश्रयिष्यन्ति प्राकारमकुतोभयम्॥ यदा द्रक्ष्यसि भीमेन कुञ्जरान् विनिपातितान्। विशीर्णदन्तान् गिर्याभान् भिन्नकुम्भान् सशोणितान्।। तानभिप्रेक्ष्य संग्रामे विशीर्णानिव पर्वतान्। भीतो भीमस्य संस्पर्शात् स्मर्ताऽसि वचनस्य मे॥ निर्दग्धं भीमसेनेन सैन्यं रथहयद्विपम्। गतिमग्नेरिव प्रेक्ष्य स्मर्ताऽसि वचनस्य मे॥ महद् वो भयमागामि न चेच्छाम्यथ पाण्डवैः। गदया भीमसेनेन हताः शममुपैष्यथ॥ महावनमिवच्छिन्नं यदा द्रक्ष्यसि पातितम्। बलं कुरूणां भीमेन तदा स्मर्ताऽसि मे वचः॥ वैशम्पायन उवाच एतावदुक्त्वा राजा तु सर्वांस्तान् पृथिवीपतीन्। अनुभाष्य महाराज पुनः पप्रच्छ संजयम्॥ धृतराष्ट्र उवाच यदबूतां महात्मानौ वासुदेवधनंजयौ। तन्मे ब्रूहि महाप्राज्ञ शुश्रूषे वचनं तव॥ संजय उवाच शृणु राजन् यथा दृष्टौ मया कृष्णधनंजयौ। ऊचतुश्चापि यद् वीरौ तत् ते वक्ष्यामि भारत॥ पादाङ्गुलीरभिप्रेक्षन् प्रयतोऽहं कृताञ्जलिः। शुद्धान्तं प्राविशं राजन्नाख्यातुं नरदेवयोः॥ नैवाभिमन्युर्न यमौ तं देशमभियान्ति वै। यत्र कृष्णौ च कृष्णा च सत्यभामा च भामिनी॥ उभौ मध्वासवक्षीबावुभौ चन्दनरूषितौ। स्रग्विणौ वरवस्त्रौ तौ दिव्याभरणभूषितौ॥ नैकरत्नविचित्रं तु काञ्चनं महदासनम्। विविधास्तरणाकीर्णं यत्रासातामरिंदमौ॥ अर्जुनोत्सङ्गगौ पादौ केशवस्योपलक्षये। अर्जुनस्य च कृष्णायां सत्यायां च महात्मनः॥ काञ्चनं पादपीठं तु पार्थो मे प्रादिशत् तदा। तदहं पाणिना स्पृष्ट्वा ततो भूमावुपाविशम्॥ ऊर्ध्वरेखातलौ पादौ पार्थस्य शुभलक्षणौ। पादपीठादपहतौ तत्रापश्यमहं शुभौ॥ श्यामौ बृहन्तौ तरुणौ शालस्कन्धाविवोद्गतौ। एकासनगतौ दृष्ट्वा भयं मां महदाविशत्॥ इन्द्रविष्णुसमावेतौ मन्दात्मा नावबुद्ध्यते। संश्रयाद् द्रोणभीष्माभ्यां कर्णस्य च विकत्थनात्॥ निदेशस्थाविमौ यस्य मानसस्तस्य सेत्स्यते। संकल्पो धर्मराजस्य निश्चयो मे तदाभवत्॥ सत्कृतश्चान्नपानाभ्यामासीनो लब्धसक्रियः। अञ्जलिं मूर्ध्नि संधाय तौ संदेशमचोदयम्॥ धनुर्गुणकिणाङ्केन पाणिना शुभलक्षणम्। पादमानमयन् पार्थः केशवं समचोदयत्॥ इन्द्रकेतुरिवोत्थाय सर्वाभरणभूषितः। इन्द्रवीर्योपमः कृष्णः संविष्टो माभ्यभाषत॥ वाचं स वदतां श्रेष्ठो ह्लादिनीं वचनक्षमाम्। त्रासिनीं धार्तराष्ट्राणां मृदुपूर्वां सुदारुणाम्॥ वाचं तां वचनार्हस्य शिक्षाक्षरसमन्विताम्। अश्रौषमहमिष्टार्था पश्चाद्धृदयहारिणीम्॥ वासुदेव उवाच संजयेदं वचो ब्रूया धृतराष्ट्र मनीषिणम्। कुरुमुख्यस्य भीष्मस्य द्रोणस्यापि च शृण्वतः॥ आवयोर्वचनात् सूत ज्येष्ठानप्यभिवादयन्। यवीयसश्च कुशलं पश्चात् पृष्ट्वैवमुत्तरम्॥ यजध्वं विविधैर्यज्ञैविप्रेभ्यो दत्त दक्षिणाः। पुत्रैर्दारैश्च मोदध्वं महद् वो भयमागतम्॥ अर्थांस्त्यजत पात्रेभ्युः सुतान् प्राप्नुत कामजान्। प्रियं प्रियेभ्यश्चरत राजा हि त्वरते जये॥ ऋणमेतत् प्रवृद्धं मे हृदयानापसर्पति। यद् गोविन्देति चुक्रोश कृष्णा मां दूरवासिनम्॥ तेजोमयं दुराधर्षं गाण्डीवं यस्य कार्मुकम्। मद्वितीयेन तेनेह वैरं वः सव्यसाचिना॥ मद्वितीयं पुनः पार्थं कः प्रार्थयितुमिच्छति। यो न कालपरीतो वाप्यपि साक्षात् पुरंदरः॥ बाहुभ्यामुद्वहेद् भूमि दहेत् क्रुद्ध इमाः प्रजाः। पातयेत् त्रिदिवाद् देवान् योऽर्जुनं समरे जयेत्॥ देवासुरमनुष्येषु यक्षगन्धर्वभोगिषु। न तं पश्याम्यहं युद्धे पाण्डवं योऽभ्ययाद् रणे॥ यत् तद् विराटनगरे श्रुयते महदद्भुतम्। एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम्॥ एकेन पाण्डुपुत्रेण विराटनगरे यदा। भग्नाः पलायत दिशः पर्याप्तं तन्निदर्शनम्॥ बलं वीर्यं च तेजश्च शीघ्रता लघुहस्तता। अविषादश्च धैर्यं च पार्थान्नान्यत्र विद्यते॥ इत्यब्रवीद्धृषीकेशः पार्थमुद्धर्षयन् गिरा। गर्जन् समयवर्षीव गगने पाकशासनः॥ केशवस्य वचः श्रुत्वा किरीटी श्वेतवाहनः। अर्जुनस्तन्महद् वाक्यमब्रवीद् रोमहर्षणम्॥ वैशम्पायन उवाच संजयस्य वचः श्रुत्वा प्रज्ञाचक्षुर्जनेश्वरः। ततः संख्यातुमारेभे तद्वचो गुणदोषतः॥ प्रसंख्याय च सौक्ष्म्येण गुणदोषान् विचक्षणः। यथावन्मतितत्त्वेन जयकामः सुतान् प्रति॥ बलाबलं विनिश्चित्य याथातथ्येन बुद्धिमान्। शक्ति संख्यातुमारेभे तदा वै मनुजाधिपः॥ देवमानुषयोः शक्त्या तेजसा चैव पाण्डवान्। कुरून् शक्त्याल्पतरया दुर्योधनमथाब्रवीत्॥ दुर्योधनेयं चिन्ता मे शश्वन्न व्युपशाम्यति। सत्यं ह्येतदहं मन्ये प्रत्यक्षं नानुमानतः॥ आत्मजेषु पुरं स्नेहं सर्वभूतानि कुर्वते। प्रियाणि चैषां कुर्वन्ति यथाशक्ति हितानि च॥ एवमेवोपकर्तृणां प्रायशो लक्षयामहे। इच्छान्ति बहुलं सन्तः प्रतिकर्तुं महत् प्रियम्॥ अग्निः साचिव्यकर्ता स्यात् खाण्डवे तत्कृतं स्मरन्। अर्जुनस्यापि भीमेऽस्मिनं कुरुपाण्डुसमागमे॥ जातिगृद्ध्याभिपन्नाश्च पाण्डवानामनेकशः। धर्मादयः समेष्यन्ति समाहूता दिवौकसः॥ भीष्मद्रोणकृपादीनां भयादशनिसंनिभम्। रिरक्षिषन्तः संरम्भं गमिष्यन्तीति मे मतिः॥ ते देवैः सहिताः पार्था न शक्याः प्रतिवीक्षितुम्। मानुषेण नरव्याघ्रा वीर्यवन्तोऽस्त्रपारगाः॥ दुरासदं यस्य दिव्यं गाण्डीवं धनुरुत्तमम्। वारुणौ चाक्षयौ दिव्यौ शरपूर्णी महेषुधी॥ वानस्श्च ध्वजो दिव्यो निःसङ्गो धूमवद्गतिः। रथश्च चतुरन्तायां यस्य नास्ति समः क्षितौ।॥ महामेघनिभश्चापि निर्घोषः श्रूयते जनैः। महाशनिसमः शब्दः शात्रवाणां भयंकरः॥ यं चातिमानुषं वीर्ये कृत्स्नो लोको व्यवस्यति। देवानामपि जेतारं यं विदुः पार्थिवा रणे॥ शतानि पञ्च चैवेषून् यो गृह्णन् नैव दृश्यते। निमेषान्तरमात्रेण मुञ्चन् दूरं च पातयन्॥ यमाह भीष्मो द्रोणश्च कृपो द्रौणिस्तथैव च। मद्रराजस्तथा शल्यो मध्यस्था ये च मानवाः॥ युद्धायावस्थितं पार्थं पार्थिवैरतिमानुषैः। अशक्यं नरशार्दूलं पराजेतुमरिंदमम्॥ क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः। सदृशं बाहुवीर्येण कार्तवीर्यस्य पाण्डवम्॥ तमर्जुनं महेष्वासं महेन्द्रोपेन्द्रविक्रमम्। निघ्नन्तमिव पश्यामि विमर्देऽस्मिन् महाहवे॥ इत्येवं चिन्तयत् कृत्स्नमहोरात्राणि भारत। अनिद्रो निःसुखश्चास्मि कुरूणां शमचिन्तया॥ क्षयोदयोऽयं सुमहान् कुरूणां प्रत्युपस्थितः। अस्त चेत् कलहस्यान्तः शमादन्यो न विद्यते॥ शमो मे रोचते नित्यं पार्थस्तात न विग्रहः। कुरुभ्यो हि सदा मन्ये पाण्डवान् शक्तिमत्तरान्॥ वैशम्पायन उवाच पितुरेतद् वचः श्रुत्वा धार्तराष्ट्रोऽत्यमर्षणः। आधाय विपुलं क्रोधं पुनरेवेदमब्रवीत्॥ अशक्यादेवसचिवाः पार्थाः स्युरिति यद् भवान्। मन्यते तद् भयं व्येतु भवतो राजसत्तम॥ अकामद्वेषसंयोगलोभाद्रोहाच भारत। उपेक्षया च भावानां देवा देवत्वमाप्नुवन्॥ इति द्वैपायनो व्यासो नारदश्च महातपाः। जामदग्न्यश्च रामो नः कथामकथयत् पुरा॥ नैव मानुषवद् देवा: प्रवर्तन्ते कदाचन। कामात् क्रोधात् तथा लोभावेषाच्च भरतर्षभ॥ यदा ह्यग्निश्च वायुश्च धर्म इन्द्रोऽश्विनावपि। कामयोगात् प्रवर्तेरन् न पार्था दुःखमाप्नुयुः॥ तस्मान्न भवता चिन्ता कार्येषा स्यात् कथंचन। दैवेष्वपेक्षका ह्येते शश्वद् भावेषु भारत॥ अथ चेत् कामसंयोगाद् द्वेषो लोभश्च लक्ष्यते। देवेषु दैवप्रामाण्यान्नैषां तद् विक्रमिष्यति॥ मयाभिमन्त्रितः शश्वज्जातवेदाः प्रशाम्यति। दिधक्षुः सकलाँल्लोकान् परिक्षिप्य समन्ततः॥ यद् वा परमकं तेजो येन युक्ता दिवौकसः। ममाप्यनुपमं भूयो देवेभ्यो विद्धि भारत॥ विदीर्यमाणां वसुधां गिरीणां शिखराणि च। लोकस्य पश्यतो राजन् स्थापयाम्यभिमन्त्रणात्॥ स्तम्भितास्वप्सु चेतनाचेतनस्यास्य जङ्गमस्थावरस्य च। विनाशाय समुत्पन्नमहं घोरं महास्वनम्॥ अश्मवर्षं च वायुं च शमयामीह नित्यशः। जगतः पश्यतोऽभीक्ष्णं भूतानामनुकम्पया॥ गच्छन्ति मया रथपदातयः। देवासुराणां भावानामहमेकः प्रवर्तिता॥ अक्षौहिणीभिर्यान् देशान् यामि कार्येण केनचित्। तत्राश्वा मे प्रवर्तन्ते यत्र यत्राभिकामये॥ भयानकानि विषये व्यालादीनि न सन्ति मे। मन्त्रगुप्तानि भूतानि न हिंसन्ति भयंकराः॥ निकामवर्षी पर्जन्यो राजन् विषयवासिनाम्। धर्मिष्ठाश्च प्रजाः सर्वा ईतयश्च न सन्ति मे॥ अश्विनावथ वाय्वग्नी मरुद्भिः सह वृत्रहा। धर्मश्चैव मया द्विष्टान् नोत्सहन्तेऽभिरक्षितुम्॥ यदि ह्येते समर्थाः स्युर्मविषस्त्रातुमञ्जसः। न स्म त्रयोदश समाः पार्था दुःखमवाप्नुयुः॥ नैव देवा न गन्धर्वा नासुरा न च राक्षसाः। शक्तास्त्रातुं मया द्विष्टं सत्यमेतद् ब्रवीमि ते॥ यदभिध्याम्यहं शश्वच्छुभं वा यद वाऽशुभम्। नैतद् विपन्नपूर्वं मे मित्रेष्वरिषु चोभयोः॥ भविष्यतीदमिति वा यद् ब्रवीमि परंतप। नान्यथा भूतपूर्वं च सत्यवागिति मां विदुः॥ लोकसाक्षिकमेतन्मे महात्म्यं दिक्षु विश्रुतम्। आश्वासनार्थं भक्तः प्रोक्तं न श्लाघया नृप॥ न ह्यहं श्लाघनो राजन् भूतपूर्वः कदाचन। असदाचरितं ह्येतद् यदात्मान् प्रशंसति॥ पाण्डवांश्चैव मत्स्यांश्च पाञ्चालान् केकयैः सह। सात्यकिं वासुदेवं च श्रोतासि विजितान् मया।॥ सरितः सागरं प्राप्य यथा नश्यन्ति सर्वशः। तथैव ते विनक्ष्यन्ति मामासाद्य सहान्वयाः॥ परा बुद्धिः परं तेजो वीर्यं च परमं मम। परा विद्या परो योगो मम तेभ्यो विशिष्यते॥ पितामहश्च द्रोणश्च कृपः शल्यः शलस्तथा। अस्त्रेषु यत् प्रजानन्ति सर्वं तन्मयि विद्यते॥ इत्युक्ते संजयं भूयः पर्यपृच्छत भारतः। ज्ञात्वा युयुत्सोः कार्याणि प्राप्तकालमरिन्दम॥ दुर्योधन उवाच सदृशानां मनुष्येषु सर्वेषां तुल्यजन्मनाम्। कथमेकान्ततस्तेषां पार्थानां मन्यसे जयम्॥ वयं च तेऽपि तुल्या वै वीर्येण च पराक्रमैः। समेन वयसा चैव प्रातिभेन श्रुतेन च।॥ अस्त्रेण योधयुग्या च शीघ्रत्वे कौशले तथा। सर्वे स्म समजातीयाः सर्वे मानुषयोनयः॥ पितामह विजानीषे पार्थेषु विजयं कथम्। नाहं भवति न द्रोणे न कृपे न च बाह्निके॥ अन्येषु च नरेन्द्रेषु पराक्रम्य समारभे। अहं वैकर्तनः कर्णो भ्राता दुःशासनश्च मे॥ पाण्डवान् समरे पञ्च हनिष्यामः शितैः शरैः। ततो राजन् महायज्ञैर्विविधैर्भूरिदक्षिणैः॥ ब्राह्मणांस्तर्पयिष्यामि गोभिरश्वैर्धनेन च। यदा परिकरिष्यन्ति ऐणेयानिव तन्तुना। अतरित्रानिव जले बाहुभिर्मामका रणे॥ पश्यन्तस्ते परांस्तत्र रथनागसमाकुलान्। तदा दविमोक्ष्यन्ति पाण्डवाः स च केशवः॥ विदुर उवाच इह निःश्रेयसं प्राहुर्वृद्धा निश्चितदर्शिनः। ब्राह्मणस्य विशेषेण दमो धर्मः सनातनः॥ तस्य दानं क्षमा सिद्धिर्यथावदुपपद्यते। दमो दानं तपो ज्ञानमधीतं चानुवर्तते॥ दमस्तेजो वर्धयति पवित्रं दम उत्तमम्। विपाप्मा वृद्धतेजास्तु पुरुषो विन्दते महत्॥ क्रव्याट्य इव भूतानामदान्तेभ्यः सदा भयम्। येषां च प्रतिषेधार्थं क्षत्रं सृष्टं स्वयम्भुवा॥ आश्रमेषु चतुर्बाहुर्दममेवोत्तमं व्रतम्। तस्य लिङ्गं प्रवक्ष्यामि येषां समुदयो दमः॥ क्षमा धृतिरहिंसा च समता सत्यमार्जवम्। इन्द्रियाभिजयो धैर्य मार्दवं ह्रीरचापलम्॥ अकार्पण्यमसंरम्भः संतोषः श्रद्दधानता। एतानि यस्य राजेन्द्र स दान्तः पुरुषः स्मृतः॥ कामो लोभश्च दर्पश्च मन्युनिद्रा विकत्थनम्। मान ईर्ष्या च शोकश्च नैतद् दान्तो निषेवते। अजिह्ममशठं शुद्धमेतद् दान्तस्य लक्षणम्॥ अलोलुपस्तथाऽल्पेप्सुः कामानामविचिन्तिता। समुद्रकल्पः पुरुषः स दान्तः परिकीर्तितः॥ सुवृत्तः शीलसम्पन्नः प्रसन्नात्माऽऽत्मविद् बुधः। प्राप्येह लोके सम्मानं सुगति प्रेत्य गच्छति॥ अभयं यस्य भूतेभ्यः सर्वेषामभयं यतः। स वै परिणतप्रज्ञः प्रख्यातो मनुजोत्तमः॥ सर्वभूतहितो मैत्रस्तस्मान्नोद्विजते जनः। समुद्र इव गम्भीरः प्रज्ञातृप्तः प्रशाम्यति॥ कर्मणाऽऽचरितं पूर्वं सद्भिराचरितं च यत्। तदेवास्थाय मोदन्ते दान्ताः शमपरायणाः॥ नैष्कर्म्यं वा समास्थाय ज्ञानतृप्तो जितेन्द्रियः। कालाकाक्षी चरँल्लोके ब्रह्मभूयाय कल्पते॥ शकुनीनामिवाकाशे पदं नैवोपलभ्यते। एवं प्रज्ञानतृप्तस्य मुनेर्वर्त्म न दृश्यते॥ उत्सृज्यैव गृहान् यस्तु मोक्षमेवाभिमन्यते। लोकास्तेजोमयास्तस्य कल्पन्ते शाश्वता दिवि॥ विदुर उवाच शकुनीनामिहार्थाय पाशं भूमावयोजयत्। कश्चिच्छाकुनिकस्तात पूर्वेषामिति शुश्रुम॥ तस्मिन् तौ शकुनौ बद्धौ युगपत् सहचारिणौ। तावुपादाय तं पाशं जग्मतुः खचरावुभौ॥ तौ विहायसमाक्रान्तौ दृष्ट्वा शाकुनिकस्तदा। अन्वधावदनिर्विष्णो येन येन स्म गच्छतः॥ तथा तमनुधावन्तं मृगयुं शकुनार्थिनम्। आश्रमस्थो मुनिः कश्चिद् ददर्शाथ कृताह्निकः॥ तावन्तरिक्षगौ शीघ्रमनुयान्तं महीचरम्। श्लोकेनानेन कौरव्य पप्रच्छ स मुनिस्तदा॥ विचित्रमिदमाश्चर्यं मृगहन् प्रतिभाति मे। प्लमानौ हि खचरौ पदातिरनुधावसि॥ शाकुनिक उवाच पाशमेकमुभावेतौ सहितौ हरतो मम। यत्र वै विवदिष्येते तत्र मे वशमेष्यतः॥ विदुर उवाच तौ विवादमनुप्राप्तौ शकुनौ मृत्युसंधितौ। विगृह्य च सुदुर्बुद्धी पृथिव्यां संनिपेततुः॥ तौ युध्यमानौ संरब्धौ मृत्युपाशवशानुगौ। उपसृत्यापरिज्ञातो जग्राह मृगहा तदा॥ एवं ये ज्ञातयोऽर्थेषु मिथो गच्छन्ति विग्रहम्। तेऽमित्रवशमायान्ति शकुनाविव विग्रहात्॥ सम्भोजनं संकथनं सम्प्रश्नोऽथ समागमः। एतानि ज्ञातिकार्याणि न विरोधः कदाचन॥ ये स्म काले सुमनसः सर्वे वृद्धानुपासते। सिंहगुप्तमिवारण्यमप्रधृष्या भवन्ति ते॥ येऽर्थं संततमासाद्य दीना इव समासते। श्रियं ते समप्रयच्छन्ति द्विषद्भ्यो भरतर्षभ॥ धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च। धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ।॥ इदमन्यत् प्रवक्ष्यामि यथा दृष्टं गिरौ मया। श्रुत्वा तदपि कौरव्य यथा श्रेयस्तथा कुरु॥ वयं किरातैः सहिता गच्छामो गिरिमुत्तरम्। ब्राह्मणैर्देवकल्पैश्च विद्याजम्भकवार्तिकैः॥ कुञ्जभूतं गिरिं सर्वमभितो गन्धमादनम्। दीप्यमानौषधिगणं सिद्धगन्धर्वसेवितम्॥ तत्रापश्याम वै सर्वे मधु पीतकमाक्षिकम्। मरुप्रपाते विषमे निविष्टं कुम्भसम्मितम्॥ आशीविषै रक्ष्यमाणं कुबैरदयितं भृशम्। यत् प्राप्य पुरुषो मर्योऽप्यमरत्वं नियच्छति॥ अचक्षुर्लभते चक्षुर्वृद्धो भवति वै युवा। इति ते कथयन्ति स्म ब्राह्मणा जम्भसाधकाः॥ ततः किरातास्तद् दृष्ट्वा प्रार्थयन्तो महीपते। विनेशुर्विषमे तस्मिन् ससर्प गिरिगह्वरे॥ तथैव तव पुत्रोऽयं पृथिवीमेक इच्छति। मधु पश्यति सम्मोहात् प्रपातं नानुपश्यति॥ दुर्योधनो यो मनाः समरे सव्यसाचिना। न च पश्यामि तेजोऽस्य विक्रमं वा तथाविधम्॥ एकेन रथमास्थाय पृथिवी येन निर्जिता। भीष्मद्रोणप्रभृतयः संत्रस्ताः साधुयायिनः॥ विराटनगरे भग्नाः किं तत्र तव दृश्यताम्। प्रतीक्षमाणो यो वीरः क्षमते वीक्षितं तव॥ दुपदो मत्स्यराजश्च संक्रुद्धश्च धनंजयः। न शेषयेयुः समरे वायुयुक्ता इवाग्नयः॥ अङ्के कुरुष्व राजानं धृतराष्ट्र युधिष्ठिरम्। युध्यतोर्हि द्वयोर्युद्धे नैकान्तेन भवेज्जयः॥ धृतराष्ट्र उवाच दुर्योधन विजानीहि यत् त्वां वक्ष्यामि पुत्रका उत्पथं मन्यसे मार्गमनभिज्ञ इवाध्वगः॥ पञ्चानां पाण्डुपुत्राणां यत् तेजः प्रजिहीर्षसि। पञ्चानामिव भूतानां महतां लोकधारिणाम्॥ युधिष्ठिरं हि कौन्तेयं परं धर्ममिहास्थितम्। परां गतिमसम्प्रेत्य न त्वं जेतुमिहार्हसि॥ भीमसेनं च कौन्तेयं यस्य नास्ति समो बले। रणान्तकं तर्जयसे महावातमिव दुमः॥ सर्वशस्त्रभृतां श्रेष्ठं मेरुं शिखरिणमिव। युधि गाण्डीवधन्वानं को नु युध्येत बुद्धिमान्॥ धृष्टद्युम्नश्च पाञ्चाल्यः कमिवाद्य न शातयेत्। शत्रुमध्ये शरान् मुञ्चन् देवराडशनीमिव॥ सात्यक्श्चिापि दुर्धर्षः सम्मतोऽन्धकवृष्णिषु। ध्वंसयिष्यत्ति ते सेनां पाण्डवेयहिते रतः॥ यः पुनः प्रतिमानेन त्रीनल्लोकानतिरिच्यते। तं कृष्णं पुण्डरीकाक्षं को नु युद्ध्येत बुद्धिमान्॥ एकतो ह्यस्य दाराश्च ज्ञातयश्च सबान्धवाः। आत्मा च पृथिवी चेयमेकतश्च धनंजयः॥ वासुदेवोऽपि दुर्धर्षो यतात्मा यत्र पाण्डवः। अविषां पृथिव्यापि तद् बलं यत्र केशवः॥ तिष्ठ तात सतां वाक्ये सुहृदामर्थवादिनाम्। वृद्धं शान्तनवं भीष्मं तितिक्षस्व पितामहम्॥ मां च ब्रुवाणं शुश्रूष कुरूणामर्थदर्शिनम्। द्रोणं कृपं विकर्णं च महाराजं च बाह्निकम्॥ एते ह्यपि यथैवाहं मन्तुमर्हसि तांस्तथा। सर्वे धर्मविदो ह्येते तुल्यस्नेहाश्च भारत॥ यत् तद् विराटनगरे सह भ्रातृभिरग्रतः। उत्सृज्य गाः सुसंत्रस्तं बलं ते समशीर्यत॥ यच्चैव नगरे तस्मिञ्छूयते महदद्भुतम्। एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम्॥ अर्जुनस्तत् तथाकार्षीत् किं पुनः सर्व एव ते। स भ्रातृनभिजानीहि वृत्त्या तं प्रतिपादय॥ वैशम्पायन उवाच एवमुक्त्वा महाप्राज्ञो धृतराष्ट्रः सुयोधनम्। पुनरेव महाभागः संजयं पर्यपृच्छत॥ ब्रूहि संजय यच्छेषं वासुदेवादनन्तरम्। यदर्जुन उवाच त्वां परं कौतूहलं हि मे॥ संजय उवाच वासुदेववचः श्रुत्वा कुन्तीपुत्रो धनंजयः। उवाच काले दुर्धर्षो वासुदेवस्य शृण्वतः॥ पितामहं शान्तनवं धृतराष्ट्रं च संजय। द्रोणं कृपं च कर्णं च महाराजं च बाह्निकम्॥ द्रौणिं च सोमदत्तं च शकुनि चापि सौबलम्। दुःशासनं शलं चैव पुरुमित्रं विविंशतिम्॥ विकर्ण चित्रसेनं च जयत्सेनं च पार्थिवम्। विन्दानुविन्दावावन्त्यौ दुर्मुखं चापि कौरवम्॥ सैन्धव दुःसहं चैव भूरिश्रवसमेव च। भगदत्तं च राजानं जलसन्धं च पार्थिवम्॥ ये चाप्यन्ये पार्थिवास्तत्र योद्धं समागताः कौरवाणां प्रियार्थम्। मुमूर्षवः पाण्डवाग्नौ प्रदीप्ते समानीता धार्तराष्ट्रण होतुम्॥ यथान्यायं कौशलं वन्दनं च समागता मद्वचनेन वाच्याः। इदं ब्रूयाः संजय राजमध्ये सुयोधनं पापकृतां निधानम्॥ अमर्षणं दुर्मतिं राजपुत्रं पापात्मानं धार्तराष्ट्र सुलुब्धम्। सर्वं ममैतद् वचनं समग्रं सहामात्यं संजय श्रावयेथाः॥ एवं प्रतिष्ठाप्य धनंजयो मां ततोऽर्थवद् धर्मवच्चापि वाक्यम्। प्रोवाचेदं वासुदेवं समीक्ष्य पार्थो धीमाँल्लोहितान्तायताक्षः॥ यथा श्रुतं ते वदतो महात्मनो मधुप्रवीरस्य वचः समाहितम्। तथैव वाच्यं भवता हि मद्वचः समागतेषु क्षितिपेषु सर्वशः॥ शराग्निधूमे रथनेमिनादिते धनुःस्रुवेणास्त्रबलप्रसारिणा। यथा न होमः क्रियते महामृधे समेत्य सर्वे प्रयतध्वमादृताः॥ न चेत् प्रयच्छध्वममित्रघातिनो युधिष्ठिरस्य शममीप्सितं स्वकम्। नयामि वः साश्वपदातिकुञ्जरान् दिशं पितॄणामशिवां शितैः शरैः॥ ततोऽहमामन्त्र्य तदा धनंजयं चतुर्भुजं चैव नमस्य सत्वरः। जवेन सम्प्राप्त इहामराते तवान्तिकं प्रापयितुं वचो महत्॥ वैशम्पायन उवाच दुर्योधने धार्तराष्ट्रे तद् वचो नाभिनन्दति। तूष्णीम्भूतेषु सर्वेषु समुत्तस्थुर्नरर्षभाः॥ उत्थितेषु महाराज पृथिव्यां सर्वराजसु। रहिते संजयं राजा परिप्रष्टुं प्रचक्रमे॥ आशंसमानो विजयं तेषां पुत्रवशानुगः। आत्मनश्च परेषां च पाण्डवानां च निश्चयम्॥ गावल्गणे ब्रुहि नः सारफल्गु स्वसेनायां यावदिहास्ति किंचित्। त्वं पाण्डवानां निपुणं वेत्थ सर्वं किमेषां ज्यायः किमु तेषा कनीयः॥ त्वमेतयोः सारवित् सर्वदर्शी धर्मार्थयोनिपुणो निश्चयज्ञः। स मे पृष्टः संजय ब्रूहि सर्वं युध्यमानाः कतरेऽस्मिन् न सन्ति॥ संजय उवाच दसूया हि त्वां प्रविशेत राजन्। आनयस्व पितरं महाव्रतं गान्धारीं च महिषीमाजमीढ॥ तौ तेऽसूयां विनयेतां नरेन्द्र धर्मज्ञौ तौ निपुणौ निश्चयज्ञौ। तयोस्तु त्वां संनिधौ तद् वदेयं कृत्स्नं मतं केशवपार्थयोर्यत्॥ वैशम्पायन उवाच इत्युक्तेन च गान्धारी व्यासश्चात्राजगाम ह। आनीतौ विदुरेणेह सभां शीघ्रं प्रवेशितौ॥ ततस्तन्मतमाज्ञाय संजयस्यात्मजस्य च। अभ्युपेत्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत्॥ व्यास उवाच सम्पृच्छते धृतराष्ट्राय संजय आचक्ष्व सर्वं यावदेषोऽनुयुङ्क्ते। सर्वं यावद् वेत्थ तस्मिन् यथावद् द्याथातथ्यं वासुदेवेऽर्जुने च॥ संजय उवाच अर्जुनो वासुदेवश्च धन्विनौ परमार्चितौ। कामादन्यत्र सम्भूतौ सर्वभावाय सम्मितौ॥ व्यामान्तरं समास्थाय यथामुक्तं मनस्विनः। चक्रं तद् वासुदेवस्य मायया वर्तते विभो॥ सापह्नवं कौरवेषु पाण्डवानां सुसम्मतम्। सारासारबलं ज्ञातुं तेज:पुञ्जावभासितम्॥ नरकं शम्बरं चैव कंसं चैद्यं च माधवः। जितवान् घोरसंकाशान् क्रीडन्निव महाबलः॥ पृथिवीं चान्तरिक्षं च द्यां चैव पुरुषोत्तमः। मनसैव विशिष्टात्मा नयत्यात्मवशं वशीः॥ भूयो भूयो हि यद् राजन् पृच्छसे पाण्डवान् प्रति। सारासारबलं ज्ञातुं तत् समासेन मे शृणु॥ एकतो वा जगत् कृत्स्नमेकतो वा जनार्दनः। सारतो जगतः कृत्स्नादतिरिक्तो जनार्दनः॥ भस्म कुर्याज्जगदिदं मनसैव जनार्दनः। न तु कृत्स्नं जगच्छक्तं भस्म कर्तुं जनार्दनम्॥ यतः सत्यं यतो धर्मो यतो ह्रीरार्जवं यतः। ततो भवतो गोविन्दो यतः कृष्णस्ततो जयः॥ पृथिवीं चान्तरिक्षं च दिवं च पुरुषोत्तमः। विचेष्टयति भूतात्मा क्रीडन्निव जनार्दनः॥ स कृत्वा पाण्डवान् सत्रं लोकं सम्मोहयन्निव। अधर्मनिरतान् मूढान् दग्धुमिच्छति ते सुतान्॥ कालचक्रं जगच्चक्रं युगचक्रं च केशवः। आत्मयोगेन भगवान् परिवर्तयतेऽनिशम्॥ कालस्य च हि मृत्योश्च जङ्गमस्थावरस्य च। ईशते भगवानेकः सत्यमेतद् ब्रवीमि ते॥ ईशन्नपि महायोगी सर्वस्य जगतो हरिः। कर्माण्यारभते कर्तुं कीनाश इव वर्धनः॥ तेन वञ्चयते लोकान् मायायोगेन केशवः। ये तमेव प्रपद्यन्ते न ते मुह्यन्ति मानवाः॥ धृतराष्ट्र उवाच कथं त्वं माधवं वेत्थ सर्वलोकमहेश्वरम्। कथमेनं न वेदाहं तन्ममाचक्ष्व संजय॥ संजय उवाच शृणु राजन् न ते विद्या मम विद्या न हीयते। विद्याहीनस्तमोध्वस्तो नाभिजानाति केशवम्॥ विद्यया तात जानामि त्रियुगं मधुसूदनम्। कर्तारमकृतं देवं भूतानां प्रभवाप्ययम्॥ धृतराष्ट्र उवाच गावल्गणेऽत्र का भक्तिर्या ते नित्या जनार्दने। यया त्वमभिजानासि त्रियुगं मधुसूदनम्॥ संजय उवाच मायां न सेवे भद्रं ते न वृथा धर्ममाचरे। शुद्धभाव गतो भक्त्या शास्त्राद् वेद्मि जनार्दनम्॥ धृतराष्ट्र उवाच दुर्योधन हृषीकेशं प्रपद्यस्व जनार्दनम्। आप्तो न: संजयस्तात शरणं गच्छ केशवम्॥ दुर्योधन उवाच भगवान् देवकीपुत्रो लोकांचेनिहनिष्यति। प्रवदन्नर्जुने सख्यं नाहं गच्छेऽद्य केशवम्॥ धृतराष्ट्र उवाच अवाग् गान्धारि पुत्रस्ते गच्छत्येष सुदुर्मतिः। ईधुंदुरात्मा मानी च श्रेयसां वचनातिगः॥ गान्धार्युवाच ऐश्वर्यकाम दुष्टात्मन् वृद्धानां शासनातिग। ऐश्वर्यजीविते हित्वा पितरं मां च बालिश॥ वर्धयन् दुहृदां प्रीतिं मां च शोकेन वर्धयन्। निहतो भीमसेनेन स्मर्ताऽसि वचनं पितुः॥ व्यास उवाच प्रियोऽसि राजन् कृष्णस्य धृतराष्ट्र निबोध मे। यस्य ते संजयो दूतो यस्त्वां श्रेयसि योक्ष्यते॥ जानात्येष हृषीकेशं पुराणं यच्च वै परम्। शुश्रूषमाणमेकाग्रयं मोक्ष्यते महतो भयात्॥ वैचित्रवीर्यं पुरुषाः क्रोधहर्षसमावृताः। सिता बहुविधैः पाशैर्ये न तुष्टाः स्वकैर्धनैः॥ यमस्य वशमायान्ति काममूढाः पुनः पुनः। अन्धनेत्रा यथैवान्धा नीयमानाः स्वकर्मभिः॥ एष एकायनः पन्था येन यान्ति मनीषिणः। तं दृष्ट्वा मृत्युमत्येति महांस्तत्र न सज्जति॥ धृतराष्ट्र उवाच अङ्ग संजय मे शंस पन्थानमकुतोभयम्। येन गत्वा हृषीकेशं प्राप्नुयां सिद्धिमुत्तमाम्॥ संजय उवाच नाकृतात्मा कृतात्मानं जातु विद्याज्जनार्दनम्। आत्मनस्तु क्रियोपायो नान्यत्रेन्द्रियनिग्रहात्॥ इन्द्रियाणामुदीर्णानां कामत्यागोऽप्रमादतः। अप्रमादोऽविहिंसा च ज्ञानयोनिरसंशयम्॥ इन्द्रियाणां यमे यत्तो भव राजन्नतन्द्रितः। बुद्धिश्च ते मा च्यवतु नियच्छैनां यतस्ततः॥ एतज्ज्ञानं विदुर्विप्रा ध्रुवमिन्द्रियधारणम्। एतज्ज्ञानं च पन्थाश्च येन यान्ति मनीषिणः॥ अप्राप्यः केशवो राजनिन्द्रियैरजितैर्नृभिः। आगमाधिगमाद् योगाद् वशी तत्त्वे प्रसीदति॥ धृतराष्ट्र उवाच भूयो मे पुण्डरीकाक्षं संजयाचक्ष्व पृच्छतः। नामकर्मार्थवित् तात प्राप्नुयां पुरुषोत्तमम्॥ संजय उवाच श्रुतं मे वासुदेवस्य नामनिर्वचनं शुभम्। यावत् तत्राभिजानेऽहमप्रमेयो हि केशवः॥ वसनात् सर्वभूतानां वसुत्वाद् देवयोनितः। वासुदेवस्ततो वेद्यो बृहत्त्वाद् विष्णुरुच्यते॥ मौनाद् ध्यानाच्च योगाच्च विद्धि भारत माधवम्। सर्वतत्त्वमयत्वाच्च मधुहा मधुसूदनः॥ कृषि वाचकः शब्दो च निर्वृतिवाचकः। विष्णुस्तद्भावयोगाच्च कृष्णो भवति सात्वतः॥ पुण्डरीकं परं धाम नित्यमक्षयमव्ययम्। तद्वावात् पुण्डरीकाक्षो दस्युत्रासाज्जनार्दनः॥ यतः सत्त्वान्न च्यवते यच्च सत्त्वान्न हीयते। सत्त्वतः सात्वतस्तस्मादार्षभाद् वृषभेक्षणः॥ न जायते जनित्राऽयमजस्तस्मादनीकजित्। देवानां स्वप्रकाशत्वाद् दमाद् दामोदरो विभुः॥ हर्षात् सुखात् सुखैश्वर्याधृषीकेशत्वमश्नुते। बाहुभ्यां रोदसी बिभ्रन्महाबाहुरिति स्मृतः॥ अधो न क्षीयते जातु यस्मात् तस्मादधोक्षजः। नराणामयनाच्चापि ततो नारायणः स्मृतः॥ पूरणात् सदनाच्चापि ततोऽसौ पुरुषोत्तमः। असतश्च सतश्चैव सर्वस्य प्रभवाप्ययात्॥ सर्वस्य च सदा ज्ञानात् सर्वमेतं प्रचक्षते। सत्ये प्रतिष्ठितः कृष्णः सत्यपत्र प्रतिष्ठितम्॥ सत्यात् सत्यं तु गोविन्दस्तस्मात् सत्योऽपि नामतः। विष्णुर्विक्रमणाद् देवो जयनाज्जिष्णुरुच्यते॥ शाश्वतत्वादनन्तश्च गोविन्दो वेदनाद् गवाम्। अतत्त्वं कुरुते तत्त्वं तेन मोहयते प्रजाः॥ एवंविधो धर्मनित्यो भगवान् मधुसूदनः। आगन्ता हि महाबाहुरानृशंस्यार्थमच्युतः॥ धृतराष्ट्र उवाच चक्षुष्मतां वै स्पृहयामि संजय द्रक्ष्यन्ति ये वासुदेव समीपे। विभ्राजमानं वपुषा परेण प्रकाशयन्तं प्रदिशो दिशश्च।।।। मभ्यर्चनीयां शङ्करीं सृजयानाम्। बुभूषद्भिर्ग्रहणीयामनिन्द्यां परासूनामग्रहणीयरूपाम्॥ समुद्यन्तं सात्वतमेकवीरं प्रणेतारमृषभं यादवानाम्। निहन्तारं क्षोभणं शात्रवाणां मुञ्चन्तं च द्विषतां वै यशांसि॥ द्रष्टारो हि कुरवस्तं समेता महात्मानं शत्रुहणं वरेण्यम्। ब्रुवन्तं वाचमनृशंसरूपां वृष्णिश्रेष्ठं मोहयन्तं मदीयान्॥ ऋषि सनातनतमं विपश्चितं वाचः समुद्रं कलशं यतीनाम्। अरिष्टनेमि गरुडं सुपर्ण हरिं प्रजानां भुवनस्य धाम॥ मनादिमध्यान्तमनन्तकीर्तिम्। शुक्रस्य धातारमजं च नित्यं परं परेषां शरणं प्रपद्ये॥ त्रेलोक्यनिर्माणकरं जनित्रं देवासुराणामथ नागरक्षसाम्। मिन्द्रानुजं तं शरणं प्रपद्ये॥ अयं स कालः सम्प्राप्तो मित्राणां मित्रवत्सला न च त्वदन्यं पश्यामि यो न आपत्सु तारयेत्॥ त्वां हि माधवमाश्रित्य निर्भया मोघदर्पितम्। धार्तराष्ट्र सहामात्यं स्वयं समनुयुक्ष्महे॥ यथा हि सर्वास्वापत्सु पासि वृष्णीनरिंदम) तथा ते पाण्डवा रक्ष्या: पाहस्मान् महतो भयात्॥ श्रीभगवानुवाच अयमस्मि महाबाहो ब्रूहि यत् ते विवक्षितम्। करिष्यामि हि तत् सर्वं यत् त्वं वक्ष्यसि भारत॥ युधिष्ठिर उवाच श्रुतं ते धृतराष्ट्रस्य सपुत्रस्य चिकीर्षितम्। एतद्धि सकलं कृष्ण संजयो मां यदब्रवीत्॥ तन्मतं धृतराष्ट्रस्य सोऽस्यात्मा विवृतान्तरः। यथोक्तं दूत आचष्टे वध्यः स्यादन्यथा ब्रुवन्॥ अप्रदानेन राज्यस्य शान्तिमस्मासु मार्गति। लुब्धः पापेन मनसा चरन्नसममात्मनः॥ यत् तद् द्वादश वर्षाणि वनेषु ह्युषिता वयम्। छद्मना शरदं चैकां धृतराष्ट्रस्य शासनात्॥ स्थाता नः समये तस्मिन् धृतराष्ट्र इति प्रभो। नाहास्म समयं कृष्ण तद्धि नो ब्राह्मणा विदुः॥ गृद्धो राजा धृतराष्ट्रः स्वधर्मं नानुपश्यति। वश्यत्वात् पुत्रगृद्धित्वान्मन्दस्यान्वेति शासनम्॥ सुयोधनमते तिष्ठन् राजाऽस्मासु जनार्दन। मिथ्या चरति लुब्धः सन् चरन् हि प्रियमात्मनः॥ इतो दुःखतरं किं नु यदहं मातरं ततः। संविधातुं न शक्नोमि मित्राणां वा जनार्दन॥ काशिभिश्चेदिपञ्चालैर्मत्स्यैश्च मधुसूदन। भवता चैव नाथेन पञ्च ग्रामा वृता मया।॥ अविस्थलं वृकस्थलं माकन्दी वारणावतम्। अवसानं च गोविन्द कञ्चिदेवात्र पञ्चमम्॥ पञ्च नस्तात दीयन्तां ग्रामा वा नगराणि वा। वसेम सहिता येषु मा च नो भरता नशन्॥ न च तानपि दुष्टात्मा धार्तराष्ट्रोऽनुमन्यते। स्वाम्यमात्मनि मत्वाऽसावतो दुःखतरं नु किम्॥ कुले जातस्य वृद्धस्य परवित्तेषु गृद्ध्यतः। लोभ प्रज्ञानमाहन्ति प्रज्ञा हन्ति श्रियम्॥ श्रीर्हता बाधते धर्मं धर्मो हन्ति हतः श्रियम्। श्रीर्हता पुरुषं हन्ति पुरुषस्याधनं वधः॥ अधनाद्धि निवर्तन्ते ज्ञातयः सुहृदो द्विजाः। अपुष्पादफलाद् वृक्षाद् यथा कृष्ण पतत्रिणः॥ एतच्च मरणं तात यन्मत्तः पतितादिव। ज्ञातयो विनिवर्तन्ते प्रेतसत्त्वादिवासवः॥ नातः पापीयसी काञ्चिदवस्थां शम्बरोऽब्रवीत्। यत्र नैवाद्य न प्रातर्भोजनं प्रतिदृश्यते॥ धनमाहुः परं धर्मं धने सर्वं प्रतिष्ठितम्। जीवन्ति धनिनो लोके मृता ये त्वधना नराः॥ ये धनादपकर्षन्ति नरं स्वबलमास्थिताः। ते धर्ममर्थ कामं च प्रमथ्नन्ति नरं च तम्॥ एतामवस्थां प्राप्यैके मरणं वविरे जनाः। ग्रामायके वनायके नाशायैके प्रवव्रजुः॥ उन्मादमेके पुष्यन्ति यान्त्यन्ये द्विषतां वशम्। दास्यमेके च गच्छन्ति परेषामर्थहेतुना॥ आपदेवास्य मरणात् पुरुषस्य गरीयसी। श्रियो विनाशस्तद्ध्यस्य निमित्तं धर्मकामयोः॥ यदस्य धर्म्यं मरणं शाश्वतं लोकवर्त्म तत्। समन्तात् सर्वभूतानां न तदत्येति कश्चनः॥ न तथा बाध्यते कृष्ण प्रकृत्या निर्धनो जनः। यथा भद्रां श्रियं प्राप्य हीनः सुखैधितः॥ स तदाऽऽत्मापराधेन सम्प्राप्तोव्यसनं महत्। सेन्द्रान् गर्हयते देवान् नात्मानं च कथञ्चन॥ न चास्य सर्वशास्त्राणि प्रभवन्ति निबर्हणे। सोऽभिक्रुध्यति भृत्यानां सुहृदश्चाभ्यसूयति॥ तं तदा मन्युरेवैति स भूयः सम्प्रमुह्यति। स मोहवशमापन्नः क्रूरं कर्म निषेवते॥ पापकर्मतया चैव संकरं तेन पुष्यति। संकरो नरकायैव सा काष्ठा पापकर्मणाम्।।३३। न चेत् प्रबुध्यते कृष्ण नरकायैव गच्छति। तस्य प्रबोधः प्रज्ञैव प्रज्ञाचक्षुस्तरिष्यति॥ प्रज्ञालाभे हि पुरुषः शास्त्राण्येवान्ववेक्षते। शास्त्रनिष्ठः पुनर्धर्मं तस्य ह्रीरङ्गमुत्तमम्॥ ह्रीमान् हि पापं प्रद्वेष्टि तस्य श्रीरभिवर्धते। श्रीमान् स यावद् भवति तावद् भवति पूरुषः॥ धर्मनित्यः प्रशान्तात्मा कार्ययोगवहः सदा। नाधर्मं कुरुते बुद्धिं न च पापे प्रवर्तते॥ अह्रीको वा विमूढो वा नैव स्त्री न पुनः पुमान्। नास्याधिकारो धर्मेऽस्ति यथा शूद्रस्तथैव सः॥ ह्रीमानवति देवांश्च पितॄनात्मानमेव च। तेनामृतत्वं व्रजति सा काष्ठा पुण्यकर्मणाम्॥ तदिदं मयि ते दृष्टं प्रत्यक्षं मधुसूदन यथा राज्यात् परिभ्रष्टो वसामि वसतीरिमाः॥ ते वयं न श्रियं हातुमलं न्यायेन केनचित्। अत्र नो यतमानानां वधश्चेदपि साधु तत्॥ तत्र नः प्रथमः कल्पो यद् वयं ते च माधव। प्रशान्ताः समभूताश्च श्रियं तामश्नुवीमहि॥ तत्रैषा परमा काष्ठा रौद्रकर्मक्षयोदया। यद् वयं कौरवान् हत्वा तानि राष्ट्राण्यवाप्नुमः॥ ये पुनः स्युरसम्बद्धा अनार्याः कृष्ण शत्रवः। तेषामप्यवधः कार्यः किं पुनर्ये स्युरीदृशाः॥ ज्ञातयश्चैव भूयिष्ठाः सहाया गुरवश्च नः। तेषां वधोऽतिपापीयान् किं नो युद्धेऽस्ति शोभनम्।।४५ पापः क्षत्रियधर्मोऽयं वयं च क्षत्रबन्धवः। स नः स्वधर्मोऽधर्मों वा वृत्तिरन्या विगर्हिता।॥ शूद्रः करोति शुश्रूषां वैश्या वै पण्यजीविकाः। वयं वधेन जीवामः कपालं ब्राह्मणैर्वृतम्॥ क्षत्रियः क्षत्रियं हन्ति मत्स्यो मत्स्येन जीवति। श्वा श्वानं हन्ति दाशार्ह पश्य धर्मों यथागतः॥ युद्धे कृष्ण कलिनित्यं प्राणां सीदन्ति संयुगे। बलं तु नीतिमाधाय युध्ये जयपराजयौ।॥ नात्मच्छन्देन भूतानां जीवितं मरणं तथा। नाप्यकाले सुखं प्राप्यं दुःखं वापि यदूत्तम॥ एको ह्यपि बहून् हन्ति जन्त्येकं बहवोऽष्युत। शूरं कापुरुषो हन्ति अयशस्वी यशस्विनम्॥ जयो नैवोभयोर्दष्टो नोभयोश्च पराजयः। तथैवापचयो दृष्टो व्यपयाने क्षयव्ययौ।॥ सर्वथा वृजिनं युद्धं को जन् न प्रतिहन्यते। हतस्य च हृषीकेश समौ जयपराजयौ।॥ पराजयश्च मरणान्मन्ये नैव विशिष्यते। यस्य स्याद् विजयः कृष्ण तस्याप्यपचयो ध्रुवम्॥ अन्ततो दयितं नन्ति केचिदप्यपरे जनाः। तस्याङ्ग बलहीनस्य पुत्रान् भ्रातृनपश्यतः॥ निर्वेदो जीविते कृष्ण सर्वतश्चोपजायते। ये ह्येव धीरा ह्रीमन्त आर्याः करुणवेदिनः॥ त एव युद्धे हन्यन्ते यवीयान् मुच्यते जनः। हत्वाप्यनुशयो नित्यं परानपि जनार्दन॥ अनुबन्धश्च पापोऽत्र शेषश्चाप्यवशिष्यते। शेषों हि बलमासाद्य न शेषमनुशेषयेत्॥ सर्वोच्छेदे च यतते वैरस्यान्तविधित्सया। जयो वैरं प्रसृजति दुःखमास्ते पराजितः॥ सुखं प्रशान्तः स्वपिति हित्वा जयपराजयौ। जातवैस्च पुरुषो दुःखं स्वपिति नित्यदा॥ अनिवृत्तेन मनसा ससर्प इव वेश्मनि। उत्सादयति यः सर्वं यशसा स विमुच्यते॥ अकीर्तिं सर्वभूतेषु शाश्वती सोऽधिगच्छति। न हि वैराणि शाम्यन्ति दीर्घकालधृतान्यपि॥ आख्यातारश्च विद्यन्ते पुमांश्चेद् विद्यते कुले। न चापि वैरं वैरेण केशव व्युपशाम्यति॥ हविषाग्निर्यथा कृष्ण भूय एवाभिवर्धते। अतोऽन्यथा नास्ति शान्तिनित्यमन्तरमन्ततः॥ अन्तरं लिप्समानानामयं दोषो निरन्तरः। पौरुषे यो हि बलवानाधिर्हदयबाधनः। तस्य त्यागेन वा शान्तिर्मरणेनापि वा भवेत्॥ अथवा मूलघातेन द्विषतां मधुसूदन। फलनिवृत्तिरिद्धा स्यात् तन्नृशंसतरं भवेत्॥ या तु त्यागेन शान्तिः स्यात् तदृते वध एव सः। संशयाच्च समुच्छेदाद् द्विषतामात्मनस्तथा॥ न च त्यक्तुं तदिच्छामो न चेच्छामः कुलक्षयम्। अत्र या प्रणिपातेन शान्तिः सैव गरीयसी॥ सर्वथा यतमानानामयुद्धमभिकाङ्क्षताम्। सान्त्वे प्रतिहते युद्धं प्रसिद्धं नापराक्रमः॥ प्रतिघातेन सान्त्वस्य दारुणं सम्प्रवर्तते। तच्छुनामिव सम्पाते पण्डितैरुपलक्षितम्॥ लाडूलचालनं क्ष्वेडा प्रतिवाचो विवर्तनम्। दन्तदर्शनमारावस्ततो युद्धं प्रवर्तते॥ तत्र यो बलवान् कृष्ण जित्वा सोऽत्ति तदामिषम्। एवमेव मनुष्येषु विशेषो नास्ति कश्चन॥ सर्वथा त्वेतदुचितं दुर्बलेषु बलीयसाम्। अनादरोऽविरोधश्च प्रणिपाती हि दुर्बलः॥ पिता राजा च वृद्धश्च सर्वथा मानमर्हति। तस्मान्मान्यश्च पूज्यश्च धृतराष्ट्रो जनार्दन॥ पुत्रस्नेहश्च बलवान् धृतराष्ट्रस्य माधव। स पुत्रवशमापन्नः प्रणिपातं प्रहास्यति॥ तत्र किं मन्यसे कृष्ण प्राप्तकालमनन्तरम्। कथमर्थाच्च धर्माच्च न हीयेमहि माधव॥ ईदृशेऽत्यर्थकृच्छ्रेऽस्मिन् कमन्यं मधुसूदन। उपसम्प्रष्टुमर्हामि त्वामृते पुरुषोत्तम॥ प्रियश्च प्रियकामश्च गतिज्ञः सर्वकर्मणाम्। को हि कृष्णास्ति नस्त्वादृक् सर्वनिश्चयवित् सुहृत्।।७८ वैशम्पायन उवाच एवमुक्तः प्रत्युवाच धर्मराजं जनार्दनः। उभयोरेव वामर्थं यास्यामि कुरुसंसदम्॥ शमं तत्र लभेयं चेद् युष्मदर्थमाहापयन्। पुण्यं सुमहद् राजंश्चरितं स्यान्महाफलम्॥ मोचयेयं मृत्युपाशात् संरब्धान् कुरुसुंजयान्। पाण्डवान् धार्तराष्ट्रांश्च सर्वां च पृथिवीमिमाम्॥ मे युधिष्ठिर उवाच न ममैतन्मतं कृष्णं यत् त्वं यायाः कुरून् प्रति। सुयोधनः सूक्तमपि न करिष्यति ते वचः॥ समेतं पार्थिवं क्षत्रं दुर्योधनवशानुगम्। तेषां मध्यावतरणं तव कृष्ण न रोचये॥ न हि नः प्रीणयेद् द्रव्यं न देवत्वं कुतः सुखम्। न च सर्वामरैश्वर्यं तव द्रोहेण माधव॥ श्रीभगवानुवाच जानाम्येतां महाराज धार्तराष्ट्रस्य पापताम्। अवाच्यास्तु भविष्यामः सर्वलोके महीक्षिताम्॥ न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः। क्रुद्धस्य संयुगे सिंहस्येवेतरे मृगाः॥ अथ चेत् ते प्रवर्तन्ते मयि किञ्चिदसाम्प्रतम्। निर्दहेयं कुरून् सर्वानिति मे धीयते मतिः॥ न जातु गमनं पार्थ भवेत् तत्र निरर्थकम्। अर्थप्राप्तिः कदाचित् स्यादन्ततो वाप्यवाच्यता॥ युधिष्ठिर उवाच यत् तुभ्यं रोचते कृष्ण स्वस्ति प्राप्नुहि कौरवान्। कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामि पुनरागतम्॥ विष्वक्सेन कुरून् गत्वा भरताञ्छमयन् प्रभो। यथा सर्वे सुमनसः सह स्याम सुचेतसः॥ भ्राता चासि सखा चासि बीभत्सोर्मम च प्रियः। सौहृदेनाविशयोऽसि स्वस्ति प्राप्नुहि भूतये॥ अस्मान् वेत्थ परान् वेत्थ वेत्थार्थान् वेस्थ भाषितुम्। यद् यदस्मद्धितं कृष्ण तत्तद् वाच्यः सुयोधनः॥ यद्यधर्मेण संयुक्तमुपपद्येद्धितं वचः। तत्तत् केशव भाषेथाः सान्त्वं वा यदि वेतरत्॥ श्रीभगवानुवाच संजयस्य श्रुतं वाक्यं भवतश्च श्रुतं मया। सर्वं जानाम्यभिप्रायं तेषां च भवतश्च यः॥ तव धर्माश्रिता बुद्धिस्तेषां वैराश्रया मतिः। यदयुद्धेन लभ्येत तत् ते बहुमतं भवेत्॥ न चैवं नेष्ठिकं कर्म क्षत्रियस्य विशाम्पते। आहुराश्रमिणः सर्वे न भैक्षं क्षत्रियश्चरेत्॥ जयो वधो वा संग्रामे धात्राऽऽदिष्टः सनातनः। स्वधर्मः क्षत्रियस्यैष कार्पण्यं न प्रशस्यते॥ न हि कार्पण्यमास्थाय शक्या वृत्तियुधिष्ठिर। विक्रमस्व महाबाहो जहि शत्रून् परंतप॥ अतिगृद्धाः कृतस्नेहा दीर्घकालं सहोषिताः। कृतमित्राः कृतबला धार्तराष्ट्राः परंतप॥ योऽस्ति यत् साम्यं त्वयि कुर्युर्विशाम्पते। बलवत्तां हि मन्यन्ते भीष्मद्रोणकृपादिभिः॥ यावच्च मार्दवेनैतान् राजन्नुपचरिष्यसि। तावदेते हरिष्यन्ति तव राज्यमरिंदम॥ नानुक्रोशान्न कार्पण्यान्न च धर्माथकाराणात्। अलं कर्तुं धार्तराष्ट्रास्तव काममरिंदम्॥ एतदेवं निमित्तं ते पाण्डवास्तु यथा त्वयि। नान्वतप्यन्त कौपीनं तावत् कृत्वापि दुष्करम्॥ पितामहस्य द्रोणस्य विदुरस्य च धीमतः। ब्राह्मणानां च साधूनां राज्ञश्च नगरस्य च॥ पश्यतां कुरुमुख्यानां सर्वेषामेव तत्त्वतः। दानशीलं मृदुं दान्तं धर्मशीलमनुव्रतम्॥ यत् त्वामुपधिना राजन् द्यूते वञ्चितवांस्तदा। न चापत्रपते तेन नृशंसः स्वेन कर्मणा॥ तथाशीलसमाचारे राजन् मा प्रणयं कृथाः। वध्यास्ते सर्वलोकस्य किं पुनस्तव भारत॥ वाग्भिस्त्वप्रतिरूपाभिरतुदत् त्वां सहानुजम्। श्लाघमानः प्रहृष्टः सन् भ्रातृभिः सह भाषते॥ एतावद् पाण्डवानां हि नास्ति किंचिदिह स्वकम्। नामधेयं च गोत्रं च तदप्येषां न शिष्यते॥ चैषां भविष्यति पराभवः। प्रकृति ते भजिष्यन्ति नष्टप्रकृतयो मयि॥ कालेन महता दुःशासनेन पापेन तदा द्यूते प्रवर्तिते। अनाथवत् तदा देवी द्रौपदी सुदुरात्मना॥ आकृष्य केशे रुदती सभायां राजसंसदि। भीष्मद्रोणप्रमुखतो गौरिति व्याहृता मुहुः॥ भवता वारिताः सर्वे भ्रातरो भीमविक्रमाः। धर्मपाशनिबद्धाश्च न किंचित् प्रतिपेदिरे॥ एताश्चान्याश्च परुषा वाचः स समुदीरयन्। श्लाघते ज्ञातिमध्ये स्म त्वयि प्रव्रजिते धनम्॥ तत्रासन् समानीतास्ते दृष्ट्वा त्वामनागसम्। अश्रुकण्ठा रुदन्तश्च सभायामासते तदा॥ न चैनमभ्यनन्दस्ते राजानो ब्राह्मणैः सह। सर्वे दुर्योधनं तत्र निन्दन्ति स्म सभासदः॥ कुलीनस्य च या निन्दा वधो वाऽमित्रकर्शन। महागुणो वधो राजन् न तु निन्दा कुजीविका॥ तदैव निहतो राजन् यदैव निरपत्रपः। निन्दितश्च महाराज पृथिव्या सर्वराजभिः॥ ये ईषत् कार्यो वधस्तस्य यस्य चारित्रमीदृशम्। प्रस्कन्देन प्रतिस्तधश्छिन्नमूल इव दुमः॥ वध्यः सर्प इवानार्यः सर्वलोकस्य दुर्मतिः। जह्येनं त्वममित्रघ्न मा राजन् विचिकित्सिथाः॥ सर्वथा त्वक्षमं चैतद् रोचते च ममानघ। यत् त्वं पितरि भीष्मे च प्रणिपातं समाचरेः॥ अहं तु सर्वलोकस्य गत्वा छेत्स्यामि संशयम्। येषामस्ति द्विधाभावो राजन् दुर्योधनं प्रति॥ मध्ये राज्ञामहं तत्र प्रातिपौरुषिकान् गुणान्। तव संकीर्तयिष्यामि ये च तस्य व्यतिक्रमाः॥ ब्रुवतस्तत्र मे वाक्यं धर्मार्थसहितं हितम्। निशम्य पार्थिवाः सर्वे नानाजनपदेश्वराः॥ त्वयि सम्प्रतिपत्स्यन्ते धर्मात्मा सत्यवागिति। तस्मिश्चाधिगमिष्यन्ति यथा लोभादवर्तत।॥ गर्हयिष्यामि चैवैनं पौरजानपदेष्वपि। वृद्धबालानुपादाय चातुर्वर्ये समागते॥ शमं वै याचमानस्त्वं नाधर्मं तत्र लप्स्यसे। कुरून् विगर्हयिष्यन्ति धृतराष्ट्रं च पार्थिवाः॥ तस्मिँल्लोकपरित्यक्ते किं कार्यमवशिष्यते।। हते दुर्योधने राजन् यदन्यत् क्रियतामिति॥ यात्वा चाहं कुरून् सर्वान् युष्मदर्थमहापयन्। यतिष्ये प्रशमं कर्तुं लक्षयिष्ये च चेष्टितम्॥ कौरवाणां प्रवृत्तिं च गत्वा युद्धाधिकारिकाम्। निशम्य विनिवर्तिष्ये जयाय तव भारत॥ सर्वथा युद्धमेवाहमाशंसामि परैः सह। निमित्तानि हि सर्वाणि तथा प्रादुर्भवन्ति मे॥ मृगाः शकुन्ताश्च वदन्ति घोरं हस्त्यश्वमुख्येषु निशामुखेषु। वर्णान् बहून् पुष्यति घोररूपान्॥३९। मनुष्यलोकक्षयकृत् सुघोरो नो चेदनुप्राप्त इहान्तकः स्यात्। शस्त्राणि यन्त्रं कवचा रथांश्च नागान् हयांश्च प्रतिपादयित्वा॥ योधाश्च सर्वे कृतनिश्चयास्ते भवन्तु हस्त्यश्वरथेषु यत्ताः। सांग्रामिकं ते यदुपार्जनीयं सर्वं समग्रं कुरु तन्नरेन्द्र॥ दुर्योधनो न ह्यलमद्य दातुं जीवंस्तवैतनृपते कथंचित्। यत्ते पुरस्तादभवत् समृद्ध द्यूते हृतं पाण्डवमुख्य राज्यम्॥ भीम उवाच यथा यथैव शान्तिः स्यात् कुरूणां मधुसूदन। तथा तथैव भाषेथा मा स्म युद्धेन भीषयेः॥ अमर्षी जातसंरम्भः श्रेयोद्वेषी महामनाः। नोग्रं दुर्योधनो वाच्यः साम्नैवैनं समाचरेः॥ प्रकृत्या पापसत्त्वश्च तुल्यचेतास्तु दस्युभिः। ऐश्वर्यमदमत्तश्च कृतवैस्च पाण्डवैः॥ अदीर्घदर्शी निष्ठूरी क्षेप्ता क्रूरपराक्रमः। दीर्घमन्युरनेयश्च पापात्मा निकृतिप्रियः॥ नियेतापि न भज्येत् नैव जह्यात् स्वकं मतम्। तादृशेन शमः कृष्ण मन्ये परमदुष्करः॥ सुहृदामप्यवाचीनस्त्यक्तधर्मा प्रियानृतः। प्रतिहन्त्येव सुहृदां वाचश्चैव मनांसि च॥ स मन्युवशमापन्नः स्वभावं दुष्टमास्थितः। स्वभावात् पापमभ्येति तृणैश्छन्न इवोरगः॥ दुर्योधनो हि यत्सेनः सर्वथा विदितस्तव। यच्छीलो यत्स्वभावश्च यद्बलो यत्पराक्रमः॥ पुरा प्रसन्नाः कुरवः सहपुत्रास्तथा वयम्। इन्द्रज्येष्ठा इवाभूम मोदमानाः सबान्धवाः॥ दुर्योधनस्य क्रोधेन भरता मधुसूदन। धक्ष्यन्ते शिशिरापाये वनानीव हुताशनैः॥ अष्टादशेमे राजानः प्रख्याता मधुसूदन। ये समुच्चिच्छिदुर्शातीन् सुहृदश्च सबान्धवान्॥ असुराणां समृद्धानां ज्वलतामिव तेजसा। पर्यायकाले धर्मस्य प्राप्ते कलिरजायत।॥ हैहयानां मुदावर्तो नीपानां जनमेजयः। बहुलस्तालजंघानां कृमीणामुद्धतो वसुः॥ अजबिन्दुः सुवीराणां सुराष्ट्राणां रुषर्द्धिकः। अर्कजश्च बलीहानां चीनानां धौतमूलकः॥ हयग्रीवो विदेहानां वरयुश्च महौजसाम्। बाहुः सुन्दरवंशानां दीप्ताक्षाणां पुरूरवाः॥ सहजश्चेदिमत्स्यानां प्रवीराणां वृषध्वजः। धारणश्चन्द्रवत्सानां मुकुटानां विगाहनः॥ शमश्च नन्दिवेगानामित्येते कुलपांसनाः। युगान्ते कृष्ण सम्भूताः कुले कुपुरुषाधमाः॥ अप्ययं नः कुरूणां स्याद् युगान्ते कालसम्भृतः। दुर्योधनः कुलाङ्गारो जघन्यः पापपूरुषः॥ तस्मान्मृदु शनै—या धर्मार्थसहितं हितम्। कामानुबद्धंबहुलं नोग्रमुग्रपराक्रमः॥ अपि दुर्योधनं कृष्ण सर्वे वयमधश्चराः। नीचैर्भूत्वानुयास्यामो मा स्म नो भरतानशन्॥ अप्युदासीनवृत्तिः स्याद् यथा नः कुरुभिः सह। वासुदेव तथा कार्यं न कुरूननयः स्पृशेत्॥ वाच्यः पितामहो वृद्धो ये च कृष्ण सभासदः। भ्रातृणामस्तु सौभ्रात्रं धार्तराष्ट्रः प्रशाम्यताम्॥ अहमेतद् ब्रवीम्येवं राजा चैव प्रशंसति। अर्जुनो नैव युद्धार्थी भूयसी हि दयाऽर्जुने॥ वैशम्पायन उवाच एतच्छ्रुत्वा महाबाहुः केशवः प्रहसन्निव। अभूतपूर्वं भीमस्य मार्दवोपहितं वचः॥ गिरेरिव लघुत्वं तच्छीतत्वमिव पावके। मत्वा रामानुजः शौरिः शार्ङ्गधन्वा वृकोदरम्॥ संतेजयंस्तदा वाग्भिर्मातरिश्वेव पावकम्। उवाच भीममासीनं कृपयाऽभिपरिप्लुतम्॥ श्रीभगवानुवाच त्वमन्यदा भीमसेन युद्धमेव प्रशंससि। वधाभिनन्दिनः क्रूरान् धार्तराष्ट्रान् मिमर्दिषुः॥ न च स्वपिषि जागर्षि न्युब्जः शेषे परंतप। घोरामशान्तां रुषती सदा वाचं प्रभाषसे॥ निःश्वसनग्निवत् तेन संतप्तः स्वेन मन्युना। अप्रशान्तमना भीम सधूम इव पावकः॥ एकान्ते निःश्वसञ्छेषे भारात इव दुर्बलः। अपि त्वां केचिदुन्मत्तं मन्यन्तेऽतद्विदो जनाः॥ आरुज्य वृक्षान् निर्मूलान् गजः परिरुजनिव। निघ्नन् पद्भिः क्षिति भीम निष्टनन् परिधावसि॥ नास्मिञ्जनेऽभिरमसे रहः क्षिपसि पाण्डव। नान्यं निशि दिवा चापि कदाचिदभिनन्दसि॥ अकस्मात् स्मयमानश्च रहस्यास्से रुदन्निव। जान्वोर्मूर्धानमाधाय चिरमास्से प्रमीलितः॥ भृकुटिं च पुनः कुर्वन्नोष्ठौ च विदशनिवा अभीक्ष्णं दृश्यसे भीम सर्वं तन्मन्युकारितम्॥ यथा पुरस्तात् सविता दृश्यते शुक्रमुच्चरन्। यथा च पश्चान्निर्मुक्तो ध्रुवं पर्येति रश्मिवान्॥ तथा सत्यं ब्रवीम्येतन्नास्ति तस्य व्यतिक्रमः। हन्ताहं गदयाभ्येत्य दुर्योधनममर्षणम्॥ इति स्म मध्ये भ्रातॄणां सत्येनालभसे गदाम्। तस्य ते प्रशमे बुद्धिर्धियतेऽद्य परंतप॥ अहो युद्धाभिकाङ्क्षाणां युद्धकाल उपस्थिते। चेतांसि विप्रतीपानि यत् त्वां भीर्भीम विन्दति॥ अहो पार्थ निमित्तानि विपरीतानि पश्यसि। स्वप्नान्ते जागारान्ते च तस्मात् प्रशममिच्छसि।॥ अहो नाशंससे किञ्चित् पुंस्त्वंक्लीब इवात्मनि। कश्मलेनाभिपन्नोऽसि तेन ते विकृतं मनः॥ उद्वेपते ते हृदयं मनस्ते प्रतिसीदति। ऊरुस्तम्भगृहीतोऽसि तस्मात् प्रशममिच्छसि॥ अनित्यं किल मर्त्यस्य पार्थ चित्तं चलाचलम्। वातवेगप्रचलिता अष्ठीला शाल्मलेरिव॥ तवैषा विकृता बुद्धिर्गवां वागिव मानुषी। मनांसि पाण्डुपुत्राणां मज्जयत्यप्लवानिव॥ इदं मे महादाश्चर्यं पर्वतस्येव सर्पणम्। यदीदृशं प्रभाषेथा भीमसेनासमं वचः॥ स दृष्ट्वा स्वानि कर्माणि कुले जन्म च भारत। उत्तिष्ठिस्व विषादं मा कृथा वीर स्थिरो भव॥ न चैतदनुरूपं ते यत् ते ग्लानिररिंदम। यदोजसा न लभते क्षत्रियो न तदश्नुते॥ वैशम्पायन उवाच तथोक्तो वासुदेवेन नित्यमन्युरमर्षणः। सदश्ववत् समाधावद् बभाषे तदनन्तरम्॥ भीमसेन उवाच अन्यथा मां चिकीर्षन्तमन्यथा मन्यसेऽच्युत। प्रणीतभावमत्यर्थं युधि सत्यपराक्रमम्॥ वेत्सि दाशार्ह सत्यं मे दीर्घकालं सहोषितः। उत वा मां न जानासि प्लवन् ह्रद इवाप्लवे॥ तस्मादनभिरूपाभिर्वाग्भिर्मा त्वं समर्छसि। कथं हि भीमसेनं मां जानन् कश्चन माधव॥ ब्रूयादप्रतिरूपाणि यथा मां वक्तुमर्हसि। तस्मादिदं प्रवक्ष्यामि वचनं वृष्णिनन्दन॥ आत्मनः पौरुषं चैव बलं च न समं परैः। सर्वथानार्यकमैतत् प्रशंसा स्वयमात्मनः॥ अतिवादापविद्धस्तु वक्ष्यामि बलमात्मनः। पश्यमे रोदसी कृष्ण ययोरासन्निमाः प्रजाः॥ अचले चाप्रतिष्ठे चाप्यनन्ते सर्वमातरौ। यदीमे सहसा क्रुद्ध समेयातां शिले इव॥ अहमेते निगृह्णीयां बाहुभ्यां सचराचरे। पश्यैतदन्तरं बाह्वोर्महापरिघयोरिवा॥ य एतत् प्राप्य मुच्येत न तं पश्यामि पूरुषम्। हिमवांश्च समुद्रश्च वज्री वा बलभित् स्वयम्॥ मयाभिपन्नं त्रायेरन् बलमास्थाय न त्रयः। युद्धार्हान् क्षत्रियान् सर्वान् पाण्डवेष्वाततायिनः॥ अधः पादतलेनैतानधिष्ठास्यामि भूतले। न हि त्वं नाभिजानासि मम विक्रममच्युत॥ यथा मया विनिर्जित्य राजानो वशगाः कृताः। अथ चेन्मा न जानासि सूर्यस्येवोद्यतः प्रभाम्॥ विगाढे युधि सम्बाधे वेत्स्यसे मां जनार्दन। परुपैराक्षिपसि किं व्रणं पूतिमिवोन्नयन्॥ यथामति ब्रवीम्येतद् विद्धि मामधिकं ततः। द्रष्टासि युधि सम्बाधे प्रवृत्ते वैशसेऽहनि॥ मया प्रणुन्नान् मातङ्गान् रथिनः सादिनस्तथा। तथा नरानभिकुद्धं निघ्नन्तं क्षत्रियर्षभान्॥ द्रष्टा मां त्वं च लोकश्च विकर्षन्तं वरान् वरान्। न मे सीदन्ति मज्जानो न ममोद्वेपते मनः॥ सर्वलोकादभिक्रुद्धान्न भयं विद्यते मम। किं तु सौहृदमेवैतत् कृपया मधुसूदन। सर्वास्तितिक्षे संक्लेशान् मा स्म नो भरता नशन्।।१८ अर्जुन उवाच उक्तं युधिष्ठिरेणैव यावद् वाच्यं जनार्दन। तव वाक्यं तु मे श्रुत्वा प्रतिभाति परंतप॥ नैव प्रशममत्र त्वं मन्यसे सुकरं प्रभो। लोभाद् वा धृतराष्ट्रस्य दैन्याद् वा समुपस्थितात्॥ अफलं मन्यसे वाऽपि पुरुषस्य पराक्रमम्। न चान्तरेण कर्माणि पौरुषेण फलोदयः॥ तदिदं भाषितं वाक्यं तथा च न तथैव तत्। न चैतदेवं द्रष्टव्यमसाध्यमपि किंचन॥ किं चैतन्मन्यसे कृच्छ्रमस्माकमवसादकम्। कुर्वन्ति तेषां कर्माणि येषां नास्ति फलोदयः॥ सम्पाद्यमानं सम्यक् च स्यात् कर्म सफलं प्रभो। स तथा कृष्ण वर्तस्व यथा शर्म भवेत् परैः॥ पाण्डवानां कुरूणां च भवान् नः प्रथमः सुहृत्। सुराणामसुराणां च यथा वीर प्रजापतिः॥ कुरूणां पाण्डवानां च प्रतिपत्स्व निरामयम्। अस्मद्धितमनुष्ठानं मन्ये तव न दुष्करम्॥ एवं च कार्यतामेति कार्यं तव जनार्दन। गमनादेवमेव त्वं करिष्यसि जनार्दन।॥ चिकीर्षितमथान्यत् ते तस्मिन् वीर दुरात्मनि। भविष्यति च तत् सर्वं यथा तवचिकीर्षितम्॥ शर्म तैः सह वा नोऽस्तु तव वा यच्चिकीर्षितम्। विचार्यमाणो यः कामस्तव कृष्ण स नो गुरुः। न स नार्हति दुष्टात्मा वधं ससुतबान्धवः॥ येन धर्मसुते दृष्टा न सा श्रीरुपमर्षिता। यच्चाप्यपश्यतोपायं धर्मिष्ठं मधुसूदन॥ उपायेन नृशंसेन हृता दुर्दूतदेविना। कथं हि पुरुषो जातः क्षत्रियेषु धनुर्धरः॥ समाहूतो निवर्तेत प्राणत्यागेऽप्युपस्थिते। अधर्मेण जितान् दृष्ट्वा वने प्रव्रजितांस्तथा॥ वध्यतां मम वार्ष्णेय निर्गतोऽसौ सुयोधनः। न चैतदद्भुतं कृष्ण मित्रार्थं यच्चिकीर्षसि। क्रिया कथं च मुख्या स्यान्मृदुना चेतरेण वा॥ अथवा मन्यसे ज्यायान् वधस्तेषामनन्तरम्। तदेव क्रियतामाशु न विचार्यमतस्त्वया॥ जानासि हि यथैतेन द्रौपदी पापबुद्धिना। परिक्लिष्टा सभामध्ये तच्च तस्योपमर्षितम्॥ स नाम सम्यग् वर्तेत पाण्डवेष्विति माधव। न मे संजायते बुद्धिर्बीजमुप्तमिवोषरे॥ तस्माद् यन्मन्यसे युक्तं पाण्डवानां हितं च यत्। तथाऽऽशु कुरु वार्ष्णेय यन्नः कार्यमनन्तरम्॥ श्रीभगवानुवाच एवमेतन्महाबाहो यथा वदसि पाण्डवा पाण्डवानां कुरूणां च प्रतिपत्स्ये निरामयम्॥ सर्वं त्विदं ममायत्तं बीभत्सो कर्मणोर्द्वयोः। क्षेत्रं हि रसवच्छुद्धं कर्मणैवोपपादितम्॥ ऋते वर्षान्न कौन्तेय जातु निवर्तयेत् फलम्। तत्र वै पौरुषं ब्रूयुरासेकं यत्र कारितम्॥ तत्र चापि ध्रुवं पश्येच्छोषणं दैवकारितम्। तदिदं निश्चितं बुद्ध्या पूर्वैरपि महात्मभिः॥ दैवे च मानुषे चैव संयुक्तं लोककारणम्। अहं हि तत् करिष्यामि परं पुरुषकारतः॥ दैवं तु न मया शक्यं कर्म कर्तुं कथंचन। स हि धर्मं च लोकं च त्यक्त्वा चरति दुर्मतिः॥ न हि संतप्यते तेन तथारूपेण कर्मणा। तथापि बुद्धि पापिष्ठा वर्धयन्त्यस्य मन्त्रिणः॥ शकुनिः सूतपुत्रश्च भ्राता दुःशासनस्तथा। स हि त्यागेन राज्यस्य न शमं समुपैष्यति॥ अन्तरेण वधं पार्थ सानुबन्धः सुयोधनः। न चापि प्रणिपातेन त्यक्तुमिच्छति धर्मराट्। याच्यमानश्च राज्यं स न प्रदास्यति दुर्मतिः॥ मन्ये वाच्यो यद् युधिष्ठिरशासनम्। धर्मराजेन भारत॥ तथा पापस्तु तत् सर्वं न करिष्यति कौरवः। तस्मिश्चाक्रियमाणेऽसौ लोके वध्यो भविष्यति॥ मम चापि स वध्यो हि जगतश्चापि भारत। येन कौमारके यूयं सर्वे विप्रकृताः सदा॥ विप्रलुप्तं च वो राज्यं नृशंसेन दुरात्मना। न चोपशाम्यते पापः श्रियं दृष्ट्वा युधिष्ठिरे॥ न तु स तद् उक्तं प्रयोजनं यत् तु असकृच्चाप्यहं तेन त्वत्कृते पार्थ भेदितः। न मया तद् गृहीत् च पापं तस्य चिकीर्षितम्॥ जानासि हि महाबाहो त्वमप्यस्य परं मतम्। प्रियं चिकीर्षमाणं च धर्मराजस्य मामपि॥ संजास्तस्य चात्मानं मम चैव परं मतम्। अजानन्निव मां कस्मादर्जुनद्याभिशङ्कसे॥ यच्चापि परमं दिव्यं तच्चाप्यनुगतं त्वया। विधानं विहितं पार्थ कथं शर्म भवेत् परैः॥ यत् तु वाचा शक्यं कर्मणा वाऽपि पाण्डव। करिष्ये तदहं पार्थ न त्वाशंसे शमं परैः॥ कथं गोहरणे ह्युक्तो नैतच्छर्म तथा हितम्। याच्यमानो हि भीष्मेण संवत्सरगतेऽध्वनि॥ तदैव ते पराभूता यदा संकल्पितास्त्वया। लवशः क्षणशश्चापि न च तुष्टः सुयोधनः॥ सर्वथा तु मया कार्यं धर्मराजस्य शासनम्। विभाव्यं तस्य भूयश्च कर्म पापं दुरात्मनः॥ सहदेव उवाच यदेतत् कथितं राज्ञा धर्म एष सनातनः। यथा च युद्धमेव स्यात् तथा कार्यमरिंदम॥ यदि प्रशममिच्छेयुः कुरवः पाण्डवैः सह। तथापि युद्धं दाशाह योजयेथाः सहैव तैः॥ कथं नु दृष्ट्वा पाञ्चालीं तथा कृष्ण सभागताम्। अवधेन प्रशाम्येत मम मन्युः सुयोधनेः॥ यदि भीमार्जुनौ कृष्ण धर्मराजश्च धार्मिकः। धर्ममुत्सृज्य तेनाहं योद्भुमिच्छामि संयुगे॥ सात्यकिरुवाच सत्यमाह महाबाहो सहदेवो महामतिः। दुर्योधनवधे शान्तिस्तस्य कोपस्य मे भवेत्॥ न जानासि यथा दृष्ट्वा चीराजिनधरान् वने। तवापि मन्युरुद्भूतो दुःखितान् प्रेक्ष्य पाण्डवान्॥ तस्मान्माद्रीसुतः शूरो यदाह रणकर्कशः। वचनं सर्वयोधानां तन्मतं पुरुषोत्तम॥ वैशम्पायन उवाच एवं वदति वाक्यं तु युयुधाने महामतौ। सुभीमः सिंहनादोऽभूद् योधानां तत्र सर्वशः॥ सर्वे हि सर्वशो वीरास्तद्वचः प्रत्यपूजयन्। साधु सध्विति शैनेयं हर्षयन्तो युयुत्सवः॥ वैशम्पायन उवाच राज्ञस्तु वचनं श्रुत्वा धर्मार्थसहितं हितम्। कृष्णा दाशार्हमासीनमब्रवीच्छोककर्शिता॥ सुता दुपदराजस्य स्वसितायतमूर्धजा। सम्पूज्य सहदेवं च सात्यकिं च महारथम्॥ भीमसेनं च संशान्तं दृष्ट्वा परमदुर्मनाः। अश्रुपूर्णेक्षणा वाक्यमुवाचेदं मनस्विनी॥ विदितं ते महाबाहो धर्मज्ञ मधुसूदन। यथा निकृतिमास्थाय भ्रंशिताः पाण्डवाः सुखात्॥ धृतराष्ट्रस्य पुत्रेण सामात्येन जनार्दन। यथा च संजयो राज्ञा मन्त्रं रहसि श्रावितः॥ युधिष्ठिरस्य दाशार्ह तच्चापि विदितं तव। यथोक्तः संजयश्चैव तच्च सर्वं श्रुतं त्वया॥ पञ्च नस्तात दीयन्तां ग्रामा इति महाद्युते। अविरथलं वृकस्थलं माकन्दी वारणावतम्॥ अवसानं महाबाहो कञ्चिदेकं च पञ्चमम्। इति दुर्योधनो वाच्यः सुहृदश्चास्य केशव॥ न चापि ह्यकरोद् वाक्यं श्रुत्वा कृष्ण सुयोधनः। युधिष्ठिरस्य दाशार्ह श्रीमतः संधिमिच्छतः॥ अप्रदानेन राज्यस्य यदि कृष्ण सुयोधनः। संधिमिच्छेन्न कर्तव्यं तत्र गत्वा कथञ्चन॥ शक्ष्यन्ति हि महाबाहो पाण्डवाः संजयैः सह। धार्तराष्ट्रबलं घोरं क्रुद्ध प्रतिसमासितुम्॥ ते न हि साम्ना न दानेन शक्योऽर्थस्तेषु कश्चर। तस्मात् तेषु न कर्तव्या कृपा मधुसूदन॥ साम्ना दानेन वा कृष्ण ये न शाम्यन्ति शत्रवः। योक्तव्यस्तेषु दण्डः स्याज्जीवितं परिरक्षता॥ तस्मात् तेषु महादण्डः क्षेप्तव्यः क्षिप्रमच्युत। त्वया चैव महाबाहो पाण्डवैः सह संजयैः॥ एतत् समर्थं पार्थानां तव चैव यशस्करम्। क्रियमाणं भवेत् कृष्ण क्षत्रस्य च सुखावहम्॥ क्षत्रियेण हि हन्तव्यः क्षत्रियो लोभमास्थितः। अक्षत्रियो वा दाशार्ह स्वधर्ममनुतिष्ठता।॥ अन्यत्र ब्राह्मणात् तात सर्वपापेष्ववस्थितात्। गुरुर्हि सर्ववर्णानां ब्राह्मणः प्रसृताग्रभुक्॥ यथावध्ये वध्यमाने भवेद् दोषो जनार्दन। स वध्यस्यावधे दृष्ट इति धर्मविदो विदुः॥ यथा त्वां न स्पृशेदेष दोषः कृष्ण तथा कुरु। पाण्डवैः सह दाशार्हः संजयैश्च ससैनिकैः॥ पुनरुक्तं च वक्ष्यामि विश्रम्मेण जनार्दन। का तु सीमन्तिनी मादृक् पृथिव्यामस्ति केशव॥ सुता दुपदराजस्य वेदिमध्यात् समुत्थिता। धृष्टद्युम्नस्य भगिनी तव कृष्ण प्रिया सखी।॥ आजमीढकुलं प्राप्ता स्नुषा पाण्डोर्महात्मनः। महिषी पाण्डुपुत्राणां पञ्चेन्द्रसमवर्चसाम्॥ सुता मे पञ्चभिर्वीरैः पञ्च जाता महारथाः। अभिमन्युर्यथा कृष्ण तथा ते तव धर्मतः॥ साहं केशग्रहं प्राप्ता परिक्लिष्टा सभां गता। पश्यतां पाण्डुपुत्राणां त्वयि जीवति केशव॥ जीवत्सु पाण्डुपुत्रेषु पञ्चालेष्वथ वृष्णिषु। दासीभूतास्मि पापानां सभामध्ये व्यवस्थिता।॥ निरमपेष्वचेष्टेषु प्रेक्षमाणेषु पाण्डुषु। पाहि मामिति गोविन्द मनसा चिन्तितोऽसि मे॥ यत्र मां भगवान् राजा श्वशुरो वाक्यमब्रवीत्। वरं वृणीष्व पाञ्चालि वराहा॑ऽसि मता मम॥ अदासाः पाण्डवाः सन्तु सरथाः सायुधा इति। पयोक्ते यत्र निर्मुक्ता वनवासाय केशव॥ एवंविधानां दुःखानापभिज्ञोऽसि जनार्दन। त्रायस्व पुण्डरीकाक्ष सभर्तृज्ञातिबान्धवान्॥ नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः। स्नुषा भवामि धर्मेण साहं सादीकृता बलात्॥ धिक्पार्थस्य धनुष्यत्तां भीमसेनस्य धिक् बलम्। यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति॥ यदि तेऽहमनुग्राह्या यदि तेऽस्ति कृपा मयि। धार्तराष्ट्रेषु वै कोप: सर्वः कृष्ण विधीयताम्॥ वैशम्पायन उवाच इत्युक्त्वा मृदुसंहारं वृजिनाग्रं सुदर्शनम्। सुनीलमसितापाङ्गी सर्वगन्धाधिवासितम्॥ सर्वलक्षणसम्पन्नं महाभुजगवर्चसम्। केशपक्षं वरारोहा गृह्य वामेन पाणिना॥ पद्माक्षी पुण्डरीकाक्षमुपेत्य गजगामिनी। अश्रुपूर्णेक्षणा कृष्णा कृष्णं वचनमब्रवीत्॥ अयं ते पुण्डरीकाक्ष दुःशासनकरोद्धृतः। स्मर्तव्यः सर्वकार्येषु परेषां संधिमिच्छता॥ यदि भीमार्जुनौ कृष्ण कृपणौ संधिकामुकौ। पिता मे योत्स्यते वृद्धः सह पुत्रैर्महारथैः॥ पञ्च च महावीर्याः पुत्रा मे मधुसूदन। अभिमन्युं पुरस्कृत्य योत्स्यन्ते कुरुभिः सह॥ दुःशासनभुजं श्यामं संछिन्नं पांसुगुण्ठितम्। यद्यहं तु न पश्यामि का शान्तिर्हदयस्य मे॥ त्रयोदश हि वर्षाणि प्रतीक्षन्त्या गतानि मे। विधाय हृदये मन्युं प्रदीप्तमिव पावकम्॥ विदीर्यते मे हृदयं भीमवाक्छल्यपीडितम्। योऽयमद्य महाबाहुर्धर्ममेवानुपश्यति॥ इत्युक्त्वा वाष्परुद्धेन कण्ठेनायतलोचना। सरोद कृष्णा सोत्कम्पं सस्वरं बाष्पगद्गदम्॥ स्तनौ पीनायतश्रोणी सहिताबभिवर्षती। द्रवीभूतमिवात्युष्णं मुञ्चन्ती वारि नेत्रजम्॥ तामुवाच महाबाहुः केशवः परिसान्त्वयन्। अचिराद् द्रक्ष्यसे कृष्णे रुदतीर्भरतस्त्रियः॥ एवं ता भीरु रोत्स्यन्ति निहतज्ञातिबान्धवाः। हतमित्रा हतबला येषां क्रुद्धाऽसि भामिनी॥ अहं च तत् करिष्यामि भीमार्जुनयमैः सह। युधिष्ठिरनियोगेन दैवाच्च विधिनिर्मितात्॥ धार्तराष्ट्राः कालपक्वा न चेच्छृण्वन्ति मे वचः। शेष्यन्ते निहता भूमौ श्वशृगालादनीकृताः॥ चलेद्धि हिमवाञ्छैलो मेदिनी शतधा फलेत्। द्यौः पतेच्च सनक्षत्रान मे मोघं वचो भवेत्॥ सत्यं ते प्रतिजानामि कृष्णे बाष्पो निगृह्यताम्। हतामित्रात्प्रिया युक्तानचिराद् द्रक्ष्यसे पतीन्॥ अर्जुन उवाच कुरूणामद्य सर्वेषां भवान् सुहृदनुत्तमः। सम्बन्धी दयितो नित्यमुभयोः पक्षयोरपि॥ पाण्डवैर्धार्तराष्ट्राणां प्रतिपाद्यमनामयम्। समर्थः प्रशमं चैव कर्तुमर्हसि केशव॥ त्वमितः पुण्डरीकाक्ष सुयोधनममर्षणम्। शान्त्यर्थं भ्रातरंब्रूया यत् तद् वाच्यममित्रहन्॥ त्वया धर्मार्थयुक्तं चेदुक्तं शिवमनामयम्। हितं नादास्यते बालो दिष्टस्य वशमेष्यति॥ श्रीभगवानुवाच धर्म्यमस्मद्धितं चैव कुरूणां यदनामयम्। एष यास्यामि राजानं धृतराष्ट्रमभीप्सया॥ वैशम्पायन उवाच ततो व्यपेततमसि सूर्ये विमलवद्गते। मैत्रे मुहूर्ते सम्प्राप्ते मृदर्चिषि दिवाकरे॥ कौमुदे मासि रेवत्यां शरदन्ते हिमागमे। स्फीतसस्यसुखे काले कल्पः सत्त्ववतां वरः॥ मङ्गल्याः पुण्यनिर्घोषा वाचः शृण्वंश्च सूनृताः। ब्राह्मणानां प्रतीतानामृषीणामिव वासवः॥ कृत्वा पौर्वाह्निकं कृत्यं स्नातः शुचिरलंकृतः। उपतस्थे विवस्वन्तं पावकं च जनार्दनः॥ ऋषभं पृष्ठ आलभ्य ब्राह्मणानभिवाद्य च। अग्नि प्रदक्षिणं कृत्वा पश्यन् कल्याणमग्रतः॥ तत् प्रतिज्ञाय वचनं पाण्डवस्य जनार्दनः। शिने प्तारमासीनमभ्यभाषत सात्यकिम्॥ उपासंगाच शक्त्यश्च सर्वप्रहरणानि च॥ दुर्योधनश्च दुष्टात्मा कर्णश्च सहसौबलः। न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा॥ ततस्तन्मतमाज्ञाय केशवस्य पुरःसराः। प्रसस्रुर्योजयिष्यन्तो रथं चक्रगदाभृतः॥ तं दीप्तमिव कालाग्निमाकाशगमिवाशुगम्। सूर्यचन्द्रप्रकाशाभ्यां चक्राभ्यां समलंकृतम्॥ अर्धचन्दैश्च चन्द्रश्च मत्स्यैः समृगपक्षिभिः। पुष्पैश्च विविधैश्चित्रं मणिरत्नैश्च सर्वशः॥ तरुणादित्यसंकाशं बृहन्तं चारुदर्शनम्। मणिहेमविचित्राङ्गं सुध्वजं सुपताकिनम्॥ सूपस्करमनाधृष्यं वैयाघ्रपरिवारणम्। यशोघ्र प्रत्यमित्राणां यदूनां नन्दिवर्धनम्॥ वाजिभिः शैब्यसुग्रीवमेघपुष्पबलाहकैः। स्नातैः सम्पादयामासुः सम्पन्नैः सर्वसम्पदा॥ महिमानं तु कृष्णस्य भूय एवाभिवर्धयन्। सुघोषः पतगेन्द्रेण ध्वजेन युयुजे रथः॥ तं मेरुशिखरप्रख्यं मेघदुन्दुभिनिस्वनम्। आरुरोह रथं शौरिविमानमिव कामगम्॥ ततः सात्यकिमारोप्य प्रययौ पुरुषोत्तमः। पृथिवीं चान्तरिक्षं च रथघोषेण नादयन्॥ व्यपोढाभ्रस्ततः कालः क्षणेन समपद्यत। शिवश्चानुववौ वायुः प्रशान्तमभवद् रजः॥ प्रदक्षिणानुलोमाश्च मङ्गल्या मृगपक्षिणः। प्रयाणे वासुदेवस्य बभूवुरनुयायिनः॥ मङ्गल्यार्थप्रदैः शब्दैरन्ववर्तन्त सर्वशः। सारसाः शतपत्राश्च हंसाश्च मधुसूदनम्॥ मन्त्राहुतिमहाहोमैहूयमानश्च पावकः। प्रदक्षिणमुखो भूत्वा विधूमः समपद्यत॥ वसिष्ठो वामदेवश्च भूरिद्युम्नो गयः क्रथः। शुक्रनारदवाल्मीका मरुत्तः कुशिको भृगुः॥ देवब्रह्मर्षयश्चैव कृष्णं यदुसुखावहम्। प्रदक्षिणमवर्तन्त सहिता वासवानुजम्॥ एवमेतैर्महाभागैर्महर्षिगणसाधुभिः। पूजितः प्रययौ कृष्णः कुरूणां सदनं प्रति॥ तं प्रयान्तमनुप्रायात् कुन्तीपुत्रो युधिष्ठिरः। भीमसेनार्जुनौ चोभो माद्रीपुत्रौ च पाण्डवौ।॥ चेकितानश्च विक्रान्तो धृष्टकेतुश्च चेदिपः। दुपदः काशिराजश्च शिखण्डी च महारथः॥ धृष्टद्युम्नः सपुत्रश्च विराटः केकयैः सह। संसाधनार्थ प्रययुः क्षत्रियाः क्षत्रियर्षभ॥ ततोऽनुव्रज्य गोविन्दं धर्मराजो युधिष्ठिरः। राज्ञां सकाशे द्युतिमानुवाचेदं वचस्तदा॥ यो वै न कामान भयान्न लोभान्नार्थकारणात्। अन्यायमनुवर्तेत स्थिरबुद्धिरलोलुपः॥ धर्मज्ञो धृतिमान् प्राज्ञः सर्वभूतेषु केशवः। ईश्वरः सर्वभूतानां देवदेवः सनातनः॥ तं सर्वगुणसम्पन्न श्रीवत्सकृतलक्षणम्। सम्परिष्वज्य कौन्तेयः संदेष्टुमुपचक्रमे॥ युधिष्ठिर उवाच या सा बाल्यात् प्रभृत्यस्मान् पर्यवर्धयताबला। उपवासतप:शीला सदा स्वस्त्ययने रता॥ देवतातिथिपूजासु गुरुशुश्रूषणे रता। वत्सला प्रियपुत्रा च प्रियास्माकं जनार्दन॥ सुयोधनभयाद् या नोऽत्रायतामित्रकर्शन। महतो मृत्युसम्बाधादुद्धरेनौरिवार्णवात्॥ अस्मत्कृते च सततं यया दुःखानि माधव। अनुभूतान्यदुःखार्हाः तां स्म पृच्छेरनामयम्॥ भृशमाश्वासयेश्चैनां पुत्रशोकपरिप्लुताम्। अभिवाद्य स्वजेथास्त्वं पाण्डवान् परिकीर्तयन्॥ ऊढात् प्रभृति दुःखानि श्वसुराणामरिंदम। निकारानतदर्हा च पश्यन्ती दुःखमश्नुते॥ अपि जातु स काल: स्यात् कृष्ण दुःखविपर्ययः। यदहं मातरं क्लिष्टा सुखं दद्यामरिंदम॥ प्रव्रजन्तोऽनुधावन्तीं कृपणां पुत्रगृद्धिनीम्। रुदतीमुपहायैनामगच्छाम वयं वनम्॥ न नूनं म्रियते दुःखैः सा चेज्जीवति केशव। तथा पुत्रादिभिर्गाढमार्ता ह्यानर्तसत्कृत॥ अभिवाद्याथ सा कृष्ण त्वया मद्वचनाद् विभो। धृतराष्ट्रश्च कौरव्यौ राजानश्च वयोऽधिकाः॥ भीष्मं द्रोणं कृपं चैव महाराजं च बाह्निकम्। द्रौणिं च सोमदत्तं च सर्वांश्च भरतान् प्रति॥ विदुरं च महाप्राज्ञं कुरूणां मन्त्रधारिणम्। अगाधबुद्धिं मर्मज्ञं स्वजेथा मधुसूदन॥ इत्युक्त्वा केशवं तत्र राजमध्ये युधिष्ठिरः। अनुज्ञातो निववृते कृष्णां कृत्वा प्रदक्षिणम्॥ व्रजन्नेव तु बीभत्सुः सखायं पुरुषर्षभम्। अब्रवीत् परवीरनं दाशार्हमपराजितम्॥ यदस्माकं विभो वृत्तं पुरा वै मन्त्रनिश्चये। अर्धराज्यस्य गोविन्द विदितं सर्वराजसु॥ तच्चेद् दद्यादसंगेन सत्कृत्यानवमन्य च। प्रियं मे स्यान्महाबाहो मुच्येरन् महतो भयात्॥ अतश्चेदन्यथा कर्ता धार्तराष्ट्रोऽनुपायवित्। अन्तं नूनं करिष्यामि क्षत्रियाणां जनार्दन॥ वैशम्पायन उवाच एवमुक्ते पाण्डवेन समहृष्यद् वृकोदरः। मुहुर्मुहुः क्रोधवशात् प्रावेपत च पाण्डवः॥ वेपमानश्च कौन्तेयः प्राक्रोशन्महतो रवान्। धनंजयवचः श्रुत्वा हर्षोत्सिक्तमना भृशम्॥ तस्य तं निनदं श्रुत्वा सम्प्रावेपन्त धन्विनः। वाहनानि च सर्वाणि शकृन्मूत्रे प्रसुस्रुवुः॥ इत्युक्त्वा केशवं तत्र तथा चोक्त्वा विनिश्चयम्। अनुज्ञातो निववृते परिष्वज्य जनार्दनम्॥ तेषु राजसु सर्वेषु निवृत्तेषु जनार्दनः। तूर्णमभ्यगमद्धृष्टः शैव्यसुग्रीववाहनः॥ ते हया वासुदेवस्य दारुकेण दारुकेण प्रचोदिताः। पन्थानमाचेमुरिव ग्रसमाना इवाम्बरम्॥ अथापश्यन्महावाहुर्ऋषीनध्वनि केशवः। ब्राह्मया श्रिया दीप्यमानान् स्थितानुभयतः पथि॥ सोऽवतीर्य स्थात् तूर्णमभिवाद्य जनार्दनः। यथावृत्तानृषीन् सर्वानभ्यभाषत पूजयन्॥ कच्चिल्लोकेषु कुशलं कच्चिद् धर्मः स्वनुष्ठितः। ब्राह्मणानां त्रयो वर्णाः कच्चित् तिष्ठन्ति शासने॥ तेभ्यः प्रयुज्य तां पूजां प्रोवाच मधुसूदनः। भगवन्तः क्व संसिद्धाः का वीथी भवतामिह॥ किं वा कार्यं भगवतामहं किं करवाणि वः। केनार्थेनोपसम्प्राप्ता भगवन्तो महीतलम्॥ तमब्रवीज्जामदग्न्य उपेत्य मधुसूदनम्। परिष्वज्य च गोविन्दं सुरासुरपतेः सखा।॥ देवर्षयः पुण्यकृतो ब्राह्मणाश्च बहुश्रुताः। राजर्षयश्च दाशार्ह मानयन्तस्तपस्विनः। देवासुरस्य द्रष्टारः पुराणस्य महामते॥ समेतं पार्थिवं क्षत्रं दिदृक्षन्तश्च सर्वतः। सभासदश्च राजानस्त्वां च सत्यं जनार्दनम्॥ एतन्महत् प्रेक्षणीयं द्रष्टुं गच्छाम केशव। धर्मार्थसहिता वाचः श्रोतुमिच्छाम माधव॥ त्वयोच्यमानाः कुरुषु राजमध्ये परंतप। भीष्मद्रोणादयश्चैव विदुरश्च महामतिः॥ त्वं च यादवशार्दूल सभायां वै समेष्यथ। तव वाक्यानि दिव्यानि तथा तेषां च माधव॥ श्रोतुमिच्छाम गोविन्द सत्यानि च हितानि च। आपृष्टोऽसि महाबाहो पुनर्चक्ष्यामहे वयम्॥ याह्यविन्नेन वै वीर द्रक्ष्यामस्त्वां समागतम्। आसीनमासने दिव्ये बलतेज:समाहितम्॥ वैशम्पायन उवाच तथा दूतैः समाज्ञाय प्रयान्तं मधुसूदनम्। धृतराष्ट्रोऽब्रवीद् भीष्ममर्चयित्वा महाभुजम्॥ द्रोणं च संजयं चैव विदुरं च महामतिम्। दुर्योधनं सहामात्यं हृष्टरोमाब्रवीदिदम्॥ अद्भुतं महदाश्चर्यं श्रूयते कुरुनन्दन। स्त्रियो बालाश्च वृद्धाश्च कथयन्ति गृहे गृहे॥ सत्कृत्याचक्षते चान्ये तथैवान्ये समागताः। पृथग्वादाश्च वर्तन्ते चत्वरेषु सभासु च॥ उपायास्यति दाशार्हः पाण्डवार्थं पराक्रमी। स नो मान्यश्च पूज्यश्च सर्वथा मधुसूदनः॥ तस्मिन् हि यात्रा लोकस्य भूतानामीश्वरो हि सः। तस्मिन् धृतिश्च वीर्यं च प्रज्ञा चौजश्च माधवे॥ स मान्यता नरश्रेष्ठः स हि धर्मः सनातनः। पूजितो हि सुखाय स्यादसुखः स्यादपूजितः॥ स चेत् तुष्यति दाशार्ह उपचारैररिंदमः। कृष्णात् सर्वानभिप्रायान् प्राप्स्यामः सर्वराजसु॥ तस्य पूजार्थमद्यैव संविधत्स्व परंतप। सभाः पथि विधीयन्तां सर्वकामसमन्विताः॥ यथा प्रीतिर्महाबाहो त्वयि जायेत तस्य वै। तथा कुरुष्व गान्धारे कथं वा भीष्म मन्यसे॥१० ततो भीष्मादयः सर्वे धृतराष्ट्र जनाधिपम्। ऊचुः परममित्येवं पूजयन्तोऽस्य तद् वचः॥ तेषामनुमतं ज्ञात्वा राजा दुर्योधनस्तदा। सभावास्तूनि रम्याणि प्रदेष्टुमुपचक्रमे॥ ततो देशेषु देशेषु रमणीयेषु भागशः। सर्वरत्नसमाकीर्णा: सभाश्चक्रुरनेकशः॥ आसनानि विचित्राणि युतानि विविधैर्गुणैः। स्त्रियो गन्धानलंकारान् सूक्ष्माणि वसनानि च॥ गुणवन्त्यन्नपानानि भोज्यानि विविधानि च। माल्यानि च सुगन्धीनि तानि राजा ददौ ततः॥ विशेषतश्च वासार्थं सभां ग्रामे वृकस्थले। विदधे कौरवो राजा बहुरत्नां मनोरमाम्॥ एतद् विधाय वै सर्वं देवाहमतिमानुषम्। आचख्यौ धृतराष्ट्राय राजा दुर्योधनस्तदा।॥ ता: सभाः केशवः सर्वा रत्नानि विविधानि च। असमीक्ष्यैव दाशार्ह उपायात् कुरुसद्म तत्॥ धृतराष्ट्र उवाच उपप्लव्यादिह क्षत्तरुपायातो जनार्दनः। वृकस्थले निवसति स च प्रातरिहैष्यति॥ आहुकानामधिपतिः पुरोगः सर्वसात्वताम्। महामना महावीर्यो महासत्त्वो जनार्दनः॥ स्फीतस्य वृष्णिराष्ट्रस्य भर्ता गोप्ता च माधवः। त्रयाणामपि लोकानां भगवान् प्रपितामहः॥ वृष्ण्यन्धकाः सुमनसो यस्य प्रज्ञामुपासते। आदित्या वसवो रुद्रा यथा बुद्धिं बृहस्पतेः॥ तस्मै पूजां प्रयोक्ष्यामि दाशार्हाय महात्मने। प्रत्यक्षं तव धर्मज्ञ तां मे कथयतः शृणु॥ एकवर्गः सुक्लृप्तार्बाह्निजातैहयोत्तमैः। चतुर्युक्तान् रथांस्तस्मैरौक्मान् दास्यामिषोडश॥ नित्यप्रभिन्नान् मातङ्गानीषादन्तान् प्रहारिणः। अष्टानुचरमेकैकमष्टौ दास्यामि कौरव॥ दासीनामप्रजातानां शुभानां रुक्मवर्चसाम्। शतमस्मै प्रदास्यामि दासानामपि तावताम्॥ आविकं च सुखस्पर्श पार्वतीयैरुपाहृतम्। तदप्यस्मै प्रदास्यामि सहस्राणि दशाष्ट च॥ अजिनानां सहस्राणि चीनदेशोद्भवानि च। तान्यप्यस्मै प्रदास्यामि यावदर्हति केशवः॥ दिवा रात्रौ च भात्येष सुतेजा विमलो मणिः। तमप्यस्मै प्रदास्यामि तमर्हति हि केशवः॥ एकनाभिपतत्यह्रा योजनानि चतुर्दश। यानमश्वतरीयुक्तं दास्ये तस्मै तदप्यहम्॥ यावन्ति वाहनान्यस्य यावन्तः पुरुषाश्च ते। ततोऽष्टगुणमप्यस्मै भोज्यं दास्याम्यहं सदा॥ मम पुत्राश्च पौत्राश्च सर्वे दुर्योधनादृते। प्रत्युद्यास्यन्ति दाशार्ह रथैर्पष्टैः स्वलंकृताः॥ स्वलंकृताश्च कल्याण्यः पादैरेव सहस्रशः। वारमुख्या महाभागं प्रत्युद्यास्यन्ति केशवम्॥ नगरादपि याः काश्चिद् गमिष्यन्ति जनार्दनम्। द्रष्टुं कन्याश्च कल्याणयस्ताश्च यास्यन्त्यनावृताः॥ सस्त्रीपुरुषबालं च नगरं मधुसूदनम्। उदीक्षतां महात्मानं भानुमन्तमिव प्रजाः॥ महाध्वजपताकाश्च क्रियन्तां सर्वतो दिशः। जलावसिक्तो विरजाः पन्थास्तस्येति चान्वशात्॥ दुःशासनस्य च गृहं दुर्योधनगृहाद् वरम्। तदद्य क्रियतां क्षिप्रं सुसम्पृष्टमलंकृतम्॥ एतद्धि रुचिराकारैः प्रासादैरुपशोभितम्। शिवं च रमणीयं च सर्वर्तुसुमहाधनम्॥ सर्वमस्मिन् गृहे रत्नं मम दुर्योधनस्य च। यद् यदर्हति वार्ष्णेयस्तत् तद् देयमसंशयम्॥ विदुर उवाच राजन् बहुतमश्चासि त्रैलोक्यस्यापि सत्तमः। सम्भावितश्च लोकस्य सम्मतश्चासि भारत॥ यत् त्वमेवंगते ब्रूयाः पश्चिमे वयसि स्थितः। शास्त्राद् वा सुप्रतर्काद् वा सुस्थिरः स्थविरोह्यसि॥ लेखा शशिनि भा: सूर्ये महोर्मिरिव सागरे। धर्मस्त्वयि तथा राजनिति व्यवसिताः प्रजाः॥ सदैव भावितो लोको गुणौघेस्तव पार्थिव। गुणानां रक्षणे नित्यं प्रयतस्व सबान्धवः॥ आर्जवं प्रतिपद्यस्व मा बाल्याद् बहु नीनशः। राजन् पुत्रांश्च पौत्राश्च सुहृदश्चैव सुप्रियान्॥ यत् त्वमिच्छसि कृष्णाय राजन्नतिथये बहु। एतदन्यश्च दाशार्हः पृथिवीमपि चार्हति॥ न तु त्वं धर्ममुद्दिश्य तस्य वा प्रियकारणात्। एतद् दित्ससि कृष्णाय सत्येनात्मानमालभे॥ मायैषा सत्यमेवैतच्छौतद् भूरिदक्षिण। जानामि त्वन्मतं राजन् गूढं बाह्येन कर्मणा॥ पञ्च पञ्चैव लिप्सन्ति ग्रामकान् पाण्डवा नृप। न च दित्ससि तेभ्यस्तांस्तच्छा न करिष्यसि॥ अर्थेन तु महाबाहुं वार्ष्णेयं त्वं जिहीर्षसि। अनेन चाप्युपायेन पाण्डवेभ्यो विभेत्स्यसि॥ न च वित्तेन शक्योऽसौ नोद्यमेन न गर्हया। अन्यो धनंजयात् कर्तुमेतत् तत्त्वं ब्रवीमि ते॥ वेद कृष्णस्य माहात्म्यं वेदास्य दृढभक्तिताम्। अत्याज्ययस्य जानामि प्राणैस्तुल्यं धनंजयम्॥ अन्यत् कुम्भादपां पूर्णादन्यत् पादावसेचनात्। अन्यत् कुशलम्प्रश्नान्नैवेक्ष्यति जनार्दनः॥ यत् त्वस्य प्रियमातिथ्यं मानार्हस्य महात्मनः। तदस्मै क्रियतां राजन् मानार्होऽसौ जनार्दनः॥ आशंसमानः कल्याणं कुरूनभ्येति केशवः। येनैव राजन्नर्थेन तदेवास्मा उपाकुरु॥ शममिच्छति दाशार्हस्तव दुर्योधनस्य च। पाण्डवानां च राजेन्द्र तदस्य वचनं कुरु॥ पितासि राजन् पुत्रास्ते वृद्धस्त्वं शिशवः परे। वर्तस्व पितृवत् तेषु वर्तन्ते ते हि पुत्रवत्॥ दुर्योधन उवाच यदाह विदुरः कृष्णे सर्वं तत् सत्यमच्युते। अनुरक्तो ह्यसंहार्यः पार्थान् प्रति जनार्दनः॥ यत् तत् सत्कारसंयुक्तं देयं वसु जनार्दने। अनेकरूपं राजेन्द्र न तद् देयं कदाचन॥ देशः कालस्तथाऽयुक्तो न हि नार्हति केशवः। मंस्यत्यधोक्षजो राजन् भयादर्चति मामिति॥ अवमानश्च यत्र स्यात् क्षत्रियस्य विशाम्पते। न तत् कुर्याद् बुधः कार्यमिति मे निश्चिता मतिः॥ स हि पूज्यतमो लोके कृष्णः पृथुललोचनः। त्रयाणामपि लोकानां विदितं मम सर्वथा॥ न तु तस्मै प्रदेयं स्यात् तथा कार्यगतिः प्रभो। विग्रहः समुपारब्धो न हि शाम्यत्यविग्रहात्॥ वैशम्पायन उवाच तस्य तद् वचनं श्रुत्वा भीष्मः कुरुपितामहः। वैचित्रवीर्यं राजानमिदं वचनमब्रवीत्॥ सत्कृतोऽसत्कृतो वापि न क्रुद्ध्येत जनार्दनः। नालमेनमवज्ञातुं नावज्ञेयो हि केशवः॥ यत् तु कारयं महाबाहो मनसा कार्यतां गतम्। सर्वोपायैर्न तच्छक्यं केनचित् कर्तुमन्यथा॥ स यद् ब्रूयान्महाबाहुस्तत कार्यमविशङ्कया। वासुदेवेन तीर्थेन क्षिप्रं संशाम्य पाण्डवैः॥ धर्म्यमर्थ्यं च धर्मात्मा ध्रुवं वक्ता जनार्दनः। तस्मिन् वाच्याः प्रिया वाचो भवता बान्धवैः सह।॥ दुर्योधन उवाच न पर्यायोऽस्ति यद् राजश्रियं निष्केवलामहम्। तैः सहेमामुपाश्नीयां यावज्जीवं पितामह॥ इदं तु सुमहत् कार्यं शृणु मे यत् समर्थितम्। परायणं पाण्डवानां नियच्छामि जनार्दनम्॥ तस्मिन् बद्धे भविष्यन्ति वृष्णयः पृथिवी तथा। पाण्डवाश्च विधेया मे स च प्रातरिहैष्यति॥ अत्रोपायान् यथा सम्यगन बुद्ध्येत जनार्दनः। न चापायो भवेत् कश्चित् तद् भवान् प्रब्रवीतु मे॥ वैशम्पायन उवाच तस्य तद् वचनं श्रुत्वा घोरं कृष्णाभिसंहितम्। धृतराष्ट्रः सहामात्यो व्यथितो विमनाऽभवत्॥ ततो दुर्योधनमिदं धृतराष्ट्रोऽब्रवीद् वचः। मैवं वोचः प्रजापाल नैष धर्मः सनातनः॥ दूतश्च हि हृषीकेशः सम्बन्धी च प्रियश्च नः। अपापः कौरवेयेषु स कथं बन्धमर्हति॥ भीष्म उवाच परीतस्तव पुत्रोऽयं धृतराष्ट्र सुमन्दधीः।। वृणोत्यनर्थं नैवार्थं याच्यमानः सुहृज्जनैः॥ इममुत्पथि वर्तन्तं पापं पापानुबन्धिनम्। वाक्यानि सुहृदां हित्वा त्वमप्यस्यानुवर्तसे॥ कृष्णमक्लिष्टकर्माणमासाद्यायं सुदुर्मतिः। तव पुत्रः सहामात्यः क्षणेन न भविष्यति॥ पापस्यास्य नृशंसस्य त्यक्तधर्मस्य दुर्मतेः। नोत्सहेऽनर्थसंयुक्ताः श्रोतुं वाचः कथंचन॥ इत्युक्त्वा भरतश्रेष्ठो वृद्धः परममन्युमान्। उत्थाय तस्मात् प्रातिष्ठद् भीष्मः सत्यपराक्रमः॥ वैशम्पायन उवाच अथोपगम्य विदुरमपराह्ने जनार्दनः। पितृष्वसारं स पृथामभ्यगच्छदरिंदमः॥ सा दृष्ट्वा कृष्णमायान्तं प्रसन्नादित्यवर्चसम्। कण्ठे गृहीत्वा प्राक्रोशत् स्मरन्ती तनयान् पृथा॥ तेषां सत्त्ववतां मध्ये गोविन्दं सहचारिणम्। चिरस्य दृष्ट्वा वार्ष्णेयं बाष्पमाहारयत् पृथा॥ साब्रवीत् कृष्णमासीनं कृतातिथ्यं युधां पतिम्। बाष्पगद्गदपूर्णेन मुखेन परिशुष्यता॥ ये ते बाल्यात् प्रभृत्येव गुरुशुश्रूषणे रताः। परस्परस्य सुहृदः सम्मताः समचेतसः। निकृत्या भ्रंशिता राज्याज्जनार्हा निर्जनं गताः॥ विनीतक्रोधहर्षाश्च ब्रह्मण्याः सत्यवादिनः। त्यक्त्वा प्रियसुखे पार्था रुदतीमपहाय माम्॥ अहापुंश्च वनं यान्तः समूलं हृदयं मम। अतदर्हा महात्मानः कथं केशवं पाण्डवाः॥ ऊषुर्महावने तात सिंहव्याघ्रगजाकुले। बाला विहीनाः पित्रा ते मया सततलालिताः॥ अपश्यन्तश्च पितरौ कथमूषुर्महावने। शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गैर्वेणुनिःस्वनैः॥ पाण्डवाः समबोध्यन्त बाल्यात् प्रभृति केशव। ये स्म वारणशब्देन हयानां हेषितेन च॥ रथनेमिनिनादैश्च व्यबोध्यन्त तदा गृहे। शङ्खभेरीनिनादेन वेणुवीणानुनादिना॥ पुण्याहघोषमिश्रेण पूज्यमाना द्विजातिभिः। वस्त्रै रत्नैरलंकारैः पूजयन्तो द्विजन्मनः॥ गीर्भिर्मङ्गलयुक्ताभिर्ब्राह्मणानां महात्मनाम्। अर्चितैरर्चनाहश्च स्तुवद्भिरभिनन्दिताः॥ प्रासादाचेष्वबोध्यन्त राङ्कवाजिनशायिनः। क्रूरं च निनदं श्रुत्वा श्वापदानां महावने॥ न स्मोपयान्ति निद्रां ते न तदर्हा जनार्दन। भेरीमृदङ्गनिनदैः शङ्खवैणवनिस्वनैः॥ स्त्रीणां गीतनिनादैश्च मधुरैर्मधुसूदन्। वन्दिमागधसूतैश्च स्तुवद्भिबौधिताः कथम्॥ महावनेष्वबोध्यन्त श्वापदानां रुतेन च। ह्रीमान् सत्यधृतिर्दान्तो भूतानामनुकम्पिता॥ कामद्वेषो वशे कृत्वा सतां वानुवर्तते। अम्बरीषस्य मान्धातुर्ययातेर्नहुषस्य च॥ भरतस्य दिलीपस्य शिबेरौशीनरस्य च। राजर्षीणां पुराणानां धुरं धत्ते दुरुद्वहाम्॥ शीलवृत्तोपसम्पन्नो धर्मज्ञः सत्यसंगरः। राजा सर्वगुणोपेतस्त्रैलोक्यस्यापि यो भवेत्॥ अजातशत्रुर्धर्मात्मा शुद्धजाम्बूनदप्रभः। श्रेष्ठः कुरुषु सर्वेषु धर्मतः श्रुतवृत्ततः। प्रियदशों दीर्घभुजः कथं कृष्ण युधिष्ठिरः॥ यः स नागायुतप्राणो वातरंहा महाबलः। सामर्षः पाण्डवो नित्यं प्रियो भ्रातुः प्रियंकरः॥ कीचकस्य तु सज्ञातेर्यो हन्ता मधुसूदन। शूरः क्रोधवशानां च हिडिम्बस्य बकस्य च॥ पराक्रमे शक्रसमो मातरिश्वसमो बले। महेश्वरसमः क्रोधे भीमः प्रहरतां वरः॥ क्रोधं बलममर्षं च यो निधाय परंतपः। जितात्मा पाण्डवोऽमर्षी भ्रातुस्तिष्ठति शासने॥ तेजोराशिं महात्मानं वरिष्ठममितौजसम्। भीमं प्रदर्शनेनापि भीमसेन जनार्दनम्॥ तं ममाचक्ष्व वार्ष्णेय कथमद्य वृकोदरः। आस्ते परिघबाहुः स मध्यमः पाण्डवो बली॥ अर्जुनेनार्जुनो यः स कृष्ण बाहुसहस्रिणा। द्विबाहुः स्पर्धते नित्यमतीतेनापि केशव॥ क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः। इष्वस्त्रे सदृशो राज्ञः कार्तवीर्यस्य पाण्डवः॥ तेजसाऽऽदित्यसदृशो महर्षिसदृशो दमे। क्षमया पृथिवीतुल्यो महेन्द्रसमविक्रमः॥ आधिराज्यं महद् दीप्तं प्रथितं मधुसूदन। आहृतं येन वीर्येण कुरूणां सर्वराजसु॥ यस्य बाहुबलं सर्वे पाण्डवाः पर्युपासते। स सर्वरथिनां श्रेष्ठः पाण्डवः सत्यविक्रमः॥ यं गत्वाऽभिमुखः संख्ये न जीवन् कश्चिदाव्रजेत्। यो जेता सर्वभूतानामजेयो जिष्णुरच्युत।॥ योऽपाश्रयः पाण्डवानां देवानामिव वासवः। स ते भ्राता सखा चैव कथमद्य धनंजयः॥ दयावान् सर्वभूतेषु ह्रीनिषेवो महास्त्रवित्। मृदुश्च सुकुमारश्च धार्मिकश्च प्रियश्च मे॥ सहदेवो महेष्वासः शूरः समिति शोभनः। भ्रातृणां कृष्ण शुश्रूषुधर्मार्थकुशलो युवा॥ सदैव सहदेवस्य भ्रातरो मधुसूदन। वृत्तं कल्याणवृत्तस्य पूजयन्ति महात्मनः॥ ज्येष्ठोपचायिन वीरं सहदेवं युधां पतिम्। शुश्रूषु मम वार्ष्णेय माद्रीपुत्रं प्रचक्ष्व मे॥ सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः भ्रातृणां चैव सर्वेषां प्रियः प्राणो बहिश्चरः॥ चित्रयोधी च नकुलो महेष्वासो महाबलः। कच्चित् सकुशली कृष्ण वत्सो मम सुखैधितः॥ सुखोचितमदुःखार्ह सुकुमारं महारथम्। अपि जातु महाबाहो पश्येयं नकुलं पुनः॥ पक्ष्मसम्पातजे काले नकुलेन विनाकृता। न लभामि धृति वीर साद्य जीवामि पश्यमाम्॥ सर्वैः पुत्रैः प्रियतरा द्रौपदी मे जनार्दन। कुलीना रूपसप्पन्ना सर्वैः समुदिता गुणैः॥ पुत्रलोकात् पतिलोकं वृण्वानां सत्यवादिनी। प्रियान् पुत्रान् परित्यज्य पाण्डवाननुरुध्यते॥ महाजिनसम्पन्ना सर्वकामैः सुपूजिता। ईश्वरी सर्वकल्याणी द्रौपदी कथमच्युत॥ पतिभिः पञ्चभिः शूरैरग्निकल्पैः प्रहारिभिः। उपपन्ना महेष्वासैद्रौपदी दुःखभागिनी॥ चतुर्दशमिदं वर्ष यन्नापश्यमरिंदम। पुत्रादिभिः परियूनां द्रौपदी सत्यवादिनीम्॥ न नूनं कर्मभिः पुण्यैरश्नुते पुरुषः सुखम्। द्रौपदी चेत् तथावृत्ता नाश्नुते सुखमव्ययम्॥ न प्रियो मम कृष्णाया बीभत्सुर्न युधिष्ठिरः। भीमसेनो यमौ वापि यदपश्यं सभागताम्॥ न मे दुःखतरं किंचिद् भूतपूर्वं ततोऽधिकम्। स्त्रीधर्मिणी द्रौपदी यच्छ्वशुराणां समीपगाम्॥ आनायितामनार्येण क्रोधलोभानुवर्तिना। सर्वे प्रेक्षन्त कुरव एकवस्त्रा सभागताम्॥ तत्रैव धृतराष्ट्रश्च महाराजश्च बाह्निकः। कृपश्च सोमदत्तश्च निर्विण्णाः कुरवस्तथा॥ तस्यां संसदि सर्वेषां क्षत्तारं पूजयाम्यहम्। वृत्तेन हि भवत्यार्यो न धनेन न विद्यया॥ तस्य कृष्ण महाबुद्धेर्गम्भीरस्य महात्मनः। क्षत्तुः शीलमलंकारो लोकान् विष्टभ्य तिष्ठति॥ वैशम्पायन उवाच सा शोकार्ता च हृष्टा च दृष्ट्वा गोविन्दमागतम्। नानाविधानि दुःखानि सर्वाण्येवान्वकीर्तयत्॥ पूर्वैराचरितं यत् तत् कुराजभिररिंदमा अक्षयूतं मृगवधः कच्चिदेषां सुखावहम्॥ तन्मां दहति यत् कृष्णा सभायां कुरुसंनिधौ। धाष्ट्रैिः परिक्लिष्टा यथा न कुशलं तथा॥ निर्वासनं च नगरात् प्रव्रज्या च परंतप। नानाविधानां दुःखानामभिज्ञास्मि जनार्दन॥ अज्ञातचर्या बालानामवरोधश्च माधवा न मे क्लेशतमं तत् स्यात् पुत्रैः सह परंतप॥ दुर्योधनेन निकृता वर्षमद्य चतुर्दशम्। दुःखादपि सुखं नः स्याद् यदि पुण्यफलक्षयः॥ न मे विषेषो जात्वासीत् धार्तराष्ट्रेषु पाण्डवैः तेन सत्येन कृष्ण त्वां हतामित्रं श्रिया वृतम्। अस्माद् विमुक्तं संग्रामात् पश्येयं पाण्डवैः सह॥६शा नैव शक्याः पराजेतुं सर्वं ह्येषां तथाविधम्। पितरं त्वेव गर्हेयं नात्मानं न सुयोधनम्॥ येनाहं कुन्तिभोजाय धनं वृत्तैरिवार्पिता। बालां मामार्यकस्तुभ्यं क्रीडन्ती कन्दुहस्तिकाम्॥ अदात् तु कुन्तिभोजाय सखा सख्ये महात्मने। साऽहं पित्रा च निकृता श्वशुरैश्च परंतप। अत्यन्तदुःखिता कृष्ण किं जीवितफलं मम॥ यन्मां वागनवीनक्तं सूतके सव्यसाचिनः। पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवं स्पृशेत्॥ हत्वा कुरून् महाजन्ये राज्यं प्राप्य धनंजयः। भ्रातृभिः सह कौन्तेयस्त्रीन् मेधानाहरिष्यति॥ नाहं तामभ्यसूयामि नमो धर्माय वेधसे। कृष्णाय महते नित्यं धर्मो धारयति प्रजाः॥ धर्मश्चेदस्ति वार्ष्णेय यथा वागभ्यभाषता त्वं चापि तत् तथा कृष्ण सर्वं सम्पादयिष्यसि॥ न मां माधव वैधव्यं नार्थनाशो न वैरता। तथा शोकाय दहति यथा पुत्रैर्विनाभवः॥ याऽहं गाण्डीवधन्वानं सर्वशस्त्रभृतां वरम्। धनंजयं न पश्यामि का शान्तिर्हदयस्य मे॥ इतश्चतुर्दशं वर्ष यन्नापश्यं युधिष्ठिरम्। धनंजयं च गोविन्द यमौ तं च वृकोदरम्॥ जीवनाशं प्रनष्टानां श्राद्धं कुर्वन्ति मानवाः। अर्थतस्ते मम मृतास्तेषां चाहं जनार्दन॥ ब्रूया माधव राजानं धर्मात्मानं युधिष्ठिरम्। भूयास्ते हीयते धर्मो मा पुत्रक वृथा कृथाः॥ पराश्रया वासुदेव या जीवति धिगस्तु ताम्। वृत्तेः कार्पण्यलध्याया अप्रतिष्ठेव ज्यायसी॥ अथो धनंजयं ब्रूया नित्योद्युक्तं वृकोदरम्। यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः॥ अस्मिश्चेदागते काले मिथ्या चातिक्रमिष्यति। लोकसम्भाविता: सन्तः सुनृशंसं करिष्यथ॥ नृशंसेन च वो युक्तांस्त्यजेयं शाश्वतीः समाः। काले हि समनुप्राप्ते त्यक्तव्यमपि जीवनम्॥ पाद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरतौ सदा। विक्रमेणार्जितान् भोगान् वृणीतं जीवितादपि॥ विक्रमाधिगता हार्थाः क्षत्रधर्मेण जीवतः। मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तमः॥ गत्वा ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम्। अर्जुनं पाण्डवं वीरं द्रौपद्याः पदवीं चर॥ विदितौ हि तवात्यन्तं क्रुद्धौ तौ तु यथान्तकौ। भीमार्जुनौ नयेतां हि देवानपि परां गतिम्॥ तयोश्चैतदवज्ञानं यत् सा कृष्णा सभां गता। दुःशासनश्च कर्णश्च परुषाण्यभ्यभाषताम्॥ दुर्योधनो भीमसेनमभ्यगच्छन्मनस्विनम्। पश्यतां कुरुमुख्यानां तस्य द्रक्ष्यति यत् फलम्॥ न हि वैरं समासाद्य प्रशाम्यति वृकोदरः। सुचिरादपि भीमस्य न हि वैरं प्रशाम्यति। यावदन्तं न नयति शात्रवाञ्छत्रुकर्शनः॥ न दुःखं राज्यहरणं न च द्यूते पराजयः। प्रव्राजनं तु पुत्राणां न मे तद् दुःखकारणम्॥ यत् तु सा बृहती श्यामा एकवस्त्रा सभां गता। अशृणोत् परुषा वाचः किं न दुःखतरं ततः॥ स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा। नाभ्यगच्छत् तदा नाथं कृष्णा नाथवती सती॥ यस्मा मम सपुत्रायास्त्वं नाथो मधुसूदन। रामश्च बलिनां श्रेष्ठः प्रद्युम्नश्च महारथः॥ साऽहमेवंविधं दुःखं सहेऽद्य पुरुषोत्तम। भीमे जीवति दुर्धर्षे विजये चापलायिनि॥ वैशम्पायन उवाच तत आश्वासयामास पुत्राधिभिरभिप्लुताम्। पितृष्वसारं शोचन्ती शौरिः पार्थसखः पृथाम्॥ वासुदेव उवाच का तु सीमन्तिनी त्वादृक् लोकेष्वस्ति पितृष्वसः। शूरस्य राज्ञो दुहिता आजमीढकुलं गता।॥ महाकुलीना भवती ह्रदाद्धदमिवागता। ईश्वरी सर्वकल्याणी भा परमपूजिता॥ वीरसूर्वीरपत्नी त्वं सर्वैः समुदिता गुणैः। सुखदुःखे महाप्राज्ञे त्वादृशी सोढुमर्हति॥ निद्रातन्द्रे क्रोधहर्षों क्षुत्पिपासे हिमातपौ। एतानि पार्था निर्जित्य नित्यं वीरसुखे रताः॥ त्यक्तग्राम्यसुखाः पार्था नित्यं वीरसुखप्रियाः। न तु स्वल्पेन तुष्येयुर्महोत्साहा महाबलाः॥ अन्तं धीरा निषेवन्ते मध्यं ग्राम्यसुखप्रियाः। उत्तमांश्च परिक्लेशान् भोगांश्चातीव मानुषान्॥ अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे। अन्तप्राप्ति सुखामा हुर्दुःखमन्तरमेतयोः॥ अभिवादयन्ति भवर्ती पाण्डवाः सह कृष्णया। आत्मानं च कुशलिनं निवेद्याहुरनामयम्॥ अरोगान् सर्वसिद्धार्थान् क्षिप्रं द्रक्ष्यसि पाण्डवान्। ईश्वरान् सर्वलोकस्य हतामित्राश्रिया वृतान्॥ एवमाश्वासिता कुन्ती प्रत्युवाच जनार्दनम्। पुत्रादिभिरभिध्वस्ता निगृह्याबुद्धिजं तमः॥१००। कृन्त्युवाच यद् यत् तेषां महाबाहो पथ्यं स्यान्मधुसूदन। यथा यथा त्वं मन्येथाः कुर्याः कृष्ण तथा तथा॥ अविलोपेन धर्मस्य अनिकृत्या परंतप। प्रभावज्ञास्मि ते कृष्ण सत्यस्याभिजनस्य च॥ व्यवस्थायां च मित्रेषु बुद्धिविक्रमयोस्तथा। त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं तपो महत्॥ त्वं त्राता त्वं महद् ब्रह्म त्वयि सर्वं प्रतिष्ठितम्। यथैवात्य तथैवैतत् त्वयि सत्यं भविष्यति॥ वैशम्पायन उवाच तामामन्त्र्य च गोविन्दः कृत्वा चाभिप्रदक्षिणम्। प्रातिष्ठत महाबाहुर्दुर्योधनगृहान् प्रति॥ वैशम्पायन उवाच पृथामामन्त्र्य गोविन्दः कृत्वा चाभिप्रदक्षिणम्। दुर्योधनगृहं शौरिरभ्यगच्छदरिंदमः॥ लक्ष्या परमया युक्तं पुरन्दरगृहोपमम्। विचित्रैरासनैर्युक्तं प्रविवेश जनार्दनः॥ तस्य कक्ष्या व्यतिक्रम्य तिस्रो द्वा:स्थैरवारितः। ततोऽभ्रघनसंकाशां गिरिकूटमिवोच्छ्रितम्॥ श्रिया ज्वलन्तं प्रासादमारुरोह महायशाः। तत्र राजसहस्त्रैश्च कुरुभिश्चाभिसंवृतम्॥ धार्तराष्ट्र महाबाहुं ददर्शासीनमासने। दुःशासनं च कर्णं च शकुनि चापि सौबलम्॥ दुर्योधनसमीपे तानासनस्थान् ददर्श सः। अभ्यागच्छति दाशार्हे धार्तराष्ट्रो महायशाः॥ उदतिष्ठत् सहामात्यः पूजयन् मधुसूदनम्। समेत्य धार्तराष्ट्रेण सहामात्येन केशवः॥ राजभिस्तत्र वार्ष्णेयः समागच्छद् यथावयः। तत्र जाम्बूनदमयं पर्यवं सुपरिष्कृतम्॥ विविधास्तरणास्तीर्णमभ्युपाविशदच्युतः। तस्मिन् गां मधुपर्कं चाप्युदकं च जनार्दने॥ निवेदयामास तदा गृहान् राज्यं च कौरवः। तत्र गोविन्दमासीनं प्रसन्नादित्यवर्चसम्॥ उपासांचक्रिरे सर्वे कुरवो राजभिः सह। ततो दुर्योधनो राजा वार्ष्णेयं जयतां वरम्॥ न्यमन्त्रयद् भोजनेन नाभ्यनन्दच्च केशवः। ततो दुर्योधनः कृष्णमब्रवीत् कुरुसंसदि॥ मृदुपूर्वं शठोदकं कर्णमाभाष्य कौरवः। कस्मादन्नानि पानानि वासांसि शयनानि च॥ त्वदर्थमुपनीतानि नागृहीस्त्वं जनार्दन। उभयोश्चाददाः साह्यमुभयोश्च हिते रतः॥ सम्बन्धी दयितश्चासि धृतराष्ट्रस्य माधव। त्वं हि गोविन्द धर्मार्थो वेत्थ तत्त्वेन सर्वशः। तत्र कारणमिच्छामि श्रोतुं चक्रगदाधर॥ वैशम्पायन उवाच स एवमुक्तो गोविन्दः प्रत्युवाच महामनाः! उद्यन्मेघस्वनः काले प्रगृह्य विपुलं भुजम्॥ अलघूकृतमग्रस्तनिरस्तमसंकुलम्। राजीवनेत्रो राजानं हेतुमद् वाक्यमुत्तमम्॥ कृतार्था भुञ्जते दूताः पूजां गृह्णन्ति चैव ह। कृतार्थं मां सहामात्यं समर्चिष्यसि भारत॥ एवमुक्तः प्रत्युवाच धार्तराष्ट्रो जनार्दनम्। न युक्तं भवताऽस्मासु प्रतिपत्तुमसाम्प्रतम्॥ कृतार्थं वाकृतार्थं च त्वां वयं मधुसूदना यतामहे पूजयितुं दाशार्ह न च शक्नुमः॥ न च तत् कारणं विद्यो यस्मिन् नो मधुसूदन। पूजां कृतां प्रीयमाणैर्नामस्थाः पुरुषोत्तम॥ वैरं नो नास्ति भवता गोविन्द न च विग्रहः। स भवान् प्रसमीक्ष्यैतन्नेदृशं वक्तुमर्हति॥ वैशम्पायन उवाच एवमुक्तः प्रत्युवाच धार्तराष्ट्र जनार्दनः। अभिवीक्ष्य सहामात्यं दाशार्हः प्रहसन्निव॥ नाहं कामान संरम्भान द्वेषान्नार्थकारणात्। न हेतुवादाल्लोभाद् वा धर्म जह्यां कथंचन॥ सम्प्रीतिभोज्यान्यन्नानि आपद्भोज्यानि वा पुनः। न च सम्प्रीयसे राजन् न चैवापद्गता वयम्॥ अकस्माद् द्वेष्टि वै राजन् जन्मप्रभृति पाण्डवान्। प्रियानुवर्तिनो भ्रातॄन् सर्वैः समुदितान् गुणैः।२६।। अकस्माच्चैव पार्थानां द्वेषणं नोपपद्यते। धर्मे स्थिताः पाण्डवेयाः कस्तान् किं वक्तुमर्हति॥ यस्तान् द्वेष्टि स मां द्वेष्टि यस्ताननु स मामनु। ऐकात्म्यं मां गतं विद्धि पाण्डवैर्धर्मचारिभिः॥ कामक्रोधानुवर्ती हि यो मोहाद् विरुरुत्सति। गुणवन्तं च यो द्वेष्टि तमाहुः पुरुषाधमम्॥ यः कल्याणगुणाज्ञातीन् मोहाल्लोभाद् दिदृक्षते। सोऽजितात्माजितक्रोधो न चिरं तिष्ठति श्रियम्॥ अथ यो गुणसम्पन्नान् हृदयस्याप्रियानपि। प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति।॥ सर्वमेतन्न भोक्तव्यमन्नं दुष्टाभिसंहितम्। क्षत्तुरेकस्य भोक्तव्यमिति मे धीयते मतिः॥ एवमुक्त्वा महाबाहुर्दुर्योधनममर्षणम्। निश्चक्राम ततः शुभ्राद् धार्तराष्ट्रनिवेशनात्॥ निर्याय च महाबाहुर्वासुदेवो महामनाः। निवेशाय ययौ वेश्म विदुरस्य महात्मनः॥ तमभ्यगच्छद् द्रोणश्च कृपो भीष्मोऽथ बाह्निकः। कुरवश्च महाबाहुं विदुरस्य गृहे स्थितम्॥ त ऊचुर्माधवं वीरं कुरवो मधुसूदनम्। निवेदयामो वार्ष्णेय सरत्नांस्ते गृहान् वयम्॥ तानुवाच महातेजाः कौरवान् मधुसूदनः। सर्वे भवन्तो गच्छन्तु सर्वा मेऽपचितिः कृता॥ यातेषु कुरुष क्षत्ता दाशार्हमपराजितम्। अभ्यर्चयामास तदा सर्वकामैः प्रयत्नवान्॥ ततः क्षत्तानपानानि शुचीनि गुणवन्ति च। उपाहरदनेकानि केशवाय महात्मने॥ तैस्तर्पयित्वा प्रथमं ब्राह्मणान् मधुसूदनः। वैदविद्भ्यो ददौ कृष्णः परमद्रविणान्यपि॥ ततोऽनुयायिभिः सार्धं मरुद्भिरिव वासवः। विदुरान्नानि बुभुजे शुचीनि गुणवन्ति च॥ वैशम्पायन उवाच तं भुक्तवन्तमाश्वस्तं निशायां विदुरोऽब्रवीत्। नेदं सम्यग् व्यवसितं केशवागमनं तव॥ अर्थधर्मातिगो मन्दः संरम्भी च जनार्दन। माननो मनकामश्च वृद्धानां शासनातिगः॥ धर्मशास्त्रातिगो मूढो दुरात्मा प्रचग्रहं गतः। अनेयः श्रेयसां मन्दो धार्तराष्ट्रो जनार्दन॥ कामात्मा प्राज्ञमानी च मित्रध्रुक् सर्वशङ्कितः। अकर्ता चाकृतज्ञश्च त्यक्तधर्मा प्रियानृतः॥ मूढचाकृतबुद्धिश्च इन्द्रियाणामनीश्वरः । कामानुसारी कृत्येषु सर्वेष्वकृतनिश्चयः॥ एतैश्चान्यैश्च बहुभिषैिरेव समन्वितः। त्वयोच्यमानः श्रेयोऽपि संरम्भान्न ग्रहीष्यति॥ भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे जयद्रथे। भूयसी वर्तते वृत्तिं न शमे कुरुते मनः॥ निश्चितं धार्तराष्ट्राणां सकर्णानां जनार्दन। भीष्मद्रोणमुखान् पार्था न शक्ताः प्रतिवीक्षितुम्॥ सेनासमुदयं कृत्वा पार्थिवं मधुसूदन। कृतार्थं मन्यते बाल आत्मानमविचक्षणः॥ एकः कर्णः पराञ्जेतुं समर्थं इति निश्चितम्। धार्तराष्ट्रस्य दुर्बुद्धेः स शमं नोपयास्यति॥ संविच्च धार्तराष्ट्राणं सर्वेषामेव केशव। शमे प्रयतमानस्य तव सौभ्रात्रकाक्षिणः॥ न पाण्डवानामस्माभिः प्रतिदेयं यथोचितम्। इति व्यवसतास्तेषु वचनं स्यान्निरर्थकम्॥ यत्र सूक्तं दुरुक्तं च समं स्यान्मधुसूदन। न तत्र प्रलपेत् प्राज्ञो बधिरेष्विव गायनः॥ अविजानत्सु मूढेषु निर्मर्यादेषु माधव। न त्वं वाक्यं ब्रुवन् युक्तचाण्डालेषु द्विजो यथा॥ सोऽयं बलस्थो मूढच न करिष्यति ते वचः। तस्मिन् निरर्थकं वाक्यमुक्तं सम्पत्स्यते तव॥ तेषां समुपविष्टानां सर्वेषां पापचेतसाम्। तव मध्यावतरणं मम कृष्ण न रोचते॥ दुर्बुद्धीनामशिष्टानां बहूनां दुष्टचेतसाम्। प्रतीपं वचनं मध्ये तव कृष्ण न रोचते।॥ अनुपासितवृद्धत्वाच्छ्रियो दर्पाच्च मोहितः। वयोदर्पादमर्षाच्च न ते श्रोय ग्रहीष्यति॥ बलं बलवदप्यस्य यदि वक्ष्यसि माधव। त्वय्यस्य महती शङ्का न करिष्यति ते वचः॥ नेदमद्य युधा शक्यमिन्द्रेणापि सहामरैः। इति व्यवसिताः सर्वे धार्तराष्ट्रा जनार्दन॥ तेष्वेवमुपपन्नेषु कामक्रोधानुवर्तिषु। समर्थमपि ते वाक्यमसमर्थं भविष्यति॥ मध्ये तिष्ठन् हस्त्यनीकस्य मन्दो रथाश्वयुक्तस्य बलस्य मूढः। दुर्योधनो मन्यते वीतभीतिः कृत्स्ना मयेयं पृथिवी जितेति॥ आशंसते वै धृतराष्ट्रस्य पुत्रो महाराज्यमसपत्नं पृथिव्याम्। तस्मिञ्छमः केवलो नोपलभ्यो बद्धं सन्तं मन्यते लब्धमर्थम्॥ पर्यस्तेयं पृथिवी कालपक्वा दुर्योधनार्थं पाण्डवान् योद्धकामाः। समागताः सर्वयोधाः पृथिव्यां राजानश्च क्षितिपालैः समेताः॥ सर्वे चैते कृतवैराः पुरस्तात् त्वया राजानो हृतसाराश्च कृष्ण) तवोद्वेगात् संश्रिता धार्तराष्ट्रानं सुसंहताः कर्णेन वीराः॥ त्यक्तात्मानः सह दुर्योधनेन हृष्टा योद्धं पाण्डवान् सर्वयोधाः। तेषां मध्ये प्रविशेथा यदि त्वं न तन्मतं मम दाशार्ह वीर॥ तेषां समुपविष्टानां बहूनां दुष्टचेतसाम्। कथं मध्यं प्रपद्येथाः शत्रूणां शत्रुकर्शन॥ सर्वथा त्वं महाबाहो देवैरपि दुरुत्सहः। प्रभावं पौरुषं बुद्धिं जानामि तव शत्रुहन्।॥ या मे प्रीतिः पाण्डवेषु भूयः सा त्वयि माधव। प्रेम्णा च बहुमानाच्च सौहृदाच्च ब्रवीम्यहम्॥ या मे प्रीतिः पुष्कराक्ष त्वदर्शनसमुद्भवा। सा किमाख्यायते तुभ्यमन्तरात्माऽसि देहिनाम्॥ श्रीभगवानुवाच यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयाद् विचक्षणः। यथा वाच्यस्त्वद्विधेन भवता मद्विधः सुहृत्॥ धर्मार्थयुक्तं तथ्यं च यथा त्वय्युपद्यते। तथा वचनमुक्तोऽस्मि त्वयैतत् पितृमातृवत्॥ सत्यं प्राप्तं च युक्तं वाप्येवमेव यथाऽऽत्थ माम्। शृणुष्वगमने हेतुं विदुरावहितो भव॥ दौरात्म्यं धार्तराष्ट्रस्य क्षत्रियाणां च वैरताम्। सर्वमेतदहं जानन् क्षत्तः प्राप्तोऽद्य कौरवान्॥ पर्यस्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम्। यो मोचयेन्मृत्युपाशात् प्राप्नुयाद् धर्ममुत्तमम्॥ धर्मकार्यं यतञ्छक्त्या नो चेत् प्राप्नोति मानवः। प्राप्तो भवति तत् पुण्यमत्र मे नास्ति संशयः॥ मनसा चिन्तयन् पापं कर्मणा नातिरोचयन्। न प्राप्नोति फलं तस्येत्येवं धर्मविदो विदुः॥ सोऽहं यतिष्ये प्रशमं क्षत्तः कर्तुममायया। कुरूणां सृञ्जयानां च संग्रामे विनशिष्यताम्॥ सेयमापन्महाघोरा कुरुष्वेव समुत्थिता। कर्णदुर्योधनकृता सर्वे ह्येते तदन्वयाः॥ व्यसने क्लिश्यमानं हि यो मित्रं नाभिपद्यते। अनुनीय यथाशक्ति तं नृशंसं विदुर्बुधाः॥ आकेशग्रहणान्मित्रमकार्यात् संनिवर्तयन्। अवाच्यः कस्यचिद् भवति कृतयत्नो यथाबलम्॥ तत् समर्थं शुभं वाक्यं धर्मार्थसहितं हितम्। धार्तराष्ट्रः सहामात्यो ग्रहीतुं विदुरार्हति॥ हितं हि धर्तराष्ट्राणां पाण्डवानां तथैव च। पृथिव्यां क्षत्रियाणां च यतिष्येऽहममायया॥ हिते प्रयतमानं मां शङ्केद् दुर्योधनो यदि। हृदयस्य च मे प्रीतिरानृण्यं च भविष्यति॥ ज्ञातीनां हि मिथो भेदे यन्मित्रं नाभिपद्यते। सर्वयत्नेन माध्यस्थ्यं न तन्मित्रं विदुर्बुधाः॥ न मां ब्रूयुरधर्मिष्ठा मूढा ह्यसुहृदस्तथा। शक्तो नावारयत् कृष्णः संरब्धान् कुरुपाण्डवान्॥ उभयोः साधयन्नर्थमहमागत इत्युत। तत्र यत्नमहं कृत्वा गच्छेयं नृष्ववाच्यताम्॥ मम धर्मार्थयुक्तं हि श्रुत्वा वाक्यमनामयम्। न चेदादास्यते बालो दिष्टस्य वशमेष्यति॥ अहापयन् च्छमं कुरूणां यदि चाचरेयम्। पुण्यं च मे स्याच्चरितं महात्मन् मुच्येरंश्च कुरवो मृत्युपाशात्॥ अपि वाचं भाषमाणस्य काव्यां धर्मारामामर्थवतीमहिंस्राम्। अवेक्षेरन् धार्तराष्ट्राः शमार्थं मां च प्राप्तं कुरवः पूजयेयुः॥ न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः। क्रुद्धस्य प्रमुख स्थातु सिंहस्येवेतरे मृगाः॥ वैशम्पायन उवाच इत्येवमुक्त्वा वचनं वृष्णीनामृषभस्तदा। शयने सुखसंस्पर्श शिश्ये यदुसुखावहः॥ वैशम्पायन उवाच तथा कथयतोरेव तयोर्बुद्धिमतोस्तदा। शिवा नक्षत्रसम्पन्ना सा व्यतीयाय शर्वरी॥शा धर्मार्थकामयुक्ताश्च विचित्रार्थपदाक्षराः। शृण्वतो विविधा वाचो विदुरस्य महात्मनः॥ कथाभिरनुरूपाभिः कृष्णस्यामिततेजसः। अकामस्येव कृष्णस्य सा व्यतीयाय शर्वरी॥ ततस्तु स्वसम्पन्ना बहवः सूतमागधाः। शङ्खदुन्दुभिनिर्घोषैः केशवं प्रत्यबोधयन्॥ तत उत्थाय दाशार्ह ऋषभः सर्वसात्वताम्। सर्वमावश्यकं चक्रे प्रातःकार्यं जनार्दनः॥ कृतोदकानुजप्यः स हुताग्नि: समलंकृतः। ततश्चादित्यमुद्यन्तमुपातिष्ठत माधवः॥ अथ दुर्योधनः कृष्ण शकुनिश्चापि सौबलः। संध्यां तिष्ठन्तमभ्येत्य दाशार्हमपराजितम्॥ आचक्षेतां तु कृष्णस्य धृतराष्ट्र सभागतम्। कुरूंश्च भीष्मप्रमुखान् राज्ञः सर्वाश्च पार्थिवान्॥ त्वामर्थयन्ते गोविन्द दिवि शक्रमिवामराः। तावभ्यनन्दद् गोविन्दः साम्ना परमवल्गुना॥ ततो विमल आदित्ये ब्राह्मणेभ्यो जनार्दनः। ददौ हिरण्यं वासांसि गाश्चाश्वांश्च परंतपः॥ विसृज्य बहुरत्नानि दाशार्हमपराजितम्। तिष्ठन्तमुपसंगम्य ववन्दे सारथिस्तदा॥ ततो रथेन शुभ्रेण महता किङ्किणीकिना। हयोत्तमयुजा शीघ्रमुपातिष्ठत दारुकः॥ तमुपस्थितमाज्ञाय रथं दिव्यं महामनाः। महाभ्रघननिर्घोषं सर्वरत्नविभूषितम्॥ अग्नि प्रदक्षिणं कृत्वा ब्राह्मणांश्च जनार्दनः। कौस्तुभं मणिमामुच्य श्रिया परमया ज्वलन्॥ कुरुभिः संवृतः कृष्णो वृष्णिभिश्चाभिरक्षितः। आतिष्ठत रथं शौरिः सर्वयादवनन्दनः॥ अन्वारुरोह दाशार्ह विदुरः सर्वधर्मवित्। सर्वप्राणभृतां श्रेष्ठं सर्वबुद्धिमतां वरम्॥ ततो दुर्योधनः कृष्णं शकुनिश्चापि सौबलः। द्वितीयेन रथेनैनमन्वयातां परंतपम्॥ सात्यकिः कृतवर्मा च वृष्णीनां चापरे स्थाः। पृष्ठतोऽनुययुः कृष्णं गजैरश्वैः रथैरपि॥ तेषां हेमपरिष्कारैर्युक्ताः परमवाजिभिः। गच्छतां घोषिणश्चित्ररथा राजन् विरेजिरे॥ सम्मृष्टसंसिक्तरजः प्रतिपेदे महापथम्। राजर्षिचरितं काले कृष्णो धीमाच्छ्रिया ज्वलन्॥ ततः प्रयाते दाशार्हे प्रावाद्यन्तैकपुष्कराः। शङ्खाश्च दमिरे तत्र वाद्यान्यन्यानि यानि च॥ प्रवीराः सर्वलोकस्य युवानः सिंहविक्रमाः। परिवार्य रथं शौरेरगच्छन्त परंतपाः॥ ततोऽन्ये बहुसाहस्रा विचित्राद्भुतवाससः। असिप्रासायुधधराः कृष्णस्यासन् पुरःसराः॥ गजाः पञ्चशतातत्र रथाश्चासन् सहस्रशः। प्रयान्तमन्वयुर्वीरं दाशार्हमपराजितम्॥ पुरं कुरूणां संवृत्तं द्रष्टुकामं जनार्दनम्। सबालवृद्धं सस्त्रीकं रथ्यागतमरिंदम॥ वेदिकालमाश्रिताभिश्च समाकान्तान्यनेकशः। प्रचलन्तीव भारेण योषिद्भिर्भवनान्युत॥ स पूज्यमानः कुरुभिः संशृण्वन् मधुराः कथाः। यथार्ह प्रातसत्कुर्वन् प्रेक्षमाणः शनैर्ययौ॥ ततः सभा समासाद्य केशवस्यानुयायिनः। सशङ्खर्वेणुनिघोषैर्दिशः सर्वा व्यनादयन्॥ ततः सा समितिः सर्वा राज्ञाममिततेजसाम्। सम्प्राकम्पत हर्षेण कृष्णागमनकाझया॥ ततोऽभ्याशगते कृष्णे समहष्यन् नराधिपाः। श्रुत्वा तं रथनिर्घोषं पर्जन्यनिनदोपमम्॥ आसाद्य तु सभाद्वारमृषभः सर्वसात्वताम्। अवतीर्य रथाच्छौरिः कैलासशिखरोपमात्॥ नवमेघप्रतीकाशां ज्वलन्तीमिव तेजसा। महेन्द्रसदनप्रख्यां प्रविवेश सभां ततः॥ पाणौ गृहीत्वा विदुरं सात्यकिं च महायशाः। ज्योतीष्यादित्यवद् राजन् कुरून् प्राच्छादयच्छ्रिया।।३३। अग्रतो वासुदेवस्य कर्णदुर्योधनावुभौ। वृष्णयः कृतवर्मा चाप्यासन् कृष्णस्य पृष्ठतः॥ धृतराष्ट्रं पुरुस्कृत्य भीष्मद्रोणादयस्ततः। आसनेभ्योऽचलन् सर्वे पूजयन्तो जनार्दनम्॥ अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्नरेश्वरः। सहैव द्रोणभीष्माभ्यामुदतिष्ठन्महायशाः॥ उत्तिष्ठति महाराजे धृतराष्ट्र जनेश्वरे। तानि राजसहस्राणि समुत्तस्थुः समन्ततः॥ आसनं सर्वतोभद्रं जाम्बूनदपरिष्कृतम्। कृष्णार्थं कल्पितं तत्र धृतराष्ट्रस्य शासनात्॥ स्मयमानस्तु राजानं भीष्मद्रोणौ च माधवः। अभ्यभाषत धर्मात्मा राज्ञश्चान्यान् यथावयः॥ तत्र केशवमानचुः सम्यगभ्यागतं सभाम्। राजानः पार्थिवाः सर्वे कुरवश्च जनार्दनम्॥ तत्र तिष्ठन् स दाशार्हो राजमध्ये परंतपः। अपश्यदन्तरिक्षस्थानृषीन् परपुरंजयः। ततस्तानभिसम्प्रेक्ष्य नारदप्रमुखानृषी॥ अभ्यभाषत दाशार्हो भीष्मं शान्तनवं शनैः। पार्थिवीं समितिं द्रष्टुमृषयोऽभ्यागता नृप॥ निमन्त्र्यन्तामासनैश्च सत्कारेण च भूयसां। नैतेष्वनुपविष्टेषु शक्यं केनचिदासितुम्॥ पूजा प्रयुज्यतामाशु मुनीनां भावितात्मनाम्। ऋषीछान्तनवो दृष्ट्वा सभाद्वारमुपस्थितान्॥ त्वरमाणस्ततो भृत्यानासनानीत्यचोदयत्। आसनान्यथ मृष्टानि महान्ति विपुलानि च॥ मणिकाञ्चनचित्राणि समाजह्वस्ततस्ततः। तेषु तत्रोपविष्टेषु गृहीतार्धेषु भारत॥ निषसादासने कृष्णो राजानश्च यथासनम्। दुःशासनः सात्यकये ददावासनमुत्तमम्॥ विविंशतिर्ददौ पीठं काञ्चनं कृतवर्मणे। अविदूरे तु कृष्णस्य कर्णदुर्योधनावुभौ॥ एकासने महात्मानौ निषीदतुरमर्षणौ। गान्धारराजः शकुनिर्गान्धारैरभिरक्षितः॥ निषसादासने राजा सहपुत्रो विशाम्पते। विदुरो मणिपीठे तु शुक्लस्पर्ध्या जिनोत्तरे॥ संस्पृशन्नासनं शौरेर्महामतिरूपाविशत्। चिरस्य दृष्ट्वा दाशार्ह राजानः सर्व एव ते॥ अमृतस्येव नातृप्यन् प्रेक्षमाणा जनार्दनम्। अतसीपुष्पसंकाशः पीतवासा जनार्दनः॥ व्यभ्राजत सभामध्ये हेम्नीवोपहितो मणि॥ ततस्तूष्णीं सर्वमासीद् गोविन्दगतमानसम्। न तत्र कश्चित् किञ्चिद् वा व्याजहार पुमान् क्वचित्।। वैशम्पायन उवाच तेष्वासीनेषु सर्वेषु तूष्णीम्भूतेषु राजसु। वाक्यमभ्याददे कृष्णः सुदंष्ट्रो दुन्दुभिस्वनः॥ जीमूत इव धर्मान्ते सर्वां संश्रावयन् सभाम्। धृतराष्ट्रमभिप्रेक्ष्य समभाषत माधवः॥ श्रीभगवानुवाच कुरूणां पाण्डवानां च शम: स्यादिति भारत। अप्रणाशेन वीराणामेतद् याचितुमागतः॥ राजन् नान्यत् प्रवक्तव्यं तव नैःश्रेयसं वचः। विदितं ह्येव ते सर्वं वेदितव्यमरिंदम्॥ इदं ह्यद्य कुलं श्रेष्ठं सर्वराजसु पार्थिव। श्रुतवृत्तोपसम्पन्नं सर्वैः समुदितं गुणैः॥ कृपानुकम्या कारुण्यमानृशंस्यं च भारत। तथाऽऽर्जवं क्षमा सत्यं कुरुष्वेतद् विशिष्यते॥ ते तस्मिन्नेवंविधे राजन् कुले महति तिष्ठति। त्वन्निमित्तं विशेषेण नेह युक्तमसाम्प्रतम्॥ त्वं हि धारयिता श्रेष्ठः कुरूणां कुरुसत्तम। मिथ्या प्रचरतां तात बाह्येष्वाभ्यन्तरेषु च।॥ पुत्रास्तव कौरव्य दुर्योधनपुरोगमाः। धर्मार्थौ पृष्ठतः कृत्वा प्रचरन्ति नृशंसवत्॥ अशिष्टा गतमर्यादा लोभेन हृतचेतसः। स्वेषु बन्धुषु मुख्येषु तद् वेत्थ पुरुषर्षभ॥ सेयमापन्महाघोरा कुरुष्वेव समुत्थिता। उपेक्ष्यमाणा कौरव्य पृथिवीं घातयिष्यति॥ शक्या चेयं शमयितुं त्वं चेदिच्छसि भारत। न दुष्करो ह्यत्र शमो मतो मे भरतर्षभ॥ त्वय्यधीनः शमो राजन् मयि चैव विशाम्पते। पुत्रान् स्थापय कौरव्य स्थापयिष्याम्यहं परान्॥ आज्ञा तव हि राजेन्द्र कार्या पुत्रैः सहान्वयैः। हितं बलवदप्येषां तिष्ठतां तव शासने॥ तव चैव हितं राजन् पाण्डवानामथो हितम्। शमे प्रयतमानस्य तव शासनकाक्षिणः॥ स्वयं निष्फलमालक्ष्य संविधत्स्व विशाम्पते। सहायभूता भरतास्तवैव स्युर्जनेश्वरः॥ धर्मार्थयोस्तिष्ठ राजन् पाण्डवैरभिरक्षितः। न हि शक्यास्तथाभूता यत्नादपि नराधिप॥ न हि त्वां पाण्डवैर्जेतुं रक्ष्यमाणं महात्मभिः। इन्द्रोऽपि देवैः सहितः प्रसहेत कुतो नृपः॥ यत्र भीष्मश्च द्रोणश्च कृपः कर्णो विविंशतिः। अश्वत्थामा विकर्णश्च सोमदत्तोऽथ बाह्निकः॥ सैन्धवश्च कलिङ्गश्च काम्बोजश्च सुदक्षिणः। युधिष्ठिरो भीमसेनः सव्यसाची यमौ तथा॥ सात्यकिश्च महातेजा युयुत्सुश्च महारथः। को नु तान् विपरीतात्मा युद्ध्येत भरतर्षभ॥ लोकस्येश्वरतां भूयः शत्रुभिश्चाप्यधृष्यताम्। प्राप्स्यसि त्वममित्रघ्न सहितः कुरुपाण्डवैः॥ तस्य ते पृथिवीपालास्त्वत्समाः पृथिवीपते। श्रेयांसश्चैव राजानः संधास्यन्ते परंतप॥ स त्वं पुत्रैश्च पौत्रेश्च पितृभिर्धातृभिस्तथा। सुहृद्धिः सर्वतो गुप्तः सुखं शक्ष्यसि जीवितुम्॥ एतानेव पुरोधाय सत्कृत्य च यथा पुरा। अखिला भोक्ष्यसे सर्वां पृथिवीं पृथिवीपते॥ एतैर्हि सहितः सर्वैः पाण्डवैः स्वैश्च भारत। अन्यान् विजेष्यसे शत्रूनेष स्वार्थस्तवाखिलः॥ तैरेवोपार्जितां भूमि भोक्ष्यसे च परंतप। यदि सम्पत्स्यसे पुत्रैः सहामात्यैर्नराधिप॥ संयुगे वै महाराज दृश्यते सुमहान् क्षयः। क्षये चोभयतो राजन् कं धर्ममनुपश्यसि॥ पाण्डवैनिहतैः संख्ये पुत्रैर्वाऽपि महाबलैः। यद् विन्देथाः सुखं राजंस्तद् ब्रूहि भरतर्षभ॥ शूराश्च हि कृतास्त्राश्च सर्वे युद्धाभिकाक्षिणः। पाण्डवास्तावकाश्चैव तान् रक्ष महतो भयात्॥ न पश्येम कुरून् सर्वान् पाण्डवाश्चैव संयुगे। क्षीणानुभयतः शूरान् रथिनो रथिभिर्हतान्॥ समवेताः पृथिव्यां हि राजानो राजसत्तम। अमर्षवशमापन्ना नाशयेयुरिमाः प्रजाः॥ त्राहि राजनिमं लोकं न नश्येयुरिमा: प्रजाः। त्वयि प्रकृतिमापन्ने शेष: स्यात् कुरुनन्दन॥ शुक्ला वदान्या ह्रीमन्त आर्याः पुण्याभिजातयः। अन्योन्यसचिवा राजस्तान् पाहि महतो भयात्॥ शिवेनेमे भूमिपाला: समागम्य परस्परम्। सह भुक्त्वा च पीत्वा च प्रतियान्तु यथागृहम्॥ सुवाससः स्रग्विणश्च सत्कृता भरतर्षभ। अमर्षं च निराकृत्य वैराणि च परंतप॥ हार्दै यत् पाण्डवेष्वासीत् प्राप्तेऽस्मिन्नायुषः क्षये। तदेव ते भवत्वद्य संधत्स्व भरतर्षभ॥ बाला विहीनाः पित्रा ते त्वयैव परिवर्धिताः। तान् पालय यथान्यायं पुत्रांश्च भरतर्षभ।॥ भवतैव हि रक्ष्यास्ते व्यसनेषु विशेषतः। मा ते धर्मस्तथैवार्थो नश्येत भरतर्षभ॥ आहुस्त्वां पाण्डवा राजन्नभिवाद्य प्रसाद्य च। भवत: शासनाद् दुःखमनुभूतं सहानुगैः॥ द्वादशेमानि वर्षाणि वने निर्युषितानि नः। त्रयोदशं तथाऽज्ञातैः सजने परिवत्सरम्॥ स्थाता नः समये तस्मिन् पितेति कृतनिश्चयाः। नाहास्म समयं तात तच्च नो ब्राह्मणा विदुः॥ तस्मिन् नः समये तिष्ठ स्थितानां भरतर्षभ। नित्यं संक्लेशिता राजन् स्वराज्यांशं लभेमहि॥ त्वं धर्ममर्थं संजानन् सम्यड्नस्त्रातुमर्हसि। गुरुत्वं भवति प्रेक्ष्य बहून् क्लेशांस्तितिक्ष्महे॥ स भवान् मातृपितृवदस्मासु प्रतिपद्यताम्। गुरोर्गरीयसी वृत्तिर्या च शिष्यस्य भारत॥ वर्तामहे त्वयि च तां त्वं च वर्तस्व नस्तथा। पित्रा स्थापयितव्या हि वयमुत्पथमास्थिताः॥ संस्थापय पथिष्वस्मांस्तिष्ठ धर्मे सुवर्मनि। आहुश्चमां परिषदं पुत्रास्ते भरतर्षभ।॥ धर्मज्ञेषु सभासत्सु नेह युक्तमसाम्प्रतम्। यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च॥ हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः। विद्धो धर्मो ह्यधर्मेण सभां यत्र प्रपद्यते॥ न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः। धर्म एतानारुजति यथा नद्यनुकूलजान्॥ ये धर्ममनुपश्यन्तस्तूष्णीं ध्यायन्त आसते। ते सत्यमाहुर्धर्म्य च न्याय्यं च भरतर्षभ॥ शक्यं किमन्यद् वक्तुं ते दानादन्यज्जनेश्वर। ब्रुवन्तु ते महीपालाः सभायां ये समासते॥ धर्मार्थो सम्प्रधाव यदि सत्यं ब्रवीम्यहम्। प्रमुञ्चैमान् मृत्युपाशात् क्षत्रियान् पुरुषर्षभ॥ प्रशाम्य भरतश्रेष्ठ मा मन्युवशमन्वगाः। पित्र्यं तेभ्यः प्रदायांशं पाण्डवेभ्यो यथोचितम्॥ ततः सपुत्रः सिद्धार्थो भुड्क्ष्व भोगान् परंतप। अजातशत्रु जानीषे स्थितं धर्मं सतां सदा॥ सपुत्रे त्वयि वृत्तिं च वर्तते यां नराधिप। दाहितश्च निरस्तश्च त्वामेवोपाश्रितः पुनः॥ इन्द्रप्रस्थं त्वयैवासौ सपुत्रेण विवासितः। स तत्र विवसन् सर्वान् वशमानीय पार्थिवान्॥ त्वन्मुखानकरोद् राजन् न च त्वामत्यवर्तत। तस्यैवं वर्तमानस्य सौबलेन जिहीर्षता॥ राष्ट्राणि धनधान्यं च प्रयुक्तः परमोपधिः। स तामवस्थां सम्प्राप्य कृष्णां प्रेक्ष्य सभागताम्॥ क्षत्रधर्मादमेयात्मा नाकम्पत युधिष्ठिरः। अहं तु तव तेषां च श्रेय इच्छामि भारत॥ धर्मादर्थात् सुखाच्चैव मा राजन् नीनशः प्रजाः। नर्थमर्थं मन्वानोऽप्यर्थं नर्थमात्मनः॥ लोभेऽतिप्रसृतान् पुत्रान् निगृह्णीष्व विशाम्पते। स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिंदमा:। यत् ते पथ्यतमं राजेस्तस्मिस्तिष्ठ परंतप॥ वैशम्पायन उवाच तद् वाक्यं पार्थिवाः सर्वे हृदयैः समपूजयन्। न तत्र कश्चिद् वक्तं हि वाचं प्राक्रामदग्रतः॥ वैशम्पायन उवाच तस्मिन्नभिहिते वाक्ये केशवेन महात्मना। स्तिमिता हृष्टरोमाण आसन् सर्वे सभासद ॥ कश्चिदुत्तरमेतेषां वक्तुं नोत्सहते पुमान्। इति सर्वे मनोभिस्ते चिन्तयन्ति स्म पार्थिवाः॥ तथा तेषु च सर्वेषु तूष्णीम्भूतेषु राजसु। जामदग्न्य इदं वाक्यमब्रवीत् कुरूसंसदि॥ इमां मे सोपमां वाचं शृणु सत्यामशाङ्कितः। तां श्रुत्वा श्रेय आदत्स्व यदि साध्विति मन्यसे॥ राजा दम्भोद्भवो नाम सार्वभौमः पुराभवत्। अखिला बुभुजे सर्वां पृथिवीमिति नः श्रुतम्॥ स स्म नित्यं निशापाये प्रातरुत्थाय वीर्यवान्। ब्राह्मणान् क्षत्रियांश्चैव पृच्छन्नास्ते महारथः॥ अस्ति कश्चिद् विशिष्टो वा मद्विधो वा भवेद् युधि। शूद्रो वैश्यः क्षत्रियो वा ब्राह्मणो वापि शस्त्रभृत्॥ इति ब्रुवन्नन्वचरत् स राजा पृथिवीमिमाम्। दर्पण महता मत्तः कंचिदन्यमचिन्तयन्॥ तं च वैद्या अकृपणा ब्राह्मणाः सर्वतोऽभयाः। प्रत्यषेधन्त राजानं श्लाघमानं पुनः पुनः॥ निषिध्यमानोऽप्यसकृत् पृच्छत्येव स वै द्विजान्। अतिमानं श्रिया मत्तं तमूचुर्ब्राह्मणास्तदा॥ तपस्विनो महात्मानो वेदप्रत्ययदर्शिनः। उदीर्यमाणं राजानं क्रोधदीप्ता द्विजातयः॥ अनेकजयिनौ संख्यै यौ वै पुरुषसत्तमौ। तयोस्त्वं न समो राजन् भविताऽसि कदाचन।॥ एवमुक्तः स राजा तु पुनः पप्रच्छ तान् द्विजान्। क्व तौ वीरौ क्व जन्मानौ किंकर्माणौ च कौ च तौ। ब्राह्मणा ऊचुः नरो नारायणश्चैव तापसाविति नः श्रुतम्। आयातौ मानुषे लोके ताभ्यां युध्यस्व पार्थिव॥ श्रूयेते तौ महात्मानौ नरनारायणावुभौ। तपो घोरमनिर्देश्य तप्यते गन्धमादने॥ स राजा महतीं सेनां योजयित्वा षडङ्गिनीम्। अमृष्यमाणः सम्प्रायाद् यत्र तावपराजितौ॥ स गत्वा विषमं घोरं पर्वतं गन्धमादनम्। मार्गमाणोऽन्वगच्छत् तौ तापसौ वनमाश्रितौ॥ तौ दृष्ट्वा क्षुत्पिपासाभ्यां कृशौ भमनिसन्ततौ। शीतवातातपैश्चैव कर्शितौ पुरुषोत्तमौ॥ अभिगम्यौपसंगृह्य पर्यपृच्छदनामयम्। तमर्चित्वा मूलफलैरासनेनोदकेन च॥ न्यमन्त्रयेतां राजानं किं कार्य क्रियतामिति। ततस्तामानुपूर्वी स पुनरेवान्वकीर्तयत्॥ बाहुभ्यां मे जिता भूमिनिहताः सर्वशत्रवः। भवद्भ्यां युद्धमाकाङ्क्षन्नुपयातोऽस्मि पर्वतम्॥ आतिथ्यं दीयतोमेतत् काक्षितं मे चिरं प्रति। नरनारायणावूचतुः अपेतक्रोधलोभोऽयमाश्रमो राजसत्तम॥ न ह्यस्मिन्नाश्रमे युद्धं कुतः शस्त्रं कुतोऽनृजुः। अन्यत्र युद्धमाकाक्ष बहवः क्षत्रियाः क्षितौ॥ राम उवाच उच्यमानस्तथापि स्म भूय एवाभ्यभाषत्। पुनः पुनः क्षम्यमाणः सान्त्व्यमानश्च भारत॥ दम्भोद्भवो युद्धमिच्छन्नाह्वयत्येव तापसौ। ततो नरस्त्विषीकाणां मुष्टिमादाय भारत।॥ अब्रवीदेहि युद्ध्यस्व युद्धकामुक क्षत्रिय। सर्वशस्राणि चादत्स्व योजयस्व च वाहिनीम्॥ अहं हि ते विनेष्यामि युद्धश्रद्धामितः परम्। दम्भोद्भव उवाच यद्येतदस्त्रमस्मासु युक्तं तापस मन्यसे॥ एतेनापि त्वया योत्स्ये युद्धार्थी ह्यहमागतः। राम उवाच इत्युक्त्वा शरवर्षेण सर्वतः समवाकिरत्॥ दम्भोद्भवस्तापसं तं जिघांसुः सहसैनिकः। तस्य तानस्यतो घोरानिषून परतनुच्छिदः :॥ कदर्थीकृत्य स मुनिरिषीकाभिः समार्पयत्। ततोऽस्मै प्रासृजद् धोरमैषीकमपराजितः॥ अस्त्रमप्रतिसंधेयं तदद्भुतमिवाभवत्। तेषामक्षीणि कर्णाश्च नासिकाश्चैव मायया॥ निमित्तवेधी स मुनिरिषीकाभिः समार्पयत्। स दृष्ट्वा श्वेतमाकाशमिषीकाभिः समाचितम्॥ पादयो→पतद् राजा स्वस्ति मेऽस्त्विति चाब्रवीत्। तमब्रवीनरो राजशरण्यः शरणैषिणाम्॥ ब्रह्मण्यो भव धर्मात्मा मा च स्मैवं पुन: कृथाः। नैतादृक् पुरुषो राजन् क्षत्रधर्ममनुस्मरन्॥ मनसा नृपशार्दूल भवेत् परपुरंजयः। मा च दर्पसमाविष्टः क्षेप्सीः कांश्चित् कथंचन॥ अल्पीयांसं विशिष्टं वां तत् ते राजन् समाहितम्। कृतप्रज्ञो वीतलोभो निरहंकार आत्मवान्॥ दान्तः क्षान्तो मृदुः सौम्यः प्रजाः पालय पार्थिवा मा स्म भूयः क्षिपे: कंचिदविदित्वा बलाबलम्॥ अनुज्ञातः स्वस्ति गच्छ मैवं भूयः समाचरेः। कुशलं ब्राह्मणान् पृच्छेरावयोर्वचनाद् भृशम्॥ ततो राजा तयोः पादावभिवाद्य महात्मनोः। प्रत्याजगाम स्वपुरं धर्मं चैवाचरद् भृशम्॥ सुमहच्चापि तत् कर्म यन्नरेण कृतं पुरा। ततो गुणैः सुबहुभिः श्रेष्ठो नारायणोऽभवत्॥ तस्माद् यावद् धनुःश्रेष्ठे गाण्डीवेऽस्त्रं न युज्यते। तावत् त्वं मानमुत्सृज्य गच्छ राजन् धनंजयम्॥ काकुदीकं शुकं नाकमक्षिसंतर्जनं तथा। संतानं नर्तकं घोरमास्यमोदकमष्टम्॥ एतैर्विद्धाः सर्व एव मरणं यान्ति मानवाः। कामक्रोधौ लोभमोहौ मदमानौ तथैव च॥ मात्सर्याहंकृती चैव क्रमादेत उदाहृताः। उन्मत्ताश्च विचेष्टन्ते नष्टसंज्ञा विचेतसः॥ स्वपन्ति च प्लवन्ते च छर्दयन्ति च मानवाः। मूत्रयन्ते च सततं रुदन्ति च हसन्ति च॥ निर्माता सर्वलोकानामीश्वरः सर्वकर्मवित्। यस्य नारायणो बन्धुरर्जुनो दुःसहो युधि॥ कस्तमुत्सहते जेतुं त्रिषु लोकेषु भारत। वीरं कपिध्वजं जिष्णुं यस्य नास्ति समो युधि॥ असंख्येया गुणाः पार्थे तद्विशिष्टो जनार्दनः। त्वमेव भूयो जानासि कुन्तीपुत्र धनंजयम्॥ नरनारायणौ यौ तौ तावेवार्जुनकेशवौ। विजानीहि महाराज प्रवीरौ पुरुषोत्तमौ॥ यद्येतदेवं जानासि न च मामभिशङ्कसे। आर्यां मतिं समास्थाय शाम्य भारत पाण्डवैः॥ अथ चेन्मन्यसे श्रेयो न मे भेदो भवेदिति। प्रशाम्य भरतश्रेष्ठ मा च युद्धे मनः कृथाः॥ भवतां च कुरुश्रेष्ठ कुलं बहुमतं भुवि। तत् तथैवास्तु भद्रं ते स्वार्थमेवोपचिन्तय॥ वैशम्पायन उवाच जामदग्न्य वचः श्रुत्वा कण्वोऽपि भगवानृषिः। दुर्योधनमिदं वाक्यमब्रवीत् कुरुसंसदि॥ कण्व उवाच अक्षयश्चाव्ययश्चैव ब्रह्मा लोकपितामहः। तथैव भगवन्तौ तौ नरनारायणावृषी॥ आदित्यानां हि सर्वेषां विष्णुरेकः सनातनः। अक्षय्यश्चाव्ययश्चैव शाश्वतः प्रभुरीश्वरः॥ निमित्तमरणाश्चान्ये चन्द्रसूर्यौ मही जलम्। वायुरग्निस्तथाऽऽकाशं ग्रहास्तारागणास्तथा॥ ते च क्षयान्ते जगतो हित्वा लोकत्रयं सदा। क्षयं गच्छन्ति वै सरेवे सृज्यन्ते च पुनः पुनः॥ मुहूर्तमरणास्त्वन्ये मानुषा मृगपक्षिणः। तैर्यग्योन्याश्च ये चान्ये जीवलोकचरास्तथा॥ भूयिष्ठेन तु राजानः श्रियं भुक्त्वाऽऽयुषः क्षये। तरुणाः प्रतिपद्यन्ते भोक्तुं सुकृतदुष्कृते॥ स भवान् धर्मपुत्रेण शमं कर्तुमिहार्हति। पाण्डवाः कुरवश्चैव पालयन्तु वसुंधराम्॥ बलवानहमित्येव न मन्तव्यं सुयोधन। बलवन्तो बलिभ्यो हि दृश्यन्ते पुरुषर्षभ॥ न बलं बलिनां मध्ये बलं भवति कौरव। बलवन्तो हि ते सर्वे पाण्डवा देवविक्रमाः॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। मातलेर्दातुकामस्य कन्या मृगयतो वरम्॥ मतस्त्रैलोक्यराजस्य मातलि म सारथिः। तस्यैकैव कुले कन्या रूपतो लोकविश्रुता॥ गुणकेशीति विख्याता नाम्ना सा देवरूपिणी। श्रिया च वपुषा चैव स्त्रियोऽन्याः साऽतिरिच्यते॥ तस्याः प्रदानसमयं मातलिः सह भार्यया। ज्ञात्वा विममृशे राजंस्तत्परः परिचिन्तयन्॥ धिकं खल्वलघुशीलानामुच्छ्रितानां यशस्विनाम्। नराणां मृदुसत्त्वानां कुले कन्याप्ररोहणम्॥ मातुः कुलं पितृकुलं यत्र चैव प्रदीयते। कुलत्रयं संशयितं कुरुते कन्यका सताम्॥ देवमानुषलोकौ द्वौ मानुषेणैव चक्षुषा। अवगाह्मैव विचितौ न च मे रोचते वरः॥ कण्व उवाच न देवान् नैव दितिजान् न गन्धर्वान् न मानुषान्। अरोचयद् वरकृते तथैव बहुलानृषीन्॥ भार्ययाऽनु स सम्मन्त्र्य सह रात्रौ सुधर्मया। मातलि गलोकाय चकार गमने मतिम्॥ न मे देवमनुष्येषु गुणकेश्याः समो वरः। रूपतो दृश्यते कश्चिन्नागेषु भविता ध्रुवम्॥ इत्यामन्त्र्य सुधर्मा स कृत्वा चाभिप्रदक्षिणम्। कन्यां शिरस्युपाध्राय प्रविवेश महीतलम्॥ कण्व उवाच मातलिस्तु व्रजन् मार्गे नारदेन महर्षिणा। वरुणं गच्छता द्रष्टुं समागच्छद् यदृच्छया॥ नारद उवाच नारदोऽथाब्रवीदेनं क्व भवान् गन्तुमुद्यतः। स्वेन वा सूत कार्येण शासनाद् वा शतक्रतोः॥ कण्व उवाच मातलिर्नारदेनैव सम्पृष्टः पथि गच्छता। यथावत् सर्वमाचष्ट स्वकार्यं नारदं प्रति॥ तमुवाचाथ स मुनिर्गच्छावः सहिताविति। सलिलेशदिदृक्षार्थमहमप्युद्यतो दिवः॥ अहं ते सर्वमाख्यास्ये दर्शयन् वसुधातलम्। दृष्ट्वा तत्र वरं कंचिद् रोचयिष्याव मातले॥ अवगाह्य तु तौ भूमिमुभौ मातलिनारदौ। ददृशाते महात्मानौ लोकपालमपां पतिम्॥ तत्र देवर्षिसदृशीं पूजां स प्राप नारदः। महेन्द्रसदृशीं चैव मातलिः प्रत्यपद्यत॥ तावुभौ प्रीतमनसौ कार्यवन्ता निवेद्य ह। वरुणेनाभ्यनुज्ञातौ नागलोकं विचेरतुः॥ नारदः सर्वभूतानामन्तभूमिनिवासिनाम्। जानंश्चकार व्याख्यानं यन्तुः सर्वमशेषतः॥ नारद उवाच दृष्टस्ते वरुणः सूत पुत्रपौत्रसमावृतः। पश्योदकपते: स्थानं सर्वतोभद्रमृद्धिमत्॥ एष पुत्रो महाप्रज्ञो वरुणस्येह गोपतेः। एष वै शीलवृत्तेन शौचेन च विशिष्यते॥ एषोऽस्य पुत्रोऽभिमतः पुष्करः पुष्करेक्षणः। रुपवान् दर्शनीयश्च सोमपुत्र्या वृतः पतिः॥ ज्योत्स्नाकालीति यामाहुर्द्वितीयां रूपतः श्रियम्। अदित्याश्चैव यः पुत्रो ज्येष्ठः श्रेष्ठः कृतः स्मृतः॥ भवनं वारुणं पश्य यदेतत् सर्वकाञ्चनम्। यत् प्राप्य सुरतां प्राप्ताः सुराः सुरपतेः सखे॥ एतानि हृतराज्यानां दैतेयानां स्म मातले। दीप्यमानानि दृश्यन्ते सर्वप्रहरणान्युत॥ अक्षयाणि किलैतानि विवर्ततन्ते स्म मातले। अनुभावप्रयुक्तानि सुरैरवजितानि ह॥ अत्र राक्षसजात्यश्च दैत्यजात्यश्च मातले। दिव्यप्रहरणाश्चासन् पूर्वदैवतनिर्मिताः॥ अग्निरेष महार्चिष्पाञ्जागर्ति वारुणे ह्रदे। वैष्णवं चक्रमाविद्धं विधूमेन हविष्मता॥ एष गाण्डीमयश्चापो लोकसंहारसम्भृतः। रक्ष्यते देवतैर्नित्यं यतस्तद गाण्डिवं धनुः॥ एष कृत्ये समुत्पन्ने तत् तद् धारयते बलम्। सहस्रशतसंख्येन प्राणेन सततं ध्रुवः॥ अशास्यानपि शास्त्येष रक्षोबन्धुषु राजसु। सृष्टः प्रथमतश्चण्डो ब्रह्मणा ब्रह्मवादिना॥ एतच्छस्त्रं नरेन्द्राणां महच्चक्रेण भासितम्। पुत्राः सलिलरजास्य धारयन्ति महोदयम्॥ एतत् सलिलराजस्यच्छत्रं छत्रगृहे स्थितम्। सर्वतः सलिलं शीतं जीमूत इव वर्षति॥ एतच्छत्रात् परिभ्रष्टं सलिलं सोमनिर्मलम्। तमसा मूर्छितं भाति येन नार्छति दर्शनम्॥ बहून्यद्भुतरूपाणि द्रष्टव्यानीह मातले। तव कार्यावरोधस्तु तस्माद् गच्छाव मा चिरम्॥ नारद उवाच एतत् तु नागलोकस्य नाभिस्थाने स्थितं पुरम्। पातालमिति विख्यातं दैत्यदानवसेवितम्॥ इदमद्भिः समं प्राप्ता ये केचिद् भुवि जङ्गमाः। प्रविशन्तो महानादं नदन्ति भयपीडिताः॥ अत्रासुरोऽग्निः सततं दीप्यते वारिभोजनः। व्यापारेण धृतात्मानं निबद्धं समबुध्यत॥ अत्रामृतं सुरैः पीत्वा निहितं निहतारिभिः। अतः सोमस्य हानिश्च वृद्धिश्चैव प्रदृश्यते॥ अत्रादित्यो हयशिराः काले पर्वणि पर्वणि। उत्तिष्ठति सुवर्णाख्यो वाग्भिरापूरयञ्जगत्॥ यस्मादलं समस्तास्ताः पतन्ति जलमूर्तयः। तस्मात् पातालमित्येव ख्यायते पुरमुत्तमम्॥ ऐरावणोऽस्मात् सलिलं गृहीत्वा जगतो हितः। मेघेष्वामुञ्चते शीतं यन्महेन्द्रः प्रवर्षति॥ अत्र नानाविधाकारास्तिमयो नैकरूपिणः। अप्सु सोमप्रभां पीत्वा वसन्ति जलचारिणः॥ अत्र सूर्यांशुभिर्भिन्नाः पातालतलमाश्रिताः। मृता हि दिवसे सूत पुनर्जीवन्ति वै निशि॥ उदयन् नित्यशश्चात्र चन्द्रमा रश्मिबाहुभिः। अमृतं स्पृश्य संस्पर्शात् संजीवयति देहिनः॥ अन्ने तेऽधर्मनिरता बद्धाः कालेन पीडिताः। दैतेया निवसन्ति स्म वासवेन हतश्रियः॥ अत्र भूतपतिर्नाम सर्वभूतमहेश्वरः। भूतये सर्वभूतानामचरत् तप उत्तमम्॥ अत्र गोवतिनो विप्राः स्वाध्यायम्नायकर्शिताः। त्यक्तप्राण जितस्वर्गा निवसन्ति महर्षयः॥ यत्रतत्रशयो नित्यं येन केनचिदाशितः। पेन केनचिदाच्छन्नः स गोव्रत इहोच्यते॥ ऐरावणो नागराजो वामनः कुमुदोञ्जनः। प्रसूताः सुप्रतीकस्य वंशे वारणसत्तमाः॥ पश्य यद्यत्र ते कश्चिद् रोचते गुणतो वरः। वरयिष्यामि तं गत्वा यत्नमास्थाय मातले॥ अण्डमेतज्जले न्यस्तं दीप्यमानमिव श्रिया। आ प्रजानां निसर्गाद् नै नोद्भिद्यति न सर्पति॥ नास्य जाति निसर्ग वा कथ्यमानं शृणोमि वै। पितरं मातर चापि नास्य जानाति कश्चन॥ अतः किल महानग्निरन्तकाले समुत्थितः। धक्ष्यते मातले सर्वं त्रैलोक्यं सचराचरम्॥ मातलिस्त्वब्रवीच्छ्रुत्वा नारदस्याथ भाषितम्। न मेऽत्र रोचते कश्चिदन्यतो व्रज माचिरम्॥ नारद उवाच अयं लोकः सुपर्णानां पक्षिणां पन्नगाशिनाम्। विक्रमे गमने भारे नैषामस्ति परिश्रमः॥ वैनतेयसुतैः सूत षड्भिस्ततमिदं कुलम्। सुमुखेन सुनाम्ना च सुनेत्रेण सुवर्चसा॥ सुरुचा पक्षिराजेन सुबलेन च मातले। वर्धितानि प्रसृत्या वै विनताकुलकर्तृभिः॥ पक्षिराजाभिजात्यानां सहस्राणि शतानि च। कश्यपस्य ततो वंशे जातैर्भूतिविवर्धनैः॥ सर्वे ह्येते श्रिया युक्ताः सर्वे श्रीवत्सलक्षणाः। सर्वे श्रियमभीप्सन्तो धारयन्ति बलान्युत॥ कर्मणा क्षत्रियाश्चैते निघृणा भोगिभोजिनः। ज्ञातिसंक्षयकर्तृत्वाद् ब्राह्मण्यं न लभन्ति वै॥ नामानि चैषां वक्ष्यामि यथा प्राधान्यतः शृणु। मातले श्लाध्यमेतद्धि कुलं विष्णुपरिग्रहम्॥ दैवतं विष्णुरेतेषां विष्णुरेव परायणम्। हृदि चैषां सदा विष्णुर्विष्णुरेव सदा गतिः॥ सुवर्णचूडो नागाशी दारुणश्चण्डतुण्डकः। अनिलश्चानलश्चैव विशालाक्षोऽथ कुण्डली॥ पङ्कजिद् वज्रविष्कम्भो वैनतेयोऽथ वामनः। वातवेगो दिशाचक्षुर्निमेषोऽनिमिषस्तथा॥ त्रिराव: सप्तरावश्च वाल्मीकिर्दीपकस्तथा। दैत्यद्वीपः सरिद्वीपः सारसः पद्मकेतनः॥ सुमुखश्चित्रकेतुश्च चित्रबर्हस्तथाऽनघः। मेषहत् कुमुदो दक्षः सर्पान्तः सहभोजनः॥ गुरुभारः कपोतश्च सूर्यनेत्रश्चिरान्तकः। विष्णुधर्मा कुमारश्च परिबर्हो हरिस्तथा॥ सुस्वरो मधुपर्कञ्च हेमवर्णस्तथैव च। लयो मातरिश्वा च निशाकरदिवाकरौ॥ एते प्रदेशमात्रेण मयोक्ता गरुडात्मजाः। प्राधान्यतस्ते यशसा कीर्तिताः प्राणिनश्च ये॥ यद्यत्र न रुचिः काचिदेहि गच्छाव मातले। तं नयिष्यामि देशं त्वां वरं यत्रोपलप्स्यसे।॥ नारद उवाच इदं रसातलं नाम सप्तमं पृथिवीतलम्। यत्रास्ते सुरभिर्माता गवाममृतसम्भवा॥ क्षरन्ती सततं क्षीरं पृथिवीसारसंभवम्। षण्णां रसानां सारेण रसमेकमनुत्तमम्॥ अमृतेनाभितृप्तस्य सारमुद्रितः पुरा। पितामहस्य वदनादुदतिष्ठदनिन्दिता॥ यस्याः क्षीरस्य धाराया निपतन्त्या महीतले। ह्रदः कृतः क्षीरनिधिः पवित्रं परमुच्यते॥ पुष्पितस्येव फेनेन पर्यन्तमनुवेष्टितम्। पिबन्तो निवसन्त्यत्र फेनपा मुनिसत्तमाः॥ फेनपा नाम ते ख्याताः फेनाहाराश्च मातले। उचे तपसि वर्तन्ते येषां बिभ्यति देवताः॥ अस्याश्चतस्रो धेन्वोऽन्या दिक्षु सर्वासु मातले। निवसन्ति दिशां पाल्यो धारयन्त्यो दिशः स्म ताः॥ पूर्वां दिशं धारयते सुरूपा नाम सौरभी। दक्षिणां हंसिका नाम धारयत्यपरां दिशम्॥ पश्चिमा वारुणी दिक् च धार्यते व सुभद्रया। महानुभावया नित्यं मातले विश्वरूपया।॥ सर्वकामदुधा नाम धेनुर्धारयते दिशम्। उत्तरां मातले धा तथैलविसंज्ञिताम्॥ आसां तु पयसा मिश्रं पयो निर्मथ्य सागरे। मन्थानं मन्दरं कृत्वा देवैरसुरसंहितैः॥ उद्धृता वारुणी लक्ष्मीरमृतं चापि मातले। उच्चैःश्रवाश्चाश्वराजो मणिरत्नं च कौस्तुभम्॥ सुधारहारेषु च सुधां स्वधाभोजिषु च स्वधाम्। अमृतं चामृताशेषु सुरभी क्षरते पयः॥ अत्र गाथा पुरा गीता रसातलनिवासिभिः। पौराणी श्रूयते लोके गीयते या मनीषिभिः॥ न नागलोके स्वर्गे न विमाने त्रिविष्टपे। परिवासः सुखस्तादृक् रसातलतले यथा॥ नारद उवाच इयं भोगवती नाम पुरी वासुकिपालिता। यादृशी देवराजस्य पुरीवर्याऽमरावती॥ एष शेषः स्थितो नागो येनेयं धार्यते सदा। तपसा लोकमुख्येन प्रभावसहिता मही॥ श्वेताचलनिभाकारो दिव्याभरणभूषितः। सहस्रं धारयन् मूर्धा ज्वालाजिह्वो महाबलः॥ इह नानाविधाकारा नानाविधविभूषणाः। सुरसायाः सुता नागा निवसन्ति गतव्यथाः॥ मणिस्वस्तिकचक्राङ्काः कमण्डलुकलक्षणाः। सहस्रसंख्यां बलिनः सर्वे रौद्रा: स्वभावतः॥ सहस्रशिरसः केचित् केचित् पञ्चशताननाः। शतशीर्षास्तथा केचित् केचित् त्रिशिरसोऽपि च॥ द्विपञ्चशिरसः केचित् केचित् सप्तमुखास्तथा। महाभोगा महाकायाः पर्वताभोगभोगिनः॥ बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च। नागानामेकवंशानां यथाश्रेष्ठं तु मे शृणु॥ वासुकिस्तक्षकश्चैव कर्कोटकधनंजयौ।। कालियो नहुषश्चैव कम्बलाश्वतरावुभौ॥ बाह्यकुण्डो मणि गस्तथैवापूरणः खगः। वामनश्चैलपत्रश्च कुकुरः कुकुणस्तथा॥ आर्यको नन्दकश्चैव तथा कलशपोतकौ। कैलासकः पिञ्जरको नागश्चैरावतस्तथा॥ सुमनोमुखो दधिमुखः शङ्खो नन्दोपनन्दकौ। आप्तः कोटरकश्चैव शिखी निष्ठुरिकस्तथा॥ तित्तिरिर्हस्तिभद्रश्च कुमुदो माल्यपिण्डकः। द्वौ पद्मौ पुण्डरीकश्च पुष्पो मुद्गरपर्णकः॥ करवीरः पीठरकः संवृत्तो वृत्त एव च। पिण्डारो बिल्वपत्रश्च मूषिकादः शिरीषकः॥ दिलीपः शङ्खशीर्शश्च ज्योतिष्कोऽथापराजितः। कौरव्यो धृतराष्ट्रश्च कुहुरः कृशकस्तथा॥ विरजा धारणश्चैव सुबाहुर्मुखरो जयः। बधिरान्धौ विशुण्डिश्च विरसः सुरसस्तथा॥ एते चान्ये च बहवः कश्यपस्यात्मजाः स्मृताः। मातले पश्य यद्यत्र कश्चित् ते रोचते वरः॥ कण्व उवाच मातलिस्त्वेकमव्यग्रः सततं संनिरीक्ष्य वै। पप्रच्छ नारदं तत्र प्रीतिमानिव चाभवत्॥ स्थितो य एष पुरतः कौरव्यस्यार्यकस्य तु। द्युतिमान् दर्शनीयश्च कस्यैष कुलनन्दनः॥ कः पिता जननी चास्य कतमस्यैष भोगिनः। वंशस्य कस्यैष महान् केतुभूत इव स्थितः॥ प्रणिधानेन धैर्येण रूपेण वयसा च मे। मनः प्रविष्टो देवर्षे गुणकेश्याः पतिर्वरः॥ कण्व उवाच मातलिं प्रीतमनसं दृष्ट्वा सुमुखदर्शनात्। निवेदयामास तदा माहात्म्यं जन्म कर्म च॥ नारद उवाच ऐरावतकुले जात: सुमुखो नाम नागराट्। आर्यकस्य मतः पौत्रो दौहित्रो वामनस्य च॥ एतस्य हि पिता नागश्चिकुरो नाम मातले। नचिराद् वैनतेयेन पञ्चत्वमुपपादितः॥ ततोऽब्रवीत् प्रीतमना मातलि रदं वचः। एष मे रुचितस्तात जामाता भुजगोत्तमः॥ क्रियतामत्र यत्नो वै प्रीतिमानस्यनेन वै। अस्मै नागाय वै दातुं प्रियां दुहितरं मुने।॥ नारद उवाच सुतोऽयं मातलि म शक्रस्य दयितः सुहृत्। शुचिः शीलगुणोपेतस्तेजस्वी वीर्यवान् बली॥ शक्रस्यायं सखा चैव मन्त्री सारथिरेव च। अल्पान्तरप्रभावश्च वासवेन रणे रणे॥ अश्यं हरिसहस्रेण युक्तं जैत्रं रथोत्तमम्। देवासुरेषु युद्धेषु मनसैव नियच्छति॥ अनेन विजितानश्वैर्दो( जयति वासवः। अनेन बलभित् पूर्वं प्रहते प्रहरत्युत॥ अस्य कन्या वरारोहा रूपेणासदृशी भुवि। सत्यशीलगुणोपेता गुणकेशीति विश्रुता॥ तस्यास्य यत्नाच्चरतस्त्रैलोक्यममराते। सुमुखो भवत: पौत्रो रोचते दुहितुः पतिः॥ यदि ते रोचते सम्यग् भुजगोत्तम मा चिरम्। क्रियतामार्यक क्षिप्रं बुद्धिः कन्यापरिग्रहे॥ यथा विष्णुकुले लक्ष्मीर्यथा स्वाहा विभावसोः। कुले तव तथैवास्तु गुणकेशी सुमध्यमा॥ पौत्रस्यार्थं भवांस्तस्माद् गुणकेशी प्रतीच्छतु। सदृशी प्रतिरूपस्य वासवस्य शचीमिव॥ पितृहीनमपि ह्येनं गुणतो वरयामहे। बहमानाच्च भवतस्तथैवैरावतस्य च॥ सुमुखस्य गुणैश्चैव शीलशौचदमादिभिः। अभिगम्य स्वं कन्यामयं दातुं समुद्यतः॥ कण्व उवाच मातलिस्तस्य सम्मानं कर्तुमर्हो भवानपि। स तु दीनः प्रहृष्टश्च प्राह नारदमार्यकः॥ क्रियमाणे तथा पौत्रे पुत्रे च निधनं गते। कथमिच्छामि देवर्षे गुणकेशी स्नुषां प्रति॥ आर्यक उवाच न मे नमैतद् बहुमतं महर्षे वचनं तव। सखा शक्रस्य संयुक्तः कस्यायं नेप्सितो भवेत्॥ कारणस्य तु दौर्बल्याच्चिन्तयामि महामुने। अस्य देहकरस्तात मम पुत्रो महाद्युते॥ भक्षितौ वैनतेयेन दुःखार्तास्तेन वै वयम्। पुनरेव च तेनोक्तं वैनतेयेन गच्छता। मासेनान्येन सुमुखं भक्षयिष्य इति प्रभो॥ ध्रुवं तथा तद् भविता जानीमस्तस्य निश्चयम्। तेन हर्षः प्रणष्टो मे सुपर्णवचनेन वै॥ कण्व उवाच मातलिस्त्वब्रवीदेनं बुद्धिरत्र कृता मया। जामातृभावेन वृतः सुमुखस्तव पुत्रजः॥ सोऽयं मया च सहितो नारदेन च पन्नगः। त्रिलोकेशं सुरपतिं गत्वा पश्यतु वासवम्॥ शेषेणैवास्य कार्यण प्रज्ञास्याम्यहमायुषः। सुपर्णस्य विधाते च प्रयतिष्यामि सत्तम॥ सुमुखश्च मया सार्धं देवेशमभिगच्छतु। कार्यसंसाधनार्थाय स्वस्ति तेऽस्तु भुजंगम॥ ततस्ते सुमुखं गृह्य सर्व एव महौजसः। ददृशुः शक्रमासीनं देवराजं महाद्युतिम्॥ संगत्या तत्र भगवान् विष्णुरासीच्चतुर्भुजः। ततस्तत् सर्वमाचख्यौ नारदो मातलिं प्रति॥ वैशम्पायन उवाच ततः पुरंदरं विष्णुरुवाच भुवनेश्वरम्। अमृतं दीयतामस्मै क्रियताममरैः समः॥ मातलि रदश्चैव सुमुखश्चैव वासव। लभन्तां भवतः कामात् काममेतं यथेप्सितम्॥ पुरंदरोऽथ संचिन्त्य वैनतेयपराक्रमम्। विष्णुमेवाब्रवीदेनं भवानेन ददात्विति॥ विष्णुरुवाच ईशस्त्वं सर्वलोकानां चराणामचराश्च ये। त्वया दत्तमदत्तं कः कर्तुमुत्सहते विभो॥ प्रादाच्छक्रस्ततस्तस्मै पन्नगायायुरुत्तमम्। न त्वेनममृतप्राशं चकार बलवृत्रहा॥ लब्ध्वा वरं तु सुमुखः सुमुखः सम्बभूव ह। कृतदारो यथाकामं जगाम च गृहान् प्रति॥ नारदस्त्वार्यकश्चैव कृतकार्यों मुदा युतौ। अभिजग्मतुरभ्यर्च्य देवराजं महाद्युतिम्॥ कण्व उवाच गरुडस्तत्र शुश्राव यथावृत्तं महाबलः। आयुःप्रदानं शक्रेण कृतं नागस्य भारत॥ पक्षवातेन महता रुद्ध्वा त्रिभुवनं खगः। सुपर्णः परमक्रुद्धो वासवं समुपाद्रवत्॥ गरुड उवाच भगवन् किमवज्ञानाद् वृत्तिः प्रतिहता मम। कामकारवरं दत्त्वा पुनश्चलितवानसि॥ निसर्गात् सर्वभूतानां सर्वभूतेश्वरेण मे। आहारो विहितो धात्रा किमर्थं वार्यते त्वया॥ वृतश्चैष महानागः स्थापितः समयश्च अनेन च मया भर्तव्यः प्रसवो महान्॥ एतस्मिंस्तु तथाभूते नान्यं हिंसित्तमुत्सहे। क्रीडसे कामकारेण देवराज यथेच्छकम्॥ सोऽहं प्राणान् विमोक्ष्यामि तथा परिजनो मम। ये च भृत्या मम गृहे प्रीतिमान् भव वासव॥ एतच्चैवाहमर्हामि भूयश्च बलवृत्रहन्। त्रैलोकस्येश्वरो योऽहं परभृत्यत्वमागतः॥ त्वयि तिष्ठति देवेश न विष्णुः कारणं मम। त्रैलोक्यराज राज्यं हि त्वयि वासव शाश्वतम्॥ जननी कश्यपः पिता। अहमप्युत्सहे लोकान् समन्ताद् वोदुमञ्जसा॥ असह्यं सर्वभूतानां ममापि विपुलं बलम्। मयापि सुमहत् कर्म कृतं दैतेयविग्रहे॥ श्रुतश्रीः श्रुतसेनश्च विवस्वान् रोचनामुखः। प्रसृतः कालकाक्षश्च मयापि दितिजा हताः॥ यत् तु ध्वजस्थानगतो यत्नात् परिचराम्यहम्। वहामि चैवानुजं ते तेन मामवमन्यसे॥ ममापि दक्षस्य सुता कोऽन्यो भारसहो ह्यस्ति कोऽन्योऽस्ति बलवत्तरः। मया योऽहं विशिष्टः सन् वहामीमं सबान्धवम्॥ अवज्ञाय तु यत् तेऽहं भोजनाद् व्यपरोपितः। तेन मे गौरवं नष्टं त्वतश्चास्माच्च वासव॥ अदित्यां य इमे जाता बलविक्रमशालिनः। त्वमेषां किल सर्वेषां बलेन बलवत्तरः॥ सोऽहं पक्षैकदेशेन वहामि त्वां गतक्लमः। विमृशं त्वं शनैस्तात को न्वत्र बलवानिति॥ कण्व उवाच स तस्य वचनं श्रुत्वा खगस्योदर्कदारुणम्। अक्षोभ्यं क्षोभयंस्तार्क्ष्यमुवाच रथचक्रभृत्॥ गरुत्मन् मन्यसेऽऽत्मानं बलवन्तं सुदुर्बलम्। अलमस्मत्समक्षं ते स्तोतुमात्मानमण्डज॥ त्रैलोक्वमपि मे कृत्स्नमशक्तं देहधारणे। अहमेवात्मनाऽऽत्मानं बहामि त्वां च धारये॥ इमं तावन्ममैकं त्वं बाहुं सव्येतरं वह। यद्येनं धारयस्येकं सफलं ते विकस्थितम्॥ ततः स भगवांस्तस्य स्कन्धे बाहुं समासजत्। निपपात स भारा” विह्वलो नष्टचेतनः॥ यावान् हि भारः कृत्स्नायाः पृथिव्याः पर्वतैः सह। एकस्या देहशाखायास्तावद् भारममन्यत॥ न त्वेनं पीडयामास बलेन बलवत्तरः। ततो हि जीवितं तस्य न व्यनीनशदच्युतः॥ व्यात्तास्यः सस्तकायश्च विचेता विह्वलः खगः। मुमोच पत्राणि तदा गुरुभारप्रपीडितः॥ स विष्णु शिरसा पक्षी प्रणम्य विनतासुतः। विचेता विह्वलो दीन: किंचिद् वचनमब्रवीत्॥ भगवल्लोकसारस्य सदृशेन वपुष्मता। भुजेन स्वैरमुक्तेन निष्पिष्टोऽस्मि महीतले॥ क्षन्तुमर्हसि मे देव विह्वलस्याल्पचेतसः। बलदाहविदग्धस्य पक्षिणो ध्वजवासिनः॥ न हि ज्ञातं बलं देव मया ते परमं विभो। तेन मन्याम्यहं वीर्यमात्मनो न समं परैः॥ ततश्चक्रे स भगवान् प्रसादं वै गरुत्मतः। मैवं भूय इति स्नेहात् तदा चैनमुवाच ह॥ पादाङ्गुष्ठेन चिक्षेप सुखं गरुडोरसि। ततःप्रभृति राजेन्द्र सह सर्पण वर्तते।॥ एवं विष्णुबलाक्रान्तो गर्वनाशमुपागतः। गरुडो बलवान् राजन् वैनतेयो महायशाः॥ कण्व उवाच तथा त्वमपि गान्धारे यावत् पाण्डुसुतान् रणे। नासादयसि तान् वीरांस्तावजीवसि पुत्रक॥ भीमः प्रहरतां श्रेष्ठो वायुपुत्रो महाबलः। धनंजयश्चेन्द्रसुतो न हन्यातां तु कं रणे॥ विष्णुर्वायुश्च शक्रश्च धर्मस्तौ चाश्विनावुभौ। एते देवास्त्वया केन हेतुना वीक्षितुं क्षमाः॥ तदलं ते विरोधेन शमं गच्छ नृपात्मज) वासुदेवेन तीर्थेन कुलं रक्षितुमर्हसि॥ प्रत्यक्षदर्शी सर्वस्य नारदोऽयं महातपाः। महात्म्यस्य तदा विष्णोः सोऽयं चक्रगदाधर॥ वैशम्पायन उवाच दुर्योधनस्तु तच्छ्रुत्वा निःश्वसन् भृकुटीमुखः। राधेयमभिसम्प्रेक्ष्य जहास स्वनवत् तदा॥ कदर्थीकृत्य तद् वाक्यमृषेः कण्वस्य दुर्मतिः। ऊरूं गजकराकारं ताडयन्निदमब्रवीत्॥ यथैवेश्वरसृष्टोऽस्मि यद् भावि या च मे गतिः। तथा महर्षे वर्तामि किं प्रलापः करिष्यति॥ जनमेजय उवाच अनर्थं जातनिर्बन्धं परार्थं लोभमोहितम्। अनार्यकेष्वभिरतं मरणे कृतनिश्चयम्॥ ज्ञातीनां दुःखकर्तारं बन्धूनां शोकवर्धनम्। सुहृदां क्लेशदातारं द्विषतां हर्षवर्धनम्॥ कथं नैनं विमार्गस्थं वारयन्तीह बान्धवाः। सौहृदाद् वा सुहृत् स्निग्धो भगवान् वा पितामहः॥ वैशम्पायन उवाच उक्तं भगवता वाक्यमुक्तं भीष्मेण यत् क्षयम्। उक्तं बहुविधं चैव नारदेनापि तच्छृणु॥ नारद उवाच दुर्लभो वै सुहच्छ्रोता दुर्लभश्च हितः सुहृत्। तिष्ठते हि सुहृद् यत्र न बन्धुस्तत्र तिष्ठते॥ श्रोतव्यमपि पश्यामि सुहृदां कुरुनन्दन। न कर्तव्यश्च निर्बन्धो निर्बन्धो हि सुदारुणः॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। यथा निर्बन्धतः प्राप्तो गालवेन पराजयः॥ विश्वामित्रं तपस्यन्तं धर्मो जिज्ञासया पुरा। अभ्यगच्छत् स्वयं भूत्वा वसिष्ठो भगवानृषिः॥ सप्तर्षीणामन्यतमं वेषमास्थाय भारत। बुभुक्षुः क्षुभितो राजन्नाश्रमं कौशिकस्य तु॥ विश्वामित्रोऽथ सम्भ्रान्तः श्रपयामास वै चरुम्। परमान्नस्य यत्नेन न च तं प्रत्यपालयत्॥ अन्नं तेन तदा भुक्तमन्यैर्दत्तं तपस्विभिः। अथ गृह्यान्नमत्युष्णं विश्वामित्रोऽप्युपागमत्॥ भुक्तं मे तिष्ठ तावत् त्वमित्युक्त्वा भगवान् ययौ। विश्वामित्रस्ततो राजन् स्थितं एव महाद्युतिः॥ भक्तं प्रगृह्य मूर्धा वै बाहुभ्यां संशितव्रतः। स्थितः स्थाणुरिवाभ्याशे निष्चेष्टो मारुताशनः॥ तस्य शुश्रूषणे यलमकरोद् गालवो मुनिः। गौरवाद् बहुमानाच्च हार्देन प्रियकाम्यया॥ अथ वर्षशते पूर्णे धर्मः पुनरुपागमत्। वासिष्ठं वेषमास्थाय कौशिकं भोजनेप्सया॥ स दृष्ट्वा शिरसा भक्तं ध्रियमाणं महर्षिणा। तिष्ठता वायुभक्षेण विश्वामित्रेण धीमता॥ प्रतिगृह्य ततो धर्मस्तथैवोष्णं तथा नवम्। भुक्त्वाप्रीतोऽस्मि विप्रर्षे तमुक्त्वा स मुनिर्गतः॥ क्षत्रभावादपगतो ब्राह्मणत्वमुपागतः। धर्मस्य वचनात् प्रीतो विश्वामित्रस्तदाभवत्॥ विश्वामित्रस्तु शिष्यस्य गालवस्य तपस्विनः। शुश्रूषया च भक्त्या च प्रीतिमानित्युवाच ह॥ अनुज्ञातौ मया वत्स यथेष्टं गच्छ गालवा इत्युक्तः प्रत्युवाचेदं गालवो मुनिसत्तमम्॥ प्रीतो मधुरया वाचा विश्वामित्रं महाद्युतिम्। दक्षिणाः काः प्रयच्छामि भवते गुरुकर्मणि॥ दक्षिणआभिरुपेतं हि कर्म सिद्ध्यति मानद। दक्षिणानां हि दाता वै अपवर्गेण युज्यते॥ स्वर्गे क्रतुफलं तद्धि दक्षिणा शान्तिरुच्यते। किमाहरामि गुर्वर्थं ब्रवीतु भगवानिति॥ जानानस्तेन भगवाञ्जितः शुश्रूषणेन वै। विश्वामित्रस्तमसकृद् गच्छ गच्छेत्यचोदयत्॥ असकृद् गच्छ गच्छेति विश्वामित्रेण भाषितः। किं ददानीति बहुशो गालवः प्रत्यभाषत॥ निर्बन्धतस्तु बहुशो गालवस्य तपस्विनः। किंचिदागतसंरम्भो विश्वामित्रऽब्रवीदिदम्॥ एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम्। अष्टौ शतानि मे देहि गच्छ गालव मा चिरम्॥ नारद उवाच एवमुक्तस्तदा तेन विश्वामित्रेण धीमता। नास्ते न शेते नाहारं कुरुते गालवस्तदा॥ त्वगस्थिभूतो हरिणश्चिन्ताशोकपरायणः। शोचमानोऽतिमात्रं स दह्यमानश्च मन्युना। गालवो दुःखितो दुःखाद् विललाप सुयोधन॥ कुतः पुष्टानि मित्राणि कुतोऽर्थाः संचयः कुतः। हयानां चन्द्रशुभ्राणां शतान्यष्टौ कुतो मम॥ कुतो मे भोजने श्रद्धा सुखश्रद्धा कुतश्च मे। श्रद्धा मे जीवितस्यापि छिन्ना किं जीवितेन मे॥ अहं पारे समुद्रस्य पृथिव्या वा परम्परात्। गत्वाऽऽत्मानं विमुञ्चामि किं फलं जीवितेन मे॥ अधनस्याकृतार्थस्य त्यक्तस्य विविधैः फलैः। ऋणं धारयमाणस्य कुतः सुखमनीहया॥ सुहृदां हि धनं भुक्त्वा कृत्वा प्रणयमीप्तिसतम्। प्रतिकर्तुमशक्तस्य जीवितान्मरणं वरम्॥ प्रतिश्रुत्य करिष्येति कर्तव्यं तदकुर्वतः। मिथ्यावचनदग्धस्य इष्टापूर्त प्रणश्यति॥ न रूपमनृतस्यास्ति नानृतस्यास्ति संततिः। नानृतस्याधिपत्यं च कुत एव गतिः शुभा॥ कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम्। अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः॥ न जीवत्यधनः पापः कुतः पापस्य तन्त्रणम्। पापो ध्रुवमवाप्नोति विनाशं नाशयन् कृतम्॥ सोऽहं पापः कृतघ्नश्च कृपणश्चानृतोऽपि च। गुरोर्यः कृतकार्यः संस्तत् करोमि न भाषितम्॥ सोऽहं प्राणान् विमोक्ष्यामि कृत्वा यलमनुत्तमम्। अर्थिता न मया काचित् कृतपूर्वा दिवौकसाम्। मानयन्ति च मां सर्वे त्रिदशा यज्ञसंस्तरे॥ अहं तु विबुधश्रेष्ठं देवं त्रिभुवनेश्वरम्। विष्णुं गच्छाम्यहं कृष्णं गतिं गतिमतां वरम्॥ भोगा यस्मात् प्रतिष्ठन्ते व्याप्य सर्वान् सुरासुरान्। प्रणतो द्रष्टुमिच्छामि कृष्ण योगिनमव्ययम्॥ एवमुक्ते सखा तस्य गरुडो विनतात्मजः। दर्शयामास तं प्राह संहृष्टः प्रियकाम्यया॥ सुहृद् भवान् मम मतः सुहृदां च मतः सुहृत्। ईप्सितेनाभिलाषेण योक्तव्यो विभवे सति॥ विभवश्वास्ति मे विप्र वासवावरजो द्विजा पूर्वमुक्तस्त्वदर्थं च कृतः कामश्च तेन मे॥ स भवानेतु गच्छाव नयिष्ये त्वां यथासुखम्। देशं पारं पृथिव्या वा गच्छ गालव मा चिरम्॥ सुपर्ण उवाच अनुशिष्टोऽस्मि देवेन गालवाज्ञानयोनिना। ब्रूहि कामं तु कां यामि द्रष्टुं प्रथमतो दिशम्॥ पूर्वां वा दक्षिणां वाऽहमथवा पश्चिमां दिशम्। उत्तरां वा द्विजश्रेष्ठं कुतो गच्छामि गालव॥ यस्यामुदयते पूर्वं सर्वलोकप्रभावनः। सविता यत्र संध्यायां साध्यानां वर्तते तपः॥ यस्यां पूर्वं मतिर्याता यया व्याप्तमिदं जगत्। चक्षुषी यत्र धर्मस्य यत्र चैध सुतिष्ठितेः॥ कृतं यतो हुतं हव्यं सर्पते सर्वतोदिशम्। एतद् द्वारं द्विजश्रेष्ठ दिवसस्य तथाध्वनः॥ अत्र पूर्वं प्रसूता वै दाक्षायण्यः प्रजाः स्त्रियः। यस्यां दिशि प्रवृद्धाश्च कश्यपस्यात्मसम्भवाः॥ अदोमूला सुराणां श्रीयंत्र शक्रोऽभ्यषिच्यत। सुरराज्येन विप्रर्षे देवैश्चात्र तपश्चितम्॥ एतस्मात् कारणाद् ब्रह्मन् पूर्वेत्येषा दिगुच्यते। यस्मात् पूर्वतरे काले पूर्वमेवावृता सुरैः॥ अत एव च सर्वेषां पूर्वामाशां प्रचक्षते। पूर्वं सर्वाणि कार्याणि दैवानि सुखमीप्सता॥ अत्र वेदाञ्जगौ पूर्वं भगवाँल्लोकभावनः। अत्रैवोक्ता सवित्राऽऽसीत् सावित्री ब्रह्मवादिषु॥ अत्र दत्तानि सूर्येण यजूंषि द्विजसत्तम। अत्र लब्धवरः सोमः सुरैः क्रतुषु पीयते॥ अत्र तृप्ता हुतवहाः स्वां योनिमुपभुञ्जते। अत्र पातालमाश्रित्य वरुण: श्रियमाप च॥ अत्र पूर्वं वसिष्ठस्य पौराणस्य द्विजर्षभ। सूतिश्चैव प्रतिष्ठा च निधनं च प्रकाशते॥ ओङ्कारस्यात्र जायन्ते सुतयो दशतीर्दश। पिबन्ति मुनयो यत्र हविधूमं स्म धूमपाः॥ प्रोक्षिता यत्र बहवो वराहाद्या मृगा वने। शक्रेण यज्ञभागार्थं दैवतेषु प्रकल्पिताः॥ अत्राहिताः कृतघ्नाश्च मानुषाश्चासुराश्च ये। उदयंस्तान् हि सर्वान् वै क्रोधाद्धन्ति विभावसुः॥ एतद् द्वारं त्रिलोकस्य स्वर्गस्य च सुखस्य च। एष पूर्वो दिशां भागो विशावोऽत्र यदीच्छसि॥ प्रियं कार्यं हि मे तस्य यस्यास्मि वचने स्थितः। ब्रूहि गालव यास्यामि शृणु चाप्यपरां दिशम्॥ सुपर्ण उवाच इयं विवस्वता पूर्वं श्रौतेन विधिना किल। गुरवे दक्षिणां दत्ता दक्षिणेत्युच्यते च दिक्॥ अत्र लोकत्रयस्यास्य पितृपक्षः प्रतिष्ठितः। अत्रोष्मपाणां देवानां निवासः श्रूयते द्विज॥ अत्र विश्वे सदा देवाः पितृभिः सार्धमासते। इज्यमानाः स्म लोकेषु सम्प्राप्तास्तुल्यभागताम्॥ एतद् द्वितीयं देवस्य द्वारमाचक्षते द्विज। त्रुटिशो लवशश्चापि गण्यते कालनिश्चयः॥ अत्र देवर्षयो नित्यं पितृलोकर्षयस्तथा। तथा राजर्षयः सर्वे निवसन्ति गतव्यथा:॥ अत्र धर्मश्च सत्यं च कर्म चात्र निगद्यते। गतिरेषा द्विजश्रेष्ठ कर्मणामवसायिनाम्॥ एषा दिक् सा द्विजश्रेष्ठ यां सर्वः प्रतिपद्यते। वृता त्वनवबोधेन सुखं तेन न गम्यते॥ नैर्ऋतानां सहस्राणि बहून्यत्र द्विजर्षभ। सृष्टानि प्रतिकूलानि द्रष्टव्यान्यकृतात्मभिः॥ अत्र मन्दरकुलेषु विप्रर्षिसदनेषु च। गायन्ति गाथा गन्धर्वाश्चित्तबुद्धिहरा द्विज॥ अत्र सामानि गाथाभिः श्रुत्वा गीतानि रैवतः। गतदारो गतामात्यो गतराज्यो वनं गतः॥ अत्र सावर्णिना चैव यवक्रीतात्मजेन च। मर्यादा स्थापिता ब्रह्मन् यां सूर्यो नातिवर्तते॥ अत्र राक्षसराजेन पौलस्त्येन महात्मना। रावणेन तपश्चीक़ सुरेभ्योऽमरता वृता॥ अत्र वृत्तेन वृत्रोऽपि शक्रशत्रुत्यमीयिवान्। अत्र सर्वासवः प्राप्ताः पुनर्गच्छन्ति पञ्चधा॥ अत्र दुष्कृतकर्माणो नराः पच्यन्ति गालव। अत्र वैतरणी नाम नदी वितरणैर्वृता।।१४]i अत्र गत्वा सुखस्यान्तं दुःखस्यान्तं प्रपद्यते। अत्र वृत्तो दिनकरः सुरसं क्षरते पयः॥ काष्ठां चासाद्य वासिष्ठी हिमपुत्सृजते पुनः। अत्राहं गालव पुरा क्षुधातः परिचिन्तयन्॥ लब्धवान् युध्यमानौ द्वौ बृहन्तौ गजकच्छपौ। अत्र चक्रधनुर्नाम सूर्याज्जातो महानृषिः॥ विदुर्यं कपिलं देवं येनार्ताः सगरात्मजाः। अत्र सिद्धाः शिवा नाम ब्राह्मणा वेदपारगाः॥ अधीत्य सकलान् वेदाँल्लेभिरे मोक्षमक्षयम्। अत्र भोगवती नाम पुरी वासुकिपालिता॥ तक्षकेण च नागेन तथैवैरावतेन च। अत्र निर्याणकालेऽपि तमः सम्प्राप्यते महत्॥ अभेद्यं भास्करेणापि स्वयं वा कृष्णवर्त्मना। एष तस्यापि ते मार्गः परिचार्यस्य गालव। ब्रूहि मे यदि गन्तव्यं प्रतीची शृणु चापराम्॥ सुपर्ण उवाच इयं दिग् दयिता राज्ञो वरुणस्य तु गोपतेः। सदा सलिलराज्य प्रतिष्ठा चादिरेव च।।।। अत्र पश्चादहः सूर्यो विसर्जयति गाः स्वयम्। पश्चिमेत्यभिविख्याता दिगियं द्विजसत्तम॥ यादसामत्र राज्येन सलिलस्य च गुप्तये। कश्यपो भगवान् देवो वरुणं स्माभ्यषेचयत्॥ अत्र पीत्वा समस्तान् वै वरुणस्य रसांस्तु षट्। जायते तरुणः सोमः शुक्लस्यादौ तमिस्रहा।॥ अत्र पश्चात् कृता दैत्या वायुना संयतास्तदा। निःश्वसन्तो महावातैरर्दिताः सुषुपुर्द्विज॥ अत्र सूर्यं प्रणयिन प्रतिगृह्णाति पर्वतः। अस्तो नाम यतः संध्या पश्चिमा प्रतिसर्पति॥ अतो रात्रिश्च निद्रा च निर्गता दिवसक्षये। जायते जीवलोकस्य हर्तुमर्धमिवायुषः॥ अत्र देवीं दितिं सुप्तामात्मप्रसवधारिणीम्। विगर्भामकरोच्छनो यत्र जातो मरुद्गणः॥ अत्र मूलं हिमवतो मन्दरं याति शाश्वतम्। अपि वर्षसहस्रेण न चास्यान्तोऽधिगम्यते॥ अत्र काञ्चनशैलस्य काञ्चनाम्बुरुहस्य च। उदधेस्तीरमासाद्य सुरभिः क्षरते पयः॥ अत्र मध्ये समुद्रस्य कबन्धः प्रतिदृश्यते। स्वर्भानोः सूर्यकल्पस्य सोमसूर्यो जिघांसतः॥ सुवर्णशिरसोऽप्यत्र हरिरोम्णः प्रगायतः। अदृश्यस्याप्रमेयस्य श्रूयते विपुलो ध्वनिः॥ अत्र ध्वजवती नाम कुमारी हरिमेधसः। आकाशे तिष्ठ तिष्ठेति तस्थौ सूर्यस्य शासनात्॥ अत्र वायुस्तथा वह्निरापः खं चापि गालव। आह्निकं चैव नैशं च दुःखं स्पर्श विमुञ्चति॥ अतः प्रभृति सूर्यस्य तिर्यगावर्तते गतिः। अत्र ज्योतींषि सर्वाणि विशन्त्यादित्यमण्डलम्॥ अष्टविंशतिरात्रं च चक्रम्य सह भानुना। निष्पतन्ति पुनः सूर्यात् सोमसंयोगयोगतः॥ अत्र नित्यं स्रवन्तीनां प्रभवः सागरोदयः। अत्र लोकत्रयस्यापस्तिष्ठन्ति वरुणालये॥ अत्र पन्नगराजस्याप्यनन्तस्य निवेशनम्। अनादिनिधस्यात्र विष्णोः स्थानमनुत्तमम्॥ अत्रानलसखस्यापि पवनस्य निवेशनम्। महर्षेः कश्यपस्यात्र मारीचस्य निवेशनम्॥ एष ते पश्चिमो मार्गो दिग्द्वारेण प्रकीर्तितः। ब्रूहि गालव गच्छावो बुद्धिः का द्विजसत्तम॥ गालव उवाच गरुत्मन् भुजगेन्द्रारे सुपर्ण विनतात्मज। नय मां तार्क्ष्य पूर्वेण यत्र धर्मस्य चक्षुषी॥ पूर्वमेतां दिशं गच्छ या पूर्वं परिकीर्तिता। देवतानां हि सांनिध्यमत्र कीर्तितवानसि॥ अत्र सत्यं च धर्मश्च त्वया सम्यक् प्रकीर्तितः। इच्छेयं तु समागन्तुं समस्तैर्दैवतैरहम्। भूयश्च तान् सुरान् द्रष्टुमिच्छेयमरुणानुज॥ नारद उवाच तमाह विनतासूनुरारोह स्वेति वै द्विजम्। आरुरोहाथ स मुनिर्गरुडं गालवस्तदा॥ गालव उवाच क्रममाणस्य ते रूपं दृश्यते पन्नगाशन। भास्करस्येव पूर्वाह्ने सहस्रांशोर्विवस्वतः॥ पक्षवातप्रणुन्नानां वृक्षाणामनुगामिनाम्। प्रस्थितानामिव समं पश्यामीह गतिं खग॥ ससागरवनामुर्वी सशैलवनकाननाम्। आकर्षनिव चाभासि पक्षवातेन खेचर॥ समीननागनक्रं च खमिवारोप्यते जलम्। वायुना चैव महता पक्षवातेन चानिशम्॥ तुल्यरूपाननान् मत्स्यांस्तथा तिमितिर्मिगिलान्। नागाश्वनरवक्त्रांश्च पश्याम्युन्मथितानिव॥ महार्णवस्य च रवैः श्रोत्रे मे बधिरे कृते। न शृणोमि न पश्यामि नात्मनो वेद्मि कारणम्॥ शनैः स तु भवान् यातु ब्रह्मवध्यामनुस्मरन्। न दृश्यते रविस्तात न दिशो न च खं खग॥ तम एव तु पश्याम शरीरं ते न लक्षये। मणीव जात्यौ पश्यामि चक्षुषी तेऽहमण्डज॥ शरीरं तु न पश्यामि तव चैवात्मनश्च ह। पदे पदे तु पश्यामि शरीरादग्निमुत्थितम्॥ स मे निर्वाप्य सहसा चक्षुषी शाम्य ते पुनः। तन्नियच्छ महावेगं गमने विनतात्मजः॥ न मे प्रयोजनं किंचिद् गमने पन्नगाशन। संनिवर्त महाभाग न वेगं विषहामि ते॥ गुरवे संश्रुतानीह शतान्यष्टौ हि वाजिनाम्। एकतः श्यामकर्णानां शुभ्राणां चन्द्रवर्चसाम्॥ तेषां चैवापवर्गाय मार्ग पश्यामि नाण्डज। ततोऽयं जीवितत्यागे दृष्टो मार्गो मयाऽऽत्मनः॥ नैव मेऽस्ति धनं किंचिन्न धनेनान्वितः सुहृत्। न चार्थेनापि महता शक्यमेतद् व्यपोहितुम्॥ नारद उवाच एवं बहु च दीनं च ब्रुवाणं गालवं तदा। प्रत्युवाच व्रजन्नेव प्रहसन् विनतात्मजः॥ नातिप्रज्ञोऽसि विप्रर्षे योऽऽत्मानंत्यक्तुमिच्छसि। न चापि कृत्रिमः कालः कालो हि परमेश्वरः॥ किमहं पूर्वमेवेह भवता नाभिचोदितः। उपायोऽत्र महानस्ति येनैतदुपपद्यते॥ तदेष ऋषभो नाम पर्वतः सागरान्तिके। अत्र विश्रम्य भुक्त्वा च निवर्तिष्याव गालव॥ नारद उवाच ऋषभस्य ततः शृङ्गं निपत्य द्विजपक्षिणौ। शाण्डिली ब्राह्मणी तत्र ददृशाते तपोऽन्विताम्॥ अभिवाद्य सुपर्णस्तु गालवश्चाभिपूज्य ताम्। तया च स्वागतेनोक्तौ विष्टरे संनिषीदतुः॥ सिद्धमन्नं तया दत्तं बलिमन्त्रोपबृंहितम्। भुक्त्वा तृप्तावुभौ भूमौ सुप्तौ तावनुमोहितौ॥ मुहूर्तात् प्रतिबुद्धस्तु सुपर्णो गमनेप्सया। अथ भ्रष्टतनूजाङ्गमात्मानं ददृशे खगः॥ मांसपिण्डोपमोऽभूत् स मुखपादान्वितः खगः। गालवस्तं तथा दृष्ट्वा विमनाः पर्यपृच्छत॥ किमिदं भवता प्राप्तमिहागमनजं फलम्। वासोऽयमिह कालं तु कियन्तं नौ भविष्यति॥ किं नु ते मनसा ध्यातमशुभं धर्मदूषणम्। न ह्ययं भवतः स्वल्पो व्यभिचारो भविष्यति॥ सुपर्णोऽथाब्रवीद् विप्रं प्रध्यातं वै मया द्विज। इमां सिद्धामितो नेतुं तत्र यत्र प्रजापतिः॥ यत्र देवो महादेवो यत्र विष्णुः सनातनः। यत्र धर्मश्च यज्ञश्च तत्रेयं निवसेदिति॥ सोऽहं भगवती याचे प्रणतः प्रियकाम्यया। मयैतन्नाम प्रध्यातं मनसा शोचता किल॥ तदेवं बहुमानात् ते मयेहानीप्सितं कृतम्। सुकृतं दुष्कृतं वात्वं माहात्म्यात् क्षन्तुमर्हसि॥ सा तौ तदाब्रवीत् तुष्टा पतगेन्द्रद्विजर्षभौ। न भेतव्यं सुपर्णोऽसि सुपर्ण त्यज सम्भ्रमम्॥ निन्दितास्मि त्वया वत्स न च निन्दा क्षमाम्यहम्। लोकेभ्यः सपदि भ्रश्येद् यो मां निन्देत पापकृत्॥ हीनयालक्षणैः सर्वैस्तथानिन्दितया मया। आचारं प्रतिगृह्णन्त्या सिद्धिः प्राप्तेयमुत्तमा॥ आचारः फलते धर्ममाचारः फलते धनम्। आचाराच्छ्यिमाप्नोति आचारो हन्त्यलक्षणम्॥ तदायुष्मन् खगपते यथेष्टं गम्यतामितः। न च ते गर्हणीयाऽहं गर्हितव्याः स्त्रियः क्वचित्॥ भवितासि यथापूर्वं बलवीर्यसमन्वितः। बभूवतुस्ततस्तस्य पक्षौ द्रविणवत्तरौ॥ अनुज्ञातस्तु शाण्डिल्या यथागतमुपागमत्। नैव चासादयामास तथारूपांस्तुरंगमान्॥ विश्वामित्रोऽथ तं दृष्ट्वागालवं चाध्वनि स्थितः। उवाच वदतां श्रेष्ठो वैनतेयस्य संनिधौ॥ यस्त्वया स्वयमेवार्थः प्रतिज्ञातो मम द्विज। तस्य कालोऽपवर्गस्य यथा वा मन्यते भवान्॥ प्रतीक्षिष्याम्यहं कालमेतावन्तं तथा परम्। यथा संसिध्यते विप्र स मार्गस्तु निशाम्यताम्॥ सुपर्णोऽथाब्रवीद् दीनं गालवं भृशदुःखितम्। प्रत्यक्षं खल्विदानी मे विश्वामित्रो यदुक्तवान्।॥ तदागच्छ द्विजश्रेष्ठ मन्त्रयिष्याव गालव। नादत्त्वा गुरवे शक्यं कृत्स्नमर्थत्वयाऽऽसितुम्॥ नारद उवाच अथाह गालवं दीनं सुपर्णः पततां वरः। निर्मितं वाह्निना भूमौ वायुना शोधितं तथा। यस्माद्धिरण्मयं सर्वं हिरण्यं तेन चोच्यते॥ धत्ते धारयते चेदमेतस्मात् कारणाद् धनम्। तदेतत् त्रिषु लोकेषु धनं तिष्ठति शाश्वतम्॥ नित्यं प्रोष्ठपदाभ्यां च शुक्रे धनपतौ तथा। मनुष्येभ्यः समादत्ते शुक्रश्चित्तार्जितं धनम्॥ अजैकपादहिर्बुध्यै रक्ष्यते धनदेन च। एवं न शक्यते लब्धुमलब्धव्यं द्विजर्षभ। ऋते च धनमश्वानां नावाप्तिर्विद्यते तव।॥ स त्वं याचात्र राजानं कंचिद् राजर्षिवंशजम्। अपीड्य राजा पौरान् हि यो नौ कुर्यात् कृतार्थिनौ॥ अस्ति सोमान्ववाये मे जातः कश्चिन्नृपः सखा। अभिगच्छावहे तं वै तस्यास्ति विभवो भुवि॥ ययाति म राजर्षिर्नाहुषः सत्यविक्रमः। स दास्यति मया चोक्तो भवता चार्थितः स्वयम्॥ विभवश्चास्य सुमहानासीद् धनपतेरिव। एवं गुस्धन विद्वन् दानेनैव विशोधय॥ तथा तौ कथयन्तौ च चिन्तयन्तौ च यत् क्षमम्। प्रतिष्ठाने नरपतिं ययातिं प्रत्युपस्थितौ॥ प्रतिगृह्य च सत्कारैरर्घ्यपाद्यादिकं वरम्। पृष्टश्चागमने हेतुमुवाच विनतासुतः॥ अयं मे नाहुष सखा गालवस्तपसो निधिः। विश्वामित्रस्य शिष्योऽभूत् वर्धाण्ययुतशो नृप॥ सोऽयं तेनाभ्यनुज्ञात उपकारेप्सया द्विजः। तमाह भगवन् किं ते ददानि गुरुदक्षिणाम्॥ असकृत् तेन चोक्तेन किंचिदागतमन्युना। अयमुक्तः प्रयच्छेति जानता विभवं लघु॥ एकतः श्यामकर्णानां शुभ्राणां शुद्धजन्मनाम्। अष्टौ शतानि मे देहि हयानां चन्द्रवर्चसाम्॥ गुर्वर्थो दीयतामेष यदि गालव मन्यसे। इत्येवमाह सक्रोधो विश्वामित्रस्तपोधनः॥ सोऽयं शोकेन महता तप्यमानो द्विजर्षभः। अशक्तः प्रतिकर्तुं तद् भवन्तं शरणं गतः॥ प्रतिगृह्य नरव्याघ्र त्वत्तो भिक्षां गतव्यथः। कृत्वापवर्ग गुरवे चरिष्यति महत् तपः॥ तपसः संविभागेन भवन्तमपि योक्ष्यते। स्वेन राजर्षितपसा पूर्णं त्वां पूरयिष्यति॥ यावन्ति रोमाणि हये भवन्तीह नरेश्वर। तावन्तो वाजिनो लोकान् प्राप्नुवन्ति महीपते॥ पात्रं प्रतिग्रहस्यायं दातुं पात्रं तथा भवान्। शो क्षीरमिवासिक्तं भवत्वेतत् तथोपमम्॥ नारद उवाच हर्यश्वस्त्वब्रवीद् राजा विचिन्त्य बहुधा ततः। दीर्घमुष्णं च निःश्वस्य प्रजाहेतोर्नृपोत्तमः॥ उन्नतेषूनता षट्सु सूक्ष्मा सूक्ष्मेषु पञ्चसु। गम्भीरा त्रिषु गम्भीरेष्वियं रक्ता च पञ्चसु॥ बहुदेवासुरालोका बहुगन्धर्वदर्शना। बहुलक्षणसम्पन्ना बहुप्रसवधारिणी॥ समर्थेयं जनयितुं चक्रवर्तिनमात्मजम्। ब्रूहि शुल्कं द्विजश्रेष्ठ समीक्ष्य विभवं मम॥ गालव उवाच एकतः श्यामकर्णानां शतान्यष्टौ प्रयच्छ मे। हयानां चन्द्रशुभ्राणां देशजानां वपुष्मताम्॥ ततस्तव भवित्रीयं पुत्राणां जननी शुभा। अरणीव हुताशानां योनिरायतलोचना॥ नारद उवाच एतच्छ्रुत्वा वचो राजा हर्यश्वः काममोहितः। उवाच गालव दीनो राजर्षिर्ऋषिसत्तमम्॥ द्वे मे शते संनिहिते हयानां यद्विधास्तव। एष्टव्याः शतशस्त्वन्ये चरन्ति मम वाजिनः॥ सोऽहमेकमपत्यं वै जनयिष्यामि गालव। अस्यामेतं भवान् काम सम्पादयतु मे वरम्॥ एतच्छ्रुत्वा तु सा कन्या गालवं वाक्यमब्रवीत्। मम दत्तो वरः कश्चित् केनचिद् ब्रह्मवादिना॥ प्रसूत्यन्ते प्रसूत्यन्ते कन्यैव त्वं भविष्यसि। स त्वं ददस्व मां राज्ञे प्रतिगृह्य हयोत्तमान्॥ नृपेभ्यो हि चतुर्थ्यस्ते पूर्णान्यष्टौ शतानि मे। भविष्यन्ति तथा पुत्रा मम चत्वार एव च।॥ क्रियतामुपसंहारो गुर्वर्थं द्विजसत्तम। एषा तावन्मम प्रज्ञा यथा वा मन्यसे द्विज॥ एवमुक्तस्तु स मुनिः कन्यया गालवस्तदा। हर्यश्वं पृथिवीपालमिदं वचनमब्रवीत्॥ इयं कन्या नरश्रेष्ठ हर्यश्व प्रतिगृह्यताम्। चतुर्भागेन शुल्कस्य जनयस्वैकमात्मजम्॥ प्रतिगृह्य स तां कन्यां गालवं प्रतिनन्द्य च। समये देशकाले च लब्धवान् सुतमीप्सितम्॥ ततो वसुमना नाम वसुभ्यो वसुमत्तरः। वसुप्रख्यो नरपतिः स बभूव वसुप्रदः॥ अथ काले पुनर्धीमान् गालवः प्रत्युपस्थितः। उपसंगम्य चोवाच हर्यश्वं प्रीतमानसम्॥ जातो नृप सुतस्तेऽयं बालो भास्करसंनिभः। कालो गन्तुं नरश्रेष्ठ भिक्षार्थमपरं नृपम्॥ हर्यश्वः सत्यवचने स्थितः स्थित्वा च पौरुषे। दुर्लभत्वाद्धयानां च प्रददौ माधवीं पुनः॥ माधवी च पुनर्दीप्तां परित्यज्य नृपश्रियम्। कुमारी कामतो भूत्वा गालवं पृष्ठतोऽन्वयात्॥ त्वय्येव तावत् तिष्ठन्तु हया इत्युक्तवान् द्विजः। प्रययौ कन्यया सार्धं दिवोदासं प्रजेश्वरम्॥ नारद उवाच तथैव तां श्रियं त्यक्त्वा कन्या भूत्वा यशस्विनी। माधवी गालवं विप्रमभ्ययात् सत्यसंगरा॥ गालवो विमृशन्नेव स्वकार्यगतमानसः। जगाम भोजनगरं द्रष्टुमौशीनरं नृपम्॥ तमुवाचाथ गत्वा स नृपतिं सत्यविक्रमम्। इयं कन्या सुतौ द्वौ ते जनयिष्यति पार्थिवौ॥ अस्यां भवानवाप्तार्थो भविता प्रेत्य चेह च। सोमार्कप्रतिसंकाशौ जनयित्वा सुतौ नृप॥ शुल्कं तु सर्वधर्मज्ञ हयानां चन्द्रवर्चसाम्। एकतः श्यामकर्णानां देयं मह्यं चतुःशतम्॥ गुर्वर्थोऽयं समारम्भो न हयैः कृत्यमस्ति मे। यदि शक्यं महाराज क्रियतामविचारितम्॥ अनपत्योऽसि राजर्षे पुत्रौ जनय पार्थिव। पितृन् पुत्रप्लवेन त्वमात्मानं चैव तारय॥ न पुत्रफलभोक्ता हि राजर्षे पात्यते दिवः। न याति नरकं घोरं यथा गच्छन्त्यनात्मजाः॥ एतच्चान्यच्च विविधं श्रुत्वा गालवभाषितम्। उशीनरः प्रतिवचो ददौ तस्य नराधिपः॥ श्रुतवानस्मि ते वाक्यं यथा वदसि गालव। विधिस्तु बलवान् ब्रह्मन् प्रवणं हि मनो मम॥ शते द्वे तु ममाश्वानामीदृशानां द्विजोत्तम। इतरेषां सहस्राणि सुबहूनि चरन्ति मे॥ अहमष्येकमेवास्यां जनयिष्यामि गालव। पुत्रं द्विज गतं मागं गमिष्यामि परैरहम्॥ मूल्येनापि समं कुर्यां तवाहं द्विजसत्तम। पौरजानपदार्थं तु ममार्थो नात्मभोगतः॥ कामतो हि धनं राजा पारक्यं यः प्रयच्छति। न स धर्मेण धर्मात्मन् युज्यते यशसा न च॥ सोऽहं प्रतिग्रहीष्यामि ददात्वेतां भवान् मम। कुमारी देवग भामेकपुत्रभवाय मे॥ तथा तु बहुधा कन्यामुक्तवन्तं नराधिपम्। उशीनरं द्विजश्रेष्ठो गालवः प्रत्यपूजयत्॥ उशीनरं प्रतिग्राह्य गालवः प्रययौ वनम्। रेमे स तां समासाद्य कृतपुण्य इव श्रियम्॥ कन्दरेषु च शैलानां नदीनां निझरेषु च। उद्योनेषु विचित्रेषु वनेषूपवनेषु च॥ हर्येषु रमणीयेषु प्रासादशिखरेषु च। वातायनविमानेषु तथा गर्भगृहेषु च॥ ततोऽस्य समये जज्ञे पुत्रो बालरविप्रभः। शिबिर्नाम्नाभिविख्यातो यः स पार्थिवसत्तमः॥ उपस्थाय स तं विप्रो गालवः प्रतिगृह्य च। कन्यां प्रयातस्तां राजन् दृष्टवान् विनतात्मजम्॥ नारद उवाच स तु राजा पुनस्तस्याः कर्तुकामः स्वयंवरम्। उपगम्याश्रमपदं गङ्गायमुनसंगमे॥ गृहीतमाल्यदामां तां रथमारोप्य माधवीम्। पूर्यदुश्च भगिनीमाश्रमे पर्यधावताम्॥ नागयक्षमनुष्याणां गन्धर्वमृगपक्षिणाम्। शैलद्रुमवनौकानामासीत् तत्र समागमः॥ नानापुरुषदेश्यानामीश्वरैश्च समाकुलम्। ऋषिभिर्ब्रह्मकल्पैश्च समन्तादावृतं वनम्॥ निर्दिश्यमानेषु तु सा वरेषु वरवर्णिनी। वरानुत्क्रम्य सर्वांस्तान् वरं वृतवती वनम्॥ अवतीर्य रथात् कन्या नमस्कृत्य च बन्धुषु। उपगम्य वनं पुण्यं तपस्तेपे ययातिजा॥ उपवासैश्च विविधैर्दीक्षाभिर्नियमैस्तथा। आत्मनो लघुतां कृत्वा बभूव मृगचारिणी॥ वैदूर्याङ्कुरकल्पानि मृदूनि हरितानि च। चरन्तीश्लक्ष्णशष्पाणि तिक्तानि मधुराणि च॥ स्रवन्तीनां च पुण्यानां सुरसानि शुचीनि च। पिबन्ती वारिमुख्यानि शीतानि विमलानि च॥ वनेषु मृगवासेषु व्याघ्रविप्रोषितेषु च। दावाग्निविप्रयुक्तेषु शून्येषु गहनेषु च॥ चरन्ती हरिणैः सार्धं मृगीव वनचारिणी। चचार विपुलं धर्मं ब्रह्मचर्येण संवृतम्॥ ययातिरपि पूर्वेषां राज्ञां वृत्तमनुष्ठितः। बहुवर्षसहस्रायुर्युयुजे कालधर्मणा॥ पूर्यदुश्च द्वौ वंशे वर्धमानौ नरोत्तमौ। ताभ्यां प्रतिष्ठितो लोके परलोके च नाहुषः॥ महीपते नरपतिर्ययातिः स्वर्गमास्थितः। महर्षिकल्पो नृपतिः स्वर्गाग्रयफलभुग विभुः॥ बहुवर्षसहस्राख्ये काले बहुगुणे गते। राजर्षिषु निषण्णेषु महीयस्सु महर्धिषु॥ अवमेने नरान् सर्वान् देवानृषिगणांस्तथा। ययातिर्मूढविज्ञानो विस्मयाविष्टचेतनः॥ ततस्तं बुबुधे देवः शक्रो बलनिषूदनः। ते च राजर्षयः सर्वे धिग्धिगित्येवमब्रुवन्॥ विचारश्च समुत्पन्नो निरीक्ष्य नहुषात्मजम्। को न्वयं कस्य वा राज्ञः कथं वा स्वर्गमागतः॥ कर्मणा केन सिद्धोऽयं क्व वाऽनेन तपश्चितम्। कथं वा ज्ञायते स्वर्गे केन वा ज्ञायतेऽप्युत॥ एवं विचारयन्तस्ते राजानं स्वर्गवासिनः। दृष्ट्वा पप्रच्छुरन्योन्यं ययातिं नृपतिं प्रति॥ विमानपालाः शतशः स्वर्गद्वाराभिरक्षिणः। पृष्टा आसनपालाश्च न जानीमेत्यथाब्रुवन्॥ सर्वे ते दावृतज्ञाना नाभ्यजानन्त तं नृपम्। स मुहूर्तादथ नृपो हतौजाश्चाभवत् तदा॥ नारद उवाच अथ प्रचलितः स्थानादासनाच्च परिच्युतः। कम्पितेनेव मनसा धर्षितः शोकवह्निना॥ म्लानस्रग्भ्रष्टविज्ञानः प्रभ्रष्टमुकुटाङ्गदः। विघूर्णन् स्रस्तसर्वाङ्गः प्रभ्रष्टाभरणाम्बरः॥ अदृश्यमानस्तान् पश्यन्नपश्यंश्च पुनः पुनः। शून्यः शून्येन मनसा प्रपतिष्यन् महीतलम्॥ किं मया मनसा ध्यातमशुभं धर्मदूषणम्। येनाहं चलित: स्थानादिति राजा व्यचिन्तयत्॥ ते तु तत्रैव राजानः सिद्धाश्चाप्सरसस्तथा। अपश्यन्त निरालम्बं तं ययाति परिच्युतम्॥ अथैत्य पुरुषः कश्चित् क्षीणपुण्यनिपातकः। ययातिमब्रवीद् राजान् देवराजस्य शासनात्॥ अतीव मदमत्तस्त्वं न कंचिन्नावमन्यसे। मानेन भ्रष्टः स्वर्गस्ते नाहस्त्वं पार्थिवात्मज॥ न च प्रज्ञायसे गच्छ पतस्वेति तमब्रवीत्। पतेयं सत्स्विति वचस्त्रिरुक्त्वा नहुषात्मजः॥ पतिष्यंश्चिन्तयामास गतिं गतिमतां वरः। एतस्मिन्नेव काले तु नैमिषे पार्थिवर्षभान्॥ चतुरोऽपश्यत नृपस्तेषां मध्ये पपात ह। प्रतर्दनो वसुमनाः शिबिरौशीनरोऽष्टकः॥ वाजपेयेन यज्ञेन तर्पयन्ति सुरेश्वरम्। तेषामध्वरजं धूमं स्वर्गद्वारमुपस्थितम्॥ ययातिरुपजिघ्रन् वै निपपात महीं प्रति। भूमौ स्वर्गे च सम्बद्धां नदी धूममयीमिव। गङ्गां गामिव गच्छन्तीमालम्ब्य जगतीपतिः॥ श्रीमत्स्ववभृथाग्रयेषु चतुर्पु प्रतिबन्धुषु। मध्ये निपतितो राजा लोकपालोपमेषु सः॥ चतुषू हुतकल्पेषु राजसिंहमहाग्निषु। पपात मध्ये राजर्षिर्ययाति: पुण्यसंक्षये॥ तमाहुः पार्थिवाः सर्वे दीप्यमानमिव श्रिया। को भवान् कस्य वा बन्धुर्देशस्य नगरस्य वा॥ यक्षो वाप्यथवा देवो गन्धर्वो राक्षसोऽपि वा। न हि मानुषरूपोऽसि को वाऽर्थः काइझ्यते त्वया।।१६। ययातिरुवाच ययातिरस्मि राजर्षिः क्षीणपुण्यश्च्युतो दिवः। पतेयं सत्स्विति ध्यायन् भवत्सु पतितस्ततः॥ राजान ऊचुः सत्यमेतद् भवतु ते काक्षितं पुरुषर्षभ। सर्वेषां नः क्रतुफलं धर्मश्च प्रतिगृह्यताम्॥ ययातिरुवाच नाहं प्रतिग्रहधनो ब्राह्मणः क्षत्रियो ह्यहम्। न च मे प्रवणा बुद्धिः परपुण्यविनाशने॥ नारद उवाच एतस्मिन्नेव काले तु मृगचर्याक्रमागताम्। माधवीं प्रेक्ष्य राजानस्तेऽभिवाद्येदमब्रुवन्।॥ किमागमनकृत्यं ते किं कुर्मः शासनं तव। आज्ञाप्या हि वयं सर्वे तव पुत्रास्तपोधने॥ तेषां तद् भाषितं श्रुत्वा माधवी परया मुदा। पितरं समुपागच्छद् ययातिं सा ववन्द च॥ स्पृष्ट्वा मूर्धनि तान् पुत्रांस्तापसी वाक्यमब्रवीत्। दौहित्रास्तव राजेन्द्र मम पुत्रा न ते पराः॥ इमे त्वां तारयिष्यन्ति दृष्टमेतत् पुरातने। अहं ते दुहिता राजन् माधवी मृगचारिणी॥ मयाप्युपचितो धर्मस्ततोऽर्धं प्रतिगृह्यताम्। यस्माद् राजन् नराः सर्वे अपत्यफलभागिनः॥ तस्मादिच्छन्ति दौहित्रान् यथा त्वं वसुधाधिप। ततस्ते पार्थिवाः सर्वे शिरसा जननीं तदा॥ अभिवाद्य नमस्कृत्य मातामहमथाब्रुवन्। उच्चैरनुपमैः स्निग्धैः स्वरैरापूर्य मेदिनीम्॥ मातामहं नृपतयस्तारयन्तो दिवश्च्युतम्। अथ तस्मादुपगतो गालवोऽप्याह पार्थिवम्। तपसो मेऽष्टभागेन स्वर्गमारोहतां भवान्॥ नारद उवाच सद्भिरारोपितः स्वर्ग पार्थिवैर्भूरिदक्षिणैः। अभ्यनुज्ञाय दौहित्रान् ययातिर्दिवमास्थितः।।।। अभिवृष्टश्च वर्षेण नानापुष्पसुगन्धिना। परिष्वक्तश्च पुण्येन वायुना पुण्यगन्धिना॥ अचलं स्थानमासाद्य दौहित्रफलनिर्जितम्। कर्मभिः स्वैरुपचितो जज्वाल परया श्रिया॥ उपगीतोपनृत्तश्च गन्धर्वाप्सरसां गणैः। प्रीत्या प्रतिगृहीतश्च स्वर्गे दुन्दुभिनिःस्वनैः॥ अभिष्टुतश्च विविधैर्देवराजर्षिचारणैः। अर्चितश्चोत्तमायण दैवतैरभिनन्दितः॥ प्राप्तः स्वर्गफलं चैव तमुवाच पितामहः। निर्वृतं शान्तमनसं वचोभिस्तर्पयन्निव॥ चतुष्पादस्त्वया धर्मश्चितो लोक्येन कर्मणा। अक्षयस्तव लोकोऽयं कीर्तिश्चैवाक्षया दिवि॥ पुनस्त्वयैव राजर्षे सुकृतेन विघातितम्। आवृतं तमसा चेतः सर्वेषां स्वर्गवासिनाम्॥ येन त्वां नाभिजानन्ति ततोऽज्ञातोऽसि पातितः। प्रीत्यैव चासि दौहित्रैस्तारितस्त्वमिहागतः॥ स्थानं च प्रतिपन्नोऽसि कर्मणा स्वेन निर्जितम्। अचलं शाश्वतं पुण्यमुत्तमं ध्रुवमव्ययम्॥ ययातिरुवाच भगवन् संशयो मेऽस्ति कश्चित् ते छेत्तुमर्हसि। न ह्यन्यमहमहमि प्रष्टुं लोकपितामह॥ बहुवर्षसहस्रान्तं प्रजापालनवर्धितम्। अनेकक्रतुदानौधैरर्जितं मे महत् फलम्॥ कथं तदल्पकालेन क्षीणं येनास्मि पातितः। भगवन् वेत्थ लोकांश्च शाश्वतान् मम निर्मितान्। कथं नु मम तत् सर्वं विप्रनष्टं महाद्युते॥ पितामह उवाच बहुवर्षसहस्रान्तं प्रजापालनवर्धितम्। अनेकक्रतुदानौधैर्यत् त्वयोपार्जितं फलम्॥ तदनेनैव दोषेण क्षीणं येनासि पातितः। अभिमानेन राजेन्द्र विक्कृतः स्वर्गवासिभिः॥ नायं मानेन राजर्षे न बलेन न हिंसया। न शाठ्येन न मायाभिर्लोको भवति शाश्वतः॥ नावमान्यास्त्वया राजन्नधमोत्कृष्टमध्यमाः। न हि मानप्रदग्धानां कश्चिदस्ति शमः क्वचित्॥ पतनारोहणमिदं कथयिष्यन्ति ये नराः। विषमाण्यपि ते प्राप्तास्तरिष्यन्ति न संशयः॥ नारद उवाच एष दोषोऽभिमानेन पुरा प्राप्तो ययातिना। निर्वघ्नतातिमानं च गालवेन महीपते॥ श्रोतव्यं हितकामानां सुहृदां हितमिच्छताम्। न कर्तव्यो हि निर्बन्धो निर्बन्धो हि क्षयोदयः॥ तस्मात् त्वमपि गान्धारे मानं क्रोधं च वर्जय। संधत्स्व पाण्डवैवीर संरम्भं त्यज पार्थिव॥ ददाति यत् पार्थिवं यत् करोति यद् वा तपस्तप्यति यज्जुहोति। न तस्य नाशोऽस्ति न चापकर्षो नान्यस्तदश्नाति स एव कर्ता॥ इदं महाख्यानमनुत्तमं हितं बहुश्रुतानां गतरोषरागिणाम्। समीक्ष्य लोके बहुधा प्रधारितं त्रिवर्गदृष्टिः पृथिवीमुपाश्नुते॥ वैशम्पायन उवाच धृतराष्ट्रवचः श्रुत्वा भीष्मद्रोणौ समव्यथौ। दुर्योधनमिदं वाक्यमूचतुः शासनातिगम्॥ यावत् कृष्णावसंनद्धौ यावत् तिष्ठति गाण्डिवम्। यावद् धौम्यो न मेधाग्नौ जुहोतीह द्विषद्बलम्॥ यावन्न प्रेक्षते क्रुद्धः सेनां तव युधिष्ठिरः। ह्रीनिषेवो महेष्वासस्तावच्छाम्यतु वैशसम्॥ यावन्न दृश्यते पार्थः स्वेऽप्यनीके व्यवस्थितः। भीमसेनो महेष्वासस्तावच्छाम्यतु वैशसम्॥ यावन्न चरते मार्गान् पृतनामभिधर्षयन्। भीमसेनो गदापाणिस्तावत् संशाम्य पाण्डवैः॥ यावन्न शातयत्याजौ शिरांसि गजयोधिनाम्। गदया वीरघातिन्या फलानीव वनस्पतेः॥ कालेन परिपक्वानि तावच्छाम्यतु वैशसम्। नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः॥ विराटश्च शिखण्डी च शैशुपालिश्च दंशिताः। यावन्न प्रविशन्त्येते नक्रा इव महार्णवम्॥ कृतास्त्राः क्षिप्रमस्यन्तस्तावच्छाम्यतु वैशसम्। यावन्न सुकुमारेषु शरीरेषु महीक्षिताम्॥ गाघ्रपत्राः पतन्त्युचास्तावच्छाम्यतु वैशसम्। चन्दनागुरुदिग्धेषु हारनिष्कघरेषु च। नोर:सु यावद् योधानां महेष्वासैर्महेषवः॥ कृतास्त्रैः क्षिप्रमस्यद्भिर्दूरपातिभिरायसाः। अभिलक्ष्यैर्निपात्यन्ते तावच्छाम्यतु वैशसम्॥ अभिवादयमानं त्वां शिरसा राजकुञ्जरः। पाणिभ्यां प्रतिगृह्णातु धर्मराजो युधिष्ठिरः॥ ध्वजाङ्कुशपताकाङ्क दक्षिणं ते सुदक्षिणः। स्कन्धे निक्षिपतां बाहुं शान्तये भरतर्षभ॥ रत्नौषधिसमेतेन रक्ताङ्गुलितलेन च। उपविष्टस्य पृष्ठं ते पाणिना परिमार्जतु॥ शालस्कन्धो महाबाहुस्त्वां स्वजानो वृकोदरः। साम्नाभिवदतां चापि शान्तये भरतर्षभ॥ अर्जुनेन यमाभ्यां च त्रिभिस्तैरभिवादितः। मूर्ध्नि तान् समुपाघ्राय प्रेम्णाभिवद पार्थिव॥ दृष्ट्वा त्वां पाण्डवैवीरैर्धातृभिः सह संगतम्। यावदानन्दजाश्रूणि प्रमुञ्चन्तु नराधिपाः॥ घुष्यतां राजधानीषु सर्वसम्पन्महीक्षिताम्। पृथिवी भ्रातृभावेन भुज्यतां विज्वरो भव॥ वैशम्पायन उवाच ततः प्रशम्य दाशार्हः क्रोधपर्याकुलेक्षणः। दुर्योधनमिदं वाक्यमब्रवीत् कुरुसंसदि॥ लप्स्यसे वीरशयनं काममेतदवाप्स्यसि। स्थिरो भव सहामात्यो विमर्दो भविता महान्॥ यच्चैवं मन्यसे मूढ न मे कश्चिद् व्यतिक्रमः। पाण्डवेष्विति तत् सर्वं निबोधत नराधिपाः॥ श्रिया संतप्यमानेन पाण्डवानां महात्मनाम्। त्वया दुर्मन्त्रितं द्यूतं सौबलेन च भारत॥ कथं च ज्ञातयस्तात श्रेयांसः साधुसम्मताः अथान्याय्यमुपस्थातुं जिह्येनाजिह्मचारिणः॥ अक्षयूतं महाप्राज्ञ सतां मतिविनाशनम्। असतां तत्र जायन्ते भेदाश्च व्यसनानि च॥ तदिदं व्यसनं घोरं त्वया द्यूतमुखं कृतम्। असमीक्ष्य सदाचारान् सार्धं पापानुबन्धनैः॥ कश्चान्यो भ्रातृभार्यां वै विप्रकर्तुं तथाऽर्हति। आनीय च सभां व्यक्तं यथोक्ता द्रौपदी त्वया।॥ कुलीना शीलसम्पन्ना प्राणेभ्योऽपि गरीयसी। महिषी पाण्डुपुत्राणां तथा विनिकृता त्वया॥ जानन्ति कुरवः सर्वे यथोक्ताः कुरुसंसदि। दुःशासनेन कौन्तेयाः प्रव्रजन्तः परंतपाः॥ सम्यग्वृत्तेष्वलुब्धेषु सततं धर्मचारिषु। स्वेषु बन्धुषु कः साधुश्चरेदेवमसाम्प्रतम्॥ नृशंसानामनार्याणां पुरुषाणां च भाषणम्। कर्णदुःशासनाभ्यां च त्वया च बहुशः कृतम्॥ सह मात्रा प्रदग्धुं तान् बालकान् वारणावते। आस्थितः परमं यत्नं न समृद्धं च तत् तव।।१३ ऊषुश्च सुचिरं कालं प्रच्छन्नाः पाण्डवास्तदा। मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने॥ विषेण सर्पबन्धैश्च यतिताः पाण्डवास्त्वया। सर्वोपायैर्विनाशाय न समृद्धं च तत् तव॥ एवंबुद्धिः पाण्डवेषु मिथ्यावृत्तिः सदा भवान्। कथं ते नापराधोऽस्ति पाण्डवेषु महात्मसु॥ यच्चैभ्यो याचमानेभ्यः पित्र्यमंशं न दित्ससि। तच्च पाप प्रदातासि भ्रष्टैश्वर्यो निपातितः॥ कृत्वा बहून्यकार्याणि पाण्डवेषु नृशंसवत्। मिथ्यावृत्तिरनार्यः सन्नद्य विप्रतिपद्यसे॥ मातापितृभ्यां भीष्मेण द्रोणेन विदुरेण च। शाम्येति मुहुरुक्तोऽसि न च शाम्यसि पार्थिव॥ शमे हि सुमहाँल्लाभस्तव पार्थस्य चोभयोः। न च रोचयसे राजन् किमन्यद् बुद्धिलाघवात्॥ न शर्म प्राप्स्यसे राजन्नुत्क्रम्य सुहृदां वचः। अधर्म्यमयशस्यं च क्रियते पार्थिव त्वया॥ वैशम्पायन उवाच एवं ब्रुवति दाशार्हे दुर्योधनममर्षणम्। दुःशासन इदं वाक्यमब्रवीत् कुरुसंसदि॥ न चेत् संधास्यसे राजन् स्वेन कामेन पाण्डवैः। बद्ध्वा किल त्वां दास्यन्ति कुन्तीपुत्राय कौरवाः॥ वैकर्तनं त्वां च मां च त्रीनेतान् मनुजर्षभ। पाण्डवेभ्यः प्रदास्यन्ति भीष्मो द्रोण: पिता च ते॥ भ्रातुरेतद् वचः श्रुत्वा धार्तराष्ट्रः सुयोधनः। क्रुद्धः प्रातिष्ठतोत्थाय महानाग इव श्वसन्॥ विदुरं धृतराष्ट्रं च महाराजं च बाह्निकम्। कृपं च सोमदत्तं च भीष्मं द्रोणं जनार्दनम्॥ सर्वानेताननादृत्य दुर्मतिर्निरपत्रपः। अशिष्टवदमर्यादो मानी मान्यावमानिता।॥ तं प्रस्थितमभिप्रेक्ष्य भ्रातरो मनुजर्षभम्। अनुजग्मुः सहामात्या राजानश्चापि सर्वशः॥ सभायामुत्थित क्रुद्धं प्रस्थितं भ्रातृभिः सह। दुर्योधनमभिप्रेक्ष्य भीष्मः शान्तनवोऽब्रवीत्॥ धर्मार्थावभिसंत्यज्य संरम्भं योऽनुमन्यते। हसन्ति व्यसने तस्य दुर्लदो न चिरादिव॥ दुरात्मा राजपुत्रोऽयं धार्तराष्ट्रोऽनुपायकृत्। मिथ्याभिमानी राज्यस्य क्रोधलोभवशानुगः॥ कालपक्वमिदं मन्ये सर्वं क्षत्रं जनार्दन। सर्वे ह्यनुसृता मोहात् पार्थिवाः सह मन्त्रिभिः॥ भीष्मस्याथ वचः श्रुत्वा दाशार्हः पुष्करेक्षणः। भीष्मद्रोणमुखान् सर्वानभ्यभाषत वीर्यवान्॥ सर्वेषां कुरुवृद्धानां महानयमतिक्रमः। प्रसह्य मन्दमैश्वर्ये न नियच्छत यन्नृपम्॥ तत्र कार्यमहं मन्ये कालप्राप्तमरिंदमाः। क्रियमाणे भवेच्छ्रेयस्तत् सर्वं शृणुतानघाः॥ प्रत्यक्षमेतद् भवतां यद् वक्ष्यामि हितं वचः। भवतामानुकूल्येन यदि रोचेत भारताः॥ भोजराजस्य वृद्धस्य दुराचारो ह्यनात्मवान्। जीवतः पितुरैश्वर्यं हृत्वा मृत्युवशं गतः॥ उग्रसेनसुतः कंसः परित्यक्तः स बान्धवैः। ज्ञातीनां हितकामेन मया शस्तो महामृधे॥ आहुकः पुनरस्माभिमा॑तिभिश्चापि सत्कृतः। उग्रसेनः कृतो राजा भोजराजन्यवर्धनः॥ कंसमेकं परित्यज्य कुलार्थं सर्वयादवाः। सम्भूय सुखमेधन्ते भारतान्धकवृष्णयः॥ अपि चाप्यवदद् राजन् परमेष्ठी प्रजापतिः। व्यूढे देवासुरे युद्धेऽब्युद्यतेष्वायुधेषु च॥ द्वैधीभूतेषु लोकेषु विनश्यत्सु च भारत। अब्रवीत् सृष्टिमान् देवो भगवाँल्लोकभावनः॥ पराभविष्यन्त्यसुरा दैतेया दानवैः सह। आदित्या वसवो रुद्रा भविष्यन्ति दिवौकसः॥ देवासुरमनुष्याश्च गन्धर्वोरगराक्षसाः। अस्मिन् युद्धे सुसंक्रुद्धा हनिष्यन्ति परस्परम्॥ इति मत्वाब्रवीद् धर्मं परमेष्ठी प्रजापतिः। वरुणाय प्रयच्छतान् बद्ध्वा दैतेयदानवान्॥ एवमुक्तस्ततो धर्मो नियोगात् परमेष्ठिनः। वरुणाय ददौ सर्वान् बद्ध्वा दैतेयदानवान्॥ तान् बद्ध्वा धर्मपाशैश्च स्वैश्च पाशैर्जलेश्वरः। वरुणः सागरे यत्तो नित्यं रक्षति दानवान्॥ तथा दुर्योधनं कर्णं शकुनि चापि सौबलम्। बद्ध्वा दुःशासनं चापि पाण्डवेभ्यः प्रयच्छथ॥ त्यजेत् कुलार्थं पुरुष ग्रामस्या) कुलं त्यजेत्। ग्रामं जनपदस्यार्थं आत्मार्थं पृथिवीं त्यजेत्॥ राजन् दुर्योधनं बद्ध्वा ततः संशाम्य पाण्डवैः। त्वत्कृते न विनश्येयुः क्षत्रियाः क्षत्रियर्षभ।॥ वैशम्पायन उवाच कृष्णस्य तु वचः श्रुत्वा धृतराष्ट्रो जनेश्वरः। विदुरं सर्वधर्मज्ञं त्वरमाणोऽभ्यभाषत॥ गच्छ तात महाप्राज्ञां गान्धारी दीर्घदर्शिनीम्। आनयेह तया सार्धमनुनेष्यामि दुर्मतिम्॥ यदि सापि दुरात्मानं शमयेद् दुष्टचेतसम्। अपि कृष्णस्य सुहृदस्तिष्ठेम वचने वयम्॥ अपि लोभाभिभूतस्य पन्थानमनुदर्शयेत्। दुर्बुद्धेर्दुःसहायस्य शमार्थं ब्रुवती वचः॥ अपि नो व्यसनं घोरं दुर्योधनकृतं महत्। शमयेच्चिररात्राय योगक्षेमवदव्ययम्॥ राज्ञस्तु वचनं श्रुत्वा विदरो दीर्घदर्शिनीम्। आनयामास गान्धारी धृतराष्ट्रस्य शासनात्॥ धृतराष्ट्र उवाच एष गान्धारि पुत्रस्ते दुरात्मा शासनातिगः। ऐश्वर्यलोभादैश्वर्यं जीवितं च प्रहास्यति॥ अशिष्टवदमर्यादः पापैः सह दुरात्मवान्। सभाया निर्गतो मूढो व्यतिक्रम्य सुहृद्वचः॥ वैशम्पायन उवाच सा भर्तृवचनं श्रुत्वा राजपुत्री यशस्विनी। अन्विच्छन्ती महच्छ्रेयो गान्धारी वाक्यमब्रवीत्॥ गान्धार्युवाच आनायय सुतं क्षिप्रं राज्यकामुकमातुरम्। न हि राज्यमशिष्टेन शक्यं धर्मार्थलोपिना॥ आप्नुमाप्तं तथापीदमविनीतेन सर्वथा। त्वं ह्योवात्र भृशं ग. धृतराष्ट्र सुतप्रियः॥ यो जानन् पापतामस्य तत्प्रज्ञामनुवर्तसे। स एष काममन्युभ्यां प्रलब्धो लोभमास्थितः॥ अशक्योऽद्य त्वया राजन् विनिवर्तयितुं बलात्। राष्ट्रप्रदाने मूढस्य बालिशस्य दुरात्मनः॥ दुःसहायस्य लुब्धस्य धृतराष्ट्रोऽश्नुते फलम्। कथं हि स्वजने भेदमुपेक्षेत महीपतिः। भिन्नं हि स्वजनेन त्वां प्रहसिष्यन्ति शत्रवः॥ या हि शक्या महाराज साना भेदेन वा पुनः। निस्तर्तुमापदः स्वेषु दण्डं कस्तत्र पातयेत्॥ वैशम्पायन उवाच शासनाद् धृतराष्ट्रस्य दुर्योधनममर्षणम्। मातुश्च वचनात् क्षत्ता सभां प्रावेशयत् पुनः॥ स मातुर्वचनाकाङ्क्षी विवेश पुनः सभाम्। अभिताप्रेक्षणः क्रोधान्निःश्वसन्निव पन्नगः॥ तं प्रविष्टमभिप्रेक्ष्य पुत्रमुत्पथमास्थितम्। विगर्हमाणा गान्धारी शमार्थं वाक्यमब्रवीत्॥ दुर्योधन निबोधेदं वचनं मम पुत्रक। हितं ते सानुबन्धस्य तथाऽऽयत्यां सुखोदयम्॥ दुर्योधन यदाह त्वां पिता भरतसत्तमा भीष्मो द्रोणः कृपः क्षत्ता सुहृदां कुरु तद् वचः॥ विजितात्मा तु भीष्मस्य तु पितुश्चैव मम चापचितिः कृता। भवेद् द्रोणमुखानां च सुहृदां शाम्यता त्वया॥ न हि राज्यं महाप्राज्ञ स्वेन कामेन शक्यते। अवाप्तुं रक्षितुं वापि भोक्तुं भरतसत्तम॥ न ह्यवश्येन्द्रियो राज्यमश्नीयाद् दीर्घमन्तरम्। मेधावी स राज्यमभिपालयेत्॥ कामक्रोधौ हि पुरुषमर्थेभ्यो व्यपकर्षतः। तौ तु शत्रु विनिर्जित्य राजा विजयते महीम्॥ लोकेश्वर प्रभुत्वं हि महदेतद् दुरात्मभिः। राज्यं नामेप्सितं स्थानं न शक्यमभिरक्षितुम्॥ इन्द्रियाणि महत्प्रेप्सुर्नियच्छेदर्थधर्मयोः। इन्द्रियैर्नियतैर्बुद्धिर्वर्धतेऽन्निरिवेन्धनैः॥ अविधेयानि हीमानि व्यापादयितुमप्यलम्। अविधेया इवादान्ता हयाः पथि कुसारथिम्॥ अविजित्य य आत्मानममात्यान् विजिगीषते। अमित्रान् वाजितामात्यः सोऽवशः परिहीयते॥ आत्मानमेव प्रथमं द्वेष्यरूपेण योजयेत्। ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते॥ वश्येन्द्रियं जितामात्यं धृतदण्ड विकारिषु। परीक्ष्यकारिणं धीरमत्यर्थं श्रीनिषेवते॥ क्षुद्राक्षेणेव जालेन झपावपिहितावुभौ। कामक्रोधौ शरीरस्थौ प्रज्ञानं तौ विलुम्पतः॥ याभ्यां हि देवाः स्वर्यातुः स्वर्गस्य पिदधुर्मुखम्। बिभ्यतोऽनुपरागस्य कामक्रोधो स्म वर्धितौ॥ काम क्रोधं च लोभं च दम्भं दर्थं च भूमिपः। सम्यग्विजेतुं यो वेद स महीमभिजायते॥ सततं निग्रहे युक्त इन्द्रियाणां भवेन्नृपः। ईष्सन्नर्थं च धर्मं च द्विषतां च पराभवम्॥ कामाभिभूतः क्रोधाद् वा यो मिथ्या प्रतिपद्यते। स्वेषु चान्येषु वा तस्य न सहाया भवन्त्युत॥ एकीभूतैर्महाप्राज्ञैः शूरैररिनिवर्हणैः। पाण्डवैः पृथिवीं तात भोक्ष्यसे सहितः सुखी॥ यथा भीष्मः शान्तनवो द्रोणश्चापि महारथः। आहतुस्तात तत् सत्यमजेयौ कृष्णपाण्डवौ॥ प्रपद्यस्व महाबाहुं कृष्णमक्लिष्टकारिणम्। प्रसन्नो हि सुखाय स्यादुभयोरेव केशवः॥ सुहृदामर्थकामानां यो न तिष्ठति शासने। प्राज्ञानां कृतविद्यानां स नरः शत्रुनन्दनः॥ न युद्धे तात कल्याणं न धर्मार्थों कुतः सुखम्। न चापि विजयो नित्यं मा युद्धे चेत आधिथा।॥ भीष्मेण हि महाप्राज्ञं पित्रा ते बाह्निकेन च। दत्तोंऽशः पाण्डुपुत्राणां भेदाद् भीतैररिंदम॥ तस्य चैतत्प्रदानस्य फलमद्यानुपश्यसि। यद् भुड्क्षे पृथिवीं कृत्स्ना शूरैर्निहतकण्टकाम्॥ प्रयच्छ पाण्डुपुत्राणां यथोचितमरिंदम। यदीच्छसि सहामात्यो भोक्तुमधु प्रदीयताम्॥ अलमर्धं पृथिव्यास्ते सहामात्यस्य जीवितुम्। सुहृदां वचने तिष्ठन् यशः प्राप्स्यसि भारत॥ श्रीमद्भिरात्मवद्भिस्तैर्बुद्धिमद्भिर्जितेन्द्रियैः। पाण्डवैर्विग्रहस्तात भ्रंशयेन्महतः सुखात्॥ निगृह्य सुहृदां मन्युं शाधि राज्यं यथोचितम्। स्वमंशं पाण्डुपुत्रेभ्यः प्रदाय भरतर्षभ॥ अलमङ्ग निकारोऽयं त्रयोदश समाः कृतः। शमयैनं महाप्राज्ञ कामक्रोधसमेधितम्॥ न चैष शक्तः पार्थानां यस्त्वमर्थमभीप्ससि। सूतपुत्रो दृढक्रोधो भ्राता दुःशासनश्च ते॥ भीष्मे द्रोणे कृपे कर्णे भीमसेने धनंजये। धृष्टद्युम्ने च संक्रुद्धे न स्युः सर्वाः प्रजा ध्रुवम्॥ अमर्षवशमापन्नो मा कुरूंस्तात जीघनः। एषा हि पृथिवी कृत्स्ना मा गमत् त्वत्कृते वधम्॥ यच्च त्वं मन्यसे मूढ भीष्मद्रोणकृपादयः। योत्स्यन्ते सर्वशक्त्येति नैतदद्योपपद्यते॥ समं हि राज्यं प्रीतिश्च स्थानं हि विदितात्मनाम्। पाण्डवेष्वथ युष्मासु धर्मस्त्वभ्यधिकस्ततः॥ राजपिण्डभयादेते यदि हास्यन्ति जीवितम्। न हि शक्ष्यन्ति राजानं युधिष्ठिरमुदीक्षितुम्॥ न लोभादर्थसम्पत्तिनराणामिह दृस्यते। तदलं तात लोभेन प्रशाम्य भरतर्षभ।॥ वैशम्पायन उवाच तत् तु वाक्यमनादृत्य सोऽर्थवन्मातृभाषितम्। पुनः प्रतस्थे संरम्भात् सकाशमकृतात्मनाम्॥ ततः सभाया निर्गम्य सन्त्रयामास कौरवः। सौबलेन मताक्षेण राज्ञा शकुनिना सह॥ दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च। दुःशासनचतुर्थानामिदमासीद् विचेष्टितम्॥ पुरायमस्मान् गृह्णाति क्षिप्रकारी जनार्दनः। सहितो धृतराष्ट्रेण राज्ञा शान्तनवेन च॥ वयमेव हृषीकेशं निगृह्णीन बलादिव। प्रसह्य पुरुषव्याघ्रमिन्द्रो वैरोचनि यथा॥ श्रुत्वा गृहीतं वार्ष्णेयं पाण्डवा हतचेतसः। निरुत्साहा भविष्यन्ति भग्नदंष्ट्रा इवोरगाः॥ अयं ह्येषां महाबाहुः सर्वेषां शर्म वर्म च। अस्मिन् गृहीते वरदे ऋषभे सर्वसात्वताम्॥ निरुद्यमा भविष्यन्ति पाण्डवाः सोमकैः सह। तस्माद् वयमिहैवैनं केशवं क्षिप्रकारिणम्॥ क्रोशतो धृतराष्ट्रस्य बद्ध्वा योत्स्यामहे रिपून्। तेषां पापमभिप्रायं पापानां दुष्टचेतसाम्॥ इङ्गितज्ञः कविः क्षिप्रमन्वबुद्ध्यत सात्यकिः। तदर्थमभिनिष्क्रम्य हार्दिक्येन सहास्थितः॥ अब्रवीत् कृतवर्माणं क्षिप्रं योजय वाहिनीम्। व्यूढानीकः सभाद्वारमुपतिष्ठस्व दंशितः॥ यावदाख्याम्यहं चैतत् कृष्णायाक्लिष्टकारिणे। स प्रविश्य सभां वीरः सिंहो गिरिगुहामिव॥ आचष्ट तमभिप्रायं केशवाय महात्मने। धृतराष्ट्रं ततश्चैव विदुरं चान्वभाषत॥ तेषामेतमभिप्रायमाचचक्षे स्मयन्निव। धर्मादर्थाच्च कामाच्च कर्म साधुविगर्हितम्॥ मन्दाः कर्तुमिहेच्छन्ति न चावाप्य कथंचन। पुरा विकुर्वते मूढाः पापात्मानः समागताः॥ धर्षिताः काममन्युभ्यां क्रोधलोभवशानुगाः। इमं हि पुण्डरीकाक्षं जिघृक्षन्त्यल्पचेतसः॥ पटेनाग्नि प्रज्वलितं यथा बाला यथा जडाः। सात्यकेस्तद् वचः श्रुत्वा विदुरोदीर्घदर्शिवान्॥ धृतराष्ट्र महाबाहुमब्रवीत् कुरुसंसदि। राजन् परीतकालास्ते पुत्राः सर्वे परंतप॥ अशक्यमयशस्यं च कर्तुं कर्म समुद्यताः। इमं हि पुण्डरीकाक्षमभिभूय प्रसह्य च॥ निग्रहीतुं किलेच्छन्ति सहिता वासवानुजम्। इमं पुरुषशार्दूलमप्रधृष्यं दुरासदम्॥ आसाद्य न भविष्यन्ति पतङ्गा इव पावकम्। अयमिच्छन् हि तान् सर्वान् युध्यमानाञ्जनार्दनः॥ सिंहो नागानिव क्रुद्धो गमयेद् यमसादनम्। न त्वयं निन्दितं कर्म कुर्यात् पापं कथंचन॥ न च धर्मादपक्रामेदच्युतः पुरुषोत्तमः। विदुरेणैवमुक्ते तु केशवो वाक्यमब्रवीत्॥ धृतराष्ट्रमभिप्रेक्ष्य सुहृदां शृण्वतां मिथः। राजनेते यदि क्रुद्धा मां निगृह्णीयुरोजसा॥ एते वा मामहं वैनाननुजानीहि पार्थिव। एतान् हि सर्वान् संरब्धान् नियन्तुमहमुत्सहे॥ न त्वहं निन्दितं कर्म कुर्यां पापं कथंचन। पाण्डवार्थं हि लुभ्यन्तः स्वार्थान् हास्यन्ति ते सुताः।।२६ एते चेदेवमिच्छन्ति कृतकार्यो युधिष्ठिरः। अद्यैव ह्यहमेनांश्च ये चैनाननु भारत॥ निगृह्य राजन् पार्थेभ्यो दद्यां किं दुष्कृतं भवेत्। इदं तु न प्रवर्तेयं निन्दितं कर्म भारत॥ संनिधौ ते महाराज क्रोधजं पापबुद्धिजम्। एष दुर्योधनो राजन् यथेच्छति तथाऽस्तु तत्॥ अहं तु सर्वांस्तनयाननुजानामि ते नृप। एतच्छ्रुत्वा तु विदुरं धृतराष्ट्रोऽभ्यभाषत। क्षिप्रमानय तं पापं राज्यलुब्धं सुयोधनम्॥ सहमित्रं सहामात्यं ससोदर्यं सहानुगम्। शक्नुयां यदि पन्थानमवतारयितुं पुनः॥ ततो दुर्योधनं क्षत्ता पुन: प्रावेशयत् सभाम्। अकामं भ्रातृभिः सार्धं राजभिः परिवारितम्॥ अथ दुर्योधनं राजा धृतराष्ट्रोऽभ्यभाषत। कर्णदुःशासनाभ्यां च राजभिश्चापि संवृतम्॥ नृशंस पापभूयिष्ठ क्षुद्रकर्मसहायवान्। पापैः सहायैः संहत्य पापं कर्म चिकीर्षसि॥ अशक्यमयशस्यं च सद्धिश्चापि विगर्हितम्। यथा त्वादृशको मूढो व्यवस्येत् कुलपांसनः॥ त्वमिमं पुण्डरीकाक्षमप्रधृष्यं दुरासदम्। पापैः सहायैः संहत्य निग्रहीतुं किलेच्छसि॥ यो न शक्यो बलात् कर्तुं देवैरपि सवासवैः। तं त्वं प्रार्थयसे मन्द बालश्चन्द्रमसं यथा।॥ तेवैर्मनुष्यैर्गन्धर्वैरसुरैरुरगैश्च यः। न सोढुं समरे शक्यस्तं न बुद्ध्यसि केशवम्॥ दुर्गाह्यः पाणिना वायुर्दुस्पर्शः पाणिनाशशी। दुर्धरा पृथिवी मूर्धा दुर्ग्राह्यः केशवोबलात्॥ इत्युक्ते धृतराष्ट्रेण क्षत्तापि विदुरोऽब्रवीत्। दुर्योधनमभिप्रेत्य धार्तराष्ट्रपमर्षणम्॥ विदुर उवाच दुर्योधन निबोधेदं वचनं मम साम्प्रतम्। सौभद्वारे वानरेन्द्रो द्विविदो नाम नामतः। शिलावर्षेण महता छादयामास केशवम्॥ ग्रहीतुकामो विक्रम्य सर्वयत्नेन माधवम्। ग्रहीतुं नाशकच्चैनं तं त्वं प्रार्थयसे बलात्॥ प्राग्ज्योतिषगतं शौरि नरकः सह दानवैः। ग्रहीतुं नाशकत् तत्र तं त्वं प्रार्थयसे बलात्॥ अनेकयुगवर्षायुर्निहत्य नरकं मृधे। नीत्वा कन्यासहस्राणि उपयेमे यथाविधि॥ निर्मोचने षट् सहस्रा: पाशैर्बद्धा महासुराः। चहीतुं नाशकंश्चैनं तं त्वं प्रार्थयसे बलात्॥ अनेन हि हता बाल्ये पूतना शकुनी तथा। गोवर्धनो धारितश्च गवार्थं भरतर्षभ।४६॥ अरिष्टो धेनुकश्चैव चाणूरश्च महाबलः। अश्वराजश्च निहतः कंसश्चारिष्टमाचरन्॥ जरासंधश्च वक्त्रश्च शिशुपालश्च वीर्यवान्। बाणश्च निहतः संख्ये राजानश्च निषूदिताः॥ वरुणो निर्जितो राजा पावकश्वामितौजसा। पारिजातं च हरता जितः साक्षाच्छचीपतिः॥ एकार्णवे च स्वफता निहतौ मधुकैटभौ। जन्मान्तरमुपागम्य हयग्रीवस्तथा हतः॥ अयं कर्ता न क्रियते कारणं चापि पौरुषे। यद् यदिच्छेदयं शौरिस्तत् तत् कुर्यादयत्नतः॥ तं न बुद्ध्यसि गोविन्दं घोरविक्रममच्युतम्। आशीविषमिव क्रुद्धं तेजोराशिमनिन्दितम्॥ प्रधर्षयन् महाबाहुं कृष्णमक्लिष्टकारिणम्। पतङ्गोऽग्निमिवासाद्य सामात्यो न भविष्यसि॥ वैशम्पायन उवाच विदुरेणैवमुक्तस्तु केशवः शत्रुपूगहा। दुर्योधनं धार्तराष्ट्रमभ्यभाषत वीर्यवान्॥ एकोऽहमिति यन्मोहान्मन्यसे मां सुयोधन। परिभूय सुदुर्बुद्धे ग्रहीतुं मां चिकीर्षसि॥ इहैव पाण्डवाः सर्वे तथैवान्धकवृष्णयः। इहादित्याश्च रुद्राश्च वसवश्च महर्षिभिः॥ एवमुक्त्वा जहासोच्चैः केसवः परवीरहा। अस्य संस्मयतः शौरेविद्युदूपा महात्मनः॥ अङ्गुष्ठमात्रास्त्रिदशा मुमुचुः पावकार्चिषः। तस्य ब्रह्मा ललाटस्थो रुद्रो वक्षसि चाभवत्॥ लोकपाला भुजेष्वासन्नग्निरास्यादजायत। आदित्याश्चैव साध्याश्च वसवोऽथाश्विनावपि॥ मरुतश्च सहेन्द्रेण विश्वेदेवास्तथैव च। बभूवुश्चैकरूपाणि यक्षगन्धर्वरक्षसाम्॥ प्रादुरास्तां तथा दो• संकर्षणधनंजयौ। दक्षिणेऽथार्जुनो धन्वी हली रामश्च सव्यतः॥ भीमो युधिष्ठिरश्चैव माद्रीपुत्रौ च पृष्ठतः। अन्धका वृष्णयश्चैव प्रद्युम्नप्रमुखास्ततः॥ अग्रे बभूवुः कृष्णस्य समुद्यतमहायुधाः। शङ्खचक्रगदाशक्तिशाईलागलनन्दकाः॥ अदृश्यन्तोद्यतान्येव सर्वप्रहरणानि च। नानाबाहुषु कृष्णस्य दीप्यमानानि सर्वशः॥ नेत्राभ्यां नस्ततश्चैव श्रोत्राभ्यां चसमन्ततः। प्रादुरासन् महारौद्राः सधूमाः पावकार्चिषः॥ रोमकूपेषु च तथा सूर्यस्येव मरीचयः। तं दृष्ट्वा घोरमात्मानं केशवस्य महात्मनः॥ न्यमीलयन्त नेत्राणि राजानस्त्रस्तचेतसः। ऋते द्रोणं च भीष्मं च विदुरं च महामतिम्॥ संजयं च महाभागमृषींश्चैव तपोधनान्। प्रादात् तेषां स भगवान् दिव्यं चक्षुर्जनार्दनः॥ तद् दृष्ट्वा महदाश्चर्य माधवस्य सभातले। देवदुन्दुभयो नेदुः पुष्पवर्षं पपात च॥ धृतराष्ट्र उवाच त्वमेव पुण्डरीकाक्ष सर्वस्य जगतो हितः। तस्मात् त्वं यादवश्रेष्ठ प्रसादं कर्तुमर्हसि॥ भगवन् मम नेत्राणामन्तर्धानं वृणे पुनः। भवन्तं द्रष्टुमिच्छामि नान्यं द्रष्टुमिहोत्सहे॥ ततोऽब्रवीन्महाबाहुधृतराष्ट्र जनार्दनः। अदृश्यमाने नेत्रे द्वे भवेतां कुरुनन्दन॥ तत्राद्भुतं महाराज धृतराष्ट्रश्च चक्षुषी। लब्धवान् वासुदेवाच्च विश्वरूपदिदृक्षया॥ लब्धचक्षुषमासीनं धृतराष्ट्र नराधिपाः। विस्मिता ऋषिभिः सार्धं तुष्टुवुर्मधुसूदनम्॥ चचाल च मही कृत्स्ना सागरचापि चुक्षुभे। विस्मयं परमं जग्मुः पार्थिवा भरतर्षभ॥ ततः स पुरुषव्याघ्रः संजहार वपुः स्वकम्। तां दिव्यामद्भुतां चित्रामृद्धिमत्तामरिंदमः॥ ततः सात्यकिमादाय पाणौ हार्दिक्यमेव च। ऋषिभिस्तैरनुज्ञातो निर्ययौ मधुसूदनः॥ ऋषयोऽन्तर्हिता जग्मुस्ततस्ते नारदादयः। तस्मिन् कोलाहले वृत्ते तदद्भुतमिवाभवत्॥ तं प्रस्थितमभिप्रेक्ष्य कौरवाः सह राजभिः। अनुजग्मुर्नरव्याघ्रं देवा इव शतक्रतुम्॥ अचिन्तयन्नमेयात्मा सर्वं तद् राजमण्डलम्। निश्चकाम ततः शौरिः सधूम इव पावकः॥ ततो रथेन शुभ्रेण महता किङ्किणीकिना। हेमजालविचित्रेण लधुना मेघनादिना॥ सूपस्करेण शुभ्रेण वैयाघेण वरूथिना। शैब्यसुग्रीवयुक्तेन प्रत्यदृश्यत दारुकः॥ तथैव रथमास्थाय कृतवर्मा महारथः। वृष्णीनां सम्मतो वीरो हार्दिक्यः समदृश्यत॥ उपस्थितरथं शौरि प्रयास्यन्तमरिंदमम्। धृतराष्ट्रो महाराजः पुनरेवाभ्यभाषत॥ यावद् बलं मे पुत्रेषु पश्यतस्तेजनार्दन। प्रत्यक्षं ते न ते किंचितं परोक्षं शत्रुकर्शन॥ कुरूणां शममिच्छन्तं यतमानं च केशव। विदित्वैतामवस्था मे नाभिशङ्कितुमर्हसि॥ न मे पापोऽस्त्यभिप्रायः पाण्डवान् प्रति केशव। ज्ञातमेव हितं वाक्य यन्मयोक्तः सुयोधनः॥ जानन्ति कुरवः सर्वे राजानश्चैव पार्थिवाः। शमे प्रयतमानं मां सर्वयत्नेन माधव॥ वैशम्पायन उवाच ततोऽब्रवीन्महाबाहुधृतराष्ट्र जनार्दनः। द्रोणं पितामह भीष्मं क्षत्तारं बाह्निकं कृपम्॥ प्रत्यक्षमेतद् भवतां यद् वृत्तं कुरुसंसदि। यथा चाशिष्टवन्मन्दो रोषादद्य समुत्थितः॥ वदत्यनीशमात्मानं धृतराष्ट्रो महीपतिः। आपृच्छे भवतः सर्वान् गमिष्यामि युधिष्ठिरम्॥ आमन्त्र्य प्रस्थितं शौरिं रथस्थं पुरुषर्षभ। अनुजग्मुर्महेष्वासाः प्रवीरा भरतर्षभाः॥ भीष्मो द्रोणः कृपः क्षत्ता धृतराष्ट्रोऽथ बाह्निकः। अश्वत्थामा विकर्णश्च युयुत्सुश्च महारथः॥ ततो रथेन शुभ्रेण महता किङ्किणीकिना। कुरूणां पश्यतां दुष्टुं स्वसारं स पितुर्ययौ॥ भीष्मो द्रोणः कृपः क्षत्ता धृतराष्ट्रोऽथ बाह्निकः। अश्वत्थामा विकर्णश्च युयुत्सुश्च महारथः॥ ततो रथेन शुभ्रेण महता किङ्किणीकिना। कुरूणां पश्यतां दुष्टुं स्वसारं स पितुर्ययौ॥ वैशम्पायन उवाच प्रविश्याथ गृहं तस्याश्चरणावभिवाद्य च। आचख्यौ तत् समासेन यद् वृत्तं कुरुसंसदि॥ वासुदेव उवाच उक्तं बहुविधं वाक्यं ग्रहणीयं सहेतुकम्। ऋषिभिश्चैव च मया न चासौ तद् गृहीतवान्।॥ कालपक्वमिदं सर्वं सुयोधनवशानुगम्। आपृच्छे भवतीं शीघ्रं प्रयास्ये पाण्डवान् प्रति॥ किं वाच्याः पाण्डवेयास्ते भवत्या वचनान्मया। तद् ब्रूहि त्वं महाप्राज्ञे शुश्रूषे वचनं तव॥ कुन्त्युवाच ब्रूयाः केशव राजानं धर्मात्मानं युधिष्ठिरम्। भूयास्ते हीयते धर्मो मा पुत्रक वृथा कृथाः॥ श्रोत्रियस्येव ते राजन् मन्दकस्याविपश्चितः। अनुवाकहता बुद्धिर्धर्ममेवैकमीक्षते॥ अङ्गोवेक्षस्व धर्मं त्वं यथा सृष्टः स्वयम्भुवा। बाहुभ्यां क्षत्रियाः सृष्टा बाहुवीर्योपजीविनः॥ क्रूराय कर्मणे नित्यं प्रजानां परिपालने। शृणु चात्रोपमामेकां या वृद्धेभ्यः श्रुता मया॥ मुचुकुन्दस्य राजर्षेरददत् पृथिवीमिमाम्। पुरा वैश्रवणः प्रीतो न चासौ तद् गृहीतवान्॥ बाहुवीर्यार्जितं राज्यमश्नीयामिति कामये। ततो वैश्रवणः प्रीतो विस्मितः समपद्यत॥ मुचुकुन्दस्ततो राजा सोऽन्वशासद् वसुन्धराम्। बाहुवीर्यार्जितां सम्यक् क्षत्रधर्ममनुव्रतः॥ यं हि धर्म चरन्तीह प्रजा राज्ञा सुरक्षिताः। चतुर्थं तस्य धर्मस्य राजा विन्देत भारत॥ राजा चरति चेद् धर्मं देवत्वायैव कल्पते। स चेदधर्मं चरति नरकायैव गच्छति॥ दण्डनीतिः स्वधर्मेण चातुर्वर्ण्य नियच्छति। प्रयुक्ता स्वामिना सम्यगधर्मेभ्यश्च यच्छति॥ दण्डनीत्यां यदा राजा सम्यक् कात्स्न्र्येन वर्तते। तदा कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते॥ कालो वा कारणं राज्ञो राजा वा कालकारणम्। इति ते संशयो मा भूद् राजा कालस्य कारणम्॥ राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च। युगस्य च चतुर्थस्य राजा भवति कारणम्॥ कृतस्य करणाद् राजा स्वर्गमत्यन्तमश्नुते। त्रेतायाः करणाद् राजा स्वर्ग नात्यन्तमश्नुते॥ प्रवर्तनाद् द्वापरस्य यथाभागमुपाश्नुते। कले प्रवर्तनाद् राजा पापमत्यन्तमजुते॥ ततो वसति दुष्कर्मा नरके शाश्वतीः समाः। राजदोषेण हि जगत् स्पृश्यते जगतः स च॥ राजधर्मानवेक्षस्व पितृपैतामहोचितान्। नैतद् राजर्षिवृत्तं हि यत्र त्वं स्थातुमिच्छसि॥ न कि वैक्लव्यसंसृष्ट आनृशंस्ये व्यवस्थितः। प्रजापालनसम्भूतं फलं किंचन लब्धवान्॥ न ह्येतामाशिष पाणडुर्न चाहं न पितामहः। प्रयुक्तवन्तः पूर्वं ते यया चरसि मेधया।॥ यज्ञो दानं तपः शौर्यं प्रज्ञा संतानमेव च। माहात्म्यं बलमोजश्च नित्यमाशंसितं मया॥ नित्यं स्वाहा नित्यं दद्युर्मानुषदेवताः। दीर्घमायुर्धनं पुत्रान् सम्यगाराधिताः शुभाः॥ पुत्रेष्वाशासते नित्यं पितरो दैवतानि च। दानमध्ययनं यज्ञं प्रजानां परिपालनम्॥ एतद् धर्म्यमधर्म्यं वा जन्मनैवाभ्यजायथाः। ते तु वैद्याः कुले जाता अवृत्त्या तात पीडिताः॥ यत्र दानपतिं शूरं क्षुधिताः पृथिवीचराः। प्राप्य तुष्टाः प्रतिष्ठन्ते धर्मः कोऽभ्यधिकस्ततः॥ दानेनान्यं बलेनान्यं तथा सूनृतया परम्। सर्वतः प्रतिगृह्णीयाद् राज्यं प्राप्येह धार्मिकः॥ ब्राह्मणः प्रचरेद् भैक्षं क्षत्रिय: परिपालयेत्। वैश्यो धनार्जनं कुर्याच्छूद्रः परिचरेच्च तान्॥ भैक्षं विप्रतिषिद्धं ते कृषिःवोपपद्यते। क्षत्रियोऽसि क्षतात् त्राता बाहुवीर्योपजीविता॥ पित्र्यमंशं महाबाहो निमग्नं पुनरुद्धर। साम्ना भेदेन दानेन दण्डेनाथ नयेन वा॥ । नु इतो दुःखतरं किं यदहं हीनबान्धवा। परपिण्डमुदीक्षे वै त्वां सूत्वाऽमित्रनन्दन॥ युद्ध्यस्व राजधर्मेण मा निमज्जी: पितामहान्। मा गमः क्षीणपुण्यस्त्वं सानुजः पापिकां गतिम्॥ विदुलोवाच अर्थतस्यामवस्थायां पौरुषं हातुमिच्छसि। निहीनसेवितं मागं गमिष्यस्यचिरादिव॥ यो हि तेजो यथाशक्ति न दर्शयति विक्रमात्। क्षत्रियो जीविताकाङ्क्षी स्तेन इत्येव तं विदुः॥ अर्थवन्त्युपपन्नानि वाक्यानि गुणवन्ति च। नैव सम्प्राप्नुवन्ति त्वां मुमूर्षुमिव भेषजम्॥ सन्ति वै सिन्धुराजस्य संतुष्टा न तथा जनाः। दौर्बल्यादासते मूढा व्यसनौघप्रतीक्षिणः॥ सहायोपचितिं कृत्वा व्यवसाय्य ततस्ततः। अनुदुष्येयुरपरे पश्यन्तस्तव पौरुषम्॥ तैः कृत्वा सह संघातं गिरिदुर्गालयं चर। काले व्यसनामाकाङ्क्षन् नैवायमजरामरः॥ संजयो नामतश्च त्वं न च पश्यामि तत् त्वयि। अन्वर्थनामा भव मे पुत्र मा व्यर्थनामकः॥ सम्यग्दृष्टिर्महाप्राज्ञो बालं त्वां ब्राह्मणोऽब्रवीत्। अयं प्राप्य महत् कृच्छ्रे पुनर्वृद्धिं गमिष्यति॥ तस्या स्मरन्ती वचनमाशंसे विजयं तव। तस्मात् तात व्रवीमि त्वां वक्ष्यामि च पुनः पुनः॥ यस्य ह्याभिनिवृत्तौ भवन्त्याप्यायिताः परे। तस्यार्थसिद्धिर्नियता नयेष्वर्थानुसारिणः॥ समृद्धिरसमृद्धिर्वा पूर्वेषां मम संजय। एवं विद्वान् युद्धमना भव मा प्रत्युपाहर॥ नातः पापीयसीं कांचिदवस्थां शम्बरोऽब्रवीत्। यत्र नैवाद्य न प्रातर्भोजनं प्रतिदृश्यते॥ पतिपुत्रवधादेतत् परमं दुःखमब्रवीत्। दारिद्र्यमिति यत् प्रोक्तं पर्यायमरणं हि तत्॥ अहं महाकुले जाता ह्रदाद्धदमिवागता। ईश्वरी सर्वकल्याणी भ; परमपूजिता॥ महार्हमाल्याभरणां सुमृष्टाम्बरवाससम्। पुरा हृष्टः सुहृद्वर्गो मामपश्यत् सुहृद्गताम्॥ यदा मां चैव भार्यां च द्रष्टाऽसि भृशदुर्बलाम्। न तदा जीवितेनार्थो भविता तव संजय॥ दासकर्मकरान् भृत्यानाचार्यविक्पुरोहितान्। अवृत्त्याऽस्मान् प्रजहतो दृष्ट्वा किं जीवितेन ते॥ यदि कृत्यं न पश्यामि तवाद्याहं यथा पुरा। श्लाघनीयं यशस्यं च का शान्तिर्हृदयस्य मे॥ नेति चेद् ब्राह्मणं ब्रूयां दीर्येत हृदयं मम। न ह्यहं न च मे भर्ता नेति ब्राह्मणमुक्तवान्॥ वयमाश्रयणीयाः स्म नश्रोतारः परस्य च। सान्यमासाद्य जीवन्ती परित्यक्ष्यामि जीवितम्॥ अपारे भव नः पारमप्लवे भव नः प्लवः। कुरुष्व स्थानमस्थाने मृतान् संजीवयस्व नः॥ सर्वे ते शत्रवः शक्या न चेज्जीवितुमिच्छसि। अथ चेदीदृशीं वृत्तिं क्लीबवामभ्युपपद्यसे॥ निर्विण्णात्मा हतमना मुञ्चैतां पापजीविकाम्। एकशत्रुवधेनैव शूरो गच्छति विश्रुतिम्॥ इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत। माहेन्द्रं च गृहं लेभे लोकानां चेश्वरोऽभवत्॥ नाम विश्राव्य वै संख्ये शत्रूनाहूय दंशितान्। सेनाग्रं चापि विद्राव्य हत्वा वा पुरुषं वरम्॥ यदैव लभते वीरः सुयुद्धेन महद् यशः। तदैव प्रव्यथन्तेऽस्य शत्रवो विनमन्ति च॥ त्यक्त्वाऽऽत्मानं रणे दक्षं शूरं कापुरुषा जनाः। अवशास्तर्पयन्ति स्म सवकामसमृद्धिभिः॥ राज्यं चाप्युग्रविभ्रंशं संशयो जीवितस्य वा। न लब्धस्य हि शत्रोर्वे शेषं कुर्वन्ति साधवः॥ स्वर्गद्वारोपमं राज्यमथवाप्यमृतोपमम्। युरुद्धमेकायनं मत्वा पतोल्मुक इवारिषु॥ जहि शत्रून् रणे राजन् स्वधर्ममनुपालय। मा त्वा दृशं सुकृपणं शत्रूणां भयवर्धनम्॥ अस्मदीयैश्च शोचद्भिर्नदद्धिश्च परैर्वृतम्। अपि त्वां नानुपश्येयं दीनाद् दीनमिव स्थितम्॥ हृष्य सौवीरकन्याभिः श्लाघस्वार्थेर्यथा पुरा। मा च सैन्धवकन्यानामवसनो वशं गमः॥ युवा रूपेण सम्पन्नो विद्ययाभिजनेन च। यत् त्वादृशो विकुर्वीत यशस्वी लोकविश्रुतः॥ अधुर्यवच्च वोढव्ये मन्ये मरणमेव तत्। यदि त्वामनुपश्यामि परस्य प्रियवादिनम्॥ पृष्ठतोऽनुव्रजन्तं वा का शान्तिर्हदयस्य मे। नास्मिन् जातु कुले जातो गच्छेद् योऽन्यस्य पृष्ठतः।।३५। न त्वं परस्यानुचरस्तात जीवितुमर्हसि। अहं हि क्षत्रहदयं वेद यत् परिशाश्वतम्॥ पूर्वैः पूर्वतरैः प्रोक्तं परैः परतरैरपि। शाश्वतं चाव्ययं चैव प्रजापतिविनिर्मितम्॥ यो वै कश्चिदिहाजातः क्षत्रियः क्षत्रकर्मवित्। भयाद् वृत्तिसमीक्षो वा न नमेदिह कस्यचित्॥ उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम्। अप्यपर्वणि भज्येत न नमेतेह कस्यचित्॥ मातङ्गो मत्त इव च परीयात् समहामनाः। ब्राह्मणेभ्यो नमेन्नित्यं धर्मायैव च संजय॥ नियच्छन्नितरान् वर्णान् विनिघ्नन् सर्वदुष्कृतः। ससहायोऽसहायो वा यावज्जीवं तथा भवेत्॥ पुत्र उवाच कृष्णायसस्येव च ते संहत्य हृदयं कृतम्। मम मातस्त्वकरुणे वीरप्रज्ञे घमर्षणे।।।। अहो क्षत्रसमाचारो यत्र मामितरं यथा। नियोजयसि युद्धाय परमातेव मां तथा॥ ईदृशं वचनं ब्रूयाद् भवती पुत्रमेकजम्। किं नु ते मामपश्यन्त्याः पृथिव्या अपि सर्वया॥ किमाभरणकृत्येन किं भोगै वितेन वा। मयि वा संगरहते प्रियपुत्रे विशेषतः॥ मातोवाच सर्वावस्था हि विदुषां तात धर्मार्थकारणात्। तावेवाभिसमीक्ष्याहं संजय त्वामचूचुदम्॥ स समीक्ष्यक्रमोपेतो मुख्यः कालोऽयमागतः। अस्मिश्चेदागते काले कार्यं न प्रतिपद्यसे॥ असम्भावितरूपस्त्वमानृशंस्यं करिष्यसि। तं त्वामयशसा स्पृष्टं न ब्रूयां यदि संजय॥ खरीवात्सल्यमाहुस्तन्निः सामर्थ्य महेतुकम्। सद्धिर्विगर्हितं मागं त्यज मूर्खनिषेवितम्॥ अविद्या वै महत्यस्ति यामिमां संश्रिताः प्रजाः। तव स्याद् यदि सद्वृत्तं तेन मे त्वं प्रियो भवेः॥ धर्मार्थगुणयुक्तेन नेतरेण कथंचन। दैवमानुपयुक्तेन सद्भिराचरितेन च॥ यो ह्येवमविनीतेन रमते पुत्र नप्तृणा। अनुत्थानवता चापि दुर्विनीतेन दुर्धिया॥ रमते यस्तु पुत्रेण मोघं तस्य प्रजाफलम्। अकुर्वन्तो हि कर्माणि कुर्वन्तो निन्दितानि च॥ सुखं नैवेह नामुत्र लभन्ते पुरुषाधमाः। युद्धाय क्षत्रियः सृष्टः संजयेह जयाय च॥ जयन् वावध्यमानो वा प्राप्नोतीन्द्रसलोकताम्। न शक्रभवने पुण्ये दिवि तद् विद्यते सुखम्। यदमित्रान् वशे कृत्वा क्षत्रियः सुखमेधते॥ मन्युना दह्यमानेन पुरुषेण मनस्विना। निकृतेनेह बहुशः शत्रून् प्रतिजिगीषया॥ आत्मानं वा परित्यज्य शत्रु वा विनिपात्य च। अतोऽन्येन प्रकारेण शान्तिरस्य कुतो भवेत्॥ इह प्राज्ञो हि पुरुषः स्वल्पमप्रियमिच्छति। यस्य स्वल्पं प्रियं लोके ध्रुवं तस्याल्पमप्रियम्॥ प्रियाभावाच्च पुरुषो नैव प्राप्नोति शोभनम्। ध्रुवं चाभावमभ्येति गत्वा गङ्गेव सागरम्॥ पुत्र उवाच नेयं मतिस्त्वया वाच्या मातः पुत्रे विशेषतः। कारुण्यमेवात्र पश्य भूत्वेह जडमूकवत्॥ मातोवाच अतो मे भूयसी नन्दिर्यदेवमनुपश्यसि। चोद्यं मां चोदयस्येतद् भृशं वै चोदयामि ते॥ अथत्वां पूजयिष्यामि हत्वा वै सर्वसैन्धवान्। अहं पश्यामि विजयं कृच्छ्रभावितमेव ते॥ पुत्र उवाच अकोशस्यासहायस्य कुतः सिद्धिर्जयो मम। इत्यवस्थां विदित्वैतामात्मनाऽऽत्मनि दारुणाम्॥ राज्याद् भावो निवृत्तो मे त्रिदिवादिव दुष्कृतः। ईदृशं भवती कंचिदुपायमनुपश्यति॥ तन्मे परिणतप्रज्ञे सम्यक् प्रबूहि पृच्छते। करिष्यामि हि तत् सर्वं यथावदनुशासनम्॥ मातोवाच पुत्र नात्मावमन्तव्यः पूर्वाभिरसमृद्धिभिः। अभूत्वा हि भवन्त्यर्था भूत्वा नश्यन्ति चापरे। अमर्षेणैव चाप्यर्था नारब्धव्याः सुबालिशैः॥ सर्वेषां कर्मणां तात फले नित्यमनित्यता। अनित्यमिति जानन्तो न भवन्ति भवन्ति च॥ अथ ये नैव कुर्वन्ति नैव जातु भवन्ति ते। ऐकगुण्यमनीहायामभावः कर्मणां फलम्॥ अथ द्वैगुण्यमीहायां फलं भवति वा न वा। यस्य प्रागेव विदिता सर्वार्थानामनित्यता॥ नुदेद् वृद्ध्यसमृद्धी स प्रतिकूले नृपात्मजा उत्थातव्यं जागृतव्यं योक्तव्यं भूतिकर्मसु॥ भविष्यतीत्येव मनः कृत्वा सततमव्यथैः। मङ्गलानि पुरस्कृत्य ब्राह्मणांश्चेश्वरैः सह॥ प्राज्ञस्य नृपतेराशु वृद्धिर्भवति पुत्रक। अभिवर्तति लक्ष्मीस्तं प्राचीमिव दिवाकरः॥ निदर्शनान्युपायांश्च बहून्युद्धर्षणानि च। अनुदर्शितरूपोऽसि पश्यामि कुरु पौरुषम्॥ पुरुषार्थमभिप्रेतं समाहर्तुमिहार्हसि। क्रुद्धाल्लुब्धान् परिक्षीणानवलिप्तान् विमानितान्॥ स्पर्धिनश्चैव ये केचित् तान् युक्त उपधारय। एतेन त्वं प्रकारेण महतो भेत्स्यसे गणान्॥ महावेग इवोद्भूतो मातरिश्वा बलाहकान्। तेषामग्रप्रदायी स्याः कल्योत्थायी प्रियंवदः॥ ते त्वां प्रियं करिष्यन्ति पुरोधास्यन्ति च ध्रुवम्। यदैव शत्रुर्जानीयात् सपन्नं त्यक्तजीवितम्। तदैवास्मादुद्विजते सर्पाद् वेश्मगतादिव॥ तं विदित्वा पराक्रान्तं वशे न कुरुते यदि। निर्वादैनिर्वदेदेनमन्ततस्तद् भविष्यति॥ निर्वादादास्पदं लब्वा धनवृद्धिर्भवष्यति। धनवन्तं हि मित्राणि भजन्ते चाश्रयन्ति च॥ स्खलितार्थ पुनस्तात संत्यजन्ति च बान्धवाः। अप्यस्मिन् नाश्वसन्ते च जुगुप्सन्ते च तादृशम्॥ शत्रु कृत्वा यः सहायं विश्वासमुपगच्छति। स न सम्भाव्यमेवैतद् यद् राज्यं प्राप्नुयादिति॥ मातोवाच नैव राज्ञाः दरः कार्यों जातु कस्याञ्चिदापदि। अथ चेदपि दीर्णः स्यान्नैव वर्तेत दीर्णवत्॥ दीर्णं हि दृष्ट्वा राजानं सर्वमेवानुदीर्यते। राष्ट्र बलममात्याश्च पृथक् कुर्वन्ति ते मती:॥ शत्रूनेके प्रपद्यन्ते प्रजहत्यपरे पुनः। अन्ये तु प्रजिहीर्षन्ति ये पुरस्ताद् विमानिताः॥ य एवात्यन्तसुहृदस्त एनं पर्युपासते। अशक्तयः स्वस्तिकामा बद्धवत्सा इला इव॥ शोचन्तमनुशोचन्ति पतितानिव बान्धवान्। अपि ते पूजिताः पूर्वमपि ते सुहृदो मताः॥ ये राष्ट्रमभिमन्यन्ते राज्ञो व्यसनमीयुषः। मा दीदरस्त्वं सुहृदो मा त्वां दीर्णं प्रहासिषुः॥ प्रभावं पौरुषं बुद्धिं जिज्ञासन्त्या मया तव। विदधत्या समाश्वासमुक्तं तेजोविवृद्धये॥ यदेतत् संविजानासि यदि सम्यग् ब्रवीम्यहम्। कृत्वासौम्यमिवात्मानं जयायोत्तिष्ठ संजय॥ अस्ति नः कोशनिचयो महान् ह्यविदितस्तव। तमहं वेद नान्यस्तमुपसम्पादयामि ते॥ सन्ति नैकतमा भूयः सुहृदस्तव संजय। सुखदुःखसहा वीर संग्रामादनिवर्तिनः॥ तादृशा हि सहाया वै पुरुषस्य बुभूषतः। इष्टं जिहीर्षतः किंचित् सचिवाः शत्रुकर्शन॥ कुन्त्युवाच यस्यास्त्वीदृशकं वाक्यं श्रुत्वाऽपि स्वल्पचेतसः। तमस्त्वपागमत् तस्य सुचित्रार्थपदाक्षरम्॥ पुत्र उवाच उदके भूरियं धार्या मर्तव्यं प्रवणे मया। यस्य मे भवती नेत्री भविष्यद्धतिदर्शिनी॥ अहं हि वचनं त्वत्तः शुश्रूषुरपरापरम्। किंचित् किंचित् प्रतिवदंस्तूष्णीमासं मुहुर्मुहुः॥ अतृप्यन्नमृतस्येव कृच्छ्राल्लब्धस्य बान्धवात्। उद्यच्छाम्येष शत्रूणां नियमार्थं जयाय च॥ कुन्त्युवाच सदश्व इव स क्षिप्तः प्रणुन्नो वाक्यसायकैः। तच्चकार तथा सर्वं यथावदनुशासनम्॥ इदमुद्धर्षणं भीमं तेजोवर्धनमुत्तमम्। राजानं श्रावयेन्मन्त्री सीदन्तं शत्रुपीडितम्॥ जयो नामेतिहासोऽयं श्रोतव्यो विजीगीषुणा। महीं विजयते क्षिप्रं श्रुत्वा शत्रूश्च मर्दति॥ इदं पुंसवनं चैव वीराजननमेव च। अभीक्ष्णं गर्भिणी श्रुत्वा ध्रुवं वीरं प्रजायते॥ विद्याशूरं तप:शूरं दानशूरं तपस्विनम्। ब्राह्मया श्रिया दीप्यमानं साधुवादे च सम्मतम्॥ अर्चिष्मन्तं बलोपेतं महाभागं महारथम्। धृतिमन्तमनाधृष्यं जेतारमपराजितम्॥ नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम्। ईदृशं क्षत्रिया सूते वीरं सत्यपराक्रमम्॥ कुन्त्युवाच अर्जुन केशव ब्रूयास्त्वयि जाते स्म सूतके। उपोपविष्टा नारीभिराश्रमे परिवारिता॥शा अथान्तरिक्षे वागासीद् दिव्यरूपा मनोरमा। सहस्राक्षसमः कुन्ति भविष्यत्येष ते सुतः॥ एष जेष्यति संग्रामे कुरून् सर्वान् समागतान्। भीमसेनद्वितीयश्च लोकमुद्वर्तयिष्यति॥ पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवं स्पृशेत्। हत्वा कुरूच संग्रामे वासुदेवसहायवान्॥ पित्र्यमंशं प्रणष्टं च पुनरप्युद्धरिष्यति। भ्रातृभिः सहितः श्रीमांस्त्रीन् मेधानाहरिष्यति॥ स सत्यसंधो बीभत्सुः सव्यसाची यथाऽच्युत। तथा त्वमेव जानासि बलवन्तं दुरासदम्॥ तथा तदस्तु दाशार्ह यथा वागभ्यभाषत। धर्मश्चेदस्ति वार्ष्णेय तथा सत्यं भविष्यति॥ त्वं चापि तत् तथा कृष्ण सर्वंसम्पादयिष्यसि। नाहं तदभ्यसूयामि यथा वागभ्यभाषत॥ नमो धर्माय महते धर्मो धारयति प्रजाः। एतद् धनंजयो वाच्यो नित्योद्युक्तो वृकोदरः॥ यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः। न हि वैरं समासाद्य सीदन्ति पुरुषर्षभाः॥ विदिता ते सदा बुद्धिर्भीमस्य न स शाम्यति। यावदन्तं न कुरुते शत्रूणां शत्रुकर्शन॥ सर्वधर्मविशेषज्ञां स्नुषां पाण्डोर्महात्मनः। ब्रूया माधव कल्याणी कृष्ण कृष्णां यशस्विनीम्॥ युक्तमेतन्महाभागे कुले जाते यशस्विनि। यन्मे पुत्रेषु सर्वेषु यथावत् त्वमवर्तिथाः॥ माद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरतावुभौ। विक्रमेणार्जितान् भोगान् वृणीतं जीवितादपि॥ विक्रमाधिगता ह्याः क्षत्रधर्मेण जीवतः। मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम॥ यच्च वः प्रेक्षमाणानां सर्वधर्मापचायिनाम्। पाञ्चाली परुषाण्युक्ता को नु तत् क्षन्तुमर्हति॥ न राज्यहरणं दुःखं छूते चापि पराजयः। प्रव्राजनं सुतानां वा न मे तद् दुःखकारणम्॥ यत्र सा बृहती श्यामा सभायां रुदती तदा। अश्रौषीत् परुषा वाचस्तन्मे दुःखतरं महत्॥ स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा। नाध्यगच्छत् तदा नाथं कृष्णा नाथवती सती॥ तं वै ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम्। अर्जुनं पुरुषव्याघ्रं द्रौपद्याः पदवी चर॥ विदितं हि तवात्यन्तं क्रुद्धाविव यमान्तकौ। भीमार्जुनौ नयेतां हि देवानपि परां गतिम्॥ तयोश्चैतदवज्ञानं यत् सा कृष्णा समागता। दुःशासनश्च यद् भीमं कटुकान्यभ्यभाषत॥ पश्यतां कुरुवीराणां तच्च संस्मारयेः पुनः। पाण्डवान् कुशलं पृच्छेः सपुत्रान् कृष्णया सह॥ मां च कुशलिनी ब्रूयास्तेषु भूयो जनार्दन। अरिष्टं गच्छ पन्थानं पुत्रान् मे प्रतिपालय॥ वैशम्पायन उवाच अभिवाद्याथ तां कृष्णः कृत्वा चापि प्रदक्षिणम्। निश्चक्राम महाबाहुः सिंहखेलगतिस्ततः॥ ततो विसर्जयामास भीष्मादीन् कुरुपुङ्गवान्। आरोप्याथ रथे कर्णं प्रायात् सात्यकिना सह॥ तत: प्रयाते दाशार्ह कुरवः संगता मिथः। जजल्पुर्महदाश्चर्यं केशवे परमाद्भुतम्॥ मृत्युपाशवशीकृता। दुर्योधनस्य बालिश्यान्नैतदस्तीति चाब्रुवन्॥ ततो निर्याय नगरात् प्रययौ पुरुषोत्तमः। मन्त्रयामास च तदा कर्णेन सुचिरं सह॥ विसर्जयित्वा राधेयं सर्वयादवनन्दनः। ततो जवेन महता तूर्णमश्वानचोदयत्।॥ ते पिबन्त इवाकाशं दारुकेण प्रचोदिताः। हया जग्मुर्महावेगा मनोमारुतरंहसः॥ प्रमूढा पृथिवी सर्वा ते व्यतीत्य महाध्वानं क्षिप्रं श्येना इवाशुगाः। उच्चैर्जग्मुरुपल्पव्यं शार्ङ्गधन्वानमावहन्॥ वैशम्पायन उवाच कुन्त्यास्तु वचनं श्रुत्वा भीष्मद्रोणौ महारथौ। दुर्योधनमिदं वाक्यमूचतुः शासनातिगम्॥ श्रुतं ते पुरुषव्याघ्र कुन्त्याः कृष्णस्य संनिधौ। वाक्यामर्थवदत्युग्रमुक्तं धर्म्यमनुत्तमम्॥ तत् करिष्यन्ति कौन्तेया वासुदेवस्य सम्मतम्। न हि ते जातु शाम्येरवृते राज्येन कौरव॥ क्लेशिता हि त्वया पार्था धर्मपाशसितास्तदा। सभायां द्रौपदी चैव तैश्च तन्मर्षितं तव॥ कृतास्त्रं ह्यर्जुनं प्राप्य भीमं च कृतनिश्चयम्। गाण्डीवं चेषुधी चैव रथं च ध्वजमेव च।॥ नकुलं सहदेवं च बलवीर्यसमन्वितौ। सहायं वासुदेवं च न ऑस्यति युधिष्ठिरः॥ प्रत्यक्षं ते महाबाहो यथा पार्थेन धीमता। विराटनगरे पूर्वं सर्व स्म युधि निर्जिताः॥ दानवा घोरकर्माणो निवातकवचा युधि। रौद्रमस्त्रं समादाय दग्धा वानरकेतुना॥ कर्णप्रभृतयश्चेमे त्वं चापि कवची रथी। मोक्षितो घोषयात्रायां पर्याप्तं तन्निदर्शनम्॥ प्रशाम्य भरतश्रेष्ठ भ्रातृभिः सह पाण्डवैः। रक्षेमां पृथिवीं सर्वां मृत्योर्दष्ट्रान्तरं गताम्॥ ज्येष्ठो भ्राता धर्मशीलो वत्सलः श्लक्ष्णवाक् कविः। तं गच्छ पुरुषव्याघ्रं व्यपनीयेह किल्बिषम्॥ दृष्टश्च त्वं पाण्डवेन व्यपनीतशरासनः। प्रशान्तभृकृटिः श्रीमान् कृता शान्तिः कुलस्य नः।।१२ तमभ्येत्य सहामात्यः परिष्वज्य नृपात्मजम्। अभिवादय राजानं यथापूर्वमरिंदम॥ अभिवादयमानं त्वां पाणिभ्यां भीमपूर्वजः। प्रतिगृह्णातु सौहार्दात् कुन्तीपुत्रो युधिष्ठिरः॥ सिंहस्कन्धोरुबाहुस्त्वां वृत्तायतमहाभुजः। परिष्वजतु बाहुभ्यां भीमः प्रहरतां वरः॥ कम्बुग्रीवो गुडाकेशस्ततस्त्वां पुष्करेक्षणः। अभिवादयतां पार्थः कुन्तीपुत्रो धनंजयः॥ आश्विनेयौ नरव्याघ्रौ रूपेणाप्रतिमौ भुवि। तौ च त्वां गुरुवत् प्रेम्णा पूजया प्रत्युदीयताम्॥ मुञ्चन्त्वानन्दजाश्रूणि दाशार्हप्रमुखा नृपाः। संगच्छ भ्रातृभिः सार्धं मानं संत्यज्य पार्थिव॥ प्रशाधा पृथिवीं कृत्स्नां ततस्त्वं भ्रातृभिः सह। समालिङ्ग्य च हर्षेण नृपा यान्तु परस्परम्॥ अलं युद्धेन राजेन्द्र सुहृदां शृणु वारणम्। ध्रुवं विनाशो युद्धे हि क्षत्रियाणां प्रदृश्यते॥ ज्योतींषि प्रतिकूलानि दारुणा मृगपक्षिणः। उत्पाता विविधा वीर दृश्यन्ते क्षत्रनाशनाः॥ विशेषत इहास्माकं निमित्तानि निवेशने। उल्काभिहि प्रदीप्ताभिर्बाध्यते पृतना तव॥ वाहनान्यप्रहृष्टानि रुदन्तीव विशाम्पते। गृध्रास्ते पर्युपासन्ते सैन्यानि च समन्ततः॥ नगरं न यथापूर्वं तथा राजनिवेशनम्। शिवाश्चाशिवनि?षां दीप्तां सेवन्ति वै दिशम्॥ कुरु वाक्यं पितुर्मातुरस्माकं च हितैषिणाम्। त्वय्यायत्तो महाबाहो शमो व्यायाम एव च।॥ न चेत् करिष्यसि वचः सुहृदामरिकर्शन। तप्स्यसे वाहिनीं दृष्ट्वा पार्थबाणप्रपीडिताम्॥ भीमस्य च महानादं नदतः शुष्मिणो रणे। श्रुत्वा स्मर्तासि मे वाक्यं गाण्डीवस्य च निः स्वनम् यद्येतदपसव्यं ते वचो मम भविष्यति॥ वैशम्पायन उवाच एवमुक्तस्तु विमनास्तिर्यग्दृष्टिरधोमुखः। संहत्य च भ्रुवोर्मध्यं न किंचिद् व्याजहार ह॥ त वै विमनसं दृष्ट्वा सम्प्रेक्ष्यान्योन्यमन्तिकात्। पुनरेवोत्तरं वाक्यमुक्तवन्तौ नरर्षभौ॥ भीष्म उवाच शुश्रूषुमनसूयं च ब्रह्मण्यं सत्यवादिनम्। प्रतियोत्स्यामहे पार्थमतो दुःखतरं नु किम्॥ द्रोण उवाच अश्वत्थाम्नि यथा पुत्रे भूयो मम धनंजये। बहुमानः परो राजन् संनतिश्च कपिध्वजे॥ तं च पुत्रात् प्रियतमं प्रतियोत्स्ये धनंजयम्। क्षात्रं धर्ममनुष्ठाय धिगस्तु क्षत्रजीविकाम्॥ यस्य लोके समो नास्ति कश्चिदन्यो धनुर्धरः। मत्प्रसादात् स बीभत्सुः श्रेयानन्यैर्धनुर्धरैः॥ मित्रध्रुग् दुष्टभावश्च नास्तिकोऽथानृजुः शठः। न सत्सु लभते पूजां यज्ञे मूर्ख इवागतः॥ वार्यमाणोऽपि पापेभ्यः पापात्मा पापमिच्छति। चोद्यमानोऽपि पापेन शुभात्मा शुभमिच्छति॥ मिथ्योपचरिता ह्येते वर्तमाना ह्यनु प्रिये। अहितत्वाय कल्पन्ते दोषा भरतसत्तम॥ त्वमुक्तः कुरुवृद्धेन मया च विदुरेण च। वासुदेवेन च तथा श्रेयो नैवाभिमन्यसे॥ अस्ति मे बलमित्येव सहसा त्वं तितीर्षसि। सग्राहनक्रमकरं गङ्गावेगमिवोर्णगे॥ वास एव यथा त्यक्तं प्रावृण्वानोऽभिमन्यसे। स्रजं त्यक्तामिव प्राप्य लोभाद् यौधिष्ठिरीं श्रियम्॥ द्रौपदीसहितं पार्थं सायुधैर्धातृभिर्वृतम्। वनस्थमपि राज्यस्थः पाण्डवं को विजेष्यति॥ निदेशे यस्य राजानः सर्वे तिष्ठन्ति किङ्कराः। तमैलविलमासाद्य धर्मराजो व्यराजत॥ कुबेरसदनं प्राप्य ततो रत्नान्यवाप्य च। स्फीतमाक्रम्य ते राष्ट्र राज्यमिच्छन्ति पाण्डवाः॥ दत्तं हुतमधीतं च ब्राह्मणास्तर्पिता धनैः। आवयोर्गतमायुश्च कृतकृत्यौ च विद्धि नौ॥ त्वं तु हित्वा सुखं राज्यं मित्राणि च धनानि च। विग्रहं पाण्डवैः कृत्वा महद् व्यसनमाप्स्यसि॥ द्रौपदी यस्य चाशास्ते विजयं सत्यवादिनी। तपोधोरव्रता देवी कथं जेष्यसि पाण्डवम्॥ मन्त्री जनार्दनो यस्य भ्राता यस्य धनंजयः। सर्वशस्त्रभृतां श्रेष्ठः कथं जेष्यसि पाण्डवम्॥ सहाया ब्राह्मणा यस्य धृतिमन्तो जितेन्द्रियाः। तमुग्रतपसं वीरं कथं जेष्यसि पाण्डवम्॥ पुनरुक्तं च वक्ष्यामि यत् कार्यं भूतिमिच्छता। सुहृदा मज्जमानेषु सुहृत्सु व्यसनार्णवे॥ अलं युद्धेन तैर्वीरैः शाम्य त्वं कुरुवृद्धये। मा गमः ससुतामात्यः सबलश्च पराभवम्॥ धृतराष्ट्र उवाच राजपुत्रैः परिवृतस्तथा भृत्यैश्च संजय। उपारोप्य रथे कर्णं निर्यातो मधुसूदनः॥ किमब्रवीदमेयात्मा राधेयं परवीरहा। कानि सान्त्वानि गोविन्दः सूतपुत्रे प्रयुक्तवान्॥ उद्यन्मेघस्वनः काले कृष्णः कर्णमथाब्रवीत्। मृदु वा यदि वा तीक्ष्णं तन्ममाचक्ष्व संजय॥ संजय उवाच आनुपूर्वेण वाक्यानि तीक्ष्णानि च मृदूनि च। प्रियाणि धर्मयुक्तानि सत्यानि च हितानि च॥ हृदयग्रहणीयानि राधेयं मधुसूदनः। यान्यप्रवीदमेयात्मा तानि मे शृणु भारत॥ वासुदेव उवाच उपासितास्ते राधेय ब्राह्मण वेदपारगाः। तत्त्वार्थं परिपृष्टाश्च नियतेनानसूयया।॥ त्वमेव कर्ण जानासि वेदवादान् सनातनान्। त्वमेव धर्मशास्त्रेषु सूक्ष्मेषु परिनिष्ठितः॥ कानीनश्च सहोदश्च कन्यायां यश्च जायते। वोढारं पितरं तस्य प्राहुः शास्त्रविदो जनाः॥ सोऽसि कर्ण तथा जातः पाण्डोः पुत्रोऽसि धर्मतः। निग्रहाद् धर्मशास्त्राणामेहि राजा भविष्यसि॥ पितृपक्षे च ते पार्था मातृपक्षे च वृष्णयः। द्वौ पक्षावभिजानीहि त्वमेतौ पुरुषर्षभ॥ मया सार्धमितो यातमद्य त्वां तात पाण्डवाः। अभिजानन्तु कौन्तेयं पूर्वजातं युधिष्ठिरात्॥ पादौ तव ग्रहीष्यन्ति भ्रातरः पञ्च पाण्डवाः। द्रौपदेयास्तथा पञ्च सौभद्रश्चापराजितः॥ राजानो राजपुत्राश्च पाण्डवार्थं समागताः। पादौ तव ग्रहीष्यन्ति सर्वे चान्धकवृष्णयः॥ हिरण्मयांश्च ते कुम्भान् राजतान् पार्थिवांस्तथा। ओषध्यः सर्वबीजानि सर्वरत्नानि वीस्थः॥ राजन्या राजकन्याश्चाप्यानयन्त्वाभिषेचनम्॥ षष्ठे त्वां च तथा काले द्रौपद्युपगमिष्यति। अग्नि जुहोतु वै धौम्यः संशितात्मा द्विजोत्तमः। अद्य त्वामभिषिञ्चन्तु चातुर्वैद्या द्विजातयः॥ पुरोहितः पाण्डवानां ब्रह्मकर्मण्यवस्थितः। तथैव भ्रातरः पञ्च पाण्डवाः पुरुषर्षभाः॥ द्रौपदेयास्तथा पञ्च पञ्चालाश्चेदयस्तथा। अहं च त्वाभिषेक्ष्यामि राजानं पृथिवीपतिम्॥ युवराजोऽस्तु ते राजा धर्मपुत्रो युधिष्ठिरः। गृहीत्वा व्यजनं श्वेतं धर्मात्मा संशितव्रतः॥ उपान्वारोहतु रथं कुन्तीपुत्रो युधिष्ठिरः। छत्रं च ते महाश्वेतं भीमसेनो महाबलः॥ अभिषिक्तस्य कौन्तेयो धारयिष्यति मूर्धनि। किङ्किणीशतनिर्घोषं वैयाघ्रपरिवारणम्॥ रथं श्वेतहयैर्युक्तमर्जुनो वाहयिष्यति। अभिमन्युश्च ते नित्यं प्रत्यासन्नो भविष्यति॥ नकुलः सहदेवश्च द्रौपदेयाश्च पञ्च ये। पञ्चालाश्चानुयास्यन्ति शिखण्डी च महारथः॥ अहं च त्वाऽनुयास्यामि सर्वे चान्धकवृष्णयः। दाशार्हाः परिवारास्ते दाशार्णाश्च विशाम्पते॥ भुवं राज्यं महाबाहो भ्रातृभिः सह पाण्डवैः। जपैमैश्च संयुक्तो मङ्गलैश्च पृथग्विधैः॥ पुरोगमाश्च ते सन्तु द्रविडाः सह कुन्तलैः। आन्ध्रास्तालचराश्चैव चूचुपा वेणुपास्तथा॥ स्तुवन्तु त्वां च बहुभिः स्तुतिभिः सूतमागधाः। विजयं वसुषेणस्य घोषयन्तु च पाण्डवाः॥ स त्वं परिवृतः पार्थैर्नक्षत्रैरिव चन्द्रमाः। प्रशाधि राज्यं कौन्तेष कुन्तीं च प्रतिनन्दय॥ मित्राणि ते प्रहृष्यन्तु व्यथन्तु रिपवस्तथा। सौमात्रं चैव तेऽद्यास्तु भ्रातृभिः सह पाण्डवैः॥ कर्ण उवाच असंशयं सौहृदान्मे प्रणयाच्चात्थ केशव। सख्येन चैव वार्ष्णेय श्रेयस्कामतयैव च।॥ सर्वं चैवाभिजानामि पाण्डोः पुत्रोऽस्मि धर्मतः। निग्रहाद् धर्मशास्त्राणां यथा त्वं कृष्ण मन्यसे॥ कन्या गर्भ समाधत्त भास्करान्यां जनार्दन। आदित्यवचनाच्चैव जातं मां सा व्यसर्जयत्॥ सोऽस्मि कृष्ण तथा जातः पाण्डोः पुत्रोऽस्मि धर्मतः। कुन्त्या त्वहमपाकीर्णो यथा न कुशलं तथा॥ सूतो हि मामधिरथो दृष्ट्वैवाभ्यानयद् गृहान्। राधायाश्चैव मां प्रादात् सौहार्दान्मधुसूदन॥ मत्स्नेहाच्चैव राधायां सद्यः क्षीरमवातरत्। सा मे मूत्रं पुरीषं च प्रतिजग्राह माधव॥ तस्याः पिण्डव्यपनयं कुर्यादस्मद्विधः कथम्। धर्मविद् धर्मशास्त्राणां श्रवणे सततं रतः॥ तथा मामभिजानाति सूतश्चाधिरथः सुतम्। पितरं चाभिजानामि तमहं सौहृदात् सदा॥ स हि मे जातकर्मादि कारयामास माधव। शास्त्रदृष्टेन विधिना पुत्रप्रीत्या जनार्दन॥ नाम वै वसुषेणेति कारयामास वै द्विजैः। भार्याश्चोढा मम प्राप्ते यौवने तत्परिचहात्॥ तासु पुत्राश्च पौत्राश्च मम जाता जनार्दन। तासु मे हृदयं कृष्णं संजातं कामबन्धनम्॥ न पृथिव्या सकलया न सुवर्णस्य राशिभिः। हर्षाद् भयाद् वा गोविन्द मिथ्या कर्तुं तदुत्सहे॥ धृतराष्ट्रकुले कृष्ण दुर्योधनसमाश्रयात्। मया त्रयोदश समा भुक्तं राज्यमकण्टकम्॥ इष्टं च बहुभिर्यज्ञैः सह सूतैर्मयाऽसकृत्। आवाहाच विवाहाच सह सूतैर्मया कृताः॥ मां च कृष्ण समासाद्य कृतः शस्त्रसमुद्यमः। दुर्योधनेन वार्ष्णेय विग्रहश्चापि पाण्डवैः॥ तस्माद् रणे द्वैरथे मां प्रत्युद्यातारमच्युत। वृतवान् परमं कृष्णं प्रतीपं सव्यसाचिनः॥ वधाद् बन्धाद् भयाद् वापि लोभाद् वापि जनार्दन। अनृतं नोत्सहे कर्तुं धार्तराष्ट्रस्य धीमतः॥ यदि ह्यद्य न गच्छेयं द्वैरथं सव्यसाचिना। अकीर्तिः स्याद्धृषीकेश मम पार्थस्य चोभयोः॥ असंशयं हितार्थाय ब्रूयास्त्वं मधुसूदन। सर्वं च पाण्डवाः कुर्युस्त्वद्वशित्वान्न संशयः॥ मन्त्रस्य नियमं कुर्यास्त्वमत्र मधुसूदन। एतदत्र हितं मन्ये सर्वं यादवनन्दन॥ यदि जानाति मां राजा धर्मात्मा संयतेन्द्रियः। कुन्त्याः प्रथम पुत्रं न स राज्यं ग्रहीष्यति॥ प्राप्य चापि महद् राज्यं तदहं मधुसूदन। स्फीतं दुर्योधनायैव सम्प्रदद्यामरिंदम॥ स एव राजा धर्मात्मा शाश्वतोऽस्तु युधिष्ठिरः। नेता यस्य हृषीकेशो योद्धा यस्य धनंजयः॥ पृथिवी तस्य राष्ट्रं च यस्य भीमो महारथः। नकुलः सहदेवश्च द्रौपदेयाश्च माधवः॥ धृष्टद्युम्नश्च पाञ्चाल्यः सात्यकिश्च महारथः। उत्तमौजा युधामन्युः सत्यधर्मा च सौमकिः॥ चैद्यश्च चेकितानश्च शिखण्डी चापराजितः। इन्द्रगोपकवर्णाश्च केकया भ्रातरस्तथा। इन्द्रायुधसवर्णश्च कुन्तिभोजो महामनाः॥ मातुलो भीमसेनस्य श्येनजिच्च महारथः। शङ्खः पुत्रो विराटस्य निधिस्त्वं च जनार्दन॥ महानयं कृष्णं कृतः क्षत्रस्य समुदानयः। राज्यं प्राप्तमिदं दीप्तं प्रथितं सर्वराजसु॥ धार्तराष्ट्रस्य वार्ष्णेय शस्त्रयज्ञो भविष्यति। अस्य यज्ञस्य वेत्ता त्वं भविष्यसि जनार्दन॥ आध्वर्यवं च ते कृष्ण क्रतावस्मिन् भविष्यति। होता चैवात्र वीभत्सुः संनद्धः स कपिध्वजः॥ गाण्डीवं स्रुक् तथा चाज्यं वीर्यं पुंसां भविष्यति। ऐन्द्रं पाशुपतं ब्राझं स्थूणाकर्णं च माधव। मन्त्रास्तत्र भविष्यन्ति प्रयुक्ताः सव्यसाचिना॥ अनुयातश्च पितरमधिको वा पराक्रमे। गीतं स्तोत्रं स सौभद्रः सम्यक् तत्र भविष्यति॥ उद्गाताऽत्र पुनर्भीमः प्रस्तोता सुमहाबलः। विनदन् स नरव्याघ्रो नागानीकान्तकृद् रणे॥ स चैव तत्र धर्मात्मा शश्वद् राजा युधिष्ठिरः। जपैोमैश्च संयुक्तो ब्रह्मत्वं कारयिष्यति॥ शङ्खशब्दा: समुरजा भेर्यश्च मधुसूदन। उत्कृष्टसिंहनादश्च सुब्रह्मण्यो भविष्यति॥ नकुलः सहदेवश्च माद्रीपुत्रो यशस्विनौ। शामित्रं तौ महावी? सम्यक् तत्र भविष्यतः॥ कल्माषदण्डा गोविन्दं विमलारथपङ्क्तयः। यूपा: समुपकल्पन्तामस्मिन् यज्ञे जनार्दन॥ कर्णिनालीकनाराचा वत्सदन्तोपबृंहणाः। तोमराः सोमकलशाः पवित्राणि धनूंषि च॥ असयोऽत्र कपालानि पुरोडाशाः शिरसि च। हविस्तु रुधिरं कृष्ण तस्मिन् यज्ञे भविष्यति॥ इध्माः परिधयश्चैव शक्तयो विमला गदाः। सदस्या द्रोणशिष्याच कृपस्य च शरद्वतः॥ इषवोऽत्र परिस्तोमा मुक्ता गाण्डीवधन्वना। महारथप्रयुक्ताश्च द्रोणद्रौणिप्रचोदिताः॥ प्रतिप्रास्थानिकं कर्म सात्यकिस्तु करिष्यति। दीक्षितो धार्तराष्ट्रोऽत्र पली चास्य महाचमूः॥ घटोत्कचोऽत्र शामित्रं करिष्यति महाबलः। अतिरात्रे महाबाहो वितते यक्षकर्मणि॥ दक्षिणा त्वस्य यज्ञस्य धृष्टद्युम्नः प्रतापवान्। वैतानिके कर्ममुखे जातो यः कृष्ण पावकात्॥ यदब्रुवमहं कृष्ण कटुकानि स्म पाण्डवान्। प्रियार्थं धार्तराष्ट्रस्य तेन तप्ये ह्यकर्मणा॥ यदा द्रक्ष्यसि मां कृष्ण निहतं सव्यसाचिना। पुनश्चितिस्तदा चास्य यज्ञस्याथ भविष्यति॥ दुःशासनस्य रुधिरं यदा पास्यति पाण्डवः। आन नर्दतः सम्यक् तदा सूयं भविष्यति॥ यदा द्रोणं च भीष्मं च पाञ्चाल्यौ पातयिष्यतः। तदा यज्ञावसानं तद् भविष्यति जनार्दन॥ दुर्योधनं यदा हन्ता भीमसेनो महाबलः। तदा समाप्स्यते यज्ञो धार्तराष्ट्रस्य माधव॥ नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य सङ्गत्ताः। हतेश्वरा नष्टपुत्रा हतनाथाश्च केशव॥ रुदत्यः सह गान्धार्या श्वगृध्रकुरराकुले। स यज्ञेऽस्मिन्नवभृथो भविष्यति जनार्दन।॥ विद्यावृद्धा वयोवृद्धाः क्षत्रियाः क्षत्रियर्षभ। वृथा मृत्युं न कुर्वीरंस्त्वत्कृते मधुसूदन॥ शस्त्रेण निधनं गच्छेत् समृद्धं क्षत्रमण्डलम्। कुरुक्षेत्रे पुण्यतमे त्रैलोक्यस्यापि केशव॥ तदत्र पुम्डरीकाक्ष विधत्स्व यदभीप्सितम्। यथा कार्येन वार्ष्णेय क्षत्रं स्वर्गमवाप्नुयात्॥ यावत् स्थास्यन्ति गिरयः सरितश्च जनार्दन। तावत् कीर्तिभवः शब्दः शाश्वतोऽयं भविष्यति॥ ब्राह्मणाः कथयिष्यन्ति महाभारतमाहवम्। समागमेषु वार्ष्णेय क्षत्रियाणां यशोधनम्॥ समुपानय कौन्तेयं युद्धायं मम केशव। मन्त्रसंवरणं कुर्वन् नित्यमेव परंतप॥ संजय उवाच केशवस्य तु तद् वाक्यं कर्णः श्रुत्वा हितं शुभम्। अब्रवीदभिसम्पूज्य कृष्णं तं मधुसूदनम्॥ जानन् मां किं महाबाहो सम्मोहयितुमिच्छसि। योऽयं पृथिव्याः कात्स्येन विनाशः समुपस्थितः॥ निमित्तं तत्र शकुनिरहं दुःशासनस्तथा। दुर्योधनश्च नृपतिधृतराष्ट्रसुतोऽभवत्॥ असंशयमिदं कृष्णं महद् युद्धमुपस्थितम्। पाण्डवानां कुरूणां च घोरं रुधिरकर्दमम्॥ राजानो राजपुत्राश्च दुर्योधनवशानुगाः। रणे शस्त्राग्निना दग्धाः प्राप्स्यन्ति यमसादनम्॥ स्वप्ना हि बहवो घोरा दृश्यन्ते मधुसूदन। निमित्तानि च घोराणि तथोत्पाताः सुदारुणाः॥ पराजयं धार्तराष्ट्रे विजयं च युधिष्ठिरे। शंसन्त इव वार्ष्णेय विविधा रोमहर्षणाः॥ प्राजाप्तयं हि नक्षत्रं ग्रहस्तीक्ष्णो महाद्युतिः। शनैश्चरः पीडयति पीडयन् प्राणिनोऽधिकम्॥ कृत्वा चाङ्गारको वक्र ज्येष्ठायां मधुसूदन। अनुराधां प्रार्थयते मैत्रं संगमयन्निव॥ नूनं महद्भयं कृष्णं कुरूणां समुपस्थितम्। विशेषेम हि वार्ष्णेय चित्रा पीडयते ग्रहः॥ सोमस्य लक्ष्म व्यावृत्तं राहुरर्कमुपैति च। दिवचोल्काः पतन्त्येताः सनिर्घाताः सकम्पनाः॥ निष्टनन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः। पानीयं यवसं चापि नाभिनन्दन्ति माधव॥ प्रादुर्भूतेषु चैतेषु भयमाहुरुपस्थितम्। निमित्तेषु महाबाहो दारुणं प्राणिनाशनम्॥ अल्पे भुक्ते पुरीषं च प्रभूतमिह दृश्यते। वाजिनां वारणानां च मनुष्याणां च केशव॥ धार्तराष्ट्रस्य सैन्येषु सर्वेषु मधुसूदन। पराभवस्य तल्लिङ्गमिति प्राहुर्मनीषिणः॥ प्रहृष्टं वाहनं कृष्णं पाण्डवानां प्रचक्षते। प्रदक्षिणा मृगाश्चैव तत् तेषां जयलक्षणम्॥ अपसव्या मृगाः सर्वे धार्तराष्ट्रस्य केशव। वाचश्चाप्यशरीरिण्यस्तत् पराभवलक्षणम्॥ मयूराः पुण्यशकुना हंससारसचातकाः जीवंजीवकसङ्घाश्चाप्यनुगच्छन्ति पाण्डवान्॥ गृध्राः कङ्काः वकाः श्येना यातुधानास्तथा वृकाः। मक्षिकाणां च सङ्घाता अनुधावन्ति कौरवान्॥ धार्तराष्ट्रस्य सैन्येषु भेरीणां नास्ति निःस्वनः। अनाहताः पाण्डवानां नदन्ति पटहाः किल॥ उदपानाश्च नर्दन्ति यथा गोवृषभास्तथा। धार्तराष्ट्रस्य सैन्येषु तत् पराभवलक्षणम्॥ मांसशोणितवर्षं च वृष्टं देवेन माधव। तथा गन्धर्वनगरं भानुमत् समुपस्थितम्॥ सप्राकारं सपरिखं सवप्रं चारुतोरणम्। कृष्णश्च परिघस्तत्र भानुमावृत्य तिष्टति॥ उदयास्तमने संध्ये वेदयन्ती महद्भयम्। शिवा च वाशते घोरं तत् पराभवलक्षणम्॥ एक पक्षाक्षिचरणाः पक्षिणो मधुसूदन। उत्सृजन्ति महद् घोरं तत् पराभवलक्षणम्॥ कृष्णग्रीवाश्च शकुना रक्तपादा भयानकाः। संध्याममिमुखा यान्ति तत् पराभवलक्षणम्॥ ब्राह्मणान् प्रथमं द्वेष्टि गुरूंश्च मधुसूदन। भृत्यान् भक्तिमतश्चापि तत् पराभवलक्षणम्॥ पूर्वा दिग् लोहिताकारा शस्त्रवर्णा च दक्षिणा। आमपात्रप्रतीकाशा पश्चिमा मधुसूदन। उत्तरा शङ्खवर्णाभा दिशां वर्णा उदाहृताः॥ प्रदीप्ताश्च दिशः सर्वा धार्तराष्ट्रस्य माधव। महद् भयं वेदयन्ति तस्मिन्नुत्पातदर्शने॥ सहस्रपादं प्रासादं स्वप्नान्ते स्म युधिष्ठिरः। अधिरोहन् मया दृष्टं सह भ्रातृभिरच्युत॥ श्वेतोष्णीषाश्च दृश्यन्ते सर्वे वै शुक्लवाससः। आसनानि च शुभ्राणि सर्वेषामुपलक्षये॥ तव चापि मया कृष्ण स्वप्नान्ते रुधिराविला। अन्त्रेण पृथिवी दृष्टा परिक्षिप्ता जनार्दन॥ अस्थिसंचयमारूढचामितौजा युधिष्ठिरः। सुवर्णपात्र्यां संहृष्टो भुक्तवान् घृतपायसम्॥ युधिष्ठिरो मया दृष्टो ग्रसमानो वसुन्धराम्। त्वया दत्तामिमां व्यक्तं भोक्ष्यते स वसुन्धराम्॥ उच्चं पर्वतमारूढो भीमकर्मा वृकोदरः। गदापाणिर्नरव्याघ्रो ग्रसन्निव महीमिमाम्॥ क्षपयिष्यति नः सर्वान् स सुव्यक्तं महारणे। विदितं मे हृषीकेश यतो धर्मस्ततो जयः॥ पाण्डुरं गजमारूढो गाण्डीवी स धनंजयः। त्वया सार्धं हृषीकेश श्रिया परमया ज्वलन्॥ यूयं सर्वे वधिष्यध्वं तत्र मे नास्ति संशयः। पार्थिवान् समरे कृष्ण दुर्योधनपुरोगमान्॥ नकुलः सहदेवश्च सात्यकिश्च महारथः। शुक्लकेयूरकण्ठत्राः शुक्लमाल्याम्बरावृताः॥ अधिरूढा नरव्याघ्रा नरवाहनमुत्तमम्। त्रय एते मया दृष्टाः पाण्डुरच्छत्रवाससः॥ श्वेतोष्णीषाश्च दृश्यन्ते त्रय एते जनार्दन धार्तराष्ट्रषु सैन्येषु तान् विजानीहि केशव॥ अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः। रक्तोष्णीषाश्च दृश्यन्ते सर्वे माधव पार्थिवाः॥ उष्ट्रप्रयुक्तमारूढो भीष्मद्रोणी महारथौ। मया साधु महाबाहो धार्तराष्ट्रेण वा विभो॥ अगस्त्यशास्तां च दिशं प्रयाताः स्म जनार्दन। अचिरेणैव कालेन प्राप्स्यामो यमसादनम्॥ अहं चान्ये च राजानो यच्च तत् क्षत्रमण्डलम्। गाण्डीवाग्नि प्रवेक्ष्याम इति मे नास्ति संशयः॥ श्रीकृष्ण उवाच उपस्थितविनाशेयं नूनमद्य वसुन्धरा। यथा हि मे वचः कर्ण नोपैति हृदयं तव॥ सर्वेषां तात भूतानां विनाशे प्रत्युपस्थिते। अनयो नयसंकाशो हृदयानापसर्पति॥ कर्ण उवाच अपि त्वां कृष्ण पश्याम जीवन्तोऽस्मान्महारणात्। समुत्तीर्णा महाबाहो वीरक्षत्रविनाशनात्॥ अथवा सङ्गमः कृष्ण स्वर्गे नो भविता ध्रुवम्। तत्रेदानी समेष्यामः पुनः सार्धं त्वयागऽनघ॥ संजय उवाच इत्युक्त्वा माधवं कर्णः परिष्वज्य च पीडितम्। विसर्जितः केशवेन रथोपस्थादवातरत्॥ ततः स्वरथमास्थाय जाम्बूनदविभूषितम्। सहास्माभिर्निववृते राधेयो दीनमानसः॥ ततः शीघ्रतरं प्रायात् केशवः सहसात्यकिः। पुनरुच्चारयन् वाणी याहि याहीति सारथिम्॥ वैशम्पायन उवाच ततः सूर्यानिश्चरितां कर्णः शुश्राव भारतीम्। दुरत्ययां प्रणयिनी पितृवद् भास्करेरिताम्॥ सत्यमाह पृथा वाक्यं कर्ण मातृवचः कुरु। श्रेयस्ते स्यान्नरव्याघ्र सर्वमाचरतस्तथा।॥ वैशम्पायन उवाच एवमुक्तस्य मात्रा च स्वयं पित्रा च भानुना। चचाल नैव कर्णसय मतिः सत्यधृतेस्तदा॥ कर्ण उवाच न चैतच्छ्रद्दधे वाक्यं क्षत्रिये त्वया। धर्मद्वारं ममैतत् स्यान्नियोगकरणं तव॥ अकरोन्मयि यत् पापं भवती सुमहात्ययम्। अपाकीर्णोऽस्मि यन्मातस्तद् यशःकीर्तिनाशनम्॥ अहं चेत् क्षत्रियो जातो न प्राप्तः क्षत्रसत्क्रियाम्। त्वत्कृते किं पापीयः शत्रुः कुर्यान्ममाहितम्॥ क्रियाकाले त्वनुक्रोशमकृत्वा त्वमिमं मम। हीनसंस्कारसमयमद्य मां समचूचुदः॥ न वै मम हितं पूर्वं मातृवच्चेष्टितं त्वया। सा मां सम्बोधयस्यद्य केवलात्महितैषिणी॥ कृष्णेन सहितात् को वै न व्यथेत धनंजयात्। कोऽद्य भीतं न मां विद्यात् पार्थानां समितिं गतम्॥ अभ्राता विदितः पूर्वं युद्धकाले प्रकाशितः। पाण्डवान् यदि गच्छामि किं मां क्षत्रं वदिष्यति॥ सर्वकामैः संविभक्तः पूजितश्च यथासुखम्। अहं वै धार्तराष्ट्राणां कुर्यां तदफलं कथम्॥ उपनह्य परैर्वैरं ये मां नित्यमुपासते। नमस्कुर्वन्ति च सदा वसवो वासवं यथा॥ मम प्राणेन ये शत्रूशक्ताः प्रतिसमासितुम्। मन्यन्ते ते कथं तेषामहं छिन्द्यां मनोरथम्॥ मया प्लवेन संग्रामं तितीर्षन्ति दुरत्ययम्। अपारे पारकामा ये त्यजेयं तानहं कथम्॥ अयं हि कालः सम्प्राप्तो धार्तराष्ट्रोपजीविनाम्। निर्वेष्टव्यं मया तत्र प्राणानपरिरक्षता॥ कृतार्थाः सुभृता ये हि कृत्यकाले झुपस्थिते। अनवेक्ष्य कृतं पापा विकुर्वन्त्यनवस्थिताः॥ राजकिल्बिषिणां तेषां भर्तृपिण्डापहारिणाम्। नैवायं न परो लोको विद्यते पापकर्मणाम्॥ धृतराष्ट्रस्य पुत्राणामर्थे योत्स्यामि ते सुतैः। बलं च शक्तिं चास्थाय न वै त्वय्यनृतं वदे॥ आनृशंस्यमथो वृत्तं रक्षन् सत्पुरुषोचितम्। अतोऽर्थकरमप्येतन्न करोम्यद्य ते वचः॥ न च तेऽयं समारम्भो मयि मोघो भविष्यति। वध्यान् विषह्यान् संग्रामे न हनिष्यामि ते सुतान्॥ युधिष्ठिरं च भीमं च यमौ चैवार्जुनादृते। अर्जुनेन समं युद्धमपि यौधिष्ठिरे बले॥ अर्जुनं हि निहत्याजौ सम्प्राप्तं स्यात् फलं मया। यशसा चापि युज्येयं निहत: सब्यसाचिना॥ न ते जातु न शिष्यन्ति पुत्राः पञ्च यशस्विनि। निरर्जुनाः सकर्णा वा सार्जुना वा हते मयि।॥ इति कर्णवचः श्रुत्वा दुःखात् प्रवेपती। उवाच पुत्रमाश्लिष्य कर्णं धैर्यादकम्पनम्॥ एवं वै भाव्यमेतेन क्षयं यास्यन्ति कौरवाः। यथा त्वं भाषसे कर्ण दैवं तु बलवत्तरम्॥ त्वया चतुर्णां भ्रातृणामभयं शत्रुकर्शन। दत्तं तत् प्रतिजानीहि संगरप्रतिमोचनम्॥ अनामयं स्वस्ति चेति पृथाऽथो कर्णमब्रवीत्। तां कर्णोऽथ तथेत्युक्त्वा ततस्तौ जग्मतुः पृथक्॥ वैशम्पायन उवाच आगम्य हास्तिनपुरादुप्लव्यमरिंदमः। पाण्डवानां यथावृतं केशवः सर्वमुक्तवान्॥ सम्भाष्य सुचिरं कालं मन्त्रयित्वा पुनः पुनः। स्वमेव भवनं शौरिर्विश्रामार्थं जगाम ह॥ विसृज्य सर्वान् नृपतीन् विराटप्रमुखांस्तदा। पाण्डवा भ्रातरः पञ्च भानावस्तं गते सति॥ संध्यामुपास्य ध्यायन्तस्तमेव गतमानसाः। आनाय्य कृष्णं दाशार्ह पुनमन्त्रममन्त्रयन्॥ युधिष्ठिर उवच त्वया नागपुरं गत्वा सभायां धृतराष्ट्रजः। किमुक्तः पुण्डरीकाक्ष तन्नः शंसितुमर्हसि॥ वासुदेव उवाच मया नागपुरं गत्वा सभायां धृतराष्ट्रजः। तथ्यं पथ्यं हितं चोक्तो न च गृह्णाति दुर्मतिः॥ युधिष्ठिर उवाच तस्मिन्नुत्पथमापन्ने कुरुवृद्धः पितामहः। किमुक्तवान् हृषीकेश दुर्योधनममर्पणम्॥ आचार्यो वा महाभाग भारद्वाजः किमब्रवीत्। पिता वा धृतराष्ट्रस्तं गान्धारी वा किमब्रवीत्॥ पिता यवीयानस्माकं क्षत्ता धर्मविदां वरः। पुत्रशोकाभिसंतप्तः किमाह धृतराष्ट्रजम्॥ किं च सर्वे नृपतयः सभायां ये समासते। उक्तवन्तो यथातत्त्वं तद् ब्रूहि त्वं जनार्दन।॥ उक्तवान् हि भवान् सर्वं वचनं कुरुमुख्ययोः। धार्तराष्ट्रस्य तेषां हि वचनं कुरुसंसदि॥ कामलोभाभिभूतस्य मन्दस्य प्राज्ञमानिनः। अप्रियं हृदये मह्यं तन्न तिष्ठति केशव॥ तेषां वाक्यानि गोविन्द श्रोतुमिच्छाम्यहं विभो। यथा च नाभिपद्येत कालस्तात तथा कुरु। भवान् हि नो गतिः कृष्ण भवान् नाथो भवान् गुरुः॥ वासुदेव उवाच शृणु राजन् यथा वाक्यमुक्तो राजा सुयोधनः। मध्ये कुरूणां राजेन्द्र सभायां तन्निबोध मे॥ मया विश्राविते वाक्ये जहास धृतराष्ट्रजः। अथ भीष्मः सुसंक्रुद्ध इदं वचनमब्रवीत्॥ दुर्योधन निबोधेदं कुलार्थं यद् ब्रवीमि ते। तच्छ्रुत्वा राजशार्दूल स्वकुलस्य हितं कुरु॥ मम तात पिता राजन् शान्तनुर्लोकविश्रुतः। तस्याहमेक एवासं पुत्रः पुत्रवतां वरः॥ तस्य बुद्धिः समुत्पन्ना द्वितीयः स्यात् कथं सुतः। एकपुत्रमपुत्रं वै प्रवदन्ति मनीषिणः॥ न चोच्छेदं कुलं यायाद् विस्तीर्येच्च कथं यशः। तस्याहमीप्सितं बुद्ध्वा काली मातरमावहम्॥ प्रतिज्ञां दुष्करां कृत्वा पितुरर्थं कुलस्य च। अराजा चोर्ध्वरेताश्च यथा सुविदितं तव। प्रतीतो निवसाम्येष प्रतिज्ञामनुपालयन्॥ तस्यां जज्ञे महाबाहुः श्रीमान् कुरुकुलोद्वहः। विचित्रवीर्यो धर्मात्मा कनीयान् मम पार्थिव॥ स्वर्यातेऽहं पितरि तं स्वराज्ये संन्यवेशयम्। विचित्रवीर्यं राजानं भृत्यो भूत्वा ह्यधश्चरः॥ तस्याहं सदृशान् दारान् राजेन्द्र समुपाहरम्। जित्वा पार्थिवसङ्घातमपि ते बहुशः श्रुतम्॥ ततो रामेण समरे द्वन्द्वयुद्धमुपागमम्। स हि रामभयादेभिर्नागरैर्विप्रवासितः॥ दारेष्वप्यतिसक्तश्च यक्ष्माणं समपद्यता यदा त्वराजके राष्ट्रे न ववर्ष सुरेश्वरः। तदाभ्यधावन् मामेव प्रजाः क्षुद्भयपीडिताः॥ प्रजा ऊचुः उपक्षीणाः प्रजाः सर्वा राजा भव भवाय नः। ईतीः प्रणुद भद्रं ते शान्तनोः कुलवर्धन॥ पीड्यन्ते ते प्रजाः सर्वा व्याधिभिभृशदारुणैः। अल्पावशिष्ठा गाङ्गेय ताः परित्रातुमर्हसि॥ व्याधीनं प्रणुद् वीर त्वं प्रजा धर्मेण पालय। त्वयि जीवति मा राष्ट्रं विनाशमुपगच्छतु॥ भीष्म उवाच प्रजानां क्रोशतीनां वै नैवाक्षुभ्यत मे मनः। प्रतिज्ञां रक्षमाणस्य सद् वृत्तं स्मरतस्तथा॥ ततः पौरा महाराज माताकाली च मे शुभा। भृत्याः पुरोहिताचार्या ब्राह्मणाश्च बहुश्रुताः। मामूचु शसंतप्ता भव राजेति संततम्॥ प्रतीपरक्षितं राष्ट्रं त्वां प्राप्य विनशिष्यति। स त्वमस्मद्धितार्थं वै राजा भव महामते।॥ इत्युक्तः प्राञ्जलिर्भूत्वा दुःखितो भृशमातुरः। तेभ्यो न्यवेदयं तत्र प्रतिज्ञां पितृगौरवात्॥ ऊर्ध्वरेता राजा च कुलस्यार्थं पुनः पुनः। विशेषतस्त्वदर्थं च धुरि मा मां नियोजय॥ ततोऽहं प्राञ्जलिर्भूत्वा मातरं सम्प्रसादयम्। नाम्ब शान्तनुना जातः कौरवं वंशमुद्वहन्॥ प्रतिज्ञां वितयां कुर्यामिति राजन् पुनः पुनः। विशेषतस्त्वदर्थं च प्रतिज्ञां कृतवानहम्॥ अहं प्रेष्यश्च दासश्च तवाद्य सुतवत्सले। एवं तामनुनीयाहं मातरं जनमेव च॥ अयाचं भ्रातृदारेषु तदा व्यासं महामुनिम्। सह मात्रा महाराज प्रसाद्य तमृषिं तदा॥ अपत्यार्थ महाराज प्रसादं कृतवांश्च सः। त्रीन् स पुत्रानजनयत् तदा भरतसत्तम॥ अधः करणहीनत्वान्न वै राजा पिता तव। राजा तु पाण्डुरभवन्महात्मा लोकविश्रुतः॥ स राजा तस्य ते पुत्राः पितुर्दायाद्यहारिणः। मा तात कलहं कार्षी राज्यस्यार्धं प्रदीयताम्॥ मयि जीवति राज्यं कः सम्प्रशासेत् पुमानिह। मावमंस्था वचो मां शममिच्छामि वः सदा॥ न विशेषोऽस्ति मे पुत्र त्वयि तेषु च पार्थिव। मतमेतत् पितुस्तुभ्यं गान्धार्या विदुरस्य च॥ श्रोतव्यं खलु वृद्धानां नाभिशङ्कीर्वचो मम। नाशयिष्यसि मा सर्वमात्मानं पृथिवी तथा॥ वासुदेव उवाच भीष्मेणोक्ते ततो द्रोणो दुर्योधनमभाषत। मध्ये नृपाणां भद्रं ते वचनं वचनक्षमः॥ प्रातीपः शान्तनुस्तात कुलस्यार्थ यथा स्थितः। यथा देवव्रतो भीष्मः कुलस्यार्थं स्थितोऽभवत्॥ तथा पाण्डुनरपतिः सत्यसंधो जितेन्द्रियः। राजा कुरूणां धर्मात्मा सुव्रतः सुसमाहितः॥ ज्येष्ठाय राज्यमदाद् धृतराष्ट्राय धीमते। यवीयसे तथा क्षत्रे कुरूणां वंशवर्धनः॥ ततः सिंहासने राजन् स्थापयित्वैनमच्युतम्। वनं जगाम कौरव्यो भार्याभ्यां सहितो नृपः॥ नीचैः स्थित्वा तु विदुर उपास्ते स्म विनीतवत्। प्रेष्यवत् पुरुषव्याघ्रो वालव्यजनमुक्षिपन्॥ ततः सर्वाः प्रजास्तात् धृतराष्ट्रं जनेश्वरम्। अन्वपद्यन्त विधिवद् यथा पाण्डं जनाधिपम्॥ विसृज्य धृतराष्ट्राय राज्यं सविदुराय च। चचार पृथिवीं पाण्डुः सर्वां परपुरञ्जयः॥ कोशसंवनने दाने भृत्यानां चान्ववेक्षणे। भरणे चैव सर्वस्य विदुरः सत्यसङ्गरः॥ संधिविग्रहसंयुक्तो राज्ञां संवाहनक्रियाः। अवैक्षत महातेजा भीष्मः परपुरञ्जयः॥ सिंहासनस्थो नृपतिद्धृतराष्ट्रो महाबलः। अन्वास्यमानः सततं विदुरेण महात्मना॥ कथं तस्य कुले जातः कुलभेदं व्यवस्यसि। सम्भूय भ्रातृभिः सार्धं भुड्क्ष्वभोगान् जनाधिप॥ ब्रवीम्यहं न कार्पण्यानार्थहेतोः कथंचन। भीष्मेण दत्तमिच्छामि न त्वया राजसत्तम॥ नाहं त्वत्तोऽभिकाक्षिष्ये वृत्त्युपायं जनाधिप। यतो भीष्मस्ततो द्रोणो यद् भीष्मस्त्वाह तत् कुरु॥ दीयतां पाण्डुपुत्रेभ्यो राज्यामिरिकर्शन। सममाचार्यकं तात तव तेषां च मे सदा॥ अश्वत्थामा यथा मह्यं तथा श्वेतहयो मम। बहुना किं प्रलापेन यतो धर्मस्ततो जयः॥ वासुदेव उवाच एवमुक्ते महाराज द्रोणेनामिततेजसा। व्याजहार ततो वाक्यं विदुरः सत्यसङ्गरः। पितुर्वदनमन्वीक्ष्य परिवृत्य च धर्मवित्॥ विदुर उवाच देवव्रत निबोधेदं वचनं मम भाषतः। प्रणष्टः कौरवो वंशस्त्वयाऽयं पुनरुद्भूतः॥ तन्मे विलपमानस्य वचनं समुपेक्षसे। कोऽयं दुर्योधनो नाम कुलेऽस्मिन् कुलपांसनः॥ यस्य लोभाभिभूतस्य मतिं समनुवर्तसे। अनार्यस्याकृतज्ञस्य लोभेन हृतचेतसः॥ अतिक्रामति यः शास्त्रं पितुर्धर्मार्थदर्शिनः। एते नश्यन्ति कुरवो दुर्योधनकृतेन वै॥ यथा ते न प्रणश्येयुर्महाराज तथा कुरु। मां चैव धृतराष्ट्रं च पूर्वमेव महामते॥ चित्रकार इवालेख्यं कृत्वा स्थापितवानसि। प्रजापतिः प्रजाः सृष्ट्वा यथा संहरते तथा॥ नोपेक्षस्व महाबाहो पश्यमानः कुलक्षयम्। अथ तेऽद्य मतिर्नष्टा विनाशे प्रत्युपस्थिते॥ वनं गच्छ मया साधु धृतराष्ट्रेण चैव ह। बद्ध्वा वा निकृतिप्रज्ञं धार्तराष्ट्र सुदुर्मतिम्॥ शीधीदं राज्यमद्याशु पाण्डवैरभिरक्षितम्। प्रसीद राजशार्दूल विनाशो दृश्यते महान्॥ पाण्डवानां कुरूणां च राज्ञाममिततेजसाम्। विररामैवमुक्त्वा तु विदुरो दीनमानसः। प्रध्यायमानः स तदा निःश्वसंश्च पुनः पुनः॥ ततोऽथ राज्ञः सुबलस्य पुत्री धर्मार्थयुक्तं कुलनाशभीता। दुर्योधनं पापमतिं नृशंसं राज्ञां समक्षं सुतमाह कोपात्॥ ये पार्थिवा राजसभां प्रविष्टा ब्रह्मर्षयो ये च सभासदोऽन्ये। शृण्वन्तु वक्ष्यामि तवापराधं पापस्य सामात्यपरिच्छदस्य॥ राज्यं कुरूणामनुपूर्वभोज्यं क्रमागतो नः कुलधर्म एषः। त्वं पापबुद्धेऽतिनृशंसकर्मन् राज्य कुरूणामनयाद् विहंसि॥ राज्ये स्थितो धृतराष्ट्रो मनीषी तस्यानुजो विदुरो दीर्घदर्शी। एतावतिक्रम्य कथं नृपत्वं दुर्योधन प्रार्थयसेऽद्य मोहात्॥ राजा च क्षत्ता च महानुभावौ भीष्मे स्थिते परवन्तौ भवेताम्। अयं तु धर्मज्ञतया महात्मा न कामयेद् यो नृवरो नदीजः॥ राज्यं तु पाण्डोरिदमप्रधृष्यं तस्याद्य पुत्राः प्रभवन्ति नान्ये। राज्यं तदेतन्निखिलं पाण्डवानां पैतामहं पुत्रपौत्रानुगामि॥ यद् वै ब्रूते कुरुमुख्यो महात्मा देवव्रतः सत्यसंधो मनीषी। सर्वं तदस्माभिरहत्य कार्य राज्यं स्वधर्मान् परिपालयद्भिः॥ अनुज्ञया चाथ महाव्रतस्य ब्रूयावृपोऽयं विदुरस्तथैव। कार्यं भवेत् तत् सुहृद्भिनियोज्यं धर्मं पुरस्कृत्य सुदीर्घकालम्॥ न्यायागतं राज्यमिदं कुरूणां युधिष्ठिरः शास्तु वै धर्मपुत्रः। प्रचोदितो धृतराष्ट्रेण राज्ञा पुरस्कृतः शान्तनवेन चैव॥ वासुदेव उवाच एवमुक्ते तु गान्धार्या धृतराष्ट्रो जनेश्वरः। दुर्योधनमुवाचेदं राजमध्ये जनाधिप॥ दुर्योधन निबोधेदं यत् त्वां वक्ष्यामि पुत्रक। तथा तत् कुरु भद्रं ते यद्यस्ति पितृगौरवम्॥ सोमः प्रजापतिः पूर्व कुरूणां वंशवर्धनः। सोमाद् बभूव षष्ठोऽयं ययातिनहुधात्मजः॥ तस्य पुत्रा बभूवुर्हि पञ्च राजर्षिसत्तमाः। तेषां यदुर्महातेजा ज्येष्ठः समभवत् प्रभुः॥ पुर्यवीयांश्च ततो योऽस्माकं वंशवर्धनः। शर्मिष्ठया सम्प्रसूतो दुहित्रा वृषपर्वणः॥ यदुश्च भरतश्रेष्ठ देवयान्याः सुतोऽभवत्। दौहित्रस्तात शुक्रस्य काव्यस्यामिततेजसः॥ यादवानां कुलकरो बलवान् वीर्यसम्मतः। अवमेने स तु क्षत्रं दर्पपूर्णः सुमन्दधीः॥ न चातिष्ठत् पितुः शास्त्रे बलदर्पविमोहितः। अवमेने च पितरं भ्रातूंश्चाप्यपराजितः॥ पृथिव्यां चतुरन्तायां यदुरेवाभवद् बली। वशे कृत्वा स नृपतीन् न्यवसन्नागसाह्वये॥ तं पिता परमक्रुद्धो ययातिर्नहुषात्मजः। शशाप पुत्रं गान्धारे राज्याच्चापि व्यरोपयत्।॥ ये चैनमन्ववर्तन्त भ्रातरो बलदर्पिताः। शशाप तानभिक्रुद्धो ययातिस्तनयानथ॥ यवीयासं ततः पूरूं पुत्रं स्ववशवर्तिनम्। राज्ये निवेशयामास विधेयं नृपसत्तमः॥ एवं ज्येष्ठोऽप्यथोत्सितो न राज्यमभिजायते। यवीयांसोऽपि जायन्ते राज्यं वृद्धोपसेवया॥ तथैव सर्वधर्मज्ञः पितुर्मम पितामहः। प्रतीपः पृथिवीपालस्त्रिषु लोकेषु विश्रुतः॥ तस्य पार्थिवसिंहस्य राज्यं धर्मेण शासतः। त्रयः प्रजज्ञिरे पुत्रा देवकल्पा यशस्विनः॥ देवापिरभवच्छेष्ठो बाह्रीकस्तदनन्तरम्। तृतीयः शान्तनुस्तात धृतिमान मे पितामहः॥ देवापिस्तु महातेजास्त्वग्दोषी राजसत्तमः। धार्मिकः सत्यवादी च पितुः शुश्रूषणे रतः॥ पौरजानपदानां च सम्मतः साधुसत्कृतः। सर्वेषां बालवृद्धानां देवापिर्हदयंगमः॥ वदान्यः सत्यसंधश्च सर्वभूतहिते रतः। वर्तमानः पितुः शास्त्रे ब्राह्मणानां तथैव च॥ बाह्रीकस्य प्रियो भ्राता शान्तनोश्च महात्मनः। सौभ्रात्रं च परं तेषां सहितानां महात्मनाम्॥ अथ कालस्य पर्याये वृद्धो नृपतिसत्तमः। सम्भारानभिषेकार्थं कारयामास शास्त्रतः॥ कारयामास सर्वाणि मङ्गलार्थानि वै विभुः। तं ब्राह्मणाश्च वृद्धाश्च पौरजानपदैः सह॥ सर्वे निवारयामासुर्देवापेरभिषेचनम्। स तच्छ्रुत्वा तु नृपतिरभिषेकनिवारणम्। अश्रुकण्ठोऽभवद् राजा पर्यशोचत चात्मजम्॥ एवं वदान्यो धर्मज्ञः सत्यसंधश्च सोऽभवत्। प्रियः प्रजानामपि संस्त्वग्दोषेण प्रदूषितः॥ हीनाङ्गं पृथिवीपालं नाभिनन्दन्ति देवताः। इति कृत्वा नृपश्रेष्ठं प्रत्यषेधन् द्विजर्षभाः॥ ततः प्रव्यथिताङ्गोऽसौ पुत्रशोकसमन्वितः। निवारितं नृपं दृष्ट्वा देवापिः संश्रितो वनम्॥ बाह्रीको मातुलकुलं त्यक्त्वा राज्यं समाश्रितः। पितृभ्रातृन् परित्यज्य प्राप्तवान् परमर्द्धिमत्॥ बाह्रीकेन त्वनुज्ञातः शान्तनुर्लोकविश्रुतः। पितर्युपरते राजन् राजा राज्यमकारयत्॥ तथैवाहं मतिमता परिचिन्त्येह पाण्डुना। ज्येष्ठः प्रभ्रंशितो राज्याद्धीनाङ्क इति भारत॥ पाण्डुस्तु राज्यं सम्प्राप्तः कनीयानपि सन् नृपः। विनाशे तस्य पुत्राणामिदं राज्यमरिंदम।॥ मय्यभागिनि राज्याय कथंत्वं राज्यमिच्छसि। अराजपुत्रो ह्यस्वामी परस्व हर्तुमिच्छसि॥ युधिष्ठिरो राजपुत्रो महात्मा न्यायागतं राज्यमिदं च तस्य। स कौरवस्यास्य कुलस्य भर्ता प्रशासिता चैव महानुभावः॥ स सत्यसंधः स तथाऽप्रमत्तः शास्त्रे स्थितो बन्धुजनस्य साधुः। प्रियः प्रजानां सुहृदानुकम्पी जितेन्द्रियः साधुजनस्य भर्ता॥ क्षमा तितिक्षा दम आर्जवं च सत्यव्रतत्वं श्रुतमप्रमादः। भूतानुकम्पा ह्यनुशासनं च युधिष्ठिरे राजगुणाः समस्ता॥ अराजपुत्रस्त्वमनार्यवृत्तो लुब्धः सदा बन्धुषु पापबुद्धिः। क्रमागतं राज्यमिदं परेषां हर्तुं कथं शक्ष्यसि दुर्विनीत॥ प्रयच्छ राज्यार्धमपेतमोहः सवाहनं त्वं सपरिच्छदं च। ततोऽवशेषं तव जीवितस्य सहानुजस्यैव भवेन्नरेन्द्र।॥ वासुदेव उवाच एवमुक्ते तु भीष्मेण द्रोणेन विदुरेण च। गान्धार्या धृतराष्ट्रेण न वै मन्दोऽन्वबुद्ध्यत॥ अवधूयोत्थितो मन्दः क्रोधसंरक्तलोचनः। अन्वद्रवन्त तं पश्चाद् राजानस्त्यक्तजीविताः॥ आज्ञापयच्च राज्ञस्तान् पार्थिवान् नष्टचेतसः। प्रयाध्वं वै कुरुक्षेत्रं पुष्योऽद्येति पुनः पुनः॥ ततस्ते पृथिवीपालाः प्रययुः सहसैनिकाः। भीष्मं सेनापतिं कृत्वा संहृष्टाः कालचोदिताः॥ अक्षोहिण्यो दशैका च कौरवाणां समागताः। तासां प्रमुखतो भीष्मस्तालकेतुळरोचत॥ यदत्र युक्तं प्राप्तं च तद् विधत्स्व विशाम्पते। उक्तं भीष्मेण यद् वाक्यं द्रोणेन विदुरेण च॥ गान्धार्या धृतराष्ट्रेण समक्षं मम भारत। एतत् ते कथितं राजन् यद् वृत्तं कुरुसंसदि।॥ साम्यमादौ प्रयुक्तं मे राजन् सौभ्रात्रमिच्छता। अभेदायास्य वंशस्य प्रजानां च विवृद्धये॥ पुनर्भेदश्च मे युक्तो यदा साम न गृह्यते। कर्मानुकीर्तनं चैव देवमानुषसंहितम्॥ यदा नाद्रियते वाक्यं सामपूर्वं सुयोधनः। तदा मया समानीय भेदिताः सर्वपार्थिवाः॥ अद्भुतानि च घोराणि दारुणानि च भारत। अमानुषाणि कर्माणि दर्शितानि मया विभो॥ निर्भर्त्सयित्वा राज्ञस्तांस्तृणीकृत्य सुयोधनम्। राधेयं भीषयित्वा च सौबलं च पुनः पुनः॥ द्युततो धार्तराष्ट्राणां निन्दां कृत्वा तथा पुनः। भेदयित्वा नृपान् सर्वान् वाग्भिर्मन्त्रेण चासकृत्॥ पुनः सामाभिसंयुक्तं सम्प्रदानमथाब्रुवम्। अभेदात् कुरुवंशस्य कार्ययोगात् तथैव च॥ ते शूरा धृतराष्ट्रस्य भीष्मस्य विदुरस्य च। तिष्ठेयुः पाण्डवाः सर्वे हित्वा मानमधश्चराः॥ प्रयच्छन्तु च ते राज्यमनीशास्ते भवन्तु च। यथाऽऽह राजा गाङ्गेयो विदुरश्च हितं तव॥ सर्वं भवतु ते राज्यं पञ्च ग्रामान् विसर्जय। अवश्यं भरणीया हि पितुस्ते राजसत्तम॥ एवमुक्तोऽपि दुष्टात्मा नैव भागं व्यमुञ्चत। दण्डं चतुर्थं पश्यामि तेषु पापेषु नान्यथा॥ निर्याताश्च विनाशाय कुरुक्षेत्रं नराधिपाः। एतत् ते कथितं राजन् यद् वृत्तं कुरुसंसदि॥ न ते राज्यं प्रयच्छन्ति विना युद्धेन पाण्डव। विनाशहेतवः सर्वे प्रत्युपस्थितमृत्यवः॥ वैशम्पायन उवाच जनार्दनवचः श्रुत्वा धर्मराजो युधिष्ठिरः। भ्रातृनुवाच धर्मात्मा समक्षं केशवस्य ह॥ श्रुतं भवद्भिर्यद् वृत्तं सभायां कुरुसंसदि। केशवस्यापि यद् वाक्यं तत् सर्वमवधारितम्॥ तस्मात् सेनाविभागं मे कुरुध्वं नरसत्तमाः। अक्षौहिण्यश्च सप्तैताः समेता विजयाय वै॥ तासां ये पतयः सप्त विख्यातास्तान् निबोधत। दुपदश्च विराटश्च धृष्टद्युम्नशिखण्डिनौ॥ सात्यकिश्चेकितानश्च भीमसेनश्च वीर्यवान्। एते सेनाप्रणेतारो वीराः सर्वे तनुज्यजः॥ सर्वे वेदविदः शूरोः सर्वे सुचरितव्रताः। ह्रीमन्तो नीतिमन्तश्च सर्वे युद्धविशारदाः॥ इष्वस्त्रकुशलाः सर्वे तथा सर्वास्त्रयोधिनः। सप्तानामपि यो नेता सेनानां प्रविभागवित्॥ यः सहेत रणे भीष्मं शरार्चिः पावकोपमम्। तं तावत् सहदेवात्र प्रब्रूहि कुरुनन्दन। स्वमतं पुरुषव्याघ्र को नः सेनापतिः क्षमः॥ सहदेव उवाच संयुक्तं एकदुःखश्च वीर्यवांश्च महीपतिः। यं समाश्रित्य धर्मज्ञं स्वमंशमनुयुज्महे॥ मत्स्यो विराटो बलवान् कृतास्त्रो युद्धदुर्मदः। प्रसहिष्यति संग्रामे भीष्मं तांश्च महारथान्॥ वैशम्पायन उवाच तथोक्ते सहदेवेन वाक्ये वाक्यविशारदः। नकुलोऽनन्तरं तस्मादिदं वचनमाददे॥ वयसा शास्त्रतो धैर्यात् कुलेनाभिजनेन च। ह्रीमान् बलान्वितः श्रीमान् सर्वशास्त्रविशारदः॥ वेद चास्त्रं भरद्वाजाद् दुर्धर्षः सत्यसङ्गरः। यो नित्यं स्पर्धते द्रोणं भीष्मं चैव महाबलम्॥ श्लाध्यः पार्थिववंशस्य प्रमुखे वाहिनीपतिः। पुत्रपौत्रैः परिवृतः शतशाख इव द्रुमः॥ यस्तताप तपो घोरं सदारः पृथिवीपतिः। रोषाद् द्रोणविनाशाय वीरः समितिशोभनः॥ पितेवास्मान् समाधत्ते यः सदा पार्थिवर्षभः। श्वशुरो द्रुपदोऽस्माकं सेनाग्रं स प्रकर्षतु॥ स द्रोणभीष्मावायातौ सहेदिति मतिर्ममा स हि दिव्यास्त्रविदं राजा सखा चाङ्गिरसो नृपः॥ माद्रीसुताभ्यामुक्ते तु स्वमते कुरुनन्दनः। वासविर्वासवसमः सव्यसाच्यब्रवीद् वचः॥ योऽयं तपःप्रभावेण ऋषिसंतोषणेन च। दिव्यः पुरुष उत्पन्नो ज्वालावर्णो महाभुजः॥ धनुष्मान् कवची खड्गी रथमारुह्य दंशितः। दिव्यैर्हयवरैर्युक्तमग्निकुण्डात् समुत्थितः॥ गर्जनिव महामेघो स्थधोघेण वीर्यवान्। सिंहसंहननो वीरः सिंहतुल्यपराक्रमः॥ सिंहोरस्कः सिंहभुजः सिंहवक्षा महाबलः। सिंहगर्जनो वीरः सिंहस्कन्धो महाद्युतिः॥ सुभूः सुदंष्ट्रः सुहनुः सुबाहुः सुमुखोऽकृशः। सुजत्रुः सुविशालाक्षः सुपादः सुप्रतिष्ठितः॥ अभेद्यः सर्वशस्त्राणां प्रभिन्न इव वारणः। जज्ञे द्रोणविनाशाय सत्यवादी जितेन्द्रियः॥ धृष्टद्युम्नमहं मन्ये सहेद् भीष्मस्य सायकान्। वज्राशनिसमस्पर्शान् दीप्तास्यानुरगानिव॥ यमदूतसमान् वेगे निपाते पावकोपमान्। रामेणाजौ विषहितान् वज्रनिष्पेषदारुणान्॥ पुरुषं तं न पश्यामि यः सहेत महाव्रतम्। धृष्टद्युम्नमृते राजनिति मे धीयते मतिः॥ क्षिप्रहस्तश्चित्रयोधी मत: सेनापतिर्मम। अभेद्यकवचः श्रीमान् मातङ्ग इव यूथपः॥ भीमसेन उवाच वधार्थं यः समुत्पन्नः शिखण्डी दुपदात्मजः। वदन्ति सिद्धा राजेन्द्र ऋषयश्च समागताः॥ यस्य संग्राममध्ये तु दिव्यमस्त्रं प्रकुर्वतः। रूपं द्रक्ष्यन्ति पुरुषा रामस्येव महात्मनः॥ न तं युद्धे प्रपश्यामि यो भिन्द्यात् तु शिखण्डिनम्। शस्त्रेण समरे राजन् संनद्धं स्यन्दने स्थितम्॥ द्वैरथे समरे नान्यो भीष्मं हन्यान्महाव्रतम्। शिखण्डिनमृते वीरं स मे सेनापतिर्मतः॥ युधिष्ठिर उवाच सर्वस्य जगतस्तात् सारासारं बलाबलम्। सर्वं जानाति धर्मात्मा मतमेषां च केशवः॥ यमाह कृष्णो दाशार्हः सोऽस्तु सेनापतिर्ममा कृतास्त्रोऽष्यकृतास्त्रो वा वृद्धो वा यदि वा युवा।।३४। एष नो विजये मूलमेष तात विपर्यये। अत्र प्राणाश्च राज्यं च भावाभावौ सुखासुखे॥ एष धाता विधाता च सिद्धिरत्र प्रतिष्ठिता। यमाह कृष्णो दाशार्हः सोऽस्तु नो वाहिनीपतिः॥ ब्रवीतु वदतां श्रेष्ठो निशा समभिवर्तते। ततः सेनापतिं कृत्वा कृष्णस्य वशवर्तिनः॥ रात्रेः शेषे व्यतिक्रान्ते प्रयास्यामो रणाजिरम्। अधिवासितशस्त्राश्च कृतकौतुकमङ्गलाः॥ वैशम्पायन उवाच तस्य तद् वचनं श्रुत्वा धर्मराजस्य धीमतः। अब्रवीत् पुण्डरीकाक्षो धनंजयमवेक्ष्य ह॥ ममाप्येते महाराज भवद्भिर्य उदाहृताः। नेतारस्तव सेनाया मता विक्रान्तयोधिनः॥ सर्वं एवं समर्था हि तव शत्रु प्रबाधितुम्। इन्द्रस्यापि भयं ह्येते जनयेयुर्महाहवे॥ किं पुनर्धार्तराष्ट्राणां लुब्धानां पापचेतसाम्। मयाऽपि हि महाबाहो त्वत्प्रियार्थं महाहवे॥ कृतो यत्नो महांस्तत्र शमः स्यादिति भारत। धर्मस्य गतमानृण्यं न स्म वाच्या विवक्षताम्॥ कृतास्त्रं मन्यते बाल आत्मानमविचक्षणः। धार्तराष्ट्रो बलस्थं च पश्यत्यात्मानमातुरः॥ युज्यतां वाहिनी साधु वधसाध्या हि मे मताः। न धार्तराष्ट्राः शक्ष्यन्ति स्थातुं दृष्ट्वा धनंजयम्॥ भीमसेनं च संक्रुद्धं यमौ चापि यमोपमौ। युयुधानद्वितीयं च धृष्टद्युम्नममर्षणम्॥ अभिमन्युं द्रौपदेयान् विराटदुपदावपि। अक्षौहिणीपतींश्चान्यान् नरेन्द्रान् भीमविक्रमान्॥ सारवद् बलमस्माकं दुष्प्रधर्षं दुरासदम्। धार्तराष्ट्रबलं संख्ये हनिष्यति न संशयः॥ धृष्टद्युम्नमहं मन्ये सेनापतिमरिंदम। वैशम्पायन उवाच एवमुक्ते तु कृष्णेन सम्प्राहृष्यन्नरोत्तमाः॥ तेषां प्रहृष्टमनसां नादः समभवन्महान्। योग इत्यथ सैन्यानां त्वरतां सम्प्रधावताम्॥ हयवारणशब्दाश्च नेमिघोषाश्च सर्वतः। शङ्खदुन्दुभिघोषाश्च तुमुलाः सर्वतोऽभवन्॥ तदुग्रं सागरनिभं क्षुब्धं बलसमागमम्। रथपत्तिगजोदग्रं महोर्मिभिरवाकुलम्॥ धावतामाह्वयानानां तनुत्राणि च बनताम्। प्रयास्यतां पाण्डवानां ससैन्यानां समन्ततः॥ गड्डेव पूर्णा दुर्धर्षा समदृश्यत वाहिनी। अग्रानीके भीमसेनो माद्रीपुत्रौ च दंशितौ॥ सौभद्रो द्रौपदेयाश्च धृष्टद्युम्नश्च पार्षतः। प्रभद्रकाश्च पञ्चाला भीमसेनमुखा ययुः॥ ततः शब्दः समभवत् समुद्रस्येव पर्वणि। हृष्टानां सम्प्रयातानां घोषो दिवमिवास्पृशत्॥ प्रहृष्टा दंशिता योधाः परानीकविदारणाः। तेषां मध्ये ययौ राजा कुन्तीपुत्रो युधिष्ठिरः॥ शकटापणवेशाश्च यानयुग्यं च सर्वशः। कोशं यन्त्रायुधं चैव ये च वैद्याश्चिकित्सकाः॥ फल्गु यच्च बलं किंचिद् यच्चापि कृशदुर्बलम्। तत् संगृह्य ययौ राजा ये चापि परिचारकाः॥ उपप्लव्ये तु पाञ्चाली द्रौपदी सत्यवादिनी। सह स्त्रीभिर्निववृते दासीदाससमावृता॥ कृत्वा मूलप्रतीकारं गुल्मैः स्थावरजङ्गमः। स्कन्धावारेण महता प्रययुः पाण्डुनन्दनाः॥ ददतो गां हिरण्यं च ब्राह्मणैरभिसंवृताः। स्तूयमाना ययू राजन् रथैर्मणिविभूषितैः॥ केकया धृष्टकेतुश्च पुत्रः काश्यस्य चाभिभुः। श्रेणिमान् वसुदानश्च शिखण्डी चापराजितः॥ हृष्टास्तुष्टाः कवचिन: सशस्त्राः समलंकृताः। राजानमन्ययुः सर्वे परिवार्य युधिष्ठिरम्॥ जघनार्धे विराटश्च याज्ञसेनिश्च सौमकिः। सुधर्मा कुन्तिभोजश्च धृष्टद्युम्नस्य चात्मजाः॥ रथायुतानि चत्वारि हयाः पञ्चगुणास्तथा। पत्तिसैन्यं दशगुणं गजानामयुतानि षट्॥ अनाधृष्टिश्चेकितानो धृष्टकेतुश्च सात्यकिः। परिवार्य ययुः सर्वे वासुदेवधनंजयौ॥ आसाद्य तु कुरुक्षेत्रं व्यूढानीकाः प्रहारिणः। पाण्डवाः समदृश्यन्त नर्दन्तो वृषभा इव॥ तेऽवगाह्य कुरुक्षेत्रं शङ्खान् दध्मुररिंदमाः। तथैव दध्मतुः शङ्ख वासुदेवधनंजयौ॥ पाञ्चजन्यस्य निर्घोषं विस्फूर्जितमिवाशनेः। निशम्य सर्वसैन्यानि समहृष्यन्त सर्वशः॥ शङ्खदुन्दुभिसंसृष्टः सिंहनादस्तरस्विनाम्। पृथिवीं चान्तरिक्षं च सागरांश्चान्वनादयत्॥ वैशम्पायन उवाच ततो देशे समे स्निग्धे प्रभूतयवसेन्धने। निवेशयामास तदा सेनां राजा युधिष्ठिरः॥ परिहत्य श्मशानानि देवतायतनानि च। आश्रमांश्र महर्षीणां तीर्थान्यायतनानि च।॥ मधुरानूषरे देशे शुचो पुण्ये महामतिः। निवेशं कारयामास कुन्तीपुत्रो युधिष्ठिरः॥ ततश्च पुनरुत्थाय सुखी विश्रान्तवाहनः। प्रययौ पृथिवीपालैर्वृतः शतसहस्रशः॥ विद्राव्य शतशो गुल्मान् धार्तराष्ट्रस्य सैनिकान्। पर्यक्रामत् समन्ताच्च पार्थेन सह केशवः॥ शिबिरं मापयामास धृष्टद्युम्नश्च पार्षतः। सात्यकिश्च रथोदारो युयुधानश्चः प्रतापवान्॥ आसाद्य सरितं पुण्यां कुरुक्षेत्रे हिरण्वतीम्। सूपतीर्थां शुचिजलां शर्करापङ्कवर्जिताम्॥ खानयामास परिखां केशवस्तत्र भारत। गुप्त्यर्थमपि चादिश्य बलं तत्र न्यवेशयत्॥ विधिर्यः शिविरस्यासीत् पाण्डवानां महात्मनाम्। तद्विधानि नरेन्द्राणां कारयामास केशवः॥ प्रभूततरकाष्ठानि दुराधर्षतराणि च। भक्ष्यभोज्यानपानानि शतशोऽथं सहस्रशः॥ शिविराणि महामुणि राज्ञां तत्र पृथक् पृथक्। विमानानीव राजेन्द्र निविष्टानि महीतले॥ तत्रासशिल्पिनः प्राज्ञाः शतशो दत्तवेतनाः। सर्वोपकरणैर्युक्ता वैद्याः शास्त्रविशारदाः॥ ज्याधनुर्वर्मशस्त्राणां तथैव मधुसर्पिषोः। ससर्जरसपांसूनां राशयः पर्वतोपमाः॥ बहूदकं सुयवसं तुषाङ्गारसमन्वितम्। शिबिरे शिबिरे राजा संचकारं युधिष्ठिरः॥ महायन्त्राणि नाराचास्तोमराणि परश्वधाः। धनूंषि कवचादीनि ऋष्टयस्तूणसंयुताः॥ गजाः कण्टकसंनाहां लोहवर्मोत्तरच्छदाः। दृश्यन्ते तत्र गिर्याभाः सहस्रशतयोधिनः॥ निविष्टान् पाण्डवांस्तत्र ज्ञात्वा मित्राणि भारत। अभिससुर्यथादेशं सबलाः सहवाहनाः॥ चरितब्रह्मचर्यास्ते सोमपा भूरिदक्षिणाः। जयाय पाण्डुपुत्राणां समाजाग्मुर्महीक्षितः॥ जनमेजय उवाच युधिष्ठिरं सहानीकमुपायान्तं युयुत्सया। संनिविष्टं कुरुक्षेत्रे वासुदेवेन पालितम्॥ विराटदुपदाभ्यां च सपुत्राभ्यां समन्वितम्। केकयैर्वृष्णिभिश्चैव पार्थिवैः शतशो वृतम्॥ महेन्द्रमिव चादित्यैरभिगुप्तं महारथैः। श्रुत्वा दुर्योधनो राजा किं कार्यं प्रत्यपद्यत॥ एतदिच्छाम्यहं श्रोतुं विस्तरेण महामते। सम्भ्रमे तुमुले तस्मिन् यदासीत् कुरुजाङ्गले॥ व्यथयेयुरिमे देवान् सेन्द्रानपि समागमे। पाण्डवा वासुदेवश्च विराटद्रुपदौ तथा॥ धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी च महारथः। युधामन्युश्च विक्रान्तो देवैरपि दुरासदः॥ एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन। कुरूणां पाण्डवानां च यद् यदासीद् विचेष्टितम्॥ वैशम्पायन उवाच प्रतियाते तु दाशार्हे राजा दुर्योधनस्तदा। कर्णं दुःशासनं चैव शकुनि चाब्रवीदिदम्॥ अकृतेनैव कार्येण गतः पार्थानधोक्षजः। स एनान्मन्युनाऽऽविष्टो ध्रुवं धक्ष्यत्यसंशयम्॥ इष्टो हि वासुदेवस्य पाण्डवैर्मम विग्रहः। भीमसेनार्जुनौ चैव दाशार्हस्य मते स्थितौ॥ अजातशत्रुरत्यर्थं भीमसेनवशानुगः। निकृतश्च मया पूर्वं सह सर्वैः सहोदरैः॥ विराटदुपदौ चैव कृतवैरौ मया सह। तौ च सेनाप्रणेतारौ वासुदेववशानुगौ॥ भविता विग्रहः सोऽहं तुमुलो लोमहर्षणः। तस्मात् सांग्रामिकं सर्वं कारयध्वमतन्द्रिताः॥ शिबिराणि कुरुक्षेत्रे क्रियन्तां वसुधाधिपाः। सुपर्याप्तावकाशानि दुरादेयानि शत्रुभिः॥ आसन्नजलकाष्ठानि शतशोऽथ सहस्रशः। अच्छेद्याहारमार्गाणि बन्धोच्छ्यचितानि च॥ विविधायुधपूर्णानि पताकाध्वजवन्ति च। समाश्च तेषां पन्थानः क्रियन्तां नगराद् बहिः॥ प्रयाणं घुष्यतामद्य श्वोभूते इति मा चिरम्। ते तथेति प्रतिज्ञाय श्वोभूते चक्रिरे तथा॥ हृष्टरूपा महात्मानो निवासाय महीक्षिताम्। ततस्ते पार्थिवाः सर्वे तच्छ्रुत्वा राजशासनम्॥ आसनेभ्यो महार्हेभ्य उदतिष्ठन्नमर्षिताः। बाहून् परिघसंकाशान् संस्पृशन्तः शनैः शनैः॥ काञ्चनाङ्गददीप्तांश्च चन्दनागुरुभूषितान्। उष्णीषाणि नियच्छन्तः पुण्डरीकनिभैः करैः। अन्तरीयोत्तरीयाणि भूषणानि च सर्वशः॥ ते रथान् रथिनः श्रेष्ठा हयांश्च हयकोविदाः। सज्जयन्ति स्म नागांश्च नागशिक्षास्वनुष्ठिताः॥ अथ वर्माणि चित्राणि काञ्चनानि बहूनि च। विविधानि च शस्त्राणि चक्रुः सर्वाणि सर्वशः॥ पदातयश्च पुरुषा शस्त्राणि विविधानि च। उपाजह्वः शरीरेषु हेमचित्राण्यनेकशः॥ तदुत्सव इवोदचं सम्प्रहृष्टनरावृतम्। नगरं धार्तराष्ट्रस्य भारतासीत् समाकुलम्॥ जनौघसलिलावर्तो रथनागाश्वमीनवान्। शङ्खदुन्दुभिनिर्घोषः कोशसंचयरत्नवान्॥ चित्राभरणवर्मोर्मिः शस्त्रनिर्मलफेनवान्। प्रासादमालाद्रिवृतो रथ्यापणमहाह्रदः॥ योधचन्द्रोदयोद्भूतः कुरुराजमहार्णवः। व्यदृश्यत तदा राजंश्चन्द्रोदय इवोदधिः॥ ॥इति श्रीमहाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि दुर्योधनसैन्यसज्जकरण त्रिपञ्चादधिकशततमोऽध्यायः॥ वैशम्पायन उवाच वासुदेवस्य तद् वाक्यमनुस्मृत्य युधिष्ठिरः। पुनः पप्रच्छ वार्ष्णेयं कथं मन्दोऽब्रवीदिदम्॥ अस्मिन्नभ्यागते काले किं च नः क्षममच्युत। कथं च वर्तमाना वै स्वधर्मान्न च्यवेमहि॥ दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च। वासुदेव मतक्षोऽसि मम सभ्रातृकस्य च॥ विदुरस्यापि तद् वाक्यं श्रुतं भीष्मस्य चोभयोः। कुन्त्याश्च विपुलप्रज्ञ प्रज्ञा कात्स्न्येन ते श्रुता॥ सर्वमेतदतिक्रम्य विचार्य च पुनः पुनः। क्षमं यन्नो महाबाहो तद् ब्रवीह्यविचारयन्॥ श्रुत्वैतद् धर्मराजस्य धर्मार्थसहितं वचः। मेघदुन्दुभिनिर्घोषः कृष्णो वाक्यमथाब्रवीत्॥ कृष्ण उवाच उक्तवानस्मि यद् वाक्यं धर्मार्थसहितं हितम्। न तु तन्निकृतिप्रज्ञे कौरव्ये प्रतितिष्ठति।७॥ न च भीष्मस्य दुर्मेधाः शृणोति विदुरस्य वा। मम वा भाषितं किंचित् सर्वमेवातिवर्तते॥ नैष कामयते धर्म नैष कामयते यशः। जितं स मन्यते सर्वं दुरात्मा कर्णमाश्रितः॥ बन्धमाज्ञापयामास मम चापि सुयोधनः। न च तं लब्धवान् कामं दुरात्मा पापनिश्चयः॥ न च भीष्मो न च द्रोणो युक्तं तत्राहतुर्वचः। सर्वे तमनुवर्तन्ते ऋते विदुरमच्युत॥ शकुनिः सौबलश्चैव कर्णदुःशासनावपि। त्यय्युक्तान्यभाषन्त मूढा मूढममर्षणम्॥ किं च तेन मयोक्तेन यान्यभाषत कौरवः। संक्षेपेण दुरात्मासौ न युक्तं त्वयि वर्तते॥ पार्थिवेषु न सर्वेषु य इमे तव सैनिकाः। यत् पापं यन्नकल्याणं सर्वं तस्मिन् प्रतिष्ठितम्॥ न चापि वयमत्यर्थं परित्यागेन कहिंचित्। कौरवैः शममिच्छामस्तत्र युद्धमनन्तरम्॥ वैशम्पायन उवाच तच्छ्रुत्वा पार्थिवाः सर्वे वासुदेवस्य भाषितम्। अब्रुवन्तो मुखं राज्ञःसमुदैक्षन्त भारत॥ युधिष्ठिरस्त्वभिप्रायमभिलक्ष्य महीक्षिताम्। योगमाज्ञापयामास भीमार्जुनयमैः सह॥ ततः किलकिलाभूतमनीकं पाण्डवस्य ह। आज्ञापिते तदा योगे समहष्यन्त सैनिकाः॥ अवध्यानां वधं पश्यन् धर्मराजो युधिष्ठिरः। निःश्वसन भीमसेनं च विजयं चेदमब्रवीत्॥ यदर्थं वनवासश्च प्राप्तं दुःखं च यन्मया। सोऽयमस्मानुपैत्येव परोऽनर्थः प्रयत्नतः॥ तस्मिन् यत्नः कृतोऽस्माभिः स नो हीनः प्रयत्नतः। अकृते तु प्रयत्नेऽस्मानुपावृत्तः कलिर्महान्॥ कथं ह्यवध्यैः संग्रामः कार्यः सह भविष्यति। कथं हत्वा गुरून् वृद्धान् विजयो नो भविष्यति॥ तच्छ्रुत्वा धर्मराजस्य सव्यसाची परंतपः। यदुक्तं वासुदेवेन श्रावयामास तद् वचः॥ उक्तवान् देवकीपुत्रः कुन्त्याच विदुरस्य च। वचनं तत् त्वया राजन् निखिलेनावधारितम्॥ न च तौ वक्ष्यतोऽधर्ममिति मे नैष्ठिकी मतिः। नापि युक्तं च कौन्तेय निवर्तितुमयुध्यतः॥ तच्छ्रुत्वा वासुदेवोऽपि सव्यसाचिवचस्तदा। स्मयमानोऽब्रवीद् वाक्यं पार्थमेवमिति ब्रुवन्॥ ततस्ते धृतसंकल्पा युद्धाय सहसैनिकाः। पाण्डवेया महाराज तां रात्रिं सुखमावसन्॥ वैशम्पायन उवाच व्युष्टायां वै रजन्यां हि राजा दुर्योधनस्ततः। व्यभजत् तान्यनीकानि दश चैकं च भारत॥ नरहस्तिस्थाश्वानां सारं मध्यं च फल्गु च। सर्वेष्वेतेष्वनीकेषु संदिदेश नराधिपः॥ सानुकर्षाः सतूणीराः सवरूथाः सतोमराः। सोपासङ्गाः सशक्तीकाः सनिषङ्गाः सहर्टयः॥ सध्वजाः सपताकाश्च सशरासनतोमराः। रज्जुभिश्च विचित्राभिः सपाशाः सपरिच्छदाः॥ सकचग्रहविक्षेपाः सतैलगुडवालुकाः। साशीविषघटाः सर्वे ससर्जरसपांसवः॥ सघण्टफलकाः सर्वे सायोगुडजलोपलाः। सशालभिन्दिपालाश्च समधूच्छिष्टमुद्गराः॥ सकाण्डदण्डकाः सर्वे ससीरविषतोमराः। सशूर्पपिटकाः सर्वे सदात्राङ्कुशतोमराः॥ सकीलकवचाः सर्वे वासीवृक्षादनान्विताः। व्याघ्रचर्मपरीवारा द्वीपिचर्मावृताश्च ते॥ सहर्टयः सशृङ्गाश्च सप्रासविविधायुधाः। सकुठाराः सकुद्दालाः सतैलक्षौमसर्पिषः॥ रुक्मजालप्रतिच्छन्ना नानामणिविभूषिताः। चित्रानीका: सुवपुषो ज्वलिता इव पावकाः॥ तथा कवचिनः शूराः शस्त्रेषु कृतनिश्चयाः। कुलीना हययोनिज्ञाः सारथ्ये विनिवेषिताः॥ बद्धारिष्टा बद्धकक्षा बद्धध्वजपताकिनः। बद्धाभरणनि'हा बद्धचर्मासिपट्टिशाः॥ चतुर्युजो रथाः सर्वे सर्वे चोत्तमवाजिनः। सप्रासऋष्टिकाः सर्वे सर्वे शतशरासनाः॥ धुर्ययोर्हययोरेकस्तथाऽन्यौ पार्ष्णसारथी। तौ चापि रथिनां श्रेष्ठो रथी च हयवित् तथा॥ नगराणीव गुप्तानि दुराधर्षाणि शत्रुभिः। आसन् रथसहस्राणि हेममालीनि सर्वशः॥ यथा रथास्तथा नागा बद्धकक्षाः स्वलंकृताः। बभूवुः सप्तपुरुषा रत्नवन्त इवाद्रयः॥ द्वावङ्कुशधरो तत्र द्वावुत्तमधनुर्धरौ। द्वौ वरासिधरौ राजन्नेकः शक्तिपिनाकधूक्॥ गजैर्मत्तैः समाकीर्णं सवर्मायुधकोशकैः। तद् बभूव बलं राजन् कौरव्यस्य महात्मनः॥ आमुक्तकवचैर्युक्तैः सपताकैः स्वलङ्कतैः। सादिभिश्चोपपन्नास्तु तथा चायुतशो हयाः॥ असंग्राहाः सुसम्पन्ना हेमभाण्डपरिच्छदाः। अनेकशतसाहस्राः सर्वे सादिवशे स्थिताः॥ नानारूपविकाराश्च नानाकवचशस्त्रिणः। पदातिनो नरास्तत्र बभूवुर्हेममालिनः॥ रथस्यासन् दश गजा गजस्य दश वाजिनः। नरा दश हयस्यासन् पादरक्षाः समन्ततः।।२२। रथस्य नागाः पञ्चाशन्नागस्यासन् शतं हयाः। हयस्य पुरुषाः सप्त भिन्नसंधानकारिणः॥ सेना पञ्चशतं नागा रथास्तावन्त एव च। दश सेना च पृतना पृतना दशवाहिनी॥ सेना च वाहिनी चैव पृतना ध्वजिनी चमूः। अक्षौहिणीति पर्यायैर्निरुक्ता च वरूथिनी॥ एवं व्यूढान्यनीकानि कौरवेयेण धीमता। अक्षौहिण्यो दशैका च संख्याताः सप्त चैव ह॥ अक्षौहिण्यस्तु सप्तैव पाण्डवानामभूद् बलम्। अहौहिण्यो दशैका च कौरवाणामभूद् बलम्॥ नराणां पञ्चपञ्चाशदेषा पत्तिर्विधीयते। सेनामुखं च तिस्रस्ता गुल्म इत्यभिशब्दितम्॥ त्रयो गुल्मा गणस्त्वासीद् गणास्त्वयुतशोऽभवन्। दुर्योधनो सेनासु योत्स्यमानाः प्रहारिणः॥ तत्र राजा शूरान् बुद्धिमतो नरान्। प्रसमीक्ष्य महाबाहुश्चक्रे सेनापतींस्तदा॥ पृथगक्षौहिणीनां च प्रणेतृन् नरसत्तमान्। विधिवत् पूर्वमानीय पार्थिवानभ्यभाषत॥ कृपं द्रोण च शल्यं च सैन्धवं च जयद्रथम्। सुदक्षिणं च काम्बोजं कृतवर्माणमेव च।॥ द्रोणपुत्रं च कर्णं च भूरिश्रवसमेव च। शकुनि सौबलं चैव बाह्रीकं च महाबलम्॥ दिवसे दिवसे तेषां प्रतिवेलं च भारत। चक्रे स विविधाः पूजाः प्रत्यक्षं च पुनः पुनः॥ तथा विनियताः सर्वे ये च तेषां पदानुगाः। बभूवुः सैनिका राज्ञां प्रियं राज्ञश्चिकीर्षवः॥ वैशम्पायन उवाच ततः शान्तनवं भीष्मं प्राञ्जलिधृतराष्ट्रजः। सह सर्वैर्महीपालैरिदं वचनमब्रवीत्॥ ऋते सेनाप्रणेतारं पृतना सुमहत्यपि। दीर्यते युद्धमासाद्य पिपीलिकपुटं यथा॥ न हि जातु द्वयोर्बुद्धिः समा भवति कर्हिचित्। शौर्यं च बलनेतृणां स्पर्धते च परस्परम्॥ श्रूयते च महाप्राज्ञ हैहयानमितौजसः। अभ्ययुर्ब्राह्मणाः सर्वे समुच्छ्रितकुशध्वजाः॥ तानभ्ययुस्तदा वैश्याः शूद्राश्चैव पितामह। एकतस्तु त्रयो वर्णा एकतः क्षत्रियर्षभाः॥ ततो युद्धेष्वभज्यन्त त्रयो वर्णाः पुनः पुनः। क्षत्रियाच जयन्त्येव बहुलं चैकतो बलम्॥ ततस्ते क्षत्रियानेव पप्रच्छुर्द्विजसत्तमाः। तेभ्यः शशंसुर्धर्मज्ञा याथातथ्यं पितामह॥ वयमेकस्य शृण्वानां महाबुद्धिमतो रणे। भवन्तस्तु पृथक् सर्वे स्वबुद्धिवशवर्तिनः॥ ततस्ते ब्राह्मणाश्चनुरेकं सेनापतिं द्विजम्। नये सुकुशलं शूरमजयन् क्षत्रियांस्ततः॥ एवं ये कुशलं शूरं हितेप्सितमकल्मषम्। सेनापतिं प्रकुर्वन्ति ते जयन्ति रणे रिपून्॥ भवानुशनसा तुल्यो हितैषी च सदा मम। असंहार्यः स्थितो धर्म स नः सेनापतिर्भव॥ रश्मिवतामिवादित्यो वीस्थामिव चन्द्रमाः। कुबेर इव यक्षाणां देवानामिव वासवः॥ पर्वतानां यथा मेरुः सुपर्णः पक्षिणां यथा। कुमार इव देवानां वसूनामिव हव्यवाट्॥ भवता हि वयं गुप्ताः शक्रेणेव दिवौकसः। अनाधृष्या भविष्यामस्त्रिदशानामपि ध्रुवम्॥ प्रयातु नो भवानग्रे देवानामिव पावकिः। वयं त्वामनुयास्यामः सौरभेया इवर्षभम्॥ भीष्म उवाच एवमेतन्महाबाहो यथा वदसि भारत। यथैव हि भवन्तो मे तथैव मम पाण्डवाः॥ अपि चैव मया श्रेयो वाच्यं तेषां नराधिप। संयोद्धव्यं तवार्थाय यथा मे समयः कृतः॥ न तु पश्यामि योद्धारमात्मन: सदृशं भुवि। ऋते तस्मान्नरव्याघ्रात् कुन्तीपुत्राद् धनंजयात्॥ स हि वेद महाबुद्धिर्दिव्यान्यस्त्राण्यनेकशः। न तु मां विवृतो युद्धे जातु युध्येत पाण्डवः॥ अहं चैव क्षणेनैव निर्मनुष्यमिदं जगत्। कुर्यां शस्त्रबलेनैव ससुरासुरराक्षसम्॥ न त्वेवोत्सादनीया मे पाण्डोः पुत्रा जनाधिप। तस्माद् योधान् हनिष्यामि प्रयोगेणायुतं सदा॥ एवमेषां करिष्यामि निधनं कुरुनन्दन। न चेत् ते मां हनिष्यन्ति पूर्वमेव समागमे॥ सेनापतिस्त्वहं राजन् समये नापरेण ते। भविष्यामि यथाकामं तन्मे श्रोतुमिहार्हसि॥ कर्णो वा युध्यतां पूर्वमहं वा पृथिवीपते। स्पर्धते हि सदात्यर्थं सूतपुत्रो मया रणे॥ कर्ण उवाच नाहं जीवति गाङ्गेये राजन् योत्स्ये कथंचन। हते भीष्मे तु योत्स्यामि सह गाण्डीवधन्वना॥ वैशम्पायन उवाच ततः सेनापतिं चक्रे विधिवद् भूरिदक्षिणम्। धृतराष्ट्रात्मजो भीष्मं सोऽभिषिक्तो व्यरोचत॥ ततो भेरीश्च शङ्खांश्च शतशोऽथ सहस्रशः। वादयामासुरव्यग्रा वादका राजशासनात्॥ सिंहनादाश्च विविधा वाहनानां च निःस्वनाः। प्रादुरासन्ननभ्रे च वर्षं रुधिरकर्दमम्॥ निर्घाताः पृथिवीकम्पा कजबंहितनिःस्वनाः। आसंश्च सर्वयोधानां पातयन्तो मनांस्युत॥ वाचश्चाप्यशरीरिण्यो दिवश्चोल्काः प्रपेदिरे। शिवाश्च भयवेदिन्यो नेदुर्दीप्ततरा भृशम्॥ सैनापत्ये यदा राजा गाङ्गेयमभिषिक्तवान्। तदैतान्युग्ररूपाणि बभूवुः शतशो नृप।॥ ततः सेनापति कृत्वा भीष्मं परबलार्दनम्। वाचयित्वा द्विजश्रेष्ठान् गोभिर्निष्कैश्च भूरिश;॥ वर्धमानो जयाशीभिर्निर्ययौ सैनिकैर्वृतः। आपगेयं पुरस्कृत्य भ्रातृभिः सहितस्तदा।॥ स्कन्धावारेण महता कुरुक्षेत्रं जगाम ह॥ परिक्रम्य कुरुक्षेत्रं कर्णेन सह कौरवः। शिबिरं मापयामास समे देशे जनाधिप।॥ मधुरानूषरे देशे प्रभूतयवसेन्धने। यथैव हास्तिनपुरं तद्वच्छिबिरमाबभौ॥ जनमेजय उवाच आपगेयं महात्मानं भीष्मं शस्त्रभृतां वरम्। पितामहं भारतानां ध्वजं सर्वमहीक्षिताम्।।।। बृहस्पतिसमं बुद्ध्या क्षमया पृथिवीससम्। समुद्रमिव गाम्भीर्ये हिमवन्तमिव स्थिरम्॥ प्रजापतिमिवौदार्ये तेजसा भास्करोपमम्। महेन्द्रमिव शत्रूणां ध्वंसनं शरवृष्टिभिः॥ रणयज्ञे प्रवितते सुभीमे लोमहर्षणे। दीक्षितं चिररात्राय श्रुत्वा तत्र युधिष्ठिरः॥ किमब्रवीन्महाबाहुः सर्वशस्त्रभृतां वरः। भीमसेनार्जुनो वापि कृष्णो वा प्रत्यभाषत॥ वैशम्पायन उवाच आपद्धर्मार्थकुशलो महाबुद्धियुधिष्ठिरः। सर्वान् भ्रातृन् समानीय वासुदेवं च शाश्वतम्॥ उवाच वदतां श्रेष्ठः सान्त्वपूर्वमिदं वचः। पर्याक्रामत सैन्यानि यत्तास्तिष्ठत दंशिताः॥ पितामहेन वो युद्धं पूर्वमेव भविष्यति। तस्मात् सप्तसु सेनासु प्रणेतॄन् मम पश्यत॥ कृष्ण उवाच यथार्हति भवान् वक्तुमस्मिन् काले झुपस्थिते। तथेदमर्थवद् वाक्यमुक्तं ते भरतर्षभ॥ रोचते मे महाबाहो क्रियतां यदनन्तरम्। नायकास्तव सेनायां क्रियन्तामिह सप्त वै॥ वैशम्पायन उवाच ततो दुपदमानाय्य विराटं शिनिपुङ्गवम्। धृष्टद्युम्नं च पाञ्चाल्यं धृष्टकेतुं च पार्थिव॥ शिखण्डिनं च पाञ्चाल्यं सहदेवं च मागधम्। एतान् सप्त महाभागान् वीरान् युद्धाभिकांक्षिणः॥ सेनाप्रणेतन् विधिवदभ्यषिञ्चद् युधिष्ठिरः। सर्वेसेनापतिं चात्र धृष्टद्युम्नं चकार ह॥ द्रोणान्तहेतोरुत्पन्नो य इद्धाज्जातवेदसः। सर्वेषामेव तेषां तु समस्तानां महात्मनाम्॥ सेनापतिपतिं चक्रे गुडाकेशं धनंजयम्। अर्जुनस्यापि नेता च संयन्ता चैव वाजिनाम्॥ संकर्षणानुजः श्रीमान् महाबुद्धिर्जनार्दनः। तद् दृष्ट्वोपस्थितं युद्धं समासन्नं महात्ययम्॥ प्राविशद् भवनं राजन् पाण्डवानां हलायुधः। सहाक्रूरप्रभृतिभिर्गदसाम्बोद्धवादिभिः॥ रौक्मिणेयाहुकसुतैश्चारुदेष्णपुरोगमैः। वृष्णिमुख्यैरधिगतैर्व्याधैरिव बलोत्कटैः॥ अभिगुप्तो महाबाहुर्मरुद्भिरिव वासवः। नीलकौशेयवसनः कैलासशिखरोपमः॥ सिंहखेलगतिः श्रीमान् मदरक्तान्तलोचनः। तं दृष्ट्वा धर्मराजश्च केशवश्च महाद्युतिः॥ उदतिष्ठत् ततः पार्थो भीमकर्मा वृकोदरः। गाण्डीवधन्वा ये चान्ये राजानस्तत्र केचन॥ पूजयांचक्रिरे ते वै समायान्तं हलायुधम्। ततस्तं पाण्डवो राजा करे पस्पर्श पाणिना॥ वासुदेवपुरोगास्तं सर्व एवाभ्यवादयन्। विराटद्रुपदौ वृद्धावभिवाद्य हलायुधः॥ युधिष्ठिरेण सहित उपाविशदरिंदमः। ततस्तेषुपविष्टेषु पार्थिवेषु समन्ततः। वासुदेवमभिप्रेक्ष्य रौहिणेयोऽभ्यभाषतः॥ भविताऽयं महारौद्रो दारुणः पुरुषक्षयः। दिष्टमेतद् ध्रुवं मन्ये न शक्यमतिवर्तितुम्॥ तस्माद् युद्धात् समुत्तीर्णानपि वः ससुहृज्जनान्। अरोगानक्षतैर्देष्टाऽस्मीति मतिर्ममा॥ समेतं पार्थिवं क्षत्रं कालपक्कमसंशयम्। विमर्दश्च महान् भावी मांसशोणितकर्दमः॥ उक्तो मया वासुदेवः पुनः पुनरुपह्वरे। सम्बन्धिषु समां वृत्तिं वर्तस्व मधुसूदनः॥ पाण्डवा हि यथाऽस्माकं तथा दुर्योधनो नृपः। तस्यापि क्रियतां साह्यं स पर्येति पुनः पुनः॥ तच मे नाकरोद् वाक्यं त्वदर्थं मधुसूदनः। निर्विष्टः सर्वभावेन धनंजयमवेक्ष्य ह॥ ध्रुवो जयः पाण्डवानामिति मे निश्चिता मतिः। तथा ह्यभिनिवेशोऽयं वासुदेवस्य भारत।॥ न चाहमुत्सहे कृष्णमृते लोकमुदीक्षितुम्। ततोऽहमनुवामि केशवस्य चिकीर्षितम्॥ उभौ शिष्यौ हि मे वीरौ गदायुद्धविशारदौ। दुल्यस्नेहोऽस्म्यतो भीमे तथा दुर्योधने नृपे॥ तस्माद् यास्यामि तीर्थानि सरस्वत्या निषेवितुम्। न हि शक्ष्यामि कौरव्यान् नश्यमानानुपेक्षितुम्॥ एवमुक्त्वा महाबाहुरनुज्ञातश्च पाण्डवैः। तीर्थयात्रां ययौ रामो निर्वर्त्य मधुसूदनम्॥ वैशम्पायन उवाच एतस्मिन्नेव काले तु भीष्मकस्य महात्मनः। हिरण्यरोम्णो नृपतेः साक्षादीन्द्रसखस्य वै॥ आकृतीनामधिपतिर्भोजस्यातियशस्विनः। दाक्षिणात्यपतेः पुत्रो दिक्षु रुक्मीति विश्रुतः॥ यः किंपुरुषसिंहस्य गन्धमादनवासिनः। कृत्स्नं शिष्यो धनुर्वेदं चतुष्पादमवाप्तवान्॥ यो माहेन्द्रं धनुलेंभे तुल्यं गाण्डीवतेजसा। शाङ्गेण च महाबाहुः सम्मितं दिव्यलक्षणम्॥ त्रीण्येवैतानि दिव्यानि धनूंषि दिविचारिणाम्। वारुणं गाण्डिवं तत्र माहेन्द्रं विजयं धनुः। शाएं तु वैष्णवं प्राहुर्दिव्यं तेजोमयं धनुः॥ धारयामास तत् कृष्णः परसेनाभयावहम्। गाण्डीवं पावकाल्लेभे खाण्डवे पाकशासनिः॥ द्रुमाद् रुक्मी महातेजा विजयं प्रत्यपद्यत। संछिद्य मौरवान् पाशान् निहत्य मुरमोजसा॥ निर्जित्य नरकं भौममाहृत्य मणिकुण्डले। षोडश स्त्रीसहस्राणि रत्नानि विविधानि च॥ प्रतिपेदे हृषीकेशः शार्ङ्ग च धनुरुत्तमम्। रुक्मी तु विजयं लब्ध्वा धनुर्मेघनिभस्वनम्॥ विभीषयन्निव जगत् पाण्डवानभ्यवर्तत। नामृष्यत पुरा योऽसौ स्वबाहुबलगर्वितः॥ रुक्मिण्या हरणं वीरो वासुदेवेन धीमता। कृत्वा प्रतिज्ञा नाहत्वा निवर्तिष्ये जनार्दनम्॥ ततोऽन्वधावद् वार्ष्णेयं सर्वशस्त्रभृतां वरः। सेनया चतुरङ्गिण्या महत्या दूरपातया॥ सैन्येन महता विचित्रायुधवर्मिण्या गङ्गयेव प्रवृद्धया। स समासाद्य वार्ष्णेयं योगानामीश्वरं प्रभुम्॥ व्यंसितोव्रीडितो राजन् नाजगाम स कुण्डिनम्। यत्रैव कृष्णेन रणे निर्जितः परवीरहा॥ तत्र भोजकटं नाम कृतं नगरमुत्तमम्। तेनं प्रभूतगजवाजिना॥ पुरं तद् भुवि विख्यातं नाम्ना भोजकटं नृप। स भोजराजः सैन्येन महता परिवारितः॥ अक्षौहिण्या महावीर्यः पाण्डवान् क्षिप्रमागमत्। ततः स कवची धन्वी तली खड़ी शरासनी॥ ध्वजेनादित्यवर्णेन विदितः पाण्डवेयानां वासुदेवप्रियेप्सया॥ युधिष्ठिरस्तु तं राजा प्रत्युद्गम्याभायपूजयत्। स पूजितः पाण्डुपुत्रैर्यथान्यायं सुसंस्तुतः॥ प्रविवेश महाचमूम्। न प्रतिगृह्य तु तान् सर्वान् विश्रान्तः सहसैनिकः। उवाच मध्य वीराणां कुन्तीपुत्रं धनंजयम्॥ सहायोऽस्मि स्थितोयुद्धे यदि भीतोऽसि पाण्डवा करिष्यामि रणे साह्यमसह्यं तव शत्रुभिः॥ हि मे विक्रमे तुल्यः पुमानस्तीह कश्चन। हनिष्यामि रणे भागं यन्मे दास्यसि पाण्डवा॥ अपि द्रोणकृपौ वीरौ भीष्मकर्णावथो पुनः। अथवा सर्व एवैते तिष्ठन्तु वसुधाधिपाः॥ निहत्य समरे शत्रूस्तव दास्यामि मेदिनीम्। इत्युक्तो धर्मराजस्य केशवस्य च संनिधौ।॥ शृण्वतां पार्थिवेन्द्राणामन्येषां चैव सर्वशः। वासुदेवमभिप्रेक्ष्य धर्मराजं च पाण्डवम्॥ उवाच धीमान् कौन्तेयः प्रहस्य सखिपूर्वकम्। कौरवाणां कुले जातः पाण्डोः पुत्रो विशेषतः॥ द्रोणं व्यपदिशशिष्यो वासुदेवसहायवान्। भीतोऽस्मीति कथं ब्रूयां दधानो गाण्डिवं धनुः॥ युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः। सहायो घोषयात्रायां कस्तदाऽऽसीत् सखा मम॥ तथा प्रतिभये तस्मिन् देवदानवसंकुले। खाण्डवे युध्यमानस्य कः सहायस्तदाऽवत्॥ निवातकवचैर्युद्धे कालकेयैश्च दानवैः। तत्र मे युध्यमानस्य कः सहायस्तदाऽवत्॥ तथा विराटनगरे कुरुभिः सह संगरे। युध्यतो बहुभिस्तत्र कः सहायोऽभवन्मम॥ उपजीव्य रणे रुद्रं शक्रं वैश्रवणं यमम्। वरुणं पावकं चैव कृपं द्रोणं च माधवम्॥ धारयन् गाण्डिवं दिव्यं धनुस्तेजोमयं दृढम्। अक्षय्यशरसंयुक्तो दिव्यास्त्रपरिबृहितः॥ कथमस्मद्विधो ब्रूयाद् भीतोऽस्मीति यशोहरम्। वचनं नरशार्दूल वज्रायुधमपि स्वयम्॥ नास्मि भीतो महाबाहो सहायार्थश्च नास्ति मे। यथाकामं यथायोगं गच्छ वाऽन्यत्र तिष्ठ वा॥ विनिवर्त्य ततो रुक्मी सेनां सागरसंनिभाम्। दुर्योधनमुपागच्छत् तथैव भरतर्षभ॥ तथैव चाभिगम्यैनमुवाच वसुधाधिपः प्रत्याख्यातश्च तेनापि स तदा शूरमानिना॥ द्वावेव तु महाराज तस्माद् युद्धादपेयतुः। रौहिणेयश्च वार्ष्णेयो रुक्मी च वसुधाधिपः॥ गते रामे तीर्थयात्रां भीष्मकस्य सुते तथा। उपाविशन् पाण्डवेया मन्त्राय पुनरेव च॥ समितिधर्मराजस्य सा पार्थिवसमाकुला। शुशुभे तारकैश्चित्रा द्यौश्चन्द्रेणेव भारत॥ संजय उवाच हिरण्वत्यां निविष्टेषु पाण्डवेषु महात्मसु। न्यविशन्त महाराज कौरवेया यथाविधि।।।। तत्र दुर्योधनो राजा निवेश्य बलमोजसा। सम्मानयित्वा नृपतीन् यस्य गुल्मांस्तथैव च॥ आरक्षस्य विधिं कृत्वा योधानां तत्र भारत। कर्णं दुःशासनं चैव शकुनिं चापि सौबलम्॥ आनाय्य नृपतिस्तत्र मन्त्रयामास भारत। तत्र दुर्योधनो राजा कर्णेन सह भारत॥ सम्भाषित्वा च कर्णेन भ्रात्रा दुःशासनेन च। सौबलेन च राजेन्द्र मन्त्रयित्वा नरर्षभ।॥ आहूयोपह्वरे राजन्नुलूकमिदमब्रवीत्। उलूक गच्छ कैतव्य पाण्डवान् सहसोमकान्॥ गत्वा मम वचो ब्रूहि वासुदेवस्य शृण्वतः। इदं तत् समनुप्राप्तं वर्षपूगाभिचिन्तितम्॥ पाण्डवानां कुरूणां व युद्ध लोकभयंकरम्। यदेतत् कत्थनावाक्यं संजयो महदब्रवीत्॥ वासुदेवसहायस्य गर्जतः सानुजस्य ते। मध्ये कुरूणां कौन्तेय तस्य कालोऽयमागतः॥ यथा वः सम्प्रतिज्ञातं तत् सर्वं क्रियतामिति। ज्येष्ठं तथैव कौन्तेयं ब्रूयास्त्वं वचनान्मम॥ भ्रातृभिः सहितः सर्वैः सोमकैश्च सकेकयैः। कथं वा धार्मिको भूत्वा त्वमधर्मे मनः कृथाः॥ य इच्छसि जगत् सर्वं नश्यमानं नृशंसवत्। अभयं सर्वभूतेभ्यो दाता त्वमिति मे मतिः॥ श्रूयते हि पुरा गीतः श्लोकोऽयं भरतर्षभ। प्रह्लादेनाथ भद्रं ते हृते राज्ये तु दैवतैः॥ यस्य धर्मध्वजो नित्यं सुरा ध्वज इवोच्छ्रितः। प्रच्छन्नानि च पापानि बैडालं नाम तद् व्रतम्॥ अत्र ते वर्तयिष्यामि आख्यानमिदमुत्तमम्। कथितं नारदेनेह पितुर्मम नराधिप॥ मार्जारः किल दुष्टात्मा निश्चेष्टः सर्वकर्मसु। ऊर्ध्वबाहुः स्थितो राजन् गङ्गातीरे कदाचन॥ कृत्वा मनःशुद्धिं प्रत्ययार्थं शरीरिणाम्। करोमि धर्ममित्याह सर्वानेव शरीरिणः॥ तस्य कालेन महता विश्रम्भं जग्मुरण्डजाः। समेत्य च प्रशंसन्ति मार्जारं तं विशाम्पते॥ पक्षिभिः पक्षिभोजनः। आत्मकार्यं कृतं मेने चर्यायाश्च कृतं फलम्॥ अथ दीर्घस्य कालस्य तं देशं मूषिका ययुः। ददृशुस्तं च ते तत्र धार्मिकं व्रतचारिणम्॥ पूज्यमानस्तु तैः सर्वैः कार्येण महता युक्तं दम्भयुक्तेन भारत। तेषां मतिरियं राजन्नासीत् तत्र विनिश्चये॥ बहुमित्रा वयं सर्वे तेषां नो मातुलो ह्ययम्। रक्षां करोतु सततं वृद्धबालस्य सर्वशः॥ उपगम्य तु ते सर्वे बिडालमिदमब्रुवन्। भवत्प्रसादादिच्छामश्चर्तं चैव यथासुखम्॥ भवान् नो गतिरव्यग्रा भवान् नः परमः सुहृत्। ते वयं सहिताः सर्वे भवन्तं शरणं गताः॥ भवान् धर्मपरो नित्यं भवान् धर्मे व्यवस्थितः। स नो रक्ष महाप्रज्ञ त्रिदशानिव वज्रभृत्॥ एवमुक्तस्तु तैः सर्वैर्मूषिकैः स विशाम्पते। प्रत्युवाच ततः सर्वान् मूषिकान् मूषिकान्तकृत्॥ द्वयोर्योगं न पश्यामि तपसो रक्षणस्य च। अवशयं तु मया कार्यं वचनं भवतां हितम्॥ युष्माभिरपि कर्तव्यं वचनं मम नित्यशः। तपसाऽस्मि परिश्रान्तो दृढं नियममास्थितः॥ न चापि गमने शक्ति काश्चित् पश्यामि चिन्तयन्। सोऽस्मि नेयः सदा ताता नदीकूलमितः परम्॥ तथेति तं प्रतिज्ञाय मूषिका भरतर्षभ। वृद्धबालमथो सर्वं मार्जाराय न्यवेदयन्॥ ततः स पापो दुष्टात्मा मूषिकानथ भक्षयन्। पीवरश्च सुवर्णश्च दृढबन्धश्च जायते॥ मूषिकाणां गणश्चात्र भृशं संक्षीयतेऽथ सः। मार्जारो वर्धते चापि तेजोबलसमन्वितः॥ ततस्ते मूषिकाः सर्वे समेत्यान्योऽन्यमब्रुवन्। मातुलो वर्धते नित्यं वयं क्षीयामहे भृशम्॥ ततः प्राज्ञतमः कश्चिड्डिण्डिको नाम मूषिकः। अब्रवीद् वचनं राजन् मूषिकाणां महागणम्॥ गच्छतां वो नदीतीरं सहितानां विशेषतः। पृष्ठतोऽहं गमिष्यामि सहैव मातुलेन तु॥ साधु साध्वति ते सर्वे पूजयांचक्रिरे तदा। चक्रुश्चैव यथान्यायं डिण्डिकस्य वचोऽर्थवत्॥ अविज्ञानात् ततः सोऽथ डिण्डिकं [पभुक्तवान्। ततस्ते सहिताः सर्वे मन्त्रयामासुरञ्जसा॥ तत्र वृद्धतमः कश्चित् कोलिको नाम मूषिकः। अब्रवीद् वचनं राजन् ज्ञातिमध्ये यथातथम्॥ न मातुलो धर्मकामश्छद्ममात्रं कृता शिखा। न मूलफलभक्षस्य विष्ठा भवति लोमशा॥ अस्य गात्राणि वर्धन्ते गणश्च परिहीयते। अद्य सप्ताष्टदिवसान् डिण्डिकोऽपि न दृश्यते॥ एतच्छ्रुत्वा वचः सर्वे मूषिका विप्रदुद्रुवुः। बिडालोऽपि स दुष्टात्मा जगामैव यथागतम्॥ तथा त्वमपि दुष्टात्मन् न बैडालं व्रतमास्थितः। चरसि ज्ञातिषु सदा बिडालो मूषिकेष्विव॥ अन्यथा किल ते वाक्यमन्यथा कर्म दृश्यते। दम्भनार्थाय लोकस्य वेदाधोपशमश्च ते॥ त्यक्त्वा छा त्विदं राजन् क्षत्रधर्मं समाश्रितः। कुरु कार्याणि सर्वाणि धर्मिष्ठोऽसि नरर्षभ॥ बाहुवीर्येण पृथिवीं लब्वा भरतसत्तम। देहि दानं द्विजातिभ्यः पितृभ्यश्च यथोचितम्॥ क्लिष्टाया वर्षपूगांश्च मातुर्मातृहिते स्थितः। प्रमार्जाश्रु रणे जित्वा सम्मान परमावह॥ पञ्च ग्रामा वृता यत्नान्नास्माभिरपवर्जिताः। युध्यामहे कथं संख्ये कोपयेव च पाण्डवान्॥ त्वत्कृते दुष्टभावस्य संत्यागो विदुरस्य च। जातुषे च गृहे दाहं स्मर तं पुरुषो भव॥ यच्च कृष्णमवोचस्त्वमायान्तं कुरुसंसदि। अयमस्मि स्थितो राजन् शमाय समराय च॥ तस्यायमागतः कालः समरस्य नराधिप! एतदर्थं मया सर्वं कृतमेतद् युधिष्ठिर॥ किं नु युद्धात् परं लाभं क्षत्रियो बहु मन्यते। किं च त्वं क्षत्रियकुले जातः सम्प्रथितो भुवि॥ द्रोणादस्त्राणि संप्राप्य कृपाच्च भरतर्षभ। तुल्ययोनौ समबले वासुदेवं समाश्रितः॥ ब्रूयास्त्वं वासुदेवं च पाण्डवानां समीपतः। आत्मार्थं पाण्डवार्थं च यत्ता मां प्रति योधय॥ सभामध्ये च यद् रूपं मायया कृतवानसि। तत् तथैव पुनः कृत्वा सार्जुनो मामभिद्रव॥ इन्द्रजालं च माया वै कुहका वाऽपि मीषणा। आत्तशस्त्रस्य संग्रामे वहन्ति प्रतिगर्जनाः॥ वयमप्युत्सहेम द्यां खं च गच्छेम मायया। रसातलं विशामोऽपि ऐन्द्र वा पुरमेव तु॥ दर्शयेम च रूपाणि स्वशरीरे बहून्यपि। न तु पर्यायतः सिद्धिर्बुद्धिमाप्नोति मानुषीम्॥ मनसैव हि भूतानि धातैव कुरुते वशे। यद् ब्रवीषि च वार्ष्णेय धार्तराष्ट्रानहं रणे॥ घातयित्वा प्रदास्यामि पार्थेभ्यो राज्यमुत्तमम्। आचचक्षे च मे सर्वं संजयस्तव भाषितम्॥ स सत्यसंगरो भूत्वा पाण्डवार्थं पराक्रमी॥ युध्यस्वाद्य रणे यत्तः पश्यामः पुरुषो भव। यस्तु शत्रुमभिज्ञाय शुद्धं पौरुषमास्थितः॥ करोति द्विषतां शोकं स जीवति सुजीवितम्। अकस्माच्चैव ते कृष्ण ख्यातं लोके महद् यशः॥ अद्येदानीं विजानीमः सन्ति षण्ढाः सशृङ्गकाः। मद्विधो नापि नृपतिस्त्वयि युक्तः कथञ्चन॥ संनाहं संयुगे कर्तुं कंसभृत्ये विशेषतः। तं च तूबरकं बालं बह्वाशिनमविद्यकम्॥ उलूक मद्वचो ब्रूहि असकृद्भीमसेनकम्। विराटनगरे पार्थ यस्त्वं सूदो ह्यभूः पुरा॥ बल्लवो नाम विख्यातस्तन्ममैव हि पौरुषम्। प्रतिज्ञातं सभामध्ये न तन्मिथ्या त्वया पुरा॥ दुःशासनस्य रुधिरं पीयतां यदि शक्यते। यद् ब्रीवीषि च कौन्तेय धार्तराष्ट्रानहं रणे॥ निहनिष्यामि तरसा तस्य कालोऽयमागतः। त्वं हि भोज्ये पुरस्कार्यो भक्ष्ये पेये च भारत॥ क्वं युद्धं क्वं च भोक्तव्यं युध्यस्व पुरुषो भव। शयिष्यसे हतो भूमौ गदामालिङ्ग्य भारत॥ तद् वृथा च सभामध्ये वल्गितं ते वृकोदर। उलूक नकुलं ब्रूहि वचनान्मम भारत॥ युद्धयस्वाद्य स्थिरो भूत्वा पश्यामस्तव पौरुषम्। युधिष्ठिरानुरागं च द्वेषं च मयि भारत। कृष्णायाश्च परिक्लेशं स्मरेदानीं यथातथम्॥ ब्रूयास्त्वं सहदेवं च राजमध्ये वचो मम। युद्ध्येदानीं रणे यत्तः क्लेशान् स्मर च पाण्डव॥ विराटद्रुपदौ चोभौ ब्रूयास्त्वं वचनान्मम। न दृष्टपूर्वा भर्तारो भृत्यैरपि महागुणैः॥ तथाऽर्थपतिभिर्भूत्या यतः सृष्टाः प्रजास्ततः। अश्लाध्योऽयं नरपतिर्युवयोरिति चागतम्॥ ते यूयं संहता भूत्वा तद्वधार्थं ममापि च। आत्मार्थं पाण्डवार्थं च प्रयुद्ध्यध्वं मया सह॥ धृष्टद्युम्नं च पाञ्चाल्यं ब्रूयास्त्वं वचनान्मम। एष ते समयः प्राप्तो लब्धव्यश्च त्वयाऽपि सः॥ द्रोणमासाद्य समरे ज्ञास्यसे हितमुत्तमम्। युध्यस्व ससुहृत् पापं कुरु कर्म सुदुष्करम्॥ शिखण्डिनमथो ब्रूहि उलूक वचनान्मम। स्त्रीति मत्वा महाबाहुर्न हनिष्यति कौरवः॥ गाङ्गेयो धन्विनां श्रेष्ठो युद्ध्येदानीं सुनिर्भयः। कुरु कर्म रणे यत्तः पश्यामः पौरुषं तव॥ एवमुक्त्वा ततो राजा प्रहस्योलूकमब्रवीत्। धनंजयं पुनर्बुहि वासुदेवस्य शृण्वतः॥ अस्मान् वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम्। अथवा निर्जितोऽस्माभी रणे वीर शयिष्यसि॥ राष्ट्रनिर्वासनक्लेशं वनवासं च पाण्डव। कृष्णायाश्च परिक्लेशं संस्मरन् पुरुषो भव॥ यदर्थं क्षत्रिया सूते सर्वं तदिदमागतम्। बलं वीर्यं च शौर्यं च परं चाप्यस्त्रलाघवम्॥ पौरुषं दर्शयन् युद्धे कोपस्य कुरु निष्कृतिम्। परिक्लिष्टस्य दीनस्य दीर्घकालोषितस्य च। हृदयं कस्य न स्फोटेदैश्वर्याद् भ्रंशितस्य च॥ कुले जातस्य शूरस्य परवित्तेष्वगृध्यतः। आस्थितं राज्यमाक्रम्य कोपं कस्य न दीपयेत्॥ यत् तदुक्तं महद् वाक्यं कर्मणा तद् विभाव्यताम्। अकर्मणा कत्थितेन सन्तः कुपुरुषं विदुः॥ अमित्राणां वशे स्थानं राज्यं च पुनरुद्धर। द्वावौँ युद्धकामस्य तस्मात् तत् कुरु पौरुषम्॥ पराजितोऽसि द्यूतेन कृष्णा चानायिता सभाम्। शक्योऽमर्षो मनुष्येण कर्तुं पुरुषमानिना॥ द्वादशैव तु वर्षाणि वने धिष्ण्याद् विवासितः। संवत्सरं विराटस्य दास्यमास्थाय चोषितः॥ राष्ट्रनिर्वासनक्लेशं वनवासं च पाण्डव। कृष्णायाश्च परिक्लेशं संस्मरन् पुरुषो भव॥ अप्रियाणां च वचनं प्रब्रुवत्सु पुनः पुनः। अमर्ष दर्शयस्व त्वममर्षो ह्येव पौरुषम्॥ क्रोधो बलं तथा वीर्यं ज्ञानयोगोऽस्त्रलाघवम्। इह ते दृश्यतां पार्थं युद्ध्यस्व पुरुषो भव॥ लोहाभिसारो निर्वृत्तः कुरुक्षेत्रमकर्दमम्। पुष्टास्तेऽश्वा भृता योधाः श्वो युद्ध्यस्व सकेशवः॥९३। असमागम्य भीष्मेण संयुगे किं विकत्यसे। आरुरुक्षुर्यथा मन्दः पर्वतं गन्धमादनम्॥ एवं कत्थसि कौन्तेय अकत्थन् पुरुषो भव। सूतपुत्रं सुदुर्धर्षं शल्यं च बलिनां वरम्॥ द्रोणं च बलिनां श्रेष्ठं शचीपतिसमं युधि। अजित्वा संयुगे पार्थ राज्यं कथमिहेच्छसि॥ ब्राह्मे धनुषि चाचार्य वेदयोरन्तगं द्वयोः। युधि धुर्यमविक्षोभ्यमनीकचरमच्युतम्॥ द्रोणं महाद्युतिं पार्थं जेतुमिच्छसि तन्मृषा। न हि शुश्रुम वातेन मेरुमुन्मथितं गिरिम्॥ अनिलो वा वहेन्मेरुं द्यौर्वापि निपतेन्महीम्। युगं वा परिवर्तेन यद्येवं स्याद् यथाऽऽत्य माम्॥ को ह्यस्ति जीविताकाक्षी प्राप्येममरिमर्दनम्। पार्थो वा इतरो वापि कोऽन्यः स्वस्ति गृहान् व्रजेत्॥ कथमाभ्यामभिध्यातः संस्पृष्टो दारुणेन वा। रणे जीवन् प्रमुच्येत पदा भूमिमुपस्पृशन्॥ किं दर्दुरः कूपशयो यथेमा न बुध्यसे राजचमूं समेताम्। दुराधर्षां देवचमूप्रकाशां गुप्तां नरेन्द्रस्त्रिदशैरिव द्याम्॥ काम्बोजशकैः खशैश्च। शाल्वैः समत्स्यैः कुरुमध्यदेश्यैम्लेंच्छैः पुलिन्दैईविडान्ध्रकाच्यैः॥ नानाजनौघं युधि सम्प्रवृद्धं गाङ्गं यथा वेगपारणीयम्। मां च स्थितं नागबलस्य मध्ये युयुत्ससे मन्द किमल्पबुद्धे॥ अक्षय्याविषुधी चैव अग्निदत्तं च ते रथम्। जानीमो हि रणे पार्थं केतुं दिव्यं च भारत॥ अकत्थमानो युद्ध्यस्व कत्यसेऽर्जुन किं बहु। पर्यायात् सिद्धिरेतस्य नैतत् सिध्यति कत्थनात्॥ यदीदं कत्थनाल्लोके सिध्येत् कर्म धनंजय। सर्वे भवेयुः सिद्धार्थाः कत्थने को हि दुर्गतः॥ जानामि ते वासुदेवं सहायं जानामि ते गाण्डिव तालमात्रम्। जानाम्यहं त्वादृशो नास्ति योद्धा जानानस्ते राज्यमेतद्धरामि॥ न तु पर्यायधर्मेण सिद्धि प्राप्नोति मानवः। मनसैवानुकूलानि धातैव कुरुते वशे॥ त्रयोदश समा भुक्तं राज्यं विलपतस्तव। भूयश्चैव प्रशासिष्ये त्वां निहत्य सबान्धवम्॥ क्वं तदा गाण्डिवं तेऽभूद् यत् त्वं दासपणैर्जितः। क्वं तदा भीमसेनस्य बलमासीच्च फाल्गुन॥ सगदाद् भीमसेनाद् वा फाल्गुनाद् वा सगाण्डिवात्। न वै मोक्षस्तदाभूद् वो विना कृष्णमनिन्दृिताम्॥ सा वो दास्ये समापन्नान् मोचयामास पार्षती। अमानुष्यं समापन्नान् दासकर्मण्यवस्थितान्॥ अवोचं यत् षण्ढतिलानहं वस्तथ्यमेव तत्। धृता हि वेणि पार्थेन विराटनगरे तदा॥ सूदकर्मणि विश्रान्तं विराटस्य महानसे। भीमसेनेन कौन्तेय यत् तु तन्मम पौरुषम्॥ एवमेव सदा दण्डं क्षत्रियाः क्षत्रिये दधुः। वेणी कृत्वा षण्ढवेषः कन्यां नर्तितवानसि।।११६।' न भयाद् वासुदेवस्य न चापि तव फाल्गुन। राज्यं प्रतिप्रदास्यामि युद्ध्यस्व सहकेशवः॥ न माया हीन्द्रजालं वा कुहका वापि भीषणा। आत्तशस्त्रस्य संग्रामे वहन्ति प्रतिगर्जनाः॥ वासुदेवसहस्रं वा फाल्गुनानां शतानि वा। आसाद्य माममोघेषु द्रविष्यन्ति दिशो दश॥ संयुगं गच्छ भीष्मेण भिन्धि वा शिरसा गिरिम्। तरस्व वा महागाधं बाहुभ्यां पुरुषोदधिम्॥ शारद्वतमहामीनं विविंशतिमहोरगम्। बृहद्वलमहोद्वेलं सौमदत्तितिमिङ्गिलम्॥ भीष्मवेगमपर्यन्तं द्रोणग्राहदुरासदम्। कर्णशल्यझषावर्तं काम्बोजवडवामुखम्॥ दुःशासनौघं शलशल्यमत्स्यं सुषेणचित्रायुधनागनक्रम्। जयद्रथाद्रिं पुरुमित्रगाधं दुर्मर्षणोदं शकुनिप्रपातम्॥ शस्त्रौघमक्षय्यमभिप्रवृद्धं यदावगाह्य श्रमनष्टचेताः। भविष्यसि त्वं हतसर्वबान्धवस्तदा मनस्ते परितापमेष्यति॥ तदा मन्सते त्रिदिवादिवाशुचे निवर्तिता पार्थ महाप्रशासनात्। प्रशाम्य राज्यं हि सुदुर्लभं त्वया बुभूषितः स्वर्ग इवातपस्विना॥ संजय उवाच सेनानिवेशं सम्प्राप्त: कैतव्यः पाण्डवस्य ह। समागत: पाण्डवेयैयुधिष्ठिरमभाषत॥ अभिज्ञो दूतवाक्यानां यथोक्तं ब्रूवतो मम। दुर्योधनसमादेशं श्रुत्वा न क्रोद्भुमर्हसि॥ युधिष्ठिर उवाच उलूकं न भयं तेऽस्ति ब्रूहि त्वं विगतज्वरः। यन्मतं धार्तराष्ट्रस्य लुब्धस्यादीर्घदर्शिनः॥ ततो द्युतिमतां मध्ये पाण्डवानां महात्मनाम्। सृञ्जयानां च मत्स्यानां कृष्णस्य च यशस्विनः॥ दुपस्य सपुत्रस्य विराटस्य च संनिधौ। भूमिपानां च सर्वेषां मध्ये वाक्यं जगाद ह॥ उलूक उवाच इदं त्वामब्रवीद् राजा धार्तराष्ट्रो महामनाः। शृण्वतां कुरुवीराणां तन्निबोध युधिष्ठिर॥ पराजितोऽसि द्यूतेन कृष्णा चानायिता सभाम्। शक्योऽमर्षो मनुष्येण कर्तुं पुरुषमानिना॥ द्वादशैव तु वर्षाणि वने धिष्ण्याद् विवासितः। संवत्सरं विराटस्य दास्यमास्थाय चोषितः॥ अमर्षं राज्यहरणं वनवासं च पाण्डव। द्रौपद्याश्च परिक्लेशं संस्मरन् पुरुषो भव॥ अशक्तेन च यच्छप्तं भीमसेनेन पाण्डव। दुःशासनस्य रुधिरं पीयतां यदि शक्यते॥ लोहाभिसारो निर्वृत्तः कुरुक्षेत्रमकर्दमम्। समः पन्था भृतास्तेऽश्वाः श्वो युध्यस्व सकेशवः॥ असमागम्य भीष्मेण संयुगे किं विकत्यसे। आरुरुक्षुर्यथा मन्दः पर्वतं गन्धमादनम्॥ एवं कत्थसि कौन्तेय अकत्थन् पुरुषो भव। सूतपुत्रं सुदुर्धर्षं शल्यं च बलिनां वरम्॥ द्रोणं च बलिनां श्रेष्ठं शचीपतिसमं युधि। अजित्वा संयुगे पार्थ राज्यं कथमिहेच्छसि॥ ब्राह्मे धनुषि चाचार्य वेदयोरन्तगं द्वयोः। युधि धुर्यमविक्षोभ्यमनीकचरमच्युतम्॥ द्रोणं महाद्युति पार्थ जेतुमिच्छसि तन्मृषा। न हि शुश्रुम वातेन मेरुमुन्मथितं गिरिम्॥ अलिनो वा वहेन्मेरु द्यौर्वापि निपतेन्महीम्। युगं वा परिवर्तेन यद्येवं स्याद् यथाऽऽत्य माम्॥ काक्षी प्राप्येममरिमर्दनम्। गजो वाजी रथो वाऽपि पुनः स्वस्ति गृहान् व्रजेत्॥ कथमाभ्यामभिध्यातः संस्पृष्टो दारुणेन वा। रणेः जीवन् विमुच्येत पदा भूमिमुपस्पृशन्॥ किं दर्दुरः कूपशयो यथेमां न बुध्यसे राजचमूं समेताम्। दुराधर्षां देवचमूप्रकाशां गुप्तां नरेन्द्रस्त्रिदशैरिव द्याम्॥ काम्बोजशकैः खशैश्च। म्लेंच्छैः पुलिन्दैईविडान्ध्रकाश्च्यैः॥ नानाजनौघं युधि सम्प्रवृद्धं गाङ्गं यथा वेगमपारणीयम्। मां च स्थितं नागबलस्य मध्ये युयुत्ससे मन्द किमल्पबुद्धे॥ इत्येवमुक्त्वा राजानं धर्मपुत्रं युधिष्ठिरम्। अभ्यावृत्य पुनर्जिष्णुमुलूकः प्रत्यभाषत॥ अकत्यमानो युध्यस्व कत्थसेऽर्जुन कि बहु। पर्यायात् सिद्धिरेतस्य नैतत् सिध्यति कत्यनात्॥ यदीदं कत्थनाल्लोके सिध्येत् कर्म धनंजय। सर्वे भवेयुः सिद्धार्थाः कत्थने को हिं दुर्गतः॥ जानामि ते वासुदेवं सहायं जानामि ते गाण्डिवं तालमात्रम्। जानाम्येतत् त्वादृशो नास्ति योद्धा जानानस्ते राज्यमेतद्धरामि॥ न तु पर्यायधर्मेण राज्यं प्राप्नोति मानुषः। मनसैवानुकूलानि विधाता कुरुते वशे॥ त्रयोदश समा भुक्तं राज्यं विलपतस्तवा भूयश्चैव प्रशासिष्ये निहत्य त्वां सबान्धवम्॥ क्व तदा गाण्डिवं तेऽभूद् यत् त्वं दास पणैर्जितः। क्व तदा भीमसेनस्य बलमासीच्च फाल्गुन।॥ सगदाद् भीमसेनाद् वा पार्थाद् वापि सगाण्डिवात्। न वै मोक्षस्तदा वोऽभूद् विना कृष्णामनिन्दिताम्॥ सा वो दास्ये समापन्नान् मोक्षयामास पार्षती। अमानुष्यं समापन्नान् दासकर्मण्यवस्थितान्॥ अवोचं यत् षण्ढतिलानहं वस्तथ्यमेव तत्। धृता हि वेणी पार्थेन विराटनगरे तदा।॥ सूदकर्मणि च श्रान्तं विराटस्य महानसे। भीमसेनेन कौन्तेय यच्च तन्मम पौरुषम्॥ एवमेतत् सदा दण्डं क्षत्रियाः क्षत्रिये दधुः। वेणीं कृत्वा घण्ढवेषः कन्यां नर्तितवानसि॥ न भयाद् वासुदेवस्य न चापि तव फाल्गुन। राज्यं प्रतिप्रदास्यामि युद्ध्यस्व सहकेशवः॥ न माया हीन्द्रजालं वा कुहका वाऽपि भीषणा। आत्तशस्त्रस्य मे युद्ध वहन्ति प्रतिगर्जनाः॥ वासुदेवसहस्रं वा फाल्गुनानां शतानि वा। आसाद्य माममोघेणुं द्रविष्यन्ति दिशो दश॥ संयुगं गच्छ भीष्मेण भिन्धि वा शिरसा गिरिम्। तरेमं वा महागाधं बाहुभ्यां पुरुषोदधिम्॥ शारद्वतमहामीनं विविंशतिमहोरगम्। बृहदलमहोद्वेलं सौमदत्तितिमिङ्गिलम्॥ भीष्मवेगमपर्यन्तं द्रोणग्राहदुरासदम्। कर्णशल्यझषावर्त काम्बोजवडवामुखम्॥ दुःशासनौघं शलशल्यमत्स्यं सुषेणचित्रायुधनागनक्रम् जयद्रथाद्रिं पुरुमित्रगाधं दुर्मर्षणोदं शकुनिप्रपातम्॥ शस्त्रौघमक्षय्यमपिप्रवृद्धं यदावगाह्य श्रमनष्टचेताः। स्तदा मनस्ते परितापमेष्यति॥ तदा मनस्ते त्रिदिवादिवाशुचे निवर्तिना पार्थमहीप्रशासनात्। प्रशाम्य राज्यं हि सुदुर्लभ त्वया बुभूषितः स्वर्ग इवातपस्विना॥ संजय उवाच दुर्योधनस्य तद् वाक्य निशम्य भरतर्षभ। नेत्राभ्यामतिताम्राभ्यां कैतव्य समुदैक्षत॥ स केशवमभिप्रेक्ष्य गुडाकेशो महायशाः। अभ्याभाषत कैतव्यं प्रगृह्य विपुलं भुजम्॥ स्ववीर्यं यः समाश्रित्य समाह्वयति वै परान्। अभीतो युध्यते शत्रून् स वै पुरुष उच्यते॥ परवीर्यं समाश्रित्य यः समाह्वयते परान्। क्षत्रबन्धुरशक्तत्वाल्लोके स पुरुषाधमः॥ स त्वं परेषां वीर्येण मन्यसे वीर्यमात्मनः। स्वयं कापुरुषो मूढ परांश्च क्षेप्तुमिच्छसि॥ यस्त्वं वृद्धं सर्वराज्ञां हितबुद्धिं जितेन्द्रियम्। मरणाय महाप्रज्ञं दीक्षयित्वा विकत्थसे॥ भावस्ते विदितोऽस्माभिर्दुर्बुद्धे कुलपांसन। न हनिष्यन्ति गाङ्गेयं पाण्डवा घृणयेति हि॥ यस्य वीर्यं समाश्रित्य धार्तराष्ट्र विकत्यसे। हन्तास्मि प्रथमं भीष्मं मिषतां सर्वधन्विनाम्॥ कैतव्य गत्वा भरतान् समेत्य सुयोधनं धार्तराष्ट्रं वदस्व। तथेत्युवाचार्जुनः सव्यसाची निशाव्यपाये भविता विमर्दः॥ यद् वाब्रवीद् वाक्यमदीनसत्त्वं मध्ये कुरून् हर्षयन् सत्यसंघः। अहं हन्ता सृञ्जयानामनीकं शाल्वेयकांचेति ममैष भारः॥ हन्यामहं द्रोणमृतेऽपि लोकं न ते भयं विद्यते पाण्डवेभ्यः। ततो हि ते लब्धतमं च राज्यमापद्गताः पाण्डवाश्चेति भावः॥ मात्मन्यपि वर्तमानम्। तस्मादहं ते प्रथमं समूहे हन्ता समक्षं कुरुवृद्धमेव॥ सूर्योदये युक्तसेनः प्रतीक्ष्य द्वजी रथी रक्ष तं सत्यसंधम्। अहं हि वः पश्यतां द्वीपमेनं भीष्मं रथात् पातयिष्यामि बाणैः॥ श्वोभूते कत्थनावाक्यं विज्ञास्यति सुयोधनः। आचितं शरजालेन मया दृष्ट्वा पितामहम्॥ यदुक्तश्च सभामध्ये पुरुषो ह्रस्वदर्शनः। क्रुद्धेन भीमसेनेन भ्राता दुःशासनस्तव॥ अधर्मज्ञो नित्यवैरी पापबुद्धिर्नृशंसवत्। सत्यां प्रतिज्ञामचिराद् द्रक्ष्यसे तां सुयोधन॥ अभिमानस्य दर्पस्य क्रोधपारुष्ययोस्तथा। नैष्ठुर्यस्यावलेपस्य आत्मसम्भावनस्य च॥ नृशंसतायास्तैक्ष्ण्यस्य धर्मविद्वेषणस्य च। अधर्मस्यातिवादस्य वृद्धातिक्रमणस्य च॥ दर्शनस्य च चक्रस्य कृत्स्नस्यापनयस्य च। द्रक्ष्यसि त्वं फलं तीव्रमचिरेण सुयोधन॥ वासुदेवद्वितीये हि मयि क्रुद्धे नराधमा आशा ते जीविते मूढ राज्ये वा केन हेतुना।॥ शान्ते भीष्मे तथा द्रोणे सूतपुत्रे च पातिते। निराशो जीविते राज्ये पुत्रेषु च भविष्यसि॥ भ्रातृणां निधनं श्रुत्वा पुत्राणां च सुयोधन। भीमसेनेन निहतो दुष्कृतानि स्मरिष्यसि॥ न द्वितीयां प्रतिज्ञां हि प्रतिजानामि कैतव। सत्यं ब्रवीम्यहं ह्येतत् सर्वं सत्यं भविष्यति॥ युधिष्ठिरोऽपि कैतव्यमुलूकमिदमब्रवीत्। उलूक मद्वचो ब्रूहि गत्वा तात सुयोधनम्॥ स्वेन वृत्तेन मे वृत्तं नाधिगन्तुं त्वमर्हसि। उभयोरन्तरं वेद सूनृतानृतयोरपि॥ न चाहं कामये पापमपि कीटपिपीलयोः। किं पुनर्जातिषु वधं कामयेयं कथंचन॥ एतदर्थं मया तात पञ्च ग्रामा वृताः पुरा। कथं तव सुदुर्बुद्धे न प्रेक्ष्ये व्यसनं महत्॥ स त्वं कामपरीतात्मा मूढभावाच्च कत्थसे। तथैव वासुदेवस्य न गृह्णासि हितं वचः॥ किं चेदानी बहूक्तेन युध्यस्व सह बान्धवैः। मम विप्रियकर्तारं कैतव्य ब्रूहि कौरवम्॥ श्रुतं वाक्यं गृहीतोऽर्थो मतं यत् ते तथास्तु तत्। भीमसेनस्ततो वाक्यं भूय आह नृपात्मजम्॥ उलूक मद्वचो ब्रूहि दुर्मति पापपूरुषम्। शठं नैकृतिकं पापं दुराचारं सुयोधनम्॥ गृध्रोदरे वा वस्तव्यं पुरे वा नागसाह्वये। प्रतिज्ञातं मया तच्च सभामध्ये नराधम॥ कर्ताह तद् वचः सत्यं सत्येनैव शपामि ते। दुःशासनस्य रुधिरं हत्वा पास्याम्यहं मृधे॥ सक्थिनी तव भक्त्वैव हत्वा हि तव सोदरान्। सर्वेषां धार्तराष्ट्राणामहं मृत्युः सुयोधन॥ । सर्वेषां राजपुत्राणामभिमन्युरसंशयम्। कर्मणाः तोषयिष्यामि भूयश्चैव वचः शृणु॥ हत्वा सुयोधन त्वां वै सहितं सर्वसोदरैः। आक्रमिष्ये पदा मूर्ध्नि धर्मराजस्य पश्यतः॥ नकुलस्तु ततो वाक्यमिदमाह महीपते। उलूक ब्रूहि कौरव्यं धार्तराष्ट्र सुयोधनम्॥ श्रुतं ते गदतो वाक्यं सर्वमेव यथातथम्। तथा कर्तास्मि कौरव्य यथा त्वमनुशासि माम्॥ सहदेवोऽपि नृपते इदमाह वचोऽर्थवत्। सुयोधन मतिर्या ते वृथैषा ते भविष्यति॥ शोचिष्यसे महाराज सपुत्रज्ञातिबान्धवः। इमं च क्लेशमस्माकं हृष्टो यत् त्वं विकत्थसे॥ विराटदुपदौ वृद्धावुलूकमिदमूचतुः। दासभावं नियच्छेव साधोरिति मतिः सदा। तौ च दासावदासौ वा पौरुषं यस्य यादृशम्॥ शिखण्डी तु ततो वाक्यमुलूकमिदमब्रवीत्। वक्तव्यो भवता राजा पापेष्वभिरतः सदा॥ पृश्य त्वं मां राजन् कुर्वाणं कर्म दारुणम्। यस्य वीर्यं समासाद्य मन्यसे विजयं युधि॥ तमहं पातयिष्यामि रथात् तव पितामहम्। अहं भीष्मवधात् सृष्टो नूनं धात्रा महात्मना॥ सोऽहं भीष्मं हनिष्यामि मिषतां सर्वधन्विनाम्। धृष्टद्युम्नोऽपि कैतव्यमुलूकमिदमब्रवीत्॥ सुयोधनो मम वचो वक्तव्यो नृपतेः सुतः। अहं द्रोणं हनिष्यामि सगणं सहबान्धवम्॥ अवश्यं च मया कार्य पूर्वेषां चरितं महत्। कर्ता चाहं तथा कर्म यथा नान्यः करिष्यति॥ तमब्रवीद् धर्मराजः कारुण्यार्थं वचो महत्। नाहं ज्ञातिवधं राजन् कामयेयं कथंचन॥ तवैव दोषाद् दुर्बुद्धे सर्वमेतत् त्वनावृतम्। स गच्छ मा चिरं तात उलूक यदि मन्यसे॥ इह वा तिष्ठ भद्रं ते वयं हि तव बान्धवाः। उलूकस्तु ततो राजन् धर्मपुत्रं युधिष्ठिरम्॥ आमन्त्र्य प्रययौ तत्र यत्र राजा सुयोधनः। उलूकस्तत आगम्य दुर्योधनममर्षणम्॥ अर्जुनस्य समादेशं यथोक्तं सर्वमब्रवीत्। वासुदेवस्य भीमस्य धर्मराजस्य पौरुषम्॥ नकुलस्य विराटस्य द्रुपदस्य च भारत। सहदेवस्य च वचो धृष्टद्युम्नशिखण्डिनोः। केशवार्जुनयोर्वाक्यं यथोक्तं सर्वमब्रवीत्॥ कैतव्यस्य तु तद् वाक्यं निशम्य भरतर्षभः। दुःशासनं च कर्णं च शकुनि चापि भारत॥ आज्ञापयत राज्ञश्च बलं मित्रबलं तथा। यथा प्रागुदयात् सर्वेयुक्तास्तिष्ठन्त्यनीकिनः॥ ततः कर्णसमादिष्टा दूताः संत्वरिता रथैः। उष्ट्रवामीभिरप्यन्ये सदश्चैश्च महाजवैः॥ तूर्णं परिययुः सेनां कृत्स्ना कर्णस्य शासनात्। आज्ञापयन्तो राज्ञश्च योग: प्रागुदयादिति॥ संजय उवाच उलूकस्यः वचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः। सेनां निर्यापयामास धृष्टद्युम्नपुरोगमाम्॥ पदातिनी नागवती रथिनीमश्ववृन्दिनीम्। चतुर्विधबलां भीमामकम्पां पृथिवीमिव॥ भीमसेनादिभिर्गुप्ता सार्जुनैश्च महारथैः। धृष्टद्युम्नवशां दुर्गा सागरस्तिमितोपमाम्॥ तस्यास्त्वग्रे महेष्वासः पाञ्चाल्यो युद्धदुर्मदः। द्रोणप्रेप्सुरनीकानि धृष्टद्युम्नो व्यकर्षत॥ यथावलं यथोत्साहं रथिनः समुपादिशत्। अर्जुनं सूतपुत्राय भीमं दुर्योधनाय च॥ धृष्टकेतुं च शल्याय गौतमायोत्तमौजसम्। अश्वत्थाम्ने च नकुलं शैब्यं च कृतवर्मणे॥ सैन्धवाय च वार्ष्णेयं युयुधानं समादिशत्। शिखण्डिनं च भीष्माय प्रमुख समकल्पयत्॥ सहदेवं शकुनये चेकितानं शलाय वै। द्रौपदेयांस्तथा पञ्च त्रिगर्तेभ्यः समादिशत्॥ वृषसेनाय सौभद्रं शेषाणां च महीक्षिताम्। स समर्थं हि तं मेने पार्थादभ्यधिकं रणे॥ एवं विभज्य योधास्तान् पृथक् च सह चैव ह। ज्वालावर्णो महेष्वासो द्रोणमंशमकल्पयत्॥ धृष्टद्युम्नो महेष्वासः सेनापतिपतिस्ततः। विधिवद् व्यूह्य मेधावी युद्धाय धृतमानसः॥ यथोद्दिष्टानि सैन्यानि पाण्डवानामयोजयत्। जयाय पाण्डुपुत्राणां यत्तस्तस्थौ रणाजिरे॥ धृतराष्ट्र उवाच प्रतिज्ञाते फाल्गुनेन वधे भीष्मस्य संयुगे। किमकुर्वत मे मन्दाः पुत्रा दुर्योधनादयः॥ हतमेव हि पश्यामि गाङ्गेयं पितरं रणे। वासुदेवसहायेन पार्थेन दृढधन्वना॥ स चापरिमितप्रज्ञस्तच्छ्रुत्वा पार्थभाषितम्। किमुक्तवान् महेष्वासो भीष्मः प्रहरतां वरः॥ सैनापत्यं च सम्प्राप्य कौरवाणां धुरन्धरः। किमचेष्टत गाङ्गेयो महाबुद्धिपराक्रमः॥ वैशम्पायन उवाच ततस्ततं संजयस्तस्मै सर्वमेव न्यवेदयत्। यथोक्तं कुरुवृद्धेन भीष्मेणामिततेजसा॥ संजय उवाच सैनापत्यमनुप्राप्य भीष्मः शान्तनवो नृप। दुर्योधनमुवाचेदं वचनं हर्षयन्निव॥ नमस्कृत्य कुमाराय सेनान्ये शक्तिपाणये। अहं सेनापतिस्तेऽद्य भविष्यामि न संशयः॥ सेनाकर्मण्यभिज्ञोऽस्मि व्यूहेषु विविधेषु च। कर्म कारयितुं चैव भृतानप्यभृतांस्तथा॥ यात्रायाने च युद्धे च तथा प्रशमनेषु च। भृशं वेद महाराज यथा वेद बृहस्पतिः॥ व्यूहानां च समारम्भान् दैवगान्धर्वमानुषान्। तैरहं मोहयिष्यामि पाण्डवान् व्येतु ते ज्वरः॥ सोऽहं योत्स्यामि तत्त्वेन पालयंस्तव वाहिनीम्। यथावच्छास्त्रतो राजन् व्येतु ते मानसो ज्वरः॥ दुर्योधन उवाच विद्यते मे न गाङ्गेय भयं देवासुरेष्वपि। समस्तेषु महाबाहो सत्यमेतद् ब्रवीमि ते॥ किं पुनस्त्वयि दुर्धर्षे सैनापत्ये व्यवस्थिते। द्रोणे च पुरुषव्याने स्थिते युद्धाभिनन्दिनि॥ भवद्भ्यां पुरुषाग्याभ्यां स्थिताभ्यां विजये मम। न दुर्लभं कुरुश्रेष्ठ देवराज्यमपि ध्रुवम्॥ रथसंख्यां तु कात्स्न्येन परेषामात्मनस्तथा। तथैवातिरथानां च वेत्तुमिच्छामि कौरव॥ पितामहो हि कुशलः परेषामात्मनस्तथा। श्रोतुमिच्छाम्यहं सर्वैः सहैभिर्वसुधाधिपैः॥ भीष्म उवाच गान्धारे शृणु राजेन्द्र रथसंख्यां स्वके बले। ये रथाः पृथिवीपाल तथैवातिरथाश्च ये॥ बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च। स्थानां तव सेनायां यथामुख्यं तु मे शृणु॥ भवानग्रे रथोदारः सह सर्वैः सहोदरैः। दुःशासनप्रभृतिभिर्धातृभिः शतसम्मितैः॥ सर्वे कृतप्रहरणाश्छेदभेदविशारदाः। रथोपस्थे गजस्कन्धे गदाप्रासासिचर्मणि॥ संयन्तारः प्रहर्तारः कृतास्त्रा भारसाधनाः। इष्वस्त्रे द्रोणशिष्याश्च कृपस्य च शरद्वतः॥ एते हनिष्यन्ति रणे पञ्चालान् युद्धदुर्मदान्। कृतकिल्बिषाः पाण्डवेयैर्धार्तराष्ट्रा मनस्विनः॥ तथाहं भरतश्रेष्ठ सर्वसेनापतिस्तव। शत्रून् विध्वंसयिष्यामि कद कृत्य पाण्डवान्॥ न त्वात्मनो गुणान् वक्तुमर्हामि विदितोऽस्मि ते। कृतवर्मा त्वतिरथो भोजः शस्त्रभृतां वरः॥ अर्थसिद्धिं तव रणे करिष्यति न संशयः। शस्त्रविद्भिरनाधृष्यो दूरपाती दृढायुधः॥ हनिष्यति चमूं तेषां महेन्द्रो दानवानिव। मद्रराजो महेष्वासः शल्यो मेऽतिरथो मतः॥ स्पर्धते वासुदेवेन नित्यं यो वै रणे रणे। भागिनेयान् निजांस्त्यक्त्वा शल्यस्तेऽतिरथो मतः। एष योत्स्यति संग्रामे पाण्डवांश्च महारथान्॥ सागरोमिसमैर्बाणैः प्लावयन्निव शात्रवान्। भूरिश्रवाः कृतास्त्रश्च तव चापि हितः सुहृत्॥ सौमदत्तिर्महेष्वासो रथयूथपयूथपः। बलक्षयममित्राणां सुमहान्तं करिष्यति॥ सिन्धुराजो महाराज मतो मे द्विगुणो रथः। योत्स्यते समरे राजन् विक्रान्तो रथसत्तमः॥ द्रौपदीहरणे राजन् परिक्लिष्टश्च पाण्डवैः। संस्मरंस्तं परिक्लेशं योत्स्यते परवीरहा।॥ एतेन हि तदा रांजस्तप आस्थाय दारुणम्। सुदुर्लभो वरो लब्धः पाण्डवान् योद्धमाहवे।॥ स एष रथशार्दूलस्तद् वैरं संस्मरन् रणे। योत्स्यते पाण्डवस्तात प्राणांस्त्यक्त्वा सुदुस्त्यजान्॥३३ भीष्म उवाच शकुनिर्मातुलस्तेऽसौ रथ एको नराधिप। प्रयुज्य पाण्डवैर्वैरं योत्स्यते नात्र संशयः॥ एतस्य सेना दुर्धर्षा समरे प्रतियायिनः। विकृतायुधभूयिष्ठा वायुवेगसमा जवे॥ द्रोणपुत्रो महेष्वासः सर्वानेवाति धन्विनः। समरे चित्रयोधी च दृढास्त्रश्च महारथः॥ एतस्य हि महाराज यथा गाण्डीवधन्वनः। शरासनविनिर्मुक्ताः संसक्ता यान्ति सायकाः॥ नैष शक्यो मया वीरः संख्यातुं रथसत्तमः। निर्दहेदपि लोकांस्त्रीनिच्छन्नेष महारथः॥ क्रोधस्तेजश्च तपसा सम्भृतोऽऽश्रमवासिनाम्। द्रोणैनानुगृहीतश्च दिव्यैरस्त्रैरुदारधीः॥ दोषस्त्वस्य महानेको येनैव भरतर्षभ। न मे रथो नातिरथो मतः पार्थिवसत्तमः॥ जीवितं प्रियमत्यर्थमायुष्कामः सदा द्विजः। न ह्यस्य सदृशः कश्चिदुभयोः सेनयोरपि॥ हन्यादेकरथेनैव देवानामपि वाहिनीम्। वपुष्मांस्तलघोषेण स्फोटयेदपि पर्वतान्॥ असंख्येयगुणो वीरः प्रहर्ता दारुणद्युतिः। दण्डपाणिरिवासह्यः कालवत् प्रचरिष्यति।॥ युगान्ताग्निसमः क्रोधात् सिंहग्रीवो महाद्युतिः। एष भारतयुद्धस्य पृष्ठः संशमयिष्यति॥ पिता त्वस्य महातेजा वृद्धोऽपि युवभिर्वरः। रणे कर्म महत् कर्ता अत्र मे नास्ति संशयः॥ अस्त्रवेगानिलोद्भूतः सेनाकक्षेन्धनोत्थितः। पाण्डुपुत्रस्य सैन्यानि प्रधक्ष्यति रणे धृतः॥ रथयूथपयूथानां यूथपोऽयं नरर्षभः। भारद्वाजात्मजः कर्ता कर्म तीवं हितं तव॥ सर्वपूर्धाभिषिक्तानामाचार्य: स्थविरो गुरुः। गच्छेदन्तं संजयानां प्रियस्त्वस्य धनंजयः॥ नैष जातु महेष्वासः पार्थमक्लिष्टकारिणम्। हन्यादाचार्यक दीप्तं संस्मृत्य गुणनिर्जितम्॥ श्लाघतेऽयं सदा वीर पार्थस्य गुणविस्तरैः। पुत्रादभ्यधिकं चैनं भारद्वाजोऽनुपश्यति॥ हन्यादेकरथेनैव देवगन्धर्वमानुषान्। एकीभूतानपि रणे दिव्यैरस्त्रैः प्रजापवान्॥ पौरवो राजशार्दूलस्तव राजन् महारथः। मतो मम रथोदारः परवीररथारुजः॥ स्वेन सैन्येन महता प्रतपन् शत्रुवाहिनीम्। प्रधक्ष्यति स पञ्चालान् कक्षमग्निगतिर्यथा॥ सत्यश्रवा रथस्त्वेको राजपुत्रो बृहद्बलः। तव राजन् रिपुबले कालवत् प्रचरिष्यति॥ एतस्य योधा राजेन्द्र विचित्रकवचायुधाः। विचरिष्यन्ति संग्रामे निघ्नन्तः शात्रवांस्तव॥ वृषसेनो रथस्तेऽग्यः कर्णपुत्रो महारथः । प्रधक्ष्यति रिपूणां ते बलं तु बलिनां वरः॥ जलसंधो महातेजो राजन् रथवरस्तव। त्यक्ष्यते समरे प्राणान् माधवः परवीरहा॥ एष योत्स्यति संग्रामे गजस्कन्धविशारदः। रथेन वा महाबाहुः क्षपयन् शत्रुवाहिनीम्॥ रथ एष महाराज मतो मे राजसत्तम। त्वदर्थं त्यक्ष्यते प्राणान् सहसैन्यो महारणे॥ एष विक्रान्तयोधी च चित्रयोधी च सङ्गरे। वीतभीश्चापि ते राजन् शत्रुभिः सह योत्स्यते॥ बाह्रीकोऽतिरथश्चैव समरे चानिवर्तनः। मम राजन् मतो युद्धे शूरो वैवस्वतोपमः॥ न ह्येष समरं प्राप्य निवर्तेत कथञ्चन। यथा सततगो राजन् स हि हन्यात् परान् रणे॥ सेनापतिर्महाराज सत्यवांस्ते महारथः। रणेष्वद्भुतकर्मा च रथी पररथारुजः॥ एतस्य समरं दृष्ट्वा न व्यथास्ति कथञ्चन) उत्स्मयन्नुत्पत्येषु परान् रथप स्थितान्॥ एष चारिषु विक्रान्तः कर्म सत्पुरुषोचितम्। कर्ता विमर्दै सुमहत् त्वदर्थं पुरुषोतमः॥ अलम्बुषो राक्षसेन्द्रः क्रूरकर्मा महारथः। हनिष्यति परान् राजन् पूर्ववैरमनुस्मरन्॥ एष राक्षससैन्यानां सर्वेषां रथसत्तमः। मायावी दृढयैरश्च समरे विचरिष्यति॥ प्राग्ज्योतिषाधिपो वीरो भगदत्तः प्रतापवान्। गजाङ्कुशधरश्रेष्ठी रथे चैव विशारदः॥ एतेन युद्धमभवत् पुरा गाण्डीवधन्वनः। दिवसान् सुबहून् राजन्नुभयोर्जयगृद्धिनोः॥ ततः सखायं गान्धारे मानयन् पाकशासनम्। अकरोत् संविदं तेन पाण्डवेन महात्मना।॥ एष योत्स्यति संग्रामे गजस्कन्धविशारदः। ऐरावतगतो राजा देवानामिव वासवः॥ भीष्म उवाच द्रौपदेया महाराज सर्वे पञ्च महारथाः। वैराटिरुत्तरचैव रथोदारो मतो मम॥ अभिमन्युर्महाबाहू रथयूथपयूथपः। समः पार्थेन समरे वासुदेवेन चारिहा॥ लब्धास्त्रश्चित्रयोधी च मनस्वी च दृढव्रतः। संस्मरन् वै परिक्लेशं स्वपितुर्विक्रमिष्यति॥ सात्यकिर्माधवः शूरो रथयूथपयूथपः। एष वृष्णिप्रवीराणाममर्षी जितसाध्वसः॥ उत्तमौजास्तथा राजन् रथोदारो मतो मम। युधामन्युश्च विक्रान्तो रतोदारो मतो मम॥ एतेषां बहुसाहस्रा रथा नागा हयास्तथा। योत्स्यन्ते तनुंस्त्यक्त्वा कुन्तीपुत्रप्रियेप्सया॥ पाण्डवैः सह राजेन्द्र तव सेनासु भारत। अग्निमारुतवद् राजन्नाह्वयन्तः परस्परम्॥ अजेयौ समरे वृद्धौ विराटदुपदौ तथा। महारथौ महावीर्यो मतौ मे पुरुषर्षभौ॥ वयोवृद्धावपि हि तौ क्षत्रधर्मपरायणौ। यतिष्येते परं शक्त्या स्थितौ वीरगते पथि।॥ सम्बन्धकेन राजेन्द्र तौ तु वीर्यबलान्वयात्। आर्यवृत्तौ महेष्वासौ स्नेहवीर्यसितावुभौ॥ कारणं प्राप्य तु नरा: सर्व एव महाभुजाः। शूरा वा कातरा वापि भवन्ति कुरुपुङ्गव॥ एकायनगतावेतौ पार्थिवौ दृढधन्विनौ। प्राणांस्त्यक्त्वा परं शक्त्या घट्टितारो परंतप॥ पृथगक्षौहिणीभ्यां तावुभौ संयति दारुणौ। सम्बन्धिभावं रक्षन्तौ महत् कर्म करिष्यतः॥ लोकवीरौ महेष्वासौ त्यक्तात्मानौ च भारत। प्रत्ययं परिरक्षन्तौ महत् कर्म करिष्यतः॥ भीष्म उवाच पञ्चालराजस्य सुतो राजन् परपुरंजयः। शिखण्डि रथमुख्यो मे मतः पार्थस्य भारत॥ एष योत्स्यति संग्रामे नाशयन् पूर्वसंस्थितम्। परं यशो विप्रथयंस्तव सेनासु भारत॥ एतस्य बहुलाः सेनाः पञ्चालाश्च प्रभद्रकाः। तेनासौ रथवंशेन महत् कर्म करिष्यति॥ धृष्टद्युम्नश्च सेनानीः सर्वसेनासु भारत। मतो मेऽतिरथो राजन् द्रोणशिष्यो महारथः॥ एष योत्स्यति संग्रामे सूदयन् वै परान् रणे। भगवानिव संक्रुद्धः पिनाकी युगसंक्षये॥ एतस्य तदु स्थानीकं कथयन्ति रणाप्रियाः। बहुत्वात् सागरप्रख्यं देवानामिव संयुगे॥ क्षत्रधर्मा तु राजेन्द्र मतो मेऽर्धरथो नृप। धृष्टद्युम्नस्य तनयो बाल्यानातिकृतश्रमः॥ शिशुपालसुतो वीश्चेदिराजो महारथः। धृष्टकेतुर्महेष्वासः सम्बन्धी पाण्डवस्य ह॥ एष चेदिपतिः शूरः सह पुत्रेण भारत। महारथानां सुकरं महत् कर्म करिष्यति॥ क्षत्रधर्मरतो मह्यं मतः परपुरंजयः। क्षत्रदेवस्तु राजेन्द्र पाण्डवेषु रथोत्तमः॥ जयन्तश्चामितौजाश्च सत्यजिच्च महारथः। महारथा महात्मानः सर्वे पाञ्चालसत्तमाः॥ योत्स्यन्ते समरे तात संरब्धा इव कुञ्जराः। अजो भोजश्च विक्रान्तौ पाण्डवार्थं महारथौ॥ योत्स्येते बलिनौ शूरौ परं शक्त्या क्षयिष्यतः। शीघ्रास्त्राश्चित्रयोद्धारः कृतिनो दृढविक्रमाः॥ केकयाः पञ्च राजेन्द्रः भ्रातरो दृढविक्रमाः। सर्वे चैव रथोदाराः सर्वे लोहितकध्वजाः॥ काशिकः सुकुमारश्च नीलो यश्चापरो नृप। सूर्यदत्तश्च शङ्खश्च मदिराश्वश्च नामतः॥ सर्व एव रथोदाराः सर्वे चाहवलक्षणाः। सर्वास्त्रविदुषः सर्वे महात्मानो मता मम॥ वार्धक्षेमिर्महाराज मतो मम महारथः। चित्रायुधश्च नृपतिर्मतो मे रथसत्तमः॥ स हि संग्रामशोभी च भक्तश्चापि किरीटिनः। चेकितानः सत्यधृति पाण्डवानां महारथौ। द्वाविमौ पुरुषव्याघ्रौ रथोदारौ मतौ मम॥ व्याघ्रदत्तश्च राजेन्द्र चन्द्रसेनश्च भारत। मतौ मम रथोदारौ पाण्डवानां न संशयः॥ सेनाबिन्दुश्च राजेन्द्र क्रोधहन्ता च नामतः। यः समो वासुदेवेन भीमसेनेन वा विभो॥ स योत्स्यति हि विक्रम्य समरे तव सैनिकैः। मां च द्रोणं कृपं चैव यथा सम्मन्यते भवान्॥ तथा स समरश्लाघी मन्तव्यो रथसत्तमः। काश्यः परमशीघ्रास्त्रः श्लाघनीयो नरोत्तमः॥ रथ एकगुणो मह्यं ज्ञेयः परपुरंजयः। अयं च युधि विक्रान्तो मन्तव्योऽष्टगुणो रथः॥ सत्यजित् समरश्लाघी दुपदस्यात्मजो युवा। गतः सोऽतिरथत्वं हि धृष्टद्युम्नेन सम्मितः॥ पाण्डवानां यशस्कामः परं कर्म करिष्यति। अनुरक्तश्च शूरच रथोऽयमपरो महान्।॥ पाण्ड्यराजो महावीर्यः पाण्डवानां धुरंधरः। दृढधन्वा महेष्वासः पाण्डवानां महारथः॥ श्रेणिमान् कौरवश्रेष्ठ वसुदानश्च पार्थिवः। उभावेतावतिरथौ मतौ परपुरंजयौ॥ भीष्म उवाच रोचमानो महाराज पाण्डवानां महारथः। योत्स्यतेऽमरवत् संख्ये परसैन्येषु भारत॥ पुरुजित् कुन्तिभोजश्च महेष्वासो महाबलः। मातुलो भीमसेनस्य स च मेऽतिरथो मतः॥ एष वीरो महेष्वासः कृती च निपुणश्च ह। चित्रयोधी च शक्तश्च मतो मे रथपुङ्गवः॥ स योत्स्यति हि विक्रम्य मघवानिव दानवैः। योधा ये चास्य विख्याताः सर्वे युद्धविशारदाः॥ भागिनेयकृते वीरः स करिष्यति संगरे। सुमहत् कर्म पाण्डूनां स्थितः प्रियहिते रतः॥ भैमसेनिर्महाराज हैडिम्बो राक्षसेश्वरः। मतो मे बहुमायावी रथयूथपयूथपः॥ योत्स्यते समरे तात मायावी समरप्रियः। ये चास्य राक्षसा वीराः सचिवा वशवर्तिनः॥ एते चान्ये च बहवो नानाजनपदेश्वराः। समेताः पाण्डवस्यार्थं वासुदेवपुरोगमाः॥ एते प्राधान्यतो राजन् पाण्डवस्य महात्मनः। स्थाश्चातिस्थाश्चैव ये चान्येऽर्धरथा नृप॥ नेष्यन्ति समरे सेनां भीमा यौधिष्ठिरी नृप। महेन्द्रेणेव वीरेण पाल्यमानां किरीटिना॥ तैरहं समरे वीर मायाविद्भिर्जयैषिभिः। योत्स्यामि जयमाकाङ्क्षनथवा निधनं रणे॥ वासुदेवं च पार्थं च चक्रगाण्डीवधारिणौ। संध्यागताविवार्केन्दू समेष्येते रथोत्तमौ॥ ये चैव ते रथोदाराः पाण्डुपुत्रस्य सैनिकाः। सहसैन्यानहं तांश्च प्रतीयां रणमूर्धनि॥ एते स्थाश्चातिरथाश्च तुभ्यं यथाप्रधानं नृप कीर्तिता मया। तथापरे येऽर्धरथाश्च केचित् तथैव तेषामपि कौरवेन्द्र॥ अर्जुनं वासुदेवं च ये चान्ये तत्र पार्थिवाः। सर्वांस्तान् वारयिष्यामि यावद् द्रक्ष्यामि भारत॥ पाञ्चाल्यं तु महाबाहो नाहं हन्यां शिखण्डिनम्। उद्यतेषुमथो दृष्ट्वा प्रतियुध्यन्तमाहवे॥ लोकस्तं वेद यदहं पितुः प्रियचिकीर्षया। प्राप्तं राज्यं परित्यज्य ब्रह्मचर्यव्रते स्थितः॥ चित्राङ्गदं कौरवाणामाधिपत्येऽभ्यषेचयम्। विचित्रवीर्यं च शिशुं यौवराज्येऽभ्यषेचयम्॥ देवव्रतत्वं विज्ञाप्य पृथिवीं सर्वराजसु! नैव हन्यां स्त्रियं जातु न स्त्रीपूर्वं कदाचन॥ स हि स्त्रीपूर्वको राजन् शिखण्डी यदि ते कन्या भूत्वा पुमान् जातो न योत्स्ये तेन भारत।॥ श्रुतः। सर्वांस्त्वन्यान् हनिष्यामि पार्थावान् भरतर्षभ यान् समेष्यामि समरे न तु कुन्तीसुतान् नृप॥ दुर्योधन उवाच किमर्थं भरतश्रेष्ठ नैव हन्याः शिखण्डिनम्। उद्यतेषुमथो दृष्ट्वा समरेष्वाततायिनम्॥ पूर्वमुक्त्वा महाबाहो पञ्चालान् सह सोमकैः। हनिष्यामीति गाङ्गेय तन्मे ब्रूहि पितामहः॥ भीष्म उवाच शृणु दुर्योधन कथां सहैभिर्वसुधाधिपः। यदर्थं युधि सम्प्रेक्ष्य नाहं हन्यां शिखण्डिनम्॥३। महाराजो मम पिता शान्तनुर्लोकविश्रुतः। दिष्टान्तमाप धर्मात्मा समये भरतर्षभ॥ ततोऽहं भरतश्रेष्ठ प्रतिज्ञां परिपालयन्। चित्राङ्गदं भ्रातरं वै महाराज्येऽभ्यषेचयम्॥ तस्मिंश्च निधनं प्राप्ते सत्यवत्या मते स्थितः। विचित्रवीर्यं राजानमभ्यषिञ्च यथाविधि॥ मयाभिषिक्तो राजेन्द्र यवीयानपि धर्मतः। विचित्रवीर्यो धर्मात्मा मामेव समुदैक्षत॥ तस्य दारक्रियां तात चिकीर्षुरहमप्युत। अनुरूपादिव कुलादित्येव च मनो दधे॥ तथाऽश्रौषं महाबाहो तिस्रः कन्याः स्वयंवराः। रूपेणाप्रतिमाः सर्वाः काशिराजसुतास्तदा। अम्बां चैवाम्बिकां चैव तथैवाम्बालिकामपि॥ राजानश्च समाहूताः पृथिव्यां भरतर्षभ। अम्बा ज्येष्ठाभवत् तासामम्बिकात्वथ मध्यमा॥ अम्बालिका च राजेन्द्र राजकन्या यवीयसी। सोऽहमेकरथेनैव गतः काशिपतेः पुरीम्॥ अपश्यं ता महाबाहो तिस्रः कन्या: स्वलंकृताः। राज्ञश्चैव समाहूतान् पार्थिवान् पृथिवीपते॥ ततोऽहं तान् नृपान् सर्वानाहूय समरे स्थितान्। रथमारोपयांचने कन्यास्ता भरतर्षभ॥ वीर्यशुल्काश्च ता ज्ञात्वा समारोप्य रथं तदा। अवोचं पार्थिवान् सर्वानहं तत्र समागतान्। भीष्मः शान्तनवः कन्या हरतीति पुनः पुनः॥ ये यतध्वं परं शक्त्या सर्वे मोक्षाय पार्थिवाः। प्रसह्य हि हराम्येष मिषतां वो नरर्षभाः॥ ततस्ते पृथिवीपालाः समुत्पेतुरुदायुधाः। योगो योग इति क्रुद्धाः सारथीनभ्यचोदयन्॥ ते स्थैर्गजसंकाशैर्गजैश्च गजयोधिनः। पुष्टैश्चाश्चैर्महीपालाः समुत्पेतुरुदायुधाः॥ ततस्ते मां महीपाला: सर्व एवं विशाम्पते। रथवातेन महता सर्वतः पर्यवारयन्॥ तानहं शरवर्षेण समन्तात् पर्यवारयम्। सर्वान् नृपांश्चाप्यजयं देवराडिव दानवान्॥ अपातयं शरैर्दीप्तैः प्रहसन् भरतर्षभ। तेषामापततां चित्रान् ध्वजान् हेमपरिष्कृतान्॥ एकैकेन हि बाणेन भूमौ पातितवानहम्। हयांस्तेषां गजांश्चैव सारथींचाप्यहं रणे॥ ते निवृत्ताश्च भग्नाश्च दृष्ट्वा तल्लाघवं मम। अथाहं हास्तिनपुरमायां जित्वा महीक्षितः॥ ततोऽहं ताश्च कन्या वै भ्रातुरर्थाय भारत। तच्च कर्म महाबाहो सत्यवत्यै न्यवेदयम्॥ भीष्म उवाच ततोऽहं भरतश्रेष्ठ मातरं वीरमातरम्। अभिगम्योपसंगृह्य दाशेयीमिदमब्रुवम्॥ इमाः काशिपतेः कन्या मया निर्जत्य पार्थिवान्। विचित्रवीर्यस्य कृते वीर्यशुल्का हृता इति।॥ ततो मूर्धन्युपाघ्राय पर्यश्रुनयना नृप। आह सत्यवती हृष्टा दिष्ट्या पुत्र जितं त्वया।॥ सत्यवत्यास्त्वनुमते विवाहे समुपस्थिते। उवाच वाक्यं सव्रीडा ज्येष्ठा काशिपतेः सुता॥ भीष्म त्वमसि धर्मज्ञः सर्वशास्त्रविशारदः। श्रुत्वा च वचनं धर्म्यं मह्यं कर्तुमिहार्हसि॥ मया शाल्वपतिः पूर्वं मनसाऽभिवृतो वरः। तेन चास्मि वृता पूर्वं रहस्यविदिते पितुः॥ कथं माम न्यकामां त्वं राजधर्ममतीत्य वै। वासयेथा गृहे भीष्म कौरवः सन् विशेषतः॥ एतद् बुद्ध्या विनिश्चित्य मनसा भरतर्षभ। यत् क्षमं ते महाबाहो तदिहारब्धुमर्हसि॥ स मां प्रतिक्षते व्यक्तं शाल्वराजो विशाम्पते। तस्मान्मां त्वं कुरुश्रेष्ठ समनुज्ञातुमर्हसि॥ कृपां कुरु महाबाहो मयि धर्मभृतां वर। त्वं हि सत्यव्रतो वीर पृथिव्यामित नः श्रुतम्॥ भीष्म उवाच ततोऽहं समनुज्ञाप्य काली गन्धवतीं तदा। मन्त्रिणचर्विजश्चैव तथैव च पुरोहितान्॥ समनुज्ञासिषं कन्यामम्बां ज्येष्ठां नराधिप। अनुज्ञाता ययौ सा तु कन्या शाल्वपतेः पुरम्॥ वृद्धैर्द्विजातिभिर्गुप्ता धात्र्या चानुगता तदा। अतीत्य च तमध्वानमासाद्य नृपति तथा॥ सा तमासाद्य राजानं शाल्वं वचनमब्रवीत्। आगताऽहं महाबाहो त्वामुद्दिश्य महामते॥ तामब्रवीच्छाल्वपतिः स्मयन्निव विशाम्पते। त्वयान्यपूर्वया नाहं भार्यार्थी वरवर्णिनि॥ गच्छ भद्रे पुनस्तत्र सकाशंभीष्मकस्य वै। नाहमिच्छामि भीष्मेण गृहीतां त्वां प्रसह्य वै॥ त्वं हि भीष्मेण निर्जित्य नीता प्रीतिमती तदा। परामृश्य महायुद्धे निर्जित्य पृथिवीपतीन्॥ नाहं त्वय्यन्यपूर्वायां भार्यार्थी वरवर्णिनि। कथमस्मद्विधो राजा परपूर्वां प्रवेशयेत्॥ नारी विदितविज्ञानः परेषां धर्ममादिशन्। यथेष्टं गम्यतां भद्रे मा त्वां कालोऽत्यगादयम्॥ अम्बा तमब्रवीद् राजन्ननङ्गशरपीडिता। नैवं वद महीपाल नैतदेवं कथंचन॥ नास्मि प्रीतिमती नीता भीष्मेणामित्रकर्शन। बलान्नीताऽस्मि रुदती विद्राव्य पृथिवीपतीन्॥ भजस्व मां शाल्वपते भक्ता बालामनागसम्। भक्तानां हि परित्यागो न धर्मेषु प्रशस्यते॥ साऽहमामन्त्र्य गाङ्गेयं समरेष्वनिवर्तिनम्। अनुज्ञाता च तेनैव ततोऽहं भृशमागता॥ न स भीष्मो महाबाहुर्मामिच्छति विशाम्पते। भ्रातृहेतोः समारम्भो भीष्मस्येति श्रुतं मया॥ भगिन्यौ मम ये नीते अम्बिकाम्बालिके नृप। प्रादाद् विचित्रवीर्याय गाङ्गेयो हि यवीयसे॥ यथा शाल्वपते नान्यं वरं व्यामि कथंचन। त्वामृते पुरुषव्याघ्र तथा मूर्धानमालभे॥ न चान्यपूर्वा राजेन्द्र त्वामहं समुपस्थिता। सत्यं ब्रवीमि शाल्वैतत् सत्येनात्मानमालभे॥ भजस्व मां विशालाक्ष स्वयं कन्यामुपस्थिताम्। अनन्यपूर्वां राजेन्द्र त्वत्प्रसादाभिकाक्षिणीम्॥ तामेवं भाषमाणां तु शाल्व: काशिपते: सुताम्। अत्यजद् भरतश्रेष्ठ जीर्णां त्वचमिवोरगः॥ एवं बहुविधैर्वाक्यैर्याच्यमानस्तया नृपः। नाश्रद्दधच्छाल्वपतिः कन्यायां भरतर्षभ।॥ ततः सा मन्युनाऽऽविष्टा ज्येष्ठा काशिपतेः सुता। अब्रवीत् साश्रुनयना बाष्यविप्लुतया गिरा।॥ त्वया त्यक्ता गमिष्यामि यत्र तत्र विशाम्पते। तत्र मे गतयः सन्तु सन्तः सत्यं यथा ध्रुवम्॥ एवं तां भाषमाणां तु कन्यां शाल्वपतिस्तदा। परितत्याज कौरव्य करुणं परिदेवतीम्॥ गच्छ गच्छेति तां शाल्वः पुनः पुनरभाषत। बिभेमि भीष्मात् सुश्रोणि त्वं च भीष्मपरिग्रहः॥ एवमुक्ता तु सा तेन शाल्वेनादीर्घदर्शिना। निश्चक्राम पुराद् दीना रुदती कुररी यथा॥ भीष्म उवाच निष्क्रामन्ती तु नगराच्चिन्तयामास दुःखिता। पृथिव्यां नास्ति युवतिर्विषमस्थतरा मया॥ बन्धुभिर्विप्रहीणास्मि शाल्वेन च निराकृता। न च शक्यं पुनर्गन्तुं मया वारणसाह्वयम्॥ अनुज्ञाता तु भीष्मेण शाल्वमुद्दिश्य कारणम्। किं नु गर्हाम्यथात्मानमथ भीष्मं दुरासदम्॥ अथवा पितरं मूढं यो मेऽकार्षीत् स्वयंवरम्। मयाऽयं स्वकृतो दोषो याऽहं भीष्मरथात् तदा॥ प्रवृत्ते दारुणे युद्धे शाल्वार्थं नापतं पुरा। तस्येयं । ननिर्वृत्तिर्यदापन्नाऽस्मि मूढवत्॥ धिग् भीष्मं धिक् च मे मन्दं पितरं मूढचेतसम्। येनाहं वीर्यशुल्केन पण्यस्त्रीव प्रचोदिता॥ धिमां धिक् शाल्वराजानं धिग् धातारमथापि वा। येषां दुर्नीतभावे प्राप्ताऽस्यापदमुत्तमाम्॥ सर्वथा भागधेयानि स्वानि प्राप्नोति मानवः। अनयस्यास्य तु मुखं भीष्मः शान्तनवो मम॥ सा भीष्मे प्रतिकर्तव्यमहं पश्यामि साम्प्रतम्। तपसा वा युधा वाऽपि दुःखहेतुः स मतः॥ को नु भीष्मं युधा चेदुमुत्सहेत महीपतिः। एवं सा परिनिश्चित्य जगाम नगराद् बहिः॥ आश्रमं पुण्यशीलानां तापसानां महात्मनाम्। ततस्तामवसद् रात्रिं तापसैः परिवारिता॥ मे आचख्यौ च यथावृत्तं सर्वमात्मनि भारत। विस्तरेण महाबाहो निखिलेन शुचिस्मिता। हरणं च विसर्गं च शाल्वेन च विसर्जनम्॥ ततस्तत्र महानासीद् ब्राह्मणः संशितव्रतः। शैखावत्यस्तपोवृद्धः शास्त्रे चारण्यके गुरुः॥ आर्ती तामाह स मुनिः शैखावत्यो महातपाः। निःश्वसन्ती सती बालां दुःखशोकपरायणाम्॥ एवं गते तु किं भद्रे शक्यं कर्तुं तपस्विभिः। आश्रमस्थैर्महाभागे तपोयुक्तर्महात्मभिः॥ सा त्वेनमब्रवीद् राजन् क्रियतां मदनुग्रहः। प्राव्राज्यमहमिच्छामि तपस्तप्स्यामि दुश्चरम्॥ मयैव यानि कर्माणि पूर्वदेहे तु मूढया। कृतानि नूनं पापानि तेषामेतत् फलं ध्रुवम्॥ नोत्सहे तु पुनर्गन्तुं स्वजनं प्रति तापसाः। प्रत्याग्याता निरानन्दा शाल्वेन च निराकृता॥ उपदिष्टमिहेच्छामि तापस्यं वीतकल्मषाः। युष्माभिर्देवसंकाशैः कृपा भवतु वो मयि॥ स तामाश्वासयत् कन्यां दृष्टान्तागमहेतुभिः। सान्त्वयामास कार्यं च प्रतिजज्ञे द्विजैः सह॥ भीष्म उवाच ततस्ते तपासाः सर्वे कार्यवन्तोऽभवंस्तदा। तां कन्यां चिन्तयन्तस्ते किं कार्यमिति धर्मिणः॥ केचिदाहुः पितुर्वेश्म नीयतामिति तापसाः। केचिदस्मदुपालम्भे मतिं चक्रुर्हि तापसाः॥ केचिच्छाल्वपतिं गत्वा नियोज्यमिति मेनिरे। नेति केचिद् व्यवस्यन्ति प्रत्याख्याता हि तेन सा॥ एवं गते तु किं शक्यं भद्रे कर्तुं मनीषिभिः। पुनरूचुश्च तां सर्वे तापसाः संशितव्रताः॥ अलं प्रव्रजितेनेह भद्रे शृणु हितं वचः। इतो गच्छस्व भनं ते पितुरेव निवेशनम्॥ प्रतिपत्स्यति राजा स पिता ते यदनन्तरम्। तत्र वत्स्यसि कल्याणि सुखं सर्वगुणान्विता॥ न च तेऽन्या गतिाय्या भवेद् भद्रे यथा पिता। पतिर्वापि गतिर्नार्याः पिता वा वरवर्णिनि॥ गतिः पतिः समस्थाया विषमे च पिता गतिः। प्रव्रज्या हि सुदुःखेयं सुकुमार्या विशेषतः॥ राजपुत्र्याः प्रकृत्या च कुमार्यास्तव भामिनि। भद्रे दोषा हि विद्यन्ते बहवो वरवर्णिनि॥ आश्रमे वै वसन्त्यास्ते न भवेयुः पितुर्गुहे। ततस्त्वन्येऽब्रुवन् वाक्यं तापसास्तां तपस्विनीम्॥ त्वामिहैकाकिनी दृष्ट्वा निर्जने गहने वने। प्रार्थयिष्यन्ति राजानस्तस्मान्मैवं मनः कृथाः॥ अम्बोवाच न शक्यं काशिनगरं पुनर्गन्तुं पितुर्ग्रहान्। अवज्ञाता भविष्यामि बान्धवानां न संशयः॥ उषिताऽस्मि तथा बाल्ये पितुर्वेश्मनि तापसाः। नाहं गमिष्ये भद्रं वस्तत्र यत्र पिता मम। तपस्तप्तुमभीप्सामि तापसैः परिरक्षिता॥ यथा परेऽपि मे लोके न स्यादेवं महात्ययः। दौर्भाग्यं तापसश्रेष्ठास्तस्मात् तप्स्याम्यहं तपः॥ भीष्म उवाच इत्येवं तेषु विप्रेषु चिन्तयत्सु यथातथम्। राजर्षिस्तद् वनं प्राप्तस्तपस्वी होत्रवाहनः॥ ततस्ते तापसाः सर्वे पूजयन्ति स्म तं नृपम्। पूजाभिः स्वागताधाभिरासनेनोदकेन च॥ तस्योपविष्टस्य सतो विश्रान्तस्योपशृण्वतः। पुनरेव कथां चक्रुः कन्यां प्रति वनौकसः॥ अम्बायास्तां कथां श्रुत्वा काशिराज्ञश्च भारत। राजर्षिः स महातेजा बभूवोद्विग्नमानसः॥ पिता तदा। तां तथावादिनीं श्रुत्वा दृष्ट्वा च स महातपाः। राजर्षिः कृपयाऽऽविष्टो महात्मा होत्रवाहनः॥ स वेपमान उत्थाय मातुस्तस्याः तां कन्यामङ्कमारोप्य पर्यश्वासयत् प्रभो॥ स तामपृच्छत् कात्स्येन व्यसनोत्पत्तिमादितः। सा च तस्मै यथावृत्तं विस्तरेण न्यवेदयत्॥ ततः स राजर्षिरभूद् दुःखशोकसमन्वितः। कार्यः च प्रतिपेदे तन्मनसा सुमहातपाः॥ अब्रवीद् वेषमानश्च कन्यामाः सुदुःखितः। मा गाः पितुर्गृहं भद्रे मातुस्ते जनको ह्यहम्॥ दुःखं छिन्द्यामहं ते वै मयि वर्तस्व पुत्रिके। पर्याप्तं ते मनो वत्से यदेवं परिशुष्यसि॥ गच्छ मद्वचनाद् रामं जामदग्न्यं तपस्विनम्। रामस्ते सुमहद् दुःखं शोकं चैवापनेष्यति॥ हनिष्यति रणे भीष्मं न करिष्यति चेद् वचः। तं गच्छ भार्गवश्रेष्ठं कालाग्निसमतेजसम्॥ प्रतिष्ठापयिता स त्वां समे पथि महातपाः। ततस्तु सुखरं बाष्पमुत्सृजन्ती पुनः पुनः॥ अब्रवीत् पितरं मातुः सा तदा होत्रवाहनम्। अभिवादयित्वा शिरसा गमिष्ये तव शासनात्॥ अपि नामाद्य पश्येयमार्यं तं लोकविश्रुतम्। कथं च तीव्र दुःखं मे नाशयिष्यति भार्गवः। एतदिच्छाम्यहं ज्ञातुं यथा यास्यामि तत्र वै॥ अकृतव्रण उवाच दुःखद्वयमिदं भद्रे कतरस्य चिकीर्षसि। प्रतिकर्तव्यमबले तत् त्वं वत्से वदस्व मे॥ यदि सौभपतिर्भद्र नियोक्तव्यो मतस्तव नियोक्ष्यति महात्मा स रामस्त्वद्धितकाम्यया।॥ अथापगेयं भीष्मं त्वं रामेणेच्छसि धीमता। रणे विनिर्जितं द्रष्टुं कुर्यात् तदपि भार्गवः॥ सृञ्जयस्य वचः श्रुत्वा तव चैव शुचिस्मिते। यदत्र ते भृशं कार्यं तदद्यैव विचिन्त्यताम्॥ अम्बोवाच अपनीताऽस्मि भीष्मेण भगवन्नविजानता। नाभिजानाति मे भीष्मो ब्रह्मन् शाल्वगतं मनः॥ एतद् विचार्य मनसा भवानेतद् विनिश्चयम्। विचिनोतु यथान्यायं विधानं क्रियतां तथा॥ भीष्मे वा कुरुशार्दूले शाल्वराजेऽथवा पुनः। उभयोरेव वा ब्रह्मन् युक्त यत् तत् समाच॥ निवेदितं मया ह्येतद् दुःखमूलं यथातथम्। विधानं तत्र भगवन् कर्तुमर्हसि युक्तितः॥ अकृतव्रण उवाच उपपन्नमिदं भद्रे यदेवं वरवर्णिनि। धर्मं प्रति वचो ब्रूयाः शृणु चेदं वचो मम॥ यदि त्वामापगेयो वै न नयेद् गजसाह्वयम्। शाल्वस्त्वां शिरसा भीरु गृह्णीयाद् रामचोदितः॥ तेन त्वं निर्जिता भद्रे यस्मानीताऽसि भाविनि। संशयः शाल्वराजस्य तेन त्वयि सुमध्यमे॥ भीष्मः पुरुषमानी च जितकाशी तथैव च। युक्ता भीष्मे कारयितुं तव॥ अम्बोवाच ममाप्येष सदा ब्रह्मन् हृदि कामोऽमिवर्तते। घातयेयं यदि रणे भीष्ममित्येव नित्यदा॥ तस्मात् प्रतिक्रिया भीष्मं वा शाल्वराजं वा यं वा दोषेण गच्छसि। प्रशाधि तं महाबाहो यत्कृतेहं सुदुःखिता॥ भीष्म उवाच एवं कथयतामेव तेषां स दिवसो गतः। रात्रिश्च भरतश्रेष्ठ सुखशीतोष्णमारुता॥ ततो रामः प्रादुरासीत् प्रज्वलन्निव तेजसा। शिष्यैः परिवृतो राजन् जटाचीरधरो मुनिः॥ धनुष्पाणिरदीनात्मा खङ्गं बिभ्रत् परश्वधी। विरजा राजशार्दूल सृञ्जयं सोऽभ्ययानृपम्॥ ततस्तं तापसा दृष्ट्वा स च राजा महातपाः। तस्थुः प्राञ्चलयो राजन् सा च कन्या तपस्विनी॥ पूजयामासुरव्यचा मधुपर्केण भार्गवम्। अर्चितश्च यथान्यायं न पिसाद सहैव तैः॥ ततः पूर्वव्यतीतानि कथयन्तौ स्म तावुभौ। आसातां जामदग्न्यश्च सृञ्जयश्चैव भारत॥ तथा कथान्ते राजर्षि गुश्रेष्ठं महाबलम्। उवाच मधुरं काले रामं वचनमर्थवत्॥ रामेयं मम दौहित्री काशिराजसुता प्रभो। अस्याः शृणु यथातत्त्वं कार्यं कार्यविशारद॥ परमं कथ्यतां चेति तां रामः प्रत्यभाषत। तत: साभ्यगमद् रामं ज्वलन्तमिव पावकम्॥ ततोऽभिवाद्य चरणौ रामस्य शिरसा शुभौ। स्पृष्ट्वा पद्मदलामाभ्यां पाणिभ्यामग्रतः स्थिता॥ सरोद सा शोकवती बाष्पव्याकुललोचना। प्रपेदे शरणं चैव शरण्यं भृगुनन्दनम्॥ राम उवाच यथा त्वं सृञ्जयस्यास्य तथा मे त्वं नृपात्मजे। ब्रूहि यत् ते मनोदुःखं करिष्ये वचनं तव॥ अम्बोवाच भगवशरणं त्वाद्य प्रपन्नाऽस्मि महाव्रतम्। शोकपङ्कार्णवान्मग्नां घोरादुद्धर मां विभो॥ भीष्म उवाच तस्याश्च दृष्ट्वा रूपं च वपुश्चाभिनवं पुनः। सौकुमार्यं परं चैव रामश्चिन्तापरोऽभवत्॥ किमियं वक्ष्यतीत्येवं विममर्श भृगूद्वहः। इति दध्यौ चिरं रामः कृपयाभिपरिप्लुतः॥ कथ्यतामिति सा भूयो रामेणोक्ता शुचिस्मिता। सर्वमेव यथातत्त्वं कथयामास भार्गवे॥ तच्छ्रुत्वा जामदग्न्यस्तु राजपुत्र्या वचस्तदा। उवाच ता वरारोहां निश्चित्यार्थविनिश्चयम्॥ राम उवाच प्रेषयिष्यामि भीष्माय कुरुश्रेष्ठाय भाविनि। करिष्यति वचो मह्यं श्रुत्वा च स नराधिपः॥ न चेत् करिष्यति वचो मयोक्तं जाह्नवीसुतः। धक्ष्याम्यहं रणे भद्रे सामात्यं शस्त्रतेजसा॥ अथवा ते मतिस्तत्र राजपुत्रि न वर्तते। यावच्छाल्वपतिं वीरं योजनयाम्यत्र कर्माणि॥ अम्बोवाच विसर्जिताऽहं भीष्मेण श्रुत्वैव भृगुनन्दन। शाल्वराजगतं भावं मम पूर्वं मनीषितम्॥ सौमराजमुपेत्याहमवोचं दुर्वचं वचः। न च मां प्रत्यगृह्णात् स चारित्र्यपरिशङ्कितः॥ एतत् सर्वं विनिश्चित्य स्वबुद्ध्या भृगुनन्दन। यदत्रौपयिकं कार्यं तच्चिन्तयितुमर्हसि॥ मम तु व्यसनस्यास्य भीष्मो मूलं महाव्रतः। येनाहं वशमानीता समुक्षिप्य बलात् तदा॥ भीष्मं जहि महाबाहो यत्कृते दुःखमीदृशम्। प्राप्ताहं भृगुशार्दूल चराम्यप्रियमुत्तमम्॥ स हि लुब्धश्च नीचश्च जितकाशी च भार्गव। तस्मात् प्रतिक्रिया कर्तुं युक्ता तस्मै त्वयाऽघ॥ एष मे क्रियमाणाया भारतेन तदा विभो। अभवद्भदि संकल्पो घातयेयं महाव्रतम्॥ तस्मात् कामं ममायेमं राम सम्पादयानघ। जहि भीष्मं महाबाहो यथा वृत्रं पुरंदरः॥ भीष्म उवाच तमहं स्मयन्निव रणे प्रत्यभाष व्यवस्थितम्। भूमिष्ठं नोत्सहे योद्धं भवन्तं रथमास्थितः॥ आरोह स्यन्दनं वीर कवचं च महाभुजा बधान समरे राम यदि यो« मयेच्छसि॥ ततो मामब्रवीद् रामः स्मयमानो रणाजिरे। रथो मे मेदिनी भीष्म वाहा वेदाः सदश्ववत्॥ सूतश्च मातरिश्वा वै कवचं वेदमातरः। सुसंवीतो रणे ताभिर्योत्स्येऽहं कुरुनन्दन॥ एवं ब्रुवाणो गान्धारे रामो मां सत्यविक्रमः। शरवातेन महता सर्वतः प्रत्यवारयत्॥ ततोऽपश्यं जामदग्न्यं रथमध्ये व्यवस्थितम्। सर्वायुधवरे श्रीमत्यद्भुतोपमदर्शने॥ मनसा विहते पुण्ये विस्तीर्णे नगरोपमे। दिव्याश्चयुजि संनद्धे काञ्चनेन विभूषिते॥ कवचेन महाबाहो सोमार्ककृतलक्ष्मणा। धनुर्धरो बद्धतूणो बद्धगोधाङ्गलित्रवान्॥ सारथ्यं कृतवांस्त्र युयुत्सोरकृतव्रणः। सखा वेदविदत्यन्तं दयितो भार्गवस्य ह॥ आह्वयानः स मां युद्धे मनो हर्षयतीव मे। पुनः पुनरभिक्रोशन्नभियाहीति भार्गवः॥ तमादित्यमिवोद्यन्तमनाधृष्यं महाबलम्। क्षत्रियान्तकरं राममेकमेकः समासदम्॥ ततोऽहं बाणपातेषु त्रिषु वाहान् निगृह्य वै। अवतीर्यं धनुय॑स्य पदातिर्ऋषिसत्तमम्॥ अभ्यागच्छं तदा राममर्चिष्यन् द्विजसत्तमम्। अभिवाद्य चैनं विधिवदब्रुवं वाक्यमुत्तमम्॥ योत्स्ये त्वया रणे राम सदृशेनाधिकेन वा। गुरुणा धर्मशीलेन जयमाशास्व मे विभो॥ राम उवाच एवमेतत् कुरुश्रेष्ठ कर्तव्य भूतिमिच्छता! धर्मो ह्येष महाबाहो विशिष्टैः सह युध्यताम्॥ शपेयं त्वां न चेदेवमागच्छेथा विशाम्पते। युध्यस्व त्वं रणे यत्तो धैर्यमालम्ब्य कौरव॥ न तु ते जयमाशासे त्वां विजेतुमहं स्थितः। गच्छ युध्यस्व धर्मेण प्रीतोऽस्मि चरितेन ते॥ ततोऽहं तं नमस्कृत्य रथमारुह्य सत्वरः। प्राध्यापयं रणे शङ्ख पुनर्हेमपरिष्कृतम्॥ ततो युद्धं समभवन्मम तस्य च भारत। दिवसान् सुबहून् राजन् परस्परजिगीषया।॥ स मे तस्मिन् रणे पूर्वं प्राहरत् कङ्कपत्रिभिः। षष्ट्या शतैश्च नवभिः शराणां नतपर्वणाम्॥ चत्वारस्तेन मे वाहाः सूतश्चैव विशाम्पते। पर्तिरुद्धास्तथैवाहं समरे दंशितः स्थितः॥ नमस्कृत्य च देवेभ्यो ब्राह्मणेभ्यो विशेषतः। तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम्॥ ते आचार्यता मानिता मे निर्मर्यादे ह्यपि त्वयि। भूयश्च शृणु मे ब्रह्मन् सम्पदं धर्मसंग्रह।॥ ये ते वेदाः शरीरस्था ब्राह्मण्यं यच्च ते महत्। तपश्च महत् तप्तं न तेभ्यः प्रहराम्यहम्॥ प्रहरे क्षत्रधर्मस्य यं राम त्वं समाश्रितः। ब्राह्मणः क्षत्रियत्वं हि याति शस्त्रसमुद्यमात्॥ पश्य मे धनुषो वीर्यं पश्य बाह्वोर्बलं मम। एष ते कार्मुकं वीर छिनधि निशितेषुणा॥ तस्याहं निशितं मल्लं चिक्षेप भरतर्षभ। तेनास्य धनुषः कोटि छित्त्वा भूमावपातयम्॥ तथैव च पृषत्कानां शतानि नतपर्वणाम्। चिक्षेप कङ्कपत्राणां जामदग्न्यरथं प्रति॥ काये विषक्तास्तु तदा वायुना समुदीरिताः। चेलुः क्षरन्तो रुधिरं नागा इव च ते शराः॥ क्षतजोक्षितसर्वाङ्गः क्षरन् स रुधिरं रणे। बभौ रामस्तदा राजन् मेरुातुमिवोत्सृजन्॥ हेमन्तान्तेऽशोक एव रक्तस्तबकमण्डितः। बभौ रामस्तथा राजन् प्रफुल्ल इव किंशुकः॥ ततोऽन्यद् धनुरादाय रामः क्रोधसमन्वितः। हेमपुङ्कान् सुनिशिताशरांस्तान् हि ववर्ष सः॥ ते समासाद्य मां रौद्रा बहुधा मर्मभेदिनः। अकम्पयन् महावेगाः सर्पानलविषोपमाः॥ तमहं समवष्टभ्य पुनरात्मानमाहवे। शतसंख्यैः शरैः क्रुद्धस्तदा राममवाकिरम्॥ स तैरग्न्यर्कसंकाशैः शरैराशीविषोपमैः। शितैरभ्यर्दितो रामो मन्दचेता इवाभवत्॥ ततोऽहं कृपयाऽऽविष्टो विष्टभ्यात्मानमात्मना। धिग्धिगित्यब्रुवं युद्धं क्षत्रधर्मं च भारत॥ असकृच्चाब्रुवं राजन् शोकवेगपरिप्लुतः। अहो बत कृतं पापं मयेदं क्षत्रधर्मणा॥ गुरुर्द्विजातिधर्मात्मा यदेवं पीडितः शरैः। ततो न प्राहरं भूयो जामदग्न्याय भारत॥ अथावताप्य पृथिवीं पूषा दिवससंक्षये। जगामास्तं सहस्रांशुस्ततो युद्धमुपारमत्॥ भीष्म उवाच आत्मनस्तु ततः सूतो हयानां च विशाम्पते। मम चापनयामास शल्यान् कुशलसम्मतः॥ स्नातापवृत्तैस्तुरगैर्लब्धतोयैरविह्वलैः। प्रभाते चोदिते सूर्ये ततो युद्धमवर्तत॥ दृष्ट्वा मां तूर्णमायान्तं दंशितं स्यन्दने स्थितम्। अकरोद् रथमत्यर्थं रामः सज्ज प्रतापवान्॥ ततोऽहं राममायान्तं दृष्ट्वा समरकाक्षिणम्। धनुः श्रेष्ठं समुत्सृज्य सहसाऽवतरं स्थात्॥ अभिवाद्य तथैवाहं रथमारुह्य भारत। युयुत्सुर्जामदग्न्यस्य प्रमुखे वीतभी: स्थितः॥ ततोऽहं शरवर्षेण महता समवाकिरम्। स च मां शरवर्षेण वर्षन्तं समवाकिरत्॥ संक्रुद्धो जामदग्न्यस्तु पुनरेव सुतेजितान्। सम्प्रेषीन्मे शरान् घोरान् दीप्तास्यानुरगानिवा॥ ततोऽहं निशितैर्भल्लैः शतशोऽथ सहस्रशः। अच्छिदं सहसा राजन्नन्तरिक्षे पुनः पुनः॥ ततस्त्वस्त्राणि दिव्यानि जामदग्न्यः प्रतापवान्। मयि प्रयोजयामास तान्यहं प्रत्यषेधयम्॥ अस्त्रैरेव महाबाहो चिकीर्षनधिकां क्रियाम्। ततो दिवि महान् नादः प्रादुरासीत् समन्ततः॥ ततोऽहमस्त्रं वायव्यं जामदग्न्ये प्रयुक्तवान्। प्रत्याजघ्ने च तद् रामो गुह्यकास्त्रेण भारत॥ ततोऽहमस्त्रमाग्नेयमनुमन्त्र्य प्रयुक्तवान्। वारुणेनैव तद् रामो वारयामास मे विभुः॥ एवमस्त्राणि दिव्यानि रामस्याहमवारयम्। रामश्च मम तेजस्वी दिव्यास्त्रविदरिंदमः॥ ततो मां सव्यतो राजन् रामः कुर्वन् द्विजोत्तमः। उरस्यविध्यत् संक्रुद्धो जामदग्न्यः प्रतापवान्॥ ततोऽहं भरतश्रेष्ठ संन्यषीदं रथोत्तमे। ततो मां कश्मलाविष्टं सूतस्तूर्णमुदावहत्॥ ग्लायन्तं भरतश्रेष्ठ रामबाणप्रपीडितम्। ततो मामपयातं वै भृशं विद्धमचेतसम्॥ रामस्यानुचरा हृष्टाः सर्वे दृष्ट्वा विचुक्रुशुः। अकृतव्रणप्रभृतयः काशिकन्या च भारत॥ ततस्तु लब्धसंज्ञोऽहं ज्ञात्रा सूतमथाब्रुवम्। याहि सूत यतो राम; सज्जोऽहं गतवेदनः॥ ततो मामवहत् सूतो हयैः परमशोभितैः। नृत्यद्भिरिव कौरव्य मारुतप्रतिमैर्गतौ॥ ततोऽहं राममासाद्य बाणवर्षेच कौरव। अवाकिरं सुसंरब्धः संरब्धं च जिगीषया॥ तानापतत एवासौ रामो बाणानजिह्मगान्। बाणैरेवाच्छिनत् तूर्णमेकैकं त्रिभिराहवे।॥ ततस्ते सूदिताः सर्वे मम बाणाः सुसंशिताः। रामबाणैर्द्विधा छिन्नाः शतशोऽथ सहस्रशः॥ ततः पुनः शरं दीप्तं सुप्रभं कालसम्मितम्। असृजं जामदग्न्याय रामायाहं जिघांसया॥ तेन त्वभिहतो गाढं बाणवेगवशं गतः। मुमोह समरे रामो भूमौ च निपपात ह॥ ततो हाहाकृतं सर्वं रामे भूतलमाश्रिते। जगद् भारत संविग्नं यथार्कपतने भवेत्॥ तत एनं समुद्विग्नाः सर्व एवाभिदुद्रुवुः। तपोधनास्ते सहसा काश्या च कुरुनन्दन॥ तत एनं परिष्वज्य शनैराश्वासयंस्तदा। पाणिभिर्जलशीतैश्च जयाशीभिच कौरव॥ ततः स विह्वलं वाक्यं राम उत्थाय चाब्रवीत्। तिष्ठ भीष्म हतोऽसीति बाणं संधाय कार्मुके।॥ स मुक्तो न्यपतत् तूर्णं सव्ये पार्श्वे महाहवे। येनाहं भृशमुद्विग्नो व्याघूर्णित इव दुमः॥ हत्वा हयांस्ततो रामः शीघ्रास्त्रेण महाहवे। अवाकिरन्मां विस्रब्धो बाणैस्तैोमवाहिभिः॥ ततोऽहमपि शीघ्रास्त्रं समरप्रतिवारणम्। अवासृज महाबाहो तेऽन्तराधिष्ठिता: शराः॥ रामस्य मम चैवाशु व्योमावृत्य समन्ततः। न स्म सूर्यः प्रतपति शरजालसमावृतः॥ मातरिश्वा ततस्तस्मिन् मेघरुद्ध इवाभवत्। ततो वायोः प्रकम्पाच्च सूर्यस्य च गभस्तिभिः॥ अभिघातप्रभावाच्च पावकः समजायत। शराः स्वसमुत्थेन प्रदीप्ताचित्रभानुना॥ ते भूमौ सर्वे तदा राजन् भस्मभूताः प्रपेदिरे। तदा शतसहस्राणि प्रयुतान्यर्बुदानि च॥ अयुतान्यथ खर्वाणि निखर्वाणि च कौरव। रामः शराणां संक्रुद्धो मयि तूर्णं न्यपातयत्॥ ततोऽहं तानपि रणे शरैराशीविषोपमैः। संछिद्य भूमौ नृपते पातयेयं नगानिव॥ एवं तदभवद् युद्धं तदा भरतसत्तम। संध्याकाले व्यतीते तु व्यपायात् स च मे गुरुः॥ भीष्म उवाच ततः प्रभाते राजेन्द्र सूर्ये विमलतां गते। भार्गवस्य मया सार्धं पुनयुद्धमवर्तत॥ ततोऽभ्रान्ते रथे तिष्ठन् रामः प्रहरतां वरः। ववर्ष शरजालानि मयि मेघ इवाचले॥ ततः सूतो मम सुहच्छरवर्षेण ताडितः। अपयातो रथोपस्थान्मनो मम विषादयन्॥ ततः सूतो ममात्यर्थं कश्मलं प्राविशन्महत्। पृथिव्यां च शराघातानिपपात मुमोह च॥ ततः सूतोऽजहात् प्राणान् रामबाणप्रपीडितः। मुहूर्तादिव राजेन्द्र मां च भीराविशत् तदा॥ ततः सूते हते तस्मिन् क्षिपतस्तस्य मे शरान्। प्रमत्तमनसो रामः प्राहिणोन्मृत्युसम्मितम्॥ ततः सूतव्यसनिनं मां स भार्गवः। शरेणाभ्यहनन् गाढं विकृष्य बलवद्धनुः॥ स मे भुजान्तरे राजन् निपत्य रुधिराशनः। मयैव सह राजेन्द्र जगाम वसुधातलम्॥ मत्वा तु निहतं रामस्ततो मां भरतर्षभ। मेघवद् विननादोच्चैहषे च पुनः पुनः॥ तथा तु पतिते राजन् मयि रामो मुदा युतः। उदक्रोशन्महानादं सह तैरनुयायिभिः॥ मम तत्राभवन् ये तु कुरवः पार्श्वतः स्थिताः। आगता अपि युद्धं तज्जनास्तत्र दिदृक्षवः। आर्तिं परमिकां जग्मुस्ते तदा पतिते मयि॥ ततोऽपश्यं पतितो राजसिहं द्विजानष्टौ सूर्यहुताशनाभान्। परिवार्य तस्थुः स्वबाहुभिः परिधार्याजिमध्ये॥ रक्ष्यमाणश्च तैविप्रैर्नाहं भूमिमुपास्पृशम्। अन्तरिक्षे धृतो ह्यस्मि तैर्विप्रैर्बान्धवैरिव॥ श्वसन्निवान्तरिक्षे च जलबिन्दुभिरुक्षितः। ते मां समन्तात् ततस्ते ब्राह्मणा राजन्नब्रुवन् परिगृह्य माम्॥ मामैरिति समं सर्वे स्वस्ति तेऽस्त्विति चासकृत्। ततस्तेषामहं वाग्भिस्तर्पितः सहसोत्थितः। मातरं सरिता श्रेष्ठामपश्यं रथमास्थिताम्॥ हयाश्च मे संगृहीतास्तयासन् महानद्या संयति कौरवेन्द्र। पादौ जनन्याः प्रतिगृह्य चाहं तथा पितॄणां रथमभ्यरोहम्॥ ररक्ष सा मां सरथं हयाश्चोपस्कराणि च। तामहं प्राञ्जलिर्भूत्वा पुनरेव व्यसर्जयम्॥ ततोऽहं स्वयमुद्यम्य हयांस्तान् वातरंहसः। अयुध्यं जामदग्न्येन निवृत्तेऽहनि भारत॥ ततोऽहं भरतश्रेष्ठ वेगवन्तं महाबलम्। अमुचं समरे बाणं रामाय हृदयच्छिदम्॥ ततो जगाम वसुधां मम बाणप्रपीडितः। जानुभ्यां धनुरुत्सृज्य रामो मोहवशं गतः॥ ततस्तस्मिन् निपतिते रामे भूरिसहस्रदे। आवर्जलदा व्योम क्षरन्तो रुधिरं बहु॥ उल्काश्च शतश: पेतुः सनिर्घाता: सकम्पनाः। अर्कं च सहसा दीप्तं स्वर्भानुरभिसंवृणोत्॥ ववुश्च वाताः परुषाश्चलिता च वसुन्धरा। गृध्रा बलाच कङ्काश्च परिपेतुर्मुदा युताः॥ दीप्तायां दिशि गोमायुर्दारुणं मुहुरुन्नदत्। अनाहता दुन्दुभयो विनेदु शनि:स्वनाः॥ एतदौत्पातिकं सर्वं घोरमासीद् भयंकरम्। विसंज्ञकल्पे धरणीं गते रामे महात्मनि॥ ततो वै सहसोत्थाय रामो मामभ्यवर्तत। पुनयुद्धाय कौरव्य विह्वलः क्रोधमूर्छितः॥ आददानो महाबाहुः कार्मुकं तालसंनिभम्। ततो मय्याददानं त राममेव न्यवारयन्॥ महर्षयः कृपायुक्ताः क्रोधाविष्टोऽथ भार्गवः। स मेऽहरदमेयात्मा शरं कालानलोपमम्॥ ततो रविर्मन्दमरीचिमण्डलो जगामास्तं पांसुपुञ्जावगूढः। निशा व्यगाहत् सुखशीतमारुता ततो युद्धं प्रत्यवहारयावः॥ एवं राजन्नवहारो बभुव ततः पुनर्विमलेऽभूत् सुघोरम्। कल्यं कल्यं विंशतिं वै दिनानि तथैव चान्यानि दिनानि त्रीणि॥ भीष्म उवाच ततोऽहं निशि राजेन्द्र प्रणम्य शिरसा तदा। ब्राह्मणानां पितॄणां च देवतानां च सर्वशः॥ नक्तंचराणां भूतानां राजन्यानां विशाम्पते। शयनं प्राप्य रहिते मनसा समचिन्तयम्॥ जामदग्न्येन मे युद्धमिदं परमदारुणम्। अहानि च बहून्यद्य वर्तते सुमहात्ययम्॥ न च रामं महावीर्यं शक्नोमि रणमूर्धनि। विजेतुं समरे विप्रं जामदग्न्यं महाबलम्॥ यदि शक्यो मया जेतुं जामदग्न्यः प्रतापवान्। दैवतानि प्रसन्नानि दर्शयन्तु निशां मम॥ ततो निशि च राजेन्द्र प्रसुप्तः शरविक्षतः। दक्षिणेनेह पार्श्वन प्रभातसमये तदा।॥ ततोऽहं विप्रमुख्यैस्तैर्यैरस्मि पतितो रथात्। उत्थापितो धृतश्चैव मा भैरिति च सान्त्वितः॥ त एव मां महाराज स्वप्नदर्शनमेत्य वै। परिवार्याब्रुवन् वाक्यं तन्निबोध कुरूद्वह॥ उत्तिष्ठ मा भैर्गाङ्गेय न भयं तेऽस्ति किंचन। रक्षामहे त्वां कौरव्य स्वशरीरं हि नो भवान्॥ न त्वां रामो रणे जेता जामदग्न्यः कथंचन। त्वमेव समरे रामं विजेता भरतर्षभ॥ इदमस्त्रं सुदयितं प्रत्यभिज्ञास्यते भवान्। विदितं हि तवाप्येतत् पूर्वस्मिन् देहधारणे॥ प्राजापत्यं विश्वकृतं प्रस्वापं नाम भारत। न हीदं वेद रामोऽपि पृथिव्यां वा पुमान् क्वचित्।।१२ तत् स्मरस्व महाबाहो भृशं संयोजयस्व च। उपस्थास्यति राजेन्द्र स्वयमेव तवानघ॥ येन सर्वान् महावीर्यान् प्रशासिष्यसि कौरव। न च रामः क्षयं गन्ता तेनास्त्रेण नराधिप॥ एनसा न तु संयोग प्राप्स्यसे जातु मानद। स्वप्स्यते जामदग्न्योऽसौ त्वद्वाणबलपीडितः॥ ततो जित्वा त्वमेवैनं पुनरुत्थापयिष्यसि। अस्त्रेण दयितेनाजो भीष्म सम्बोधनेन वै॥ एवं कुरुष्व कौरव्य प्रभाते रथमास्थितः। प्रसुप्तं वा मृतं वेति तुल्यं मन्यामहे वयम्॥ न च रामेण मर्तव्यं कदाचिदपि पार्थिव। ततः समुत्पन्नमिदं प्रस्वापं युज्यतामिति॥ इत्युक्त्वाऽतर्हिता राजन् सर्व एव द्विजोत्तमाः। अष्टौ सदृशरूपास्ते सर्वे भासुरमूर्तयः॥ भीष्म उवाच ततो हलहलाशब्दो दिवि राजन् महानभूत्। प्रस्वापं भीष्म मा स्राक्षीरिति कौरवनन्दन॥ अयुञ्जमेव चैवाहं तदस्त्रं भृगुनन्दने। प्रस्वापं मां प्रयुञ्जानं नारदो वाक्यमब्रवीत्॥ एते वियति कौरव्य दिवि देवगणाः स्थिताः। ते त्वां निवारयन्त्यद्य प्रस्वापं मा प्रयोजयः॥ रामस्तपस्वी ब्रह्मण्यो ब्राह्मणश्च गुस्थं ते। तस्यावमानं कौरव्य मा स्म कार्षीः कथंचन॥ ततोऽपश्यं दिविष्ठान् वै तानष्टौ ब्रह्मवादिनः। ते मां स्मयन्तो राजेन्द्र शनकैरिदमब्रुवन्॥ यथाऽऽह भरतश्रेष्ठ नारदस्तत् तथा कुरु। एतद्धि परमं श्रेयो लोकानां भरतर्षभ॥ ततश्च प्रतिसंहृत्य तदस्त्रं स्वापनं महत्। ब्रह्मास्त्रं दीपयांचक्रे तस्मिन् युधि यथाविधि॥ ततो रामो हृषितो राजसिंह दृष्ट्वा तदस्त्रं विनिवर्तितं वै।। रित्येव वाक्यं सहसा व्यमुञ्चत्॥ ततोऽपश्यत् पितरं जामदग्न्यः पितुस्तथा पितरं चास्य मान्यम्। रूचुश्चैनं सान्त्वपूर्व तदानीम्॥ पितर ऊचुः मा स्मैवं साहसं तात पुनः कार्षीः कथंचना भीष्मेण संयुगं गन्तुं क्षत्रियेण विशेषतः॥ क्षत्रियस्य तु धर्मोऽयं यद् युद्धं भृगुनन्दन। स्वाध्यायो व्रतचर्याऽथ ब्राह्मणानां परं धनम्॥ इदं निमित्ते कस्मिंश्चिदस्माभिः प्रागुदाहृतम्। शस्त्रधारणमत्युगं तच्चाकार्यं कृतं त्वया॥ वत्स पर्याप्तमेतावद् भीष्मेण सह संयुगे। विमर्दस्ते महाबाहो व्यपयाहि रणादितः॥ पर्याप्तमेतद् भद्रं ते तव कार्मुकधारणम्। विसर्जयैतद् दुर्धर्ष तपस्तप्यस्व भार्गव॥ एष भीष्मः शान्तनवो देवैः सर्वैर्निवारितः। निवर्तस्व रणादस्मादिति चैव प्रसादितः॥ रामेण सह मा योत्सीगुरुणेति पुनः पुनः। न हि रामो रणे जेतुं त्वया न्याय्यः कुरूद्वह॥ मानं कुरुष्व गाड्नेय ब्राह्मणस्य रणाजिरे। वयं तु गुरवस्तुभ्यं तस्मात् त्वां वारयामहे॥ भीष्मो वसूनामन्यतमो दिष्ट्या जीवसि पुत्रका गाङ्गेयः शान्तनोः पुत्रो वसुरेष महायशाः॥ कथं शक्यस्त्वया जेतुं निवर्तस्वेह भार्गव। अर्जुनः पाण्डवश्रेष्ठः पुरंदरसुतो बली॥ नरः प्रजापतिर्वीरः पूर्वदेवः सनातनः। सव्यसाचीति विख्यातस्त्रिषु लोकेषु वीर्यवान्। भीष्ममृत्युर्यथाकालं विहितो वै स्वयम्भुवा॥ भीष्म उवाच एवमुक्तः स पितृभिः पितॄन् रामोऽब्रवीदिदम्। नाहं युधि निवर्तेयमिति मे व्रतमाहितम्॥ न निवर्तितपूर्वश्च कदाचिद् रणमूर्धनि) निवर्त्यतामापगेयः कामं युद्धात् पितामहाः॥ न त्वहं विनिवर्तिष्ये युद्धादस्मात् कथंचन। ततस्ते मुनयो राजनृचीकप्रमुखास्तदा॥ नारदेनैव सहिताः समागम्येदमब्रुवन्। निवर्तस्व रणात् तात मानयस्व द्विजोत्तमम्॥ इत्यवोचमहं तांश्च क्षत्रधर्मव्यपेक्षया। मम व्रतमिदं लोके नाहं युद्धात् कदाचन॥ विमुखो विनिवर्तेयं पृष्ठतोऽभ्याहतः शरैः। नाहं लोभान्न कार्पण्यान्न भयानार्थकारणात्॥ त्यजेयं शाश्वतं धर्ममिति मे निश्चिता पतिः। सर्वे नारदप्रमुखा नृप।॥ भागीरथी च मे माता रणमध्यं प्रपेदिरे। तथैवात्तशरो धन्वी तथैव दृढनिश्चयः। स्थिरोऽहमाहवे योद्ध ततस्ते राममब्रुवन्॥ समरे भृगुनन्दनम्। नावनीतं हि हृदयं विप्राणां शाम्य भार्गव॥ राम राम निवर्तस्व युद्धादस्माद् द्विजोत्तम। अवध्यो वै त्वया भीष्यस्त्वं च भीष्मस्य भार्गव॥ ततस्ते मुनयः समेत्य सहिता भूयः एवं ब्रुवन्तस्ते सर्वे प्रतिरुथ्य रणाजिरम्। न्यासयांचक्रिरे शस्त्रं पितरो भृगुनन्दनम्॥ ततोऽहं पुनरेवायथ तानष्टौ ब्रह्मवादिनः। अद्राक्षं दीप्यमानान् वै ग्रहानष्टाविवोदितान्॥ ते मां सप्रणयं वाक्यमब्रुवन् समरे स्थितम्। प्रैहि रामं महाबाहो गुरुं लोकहितं कुरु॥ दृष्ट्वा निवर्तितं रामं सुहृद्वाक्येन तेन वै। लोकानां च हितं कुर्वन्नहमप्याददे वचः॥ ततोऽहं राममासाद्य ववन्दे भृशविक्षतः। रामश्चाभ्युत्स्मयन् प्रेम्णा मामुवाच महातपाः॥ त्वत्समो नास्ति लोकेऽस्मिन् क्षत्रियः पृथिवीचरः। गम्यतां भीष्म युद्धेऽस्मिंस्तोषितोऽहं भृशं त्वया॥ मम चैव समक्षं तां कन्यामाहूय भार्गवः। उक्तवान् दीनया वाचा मध्य तेषां महात्मनाम्॥ राम उवाच प्रत्यक्षमेतल्लोकानां सर्वेषामेव भाविनि। यथाशक्त्या मया युद्धं कृतं वै पौरुषं परम्॥ न चैवमपि शक्नोमि भीष्मं शस्त्रभृतां वरम्। विशेषयितुमत्यर्थमुत्तमास्त्राणि दर्शयन्॥ एषा मे परमा शक्तिरेतन्मे परमं बलम्। यथेष्टं गम्यतां भद्रे किमन्यद् वा करोमि ते॥ भीष्ममेव प्रपद्यस्व न तेऽन्या विद्यते गतिः। निर्जितो ह्यस्मि भीष्मेण महास्त्राणि प्रमुञ्चता॥ एवमुक्त्वा ततो रामो विनिःश्वस्य महामनाः। तूष्णीमांसीत् ततः कन्या प्रोवाच भृगुनन्दनम्॥ भगवन्नेवमेवैतद् यथाऽऽहं भगवांस्तथा। अजेयो युधि भीष्मोऽयमपि देवरुदारधीः॥ यथाशक्ति यथोत्साहं मम कार्यं कृतं त्वया। अनिवार्य रणे वीर्यमस्त्राणि विविधानि च।॥ न चैव शक्यते युद्धे विशेषयितुमन्ततः। न चाहमेनं यास्यामि पुनर्भीष्मं कथंचन॥ गमिष्यामि तु तत्राहं यत्र भीष्मं तपोधन। समरे पातयिष्यामि स्वयमेव भृगूद्वह॥ एवमुक्त्वा ययौ कन्या रोषव्याकुललोचना। तापस्ये धृतसंकल्या सा मे चिन्तयती वधम्॥ ततो महेन्द्रं सह तैर्मुनिभिर्भृगुसत्तमः। यथाऽऽगतं तथा सोऽगान्मामुपामन्त्र्य भारत॥ ततो रथं समारुह्य स्तूयमानो द्विजातिभिः। प्रविश्य नगरं मात्रे सत्यवत्यै न्यवेदयम्॥ यथावृत्तं महाराज सा च मां प्रत्यनन्दत। पुरुषांश्चादिशं प्राज्ञान् कन्यावृत्तान्तकर्मणि॥ दिवसे दिवसे ह्यस्या गतिजल्पितचेष्टितम्। प्रत्याहरंश्च मे युक्ताः स्थिताः प्रियहिते सदा॥ यदैव हि वनं प्रायात् सा कन्या तपसे धृता। तदैव व्यतितो दीनो गतचेता इवाभवम्॥ न हि मां क्षत्रियः कश्चिद् वीर्येण व्यजयद् युधि। ऋते ब्रह्मविदस्तात तपसा संशितव्रतात्॥ अपि चैतन्मया राजन् नारदेऽपि निवेदितम्। व्यासे चैव तथा कार्यं तौ चोभौ मामवोचताम्॥ न विषादस्त्वया कार्यो भीष्म काशिसुतां प्रति। दैवं पुरुषकारेण को निवर्तितुमुत्सहेत्॥ सा कन्या तु महाराज प्रविश्याश्रममण्डलम्। यमुनातीरमाश्रित्य तपस्तेपेऽतिमानुषम्।॥ निराहारा कृशा सक्षा जटिला मलपङ्किनी। षण्मासान् वायुभक्षा च स्थाणुभूता तपोधना॥ यमुनाजलमाश्रित्य संवत्सरमथापरम्। उदवासं निराहारा पारयामास भाविनी॥ शीर्णपणेन चैकेन पारयामास सा परम्। संवत्सरं तीव्रकोपा पादाङ्गुष्ठाग्रधिष्ठिता॥ एवं द्वादश वर्षाणि तापयामास रोदसी। निवर्त्यमानापि च सा ज्ञातिभि:व शक्यते॥ ततोऽगमद् वत्सभूमि सिद्धचारणसेविताम्। आश्रमं पुण्यशीलानां तापसानां महात्मनाम्॥ तत्र पुण्येषु तीर्थेषु साऽऽप्लुताङ्गी दिवानिशम्। व्यचरत् काशिकन्या सा यथाकामविचारिणी॥ नन्दाश्रमे महाराज तथोलकाश्रमे शुभे। च्यवनस्याश्रमे चैव ब्रह्मणः स्थान एव च॥ प्रयागे देवजयने देवारण्येषु चैव ह। भोगवत्यां महाराज कौशिकस्याश्रमे तथा॥ माण्डव्यस्याश्रमे राजन् दिलीपस्याश्रमे तथा। रामहदे च कौरव्य पैलगर्गस्य चाश्रमे॥ एतेषु तीर्थेषु तदा काशिकन्या विशाम्पते। आप्लावयत गात्राणि व्रतमास्थाय दुष्करम्॥ तामव्रवीच्च कौरव्य मम माता जले स्थिता। किमर्थं क्लिश्यसे भद्रे तथ्यमेव वदस्व मे॥ सैनामथाब्रवीद् राजन् कृताञ्जलिरनिन्दिता। भीष्मेण समरे रामो निर्जितश्चारुलोचने।॥ कोऽन्यस्तमुत्सहेज्जेतुमुद्यतेषु महीपतिः। साहं भीष्मविनाशाय तपस्तप्स्ये सुदारुणम्॥ विचरामि महीं देवि यथा हन्यामहं नृपम्। एतद् व्रतफलं देवि परमस्मिन् यथा हि मे॥ ततोऽब्रवीत् सागरगा जिह्यं चरसि भाविनि। नैष कामोऽनवद्याङ्गि शक्यः प्राप्तुं त्वयाऽबले॥ यदि भीष्मविनाशाय काश्ये चरसि वै व्रतम्। व्रतस्था च शरीरं त्वं यदि नाम विमोक्ष्यसि।॥ नदी भविष्यसि शुभे कुटिला वार्षिकोदका। दुस्तीर्था न तु विज्ञेया वार्षिकी नाष्टमासिकी॥ भीमग्राहवती घोरा सर्वभूतभयङ्करी। एवमुक्त्वा ततो राजन् काशिकन्यां न्यवर्तत॥ माता मम महाभागा स्मयमानेव भाविनी। कदाचिदष्टमे मासि कदाचिद् दशमे तथा। न प्राश्नीतोदकमिप पुनः सा वरवर्णिनी॥ सा वत्सभूमि कौरव्य तीर्थलोभात् ततस्ततः। पतिता परिधावन्ती पुनः काशिपतेः सुता॥ सा नदी वत्सभूम्यां तु प्रथिताम्बेति भारत। वार्षिकी चाहबहुला दुस्तीर्था कुटिला तथा॥ सा कन्या तपसा तेन देहार्धेन व्यजायत। नदी च राजन् वत्सेषु कन्या चैवाभवत् तदा॥ भीष्म उवाच ततस्ते तापसाः सर्वे तपसे धृतनिश्चयाम्। दृष्ट्वा न्यवर्तयंस्तात् किं कार्यमिति चाब्रुवन्॥ तानुवाच ततः कन्या तपोवृद्धानृषीस्तदा। निराकृतास्मि भीष्मेण भ्रंशिता पतिधर्मतः॥ वधार्थं तस्य दीक्षा मे न लोकार्थं तपोधनाः। निहत्य भीष्मं गच्छेयं शान्तिमित्येव निश्चयः॥ यत्कृते दुःखवसतिमिमां प्राप्तास्मि शाश्वतीम्। पतिलोकाद् विहीना च नैव स्त्री न पुमानिह॥ नाहत्वा युधि गाङ्गेयं निवर्तिध्ये तपोधनाः। एष मे हृदि संकल्पो यदिदं कथितं मया।॥ स्त्रीभावे परिनिर्विण्णा पुंस्त्वार्थं कृतनिश्चया। भीष्मे प्रतिचिकीर्षामि नास्मि वार्येति वै पुनः॥ तां देवो दर्शयामास शूलपाणिरुमापतिः। मध्ये तेषां महर्षीणां स्वेन रूपेणा तापसीम्॥ छन्द्यमाना वरेणाथ सा वने मत्पराजयम्। हनिष्यसीति तां देवः प्रत्युवाच मनस्विनीम्॥ ततः सा पुनरेवाथ कन्या रुद्रमुवाच हा उपपद्येत कथं देव स्त्रिया युधि जयो मम॥ स्त्रीभावेन च मे गाढं मनः शान्तमुमापते। प्रतिश्रुतश्च भूतेश त्वया भीष्मपराजयः॥ यथा स सत्यो भवति तथा कुरु वृषध्वज। यथा हन्यां समागम्य भीष्मं शान्तनवं युधि॥ तामुवाच महादेवः कन्यां किल वृषध्वजः। न मे वागनृतं प्राह सत्य भद्रे भविष्यति॥ हनिष्यासि रणे भीष्मं पुरुषत्वं च लप्स्यसे। स्मरिष्यसि च तत् सर्वं देहमन्यं गता सती॥ दुपदस्य कुले जाता भविष्यसि महारथः। शीघ्रास्त्रश्चित्रयोधी च भविष्यसि सुसम्मतः॥ यथोक्तमेव कल्याणि सर्वमेतद् भविष्यति। भविष्यसि पुमान् पश्चात् कस्माच्चित्कालपर्ययात्॥ एवमुक्त्वा महादेवः कपर्दी वृषभध्वजः। पश्यतामेव विप्राणां तत्रैवान्तरधीयत॥ ततः सा पश्यतां तेषां महर्षीणामनिन्दिता। समाहृत्य वनात् तस्मात् काष्ठानि वरवर्णिनी॥ चितां कृत्वा सुमहतीं प्रदाय च हुताशनम्। प्रदीप्तेऽग्नौ महाराज रोषदीप्तेन चेतसा॥ उक्त्वा भीष्मवधायेति प्रविवेश हुताशनम्। ज्येष्ठा काशिसुता राजन् यमुनामभितो नदीम्॥ दुर्योधन उवाच कथं शिखण्डी गाङ्गेय कन्या भूत्वा पुरा तदा। पुरुषोऽभूद् युधिश्रेष्ठ तन्मे ब्रूहि पितामह॥ भीष्म उवाच भार्या तु तस्य राजेन्द्र दुपदस्य महीपतेः। महिषी दयिता ह्यासीदपुत्रा च विशाम्पते।॥ एतस्मिन्नेव काले तु दुपदो वै महीपतिः। अपत्यार्थ महाराज तोषयामास शङ्करम्॥ अस्मद्वधार्थ निश्चित्य तपो घोरं समास्थितः। ऋते कन्यां महादेव पुत्रो मे स्यादिति ब्रुवन्॥ भगवन् पुत्रमिच्छामि भीष्मं प्रतिचिकीर्षया। इत्युक्तो देवदेवेन स्त्रीपुमांस्ते भविष्यति॥ निवर्तस्व महीपाल नैतज्जात्वन्यथा भवेत्। स तु गत्वा न नगरं भार्यामिदमुवाच ह॥ कृतो यत्नो महादेवस्तपसाऽऽराधितो मया। कन्या भृत्वा पुमान् भावी इति चोक्तोऽस्मि शम्भुना।।७। पुनः पुनर्याच्यमानो दिष्टमित्यब्रवीच्छिवः। न तदन्यच्च भविता भवितव्यं हि तत् तथा॥ ततः सा नियता भूत्वा ऋतुकाले मनस्विनी। पत्नी दुपदराजस्य दुपदं प्रविवेश ह॥ लेभे गर्भ यथाकालं विधिदृष्टेन कर्मणा। पार्षतस्य महीपाल यथा मां नारदोऽब्रवीत्॥ ततो दधार सा देवी गर्भ राजीवलोचना। तां स राजा प्रियां भार्यां दुपदः कुरुनन्दन॥ पुत्रस्नेहान्महाबाहुः सुखं पर्यचरत् तदा। सर्वानभिप्रायकृतान् भार्याऽलभत कौरव॥ अपुत्रस्य सतो राज्ञो दुपदस्य महीपतेः। यथाकालं तु सा देवी महिषी दुपदस्य ह॥ कन्यां प्रवररूपां तु प्राजायत नराधिपा अपुत्रस्य तु राज्ञः सा दुपदस्य मनस्विनी॥ ख्यापयामास राजेन्द्रं पुत्रो ह्येष ममेति वै। ततः स राजा द्रुपदः प्रच्छन्नाया नराधिप॥ पुत्रवत् पुत्रकार्याणि सर्वाणि समकारयत्। रक्षणं चैव मन्त्रस्य महिषी द्रुपदस्य सा॥ चकार सर्वयत्नेन ब्रुवाणा पुत्र इत्युत। न च तां वेद नगरे कश्चिदन्यत्र पार्षतात्॥ श्रद्दधानो हि तद्वाक्यं देवस्याच्युततेजसः। छादयामास तां कन्यां पुमानिति च सोऽब्रवीत्॥ जातकर्माणि सर्वाणि कारयामास पार्थिवः। पुंवद्विधानयुक्तानि शिखण्डीति च तां विदुः॥ अहमेकस्तु चारेण वचनान्नारदस्य च। ज्ञातवान् देववाक्येन अम्बायास्तपसा तथा॥ भीष्म उवाच चकार यत्नं द्रुपदः सुतायाः सर्वकर्मसु। ततो लेख्यादिषु तथा शिल्पेषु च परंतप॥ इष्वस्त्रे चैव राजेन्द्र द्रोणशिष्यो बभूव ह। तस्य माता महाराज राजानं वरवर्णिनी॥ चोदयामास भार्यार्थं कन्यायाः पुत्रवत् तदा। ततस्तां पार्षतो दृष्ट्वा कन्यां सम्प्राप्तयौवनाम्। स्त्रियं मत्वा ततश्चिन्तां प्रपेदे सह भार्यया॥ दुपद उवाच कन्या ममेयं सम्प्राप्ता यौवनं शोकवर्धिनी। मया प्रच्छादिता चेयं वचनाच्छूलपाणिनः॥ भार्योवाच न तन्मिथ्या महाराज भविष्यति कथंचन। त्रैलोक्यकर्ता कस्माद्धि वृथा वक्तुमिहार्हति॥ यदि ते रोचते राजन् वक्ष्यामि शृणु मे वचः। श्रुत्वेदानीं प्रपद्येथाः स्वां मतिं पृषतात्मज॥ क्रियतामस्य यत्नेन विधिवद् दारसंग्रहः। भविता तद्वचः सत्यमिति मे निश्चिता मतिः॥ ततस्तौ निश्चयं कृत्वा तस्मिन् कार्येऽथ दम्पती। वरयांचक्रतुः कन्यां दशार्णाधिपतेः सुताम्॥ ततो राजा द्रुपदो राजसिंहः सर्वान् राज्ञः कुलतः संनिशाम्य। दशार्णकस्य नृपतेस्तनूजां शिखण्डिने वरयामास दारान्॥ हिरण्यवर्मेति नृपो योऽसौ दाशार्णकः स्मृतः। स च प्रादान्महीपालः कन्यां तस्मै शिखण्डिने।॥ स च राजा दशार्णेषु महानासीत् सुदुर्जयः। हिरण्यवर्मा दुर्धर्षो महासेनो महामनाः॥ कृते विवाहे तु तदा सा कन्या राजसत्तम! यौवनं समनुप्राप्ता सा च कन्या शिखण्डिनी॥ कृतदारः शिखण्डी च काम्पिल्यं पुनरागमत्। ततः सा वेद तां कन्या कञ्चित् कालं स्त्रियं किल॥१३ हिरण्यवर्मणः कन्या ज्ञात्वा तां तु शिखण्डिनीम्। धात्रीणां च सखीनां च वीडमाना न्यवेदयत्। कन्यां पञ्चालराजस्य सुतां तां वै शिखण्डिनीम्॥ ततस्ता राजशार्दूल धात्र्यो दाशार्णिकास्तदा। जग्मुरार्ति परां प्रेष्याः प्रेषयामासुरेव च॥ ततो दशार्णाधिपतेः प्रेष्याः सर्वा न्यवेदयन्। विप्रलम्भं यथावृत्तं स च चुक्रोध पार्थिवः॥ शिखण्ड्यपि महाराज पुंवद् राजकुले तदा। विजहार मुदा युक्तः स्त्रीत्वं नैवातिरोचयन्॥ ततः कतिपयाहस्य तच्छ्रुत्वा भरतर्षभ। हिरण्यवर्मा राजेन्द्र रोषादार्ति जगाम ह॥ ततो दाशार्णको राजा तीव्रकोपसमन्वितः। दूतं प्रस्थापयामास दुपदस्य निवेशनम्॥ ततो द्रुपमासाद्य दूतः काञ्चनवर्मणः। एक एकान्तमुत्सार्य रहो वचनमब्रवीत्॥ दाशार्णराजो राजंस्त्वामिदं वचनमब्रवीत्। अभिषङ्गात् प्रकुपितो विप्रलब्धस्त्वयाऽघ॥ अवमन्यसे मां नृपते नूनं दुर्मन्त्रितं तव। यन्मे कन्यां स्वकन्यार्थते मोहाद् याचितवानसि॥ तस्याद्य विप्रलम्भस्य फलं प्राप्नुहि दुर्मते। एष त्वा सजनामात्यमुद्धरामि स्थिरो भव॥ भीष्य उवाच ततः शिखण्डिनो माता यथातत्त्वं नराधिप। आचचक्षे महाबाहो भर्ने कन्यां शिखण्डिनीम्॥ अपुत्रया मया राजन् सपत्नीनां भयादिदम्। कन्या शिखण्डिनी जाता पुरुषो वै निवेदिता॥ त्वया चैव नरश्रेष्ठ तन्मे प्रीत्यानुमोदितम्। पुत्रकर्म कृतं चैव कन्यायाः पार्थिवर्षभ॥ भार्या चोढा त्वया राजन् दशार्णाधिपतेः सुता। मया च प्रत्यभिहितं देववाक्यार्थदर्शनात्। कन्या भूत्वा पुमान् भावीत्येवं चैतदुपेक्षितम्॥ एतच्छ्रुत्वा दुपदो यज्ञसेनः सर्वं तत्त्वं मन्त्रविद्भयो निवेद्या मन्त्रं राजा मन्त्रयामास राजन् यथायुक्तं रक्षणे वै प्रजानाम्॥ सम्बन्धकं चैव समर्थ्य तस्मिन् दाशार्णके वै नृपतौ नरेन्द्र। काग्रो निश्चयं वै जगाम॥ स्वभावगुप्तं नगरमापत्काले तु भारत। गोपयामास राजेन्द्र सर्वत: समलंकृतम्॥ आर्ति च परमां जगाम सह भार्यया। दशार्णपतिना सार्धं विरोधे भरतर्षभ। टा कथं सम्बन्धिना सार्धं न मे स्याद् विग्रहो महान्। इति संचिन्त्य मनसा देवतामर्चयत् तदा॥ तं तु दृष्ट्वा तदा राजन् देवी देवपरं तदा। अर्चा प्रयुञ्जानमथो भार्या वचनमब्रवीत्॥ देवानां प्रतिपत्तिश्च सत्या साधुमता सताम्। किमु दुःखार्णवं प्राप्य तस्मादर्चयतां गुरून्॥ दैवतानि च सर्वाणि पूज्यन्तां भूरिदक्षिणम्। अग्नयश्चापि हूयन्तां दाशार्णप्रतिषेधने॥ अयुद्धेन निवृत्तिं च मनसा चिन्तय प्रभो। देवतानां प्रसादेन सर्वमेतद् भविष्यति॥ मन्त्रिभिर्मन्त्रितं सार्धं त्वया पृथुललोचना पुरस्यास्याविनाशाय यच्च राजंस्तथा कुरु॥ दैवं हि मानुषोपेतं भृशं सिद्ध्यति पार्थिव। परस्परविरोधाद्धि सिद्धिरस्ति न चैतयोः॥ तस्माद् विधाय नगरे विधानं सचिवैः सह। अर्चयस्व यथाकामं दैवतानि विशाम्पते॥ एवं संभाषमाणौ तु दृष्ट्वा शोकपरायणौ। शिखण्डिनी तदा कन्या वीडितेव तपस्विनी॥ ततः सा चिन्तयामास मत्कृते दुःखितावुभौ। इमाविति ततश्चक्रे मतिं प्राणविनाशने।॥ एवं सा निश्चयं कृत्वा भृशं शोकपरायणा। निर्जगाम गृहं त्यक्त्वा गहनं निर्जनं वनम्॥ यक्षेणमिता राजन् स्थूणाकर्णेन पालितम्। तद्भयादेव च जनो विसर्जयति तद् वनम्॥ तत्र च स्थूणभवनं सुधामृत्तिकलेपनम्। ताजोल्लापिकधूमाढ्यमुच्चप्राकारतोरणम्॥ तत् प्रविश्य शिखण्डी सा दुपदस्यात्मजा नृप। अनश्नाना बहुतिथं शरीरमुदशोषयत्॥ दर्शयामास तां यज्ञः स्थूणो मार्दवसंयुतः। किमर्थोऽयं तवारम्भः करिष्ये ब्रूहि मा चिरम्॥ अशक्यमिति सा यक्षं पुनः पुनरुवाच ह। करिष्यामीति वै क्षिप्रं प्रत्युवाचाथ गुह्यकः॥ धनेश्वरस्यानुचरों वरदोऽस्मि नृपात्मजे। अदेयमपि दास्यामि ब्रूहि यत् ते विवक्षितम्॥ ततः शिखण्डी तत् सर्वमखिलेन न्यवेदयत्। तस्मै यक्षप्रधानाय स्थूणाकर्णाय भारत॥ शिखण्डिन्युवाच अपुत्रो मे पिता यक्ष न चिरान्नाशमेष्यति। अभियास्यति सक्रोधो दशार्णधिपतिर्हि तम्॥ महाबलो महोत्साहः सहेमकवचो नृपः। तस्माद् रक्षस्व मां यक्षं मातरं पितरं च मे॥ प्रतिज्ञातो हि भवता दुःखप्रतिशमो मम। भवेयं पुरुषो यक्ष त्वत्प्रसादादनिन्दितः॥ यावदेव स राजा वै नोपयाति पुरं मम। तावदेव महायक्ष प्रसादं कुरु गुह्यकः॥ भीष्म उवाच शिखण्डिवाक्यं श्रुत्वाऽथ स यक्षो भरतर्षभ। प्रोवाच मनसा चिन्त्य दैवेनोपनिपीडितः॥ भवितव्यं तथा तद्धि मम दुःखाय कौरव। भद्रे कामं करिष्यामि समयं तु निबोध मे॥ किंचित् कालान्तरे दास्ये पुल्लिङ्ग स्वमिदं तव। आगन्तव्यं त्वया काले सत्यं चैव वदस्व मे॥ प्रभुः संकल्पसिद्धोऽस्मि कामचारी विहङ्गमः। मत्प्रसादात् पुरं चैव त्राहि बन्धूंश्च केवलम्॥ स्त्रीलिङ्गं धारयिष्यामि तदेवं पार्थिवात्मजे। सत्यं मे प्रतिजानीहि करिष्यामि प्रियं तव॥ शिखण्डिन्युवाच प्रतिदास्यामि भगवन् पुंल्लिङ्गं तव सुव्रत। किञ्चित्कालान्तरं स्त्रीत्वं धारयस्व निशाचर॥ प्रतियाते दशार्णे तु पार्थिवे हेमवर्मणि। कन्यैव हि भविष्यामि पुरुषस्त्वं भविष्यसि॥ भीष्म उवाच इत्युक्त्वा समयं तत्र चक्राते तावुभो नृप। अन्योऽन्यस्याभिसंदेहे तौ संक्रामयतां ततः॥ स्त्रीलिङ्गं धारयामास स्थूणायक्षोऽथ भारत। यक्षरूप च तद् दीप्ते शिखण्डी प्रत्यपद्यत॥ ततः शिखण्डी पाञ्चाल्यः पुंस्त्वमासाद्य पार्थिव विवेश नगरं हृष्टः पितरं च समासदत्॥ यथावृत्तं तु तत् सर्वमाचख्यौ दुपदस्य तत्। दुपदस्तस्य तच्छ्रुत्वा हर्षमाहारयत् परम्॥ सभार्यास्तच्च सस्मार महेश्वरवचस्तदा। ततः सम्प्रेषयामास दशार्णाधिपतेर्नृपः॥ पुरुषोऽयं मम सुतः श्रद्धत्तां मे भवानिति। अथ दाशार्णको राजा सहसाऽयागमत् तदा॥ पञ्चालराजं द्रुपदं दुःखशोकसमन्वितः। ततः काम्पिल्यमासाद्य दशार्णाधिपतिस्ततः॥ प्रेषयामास सत्कृत्य दूतं ब्रह्मविदां वरम्। ब्रूहि मद्वचनाद् दूत पाञ्चाल्यं तं नृपाधमम्॥ यन्मे कन्यां स्वकन्यार्थं वृतवानसि दुर्मते। फलं तस्यावलेपस्य द्रक्ष्यस्यद्य न संशयः॥ एवमुक्तश्च तेनासौ ब्राह्मणौ राजसत्तम। दूतः प्रयातो नगरं दाशार्णनृपचोदितः॥ तत आसादयामास पुरोधा दुपदं पुरे। तस्मै पाञ्चालको राजा गामर्थ्य च सुसत्कृतम्॥ प्रापयामास राजेन्द्र सह तेन शिखण्डिना। तां पूजां नाभ्यनन्दतं स वाक्यं चेदमुवाच ह॥ यदुक्तं तेन वीरेण राज्ञा काञ्चनवर्मणा। यत् तेऽहमधमाचार दुहित्राऽस्म्यभिवञ्चितः॥ तस्य पापस्य करणात् फलं प्राप्नुहि दुर्मते। देहि युद्धं नरपते ममाद्य रणमूर्धनि॥ उद्धरिष्यामि ते सद्य: सामात्यसुतबान्धवम्। तदुपालम्भसंयुक्तं श्रावितः किल पार्थिवः॥ दशार्णपतिना चोक्तो मन्त्रिमध्ये पुरोधसा। अभवद् भरतश्रेष्ठ दुपदः प्रणयानतः॥ यदाह मां भवान् ब्रह्मन् सम्बन्धिवचनाद् वचः। अस्योत्तरंप्रतिवचो दूतो राज्ञे वदिष्यति॥ ततः सम्प्रेषयामास दुपदोऽपि महात्मने। हिरण्यवर्मणे दूतं ब्राह्मणं वेदपारगम्॥ तमागम्य तु राजानं दशार्णाधिपतिं तदा। तद् वाक्यमाददे राजन् यदुक्तं द्रुपदेन ह॥ आगमः क्रियतां व्यक्तः कुमारोऽयं सुतो मम। मिथ्यैतदुक्तं केनापि तदश्रद्धेयमित्युत॥ ततः स राजा दुपदस्य श्रुत्वा विमर्षयुक्तो युवतीर्वरिष्ठाः। सम्प्रेषयामास सुचारुरूपाः शिखण्डिनं स्त्री पुमान् वेति वेत्तुम्॥ ताः प्रेषितास्तत्त्वभावं विदित्वा प्रीत्या राज्ञे तच्छशंसुर्हि सर्वम्। शिखण्डिनं पुरुषं कौरवेन्द्र दाशार्णराजाय महानुभावम्॥ ततः कृत्वा तु राजा स आगमं प्रीतिमानथ। सम्बन्धिना समागम्य हृष्टो वासमुवास ह॥ शिखण्डिने च मुदितः प्रादाद् वित्तं जनेश्वरः। हस्तिनोऽश्वांश्चगाश्चैव दास्योऽथ बहुलास्तथा॥ पूजितश्च प्रतिययौ निर्भय॑ तनयां किल। विनीतकिल्बिषे प्रीते हेमवर्मणि पार्थिवे। प्रतियाते दशाणे तु हृष्टरूपा शिखण्डिनी॥ कस्याचित् त्वथ कालस्य कुबेरो नरवाहनः। लोकयात्रां प्रकुर्वाणाः स्थूणस्यागान्निवेशनम्॥ स तद्गृहस्योपरि वर्तमान आलोकयामास धनाधिगोप्ता। स्थूणस्य यक्षस्य विवेश वेश्म स्वलंकृतं माल्यगुणैर्विचित्रैः॥ लाज्यैश्च गन्धैश्च तथा वितानैरभ्यर्चितं धूपनधूपितं च। ध्वजैः पताकाभिरलंकृतं च भक्ष्यानपेयामिषदन्तहोमम्॥ तत् स्थानं तस्य दृष्ट्वा तु सर्वतः समलंकृतम्। मणिरत्नसुवर्णानां मालाभिः परिपूरितम्॥ नानाकुसुमगन्धाढ्यं सिक्तसम्मृष्टशोभितम्। अथाब्रवीद् यक्षपतिस्तान् यक्षाननुगांस्तदा॥ स्वलंकृतमिदं वेश्म स्थूणस्यामितविक्रमाः। नोपसर्पति मां चैव कस्मादद्य स मन्दधीः॥ यस्माज्जानन् स मन्दात्मा मामसौ नोपसर्पति। तस्मात् तस्मै महादण्डो धार्यः स्यादिति मे मतिः।।३९। यक्षा ऊचुः दुपदस्य सुता राजन् राज्ञो जाता शिखण्डिनी। तस्या निमित्ते कस्मिंश्चित् प्रादात् पुरुषलक्षणम्॥ अग्रहील्लक्षणं स्त्रीणां स्त्रीभूतो तिष्ठते गृहे। नोपसर्पति तेनासौ सब्रीडः स्त्रीसरूपवान्॥ एतस्मात् कारणाद् राजन् स्थूणो न त्वाद्य सर्पति। श्रुत्वा कुरु यथान्यायं विमानमिह तिष्ठताम्॥ आनीयतां स्थूण इति ततो यक्षाधिपोऽब्रवीत्। कर्तास्मि निग्रहं तस्य प्रत्युवाच पुनः पुनः॥ सोऽभ्यगच्छत यक्षेन्द्रमाहूतः पृथिवीपते। स्त्रीसरूपो महाराज तस्थौ व्रीडासमन्वितः॥ तं शशापाथ संक्रुद्धो धनदः कुरुनन्दन। एवमेव भवत्वद्य स्त्रीत्वं पापस्य गुह्यकाः॥ ततोऽब्रवीद् यक्षपतिर्महात्मा यस्माददास्त्ववमन्येह यक्षान्। शिखण्डिने लक्षणं पापबुद्धे स्त्रीलक्षणं चाग्रही: पापकर्मन्॥ अप्रवृत्तं सुदुर्बुद्धे यस्मादेतत् त्वया कृतम्। तस्मादद्य प्रभृत्येव स्त्री त्वं सा पुरुषस्तथा॥ ततः प्रसादयामासुर्यक्षा वैश्रवणं किला स्थूणस्यार्थं कुरुष्वान्तं शापस्येति पुनः पुनः॥ ततो महात्मा यक्षेन्द्रः प्रत्युवाचानुगामिनः। सर्वान् यक्षगणांस्तात शापस्यान्तचिकीर्षया॥ शिखण्डिनि हते यक्षाः स्वं रूपं प्रतिपत्स्यते। स्थूणो यक्षो निरुद्वेगो भवत्विति महामनाः॥ इत्युक्त्वा भगवान् देवो यक्षराजः सुपूजितः। प्रययौ सहितः सर्वैनिमेषान्तरचारिभिः॥ स्थूणस्तु शापं सम्प्राप्य तत्रैव न्यवसत् तदा। समये चागमत् तूर्णं शिखण्डी तं क्षपाचरम्॥ सोऽभिगम्याब्रवीद् वाक्यं प्राप्तोऽस्मि भगवन्निति। तमब्रवीत् ततः स्थूण: प्रीतोऽस्मीति पुनः पुनः॥ आर्जवेनागतं दृष्ट्वा राजपुत्रं शिखण्डिनम्। सर्वमेव यथावृत्ताचचक्षे शिखण्डिने॥ यक्षा उवाच ऊचुः शप्तो वैश्रवणेनाहं त्वत्कृते पार्थिवात्मज। गच्छेदानीं यथाकामं चर लोकान् यथासुखम्॥ दिष्टमेतत् पुरा मन्ये न शक्यमतिवर्तितुम्। गमनं तव चेतो हि पौलस्त्यस्य च दर्शनम्॥ भीष्म उवाच एवमुक्तः शिखण्डी तु स्थूणयक्षेण भारत। प्रत्याजगाम नगरं हर्षेण महता वृतः॥ पूजयामास विविधैर्गन्धमाल्यैर्महाधनैः। द्विजातीन् देवताश्चैव चैत्यानथ चतुष्पथान्॥ दुपदः सह पुत्रेण सिद्धार्थेन शिखण्डिना। मुदं च परमां लेभे पाञ्चाल्यः सह बान्धवैः॥ शिष्यार्थ प्रददौ चाथ द्रोणाय कुरुपुङ्गवा शिखण्डिनं महाराज पुत्रं स्त्रीपूर्विणं तथा॥ प्रतिपेदे चतुष्पादं धनुर्वेदं नृपात्मजः। शिखण्डी सह युष्माभिधृष्टद्युम्नश्च पार्षतः॥ मम त्वेतच्चरास्तात यथावत् प्रत्यवेदयन्। जडान्धबधिराकारा ये मुक्ता द्रुपदे मया॥ एवमेष महाराज स्त्रीपुमान् दुपदात्मजः। स सम्भूतः कुरुश्रेष्ठ शिखण्डी रथसत्तमः॥ ज्येष्ठा काशिपतेः कन्या अम्बानामेति विश्रुता। द्रुपदस्य कुले जाता शिखण्डी भरतर्षभ॥ नाहमेनं धनुष्पाणिं युयुत्सुं समुपस्थितम्। मुहूर्तमपि पश्येय प्रहरेयं न चाप्युत॥ व्रतमेतन्मम सदा पृथिव्यामपि विश्रुतम्। स्त्रियां स्त्रीपूर्वके चैव स्त्रीनाम्नि स्त्रीसरूपिणि॥ न मुञ्चेयमहं बाणमिति कौरवनन्दन। न हन्यामहमेतेन कारणेन शिखण्डिनम्॥ एतत् तत्त्वमहं वेद जन्म तात शिखण्डिनः। ततो नैनं हनिष्यामि समरेष्वाततायिनम्॥ यदि भीष्मः स्त्रियं हन्यात् सन्तः कुर्युर्विगर्हणम्। नैनं तस्माद्धनिष्यामि दृष्ट्वापि समरे स्थितम्॥ वैशम्पयान उवाच एतच्छ्रुत्वा तु कौरव्यो राजा दुर्योधनस्तदा। मुहूर्तमिव स ध्यात्वा भीष्मे युक्तममन्यत॥ संजय उवाच प्रभातायां तु शर्वर्यां पुनरेव सुतस्तव। मध्ये सर्वस्य सैन्यस्य पितामहमपृच्छत॥ पाण्डवेयस्य गाङ्गेय यदेतत् सैन्यमुद्यतम्। प्रभूतनरनागाश्वं महारथसमाकुलम्॥ भीमार्जुनप्रभृतिभिर्महेष्वासैर्महाबलैः। लोकपालसमैर्गुप्तं धृष्टद्युम्नपुगेगमैः॥ अप्रधृष्यमनावार्यमुद्भूतमिव सागरम्। सेनासागरमक्षोभ्यमपि देवैर्महाहवे॥ केन कालेन गाङ्गेय क्षपयेथा महाद्युते। आचार्यो वा महेष्वासः कृपो वा सुमहाबलः॥ कर्णो वा समरश्लाघी द्रौणिर्वा द्विजसत्तमः। दिव्यास्त्रविदुषः सर्वे भवन्तो हि बले मम॥ एतदिच्छाम्यहं ज्ञातुं परं कौतूहलं हि मे। हृदि नित्यं महाबाहो वक्तुमर्हसि मन्मम॥ भीष्म उवाच अनुरूपं कुरुश्रेष्ठ त्वय्येतत् पृथिवीपते। बलाबलममित्राणां तेषां यदिह पृच्छसि॥ शृणु राजन् मम रणे या शक्तिः परमा भवेत्। शस्त्रवीर्यं रणे यच्च भुजयोश्च महाभुज॥ आर्जवेनैव युद्धेन योद्धव्य इतरो जनः। मायायुद्धेन मायावी इत्येतद् धर्मनिश्चयः॥ हन्यामहं महाभाग पाण्डवानामनीकिनीम्। दिवसे दिवसे कृत्वा भागं प्रागह्निकं मम॥ योधानां दशसाहस्रं कृत्वा भागं महाद्युते। सहस्रं रथिनामेकमेष भागो मतो मम॥ अनेनाहं विधानेन संनद्धः सततोत्थितः। क्षपयेयं महत् सैन्यं कालेनानेन भारत॥ मुञ्चेयं यदि वास्त्राणि महान्ति समरे स्थितः। शतसाहिस्रघातीनि हन्यां मासेन भारत॥ संजय उवाच श्रुत्वा भीष्मस्य तद् वाक्यं राजा दुर्योधनस्ततः। पर्यपृच्छत राजेन्द्र द्रोणमङ्गिरसां वरम्॥ आचार्य केन कालेन पाण्डुपुत्रस्य सैनिकान्। निहन्या इति तं द्रोणः प्रत्युवाच हसन्निव॥ स्थविरोऽस्मि महाबाहो मन्दप्राणविचेष्टितः। शस्त्रग्निना निर्दहेयं पाण्डवानामनीकिनीम्॥ यथा भीष्मः शान्तनवो मासेनेति मतिर्मम। एषा मे परमा शक्तिरेतन्मे परमं बलम्॥ द्वाभ्यामेव तु मासाभ्यां कृपः शारद्वतोऽब्रवीत्। द्रौणिस्तु दशरात्रेण प्रतिजज्ञे बलक्षयम्॥ कर्णस्तु पञ्चरात्रेण प्रतिजज्ञे महास्त्रवित्। तच्छ्रुत्वा सूतपुत्रस्य वाक्यं सागरगासुतः॥ जहास सस्वनं हासं वाक्यं चेदमुवाच ह। न हि यावद् रणे पार्थं बाणशङ्खधनुर्धरम्॥ वासुदेवसमायुक्तं रथेनायान्तमाहवे। समागच्छसि राधेय तेनैवमभिमन्यसे। शक्यमेवं च भूयश्च त्वया वक्तुं यथेष्टतः॥ वैशम्पायन उवाच ततः प्रभाते विमले धार्तराष्ट्रेण चोदिताः। दुर्योधनेन राजानः प्रययुः पाण्डवान् प्रति॥ आप्लाव्य शुचयः सर्वे स्रग्विणः शुक्लवाससः। गृहीतशास्त्रा ध्वजिनः स्वस्ति वाच्य हुताग्नयः॥ सर्वे ब्रह्मविदः शूराः सर्वे सुचरितव्रताः। सर्वे कामकृतश्चैव सर्वे चाहवलक्षणाः॥ आहवेषु पराँल्लोकान् जिगीषन्तो महाबलाः। एकाचमनसः सर्वे श्रद्दधानाः परस्परम्॥ विन्दानुविन्दावावन्त्यौ केकया बाह्निकैः सह। प्रययुः सर्व एवैते भारद्वाजपुरोगमा:॥ अश्वत्थामा शान्तनवः सैन्धवोऽथ जयद्रथः। दाक्षिणात्याः प्रतीच्याच पार्वतीयाश्च ये नृपाः॥ गान्धारराजः शकुनिः प्राच्योदीच्याश्च सर्वशः। शकाः किराता यवनाः शिवयोऽथ वसातयः॥ स्वैः स्वैरनीकैः सहिताः परिवार्य महारथम्। एते महारथाः सर्वे द्वितीये निर्ययुले॥ कृतवर्मा सहानीकस्त्रिगर्तश्च महारथः। दुर्योधनश्च नृपतिर्भ्रातृभिः परिवारितः॥ शलोभूरिश्रवाः शल्य: कौसल्योऽथ बृहद्रथः। एते पश्चादनुगता धार्तराष्ट्रपुरोगमाः॥ ते समेत्य यथान्यायं धार्तराष्ट्रा महाबलाः। कुरुक्षेत्रस्य पश्चार्धे व्यवातिष्ठन्त दंशिताः॥ दुर्योधनस्तु शिबिरं कारयामास भारत। यथैव हास्तिनपुरं द्वितीयं समलंकृतम्॥ न विशेषं विजानन्ति पुरस्य शिविरस्य वा। कुशला अपि राजेन्द्र नरा नगरवासिनः॥ तादृशान्येव दुर्गाणि राज्ञामपि महीपतिः। कारयामास कौरव्यः शतशोऽथ सहस्रशः॥ पञ्चयोजनमुत्सृज्य मण्डलं तद्रणाजिरम्। सेनानिवेशास्ते राजन्नाविशञ्छतसंधशः॥ तत्र ते पृथिवीपाला यथोत्साहं यथाबलम्। विविशुः शिबिराण्यत्र द्रव्यवन्ति सहस्रशः॥ तेषां दुर्योधनो राजा ससैन्यानां महात्मनाम्। व्यादिदेश सवाह्यानां भक्ष्यभोज्यमनुत्तमम्॥ सनागाश्वमनुष्याणां ये च शिल्पोपजीविनः। ये चान्येऽनुगतास्तत्र सूतमागधबन्दिनः॥ वणिजो गणिकाचारा ये चैव प्रेक्षका जनाः। सर्वांस्तान् कौरवो राजा विधिवत् प्रत्यवेक्षत॥ वैशम्पायन उवाच तथैव राजा कौन्तेयो धर्मपुत्रो युधिष्ठिरः। धृष्टद्युम्नमुखान् वीरांश्चोदयामास भारत।।।। चेदिकाशिकरूषाणां नेतारं दृढविक्रमम। सेनापतिममित्रघ्नं धृष्टकेतुमथादिशत्॥ विराटं दुपदं चैव युयुधान् शिखण्डिनम्। पाञ्चाल्यौ च महेष्वासौ युधामन्यूत्तमौजसौ॥ ते शूराश्चित्रवर्माणस्तप्तकुण्डलधारिणः। आज्यावसिक्ताज्वलिताधिष्ण्येष्विव हुताशनाः॥ अशोभन्त महेष्वासा ग्रहाः प्रज्वलिता इव। अथ सैन्यं यथायोगं पूजयित्वा नरर्षभः॥ दिदेश तान्यनीकानि प्रयाणाय महीपतिः। तेषां युधिष्ठिरो राजा ससैन्यानां महात्मनाम्॥ व्यादिदेश सवाह्यानां भक्ष्यभोज्यमनुत्तमम्। सगजाश्वमनुष्याणां ये च शिल्पोपजीविनः॥ अभिमन्यु बृहन्तं च द्रौपदेयांश्च सर्वशः। धृष्टद्युम्नमुखानेतान् प्राहिणोत् पाण्डुनन्दनः॥ भीमं च युयुधानं च पाण्डवः च धनंजयम्। द्वितीयं प्रेषयामास बलस्कन्धं युधिष्ठिरः॥ भाण्डं समारोपयतां चरतां सम्प्रधावताम्। हृष्टानां तत्र योधानां शब्दो दिवमिवास्पृशत्।।१० स्वयमेव ततः पश्चाद् विराटदुपदान्वितः। अथापरैर्महीपालैः सह प्रायान्महीपतिः॥ भीमधन्वायनी सेना धृष्टद्युम्नेन पालिता। गड्डेच पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत॥ ततः पुरननीकानि न्ययोजयत बुद्धिमान्। मोहयन् धृतराष्ट्रस्य पुत्राणां बुद्धिनिश्चयम्॥ द्रौपदेयान् महेष्वासानभिमन्युं च पाण्डवः। नकुलं सहदेवं च सर्वाश्चैव प्रभद्रकान्॥ दश चाश्वसहस्राणि द्विसहस्राणि दन्तिनाम्। अयुतं च पदातीनां रथाः पञ्चशतं तथा॥ भीमसेनस्य दुर्धर्ष प्रथमं प्रादिशद् बलम्। मध्यमे च विराटं च जयत्सेनं च पाण्डवः॥ महारथौ च पाञ्चाल्यौ युधामन्यूत्तमौजसौ। वीर्यवन्तौ महात्मानौ न गदाकार्मुकधारिणौ॥ अन्वयातां तदा मध्ये वासुदेवधनंजयौ। बभूवुरतिसंरब्धाः कृतप्रहरणा नराः॥ तेषां विंशतिसाहस्रा हयाः शूरैरधिष्ठिताः। पञ्च नागसहस्राणि स्थवंशाच सर्वशः॥ पदातयश्च ये शूराः कार्मुकासिगदाधराः। सहस्रशोऽन्वयुः पञ्चादग्रतश्च सहस्रशः॥ युधिष्ठिरो यत्र सैन्ये स्वयमेव बलार्णवे। तत्र ते पृथिवीपाला भूयिष्ठं पर्यवस्थिताः॥ तत्र नागसहस्राणि हयानामयुतानि च। तथा रथसहस्राणि पदातीनां च भारत॥ चेकितानः स्वसैन्येन महता पार्थिवर्षभ। धृष्टकेतुश्च चेदीनां प्रणेता पार्थिवो ययौ॥ सात्यकिश्च महेष्वासो वृष्णीनां प्रवरो रथः। वृतः शतसहस्रेण रथानां प्रणुदन् बली॥ क्षत्रदेवब्रह्मदेवो रथस्थौ पुरुषर्षभौ। जघनं पालयन्तौ च पृष्ठतोऽनुप्रजग्मतुः॥ शकटापणवेशाश्च यानं युग्यं च सर्वशः। तत्र नागसहस्राणि हयानामयुतानि च। फल्गु सर्वं कलत्रं च यत्किञ्चित् कृशदुर्बलम्॥ कोशसंचयवाहांश्च कोष्ठागारं तथैव च। गजानीकेन संगृह्य शनैः प्रायाद् युधिष्ठिरः॥ तमन्वयात् सत्यधृतिः सौचित्तियुद्धदुर्मदः। श्रेणिमान् वसुदानश्च पुत्रः काश्यस्य वा विभुः॥ रथा विंशतिसाहस्रा ये तेषामनुयायिनः। हयानां दश कोट्यश्च महतां किंकिणीकिनाम्॥ गजा विंशतिसाहस्रा ईषादन्ताः प्रहारिणः। कुलीना भिन्नकरटा मेघा इव विसर्पिणः॥ षष्टि गसहस्राणि दशान्यानि च भारत। युधिष्ठिरस्य यान्यासन् युधि सेना महात्मनः॥ क्षरन्त इव जीमूताः प्रभिन्नकरटामुखाः। राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः॥ एवं तस्य बलं भीमं कुन्तीपुत्रस्य धीमतः। यदाश्रित्याथ युयुधे धार्तराष्ट्र सुयोधनम्॥ ततोऽन्ये शतशः पश्चात् सहस्रायुतशो नराः। नर्दन्तः प्रययुस्तेषामनीकानि सहस्रशः॥ तत्र भेरीसहस्राणि शङ्खानामयुतानि च। न्यवादयन्त संहृष्टाः सहस्रायुतशो नराः॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवी सरस्वतीं चैव ततो जयमुदीरयेत्।। जनमेजय उवाच कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः। पार्थिवाः सुमहात्मानो नानादेशसमागताः॥ वैशम्पायन उवाच यथा युयुधिके वीराः कुरुपाण्डवसोमकाः। कुरुक्षेत्रे तपःक्षेत्रे शृणु त्वं पृथिवीपते॥ तेऽवतीर्य कुरुक्षेत्रं पाण्डवाः सहसोमकाः। कौरवाः समवर्तन्त जिगीषन्तो महाबलाः॥ वेदाध्ययनसम्पन्नाः सर्वे युद्धाभिनन्दिनः। आशंसन्तो जयं युद्धे बलेनामिमुखा रणे॥ अभियाय च दुर्धर्षां धार्तराष्ट्रस्य वाहिनीम्। प्राङ्मुखाः पश्चिमे भागे न्यविशन्त ससैनिकाः॥ समन्तपञ्चकाद् बाह्यं शिविराणि सहस्रशः। कारयामास विधिवत् कुन्तीपुत्रो युधिष्ठिरः॥ शून्या च पृथिवी सर्वा बालवृद्धावशेषिता। निरश्वपुरुषेवासीद् रथकुञ्जरवर्जिता॥ यावत्तपति सूर्यो हि जम्बूद्वीपस्य मण्डलम्। तावदेव समायातं बलं पार्थिवसत्तम॥ एकस्थाः सर्ववर्णास्ते मण्डलं बहुयोजनम्। पर्याक्रामन्त देशांश्च नदी: शैलान् वनानि च।॥ तेषां युधिष्ठिरो राजा सर्वेषां पुरुषर्षभ। व्यादिदेश सबाह्यानां भक्ष्यभोज्यमनुत्तमम्॥ शय्याश्च विविधास्तात तेषां रात्रौ युधिष्ठिरः। एवंवेदी वेदितव्यः पाण्डवेयोऽयमित्युत॥ अभिज्ञानानि सर्वेषां संज्ञाश्चाभरणानि च। योजयामास कौरव्यो युद्धकाल उपस्थिते॥ दृष्ट्वा ध्वजाग्रं पार्थस्य धार्तराष्ट्रो महामनाः। सह सर्वैर्महीपालैः प्रत्यव्यूहत पाण्डवम्॥ पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि। मध्ये नागसहस्रस्य भ्रातृभिः परिवारितः॥ दृष्ट्वा दुर्योधनं हृष्टाः पञ्चाला युद्धनन्दिनः। दध्मुः प्रीता महाशवान् भेर्यश्च मधुरस्वनाः॥ ततः प्रहृष्टां तां सेनामभिवीक्ष्याथ पाण्डवाः। बभूवुर्हष्टमनसो वासुदेवश्च वीर्यवान्॥ ततो हर्ष समागम्य वासुदेवधनंजयौ। दध्मतुः पुरुषव्याघ्रौ दिव्यौ शङ्खौ रथे स्थितौ॥ पाञ्चजन्यस्य निर्घोषं देवदत्तस्य चोभयोः। श्रुत्वा तु निनदं योधाः शकृन्मूत्रं प्रसुस्रुवुः॥ यथा सिंहस्य नदतः स्वनं श्रुत्वेतरे मृगाः। त्रसेयुर्निनदं श्रुत्वा तथाऽसीदत तद्बलम्॥ उदतिष्ठद् रजो भौमं न प्राज्ञायत किंचन। अस्तगत इवादित्ये सैन्येन सहसाऽऽवृते॥ ववर्ष तत्र पर्जन्यो मांसशोणितवृष्टिमान्। दिक्षु सर्वाणि सैन्यानि तदद्भुतमिवाभवत्॥ वायुस्ततः प्रादुरभून्नीचैः शर्करकर्षणः। विनिस्तान्यनीकानि शतशोऽथ सहस्रशः॥ उभे सैन्ये च राजेन्द्र युद्धाय मुदिते भृशम्। कुरुक्षेत्रे स्थिते यत्ते सागरक्षुभितोपमे॥ तयोस्तु सेनयोरासीदद्भुतः स तु संगमः। युगान्ते समनुप्राप्ते द्वयोः सागरयोरिव॥ शून्याऽऽसीत् पृथिवी सर्वा वृद्धबालावशेषिता। निरश्वपुरुषेवासीद् रथकुञ्जरवर्जिता॥ तेन सेनासमूहेन समानीतेन कौरवैः। ततस्ते समयं चक्रुः कुरुपाण्डवसोमकाः॥ धर्मान् संस्थापयामासुर्युद्धानां भरतर्षभ। निवृत्ते विहिते युद्धे स्यात् प्रीतिर्नः परस्परम्॥ यथापरं यथायोगं न च स्यात् कस्यचित् पुनः। वाचा युद्धप्रवृत्तानां वाचैव प्रतियोधनम्। निष्क्रान्ताः पृतनामध्यान्न हन्तव्याः कदाचन॥ रथी च रथिना योध्यो गजेन गजधूर्गतः। अश्वेनाश्री पदातिश्च पादातेनैव भारत॥ यथायोगं यथाकामं यथोत्साहं यथाबलम्। समाभाष्य प्रहर्तव्यं न विश्वस्ते न विह्वले॥ एकेन सह संयुक्तः प्रपन्नो विमुखस्तथा। क्षीणशस्त्रो विवर्मा च न हन्तव्यः कदाचन॥ न सूतेषु न धुर्येषु न च शस्त्रोपनायिषु। न भेरीशङ्खवादेषु प्रहर्तव्यं कथंचन॥ एवं ते समयं कृत्वा कुरुपाण्डवसोमकाः। विस्मयं परमं जग्मुः प्रेक्षमाणाः परस्परम्॥ निविश्य च महात्मानस्ततस्ते पुरुषर्षभाः। हृष्टरूपाः सुमनसो बभूवुः सहसैनिकाः॥ व्यास उवाच खरा गोषु प्रजायन्ते रमन्ते मातृभिः सुताः। अनार्तवं पुष्यफलं दर्शयन्ति वनदुमाः॥ गर्भिण्योऽजातपुत्राश्च जनयन्ति विभीषणान्। क्रव्यादाः पक्षिभिश्चापि सहाश्नन्ति परस्परम्॥ त्रिविषाणाश्चतुर्नेवाः पञ्चपादा द्विमेहनाः। द्विशीर्षाश्च द्विपुच्छाश्च दंष्ट्रिणः पशवोऽशिवाः॥ जायन्ते विवृतास्याश्च व्याहरन्तोऽशिवा गिरः। त्रिपदाः शिखिनस्तााश्चतुर्दष्ट्रा विषाणिनः॥ तथैवान्याश्च दृश्यन्ते स्त्रियो वै ब्रह्मवादिनाम्। वैनतेयान् मयूरांश्च जनयन्ति पुरे तव॥ गोवत्सं वडवा सूते श्वा शृगालं महीपते। कुक्कुरान् करभाश्चैव शुकाश्चाशुभवादिनः॥ स्त्रियः काश्चित्प्रजायन्ते चतस्रः पञ्चकन्यकाः। जातमात्राश्च नृत्यन्ति गायन्ति च हसन्ति च॥ पृथग्जनस्य सर्वस्य क्षुद्रकाः प्रहसन्ति च। नृत्यन्ति परिगायन्ति वेदयन्तो महद् भयम्॥ प्रतिमाश्चालिखन्त्येताः सशस्त्रा: कालचोदिताः। अन्योन्यमभिधावन्ति शिशवो दण्डपाणयः॥ अन्योन्यमभिमृद्नन्ति नगराणि युयुत्सवः। पद्मोत्पलानि वृक्षेषु जायन्ते कुमुदानि च॥ विष्वग्वाताश्च वान्त्युग्रा रजो नाप्युपशाम्यति। अभीक्ष्णं कम्पते भूमिरर्कं राहुरुपैति च॥ श्वेतो ग्रहस्तथा चित्रां समतिक्रम्य तिष्ठति। अभावं हि विशेषेण कुरूणां तत्र पश्यति॥ धूमकेतुर्महाघोरः पुष्यं चाक्रम्य तिष्ठति। सेनयोरशिवं घोरं करिष्यति महाग्रहः॥ मघास्वङ्गारको वक्रः श्रवणे च बृहस्पतिः। भगं नक्षत्रमाक्रम्य सूर्यपुत्रेण पीड्यते॥ शुक्रः प्रोष्ठपदे पूर्वे समारुह्य विरोचते। उत्तरे तु परिक्रम्य सहितः समुदीक्षते॥ श्वेतो ग्रहः प्रज्वलित: सधूम इव पावकः। ऐन्द्रं तेजस्वि नक्षत्रं ज्येष्ठामाक्रम्य तिष्ठति॥ ध्रुवं प्रज्वलितो घोरमपसव्यं प्रवर्तते। रोहिणी पीडयत्येवमुभौ च शशिभास्करौ। चित्रास्वात्यन्तरे चैव विष्ठितः परुषग्रहः॥ वक्रानुवनं कृत्वा च श्रवणं पावकप्रभः। ब्रह्मराशि समावृत्य लोहिताङ्गो व्यवस्थितः॥ सर्वसस्यपरिच्छन्ना पृथिवी सस्यमालिनी। पञ्चशीर्षा यवाश्चापि शतशीर्षाश्च शालयः॥ प्रधानाः सर्वलोकस्य यास्वायत्तमिदं जगत्। ता गाव: प्रस्तुता वत्सैः शोणितं प्रक्षरन्त्युत॥ निश्चरुरर्चिषश्चापात् खङ्गाश्च ज्वलिता भृशम्। व्यक्तं पश्यन्ति शस्त्राणि संग्रामं समुपस्थितम्॥ अग्निवर्णा यथा भासः शस्त्राणामुदकस्य च। कवचानां ध्वजानां च भविष्यति महाक्षयः॥ पृथिवी शोणितावर्ता ध्वजोडुपसमाकुला। कुरूणां वैशसे राजन् पाण्डवैः सह भारत॥ दिक्षु प्रज्वलितास्याश्च व्याहरन्ति मृगद्विजाः। अत्याहितं दर्शयन्तो वेदयन्ति महद् भयम्॥ एकपक्षाक्षिचरणः शकुनिः खचरो निशि। रौद्रं वदति संरब्धः शोणितं छर्दयनिव॥ शस्त्राणि चैव राजेन्द्र प्रज्वलन्तीव सम्प्रति। सप्तर्षीणामुदाराणां समवच्छाद्यते प्रभा॥ संवत्सरस्थायिनौ च ग्रहौ प्रज्वलितावुभौ। विशाखायाः समीपस्थौ बृहस्पतिशनैश्चरौ॥ चन्द्रादित्यावुभौ ग्रस्तावेकाह्रा हि त्रयोदशीम्। अपर्वणि ग्रहं यातौ प्रजासंक्षयमिच्छतः॥ अशोभिता दिशः सर्वाः पांसुवर्षेः समन्ततः। उत्पातमेघा रौद्राश्च रात्रौ वर्षन्ति शोणितम्॥ कृत्तिकां पीड़यंस्तीक्ष्णैर्नक्षत्रं पृथिवीपते। अभीक्ष्णवाता वायन्ते धूमकेतुमवस्थिताः॥ विषमं जनयन्त्येत आक्रन्दजननं महत्। त्रिषु सर्वेषु नक्षत्रनक्षत्रेषु विशाम्पते। गृध्रः सम्पतते शीर्ष जनयन् भयमुत्तमम्॥ चतुर्दशी पञ्चदशी भूतपूर्वां च षोडशीम्। इमां तु नाभिजानेऽहममावास्यां त्रयोदशीम्। चन्द्रसूर्यावुभौ ग्रस्तावेकमासी त्रयोदशीम्॥ अपर्वणि ग्रहेणैतौ प्रजाः संक्षपयिष्यतः। मांसवर्ष पुनस्तीव्रमासीत् कृष्णचतुर्दशीम्। शोणितैर्वक्त्रसम्पूर्णा अतृप्तास्तत्र राक्षसाः॥ प्रतिस्रोतो महानद्यः सरितः शोणितोदकाः। फेनायमानाः कूपाश्च कूर्दन्ति वृषभा इव॥ पतन्त्युल्का सनिर्घाताः शक्राशनिसमप्रभाः। अद्य चैव निशां व्युष्टामनयं समवाप्स्यथ॥ विनिःसृत्य महोल्काभिस्तिमिरं सर्वतोदिशम्। अन्योन्यमुपतिष्ठद्भिस्तत्र चोक्तं महर्षिभिः॥ भूमिपालसहस्राणां भूमिः पास्यति शोणितम्। कैलासमन्दराभ्यां तु तथा हिमवता विभो॥ सहस्रशो महाशब्दः शिखराणि पतन्ति च। महाभूता भूमिकम्पे चत्वारः सागराः पृथक्। वेलामुद्वर्तयन्तीव क्षोभयन्तो वसुंधराम्॥ वृक्षानुन्मथ्य वान्त्युग्रा वाताः शर्करकर्षिणः। आभग्नाः सुमहावातैरशनीभिः समाहताः॥ वृक्षाः पतन्ति चैत्याश्च ग्रामेषु नगरेषु च। नीललोहितपीतश्च भवत्यग्निर्हतो द्विजैः॥ वामाचिर्दुष्टगन्धश्च मुञ्चन् वै दारुणं स्वनम्। स्पर्शा गन्धा रसाश्चैव विपरीता महीपते॥ धूम ध्वजाः प्रमुञ्चन्ति कम्पमाना मुहुर्मुहुः। मुञ्चन्त्यङ्गारवर्षं च भेर्यश्च पटहास्तथा॥ शिखराणां समृद्धानामुपरिष्टात् समन्ततः । वायसाश्च रुवन्त्युग्रं वामं मण्डलमाश्रिताः॥ पक्वापक्वेति सुभृशं वावाश्यन्ते वयांसि च। निलीयन्ते ध्वजाग्रेषु क्षयाय पृथिवीक्षिताम्॥ ध्यायन्तः प्रकिरन्तश्च व्याला वेपथुसंयुताः। दीनास्तुरङ्गमा: सर्वे वारणा: सलिलाश्रयाः॥ एतच्छ्रुत्वा भवानत्र प्राप्तकालं व्यवस्यताम्। यथा लोकः समुच्छेदं नायं गच्छेत भारत॥ वैशम्पायन उवाच पितुर्वचो निशम्यैतद् धृतराष्ट्रोऽब्रवीदिदम्। दिष्टमेतत् पुरा मन्ये भविष्यति नरक्षयः॥ राजानः क्षत्रधर्मेण यदि वध्यन्ति संयुगे। वीरलोकं समासाद्य सुखं प्राप्स्यन्ति केवलम्॥ इह कीर्ति परे लोके दीर्घकालं महत् सुखम्। प्राप्स्यन्ति पुरुषव्याघ्राः प्राणांस्त्यक्त्वा महाहवे॥ वैशम्पायन उवाच एवमुक्तो मुनिस्तत्त्वं कवीन्द्रो राजसत्तम। धृतराष्ट्रेण पुत्रेण ध्यानमन्वगमत् परम्॥ स मुहूर्त तथा ध्यात्वा पुनरेवाब्रवीद् वचः। असंशयं पार्थिवेन्द्र कालः संक्षियते जगत्॥ सृजते च पुनर्लोकान् नेह विद्यति शाश्वतम्। ज्ञातीनां वै कुरूणां च सम्बन्धिसुहृदां तथा॥ धयं देशय पन्थानं समर्थो ह्यसि वारणे। क्षुद्रं जातिवधं प्राहुर्मा कुरुष्व ममाप्रियम्॥ कालोऽयं पुत्ररूपेण तव जातो विशाम्पते। न वधः पूज्यते वेदे हितं नैव कथंचन॥ हन्यात् स एनं यो हन्यात् कुलधर्मं स्विकां तनुम्। कालेनोत्पथगन्ताऽसि शक्ये सति यथाऽऽपदि॥ कुलस्यास्य विनाशाय तथैव च महीक्षिताम्। अनर्थो राज्यरूपेण तव जातो विशाम्पते॥ लुप्तधर्मा परेणासि धर्मं दर्शय वै सुतान्। किं ते राज्येन दुर्धर्ष येन प्राप्तोऽसि किल्बिषम्॥ यशो धर्मं च कीर्तिं च पालयन् स्वर्गमाप्स्यसि। लभन्तां पाण्डवा राज्यं शमं गच्छन्तु एवं ब्रुवति विप्रेन्द्र धृतराष्ट्रोऽम्बिकासुतः। आक्षिप्य वाक्यं वाक्यज्ञो वाक्यं चैवाब्रवीत् पुनः॥ धृतराष्ट्र उवाच यथा भवान् वेत्ति तथैव वेत्ता भावाभावौ विदितौ मे यथार्थो। कौरवाः॥ स्वार्थे हि सम्मुह्यति तात लोको मां चापि लोकात्मकमेव विद्धि॥ प्रसादये त्वामतुलप्रभावं त्वं नो गतिर्दर्शयिता च धीरः। न चापि ते मद्वशगा महर्षे न चाधर्मं कर्तुमर्हा हि मे मतिः॥ त्वं हि धर्मप्रवृत्तिश्च यशः कीर्तिश्च भारती। कुरूणां पाण्डवानां च मान्यश्चापि पितामहः॥ व्यास उवाच वैचित्रवीर्य नृपते यत् ते मनसि वर्तते। अभिधत्स्व यथाकामं छेत्ताऽस्मि तव संशयम्॥ धृतराष्ट्र उवाच यानि लिङ्गानि संग्रामे भवन्ति विजयिष्यताम्। तानि सर्वाणि भगवञ्छ्रोतुमिच्छामि तत्त्वतः॥ व्यास उवाच प्रसन्नभाः पावक ऊर्ध्वरश्मिः प्रदक्षिणावर्तशिखो विधूमः। पुण्या गन्धाश्चाहुतीनां प्रवान्ति जयस्यैतद् भाविनो रूपमाहुः॥ गम्भीरघोषाश्च महास्वनाश्च शङ्खा मृदङ्गाश्च नदन्ति यत्र। विशुद्धरश्मिस्तपनः शशी च जयस्यैतद् भाविनो रूपमाहुः॥ इष्टा वाचः प्रसृता वायसानां सम्प्रस्थितानां च गमिष्यतां च। ये पृष्ठतस्ते त्वरयन्ति राजन् ये चाग्रतस्ते प्रतिषेधयन्ति॥ कल्याणवाचः शकुना राजहंसाः शुकाः क्रौञ्चा: शतपत्राश्च यत्र। प्रदक्षिणाश्चैव भवन्ति संख्ये ध्रुवं जयस्तत्र वदन्ति विप्राः॥ अलङ्कारैः कवचैः केतुभिश्च सुखप्रणादैहेषितैर्वा हयानाम्। भ्राजिष्मती दुष्प्रतिवीक्षणीया येषां चमूस्ते विजयन्ति शत्रून्॥ हृष्टा वाचस्तथा सत्त्वं योधानां यत्र भारत। न म्लायन्ति सजश्चैव ते तरन्ति रणोदधिम्॥ इष्टा वाचः प्रविष्टस्य दक्षिणाः प्रविविक्षतः। पश्चात् संधारयन्त्यर्थमग्रे च प्रतिषेधिका:॥ शब्दरूपरसस्पर्शगन्धाश्चाविकृताः शुभाः। सदा हर्षश्च योधानां जयतामिह लक्षणम्॥ अनुगा वायवो वान्ति तथाऽभ्राणि वयांसि च। अनुप्लवन्ति मेघाश्च तथैवेन्द्रधनूंषि च॥ एतानि जयमानानां लक्षणानि विशाम्पते। भवन्ति विपरीतानि मुमूर्पूणा जनाधिप॥ अल्पायां वा महत्यां वा सेनायामिति निश्चयः। हर्षो योधगणस्यैको जयलक्षणमुच्यते॥ एको दीर्णो दारयति सेनां सुमहतीमपि। तां दीर्णामनुदीर्यन्ते योधाः शूरतरा अपि॥ शक्या समाधातुं संनिपाते दुर्निवा तदा चैव प्रभग्ना महती चमूः। अपामिव महावेगास्त्रस्ता मृगगणा इव॥ नैव महाचमूः। दीर्णामित्येव दीर्यन्ते सुविद्वांसोऽपि भारत॥ भीतान् भग्नांश्च सम्प्रेक्ष्य भयं भूयोऽभिवर्धते। प्रभग्ना सहसा राजन् दिशो विद्रवते चमूः॥ नैव स्थापयितुं शक्या शूरैरपि महाचमूः। सत्कृत्य महतीं सेनां चतुरङ्गां महीपतिः। उपायपूर्वं मेधावी यतेत सततोत्थितः॥ उपायविजयं श्रेष्ठमाहुर्भेदन मध्यमम्। जघन्य एष विजयो यो युद्धेन विशाम्पते॥ महादोष: संनिपातस्तस्याद्यः क्षय उच्यते। परस्परज्ञाः संहृष्टा व्यवधूताः सुनिश्चिताः॥ पञ्चाशदपि ये शूरा मृद्नन्ति महतीं चमूम्। अपि वा पञ्च षट् सप्त विजयन्त्यनिवर्तिनः॥ न वैनतेयो गरुडः प्रशंसति महाजनम्। दृष्ट्वा सुपर्णोऽपचितिं महत्या अपि भारत॥ न बाहुल्येन सेनाया जयो भवति नित्यशः। अध्रुवो हि जयो नाम दैवं चात्र परायणम्। जयवन्तो हि संग्रामे कृतकृत्या भवन्ति हि॥ वैशम्पायन उवाच एवमुक्त्वा ययौ व्यासो धृतराष्ट्राय धीमते। धृतराष्ट्रोऽपि तच्छ्रुत्वा ध्यानमेवान्वपद्यत॥ स मुहूर्तमिव ध्यात्वा विनिःश्वस्य मुहुर्मुहुः। संजय संशितात्मानमपृच्छद् भरतर्षभ।॥ संजयेमे महीपालाः शूरा युद्धाभिनन्दिनः। अन्योन्यमभिनिघ्नन्ति शस्त्रैरुच्चावचैरिह॥ पार्थिवाः पृथिवीहेतोः समभित्यज्य जीवितम्। न वा शाम्यन्ति निघ्नन्तो वर्धयन्ति यमक्षयम्॥ भौममैश्वर्यमिच्छन्तो न मृष्यन्ते परस्परम्। मन्ये बहुगणा भूमिस्तन्ममाचक्ष्व संजय॥ बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च। कोट्यश्च लोकवीराणां समेताः कुरुजाङ्गले॥ देशानां च परीमाणं नगराणां च संजय। श्रोतुमिच्छामि तत्त्वेन यत एते समागताः॥ दिव्यबुद्धिप्रदीपेन युक्तस्त्वं ज्ञानचक्षुषा। प्रभावात् तस्य विप्रर्व्यासस्यामिततेजसः॥ संजय उवाच यथाप्रज्ञं महाप्राज्ञ भौमान् वक्ष्यामि ते गुणान्। शास्त्रचक्षुरवेक्षस्व नमस्ते भरतर्षभ॥ द्विविधानीह भूतानि चराणि स्थावराणि च। त्रसानां त्रिविधा योनिरण्डस्वेदजरायुजाः॥ त्रसानां खलु सर्वेषां श्रेष्ठा राजन् जरायुजाः। जरायुजानां प्रवरा मानवाः पशवश्च ये॥ नानारूपधरा राजेस्तेषां भेदाश्चतुर्दश। वेदोक्ताः पृथिवीपाल येषु यज्ञाः प्रतिष्ठिताः॥ ग्राम्याणां पुरुषाः श्रेष्ठाः सिंहाश्चारण्यवासिनाम्। सर्वेषामेव भूतानामन्योन्येनोपजीवनम्॥ उद्भिज्जाः स्थावराः प्रोक्तास्तेषां पञ्चैव जातयः। वृक्षगुल्मलतावल्लयस्त्वक्सारास्तृणाजातयः॥ तेषां विंशतिरेकोना महाभूतेषु पञ्चसु। चतुर्विंशतिरुद्दिष्टा गायत्री लोकसम्मता॥ य एतां वेद गायत्री पुण्यां सर्वगुणान्विताम्। तत्त्वेन भरतश्रेष्ठ स लोके न प्रणश्यति॥ अरण्यवासिनः सप्त सप्तैषां ग्रामवासिनः। सिंहा व्याघ्रा वराहाच महिषा वारणास्तथा॥ ऋक्षाश्च वानराश्चैव सप्तारण्याः स्मृता नृप। गौरजाविमनुष्याश्च अश्वाश्वतरगर्दभाः॥ एते ग्राम्या: समाख्याताः पशवः सप्त साधुभिः। एते वै पशवो राजन् ग्राम्यारण्याश्चतुर्दश॥ भूमौ च जायते सर्वं भूमौ सर्वं विनश्यति। भूमिः प्रतिष्ठा भूतानां भूमिरेव सनातनम्॥ यस्य भूमिस्तस्य सर्वं जगत् स्थावरजङ्गमम्। तत्रातिगृद्धा राजानो विनिघ्नन्तीतरेतरम्॥ धृतराष्ट्र उवाच नदीनां पर्वतानां च नामधेयानि संजय। तथा जनपदानां च ये चान्ये भूमिमाश्रिताः॥ प्रमाणं च प्रमाणज्ञ पृथिव्या मम सर्वतः। निखिलेन समाचक्ष्व काननानि च संजय॥ भूमेरेते गुणा: संजय उवाच पञ्चेमानि महाराज महाभूतानि संग्रहात्। जगतीस्थानि सर्वाणि समान्याहुर्मनीषिणः॥ भूमिरापस्तथा वायुरग्निराकाशमेव च। गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः॥ शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः। प्रोक्ता ऋषिभिस्तत्त्ववेदिभिः॥ चत्वारोऽप्सु गुणा राजन् गन्धस्तत्र न विद्यते। शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः। शब्दः स्पर्शश्च वायोस्तु आकाशे शब्द एव तु॥ एते पञ्च गुणा राजन् महाभूतेषु पञ्चसु! वर्तन्ते सर्वलोकेषु येषु भूताः प्रतिष्ठिताः॥ हेमकूटात् परं चैव हरिवर्षं प्रचक्षते। अन्योन्यं नाभिवर्तन्ते साम्यं भवति वै यदा॥ यदा तु विषमीभावमाविशन्ति परस्परम्। तदा देहैर्देहवन्तो व्यतिरोहन्ति नान्यथा॥ अचिन्त्याः खलु ये आनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः। सर्वाण्यपरिमेयाणि तदेषां रूपमैश्वरम्॥ तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः। तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते॥ भावा न तास्तर्केण साधयेत्। प्रकृतिभ्यः परं यत् तु तदचिन्त्यस्य लक्षणम्॥ सुदर्शनं प्रवक्ष्यामि द्वीपं तु कुरुनन्दन। परिमण्डलो महाराज द्वीपोऽसौ चक्रसंस्थितः॥ नदीजलप्रतिच्छन्नः पर्वतैश्चाभ्रसंनिभैः। पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा॥ वृक्ष पुष्पफलोपेतैः सम्पन्नधनधान्यवान्। लवणेन समुद्रेण समन्तात् परिवारितः॥ यथा हि पुरुषः पश्येदादर्श मुखमात्मनः। एवं सुदर्शनद्वीपो दृश्यते चन्द्रमण्डले॥ द्विरंशे पिप्पलस्तत्र द्विरंशे च शशो महान्। सर्वौषधिसमावायः सर्वतः परिवारितः॥ आपस्ततोऽन्यो विज्ञेयाः शेषः संक्षेप उच्यते। ततोऽन्य उच्यते चायमेनं संक्षेपतः शृणु॥ धृतराष्ट्र उवाच उक्तो द्वीपस्य संक्षेपो विधिवद् बुद्धिमंस्त्वया। तत्त्वज्ञश्चासि सर्वस्य विस्तरं ब्रूहि संजय॥ यावान् भूम्यवकाशोऽयं दृश्यते शशलक्षणे। तस्य प्रमाणं प्रब्रूहि ततो वक्ष्यसि पिप्पलम्॥ वैशम्पायन उवाच एवं राज्ञा स पृष्टस्तु संजयो वाक्यमब्रवीत्। संजय उवाच प्रागायता महाराज षडेते वर्षपर्वताः। अवगाढा [भयतः समुद्रौ पूर्वपश्चिमौ॥ हिमवान् हेमकूटश्च निषधश्च नगोत्तमः। नीलश्च वैदूर्यमयः श्वेतश्च शशिसंनिभः॥ सर्वधातुविचित्रश्च शृङ्गवान् नाम पर्वतः। एते वै पर्वता राजन् सिद्धचारणसेविताः॥ एषामन्तरविष्कम्भो योजनानि सहस्रशः। तत्र पुण्या जनपदास्तानि वर्षाणि भारत॥ वसन्ति तेषु सत्त्वानि नानाजातीनि सर्वशः। इदं तु भारतं वर्षं ततो हैमवतं परम्॥ हेमकूटात् परं चैव हरिवर्षं प्रचक्षते। दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु॥ प्रागायतो महाभाग माल्यवान् नाम पर्वतः। ततः परं माल्यवतः पर्वतो गन्धमादनः॥ परिमण्डलयोर्मध्ये मेरुः कनकपर्वतः। आदित्यतरुणाभासो विधूम इव पावकः॥ योजनानां सहस्राणि चतुरशीतिरुच्छ्रितः। अधस्ताच्चतुरशीतिर्योजनानां महीपते॥ ऊर्ध्वमधश्च तिर्यक् च लोकानावृत्य तिष्ठति। तस्य पार्श्वेष्वमी द्वीपाश्चत्वारः संस्थिता विभो॥ भद्राश्वः केतुमालश्च जम्बूद्वीपश्च भारत। उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः॥ विहगः सुमुखो यस्तु सुपर्णस्यात्मजः किल। स वै विचिन्तयामास सौवर्णान् वीक्ष्य वायसान्॥ मेरुरुत्तममध्यानामधमानां च पक्षिणाम्। अविशेषकरो यस्मात् तस्मादेनं त्यजाम्यहम्॥ तमादित्योऽनुपर्येति सततं ज्योतिषां वरः। चन्द्रमाश्च सनक्षत्रो वायुश्चैव प्रदक्षिणः॥ स पर्वतो महाराज दिव्यपुष्पफलान्वितः। भवनैरावृतः सर्वैर्जाम्बूनदपरिष्कृतैः॥ तत्र देवगणा राजन् गन्धर्वासुरराक्षसाः। अप्सरोगणसंयुक्ताः शैले क्रीडन्ति सर्वदा॥ तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः। समेत्य विविधैर्यज्ञैर्यजन्तेऽनेकदक्षिणैः॥ तुम्बुरु रदश्चैव विश्वावसुर्हहा हुहूः। अभिगम्यामरश्रेष्ठांस्तुष्टुवुर्विविधैः स्तवैः॥ सप्तर्षयो महात्मानः कश्यपश्च प्रजापतिः। तत्र गच्छन्ति भद्रं ते सदा पर्वणि पर्वणि॥ तस्यैव मूर्धन्युशनाः काव्यो दैत्यैर्महीपते। इमानि तस्य रत्नानि तस्येमे रत्नपर्वताः॥ तस्मात् कुबेरो भगवांश्चतुर्थं भागमश्नुते। ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति॥ पार्श्वे तस्योत्तरे दिव्यं सर्वर्तुकुसुमैश्चितम्। कर्णिकारवनं रम्यं शिलाजालसमुद्गतम्॥ तत्र साक्षात् पशुपतिर्दिव्यैर्भूतैः समावृतः। उमासहायो भगवान् रमते भूतभावनः॥ कर्णिकारमयीं मालां बिभ्रत्पादावलम्बिनीम्। त्रिभित्रैः कृतोद्योतस्त्रिभिः सूर्यैरिवोदितैः॥ तमुग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः। पश्यन्ति न हि दुर्वृत्तैः शक्यो द्रष्टुं महेश्वरः॥ तस्य शैलस्य शिखरात् क्षीरधारा नरेश्वर। विश्वरूपापरिमिता भीमनिर्घातनि:स्वनः॥ पुण्या पुण्यतमैर्जुष्टा गङ्गा भागीरथी शुभा। प्लवन्तीव प्रवेगेन ह्रदे चन्द्रमसः शुभे॥ तया ह्युत्पादित: पुण्यः स ह्रदः सागरोपमः। तां धारयामास तदा दुर्धरा पर्वतैरपि॥ शतं वर्षसहस्राणां शिरसैव पिनाकधूक्। मरोस्तु पश्चिमे भागे केतुमालो महीपते॥ जम्बूखण्डस्तु तत्रैव सुमहान् नन्दनोयमः। आयुर्दश सहस्राणि वर्षाणां तत्र भारत॥ सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसोपमाः। अनामया वीतशोका नित्यं मुदितमानसाः॥ जायन्ते मानवास्तत्र निष्टप्तकनकप्रभाः। गन्धमादनशृङ्गेयु कुबेरः सह राक्षसैः॥ संवृतोऽप्सरसा सङ्घर्मोदते गुह्यकाधिपः। गन्धमादनपादेषु परेष्वपरगण्डिकाः॥ तत्र हृष्टा नरा राजंस्तेजोयुक्ता महाबलाः। स्त्रियश्चोत्पलवर्णाभाः सर्वाः सुप्रियदर्शनाः॥ नीलात् परतरं श्वेतं श्वेताद्धैरण्यकं परम्। वर्षमैरावतं राजन् नानाजनपदावृतम्॥ धनु:संस्थे महाराज द्वे वर्षे दक्षिणोत्तरे। इलावृतं मध्यमं तु पञ्च वर्षाणि चैव हि॥ उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः। आयुःप्रमाणमारोग्यं धर्मतः कामतोऽर्थतः॥ समन्वितानि भूतानि तेषु वर्षेषु भारत। एवमेषा महाराज पर्वतैः पृथिवी चिता।॥ हेमकूटस्तु सुमहान् कैलासो नाम पर्वतः। यत्र वैश्रवणो राजन् गुह्यकैः सह मोदते॥ अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति। हिरण्यशृङ्गः सुमहान् दिव्यो मणिमयो गिरिः॥ तस्य पार्श्वे महद् दिव्यं शुभं काञ्चनवालुकम्। रम्यं बिन्दुसरो नाम यत्र राजा भगीरथ॥ द्रष्टुं भागीरथीं गङ्गामुवास बहुलाः समाः। यूपा मणिमयास्तत्र चैत्याचापि हिरण्मयाः॥ तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः। स्रष्टा भूतपतिर्यत्र सर्वलोकैः सनातनः॥ उपास्यते तिग्मतेजा यत्र भूतैः समन्ततः। नरनारायणौ ब्रह्मा मनुः स्थाणुश्च पञ्चमः॥ तत्र दिव्या त्रिपथगा प्रथमं तु प्रतिष्ठिता। ब्रह्मलोकादपक्रान्ता सप्तधा प्रतिपद्यते॥ वस्वोकसारा नलिनी पावनी च सरस्वती। जम्बूनदी च सीता च गङ्गा सिन्धुश्च सप्तमी॥ अचिन्त्या दिव्यसंकाशा प्रभोरेषैव संविधिः। उपासते यत्र सत्रं सहस्रयुगपर्यये।॥ दृश्यादृश्या च भवति तत्र तत्र सरस्वती। एता दिव्याः सप्तगङ्गास्त्रिषु लोकेषु विश्रुताः॥ रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः। सर्प नागाश्च निषधे गोकर्णं च तपोवनम्॥ देवासुराणां सर्वेषां श्वेतपर्वत उच्यते। गन्धर्वा निषधे नित्यं नीले ब्रह्मपर्यस्तथा।। शृङ्गवांस्तु महाराज देवानां प्रतिसंचरः॥ इत्येतानि महाराज सप्त वर्षाणि भागशः। भूतान्युपनिविष्टानि गतिमन्ति ध्रुवाणि च॥ तेषामृद्धिर्बहुविधा दृश्यते दैवमानुषी। अशक्या परिसंख्यातुं श्रद्धेया तु बुभूषता॥ यां तु पृच्छसि मां राजन् दिव्यामेतां शशाकृतिम्। पार्श्वे शशस्य द्वे वर्षे उक्ते ये दक्षिणोत्तरे। कर्णौ तु नागद्वीपश्च काश्यपद्वीप एव च।॥ ताम्रपर्णः शिरो राजञ्छीमान् मलयपर्वतः। एतद् द्वितीयं द्वीपस्य दृश्यते शशसंस्थितम्॥ धृतराष्ट्र उवाच वर्षाणां चैव नामानि पर्वतानां च संजय। आचक्ष्व मे यथातत्त्वं ये च पर्वतवासिनः॥ संजय उवाच दक्षिणेन तु श्वेतस्य निषधस्योत्तरेण तु। वर्ष रमणकं नाम जायन्ते तत्र मानवाः॥ शुक्लाभिजनसम्पन्नाः सर्वे सुप्रियदर्शनाः। निःसपत्नाश्च ते सर्वे जायन्ते तत्र मानवाः॥ दश वर्षसहस्राणि शतानि दश पञ्च च। जीवन्ति ते महाराज नित्यं मुदितमानसाः॥ दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु। वर्ष हिरण्मयं नाम यत्र हैरण्वती नदी॥ यत्र चायं महाराज पक्षिराट् पतगोत्तमः। यक्षानुगा महाराज धनिनः प्रियदर्शनाः॥ महाबलास्तत्र जना राजन् मुदितमानसाः। एकादश सहस्राणि वर्षाणां ते जनाधिप॥ आयुः प्रमाणं जीवन्ति शतानि दश पञ्च च। शृङ्गाणि च विचित्राणि त्रीण्येव मनुजाधिप।॥ एकं मणिमयं तत्र तथैकं रोक्ममद्भुतम्। सर्वरत्नमयं चैकं भवनैरुपशोभितम्॥ तत्र स्वयंप्रभा देवी नित्यं वसति शाण्डिली। उत्तरेण तु शृङ्गस्य समुद्रान्ते जनाधिप॥ वर्षमैरावतं नाम तस्माच्छृङ्गमतः परम्। न तत्र सूर्यस्तपति न जीर्यन्ते च मानवाः॥ चन्द्रमाश्च सनक्षत्रो ज्योतिर्भूत इवावृतः। पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणा:॥ पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः। अनिष्यन्दा इष्टगन्धा निरहारा जितेन्द्रियाः॥ देवलोकच्युताः सर्वे तथा विरजसो नृप। त्रयोदश सहस्राणि वर्षाणां ते जनाधिप॥१४॥ आयुःप्रमाणं जीवन्ति नरा भरतसत्तम। क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः। हरिर्वसति वैकुण्ठः शकटे कनकामये॥ अष्टचक्रं हि तद् यान् भूतयुक्तं मनोजवम्। अग्निवर्णं महातेजो जाम्बूनदविभूषितम्॥ स प्रभुः सर्वभूतानां विभुश्च भरतर्षभ। संक्षेपो विस्तरश्चैव कर्ता कारयिता तथा॥ पृथिव्यापस्तथाऽऽकाशं वायुस्तेजश्च पार्थिव। स यज्ञः सर्वभूतानामास्यं तस्य हुताशनः॥ वैशम्पायन उवाच एवमुक्त: संजयेन धृतराष्ट्रो महामनाः। ध्यानमन्वगमद् राजन् पुत्रान् प्रति जनाधिप॥ स विचिन्त्य महातेजाः पुनरेवाब्रवीद् वचः। असंशयं सूतपुत्र कालः संक्षिपते जगत्।॥ सृजते च पुनः सर्वं विद्यति नेह शाश्वतम्। नरो नारायणश्चैव सर्वज्ञः सर्वभूतहत्॥ देवा वैकुण्ठमित्याहुनरा विष्णुमिति प्रभुम्॥ धृतराष्ट्र उवाच भारतस्यास्य वर्षस्य तथा हैमवतस्य च। प्रमाणमायुषः सूत बलं चापि शुभाशुभम्॥ अनागतमतिक्रान्तं वर्तमानं च संजय। आचक्ष्व मे विस्तरेण हरिवर्षं तथैव च॥ संजय उवाच चत्वारि भारते वर्षे युगानि भरतर्षभ। कृतं त्रेता द्वापरं च तिष्यं च कुरुवर्धन॥ पूर्वं कृतयुगं नाम ततस्त्रेतायुगं प्रभो। संक्षेपाद् द्वापरस्याथ ततस्तिष्यं प्रवर्तते॥ चत्वारि तु सहस्राणि वर्षाणां कुरुसत्तम। आयु:संख्या कृतयुगे संख्याता राजसत्तम॥ तथा त्रीणि सहस्राणि त्रेतायां मनुजाधिप। द्वे सहस्र द्वापरे तु भुवि तिष्ठति साम्प्रतम्॥ न प्रमाणस्थितिहस्ति तिष्येऽस्मिन् भरतर्षभ। गर्भस्थाश्च म्रियन्तेऽत्र तथा जाता म्रियन्ति च॥ महाबलाः महासत्त्वाः प्रज्ञागुणसमन्विताः। प्रजायन्ते च जाताश्च शतशोऽथ सहस्रशः॥ जाताः कृतयुगे राजन् धनिनः प्रियदर्शनाः। प्रजायन्ते च जाताश्च मुनयो वै तपोधनाः॥ महोत्साहा महात्मानो धार्मिका: सत्यवादिनः। प्रियदर्शना वपुष्मन्तो महावीर्या धनुर्धराः॥ वराह युधि जायन्ते क्षत्रियाः शूरसत्तमाः। त्रेतायां क्षत्रिया राजन् सर्वे वै चक्रवर्तिनः॥ सर्ववर्णाश्च जायन्ते सदा चैव च द्वापरे। महोत्साहा वीर्यवन्तः परस्परजयैषिणः॥ तेजसाल्पेन संयुक्ताः क्रोधनाः पुरुषा नृप। लुब्धा अनृतकाश्चैव तिष्ये जायन्ति भारत॥ ईर्ष्या मानस्तथा क्रोधो मायाऽसूया तथैव च। तिष्ये भवति भूतानां रागो लोभश्च भारत॥ संक्षेपो वर्तते राजन् द्वापरेऽस्मिन् नराधिप। गुणोत्तरं हैमवतं हरिवर्षं ततः परम्॥ धृतराष्ट्र उवाच जम्बूखण्डस्त्वया प्रोक्तो यथावदिह संजय। विष्कम्भमस्य प्रब्रहि परिमाण तु तत्त्वतः॥ समुद्रस्य प्रमाणं च सम्यगच्छिद्रदर्शनम्। शाकद्वीपं च मे ब्रूहि कुशद्वीपं च संजय॥ शाल्मलिं चैव तत्त्वेन क्रौञ्चद्वीपं तथैव च। ब्रूहि गावल्गणे सर्वं राहोः सोमार्कयोस्तथा॥ संजय उवाच राजन् सुबहवो द्वीपा यैरिदं सततं जगत्। सप्तद्वीपान् प्रवक्ष्यामि चन्द्रादित्यौ ग्रहं तथा॥ अष्टादश सहस्राणि योजनानि विशाम्पते। षट् शतानि च पूर्णानि विष्कम्भो जम्बुपर्वतः॥ लावणस्य समुद्रस्य विष्कम्भो द्विगुणः स्मृतः। नानाजनपदाकीर्णो मणिविदुमचित्रितः॥ नैकधातुविचित्रैश्च पर्वतैरुपशोभितः। सिद्धचारणसंकीर्णः सागर: परिमण्डलः॥ शाकद्वीपं च वक्ष्यामि यथावदिह पार्थिव। शृणु मे त्वं यथान्यायं ब्रुवतः कुरुनन्दन॥ जम्बूद्वीपप्रमाणेन द्विगुणः स नराधिप। विष्कम्भेण महाराज सागरोऽपि विभागशः॥ क्षीरोदो भरतश्रेष्ठ येन सम्परिवारितः। तत्र पुण्या जनपदास्तत्र न म्रियते जनः॥ कुत एव हि दुर्भिक्षं क्षमातेजोयुता हि ते। शाकद्वीपस्य संक्षेपो यथावद् भरतर्षभ॥ उक्त एष महाराज किमन्यत् कथयामि ते। धृतराष्ट्र उवाच शाकद्वीपस्य संक्षेपो यथावदिह संजय॥ उक्तस्त्वया महाप्राज्ञ विस्तर ब्रूहि तत्त्वतः। संजय उवाच तथैव पर्वता राजन् सप्तात्र मणिभूषिताः॥ रत्नाकरास्तथा नद्यस्तेषां नामानि मे शृणु। अतीव गुणवत् सर्वं तत्र पुण्यं जनाधिप॥ देवर्षिगन्धर्वयुतः प्रथमो मेरुरुच्यते। प्रागायतो महाराज मलयो नाम पर्वतः॥ ततो मेघाः प्रवर्तन्ते प्रभवन्ति च सर्वशः। ततः परेण कौरव्य जलधारो महागिरिः॥ ततो नित्यमुपादत्ते वासवः परमं जलम्। ततो वर्ष प्रभवति वर्षकाले जनेश्वर॥ उच्चैगिरी रैवतको यत्र नित्यं प्रतिष्ठिता। रेवती दिवि नक्षत्रं पितामहकृतो विधिः॥ उत्तरेण तु राजेन्द्र श्यामो नाम महागिरिः। नवमेघप्रभः प्रांशुः श्रीमानुज्ज्वलविग्रहः॥ यतः श्यामत्वमापन्नाः प्रजा जनपदेश्वर। धृतराष्ट्र उवाच सुमहान् संशयो मेऽद्य प्रोक्तोऽयं संजय त्वया। प्रजाः कथं सूतपुत्र सम्प्राप्ताः श्यामतामिह॥ संजय उवाच सर्वेष्वेव महाराज द्वीपेषु कुरुनन्दन। गौरः कृष्णश्च वर्णों द्वौ तयोर्वर्णान्तरे नृप।॥ श्यामो यस्मात् प्रवृत्तो वै तत् ते वक्ष्यामि भारत। आस्तेऽत्र भगवान् कृष्णस्तत्कान्त्याश्यामतां गतः॥ ततः परं कौरवेन्द्र दुर्गशैलो महोदयः। केसरः केसरयुतो यतो वातः प्रवर्तते॥ तेषां योजनविष्कम्भो द्विगुणः प्रविभागशः। वर्षाणि तेषु कौरव्य सप्तोक्तानि मनीषिभिः॥ महामेरुर्महाकाशो जलदः कुमुदोत्तरः। जलधारो महाराज सुकुमार इति स्मृतः॥ रेवतस्य त कौमारः श्यामस्य मणिकाञ्चनः। केसरस्याथ मोदाकी परेण तु महापुमान्॥ परिवार्य तु कौरव्य दैर्ध्य ह्रस्वत्वमेव च। जम्बूद्वीपेन संख्यातस्तस्य मध्ये महाद्रुमः॥ शाको नाम महाराज प्रजा तस्य सदानुगा। तत्र पुण्या जनपदाः पूज्यते तत्र शंकरः॥ तत्र गच्छन्ति सिद्धाश्च चारणा दैवतानि च। धार्मिकाच प्रजा राजश्चत्वारोऽतीव भारत॥ वर्णाः स्वकर्मनिरता न च स्तेनोऽत्र दृश्यते। दीर्घायुषो महाराज जरामृत्युविवर्जिताः॥ प्रजास्तत्र विवर्धन्ते वर्षास्विव समुद्रगाः। नद्यः पुण्यजलास्तत्र गङ्गा च बहुधा गता॥ सुकुमारी कुमारी च शीताशी वेणिका तथा। महानदी च कौरव्य तथा मणिजला नदी॥ चक्षुर्वर्धनिका चैव नदी भरतसत्तम। तत्र प्रवृताः पुण्योदा नद्यः कुरुकुलोद्वह॥ सहस्राणां शतोन्येव यतो वर्षति वासवः। न तासां नामदेयानि परिमाणं तथैव च॥ शक्यन्ते परिसंख्यातुं पुण्यास्ता हि सरिद्वराः। तव पुण्या जनपदाश्चत्वारो लोकसम्मताः॥ मङ्गाश्च मशकाश्चैव मानसा मन्दगास्तथा। मङ्गा ब्राह्मणभूयिष्ठाः स्वकर्मनिरता नृप॥ मशकेषु तु राजन्या धार्मिकाः सर्वकामदाः। मानसाश्च महाराज वैश्यधर्मोपजीविनः॥ सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः। शूद्रास्तु मन्दगा नित्यं पुरुषा धर्मशीलिनः॥ न तत्र राजा राजेन्द्र न दण्डो न च दण्डिकः। स्वधर्मेणैव धर्मज्ञास्ते रक्षन्ति परस्परम्॥ एतावदेव शक्यं तु तत्र द्वीपे प्रभाषितुम्। एतदेव च श्रोतव्यं शाकद्वीपे महौजसि॥ वैशम्पायन उवाच अथ गावल्गणिविद्वान् संयुगादेत्य भारत। प्रत्यक्षदर्शी सर्वस्य भूतभव्यभविष्यवित्॥ ध्यायते धृतराष्ट्राय सहसोत्पत्य दुःखितः। आचष्ट निहतं भीष्मं भरतानां पितामहम्॥ संजय उवाच संजयोऽहं महाराज नमस्ते भरतर्षभ। हतो भीष्मः शान्तनवो भरतानां पितामहः॥ ककुदं सर्वयोधानां धाम सर्वधनुष्मताम्। शरतल्पगतः सोऽद्य शेते कुरुपितामहः॥ यस्य वीर्यं समाश्रित्य द्यूतं पुत्रस्तवाकरोत्। सशेते निहतो राजन् संख्ये भीष्मः शिखण्डिना॥ यः सर्वान् पृथिवीपालान् समवेतान् महामृधे। जिगायकरथेनैव काशिपुर्यां महारथः॥ जामदग्न्यं रणे रामं योऽयुध्यदपसम्भ्रमः। न हतो जामदग्न्येन स हतोऽद्य शिखण्डिना॥ महेन्द्रसदृशः शौर्ये स्थैर्ये च हिमवानिव। समुद्र इव गाम्भीर्ये सहिष्णुत्वे धरासमः॥ शरदंष्ट्रो धनुर्वक्त्रः खङ्गजिह्वो दुरासदः। नरसिंहः पिता तेऽद्य पाञ्चाल्येन निपातितः॥ पाण्डवानां महासैन्यं यं दृष्ट्वोद्यतमाहवे। प्रावेपत भयोद्विग्नं सिंहं दृष्ट्वेव गोगणः॥ परिरक्ष्य स सेनां ते दशरात्रमनीकहा। जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम्॥ यः स शक्र इवाक्षोभ्यो वर्षन् बाणान् सहस्रशः। जघान युधि योधानामर्बुदं दशभिर्दिनैः॥ स शेते निहतो भूमौ वातभग्न इव द्रुमः। तव दुर्मत्रिते राजन् यथा नाहः स भारत॥ धृतराष्ट्र उवाच कथं कुरूणामृषभो हतो भीष्मः शिखण्डिना। कथं रथात् स न्यपतत् पिता मे वासवोपमः॥ कथमाचक्ष्व मे योधा हीना भीष्मेण संजय। बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा॥ तस्मिन् हते महाप्राज्ञे महेष्वासे महाबले। महासत्त्वे नरव्याने किम आसीन्मनस्तव॥ आर्ति परामाविशति मनः शंससि मे हतम्। कुरूणामृषभं वीरमकम्पं पुरुषर्षभम्॥ के तं यान्तमनुप्राप्ता के वास्यासन् पुरोगमाः। केऽतिष्ठन् के न्यवर्तन्त केऽन्ववर्तन्त संजय॥ के शूरा रथशार्दूलमद्भुतं क्षत्रियर्षभम्। तथानीकं गाहमानं सहसा पृष्ठतोऽन्वयुः॥ यस्तमोऽर्क इवापोहन् परसैन्यममित्रहा। सहस्ररश्मिप्रतिमः परेषां भयमादधत्॥ अकरोद् दुष्करं कर्म रणे पाण्डुसुतेषु यः। ग्रसमानमनीकानि य एनं पर्यवारयन्॥ कृतिनं तं दुराधर्षं संजयास्य त्वमन्तिके। कथं शान्तनवं युद्धे पाण्डवाः प्रत्यवारयन्॥ निकृन्तन्तमनीकानि शरदंष्ट्र मनस्विनम्। चापव्यात्ताननं घोरमसिजिह्व दुरासदम्॥ अनर्ह पुरुषव्याघ्रं ह्रीमन्तमपराजितम्। पातयामास कौन्तेयः कथं तमजितं युधि॥ उग्रधन्वानमुग्रेषु वर्तमानं रथोत्तमे। परेषामुत्तमाङ्गानि प्रचिन्वन्तमथेषुभिः॥ पाण्डवानां महत् सैन्यं यं दृष्ट्वोद्यतमाहवे। कालाग्निमिव दुर्धर्षं समचेष्टत नित्यशः॥ परिकृष्य स सेनां तु दशरात्रमनीकहा। जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम्॥ यः स शक्र इवाक्षय्यं वर्ष शरमयं क्षिपन्। जघान युधि योधानामर्बुद दशभिर्दिनैः॥ स शेते निहतो भूमौ वातभुग्न इव दुमः। मम दुर्मन्त्रितेनाजौ यथा नार्हति भारत॥ कथं शान्तनवं दृष्ट्वा पाण्डवानामनीकिनी। प्रहर्तुमशकत् तत्र भीष्म भीमपराक्रमम्॥ कथं भीष्मेण संग्रामं प्राकुर्वन् पाण्डुनन्दनाः। कथं च नाजयद् भीष्मो द्रोणे जीवति संजय॥ कृपे संनिहिते तत्र भरद्वाजात्मजे तथा। भीष्मः प्रहरतां श्रेष्ठः कथं स निधनं गतः॥ कथं चातिरथस्तेन पाञ्चाल्येन शिखण्डिना। भीष्मो विनिहतो युद्धे देवैरपि दुरासदः॥ यः स्पर्धते रणे नित्यं जामदग्न्यं महाबलम्। अजितं जामदग्न्येन शक्रतुल्यपराक्रमम्॥ तं हतं समरे भीष्मं महारथकुलोदितम्। संजयाचक्ष्व मे वीरं येन शर्म न विद्महे॥ मामकाः के महेष्वासा नाजहुः संजयाच्युतम्। दुर्योधनसमादिष्टाः के वीराः पर्यवारयन्॥ यच्छिखण्डिमुखाः सर्वे पाण्डवा भीष्ममभ्ययुः। कच्चित् ते कुरवः सर्वे नाजहुः संजयाच्युतम्॥ अश्मसारमयं नूनं हृदयं सुदृढं मम। यच्छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते॥ यस्मिन् सत्यं च मेधा च नीतिश्च भरतर्षभे। अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि॥ मौर्वीघोषस्तनयित्नुः पृषत्कपृषतो महान्। धनुर्हादमहाशब्दो महामेघ इवोन्नतः॥ योऽभ्यवर्षत कौन्तेयान् सपाञ्चालान् ससृजयान्। निघ्नन् पररथान् वीरो दानवानिव वज्रभृत्॥ इष्वस्त्रसागरं घोरं बाणग्राहं दुरासदम्। कार्मुकोर्मिणमक्षय्यमद्वीपं चलमप्लवम्॥ गदासिमकरावासं हयावर्तं गजाकुलम्। पदातिमत्स्यकलिलं शङ्खदुन्दुभिनि:स्वनम्॥ हयान् गजपदातींश्च रथांश्च तरसा बहून्। जिमज्जयन्तं समरे परवीरापहारिणम्॥ विदह्यमानं कोपेन तेजसा च परंतयम्। वेलेव मकरावासं के वीराः पर्यवारयन्॥ भीष्मो यदकरोत् कर्म समरे संजयारिहा। दुर्योधनहितार्थाय के तस्यास्य पुरोऽभवन्॥ पुरस्तादवर्तन्त केऽरक्षन् दक्षिणं चक्र भीष्मस्यामिततेजसः। पृष्ठतः के परान् वीरानपासेधन् यतव्रताः॥ के रक्षन्तो भीष्ममन्तिके। केऽरक्षन्नुत्तरं चक्रं वीरा वीरस्य युध्यतः॥ वामे चक्रे वर्तमाना: केऽध्न संजय सुंजयान्। अग्रतोऽग्र्यमनीकेषु केऽभ्यरक्षन् दुरासदम्॥ पार्श्वत: केऽभ्यरक्षन्त गच्छन्तो दुर्गमां गतिम्। समूहे के परान् वीरान् प्रत्ययुध्यन्त संजय॥ रक्ष्यमाणः कथं वीरैर्गोप्यमानाच तेन ते। दुर्जयानामनीकानि नाजयंस्तरसा युधि॥ सर्वलोकेश्वरस्येव परमेष्ठीप्रजापतेः। कथं प्रहर्तुमपि ते शेकुः संजय पाण्डवाः॥ यस्मिन् द्वीपे समाश्वस्य युध्यन्ते कुरवः परैः। तं निमग्नं नरव्याघ्र भीष्मं शंससि संजय॥ यस्य वीर्यं समाश्रित्य मम पुत्रो बृहद्बलः। न पाण्डवानगणयत् कथं स निहतः परैः॥ यः पुरा विबुधैः सर्वैः सहाये युद्धदुर्मदः। काक्षितो दानवान् उद्भिः पिता मम महाव्रतः॥ यस्मिञ्जाते महावीर्ये शान्तनुर्लोकविश्रुतः। शोकं दैन्य च दुःखं च प्राजहात् पुत्रलक्ष्मणि॥ प्रोक्तं परायणं प्राज्ञं स्वधर्मनिरतं शुचिम्। वेदवेदाङ्गत्तत्त्वज्ञं कथं शंससि मे हतम्॥ सर्वास्त्रविनयोपेतं शान्तं दान्तं मनस्विनम्। हतं शान्तनवं श्रुत्वा मन्ये शेषं हतं बलम्॥ धर्मादधर्मो बलवान् सम्प्राप्त इति मे मतिः। यत्र वृद्धं गुरुं हत्वा राज्यमिच्छन्ति पाण्डवाः॥ जामदग्न्यः पुरा रामः सर्वास्त्रविदनुत्तमः। अम्बार्थमुद्यतः संख्ये भीष्मेण युधि निर्जितः॥ तमिन्द्रसमकर्माणं ककुदं सर्वधन्विनाम्। हत शंससि मे भीष्मं किं नु दुःखमतः परम्॥ असकृत् क्षत्रियवाताः संख्ये येन विनिर्जिताः। जामदग्न्येन वीरेण परवीरनिघातिना॥ न हतो यो महाबुद्धिः सहतोऽद्य शिखण्डिना। तस्मानूनं महावीर्याद्भार्गवाद् युद्धदुर्मदात्॥ तेजोवीर्यबलैर्भूयान् शिखण्डी द्रुपदात्मजः। यः शूरं कृतिनं युद्धे सर्वशास्त्रविशारदम्॥ परमास्त्रविदं वीरं जघान भरतर्षभम्। के वीरास्तममित्रघ्नमन्वयुः शस्त्रसंसदि॥ शंस मे तद् यथा चासीद् युद्धं भीष्मस्य पाण्डवैः। योषेव हतवीरा मे सेना पुत्रस्य संजय॥ अगोपमिव चोद्भ्रान्तं गोकुलं तद् बलं मम। पौरुषं सर्वलोकस्य परं यस्मिन् महाहवे॥ परासक्ते च वस्तस्मिन् कथमासीन्मनस्तदा। जीवितेऽप्यद्य सामर्थ्य किमिवास्मासु संजय॥ घातयित्वा महावीर्यं पितरं लोकधार्मिकम्। अगाधे सलिले मग्नां नावं दृष्ट्व पारगाः॥ भीष्मे हते भृशं दुःखान्मन्ये शोचन्ति पुत्रकाः। अद्रिसारमयं नूनं हृदयं मम संजय॥ यच्छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते। यस्मिन्नस्त्राणि मेधा च नीतिश्च पुरुषर्षभे॥ अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि। न चास्त्रेण न शौर्येण तपसा मेधया न च॥ न धृत्या न पुनस्त्यागान्मृत्योः कश्चिद् विमुच्यते। कालो नूनं महावीर्यः सर्वलोकदुरत्ययः॥ यत्र शान्तनवं भीष्मं हतं शंससि संजय। पुत्रशोकाभिसंतप्तो महद् दुःखमचिन्तयम्॥ आशंसेऽहं परंत्राणं भीष्माच्छान्तनुनन्दनात्। यदाऽऽदित्यमिवापश्यत् पतितं भुवि संजय॥ दुर्योधनः शान्तनवं किं तदा प्रत्यपद्यत। नाहं स्वेषां परेषां वा बुद्ध्या संजय चिन्तयन्॥ शेषं किंचित् प्रपश्यामि प्रत्यनीके महीक्षिताम्। दारुणः क्षत्रधर्मोऽयमृषिभिः सम्प्रदर्शितः॥ यत्र शान्तनवं हत्वा राज्यमिच्छन्ति पाण्डवाः। वयं वा राज्यमिच्छामो घातयित्वा महाव्रतम्॥ क्षत्रधर्मे स्थिताः पार्था नापराध्यन्ति पुत्रकाः। एतदार्येण कर्तव्यः कृच्छ्रास्वापत्सु संजय॥ पराक्रमः परा शक्त्या तत् तु तस्मिन् प्रतिष्ठितम्। अनीकानि विनिघ्नन्तं ह्रीमन्तमपराजितम्॥ कथं शान्तनवं तात पाण्डुपुत्रा न्यवारयन्। कथं युक्तान्यनीकानि कथं युद्धं महात्मभिः॥ कथं वा निहतो भीष्मः पिता संजय मे परैः। दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः॥ दुःशासनश्च कितवो हते भीष्मे किमब्रुवन्। यच्छरीरैरुपास्तीर्णां नरवारणवाजिनाम्॥ शरशक्तिमहाखड्गतोमराक्षां महाभयाम्। प्राविशन् कितवा मन्दाः सभां युद्धदुरासदाम्॥ प्राणद्यूते प्रतिभये केऽदीव्यन्त नरर्षभाः। के जीयन्ते जितास्तत्र कृतलक्ष्या निपातिताः॥ अन्ये भीष्माच्छान्तनवात् तन्ममाचक्ष्व संजय। न हि मे शान्तिरस्तीह श्रुत्वा देवव्रतं हतम्॥ पितरं भीमकर्माणं भीष्ममाहवशोभिनम्। आति मे हृदये रूढां महती पुत्रहानिजाम्॥ त्वं हि मे सर्पिषेवाग्निमुद्दीपयसि संजय। महान्तं भारमुद्यम्य विश्रुतं सार्वलौकिकम्॥ दृष्ट्वा विनिहतं भीष्मं मन्ये शोचन्ति पुत्रकाः। श्रोष्यामि तानि दुःखानि दुर्योधनकृतान्यहम्॥ तस्मान्मे सर्वमाचक्ष्व यद् वृत्तं तत्र संजय। यद् वृत्तं तत्र संग्रामे मन्दस्याबुद्धिसम्भवम्॥ अपनीतं सुनीतं यत् तन्ममाचक्ष्व संजय। यत् कृतं तत्र संग्रामे भीष्मेण जयमिच्छता॥ तेजोयुक्तं कृतास्त्रेण शंस तच्चाप्यशेषतः। तथा तदभवद् युद्धं कुरुपाण्डवसेनयोः॥ क्रमेण येन यस्मिंश्च काले यच्च यथाऽभवत्॥ संजय उवाच त्वयुक्तोऽयमनुप्रश्नो महाराज यथाऽर्हसि। न तु दुर्योधने दोषमिममासंक्तुमर्हसि॥ य आत्मनो दुष्चरितादशुभं प्राप्नुयानरः। एनसा तेन नान्यं स उपाशङ्कितुमर्हति॥ महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत्। स वध्यः सर्वलोकस्य निन्दितानि समाचरन्।॥ निकारो निकृतिप्रज्ञैः पाण्डवैस्त्वत्प्रतीक्षया। अनुभूतः सहामात्यैः क्षान्तश्च सुचिरं वने॥ हयानां च गजानां च राज्ञां चामिततेजसाम्। प्रत्यक्षं यन्मया दृष्टं दृष्टं योगबलेन च॥ शृणु तत् पृथिवीपाल मा च शोके मनः कृथाः। दिष्टमेतत् पुरा नूनमिदमेव नराधिप॥ नमस्कृत्वा पितुस्तेऽहं पाराशर्याय धीमते। यस्य प्रसादाद् दिव्यं तत् प्राप्तं ज्ञानमनुत्तमम्॥ दृष्टिश्चातीन्द्रिया राजन् दूराच्छ्रवणमेव च। परचित्तस्य विज्ञानमतीतानागतस्य च॥ व्युत्थितोत्पत्तिविज्ञानमाकाशे च गतिः शुभा। अस्त्रैरसंगो युद्धेषु वरदानान्महात्मनः॥ शृणु मे विस्तरेणेदं विचित्रं परमाद्भुतम्। भरतानामभूद् युद्धं यथा तल्लोमहर्षणम्॥ तेष्वनीकेषु यत्तेषु व्यूढेषु च विधानतः। दुर्योधनो महाराज दुःशासनमथाब्रवीत्॥ दुःशासनं रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः। अनीकानि च सर्वाणि शीघ्रं त्वमनुचोदय॥ अयं स मामभिप्राप्तो वर्षपूगाभिचिन्तितः। पाण्डवानां ससैन्यानां कुरूणां च समागमः॥ नातः कार्यतमं मन्ये रणे भीष्मस्य रक्षणात्। हन्याद् गुप्तो ह्यसौ पार्थान् सोमकांश्च समुंजयान्॥ अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम्। श्रूयते स्त्रो ह्यसौ पूर्वं तस्माद् वयॊ रणे मम॥ तस्माद् भीष्मो रक्षितव्यो विशेषेणेति मे मतिः। शिखण्डिनो वधे यत्ताः सर्वे तिष्ठन्तु मामकाः॥ तथा प्राच्याः प्रतीच्याश्च दाक्षिणात्योत्तरापथाः। सर्वथाऽस्त्रेषु कुशलास्ते रक्षन्तु पितामहम्॥ अरक्ष्यमाणं हि वृको हन्यात् सिहं महाबलम्। मा सिहं जम्बुकेनेव घातयामः शिखण्डिना॥ वामं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम्। गोप्तारौ फाल्गुनं प्राप्तौ फाल्गुनोऽपि शिखण्डिनः।।१९। संरक्ष्यमाणः पार्थेन भीष्मेण च विवर्जितः। यथा न हन्याद् गाङ्गेय दुःशासन तथा कुरु॥ संजय उवाच ततो रजन्यां व्युष्टायां शब्दः समभवन्महान्। क्रोशतां भूमिपालानां युज्यतां युज्यतामिति॥ शङ्खदुन्दुभिशौषैश्च सिंहनादैश्च भारत। हयहेषितनादैश्च रथनेमिस्वनैस्तथा।॥ गजानां बृहतां चैव योधानां चापि गर्जताम्। क्ष्वेलितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत्॥ उदतिष्ठन्महाराज सर्वं युक्तमशेषतः। सूर्योदये महत् सैन्यं कुरुपाण्डवसेनयोः॥ दुःशासनं रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः। अनीकानि च सर्वाणि शीघ्रं त्वमनुचोदय॥ अयं स मामभिप्राप्तो वर्षपूगाभिचिन्तितः। पाण्डवानां ससैन्यानां कुरूणां च समागमः॥ नातः कार्यतमं मन्ये रणे भीष्मस्य रक्षणात्। हन्याद् गुप्तो ह्यसौ पार्थान् सोमकांश्च समुंजयान्॥ अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम्। श्रूयते स्त्रो ह्यसौ पूर्वं तस्माद् वयॊ रणे मम॥ तस्माद् भीष्मो रक्षितव्यो विशेषेणेति मे मतिः। शिखण्डिनो वधे यत्ताः सर्वे तिष्ठन्तु मामकाः॥ तथा प्राच्याः प्रतीच्याश्च दाक्षिणात्योत्तरापथाः। सर्वथाऽस्त्रेषु कुशलास्ते रक्षन्तु पितामहम्॥ अरक्ष्यमाणं हि वृको हन्यात् सिहं महाबलम्। मा सिहं जम्बुकेनेव घातयामः शिखण्डिना॥ वामं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम्। गोप्तारौ फाल्गुनं प्राप्तौ फाल्गुनोऽपि शिखण्डिनः।।१९। संरक्ष्यमाणः पार्थेन भीष्मेण च विवर्जितः। यथा न हन्याद् गाङ्गेय दुःशासन तथा कुरु॥ संजय उवाच ततो रजन्यां व्युष्टायां शब्दः समभवन्महान्। क्रोशतां भूमिपालानां युज्यतां युज्यतामिति॥ शङ्खदुन्दुभिशौषैश्च सिंहनादैश्च भारत। हयहेषितनादैश्च रथनेमिस्वनैस्तथा।॥ गजानां बृहतां चैव योधानां चापि गर्जताम्। क्ष्वेलितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत्॥ उदतिष्ठन्महाराज सर्वं युक्तमशेषतः। सूर्योदये महत् सैन्यं कुरुपाण्डवसेनयोः॥ राजेन्द्र तव पुत्राणां पाण्डवानां तथैव च। दुष्प्रधृष्याणि चास्त्राणि सशस्त्रकवचानि च॥ ततः प्रकाशे सैन्यानि समदृश्यन्त भारत। त्वदीयानां परेषां च शस्त्रवन्ति महान्ति च॥ तत्र नागा रथाश्चैव जाम्बूनदपरिष्कृताः। विभ्राजमाना दृश्यन्ते मेघा इव सविद्युतः॥ :॥ रथानीकान्यदृश्यन्त नगराणीव भूरिशः। अतीव शुशुभे तत्र पिता ते पूर्णचन्द्रवत्॥ धनुर्भिरृष्टिभिः खङ्गैर्गदाभिः शक्तितोमरैः। योधाः प्रहरणैः शुभैस्तेष्वनीकेष्ववस्थिताः॥ गजाः पदाता रथिनस्तुरगाश्च विशाम्पते। व्यतिष्ठन् वागुराकाराः शतशोऽथ सहस्रशः॥ ध्वजा बहुविधाकारा व्यदृश्यन्त समुच्छ्रिताः। स्वेषा चैव परेषां च द्युतिमन्तः सहस्रशः॥ काञ्चना मणिचित्राङ्गा ज्वलन्त इव पावकाः। अर्चिष्मन्तो व्यरोचन्त गजारोहाः सहस्रशः॥ महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव। संनद्धास्ते प्रवीराश्च ददृशुर्युद्धकाक्षिणः॥ उद्यतैरायुधैश्चित्रास्तलबद्धाः कलापिनः। ऋषभाक्षा मनुष्येन्द्राश्चमूमुखगता बभुः॥ शकुनिः सौबल: शल्य: आवन्त्योऽथ जयद्रथः। विन्दानुविन्दौ कैकेयाः काम्बोजस्य सुदक्षिणः॥ श्रुतायुधश्च कालिङ्गो जयत्सेनश्च पार्थिवः। बृहद्बलश्च कौशल्यः कृतवर्मा च सात्वतः॥ दशैते पुरुषव्याघ्राः शूराः परिघबाहवः। अक्षौहिणीनां पतयो यज्वानो भूरिदक्षिणाः॥ एते चान्ये च बहवो दुर्योधनवशानुगाः। राजानो राजपुत्राश्च नीतिमन्तो महारथाः॥ संनद्धाः समदृश्यन्त स्वेष्वनीकेष्ववस्थिताः। बद्धकृष्णाजिनाः सर्वे बलिनो युद्धशालिनः॥ हृष्टा दुर्योधनस्यार्थे ब्रह्मलोकाय दीक्षिताः। समर्था दश वाहिन्यः परिगृह्य व्यवस्थिताः॥ एकादशी धार्तराष्ट्रा कौरवाणां महाचमूः। अग्रतः सर्वसैन्यानां यत्र शान्तनवोऽग्रणीः॥ श्वेतोष्णीषं श्वेतहयं श्वेतवर्माणमच्युतम्। अपश्याम महाराज भीष्मं चन्द्रमिवोदितम्॥ हेमतालध्वजं भीष्मं राजते स्यन्दने स्थितम्। श्वेताभ्र इव तीक्ष्णांशु ददृशुः कुरुपाण्डवाः॥ सृञ्जयाश्च महेष्वासा धृष्टद्युम्नपुरोगमाः। जृम्भमाणं महासिंहं दृष्ट्वा क्षुद्रमृगा यथा॥ धृष्टद्युम्नमुखाः सर्वे समुद्विविजिरे मुहुः। एकादशैताः श्रीजुष्टा वाहिन्यस्तव पार्थिव॥ पाण्डवानां तथा सप्त महापुरुषपालिताः। उन्मत्तमकरावर्ती महाग्राहसमाकुलौ॥ युगान्ते समवेतौ द्वौ दृश्यते सागराविव। नैव नस्तादृशो राजन् दृष्टपूर्वो न च श्रुतः। अनीकानां समेतानां कौरवाणां तथाविधः॥ संजय उवाच यथा स भगवान् व्यासः कृष्णद्वैपायनोऽब्रवीत्। तथैव सहिताः सर्वे समाजग्मुर्महीक्षितः॥ मघाविषयगः सोमस्तद् दिनं प्रत्यपद्यत। दीप्यमानाश्च सम्पेतुर्दिवि सप्त महाग्रहाः॥ द्विधाभूत इवादित्य उदये प्रत्यदृश्यत! ज्वलन्त्या शिखया भूयो भानुमानुदितो रविः॥ ववाशिरे च दीप्तायां दिशि गोमायुवायसाः। लिप्समानाः शरीराणि मांसशोणितभोजनाः॥ अहन्यहनि पार्थानां वृद्धः कुरुपितामहः। भरद्वाजात्मजश्चैव प्रातरुत्थाय संयतौ॥ जयोऽस्तु पाण्डुपुत्राणामित्यूचतुररिंदम। युयुधाते तवार्थाय यथा स समयः कृतः॥ सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव। समानीय महीपालानिदं वचनमब्रवीत्॥ इदं वः क्षत्रिया द्वारं स्वर्गायापावृतं महत्। गच्छध्वं तेन शक्रस्य ब्रह्मणः सहलोकताम्॥ एष वः शाश्वतः पन्थाः पूर्वैः पूर्वतरैः कृतः। सम्भावयध्वमात्मानमव्यग्रमनसो युधि॥ नाभागोऽथ ययातिश्च मान्धाता नहुषो नृगः। संसिद्धाः परमं स्थानं गताः कर्मभिरीदृशैः॥ अधर्मः क्षत्रियस्यैष यद् व्याधिमरणं गृहे। यदयोनिधनं याति सोऽस्य धर्मः सनातनः॥ एवमुक्ता महीपाला भीष्मेण भरतर्षभ। निर्ययुः स्वान्यनीकानि शोभयन्तो रथोत्तमैः॥ स त वैकर्तनः कर्णः सामात्यः सह बन्धुभिः। न्यासितः समरे शस्त्रं भीष्मेण भरतर्षभ॥ अपेतकर्णाः पुत्रास्ते राजानश्चैव तावकाः। निर्ययुः सिंहनादेन नादयन्तो दिशो दश॥ श्वेतैश्छत्रैः पताकाभिर्ध्वजवारणवाजिभिः। तान्यनीकानि शोभन्ते गजैरथ पदातिभिः॥ भेरीपणवशब्दैश्च दुन्दुभीनां च नि:स्वनैः। रथनेमिनिनादैश्च बभूवाकुलिता मही॥ काञ्चनाङ्गदकेयूरैः कार्मुकैश्च महारथाः। भ्राजमाना व्यराजन्त साग्नयः पर्वता इव॥ तालेन महता भीष्मः पञ्चतारेण केतुना। विमलादित्यसंकाशस्तस्थौ कुरुचमुपरि॥ ये त्वदीया महेष्वासा राजानो भरतर्षभ। अवर्तन्त यथादेशं राजशान्तनवस्य ते॥ स तु गोवासनः शैव्यः सहितः सर्वराजभिः। ययौ मातङ्गराजेन राजाहेण पताकिना। पद्मवर्णस्त्वनीकानां सर्वेषामग्रतः स्थितः॥ अश्वत्थामा ययौ यत्तः सिंहलाङ्गलकेतुना। श्रुतायुधश्चित्रसेनः पुरुमित्रो विविंशतिः॥ शल्यो भूरिश्रवाश्चैव विकर्णश्च महारथः। एते सप्त महेष्वासा द्रोणपुत्रपुरोगमाः ॥ स्यन्दनैर्वरवर्माणो भीष्मस्यासन् पुरोगमाः। तेषामपि महोत्सेधाः शोभयन्तो रथोत्तमान्॥ भ्राजमाना व्यरोचन्त जाम्बूनदमया ध्वजाः। जाम्बूनदमयी वेदी कमण्डलुविभूषिता॥ केतुराचार्यमुख्यस्य द्रोणस्य धनुषा सह। अनेकशतसाहस्रमनीकमनुकर्षतः॥ महान् दुर्योधनस्यासीन्नागो मणिमयो ध्वजः। तस्य पौरवकालिङ्गौ काम्बोजश्च सुदक्षिणः॥ क्षेमधन्वा च शल्यश्च तस्थुः प्रमुखतो रथाः। स्यन्दनेन महार्हेण केतुना वृषभेण च। प्रकर्षन्नेव सेनाग्रं मागधस्य कृपो ययौ॥ तदङ्गपतिना गुप्तं कृपेण च मनस्विना। शारदाम्बुधरप्रख्यं प्राच्यानां सुमहद् बलम्॥ अनीकप्रमुखे तिष्ठन् वराहेण महायशाः। शुशुभे केतुमुख्येन राजतेन जयद्रथः॥ शतं रथसहस्राणां तस्यासन् वशवर्तिनः। अष्टौ नागसहस्राणि सादिनामयुतानि षट्॥ तत्सिन्धुपतिना राज्ञा पालितं ध्वजिनीमुखम्। अनन्तरथनागाश्वमशोभत महद् बलम्॥ षष्ट्या रथसहस्रेस्तु नागानामयुतेन च। पतिः सर्वकलिङ्गानां ययौ केतुमता सह॥ तस्य पर्वतसंकाशा व्यरोचन्त महागजाः यन्त्रतोमरतूणीरैः पताकाभिः सुशोभिताः॥ शुशुभे केतुमुख्येन पावकेन कलिङ्गकः। श्वेतच्छत्रेण निष्केण चामरव्यजनेन च॥ केतुमानपि मातङ्गं विचित्रपरमाङ्कुशम्। आस्थितः समरे राजन् मेघस्थ इव भानुमान्॥ तेजसा दीप्यमानस्तु वारणोत्तममास्थितः। भगदत्तो ययौ राजा यथा वज्रधरस्तथा॥ गजस्कन्धगतावास्तां भगदत्तेन सम्मितौ। विन्दानुविन्दावावन्त्यौ केतुमन्तमनुव्रतौ॥ स रथानीकवान् व्यूहो हस्त्यङ्गो नृपशीर्षवान्। वाजिपक्षः पतत्युग्रः प्रहसन् सर्वतोमुखः॥ द्रोणेन विहितो राजन् राज्ञा शान्तनवेन च। तथैवाचार्यपुत्रेण बाह्नीकेन कृपेण च॥ संजय उवाच ततो मुहूर्तात् तुमुलः शब्दो हृदयकम्पनः। अश्रूयत महाराज योधानां प्रयुयुत्सताम्॥ शङ्खदुन्दुभिघोषैश्च वारणानां च बृंहितैः। नेमिघोषै रथानां च दीर्यतीव वसुंधराः॥ हयानां हेषमाणानां योधानां चैव गर्जताम्। क्षणेनैव नभो भूमिः शब्देनापूरितं तदा॥ पुत्राणां तव दुर्धर्ष पाण्डवानां तथैव च। समकम्पन्त सैन्यानि परस्परसमागमे॥ तत्र नागा स्थाश्चैव जाम्बूनदविभूषिताः। भ्राजमाना व्यदृश्यन्त मेघा इव सविद्युतः॥ ध्वजा बहुविधाकारास्तावकानां नराधिप। काञ्चनाङ्गदिनो रेजुर्खलिता इव पावकाः॥ स्वेषां चैव परेषां च समदृश्यन्त भारत। महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव॥ काञ्चनैः कवचैर्वीरा ज्वलनार्कसमप्रभैः। संनद्धाः समदृश्यन्त ज्वलनार्कसमप्रभाः॥ कुरुयोधवरा राजन् विचित्रायुधकार्मुकाः। उद्यतैरायुधैश्चित्रैस्तलबद्धाः पताकिनः॥ ऋषभाक्षा महेष्वासाश्चमूमुखगता बभुः। पृष्ठगोपास्तु भीष्मस्य पुत्रास्तव नराधिप। दुःशासनो दुर्विषहो दुर्मुखो दुःसहस्तथा॥ विविंशतिश्चित्रसेनो विकर्णश्च महारथः। सत्यव्रतः पुरुमित्रो जयो भूरिश्रवाः शलः॥ रथा विंशतिसाहस्रास्तथैषामनुयायिनः। अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः॥ शाल्वा मत्स्यास्तथाम्बष्ठास्त्रैगर्ताः केकयास्तथा। सौवीराः कैतवाः प्राच्याः प्रतीच्योदीच्यवासिनः॥ द्वादशैते जनपदाः सर्वे शूरास्तनुत्यजः। महता रथवंशेन ते ररक्षुः पितामहम्॥ अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम्। मागधो यत्र नृपतिस्तद् रथानीकमन्वयात्॥ रथानां चक्ररक्षाश्च पादरक्षाश्च दन्तिनाम्। अभवन् वाहिनीमध्ये शतानामयुतानि षट्॥ पादाताश्चाग्रतोऽगच्छन् धनुश्चर्मासिपाणयः। अनेकशतसाहस्रा नखरप्रासयोधिनः। ॥ अक्षौहिण्यो दशैका च तव पुत्रस्य भारत। अदृश्यन्त महाराज गङ्गेव यमुनान्तरा॥ धृतराष्ट्र उवाच अक्षौहिण्यो दशैका च व्यूढा दृष्ट्वा युधिष्ठिरः। कथमल्पेन सैन्येन प्रत्यव्यूहत पाण्डवः॥ यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम्। कथं भीष्मं स कौन्तेयः प्रत्यव्यूहत संजय॥ संजय उवाच धार्तराष्ट्राण्यनीकानि दृष्ट्वा व्यूढानि पाण्डवः। अभ्यभाषत धर्मात्मा धर्मराजो धनंजयम्॥ महर्षेर्वचनात् तात वेदयन्ति बृहस्पतेः। संहतान् योधयेदल्पान् कामं विस्तारयेद् बहून्॥ सूचीमुखमनीकं स्यादल्पानां बहुभिः सह। अस्माकं च तथा सैन्यमल्पीयः सुतरां परैः॥ एतद् वचनमाज्ञाय महर्षेव्यूह पाण्डव। एतच्छ्रुत्वा धर्मराजं प्रत्यभाषत पाण्डवः॥ एष व्यूहामि ते व्यूहं राजसत्तम दुर्जयम्। अचलं नाम वज्राख्यं विहितं वज्रपाणिना॥ यः स वात इवोद्भूतः समरे दुःसहः परैः। स नः पुरो योत्स्यते वै भीमः प्रहरतां वरः॥ तेजांसि रिपुसैन्यानां मृद्नन् पुरुषसत्तमः। अग्रऽग्रणीर्योत्स्यति नो युद्धोपायविचक्षणः॥ यं दृष्ट्वा कुरवः सर्वे दुर्योधनपुरोगमाः। निवर्तिष्यन्ति संत्रस्ताः सिहं क्षुद्रमृगा यथा॥ तं सर्वे संश्रयिष्यामः प्राकारमकुतोभयाः। भीमं प्रहरतां श्रेष्ठं देवराजमिवामराः॥ न हि सोऽस्ति पुमाँल्लोके य: संक्रुद्धं वृकोदरम्। द्रष्टुमत्युग्रकर्माणं विषहेत नरर्षभम्॥ भीमसेनो गदां बिभ्रद् वज्रसारमयीं दृढाम्। चरन् वेगेन महता समुद्रमपि शोषयेत्॥ कैकयो धृष्टकेतुश्च चेकितानश्च वीर्यवान्। एते तिष्ठन्ति सामान्याः प्रेक्षन्तस्ते जनाधिप॥ धृतराष्ट्रस्य दायादा इति बीभत्सुरब्रवीत्। भीमसेनं तदा राजन् दर्शयस्व महाबलम्॥ ब्रुवाणं तु तथा पार्थं सर्वसैन्यानि भारत। अपूजयंस्तदा वाग्भिरनुकूलाभिराहवे॥ एवमुक्त्वा महाबाहुस्तथा चक्रे धनंजयः। व्यूह्य तानि बलान्याशु प्रययौ फाल्गुनस्तथा॥ सम्प्रयातान् कुरून् दृष्ट्वा पाण्डवानां महाचमूः। गङ्गेव पूर्णा स्तिमिता स्पन्दमाना व्यदृश्यत॥ भीमसेनोऽग्रणीस्तेषां धृष्टद्युम्नश्च वीर्यवान्। नकुलः सहदेवश्च दृष्टकेतुश्च पार्थिवः॥ विराटश्च ततः पश्चाद् राजाऽथाक्षौहिणीवृतः। भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षत पृष्ठतः॥ चक्ररक्षौ तु भीमस्य माद्रीपुत्रौ महाद्युती। द्रौपदेयाः ससौभद्राः पृष्ठगोपास्तरस्विनः॥ धृष्टद्युम्नश्च पाञ्चाल्यस्तेषां गोप्ता महारथः। सहितः पृतनाशूरै रथमुख्यैः प्रभद्रकैः॥ शिखण्डी तु ततः पश्चादर्जुनेनाभिरक्षितः। यत्तो भीष्मविनाशाय प्रययौ भरतर्षभ॥ पृष्ठतोऽप्यर्जुनस्यासीद् युयुधानो महाबलः। चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ॥ राजा तु मध्यमानीके कुन्तीपुत्रो युधिष्ठिरः। बृहद्भिः कुञ्चरैर्मत्तैश्चलद्भिरचलैरिव॥ अक्षौहिण्याथ पाञ्चाल्यो यज्ञसेनो महामनाः। विराटमन्वयात् पश्चात् पाण्डवार्थं पराक्रमी॥ तेषामादित्यचन्द्राभाः कनकोत्तमभूषणाः। नानाचित्रधरा राजन् रथेष्वासन् महाध्वजाः॥ समुत्सार्य ततः पश्चाद् धृष्टद्युम्नो महारथः। भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षद् युधिष्ठिरम्॥ त्वदीयानां परेषां न रथेषु विपुलान् ध्वजान्। अभिभूयार्जुनस्यैको रथे तस्थौ महाकपिः॥ पादातास्त्वग्रतोऽगच्छन्नसिशक्त्वृष्टिपाणयः। अनेकशतसाहस्रा भीमसेनस्य रक्षिणः॥ वारणा दशसाहस्राः प्रभिन्नकरटामुखाः। शूरा हेममयैर्जालैर्दीप्यमाना इवाचलाः॥ क्षरन्त इव जीमूता महार्हाः पद्मगन्धिनः। राजानमन्वयुः पश्चाज्जीमूता इव वार्षिकाः॥ भीमसेनो गदां भीमा प्रकर्षन् परिघोपमाम्। प्रचकर्ष महासैन्यं दुराधर्षो महामनाः॥ तमर्कमिव दुष्प्रेक्ष्यं तपन्तमिव वाहिनीम्। न शेकुः सर्वयोधास्ते प्रतिवीक्षितुमन्तिके॥ वज्रो नामेष स व्यूहो निर्भयः सर्वतोमुखः। चापविद्युद्ध्वजो घोरो गुप्तो गाण्डीवधन्वना॥ यं प्रतिव्यूह्य तिष्ठन्ति पाण्डवास्तव वाहिनीम्। अजेयो मानुषे लोके पाण्डवैरभिरक्षितः॥ संध्यां तिष्ठत्सु सैन्येषु सूर्यस्योदयनं प्रति। प्रावात् सपृषतो वायुर्निरभ्रे स्तनयित्नुमान्॥ विष्वग्वाताश्च विवर्नीचैः शर्करकर्षिणः रजश्योद्भूयत महत् तम आच्छादयज्जगत्॥ पपात महती चोल्का प्राङ्मुखी भरतर्षभ। उद्यन्तं सूर्यमाहत्य व्यशीर्यत महास्वना॥ अथ संनह्यमानेषु सैन्येषु भरतर्षभ। निष्प्रभोऽभ्युद्ययौ सूर्यः सघोषं भूश्चचाल च॥ व्यशीर्यत सनादा च भूस्तदा भरतर्षभ। निर्घाता बहवो राजन् दिक्षु सर्वासु चाभवन्॥ प्रादुरासीद् रजस्तीवं न प्राज्ञायत किंचन। ध्वजानां धूयमानानां सहसा मातरिश्वना॥ किङ्किणीजालबद्धानां काञ्चनस्रग्वराम्बरैः। महतां सपताकानामादित्यसमतेजसाम्॥ सर्वं झणझणीभूतमासीत् तालवनेष्विव। एवं ते पुरुषव्याघ्राः पाण्डवा युद्धनन्दिनः॥ व्यवस्थिताः प्रतिव्यूह्य तव पुत्रस्य वाहिनीम्। असन्त इव मज्जा नो योधानां भरतर्षभ॥ दृष्ट्वाऽग्रतो भीमसेनं गदापाणिमवस्थितम्॥ धृतराष्ट्र उवाच सूर्योदये संजय के नु पूर्व युयुत्सवो हृष्यमाणा इवासन्। मामका वा भीष्मनेत्रा: समीपे पाण्डवा वा भीमनेत्रास्तदानीम्॥ केषां जघन्यौ सोमसूर्यो सवायू केषां सेनां श्वापदाश्चाभषन्त। केषां यूनां मुखवर्णाः प्रसन्नाः सर्वं ह्येतद् ब्रूहि मेवं यथावत्॥ संजय उवाच उभे सेने तुल्यमिवोपयाते उभे व्यूहे हृष्टरूपे नरेन्द्र। उभे चित्रे वनराजिप्रकाशे तथैवोभे नागरथाश्वपूर्णे॥ उभे सेने बृहत्यौ भीमरूपे तथैवोभे भारत दुर्विषो। तथैवोभे स्वर्गजयाय सृष्टे तथैवोभे सत्पुरुषोपजुष्टे॥ पश्चान्मुखाः कुरवो धार्तराष्ट्राः स्थिताः पार्थाः प्राङ्मुखा योत्स्यमानाः। दैत्येन्द्रसेनेव च कौरवाणं देवेन्द्रसेनेव च पाण्डवानाम्॥ चक्रे वायुः पृष्ठतः पाण्डवानां धार्तराष्ट्राश्वापदा व्यारहन्त। गजेन्द्राणां मदग्न्धांश्च तीव्रान् न सेहिरे तव पुत्रस्य नागाः॥ दुर्योधनो हस्तिनं पद्मवर्णं सुवर्णकक्षं जालवन्तं प्रभिन्नम्। समास्थितो मध्यगतः कुरूणां संस्तूयमानो वन्दिभिर्मागधैश्च॥ चन्द्रप्रभ श्वेतमथातपत्रं सौवर्णस्रग् भ्राजति चोत्तमाङ्गे। तं सर्वतः शकुनिः पर्वतीयैः सार्धं गान्धारैर्याति गान्धारराजः॥ भीष्मोऽग्रतः सर्वसैन्यस्य वृद्धः श्वेतच्छत्र: श्वेतधनुः सखङ्गः। श्वेतोष्णीषः पाण्डुरेण ध्वजेन श्वेतैरश्चैः श्वेतशैलप्रकाशैः॥ तस्य सैन्ये धार्तराष्ट्राश्च सर्वे बाह्रीकानामेकदेशः शलश्च। स्तथा सौवीराः पञ्चनदाश्च शूराः॥ शौणैर्हयै रुक्मरथो महात्मा द्रोणो धनुष्पाणिरदीनसत्त्वः। आस्ते गुरुः प्रायशः सर्वराज्ञां पश्चाच्च भूमीन्द्र इवाभियाति॥ वार्धक्षत्रिः सर्वसैन्यस्य मध्ये भूरिश्रवाः पुरुमित्रो जयश्च। शाल्वा मत्स्याः केकयाश्चेति सर्वे गजानीकैर्धातरो योत्स्यमानाः॥ शारद्वतकोत्तरधूर्महात्मा महेष्वासो गौतमश्चित्रयोधी। शकैः किरातैर्यवनैः पल्हवैश्छ सार्धं चमूमुत्तरतोऽभियाति॥ महारथैर्वृष्णिभोजैः सुगुप्तं सुराष्ट्रकैर्विहितैरात्तशस्त्रैः। बृहद् बलं कृतवर्माभिगुप्तं बलं त्वदीयं दक्षिणेनाभियाति॥ संशप्तकानामयुतं रथानां मृत्युर्जयो वाऽर्जुनस्येति सृष्टाः। येनार्जुनस्तेन राजन् कृतास्त्राः प्रयातारस्ते त्रिगर्ताश्च शूराः॥ साचं शतसहस्रं तु नागानां तव भारत। नागे नागे रथशतं शतमश्वा रथे रथे॥ अश्वेऽश्वे दश धानुष्का धानुष्के शतचर्मिणः। एवं व्यूढान्यनीकानि भीष्मेण तव भारत॥ संव्यूह्य मानुषं व्यूहं दैवं गान्धर्वमासुरम्। दिवसे दिवसे प्राप्ते भीष्मः शान्तनवोऽग्रणीः॥ महारथौघविपुलः समुद्र इव घोषवान्। भीष्मेण धार्तराष्ट्राणां व्यूहः प्रत्यङ्मुखो युधि॥ अनन्तरूपा ध्वजिनी नरेन्द्र भीमात्वदीया न तु पाण्डवानाम्। तां चैव मन्ये बृहती दुष्प्रधर्षां यस्या नेता केशवश्चार्जुनश्च॥ संजय उवाच वृहती धार्तराष्ट्रस्य सेनां दृष्ट्वा समुद्यताम्। विषादमगमद् राजा कुन्तीपुत्रो युधिष्ठिरः॥ व्यूह भीष्मेण चाभेद्यं कल्पितं प्रेक्ष्य पाण्डवः। अभेद्यमिव सम्प्रेक्ष्य विवर्णोऽर्जुनमब्रवीत्॥ धनंजय कथं शक्यमस्माभिर्यो माहवे। धार्तराष्टैर्महाबाहो येषां योद्धा पितामहः॥ अक्षोभ्योऽयमभेद्यश्च भीष्मेणामित्रकर्षिणा। कल्पितः शास्त्रदृष्टेन विधिना भूरिवर्चसा॥ ते वयं संशयं प्राप्ताः ससैन्याः शत्रुकर्षण। कथमस्मान्महाव्यूहादुस्थानं नो भविष्यति॥ अथार्जुनोऽब्रवीत् पार्थं युधिष्ठिरममित्रहा। विषण्णमिव सम्प्रेक्ष्य तव राजन्ननीकिनीम्॥ प्रज्ञयाभ्यधिकाञ्शूरान् गुणयुक्तान् बहूनपि। जयन्त्यल्पतरा येन तन्निबोध विशाम्पते॥ तत्र ते कारणं राजन् प्रवक्ष्याम्यनसूयवे। नारदस्तमृषिर्वेद भीष्मद्रोणौ च पाण्डव॥ एनमेवार्थमाश्रित्य युद्धे देवासुरेऽब्रवीत्। पितामहः किल पुरा महेन्द्रादीन् दिवौकसः॥ न तथा बलवीर्याभ्यां जयन्ति विजिगीषवः। यथा सत्यानृशंस्याभ्यां धर्मेणैवोद्यमेन च॥ त्यक्त्वाधर्मं च लोभं च मोहं चोद्यममास्थिताः। युद्ध्यध्वमनहंकारा यतो धर्मस्ततो जयः॥ एवं राजन् विजानीहि ध्रुवोऽस्माकं रणे जयः। यथा तु नारदः प्राह यतः कृष्णस्ततो जयः॥ गुणभूतो जयः कृष्णे पृष्ठतोऽभ्येति माधवम्। तद् यथा विजयश्चास्य सन्नतिश्चापरो गुणः॥ अनन्ततेजा गोविन्दः शत्रुपूगेषु निर्व्यथः। पुरुषः सनातनमयो यतः कृष्णस्ततो जयः॥ पुरा ह्येष हरिभूत्वा विकुण्ठोऽकुण्ठसायकः। सुरासुरानवस्फूर्णन्नब्रवीत् के जयन्त्विति॥ कथं कृष्णं जयेमेति यैरुक्तं तत्र तैर्जितम्। तत् प्रसादाद्धि त्रैलोक्यं प्राप्तं शक्रादिभिः सुरैः॥ तस्य ते न व्यथां काञ्चिदिह पश्यामि भारत। यस्य ते जयमाशास्ते विश्वभुक् त्रिदिवेश्वरः॥ संजय उवाच धार्तराष्ट्रबलं दृष्ट्वा युद्धाय समुपस्थितम्। अर्जुनस्य हितार्थाय कृष्णो वचनमब्रवीत्॥ श्रीभगवानुवाच शुचिर्भूत्वा महाबाहो संग्रामाभिमुखे स्थितः। पराजयाय शत्रूणां दुर्गास्तोत्रमुदीरय॥ संजय उवाच एवमुक्तोऽर्जुन: संख्ये वासुदेवेन धीमता। अवतीर्य रथात् पार्थः स्तोत्रमाह कृताञ्जलिः॥ अर्जुन उवाच नमस्ते सिद्धसेनानि आर्ये मन्दरवासिनि। कुमारि कालि कापालि कपिले कृष्णपिङ्गले॥ भद्रकालि नमस्तुभ्यं महाकालि नमोऽस्तु ते। चण्डि चण्डे नमस्तुभ्यं तारिणि वरवर्णिनि॥ कात्यायनि महाभागे करालि विजये जये। शिखिपिच्छध्वजधरे नानाभरणभूषिते॥ अट्टशूलप्रहरणे खगखेटकधारिणि। गोपेन्द्रस्यानुजे ज्येष्ठे नन्दगोपकुलोद्भवे॥ महिषासक्प्रिये नित्यं कौशिकि पीतवासिनि। अट्टहासे कोकमुखे नमस्तेऽस्तु रणप्रिये॥ उमे शाकम्भरि श्वेते कृष्णे कैटभनाशिनि। हिरण्याक्षि विरूपाक्षि सुधूम्राक्षि नमोऽस्तु ते॥ वेदश्रुति महापुण्ये ब्रह्मण्ये जातवेदसि। जम्बूकटकचैत्येषु नित्य सन्निहितालये॥ त्वं ब्रह्मविद्या विद्यानां महानिद्रा च देहिनाम्। स्कन्दमातर्भगवति दुर्गे कान्तारवासिनि॥ भवतु मे नित्यं स्वाहाकारः स्वधा चैव कला काष्ठा सरस्वती। सावित्रि वेदमाता च तथा वेदान्त उच्यते॥ स्तुताऽसि त्वं महादेवि विशुद्धनान्तरात्मना। जयो मे नित्यं त्वत्प्रसादाद रणाजिरे॥ कान्तारभयदुर्गेषु भक्तानां चालयेषु च। नित्यं वससि पाताले युद्धे जयसि दानवान्॥ त्वं जम्भनी मोहिनी च माया ह्रीः श्रीस्तथैव च। संध्या प्रभावती चैव सावित्री जननी तथा॥ तुष्टिः पुष्टिकृतिर्दीप्तिश्चन्द्रादित्यविवर्धिनी। भूतिभूतिमतां सङ्घये वीक्ष्यसे सिद्धचारणैः।। संजय उवाच ततः पार्थस्य विज्ञाय भक्ति मानववत्सला। अन्तरिक्षगतोवाच गोविन्दस्याग्रतः स्थिता॥ देव्युवाच स्वल्पेनैव तु कालेन शत्रूञ्जेष्यसि पाण्डव। नरस्त्वमसि दुर्धर्ष नारायणसहायवान्॥ अजेयस्त्वं रणेऽरीणामपि वज्रभृतः स्वयम्। इत्येवमुक्त्वा वरदा क्षणेनान्तरधीयत॥ लब्ध्वा वरं तु कौन्तेयो मेने विजयमात्मनः। आरुरोह ततः पार्थो रथं परमसम्मतम्॥ कृष्णार्जुनावेकरथौ दिव्यौ शङ्खौ प्रदध्मतुः। य इदं पठते स्तोत्र कल्य उत्थाय मानवः॥ यक्षरक्ष:पिशाचेभ्यो न भयं विद्यते सदा। न चापि रिपवस्तेभ्यः सर्पाद्या ये च दंष्ट्रिणः॥ न भयं विद्यते तस्य सदा राजकुलादपि। विवादे जयमाप्नोति बद्धो मुच्यति बन्धनात्॥ दुर्गं तरति चावश्यं तथा चौरैर्विमुच्यते। संग्रामे विजयेन्नित्यं लक्ष्मी प्राप्नोति केवलाम्॥ आरोग्यबलसम्पन्नो जीवेद् वर्षशतं तथा। एतद् दृष्टं प्रसादात् तु मया व्यासस्य धीमतः॥ द्वैपायनो नारदश्च मोहादेतौ न जानन्ति नरनारायणवृषी। तव पुत्रा दुरात्मानः सर्वे मन्युवशानुगाः॥ प्राप्तकालमिदं वाक्यं कालपाशेन गुण्ठिताः। कण्वो रामस्तथाऽनघः। अवारयंस्तवं सुतं न चासौ तद् गृहीतवान्।॥ यत्र धर्मो द्युतिः कान्तिर्यत्र ह्रीः श्रीस्तथा मतिः। यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः॥ धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः। मामकाः पाण्डवाश्चैव किमकुर्वत संजय॥ संजय उवाच दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा। आचार्यमुपसंगम्य राजा वचनमब्रवीत्॥ पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्। व्यूढां दुपदपुत्रेण तव शिष्येण धीमता॥ अत्र शूरा महेष्वासा भीमार्जुनसमा युधि। युयुधानो विराटश्च दुपदश्च महारथः॥ धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान्। पुरुजित् कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः॥ युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्। सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः॥ अस्माकं तु विशिष्टा ये तान् निबोध द्विजोत्तम। नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते॥ भवान् भीष्मश्च कर्णश्च कृपश्च समितिंजयः। अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च॥ अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः। नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः॥ अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्। पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्॥ अयनेषु च सर्वेषु यथाभागमवस्थिताः। भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि॥ तस्य संजनयन् हर्षं कुरुवृद्धः पितामहः। सिंहनादं विनद्योच्चैः शङ्ख दध्मौ प्रतापवान्॥ ततः शङ्खच भेर्यश्च पणवानकगोमुखाः। सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्॥ ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ। माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः॥ पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः। पौण्ड्रं दध्मौ महाशङ्ख भीमकर्मा वृकोदरः॥ अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः। नकुलः सहदेवश्च सुघोषमणिपुष्पकौ॥ काश्यश्च परमेष्वासः शिखण्डी च महारथः। धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः॥ द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते। सौभद्रश्च महाबाहुः शङ्खान् दध्मुः पृथक् पृथक्॥ स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्। नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्॥ अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः। प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः॥ हृषीकेशं तदा वाक्यमिदमाह महीपते। अर्जुन उवाच सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत॥ यावदेतान् निरीक्षेऽहं योद्धकामानवस्थितान्। कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे॥ योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः। धार्तराष्ट्रस्य दुर्बुद्धेयुद्धे प्रियचिकीर्षवः॥ संजय उवाच एवमुक्तो हृषीकेशो गुडाकेशेन भारत। सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्॥ भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्। उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति॥ तत्रापश्यत् स्थितान् पार्थः पितृनथ पितामहान्। आचार्यान् मातुलान् भ्रातृन् पुत्रान् पौत्रान् सखींस्तथा॥ श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि। तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धूनवस्थितान्॥ कृपया परयाऽऽविष्टो विषीदन्निदमब्रवीत्। अर्जुन उवाच दृष्ट्वेमं स्वजनं कृष्ण युयुत्सु समुपस्थितम्॥ सीदन्ति मम गात्राणि मुखं च परिशुष्यति। वेपथुश्च शरीरे मे रोमहर्षश्च जायते॥ गाण्डीवं स्रंसते हस्तांत् त्वक् चैव परिदह्यते। न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः॥ निमित्तानि च पश्यामि विपरीतानि केशव। न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे॥ न काक्षे विजयं कृष्ण न च राज्यं सुखानि च। किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा॥ येषामर्थे काक्षितं नो राज्यं भोगाः सुखानि च। त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च॥ आचार्याः पितरः पुत्रास्तथैव च पितामहाः। मातुलाः श्वशुराः पौत्रा: स्याला: सम्बन्धिनस्तथा।॥ एतान् न हन्तुमिच्छामि नतोऽपि मधुसूदन। अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते॥ निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्याज्जनार्दन। पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः॥ तस्मानार्दा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान्। स्वजनं हि कथं हत्वा सुखिनः स्याम माधव॥ यद्यप्येते न पश्यन्ति लोभोपहतचेतसः। कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्॥ कथं न ज्ञेयमस्माभिः पापादस्मानिवर्तितुम्। कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन॥ कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः। धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत॥ अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः। स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः॥ संकरो नरकायैव कुलमानां कुलस्य च। पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः॥ दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः। उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः॥ उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन। नरके नियतं वासो भवतीत्यनुशुश्रुम॥ अहो बत महत्पापं कर्तुं व्यवसिता वयम्। यद् राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः॥ यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः। धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्॥ संजय उवाच एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत्। विसृज्य सशरं चापं शोकसंविग्नमानसः॥ संजय उवाच तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम्। विषीदन्तमिदं वाक्यमुवाच मधुसूदनः॥ श्रीभगवानुवाच कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्। अनार्यजुष्टमस्वय॑मकीर्तिकरमर्जुन॥ क्लैब्यं मा स्म गमः पार्थ नैतत् त्वय्युपपद्यते। क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप॥ अर्जुन उवाच कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन। इषुभिः प्रतियोत्स्यामि पूजाह्नवरिसूदन॥ गुरूनहत्वा हि महानुभावाच्छ्रेयो भोक्तुं भक्ष्यमपीह लोके। हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान्॥ न चैतद् विद्मः कतरत्नो गरीयो यद् वा जयेम यदि वा नो जयेयुः। यानेव हत्वा न जिजीविषाम स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः॥ कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः। यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्॥ न हि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोषणमिन्द्रियाणाम्। अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम्॥ संजय उवाच एवमुक्त्वा हृषीकेशं गुडाकेशः परंतप। न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह॥ तमुवाच हृषीकेशः प्रहसन्निव भारत। सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः॥ श्रीभगवानुवाच अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे। गतासूनगतातूंश्च नानुशोचन्ति पण्डिताः॥ न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः। न चैव न भविष्यामः सर्वे वयमतः परम्॥ देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा। तथा देहान्तरप्राप्तिर्षीरस्तत्र न मुह्यति॥ मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः। आगमापायिनोऽनित्यास्तास्तितिक्षस्व भारत॥ यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ। समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते।॥ नासतो विद्यते भावो नाभावो विद्यते सतः। उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः॥ अविनाशि तु तद् विद्धि येन सर्वमिदं ततम्। विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति॥ अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः। अनाशिनोऽप्रमेयस्य तस्माद् युध्यस्व भारत॥ य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्। उभौ तौ न विजानीतो नायं हन्ति न हन्यते॥ नायं भूत्वा वा न भूयः। अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे॥ वेदाविनाशिनं नित्यं य एनमजमव्ययम्। कथं स पुरुषः पार्थ कं घातयति हन्ति कम्॥ वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि। न्यन्यानि संयाति नवानि देही॥ नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः। न चैनं क्लेदयन्त्यापो न शोषयति मारुतः॥ अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च। नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः॥ अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते। तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि॥ अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम्। तथाऽपि त्वं महाबाहो नैवं शोचितुमर्हसि॥ जातस्य हि ध्रुवो मृत्युर्बुवं जन्म मृतस्य च। तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि॥ अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत। अव्यक्तनिधनान्येव तत्र का परिदेवना॥ माश्चर्यवद् वदति तथैव चान्यः। आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाऽप्येनं वेद न चैव कश्चित्॥ देही नित्यमवध्योऽयं देहे सर्वस्य भारत। तस्मात् सर्वाणि भूतानि न त्वं शोचितुमर्हसि॥ स्वधर्मपि चावेक्ष्य न विकम्पितुमर्हसि। धाद्धि युद्धाच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते॥ यदृच्छया चोपपन्नं स्वर्गद्वापरमपावृतम्। सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम्॥ अथ चेत् त्वमिमं धर्म्य संग्रामं न करिष्यसि। ततः स्वधर्मं कीर्ति च हित्वा पापमवाप्स्यसि॥ अकीर्ति चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्। सम्भावितस्य चाकीर्तिमरणादतिरिच्यते॥ भयाद् रणादुपरतं मंस्यन्ते त्वां महारथाः। येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्॥ अवाच्यवादांश्चं बहून् वदिष्यन्ति तवाहिताः। निन्दन्तस्तव सामर्थ्य ततो दुःखतरं नु किम्॥ हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम्। तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः॥ सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ। ततो युद्धाय युज्यस्व नैव पापमवाप्स्यसि॥ एषा तेऽभिहिता सांख्ये बुद्धिोगे त्विमां शृणु। बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि॥ नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते। स्वल्पमण्यस्य धर्मस्य त्रायते महतो भयात्॥ व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन। बहुशाखा हनन्ताश्च बुद्धयोऽव्यवसायिनाम्॥ यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः। वेदवादरताः पार्थ नान्यदस्तीति वादिनः॥ कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम्। क्रियाविशेषबहुला भोगैश्वर्यगति प्रति॥ भोगैश्वर्यप्रसक्तानां तयाऽपहतचेतसाम्। व्यवसायात्मिका बुद्धिः समाधौ न विधीयते॥ त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन। निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान्॥ यावानर्थ उदपाने सर्वतः सम्प्लुतोदके। तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः॥ कर्मण्येवाधिकारस्ते मा फलेषु कदाचन। मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि॥ योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय। सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते॥ दूरेण ह्यवरं कर्म बुद्धियोगाद् धनंजय। बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः॥ बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते। तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम्॥ कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः। जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम्॥ यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति। तदा गन्ताऽसि निर्वेदं श्रोतव्यस्य श्रुतस्य च॥ श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला। समाधावचला बुद्धिस्तदा योगमवाप्स्यसि॥ अर्जुन उवाच स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव। स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्॥ श्रीभगवानुवाच प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान्। आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते॥ दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः। वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते॥ यः सर्वत्रानभिस्नेहस्तत् तत् प्राप्य शुभाशुभम्। नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता॥ यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः। इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता॥ विषया विनिवर्तन्ते निराहारस्य देहिनः। रसवर्ज रसोऽप्यस्य परं दृष्ट्वा निवर्तते॥ यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः। इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः॥ तानि सर्वाणि संयम्य युक्त आसीत मत्परः। वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता॥ ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते। सङ्गात् संजायते कामः कामात् क्रोधोऽभिजायते॥ क्रोधाद् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः। स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति॥ रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन्। आत्मवश्यैविधेयात्मा प्रसादमधिगच्छति॥ प्रसादे सर्वदुःखानां हानिरस्योपजायते। प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते॥ नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना। न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्॥ इन्द्रियाणां हि चरतां यन्मनोऽनु विधीयते। तदस्य हरति प्रज्ञां वायु वमिवाम्भसि॥ तस्माद् यस्य महाबाहो निगृहीतानि सर्वशः। इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता॥ या निशा सर्वभूतानां तस्यां जागर्ति संयमी। यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः॥ आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत्। तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी॥ विहाय कामान् यः सर्वान् पुमांश्चरति निःस्पृहः। निर्ममो निरहंकारः स शान्तिमधिगच्छति॥ एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति। स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति॥ अर्जुन उवाच ज्यायसी चेत् कर्मणस्ते मता बुद्धिर्जनार्दन। तत् किं कर्मणि घोरे मां नियोजयसि केशव॥ व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे। तेदकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्॥ श्रीभगवानुवाच लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ। ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम्॥ न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽस्तुते। न च संन्यसनादेव सिद्धिं समधिगच्छति॥ न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत्। कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः॥ कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्। इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते॥ यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन। कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते॥ नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः। शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः॥ यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः। तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर॥ सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः। अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्॥ देवान् भावयतानेन ते देवा भावयन्तु वः। परस्परं भावयन्तः श्रेयः परमवाप्स्यथ॥ इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः। तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः॥ यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः। भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्॥ अन्नाद् भवन्ति भूतानि पर्जन्यादन्नसम्भवः। यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः॥ कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम्। तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्॥ एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः। अघायुरिन्द्रियारामो मोघं पार्थ स जीवति॥ यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः। आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते॥ नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन। न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः॥ तस्मादसक्तः सततं कार्यं कर्म समाचर। असक्तो ह्याचरन् कर्म परमाप्नोति पुरुषः॥ कर्मणैव हि संसिद्धिमास्थिता जनकादयः। लोकसंग्रहमेवापि सम्पश्यन् कर्तुमर्हसि॥ यद् यदाचरति श्रेष्ठस्तत् तदेवेतरो जनः। स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते॥ न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन। नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि॥ यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः। मम वानुवर्तन्ते मनुष्याः पार्थ सर्वशः॥ उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्। संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः॥ सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत। कुर्याद् विद्वांस्तथासऽक्तश्चिकीर्षुर्लोकसंग्रहम्॥ न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्। जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन्।॥ प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः। अहंकारविमूढात्मा कर्ताऽहमिति मन्यते॥ तत्त्ववित् तु महाबाहो गुणकर्मविभागयोः। गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते॥ प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु। तानकृतस्नविदो मन्दान् कृत्स्नविन्न विचालयेत्॥ मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा। निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः॥ ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः। श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः॥ ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्। सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः॥ सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि। प्रकृति यान्ति भूतानि निग्रहः किं करिष्यति॥ इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ। तयोर्न वशमागच्छेत् तौ ह्यस्य परिपन्थिनौ॥ श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात्। स्वधर्मे निधनं श्रेयः परधर्मो भयावहः॥ अर्जुन उवाच अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः। अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः॥ श्रीभगवानुवाच काम एष क्रोध एष रजोगुणसमुद्भवः। महाशनो महापाप्मा विद्धयेनमिह वैरिणम्॥ धूमेनाव्रियते वह्निर्यथादर्शो मलेन च। यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम्॥ आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा। कामरूपेण कौन्तेय दुष्पूरेणानलेन च॥ इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते। एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम्॥ तस्मात् त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ। पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम्॥ इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः। मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः॥ एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना। जहि शत्रु महाबाहो कामरूपं दुरासदम्॥ श्रीमभगवानुवाच इमं विवस्वते योगं प्रोक्तवानहमव्ययम्। विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्॥ एवं परम्पराप्राप्तमिमं राजर्षयो विदुः। स कालेनेह महता योगो नष्टः परंतप॥ स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः। भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम्॥ अर्जुन उवाच अपरं भवतो जन्म परं जन्म विवस्वतः। कथमेतद् विजानीयां त्वमादौ प्रोक्तवानिति॥ श्रीभगवानुवाच बहूनि मे व्यतीतानि जन्मानि तव चार्जुन। तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप॥ अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन्। प्रकृति स्वामधिष्ठाय सम्भवाम्यात्ममायया॥ यदा यदा हि धर्मस्य ग्लानिर्भवति भारत। अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम्॥ परित्राणाय साधूनां विनाशाय त दुष्कृताम्। धर्मसंस्थापनार्थाय सम्भवामि युगे युगे॥ जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः। त्यक्त्वा देहं पुनर्जन्म मामेति सोऽर्जुन॥ वीतरागभयक्रोधा मन्मया मामुपाश्रिताः। बहवो ज्ञानतपसा पूता मद्भावमागताः॥ ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्। मम वानुवर्तन्ते मनुष्याः पार्थ सर्वशः॥ काङ्क्षन्तः कर्मणां सिद्धि यजन्त इह देवताः। क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा॥ चातुर्वर्यं मया सृष्टं गुणकर्मविभागशः। तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम्॥ न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा। इति मां योऽभिजानाति कर्मभिर्न स बध्यते॥ एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः। कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम्॥ किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः। तत् ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात्॥ कर्मणो ह्यपि बौद्धव्य बोद्धव्यं च विकर्मणः। अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः॥ कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः। स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत्॥ यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः। ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः॥ त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः। कर्मण्यभिप्रवृत्तोऽपि नैव किंचित् करोति सः॥ निराशर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः। शारीरं केवलं कर्म कुर्वन् नाप्नोति किल्बिषम्॥ यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः। समः सिद्धावसिद्धौ च कृत्वाऽपि न निबध्यते॥ गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः। यज्ञायाचरतः कर्म समग्रं प्रविलीयते॥ ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम्। ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना।॥ दैवमेवापरे यज्ञ योगिनः पर्युपासते। ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति॥ श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति। शब्दादीन् विषयानन्ये इन्द्रियाग्निषु जुह्वति॥ सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे। आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते॥ द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे। स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः॥ अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे। प्राणापानगती रुद्ध्वा प्राणायामपरायणाः॥ अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति। सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः॥ यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्। नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम॥ एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे। कर्मजान् विद्धि तान् सर्वानेवं ज्ञात्वा विमोक्ष्यसे॥ श्रेयान् द्रव्यमयाद् यज्ञाज्ज्ञानयज्ञः परंतप। सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते॥ तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया। उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्वदर्शिनः॥ यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव। येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि॥ अपि चेदसि पापेभ्य: सर्वेभ्यः पापकृत्तमः। सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि।॥ यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन। ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा॥ न हि ज्ञानेन सदृशं पवित्रमिह विद्यते। तत् स्वयं योगसंसिद्धः कालेनात्मनि विन्दति॥ श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः। ज्ञानं लब्वा परां शान्तिमचिरेणाधिगच्छति॥ अज्ञश्चाश्रद्धधानश्च संशयात्मा विनश्यति। नायं लोकोऽस्ति न परो न सुखं संशयात्मनः॥ योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम्। आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय॥ तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनाऽऽत्मनः। छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत॥ अर्जुन उवाच संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि। यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्॥ श्रीभगवानुवाच संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ। तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते॥ ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काक्षति। निर्द्वन्द्वो हि महाबाहो सुखं बन्धात् प्रमुच्यते॥ सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः। एकमण्यास्थितः सम्यगुभयोविन्दते फलम्॥ यत् सांख्यैः प्राप्यते स्थानं तद् योगैरपि गम्यते। एकं सांख्यं च योगं च यः पश्यति स पश्यति॥ संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः। योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति॥ योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः। सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते॥ नैव किंचित् करोमीति युक्तो मन्येत तत्त्ववित्। पश्यशृण्वन् स्पृशञ्जिघ्रनश्नन् गच्छन् स्वपञ्श्वसन्॥ प्रलपन् विसृजन् गृह्णनुन्मिषन्निमिषन्नपि। इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्॥ ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः। लिप्यते न स पापेन पद्मपत्रमिवाम्भसा॥ कायेन मनसा वुद्ध्या केवलैरिन्द्रियैरपि। योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये॥ युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम्। अयुक्तः कामकारेण फले सक्ता निबध्यते॥ सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी। नवद्वारे पुरे देही नैव कुर्वन् न कारयन्॥ न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः। न कर्मफलसंयोगं स्वभावस्तु नादत्ते कस्यचित् पापं न चैव सुकृतं विभुः। अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः॥ ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः। तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम्॥ तद्बुद्धयस्तदात्मानस्तनिष्ठास्तत्परायणाः। गच्छन्त्यपुनरावृत्तिं ज्ञाननिषूतकल्मषाः॥ प्रवर्तते॥ विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि। शुनि चैव श्वपाके च पण्डिताः समदर्शिनः॥ इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः। निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः॥ न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम्। स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः॥ बाह्यस्पर्शेष्वसत्तात्मा विन्दत्यात्मनि यत् सुखम्। स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते॥ ये हि संस्पर्शजा भोगा दुःखयोनय एव ते। आद्यन्तवन्तः कौन्तेय बुधः॥ शक्नोतीहैव य: सोढुं प्राक शरीरविमोक्षणात्। कामक्रोधोद्भवं वेगं युक्तः स सुखी नरः॥ योऽन्तः सुखोऽन्तरारामस्तथाऽन्तर्कोतिरेव यः। स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति॥ न तेषु रमते लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः। छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः॥ कामक्रोधवियुक्तानां यतीनां यतचेतसाम्। अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम्॥ स्पर्शान् कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्ते भ्रुवोः। प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ॥ यतेन्द्रियमनोबुद्धिमुनिर्मोक्षपरायणः। विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः॥ भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्। सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति॥ श्रीभगवानुवाच अनाश्रितः कर्मफलं कार्यं कर्म करोति यः। स संन्यासी च योगी च न निरग्निर्न चाक्रियः॥ यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव। न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन॥ आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते। योगारूढस्य तस्यैव शमः कारणमुच्यते॥ यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते। सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते॥ उद्धरेदात्मनाऽऽत्मानं नात्मानमवसादयेत्। आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः॥ बन्धुरात्माऽऽत्मनस्तस्य येनात्मैवाऽऽत्मना जितः। अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत्॥ जितात्मनः प्रशान्तस्य परमात्मा समाहितः। शीतोष्णसुखदुःखेषु तथा मानापमानयोः॥ ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः। युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः॥ सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु। साधुष्वपि च पायेषु समबुद्धिर्विशिष्यते॥ योगी युञ्जीत सततमात्मानं रहसि स्थितः। एकाकी यतचित्तात्मा निराशीरपरिग्रहः॥ शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः। नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम्॥ तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः। उपविश्यासने युज्याद् योगमात्मविशुद्धये॥ समं कायशिरोनीवं धारयन्नचलं स्थिरः। सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन्॥ प्रशान्तात्मा विगतभीब्रह्मचारिखते स्थितः। मनः संयम्य मच्चित्तो युक्ते आसीत मत्परः॥ युञ्जन्नेवं सदाऽऽत्मानं योगी नियतमानसः। शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति॥ नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः। न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुन॥ युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु। युक्तस्वप्नावबोधस्य योगो भवति दुःखहा॥ यदा विनियतं चित्तमात्मन्येवावतिष्ठते। निः :स्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा॥ यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता। योगिनो यतचित्तस्य युञ्जतो योगमात्मनः॥ यत्रोपरमते चित्तं निरुद्धं योगसेवया। यत्र चैवात्मनाऽऽत्मानं पश्यन्नात्मनि तुष्यति॥ सुखमात्यन्तिकं यत्तद् बुद्धिचाह्यमतीन्द्रियम्। वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः॥ यं लब्वा चापरं लाभं मन्यते नाधिकं ततः। यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते॥ तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम्। स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा॥ संकल्पप्रभवान् कामांस्त्यक्त्वा सर्वानशेषतः। मनसैवेन्द्रियग्रामं विनियम्य समन्ततः॥ शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया। आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत्॥ यतो यतो निश्चरति मनश्चञ्चलमस्थिरम्। ततस्ततो नियम्यैतदात्मन्येव वशं नयेत्॥ प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम्। उपैति शान्तरजसं ब्रह्मभूतमकल्मषम्॥ युञ्जन्नेव सदाऽऽत्मानं योगी विगतकल्मषः। सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते॥ सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि। ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः॥ यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति। तस्याहं न प्रणश्यामि स च मे न प्रणश्यति॥ सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः। सर्वथा वर्तमानोऽपि स योगी मयि वर्तते॥ आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन। सुखं वा यदि वा दुःखं स योगी परमो मतः॥ अर्जुन उवाच योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन। एतस्याहं न पश्यामि चञ्चलत्वात् स्थिति स्थिराम्॥ चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम्। तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्॥ श्रीभगवानुवाच असंशयं महाबाहो मनो दुर्निग्रहं चलम्। अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते॥ असंयतात्मना योगो दुष्प्राप इति मे मतिः। वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः॥ अर्जुन उवाच अयतिः श्रद्धयोपेतो योगाच्चलितमानसः। अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति॥ कश्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति। अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि॥ एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः। त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते॥ श्रीभगवानुवाच पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते। न हि कल्याणकृत् कश्चिद् दुर्गतिं तात गच्छति॥ प्राप्य पुण्यकृतां लोकानुषित्वाशाश्वतीः समाः। शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते॥ अथवा योगिनामेव कुले भवति धीमताम्। एतद्धि दुर्लभतरं लोके जन्म यदीदृशम्॥ तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम्। यतते च ततो भूयः संसिद्धौ कुरुनन्दन॥ पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः। जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते॥ प्रयत्नाद् यतमानस्तु योगी संशुद्धकिल्बिषः। अनेकजन्मसंसिद्धस्ततो याति परां गतिम्॥ तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः। कर्मिभ्यश्चाधिको योगी तस्माद् योगी भवार्जुन॥ योगीनामपि सर्वेषां मद्गतेनान्तरात्मना। श्रद्धावाम्भजते यो मां स मे युक्ततमो मतः॥ श्रीभगवानुवाच मय्यासक्तमनाः पार्थ योगं युञ्जन् मदाश्रयः। असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु॥ ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः। यज्ज्ञान्चा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते॥ मनुष्याणां सहस्रेषु कश्चिद् यतति सिद्धये। यतततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः॥ भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च। अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा॥ अपरेयमितस्त्वन्या प्रकृतिं विद्धि मे पराम्। जीवभूतां महाबाहो ययेदं धार्यते जगत्॥ एतद्योनीनि भूतानि सर्वाणीत्युपधारय। अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा॥ मत्तः परतरं नान्यत् किंचिदस्ति धनंजय। मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव।॥ रसोऽहमप्सु कौन्तेय प्रभाऽस्मि शशिसूर्ययोः। प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु॥ पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ। जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु॥ बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम्। बुद्धिर्बुद्धितामस्मि तेजस्तेजस्विनामहम्॥ बलं बलवतां ग्राहं कामरागविवर्जितम्। धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ॥ ये चैव सात्त्विका भावा राजसास्तामसाश्च ये। मत्त एवेति तान् विद्धि न त्वह तेषु ते मयि॥ त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत्। मोहितं नाभिजानाति मामेभ्यः परमव्ययम्॥ दैवी ह्येषा गुणमयी मम माया दुरत्यया। मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते॥ न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः। माययाऽपहतज्ञानां आसुरं भावमाश्रिताः॥ चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन। आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ।॥ तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते। प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः॥ उदारा: सर्व एवैते ज्ञानी त्वात्मैव मे मतम्। आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम्॥ बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते। वासुदेवः सर्वमिति स महात्मा सुदुर्लभः॥ कामैस्तैस्तैर्हतज्ञानाः प्रपद्यन्तेऽन्यदेवताः। तं तं नियममास्थाय प्रकृत्या नियताः स्वया।॥ यो यो यां यां तनुं भक्तः श्रद्धयाग्रतुमिच्छति। तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्॥ स तया श्रद्धया युक्तस्तस्याराधनमीहते। लभते च ततः कामान् मयैव विहितान् हि तान्॥ तद् भवत्यल्पमेधसाम्। देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि।॥ अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः। परं भावमजानन्तो ममाव्ययमनुत्तमम्॥ नाहं प्रकाशः सर्वस्य योगमायासमावृतः। मूढोऽयं नाभिजानाति लोको मामजमव्ययम्॥ अन्तवत्तु फलं तेषां वेदाहं समतीतानि वर्तमानानि चार्जुन। भविष्याणि च भूतानि मां तु वेद न कश्चन॥ इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत। सर्वभूतानि सम्मोहं सर्गे यान्ति परंतप॥ येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम्। ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः॥ जरामरणमोक्षाय मामाश्रित्य यतन्ति ये। ते ब्रह्म तद् विदुः कृत्स्नमध्यात्म कर्म चाखिलम्॥ साधिभूताधिदैवं मां साधियज्ञं च ये विदुः। प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः॥ अर्जुन उवाच किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम। अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते॥ अधियज्ञः कथं कोऽत्र देहेऽस्मिन् मधुसूदन। प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः॥ श्रीभगवानुवाच अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते। भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः॥ अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम्। अधियज्ञोऽहमेवात्र देहे देहभृतां वर॥ अन्तकाले च मामेव स्मरन् मुक्त्वा कलेवरम्। यः प्रयाति स मद्भायंव याति नास्त्यत्र संशयः॥ यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम्। तं तमेवैति कौन्तेय सदा तद्भावभावितः॥ तस्मात् सर्वेषु कालेषु मामनुस्मर युध्य च। मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम्॥ अभ्यासयोगयुक्तेन चेतसा नान्यगामिना। परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन्॥ रमणोरणीयांसमनुस्मरेद् यः। मादित्यवर्णं तमसः परस्तात्॥ प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगबलेन चैव। भूवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम्॥ यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः। यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये॥ सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च। मूर्ध्याधायात्मनः प्राणमास्थितो योगधारणाम्॥ ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन्। यः प्रयाति त्यजन् देहं स याति परमां गतिम्॥ अनन्यचेताः सततं यो मां स्मरति नित्यशः। तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः॥ मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम्। नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः॥ आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन। मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते॥ सहस्रयुगपर्यन्तमहर्यद् ब्रह्मणो विदुः। रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः॥ अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे। रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके॥ भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते। रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे॥ परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात् सनातनः। यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति॥ अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम्। यं प्राप्य न निवर्तन्ते तद्धाम परमं मम॥ पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया। यस्यान्तः स्थानि भूतानि येन सर्वमिदं ततम्॥ यत्र काले त्वनावृत्तिमावृतिं चैव योगिनः। प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ॥ अग्निोतिरहः शुक्लः षण्मासा उत्तरायणम्। तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः॥ धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्। तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते॥ शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते। एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः॥ नैते सृती पार्थ जानन् योगी मुह्यति कश्चन। तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन॥ वेदेषु यज्ञेषु तपःसु चैव दानेषु यत् पुण्यफलं प्रदिष्टम्। अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम्॥ श्रीभगवानुवाच इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे। ज्ञानविज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्॥ राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्। प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्॥ अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप। अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि॥ मया ततमिदं सर्वं जगदव्यक्तमूर्तिना। मत्स्थानि सर्वभूतानि न ग्राहं तेष्ववस्थितः॥ न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम्। भूतभृन्न च भूतस्थो ममात्मा भूतभावनः॥ यथाऽऽकाशस्थितो नित्यं वायुः सर्वत्रगो महान्। तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय॥ सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्। कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम्॥ प्रकृति स्वामवष्टभ्य विसृजामि पुनः पुनः। भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात्॥ न च मां तानि कर्माणि निबध्नन्ति धनंजय। उदासीनवदासीनमसक्तं तेषु कर्मसु॥ मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्। हेतुनानेन कौन्तेय जगद् विपरिवर्तते॥ अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्। परं भावमजानन्तो मम भूतमहेश्वरम्॥ मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः। राक्षसीमासुरीं चैव प्रकृति मोहिनीं श्रिताः॥ महात्मानस्तु मां पार्थ दैवी प्रकृतिमाश्रिताः। भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्॥ सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः। नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते॥ ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते। एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम्॥ अहं क्रतुरहं यज्ञः स्वधाऽहमहमौषधम्। मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम्॥ पिताहमस्य जगतो माता धाता पितामहः। वेद्यं पवित्रमोंकार ऋक् साम यजुरेव च॥ गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्। प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम्॥ तपाम्यहमहं वर्ष निगृह्णम्युत्सृजामि च। अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन॥ ते विद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते। मश्नन्ति दिव्यान् दिवि देवभोगान्॥२० ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति। एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते॥ अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते। तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥ येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयाऽन्विता। तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्॥ अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च। न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते॥ यान्ति देवव्रता देवान् पितॄन् यान्ति पितृव्रताः। भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम्॥ पत्र पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति। तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः॥ यत् करोषि यदश्नासि यज्जुहोषि ददासि यत्। यत्तपस्यसि कौन्तेय तत् कुरुष्वं मदर्पणम्॥ शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः। संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि॥ समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः। ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्॥ अपि चेत् सुदुराचारो भजते मामनन्यभाक्। साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः॥ क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति। कौन्तेय प्रति जानीहि न मे भक्तः प्रणश्यति॥ मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः। स्तेऽपि यान्ति परां गतिम्॥ किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा। अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम्॥ मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः॥ श्रीभगवानुवाच भूय एव महाबाहो शृणु मे परमं वचः। यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया॥ न मे विदुः सुरगणाः प्रभवं न महर्षयः। अहमादिहि देवानां महर्षीणां च सर्वशः॥ यो मामजमनादिं च वेत्ति लोकमहेश्वरम्। असम्मूढः स मर्येषु सर्वपापैः प्रमुच्यते॥ बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः। सुखं दुःखं भवोऽभावो भयं चाभयमेव च॥ अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः। भवन्ति भावा भूतानां मत्त एव पृथग्विधाः॥ महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा। मद्भावा मानसा जाता येषां लोक इमाः प्रजाः॥ एतां विभूति योगं च मम यो वेत्ति तत्त्वतः। सोऽविकम्पेन योगेन युज्यते नात्र संशयः॥ अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते। इति मत्वा भजन्ते मां बुधा भावसमन्विताः॥ मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम्। कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च॥ तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्। ददामि बुद्धियोगं तं येन मामुपयान्ति ते॥ तेषामेवानुकम्पार्थमहमज्ञानजं तमः। नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता॥ अर्जुन उवाच परं ब्रह्म परं धाम पवित्रं परमं भवान्। पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम्॥ आहुस्त्वामृषयः सर्वे देवर्षि रदस्तथा। असितो देवलो व्यास: स्वयं चैव ब्रवीषि मे॥ सर्वमेतदृतं मन्ये यन्मां वदसि केशव। न हि ते भगवन् व्यक्तिं विदुर्देवा न दानवाः॥ स्वयमेवात्मनाऽऽत्मानं वेत्थं त्वं पुरुषोत्तम। भूतभावन भूतेष देवदेव जगत्पते॥ वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः। याभिविभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि॥ कथं विद्यामहं योगिस्त्वा सदा परिचिन्तयन्। केषु केषु च भावेषु चिन्त्योऽसि भगवन् मय॥ विस्तरेणात्मनो योगं विभूतिं च जनार्दन। भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम्॥ श्रीभगवानुवाच हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः। प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे॥ अहमात्मा गुडाकेश सर्वभूताशयस्थितः। अहमादिश्च मध्यं च भूतानामन्त एव च॥ आदित्यानामहं विष्णुर्कोतिषां रविरंशुमान्। मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी॥ वेदानां सामवेदोऽस्मि देवानामस्मि वासव।। इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना॥ रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम्। वसूना पावकश्चास्मि मेरुः शिखरिणामहम्॥ पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम्। सेनानीनामहं स्कन्दः सरसामस्मि सागरः॥ महर्षीणां भृगुरहं गिरामसम्येकमक्षरम्। यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः॥ अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः। गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः॥ उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम्। ऐरावतं गजेन्द्राणां नराणां च नराधिपम्॥ आयुधानामहं वज्रं धेनूनामस्मि कामधुक्। प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः॥ अनन्तश्चास्मि नागानां वरुणो यादसामहम्। पितॄणामर्यमा चास्मि यमः संयमतामहम्॥ प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम्। मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम्॥ पवनः पवतामस्मि रामः शस्त्रभृतामहम्। झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी॥ सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन। अध्यात्मविद्या विद्यानां वादः प्रवदतामहम्॥ अक्षराणाकारोऽस्मि द्वन्द्वः सामासिकस्य च। अहमेवाक्षयः कालो धाताऽहं विश्वतोमुखः॥ मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम्। कीर्तिः श्रीर्वाक् च नारीणां स्मृतिर्मेधा धृतिः क्षमा।।३४। बृहत्साम तथा साम्नां गायत्री छन्दसामहम्। मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः॥ द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम्। जयोऽस्मि व्यवसायोऽस्मि सत्त्व सत्ववतामहम्॥ वृष्णीनांवासुदेवोऽस्मि पाण्डवानां धनंजयः। मुनीनामप्यहं व्यासः कवीनामुशना कविः॥ दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम्। मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम्॥ यच्चापि सर्वभूताना बीजं तदहमर्जुन। न तदस्ति विना यत् स्यान्मया भूतं चराचरम्॥ नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप। एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया।॥ यद् यद् विभूतमत् सत्त्वं श्रीमदूर्जितमेव वा। तत् तदेवावगच्छ त्वं मम तेजोऽशसम्भवम्॥ अथवा बहुनैतेन किं ज्ञातेन तवार्जुन। विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्।॥ अर्जुन उवाच एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते। ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः॥ श्रीभगवानुवाच मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते। श्रद्धया परयोपेतास्ते मे युक्ततमा मताः॥ ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते। सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम्॥ संनियम्येन्द्रियग्रामं सर्वत्रं समबुद्धयः। ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः॥ क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम्। अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते॥ ये त सर्वाणि कर्माणि मयि संन्यस्य मत्पराः। अनन्येनैव योगेन मां ध्यायन्त उपासते॥ तेषामहं समुद्धर्ता मृत्युसंसारसागरात्। भवामि नचिरात् पार्थ मय्यावेशितचेतसाम्॥ मय्येव मन आधत्स्व मयि बुद्धिं निवेशय। निवसिष्यसि मय्येव अत अर्ध्वं न संशयः॥ अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम्। अभ्यासयोगेन ततो मामिच्छाप्तुं धनंजय॥ अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव। मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि॥ अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः। सर्वकर्मफलत्यागं ततः कुरु यतात्मवान्॥ श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद् ध्यानं विशिष्यते। ध्यानात् कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम्॥ अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च। निर्ममो निरहंकारः समदुःखसुखः क्षमी॥ संतुष्टः सतत योगी यतात्मा दृढनिश्चयः। मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः॥ यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः। हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः॥ अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः। सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः॥ यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति। शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः।।१७। समः शत्रौ च मित्रे च तथा मानापमानयोः। शीतोष्णमुखदुःखेषु समः सङ्गविवर्जितः॥ तुल्यनिन्दास्तुतिौनी संतुष्टो येन केनचित्। अनिकेत: स्थिरमतिर्भक्तिमान् मे प्रियो नरः॥ ये तु धर्मामृतमिदं यथोक्तं पर्युपासते। श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः॥ श्रीभगवानुवाच इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते। एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः॥ क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत। क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत् तज्ज्ञानं मतं मम॥ तत् क्षेत्रं यच्च यादृक् च यद्विकारि यतश्च यत्। स च यो यत्प्रभावश्च तत् समासेन मे शृणु॥ ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक्। ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः॥ महाभूतान्यहंकारो वुद्धिरव्यक्तमेव च। इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः॥ इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः। एतत् क्षेत्रं समासेन सविकारमुदाहृतम्॥ अमानित्वमदम्भित्वमहिमा शान्तिरार्जवम्। आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः॥ इन्द्रियार्थेषु वैराग्यमनहंकार एव च। जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम्॥ असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु। नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु॥ मयि चानन्ययोगेन भक्तिरव्यभिचारिणी। विविक्तदेशसेवित्वमरतिर्जनसंसदि॥ अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम्। एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा॥ ज्ञेयं यत् तत् प्रवक्ष्यामि यज्ज्ञात्वागऽमृतमश्नुते। अनादिमत् परं ब्रह्म न सत् तन्नासदुच्यते॥ सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम्। सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति॥ सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्। असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्त च॥ बहिरन्तश्च भूतानामचरं चरमेव च। सूक्ष्मत्वात् तद् विज्ञेयं दूरस्थं चान्तिके च तत्॥ अविभक्तं च भूतेषु विभक्तमिव च स्थितम्। भूतभर्तृ च तज्ज्ञेयं चसिष्णु प्रभविष्णु च॥ ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते। ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य धिष्ठितम्॥ इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः। मद्भक्त एतद् विज्ञाय मद्भावायोपपद्यते॥ प्रकृति पुरुषं चैव विद्ध्यनादी उभावपि। विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान्।॥ कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते। पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते॥ पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान्। कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु॥ उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः। परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः॥ य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह। सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते॥ ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना। अन्ये सांख्येन योगेन कर्मयोगेन चापरे॥ अन्ये त्वेवमजानन्तः श्रुत्वाऽन्येभ्य उपासते। तेऽपि चातितरन्त्येव मृत्यु श्रुतिपरायणाः॥ यावत् संजायते किंचित् सत्त्वं स्थावटजङ्गमम्। क्षेत्रक्षेत्रज्ञसंयोगात् तद् विद्धि भरतर्षभ॥ समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्। विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति॥ सं पश्यन् हि सर्वत्र समवस्थितमीश्वरम्। न हिनस्त्यात्मनाऽऽत्मानं ततो याति परां गतिम्॥ प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः। यः पश्यति तथाऽऽत्मानमकर्तारं स पश्यति॥ यदा भूतपृथग्भावमेकस्थमनुपश्यति। तत एव च विस्तारं ब्रह्म सम्पद्यते तदा।॥ अनादित्वान्निर्गुणत्वात् परमात्माऽयमव्ययः। शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते॥ यथा सर्वगतं सौक्ष्मयादाकाशं नोपलिप्यते। सर्वत्रावस्थितो देहे तथाऽऽत्मा नोपलिप्यते॥ यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः। क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत॥ क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा। भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम्॥ श्रीभगवानुवाच परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्। यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः॥ इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च।॥ मम योनिर्महद् ब्रह्म तस्मिन् गर्भं दधाम्हम्। सम्भवः सर्वभूतानां ततो भवति भारत॥ सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः। तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता॥ सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः। निबन्धन्ति महाबाहो देहे देहिनमव्ययम्॥ तत्र सत्त्वं निर्मलत्वात् प्रकाशकमनायम्। सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ॥ रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम्। तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्॥ तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम्। प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत।॥ सत्त्वं सुखे संजयति रजः कर्मणि भारत। ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत॥ रजस्तमश्चाभिभूय सत्त्वं भवति भारत। रजः सत्त्व तमश्चैव तमः सत्त्वं रजस्तथा।॥ सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते। ज्ञानं यदा तदा विद्याद् विवृद्धं सत्त्वमित्युत॥ लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा। रजस्येतानि जायन्ते विवृद्धे भरतर्षभ॥ अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च। तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन॥ यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत्। तदोत्तमविदां लोकानमलान् प्रतिपद्यते॥ रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते। तथा प्रलीनस्तमसि मूढयोनिषु जायते॥ कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम्। रजसस्तु फलंदुःखमज्ञानं तमसः फलम्॥ सत्त्वात् संजायते ज्ञानं रजसो लोभ एव च। प्रमादमोहौ तमसो भवतोऽज्ञानमेव च॥ ऊर्ध्वगच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः। जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः॥ नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति। गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति॥ गुणानेतानतीत्य त्रीन् देही देहसमुद्भवान्। जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते॥ अर्जुन उवाच कैर्लिङ्गैस्त्रीन् गुणानेतानतीतो भवति प्रभो। किमाचारः कथं चैतांस्त्रीन् गुणानतिवर्तते॥ श्रीभगवानुवाच प्रकाश: च प्रवृत्तिं च मोहमेव च पाण्डव। न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति॥ उदासीनवदासीनो गुणैर्यो न विचाल्यते। गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते॥ समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः। तुल्यप्रियाप्रियोधीरस्तुल्यनिन्दाऽऽत्मसंस्तुति॥ मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः। सर्वारम्भपरित्यागी गुणातीतः स उच्यते॥ मां च योऽव्यभिचारेण भक्तियोगेन सेवते। स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते॥ ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्यस्य च। शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च॥ श्रीभगवानुवाच ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्। छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्॥ अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः। अधश्च मूलान्यनुसंततानि कर्मानुबन्धीनि मनुष्यलोके॥ न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा। मसङ्गशस्त्रेण दृढेन छित्त्वा॥ ततः पदं तत् परिमार्गितव्यं यस्मिन् गता न निवर्तन्ति भूयः। तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी॥ निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः। गच्छन्त्यमूढाः पदमव्ययं तत्॥ न तद् भासयते सूर्यो न शशाङ्को न पावकः। यद् गत्वा न निवर्तन्ते तद् धाम परमं मम॥ ममैवांशो जीवलोके जीवभूतः सनातनः। मनः षष्ठानीन्द्रीयाणि प्रकृतिस्थानि कर्षति॥ शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः। गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्॥ श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च। अधिष्ठाय मनश्चायं विषयानुपसेवते॥ उत्क्रामन्तं स्थितं वापि भुञ्जान् वा गुणान्वितम्। विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः॥ यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्। यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः॥ यदादित्यगतं तेजो जगद् भासयतेऽखिलम्। यच्चन्द्रमसि यच्चागग्नौ तत् तेजो विद्धि मामकम्॥ गामाविश्य च भूतानि धारयाम्यहमोजसा। पुष्णामि चौषश्वीः सर्वाः सोमो भूत्वारसात्मकः॥ अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः। प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्॥ सर्वस्य चाहं हृदि संनिविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च। वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद् वेदविदेव चाहम्॥ द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च। क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः॥ यस्तात् क्षरमतीतोऽहमक्षरादपि चोत्तमः। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः॥ यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्। स सर्वविद् भजति मां सर्वभावेन भारत॥ इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ। एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत॥ वैशम्पायन उवाच गीता सुगीता कर्तव्या किमन्यैः शास्त्रसंग्रहैः। या स्वयं पद्मनाभस्य मुखपद्माद् विनिःसृता॥ सर्वशास्त्रमयी गीता सर्वदेवमयो हरिः। सर्वतीर्थमयी गङ्गा सर्ववेदमयो मनुः॥ गीता गङ्गा च गायत्री गोविन्देति हृदि स्थिते। चतुर्गकारसंयुक्ते पुनर्जन्म न विद्यते॥ षट्शतानि सविंशानि श्लोकानां प्राह केशवः। अर्जुन: सप्तपञ्चाशत् सप्तषष्टिं तु संजयः॥ धृतराष्ट्रः श्लोकमेकं गीताया मानमुच्यते। भारतामृतसर्वस्वगीताया मथितस्य च। सारमुद्धृत्य कृष्णेन अर्जुनस्य मुखे हुतम्॥ संजय उवाच ततो धनंजयं दृष्ट्वा बाणगाण्डीवधारिणम्। पुनरेव महानादं व्यसृजन्त महारथाः॥ पाण्डवाः सोमकाश्चैव ये चैषामनुयायिनः। दध्मुश्च मुदिताः शङ्खान् वीराः सागरसम्भवान्॥ ततो भेर्यश्च पेश्यश्च क्रकचा गोविषाणिकाः। सहसैवाभ्यहन्यन्त ततः शब्दो महानभूत्।॥ तथा देवाः सगन्धर्वाः पितरच जनाधिप। सिद्धचारणसंघाश्च समीयुस्ते दिदृक्षया॥ ऋषयश्च महाभागाः पुरस्कृत्य शतक्रतुम्। समीयुस्तत्र सहिता द्रष्टुं तद् वैशसं महत्॥ ततो युधिष्ठिरो दृष्ट्वा युद्धाय समवस्थिते। ते सेने सागरप्रख्ये मुहुः प्रचलिते नृप॥ विमुच्य कवचं वीरो निक्षिष्य च वरायुधम्। अवरुह्य रथात् क्षिप्रं पद्भ्यामेव कृताञ्जलिः॥ पितामहमभिप्रेक्ष्य धर्मराजो युधिष्ठिरः। वाग्यतः प्रययौ येन प्राङ्मुखो रिपुवाहिनीम्॥ तं प्रयान्तमभिप्रेक्ष्य कुन्तीपुत्रो धनंजयः। अवतीर्य रथात् तूर्णं भ्रातृभिः सहितोऽन्वयात्॥ वासुदेवश्च भगवान् पृष्ठतोऽनुजगाम तम्। तथा मुख्याश्च राजानस्तच्चित्ता जग्मुरुत्सुकाः॥ अर्जुन उवाच किं ते व्यवसितं राजन् यदस्मानपहाय वै। पद्भ्यामेव प्रयातोऽसि प्राङ्मुखो रिपुवाहिनीम्॥ भीमसेन उवाच क्व गमिष्यसि राजेन्द्र निक्षिप्तकवचायुधः। दंशितेष्वरिसैन्येषु भ्रातृनुत्सृज्य पार्थिव॥ नकुल उवाच एवं गते त्वयि ज्येष्ठ मम भ्रातरि भारत। भीमें दुनोति हृदयं ब्रूहि गन्ता भवान् क्व नु॥ सहदेव उवाच अस्मिन् रणसमूहे वै वर्तमाने महाभये। उत्सृज्य क्क नु गन्तासि शत्रूनभिमुखो नृप॥ संजय उवाच एवमाभाष्यमाणोऽपि भ्रातृभिः कुरुनन्दनः। नोवाच वाग्यतः किंचिद् गच्छत्येव युधिष्ठिरः॥ तानुवाच महाप्राज्ञो वासुदेवो महामनाः। अभिप्रायोऽस्य विज्ञातो मयेति प्रहसन्निर॥ एष भीष्मं तथा द्रोणं गौतमं शल्यमेव च। अनुमान्य गुरून् सर्वान् योत्स्यते पार्थिवोऽरिभिः॥ श्रूयते हि पुराकल्पे गुरूनननुमान्य यः। युध्यते स भवेद् व्यक्तमपध्यातो महत्तरैः॥ अनुमान्य यथाशास्त्रं यस्तु युध्येन्महत्तरैः। ध्रुवस्तस्य जयो युद्धे भवेदिति मतिर्मम॥ एवं ब्रुवति कृष्णेऽत्र धार्तराष्ट्रचमूं प्रति। हाहाकारो महानासीन्निःशब्दास्त्वपरेऽभवन्॥ दृष्ट्वा युधिष्ठिरं दूराद् धार्तराष्ट्रस्य सैनिकाः। मिथः संकथयाञ्चक्रुरेषो हि कुलपांसनः॥ व्यक्ति भीत इवाभ्येति राजासौ भीष्ममन्तिकम्। युधिष्ठिरः ससोदर्यः शरणार्थं प्रयाचकः॥ धनंजये कथं नाथे पाण्डवे च वृकोदरे। नकुले सहदेवे च भीतिरभ्येति पाण्डवम्॥ न नूनं क्षत्रियकुले जातः सम्प्रथिते भुवि। यथाऽस्य हृदयं भीतमल्यसत्त्वस्य संयुगे॥ ततस्ते सैनिकाः सर्वे प्रशंसन्ति स्म कौरवान्। हृष्टाः सुमनसो भूत्वा चैलानि दुधुवुश्च ह॥ व्यनिन्दश्च तथा सर्वे योधास्तव विशाम्पते। युधिष्ठिरं ससोदर्यं सहितं केशवेन हि॥ ततस्तत् कौरवं सैन्यं धिक्कृत्वा तु युधिष्ठिरम्। निःशब्दमभवत् तूर्णं पुनरेव विशाम्पते॥ किं नु वक्ष्यति राजासौ किं भीष्मः प्रतिवक्ष्यति। किं भीमः सपरश्लीघी किं नु कृष्णार्जुनाविति॥ विवक्षितं किमस्येति संशयः सुमहानभूत्। उभयोः सेनयो राजन् युधिष्ठिरकृते तदा।॥ सोऽवगाह्य चमूं शत्रोः शरशक्तिसमाकुलाम्। भीष्ममेवाभ्ययात् तूर्णं भ्रातृभिः परिवारितः॥ तमुवाच ततः पादौ कराभ्यां पीड्य पाण्डवः। भीष्मं शान्तनवं राजा युद्धाय समुपस्थितम्॥ युधिष्ठिर उवाच आमन्त्रये त्वां दुर्धर्ष त्वया योत्स्यामहे सहा अनुजानीहि मां तात आशिषश्च प्रयोजय॥ भीष्म उवाच यद्येवं नाभिगच्छेथा युधि मां पृथिवीपते। शपेयं त्वां महाराज पराभावाय भारत॥ प्रीतोऽहं पुत्र युध्यस्व जयमाप्नुहि पाण्डव। यत् तेऽभिलषितं चान्यत् तदवाप्नुहि संयुगे॥ वियतां च वरः पार्थ किमस्मत्तोऽभिकाडक्षसि। एवंगते महाराज न तवास्ति पराजयः॥ अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्। इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः॥ अत्स्त्वां क्लीबवद् वाक्यं ब्रवीमि कुरुनन्दन। भृतोऽस्म्यर्थेन कौरव्य युद्धादन्यत् किमिच्छसि॥ युधिष्ठिर उवाच मन्त्रयस्व महाबाहो हितैषी मम नित्यशः। युध्यस्व कौरवस्यार्थे ममैष सततं वरः॥ भीष्म उवाच राजन् किमत्र साह्यं ते करोमि कुरुनन्दन। कामं योत्स्ये परस्यार्थे ब्रूहि यत् ते विवक्षितम्॥ युधिष्ठिर उवाच कथं जयेयं संग्रामे भवन्तभपराजितम्। एतन्मे मन्त्रय हितं यदि श्रेयः प्रपश्यसि॥ भीष्म उवाच नैनं पश्यामि कौन्तेय यो मां युध्यन्तमाहवे। विजयेत पुमान् कश्चित् साक्षादपि शतक्रतुः॥ युधिष्ठिर उवाच हन्त पृच्छामि तस्मात् त्वां पितामह नमोऽस्तु ते। वधोपायं ब्रवीहि त्वमात्मनः समरे परैः॥ भीष्म उवाच न स्म तं तात पश्यामि समरे यो जयेत माम्। न तावन्मृत्युकालोऽपि पुनरागमनं कुरु॥ संजय उवाच ततो युधिष्ठिरो वाक्यं भीष्मस्य कुरुनन्दन। शिरसा प्रतिजग्राह भूयस्तमभिवाद्य च॥ प्रायात् पुनर्महाबाहुराचार्यस्य रथं प्रति। पश्यतां सर्वसैन्यानां मध्येन भ्रातृभिः सह॥ स द्रोणमभिवाद्याथ कृत्वा चाभिप्रदक्षिणम्। उवाच राजा दुर्धर्षमात्मनिःश्रेयसं वचः॥ आमन्त्रये त्वां भगवन् योत्स्ये विगतकल्मषः। कथं जये रिपून् सर्वाननुज्ञातस्त्वया द्विज॥ द्रोण उवाच यदि मां नाभिगच्छेया युद्धाय कृतनिश्चयः। शपेयं त्वां महाराज पराभावाय सर्वशः॥ तद् युधिष्ठिर तुष्टोऽस्मि पूजितश्च त्वयाऽनघ। अनुजानामि युध्यस्व विजयं समवाप्नुहि॥ करवाणि च ते कामं ब्रूहि त्वमभिकाक्षितम्। एवंगते महाराज युद्धादन्यत् किमिच्छसि॥ अर्थस्य पुरुषोदासो दासस्त्वर्थो न कस्यचित्। इति सत्यं महाराज बद्धोऽस्यर्थेन कौरवैः॥ ब्रवीम्येतत् क्लीववत् त्वां युद्धादन्यत् किमिच्छसि। योत्स्येऽहं कौरवस्यार्थे तवाशास्यो जयो मया॥ जपमाशास्व ब्रह्मन् मन्त्रयस्व च यद्धितम्। युद्ध्यस्व कौरवस्यार्थे वर एष वृतो मया॥ मे द्रोण उवाच ध्रुवस्ते विजयो राजन् यस्य मन्त्री हरिस्तव। अहं त्वामभिजानामि रणे शत्रून् विमोक्ष्यसे॥ यतो धर्मस्ततः कृष्णो यत: कृष्णस्ततो जयः। युद्ध्यस्व गच्छ कौन्तेये पृच्छं मां किं ब्रवीमि ते॥ युधिष्ठिर उवाच पृच्छामि त्वा द्विजश्रेष्ठ शृणु यन्मेऽभिकाक्षितम्। कथं जयेयं संग्रामे भवन्तमपराजितम्॥ द्रोण उवाच न तेऽस्ति विजयस्तावद् यावद् युद्ध्याम्यहं रणे। ममाशु निधने राजन् यतस्व सह सोदरैः॥ युधिष्ठिर उवाच हन्त तस्मान्महाबाहो बधोपायं वदात्मनः। आचार्य प्रणिपत्यैष पृच्छामि त्वां नमोऽस्तु ते॥ द्रोण उवाच न शत्रु तात पश्यामि यो मां हन्याद् रथे स्थितम्। युध्यमानं सुसंरब्धं शरवर्षांघवर्षिणम्॥ ऋते प्रायगतं राजन्न्यस्तशस्त्रमचेतनम्। हन्यान्मां युधि योधानां सत्यमेतद् ब्रवीमि ते॥ शस्त्रं ग्राहं रणे जह्यां श्रुत्वा महदप्रियम्। श्रद्धेयवाक्यात् पुरुषादेतत् सत्यं ब्रवीमि ते॥ संजय उवाच एतच्छ्रुत्वा महाराज भारद्वाजस्य धीमतः। अनुमान्य तमाचार्य प्रायाच्छारद्वतं प्रति॥ सोऽभिवाद्य कृपं राजा कृत्वा चापि प्रदक्षिणम्। उवाच दुर्धर्षतमं वाक्यं वाक्यविदां वरः॥ युधिष्ठिर उवाच अनुमानये त्वां योत्स्येऽहं गुरो विगतकल्मषः। जयेयं च रिपून् सर्वाननुज्ञातस्त्वयाऽनघ॥ कृप उवाच यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः। शपेयं त्वां महाराज पराभावाय सर्वशः॥ अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्। इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः॥ तेषामर्थे महाराज योद्धव्यमिति मे मतिः। अतस्त्वां क्लीबवद् ब्रूयां युद्धादन्यत् किमिच्छसि॥ युधिष्ठिर उवाच हन्त पृच्छामि ते तस्मादाचार्य शृणु मे वचः। इत्युक्त्वा व्यथितो राजा नोवाच गतचेतनः॥ संजय उवाच तं गौतमः प्रत्युवाच विज्ञायास्य विवक्षितम्। अवध्योऽहं महीपाल युद्ध्यस्व जयमाप्नुहि॥ प्रीतस्तेऽभिगमेनाहं जयं तव नराधिप। आशासिष्ये सदोत्थाय सत्यमेतद् ब्रवीमि ते॥ एतच्छ्रुत्वा महाराज गौतमस्य विशाम्पते। अनुमान्य कृपं राजा प्रययौ येन मद्रराट्॥ स शल्यमभिवाद्याथ कृत्वा चाभिप्रदक्षिणम्। उवाच राजा दुर्धर्शमात्मनिःश्रेयसं वचः॥ अनुमानये त्वां दुर्धर्ष योत्स्ये विगतकल्मषः। जयेयं नु परान् राजन्ननुज्ञातस्त्वया रिपून्॥ शल्य उवाच यदि मां नाधिगच्छेथा युद्धाय कृतनिश्चयः। शपेयं त्वां महाराज पराभावाय वै रणे॥ तुष्टोऽस्मि पूजितश्चास्मि यत् काङ्क्षसि तदस्तु ते। अनुजानामि चैव त्वां युध्यस्व जयमाप्नुहि॥ ब्रूहि चैव परं वीरं केनार्थः किं ददामि ते। एवंगते महाराज युद्धादन्यत् किमिच्छसि॥ अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्। इति सत्यं महाराज बद्धोऽस्म्यर्थन कौरवैः॥ करिष्यामि हि ते कामं भागिनेय यथेप्सितम्। ब्रवीम्यतः क्लीबवत् त्वां युद्धादन्यत् किमिच्छसि।।८३। युधिष्ठिर उवाच मन्त्रयस्व महाराज नित्यं मद्धितमुत्तमम्। कामं युद्ध्य परस्यार्थे वरमेतं वृणोम्यहम्॥ शल्य उवाच किमत्र ब्रूहि साह्यं ते करोमि नृपसत्तम। कामं योत्स्ये परस्यार्थे बद्धोऽस्म्यर्थेन कौरवैः॥ युधिष्ठिर उवाच स एव मे वरः शल्य उद्योगे यस्त्वया कृतः। सूतपुत्रस्य संग्रामे कार्यस्तेजोवधस्त्वया॥ शल्य उवाच सम्पत्स्यत्येष ते कामः कुन्तीपुत्र यथेप्सितम्। गच्छ युध्यस्व विश्रब्धः प्रतिजाने वचस्तव॥ संजय उवाच अनुमान्याथ कौन्तेयो मातुलं मद्रकेश्वरम्। निर्जगाम महासैन्याद् भ्रातृभिः परिवारितः॥ वासुदेवस्तु राधेयमाहवेऽभिजगाम वै। तत एनमुवाचेदं पाण्डवार्थे गदाग्रजः॥ श्रुतं मे कर्ण भीष्मस्य द्वेषात् किल न योत्स्यसे। अस्मान् वरय राधेय यावद् भीष्मो न हन्यते॥ हते तु भीष्मे राधेय पुनरेष्यसि संयुगम्। धार्तराष्ट्रस्य साहाय्यं यदि पश्यसि चेत् समम्॥ कर्ण उवाच वचनं कृष्णः न विप्रियं करिष्यामि धार्तराष्ट्रस्य केशव। त्यक्तप्राणं हि मां विद्धि दुर्योधनहितैषिणम्॥ संजय उवाच तच्छ्रुत्वा सन्यवर्तत भारत। युधिष्ठिरपुरोगैश्च पाण्डवैः सह संगतः॥ अथ सैन्यस्य मध्ये तु प्राक्रोशत् पाण्डवाग्रजः। योऽस्मान् वृणोति तमहं वरये साह्यकारणात्॥ अथ तान् समभिप्रेक्ष्य युयुत्सुरिदमब्रवीत्। प्रीतात्मा धर्मराजाः कुन्तीपुत्रं युधिष्ठिरम्॥ अहं योत्स्यामि भवतः संयुगे धृतराष्ट्रजान्। युष्मदर्थं महाराज यदि मां वृणुषेऽनघ॥ युधिष्ठिर उवाच एह्येहि सर्वे योत्स्यामस्तव भ्रातूनपण्डितान्। युयुत्सो वासुदेवश्च वयं च ब्रूम सर्वशः॥ वृणोमि त्वां महाबाहो युद्ध्यस्व मम कारणात्। त्वयि पिण्डश्च तन्तुश्च धृतराष्ट्रस्य दृश्यते॥ भजस्वास्मान् राजपुत्र भजमानान् महाद्युते। न भविष्यति दुर्बुद्धिर्धार्तराष्ट्रोऽत्यमर्षणः॥ संजय उवाच ततो युयुत्सुः कौरव्यान् परित्यज्यसुतांस्तव। जगाम पाण्डुपुत्राणां सेनां विश्राव्य दुन्दुभिम्॥ ततो युधिष्ठिरो राजा सम्प्रहृष्टः सहानुजः। जग्राह कवचं भूयो दीप्तिमत् कनकोज्ज्वम्॥ प्रत्यपद्यन्त ते सर्वे स्वस्थान् पुरुषर्षभाः। ततो व्यूहं यथापूर्वं प्रत्यव्यूहन्त ते पुनः॥ अवादयन् दुन्दुभीश्च शतशश्चैव पुष्करान्। सिंहनादांश्च विविधान् विनेदुः पुरुषर्षभाः॥ रथस्थान् पुरुषव्याघ्रान् पाण्डवान् प्रेक्ष्य पार्थिवाः। धृष्टद्युम्नादयः सर्वे पुनर्जहृषिरे तदा॥ गौरवं पाण्डुपुत्राणां मान्यान् मानयतां च तान्। दृष्ट्वा महीक्षितस्तत्र पूजयाञ्चक्रिरे भृशम्॥ सौहृदं च कृपां चैव प्राप्तकालं महात्मनाम्। दयां च ज्ञातिषु परां कथयाञ्चक्रिरे नृपाः॥ साधु साध्विति सर्वत्र निश्चेरुः स्तुतिसंहिताः। वाचः पुण्याः कीर्तिमतां मनोहृदयहर्षणाः॥ म्लेच्छाश्चार्याश्च ये तत्र ददृशुः शुश्रुवुस्तथा। वृत्तं तत् पाण्डुपुत्राणां रुरुदुस्ते सगद्गदाः॥ ततो जघ्नुर्महाभेरीः शतशश्च सहस्रशः। शङ्खाश्च गोक्षीरनिभान् दध्मुर्हष्टा मनस्विनः॥ सेनया।॥ धृतराष्ट्र उवाच एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च। के पूर्वं प्राहरंस्तत्र कुरवः पाण्डवा नु किम्॥ संजय उवाच भ्रातृभिः सहितो राजन् पुत्रो दुर्योधनस्तव। भीष्म प्रमुखतः कृत्वा प्रययौ सह तथैव पाण्डवाः सर्वे भीमसेनपुरोगमाः। भीष्मेण युद्धमिच्छन्तः प्रययुर्हष्टमानसाः॥ क्ष्वेडा: किलकिलाशब्दाः क्रकचा गोविषाणिकाः। भेरीमृदङ्गमुरजा हयकुञ्जरनिःस्वनाः॥ उभयोः सेनयोगसंस्ततस्तेऽस्मान् समाद्रवन्। वयं तान् प्रतिनर्दन्तस्तदासीत् तुमुलं महत्॥ महान्त्यनीकानि महासमुच्छ्रये समागमे पाण्डवधार्तराष्ट्रयोः। चकम्पिरे शङ्खमृदङ्गनिःस्वनैः प्रकम्पितानीव वनानि वायुना॥ मभ्यागतानामशिवे मुहूर्ते। वभूव घोषस्तुमुलश्चमूनां बातोद्भुतानामिव सागराणाम्॥ तस्मिन् समुत्थिते शब्दे तुमुले लोमहर्षणे। भीमसेनो महाबाहुः प्राणदद् गोवृषो यथा॥ शङ्खदुन्दुभिनिर्घोषं वारणानां च बृहितम्। सिंहनादं च सैन्यानां भीमसेनरवोऽभ्यभूत्॥ हयानां हेषमाणानामनीकेषु सहस्रशः। सर्वानभ्यभवच्छब्दान् भीमस्य नदतः स्वनः॥ तं श्रुत्वा निनदं तस्य सैन्यास्तव वितत्रसुः। जीमूतस्येव नदतः शक्राशनिसमस्वनम्॥ वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः। शब्देन तस्य वीरस्य सिंहस्येवेतरे मृगाः॥ दर्शयन् घोरमात्मानं महाभ्रमिव नादयन्। विभीषयंस्तव सुतान् भीमसेनः समभ्ययात्॥ तमायान्तं महेष्वासं सोदर्याः पर्यवारयन्। छादयन्तः शरवातैर्मेघा इव दिवाकरम्॥ दुर्योधनश्च पुत्रस्ते दुर्मुखो दुःशलः शलः। दुःशासनश्चातिरथस्तथा दुर्मर्षणो नृप॥ विविंशतिश्चित्रसेनो विकर्णश्च महारथः। पुरुमित्रो जयो भोजः सौमदत्तिश्च वीर्यवान्।॥ महाचापानि धुन्वन्तो मेघा इव सविद्युतः। आददानाश्च नाराचान् निर्मुक्ताशीविषोपमान्॥ अथ ते द्रौपदीपुत्राः सौभद्रश्च महारथः। नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः॥ धार्तराष्ट्रान् प्रतिययुरर्दयन्तः शितैः शरैः। वज़ैरिव महावेगैः शिखराणि धराभृताम्॥ तस्मिन् प्रथमसंग्रामे भीमज्यातलनिःस्वने। तावकानां परेषां च नासीत् कश्चित् पराङ्मुखः॥ लाघवं द्रोणशिष्याणामपश्यं भरतर्षभ। निमित्तवेधिनां चैव शरानुत्सृजतां भृशम्॥ नोपशाम्यति निर्घोषो धनुषां कूजतां तथा। विनिश्चेरुः शरा दीप्ता ज्योतीषीव नभस्तलात्॥ सर्वे त्वन्ये महीपालाः प्रेक्षका इव भारत। ददृशुर्दर्शनीयं तं भीमं ज्ञातिसमागमम्॥ ततस्ते जातसंरम्भाः परस्परकृतागसः। अन्योन्यस्पर्धया राजन् व्यायच्छन्त महारथाः॥ कुरुपाण्डवसेने ते हस्त्यश्वरथसंकुले। शुशुभाते रणेऽतीव पटे चित्रार्पिते इव॥ ततस्ते पार्थिवाः सर्वे प्रगृहीतशरासनाः। सहसैन्याः समापेतुः पुत्रस्य तव शासनात्॥ युधिष्ठिरेण चादिष्टाः पार्थिवास्ते सहस्रशः। विनदन्तः समापेतुः पुत्रस्य तव वाहिनीम्॥ उभयोः सेनयोस्तीव्रः सैन्यानां स समागमः। अन्तर्धीयत चादित्यः सैन्येन रजसाऽऽवृतः॥ प्रयुद्धानां प्रभग्नानां पुनरावर्तिनामपि। नात्र स्वेषां परेषां वा विशेषः समदृश्यत॥ तस्मिंस्तु तुमुले युद्धे वर्तमाने महाभये। अतिसर्वाण्यनीकानि पिता तेऽभिव्यरोचत।॥ संजय उवाच पूर्वाह्ने तस्य रौद्रस्य युद्धमह्नो विशाम्पते। प्रावर्तत महाघोरं राज्ञां देहावकर्तनम्॥ कुरूणां सृञ्जयानां च जिगीषूणां परस्परम्। सिंहानामिव संह्रादो दिवमुर्वी च नादयन्॥ आसीत् किलकिलाशब्दस्तलशङ्खरवैः सह। जज्ञिरे सिंहनादाश्च शूराणां प्रतिगर्जताम्॥ तलवाभिहताश्चैव ज्याशब्दा भरतर्षभ। पत्तीनां पादशब्दश्च वाजिनां च महास्वनः॥ तोत्राङ्कुशनिपातश्च आयुधानां च नि:स्वनः। घण्टाशब्दश्च नागानामन्योन्यमभिधावताम्॥ तस्मिन् समुदिते शब्दे तुमुले लोमहर्षणे। बभूव रथनिर्घोषः पर्जन्यनिनदोपमः॥ ते मनः क्रूरमाधाय समभित्यक्तजीविताः। पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः॥ अथ शान्तनवो राजन्नभ्यधावद् धनंजयम्। प्रगृह्य कार्मुकं घोरं कालदण्डोपमं रणे॥ अर्जुनोऽपि धनुर्गृह्य गाण्डीवं लोकविश्रुतम्। अभ्यधावत तेजस्वी गाङ्गेयं रणमूर्धनि॥ तावुभौ कुरुशार्दूलौ परस्परवधैषिणौ। गाङ्गेयस्तु रणे पार्थं विद्ध्वा नाकम्पयत् बली।।१० तथैव पाण्डवो राजन् भीष्मं नाकम्पयद् युधि। सात्यकिस्तु महेष्वासः कृतवर्माणमभ्ययात्॥ तयोः समभवद् युद्धं तुमुलं लोमहर्षणम्। सात्यकिः कृतवर्माणं कृतवर्मा च सात्यकिम्॥ आनछुतुः शरैरैस्तक्षमाणौ परस्परम्। तौ शराचितसर्वाङ्गौ शुशुभाते महाबलौ॥ वसन्ते पुष्पशबलौ पुष्पिताविव किंशुकौ। अभिमन्युर्महेष्वासं बृहद्बलमयोधयत्॥ ततः कोसलराजाऽसावभिमन्योर्विशाम्पते। ध्वजं चिच्छेद समरे सारथिं च न्यपातयत्॥ सौभद्रस्तु ततः क्रुद्धः पातिते रथसारथौ। बृहद्वलं महाराज विव्याध नवभिः शरैः॥ अथापराव्यां भल्लाभ्यां शिताभ्यामरिमर्दनः। ध्वजमेकेन चिच्छेद पार्णिमेकेन सारथिम्॥ अन्योन्यं च शरैः क्रुद्धौ ततक्षाते परस्परम्। मानिनं समरे दृप्तं कृतवैरं महारथम्॥ भीमसेनस्तव सुतं दुर्योधनमयोधयत्। तावुभौ नरशार्दूलौ कुरुमुख्यौ महाबलौ॥ अन्योन्यं शरवर्षाभ्यां ववृषाते रणाजिरे। तौ वीक्ष्य तु महात्मानौ कृतिनौ चित्रयोधिनौ॥ विस्मयः सर्वभूतानां समपद्यत भारत। दुःशासनस्तु नकुलं प्रत्युद्याय महाबलम्॥ अविध्यन्निशितैर्बाणैहुभिर्मर्मदिभिः। तस्य माद्रीसुतः केतुं सशरं च शरासनम्॥ चिच्छेद निशितैर्बाणैः प्रहसन्निव भारत। अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत्॥ पुत्रस्तु तव दुर्धर्षो नकुलस्य महाहवे। तुरङ्गांश्चिच्छिदे बाणैर्ध्वजं चैवाभ्यपातयत्॥ दुर्मुखः सहदेवं च प्रत्युद्याय महाबलम्। विव्याध शरवर्षेण यतमानं महाहवे॥ सहदेवस्ततो वीरो दुर्मुखस्य महारणे। शरेण भृशतीक्ष्णेन पातयामास सारथिम्॥ तावन्योन्यं समासाद्य समरे युद्धदुर्मदौ। त्रासयेतां शरैोरैः कृतप्रतिकृतैषिणौ।॥ युधिष्ठिरः स्वयं राजा मद्रराजानमभ्ययात्। तस्य मद्राधिपश्चापं द्विधा चिच्छेद मारिष॥ तदपास्य धनुश्च्छिन्नं कुन्तीपुत्रो युधिष्ठिरः। अन्यत् कार्मुकमादाय वेगवद् बलवत्तरम्॥ ततो मद्रेश्वरं राजा शरैः संनतपर्वभिः। छादयामास संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत्॥ धृष्टद्युम्नस्ततो द्रोणमभ्यद्रवत भारत। तस्य द्रोणः सुसंक्रुद्धः परासुकरणं दृढम्॥ त्रिधा चिच्छेद समरे पाञ्चाल्यस्य तु कार्मुकम्। शरं चैव महाघोरं कालदण्डमिवापरम्॥ प्रेषयामास समरे सोऽस्य काये न्यमज्जत। अथान्यद् धनुरादाय सायकांश्च चतुर्दश॥ द्रोण द्रुपदपुत्रस्तु प्रतिविव्याध संयुगे। तावन्योन्यं सुसंक्रुद्धौ चक्रतुः सुभृशं रणम्॥ सौमदत्तिं रणे शङ्खो रभसं रभसो युधि। प्रत्युद्ययौ महाराज तिष्ठ तिष्ठेति चाब्रवीत्॥ तस्य वै दक्षिणं वीरो निर्बिभेद रणे भुजम्। सौमदत्तिस्तथा शङ्ख जत्रुदेशे समाहनत्॥ तयोस्तदभवद् युद्धं घोररूपं विशाम्पते। दृप्तयोः समरे पूर्वं वृत्रवासवयोरिव।॥ बाह्रीकं तु रणे क्रुद्धं क्रुद्धरूपो विशाम्पते। अभ्यद्रवदमेयात्मा धृष्टकेतुर्महारथः॥ बाह्रीकस्तु रणे राजन् धृष्टकेतुममर्षणः। शरैर्बहुभिरानछेत् सिहनादमथानदत्॥ चेदिराजस्तु संक्रुद्धो बाह्रीकं नवभिः शरैः। विव्याध समरे तूर्णं मत्तो मत्तमिव द्विपम्॥ तौ तत्र समरे क्रुद्धौ नर्दन्तौ च पुनः पुनः। समीयतुः सुसंक्रुद्धावङ्गारकबुधाविव॥ राक्षसं रौद्रकर्माणं क्रूरकर्मा घटोत्कचः। अलम्बुषं प्रत्युदियाद् बलं शक्र इवाहवे॥ घटोत्कचस्ततः क्रुद्धो राक्षसं तं महाबलम्। नवत्या सायकैस्तीक्ष्णैर्दारयामास भारत॥ अलम्बुषस्तु समरे भैमसेनि महाबलम्। बहुधा दारयामास शरैः संनतपर्वभिः॥ व्यभ्राजेतां ततस्तौ तु संयुगे शरविक्षतौ। यथा देवासुरे युद्धे बलशक्रौ महाबलौ॥ शिखण्डी समरे राजन् द्रौणिमभ्युद्ययौ बली। अश्वत्थामा ततः क्रुद्धः शिखण्डिनमुपस्थितम्॥ नाराचेन सुतीक्ष्णेन भृशं विद्ध्वा ह्यकम्पयत्। शिखण्ड्यपि ततो राजन् द्रोणपुत्रमताडयत्॥ सायकेन सुपीतेन तीक्ष्णेन निशितेन च। तौ जनतुस्तदाऽन्योन्यं शरैर्बहुविधैर्मधे॥४८॥ भगदत्तं रणे शूरं विराटो वाहिनीपतिः। अभ्ययात् त्वरितो राजंस्ततो युद्धमवर्तत॥ विराटो भगदत्तं तु शरवर्षेण भारत। अभ्यवर्षत् सुसंक्रुद्धो मेघो वृष्ट्या इवाचलम्॥ भगदत्तस्ततस्तूर्णं विराटं पृथिवीपतिम्। छादयामास समरे मेघः सूर्यमिवोदितम्॥ बृहत्क्षत्रं तु कैकेयं कृपः शारद्वतो ययौ। तं कृपः शरवर्षेण च्छादयामास भारत॥ गौतमं कैकयः क्रुद्धः शरवृष्ययाऽभ्यपूरयत्। तावन्योन्यं हयान् हत्वा धनुश्छित्त्वा च भारत॥ विरथावसियुद्धाय समीयतुरमर्षणौ। तयोस्तदभवद् युद्धं घोररूपं सुदारुणम्॥ द्रुपदस्तु अभ्युद्ययौ हृष्टरूपो हृष्टरूपं परंतपः॥ ततः सैन्धवको राजा दुपदं विशिखैस्त्रिभिः। ताडयामास समरे स च तं प्रत्यविध्यत॥ तयोस्तदभवद् युद्धं घोररूपं सुदारुणम्। ईक्षणप्रीतिजननं शुक्राङ्गारकयोरिव॥ विकर्णस्तु सुतस्तुभ्यं सुतसोमं महाबलम्। अभ्ययाज्जवनैरश्वैस्ततो युद्धमवर्तत॥ ततो राजन् राजन् सैन्धवं वै सैन्धवं वै जयद्रथम्। विकर्णः सुतसोमं तु विद्ध्वा नाकम्पयच्छरैः। सुतसोमो विकर्णं च तदद्भुतविवाभवत्॥ सुशर्माणं नरव्याघ्रश्चेकितानो महारथः। अभ्यद्रवत् सुसंक्रुद्धः पाण्डवार्थे पराक्रमीः॥ सुशर्मा तु महाराज चेकितानं महारथम्। महता शरवर्षेण वारयामास संयुगे॥ चेकितानोऽपि संरब्धः सुशर्माणं महाहवे। प्राच्छादयत् तमिषुभिर्महामेघ इवाचलम्॥ शकुनिः प्रतिविन्ध्यं तु पराक्रान्तं पराक्रमी। अभ्यद्रवत राजेन्द्र मत्तः सिंह इव द्विपम्॥ यौधिष्ठिरस्तु संक्रुद्धः सौबलं निशितैः शरैः। व्यदारयत संसंग्रामे मघवानिव दानवम्॥ शकुनिः प्रतिविन्ध्यं तु प्रतिविध्यन्तमाहवे। व्यदारयन्महाप्राज्ञः शरैः संनतपर्वभिः॥ सुदक्षिणं तु राजेन्द्र काम्बोजानां महारथम्। श्रुतकर्मा पराक्रान्तमभ्यद्रवत संयुगे॥ सुदक्षिणस्तु समरे साहदेविं महारथम्। विद्ध्वा नाकम्पयत वै मैनाकमिव पर्वतम्॥ श्रुतकर्मा ततः क्रुद्धः काम्बोजानां महारथम्। शरैर्बहुभिरानछेद् दारयन्निव सर्वशः॥ इरावानथ संक्रुद्धः श्रुतायुषमरिंदमम्। प्रत्युद्ययौ रणे यत्तो यत्तरूपं परंतपः॥ आर्जुनिस्तस्य समरे हयान् हत्वा महारथः। ननाद बलवन्नादं तत् सैन्यं प्रत्यपूरयत्॥ श्रुतायुस्तु ततः क्रुद्धः फाल्गुनेः समरे हयान्। निजघान गदाग्रेण ततो युद्धमवर्तत॥ विन्दानुविन्दावावन्त्यौ कुन्तिभोजं महारथम्। ससेनं ससुतं वीरं संससज्जतुराहवे॥ तत्राद्भुतमपश्याम तयो?रं पराक्रमम्। अयुध्येतां स्थिरौ भूत्वा महत्या सेनया सह॥ अनुविन्दस्तु गदया कुन्तिभोजमताडयत्। कुन्तिभोजश्च तं तूर्णं शरवातैरवाकिरत्॥ कुन्तिभोजसुतश्चापि विन्दं विव्याध सायकैः। स च तं प्रतिविव्याध तदद्भुतमिवाभवत्॥ केकया भ्रातरः पञ्च गान्धारान् पञ्च मारिष। ससैन्यास्ते ससैन्यांश्च योधयामासुराहवे॥ वीरबाहुश्च ते पुत्रो वैराटि रथसत्तमम्। उत्तरं योधयामास विव्याध निशितैः शरैः॥ उत्तस्थापि तं वीरं विव्याध निशितैः शरैः। चेदिराट् समरे राजन्नुलूकं समभिद्रवत्॥ तथैव शरवर्षेण उलूकं समविद्ध्यता उलूकश्चापि तं बाणैर्निशितैर्लोमवाहिभिः॥ तयोर्युद्धं समभवद् घोररूपं विशाम्पते। दारयेतां सुसंक्रुद्धावन्योन्यमपराजितौ॥ एवं द्वन्द्वसहस्राणि रथवारणवाजिनाम्। पदातीनं च समरे तव तेषां च संकुले॥ मुहूर्तमिव तद् युद्धमासीन्मधुरदर्शनम्। तत उन्मत्तवद् राजन् न प्राज्ञायत किंचन॥ गजो गजेन समरे रथिनं च रथी ययौ। अश्वोऽश्वं समभिप्रायात् पदातिश्च पदातिनम्॥ ततो युद्धं सुदुर्धर्षं व्याकुलं समपद्यत। शूराणां समरे तत्र समासाद्येतरेतरम्॥ तत्र देवर्षयः सिद्धाश्चारणाश्च समागताः। प्रेक्षन्त तद् रणं घोरं देवासुरसमं भुवि॥ ततो दन्तिसहस्राणि रथानां चापि मारिष। अश्वौघाः पुरुषौघाश्च विपरीतं समाययु॥ तत्र तत्र प्रदृश्यन्ते रथवारणपत्तयः। सादिनश्च नरव्याघ्र युध्यमाना मुहुर्मुहुः॥ संजय उवाच गतपूर्वाह्नभूयिष्ठे तस्मिन्नहनि दारुणे। वर्तमाने तथा रौद्रे महावीरवरक्षये॥ दुर्मुखः कृतवर्मा च कृपः शल्यो विविंशतिः। भीष्मं जुगुपुरासाद्य तव पुत्रेण चोदिताः॥ एतैरतिरथैर्गुप्तः पञ्चभिर्भरतर्षभः। पाण्डवानामनीकानि विजगाहे महारथः॥ चेदिकाशिकरूषेषु पञ्चालेषु च भारत। भीष्मस्य बहुधा तालश्चलत्केतुरदृश्यत्॥ स शिरांसि रणेऽरीणां रथांश्च सयुगध्वजान्। निचकर्त महावेगैर्भल्लैः संनतपर्वभिः॥ नृत्यतो रथमार्गेषु भीष्मस्य भरतर्षभ। भृशमार्तस्वरं चक्रुर्नागा मर्मणि ताडिताः॥ अभिमन्युः सुसंक्रुद्धः पिशङ्गैस्तुरगोत्तमैः। संयुक्तं रथमास्थाय प्रायाद् भीष्मरथं प्रति॥ जाम्भूनदविचित्रेण कर्णिकारेण केतुना। अभ्यवर्तत भीष्म च तांश्चैव रथसत्तमान्॥ स तालकेतोस्तीक्ष्णेन केतुमाहत्य पत्रिणा। भीष्मेण युयुधे वीरस्तस्य चानुरथैः सह॥ कृतवर्माणमेकेन शल्यं पञ्चभिराशुगैः। विद्ध्वा नवभिरान च्छिताचैः प्रपितामहम्॥ पूर्णायतविसृष्टेन सम्यक् प्रणिहितेन च। ध्वजमेकेन विव्याध जाम्बूदनपरिष्कृतम्॥ दुर्मुखस्य तु भल्लेन सर्वावरणभेदिना। जहार सारथेः कायाच्छिरः संनतपर्वणा॥ धनुश्चिच्छेद भल्लेन कार्तस्वरविभूषितम्। कृपस्य निशिताचेण तांश्च तीक्ष्णमुखैः शरैः॥ जघान परमक्रुद्धो नृत्यन्निव महारथः। तस्य लाघवमुद्रीक्ष्य तुतुपुर्देवता अपि॥ लब्धलक्षतया काळूः सर्वे भीष्पमुखा रथाः। सत्त्ववन्तममन्यन्त साक्षादिव धनंजयम्॥ तस्य लाघवमार्गस्थमलातसदृशप्रभम्। दिशः पर्यपतच्चापं गाण्डीवमिव घोषवत्॥ तमासाद्य महावेगैर्भीष्मो नवभिराशुगैः। विव्याध समरे तूर्णमा नि परवीरहा॥ ध्वजं चास्य त्रिभिर्भल्लैश्चिच्छेद परमौजसः। सारथिं च त्रिभिर्बाणैराजघान यतव्रतः॥ तथैव कृतवर्मा च कृपः शल्यश्च मारिष। विद्ध्वा नाकम्पयत् कार्ष्णि मैनाकमिव पर्वतम्॥ स तैः परिवृतः शूरो धार्तराष्ट्रमहारथैः। ववर्ष शरवर्षाणि कार्ष्णिः पञ्चरथान् प्रति॥ ततस्तेषां सहस्राणि संवार्य शरवृष्टिभिः। ननाद बलवान् कार्ष्णिीष्माय विसृजशरान्॥ तत्रास्य सुमहद् राजन् बाह्वोर्बलमदृश्यत्। यतमानस्य समरे भीष्ममर्दयतः शरैः॥ पराक्रान्तस्य तस्यैव भीष्मोऽपि प्राहिणोच्छरान्। स तांश्चिच्छेद समरे भीष्मचापच्युताशरान्॥ ततो ध्वजममोघेषुर्भीष्मस्य नवभिः शरैः। चिच्छेद समरे वीरस्तत उच्चुक्रुशुर्जनाः॥ स राजतो महास्कन्धस्तालो हेमविभूषितः। सौभद्रविशिखैश्छिन्नः पपात भुवि भारत॥ तं तु सौभद्रविशिखैः पातितं भरतर्षभ। दृष्ट्वा भीमो ननादोच्चैः सौभद्रमभिहर्षयन्॥ अथ भीष्मो महास्त्राणि दिव्यानि सुबहूनि च। प्रादुश्चक्रे महारौद्रे रणे तस्मिन् महाबलः॥ ततः सरसहस्रेण सौभद्रं प्रपितामहः। अवाकिरदमेयात्मा तदद्भुतमिवाभवत्॥ ततो दश महेष्वासाः पाण्डवानां महारथाः। रक्षार्थमभ्यधावन्त सौभद्रं त्वरिता रथैः॥ विराटः सह पुत्रेण धृष्टद्युम्नश्च पार्षतः। भीमश्च केकयाचैव सात्यकिश्च विशाम्पते।॥ तेषां जवेनापततां भीष्मः शान्तनवो रणे। पाञ्चाल्यं त्रिभिरानछेत् सात्यकिं नवभिः शरैः॥ पूर्णायतविसृष्टेन क्षुरेण निशितेन च। ध्वजमेकेन चिच्छेद भीमसेनस्य पत्रिणा॥ जाम्बूनदमय: श्रीमान् केसरी स नरोत्तम। पपात भीमसेनस्य भीष्मेण मथितो रथात्॥ ततो भीमस्त्रिभिर्विद्ध्वा भीष्मं शान्तनवं रणे। कृपमेकेन विव्याध कृतवर्माणमष्टभिः॥ प्रगृहीताग्रहस्तेन वैराटिरपि दन्तिना। अभ्यद्रवत राजानं मद्राधिपतिमुत्तरः॥ तस्य वारणराजस्य जवेनापततो रथे। शल्यो निवारयामास वेगमप्रतिमं शरैः॥ तस्य क्रुद्धः स नागेन्द्रो बृहतः साधुवाहिनः। पदा युगमधिष्ठाय जघान चतुरो हयान्॥ स हताश्वे रथे तिष्ठन् मद्राधिपतिरायसीम्। उत्तरान्तकरी शक्तिं चिक्षेप भुजगोपमाम्॥ तया भिन्नतनुत्राणः प्रविश्य विपुलं तमः। स पपात गजस्कन्धात् प्रमुक्ताङ्कुशतोमरः॥ असिमादाय शल्योऽपि अवप्लुत्य रथोत्तमात्। तस्य वारणराजस्य चिच्छेदाथ महाकरम्॥ भिन्नमर्मा शरशतैश्छिन्नहस्तः स वारण:। भीममार्तस्वरं कृत्वा पपात च ममार च॥ एतदीदृशकं कृत्वा मद्रराजो नराधिप। आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः॥ उत्तरं वै हतं दृष्ट्वा वैराटिर्भ्रातरं तदा। कृतवर्मणा च सहितं दृष्ट्वा शल्यमवस्थितम्॥ श्वेतः क्रोधात् प्रजज्वाल हविषा हव्यवाडिव। स विस्फार्य महच्चापं शक्रचापोपमं बली॥ अभ्यधावज्जिघांसन् वै शल्य मद्राधिपं बली। महता रथवंशेन समन्तात् परिवारितः॥ मुञ्चन् बाणमयं वर्ष प्रायाच्छल्यरधं प्रति। तमापतन्तं सम्प्रेक्ष्य मत्तवारणविक्रमम्॥ तावकानां रथाः सप्त समन्तात् पर्यवारयन्। मद्रराजमभीप्सन्तो मृत्योर्दष्ट्रान्तरं गतम्॥ बृहद्बलश्च कौसल्यो जयत्सेनश्च मागधः। तथा रुक्मरथो राजन् शल्यपुत्रः प्रतापवान्॥ विन्दानुविन्दावावन्त्यौ काम्बोजश्च सुदक्षिणः। बृहत्क्षत्रस्य दायादः सैन्धवश्च जयद्रथः॥ नानावर्णविचित्राणि धनूंषि च महात्मनाम्। विस्फारितानि दृश्यन्ते तोयदेष्विव विद्युतः॥ ते तु बाणमयं वर्षं श्वेतमूर्धन्यपातयन्। निदाघान्तेऽनिलोद्धृता मेघा इव नगे जलम्॥ ततः क्रुद्धो महेष्वासः सप्तभल्लैः सुतेजनैः। धनूंषि तेषामाच्छिद्य ममर्द पृतनापतिः॥ निकृत्तान्येव तानि स्म समदृश्यन्त भारत। ततस्ते तु निमेषार्धात् प्रत्यपद्यन् धनूंषि च॥ सप्त चैव पृषत्कांश्च श्वेतस्योपर्यपातयन्। ततः पुनरमेयात्मा भल्लैः सप्तभिराशुगैः। निचकर्त महाबाहुस्तेषां चापानि धन्विनाम्॥ ते निकृत्तमहाचापास्त्वरमाणा महारथाः। रथशक्ती: परामृश्य विनेदुभैरवान् रवान्॥ अन्वयुर्भरतश्रेष्ठ सप्त श्वेतरथं प्रति। ततस्ता ज्वलिताः सप्त महेन्द्राशनिनिःस्वनाः॥ अप्राप्ताः सप्तभिर्भल्लैश्चिच्छेद परमास्त्रवित्। ततः समादाय शरं सर्वकायविदारणम्॥ प्राहिणोद् भरतश्रेष्ठ श्वेतो रुक्मरथं प्रति। तस्य देहे निपतितो बाणो वज्रातिगो महान्॥ ततो रुक्मरथो राजन् सायकेन दृढाहतः। निषसाद रथोपस्थे कश्मलं चाविशन्महत्॥ तं विसंज्ञं विमनसं त्वरमाणस्तु सारथिः। अपोवाह न सम्भ्रान्तः सर्वलोकस्य पश्यतः॥ ततोऽन्यान् षट् समादाय श्वेतोहेमविभूषितान्। तेषां षण्णां महाबाहुर्ध्वजशीर्षाण्यपातयत्॥ हयांश्च तेषां निर्भिद्य सारथींश्च परंतप। शरैश्चैतान् समाकीर्य प्रायाच्छल्यरथं प्रति॥ ततो हलहलाशब्दस्तव सैन्येषु भारत। दृष्ट्वा सेनापतिं तूर्णं यान्तं शल्यरथं प्रति॥ ततो भीष्मं पुरस्कृत्य तव पुत्रो महाबलः। वृतस्तु सर्वसैन्येन प्रायाच्छ्वेतरथं प्रति॥ मृत्योरास्यमनुप्राप्तं मद्ररोजममोचयत्। ततो युद्ध समभवत् तुमुलं लोमहर्षणम्॥ तावकानां परेषां च व्यतिषक्तरथद्विपम्। सौभद्रे भीमसेने च सात्यकौ च महारथे।॥ कैकेये च विराटे च धृष्टद्युम्ने च पार्षते। एतेषु नरसिंहेषु चेदिमत्स्येषु चैव ह। ववर्ष शरवर्षाणि कुरुवृद्धः पितामहः॥ धृतराष्ट्र उवाच एवं श्वेते महेष्वासे प्राप्ते शल्यरथं प्रति। कुरवः पाण्डवेयाश्च किमकुर्वत संजय॥ भीष्मः शान्तनवः किं वा तन्ममाचक्ष्व पृच्छतः। संजय उवाच राजशतसहस्राणि ततः क्षत्रियपुङ्गवाः॥ श्वेतं सेनापतिं शूरं पुरस्कृत्य महारथाः। राज्ञो बलं दर्शयन्तस्तव पुत्रस्य भारत॥ शिखण्डिनं पुरस्कृत्य त्रातुमैच्छन्महारथाः। अभ्यवर्तन्त भीष्मस्य रथं हेमपरिष्कृतम्॥ जिघांसन्तं युधां श्रेष्ठं तदाऽऽसीत् तुमुलं महत्। तत् तेऽहं सम्प्रवक्ष्यामि महावैशसमच्युत॥ तावकानां परेषा च यथा युद्धमवर्तत। तत्राकरोद् रथोपस्थाशून्याशान्तनवोबहून्॥ तत्राद्भुतं महच्चक्रे शरैराछंद् रथोत्तमान्। समावृणोच्छरैरर्कमर्कतुल्यप्रतापवान्॥ नुदन् समन्तात् समरे रविरुद्यन् यथा तमः। तेनाजो प्रेषिता राजन् शराः शतसहस्रशः॥ क्षत्रियान्तकराः संख्ये महावेगा महाबलाः। शिरांसि पातयामासुर्वीराणां शतशो रणे॥ गजान् कण्टकसन्नाहान् वज्रेणेव शिलोच्चयान्। रथा रथेषु संसक्ता व्यदृश्यन्त विशाम्पते॥ एके रथं पर्यवहंस्तुरगाः सुतरङ्गमम्। युवानं निहतं वीरं लम्बमानं सकार्मुकम्॥ उदीर्णाश्च हया राजन् वहन्तस्तत्र तत्र ह। बद्धशङ्गनिषङ्गाश्च विध्वस्तशिरसो हताः॥ शतशः पतिता भूमौ वीरशय्यासु शेरते। परस्परेण धावन्तः पतिताः पुनरुत्थिताः॥ उत्थाय च प्रधावन्तो द्वन्द्वयुद्धमवाप्नुवन्। पीडिताः पुनरन्योन्यं लुठन्तो रणमूर्धनि॥ सचापाः सनिषङ्गाश्च जातरूपपरिष्कृताः। विस्रब्धहतवीराश्च शतश: परिपीडिताः॥ तेन तेनाभ्यधावन्त विसृजन्तश्च भारत! मत्तो गजः पर्यवर्तद्धयांश्च हतसादिनः॥ सरथा रथिनश्चापि विमृद्वन्तः समन्ततः। स्यन्दनादपतत् कश्चिन्निहतोऽन्येन सायकैः॥ हतसारथिरप्युच्चैः पपात काष्ठवद् रथः। युध्यमानस्य संग्रामे व्यूढे रजसि चोत्थिते॥ धनुः कूजितविज्ञानं तत्रासीत् प्रतियुद्ध्यतः। गात्रस्पर्शेन योधानां व्यज्ञास्त परिपन्थिनम्॥ युद्ध्यमानं शरै राजन् सिञ्जिनीध्वजिनीरवात्। अन्योन्यं वीरसंशब्दो नाश्रूयत भटैः कृतः॥ शब्दायमाने संग्रामे पटहे कर्णदारिणि। युद्ध्यमानस्य संग्रामे कुर्वतः पौरुषं स्वकम्॥ नाश्रौषं नामगोत्राणि कीर्तनं च परस्परम्। भीष्मचापच्युतैर्बाणैरार्तानां युध्यतां मृधे॥ परस्परेषां वीराणां मनांसि समकम्पयन्। तस्मिन्नत्याकुले युद्धे दारुणे लोमहर्षणे॥ पिता पुत्रं च समरे नाभिजानाति कश्चन। चक्रे भग्ने युगे छिन्ने एकधुर्ये हये हतः॥ आक्षिप्तः स्यन्दनाद् वीरः ससारथिरजिह्मगैः। एवं च समरे सर्वे वीराश्च विरथीकृताः॥ तेन तेन स्म दृश्यन्ते धावमानाः समन्ततः। गजो हतः शिरश्छिन्नं मर्म भिन्नं हयो हतः॥ अहतः कोऽपि नैवासीद् भीष्मे निघ्नति शात्रवान्। श्वेतः कुरूणामकरोत् क्षयं तस्मिन् महाहवे॥ राजपुत्रान् रथोदारानधीच्छतसंघशः। चिच्छेद रथिनां बाणैः शिरांसि भरतर्षभ॥ साङ्गदा बाहवश्चैव धनूंषि च समन्ततः। रथेषां रथचक्राणि तूणीराणि युगानि च॥ छत्राणि च महार्हाणि पताकाश्च विशाम्पते। हयौघाश्च रथौघाश्च नरौघाश्चैव भारत॥ वारणाः शतशश्चैव हताः श्वेतेन भारत। वयं श्वेतभयाद् भीता विहाय रथसत्तमम्॥ अपयातास्तथा पश्चाद् विभुं पश्याम धृष्णवः। शरपातमतिक्रम्य कुरवः कुरुनन्दन॥ भीष्मं शान्तनवं युद्धे स्थिताः पश्याम सर्वशः। अदीनो दीनसमये भीष्मोऽस्माकं महाहवे॥ एकस्तस्थौ नरव्याघ्रो गिरिर्मेसरिवाचलः। आददान इव प्राणान् सविता शिशिरात्यये॥ गभस्तिभिरिवादित्यस्तस्थौ शरमरीचिमान्। स मुमोच महेष्वासः शरसंघाननेकशः॥ निजन्नमित्रान् समरे वज्रपाणिरिवासुरान्। ते वध्यमाना भीष्मेण प्रजहुस्तं महाबलम्॥ स्वयूथादिव ते यूथान्मुक्तं भूमिषु दारुणम्। तमेवमुपलक्ष्यैको हृष्टः पुष्टः परंतप॥ दुर्योधनप्रिये युक्तः पाण्डवान् परिशोचयन्। जीवितं दुस्त्यजं त्यक्त्वा भयं च सुमहाहवे॥ पातयामास सैन्यानि पाण्डवानां विशाम्पते। प्रहरन्तमनीकानि पिता देवव्रतस्तव॥ दृष्ट्वा सेनापति भीष्मस्त्वरितः श्वेतमभ्ययात्। स भीष्मं शरजालेन महता समवाकिरत्॥ श्वेतं चापि तथा भीष्मः शरौघैः समवाकिरत्। तौ वृषाविव नर्दन्तौ मत्ताविव महाद्विपौ॥ व्याघ्राविव सुसंरब्धावन्योन्यमभिजघ्नतुः। अस्त्रैरस्त्राणि संवार्य ततस्तौ पुरुषर्षभौ॥ भीष्मः श्वेतश्च युयुधे परस्परवधैषिणौ। एकाछा निर्दहेद् भीष्मः पाण्डवानामनीकिनीम्॥ शरैः परमसंक्रुद्धो यदि श्वेतो न पालयेत्। पितामहं ततो दृष्ट्वा श्वेतेन विमुखीकृतम्॥ प्रहर्ष पाण्डवा जग्मुः पुत्रस्ते विमनाऽभवत्। ततो दुर्योधन: क्रुद्धः पार्थिवैः परिवारितः॥ ससैन्यः पाण्डवानीकमभ्यद्रवत संयुगे। दुर्मुखः कृतवर्मा च कृपः शल्यो विशाम्पतिः॥ भीष्मं जुगुपुरासाद्य तव पुत्रेण नोदिताः। दृष्ट्वा तु पार्थिवैः सर्वैर्दुर्योधनपुरोगमैः॥ पाण्डवानामनीकानि वध्यमानानि संयुगे। श्वेतो गाङ्गेयमुत्सृज्य तव पुत्रस्य वाहिनीम्॥ नाशयामास वेगेन वायुर्वृक्षानिवौजसा। द्रावयित्वा चमू राजन् वैराटिः क्रोधमूर्च्छितः॥ आपतत् सहसा भूयो यत्र भीष्मो व्यवस्थितः। तौ तत्रोपगतौ राजन् शरदीप्तौ महाबलौ।॥ अयुध्येतां महात्मानौ यथोभौ वृत्रवासवौ। अन्योन्यं तु महाराज परस्परवधैषिणौ॥ निगृह्य कार्मुकं श्वेतो भीष्मं विव्याध सप्तभिः। पराक्रमं ततस्तस्य पराक्रम्य पराक्रमी॥ तरसा वारयामास मत्तो मत्तमिव द्विपम्। श्वेतः शान्तनवं भूयः शरैः संनतपर्वभिः॥ विव्याध पञ्चविंशत्या दद्भुतमिवाभवत्। तं प्रत्यविध्यद् दशभिर्भीष्मः शान्तनवस्तदा॥ आजघान ततो भीष्मं श्वेतः क्षत्रियनन्दनः। सम्प्रहस्य ततः श्वेतः सृक्किणी परिसंलिहन्॥ स विद्धस्तेन बलवान् नाकम्पत यथाऽचलः। वैराटिः समरे क्रुद्धो भृशमायम्य कार्मुकम्॥ धनुश्चिच्छेद भीष्मस्य नवभिर्दशधा शरैः। संधाय विशिखं चैव शरं लोमप्रवाहिनम्॥ उन्ममाथ ततस्तालं ध्वजशीर्षं महात्मनः। केतुं निपतितं दृष्ट्वा भीष्मस्य तनयास्तव॥ हतं भीष्ममन्यन्त श्वेतस्य वशमागतम्। पाण्डवाश्चापि संहृष्टादध्मुः शङ्खान् मुदायुताः॥ भीष्मस्य पतितं केतुं दृष्ट्वा तालं महात्मनः। ततो दुर्योधनः क्रोधात् स्वमनीकमनोदयत्।।६ यत्ता भीष्मं परीप्सध्वं रक्षमाणाः समन्ततः। मा नः प्रपश्यमानानां श्वेतान्मृत्युमवाप्स्यति॥ भीष्मः शान्तनवः शूरस्तथा सत्यं ब्रवीमि वः। राज्ञस्तु वचनं श्रुत्वा त्वरमाणा महारथाः॥ बलेन चतुरङ्गेण गाङ्गेयमन्वपालयन्। बाह्रीकः कृतवर्मा च शलः शल्यश्च भारत॥ जलसंधो विकर्णश्च चित्रसेनो विविंशतिः। त्वरमाणास्त्वराकाले परिवार्य समन्ततः॥ अवारयदमेयात्मा दर्शयन् पाणिलाघवम्। स निवार्य तान् सर्वान् केसरी कुञ्जरानिव॥ महता शरवर्षेण भीष्मस्य धनुराच्छिनत्। ततोऽन्यद् धनुरादाय भीष्मः शान्तनवो युधि॥ श्वेतं विव्याध राजेन्द्र कङ्कपत्रैः शितैः शरैः। ततः सेनापतिः क्रुद्धो भीष्मं बहुभिरायसैः॥ विव्याध समरे राजन् सर्वलोकस्य पश्यतः। ततः प्रव्यथितो राजा भीष्मं दृष्ट्वा निवारितम्॥ । प्रवीरं सर्वलोकस्य श्वेतेन युधि वै तदा। निष्ठानकश्च सुमहांस्तव सैन्यस्य चाभवत्॥ तं वीरं वारितं दृष्ट्वा श्वेतेन शरविक्षतम्। हतं श्वेतेन मन्यन्ते श्वेतस्य वशमागतम्॥ ततः क्रोधवशं प्राप्तः पिता देवव्रतस्तव। ध्वजमुन्मथितं दृष्ट्वा तां च सेनां निवारिताम्॥ श्वेतं प्रति महाराज व्यसृजत् सायकान् बहून्। तानावार्य रणे श्वेतो भीष्पस्य रथिनां वरः॥ धनुश्चिच्छेद भल्लेन पुनरेव पितुस्तव। उत्सृज्य कार्मुकं राजन् गाङ्गेयः क्रोधमूर्च्छितः॥ अन्यत् कार्मुकमादाय विपुलं बलवत्तरम्। तत्र संधाय विपुलान् भल्लान् सप्त शिलाशितान्॥ चतुर्भिश्च जघानाश्वाच्छ्वेतस्य पृतनापतेः। ध्वजं द्वाभ्यां तु चिच्छेद सप्तमेन च सारथेः॥ शिरश्चिच्छेद भल्लेन संक्रुद्धो लघुविक्रमः। हताश्वसूतात् स रथादवप्लुत्य महाबलः॥ अमर्षवशमापन्नो व्याकुलः समपद्यत। विरथं रथिनां श्रेष्ठं श्वेतं दृष्ट्वा पितामहः॥ ताडयामास निशितैः शरसंधैः समन्ततः। स ताड्यमानः समरे भीष्मचापच्युतैः शरैः॥ स्वरथे धनुरुत्सृज्य शक्तिं जग्राह काञ्चनीम्। ततः शक्तिं रणे श्वेतो जग्राहोचां महाभयाम्॥ कालदण्डोपमां घोरां मृत्योर्जिह्वामिव श्वसन्। अब्रवीच्च तदा श्वेतो भीष्मं शान्तनवं रणे॥ तिष्ठेदानीं सुसंरब्धः पश्य मां पुरुषो भव। एवमुक्त्वा महेष्वासो भीष्मं युधि पराक्रमी॥ ततः शक्तिममेयात्मा चिक्षेप भुजगोपमाम्। पाण्डवार्थ पराक्रान्तस्तवानर्थं चिकीर्षुकः॥ हाहाकारो महानासीत् पुत्राणां ते विशाम्पते। दृष्ट्वा शक्तिं महाघोरां मृत्योर्दण्डसमप्रभाम्॥ श्वेतस्य करनिर्मुक्तां निर्मुक्तोरगसंनिभाम्। अपतत् सहसा राजन् महोल्केव नभस्तलात्॥ ज्वलन्तीमन्तरिक्षे तां ज्वालाभिरिव संवृताम्। असम्भ्रान्तस्तदा राजन् पिता देवव्रतस्तव।॥ अष्टभिर्नवभिर्भीष्मः शक्तिं चिच्छेद पत्रिभिः। उत्कृष्टहेमविकृतां निकृतां निशितैः शरैः॥ उच्चुक्रुशुस्ततः सर्वे तावका भरतर्षभ। शक्तिं विनिहतां दृष्ट्वा वैराटिः क्रोधमूर्च्छितः।।८ 1८८॥ कालोपहतचेतास्तु कर्तव्यं नाभ्यजानत। क्रोधसम्मूर्च्छितो राजन् वैराटिः प्रहसन्निव॥ गदा जग्राह संहृष्टो भीष्मस्य निधनं प्रति। क्रोधेन रक्तनयनो दण्डपाणिरिवान्तकः॥ भीष्मं समभिदुद्राव जलौघ इव पर्वतम्। तस्य वेगमसंवार्यं मत्वा भीष्मः प्रतापवान्॥ प्रहारविप्रमोक्षार्थं सहसा धरणीं गतः। श्रेतः क्रोधसमाविष्टो भ्रामयित्वा तु तां गदाम्॥ रथे भीष्मस्य चिक्षेप यथा देवो धनेश्वरः। तया भीष्मनिपातिन्या स रथो भस्मसात्कृतः॥ सध्वजः सह सूतेन साश्वः सयुगबन्धुरः। विरथं रथिनां श्रेष्ठं भीष्मं दृष्ट्वा रथोत्तमाः॥ वै॥ अभ्यधावन्त सहिताः शल्यप्रभृतयो रथाः। ततोऽन्यं रथमास्थाय धनुर्विस्फार्य दुर्मनाः॥ शनकैरभ्ययाच्छ्वेतं गाङ्गेयः प्रहसन्निव। एतस्मिन्नन्तरे भीष्मः शुश्राव विपुलां गिरम्॥ आकाशादीरितां दिव्यामात्मनो हितसम्भवाम्। भीष्म भीष्म महाबाहो शीघ्रं यत्नं कुरुश्व एष ह्यस्य जये कालो निर्दिष्टो विश्वयोनिना। एतच्छ्रुत्वा तु वचनं देवदूतेन भाषितम्॥ सम्प्रहृष्टमना भूत्वा वधे तस्य मनो दधे। विरथं रथिनां श्रेष्ठं श्वेतं दृष्ट्वा पदातिनम्॥ सहितास्त्वभ्यवर्तन्त परीप्सन्तो महारथाः। सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः॥ कैकेयो धृष्टकेतुश्च अभिमन्युश्च वीर्यवान्। एतानापततः सर्वान् द्रोणशल्यकृपैः सह॥ अवारयदमेयात्मा वारिवेगानिवाचलः। स निरुद्धेषु सर्वेषु पाण्डवेषु महात्मसु॥ श्वेतः खङ्गमथाकृष्य भीष्मस्य धनुराच्छिनत्। तदपास्य धनुश्छिन्नं त्वरमाणः पितामहः॥ देवदूतवचः श्रुत्वा वधे तस्य मनो दधे। ततः प्रचरमाणस्तु पिता देवव्रतस्तव॥ अन्यत् कार्मुकमादाय त्वरमाणो महारथः। क्षणेन सज्यमकरोच्छक्रचापसमप्रभम्॥ पिता ते भरतश्रेष्ठ श्वेतं दृष्ट्वा महारथैः। वृतं तं मनुजव्यार्भीमसेनपुरोगमैः॥ अभ्यवर्तत गाङ्गेयः श्वेतं सेनापतिं द्रुतम्। आपतन्तं ततो भीष्मो भीमसेनं प्रतापवान्॥ आजघ्ने विशिखैः षष्ट्या सेनान्यं स महारथः। अभिमन्युं च समरे पिता देवव्रतस्तव॥ आजम्ने भरतश्रेष्ठस्त्रिभिः संनतपर्वभिः। सात्यकिं च शतेनाजौ भरतानां पितामहः॥ धुष्टद्युम्नं च विंशत्या कैकेयं चापि पञ्चभिः। तांश्च सर्वान् महेष्वासान् पिता देवव्रतस्तव॥ वारयित्वा शरैोरैः श्वेतमेवाभिदुद्रुवे। ततः शरं मृत्युसमं भारसाधनमुत्तमम्॥ विकृष्य बलवान् भीष्मः समाधत्त दुरासदम्। ब्रह्मस्त्रेण सुसंयुक्तं त शरं लोमवाहिनम्॥ ददृशुर्देवगन्धर्वाः पिशाचोरगराक्षसाः। स तस्य कवचं भित्त्वा हृदयं चामितौजसः॥ जगाम धरणी बाणो महाशनिरिव ज्वलन्। अस्तं गच्छन् यथाऽऽदित्यः प्रभामादाय सत्वरः॥ एवं जीवितमादाय श्वेतदेहाज्जगाम ह। तं भीष्मेण नरव्याघ्र तथा विनिहतं युधि॥ प्रपतन्तमपश्याम गिरेः शृङ्गमिव च्युतम्। अशोचन् पाण्डवास्तत्र क्षत्रियाश्च महारथाः॥ प्रहृष्टाश्च सुतास्तुभ्यं कुरवश्चापि सर्वशः। ततो दुःशासनो राजश्वेतं दृष्ट्वा निपातितम्॥ वादित्रनिनदैोरैर्नृत्यति स्म समन्ततः। तस्मिन् हते महेष्वासे भीष्मेणाहवशोभिना॥ प्रावेपन्त महेष्वासाः शिखण्डिप्रमुखा रथाः। ततो धनंजयो राजन् वार्ष्णेयश्चापि सर्वशः॥ अवहारं शनैश्चक्रुनिहते वाहिनीपतौ। ततोऽवहारः सैन्यानां तव तेषां च भारत॥ तावकानां परेषां च नर्दतां च मुहुर्मुहुः। पार्था विमनसो भूत्वा न्यवर्तन्त महारथाः। चिन्तयन्तो वधं घोरं द्वैरथेन परंतपाः॥ धृतराष्ट्र उवाच श्वेते सेनापतौ तात संग्रामे निहते परैः। किमकुर्वन् महेष्वासाः पञ्चालाः पाण्डवैः सह॥ सेनापतिं समाकर्ण्य श्वेतं युधि निपातितम्। तदर्थं यततां चापि परेषां प्रपलायिनाम्॥ मनः प्रीणाति मे वाक्यं जयं संजय शृण्वतः। प्रत्युपायं चिन्तयो लज्जां प्राप्नोति मे न हि॥ स हि वीरोऽनुरक्तश्च वृद्धः कुरुपतिस्तदा। कृतं वैरं सदा तेन पितुः पुत्रेण धीमता॥ तस्योद्वेगभयाचापि संश्रितः पाण्डवान् पुरा। सर्वं वलं परित्यज्य दुर्ग संश्रित्य तिष्ठति॥ पाण्डवानां प्रतापेन दुर्गं देशं निवेश्य च। सपत्नान् सततं बाधन्नार्यवृत्तिमनुष्ठितः॥ आश्चर्यं वै सदा तेषां पुरा राज्ञां सुदुर्मतिः। ततो युधिष्ठिरे भक्तः कथं संजय सूदितः॥ प्रक्षिप्तः सम्मतः क्षुद्रः पुत्रो मे पुरुषाधमः। न युद्धं रोचयेद् भीष्मो न चाचार्यः कथंचन॥ न कृपो न च गान्धारी नाहं संजय रोचये। न वासुदेवो वार्ष्णेयो धर्मराजश्च पाण्डवः॥ न भीमो नार्जुनश्चैव न यमौ पुरुषर्षभौ। वार्यमाणो मया नित्यं गान्धार्या विदुरेण च॥ जामदग्न्येन रामेण व्यासेन च महात्मना। दुर्योधनो युध्यमानो नित्यमेव हि संजय॥ कर्णस्य मतमास्थाय सौबलस्य च पापकृत्। दुःशासनस्य च तथा पाण्डवान् नान्वचिन्तयत्॥ तस्याहं व्यसनं घोरं मन्ये प्राप्तं तु संजय। तस्य च विनाशेन भीष्मस्य विजयेन च॥ संक्रुद्धः कृष्णसहितः पार्थः किमकरोद् युधि। अर्जुनाद्धि भयं भूयस्तन्मे तात न शाम्यति॥ स हि शूरश्च कौन्तेयः क्षिप्रकारी धनंजयः। मन्ये शरैः शरीराणि शत्रूणां प्रमथिष्यति॥ ऐन्द्रिमिन्द्रानुजसमं महेन्द्रसदृशं बले। अमोघक्रोधसंकल्पं दृष्ट्वा वः किमभून्मनः॥ तथैव वेदविच्छूरो ज्वलनार्कसमद्युतिः। इन्द्रास्त्रविदमेयात्मा प्रपतन् समितिजयः॥ वज्रसंस्पर्शरूपाणामस्त्राणां च प्रयोजकः। स खड्गाक्षेपहस्तस्तु घोषं चक्रे महारथः॥ स संजय महाप्राज्ञो द्रुपदस्यात्मजो बली। धृष्टद्युम्न: किमकरोच्छ्वेते युधि निपातिते॥ पुरा चैवापराधेन वधेन च चमूपतेः। मन्ये मनः प्रजज्वाल पाण्डवानां महात्मनाम्॥ तेषां क्रोधं चिन्तयंस्तु अहःसु च निशासु च। न शान्तिमधिगच्छामि दुर्योधनकृतेन हि। कथं चाभून्महायुद्धं सवेमाचक्ष्व संजय॥ संजय उवाच शृणु राजन् स्थिरो भूत्वा तवापनयनो महान्। न च दुर्योधने दोषमिममाधातुमर्हसि॥ गतोदके सेतुबन्धो यादृक् तादृड्मतिस्तव। संदीप्ते भवने यद्वत् कूपस्य खननं तथा॥ गतपूर्वाह्नभूयिष्ठे तस्मिन्नहनि दारुणे। तावकानां परेषां च पुनर्युद्धमवर्तत॥ श्वेतं तु निहतं दृष्ट्वा विराटस्य चमूपतिम्। कृतवर्मणा च सहितं दृष्ट्वा शल्यमवस्थितम्॥ शङ्खः क्रोधात् प्रजज्वाल हविषा हव्यवाडिव। स विस्फार्य महच्चापं शक्रचापोपमं बली।॥ अभ्यधावज्जिघांसन् वै शल्यं मद्राधिपं युधि। महता रथसंघेन समन्तात् परिरक्षितः॥ सृजन् बाणमयं वर्ष प्रायाच्छल्यरथं प्रति। तमापतन्तं सम्प्रेक्ष्य मत्तवारणविक्रमम्॥ तावकानां रथाः सप्त समन्तात् पर्यवारयन्। मद्रराजं परीप्सन्तो मृत्योर्दष्ट्रान्तरं गतम्॥ बृहद्बलश्च कौसल्यो जयत्सेनश्च मागधः। तथा रुक्मरथो राजन् पुत्रः शल्यस्य मानितः॥ विन्दानुविन्दावावन्त्यौ काम्बोजश्च सुदक्षिणः। बृहत्क्षत्रस्य दायादः सैन्धवश्च जयद्रथः॥ नानाधातुविचित्राणि कार्मुकाणि महात्मनाम्। विस्फारितान्यदृश्यन्त तोयदेष्विव विद्युतः॥ ते तु बाणमयं वर्षं शङ्खमूर्षि न्यपातयन्। निदाघान्तेऽनिलोद्धृता मेघा इव नगे जलम्॥ ततः क्रुद्धो महेष्वासः सप्तभल्लैः सुतेजनैः। धनूंषि तेषामाच्छिद्य ननर्द पृतनापतिः॥ ततो भीष्मो महाबाहुर्विनद्य जलदो यथा। तालमात्रं धनुर्गृह्य शङ्खमभ्यद्रवद् रणे॥ तमुद्यन्तमुदीक्ष्याथ महेष्वासं महाबलम्। संत्रस्ता पाण्डवी सेना वातवेगहतेव नौः॥ ततोऽर्जुनः संत्वरितः शङ्खस्यासीत् पुरःसरः। भीष्माद् रक्ष्योऽयमद्येति ततो युद्धमवर्तत॥ (हाहाकारो महानासीद् योधानां युधि युध्यताम्। तेजस्तेजसि सम्पृक्तमित्येवं विस्मयं ययुः॥) अथ शल्यो गदापाणिरवतीर्य महारथात्। शङ्खस्य चतुरो वाहानहनद् भरतर्षभ॥ स हताश्वाद् स्थात् तूर्णं खड्गमादाय विद्रुतः। बीभत्सोश्च रथं प्राप्य पुनः शान्तिमविन्दत॥ ततो भीष्मरथात् तूर्णमुत्पतन्ति पतत्रिणः। यैरन्तरिक्षं भूमिश्च सर्वतः समवस्तृता॥ पञ्चालानथ मत्स्यांश्च केकयांश्च प्रभद्रकान्। भीष्मः प्रहरतां श्रेष्ठः पातयामास पत्रिभिः॥ उत्सृज्य समरे राजन् पाण्डवं सव्यसाचिनम्। अभ्यद्रवत पाञ्चाल्यं दुपदं सेनया वृतम्॥ प्रियं सम्बन्धिनं राजशरानवकिरन् बहून्। अग्निनेव प्रदग्धानि वनानि शिशिरात्यये॥ शरदग्धान्यदृश्यन्त सैन्यानि द्रुपदस्य ह। अत्यतिष्ठद् रणे भीष्मो विधूम इव पावकः॥ मध्यंदिने यथाऽऽदित्यं तपन्तमिव तेजसा। न शेकुः पाण्डवेयस्य योधा भीष्मं निरीक्षितुम्॥ वीक्षांचक्रुः समन्तात् ते पाण्डवा भयपीडिताः। त्रातारं नाध्यगच्छन्त गावः शीतार्दिता इव॥ सा तु यौधिष्ठिरी सेना गाड्नेयशरपीडिता। सिंहेनेव विनिर्भिन्ना शुक्ला गौरिव गोपते॥ हते विप्रदुते सैन्ये निरुत्साहे विमर्दिते। हाहाकारो महानासीत् पाण्डुसैन्येषु भारत॥ ततो भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः। मुमोच बाणान् दीप्ताचानहीनाशीविषानिव॥ शरैरेकायनीकुर्वन् दिशः सर्वा यतव्रतः। जघान पाण्डवरथानादिश्यादिश्य भारत।॥ ततः सैन्येषु भग्नेषु मथितेषु च सर्वशः। प्राप्ते चास्तं दिनकरे न प्राज्ञायत किंचन॥ भीष्मं च समुदीर्यन्तं दृष्ट्वा पार्थ महाहवे। अवहारमकुर्वन्त सैन्यानां भरतर्षभ॥ संजय उवाच कृतेऽवहारे सैन्यानां प्रथमे भरतर्षभ। भीष्मे च युद्धसंरब्धे हृष्टे दुर्योधने तथा॥ धर्मराजस्ततस्तूर्णमभिगम्य जनार्दनम्। भ्रातृभिः सहितः सर्वैः सर्वैश्चैव जनेश्वरैः॥ शुचा परमया युक्तश्चिन्तयानः पराजयम्। वार्ष्णेयमब्रवीद् राजन् दृष्ट्वा भीष्मस्य विक्रमम्॥ कृष्ण पश्य महेष्वासं भीष्मं भीमपराक्रमम्। शरैर्दहन्तं सैन्यं मे चीष्मे कक्षमिवानलम्॥ कथमेनं महात्मानं शक्ष्यामः प्रतिवीक्षितुम्। लेलिह्यमानं सैन्यं मे हविष्मन्तमिवानलम्॥ एतं हि पुरुषव्याघ्र धनुष्मन्तं महाबलम्। दृष्ट्वा विप्रद्रुतं सैन्यं समरे मार्गणाहतम्॥ शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च संयुगे। वरुणः पाशभृद् वापि कुबेरो वा गदाधरः॥ न तु भीष्मो महातेजाः शक्यो जेतुं महाबलः। सोऽहमेवंगते मग्नो भीष्मागाधजलेऽप्लवे॥ आत्मनो बुद्धिदौर्बल्याद् भीष्ममासाद्य केशव। वनं यास्यामि वार्ष्णेय श्रेयो मे तत्र जीवितुम्॥ न त्वेतान् पृथिवीपालान् दातुं भीष्माय मृत्यवे। क्षपयिष्यति सेनां मे कृष्ण भीष्मो महास्त्रवित्॥ यथानलं प्रज्वलितं पतङ्गाः समभिद्रुताः। विनाशायोपगच्छन्ति तथा मे सैनिको जनः॥ क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी। भ्रातरश्चैव मे वीराः कर्शिताः शरपीडिताः॥ मत्कृते भ्रातृहार्देन राज्याद् भ्रष्टास्तथा सुखात्। जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम्॥ जीवितस्य च शेषेण तपस्तप्स्यामि दुश्चरम्। न घातयिष्यामि रणे मित्राणीमानि केशव॥ रथान् मे बहुसाहस्रान् दिव्यैरस्त्रैर्महाबलः। घातयत्यनिशं भीष्मः प्रवराणां प्रहारिणाम्॥ किं नु कृत्वा हितं मे स्याद् ब्रूहि माधव माचिरम्। मध्यस्थमिव पश्यामि समरे सव्यसाचिनम्॥ एको भीमः परं शक्त्या युध्यत्येव महाभुजः। केवलं बाहुवीर्येण क्षत्रधर्ममनुस्मरन्॥ गदया वीरघातिन्या यथोत्साहं महामनाः। करोत्यसुकरं कर्म रथाश्वनरदन्तिषु॥ नालमेष क्षयं कर्तुं परसैन्यस्य मारिष। आर्जवेनैव युद्धेन वीर वर्षशतैरपि॥ एकोऽस्त्रवित सखा तेऽयं सोऽप्यस्मान् समुपेक्षते। निर्दह्यमानान् भीष्मेण द्रोणेन च महात्मना॥ दिव्यान्यस्त्राणि भीष्मस्य द्रोणस्य च महात्मनः। धक्ष्यन्ति क्षत्रियान् सर्वान् प्रयुक्तानि पुनः पुनः॥ कृष्ण भीष्मः सुसंरब्धः सहितः सर्वपार्थिवैः। क्षपयिष्यति नो नूनं यादृशोऽस्य पराक्रमः॥ स त्वं पश्य महाभाग योगेश्वर महारथम्। भीष्मः यः शमयेत् शंख्ये दावाग्नि जल्दो यथा।॥ तव प्रसादाद् गोविन्द पाण्डवा निहतद्विषः। स्वराज्यमनुसम्प्राप्ता मोदिष्यन्ते सबान्धवा॥ पार्षतः। एवमुक्त्वा ततः पार्थो ध्यायन्नास्ते महामनाः। चिरमन्तर्मना भूत्वा शोकोपहतचेतनः। शोकार्तं तमथो ज्ञात्वा दुःखोपहतचेतसम्॥ अब्रवीत् तत्र गोविन्दो हर्षयन् सर्वपाण्डवान्। मा शुचो भरतश्रेष्ठ न त्वं शोचितुमर्हसि॥ यस्य ते भ्रातरः शूराः सर्वलोकेषु धन्विनः। अहं च प्रियकृद् राजन् सात्यकिश्च महायशाः॥ विराटद्रुपदौ चेमौ धृष्टद्युम्नश्च तथैव सबलाश्चेमे राजानो राजसत्तम॥ त्वत्प्रसादं प्रतीक्षन्ते त्वद्भक्ताश्च विशाम्पते। एष ते पार्षतो नित्यं हितकाम: प्रिये रतः॥ सैनापत्यमनुप्राप्तो धृष्टद्युम्नो महाबलः। शिखण्डी च महाबाहो भीष्मस्य निधनं किल॥ एतच्छ्रुत्वा ततो राजा धृष्टद्युम्नं महारथम्। अब्रवीत् समितौ तस्यां वासुदेवस्य शृण्वतः॥ धृष्टद्युम्न निबोधेदं यत् त्वां वक्ष्यामि मारिष। नातिक्रम्यं भवेत् तच्च वनचं मम भीषितम्॥ भवान् सेनापतिर्मह्यं वासुदेवेन सम्मितः। कार्तिकेयो यथा नित्यं देवानामभवत् पुरा॥ तथा त्वमपि पाण्डूना सेनानी: पुरुषर्षभ। स त्वं पुरुषशार्दूल विक्रम्य जहि कौरवान्॥ अहं च तेऽनुयास्यामि भीमः कृष्णश्च मारिष। माद्रीपुत्रौ च सहितौ द्रौपदेयाश्च दंशिताः॥ ये चान्ये पृथिवीपालाः प्रधानाः पुरुषर्षभ। तत उद्धर्षयन् सर्वान् दृष्टद्युम्नोऽभ्यभाषत॥ अहं द्रोणान्तकः पार्थ विहितः शम्भुना पुरा। रणे भीष्मं कृपं द्रोणं तथा शल्यं जयद्रथम्॥ सर्वानद्य रणे दृप्तान् प्रतियोत्स्यामि पार्थिव। अथोत्क्रुष्टं महेष्वासैः पाण्डवैर्युद्धदुर्मदैः॥ समुद्यते पार्थिवेन्द्रे पार्षते शत्रुसूदने। तमब्रवीत् ततः पार्थः पार्षतं पृतनापितम्॥ व्यूहः क्रौञ्चारुणो नाम सर्वशत्रुनिबर्हणः। यं बृहस्पतिरिन्द्राय तदा देवासुरेऽब्रवीत्॥ तं यथावत् प्रतिव्यूह परानीकविनाशनम्। अदृष्टपूर्व राजानः पश्यन्तु कुरुभिः सह॥ यथोक्तः स नृदेवेन विष्णुर्वज्रभृता यथा। प्रभाते सर्वसैन्यानामग्रे चक्रे धनंजयम्॥ आदित्यपथगः केतुस्तस्याद्भुतमनोरमः। शासनात् पुरुहूतस्य निर्मितो विश्वकर्मणा॥ इन्द्रायुधसवर्णाभिः पताकाभिरलकृतः। आकाशग इवाकाशे गन्धर्वनगरोपमः॥ नृत्यमान इवाभाति रथचर्यासु मारिष। तेन रत्नवता पार्थः स च गाण्डीवधन्वना॥ बभूव परमोपेतः सुमेरुरिव भानुना। शिरोऽभूद् द्रुपदो राजन् महत्या सेनया वृतः॥ कुन्तिभोजश्च चैद्यश्च चक्षुर्ध्या तौ जनेश्वरौ। दाशार्णकाः प्रभद्राश्च दाशेरकगणैः सह॥ अनूपका: किराताश्च ग्रीवायां भरतर्षभ। पटच्चरैश्च पौण्ड्रैश्च राजन् पौरवकैस्तथा॥ निषादैः सहितश्चापि पृष्ठमासीद् युधिष्ठिरः। पक्षौ तु भीमसेनश्च धृष्टद्युम्नश्च पार्षतः॥ द्रौपदेयाभिमन्युश्च सात्यकिश्च महारथः। पिशाचा दारदाश्चैव पुण्ड्राः कुण्डीविषैः सह।॥ मारुता धेनुकाश्चैव तङ्गणाः परतङ्गणाः। बालिकास्तित्तिराश्चैव चोलाः पण्ड्याश्च भारत॥ एते जनपदा राजन् दक्षिणं पक्षमाश्रिताः। अग्निवेश्यास्तु हुण्डाश्च मालवा दानभारयः॥ शबरा उद्भसाश्चैव वत्साश्च सह नाकुलैः। नकुलः सहदेवश्च वामं पदं समाश्रिताः॥ रथानामयुतं पक्षौ शिरस्तु नियुतं तथा। पृष्ठमर्बुदमेवासीत् सहस्राणि च विंशतिः॥ ग्रीवायां नियुतं चापि सहस्राणि च सप्ततिः। पक्षकोटिप्रपक्षेषु पक्षान्तेषु च वारणा:॥ जग्मुः परिवृता राजंश्चलन्त इव पर्वताः। जघनं पालयामास विराटः सह केकयैः॥ काशिराजश्च शैब्यश्च स्थानामयुतैस्त्रिभिः। युद्धाय दंशिताः। एवमेनं महाव्यूहं व्यूह्य भारत पाण्डवाः॥ सूर्योदयं त इच्छन्तः स्थिता तेषामादित्यवर्णानि विमलानि महान्ति च। श्वेतच्छत्राण्यशोभन्त वारणेषु रथेषु च॥ धृतराष्ट्र उवाच एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च। कथं प्रहरतां श्रेष्ठाः सम्प्रहारं प्रचक्रिरे॥श। संजय उवाच समं व्यूढेष्वनीकेषु संनद्धरुचिरध्वजम्। अपारमिव संदृश्य सागरप्रतिमं बलम्॥ तेषां मध्ये स्थितो राजन् पुत्रो दुर्योधनस्तव। अब्रवीत् तावकान् सर्वान् युद्ध्यध्वमिति दंशिताः॥ ते मनः क्रूरमाधाय समभित्यक्तजीविताः। पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः॥ ततो युद्धं समभवत् तुमुलं लोमहर्षणम्। तावकानां परेषां च व्यतिषक्तरथद्विपम्॥ मुक्तास्तु रथिभिर्बाणा रुक्मपुङ्खाः सुतेजसः। संनिपेतुरकुण्ठाचा नागेषु च हयेषु च॥ तथा प्रवृत्ते संग्रामे धनुरुद्यम्य दंशितः। अभिपत्य महाबाहुर्भीष्मो भीमपराक्रमः॥ सौभद्रे भीमसेने च सात्यकौ च महारथे। कैकेये च विराटे च धृष्टद्युम्ने च पार्षते॥ एतेषु नरवीरेषु चेदिमत्स्येषु चाभिभूः। ववर्ष शरवर्षाणि वृद्धः कुरुपितामहः॥ अभिद्यत ततो व्यूहस्तस्मिन् वीरसमागमे। सर्वेषामेव सैन्यानामासीद् व्यतिकरो महान्॥ सादिनो ध्वजिनश्चैव हताः प्रवरवाजिनः। विप्रद्रुतस्थानीकाः समपद्यन्त पाण्डवाः॥ अर्जुनस्तु नरव्याघ्रो दृष्ट्वा भीष्मं महारथम्। वाळूमयब्रवीत् क्रुद्धो याहि यत्र पितामहः॥ एष भीष्मः सुसंक्रुद्धो वार्ष्णेय मम वाहिनीम्। नाशयिष्यति सुव्यक्तं दुर्योधनहिते रतः॥ एष द्रोणः कृपः शल्यो विकर्णश्च जनार्दन। धार्तराष्ट्राश्च सहिता दुर्योधनपुरोगमाः॥ पञ्चालान् निहनिष्यन्ति रक्षिता दृढधन्वना। सोऽहं भीष्मं वधिष्यामि सैन्यहेतोर्जनार्दन॥ तमब्रवीद् वासुदेवो यत्तो भव धनंजय। एष त्वां प्रापयिष्यामि पितामहरथं प्रति॥ एवमुक्त्वा ततः शौरी रथं तं लोकविश्रुतम्। प्रापयामास भीष्मस्य रथं प्रति जनेश्वर॥ चलद्बहुपताकेन बलाकावर्णवाजिना। समुच्छ्रितमहाभीमनदद्वानरकेतुना॥ महता मेघनादेन रथेनामिततेजसा। विनिघ्नं कौरवानीकं शूरसेनांश्च पाण्डवः॥ प्रायाच्छरणदः शीघ्रं सुहृदां हर्षवर्धनः। तमापतन्तं वेगेन प्रभिन्नमिव वारणम्॥ त्रासयन्तं रणे शूरान् मर्दयन्तं च सायकैः। सैन्धवप्रमुखैर्गुप्तः प्राच्यसौवीरकेकयैः॥ सहसा प्रत्युदीयाय भीष्मः शान्तनवोऽर्जुनम्। को हि गाण्डीवधन्वानमन्य: कुरुपितामहात्॥ द्रोणवैकर्तनाभ्यां वा रथी संयातुमर्हति। ततो भीष्मो महाराज सर्वलोकमहारथः॥ अर्जुनं सप्तसप्तत्या नाराचानां समाचिनोत्। द्रोणश्च पञ्चविंशत्या कृपः पञ्चाशता शरैः॥ दुर्योधनश्चतुःषष्ट्या शल्यश्च नवभिः शरैः। सैन्धवो नवभिश्चैव शकुनिश्चापि पञ्चभिः॥ विकर्णो दशभिर्भल्लैः राजन् विव्याध पाण्डवम्। तं तैर्विद्धो महेष्वासः समन्तानिशितैः शरैः॥ न विव्यथे महाबाहुर्भिद्यमान इवाचलः। स भीष्मं पञ्चविंशत्या कृपं च नवभिः शरैः॥ द्रोणंषष्ट्या नरव्याघ्रो विकर्णं च त्रिभिः शरैः। शल्यं चैव त्रिभिर्बाणै राजानं चैव पञ्चभिः॥ प्रत्यविध्यदमेयात्मा किरीटी भरतर्षभ। तं सात्यकिविराटश्च धृष्टद्युम्नश्च पार्षतः॥ द्रौपदेयाऽभिमन्युश्च परिवQर्धनंजयम्। ततो द्रोणं महेष्वासं गाङ्गेयस्य प्रिये रतम्॥ अभ्यवर्ततं पाञ्चाल्यः संयुक्तः सह सोमकैः। भीष्मस्तु रथिनां श्रेष्ठो राजन् विव्याध पाण्डवम्॥ अशीत्या निशितैर्बाणैस्ततोऽक्रोशन्त तावकाः। तेषां तु निनदं श्रुत्वा सहितानां प्रहृष्टवत्॥ प्रविवेश ततो मध्यं नरसिंहः प्रतापवान्। तेषां महारथानां स मध्यं प्राप्य धनंजयः॥ चिक्रीड धनुषा राजैल्लक्षं कृत्वा महारथान्। ततो दुर्योधनो राजा भीष्ममाह जनेश्वरः॥ पीड्यमानं स्वकं सैन्यं दृष्ट्वा पार्थेन संयुगे। एष पाण्डुसुतस्तात कृष्णेन सहितो बली॥ यततां सर्वसैन्यानां मूलं नः परिकृन्तति। त्वयि जीवति गाङ्गेय द्रोणे च रथिनां वरे॥ त्वत्कृते चैव कर्णोऽपि न्यस्तशस्त्रो विशाम्पते। न युध्यति रणे पार्थं हितकाम: सदा मम॥ स तथा कुरु गाङ्गेय यथा हन्येत फाल्गुनः। एवमुक्तस्ततो राजन् पिता देवव्रतस्तव।॥ धिक् क्षात्रं धर्ममित्युक्त्वा प्रायात् पार्थरथं प्रति। उभौ श्वेतहयौ राजन् संसक्तौ प्रेक्ष्य पार्थिवाः॥ सिंहनादान् भृशं चक्रुः शङ्खान् दध्मुश्च मारिष। द्रौणिर्दुर्योधनश्चैव विकर्णश्च तवात्मजः॥ परिवार्य रणे भीष्मं स्थिता युद्धाय मारिष। तथैव पाण्डवाः सर्वे परिवार्य धनंजयम्॥ स्थिता युद्धाय महते ततो युद्धमवर्तत। गाङ्गेयस्तु रणे पार्थमानछेत्रवभिः शरैः॥ तमर्जुनः प्रत्यविध्यद् दशभिर्मर्मभेदिभिः। ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः॥ अर्जुनः समरश्लाघी भीष्मस्यावारयद् दिशः। शरजालं ततस्तत् तु शरजालेन मारिष॥ वारयामास पार्थस्य भीष्मः शान्तनवस्तदा। उभौ परमसंहृष्टावुभौ युद्धाभिनन्दिनौ॥ निर्विशेषमयुध्येतां कृतप्रतिकृतैषिणौ। भीष्मचापविमुक्तानि शरजालानि संघसः॥ शीर्यमाणान्यदृश्यन्त भिन्नान्यर्जुनसायकैः। तथैवार्जुनमुक्तानि शरजालानि सर्वशः॥ गाङ्गेयशरनुन्नानि प्रापतन्त महीतले। अर्जुनः पञ्चविंशत्या भीष्ममाछैच्छितैः शरैः॥ भीष्मोऽपि समरे पार्थं विव्याध निशितैः शरैः। अन्योन्यस्य हयान् विद्ध्वा ध्वजौ च सुमहाबलौ॥ रथेषां रथचक्रे च चिक्रीडतुररिंदमौ। ततः क्रुद्धो महाराज भीष्मः प्रहरतां वरः॥ वासुदेवं त्रिभिर्बाणैराजघान स्तनान्तरे। भीष्मचापच्युतैस्तैस्तु निर्विद्धो मधुसूदनः॥ विरराज रणे राजन् सुपष्प इव किंशुकः। ततोऽर्जुनो भृशं क्रुद्धो निर्विद्धं प्रेक्ष्य माधवम्॥ सारथिं कुरुवृद्धस्य निर्बिभेद शितैः शरैः। यतमानौ त तौ वीरावन्योन्यस्य वधं प्रति॥ न शक्नुतां तदाऽन्योन्यमभिसंधातुमाहवे। तौ मण्डलानि चित्राणि गतप्रत्यागतानि च॥ अदर्शयेतां बहुधा सूतसामर्थ्यलाघवात्। अन्तरं च प्रहारेषु तर्कयन्तौ परस्परम्॥ राजन्नन्तरमार्गस्थौ स्थितावास्तां मुहुर्मुहुः। उभौ सिंहरवोन्मित्रं शङ्खशब्दं च चक्रतुः॥ तथैव चापनिर्घोषं चक्रतुस्तौ महारथौ। तयोः शङ्खनिनादेन रथनेमिस्वनेन च॥ दारिता सहसा भूमिश्चकम्पे च ननाद च। नोभयोरन्तरं कश्चिद् ददृशे भरतर्षभ।५८।। बलिनौ युद्धदुर्धर्षावन्योन्यसदृशावुभौ। चिह्नमात्रेण भीष्मं तु प्रजजुस्तत्र कौरवाः॥ तथा पाण्डुसुताः पार्थं चिह्नमात्रेण जज्ञिरे। तयोवरयोदृष्ट्वा तादृशं तं पराक्रमम्॥ विस्मयं सर्वभूतानि जग्मुर्भारत संयुगे। न तयोविवरं कश्चिद् रणे पश्यति भारत॥ धर्मेस्थितस्य हि यथा न कश्चिद् वृजिनं क्वचित्। उभौ च शरजालेन तावदृश्यौ बभूवतुः॥ प्रकाशौ च पुनस्तूर्णं बभूवतुरुभौ रणे। तत्र देवाः सगन्धर्वाश्चारणाश्चर्षिभिः सह॥ अन्योन्यं प्रत्यभाषन्त तयोर्दृष्ट्वा पराक्रमम्। न शक्यौ युधि संरब्धौ जेतुमेतौ कथञ्चन॥ सदेवासुरगन्धर्वैर्लोकैरपि महारथौ। आश्चर्यभूतं लोकेषु युद्धमेतन्महाद्भुतम्॥ नेतादृशानि युद्धानि भविष्यन्ति कथश्चन। न हि शक्यो रणे जेतुं भीष्मः पार्थेन धीमता॥ सधनुः सरथः साश्वः प्रवपन् सायकान् रणे। तथैव पाण्डवं युद्धे देवैरपि दुरासदम्॥ न विजेतुं रणे भीष्म उत्सहेत धनुर्धरम्। आलोकादपि युद्धं हि सममेतद् भविष्यति॥ इति स्म वाचोऽश्रूयन्त प्रोच्चरन्त्यस्ततस्ततः। गाङ्गेयार्जुनयोः संख्ये स्तवयुक्ता विशाम्पते॥ त्वदीयास्तु तदा योधाः पाण्डवेयाश्च भारत। अन्योन्यं समरे जनुस्तयोस्तत्र पराक्रमे॥ शितधारैस्तथा खड्नेविमलैश्च परश्वधैः। शरैरन्यैश्च बहुभिः शस्त्रैर्नानाविधैरपि॥ उभयोः सेनयोः शूरा न्यकृन्तन्त परस्परम्। वर्तमाने तथा घोरे तस्मिन् युद्धे सुदारुणे। द्रोणपाञ्चाल्ययो राजन् महानासीत् समागमः॥ धृतराष्ट्र उवाच कथं द्रोणो महेष्वासः पाञ्चाल्यश्चापि पार्षतः। उभौ समीतयुर्यत्तौ तन्ममाचक्ष्व संजय॥ दिष्टमेव परं मन्ये पौरुषादिति मे मतिः। यत्र शान्तनवो भीष्मो नातरद् युधि पाण्डवम्॥ भीष्मो हि समरे क्रुद्धो हन्याल्लोकांश्चराचरान्। स कथं पाण्डवं युद्धे नातरत् संजयौजसा॥ संजय उवाच शृणु राजन् स्थिरो भूत्वा युद्धमेतत् सुदारुणम्। न शक्याः पाण्डवा जेतुं देवैरपि सवासवैः॥ द्रोणस्तु निशितैर्बाणैधृष्टद्युम्नमविध्यत। सारथिं चास्य भल्लेन रथनीडादपातयत्॥ तथाऽस्य चतुरो वाहांश्चतुर्भिः सायकोत्तमैः। पीडयामास संक्रुद्धो धृष्टद्युम्नस्य मारिष॥ धृष्टद्युम्नस्ततो द्रोणं नवत्या निशितैः शरैः। विव्याध प्रहसन् वीरस्तिष्ठ तिष्ठेति चाब्रवीत्॥ ततः पुनरमेयात्मा भारद्वाजः प्रतापवान्। शरैः प्रच्छादयामास धृष्टद्युम्नममर्षणम्॥ आददे च शरं घोरं पार्षतान्तचिकीर्षया। शक्राशनिसमस्पर्श कालदण्डमिवापरम्॥ हाहाकारो महानासीत् सर्वसैन्येषु भारत। तमिषु संधितं दृष्ट्वा भारद्वाजेन संयुगे॥ तत्राद्भुतमपश्याम धृष्टद्युम्नस्य पौरुषम्। यदेकः समरे वीरस्तस्थौ गिरिरिवाचलः॥ तं च दीप्तं शरं घोरमायान्तं मृत्युमात्मनः। चिच्छेदं शरवृष्टिं च भारद्वाजे मुमोच ह॥ तत उच्चुक्रुशुः सर्वे पञ्चालाः पाण्डवैः सह। धृष्टद्युम्नेन तत् कर्म कृतं दृष्ट्वा सुदुष्करम्॥ ततः शक्तिं महावेगां स्वर्णवैदूर्यभूषिताम्। द्रोणस्य निधनाकाक्षी चिक्षेप स पराक्रमी॥ तामापतन्ती सहसा शक्तिं कनकभूषिताम्। त्रिधा चिच्छेद समरे भारद्वाजो हसन्निव॥ शक्तिं विनिहतां दृष्ट्वा धृष्टद्युम्नः प्रतापवान्। ववर्ष शरवर्षाणि द्रोणं प्रति जनेश्वर॥ शरवर्षं ततस्तत् तु संनिवार्य महायशाः। मध्ये चिच्छेद कार्मुकम्॥ स च्छिन्नधन्वा समरे गदां गुर्वी महायशाः। द्रोणाय प्रेषयामास गिरिसारमयीं बली॥ सा गदा वेगवन्मुक्ता प्रायाद् द्रोणजिघांसया। तत्राद्भुतमपश्याम भारद्वाजस्य विक्रमम्॥ द्रोणो दुपदपुत्रस्य लाघवाद् व्यंसयामास गदां हेमविभूषिताम्। व्यंसयित्वा गदां तां च प्रेषयामास पार्षतम्॥ भल्लान् सुनिशितान् पीतान् रुक्मपुंखान् सुदारुणान्। ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे॥ अथान्यद् धनुरादाय धृष्टद्युम्नो महारथः। द्रोणं युधि पराक्रम्य शरैर्विव्याध पञ्चभिः॥ रुधिराक्तौ ततस्तौ तु शुशुभाते नरर्षभौ। वसन्तसमये राजन् पुष्पिताविव किंशुकौ॥ अमर्षितस्ततो राजन् पराक्रम्य चमूमुखे। द्रोणो द्रुपदपुत्रस्य पुनश्चिच्छेद कार्मुकम्॥ अथैनं छिन्नधन्वानं शरैः संनतपर्वभिः। अभ्यवर्षदमेयात्मा वृष्ट्या मेघ इवाचलम्॥ सारथिं चास्य भल्लेन रथनीडादपातयत्। अथास्य चतुरो वाहांश्चतुर्भिनिशितैः शरैः॥ पातयामास समरे सिंहनादं ननाद च। ततोऽपरेण भल्लेन हस्ताच्चापमथाच्छिनत्॥ स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः। गदापाणिरवारोहत् ख्यापयन् पौरुषं महत्॥ तामस्य विशिखैस्तूर्णं पातयामास भारत। रथादनवरूढस्य तदद्भूतमिवाभवत्॥ ततः स विपुलं चर्म शतचन्द्रं च भानुमत्। खङ्गं च विपुलं दिव्यं प्रगृह्य सुभुजो बली।॥ अभिदुद्राव वेगेन द्रोणस्य वधकाझया। आमिषार्थी यथा सिंहो वने मत्तमिव द्विपम्॥ तत्राद्भुतमपश्याम भारद्वाजस्य पौरुषम्। लाघवं चास्त्रयोगं च बलं बाह्वोश्च भारत॥ यदेनं शरवर्षेण वारयामास पार्षतम्। न शशाक ततो गन्तुं बलवानपि संयुगे॥ निवीरितस्तु द्रोणेन धृष्टद्युम्नो महारथः। न्यवारयच्छरौघांस्तांश्चर्मणा कृतहस्तवत्॥ ततो भीमो महाबाहुः सहसाऽभ्यपतद् बली। साहाय्यकारी समरे पार्षतस्य महात्मनः॥ स द्रोणं निशितैर्बाणै राजन् विव्याध सप्तभिः। पार्षतं च रथं तूर्णं स्वकमारोहयत् तदा॥ ततो दुर्योधनो राजन् भानुमन्तमचोदयत्। सैन्येन महता युक्तं भारद्वाजस्य रक्षणे॥ ततः सा महती सेना कलिङ्गानां जनेश्वर। भीममभ्युद्ययौ तूर्णं तव पुत्रस्य शासनात्॥ पाञ्चाल्यमथं संत्यज्य द्रोणोऽपि रथिनां वरः। विराटदुपदौ वृद्धौ वारयामास संयुगे।॥ धृष्टद्युम्नोऽपि समरे धर्मराजानमभ्ययात्। ततः प्रववृते युद्धं तुमुलं लोमहर्षणम्॥ कलिङ्कानां च समरे भीमस्य च महात्मनः। जगतः प्रक्षयकरं घोररूपं भयावहम्॥ धृतराष्ट्र उवाच तथा प्रतिसमादिष्टः कालिङ्गो वाहिनीपतिः। कथमद्भुतकर्माणं भीमसेनं महाबलम्॥ चरन्तं गदया वीरं दण्डहस्तमिवान्तकम्। योधयामास समरे कालिङ्गः सह सेनया॥ संजय उवाच पुत्रेण तव राजेन्द्र स तथोक्तो महाबलः। महत्या सेनया गुप्तः प्रायाद् भीमरथं प्रति॥ तामापतन्ती महती कलिङ्गानां महाचमूम्। स्थाश्वनागकलिलां प्रगृहीतमहायुधाम्॥ भीमसेनः कलिङ्गानामाझेद् भारत वाहिनीम्। केतुमन्तं च नैषादिमायान्तं सह चेदिभिः॥ ततः श्रुतायुः संक्रुद्धो राज्ञा केतुमता सह। आससाद रणे भीमं व्यूढानीकेषु चेदिषु॥ रथैरनेकसाहौः कलिङ्गानां नराधिप। अयुतेन गजानां च निषादैः स केतुमान्॥ भीमसेनं रणे राजन् समन्तात् पर्यवारयत्। चेदिमत्स्यकरूषाश्च भीमसेनपदानुगाः॥ अभ्यधावन्त समरे निषादान् सह राजभिः। ततः प्रववृते युद्धं घोररूपं भयावहम्॥ न प्राजानन्त योधाः स्वान् परस्परजिघांसया। घोरमासीत् ततो युद्धं भीमस्य सहसा परैः॥ यथेन्द्रस्य महाराज महत्या दैत्यसेनया। तस्य सैन्यस्य संग्रामे युध्यमानस्य भारत॥ बभूव सुमहान् शब्दः सागरस्येव गर्जतः। अन्योन्यं स्म तदा योधा विकर्षन्तो विशाम्पते॥ महीं चक्रुश्चितां सर्वां शशलोहितसंनिभाम्। योधांश्च स्वान् परान् वापि नाभ्यजानञ्जिघांसया॥ स्वानप्याददते स्वाश्च शूराः परमदुर्जयाः। विमर्दः सुमहानासीदल्पानां बहुभिः सह॥ कलिङ्गैः सह चेदीनां निषादैश्च विशाम्पते। कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः॥ भीमसेनं परित्यज्य संन्यवर्तन्त चेदय। सर्वैः कलिङ्गैरासन्नः संनिवृत्तेषु चेदिषु॥ स्वबाहुबलमास्थाय संन्यवर्तत पाण्डवः। न चचाल रथोपस्थाद् भीमसेनो महाबलः॥ शितैरवाकिरद् बाणैः कलिङ्गानां वरूथिनीम्। कालिङ्गस्तु महेष्वासः पुत्रश्चास्य महारथः॥ शक्रदेव इति ख्यातो जनतुः पाण्डवं शरैः। ततो भीमो महाबाहुर्विधुन्वन् रुचिरं धनुः॥ योधयामास कालिङ्गं स्वबाहुबलमाश्रितः। शक्रदेवस्तु समरे विसृजन् सायकान् बहून्॥ अश्वाञ्जधान समरे भीमसेनस्य सायकैः। तं दृष्ट्वा विस्थं तत्र भीमसेनमरिंदमम्॥ शक्रदेवोऽभिदुद्राव शरैरवकिरशितैः। भीमस्योपरि राजेन्द्र शक्रदेवो महाबलः॥ ववर्ष शरवर्षाणि तपान्ते जलदो यथा। हताश्वे तु रथे तिष्ठन् भीमसेनो महाबलः॥ शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम्। स तया निहतो राजन् कालिङ्गत्तनयो रथात्॥ सध्वजः सह सूतेन जगाम धरणीतलम्। हतमात्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः॥ रथैरनेकसाहस्रीमस्यावारयद् दिशः। ततो भीमो महावेगां त्यक्त्वा गुर्वी महागदाम्॥ निस्त्रिंशमाददे घोरं चिकीर्षुः कर्म दारुणम्। चर्म चाप्रतिमं राजन्नार्षभं पुरुषर्षभ॥ नक्षत्रैरर्धचन्दैश्च शातकुम्भमयैश्चितम्। कालिङ्गस्तु ततः क्रुद्धो धनुामवमृज्य च॥ प्रगृह्य च शरं घोरमेकं सर्पविषोपमम्। प्राहिणोद् भीमसेनाय वधाकाङ्क्षी जनेश्वरः॥ तमापतन्तं वेगेन प्रेरितं निशितं शरम्। भीमसेनो द्विधा राजंश्चिच्छेद विपुलासिना॥ उदक्रोशच्च संहृष्टस्त्रासयानो वरूथिनीम्। कालिङ्गोऽथ ततः क्रुद्धो भीमसेनाय संयुगे॥ तोमरान् प्राहिणोच्छीघ्रं चतुर्दश शिलाशितान्। तानप्राप्तान् महाबाहुः खगतानेव पाण्डवः॥ चिच्छेद सहसा राजन्नसम्भ्रान्तो वरासिना। निकृत्य तु रणे भीमस्तोमरान् वै चतुर्दश॥ भानुन्मतं ततो भीमः प्राद्रवत् पुरुषर्षभः। भानुमांस्तु ततो भीमं शरवर्षेण च्छादयन्॥ ननाद बलवन्नादं नादयानो नभस्तलम्। न च तं ममृषे भीमः सिंहनादं महाहवे॥ ततः शब्देन महता विननाद महास्वनः। तेन नादेन वित्रस्ता कलिङ्गानां वरूथिनी॥ न भीमं समरे मेने मानुषं भरतर्षभ। ततो भीमो महाबाहुर्नर्दित्वा विपुलं स्वनम्॥ सासिर्वेगवदाप्लुत्य दन्ताभ्या वारणोत्तमम्। आरुरोह ततो मध्यं नागराजस्य मारिष॥ ततो मुमोच कालिङ्गः शक्तिं तामकरोद् द्विधा। खङ्गेन पृथुना मध्ये भानुमन्तमथाच्छिनत्॥ सोऽन्तरायुधिनं हत्वा राजपुत्रमरिंदमः। गुरुं भारसहं स्कन्धे नागस्यासिमपातयत्॥ छिन्नस्कन्धः स विनदन् पपात गजयूथपः। आरुग्णः सिन्धुवेगेन सानुमानिव पर्वतः॥ ततस्तस्मादवप्लुत्य गजाद् भारत भारतः। खड्गपाणिरदीनात्मा तस्थौ भूमौ सुदंशितः॥ स चचार बहून् मार्गानभितः पातयन् गजान्। अग्निचक्रमिवाविद्धं सर्वतः प्रत्यदृश्यत॥ अश्ववृन्देषु नागेषु रथानीकेषु चाभिभूः। पदातीनां च संघेषु विनिमशोणितोक्षितः॥ श्येनवद् व्यचरद् भीमो रणेऽरिषु बलोत्कटः। छिन्दस्तेषां शरीराणि शिरांसि च महाबलः॥ खड्गेन शितधारेण संयुगे गजयोधिनाम्। पदातिरेकः संक्रुद्धः शत्रूणां भयवर्धनः॥ सम्मोहयामास स तान् कालान्तकयमोपमः। मूढाश्च ते तमेवाजौ विनदन्तः समाद्रवन्॥ सासिमुत्तमवेगेन विचरन्तं महारणे। निकृत्य रथिनां चाजौ रथेषाश्च युगानि च॥ जघान रथिनश्चापि बलवान् रिपुमर्दनः। भीमसेनश्चरन् मार्गान् सुबहून् प्रत्यदृश्यत॥ भ्रान्तमाविद्धमुद्धान्तमाप्लुतं प्रसृतं प्लुतम्। सम्पातं समुदीर्णं च दर्शयामास पाण्डवः॥ केचिदचासिना छिन्नाः पाण्डवेन महात्मना। विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः॥ छिन्नदन्ताग्रहस्ताश्च भिन्नकुम्भास्तथा परे। वियोधाः स्वान्यनीकानि जघ्नुर्भारत वारणाः॥ निपेतुरुवा॒ च तथा विनदन्तो महारवान्। छिन्नांश्च तोमरान् राजन् महामात्यशिरांसि च॥ परिस्तोमान् विचित्रांश्च कक्ष्याश्च कनकोज्ज्वलाः। चैवेयाण्यथ शक्तीश्च पताकाः कणपांस्तथा॥ तूणीरानथ यन्त्राणि विचित्राणि धनूंषि च। भिन्दिपालानि शुभ्राणि तोत्राणि चाकुशैः सह॥ घण्टाश्च विविधा राजन् हेमग स्त्सरूनपि। पततः पातितांश्चैव पश्यामः सह सादिभिः॥ छिन्नगात्रावरकरैनिहतैश्चापि वारणैः। आसीद् भूमिः समास्तार्णा पतितैर्भूधरैरिव॥ विमृद्यैवं महानागान् ममर्दान्यान् महाबलः। अश्वारोहवरादंश्चैव पातयामास संयुगे॥ तद् घोरमभवद् युद्धं तस्य तेषां च भारत। खलीनान्यथ योक्त्राणि कक्ष्याश्च कनकोज्ज्वलाः॥ परिस्तोमाश्च प्रासाश्च ऋष्टयश्च महाधनाः। कवचान्यथ चर्माणि चित्राण्यास्तरणानि च॥ तत्र तत्रापविद्धानि व्यदृश्यन्त महाहवे। प्रासैर्यन्त्रैविंचित्रैश्च शस्त्रैश्च विमलैस्तथा॥ स चक्रे वसुधां कीर्णां शबलैः कुसुमैरिव। आप्लुत्य रथिनः कांश्चित् परामृश्य महाबलः॥ पातयामास खड्ड्रेन सध्वजानपि पाण्डवः। मुहुरुत्पततो दिक्षु धावतश्च यशस्विनः॥ मार्गाश्च चरतश्चित्रं व्यस्मयन्त रणे जनाः। स जघान पदा कांश्चिद् व्याक्षिप्यान्यानपोथयत्॥ खङ्गेनान्यांश्च चिच्छेद नादेनान्यांश्च भीषयन्। उरुवेगेन चाप्यन्यान् पातयामास भूतले॥ अपरे चैनमालोक्य भायत् पञ्चत्वमागताः। एवं सा बहुला सेना कलिङ्गानां तरस्विनाम्॥ परिवार्य रणे भीष्मं भीमसेनमुपाद्रवत्। तत: कालिङ्गसैन्यानां प्रमुखे भरतर्षभ।६७॥ श्रुतायुषमभिप्रेक्ष्य भीमसेनः समभ्ययात्। तमायान्तमभिप्रेक्ष्य कालिङ्गो नवभिः शरैः॥ भीमसेनममेयात्मा प्रत्यविध्यत् स्तनान्तरे। कालिङ्गबाणाभिहतस्तोत्रादित इव द्विपः॥ भीमसेनः प्रजज्वाल क्रोधेनाग्निरिवैधितः। अथाशोकः समादाय रथं हेमपरिष्कृतम्॥ भीमं सम्पादयामास रथेन रथसारथिः। तमारुह्य रथं तूर्णं कौन्तेयः शत्रुसूदनः॥ कालिङ्गमभिदुद्राव तिष्ठ तिष्ठेति चाब्रवीत्। ततः श्रुतायुर्बलवान् भीमाय निशिताशरान्॥ प्रेषयामास संक्रुद्धो दर्शयन् पाणिलाघवम्। स कार्मुकवरोत्सृष्टैर्नवभिर्निशितैः शरैः॥ समाहतो महाराज कालिङ्गेन महात्मना। संचुक्रुशे भृशं भीमो दण्डाहत इवोरगः॥ क्रुद्धश्च चापमायम्य बलवद् बलिनां वरः। कालिङ्गमवधीत् पार्थो भीमः सप्तभिरायसैः॥ क्षुराभ्यां चक्ररक्षौ च कालिङ्गस्य महाबलौ। सत्यदेवं च सत्यं च प्राहिणोद् यमसादनम्॥ ततः पुरमेयात्मा नाराचैर्निशितैस्त्रिभिः। केतुमन्तं रणे भीमोऽगमयद् यमसादनम्॥ ततः कलिङ्गाः संनद्धा भीमसेनममर्षणम्। अनीकैर्बहुसाहस्रैः क्षत्रियाः समवारयन्॥ ततः शक्तिगदाखङ्गत्तोमरष्टिंपरश्वधैः। कलिङ्गाश्च ततो राजन् भीमसेनमवाकिरन्॥ संनिवार्य स तां घोरां शरवृष्टिं समुत्थिताम्। गदामादाय तरसा संनिपत्य महाबलः॥ भीमः सप्त शतान् वीराननयद् यमसादनम्। पुनश्चैव द्विसाहस्रान् कलिङ्गानरिमर्दनः॥ प्राहिणोन्मृत्युलोकाय तदद्भुतमिवाभवत्। एवं स तान्यनीकानि कलिङ्गानां पुनः पुनः॥ बिभेद समरे तूर्णं प्रेक्ष्य भीष्मं महारथम्। हतारोहाश्च मातङ्गाः पाण्डवेन कृता रणे॥ विप्रजग्मुरनीकेषु मेघा वातहता इव। मृद्गन्तः स्वान्यनीकानि विनदन्तः शरातुराः॥ ततो भीमो महाबाहुः खड्गहस्तो महाभुजः। सम्प्रहृष्टो महाघोषं शङ्ख प्राध्यापयद् बली॥ सर्वकालिङ्गसैन्यानां मनांसि समकम्पयत्। मोहश्चापि कलिङ्गानामाविवेश परंतप॥ प्राकम्पन्त च सैन्यानि वाहनानि च सर्वशः। भीमेन समरे राजन् गजेन्द्रेणेव सर्वशः॥ मार्गान् बहून् विचरता धावता च ततस्ततः। मुहुरुत्पतता चैव सम्मोहः समपद्यत॥ भीमसेनभयत्रस्तं सैन्यं च समकम्पत। क्षोभ्यमाणमसम्बाधं ग्राहेणेव महत् सरः॥ त्रासितेषु च सर्वेषु भीमेनाद्भुतकर्मणा। पुनरावर्तमानेषु विद्रवत्सु च सङ्घशः॥ सर्वकालिङ्गयोधेषु पाण्डूनां ध्वजिनीपतिः। अब्रवीत् स्वान्यनीकानि युध्यध्वमिति पार्षतः॥ सेनापतिवचः श्रुत्वा शिखण्डिप्रमुखा गणाः। भीममेवाभ्यवर्तन्त रथानीकैः प्रहारिभिः॥ धर्मराजश्च तान् सर्वानुपजग्राह पाण्डवः। महता मेघवर्णेन नागानीकेन पृष्ठतः॥ एवं संनोद्य सर्वाणि स्वान्यनीकानि पार्षतः। भीमसेनस्य जग्राह पाणिं सत्पुरुषैर्वृतः ॥ न हि पञ्चालराजस्य लोके कश्चन विद्यते। भीमसात्यकयोरन्यः प्राणेभ्यः प्रियकृत्तमः॥ सोऽपश्यच्च कलिङ्गेषु चरन्तमरिसूदनः । भीमसेनं महाबाहुं पार्षतः परवीरहा॥ ननर्द बहुधा राजन् हृष्टश्चासीत् परंतपः। शङ्ख दध्मौ च समरे सिंहनादं ननाद च॥ स च पारावताश्वस्य रथे हेमपरिष्कृते। कोविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत्॥ धृष्टद्युम्नस्तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम्। भीमसेनममेयात्मा त्राणायाजो समभ्ययात्॥ तौ दृष्ट्वा दृष्टद्युम्नवृकोदरौ। कलिङ्गान् समरे वीरौ योधयेतां मनस्विनौ॥ स तत्र गत्वा शैनेयो जवेन जयतां वरः। पार्थपार्षतयोः पाणिं जग्राह पुरुषर्षभः॥ दूरात् सात्यकि स कृत्वा दारुणं कर्म प्रगृहीतशरासनः। आस्थितो रौद्रमात्मानं कलिङ्गानन्ववैक्षत॥ कलिङ्गप्रभवां चैव मांसशोणितकर्दमाम्। रुधिरस्यन्दिनीं तत्र भीमः प्रावर्तयन्नदीम्॥ अन्तरेण कलिङ्गानां पाण्डवानां च वाहिनीम्। तां संततार दुस्तारां भीमसेनो महाबलः॥ भीमसेनं तथा दृष्ट्वा प्राक्रोशंस्तावका नृप। कालोऽयं भीमरूपेण कलिङ्गैः सह युध्यते॥ ततः शान्तनवो भीष्मः श्रुत्वा तं निनदं रणे। अभ्ययात् त्वरितो भीमं व्यूढानीकः समन्ततः॥ तं सात्यकिर्भीमसेनो धृष्टद्युम्नश्च पार्षतः। अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम्॥ परिवार्य तु ते सर्वे गाडेयं तरसा रणे। त्रिभिस्त्रिभिः शरैोरैर्भीष्ममान रोजसा॥ प्रत्यविध्यत तान् सर्वान् पिता देवव्रतस्तव। यतमानान् महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः॥ ततः शरसहस्रेण संनिवार्य महारथान्। हयान् काञ्चनसंनाहान् भीमस्य न्यहनच्छरैः॥ हताश्वे स रथे तिष्ठन् भीमसेनः प्रतापवान्। शक्तिं चिक्षेप तरसा गाङ्गेयस्य रं प्रति॥ अप्राप्तामथ तां शक्तिं पिता देवव्रतस्तव। त्रिधा चिच्छेद समरे सा पृथिव्यामशीर्यत॥ ततः शैक्यायसी गुर्वी प्रगृह्य बलवान् गदाम्। भीमसेनस्ततस्तूर्णं पुप्लुवे मनुजर्षभ॥ सात्यकोऽपि ततस्तूर्णं भीमस्य प्रियकाम्यया। गाङ्गेयसारथिं तूर्णं पातयामास सायकैः॥ भीष्मस्तु निहते तस्मिन् सारथौ रथिनां वरः। वातायमानैस्तैरश्वैरपनीतो रणाजिरात्॥ भीमसेनस्ततो राजन्नपयाते महाव्रते। प्रजज्वाल यथा वह्निर्दहन् कक्षमिवैधित॥ स हत्वा सर्वकालिङ्गान् सेनामध्ये व्यतिष्ठता नैनमभ्युत्सहन् केचित् तावका भरतर्षभ॥ धृष्टद्युम्नस्तमारोप्य स्वरथे रथिनां वरः। पश्यतां सर्वसैन्यानामपोवाह यशस्विनम्॥ सम्पूज्यमानः पाञ्चाल्यैर्मत्स्यैश्च भरतर्षभ। धृष्टद्युम्नं परिष्वज्य समेयादथ सात्यकिम्॥ अथाब्रवीद् भीमसेनं सात्यकिः सत्यविक्रमः। प्रहर्षयन् यदुव्याघ्रो धृष्टद्युम्नस्य पश्यतः॥ दिष्ट्या कलिङ्गराजश्च राजपुत्रश्च केतुमान्। शक्रदेवश्च कालिङ्गः कलिङ्गाश्च मृधे हताः॥ स्वबाहुबलवीर्येण नागाश्वरथसंकुलः। महापुरुषभूयिष्ठो धीरयोधनिषेवितः॥ महाव्यूहः कलिङ्गानामेकेन मृदितस्त्वया। एवमुक्त्वा शिनेर्नप्ता दीर्घबाहुररिंदम्॥ रथाद् रथमभिद्रुत्य पर्यष्वजत पाण्डवम्। ततः स्वरथमास्थाय पुनरेव महारथः। तावकानवधीत् क्रुद्धो भीमस्य बलमादधत्॥ संजय उवाच गतपूर्वाह्नभूयिष्ठे तस्मिन्नहनि भारत। रथनागाश्वपत्तीनां सादिनां च महाक्षये॥ द्रोणपुत्रेण शल्येन कृपेण च महात्मना। समसज्जत पाञ्चाल्यस्तरिभिरेतैर्महारथैः॥ स लोकविदितानश्वान् निजघान महाबलः। द्रौणे: पाञ्चालदायादः शितैर्दशभिराशुगैः॥ ततः शल्यरथं तूर्णमास्थाय हतवाहनः। द्रौणिः पाञ्चालदायादमभ्यवर्षदथेषुभिः॥ धृष्टद्युम्नं तु संयुक्तं द्रौणिना वीक्ष्य भारत। सौभद्रोऽभ्यपतत् तूर्णं विकिरन् निशिताशरान्॥ स शल्यं पञ्चविंशत्या कृपं च नवभिः शरैः। अश्वत्थामानमष्टाभिर्विव्याध पुरुषर्षभः॥ आर्जुनि तु ततस्तूर्णं द्रौणिविव्याध पत्रिणा। शल्योऽथ दशभिश्चैव कृपश्च निशितैस्त्रिभिः॥ लक्ष्मणस्तव पौत्रस्तु सौभद्रं समवस्थितम्। अभ्यवर्तत संहृष्टस्ततो युद्धमवर्तत॥ दौर्योधनिः सुसंक्रुद्धः सौभद्रं परवीरहा। विव्याध समरे राजस्तदद्भुतमिवाभवत्॥ अभिमन्युः सुसंक्रुद्धो भ्रातरं भरतर्षभ। शरैः पञ्चाशतै राजन् क्षिप्रहस्तोऽभ्यविध्यत॥ लक्ष्मणोऽपि पुनस्तस्य धनुश्चिच्छेद पत्रिणा। मुष्टिदेशे महाराज ततस्ते चुक्रुशुर्जनाः॥ तद् विहाय धनुश्छिन्नं सौभद्रः परवीरहा। अन्यदादत्तवांश्चित्रं कार्मुकं वेगवत्तरम्॥ तौ तत्र समरे युक्तौ कृतप्रतिकृतैषिणौ। अन्योन्यं विशिखैस्तीक्ष्णैर्जघ्नतुः पुरुषर्षभौ॥ ततो दुर्योधनो राजा दृष्ट्वा पुत्रं महारथम्। पीडितं तव पौत्रेण प्रायात् तत्र प्रजेश्वरः॥ संनिवृत्ते तव सुते सर्व एव जनाधिपाः। आणुनि रथवंशेन समन्तात् पर्यवारयन्॥ स तैः परिवृतः शूरैः शूरो युधि सुदुर्जयैः। न स्म प्रव्यथते राजन् कृष्णतुल्यपराक्रमः॥ सौभद्रमथ संसक्तं दृष्ट्वा तत्र धनंजयः। अभिदुद्राव वेगेन त्रातुकामः स्वमात्मजम्॥ ततः सरथनागाश्वा भीष्मद्रोणपुरोगमाः। अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम्॥ उद्भूतं सहसा भौमं नागाश्वरथपत्तिभिः। दिवाकररथं प्राप्य रजस्तीव्रमदृश्यत॥ तानि नागसहस्राणि भूमिपालशतानि च। तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः॥ प्रणेदुः सर्वभूतानि बभूवुस्तिमिरा दिशः। कुरूणां चानयस्तीव्रः समदृश्यत दारुणः॥ नाप्यन्तरिक्षं न दिशो न भूमिर्न च भास्करः। प्रजज्ञे भरतश्रेष्ठं शस्त्रसङ्घः किरीटिनः॥ सादिता रथनागाश्च हताश्वा रथिनो रणे। विप्रदुतरथाः केचिद् दृश्यन्ते रथयूथपाः॥ विस्था रथिनश्चान्ये धावमानाः समन्ततः। तत्र तत्रैव दृश्यन्ते सायुधाः साङ्गदैर्भुजैः॥ हयारोहा हयांस्त्यक्त्वा गजारोहाश्च दन्तिनः। अर्जुनस्य भयाद् राजन् समन्ताद् विप्रदुद्रुवुः॥ रथे यश्च गजेभ्यश्च हयेभ्यश्च नराधिपाः। पतिताः पात्यमानाश्च दृश्यन्तेऽर्जुनसायकैः॥ सगदानुद्यतान् बाहून् सखगांश्च विशाम्पते। सप्रासांश्च सतूणीरान् सशरान् शसरासनान्॥ साङ्कुशान् सपताकांश्च तत्र तत्रार्जुनो नृणाम्। निचकर्त शरैरुचै रौद्रं वपुरधारयत्॥ परिघाणां प्रदीप्तानां मुद्गराणां च मारिष। प्रासानां भिन्दिपालानां निस्त्रिंशानां च संयुगे॥ परश्वधानां तीक्ष्णानां तोमराणां च भारत। वर्मणां चापविद्धानां काञ्चनानां च भूमिप॥ ध्वजानां चर्मणां चैव व्यजनानां च सर्वशः। छत्राणां हेमदण्डानां तोमराणां च भारत॥ प्रतोदानां च योक्त्राणां कशानां चैव मारिष। राशय: स्मात्र दृश्यन्ते विनिकीर्णा रणक्षितौ॥ नासीत् तत्र पुमान् कश्चित् तव सैन्यस्य भारत। योऽर्जुनं समरे शूरं प्रत्युद्यायात् कथंचन॥ यो यो हि समरे पार्थं प्रत्युद्याति विशाम्पते। स संख्ये विशिखैस्तीक्ष्णैः परलोकाय नीयते॥ तेषु विद्रवमाणेषु तव योधेषु सर्वशः। अर्जुनो वासुदेवश्च दध्मतुर्वारिजोत्तमौ॥ तत् प्रभग्नं बलं दृष्ट्वा पिता देवव्रतस्तव। अब्रवीत् समरे शूरं भारद्वाजं स्मयन्निव॥ एष पाण्डुसुतो वीरः कृष्णेन सहितो बली। तथा करोति सैन्यानि यथा कुर्याद् धनंजयः॥ न ह्येष समरे शक्यो विजेतुं हि कथंचन। यथास्य दृश्यते रूपं कालान्तकयमोपमम्॥ न निवर्तयितुं चापि शक्येयं महती चमूः। अन्योन्यप्रेक्षया पश्य द्रवतीयं वरूथिनी॥ एष चास्तं गिरिश्रेष्ठं भानुमान् प्रतिपद्यते। चढूंषि सर्वलोकस्य संहरन्निव सर्वथा॥ तत्रावहारं सम्प्राप्तं मन्येऽहं पुरुषर्षभ। श्रान्ता भीताश्च नो योधा न योत्स्यन्ति कंथचन॥ एवमुक्त्वा ततो भीष्मो द्रोणमाचार्यसत्तमम्। अवहारमथो चक्रे तावकानां महारथः॥ ततोऽवहारः सैन्यानां तव तेषां च भारत। अस्तं गच्छति सूर्येऽभूत् संध्याकाले च वर्तति॥ संजय उवाच प्रभातायां च शर्वर्या भीष्मः शान्तनवस्तदा। अनीकान्यनुसंयाने व्यादिदेशाथ भारत॥ गारुडं च महाव्यूह चक्रे शान्तनवस्तदा। पुत्राणां ते जयाकाङ्क्षी भीष्मः कुरुपितामहः॥ गरुडस्य स्वयं तुण्डे पिता देवव्रतस्तव। चक्षुषी च भरद्वाजः कृतवर्मा च सात्वतः॥ अश्वत्थामा कृपश्चैव शीर्षमास्तां यशस्विनौ। त्रैगर्तेरथ कैकेयैर्वाटधानैश्च संयुगे॥ भूरिश्वराः शलः शल्यो भगदत्तश्च मारिष। मद्रकाः सिन्धुसौवीरास्तथा पाञ्चनदाश्च ये॥ जयद्रथेन सहिता ग्रीवायां संनिवेशिताः। पृष्ठे दुर्योधनो राजा सोदर्यैः सानुगैर्वृतः॥ विन्दानुविन्दावावन्त्यौ काम्बोजाश्च शकैः सह। पुच्छमासन् महाराज शूरसेनाश्च सर्वशः॥ मागधाश्च कलिङ्गाश्च दासेरकगणैः सह। दक्षिणं पक्षमासाद्य स्थिता व्यूहस्य दंशिताः॥ कारुषाश्च विकुञ्जाश्च मुण्डाः कुण्डीवृषास्तथा। बृहद्बलेन सहिता वाम पार्श्वमवस्थिताः॥ व्यूढं दृष्ट्वा तु तत् सैन्यं सव्यसाची परंतपः। धृष्टद्युम्नेन सहितः प्रत्यव्यूहत संयुगे॥ अर्धचन्द्रेण व्यूहेन व्यूहं तमतिदारुणम्। दक्षिणं शृङ्गमास्थाय भीमसेनो व्यरोचत॥ नानाशस्त्रौघसम्पन्नै नादेश्यैर्नृपैर्वृतः। तदन्वेव विराटश्च द्रुपदश्च महारथः॥ तदनन्तरमेवासीन्नीलो नीलायुधैः सह। नीलादनन्तरश्चैव धृष्टकेतुर्महाबलः॥ चेदिकाशिकरूपैश्च पौरवैरपि संवृतः। धृष्टद्युम्नः शिखण्डी च पञ्चालाश्च प्रभद्रकाः॥ मध्ये सैन्यस्य महतः स्थिता युद्धाय भारत। तत्रैव धर्मराजोऽपि गजानीकेन संवृतः॥ ततस्तु सात्यकी राजन् द्रौपद्याः पञ्चचात्मजाः। अभिमन्युस्ततः शूर इरावांश्च ततः परम्॥ भैमसेनिस्ततो राजन् केकयाश्च महारथाः। ततोऽभूद् द्विपदां श्रेष्ठो वामं पार्श्वमुपाश्रितः॥ सर्वस्य जगतो गोप्ता गोप्ता यस्य जनार्दनः। एवमेतं महाव्यूह प्रत्यव्यूहन्त पाण्डवाः॥ वधार्थं तव पुत्राणां तत्पक्षं ये च सङ्गताः। ततः प्रववृते युद्धं व्यतिपक्तरथद्विपम्॥ तावकानां परेषां च निजतामितरेतरम्। हयौघाश्च रथौघाश्च तत्र तत्र विशाम्पते॥ सम्पतन्तो व्यदृश्यन्त निघ्नन्तस्ते परस्परम्। धावतां च रथौघानां निघ्नतां च पृथक् पृथक्॥ बभूव तुमुलः शब्दो विमिश्रो दुन्दुभिस्वनैः। दिवस्पृङ् नरवीराणां निघ्नतामितरेतरम्। सम्प्रहारे सुतुमुले तव तेषां च भारत॥ संजय उवाच ततो व्यूढेष्वनीकेषु तावकेषु परेषु च। धनंजयो स्थानीकमवधीत् तव भारत॥ शरैरतिरथो युद्धे दारयन् रथयूथपान्। ते वध्यमानाः पार्थेन कालेनेव युगक्षय॥ धार्तराष्ट्रा रणे यत्नात् पाण्डवान् प्रत्ययोधयन्। प्रार्थयाना यशो दीप्तं मृत्युं कृत्वा निवर्तनम्॥ एकाग्रमनसो भूत्वा पाण्डवानां वरूथिनीम्। बभञ्जुर्बहुशो राजंस्ते चासज्जन्त संयुगे॥ द्रवद्भिरथ भग्नैश्च परिवर्तद्भिरेव च। पाण्डवैः कौरवेयैश्च न प्राज्ञायत किंचन॥ उदतिष्ठद् रजो भौमं छादयानं दिवाकरम्। न दिशः प्रदिशो वापि तत्र हन्युः कथं नराः॥ अनुमानेन संज्ञाभिर्नामगोत्रैश्च संयुगे। वर्तते च तथा युद्धं तत्र तत्र विशाम्पते॥ न व्यूहो भिद्यते तत्र कौरवाणां कथंचन। रक्षितः सत्यसंधेन भारद्वाजेन संयुगे॥ तथैव पाण्डवानां च रक्षितः सव्यसाचिना। नाभिद्यत महाव्यूहो भीमेन च सुरक्षितः॥ सेनाग्रादपि निष्पत्य प्रायुध्यस्तत्र मानवाः। उभयोः सेनयो राजन् व्यतिषक्तरथद्विपाः॥ हयारोहैर्हयारोहाः पात्यन्ते स्म महाहवे। ऋष्टिभिविमलाभिश्च प्रासैरपि च संयुगे॥ रथी रथिनमासाद्य शरैः कनकभूषणैः। पातयामास समरे तस्मिन्नतिभयङ्करे।।१२ गजारोहा गजारोहान् नाराचशरतोमरैः। संसक्तान् पातयामासुस्तव तेषां च सर्वशः॥ पत्तिसङ्घा रणे पत्तीन् भिन्दिपालपरश्वधैः। न्यपातयन्त संहृष्टाः परस्परकृतागसः॥ रथी च समरे राजन्नासाद्य गजयूथपम्। सगजं पातयामास गजी च रथिनां वरम्॥ रथिनं च हयारोहः प्रासेन भरतर्षभ। पातयामास समरे रथी च हयसादिनम्॥ पदाती रथिनं संख्ये रथी चापि पदातिनम्। न्यपातयच्छितैः शस्त्रैः सेनयोरुभयोरपि॥ गजारोहा हयारोहान् पातयाञ्चक्रिरे तदा। हयारोहा गजस्थांश्च तदद्भुतमिवाभवत्॥ गजारोहवरैश्चापि तत्र तत्र पदातयः। पातिताः समदृश्यन्त तैश्चापि गजयोधिनः॥ पत्तिसङ्घा हयारोहैः सादिसङ्घाश्च पत्तिभिः। पात्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः॥ ध्वजैस्तत्रापविद्धैश्च कार्मुकैस्तोमरैस्तथा। प्रासैस्तथा गदाभिश्च परिघैः कम्पनैस्तथा॥ शक्तिभिः कवचैश्चित्रैः कणपैरङ्कुशैरपि। निस्त्रीशैविमलैश्चापि स्वर्णपुङ्खैः शरैस्तथा।॥ परिस्तोमैः कुथाभिश्च कम्बलैश्च महाधनैः। भूति भरतश्रेष्ठ स्रग्दामैरिव चित्रिता॥ नराश्वकायैः पतितैर्दन्तिभिश्च महाहवे। अगम्यरूपा पृथिवी मांसशोणितकर्दमा॥ प्रशशाम रजो भौमं व्युक्षितं रणशोणितैः। दिशश्च विमलाः सर्वाः सम्बभूवुर्जनेश्वर॥ उस्थितान्यगणेयानि कबधानि समन्ततः। चिह्नभूतानि जगतो विनाशार्थाय भारत॥ तस्मिन् युद्धे महारौद्रे वतमाने सुदारुणे। प्रत्यदृश्यन्त रथिनो धावमानाः समन्ततः॥ ततो भीष्मश्च द्रोणश्च सैन्धवश्च जयद्रथः। पुरुमित्रो जयो भोजः शल्यश्चापि ससौबलः॥ एते समरदुर्धर्षाः सिंहतुल्यपराक्रमाः। पाण्डवानामनीकानि बभञ्जुः स्म पुनः पुनः॥ तथैव भीमसेनोऽपि राक्षसश्च घटोत्कचः। सात्यकिश्चेकितानश्च द्रौपदेयाश्च भारत।॥ तावकांस्तव पुत्रांश्च सहितान् सर्वराजभिः। द्रावयामासुराजौ ते त्रिदशा दानवानिव॥ तथा ते समरेऽन्योन्यं निघ्नन्तः क्षत्रियर्षभाः। रक्तोक्षिता घोररूपा विरेजुर्दानवा इव॥ विनिर्जित्य रिपून् वीराः सेनयोरुभयोरपि। व्यदृश्यन्त महामात्रा ग्रहा इव नभस्तले॥ ततो रथसहस्रेण पुत्रो दुर्योधनस्तव। अभ्ययात् पाण्डवं युद्धे राक्षसं च घटोत्कचम्॥ तथैव पाण्डवाः सर्वे महत्या सेनया सह। द्रोणभीष्मौ रणे यत्तौ प्रत्युद्ययुररिंदमौ॥ किरीटी च ययौ क्रुद्धः समन्तात् पार्थिवोत्तमान्। आर्जुनिः सात्यकिश्चैव ययतुः सौबलं बलम्॥ ततः प्रववृते भूयः संग्रामो लोमहर्षणः। तावकानां परेषां च समरे विजयैषिणाम्॥ संजय उवाच ततस्ते पार्थिवाः क्रुद्धाः फाल्गुनं वीक्ष्य संयुगे। रथैरनेकसाहौः समन्तात् पर्यवारयन्॥ अथैनं रथवृन्देन कोष्ठकीकृत्य भारत। शरैः सुबहुसाहः समन्तादभ्यवारयन्॥ शक्तीश्च विमलास्तीक्ष्णा गदाश्च परिघैः सह। प्रासान् परश्वघांश्चैव मुद्गरान् मुसलानपि॥ चिक्षिपुः समरे क्रुद्धाः फाल्गुनस्य रथं प्रति। शस्त्राणामथ तां वृष्टिं शलभानामिवायतिम्॥ रुरोध सर्वतः पार्थः शरैः कनकभूषणैः। तत्र तल्लाघवं दृष्ट्वा बीभत्सोरतिमानुषम्॥ देवदानवगन्धर्वाः पिशाचोरगराक्षसाः। साधु साध्विति राजेन्द्र फाल्गुनं प्रत्यपूजयन्॥ सात्यकिश्चाभिमन्युश्च महत्या सेनया वृतौ। गान्धारान् समरे शूराञ्जग्मतुः सहसौबलान्॥ तत्र सौबलकाः क्रुद्धा वार्ष्णेयस्य रथोत्तमम्। तिलशश्चिच्छिदुः क्रोधाच्छस्त्रैर्नानाविधैर्युधि॥ सात्यकिस्तु रथं त्यक्त्वा वर्तमाने भयावहे। अभिमन्यो रथं तूर्णमासरोह परंतपः॥ तावेकरथसंयुक्तौ सौबलेयस्य वाहिनीम्। व्यधमेतां शितैस्तूर्णं शरैः संनतपर्वभिः॥ द्रोणभीष्मौ रणे यत्तौ धर्मराजस्य वाहिनीम्। नाशयेतां शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदः॥ ततो धर्मसुतो राजा माद्रीपुत्रौ च पाण्डवौ। मिषतां सर्वसैन्यानां द्रोणानीकमुपाद्रवन्॥ तत्रासीत् सुमहद् युद्धं तुमुलं लोमहर्षणम्। यथा देवासुरं युद्धं पूर्वमासीत् सुदारुणम्॥ कुर्वाणौ सुमहत् कर्म भीमसेनघटोत्कचौ। दुर्योधनस्ततोऽभ्येत्य तावुभावप्यवारयत्॥ तत्राद्भुतमपश्याम हैडिम्बस्य पराक्रमम्। अतीत्य पितरं युद्धे यदयुध्यत भारत॥ भीमसेनस्तु संक्रुद्धौ दुर्योधनममर्षणम्। हृद्यविध्यत् पृषत्केन प्रहसन्निव पाण्डवः॥ ततो दुर्योधनो राजा प्रहारवरपीडितः। निषसाद रथोपस्थे कश्मलं च जगाम ह॥ तं विसंज्ञं विदित्वा तु त्वरमाणोऽस्य सारथिः। अपोवाह रणाद् राजंस्ततः सैन्यमभज्यत॥ ततस्तां कौरवीं सेनां द्रवमाणां समन्ततः। निघ्नन् भीमः शरैस्तीक्ष्णैरनुवव्राज पृष्ठतः॥ पार्षतश्च रथश्रेष्ठो धर्मपुत्रश्च पाण्डवः। द्रोणस्य पश्यत: सैन्यं गाङ्गेयस्य च पश्यतः॥ जघ्नतुर्विशिखैस्तीक्ष्णैः परानीकविनाशनैः। द्रवमाणं तु तत् सैन्यं तव पुत्रस्य संयुगे॥ नाशक्नुतां वारयितुं भीष्ट्रोणौ महारथौ। वार्यमाणं च भीष्ममेण द्रोणेन च महात्मना॥ विद्रवत्येव तत् सैन्यं पश्यतोःणभीष्मयोः। ततो रथसहस्रेषु विद्रवत्सु ततस्ततः।२३॥ तावास्थितावेकरथं सौभद्रशिनिपुङ्गवौ। सौबली समरे सेनां शातयेतां समन्ततः॥ शुशुभाते तदा तौ तु शैनेयकुरुपुङ्गवौ। अमावास्यां गतौ यद्वत् सोमसूर्यो नभस्तले॥ अर्जुनस्तु ततः क्रुद्धस्तव सैन्यं विशाम्पते। ववर्ष शरवर्षेण धाराभिरिव तोयदः॥ वध्यमानं ततस्तत्र शरैः पार्थस्य संयुगे। दुद्राव कौरवं सैन्यं विषादभयकम्पितम्॥ द्रवतस्तान् समालक्ष्य भीष्मद्रोणौ महारथौ। न्यवारयेतां संरब्यौ दुर्योधनहितैषिणौ॥ ततो दुर्योधनो राजा समाश्वस्य विशाम्पते। न्यवर्तयत तत् सैन्यं द्रवमाणं समन्ततः॥ यत्र यत्र सुतस्तुभ्यं यं यं पश्यति भारत। तत्र तत्र न्यवर्तन्त क्षत्रियाणां महारथाः॥ तान् निवृत्तान् समीक्ष्यैव ततोऽन्येऽपीतरे जनाः। अन्योन्यस्पर्धया राजल्लँज्जया चावतस्थिरे॥ पुनरावर्ततां तेषां वेग आसीद् विशाम्पते। पूर्यतः सागरस्येव चन्द्रस्योदयनं प्रति॥ संनिवृत्तांस्ततस्तांस्तु दृष्ट्वा राजा सुयोधनः। अब्रवीत् त्वरितो गत्वा भीष्मं शान्तनवं वचः॥ पितामह निबोधेदं यत् त्वां वक्ष्यामि भारत। नानुरूपमहं मन्ये त्वयि जीवति कौरव॥ द्रोणे चास्त्रविदां श्रेष्ठे सपुत्रे ससुहज्जने। कृपे चैव महेष्वासे द्रवते यद् वरूथिनी॥ न पाण्डवान् प्रतिबलांस्तव मन्ये कथंचन। तथा द्रोणस्य संग्रामे द्रौणेश्चैव कृपस्य च॥ अनुग्राह्याः पाण्डुसुतास्तव नूनं पितामह। यथेमां क्षममे वीर वध्यमानां वरूथिनीम्॥ सोऽस्मि वाच्यस्त्वया राजन् पूर्वमेव समागमे। न योत्स्ये पाण्डवान् संख्ये नापि पार्षतसात्यकी।॥ श्रुत्वा तु वचनं तुभ्यमाचार्यस्य कृपस्य च। कर्णेन सहितः कृत्यं चिन्तयानस्तदैव हि॥ यदि नाहं परित्याज्यो युवाभ्यामिह संयुगे। विक्रमेणानुरूपेण युध्येतां पुरुषर्षभौ॥ एतच्छ्रुत्वा वचो भीष्मः प्रहसन् वै मुहुर्मुहुः। अब्रवीत् तनयं तुभ्यं क्रोधादुद्वृत्य चक्षुषी॥ बहुशोऽसि मया राजंस्तथ्यमुक्तो हितं वचः। अजेयाः पाण्डवा युद्धे देवैरपि सवासवैः॥ यत् तु शक्यं मया कर्तुं वृद्धेनाद्य नृपोत्तम। करिष्यामि यथाशक्ति प्रेक्षेदानीं सबान्धवः॥ एवमुक्ते तु जनेश्वर। अद्य पाण्डुसुतानेकः ससैन्यान् सह बन्धुभिः। सोऽहं निवारयिष्यामि सर्वलोकस्य पश्यतः॥ भीष्मेण पुत्रास्तव दध्मुः शङ्खान् मुदा युक्ता भेरीः संजनिरे भृशम्॥ पाण्डवा हि ततो राजन्श्रुत्वा तं निनदं महत्। दध्मुः शङ्खांश्च भेरीश्च मुरजांश्चाप्यनादयन्॥ धृतराष्ट्र उवाच प्रतिज्ञाते ततस्तस्मिन् युद्धे भीष्मेण दारुणे। क्रोधितो मम पुत्रेण दुःखितेन विशेषतः॥ भीष्मः किमकरोत् तत्र पाण्डवेयेषु संभारतगे। पितामहे वा पञ्चालास्तन्ममाचक्ष्व संजय॥ संजय उवाच गतपूर्वाह्नभूयिष्ठे तस्मिन्नहनि भारत। पश्चिमां दिशमास्थाय स्थिते चापि दिवाकरे॥ जयं प्राप्तेषु हृष्टेषु पाण्डवेषु महात्मसु। सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव॥ अभ्यायज्जवनैरश्वैः पाण्डवानामनीकिनीम्। महत्या सेनया गुप्तस्तव पुत्रैश्च सर्वशः॥ प्रावर्तत ततो युद्धं तुमुलं लोमहर्षणम्। अस्माकं पाण्डवैः सार्धमनयात् तव भारत॥ धनुषां कूजतां तत्र तलानां चाभिहन्यताम्। महान् समभवच्छब्दो गिरीणामिव दीर्यताम्॥ तिष्ठ स्थितोऽस्मि विद्ध्येनं निवर्तस्व स्थिरो भव। स्थिरोऽस्मि प्रहरस्वेति शब्दोऽश्रूयत सर्वशः॥ काञ्चनेषु तनुत्रेषु किरीटेषु ध्वजेषु च। शिलानामिव शैलेषु पतितानामभूद् ध्वनिः॥ पतितान्युत्तमाङ्गानि बाहवश्च विभूषिताः। व्यचेष्टन्त महीं प्राप्य शतशोऽथ सहस्रशः॥ हतोत्तमाङ्गाः केचित् तु तथैवोद्यतकार्मुकाः। प्रगृहीतायुधाश्चापि तस्थुः पुरुषसत्तमाः॥ प्रावर्तत महावेगा नदी रुधिरवाहिनी। मातङ्गाङ्गशिला रौद्रा मांसशोणितकर्दमा॥ वराश्वनरनागानां शरीरप्रभवा तदा। परलोकार्णवमुखी गृध्रगोमायुमोदिनी॥ न दृष्टं न श्रुतं वापि युद्धमेतादृशं नृप। यथा तव सुतानां च पाण्डवानां च भारत॥ नासीद् रथपथस्तत्र योधैर्युधि निपातितैः। गजैश्च पतितैर्नीलैर्गिरिशृङ्गैरिवावृतः॥ विकीर्णैः कवचैश्चित्रैः शिरस्त्राणैश्च मारिष। शुशुभे तद् रणस्थानं शरदीव नभस्तलम्॥ विनिर्भिन्नाः शरैः केचिदन्त्रापीडप्रकर्षिणः। अभीताः समरे शत्रूनभ्यधावन्त तात भ्रात: सखे बन्धो वयस्य मम मातुल। मा मां परित्यजेत्यन्ये चुक्रुशुः पतिता रणे॥ दर्पिताः॥ अथाभ्येहित्वमागच्छ किं भीतोऽसि क्व यास्यसि। स्थितोऽहं समरे मा भैरिति चान्ये विचुक्रुशुः॥ तत्र भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः। मुमोच बाणान् दीप्ताचानहीनाशीविषानिव॥ शरैरेकायनीकुर्वन् दिशः सर्वा यतव्रतः। जघान पाण्डवरथानादिश्य भरतर्षभ॥ स नृत्यन् वै रथोपस्थे दर्शयन् पाणिलाघवम्। अलातचक्रवद् राजंस्तत्र तत्र स्म दृश्यते॥ तमेकं समरे शूरं पाण्डवाः सुंजयैः सह। अनेकशतसाहस्रं समपश्यन्त लाघवात्॥ मायाकृतात्मानमिव भीष्मं तत्र स्म मेनिरे। पूर्वस्यां दिशि तं दृष्ट्वा प्रतीच्यां ददृशुर्जनाः॥ उदीच्यां चैवमालोक्य दक्षिणस्यां पुनः प्रभो। एवं स समरे शूरो गाङ्गेयः प्रत्यदृश्यत॥ न चैवं पाण्डवेयानां कश्चिच्छक्नोति वीक्षितुम्। विशिखानेव पश्यन्ति भीष्मचापच्युतान् बहून्॥ कुर्वाणं समरे कर्म सूदयानं च वाहिनीम्। व्याक्रोशन्त रणे तत्र नरा बहुविधा बहु॥ अमानुषेण रूपेण चरन्तं पितरं तव। शलभा इव राजानः पतन्ति विधिचोदिताः॥ भीष्माग्निमभिसंक्रुद्धं विनाशाय सहस्रशः। न हि मोघः शरः कश्चिदासीद् भीष्मस्य संयुगे॥ नरनागाश्वकायेषु बहुत्वाल्लघुयोधिनः। भिनत्त्येकेन बाणेन सुमुखेन पतत्त्रिणा॥ गजकण्टकसंनद्धं वज्रेणेव शिलोच्चयम्। द्वौ त्रीनपि गजारोहान् पिण्डितान् वर्मितानपि॥ नाराचेन सुमुक्तेन निजघान पिता तव। यो यो भीष्मं नरव्याघ्रमभ्येति युधि कश्चन॥ मुहूर्तदृष्टः स मया पतितो भुवि दृश्यते। एवं सा धर्मराजस्य वध्यमाना महाचमूः॥ भीष्मेणातुलवीर्येण व्यशीर्यत सहस्रधा। प्राकम्पत महासेना शरवर्षेण तापिता॥ पश्यतो वासुदेवस्य पार्थस्याथ शिखण्डिनः। वर्तमानाऽपि ते वीरा द्रवमाणान् महारथान्॥ नाशक्नुवन् वारयितुं भीष्मबाणप्रपीडितान्। महेन्द्रसमवीर्येण वध्यमाना महाचमूः॥ अभज्यत महाराज न च द्वौ सह धावतः। आविद्धनरनागाश्वं पतितध्वजकूबरम्॥ अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम्। जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा॥ प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः। विमुच्य कवचान्यन्ये पाण्डुपुत्रस्य सैनिकाः॥ विमुक्तकेशा धावन्तः प्रत्यदृश्यन्त भारत। तद् गोकुलमिवोद्धान्तमुद्घान्तरथयूथपम्॥ ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा। प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः॥ उवाच पार्थं बीभत्सु निगृह्य रथमुत्तमम्। अयं स कालः सम्प्राप्तः पार्थ यस्तऽभिकाक्षितः॥४२ प्रहरस्व नरव्याघ्र न चेन्मोहाद् विमुह्यसे। यत् त्वया कथितं वीर पुरा राज्ञां समागमे॥ भीष्मद्रोणमुखान् सर्वान् धार्तराष्ट्रस्य सैनिकान्। सानुबन्धान् हनिष्यामि ये मां योत्स्यन्ति संयुगे॥ इति तत् कुरु कौन्तेय सत्यं वाक्यमरिंदम। बीभत्सो पश्य सैन्यं स्वं भज्यमानं ततस्ततः॥ द्रवतश्च महीपालान् पश्य यौधिष्ठिरे बले। दृष्ट्वा हि भीष्मं समरे व्यात्ताननमिवान्तकम्॥ भयार्ताः प्रपलायन्ते सिंहात् क्षुद्रमृगा इव। एवमुक्तः प्रत्युवाच वासुदेवं धनंजयः॥ नोदयाश्वान् यतो भीष्मो विगाहैतद् बलार्णवम्। पातयिष्यामि दुर्धर्षं वृद्धं कुरुपितामहम्॥ संजय उवाच ततोऽश्वान् रजतप्रख्यान् नोदयाभास माधवः। यतो भीष्मरथो राजन् दुष्प्रेक्ष्यो रश्मिमवानिव॥ ततस्तत् पुनरावृत्तं युधिष्ठिरबलं महत्। दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यतमाहवे॥ ततो भीष्मः कुरुश्रेष्ठ सिंहवद् विनदन् मुहुः। धनंजयरथं शीघ्रं शरवर्षैरवाकिरत्॥ क्षणेन स रथस्तस्य सहयः सहसारथिः। शरवर्षेण महता संछन्नो न प्रकाशते॥ वासुदेवस्त्वसम्भ्रान्तो धैर्यमास्थाय सत्त्ववान्। चोदयामास तानश्वान् विचितान् भीष्मसायकैः॥ ततः पार्थो धनुर्गृह्य दिव्यं जलदनिःस्वनम्। पातयामास भीष्मस्य धनुश्छित्त्वा त्रिभिः शरैः॥ स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद् धनुः। निमिषान्तरमात्रेण सज्यं चक्रे पिता तव।॥ विचकर्ष ततो दो• धनुर्जलदनि:स्वनम्। अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः॥ तस्य तत् पूजयामास लाघवं शान्तनोः सुतः। साधु पार्थ महाबाहो साधु भोः पाण्डुनन्दन॥ त्वय्येवैतद् युक्तरूपं महत् कर्म धनंजय। प्रीतोऽस्मि सुभृशं पुत्र कुरु युद्धं मया सह॥ इति पार्थं प्रशस्याथ प्रगृह्यान्यन्महद् धनुः। मुमोच समरे वीरः शरान् पार्थरथं प्रति॥ अदर्शयद् वासुदेवो हययाने परं बलम्। मोघान् कुर्वशरांस्तस्य मण्डलान्याचरल्लघु॥ तथा भीष्मस्तु सुदृढं वासुदेवधनंजयौ। विव्याध निशितैर्बाणैः सर्वगात्रेषु भारत॥ शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ। गोवृषाविव संरब्धौ विषाणैरिखितङ्कितौ॥ पुनश्चापि सुसंरब्धः शरैः शतसहस्रशः। कृष्णयोर्युधि संरब्धो भीष्मोऽथावारयद् दिशः॥ वार्ष्णेयं च शरैस्तीक्ष्णैः कम्पयामास रोषित:। मुहुरभ्यर्दयन् भीष्मः प्रहस्य स्वनवत् तदा॥ ततस्तु कृष्णः समरे दृष्ट्वा भीष्मपराक्रमम्। सम्प्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम्॥ भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि। प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः॥ वरान् वरान् विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान्। युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले॥ अमृष्यमाणो भगवान् केशवः परवीरहा। अचिन्तयदमेयात्मा नास्ति यौधिष्ठिरं बलम्॥ एकाह्रा हि रणे भीष्मो नाशयेद् देवदानवान्। किं नु पाण्डुसुतान् युद्धे सबलान् सपदानुगान्॥ द्रवते च महासैन्यं पाण्डवस्य महात्मनः। एते च कौरवास्तूर्णं प्रभग्नान् वीक्ष्य सोमकान्॥ प्राद्रवन्ति रणे दृष्ट्वा हर्षयन्तः पितामहम्। सोऽहं भीष्मं निहन्म्यद्य पाण्डवार्थाय दंशितः॥ भारमेतं विनेष्यामि पाण्डवानां महात्मनाम्। अर्जुनो हि शरैस्तीक्ष्णैर्वध्यमानोऽपि संयुगे॥ कर्तव्यं नाभिजानाति रणे भीष्मस्य गौरवात्। तथा चिन्तयतस्तस्य भूय एव पितामहः। प्रेषयामास संक्रुद्धः शरान् पार्थरथं प्रति॥ तेषां बहुत्वात् तु भृशं शराणां दिशश्च सर्वाः पिहिता बभूवुः। न भास्करोऽदृश्यत रश्ममाली। ववुश्च वात्सतुमुलाः सधूमा दिशश्च सर्वाः क्षुभिता बभूवुः॥ द्रोणो विकर्णोऽथ जयद्रथश्च भूरिश्रवाः कृतवर्मा कृपश्च। श्रुतायुरम्बष्ठपतिश्च राजा विन्दानुविन्दौ च मुदक्षिणश्च॥ प्राच्याश्च सौवीरगणाश्च सर्वे वसातयः क्षुद्रकमालवाश्च। निदेशगाः शान्तनवस्य राज्ञः॥ रनेकसाहस्रशतैर्ददर्श। किरीटिनं सम्परिवार्यमाणं शिनेर्नप्ता वारणयूथपैश्च॥ ततस्तु दृष्ट्वार्जुनवासुदेवौ पदातिनागाश्वरथैः समन्तात्। अभिद्रुतौ शस्त्रभृतां वरिष्ठौ शिनिप्रवीरोऽभिससार तूर्णम्॥ स तान्यनीकानि महाधनुष्माशिनिप्रवीरः सहसाभिपत्य। चकार साहाय्यमथार्जुनस्य विष्णुर्यथा वृत्रनिषूदनस्य॥ विशीर्णनागाश्वरथध्वजौघं भीष्मेण वित्रासितसर्वयोधम्। युधिष्ठिरानीकमभिद्रवन्तं प्रोवाच संदृश्य शिनिप्रवीरः॥ क्व क्षत्रिया यास्यथ नैष धर्मः सतां पुरस्तात् कथितः पुराणैः। मा स्वां प्रतिज्ञां त्यजत प्रवीराः स्वं वीरधर्म परिपालयध्वम्॥ तान् वासवानन्तरजो निशाम्य नरेन्द्रमुख्यान् द्रवतः समन्तात्। पार्थस्य दृष्ट्वा मृदुयुद्धतां च भीष्मं च संख्ये समुदीर्यमाणम्।।८२। अमृष्यमाणः स ततो महात्मा यशस्विनं सर्वदशाहभर्ता। उवाच शैनेयमभिप्रशंसन् दृष्ट्वा कुरूनापततः समग्रान्॥ ये यान्ति ते यान्तु शिनिप्रवीर येऽपि स्थिताः सात्वत तेऽपि यान्तु। भीष्मं रथात् पश्य निपात्यमानं द्रोणं च संख्ये सगणं मयाद्य॥ न मे रथी सात्वत कौरवाणां क्रुद्धस्य मुच्येत रणेऽद्य कश्चित्। तस्मादहं गृह्य रथाङ्गमुग्रं प्राणं हरिष्यामि महाव्रतस्य॥ निहत्य भीष्मं सगणं तथाऽऽजौ द्रोणं च शेनेय रथप्रवीरौ। प्रीतिं करिष्यामि धनंजयस्य राज्ञश्च भीमस्य तथाऽिश्वनोच॥ स्तत्पक्षिणो ये च नरेन्द्रमुख्याः। राज्येन राजानमजातशत्रु सम्पादयिष्याम्यहमद्य हृष्टः॥ ततः सुनाभं वसुदेवपुत्रः सूर्यप्रभं वज्रसमप्रभावम्। क्षुरान्तमुद्यम्य भुजेन चक्र रथादवप्लुत्य विसृज्य वाहान्॥ संकम्पयन् गां चरणैर्महात्मा वेगेन कृष्णः प्रससार भीष्मम्। मदान्धमाजौ समुदीर्णदर्प सिंहो जिघांसन्निव वारणेन्द्रम्॥ सोऽभिद्रवन् भीष्ममनीकमध्ये क्रुद्धो महेन्द्रावरजः प्रमाथी। व्यालम्बिपीतान्तपटश्चकाशे घनो यथा खे तडितावनद्धः॥ स्तच्चक्रपद्यं सुभुजोरुनालम्। यथादिपद्मं तरुणार्कवर्ण रराज नारायणनाभिजातम्॥ तत् कृष्णकोपोदयसूर्यबुद्धं क्षुरान्ततीक्ष्णाग्रसुजातपत्रम्। तस्यैव देहोरुसर:प्ररूढं रराज नारायणबाहुनालम्॥ तमात्तचक्रं प्रणदन्तमुच्चैः क्रुद्ध महेन्द्रावरजं समीक्ष्य। सर्वाणि भूतानि भृशं विनेदुः क्षयं कुरूणामिव चिन्तयित्वा॥ स वासुदेवः प्रगृहीतचक्रः संवर्तयिष्यन्निव सर्वलोकम्। ऊभ्युत्पतल्लोकगुरुर्बभासे भूतानि धक्ष्यन्निव धूमकेतुः॥ तमाद्रवन्तं प्रगृहीतचक्रं दृष्ट्वा देवं शान्तनवस्तदानीम्। असम्भ्रमं तद् विचकर्ष दोभ्यां महाधनुर्गाण्डिवतुल्यघोषम्॥ उवाच भीष्मस्तमनन्तपौरुषं गोविन्दमाजावविमूढचेताः। एह्येहि देवेश जगनिवास नमोऽस्तु ते माधव चक्रपाणे॥ प्रसह्य मां पातय लोकनाथ रथोत्तमात् सर्वशरण्य संख्ये॥ त्वया हतस्यापि ममाघ कृष्ण श्रेयः परस्मिन्निह चैव लोके। सम्भावितोऽस्म्यन्धकवृष्णिनाथ लोकैस्त्रिभिर्वीर तवाभियानात्॥ रथादवप्लुत्य ततस्त्वरावान् पार्थोऽप्यनुदुत्य यदुप्रवीरम्। जग्राह पीनोत्तमलम्बबाहुँ बाह्वोर्हरिं व्यायतपीनबाहुः॥ निगृह्यमाणश्च तदाऽऽदिदेवो भृशं सरोषः किल चात्मयोगी। र्जिष्णु महावात इवैकवृक्षम्।।१००। पार्थस्तु विष्टभ्य बलेन पादौ भीष्मान्तिकं तूर्णमभिद्रवन्तम्। बलान्निजग्राह हरि किरीटी पदेऽथ राजन् दशमे कथञ्चित्॥ अवस्थितं च प्रणिपत्य कृष्णं प्रीतोऽर्जुनः काञ्चनचित्रमाली। उवाच कोपं प्रतिसंहरेति गतिर्भवान् केशव पाण्डवानाम्॥ ह हास्यते कर्म यथाप्रतिज्ञं पुत्रैः शपे केशव सोदरैश्च। अन्तं करिष्यामि यथा कुरूणां त्वयाऽहमिन्द्रनुज सम्प्रयुक्तः॥ ततः प्रतिज्ञां समयं च तस्य जनार्दनः प्रीतमना निशम्य। स्थित: प्रिये कौरवसत्तमस्य रथं सचक्रः पुनरारुरोह॥ स तानभीषून् पुनराददानः प्रगृह्य शङ्ख द्विषतां निहन्ता। विनादयामास ततो दिशश्च स पाञ्चजन्यस्य रवेण शौरिः॥ व्याविद्धनिष्काङ्गदकुण्डलं तं रजोविकीर्णाञ्चितपद्मनेत्रम्। विशुद्धदंष्ट्रं प्रगृहीतशङ्ख विचुक्रुशुः प्रेक्ष्य कुरुप्रवीराः॥ मृदङ्गभेरीपणवप्रणादा नेमिस्वना दुन्दुभिनि:स्वनाश्च। ससिंहनादाश्च बभूवुरुचाः सर्वेष्वनीकेषु ततः कुरूणाम्॥ गाण्डीवघोषः स्तनयित्नुकल्पो जगाम पार्थस्य नभो दिशश्च। जग्मुश्च बाणा विमलाः प्रसन्नाः सर्वा दिशः पाण्डवचापमुक्ताः॥ तं कौरवाणामधिपो जवेन भीष्मेण भूरिश्रवसा च सार्धम्। अभ्युद्ययावुद्यतवाणपाणिः कक्षं दिधक्षन्निव धूमकेतुः॥ अथार्जुनाय प्रजिघाय भल्लान् भूरिश्रवाः सप्त सुवर्णपुडान्। दुर्योधनस्तोमरमुग्रवेगं शल्यो गदां शान्तनवश्च शक्तिम्॥ स सप्तभिः सप्त शरप्रवेकान् संवार्य भूरिश्रवसा विसृष्टान्। शितेन दुर्योधनबाहुमुक्तं क्षुरेण तत् तोमरमुन्ममाथ॥ तत: शुभामापतती स शक्तिं विद्युत्प्रभा शान्तनवेन मुक्ताम्। गदां च मद्राधिपबाहुमुक्तां द्वाभ्यां शराभ्यां निचकर्त वीरः॥ ततो भुजाभ्यां बलवद् विकृष्य चित्रं धनुर्गाण्डिवमप्रमेयम्। माहेन्द्रमस्त्रं विधिवत् सुघोरं प्रादुश्चकाराद्भुतमन्तरिक्षे॥ तेनोत्तमास्त्रेण ततो महात्मा सर्वाण्यनीकानि महाधनुष्मान्। निवारयामास किरीटमाली॥ शिलीमुखाः पार्थधनुःप्रमुक्ता रथान् ध्वजाग्राणि धनूंषि बाहून्। निकृत्य देहान् विविशुः परेषां नरेन्द्रनागेन्द्रतुरङ्गमाणाम्॥ ततो दिशः सोऽनुदिशश्च पार्थः शरैः सुधारैः समरे वितत्य। गाण्डीवशब्देन मनांसि तेषां किरीटमाली व्यथयाञ्चकार॥ तस्मिंस्तथा घोरतमे प्रवृत्ते शङ्खस्वना दुन्दुभिनिःस्वनाश्चा अन्तर्हिता गाण्डिवनिःस्वनेन बभूवुरुचाश्वरथप्रणादाः॥ गाण्डीवशब्दं तमथो विदित्वा विराटराजप्रमुखाः प्रवीराः। स्तं देशमाजग्मुरदीनसत्त्वाः॥ सर्वाणि सैन्यानि त तावकानि यतो यतो गाण्डिवजः प्रणादः। ततस्ततः संनतिमेव जग्मुन तं प्रतीपोऽभिससार कश्चित्॥ तस्मिन् सुघोरे नृपसम्प्रहारे हताः प्रवीराः सरथाश्वसूताः। गजाश्च नाराचनिपाततप्ता महापताकाः शुभरुक्मकक्ष्याः॥ परीतसत्त्वाः सहसा निपेतुः किरीटिना भिन्नतनुत्रकायाः। दृढं हताः पत्रिभिरुचवेगैः पार्थेन भल्लैर्विमलैः शिताचैः॥ निकृत्तयन्त्रा निहतेन्द्रकीला ध्वजा महान्तो ध्वजिनीमुखेषु। पदातिसङ्घाश्च रथाश्च संख्ये हयाश्च नागाश्च धनंजयेन॥ बाणाहतास्तूर्णमपेतसत्त्वा विष्टभ्य गात्राणि निपेतुरुक्म्। ऐन्द्रेण तेनास्त्रवरेण राजन् महाहवे भिन्नतनुत्रदेहाः॥ ततः शरौधैर्निशितैः किरीटिना नृदेहशस्त्रक्षतलोहितोदा। नदी सुघोरा नरमेदफेना प्रवर्तिता तत्र रणाजिरे॥ वेगेन साऽतीव पृथुप्रवाहा परेतनागाश्वशरीररोधा। नरेन्द्रमज्जोच्छ्रितमांसपङ्का प्रभूतरक्षोगणभूतसेविता॥ शिरःकपालाकुलकेशशाद्वला शरीरसङ्घातसहस्रवाहिनी। विशीर्णनानाकवचोर्मिसंकुला नराश्वनागास्थिनिकृत्तशर्करा॥ श्वकङ्कशालावृकगृध्रकाकैः क्रव्यादसङ्घश्च तरक्षुभिश्च। उपेतकूलां ददृशुर्मनुष्याः क्रूरां महावैतरणीप्रकाशाम्॥ मैदोवसासृक्प्रवहां सुभीमाम्। हतप्रवीरां च तथैव दृष्ट्वा सेनां कुरूणामथ फाल्गुनेन॥ ते चेदिपाञ्चालकरूषमत्स्याः पार्थाश्च सर्वे सहिताः प्रणेदुः। जयप्रगल्भाः पुरुषप्रवीराः संत्रासयन्तः कुरुवीरयोधान्॥ हतप्रवीराणि बलानि दृष्ट्वा किरीटिना शत्रुभयावहेन। वित्रास्य सेनां ध्वजिनीपतीनां सिंहो मृगाणामिव यूथसङ्घान्॥ विनेदतुस्तावतिहर्षयुक्ती गाण्डीवधन्वा च जनार्दनश्च। ततो रविं संवृतरश्मिजालं दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः॥ मसह्यमुद्वीक्ष्य युगान्तकल्पम्। अथापयानं कुरवः सभीष्माः सद्रोणदुर्योधनबाह्निकाच॥ चक्रुर्निशां संधिगतां समीक्ष्य विभावसोर्लोहितरागयुक्ताम्। अवाप्य कीर्तिं च यशश्च लोके विजित्य शंत्रूश्च धनंजयोऽपि।।१३३ ययौ नरेन्द्रैः सह सौदरैश्च समाप्तकर्मा शिबिरं निशायाम्। ततः प्रजज्ञे तुमुलः कुरूणां निशामुखे घोरतमः प्रणादः॥ रणे रथानामयुतं निहत्य हता गजा: सप्तशतार्जुनेन। प्राच्याश्च सौवीरगणाश्च सर्वे निपातिताः क्षुद्रकमालवाश्च॥ महत् कृतं कर्म धनंजयेन कर्तुं यथा नार्हति कश्चिदन्यः। श्रुतायुरम्बष्ठपतिश्च राजा तथैव दुर्मर्षणचित्रसेनौ॥ द्रोणः कृपः सैन्धवबाह्निकौ च भूरिश्रवाः शल्यशलौ च राजन्। अन्ये च योधाः शतश: समेताः क्रुद्धेन पार्थेन रणस्य मध्ये॥ स्वबाहुवीर्येण जिताः सभीष्माः किरीटिना लोकमहारथेन। इति ब्रुवन्तः शिबिराणि जग्मुः सर्वे गणा भारत ये त्वदीयाः॥ विभ्राजमानैश्च तथा प्रदीपैः। किरीटिवित्रासितसर्वयोधा चक्रे निवेशं ध्वजिनी कुरूणाम्॥ संजय उवाच द्रौणिभूरिश्रवाः शल्यश्चित्रसेनश्च मारिष पुत्रः सांयमनेश्चैव सौभद्रं पर्यवारयन्॥ संसक्तमतितेजोभिस्तमेकं ददृशुर्जनाः। पञ्चभिर्मनुजव्यात्रैर्गजैः सिंहशिशुं यथा।॥ नातिलक्ष्यतया कश्चिन्न शौर्यं न पराक्रमे। बभूव सदृशः काङ्गेर्नास्त्रे नापि च लाघवे॥ तथा तमात्मजं युद्धे विक्रमन्तमरिंदमम्। दृष्ट्वा पार्थः सुसंयत्तं सिंहनादमथानदत्॥ पीडयानं तु तत् सैन्यं पौत्रं तव विशाम्पते। दृष्ट्वा त्वदीया राजेन्द्र समन्तात् पर्यवारयन्॥ ध्वजिनीं धार्तराष्ट्राणां दीनशत्रुरदीनवत्। प्रत्युद्ययौ स सौभद्रस्तेजसा च बलेन च॥ तस्य लाघवमार्गस्थमादित्यसदृशप्रभम्। व्यदृश्यत महच्चापं समरे युध्यतः परैः॥ स द्रौणिमिषुणैकेन विद्ध्वा शल्यं च पञ्चभिः। ध्वजं सांयमनेश्चैव सोऽष्टाभिश्चिच्छिदे ततः॥ रुक्मदण्डां महाशक्तिं प्रेषितां सौमदत्तिना। शितेनोरगसंकाशां पत्रिणापजहार ताम्॥ शल्यस्य च महावेगानस्यतः समरे शरान्। निवार्यार्जुनदायादो जघान चतुरो हयान्॥ भूरिश्रवाश्च शल्यश्च द्रौणिः सांयमनि: शलः। नाभ्यवर्तन्त संरलब्धाः काणैर्बाहुबलोदयम्॥ ततस्त्रिगर्ता राजेन्द्र मद्राश्च सह केकयैः। पञ्चविंशतिसाहस्रास्तव पुत्रेव चोदिताः॥ धनुर्वेदविदो मुख्या अजेयाः शत्रुभिर्येधि। सहपुत्रं जिघांसन्तं परिवब्रः किरीटिनम्॥ तौ तु तत्र पितापुत्रौ परिक्षिप्तौ महारथौ। । ददर्श ग़जन् पाञ्चाल्यः सेनापतिररिंदम॥ स वारणरथौघानां सहस्रैर्बहुभिर्वृतः। वाजिभिः पत्तिभिश्चैव वृतः शतसहस्रशः॥ धनुर्विस्फार्य संक्रुद्धो नोदयित्वा च वाहिनीम्। ययौ तं मद्रकानीकं केकयांश्च परंतप॥ तेन कीर्तिमता गुप्तमनीकं दृढधन्वना। संरब्धरथनागाश्वं योत्स्यमानमशोभत॥ सोऽर्जुनप्रमुखे यान्तं पाञ्चालकुलवर्धनः। त्रिभिः शारद्वतं बाणैर्जत्रुदेशे समार्पयत्॥ ततः स मद्रकान् हत्वा दशैव दशभिः शरैः। पृष्ठरक्षं जघानाशु भल्लेन कृतवर्मणः॥ दमनं चापि दायादं पौरवस्य महात्मनः। जघान विमलाचेण नाराचेन परंतपः॥ ततः सांयमनेः पुत्रः पाञ्चाल्यं युद्धदुर्मदम्। अविध्यत् त्रिंशता बाणैर्दशभिश्चास्य सारथिम्॥ सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन्। भल्लेन भृशतीक्ष्णेन न चिकर्तास्य कार्मुकम्॥ अथैनं पञ्चविंशत्या क्षिप्रमेव समार्पयत्। अश्वांश्चास्यावधीद् राजन्नुभौ तौ पाjि सारथी॥ स हताश्वे रथे तिष्ठन् ददर्श भरतर्षभ। पुत्रः सांयमनेः पुत्रं पाञ्चाल्यस्य महात्मनः॥ स प्रगृह्य महाघोरं निस्त्रिशवरमायसम्। पदातिस्तूर्णमानछेद् रथस्थं पुरुषर्षभः॥ तं महौघमिवायान्तं खात् पतन्तमिवोरगम्। भ्रान्तावरणनिस्त्रिंशं कालोत्सृष्टमिवान्तकम्॥ दीप्यमानमिवादित्यं मत्तवारणाविक्रमम्। अपश्यनं पाण्डवास्तत्र धृष्टद्युम्नश्च पार्षतः॥ तस्य पाञ्चालदायादः प्रतीपमभिधावतः। शितनिस्त्रिशहस्तस्य शरावरणधारिणः॥ बाणवेगमतीतस्य तथाभ्याशमुपेयुषः। त्वरन् सेनापतिः क्रुद्धो बिभेद गदया शिरः॥ तस्य राजन् स निस्त्रिंशं सुप्रभं च शरावरम्। हतस्य पततो हस्ताद् वेगेन न्यपतद् भुवि॥ तं निहत्य गदाचेण स लेभे परमां मुदम्। पुत्रः पाञ्चालराजस्य महात्मा भीमविक्रमः॥ तस्मिन् हते महेष्वासे राजपुत्रे महारथे। हाहाकारो महानासीत् तव सैन्यस्य मारिष॥ ततः सायंमनिः क्रुद्धौ दृष्ट्वा निहतमात्मजम्। अभिदुद्राव वेगेन पाञ्चाल्यं युद्धदुर्मदम्॥ तौ तत्र समरे शूरौ समेतौ युद्धदुर्मदौ। ददृशुः सर्वराजानः कुरवः पाण्डवास्तथा॥ ततः सांयमनि: क्रुद्धः पार्षतं परवीरहा। आजघान त्रिभिर्वाणैस्तोत्रैरिव महाद्विपम्॥ तथैव पार्षतं शूरं शल्यः समितिशोभनः। आजधानोरसि क्रुद्धस्ततो युद्धमवर्तत॥ धृतराष्ट्र उवाच दैवमेव परं मन्ये पौरुषादपि संजय। यत् सैन्यं मम पुत्रस्य पाण्डुसैन्येन बाध्यते।।।। नित्यं हि मामकांस्तात हतानेव हि शंससि। अव्यग्रांश्च प्रहृष्टांश्च नित्यं शंससि पाण्डवान्॥ हीनान् पुरुषकारेण मामकानद्य संजय। पातितान् पात्यमानांश्च हतानेव च शंससि॥ युध्यमानान् यथाशक्ति घटमानाञ्जयं प्रति। पाण्डवा हि जयन्त्येव जीयन्ते चैव मामकाः॥ सोऽहं तीव्राणि दुःखानि दुर्योधनकृतानि च। श्रोष्यामि सततं तात दुःसहानि बहूनि च॥ तमुपायं न पश्यामि जीयेरन् येन पाण्डवाः न्। मामका विजयं युद्धे प्राप्नुयुर्येन संजय॥ संजय उवाच शृणु राजन् स्थिरो क्षयं मनुष्यदेहानां गजवाजिरथक्षयम्। भूत्वा तवैवापनयो महान्॥ धृष्टद्युम्नस्तु शल्येन पीडितो नवभिः शरैः। पीडयामास संक्रुद्धो मद्राधिपतिमायसैः॥ तत्राद्भुतमपश्याम पार्षतस्य पराक्रमम्। न्यवारयत यस्तूर्णं शल्यं समितिशोभनम्॥ नान्तरं दृश्यते तत्र तयोश्च रथिनोस्तदा। मुहूर्तमिव तद् युद्धं तयोः सममिवाभवत्॥ ततः शल्यो महाराज धृष्टद्युम्नस्य संयुगे। धनुश्चिच्छेद भल्लेन पीतेन निशितेन च।॥ अथैनं शरवर्षेण च्छादयामास संयुगे। गिरिं जलागमे यद्वज्जलदा जलवृष्टिभिः॥ अभिमन्युस्तत: क्रुद्धो धृष्टद्युम्ने च पीडिते। अभिदुद्राव वेगेन मद्रराजरथं प्रति॥ ततो मद्राधिपरथं कार्णः प्राप्यातिकोपनः। आर्तायनिममेयात्मा विव्याध निशितैः शरैः॥ ततस्तु तावका राजन् परीप्सन्तोऽर्जुनि रणे। मद्रराजरथं तूर्णं परिवार्यावतस्थिरे॥ दुर्योधनो विकर्णश्च दुःशासनविविंशती। दुर्मर्षणो दुःसहश्च चित्रसेनोऽथ दुर्मुखः॥ सत्यव्रतश्च भद्रं ते पुरुमित्रश्च भारत। एते मद्राधिपरथं पालयन्तः स्थिता रणे॥ तान् भीमसेनः संक्रुद्धो धृष्टद्युम्नश्च पार्षतः। द्रौपदेयाऽभिमन्युश्च माद्रीपुत्रौ च पाण्डवौ॥ धार्तराष्ट्रान् दशरथान् दशैव प्रत्यवारयन्। नानारूपाणि शस्त्राणि विसृजन्तो विशाम्पते॥१९॥ अभ्यवर्तन्त संहृष्टाः परस्परवधैषिणः। ते वै समेयुः संग्रामे राजन् दुर्मन्त्रिते तव॥ तस्मिन् दशरथे क्रुद्धे वर्तमाने महाभये। तावकानां परेषां वा प्रेक्षका रथिनोऽभवन॥ शस्त्राण्यनेकरूपाणि विसृजन्तो महारथाः। अन्योन्यमभिमर्दन्तः सम्प्रहारं प्रचक्रिरे॥ ते तदा जातसंरम्भाः सर्वेऽन्योन्यं जिघांसवः। अन्योन्यमभिमर्दन्तः स्पर्धमानाः परस्परम्॥ अन्योन्यस्पर्धया राजज्ञातयः सङ्गता मिथः। महास्त्राणि विमुञ्चन्तः समापेतुरमर्षिणः॥ दुर्योधनस्तु संक्रुद्धो धृष्टद्युम्नं महारणे। विव्याध निशितैर्बाणैश्चतुर्भिः समरे द्रुतम्॥ दुर्मर्षणश्च विंशत्या चित्रसेनश्च पञ्चभिः। दुर्मुखो नवभिर्बाणैर्दुःसहश्चापि सप्तभिः॥ विविंशतिः पञ्चभिश्च त्रिभिर्दुःशासनस्तथा। तान् प्रत्यविध्यद् राजेन्द्र पार्षतः शत्रुतापनः॥ एकैकं पञ्चविंशत्या दर्शयन् पाणिलाघवम्। सत्यव्रतं च समरे पुरुमित्रं च भारत॥ अभिमन्युरविध्यत् तु दशभिर्दशभिः शरैः। माद्रीपुत्रौ तु समरे मातुलं मातृनन्दनौ॥ अविध्येतां शरैस्तीक्ष्णैस्तदद्भुतमिवाभवत्। ततः शल्यो महाराज स्वस्रीयौ रथिनां वरौ॥ शरैर्बहुभिरानछेत् कृतप्रतिकृतैषिणौ। छाद्यमानौ ततस्तौ तु माद्रीपुत्रौ न चेलतुः॥ अथ दुर्योधनं दृष्ट्वा भीमसेनो महाबलः। विधित्सुः कलहस्यान्तं गदां जग्राह पाण्डव:॥ तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम्। भीमसेनं महाबाहुं पुत्रास्ते प्राद्रवन् भयात्॥ दुर्योधनस्तु संक्रुद्धो मागधं समचोदयत्। अनीकं दशसाहस्रं कुञ्चराणां तरस्विनाम्॥ गजानीकेन सहितस्तेन राजा सुयोधनः। मागधं पुरतः कृत्वा भीमसेनं समभ्ययात्॥ आपतन्तं च तं दृष्ट्वा गजानीकं वृकोदरः। गदापाणिरवारोहद् रथात् सिहं इवोन्नदन्॥ अद्रिसारमयीं गुर्वी प्रगृह्य महतीं गदाम्। अभ्यधावद् गजानीकं व्यादितास्य इवान्तकः॥ स गजान् गदया निघ्नन् व्यचरत् समरे बली। भीमसेनो महाबाहुः सवज्र इव वासवः॥ तस्य नादेन महता मनोहृदयकम्पिना। व्यत्यचेष्टन्त संहत्य गजा भीमस्य गर्जतः॥ ततस्तु द्रौपदीपुत्राः सौभद्रश्च महारथः। नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः॥ पृष्ठं भीमस्य रक्षन्तः शरवर्षेण वारणान्। अभ्यवर्षन्त धावन्तो मेघा इव गिरीन् यथा॥ क्षुरैः क्षुरप्रैर्भल्लैश्च पीतैश्चाञ्जलिकैः शितैः। व्यरत्रुत्तमाङ्गानि पाण्डवा गजयोधिनाम्॥ शिरोभिः प्रपतद्भिश्च बाहुभिश्च विभूषितैः। अश्मवृष्टिरिवाभाति पाणिभिश्च सहाकुशैः॥ हृतोत्तमाङ्गाः स्कन्धेषु गजानां गजयोधिनः। अदृश्यन्ताचलाचेषु दुमा भग्नशिखा इव॥ धृष्टद्युम्नहतानन्यानपश्याम महागजान्। पतत: पात्यमानांश्च पार्षतेन महात्मना॥ मागधोऽथ महीपालो गजमैरावणोपमम्। प्रेषयामास समरे सौभद्रस्य रथं प्रति॥ तमापतन्तं सम्प्रेक्ष्य मागधस्य महागजम्। जघानैकेषुणा वीरः सौभद्रः परवीरहा॥ तस्यावर्जिनागस्य कार्ष्णिः परपुरंजयः। राज्ञो रजतपुखेन भल्लेनापाहरच्छिरः॥ विगाह्य तद् गजानीकं भीमसेनोऽपि पाण्डवः। व्यचरत् समरे मृद्गन् गजानिन्द्रो गिरीनिव॥ एकप्रहारनिहतान् भीमसेनेन दन्तिनः। अपश्याम रणे तस्मिन् गिरीन् वज्रहतानिव॥ भग्नदन्तान् भग्नकटान् भग्नसक्थांश्च वारणान्। भग्नपृष्ठत्रिकानन्यान् निहतान् पर्वतोपमान्॥ नदतः सीदतश्चान्यान् विमुखान् समरे गतान्। विद्रुतान् भयसंविग्नांस्तथा विशकृतोऽपरान्॥ भीमसेनस्य मार्गेषु पतितान् पर्वतोपमान्। अपश्यं निहतान् नागान् राजन् निष्ठीवतोऽपरान्॥ वमन्तो रुधिरं चान्ये भिन्नकुम्भा महागजाः। विह्वलन्तो गता भूमि शैला इव धरातले॥ मेदोरुधिरदिग्धाङ्गो वसामज्जासमुक्षितः। व्यचरत् समरे भीमो दण्डपाणिरिवान्तकः॥ गजानां रुधिरक्लिन्नां गदां बिभ्रद् वृकोदरः। घोरः प्रतिभयश्चासीत् पिनाकीव पिनाकधृक्॥ सम्मथ्यमानाः क्रुद्धेन भीमसेनेन दन्तिनः। सहसा प्राद्रवन् क्लिष्टा मृनन्तस्तव वाहिनीम्॥ तं हि वीरं महेष्वासं सौभद्रप्रमुखा रथाः। पर्यरक्षन्त युध्यन्तं वज्रायुधमिवामराः॥ शोणिताक्ता गदां बिभ्रदुक्षितां गजशोणितैः। कृतान्त इव रौद्रात्मा भीमसेनो व्यदृश्यत॥ व्यायच्छमानं गदया दिखं सर्वासु भारत। अपश्याम रणे भीमं नृत्यन्तमिव शंकरम्॥ यमदण्डोपमां गुर्वीमिन्द्राशनिसमस्वनाम्। अपश्याम महाराज रौद्रां विशसनी गदाम्॥ विमिश्रां केशमज्जाभिः प्रदिग्धां रुधिरेण च। पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून्॥ यथा पशूनां संघातं यष्ट्या पालः प्रकालयेत्। तथा भीमो गजानीकं गदया समकालयत्॥ गदया वध्यमानास्ते मार्गणैश्च समन्ततः। स्वान्यनीकानि मृनन्तः प्राद्रवन् कुञ्जरास्तव॥ महावात इवाभ्राणि विधमित्वा स वारणान्। अतिष्ठत् तुमुले भीमः श्मशान इव शूलभृत्॥ संजय उवाच हते तस्मिन् गजानीके पुत्रो दुर्योधनस्तव। भीमसेनं नतेत्येवं सर्वसैन्यान्यचोदयत्॥ ततः सर्वाण्यनीकानि तव पुत्रस्य शासनात्। अभ्यद्रवन् भीमसेनं नदन्तं भैरवान् रवान्॥ तं बलौघमपर्यन्तं देवैरपि सुदुःसहम्। आपतन्तं सुदुष्पारं समुद्रमिव पर्वणि॥ रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम्। अनन्तरथपादातं रजसा सर्वतो वृतम्॥ तं भीमसेनः समरे महोदधिमिवापरम्। सेनासागरमक्षोभ्यं वेलेव समवारयत्॥ तदाश्चर्यमपश्याम पाण्डवस्य महात्मनः। भीमसेनस्य समरे राजन् कर्मातिमानुषम्॥ उदीर्णान् पार्थिवान् सर्वान् साश्वान् सरथकुञ्जरान्। असम्भ्रमं भीमसेनो गदया समवारयत्॥ स संवार्य बलौघांस्तानं गदया रथिनां वरः। अतिष्ठत् तुमुले भीमो गिरिर्मेरुरिवाचलः॥ तस्मिन् सुतुमुले घोरे काले परमदारुणे। भ्रातरश्चैव पुत्राश्च धृष्टद्युम्नश्च पार्षतः॥ द्रौपदेयाऽभिमन्युश्च शिखण्डी चापराजितः। न प्राजहन् भीमसेनं भये जाते महाबलम्॥ ततः शैक्यायसीं गुर्वी प्रगृह्य महतीं गदाम्। अधावत् तावकान् योधान् दण्डपाणिरिवान्तकः॥ पोथयन् स्थवृन्दानि वाजिवृन्दानि चाभिभूः। कर्षयन् स्थवृन्दानि बाहुवेगेन पाण्डवः॥ विनिनन् व्यचरत् संख्ये युगान्ते कालवद् विभुः। उरुवेगेन संकर्षन् रथजालानि पाण्डवः॥ बलानि सम्पमर्दाशु नड्वलानीव कुञ्जरः। मृनन् रथेभ्यो रथिनो गजेभ्यो गजयोधिनः॥ सादिनचाश्वपृष्ठेभ्यो भूमौ चापि पदातिनः। गदया व्यधमत् सर्वान् वातो वृक्षानिवौजसा॥ भीमसेनो महाबाहुस्तव पुत्रस्य वै बले। सापि मज्जावसामांसैः प्रदिग्धा रुधिरेण च॥ अदृश्यत महारौद्रा गदा नागाश्वपातनी। तत्र तत्र हतैश्चापि मनुष्यगजवाजिभिः॥ रणाङ्गणं समभवन्मृत्योरावाससंनिभम्। पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून्॥ यमदण्डोपमामुग्रामिन्द्राशनिसमस्वनाम्। ददृशुर्भीमसेनस्य रौद्रीं विशसनीं गदाम्॥ आविद्ध्यतो गदां तस्य कौन्तेयस्य महात्मनः। बभौ रूपं महाघोरं कालस्येव युगक्षये॥ तं तथा महतीं सेनां द्रावयन्तं पुनः पुनः। दृष्ट्वा मृत्युमिवायान्तं सर्वे विमनसोऽभवन्॥ यतो यतः प्रेक्षते स्म गदामुद्यम्य पाण्डवः। तेन तेन स्म दीर्यन्ते सर्वसैन्यानि भारत॥ प्रदारयन्तं सैन्यानि बलेनामितविक्रमम्। ग्रसमानमनीकानि व्यादितास्यमिवान्तकम्॥ तं तथा भीमकर्माणं प्रगृहीतमहागदम्। दृष्ट्वा वृकोदरं भीष्मः सहसैव समभ्ययात्॥ महता रथघोषेण रथेनादित्यवर्चसा। छादयशरवर्षेण पर्जन्य इव वृष्टिमान्॥ तमायान्तं तथा दृष्ट्वा व्यात्ताननमिवान्तकम्। भीष्मं भीमो महाबाहुः प्रत्युदीयादमर्षितः॥ तस्मिन् क्षणे सात्यकिः सत्यसंध: शिनिप्रवीरोऽभ्यपतत्पितामहम्। निघ्नन्नमित्रान् धनुषा दृढेन संकम्पयंस्तव पुत्रस्य सैन्यम्॥ तं यान्तमश्चै रजतप्रकाशैः शरान् वपन्तं निशितान् सुपुङ्खान्। नाशक्नुवन् धारयितुं तदानीं सर्वे गणा भारत ये त्वदीयाः॥ रलम्बुषो राक्षसोऽसौ तदानीम्। शरैश्चतुर्भिः प्रतिविद्ध्य तं च नप्ता शिनेरभ्यपतद् रथेन॥ अन्वागतं वृष्णिवरं निशम्य तं शत्रुमध्ये परिवर्तमानम्। प्रद्रावयन्तं कुरुपुङ्गवांश्च पुनः पुनश्च प्रणदन्तमाजौ॥ योधास्त्वदीयाः शरवर्षैरवर्षन् मेघा यथा भूधरमम्बुवेगैः। मध्यन्दिने सूर्यमिवातपन्तम्॥ दृते राजन् सोमदत्तस्य पुत्रात्। स वै समादाय धनुर्महात्मा भूरिश्रवा भारत सौमदत्तिः॥ दृष्ट्वा रथान् स्वान् व्यपनीयमानान् प्रत्युद्ययौ सात्यकिं योद्भुमिच्छन्॥ संजय उवाच ततो भूरिश्रवा राजन् सात्यकिं नवभिः शरैः। प्राविध्यद् भृशसंक्रुद्धस्तोत्रैरिव महाद्विपम्॥ कौरवं सात्यकिश्चैव शरैः संनतपर्वभिः। अवारयदमेयात्मा सर्वलोकस्य पश्यतः॥ ततो दुर्योधनो राजा सोदर्यैः परिवारितः। सौमदत्तिं रणे यत्तः समन्तात् पर्यवारयत्॥ तं चैव पाण्डवाः सर्वे सात्यकिं रभसं रणे! परिवार्य स्थिताः संख्ये समन्तात् सुमहौजसः॥ भीमसेनस्तु संक्रुद्धौ गदामुद्यम्य भारत। दुर्योधनमुखान् सर्वान् पुत्रांस्ते पर्यवारयत्॥ रथैरनेकसाहौः क्रोधामर्षसमन्वितः नन्दकस्तव पुत्रस्तु भीमसेनं महाबलम्॥ विव्याध विशिखैः षड्भिः कङ्कपत्रैः शिलाशितैः। दुर्योधनश्च समरे भीमसेनं महारथम्॥ आजघानोरसि क्रुद्धो मार्गणैर्नवभिः शितैः। ततो भीमो महाबाहुः स्वरथं सुमहाबलः॥ आरुरोह रथश्रेष्ठं विशोकं चेदमब्रवीत्। एते महारथाः शूरा धार्तराष्ट्राः समागताः॥ मामेव भृशसंक्रुद्धा हन्तुमभ्युद्यता युधि। मनोरथद्रुमोऽस्माकं चिन्तितो बहुवार्षिकः॥ सफल: सूत चायेह योऽहं पश्यामि सोदरान्। यत्राशोक समुक्षिप्ता रेणवो रथनेमिभिः॥ प्रयास्यन्त्यन्तरिक्षं हि शरवृन्दैदिगन्तरे। तत्र तिष्ठति संनद्धः स्वयं राजा सुयोधनः॥ भ्रातरश्चास्य संनद्धाः कुलपुत्रा मदोत्कटाः। एतानद्य हनिष्यामि पश्यतस्ते न संशयः॥ तस्मान्ममाश्वान् संग्रामे यत्तः संयच्छ सारथे। एवमुक्त्वा ततः पार्थस्तव पुत्रं विशाम्पते।॥ विव्याध दशभिस्तीक्ष्णैः शरैः कनकभूषणैः। नन्दकं च त्रिभिर्बाणैरभ्यविध्यत् स्तनान्तरे॥ तं तु दुर्योधनः षष्ट्या विद्ध्वा भीमं महाबलम्। त्रिभिरन्वैः सुनिशितैर्विशोकं प्रत्यविध्यत॥ भीमस्य च रणे राजन् धनुश्चिच्छेद भासुरम्। मुष्टिदेशे भृशं तीक्ष्णैस्त्रिभिर्भल्लैर्हसन्निव॥ समरे प्रेक्ष्य यन्तारं विशोकं तु वृकोदरः। पीडितं विशिखैस्तीक्ष्णैस्तव पुत्रेण धन्विना॥ अमृष्यमाणः संरब्धो धनुर्दिव्यं परामृशत्। पुत्रस्य ते महाराज वधार्थं भरतर्षभ॥ समाधत्त सुसंक्रुद्धः क्षुरप्रं लोमवाहिनम्। तेन चिच्छेद नृपतेर्भीमः कार्मुकमुत्तमम्॥ सोऽपविद्ध्य धनुश्छिन्नं पुत्रस्ते क्रोधमूर्छितः। अन्यत् कार्मुकमादत्त सत्वरं वेगवत्तरम्॥ संदधे विशिखं घोरं कालमृत्युसमप्रभम्। तेनाजघान संक्रुद्धो भीमसेनं स्तनान्तरे॥ स गाढविद्धो व्यथितः स्यन्दनोपस्थ आविशत्। स निषण्णो रथोपस्थे मूर्छामभिजगाम ह॥ तं दृष्ट्वा व्यथितं भीममभिमन्युपुरोगमाः। नामृष्यन्त महेष्वासाः पाण्डवानां महारथाः॥ ततस्तु तुमुलां वृष्टिं शस्त्राणां तिग्मतेजसाम्। पातयामासुरव्यग्राः पुत्रस्य तव मूर्धनि॥ प्रतिलभ्य ततः संज्ञां भीमसेनो महाबलः। दुर्योधनं त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः॥ शल्यं च पञ्चविंशत्या शरैर्विव्याध पाण्डवः। रुक्मपुङ्खैर्महेष्वासः सविद्धो व्यपयाद् रणात्॥ प्रत्युद्ययुस्ततो भीमं तव पुत्राश्चतुर्दश। सेनापतिः सुषेणश्च जलसंधः सुलोचनः॥ उग्रो भीमरथो भीमो वीरबाहुरलोलुपः। दुर्मुखो दुष्प्रधर्षश्च विवित्सुर्विकटः समः॥ विसृजन्तो बहून् बाणान् क्रोधसंरक्तलोचनाः। भीमसेनमभिद्रुत्य विव्यधुः सहिता भृशम्॥ पुत्रांस्तु तव सम्प्रेक्ष्य भीमसेनो महाबलः। सृक्किणी विलिहन् वीरः पशुमध्ये यथा वृकः॥ अभिपत्य महाबाहुर्गरुत्मानिव वेगितः। सेनापतेः क्षुरप्रेण शिरश्चिच्छेद पाण्डवः॥ सम्प्रहस्य च हृष्टात्मा त्रिभिर्वाणैर्महाभुजः। जलसंधं विनिर्भिद्य सोऽनयद् यमसादनम्॥ सुषेण च ततो हत्वा प्रेषयामास मृत्यवे। उग्रस्य सशिरस्त्राणं शिरश्चन्द्रोपमं भुवि॥ पातयामास भल्लेन कुण्डलाभ्यां विभूषितम्। वीरबाहुं च सप्तत्याः साश्वकेतुं ससारथिम्॥ निनाये समरे वीरः परलोकाय पाण्डवः। भीमभीमरथौ चोभौ भीमसेनो हसन्निव॥ पुत्रौ ते दुर्मदौ राजन्ननयद् यमसादनम्। ततः सुलोचनं भीमः क्षुरप्रेण महामृधे॥ मिषतां सर्वसैन्यानामनयद् यमसादनम्। पुत्रास्तु तव तं दृष्ट्वा भीमसेनपराक्रमम्॥ शेषा येऽन्यऽभवंस्तत्र ते भीमस्य भयार्दिताः। विप्रद्रुता दिशो राजन् वध्यमाना महात्मना॥ ततोऽब्रवीच्छान्तनवः सर्वानेव महारथान्। एष भीमो रणे क्रुद्धो धार्तराष्ट्रान् महारथान्॥ यथा प्राच्यान् यथा ज्येष्ठान् यथा शूरांश्च संगतान्। निपातयत्युग्रधन्वा तं प्रगृह्णीतं माचिरम्॥ एवमुक्तास्तत: सर्वे धार्तराष्ट्रस्य सैनिकाः। अभ्यद्रवन्त संक्रुद्धा भीमसेन महाबलम्॥ भगदत्तः प्रभिन्नेन कुञ्जरेण विशाम्पते। अभ्ययात् सहसा तत्र यत्र भीमो व्यवस्थितः॥ आपतन्नेव च रणे. भीमसेन शिलीमुखैः। अदृष्यं समरे चक्रे जीमूत इव भास्करम्॥ अभिमन्युमुखास्तत् तु नामृष्यन्त महारथाः। भीमस्याच्छादनं संख्ये स्वबाहुबलमाश्रिताः॥ त एनं शरवर्षेण समन्तात् पर्यवारयन्। गजं च शरवृष्ट्या तु बिभिदुस्ते समन्ततः॥ स शस्त्रवृष्ट्याऽभिहतः समस्तैस्तैर्महारथैः। प्राग्ज्योतिषगजो राजन् नानालिङ्गैः सुतेजनैः॥ संजातरुधिरोत्पीडः प्रेक्षणीयोऽभवद् रणे। गभस्तिभिरिवार्कस्य संस्यूतो जलदो महान्॥ संचोदितो मदस्रावी भगदत्तेन वारणः। अभ्यधावत तान् सर्वान् कालोत्सृष्ट इवान्तकः॥ द्विगुणं जवमास्थाय कम्पयंश्चरणैर्महीम्। तस्य तत् सुमहद् रूपं दृष्ट्वा सर्वे महारथाः॥ असह्यं मन्यमानाश्च नातिप्रमनसोऽभवन्। ततस्तु नृपतिः क्रुद्धो भीमसेनं स्तनान्तरे॥ आजघान महाराज शरेणानतपर्वणा। सोऽतिविद्धो महेष्वासस्तेन राज्ञा महारथः॥ मूर्च्छयाऽभिपरीतात्मा ध्वजयष्टिं समाश्रयत्। तांस्तु भीतान् समालक्ष्य भीमसेनं च मूर्च्छितम्॥ ननाद बलवन्नादं भगदत्तः प्रतापवान्। ततो घटोत्कचो राजन् प्रेक्ष्य भीमं तथागतम्॥ संक्रुद्धो राक्षसो घोरस्तत्रैवान्तरधीयत। स कृत्वा दारुणां मायां भीरूणां भयवर्धिनीम्॥ अदृश्यत निमेषार्धाद् घोररूपं समास्थितः। ऐरावणं समारूढः स वै मायाकृतं स्वयम्॥ तस्य चान्येऽपि दिङ्नागा बभूवुरनुयायिनः। अञ्जनो वामनश्चैव महापद्मश्च सुप्रभः॥ त्रय एते महानागा राक्षसैः समधिष्ठिताः। महाकायास्त्रिधा राजन् प्रस्रवन्तो मदं बहु॥ तेजोवीर्यबलोपेता महाबलपराक्रमाः। घटोत्कचस्तु स्वं नागं चोदयामास तं तदा॥ सगजं भगदत्तं तु हन्तुकामः परंतपः। ते चान्ये चोदिता नागा राक्षसैस्तैर्महाबलैः॥ परिपेतुः सुसंरब्धाश्चतुर्दष्ट्राश्चतुर्दिशम्। भगदत्तस्य तं नागं विषाणैरभ्यपीडयन्॥ स पीड्यमानस्तै गैर्वेदनातः शराहतः। अनदत् सुमहानादमिन्द्राशनिसमस्वनम्॥ तस्य तं नदतो नादं सुघोरं भीमनिःस्वनम्। श्रुत्वा भीष्मोऽब्रवीद् द्रोणं राजानं च सुयोधनम्॥ एष युध्यति संग्रामे हैडिम्बेन दुरात्मना। भगदत्तो महेष्वासः कृच्छ्रे च परिवर्तते॥ राक्षसश्च महाकायः स च राजाऽतिकोपनः। एतौ समेतौ समरे कालमृत्युसमावुभौ॥ श्रूयते चैव हृष्टानां पाण्डवानां महास्वनः। हस्तिनश्चैव सुमहान् भीतस्य रुदितध्वनिः॥ तत्र गच्छाम भद्रं वो राजानं परिरक्षितुम्। अरक्ष्यमाणः समरे क्षिप्रं प्राणान् विमोक्ष्यति॥ ते त्वरध्वं महावीर्याः किं चिरेण प्रयामहे। महान् हि वर्तते रौद्रः संग्रामो लोमहर्षणः॥ भक्तश्च कुलपुत्रश्च शूरश्च पृतनापतिः। युक्तं तस्य परित्राणं कर्तुमस्माभिरच्युत॥ भीष्मस्य तद् वचः श्रुत्वा सर्व एव महारथाः। द्रोणभीष्मौ पुरस्कृत्य भगदत्तपरीप्सया॥ उत्तमं जवमास्थाय प्रययुर्यत्र सोऽभवत्। तान् प्रयातान् समालोक्य युधिष्ठिरपुरोगमाः॥ पञ्चालाः पाण्डवैः सार्धं पृष्ठतोऽनुययुः परान्। तान्यनकान्यथालोक्य राक्षसेन्द्रः प्रतापवान्॥ ननाद सुमहानादं विस्फोटमशनेरिव। तस्य तं निनदं श्रुत्वा दृष्ट्वा नागांश्च युध्यतः॥ भीष्मः शान्तनवो भूयो भारद्वाजमभाषत। न रोचते मे संग्रामो हैडिम्बेन दुरात्मना॥ बलवीर्यसमाविष्टः ससहायश्च साम्प्रतम्। नैष शक्यो युधा जेतुमपि वज्रभृता स्वयम्॥ लब्धलक्षयः प्रहारी च वयं च श्रान्तवाहनाः। पाञ्चालैः पाण्डवेयैश्च दिवसं क्षतविक्षताः॥ तन्न मे रोचते युद्धं पाण्डवैर्जितकाशिभिः। घुष्यतामवाहारोऽद्य श्वो योत्स्यामः परैः सह॥ पितामहवचः श्रुत्वा तथा चक्रुः स्म कौरवाः। उपायेनापयानं ते घटोत्कचमयार्दिताः॥ कौरवेषु निवृत्तेषु पाण्डवा जितकाशिनः। सिंहनादान् भृशं चक्रुः शङ्खान् दध्मुश्च भारत॥ एवं तदभवद् युद्ध दिवसं भरतर्षभ। पाण्डवानां कुरूणां च पुरस्कृत्य घटोत्कचम्॥ कौरवास्तु ततो राजन् प्रययुः शिबिरं स्वकम्। वीडमाना निशाकाले पाण्डवेयैः पराजिताः॥ शरविक्षतगात्रास्तु पाण्डुपुत्रा महारथाः। युद्धे सुमनसो भूत्वा जग्मुः स्वशिबिरं प्रति॥ पुरस्कृत्य महाराज भीमसेनघटोत्कचौ। पूजयन्तस्तदाऽन्योन्यं मुदा परमया युताः॥ नदन्तो विविधान् नादांस्तूर्यस्वनविमिश्रितान्। सिंहनादांश्च कुर्वन्तो विमिश्रीशङ्खनिःस्वनैः॥ विनदन्तो महात्मानः कम्पयन्तश्च मेदिनीम्। घट्टयन्तश्च मर्माणि तव पुत्रस्य मारिष॥ प्रयाताः शिबिरायैव निशाकाले परंतप। दुर्योधनस्तु नृपतिर्दीनो भ्रातृवधेन च॥ मुहूर्तं चिन्तयामास बाष्पशोकसमाकुलः। ततः कृत्वा विधिं सर्वं शिविरस्य यथाविधि। प्रदध्यौ शोकसंतप्तो भ्रातृव्यसनकर्शितः॥ धृतराष्ट्र उवाच भयं मे सुमहज्जातं विस्मयश्चैव संजय। श्रुत्वा पाण्डुकुमाराणां कर्म देवैः सुदुष्करम्॥ पुत्राणां च पराभावं श्रुत्वा संजय सर्वशः। चिन्ता मे महती सूत भविष्यति कथं त्विति॥ ध्रुवं विदुरवाक्यानि धक्ष्यन्ति हृदयं मम। यथा हि दृश्यते सर्वं दैवयोगेन संजय॥ यत्र भीष्पमुखान् सर्वाञ्छस्त्रज्ञानं योधसत्तमान्। पाण्डवानामनीकेषु योधयन्ति प्रहारिणः॥ केनावध्या महात्मानः पाण्डुपुत्रा महाबलाः। केन दत्तवरास्तात किं वा ज्ञानं विदन्ति ते॥ येन क्षयं न गच्छन्ति दिवि तारागणा इव। पुनः पुनर्न मृष्यामि हतं सैन्यं तु पाण्डवैः। मय्येव दण्डः पतति दैवात् परमदारुणः। यथाऽवध्याः पाण्डुसुता यथा वध्याश्च मे सुताः॥ एतन्मे सर्वमाचक्ष्व याथातथ्येन संजय। न हि पारं प्रपश्यामि दुःखस्यास्य कथंचन॥ समुद्रस्येव महतो भुजाभ्यां प्रतरन् नरः। पुत्राणां व्यसनं मन्ये ध्रुवं प्राप्तं सुदारुणम्॥ घातयिष्यति मे सर्वान् पुत्रान् भीमो न संशयः। न हि पश्यामि तं वीरं यो मे रक्षेत् सुतान् रणे॥ ध्रुवं विनाशः सम्प्राप्तः पुत्राणां मम संजय। तस्मान्मे कारणं सूत शक्तिं चैव विशेषतः॥ पृच्छतो वै यथातत्त्वं सर्वमाख्यातुमर्हसि। दुर्योधनश्च यच्चक्रे दृष्ट्वा स्वान् विमुखान् रणे॥ भीष्मद्रोणौ कृपश्चैव सौबलश्च जयद्रथः। द्रौणिर्वाऽपि महेष्वासो विकर्णो वा महाबलः॥ निश्चयो वापि कस्तेषां तदा ह्यासीन्महात्मनाम्। विमुखेषु महाप्राज्ञ मम पुत्रेषु संजय॥ संजय उवाच शृणु राजन्नवहितः श्रुत्वा चैवावधारय। नैव मन्त्रकृतं किंचिन्नैव मायां तथाविधाम्॥ न वै विभीषिकां कांचिद् राजन् कुर्वन्ति पाण्डवाः। युध्यन्ति ते यथान्यायं शक्तिमन्तश्च संयुगे॥ धर्मेण सर्वकार्याणि आरभनते सदा पार्थाः जीवितादीनि भारत प्रार्थयाना महद् यशः॥ न ते युद्धान्निवर्तन्ते धर्मोपेता महाबलाः। श्रिया परमया युक्ता यतो धर्मस्ततो जयः॥ तेनावध्या रणे पार्था जययुक्ताश्च पार्थिव। तव पुत्रा दुरात्मानः पापेष्वभिरताः सदा॥ निष्ठुरा हीनकर्माणस्तेन हीयन्ति संयुगे। सुबहूनि नृशंसानि पुत्रैस्तव नजनेश्वर॥ निकृतानीह पाण्डूनां नीचैरिव यथा नरैः। सर्वं च तदनादृत्य पुत्राणां तव किल्बिषम्॥ सापह्नवाः सदैवासन् पाण्डवाः पाण्डुपूर्वज। न चैतान् बहु मन्यन्ते पुत्रास्तव विशाम्पते॥ तस्य पापस्य सततं क्रियमाणस्य कर्मणः। साम्प्रतं सुमहद् घोरं फलं प्राप्तं जनेश्वर॥ स त्वं भुक्ष्व महाराज सपुत्रः ससुहृज्जनः। नावबुध्यसि यद् राजन् वार्यमाणः सुहज्जनैः॥ विदुरेणाथ भीष्मेण द्रोणेन च महात्मना। तथा मया चाप्यसकृद् वार्यमाणो न बुध्यसे॥ वाक्यं हितं च पथ्यं च माः पथ्यमिवौषधम्। पुत्राणां मतमाज्ञाय जितान् मन्यसि पाण्डवान्॥ शृणु भूयो यथातत्त्वं यन्मां त्वं परिपृच्छसि। कारणं भरतश्रेष्ठ पाण्डवानां जयं प्रति॥ तत् तेऽहं कथयिष्यामि यथाश्रुतमरिंदम्। दुर्योधनेन सम्पृष्ट एतमर्थं पितामहः॥ दृष्ट्वा भ्रातॄन् रणे सर्वान् निर्जितांस्तु महारथान्। शोकमसम्मूढहृदयो निशाकाले स्म कौरवः॥ पितामहं महाप्राज्ञं विनयेनोपगम्य ह। यदब्रवीत् सुतस्तेऽसौ तन्मे शृणु जनेश्वर॥ दुर्योधन उवाच द्रोणश्च त्वं च शल्यश्च कृपो द्रौणिस्तथैव च। कृतवर्मा च हार्दिक्यः काम्बोजश्च सुदक्षिणः॥ भूरिश्रवा विकर्णश्च भगदत्तश्च वीर्यवान्। महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः॥ त्रयाणामपि लोकानां पर्याप्ता इति मे मतिः। पाण्डवानां समस्ताश्च नातिष्ठन्त पराक्रमे॥ तत्र मे संशयो जातस्तन्ममाचक्ष्व पृच्छतः। यं समाश्रित्य कौन्तेया जयन्त्यस्मान् क्षणे क्षणे॥ भीष्म उवाच शृणु राजन् वचो मह्यं यथा वक्ष्यामि कौरव। बहुशश्च मयोक्तोऽसि न च मे तत् त्वया कृतम्॥ क्रियतां पाण्डवैः सार्धं शमो भरतसत्तम। एतत् क्षेममहं मन्ये पृथिव्यास्तव वा विभो॥ भुक्ष्वेमां पृथिवीं राजन् भ्रातृभिः सहितः सुखी। दुर्हदस्तापयन् सर्वान् नन्दयंश्चापि बान्धवान्॥ न च मे क्रोशतस्तात श्रुतवानसि वै पुरा। तदितं समनुप्राप्तं यत् पाण्डूनवमन्यसे॥ यश्च हेतुरवध्यत्वे तेषामक्लिष्टकर्मणाम्। तं शृणुष्व महाबाहो मम कीर्तयतः प्रभो॥ नास्ति लोकेषु तद् भूतं भविता नो भविष्यति। यो जयेत् पाण्डवान् सर्वान् पालिताञ्छाईधन्वना॥ यत् तु मे कथितं तात मुनिभिर्भावितात्मभिः। पुराणगीतं धर्मज्ञ तच्छृणुष्व यथातथम्॥ पुरा किल सुराः सर्वे ऋषयश्च समागताः। पितामहमुपासेदुः पर्वते गन्धमादने॥ तेषां मध्ये समासीनः प्रजापतिरपश्यत। विमान् प्रज्वलद् भासा स्थितं प्रवरमम्बरे॥ ध्यानेनावेद्य तद् ब्रह्मा कृत्वा च नियतोऽञ्जलिम्। नमश्चकार हृष्यात्मा पुरुष परमेश्वरम्॥ ऋषयस्त्वथ देवाश्च दृष्ट्वा ब्रह्माणमुत्थितम्। स्थिताः प्राञ्जलयः सर्वे पश्यन्तो महदद्भुतम्॥ यथावच्च तमभ्यर्च्य ब्रह्मा ब्रह्मविदां वरः। जगाद जगतः स्रष्टा परं परमधर्मवित्॥ विश्वावसुर्विश्वमूर्तिर्विश्वेशो विष्वक्सेनो विश्वकर्मा वशी च। विश्वेश्वरो वासुदेवोऽसि तस्माद् योगात्मानं दैवतं त्वामुपैमि॥ जय विश्व महादेव जय लोकहिते रत। जय योगीश्वर विभो जय योगपरावर॥ पद्मगर्भ विशालाक्ष जय लोकेश्वरेश्वर। भूतभव्यभवन्नाथ जय सौम्यात्मजात्मज॥ असंख्येयगुणाधार जय सर्वपरायण। नारायण सुदुष्पार जय शार्ङ्गधनुर्धर॥ जय सर्वगुणोपेत विश्वमूर्ते निरामय। विश्वेश्वर महाबाहो जय लोकार्थतत्पर॥ महोरग वराहाद्य हरिकेश विभो जय। हरिवास दिशामीश विश्ववासामिताव्यय॥ व्यक्ताव्यक्तामितस्थान नियतेन्द्रिय सक्रिय। असंख्येयात्मभावज्ञ जय गम्भीर कामद॥ अनन्तविदित ब्रह्मन् नित्य भूतविभावन। कृतकार्य कृतप्रज्ञ धर्मज्ञ विजयावह॥ गुह्यात्मन् सर्वयोगात्मन् स्फुटं सम्भूतसम्भव। भूताद्य लोकतत्त्वेश जय भूतविभावन॥ आत्मयोने महाभाग कल्पसंक्षेप तत्पर। उद्भावनमनोभाव जय ब्रह्म जयप्रिय॥ निसर्गसर्गनिरत कामेश परमेश्वर। अमृतोद्भव सद्भाव मुक्तात्मन् विजयप्रद॥ प्रजापतिपते देव पद्मनाभ महाबला आत्मभूत महाभूत सत्त्वात्मन् जय सर्वदा॥ पादौ तव धरा देवी दिशो बाहू दिवं शिरः। मूर्तिस्तेऽहं सुराः कायश्चन्द्रादित्यौ च चक्षुषी॥ बलं तपश्च सत्यं च कर्म धर्मात्मकं तव। तेजोऽग्निः पवनः श्वास आपस्ते स्वेदसम्भवाः॥ अश्विनौ श्रवणौ नित्यं देवी जिह्वा सरस्वती। वेदाः संस्कारनिष्ठा हि त्वयीदं जगदाश्रितम्॥ न संख्यानं परीमाणं न तेजो न पराक्रमम्। न बलं योगयोगीश जानीमस्ते न सम्भवम्॥ त्वद्भक्तिनिरता देव नियमैस्त्वां समाश्रिताः। अर्चयामः सदा विष्णो परमेशं महेश्वरम्॥ ऋषयो देवगन्धर्वा यक्षराक्षसपन्नगा:। पिशाचा मानुशाश्चैव मृगपक्षिसरीसृपाः॥ एवमादि मया सृष्टं पृथिव्यां त्वत्प्रसादजम्। पद्मनाभ विशालाक्ष कृष्ण दुःखप्रणाशन॥ त्वं गतिः सर्वभूतानां त्वं नेता त्वं जगद्गुरुः। त्वत्प्रसादेन देवेश सुखिनो विबुधाः सदा॥ पृथिवी निर्भया देव त्वत्प्रसादात् सदाऽभवत्। तस्माद् भव विशालाक्ष यदुवंशविवर्धनः॥ धर्मसंस्थापनार्थाय दैत्यानां च वधाय च। जगतो धारणार्थाय विज्ञाप्यं कुरु मे विभो॥ यत् तत् परमकं गुह्यं त्वत्प्रसादादिदं विभो। वासुदेव तदेतत् ते मयोद्गीतं यथातथम्॥ सृष्ट्वा संकर्षणं देवं स्वयमात्मानमात्मना। कृष्ण त्वमात्मनास्राक्षीः प्रद्युम्नं चात्मसम्भवम्॥ प्रद्युम्नादनिरुद्धं त्वं यं विदुर्विष्णुमव्ययम्। अनिरुद्धोऽसृजन्मां वै ब्रह्माणं लोकधारिणम्॥ वासुदेवमयः सोऽहं त्वयैवास्मि विनिर्मितः। विभज्य भागशोऽऽत्मानं व्रज मानुषतां विभो॥ तत्रासुरवधं कृत्वा सर्वलोकसुखाय वै। धर्मं प्राप्य यशः प्राप्य योगं प्राप्स्यसि तत्त्वतः॥ त्वां हि ब्रह्मर्षयो लोके देवाश्चामितविक्रम। तैस्तैर्हि नामभिर्युक्ता गायन्ति परमात्मकम्॥ स्थिताश्च सर्वे त्वयि भूतसंघाः कृत्वाऽश्रयं त्वां वरदं सुबाहो। अनादिमध्यान्तमपारयोगं लोकस्य सेतुं प्रवदन्ति विप्राः॥ भीष्म उवाच ततः स भगवान् देवो लोकानामीश्वरेश्वरः। ब्रह्मणं प्रत्युवाचेदं स्निग्धगम्भीरया गिरा॥ विदितं तात योगान्मे सर्वमेतत् तवेप्सितम्। तथा तद् भवितेत्युक्त्वा तत्रैवान्तरधीयत॥ ततो देवर्षिगन्धर्वा विस्मयं परमं गताः। कौतूहलपराः सर्वे पितामहमथाब्रुवन्॥ कोन्वयं यो भगवता प्रणम्य विनयाद् विभो। वाग्भिः स्तुतो वरिष्ठाभिः श्रोतुमिच्छाम तं वयम्॥ एवमुक्तस्तु भगवान् प्रत्युवाच पितामहः। देवब्रह्मर्षिगन्धर्वान् सर्वान् मधुरया गिरा॥ यत् तत् परं भविष्यं च भवितव्य च यत्परम्। भूतात्मा च प्रभुश्चैव ब्रह्म यच्च परं पदम्॥ तेनास्मि कृतसंवादः प्रसन्नेन सुरर्षभाः। जगतोऽनुग्रहार्थाय याचितो मे जगत्पतिः॥ मानुषं लोकमातिष्ठ वासुदेव इति श्रुतः। असुराणां वधार्थाय सम्भवस्व महीतले॥ संग्रामे निहता ये ते दैत्यदानवराक्षसाः। त इमे नृषु सम्भूता घोररूपा महाबलाः॥ तेषां वधार्थं भगवान् नरेण सहितो वशी। मानुषीं योनिमास्थाय चरिष्यति महीतले।॥ नरनारायणौ यौ तौ पुराणावृषिसत्तमौ। सहितौ मानुषे लोके सम्भूतावमितद्युती॥ अजेयौ समरे यत्तौ सहितैरमरैरपि। मूढास्त्वेतौ न जानन्ति नरनारायणावृषी॥ तस्याहमग्रजः पुत्रः सर्वस्य जगतः प्रभुः। वासुदेवोऽर्चनीयो वः सर्वलोकमहेश्वरः॥ तथा मनुष्योऽयमिति कदाचित् सुरसत्तमाः। नात्र ज्ञेयो महावीर्यः शङ्खचक्रगदाधरः॥ एतत् परमकं गुह्यमेतत् परमकं पदम्। एतत् परमकं ब्रह्म एतत् परमकं यशः॥ एतदक्षरमव्यक्तमेतद् वै शाश्वतं महः। यत् तत् पुरुषसंज्ञं वै गीयते ज्ञायते न च॥ एतत् परमकं तेज एतत् परमकं सुखम्। एतत् परमकं सत्यं कीर्तितं विश्वकर्मणा॥ तस्मात् सेन्द्रैः सुरैः सर्वैर्लोकैश्चामितविक्रमः। नावज्ञेयो वासुदेवो मानुषोऽयमिति प्रभुः॥ यश्च मानुशमात्रोऽयमिति ब्रूयात् स मन्दधीः। हृषीकेशमवज्ञानात् तमाहुः पुरुषाधमम्॥ योगिनं तं महात्मानं प्रविष्टं मानुषीं तनुम्। अवमन्येद् वासुदेवं तमाहुस्तामसं जनाः॥ देवं चराचरात्मानं श्रीवत्साङ्कं सुवर्चसम्। पद्मनाभं न जानाति तमाहुस्तामसं बुधाः॥ किरीटकौस्तुभधरं मित्राणामभयंकरम्। अवजानन महात्मानं घोरे तमसि मज्जति॥ एवं विदित्वा तत्त्वार्थं लोकानामीश्वरेश्वरः। वासुदेवो नमस्कार्यः सर्वलोकैः सुरोत्तमाः॥ भीष्म उवाच एवमुक्त्वा स भगवान् देवान् सर्षिगणान् पुरा। विसृज्य सर्वभूतात्मा जगाम भवनं स्वकम्॥ ततो देवाः सगन्धर्वा मुनयोऽप्सरसोऽपि च। कथां तां ब्रह्मणा गीतां श्रुत्वा प्रीता दिवं ययुः॥ एतच्छ्रुतं मया तात ऋषीणां भावितात्मनाम्। वासुदेवं कथयतां समवाये पुरातनम्॥ रामस्य जामदग्न्यस्य मार्कण्डेयस्य धीमतः। व्यासनारदयोश्चापि सकाशाद् भरतर्षभ।॥ एतमर्थं च विज्ञाय श्रुत्वा च प्रभुमव्ययम्। वासुदेवं महात्मानं लोकानामीश्वरेश्वरम्॥ यस्य चैवात्मजो ब्रह्मा सर्वस्य जगत: पिता। कथं न वासुदेवोऽयमय॑श्चेज्यश्च मानवैः॥ वारितोऽसि मया तात मुनिभिवेदपारगैः। मा गच्छ संयुगं तेन वासुदेवेन धन्विना॥ मा पाण्डवैः सार्धमिति तत् त्वं मोहान बुध्यसे। मन्ये त्वां राक्षसं क्रूरं तथा चासि तमोवृतः॥ यस्माद् द्विषसि गोविन्दं पाण्डवं तं धनंजयम्। नरनारायणौ देवौ कोऽन्यो द्विष्याद्धि मानवः॥ तस्माद् ब्रवीमि ते राजन्नेष वै शाश्वतोऽव्ययः। सर्वलोकमयो नित्यः शास्ता धात्रीधरे. ध्रुवः॥ यो धारयति लोकांस्त्रींश्चराचरगुरुः प्रभुः। योद्धा जयश्च जेता च सर्वप्रकृतिरीश्वरः॥ राजन् सर्वमयो ह्येष तमोरागविवर्जितः। यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः॥ तस्य माहात्म्ययोगेन योगेनात्ममयेन च। धृताः पाण्डुसुता राजञ्जयश्चैषां भविष्यति॥ श्रेयोयुक्तां सदा बुद्धिं पाण्डवानां दधाति यः। बलं चैव रणे नित्यं भयेभ्यश्चैव रक्षति॥ स एष शाश्वतो देवः सर्वगुह्यमयः शिवः। वासुदेव इति ज्ञेयो यन्मां पृच्छसि भारत॥ ब्राह्मणैः क्षत्रियैर्वैश्यैः शूदैश्च कृतलक्षणैः। सेव्यतेऽभ्यर्च्यते चैव नित्ययुक्तैः स्वकर्मभिः॥ द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च। सात्वतं विधिमास्थाय गीत: संकर्षणेन वै॥ स एष सर्वं सुरमर्त्यलोकं समुद्रकक्ष्यान्तरितां पुरीं च। युगे युगे मानुषं चैव वासं पुनः पुनः सृजते वासुदेवः॥ भीष्म उवाच शृणु चेदं महाराज ब्रह्मभूतं स्तवं मम। ब्रह्मर्षिभिश्च देवैश्च यः पुरा कथितो भुवि॥ साध्यानामपि देवानां देवदेवेश्वरः प्रभुः। लोकभावनभावज्ञ इति त्वां नारदोऽब्रवीत्॥ भूतं भव्यं भविष्यं च मार्कण्डेयोऽभ्युवाच ह। यज्ञं त्वां चैव यज्ञानां तपश्च तपसामपि॥ देवानामपि देवं च त्वामाह भगवान् भृगुः। पुराणं चैव परमं विष्णो रूपं तवेति च॥ वासुदेवो वसूनां त्वं शक्रं स्थापयिता तथा। देव देवोऽसि देवानामिति द्वैपायनोऽब्रवीत्॥ पूर्वे प्रजानिसर्गे च दक्षमाहुः प्रजापितम्। स्रष्टारं सर्वलोकानामङ्गिरास्त्वां तथाऽब्रवीत्॥ अव्यक्तं ते शरीरोत्थं व्यक्तं ते मनसि स्थितम्। देवास्त्वत्सम्भवाश्चैव देवलस्त्वसितोऽब्रवीत्॥ शिरसा ते दिवं व्याप्तं बाहुभ्यां पृथिवी तथा। जठरं ते त्रयो लोकाः पुरुषोऽसि सनातनः॥ एवं त्वामभिजानन्ति तपसा भाविता नराः। आत्मदर्शनतृप्तानामृषीणां चासि सत्तमः॥ राजर्षीणामुदाराणामाहवेष्वनिवर्तिनाम्। सर्वधर्मप्रधानानां त्वं गतिर्मधुसूदन॥ इति नित्यं योगविद्भिर्भगवान् पुरुषोत्तमः। सनत्कुमारप्रमुखैः स्तूयतेऽभ्यर्च्यते हरिः॥ एष ते विस्तरस्तात संक्षेपश्च प्रकीर्तितः। केशवस्य यथातत्त्वं सुप्रीतो भज केशवम्॥ संजय उवाच पुण्यं श्रुत्वैतदाख्यानं महाराज सुतस्तव। केशवं बहु मेने स पाण्डवांश्च महारथान्॥ तमब्रवीन्महाराज भीष्मः शान्तनवः पुनः। माहात्म्यं ते श्रुतं राजन् केशवस्य महात्मनः॥ नरस्य च यथातत्त्वं यन्मां त्वं पृच्छसे नृप। यदर्थं नृषु सम्भूतौ नरनारायणावृषी॥ अवध्यौ च यथा वीरौ संयुगेष्वपराजितौ। यथा च पाण्डवा राजन्नवध्या युधि कस्यचित्॥ प्रीतिमान् हि दृढं कृष्णः पाण्डवेषु यशस्विषु। तस्माद् ब्रवीमि राजेन्द्र शमो भवतु पाण्डवैः॥ पृथिवीं भुक्ष्व सहितो भ्रातृभिर्बलिभिर्वशी। नरनारायणौ देवाववज्ञाय न शिष्यसि॥ एवमुक्त्वा तव पिता तूष्णीमासीद् विशाम्पते। व्यसर्जयच्च राजान शयनं च विवेश ह॥ राजा च शिबिरं प्रायात् प्रणिपत्य महात्मने। शिश्ये च शयने शुभे रात्रिं तां भरतर्षभ।।२० संजय उवाच व्युषितायां तु शर्वर्यामुदिते च दिवाकरे। उभे सेने महाराज युद्धायैव समीयतुः॥ अभ्यधावन्त संक्रुद्धाः परस्परजिगीषवः। ते सर्वे सहिता युद्धे समालोक्य परस्परम्॥ पाण्डवा धार्तराष्ट्राश्च राजन् दुर्मन्त्रिते तव। व्यूहौ च व्यूह्य संरब्धाः सम्प्रहृष्टाः प्रहारिणः॥ अरक्षन्मकरव्यूह भीष्मो राजन् समन्ततः। तथैव पाण्डवा राजन्नरक्षन् व्यूहमात्मनः॥ स निर्ययौ महाराज पिता देवव्रतस्तव। महता रथवंशेन संवृतो रथिनां वरः॥ इतरेतरमन्वीयुर्यथाभागमवस्थिताः। रथिनः पत्तयश्चैव दन्तिनः सादिनस्तथा॥ तान् दृष्ट्वाभ्युद्यतान् संख्ये पाण्डवा हि यशस्विनः। श्येनेन व्यूहराजेन तेनाजव्येन संयुगे॥ अशोभत मुखे तस्य भीमसेनो महाबलः। नेत्रे शिखण्डी दुर्धर्षो धृष्टद्युम्नश्च पार्षतः॥ शीर्षे तस्याभवद् वीरः सात्यकिः सत्यविक्रमः। विधुन्वन् गाण्डिवं पार्थो ग्रीवायामभवत् तदा॥ अक्षौहिण्या समं तत्र वामपक्षोऽभवत् तदा। महात्मा द्रुपदः श्रीमान् सह पुत्रेण संयुगे।॥ दक्षिणश्चाभवत् पक्षः कैकेयोऽक्षौहिणीपतिः। पृष्ठतो द्रौपदेयाश्च सौभद्रश्चापि वीर्यवान्॥ पृष्ठे समभवच्छ्रीमान् स्वयं राजा युधिष्ठिरः। भ्रातृभ्यां सहितो वीरो यमाभ्यां चारुविक्रमः॥ प्रविश्य त रणे भीमो मकरं मुखतस्तदा। भीष्ममासाद्य संग्रामे च्छादयामास सायकैः॥ ततो भीष्मो महास्त्राणि पातयामास भारत। मोहयन् पाण्डुपुत्राणां व्यूढं सैन्यं महाहवे।॥ सम्मुह्यति तदा सैन्ये त्वरमाणो धनंजयः। भीष्मं शरसहस्रेण विव्याध रणमूर्धनि॥ प्रतिसंवार्य चास्त्राणि भीष्ममुक्तानि संयुगे। स्वेनानीकेन हृष्टेन युद्धाय समुपस्थितः॥ ततो दुर्योधनो राजा भारद्वाजमभाषत। पूर्वं दृष्ट्वा वधं घोरं बलस्य बलिना वरः॥ भ्रातृणां च वधं युद्धे स्मरमाणो महारथः। आचार्य सततं हि त्वं हितकामो ममानघ।॥ वयं हि त्वां समाश्रित्य भीष्मं चैव पितामहम्। देवानपि रणे जेतु प्रार्थयामो न संशयः॥ किमु पाण्डुसुतान् युद्धे हीनवीर्यपराक्रमान्। स तथा कुरु भद्रं ते यथा वध्यन्ति पाण्डवाः॥ द्रोण उवाच बालिशस्त्वं न जानीषे पाण्डवानां पराक्रमम्। न शक्या हि यथा जेतुं पाण्डवा हि महाबलाः॥ यथाबलं यथावीर्यं कर्म कुर्यामहं हि ते। एवमुक्तस्ततो द्रोणस्तव पुत्रेण मारिष। अभिनत् पाण्डवानीकं प्रेक्षमाणस्य सात्यकेः॥ सात्यकिस्तु ततो द्रोणं वारयामास भारत। तयोः प्रववृते युद्धं घोररूपं भयावहम्॥ शैनेयं तु रणे क्रुद्धो भारद्वाजः प्रतापवान्। अविध्यन्निशितैर्बाणैर्जत्रुदेशे हसन्निव॥ भीमसेनस्ततः क्रुद्धो भारद्वाजमविध्यत। संरक्षनं सात्यकि राजन् द्रोणाच्छस्त्रभृतां वरात्॥ ततो द्रोणश्च भीष्मश्च तथा शल्यश्च मारिष। भीमसेनं रणे क्रुद्धाश्छादयांचक्रिरे शरैः॥ तत्राभिमन्युः संक्रुद्धो द्रौपदेयाश्च मारिष। विव्यधुनिशितैर्बाणैः सर्वांस्तानुद्यतायुधान्॥ द्रोणभीष्मौ तु संक्रुद्धावापतन्तौ महाबलौ। प्रत्युद्ययौ शिखण्डी तु महेष्वासो महाहवे॥ प्रगृह्य बलवद् वीरो धनुर्जलदनिःस्वनम्। अभ्यवर्षच्छरैस्तूर्ण छादयानो दिवाकरम्॥ शिखण्डिनं समासाद्य भरतानां पितामहः। अवर्जयत संग्रामं स्त्रीत्वं तस्यानुसंस्मरन्।॥ ततो द्रोणो महाराज अभ्यद्रवत तं रणे। रक्षमाणस्तदा भीष्मं तव पुत्रेण चोदितः॥ शिखण्डी तु समासाद्य द्रोणं शस्त्रभृतां वरम्। अवर्जयत संत्रस्तो युगान्ताग्निमिवोल्बणम्॥ ततो बलेन महता पुत्रस्तव विशाम्पते। जुगोप भीष्मासाद्य प्राथयानो महद् यशः॥ तथैव पाण्डवा राजन् पुरस्कृत्य धनंजयम्। भीष्ममेवाभ्यवर्तन्त जये कृत्वा दृढां मतिम्॥ तद् युद्धमभवद् घोरं देवानां दानवैरिव। जयमाकाङ्क्षतां संख्ये यशश्च सुमहाद्भुतम्॥ संजय उवाच अकरोत् तुमुलं युद्धं भीष्मः शान्तनवस्तदा। भीमसेनभयादिच्छन् पुत्रांस्तारयितुं तव॥ पूर्वाह्ने तन्महारौद्रं राज्ञां युद्धमवर्तत। कुरूणां पाण्डवानां च मुख्यशूरविनाशनम्॥ तस्मिन्नाकुलसंग्रामे वर्तमाने महाभये। अभवत् तुमुलः शब्दः संस्पृशन् गगनं महत्॥ नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः। भेरीशङ्खनिनादैश्च तुमुलं समपद्यत॥ युयुत्सवस्ते विक्रान्ता विजयाय महाबलाः। अन्योन्यमभिगर्जन्तो गोष्ठेष्विव महर्षभाः॥ शिरसां पात्यमानानां समरे निशितैः शरैः। अश्मवृष्टिरिवाकाशे बभूव भरतर्षभ॥ कुण्डलोष्णीषधारीणि जातरूपोज्ज्वलानि च। पतितानि स्म दृश्यन्ते शिरांसि भरतर्षभ॥ विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः। सहस्ताभरणैश्चान्यैरभवच्छादिता मही॥ कवचोपहितैर्गात्रैर्हस्तैश्च समलंकृतैः। मुखैश्च चन्द्रसंकाशै रक्तान्तनयनैः शुभैः॥ गजवाजिमनुष्याणां सर्वगात्रैश्च भूपते। आसीत् सर्वा समास्तीर्णा मुहूर्तेन वसुंधरा॥ रजोमेघैश्च तुमुलैः शस्त्रविद्युत्प्रकाशिभिः। आयुधानां च निर्घोषः स्तनयित्नुसमोऽभवत्।॥ स सम्प्रहारस्तुमुलः कटुकः शोणितोदकः। प्रावर्तत कुरूणां च पाण्डवानां च भारत॥ तस्मिन् महाभये घोरे तुमुले लोमहर्षणे। ववृषुः शरवर्षाणि क्षत्रिया युद्धदुर्मदाः॥ आक्रोशन् कुञ्जरास्तत्र शरवर्षप्रतापिताः। तावकानां परेषां च संयुगे भरतर्षभ॥ संरब्धानां च वीराणां धीराणाममितौजसाम्। धनुातलशब्देन न प्राज्ञायत किंचन॥ उत्थितेषु कबन्धेषु सर्वतः शोणितोदके। समरे पर्यधावन्त नृपा रिपुवधोद्यताः॥ शरशक्तिगदाभिस्ते खड्नेश्चामिततेजसः। निजघ्नुः समरेऽन्योन्यं शूराः परिघबाहवः॥ बभ्रमुः कुञ्जराश्चात्र शरैर्विद्धा निरङ्कुशाः। अश्वाश्च पर्यधावन्त हतारोहा दिशो दश॥ उत्पत्य निपतन्त्यन्ये शरघातप्रपीडिताः। तावकानां परेषां च योधा भरतसत्तम॥ वाहानामुत्तमाङ्गानां कार्मुकाणां च भारत। गदानां परिघाणां च हस्तानां चोरुभिः सह॥ पादानां भूषणानां च केयूराणां च संघशः। राशयस्तत्र दृश्यन्ते भीष्मभीमसमागमे।॥ अश्वानां कुञ्जराणां च रथानां चानिवर्तिनाम्। संघाताः स्म प्रदृश्यन्ते तत्र तत्र विशाम्पते॥ गदाभिरसिभिः प्रासैर्बाणैश्च नतपर्वभिः। जघ्नुः परस्परं तत्र क्षत्रियाः काल आगते॥ अपर गहुभिर्वीरा नियुद्धकुशला युधि। बहुधा सम ज्जन्त आयसैः परिचैरिव॥ मुष्टिभिर्जानुभिश्चैव तलैश्चैव विशाम्पते। अन्योन्यं जजिरे वीरास्तावकाः पाण्डवैः सह॥ पतितैः पात्यमानैश्च विचेष्टद्भिश्च भूतले। घोरमायोधनं जज्ञे तत्र तत्र जनेश्वर॥ विरथा रथिनश्चात्र निस्त्रिंशवरधारिणः। अन्योन्यमभिधावन्तः परस्यरवधैषिणः॥ ततो दुर्योधनो राजा कलिङ्गैर्बहुभिर्वृतः। पुरस्कृत्य रणे भीष्मं पाण्डवानभ्यवर्तत॥ तथैव पाण्डवाः सर्वे परिवार्य वृकोदरम्। भीष्ममभ्यद्रवन् क्रुद्धास्ततो युद्धमवर्तत॥ संजय उवाच दृष्ट्वा भीष्मेण संसक्तान् भ्रातृनन्यांश्च पार्थिवान्। समभ्यधावद् गाङ्गेयमुद्यतास्त्रो धनंजयः॥ पाञ्चजन्यस्य निर्घोषं धनुषो गाण्डिवस्य च। ध्वजं च दृष्ट्वा पार्थस्य सर्वान् नो भयमाविशत्॥ सिंहलाङ्ग्लमाकाशे ज्वलन्तमिव पर्वतम्। असज्जमानं वृक्षेषु धूमकेतुमिवोत्थितम्॥ बहुवर्णं विचित्रं च दिव्यं वानरलक्षणम्। अपश्याम महाराज ध्वजं गाण्डीवधन्वनः॥ विद्युतं मेघमध्यस्थां भ्राजमानामिवाम्बरे। ददृशुर्गाण्डिवं योधा रुक्मपृष्ठं महामृधे॥ अशुश्रुम भृशं चास्य शक्रस्येवाभिगर्जतः। सुघोरं तलयोः शब्दं निघ्नतस्तव वाहिनीम्॥ चण्डवातो यथा मेघः सविद्युत्स्तनयित्नुमान्। दिशः सम्लावयन् सर्वाः शरवर्षैः समन्ततः॥ समभ्यधावद् गाङ्गेयं भैरवास्त्रो धनंजयः। दिशं प्राची प्रतीची च न जानीमोऽस्त्रमोहिताः॥ कांदिग्भूताः श्रान्तपत्रा हताश्वा हतचेतसः। अन्योन्यमभिसंश्लिष्य योधास्ते भरतर्षभ॥ भीष्ममेवाभ्यलीयन्त सह सर्वैस्तवात्मजैः। तेषामार्तायनमभूद् भीष्मः शान्तनवो रणे॥ समुत्पतन्ति वित्रस्ता रथेभ्यो रथिनस्तथा। सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः॥ श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः। सर्वसैन्यानि भीतानि व्यवालीयन्त भारत॥ अथ काम्बोजजैरश्वैर्महद्भिः शीघ्रगामिभिः। गोपानां बहुसाहस्रैर्बलैर्गोपायनैर्वृतः॥ मद्रसौवीरगान्धारैस्त्रैगर्तेश्च विशाम्पते। सर्वकालिङ्गमुख्यैश्च कलिङ्गाधिपतिर्वृतः॥ नानानरगणौघैश्च दुःशासनपुरःसरः। जयद्रथश्च नृपतिः सहितः सर्वराजभिः॥ हयारोहवराश्चैव तव पुत्रेण चोदिताः। चतुर्दश सहस्राणि सौबलं पर्यवारयन्॥ ततस्ते सहिताः सर्वे विभक्तरथवाहनाः। अर्जुनं समरे जघ्नुस्तावका भरतर्षभ॥ रथिभिर्वारणैरश्वैः पादातैश्च समीरितम्। घोरमायोधनं चक्रे महाभ्रसदृशं रजः॥ तोमरप्रासनाराचगजाश्वरथयोधिनाम्। बलेन महता भीष्मः समसज्जत् किरीटिना॥ आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः। अजातशत्रुर्मद्राणामृषभेण यशस्विना॥ सहपुत्रः सहामात्यः शल्येन समसज्जत। विकर्णः सहदेवेन चित्रसेनः शिखण्डिना॥ मत्स्या दुर्योधनं जग्मुःशकुनिं च विशाम्पते। द्रुपदश्चैकितानश्च सात्यकिश्च महारथः॥ द्रोणेन समसज्जन्त सपुत्रेण महात्मना। कृपश्च कृतवर्मा च धृष्टद्युम्नमभिद्रुतौ।२३।। एवं प्रव्रजिताश्वानि भ्रान्तनागरथानि च। सैन्यानि समसज्जन्त प्रयुद्धानि समन्ततः॥ निरभ्रे विद्युतस्तीवा दिशश्च रजसाऽऽवृताः। प्रादुरासन् महोल्काश्च सनिर्घाता विशाम्पते।॥ प्रादुर्भूतो महावातः पांसुवर्षे पपात च। नभस्यन्तर्दधे सूर्यः सैन्येन रजसाऽऽवृतः॥ प्रमोहः सर्वसत्त्वानामतीव समपद्यत। रजसा चाभिभूतानामस्त्रजालैश्च तुद्यताम्॥ वीरबाहुविसृष्टानां सर्वावरणभेदिनाम्। संघात: शरजालानां तुमुल: समपद्यत॥ प्रकाशं चक्रुराकाशमुद्यतानि भुजोत्तमैः। नक्षत्रविमलाभानि शस्त्राणि भरतर्षभ॥ आर्षभाणि विचित्राणि रुक्मजालावृतानि च। सम्पेतुर्दिक्षु सर्वासु चर्माणि भरतर्षभ॥ सूर्यवर्णैश्च निस्त्रिशैः पात्यमानानि सर्वशः। दिक्षु सर्वास्वदृश्यन्त शरीराणि शिरांसि च॥ भग्नचक्राक्षनीडाश्च निपातितमहाध्वजाः। हताश्वाः पृथिवी जग्मुस्तत्र तत्र महारथाः॥ परिपेतुर्हयाश्चात्र केचिच्छस्त्रकृतव्रणाः। रथान् विपरिकर्षन्तो हतेषु रथयोधिषु॥ शराहता भिन्नदेहा बद्धयोक्त्रा हयोत्तमाः। युगानि पर्यकर्षन्त तत्र तत्र स्म भारत॥ अदृश्यन्त ससूताश्च साश्वाः सरथयोधिनः। एकेन बलिना राजन् वारणेन विमर्दिताः॥ गन्धहस्तिमदस्रावमाघ्राय बहवो रणे। संनिपाते बलौघानां वीतमाददिरे गजाः॥ सतोमरैर्महामात्रैर्निपतद्भिर्गतासुभिः। बभूवायोधनं छन्नं नाराचाभिहतैर्गजैः॥ संनिपाते बलौघानां प्रेषितैर्वरवारणैः। निपेतुर्यधि सम्भग्नाः सयोधाः सध्वजा गजाः॥ नागराजोपमैर्हस्तै गैराक्षिप्य संयुगे। व्यदृश्यन्त महाराज सम्भग्ना रथकूबराः॥ विशीर्णरथसंघाश्च केशेश्वाक्षिप्य दन्तिभिः। द्रुमशाखा इवाविध्य निष्पिष्टा रथिनो रणे॥ रथेषु च रथान् युद्धे संसक्तान् वरवारणाः। विकर्षन्तो दिशः सर्वाः सम्पेतुः सर्वशब्दगाः॥ तेषां तथा कर्षतां तु गजानां रूपमावभौ। सरःसु नलिनीजालं विषक्तमिव कर्षताम्॥ एवं संछादितं तत्र बभूवायोधनं महत्। सादिभिश्च पदातैश्च सध्वजैश्च महारथैः॥ संजय उवाच शिखण्डी सह मत्स्येन विराटेन विशाम्पते। भीष्ममाशु महेष्वासमाससाद सुदुर्जयम्॥ द्रोणं कृपं विकर्णं च महेष्वासं महाबलम्। राज्ञश्चान्यान् रणे शूरान् बहूना द् धनंजयः॥ सैन्धवं च महेष्वासं सामात्यं सह बन्धुभिः। प्राच्यांश्च दाक्षिणात्यांश्च भूमिपान् भूमिपर्षभ॥ पुत्रं च ते महेष्वासं दुर्योधनममर्षणम्। दुःसहं चैव समरे भीमसेनोऽभ्यवर्तत॥ सहदेवस्तु शकुनिमुलूकं च महारथम्। पितापुत्रौ महेष्वासावभ्यवर्तत दुर्जयौ॥ युधिष्ठिरो महाराज गजानीकं महारथः। समवर्तत संग्रामे पुत्रेण निकृतस्तव॥ माद्रीपुत्रस्तु नकुलः शूरसंक्रन्दनो युधि। त्रिगर्तानां बलैः सार्धं समसज्जत पाण्डवः॥ अभ्यवर्तन्त संक्रुद्धाः समरे शाल्वकेकयान्। सात्यकिश्शेकितानश्च सौभद्रश्च महारथः॥ धृष्टकेतुश्च समरे राक्षसश्च घटोत्कचः। (नाकुलिश्च शतानीकः समरे रथपुङ्गवः।) पुत्राणां ते रथानीकं प्रत्युद्याताः सुदुर्जयाः॥ सेनापतिरमेयात्मा धृष्टद्युम्नो महाबलः। द्रोणेन समरे राजन् समियायोचकर्मणा॥ एवमेते महेष्वासास्तावकाः पाण्डवैः सह। समेत्य समरे शूरः सम्प्रहारं प्रचक्रिरे॥ मध्यंदिनगते सूर्ये नभस्याकुलतां गते। कुरवः पाण्डवेयाश्च निजघ्नुरितरेतरम्॥ ध्वजिनो हेमचित्राङ्गा विचरन्तो रणाजिरे। सपताका रथा रेजुर्वैयाघ्रपरिवारणाः॥ समेतानां च समरे जिगीषूणां परस्परम्। बभूव तुमुलः शब्दः सिंहानामिव नर्दताम्॥ तत्राद्भुतमपश्याम सम्प्रहारं सुदारुणम्। यदकुर्वन् रणे शूराः संजयाः कुरुभिः सह॥ नैव खं न दिशो राजन् न सूर्यं शत्रुतापन। विदिशो वाऽपि पश्यामः शरैर्मुक्तैः समन्ततः॥ शक्तीनां विमलाचाणां तोमराणां तथाऽस्यताम्। निस्त्रिंशानां च पीतानां नीलोत्पलनिभाः प्रभाः॥ कवचानां विचित्राणां भूषणानां प्रभास्तथा। खं दिशः प्रदिशश्चैव भासयामासुरोजसा॥ वपुर्भिश्च नरेन्द्राणां चन्द्रसूर्यसमप्रभैः। विरराज तदा राजंस्तत्र तत्र रणाङ्गणम्॥ रथसङ्घा नरव्याघ्राः समायान्तश्च संयुगे। विरेजुः समरे राजन् ग्रहा इव नभस्तले॥ भीष्मस्तु रथिनां श्रेष्ठो भीमसेन महाबलम्। अवारयत संक्रुद्धः सर्वसैन्यस्य पश्यतः॥ ततो भीष्मविनिर्मुक्तारुक्मपुङ्खाः शिलाशिताः। अभ्यघ्नन् समरे भीमं तैलधौताः सुतेजनाः॥ तस्य शक्तिं महावेगां भीमसेनो महाबलः। क्रुद्धाशीविषसंकाशां प्रेषयामास भारत॥ तामापतन्ती सहसा रुक्मदण्डां दुरासदाम्। चिच्छेद समरे भीष्मः शरैः संनतपर्वभिः॥ ततोऽपरेण भल्लेन पीतेन निशितेन च। कार्मुकं भीमसेनस्य द्विधा चिच्छेद भारत॥ सात्यकिस्तु ततस्तूर्णं भीष्ममासाद्य संयुगे। आकर्णप्रहितैस्तीक्ष्णैनिशितैस्तिग्मतेजनैः।। :॥ शरैर्बहुभिरानछेत् पितरं ते जनेश्वर। ततः संधाय वै तीक्ष्णं शरं परमदारुणम्॥ वार्ष्णेयस्य रथाद् भीष्मः पातयामास सारथिम्। तस्याश्वाः प्रद्रुता राजन् निहते रथसारथौ।॥ तेन तेनैव धावन्ति मनोमारुतरंहसः। ततः सर्वस्य सैन्यस्य निस्वनस्तुमुलोऽभवत्॥ हाहाकारश्च संजज्ञे पाण्डवानां महात्मनाम्। अभ्यद्रवत गृह्णीत हयान् यच्छत धावत।॥ इत्यासीत् तुमुलः शब्दो युयुधानरथं प्रति। एतस्मिन्नेव काले तु भीष्मः शान्तनवस्तदा॥ न्यहनत् पाण्डवीं सेनामासुरीमिव वृत्रहा। ते वध्यमाना भीष्मेण पञ्चाला: सोमकैः : सह॥ स्थिरां युद्धे मतिं कृत्वा भीष्ममेवाभिदुद्रुवुः। धृष्टद्युम्नमुखाश्चापि पार्थाः शान्तनवं रणे॥ अभ्यधावञ्जिगीषन्तस्तव पुत्रस्य वाहिनीम्। तथैव कौरवा राजन् भीष्मद्रोणपुरोगमाः॥ अभ्यधावन्त वेगेन ततो युद्धमवर्तत॥ संजय उवाच विराटोऽथ त्रिभिर्बाणैर्भीष्ममार्छन्महारथम्। विव्याध तुरगांश्चास्य त्रिभिर्बाणैर्महारथः॥ तं प्रत्यविध्यद् दशभिर्भीष्मः शान्तनवः शरैः। रुक्मपुजैर्महेष्वासः कृतहस्तो महाबलः॥ द्रौणिर्गाण्डीवधन्वानं भीमधन्वा महारथः। अविध्यदिषुभिः षड्भिर्दृढहस्तः स्तनान्तरे॥ कार्मुकं तस्य चिच्छेद फाल्गुनः परवीरहा। अविध्यच्च भृशं तीक्ष्णैः पत्रिभिः शत्रुकर्शनः॥ सोऽन्यत् कार्मुकमादाय वेगवान् क्रोधमूर्च्छितः। अमृष्यमाणः पार्थेन कार्मुकच्छेदमाहवे॥ अविध्यत् फाल्गुनं राजन् नवत्या निशितैः शरैः। वासुदेवं च सप्तत्या विव्याध परमेषुभिः॥ ततः क्रोधाभिताम्राक्षः कृष्णेन सह फाल्गुनः। दीर्घमुष्णं च नि:श्वस्य चिन्तयित्वा पुनः पुनः॥ धनुः प्रपीड्य वामन करेणामित्रकर्शनः। गाण्डीवधन्वा संक्रुद्धः शितान् संनतपर्वणः॥ जीवितान्तकरान् घोरान् समादत्त शिलीमुखान्। तैस्तूर्णं समरेऽविध्यद् द्रौणि बलवतां वरः॥ तस्य ते कवचं भित्त्वा पपुः शोणितमाहवे। न विव्यथे च निर्भिन्नो द्रोणिर्गाण्डीवधन्वना॥ तथैव च शरान् द्रौणिः प्रविमुञ्चन्नविह्वलः। तस्थौ स समरे राजंस्त्रातुमिच्छन् महाव्रतम्॥ तस्य तत् सुमहत् कर्म शशंसुः कुरुसत्तमाः। यत् कृष्णाभ्यां समेताभ्यामभ्यापतत संयुगे॥ स हि नित्यमनीकेषु युध्यतेऽभयमास्थितः। अस्त्रग्रामं ससंहारं द्रोणात् प्राप्य सुदुर्लभम्॥ ममैष आचार्यसुतो द्रोणस्यापि प्रियः सुतः। ब्राह्मणश्च विशेषेण माननीयो ममेति च॥ समास्थाय मतिं वीरो बीभत्सुः शत्रुतापनः। कृपां चक्रे रथश्रेष्ठो भारद्वाजसुतं प्रति॥ द्रौणिं त्यक्त्वा ततौ युद्धे कौन्तेयः श्वेतवाहनः। युयुधे तावकान् निदर्नस्त्वरमाणः पराक्रमीः॥ दुर्योधनस्तु दशभिर्गार्धपत्रैः शिलाशितैः। भीमसेनं महेष्वासं रुक्मपुङ्खः समार्पयत्॥ भीमसेनः सुसंक्रुद्धः परासुकरणं दृढम्। चित्रं कार्मुकमादत्त शरांश्च निशितान् दश॥ आकर्णप्रहितैस्तीक्ष्णैर्वेगवद्भिरजिह्मगैः। अविध्यत् तूर्णमव्यग्रः कुरुराज महोरसि॥ तस्य काञ्चनसूत्रस्थः शरैः संछादितो मणिः। रराजोरसि खे सूर्यो ग्रहैरवि समावृतः॥ पुत्रस्तु तव तेजस्वी भीमसेनेन पाडितः। नामृष्यत यथा नागस्तलशब्दं मदोत्कटः॥ ततः शरैर्महाराज रुक्मपुजैः शिलाशितैः। भीमं विव्याध संक्रुद्धस्त्रासयानो वरूथिनीम्॥ तौ युध्यमानौ समरे भृशमन्योन्यविक्षतौ। पुत्रौ ते देवसंकाशौ व्यरोचेतां महाबलौ॥ चित्रसेनं नरव्याघ्रं सौभद्रः परवीरहा। अविध्यद् दशभिर्बाणैः पुरुमित्रं च सप्तभिः॥ सत्यव्रतं च सप्तत्या विद्ध्वा शक्रसमो युधि। नृत्यन्निव रणे वीर आर्तिं नः समजीजनत्॥ तं प्रत्यविध्यद् दशभिश्चित्रसेन: शिलीमुखैः। सत्यव्रतश्च नवभिः पुरुमित्रश्च सप्तभिः॥ स विद्धो विक्षरन् रक्तं शत्रुसंवारणं महत्। चिच्छेद चित्रसेनस्य चित्रं कार्मुकमार्जुनिः॥ भित्त्वा चास्य तनुत्राणं शरैणोरस्यताडयत्। ततस्ते तावका वीरा राजपुत्रा महारथाः॥ समेत्य युधि संरब्धा विव्यधुनिशितैः शरैः। तांश्च सर्वाशरैस्तीक्ष्णैर्जघान परमास्त्रवित्॥ तस्य दृष्ट्वा तु तत् कर्म परिवठ्ठः सुतास्तव। दहन्तं समरे सैन्यं वने कक्षं यथोल्बणम्॥ अपेतशिशिरे काले समिद्धमिव पावकम्। अत्यरोचत सौभद्रस्तव सैन्यानि नाशयन्॥ तत् तस्य चरितं दृष्ट्वा पौत्रस्तव विशाम्पते। लक्ष्मणोऽभ्यपतत् तूर्णं सात्वतीपुत्रमाहवे॥ अभिमन्युस्तु संक्रुद्धो लक्ष्मणं शुभलक्षणम्। विव्याध निशितैः षड्भिः सारथिं च त्रिभिः शरैः।।३३। तथैव लक्ष्मणो राजन् सौभद्रं निशितैः शरैः। अविध्यत महाराज तदद्भुतमिवाभवत्॥ तस्याश्वांश्चतुरो हत्वा सारथिं च महाबलः। अभ्यद्रवत सौभद्रो लक्ष्मणं निशितैः शरैः॥ हताश्वे तु रथे तिष्ठंल्लक्ष्मणः परवीरहा। शक्तिं चिक्षेप संक्रुद्धः सौभद्रस्य रथं प्रति॥ तामापतन्ती सहसा घोररूपां दुरासदाम्। अभिमन्युः शरैस्तीक्ष्णैश्चिच्छेद भुजगोपमाम्॥ ततः स्वरथमारोप्य लक्ष्मणं गौतमस्तदा। अपोवाह रथेनाजौ सर्वसैन्यस्य पश्यतः॥ ततः समाकुले तस्मिन् वर्तमाने महाभये। अभ्यद्रवञ्जिघांसन्तः परस्परवधैषिणः॥ तावकाश्च महेष्वासाः पाण्डवाश्च महारथाः। जुह्वन्तः समरे प्राणान् निजप्नुरितरेतरम्॥ मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः। बाहुभिः समयुध्यन्त संजयाः कुरुभिः सह॥ ततो भीष्मो महाबाहुः पाण्डवानां महात्मनाम्। सेनां जघान संक्रुद्धो दिव्यैरस्त्रैर्महाबलः॥ हतैरश्वैर्गजैस्तत्र नरैरश्चैश्च पातितः। रथिभिः सादिभिश्चैव समास्तीर्यत मेदिनी॥ संजय उवाच अथ राजन् महाबाहुः सात्यकिर्युद्धदुर्मदः। विकृष्य चापं समरे भारसाहमनुत्तमम्॥ प्रामुञ्चत् पुखसंयुक्ताशरानाशीविषोपमान्। प्रगाढं लघु चित्रं च दर्शयन् हस्तलाघवम्॥ तस्य विक्षिपतचापं शरानन्यांश्च मुञ्चतः। आददानस्य भूयश्च संदधानस्य चापरान्॥ क्षिपतश्च परांस्तस्य रणे शत्रून् विनिघ्नतः। ददृशे रूपमत्यर्थं मेघस्येव प्रवर्षतः॥ तमुदीर्यन्तमालोक्य राजा दुर्योधनस्ततः। स्थानामयुतं तस्य प्रेषयामास भारत।।५। तांस्तु सर्वान् महेष्वासान् सात्यकिः सत्यविक्रमः। जघान परमेष्वासो दिव्येनास्त्रेण वीर्यवान्।॥ स कृत्वा दारुणं कर्म प्रगृहीतशरासनः। आससाद ततो वीरो भूरिश्रवसमाहवे॥ स हि संदृश्य सेनां ते युयुधानेन पातिताम्। अभ्यधावत संक्रुद्धः कुरूणां कीर्तिवर्धनः॥ इन्द्रायुधसवर्णं तु विस्फार्य सुमहद् धनुः। सृष्टवान् वज्रसंकाशाशरानाशीविषोपमान्॥ सहस्रशो महाराज दर्शयन् पाणिलाघवम्। शरांस्तान् मृत्युसंस्पर्शान् सात्यकेश्च पदानुगाः॥ न विषेहुस्तदा राजन् दुद्रुवुस्ते समन्ततः। विहाय सात्यकि राजन् समरे युद्धदुर्मदम्॥ तं दृष्ट्वा युयुधानस्य सुता दश महाबलाः। महारथाः सभाख्याताश्चित्रवर्मायुधध्वजाः॥ समासाद्य महेष्वासं भूरिश्रवसमाहवे। ऊचुः सर्वे सुसंरब्धा यूपकेतुं महारणे॥ भो भोः कौरवदायाद सहास्माभिर्महाबल। एहि युध्यस्व संग्रामे समस्तैः पृथगेव वा॥ अस्मान् वा त्वं पराजित्य यशः प्राप्नुहि संयुगे। वयं वा त्वां पराजित्य प्रीतिं धास्यामहे पितुः॥ एवमुक्तस्तदा शूरैस्तानुवाच महाबलः। वीर्यश्लाघी नरश्रेष्ठस्तान् दृष्ट्वा समवस्थितान्॥ साध्विदं कथ्यते वीरा यद्येवं पतिरद्य वः। युध्यध्वं सहिता यत्ता निहनिष्यामि वो रणे॥ एवमुक्ता महेष्वासास्ते वीराः क्षिप्रकारिणः। महता शरवर्षेण अभ्यधावन्नरिंदमम्॥ सोऽपराह्ने महाराज संग्रामस्तुमुलोऽभवत्। एकस्य च बहूनां च समेतानां रणाजिरे॥ तमेकं रथिनां श्रेष्ठं शरैस्ते समवाकिरन्। प्रावृषीव यथा मेरुं सिषिचुर्जलदा नृप॥ तैस्तु मुक्ताशरान् घोरान् यमदण्डाशनिप्रभान्। असम्प्राप्तानसम्भ्रान्तश्चिच्छेदाशु महारथः॥ तत्राद्भुतमपश्याम सौमदत्तेः पराक्रमम्। यदेको बहुभिर्युद्धे समसज्जदभीतवत्॥ विसृज्य शरवृष्टिं तां दश राजन् महारथाः। परिवार्य महाबाहुं निहन्तुमुपचक्रमुः॥ सौमदत्तिस्ततः क्रुद्धस्तेषां चापानि भारत। चिच्छेद समरे राजन् युध्यमानो महारथैः॥ अथैषां छिन्नधनुषां शरैः संनतपर्वभिः। चिच्छेद समरे राजशिरांसि भरतर्षभ।॥ ते हता न्यपतन् राजन् वज्रभग्ना इव दुमाः। तान् दृष्ट्वा निहतान् वीरो रणे पुत्रान् महाबलान्।॥ वार्ष्णेयो विनदन् राजन् भूरिश्रवसमभ्ययात्। रथं रथेन समरे पीडयित्वा महाबलौ॥ तावन्योन्यं हि समरे निहत्य रथवाजिनः। विरथावभिवल्गन्तौ समेयातां महारथौ॥ प्रगृहीतमहाखड्गौ तौ चर्मवरधारिणौ। शुशुभाते नरव्याघ्रौ युद्धाय समवस्थितौ॥ ततः सात्यकिमभ्येत्य निस्त्रिंशवरधारिणम्। भीमसेनस्त्वरन् राजन् रथमारोपयत् तदा॥ तवापि तनयो राजन् भूरिश्रवसमाहवे। आरोपयद् रथं तूर्णं पश्यतां सर्वधन्विनाम्॥ तस्मिंस्तथा वर्तमाने रणे भीष्मं महारथम्। अयोधयन्त संरब्धाः पाण्डवा भरतर्षभ॥ लोहितायति चादित्ये त्वरमाणो धनंजयः। पञ्चविंशतिसाहस्रान् निजघान महारथान्॥ ते हि दुर्योधनादिष्टास्तदा पार्थनिबर्हणे। सम्प्राप्यैव गता नाशं शलभा इव पारकम्॥ ततो मत्स्याः केकयाश्च धनुर्वेदविशारदाः। परिवत्रुस्तदा पार्थं सहपुत्रं महारथम्॥ एतस्मिन्नेव काले तु सूर्येऽस्तमुपगच्छति। सर्वेषां चैव सैन्यानां प्रमोहः समजायत॥ अवहारं ततश्चकेनं पिता देवव्रतस्तव। संध्याकाले महाराज सैन्यानां श्रान्तवाहनः॥ पाण्डवानां कुरूणां च परस्परसमागमे। ते सेने भृशसंविग्ने ययतुः स्वं निवेशनम्॥ ततः स्वशिबिरं गत्वा न्यविशंस्तत्र भारत। पाण्डवाः संजयैः सार्धं कुरवश्च यथाविधि॥ संजय उवाच ते विश्रम्य ततो राजन् सहिताः कुरुपाण्डवाः। व्यतीतायां तु शर्वर्यां पुनर्युद्धाय निर्ययुः॥ तत्र शब्दो महानासीत् तव तेषां च भारत। युज्यतां रथमुख्यानां कल्प्यतां चैव दन्तिनाम्॥ संनह्यतां पदातीनां हयानां चैव भारत। शङ्खदुन्दुभिनादश्च तुमुलः सर्वतोऽभवत्॥ ततो युधिष्ठिरो राजा धृष्टद्युम्नमभाषत। व्यूहं व्यूह महाबाहो मकरं शत्रुनाशनम्॥ एवमुक्तस्तु पार्थेन धृष्टद्युम्नो महारथः। व्यादिदेश महाराज रथिनो रथिनां वरः॥ शिरोऽभूद् दुपदस्तस्य पाण्डवश्च धनंजयः। चक्षुषी सहदेवश्च नकुलश्च महारथः॥ तुण्डमासीन्महाराज भीमसेनो महाबलः। सौभद्रो द्रौपदेयाश्च राक्षसश्च घटोत्कचः॥ सात्यकिधर्मराजश्च व्यूहग्रीवां समास्थिताः। पृष्ठमासीन्महाराज विराटो वाहिनीपतिः॥ धृष्टद्युम्नेन सहितो महत्या सेनयावृतः। केकया भ्रातरः पञ्च वामपार्श्व समाश्रिताः॥ धृष्टकेतुर्नरव्याघ्रश्चेकितानश्च वीर्यवान्। दक्षिणं पक्षमाश्रित्य स्थितौ व्यूहस्य रक्षणे॥ पादयोस्तु महाराज स्थितः श्रीमान् महारथः। कुन्तिभोजः शतानीको महत्या सेनया वृतः॥ शिखण्डी तु महेष्वासः सोमकैः संवृतो बली। इरावांश्च ततः पुच्छे मकरस्य व्यवस्थितौ॥ एवमेतं महाव्यूह व्यूह्य भारत पाण्डवाः। समुच्छ्रितैर्ध्वजैश्छत्रैः शस्त्रैश्च विमलैः शितैः॥ कौरवानभ्ययुस्तूर्ण हस्त्यश्वरथपत्तिभिः। समुच्छ्रितैर्ध्वजैश्छत्रैः शस्त्रैश्च विमलैः शितैः॥ व्यूढं दृष्ट्वा तु तत् सैन्यं पिता देवव्रतस्तव। क्रौञ्चैन महता राजन् प्रत्यव्यूहत वाहिनीम्॥ तस्य तुण्डे महेष्वासो भारद्वाजो व्यरोचत। अश्वत्थामा कृपश्चैव चक्षुरासीन्नरेश्वर।॥ कृतवर्मा तु सहितः काम्बोजवरबाह्निकैः। शिरस्यासीन्नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम्॥ ग्रीवायं शूरसेनश्च तव पुत्रश्च मारिष। दुर्योधनो महाराज राजभिर्बहुभिर्वृतः॥ प्राग्ज्योतिषस्तु सहितो मद्रसौवीरकेकयैः। उरस्यभून्नरश्रेष्ठ महत्या सेनया वृतः॥ स्वसेनया च सहितः सुशर्मा प्रस्थलाधिपः। वामपक्षं समाश्रित्य दंशितः समवस्थितः॥ तुषारा यवनाश्चैव शकाश्च सह चूचुपैः। दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य भारत॥ श्रुतायुश्च शतायुश्च सौमदत्तिश्च मारिष। व्यूहस्य जघने तस्थू रक्षमाणाः परस्परम्॥ ततो युद्धाय संजग्मुः पाण्डवाः कौरवैः सह। सूर्योदये महाराज ततो युद्धमभून्महत्॥ प्रतीयू रथिनो नागा नागांश्च रथिनो ययुः। हयारोहान् रथारोहा रथिनश्चापि सादिनः॥ सादिनश्च हयान् राजन् रथिनश्च महारणे। हस्त्यारोहान् हयारोहा रथिनः सादिनस्तथा॥ रथिनः पत्तिभिः सार्धं सादिनचापि पत्तिभिः। अन्योन्यं समरे राजन् प्रत्यधावन्नमर्षिताः॥ भीमसेनार्जुनमैगुप्ता चान्यैर्महारथैः। शुशुभे पाण्डवी सेना नक्षत्रैरिव शर्वरी॥ तथा भीष्मकृपद्रोणशल्यदुर्योधनादिभि। तवापि च वभौ सेना ग्रहैद्यौरिव संवृता॥ भीमसेनस्तु कौन्तेयो द्रोणं दृष्ट्वा पराक्रमी। अभ्ययाज्जवनैरश्वैर्भारद्वाजस्य वाहिनीम्॥ द्रोणस्तु समरे क्रुद्धो भीमं नवभिरायसैः। विव्याध समरश्लाघी मर्माण्युद्दिश्य वीर्यवान्॥ दृढाहतस्ततो भीमो भारद्वाजस्य संयुगे। सारथिं प्रेषयामास यमस्य सदनं प्रति॥ स संचह्य स्वयं वाहान् भारद्वाजः प्रतापवान्। व्यधमत् पाण्डवीं सेनां तूलराशिमिवानलः॥ ते वध्यमाना द्रोणेन भीष्मेण च नरोत्तमाः। सृञ्जयाः केकयैः सार्धं पलायनपराऽभवन्।॥ तथैव तावकं सैन्यं भीमार्जुनपरिक्षतम्। मुह्यते तत्र तत्रैव समदेव वराङ्गना॥ अभिद्येतां ततो व्यूहौ तस्मिन् वीरवरक्षये। आसीद् व्यतिकरो घोरस्तव तेषां च भारत॥ तदद्भुतमपश्याम तावकानां परैः सह। एकायनगताः सर्वे यदयुध्यन्त भारत॥ प्रतिसंवार्य चास्त्राणि तेऽन्योन्यस्य विशाम्पते। युयुधुः पाण्डवाश्चैव कौरवाश्च महाबलाः॥ धृतराष्ट्र उवाच एवं बहुगुणं सैन्यमेवं बहुविधं पुरा। व्यूढमेवं यथाशास्त्रममोघं चैव संजय॥ हृष्टमस्माकमत्यन्तमभिकामं च नः सदा। प्रह्वमव्यसनोपेतं पुरस्ताद् दृष्टविक्रमम्॥ नातिवृद्धमबालं च न कृशं न च पीवरम्। लघुवृत्तायतप्रायं सारयोधमनामयम्॥ आत्तसंनाहशस्त्रं च बहुशस्त्रपरिग्रहम्। असियुद्धे नियुद्धे च गदायुद्धे च कोविदम्॥ प्रासर्धितोमरेष्वाजौ परिघेष्वायसेषु च। भिन्दिपालेषु शक्तीषु मुसलेषु च सर्वशः॥ कम्पनेषु च चापेषु कणपेषु च सर्वशः। क्षेपणीयेषु चित्रेषु मुष्टयुद्धेषु च क्षमम्॥ अपरोक्षं च विद्यासु व्यायामे च कृतश्रमम्। शस्त्रग्रहणविद्यासु सर्वासु परिनिष्ठितम्॥ आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते। सम्यक् प्रहरणे याने व्यपयाने च कोविदम्॥ नागाश्वरथयानेषु बहुशः सुपरीक्षितम्। परीक्ष्य च यथान्यायं वेतनेनोपपादितम्॥ न गोष्ठ्या नोपकारेण न च बन्धुनिमित्ततः। न सौहृदबलैर्वापि नाकुलीनपरिग्रहै: :॥ समृद्धजनमार्यं च तुष्टसम्बन्धिबान्धवम्। कृतोपकारभूयिष्ठं यशस्वि च मनस्वि च॥ स्वजनैस्तु नरैर्मुख्यैर्बहुशो दृष्टकर्मभिः। लोकपालोपमैस्तात पालितं लोकविश्रुतम्॥ बहुभिः क्षत्रियैर्गुप्तं पृथिव्यां लोकसम्मतैः। अस्मानभिगतैः कामात् सबलैः सपदानुगैः॥ महोदधिमिवापूर्णमापगाभिः समन्ततः। अपक्षैः पक्षिसंकाशै रथै गैश्च संवृतम्॥ नानायोधजलं भीमं वाहनोर्मितरङ्गिणम्। क्षेपण्यसिगदाशक्तिशरप्राससमाकुलम्॥ ध्वजभूषणसम्बाधं रत्नपट्टसुसंचितम्। परिधावद्भिरश्वैश्च वायुवेगविकम्पितम्॥ अपारमिव गर्जन्तं सागरप्रतिमं महत्। द्रोणभीष्माभिसंगुप्तं गुप्तं च कृतवर्मणा॥ कृपदुःशासनाभ्यां च जयद्रथमुखैस्तथा। भगदत्तविकर्णाभ्यां द्रौणिसौबलबाह्निकैः॥ गुप्तं प्रवीरैलॊकैश्च सारवद्भिर्महात्मभिः। यदहन्यत संग्रामे दैवमत्र पुरातनम्॥ नैतादृशं समुद्योगं दृष्टवन्तो हि मानुषाः। ऋषयो वा महाभागाः पुराणा भुवि संजय॥ ईदृशोऽपि बलौघस्तु संयुक्तः शस्त्रसम्पदा। वध्यते यत्र संग्रामे किमन्यद् भागधेयतः॥ विपरीतमिदं सर्वं प्रतिभाति हि संजय। यत्रेदृशं बलं घोरं पाण्डवान्नातरद् रणे॥ पाण्डवाार्थाय नियतं देवास्तत्र समागताः। युध्यन्ते मामकं सैन्यं यथाऽध्यत संजय॥ उक्तो हि विदुरेणाहं हितं पथ्यं च नित्यशः। न च जग्राहः तन्मन्दः पुत्रो दुर्योधनो मम॥ तस्य मन्ये मतिः पूर्वं सर्वज्ञस्य महात्मनः। आसीद् यथागतं तात येन दृष्टमिदं पुरा॥ अथवा भाव्यमेवं हि संजयैतेन सर्वथा। पुरा धात्रा यथा सृष्टं तत् तथा नैतदन्यथा॥ संजय उवाच आत्मदोषात् राजन् प्राप्तं व्यसनमीदृशम्। न हि दुर्योधनस्तानि पश्यते भरतर्षभ।॥ यानि त्वं दृष्टवान् राजन् धर्मसंकरकारिते। तव दोषात् पुरा वृत्तं द्यूतमेव विशाम्पते॥ तव दोषेण युद्धं च प्रवृत्तं सह पाण्डवैः। त्वमेवाद्य फलं भुक्षे कृत्वा किल्बिषमात्मना॥ आत्मनैव कृतं कर्म आत्मनैवोपभुज्यते। इह च प्रेत्य वा राजंस्त्वया प्राप्तं यथातथम्॥ तस्माद् राजन् स्थिरो भूत्वा प्राप्येदं व्यसनं महत्। शृणु युद्धं यथावृत्तं शंसती मे नराधिप।॥ भीमसेनः सुनिशितैर्वाणैर्भित्त्वा महाचमूम्। आससाद ततो वीरः सर्वान् दुर्योधनानुजान्॥ दुःशासनं दुर्विषहं दुःसहं दुर्मदं जयम्। जयत्सेनं विकर्णं च चित्रसेनं सुदर्शनम्॥ चारुचित्रं सुवर्माणं दुष्कर्णं कर्णमेव च। एतांश्चान्यांश्च सुबहून् समीपस्थान् महारथान्॥ धार्तराष्ट्रान् सुसंक्रुद्धान् दृष्ट्वा भीमो महारथः। भीष्मेण समरे गुप्तां प्रविवेश महाचमूम्॥ अथालोक्य प्रविष्टं तमूचुस्ते सर्व एव तु। जीवग्राहं निगृह्णीमो वयमेनं नराधिपाः॥ स तैः परिवृतः पार्थो भ्रातृभिः कृतनिश्चयैः। प्रजासंहरणे सूर्यः क्रूरैरिव महाग्रहैः॥ सम्प्राप्यमध्यं सैन्यस्य न भीः पाण्डवमाविशत्। यथा देवासुरे युद्धे महेन्द्रं प्राप्य दानवान्॥ ततः शतसहस्राणि रथिनां सर्वशः प्रभो। उद्यतानि शरैस्तीद्वैस्तमेकं परिवविरे॥ स तेषां प्रवरान् योधान् हस्त्यश्वरथसादिनः। जघान समरे शूरो धार्तराष्ट्रानचिन्तयन्।॥ तेषां व्यवसितं ज्ञात्वा भीमसेनो जिघृक्षताम्। समस्तानां वधे राजन् मतिं चक्रे महामनाः॥ ततो रथं समुत्सृज्य गदामादायें पाण्डवः। जघान धार्तराष्ट्राणां तं बलौघं महार्णवम्॥ भीमसेने प्रविष्टे तु धृष्टद्युम्नोऽपि पार्षतः। द्रोणमुत्सृज्य तरसा प्रययौ यत्र सौबलः॥ निवार्य महतीं सेनां तावकानां नरर्षभः। आससाद रथं शून्यं भीमसेनस्य संयुगे॥ दृष्ट्वा विशोकं समरे भीमसेनस्य सारथिम्। धृष्टद्युम्नो महाराज दुर्मना गतचेतनः॥ अपृच्छद् वाष्पसंरुद्धो निःश्वसन वाचमीरयन्। मम प्राणैः प्रियतमः क्व भीम इति दुःखितः॥ विशोकस्तमुवाचेदं धृष्टद्युम्नं कृताञ्जलिः। संस्थाप्य मामिह बली पाण्डवेयः पराक्रमी॥ प्रविष्टो धार्तराष्ट्राणामेतद् बलमहार्णवम्। मामुक्त्वा पुरुषव्याघ्रः प्रीतियुक्तमिदं वचः॥ प्रतिपालय मां सूत नियम्याश्वान् मुहूर्तकम्। यावदेतान् निहन्म्यद्य य इमे मद्वधोद्यताः॥ ततो दृष्ट्वा प्रधावन्तं गदाहस्तं महाबलम्। सर्वेषामेव सैन्यानां संहर्षः समजायत।॥ तस्मिन् सुतुमुले युद्धे वर्तमाने भयानके। भित्त्वा राजन् महाव्यूहं प्रविवेश वृकोदरः॥ विशोकस्य वचः श्रुत्वा धृष्टद्युम्नोऽथ पार्षतः। प्रत्युवाच ततः सूतं रणमध्ये महाबलः॥ न हि मे जीवितेनापि विद्यतेऽद्य प्रयोजनम्। भीमसेनं रणे हित्वा स्नेहमुत्सृज्य पाण्डवैः॥ यदि यामि विना भीमं किं मां क्षत्रं वदिष्यति। एकायनगते भीमे मयि चावस्थिते युधि॥ अस्वस्ति तस्य कुर्वन्ति देवाः शक्रपुरोगमाः। यः सहायान् परित्यज्य स्वस्तिमानाव्रजेद् गृहम्॥ मम भीमः सखा चैव सम्बन्धी च महाबलः। भक्तोऽस्मान् भक्तिमांश्चाहं तमप्यरिनिषूदनम्॥ सोऽहं तत्र गमिष्यामि यत्र यातो वृकोदरः। निघ्नन्तं मां रिपून् पश्य दानवानिव वासवम्॥ एवमुक्त्वा ततो वीरो ययौ मध्येन भारत। भीमसेनस्य मार्गेषु गदाप्रमथितैर्गजैः॥ स ददर्श तदा भीमं दहन्तं रिपुवाहिनीम्। वातो वृक्षानिव बलात् प्रभञ्जन्तं रणे रिपून्॥ ते वध्यमानाः समरे रथिनः सादिनस्तथा। पादाता दन्तिनश्चैव चक्रुरार्तस्वरं महत्॥ हाहाकारश्च संजयज्ञे तव सैन्यस्य मारिष। वध्यतो भीमसेनेन कृतिना चित्रयोधिना॥ ततः कृतास्त्रास्ते सर्वे परिवार्य वृकोदरम्। अभीताः समवर्तन्त शस्त्रवृष्ट्या परंतप॥ अभिद्रुतं शस्त्रभृतां वरिष्ठं समन्ततः पाण्डवं लोकवीरः। सैन्येन घोरेण सुसंहितेन दृष्ट्वा बली पार्षतो भीमसेनम्॥ अथोपगच्छच्छरविक्षताङ्गं पदातिनं क्रोधविषं वमन्तम्। आश्वासयन् पार्षतो भीमसेनं गदाहस्तं कालमिवान्तकाले॥ मारोपयच्चात्मरथे महात्मा। माश्वासयामास च शत्रुमध्ये॥ स्तस्मिन् विमर्दे महति प्रवृत्ते। अयं दुरात्मा दुपदस्य पुत्रः समागतो भीमसेनेन सार्धम्॥ तं याम सर्वे महता बलेन मा वो रिपुः प्रार्थयतामनीकम्। श्रुत्वा तु वाक्यं तममृष्यमाणा ज्येष्ठाज्ञया नोदिता धार्तराष्ट्राः॥ वधाय निष्पेतुरुदायुधास्ते युगक्षये केतवो यद्वदुग्राः। प्रगृह्य चास्त्राणि धनूंषि वीरा ज्यां नेमिघोषैः प्रविकम्पयन्तः॥ शरैरवर्षन् द्रुपदस्य पुत्रं यथाम्बुदा भूधरं वारिजालैः। न विव्यथे समरे चित्रयोधी॥ समभ्युदीर्णाश्च तवात्मजांस्तथा निशम्य वीरानभितः स्थितान् रणे। जिघांसुरुचं दुपदात्मजो युवा प्रमोहनास्त्रं युयुजे महारथः॥ क्रुद्धो भृशं तव पुत्रेषु राजन् दैत्येषु यद्वत् समरे महेन्द्रः। ततो व्यमुह्यन्त रणे नृवीराः प्रमोहनास्त्राहतबुद्धिसत्त्वाः॥ प्रदुद्रुवुः कुरवश्चैव सर्वे सवाजिनागाः सरथाः समन्तात्। परीतकालानिव नष्टसंज्ञान् मोहोपेतांस्तव पुत्रान् निशम्य॥ एतस्मिन्नेव काले तु द्रोणः शस्त्रभृतां वरः। दुपदं त्रिभिरासाद्य शरैर्विव्याध दारुणैः॥ सोऽतिविद्धस्ततो राजन् रणे द्रोणेन पार्थिवः। अपायाद् दुपदो राजन् पूर्ववैरमनुस्मरन्।॥ जित्वा तु दुपदं द्रोण: शङ्ख दध्मौ प्रतापवान्। तस्य शङ्खस्वनं श्रुत्वा वित्रेसुः सर्वसोमकाः॥ अथ शुश्राव तेजस्वी द्रोणः शस्त्रभृतां वरः। प्रमोहनास्त्रेण रणे मोहितानात्मजांस्तव।॥ ततो द्रोणो महाराज त्वरितोऽभ्याययौ रणात्। तत्रापश्यन्महेष्वासो भारद्वाजः प्रतापवान्॥ धृष्टद्युम्नं च भीमं च विचरन्तौ महारणे। मोहाविष्टांश्च ते पुत्रानपश्यत् स महारथः॥ ततः प्रज्ञास्त्रामादाय मोहनास्त्रं व्यनाशयत्। अथ प्रत्यागतप्राणास्तव पुत्रा महारथाः॥ पुनयुद्धाय समरे प्रययुर्भीमपार्षतौ। ततो युधिष्ठिरः प्राह समाहूय स्वसैनिकान्॥ गच्छन्तु पदवीं शक्त्या भीमपार्षतयोर्युधि। सौभद्रप्रमुखा वीरा रथा द्वादश दंशिताः॥ प्रवृत्तिमधिगच्छन्तु न हि शुद्ध्यति मे मनः। त एवं समनुज्ञाताः शूरा विक्रान्तयोधिनः॥ बाढमित्येवमुक्त्वा तु सर्वं पुरुषमानिनः। मध्यन्दिनगते सूर्ये प्रययुः सर्व एव हि॥ केकया द्रौपदेयाश्च धृष्टकेतुश्च वीर्यवान्। अभिमन्युं पुरस्कृत्य महत्या सेनया वृताः॥ ते कृत्वा समरव्यूहं सूचीमुखमरिंदमाः। बिभिदुर्धार्तराष्ट्राणां तद् स्थानीकमाहवे॥ तान् प्रयातान् महेष्वासानभिमन्युपुरोगमान्। भीमसेनभयाविष्टा धृष्टद्युम्नविमोहिता॥ न संवारयितुं शक्ता तव सेना जनाधिप। मदमूर्छान्वितात्मा वै प्रमदेवाध्वनि स्थिता॥ तेऽभिजाता महेष्वासाः सुवर्णविकृतध्वजाः। परीष्सन्तोऽभ्यधावन्त धृष्टद्युम्नवृकोदरौ॥ तौ च दृष्ट्वा महेष्वासावभिमन्युपुरोगमान्। बभूवतुर्मुदा युक्तौ निघ्नन्तौ तव वाहिनीम्॥ दृष्ट्वा तु सहसाऽऽयान्तं पाञ्चाल्यो गुरुमात्मनः। नाशंसत वधं वीरः पुत्राणां तव भारत॥ ततो रथं समारोप्य कैकेयस्य वृकोदरम्। अभ्यधावत् सुसंक्रुद्धौ द्रोणमिष्वस्त्रपारगम्॥ तस्याभिपतस्तूर्णं भारद्वाजः प्रतापवान्। क्रुद्धश्चिच्छेद बाणेन धनुः शत्रुनिबर्हणः॥ अन्यांश्च शतशो बाणान् प्रेषयामास पार्षते। दुर्योधनहितार्थाय भर्तृपिण्डमनुस्मरम्॥ अथान्यद् धनुरादाय पार्षतः परवीरहा। द्रोणं विव्याध विंशत्या रुक्मपुजैः शिलाशितैः॥ तस्य द्रोणः पुनश्चापं चिच्छेदामित्रकर्शनः। हयांश्चचतुरस्तूर्णं चतुर्भिः सायकोत्तमैः॥ वैवस्वतक्षयं घोरं प्रेषयामास भारत। सारथिं चास्य भल्लेन प्रेषयामास मृत्यवे॥ हताश्वात् स रथात् तूर्णमवप्लुत्य महारथः। आरुरोह महाबाहुरभिमन्योर्महारथम्॥ ततः सरथनागाश्वा समकम्पत वाहिनी। पश्यतो भीमसेनस्य पार्षतस्य च पश्यतः॥ तत्प्रभग्नं बलं दृष्ट्वा द्रोणेनामिततेजसा। नाशक्नुवन् वारयितुं समस्तास्ते महारथाः॥ वध्यमानं तु ततं सैन्यं द्रोणेन निशितैः शरैः। व्यभ्रमतं तत्र तत्रैव क्षोभ्यमाण इवार्णवः॥ तथा दृष्ट्वा च तत्सैन्यं जहषे तावकं बलम्। दृष्ट्वाऽऽचार्यं सुसंक्रुद्धं पतन्तं रिपुवाहिनीम्। चुक्रुशुः सर्वतो योधाः साधु साध्विति भारत॥ संजय उवाच अन्वीय च पुनः सर्वांस्तव पुत्रानपीडयत्॥ अथाभिमन्यु समरे भीमसेनेन संगतम्। पार्षतेन च सम्प्रेक्ष्य तव सैन्ये महारथाः॥ दुर्योधनप्रभृतयः प्रगृहीतशरासनाः। भृशमश्चैः प्रजवितैः प्रययुर्यत्र ते रथाः॥ अपराह्ने महाराज प्रावर्तत महारण:। तावकानां च बलिनां परेषां चैव भारत॥ अभिमन्युविकर्णस्य हयान् हत्वा महाहवे। अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत्॥ हताश्वं रथमुत्सृज्य विकर्णस्तु महारथः। आरुरोह रथं राजंश्चित्रसेनस्य भारत॥ स्थितावेकरथे तौ तु भ्रातरौ कुलवर्धनौ। आर्जुनिः शरजालेन च्छादयामास भारत॥ चित्रसेनो विकर्णश्च कार्ष्णि पञ्चभिरायसैः। विव्याध तेन चाकम्पत् कार्णिमरुरिव स्थितः॥ दुःशासनस्तु समरे केकयान् पञ्च मारिष। योधयामास राजेन्द्र तदद्भुतमिवाभवत्॥ द्रौपदेया रणे क्रुद्धा दुर्योधनमवारयन्। शरैराशीविषाकारैः पुत्रं तव विशाम्पते॥ पुत्रोऽपि तव दुर्धर्षो द्रौपद्यास्तनयान रणे। सायकैर्निशितै राजन्नाजघान पृथक् पृथक्॥ तैश्चापि विद्धः शुशुभे रुधिरेण समुक्षितः। गिरिः प्रस्रवणैर्यद्वद् गैरिकादिविमिश्रितैः॥ भीष्मोऽपि समरे राजन् पाण्डवानामनीकिनीम्। कालयामास बलवान् पालः पशुगणानिव॥ ततो गाण्डीवनिर्घोषः प्रादुरासीद् विशाम्पते। दक्षिणेन वरूथिन्याः पार्थस्यारीन् विनिघ्नतः॥ उत्तस्थुः समरे तत्र कबन्धानि समन्ततः। कुरूणां चैव सैन्येषु पाण्डवानां च भारत॥ शोणितोदं शरावर्तं गजद्वीपं हयोर्मिणम्। रथनौभिर्नरव्याघ्राः प्रतेरुः सैन्यसागरम्॥ छिन्नहस्ता विकवचा विदेहाश्च नरोत्तमाः। दृश्यन्ते पतितास्तत्र शतशोऽथ सहस्रशः॥ निहतैर्मत्तमातङ्गैः शोणितौघपरिप्लुतैः। भूर्भाति भरतश्रेष्ठ पर्वतैराचिता यथा।॥ तत्राद्भुतमपश्याम तव तेषां च भारत। न तत्रासीत् पुमान् कश्चिद् यो युद्धं नाभिकाङ्क्षति।।१९। एवं युयुधिरे वीराः प्रार्थयाना महद् यशः। तावकाः पाण्डवैः सार्धमाकाङ्क्षन्तो जयं युधि॥ संजय उवाच अथ शूरा महाराज परस्परकृतागसः। जग्मुः स्वशिबिराण्येव रुधिरेण समुक्षिताः॥ विश्रम्य च यथान्यायं पूजयित्वा परस्परम्। संनद्धाः समदृश्यन्त भूयो युद्धचिकीर्षया॥ ततस्तव सुतो राजंश्चिन्तयाऽभिपरिप्लुतः। विस्रवच्छोणिताक्ताङ्गः पप्रच्छेदं पितामहम्॥ सैन्यानि रौद्राणि भयानकानि व्यूढानि सम्यग् बहुलध्वजानि। स्ते पाण्डवानां त्वरिता महारथाः॥ सम्मोह्य सर्वान् युधि कीर्तिमन्तो व्यूहं च तं मकरं वज्रकल्पम्। प्रविश्य भीमेन रणे हतोऽस्मि घोरैः शरैर्मृत्युदण्डप्रकाशैः॥ क्रुद्धं तमुवीक्ष्य भयेन राजन् सम्मूर्च्छितो न लभे शान्तिमद्य। इच्छे प्रसादात् तव सत्यसंध प्राप्तुं जयं पाण्डवेयांश्च हन्तुम्॥ तेनैवमुक्तः प्रहसन् महात्मा दुर्योधनं मन्युगतं विदित्वा। तं प्रत्युवाचाविमना मनस्वी गङ्गासुतः शस्त्रभृतां वरिष्ठः॥ परेण यत्नेन विगाह्य सेनां सर्वात्मनाहं तव राजपुत्र। इच्छामि दातुं विजयं सुखं च न चात्मानं छादयेऽहं त्वदर्थे॥ एते तु रौद्रा बहवो महारथा यशस्विनः शूरतमाः कृतास्त्राः। ये पाण्डवानां समरे सहाया जितक्लमा रोषविषं वमन्ति॥ ते नैव शख्याः सहसा विजेतुं वीर्योद्धताः कृतवैरास्त्वया च। अहं सेनां प्रतियोत्स्यामि राजन् सर्वात्मना जीवितं त्यज्य वीर।।१० रणे तवार्थाय महानुभाव न जीवितं रक्ष्यतमं ममाद्य। सर्वांस्तवार्थाय सदेवदैत्यान् घोरान् दहेयं किमु शत्रुसेनाम्॥ तान् पाण्डवान् योधयिष्यामि राजन प्रियं च ते सर्वमहं करिष्ये। श्रुत्यैव चैतद् वचनं तदानीं दुर्योधनः प्रीतमना बभूव॥ सर्वाणि सैन्यानि ततः प्रहृष्टो निर्गच्छतेत्याह नृपांश्च सर्वान्। तदाज्ञया तानि विनिर्ययुद्धेतं गजाश्वपादातरथायुतानि॥ प्रहर्षयुक्तानि तु तानि राजन् महान्ति नानाविधशस्त्रवन्ति। स्थितानि नागाश्वपदातिमन्ति विरेजुराजौ तव राजन् बलानि॥ रधिष्ठिताः सैन्यगणास्त्वदीयाः। रथौघपादातगजाश्वसंधैः प्रयाद्भिराजौ विधिवत् प्रणुन्नैः॥ समुद्धतं वै तरुणार्कवर्ण रजोबभौच्छादयन् सूर्यरश्मीन्। रेजुः पताका रथदन्तिसंस्था वातेरिता भ्राम्यमाणाः समन्तात्॥ नानारङ्गाः मेधैर्युता विद्युतः खे यथैव। श्चकाशिरे दन्तिगणाः समन्तात्॥ समरे तत्र राजन् धनूंषि विस्फारयतां नृपाणां बभूव शब्दस्तुमुलोऽतिघोरः। विमथ्यतो देवमहासुरोधै यथार्णवस्यादियुगे तदानीम्॥ तदुग्रनागं बहुरूपवर्णं तवात्मजानां समुदीर्णमेवम्। बभूव सैन्यं रिपुसैन्यहन्तु युगान्तमेघौघनिभं तदानीम्॥ संजय उवाच अथात्मजं तव पुनर्गाङ्गेयो ध्यानमास्थितम्। अब्रवीद् भरतश्रेष्ठः सम्प्रहर्षकरं वचः॥ अहं द्रोणश्च शल्यश्च कृतवर्मा च सात्वतः। अश्वत्थामा विकर्णश्च भगदत्तोऽथ सौबलः॥ विन्दानुविन्दावावन्त्यौ बाह्रीकः सह बाह्निकैः। त्रिगर्तराजो बलवान् मागधश्च सुदुर्जयः॥ बृहद्बलश्च कौसल्यश्चित्रसेनो विविंशतिः। रथाश्च बहुसाहस्राः शोभनाश्च महाध्वजाः॥ देशजाश्च हया राजन् स्वारूढा हयसादिभिः। गजेन्द्राश्च मदोवृत्ताः प्रभिन्नकरटामुखाः॥ पादाताश्च तथा शूरा नानाप्रहरणध्वजाः। नानादेशसमुत्पन्नास्त्वदर्थे योद्धुमुद्यताः॥ एते चान्ये च बहवस्त्वदर्थे त्यक्तजीविताः। देवानपि रणे जेतुं समर्था इति मे मतिः॥ अवश्यं हि मया राजंस्तव वाच्य हितं सदा। अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः॥ वासुदेवसहायाश्च महेन्द्रसमविक्रमाः। सर्वथाऽहं तु राजेन्द्र करिष्ये वचनं तव॥ पाण्डवांश्च रणे जेष्ये मां वा जेष्यन्ति पाण्डवाः। एकमुक्त्वा ददावस्मै विशल्यकरणी शुभाम्॥ ओषधीं वीर्यसम्पन्नां विशल्यश्चाभवत् तदा। ततः प्रभाते विमले स्वेन सैन्येन वीर्यवान्॥ अव्यूहत स्वयं व्यूह भीष्मो व्यूहविशारदः। मण्डलं मनुजश्रेष्ठो नानाशस्त्रसमाकुलम्॥ सम्पूर्णं योधमुख्यैश्च तथा दन्तिपदातिभिः। रथैरनेकसाहौः समन्तात् परिवारितम्॥ अश्ववृन्दैर्महद्भिश्च ऋष्टितोमरधारिभिः। नागे नागे रथाः सप्त सप्त चाश्वा रथे रथे॥ अन्वश्वं दश धानुष्का धानुष्के दश चर्मिणः। एवं व्यूढं महाराज तव सैन्यं महारथैः॥ स्थितं रणाय महते भीष्मेण युधि पालितम्। दशाश्वानां सहस्राणि दन्तिनां च तथैव च॥ रथानामयुतं चापि पुत्राश्च तव दंशिताः। चित्रसेनादयः शूरा अभ्यरक्षन् पितामहम्॥ रक्ष्यमाणः स तैः शूरैर्गोप्यमानाश्च तेन ते। संनद्धाः समदृश्यन्त राजानश्च महाबलाः॥ दुर्योधनस्तु समरे दंशितो रथमास्थितः। व्यराजत श्रिया जुष्टो यथा शक्रस्त्रिविष्टपे॥ ततः शब्दो महानासीत् पुत्राणां तव भारत। रथघोषश्च विपुलो वादित्राणां च निस्वनः॥ भीष्मेण धार्तराष्ट्राणां व्यूढः प्रत्युङ्मुखो युधि। मण्डलः स महाव्यूहो दुर्भेद्योऽमित्रघातनः॥ सर्वतः शुशुभे राजन् रणेऽरीणां दुरासदः। मण्डलं तु समालोक्य व्यूहं परमदुर्जयम्॥ स्वयं युधिष्ठिरो राजा वज्रं व्यूहमथाकरोत्। तथा व्यूढेष्वनीकेषु यथास्थानमवस्थिताः॥ रथिनः सादिनः सर्वे सिंहनादमथानदन्। बिभित्सवस्ततो व्यूहं निर्ययुयुद्धकाक्षिणः॥ इतरेतरतः शूराः सहसैन्याः प्रहारिणः। भारद्वाजो ययौ मत्स्यं द्रौणिश्चापि शिखण्डिनम्॥ स्वयं दुर्योधनो राजा पार्षतं समुपाद्रवत्। नकुलः सहदेवश्च मद्रराजनमीयतुः॥ विन्दानुविन्दावावन्त्याविरावन्तमभिद्रुतौ। सर्वे नृपास्तु समरे धनंजयमयोधयन्॥ भीमसेनो रणे यान्तं हार्दिक्यं समवारयत्। चित्रसेनं विकर्णं च तथा दुर्मर्षणं विभुः॥ आर्जुनिः समरे राजंस्तव पुत्रानयोधयत्। प्राग्ज्योतिषोमहेष्वासोहैडिम्बं राक्षसोत्तमम्॥ अभिदुद्राव वेगेन मत्तो मत्तमिव द्विपम्। अलम्बुषस्तदा राजन् सात्यकिं युद्धदुर्मदम्॥ ससैन्यं समरे क्रुद्धो राक्षस: समुपाद्रवत्। भूरिश्रवा रणे यत्तो धृष्टकेतुमयोधयत्॥ श्रुतागुषं च राजानं धर्मपुत्रो युधिष्ठिरः। चेकितानश्च समरे कृपमेवान्वयोधयत्॥ शेषाः प्रतियुर्यत्ता भीष्ममेव महारथम्। ततो राजसमूहास्ते परिवQर्धनंजयम्॥ शक्तितोमरनाराचगदापरिघपाणयः। अर्जुनोऽथ भृशं क्रुद्धो वार्ष्णेयमिदमब्रवीत्॥ पश्य माधव सैन्यानि धार्तराष्ट्रस्य संयुगे। व्यूढानि व्यूहविदुषा गाङ्गेयेन महात्मना॥ युद्धाभिकामाशूरांश्च पश्य माधव दंशितान्। त्रिगर्तराजं सहितं भ्रातृभिः पश्य केशव।॥ अद्यैतान् नाशयिष्यामि पश्यतस्ते जनार्दन। य इमे मां यदुश्रेष्ठ योद्धुकामा रणाजिरे॥ एतदुक्त्वा तु कौन्तेयो धनुर्ध्यामवमृज्य च। ववर्ष शरवर्षाणि नराधिपगणान् प्रति॥ तेऽपि तं परमेष्वासाः शरवर्षैरपूरयन्। तडागं वारिधाराभिर्यथा प्रावृषि तोयदाः॥ हाहाकारो महानासीत् तव सैन्ये विशाम्पते। छाद्यमानौ रणे कृष्णौ शरैर्दृष्ट्वा महारणे॥ देवा देवर्षयश्चैव गन्धर्वाश्च सहोरगैः। विस्मयं परमं जग्मुर्दृष्ट्वा कृष्णो तथागतौ॥ ततः क्रुद्धोऽर्जुनो राजन्नन्द्रमस्त्रमुदैरयत्। तत्राद्भुतमपश्याम विजयस्य पराक्रमम्॥ शस्त्रवृष्टिं परैर्मुक्ता शरौधैर्यदवारयत्। न च तत्राप्यनिर्भिन्नः कश्चिदासीद् विशाम्पते॥ तेषां राजसहस्राणां हयानां दन्तिनां तथा। द्वाभ्यां त्रिभिः शरैश्चान्यान् पार्थो विव्याध मारिष॥ ते हन्यमानः पार्थेन भीष्मं शान्तनवं ययुः। अगाधे मज्जमानानां भीष्मः पोतोऽभवत् तदा॥ आपतद्भिस्तु तैस्तत्र प्रमग्नं तावकं बलम्। संचुक्षुभे महाराज वातैरिव महार्णवः॥ संजय उवाच तथा प्रवृत्ते संग्रामे निवृत्ते च सुशर्मणि। भग्नेषु चापि वीरेषु पाण्डवेन महात्मना॥ क्षुभ्यमाणे बले तूर्णं सागरप्रतिमे तव। प्रत्युद्याते च गाङ्गेये त्वरितं विजयं प्रति॥ दृष्ट्वा दुर्योधनो राजा रणे पार्थस्य विक्रमम्। त्वरमाणः समभ्येत्य सर्वांस्तानब्रवीनृपान्॥ तेषां तु प्रमुखे शूरं सुशर्माणं महाबलम्। मध्ये सर्वस्य सैन्यस्य भृशं संहर्षयन्निव॥ एष भीष्मः शान्तनवो योद्धुकामो धनंजयम्। सर्वात्मना कुरुश्रेष्ठस्त्यक्त्वा जीवितमात्मनः॥ तं प्रयान्तं रणे वीरं सर्वसैन्येन भारतम्। संयत्ताः समरे सर्वे पालयध्वं पितामहम्॥ बाढमित्येवमुक्त्वा तु तान्यनीकानि सर्वशः। नरेन्द्राणां महाराज समाजग्मुः पितामहम्॥ ततः प्रयात: सहसा भीष्मः शान्तनवोऽर्जुनम्। रणे भारतयामायन्तमाससाद महाबलः॥ महाश्वेताश्वयुक्तेन भीमवानरकेतुना। महता मेघनादेन रथेनातिविराजता।॥ समरे सर्वसैन्यानामुपयान्तं धनंजयम्। अभवत् तुमुलो नादो भयादृष्ट्वा किरीटिनम्॥ अभीषुहस्तं कृष्णं च दृष्ट्वाऽऽदित्यमिवापरम्। मध्यंदिनगतं संख्ये न शेकुः प्रतिवीक्षितुम्॥ तथा शान्तनवं भीष्मं श्वेताश्वं श्वेतकार्मुकम्। न शेकुः पाण्डवा द्रष्टुं श्वेतं ग्रहमिवोदितम्॥ स सर्वतः परिवृतस्त्रिगर्तेः सुमहात्मभिः। भ्रातृभिः सह पुत्रैश्च तथान्यैश्च महारथैः॥ भारद्वाजस्तु समरे मत्स्यं विव्याध पत्रिणा। ध्वजं चास्य शरेणाजौ धनुश्चैकेन चिच्छिदे॥ तदपास्य धनुश्छिन्नं विराटो वाहिनीपतिः। अन्यदादत्त वेगेन धनुर्भारसहं दृढम्॥ शरांश्चाशीविषाकाराज्वलितान् पन्नगानिव। द्रोणं त्रिभिश्च विव्याध चतुर्भिश्चास्य वाजिनः॥ ध्वजमेकेन विव्याध सारथिं चास्य पञ्चभिः। धनुरेकेषुणाविध्यत् तत्राक्रुध्यद् द्विजर्षभः॥ तस्य द्रोणोऽवधीदश्वाशरैः संनतपर्वभिः। अष्टाभिर्भरतश्रेष्ठ सूतमेकेन पत्रिणा॥ स हताश्वादवप्लुत्य स्यन्दनाद्धतसारथिः। आरुरोह रथं तूर्णं पुत्रस्य रथिनां वरः॥ ततस्तु तौ पितापुत्रौ भारद्वाजं रथे स्थितौ। महता शरवर्षेण वारयामासतुर्बलात्॥ भारद्वाजस्ततः क्रुद्धः शरमाशीविषोपमम्। चिक्षेप समरे तूर्णं शङ्ख प्रति जनेश्वर॥ स तस्य हृदयं भित्त्वा पीत्वा शोणितमाहवे। जगाम धरणी बाणो लोहितार्द्रवरच्छदः॥ स पपात रणे तूर्णं भारद्वाजशराहतः। धनुस्त्यक्त्वा शरांश्चैव पितुरेव समीपतः॥ हतं तमात्मजं दृष्ट्वा विराट: प्राद्रवद् भयात्। उत्सृज्य समरे द्रोणं व्यात्ताननमिवान्तकम्॥ भारद्वाजस्ततस्तूर्ण पाण्डवानां महाचमूम्। दारयामास समरे शतथोऽथ सहस्रशः॥ शिखण्डी तु महाराज द्रौणिमासाद्य संयुगे। आजधान भ्रुवोर्मध्ये नाराचैस्त्रिभिराशुगैः॥ स बभौ रथशार्दूलो ललाटे संस्थितैस्त्रिभिः। शिखरैः काञ्चनमयैर्मेरुस्त्रिभिरिवोच्छ्रितैः॥ अश्वत्थामा ततः क्रुद्धो निमेषार्धाच्छिखण्डिनः। ध्वजं सूतमथो राजंस्तुरगानायुधानि च॥ शरैर्बहुभिराच्छिद्य पातयामास संयुगे। स हताश्वादवप्लुत्य रथाद् वै रथिनां वरः॥ खङ्गमादाय सुशितं विमलं च शरावरम्। श्येनवद् व्यचरत् क्रुद्धः शिखण्डी शत्रुतापनः॥ सखड्गस्य महाराज चरतस्तस्य संयुगे। नान्तरं ददृशे द्रौणिस्तदद्भुतमिवाभवत्॥ ततः शरसहस्राणि बहूनि भरतर्षभ। प्रेषयामास समरे द्रौणिः परमकोपनः॥ तामापतन्ती समरे शरवृष्टिं सुदारुणाम्। असिना तीक्ष्णधारेण चिच्छेद बलिनां वरः॥ ततोऽस्य विमलं द्रौणिः शतचन्द्रं मनोरमम्। चर्माच्छिनदसिं चास्य खण्डयामास संयुगे॥ शितैस्तु बहुशो राजंस्तं च विव्याध पत्रिभिः। शिखण्डी तु ततः खङ्गं खण्डितं तेन सायकैः॥ आविध्य व्यसृजत् तूर्णं ज्वलन्तमिव पन्नगम्। तमापतन्तं सहसा कालानलसमप्रभम्॥ चिच्छेद समरे द्रौणिर्दर्शयन् पाणिलाघवम्। शिखण्डिनं च विव्याध शरैर्बहुभिरायसैः॥ शिखण्डी तु भृशं राजस्ताङ्यमानः शितैः शरैः। आरुरोह रथं तूर्णं माधवस्य महात्मनः॥ सात्यकिश्चापि संक्रुद्धौ राक्षसं क्रूरमाहवे। अलम्बुषं शरैस्तीक्ष्णैर्विव्याध बलिना वरः॥ राक्षसेन्द्रस्ततस्तस्य धनुश्चिच्छेद भारत। अर्धचन्द्रेण समरे तं च विव्याध सायकैः॥ मायां च राक्षसी कृत्वा शरवर्षैरवाकिरत्। तत्राद्भुतमपश्याम शैनेयस्य पराक्रमम्॥ असम्भ्रमस्तु समरे वध्यमानः शितैः शरैः। ऐन्द्रमस्त्रं च वार्ष्णेयो योजयामास भारत॥ विजयाद् यदनुप्राप्तं माधवेन यशस्विना। तदस्त्रं भस्मसात् कृत्वा मायां तां राक्षसीं तदा॥ अलम्बुषं शरैरन्यैरभ्याकिरत सर्वतः। पर्वतं वारिधाराभिः प्रावृषीव बलाहकः॥ तत् तथा पीडितं तेन माधवेन यशस्विना। प्रदुद्राव भयाद् रक्षस्त्यक्त्वा सात्यकिमाहवे॥ तमजेयं राक्षसेन्द्रं संख्ये मघवता अपि। शैनेयः प्राणदज्जित्वा योधानां तव पश्यताम्॥ न्यहनत् तावकांश्चापि सात्यकिः सत्यविक्रमः। निशितैर्बहुभिर्बाणैस्तेऽद्रवन्त भयार्दिताः॥ एतस्मिन्नेव काले तु द्रुपदस्यात्मजो बलि। धृष्टद्युम्नो महाराज पुत्रं तव जनेश्वरम्॥ छादयामास समरे शरैः संनतपर्वभिः। स च्छाद्यमानो विशिखैद्धृष्टद्युम्नेन भारत॥ विव्यथे न च राजेन्द्र तव पुत्रो जनेश्वर। धृष्टद्युम्नं च समरे तूर्णं विव्याध पत्रिभिः॥ षष्ट्या च त्रिंशता चैव तदद्भुतमिवाभवत्। तस्य सेनापतिः क्रुद्धो धनुश्चिच्छेद मारिष॥ हयांश्च चतुरः शीघ्रं निजघान महाबलः। शरैश्चैनं सुनिशितैः क्षिप्रं विव्याध सप्तभिः॥ स हताश्वान्महाबाहुरवप्लुत्य रथाद् बली। पदातिरसिमुद्यम्य प्राद्रवत् पार्षतं प्रति॥ शकुनिस्तं समभ्येत्य राजगृद्धी महाबलः। राजानं सर्वलोकस्य रथमारोपयत् स्वकम्॥ ततो नृपं पराजित्य पार्षतः परवीरहा। न्यहनत् तावकं सैन्यं वज्रपाणिरिवासुरान्॥ कृतवर्मा रणे भीमं शरैरार्छन्महारथः। प्रच्छादयामास च तं महामेघो रविं यथा।॥ ततः प्रहस्य समरे भीमसेनः परंतपः। प्रेषयामास संक्रुद्धः सायकान् कृतवर्मणे॥ तैरर्चमानोऽतिरथः सात्वतः सत्यकोविदः। नाकम्पत महाराज भीमं चार्मोच्छितैः शरैः॥ तस्याश्वांश्चतुरो हत्वा भीमसेनो महारथः। सारथिं पातयामास सध्वजं सुपरिष्कृतम्॥ शरैर्बहुविधैश्चैनमाचिनोत् परवीरहा। शकलीकृतसर्वाङ्गो हताश्वः प्रत्यदृश्यत॥ हताश्वश्च ततस्तूर्णं वृषकस्य रथं ययौ। श्यालस्य ते महाराज तव पुत्रस्य पश्यतः॥ भीमसेनोऽपि संक्रुद्धस्तव सैन्यमुपाद्रवत्। निजधान च संक्रुद्धो दम्डपाणिरिवान्तकः॥ संजय उवाच ततो युधिष्ठिरो राजा मध्यं प्राप्ते दिवाकरे। श्रुतायुषमभिप्रेक्ष्य प्रेषयामास वाजिनः॥ अभ्यधावत् ततो राजा श्रुतायुषमरिंदमम्। विनिमन् सायकैस्तीक्ष्णैवभिनतपर्वभिः॥ स संवार्य रणे राजा प्रेषितान् धर्मसूनुना। शरान् सप्त महेष्वासः कौन्तेयाय समार्पयत्॥ ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे। असूनिव विचिन्वन्तो देहे तस्य महात्मनः॥ पाण्डवस्तु भृशं क्रुद्धो विद्धस्तेन महात्मना। रणे वराहकर्णेन राजानं हृद्यविध्यत॥ अथापरेण भल्लेन केतुं तस्य महात्मनः। रथश्रेष्ठो रथात् तूर्णं भूमौ पार्थो न्यपातयत्॥ केतुं विपतितं दृष्ट्वा श्रुतायुः स तु पार्थिवः। पाण्डवं विशिखैस्तीक्ष्णै राजन् विव्याध सप्तभिः॥ ततः क्रोधात् प्रजज्वाल धर्मपुत्रो युधिष्ठिरः। यथा युगान्ते भूतानि दिधक्षुरिव पावकः॥ क्रुद्धं तु पाण्डवं दृष्ट्वा देवगन्धर्वराक्षसाः। प्रविव्यथुमहाराज व्याकुलं चाप्यभूज्जगत्॥ सर्वेषा चैव भूतानामिदमासीन्मनोगतम्। त्रील्लोकानद्य संक्रुद्धो नृपोऽयं धक्ष्यतीति वै॥ ऋषयश्चैव देवाश्च चक्रुः स्वस्त्ययनं महत्। लोकानां नृप शान्त्यर्थं क्रोधिते पाण्डवे तदा॥ स च क्रोधसमाविष्टः सृकिणी परिसंलिहन्। दधारात्मवपुर्घोरं युगान्तादित्यसंनिभम्॥ ततः सैन्यानि सर्वाणि तावकानि विशाम्पते। निराशान्यभवंस्तत्र जीवितं प्रति भारत॥ स त धैर्मेण तं कोपं संनिवार्य महायशाः। श्रुतायुषः प्रचिच्छेद मुष्टिदेशे महाधनुः॥ अथैनं छिन्नधन्वानं नाराचेन स्तनान्तरे। निर्बिभेद रणे राजा सर्वसैन्यस्य पश्यतः॥ सत्वरं च रणे राजन्तस्य वाहान् महात्मनः। निजघान शरैः क्षिप्रं सूतं च सुमहाबलः॥ हताश्वं तु रथं त्यक्त्वा दृष्ट्वा राज्ञोऽस्य पौरुषम्। विप्रदुद्राव वेगेन श्रुतायुः समरे तदा॥ तस्मिञ्जिते महेष्वासे धर्मपुत्रेण संयुगे। दुर्योधनबलं राजन् सर्वमासीत् पराङ्मुखम्॥ एतत् कृत्वा महाराज धर्मपुत्रो युधिष्ठिरः। व्यात्ताननो यथा कालस्तव सैन्यं जघान ह॥ चेकितानस्तु वार्ष्णेयो गौतमं रथिनां वरम्। प्रेक्षतां सर्वसैन्यानां छादयामास सायकैः॥ संनिवार्य शरांन्तांस्तु कृपः शारद्वतो युधि। चेकितानं रणे यत्तं राजन् विव्याध पत्रिभिः॥ अथापरेण भल्लेन धनुश्चिच्छेद मारिष। सारथिं चास्य समरे क्षिप्रहस्तो न्यपातयत्॥ अश्वांश्चास्यावधीद् राजन्नुभौ तौ पार्णिसारथी। सोऽवप्लुत्य रथात् तूर्णं गदां जग्राह सात्वतः॥ स तया वीरघातिन्या गदया गदिनां वरः। गौतमस्य हयान् हत्वा सारथिं च न्यपातयत्॥ भूमिष्ठो गौतमस्तस्य शरांश्चिक्षेप षोडश। शरास्ते सात्वतं भित्त्वा प्राविशन् धरणीतलम्॥ चेकितानस्ततः क्रुद्धं पुनश्चिक्षेप तां गदाम्। गौतमस्य वधाकाक्षी वृत्रस्येव पुरंदरः॥ तामापतन्ती विमलामश्मगर्भा महागदाम्। शरैरनेकसाहस्रर्वारयामास गौतमः॥ चेकितानस्ततः खङ्गं क्रोधादुद्धृत्य भारत। लाघवं परमास्थाय गौतमं समुपाद्रवत्॥ गौतमोऽपि धनुस्त्यक्त्वा प्रगृह्यासिं सुसंयतः। वेगेन महता राजंश्चेकितानमुपाद्रवत्॥ तावुभौ बलसम्पन्नौ निस्त्रिशवरधारिणौ। निस्त्रिशाभ्यां सुतीक्ष्याभ्यामन्योन्यं संततक्षतुः॥ निस्त्रिंशवेगाभिहतौ ततस्तौ पुरुषर्षभौ। धरणीं समनुप्राप्तौ सर्वभूतनिषेविताम्॥ मूर्छयाऽभिपरीताङ्गौ व्यायामेन तु मोहितौ। ततोऽभ्यधावद् वेगेन करकर्षः सुहृत्तया॥ चेकितानं तथाभूतं दृष्ट्वा समरदुर्मदः। रथमारोपयच्चैनं सर्वसैन्यस्य पश्यतः॥ तथैव शकुनिः शूरः स्यालस्तव विशाम्पते। आरोपयद् स्थं तूर्णं गौतमं रथिनां वरम्॥ सौमदत्तिं तथा क्रुद्धौ धृष्टकेतुर्महाबलः। नवत्या सायकैः क्षिप्रं राजन् विव्याध वक्षसि॥ सौमदत्तिरुरःस्थास्तै शं बाणैरशोभत। मध्यंदिने महाराज रश्मिभिस्तपनो यथा॥ भूरिश्रवास्तु समरे धृष्टकेतुं महारथम्। हतसूतहयं चक्रे विरथं सायकोत्तमैः॥ विरथं तं समालोक्य हताश्वं हतसारथिम्। महता शरवर्षेण च्छादयामास संयुगे॥ स तु तं रथमुत्सृज्य धृष्टकेतुर्महामनाः। आरुरोह ततो यानं शतानीकस्य मारिष॥ चित्रसेनो विकर्णश्च राजन् दुर्मर्षणस्तथा। रथिनो हेमसंनाहाः सौभद्रमभिदुद्रुवुः॥ अभिमन्योस्ततस्तैस्तु घोरं युद्धमवर्तत। शरीरस्य यथा राजन् वातपित्तकफैस्त्रिभिः॥ विरथांस्तव पुत्रांस्तु कृत्वा राजन् महाहवे। न जगान नरव्याघ्रः स्मरन् भीमवचस्तदा॥ ततो राज्ञां बहुशतैर्गजाश्वरथायायिभिः। संवृतं समरे भीष्मं देवैरपि दुरासदम्॥ प्रयान्तं शीघ्रमुवीक्ष्य परित्रातुं सुतांस्तव। अभिमन्युं समुद्दिश्य बालमेकं महारथम्॥ वासुदेवमुवाचेदं कौन्तेयः श्वेतवाहनः। चोदयाश्वान् हृषीकेश यत्रैते बहुला रथाः॥ एते हि बहवः शूराः कृतास्त्रा युद्धदुर्मदाः। यथा हन्युर्न नः सेनां तथा माधव चोदया।४६।। एवमुक्तः स वार्ष्णेयः कौन्तेयनामितौजसा। रथं श्वेतहयैर्युक्तं प्रेषयामास संयुगे॥ निष्ठानको महानासीत् तव सैन्यस्य मारिष। यदर्जुनो रणे क्रुद्धः संयातस्तावकान् प्रति॥ समासाद्य तु कौन्तेयो राज्ञस्तान् भीष्मरक्षिणः। सुशाण्यथो राजन्निदं वचनमब्रवीत्॥ जानामि त्वां युधां श्रेष्ठमत्यन्तं पूर्ववैरिणम्। अनयस्याद्य सम्प्राप्तं फलं पश्य सुदारुणम्॥ अद्य ते दर्शयिष्यामि पूर्वप्रेतान् पितामहान्। एवं संजल्पतस्तस्य बीभत्सोः शत्रुघातिनः॥ श्रुत्वापि परुषं वाक्य सुशर्मा रथयूथपः। न चैनमब्रवीत् किंचिच्छुभं वा यदि वाऽशुभम्॥ अभिगम्यार्जुनं वीरं राजभिर्बहुभिर्वृतः। पुरस्तात् पृष्ठतश्चैव पार्श्वतश्चैव सर्वतः॥ परिवार्यार्जुनं संख्ये तव पुत्रैर्महारथः। शरैः संछादयामास मेधैरिव दिवाकरम्॥ ततः प्रवृत्तः सुमहान् संग्राम: शोणितोदकः। तावकानां च समरे पाण्डवानां च भारत।॥ संजय उवाच त ताड्यमानस्तु शरैर्धनंजयः पदा हतो नाग इव श्वसन् बली। बाणेन बाणेन महारथानां चिच्छेद चापानि रणे प्रसा॥ संछिद्य चापानि च तानि राज्ञां तेषां रणे वीर्यवतां क्षणेन। विव्याध बाणैर्युगपन्महात्मा नि:शेषतां तेष्वथ मन्यमानः॥ स्ते ताडिताः शक्रसुतेन राजन्। विभिन्नगात्रा: पतितोत्तमाङ्गा गतासवश्छिन्नतनुत्रकायाः॥ महीं गताः पार्थबलाभिभूता विचित्ररूपा युगपद् विनेषुः। स्त्रिगर्तराजः प्रययौ रथेन॥ तेषां रथानामथ पृष्ठगोपा द्वात्रिंशदन्येऽभ्यपतन्त पार्थम्। तथैव ते तं परिवार्य पार्थं विकृष्य चापानि महारवाणि॥ अवीवृषन् बाणमहौघवृष्ट्या यथा गिरि तोयधरा जलौघैः। सम्पीड्यमानस्तु शरौघवृष्ट्या धनंजयस्तान् युधि जातरोषः॥ जघान तानप्यथ पृष्ठगोपान्। रथांश्च तांस्तानवजित्य संख्ये धनंजयः प्रीतमना यशस्वी॥ अथात्वरद् बलानि राजन् समरे निहत्य। त्रिगर्तराजो निहतान् समीक्ष्य महात्मना तानथ बन्धुवर्गान्॥ रणे पुरस्कृत्य नराधिपांस्तान् जगाम पार्थं त्वरितो वधाय। अभिद्रुतं चास्त्रभृतां वरिष्ठ धनंजयं वीक्ष्य शिखण्डिमुख्या:॥ अभ्युद्ययुस्ते शितशस्त्रहस्ता रिरक्षिषन्तो रथमर्जुनस्य। पार्थोऽपि तानापतत: समीक्ष्य त्रिगर्तराज्ञा सहितान् नृवीरान्॥ विध्वंसयित्वा समरे धनुष्मान् गाण्डीवमुक्तैर्निशितैः पृषत्कैः। भीष्मं यियासुर्युधि संददर्श दुर्योधनं सैन्धवादींश्च राज्ञः॥ संवारयिष्णूनभिवारयित्वा मुहूर्तमायोध्य बलेन वीरः। उत्सृज्य राजानमनन्तवीर्यो जयद्रथादींश्च नृपान् महौजाः॥ ययौ ततो भीमबलौ मनस्वी गाङ्गेयमाजौ शरचापपाणिः। युधिष्ठिरश्च प्रबलो महात्मा समाययौ त्वरितो जातकोपः॥ मद्राधिपं समभित्यज्य संख्ये स्वभागमाप्तं तमनन्तकीर्तिः। भीष्मं ययौ शान्तनवं रणाय॥ तैः सम्प्रयुक्तैः स महारथाग्न्यै र्गङ्गासुतः समरे चित्रयोधी। न विव्यथे शान्तनवो महात्मा समागतैः पाण्डुसुतैः समस्तैः॥ अथैत्य राजा युधि सत्यसंधो जयद्रथोऽत्युग्रबलो मनस्वी। चिच्छेद चापानि महारथानां प्रसह्य तेषां धनुषा वरेण॥ युधिष्ठिरं भीमसेनं यमौ च पार्थं कृष्णं युधि संजातकोपः। दुर्योधनः क्रोधविषो महात्मा जघान बाणैरनपलप्रकाशैः॥ कृपेण शल्येन शलेन चैव तथा विभो चित्रसेनेन चाजौ। देवा यथा दैत्यगणैः समेतैः॥ छिन्नायुधं शान्तनवेन राजा शिखण्डिनं प्रेक्ष्य च जातकोपः। अजातशत्रुः समरे महात्मा शिखण्डिनं क्रुद्ध उवाच वाक्यम्॥ महं हनिष्यामि महाव्रतं तम्। भीष्मं शरौधैर्विमलार्कवणैः सत्यं वदामीति कृता प्रतिज्ञा॥ त्वया च नैनां सफलां करोषि देवव्रतं यन्न नहंसि युद्धे। मिथ्याप्रतिज्ञो भव माऽत्र वीर रक्ष स्वधर्मं स्वकुलं यशश्च॥ प्रेक्षस्व भीष्मं युधि भीमवेगं सर्वांस्तपन्त मम सैन्यसंघान्। शरौघजालैरतितिग्मवेगैः कालं यथा कालकृतं क्षणेन॥ निकृत्तचापः समरेऽनपेक्षः पराजितः शान्तनवेन चाजौ। विहाय बन्धूनथ सोदरांश्च क्व यास्यसे नानुरूपं तवेदम्॥ दृष्ट्वा हि भीष्मं तमनन्तवीर्य भग्नं च सैन्यं द्रवमाणमेवम्। भीतोऽसि नूनं दुपदस्य पुत्र तथा हि ते मुखवर्णोऽप्रहृष्टः॥ अज्ञातमाने च धनंजयेऽपि महाहवे सम्प्रसक्ते नृवीरे। कथं हि भीष्मात् प्रथितः पृथिव्यां भयं त्वमद्य प्रकरोषि वीर॥ स धर्मराजस्य वचो निशम्य रुक्षाक्षरं विप्रलापानुबद्धम्। प्रत्यादेशं मन्यमानो महात्मा प्रतत्वरे भीष्मवधाय राजन्।॥ तमापतन्तं महता जवेन शिखण्डिनं भीष्ममभिद्रवन्तम्। मस्त्रेण घोरेण सुदुर्जयेन॥ मस्त्रं युगान्ताग्निसमप्रकाशम्। न सम्मुमोह द्रुपदस्य पुत्रो राजन् महेन्द्रप्रतिमप्रभावः॥ शरैस्तदस्त्रं प्रतिबाधमानः। अथाददे वारुणमन्यदस्त्रं शिखण्ड्यथोग्रं प्रतिघातमस्य॥ तदस्त्रमस्त्रेण विदार्यमाणं खस्थाः सुरा ददृशुःपार्थिवाश्च। भीष्मस्तु राजन् समरे महात्मा धनुश्च चित्रं ध्वजमेव चापि॥ छित्त्वाऽनदत् पाण्डुसुतस्य वीरो युधिष्ठिरस्याजमीढस्य राज्ञः। ततः समुत्सृज्य धनुः सबाण युधिष्ठिरं वीक्ष्य भयाभिभूतम्॥ गदां प्रगृह्याभिपपात संख्ये जयद्रथं भीमसेनः पदातिः। तमापतन्तं सहसा जवेन जयद्रथः सगदं भीमसेनम्॥ विव्याध घोरैर्यमदण्डकल्पैः शितैः शरैः पञ्चशतैः समन्तात्। अचिन्तयित्वा स शरांस्तरस्वी वृकोदरः क्रोधपरीतचेताः॥ जघान वाहान् समरे समन्तात् पारावतान् सिन्धुराजस्य संख्ये। स्तवात्मजस्त्वरमाणो रथेन॥ अभ्याययौ भीमसेनं निहन्तुं समुद्यतास्त्रोः सुरराजकल्पः। भीमोऽप्यथैनं सहसा विनद्य प्रत्युद्ययौ गदया तर्जयानः॥ समुद्यतां तां यमदण्डकल्पां दृष्ट्वा गदां ते कुरवः समन्तात्। विहाय सर्वे तव पुत्रमुग्रं पातं गदायाः परिहर्तुकामाः॥ अपक्रान्तास्तुमुले सम्प्रमर्दे सुदारुणे भारत मोहनीये। अमूढचेतास्त्वथ चित्रसेनो महागदामापतन्तीं निरीक्ष्य॥ रथं स्वमुत्सृज्य पदातिराजौ प्रगृह्य खङ्गं विपुलं च चर्म। ज्जगामान्यं भूमिप भूमिदेशम्॥ गदाऽपि सा प्राप्य रथं सुचित्रं सावं ससूतं विनिहत्य संख्ये। जगाम भूमिं ज्वलिता महोल्का भ्रष्टाम्बराद् गामिव सम्पतन्ती॥ आश्चर्यभूतं सुमहत् त्वदीया दृष्ट्वैव तद् भारत सम्प्रहृष्टाः। सर्वे विनेदुः सहिताः समन्तात् पुपूजिरे तव पुत्रस्य शौर्यम्॥ संजय उवाच विरथं तं समासाद्य चित्रसेनं यशस्विनम्। रथमारोपयामास विकर्णस्तनयस्तवाशा तस्मिंस्तथा वर्तमाने तुमुले संकुले भृशम्। भीष्मः शान्तनवस्तूर्णं युधिष्ठिररमुपाद्रवत्॥ ततः सरथनागाश्वा: समकम्पन्त सुंजयाः। मृत्योरास्यमनुप्राप्तं मेनिरे च युधिष्ठिरम्॥ युधिष्ठिरोऽपि कौरव्यो यमाभ्यां सहितः प्रभुः। महेष्वासं नरव्याघ्र भीष्मं शान्तनवं ययौ॥ ततः शरसहस्राणि प्रमुञ्चन् पाण्डवो युधि। भीष्मं संछादयामास यथा मेघो दिवाकरम्॥ तेन सम्यक् प्रणीतानि शरजालानि मारिष। प्रतिजग्राह गाङ्गेयः शतशोऽथ सहस्रशः॥ तथैव शरजालानि भीष्मेणास्तानि मारिष। आकाशे समदृश्यन्त खगमानां व्रजा इव॥ निमेषार्धेन की तेयं भीष्मः शान्तनवो युधि। अदृश्यं समरे चक्रे शरजालेन भागशः॥ ततो युधिष्ठिरो राजा कौरव्यस्य महात्मनः। नाराजं प्रेषयामास क्रुद्ध आशीविषोपमम्॥ असम्प्राप्तं ततस्तं तु क्षुरप्रेण महारथः। चिच्छेद समरे राजन् भीष्मस्तस्य धनुश्च्युतम्॥ तं तु छित्त्वा रणे भीष्मो नाराचं कालसम्मितम्। निजने कौरवेन्द्रस्य हयान् काञ्चनभूषणान्॥ हताश्वं तु रथं त्यक्त्वा धर्मपुत्रो युधिष्ठिरः। आरुरोह रथं तूर्णं नकुलस्य महात्मनः॥ यमावपि हि संक्रुद्धः समासाद्य रणे तदा। शरैः संछादयामास भीष्मः परपुरंजयः॥ तौ तु दृष्ट्वा महाराज भीष्मबाणप्रपीडितौ। जगाम परमां चिन्तां भीष्मस्य वधकाझया॥ ततो युधिष्ठिरो वश्यान् राज्ञस्तान् समचोदयत्। भीष्मं शान्तनवं सर्वे निहतेति सुहृद्गणान्॥ ततस्ते पार्थिवाः सर्वे श्रुत्वा पार्थस्य भाषितम्। महता रथवंशेन परिवत्रुः पितामहम्॥ स समन्तात् परिवृतः पिता देवव्रतस्तव। चिक्रीड धनुषा राजन् पातयानो महारथान्॥ तं चरन्तं रणे पार्था ददृशुः कौरवं युधि। मृगमध्यं प्रविश्येव यथा सिंहशिशुं वने॥ तर्जयानं रणे वीरांस्त्रासयानं च सायकैः। दृष्ट्वा त्रेसुर्महाराज सिंहं मृगगणा इव॥ रणे भारतसिंहस्य ददृशुः क्षत्रिया गतिम्। अग्नेर्वायुसहायस्य यथा कक्षं दिधक्षतः॥ शिरांसि रथिनां भीष्मः पातयामास संयुगे। तालेभ्यः परिपक्वानि फलानि कुशलो नरः॥ पतद्भिश्च महाराज शिरोभिर्धरणीतले। बभूव तुमुलः शब्दः पततामश्मनामिव॥ तस्मिन् सुतुमुले युद्धे वर्तमाने भयानके। सर्वेषामेव सैन्यानामासीद् व्यतिकरो महान्॥ भिन्नेषु तेषु व्यूहेषु क्षत्रिया इतरेतरम्। एकमेकं समाहूय युद्धायैवावतस्थिरे॥ शिखण्डी तु समासाद्य भरतानां पितामहम्। अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत्॥ अनादृत्य ततो भीष्मस्तं शिखण्डिनमाहवे। प्रययौ सुंजयान् क्रुद्धः स्त्रीत्वं चिन्त्य शिखण्डिनः॥ सुंजयास्तु ततो दृष्ट्वा हृष्टं भीष्मं महारणे। सिंहनादांश्च विविधांश्चक्रुः शङ्खविमिश्रितान्॥ ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम्। पश्चिमां दिशमासाद्य स्थिते सवितरि प्रभो॥ धृष्टद्युम्नोऽथ पाञ्चाल्यः सात्यकिश्च महारथः। पीडयन्तौ भृशं सैन्यं शक्तितोमरवृष्टिभिः॥ शस्त्रैश्च बहुभि राजञ्जनतुस्तावकान् रणे। ते हन्यमानाः समरे तावका भरतर्षभ॥ आर्यां युद्धे मतिं कृत्वा न त्यजन्ति स्म संयुगम्। यथोत्साहं तु समरे निजघ्नुस्तावका रणे॥ तत्राक्रन्दो महानासीत् तावकानां महात्मनाम्। वध्यतां समरे राजन् पार्षतेन महात्मना॥ तं श्रुत्वा निनदं घोरं तावकानां महारथौ। विन्दानुविन्दावावन्त्यौ पार्षतं प्रत्युपस्थितौ॥ तौ तस्य तुरगान् हत्वा त्वरमाणौ महारथौ। छादयामासतुरुभौ शरवाण पार्षतम्॥ अवप्लुत्याथ पाञ्चाल्यो रथात् तूर्णं महाबलः। आरुरोह रथं तूर्णं सात्यकेस्तु महात्मनः॥ ततो युधिष्ठिरो राजा महत्या सेनया वृतः। आवन्त्यौ समरे क्रुद्धावभ्ययात् स परंतपौ॥ तथैव तव पुत्रोऽपि सर्वोद्योगेन मारिष। विन्दानुविन्दौ समरे परिवार्यावतस्थिवान्।॥ अर्जुनश्चापि संक्रुद्धः क्षत्रियान् क्षत्रियर्षभः। अयोधयत संग्रामे वज्रपाणिरिवासुरान्॥ द्रोणस्तु समरे क्रुद्धः पुत्रस्य प्रियकृत् तव। व्यधमत् सर्वपञ्चालास्तूलराशिमिवानलः॥ दुर्योधनपुरोगास्तु पुत्रास्तव विशाम्पते। परिवार्य रणे भीष्मं युयुधुः पाण्डवैः सह॥ ततो दुर्योधनो राजा लोहितायति भास्करे। अब्रवीत् तावकान् सर्वांस्त्वध्वमिति भारत॥ युध्यतां तु तेषां कुर्वतां कर्म दुष्करम्। अस्तं गिरिमथारूढे अप्रकाशति भास्करे॥ प्रावर्तत नदी घोरा शोणितौघतरङ्गिणीः। गोमायुगणसंकीर्णा क्षणेन क्षणदामुखे॥ शिवाभिरशिवाभिश्च रुवद्भिभैरवं रवम्। धोकमायोधनं जज्ञे भूतसंघैः समाकुलम्॥ राक्षसाश्च पिशाचाश्च तथान्ये पिशिताशिनः। समन्ततो व्यदृश्यन्त शतशोऽथ सहस्रशः॥ अर्जुनोऽथ सुशर्मादीन् राज्ञस्तान् सपदानुगान्। विजित्य पृतनामध्ये ययौ स्वशिबिरं प्रति॥ युधिष्ठिरोऽपि कौरव्यौ भ्रातृभ्यां सहितस्तथा। ययौ स्वशिबिरं राजा निशायां सेनया वृतः॥ भीमसेनोऽपि राजेन्द्र दुर्योधनमुखान् रथान्। अवजित्य ततः संख्ये ययौ स्वशिबिरं प्रति॥ दुर्योधनोऽपि नृपतिः परिवार्य महारणे। भीष्मं शान्तनवं तूर्णं प्रयात: शिबिरं प्रति॥ द्रोणो द्रौणिः कृपः शल्यः कृतवर्मा च सात्वतः। परिवार्य चमूं सर्वां प्रययुः शिबिरं प्रति॥ तथैव सात्यकी राजन् धृष्टद्युम्नश्च पार्षतः। परिवार्य रणे योधान् ययतुः शिबिरं प्रति॥ एवमेते महाराज तावकाः पाण्डवैः सह। पर्यवर्तन्त सहिता निशाकाले परंतप॥ ततः स्वशिबिरं गत्वा पाण्डवाः कुरवस्तथा। न्यवसन्त महाराज पूजयन्तः परस्परम्॥ रक्षां कृत्वा ततः शूरा न्यस्य गुल्मान् यथाविधि। अपनीय च शल्यानि स्नात्वा च विविधैर्जलैः॥ कृतस्वस्त्ययनाः सर्वे संस्तूयन्तश्च बन्दिभिः। गीतवादित्रशब्देन व्यक्रीडन्त यशस्विनः॥ मुहूर्तादिव तत् सर्वमभवत् स्वर्गसंनिभम्। न हि युद्धकथां कांचित् तत्राकुर्वन् महारथाः॥ ते प्रसुप्ते बले तत्र परिश्रान्तजने नृप। हस्त्यश्वबहुले रात्रौ प्रेक्षणीये बभूवतुः॥ संजय उवाच परिणाम्य निशां तां तु सुखं प्राप्ता जनेश्वराः। कुरवः पाण्डवाश्चैव पुनर्युद्धाय निर्ययुः॥ ततः शब्दो महानासीत् सैन्ययोरुभयोर्नृप। निर्गच्छमानयोः संख्ये सागरप्रतिमो महान्॥ ततो दुर्योधनो राजा चित्रसेनो विविंशतिः। भीष्मश्च रथिनां श्रेष्ठो भारद्वाजश्च वै नृप॥ एकीभूताः सुसंयत्ताः कौरवाणां महाचमूम्। व्यूहाय विदधू राजन् पाण्डवान् प्रति दंशिताः॥ भीष्मः कृत्वा महाव्यूहं पिता तव विशाम्पते। सागरप्रतिमं घोरं वाहनोर्मितरङ्गिणम्॥ अग्रतः सर्वसैन्यानां भीष्मः शान्तनवो ययौ। मालवैर्दाक्षिणात्यैश्च आवन्त्यैश्च समन्वितः॥ ततोऽनन्तरमेवासीद् भारद्वाजः प्रतापवान्। पुलिन्दैः पारदैश्चैव तथा क्षुद्रकमालवैः॥ द्रोणादनन्तरं यत्तो भगदत्तः प्रतापवान्। मगधैश्च कलिङ्गैश्च पिशाचैश्च विशाम्पते।॥ प्राग्ज्योतिषादनु नृपः कौसल्योऽथ बृहद्बलः। मेकलैः कुरुविन्दैश्च त्रैपुरैश्च समन्वितः॥ बृहद्बलात् ततः शूरस्त्रिगर्तः प्रस्थलाधिपः। काम्बोजैर्बहुभिः सार्धं यवनैश्च सहस्रशः॥ द्रौणिस्तु रभसः शूरस्गर्तादनु भारत। प्रययौ सिंहनादेन नादयानो धरातलम्॥ तथा सर्वेण सैन्येन राजा दुर्योधनस्तदा। द्रौणेरनन्तरं प्रायात् सोदर्यैः परिवारितः॥ दुर्योधनादनु ततः कृपः शारद्वतो ययौ। एवमेष महाव्यूहः प्रययौ सागरोपमः॥ रेजुस्तत्र पताकाश्च श्वेतच्छत्राणि वा विभो। अङ्गदान्यत्र चित्राणि महार्हाणि धनूंषि च॥ तं तु दृष्ट्वा महाव्यूहं तावकानां महारथः। युधिष्ठिरोऽब्रवीत् तूर्णं पार्षत पृतनापतिम्॥ पश्य व्यूहं महेष्वास निर्मितं सागरोपमम्। प्रतिव्यूहं त्वमपि हि कुरु पार्षत सत्वरम्॥ ततः स पार्षतः क्रूरो व्यूह चक्रे सुदारुणम्। शृङ्गाटकं महाराज परव्यूहविनाशनम्॥ शृङ्गाभ्यां भीमसेनश्च सात्यकिश्च महारथः। रथैरनेकसाहौस्तथा हयपदातिभिः॥ ताभ्यां बभौ नरश्रेष्ठः श्वेताश्वः कृष्णसारथिः। मध्ये युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ॥ अथोत्तरे महेष्वासाः सहसैन्या नराधिपाः। व्यूहं तं पूरयामासुयूंहशास्त्रविशारदाः॥ अभिमन्युस्ततः पश्चाद् विराटश्च महारथः। द्रौपदेयाश्च संहृष्टा राक्षसश्च घटोत्कचः॥ एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः। अतिष्ठन् समरे शूरा योद्धुकामा जयैषिणः॥ भेरीशब्दैश्च विमलैर्विमित्रैः शङ्खनि:स्वनैः। क्ष्वेडितास्फोटितोत्क्रुष्टैर्नादिताः सर्वतो दिशः॥ ततः शूराः समासाद्य समरे ते परस्परम्। नेत्रेनिमिषै राजन्नवैक्षन्त परस्परम्॥ नामभिस्ते मनुष्येन्द्र पूर्वं योधाः परस्परम्। युद्धाय समवर्तन्त समाहूयेतरेतरम्॥ ततः प्रववृते युद्धं घोररूपं भयावहम्। तावकानां परेषां च निघ्नतामितरेतरम्॥ नाराचा निशिताः संख्ये सम्पतन्ति स्म भारत। व्यात्तानना भयकरा उरगा इव संघशः॥ निष्पेतुर्विमलाः शक्त्यस्तैलधौताः सुतेजनाः। अम्बुदेभ्यो यथा राजन् भ्राजमानाः शतह्रदाः॥ गदाश्च विमलैः पट्टैः पिनद्धाः स्वर्णभूषितैः। पतन्त्यस्तत्र दृश्यन्ते गिरिशृङ्गोपमाः शुभाः॥ निस्त्रिंशाश्च व्यदृश्यन्त विमलाम्बरसंनिभाः। आर्षभाणि विचित्राणि शतचन्द्राणि भारत॥ अशोभन्त रणे राजन् पात्यमानानि सर्वशः। तेऽन्योन्यं समरे सेने युध्यमाने नराधिप॥ अशोभेतां यथा देवदैत्यसेने समुद्यते। अभ्यद्रवन्त समरे तेऽन्योन्यं वै समन्ततः॥ रथास्तु रथिभिस्तूर्णं प्रेषिताः परमाहवे। युगैर्युगानि संश्लिष्य युयुधुः पार्थिवर्षभाः॥ दन्तिनां युध्यमानानां संघर्षात् पावकोऽभवत्। दन्तेषु भरतश्रेष्ठ सधूमः सर्वतोदिशम्॥ प्रासैरभिहताः केचिद् गजयोधाः समन्ततः। पतमानाः स्म दृश्यन्ते गिरिशृङ्गान्नगा इव॥ पादाताश्चाप्यदृश्यन्त निघ्नन्तोऽथ परस्परम्। चित्ररूपधराः शूरा नखरप्रासयोधिनः॥ अन्योन्यं ते समासाद्य कुरुपाण्डवसैनिकाः। अस्त्रैर्नानाविधैर्घोरै रणे निन्युर्यमक्षयम्॥ ततः शान्तनवो भीष्मो रथघोषेण नादयन्। अभ्यागमद् रणे पार्थान् धनुः शब्देन महोयन्॥ पाण्डवानां रथाश्चापि नदन्तो भैरवं स्वनम्। अभ्यद्रवन्त संयत्ता धृष्टद्युम्नपुरोगमाः॥ ततः प्रववृते युद्धं तव तेषां च भारत। नराश्वरथनागानां व्यतिषक्तं परस्परम्॥ संजय उवाच वर्तमाने तथा रौद्रे राजन् वीरवरक्षये। शकुनिः सौबलः श्रीमान् पाण्डवान् समुपाद्रवत्॥ तथैव सात्वतो राजन् हार्दिक्यः परवीरहा। अभ्यद्रवत संग्रामे पाण्डवानां वरूथिनीम्॥ तत: काम्बोजमुख्यानां नदीजानां च वाजिनाम्। आरट्टानां महीजानां सिन्धुजानां च सर्वशः॥ वनायुजानां शुभ्राणां तथा पर्वतवासिनाम्। वाजिनां बहुभिः संख्ये समन्तात् परिवारयन्॥ ये चापरे तित्तिरिजा जवना वातरंहसः। सुवर्णालंकृतैरेतैर्वर्मवद्भिः सुकल्पितैः॥ हयैर्वातजवैर्मुख्यैः पाण्डवस्य सुतो बली। अभ्यवर्तत तत् सैन्यं हृष्टरूपः परंतपः॥ अर्जुनस्य सुतः श्रीमानिरावान् नाम वीर्यवान्। स्नुषायां नागराजस्य जातः पार्थेन धीमता॥ ऐरावतेन सा दत्ता अनपत्या महात्मना। पतौ हते सुपर्णेन कृपणा दीनचेतना॥ भार्यार्थं तां च जग्राह पार्थः कामवशानुगाम्। एवमेष समुत्पन्नः परपक्षेऽर्जुनात्मजः॥ स नागलोके संवृद्धो मात्रा च परिरक्षितः। पितृव्येण परित्यक्तः पार्थद्वेषाद् दुरात्मना॥ रूपवान् बलसम्पन्नो गुणवान् सत्यविक्रमः। इन्द्रलोकं जगामाशु श्रुत्वा तत्रार्जुनं गतम्॥ सोऽभिगम्य महाबाहुः पितरं सत्यविक्रमः। अभ्यवादयदव्यग्रो विनयेन कृताञ्जलिः॥ न्यवेदयत चात्मानमर्जुनस्य महात्मनः। इरावानस्मि भद्रं ते पुत्रश्चाहं तव प्रभो॥ मातुः समागमो यश्च तत् सर्वं प्रत्यवेदयत्। तच्च सर्वं यथावृत्तमनुसस्मार पाण्डवः॥ परिष्वज्य सुतं चापि आत्मनः सदृशं गुणैः। प्रीतिमाननयत् पार्थो देवराजनिवेशन॥ सोऽर्जुनेन समाज्ञप्तो देवलोके तदा नृप। प्रीतिपूर्वं महाबाहुः स्वकार्यं प्रति भारत॥ युद्धकाले त्वयाऽस्माकं साह्यं देयमिति प्रभो। बाढमित्येवमुक्त्वा तु युद्धकाल इहागतः॥ कामवर्णजवैरश्चैर्बहुभिः संवृतो नृप। ते हयाः काञ्चनापीडा नानावर्णा मनोजवाः॥ उत्पेतुः सहसा राजन् हंसा इव महोदधौ। ते त्वदीयान् समासाद्य हयसंघान् मनोजवान्॥ क्रोडैः क्रोडानभिनन्तो घोणाभिश्च परस्परम्। निपेतुः सहसा राजन् सुवेगाभिहता भुवि॥ निपतद्भिस्तथा तैश्च हयसंधैः परस्परम्। शुश्रुवे दारुणः शब्दः सुपर्णपतने यथा॥ तथैव तावका राजन् समेत्यान्योन्यमाहवे। परस्परवधं घोरं चक्रुस्ते हयसादिनः॥ तस्मिंस्तथा वर्तमाने संकुले तुमुले भृशम्। उभयोरपि संशान्ता हयसङ्घाः समन्ततः॥ प्रक्षीणसायकाः शूरा निहताश्वाः श्रमातुराः। विलयं समनुप्राप्तास्तक्षमाणाः परस्परम्॥ ततः क्षीणे हयानीके किंचिच्छेषे च भारत। सौबलस्यानुजाः शूरा निर्गता रणमूर्धनि॥ वायुवेगसमस्पर्शाञ्जवे वायुसमांश्च ते। आरुह्य बलसम्पन्नान् वयःस्थांस्तुगोत्तमान्॥ गजो गवाक्षो वृषभश्चर्मवानार्जवः शुकः। षडेते बलसम्पन्ना निर्ययुर्महतो बलात्॥ वार्यमाणाः शकुनिना तैश्च योधैर्महाबलैः। संनद्धा युद्धकुशला रौद्ररूपा महाबलाः॥ तदनीकं महाबाहो भित्तवा परमदुर्जयम्। बलेन महता युक्ताः स्वर्गाय विजयैषिणः॥ विविशुस्ते तदा हृष्टा गान्धारा युद्धदुर्मदाः। तान् प्रविष्टांस्तदा दृष्ट्वा इरावानपि वीर्यवान्॥ अब्रवीत् समरे योधान् विचित्रान् दारुणायुधान्। यथैते धार्तराष्ट्रस्य योधाः सानुगवाहनाः॥ हन्यन्ते समरे सर्वे तथा नीतिर्विधीयताम्। बाढमित्येवमुक्त्वा ते सर्वे योधा इरावतः॥ जह्वस्तेषां बलानीकं दुर्जयं समरे परैः। तदनीकमनीकेन समरे वीक्ष्य पातितम्॥ अमृष्यमाणास्ते सर्वे सुबलस्यात्मजा रणे। इरावन्तमभिदुत्य सर्वतः पर्यवारयन्॥ तादडयन्तः शितैः परासैश्चोदयन्तः परस्परम्। ते शूराः पर्यधावन्त कुर्वन्तो महदाकुलम्॥ इरावानथ निर्भिन्नः प्रासैस्तीक्ष्णैर्महात्मभिः। स्रवता रुधिरेणाक्तस्तोत्रैविद्धं इव द्विपः॥ पुरतोऽपि च पृष्ठे च पार्श्वयोश्च भृशाहतः। एको बहुभिरत्यर्थं धैर्याद् राजन् न विव्यथे॥ इरावानपि संकुद्धः सर्वांस्तान् निशितैः शरैः। मोहयामास समरे विद्ध्वा परपुरंजयः॥ प्रासानुत्कृय तरसा स्वशरीरादरिंदमः। तैरेव ताडयमास सुबलस्यात्मजान् रणे॥ विकृष्य च शितं खङ्गं गृहीत्वा च शरावरम्। पदातिर्दृतमागच्छज्जिघांसुः सौबलान् युधि॥ ततः प्रत्यागतप्राणाः सर्वे ते सुबलात्मजाः। भूयः क्रोधसमाविष्टा इरावन्तमभिद्रुताः॥ इरावानपि खड्ड्रेन दर्शयन् पाणिलाघवम्। अभ्यवर्तत तान् सर्वान् सौबलान् बलदर्पितः।। :॥ लाघवेनाथ चरतः सर्वे ते सुबलात्मजाः। अन्तरं नाभ्यगच्छन्त चरन्तः शीघ्रगैर्हयैः॥ भूमिष्ठमथ तं संख्ये सम्प्रदृश्य ततः पुनः। परिवार्य भृशं सर्वे ग्रहीतुमुपचक्रमुः:॥ अथाभ्याशगतानां स खड़ेनामित्रकर्शनः। असिहस्तापहस्ताभ्यः तेषां गात्राण्यकृन्तत॥ आयुधानि च सर्वेषां बाहुनपि विभूषितान्। अपतन्तः निकृत्ताङ्गा मृता भूमौ गतासवः॥ वृषभस्तु महाराज बहुधा विपरिक्षतः। अमुच्यत महारौद्रात् तस्माद् वीरावकर्तनात्॥ तान् सर्वान् पतितान् दृष्ट्वा भीतो दुर्योधनस्ततः। अभ्यधावत संक्रुद्धो राक्षसं घोरदर्शनम्॥ आय॑शृङ्गि महेष्वासं मायाविनमरिंदमम्। वैरिणं भीमसेनस्य पूर्वं बकवधेन वै॥ पश्य वीर यथा ह्येष फाल्गुनस्य सुतो बली। मायावी विप्रियं कर्तुमकार्षीन्मे बलक्षयम्॥ त्वं च कामगमस्तात मायास्त्रे च विशारदः। कृतवैरश्च पार्थेन तस्मादेन रणे जहि॥ बाढमित्येवमुक्त्वा तु राक्षसो घोरदर्शनः। प्रययौ सिंहनादेन यत्रार्जुनसुतो युवा॥ आरूढैयुद्धकुशलैर्विमलप्रासयोधिभिः। वीरैः प्रहारिभिर्युक्तैः स्वैरनीकैः समावृतः॥ हतशेषैर्महाराज द्विसाहौर्हयोत्तमैः। निहन्तुकामः समरे इरावन्तं महाबलम्॥ इरावानपि संक्रुद्धस्त्वरमाणः पराक्रमी। हन्तुकामममित्रघ्नो राक्षसं प्रत्यवारयत्॥ तमापतन्तं सम्प्रेक्ष्य राक्षसः सुमहाबलः। त्वरमाणस्ततो मायां प्रयोक्तुमुपचक्रमे॥ तेन मायामयाः सृष्टा हयास्तावन्त एव हि। स्वारूढा राक्षसैोरैः शूलपट्टिशधारिभिः॥ ते संरब्धाः समागम्य द्विसाहस्राः प्रहारिणः। अचिराद् गमयामासुः प्रेतलोकं परस्परम्॥ तस्मिंस्तु निहते सैन्ये तावुभो युद्धदुर्मदौ। संग्रामे समतिष्ठेतां यथा वै वृत्रवासवौ॥ आद्रवन्तमभिप्रेक्ष्य राक्षसं युद्धदुर्मदम्। इरावानथ संरब्धः प्रत्यधावन्महाबलः॥ समभ्याशगतस्याजौ तस्य खङ्गेन दुर्मतेः। चिच्छेद कार्मुकं दीप्तं शरावापं च सत्वरम्॥ स निकृत्तं धनुर्दृष्ट्वा खं जवेन समाविशत्। इरावन्तमभिक्रुद्धं मोहयन्निव मायया॥ ततोऽन्तरिक्षमुत्पत्य इरावानपि राक्षसम्। विमोहयित्वा मायाभिस्तस्य गात्राणि सायकैः॥ चिच्छेद सर्वमर्मज्ञः कामरूपो दुरासदः। तथा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः॥ सम्बभूव महाराज समवाप च यौवनम्। माया हि सहजा तेषां वयो रूपं च कामजम्॥ एवं तद् राक्षसस्याङ्गं छिन्नं छिन्नं बभूव ह। इरावानपि संक्रुद्धो राक्षसं तं महाबलम्॥ परश्वधेन तीक्ष्णेन चिच्छेद च पुनः पुनः। स तेन बलिना वीरश्छिद्यमान इरावता॥ राक्षसोऽप्यनदद् घोरं स शब्दस्तुमुलोऽभवत्। परश्वधक्षतं रक्षः सुस्राव बहु शोणितम्॥ ततश्चक्रोध बलवांश्चक्रे वेगं च संयुगे। आर्थ्यशृङ्गिस्तथा दृष्ट्वा समरे शत्रुमूर्जितम्॥ कृत्वा घोरं महद् रूपं ग्रहीतुमुपचक्रमे। अर्जुनस्य सुतं वीरमिरावन्तं यशस्विनम्॥ संग्रामशिरसो मध्ये सर्वेषां तत्र पश्यताम्। तां दृष्ट्वा तादृशीं मायां राक्षसस्य दुरात्मनः॥ इरावानपि संक्रुद्धो मायां स्रष्टुं प्रचक्रमे। तस्य क्रोधाभिभूतस्य समरेष्वनिवर्तिनः॥ योऽन्वयो मातृकस्तस्य स एनमभिपेदिवान्। स नागैर्बहुभी राजन्निरावान् संवृतो रणे॥ दधार सुमहद् रूपमनन्त इव भोगवान्। ततो बहुविधैर्नागेश्छादयामास राक्षसम्॥ छाद्यमानस्तु नागैः स ध्यात्वा राक्षसपुङ्गवः। सौपर्ण रूपमास्थाय भक्षयामास पन्नगान्॥ मायया भक्षिते तस्मिन्नन्वये तस्य मातृके। विमोहितमिरावन्तं न्यहनद् राक्षसोऽसिना॥ सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम्। इरावत: शिरो रक्षः पातयामास भूतले॥ तस्मिंस्तु विहते वीरे राक्षसेनार्जुनात्मजे। विशोकाः समपद्यन्त धार्तराष्ट्राः सराजकाः॥ तस्मिन् महति संग्रामे तादृशे भैरवे पुनः। महान् व्यतिकरो घोरः सेनयोः समपद्यत॥ गजा हयाः पदाताश्च विमिश्रा दन्तिभिर्हताः। रथाश्वाः दन्तिनश्चैव पत्तिभिस्तत्र सूदिताः॥ तथा पत्तिरथौघाश्च हयाश्च बहवो रणे। रथिभिनिहता राजंस्तव तेषां च संकुले॥ अजानन्नर्जुनश्चापि निहतं पुत्रमौरसम्। जघान समरे शूरान् राज्ञस्तान् भीष्मरक्षिणः॥ तथैव तावका राजन् संजयाश्च सहस्रशः। जुह्वतः समरे प्राणान् निजत्रुरितरेतरम्॥ मुक्तकेशा विकवचा विस्थाश्छिन्नकार्मुकाः। बाहुभिः समयुध्यन्त समवेताः परस्परम्॥ तथा मर्मातिगैर्भीष्मो निजघान महारथान्। कम्पयन् समरे सेनां पाण्डवानां परंतपः॥ तेन यौधिष्ठिरे सैन्ये बहवो मानवा हताः। दन्तिनः सादिनश्चैव रथिनोऽथ हयास्तथा॥ तत्र भारत भीष्मस्य रणे दृष्ट्वा पराक्रमम्। अत्यद्भुतमपश्याम शक्रस्येव पराक्रमम्॥ तथैव भीमसेनस्य पार्षतस्य च भारत। रौद्रमासीद् रणे युद्ध सात्यकस्य च धन्विनः॥ दृष्ट्वा द्रोणस्य विक्रान्तं पाण्डवान् भयमाविशत्। एक एव रणे शक्तो निहन्तु सर्वसैनिकान्॥ किं पुनः पृथिवीशूर्योधव्रातः समावृतः। इत्युब्रुवन् महाराज रणे द्रोणेन पीडिताः॥ वर्तमाने तथा रौद्रे संग्रामे भरतर्षभ। उभयोः सेनयोः शूरा नामृष्यन्त परस्परम्॥ आविष्टा इव युध्यन्ते रक्षोभूता महाबलाः। तावकाः पाण्डवेयाश्च संरब्धास्तात धन्विनः॥ न स्म पश्यामहे कंचितं प्राणान् यः परिरक्षति। संग्रामे दैत्यसंकाशे तस्मिन् वीरवरक्षये॥ धृतराष्ट्र उवाच इरावन्तं तु निहतं दृष्ट्वा पार्था महारथाः। संग्रामे किमकुर्वन्त तन्ममाचक्ष्व संजय॥ संजय उवाच इरावन्तं तु निहतं संग्रामे वीक्ष्य राक्षसः। व्यनदत् सुमहानादं भैमसेनिर्घटोत्कचः।। :॥ नदतस्तस्य शब्देन पृथिवी सागराम्बरा। सपर्वतवना राजंश्चचाल सुभृशं तदा॥ अन्तरिक्षं दिशश्चैव सर्वाश्च प्रदिशस्तथा। तं श्रुत्वा सुमहानादं तव सैन्यस्य भारत॥ ऊऊस्तम्भः समभवद् वेपथुः स्वेद एव च। सर्व एव महाराज तावका दीनचेतसः॥ सर्वतः समचेष्टन्त सिंहभीता गजा इव। नर्दित्वा सुमहानादं निर्घातमिव राक्षसः॥ ज्वलितं शूलमुद्यम्य रूपं कृत्वा विभीषणम्। नानारूपप्रहरणैर्वृतो राक्षसपुङ्गवैः॥ आजघान सुसंक्रुद्धः कालान्तकयमोपमः। तमापतन्तं सम्प्रेक्ष्य संक्रुद्धं भीमदर्शनम्॥ स्वबलं च भयात् तस्य प्रायशो विमुखीकृतम्। ततो दुर्योधनो राजा घटोत्कचमुपाद्रवत्॥ प्रगृह्य विपुलं चापं सिंहवद् विनदन् मुहुः। पृष्ठतोऽनुययौ चैनं स्रवद्भिः पर्वतोपमैः॥ कुञ्जरैर्दशसाहस्रैर्वङ्गानामधिपः स्वयम्। तमापतन्तं सम्प्रेक्ष्य गजानीकेन संवृतम्॥ पुत्रं तव महाराज चुकोप स निशाचरः। ततः प्रववृते युद्धं तुमुलं लोमहर्षणम्॥ राक्षसानां च राजेन्द्र दुर्योधनबलस्य च। गजानीकं च सम्प्रेक्ष्य मेघवृन्दमिवोदितम्॥ अभ्यधावन्त संक्रुद्धा राक्षसाः शस्त्रपाणयः। नदन्तो विविधान् नादान् मेघा इव सविद्युतः॥ शरशक्त्यृष्टिनाराचैनिघ्नन्तो गजयोधिनः। भिन्दिपालैस्तथा शूलैर्मुद्गरैः सपरश्वधैः॥ पर्वताग्रैश्च वृक्षैश्च निजघ्नुस्ते सहागजान्। भिन्नकुम्भान् विरुधिरान् भिन्नगात्रांश्च वारणान्॥ अपश्याम महाराज वध्यमानान् निशाचरैः। तेषु प्रक्षीयमाणेषु भग्नेषु गजयोधिषुः॥ दुर्योधनो महाराज राक्षसान् समुपाद्रवत्। अमर्षवशमापन्नस्त्यक्त्वा जीवितमात्मनः॥ मुमोच निशितान् बाणान् राक्षसेषु परंतप। जघान् च महेष्वासः प्रधानांस्तत्र राक्षसान्॥ संक्रुद्धो भरतश्रेष्ठ पुत्रो दुर्योधनस्तव। वेगवन्तं महारौद्रं विद्युज्जिद्वं प्रमाथिनम्॥ शरैश्चतुर्भिश्चतुरो निजघान महाबलः। ततः पुनरमेयात्मा शरवर्षं दुरासदम्॥ मुमोच भतरश्रेष्ठो निशाचरबलं प्रति। तत् तु दृष्टवा महत् कर्म पुत्रस्य तव मारिष।॥ क्रोधेनाभिप्रजज्वाल भैमसेनिर्महाबलः। स विस्फार्य महच्चापमिन्द्राशनिसमप्रभम्॥ अभिदुद्राव वेगेन दुर्योधनमरिंदमम्। तमापतन्तमुद्वीक्ष्य कालसृष्टमिवान्तकम्॥ न विव्यथे महाराज पुत्रो दुर्योधनस्तव। अथैनमब्रवीत् क्रुद्धः क्रूरः संरक्तलोचनः॥ अद्यानृण्यं गमिष्यामि पितॄणां मातुरेव च। ये त्वया सुनृशंसेन दीर्घकाल प्रवासिताः॥ यच्च ते पाण्डवा राजश्छलछूते पराजिताः। यच्चैव द्रौपदी कृष्णा एकवस्त्रा रजस्वला॥ सभामानीय दुर्बुद्धे बहुधा क्लेशिता त्वया। तव च प्रियकामेन आश्रमस्था दुरात्मना॥ सैन्धवेन परामृष्टा परिभूय पितृन् मम। एतेषामपमानानामन्येषा च कुलाधम॥ अन्तमद्य गमिष्यामि यदि नोत्सृजसे रणम्। एवमुक्त्वा तु हैडिम्बो महद् विस्फार्य कार्मुकम्॥ संदश्य दशनैरोष्ठं सुक्किणी परिसंलिहन्। शरवर्षेण महता दुर्योधनमवाकिरत्। प्रवतं वारिधाराभिः प्रावृषीव बलाहकः॥ संजय उवाच तु दुःसहं दानवैरपि। ततस्तद् बाणवर्षं दधार युधि राजेन्द्रो यथा वर्ष महाद्विपः॥ ततः क्रोधसमाविष्टो निःश्वसत्रिव पन्नगः। संशयं परमं प्राप्तः पुत्रस्ते भरतर्षभ॥ मुमोच निशितांस्तीक्ष्णान् नाराचान् पञ्चविंशतिम्। तेऽपतन् सहसा रांजस्तस्मिन् राक्षसपुङ्गवे॥ आशीविषा इव क्रुद्धाः पर्वते गन्धमादने। स तैर्विद्धः स्रवन् रक्तं प्रभिन्न इव कुञ्जरः॥ दधे मतिं विनाशाय राज्ञः स पिशिताशनः। जग्राह च महाशक्तिं गिरीणामपि दारिणीम्॥ सम्प्रदीप्तां महोल्काभामशनि ज्वलितामिव। समुद्यच्छन् महावाहुर्जिधांसुस्तनयं तव॥ तामुद्यतामभिप्रेक्ष्य वङ्गानामधिपस्त्वरन्। कुञ्जरं गिरिसंकाशं राक्षसं प्रत्यचोदयत्॥ स नागप्रवरेणाजौ बलिना शीघ्रगामिना। यतो दुर्योधनरथस्तं मार्ग प्रत्यवर्तत॥ रथं च वारयामास कुञ्जरेण सुतस्य मार्गमावारितं दृष्ट्वा राज्ञा वङ्गेन धीमता॥ घटोत्कचो महाराज क्रोधसंरक्तलोचनः। उद्यतां तां महाशक्तिं तस्मिश्चिक्षेप वारणे॥ स तयाऽभिहतो राजंस्तेन बाहुप्रमुक्तया। संजातरुधिरोत्पीडः पपात च ममार च॥ पतत्यथ गजे चापि वङ्गानामीश्वरो बली। जवेन समभिदुत्य जगाम धरणीतलम्॥ दुर्योधनोऽपि सम्प्रेक्ष्य पतितं वरवारणम्। प्रभग्नं च बलं दृष्ट्वा जगाम परमां व्यथाम्॥ क्षत्रधर्मं पुरस्कृत्य आत्मनश्चाभिमानिताम्। प्राप्तेऽपक्रमणे राजा तस्थौ गिरिरिवाचलः॥ संधाय च शितं बाणं कालाग्निसमतेजसम्। मुमोज परमक्रुद्धस्तस्मिन् घोरे निशाचरे॥ तमापतन्तं सम्प्रेक्ष्य बाणमिन्द्राशनिप्रभम्। लाघवान्मोचयामास महात्मा वै घटोत्कचः॥ भूयश्च विननादोग्रं क्रोधसंरक्तलोचनः। त्रासयामास सैन्यानि युगान्ते जलदो यथा॥ तं श्रुत्वा निनदं घोरं भीमस्य रक्षसः। आचार्यमुपसङ्गम्य भीष्मः शान्तनवोऽब्रवीत्॥ यथैष निनदो घोरः श्रूयते राक्षसेरितः। हैडिम्बो युध्यते नूनं राज्ञा दुर्योधनेन ह॥ नैष शक्यो हि संग्रामे जेतुं भूतेन केनचित्। तत्र गच्छत भद्रं वो राजानं परिरक्षत॥ अभिद्रुतो महाभागो राक्षसेन महात्मना। एतद्धि वः परं कृत्यं सर्वेषां नः परंतपाः॥ पितामहवचः श्रुत्वा त्वरमाणा महारथाः। उत्तमं जवमास्थाय प्रययुर्यत्र कौरवः॥ द्रोणश्च सोमदत्तश्च बाह्रीकोऽथ जयद्रथः। कृपो भूरिश्रवाः शल्य आवन्त्यः सबृहद्बलः॥ अश्वत्थामा विकर्णश्च चित्रसेनो विविंशतिः। रथाश्चानेकसाहस्रा ये तेषामनुयायिनः॥ अभिदुतं परीप्सन्तः पुत्रं दुर्योधनं तव। तदनीकमनाधृष्यं पालितं तु महारथैः॥ आततायिनमायान्तं प्रेक्ष्य राक्षससत्तमः। नाकम्पत महाबाहुर्मैनाक इव पर्वतः॥ प्रगृह्य विपुलं चापं ज्ञातिभिः परिवारितः। शूलमुद्गरहस्तैश्च नानाप्रहरणैरपि॥ ततः समभवद् युद्धं तुमुलं लोमहर्षणम्। राक्षसानां च मुख्यस्य दुर्योधनबलस्य च॥ धनुषां कूजतां शब्दः सर्वतस्तुमुलो रणे। अश्रूयत महाराज वंशानां दह्यतामिव॥ अस्त्राणां पात्यमानानां कवचेषु शरीरिणाम्। शब्दः समभवद् राजन् गिरीणामिव भिद्यताम्॥ वीरबाहुविसृष्टानां तोमराणां विशाम्पते। रूपमासीद् वियत्स्थानां सर्पाणामिव सर्पताम्॥ ततः परमसंक्रुद्धो विस्फार्य सुमहद् धनुः। राक्षसेन्द्रो महाबाहुविनदन् भैरवं रवम्॥ आचार्यस्यार्धचन्द्रेण क्रुद्धश्चिच्छेद कार्मुकम्। सोमदत्तस्य भल्लेन ध्वजं चोन्मथ्य चानदत्॥ बाह्रीकं च त्रिभिर्बाणैः प्रत्यविध्यत् स्तनान्तरे। कृपमेकेन विव्याध चित्रसेनं त्रिभिः शरैः॥ पूर्णायतविसृष्टेन सम्यक् प्रणिहितेन च। जत्रुदेशे समासाद्य विकर्णं समताडयत्॥ न्यषीदत् स्वरथोपस्थे शोणितेन परिप्लुतः। ततः पुनरमेयात्मा नाराचान् दश पञ्च च॥ भूरिश्रवसि संक्रुद्धः प्राहिणोद् भरतर्षभ। ते वर्म भित्त्वा तस्याशु विविशुर्धरणीतलम्॥ विविंशतेश्च द्रौणेश्च यन्तारौ समताडयत्। तौ पेततू रथोपस्थे रश्मीनुत्सृज्य वाजिनाम्॥ सिंधुराज्ञोऽर्धचन्द्रेण वाराहं स्वर्णभूषितम्। उन्ममाथ महाराज द्वितीयेनाच्छिनद् धनुः॥ चतुर्भिरथ नाराचैरावन्त्यस्य महात्मनः। जघान चतुरो वाहान् क्रोधसंरक्तलोचनः॥ पूर्णायतविसृष्टेन पीतेन निशितेन च। निर्बिभेद महाराज राजपुत्रं बृहद्बलम्॥ स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्। भृशं क्रोधेन चाविष्टो रथस्थो राक्षसाधिपः॥ चिक्षेप निशितांस्तीक्ष्णाञ्छरानाशीविषोपमान्। बिभिदुस्ते महाराज शल्यं युद्धविशारदम्॥ संजय उवाच विमुखीकृत्य सर्वांस्तु तावकान् राक्षसः। जिघांसुर्भरतश्रेष्ठ दुर्योधनमुपाद्रवत्॥ तमापतन्तं सम्प्रेक्ष्य राजानं प्रति वेगितम्। अभ्यधावञ्जिघांसन्तस्तावका युद्धदुर्मदाः॥ तालमात्राणि चापानि विकर्षन्तो महारथाः। तमेकमभ्यधावन्त नदन्तः सिंहसंघवत्॥ अथैनं शरवर्षेण समन्तात् पर्यवाकिरन्। पर्वतं वारिधाराभिः शरदीव बलाहकाः॥ स गाढविद्धो व्यथितस्तोत्रादित इव द्विपः। उत्पपात तदाऽऽकाशं समन्ताद् वैनतेयवत्॥ व्यनदत् सुमहानादं जीमूत इव शारदः। दिशः खं विदिशश्चैव नादयन् भैरवस्वनः॥ राक्षसस्य तु तं शब्दं श्रुत्वा राजा युधिष्ठिरः। उवाच भरतश्रेष्ठ भीमसेनमरिंदमम्॥ युध्यते राक्षसो नूनं धार्तराष्ट्रैर्महारथैः। यथाऽस्य श्रूयते शब्दो नदतो भैरवं स्वनम्॥ अतिभारं च पश्यामि तस्मिन् राक्षसपुङ्गवे। पितामहश्च संक्रुद्धः पञ्चालान् हन्तुमुद्यतः॥ तेषां च रक्षणार्थाय युध्यते फाल्गुनः परैः। एतज्ञात्वा महाबाहो कार्यद्वयमुपस्थितम्॥ गच्छ रक्षस्व हैडिम्बं संशयं परमं गतम्। भ्रातुर्वचनमाज्ञाय त्वरमाणो वृकोदरः॥ प्रययौ सिंहनादेन त्रासयन् सर्वपार्थिवान्। वेगेन महता राजन् पर्वकाले यथोदधिः॥ तमन्वगात् सत्यधृतिः सौचित्तियुद्धदुर्मदः। श्रेणिमान् वसुदानश्च पुत्रः काश्यस्य चाभिभूः॥ अभिमन्युमुखाश्चैव द्रौपदेया महारथाः। क्षत्रदेवश्च विक्रान्तः क्षत्रधर्मा तथैव च॥ अनूपाधिपतिश्चैव नीलः स्वबलमास्थितः। महता रथवंशेन हैडिम्बं पर्यवारयन्॥ कुञ्जरैश्च सदा मत्तैः षट्सहस्रैः प्रहारिभिः। अभ्यरक्षन्त सहिता राक्षसेन्द्रं घटोत्कचम्॥ सिंहनादेन महता नेमिघोषेण चैव ह। खुरशब्दनिपातैश्च कम्पयन्तो वसुन्धराम्॥ तेषामापततां श्रुत्वा शब्दं त तावकं बलम्। भीमसेनभयोद्विग्नं विवर्णवदनं तथा॥ परिवृत्तं महाराज परित्यज्य घटोत्कचम्। ततः प्रववृते युद्धं तत्र तेषां महात्मनाम्॥ तावकानां परेषां च संग्रामेष्वनिवर्तिनाम्। नानारूपाणि शस्त्राणि विसृजन्तो महारथाः॥ अन्योन्यमभिधावन्तः सम्प्रहारं प्रचक्रिरे। व्यतिषक्तं महारौद्रं युद्धं भीरुभयावहम्॥ हया गजैः समाजग्मुः पादाता रथिभिः सह। अन्योन्यं समरे राजन् प्रार्थयानाः समभ्ययुः॥ सहसा चाभवत् तीव्र संनिपातान्महद् रजः। गजाश्वरथपत्तीनां पदनेमिसमुद्धतम्॥ धूम्रारुणं रजस्तीव्र रणभूमि समावृणोत्। नैव स्वेन परे राजन् समजानन् परस्परम्॥ पिता पुत्रं न जानीते पुत्रो वा पितरं तथा। निर्मर्यादे तथाभूते वैशसे लोमहर्षणे॥ शास्त्राणां भरतश्रेष्ठः मनुष्याणां च गर्जताम्। सुमहानभवच्छब्दः प्रेतानामिव भारत॥ गजवाजिमनुष्याणां शोणितान्त्रतरङ्गिणी। प्रावर्तत नदी तत्र केशशैवलशाद्वला॥ नराणां चैव कायेभ्यः शिरसां पततां रणे। शुश्रुवे सुमहाञ्छब्दः पततामश्मनामिव॥ विशिरस्कैर्मनुष्यैश्च च्छिन्नगात्रैश्च वारणैः। अश्वैः सम्भिन्नदेहैश्च संकीर्णाभूद् वसुन्धरा॥ नानाविधानि शस्त्राणि विसृजन्तो महारथाः। अन्योन्यमभिधावन्तः सम्प्रहारार्थमुद्यताः॥ हया हयान् समासाद्य प्रेषिता हयसादिभिः। समाहत्य रणेऽन्योन्यं निपेतुर्गतजीविताः॥ नरा नरान् समासाद्य क्रोधरक्तेक्षणा भृशम्। उरांस्युरोभिरन्योन्यं समाश्लिष्य निजनिरे॥ प्रेषिताश्च ग्रमहामात्रैर्वारणाः परवारणैः। अभ्यघ्नन्त विषाणाग्रैर्वारणानेव संयुगे।॥ ते जातरुधिरोत्पीडाः पताकाभिरलंकृताः। संसक्ताः प्रत्यदृश्यन्त मेघा इव सविद्युतः॥ मुमुचुः शोणितं भूरि केचिद् भिन्ना विषाणाचैर्भिन्नकुम्भाश्च तोमरैः। विनदन्तोऽभ्यधावन्त गर्जमाना घना इव॥ केचिद्धस्तैर्द्विधा च्छिन्नैश्छिन्नगात्रास्तथाऽपरे। निपेतुस्तुमुले तस्मिंश्छिन्नपक्षा इवाद्रयः॥ पार्श्वस्तु दारितैरन्ये वारणैर्वरवारणाः। धातूनिव महीधराः॥ नाराचनिहतास्त्वन्ये तथा विद्धाश्च तोमरैः। विनदन्तोऽभ्यधावन्त विशृंगा इव पर्वताः॥ केचित् क्रोधसमाविष्टा मदान्धा निरवग्रहाः। रथान् हयान् पदातींश्च ममृदुः शतशो रणे॥ तथा हया हयारोहैस्ताडिताः प्रासतोमरैः। तेन तेनाभ्यवर्तन्त कुर्वन्तो व्याकुला दिशः॥ रथिनो रथिभिः सार्धं कुलपुत्रास्तनुत्यजः। परां शक्तिं समास्थाय चक्रुः कर्माण्यभीतवत्॥ स्वयंवर इवामर्दे प्रजह्वरितरेतरम्। प्रार्थयाना यशो राजन् स्वर्ग वा युद्धशालिनः॥ तस्मिंस्तथा वर्तमाने संग्रामे लोमहर्षणे। धार्तराष्ट्रं महत् सैन्यं प्रायशो विमुखीकृतम्॥ संजय उवाच स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनः स्वयम्। अभ्यधावत संक्रुद्धो भीमसेनमरिंदमम्॥ प्रगृह्य सुमहच्चापमिन्द्राशनिसमस्वनम्। महता शरवर्षेण पाण्डवं समवाकिरत्॥ अर्धचन्द्रं च संधाय सुतीक्ष्ण लोमवाहिनम्। भीमसेनस्य चिच्छेद चापं क्रोधसमन्वितः॥ तदन्तरं च सम्प्रेक्ष्य त्वरमाणो महारथः। प्रसंदधे शितं बाणं गिरीणामपि दारणम्॥ तेनोरसि महाराज भीमसेनमताडयत्। स गाढविद्धो व्यथितः सृक्किणी परिसंलिहन्॥ समाललम्बे तेजस्वी ध्वजं हेमपरिष्कृतम्। तथा विमनसं दृष्ट्वा भीमसेनं घटोत्कचः॥ क्रोधेनाभिप्रजज्वाल दिघक्षन्निव पावकः। अभिमन्युमुखाश्चापि पाण्डवानां महारथाः॥ समभ्यधावन् क्रोशन्तो राजानं जातसम्भ्रमाः। सम्प्रेक्ष्येतान् सम्पतत:संक्रुद्धाञ्जातसम्भ्रमान्॥ भारद्वाजोऽब्रवीद् वाक्यं तावकानां महारथान्। क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षत॥ संशयं परमं प्राप्तं मज्जन्तं व्यसनार्णवे। एते क्रुद्धा महेष्वासाः पाण्डवानां महारथाः॥ भीमसेनं पुरस्कृत्य दुर्योधनमुपाद्रवन्। नानाविधानि शस्त्राणि विसृजन्तो जये धृताः॥ नदन्तो भैरवान् नादांस्त्रासयन्तश्च भूमिपान्। तदाचार्यवचः श्रुत्वा सौमदत्तिपुरोगमाः॥ तावकाः समवर्तन्त पाण्डवानामनीकिनीम्। कृपो भूरिश्रवाः शल्यो द्रोणपुत्रो विविंशतिः॥ चित्रसेनो विकर्णश्च सैन्धवोऽथ बृहद्बलः। आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन्॥ ते विंशतिपदं गत्वा सम्प्रहारं प्रचक्रिरे। पाण्डवा धार्तराष्ट्राश्च परस्परजिघांसवः॥ एवमुक्त्वा महाबाहुर्महद् विस्फार्ये कार्मुकम्। भारद्वाजस्ततो भीमं षड्विंशत्या समार्पयत्॥ भूयश्चैनं महाबाहुः शरैः शीघ्रमवाकिरत्। पर्वतं वारिधाराभिः प्रावृषीव बलाहकः॥ तं प्रत्यविध्यद् दशभिर्भीमसेनः शिलीमुखैः। त्वरमाणो महेष्वासः सव्ये पार्श्वे महाबलः॥ स गाढविद्धो व्यथितो वयोवृद्धश्च भारत। प्रणष्टसंज्ञः सहसा रथोपस्थ उपाविशत्॥ गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनः स्वयम्। द्रौणायनिश्च संक्रुद्धौ भीमसेनमभिद्रुतौ॥ तावापतन्तौ सम्प्रेक्ष्य कालान्तकयमोपमौ। भीमसेनो महाबाहुर्गदामादाय सत्वरम्॥ अवप्लुत्य रथात् तूर्णं तस्थौ गिरिरिवाचलः। समुद्यम्य गदां गुर्वी यमदण्डोपमां रणे॥ तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम्। कौरवो द्रोणपुत्रश्च सहितावभ्यधावताम्॥ तावापतन्तौ सहितौ त्वरितौ बलिनां वरौ। अभ्यधावत वेगेन त्वरमाणो वृकोदरः॥ तमापतन्तं सम्प्रेक्ष्य संक्रुद्धं भीमदर्शनम्। समभ्यधावंस्त्वरिताः कौरवाणां महारथाः॥ भारद्वाजमुखाः सर्वे भीमसेनजिघांसया। नानाविधानि शस्त्राणि भीमस्योरस्यपातयन्॥ सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः। तं दृष्ट्वा संशयं प्राप्तं पीड्यमानं महारथम्॥ अभिमन्युप्रभृतयः पाण्डवानां महारथाः। अभ्यधावन् परीप्सन्तः प्राणांस्त्यक्त्वा सुदुस्त्यजान्।।२८। अनूपाधिपतिः शूरो भीमस्य दयितः सखा। नालो नीलाम्बुदप्रख्यः संक्रुद्धो द्रौणिमभ्ययात्॥ स्पर्धते हि महेष्वासो नित्यं द्रोणसुतेन सः। स विस्फार्य महच्चापं द्रौणिं विव्याध पत्रिणा॥ यथा शक्रो महाराज पुरा विप्रचित्तिं दुराधर्षं देवतानां भयंकरम्॥ येन लोकत्रयं क्रोधात् त्रासितं स्वेन तेजसा। तथा नीलेन निर्भिन्नः सुमुक्तेन पतत्त्रिणा॥ संजातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः। स विस्फार्य धनुश्चित्रमिन्द्राशनिसमस्वनम्॥ विव्याध दानवम्। दने नीलविनाशाय मति मतिमतां वरः। ततः संधाय विमलान् भल्लान् कर्मारमार्जितान्॥ जधान चतुरो वाहान् सारथिं ध्वजमेव च। सप्तमेन च भल्लेन नीलं विव्याध वक्षसि॥ स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्। मोहितं वीक्ष्य राजानं नीलमध्चयोपमम्॥ घटोत्कचोऽभिसंक्रुद्धो ज्ञातिभिः परिवारितः। अभिदुद्राव वेगेन द्रौणिमाहवशोभिनम्॥ तथेतरे चाभ्यधावन् राक्षसा युद्धदुर्मदाः। तमापतन्तं सम्प्रेक्ष्य राक्षसं घोरदर्शनम्॥ अभ्यधावत तेजस्वी भारद्वाजात्मजस्त्वरन्। निजघान च संक्रुद्धो राक्षसान् भीमदर्शनान्॥ येऽभवन्नग्रतः क्रुद्धा राक्षसस्य पुरःसराः। विमुखांश्चैव तान् दृष्ट्वा द्रौणिचापच्युतैः शरैः॥ अक्रुद्ध्यत महाकायो भीमसेनिर्घटोत्कचः। प्रादुश्चक्रे ततो माया घोररूपां सुदारुणाम्॥ मोहयन् समरे द्रौणि मायावी राक्षसाधिपः। ततस्ते तावकाः सर्वे मायया विमुखीकृताः॥ अन्योन्यं समपश्यन्त निकृत्ता मेदिनीतले। विचेष्टमानाः कृपणाः शोणितेन परिप्लुताः॥ द्रोणं दुर्योधनं शल्यमश्वत्थामानमेव च। प्रायशश्च महेष्वासा ये प्रधानाः स्म कौरवाः॥ विध्वस्ता रथिनः सर्वे राजानश्च निपातिताः। हयाश्चैव हयारोहाः संनिकृत्ताः सहस्रशः॥ तद् दृष्ट्वा तावकं सैन्यं विद्रुतं शिबिरं प्रति। मम प्राक्रोशतो राजंस्तथा देवव्रतस्य च॥ युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणे। घटोत्कचप्रमुक्तेति नातिष्ठन्त विमोहिताः॥ नैव ते श्रद्दधुर्मीता वदतोरावयोर्वचः। तांश्च प्रद्रवतो दृष्ट्वा जयं प्राप्ताश्च पाण्डवाः॥ घटोत्कचेन सहिताः सिंहनादान् प्रचक्रिरे। शङ्खदुन्दुभिनिर्घोषैः समन्तान्नेदिरे भृशम्॥ एवं तव बलं सर्वं हैडिम्बेन दुरात्मना। सूर्यास्तमनवेलायां प्रभग्नं विद्रुतं दिशः॥ संजय उवाच तस्मिन् महति संक्रन्दे राजा दुर्योधनस्तदा। गाङ्गेयमुपसंगम्य विनयेनाभिवाद्य च॥ तस्य सर्वं यथावृत्तमाख्यातुमुपचक्रमे। घटोत्कचस्य विजयमात्मनश्च पराजयम्॥ कथयामास दुर्धर्षो विनिःश्वस्य पुनः पुनः। अब्रवीच्च तदा राजन् भीष्मं कुरुपिताहम्॥ भवन्तं समुपाश्रित्य वासुदेवं यथा परैः। पाण्डवैर्विग्रहो घोरः समारब्धो मया प्रभो॥ एकादश समाख्याता अक्षौहिण्यश्च या मम। निदेशे तव तिष्ठन्ति मया सार्धं परंतप॥ सोऽहं भरतशार्दूल भीमसेनपुरोगमैः। घटोत्कचं समाश्रित्य पाण्डवैर्युधि निर्जितः॥ तन्मे दहति गात्राणि शुष्कवृक्षमिवानलः। यदिच्छामि महाभाग त्वत्प्रसादात् परंतप॥ राक्षसापसदं हन्तु स्वयमेव पितामह। त्वां समाश्रित्य दुर्धर्षं तन्मे कर्तुं त्वमर्हसि॥ एतच्छ्रुत्वा तु वचनं राज्ञो भरतसत्तम। दुर्योधनमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत्॥ शृणु राजन् मम वचो यत् त्वां वक्ष्यामि कौरव। यथा त्वया महाराज वर्तितव्यं परंतप॥ आत्मा रक्ष्यो रणे तात सर्वावस्थास्वरिंदम। धर्मराजेन संग्रामस्त्वया कार्यः सदाऽनघ॥ अर्जुनेन यमाभ्यां वा भीमसेनेन वा पुनः। राजधर्मं पुरस्कृत्य राजा राजानमार्छति॥ अहं द्रोणः कृपो द्रौणिः कृतवर्मा च सात्वतः। शल्यश्च सौमदत्तिश्च विकर्णश्च महारथः॥ तव च भ्रातरः श्रेष्ठा दुःशासनपुरोगमाः। त्वदर्थे प्रतियोत्स्यामो राक्षसं तं महाबलम्॥ रौद्रे तस्मिन् राक्षसेन्द्रे यदि तेऽनुशयो महान्। अयं वा गच्छतु रणे तस्य युद्धाय दुर्मतेः॥ भगदत्तो महीपालः पुरन्दरसमो युधि। एतावदुक्त्वा राजानं भगदत्तमथाब्रवीत्॥ समक्षं पार्थिवेन्द्रस्य वाक्यं वाक्यविशारदः। गच्छ शीघ्रं महाराज हैडिम्बं युद्धदुर्मदम्॥ वारयस्व रणे यत्तो मिषतां सर्वधन्विनाम्। राक्षसं क्रूरकर्माणं यथेन्द्रस्तारकं पुरा॥ तव दिव्यानि चास्त्राणि विक्रमश्च परंतप। समागमश्च बहुभिः पुराभूदमरैः सह॥ त्वं तस्य नृपशार्दूल प्रतियोद्धा महाहवे। स्वबलेनोच्छ्रितो राजञ्जहि राक्षसपुङ्गवम्॥ एतच्छ्रुत्वा तु वचनं भीष्मस्य पृतनापतेः। प्रययौ सिंहनादेन परानभिमुखो द्रुतम्॥ तमाद्रवन्तं सम्प्रेक्ष्य गर्जन्तमिव तोयदम्। अभ्यवर्तन्त संक्रुद्धाः पाण्डवानां महारथाः॥ भीमसेनोऽभिमन्युश्च राक्षश्च घटोत्कचः। द्रौपदेयाः सत्यधृतिः क्षत्रदेवश्च भारत॥ चेदिपो वसुदानश्च दशार्णाधिपतिस्तथा। सुप्रतीकेन तांश्चापि भगदत्तोऽप्युपाद्रवत्॥ ततः समभवद् युद्धं घोररूपं भयानकम्। पाण्डूनां भगदत्तेन यमराष्ट्रविवर्धनम्॥ प्रयुक्ता रथिभिर्बाणा भीमवेगाः सुतेजनाः। ते निपेतुर्महाराज नागेषु च रथेषु च॥ प्रभिन्नाश्च महानागा विनीता हस्तिसादिभिः। परस्परं समासाद्य संनिपेतुरभीतवत्॥ मदान्धा रोषसंरब्धा विषाणार्महाहवे। बिभिदुर्दन्तमुसलैः समासाद्य परस्परम्॥ हयाश्च चामरापीडाः प्रासपाणिभिरास्थिताः। चोदिताः सादिभिः क्षिप्रं निपेतुरितरेतरम्॥ पादाताश्च पदात्यौटुस्ताडिताः शक्तितोमरैः। न्यपतन्त तदा भूमौ शतशोऽथ सहस्रशः॥ रथिनश्च स्थै राजन् कर्णिनालीकसायकैः। निहत्य समरे वीरान् सिंहनादान् विनेदिरे॥ तस्मिंस्तथा वर्तमाने संग्रामे लोमहर्षणे। भगदत्तो महेष्वासो भीमसेनमथाद्रवत्॥ कुञ्जरेण प्रभिन्नेन सप्तधा स्रवता मदम्। पर्वतेन यथा तोयं स्रवमाणेन सर्वशः॥ किरछरसहस्राणि सुप्रतीकशिरोगतः। ऐरावतस्थो मघवान् वारिधारा इवानघ॥ स भीमं शरधाराभिस्ताडयामास पार्थिवः। पर्वतं वारिधारभिस्तापान्ते जलदो यथा॥ भीमसेनस्तु संक्रुद्धः पादरक्षान् परःशतान्। निजघान महेष्वासः संरब्धः शरवृष्टिभिः॥ तान् दृष्ट्वा निहतान् क्रुद्धो भगदत्तः प्रतापवान्। चोदयामास नागेन्द्र भीमसेनस्थं प्रति॥ स नागः प्रेषितस्तेन बाणो ज्याचोदितो यथा। अभ्यधावत वेगेन भीमसेनमरिंदमम्॥ तमापतन्तं सम्प्रेक्ष्य पाण्डवानां महारथाः। अभ्यवर्तन्त वेगेन भीमसेनपुरोगमाः॥ केकयाश्चाभिमन्युश्च द्रौपदेयाश्च सर्वशः। दशार्णाधिपतिः शूरः क्षत्रदेवश्च मारिष॥ चेदिपश्चित्रकेतुश्च संरब्धाः सर्व एव ते। उत्तमास्त्राणि दिव्यानि दर्शयन्तो महाबलाः॥ तमेकं कुञ्जरं क्रुद्धाः समन्तात् पर्यवारयन्। स विद्धो बहुभिर्बाणैर्व्यरोचत महाद्विपः॥ संजातरुधिरोत्पीडो धातुचित्र इवाद्रिराट्। दशार्णाधिपतिश्चापि गजं भूमिधरोपमम्॥ समास्थितोऽभिदुद्राव भगदत्तस्य वारणम्। तमापतन्तं समरे गजं गजपति: स च॥ दधार सुप्रतीकोऽपि वेलेव मकरालयम्। वारितं प्रेक्ष्य नागेन्द्रं दशार्णस्य महात्मनः॥ साधु साध्विति सैन्यानि पाण्डवेयान्यपूजयन्। ततः प्राग्ज्योतिषः क्रुद्धस्तोमरान् वै चतुर्दश॥ प्राहिणोत् तस्य नागस्य प्रमुखे नृपसत्तम। वर्म मुख्यं तनुत्राणं शातकुम्भपरिष्कृतम्॥ विदार्य प्राविशन् क्षिप्रं वल्मीकमिव पन्नगाः। स गाढविद्धो व्यथितो नागो भरतसत्तम॥ उपावृत्तमदः क्षिप्रमभ्यवर्तत वेगितः। स प्रदुद्राव वेगेन प्रणदन् भैरवं रवम्॥ सम्मर्दयानः स्वबलं वायुर्वृक्षानिवौजसा। तस्मिन् पराजिते नागे पाण्डवानां महारथाः॥ सिंहनादं विनद्योच्चैयुद्धायैवावतस्थिरे। ततो भीमं पुरस्कृत्य भगदत्तमुपाद्रवन्॥ किरन्तो विविधान् बाणाशस्त्राणि विविधानि च। तेषामापततां राजन् संकुद्धानाममर्षिणाम्॥ श्रुत्वा स निनदं धोरभमर्षाद् गतसाध्वसः। भगदत्तो महेष्वासः स्वनागं प्रत्यचोदयत्॥ अङ्कुशाङ्गुनुदितः स गजप्रवरो युधि। तस्मिन् क्षणे समभवत् सांवर्तक इवानलः ॥ रथसंघांस्तथा नागान् हयांश्च हयासादिभिः। पादातांश्च सुसंक्रुद्धः शतशोऽथ सहस्रशः॥ अमृद्गात् समरे नागः सम्प्रधावंस्ततस्ततः। तेन संलोड्यमानं तु पाण्डवानां बलं महत्॥ संचुकोच महाराज चर्मेवाग्नौ समाहितम्। भग्नं तु स्वबलं दृष्ट्वा भगदत्तेन धीमता॥ घटोत्कचोऽथ संक्रुद्धो भगदत्तमुपाद्रवत्। विकटः परुषो राजन् दीप्तास्यो दीप्तलोचनः॥ रूपं विभीषणं कृत्वा रोषेण प्रज्वलन्निव। जग्राहं विमलं शूलं गिरीणामपि दारणम्॥ नागं जिघांसुः सहसा चिक्षेप च महाबलः। स विस्फुलिङ्गमालाभिः समन्तात् परिवेष्टितः॥ तमापतन्तं सहसा दृष्ट्वा प्राग्ज्योतिषो नृपः। चिक्षेप रुचिरं तीक्ष्णमर्धचन्द्रं सुदारुणम्॥ चिच्छेद तन्महन्छूलं तेन बाणेन वेगवान्। उत्पपात द्विधा च्छिन्नं शूलं हेमपरिष्कृतम्॥ महाशनिर्यथा भ्रष्टा शक्रुमुक्ता नभोगता। शूलं निपतितं दृष्ट्वा द्विधा कृत्तं च पार्थिवः॥ रुक्मदण्डां महाशक्ति जग्राहाग्निशिखोपमाम्। चिक्षेप तां राक्षसस्य तिष्ठ तिष्ठेति चाब्रवीत्॥ तामापतन्ती सम्प्रेक्ष्य वियत्स्थामशनीमिव। उत्पत्य राक्षसस्तूर्णं जग्राह च ननाद च॥ बभञ्ज चैनां त्वरितो जानुन्यारोप्य भारत। पश्यतः पार्थिवेन्द्रस्य तदद्भुतमिवाभवत्॥ तदवेक्ष्य कृतं कर्म राक्षसेन बलीयसा। दिवि देवाः सगन्धर्वा मुनयश्चापि विस्मिताः॥ पाण्डवाश्च महाराज भीमसेनपुरोगमाः। साधु साध्विति नादेन पृथिवीमन्वनादयन्॥ तं तु श्रुत्वा महानादं प्रहृष्टानां महात्मनाम्। नामृष्यत महेष्वासो भगदत्तः प्रतापवान्॥ स विस्फार्य महच्चापमिन्द्राशनिसमप्रभम्। तर्जयामास वेगेन पाण्डवानां महारथान्॥ विसृजन् विमलांस्तीक्ष्णान् नाराचाज्वलनप्रभान्। भीममेकेन विव्याध राक्षसं नवभिः शरैः॥ अभिमन्यु त्रिभिश्चैव केकयान् पञ्चभिस्तथा। पूर्णायतविसृष्टेन शरेणानतपर्वणा॥ बिभेद दक्षिणं बाहुं क्षत्रदेवस्य चाहवे। पपात सहसा तस्य सशरं धनुरुत्तमम्॥ द्रौपदेयास्ततः पञ्च पञ्चभिः समताडयत्। भीमसेनस्य च क्रोधान्निजघान तुरङ्गमान्॥ ध्वजं केसरिणं चास्य चिच्छेद विशिखैस्त्रिभिः। निर्बिभेद त्रिभिश्चान्यैः सारथिं चास्य पत्रिभिः॥ स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्। विशोको भरतश्रेष्ठ भगदत्तेन संयुगे॥ ततो भीमो महावाहुर्विरथो रथिनां वरः। गदां प्रगृह्य वेगेन प्रचस्कन्द रथोत्तमात्॥ तमुद्यतगदं दृष्ट्वा सशृङ्गमिव पर्वतम्। तावकानां भयं घोरं समपद्यत भारत॥ एतस्मिन्नेव काले तु पाण्डव: कृष्णसारथिः। आजगाम महाराज निनशत्रून् समन्ततः॥ यत्र तौ पुरुषव्याघ्रौ पितापुत्रौ महाबलौ। प्राग्ज्योतिषेण संयुक्तौ भीमसेनघटोत्कचौ॥ दृष्ट्वा च पाण्डवो भ्रातृन् युध्यमानान् महारथान्। त्वरितो भरतश्रेष्ठ तत्रायुध्यत् किरञ्छरान्॥ ततो दुर्योधनो राजा त्वरमाणो महारथः। सेनामचोदयत् क्षिप्रं रथनागाश्वसंकुलाम्॥ तामापतन्तीं सहसा कौरवाणां महाचमूम्। अभिदुद्राव वेगेन पाण्डवः श्वेतवाहनः॥ भगदत्तश्च समरे तेन नागेन भारत। विमृद्गन् पाण्डवबलं युधिष्ठिरमुपाद्रवत्॥ तदाऽऽसीत् सुमहद् युद्धं भगदत्तस्य मारिष। पञ्चालैः पाण्डवेयैश्च केकयैश्चोद्यतायुधैः॥ भीमसेनोऽपि समरे तावुभौ केशवार्जुनौ। अश्रावयद् यथावृत्तमिरावद्वधमुत्तमम्॥ संजय उवाच पुत्रं विनिहतं श्रुत्वा इरावन्तं धनंजयः। दुःखेन महताऽऽविष्टो निःश्वसन् पन्नगो यथा।॥ अब्रवीत् समरे राजन् वासुदेवमिदं वचः। इदं नूनं महाप्राज्ञो विदुरो दृष्टवान् पुरा॥ कुरूणा पाण्डवानां च क्षयं घोरं महामतिः। स ततो निवारितवान् धृतराष्ट्र जनेश्ररम्॥ अन्ये च बहवो वीराः संग्रामे मधुसूदन। निहताः कौरवैः संख्ये तथास्माभिश्च कौरवाः॥ अर्थहेतोर्नरश्रेष्ठ क्रियते कर्म कुत्सितम्। धिगर्थान् यत्कृते ह्येव क्रियते ज्ञातिसंक्षयः॥ अधनस्य मृतं श्रेयो न च ज्ञातिवधाद् धनम्। किं न प्राप्स्यामहे कृष्ण हत्वा ज्ञातीन् समागतान्॥ दुर्योधनापराधेन शकुनेः सौबलस्य च। क्षत्रिया निधनं यान्ति कर्णदुर्मन्त्रितेन च॥ इदानीं च विजानामि सुकृतं मधुसूदन। कृतं राज्ञा महाबाहो याचता च सुयोधनम्॥ राज्याधु पञ्च वा ग्रामान् नाकार्षीत् स च दुर्मतिः। दृष्ट्वा हि क्षत्रियाशूराशयानान् धरणीतले॥ निन्दामि भृशमात्मानं धिगस्तु क्षत्रजीविकाम्। अशक्तमिति मामेते ज्ञास्यन्ते क्षत्रिया रणे।॥ युद्धं तु मे न रुचितं ज्ञातिभिर्मधुसूदन। संचोदय हयाशीघ्रं धार्तराष्ट्रचमूं प्रति॥ प्रतरिष्ये महापारं भुजाभ्यां समरोदधिम्। नायं यापयितुं कालो विद्यते माधव क्वचित्॥ एवमुक्तस्तु पार्थेन केशवः परवीरहा। चोदयामास तानश्वान् पाण्डुरान् वातरंहसः॥ अथ शब्दो महानासीत् तव सैन्यस्य भारत। मारुतोद्धतवेगस्य सागरस्येव पर्वणि॥ अपराह्ने महाराज संग्रामः समपद्यत। पर्जन्यसमनिर्घोषो भीष्मस्य सह पाण्डवैः॥ ततो राजंस्तव सुता भीमसेनमुपाद्रवन्। परिवार्य रणे द्रोणं वसवो वासवं यथा॥ ततः शान्तनवो भीष्मः कृपश्च रथिनां वरः। भगदत्तः सुशर्मा च धनंजयमुपाद्रवन्।॥ पुत्रास्तु तव कौन्तेयं हार्दिक्यो बाह्निकश्चैव सात्यकिं समभिद्रुतौ। अम्बष्ठकस्तु नृपतिरभिमन्युमवस्थितः॥ शेषास्त्वन्ये महाराज शेषानेव महारथान्। ततः प्रववृते युद्धं घोररूपं भयावहम्॥ भीमसेनस्तु सम्प्रेक्ष्य पुत्रांस्तव जनेश्वर। प्रजज्वाल रणे क्रुद्धो हविषा हव्यवाडिव॥ छादयाञ्चक्रिरे शरैः। प्रावृषीव महाराज जलदा इव पर्वतम्॥ स च्छाद्यमानो बहुधा पुत्रैस्तव विशाम्पते। क्किणी संलिहन् वीरः शार्दूल इव दर्पितः॥ व्यूढोरस्कं ततो भीमः पातयामास भारत। क्षुरप्रेण सुतीक्ष्णेन सोऽभवद् गतजीवितः॥ अपरेण तु भल्लेन पीतेन न निशितेन तु। अपातयत् कुण्डलिनं सिंहः क्षुद्रमृगं यथा॥ ततः सुनिशितान् पीतान् समादत्त शिलीमुखान्। ससर्ज त्वरया युक्तः पुत्रास्ते प्राप्य मारिष॥ प्रेषिता भीमसेनेन शरास्ते दृढधन्वना। अपातयन्त पुत्रांस्ते रथेभ्यः सुमहारथान्॥ अनाधृष्टिं कुण्डभेदिं वैराटं दीर्घलोचनम्। दीर्घबाहुं सुबाहुं च तथैव कनकध्वजम्॥ प्रपतन्त स्म वीरास्ते विरेजुर्भरतर्षभ। वसन्ते पुष्पशबलाश्शूताः प्रपतिता इव॥ ततः प्रदुद्रुवुः शेषास्तव पुत्रा महाहवे। तं कालमिव मन्यन्तो भीमसेनं महाबलम्॥ द्रोणस्तु समरे वीरं निर्दहन्तं सुतांस्तव। यथाद्रिं वारिधाराभिः समन्ताद् व्यकिरच्छरैः। :॥ तत्राद्भुतमपश्याम कुन्तीपुत्रस्य पौरुषम्। द्रोणेन वार्यमाणोऽपिनजघ्ने यत् सुतांस्तव॥ यथा गोवृषभो वर्ष संधारयति खात् पतत्। भीमस्तथा द्रोणमुक्तं शरवर्षमदीधरत्॥ अद्भुतं च महाराज तत्र चक्रे वृकोदरः। यत् पुत्रास्तेऽवधीत् संख्ये द्रोणं चैव न्यवारयत्॥ पुत्रेषु तव वीरेषु चिक्रीडार्जुनपूर्वजः। मृगेष्विव महाराज चरन् व्याघ्रो महाबलः॥ यथा हि पशुमध्यस्थो दारयेत पशून् वृकः। वृकोदरस्तव सुतांस्तथा व्यद्रावयद् रणे॥ गाङ्गेयो भगदत्तश्च गौतमश्च महारथाः। पाण्डवं रभसं युद्धे वारयामासुरर्जुनम्॥ अस्त्रैरस्त्राणि संवार्य तेषां सोऽतिरथो रणे। प्रवीरांस्तव सैन्येषु प्रेषयामास मृत्यवे॥ अभिमन्युस्तु राजानमम्बष्ठं लोकविश्रुतम्। विरथं रथिनां श्रेष्ठं वारयामास सायकैः॥ विरथो वध्यमानस्तु सौभद्रेण यशस्विना। अवप्लुत्य रथात् तूर्णमम्बष्ठो वसुधाधिपः॥ असिं चिक्षेप समरे सौभद्रस्य महात्मनः। आरुरोह रथं चैव हार्दिक्यस्य महाबलः॥ आपतन्तं तु निस्त्रिंशं युद्धमार्गविशारदः। लाघवाद् व्यंसयामास सौभद्रः परवीरहा॥ व्यंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा। साधु साध्विति सैन्यानां प्रणादोऽभूद् विशाम्पते॥ धृष्टद्युम्नमुखास्त्वन्ये तव सैन्यमयोधयन्। तथैव तावकाः सर्वे पाण्डुसैन्यमयोधयन्॥ तत्राक्रन्दो महानासीत् तव तेषां च भारत। निघ्नतां दृढमन्योन्यं कुर्वतां कर्म दुष्करम्॥ अन्योन्यं हि रणे शूराः केशेष्वाक्षिप्यमानिनः। नखदन्तैरयुध्यन्त मुष्टिभिर्जानुभिस्तथा॥ तलैश्चैवाथ निस्त्रिंशैर्बाहुभिश्च सुसंस्थितैः। विवरं प्राप्य चान्योन्यमनयन् यमसादनम्॥ न्यहनच्च पिता पुत्रं पुत्रश्च पितरं तथा। व्याकुलीकृतसर्वाङ्गा युयुधुस्तत्र मानवा॥ रणे चारूणि चापानि हेमपृष्ठानि मारिष। हतानामपविद्धानि कलापाश्च महाधनाः॥ जातरूपमयैः पुखैः राजतैर्निशिताः शराः। तैलधौता व्यराजन्त निर्मुक्तभुजगोपमाः॥ हस्तिदन्तत्सरून् खङ्गाञ्जातरूपपरिष्कृतान्। चर्माणि चापविद्धानि रुक्मचित्राणि धन्विनाम्॥ सुवर्णविकृतप्रासान् पट्टिशान् हेमभूषितान्। जातरूपमयाश्च : शक्तीश्च कनकोज्ज्वलाः॥ सुसंनाहाश्च पतिता मुसलानि गुरूणि च। परिधान् पट्टिशांश्चैव भिन्दिपालांश्च मारिष॥ पतितान् विविधांश्चापाश्चित्रान् हेमपरिष्कृतान्। कुथा बहुविधाकाराश्चामरान् व्यजनानि च॥ नानाविधानि शस्त्राणि प्रगृह्य पतिता नराः। जीवन्त इव दृश्यन्ते गतसत्त्वा महारथाः॥ गदाविमथितैर्गात्रैर्मुसलैभिन्नमस्तकाः। गजवाजिरथक्षुण्णाः शेरते स्म नराः क्षितौ॥ तथैवाश्वनृनागानां शरीरैर्विबभौ तदा। संछन्ना वसुधा राजन् पर्वतैरिव सर्वशः॥ समरे पतितैश्चैव शक्त्यष्टिशरतोमरैः। निस्त्रिशैः पट्टिशैः प्रासैरयस्कुन्तैः परश्वधैः॥ परिचैर्भिन्दिपालैश्च शतघ्नीभिश्च मारिष। शरीरैः शस्त्रनिर्भिन्नैः समास्तीर्यत मेदिनी॥ विशब्दरल्पशब्दैश्च शोणितौघपरिप्लुतैः। गतासुभिरमित्रघ्न विबभौ निचिता मही॥ सतलत्रैः सकेयूरैर्बाहूभिश्चन्दनोक्षितैः। हस्तिहस्तोपमैश्छिरूरुभिश्च तरस्विनाम्॥ बद्धचूडामणिवरैः शिरोभिश्च सकुण्डलैः। पातितैर्ऋषभाक्षाणां बभौ भारत मेदिनी॥ कवचैः शोणितादिग्धैविप्रकीर्णश्च काञ्चनैः। रराज सुभृशं भूमिः शान्तार्चिभिरिवानलैः॥ विप्रविद्धैः कलापैश्च पतितैश्च शरासनैः। विप्रकीर्णैः शरैश्चैव रुक्मपुखैः समन्ततः॥ रथैश्च सर्वतो भग्नैः किङ्किणीजालभूषितैः। वाजिभिश्च हतैर्बाणैः स्रस्तजिह्वः सशोणितैः॥ अनुकर्णैः पताकाभिरुपासङ्गैर्ध्वजैरपि। प्रवीराणां महाशङ्कुर्विप्रकीर्णैश्च पाण्डुरैः॥ स्रस्तहस्तैश्च मातङ्गैः शयानैर्विबभौ मही। नानारूपैरलंकारैः प्रमदैवाभ्यलकृता॥ दन्तिभिश्चापरैस्तत्र सप्रसैर्गाढवैदनैः। करैः शब्दं विमुञ्चद्भिः शीकरं च मुमुर्मुहुः॥ विबभौ तद् रणस्थानं स्यन्दमानैरिवाचलैः। नानारागैः कम्बलैश्च परिस्तोमैश्च दन्तिनाम्॥ वैदूर्यमणिदण्डैश्च पतितैरङ्कुशैः शुभैः। घण्डाभिश्च गजेन्द्राणां पतिताभिः समन्ततः॥ विपाटितविचित्राभिः कुथाभिरङ्कुशैस्तथा। ग्रैवेयश्चित्ररूपैश्च रुक्मकक्ष्याभिरेव च॥ यन्त्रैश्च बहुधाच्छिन्नस्तोमरैश्चापि काञ्चनैः। अश्वानां रेणुकपिलै रुक्मच्छन्नैरुरश्छदैः॥ सादिनां भुजगैश्छिन्नैः पतितैः साङ्गदैस्तथा। प्रासैश्च विमलैस्तीक्ष्णैर्विमलाभिस्तथर्टिभिः॥ उष्णीषैश्च तथा चित्रैविप्रविब्रैस्ततस्ततः। विचित्रैर्बाणवर्धेश्च जातरूपपरिष्कृतैः॥ अश्वास्तरपरिस्तोमै राङ्कवैर्मुदितैस्तथा। नरेन्द्रचूडामणिभिर्विचित्रैश्च महाधनैः॥ छत्रैस्तथापविद्धैश्च चामरैर्व्यजनैरपि। पोन्दुद्युतिभिश्चैव वदनैश्चारुकुण्डलैः॥ क्लप्तश्मश्रुभिरत्यर्थं वीराणां समलंकृतैः। अपविद्धैर्महाराज सुवर्णोज्ज्वकुण्डलैः॥ ग्रहनक्षत्रशबला द्यौरिवासीद् वसुन्धरा। एवमेते महासेने मृदृिते तत्र भारत॥ परस्परं समासाद्य तव तेषां च संयुगे। तेषु श्रान्तेषु भग्नेषु मृदितेषु च भारत॥ रात्रिः समभवत् तत्र नापश्याम ततोऽनुगान्। ततोऽवहारं सैन्यानां प्रचक्रुः कुरुपाण्डवाः॥ रजनीमुखे सुरौद्रे तु वर्तमाने महाभये। अवहारं ततः कृत्वा सहिताः कुरुपाण्डवाः। न्यविशन्त यथाकालं गत्वा स्वशिबिरं तदा॥ संजय उवाच अभिमन्यू रथोदारः पिशङ्गैस्तुरगोत्तमैः। अभिदुद्राव तेजस्वी दुर्योधनबलं महत्॥ विकिरशरवर्षाणि वारिधारा इवाम्बुदः। न शेकुः समरे क्रुद्धं सौभद्रमरिसूदनम्॥ शस्त्रौघिणं गाहमानं सेनासागरमक्षयम्। निवारयितुमप्याजौ त्वदीयाः कुरुनन्दन॥ तेन मुक्ता रणे राजशराः शत्रुनिबर्हणाः। क्षत्रियाननयशूरान् प्रेतराजनिवेशनम्॥ यमदण्डोपमान् घोराज्वलिताशीविषोपमान्। सौभद्रः समरे क्रुद्धः प्रेषयामास सायकान्॥ सरथान् रथिनस्तूर्णं हयांश्चैव ससादिनः। गजारोहांश्च सगजान् दारयामास फाल्गुनिः॥ तस्य तत् कुर्वतः कर्म महत् संख्ये महीभृतः। पूजयांचक्रिरे हृष्टाः प्रशशंसुश्च फाल्गुनिम्॥ तान्यनीकानि सौभद्रो द्रावयामास भारत। तूलराशीनिवाकाशे मारुतः सर्वतो दिशम्॥ तेन विद्राव्यमाणानि तव सैन्यानि भारत। त्रातारं नाध्यगच्छन्त पङ्के मग्ना इव द्विपाः॥ विद्राव्य सर्वसैन्यानि तावकानि नरोत्तम। अभिमन्युः स्थितो राजन् विधूमोऽग्निरिव ज्वलन्॥ न चैनं तावका राजन् विषेहुररिघातिनम्। प्रदीप्तं पावकं यद्वत् पतङ्गाः कालचोदिताः॥ प्रहरन् सर्वशत्रुभ्यः पाण्डवानां महारथः। अदृश्यत महेष्वासः सवज्र इव वासवः॥ हेमपृष्ठं धनुश्चास्य ददृशे विचरद् दिशः। तोयदेषु यथा राजन् राजमाना शतह्रदा॥ शराश्च निशिताः पीता निश्चरन्ति स्म संयुगे। वनात् फुल्लद्रुमाद् राजन् भ्रमराणामिव व्रजाः॥ तथैव चरतस्तस्य सौभद्रस्य महात्मनः। रथेन काञ्चनाङ्गेन ददृशुर्नान्तरं जनाः॥ मोहयित्वा कृपं द्रोणं च सबृहद्बलम्। सैन्धवं च महेष्वासो व्यग्ररल्लघु सुष्ठु च॥ मण्डलीकृतमेवास्य धनुः पश्याम भारत। सूर्यमण्डलसंकाशं दहतस्तव वाहिनीम्॥ तं दृष्ट्वा क्षत्रियाः शूराः प्रतपन्तं तरस्विनम्। द्विफाल्गुनमिमं लोकं मेनिरे तस्य कर्मभिः॥ तेनार्दिता महाराज भारती सा महाचमूः। व्यभ्रमत् तत्र तत्रैव योषिन्मदवशादिव॥ द्रावयित्वा महासैन्यं कम्पयित्वा महारथान्। नन्दयामास सुहृदो मयं जित्वेव वासवः॥ तेन विद्राव्यमाणानि तव सैन्यानि संयुगे। चक्रुरास्विनं घोरं पर्जन्यनिनदोपमम्॥ तं श्रुत्वा निनदं घोरं तव सैन्यस्य भारत। मारुतोद्भूतवेगस्य सागरस्येव पर्वणि॥ दुर्योधनस्तदा राजन्नार्घ्यशृङ्गिमभाषत। एष कर्णिमहाबाहो द्वितीय इव फाल्गुनः॥ चमू द्रावयते क्रोधात् वृत्रो देवचमूमिव। तस्य चान्यन्न पश्यामि संयुगे भेषजं महत्॥ ऋते त्वां राक्षसश्रेष्ठं सर्वविद्यासु पारगम्। स गत्वा त्वरितं वीरं जहि सौभद्रमाहवे॥ वयं पार्थं हनिष्यामो भीष्मद्रोणपुरोगमाः। स एवमुक्तो बलवान् राक्षसेन्द्रः प्रतापवान्॥ प्रययौ समरे तूर्णं तव पुत्रस्य शासनात्। नर्दमानो महानादं प्रावृषीव बलाहकः॥ तस्य शब्देन महता पाण्डवानां बलं महत्। प्राचलत् सर्वतो राजन् वातोद्भूत इवार्णवः॥ बहवश्च महाराज तस्य नादेन भीषिताः। प्रियान् प्राणान् परित्यज्य निपेतुर्धरणीतले॥ कार्णािश्चापि मुदा युक्तः प्रगृह्य सशरं धनुः। नृत्यन्निव रथोपस्थे तद् रक्षः समुपाद्रवत्॥ ततः स राक्षसः क्रुद्धः सम्प्राप्यैवार्जुनि रणे। नातिदूरे स्थितां तस्य द्रावयामास वै चमूम्॥ तां वध्यमानां च तथा पाण्डवानां महाचमूम्। प्रत्युद्ययौ रणे रक्षो देवसेनां यथा बलः॥ विमर्दः सुमहानासीत् तस्य सैन्यस्य मारिष। रक्षसा घोररूपेण वध्यमानस्य संयुगे।॥ ततः शरसहस्रेस्तां पाण्डवानां महाचमूम्। व्यद्रावयद् रणे रक्षो दर्शयन् स्वपराक्रमम्॥ सा वध्यमाना च तथा पाण्डवानामनीकिनी। रक्षसा घोररूपेण प्रदुद्राव रणे भयात्॥ प्रमृद्य च रणे सेनां पद्मिनी वारणो यथा। ततोऽभिदुद्राव रणे द्रौपदेयान् महाबलान्॥ ते तु क्रुद्धा महेष्वासा द्रौपदेयाः प्रहारिणः। राक्षसं दुद्रुवुः संख्ये ग्रहाः पञ्च रविं यथा।॥ वीर्यवद्भिस्ततस्तैस्तु पीडितो राक्षसोत्तमः। यथा युगक्षये घोरे चन्द्रमाः पञ्चभिर्ग्रहै:॥ प्रतिविन्ध्यस्ततो रक्षो बिभेद निशितैः शरैः। सर्वपारशवैस्तूर्णैरकुण्ठागैर्महाबलः॥ स तैर्भिन्नतनुत्राणः शुशुभे राक्षसोत्तमः। मरीचिभिरिवार्कस्य संस्यूतो जलदो महान्॥ विषक्तैः स शरैश्चापि तपनीयपरिच्छदैः। आHशृङ्गिर्बभौ राजन् दीप्तशृङ्ग इवाचलः॥ ततस्ते भ्रातरः पञ्च राक्षसेन्द्रं महाहवे। विव्यधुनिशितैर्वाणैस्तपनीयविभूषितैः॥ स निर्भिन्नः शरैोरैर्भुजगैः कोपितैरिव। अलम्बुषो भृशं राजन् नागेन्द्र इव चुक्रुधे॥ सोऽतिविद्धो महाराज मुहूर्तमथ मारिष। प्रविवेश तमो दीर्घं पीडितस्तैर्महारथैः॥ प्रतिलभ्य ततः संज्ञां क्रोधेन द्विगुणीकृतः। चिच्छेद सायकांस्तेषां ध्वजांश्चैव धनूंषि च॥ एकैकं पञ्चभिर्बाणैराजघान स्मयन्निव। अलम्बुषो रथोपस्थे नृत्यन्निव महारथः॥ त्वरमाणः सुसंरब्धो हयांस्तेषां महात्मनाम्। जघान राक्षसः क्रुद्धः सारथींश्च महाबलः॥ बिभेद च सुसंरब्धः पुनश्चैनान् सुसंशितैः। शरैर्बहुविधाकारैः शतशोऽथ सहस्रशः॥ विरथांश्च महेष्वासान् कृत्वा तत्र स राक्षसः। अभिदुद्राव वेगेन हन्तुकामो निशाचरः॥ तानर्दितान् रणे तेन राक्षसेन दुरात्मना। दृष्ट्वार्जुनसुतः संख्ये राक्षसं समुपाद्रवत्॥ तयोः समभवद् युद्धं वृत्रवासवयोरिव। ददृशुस्तावकाः सर्वे पाण्डवाश्च महारथाः॥ तौ समेतौ महायुद्धे क्रोधदीप्तौ परस्परम्। महाबलौ महाराज क्रोधसंरक्तलोचनौ॥ परस्परमवेक्षतां कालानलसमौ युधि। तयोः समागमो घोरो बभूव कटुकोदयः॥ यथा देवासुरे युद्धे शक्रशम्बरयोः पुरा॥ धृतराष्ट्र उवाच आर्जुनि समरे शूरं विनिघ्नन्तं महारथान्। अलम्बुषः कथं युद्धे प्रत्ययुध्यत संजय॥ आर्थ्यशृङ्गिं कथं चैव सौभद्रः परवीरहा। तन्ममाचक्ष्व तत्त्वेन यथावृत्तं स्म संयुगे॥ धनंजयश्च किं चक्रे मम सैन्येषु संयुगे। भीमो वा रथिनां श्रेष्ठो राक्षसो वा घटोत्कचः॥ नकुलः सहदेवो वा सात्यकिर्वा महारथः। एतदाचक्ष्व मे सत्यं कुशलो ह्यसि संजय॥ संजय उवाच हन्त तेऽहं प्रवक्ष्यामि संग्राम लोमहर्षणम्। यथाभूद् राक्षसेन्द्रस्य सौभद्रस्य च मारिष॥ अर्जुनश्च यथा संख्ये भीमसेनश्च पाण्डवः। नकुलः सहदेवश्च रणे चक्रुः पराक्रमम्॥ तथैव तावकाः सर्वे भीष्मद्रोणपुरःसराः। अद्भुतानि विचित्राणि चक्रुः कर्माण्यभीतवत्॥ अलम्बुषस्तु समरे अभिमन्युं महारथम्। विनद्य सुमहानादं तर्जयित्वा मुहुर्मुहुः॥ अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत्। अभिमन्युश्च वेगेन सिंहवद् विनदन् मुहुः॥ आर्ण्यशृङ्गिं महेष्वासं पितुरत्यन्तवैरिणम्। ततः समीयतुः संख्ये त्वरितौ नरराक्षसौ॥ रथाभ्यां रथिनौ श्रेष्ठो यथा वै देवदानवौ। मायावी राक्षसश्रेष्ठो दिव्यास्त्रश्चैव फाल्गुनिः॥ ततः कार्णिमहाराज निशितैः सायकैस्त्रिभिः। आर्थ्यशृङ्गि रणे विद्ध्वा पुनर्विव्याध पञ्चभिः॥ अलम्बुषोऽसंक्रुद्धः कार्ष्णि नवभिराशुगैः। हृदि विव्याध वेगेन तोत्रैरिव महाद्विपम्॥ ततः शरसहस्रेण क्षिप्रकारी निशाचरः। अर्जुनस्य सुतं संख्ये पीडयामास भारत॥ अभिमन्युस्ततः क्रुद्धो नवभिनतपर्वभिः। बिभेद निशितैर्बाणै राक्षसेन्द्र महोरसि॥ ते तस्य विविशुस्तूर्णं कायं निर्भिद्य मर्मसु। त तैर्विभिन्नसर्वाङ्गः शुशुभे राक्षसोत्तमः॥ पुष्पितैः किंशुकै राजन् संस्तीर्ण इव पर्वतः। संधारयाणश्च शरान् हेमपुङ्खान् महाबलः॥ विबभौ राक्षसश्रेष्ठः : सज्वाल इव ततः क्रुद्धो महाराज आHशृङ्गिरमर्षणः॥ पर्वतः। पत्रिभिः। महेन्द्रप्रतिमं कार्णि छादयामास तेन ते विशिखा मुक्ता यमदण्डोपमाः शिताः॥ अभिमन्युं विनिर्भिद्य प्राविशन्त धरातलम्। तथैवार्जुनिना मुक्ताः शराः कनकभूषणाः॥ अलम्बुषं विनिर्भिद्य प्राविशन्त धरातलम्। सौभद्रस्तु रणे रक्षः शरैः संनतपर्वभिः॥ चक्रे विमुखमासाद्य मयं शक्र इवाहवे। विमुखं च ततो रक्षो वध्यमानं रणेऽरिणा॥ प्रादुश्चक्रे महामायां तामसी परतापनाम्। ततस्ते तमसा सर्वे वृताश्चासन् महीपते॥ नाभिमन्युमपश्यन्त नैव स्वान् न परान् रणे। अभिमन्युश्च तद् दृष्ट्वा घोररूपं महत्तमः॥ प्रादुश्चक्रेऽस्त्रमत्युग्रं भास्करं कुरुनन्दनः। ततः प्रकाशमभवज्जगत् सर्वं महीपते॥ तां चाभिजनिवान् मायां राक्षसस्य दुरात्मनः। संक्रुद्धश्च महावीर्यो राक्षसेन्द्रं नरोत्तमः॥ छादयामास समरे शरैः संनतपर्वभिः। बह्वीस्तथान्या मायाश्च प्रयुक्तास्तेन रक्षसा॥ सर्वास्त्रविदमेयात्मा वारयामास फाल्गुनिः। हतमायं ततो रक्षो वध्यमानं च सायकैः॥ रथं तत्रैव संत्यज्य प्राद्रवन्महतो भयात्। तस्मिन् विनिर्जिते तूर्णं कूटयोधिनि राक्षसे॥ आर्जुनिः समरे सैन्यं तावकं सम्ममर्द ह। मदान्धो गन्धनागेन्द्रं सपद्मां पद्मिनीमिव॥ ततः शान्तनवो भीष्मः सैन्यं दृष्ट्वाभिविद्रुतम्। महता शरवर्षेण सौभद्रं पर्यवारयत्॥ कोष्ठीकृत्य च तं वीरं धार्तराष्ट्रा महारथाः। एकं सुबहवो युद्धे ततक्षुः सायकैदृढम्॥ स तेषां रथिनां वीरः पितुस्तुल्यपराक्रमः। सदृशो वासुदेवस्य विक्रमेण बलेन च॥ उभयोः सदृशं कर्म स पितुर्मातुलस्य च। रणे बहुविधं चक्रे सर्वशस्त्रभृतां वरः॥ ततो धनंजयो वीरो विनिमंस्तव सैनिकान्। आससाद रणे भीष्मं पुत्रप्रेप्सुरमर्षणः॥ तथैव समरे राजन् पिता देवव्रतस्तव। आससाद रणे पार्थं स्वर्भानुरिव भास्करम्॥ ततः सरथनागाश्वाः पुत्रास्तव जनेश्वर। परिववू रणे भीष्मं जुगुपुश्च समन्ततः॥ तथैव पाण्डवा राजन् परिवार्य धनंजयम्। रणाय महते युक्ता दंशिता भरतर्षभ॥ शारद्वतस्ततो राजन् भीष्मस्य प्रमुखे स्थितम्। अर्जुनं पञ्चविंशत्या सायकानां समाचिनोत्॥ प्रत्युद्गम्याथ विव्याध सात्यकिस्तं शितैः शरैः। पाण्डवप्रियकामार्थं शार्दूल इव कुञ्जरम्॥ गौतमोऽपि त्वरायुक्तो माधवं नवभिः शरैः। हृदि विव्याध संक्रुद्धः कङ्कपत्रपरिच्छदैः। :॥ शैनेयोऽपि ततः क्रुद्धश्चापमानम्य वेगवान्। गौतमान्तकरं तूर्णं समाधत्त शिलीमुखम्॥ तमापतन्तं वेगेन शक्राशनिसमद्युतिम्। द्विधा चिच्छेद संक्रुद्धो द्रौणिः परमकोपनः॥ समुत्सृज्याथ शैनेयो गौतमं रथिनां वरः। द्रौणि राहुः खे शशिनं यथा॥ तस्य द्रोणसुतश्चापं द्विधा चिच्छेद भारत। अथैनं छिन्नधन्वानं ताडयामास सायकैः॥ सोऽन्यत् कार्मुकमादाय शत्रुजं भारसाधनम्। द्रौणि षष्ट्या महाराज बाह्वोरुरसि चार्पयत्।॥ स विद्धो व्यथितश्चैव मुहूर्तं कश्मलायुतः। निषसाद रथोपस्थे ध्वजयष्टिं समाश्रितः॥ अभ्यद्रवद् रणे प्रतिलभ्य ततः संज्ञां द्रोणपुत्रः प्रतापवान्। वार्ष्णेयं समरे क्रुद्धो नाराचेन समार्पयत्॥ शैनेयं स तु निर्भिद्य प्राविशद् धरणीतलम्। वसन्तकाले बलवान् बिलं सर्पशिशुर्यथा॥ अथापरेण भल्लेन माधवस्य ध्वजोत्तमम्। चिच्छेद समरे द्रौणिः सिंहनादं मुमोच ह॥ पुनश्चैनं शरै।रैश्छादयामास भारत। निदाघान्ते महाराज यथा मेघो दिवाकरम्॥ सात्यकोऽपि महाराज शरजालं निहत्य तत्। द्रौणिमभ्यकिरत् तूर्णं शरजालैरनेकधा॥ तापयामास च द्रौणि शैनेयः परवीरहा। विमुक्तो मेघजालेन यथैव तपनस्तथा॥ शराणां च सहस्रेण पुनरेव समुद्यतः। सात्यकिश्छादयामास ननाद च महाबलः॥ दृष्ट्वा पुत्रं च तं ग्रस्तं राहुणेव निशाकरम्। अभ्यद्रवत शैनेयं भारद्वाजः प्रतापवान्॥ विव्याध च सुतीक्ष्णेन पृषत्केन महामृधे। परीप्सन् स्वसुतं वार्ष्णेयेनाभिपीडितम्॥ सात्यकिस्तु रणे हित्वा गुरुपुत्रं महारथम्। द्रोणं विव्याध विंशत्या सर्वपारशवैः शरैः॥ तदन्तरममेयात्मा कौन्तेयः शत्रुतापनः। अभ्यद्रवद् रणे क्रुद्धो द्रोणं प्रति महारथः॥ ततो द्रोणश्च पार्थश्च समेयेतां महामृधे। यथा बुधश्च शुक्रश्च महाराज नभस्तले॥ धृतराष्ट्र उवाच कथं द्रोणो महेष्वासः पाण्डवश्च धनंजयः। समीयतू रणे यत्तौ तावुभौ पुरुषर्षभौ॥ प्रियो हि पाण्डवो नित्यं भारद्वाजस्य धीमतः। आचार्यश्च रणे नित्यं प्रियः पार्थस्य संजय॥ तावुभौ रथिनौ संख्ये हृष्टौ सिंहाविवोत्कटौ। कथं समीयतुर्यत्तौ भारद्वाजधनंजयौ॥ संजय उवाच न द्रोणः पार्थं जानीते प्रियमात्मनः। क्षत्रधर्म पुरस्कृत्य पार्थो वा गुरुमाहवे॥ न क्षत्रिया रणे राजन् वर्जयन्ति परस्परम्। निर्मर्यादं हि युध्यन्ते पितृभिर्धातृभिः सह॥ रणे भारत पार्थेन द्रोणो विद्धस्त्रिभिः शरैः। नाचिन्तयच्च तान् बाणान् पार्थचापच्युतान् युधि॥ शरवृष्ट्या पुनः पार्थश्छादयामास तं रणे। स प्रजज्वाल रोषेण गहनेऽग्निरिवोर्जितः॥ ततोऽर्जुनं रणे द्रोणः शरैः संनतपर्वभिः। छादयामास राजेन्द्र नचिरादेव भारत॥ ततो दुर्योधनो राजा सुशर्माणमचोदयत्। द्रोणस्य समरे राजन् पाणिंग्रहणकारणात्॥ त्रिगर्तराडपि क्रुद्धो भृशमायम्य कार्मुकम्। छादयामास समरे पार्थं बाणैरयोमुखैः॥ ताभ्याः मुक्ताः शरा राजन्नन्तरिक्षे विरेजिरे। हंसा इव महाराज शरत्काले नभस्तले॥ ते शराः प्राप्य कौन्तेयं समन्ताद् विविशुः प्रभो। फलभारनतं यद्वत् स्वादुवृक्षं विहङ्गमाः॥ अर्जुनस्तु रणे नादं विनद्य रथिनां वरः। त्रिगर्तराजं समरे सपुत्रं विव्यधे शरैः॥ ते वध्यमानाः पार्थेन कालेनेव युगक्षये। पार्थमेवाभ्यवर्तन्त मरणे कृतनिश्चयाः॥ मुमुचुः शरवृष्टिं पाण्डवस्य रथं प्रति। शरवृष्टिं ततस्तां तु शरवर्षेः समन्ततः॥ प्रतिजग्राह राजेन्द्र तोयवृष्टिमिवाचलः। तत्राद्भुतमपश्याम बीभत्सोर्हस्तलाघवम्॥ विमुक्तां बहुभिर्योधैः शस्त्रवृष्टिं दुरासदाम्। यदेको वारयामास मारुतोऽभ्रगणानिव॥ कर्मणा तेन पार्थस्य तुतुषुर्देवदानवाः। अथ क्रुद्धो रणे पार्थस्त्रिगर्तान् प्रति भारत॥ मुमोचास्त्रं महाराज वायव्यं पृतनामुखे। प्रादुरासीत् ततो वायुः क्षोभयाणो नभस्तलम्॥ पातयन् वै तरुगणान् विनिघ्नंश्चैव सैनिकान्। ततो द्रोणोऽभिवीक्ष्यैव वायव्यास्त्रं सुदारुणम्॥ शैलमन्यन्महाराज घोरमस्त्रं मुमोच ह। द्रोणेन युधि निर्मुक्ते तस्मिन्नस्त्रे नराधिप।॥ प्रशशाम ततो वायुः प्रसन्नाश्च दिशो दश। ततः पाण्डुसुतो वीरस्त्रिगर्तस्य रथव्रजान्।॥ निरुत्साहान् रणे चक्रे विमुखान् विपराक्रमान्। ततो दुर्योधनश्चैव कृपश्च रथिनां वरः॥ अश्वत्थामा तथा शल्यः काम्बोजश्च सुदक्षिणः। विन्दानुविन्दावावन्त्यौ बाह्निकः सह बाल्हिकैः॥ महता रथवंशेन पार्थस्यावारयन् दिशः। तथैव भगदत्तश्च श्रुतायुश्च महाबलः॥ गजानीकेन भीमस्य ताववारयतां दिशः। भूरिश्रवाः शलश्चैव सौबलश्च विशाम्पते॥ शरौर्घविमलैस्तीक्ष्णैर्माद्रीपुत्राववारयन्। भीष्मस्तु संहतः संख्ये धातराष्ट्रैः ससैनिकैः॥ युधिष्ठिरं समासाद्य सर्वतः पर्यवारयत्। आपतन्तं गजानीकं दृष्ट्वा वृकोदरः॥ लेलिहन् सृक्किणी वीरो मृगराडिव कानने। भीमस्तु रथिनां श्रेष्ठो गदां गृह्य महाहवे॥ अवप्लुत्य रथात् तूर्णं तव सैन्यान्यभीषयत्। तमुद्वीक्ष्य गदाहस्तं ततस्ते गजसादिनः॥ परिववू रणे यत्ता भीमसेनं समन्ततः। गजमध्यमनुप्राप्तः पाण्डवः स व्यराजत॥ मेघजालस्य महतो यथा मध्यगतो रविः। व्यधमत् स गजानीकं गदया पाण्डवर्षभः॥ महाभ्रजालमतुलं मातरिश्वेव संततम्। ते वध्यमाना बलिना भीमसेनेन दन्तिनः॥ आर्तनादं रणे चक्रुर्गर्जन्तो जलदा इव। बहुधा दारितश्चैव विषाणैस्तत्र दन्तिभिः॥ फुल्लाशोकनिभः पार्थः शुशुभे रणमूर्धनि। विषाणे दन्तिनं गृह्य निर्विषाणमथाकरोत्॥ विषाणेन च तेनैव कुम्भेऽभ्याहत्य दन्तिनम्। पातयामास समरे दण्डहस्त इवान्तकः॥ शोणिताक्ता गदां बिभ्रन्मेदोमज्जाकृतच्छविः। कृताभ्यङ्गः शोणितेन रुद्रवत् प्रत्यदृश्यता॥ एवं ते वध्यमानाश्च हतशेषा महागजाः। प्राद्रवन्त दिशो राजन् विमृदन्तः स्वकं बलम्॥ द्रवद्भिस्तैर्महानागैः समन्ताद् भरतर्षभ। दुर्योधनबलं सर्वं पुनरासीत् पराङ्मुखम्॥ संजय उवाच अर्जुनस्तान् नरव्याघ्रः सुशर्मानुचरान् नृपान्। अनयत् प्रेतराजस्य सदनं सायकैः शितैः॥ सुशर्मापि ततो बाणैः पार्थं विव्याध संयुगे। वासुदेवं च सप्तत्या पार्थं च नवभिः पुनः॥ तं निवार्य शरौघेण शक्रसूनुर्महारथः। सुशर्मणो रणे योद्धान् प्राहिणोद् यमसादनम्॥ ते वध्यमानाः पार्थेन कालेनेव युगक्षये। व्यद्रवन्त रणे राजन् भये जाते महारथाः॥ उत्सृज्य तुरगान् केचिद् रथान् केचिच्च मारिष। गजानन्ये समुत्सृज्य प्राद्रवन्त दिशो दश॥ अपरे तु तदाऽऽदाय वाजिनागरथान् रणे। त्वरया परया युक्ताः प्राद्रवन्त विशाम्पते॥ पादाताश्चापि शस्त्राणि समुत्सृज्य महारणे। निरपेक्षा व्यधावन्त तेन तेन स्म भारत॥ वार्यमाणाः सुबहुशस्वैगर्तेन सुशर्मणा। तथान्यैः पार्थिवश्रेष्ठैर्न व्यतिष्ठन्त संयुगे॥ तद् बलं प्रद्रुतं दृष्ट्वा पुत्रो दुर्योधनस्तव। पुरस्कृत्य रणे भीष्मं सर्वसैन्यपुरस्कृतः॥ सर्वोद्योगेन महता धनंजयमुपाद्रवत्। त्रिगर्ताधिपतेरर्थे जीवितस्य विशाम्पते।॥ स एकः समरे तस्थौ किरन् बहुविधाञ्शरान्। भ्रातृभिः सहितः सर्वैः शेषा हि प्रद्रुता नराः॥ तथैव पाण्डवा राजन सर्वोद्योगेन दंशिताः। प्रययुः फाल्गुनार्थाय यत्र भीष्मो व्यतिष्ठत॥ ज्ञायमाना रणे वीर्यं घोरं गाण्डीवधन्वनः। हाहाकारकृतोत्साहा भीष्मं जग्मुः समन्ततः॥ ततस्तालध्वजः शूरः पाण्डवानां वरूथिनीम्। छादया समरे शरैः संनतपर्वभिः॥ एकीभूतास्ततः सर्वे कुरवः सह पाण्डवैः। अयुध्यन्त महाराज मध्यं प्राप्ते दिवाकरे॥ सात्यकिः कृतवर्माणं विद्ध्वा पञ्चभिराशुगैः। अतिष्ठदाहवे शूरः किरन् बाणान् सहस्रशः॥ तथैव दुपदो राजा द्रोणं विद्ध्वा शितैः शरैः। पुनर्विव्याध सप्तत्या सारथिं चास्य पञ्चभिः॥ भीमसेनस्तु राजानं बाह्रीकं प्रपितामहम्। विद्ध्वा नदन्तमहानादं शार्दूल इव कानने॥ आर्जुनिश्चित्रसेनेन विद्धो बहुभिराशुगैः। अतिष्ठदाहवे शूरः किरन् बाणान् सहस्रशः॥ चित्रसेनं त्रिभिर्बाणैर्विव्याध समरे भृशम्। समागतौ तौ तु रणे महामात्रौ व्यरोचताम्॥ यथा दिवि महाघोरौ राजन् बुधशनैश्चरौ। तस्याश्वांश्चतुरो हत्वा सूतं च नवभिः शरैः॥ ननाद बलवन्नादं सौभद्रः परवीरहा। हताश्वात् तु रथात् तूर्णंसोऽवप्लुत्य महारथः॥ आरुरोह रथं तूर्णं दुर्मुखस्य विशाम्पते। द्रोणश्च द्रुपदं भित्त्वा शरैः संनतपर्वभिः॥ सारथिं चास्य विव्याध त्वरमाणः पराक्रमी। पीड्यमानस्ततो राजा द्रुपदो वाहिनीमुखे॥ अपायाज्जवनैरश्वैः पूर्ववैरमनुस्मरन्। भीमसेनस्तु राजानं मुहूर्तादिव बाह्निकम्॥ व्यश्वसूतरथं चक्रे सर्वसैन्यस्य पश्यतः। ससम्भ्रमो महाराज संशयं परमं गतः॥ अवप्लुत्य ततो वाहाद् बाह्लीकः पुरुषोत्तमः। आरुरोह रथं तूर्णं लक्ष्मणस्य महारणे॥ सात्यकिः कृतवर्माणं वारयित्वा महारणे। शरैर्बहुविधै राजन्नाससाद पितामहम्॥ न विद्ध्वा भारतं षष्ट्या निशितैर्लोमवाहिभिः। नृत्यन्निव रथोपस्थे विधुन्वानो महद् धनुः॥ तस्यायसीं महाशक्तिं चिक्षेपाथ पितामहः। हेमचित्रां महावेगां नागकन्योपमां शुभाम्॥ तामापतन्ती सहसा मृत्युकल्पां सुदुर्जयाम्। व्यंसयामास वार्ष्णेयो लाघवेन महायशाः॥ अनासाद्य तु वार्ष्णेयं शक्तिः परमदारुणा। न्यपतद् धरणीपृष्ठे महोल्केव महाप्रभा॥ वार्ष्णेयस्तु ततो राजन् स्वां शक्तिं कनकप्रभाम्। वेगवद् गृह्य चिक्षेप पितामहरथं प्रति॥ वार्ष्णेयभुजवेगेन प्रणुन्ना सा महाहवे। अभिदुद्राव वेगेन कालरात्रिर्यथा नरम्॥ तामापतन्ती सहसा द्विधा चिच्छेद भारत। क्षुरप्राभ्यां सुतीक्ष्णाभ्यां सा व्यशीर्यत मेदिनीम्॥ छित्त्वा शक्तिं तु गाङ्गेयः सात्यकिं नवभिः शरैः। आजघानोरसि क्रुद्धः प्रसञ्छत्रुकर्शनः॥ ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वजाः। परिववू रणे भीष्मं माघवत्राणकारणात्॥ ततः प्रववृते युद्धे तुमुलं लोमहर्षणम्। पाण्डवानां कुरूणां च समरे विजयैषिणाम्॥ संजय उवाच दृष्ट्वा भीष्मं रणे क्रुद्धं पाण्डवैरभिसंवृतम्। यथा मेधैर्महाराज तपान्ते दिवि भास्करम्॥ दुर्योधनो महाराज दुःशासनमभाषत। एष शूरो महेष्वासो भीष्मः शूरनिषूदनः॥ छादितः पाण्डवैः शूरैः समन्ताद् भरतर्षभ। तस्य कार्यं त्वया वीर रक्षणं सुमहात्मनः॥ रक्ष्यमाणो हि समरे भीष्मोऽस्माकं पितामहः। निहन्यात् समरे यत्तान् पञ्चालान् पाण्डवैः सह॥ तत्र कार्यतमं मन्ये भीष्मस्यैवाभिरक्षणम्। गोप्ता ह्येष महेष्वासो भीष्मोऽस्माकं महाव्रतः॥ स भवान् सर्वसैन्येन परिवार्य पितामहम्। समरे कर्म कुर्वाणं दुष्करं परिरक्षतु॥ स एवमुक्तः समरे पुत्रो दुःशासनस्तव। परिवार्य स्थितो भीष्मं सैन्येन महता वृतः॥ ततः शतसहस्राणां हयानां सुबलात्मजः। विमलप्रासहस्तानामृष्टितोमरधारिणाम्॥ दर्पितानां सुवेशानां बलस्थानां पताकिनाम्। शिक्षितैयुद्धकुशलैरुपेतानां नरोत्तमैः॥ नकुलं सहदेवं च धर्मराजं च पाण्डवम्। न्यवारयन्नरश्रेष्ठान् परिवार्य समन्ततः॥ ततो दुर्योधनो राजा शूराणां हयसादिनाम्। अयुतं प्रेषयामास पाण्डवानां निवारणे॥११॥ तैः प्रविष्टैर्महावेगैर्गरुत्मद्भिरिवाहवे। खुराहता धरा राजंश्चकम्पे च ननाद च॥ खुरशब्दश्च सुमहान् वाजिनां शुश्रुवे तदा। महावंशवनस्येव दह्यमानस्य पर्वते॥ उत्पतद्भिश्च तैस्तत्र समुद्भूतं महद् रजः। दिवाकररथं प्राप्य छादयामास भास्करम्॥ वेगवद्भिर्हयैस्तैस्तु क्षोभिता पाण्डवी चमूः। निपतद्भिर्महावेगैर्हसैरिव महत् सरः॥ (तुरगैर्वायुवेगैश्च तत् सैन्यं व्याकुलीकृतम्।) हेषतां चैव शब्देन न प्राज्ञायत किञ्चन। ततो युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ।॥ प्रत्यघ्नस्तरसा वेगं समरे हयसादिनाम्। उद्वृत्तस्य महाराज प्रावृट्कालेऽतिपूर्यतः॥ पौर्णमास्यामम्बुवेगं यथा वेला महोदधेः। ततस्ते रथिनो राजञ्छरैः संनतपर्वभिः॥ न्यकृन्तन्नुमाङ्गानि शरेण हयसादिनाम्। ते निपेतुर्महाराज निहता दृढधन्विभिः॥ नागैरिव महानागा यथावद् गिरिहरे। तेऽपि प्रासैः सुनिशितैः शरैः संनतपर्वभिः॥ न्यकृन्तन्नुत्तमाङ्गानि विचरन्तो दिशो दश। अभ्याहता हयारोहा ऋष्ठियभर्भरतर्षभ॥ अत्यजन्नुत्तमाङ्गानि फलानीव महाद्रुमाः। ससादिनो हया राजंस्तत्र तत्र निषूदिताः॥ पतिताः पात्यमानाश्च प्रत्यदृश्यन्त सर्वशः। वध्यमाना हयाश्चैव प्राद्रवन्तः भयार्दिताः॥ यथा सिहं समासाद्य मृगाः प्राणपरायणा:। पाण्डवाश्च महाराज जित्वा शत्रून् महामृधे॥ दध्मुः शङ्खांश्च भेरीश्च ताडयामासुराहवे। ततो दुर्योधनो दीनो दृष्ट्वा सैन्यं पराजितम्॥ अब्रवीद् भरतश्रेष्ठ मद्रराजमिदं वचः। एष पाण्डुसुतो ज्येष्ठो यमाभ्यां सहितो रणे॥ पश्यतां वो महाबाहो सेनां द्रावयति प्रभो। तं वारय महाबाहो वेलेव मकरालयम्॥ त्वं हि संश्रूयसेऽत्यर्थमसाबलविक्रमः। पुत्रस्य तव तद् वाक्यं श्रुत्वा शल्यः प्रतापवान्॥ स ययौ रथवंशेन यत्र राजा युधिष्ठिरः। तदापतद् वै सहसा शल्यस्य समुदहद् बलम्॥ महौघवेगं समरे वारयामास पाण्डवः। मद्रराजं च समरे धर्मराजो महारथः॥ दशभिः सायकैस्तूर्णमाजघान स्तनान्तरे। नकुलः सहदेवश्च तं सप्तभिरजिह्मगैः॥ मद्रराजोऽपि तान् सर्वानाजघान त्रिभिस्त्रिभिः। युधिष्ठिरं पुनः षष्ट्या विव्याध निशितैः शरैः॥ माद्रीपुत्रौ च सम्भ्रान्तौ द्वाभ्यां द्वाभ्यामताडयत्। ततो भीमो महाबाहुर्दृष्ट्वा राजानमाहवे॥ मद्रराजरथं प्राप्तं मृत्योरास्यगतं यथा। अभ्यपद्यत संग्रामे युधिष्ठिरममित्रजित्॥ ततो युद्धं महाघोरं प्रावर्तत सुदारुणम्। अपरां दिशमास्थाय पतमाने दिवाकरे॥ संजय उवाच ततः पिता तव क्रुद्धो निशितैः सायकोत्तमैः। आजघान रणे पार्थान् सहसेनान् समन्ततः॥ भीमं द्वादशभिर्विद्ध्वा सात्यकिं नवभिः शरैः। नकुलं च त्रिभिर्विद्ध्वा सहदेवं च सप्तभिः॥ युधिष्ठिरं द्वादशभिर्बाह्वोरुरसि चार्पयत्। धृष्टद्युम्नं ततो विद्ध्वा ननाद सुमहाबलः॥ तं द्वादशाख्यैर्नकुलो माधवश्च त्रिभिः शरैः। धृष्टद्युम्नश्च सप्तत्या भीमसेनश्च सप्तभिः॥ युधिष्ठिरो द्वादशभिः प्रत्यविध्यत् पितामहम्। द्रोणस्तु सात्यकि विद्ध्वा भीमसेनमविध्यत॥ एकैकं पञ्चभिर्बाणैर्यमदण्डोपमैः शितैः। तौ च तं प्रत्यविध्येतां त्रिभिस्त्रिभिरजिह्मगैः॥ तोत्रैरिवं महानागं द्रोणं ब्राह्मणपुङ्गवम्। सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः॥ अभीषाहाः शूरसेनाः शिवयोऽथ वसातयः। संग्रामे नाजहुर्भीष्मं वध्यमानाः शितैः शरैः॥ तथैवान्ये महीपाला नानादेशसमागताः। पाण्डवानभ्यवर्तन्त विविधायुधपाणयः॥ तथैव पाण्डवा राजन् परिवब्रुः पितामहम्। स समन्तात् परिवृतो रथौधैरपराजितः॥ गहनेऽग्निरिवोत्सृष्टः प्रजज्वाल दहन् परान्। रथाग्न्यगारश्चापार्चिरसिशक्तिगदेन्धनः॥ शरस्फुलिङ्गो भीष्माग्निर्ददाह क्षत्रियर्षभान्। सुवर्णपुङरिषुभिर्गार्धपक्षौः सुतेजनैः॥ कर्णिनालीकनाराचैश्छादयामास तद् बलम्। अपातयद् ध्वजांश्चैव रथिनश्च शितैः शरैः॥ मुण्डतालवनानीव चकार स रथव्रजान्। निर्मनुष्यान् रथान् राजन् गजाश्वांश्च संयुगे॥ अकरोत् स महाबाहुः सर्वशस्त्रभृतां वरः। तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः॥ निशम्य सर्वभूतानि समकम्पन्त भारत। अमोघा ह्यपतन् बाणाः पितुस्ते भरतर्षभ॥ नासज्जन्त तनुत्रेषु भीष्मचापच्युताः शराः। हतवीरान् रथान् राजन् संयुक्ताञ्जवनैर्हयैः॥ अपश्याम महाराज ह्रियमाणान् रणाजिरे। चेदिकाशिकरूषाणं सहस्राणि चतुर्दश॥ महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः। अपरावर्तिनः सर्वे सुवर्णविकृतध्वजाः॥ संग्रामे भीष्ममासाद्य व्यादितास्यमिवान्तकम्। निमग्नाः परलोकाय सवाजिरथकुञ्जराः॥ भग्नाक्षोपस्करान् कांश्चिद् भग्नचक्रांश्च भारत। अपश्याम महाराज शतशोऽथ सहस्रशः॥ सवरूथे रथैर्भग्नै रथिभिश्च निपातितः। शरैः सुकवचैश्छिन्नैः पट्टिशैश्च विशाम्पते।॥ गदाभिर्भिन्दिपालैश्च निशितैश्च शिलीमुखैः। अनुकईंपासङ्गैश्चर्भग्नैश्च मारिष॥ बाहुभिः कार्मुकैः खङ्गैः शिरोभिश्च सकुण्डलैः। तलत्रैरङ्गुलित्रैश्च ध्वजैश्च विनिपातितैः॥ चापैश्च बहुधा च्छिन्नैः समास्तीर्यत मेदिनी। हतारोहा गजा राजन् हयाश्च हयसादिनः॥ न्यपतन्त मतप्राणाः शतशोऽथ सहस्रशः। यतमानाश्च ते वीरा द्रवमाणान् महारथान्॥ नाशक्नुवन् वारयितुं भीष्मबाणप्रपीडितान्। महेन्द्रसमवीर्येण वध्यमाना महाचमूः॥ अभज्यत महाराज न च द्वौ सह धावतः। आविद्धरथनागाश्वं पतितध्वजसंकुलम्॥ अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम्। जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा।॥ प्रियं सखायं चाक्रन्दे सखा दैवबलात् कृतः। विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः॥ प्रकीर्य कैशान् धावन्तः प्रत्यदृश्यन्त सर्वशः। तद् गोकुलमिवोद्भ्रान्तमुद्घान्तरथकूबरम्॥ ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा। प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः॥ उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम्। अयं स कालः सम्प्राप्तः पार्थ यः काक्षितस्तव॥ प्रहरास्मिन् नरव्याघ्र न चेन्मोहाद् विमुह्यसे। यत् पुरा कथितं वीर राज्ञां तेषां समागमे॥ विराटनगरे तात संजयस्य समीपतः। भीष्मद्रोणमुखान् सर्वान् धार्तराष्ट्रस्य सैनिकान्॥ सानुबन्धान् हनिष्यामि ये मां योत्स्यन्ति संगरे। इति तत् कुरु कौन्तेय सत्यं वाक्यमरिंदम॥ क्षत्रधर्ममनुस्मृत्य युध्यस्व विगतज्वरः। इत्युक्तो वासुदेवेन तिर्यग्दृष्टिरधोमुखः॥ अकाम इव बीभत्सुरिदं वचनमब्रवीत्। अवध्यानां वधं कृत्वा राज्यं वा नरकोत्तरम्॥ दुःखानि वनवासे वा किं नु मे सुकृतं भवेत्। चोदयाश्वान् यतो भीष्मः करिष्ये वचनं तव॥ पातयिष्यामि दुर्धर्षं भीष्मं कुरुपितामहम्। स चाश्वान् रजतप्रख्यांश्चोदयामास माधवः॥ यतो भीष्मस्ततो राजन् दुष्प्रेक्ष्यो रश्मिवानिव। दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यतमाहवे। ततो भीष्मः कुरुश्रेष्ठः सिंहवद् विनदन् मुहुः॥ धनंजयरथं शीघ्रं शरवर्षैरवाकिरत्। क्षणेन स रथस्तस्य सहयः सहसारथिः॥ शरवर्षेण महता न प्राज्ञायत भारत। वासुदेवस्त्वसम्भ्रान्तो धैर्यमास्थाय सत्वरः॥ चोदयामास तानश्वान् विनुन्नान् भीष्मसायकैः। ततः पार्थो धनुर्गृह्य दिव्यं जलदनिःस्वनम्॥ पातयामास भीष्मस्य धनुश्छित्त्वा शितैः शरैः। सच्छिन्नधन्वा कौरव्यः पुनरन्यन्महद् धनुः॥ निमेषान्तरमात्रेण सज्यं चक्रे पिता तव। चकर्ष च ततो दो• धनुर्जलदनिःस्वनम्॥ अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः। तस्य तत् पूजयामास लाघवं शान्तनोः सुतः॥ गाङ्गेयस्त्वब्रवीत् पार्थं धन्विश्रेष्ठमरिंदम। साधु साधु महाबाहो साधु कुन्तीसुतेति च॥ समाभाष्यैवमपरं प्रगृह्य रुचिरं धनुः। मुमोच समरे भीष्मः शरान् पार्थरथं प्रति॥ अदर्शयद् वासुदेवो हययाने परं बलम्। मोघान् कुर्वशरांस्तस्य मण्डलानि निदर्शयन्॥ शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ। गोवृषाविव संरब्धौ विषाणोल्लिखिताङ्कितौ॥ वासुदेवस्तु सम्प्रेक्ष्य पार्थस्य मृदुयुद्धताम्। भीष्मं च शरवर्षाणि सृजनामनिशं युधि॥ प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः। वरान् वरान् विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान्॥ युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले। नामृष्यत महाबाहुर्माधवः परवीरहा॥ उत्सृज्य रजतप्रख्यान् हयान् पार्थस्य मारिष। वासुदेवस्ततो योगी प्रचस्कन्द महारथात्॥ अभिदुद्राव भीष्मं स भुजप्रहरणो बली। प्रतोदपाणिस्तेजस्वी सिंहवद् विनदन् मुहुः॥ दारयन्निव पद्भ्यां स जगतीं जगदीश्वरः। क्रोधताप्रेक्षणः कृष्णो जिघांसुरमितद्युतिः॥ ग्रसन्तमिव चेतांसि तावकानां महाहवे। दृष्ट्वा माधवमाक्रन्दे भीष्मायोद्यतमन्तिके॥ हतो भीष्मो हतो भीष्मस्तत्र तत्र वचो महत्। अश्रूयत महाराज वासुदेवभयात् तदा॥ पीतकौशेयसंवीतो मणिश्यामो जनार्दनः। शुशुभे विद्रवन् भीष्मं विद्युन्माली यथाम्बुदः॥ स सिंह इव मातङ्गं यूथर्षभ इवर्षभम्। अभिदुद्राव वेगेन विनदन् यादवर्षभः॥ तमापतन्तं सम्प्रेक्ष्य पुण्डरीकाक्षमाहवे। असम्भ्रमं रणे भीष्मो विचकर्ष महद् धनुः॥ उवाच चैव गोविन्दमसम्भ्रान्तेन चेतसा। एह्येहि पुण्डरीकाक्ष देवदेव नमोऽस्तु ते॥ मामद्य सात्वतश्रेष्ठ पातयस्व महाहवे। त्वया हि देव संग्रामे हतस्यापि ममानघ॥ श्रेय एव परं कृष्ण लोके भवति सर्वतः। सम्भावितोऽस्मि गोविन्द त्रैलोक्येनाद्य संयुगे॥ प्रहरस्व यथेष्टं वै दासौऽस्मि तव चानघ। पार्थः समभिद्रुत्य केशवम्॥ नग्राह महाबाहुर्बाहुभ्यां परिगृह्य वै। निगृह्यमाणः पार्थेन कृष्णो राजीवलोचनः॥ जगामैवैनमादाय वेगेन पुरुषोत्तमः। पार्थस्तु विष्टभ्य बलाच्चरणौ परवीरहा॥ अन्वगेव ततः निजग्राह हृषीकेशं कथंचिदं दशमे पदे। तत एवमुवाचार्तः क्रोधपर्याकुलेक्षणम्॥ निःश्वसन्तं यथा नागमर्जुनः प्रणयात् सखा। निवर्तस्व महाबाहो नानृतं कर्तुमर्हसि॥ यत् त्वया कथितं पूर्वं न योत्स्यामिति केशव। मिथ्यावादीति लोकास्त्वां कथयिष्यन्ति माधव॥ ममैषः भारः सर्वो हि हनिष्यामि पितामहम्। शपे केशव शस्त्रेण सत्येन सुकृतेन च॥ अन्तं यथा गमिष्यामि शत्रूणां शत्रुसूदन। अद्यैव पश्य दुर्धर्षं पात्यमानं महास्थम्॥ तारापतिमिवापूर्णमन्तकाले यदृच्छया। माधवस्तु वचः श्रुत्वा फाल्गुनस्य महात्मनः॥ (अभवत् परमप्रीतो ज्ञात्वा पार्थस्य विक्रमम्।) न किंचिदुक्त्वा सक्रोध आरुरोह रथं पुनः। तौ रथस्थौ नरव्याघ्रो भीष्मः शान्तनवः पुनः॥ ववर्ष शरवर्षेण मेघो वृष्ट्या यथाऽचलौ। प्राणानादत्त योधानां पिता देवव्रतस्तव॥ गभस्तिभिरिवादित्यस्तेजांसि शिशिरात्यये। यथा कूरूणां सैन्यानि बभ युधि पाण्डवाः॥ तथा पाण्डवसैन्यानि बभञ्ज युधि ते पिता। हतविद्रुतसैन्यास्तु निरुत्साहा विचेतसः॥ निरीक्षितुं न शेकुस्ते भीष्ममप्रतिमं रणे। मध्यंगतमिवादित्यं प्रतपन्तं स्वतेजसा॥ ते वध्यमाना भीष्मेण शतशोऽथ सहस्रशः। कुर्वाणं समरे कर्माण्यतिमानुषविक्रमम्॥ वीक्षांचक्रुर्महाराज पाण्डवा भयपीडिताः। तथा पाण्डवसैन्यानि द्राव्यमाणानि भारत॥ त्रातारं नाध्यगच्छन्त गावः पङ्कगता इव। पिपीलिका इव क्षुण्णा दुर्बला बलिना रणे॥ महारथं भारत दुष्प्रकम्पं शरौघिणं प्रतपन्तं नरेन्द्रान्। भीष्मं न शेकुः प्रतिभीक्षितुं ते शरार्चिषं सूर्यमिवातपन्तम्॥ मस्तं जगामाथ सहस्ररश्मिः। ततो बलानां श्रमकर्शितानां मनोऽवहारं प्रति सम्बभूव॥ संजय उवाच युध्यतामेव तेषां तु भास्करेऽस्तमुपागते। संध्या समभवद् घोरा नापश्याम ततो रणम्॥ ततो युधिष्ठिरो राजा संध्यां संदृश्य भारत। वध्यमानं च भीष्मेण त्यक्तास्त्रं भयविह्वलम्॥ स्वसैन्यं च परावृत्तं पलायनपरायणम्। भीष्मं च युधि संरब्ध पीडयन्तं महारथम्॥ सोमकांश्च जितान् दृष्ट्वा निरुत्साहान् महारथान्। चिन्तयित्वा ततो राजा अवहारमरोचयत्॥ ततोऽवहारं सैन्यानां चक्रे राजा युधिष्ठिरः। तथैव तव सैन्यानामवहारो ह्यभूत् तदा॥ ततोऽवहारं सैन्यानां कृत्वा तत्र महारथाः। न्यवशिन्त कुरुश्रेष्ठ संग्रामे क्षतविक्षताः॥ भीष्मस्य समरे कर्म चिन्तयानास्तु पाण्डवाः। नालभन्त तदा शान्ति भीष्मबाणप्रपीडिताः॥ भीष्योऽपि समरे जित्वा पाण्डवान् सहसृजयान्। पूज्यमानस्तव सुतैर्वन्द्यमानश्च भारत॥ न्यविशत् कुरुभिः सार्धं हृष्टरूपैः समन्ततः। ततो रात्रिः समभवत् सर्वंभूतप्रमोहिनी॥ तस्मिन् रात्रिमुखे घोरे पाण्डवा वृष्णिभिः सह। सुंजयाच दुराधर्षा मन्त्राय समुपाविशन्॥ आत्मनिःश्रेयसं सर्वे प्राप्तकालं महाबलाः। मन्त्रयामासुरव्यग्रा मन्त्रनिश्चयकोविदाः॥ ततो युधिष्ठिरो राजा मन्त्रयित्वा चिरं नृप। वासुदेवं समुद्वीक्ष्य वचनं चेदमाददे॥ कृष्ण पश्य महात्मानं भीष्मं भीमपराक्रमम्। गजं नलवनानीव विमृद्रन्त बलं मम॥ न चैवैनं महात्मानमुत्सहामो निरीक्षितुम्। लेलिह्यमानं सैन्येषु प्रवृद्धमिव पावकम्॥ यथा घोरो महानागस्तक्षको वै विषोल्बणः। तथा भीष्मो रणे क्रुद्धस्तीक्ष्णशस्त्रः प्रतापवान्॥ गृहीतचापः समरे प्रमुञ्चन् निशिताञ्छरान्। शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च देवराट्॥ वरुणः पाशभृच्चापि सगदो वा धनेश्वरः। न तु भीष्मः सुसंक्रुद्धः शक्यो जेतुं महाहवे॥ सोऽहमेवंगते. कृष्ण निमग्नः शोकसागरे। आत्मनो बुद्धिदौर्बल्याद् भीष्ममासाद्य संयुगे॥ वनं यास्यामि दुर्धर्ष श्रेयो वै तत्र मे गतम्। न युद्धं चोरते कृष्ण हन्ति भीष्मो हि नः सदा॥ यथा प्रज्वलितं वह्नि पतङ्गः समभिद्रवन्। एकतो मृत्युमभ्येति तथाऽहं भीष्ममीयिवान्॥ क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी। भ्रातरश्चैव मे शूराः सायकै शपीडिताः॥ मत्कृते भ्रातृसौहार्दाद् राज्यभ्रष्टा वनं गताः। परिक्लिष्टा तथा कृष्णा मत्कृते मधुसूदन॥ जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम्। जीवितस्याद्य शेषेण चरिष्ये धर्ममुत्तमम्॥ यदि तेऽहमनुग्राह्यो भ्रातृभिः सह केशव। स्वधर्मस्याविरोधेन हितं व्याहर केशव॥ एवं श्रुत्वा वचस्तस्य कारुण्याद् बहुविस्तरम्। प्रत्युवाच ततः कृष्णः सान्त्वयानो युधिष्ठिरम्॥ धर्मपुत्र विषाद् त्वं मा कृथाः सत्यसङ्गर। यस्य ते भ्रातरः शूरा दुर्जयाः शत्रुसूदनाः॥ अर्जुनो भीमसेनश्च वाय्वग्निसमतेजसौ। माद्रीपुत्रौ च विक्रान्तौ त्रिदशानामिवेश्वरौ॥ मां वा नियुक्ष्व सौहार्दाद् योत्स्ये भीष्मेण पाण्डव। त्वत्प्रयुक्तो महाराज किं न कुर्यां महाहवे॥ हनिष्यामि रणे भीष्ममाहूय पुरुषर्षभम्। पश्यतां धार्तराष्ट्राणां यदि नेच्छति फाल्गुनः॥ यदि भीष्मे हते वीरे जयं पश्यसि पाण्डव। हन्तासम्येकरथेनाद्य कुरुवृद्धं पितामहम्॥ पश्य मे विक्रमं राजन् महेन्द्रस्येव संयुगे। विमुञ्चन्त महास्त्रागि पातायष्यामि तं रथात ॥ यः शत्रुः पाण्डुपुत्राणां मच्छत्रुः स न संशयः। मदर्था भवदीया ये ये मदीयास्तवैव ते॥ तव भ्राता मम सखा सम्बन्धी शिष्य एव च। मांसान्युत्कृत्य दास्यामि फाल्गुनार्थे महीपते॥ एष चापि नरव्याघ्रां मत्कृते जीवितं त्यजेत्। एष नः सपयस्तात तारयेम परस्परम्॥ स मां नियुक्ष्व राजेन्द्र यथा योद्धा भवाम्हम्। प्रतिज्ञातमुपप्लव्ये यत् तत् पार्थेन पूर्ततः॥ घातयिष्यामि गाङ्गेयमिति लोकस्य संनिधौ। परिरक्ष्यमिदं तावद् वचः पार्थस्य धीमतः॥ अनुज्ञातं तु पार्थेन मया कार्यं न संशयः। अथवा फाल्गुनस्यैष भारः परिमितो रणे॥ स हनिष्यति संग्रामे ीष्म परपुरञ्जयम्। अशक्यमपि कुमुद्धि रणे पार्थः समुद्यतः॥ त्रिदशान् वा समुधुक्तान् सहितान् दैत्यदानवैः। निहन्यादर्जुनः संख्ये किमु भीष्मं नराधिप।॥ विपरीतो महावीर्यो गतसत्त्वोऽल्पजीवनः। भीष्मः शान्तनवो नूनं कर्तव्यं नावबुध्यते॥ युधिष्ठिर उवाच एवमेतन्महाबाहो यथा वदसि माधव। सर्वे होते न पर्याप्तास्तव वेगविधारणे॥ नियतं समवाप्स्यामि सर्वमेतद् यथेप्सितम्। यस्य मे पुरुषव्याघ्र भवान् पक्षे व्यवस्थितः॥ सेन्द्रानपि रणे देवाञ्जयेयं जयतां वर। त्वया नाथेन गोविन्द किमु भीष्मं महारथम्॥ न तु त्वामनृतुं कर्तुमुत्सहे स्वात्मगौरवात्। अयुध्यमानः साहाय्यं यथोक्तं कुरु माधव॥ समयस्तु कृतः कश्चिन्नमम भीष्मेण संयुगे। मन्त्रयिष्ये तवार्थाय न तु योत्स्ये कथञ्चन॥ दुर्योधनार्थं योत्स्यामि सत्यमेतदिति प्रभो। स हि राज्यस्य मे दाता मन्त्रस्यैव च माधव॥ तस्माद् देवव्रतं भूयो वधोपायार्थमात्मनः। भवता सहिताः सर्वे प्रयाम मधुसूदन॥ तद् वयं सहिता गत्वा भीष्ममाशु नरोत्तमम्। नचिरात् सर्वे वार्ष्णेय मन्त्रं पृच्छाम कौरवम्॥ स वक्ष्यति हितं वाक्यं सत्यमस्माञ्जनार्दन। यथा च वक्ष्यते कृष्णे तथा कर्ताऽस्मि संयुगे॥ स नो जयस्य दाता स्यान्मन्त्रस्य च दृढव्रतः। बालाः पित्रा विहीनाश्च तेन संवर्धिता वयम्॥ तं चेत् पितामहं वृद्धं हन्तुमिच्छामि माधव। पितुः पितरमिष्टं च धिगस्तु क्षत्रजीविकाम्॥ संजय उवाच ततोऽब्रवीन्महाराज वार्ष्णेयः कुरुनन्दनम्। रोचते मे महाप्राज्ञ राजेन्द्र तव भाषितम्॥ देवव्रतः कृती भीष्मः प्रेक्षितेनापि निर्दहेत्। गम्यतां स वधोपायं प्रष्टुं सागरगासुतः॥ वक्तुमर्हति सत्यं स त्वया पृष्टो विशेषतः। ते वयं तत्र गच्छामः प्रष्टुं कुरुपितामहम्॥ गत्वा शान्तनवं वृद्ध मन्त्रं पृच्छाम भारत। स वो दास्यति मन्त्रं यं तेन योत्स्यामहे परान्॥ एवमामत्र्य ते वीराः पाण्डवाः पाण्डुपूर्वजम्। जग्मुस्ते सहितः सर्वे वासुदेवश्च वीर्यवान्॥ विमुक्तशस्त्रकवचा भीष्मस्य सदनं प्रति। प्रविश्य च तदा भीष्मं शिरोभिः प्रणिपेदिरे॥ पूजयन्तो महाराज पाण्डवा भरतर्षभम्। प्रणम्य शिरसा चैनं भीष्मं शरणमभ्ययुः॥ तानुवाच महाबाहुर्भीष्मः कुरुपितामहः। स्वागतं तव वार्ष्णेय स्वागतं ते धनंजय॥ स्वागतं धर्मपुत्राय भीमाय यमयोस्तथा। किं वा कार्यं करोम्यद्य युष्माकं प्रीतिवर्धनम्॥ सर्वात्मनापि कर्तास्मि यदपि स्यात् सुदुष्करम्। तथा ब्रुवाणं गाङ्गेयं प्रीतियुक्तं पुनः पुनः॥ उवाच राजा दीनात्मा जीतियुक्तमिदं वचः। कथं जयेम सर्वज्ञ कथं राज्यं लभेमहि॥ प्रजानां संशयो न स्यात् कथं तन्मे वद प्रभो। भवान् हि नो वधोपायं ब्रवीतु स्वचमात्मनः॥ भवन्तं समरे वीर विषहेम कथं वयम्। न हि ते सूक्ष्ममप्यस्ति रन्धं कुरुपितामह॥ भरतर्षभ। मण्डलेनैव धनुषा दृश्यसे संयुगे सदा। आददार संदधानं विकर्षन्तं धनुर्न च॥ पश्यामस्त्वां महाबाहो रथे सूर्यमिवापरम्। रथाश्वनरनागानां हन्तारं परवीरहन्॥ कोऽथ वोत्सहते जेतुं त्व पुमान वर्षता शरवर्षा ग संयुगे बैशसं कृतम्॥ क्षयं नीता हि पृतना संयुगे महती मम। यथा युधि जो चां यथा राज्यं भृशं मम॥ मम सैन्यस्य च क्षेमं तन्मे ब्रूहि पितामह। ततोऽब्रवीच्छान्तनवः पाण्डवान् पाण्डुपूर्वजः॥ न क चन कौन्तेय मयि जीवति संयुगे। जयो भवति सर्वज्ञ सत्यमेतद् ब्रवीमि ते॥ निर्जिते मयि युद्धेन रणे जेष्यथ पाण्डवाः। क्षिप्रं मयि प्रहरध्वं यदीच्छथ रणे जयम्॥ अनुजानामि वः पार्थाः प्रहरध्वं यथासुखम्। एवं हि सुकृत मन्ये भवतां विदितो ह्यहम्॥ ते मयि हतं सर्वं तस्मादेवं विधीयताम्। युधिष्ठिर उवाच ब्रूहि तस्मादुपायं नो यथा युद्धे जयेमहि॥ भवन्तं समरे क्रुद्धं दण्डहस्तमिवान्तकम्। शक्यो वज्रधरो जेतुं वरुणोऽथ यमस्या॥ न भवान् समरे शक्य: सेन्ट्रैरपि सुरासुरैः। भीष्म उवाच सत्यमेतन्महाबाहो यथा वदसि पाण्डव॥ नाहं जेतुं रणे शक्य. सेन्ट्रैरपि सुरासुरैः। आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः ७६।। ततो मां न्यस्तशस्त्रं तु एते हन्युर्महारथाः। निक्षिप्तशस्त्रे पतिते विमुक्तकवचध्वजे॥ द्रवमाणे च भीते च तवास्मीति च वादिनि' स्त्रियां स्त्रीनामधेये न विवले चैकपरिणे॥ अप्रशते नरे चैव न युद्धं रोचते मम। इमं में शृणु रजेन्द्र संकल्पं पूर्वचिन्तितम्॥ अमङ्गल्यध्वज दृष्ट्वा न युध्येयं कदाचन' य एप द्रौपदो राजंस्तव सैन्ये महारथः॥ शिखण्डी समरामर्षी शूरश्च समितिञ्जयः। यथाभवञ्च स्त्री पूर्वं पश्चात् पुंस्त्वं ममागतः॥ जानन्ति च भवन्तोऽपि सर्वमेतद् यथातथम्। अर्जुनः समरे शूर पुरस्कृत्य शिखण्डिनम्॥ मामेव विशिस्त्रैस्तीक्ष्णैरभिद्रया, दंशितः। अमङ्गल्यध्वजे तस्मिन् स्त्रीपूर्वं च विशेषतः॥ न प्रहर्तुमीप्सामि गृहीतेषुः कथइन। तदन्तरं समासाद्य पाण्डवो धनंजयः८४॥ शरैर्घातयतु क्षिप्रं समन्ताद् भरतर्षभ। न तं पश्यामि लोकेषु मां हन्याद् यः समुद्यतम्॥ ऋते कृष्णान्महाभागात् पाण्डवाद् वा धनञ्जयात्। एष तस्मात् पुरोधाय कञ्चिदन्यं ममाग्रतः॥ आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः। मां पातयतु बीभत्सुरेवं तव जयो ध्रुवम्॥ एतत् कुरुष्व कौन्तेय यथोक्तं मम सुव्रत। संग्रामे धार्तराष्ट्रांश्च हन्याः सर्वान् समागतान्॥ संजय उवाच तु ज्ञात्वा ततः पार्धा जग्मुः स्वशिबिरं प्रति। अभिवाद्य महत्मानं भीष्मं कुरुपितामहम्॥ तथोक्तवति गाङ्गेये परलोकाय दीक्षिते। अर्जुनो दुःखसंतप्तः सर्वीडमिदमब्रवीत्॥ गुरुणा कुरुवृद्धेन कृतप्रज्ञेन धीमता। पितामहेन संग्रामे कथं योद्धाऽस्मि माधव॥ ते क्रीडता हि मया बाल्ये वासुदेव महामनाः । पांसुरूषितगात्रेण महात्मा परुषीकृतः॥ यस्याहमधिरुह्याङ्कं बालः किल गदाग्रजा तातेत्यवोचं पितरं पितुः पाण्डोर्महात्मनः॥ नाहं तातस्तव पितुस्तातोऽस्मि तव भारत। इति मामब्रवीद् बाल्ये य: स वध्यः कथं मया॥ कामं वध्यतु सैन्यं मे नाहं योत्स्ये महात्मना। जयो वाऽस्तु वधो वा मे कथं वा कृष्ण मन्यसे॥ प्रतिज्ञाय वधं जिष्णो पुरा भीष्मस्य संयुगे। क्षत्रधर्मे स्थितः पार्थ कथं नैनं हनिष्यसि॥ वासुदेव उवाच पातयैनं रथात् पार्थ क्षत्रियं युद्धदुर्मदम्। नाहत्वा युधि गाङ्गेयं विजयस्ते भविष्यति॥ दृष्टमेतत् पुरा देवैर्गमिष्यति यमक्षयम्। यद् दृष्टं हि पुरा पार्थ तत् तथा न तदन्यथा॥ न हि भीष्मं दुराधर्षं व्यात्ताननमिवान्तकम्। त्वदन्यः शक्नुयाद् योद्धमपि वज्रधरः स्वयम्॥ जहि भीष्मं स्थिरो भूत्वा शृणु चेदं वचो मम। यथोवाच पुरा शक्रं महाबुद्धिवृहस्पतिः॥ ज्यायांसमपि चेद् वृद्धं गुणैरपि समन्वितम्। आततायिनमायान्तं हन्याद् घातकमात्मनः॥ शाश्वतोऽयं स्थितो धर्मः क्षत्रियाणां धनंजय। योद्धव्यं रक्षितव्यं च यष्टव्यं चानसूयुभिः॥ अर्जुन उवाच शिखण्डी निधनं कृष्ण भीष्मस्य भविता पम्। दृष्ट्वैव हि सदा भीष्मः पाञ्चाल्यं विनिवर्तते॥ ते वयं प्रमुखे तस्य पुरस्कृत्य शिखण्डिनम्। गाङ्गेयं पातयिष्याम उपायेनेति मे मतिः॥ अहमन्यान् महेष्वासान् वारयिष्यामि सायकैः। शिखण्ड्यपि युधां श्रेष्ठं भीष्ममेवाभियोधयेत्॥ श्रुतं हि कुरुमुख्यस्य नाहं हन्यां शिखण्डिनम्। कन्या ह्येषा पुरा भूत्वा पुरुषः समपद्यत॥ इत्येवं निश्चयं कृत्वा पाण्डवाः सहमाधवाः। अनुमान्य महात्मानं प्रययुर्हष्टमानसाः। शयनानि यथास्वानि भेजिरे पुरुषर्षभाः॥ धृतराष्ट्र उवाच कथं शिखण्डी गाङ्गेयमभ्यवर्तत संयुगे। पाण्डवांश्च कथं भीष्मस्तन्ममाचक्ष्व संजय॥ संजय उवाच ततस्ते पाण्डवाः सर्वे सूर्यस्योदयनं प्रति। ताड्यमानासु भेरीषु मृदङ्गेष्वानकेषु च।॥ ध्मायत्सु दधिवर्णेषु जलजेषु समन्ततः। शिखण्डिनं पुरस्कृत्य निर्याताः पाण्डवा युधि॥ कृत्वा व्यूह महाराज सर्वशत्रुनिबर्हणम्। शिखण्डी सर्वसैन्यानामग्र आसीद् विशाम्पते॥ चक्ररक्षौ ततस्तस्य भीमसेनधनंजयौ। पृष्ठतो द्रौपदेयाश्च सौभद्रश्चैव वीर्यवान्॥ सात्यकिश्चेकितानश्च तेषां गोप्ता महारथा धृष्टद्युम्नस्ततः पश्चात्यञ्चालैरभिरक्षितः॥ ततो युधिष्ठिरो राजा यमाभ्यां सहितः प्रभुः। प्रययौ सिंहनादेन नादयन् भरतर्षभ॥ विराटस्तु ततः पश्चात् स्वेन सैन्येन संवृतः। दुपदश्च महाबाहो ततः पश्चादुपाद्रवत्॥ केकया भ्रातरः पञ्च धृष्टकेतुश्च वीर्यवान्। जघनं पालयामासुः पाण्डुसैन्यस्य भारत॥ एवं व्यूह्य महासैन्यं पाण्डवास्तव वाहिनीम्। अभ्यद्रवन्त संग्रामे त्यक्त्वा जीवितमात्मनः॥ तथैव कुरवी राजन् भीष्मं कृत्वा महारथम्। अग्रतः सर्वसैन्यानां प्रययुः पाण्डवान् प्रति॥ पुत्रैस्तव दुराधर्षो रक्षितः सुमहाबलैः। ततो द्रोणो महेष्वासः पुत्रश्चास्य महाबलः॥ भगदत्तस्ततः पश्चाद् गजानीकेन सवृतः। कृपश्च कृतवर्मा च भगदत्तमनुव्रतौ॥ काम्बोजराजो बलवांस्ततः पश्चात् सुदक्षिणः। मागधच जयत्सेनः सौबलश्च बृहद्बलः॥ तथैवान्ये महेष्वासाः सुशर्मप्रमुखा नृपाः। जघनं पालयामासुस्तव सैन्यस्य भारत॥ दिवसे दिवसे प्राप्ते भीष्मः शान्तनवो युधि। आसुरानकरोद् व्यूहान् पैशाचानथ राक्षसान्॥ ततः प्रववृते युद्धं तव तेषां च भारत। अन्योन्य निजतां राजन् यमराष्ट्रविवर्धनम्॥ अर्जुनप्रमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम्। भीष्मं युद्धेऽभ्यवर्तन्त किरन्तो विविधाञ्छरान्॥ तत्र भारत भीमेन ताडितास्तावकाः शरैः। रुधिरोधपरिक्लिन्ना: परलोकं ययुस्तदा॥ नकुलः सहदेवश्च सात्यकिश्च महारथः। तव सैन्यं समासाद्य पीडयामासुरोजसा॥ ते वध्यमानाः समरे तावका भरतर्षभ। नाशक्नुतन् वारयितुं पाण्डवानां महद् वलम्॥ ततस्तु तावकं सैन्यं वध्यमानं समन्ततः। सुसम्प्राप्तं दश दिशः काल्यमानं महारथैः॥ वातारं नाध्यगच्छन्त तावका भरतर्षभ। वध्यमानाः शितैर्बाणैः पाण्डवैः सहसृञ्जयैः॥ धृतराष्ट्र उवाच पीड्यमानं बलं दृष्ट्वा पार्थैर्भीष्मः पराक्रमी। यदकार्षीद् रणे क्रुद्धस्तन्ममाचक्ष्व संजय॥ कथं वा पाण्डवान् युद्धे प्रत्युद्यातः परंतपः। विनिघ्ननं सोमकान् वीरस्तदाचक्ष्व ममानघ॥ संजय उवाच आचक्षे ते महाराज यदकार्षीत् पिता तव। पीडिते तव पुत्रस्य सैन्ये पाण्डवसुंजयैः॥ प्रहृष्टमनसः शूराः पाण्डवाः पाण्डुपूर्वज। अभ्यवर्तन्त निघ्नन्तस्तव पुत्रस्य वाहिनीम्॥ तं विनाशं मनुष्येन्द्र गरवारणवाजिनाम्। नामृष्यत तदा भीष्मः सैन्यघातं रणे परैः॥ स पाण्डवान् महेष्वासः पञ्चामांश्चैव संजरा न्। नाराचैर्वत्सदन्तैश्च शितैरशलिकैस्तथा।॥ अभ्यवर्षत दुर्धर्षस्त्यक्त्वा जीवितमात्मनः। स पाण्डवानां प्रवरान् पञ्च राजन् महारथान्॥ आत्तशत्रो रणे यत्नाद् वारयामास सायकैः। गानाशस्त्रास्त्रवर्षेस्तान् वीर्यामर्षप्रवेरितैः॥ निजघ्ने समरे क्रुन्द्रो हस्त्यश्वं चामितं बहु। र६िनोऽयात बद् राजन् रथेभ्यः पुरुषर्षभः॥ सादिनश्चाश्च पृष्ठे-य: । दातांश्च सम्पगतान्। गजारोहान् गजेभ्यश्च परेषां जयकारिणः॥ तमेकं समरे भीष्मं त्वरमाण महारथम्। पाण्डवाः समवर्तन्त वज्रहस्तमिवासुराः॥ शक्राशनिसमस्पर्शान् विमुञ्चन् निशिताञ्छरान्। विश्वदृश्यत सर्वासु घोरं संधारयन् वपुः॥ मण्डलीभूतवास्य नित्यं धनुरदृश्यत। संग्रामे युद्ध्यमानस्य शक्रचापोपमं महत्॥ तद् दृष्ट्वा सम् कर्म पुत्रास्तव विशाम्पते। विस्म परमं गत्वा पितामहमजयन्॥ पार्था विमनसो भूत्वा पैक्षन पितरं तव॥ युध्यमानं रणे शूरं विप्रचित्तिमिवामराः। न चैनं वारयामासुक्त्ताननमिवान्तकम्॥ दशमेऽहनि सम्प्राप्ते रथानीकं शिखण्डिनः। अहदनिशितैर्बाणैः कृष्णवर्मेव काननम्॥ तं शिखण्डी त्रिभिर्बाणैरभ्यविध्यत् स्तनान्तरे। आशीविषमिव क्रुद्धं कालसृष्टमिवान्तकम्॥ स तेना तभृशं विद्धः प्रेक्ष्य भीष्मः शिखाण्डनम्। अनिच्छन्निव संक्रुद्धः प्रहसन्निदमब्रवीत्॥ काममभ्यस वा मा वा न त्वां योत्स्ये कथंचन। यैव हि त्वं कृता धात्रा सैव हिच शिखण्डिनी॥ तस्य तद् वचनं श्रुत्वा शिखण्डी क्रोधमूर्छितः। उवाचैनं तथ पीष्मं सृक्किणी परिसंलिहन्॥ जानामि त्वां मह बाहो क्षत्रियाणां क्षयंकर। मया श्रुतं च ते युद्धं जामदग्न्टे. वै सह॥ दिव्यश्च ते प्रभावोऽयं मया च बहुशः श्रुतः। जानन्नपि प्रभावंते योत्स्येऽद्याहं त्वया सह॥ पाण्डवानां प्रियं कुर्वन्नात्मनश्च नरोत्तम। अद्य त्वां योधयिष्यामि रणे पुरुषसत्तम॥ ध्रुवं च त्वां हनिष्यामि शपे सत्येन तेऽग्रतः। एतच्छुत्रा च मद्वाक्यं यत् कृत्यं तत् समाचर॥ काममभ्यस वा मा वा न मे जीवन् प्रमोक्ष्यसे। सुदृष्टः क्रियतां भीष्मं लोकोऽयं समितिंजय॥ संजय उवाच एवमुक्त्वा ततो भीष्मं पञ्चभिर्नतपर्वभिः। अविध्यत रणे भीष्मं प्रणुन्नं वाक्यसायकैः॥ तस्य तद् वचनं श्रुत्वा सव्यसाची महारथः। कालोऽयमिति संचिन्त्य शिखण्डिनमचोदयत्॥ अहं त्वामनुयास्यामि परान् विद्रावयशरैः। अभिद्रव सुसंरब्धो भीष्मं भीमपराक्रमम्॥ न हि ते संयुगे पीडां शक्तः कर्तुं महाबलः। तस्मादद्य महाबाहो यत्नाद् भीष्ममभिद्रव॥ अहत्वा समरे भीष्मं यदि यास्यसि महारिष अवहास्योऽस्य लोकस्टः भविष्यसि मया सह॥ नावहास्या यथा वीरं भवेम परमाहवे। तथा कुरु रणे यत्नं साधयस्व पितामहम्॥ अहं ते रक्षणं युद्धे करिष्यामि महाबल। वारयन् रथिनः सर्वान् साधयस्व पितामहम्॥ द्रोणं च द्रोणपुत्रं च कृपं चाथ सुयोधनम्। चित्रसेनं विकर्णं च सैन्धर जयद्रथम्॥ विन्दानुविन्दावावन्त्यौकाम्बोजं च मदक्षिणम्। भगदत्तं तथा शूरं मागधं च महाबलम्॥ सौमदत्तिं तथा शूरमार्थ्यशृङ्गिं च राक्षसम्। त्रिगर्तराजं च रणे सह सर्वैर्महारथैः॥ अहमावारयिष्यामि बेलेव मकरालयम्। कुरूंश्च सहितान् सर्वान् युध्यमानान् महाबलान्। निवारयिष्यामि रणे साधयस्व पितामहम्॥ धृतराष्ट्र उवाच कथं शिखण्डी गाङ्गेयमभ्यधावत् पितामहम्। पाञ्चाल्यः समरे क्रुद्धो धर्मात्मानं यतव्रतम्॥ के रक्षन् पाण्डवानीके शिखण्डिनमुदाययुधाः। त्वरमाणास्त्वराकाले जिगीषन्तो महारथाः॥ कथं शान्तनवो भीष्मः स तस्मिन् दशमेऽहनि। अयुध्यत महावीर्यः पाण्डवैः सहसृजयैः॥ न मृष्यामि रणे भीष्मं प्रत्युद्यातं शिखण्डिना। कच्चिन्न रथभङ्गोऽस्य धनुर्वाशीर्यतास्यतः॥ संजय उवाच नाशीर्यत धनुश्चास्य रथभङ्गो न चाप्यभूत्। युध्यमानस्य संग्रामे भीष्मस्य भारतर्षभ।५॥ निघ्नतः समरे शत्रूशरेः संनतपर्वभिः। अनेकशतसाहस्रास्तावकानां महारथाः॥ तथा दन्तिगणा राजन् हयाश्चैव सुसज्जिताः। अभ्यवर्तन्त युद्धाय पुरस्कृत्य पितामहम्॥ यथाप्रतिज्ञं कौरव्य स चापि समितिञ्जयः। पार्थानामकरोदं भीष्मः सततं समिति क्षयम्॥ युध्यमानं महेष्वासं विनिघ्नन्तं पराशरैः। पञ्चालाः पाण्डवैः सार्धं सर्वे ते नाभ्यवारयन्॥ दशमेऽहनि सम्प्राप्ते ततस्तां रिपुवाहिनीम्। कीर्यमाणां शितैर्बाणैः शतशोऽथ सहस्रशः॥ न हि भीष्मं महेष्वासं पाण्डवाः पाण्डुपूर्वज। अशक्नुवन् रणे जेतुं पाशहस्तमिवान्तकम्॥ अथोपायान्महाराज सव्यसाची धनंजयः। त्रासयन् रथिनः सर्वान् बीभत्सुपराजितः॥ सिंहवद् विनदन्नुच्चैर्धनुर्ध्या विक्षिपन् मुहुः। शरोधान् विसृजन् पार्थोव्यरत् कालवद् रणे॥ तस्य शब्देन वित्रस्तास्तावका भरतर्षभ। सिंहस्येव मृगा राजन् व्यद्रवन्त महाभयात्॥ जयन्तं पाण्डवं दृष्ट्वा त्वत्सैन्यं चाभिपीडितम्। दुर्योधनस्ततो भीष्ममब्रवीद् भृशपीडितः॥ एष पाण्डुसुतस्तात श्वेताश्वः कृष्णसारथिः। दहते मामकान् सर्वान् कृष्णवर्मेव काननम्॥ पश्य सैन्यानि गाङ्गेय द्रवमाणानि सर्वशः। पाण्डवेन युधां श्रेष्ठ काल्यमानानि संयुगे॥ यथा पशुगणान् पाल: संकलयति कानने। तथेदं मामकं सैन्यं काल्यते शत्रुतापन॥ धनंजयशरैर्भग्नं द्रवमाणं ततस्ततः। भीमोऽप्येवं दुराधर्षो विद्रावयति मे बलम्॥ सात्यकिश्चेकितानश्च माद्रीपुत्रौ च पाण्डवौ। अभिमन्युः सुविक्रान्तो वाहिनीं द्रवते मम॥ धृष्टद्युम्नस्तथा शूरो राक्षसश्च घटोत्कचः। व्यद्रावयेतां सहसा सैन्यं मम महारणे॥ वध्यमानस्य सैन्यस्य सर्वैरतैर्महारथैः। नान्यां गतिं प्रपश्यामि स्थाने युद्धे च भारत॥ ऋते त्वां पुरुषव्याघ्र देवतुल्यपराक्रम। पर्याप्तस्तु भवाशीघ्रं पीडितानां गतिर्भव॥ संजय उवाच एवमुक्तो महाराज पिता देवव्रतस्तव। चिन्तयित्वा मुहूर्तं तु कृत्वा निश्चयमात्मनः॥ तव संधारयन् पुत्रमब्रवीच्छान्तनोः सुतः। दुर्योधन विजानीहि स्थिरो भूत्वा विशाम्पते॥ पूर्वकालं तव मया प्रतिज्ञातं महाबल। हत्वा दशसहस्राणि क्षत्रियाणां महात्मनाम्॥ संग्रामाद् व्यपयातव्यमेतत् कर्म ममाह्निकम्। इति तत् कृतवांश्चाहं यथोक्तं भरतर्षभ॥ अद्य चापि महत् कर्म प्रकरिष्ये महाबल। अहं वाद्य हतः शेष्ये हनिष्ये वाऽद्य पाण्डवान्॥ अद्य ते पुरुषव्याघ्र प्रतिमोक्ष्ये ऋणं तव। भर्तृपिण्डकृतं राजन् निहतः पृतनामुखे॥ इत्युक्त्वा भरतश्रेष्ठ क्षत्रियान् प्रवपञ्छरैः। आससाद दुराधर्षः पाण्डवानामनीकिनीम्॥ अनीकमध्ये तिष्ठन्तं गाङ्गेयं भरतर्षभ। आशीविषमिव क्रुद्धं पाण्डवाः प्रत्यवारयन्॥ दशमेऽहनि भीष्मस्तु दर्शयशक्तिमात्मनः। राजञ्छतसहस्राणि सोऽवधीत् कुरुनन्दन॥ पञ्चालानां च ये श्रेष्ठा राजपुत्रा महारथाः। तेषामादत्त तेजांसि जलं सूर्य इवांशुभिः॥ हत्वा दश सहस्राणि कुञ्जराणां तरस्विनाम्। सारोहाणां महाराज हयानां चायुतं तथा॥ पूर्णे शतसहस्रे द्वे पादातानां नरोत्तमः। प्रजज्वाल रणे भीष्मो विधूम इव पावकः॥ न चैनं पाण्डवेयानां केचिच्छेकुर्निरीक्षितुम्। उत्तरं मार्गमास्थाय तपन्तमिव भास्करम्॥ ते पाण्डवेयाः संरब्धा महेष्वासेन पीडिताः। वधायाभ्यद्रवन् भीष्मं सुंजयाश्च महारथाः॥ संयुद्ध्यमानो बहुभिर्भीष्मः शान्तनवस्तथा। अवकीर्णो महामेरुः शैलो मेधैरिवावृतः॥ पुत्रास्तु तव गाङ्गेयं समन्तात् पर्यवारयन्। महत्या सेनया सार्धं ततो युद्धमवर्तत॥ संजय उवाच अर्जुनस्तु रणे राजन् दृष्ट्वा भीष्मस्य विक्रमम्। शिखण्डिनमथोवाच समभ्येहि पितामहम्॥ न चापि भीस्त्वया कार्या भीष्मादद्य कथंचना अहमेनं शरैस्तीक्ष्णैः पातयिष्ये रथोत्तमात्॥ एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ। अभ्यद्रवत गाङ्गेयं श्रुत्वा पार्थस्य भाषितम्॥ धृष्टद्युम्नस्तथा राजन् सौभद्रश्च महारथः। हृष्टावाद्रवतां भीष्मं श्रुत्वा पार्थस्य भाषितम्॥ विराटदुपदौ वृद्धौ कुन्तिभोजश्च दंशितः। अभ्यद्रवन्त गाङ्गेयं पुत्रस्य तव पश्यतः॥ नकुलः सहदेवश्च धर्मराजश्च वीर्यवान्। तथेतराणि सैन्यानि सर्वाण्येव विशाम्पते॥ समाद्रवन्त गाङ्गेयं श्रुत्वा पार्थस्य भाषितम्। प्रत्युद्ययुस्तावकाश्च समेतांस्तान् महारथान्॥ यथाशक्ति यथोत्साहं तन्मे निगदतः शृणु। चित्रसेनो महाराज चेकितानं समभ्ययात्॥ भीष्मप्रेप्सुं रणे यान्तं वृषं व्याघ्रशिशुर्यथा। धृष्टद्युम्नं महाराज भीष्मान्तिकमुपागतम्॥ त्वरमाणं रणे यत्तं कृतवर्मा न्यवारयत्। भीमसेनं सुसंक्रुद्ध गाङ्गेयस्य वधैषिणम्॥ त्वरमाणो महाराज सौमदत्तिर्यवारयत्। तथैव नकुलं शूरं किरन्तं सायकान् बहून्॥ विकर्णो वारयामास इच्छन् भीष्मस्य जीवितम्। सहदेवं तथा राजन् यान्तं भीष्मरथं प्रति॥ वारयामास संक्रुद्धः कृपः शारद्वतो युधि। राक्षसं क्रूरकर्माणं भैमसेनि महाबलम्॥ भीष्मस्य निधनं प्रेप्सुं सुद्रमुखोऽभ्यद्रवद् बली। सात्यकिं समरे यान्तं तव पुत्रो न्यवारयत्॥ अभिमन्यु महाराज यान्तं भीष्मरथं प्रति। सुदक्षिणो महाराज काम्बोजः प्रत्यवारयत्॥ विराटदुपदौ वृद्धौ समेतावरिमर्दनौ। अश्वत्थामा ततः क्रुद्धो वारयामास भारत।॥ तथा पाण्डुसुतं ज्येष्ठं भीष्मस्य वधकाक्षिणम्। भारद्वाजो रणे यत्तो धर्मपुत्रमवारयत्॥ अर्जुनं रभसं युद्धे पुरस्कृत्य शिखण्डिनम्। भीष्मप्रेप्सुं महाराज भासयन्तं दिशो दश॥ दुःशासनो महेष्वासो वारयामास संयुगे। अन्ये च तावका योधाः पाण्डवानां महारथान्॥ भीष्मस्याभिमुखान् यातान् वारयामासुराहवे। धृष्टद्युम्नस्तु सैन्यानि प्राक्रोशंस्तु पुनः पुनः॥ अभ्यद्रवत संरब्धा भीष्ममेकं महारथः। एषोऽर्जुनो रणे भीष्मं प्रयाति कुरुनन्दनः॥ अभ्यद्रवत मा मैष्ट भीष्मो हि प्राप्स्यते न वः। अर्जुनं समरे योद्धं नोत्सहेतापि वासवः॥ किमु भीष्मो रणे वीरा गतसत्त्वोऽल्पजीवितः। इति सेनापतेः श्रुत्वा पाण्डवानां महारथाः॥ अभ्यद्रवन्त संहृष्टा गाङ्गेयस्य रथं प्रति। आगच्छमानान् समरे वार्योधान् प्रलयानिव॥ अवारयन्त संहृष्टास्तावकाः पुरुषर्षभाः। दुःशासनो महाराज भयं त्यक्त्वा महारथः॥ भीष्मस्य जीविताकाक्षि धनंजयमुपाद्रवत्। तथैव पाण्डवाः शूरा गाङ्गेयस्य रथं प्रति॥ अभ्यद्रवन्त संग्रामे तव पुत्रान् महारथाः। तत्राद्भुतमपश्याम चित्ररूपं विशाम्पते॥ दुःशासनरथं प्राप्य यत् पार्थो नात्यवर्तत। यथा वारयते वेला क्षुब्धतोयं महार्णवम्॥ तथैव पाण्डवं क्रुद्धं तव पुत्रो न्यवारयत्। उभो तौ रथिनां श्रेष्ठावुभौ भारत दुर्जयौ॥ उभी चन्द्रार्कसदृशौ कान्त्या दीप्त्या च भारत। तथा तौ जातसंरम्भावन्योन्यवधकाक्षिणौ॥ समीयतुर्महासंख्ये मयशक्रौ यथा पुरा। दुःशासनो महाराज पाण्डवं विशिखैस्त्रिभिः॥ वासुदेवं च विंशत्या ताडयामास संयुगे। ततोऽर्जुनो जातमन्युष्र्णेयं वीक्ष्य पीडितम्॥ दुःशासनं शतेनाजौ नाराचानां समार्पयत्। ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे॥ दुःशासनस्त्रिभिः क्रुद्धः पार्थं विव्याध पत्रिभिः। ललाटे भरतश्रेष्ठ शरैः संनतपर्वभिः॥ ललाटस्यैस्तु तैर्बाणैः शुशुभे पाण्डवो रणे। यथा मेरुर्महाराज शृङ्रत्यर्थमुच्छ्रितैः॥ सोऽतिविद्धो महेष्वासः पुत्रेण तव धन्विना। व्यराजत रणे पार्थः किंशुकः पुष्पवानिव॥ दुःशासनं ततः क्रुद्धः पीडयामस पाण्डवः। पर्वणीव सुसंक्रुद्धो राहुः पूर्ण निशाकरम्॥ पीड्यमानो बलवता पुत्रस्तव विशाम्पते। विव्याध समरे पार्थं कङ्कपत्रैः शिलाशितैः॥ तस्य पार्थो धनुश्छित्त्वा रथं चास्य त्रिभिः शरैः। आजघान ततः पश्चात् पुत्रं ते निशितैः शरैः॥ सोऽन्यत् कार्मुकमादाय भीष्मस्य प्रमुखे स्थितः। अर्जुनं पञ्चविंशत्या बाह्वोरुरसि चार्पयत्॥ तस्य क्रुद्धो महाराज पाण्डवः शत्रुतापनः। अप्रैषीद् विशिखान् घोरान् यमदण्डोपमान् बहून्॥ अप्राप्तानेव तान् बाणांश्चिच्छेद तनयस्तव। यतमानस्य पार्थस्य तदद्भुतमिवाभवत्॥ पार्थं च निशितैर्बाणैरविध्यत् तनयस्तव। ततः क्रुद्धो रणे पार्थः शरान् संधाय कार्मुके॥ प्रेषयामास समरे स्वर्णपुडाञ्छिलाशितान्। न्यमज्जंस्ते महाराज तस्य काये महात्मनः॥ यथा हंसा महाराज तडागं प्राप्य भारत। पीडितश्चैव पुत्रस्ते पाण्डवेन महात्मना॥ हित्वा पार्थं रणे तूर्णं भीष्मस्य रथमाव्रजत्। अगाधे मज्जतस्तस्य द्वीपो भीष्मोऽभवत् तदा॥ प्रतिलभ्य ततः संज्ञां पुत्रस्तव विशाम्पते। अवारयत् ततः शूरो भूय एव पराक्रमी॥ शरैः सुनिशितैः पार्थं यथा वृत्रं पुरंदरः। निर्बिभेद महाकायो विव्यथे नैव चार्जुनः॥ संजय उवाच सात्यकिं दंशितं युद्धे भीष्मायाभ्युद्यतं रणे। आर्ण्यशृङ्गिर्महेष्वासो वारयामास संयुगे॥ माधवस्तु सुसंक्रुद्धो राक्षसं नवभिः शरैः। आजघान रणे राजन् प्रहसन्निव भारत॥ तथैव राक्षसौ राजन् माधवं नवभिः शरैः। अर्दयामास राजेन्द्र संक्रुद्धः शिनिपुङ्गवम्॥ शैनेयः सरसंघं तु प्रेषयामास संयुगे। राक्षसाय सुसंक्रुद्धो माधवः परवीरहा॥ ततो रक्षो महाबाहुं सात्यकिं सत्यविक्रमम्। विव्याध विशिखैस्तीक्ष्णैः सिंहनादं ननाद च।॥ माधवस्तु भृशं विद्धो राक्षसेन रणे तदा। वार्यमाणश्च तेजस्वी जहास च ननाद च॥ भगदत्तस्ततः क्रुद्धो माधवं निशितैः शरैः। ताडयामास समरे तोत्रैरिव महागजम्॥ विहाय राक्षसं युद्धे शैनेयो रथिनां वरः। प्राग्ज्योतिषाय चिक्षेप शरान् संनतपर्वणः॥ तस्य प्राग्ज्योतिषो राजा माधवस्य महद् धनुः। चिच्छेद शतधारेण भल्लेन कृतहस्तवत्॥ अथान्यद् धनुरादाय वेगवत् परवीरहा। भगदत्तं रणे क्रुद्ध विव्याध निशितैः शरैः॥ सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन्। शक्तिं कनकवैदूर्यभूषितामायसीं दृढाम्॥ यमदण्डोपमा घोरां चिक्षेप परमाहवे। तामांपतन्ती सहसा तस्य बाहुबलेरिताम्॥ सात्यकिः समरे राजन् द्विधाचिच्छेद सायकैः। ततः पपात सहसा महोल्केव हतप्रभा॥ शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशाम्पते। महता रथवंशेन वारयामास माधवम्॥ तथा परिवृतं दृष्ट्वा वार्ष्णेयानां महारथम्। दुर्योधनो भृशं क्रुद्धो भ्रातॄन् सर्वानुवाच ह॥ तथा कुरुत कौरव्या यथा वः सात्यको युधि। न जीवन् प्रतिनिर्याति महतोऽस्माद् रथव्रजात्॥ तस्मिन् हते हतं मन्ये पाण्डवानां महद् बलम्। तथेति च वचस्तस्य परिगृह्य महारथाः॥ शैनेयं योधयामासुर्भीष्मायाभ्युद्यतं रणे। काम्बोजराजो बलवान् वारयामास संयुगे॥ आर्जुनिं नृपतिविद्ध्वा शरैः संनतपर्वभिः। पुनरेव चतुःषष्ट्या राजन् विव्याध तं नृप॥ सुदक्षिणस्तु समरे पुनर्विव्याध पञ्चभिः। सारथिं चास्य नवभिरिच्छन् भोष्मस्य जीवितम्॥ तद् युद्धमासीत् सुमहत् तयोस्तत्र समागमे। यदाभ्यधावद् गाङ्गेयं शिखण्डी शत्रुकर्शनः॥ विराटदुपदौ वृद्धौ वारयन्तौ महाचमूम्। भीष्मं च युधि संरब्धावाद्रवन्तौ महारथौ॥ अश्वत्थामा रणे क्रुद्धः समायाद्रथसत्तमः। ततः प्रववृते युद्धं तयोस्तस्य च भारत॥ विराटो दशभिर्भल्लैराजघान परंतप। यतमानं मद्देष्वासं द्रौणिमाहवशोभिनम्॥ दुपदश्च त्रिभिर्बाणैर्विव्याध निशितैस्तदा। गुरुपुत्रं समासाद्य प्रहरन्तौ महाबलौ॥ अश्वत्थामा ततस्तौ तु विव्याध बहुभिः शरैः। विराटद्रुपदौ वीरौ भीष्मं प्रति समुद्यतः॥ तत्राद्भुतमपश्याम वृद्धयोश्चरितं महत्। यद् द्रौणिसायकान् घोरान् प्रत्यवारयतां युधि॥ सहदेवं तथा यान्तं कृपः शारद्वतोऽभ्ययात्। यथा नागो वने नागं मत्तो मत्तमुपाद्रवत्॥ कृपश्च समरे शूरो माद्रीपुत्रं महारथम्। आजधान शरैस्तूर्णं सप्तत्या रुक्मभूषणैः॥ तस्य माद्रीसुतश्चापं द्विधा चिच्छेद सायकैः। अथैनं छिन्नधन्वानं विव्याध नवभिः शरैः॥ सोऽन्यत् कार्मुकमादाय समरे भारसाधनम्। माद्रीपुत्रं सुसंहृष्टो दशभिर्निशितैः शरैः॥ आजघानोरसि क्रुद्ध इच्छन् भीष्मस्य जीवितम्। तथैव पाण्डवो राजञ्छारद्वतममर्षणम्॥ आजघानोरसि क्रुद्धो भीष्मस्य वधकाझ्या। तयोर्युद्धं समभवद् घोररूपं भयावहम्॥ नकुलं तु रणे क्रुद्धो विकर्णः शत्रुतापनः! विव्याध सायकैः षष्ट्या रक्षन् भीष्मं महाबलम्॥ नकुलोऽपि भृशं विद्धस्तव पुत्रेण धीमता। विकर्णं सप्तसप्तत्या निर्बिभेद शिलीमुखैः॥ तत्र तौ नरशार्दूलौ भीष्महेतोः परंतपौ। अन्योन्यं जघ्नतुर्वीरो गोष्ठे गोवृषभाविव॥ घटोत्कचं रणे यान्तं निघ्नन्तं तव वाहिनीम्। दुर्मुखः समरे प्रायाद भीष्महेतोः पराक्रमी॥ हैडिम्बस्तु रणे राजन् दुर्मुखं शत्रुतापनम्। आजघानोरसि क्रुद्धः शरेणानतपर्वणा॥ भीमसेनसुतं चापि दुर्मुखः सुमुखैः शरैः। षष्ट्या वीरो नदन् हृष्टो विव्याध रणमूर्धनि॥ धृष्टद्युम्नं तथाऽऽयान्तं भीष्मस्य वधकाक्षिणम्। हार्दिक्यो वारयामास रथश्रेष्ठं महारथः॥ हार्दिक्य: पार्षतं चापि विद्ध्वा पञ्चभिरायसैः। पुनः पञ्चाशता तूर्णं तिष्ठ तिष्ठेति चाब्रवीत्॥ आजघान महाबाहुः पार्षतं तं महारथम्। तं चैव पार्षतो राजन् हार्दिक्यं नवभिः शरैः॥ विव्याध निशितैस्तीक्ष्णैः कङ्कपत्रैरजिह्मगैः। तयोः समभवद् युद्धं भीष्मरुतोर्महाहवे॥ अन्योयातिशये युक्तं यथा वृत्रमहेन्द्रयोः। भीमसेन तथाऽऽयान्त भीष्मं प्रति महारथम्॥ भूरिश्रवाभ्ययात् तूर्णं तिष्ठ तिष्ठेति चाब्रवीत्। सौमदत्तिरथो भीममाजघान स्तनान्तरे॥ नाराचेन सुतीक्ष्णेन रुक्मपुड्वेन संयुगे। उरःस्थेन बभौ तेन भीमसेनः प्रतापवान्॥ स्कन्दशक्त्या यथा क्रौञ्चः पुरा नृपतिसत्तम। तौ शरान् सूर्यसंकाशान् कर्मारपरिमार्जितान्॥ अन्योन्यस्य रणे क्रुद्धौ चिक्षिपाते नरर्षभौ। भीमो भीष्मवधाकाक्षी सौमदत्तिं महारथम्॥ तथा भीष्मजये गृनुः सौमदत्तिस्तु पाण्डवम्। कृतप्रतिकृते यत्तौ योधयामासतू रणे॥ युधिष्ठिरं तु कौन्तेयं महत्या सेनया वृतम्। भीष्माभिमुखमायान्तं भारद्वाजो न्यवारयत्॥ द्रोणस्य रथनिर्घोषं पर्जन्यनिनदोपमम्। श्रुत्वा प्रभद्रका राजन् समकम्पन्त मारिष॥ सा सेना महती राजन् पाण्डुपुत्रस्य संयुगे। द्रोणेन वारिता यत्ता न चचाल पदात् पदम्॥ चेकितानं रणे यत्तं भीष्मं प्रति जनेश्वर। चित्रसेनस्तव सुतः क्रुद्धरूपमवारयत्॥ भीष्महेतोः पराक्रान्तश्चित्रसेनः पराक्रमी। चेकितानं परं शक्त्या योधयामास भारत॥ तथैव चेकितानोऽपि चित्रसेनमवारयत्। तद् युद्धमासीत् सुमहत् तयोस्तत्र समागमे॥ अर्जुनो वार्यमाणस्तु बहुशस्तत्र भारत। विमुखीकृत्य पुत्रं ते सेनां तव ममर्द ह।।५६। दुःशासनोऽषि परया शक्त्या पार्थमवारयत्। कथं भीष्मं न नो हन्यादिति निश्चित्य भारत॥ सा वध्यमाना समरे पुत्रस्य तव वाहिनी। लोड्यते रथिभिः श्रेष्ठस्तत्र तत्रैव भारत॥ संजय उवाच अथ वीरो महेष्वासो मत्तवारणविक्रमः। समादाय महच्चापं मत्तवारणवारणम्॥ विन्धुन्वानो नरश्रेष्ठो द्रावयाणो वरूथिनीम्। पृतनां पाण्डवेयानां गाहमानो महाबलः॥ निमित्तानि निमित्तज्ञः सर्वतो वीक्ष्य वीर्यवान्। प्रतपन्तमनीकानि द्रोणः पुत्रमभाषत॥ अयं हि दिवसस्तात यत्र पार्थो महाबलः। जिघांसुः समरे भीष्मं परं यत्नं करिष्यति॥ उत्पतन्ति हि मे बाणा धनुः प्रस्फुरतीव च। योगमस्त्राणि गच्छन्ति क्रूर मे वर्तते मतिः॥ दिश्वशान्तानि घोराणि व्याहरन्ति मृगद्विजाः। नीचैर्गध्रा निलीयन्ते भारतानां चमूं प्रति॥ नष्टप्रभ इवादित्यः सर्वतो लोहिता दिशः। रसते व्यथते भूमिः कम्पतीव च सर्वशः॥ कङ्का गृध्रा बलाकश्च व्याहरन्ति मुहुर्मुहुः। शिवाश्चैवाशिवा घोरा वेदयन्त्यो महद् भयम्॥ पपात महती चोल्का मध्येनादित्यमण्डलात्। सकबन्धश्च परिघो भानुमावृत्य तिष्ठति॥ परिवेषस्तथा घोरश्चन्द्रभास्करयोरभूत्। वेदयानो भयं घोरं राज्ञां देहावकर्तनम्॥ देवतायतनस्थाश्च कौरवेन्द्रस्य देवताः। कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च॥ अपसव्यं ग्रहाश्चक्रुरलक्ष्माणं दिवाकरम्। अवाक्शिराश्च भगवानुपातिष्ठत चन्द्रमाः॥ वपूंषि च नरेन्द्राणां विगताभानि लक्षये। धार्तराष्ट्रस्य सैन्येषु न च भ्राजन्ति दंशिताः॥ सेनयोरुभयोश्चापि समन्ताच्छूयते महान्। पाञ्चजन्यस्य निर्घोषो गाण्डीवस्य च निःस्वनः॥ ध्रुवमास्थाय बीभूत्सुरुत्तमास्त्राणि संयुगे। अपास्यान्यान् रणे योधानभ्येष्यति पितामहम्॥ हृष्यन्ति रोमकूपाणि सीदतीव च मे मनः। चिन्तयित्वा महाबाहो भीष्मार्जुनसमागमम्॥ तं चेह निकृतिप्रज्ञं पाञ्चाल्यं पापचेतसम्। पुरस्कृत्य रणे पार्थो भीष्मस्यायोधनं गतः॥ अब्रवीच्च पुरा भीष्मो नाहं हन्यां शिखण्डिनम्। स्त्री ह्येषा विहिता धात्रा दैवाच्च स पुनः पुमान्॥ अमङ्गल्यध्वजश्चैव याज्ञसेनिर्महाबलः। न ग्रामङ्गलिके तस्मिन् प्रहरेदापगासुतः॥ एतद् विचिन्तयानस्य प्रज्ञा सीदति मे भृशम्। अभ्युद्यतो रणे पार्थः कुरुवृद्धमुपाद्रवत्॥ युधिष्ठिरस्य च क्रोधो भीष्मश्चार्जुनसङ्गत्तः। मम चास्त्रसमारम्भः प्रजानामशिवं ध्रुवम्॥ मनस्वी बलवाञ्छूरः कृतास्त्रो लघुविक्रमः। दूरपाती दृढेषुश्च निमित्तज्ञश्च पाण्डवः॥ अजेयः समरे चापि देवैरपि सवासवैः। बलवान् बुद्धिमांश्चैव जितक्लेशो युधां वरः॥ विजयी च रणे नित्यं भैरवास्त्रश्च पाण्डवः। तस्य मार्ग परिहरन् दुतं गच्छ यतव्रत॥ पश्यायैतन्महाघोरे संयुगे वैशसं महत्। हेमचित्राणि शूराणां महान्ति च शुभानि च।॥ कवचान्यवदीर्यन्ते शरैः संनतपर्वभिः। छिद्यन्ते च ध्वजाग्राणि तोमराश्च धनूंषि च॥ प्रासाश्च विमलास्तीक्ष्णाः शक्त्यश्च कनकोज्ज्वला:। वैजयन्त्यश्च नागानां संक्रुद्धेन किरीटिना।॥ नायं संरक्षितुं काल: प्राणान् पुत्रोपजीविभिः। याहि स्वर्ग पुरस्कृत्य यशसे विजयाय च॥ रथनागहयावर्ती महाघोरां सुदुर्गमाम्। रथेन संग्रामनदी तरत्येष कपिध्वजः॥ ब्रह्मण्यता दमो दानं तपश्च चरितं महत्। इहैव दृश्यते पार्थे भ्राता यस्य धनंजयः॥ भीमसेनश्च बलवान् माद्रीपुत्रौ च पाण्डवौ। वासुदेवश्च वार्ष्णेयो यस्य नाथो व्यवस्थितः॥ तस्यैष मन्युप्रभवो धार्तराष्ट्रस्य दुर्मतेः। तपोदग्धशरीरस्य कोपो दहति भारतीम्॥ एष संदृश्यते पार्थो वासुदेवव्यपाश्रयः। दारयन् सर्वसैन्यानि धार्तराष्ट्राणि सर्वशः॥ एतदालोक्यते सैन्यं क्षोभ्यमाणं किरीटिना। महोर्मिनद्धं सुमहत् तिमिनेव महाजलम्॥ हाहाकिलकिलाशब्दाः श्रुयन्ते च चमूमुखे। याहि पाञ्चालदायादमहं यास्ये युधिष्ठिरम्॥ दुर्गमं ह्यन्तरं राज्ञो व्यूहस्यामिततेजसः। समुद्रकुक्षिप्रतिमं सर्वतोऽतिरथैः स्थितैः॥ सात्यकिश्चाभिमन्युश्च धृष्टद्युम्नवृकोदरौ। पर्यरक्षन्त राजानं यमौ च मनुजेश्वरम्॥ उपेन्द्रसदृशः श्यामो महाशाल इवोद्गतः। एष गच्छत्यनीकाग्रे द्वितीय इव फाल्गुनः॥ उत्तमास्त्राणि चाधत्स्व गृहीत्वा च महद् धनुः। पार्षतं याहि राजानं युध्यस्व च वृकोदरम्॥ को हि नेच्छेत् प्रियं पुत्रं जीवन्तं शाश्वतीः समाः। क्षत्रधर्मं तु सम्प्रेक्ष्य ततस्त्वां नियुनज्म्यहम्॥ एष चातिरणे भीष्मो दहते वै महाचमूम्। युद्धेषु सदृशस्तात यमस्य वरुणस्य च॥ संजय उवाच भगदत्तः कृपः शल्यः कृतवर्मा तथैव च। विन्दानुविन्दावावन्त्यौ सैन्धवश्च जयद्रथः॥ चित्रसेनो विकर्णश्च तथा दुर्मर्षणादयः। दशैते तावका योधा भीमसेनमयोधयन्॥ महत्या सेनया युक्ता नानादेशसमुत्थया। भीष्मस्य समरे राजन् प्रार्थयाना महद् यशः॥ शल्यस्तु नवभिर्बाणैर्भीमसेनमताडयत्। कृतवर्मा त्रिभिर्बाणैः कृपश्च नवभिः शरैः॥ चित्रसेनो विकर्णश्च भगदत्तश्च मारिष। दशभिर्दशभिर्बाणैर्भीमसेनमताडयन्॥ सैन्धवश्च त्रिभिर्वाणैर्भीमसेनमताडयत्। विन्दानुविन्दावावन्त्यौ पञ्चभिः पञ्चभिः शरैः॥ दुर्मर्षणस्तु विंशत्या पाण्डवं निशितैः शरैः। सतान् सर्वान् महाराज राजमानान् पृथक् पृथक्॥ प्रवीरान् सर्वलोकस्य धार्तराष्ट्रान् महारथान्। जघान समरे वीरः पाण्डवः परवीरहा॥ सप्तभिः शल्यमाविध्यत् कृतवर्माणमष्टभिः। कृपस्य सशरं चापं मध्ये चिच्छेद भारत॥ अथैनं छिन्नधन्वानं पुनर्विव्याध सप्तभिः। विन्दानुविन्दौ च तथा त्रिभिस्त्रिभिरताडयत्॥ दुर्मर्षणं च विंशत्या चित्रसेनं च पञ्चभिः। विकर्ण दशभिर्बाणैः पञ्चभिश्च जयद्रथम्॥ विद्ध्वा भीमोऽनदद्धृष्टः सैन्धवं च पुनस्त्रिभिः। अथान्यद् धनुरादाय गौतमो रथिनां वरः॥ भीमं विव्याध संरब्धो दशभिर्निशितैः शरैः। स विद्धो दशभिर्बाणैस्तोत्रैरिव महाद्विपः॥ ततः क्रुद्धो महाराज भीमसेनः प्रतापवान्। गौतमं ताडयामास शरैर्बहुभिराहवे॥ सैन्धवस्य तथाश्वांश्च सारथिं च त्रिभिः शरैः। प्राहिणोन्मृत्युलोकाय कालान्तकसमद्युतिः॥ हताश्वात् तु रथात् तूर्णमवप्लुत्य महारथः। शरांश्चिक्षेप निशितान् भीमसेनस्य संयुगे॥ तस्य भीमो धनुर्मध्ये द्वाभ्यां चिच्छेद मारिष। भल्लाभ्यां भरतश्रेष्ठ सैन्धवस्य महात्मनः॥ स छिन्नधन्वा विस्थो हताश्वो हतसारथिः। चित्रसेनरथं राजन्नारुरोह त्वरान्वितः॥ अत्यद्भुतं रणे कर्म कृतवांस्तत्र पाण्डवः। महारथाशरैर्विद्ध्वा वारयित्वा च मारिष।॥ विरथं सैन्धवं चक्रे सर्वलोकस्य पश्यतः। तदा न ममृषे शल्यो भीमसेनस्य विक्रमम्॥ स संधाय शरांस्तीक्ष्णान् कर्मारपरिमार्जितान्। भीमं विव्याध समरे तिष्ठ तिष्ठेति चाब्रवीत्॥ कृपश्च कृतवर्मा च भगदत्तश्च वीर्यवान्। विन्दानुविन्दावावन्त्यौ चित्रसेनश्च संयुगे।॥ दुर्मर्षणो विकर्णश्च सिन्धुराजश्च वीर्यवान्। भीमं ते विव्यधुस्तूर्णं शल्यहेतोररिंदमाः॥ स च तान् प्रतिविव्याध पञ्चभिः पञ्चभिः शरैः। शल्यं विव्याध सप्तत्या पुनश्च दशभिः शरैः॥ तं शल्यो नवभिर्भित्त्वा पुनर्विव्याध पञ्चभिः। सारथिं चास्य भल्लेन गाढं विव्याध मर्मणि॥ विशोकं प्रेक्ष्य निर्भिन्नं भीमसेनः प्रतापवान्। मद्रराजं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत्।॥ तथेतरान् महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः ताडयामास समरे सिंहवद् विननाद च॥ ते हि यत्ता महेष्वासाः पाण्डवं युद्धकोविदम्। त्रिभिस्त्रिभिरकुण्ठाय॒ शं मर्मस्वताडयन्॥ सोऽतिविद्धो महेष्वासो भीमसेनो न विव्यथे। पर्वतो वारिधाराभिवर्षमाणैरिवाम्बुदैः॥ स तु क्रोधसमाविष्टः पाण्डवानां महारथः। भद्रेश्वरं त्रिभिर्बाणैर्भृशं विद्ध्वा महायशाः॥ कृपं च नवभिर्बाणैर्भृशं विद्ध्वा समन्ततः। प्राग्ज्योतिषं शतैराजौ राजन् विव्याध सायकैः॥ ततस्तु सशरं चापं सात्वतस्य महात्मनः। क्षुरप्रेण सुतीक्ष्णेन चिच्छेद कृतहस्तवत्॥ तथान्यद् धनुरादाय कृतवर्मा वृकोदरम्। आजघान भ्रुवोर्मध्ये नाराचेन परंतपः॥ भीमस्तु समरे विद्ध्वा शल्यं नवभिरायसैः। भगदत्तं त्रिभिश्चैव कृतवर्माणष्टभिः॥ द्वाभ्यां द्वाभ्यां तु विव्याध गौतमप्रभृतीन् स्थान्। तेऽपि तं समरे राजन् विव्यधुनिशितैः शरैः॥ स तथा पीड्यमानोऽपि सर्वशस्त्रैर्महारथैः। मत्वा तृणेन तांस्तुल्यान् विचचार गतव्यथः॥ ते चापि रथिनां श्रेष्ठा भीमाय निशिताञ्छरान्। प्रेषयामासुरव्यग्राः शतशोऽथ सहस्रशः॥ तस्य शक्तिं महावेगां भगदत्तो महारथः। चिक्षेप समरे वीरः स्वर्णदण्डां महामते॥ तोमरं सैन्धवो राजा पट्टिशं च महाभुजः। शतघ्नीं च कृपो राजञ्छरं शल्यश्च संयुगे॥ अथेतरे महेष्वासाः पञ्च शिलीमुखान्। भीमसेनं समुद्दिश्य प्रेषयामासुरोजसा॥ तोमरं च द्विधा चक्रे क्षुरप्रेणानिलात्मजः। पट्टिशं च त्रिभिर्बाणैचिच्छेद तिलकाण्डवत्॥ स बिभेद शतघ्नीं च नवभिः कङ्कपत्रिभिः। मद्रराजप्रयुक्तं च शरं छित्त्वा महारथः॥ शक्तिं चिच्छेद सहसा भगदत्तेरितां रणे। तथेतराञ्छरान् घोरान् शरैः संनतपर्वभिः॥ भीमसेनो रणश्लाघी त्रिधैकैकं समाच्छिनत्। तांश्च सर्वान् महेष्वासांस्त्रिभिस्त्रिभिरताडयत्॥ ततो धनंजयस्तत्र वर्तमाने महारणे। आजगाम रथेनाजो भीमं दृष्ट्वा महारथम्॥ निघ्नन्तं समरे शत्रून् योधयानं च सायकैः। तौ तु तत्र महात्मानौ समेतौ वीक्ष्य पाण्डवौ॥ न शशंसुजयं तत्र तावकाः पुरुषर्षभाः। अथार्जुनो रणे भीमं योधयन्तं महारथान्॥ भीष्मस्य निधनाकाक्षी पुरस्कृत्य शिखण्डिनम्। आससाद रणे वीरांस्तावकान् दश भारत।॥ ये स्म भीमं रणे राजन् योधयन्तो व्यवस्थिताः। बीभत्सुस्तानथाविध्यद भीमस्य प्रियकाम्यया॥ ततो दुर्योधनो राजा सुशर्माणमचोदयत्। अर्जुनस्य वधार्थाय भीमसेनस्य चोभयोः॥ सुशर्मन् गच्छ शीघ्रं त्वं बलौघैः परिवारितः। जहि पाण्डुसुतावेतौ धनंजयवृकोदरौ॥ तच्छ्रुत्वा वचनं तस्य त्रैगर्तः प्रस्थलाधिपः। अभिद्रुत्य रणे भीममर्जुनं चैव धन्विनौ॥ रथैरनेकसाहस्रैः समन्तात् पर्यवारयत्। ततः प्रववृते युद्धमर्जुनस्य परैः सह॥ संजय उवाच अर्जुनस्तु रणे शल्यं यतमानं महारथम्। छादयामास समरे शरैः संनतपर्वभिः॥ सुशर्माणं कृपं चैव त्रिभिस्त्रिभिरविध्यता प्राग्ज्योतिषं च समरे सैन्धवं च जयद्रथम्॥ चित्रसेनं विकर्णं च कृतवर्माणमेव च। दुर्मर्षणं च राजेन्द्र ह्यावन्त्यौ च महारथौ॥ एकैकं त्रिभिरानछेत् कङ्कबर्हिणवाजितैः। शरैरतिरथो युद्धे पीडयन् वाहिनीं तव॥ जयद्रथो रणे पार्थं विद्ध्वा भारत सायकैः। भीमं विव्याध तरसा चित्रसेनरथे स्थितः॥ शल्यश्च समरे जिष्णु कृपश्च रथिनां वरः। विव्यधाते महाराज बहुधा मर्मभेदिभिः॥ चित्रसेनादयश्चैव पुत्रास्तव विशाम्पते। पञ्चभिः पञ्चभिस्तूर्णं संयुगे निशितैः शरैः॥ आजजुरर्जुनं संख्ये भीमसेनं च मारिष। तौ तत्र रथिनां श्रेष्ठौ कौन्तेयौ भरतर्षभौ॥ अपीडयेतां समरे त्रिगर्तानां महद् बलम्। सुशर्माऽपि रणे पार्थं शरैर्नवभिराशुगैः॥ ननाद बलवन्नादं त्रासयानो महद् बलम्। अन्ये च रथिनः शूरा भीमसेनधनंजयौ॥ विव्यधुनिशितैर्बाणै रुक्मपुखैरजिह्मगैः। तेषां च रथिनां मध्ये कौन्तेयौ भरतर्षभौ॥ क्रीडमानौ रथोदारौ चित्ररूपौ व्यदृश्यताम्। आमिषेप्सू गवां मध्ये सिंहाविव मदोत्कटौ॥ छित्त्वा धनूंषि शूराणां शरांश्च बहुधा रणे। पातयामासतुर्वीरौ शिरांसि शतशो नृणाम्॥ रथाश्च बहवो भग्ना हयाच शतशो हताः। गजाश्च सगजारोहा: पेतुरु। महाहवे॥ रथिन: सादिनश्चापि तत्र तत्र निषूदिताः। दृश्यन्ते बहवो राजन् वेपमानाः समन्ततः॥ छत्रैश्च बहुधा छिन्नैर्ध्वजैश्च विनिपातितः। अङ्कुशैरपविद्धैश्च परिस्तोमैश्च भारत॥ केयूरैरङ्गदैर्हारै राङ्कवैर्मृदितैस्तथा। उष्णीषैर्ऋष्टिभिश्चैव चामरव्यजनैरपि॥ तत्र तत्रापविद्धैश्च बाहुभिश्चन्दनोक्षितैः। ऊरुभिश्च नरेन्द्राणां समास्तीर्यत मेदिनी॥ हतैर्गजपदात्योधैर्वाजिभिश्च निषूदितैः। स्थैश्च बहुधा भग्नैः समास्तीर्यत मेदिनी॥ तत्राद्भुतमपश्याम रणे पार्थस्य विक्रमम्। शरैः संवार्य तान् वीरान् यज्जघान महाबलः॥ पुत्रस्तु तव तं दृष्ट्वा भीमार्जुनपराक्रमम्। गाङ्गेयस्य रथाभ्यासमुपजग्मे महाबलः॥ कृपश्च कृतवर्मा च सैन्धवश्च जयद्रथः। विन्दानुविन्दाबावन्त्यौ नाजहुः संयुगं तदा॥ ततो भीमो महेष्वासः फाल्गुनश्च महारथः। कौरवाणां चमू घोरां भृशं दुद्रुवतू रणे॥ ततो बर्हिणवाजनामयुतान्यर्बुदानि च। धनंजयरथे तूर्णं पातयन्ति स्म भूमिपाः॥ ततस्ताशरजालेन संनिवार्य महारथान्। पार्थः समन्तात् समरे प्रेषयमास मृत्यवे॥ शल्यस्तु समरे जिष्णु क्रीडन्निव महारथः। आजघानोरसि क्रुद्धो भल्लैः संनतपर्वभिः॥ तस्य पार्थो धनुश्छित्त्वा हस्तावापं च पञ्चभिः। अथैनं सायकैस्तीक्ष्णैर्भृशं विव्याध मर्मणि।॥ अथान्यद् धनुरादाय समरे भारसाधनम्। मद्रेश्वरो रणे जिष्णु ताडयामास रोषितः॥ त्रिभिः शरैर्महाराज वासुदेवं च पञ्चभिः। भीमसेनं च नवभिर्वाह्वोरुरसि चार्पयत्॥ ततो द्रोणो महाराज मागधश्च महारथः। दुर्योधनसमादिष्टौ तं देशमुपजग्मतुः॥ यत्र पार्थो महाराज भीमसेनश्च पाण्डवः। कौरव्यस्य महासेनां जघ्नतुः सुमहारथौ॥ जयत्सेनस्तु समरे भीमं भीमायुधं युधि। विव्याध निशितैर्बाणैरष्टभिर्भरतर्षभ।॥ तं भीमो दशभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः। सारथिं चास्य भल्लेन रथनीडादपातयत्॥ उद्भ्रान्तैस्तुरगैः सोऽथ द्रवमाणैः समन्ततः। मागधौऽपसृतो राजा सर्वसैन्यस्य पश्यतः॥ द्रोणश्च विवरं दृष्ट्वा भीमसेनं शिलीमुखैः। विव्याध बाणैर्निशितैः पञ्चषष्टिभिरायसैः॥ तं भीमः समरश्लाघी गुरुं पितृसमं रणे। विव्याध पञ्चभिर्भल्लैस्तथा षष्ट्या च भारत॥ अर्जुनस्तु सुशर्माणं विद्ध्वा बहुभिरायसैः। व्यधमत् तस्य तत्सैन्यं महाभ्राणि यथाऽनिलः॥ ततोभीष्मश्च राजा च कौसल्यश्च बृहद्बलः। समवर्तन्त संक्रुद्धा भीमसेनधनंजयौ॥ तथैव पाण्डवाः शूरा धृष्टद्युम्नश्च पार्घतः। अभ्यद्रवन् रणे भीष्म व्यादितास्यमिवान्तकम्॥ शिखण्डी तु समासाद्य भरतानां पितामहम्। अभ्यद्रवत संहृष्टो भयं त्यक्त्वा महारथात्॥ युधिष्ठिरमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम्। अयोधयन् रणे भीष्मं सहिताः सर्वसुंजयैः॥ तथैव तावकाः सर्वे पुरस्कृत्य यतव्रतम्। शिखण्डिप्रमुखान् पार्थान् योधयन्ति स्म संयुगे॥ ततः प्रववृते युद्धं कौरवाणां भयावहम्। तत्र पाण्डुसुतैः सार्धं भीष्मस्य विजयं प्रति॥ तावकानां जये भीष्मो ग्लह आसीद् विशाम्पते। तत्र हि द्यूतमासक्तं विजयायेतराय वा॥ धृष्टद्युम्नस्तु राजेन्द्र सर्वसैन्यान्यचोदयत्। अभ्यद्रवत गाङ्गेयं मा भैष्टं रथसत्तमाः॥ सेनापतिवचः श्रुत्वा पाण्डवानां वरूथिनी। भीष्मं समभ्यात् तूर्णं प्राणांस्त्यक्त्वा महाहवे॥ भीष्मोऽपि रथिनां श्रेष्ठः प्रतिजग्राह तां चमूम्। आपतन्ती महाराज वेलामिव महोदधिः॥ धृतराष्ट्र उवाच कथं शान्तनवो भीष्मो दशमेऽहनि संजय। अयुध्यत महावीर्यः पाण्डवैः सहसृञ्जयैः॥ कुरवश्च कथं युद्धे पाण्डवान् प्रत्यवारयन्। आचक्ष्व मे महायुद्धं भीष्मस्याहवशोभिनः॥ संजय उवाच कुरवः पाण्डवैः सार्धं यदयुध्यन्त भारत। यथा च तदभूद् युद्धं तत् तु वक्ष्यामि साम्प्रतम्॥ गमिताः परलोकाय परमास्त्रैः किरीटिना। अहन्यहनि संक्रुद्धास्तावकानां महारथाः॥ यथाप्रतिज्ञं कौरव्यः स चापि समितिंजयः। पार्थानामकरोद् भीष्मः सततं समितिक्षयम्॥ कुरुभिः सहितं भीष्मं युध्यमानं परंतप। अर्जुनं च समाञ्चाल्यं संशयो विजयेऽभवत्॥ दशमेऽहनि तस्मिंस्तु भीष्मार्जुनसमागमे। अवर्तत महारौद्रः सततं समितिक्षयः॥ तस्मिन्नयुतशो राजन् भूयशश्च परतपः। भीष्मं शान्तनवो योधाञ्जघान परमास्त्रवित्॥ येषामज्ञातकल्पानि नामगोत्राणि पार्थिवः। ते हतास्तत्र भीष्मेण शूराः सर्वेऽनिवर्तिनः॥ दशाहानि ततस्तप्त्वा भीष्मः पाण्डववाहिनीम्। निरविद्यत धर्मात्मा जीवितेन परंतप॥ स क्षिप्रं वधमन्विच्छन्नात्मनोऽभिमुखो रणे। न हन्यां मानवश्रेष्ठान् संग्रामे सुबहूनिति॥ चिन्तयित्वा महाबाहुः पिता देवव्रतस्तव। अभ्याशस्थं महाराज पाण्डवं वाक्यमब्रवीत्॥ युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद। शृणुष्व वचनं तात धर्म्य स्वर्यं च जल्पतः॥ निर्विष्णोऽस्मि भृशं तात देहेनानेन भारत। घ्नतश्च मे गतः कालः सुबहून् प्राणिनो रणे॥ तस्मात् पार्थं पुरोधाय पञ्चालान् संजयांस्तथा। मद्वधे क्रियतां यत्नो मम चेदिच्छसि प्रियम्॥ तस्य तन्मतमाज्ञाय पाण्डवः सत्यदर्शनः। भीष्मं प्रति ययौ राजा संग्रामे सह संजयैः॥ धृष्टद्युम्नस्ततो राजन् पाण्डवश्च युधिष्ठिरः। श्रुत्वा भीष्मस्य तां वाचं चोदयामासतुर्बलम्॥ युधिष्ठिर उवाच अभिद्रवध्वं युध्यध्वं भीष्मं जयत संयुगे। रक्षिताः सत्यसंधेन जिष्णुना रिपुजिष्णुना॥ अयं चापि महेष्वासः पार्षतो वाहिनीपतिः। भीमसेनश्च समरे पालयिष्यति वो ध्रुवम्॥ मा वो भीष्माद् भयं किञ्चिदस्त्वद्य युधि संजयाः। ध्रुवं भीष्मं विजेष्यामः पुरस्कृत्य शिखण्डिनम्॥ ते तथा समयं कृत्वा दशमेऽहनि पाण्डवाः। ब्रह्मलोकपरा भूत्वा संजग्मुः क्रोधमूर्छिताः॥ शिखण्डिनं पुरस्कृत्य पाण्डवं च धनंजयम्। भीष्मस्य पातने यत्नं परमं ते समास्थिताः॥ ततस्तव सुतादिष्टा नानाजनपदेश्वराः। द्रोणेन सहपुत्रेण सहसेना महाबलाः॥ दुःशासनश्च बलवान् सह सर्वैः सहोदरैः। भीष्मं समरमध्यस्थं पालयाञ्चक्रिरे तदा॥ ततस्तु तावकाः शूराः पुरस्कृत्य महाव्रतम्। शिखण्डिप्रमुखान् पार्थान् योधयन्ति स्म संयुगे॥ चेदिभिस्तु सपञ्चालैः सहितो वानरध्वजः। ययौ शान्तनवं भीष्मं पुरस्कृत्य शिखण्डिनम्॥ द्रोणपुत्रं शिनेर्नप्ता धृष्टकेतुस्तु पौरवम्। अभिमन्युः सहामात्यं दुर्योधनमयोधयत्॥ विराटस्तु सहानीकः सहसेनं जयद्रथम्। वृद्धक्षत्रस्य दायादमाससाद परंतप॥ मद्रराजं महेष्वासं सहसैन्यं युधिष्ठिरः। भीमसेनोऽभिगुप्तस्तु नागानीकमुपाद्रवत्॥ अप्रधृष्यमनावार्यं सर्वशस्त्रभृतां वरम्। द्रौणिं प्रति ययौ यत्तः पाञ्चाल्यः सह सोदरैः॥ कर्णिकारध्वजं चैव सिंहकेतुररिंदमः। प्रत्युज्जगाम सौभद्रं राजपुत्रो बृहद्बलः॥ शिखण्डिनं च पुत्रास्ते पाण्डवं च धनंजयम्। राजभिः समरे पार्थमभिपेतुर्जिघांसवः॥ तस्मिन्नतिमहाभीमे सेनयोर्क पराक्रमे। सम्प्रधावत्स्वनीकेषु मेदिनी समकम्पत।॥ तान्यनीकान्यनीकेषु समसज्जन्त भारत। तावकानां परेषां च दृष्ट्वा शान्तनवं रणे॥ ततस्तेषां प्रतप्तानामन्योन्यमभिधावताम्। प्रादुरासीन्महाशब्दो दिक्षु सर्वासु भारत।॥ शवदुन्दुभिघोषश्च वारणानां च बृहितैः। सिंहनादश्च सैन्यानां दारुणः समपद्यत॥ स च सर्वनरेन्द्राणां चन्द्रार्कसदृशी प्रभा। वीराङ्गदकिरीटेषु निष्प्रभा समपद्यत॥ रजोमेघास्तु संजजुः शस्त्रविद्युद्भिरावृताः। धनुषां चापि निर्घोषो दारुणः समपद्यत॥ बाणशङ्खप्रणादाश्च भेरीणां च महास्वनाः। स्थघोषश्च संजज्ञे सेनयोरुभयोरपि॥ प्रासख्यृष्टिसबैश्च बाणौघश्च समाकुलम्। निष्प्रकाशमिवाकाशं सेनयोः समपद्यत॥ अन्योन्यं रथिन: पेतुर्वाजिनश्च महाहवे। कुञ्जरान् कुञ्जरा जनुः पादातांश्च पदातयः॥ तत्रासीत् सुमहद् युद्धं कुरूणां पाण्डवैः सह। भीष्महेतोर्नरव्याघ्र श्येनयोरामिषे यथा।॥ तेषां समागमो घोरो बभूव युधि संगतः। अन्योन्यस्य वधार्थाय जीगीषूणां महाहवे॥ संजय उवाच अभिमन्युर्महाराज तव पुत्रमयोधयत्। महत्या सेनया युक्तं भीष्महेतोः पराक्रमी॥ दुर्योधनो रणे कार्ष्णि नवभिनतपर्वभिः। आजघानोरसि क्रुद्धः पुनश्चैनं त्रिभिः शरैः॥ तस्य शक्तिं रणे कार्णिभृत्यो?रां स्वसामिव। प्रेषयामास संक्रुद्धो दुर्योधनरथं प्रति॥ तामापतन्तीं सहसा घोररूपा विशाम्पते। द्विधा चिच्छेद ते पुत्रः क्षुरप्रेण महारथः॥ तां शक्तिं पतितां दृष्ट्वा कार्ष्णिः परमकोपनः। दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत्॥ पुनश्चैनं शोरैराजघान स्तनान्तरे। दशभिर्भरतश्रेष्ठ भरतानां महारथः॥ तद् युद्धमभवद् घोरं चित्ररूपं च भारत। इन्द्रियप्रीतिजननं सर्वपार्थिवपूजितम्॥ भीष्मस्य निधनार्थाय पार्थस्य विजयाय च। युयुधाते रणे वीरौ सौभद्रकुरुपुङ्गवौ॥ सात्यकिं रभसं युद्धे द्रौणिर्ब्राह्मणपुङ्गवः। आजघानोरसि क्रुद्धो नाराचेन परंतपः॥ शैनेयोऽपि गुरोः पुत्रं सर्वमर्मसु भारत। अताडयदमेयात्मा नवभिः कङ्कवाजितैः॥ अश्वत्थामा तु समरे सात्यकि नवभिः शरैः। त्रिंशता च पुनस्तूर्णं बाह्वोरुरसि चार्पयत्॥ सोऽतिविद्धो महेष्वासो द्रोणपुत्रेण सात्वतः। द्रोणपुत्रं त्रिभिर्बाणैराजघान महायशाः॥ पौरवो धृष्टकेतुं च शरैराच्छाद्य संयुगे। बहुधा दारयांचने महेष्वासं महारथः॥ तथैव पौरवं युद्धे धृष्टकेतुर्महारथः। त्रिंशता निशितैर्बाणैर्विव्याधाशु महाभुजः॥ पौरवस्तु धनुश्छित्त्वा धृष्टकेतोर्महारथः। ननाद बलवन्नादं विव्याध च शितैः शरैः॥ सोऽन्यत् कार्मुकमादाय पौरवं निशितैः शरैः। आजघान महाराज त्रिसप्तत्या शिलीमुखैः॥ तौ तु तत्र महेष्वासो महामात्रौ महारथौ। महता शरवर्षेण परस्परमविध्यताम्॥ अन्योन्यस्य धनुश्छित्त्वा हयान् हत्वा च भारत। विरथावसियुद्धाय समीयतुरमर्षणौ॥ आर्षभे चर्मणी चित्रे शतचन्द्रपुरस्कृते। तारकाशतचित्रे च निस्त्रिंशौ सुमहाप्रभौ॥ प्रगृह्य विमलौ राजस्तावन्योमभिद्रुतौ। वासितासंगमे यत्तौ सिंहाविव महावने।॥ मण्डलानि विचित्राणि गतप्रत्यागतानि च। चेरतुर्दर्शयन्तौ च प्रार्थयन्तौ परस्परम्॥ पौरवो धृष्टकेतुं तु शङ्खदेशे महासिना। ताडयामास संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत्॥ चेदिराजोऽपि समरे पौरवं पुरुषर्षभम्। आजघान शिताग्रेण जत्रुदेशे महासिना॥ तावन्योन्यं महाराज समासाद्य महाहवे। अन्योन्यवेगाभिहतौ निपेततुररिंदमौ॥ ततः स्वरथमारोप्य पौरवं तनयस्तव। जयत्सेनो रथेनाजावपोवाह रणाजिरात्॥ धृष्टकेतुं तु समरे माद्रीपुत्रः प्रतापवान्। अपोवाह रणे क्रुद्धः सहदेवः पराक्रमी॥ चित्रसेनः सुशर्माणं विद्ध्वा बहुभिरायसैः। पुनर्विव्याध तं षष्ट्या पुनश्च नवभिः शरैः॥ सुशर्मा तु रणे क्रुद्धस्तव पुत्रं विशाम्पते। दशभिर्दशभिश्चैव विव्याध निशितैः शरैः॥ चित्रसेनश्च तं राजंस्त्रिंशता नतपर्वभिः। आजधान रणे क्रुद्धः स च तं प्रत्यविध्यत॥ भीष्मस्य समरे राजन् यशो मानं च वर्धयन्। सौभद्रो राजपुत्रं तु बृहद्बलमयोधयत्॥ पार्थहेतोः पराक्रान्तो भीष्मस्यायोधनं प्रति। आर्जुनि कोसलैन्द्रस्तु विद्ध्वा पञ्चभिरायसैः॥ पुनर्विव्याध विंशत्या शरैः संनतपर्वभिः। सौभद्रः कोसलेन्द्रं तु विव्याधाष्टभिरायसैः॥ नाकम्पयत संग्रामे विव्याध च पुनः शरैः। कौसल्यस्य धनुश्चापि पुनश्चिच्छेद फाल्गुनिः॥ आजघान शरैश्चापि त्रिंशता कङ्कपत्रिभिः। सोऽन्यत् कार्मुकमादाय राजपुत्रो बृहद्बलः॥ फाल्गुनिं समरे क्रुद्धो विव्याध बहुभिः शरैः। तयोर्युद्धं समभवद् भीष्महेतोः परंतप॥ संरब्धयोर्महाराज समरे चित्रयोधिनोः। यथा देवासुरे युद्धे बलिवासवयोरभूत्॥ भीमसेनो गजानीकं योधयन् बह्वशोभत। यथा शक्रो वज्रपाणिर्दारयन् पर्वतोत्तमान्॥ ते वध्यमाना भीमेन मातङ्गा गिरिसंनिभाः। निपेतुरुवा॒ सहिता नादयन्तो वसुन्धराम्॥ गिरिमात्रा हि ते नागा भिन्नाञ्जनचयोपमाः। विरेजुर्वसुधां प्राप्ता विकीर्णा इव पर्वताः॥ युधिष्ठिरो महेष्वासो मद्रराजानमाहवे। महत्या सेनया गुप्तं पीडयामास संगतम्॥ मद्रेश्वरश्च समरे धर्मपुत्रं महारथम्। पीडयामास संरब्धो भीष्महेतोः पराक्रमी॥ विराटं सैन्धवो राजा विद्ध्वा संनतपर्वभिः। नवभिः सायकैस्तीक्ष्णैस्त्रिंशता पुनरार्पयत्॥ विराटश्च महाराज सैन्धवं वाहिनीपतिः। त्रिंशद्भिर्निशितैर्बाणैराजघान स्तनान्तरे॥ चित्रकार्मुकनिस्त्रिंशो चित्रवर्मायुधध्वजौ। रेजतुश्चित्ररूपौ तौ संग्रामे मत्स्यसैन्धवौ॥ द्रोणः पाञ्चालपुत्रेण समागम्य महारणे। महासमुदयं चक्रे शरैः संनतपर्वभिः॥ ततो द्रोणो महाराज पार्षतस्य महद् धनुः। छित्त्वा पञ्चाशतेषूणां पार्षतं समविध्यत॥ सोऽन्यत् कार्मुकमादाय पार्षतः परवीरहा। द्रोणस्य मिषतो युद्धे प्रेषयामास सायकान्॥ ताज्छराज्छरघातेन चिच्छेद स महारथः। द्रोणो द्रुपदपुत्राय प्राहिणोत् पञ्च सायकान्॥ ततः क्रुद्धो महाराज पार्षतः परवीरहा। द्रोणाय चिक्षेप गदां यमदण्डोपमां रणे॥ तामापतन्ती सहसा हेमपट्टविभूषिताम्। शरैः पञ्चाशता द्रोणो वारयामास संयुगे॥ सा छिन्ना बहुधा राजन् द्रोणचापच्युतैः शरैः। चूर्णीकृता विशीर्यन्ती पपात वसुधातले॥ गदां विनिहतां दृष्ट्वा पार्षतः शत्रुतापनः। द्रोणाय शक्तिं चिक्षेप सर्वपारसवीं शुभाम्॥ तां द्रोणो नवभिर्बाणैश्चिच्छेद युधि भारत। पार्षतं च महेष्वासं पीडयामास संयुगे॥ एवमेतन्महायुद्धं द्रोणपार्षतयोरभूत्। भीष्मं प्रति महाराज घोररूपं भयानकम्॥ अर्जुन: प्राप्य गाङ्गेयं पीडयन् निशितैः शरैः। अभ्यद्रवत संयत्तो वने मत्तमिव द्विपम्॥ प्रत्युद्ययौ च तं राजा भगदत्तः प्रतापवान्। त्रिधा भिन्नेन नागेन मदान्धेन महाबलः॥ तमापतन्तं सहसा महेन्द्रगजसंनिभम्। परं यत्नं समास्थाय बीभत्सुः प्रत्यपद्यत॥ ततो गजगतो राजा भगदत्तः प्रतापवान्। अर्जुनं शरवर्षेण वारयामास संयुगे॥ अर्जुनस्तु ततो नागमायान्तं रजतोपमैः। विमलैरायसैस्तीक्ष्णैरविध्यत महारणे॥ शिखण्डिनं च कौन्तेयो याहियाहीत्यचोदयत्। भीष्मं प्रति महाराज जोनमिति चाब्रवीत्॥ प्राग्ज्योतिपस्ततो हित्वा पाण्डवं पाण्डुपूर्वज। प्रययौ त्वरितो राजन् दुपदस्य रथं प्रति॥ ततोऽर्जुनो पहाराज भीष्ममभ्यद्रवद् द्रुतम्। शिखण्डिन पुरस्कृत्य ततो युद्धमवर्तत॥ ततस्ते तावकाः शूराः पाण्डवं रभसं युधि। समभ्यधावन् क्रोशनतस्तदद्भुतमिवाभवत्॥ नानाविधान्यननीकानि पुत्राणां ते जनाधिप। अर्जुनो व्यधमत् काले दिवीवाम्राणि मारुतः॥ शिखण्डी तु समासाद्य भरतानां पितामहम्। इषुभिस्तूर्णमव्यग्रो बहुभिः स समाचिनोत्॥ रथाग्यगारश्चापार्चिरसिशक्तिगदेन्धनः। शरसंघमहाज्वालः क्षत्रियान् समरेऽदहत्॥ यथाग्निः सुमहानिद्धः कक्षे चरति सानिलः। तथा जज्वाल भीष्मोऽपि दिव्यान्यस्त्राण्युदीरयन्॥ सोमकांश्च रणे भीष्मो जघ्ने पार्थपदानुगान्। न्यवारयत तत् सैन्यं पाण्डवस्य महारथः॥ सुवर्णपु?रिषुभिः शितैः संनतपर्वभिः। नादयन् स दिशो भीष्मः प्रदिशश्च महाहवे॥ पातयन् रथिनो राजन् हयांश्च सहसादिभिः। मुण्डतालवनानीव चकार स रथव्रजान्॥ निर्मनुष्यान् रथान् राजन् गजानश्वांश्च संयुगे। चकार समरे भीष्मः सर्वशस्त्रभृतां वरः॥ तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः। निशम्य सर्वतो राजन् समकन्यन्त सैनिकाः॥ अमोघा न्यपतन् बाणाः पितुस्ते मनुजेश्वर। नासज्जन्त शरीरेषु भीष्मचापच्युताः शराः॥ निर्मनुष्यान् रथान् राजन् सुयुक्चाञ्जवनैर्हयैः। वातायमानानद्राक्षं ह्रियमाणान् विशाम्पते॥ चेदिकाशिकरूषाणां सहस्राणि चतुर्दशा महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः॥ अपरावर्तिनः शूराः सुवर्णविकृतध्वजाः। संग्रामे भीष्मपासाद्य सवाजिरथकुञ्जराः॥ जग्मुस्ते परलोकाय व्यादितास्यमिवान्तकम्। न तत्रासीद् रणे राजन् सोमकानां महारथः॥ यः सम्प्राप्य रणे भीष्मं जीविते स्म मनो दधे। तांश्चं सर्वान् रणे योधान् प्रेतराजपुरं प्रति॥ नीतानमन्यन्त जना दृष्ट्वा भीष्मस्य विक्रमम्। न कश्चिदेनं समरे प्रत्युद्याति महारथः॥ ऋते पाण्डुसुतं वीरं श्वेताश्वं कृष्णसारथिम्। शिखण्डिनं च समरे पाञ्चाल्यममितौजसम्॥ संजय उवाच शिखण्डी तु रणे भीष्ममासाद्य पुरुषर्षभम्। दशभिर्निशितैर्भल्लैराजघान स्तनान्तरे॥ शिखण्डिनं तु गाङ्गेयः क्रोधदीप्तेन चक्षुषा। सम्प्रेक्षत कटाक्षेण निर्दहन्निव भारत॥ स्त्रीत्वं तस्य स्मरन् राजन् सर्वलोकस्य पश्यतः। नाजधान रणे भीष्मः स च तन्नाववुद्धवान्॥ अर्जुनस्तु महाराज शिखण्डिनमभाषत। अभिद्रवस्व त्वरितं जहि चैनं पितामहम्॥ किं ते विवक्षया वीर जहि भीष्मं महारथम्। न ह्यन्यमनुपश्यामि कञ्चिद् यौधिष्ठिरे बले॥ यः शक्तः समरे भीष्मं प्रतियोद्भुमिहाहवे। ऋते त्वां पुरुषव्याघ्र सत्यमेतद् ब्रवीमि ते॥ एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ। शरैर्नानाविधैस्तूर्णं पितामहमवाकिरत्॥ अचिन्तयित्वा तान् बाणान् पिता देवव्रतस्तव। अर्जुगं समरे क्रुद्धं वारयामास सायकैः॥ तथैव च चमू सर्वां पाण्डवानां महारथः। अप्रैषीत् स शरैस्तीक्ष्णैः परलोकाय मारिष॥ तथैव पाण्डवा राजन् सैन्येन महता वृताः। भीष्मं संछादयामासुर्मेघा इव दिवाकरम्॥ स समन्तात् परिवृतो भारतो भरतर्षभ। निर्ददाह रणे शूरान् वने वह्निरिव ज्वलन्॥ तत्राद्भुतमपश्याम तव पुत्रस्य पौरुषम्। अयोधयच्च यत् पार्थं जुगोप च पितामहम्॥ कर्मणा तेन समरे तव पुत्रस्य धन्विनः। दुःशासनस्य तुतुषुः सर्वे लोका महात्मनः॥ यदेकः समरे पार्थान् सार्जुनान् समयोधयत्। न चैनं पाण्डवा युद्धे वारयामासुरुल्बणम्॥ दुःशासनेन समरे रथिनो विरथीकृताः। सादिनश्च महेष्वासा हस्तिनश्च महाबलाः॥ विनिर्भिन्नाः शरैस्तीक्ष्णैनिपेतुर्वसुधातले। शरातुरास्तथैवान्ये दन्तियो विद्रुता दिशः॥ यथाग्निरिन्धनं प्राप्य ज्वलेद् दीप्तार्चिरुल्बणम्। तथा जवाल पुत्रस्ते पाण्डुसेनां विनिर्दहन्॥ तं भारतमहामात्रं पाण्डवानां महारथः। जेतुं नोत्सहते कश्चिन्नाभ्युद्यातुं कथंचन॥ ऋते महेन्द्रतनयाच्छवेताश्वात् कृष्णसारथेः। स हि तं समरे राजन् निर्जित्य विजयोऽर्जुनः॥ भीष्ममेवाभिदुद्राव सर्वसैन्यस्य पश्यतः। विजितस्तव पुत्रोऽपि भीष्मबाहुव्यपाश्रयः॥ पुनः पुनः समाश्वस्य प्रायुध्यत मदोत्कटः। अर्जुनस्तु रणे राजन् योधयन् संव्यराजत॥ शिखण्डी तु रणे राजन् विव्याधैव पितामहम्। शरैरशनिसंस्पर्शस्तथा सर्पविषोपमैः॥ न च स्म ते रुजं चक्रुः पितुस्तव जनेश्वर। स्मयमानस्तु गाड्नेयस्तान् बाणाञ्जगृहे तदा॥ उष्णातॊ हि नरो यद्वज्जलधाराः प्रतीच्छति। तथा जग्राह गाङ्गेयः शरधारा: शिखण्डिनः॥ तं क्षत्रिया महाराज ददृशुर्घोरमाहवे। भीष्मं दहन्तं सैन्यानि पाण्डवानां महात्मनाम्॥ ततोऽब्रवीत्तव सुतः सर्वसैन्यानि मारिष। अभिद्रवत संग्रामे फाल्गुनं सर्वतो रणे॥ भीष्मो वः समरे सर्वान् पालयिष्यति धर्मवित्। ते भयं सुमहत् त्यक्त्वा पाण्डवान् प्रति युध्यत॥ हेमतालेन महता भीष्मस्तिष्ठति पालयन्। सर्वेषां धार्तराष्ट्राणां समरे शर्म वर्म च॥ त्रिदशाऽपि समुधुक्ता नालं भीष्मं समासितुम्। किमु पार्था महात्मानं मर्त्यभूता महाबलाः॥ तस्माद्रवत मा योधाः फाल्गुनं प्राप्य संयुगे। अहमद्य रणे यत्तो योधयिष्यामि पाण्डवम्॥ सहितः सर्वतो यत्तैर्भवद्भिर्वसुधाधिपः। तच्छ्रुत्वा तु वचो राजंस्तव पुत्रस्य धन्विनः॥ सर्वे योधाः सुसंरब्धा बलवन्तो महाबलाः। ते विदेहाः कलिङ्गाश्च दासेरकगणाश्च ह॥ अभिपेतुर्निषादाश्च सौवीराश्च महारणे। बाह्रीका दरदाश्चैव प्रतीच्योदीच्यमालवाः॥ अभीषाहाः शूरसेनाः शिवयोऽथ वसातयः। शाल्वाः शकास्त्रिगाश्च अम्बष्ठाः केकयैः सह॥ अभिपेतू रणे पार्थं पतङ्गा इव पावकम्। शलभा इव राजेन्द्र पार्थमप्रतिमं रणे। एतान् सर्वान् सहानीकान् महाराज महारथान्॥ दिव्यान्यस्त्राणि संचिन्त्य प्रसंधाय धनंजयः। स तैरस्त्रैर्महावेगैर्ददाह सुमहाबलः॥ शरप्रतापैर्बीभत्सुः पतङ्गानिव पावकः। तस्य बाणसहस्राणि सृजतो दृढधन्विनः॥ दीप्यमानमिवाकाशे गाण्डीवं समदृश्यत। ते शरार्ता महाराज विप्रकीर्णमहाध्वजाः॥ नाभ्यवर्तन्त राजानः सहिता वानरध्वजम्। सध्वजा रथिन: पेतुर्हयारोहा हयैः सह॥ सगजाश्च गजारोहाः किरीटिशरताडिताः। ततोऽर्जुनभुजोत्सृष्टैरावृताऽऽसीद् वसुन्धरा॥ विद्रवद्भिश्च वहुधा बलैः राज्ञां समन्ततः। अथ पार्थो महाराज द्रावयित्वा वरुथिनीम्॥ दुःशासनाय सुबहून् प्रेषयामास सायकान्। ते तु भित्त्वा तव सुतं दुःशासनमयोमुखाः॥ धरणी विविशुः सर्वे वल्मीकमिव पन्नगाः। हयांश्चास्य ततो जघ्ने सारथिं च न्यपातयत्॥ विविंशतिं च विंशत्या विरथं कृतवान् प्रभुः। आजघान भृशं चैव पञ्चभिर्नतपर्वभिः॥ कृपं विकर्णं शल्यं च विद्ध्वा बहुभिरायसैः। चकार विरथांश्चैव कौन्तेयः श्वेतवाहनः॥ एवं ते विरथाः सर्वे कृपः शल्यश्च मारिष। दुःशासनो विकर्णश्च तथैव च विविंशतिः॥ सम्प्राद्रवन्त समरे निर्जिताः सव्यसाचिना। पूर्वाह्ने भरतश्रेष्ठ पराजित्य महारथान्॥ प्रजज्वाल रणे पार्थो विधूम इव पावकः। तथैव शरवर्षेण भास्करो रश्मिवानिव॥ अन्यानपि महाराज तापयामास पार्थिवान्। पराङ्मुखीकृत्य तथा शरवधर्महारथान्॥ प्रावर्तयत संग्रामे शोणितोदां महानदीम्। मध्येन कुरुसैन्यानां पाण्डवानां च भारत॥ गजाश्च रथसङ्घाश्च बहुधा रथिभिर्हताः। स्थाश्च निहता नागैर्हयाश्चैव पदातिभिः॥ अन्तराच्छिद्यमानानि शरीराणि शिरांसि च। निपेतुर्दिक्षु सर्वासु गजाश्वरथयोधिनाम्॥ छन्नमायोधनं राजन् कुण्डलाङ्गदधारिभिः। पतितैः पात्यमानैश्च राजपुत्रैर्महारथैः॥ रथनेमिनिकृत्तैश्च गजैश्चैवावपोथितैः। पादाताश्चाप्यधावन्त साश्वाश्च हययोधिनः॥ गजाश्च रथयोधाश्च परिपेतुः समन्ततः। विकीर्णाश्च रथा भूमौ भग्नचक्रयुगध्वजाः॥ तद् गजाश्वरथौघानां रुधिरेण समुक्षितम्। छन्नमायोधनं रेजे रक्ताभ्रमिव शारदम्॥ श्वानः काकाश्च गृध्राश्च वृका गोमायुभिः सह। प्रणेदुर्भक्ष्यमासाद्य विकृताश्च मृगद्विजाः॥ बवुर्बहुविधाश्चैव दिक्षु सर्वासु मारुताः। दृश्यमानेषु रक्षःसु भूतेषु च नदत्सु च॥ काञ्चनानि च दामानि पताकाश्च महाधनाः। धूयमाना व्यदृश्यन्त सहसा मारुतेरिताः॥ श्वेतच्छत्रसहस्राणि सध्वजाश्च महारथाः। विकीर्णाः समदृश्यन्त शतशोऽथ सहस्रशः॥ सपताकाश्च मातङ्गा दिशो जग्मुः शरातुराः। क्षत्रियाश्च मनुष्येन्द्र गदाशक्तिधनुर्धराः॥ समन्ततश्च दृश्यन्ते पतिता धरणीतले। ततो भीष्मो महाराज दिव्यमस्त्रमुदीरयन्॥ अभ्यधावत कौन्तेयं मिषतां सर्वधन्विनाम्। तं शिखण्डी रणे यान्तमभ्यद्रवत दंशितः॥ ततः समाहरद् भीष्मस्तदस्त्रं पावकोपमम्। त्वरितः पाण्डवो राजन् मध्यमः श्वेतवाहनः। निजघ्ने तावकं सैन्यं मोहयित्वा पितामहम्॥ संजय उवाच एवं ते पाण्डवाः सर्वे पुरस्कृत्य शिखण्डिनम्। विव्यधुः समरे भीष्मं परिवार्य समन्ततः॥ शतघ्नीभिः सुघोराभिः परिघैश्च परश्वधैः। मुद्गरैर्मुसलैः प्रासैः क्षेपणीयैश्च सर्वशः॥ शरैः कनकपुबैश्च शक्तितोमरकम्पनैः। नाराचैर्वत्सदन्तैश्च भुशुण्डीभिश्च सर्वशः॥ अताडयन् रणे भीष्मं सहिताः सर्वसृञ्जयाः। स विशीर्णतनुत्राणः पीडितो बहुभिस्तदा॥ न विव्यथे तदा भीष्मो भिद्यमानेषु मर्मसु। संदीप्तशरचापाग्निरस्त्रप्रसृतमारुतः॥ नेमिनिदिसंतापो महास्त्रोदयपावकः। चित्रचापमहाज्वालो वीरक्षयमहेन्धनः॥ युगान्ताग्निसमप्रख्यः परेषां समपद्यत। विवृत्य रथसङ्घानामन्तरेण विनिःसृतः॥ दृश्यते स्म नरेन्द्राणां पुनर्मध्यगतश्चरन्। ततः पञ्चालराजं च धृष्टकेतुमचिन्त्य च॥ पाण्डवानीकिनीमध्यमाससाद विशाम्पते। ततः सात्यकिभीमौ च पाण्डवं च धनंजयम्॥ दुपदं च विराटं च धृष्टद्युम्नं च पार्षतम्। भीमघोषैर्महावेगैर्मर्मावरणभेदिभिः॥ षडेतान् निशितैर्भीष्मः प्रविव्याधोत्तमैः शरैः। तस्य ते निशितान् बाणान् संनिवार्य महारथाः॥ दशभिर्दशभिर्भीष्ममर्दयामासुरोजसा। शिखण्डी तु महाबाणान् यान् मुमोच महारथः॥ न चक्रुस्ते रुजं तस्य स्वर्णपङ्खाः शिलाशिताः। ततः किरीटी संरब्धो भीष्ममेवाभ्यधावत॥ शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत्। भीष्मस्य धनुपश्छेदं नामृष्यन्त महारथाः॥ द्रोणश्च कृतवर्मा च सैन्धवश्च जयद्रथः। भूरिश्रवाः शलः शल्यो भगदत्तस्तथैव च॥ सप्तैते परमक्रुद्धाः किरीटिनमभिद्रुताः। तत्र शस्त्राणि दिव्यानि दर्शयन्तो महारथाः॥ अभिपेतुर्भृशं क्रुद्धाश्छादयन्तश्च पाण्डवम्। तेषामापततां शब्दः शुश्रुवे फाल्गुनं प्रति॥ उद्वृत्तानां यथा शब्दः समुद्राणां युगक्षये। मतानयत गृह्णीत विद्ध्यध्वमवकर्तत॥ इत्यासीत् तुमुलः शब्दः फाल्गुनस्य रथं प्रति। तं शब्दं तुमुलं श्रुत्वा पाण्डवानां महारथाः॥ अभ्यधावन् परीप्सन्तः फाल्गुनं भरतर्षभ। सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः॥ विराटदुपदौ चोभौ राक्षसश्च घटोत्कचः। अभिमन्युश्च संक्रुद्धः सप्तैते क्रोधमूर्च्छिताः॥ समभ्यधावंस्त्वरिताश्चित्रकार्मुकधारिणः। तेषां समभवद् युद्धं तुमुलं लोमहर्षणम्॥ संग्रामे भरतश्रेष्ठ देवानां दानवैरिव। शिखण्डी त रणे श्रेष्ठो रक्ष्यमाणः किरीटिना॥ अविध्यद् दशभिर्भीष्मं छिन्नधन्वानमाहवे। सारथिं दशभिश्चास्य ध्वजं चैकेन चिच्छिदे॥ सोऽन्यत् कार्मुकमादाय गाङ्गेयो वेगवत्तरम्। तदप्यस्य शितैर्बाणैस्त्रिभिश्चिच्छेद फाल्गुनः॥ एवं स पाण्डवः क्रुद्ध आत्तमात्तं पुनः पुनः। धनुश्चिच्छेद भीष्मस्य सव्यसाची परंतपः॥ स छिन्नधन्वा संक्रुद्धः सृक्किणी परिसंलिहन्। शक्ति जग्राह तरसा गिरीणामपि दारणीम्॥ तां च चिक्षेप संक्रुद्धः फाल्गुनस्य रथं प्रति। तामापतन्ती सम्प्रेक्ष्य ज्वलन्तीमशनीमिव॥ समादत्त शितान् भल्लान् पञ्च पाण्डवनन्दनः। तस्य चिच्छेद तां शक्तिं पञ्चधा पञ्चभिः शरैः॥ संक्रुद्धो भरतश्रेष्ठ भीष्मबाहुप्रवेरिताम्। सा पपात तथा च्छिन्ना संक्रुद्धेन किरीटिना॥ मेघवृन्दपरिभ्रष्टा विच्छिन्नेव शतह्रदा। छिन्नां तां शक्तिमालोक्य भीष्मः क्रोधसमन्वितः॥ अचिन्तयद् रणे वीरो बुद्ध्या परपुरंजयः। शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान्॥ यद्येषां न भवेद् गोप्ता विष्वक्सेनो महाबलः। कारणद्वयमास्थाय नाहं योत्स्यामि पाण्डवान्॥ अवध्यत्वाच्च पाण्डूनां स्त्रीभावाच्च शिखण्डिनः। पित्रा तुष्टेन मे पूर्व यदा कालीमुदावहम्॥ स्वच्छन्दमरणं दत्तमवध्यत्वं रणे तथा। तस्मान्मृत्युमहं मन्ये प्राप्तकालमिवात्मनः॥ एवं ज्ञात्वा व्यवसितं भीष्मस्यामिततेजसः। ऋषयो वसवश्चैव वियत्स्था भीष्ममब्रुवन्॥ यत् ते व्यवसितं तात तदस्माकमपि प्रियम्। तत् कुरुष्व महाराज युद्धे बुद्धि निवर्तय॥ अस्य वाक्यस्य निधने प्रादुरासीच्छिवोऽनिलः। अनुलोमः सुगन्धी च पृषतैश्च समन्वितः॥ देवदुन्दुभयश्चैव सम्प्रणेदुर्महास्वनाः। पपात पुष्पवृष्टिश्च भीष्मस्योपरि मारिष॥ न च तच्छुश्रुवे कश्चित् तेषां संवदतां नृप। ऋते भीष्मं महाबाहुं मां चापि मुनितेजस॥ सम्भ्रमश्च महानासीत् त्रिदशानां विशाम्पते। पतिष्यति स्थाद् भीष्मे सर्वलोकप्रिये तदा॥ इति देवगणानां च वाक्यं श्रुत्वा महातपाः। ततः शान्तनवो भीष्मो बीभत्सु नात्यवर्तत॥ भिद्यमानः शितैर्बाणैः सर्वावरणभेदिभिः। शिखण्डी तु महाराज भरताना पितामहम्॥ आजघानोरसि क्रुद्धो नवभिर्निशितैः शरैः। स तेनाभिहत: संख्ये भीष्मः कुरुपितामहः॥ नाकम्पत महाराज क्षितिकम्पे यथाचलः। ततः प्रहस्य बीभत्सुर्व्याक्षिपन् गाण्डिवं धनुः॥ गाङ्गेयं पञ्चविंशत्या क्षुद्रकाणां समार्पयत्। पुनः पुनः शतैरेनं त्वरमाणो धनंजयः॥ सर्वगात्रेषु शंक्रुद्धः सर्वमर्मस्वताडयत्। एवमन्यैरपि भृशं विद्ध्यमानः सहस्रशः॥ तानप्याशु शरैर्भीष्मः प्रविव्याध महारथः। तैश्च मुक्ताञ्छरान् भीष्मो युधि सत्यपराक्रमः॥ निवारयामास शरैः समं संनतपर्वभिः। शिखण्डी तु रणे बाणान् यान् मुमोच महारथः॥ न चक्रुस्ते रुजं तस्य रुक्मपुङ्खाः शिलाशिताः। ततः किरीटी संक्रुद्धो भीष्ममेवाभ्यवर्तत॥ शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत्। अथैनं नवभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे॥ सारथिं विशिखैश्चास्य दशभिः समकम्पयत्। सोऽन्यत् कार्मुकमादाय गाङ्गेयो बलवत्तरम्॥ तदप्यस्य शितैर्भल्लैस्त्रिधा त्रिभिरघातयत्। निमेषार्धन कौन्तेय आत्तमात्तं महारणे॥ एवमस्य धनूंष्याजौ चिच्छेद सुबहून्यथ। ततः शान्तनवो भीष्मो बीभत्सु नात्यवर्तत॥ अथैनं पञ्चविंशत्या क्षुद्रकाणां समाप्रयत्। सोऽतिविद्धा महेष्वासो दुःशासनमभाषत॥ एष पार्थो रणे क्रुद्धः पाण्डवानां महारथः। शरैरनेकसाहौर्मामेवाभ्यहनन् रणे॥ ३. न चैष समरे शक्यो जेतुं बज्रभृता अपि। न चापि सहिता वीरा देवदानवराक्षसाः॥ मां चापि शक्ता निर्जेतुं किमु मर्त्या महारथाः। एवं तयोः संवदतोः फाल्गुनो निशितैः शरैः॥ शिखण्डिनं पुरस्कृत्य भीष्मं विव्याध संयुगे। ततो दुःशासनं भूयः स्मयमान इवाब्रवीत्॥ अतिविद्धः शितैर्बाणैर्भृशं गाण्डीवधन्वना। वज्राशनिसमस्पर्शा अर्जुनेन शरा युधि॥ मुक्ताः सर्वेऽव्यवच्छिन्ना नेमे बाणाः शिखण्डिनः। निकृन्तमाना मर्माणि दृढावरणभेदिनः॥ मुसला इव मे नन्ति नेमे बाणाः शिखण्डिनः। वज्रदण्डसमस्पर्शा वज्रवेगदुरासदाः॥ मम प्राणानारुजन्ति नेमे बाणा: शिखण्डिनः। नाशयन्तीव मे प्राणान् यमदूता इवाहिताः॥ गदापरिघसंस्पर्शा नेमे बाणाः शिखण्डिनः। भुजगा इव संक्रुद्धा लेलिहाना विषोल्बणाः॥ समाविशन्ति मर्माणि नेमे बाणाः शिखण्डिनः। अर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः॥ कृन्तन्ति मम गात्राणि माघमां सेगवा इव। सर्वे ह्यपि न मे दुःखं कुर्युरन्ये नराधिपाः॥ वीरं गाण्डीवधन्वानमृते जिष्णुं कपिध्वजम्। इति ब्रुवञ्छान्तनवो दिधक्षुरिव पाण्डवान्॥ शक्तिं भीष्मः स पार्थाय ततश्चिक्षेप भारत। तामस्य विशिखैश्छित्त्वा त्रिधा त्रिभिरपातयत्॥ पश्यतां कुरुवीराणां सर्वेषां तव भारत। चर्माथादत्त गाड्यो जातरूपपरिष्कृतम्॥ खङ्गं चान्यतप्रेप्सुर्मृत्योरगे जयाय वा। तस्य तच्छतधा चर्म व्यधमत् सायकैस्तथा॥ रथादनवरूढस्य तदद्भुतमिवाभवत्। ततो युधिष्ठिरो राजा स्वान्यनीकान्यचोदयत्॥ अभिद्रवत गाङ्गेयं मा वोऽस्तु भयमण्वपि। अथ ते तोमरैः प्रासैर्वाणौधैश्च समन्ततः॥ पट्टिशैश्च सुनिस्त्रिशैर्नाराचैश्च तथा शितैः। वत्सदन्तैश्च भल्लैश्च तमेकमभिदुद्रुवुः॥ सिंहनादस्ततो घोरः पाण्डवानामभूत् तदा। तथैव तव पुत्राश्च नेदुर्भीष्मजयैषिणः॥ तमेकमभ्यरक्षन्त सिंहनादांश्च चक्रिरे। तत्रासीत् तुमुलं युद्धं तावकानां परैः सह॥ दशमेऽहनि राजेन्द्र भीष्मार्जुनसमागमे। आसीद् गाङ्ग इवावर्तो मुहूर्तमुदधेरिव॥ सैन्यानां युध्यमानानां निघ्नतामितरेतरम्। असौम्यरूपा पृथिवी शोणिताक्ताभवत् तदा॥ समं च विषमं चैव न प्राज्ञायत किंचन। योधानामयुतं हत्वा तस्मिन् स दशमेऽहनि॥ अतिष्ठदाहवे भीष्मो भिद्यमानेषु मर्मसु। ततः सेनामुखे तस्मिन् स्थितः पार्थो धनुर्धरः॥ मध्येन कुरुसैन्यानां द्रावयामास वाहिनीम्। वयं श्वेतहयाद् भीताः कुन्तीपुत्राद् धनंजयात्॥ पीड्यमानाः शितैः शस्त्रैः प्रद्रवाम रणे तदा। सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः॥ अभीषाहाः शूरसेनाः शिवयोऽथ वसातयः। शाल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह॥ सर्व एते महात्मानः शरार्ता व्रणपीडिताः। संग्रामे न जहुर्भीष्मं युध्यमानं किरीटिना॥ ततस्तमेकं बहवः परिवार्य समन्ततः। परिकाल्य कुरून् सर्वाशरवर्षैरवाकिरन्॥ निपातयत गृह्णीत युध्यध्वमवकृन्तत। इत्यासीत् तुमुल: शब्दो राजन् भीष्मरथं प्रति॥ निहत्य समरे राजशतशोऽथ सहस्रशः। न तस्यासीदनिर्भिन्नं गात्रे व्यङ्गुलमन्तरम्॥ एवंभूतस्तव पिता शरैर्विशकलीकृतः। शिताचैः फाल्गुनेनाजौ प्राक्शिराः प्रापतद् रथात्॥ किंचिच्छेषे दिनकरे पुत्राणां तव पश्यताम्। हाहेति दिवि देवानां पार्थिवानां च भारत॥ पतमाने बभूव सुमहास्वनः। सम्पतन्तमभिप्रेक्ष्य महात्मानं पितामहम्॥ सह भीष्मेण सर्वेषां प्रापतन् हृदयानि नः। स पपात महाबाहुर्वसुधामनुनादयन्॥ इन्द्रध्वज इवोत्सृष्टः केतुः सर्वधनुष्मताम्। धरणी न स पस्पर्श शरसंधैः समावृतः॥ रथाद् भीष्मे शरतल्पे महेष्वासं शयानं पुरुषर्षभम्। रथात् प्रपतितं चैनं दिवियो भावः समाविशत्॥ अभ्यवर्षच्च पर्जन्यः प्राकम्पत च मेदिनी। पतन् स ददृशे चापि दक्षिणेन दिवाकरम्॥ संज्ञां चोपालभद् वीरः कालं संचिन्त्य भारत। अन्तरिक्षे च शुश्राव दिव्या वाचः समन्ततः॥ कथं महात्मा गाङ्गेयः सर्वशस्त्रभृतां वरः। कालकर्ता नरव्याघ्रः सम्प्राप्ते दक्षिणायने॥ स्थितोऽस्मीति च गाङ्गेयस्तच्छ्रुत्वा वाक्यमब्रवीत्। धारयामास च प्राणान् पतितोऽपि महीतले॥ उत्तरायणमन्विच्छन् भीष्मः कुरुपितामहः। तस्य तन्मतमाज्ञाय गङ्गा हिमवतः सुता॥ महर्षीन् हंसरूपेण प्रेषयामास तत्र वै। ततः सम्पातिनो हंसास्त्वरिता मानसौकसः॥ आजग्मुः सहिता द्रष्टुं भीष्मं कुरुपितामहम्। यत्र शेते नरश्रेष्ठः शरतल्पे पितामहः॥ ते तु भीष्मं समासाद्य ऋषयो हंसरूपिणः। अपश्यञ्छरतल्पस्थं भीष्मं कुरुकुलोद्वहम्॥ ते तं दृष्ट्वा महात्मानं कृत्वा चापि प्रदक्षिणम्। गाङ्गेयं भरतश्रेष्ठं दक्षिणेन च भास्करम्॥ इतरेतरमामन्त्र्य प्राहुस्तत्र मनीषिणः। भीष्मः कथं महात्मा सन् संस्थाता दक्षिणायने॥ इत्युक्त्वा प्रस्थिता हंसा दक्षिणामभितो दिशम्। सम्प्रेक्ष्य वै महाबुद्धिश्चिन्तयित्वा च भारत॥ तानब्रवीच्छान्तनवो नहां गन्ता कथंचन। दक्षिणावर्त आदित्ये एतन्मे मनसि स्थितम्॥ गमिष्यामि स्वकं स्थानमासीद् यन्मे पुरातनम्। उदगायन आदित्ये हंसाः सत्यं ब्रवीमि वः॥ धारयिष्याम्यहं प्राणानुत्तरायणकाक्षया। ऐश्वर्यभूतः प्राणानामुत्सर्गो हि यतो मम॥ तस्मात् प्राणान् धारयिष्ये मुमूर्षुरदगायने। यश्च दत्तो वरो मह्यं पित्रा तेन महात्मना॥ छन्दतो मृत्युरित्येवं तस्य चास्तु वरस्तथा। धारयिष्ये ततः प्राणानुस्सर्गे नियते सति॥ इत्युक्त्वा तांस्दा हंसान् स शेते शरतल्पगः। एवं कुरूणां पतिते शृङ्गे भीष्मे महौजसि॥ पाण्डवाः सुंजयाश्चैव सिंहनादं प्रचक्रिरे। तस्मिन् हते महासत्त्वे भरतानां पितामहे॥ न किंचित् प्रत्यपद्यन्त पुत्रास्ते भरतर्षभ। सम्मोहश्चैव तुमुलः कुरूणामभवत् तदा॥ कृपदुर्योधनमुखा निःश्वस्य रुरुदुस्ततः। विषादाच्च चिरं कालमतिष्ठन् विगतेन्द्रियाः॥ दध्युश्चैव महाराज न युद्धे दधिरे मनः। ऊरुग्राहगृहीताश्च नाभ्यधावन्त पाण्डवान्॥ अवध्ये शन्तनोः पुत्रे हते भीष्मे महौजसि। अभावः सहसा राजन् कुरुराजस्य तर्कितः॥ हतप्रवीरास्तु वयं निकृत्ताश्च शितैः शरैः। कर्तव्यं नाभिजानीमो निर्जिताः सव्यसाचिना॥ पाण्डवाश्च जयं लब्ध्वा परत्र च परां गतिम्। सर्वे दध्मुर्महाशङ्खाशूराः परिघबाहवः॥ सोमकाश्च सपञ्चालाः प्राहृष्यन्त जनेश्वर। ततस्तूर्यसहस्रेषु नदत्सु स महाबलः॥ आस्फोटयामास भृशं भीमसेनो ननाद च। सेनयोरुभयोश्चापि गाङ्गेये निहते विभौ॥ संन्यस्य वीराः शस्त्राणि प्राध्यायन्त समन्ततः। प्राक्रोशन् प्राद्रवंश्चान्ये जग्मुर्मोहः तथापरे॥ क्षत्रं चान्येऽभ्यनिन्दन्त भीष्मं चान्येऽभ्यपूजयन्। ऋषयः पितरश्चैव प्रशशंसुर्महाव्रतम्।१२०॥ भरतानां च ये पूर्वे ते चैनं प्रशशंसिरे। महोपनिषदं चैव योगमास्थाय वीर्यवान्॥ जपशान्तनवो धीमान् कालाकाक्षी स्थितोऽभवत्।। संजय उवाच समारोप्य महच्चापमभिवाद्य पितामहम्। नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत्॥ आज्ञापय कुरुश्रेष्ठ सर्वशस्त्रभृतां वर। प्रेष्योऽहं तव दुर्धर्ष क्रियतां किं पितामह॥ तमब्रवीच्छान्तनवः शिरो मे तात लम्बते। उपधानं कुरुश्रेष्ठ फाल्गुनोपदधत्स्व मे॥ शयनस्यानुरूपं वै शीघ्रं वीर प्रयच्छ मे। त्वं हि पार्थ समर्थो वै श्रेष्ठः सर्वधनुष्मताम्॥४। क्षत्रधर्मस्य वेत्ता च बुद्धिसत्त्वगुणान्वितः। फाल्गुनोऽपि तथेत्युक्त्वा व्यवसायमरोचयत्॥ गृह्यानुमन्त्र्य गाण्डीवं शरान् संनतपर्वणः। अनुमान्य महात्मानं भरतानां महारथम्॥ त्रिभिस्तीक्ष्णैर्महावेगैरन्वगृह्णच्छिरः शरैः। अभिप्राये तु विदिते धर्मात्मा सव्यसाचिना॥ अतुष्यद् भरतश्रेष्ठो भीष्मो धर्मार्थततत्ववित्। उपधानेन दत्तेन प्रत्यनन्दद् धनंजयम्॥ प्राह सर्वान् समुद्वीक्ष्य भरतान् भारतं प्रति। कुन्तीपुत्रं युधां श्रेष्ठं सुहृदां प्रीतिवर्धनम्॥ शयनस्यानुरूपं मे पाण्डवोपहितं त्वया। यद्यन्यथा प्रपद्येथाः शपेयं त्वामहं रूषा॥ एवमेव महाबाहो धर्मेषु परितिष्ठता। स्वप्तव्यं क्षत्रियेणाजो शरतल्पगतेन वै॥ एवमुक्त्वा तु बीभत्सुं सर्वास्तानब्रवीद् वचः। राज्ञश्च राजपुत्रांश्च पाण्डवानभिसंस्थितान्॥ भीष्म उवाच पश्यध्वमुपधानं मे पाण्डवेनाभिसंधितम्। शिश्येऽहमस्यां शय्यायां यावदावर्तनं रवेः॥ ये तदा मां गमिष्यन्ति ते च प्रेक्ष्यन्ति मां नृपाः। दिशं वैश्रवणाक्रान्तां यदाऽऽगन्ता दिवाकरः॥ नूनं सप्ताश्वयुक्तेन रथेनोत्तमतेजसा। विमोक्ष्येऽहं तदा प्राणान् सुहृदः सुप्रियानिव॥ परिखा खन्यतामत्र ममावसदने नृपाः। उपासिष्ये विवस्वन्तमेवं शरशताचितः॥ उपारमध्वं संग्रामाद् वैरमुत्सृज्य पार्थिवाः। संजय उवाच उपातिष्ठन्नथो वैद्याः शल्योद्धरणकोविदाः॥ सर्वोपरकरणैर्युक्ताः कुशलैः साधु शिक्षिताः। तान् दृष्ट्वा जाछवीपुत्रः प्रोवाच तनयं तव॥ धनं दत्त्वा विसृज्यन्तां पूजयित्वा चिकित्सकाः। एवंगते मयेदानी वैद्यैः कार्यमिहास्ति किम्॥ क्षत्रधर्मे प्रशस्तां हि प्राप्तोऽसस्मि परमां गतिम्। नैष धर्मो महीपालाः शरतल्पगतस्य मे॥ एभिरेव शरैश्चाहं दग्धव्योऽस्मि नराधिपाः। तच्छ्रुत्वा वचनं तस्य पुत्रो दुर्योधनस्तव॥ वैद्यान् विसर्जयामास पूजयित्वा यथार्हतः। ततस्ते विस्मयं जग्मुर्नानाजनपदेश्वराः॥ स्थितिं धर्मे परां दृष्ट्वा भीष्मस्यामिततेजसः। उपधानं ततो दत्त्वा पितुस्ते मनुजेश्वराः॥ सहिताः पाण्डवाः सर्वे कुरवश्च महारथाः। उपगम्य महात्मानं शयानं शयने शुभे॥ तेऽभिवाद्य ततो भीष्मं कृत्वा च त्रिः प्रदक्षिणम्। विधाय रक्षां भीष्मस्य सर्व एव समन्ततः॥ वीराः स्वशिबिराण्येव ध्यायन्तः परमातुराः। निवेशायाभ्युपागच्छन् सायाछे रुधिरोक्षिताः॥ निविष्टान् पाण्डवांश्चैव प्रीयमाणान् महास्थान्। भीष्मस्य पतने हृष्टानुपगम्य महाबलः॥ उवाच माधवः काले धर्मपुत्रं युधिष्ठिरम्। दिष्ट्या जयसि कौरव्य दिष्ट्या भीष्मो निपातितः॥२८ अवध्यो मानुषैरेव सत्यसंधो महारथः। अथवा दैवतैः सार्धं सर्वशास्त्रस्य पारगः॥ त्वां तु चक्षुर्हणं प्राप्य दग्धो घोरेण चक्षुषा। एवमुक्तो धर्मराजः प्रत्युवाच जनार्दनम्॥ तव प्रसादाद् विजयः क्रोधात् तव पराजयः। त्वं हि नः शरणं कृष्ण भक्तानामभयंकरः॥ अनाश्चर्यो जयस्तेषां येषां त्वमसि केशव। रक्षिता समरे नित्यं नित्यं चापि हिते रतः॥ सर्वथा त्वां समासाद्य नाश्चर्यमिति मे मतिः। एवमुक्तः प्रत्युवाच स्मयमानो जनार्दनः। तवैवैतद् युक्तरूपं वचनं पार्थिवोत्तम॥ संजय उवाच व्युष्टायां तु महाराज शर्वर्यां सर्वपार्थिवाः। पाण्डवा धार्तराष्ट्राश्च उपातिष्ठन् पितामहम्॥ तं वीरशयने वीरं शयानं कुरुसत्तम। अभिवाद्योपतस्थुर्वै क्षत्रियाः क्षत्रियर्षभम्॥ कन्याश्चन्दनचूर्णैश्च लाजैर्माल्यैश्च सर्वशः। अवाकिरज्छान्तनवं तत्र गत्वा सहस्रशः॥ स्त्रियो वृद्धास्तथा बालाः प्रेक्षकाच पृथग्जनाः। समभ्ययुः शान्तनवं भूतानीव तमोनुदम्॥ तूर्याणि शतसंख्यानि तथैव नटनर्तकाः। शिल्पिनश्च तथाऽऽजग्मुः कुरुवृद्धं पितामहम्॥ उपारण्य च युद्धेभ्यः संनाहान् विप्रमुच्य ते। आयुधानि च निक्षिप्य सहिताः कुरुपाण्डवाः॥ अन्वासन्त दुराधर्षं देवव्रतमरिंदमम्। अन्योन्यं प्रीतिमन्तस्ते यथापूर्वं यथावयः॥ सा पार्थिवशताकीर्णा समितिर्भीष्मशोभिता। शुशुभे भारती दीप्ता दिवीवादित्यमण्डलम्॥ विबभो च नृपाणां सा गङ्गासुतमुपासताम्। देवानामिव देवेशं पितामहमुपासताम्॥ भीष्मस्तु वेदनां धैर्यानिगृह्य भरतर्षभ। अभितप्तः शरैश्चैव निःश्वसन्नुरगो यथा।॥ शराभितप्तकायोऽपि शस्त्रसम्पातमूर्छितः। पानीयमिति सम्प्रेक्ष्य राज्ञस्तान् प्रत्यभाषत॥ ततस्ते क्षत्रिया राजन्नुपुजङ्गः समन्ततः। भक्ष्यानुच्चावचान् राजन् वारिकुम्भांश्च शीतलान्॥ उपानीतं तु पानीयं दृष्ट्वा शान्तनवोऽब्रवीत्। नाद्यातीता मया शक्या भोगाः केचन मानुषाः॥ अपक्रान्तो मनुष्येभ्यः शरशय्यां गतो ह्यहम्। प्रतीक्षमाणस्तिष्ठामि निवृत्तिं शशिसूर्ययोः॥ एवमुक्त्वा शान्तनवो निन्दन् वाक्येन पार्थिवान्। अर्जुनं द्रष्टुमिच्छामीत्यभ्यभाषत भारत॥ अथोपेत्य महाबाहुरभिवाद्य पितामहम्। अतिष्ठत् प्राञ्जलिः प्रह्वः किं करोमीति चाब्रवीत्॥ तं दृष्ट्वा पाण्डवं राजन्नभिवाद्याग्रतः स्थितम्। अभ्यभाषत धर्मात्मा भीष्मः प्रीतो धनंजयम्॥ दह्यतीव शरीरं मे संवृतस्य तवेषुभिः। मर्माणि परिदूयन्ते मुखं च परिशुष्यति॥ वेदनार्तशरीरस्य प्रयच्छापो ममार्जुन। त्वं हि शक्तो महेष्वास दातुमापो यथाविधि॥ अर्जुनस्तु तथेत्युक्त्वा रथमारुह्य वीयवान्। अधिज्यं बलवत् कृत्वा गाण्डीवं व्याक्षिपद् धनुः॥ तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः। वित्रेसुः सर्वभूतानि सर्वे श्रुत्वा च पार्थिवाः॥ ततः प्रदक्षिणं कृत्वा रथेन रथिनां वरः। शयानं भरतश्रेष्ठं सर्वशस्त्रभृतां वरम्॥ संधाय च शरं दीप्तमभिमत्र्य स पाण्डवः। पर्जन्यास्त्रेण संजोज्य सर्वलोकस्य पश्यतः॥ अविध्यत् पृथिवीं पार्थः पार्श्वे भीष्मस्य दक्षिणे। उत्पपात ततो धारा वारिणो विमला शुभा॥ शीतस्यामृतकल्पस्य दिव्यगन्धरसस्य च। अतर्पयत् ततः पार्थः शीतया जलधारया।॥ भीष्मं कुरूणामृषभं दिव्यकर्मपराक्रमम्। कर्मणा तेन पार्थस्य शक्रस्येव विकुर्वतः॥ विस्मयं परमं जग्मुस्ततस्ते वसुधाधिपाः। तत् कर्म प्रेक्ष्य बीभत्सोरतिमानुषविक्रमम्॥ सम्प्रावेपन्त कुरवो गावः शीतार्दिता इव। विस्मयोच्चोत्तरीयाणि व्याविध्यन् सर्वतो नृपाः॥ शङ्खदुन्दुभिनिर्घोषस्तुमुल: सर्वतोऽभवत्। तृप्तः शान्तनवश्चापि राजन् बीभत्सुमब्रवीत्॥ सर्वपार्थिववीराणां संनिधौ पूजयन्निव। नैतच्चित्रं महाबाहो त्वयि कौरवनन्दन।॥ कथितो नारदेनासि पूर्वर्षिरमितद्युते। वासुदेवसहायस्त्वं महत् कर्म करिष्यसि॥ यन्त्रोत्सहति देवेन्द्रः सह देवैरपि ध्रुवम्। विदुस्त्वां निधनं पार्थं सर्वक्षत्रस्य तद्विदः॥ धनुर्धराणामेकस्त्वं पृथिव्यां प्रवरो नृषु॥ मनुष्या जगति श्रेष्ठाः पक्षिणां पतगेश्वरः। सरितां सागरः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम्॥ आदित्यस्तेजसां श्रेष्ठो गिरीणां हिमवान् वरः। जातीनां ब्राह्मणः श्रेष्ठः श्रेष्ठस्त्वमसि धन्विनाम्॥ न वै श्रुतं धार्तराष्ट्रेण वाक्यं मयोच्यमानं विदुरेण चैव। द्रोणेन रामेण जनार्दनेन मुहुर्मुहुः संजयेनापि चोक्तम्॥ परीतबुद्धिर्हि विसंज्ञकल्पो दुर्योधनो न च तच्छ्रद्दधाति। स शेष्यते वै निहतश्चिराय शास्त्रातिगो भीमवलाभिभूतः॥ एतच्छ्रुत्वा तद्वचः कौरवेन्द्रो दुर्योधनो दीनमना बभूव। तमब्रवीच्छान्तनवोऽभिवीक्ष्य निबोध राजन् भव वीतमन्युः॥ दृष्टं दुर्योधनैतत् ते यथा पार्थेन धीमता। जलस्य धारा जनिता शीतस्यामृतगन्धिनः॥ एतस्य कर्ता लोकेऽस्मिन् नान्यः कश्चन विद्यते। आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम्॥ ऐन्द्रं पाशुपत ब्राह्मं पारमेष्ठ्यं प्रजापतेः। धातुस्त्वष्टुश्च सवितुर्वैवस्वतमथापि वा॥ सर्वस्मिन् मानुषे लोके वेत्त्येको हि धनंजयः। कृष्णो वा देवकीपुत्रो नान्यो वेदेह कश्चन॥ अशक्यः पाण्डवस्तात युद्धो जेतुं कथंचन। अमानुषाणि कर्माणि यस्यैतानि महात्मनः॥ तेन सत्त्ववता संख्ये शूरेणाहवशोभिना। कृतिना समरे राजन् संधिर्मवतु मा चिरम्॥ यावत् कृष्णो महाबाहुः स्वाधीनः कुरुसत्तम। तावत् पार्थेन शूरेण संधिस्ते तात युज्यताम्॥ यावन्न ते चमूः चमूः सर्वाः शरैः संनतपर्वभिः। नाशयत्यर्जुनस्तावत् संधिस्ते तात युज्यताम्॥ यावत् तिष्ठन्ति समरे हतशेषाः सहोदराः। नृपाश्च बहवो राजस्तावत् संधिः प्रयुज्यताम्॥ न निर्दहति ते यावत् क्रोधदीप्तेक्षणश्चमूम्। युधिष्ठिरो रणे तावत् संधिस्ते तात युज्यताम्॥ नकुलः सहदेवश्च भीमसेनश्च पाण्डवः। यावच्चमू महाराज नाशयन्ति न सर्वशः॥ तावत् ते पाण्डवैवीरैः सौहार्द मम रोचते। युद्धं मदन्तमेवास्तु तात संशाम्य पाण्डवैः॥ एतत् तु रोचतां वाक्यं यदुक्तोऽसि मयानघ। एतत् क्षेममहं मन्ये तव चैव कुलस्य च॥ त्यक्त्वा मन्युं व्युपशाम्यस्व पार्थैः पर्याप्तमेतद् यत् कृतं फाल्गुनेन। भीष्मस्यान्तादस्तु वः सौहृदं च जीवन्तु शेषाः साधु राजन् प्रसीद॥ मिन्द्रप्रस्थं धर्मराजोऽभियातु। मा मित्रचक् पार्थिवानां जघन्यः "पापां कीर्ति प्राप्स्यसे कौरवेन्द्र॥ ममावसानाच्छान्तिरस्तु प्रजानां संगच्छन्तां पार्थिवाः प्रीतिमन्तः। पिता पुत्रं मातुलं भागिनेयो भ्राता चैव भ्रातरं प्रैतु राजन्॥ न चेदेवं प्राप्तकालं वचो मे मोहाविष्टः प्रतिपत्स्यस्यबुद्ध्या। तप्स्यन्ते एतदन्ताः स्थ सर्वे सत्यामेतां भारतीमीरयामि॥ एतद् वाक्यं सौहृदादापगेयो मध्ये राज्ञां भारतं श्रावयित्वा। तूष्णीमासीच्छल्यसंतप्तमर्मा योज्यात्मानं वेदनां संनियम्य॥ संजय उवाच धर्मार्थसहितं वाक्यं श्रुत्वा हितमनामयम्। नारोचयत् पुत्रस्ते मुमूर्षुरिव भेषजम्॥ संजय उवाच ततस्ते पार्थिवाः सर्वे जग्मुः स्वानालयान् पुनः। तूष्णीभूते महाराज भीष्मे शान्तनुन्दने॥ श्रुत्वा तु निहतं राधेयः पुरुषर्षभः। ईषदागतसंत्रासस्त्वरयोपजगाम ह॥ स ददर्श महात्मानं शरतल्पगतं तदा। जन्मशय्यागतं वीरं कार्तिकेयमिव प्रभुम्॥ निमीलिताक्षं तं वीरं साश्रुकण्ठस्तदा वृषः। भीष्म भीष्म महाबाहो इत्युवाच महाद्युतिः॥ राधेयोऽहं कुरुश्रेष्ठ नित्यमक्षिगतस्तव। द्वेष्योऽहं तव सर्वत्र इति चैनमुवाच ह॥ तच्छ्रुत्वा कुरुवृद्धो हि बली संवृतलोचनः। शनैरुद्वीक्ष्य सस्नेहमिदं च रक्षिणः। पितेव पुत्रं गाड्यः परिरभ्यैकपाणिना॥ एह्येहि मे विप्रतीप स्पर्धसे त्वं मया सह। यदि मां नाधिगच्छेथा न ते श्रेयो ध्रुवं भवेत्॥ कौन्तेयस्त्वं न राधेयो न तवाधिस्थः पिता। सूर्यजस्त्वं महाबाहो विदितो नारदान्मया॥ कृष्णद्वैपायनाच्चैव तच्च सत्यं न संशयः। न च द्वेषोऽस्ति मे तात त्वयि सत्यं ब्रवीमि ते॥ तेजोवधानिमित्तं तु परुषं त्वाहमब्रुवम्। अक्समात् पाण्डवान् सर्वानवाक्षिपसि सुब्रत।॥ येनासि बहुशो राज्ञा चोदितः सूतनन्दन। जातोऽसि धर्मलोपेन ततस्ते बुद्धिरीदृशी॥ नीचाश्रयान्मत्सरेण द्वेषिणी गुणिनामपि। तेनासि बहुशो रूक्षं श्रावितः कुरुसंसदि॥ जानामि समरे वीर्यं शत्रुभिर्दुःसहं भुवि। ब्रह्मण्यतां शौर्यं च दाने परमां स्थितिम्॥ न त्वया सदृशः कश्चित् पुरुषेष्वमरोपम। कुलभेदभयाच्चाहं सदा परुषमुक्तवान्॥ इष्वस्त्रे चास्त्रसंधाने लाघवेऽस्त्रबले तथा। सदृशः फाल्गुनेनासि कृष्णेन च महात्मना॥ कर्ण काशिपुरं गत्वा त्वयैकेन धनुष्मता। कन्यार्थे कुरुराजस्य राजानो मृदिता युधि॥ तथा च बलवान् राजा जरासंधो दुरासदः। समरे समरश्लाघिन् न त्वया सदृशोऽभवत्॥ ब्रह्मण्यः सत्त्वयोधी च तेजसा च बलेन च। देवगर्भसमः संख्ये मनुष्यैरधिको युधि॥ व्यपनीतोऽद्य मन्युर्मे यस्त्वा प्रति पुरा कृतः। दैवं पुरुषकारेण न शक्यमतिवर्तितुम्॥२० सोदर्याः पाण्डवा वीरा भ्रातरस्तेऽरिसूदन। संगच्छ तैर्महाबाहो मम चेदिच्छसि प्रियम्॥ मया भवतु निर्वृत्तं वैरमादित्यनन्दन। पृथिव्यां सर्वराजानो भवन्त्वद्य निरामयाः॥ कर्ण उवाच जानाम्येव महाबाहो सर्वमेतन्न संशयः। यथा वदसि मे भीष्म कौन्तेयोऽहं न सूतजः॥ अवकीर्णस्त्वहं कुन्त्या सूतेन च विवर्धितः। भुक्त्वा दुर्योधनैश्वर्यं न मिथ्याकर्तुमुत्सहे॥ वसुदेवसुतो यद्वत् पाण्डवाय दृढव्रतः। वसु चैव शरीरं च पुत्रदारं तथा यशः॥ सर्वं दुर्योधनस्यार्थे त्यक्त मे भूरिदक्षिण। मा चैतद् व्याधिमरणं क्षत्रं स्यादिति कौरव॥ कोपिताः पाण्डवा नित्यं समाश्रित्य सुयोधनम्। अवश्यभावी ह्यर्थोऽयं योन शक्यो निवर्तितुम्॥ दैवं पुरुषकारेण को निवर्तितुमुत्सहेत्। पृथिवीक्षयशंसीनि निमित्तानि पितामह॥ भवद्भिपलब्धानि कथितानि च संसदि। पाण्डवा वासुदेवश्च विदिता मम सर्वशः॥ अजेयाः पुरुषैरन्यैरिति तांश्चोत्सहामहे। विजयिष्ये रणे पाण्डुनिति मे निश्चितं मनः॥ न च शक्यमवस्रष्टुं वैरमेतत् सुदारुणम्। धनंजयेन योत्स्येऽहं स्वधर्मप्रीतमानसः॥ अनुजानीष्व मां तात युद्धाय कृतनिश्चयम्। अनुज्ञातस्त्वया वीर युद्ध्येयमिति मे मतिः॥ दुरुक्तं विप्रतीपं वा रभसाच्चापलात् तथा। यन्मयेह कृतं किंचित् तन्मे त्वं क्षन्तुमर्हसि॥ भीष्म उवाच न चेच्छक्यमवस्रष्टुं वैरमेतत् सुदारुणम्। अनुजानामि कर्ण त्वां युद्ध्यस्व स्वर्गकाम्यया॥ निर्मन्युर्गतसंरम्भः कृतकर्मा रणे स्म ह। यथाशक्ति यथोत्साहं सतां वृत्तेषु वृत्तवान्।॥ अहं त्वामनुजानामि यदिच्छसि तदाप्नुहि। क्षत्रधर्मजिताल्लोकानवाप्स्यसि धनंजयात्॥ युध्यस्व निरहङ्कारो बलवीर्यव्यपाश्रयः। धाद्धि युद्धाच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते॥ प्रशमे हि कृतो यत्नः सुमहान् सुचिरं मया। न चैव शकितः कर्तुं कर्ण सत्यं ब्रवीमि ते॥ संजय उवाच इत्युक्तवति गाङ्गेये अभिवाद्योपमन्त्र्य च। राधेयो रथमारुह्य प्रायात् तव सुतं प्रति॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवी सरस्वतीं व्यासं ततो जयमुदीरयेत्।। तमप्रतिमसत्त्वौजोबलवीर्यसमन्वितम्। हतं देवव्रतं श्रुत्वा पाञ्चाल्येन शिखण्डिना॥ धृतराष्ट्रस्ततो राजा शोकव्याकुललोचनः। किमचेष्टत विप्रर्षे हते पितरि वीर्यवान्॥ तस्य पुत्रो हि भगवन् भीष्मद्रोणमुखै रथैः। पराजित्य महेष्वासान् पाण्डवान् राज्यमिच्छति॥ तस्मिन् हते तु भगवन् केतौ सर्वधनुष्मताम्। यदचेष्टत कौरव्यस्तन्मे ब्रूहि तपोधन॥ वैशम्पायन उवाच निहतं पितरं श्रुत्वा धृतराष्ट्रो जनाधिपः। लेभे न शान्तिं कौरव्यश्चिन्ताशोकपरायणः॥ तस्य चिन्तयतो दुःखमनिशं पार्थिवस्य तत्। आजगाम विशुद्धात्मा पुनर्गावल्गणिस्तदा॥ शिबिरात् संजयं प्राप्तं निशि नागाह्वयं पुरम्। आम्बिकेयो महाराज धृतराष्ट्रोऽन्वपृच्छत॥ श्रुत्वा भीष्मस्य निधनमप्रहृष्टमना भृशम्। पुत्राणां जयमाकाङ्क्षन् विललापातुरो यथा॥ धृतराष्ट्र उवाच संशोच्य तु महात्मानं भीष्मं भीमपराक्रमम्। किमकार्षुः परं तात कुरुः कालचोदिताः॥ तस्मिन् विनिहते शूरे दुराधर्षे महात्मनि। किं नु स्वित् कुरोऽकार्पुर्निमग्नाः शोकसागरे॥ तदुदीर्णं महत् सैन्यं त्रैलोक्यस्यापि संजय। भयमुत्पादयेत् तीव्र पाण्डवानां महात्मनाम्॥ को हि दौर्योधने सैन्ये पुमानासीन्महारथः। यं प्राप्य समरे वीरा न त्रस्यन्ति महाभये॥ संजय उवाच देवव्रते तु निहते कुरूणामृषभे तदा। किमकार्ष पतयस्तन्ममाचक्ष्व संजय॥ शृणु राजन्नेकमना वचनं ब्रुवतो मम। यत् ते पुत्रास्तदाऽकार्युर्हते देवव्रते मृधे॥ निहते तु तदा भीष्मे राजन् सत्यपराक्रमे। तावकाः पाण्डवेयाश्च प्राध्यायन्त पृथक् पृथक्॥ विस्मिताश्च प्रहृष्टाश्च क्षत्रधर्मं निशम्य ते। स्वधर्म निन्दमानास्ते प्रणिपत्य महात्मने॥ शयनं कल्पयामासुर्भीष्मायामितकर्मणे। सोपधानं नरव्याघ्र शरैः संनतपर्वभिः॥ विधाय रक्षां भीष्माय समाभाष्य परस्परम्। अनुमान्य च गाङ्गेयं कृत्वा चापि प्रदक्षिणम्॥ क्रोधसंरक्तनयनाः समवेत्य परस्परम्। पुनर्युद्धाय निर्जग्मुः क्षत्रियाः कालचोदिताः॥ ततस्तूर्यनिनादैश्च भेरीणां निनदेन च। तावकानामनीकानि परेषां च विनिर्ययुः॥ व्यावृत्तेऽर्यम्णि राजेन्द्र पतिते जाह्नवीसुते। अमर्षवशमापन्नाः कालोपहतचेतसः॥ अनादृत्य वचः पथ्यं गाङ्गेयस्य महात्मनः। निर्ययुर्भरतश्रेष्ठाः शस्त्राण्यादाय सत्वराः॥ मोहात् तव सपुत्रस्य वधाच्छान्तनवस्य च। कौरव्या मृत्युसाद्भूताः सहिताः सर्वराजभिः॥ अजावय इवागोपा वने श्वापदसंकुले। भृशमुद्विग्नमनसो हीना देवव्रतेन ते॥ पतिते भरतश्रेष्ठे बभूव कुरुवाहिनी। द्यौरिवापेतनक्षत्रा हीनं खमिव वायुना॥ विपन्नसस्येव मही वाक् चैवासंस्कृता तथा। आसुरीव यथा सेना निगृहीते नृपे बलौ॥ विधवेव वरारोहा शुष्कतोयेव निम्नगा। वृकैरिव वने रुद्धा पृषती हतयूथपा॥ शरभाहतसिंहेव महती गिरिकन्दरा। भारती भरतश्रेष्ठे पतिते जाह्नवीसुते॥ विश्वग्वाताहता रुग्णा नौरिवासीन्महार्णवे। बलिभिः पाण्डवैरीरैर्लब्धलक्ष शार्दिता॥ सा तदाऽऽसीद् भृशं सेना व्याकुलाश्वरथद्विपा। विपन्नभूयिष्ठनरा कृपणा ध्वस्तमानसा॥ तस्यां त्रस्ता नृपतयः सैनिकाश्च पृथग्विधाः। पाताल इव मज्जन्तो हीना देवव्रतेन ते॥ कर्णे हि कुरवोऽस्मार्षुः स हि देवव्रतोपमः। सर्वशस्त्रभृतां श्रेष्ठं रोचमानमिवातिथिम्॥ बन्धुमापद्गतस्येव तमेवोपागमन्मनः। चक्रुशुः कर्ण कर्णेति तत्र भारत पार्थिवाः॥ राधेयं हितमस्माकं सूतपुत्रं तनुत्यजम्। स हि नायुध्यत तदा दशाहानि महायशाः॥ सामात्यबन्धुः कर्णो वै तमानयत मा चिरम्। भीष्मेण हि महाबाहुः सर्वक्षत्रस्य पश्यतः॥ रथेषु गण्यमानेषु बलविक्रमशालिषु। संख्यातोऽर्धरथः कर्णोद्विगुणः सन्नरर्षभः॥ स्थातिरथसंख्यायां योऽग्रणीः शूरसम्मतः। सासुरानपि देवेशान् रणे यो योद्धमुत्सहेत्॥ स तु तेनैव कोपेन राजन् गाङ्गेयमुक्तवान्। त्वयि जीवति कौरव्य नाहं योत्स्ये कदाचन॥ त्वया तु पाण्डवेयेषु निहतेषु महामृधे। दुर्योधनमनुज्ञाप्य वनं यास्यामि कौरव॥ पाण्डवैर्वा हते भीष्मे त्वयि स्वर्गमुपेयुषि। हन्तास्येकरथेनैव कृत्स्नान् यान् मन्यसे रथान्॥ एवमुक्त्वा महाबाहुर्दशाहानि महायशाः। नायुध्यत ततः कर्णः पुत्रस्य तव सम्मते॥ भीष्मः समरविक्रान्तः पाण्डवेयस्य भारत। जघान समरे योधानसंख्येयपराक्रमः॥ तस्मिंस्तु निहते शूरे सत्यसंधे महौजसि। त्वत्सुता: कर्णमस्मार्पुस्ततुकामा इव प्लवम्॥ तावकास्तव पुत्राश्च सहिताः सर्वराजभिः। हा कालोऽयमिति चाब्रुवन्॥ एवं ते स्म हि राधेयं सूतपुत्रं तनुत्यजम्। चुक्रुशुः सहिता योधास्तत्र तत्र महाबलाः॥. जामदग्न्याभ्यनुज्ञातमस्त्रे दुर्वारपौरुषम्। आगमन्नो मनः कर्णे बन्धुमात्यमिकेष्विव॥ कर्ण इति चाक्रन्दन् स हि शक्तो रणे राजंस्त्रातुमस्मान् महाभयात्। त्रिदशानिव गोविन्दः सततं सुमहाभयात्॥ वैशम्पायन उवाच तथा तु संजयं कर्णे कीर्तयन्तं पुनः पुनः। आशीविषवदुच्छ्वस्य धृतराष्ट्रोऽब्रवीदिदम्॥ धृतराष्ट्र उवाच यत् तद्वैकर्तनं कर्णमगमद् वो मनस्तदा। अप्यपश्यत राधेयं सूतपूत्रं तनुत्धजम्॥ अपि तन्न मृषाकार्षीत् कच्चित् सत्यपराक्रमः। सम्भ्रान्तानां तदार्तानां त्रस्तानां त्राणमिच्छताम्॥ अपि तत् पूरयांचक्रे धनुर्धरवरो युधि। यत्तद् विनिहते भीष्मे कौरवाणामपाकृतम्॥ तत् खण्डं पूरयन् कर्णः परेषामादधद् भयम्। स हि वै पुरुषव्याघ्रो लोके संजय कथ्यते॥ आर्तानां बान्धवानां च क्रन्दतां च विशेषतः। परित्यज्य रणे प्राणांस्तत्त्राणार्थं च शर्म च। कृतवान् मम पुत्राणां जयाशां सफलामपि॥ आर्तानां बान्धवानां च क्रन्दतां च विशेषतः। परित्यज्य रणे प्राणांस्तत्त्राणार्थं च शर्म च। कृतवान् मम पुत्राणां जयाशां सफलामपि॥ संजय उवाच हतं भीष्मथाधिरथिर्विदित्वा भिन्नां नावमिवात्यगाधे कुरूणाम्। सोदर्यवद् व्यसनात् सूतपुत्रः संतारयिष्यंस्तव पुत्रस्य सेनाम्॥ श्रुत्वा तु कर्णः पुरुषेन्द्रमच्युतं निपातितं शान्तनवं महारथम्। अथोपयायात् सहसारिकर्षणो धनुर्धराणां प्रवरस्तदा नृप॥ निमज्जती नावमिवार्णवे कुरून्। पितेव पुत्रांस्त्वरितोऽभ्ययात् ततः संतारयिष्यंस्तव पुत्रस्य सेनाम्॥ कर्ण उवाच यस्मिन् धृतिर्बुद्धिपराक्रमौजः सत्यं स्मृतिर्वीरगुणाश्च सर्वे। अस्त्राणि दिव्यान्यथ संलतिहीं: प्रिया च वागनसूया च भीष्मे॥ सदा कृतज्ञे द्विजशत्रुघातके सनातनं चन्द्रमसीव लक्ष्म। स चेत् प्रशान्तः परवीरहन्ता मन्ये हतानेव च सर्ववीरान्॥ नेह ध्रुवं किंचन जातु विद्यते लोके ह्यस्मिन् कर्मणोऽनित्ययोगात्। सूर्योदये को हि विमुक्तसंशयो भावं कुर्वीतार्य महाव्रते हते॥ वसुप्रभावे वसुवीर्यसम्भवे गते वसूनेव वसुन्धराधिपे। वसूनि पुत्रांश्च वसुन्धरां तथा कुरूंश्च शोचध्वमिनां च वाहिनीम्॥ संजय उवाच महाप्रभावे वरदे निपातिते लोकेश्वरे शास्तरि चामितौजसि। पराजितेषु भरतेषु दुर्मनाः कर्णो भृशंन्यश्वसदश्रु वर्तयन्॥ इदं च राधेयवचो निशम्य सुताश्च राजंस्तव सैनिकाश्च ह। स्तदाश्रु नेत्रैर्मुमुचुश्च शब्दवत्॥ प्रवर्तमाने तु पुनर्महाहवे विगाह्यमानासु चमूषु पार्थिवैः। अथाब्रवीद्धर्षकरं तदा वचो रथर्षभान् सर्वमहारथर्षभः॥ जगत्यनित्ये सततं प्रधावति प्रचिन्तयनस्थिरमद्य लक्षये। भवत्सु तिष्ठत्स्विह पातितो मृधे गिरिप्रकाशः कुरुपुङ्गवः कथम्॥ निपातिते शान्तनवे महारथे दिवाकरे भूतलमास्थिते यथा। न पार्थिवाः सोढुमलं धनंजयं गिरिप्रवोढारमिवालिनं दुमाः॥ हतप्रधानं त्विदमार्तरूपं परैर्हतोत्साहमनाथमद्य वै। मया कुरूणां परिपाल्यमाहवे बलं यथा तेन महात्मना तथा॥ समाहितं चात्मनि भारमीदृशं जगत् तथानित्यमिदं च लक्षये। निपातितं चाहवशौण्डमाहवे कथं नु कुर्यामहमीदृशे भयम्॥ अहं तु तान् कुरुवृषभानजिह्मगैः प्रवेशयन् यमसदनं चरन् रणे। यशः परं जगति विभाव्य वर्तिता परैर्हतो भुवि शयिताऽथवा पुनः॥ युधिष्ठिरो धृतिमतिसत्यसत्त्ववान् वृकोदरो गजशततुल्यविक्रमः। तथाऽर्जुनस्त्रिदशवरात्मजो युवा न तद्बलं सुजयमिहामरैरपि॥ यमौ रणे यत्र यमोपमौ बले ससात्यकिर्यत्र च देवकीसुतः। न तद्बलं कापुरुषोऽभ्युपेयिवान् निवर्तते मृत्युमुखान्न चासुभृत्॥ तपोऽभ्युदीर्णं तपसैव बाध्यते बलं बलेनैव तथा मनस्विभिः। मनश्च मे शत्रुनिवारणे ध्रुवं स्वरक्षणे चाचलवद् व्यवस्थितम्॥ एवं चैषां वाधमानः प्रभावं गत्वैवाहं ताञ्चयाम्यद्य सूत। मित्रद्रोहो मर्षणीयो न मेऽयं भग्ने सैन्ये यः समेयात् स मित्रम्॥ कर्तास्म्येतत् सत्पुरुषार्यकर्म त्यक्त्वा प्राणाननुयास्यामि भीष्मम्। सर्वान् संख्ये शत्रुसंघान् हनिष्ये हतस्तैर्वा वीरलोकं प्रपत्स्ये॥ सम्प्राक्रुष्टे रुदितस्त्रीकुमारे पराहते पौरुषे धार्तराष्ट्र। मया कृत्यमिति जानामि सूत तस्माद् राज्ञस्त्वद्य शत्रून् विजेष्ये॥ स्त्यक्त्वा प्राणान् घोररूपे रणेऽस्मिन्। सर्वान् संख्ये शत्रुसंघान् निहत्य दास्याम्यहं धार्तराष्ट्राय राज्यम्॥ निबध्यतां मे कवचं विचित्रं हैमं शुभं मणिरत्लावभासि। शिरस्त्राणं चार्कसमानभासं धनुः शरांश्चग्निविषाहिकल्पान्॥ उपासङ्गान् षोडश योजयन्तु धनूंषि दिव्यानि तथाऽऽहरन्तु। असींश्च शक्तीश्च गदाश्च गुर्वीः शङ्ख च जाम्वूनदचित्रनालम्॥ इमां रौक्मी नागकक्ष्यां विचित्रां ध्वजं चित्रं दिव्यमिन्दीवराङ्कम्। श्लक्ष्णैर्वस्त्रौर्विप्रमृज्यानयन्तु चित्रां मालां चारुबद्धां सलाजाम्॥ अश्वानग्यान् पाण्डुराभ्रप्रकाशान् पुष्टान् स्नातान् मन्त्रपूताभिरद्भिः। शीघ्राच्छीघ्रं सूतपुत्रानयस्व॥ रथं चायं हेममालावनद्धं रत्नैचित्रं सूर्यचन्द्रप्रकाशैः। हैर्युक्तं तूर्णमावर्तयस्व॥ चित्राणि चापानि च वेगवन्ति ज्याश्चोत्तमाः संनहनोपपन्नाः। मासाद्य गात्रावरणानि चैव॥ भेरी:॥ प्रायात्रिकं चानयताशु सर्वं दना पूर्ण वीर कांस्यं च हैमम्। आनीय मालामवबध्य चाङ्गे प्रवादयन्त्वाशु जयाय ॥ प्रयाहि सूताशु यतः किरीटी वृकोदरो धर्मसुतो ममौ च। तान् वा हनिष्यामि समेत्य संख्ये भीष्माय गच्छामि हतो द्विषद्भिः॥ यस्मिन् राजा सत्यधृतियुधिष्ठिरः समास्थितो भीमसेनार्जुनौ च। वासुदेवः सात्यकिः सुंजयाश्च मन्ये बलं तदजय्यं महीपैः॥ तं चेन्मृत्युः सर्वहरोऽभिरक्षेत् सदाप्रमत्तः समरे किरीटिनम्। तथापि हन्ताऽस्मि समेत्य संख्ये यास्यामि वा भीष्मपथा यमाय॥ न त्वेवाहं न गमिष्यामि तेषां मध्ये शूराणां तत्र चाहं ब्रवीमि। मित्रQहो दुर्बलभक्तयो ये पापात्मानो न ममैते सहायाः॥ संजय उवाच समृद्धिमन्तं रथमुत्तमं दृढं सकूबरं हेमपरिष्कृतं शुभम्। र्युक्तं समास्थाय ययौ जयाय॥ सम्पूज्यमानः कुरुभिर्महात्मा रथर्षभो देवगणैर्यथेन्द्रः। ययौ तदायोधनमुग्रधन्वा यत्रावसानं भरतर्षभस्या।३५।। वरूथिना महता सध्वजेन सुवर्णमुक्तामणिरत्नमालिना। सदश्वयुक्तेन रथेन कर्णो मेघस्वनेनार्क इवामितौजाः॥ हुताशनाभः स हुताशनप्रभे शुभः शुभे वै स्वरथे धनुर्धरः। स्थितो रराजाधिरथिर्महारथः स्वयं विमाने सुरराडिवास्थितः॥ संजय उवाच शरतल्पे महात्मानं शयानममितौजसम्। महावातसमूहेन समुद्रमिव शोषितम्॥ दृष्ट्वा पितामह भीष्मं सर्वक्षत्रान्तकं गुरुम्। दिव्यैरस्त्रैर्महेश्वासं पातितं सव्यसाचिना॥ जयाशा तव पुत्राणां सम्भग्ना शर्म वर्म च। अपाराणामिव द्वीपमगाधे गाधमिच्छताम्॥ स्रोतसा यामुनेनेव शरौघेण परिप्लुतम्। महेन्द्रेणेव मैनाकमसह्यं भुवि पातितम्॥ नभश्च्युतमिवादित्यं पतितं धरणीतले। शतकतुमिवाचिन्त्यं पुरु वृत्रेण निर्जितम्॥ मोहनं सर्वसैन्यस्य युधि भीष्मस्य पातनम्। ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम्॥ धनंजयशरैर्व्याप्तं पितरं ते महाव्रतम्। तं वीरशयने वीरं शयानं पुरुषर्षभम्॥ भीष्ममाधिरथिदृष्ट्वा भरतानां महाद्युतिः। अवतीर्य रथादा” वाष्पव्याकुलिताक्षरम्॥ अभिवाद्याञ्जलिं बद्ध्वा वन्दमानोऽभ्यभाषत। कर्णोऽहमस्मि भद्रं ते वद मामभि भारत॥ न नूनं सुकृतस्येह फलं कश्चित् समश्नुते॥ यत्र धर्मपरो वृद्धः शेते भुवि भवानिह। कोशसंचयने मन्त्रे व्यूहे प्रहरणेषु च॥ नाहमन्यं प्रपश्यामि कुरूणां कुरुपुङ्गवा बुद्ध्या विशुद्धया युक्तो यः कुरूंस्तारयेद् भयात्।।१२ योधांस्तु बहुधा हत्वा पितृलोकं गमिष्यति। अद्यप्रभृति संकुद्धा व्याघ्रा इव मृगक्षयम्॥ पाण्डवा भरतश्रेष्ठ करिष्यन्ति कुरुक्षयम्। अद्य गाण्डीवधोषस्य वीर्यज्ञाः सव्यसाचिनः॥ कुरुः संत्रसिष्यन्ति वज्रपाणेरिवासुराः। अद्य गाण्डीवमुक्तानामशनीनामिव स्वनः॥ त्रासयिष्यति बाणानां कुरुनन्यांश्च पार्थिवान्। समिद्धोऽग्निर्यथा वीर महाज्वालो दुमान् दहेत्॥ धार्तराष्ट्रान् प्रधक्ष्यन्ति तथा बाणा: किरीटिनः। येनयेन प्रसरते वाय्वग्नी सहितौ वने।॥ तेन तेन प्रदहतो भूरिगुल्मतृणदुमान्। यादृशौग्निः समुद्भूतस्तादृक् पार्थो न संशयः॥ यथा वायुर्नरव्याघ्र तथा कृष्णो न संशयः। नदतः पाञ्चजन्यस्य रसतो गाण्डिवस्य च॥ श्रुत्वा सर्वाणि सैन्यानि त्रासं यास्यन्ति भारत। कपिध्वजस्तोत्पततो रथस्यामित्रकर्षिणः॥ शब्दं सोढुं न शक्ष्यन्ति त्वामृते वीर पार्थिवाः। को हर्जुनं योधयितुं त्वदन्यः पार्थिवोऽर्हति॥ यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः। अमानुषेश्च संग्रामस्त्र्यम्बकेण महात्मना॥ तस्माच्चैव वरं प्राप्तो दुष्प्रापमकृतात्मभिः। कोऽन्यः शक्तो रणे जेतुं पूर्वं यो न जितस्त्वया॥ जितो येन रणे रामो भवता वीर्यशालिना। क्षत्रियान्तकरो घोरो देवदानवदर्पहा॥ ममृष्यमाणो भवता चानुशिष्टः। आशीविषं दृष्टिहरं सुघोरं शूरं शक्ष्याम्यस्त्रबलानिहन्तुम्॥ संजय उवाच तस्य लालप्यतः श्रुत्वा कुरुवृद्धः पितामहः। देशकालोचितं वाक्यमब्रवीत् प्रीतमानसः॥ समुद्र इव सिन्धूनां ज्योतिषामिव भास्करः। सत्यस्य च यथा सन्तो बीजानामिव चोर्वरा॥ पर्जन्य इव भूतानां प्रतिष्ठा सुहृदां भव। बान्धवास्त्वानुजीवन्तु सहस्राक्षमिवामराः॥ मानहा भव शत्रूणां मित्राणां नन्दिवर्धनः। कौरवाणां भव गतिर्यथा विष्णुर्दिवौकसाम्॥ स्वबाहुबलवीर्येण धार्तराष्ट्रजयैषिणा। कर्ण राजपुरं गत्वा काम्बोजा निर्जितास्त्वया॥ गिरिव्रजगताश्चापि नग्नजित्प्रमुखा नृपाः। अम्बष्ठाश्च विदेहाश्च गान्धाराश्च जितास्त्वया॥ हिमवदुर्गनिलयाः किराता रणकर्कशाः। दुर्योधनस्य वशगास्त्वया कर्ण पूरा कृताः॥ उत्कला मेकला: पौण्ड्राः कलिङ्गान्ध्राश्च संयुगे। निषादाश्च त्रिगर्ताश्च बाह्रीकाश्च जितास्त्वया॥ तत्र तत्र च संग्रामे दुर्योधनहितैषिणा। बहवश्च जिताः कर्ण त्वया वीरा महौजसा॥ यथा दुर्योधनस्तात सज्ञातिकुलवान्धवः। तथा त्वमपि सर्वेषां कौरवाणां गतिर्भव॥ शिवेनाभिवदामि त्वां गच्छ युध्यस्व शत्रुभिः। अनुशाधि कुरून् संख्ये धत्स्व दुर्योधने जयम्॥ भवान् पौत्रसमोऽस्माकं यथा दुर्योधनस्तथा। तवापि धर्मतः सर्वे यथा तस्य वयं तथा॥ यौनात् सम्बन्धकाल्लोके विशिष्टं संगतं सताम्। सद्भिः सह नरश्रेष्ठ प्रवदन्ति मनीषिणः॥ स सत्यसंगतो भूत्वा ममेदमिति निश्चितः। कुरूणां पालय बलं यथा दुर्योधनस्तथा॥ निशम्य वचनं तस्य चरणावभिवाद्य च। ययौ वैकर्तनः कर्णः समीपं सर्वधन्विनाम्॥ सोऽभिवीक्ष्य नरौघाणां स्थानमप्रतिमं महत्। व्यूढप्रहरणोरस्कं सैन्यं तत् समबृंहयत्॥ षिताः कुरवः सर्वे दुर्योधनपुरोगमाः। उपागतं महाबाहुं सर्वानीकपुरःसरम्॥ कर्णे दृष्ट्वा महात्मानं युद्धाय समुपस्थितम्। क्ष्वेडितास्फोटितरवैः सिंहनादरवैरपि। धनुःशब्दैश्च विविधैः कुरुः समपूजयन्॥ संजय उवाच रथस्थं पुरुषव्याघ्रं दृष्ट्वा कर्णमवस्थितम्। हृष्टो दुर्योधनो राजन्निदं वचनमब्रवीत्॥ सनाथमिव मन्येऽहं भवता पालितं बलम्। अत्र किं नु समर्थे यद्धितं तत् सम्प्रधार्यताम्॥ कर्ण उवाच ब्रूहि नः पुरुषव्याघ्र त्वं हि प्राज्ञतमो नृप। यथा चार्थपतिः कृत्यं पश्यते न तथेतरः॥ ते स्म सर्वे तव वचः श्रोतुकामा नरेश्वर। नान्याय्यं हि भवान् वाक्यं ब्रूयादिति मतिर्मम॥ दुर्योधन उवाच भीष्मः सेनाप्रणेताऽऽसीद् वयसा विक्रमेण च। श्रुतेन चोपसम्पन्नः सर्वैर्योधगणैस्तथा॥ तेनातियशसा कर्ण जता शत्रुगणान् मम। सुयुद्धेन दशाहानि पालिताः स्मो महात्मना॥ तस्मिन्नसुकरं कर्म कृतवत्यास्थिते दिवम्। कंन सेनाप्रणेतारं मन्यसे तदनन्तरम्॥ न बिना नायकं सेना मुहूर्तमपि तिष्ठति। आहवेष्वाहवश्रेष्ठ नेतृहीनेव नौ ले॥ यथा ह्यकर्णधारा नौ रथश्चासारथिर्यथा। द्रवेद् यथेष्टं तद्वत् स्याहते सेनापति बलम्॥ अदेशिको यथा सार्थः सर्वः कृच्छ्रे समृच्छति। अनायका तथा सेना सर्वान् दोषान् समर्छति॥ स भवान् वीक्ष्य सर्वेषु मामकेषु महात्मसु। पश्य सेनापतिं युक्तमनु शान्तनवादिह॥ यं हि सेनाप्रणेतारं भवान् वक्ष्यति संयुगे। तं वयं सहिताः सर्वे करिष्यामो न संशयः॥ कर्ण उवाच सर्व एव महात्मान इमे पुरुषसत्तमाः। सेनापतित्वमर्हन्ति नात्र कार्या विचारणा॥ कुलसंहननज्ञानैर्बलविक्रमबुद्धिभिः। युक्ताः श्रुतज्ञा धीमन्त आहवेष्वनिवर्तिनः॥ युगपन्न तु ते शक्याः कर्तुं सर्वे पुरःसराः। एक एव तु कर्तव्यो यस्मिन् वैशेषिका गुणाः॥ अन्योन्यस्पर्धिनां होषां यद्येकं यं करिष्यसि। शेषा विमनसो व्यक्तं न योत्स्यन्ति हितास्तव॥ अयं च सर्वयोधानामाचार्यः स्थविरो गुरुः। यक्तः सेनापतिः कर्तुं द्रोणः शस्त्रभृतां वरः॥ को हि तिष्ठति दुर्धर्षे द्रोणे शस्त्रभृतां वरे। सेनापतिः स्यादन्योऽस्माच्छुकाङ्गिरसदर्शनात्॥ न च सोऽप्यस्ति ते योधः सर्वराजसु भारत। द्रोणं यः समरे यान्तं नानुयास्यति संयुगे॥ एष सेनाप्रणेतृणामेष शस्त्रभृतामपि। एष बुद्धिमतां चैव श्रेष्ठो राजन् गुरुस्तव॥ एवं दुर्योधनाचार्यमाशु सेनापतिं कुरु। जिगीषन्तोऽसुरान् संख्ये कार्तिकेयमिवामराः॥ संजय उवाच कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा। सेनामध्यगतं द्रोणमिदं वचनमब्रवीत्॥ दुर्योधन उवाच वर्णश्रेष्ठ्यात् कुलोत्पत्त्या श्रुतेन वयसा धिया। वीर्याद् दाक्ष्यादधृष्यत्वादर्थज्ञानान्नयाज्जयात्॥ तपसा च कृतज्ञत्वाद् वृद्धः सर्वगुणैरपि। युक्तो भवत्समो गोप्ता राज्ञामन्यो न विद्यते॥ स भवान् पातु नः सर्वान् देवानिव शतक्रतुः। भवन्नेत्राः पराञ्जेतुमिच्छामो द्विजसत्तम॥ रुद्राणामिव कापाली वसूनामिव पावकः। कुबेर इव यक्षाणां मरुतामिव वासवः॥ वसिष्ठ इव विप्राणां तेजसामिव भास्करः। पितृणामिव धर्मेन्द्रो यादसामिव चाम्बुराट्। ६॥ नक्षत्राणामिव शशी दितिजानामिवोशनाः। श्रेष्ठः सेनाप्रणेतृणां स नः सेनापतिर्भव॥ अक्षौहिण्यो दशैका च वशगाः सन्तुतेऽनघ। ताभिः शत्रून् प्रतिव्यूह्य जहीन्द्रो दानवानिव॥ प्रयातु नो भवानग्रे देवानामिव पावकिः। अनुयास्यामहे त्वाजौ सौरभेया इवर्षभम्॥ उग्रधन्वामहेष्वासो दिव्यं विस्फारयन् धनुः। अग्रेभवं त्वां तु दृष्ट्वा नार्जुन: प्रहरिष्यति॥ ध्रुवं युधिष्ठिरं संख्ये सानुबन्धं सबान्धवम्। जेष्यामि पुरुषव्याघ्र भवान् सेनापतिर्यदि॥ संजय उवाच एवमुक्ते ततो द्रोर्ण जयेत्यूचुनराधिपाः। सिंहनादेन महता हर्षयन्तस्तवात्मजम्॥ सैनिकाच मुदा युक्ता वर्धयन्ति द्विजोत्तमम्। दुर्योधनं पुरस्कृत्य प्रार्थयन्तो महद् यशः। दुर्योधनं ततो राजन् द्रोणो वचनमब्रवीत्॥ द्रोण उवाच वेदं षडङ्ग वेदाहमर्थविद्यां च मानवीम्। त्रैय्यम्बकमथेष्वस्त्रं शस्त्राणि विविधानि चाशा ये चाप्युक्ता मयि गुणा भवद्भिर्जयकाक्षिभिः। चिकीर्षुस्तानहं सर्वान् योधयिष्यामि पाण्डवान्॥ पार्षतं तु रणे राजन् न हनिष्ये कथंचन। स हि सृष्टो वधार्थाय ममैव पुरुषर्षभः॥ योधयिष्यामि सैन्यानि नाशयन् सर्वसोमकान्। न च मां पाण्डवा युद्धे योधयिश्यन्ति हर्षिताः॥ संजय उवाच स एवमभ्यनुज्ञातश्चक्रे सनापतिं ततः। द्रोणं तव सुतो राजन् विधिदृष्टेन कर्मणा॥ अथाभिषिषिचुर्दोणं दुर्योधनमुखा नृपाः। सैनापत्ये यथा स्कन्दं पुरा शक्रमुखाः सुराः॥ ततो वादित्रघोषेण शंखनां च महास्वनैः। प्रादुरासीत् कृते द्रोणे हर्षः सेनापतौ तदा॥ ततः पुण्याहघोषेण स्वस्तिवादस्वनेन च। संस्तवैतिशब्दैश्च सूतमागधबन्दिनाम्॥ जयशब्दैजिएयाणां सुभगानर्तितैस्तथा। सत्कृत्य विधिना द्रोणं मेनिरे पाण्डवाञ्जितान्॥ सैनापत्यं तु सम्पाष्य भारद्वाजो महारथः। युयुत्सुयूँह्य सैन्यानि प्रायात् तव सुतैः सह॥ सैन्धवश्च कलिङ्गश्च विकर्णश्च तवात्मजः। दक्षिणं पार्श्वमास्थाय समतिष्ठन्त दंशिताः॥ प्रपक्षः शकुनिस्तेषां प्रवरैर्हयसादिभिः ययौ गान्धारकैः सार्धं विमलप्रासयोधिभिः॥ कृपश्च कृतवर्मा च चित्रसेनो विविंशतिः। दुःशासनमुखा यत्ताः सव्यं पक्षमपालयन्॥ तेषां प्रपक्षाः काम्बोजा: सुदक्षिणपुरःसराः। ययुरश्वैर्महावेगैः शकाश्च यवनैः सह॥ मद्रास्त्रिगर्ताः साम्बष्ठाः प्रतीच्योदीच्यमालवाः। शिवयः शूरसेनाश्च शूद्राश्च मलदैः सह॥ सौवीराः कितवाः प्राच्या दाक्षिणात्याश्च सर्वशः। तवात्मजं पुरस्कृत्य सूतपुत्रस्य पृष्ठतः॥ हर्षयन्तः स्वसैन्यानि ययुस्तव सुतैः सह। प्रवरः सर्वयोधानां बलेषु बलमादधत्॥ ययौ वैकर्तनः कर्णः प्रमुखे सर्वधन्विनाम्। तस्य दीप्तो महाकाय: स्वान्यनीकानि हर्षयन्॥ हस्तिकक्ष्यो महाकेतुर्बभौ सूर्यसमद्युतिः। न भीष्मव्यसनं कश्चिद् दृष्ट्वा कर्णममन्यत॥ विशोकाश्चाभवन् सर्वे राजानः कुरुभिः सह। हृष्टाश्च बहवो योधास्तत्राजल्पन्त वेगतः॥ न हि कर्णे रणे दृष्ट्वा युधि स्थास्यान्ति पाण्डवाः। कर्णो हि समरे शक्तो जेतुं देवान् सवासवान्॥ किमु पाण्डुसुतान् युद्धे हीनवीर्यपराक्रमान्। भीष्मेण तु रणे पार्थाः पालिता बाहुशालिना॥ तांस्तु कर्णः शरैस्तीक्ष्णैर्नाशयिष्यति संयुगे। एवं ब्रुवन्तस्तेऽन्योन्यं हृष्टरूपा विशाम्पते॥ राधेयं पूजयन्तश्च प्रशंसन्तश्च निर्ययुः। अस्माकं शकटव्यूहो द्रोणेन विहितोऽभवत्॥ परेषां क्रौञ्च एवासीद् व्यूहो राजन् महात्मनाम्। प्रीयमाणेन विहितो धर्मराजेन भारत॥ व्यूहप्रमुखतस्तेषां तस्थतुः पुरुषर्षभौ। वानरध्वजमुच्छ्रित्य विष्वक्सेनधनंजयौ॥ ककुदं सर्वसैन्यानां धाम सर्वधनुष्मताम्। आदित्यपथगः केतुः पार्थस्यामिततेजसः॥ दीपयामास तत् सैन्यं पाण्डवस्य महात्मनः। यथा प्रज्वलितः सूर्यो युगान्ते वै वसुंधराम्॥ दीप्यन् दृश्येत हि तथा केतुः सर्वत्र धीमतः। योधानामजुनः श्रेष्ठो गाण्डीवं धनुषां वरम्॥ वासुदेवश्च भूतानां चक्राणां च सुदर्शनम्। चत्वार्येतानि तेजांसि वहश्वेतहयो रथः॥ परेषामग्रतस्तस्थौ कालचक्रमिवोद्यतम्। एवं तौ सुमहात्मानौ बलसेनाग्रगावुभौ॥ तावकानां मुखे कर्णः परेषां च धनंजयः। ततो जयाभिसंरब्धौ परम्परवधैषिणौ।॥ अवेक्षेतां तदान्योन्यं समरे कर्णपाण्डवौ। ततः प्रयाते सहसा भारद्वाजे महारथे॥ आर्तनादेन घोरेण वसुधा समकम्पत। ततस्तुमुलमाकाशमावृणोत् सदिवाकरम्॥ वातोद्भूतं रजस्तीवं कौशेयनिकरोपमम्। ववर्ष द्यौरनभ्रापि मांसास्थिरुधिराण्युत॥ गृध्राः श्येना बकाः कङ्का वायसाच सहस्रशः। उपर्युपरि सेनां ते तदा पर्यपतन् नृप॥ गोमायवश्च प्राक्रोशन् भयदान् दारुणान् रवान्। अकार्षुरपसव्यं च बहुशः पृतनां तव॥ चिखादिषन्तो मांसानि पिपासन्तश्च शोणितम्। अवतद् दीप्यमाना च सनिर्घाता सकम्पना॥ उल्का ज्वलन्ती संग्रामे पुच्छेनावृत्य सर्वशः। परिवेषो महांश्चापि सविद्युत्स्तनयित्नुमान्॥ भास्करस्याभवद् राजन् प्रयाते वाहिनीपतौ। एते चान्ये च बहवः प्रादुरासन् सुदारुणाः॥ उत्पाता युधि वीराणां जीवितक्षयकारिणः। ततः प्रववृते युद्धं परस्परवधैषिणाम्॥ कुरुपाण्डवसैन्यानां शब्देनापूरूज्जगत्। तेत्वनयोन्यं सुसंरन्धाः पाण्डवाः कौरवैः सह॥ अभ्यघ्नन् निशितैः शस्त्रैर्जयगृद्धाः प्रहारिणः। स पाण्डवानां महतीं महेष्वासो महाद्युतिः॥ वेगेनाभ्यद्रवत् सेनां किरञ्छरशतैः शितैः। द्रोणमभ्युद्यतं दृष्ट्वा पाण्डवाः सह सृञ्जयैः॥४४॥ प्रत्यगृणंस्तदा राजञ्छरवर्षैः पृथक् पृथक्। विक्षोभ्यमाणा द्रोणेन भिद्यमाना महाचमूः॥ व्यशीर्यत सपाञ्चाला वातेनेव बलाहकाः। बहूनीह विकुर्वाणो दिव्यान्यस्त्राणि संयुगे॥ अपीडयत् क्षणेनैव द्रोणः पाण्डवसृञ्जयान्। ते वध्यमाना द्रोणेन वासवेनेव दानवाः॥ पञ्चाला: समकम्पन्त धृष्टद्युम्नपुरोगमाः। ततो दिव्यास्त्रविच्छूरो याज्ञसेनिर्महारथः॥ अभिनच्छरवर्षेण द्रोणानीकमनेकधा। द्रोणस्य शरवर्षाणि शरवर्षेण पार्षतः॥ संनिवार्य ततः सर्वान् कुरूनप्यवधीद् बली। संयम्य तु ततो द्रोणः समवस्थाप्य चाहवे॥ स्वमनीकं महेष्वासः पार्षतं समुपाद्रवत्। स बाणवर्ष सुमहदसृजत् पार्षतं प्रति॥ मघवान् समभिक्रुद्धः सहसा दानवानिव। ते कम्प्यमाना द्रोणेन बाणैः पाण्डवसृञ्जयाः॥ पुनः पुनरभज्यन्त सिंहेनेवेतरे मृगाः। तथा पर्यचरद् द्रोणः पाण्डवानां बले बली। अलातचक्रवद् राजस्तदद्भुतमिवाभवत्॥ खचरनगरकल्पं कल्पितं शास्त्रदृष्ट्या चलदनिलपताकं ह्लादनं वल्पिताश्वम्। स्फटिकविमलकेतुं त्रासन शात्रवाणां रथवरमधिरूढः संजहारारिसेनाम्॥ संजय उवाच तथा द्रोणमभिनन्तं साश्वसूतरथद्विपान्। व्यथिताः पाण्डवा दृष्ट्वा न चैनं पर्यवारयन्॥ ततो युधिष्ठिरो राजा धृष्टद्युम्नधनंजयौ। अब्रवीत् सर्वतो यत्तैः कुम्भयोनिर्निवार्यताम्॥ तत्रैनमर्जुनश्चैव पार्षतश्च सहानुगः। प्रत्यगृह्णात् ततः सर्वे समापेतुर्महारथाः॥ केकया भीमसेनश्च सौभद्रोऽथ घटोत्कचः। युधिष्ठिरो यमौ मत्स्या द्रुपदस्यात्मजास्तथा॥ द्रौपदेयाश्च संहृष्टा धृष्टकेतुः ससात्याकिः। चेकितानश्च संक्रुद्धो युयुत्सुश्च महारथः॥ ये चान्ये पार्थिवा राजन् पाण्डवस्यानुयायिनः। कुलवीर्यानुरूपाणि चक्रुः कर्माण्यनेकशः॥ संरक्ष्यमाणां तां दृष्ट्वा पाण्डवैर्वाहिनीं रणे। व्यावृत्य चक्षुषी कोपाद् भारद्वाजोऽन्ववैक्षत॥ स तीव्र कोपमास्थाय रथे समरदुर्जयः। व्यधमत् पाण्डवानीकमभ्राणीव सदागतिः॥ रथानश्वान् नरान् नागानभिधावन्नितस्ततः। चचारोन्मत्तवद् द्रोणोवृद्धोऽपि तरुणो यथा॥ तस्य शोणितदिग्धाङ्गा शोणास्ते वातरंहसः। आजानेया हया राजन्नविश्रान्ता ध्रुवं ययुः॥ तमन्तकमिव क्रुद्धमापतन्तं यतव्रतम्। दृष्टा सम्प्राद्रवन् योधाः पाण्डवस्य ततस्ततः॥ तेषां प्राद्रवतां भीमः पुनरावर्ततामपि। पश्यतां तिष्ठतां चासीच्छब्दः परमदारुणः॥ शूराणं हर्षजननो भीरूणां भयवर्धनः। द्यावापृथिव्योर्विवरं पूरयामास सर्वतः॥ ततः पुनरपि द्रोणो नाम विश्रावयन् युधि। अकरोद् रौद्रमात्मानं किरञ्छरशतैः परान्॥ स तथा तेष्वनीकेषु पाण्डुपुत्रस्य मारिष। कालवद् व्यचरद् द्रोणो युवेव स्थविरो बली॥ उत्कृत्य च शिरांस्युग्रान् बाहूनपि सुभूषणान्। कृत्वा शून्यान् रथोपस्थानुदक्रोशन्महारथान्॥ तस्य हर्षप्रणादेन बाणवेगेन वा विभो। प्राकम्पन्त रणे योधा गाव: शीतार्दिता इव॥ द्रोणस्य रथघोषेण मौर्वीनिप्पेषणेन च। धनुः शब्देन चाकाशे शब्दः समभवन्महान्॥ अथास्य धनुषो बाणा निश्चरन्तः सहस्रशः। व्याप्य सर्वा दिश: पेतुर्नागाश्वरथपत्तिषु ॥ तं कार्मुकमहावेगमस्त्रज्वलितपावकम्। द्रोणमासादयांचक्रुः पञ्चालाः पाण्डवैः सह॥ तान् सकुञ्जरपत्त्यश्वान् प्राहिणोद् यमसादनम्। चक्रेऽचिरेण च द्रोणो महीं शोणित कर्दमाम्॥ तन्वता परमास्त्रणि शरान् सततमस्यता। द्रोणेन विहितं दिक्षु शरजालमदृश्यत॥ पदातिषु रथाश्वेषु वारणेषु च सर्वशः। तस्य विद्युदिवाभ्रेषु चरन् केतुरदृश्यत॥ स केकयानां प्रवरांश्च पञ्च पञ्चालराजं च शरैः प्रमथ्य। युधिष्ठिरानीकमदीनसत्त्वो द्रोणोऽभ्ययात् कार्मुकबाणपाणिः॥ तं भीमसेनश्च धनंजयश्च शिनेश्च नप्ता द्रुपदात्मजश्चा शैव्यात्मजः काशिपतिः शिबिश्च दृष्ट्वा नदन्तो व्यकिरछरौघैः॥ तेषामथ द्रोणधनुर्विमुक्ताः पतत्रिणः काञ्चनचित्रपुङ्खाः। भित्त्वा शरीराणि गजाश्वयूनां जग्मुर्महीं शोणितदिग्धवाजाः॥ सा योधसंधैश्च रथैश्च भूमिः शरैर्विभिन्नैर्गजवाजिभिश्च। प्रच्छाद्यमाना पतितैर्बभूव समावृता द्यौरिव कालमेघैः॥ शैनेयभीमार्जुनवाहिनीशं सौभद्रपाञ्चालसकाशिराजम्। अन्यांश्च वीरान् समरे ममर्द द्रोणः सुतानां तव भूतिकामः॥ एतानि चान्यानि च कौरवेन्द्र कर्माणि कृत्वा समरे महात्मा। प्रताप्य लोकानिव कालसूर्यो द्रोणो गतः स्वर्गमितो हि राजन्॥ एवं रुक्मरथः शूरो हत्वा शतसहस्रशः। पाण्डवानां रणे योधान् पार्षतेन निपातितः॥ अक्षौहिणीमभ्यधिकां शूराणामनिवर्तिनाम्। निहत्य पश्चाद् धृतिमानगच्छत् परमां गतिम्॥ पाण्डवैः सह पञ्चालैरशिवैः क्रूरकर्मभिः। हतो रुक्मरथो राजन् कत्वा कर्म सुदुष्करम्॥ ततो निनादो भूतानामाकाशे समजायत। सैन्यानां च ततो राजन्नाचार्ये निहते युधि॥ द्यां धरां खं दिशो वापि प्रदिशश्चानुनादयन्। अहोधिगिति भूतानां शब्दः समभवद् भृशम्॥ देवताः पितरश्चैव पूर्वे ये चास्य बान्धवाः। ददृशुनिहतं तत्र भारद्वाजं महारथम्॥ पाण्डवास्तु जयं लब्ध्वा सिंहनादान् प्रचक्रिरे। सिंहनादेन महता समकम्पत मेदिनी॥ धृतराष्ट्र उवाच किं कुर्वाणं रणे द्रोणं जनुः पाण्डवसुंजयाः। तथा निपुणमस्त्रेषु सर्वशस्त्रभृतामपि।।।। रथभङ्ग बभूवास्य धनुर्वाशीर्यतास्यतः। प्रमत्तो वाभवद् द्रोणस्ततो मृत्युमुपेयिवान्॥ कथं नु पार्षतस्तात शत्रुभिर्दुष्प्रधर्षणम्। किरन्तमिषुसंघातान् रुक्मपुङ्खाननेकशः॥ क्षिप्रहस्तं द्विजश्रेष्ठं कृतिनं चित्रयोधिनम्। दूरेषुपातिनं दान्तमस्त्रयुद्धेषु पारगम्॥ पाञ्चालपुत्रो न्यवधीद दिव्यास्त्रधरमच्युतम्। कुर्वाणं दारुणं कर्म रणे यत्तं महारथम्॥ व्यक्तं हि दैवं वलवत् पौरुषादिति मे मतिः। यद् द्रोणो निहतः शूरू पार्षतेन महात्मना॥ अस्त्रं चतुर्विधं वीरे यस्मिन्नासीत् प्रतिष्ठितम्। तमिष्वस्त्रधराचार्ये द्रोणं शंससि मे हतम्॥ श्रुत्वा हतं रुक्मरथं वैयाघ्रपरिवारितम्। जातरूपशिरस्त्राणं नाद्य शोकमपानुदे॥ न नूनं परदुःखेन म्रियते कोऽपि संजय। यत्र द्रोणमहं श्रुत्वा हतं जीवामि मन्दधीः॥ दैवमेव परं मन्ये नन्वनर्थं हि पौरुषम्। अश्मसारमयं नूनं हृदयं सुदृढं मम॥ यच्छुत्वा निहतं द्रोणं शतधा न विदीर्यते। ब्राह्ये दैवे तथेष्वस्त्रे यमुपासन् गुणार्थिनः॥ ब्राह्मणा राजपुत्राश्च स कथं मृत्युना हृतः। शोषणं सागरस्येव मेरोरिव विसर्पणम्॥ पतनं भास्करस्येव न मृष्ये द्रोणपातनम्। दुष्टानां प्रतिषेद्धाऽऽसीद् धार्मिकाणां च रक्षिता॥ योऽहासीत् कृपणस्यार्थे प्राणानपि परंतपः। मन्दानां मम पुत्राणां जयाशा यस्य विक्रमे॥ बृहस्पत्युशनस्तुल्यो बुद्ध्या स निहतः कथम्। तेच शोणा बृहन्तोऽश्वाश्छन्ना जालैहिरण्मयैः॥ रथे बातजवा युक्ताः सर्वशास्त्रातिगा रणे। बलिनो हैषिणो दान्ताः सैन्धवाः साधुवाहिनः॥ दृढाः संग्राममध्येषु कच्चिदासन्नविह्वलाः। करिणां बृंहतां युद्धे शङ्खदुन्दुभिनि:स्वनैः॥ ज्याक्षेपशरवर्षाणां शस्त्राणां च सहिष्णवः। आशंसन्तः पराञ्जेतुं जितश्वासा जितव्यथा॥ हयाः पराजिताः शीघ्रा भारद्वाजरथोद्वहाः। ते स्म रुक्मरथे युक्ता नरवीरसमास्थिताः॥ कथं नाभ्यतरंस्तात पाण्डवानामनीकिनीम्। जातरूपपरिष्कारमास्थाय रथमुत्तमम्॥ भारद्वाजः किमकरोद् युधि सत्यपराक्रमः। विद्यां यस्योपजीवन्ति सर्वलोकधनुर्धराः॥ स सत्यसंघो बलवान् द्रोणः किमकरोद् युधि। दिवि शक्रमिव श्रेष्ठं महामात्रं धनुर्भृताम्॥ के नु तं रौद्रकर्माणं युद्धे प्रत्युद्ययू रथाः। ननु रुक्मरथं दृष्ट्वा प्राद्रवन्ति स्म पाण्डवाः॥ दिव्यमस्त्रं विकुर्वाणं रणे तस्मिन् महाबलम्। उताहो सर्वसैन्येन धर्मराज सहानुजः॥ पाञ्चाल्यप्रग्रहो द्रोणं सर्वत: समावारयत्। नूनमावास्यत् पार्थो रथिनोऽन्यानजिह्मगैः॥ ततो द्रोणं समारोहत् पार्षतः पापकर्मकृत्। न ह्यहं परिपश्यामि वधे कंचन शुष्मिण:॥ । धृष्टद्युम्नाटते रौद्रात् पाल्यमानात् किरीटिना। तैर्वृतः सर्वतः शूरः पाञ्चाल्यापसदस्ततः॥ केकयैश्चेदिकारूषैर्मत्स्यैरन्यैश्च भूमिपैः। व्याकुलीकृतमाचार्यं पिपीलैरुरगं यथा॥ कर्मण्यसुकरे सक्तं जघानेति मतिर्मम। योऽधीत्य चतुरो वेदान् साङ्गानाख्यानपञ्चमान्॥ ब्राह्मणानां प्रतिष्ठाऽऽसीत् स्रोतसामिव सागरः। क्षत्रं च ब्रह्म चैवेह योऽभ्यतिष्ठत् परंतपः॥ स कथं ब्राह्मणो वृद्धः शस्त्रेण वधमाप्तवान्। अमर्षिणा मर्षितवान् क्लिश्यमानान् सदा मया॥ अनर्हमाणान् कौन्तेयान् कर्मणस्तस्य तत् फलम्। यस्य कर्मानुजीवन्ति लोके सर्वधनुर्भृतः॥ स सत्यसंधः सुकृती श्रीकामैनिहतः कथम्। दिवि शक्र इव श्रेष्ठो महासत्त्वो महाबलः॥ स कथं निहतः पाथैः क्षुद्रमत्स्यैर्य था तिमिः। क्षिप्रहस्तश्च बलवान् दृढधन्वाऽरिमर्दनः॥ न यस्य विजयाकाक्षी विषयं प्राप्य जीवति। यं द्वौ न जहतः शब्दौ जीवमानं कदाचन॥ ब्राह्मश्च वेदकामानां ज्याघोषश्च धनुष्मताम्। अदीनं पुरुषव्याघ्र द्वीमन्तमपराजितम्॥ नाहं मृष्ये हतं द्रोणं सिंहद्विरदविक्रमम्। कथं संजय दुर्धर्षमनाधृष्ययशोबलम्॥ पश्यतां पुरुषेन्द्राणां समरे पार्षतोऽवधीत्। के पुरुतादयुध्यन्त रक्षन्तो द्रोणमन्तिकात्॥ के नु पश्चादवर्तन्त गच्छन्तो दुर्गमां गतिम्। केऽरक्षन् दक्षिणं चक्रं सव्यं के च महात्मनः॥ पुरस्तात् के च वीरस्य युध्यमानस्य संयुगे। केच तस्मिंस्तनूंस्त्यक्त्वा प्रतीपं मृत्युमाव्रजन्॥ द्रोणस्य समरे वीराः केऽकुर्वन्त परां धृतिम्। कञ्चिन्नैनं भयान्मन्दाः क्षत्रिया व्यजहन् रणे॥ रक्षितारस्ततः शूनये कच्चित् तैर्न हतः परैः। न स पृष्ठमरेस्त्रासाद् रणे शौर्यात् प्रदर्शयेत्॥ परामप्यापदं प्राप्य स कथं निहतः परैः। एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु संजय॥ पराक्रमेद यथाशक्त्या तच्च तस्मिन् प्रतिष्ठितम्। मुह्यते मे मनस्तात कथा तावन्निवार्यताम्। भूयस्तु लब्धसंज्ञस्त्वां परिपृच्छामि संजय॥ धृतराष्ट्र उवाच शृणु दिव्यानि कर्माणि वासुदेवस्य संजया कृतवान् यानि गोविन्दो तथा नान्यः पुमान् क्वचित्॥१ संवर्धता गोपकुले बालेनैव महात्मना। विख्यापितं बलं बाहोस्त्रिषु लोकेषु संजय॥ उच्चैः श्रवस्तुल्यबलं वायुवेगसमं जवे। जघान हयराजं तं यमुनावनवासिनम्॥ दानवं घोरकर्माणं गवां मृत्युमिवोत्थितम्। वृषरूपधरं बाल्ये भुजाभ्यां निजधान ह॥ प्रलम्बं नरकं जम्भं पीठं चापि महासुरम्। मुरं चान्तकसंकाशमवधीत् पुष्करेक्षणः॥ तथा कंसो महातेजा जरासंधेन पालितः। विक्रमेणैव कृष्णेन सगणः पातितो रणे॥ सुनामा रणविक्रान्तः समग्राक्षोहिणीपतिः। भोजराजस्य मध्यस्थो भ्राता कंसस्य वीर्यवान्॥ बलदेवद्वितीयेन कृष्णेनामित्रघातिना। तरस्वी समरे दग्धः ससैन्यः शूरसेनराट्॥ दुर्वासा नाम विप्रर्षिस्तथा परमकोपनः। आराधितः सदारेण स चास्मै प्रददौ वरान्॥ तथा गान्धारराजस्य सुतां वीरः स्वयंवरे। निर्जित्य पृथिवीपालानावहत् पुष्करेक्षणः॥ अमृष्यमाणा राजानो यस्य जात्या हया इव। रथे वैवाहिके युक्ताः प्रतोदेन कृतव्रणाः॥ जरासंधं महाबाहुमुपायेन जनार्दनः। परेण घातयामास समग्राक्षौहिणीपतिम्॥ चेदिराजं च विक्रान्तं राजसेनापति बली। अर्पा विवदमानं च जघान पशुवत् तदा॥ सौभं दैत्यपुरं खस्थं शाल्वगुप्तं दुरासदम्। समुद्रकुक्षौ विक्रम्य पातयामास माधवः॥ अङ्गान् वङ्गान् कलिङ्गांश्च मागधान् काशिकोसलान्। वात्स्यगार्यकरूषांश्च पौण्ड्रांश्चाप्यजयद् रणे॥ आवन्त्यान् दाक्षिणात्यांश्च पर्वतीयान् दशेरकान्। काश्मीरकानौरसिकान् पिशाचांश्च समुद्गलान्॥ काम्बोजान् वाटधानांश्च चोलान् पाण्ड्यांश्च संजय। त्रिगर्तान् मालवांश्चैव दरदांश्च सुदुर्जयान्॥ नानादिग्भ्यश्च सम्प्राप्तान् खशांश्चैव शकांस्तथा। जितवान् पुण्डरीकाक्षो यवनं च सहानुगम्॥ प्रविश्य मकारावासं यादोगणनिषेवितम्। जिगाय वरुणं संख्ये सलिलान्तर्गतं पुरा॥ युधि पञ्चजनं हत्वा दैत्यं पातालवासिनम् पाञ्चजन्यं हृषीकेशो दिव्यं शङ्खमवाप्तवान्॥ खाण्डवे पार्थसहितस्तोषयित्वा हुताशनम्। आग्नेयमस्त्रं दुर्धर्षं चक्रं लेभे महाबलः॥ वैनतेयं समारुह्य त्रासयित्वाऽमरावतीम्। महेन्द्रभवनाद् वीरः पारिजातमुपानयत्॥ अच्च मर्षितवाशक्रो जानंस्तस्य पराक्रमम्। राज्ञां चाप्यजितं कञ्चित् कृष्णेनेह न शुश्रुम॥ यच्च तन्महदाश्चर्ये सभायां मम संजय। कृतवान् पुण्डरीकाक्षः कस्तदन्य इहार्हति॥ यच्च भक्त्या प्रसन्नोऽहमद्राक्षं कृष्णमीश्वरम्। तन्मे सुविदितं सर्वे प्रत्यक्षमिव चागमम्॥ नान्तो विक्रमयुक्तस्य बुद्ध्या युक्तस्य वा पुनः। कर्मणां शक्यते गन्तुं हृषीकेशस्य संजय॥ तथा गदश्च साम्बश्च प्रद्युम्नोऽथ विदूरथः। अगावहोऽनिरुद्धश्च चारुदेष्णः ससारणः॥ उल्मुको निशठश्चैव झिल्ली बभ्रुश्च वीर्यवान्। पृथुश्च विपृथुश्चैद शमीकोऽथारिमेजय॥ एतेऽन्ये बलवन्तश्च वृष्णिवीराः प्रहारिणः। कथंचित् पाण्डवानीकं श्रयेयुः समरे स्थिताः॥ आहूता वृष्णिवीरेण केशवेन महात्मना। ततः संशयितं सर्वे भवेदिति मतिर्मम॥ नागायुतबलो वीरः कैलासशिखरोपमः। वनवाली हली रामस्तत्र यत्र जनार्दनः॥ यमाहुः सर्वपितरं वासुदेवं द्विजातयः। अपि वा ह्येष पाण्डूनां योत्स्यतेऽर्थाय संजय॥ स यदा तात संनोत् पाण्डवार्थाय संजय। न तदा प्रतिसंयोद्धा भविता तत्र कश्चन॥ यदि स्म कुरवः सर्वे जयेयुर्नाम पाण्डवान्। वार्ष्णेयोऽर्थाय तेषां वै गृह्णीयाच्छस्त्रमुत्तमम्॥ ततः सर्वान् नरव्याघ्रो हत्वा नरपतीन् रणे। कौरवांश्च महाबाहुः कुन्त्यैदद्यात् स मेदिनीम्॥ यस्य यन्ता हृषीकेशो योद्धा यस्य धनंजयः। रथस्य तस्य का संख्ये प्रत्यनीको भवेद् रथः॥ न केनचिदुपायेन कुरूणां दृश्यते जयः। तस्मान्मे सर्वमाचक्ष्व यथा युद्धमवर्तत॥ अर्जुनः केशवस्यात्माकृष्णोऽप्यात्मा किरीटिनः। अर्जुने विजयो नित्यं कृष्णे कीर्तिश्च शाश्वती॥ सर्वेष्वपि च लोकेषु बीभत्सुरपराजितः। प्राधान्येनैव भूयिष्ठममेयाः केशवे गुणा:॥ मोहाद् दुर्योधनः कृष्णं यो न वेत्तीह केशवम्। मोहितो दैवयोगेन मृत्युपाशपुरस्कृतः॥ न वेद कृष्णं दाशार्हमर्जुनं चैव पाण्डवम्। पूर्वदेवी महात्मानौ नरनारायणावुभौ॥ नेच्छतः। एकात्मानौ द्विधाभूतौ दृश्येते मानवैर्भुवि। मनसाऽपि हि दुर्धर्षी सेनामेतां यशस्विनौ॥ नाशयेतामिहेच्छन्तौ मानुषत्वाच्च युगस्येव विपर्यासो लोकानामिव मोहनम्॥ भीष्मस्य च वधस्तात द्रोणस्य च महात्मनः। न होव ब्रह्मचर्येण न वेदाध्ययनेन च॥ न क्रियाभिर्न चास्त्रेण मृत्योः कश्चिनिवार्यते। लोकसम्भावितौ वीरौ कृतास्त्रौ युद्धदुर्मदौ॥ भीष्मद्रोणौ हतौ श्रुत्वा किं नु जीवामि संजय। यां तां श्रियमसूयामः पुरा दृष्ट्वा युधिष्ठिरे॥ अद्य तामनुजानीमो भीष्मद्रोणवधेन ह। मत्कृते चाप्यनुप्राप्तः कुरूणामेष संक्षयः॥ पक्वानां हि वधे सूत वज्रायन्ते तृणान्युत। अनन्तमिदमैश्वर्यं लोके प्राप्तो युधिष्ठिरः॥ यस्य कोपान्महात्मानौ भीष्मद्रोणौ निपातितौ। प्राप्तः प्रकृतितो धर्मो न धर्मो मामकान् प्रति॥ क्रूरः सर्वविनाशाय कालोऽसौ नातिवर्तते। अन्यथा चिन्तिता ह्या नरैस्तात मनस्विभिः॥ अन्यथैव प्रपद्यन्ते दैवादिति मतिर्मम। तस्मादपरिहार्येऽर्थे सम्प्राप्ते कृच्छ्र उत्तमे। अपारणीये दुश्चिन्त्ये यथाभूतं प्रचक्ष्व मे॥ संजय उवाच हन्त ते कथयिष्यामि सर्वं प्रत्यक्षदर्शिवान्। यथा स न्यपतद् द्रोणः सूदितः पाण्डुसृञ्जयै :॥ सेनापतित्वं सम्प्राप्य भारद्वाजो महारथः। मध्ये सर्वस्य सैन्यस्य पुत्रं ते वाक्यमब्रवीत्॥ यत् कौरवाणामृषभादापगेयादनन्तरम्। सैनापत्येन यद् राजन् मामद्य कृतवानसि॥ सदृशं कर्मणस्तस्य फलं प्राप्नुहि भारत। करोमि कामं कं तेऽद्य प्रवृणीष्व यमिच्छसि॥ ततो दुर्योधनो राजा कर्णदुःशासनादिभिः। सम्मत्र्योवाच दुर्धर्षमाचार्य जयतां चार्यं जयतां वरम्॥ ददासि चेद् वरं मह्यं जीवग्राहं युधिष्ठिरम्। गृहीत्वा रथिनां श्रेष्ठं मत्समीपमिहानय॥ ततः कुरूणामाचार्यः श्रुत्वा पुत्रस्य ते वचः। सेनां प्रहर्षयन् सर्वामिदं वचनमब्रवीत्॥ धन्यः कुन्तीसुतो राजन यस्य ग्रहणमिच्छसि। न वधार्थं सुदुर्धर्षं वरमद्य प्रयाचसे॥ किमर्थे च नरव्याघ्र न वधं तस्य काक्षसे। नाशंससि क्रियामेतां मत्तो दुर्योधन ध्रुवम्॥ आहोस्विद् धर्मराजस्य द्वेष्टा तस्य न विद्यते। यदीच्छसि त्वं जीवन्तं कुलं रक्षसि चात्मनः॥ अथवा भरतश्रेष्ठ निर्जित्य युधि पाण्डवान्। राज्यं सम्प्रति दत्त्वा च सौभ्रात्रं कर्तुमिच्छसि॥ धन्यः कुन्तीसुतो राजा सुजातं चास्य धीमतः। अज्ञातशत्रुता सत्या तस्य यत् स्निह्यते भवान्॥ द्रोणेन चैवमुक्तस्य तव पुत्रस्य भारत। सहसा निःसृतो भावो योऽस्य नित्यं हदि स्थितः।।१३ नाकारो गृहितुं शक्यो बृहस्पतिसमैरपि। तस्मात्तव सुतो राजन् प्रहृष्टो वाक्यमव्रवीत्॥ वधे कुन्तिसुतस्याजौ नाचार्य विजयो मम। हते युधिष्ठिरे पार्था हन्युः सर्वान् हि नो ध्रुवम्॥ न च शक्या रणे सर्वे निहन्तुममरैरपि। य एव तेषां शेषः स्यात् स एवास्मान् न शेषयेत्॥१६ सत्यप्रतिज्ञे त्वानीते पुन तेन निर्जिते। पुनर्यास्यन्त्यख्याय पाण्डवास्तमनुव्रताः॥ सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति। अतो न वधमिच्छामि धर्मराजस्य कर्हिचित्॥ तस्य जिह्ममभिप्रायं ज्ञात्वा द्रोणोऽथतत्त्ववित्। तं वरं सान्तरं तस्मै ददौ संचिन्त्य बुद्धिमान्॥ द्रोण उवाच न चेद् युधिष्ठिरं वीरः पालयत्यर्जुनो युधि। मन्यस्व पाण्डवश्रेष्ठमानीतं वशमात्मनः॥ न हि शक्यो रणे पार्थः सैन्ट्रैर्देवासुरैरपि। प्रत्युद्यातुमतस्तात नैतदामर्षयाम्यहम्॥ असंशयं स मे शिष्यो मत्पूर्वश्चास्त्रकर्मणि। तरुणः सुकृतैर्युक्त एकायनगतश्च ह॥ अस्त्राणीन्द्राच्च रुद्राच्च भूयः स समवाप्तवान्। अमर्षितश्च ते राजंस्ततो नामर्षयाम्यहम्॥ स चापक्रम्यतां युद्धाद् येनोपायेन शक्यते। अपनीते ततः पार्थे धर्मराजो जितस्त्वया॥ ग्रहणे हि जयस्तस्य न वधे पुरुषर्षभ। एतेन चाप्युपायेन ग्रहणं समुपैष्यसि॥ अहं गृहीत्वा राजानं सत्यधर्मपरायणम्। आनयिष्यामि ते राजन् वशमद्य न संशयः॥ यदि स्थास्यति संग्रामे मुहूर्तमपि मेऽग्रतः। अपनीते नरव्याघ्र कुन्तीपुत्रे धनंजये॥ तु न हि शक्यो युधिष्ठिरः। ग्रहीतुं समरे राजन् सेन्ट्रैरपि सुरासुरैः॥ फाल्गुनस्य समीपे संजय उवाच सान्तरं तु प्रतिज्ञाते राज्ञो द्रोणेन निग्रहे। गृहीतं तममन्यन्त तव पुत्राः सुबालिशाः॥ पाण्डवेयेषु साक्षेपं द्रोणं जानाति ते सुतः। तत: प्रतिज्ञास्थर्यार्थं स मन्त्रो बहुलीकृतः॥ ततो दुर्योधनेनापि ग्रहणं पाण्डवस्य तत्। सैन्यस्थानेषु सर्वेषु सुघोषितमरिंदम॥ संजय उवाच सान्तरे तु प्रतिज्ञाते राज्ञो द्रोणेन निग्रहे। ततस्ते सैनिकाः श्रुत्वा तं युधिष्ठिरनिग्रहम्॥ सिंहनादरवांश्चक्रुर्बाहुशब्दांश्च कृत्स्नशः। तच्च सर्वं यथान्यायं धर्मराजेन भारत॥ आप्तैराशु परिज्ञातं भारद्वाजचिकीर्षितम्। ततः सर्वान् समानाय्य भ्रातृनन्यांश्च सर्वशः॥ अब्रवीद् धर्मराजस्तु धनंजयमिदं वचः। श्रुतं ते पुरुषव्याघ्र द्रोणस्याद्य चिकीर्षितम्॥ यथा तन्न भवेत् सत्यं तथा नीतिर्विधीयताम् सान्तरं हि प्रतिज्ञातं द्रोणेनामित्रकर्षिणा॥ तच्चान्तरं महेष्वास त्वयि तेन समाहितम्। स त्वमद्य महाबाहो युध्यस्व मदनन्तरम्॥ अर्जुन उवाच यथा दुर्योधनः कामं नेमं द्रोणादवाप्नुयात्। यथा मे न वधः कार्य आचार्यस्य कदाचन॥ तथा तव परित्यागो न मे राजश्चिकीर्षितः। अप्येवं पाण्डव प्राणानुत्सृजेयमहं युधि॥ प्रतीपो नाहमाचार्ये भवेयं वै कथंचन। तवां निगृह्याहवे राज्यं धार्तराष्ट्रोऽयमिच्छति॥ न स तं जीवलोकेऽस्मिन् कामं प्राप्येत् कथंचन। प्रपतेत् द्यौः सनक्षत्रा पृथिवी शकली भवेत्॥ न त्वां द्रोणो निगृह्णीया ज्जीवमाने मयि ध्रुवम्। यदि तस्यं रणे साह्यं कुरुते वज्रभृत् स्वयम्॥ विष्णुर्वासहितो देवैर्न त्वां प्राप्स्यत्यसौ मृधे। मयि जीवति राजेन्द्र न भयं कर्तुमर्हसि॥ द्रोणादस्त्रभृतां श्रेष्ठात् सर्वशस्त्रभृतामपि। अन्यच्च ब्रूयां राजेन्द्र प्रतिज्ञां मम निश्चलाम्॥ न स्मराम्यनृतं तावन्न स्मरामि पराजयम्। न स्मरामि प्रतिश्रुत्य किंचिदप्यनृतं कृतम्॥ संजय उवाच ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह। प्रावाद्यन्त महाराज पाण्डवानां निवेशने॥ सिंहनादश्च संजज्ञे पाण्डवानां महात्मनाम्। धनुातलशब्दश्च गगनस्पृक् सुभैरवः॥ श्रुत्वा शङ्खस्य निर्घोषं पाण्डवस्य महौजसः। त्वदीयेष्वप्यनीकेषु वादित्राण्यभिजजिरे॥ ततो व्यूढान्यनीकानि तव तेषां च भारत। शनैरुपेयुरुयोन्यं योध्यमानानि संयुगे॥ तत: प्रववृते युद्धं तुमुलं लोमहर्षणम्। पाण्डवानां कुरूणां च द्रोणपाञ्चाल्ययोरपि॥ यत्नमानाः प्रयत्नेन द्रोणानीकविशातने। न शेकुः सृञ्जया युद्धे तद्धि द्रोणेन पालितम्॥ तथैव तव पुत्रस्य रथोदाराः प्रहारिणः। न शेकुः पाण्डवीं सेनां पाल्यमानां किरीटिना॥ आस्तां ते स्तिमिते सेने रक्ष्यमाणे परस्परम्। सम्प्रसुप्ते यथा नक्तं वनराज्यौ सुपुष्यिते॥ ततो रुक्मरथो राजन्नर्केणेव विराजता। वरूथिना विनिष्पत्य व्यचरत् पृतनामुखे॥ तमुद्यतं रथेनैकमाशुकारिणमाहवे। अनेकमिव संत्रासान्मेनिरे पाण्डुसृञ्जयाः॥ तेन मुक्ता: शरा घोरा विचेरुः सर्वतोदिशम्। त्रासयन्तो महाराज पाण्डेयस्य वाहिनीम्॥ मध्यंदिनमनुप्राप्तो गभस्तिशतसंवृतः। यथा दृश्येत घर्मांशुस्तथा द्रोणोऽप्यदृश्यत॥ न चैनं पाण्डवेयानां कश्चिच्छक्नोति भारत। वीक्षितुं समरे क्रुद्धं महेन्द्रमिव दानवाः॥ मोहयित्वा ततः सैन्यं भारद्वाजः प्रतापवान्। धृष्टद्युम्नबलं तूर्णे व्यधमन्निशितैः शरैः॥ स दिशः सर्वतो रुद्ध्वा संवृत्य खमजिह्मगैः। पार्षतो यत्र तत्रैव ममृदे पाण्डुवाहिनीम्॥ संजय उवाच ततः स पाण्डवानीके जनयन् सुमहद् भयम्। व्यचरत् पृतनां द्रोणो दहन कक्षमिवानलः॥ निद्रहन्तमनीकानि साक्षादग्निमिवोत्थितम्। दृष्ट्वा रुक्मरथं क्रुद्धं समकम्पन्त सृञ्जया:॥ सततं कृष्यतः संख्ये धनुषोऽस्याशुकारिणः। जयाघोषः शुश्रुवेऽत्यर्थं विस्फूर्जितमिवाशनेः॥ रथिनः सादिनश्चैव नागानश्वान् पदातिनः। रौद्रा हस्तवता मुक्ताः सम्मृद्नन्ति स्म सायका॥ नानद्यमानः पर्जन्यः प्रवृद्धः शुचिसंक्षये। अश्मवर्षमिवावर्षत् परेषामावहद् भयम्॥ विचरन् स तदा राजन सेनां संक्षोभयन् प्रभुः। वर्धयामास संत्रासं शात्रवाणाममानुषम्॥ तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम्। भ्रमद्रथाम्बुदे चास्मिन् दृश्यते स्म पुनः पुनः ॥ स वीरः सत्यवान् प्राज्ञो धर्मनित्यः सदा पुनः। युगान्तकालवद् घोरां रोद्रां प्रावर्तयनदीम्॥ अमर्षवेगप्रभवां क्रव्यादगणसंकुलाम्। बलौघैः सर्वत: पूर्णो ध्वजवृक्षापहारिणीम्॥ शोणितोदां रथावर्ती हस्त्यश्वकृतरोधसम्। कवचोडुपसंयुक्तां मांसपङ्कसमाकुलाम्॥ मेदोमज्जास्थिसिकतामुष्णीषचयफेनिलाम्। संग्रामजलदापूर्णो प्रासमत्स्यसमाकुलाम्॥ नरनागाश्वकलिला शरवेगौधवाहिनीम्। शरीरदारुसंघट्टां रथकच्छपसंकुलाम्॥ उत्तमाङ्गैः पङ्कजिनी निस्त्रिंशझषसंकुलाम्। रथनागह्रदोपेतां नानाभरणभूषिताम्॥ महारथशतावर्ती भूमिरेणूर्मिमालिनीम्। महावीर्यवतां संख्ये सुतरूं भीरुदुस्तराम्॥ शरीरशतसम्बाधां गृध्रकङ्कनिषेविताम्। महारथसहस्राणि नयन्तीं यमसादनम्॥ शूलव्यालसमाकीर्णां प्राणिवाजिनिषेविताम्। छिन्नक्षत्रमहाहंसां मुकुटाण्डजसेविताम्॥ चक्रकूर्मो गदानकां शरक्षुद्रझषाकुलाम् बकगृध्रसृगालानां घोरसंधैर्निषेविताम्॥ निहतान प्राणिनः संख्ये द्रोणेन बलिना रणे। वहन्ती पितृलोकाय शतशो राजसत्तमम्॥ शरीरशतसम्बाधां केशशैवलशाद्वलाम्। नदी प्रावर्तयद् राजन् भीरूणां भयवर्धिनीम्॥ तर्जयन्तमनीकानि तानि तानि महारथम्। सर्वतोऽभ्यद्रवन द्रोणं युधिष्ठिरपुरोगमाः॥ तानभिद्रवतः शूरांस्तावका दृढ़विक्रमाः। सर्वतः प्रत्यगृह्णन्त तदभूल्लोमहर्षणम्॥ शतमायस्तु शकुनिः सहदेवं समाद्रवत्। सनियन्तृध्वजरथं विव्याध निशितैः शरैः॥ तस्य माद्रीसुतः केतुं धनुः सूतं हयानपि। नातिक्रुद्धः शरैश्छित्त्वा षष्ट्या विव्याध सौबलम्।। २३ सौबलस्तु गदां गृह्य प्रचस्कन्द रथोत्तमात्। स तस्य गदया राजन् रथात् सूतमपातयत्॥ ततस्तौ विरथौ राजन् गदाहस्तौ महाबलौ। चिक्रीडतू रणे शूरौ सशृङ्गाविव पर्वतौ॥ द्रोणः पाञ्चालराजानं विद्ध्वा दशभिराशुगैः। बहुभिस्तेन चाभ्यस्तस्तं विव्याध ततोऽधिकैः॥ विविंशति भीमसेनो विंशत्या निशितैः शरैः। विद्ध्वा नाकम्पयद् वीरस्तदद्भुतमिवाभवत्॥ विविंशतिस्तु सहसा व्यश्वकेतुशरासनम्। भीमं चक्रे महाराज ततः सैनयान्यपूजयन्॥ स तन्न मसृषे वीरः शत्रोर्विक्रममाहवे। ततोऽस्य गदया दान्तान् हयान् सर्वानपातयत्॥ हताश्वात् सरथाद् राजन् गृह्य चर्म महाबलः। अभ्यायाद् भीमसेनं तु मत्तो मत्तमिव द्विपम्॥ शल्यस्तु नकुलं वीर: स्वस्त्रीयं प्रियमात्मनः। विव्याध प्रहसन् बाणैालयन् कोपयन्निव॥ तस्याश्वानातपत्रं च ध्वजं सूतमथो धनुः। निपात्य नकुलः संख्ये शङ्ख दध्मौ प्रतापवान्॥ धृष्टकेतुः कृपेणास्तान् छित्त्वा बहुविधाञ्छरान्। कृपं विव्याध सप्तत्या लक्ष्म चास्याहरत् त्रिभिः॥ तं कृपः शरवर्षण महता समवारयत्। विव्याध च रणे विप्रो धृष्टकेतुममर्षणम्॥ सात्यकिः कृतवर्माणं नाराचेन स्तनान्तरे। विद्ध्वा विव्याध सप्तत्या पुनरन्यैः स्मयन्निव॥ तं भोजः सप्तसप्तत्या विद्ध्वाऽऽशु निशितैःशरैः। नाकम्पयत शैनेयं शीघ्रो वायुरिवाचलम्॥ सेनापतिः सुशर्माणं भृशं मर्मस्वताडयत्। स चापि तं तोमरेण जत्रुदेशेऽभ्यताडयत्॥ वैकर्तनं त समरे विराटः प्रत्यवारयत्। सह मत्स्यैर्महावीर्यस्तदद्भुतमिवाभवत्॥ तत् पौरुषमभूत् तत्र सूतपुत्रस्य दारुणम्। यत् सैन्यं वारयामास शरैः संनतपर्वभिः॥ द्रुपदस्तु स्वयं राजा भगदत्तेन संगतः। तयोर्युद्धं महाराज चित्ररूपमिवाभवत्॥ भगदत्तस्तु राजानं दुपदं नतपर्वभिः। सनियन्तृध्वजरथं विव्याध पुरुषर्षभः॥ द्रुपदस्तु ततः क्रुद्धो भगदत्तं महारथम्। आजधानोरसि क्षिप्रं शरेणानतपर्वणा॥ युद्धं योधवरौ लोके सौमदत्तिशिखण्डिनौ। भूतानां त्रासजननं चक्रातेऽस्त्रविशारदौ॥ भूरिश्रवा रणे राजन् याज्ञसेनं महारथम्। महता सायकौघेन छादयामास वीर्यवान्॥ शिखण्डी तु ततः क्रुद्धः सौमदत्तिं विशाम्पते। नवत्या सायकानां तु कम्पयामास भारत॥ राक्षसौ रौद्रकर्माणौ हैडिम्बालम्बुषावुभौ। चक्रातेऽत्यद्भुतं युद्धं परस्परजयैषिणौ॥ मायाशतसृजौ दृप्तौ मायाभिरितरेतरम्। अन्तर्हितौ चेरतुस्तौ भृशं विस्मयकारिणौ॥ चेकितानोऽनुविन्देन युयुधे चातिभैरवम्। यथा देवासुरे युद्धे बलशक्रौ महाबलौ॥ लक्ष्मणः क्षत्रदेवेन विमर्दमकरोद् भृशम्। यथा विष्णुः पुरा राजन् हिरण्याक्षेण संयुगे॥ ततः प्रचलिताश्वेन विधिवत्कल्पितेन च। रथेनाभ्यपतद् राजन् सौभद्रं पौरवो नदन्॥ ततोऽभ्ययात् सत्वरितो युद्धाकाक्षी महाबलः। तेन चक्रे महद् युद्धमभिमन्युररिंदमः॥ पौरवस्त्वथ सौभद्रं शरव्रतैरवाकिरत्। तस्या निर्ध्वजं छत्रं धनुश्चोक्मपातयत्॥ सौभद्रः पौरवं त्वन्यैर्विद्ध्वा सप्तभिराशुगैः। पञ्चभिस्तस्य विव्याध हयान् सूतं च सायकैः॥ ततः प्रहर्षयन् सेनां सिंहवद् विनदन् मुहुः। समादत्तार्जुनिस्तूर्णे पौरवान्तकरं शरम्॥ तं तु संधितमाज्ञाय सायकं घोरदर्शनम्। द्वाभ्यां शराभ्यां हार्दिक्यश्चिच्छेद सशरं धनुः॥ तदुत्सृज्य धनुश्छिन्नं सौभद्रः परवीरहा। उद्ववर्ह सितं खङ्गमाददानः शरावरम्॥ स तेनानेकतारेण चर्मणा कृतहस्तवत्। भ्रान्तासिनाचरन्मार्गान् दर्शयन् वीर्यमात्मनः॥ भ्रामितं पुनरुद्धान्तमाधूतं पुनरुत्थितम्। चर्मनिस्त्रिंशयो राजन् निर्विशेषमदृश्यत॥ स पौरवरथस्येषामाप्लुत्य सहसा नदन्। पौरवं रथमास्थाय केशपक्षे परामृशत्॥ जघानास्य पदा सूतमसिनापातयद् ध्वजम्। विक्षोभ्याम्भोनिधि ताह्मस्तं नागमिव चाक्षिपत्॥ तमागलितकेशान्तं ददृशुः सर्वपार्थिवाः। उक्षाणमिव सिंहेन पात्यमानमचेतसम्॥ तमा निवशं प्राप्तं कृष्यमाणमनाथवत्। पौरवं पातितं दृष्ट्वा नामृष्यत जयद्रथः।६२॥ स बर्हिबर्हावततं किंकिणीशतजालवत्। चर्म चादाय खङ्गं च नदन् पर्यपतद् रथात्॥ ततः सैन्धवमालोक्य कार्ष्णिरुत्सृज्य पौरवम्। उत्पपात रथात् तूर्णे श्येनवनिपपात च॥ प्रासपट्टिशनिस्त्रिशाञ्छत्रुभिः सम्प्रचोदितान्। चिच्छेद चासिना कार्ष्णिश्चर्मणा संसरोध च॥ स दर्शयित्वा सैन्यानां स्वबाहुबलमात्मनः। तमुद्यम्य महाखङ्गं चर्म चाथ पुनर्बली॥ वृद्धक्षत्रस्य दायादं पितुरत्यन्तवैरिणम्। ससाराभिमुखः शूरः शार्दूल इव कुञ्जरम्॥ तौ परस्परमासाद्य खड्गदन्तनखायुधौ। हृष्टवत् सम्प्रजह्राते व्याघ्रकेसरिणाविव॥ सम्पातेष्वभिघातेषु निपातेष्वसिचर्मणोः। न तयोरन्तरं कश्चिद् ददर्श नरसिंहयोः॥ अवक्षेपोऽसिनिर्हादः शस्त्रान्तरनिदर्शनम्। बाह्यान्तरनिपातश्च निर्विशेषमदृश्यत॥ बाह्यमाभ्यन्तरं चैव चरन्तौ मार्गमुत्तमम्। ददृशाते महात्मानौ सपक्षाविव पर्वतौ॥ ततो विक्षिपतः खङ्गं सौभद्रस्य यशस्विनः। शरावरणपक्षान्ते प्रजहार जयद्रथः॥ रुक्मपत्रान्तरे सक्तस्तस्मिंश्चर्मणि भास्वरे। सिन्धुराजबलोद्भूतः सोऽभज्यत महानसिः॥ भग्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट्। अदृश्यत निमेषेण स्वरथं पुनरास्थितः॥ तं कार्णिं समरान्मुक्तमास्थितं रथमुत्तमम्। सहिताः सर्वराजानः परिवतः सन्ततः॥ ततश्चर्म च खङ्गं च समुत्क्षिप्य महाबलः। ननादार्जुनदायादः प्रेक्षमाणो जयद्रथम्॥ सिन्धुराजं परित्यज्य सौभद्रः परवीरहा। तापयामास तत् सैन्यं भुवनं भास्करो यथा॥ तस्य सर्वायसी शक्तिं शल्यः कनकभूषणाम्। चिक्षेप समरे घोरां दीप्तामग्निशिखामिव॥ तामवप्लुत्य जग्राह विकोशं चाकरोदसिम्। वैनतेयो यथा कार्ष्णिः पतन्तमुरगोत्तमम्॥ तस्य लाघवमाज्ञाय सत्त्वं चामिततेजसः। सहिताः सर्वराजानः सिंहनादमथानदन्॥ ततस्तामेव शल्यस्य सौभद्रः परवीरहा। मुमोच भुजवीर्येण वैदूर्यविकृतां शिताम्॥ सा तस्य रथमासाद्य निर्मुक्तभुजगोपमा। जघान सूतं शल्यस्य रथाच्चैनमपातयत्॥ ततो विराटदुपदौ धृष्टकेतुर्युधिष्ठिरः। सात्यकिः केकया भीमो धृष्टद्युम्नशिखण्डिनौ॥ यमो च द्रौपदेयाश्च साधु साध्विति चुकुशुः। बाणशब्दाश्च विविधाः सिंहनादाश्च पुष्कलाः॥ शरैः। प्रादुरासन् हर्षयन्तः सौभद्रमपलायिनम्। तन्नामृष्यन्त पुत्रास्ते शात्रोविजयलक्षणम्॥ अथैनं सहसा सर्वे समन्तानिशितैः अभ्याकिरन् महाराज जलदा इव पर्वतम्॥ तेषां च प्रियमन्विच्छन् सूतस्य च पराभवम्। आर्तायनिरमित्रनः क्रुद्धः सौभद्रमभ्ययात्॥ 1८७॥ धृतराष्ट्र उवाच बहूनि सुविचित्राणि द्वन्द्वयुद्धानि संजय। त्वयोक्तानि निशम्याहं स्पृहयामि सचक्षुषाम्॥ आश्चर्यभूतं लोकेषु कथयिष्यन्ति मानवाः। कुरूणां पाण्डवानां च युद्धं देवासुरोपमम्॥ न हि मे तृप्तिरस्तीह शृण्वतो युद्धमुत्तमम्। तस्मादार्तायनेयुद्धं सौभद्रस्य च शंस मे॥ संजय उवाच सादितं प्रेक्ष्य यन्तारं शल्यः सर्वायसीं गदाम्। समुत्क्षिप्य नदन् क्रुद्धः प्रचस्कन्द रथोत्तमात्॥ तं दीप्तमिव कालाग्निं दण्डहस्तमिवान्तकम्। जवेनाभ्यपतद् भीमः प्रगृह्य महतीं गदाम्॥ जवेनाभ्यपतद् भीमः प्रगृह्य महतीं गदाम्। एह्येहीत्यब्रवीच्छल्यं यत्नाद् भीमेन वारितः॥ वारयित्वा तु सौभद्रं भीमसेनः प्रतापवान्। शल्यमासाद्य समरे तस्थौ गिरिरिवाचलः॥ तथैव मद्रराजोऽपि भीमं दृष्ट्वा महाबलम्। ससाराभिमुखस्तूर्णं शार्दूल इव कुञ्जरम्॥ ततस्तूर्यनिनादाश्च शङ्खानां च सहस्रशः। सिंहनादाश्च संजजुर्भेरीणां च महास्वनाः॥ पश्यता शतशो ह्यासीदन्योन्यमभिधावताम्। पाण्डवानां कुरूणां च साधु साध्विति नि:स्वनः॥ न हि मद्राधिपादन्यः सर्वराजसु भारत। सोढुमुत्सहते वेगं भीमसेनस्य संयुगे॥ तथा मद्राधिपस्यापि गदावेगं महात्मनः। सोढुमुत्सहते लोके युधि कोऽन्यो वृकोदरात्॥ पटैर्जाम्बूनदैर्बद्धा बभूव जनहर्षणी। प्रजज्वाल तदाऽऽविद्धा भीमेन महती गदा॥ तथैव चरतो मार्गान् मण्डलानि च सर्वशः। महाविद्युत्प्रतीकाशा शल्यस्य शुशुभे गदा॥ तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः। आवर्तितगदाशृङ्गावुभौ शल्यवृकोदरौ॥ मण्डलावर्तमार्गेषु गदाविहरणेषु च। निर्विशेषमभूद् युद्धं तयोः पुरुषसिंहयोः॥ ताडिता भीमसेनेन शल्यस्य महती गदा। साग्निज्वाला महारौद्रा तदा तूर्णमशीर्यत॥ तथैव भीमसेनस्य द्विषताभिहता गदा। वर्षाप्रदोघे खद्योतैर्वृतो वृक्ष इवाबभौ॥ गदा क्षिप्ता तु समरे मद्रराजेन भारत। व्योम दीपयमाना सा ससृजे पावकं मुहुः॥ तथैव भीमसेनेन द्विषते प्रेषिता गदा। तापयामास तत् सैन्यं महोल्का पतती यथा।॥ ते गदे गदिनां श्रेष्ठौ समासाद्य परस्परम्। श्वसन्त्यौनागकन्येव ससृजाते विभावसुम्॥ नखैरिव महाव्याघ्रौ दन्तैरिव महागजौ। तौ विचेरतुरासाद्य गदाण्याभ्यां परस्परम्॥ ततो गदाग्राभिहतौ क्षणेन रुधिरोक्षितौ। ददृशाते महात्मानौ किंशुकाविव पुष्पितौ॥ शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः। गदाभिधातसंहादः शक्राशनिरवोपमः॥२४॥ गदया मद्रराजेन सब्यदक्षिणमाहतः। नाकम्पत तदा भीमो भिद्यमान इवाचलः॥ तथा भीमगदावेगैस्ताड्यमानो महाबलः। धैर्यानमद्राधिपस्तस्थौ वचैर्गिरिरिवाहतः॥ आपेततुर्महावेगौ समुच्छ्रितगदावुभौ। पुनरन्तरमार्गस्थौ मण्डलानि विचेरतुः॥ अथाप्लुत्य पदान्यष्टौ संनिपत्य गजाविव। सहसा लोहदण्डाभ्यामन्योन्यमभिजघ्नतुः॥ तौ परस्परवेगाच्च गदाभ्यां च भृशाहतौ। युगपत् पेततुर्वीरौ क्षिताविन्द्रध्वजाविव॥ ततो विह्वलमानं तं निःश्वसन्तं पुनः पुनः। शल्यमभ्यपतत् तूर्णे कृतवर्मा महारथः॥ दृष्ट्वा चैनं महाराज गदयाभिनिपीडितम्। विचेष्टन्तं यथा नागं मूर्च्छयाभिपरिप्लुतम्॥ ततः स्वरथमारोष्य मद्राणामधिपं रणे। अपोवाह रणात् तूर्णे कृतवर्मा महारथः॥ क्षीबवद् विह्वलो वीरो निमेषात् पुनरुत्थितः। भीमोऽपि सुमहाबाहुर्गदापाणिरदृश्यत॥ ततो मद्राधिपं दृष्ट्वा तव पुत्राः पराङ्मुखम्। सनागपत्त्यश्वरथाः समकम्पन्त मारिष॥ ते पाण्डवैरर्यमानास्तावका जितकाशिभिः। भीता दिशोऽन्वपद्यन्त वातनुन्ना घना इव।॥ निर्जित्य धार्तराष्ट्रांस्तु पाण्डवेया महारथाः। व्यरोचन्त रणे राजन् दीप्यमाना इवाग्नयः॥ सिंहनादान् भृशं चक्रुः शङ्खान् दध्मुश्च हर्षिताः। भेरीश्च वादयामासुर्मृदङ्गांश्चानकैः सह॥ संजय उवाच ततः संशप्तका राजन् समे देशे व्यवस्थिताः। व्यूह्यानीकं रथैरेव चन्द्राकारं मुदा युताः॥ ते किरीटिनमायान्तं दृष्ट्वा हर्षेण मारिष। उदक्रोशन् नरव्याघ्राः शब्देन महता तदा॥ स शब्दः प्रदिशः सर्वा दिशः खं च समावृणोत् । आवृतत्वाच्चलोकस्य नासीत् तत्र प्रतिस्वनः॥ सोऽतीव सम्प्रहृष्टांस्तानुपलभ्य धनंजयः। किंचिदभ्युत्स्मयन् कृष्णमिदं वचनमब्रवीत्॥ पश्यैतान् देवकीगतर्मुमूर्पूनद्य संयुगे। भ्रातृस्त्रैगर्तकानेवं रोदितव्ये प्रहर्षितान्॥ अथवा हर्षकालोऽयं त्रैगर्तानामसंशयम्। कुनरैर्दुरवापान् हि लोकान् प्राप्स्यन्त्यनुत्तमान्॥ एवमुक्त्वा महाबाहुर्हषीकेशं ततोऽर्जुनः। आससाद रणे व्यूढां त्रिगर्तानाममनीकिनीम्॥ स देवदत्तमादाय शङ्ख हेमपरिष्कृतम्। दध्मौ वेगेन महता घोषेणापूरयन् दिशः॥ तेन शब्देन विवस्ता संशप्तकवरूथिनी। विचेष्टाऽवस्थिता संख्ये ह्यश्मसारमयी यथा।॥ वाहास्तेषां विवृत्ताक्षाः स्तब्धकर्णशिरोधराः। विष्टब्धचरणा मूत्रं रुधिरं च प्रसुस्रुवुः॥ उपलभ्य ततः सामवस्थाप्य च वाहिनीम्। युगपत् पाण्डुपुत्राय चिक्षिपुः कङ्कपत्रिणः॥ तान्यर्जुनः सहस्राणि दशपञ्चभिराशुगैः। अनागतान्येव शरैश्चिच्छेदाशु पराक्रमी॥ ततोऽर्जुनं शितैर्बाणैर्दशभिर्दशभिः पुनः। प्राविध्यन्त ततः पार्थस्तानविध्यत् स्त्रिभिस्त्रिभिः॥ एकैकस्तु ततः पार्थं राजन् विव्याघ पञ्चभिः। स च तान् प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमी॥ भूय एव तु संक्रुद्धास्त्वर्जुनं सह केशवम्। आपूरयशरैस्तीक्ष्णैस्तडागमिव वृष्टिभिः॥ ततः शरसहस्राणि प्रापतन्नर्जुनं प्रति। भ्रमराणामिव वाताः फुल्लं दुमगणं वने॥ ततः सुबाहुस्त्रिं शद्भिरद्रिसारमयैः शरैः। अविध्यदिषुभिर्गाढं किरीटे सव्यसाचिनम्॥ तैः किरीटी किरीटस्थैर्हमपुजैरजिह्मगैः। शातकुम्भमयापीडो बभौ सूर्य इवोत्थितः॥ हस्तावापं सुबाहोस्तु भल्लेन युधि पाण्डवः। चिच्छेद तं चैव पुनः शरवर्षैरवाकिरत्॥ ततः सुशर्मा दशभिः सुरथस्तु किरीटिनम्। सुधर्मा सुधनुश्चैव सुबाहुश्च समार्पयत्॥ तांस्तु सर्वान् पृथग्बाणैर्वानरप्रवरध्वजः। प्रत्यविध्यद् ध्वजांश्चैषां.भल्लैश्चिच्छेद सायकान्॥ सुधन्वनो धनुश्छित्त्वा हयांश्चास्यावधीच्छरैः। अथास्य सशिरस्त्राणं शिरः कायादपातयत्॥ तस्मिन्निपतिते वीरे त्रस्तास्तस्य पदानुगा:। व्यद्रवन्त भयाद् भीता यत्र दौर्योधनं बलम्॥ ततो जघान संक्रुद्धो वासविस्तां महाचमूम्। शरजालैरविच्छिन्नस्तमः सूर्य इवांशुभिः॥ ततो भग्ने बले तस्मिन् विप्रलीने समन्ततः। सव्यसाचिनि संक्रुद्धे त्रैगर्तान् भयमाविशत्॥ ते वध्यमानाः पार्थेन शरैः संनतपर्वभिः। अमुास्तत्र तत्रैव त्रस्ता मृगगणा इव॥ ततस्त्रिगर्तराट् क्रुद्धस्तानुवाच महारथान्। अलं द्रुतेन वः शूरा न भयं कर्तुमर्हथ॥ शप्त्वाथ शपथान् घोरान् सर्वसैन्यस्य पश्यतः। गत्वा दौर्योधनं सैन्यं किं वै वक्ष्यथ मुख्यशः॥ नावहास्याः कथं लोके कर्मणानेन संयुगे। भवेम सहिताः सर्वे निवर्तध्वं यथाबलम्॥ एवमुक्तास्तु ते राजन्नुदक्रोशन् मुहुर्मुहुः। शङ्खांश्च दध्मिरे वीरा हर्षयन्तः परस्परम्॥ ततस्ते सन्यवर्तन्त संशप्तकगणाः पुनः। नारायणाश्च गोपाला मृत्युं कृत्या निवर्तनम्॥ संजय उवाच परिणाम्य निशां तां तु भारद्वाजो महारथः। उक्त्वा सुबहु राजेन्द्र वचनं वै सुयोधनम्॥ विधाय योगं पार्थेन संशप्तकगणैः सह। निष्क्रान्ते च तदा पार्थे संशप्तकवधं प्रति॥ व्यूढानीकस्ततो द्रोणः पाण्डवानां महाचमूम्। अभ्ययाद् भरतश्रेष्ठ धर्मराजजिघृक्षया।॥ व्यूढं दृष्ट्वा सुपर्णे तु भारद्वजकृतं तदा। व्यूहेन मण्डलार्धेन प्रत्यव्यूहद् युधिष्ठिर॥ मुखं त्वासीत् सुपर्णस्य भारद्वाजो महारथः। शिरो दुर्योधनो राजा सोदर्यैः सानुगैर्वृतः। चक्षुषी कृतवर्माऽऽसीद् गौतमश्चास्यतां वर॥ भूतशर्मा क्षेमशर्मा करकाशश्च वीर्यवान्। कलिङ्गाः सिंहलाः प्राच्याः शूराभीरा दशेरकाः॥ शका यवनकाम्बोजास्तथा हंसपथाश्च ये। ग्रीवायां शूर सेनाश्च दरदा मद्रकेकया:॥ गजाश्वरथपत्त्योघास्तस्थुः परमदंशिताः। भूरिश्रवास्तथा शल्यः सोमदत्तश्च वाह्निकः॥ अक्षौहिण्या वृता वीरा दक्षिणं पार्श्वमास्थिताः। विन्दानुविन्दावावन्त्यौ काम्बोजश्च सुदक्षिणः॥ वाम पार्वं समाश्रित्य द्रोणपुत्राग्रतः स्थिताः। पृष्ठे कलिङ्गः साम्बष्ठा मागधाः पौण्ड्रमद्रकाः॥ गान्धाराः शकुनाः प्राच्याः पर्वतीया वसातयः। पुच्छे वैकर्तनः कर्णः सपुत्रज्ञातिबान्धवः॥ महत्या सेनया तस्थौ नानाजनपदोत्थया। जयद्रथो भीमरथः सम्पातिऋषभो जयः॥ भूमिजयो वृषक्राधो नैषधश्च महाबलः। वृता बलेन महता ब्रह्मलोकपुरस्कृताः॥ व्यूहस्योरसि ते राजन् स्थिता युद्धविशारदाः। द्रोणेन विहितो व्यूहः पदात्यश्वरथद्विपैः॥ वातोद्धतार्णवाकारः प्रवृत्त इव लक्ष्यते। तस्ये पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः॥ सविद्युत्स्तनिता मेघाः सर्वदिग्भ्य इवोष्णगे। तस्य प्राग्ज्योतिषो मध्येविधिवत् कल्पितं गजम्॥ आस्थितः शुशुभे राजन्नंशुमानुदये यथा। माल्यदामवता राजन् श्वेतच्छत्रेण धार्यता॥ कृत्तिकायोगयुक्तेन पौर्णमासयामिवेन्दुना। नीलाञ्जनचयप्रख्यो भदान्धो द्विरदो बभौ॥ अतिवृष्टो महामेधैर्यथा स्यात् पर्वतो महान्। नानानृपतिभिर्वी रैर्विविधायुधभूषणैः॥ समन्वितः पर्वतीयैः शक्रो देवगणैरिव। ततो युधिष्ठिरः प्रेक्ष्य व्यूहं तमतिमानुषम्॥ अजय्यमरिभिः संख्ये पार्षतं वाक्यमब्रवीत्। ब्राह्मणस्य वशं नाहमियामद्य यथा प्रभो। पारावतसवर्णाश्व तथा नीतिर्विधीयताम्॥ धृष्टद्युम्न उवाच द्रोणस्य यतमानस्य वशं नैष्यसि सुव्रत। अहमावारयिष्यामि द्रोणमद्य सहानुगम्॥ मयि जीवति कौरव्य नौद्वेगं कर्तुमर्हसि। न हि शक्तो रणे द्रोणो विजेतुं मां कथंचन॥ संजय उवाच एवमुक्त्वाकिरन् बाणान् द्रपदस्य सुतोबली! पारावतसवर्णाश्वः स्वयं द्रोणमुपाद्रवत्॥ अनिष्टदर्शनं दृष्ट्वा धृष्टद्युम्नमवस्थितम्। क्षणेनैवाभवद् द्रोणो नातिहृष्टमना इव॥ तं तु सम्प्रेक्ष्य पुत्रस्ते दुर्मुखः शत्रुकर्षणः। प्रियं चिकीर्षुद्रोणस्य धृष्टद्युम्नमवारयत्॥ स समप्रहारस्तुमुल: सुघोरः समपद्यत। पार्षतस्य च शूरस्य दुर्मुखस्य च भारत॥ पार्षतः शरजालेन क्षिप्रं प्रच्छाद्य दुर्मुखम्। भारद्वाजं शरौघेण महता समवारयत्॥ द्रोणमावारितं दृष्ट्वा भृशायस्तस्तवात्मजः। नानालिङ्गैः शरवातैः पार्षतं सममोहयत्॥ तयोर्विषक्तयोः संख्ये पाञ्चाल्यकुरुमुख्ययोः। द्रोणो यौधिष्ठिरं सैन्यं बहुधा व्यधमच्छरैः॥ अनिलेन यथाऽभ्राणि विच्छिन्नानि समन्ततः। तथा पार्थस्य सैन्यानिविच्छन्नानि क्वचित् क्वचित्॥३१ मुहूर्तमिव तद् युद्धमासीन्मधुरदर्शनम्। तत उन्मत्तवद् राजन् निर्मर्यादमवर्तत॥ नैव स्वे न परे राजन्नज्ञायन्त परस्परम्। अनुमानेन संज्ञाभिर्युद्धं तत् चूडामणिषु निष्केषु भूषणेष्वपि वर्मसु। तेषामादित्यवर्णाभा रश्मयः प्रचकाशिरे॥ तत्प्रकीर्णपताकानां रथवारणवाजिनाम्। बलाकाशबलाभ्राभं ददृशे रूपमाहवे॥ नरानेव नरा जघ्नुरुदग्राश्च हया हयान्। रथांश्च रथिनो जनुर्वारणा वरवारणान्॥ समवर्तत॥ समुच्छ्रितपताकानां गजानां परमद्विपैः। क्षणेन तुमुलो घोरः संग्रामः समपद्यत॥ तेषां संसक्तगात्राणां कर्षतामितरेतरम्। दन्तसंघातसंघर्षात् सधूमोऽग्निरजायत॥ विप्रकीर्णपताकास्ते विषाणजनिताग्नयः। बभूवुः खं समासाद्य सविद्युत इवाम्बुदाः॥ विक्षिपद्भिर्नदद्धिश्च निपतद्भिश्च वारणैः। सम्बभूव मही कीर्णा मेघैद्यौरिव शारदी॥ तेषामाहन्यमानानां बाणतोमरऋष्टिभिः। वारणानां रवो जज्ञे मेघानामिव सम्लवे॥ तोमराभिहताः केचिद् बाणैश्च परमद्विपाः। वित्रेसुः सर्वनागानां शब्दमेवापरेऽव्रजन्॥ विषाणाभिहताश्चापि केचित् तत्र गजा गजैः। चारार्तस्वनं घोरमुत्पातजलदा इव॥ प्रतीपाः क्रियमाणाश्च वारणा वरवारणैः। उन्मथ्य पुनराजग्मुः प्रेरिताः परमाङ्कुशैः॥ महामात्रैर्महामात्रास्ताडिताः शरतोमरैः। गजेभ्यः पृथिवीं जर्मुमुक्तप्रहरणाङ्कुशाः॥ निर्मनुष्याश्च मातङ्गा विनदन्तस्ततस्ततः। छिन्नाभ्राणीव सम्पेतुः सम्प्रविश्य परस्परम्॥ हतान् परिवहन्तश्च पतितान् पतितायुधान्। दिशो जग्मुर्महानागाः केचिदेकचरा इव॥ ताडितास्ताड्यमानाश्च तोमरट्रिपरश्वधैः। पेतुरार्तस्वनं कृत्वा तदा विशसने गजा॥ तेषां शैलोपमैः कायैर्निपतद्भिः समन्ततः। आहता सहसा भूमिश्चकम्पे च ननाद च॥ सादितैः सगजारोहैः सपताकैः समन्ततः। मातङ्गैः शुशुभे भूमिर्विकीर्णैरिव पर्वतैः ॥ गजस्थाश्च महामात्रा निर्मित्रहृदया रणे। रथिभिः पातिता भल्लैर्विकीर्णाङ्कुशतोमराः॥ क्रौञ्चवद् विनदन्तोऽन्ये नाराचाभिहता गजाः। परान् स्वांश्चापि मृद्गन्तः परिपेतुर्दिशो दश॥ गजाश्वरथयोधानां शरीरौघसमावृता। बभूव पृथिवी राजन् मांसशोणितकर्दमा॥ प्रमथ्य च विषाणाप्रैः समुत्क्षिप्ताश्च वारणैः। सचक्राश्च विचक्राश्च रथैरेव महारथाः॥ रथाश्च रथिभित्ना निर्मनुष्याश्च वाजिनः। हतारोहाच मातङ्ग दिशो जग्मुर्भयातुराः॥ जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा। इत्यासीत् तुमुलं युद्धं न प्राज्ञायत किंचन॥ आगुल्फेभ्योऽवसीदन्ते नरा लोहितकर्दमैः। दीप्यमानैः परिक्षिप्ता दावैरिव महाद्रुमाः॥ शोणितैः सिच्यमानानि वस्त्राणि कवचानि च। छत्राणि च पताकाच सर्वं रक्तमदृश्यत॥ हयौघाश्च रथौघाश्च नरौघाश्च निपातिताः। संक्षुण्णाः पुनरावृत्य बहुधा रथनेमिभिः॥ सगजौघमहावेगः परासुनरशैवलः। रथौघतुमुलावर्तः प्रबभौ सैन्यसागरः॥ तं वाहनमाहानौभिर्योधा जयधनैषिणः। अवगाह्याथ मज्जन्तो नैव मोहं प्रचक्रिरे॥ शरवर्षाभिवृष्टेषु योधेष्वञ्चितलक्ष्मसु। न तेष्वचित्ततां लेभे कश्चिदाहतलक्षणः॥ वर्तमाने तथा युद्धे घोररूपे भयंकरे। मोहयित्वा परान् द्रोणो युधिष्ठिरमुपाद्रवत्॥ धृतराष्ट्र उवाच भारद्वाजेन भग्नेषु पाण्डवेषु महामृधे। पञ्चालेषु च सर्वेषु कच्चिदन्योऽभ्यवर्तत॥ आर्यो युद्धे मतिं कृत्वा क्षत्रियाणां यशस्करीम्। असेवितां कापुरुषैः सेवितां पुरुषर्षभैः॥ स हि वीरोन्नतः शूरो यो भग्नेषु निवर्तते। अहो नासीत् पुमान् कश्चिद् दृष्ट्वा द्रोणं व्यवस्थितम्॥ जृम्भमाणमिव व्याघ्र प्रभिन्नमिव कुञ्जरम्। त्यजन्तमाहवे प्राणान् संनद्धं चित्रयोधिनम्॥ महेश्वासं नरव्याघ्रं द्विषतां भयवर्धनम्। कृतज्ञं सत्यनिरतं दुर्योधनहितैषिणम्॥ भारद्वाजं तथानीके दृष्ट्वा शूरूवस्थितम्। के शूराः संन्यवर्तन्त तन्ममाचक्ष्व संजय॥ संजय उवाच तान् दृष्ट्वा चलितान् संख्ये प्रणुन्नान् द्रोणसायकैः। पञ्चालान् पाण्डवान् मत्स्यान् सृञ्जयांश्चेदिकेकयान्॥ द्रोणचापविमुक्तेन शरौघेणाशुहारिणा। सिन्धोरिव महौघेन द्वियमाणान् यथा प्लवान्॥ कौरवाः सिंहनादेन नानावाद्यस्वनेन च। रथद्विपनरांश्चैव सर्वतः समवारयन्॥ तान् पश्यन् सैन्यमध्यस्थो राजा स्वजनसंवृतः। दुर्योधनोऽब्रवीत् कर्णे प्रहृष्टः प्रहसन्निव॥ दुर्योधन उवाच पश्य राधेय पञ्चालान् प्रणुन्नान् द्रोणसायकैः। सिंहेनेव मृगान् वन्यां स्त्रासितान् दृढधन्वना॥ नैते जातु पुनयुद्धमीहेयुरिति मे मतिः। यथा तु भग्ना द्रोणेन वातेनेव महाद्रुमाः॥ अर्धमानाः शरैरेते रुक्मपुजैर्महात्मना। पथा नैकेन गच्छन्ति धूर्णमानास्ततस्ततः॥ संनिरुद्धाश्च कौरव्यैोणेन च महात्मना। एतेऽन्ये मण्डलीभूताः पावकेनेव कुञ्जराः॥ भ्रमरैरिव चाविष्टा द्रोणस्य निशितैः शरैः। अन्योन्यं समलीयन्त पलायनपरायणा:॥ एष भीमो महाक्रोधी हीनः पाण्डवसृञ्जयैः। मदीयैरावृतो योधैः कर्ण नन्दयतीव माम्॥ व्यक्तं द्रोणमयं लोकमद्य पश्यति दुर्मतिः। निराशो जीवितानूनमद्य राज्याच्च पाण्डवः॥ कर्ण उवाच नैष जातु महाबाहुर्जीवनाहवमुत्सृजेत्। न चेमान् पुरुषव्याघ्र सिंहनादान् सहिष्यति॥ न चापि पाण्डवा युद्धे भज्येरन्निति मे मतिः। शूराश्च बलवन्तश्च कृतास्त्रा युद्धदुर्मदाः॥ विषाग्निद्यूतसंक्लेशान् वनवासं च पाण्डवाः। स्मरमाणा न हास्यन्ति संग्राममिति मे मतिः॥ निवृत्तो हि महाबाहुरमितौजा वृकोदरः। वरान् वरान् हि कौन्तेयो रथोदारान् हनिष्यति॥ असिना धनुषा शक्त्या हयैर्नागैर्नरै रथैः। आयसेन च दण्डेन वातान् वातान् हनिष्यति॥ तमेनमनुवर्तन्ते सात्यकिप्रमुखा रथाः। पञ्चालाः केकया मत्स्याः पाण्डवाश्च विशेषतः॥ शूराश्च बलवन्तश्च विक्रान्ताश्च महारथाः। विनिघ्नन्तश्च भीमेन संरब्धेनाभिचोदिताः॥ ते द्रोणमभिवर्तन्ते सर्वतः कुरुपुङ्गवाः । वृकोदरं परीप्सन्तः सूर्यमभ्रगणा इव॥ एकायनगता ह्येते पीडयेयुर्यतव्रतम्। अरक्ष्यमाणं शलभा यथा दीपं मुमूर्षवः॥ असंशयं कृतास्त्राश्च पर्याप्ताश्चापि वारणे। अतिभारमहं मन्ये भारद्वाजे समाहितम्॥ शीघ्रमनुगमिष्यामो यत्र द्रोणो व्यवस्थितः। कोका इव महानागं मा वै हन्युर्यतव्रतम्॥ राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्ततः। भ्रातृभिः सहितो राजन् प्रायाद् द्रोणरथं प्रति॥ तत्रारावो महानासीदेकं द्रोणं जिघांसताम्। पाण्डवानां निवृत्तानां नानावणैर्हयोत्तमैः॥ धृतराष्ट्र उवाच सर्वेषामेव में ब्रूहि रथचिह्नानि संजय। ये द्रोणमभ्यवर्तन्त क्रुद्धा भीमपुरोगमाः॥ संजय उवाच ऋक्षवणैर्हयैदृष्ट्वा व्यायच्छन्तं वृकोदरम्। रजाताश्वस्ततः शूरः शैनेयः संन्यवर्तत॥ सारङ्गाश्वो युधामन्युः स्वयं प्रत्वरयन् हयान्। पर्यवर्तत दुर्धर्षः क्रुद्धो द्रोणरथं प्रति॥ पारावतसवर्णैस्तु हेमभाण्डैर्महाजवैः। पाञ्चालराजस्य सुतो धृष्टद्युम्नो न्यवर्तत॥ पितरं तु परिप्रेप्सुः क्षत्रधर्मा यतव्रतः। सिद्धिं चास्य परां काझन्शोणाश्वः संन्यवर्तत॥ पद्मपत्रनिभांश्चाश्वान् मल्लिकाक्षान् स्वलंकृतान्। शैखण्डिः क्षत्रदेवस्तु स्वयं प्रत्वरयन् ययौ॥ दर्शनीयास्तु काम्बोजाः शुकपत्रपरिच्छदाः। वहन्तो नकुलं शीघ्रं तावकानभिदुद्रुवुः॥ कृष्णास्तु मेघसंकाशा अवहन्नुत्तमौजसम्। दुर्धर्षायाभिसंधाय क्रुद्धं युद्धाय भारत॥ तथा तित्तिरिकल्माषा हया वातसमा जवे। अवहंस्तुमुले युद्धे सहदेवमुदायुधम्॥ दन्तवर्णास्तु राजानं कालवाला युधिष्ठिरम्। भीमवेगा नरव्याघ्रमवहन् वातरंहसः॥ हेमोत्तमप्रतिच्छन्नैर्हयैर्वातसमैर्जवे। अभ्यवर्तन्त सैन्यानि सर्वाण्येव युधिष्ठिरम्॥ राज्ञस्त्वनन्तरो राजा पाञ्चाल्यो दुपदोऽभवत्। जातरूपमयच्छत्रः सर्वैस्तैरभिरक्षितः॥ लामैर्हरिभिर्युक्तः सर्वशब्दक्षमैयुधि। राज्ञां मध्ये महेष्वासः शान्तभीरभ्यवर्तत॥ तं विराटोऽन्वयाच्छीघ्रं सह सर्वैर्महारथैः। केकयाश्च शिखण्डी च धृष्टकेतुस्तथैव च॥ स्वैः स्वैः सैन्यैः परिवृता मत्स्यराजानमन्वयुः। तं तु पाटलिपुष्पाणां समवर्णा हयोत्तमाः॥ वहमाना व्यराजन्त मत्स्यस्यामित्रघातिनः। हरिद्रासमवर्णास्तु जवना हेममालिनः॥ पुत्रं विराटराजस्य सत्वरं समुदावहन्। इन्द्रगोपाकवर्णैश्च भ्रातरः पञ्च केकयाः॥ जातरूपसमाभासा: सर्वे लोहितकध्वजाः। ते हेममालिनः शूराः सर्वे युद्धविशारदाः॥ वर्षन्त इव जीमूताः प्रत्यदृश्यन्त दंशिताः। आमपात्रनिकाशास्तु पाञ्चाल्यममितौजसम्॥ दत्तासतुम्बुरुणा दिव्याः शिखण्डिनमुदावहन्। तथा द्वादश साहस्राः पञ्चालानां महारथाः॥ तेषां तु षट् सहस्राणि ये शिखण्डिनमन्वयुः। पुत्रं तु शिशुपालस्य नरसिंहस्य मारिष॥ आक्रीडन्तो वहन्ति स्म सारङ्गशबला हयाः। धृष्टकेतुस्तु चेदीनामृशभोऽतिबलोदितः॥ काम्बोजैः शबलैरश्वैरभ्यवर्तत दुर्जयः। बृक्षत्रं तु कैकेयं सुकुमारं हयोत्तमाः॥ पलालधूमसंकाशाः सैन्धवाः शीघ्रमावहन्। मल्लिकाक्षाः पद्मवर्णा बाह्निजाता: स्वलंकृताः॥ शृरं शिखण्डिनः पुत्रमृक्षदेवमुदावहन्। रुक्मभाण्डप्रतिच्छन्नाः कौशेयसदृशा हयाः॥ क्षमावन्तोऽवहन् संख्ये सेनाबिन्दुमरिंदमम्। युवानमवहन् युद्धे क्रोञ्चवर्णा हयोत्तमाः॥ काश्यस्याभिभुवः पुत्रं सुकुमारं महारथम्। श्वेतास्तु प्रतिविन्ध्यं तं कृष्णग्रीवा मनोजवाः। यन्तुः प्रेष्यकरा राजन् राजपुत्रमुदावहन्॥ सुतसोमं तु यः सौम्यं पार्थः पुत्रमजीजनत्। माषपुष्पसवर्णास्तमवहन् वाजिनो रणे॥ सहस्रसोमप्रतिमो बभूव पुरे कुरूणामुदयेन्दुनाम्नि। तस्मिञ्जातः सोमसंक्रन्दमध्ये यस्मात् तस्मात् सुतसोमोऽभवत् सः॥ नाकुलिं तु शतानीकं शालपुष्पनिभा हयाः। आदित्यतरुणप्रख्याः श्लाघनीयमुदावहन्॥ काञ्चनापिहितैर्योक्त्रैर्मयूरग्रीवसंनिभाः। द्रौपदेयं नरव्याघ्रं श्रुतकर्माणमाहवे॥ श्रुतकीर्ति श्रुतनिधिं द्रौपदेयं हयोत्तमाः। पार्थसमं युद्धे चाषपत्रनिभा हयाः॥ यमाहुरध्यर्धगुणं कृष्णात् पार्थाच्च संयुगे। अभिमन्यु पिशङ्गास्तं कुमारमवहन् रणे॥ एकस्तु धार्तराष्ट्रेभ्यः पाण्डवान् यः समाश्रितः। तं बृहन्तो महाकाया युयुत्सुमवहन् रणे॥ पलालकाण्डवर्णास्तु वार्धक्षेमि तरस्विनम्। ऊहुः सुतुमुले युद्धे हयाः कृष्णाः स्वलंकृताः॥ कुमारं शितिपादास्तु रुक्मचित्रैरुरच्छदैः। सौचित्तिमवहन् युद्धे यन्तुः प्रेष्यकरा हयाः॥ रुक्मपीठावकीर्णास्तु कौशेयसदृशा हयाः। सुवर्णमालिनः क्षान्ता: श्रेणिमन्तमुदावहन्॥ रुक्ममालाधराः शूरा हेमपृष्ठाः स्वलंकृताः। काशिराज नरश्रेष्ठं श्लाघनीयमुदावहन्॥ अस्त्राणां च धनुर्वेद ब्राह्मे वेदे च पारगम्। तं सत्य धृतिमायान्तमरुणा: समुदावहन्॥ यः स पाञ्चालसेनानीोणमंशमकल्पयत्। पारावतसवर्णास्तं धृष्टद्युम्नमुदावहन्॥ तमन्वयात् सत्यधृतिः सौचित्तियुद्धदुर्मदः। श्रेणिमान् वसुदानश्च पुत्रः काश्यस्य चाभिभूः॥ युक्तैः परमकाम्बोजैर्जवनैर्हेममालिभिः। भीषयन्तो द्विषत्सैन्यं यमवैश्रवणोपमाः॥ प्रभद्रकास्तु काम्बोजाः षट्सहस्राण्युदायुधाः। नानावणैर्हयैः श्रेष्ठैर्हेमवर्णरथध्वजाः॥ शरवातैर्विधुन्वन्तः शत्रून् विततकार्मुकाः। समानमृत्यवो भूत्वा धृष्टद्युम्नं समन्वयुः॥ बभ्रुकौशेयवर्णास्तु सुवर्णवरमालिनः। ऊहुरम्लानमनसश्चेकितानं हयोत्तमाः॥ इन्द्रायुधसवर्णैस्तु कुन्तिभोजो हयोत्तमैः। आयात् सदश्वैः पुरुजिन्मातुलः सव्यसाचिनः॥ अन्तरिक्षसवर्णास्तु तारकाचित्रिता इव। राजानं रोचमानं ते हयाः संख्ये समावहन्।॥ कर्बुराः शितिपादास्तु स्वर्णजालपरिच्छदाः। जारासंधिं हयाः श्रेष्ठाः सहदेवमुदावहन्॥ तु पुष्करमालस्य समवर्णा हयोत्तमाः। जवे श्येनसमाश्चित्राः सुदामानमुदावहन्॥ ये शशलोहितवर्णास्तु पाण्डुरोद्गतराजयः। पाञ्चाल्यं गोपतेः पुत्रं सिंहसेनमुदावहन्॥ पञ्चालानां नरव्याघ्रो यः ख्यातो जनमेजयः। तस्य सर्षपपुष्पाणां तुल्यवर्णा हयोत्तमाः॥ माषवर्णाश्च जवना बृहन्तो हेममालिनः। दधिपृष्ठाश्चित्रमुखाः पाञ्चाल्यमवहन् द्रुतम्॥ शूराश्च भद्रकाश्चैव शरकाण्डनिभा हयाः। पद्मकिञ्जल्कवर्णाभा दण्डधारमुदावहन्॥ रासभारुणवर्णाभाः पृष्ठतो मूषिकप्रभाः। वल्गन्त इव संयत्ता व्याघ्रदत्तमुदावहन्॥ हरयः कालकाश्चित्रमाल्यविभूषिताः। सुधन्वानं नरव्याघ्रं पाञ्चाल्यं समुदावहन्॥ इन्द्राशनिसमस्पर्शा इन्द्रगोपकसंनिभाः। काये चित्रान्तराश्चित्राश्चित्रायुधमुदावहन्॥ बिभ्रतो हेममालास्तु चक्रवाकोदरा हयाः। कोसलाधिपतेः पुत्रं सुक्षत्रं वाजिनोऽवहन्॥ शबलास्तु बृहन्तोऽश्वादान्ता जाम्बूनदस्रजः। युद्धे सत्यधृति क्षेमिमवहन् प्रांशवः शुभाः॥ एकवर्णेन सर्वेण ध्वजेन कवचेन च अश्वैश्च धनुषा चैव शुक्लैः शक्लो न्यवर्तत॥ समुद्रसेनपुत्रं तु सामुद्रा रुद्रतेजसम्। अश्वाः शशाङ्कसदृशाश्चन्द्रसेनमुदावहन्॥ नीलोत्पलसवर्णास्तु तपनीयविभूषिताः। शैब्यं चित्ररप्रिं संख्ये चित्रमाल्याऽवहन् हयाः॥ कलायपुष्पवर्णास्तु श्वेतलोहितराजयः। रथसेनं हयश्रेष्ठाः समूहुर्युद्धदुर्मदम्॥ यं तु सर्वमनुष्येभ्यः प्राहुः शूरतरं नृपम्। तं पटच्चरहन्तारं शुकवर्णाऽवहन् हयाः॥ चित्रायुधं चित्रमाल्यं चित्रवर्मायुधध्वजम्। ऊहुः किंशुकपुष्पाणां समवर्णा हयोत्तमाः। एकवर्णेन सर्वेण ध्वजेन कवचेन च। धनुषा रथवाहैश्च नीलैनीलोऽभ्यवर्तत।॥ नानारूपै रत्नचिरैर्वरूथरथकार्मुकैः। वाजिध्वजपताकाभिश्चित्रश्चित्रोऽभ्यवर्तत॥ ये तु पुष्करपर्णस्य तुल्यवर्णा हयोत्तमाः। ते रोचमानस्य सुतं हेमवर्णमुदावहन्॥ योधाश्च भद्रकाराश्च शरदण्डानुदण्डयः। श्वेताण्डाः कुक्कुटाण्डाभादण्डकेतुं हयाऽवहन्॥ केशवेन हते संख्ये पितर्यथ नराधिपे। भिन्ने कपाटे पाण्ड्यानां विद्रुतेषु च बन्धुषु॥ भीष्मादवाप्य चास्त्राणि दोणाद् रामात् कृपात् तथा। अस्त्रैः समत्वं सम्प्राप्य रुक्मिकर्णार्जुनाच्युतैः॥ इयेष द्वारकां हन्तुं कृत्स्नां जेतुं च मेदिनीम्। निवारितस्ततः प्राज्ञैः सुद्भिर्हितकाम्यया॥ वैरानुबन्धमुत्सृज्य स्वराज्यमनुशास्ति यः। स सागरध्वजः पाण्ड्यश्चन्द्ररश्मिनिभैर्हयैः॥ वैडूर्यजालसंछन्नैर्वीर्यद्रविणमाश्रितः। दिव्यं विस्फारयंश्चापं द्रोणमभ्यद्रवद् बली॥ आटरूषकवर्णाभा हयाः पाण्ड्यानुयायिनाम्। अवहन् रथमुख्यानामयुतानि चतुर्दश॥ नानावर्णेन रूपेण नानाकृतिमुखा हयाः। रथचक्रध्वजं वीरं घटोत्कचमुदावहन्॥ भारतानां समेतानामुत्सृज्यैको मतानि यः। गतो युधिष्ठिरं भक्त्या त्यक्त्वा सर्वमभीप्सितम्॥ लोहिताक्षं महाबाहुं बृहन्तं तमरट्टजाः। महासत्त्वा महाकायाः सौवर्णस्यन्दने स्थितम्॥ सुवर्णवर्णा धर्मज्ञमनीकस्थं युधिष्ठिरम्। राजश्रेष्ठं हयश्रेष्ठाः सर्वतः पृष्ठतोऽन्वयुः॥ वर्णरुच्चावचैरन्यैः सदश्वानां प्रभद्रकाः। संन्यवर्तन्त युद्धाय बहवो देवरूपिणः॥ ते यत्ता भीमसेनेन सहिताः काञ्चनध्वजाः। प्रत्यदृश्यन्त राजेन्द्र सेन्द्रा इव दिवौकसः॥ अत्यरोचत तान् सर्वान् धृष्टद्युम्नः समागतान्। सर्वाण्यति च सेन्यानि भारद्वाजो व्यरोचत॥ अतीव शुशुभे तस्य ध्वजः कृष्णाजिनोत्तरः। कमण्डलुमहाराज जातरूपमयः शुभ:॥ ध्वजं तु भीमसेनस्य वेदूर्यमणिलोचनम्। भ्राजमानं महासिंहं राजन्तं दृष्टवानहम्॥ ध्वजं तु कुरुराजस्य पाण्डवस्य महौजसः। दृष्टवानस्मि सौवर्णं सोमं ग्रहगणान्वितम्॥ मृदङ्गौ चात्र विपुलौ दिव्यौ नन्दोपनन्दकौ। यन्त्रेणाहन्यमानौ च सुस्वनौ हर्षवर्धनौ॥ शरभं पृष्ठसोवर्णं नकुलस्य महाध्वजम्। अपश्याम रथेऽत्युग्रं भीषयाणमवस्थितम्॥ हंसस्तु राजतः श्रीमान् ध्वजेघण्टापताकवान्। सहदेवस्य दुर्धर्षो द्विषतां शोकवर्धनः॥ पञ्चानां द्रोपदेयानां प्रतिमा ध्वजभूषणम्। धर्ममारुतशक्राणामश्विनौश्च महात्मनोः॥ अभिमन्योः कुमारस्य शाहूपक्षी हिरण्मयः। रथे ध्वजवरो राजंस्तप्तचामीकरोज्ज्वलः॥ घटोत्कचस्य राजेन्द्र ध्वजे गृध्रो व्यरोचत। अश्वाश्च कामगास्तस्य रावणस्य पुरा यथा॥ माहेन्द्रं च धनुर्दिव्यं धर्मराजे युधिष्ठिरे। वायव्यं भीमसेनस्य धनुर्दिव्यमभूत्रप॥ त्रैलोक्यरक्षणार्थाय ब्राह्मणा सृष्टमायुधम्। तद दिव्यमजरं चैव फाल्गुनार्थाय वै धनुः॥ वैष्णवं नकुलायाथ सहदेवाय चाश्विजम्। घटोत्कचाय पौलस्त्यं धनुर्दिव्यं भयानकम्॥ रौद्रमाग्नेयकौबेरं याम्यं गिरिशमेव च। पञ्चानां द्रोपदेयानां धनूरत्नानि भारत॥ रौद्रं धनुर्वरं श्रेष्ठं लेभे यद् रोहिणीसुतः। तत् तुष्टः प्रददौ रामः सौभद्राय महात्मने॥ एते चान्ये च बहवो ध्वजा हेमविभूषिताः। तत्रादृश्यन्त शूराणां द्विषतां शोकवर्धनाः॥ तदभूद् ध्वजसम्बाधमकापुरुषसेवितम्। द्रोणानीकं महाराज पटे चित्रमिवार्पितम्॥ शुश्रुवुर्नामगोत्राणि वीराणां संयुगे तदा। द्रोणमाद्रवतां राजन् स्वयंवर इवाहवे॥ संजय उवाच महद् भैरवमानीन्नः संनिवृत्तेषु पाण्डुषु। दृष्ट्वा द्रोणं छाद्यमानं तैर्भास्करमिवाम्बुदैः॥ तैश्चोळूतं रजस्तीव्रमवचक्रे चमू तव। ततो हतममस्याम द्रोणं दृष्टिपथे हते॥ तांस्तु शूरान् महेष्वासान् क्रूरं कर्म चिकीर्षतः। दृष्ट्वा दुर्योधनस्तूणे स्वसैन्यं समचूचुदत्॥ यथाशक्ति यथोत्साहं यथासत्त्वं नराधिपाः। वारयध्वं यथायोगं पाण्डवानामनीकिनीम्॥ ततो दुर्मर्पणो भीममभ्यगच्छत् सुतस्तव। आराद् दृष्ट्वा किरन् बाणैर्जिघृक्षुस्तस्य जीवितम्॥ तं बाणैरवतस्तार क्रुद्धो मृत्युरिवाहवे। तं च भीमोऽतुदद् बाणैस्तदाऽऽसीत् तुमुलं महत्॥ त ईश्वरसमादिष्टाः प्राज्ञाः शूराः प्रहारिणः। राज्यं मृत्युभयं त्यक्त्वा प्रत्यतिष्ठन् परान् युधि॥ कृतवर्मा शिनेः पौत्रं द्रोणं प्रेप्सुं विशाम्पते। पर्यवारयदायान्तं शूरं समरशोभिनम्॥ तं शैनेयः शरव्रातः क्रुद्धः क्रुद्धमवारयत्। कृतवर्मा च शैनेयं मत्तो मत्तमिव द्विपम्॥ सैन्धवः क्षत्रवर्माणमायान्तं निशितैः शरैः। उग्रधन्वा महेष्वासं यत्तो द्रोणादवारयत्॥ क्षत्रवर्मा सिन्धुपतेश्छित्त्वा केतनकार्मुके। नाराचैर्दशभिः क्रुद्धः सर्वमर्मस्वताडयत्॥ अथान्यद् धनुरुदाय सैन्धवः कृतहस्तवत्। विव्याध क्षत्रवर्माणं रणे सर्वायसैः शरैः॥ युयुत्सुं पाण्डवार्थाय यतमानं महारथम्। सुबाहु रतं शूरं यत्तो द्रोणादवारयत्॥ सुबाहोः सधनुर्बाणावस्यतः परिघोपमौ। युयुत्सुः शितपीताभ्यां क्षुराभ्यामच्छिनद् भुजौ॥ राजानां पाण्डवश्रेष्ठं धर्मात्मानं युधिष्ठिरम्। वेलेव सागर क्षुब्धं मद्रराट् समवारयत्॥ तं धर्मराजो बहुभिर्मर्मभिद्भिरवाकिरत्। मद्रेशस्तं चतुःषष्ट्या शरैर्विद्धवानदद् भृशम्॥ तस्य नानदतः केतुमुच्चकर्त च कार्मुकम्। क्षुराभ्यां पाण्डवो ज्येष्ठस्तत उच्चुक्रुशुर्जनाः॥ तथैव राजा बाह्रीको राजानं दुपदं शरैः। आद्रवन्तं सहानीकः सहानीकं न्यवारयत्॥ तद् युद्धमभवद् घोरं वृद्धयोः सह सेनयोः। यथा महायूथपयोपियाः सम्प्रभिन्नयोः॥ विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्च्छताम्। सहसैन्यौ सहानीकं यथेन्द्राग्नी पुरा बलिम्॥ तदुत्पिञ्जलकं युद्धमासीद् देवासुरोपमम्। मत्स्यानां केकयैः सार्धमभीताश्वरथद्विपम्॥ नाकुलिं तु शतानीकं भूतकर्मा सभापतिः। अस्यन्तमिषुजालानि यान्तं द्रोणादवारयत्॥ ततो नकुलदायादस्त्रिभिर्भल्लैः सुसंशितैः। चक्रे विवाहुशिरसं भूतकर्माणमाहवे॥ सतसोमं तु विक्रान्तमायान्तं तं शरौघिणम्। द्रोणायाभिमुखं वीरं विविंशतिरवारयत्॥ सुतसोमस्तु संक्रुद्धः स्वपितृव्यमजिह्मगैः। विविंशति शर्भित्त्वा नाभ्यवर्तत दंशितः॥ अथ भीमरथः शाल्वमाशुगैरायसैः शितैः। षड्भिः साश्वनियन्तारमनयद् यमसादनम्॥ श्रुतकर्माणमायान्तं मयूरसदृशैर्हयैः। चैत्रसेनिर्महाराज तव पौत्रं न्यवारयत्॥ तौ पौत्रौ तव दुर्घर्षों परस्परवधैषिणौ। पितॄणामर्थसिद्ध्यर्थे चक्रतुर्युद्धमुत्तमम्॥ तिष्ठन्तमग्रे तं दृष्ट्वा प्रतिविध्यं महाहवे। द्रौणिर्मानं पितुः कुर्वन् मार्गणैः समवारयत्॥ तं क्रुद्धं प्रतिविव्याध प्रतिविन्ध्यः शितैः शरैः। सिंहलाङ्गललक्ष्माणं पितुरर्थे व्यवस्थितम्॥ प्रवपन्निव बीजानि बीजकाले नरर्षभ। द्रोणायनिद्रौपदेयं शरवर्षैरवाकिरत्॥ आर्जुनि श्रुतकीर्ति तु द्रौपदेयं महारथम्। द्रोणायाभिमुखं यान्तं दौःशासनिरवारयत्॥ तस्य कृष्णसमः कार्ष्णिस्त्रिभिर्भल्लैः सुसंशितैः। धनुर्ध्वजं च सूतं च छित्त्वा द्रोणान्तिकं ययौ॥ यस्तु शूरतमो राजन्नुभयोः सेनयोर्मत:। तं पटच्चहन्तारं लक्ष्मणः समवारयत्॥ स लक्ष्मणस्येष्वसनं छित्त्वा लक्ष्म च भारत। लक्ष्मणे शरजालानि विसृजन् बबशोभत॥ विकर्णस्तु महाप्राज्ञो याज्ञसेनि शिखण्डिनम्। पर्यवारयदायान्तं युवानं समरे युवा॥ ततस्तमिषुजालेन याज्ञसेनिः समावृणोत्। विधूय तद् बाणजालं बभौ तव सुतो बली॥ अङ्गदोऽभिमुखं वीरमुत्तमौजसमाहवे। द्रोणायाभिमुखं यान्तं शरौघेण न्यवारयत्॥ स सम्प्रहारस्तुमुलस्तयोः पुरुषसिंहयोः। सैनिकानां च सर्वेषां तयोश्च प्रतीतिवर्धनः॥ दुर्मुस्वस्तु महेष्वासो वीरं पुरुजितं बली। द्रोणायाभिमुखं यान्तं वत्सदन्तैरवारयत्॥ स दुर्मुखं भ्रुवोर्मध्ये नाराचेनाभ्यताडयत्। तस्य तद् विबभौ वक्त्रं सनालमिव पङ्कजम्॥ कर्णस्तु केकयान् भ्रातॄन् पञ्च लोहितकध्वजान्। द्रोणायाभिमुखं याताशरव(रवारयत्॥ ते चैनं भृशसंतप्ताः शरवर्षैरवाकिरन्। स च तांश्छादयामास शरजालैः पुनः पुनः॥ नैव कर्णो न ते पञ्च ददृशुर्बाणसंवृताः। साश्वसूतध्वजरथाः परस्परशराचिताः॥ पुत्रास्ते दुर्जयश्चैव जयश्च विजयश्च ह। नीलकाश्यजयत्सेनांस्त्रयस्त्रीन् प्रत्यवारयन्॥ तद् युद्धमभवद् धारेमीक्षितुप्रीतिवर्धनम्। सिंहव्याघ्रतरक्षूणां यथर्भमहिषर्षभैः॥ क्षेमधूर्तिबृहन्तौ तु भ्रातरौ सात्वतं युधि। द्रोणायाभिमुखं यान्तं शरैस्तीक्ष्णैस्ततक्षतुः॥ तयोस्तस्य च तद् युद्धमत्यद्भुतमिवाभवत्। सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने।॥ राजानं तु तथाम्बष्ठमेकं युद्धाभिनन्दिनम्। चेदिराजः शरानस्यन् क्रुद्धो द्रोणादवारयत्॥ ततोऽम्बष्ठोऽस्थिभेदिन्या निरभिद्यच्छलाकया। सत्यक्त्वा सशरं चापं स्थाद् भूमिमुपागमत्॥ वार्धक्षेमिं तु वार्ष्णेयं कृपः शारद्वतः शरैः। अक्षुद्रः क्षुद्रकोणात् क्रुद्धरूपमवारयत्॥ युध्यन्तौ कृपवार्ष्णेयौ येऽपश्यश्चित्रयोधिनौ। ते युद्धासक्तमनसो नान्यां बुबुधिरे क्रियाम्॥ सौमदत्तिस्तु राजानं मणिमन्तमतन्द्रितम्। पर्यवारयदायान्तं यशो द्रोणस्य वर्धयन्॥ स सौमदत्तेस्त्वरितश्चित्रेष्वसनकेतने। पुनः पताकां सूतं च छत्रं चापातयद् रथात्॥ अथाप्लुत्य रथात् तूर्णे यूपकेतुरमित्रहा। साश्वसूतध्वजरूां तं चकर्त वरासिना॥ रथं च स्वयं समास्थाय धनुरादाय चापरम्। स्वयं यच्छन् हयान् राजन् व्यधमत् पाण्डवी चमूम्।। पाण्ड्यमिन्द्रमिवायान्तमसुरान् प्रति दुर्जयम्। समर्थः सायकौधेन वृषसेनो न्यवारयत्॥ गदापरिघनिस्त्रिंशपट्टिशायोधनोपलैः। कडङ्गरैर्भुशुण्डीभिः प्रासैस्तोमरसायकैः॥ मुसलैमुद्गरैश्चकैर्भिन्दिपालपरश्वधैः। पांसुवाताग्निसलिलैर्भस्मलोष्ठतृणदुमैः॥ आतुदन् प्ररुजन् भञ्जन निघ्नन् विद्रावयन् क्षिपन्। सेनां विभीषयन्नायाद् द्रौणप्रेप्सुर्घटोत्कचः॥ तं तु नानाप्रहरणैर्नानायुद्धविशेषणैः। राक्षसं राक्षसः क्रुद्धः समाजघ्ने ह्यलम्बुषः॥ तयोस्तदभवद् युद्धं रक्षोग्रामणिमुख्ययोः। तादृग् यादृक् पुरावृत्तं शम्बरामरराजयोः॥ एवं द्वन्द्वशतान्यासन् रथवारणवाजिनाम्। पदातीनां च भद्रं ते तव तेषां च संकुले॥ नैतादृशो दृष्टपूर्वः संग्रामो नैव च श्रुतः। द्रोणस्याभावभावे तु प्रसक्तानां यथाऽभवत्॥ इदं घोरमिदं चित्रमिदं रौद्रमिति प्रभो। तत्र युद्धान्यदृश्यन्त प्रततानि बहूनि च॥ धृतराष्ट्र उवाच तेष्वेवं संनिवृत्तेषु प्रत्युद्यातेषु भागशः। कथं युयुधिरे पार्था मामकाश्च तरस्विनः॥ किमर्जुनश्चाप्यकरोत् संशप्तकबलं प्रति। संशप्तका पार्थस्य किमकुर्वत संजय॥ संजय उवाच तथा तेषु निवृत्तेषु प्रत्युद्यातेषु भागशः। स्वयमभ्यद्रवन् भीमं नागानीकेन ते सुतः॥ सर्वतो मदम्। स नाग इव नागेन गोवृषेणेव गोवृषः। समाहूतः स्वयं राज्ञा नागानीकमुपाद्रवत्॥ स युद्धकुशलः पार्थो बाहुवीर्येण चान्वितः। अभिनत् कुञ्जरानीकमचिरेणैव मारिष॥ ते गजा गिरिसंकाशाः क्षरन्तः भीमसेनस्य नाराचैर्विमुखा विमदीकृताः॥ विधमेदभ्रजालानि यथा वायुः समुद्धतः। व्यधमत् तान्यनीकानि तथैव पवनात्मजः॥ स तेषु विसृजन् बाणान् भीमो नागेष्वशोभत। भुवनेष्विव सर्वेषु गभस्तीनुदितो रविः॥ ते भीमबाणाभिहताः संस्यूता विबभुर्गजाः। गभस्तिभिरिवार्कस्य व्योम्नि नानाबलाहकाः॥ तथा गजानां कदनं कुर्वाणमनिलात्मजम्। क्रूद्धोदोधनोऽभ्येत्य प्रत्यविध्यच्छितैः शरैः॥ ततः क्षणेन क्षितिपं क्षतजप्रतिमेक्षणः। क्षयं निनीषुर्निशितैर्भीमो विव्याध पत्रिभिः॥ स शराचितसर्वाङ्गः क्रुद्धो विव्याध पाण्डवम्। नाराचैरर्करशम्याभैर्भीमसेनं स्मयन्निव॥ तस्य नागं मणिमयं रत्नचित्रध्वजे स्थितम्। भल्लाभ्यां कार्मुकं चैव क्षिप्रं चिच्छेद पाण्डवः॥ दुर्योधनं पीड्यमानं दृष्ट्वा भीमेन मारिष। चक्षोभयिषुरभ्यागादङ्गो मातङ्गमास्थितः॥ तमापतन्तं नागेन्द्रमम्बुदप्रतिमस्वनम्। कुम्भान्तरे भीमसेना नाराचैरार्दयद् भृशम्॥ तस्य कायं विनिर्भिद्य न्यमज्जद् धरणीतले। ततः पपात द्विरदो वजाहत इवाचलः॥ तस्यावर्जितनागस्य म्लेच्छस्याधः पतिष्यतः। शिरश्चिच्छेद भल्लेन क्षिप्रकारी वृकोदरः॥ तस्मिन् निपतिते वीरे सम्प्राद्रवत् सा चमूः। सम्भ्रान्ताश्वद्विपरथा पदातानवमृद्नती॥ तेष्वनीकेषु भग्नेषु विद्रवत्सु समन्ततः । प्राग्ज्योतिषस्ततो भीमं कुञ्जरेण समाद्रवत्॥ येन नागेन मघवानजयद् दैत्यदानवान्। तदन्वयेन नागेन भीमसेनमुपाद्रवत्॥ स नागप्रवरो भीमं सहसा समुपाद्रवत्। चरणाभ्यामथो द्वाभ्यां संहतेन करेण च॥ व्यावृत्तनयनः क्रुद्धः प्रमथनिव पाण्डवम्। वृकोदररथं साश्चमविशेषमचूर्णयत्॥ पद्भ्यां भीमोऽप्यथो धावंस्तस्य गात्रेष्वलीयत। जाननञ्जलिकावेधं नापाक्रामत पाण्डवः॥ गात्राभ्यन्तरगो भूत्वा करेणाताडयन्मुहुः। लालयामास तं नागं वधाकाक्षिणमव्ययम्॥ कुलालचक्रवन्नागस्तदा तूर्णमथाभ्रमत्। नागायुतबलःश्रीमान् कालयानो वृकोदरम्॥ भीमोऽपिनिष्क्रम्य तत: सुप्रतीकाग्रतोऽभवत्। भीमं करेणावनम्य जानुभ्यामभ्यताडयत्॥ ग्रीवायां वेष्टयित्वैनं स गजो हन्तुमैहत। करवेष्टं भीमसेनो भ्रमं दत्त्वा व्यमोचयत्॥ पुनर्गात्राणि नागस्य प्रविवेश वृकोदरः। यावत् प्रतिगजायातं स्वबले प्रत्यवेक्षत॥ भीमोऽपि नागगात्रेभ्यो विनिःसृत्यापयाज्जवात्। ततः सर्वस्य सैन्यस्य नादः समभवनमहान्॥ अहो घिङ् निहतो भीमः कुञ्जरेणेति मारिष। तेन नागेन संत्रस्ता पाण्डवानामनीकिनी॥ सहसाभ्यद्रवद् राजन् यत्र तस्थौ वृकोदरः। ततो युधिष्ठिरो राजा हतं मत्वा वृकोदरम्॥ भगदत्तं सपाञ्चाल्यः सर्वतः समवारयत्। तं रथं रथिनां श्रेष्ठाः परिवार्य परंतपाः॥ अवाकिरशरैस्तीक्ष्णैः शतशोऽथ सहस्रशः। स विधातं पृषत्कानामङ्कुशेन समाहरन्॥ गजेन पाण्डुपञ्चालान् व्यधमत् पर्वतेश्वरः। तदद्भुतमपश्याम भगदत्तस्य संयुगे॥ तथा वृद्धस्य चरितं कुञ्जरेण विशाम्पते। ततो राजा दशार्णानां प्राग्ज्योतिषमुपाद्रवत्॥ तिर्यग्यातेन नागेन समदेनाशुगामिना। तयोर्युद्धं समभवन्नागयोर्भीमरूपयोः॥ सपक्षयोः पर्वतयोर्यथा सदुपयोः पुरा। प्राग्ज्योतिषपते गः संनिवृत्यापसृत्य च॥ पार्वे दशार्णाधिपतेर्भित्त्वा नागमपातयत्। तोमरैः सूर्यरश्म्याभैर्भगदत्तोऽथ सप्तभिः॥ जघान द्विरदस्थं तं शत्रु प्रचलितासनम्। व्यवच्छिद्य तु राजानं भगदत्तं युधिष्ठिरः॥ स्थानीकेन महता सर्वतः पर्यवारयत्। स कुञ्जरस्थोरथिभिः शुशुभे सर्वतो वृतः॥ पर्वत वनमध्यस्थो ज्वलन्निव हुताशनः। मण्डलं सर्वतः श्लिष्टं रथिनामुग्रधन्विनाम्॥ किरतां शरवर्षाणि स नागः पर्यवर्तत। ततः प्राग्ज्योतिषो राजा परिगृह्य महागजम्॥ प्रेषयामास सहसा युयुधानस्थं प्रति। शिनेः पौत्रस्य तु रथं परिगृह्य महाद्विपः॥ अभिचिक्षेप वेगेन युयुधानस्त्वपाक्रमत्। बृहत: सैन्धवानश्वान् समुत्थाप्याथ सारथिः॥ तस्थौ सात्यकिमासाद्य सम्प्लुतस्तं रथं प्रति। स तु लध्वान्तरं नागस्त्वरितो रथमण्डलात्॥ निश्चकाम ततः सर्वान् परिचिक्षेप पार्थिवान्। ते त्वाशुगतिना तेन त्रास्यमाना नरर्षभाः॥ तमेकं द्विरदं संख्ये मेनिरे शतशो द्विपान्। ते गजस्थेन काल्यन्ते भगदत्तेन पाण्डवाः॥ ऐरावतस्थेन यथा देवराजेन दानवाः। तेषां प्रद्रवतां भीमः पञ्चालानामितस्ततः॥ गजवाजिकृतः शब्दः सुमहान् समजायत। भगदत्तेन समरे काल्यमानेषु पाण्डुषु॥ प्राग्ज्योतिषमभिक्रुद्धः पुनर्भीमः समभ्ययात्। तस्याभिद्रवतो वाहान् हस्तमुक्तेन वारिणा॥ सिक्त्वा व्यत्रासयन्नागस्ते पार्थमहरंस्ततः। ततस्तमभ्ययात् तूर्णं रुचिपर्वाऽऽकृतीसुतः॥ समनञ्छरवर्षेण रथस्थोऽन्तकसन्निभः। ततः स रुचिपर्वाणं शरेणानतपर्वणा॥ सुपर्वा पर्वतपतिर्निन्ये वैवस्वतक्षयम्। तस्मिन् निपतिते वीरे सौभद्रो द्रोपदीसुतः॥ चेकितानो धृष्टकेतुर्युयुनसुश्चादयन् द्विपम्। त एनं शरधाराभिर्धाराभिरिव तोयदाः॥ सिषिचुभैरवान् नादान् विनदन्तो जिघांसवः। ततः पार्यकुशाङ्गुष्ठैः कृतिना चोदितोद्विपः॥ प्रसारितकरः प्रायात् स्तब्धकर्णेक्षणो द्रुतम्। सोऽधिष्ठाय पदा वाहान् युयुत्सोः सूतमारुजत्॥ युयुत्सुस्तु रथाद् राजन्नपाक्रामत् त्वरान्वितः। ततः पाण्डवयोधास्ते नागराजं शरैर्दुतम्॥ सिषिचुभैरवान् नादान् विनदन्तो जिघांसवः। पुत्रस्तु तव सम्भ्रान्तः सौभद्रस्याप्लुतो रथम्॥ स कुञ्जरस्थो विसृजनिषूनरिषु पार्थिवः। बभौ रश्मीनिवादित्यो भुवनेषु समुत्सृजन्॥ तम निदशभिर्युयुन्सुर्दशभिः शरैः। त्रिभिस्त्रिभिौपदेया धृष्टकेतुश्च विव्यधुः॥ सोऽतियत्नार्पितैर्बाणैराचितो द्विरदा बभौ। संस्यूत इव सूर्यस्य रश्मिभिर्जलदो महान्॥ नियन्तुः शिल्पयत्नाभ्यां प्रेरितोऽरिशरार्दितः। परिचिक्षेप तान् नागः स रिपून् सव्यदक्षिणम्॥ गोपाल इव दण्डेन यथा पशुगणान् वने। आवेष्टयत नां सेनां भगदत्तस्तथा मुहुः॥ क्षिप्रं श्येनाभिपन्नानां वायसानामिव स्वनः। बभूव पाण्डवेयानां भृशं विद्रवतां स्वनः॥ स नागराज: प्रवराड्कुशाहतः पुरा सपक्षोऽद्रिवरो यथा नृप। भयं तदा रिपुषु समादधद् भृशं वणिग्जनानां क्षुभितो यथार्णवः॥ र्भयाद् द्रवद्भिर्जनितोऽतिभैरवः। क्षितिवियद् द्यां विदिशोदिशस्तथा समावृणोत् पार्थिव संयुगे ततः॥ स तेन नागप्रवरेण पार्थिवो भृशं जगाहे द्विषतामनीकिनीम्। पुरा सुगुप्तां विवुधैरिवाहवे विरोचनो देववरूथिनीमिव॥ भृशं ववौ ज्वलनसखो वियद् रजः समावृणोनमुहुरपि चैव सैनिकान्। तमेकनागं गणशो यथा गजान् समन्ततो दुतमथ मेनिरे जनाः॥ संजय उवाच यन्मां पार्थस्य संग्रामे कर्माणि परिपृच्छसि। तच्छृणुष्व महाबाहो पार्थो यदकरोद् रणे॥ रजो दृष्ट्वा समुद्भूतं श्रुत्वा च गजनिःस्वनम्। भगदत्ते विकुर्वाणे कौन्तेयः कृष्णमब्रवीत्॥ यथा प्राग्ज्योतिषो राजा गजेन मधुसूदन। त्वरमाणो विनिष्क्रान्तो ध्रुवं तस्यैष नि:स्वनः॥ इन्द्रादनवरः संख्ये गजयानविशारदः। प्रथमो गजयोधानां पृथिव्यामिति मे मतिः॥ स चापि द्विरदश्रेष्ठः सदाऽप्रतिगजो युधि। सर्वशस्त्रातिग: संख्ये कृतकर्मा जितक्लमः॥ सहः शस्त्रनिपातानामग्निस्पर्शस्य चानघ। स पाण्डवबलं सर्वमबैको नाशयिष्यति॥ न चावाभ्यामृतेऽनयोऽस्ति शक्तस्तं प्रतिबाधितुम्। त्वरमाणस्ततो याहि यतः प्रज्ज्योतिषाधिपः॥ दृप्तं संख्ये द्विपबलाद् वयसा चापि विस्मितम्। अद्यैनं प्रेषयिष्यामि बलहन्तुः प्रियातिथिम्॥ वचनादथ कृष्णस्तु प्रययो सव्यसाचिनः। दीर्यते भगदत्तेन यत्र पाण्डववाहिनी॥ तं प्रयान्तं ततः पश्चादाह्वयन्तो महारथाः। संशप्तकाः समारोहन् सहस्राणि चतुर्दश॥ दशैव तु सहस्राणि त्रिगर्तानां महारथाः। चत्वारि च सहस्राणि वासुदेवस्य चानुगाः॥ दीर्यमाणां चमू दृष्ट्वा भगदत्तेन मारिष। आहूयमानस्य च तैरभवद्धृदयं द्विधा॥ किं नु श्रेयस्करं कर्म भवेदद्येति चिन्तयन्। इह वा विनिवर्तेयं गच्छेयं वा युधिष्ठिरम्॥ तस्य बुद्ध्या विचार्यैवमर्जुनस्य कुरूद्वह। अभवद् भूयसी बुद्धिः संशप्तकवधे स्थिरा॥ स संनिवृत्तः सहसा कपिप्रवरकेतनः। एको रथसहस्राणि निहन्तुं वासवी रणे॥ सा हि दुर्योधनस्यासीन्मतिः कर्णस्य चोभयोः। अर्जुनस्य वधोपाये तेन द्वैधमकल्पयत्॥ स तु दोलायमानोऽभूद् द्वैधीभावेन पाण्डवः। वधेन तु नराग्र्याणामकरोत् तां मृषा तदा॥ ततः शतसहस्राणि शराणां नतपर्वणाम्। असृजन्नर्जुने राजन् संशप्तकमहारथाः॥ नैव कुन्तीसुतः पार्थो नैव कृष्णो जनार्दनः। न हया न रथो राजन् दृश्यन्ते स्म शरैश्चिताः॥ तदा मोहमनुप्राप्तः सिष्विदे हि जनार्दनः। ततस्तान् प्रायशः पार्थो ब्रह्मास्त्रेण निजघ्निवान्॥ शतशः पाणयश्छिन्नाः सेषुज्यातलकार्मुकाः। केतवो वाजिनः सूता रथिनश्चापतन् क्षितौ॥ द्रुमाचलाग्राम्बुधरैः समकायाः सुकल्पिता:। हतारोहाः क्षितौ पेतुर्द्विपाः पार्थशराहताः॥ ॥ विप्रविद्धकुथा नागाश्छिन्नभाण्डाः परासवः। सारोहास्तु रणे पेतुर्मथिता मार्गणैर्भृशम्॥ सर्टिप्रासासिनखराः समुद्गरपरश्वधाः। विच्छिन्ना बाहवः पेतुर्नृणां भल्लैः किरीटिना॥ बालादित्याम्बुजेन्दूनां तुल्यरूपाणि मारिष। संच्छिन्नान्यर्जुनशरैः शिरांस्युा प्रपेदिरे॥ जज्वालालंकृता सेना पत्रिभिः प्राणिभोजनैः। नानारूपैस्तदामित्रान् क्रुद्धे निम्नति फाल्गुने॥ क्षोभयन्तं तदा सेनां द्विरदं नलिनीमिव। धनंजयं भूतगणाः साधु साध्वित्यपूजयन्॥ दृष्ट्वा तत् कर्म पार्थस्य वासवस्येव माधवः। विस्मयं परमं गत्वा प्राञ्जलिस्तमुवाच ह॥ कर्मैतत् पार्थ शक्रेण यमेन धनदेन च। दुष्करं समरे यत् ते कृमद्येति मे मतिः॥ युगपच्चैव संग्रामे शतशोऽथ सहस्रशः। पतिता एव मे दृष्टाः संशप्तकमहारथाः॥ संशप्तकांस्ततो हत्वा भूयिष्ठा ये व्यवस्थिताः। भगदत्ताय याहीति कृष्णं पार्थोऽभ्यनोदयत्॥ युगपच्चैव संग्रामे शतशोऽथ सहस्रशः। पतिता एव मे दृष्टाः संशप्तकमहारथाः॥ संशप्तकांस्ततो हत्वा भूयिष्ठा ये व्यवस्थिताः। भगदत्ताय याहीति कृष्णं पार्थोऽभ्यनोदयत्॥ धृतराष्ट्र उवाच तथा क्रुद्धः किमकरोद् भगदत्तस्य पाण्डवः। प्राग्ज्योतिषो वा पार्थस्य तन्मे शंस यथातथम्॥ संजय उवाच प्राग्ज्योतिषेण संसक्तावुभौ दाशार्हपाण्डवौ। मृत्युदंष्ट्रान्तिकं प्राप्तौ सर्वभूतानि मेनिरे॥ तथा तु शरवर्षाणि पातयत्यनिशं प्रभो। गजस्कन्धान्महाराज कृष्णयोः स्यन्दनस्थयोः॥ अथ कार्णायसैर्वाणैः पूर्णकार्मुकनिःसृतैः। अविध्यद् देवकीपुत्रं हेमपुङ्खः शिलाशितैः॥ अग्निस्पर्शसमास्तीक्ष्णा भगदत्तेन चोदिताः। निर्भिद्य देवकीपुत्रं क्षितिं जग्मुः सुवाससः॥ तस्य पार्थो धनुश्छित्त्वा परिवारं निहत्य च। लालयन्निव राजानं भगदत्तमयोधयत्॥ सोऽर्करश्मिनिभांस्तीक्ष्णांस्तोमरान् वै चतुर्दश। अप्रेषयत् सव्यसाची द्विधैकैकमथाच्छिनत्॥ ततो नागस्य तद् वर्म व्यधमत् पाकशासनिः। शरजालेन महता तद् वयशीर्यत भूतले॥ शीर्णवर्मा स तु गजः शरैः सुभृशमर्दितः। बभौ धारानिपाताक्तो व्यभ्रः पर्वतराडिव॥ ततः प्राग्ज्योतिषः शक्तिं हेमदण्डामयस्मयीम्। व्यसृजद् वासुदेवाय द्विधा तामर्जुनोऽछिनत्॥ ततश्छत्रं ध्वजं चैव छित्त्वा राज्ञोऽर्जुनः शरैः। विव्याध दशभिस्तूर्णमुत्स्मयन् पर्वतेश्वरम्॥ सोऽतिविद्धोऽर्जुनशरैः सुपुकैः कङ्कपत्रिभिः। भगदत्तस्ततः क्रुद्धः पाण्डवस्य जनाधिपः॥ व्यसृजत् तोमरान् मूर्ध्नि श्वेताश्वस्योन्ननाद च। तैरर्जुनस्य समरे किरीटं परिवर्तितम्॥ परिवृत्तं किरीटं तद् यमयन्नेव पाण्डवः। सुदृष्टः क्रियतां लोक इति राजानमब्रवीत्॥ एवमुक्तसतु संक्रुद्धः शरवर्षेण पाण्डवम्। अभ्यवर्षत् सगोविन्दं धनुरादाय भास्वरम्॥ तस्य पार्थोधनुश्छित्त्वा तूणीरान् संनिकृत्य च। त्वरमाणो द्विसप्तत्या सर्वमर्मस्वताडयत्॥ विद्धस्ततोऽतिव्यथितो वैष्णवास्त्रमुदीरयन्। अभिमन्त्र्याङ्कुशं क्रुद्धो व्यसृजत् पाण्डवोरसि।। १७ विसृष्टं भगदत्तेन तदस्त्रं सर्वघाति वै। उरसा प्रतिजग्राह पार्थं संच्छाद्य केशवः॥ वैजयन्त्यभवन्माला तदस्त्रं केशवोरसि। पद्मकोशविचित्राढ्या सर्वर्तुकुसुमोत्कटा॥ ज्वलनार्केन्दुवर्णाभा पावकोज्ज्वलपल्लवा । तया पद्मपलाशिन्या वातकम्पितपत्रया॥ शुशुभेऽभ्यधिकं शौरिरतसीपुष्पसंनिभः। ततोऽर्जुन: क्लान्तमना: केशवं प्रत्यभाषत॥ अयुध्यमानस्तुरगान् संयन्तास्मीति चानघ। इत्युक्त्वा पुण्डरीकाक्ष प्रतिज्ञा स्वां न रक्षसि॥ यद्यहं व्यसनी वा स्यामशक्तो वा निवारणे। ततस्त्वयैवं कार्यं स्यान्न तत्कार्यं मयि स्थिते॥ सबाणः सधनुश्चाहं ससुरासुरमानुषान्। शक्तो लोकानिमाजेतुं तच्चापि विदितं तव॥ ततोऽर्जुनं वासुदेवः प्रत्युवाचार्थवद् वचः। शृणु गुह्यमिदं पार्थ पुरा वृत्तं यथानघ॥ चतुर्मूर्तिरहं शश्वल्लोकत्राणार्थमुद्यतः। आत्मानं प्रविभज्येह लोकानां हितमादधे॥ एका मूर्तिस्तपश्चर्यां कुरुते मे भुवि स्थिता। अपरा पश्यति जगत् कुर्वाणं साध्वसाधुनी॥ अपरा कुरुते कर्म मानुषं लोकमाश्रिता। शेते चतुर्थी त्वपरा निद्रां वर्षसहस्रिकम्॥ याऽसौ वर्षसहस्रान्ते मूर्तिरुत्तिष्ठते मम। वराहेभ्यो वराश्रेष्ठांस्तस्मिन् काले ददाति सा॥ तं तु कालमनुप्राप्तं विदित्वा पृथिवी तदा। अयाचत वरं यन्मां नरकार्थाय तच्छृणु॥ देवानां दानवानां च अवध्यस्तनयोऽस्तु मे। उपेतो वैष्णवास्त्रेण तन्मे त्वं दातुमर्हसि॥ एवं वरमह श्रुत्वा जगत्यास्तनये तदा। अमोघमस्त्रं प्रायच्छं वैष्णवं परमं पुरां॥ अवोचं चैतदस्त्रं वै ह्यमोघं भवतु क्षमे। नरकस्याभिरक्षार्थं नैनं कश्चिद् वधिष्यति॥ अनेनास्त्रेण ते गुप्तः सुतः परबलार्दनः। भविष्यति दुराधर्षः सर्वलोकेषु सर्वदा॥ तथेत्युक्त्वा गता देवी कृतकामा मनस्विनी। स चाप्यासीद् दुराधर्षो नरकः शत्रुतापनः॥ तस्मात् प्राग्ज्योतिषं प्राप्तं तदस्त्रं पार्थ मामकम्। नास्यावध्योऽस्ति लोकेषु सेन्द्ररुद्रेषु मारिष॥ तन्मया त्वत्कृते चैतदन्यथा व्यपनामितम्। विमुक्तं परमास्त्रेण जहि पार्थ महासुरम्॥ वैरिणं जहि दुर्धर्षं भगदत्तं सुरद्विषम्। यथाऽहं जनिवान् पूर्वं हितार्थं नरकं तथा॥ एवमुक्तस्तदा पार्थः केशवेन महात्मना। भगदत्तं शितैर्बाणैः सहसा समवाकिरत्॥ ततः पार्थो महाबाहुरसम्भ्रान्तो महामनाः। कुम्भयोरन्तरे नागं नाराचेन समार्पयत्॥ स समासाद्य तं नागं बाणो वज्र इवाचलम्। अभ्यगात् सह पुढेन वल्मीकमिव पन्नगः॥ स करी भगदत्तेन प्रेर्यमाणो मुहुर्मुहुः। न करोति वचस्तस्य दरिद्रस्येव योषिता॥ स तु विष्टभ्य गात्राणि दन्ताभ्यामवनिं ययौ। नदन्नार्तस्वनं प्राणनुत्ससर्ज महाद्विपः॥ ततो गाण्डीवधन्वानमभ्यभाषत केशवः। अयं महत्तरः पार्थ पालितेन समावृतः॥ वलीसंछन्ननयनः शूरू परमदुर्जयः। अक्ष्णोरुन्मीलनार्थाय बद्धपट्टो ह्यसौ नृपः॥ दैववाक्यात् प्रचिच्छेद शरेण भृशमर्जुनः। छिन्नमात्रेऽशुके तस्मिन् रुद्धनेत्रो बभूव सः॥ तमोमयं जगन्मेने भगदत्त: प्रतापवान्। ततश्चन्द्रार्धविम्बेन बाणेन तनपर्वणा॥ बिभेद हृदयं राज्ञो भगदत्तस्य पाण्डवः। स भिन्नहृदयो राजा भगदत्तः किरीटिना॥ शरासनं शरांश्चैव गतासुः प्रमुमोच ह। शिरसस्तस्य विभ्रष्टं पपात च वरांशुकम्। नालताडनविभ्रष्टं पलाशं नलिनादिव॥ स हेममाली तपनीयभाण्डात् पपात नागाद् गिरिसंनिकाशात्। सुपुष्पितो मारुतवेगरुग्णो महीधराग्रादिव कर्णिकारः॥ निहत्य तं नरपतिमिन्द्रविक्रम सखायमिन्द्रस्य तदैन्द्रिराहवे। ततोऽपरांस्तव जयकाक्षिणो नरान् बभञ्ज वायुर्बलवान् द्रमानिव॥ संजय उवाच प्रियमिन्द्रस्य सततं सखायममितौजसम्। हत्वा प्राग्ज्योतिषं पार्थः प्रदक्षिणमवर्तत॥ ततो गान्धारराजस्य सुतौ परपुरंजयौ। अर्देतामर्जुनं संख्ये भ्रातरौ वृषकाचलौ॥ तौ समेत्यार्जुनं वीरौ पुरु पश्चाच्च धन्विनौ। अविध्येतां महावेगैर्निशितैराशुगै शम्॥ वृषकस्य हयान् सूतं धनुश्छत्रं रथं ध्वजम्। तिलशोव्यधमत् पार्थः सौबलस्य शितैः शरैः॥ ततोऽर्जुनः शरवातै नाप्रहरणैरपि। गान्धारानाकुलांश्चक्रे सौबलप्रमुखान् पुनः॥ ततः पञ्चशतान् वीरान् गान्धारानुद्यतायुधान्। प्राहिणोन्मृत्युलोकाय क्रुद्धो बाणैर्धनंजयः॥ हताश्वात् तु रथात् तूर्णनवतीर्य महाभुजः। आरुरोह रथं भ्रातुरन्यच्च धनुराददे॥ तावेकरथमारूढौ भ्रातरौ वृषकाचलौ। शरवर्षेण बीभत्सुमविध्येतां मुहुर्मुहुः॥ स्यालौ तव महात्मानौ राजानौ वृषकाचलौ। भृशं विजनतुः पार्थमिन्द्रं वृत्रबलाविव॥ लब्धलक्ष्यौ तु गान्धारावहतां पाण्डवं पुनः। निदाघवार्षिकौ मासौ लोकं धर्मोशु भिर्यथा।॥ तौ रथस्थौ नरव्याघ्रौ राजानौ वृषकाचलौ। संश्लिष्टाङ्गौ स्थितौ राजञ्जघानेकेषुणाऽर्जुनः॥ तौ स्थात् सिंहसंकाशौ लोहिताक्षौ महाभुजौ। राजन् सम्पेततुर्वीरौ सोदर्यावेकलक्षणौ॥ तयोर्भूमिं गतौ देहौ रथाद् बन्धुजनप्रियौ। यशो दश दिशः पुण्यं गमयित्वा व्यवस्थितौ॥ दृष्ट्वा विनिहतौ संख्ये मातुलावपलायिनौ। भृशं मुमुचुरश्रूणि पुत्रास्तव विशाम्पते॥ निहतौ भ्रातरौ दृष्ट्वा मायाशतविशारदः। कृष्णौ सम्मोहयन् मायां विदधे शकुनिस्ततः॥ लगुडायोगुडाश्मानः शतघ्नयश्च सशक्तयः। गदापरिघनिस्त्रिंशशूलमुद्गरपट्टिशाः॥ सकम्पनर्टिनखरा मुसलानि परश्वधाः। क्षुराः क्षुरप्रनालीका वत्सदन्तास्थिसन्धयः॥ चक्राणि विशिखाः प्रासा विविधान्यायुधानि च। प्रपेतुः शतशो दिग्भ्यः प्रदिग्भ्यश्चार्जुनं प्रति॥ खरोष्ट्रमहिषा: सिंहा व्याघ्राः सृमरचित्रकाः। ऋक्षाः शालावृका गृध्राः कपयश्च सरीसृपाः॥ विविधानि च रक्षांसि क्षुधितान्यर्जुनं प्रति। संक्रुद्धान्यभ्यधावन्त विविधानि वयांसि च॥ ततो दिव्यास्त्रविच्छूरः कुन्तीपुत्रो धनंजयः। विसृजन्निषुजालानि सहसा तान्यताडयत्॥ ते हन्यमानाः शूरेण प्रवरैः सायकैलैः। विरुवन्तो महारावान् विनेशुः सर्वतो हताः॥ ततस्तमः प्रादुरभूदर्जुनस्य रथं प्रति। तस्माच्च तमसो वाचः क्रूराः पार्थमभर्त्सयन्॥ भयकर्तृ महाहवे। उत्तमास्त्रेण महता ज्यौतिषेणार्जुनोऽवधीत्॥ तत् तमो भैरवं घोरं हते तसिमञ्जलौघास्तु प्रादुरासन् भयानकाः। अम्भसस्तस्य नाशार्थमादित्यास्त्रमथार्जुनः॥ प्रायुक्ताम्भस्ततस्तेन प्रायशोऽस्त्रेण शोषितम्। एवं बहुविधा मायाः सौबलस्य कृताः कृताः॥ जधानास्त्रबलेनाशु प्रहसनर्जुनस्तदा। तदा हतासु मायासु त्रस्तोऽर्जुनशराहतः॥ अपाजाज्जवनैरश्वैः शकुनिः प्राकृतो यथा। ततोऽर्जुनोऽस्त्रविच्छैघ्यं दर्शयन्नात्मनोऽरिषु॥ अभ्यवर्षच्छरौघेण कौरवाणामनीकिनीम्। सा हन्यमाना पार्थेन तव पुत्रस्य वाहिनी॥ द्वैधीभूता महाराज गङ्गेवासाद्य पर्वतम्। द्रोणमेवान्वपद्यन्त केचित् तत्र नरर्षभाः॥ केचिद् दुर्योधनं राजन्नद्यमानाः किरीटिना। नापश्याम ततस्त्वेनं सैन्ये वै रजसावृते॥ गाण्डीवस्य च निर्घोषः श्रुतो दक्षिणतो मया। शङ्खदुन्दुभिनिर्घोषं वादित्राणां च निःस्वनम्॥ गाण्डीवस्य तु निर्घोषोव्यतिक्रम्यास्पृशद् दिवम्। ततः पुनर्दक्षिणतः संग्रामश्चित्रयोधिनाम्॥ सुयुद्धं चार्जुनस्यासीदहं तु द्रोणमन्वियाम्। यौधिष्ठिराभ्यनीकानि प्रहरन्ति ततस्ततः॥ नानाविधान्यनीकानि पुत्राणां तव भारत। अर्जुनो व्यधमत् काले दिवीवाभ्राणि मारुतः॥ तु वासवमिवायान्तं भूरिवर्षं शरौघिणम्। महेष्वासा नरव्याघ्रा नोग्रं केचिदवारयन्॥ ते हन्यमानाः पार्थेन त्वदीया व्यथिता भृशम्। स्वानेव बहवो जघ्नुर्विद्रवन्तस्ततस्ततः॥ तेऽर्जुनेन शरा मुक्ताः कङ्कपत्रास्तनुच्छिदः। शलभा इव सम्पेतुः संवृण्वाना दिशो दश॥ तुरंग रथिनं नागं पदातिमपि मारिष। विनिर्भिद्य क्षिति जग्मुर्वल्मीकमिव पन्नगाः॥ न च द्वितीयं व्यसृजत् कुञ्जराश्वनरेषु सः। पृथगेकशरा रुग्णा निपेतुस्ते गतासवः॥ हतैर्मनुष्यैर्द्विरदैश्च सर्वतः शराभिसृष्टैश्च हयैर्निपातितः। तदा श्वगोमायुबलाभिनादितं विचित्रमायोधशिरोबभूव तत्॥ पिता सुतं त्यजति सुहृद्वरं सुहृत् तथैव पुत्रः पितरं शरातुरः। स्त्यजन्ति वाहानपि पार्थपीडिताः॥ धृतराष्ट्र उवाच तेष्वनीकेषु भग्नेषु पाण्डुपुत्रेण संजय। चलितानां द्रुतानां च कथमासीन्मनो हि चः॥ अनीकानां प्रभग्नानामवस्थानमपश्यताम्। दुष्करं प्रतिसंधानं तन्ममाचक्ष्व संजय॥ संजय उवाच तथापि तव पुत्रस्य प्रियकामा विशाम्पते। यशः प्रवीरा लोकेषु रक्षन्तो द्रोणमन्वयुः॥ समुद्यतेषु चास्त्रेषु समप्राप्ते च युधिष्ठिरे। अकुर्वन्नार्यकर्माणि भैरवे सत्यभीतवत्॥ अन्तरं भीमसेनस्य प्रापतन्नमितौजसः। सात्यकेश्चैव वीरस्य धृष्टद्युम्नस्य वा विभो॥ द्रोणं द्रोणमिति क्रूराः पञ्चाला: समचोदयन्। मा द्रोणमिति पुत्रास्ते कुरून् सर्वानचोदयन्॥ द्रोणं द्रोणमिति ह्येके मा द्रोणमिति चापरे। कुरूणां पाण्डवानां च द्रोणद्यूतमवर्तत॥ यं यं प्रमथते द्रोणः पञ्चलानां रथव्रजम्। तत्र तत्र तु पाञ्चाल्यो धृष्टद्युम्नोऽभ्यवर्तत॥ तथा भागविपर्यासौः संग्रामे भैरवे सति। वीराः समासदन् वीरान् कुर्वन्तो भैरवं रवम्॥ अकम्पनीयाः शत्रूणां वभूवुस्तत्र पाण्डवाः। अकम्पयन्ननीकानि स्मरन्तः क्लेशमात्मनः॥ ते त्वमर्षवशं प्राप्ता ह्रीमन्तः सत्त्वचोदिताः। त्वक्त्वा प्राणान् न्यवर्तन्त घ्नन्तो द्रोणं महाहवे॥ अयसामिव सम्पातः शिलानामिव चाभवत्। दीव्यतां तुमुले युद्धे प्राणैरमिततेजसाम्॥ न तु स्मरन्ति संग्राममपि वृद्धास्तथाविधम्। दृष्टपूर्वे महाराज श्रुतपूर्वमथापि वा॥ प्राकम्पतेव पृथिवी तस्मिन् वीरावसादने। निवर्तता बलौघेन महता भारपीडिता॥ घूर्णतोऽपि बलौघस्य दिवं स्तब्वेव निःस्वनः। अजातशत्रोस्तत्सैन्यमाविवेश सुभैरवः॥ समासाद्य तु पाण्डुनामनीकानि सहस्रशः। द्रोणेन चरता संख्ये प्रभग्नानि शितैः शरैः।॥ तेषु प्रमथ्यमानेषु द्रोणेनाद्भुतकर्मणा। पयवारयदासाद्य द्रोणं सेनापतिः स्वयम्॥ तदद्भुतमभूद् युद्धं द्रोणपाञ्चालयोस्तथा। नैव तस्योपमा काचिदिति मे निश्चिता मतिः॥ ततो नीलोऽनलप्रख्यो ददाह कुरुवाहिनीम्। शरस्फुलिङ्गश्चापार्चिर्दहन् कक्षमिवानलः॥ तं दहन्तमनीकानि द्रोणपुत्रः प्रतापवान्। पूर्वाभिभाषी सुश्लक्ष्णं स्मयमानोऽभ्यभाषत॥ नील किं बहुभिर्दग्धैःस्तव योधैः शरार्चिषा। मयैकेन हि युध्यस्व क्रुद्धः प्रहर चाशु माम्॥ तं पद्मनिकराकारं पद्मपत्रनिभेक्षणम्। व्याकोशपद्माभमुखो नीलो विव्याध सायकैः॥ तेनापि विद्धः सहसा द्रौणिर्भल्लैः शितैस्त्रिभिः। धनुर्ध्वजं च छत्रं च द्विषतः स न्यकृन्तत॥ स प्लुतः स्यन्दनात्तस्मान्नीलश्चर्मवरासिभृत्। द्रौणायनेः शिरः कायाद्धर्तुमैच्छत् पतत्रिवत्॥ तस्तोन्नतांसं सुनसं शिरः कायात् सकुण्डलम्। भल्लेनापाहरद् द्रौणिः स्मयमान इवानघ॥ सम्पूर्णचन्द्राभमुखः पद्मपत्रनिभेक्षणः। प्रांशुरुत्पलपत्राभो निहतो न्यपतद् भुवि॥ ततः प्रविष्यथे सेना पाण्डवी भृशमाकुला। आचार्यपुत्रेण हते नीले ज्वलिततेजसि॥ अचिन्तयंश्च ते सर्वे पाण्डवानां महारथाः। कथं नो वासविस्त्रायाच्छत्रुभ्य इति मारिष॥ दक्षिणेन तु सेनायाः कुरुते कदनं वली। संशप्तकावशेषस्य नारायणबलस्य च॥ संजय उवाच प्रतिघातं तु सैन्यस्य नामृष्यत वृकोदरः। सोऽभ्याहनद् गुरुं षष्ट्या कर्णे च दशभिः शरैः॥ तस्य द्रोण: शितैर्बाणैस्तीक्ष्णधारैरजिह्मगैः। जीवितान्तमभिप्रेष्सुर्मर्माण्याशु जघान ह॥ रणे। आनन्तर्यमभिप्रेप्सुः षड्विंशत्या समार्पयत्। कर्णो द्वादशभिर्बाणैरश्वत्थामा च सप्तभिः॥ षड्भिदुर्योधनो राजा तत एनमथाकिरत्। भीमसेनोऽपि तान् सर्वान् प्रत्यविध्यन्महाबलः॥ द्रोणं पञ्चाशतेषूणां कर्णं च दशभिः शरैः। दुर्योधनं द्वादशभिद्रौणिमष्टाभिराशुगैः॥ आरावं तुमुलं कुर्वन्नभ्यवर्तत तान् तस्मिन् संत्यजति प्राणान् मृत्युसाधारणीकृते॥ अजातशत्रुस्तान् योधान् भीमं त्रातेत्यचोदयत्। ते ययुर्भीमसेनस्य समीपममितौजसः॥ युयुधानप्रभृतयो माद्रीपुत्रौ च पाण्डवौ। ते समेत्य सुसंरब्धाः सहिताः पुरुषर्षभाः॥ महेष्वासवरैर्गुप्ता द्रोणानीकं बिभित्सवः। समापेतुर्महावीर्या भीमप्रभृतयो रथाः॥ तान् प्रत्यगृह्णादव्यग्रो द्रोणोऽपि रथिनां वरः। महास्थानतिबलान् वीरान् समरयोधिनः॥ बाह्यं मृत्यु भयं कृत्वा तावकान् पाण्डवा ययुः। सादिनः सादिनोऽभ्यघ्नंस्तथैव रथिनो रथान्॥ आसीच्छक्त्यासिसम्पातो युद्धमासीत् परश्वधैः। प्रकृष्टमसियुद्धं च बभूव कटुकोदयम्॥ कुञ्जराणां च सम्पाते युद्धमासीत् सुदारुणम्। अपतत् कुञ्जरान्यो हयादन्यस्त्ववाशिराः॥ नरो बाणविनिर्भिन्नो रथादन्यश्च मारिष। तत्रान्यस्य च सम्म पतितस्य विवर्मणः॥ शिरः प्रध्वंसयामास वक्षस्याक्रम्य कुञ्जरः। अपरांश्चापरेऽमृद्नन् वारणाः पतितान् नरान्॥ विषाणैश्चावनिं गत्वा व्यभिन्दन् रथनो बहून्। नरान्त्रैः केचिदपरे विषाणालग्नसंश्रयैः॥ बभ्रमुः समरे नागा मृद्नन्तः शतशो नरान्। कार्णायसतनुत्राणान् नराश्वरथकुञ्जरान्॥ पतितान् पोथयाञ्चकुर्द्विपाः स्थूलनलानिव। गृघ्रपत्राधिवासांसि शयनानि नराधिपाः॥ ह्रीमन्तः कालसम्पर्कात् सुदुःखान्यनुशेरते। हन्ति स्मात्र पिता पुत्रं रथेनाभ्येत्य संयुगे॥ पुत्रश्च पितरं मोहान्निमर्यादमवर्तत। रथोभग्नोध्वजश्छिन्नश्छत्रमुर्त्यांनिपातितम्॥ युगाधु छिन्नमादाय प्रदुद्राव तथा हयः। सासिहुर्निपतितः शिरश्छिन्नं सकुण्डलम्॥ गजेनाक्षिप्य बलिना रथः संचूर्णितः क्षितौ। रथिना ताडितो नागो नाराचेनापतत् क्षितौ॥ सारोहश्चापतद् वाजी गजेनाभ्याहतो भृशम्। निर्मर्यादं महद् युद्धमवर्तत सुदारुणम्॥ हा तात हा पुत्र सखे क्वासि तिष्ठ क्व धावसि। प्रहराहर जह्येनं स्मितक्ष्वेडितगर्जितैः॥ इत्येवमुच्चरन्ति स्म श्रूयन्ते विविधा गिरः। नरस्याश्वस्य नागस्य समसज्जत शोणितम्॥ उपाशाम्यद्रजो भौमं भीरून् कश्मलमाविशत्। चक्रेण चक्रमासाद्य वीरो वीरस्य संयुगे॥ अतीतेषु पथे काले जहार गदया शिरः। आसीत् केशपरापर्थी मुष्टियुद्धं च दारुणम्॥ नखैर्दन्तैश्च शूराणामद्वीपे द्वीपमिच्छताम्। तत्राच्छिद्यत शूरस्य सखङ्गो बाहुरुद्यतः॥ सधुनुश्चापरस्यापि सशरः साङ्कुशस्तथा। आक्रोशदन्यमन्योऽत्र तथान्यो विमुखोऽद्रवत्॥ अन्यः प्राप्तस्य चान्यस्य शिरः कायादयाहरत्। सशब्दमद्रवच्चान्यः शब्दादन्योऽत्रसद् भृशम्॥ स्वानन्योऽथ परानन्यो जघान निशितैः शरैः। गिरिशृङ्गोपमश्चात्र नाराचेन निपातितः॥ मातङ्गो न्यपतद् भूमौ नदीरोध इवोष्णगे। तथैव रथिनं नागः क्षरन् गिरिरिवारुजन्॥ अभ्यतिष्ठत् पदा भूमौ सहाश्वं सहसारथिम्। शूरान् प्रहरतो दृष्ट्वा कृतास्त्रान् रुधिरोक्षितान्॥ बहूनप्याविशन्मोहो भीरून् हृदयदुर्बलान्। सर्वमाविग्नमभवन प्राज्ञायत किंचन॥ सैन्येन रजसा ध्वस्तं निर्मर्यादमवर्तत। ततः सेनापतिः शीघ्रमयं काल इति ब्रुवन्॥ नित्याभित्वरितानेव त्वरयामास पाण्डवान्। कुर्वन्तः शासनं तस्य पाण्डवा बाहुशालिनः॥ सरो हंसा इवापेतुर्भ्रान्तो द्रोणरथं प्रति। गृह्णीताद्रवतान्योन्यं विभीता विनिकृन्तत॥ इत्यासीत् तुमुलः शब्दो दुर्धर्षस्य रथं प्रति। ततो द्रोणः कृपः कर्णो द्रौणी राजा जयद्रथः॥ विन्दानुविन्दावावन्त्यौ शल्यश्चैतान् न्यवारयन्। ते त्वार्यधर्मसंरब्धा दुर्निवारा दुरासदाः॥ शरार्ता न जहुर्दोणं पञ्चालाः पाण्डवैः सह। ततो द्रोणोऽतिसंक्रुद्धो विसृजञ्छतश: शरान्॥ चेदिपञ्चालपाण्डूनामकरोत् कदनं महत्। तस्य ज्यातलनिर्घोषः शुश्रुवे दिक्षु मारिष॥ वज्रसंहादसंकाशस्त्रासयन् मानवान् बहून्। एतस्मिन्नन्तरे जिष्णुर्जित्वा संशप्तकान् बहून्॥ अभ्ययात् तत्र यत्रासौ द्रोणः पाण्डून् प्रमर्दति। ताञ्छरौघान् महावर्तान् शोणितोदान् महाह्रदान्॥ तीर्णः संशप्तकान् हत्वा प्रत्यदृश्यत फाल्गुनः। तस्य कीर्तिमतो लक्ष्म सूर्यप्रतिमतेजसः॥ दीप्यमानमपश्याम तेजसा वानरध्वजम्। संशप्तकसमुद्र तमुच्छोष्यास्त्रगभस्तिभिः॥ स पाण्डवयुगान्तार्कः कुरूनप्यभ्यतीतपत्। प्रददाह कुरून् सर्वानर्जुनः शस्त्रतेजसा॥ युगान्ते सर्वभूतानि धूमकेतुरिवोत्थितः। तेन बाणसहस्रौधैर्गजाश्वरथयोधिनः॥ ताड्यमानाः क्षितिं जग्मुर्मुक्तकेशाः शरार्दिताः। केचिदार्तस्वनं चक्रुर्विनेशुरपरे पुनः॥ पार्थबाणहताः केचिनिपेतुर्विगतासवः। तेषामुत्पतितान् कांश्चित् पतितांश्च पराङ्मुखान्॥ न जघानार्जुनो योधान योधव्रतमनुस्मरन्। ते विकीर्णरथाश्चित्राः प्रायश्च पराङ्मुखाः॥ कुरवः कर्ण कर्णेति हाहेति च विचुक्रुशुः। तमाधिरथिराक्रन्दं विज्ञाय शरणैषिणाम्॥ मा भैष्टेति प्रतिश्रुत्य ययावभिमुखोऽर्जुनम्। स भारतस्थश्रेष्ठः सर्वभारतहर्षणः॥ प्रादुश्चक्रे तदाग्नेयमस्त्रमस्त्रविदां वरः। तस्य दीप्तशरौघस्य दीप्तचापधरस्य च॥ शरौघाञ्छरजालेन विदुधाव धनंजयः। तथैचाधिरथिस्तस्य बाणाज्वलिततेजसः॥ अस्त्रमस्त्रेण संवार्य प्राणदद् विसृजञ्छरान्। धृष्टद्युम्नश्च भीमश्च सात्यविश्च महारथः॥ विव्यधुः कर्णमासाद्य त्रिभिस्त्रिभिरजिह्मगैः। अर्जुनास्त्रं तु राधेयः संवार्य शरवृष्टिभिः॥ तेषां त्रयाणां चापानिचिच्छेद विशिखैस्त्रिभिः। ते निकृत्तायुधाः शूरा निर्विषा भुजगा इव॥ रथशक्तीः समुत्क्षिप्य भूशं सिंहा इवानदन्। ता भुजाग्रैर्महावेगा निसृष्टा भुजगोपमाः॥ दीप्यमाना महाशक्त्यो जग्मुराधिरथिं प्रति। ता निकृत्य शरव्रातैस्त्रिभिस्त्रिभिरजिह्मगैः॥ ननाद बलवान् कर्णः पार्थाय विसृजञ्छरान्। अर्जुनश्चापि राधेयं विद्ध्वा सप्तभिराशुगैः॥ कर्णादवरजं बाणैर्जघान निशितैः शरैः। तत: शत्रुजयं हत्वा पार्थः षड्भिरजिह्मगैः॥ जहार सद्यो भल्लेन विपाटस्य शिरो रथात्। पश्यतां धार्तराष्ट्राणामेकेनैव किरीटिना॥ प्रमुखे सूतपुत्रस्य सोदर्या निहतास्त्रयः। ततो भीमः समुत्पत्य स्वरथाद् वैनतेयवत्॥ वरासिना कर्णपक्षान् जघान दश पञ्च च। पुनस्तु रथमास्थाय धनुरदाय चापरम्॥ विव्याघ दशभिः कर्णे सूतमश्वांश्च पञ्चभिः। धृष्टद्युम्नोऽप्यसिवरं चर्म चादाय भास्वरम्॥ जघान चन्द्रवर्माणं बृहत्क्षत्रं च नैषधम्। ततः स्वरथमास्थाय पाञ्चाल्योऽनयच्च कार्मुकम्॥ आदाय कर्णे विव्याध त्रिसप्त्या नदन् रणे। शैनेयोऽप्यन्यदादाय धनुरिन्दुसमद्युतिः॥ सूतपुत्रं चतुःषष्ट्या विद्ध्वा सिंह इवानदन्। भल्लाभ्यां साधुमुक्ताभ्यां छित्त्वा कर्णस्य कार्मुकम्।। पुनः कर्णं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत्। ततो दुर्योधनो द्रोणो राजा चैव जयद्रथः॥ निमज्जमानं राधेयमुज्जह्वः सात्यकार्णवात्। पत्त्यश्वरथमातङ्गास्त्वदीयाः शतशोऽपरे॥ कर्णमेवाभ्यधावन्त त्रास्यमानाः प्रहारिणः। धृष्टद्युम्नश्च भीमश्च सौभद्रोऽर्जुन एव च॥ रणे। नकुलः सहदेवश्च सात्यकि जुगुपू एवमेष महारौद्रः क्षयार्थं सर्वधन्विनाम्॥ तावकानां परेषां च त्यक्त्वा प्राणानभूद् रणः। पदातिरथनागाश्वा गजाश्वरथपत्तिभिः॥ रथिनो नागपत्त्यश्वै रथपत्ती रथद्विपैः। अश्वैरश्वा गजै गा रथिनो रथिभिः सह॥ संयुक्ताः समदृश्यन्त पत्तयश्चापि पत्तिभिः। एवं सुकलिलं युद्धमासीत् क्रव्यादहर्षणम्। महद्भिस्तैरभीतानां यमराष्ट्रविवर्धनम्॥ रनेकशो द्विपस्थपत्तिवाजिनः। गजैर्गजा रथिभिरुदायुधा रथा हयैर्हयाः पत्तिगणैश्च पत्तयः॥ रथैर्द्विपा द्विरदवरैर्महाहया हयैनरा वररथिमिश्च वाजिनः। निरस्तजिह्वादशनेक्षणाः क्षितौ क्षयं गताः प्रमथितवर्मभूषणाः॥ हता गताः प्रतिभयदर्शनाः क्षितिम्। विपोथिता हयगजपादताडिता भृशाकुला रथमुखनेमिभिः क्षताः॥ प्रमोदने श्वापदपक्षिरक्षसां जनक्षये वर्तति तत्र दारुणे। महाबलास्ते कुपिताः परस्परं निषूदयन्तः प्रविचेरुरोजसा॥ ततो बले भृशलुलिते परस्परं निरीक्षमाणे रुधिरौघसम्प्लुते। रुभे प्रयाते शिबिराय भारत॥ संजय उवाच पूर्वमस्मासु भग्नेषु फाल्गुनेनामितौजसा। द्रोणे च मोघसंकल्पे रक्षिते च युधिष्ठिरे॥ सर्वे विध्वस्तकवचास्तावका युधि निर्जिताः। रजस्वला भृशोद्विग्ना वीक्षमाणा दिशो दश॥ अवहारं ततः कृत्वा भारद्वाजस्य सम्मते। लब्धलक्षैः शरैर्भिन्ना भृशावहसिता रणे॥ श्लाघमानेषु भूतेषु फाल्गुनस्यामितान् गुणान्। केशवस्य च सौहार्दे कीर्त्यमानेऽर्जुनं प्रति॥ अभिशस्ता इवाभूवन् ध्यानमूकत्वमास्थिताः। ततः प्रभातसमये द्रोणं दुर्योधनोऽब्रवीत्॥ प्रणयादभिमानाच्च द्विषवृद्ध्या च दुर्मनाः। शृण्वतां सर्वयोधानां संरब्धो वाक्यकोविदः॥ नूनं वयं वध्यपक्षे भवतो द्विजसत्तम। तथा हि नाग्रहीः प्राप्तं समीपेऽद्य युधिष्ठिरम्॥ इच्छतस्ते न मुच्येत चक्षुःप्राप्तो रणे रिपुः। जिघृक्षतो रक्ष्यमाणः सामरैरपि पाण्डवैः॥ वरं दत्त्वा मम प्रीतः पश्चाद् विकृतवानसि। आशाभङ्गं न कुर्वन्ति भक्तस्याः कथंचन॥ ततोऽप्रीतस्तथोक्तः सन् भारद्वाजोऽब्रवीनृपम्। नार्हसे मां तथा ज्ञातुं घटमानं तव प्रिये॥ ससुरासुरगन्धर्वाः सयक्षोरगराक्षसाः । नालं लोका रणे जेतुं पाल्यमानं किरीटिना॥ विश्वसृग् यत्र गोविन्दः पृतनानीस्तथाऽर्जुनः। तत्र कस्य बलं क्रामेदन्यत्र त्रयम्बकात् प्रभोः॥ सत्यं तात ब्रवीम्यद्य नैतज्जात्वन्यथा भवेत्। अद्यैकं प्रवरं कंचित् पातयिष्ये महारथम्॥ तं च व्यूहं विधास्यामि योऽभेद्यस्त्रिदशैरपि। योगेन केनचिद् राजन्नर्जुनस्त्वपनीयताम्॥ न ह्यज्ञातमसाध्यं वा तस्य संख्येऽस्ति किंचन। तेन छुपात्तं सकलं सर्वज्ञानमितस्ततः॥ द्रोणेन व्याहते त्वेवं संशप्तकगणाः पुनः। आह्वयन्नर्जुनं संख्ये दक्षिणामभितो दिशम्॥ ततोऽर्जुनस्याथ परैः सार्धं समभवद् रणः। तादृशोयादृशोनान्यः श्रुतो दृष्टोऽपि वा क्वचित्॥ तत्र द्रोणेन विहितो व्यूहो राजन् व्यरोचत। चरन् मध्यंदिने सूर्यः प्रतपन्निव दुर्दशः॥ तं चाभिमन्युर्वचनात् पितुर्येष्ठस्य भारत। बिभेद दुर्भिदं संख्ये चक्रव्यूहमनेकधा॥ स कृत्वा दुष्करं कर्म हत्वा वीरान् सहस्रशः। षट्सु वीरेषु संसक्तो दौःशासनिवशं गतः॥ । सौभद्रः पृथिवीपाल जहौ प्राणान् परंतपः। वयं परमसंहष्टाः पाण्डवाः शोककर्शिताः। सौभद्रे निहते राजन्नवहारमकुर्महि॥ धृतराष्ट्र उवाच पुत्रं पुरुषसिंहस्य संजयाप्राप्तयौवनम्। रणे विनिहतं श्रुत्वा भृशं मे दीर्यते मनः॥ दारुणः क्षत्रधर्मोऽयं विहितो धर्मकर्तृभिः। यत्र राज्येप्सवः शूरा बाले शस्त्रमपातयन्॥ बालमतयन्तसुखिनं विचरन्तमभीतवत्। कृतास्त्रा बहवो जघ्नुइँहि गावल्गणे कथम्॥ विभित्सता रथानीकं सौभद्रेणामितौजसा। विक्रीडितं यथा संख्ये तन्ममाचक्ष्व संजय॥ संजय उवाच यन्मां पृच्छसि राजेन्द्र सौभद्रस्य निपातनम्। तत् ते कात्स्येन वक्ष्यामि शृणु राजन् समाहितः॥२६ विक्रीडितं कुमारेण यथानीकं बिभित्सता। आरुग्णाश्च यथा वीरा दुःसाध्याश्चापि विप्लवे॥ दावाग्न्यभिपरीतानां भूरिगुल्मतृणदुमे। वनौकसामिवारण्ये त्वदीयानामभूदू भयम्॥ संजय उवाच समरेऽत्युग्रकर्माणः कर्मभिर्व्यञ्जितश्रमाः। सकृष्णाः पाण्डवाः पञ्च देवैरपि दुरासदाः॥ सत्त्वकर्मान्वयैर्बुद्ध्या कीर्त्या च यशसा श्रिया। नैव भूतो न भविता नैव तुल्यगुणः पुमान्॥ सत्यधर्मरतो दान्तो विप्रपूजादिभिर्गुणैः। सदैव त्रिदिवं प्राप्तो राजा किल युधिष्ठिरः॥ युगानते चान्तको राजन् जामदग्न्यश्च वीर्यवान्। रथस्थो भीमसेनश्च कथ्यन्ते सदृशास्त्रयः॥ प्रतिज्ञाकर्मदक्षस्य रणे गाण्डीवधन्वनः। उपमां नाधिगच्छामि पार्थस्य सदृशीं क्षितौ॥ गुरुवात्सल्यमत्यन्तं नैभृत्यं विनयो दमः। नकुलेऽप्रातिरूप्यं च शौर्ये च नियतानि षट्॥ श्रुतगाम्भीर्यमाधुर्यसत्यरूपपराक्रमैः। सदृशो देवयोर्वीरः सहदेवः किलाश्विनोः॥ ये च कृष्णेगुणाः स्फीताः पाण्डवेषु च ये गुणा:। अभिमनयौ किलैकस्था दृश्यन्ते गुणसंचयाः॥ युधिष्ठिरस्य वीर्येण कृष्णस्य चरितेन च। कर्मभिर्भीमसेनस्य सदृशो भीमकर्मणः॥ धनंजयस्य रूपेण विक्रमेण श्रुतेन च। विनयात् सहदेवस्य सदृशो नकुलस्य च॥ धृतराष्ट्र उवाच अभिमन्युमहं सूत सौभद्रमपराजितम्। श्रोतुमिच्छामि कात्स्येन कथमायोधने हतः॥ संजय उवाच स्थिरो भव महाराज शोकं धारय दुर्धरम्। महान्तं बन्धुनाशं ते कथयिष्यामि तच्छृणु॥ चक्रव्यूहो महाराज आचार्येणाभिकल्पितः। तत्र शक्रोपमाः सर्वे राजानो विनिवेशिता॥ आरास्थानेषु विन्यस्ताः कुमारा: सूर्यवर्चसः। संघातो राजपुत्राणां सर्वेषामभवत् तदा॥ कृताभिसमयाः सर्वे सुवर्णविकृतध्वजाः। रक्ताम्बरधराः सर्वे सर्वे रक्तविभूषणाः॥ सर्वे रक्तपताकाश्च सर्वे वै हेमालिनः । चन्दनागुरुदिग्घाङ्गाः स्रग्विणः सूक्ष्मवाससः॥ सहिताः पर्यधावन्त कार्णिं प्रति युयुत्सवः। तेषां दश सहस्राणि बभूबुदृढधन्विनाम्॥ पौत्रं तव पुरस्कृत्य लक्ष्मणं प्रियदर्शनम्। अन्योन्यसमदुःखास्ते अन्योन्यसमसाहसाः॥ अन्योन्यं स्पर्धमानाच अन्योन्यस्य हिते रताः। दुर्योधनस्तु राजेन्द्र सैन्यमध्ये व्यवस्थितः॥ कर्णदुःशासनकृपैर्वृतो राजा महारथैः। देवराजोपमः श्रीमाञ्छवेतच्छत्राभिसंवृतः॥ चाभरव्यजनाक्षेपैरुदयन्निव भास्करः। प्रमुखे तस्य सैन्यस्य द्रोणोऽवस्थितनायकः॥ सिन्धुराजस्तथातिष्ठच्छीमान् मेरुरिवाचलः। सिन्धुरुजस्य पार्श्वस्था आश्वत्थामपुरोगमाः॥ सुतास्तव महाराज त्रिंशत्रिदशसंनिभाः। गान्धारराजः कितवः शल्यो भूरिश्रवास्तथा॥ पार्श्वत: सिन्धुराजस्य व्यराजन्त महारथाः। ततः प्रववृते युद्धं तुमुलं लोमहर्षणम्॥ तावकानां परेषां च मृत्युं कृत्वा निवर्तनम्॥ सुतास्तव महाराज त्रिंशत्रिदशसंनिभाः। गान्धारराजः कितवः शल्यो भूरिश्रवास्तथा॥ पार्श्वत: सिन्धुराजस्य व्यराजन्त महारथाः। ततः प्रववृते युद्धं तुमुलं लोमहर्षणम्॥ तावकानां परेषां च मृत्युं कृत्वा निवर्तनम्॥ संजय उवाच तदनीकमनाधृष्यं भारद्वाजेन रक्षितम्। पार्थाः समभ्यवर्तन्त भीमसेनपुरोगमा:॥ सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः। कुन्तिभोजश्च विक्रान्तो द्रुपदश्च महारथः॥ आर्जुनिः क्षत्रधर्मा च बृहत्क्षत्रश्च वीर्यवान्। चेदिपो धृष्टकेतुश्च माद्रीपुत्रौ घटोत्कचः॥ युधामन्युश्च विक्रान्तः शिखण्डी चापराजितः। उत्तमौजाश्च दुर्धर्षो विराटश्च महारथः॥ द्रौपदेयाश्च संरब्धाः शैशुपालिश्च वीर्यवान्। केकयाश्च महावीर्याः सृञ्जयाश्च सहस्रशः॥ एते चान्ये च सगणाः कृतास्त्रा युद्धदुर्मदाः। समभ्यधावन् सहसा भारद्वाजं युयुत्सवः॥ समीपे वर्तमानांस्तान् भारद्वाजोऽतिवीर्यवान्। असम्भ्रान्तः शरौघेण महता समवारयत्॥ महौघः सलिलस्येव गिरिमासाद्य दुर्भिदम्। द्रोणं ते नाभ्यवर्तन्त वेलामिव जलाशयाः॥ पीड्यमानाः शरै राजन् द्रोणचापविनिः सृतैः। न शेकुः प्रमुख स्थातुं भारद्वाजस्य पाण्डवाः॥ तदद्भुतमपश्याम द्रोणस्य भुजयोर्बलम्। यदेनं नाभ्यवर्तन्त पञ्चालाः सृञ्जयैः सह॥ तमायान्तमभिक्रुद्धं द्रोणं दृष्ट्वा युधिष्ठिरः। बहुधा चिन्तयामास द्रोणस्य प्रतिवारणम्॥ अशक्यं तु तमन्येन द्रोणं मत्वा युधिष्ठिरः। अविषहां गुरुं भारं सौभद्रं समवासृजत्॥ वासुदेवादनवरं फाल्गुनाच्चामितौजसम्। अब्रवीत् परवीरघ्नमभिमन्युमिदं वचः॥ एत्य नो नार्जुनो गर्हेद् यथा तात तथा कुरु। चक्रव्यूहस्य न वयं विद्मो भेदं कथंचन॥ त्वं वार्जुनो वा कृष्णो वा भिन्द्यात् प्रद्युम्न एव वा। चक्रव्यूहं महाबाहो पञ्चमो नोपपद्यते॥ अभिमन्यो वरं तात याचतां दातुमर्हसि। पितॄणां मातुलानां च सैन्यानां चैव सर्वशः॥ धनञ्जयो हि नस्तात गर्हयेदेत्य संयुगगत्। क्षिप्रमस्त्रं समादाय द्रोणानीकं विशातय॥ अभिमन्युरुवाच द्रोणस्य दृढमत्युग्रमनीकप्रवरं युधि। पितॄणां जयमाकाडक्षन्नवगाहेऽविलम्बितम्॥ उपदिष्टो हि मे पित्रा योगोऽनीकविशातने। नोत्सहे हि विनिर्गन्तुमहं कस्यांचिदापदि॥ युधिष्ठिर उवाच भिन्थ्यनीकं युधां श्रेष्ठ द्वारं संजनयस्व नः। वयं त्वानुगमिष्यामो येन त्वं तात यास्यसि॥ धनंजयसमं युद्धे त्वां वयं तात संयुगे प्रणिधायानुयास्यामो रक्षन्तः सर्वतोमुखाः॥ भीम उवाच अहं त्वानुगमिष्यामि धृष्टद्युम्नोऽथ सात्यकिः। पञ्चाला: केकया मत्स्यास्तथा सर्वे प्रभद्रकाः॥ सकृद् भिन्नं त्वया व्यूहं तत्र तव पुनः पुनः। वयं प्रध्वंसयिष्यामो निघ्नमाना वरान् वरान्॥ अभिमन्युरुवाच अहमेतत् प्रवेक्ष्यामि पतङ्ग इव संक्रुद्धो ज्वलितं जातवेदसम्॥ द्रोणानीकं दुरासदम्। तत् कर्माद्य करिष्यामि हितं यद् वंशयोर्द्वयोः। मातुलस्य च यत् प्रीतिं करिष्यति पितुश्च मे॥ शिशुनैकेन संग्रामे काल्यमानानि संघशः। द्रक्ष्यन्ति सर्वभूतानि द्विषत्सैन्यानि वै मया॥ नाहं पार्थेन जातः स्यां न च जातः सुभद्रया। यदि मे संयुगे कश्चिज्जीवितो नाद्य मुच्यते॥ यदि चैकरथेनाहं समग्र क्षत्रमण्डलम्। न करोम्यष्टधा युद्धे न भवाम्यर्जुनात्मजः॥ युधिष्ठिर उवाच एवं ते भाषमाणस्य बलं सौभद्र वर्धताम्। यत् समुत्सहसे भेत्तुं द्रोणानीकं दुरासदम्॥ रक्षितं पुरुषव्याघेर्महेष्वासैर्महाबलैः। साध्यरुद्रमरुत्तुल्यैर्वस्वग्नयादित्यविक्रमैः॥ संजय उवाच तस्य तद् वचनं श्रुत्वा स यन्तारमचोदयत्। सुमित्राश्वान् रणे क्षिप्रं द्रोणानीकाय चोदया॥ संजय उवाच सौभद्रस्तद् वचः श्रुत्वा धर्मराजस्य धीमतः। अचोदयत यन्तारं द्रोणानीकाय भारत॥ तेन संचोद्यमानस्तु याहि याहीति सारथिः। प्रत्युवाच ततो राजन्नभिमन्युमिदं वचः॥ अतिभारोऽयमायुष्मन्नाहितस्त्वयि पाण्डवैः। सम्प्रधार्य क्षणं बुद्ध्या ततस्त्वं योद्भुमर्हसि॥ आचार्यो हि कृती द्रोणः परमास्त्रे कृतश्रमः। अत्यन्तसुखसंवृद्धस्त्वं चायुद्धविशारदः॥ ततोऽभिमन्युः प्रहसन सारथिं वाक्यमब्रवीत्। सारथे को न्वयं द्रोणः समग्र क्षत्रमेव वा॥ ऐरावतगतं शक्रं सहामरगणैरहम्। अथवा रुद्रमीशानं सर्वभूतगणार्चिता। योधयेयं रणमुखे न मे क्षत्रेऽद्य विस्मयः॥ न ममैतद् द्विषत्सैन्यं कलामर्हति षोडशीम्। अपि विश्वजितं विष्णुं मातुलं प्राप्य सूतज॥ पितरं चार्जुनं युद्धे न भीर्मामुपयास्यति। अभिमन्युश्च तां वाचं कद कृत्य सारथः॥ याहीत्येवाब्रवीदेन द्रोणानीकाय मा चिरम्। तत: संनोदयामास हयानाशु त्रिहायनान्॥ नातिहष्टमनाः सूतो हेमभाण्डपरिच्छदान्॥ ते प्रेषिताः सुमित्रेण द्रोणानीकाय वाजिनः॥ द्रोणमीयद्रवन् राजन् महावेगपराक्रमम्। तमुदीक्ष्य तथाऽऽयान्तं सर्वे द्रोणपुरोगमाः। अभ्यवर्तन्त कौरव्याः पाण्डवाश्च तमन्वयुः॥ स कर्णिकारप्रवरोच्छ्रितध्वजः सुवर्णवर्मार्जुनिरर्जुनाद् वरः। युयुत्सया द्रोणमुखान् महारथान् समासदसिंहशिशुर्यथा द्विपान्॥ ते विंशतिपदे यत्ताः सम्प्रहारं प्रचक्रिरे। आसीद् गाङ्ग इवावर्तो मुहूर्तमुदधाविव॥ शूराणां युध्यमानानां निघ्नतामितरेतरम्। संग्रामस्तुमुलो राजन् प्रावर्तत सुदारुणः॥ प्रवर्तमाने संग्रामे तस्मिन्नतिभयंकरे। द्रोणस्य मिषतो व्यूह भित्त्वा प्राविशदार्जुनिः॥ तं प्रविष्टं विनिघ्नन्तं शत्रुसंधान् महाबलम्। हस्त्यश्वरथपत्त्यौघाः परिवQरुदायुधाः॥ नानावादिनिनदैः क्ष्वेडितोत्कृष्टगर्जितैः। हुंकारैः सिंहनादैश्च तिष्ठ तिष्ठति नि:स्वनैः॥ थोरैहलहलाशब्दैर्मा गास्तिष्ठेहि मामिति। असावहममुत्रेति प्रवदन्तो मुहुर्मुहुः॥ बृहितः सिंजितैर्हासैः करनेमिस्वनैरपि। संनादयन्तो वसुधामभिदुद्रुवुरार्जुनिम्॥ धामापततां वीरः शीघ्रयोधी महाबलः। क्षिणास्त्रो न्यवधीट् राजन् मर्मज्ञो मर्मभेदिभिः॥ न्यमाना विवशा नानालिङ्गैः शितैः शरै. पेतुः सुबहुशः शलभा इव गावकम्॥ ततस्तेषां शरीरैश्च शरीरावयवैश्च सः। तस्तार क्षिति क्षिप्रं कुशैर्वेदिमिवाध्वरे॥ बद्धगोधाङ्गुलित्राणान् सशरासनसायकान्। सासिचाङ्कुशाभीषून् सतोमरपरश्वधान्॥ शादायोगुडआसान् सर्टितोमरपट्टिशान्। सभिन्दिपालपरिधान् सशक्तिवरकम्पनान्॥ सनतोदमहाशवान् सकुन्तान् सकचग्रहान्। समुद्गरक्षेपणीयान् सपाशपरिघोपलान्॥ सकेयूराङ्गदान बाहून् ह्यगन्धानुलेपनान्। संचिच्छेदा निस्तूर्णं त्वदीयानां सहस्रशः॥ तैः स्फुरद्भिर्महाराज शुशुभे भूः सुलोहितः। पज्ञास्यैः पन्नगेश्छिन्नैर्गरुडेनेव मारिष॥ सुनासाननकेशान्तरखणैश्चारुकुण्डलैः। संदष्टौष्ठपुटैः क्रोधात् क्षरद्भिः शोणितं बहु॥ स चारुमुमुटोष्णीधैर्मणिरत्नविभूषितैः। विनालनलिनाकारैर्दिवाकरशशिप्रभैः॥ हितप्रियंवदैः काले बहुभिः पुण्यगन्धिभिः । द्विषच्छिरोभिः पृथिवीं स वैतस्तार फाल्गुनिः॥ गन्धर्वनगराकारान् विधिवत् कल्पितान् रथान्। वोषामुखान् द्वित्रिवेणून् न्यस्तदण्डकबन्धुरान्॥ विजङ्घाकूबरांस्तत्र विनेमिदशनानपि। विचक्रोपस्करोपस्थान् भग्नोपकरणानपि॥ प्रपातितोपस्तरणान् हतयोधान् सहस्रशः। शरैर्विशकलीकुर्वन् दिक्षु सर्वास्वदृश्यत॥ पुनर्द्विपान् द्विपारोहान् वैजयन्त्यङ्कुशध्वजान्! तूणान् वर्माण्यथोकक्ष्यावेयांश्च सकम्बलान्॥ घण्टाः शुण्डाविषाणाग्रान छत्रमाला: पदानुगान्। शरैर्निशितधारागः शात्रवाणामशातयत्॥ वनायुजान् काम्बोजानथ बालिकान्। स्थिरबालधिकर्णाक्षाञ्जवनान् साधुवाहिनः॥ आरूढाशिक्षितैर्योधैः शक्त्यष्टिप्रासयोधिभिः। विध्वस्तचामरमुखान् विप्रविद्धप्रकीर्णकान्॥ निरस्तजिह्वानयनान् निष्कीर्णान्त्रयकृद्धानान्। हतरोहांश्छिन्नघण्टान् क्रव्यादगणमोदकान्॥ निकृत्तचर्मकवचाशकृन्मूत्रासृगाप्लुतान्। निपातयन्नश्ववरांस्तावकान् स व्यरोचत॥ एको विष्णुरिवाचिन्त्यं कृत्वा कर्म सुदुष्करम्। तथा निर्मथितं तेन त्र्यहं तव बलं महत्॥ यथासुरबलं घोरं त्र्यम्बकेण महौजसा। कृत्वा कर्म रणेऽसह्यं परैरार्जुनिराहवे॥ अभिनच्च पदात्योघांस्त्वदीयानेव सर्वशः। एवमेकेन तां सेना सौभद्रेण शितैः शरैः॥ भृशं विप्रहतां दृष्ट्वा स्कन्देनेवासुरी चमूम्। त्वदीयास्तव पुत्राश्च वीक्षमाणा दिशो दश॥ संशुष्कासयाश्चलन्नेत्राः प्रस्विन्ना रोमहर्षिणः। पलायनकृतोत्साहा निरुत्साहा द्विषज्जये॥ गोत्रनामभिरन्योन्यं क्रन्दन्तो जीवितैषिणः। हतान् पुत्रान् पितॄन् भ्रातृन् बन्धून् संबन्धिनस्तथा॥४५ प्रातिष्ठन्त समुत्सृज्य त्वरयन्तो हयद्विपान्॥ गोत्रनामभिरन्योन्यं क्रन्दन्तो जीवितैषिणः। हतान् पुत्रान् पितॄन् भ्रातृन् बन्धून् संबन्धिनस्तथा॥४५ प्रातिष्ठन्त समुत्सृज्य त्वरयन्तो हयद्विपान्॥ संजय उवाच तां प्रभग्नां चमूं दृष्ट्वा सौभद्रेणामितौजसा। दुर्योधनो भृशं क्रुद्धः स्वयं सौभद्रमभ्यतात्॥ ततो राजानमावृत्तं सौभद्रं प्रति संयुगे। दृष्ट्वा द्रोणोऽब्रवीद् योधान् परीप्सध्वं नराधिपम्॥ पुराभिमन्युर्लक्ष्यं नः पश्यतां हनित वीर्यवान्। तमाद्रवत मा भैष्ट क्षिप्रं रक्षत कौरवम्॥ ततः कृतज्ञा बलिनः सुहृदो जितकाशिनः। त्रास्यमाना भयाद् वीरं परिवQस्तवात्मजम्॥ द्रोणो द्रौणिः कृपः कर्णः कृतवर्मा च सौबलः। बृहद्बलो मद्रराजो भूरिभूरिश्रवाः शलः॥ पौरवो वृषसेनश्च विसृजन्तः शिताञ्छरान्। सौभद्रं शरवर्षेण महता समवाकिरन्॥ सम्मोहयित्वा तमथ दुर्योधनममोचयन्। आस्याद् ग्रासमिवाक्षिप्तं ममृषे नार्जुनात्मजः॥ ताछरौघेण महता साश्वसूतान् महारथान्। विमुखीकृत्य सौभद्रः सिंहनादमथानदत्॥ तस्य नादं ततः श्रुत्वा सिंहस्येवामिषैषिणः। नामृष्यन्त सुसंस्थाः पुनर्दोणमुखा रथाः॥ त एनं कोष्ठकीकृत्य रथवंशेन मारिष। व्यसृजन्निषुजालानि नानालिङ्गानि सङ्घशः॥ तान्यन्तरिक्षे चिच्छेद पौत्रस्ते निशितैः शरैः। तांश्चैव प्रतिविव्याध तदद्भुतमिवाभवत्॥ ततस्ते कोपितास्तेन शरैराशीविषोपमैः। परिवर्जिघांसन्तः सौभद्रमपराजितम्॥ समुद्रमिव पर्यस्तं त्वदीयं तं बलार्णवम्। दधारैकोऽऽर्जुनिर्वाणैवेलेव भरतर्षभ॥ शूराणां युध्यमानानां निजतामितरेतरम्। अभिमन्योः परेषां च नासीत् कश्चित् पराङ्मुखः॥ तस्मिंस्तु घोरे संग्रामे वर्तमाने भयंकरे। दुःसहो नवभिर्बाणैरभिमन्युमविध्यत॥ दुःशासनो द्वादशभिः कृपः शारद्वतस्त्रिभिः। द्रोणस्तु सप्तदशभिः शरैराशीविषोपमैः॥ विविंशतिस्तु सप्तत्या कृतवर्मा च सप्तभिः। बृहबलस्तथाष्टाभिरश्वत्थामा च सप्तभिः॥ भूरिश्रवास्त्रिभिर्बाणैर्मद्रेशः षड्भिराशुगैः। द्वाभ्यां शराभ्यां शकुनिस्त्रिभिर्दुर्योधनो नृपः॥ स तु तान् प्रतिविव्याध त्रिभिस्त्रिभिरजिह्मगैः। नृत्यन्निव महाराज चापहस्तः प्रतापवान्॥ ततोऽभिमन्युः संक्रुद्धस्त्रास्यमानस्तवात्मजैः। विदर्शयन् वै सुमहच्छिक्षौरसकृतं बलम्॥ गरुडानिलरहोभिर्यन्तुर्वाक्यकरैर्हयैः। दान्तैरश्मकदायादस्त्वरमाणो ह्यवारयत्॥ विव्याध दशभिर्बाणैस्तिष्ठ तिष्ठति चाब्रवीत्। तस्याभिमन्युर्दशभिर्हयान् सूतं ध्वजं शरैः॥ बाहू धनुः शिश्चौा स्मयमानोभ्यपातयत्। ततस्तस्मिन् हते वीरे सौभद्रेणाश्मकेश्वरे॥ संचचाल बलं सर्वं पलायनपरायणम्। ततः कर्णः कृपो द्रोणो द्रौणिर्गान्धारराट्शलः॥ शल्यो भूरिश्रवाः क्राथः सोमदत्तोविविंशतिः। वृषसेनः सुषेणश्च कुण्डभेदी प्रतर्दनः॥ वृन्दारको ललित्थश्च प्रबाहुर्दीर्घलोचनः। दुर्योधनश्च संक्रुद्धः शरवर्षैरवाकिरन्।॥ सोऽतिविद्धो महेष्वासैरभिमन्युरजिह्मगैः शरमादत्त कर्णाय वर्मकायामभेदिनम्॥ तस्य भित्त्वा तनुत्राणं देहं निर्भिद्य चाशुगः। प्राविशद् धरणी वेगाद् वल्मीकमिव पन्नगः॥ स तेनातिप्रहारेण व्यथितो विह्वलनिव। संचचाल रणे कर्णः क्षितिकम्पे यथाऽचलः॥ तथान्यैर्निशितैर्बाणैः सुषेण दीर्घलोचनम्। कुण्डभेदिं च संकुद्धस्त्रिभिस्त्रीनवधीद् बली॥ कर्णस्तं पञ्चविंशत्या नाराचानां समार्पयत्। अश्वत्थामा च विंशत्या कृतवर्मा च सप्तभिः॥ स शराचितसर्वाङ्गः क्रुद्धः शक्रात्मजात्मजः। विचरन् ददृशे सैन्ये पाशहस्त इवान्तकः॥ शल्यं च शरवर्षेण समीपस्थमवाकिरंत्। उदक्रोशन्महाबाहुस्तव सैन्यानि भीषयन्॥ ततः स विद्धोऽस्त्रविदा मर्मभिद्भिरजिह्मगैः। शल्यो राजन् रथोपस्थे निषसाद मुमोह च॥ तं हि दृष्ट्वा तथा विद्धं सौभद्रेण यशस्विना। सम्प्राद्रवच्चमूः सर्वा भारद्वाजस्य पश्यतः॥ सम्प्रेक्ष्य तं महाबाहुं रुक्मपुङ्खः समावृतम्। त्वदीयाः प्रपलायन्ते मृगाः सिंहार्दिता इव॥ स तु रणयशसाभिपूज्यमानः पितृसुरचारणसिद्धयक्षसंधैः। रतिविबभौ हुतभुग्यथाऽऽज्यसिक्त॥ धृतराष्ट्र उवाच तथा प्रमथमानं तं महेष्वासानजिह्मगैः। आर्जुनि मामकाः संख्ये के त्वेनं समवारयन्॥ संजय उवाच शृणु राजन् कुमारस्य रणे विक्रीडितं महत्। बिभित्सतो रथानीकं भारद्वाजेन रक्षितम्॥ मद्रेशं सादितं दृष्ट्वा सौभद्रेणाशुगै रणे। शल्यादवरजः क्रुद्धः किरन् वाणान् समभ्ययात्॥ सविद्ध्वा दशभिर्बाणैः साश्वयन्तारमा निम्। उदक्रोशन्महाशब्दं तिष्ठ तिष्ठेति चाब्रवीत्॥ तस्यार्जुनिः शिरोग्रीवं पाणिपादं धनुर्हयान्। छत्रं ध्वजं नियन्तारं त्रिवेणं तल्पमेव च॥ चक्रं युगं च तूणीर ह्यनुकर्षं च सायकैः। पताकां चक्रगोप्तारौ सर्वोपकरणानि च॥ लघुहस्तः प्रचिच्छेद ददृशे तं न कश्चन। स पपात क्षितौ क्षीणः प्रविद्धाभरणाम्बरः॥ वायुनेव महाशैलः सम्भग्नोऽमिततेजसा। अनुगास्तस्य वित्रस्ताः प्राद्रवन् सर्वतो दिशः॥ आर्जुनेः कर्म तद् दृष्ट्वा सम्प्रणेदुः समन्ततः । नादेन सर्वभूतानि साधु साध्विति भारत॥ शल्यभ्रातर्यथारुग्णे बहुशस्तस्य सैनिकाः। कुलाधिवासनामानि श्रावयन्तोऽर्जुनात्मजम्॥ अभ्यधावन्त संक्रुद्धा विविधायुधपाणयः। स्थैरश्वैर्गजैश्चान्ये पद्भिश्चान्ये बलोत्कटाः॥ बाणशब्देन महता रथनेमिस्वनेन च। हुंकारैः क्ष्वेडितोत्क्रुष्टैः सिंहनादैः संगर्जितैः॥ ज्यातलत्रस्वनैरन्ये गर्जन्तोऽर्जुननन्दनम्। ब्रुवन्तश्च न नो जीवन् मोक्ष्यसे जीवितादिति॥ तांस्तथा ब्रुवतो दृष्ट्वा सौभद्रः प्रहसन्निव। यो योऽस्मै प्राहरत् पूर्वेततं विव्याध पत्रिभिः॥ संदर्शयिष्यन्नस्त्राणि विचित्राणि लघूनि च। आणुनिः समरे शूरो मृदुपूर्वमयुध्यत॥ वासुदेवादुपात्तं यदस्त्रं यच्च धनंजयात्। अदर्शयत तत् कार्ष्णिः कृष्णाभ्यामविशेषवत्॥ दूरमस्य गुरुं भारं साध्वसं च पुनः पुनः। संदधद् विसृसंश्चेषून् निर्विशेषमदृश्यत॥ चापमण्डलमेवास्य विस्फुरद् दिक्ष्वदृश्यत। सुदीप्तस्य शरत्काले सवितुर्मण्डलं यथा॥ ज्याशब्दः शुश्रुवे तस्य तलशब्दश्च दारुणः। महाशनिमुचः काले पयोदस्येव निःस्वनः॥ द्वीमानमर्षी सौभद्रो मानकृत् प्रियदर्शनः। सम्मिनानयिषुर्वीरानिष्वस्त्रैश्चाप्ययुध्यत॥ मृदुर्भूत्वा महाराज दारुणः समपद्यता वर्षाभ्यतीतो भगवाञ्छरदीव दिवाकरः॥ शरान् विचित्रान् सुबहून् रुक्मपुङ्खान्छिलाशितान्। मुमोच शतशः क्रुद्धो गभस्तीनिव भास्करः॥ क्षुप्रैर्वत्सदन्तैश्च विपाठैश्च महायशाः। नाराचैरर्धचन्द्राभैर्भल्लैरञ्जलिकैरपि॥ अवाकिरद् रथानीकं भारद्वाजस्य पश्यतः। ततस्तत्सैन्यमभवद् विमुखं शरपीडितम्॥ धृतराष्ट्र उवाच द्वैधीभवति मे चित्तं ह्रिया तुष्ट्या च संजय। मम पुत्रस्य यत् सैन्यं सौभद्रः समावारयत्॥ विस्तरेणैव मे शंस सर्वे गावल्गणे पुनः। विक्रीडितं कुमारस्य स्कन्दस्येवासुरैः सह॥ संजय उवाच हन्त ते सम्प्रवक्ष्यामि विमर्दमतिदारुणम्। एकस्य च बहूनां च यथाऽऽसीत्तुमुलो रणः॥ अभिमन्युः कृतोत्साहः कृतोत्साहानरिंदमान्। रथस्थो रथिनः सर्वोस्तावकानभ्यवर्षयत्॥ द्रोणं कर्णं कृपं शल्यं द्रौणिं भोजं बृहद्बलम्। दुर्योधनं सौमदत्तिं शकुनि च महाबलम्॥ नानानृपान् नृपसुतान् सैन्यानि विविधानि च। अलातचक्रवत् सर्वांश्चरन् बाणैः समार्पयत्॥ निघ्नन्नमित्रान् सौभद्रः परमास्त्रैः प्रतापवान्। अदर्शयत तेजस्वी दिक्षु सर्वासु भारत॥ तद् दृष्ट्वा चरितंतस्य सौभद्रस्यामितौजसः। समकम्पन्त सैन्यानि त्वदीयानि सहस्रशः॥ अथाब्रवीन्महाप्राज्ञो भारद्वाजः प्रतापवान्। हर्षेणोत्फुल्लनयनः कृपमाभाष्य सत्वरम्॥ घट्टयन्निव मर्माणि पुत्रस्य तव भारत। अभिमन्युं रणे दृष्ट्वा तदा रणविशारदम्॥ एष गच्छति सौभद्रः पार्थानां प्रथितो युवा। नन्दयन् सुहृदः सर्वान् राजानं च युधिष्ठिरम्॥ नकुलं सहदेवं च भीमसेनं च पाण्डवम्। बन्धून् सम्बन्धिनश्चान्यान् मध्यस्थान् सुहृदस्तथा॥ नास्य युद्धे समं मन्ये कंचिदन्यं धनुर्धरम्। इच्छन् हन्यादिमां सेनां किमर्थमपि नेच्छति॥ द्रोणस्य प्रीतिसंयुक्तं श्रुत्वा वाक्यं तवात्मजः। आर्जुनि प्रति संक्रुद्धो द्रोणं दृष्ट्वा स्मयन्निव॥ अथ दुर्योधनः कर्णमब्रवीद् बाह्निकं नृपः। दुःशासनं मद्रराजं तांस्तथान्यान् महारथान्॥ सर्वमूर्धाभिषिक्तानामाचार्यो ब्रह्मवित्तमः। अर्जुनस्य सुतं मूढं नायं हन्तुमिहेच्छति॥ न ह्यस्य समरे युद्ध्य्यदन्तकोऽप्याततायिनः। किमङ्ग पुनरेवान्यो मर्त्यः सत्यं ब्रवीमि वः॥ अर्जुनस्य सुतं त्वेष शिष्यत्वादभिरक्षति। शिष्याः पुत्राश्च दयितास्तदपत्यं च धर्मिणाम्॥ संरक्ष्यमाणो द्रोणेन मन्यते वीर्यमात्मनः। आत्मसम्भावितो मूढस्तं प्रमनीत मा चिरम्॥ एवमुक्तास्तु ते राज्ञा सात्वतीपुत्रमभ्ययुः। संरब्धास्ते जिघांसन्तो भारद्वाजस्य पश्यतः॥ दुःशासनस्तु तच्छुत्वा दुर्योधनवचस्तदा। अब्रवीत् कुरुशार्दूल दुर्योधनमिदं वचः॥ अहमेनं हनिष्यामि महाराज ब्रवीमि ते। मिषतां पाण्डुपुत्राणां पञ्चालानां च पश्यताम्॥ ग्रसिष्याम्यद्य सौभद्रं यथा राहुर्दिवाकरम्। उत्क्रुश्य चाब्रवीद् वाक्यं कुरुराजमिदं पुनः॥ श्रुत्वा कृष्णौ मया ग्रस्तं सौभद्रमतिमानिनौ। गमिष्यतः प्रेतलोकं जीवलोकान्न संशयः॥ तौ च श्रुत्वा मृतौ व्यक्तं पाण्डोः क्षेत्रोद्भवाः सुताः एकाह्ना ससुहृवर्गाः क्लैब्याद्धास्यन्ति जीवितम्।। २ । तस्मादस्मिन् हते शत्रौ हताः सर्वेऽहितास्तव। शिवेन मां ध्याहि राजन्नेष हन्मि रिऽस्तव॥ एवमुक्त्वानदद् राजन् पुत्रो दुःशासनस्तव। सौभद्रमभ्ययात् क्रुद्धः शरवर्षैरवाकिरन्॥ तमतिक्रुद्ध मायान्तं तव पुत्रमरिंदमः। अभिमन्युः शरैस्तीक्ष्णैः षड्विंशत्या समार्पयत्॥ दुः:शासनस्तु संक्रुद्धः प्रभिन्न इव कुञ्जरः। अयोधयत सौभद्रमभिमन्युश्च तं रणे॥ तौ मण्डलानि चित्राणि रथाभ्यां सव्यदक्षिणम्। चरमाणावयुध्येतां रथशिक्षाविशारदौ॥ अथ पणवमृदङ्गदुन्दुभीनां क्रकचमहानकभेरिझर्झराणाम्। लवणजलोद्भवसिंहनादमिश्रम्॥ संजय उवाच शरविक्षतगात्रं तु प्रत्यमित्रमवस्थितम्। अभिमन्युः स्मयन् धीमान् दुःशासनमथाब्रवीत्॥ दिष्ट्या पश्यामि संग्रामे मानिनं शूरमागतम्। निष्ठुरं त्यक्तधर्माणमाक्रोशनपरायणम्॥ यत् सभायांत्वया राज्ञो धृतराष्ट्रस्य शृण्वतः। कोपितः परुषैर्वाक्यैर्धर्मराजो युधिष्ठिरः॥ जयोन्मत्तेन भीमश्च बह्वबद्धं प्रभाषितः। अक्षकूटं समाश्रित्य सौबलस्यात्मनौ बलम्॥ तत् त्वयेदमनुप्राप्तं तस्य कोपान्महात्मनः। परवित्तापहारस्य क्रोधस्याप्रशमस्य च॥ लोभस्य ज्ञाननाशस्य द्रोहस्यात्याहितस्य च। पितॄणां मम राज्यस्य हरणस्योगधन्विनाम्॥ तत् त्वयेदमनुप्राप्तं प्रकोपाद् वै महात्मनाम्। स तस्योगमधर्मस्य फलं प्राप्नुहि दुर्मते॥ शासिताम्यद्य ते बाणैः सर्वसैन्यस्य पश्यतः। अद्याहमनृणस्तस्य कोपस्त भविता रणे॥ अमर्षितायाः कृष्णायाः काक्षितस्य च मे पितुः। अद्य कौरव्य भीमस्य भवितास्म्यनृणो युधि॥ न हि मे मोक्ष्यसे जीवन् यदि नोत्सृजसे रणम्। एवमुक्त्वा महाबाहुर्बाणं दुःशासनान्तकम्॥ संदधे परवीरघ्नः कालाग्न्यनिलवर्चसम्। तस्योरस्तूर्णमासाद्य जत्रुदेशे विभिद्य तम्॥ जगाम सह पुखेन वल्मीकमिव पन्नगः। अथैनं पञ्चविंशत्या पुनरेव समार्पयत्॥ शरैरग्निसमस्पर्शेराकर्णसमचोदितैः। स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्॥ दुःशासनो महाराज कश्मलं चाविशन्महत्। सारथिस्त्वरमाणस्तु दुःशासनमचेतनम्॥ रणमध्यादपोवाह सौभद्रशरपीडितम्। पाण्डवा द्रौपदेयाश्च विराटश्च समीक्ष्य तम्॥ पञ्चलाः केकयाश्चैव सिंहनादमथानदन्। वादित्राणि च सर्वाणि नानालिङ्गानि सर्वशः॥ प्रावादयन्त संहृष्टाः पाण्डूनां तत्र सैनिकाः। अपश्यन् स्मयमानाश्च सौभद्रस्य विचेष्टितम्॥ अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रु पराजितम्। धर्ममारुतशक्राणामश्विनोः प्रतिमास्तथा॥ धारयन्तो ध्वजाग्रेषु द्रौपदेया महारथाः। सात्यकिश्चेकितानश्च धृष्टद्युम्नशिखण्डिनौ॥ केकया धृष्टकेतुश्च मत्स्याः पञ्चालसंजयाः। पाण्डवाश्च मुदा युक्ता युधिष्ठिरपुरोगमाः॥ अभ्यद्रवन्त त्वरिता द्रोणानीकं बिभित्सवः। ततोऽभवन्महायुद्धं त्वदीयानां परैः सहः॥ जयमाकाङ्क्षमाणानां शूराणामनिवर्तिनाम्। तथा तु वर्तमाने वै संग्रामेऽतिभयंकरे॥ दुर्योधनो महाराज राधेयमिदमब्रवीत्। पश्य दुःशासनं वीरमभिमन्युवशं गतम्॥ प्रतपन्तमिवादित्यं निघ्नन्तं शात्रवान् रणे। अथ चैते सुसंरब्धाः सिंहा इव बलोत्कटाः॥ सौभद्रमुद्यतास्त्रातुमभ्यधावन्त पाण्डवाः। ततः कर्ण शरैस्तीक्ष्णैरभिमन्यु दुरासदम्॥ अभ्यवर्षत संक्रुद्धः पुत्रस्य हितकृत् तव। तस्य चानुचरांस्तीक्ष्णैर्विव्याध परमेषुभिः॥ अवज्ञापूर्वकं शूरः सौभद्रस्य रणाजिरे। अभिमन्युस्तु राधेयं त्रिसप्तत्या शिलीमुखैः॥ अविध्यत्त्वरितो राजन् द्रोणं प्रेप्सुर्महामनाः। तं तथा नाशकत् कश्चिद् द्रोणाद्वारयितुंरथी॥ आरुजन्तं रथवातान् वज्रहस्तात्मजात्मजम्। ततः कर्णो जयप्रेप्सुर्मानी सवधनुष्मताम्॥ सौभद्रं शतशोऽविध्यदुत्तमास्त्राणि दर्शयन्। सोऽस्त्रैरस्त्रविदां श्रेष्ठो रामशिष्यः प्रतापवान्॥ समरे शत्रुदुर्धर्षमभिमन्युमपीडयत्। स तथा पीड्यमानस्तु राधेयेनास्त्रवृष्टिभिः॥ समरेऽमरसंकाशः सौभद्रो न व्यशीर्यत। ततः शिलाशितैस्तीक्ष्णैर्मल्लैरानतपर्वभिः॥ छित्त्वा धनूंषि शूराणामार्जुनिः कर्णमादयत्। धनुर्मण्डलनिर्मुक्तैः शरैराशीविषोपमैः॥ सच्छत्रध्वजयन्तारं साश्वमाशु स्मयन्निव। कर्णोऽपि चास्य चिक्षेप बाणान् संनतपर्वणः॥ असम्भ्रान्तश्च तान् सर्वानगृह्णात् फाल्गुनात्मजः। ततो मुहूर्तात् कर्णस्य बाणेनैकेन वीर्यवान्॥ सध्वजं कार्मुकं वीरश्छित्त्वा भूमावपातयत्। ततो कृच्छ्रगतं कर्णे दृष्ट्वा कर्णादनन्तरः॥ सौभद्रमभ्ययात् तूर्णं दृढमुद्यम्य कार्मुकम्। तत उच्चुक्रुशुः पार्थास्तेषां चानुचरा जनाः। वादित्राणि च संजघ्नुः सौभद्रं चापि तुष्टुवुः॥ संजय उवाच सोऽतिगर्जन् धनुष्पाणियाविकर्षन् पुनः पुनः। तयोर्महात्मनोस्तूर्णं स्थान्तरमवापतत्॥ सोऽविध्यद् दशभिर्बाणैरभिमन्यु दुरासदम्। सच्छत्रध्वजयन्तारं साश्वमाशु स्मयन्निव॥ पितृपैतामहं कर्म कुर्वाणमतिमानुषम्। दृष्टवादितं शरैः काणिं त्वदीया हृषिताऽभवन्॥ तस्याभिमन्युरुयम्य स्मयन्नेकेन पत्रिणा। शिरः प्रच्यावयामास तद्रथात् प्रापतद् भुवि॥ कर्णिकारमिवाधूतं वातेनापतितं नगात्। भ्रातरं निहतं दृष्ट्वा राजन् कर्णो व्यथां ययौ।।५। विमुखीकृत्य कर्णे तु सौभद्रः कङ्कपत्रिभिः। अन्यानपि महेष्वासांस्तूर्णमेवाभिदुद्ववे॥ ततस्तद् विततं सैन्यं हस्त्यश्वरथपत्तिमत्। क्रूद्धोऽभिमन्युरभिनत् तिग्मतेजा महारथः॥ कर्णस्तु बहुभिर्बाणैरर्धमानोऽभिमन्युना। अपायाज्जवनैरश्वैस्ततोऽनीकमभज्यत॥ शलभैरिव चाकाशे धाराभिरिव चावृते। अभिमन्योः शरै राजन् न प्राज्ञायत किंचन॥ तावकानां तु योधानां वध्यतां निशितैः शरैः। अन्यत्र सैन्धवाद् राजन् न स्म कश्चिदतिष्ठत॥ सौभद्रस्तु ततः शङ्ख प्रध्माष्य पुरुषर्षभः। शीघ्रमभ्यपतत् सेनां भारती भरतर्षभ॥ स कक्षेऽग्निरिवोत्सृष्टो निर्दहंस्तरसा रिपून्। मध्ये भारतसैन्यानामा निः पर्यवर्तत॥ रथनागाश्वमनुजानर्दयन् निशितैः शरैः। सम्प्रविश्याकरोद् भूमि कबन्धगणसंकुलाम्॥ सौभद्रचापप्रभवैर्निकृत्ताः परमेषुभिः। स्वानेवाभिमुखान् जन्तः प्राद्रवन् जीवितार्थिनः॥ ते घोरा रौद्रकर्माणो विपाठा बहवः शिताः। निघ्नतो रथनागाश्वाञ्जग्मुराशु वसुंधराम्॥ सायुधाः साङ्गुलित्राणाः सगदाः साङ्गदा रणे। दृश्यन्ते बाहवश्छिन्ना हेमाभरणभूषिताः॥ शराश्चापानि खङ्गाश्च शरीराणि शिरांसि च। सकुण्डलानि स्रग्वीणि भूमावासन् सहस्रशः॥ सोपस्करैरधिष्ठानैरीषादण्डैश्च बन्धुरैः। अक्षैविमथितैश्चनर्बहुधा पतितैर्युगः॥ शक्तिचापासिभिश्चैव पतितैश्च महाध्वजैः। चर्मचापशरैश्चैव व्यवकीर्णैः समन्ततः॥ निहतैः क्षत्रियैरश्वैर्वारणैश्च विशाम्पते। अगम्यरूपा पृथिवी क्षणेनासीत् सुदारुणा॥ वध्यतां राजपुत्राणां क्रन्दतामितरेतरम्। प्रादुरासीन्महाशब्दो भीरूणां भयवर्धनः॥ स शब्दो भरतश्रेष्ठ दिशः सर्वा व्यनादयत्। सौभद्रश्चाद्रवत् सेनां जन् वराश्वरथद्विपान्॥ कक्षमग्निरिवोत्सृष्टो निर्दहंस्तरसा रिपून्। मध्ये भारतसैन्यानामा निः प्रत्यदृश्यत॥ विचरन्तं दिशः सर्वा प्रदिशश्चापि भारत। तं तदा नानुपश्यामः सैन्ये च रजसाऽऽवृते॥ आददानं गजाश्वानां नृणां चायूंषि भारता क्षणेन भूयः पश्यामः सूर्ये मध्यंदिने यथा।॥ अभिमन्यु महाराज प्रतपन्तं द्विषद्गणान्। स वासवसमः संख्ये वासवस्यात्मजात्मजः। अभिमन्युर्महाराज सैन्यमध्ये व्यरोचत॥ धृतराष्ट्र उवाच बालमत्यन्तसुखिनं स्वबाहुबलदर्पितम्। युद्धेषु कुशलं वीरं कुलपुत्रं तनुत्यजम्॥ गाहमानमनीकानि सदश्वैश्च त्रिहायनैः। अपि यौधिष्ठिरात् सैन्यात् कश्चिदन्वपतद् बली॥ संजय उवाच युधिष्ठिरो भीमसेनः शिखण्डी सात्यकिर्यमौ। धृष्टद्युम्नो विराटश्च दुपदश्च सकेकयः॥ धृष्टकेतुश्च संरब्धो मत्स्याश्चाभ्य पतन् रणे। तेनैव तु पथा यान्तः पितरो मातुलैः सह॥ अभ्यद्रवन् परीप्सन्तो व्यूढानीकाः प्रहारिणः। तान् दृष्ट्वा द्रवतः शूरांस्त्वदीया विमुखाऽभवन्॥ ततस्तद् विमुखं दृष्ट्वा तव सूनोर्महद् बलम्। जामाता तव तेजस्वी संस्तम्भयिषुराद्रवत्॥ सैन्धवस्य महाराज पुत्रो राजा जयद्रथः। स पुत्रगृद्धिनः पार्थान् सहसैन्यानवारयत्॥ उग्रधन्वा महेष्वासो दिव्यमस्त्रमुदीरयन्। वार्धक्षत्रिरुपासेधत् प्रवणादिव कुञ्जरः॥ धृतराष्ट्र उवाच अतिभारमहं मन्ये सैन्धवे संजयाहितम्। यदेकः पाण्डवान् क्रुद्धान् पुत्रप्रेप्सूनवारयत्॥ अत्यद्भुतमहं मन्ये बलं शौर्यं च सैन्धवे। तस्य प्रब्रूहि मे वीर्ये कर्म चाय्यं महात्मनः॥ किं दत्तं हुतमिष्टं वा किं सुतप्तमथो तपः। सिंधुराजो हि यैनैकः पाण्डवान् समवारयत्॥ संजय उवाच द्रौपदीहरणे यत् तद भीमसेनेन निर्जितः। मानात् स तप्तवान् राजा वरार्थी सुमहत्तपः॥ इन्द्रियाणीन्द्रियार्थेभ्यः प्रियेभ्यः संनिवर्त्य सः। क्षुत्पिपासातपसहः कृशो धमनिसंततः॥ देवमाराधयच्छर्वे गृणन् ब्रह्म सनातनम्। भक्तानुकम्पी भगवांस्तस्य चक्रे ततो दयाम्॥ स्वप्नानतेऽप्यज्रि चैवाह हरः सिन्धुपतेः सुतम्। वरं वृणीष्व प्रीतोऽस्मि जयद्रथकिमिच्छसि।॥ एवमुक्तस्तु शर्वेण सिन्धुराजो जयद्रथः। उवाच प्रणतो रुद्रं प्राञ्जलिर्नियतात्मवान्॥ पाण्डवेयानहं संख्ये भीमवीर्यपराक्रमान्। वारयेयं रथेनैकः समस्तानिति भारत॥ एवमुक्तस्तु देवेशो जयद्रथमथाब्रवीत्। ददामि ते वरं सौम्य विना पार्थे धनंजयम्॥ वारयिष्यसि संग्रामे चतुरः पाण्डुनन्दनान्। एवमस्त्विति देवेशमुक्त्वाबुद्ध्यत पार्थिवः॥ स तेन वरदानेन दिव्येनास्त्रबलेन च। एकः संवारयामास पाण्डवानामनीकिनीम्॥ तस्य ज्यातलघोषेण क्षत्रियान् भयमाविशत्। परांस्तु तव सैन्यस्य हर्षः परमकोऽभवत्॥ दृष्ट्वा तु क्षत्रिया भारं सैन्धवे सर्वमाहितम्। उत्क्रुश्याभ्यद्रवन् राजन् येन यौधिष्ठिरं बलम्॥ संजय उवाच यन्मां पृच्छसि राजेन्द्र सिन्धुराजस्य विक्रमम्। शृणु तत् सर्वमाख्यास्ये यथा पाण्डूनयोधयत्॥ तमूहर्वाजिनो वश्याः सैन्धवाः साधुवाहिनः। विकुर्वाणा बृहन्तोऽश्वाः श्वसनोपमरंहसः॥ गन्धर्वनगराकारं विधिवत्कल्पितं रथम्। तस्याभ्यशोभयत् केतुराहो राजतो महान्॥ श्वेतच्छत्रपताकाभिश्चामरव्यजनेन च। स बभौ राजलिङ्गैस्तैस्तारापतिरिवाम्बरे॥ मुक्तावज्रमणिस्वर्णभूषितं तदयस्मयम्। वरूथं विबभौ तस्य ज्योतिर्भिः खमिवावृतम्॥ स विस्फार्य महच्चापं किरन्निषुगणान् बहून्। तत् खण्डं पूरयामास यद् व्यदारयदार्जुनिः॥ स सात्यकिं त्रिभिर्बाणैरष्टभिश्च वृकोदरम्। धृष्टद्युम्नं तथा षष्ट्या विराटं दशभिः शरैः॥ दुपदं पञ्चभिस्तीक्ष्णैः सप्तभिश्च शिखण्डिनम्। केकयान् पञ्चविंशत्या द्रौपदेयांस्त्रिभिस्त्रिभिः॥ युधिष्ठिरं तु सप्तत्या ततः शेषानपानुदत्। इघुजालेन महता तदद्भुतमिवाभवत्॥ अथास्य शितपीतेन भल्लेनादिश्य कार्मुकम्। चिच्छेद प्रहसन् राजा धर्मपुत्रः प्रतापवान्॥ अक्ष्णोनिमेषमात्रेण सोऽन्यदादाय कार्मुकम्। विव्याध दशाभः पार्थं तांश्चैवान्यांस्त्रिभिस्त्रिभिः॥ तत् तस्य लाघवं ज्ञात्वा भीमोभल्लेस्त्रिभिस्त्रिभिः। धनुर्ध्वजं च च्छत्रं च क्षितौ क्षिप्रमपातयत्॥ सोऽन्यदादाव बलवान् सज्यं कृत्वा च कार्मुकम्। भोपल्यापातयत् केतुं धनुरश्वांश्च मारिष॥ स हताश्वादवप्लुत्य च्छिन्नधन्वा रथोत्तमात्। सात्यकेराप्लुतो यानं गिर्यग्रमिव केसरी॥ ततस्त्वदीयाः संदृष्टाः साधु साध्विति वादिनः! सिन्धुराजस्य तत् का प्रेक्ष्याश्रद्धेयरद्भुतम्॥ संकुद्धान् पाण्डवानेको एद् दधारास्त्रतेजसा। तत् तस्य कर्म भूतानि सर्वाण्येवाश्यपूजयन्॥ सौभद्रेण हतैः पूर्वे सोत्तरायोधिभिर्द्विपैः। पाण्डूनां दर्शितः पन्थाः सैन्धवेन निवारितः॥ यतमानास्तु ते वीरा मत्स्यपञ्चालकेकयाः। पाण्डवाश्चान्वपद्यन्त प्रतिशेकुर्न सैन्धवम्॥ स विस्फार्य महच्चापं किरन्निषुगणान् बहून्। तत् खण्डं पूरयामास यद् व्यदारयदार्जुनिः॥ स हताश्वादवप्लुत्य च्छिन्नधन्वा रथोत्तमात्। सात्यकेराप्लुतो यानं गिर्यग्रमिव केसरी॥ ततस्त्वदीयाः संदृष्टाः साधु साध्विति वादिनः! सिन्धुराजस्य तत् का प्रेक्ष्याश्रद्धेयरद्भुतम्॥ संकुद्धान् पाण्डवानेको एद् दधारास्त्रतेजसा। तत् तस्य कर्म भूतानि सर्वाण्येवाश्यपूजयन्॥ सौभद्रेण हतैः पूर्वे सोत्तरायोधिभिर्द्विपैः। पाण्डूनां दर्शितः पन्थाः सैन्धवेन निवारितः॥ यतमानास्तु ते वीरा मत्स्यपञ्चालकेकयाः। पाण्डवाश्चान्वपद्यन्त प्रतिशेकुर्न सैन्धवम्॥ यो यो हि यतते भेत्तुं द्रोणानीकं तवाहितः। तं तमेव वरं प्राप्य सैन्धवः प्रत्यवारयत्॥ संजय उवाच सैन्धवेन निरुद्धेषु जयगृद्धिषु पाण्डुषु। सुघोरमभवद्युद्धं त्वदीयानां परैः सह॥ प्रविश्याथार्जुनिः सेनां सत्यसंधो दुरासदः। पक्षोभयत तेजस्वी मकरः सागरं यथा।॥ या शरवर्षेण क्षोभयन्तमरिन्दमम्। या प्रधानाः सौभद्रमभ्ययू रथसत्तमाः॥ तेषां तस्य च सम्मर्दो दारुणः समपद्यत। सृजतां शरवर्षाणि प्रसक्तममितौजसाम्॥ रथव्रजेन संरुद्धस्तैरमित्रैस्तथाऽऽर्जुनिः। वृषसेनस्य यन्तारं हत्वा चिच्छेद कार्मुकम्॥ तस्य विव्याध बलवाशरैरश्वानजिह्मगैः। वातायमानैरथ तैरश्वैरपह्नो रणात्॥ तेनान्तरेणाभिमन्योर्यन्तापासारयद् रथम्। रथव्रजास्ततो हृष्टाः साधु साध्विति चुक्रुशुः॥ तं सिंहमिव संक्रुद्धं प्रमयन्तं शरैररीन्। आरादायान्तमभ्येत्य वसातीयोऽ ऽभ्ययाद् द्रुतम्॥ सोऽभिमन्युं शरैः षष्ट्या रुक्मपुङ्खरवाकिरत्। अब्रवीच्च न मे जीवञ्जीवतो युधि मोक्ष्यसे॥ तमयस्मयवर्माणमिषुणा दूरपातिना। विव्याध दि सौभद्रः स पपात व्यसुः क्षितौ॥ वसातीयं हतं दृष्ट्वा कुद्धाः क्षत्रियपुङ्गवाः। परिवनुस्तदा राजस्तव पौत्रं जिघांसवः॥ विस्फारयन्तश्चापानि नानारूपाण्यनेकशः। तद् युद्धमभवद् रौद्रं सौभद्रस्यारिभिः सह॥ । तेषां शरान् सेष्वसनाशरीराणि शिरांसि च। सकुण्डलानि स्रग्वीणि क्रुद्धश्चिच्छेद फाल्गुनिः॥ बहुधा युगैः॥ सखगाः साङ्गुलित्राणाः सपट्टिशपरश्वधाः। अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः॥ स्रग्भिराभरणैर्वस्त्रैः पातितैश्च महाभुजैः। वर्मभिश्चर्मभिर्हारैर्मुकुटेश्छत्रचामरैः॥ उपस्करैरधिह्मनैरीषादण्डकबन्धुरैः। अक्षैर्विमाथितैश्चर्भग्नश्च :॥ अनुकर्षैः पताकाभिस्तथा सारथिवाजिभिः। रथैश्च भग्नै गैश्च हतैः कीर्णाऽभवन्मही॥ निहतैः क्षत्रियैः शूरैर्नानाजनपदेश्वरैः। जयगृद्धैर्वृता भूमिर्दारुणा समपद्यत॥ दिशो विचरतस्तस्य सर्वाश्च प्रदिशस्तथा। रणेऽभिमन्योः क्रुद्धस्य रूपमन्तरधीयत॥ काञ्चनं यद्यदस्यासीद् वर्म चाभरणानि च। धनुषश्च शराणां च तदपश्याम केवलम्॥ तं तदा नाशकत् कश्चिच्चक्षुर्ध्यामभिवीक्षितुम्। आददानं शरैर्योधान् मध्ये सूर्यमिव स्थितम्॥ धृतराष्ट्र उवाच यथा वदसि मे सूत एकस्य बहुभिः सह। संग्रामं तुमुलं घोरं जयं चैव महात्मनः॥ अश्रद्धेयमिवाश्चर्यं सौभद्रस्याथ विक्रमम्। किं तु नात्यद्भुतं तेषां येषां धर्मो व्यपाश्रयः॥ दुर्योधने च विमुखे राजपुत्रशते हते। सौभद्रे प्रतिपत्ति का प्रत्यपद्यन्त मामकाः॥ संजय उवाच संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना लोमहर्षणाः। पलायनकृतोत्साहा निरुत्साहा द्विषज्जये॥ हतान् भ्रातॄन् पितॄन् पुत्रान् सुहत्सम्बन्धिबान्धवान्। उत्सृज्योत्सृज्य संजग्मुस्त्वरयन्तो हयद्विपान्॥ तान् प्रभग्नांस्तथा दृष्ट्वा द्रोणो द्रौणिर्वृहद्बलः। कृपो दुर्योधनः कर्णः कृतवर्माऽथ सौबलः॥ अभ्यधावन् सुसंक्रुद्धाः सौभद्रमपराजितम्। ते तु पौत्रेण ते राजन प्रायशो विमुखीक़ताः॥ एकस्तु सुखसंवृद्धो बाल्याद् दर्पाच्च निर्भयः। इष्वस्त्रविन्महातेजा लक्ष्मणोऽऽर्जुनिमभ्ययात्॥ तमन्वगेवास्य पिता पुत्रगृद्धी न्यवर्तत। अनुदुर्योधनं चान्ये न्यवर्तन्त महारथाः॥ तं तेऽभिषिषिचुर्बाणैर्मेघा गिरिमिवाम्बुभिः। स तु तान् प्रममाथैको विष्वग्वातोयथाम्बुदान्॥ पौत्रं तव च दुर्धर्षे लक्ष्मणं प्रियदर्शनम्। पितुः समीपे तिष्ठन्तं शूरमुद्यतकार्मुकम्॥ अत्यन्तसुखसंवृद्धं धनेश्वरसुतोपमम्। आससाद रणे कार्ष्णिमत्तो मत्तमिव द्विपम्॥ लक्ष्मणेन तु संगम्य सौभद्रः परवीरहा। शरैः सुनिशितैस्तीक्ष्णैर्बाह्वोरुरसि चार्पितः॥ संक्रुद्धो वै महाराज दण्डाहत इवोरगः। पौत्रस्तव महाराज तव पौत्रमभाषत।॥ सुदृष्टः क्रियतां लोको ह्यमुं लोकं गमिष्यसि। पश्यतां बान्धवानां तवां नयामि यमसादनम्॥ एवमुक्त्वा ततो भल्लं सौभद्रः परवीरहा। उद्वबर्ह महाबाहुर्निर्मुक्तोरगसंनिभम्॥ स तस्य भुजनिर्मुक्तो लक्ष्मणस्य सुदर्शनम्। सुनसं सुझुकेशान्तं शिरोऽहार्षीत् सकुण्डलम्॥ लक्ष्मणं निहतं दृष्ट्वा हाहेत्युच्चुक्रुशुर्जनाः। ततो दुर्योधनः क्रुद्धः प्रिये पुत्रे निपातिते॥ नतैनमिति चुक्रोश क्षत्रियान् क्षत्रियर्षभः। ततो द्रोण: कृपः कर्णो द्रोणपुत्रो बृहद्बलः॥ कृतवर्मा च हार्दिक्य: षड् रथाः पर्यवारयन्। तांस्तु विद्ध्वा शितैर्बाणैर्विमुखीकृत्य चार्जुनिः॥ वेगेलाभ्यपतत् क्रुद्धः सैन्धवस्य महद् बलम्। आवQस्तस्य पन्थानं गजानीकेन दंशिताः॥ कलिङ्गाश्च निषादाश्च क्राथपुत्रश्च तत् प्रसक्तमिवात्यर्थं युद्धमासीद् विशाम्पते॥ वीर्यवान्। ततस्तत् कुञ्जरानीकं व्यधमद् धृष्टमार्जुनिः। यथा वायुर्नित्यगतिर्जलदाशतशोऽम्बरे॥ ततः क्राथः शरव्रातैरार्जुनिं समवाकिरत्। अथेतरे संनिवृत्ताः पुनर्दोणमुखा रथाः॥ परमास्त्राणि धुन्वानाः सौभद्रमभिदुद्रुवुः। तान् निवार्यार्जुनिर्वाणैः क्राथपुत्रमथार्दयत्॥ शरौघेणाप्रमेयेण त्वरमाणो जिघांसया। सधनुर्बाणकेयूरो बाहू समुकुटं शिरः॥ सच्छत्रध्वजयन्तारं रथं चाश्वान् न्यपातयत्। कुलशीलश्रुतिबलैः कीर्त्या चास्त्रबलेन च। युक्ते तस्मिन् हते वीराः प्रायशो विमुखाऽभवन्॥ धृतराष्ट्र उवाच तथा प्रविष्टं तरुणं सौभद्रमपराजितम्। कुलानुरूपं कुर्वाणं संग्रामेष्वपलायिनम्॥ आजानेयैः सुबलिभिर्यान्तमश्वैस्त्रिहायनैः। प्लवमानमिवाकाशे के शूराः समवारयन्॥ संजय उवाच अभिमन्युः प्रविश्यैतांस्तावका निशितैः शरैः। अकरोत् पार्थिवान् सर्वान् विमुखान् पाण्डुनन्दनः॥ तं तु द्रोणः कृपः कर्णो द्रोणिश्च स बृहदलः। कृतवर्मा च हार्दिक्यः षड् रथाः पर्यवारयन्॥ दृष्ट्वा तु सैन्धवे भारमतिमात्रं समाहितम्। सैन्यं तव महाराज युधिष्ठिरमुपाद्रवत्॥ सौभद्रमितरे वीरमभ्यवर्षशराम्बुभिः। तालमात्राणि चापानि विकर्षन्तो महाबलाः॥ तांस्तु सर्वान् महेष्वान् सर्वविद्यासु निष्ठितान्। व्यष्टम्भयद् रणे बापौः सौभद्रः परवीरहा॥ द्रोणं पञ्चाशताविध्यद् विंशत्या च बृहद्बलम्। आशीत्या कृतवर्माणं कृपं षष्टया शिलीमुखैः॥ रुक्मपुथैर्महावेगैराकर्णसमचोदितैः। अविध्यद् दशभिर्वाणैरश्वत्थामानमार्जुनिः॥ स कर्णं कर्णिना कर्णे पीतेन च शितेन च। फाल्गुनिर्द्विषतां मध्ये विव्याध परमेषुणा॥ पातयित्वा कृपस्याश्वांस्तथोभौ पार्णिसारथी। अथैनं दशभिर्बाणैः प्रत्यविध्यत् स्तनान्तरे॥ ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम्। पुत्राणां तव वीराणां पश्यतामवधीद् बली॥ तं द्रौणिः पञ्चविंशत्या क्षुद्रकाणां समार्पयत्। वरं वरममित्राणामारुजन्तमभीतवत्॥ स तु बाणैः शितैस्तूर्णं प्रत्यविध्यत मारिष। पश्यतां धार्तराष्ट्राणामश्वत्थामानमा निः॥ षष्ट्या शराणां तं द्रौणिस्मिग्मधारैः सुतेजनैः। उौर्नाकम्पयद् विद्ध्वा मैनाकमिव पर्वतम्॥ स तु द्रौणिं त्रिसप्त्या हेमपुजैरजिह्मगैः। प्रत्यविध्यन्महातेजा बलवानपकारिणम्॥ तस्मिन् द्रोणो बाणशतं पुत्रगृद्धी न्यपातयत्। अश्वत्थामा तथाष्टौ च परीप्सन पितरं रणे॥ कर्णो द्वाविंशतिं भल्लान् कृतवर्मा च विंशतिम्। बृहद्बलस्तु पञ्चाशत् कृपः शारद्वतो दश॥ तांस्तु प्रत्यवधीत् सर्वान् दशभिर्दशभिः शरैः। तैरर्चमानः सौभद्रः सर्वतो निशितैः शरैः॥ तं कोसलानामधिपः कर्णिनाताडयद्धृदि। स तस्याश्वान् ध्वजं चापं सूतं चापातयत् क्षितौ॥ अथ कोसलराजस्तु विरथः खड्गचर्मभृत्। इयेष फाल्गुनेः कायाच्छिरो हतु सकुण्डलम्॥ स कोसलानामधिपं राजपुत्रं बृहद्वलम्। हदि विव्याघ बाणेन स भिन्नहृदयोऽपतत्॥ बभञ्ज च सहस्त्राणि दश राज्ञां महात्मनाम् सृजतामशिवा वाचः खड्गकार्मुकधारिणाम्।। २३ तथा बृहद्बलं हन्ता सौभद्रो व्यचरद् रणे। व्यष्टम्भयन्महेष्वासो योधास्तव शराम्बुभिः॥ संजय उवाच स कर्णे कर्णिना कर्णे पुनर्विव्याध फाल्गुनिः। शरैः पञ्चाशता चैनमविध्यत् कोपयन् भृशम्॥ प्रतिदिव्याध राधेयस्तावद्भिरथ तं पुनः। शरैराचितसर्वाङ्गो बह्वशोभत भारत॥ कर्णे चाप्यकरोत् क्रुद्धो रुधिरोत्पीडवाहिनम्। कर्णोऽपिविबभौशूरू शरैश्छिननोऽसृगाप्लुतः॥ तावुभौ शरचित्राङ्गौ रुधिरेण समुक्षितौ। बभूवतुर्महात्मानौ पुष्पिताविव किंशुकौ॥ अथकर्णस्य सचिवान् षट् शूरूंचित्रयोधिनः। साश्वसूतध्वजरथान् सौभद्रो निजघान ह॥ तथेतरान् महेष्वासान् दशभिर्दशभिः शरैः। प्रत्यविध्यदसम्भ्रान्तस्तदद्भुतमिवाभवत्॥ मागधस्य तथा पुत्रं हत्वा षड्भिरजिह्मगैः। साश्वं ससूतं तरुणमश्वकेतुमपातयत्॥ मार्तिकावतकं भोज ततः कुञ्जरकेतनम्। क्षुरप्रेण समुन्मथ्य ननाद विसृजशरान्॥ तस्य दौःशासनिर्विद्ध्वाचतुर्भिश्चतुरो हयान्। सूतमेकेन विव्याध दशभिश्चार्जुनात्मजम्॥ ततो दौःशासनिं कार्पोिर्विद्ध्वा सप्तभिराशुगैः। संरम्भाद रक्तनयनो वाक्यमुच्चैरथाब्रवीत्॥ पिता तवाहवं त्यक्त्वा गतः कापुरुषो यथा। दिष्ट्या त्वमपि जानीषे योद्धुं न त्वद्य मोक्ष्यसे॥ एतावदुक्त्वा वचनं कर्मारपरिमार्जितम्। नाराचं विससर्जास्मै तं द्रौणिस्त्रिभिराच्छिनत्॥ तस्या निर्ध्वजं छित्त्वा शल्यं त्रिभिरताडयत्। तं शल्यो नवभिर्बाणैर्गापौरताडयत्॥ यसम्भ्रान्तवद् राजंस्तदद्भुतमिवाभवत्। तस्या निर्ध्वजं छित्त्वा हत्वोभी पार्ष्णिसारथी॥ तं विव्याधायसैः षड्भिः सोपाक्रामद् स्थान्तरम्। शजयं चन्द्रकेतुं मेघवेगं सुवर्चसम्॥ सूर्यभासं च पञ्चैतान् हत्वा विव्याध सौबलम्। तं सौबलस्त्रिभिर्विद्ध्वा दुर्योधनमथाब्रवीत्॥ सर्व एनं विमनीमः पुरैकैकं हिनस्ति नः। अथाब्रवीत् पुनर्दोणं कर्णो वैकर्तनो रणे।॥ पुरा सर्वान् प्रमथाति बृह्यस्य वधमाशु नः। ततो द्रोणो महेष्वासः सर्वांस्तान् प्रत्यभाषत॥ अस्ति वास्यान्तरं किंचित् कुमारस्याथ पश्यत। अण्वष्यस्यान्तरं ह्यद्य चरतः सर्वतोदिशम्॥ शीघ्रतां नरसिंहस्य पाण्डवेयस्य पश्यता धनुर्मण्डलमेवास्य रथामार्गेषु दृश्यते॥ संदधानस्य विशिखाशीघ्रं चैव विमुञ्चतः। आरुजन्नपि मे प्राणान् मोहयन्नपि सायकैः॥ प्रहर्षयति मां भूयः सौभद्रः परवीरहा। अति मां नन्दयत्येष सौभद्रो विचरन् रणे॥ अन्तरं यस्य संरब्धा न पश्यन्ति महारथाः। अस्यतो लघुहस्तस्य दिशः सर्वा महेषुभिः॥ न विशेष प्रपश्यामि रणे गाण्डीवधन्वनः। अथ कर्णः पुनर्दोणमाहार्जुनिशराहतः॥ स्थातव्यमिति तिष्ठामि पीड्यमानोऽभिमन्युना। तेजस्विनः : कुमारस्य शराः परमदारुणाः॥ क्षिण्वन्ति हृदयं मेऽद्य घोराः पावकतेजसः। तमाचार्योऽब्रवीत् कर्णं शनकैः प्रहसन्निव॥ अभेद्यमस्य कवचं युवा चाशुपराक्रमः। उपदिष्टा मया चास्य पितुः कवचधारणा॥ तामेष निखिला वेत्ति ध्रुवं परपुरंजयः। शक्यं त्वस्य धनुश्छेत्तुं ज्यां च बाणैः समाहितैः।।२८ अभीषूश्च हयांश्चैव तथोभौ पार्ष्णसारथी। एतत् कुरु महेष्वास राधेय यदि शक्यते॥ अथैनं विमुखीकृत्य पश्चात् प्रहरणं कुरु। सधनुष्को न शक्योऽयमपि जेतुं सुरासुरैः॥ विरथं विधनुष्कं च कुरुष्वैनं यदीच्छसि। तदाचार्यवचः श्रुत्वा कर्णो वैकर्तनस्त्वरन्॥ अस्यतो लघुहस्तस्य पृषत्कैर्धनुराच्छिनत्। अश्वानस्यावधीद् भोजो गौतमः पार्णिसारथी॥ शेषास्तु च्छिन्नधन्वानं शरवर्षैरवाकिरन्। त्वरमाणास्त्वराकाले विरथं षण्महारथाः॥ शरवर्षैरकरुणा बालमेकमवाकिरन्। स च्छिन्नधन्वा विरथः स्वधर्ममनुपालयन्॥ खड्गचर्मधरः श्रीमानुत्पपात विहायसा। मार्गः सकौशिकाद्यैश्च लाघवेन बलेन च॥ आर्जुनिर्व्यचरद् व्योम्नि भृशं वै पक्षिराडिव। मय्येव निपतत्येष सासिरित्यूर्ध्वदृष्टयः॥ विव्यधुस्तं महेष्वासं समरे छिद्रदर्शिनः। तस्य द्रोणोऽच्छिनन्मुष्टौ खङ्गं मणिमयत्सरुम्॥ क्षुरप्रेण महातेजास्त्वरमाणः सपत्नजित्। राधेयो निशितैर्बाणैर्व्यधमच्चर्म चोत्तमम्॥ व्यसिचर्मेषुपूर्णाङ्गः सोऽन्तरिक्षात् पुनः क्षितिम्। आस्थितश्चक्रमुद्यम्य द्रोणं क्रुद्धोऽभ्यधावत॥ स चक्ररेणूज्ज्वलशोभिताङ्गो बभावतीवोज्ज्वलचक्रपाणिः। रणेऽभिमन्युः क्षणमास रौद्रः स वासुदेवानुकृति प्रकुर्वन्॥ स्रुतरुधिरकृतैकरागवस्त्रो भ्रुकुटिपुटाकुटिलोऽतिसिंहनादः। पवस्थ्यगतो भृशं व्यराजत्॥ संजय उवाच विष्णोः स्वसुर्नन्दकरः स विष्ण्वायुधभूषणः। रराजातिरथः संख्ये जनार्दन इवापरः॥ मारुतोद्भूतकेशान्तमुद्यतारिवरायुधम्। वपुः समीक्ष्य पृथ्वीशा दुःसमीक्ष्यं सुरैरपि॥ तच्चक्रं भृशमुद्विग्नाः संचिच्छिदुरनेकधा। महारथस्ततः कार्णि: संजग्राह महागदाम्॥ विधनुःस्यन्दनासिस्तैर्विचक्रचारिभिः कृतः। अभिमन्युर्गदापाणिरश्वत्थामानमार्दयत्॥ स गदामुद्यतां दृष्ट्वा ज्वलन्तीमशनीमिव। अपाक्रामद् रथोपस्थाद् विक्रमांस्त्रीन् नरर्षभः॥ तस्याश्वान् गदया हत्वा तयोभौ पार्ष्णसारथी। शराचिताङ्गः सौभद्रः श्वाविद्वत् समदृश्यत॥ ततः सुबलदायादं कालिकेयमपोथयत्। जघान चास्यानुचरान् गान्धारान् सप्तसप्ततिम्॥ पुनश्चैव वसातीयाञ्जघान रथिनो दश। केकयानां रथान् सप्त हत्वा च दश कुञ्जरान्॥ दौः शासनिरथं सावं गदया समपोथयत्। ततो दौःशासनिः क्रुद्धो गदामुद्यम्य मारिष॥ अभिदुद्राव सौभद्रं तिष्ठ तिष्ठेति चाब्रवीत्। तावुद्यतगदौ वीरावन्योन्यवधकाक्षिणौ॥ भ्रातृव्यौ सम्प्रजह्राते पुरेवत्र्यम्बकान्धकौ। तावन्योन्यं गदाग्राभ्यामाहत्य पतितौ क्षितौ॥ इन्द्रध्वजाविवोत्सृष्टौ रणमध्ये परंतपौ। दौःशासनिरथोत्थाय कुरूणां कीर्तिवर्धनः॥ उत्तिष्ठमानं सौभद्रं गदया मूर्ध्यताडयत्। गदावेगेन महता व्यायामेन च मोहितः॥ विचेता न्यपतद् भूमौ सौभद्रः परवीरहा। एवं विनिहतो राजन्नेको बहुभिराहवे॥ क्षोभयित्वा चमूं सर्वो नलिनीमिव कुञ्जरः। अशोभत हतो वीरो व्याधैर्वनगजो यथा॥ तं तथा पतितं शूरं तावकाः पर्यवारयन्। दावं दग्ध्वा यथा शान्तं पावकं शिशिरात्यये॥ विमृद्य नागशृङ्गाणि संनिवृत्तमिवानिलम्। अस्तंगतमिवादित्यं तप्त्वा भारतवाहिनीम्॥ उपप्लुतं यथा सोमं संशुष्कमिव सागरम्। पूर्णचन्द्राभवदनं काकपक्षवृताक्षिकम्॥ तं भूमौ पतितं दृष्टवा तावकास्ते महारथाः। मुदा परमया युक्ताश्चक्रुशुः सिंहवन्मुहुः॥ आसीत् परमको हर्षस्तावकानां विशाम्पते। इतरेषां तु वीराणां नेत्रेभ्यः प्रापतज्जलम्॥ अन्तरिक्षे च भूतानि प्राक्रोशन्त विशाम्पते। दृष्ट्वा निपतितं वीरं च्युतं चन्द्रमिवाम्बरात्॥ एकोऽयं निहतः शेते नेष धर्मो मतो हि नः॥ तस्मिन् विनिहते वीरे बह्वशोभत मेदिनी। द्यौर्यथा पूर्णचन्द्रेण नक्षत्रगणमालिनी॥ रुक्मपुडैश्च सम्पूर्णा रुधिरौघपरिप्लुता। उत्तमाडैश्च शूराणां भ्राजमानैः सकुण्डलैः॥ विचित्रैश्च परिस्तोमैः पताकाभिश्च संवृता। चामरैश्च कुथाभिश्च प्रविद्धैश्चाम्बरोत्तमैः॥ तथाश्वनरनागानामलंकारैश्च सुप्रभैः। खङ्गैः सुनिशितैः पीतैर्निर्मुक्तैर्भुजगैरिव॥ चापैश्च विविधैश्छिन्नैः शक्त्वृष्टिप्रासकम्पनैः। विविधैश्चायुधैश्चान्यैः संवृता भूरशोभत॥ वाजिभिश्चापि निर्जीवैः श्वसद्भिः शोणितोक्षितैः। सारोहैर्विषमा भूमिः सौभद्रेण निपातितः॥ साकुशैः समहामात्रैः सवर्मायुधकेतुभिः। पर्वतैरिव विध्वस्तैर्विशिखैर्मथितैर्गजैः॥ पृथिव्यामनुकीर्णैश्च व्यश्वसारथियोधिभिः। ह्रदैरिव प्रक्षुभितैर्हतनागै रथोत्तमैः॥ पदातिसंघेश्च हतैर्विविधायुधभूषणैः। भीरूणां त्रासजननी घोररूपाभवन्मही॥ दृष्ट्वा पतितं भूमौ चन्द्रार्कसदृशद्युतिम्। तावकानां परा प्रीतिः पाण्डूनां चाभवद् यथा॥ अभिमन्यौ हते राजशिशुकेऽप्राप्तयौवने। सम्प्राद्रवच्चमूः सर्वा धर्मराजस्य पश्यतः॥ दीर्यमाणं बलं दृष्ट्वा सौभद्रे विनिपातिते। अजातशत्रुस्तान् वीरानिदं वचनमब्रवीत्॥ तं स्वर्गमेघ गतः शूरो यो हतो न पराङ्मुखः। संस्तम्भयत मा भैष्ट विजेष्यामो रणे रिपून्।॥ इत्येवं स महातेजा दुःखितेभ्यो महाद्युतिः। धर्मराजो युधां श्रेष्ठो ब्रुवन् दुःखमपानुदत्॥ युद्धे ह्याशीविषाकारान् राजपुत्रान् रणे रिपून्। पूर्व निहत्य संग्रामे पश्चादा निरभ्ययात्॥ हत्वा दश सहस्राणि कौसल्यं च महारथम्। कृष्णार्जुनसमः कार्ष्णिः शक्रलोकं गतो ध्रुवम्॥ रथाश्वनरमातङ्गान् विनिहत्य सहस्रशः। अवितृप्तः स संग्रामादशोच्यः पुण्यकर्मकृत्। गतः पुण्यकृतां लोकाशाश्वतान् पुण्यनिर्जितान्।। ३९ संजय उवाच वयं तु प्रवरं हत्वा तेषां तैः शरपीडिताः। निवेशायाभ्युपायामः सायाह्ने रुधिरोक्षिताः॥ निरीक्षमाणास्तु वयं परे चायोधनं शनैः। अपयाता महाराज ग्लानि प्राप्ता विचेतसः॥ ततोनिशायादिवसस्य चाशिवः शिवारुतैः संधिरवर्तताद्भुतः। कुशेशयापीडनिभे दिवाकरे विलम्बमानेऽस्तमुपेत्यपर्वतम्॥ वरासिशक्त्यृष्टिवरूथचर्मणां विभूषणां च समाक्षिपन् प्रभाः। दिवं च भूमिं च समानयन्निव प्रियां तनुं भानुरुपैति पावकम्॥ नजैरनेकैरिव वज्रपातितः। निपातितैन्रष्टगतिश्चिता क्षितिः॥ हताश्वसूतैविपताककेतुभिः। महारथैर्भूः शुशुभे विचूर्णितः पुरैरिवामित्रहतैर्नराधिप॥ रथाश्ववृन्दैः सह सादिभिर्हतैः प्रविद्धभाण्डाभरणैः पृथग्विधैः। र्धरा बभौ घोरविरूपदर्शना॥ प्रविद्धवर्माभरणाम्बरायुधा विपन्नहस्त्यश्वरथानुगा नराः। महार्हशय्यास्तरणोचितास्तदा क्षितावनाथा इव शेरते हताः॥ अतीव हृष्टाः श्वशृगालवायसा बकाः सुपर्णाश्च वृकास्तरक्षवः। वयांस्यसृक्पान्यथ रक्षसां गणाः पिशाचसंघाश्च सुदारुणा रणे॥ त्वचो विनिर्भिद्य पिबन् वसामसृक् तथैव मज्जाः पिशितानि चाश्नुवन्। वपां विलुम्पन्ति हसन्ति गान्ति च प्रकर्षमाणा: कुणपान्यनेकशः॥ शरीरसंघातवहा ह्यसृग्जला रथोडुपा कुञ्जरशैलसङ्कटा। मनुष्यशीर्षोपलमांसकर्दमा प्रविद्धनानाविधशस्त्रमालिनी॥ भयावहा वैतरणीव दुस्तरा प्रवर्तिता योधवरैस्तदा नदी। उवाह मध्येन रणाजिरे भृशं भयावहा जीवमृतप्रवाहिनी॥ पिबन्ति चाश्नन्ति च यत्र दुर्दशा: पिशाचसंघास्तु नदन्ति भैरवाः। सुनन्दिताः प्राणभृतां क्षयङ्कराः समानभक्षाः श्वशृगालपक्षिणः॥ तथा तदायोधनमुग्रदर्शनं निशामुखे पितृपतिराष्ट्रवर्धनम्। निरीक्षमाणाः शनकै हुनराः समुत्थिता नृत्तकबन्धसंकुलम्॥ अपेतविध्वस्तमहार्हभूषणं निपातितं शक्रसमं महाबलम्। रणेऽभिमन्युं ददृशुस्तदा जना व्यपोढहव्यं सदसीव पावकम्॥ संजय उवाच अथैनं विलपन्तं तं कुन्तीपुत्रं युधिष्ठिरम्। कृष्णद्वैपायनस्तत्र आजगाम महानृषिः॥ अर्चयित्वा यथान्यायमुपविष्टं युधिष्ठिरः। अब्रवीच्छोकसंतप्तो भ्रातुः पुत्रवधेन च॥ युधिष्ठिर उवाच अधर्मयुक्तैर्बहुभिः परिवार्य महारथैः। युध्यमानो महेष्वासः सौभद्रो निहतो रणे॥ बालश्च बालबुद्धिश्च सौभद्रः परवीरहा। अनुपायेन संग्रामे युध्यमानो विशेषतः॥ मया प्रोक्तः स संग्रामे द्वारं संजनयस्व नः। प्रविष्टेऽभ्यन्तरे तस्मिन् सैन्धवेन निवारिताः॥ ननु नाम समं युद्धमेष्टव्यं युद्धजीविभिः। इदं चैवासमं युद्धमीदृशं यत् कृतं परैः॥ तेनास्मि भृशसंतप्तः शोकबाष्पसमाकुलः। शमं नैवाधिगच्छामि चिन्तयानः पुनः पुनः॥ संजय उवाच तं तथा विलपन्तं वै शोकव्याकुलमानसम्। उवाच भगवान् व्यासो युधिष्ठिरमिदं वचः॥ व्यास उवाच युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद। व्यसनेषु न मुह्यन्ति तवादृशा भरतर्षभ॥ स्वर्गमेष गतः शूरः शत्रून् हत्वा बहून् रणे। अबालसदृशं कर्म कृत्वा वै पुरुषोत्तमः॥ अनतिक्रमणीयो वै विधिरेष युधिष्ठिर। देवदानवगन्धर्वान् मृत्युर्हरति भारत॥ युधिष्ठिर उवाच इमे वै पृथिवीपाला: शेरते पृथिवीतले। निहताः पृतनामध्ये मृतसंज्ञा महाबलाः॥ नागायुतबलाश्चान्ये वायुवेगबलास्तथा। त एते निहताः संख्ये तुल्यरूपा नरैर्नराः॥ नैषां पश्यामि हन्तारं प्राणिनां संयुगे क्वचित्। विक्रमेणोपसम्पन्नास्तपोबलसमन्विताः॥ जेतव्यमिति चान्योन्यं येषां नित्यं दि स्थितम्। अथ चेमे हताः प्राज्ञाः शेरते विगतायुषः॥ मृता इति च शब्दोऽयं वर्तते च ततोऽर्थवत्। इमे मृता महीपाला: प्रायशो भीमविक्रमाः॥ निश्चेष्टा निरभीमानाः शूराः शत्रुवशंगताः। राजपुत्राश्च संरब्धा वैश्वानरमुखं गताः॥ अत्र मे संशयः प्राप्त: कुत: संज्ञा मृता इति। कस्य मृत्युः कुतो मृत्युः कथं संहरते प्रजाः॥ हरत्यमरसंकाश तन्मे ब्रूहि पितामह। संजय उवाच तं तथा परिपृच्छन्तं कुन्तीपुत्रं युधिष्ठिरम्। आश्वासनमिदं वाक्यमुवाच भगवानृषिः॥ व्यास उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। अकम्पनस्य कथितं नारदेन पुरा नृप॥ स चापि राजा राजेन्द्र पुत्रव्यसनमुत्तमम अप्रसह्यतमं लोके प्राप्तवानिति मे मतिः॥ तदहं सम्प्रवक्ष्यामि मृत्योः प्रभवमुत्तमम्। ततस्त्वं मोक्ष्यसे दुःखात् स्नेहबन्धनसंश्रयात्॥ समस्तपापराशिघ्नं शृणु कीर्तयतो मम। धन्यमाख्यानमायुष्यं शोकनं पुष्टिवर्धनम्॥ पवित्रमरिसंघघ्नं मङ्गलानां च मङ्गलम्। यथैव वेदाध्ययनमुपाख्यानमिदं तथा॥ श्रवणीयं महाराज प्रातर्नित्यं नृपोत्तमैः। पुत्रानायुष्मतो राज्यमीहमानैः श्रियं तथा॥ पुरा कृतयुगे तात आसीद् राजा हकम्पनः। स शत्रुवशमापन्नो मध्ये संग्राममूर्धनि॥ तस्य पुत्रो हरि म नारायणसमो बले। श्रीमान् कृतास्त्रो मेधावी युधि शक्रोपमो बली॥ स शत्रुभिः परिवृतो बहुधा रणमूर्धनि। व्यस्यन् बाणसहस्राणि योधेषु च गजेषु च॥ स कर्म दुष्करं कृत्वा संग्रामे शत्रुतापनः। शत्रुभिर्निहतः संख्ये पृतनायां युधिष्ठिर॥ स राजा प्रेतकृत्यानि तस्य कृत्वा शुचान्वितः। शोचनहनि रात्री च नालभत् सुखमात्मनः॥ तस्य शोकं विदित्वा तु पुत्रव्यसनसम्भवम्। आजगामाथ देवर्षिर्नारदोऽस्य समीपतः॥ स तु राजा महाभागो दृष्ट्वा देवर्षिसत्तमम्। पूजयित्वा यथान्यायं कथामकथयत् तदा॥ तस्य सर्वे समाचष्ट यथावृत्तं नरेश्वरः। शत्रुभिर्विजयं संख्ये पुत्रस्य च वधं तथा॥ अकम्पन उवाच मम पुत्रो महावीर्य इन्द्रविष्णुसमद्युतिः। शत्रुभिर्बहुभिः संख्ये पराक्रम्य हतो बली॥ क एष मृत्युभगवन् किंवीर्यबलपौरुषः। एतदिच्छामि तत्त्वेन श्रोतुं मतिमतां वर॥ व्यास उवाच तस्य तद् वचनं श्रुत्वा नारदो वरदः प्रभुः। आख्यानमिदमाचष्ट पुत्रशोकापहं महत्॥ शृणु राजन् महाबाहो आख्यानं बहुविस्तरम्। यथावृत्तां श्रुतं चैव मयाऽपि वसुधाधिप।॥ प्रजाः सृष्ट्वा तदा ब्रह्मा आदिसर्गे पितामहः। असंतं महातेजा दृष्ट्वा जगदिदं प्रभुः॥ तस्य चिन्ता समुत्पन्ना संहारं प्रति पार्थिव। चिन्तयन्न ह्यसौ वेद संहारं वसुधाधिप॥ तस्य रोषान्महाराज खेभ्योऽग्निरुदतिष्ठत। तेन सर्वा दिशो व्याप्ताः सान्तर्देशा दिधक्षता॥ ततो दिवं भुवं चैव ज्वालामालासमाकुलम्। चराचरं जगत सर्वे ददाह भगवान् प्रभुः॥ ततो हतानि भूतानि चराणि स्थावराणि च। महता क्रोधवेगेन त्रासयन्निव वीर्यवान्॥ ततो रुद्रो जटी स्थाणुर्निशाचरपतिहरः। जगाम शरणं देवं ब्रह्मणं परमेष्ठिनम्॥ तस्मिन्नापतिते स्थाणौ प्रजानां हितकाम्यया। अब्रवीत् परमो देवो ज्वलन्निव महामुनिः॥ किं कुर्मः कार्म कामाई काकाज्जातोऽसि पुत्रका करिष्यामि प्रियं सर्वे ब्रूहि स्थाणो यदिच्छसि॥ स्थाणुरुवाच प्रजासर्गनिमित्तं हि कृतो यत्नस्त्वया विभो। त्वया सृष्टाश्च वृद्धाश्च भूतग्रामाः पृथग्विधाः॥ तास्तवेह पुनः क्रोधात् प्रजा दह्यन्ति सर्वशः। ता दृष्ट्वा मम कारुण्यं प्रसीद भगवन् प्रभो॥ ब्रह्मोवाच संहर्तुं न च मे काम एतदेवं भवेदिति। पृथिव्या हितकामं तु ततो मां मन्युराविशत्॥ इयं हि मां सहा देवी भारार्ता समचूचुदत्। संहारार्थे महादेव भारेणाभिहता सती॥ ततोऽहं नाधिगच्छामि तथा बहुविधं तदा। संहारमप्रमेयस्य ततो मां मन्युराविशत्॥ रुद्र उवाच संहारार्थे प्रसीदस्व मा रुषो वसुधाधिप। मा प्रजाः स्थावराश्चैव जंगमाश्च व्यनीनशः॥ तव प्रसादाद् भगवन्निदं वर्तेत् त्रिधा जगत्। अनागतममीनं च यच्च सम्प्रति वर्तते॥ भगवन् क्रोधसंदीप्तः क्रोधादग्निमवासृजत्। स दहत्यश्मकूटानि गुमांश्च सरितस्तथा॥ पल्वलानि च सर्वाणि सर्वोश्चैव तृणोलपान्। स्थावरं जङ्गमं चैव नि:शेषं कुरुते जगत्॥ तदेतद् भसमसाद्भूतं जगत् स्थावरजङ्गमम्। प्रसीद भगवन् स त्वं रोषो न स्याद् वरो मम॥ सर्वे हि सृष्टा नश्यन्ति तव देव कथंचन। तस्मानिवर्ततां तेजस्त्वय्येवेदं प्रलीयताम्॥ तत् पश्य देव सुभृशं प्रजानां हितकाम्यया। यथेमे प्राणिनः सर्वे निवर्तेरंस्तथा कुरु॥ अभावं नेह गच्छेयुरुत्सन्नजननाः प्रजाः। आदिदेव नियुक्तोऽस्मि त्वया लोकेषु लोककृत्॥ मा विनश्येज्जगन्नाथ जगत् स्थावरजङ्गमम्। प्रसादाभिमुखं देवं तस्मादेवं ब्रवीम्यहम्॥ नारद उवाच श्रुत्वाहि वचनं देवः प्रजानां हितकारणे। तेजः संधारयामास पुनरेवानतरात्मनि॥ ततोऽग्निमुपसंहृत्य भगवाँल्लोकसत्कृतः। प्रवृत्तं च निवृत्तं च कथयामास वै प्रभुः॥ उपसंहरतस्तस्य तमग्निं रोषजं तथा। प्रादुर्वभूव विश्वेभ्यो गोभ्यो नारी महात्मनः॥ कृष्णरक्ता तथा पिङ्गरक्तजिह्वास्यलोचना। कुण्डलाभ्यां च राजेन्द्र तप्ताभ्यां तप्तभूषणा॥ सा निःसृत्य तथा खेभ्यो दक्षिणां दिशमाश्रिता। स्मयमाना च सावेक्ष्य देवौ विश्वेश्वरावुभौ॥ तामाहूय तदा देवो लोकादिनिधनेश्वरः। मृत्यो इति महीपाल जहि चेमाः प्रजा इति॥ त्वं हि संहारबुद्धच्याथ प्रादुर्भूता रुषो ममा तस्मात् संहर सर्वांस्त्वं प्रजाः सजड़पण्डिताः॥ मम त्वं हि नियोगेन ततः श्रेयो ह्यवाप्स्यसि। एवमुक्ता तु सा तेन मृत्युः कमललोचना॥ दध्यौ चात्यर्थमबला प्ररुरोद च सुस्वरम्। पाणिभ्यां प्रतिजग्राह तान्यश्रूणि पितामहः। सर्वभूहितार्थाय तां चाप्यनुनयत् तदा॥ नारद उवाद विनीय दुःखमबला आत्मन्येव प्रजापतिम्। उवाच प्राञ्जलिर्भूत्वा लतेवावर्जिता पुनः॥ मृत्युरुवाच त्वया सृष्टा कथं नारी ईदृशी वदतां वर। क्रूरं कर्माहितं कुर्यां तदेव किमु जानती॥ बिभेम्यहमधर्माद्धि प्रसीद भगवन् प्रभो। प्रियान् पुत्रान् वयस्यांश्च भ्रातॄन् मातृः पितॄन् पतीन्॥३ अपध्यास्यन्ति मे देव मृतेष्वेभ्यो विभेम्यहम्। कृपणानां हि रुदतां ये पतन्त्यश्रुबिन्दवः॥ तेभ्योऽहं भगवन् भीता शरणं त्वाहमागता। यमस्य भवनं देव गच्छेयं न सुरोत्तम॥ कायेन विनयोपेता मोदग्रनखेन च। एतदिच्छाम्यहं कामं त्वत्तो लोकपितामह॥ इच्छेयं त्वत्प्रसादाद्धि तपस्तप्तुं प्रजेश्वर। प्रदिशेमं वरं देव त्वं मह्यं भगवन् प्रभो॥ त्वया झुक्ता गमिष्यामि धेनुकाश्रममुत्तमम्। तत्र तप्स्ये तपस्तीनं तवैवाराधने रता॥ न हि शक्ष्यामि देवेश प्राणान् प्राणभृतां प्रियान्। हर्तुं विलपमानानामधर्मादभिरक्ष माम्॥ ब्रह्मोवाच मृत्यो संकल्पितासि त्वं प्रजासंहारहेतुना। गच्छ संहर सर्वास्त्वं प्रजा मा ते विचारणा॥ भविता त्वेतदेवं हि नैतज्जात्वन्यथा भवेत्। भव त्वनिन्दिता लोके कुरुष्व वचनं मम॥ नारद उवाच एवमुक्ताभवत् प्रीता प्राञ्जलिर्भगवन्मुखी। संहारे नाकरोद् बुद्धिं प्रजानां हितकाम्यया॥ तूष्णीमासीत् तदा देवः प्रजानामीश्वरेश्वरः। प्रसादं चागमत् क्षिप्रमात्मनैव प्रजापतिः॥ स्मयमानश्च देवेशो लोकान् सर्वानवेक्ष्य च। लोकास्त्वासन् यथापूर्वे दृष्टास्तेनापमन्युना॥ निवृत्तरोषे तस्मिंस्तु भगवत्यपराजिते। सा कन्यापि जगामाथ समीपात् तस्य धीमतः॥ अपसृत्याप्रतिश्रुत्य प्रजासंहरणं तदा। त्वरमाणा च राजेन्द्र मृत्युर्धेनुकमभ्यगात्॥ सा तत्र परमं तीव्र चचार व्रतमुत्तमम्। सा तदा ह्येकपादेन तस्थौ पद्मानि षोडश॥ पञ्च चाब्दानि कारुण्यात् प्रजानां तु हितैषिणी। इन्द्रियाणीनिद्रयार्थेभ्यः प्रियेभ्यः संनिवर्त्य सा॥ ततस्त्वेकेन पादेन पुनरन्यानि सप्त वै। तस्थौ पद्मानि षट् चैव सप्त चैकं च पार्थिव॥ ततः पद्मायुतं तात मृगैः सह चचार सा। पुनर्गत्वा ततो नन्दा पुण्यां शीतामलोदकाम्॥ अप्सु वर्षसहस्राणि सप्त चैकं च साऽनयत्। धारयित्वा तु नियमं नन्दायां वीतकल्मषा॥ सा पूर्वे कौशिकी पुण्यां जगाम नियमैघिता। तत्र वायुजलाहारा चचार नियमं पुनः॥ पञ्चगङ्गसु सा पुण्या कन्या वेतसकेषु च। तपोविशेषैर्बहुभिः कर्षयद् देहमात्मनः॥ ततो गत्वा तु सा गङ्गां महामेरुं च केवलम्। तस्थौ चाश्मेव निश्चेष्टा प्राणायामपरायणा॥ पुनर्हिमवतो मूर्ध्नि यत्र देवाः पुराऽयजन्। तत्राङ्गुष्ठेन सा तस्थौ निखर्वं परमा शुभा॥ पुष्करेष्वथ गोकर्णे नैमिषे मलये तथा अपाकर्षत् स्वकं देहं नियमैर्मानसप्रियैः॥ अनन्यदेवता नित्यं दृढभक्ता पितामहे। तस्थौ पितामहं चैव तोषयामास धर्मतः॥ ततस्तामब्रवीत् प्रीतो लोकानां प्रभवोऽव्ययः। सौम्येन मनसा राजन् प्रीत: प्रीतमनास्तदा॥ मृत्यो किमिदमत्यन्तं तपांसि चरसीति ह। ततोऽब्रवीत् पुनर्मूतवुर्भगवन्तं पितामहम्॥ एतदिच्छामि सर्वेश त्वत्तो वरमहं प्रभो॥ अधर्मभयभीताऽस्मि ततोऽहं तप आस्थिता। भीतायास्तु महाभाग प्रयच्छाभयमव्यय॥ आर्ता चानागसी नारी याचामि भव मे गतिः। तामब्रवीत् ततो देवो भूतभव्यभविष्यवित्॥ अधर्मोनास्ति ते मृत्योसंहरन्त्या इमाः प्रजाः। मया चोक्तं मृषा भद्रे भविता न कथंचन॥ तस्मात् संहर कल्याणि प्रजाः सर्वाश्चतुर्विधाः। धमः सनातनश्च त्वां सर्वथा पावयिष्यति॥ लोकपालो यमश्चैव सहाया व्याधयश्च ते। अहं च विबुधाश्चैव पुनर्दास्याम ते वरम्॥ यथा त्वमेनसा मुक्ता विरजाः ख्यातिमेष्यसि। सैवमुक्ता महाराज कृताञ्जलिरिदं विभुम्॥ पुनरेवाब्रवीद् वाक्यं प्रसाद्य शिरसा तदा। यद्येवमेतत् कर्तव्यं मया न स्याद् विना प्रभो॥ तवाज्ञा पूर्ध्निमेन्यस्ता यत् ते वक्ष्यामि तच्छृणु। लोभः क्रोधोऽभ्यसूयेाद्रोहोमोहश्च देहिनाम्॥ ब्रह्मोवाच अह्रश्चान्योन्यपरुषा देहं भिन्छुः पृथग्विधाः। तथा भविष्यते मृत्या साधु संहर भोः प्रजाः। अधर्मस्तेन भविता नापध्यास्याम्यहं शुभे॥ स्ते व्याधयः प्राणिनामात्मजाताः। ते मारयिष्यन्ति नरान् गतासून् नाधमस्ते भविता मास भैषीः॥ नाधर्मस्ते भविता प्राणिनां वै त्वं वै धर्मस्त्वं हि धर्मस्य चेशा। धा भूत्वा धर्मनित्या धरित्री तस्मात् प्राणान् सर्वथेमान् नियच्छ॥ सर्वेषां वै प्राणिनां कामरोषौ संत्यज्य त्वं संहरस्वेह जीवान्। एवं धर्मस्त्वां भविष्यत्यनन्तो मिथ्यावृत्तात् मानयिष्यत्यधर्मः॥ तेनात्मानं पावयस्वात्मना त्वं पापेऽऽत्मानं मज्जयिष्यन्त्यसत्यात्। तस्मात् कामं रोषमप्यागतं त्वं संत्यज्यान्तः संहरस्वेति जीवान्॥ नारद उवाच च्छापाद् भीता बाढमित्यब्रवीत् तम्। सा च प्राणं प्राणिनामन्तकाले कामक्रोधौ त्यज्य हरत्यसक्ता॥ मृत्युस्त्वेषां व्याधयस्तत्प्रसूता व्याधी रोगो रुज्यते येन जन्तुः। सर्वेषां च प्राणिनां प्रायणान्ते तस्माच्छोकं मा कृथा निष्फलं त्व त्वम्॥ सर्वे देवाः प्राणिभिः प्रायणान्ते गत्वा वृत्त संनिवृत्तास्तथैव। एवं सर्वे प्राणिनस्तत्र गत्वा वृत्ता देवा मर्त्यवद् राजसिंह॥ वायुीमो भीमनादो महौजा भेत्ता देहान् प्राणिनां सर्वगोऽसौ। नो वाऽऽवृत्तिं नैव वृत्तिं कदाचित् प्राप्नोत्युग्रोऽनन्ततेजोविशिष्टः॥ स्तस्मात् पुत्रं मा शुचोराजसिंह। स्वर्गे प्राप्तो मोदते ते तनूजो नित्यं रम्यान् वीरलोकानवाप्य॥ रेषा मृत्युर्देवदिष्टा प्रजानाम्। प्राप्ते काले संहरन्ती यथावत् स्वयं कृता प्राणहरा प्रजानाम्॥ आत्मानं वै प्राणिनो मन्ति सर्वे नैतान् मृत्युदण्डपाणिर्हिनस्ति। तस्मान्मृतान् नानुशोचन्ति धीरा मृत्युं ज्ञात्वा निश्चयं ब्रह्मसृष्टम्। इत्थं सृष्टि देवक्लप्तां विदित्वा पुत्रान्नष्टाच्छोकमाशु त्यजस्व॥ व्यास उवाच एतच्छुत्वार्थवद् वाक्यं नारदेन प्रकाशितम्। उवाचाकम्पनो राजा सखायं नारदं तथा॥ व्यपेतशोकः प्रीतोऽस्मि भगवऋषिसत्तम। श्रुत्वेतिहासं त्वत्तस्तु कृतार्थोऽस्म्यभिवादये॥ तथोक्तो नारदस्तेन राज्ञा ऋषिवरोत्तमः। जगाम नन्दनं शीघ्रं देवर्षिरमितात्मवान्॥ पुण्यं यशस्यं स्वर्णं च धन्यमायुष्यमेव च। अस्येतिहासस्य सदा श्रवणं श्रावणं तथा॥ एतदर्थपदं श्रुत्वा तदा राजा युधिष्ठिरः। क्षत्रधर्मे च विज्ञाय शूराणां च परां गतिम्॥ सम्प्राप्तोऽसौ महावीर्यः स्वर्गलोकं महारथः। युध्यमानो महेष्वासो हतः सोऽभिमुखो रणे। असिना गदया शक्त्या धनुषा च महारथः। विरजाः सोमसूनुः स पुनस्तत्र प्रलीयते॥ तस्मात् परां धृति कृत्वा भ्रातृभिः सह पाण्डव। अप्रमत्तः सुसंनद्धः शीघ्रं योद्भुमुपाक्रम॥ संजय उवाच श्रुत्वा मृत्युसमुत्पत्तिं कर्माण्यनुपमानि च। धर्मराजः पुनर्वाक्यं प्रसाद्यैनमथाब्रवीत्॥ युधिष्ठिर उवाच गुरुः पुण्यकर्माणः शक्रप्रतिमविक्रमाः। स्थाने राजर्षयो ब्रह्मन्ननघाः सत्यवादिनः॥ भूय एव तु मां तथ्यैर्वचोभिरभिबृहय। राजर्षीणां पुराणानां समाश्वासय कर्मभिः॥ कियन्त्यो दक्षिणादत्ताः कैश्च दत्ता महात्मभिः। राजर्षिभिः पुण्यकृद्भिस्तद्भावान् प्रब्रवीतु मे॥ व्यास उवाच शैब्यस्य नृपतेः पुत्रः सृञ्जया नाम नामतः। सखायौ तस्य चैवोभौ ऋषी पर्वतनारदौ॥ तौ कदाचिद् गृहं तस्य प्रविष्टौ तद्दिक्षया। विधिवच्चार्चितौ तेन प्रीतौ तत्रौ तत्रोषतुः सुखम्॥ तं कदाचित् सुखासीनं ताभ्यां सह शुचिस्मिता। दुहिताभ्यागमत् कन्या सृञ्जयं वरवर्णिनी॥ तयाभिवादितः कन्यामभ्यनन्दद् यथाविधि। तत्सलिङ्गाभिराशीभिरिष्टाभिरभितः स्थिताम्॥ तां नीरीक्ष्याब्रवीद् वाक्यं पर्वतः प्रहसन्निव। कस्येयं चञ्जलापानी सर्वलक्षणसम्मता॥ उताहो भाः स्विदर्कस्य ज्वलनस्य शिखा त्वियम्। श्रीहीः कीर्तिधृतिः पुष्टिः सिद्धिश्चन्द्रमसः प्रभा॥ एवं ब्रुवाणं देवर्षि नृपतिः सृञ्जयोऽब्रवीत्। ममेयं भगवन् कन्या मत्तो वरमभीप्सति॥ नारदस्त्वप्रवीदेनं देहि मह्यमिमां नृप। भार्यार्थं सुमहच्छ्रेयः प्राप्तुं चेदिच्छसे नृप॥ ददानीत्येव संहृष्टः सृञ्जयः प्राह नारदम्। पर्वतस्तु सुसंकुद्धो नारदं वाक्यमब्रवीत्॥ हृदयेन मया पूर्वे वृतां वै वृतवानसि। यस्माद् वृता त्वया विप्र मागाः स्वर्ग यथेप्सया॥ एवमुक्तो नारदस्तं प्रत्युवाचोत्तरं वचः। मनोवाग्बुद्धिसम्भाषा दत्ता चोदकपूर्वकम्॥ पाणिग्रहणमन्त्राश्च प्रथितं वरलक्षणम्। न त्वेषा निश्चिता निष्ठा निष्ठा सप्तपदी स्मृता॥ अनुत्पन्ने च कार्यार्थे मां त्वं व्याहृतवानसि। तस्मात् त्वमपि न स्वर्गे गमिष्यसि मया विना॥ अन्योन्यमेवं शप्त्वा वै तस्थतस्तत्र सौ तदा। अथ सोऽपि नृयो विप्रान् पानाच्छादनभोजनैः॥ पुत्रकामः परं शक्त्या यत्नाच्चोपाचरच्छुचिः। तस्य प्रसन्नाविप्रेन्दाः कदाचित् पुत्रमीप्सवः॥ तपःस्वाध्यायनिरता वेदवेदाङ्गपारगाः। सहिता नारदं प्राहुर्देह्यस्मै पुत्रमीप्सितम्॥ तथेत्युक्त्वा द्विजैरुक्तः सृञ्जयनारदोऽब्रवीत्। तुभ्यं प्रसन्ना राजर्षे पुत्रमीप्सन्ति ब्राह्मणाः॥ वरं वृणीष्व भद्रं ते यादृशं पुत्रमीप्सितम्। तथोक्तः प्राञ्जली राजा पुत्रं वद्रे गुणान्वितम्॥ यशस्विनं कीर्तिमन्तं तेजस्विनमरिंदमम्। यस्य मूत्रं पुरीषं च क्लेदः स्वेदश्च काञ्चनम्॥ सुवर्णष्ठीविरित्यवं तस्य नामाभवत् कृतम्। तस्मिन् वरप्रदानेन वर्षयत्यमितं धनम्॥ कारयामास नृपतिः सौवर्णं सर्वमीप्सितम्। गृहप्राकारदुर्गाणि ब्राह्मणावसथान्यपि॥ शय्यासनानि यानानि स्थाली पिठरभाजनम्। तस्य राज्ञाऽपि यद् वेश्म बाह्याश्चापस्कराश्च ये॥ सर्वे तत् काञ्चनमयं कालेन परिवर्धितम्। अथ दस्युगणाः श्रुत्वा दृष्ट्वा चैनं तथाविधम्॥ सम्भूय तस्य नृपतः समारब्धाश्चिकीर्षितुम्। केचित् तत्राब्रुवन् राज्ञः पुत्रं गृह्णीम वै स्वयम्॥ सोऽस्याकरः काञ्चनस्य तस्य यत्तं चरामहे। ततस्ते दस्यवो लुब्धाः प्रविश्य नृपतेर्गृहम्॥ राजपुत्रं तथा जहुः सुवर्णष्ठीविनं बलात्। गृह्येनमनुपायज्ञा नीत्वारण्यमचेतसः॥ हत्वा विशस्य चापश्यन् लुब्धा वसुन किञ्चन। तस्य प्राणैर्विमुक्तस्य नष्टं तद् वरदं वसु॥ दस्यवश्च तदान्योन्यं जघ्नुर्मूर्खा विचेतसः। हत्वा परस्परं नष्टाः कुमारं चाद्भुतं भुवि॥ असम्भाव्यं गता घोरं नरकं दुष्टकारिणः। तं दृष्ट्वा निहतं पुत्रं वरदत्तं महातपाः॥ विललाप सुदुःखार्तो बहुधा करुणं नृपः। विलपन्तं निशम्याथ पुत्रशोकहतं नृपम्॥ प्रत्यदृश्यत देवर्षि रदस्तस्य संनिधौ। उवाच चैनं दुःखार्ते विलपन्तमचेतसम्॥ सृञ्जयं नारदोऽभ्येत्य तन्निबोध युधिष्ठिर। कामानामवितृप्तस्त्वं सृञ्जयेह मरिष्यसि॥ यस्य चैते वयं गेहे उषिता ब्रह्मवादिनः। आविक्षितं मरुत्तं च मृतं सृञ्जय शुश्रुम॥ संवर्तो याजयामास स्पर्धया वै बृहस्पतेः। यस्मै राजर्षये प्रादाद् धनं स भगवान् प्रभुः॥ हैमं हिमवतः पादं यियक्षोर्विविधैः स वै। यस्य सेन्द्राऽमरगणा बृहस्पतिपुरोगमाः॥ देवा विश्वसृजः सर्वे यजनान्ते समासते। यज्ञवाटस्य सौवर्णाः सर्वे चासन् परिच्छदाः॥ यस्य सर्वं तदा ह्यन्नं मनोऽभिप्रायगं शुचि। कामतो बुभुजुर्विप्राः सर्वे चान्नार्थिनो द्विजाः॥ पयो दधि घृतं क्षौद्रं भक्ष्यं भोज्यं च शोभनम्। यस्य यज्ञेषु सर्वेषु वासांस्याभरणानि च॥ ईप्सितान्युपतिष्ठन्ते प्रहृष्टान् वेदपारगान्। मरुतः परिवेष्टारो मरुत्तास्याभवन् गृहे॥ आविक्षितस्य राजर्षेर्विश्वेदेवाः सभासदः। यस्य वीर्यवतो राज्ञः सुवृष्ट्या सस्यसम्पदः॥ हविर्भिस्तर्पिता येन सम्यक् क्लृप्तैर्दिवौकसः। ऋषीणां च पितॄणां च देवानां सुखजीविनाम्॥ ब्रह्मचर्यश्रुतिमुखैः सर्वैर्दानैश्च सर्वदा। शयनासनयानानि स्वर्णराशीश्च दुस्त्यजाः॥ तत् सर्वममितं वित्तं दत्तं विप्रेभ्य इच्छया। सोऽनुध्यातस्तु शक्रेण प्रजाः कृत्वा निरामयाः॥ श्रद्दधानोजिताँल्लोकान् गत: पुण्यदुहोऽक्षयान्। सप्रजः सनृपामात्यः सदारापत्यबान्धवः॥ यौवनेन सहस्राब्दं मरुत्तो राज्यमन्वशात्। स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया॥ पुत्रात् पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः। अयज्वानमदाक्षिण्यमभि श्वैत्येव्याहरन्॥ नारद उवाच सुहोत्रं नाम राजानं मृतं सृञ्जय शुश्रुम। एकवीरमशक्यं तममरैरभिवीक्षितुम्॥ यः प्राप्य राज्यं धर्मेण ऋत्विग्ब्रह्मपुरोहितान्। अपृच्छदात्मनः श्रेयः पृष्ट्वा तेषां मते स्थितः॥ प्रजानां पालनं धर्मो दानमिज्या द्विषज्जयः। एतत् सुहोत्रो विज्ञाय धर्मेणैच्छद् धनागमम्॥ धर्मेणाराधयन् देवान् बाणैः शत्रूञ्जयंस्तथा। सर्वाण्यपि च भूतानि स्वगुणैरण्यरञ्जयत्।॥ यो भुक्त्वेमां वसुमती म्लेच्छाटविकवर्जिताम्। यस्मै ववर्ष पर्जन्यो हिरण्यं परिवत्सरान्॥ हैरण्यास्तत्र वाहिन्यः स्वैरिण्यो व्यवहन् पुरा। ग्राहान् कर्कटकांश्चैव मत्स्यांश्च विविधान् बहून्॥ कामान् वर्षति पर्जन्यो रूप्याणि विविधानि च। सौवर्णान्यप्रमेयाणि वाप्यश्च क्रोशसम्मिताः॥ सहस्रं वामनान् कुब्जान् नक्रान् मकरकच्छपान्। सौवर्णान् विहितान् दृष्ट्वा ततोऽस्मयत वै तदा॥ तत् सुवर्णमपर्यन्तं राजर्षिः कुरुजाङ्गले। ईजानो वितते यज्ञे ब्राह्मणेभ्यो ह्यमन्यत॥ सोऽश्वमेधसहस्रेण राजसूयशतेन च। पुण्यैः क्षत्रिययज्ञेश्च प्रभूतवरदक्षिणैः॥ काम्यनैमित्तिकाजौरिष्टां गतिमवाप्तवान्। स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया॥ पुत्रात् पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः। अपज्वानमदाक्षिण्यमभि श्वैत्येत्युदाहरत्॥ नारद उवाच राजानं पौरवं वीरं मृतं सृञ्जय शुश्रुम। सहस्रं यः सहस्राणां श्वेतानश्वानवासृजत्॥ तस्याश्वमेधे राजधैर्देशाद्देशात् समीयुषाम्। शिक्षाक्षरविधिज्ञानां नासीत् संख्या विपश्चिताम्॥ वेदविद्याव्रतस्नाता वदान्याः प्रियदर्शनाः। सुभिक्षाच्छादनगृहाः सुशय्यासनभोजनाः॥ नटनर्तकगन्धर्वैः पूर्णकैवर्धमानकैः। नित्योद्योगैश्च क्रीडद्भिस्तत्र स्म परिहर्षिताः॥ यज्ञे यज्ञे यथाकालं दक्षिणा: सोऽत्यकालयत्। द्विपा दशसहस्राख्याः प्रमदाः काञ्चनप्रभाः॥ सध्वजाः सपताकाश्च रथा हेममयास्तथा। यः सहस्रं सहस्राणि कन्या हेमविभूषिताः॥ धूर्युजाश्वगजारूढाः सगृहक्षेत्रगोशताः। शतं शतसहस्राणि स्वर्णमालिमहात्मनाम्॥ गवां सहस्रानुचरान् दक्षिणामत्यकालयत्। हेमशृङ्ग्यो रौप्यखुराः सवत्सा: कांस्यदोहनाः॥ दासीदासखरोष्ट्राश्च प्रादादाजाविकं बहु। रत्नानां विविधानां च विविधांश्चान्नपर्वतान्॥ तस्मिन् संवितते यज्ञे दक्षिणामत्यकालयत्। तत्रास्य गाथा गायन्ति ये पुराणविदो जनाः॥ अङ्गस्य यजमानस्य स्वधर्माधिगताः शुभाः। गुणोत्तरास्तु क्रतवस्तस्यासन् सार्वकामिकाः॥ स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया। पुत्रा पुण्यतरुतुभ्यं मा पुत्रमनुतप्यथाः। अयज्वानमदाक्षिण्यमभि श्वैत्येत्युदाहरत्॥ नारद उवाच शिबिमौशीनरं चापि मृतं सृञ्जय शुश्रुम। य इमां पृथिवीं सर्वां चर्मवत् पर्यवेष्टयत्॥ साद्रिद्वीपार्णववनां रथघोषेण नादयन्। स शिबिर्वैरिपून् नित्यं मुख्यान् निघ्नन् सपत्नजित्॥ तेन यज्ञेर्बहुविधैरिष्टं पर्याप्तदक्षिणैः। स राजा वीर्यवान् धीमानवाप्य वसु पुष्कलम्॥ सर्वमूर्धाभिषिक्तानां सम्मत: सोऽभवद्युधि। अयजच्चाश्वमेधैर्यो विजित्य पृथिवीमिमाम्॥ निरर्गलैर्बहुफलैर्निष्ककोटिसहस्रदः। हस्त्यश्वपशुभिर्धान्यैर्मुगैर्गोऽजाविभिस्तथा॥ विविधा पृथिवीं पुण्यां शिविर्ब्राह्मणसात्करोत्। यावत्यो वर्षतो धारा यावत्यो दिवि तारकाः॥ यावतयः सिकता गाङ्गेयो यावन्मेरोर्महोपलाः। उदन्वति च यावनित रत्नानि प्राणिनोऽपि च॥ तावतीरददद् गा वै शिविरौशीनरोऽध्वरे। नो यन्तारं धुरस्तस्य कञ्चिदन्यं प्रजापतिः॥ भूतं भव्यं भवन्तं वा नाध्यगच्छन्नरोत्तमम्। तस्यासन् विविधा यज्ञाः सर्वकामैः समन्विताः॥ हेमयूपासनगृहा हेमप्राकारतोरणाः। शुचि स्वाद्वन्नपानं च ब्राह्मणाः प्रयुतायुताः॥ नानाभक्ष्यैः प्रियकथाः पयोदधिमहाह्रदाः। तस्यासन् यज्ञवाटेषु नद्यः शुभ्रानपर्वताः॥ पिबत स्नात खादध्वमिति यद् रोचते जनाः। यस्मै प्रादाद् वरं रुद्रस्तुष्टः पुण्येन कर्मणा॥ अक्षयं ददतो विततं श्रद्धा कीर्तिस्तथा क्रियाः। यथोक्तमेव भूतानां प्रियत्वं स्वर्गमुत्तमम्॥ एताल्लब्वा वरानिष्टाशिबिः काले दिवं गतः। स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया॥ पुत्रात् पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः। अयज्वानमदाक्षिण्यमभि श्वैत्येत्युदाहरत्॥ नारद उवाच रामं दाशरथिं चैव मृतं सृञ्जय शुश्रुम। यं प्रजा अन्वमोदन्त पिता पुत्रानिवौरसान्॥ असंख्येया गुणा यस्मिन्नासन्नमिततेजसि। यश्चतुर्दश वर्षाणि निदेशात् पितुरच्युतः॥ वने वनितया सार्धमवसल्लक्ष्मणाग्रजः। जघान च जनस्थाने राक्षसान् मनुजर्षभः॥ तपस्विनां रक्षणार्थे सहस्राणि चतुर्दश। तत्रैव वसतस्तस्य रावणो नाम राक्षसः॥ जहार भार्यां वैदेहीं सम्मोद्यैनं सहानुजम्। तमागस्कारिणं रामः पौलस्त्यमजितं परैः॥ जघान समरे क्रुद्धः पुरेव त्र्यम्बकोऽन्धकम्। सुरासुरैरवध्यं तं देवब्राह्मणकण्टकम्॥ जघान स महाबाहुः पौलस्त्यं सगणं रणे। स प्रजानुग्रहं कृत्वा त्रिदशैरभिपूजितः॥ व्याष्य कृत्स्नं जगत् कीर्त्या सुरर्षिगणसेवितः। स प्राप्य विधिवद् राज्यं सर्वभूतानुकम्पकः॥ आजहार महायज्ञं प्रजा धर्मेण पालयन्। निरर्गलं राजसूयमश्वमेधं च तं विभुः॥ आजहार सुरेशस्य हविषा मुदमाहरत्। अन्यैश्च विविधैर्यज्ञैरीजे बहुगुणैर्नृपः॥ क्षुत्पिपासेऽजयद् रामः सर्वरोगांश्च देहिनाम्। सततं गुणसम्पन्नो दीप्यमानः स्वतेजसा॥ अति सर्वाणि भूतानि रामो दाशरथिर्बभौ। ऋषीणां देवतानां च मानुषाणां च सर्वशः॥ पृथिव्यां सहवासोऽभूद्रामे राज्यं प्रशासति। नाहीयत तदा प्राणः प्राणिनां न तदन्यथा॥ प्राणोऽपानः समानश्च रामे राज्यं प्रशासति। पर्यदीष्यन्त तेजांसि तदानश्च नाभवन्॥ दीर्घायुषः प्रजाः सर्वा युवा न म्रियते तदा। वेदैश्चतुर्भिः सुप्रीताः प्राप्नुवन्ति दिवौकसः॥ हव्यं कव्यं च विविधं निष्पूर्त हुतमेव च। अदंशमशका देशा नश्टब्यालसरीसृपाः॥ नाप्सु प्राणभृतां मृत्यु काले ज्वलनोऽदहत्। अधर्मरुचयो लुब्धा मूर्खा वा नाभवंस्तदा॥ शिष्टेष्टयज्ञकर्माणः सर्वे वर्णास्तदाऽभवन्। स्वधां पूजां च रक्षोभिर्जनस्थाने प्रणाशिताम्॥ प्रादान्निहत्य रक्षांसि पितृदेवेभ्य ईश्वरः। सहस्रपुत्राः पुरुषा दशवर्षशतायुषः॥ न च ज्येष्ठाः कनिष्ठेभ्यस्तदा श्राद्धान्यकारयन्। श्यामो युवा लोहिताक्षो मत्तमातङ्गविक्रमः॥ आजानुबाहुः सुभुजः सिंहस्कन्धो महाबलः। दशवर्षसहस्राणि दशवर्षशतानि च॥ सर्वभूतमन: कान्तो रामो राज्यमकारयत्। रामो रामो राम इति प्रजानामभवत् कथा॥ रामाद् रामं जगदभूद् रामे राज्यं प्रशासति। चतुर्विधाः प्रजा रामः स्वर्गे नीत्वा दिवं गतः॥ आत्मानं सम्प्रतिष्ठाप्य राजवंशमिहाष्टधा। स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया॥ पुत्राात् पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः। अयज्वानमदाक्षिण्यमभि श्वैत्येत्युदाहरत्॥ नारद उवाच भगीरथं च राजानं मृतं सृञ्जय शुश्रुम। येन भागीरथी गङ्गा चयनैः काञ्चनैश्चिता॥ यः सहस्रं सहस्राणां कन्या हेमविभूषिताः। राज्ञश्च राजपुत्रांश्च ब्राह्मणेभ्यो ह्यमन्यत॥ सर्वा रथगताः कन्या रथा: सर्वे चतुर्युजः। रथे रथे शतं नागाः सर्वे वै हेममालिनः॥ सहस्रमश्वाश्चैकैकं गजाना पृष्ठतोऽन्वयुः। अश्वे अश्वे शतं गावो गवां पश्चादजाविकम्॥ तेनाक्रान्ता जलौघेन दक्षिणा भूयसीर्ददत्। उपहरेऽतिव्यथिता तस्याङ्के निषसाद ह॥ तथा भागीरथी गङ्गा उर्वशी चाभवत् पुरा। दुहितृत्वं गता राज्ञः पुत्रत्वमगमत् तदा॥ तां तु गाथां जगुः प्रीता गन्धर्वाः सूर्यवर्चसः। पितृदेवमनुष्याणां शृण्वतां बल्गुवादिनः॥ भगीरथं यजमानमैक्ष्वाकुं भूरिदक्षिणम्। गङ्गा समुद्रगा देवी वने पितरमीश्वरम्॥ तस्य सेन्द्रैः सुरगणैर्देवैर्यज्ञ: स्वलङ्कृतः। सम्यक्परिगृहीतश्च शान्तविघ्नो निरामयः॥ यो य इच्छेत विप्रो वै यत्र यत्रात्मनः प्रियम्। भगीरथस्तदा प्रीतस्तत्र तत्राददद् वशी॥ नादेयं ब्राह्मणस्यासीद् यस्य यत्स्यात् प्रियं धनम्। सोऽपि विप्रप्रसादेन ब्रह्मलोकं गतो नृपः॥ येन यातौ मखमुखौ दिशाशाविह पादपाः। तेनावस्थातुमिच्छन्ति तं गत्वा राजमीश्वरम्॥ स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया। पुत्रात् पुण्यतरस्तुभ्यं मा पुत्रामनुतप्यथा:॥ अयज्वानमदाक्षिण्यमभि श्वैत्येत्युदाहरत्। नारद उवाच दिलीपं चेदैलविलं मृतं सृञ्जय शुश्रुम। यस्य यज्ञशतेष्वासन् प्रयुतायुतशो द्विजाः। तन्त्रज्ञानार्थसम्पन्ना यज्वानः पुत्रपौत्रिणः॥ य इमां वसुसम्पूर्णो वसुधां वसुधाधिपः। ईजानो वितते यज्ञे ब्राह्मणेभ्यो ह्यमन्यत॥ दिलीपस्य तु यज्ञेषु कृतः पन्था हिरण्मयः। तं धर्म इव कुर्वाणा: सेन्द्रा देवाः समागमन्॥ सहस्रं यत्र मातङ्गा गच्छन्ति पर्वतोपमाः। सौवर्णं चाभवत् सर्वं सदः परमभास्वरम्॥ रसानां चाभवन् कुल्या भक्ष्याणां चापि पर्वताः। सहस्रव्यामा नृपते यूपाश्चासन् हिरण्मयाः॥ चषालं प्रचषालं च यस्य यूपे हिरण्मये। नृत्यन्तेऽप्सरसस्तस्य षट् सहस्राणि सप्त च॥ यत्र वीणां वादयति प्रीत्या विश्वावसुः स्वयम्। सर्वभूतान्यमन्यन्त राजानं सत्यशीलिनम्॥ रागखाण्डवभोज्यैश्च मत्ताः पतिषु शेरते। तदेतदद्भुतं मन्ये अन्यैर्न सदृशं नृपैः॥ यदप्सु युध्यमानस्य चक्रे न परिपेततुः। राजानं दृढधन्वानं दिलीपं सत्यवादिनम्॥ येऽपश्यन् भूरिदाक्षिण्यं तेऽपि स्वर्गजितो नराः। पञ्च शब्दा न जीर्यन्ति खट्वाङ्गस्य स्वाध्यायघोषो ज्याघोषः पिबताश्रीत खादत। निवेशने॥ स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया॥ पुत्रात् पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः। अयज्वानमदाक्षिण्यमभि श्वत्येत्युदाहरत्॥ स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया॥ पुत्रात् पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः। अयज्वानमदाक्षिण्यमभि श्वत्येत्युदाहरत्॥ नारद उवाच मान्धाता चेद्यौवनाश्वो मृतः सृञ्जय शुश्रुम। देवासुरमनुष्याणां त्रैलोक्यविजयी नृपः॥ यं देवावश्विनौ गर्भात् पितुः पूर्वे चकर्षतुः। मृगयां विचरन् राजा तृषितः क्लान्तवाहनः॥ धूमं दृष्ट्वागमत् सत्रं पृषदाज्यमवाप सः। तं दृष्ट्वा युवनाश्वस्य जठरे सूनुतां गतम्॥ गर्भाद्धि जहतुर्देवावश्विनौ भिषजां वरी। तं दृष्ट्वा पितुरुत्सङ्गे शयानं देववर्चसम्॥ अन्योन्यमब्रुवन् देवाः कमयं धास्यतीति वै। मामेवायं धयत्वग्रे इति ह स्माह वासवः॥ ततोऽगुलिभ्यो हीन्द्रस्य प्रादुरासीत् पयोऽमृतम्। मां धास्यतीति कारुण्याद् यदिन्द्रो ह्यन्वकम्पयत्॥ तस्मात्तु मान्धातेत्येवं नाम तस्याद्भुतं कृतम्। ततस्तु धारां पयसो धृतस्य च महात्मनः॥ तस्यास्ये यौवनाश्वस्य पाणिरिन्द्रस्य चास्रवत्। अपिबत् पाणिमिन्द्रस्य स चाप्यहाभ्यवर्धत॥ सोऽभवद् द्वादशसमो द्वादशाहेन वीर्यवान्। इमं च पृथिवीं कृत्स्नामेकाहा स व्यजीजयत्॥ धर्मात्मा धृतिमान् वीरः सत्यसंधो जितेन्द्रियः। जनमेजयं सुधन्वानं गयं पूरुं बृहद्रथम्॥ असितं च नृगं चैव मान्धाता मनुजोऽजयत्। उदेति च यतः सूर्यो यत्र च प्रतितिष्ठति॥ तत् सर्वं योवनाश्वस्य मान्धातुः क्षेत्रमुच्यते। सोऽश्वमेधशतैरिष्ट्वा राजसूयशतेन च॥ अददद् रोहितान् मत्स्यान् ब्राह्मणेभ्यो विशाम्पते। हैरण्यान् यो जनोत्सेधानायताञ्शतयोजनम्॥ बहुप्रकारान् सुस्वादून् भक्ष्यभोज्यान्नपर्वतान्। अतिरिक्तं ब्राह्मणेभ्यो भुञ्जानो हीयते जनः॥ भक्ष्यान्नपाननिचयाः शुशुभुस्त्वन्नपर्वताः। घृतह्रदाः सूपकूपाः दधिफेना गुडोदकाः॥ रुरुधुः पर्वतान् नद्यो मधुक्षीरवहाः शुभाः। देवासुरा नरा यक्षा गन्धर्वोरगपक्षिणः॥ विप्रास्तत्रागताश्चासन् वेदवेदाङ्गपारगाः। ब्राह्मणा ऋषयश्चापि नासंस्तत्राविपश्चितः॥ समुद्रान्तां वसुमती वसुपूर्णां तु सर्वतः। स तां ब्राह्मणसात्कृत्वा जगामास्तं तदा नृपः॥ गतः पुण्यकृतां लोकान् व्याप्य स्वयशसा दिशः। स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया॥ पुत्रात् पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः। अयज्वानमदाक्षिण्यमभि श्वैत्येत्युदाहरत्॥ नारद उवाच ययातिं नाहुषं चैव मृतं सृञ्जय शुश्रुम। राजसूयशतैरिष्ट्वा सोऽश्वमेधशतेन च॥ पुण्डरीकसहस्रेण वाजपेयशतैस्तथा। अतिरात्रसहस्रेण चातुर्मास्यैश्च कामतः। अग्निष्टोमैश्च विविधैः सत्रैश्च प्राज्यदक्षिणैः॥ अब्राह्मणानां यद वित्तं पृथिव्यामस्ति किंचन। तत् सर्वे परिसंख्याय ततो ब्राह्मणसात्करोत्॥ सरस्वती पुण्यतमा नदीनां तथा समुद्राः सरितः साद्रयश्च। इजानाय पुण्यतमाय राज्ञे घृतं पयो दुदुहु हुषाय॥ व्यूढे देवासुरे युद्धे कृत्वा देवसहायताम्। चतुर्धाव्यभजत् सर्वां चतुर्थ्यः पृथिवीमिमाम्॥ यज्ञैर्नानाविधेरिष्ट्वा प्रजामुत्पाद्य चोत्तमाम्। देवयान्यां चौशनस्यां शर्मिष्ठायां च धर्मतः॥ देवारण्येषु सर्वेषु विजहारामरोपमः। आत्मनः कामचारेण द्वितीय इव वासवः।॥ यदा नाभ्यगमच्छान्तिं कामानां सर्ववेदवित्। ततो गाथामिमां गीत्वा सदारः प्राविशद् वनम्॥ यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः। नालमेकस्य तत् सर्वमिति मत्वा शमं व्रजेत्॥ एवं कामान् परित्यज्य ययातिकृतिमेत्य च। पूरूं राज्ये प्रतिष्ठाप्य प्रयातो वनमीश्वरः॥ स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया। पुत्रात् पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः। अयज्वानमदाक्षिण्यमभि श्वैत्येत्युदाहरत्॥ नारद उवाच ते शशबिन्दुं च राजानं मृतं सृञ्जय शुश्रुमा ईजे स विविधैर्यज्ञैः श्रीमान् सत्यपराक्रमः॥ तस्य भार्यासहस्राणां शतमासीन्सहात्मनः। एकैकस्यां च भार्यायां सहस्रं तनयाऽभवन्॥ कुमाराः पराक्रान्ताः सर्वे नियुतयाजिनः। राजानः क्रतुभिर्मुख्यैरीजाना वेदपारगाः॥ हिरण्यकवचाः सर्वे सर्वे चोत्तमधन्विनः। सर्वेऽश्वमेधैरीजाना: कुमारा: शशबिन्दवः॥ तानश्वमेधे राजेन्द्रो ब्राह्मणेभ्योऽददत् पिता। शतं शतं रथगजा एकैकं पृष्ठतोऽन्वयुः॥ राजपुत्रं तदा कन्यास्तपनीयस्वलंकृताः। कन्यां कन्यां शतं नागा नागे नागे शतं रथाः॥ रथे रथे शतं चाश्वा बलिनो हेममालिनः। अश्वे अश्वे गोसहस्रं गवां पञ्चाशदाविकाः॥ एतद् धनमपर्याप्तमश्वमेधे महामखे। शशबिन्दुमहाभागो ब्राह्मणेभ्यो ह्यमन्यत॥ वाश्चि यूपा यावन्त अश्वमेधे महामखे। ते तथैव पुनश्चान्ते तावन्तः काञ्चनाऽभवन्॥ भक्ष्यानपाननिचयाः पर्वताः क्रोशमुच्छ्रिताः। तस्याश्वमेधे निर्वृत्ते राज्ञः शिष्टास्त्रयोदश॥ तुष्टपुष्टजनाकीर्णा शान्तविघ्नामनामयाम्। शशबिन्दुरिमां भूमिं चिरं भुक्त्वा दिवं गतः॥ स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया। पुत्रात् पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः। अयज्वानमदाक्षिण्यमभि श्वैत्येत्युदाहरत्॥ नारद उवाच सांकृति रन्तिदेवं च मृतं सृञ्जय शुश्रुम। यस्य द्विशतसाहस्रा आसन् सूदा महात्मनः॥ गृहानभ्यागतान् विप्रानतिथीन् परिवेषकाः। पक्वापक्वं दिवारानं वरान्नममृतोपमम्॥ न्यायेनाधिगतं वित्तं ब्राह्मणेभ्यो ह्यमन्यत। वेदानधीत्य धर्मेण यश्चके द्विषतो वशे॥ ब्राह्मणेभ्योददनिष्कान् सौवर्णान् स प्रभावतः। तुभ्यं निष्कं तुभ्यं निष्कमिति ह स्म प्रभाषते॥ तुभ्यंतुभ्यमिति प्रदानिष्कान् निष्कान् सहस्रशः। ततः पुनः समाश्वास्य निष्कानेव प्रयच्छति॥ अल्पं दत्तं मयाद्येति निष्ककोटि सहस्रशः। एकाला दास्यति पुनः कोऽन्यस्तत् सम्प्रदास्यति॥ द्विजपाणिवियोगेन दुःखं मे शाश्वतं महत्। भविष्यति न संदेह एवं राजाददद् वसु॥ सहस्रशश्च सौवर्णान् वृषभान् गोशतानुगान्। साष्टं शतं सुवर्णानां निष्कमाहुर्धनं तथा॥ अध्यर्धमासमददद् ब्राह्मणेभ्यः शतं समाः। अग्निहोत्रोपकरणं यज्ञोपकरणं च यत्॥ ऋषिभ्यः करकान् कुम्भान् स्थालीः पिठरमेव च। शयनासनयानानि प्रासादांश्च गृहाणि च॥ वृक्षांश्च विविधान् दद्यादन्नानि च धनानि च। सर्वे सौवर्णमेवासीद् रन्तिदेवस्य धीमतः॥ तत्रास्य गाथा गायन्ति ये पुराणविदो जनाः। रन्तिदेवस्य तां दृष्ट्वा समृद्धिमतिमानुषीम्॥ नैतादृशं दृष्टपूर्वे कुबेरसदनेष्वपि। धनं च पूर्यमाणं नः किं पुनर्मनुजेष्विति॥ व्यक्तं वस्वोकसारेयमित्यूचुस्तत्र विस्मिताः। सांकृते रन्तिदेवस्य यां रात्रिमतिथिर्वसेत्॥ आलभ्यन्त तदा गावः सहस्राण्येकविंशतिः। तत्र स्म सूदाः क्रोशन्ति सुपृष्टमणिकुण्डलाः॥ सूपं भूविहमश्नीध्वं नाद्य मासं यथा पुरा। रन्तिदेवस्य यत् किंचित् सौवर्णमभवत् तदा॥ तत् सर्वे वितते यज्ञे ब्राह्मणेभ्यो ह्यमन्यत। प्रत्यक्षं तस्य हव्यानि प्रतिगृह्णन्ति देवताः॥ कव्यानि पितरः काले सर्वकामान् द्विजोत्तमाः। स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया॥ पुत्रात् पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः। अयज्वानमदाक्षिण्यमभि श्वैत्येत्युदाहरत्॥ स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया॥ पुत्रात् पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः। अयज्वानमदाक्षिण्यमभि श्वैत्येत्युदाहरत्॥ नारद उवाच पृथु वैन्यं च राजानं मृतं सृज्जय शुश्रुम। यमभ्यषिञ्चन् साम्राज्ये राजसूये महर्षयः॥ यत्नतः प्रथितेत्यूचुः सर्वानभिभवन् पृथुः। क्षतान्नस्त्रास्यते सर्वानित्येवं क्षत्रियोऽभवत्॥ पृथु वैन्यं प्रजा दृष्ट्वा रक्ताः स्मेति यदब्रुवन्। ततो राजेति नामास्य अनुरागादजायत॥ अकृष्टपच्या पृथिवी आसीद् वैन्यस्य कामधुक्। सर्वाः कामदुघा गावः पुटके पुटके मधु॥ आसन् हिरण्मया दर्भाः सुखस्पर्शाः सुखावहाः। तेषां चौराणि संवीताः प्रजास्तेष्वेव शेरते॥ फलान्यमृतकल्पानि स्वादूनि च मधूनि च। तेषामासीत् तदाहारो निराहाराश्च नाभवन्॥ अरोगाः सर्वसिद्धार्था मनुष्य ह्यकुतोभयाः। न्यवसन्त यथाकामं वृक्षेषु च गुहासु च॥ प्रविभागो न राष्ट्राणां पुराणां चाभवत् तदा। यथासुखं यथाकामं तथैता मुदिताः प्रजाः॥ तस्य संस्तम्भिता ह्यापः समुद्रमभियास्यतः। पर्वताश्च ददुर्मार्ग ध्वजभङ्गश्च नाभवत्॥ तं वनस्पतयः शैला देवासुरनरोरगाः। सप्तर्षयः पुण्यजना गन्धवाप्सरसोऽपि च॥ पितरश्च सुखासीनमभिगम्येदमब्रुवन्। सम्राडसि क्षत्रियोऽसि राजा गोप्ता पितासि नः॥ देह्यस्मभ्यं महाराज प्रभुः सन्नीप्सितान् वरान्। यैर्वयं शाश्वतीस्तृप्तीवर्तयिष्यामहे सुखम्॥ तथेत्युक्त्वा पृथुर्वैन्यो गृहीत्वाऽऽजगवं धनुः। शरांश्चाप्रतिमान् घोरांश्चिन्तयित्वाब्रवीन्महीम्॥ एह्येहि वसुधे क्षिप्रं क्षरैभ्यः काक्षितं पयः। ततो दास्यामि भद्रं ते अन्नं यस्य यथेप्सितम्॥ वसुधोवाच दुहितृत्वेन मां वीर संकल्पयितुमर्हसि। तथेत्युक्वा पृथुः सर्वे विधानमकरोद् वशी॥ ततो भूतनिकायास्तां वसुधां दुदुहुस्तदा। तां वनस्पतयः पूर्वं समुत्तस्थधुक्षवः॥ साऽतिष्ठद् वत्सला वत्संदोग्धृपात्राणि चेच्छती। वत्सोऽभूत पुष्पितः शालः प्लक्षो दोग्धाऽभवत् तदा।। छिन्नप्ररोहणं दुग्धं पात्रमौदुम्बरं शुभम्। उदयः पर्वतो वत्सो मेरुर्दोगधा महागिरिः॥ रत्नान्योषधयो दुग्धं पात्रमश्ममयं तथा। दोग्धा चासीत् तदा देवो दुग्धमूर्जस्करं प्रियम्॥ असुरा दुदुहुर्मायामामपात्रे तु ते तदा। दोग्धा द्विमूधातत्रासीद् वत्सश्चासीद् विरोचनः॥ कृर्षि च सस्यं च नरा दुदुहुः पृथिवीतले। स्वायम्भुवो मनुर्वत्सस्तेषां दोग्धाऽभवत् पृथुः॥ अलाबुपात्रे च तथा विषं दुग्धा वसुंधरा। धृतराष्ट्रोऽभवद् दोग्धा तेषां वत्सस्तु तक्षकः॥ सप्तर्षिभिर्ब्रह्म दुग्धा तथा चाक्लिष्टकर्मभिः। दोग्धा बृहस्पतिः पात्रं छान्दो वत्सश्च सोमराट्॥ अन्तर्धानं चामपात्रे दुग्धा पुण्यजनैर्विराट्। दोग्धा वैश्रवणस्तेषां वत्सश्चासीद् वृषध्वजः॥ पुण्यगन्धान् पद्मपात्रे गन्धर्वाप्सरसोऽदुहन्। वत्सश्चित्ररथस्तेषां दोग्धा विश्वरुचिः प्रभुः॥ स्वधां रजतपात्रेषु दुदुहुः पितरश्च ताम्। वत्सो वैवस्वतस्तेषां यमो दोग्धाऽन्तकस्तदा॥ एवं निकायैस्तैर्दुधा पयोऽभीष्टं हि सा विराट्। यैर्वर्तयन्ति ते ह्यद्य पात्रैर्वत्सैश्च नित्यशः॥ यज्ञैश्च विविधैरिष्ट्वा पृथुर्वैन्यः प्रतापवान्। संतर्पयित्वा भूतानि सर्वैः कामैर्मनः प्रियैः॥ हैरण्यानकरोद् राजा ये केचित् पार्थिवा भुवि। तान् ब्राह्मणेभ्यः प्रायच्छदश्वमेधे महामखे॥ षष्टिनागसहस्राणि षष्टिनागशतानि च। सौवर्णानकरोद् राजा ब्राह्मणेभ्यश्च तान् ददौ॥ इमां च पृथिवीं सर्वां मणिरत्नविभूषिताम्। सौवर्णीमकरोद् राजा ब्राह्मणेभ्यश्च तां ददौ॥ स चेन्ममार सृज्जय चतुर्भद्रतरस्त्वया। पुत्रात् पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः। अयज्वानमदाक्षिण्यमभि श्वैत्येतयुदाहरत्॥ नारद उवाच रामो महातपाः शूरो वीरलोकनमस्कृतः। जामदग्नयोऽष्यतियशा अवितृप्तो मरिष्यति॥ यः स्माद्यमनुपर्येति भूमिं कुर्वन्निमां सुखाम्। न चासीद् विक्रिया यस्यप्राप्य श्रियमनुत्तमाम्॥ यः क्षत्रियैः परामृष्टे वत्से पितरि चाब्रुवन्। ततोऽवधीत् कार्तवीर्यमजितं समरे परैः॥ क्षत्रियाणां चतुःषष्टिमयुतानि. सहस्रशः। तदा मृत्योः समेतानि एकेन धनुषाऽजयत्॥ ब्रह्मद्विषां चाथ तस्मिन् सहस्राणि चतुर्दश। पुनरन्यानि जग्राह दन्तक्रूरं जघान ह॥ सहस्रं मुसलेनाहन् सहस्रमसिनाऽवधीत्। उद्बन्धनात् सहस्रं च सहस्रमुदके धृतम्॥ दन्तान्भक्त्वा सहस्रस्य कर्णान् नासान्यकृन्तत। ततः सप्तसहस्राणां कटुधूपमपाययत्॥ शिष्टान् बद्ध्वा च हत्वा वै तेषां मूर्ध्नि विभिद्य च। गुणावतीमुत्तरेण खाण्डवाद् दक्षिणेन च। गिर्यन्ते शतसाहस्रा हैहयाः समरे हताः॥ सरथाश्वगजा वीरा निहतास्तत्र शेरते। पितुर्वधामर्षितेन जामदग्न्येन धीमता॥ निजघ्ने दशसाहस्रान् रामः परशुना तदा। न ह्यमृष्यत ता वाचो यास्तै शमुदीरिताः॥ भृगो रामाभिधावेति यदाक्रन्दन् द्विजोत्तमाः। ततः काश्मीरदरदान् कुन्तिक्षुद्रकमालवान्॥ अङ्गवङ्गकलिङ्गांश्च विदेहांस्ताम्रलिप्तकान्। रक्षावाहान् वीतिहोत्रांस्त्रिगर्तान् मार्तिकावतान्॥ शिबीनन्यांश्च राजन्यान् देशान् देशान् सहस्रशः। निजघान शितैर्बाणैर्जामदग्न्यः प्रतापवान्॥ कोटीशतसहस्राणि क्षत्रियाणां सहस्रशः। इन्द्रगोपकवर्णस्य बन्धुजीवनिभस्य च।॥ रुधिरस्य परीवाहैः पूरयित्वा करांसि च। सर्वानष्टादश द्वीपान् वशमानीय भार्गवः॥ ईजे क्रतुशतैः पुण्यैः समाप्तवरदक्षिणैः। वेदीमष्टनलोत्सेधां सौवर्णो विधिनिर्मिताम्॥ सर्वरत्नशतैः पूर्णो पताकाशतमालिनीम्। ग्राम्यारण्यैः पशुगणैः सम्पूर्णं च पहीमिमाम्॥ रामस्य जामदग्न्यस्य प्रतिजग्राह कश्यपः। ततः शतसहस्राणि द्विपेन्द्रान् हेमभूषणान्॥ निर्दस्युं पृथिवीं कृत्वा शिष्टेष्टजनसंकुलाम्। कश्यपाय ददौ रामो हयमेधे महामखे॥ त्रि:सप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः। इष्ट्वा क्रतुशतैर्वीरो ब्राह्मणेभ्यो ह्यमन्यत॥ सप्तद्वीपां वसुमती मारीचोऽगृह्णत द्विजः। रामं प्रोवाच निर्गच्छ वसुधातो ममाज्ञया॥ स कश्यपस्य वचनात् प्रोत्सार्य सरितां पतिम्। इषुपाते युधां श्रेष्ठः कुर्वन् ब्राह्मणशासनम्॥ अध्यावसद् गिरिश्रेष्ठं महेन्द्रं पर्वतोत्तमम्। एवं गुणशतैर्युक्तो भृगूणां कीर्तिवर्धनः॥ जामदग्न्यो ह्यतियशा मरिष्यति महाद्युतिः। त्वया चतुर्भद्रतरः पुत्रात् पुण्यतरस्तव॥ अयज्वानमदाक्षिण्यं मा पुत्रमनुतप्यथाः। एते चतुर्भद्रतरास्त्वया भद्रशताधिकाः। मृता नरवरश्रेष्ठ मरिष्यन्ति च सृञ्जय॥ व्यास उवाच पुण्यमाख्यानमायुष्यं श्रुत्वा षोडशराजकम्। अव्याहरन्नरपतिस्तूष्णीमासीत् स सृञ्जयः॥ तमब्रवीत् तथाऽऽसीनं नारदो भगवानृषिः। श्रुतं कीर्तयतो मह्यं गृहीतं ते महाद्युते॥ आहोस्विदन्ततो नष्टं श्राद्धं शूद्रीपताविव। स एवमुक्तःप्रत्याह प्राञ्जलिः सृञ्जयस्तदा।॥ राजर्षीणां पुराणानां यज्वनां दक्षिणावताम्॥ विस्मयेन ते शोके तमसीवार्कतेजसा। विपाप्मास्यव्यथोपेतो ब्रूहि किं करवाण्यहम्॥ नारद उवाच दिष्ट्यापहृतशोकस्त्वं वृणीष्वेह यदिच्छसि। तत् तत् प्रपत्स्यसे सर्वं न मृषावादिनो वयम्॥ संजय उवाच एतेनैव प्रतीतोऽहं प्रसन्नो यद्भवान् ममा प्रसन्नो यस्य भगवान् न तस्यास्तीह दुर्लभम्॥ नारद उवाच मृतं ददानि ते पुत्रं दस्युभिर्निहतं वृथा। उद्धृत्य नरकात् कष्टात् पशुवत् प्रोक्षितं यथा॥ व्यास उवाच प्रादुरासीत् ततः पुत्रः सृञ्जयस्याद्भुतप्रभः। प्रसन्नेनर्षिणा दत्तः कुबेरतनयोपमः॥ ततः संगम्य पुत्रेण प्रीतिमानभवनृपः। ईजे च क्रतुभिः पुण्यैः समाप्तवरदक्षिणैः॥ अकृतार्थश्च भीतश्च न च सान्नाहिको हतः। अयज्वा त्वनपत्यश्च ततोऽसौ जीवितः पुनः॥ शूरो वीरः कृतार्थश्च प्रताप्यारीन् सहस्रशः। अभिमन्युर्गतो वीरः पृतनाभिमुखो हतः॥ ब्रह्मचर्येण यान् कांश्चित् प्रज्ञया च श्रुतेन च इष्टैश्च क्रतुभिर्यान्ति तांस्तेपुत्रोऽक्षयान् गतः॥ विद्वांसः कर्मभिः पुण्यैः स्वर्गमीहन्ति नित्यशः। न तु स्वर्गादयं लोकः काम्यते स्वर्गवासिभिः॥ तस्मात् स्वर्गगतं पुत्रमर्जुनस्य हतं रणे। न चेहानयितुं शक्यं किंचिदप्राप्यमीहितम्॥ यां योगिनो ध्यानविविक्तदर्शनाः प्रयान्ति यां चोत्तमयज्विनो जनाः। तपोभिरिद्धैरनुयान्ति यां तथा तामक्षया ते तनयो गतो गतिम्॥ अन्तात् पुनर्भावगतो विराजते राजेव वीरो ह्यमृतात्मरश्मिभिः। तामैन्दवीमात्मतनुं द्विजोचितां गतोऽभिमन्युर्न स शोकमर्हति॥ एवं ज्ञात्वा स्थिरो भूत्वा जहरीन् धैर्यमामुहि। जीवन्त एव नः शोच्या न तु स्वर्गगतोऽनघ॥ शोचतो हि महाराज अघमेवाभिवर्धते। तस्माच्छोकं परित्यज्य श्रेयसे प्रयतेद् बुधः॥ प्रहर्षपभिमानं च सुखप्राप्तिं च चिन्तयन्। एतद्बुद्धवा बुधाः शोकं न शोकः शोक उच्यते॥२० एवं विद्वान् समुत्तिष्ठ प्रयतो भव मा शुचः। श्रुतस्ते सम्भवो मृत्योस्तपांस्यनुपमानि च॥ सर्वभूतसमत्वं च चञ्चलाश्च विभूतयः। सृञ्जयस्य तु तं पुत्रं मृतं संजीवितं पुनः॥ एवं विद्वान् महाराज मा शुचः साधयाम्यहम्। एतावदुक्त्वा भगवांस्तत्रैवान्तरधीयत॥ वागीशाने भगवति व्यासे व्यभ्रनभःप्रभे। गते मतिमतां श्रेष्ठे समाश्वास्य युधिष्ठिरम्॥ पूर्वेषां पार्थिवेन्द्राणां महेन्द्रप्रतिमौजसाम्। न्यायाधिगतवित्तानां तां श्रुत्वा यज्ञसम्पदम्॥ सम्पूज्य मनसा विद्वान् विशोकोऽभूद् युधिष्ठिरः। पुनश्चाचिन्तयद् दीनः किंस्विद् वक्ष्ये धनंजयम्॥ संजय उवाच तस्मिन्नहनि निर्वृत्ते घोरे प्राणभृतां क्षये। आदित्येऽस्तं गते श्रीमान् संध्याकाल उपस्थिते॥ व्यपयातेषु वासाय सर्वेषु भरतर्षभ। हत्वा संशप्तकवातान् दिव्यैरस्त्रैः कपिध्वजः॥ प्रायात् स शिबिरं जिष्णु जैत्रमास्थाय तं रथम्। गच्छन्नेव च गोविन्दं साश्रुकण्ठोऽभ्यभाषत॥ किं नु मे हृदयं त्रस्तं वाक् च सज्जति केशव। स्यन्दन्ति चाप्यनिष्टानिगात्रं सीदति चाप्युत॥ अनिष्टं चैव मे श्लिष्टं हृदयान्नापसर्पति। भुवि ये दिक्षु चात्युग्रा उत्पातास्त्रासयन्ति माम्॥ बहुप्रकारा दृश्यन्ते सर्व एवाघशंसिनः। अपि स्वस्ति भवेद् राज्ञः सामात्यस्य गुरोर्मम॥ वासुदेव उवाच व्यक्तं शिवं तव भ्रातुः सामात्यस्य भविष्यति। मा शुचः किञ्चदेवान्यत् तत्रानिष्टं भविष्यति॥ संजय उवाच ततः संध्यामुपास्यैव वीरौ वीरावसादने। कथयन्तौ रणे वृत्तं प्रयातौ रथमास्थितौ॥ ततः स्वशिबिरं प्राप्तौ हतानन्दं हतत्विषम्। वासुदेवोऽर्जुनश्चैव कृत्वा कर्म सुदुष्करम्॥ ध्वस्ताकारं समालक्ष्य शिबिरं परवीरहा। बीभत्सुब्रवीत् कृष्णमस्वस्थहृदयस्ततः॥ अर्जुन उवाच नदन्ति नाद्य तूर्योणि मङ्गल्यानि जनार्दन। मिश्रा दुन्दुभिनिर्घोषैः शङ्खाश्चाडम्बरैः सह॥ वीणा नैवाद्य वाद्यन्ते शम्यातालस्वनैः सह। मङ्गल्यानि च गीतानि च गायन्ति पठन्ति च॥ स्तुतियुक्तानि रम्याणि ममानीकेषु बन्दिनः। योधाश्चापि हि मां दृष्ट्वा निवर्तन्ते ह्यधोमुखाः॥ कर्माणि च यथापूर्वं कृत्वा नाभिवदन्ति माम्। अपि स्वस्ति भवेदध भ्रातृभ्यो मम माधव॥ न हि शुद्ध्यति मे भावो दृष्ट्वा स्वजनमाकुलम्। अपि पाञ्चालराजस्य विराटस्य च मानद॥ सर्वेषां चैवयोधानां सामग्यं स्यान्ममाच्युत। न च मामद्य सौभद्रः प्रहृष्टो भ्रातृभिः सह। रणादायान्तुमुचितं प्रत्युद्याति हसन्निव॥ संजय उवाच एवं सकथयन्तौ तौ प्रविष्टौ शिबिरं स्वकम्। ददृशाते भृशास्वस्थान् पाण्डवान् नष्टचेतसः॥ दृष्ट्वा भ्रातूंश्च पुत्रांश्च विमना वानरध्वजः। अपश्यंश्चैव सौभद्रमिदं वचनमब्रवीत्॥ अर्जुन उवाच मुखवर्णोऽप्रसन्नो वः सर्वेषामेव लक्ष्यते। न चाभिमन्यु पश्यामि न च मां प्रतिनन्दथ॥ मया श्रुतश्च द्रोणेन चक्रव्यूहो विनिर्मितः। न च वस्तस्य भेत्ताऽस्ति विना सौभद्रमर्भकम्॥ न चोपदिष्टस्तस्यासीन्मयानीकाद् विनिर्गमः। कच्चिन्न बालो युष्माभिः परानीकं प्रवेशितः॥ भित्त्वानीकं महेष्वासः परेषां बहुशो युधि। कच्चिन्न निहतः संख्ये सौभद्रः परवीरहा॥ लोहिताक्षं महाबाहुं जातं सिंहमिवाद्रिषु। उपेन्द्रसदृशं ब्रत कथमायोधने हतः॥ सुकुमारं महेष्वासं वासवस्यात्मजात्मजम्। सदा मम प्रियं ब्रूत कथमायोधने हतः॥ सुभद्रायाः प्रियं पुत्रं द्रौपद्याः केशवस्य च। अम्बायाश्च प्रियं नित्यं कोऽवधीत् कालमोहितः॥ सदृशो वृष्णिवीरस्य केशवस्य महात्मनः। विक्रमश्रुतमाहात्म्यैः कथमायोधने हतः॥ वार्ष्णेयीदयितं शूरं मया सततलालितम्। यदि पुत्रं न पश्यामि यास्यामि यमसादनम्॥ मृदुकुञ्चितकेशान्तं बालं वालमृगेक्षणम्। मत्तद्विरदविक्रान्तं शालपोतमिवोद्गतम्॥ स्मिताभिभाषिणं दन्तं गुरुवाक्यकरं सदा। बाल्येऽप्यतुलकर्माणं प्रियवाक्यममत्सरम्॥ महोत्साहं महाबाहुं दीर्घराजीवलोचनम्। भक्तानुकम्पिनं दान्तं न च नीचानुसारिणम्॥ कृतज्ञं ज्ञानसम्पन्नं कृतास्त्रमनिवर्तिनम्। युद्धाभिनन्दिनं नित्यं द्विषतां भयवर्धनम्॥ स्वेषां प्रियहिते युक्तं पितॄणां जयगृद्धिनम्। न च पूर्वं प्रहर्तारं संग्रामे नष्टसम्भ्रमम्॥ यदि पुत्रं न पश्यामि यास्मामि यमसादनम्। रथेषु गण्यमानेषु गणितं तं महारथम्॥ मयाध्यर्धगुणं संख्ये तरुणं बाहुशालिनम्। यदि पुत्रं न पश्यामि यास्यामि यमसादनम्। सुनसं सुललाटान्तं स्वक्षिभ्रदशनच्छदम्॥ अपश्यतस्तद्वदनं का शान्तिर्हदयस्य मे। तन्त्रीस्वनमुखं रम्यं पुंस्कोकिलसमध्वनिम्॥ अशृण्वतः स्वनं तस्य का शान्तिर्हृदयस्य मे। रूपं चाप्रतिमं तस्य त्रिदशेश्चापि दुर्लभम्॥ अपश्यतो हि वीरस्य का शान्तिर्हृदयस्य मे। अभिवादनदक्षं तं पितॄणां वचने रतम्॥ नाद्याहं यदि पश्यामि का शान्तिर्हृदयस्य मे। सुकुमारः सदा वीरो महार्हशयनोचितः॥ भूमावनाथवच्छेते नूनं नाथवतां वरः। शयानं समुपासन्ति यं पुरा परमस्त्रिय॥ तमद्य विप्रविद्धाङ्गमुपासन्त्यशिवाः शिवाः। यः पुरा बोध्यते सुप्तः सूतमागधबन्दिभिः॥ बोधयन्त्यद्य तं नूनं श्वापदा विकृतैः स्वनैः। छत्रच्छायासमुचितं तस्य तद् वदनं शुभम्॥ नूनमद्य रजोध्वस्तं रणरेणुः करिष्यति। हा पुत्रकावितृप्तस्य सततं पुत्रदर्शने॥ भाग्यहीनस्य कालेन यथा मे नीयसे बलात्। सा च संयमनी नूनं सदा सुकृतिनां गतिः॥ स्वभाभि सिता रम्या त्वयात्पर्थं विराजते। नूनं वैवस्वतश्च त्वां वरुणश्च प्रियातिथिम्॥ शतक्रतुर्धनेशश्च प्राप्तमर्चन्त्यभीरुकम्। एवं विलप्य बहुधा भिन्नपोतो वणिग् यथा॥ दुःखेन महताऽऽविष्टो युधिष्ठिरमपृच्छत। कच्चित्स कदनं कृत्वा परेषां कुरुनन्दन॥ स्वर्गतोऽभिमुख: संख्ये युध्यमानो नरर्षभैः। स नूनं बहुभिर्यत्तैर्युध्यमानो नरर्षभैः॥ असहायः सहायार्थी मामनुध्यातवान् ध्रुवम्। पीड्यमानः शरैस्तीक्ष्णैः कर्णद्रोणकृपादिभिः॥ नानालिङ्गैः सुधौतागैर्मम पुत्रोऽल्पचेतनः। इह मे स्यात् परित्राणं पितेति स पुनः पुनः॥ इतयेवं विलपन् मन्ये नृशंसैर्भुवि पातितः। अथवा मत्प्रसूत: स स्वस्रीयो माधवस्य च॥ सुभद्रायां च सम्भूतो न चैवं वक्तुमर्हति। वज्रसारमयं नूनं हृदयं सुठलं मम॥ अपश्यतो दीर्घ बाहुं रक्ताक्षं यन्न दीर्यते। कथं बाले महेष्वासा नृशंसा मर्मभेदिनः॥ स्वस्रीये वासुदेवस्य मम पुत्रेऽक्षिपञ्शरान्। यो मां नित्यमदीनात्मा प्रत्युद्गम्याभिनन्दति॥ उपायान्तं रिपून हत्वा सोऽद्य मां किं न पश्यति। नूनं स पातितः शेते धरण्यां रुधिरोक्षितः॥ शोभयन् मेदिनीं गात्रैरादित्य इव पातितः। सुभद्रामनुशोचामि या पुत्रपपलायिनम्॥ रणे विनिहतं श्रुत्वा शोकार्ता वै विनक्ष्यति। सुभद्रः वक्ष्यते किं मामभिमन्युमपश्यती॥ द्रौपदी चैव दुःखाते ते च वक्ष्यामि किं त्वहम्। वज्रसारमयं नूनं हृदयं यन्न यास्यति॥ सहस्रधा वधूं दृष्ट्वा रुदतीं शोककर्शिताम्। हप्तानां धार्तराष्ट्राणां सिंहनादो मया श्रुतः॥ युयुत्सुश्चापि कृष्णेन श्रुतो वीरानुपालभन्। अशक्रुवन्तो बीभत्सुं बालं हत्वा महारथाः॥ किं मोदध्यवमधर्मज्ञाः पाण्डवं दृश्यतां बलम्। किं तयोर्विप्रियं कृत्वा केशवार्जुनयोर्मधे॥ सिंहवन्नदथ प्रीताः शोककाल उपस्थिते। आगमिष्यति वः क्षिप्रं फलं पापस्य कर्मणः॥ अधर्मो हि कृतस्तीव्रः कथं स्यादफलश्चिरम्। इति तान् परिभाषन् वै वैश्यापुत्रो महामतिः॥ अपायाच्छस्त्रमुत्सृज्य कोपदुःखसमन्वितः। किमर्थमेतन्नाख्यातं त्वया कृष्ण रणे मम॥ अधाक्षं तानहं क्रूरांस्तदा सर्वान् महारथान्। संजय उवाच पुत्रशोकार्दितं पार्थं ध्यायन्तं साश्रुलोचनम्॥ निगृह्य वासुदेवस्तं पुत्राधिभिरभिप्लुतम्। मैवमित्यब्रवीत् कृष्णस्तीव्रशोकसमन्वितम्॥ सर्वेषामेष वै पन्थाः शूराणामनिवर्तिनाम्। क्षत्रियाणां विशेषेण येषां युद्धेन जीविका॥ एष वै युध्यमानानां शूराणामनिवर्तिनाम्। विहिता सर्वशास्त्रज्ञैर्गतिर्मतिमतां वर॥ ध्रुवं हि युद्धे मरणं शूराणामनिवर्तिनाम्। गतः पुण्यकृतां लोकानभिमन्यु संशयः॥ एतच्च सर्ववीराणां काक्षितं भरतर्षभ। संग्रामेऽभिमुखो मृत्युं प्राप्नुयादिति मानद॥ स च वीरान् रणे हत्वा राजपुत्रान् महाबलान्। वीरैराकाइक्षितं मृत्युं सम्प्रापतोऽभिमुखं रणे॥ मा शुचः पुरुषव्याघ्र पूर्वैरेष सनातनः। धर्मकृद्भिः कृतो धर्मः क्षत्रियाणां रणे क्षयः॥ इमे ते भ्रातरः सर्वे दीना भरतसत्तम। त्वयि शोकसमाविष्टे नृपाश्च सुहृदस्तव॥ एतांश्च वचसा साम्ना समाश्वासय मानद। विदितं वेदितव्यं ते न शोकं कर्तुमर्हसि॥ एवमाश्वासितः पार्थः कृष्णेनाद्भुतकर्मणा। ततोऽव्रबीत् तदा भ्रातृन् सर्वान् पार्थः सगद्गदान्॥ अभिमन्युर्यथावृत्तः श्रोतुमिच्छाम्यहं तथा॥ सनागस्यन्दनहयान् द्रक्ष्यध्वं निहतान् मया। संग्रामे सानुबन्धांस्तान् मम पुत्रस्य वैरिणः॥ कथं च वः कृतास्त्राणां सर्वेषां शस्त्रपाणिनाम्।। सौभद्रो निधनं गच्छेद वर्जिणापि समागतः॥ यद्येवमहमज्ञास्यमशक्तान् रक्षणे मम। पुत्रस्य पाण्डुपञ्चालान् मया गुप्तो भवेत् ततः॥ कथं च वो रथस्थानां शरवर्षाणि मुञ्चताम्। नीतोऽभिमन्युनिधनं कदर्थीकृत्य वः परैः॥ अहो वः पौरुषं नास्ति न च वोऽस्ति पराक्रमः। यत्राभिमन्युः समरे पश्यतां वो निपातितः॥ आत्मानमेव गहेयं यदहं वै सुदुर्बलान्। युष्मानाज्ञाय निर्यातो भीरूनकृतनिश्चयान्॥ आहोस्विद् भूषणार्थाय वर्म शस्त्रायुधानि वः। वाचस्तु वक्तुं संसत्सु मम पुत्रमरक्षताम्॥ एवमुक्त्वा ततो वाक्यं तिष्ठंश्चापवरासिमान्। न स्माशक्यत बीभत्सुः केनचित्प्रसमीक्षितुम्॥ तमन्तकमिव क्रुद्धं नि:श्वसन्तं मुहुर्मुहुः। पुत्रशोकाभिसंतप्तमश्रुपूर्णमुखं तदा॥ न भाषितुं शक्नुवन्ति द्रष्टुं वा सुहृदोऽर्जुनम्। अन्यत्र वासुदेवाद्वा ज्येष्ठाद्वा पाण्डुनन्दनात्॥ सर्वास्ववस्थासु हितावर्जुनस्य मनोनुगौ। बहुमानात् प्रियत्वाच्च तावेनं वक्तुमर्हतः॥ ततस्तं पुत्रशोकेन भृशं पीडितमानसम्। राजीवलोचनं कुद्धं राजा वचनमब्रवीत्॥ युधिष्ठिर उवाच त्वयि याते महाबाहो संशप्तकबलं प्रति। प्रयत्नमकरोत् तीव्रमाचार्यो ग्रहणे मम॥ व्यूढानीका वयं द्रोणं वारयामः स्म सर्वशः। प्रतिव्यूह्य स्थानीकं यतमानं तथा रणे॥ स वार्यमाणो रथिभिर्मयि चापि सुरक्षिते। अस्मानभिजगामाशु पीडयन् निशितैः शरैः॥ ते पीड्यमाना द्रोणेन द्रोणानीकं न शक्नुमः। प्रतिवीक्षितुमप्याजौ भेत्तुं तत् कुत एव तु॥ वयं त्वप्रतिमं वीर्ये सर्वे सौभद्रमात्मजम्। उक्तवन्तः स्म तं तात भिन्ध्यनीकमिति प्रभो॥ स तथा नोदितोऽस्माभिः सदश्व इव वीर्यवान्। असह्यपि तं भारं वोदुमेवोपचक्रमे॥ स तवास्त्रोपदेशेन वीर्येण च समन्वितः। प्राविशत् तद्बलं बालः सुपर्ण इव सागरम्॥ तेऽनुयाता वयं वीरं सात्वतीपुत्रमाहवे। प्रवेष्टकामास्तेनैव येन स प्राविशच्चमूम्॥ ततः सैन्धवको राजा क्षुद्रस्तात जयद्रथः। वरदानेन रुद्रस्य सर्वान् नः समवारयत्॥ ततो द्रोणः कृपः कर्णो द्रौणिः कौसल्य एव च। कृतवर्मा च सौभद्रं षड् रथाः पर्यवारयन्॥ परिवार्य तु तैः सर्वैर्युधि वालो महारथैः। यतमानः परं शक्त्या बहुभिर्विरधीकृतः॥ ततो दौःशासनिः क्षिप्रं तथा तैर्विरथीकृतम्। संशयं परमं प्राप्य दिष्टान्तेनाभ्ययोजयत्॥ स तु हत्वा सहस्राणि नराश्वरथदन्तिनाम्। अष्टौ रथसहस्राणि नव दन्तिशतानि च॥ राजपुत्रसहस्रे द्वे वीरांश्चालक्षितान् बहून्। वृद्धलं च राजानं स्वर्गेणाजौ प्रयोज्य ह॥ ततः परमधर्मात्मा दिष्टान्तमुपजग्मिवान्। एतावदेव निवृत्तमस्माकं शोकवर्धनम्॥ स चैवं पुरुषव्याघ्रः स्वर्गलोकमवाप्तवान्। ततोऽर्जुनो वचः श्रुत्वा धर्मराजेन भाषितम्॥ हा पुत्र इति निःश्वस्य व्यथितोन्यपतद् भुवि। विषण्णवदनाः सर्वे परिवार्य धनंजयम्॥ नेत्रैरनिमिषैर्दीनाः प्रत्यवेक्षन् परस्परम्। प्रतिलभ्य ततः संज्ञा वासविः क्रोधमूच्छितः॥ कम्पमानो ज्वरेणेव निःश्वसंश्च मुहुर्मुहुः। पार्णि पाणौविनिष्पिष्य श्वसमानोऽश्रुनेत्रवान्॥ अर्जुन उवाच उन्मत्त इव विप्रेक्षन्निदं वचनमब्रवीत्। सत्यं वः प्रतिजानामि श्वोऽस्मि हन्ता जयद्रथम्। न चेद् वधभयाद् भीतो धार्तराष्ट्रान् प्रहास्यति॥ न चास्माशरणं गच्छेत् कृष्णं वा पुरुषोत्तमम्। भवन्तं वा महाराज श्वोऽस्मि हन्ता जयद्रथम्॥ धार्तराष्ट्रप्रियकरं मयि विस्मृतसौहृदम्। पापं बालवधे हेतुं श्वोऽस्मि हन्ता जयद्रथम्॥ रक्षमाणाश्च तं संख्ये ये मां योत्स्यन्ति केचन। अपि द्रोणकृपौ राजन् छादयिष्यामि ताञ्छरैः॥ यद्येतदेवं संग्रामे न कुर्यां पुरुषर्षभाः। मा स्म पुण्यकृतां लोकान् प्राप्नुयां शूरसम्मतान्॥ ये लोका मातृहतॄणां ये चापि पितृघातिनाम्। गुरुदारगतानां ये पिशुनानां च ये सदा॥ साधूनसूयतां ये च ये चापि परिवादिनाम्। ये च निक्षेपहर्तृणां ये च विश्वासघातिनाम्॥ भुक्तपूर्वां स्त्रियं ये च विन्दतामघशंसिनाम्। ब्रह्मघ्नानां च ये लोका ये च गोघातिनामपि॥ पायसं वा यवान्नं वा शाकं कृसरमेव वा। संयावापूपमांसानि ये च लोका वृथाश्नताम्॥ तानन्हायाधिगच्छेयं न चेद्धन्यां जयद्रथम्। वेदाध्यायिनमत्यर्थं संशितं वा द्विजोत्तमम्॥ अवमन्यमानो यान् याति वृद्धान् साधून् गुरुंस्तथा। स्पृशतो ब्राह्मणं गां च पादेनाग्निं च या भवेत्॥ याऽप्सु श्लेष्म पुरीषं च मूत्रं वा मुञ्चतां गतिः। तां गच्छेयं गतिं कष्टां न चेद्धन्यां जयद्रथम्॥ नग्नस्य नायमानस्य या च वन्ध्यातिथेर्गतिः। उत्कोचिनां मृषोक्तीनां वञ्चकानां च या गतिः॥ आत्मापहारिणां या च या च मिथ्याभिशंसिनाम्। भृत्यैः संदिश्यमानानां पुत्रदाराश्रितैस्तथा॥ असंविभज्य क्षुद्राणां या गतिर्मिष्टमश्नताम्। तां गच्छेयं गति घोरां न चेद्धन्यां जयद्रथम्॥ संश्रितं चापि यस्त्यक्त्वा साधुं तद्वचने रतम्। न विभर्ति नृशंसात्मा निन्दते चोपकारिणम्॥ अर्हते प्रातिवेश्याय श्राद्धं यो न ददाति च। अनर्हेभ्यश्च यो दद्याद् वृषलीपतये तथा॥ मद्यपो भिन्नमर्यादः कृतघ्नो भर्तृनिन्दकः। तेषां गतिमियां क्षिप्रं न चेद्धन्यां जयद्रथम्॥ भुञ्जानानां तु सव्येन उत्सङ्गे चापि खादताम्। पालाशमासनं चैव तिन्दुकैर्दन्तधावनम्॥ ये चावर्जयतां लोकाः स्वपतां च तथोषसि। शीतभीताश्च ये विप्रा रणभीताश्च क्षत्रियाः॥ एककूपोदकग्रामे वेदध्वनिविवर्जिते। षण्मासं तत्र वसतां तथा शास्त्रं विनिन्दताम्॥ दिवामैथुनिनां चापि दिवसेषु च शेरते। अगारदाहिनां चैव गरदानां च ये मताः॥ अग्न्यातिथ्यविहीनाश्च गोपानेषु च विघ्नदाः। रजस्वला सेवयन्तः कन्यां शुल्केन दायिनः॥ या च वै बहुयाजिनां ब्राह्मणानां श्ववृत्तिनाम्। आस्यमैथुनिकानां च ये दिवा मैथुने रताः॥ ब्राह्मणस्य प्रतिश्रुत्य यो वै लोभाद् ददाति न। तेषां गतिं गमिष्यामि श्वो न हन्यां जयद्रथम्॥ धर्मादपेता ये चान्ये मया नात्रानुकीर्तिताः। ये चानुकीर्तितास्तेषां गतिं क्षिप्रमवाप्नुयाम्॥ यदि व्युष्टामिमां रात्रिं श्वो न हन्यां जयद्रथम्। इमां चाप्यपरां भूयः प्रतिज्ञां मे निबोधत॥ यद्यस्मिन्त्रहते पापे सूर्योऽस्तमुपयास्यति। इहैव सम्प्रवेष्टाऽहं ज्वलितं जातवेदसम्॥ असुरसुरमनुष्या: पक्षिणो वोरगा वा पितृजनिचरा वा ब्रह्मदेवर्षयो वा। चरमचरमपीदं यत्परं चापि तस्मात् तदपि ममरिपुं तं रक्षितुं नैव शक्ताः॥ यदि विशति रसातलं तदग्यं वियदपि देवपुरं दितेः पुरं वा। तदपि शरशतैरहं प्रभाते भृशमभिमन्युरिपोः शिरोऽभिहर्ता॥ संजय उवाच एवमुक्त्वा विचिक्षेप गाण्डीवं सव्यदक्षिणम्। तस्य शब्दमतिक्रम्य धनुः शब्दोऽस्पृशद् दिवम्॥ अर्जुनेन प्रतिज्ञाते पाञ्चजन्यं जनार्दनः। प्रदध्मौ तत्रं संकुद्धो देवदत्तं च फाल्गुनः॥ स पाञ्चजन्योऽच्युतवक्त्रवायुना भृशं सुपूर्णोदरनिःसृत ध्वनिः। जगत सपाताल वियद्दिगीश्वरं प्रकम्पयामास युगात्यये यथा॥ ततो वादित्रघोषाश्च प्रादुरासन् सहस्रशः। सिंहनादश्च पाण्डूनां प्रतिज्ञाते महात्मना॥ संजय उवाच श्रुत्वा तु तं महाशब्दं पाण्डूनां जयगृद्धिनाम्। चारैः प्रवेदिते तत्र समुत्थाय जयद्रथः॥ शोकसम्मूढहृदयो दुःखेनाभिपरिप्लुतः। मज्जमान इवागाधे विपुले शोकसागरे॥ अगाम समिति राज्ञां सैन्धवो विमृशन् बहु। स तेषां नरदेवानां सकाशे पर्यदेवयन्॥ अभिमन्योः पितुर्भीतः सव्रीडो वाक्यमब्रवीत्। योऽसौ पाण्डो:किल क्षेत्रे जातः शक्रेण कामिना॥ स निनीषति दुर्बुद्धिर्मा किलैकं यमक्षयम्। तत् स्वस्ति वोऽस्तु यास्यामि स्वगृहं जीवितेप्सया।।५ अथवास्त्रप्रतिबलास्त्रात मां क्षत्रियर्षभाः। पार्थेन प्रार्थिनं वीरास्ते संदत्त ममाभयम्॥ द्रोणदुर्योधनकृपाः कर्णमद्रेशबाह्निकाः। दुःशासनादयः शक्तास्त्रातुं मामन्तकार्दितम्॥ किमङ्ग पुनरेकेन फाल्गुनेन जिघांसता। न त्रायेयुभवन्तो मां समस्ताः पतयः क्षितेः॥ प्रहर्षे पाण्डवेयानां श्रुत्वा मम महद् भयम्। सीदन्ति मम गात्राणि मुमूर्षोरिव पार्थिवाः॥ वधो नूनं प्रतिज्ञातो मम गाण्डीवधन्वना। तथा हि हृष्टाः क्रोशन्ति शोककाले स्म पाण्डवाः॥ तन्न देवा न गन्धर्वा नासुरोरगराक्षसाः। उत्सहन्तेऽन्यथाकर्तुं कुत एव नराधिपाः॥ तस्मानमामनुजानीत भद्रं वोऽस्तु नरर्षभाः। अदर्शनं गमिष्यामि न मां द्रक्ष्यन्ति पाण्डवाः॥ एवं विलपमानं तं भयाद् व्याकुलचेतसम्। आत्मकार्यगरीयस्त्वाद् राजा दुर्योधनोऽब्रवीत्॥ मध्ये क्षत्रियवीराणां तिष्ठन्तं प्रार्थयेद् युधि॥ अहं वैकर्तनः कर्णश्चित्रसेनो विविंशतिः। भूरिश्रवाः शल: शल्यो वृषसेनो दुरासदः॥ पुरुमित्रो जयो भोजः काम्बोजश्च सुदक्षिणः। सत्यव्रतो महाबाहुर्विकर्णो दुर्मुखश्च ह॥ दुःशासनः सुबाहुश्च कालिङ्गश्चाप्युदायुधः। विन्दानुविन्दावावन्त्यौ द्रोणो द्रौणिश्च सौबलः॥ एते चान्ये च बहवो नानाजनपदेश्वराः। ससैन्यास्त्वाभियास्यन्ति व्येतु ते मानसो ज्वरः॥ त्वं चापि रथिनां श्रेष्ठः स्वयं शूरोऽमिताते। स कथं पाण्डवेयेभ्यो भयं पश्यसि सैन्धव॥ अक्षौहिण्यो दशैका च मदीयास्तव रक्षणे। यत्ता योत्स्यन्ति मा भैस्त्वं सैन्धव व्येतु ते भयम्॥ संजय उवाच एवमाश्वासितो राजन् पुत्रेण तव सैन्धवः। दुर्योधनेन सहितो द्रोण रात्रावुपागमत्॥ उपसंग्रहणं कृत्वा द्रोणाय स विशाम्पते। उपोपविश्य प्रणतः पर्यपृच्छदिदं तदा॥ निमित्ते दूरपातित्वे लघुत्वे दृढवेधने। मम ब्रवीतु भगवान् विशेष फाल्गुनस्य च॥ विद्याविशेषमिच्छामि ज्ञातुमाचार्य तत्त्वतः। अर्जुनस्यात्मनश्चैव याथातथ्यं प्रचक्ष्व मे॥ द्रोण उवाच सममाचार्यकं तात तव चैवार्जुनस्य च। योगाद् दुःखोषितत्वाच्च तस्मात्त्वत्तोऽधिकोऽर्जुनः॥२५ न तु ते युधि संत्रासः कार्यः पार्थात् कथञ्चन। अहं हि रक्षिता तात भयात्त्वां नात्र संशयः॥ न हि माहुगुप्तस्य प्रभवन्त्यमरा अपि। व्यूहयिष्यामि तं व्यूहं यं पार्थो न तरिष्यति॥ तस्माद् युद्ध्यस्वमा भैस्त्वं स्वधर्ममनुपालय। पितृपैतामहं मार्गमनुयाहि महारथ॥ अधीत्य विधिवद् वेदानग्नयः सुहुतास्त्वया। इष्टं च बहुभिर्यज्ञैर्न ते मृत्युभयङ्करः॥ दुर्लभं मानुषैर्मन्दैमहाभाग्यमवाप्यतु। भुजवीर्यार्जिताँल्लोकान् दिव्यान् प्राप्स्यस्यनुत्तमान्।। कुरुः पाण्डवाश्चैव वृष्णयोऽन्ये च मानवाः। अहं च सह पुत्रेण अध्रुवा इति चिन्त्यताम्॥ पर्यायेण वयं सर्वे कालेन बलिना हताः। परलोकं गमिष्यामः स्वैः स्वैः कर्मभिरन्विताः॥ तपस्तप्त्वा तु याँल्लोकान् प्राप्नुवन्ति तपस्विनः। क्षत्रधर्माश्रिता वीराः क्षत्रियाः प्राप्नुवन्ति तान्॥ एवमाश्वासितो राजा भारद्वाजेन सैन्धवः। अपानुदद् भयं पार्थाद् युद्धाय च मनो दधे॥३४। ततः प्रहर्षः सैन्यानां तवाप्यासीद् विशाम्पते। वादित्राणां ध्वनिश्चोग्रः सिंहनादरवै: सह॥ संजय उवाच प्रतिज्ञाते तु पार्थेन सिन्धुराजवधे तदा। वासुदेवो महाबाहुर्धनंजयमभाषत॥ सैन्धवं चास्मि हन्तेति तत्साहसमिदं कृतम्॥ असंमन्त्र्य मया सार्धमतिभारोऽयसमुद्यतः। कथं तु सर्वलोकस्य नावहास्या भवेमहि॥ धार्तराष्ट्रस्य शिविरे मया प्रणिहिताश्चराः। त इमे शीघ्रमागम्य प्रवृत्तिं वेदयन्ति नः॥ त्वया वै सम्प्रतिज्ञाते सिन्धुराजवधे प्रभो। सिंहनादः सवादित्रः सुमहानिह तैः श्रुतः॥ तेन शब्देन वित्रस्ता धार्तराष्ट्राः ससैन्धवाः। नाकस्मात् सिंहनादोऽयमिति मत्वा व्यवस्थिताः॥ सुमहाशब्दसम्पात: कौरवाणां महाभुज) आसीन्नागाश्वपत्तीनां रथघोषश्च भैरवः॥ अभिमन्योर्वधं श्रुत्वा ध्रुवमार्तो धनंजयः। रात्रौनिर्यास्यति क्रोधादिति मत्वा व्यवस्थिताः॥ तैर्यतद्भिरियं सत्या श्रुता सत्यवतस्तव। प्रतिज्ञा सिन्धुराजस्य वधे राजीवलोचन॥ ततो विमनसः सर्वे त्रस्ताः क्षुद्रमृगा इव। आसन् सुयोधनामात्याः स च राजा जयद्रथः॥ अथोत्थाय सहामात्यैर्दीन: शिबिरमात्मनः। आयात् सौवीरसिन्धूनामीश्वरो भृशदुःखितः॥ स मन्त्रकाले सम्मन्त्र्य सर्वां नैःश्रेयसी क्रियाम्। सुयोधनमिदं वाक्यमब्रवीद् राजसंसदि॥ मामसो पुत्रहन्तेति श्वोऽभियाता धनंजयः। प्रतिज्ञातो हि सेनाया मध्ये तेन वधो मम॥ तां न देवा न गन्धर्वा नासुरोरगराक्षसाः। उत्सहन्तेऽन्यथा कर्तुं प्रतिज्ञां सव्यसाचिनः॥ ते मां रक्षत संग्रामे मा वो मूर्ध्नि धनंजयः। पदं कृत्वाऽऽनुयाल्लक्ष्यं तस्मादत्र विधीयताम्॥ अथ रक्षा न मे संख्ये क्रियते कुरुनन्दन। अनुजानीहि मां राजन् गमिष्यामि गृहान् प्रति॥ एवपुक्तस्त्ववाक्शीर्षो विमनाः स सुयोधनः। श्रुत्वा तं समयं तस्य ध्यानमेवान्वपद्यत॥ तमार्तमभिसंप्रेक्ष्य राजा किल स सैन्धवः। मृदु चात्महितं चैव साक्षेपमिदमुक्तवान्॥ नेह पश्यामि भवतां तथावीर्यं धनुर्धरम्। योऽर्जुनस्यास्त्रमस्त्रेण प्रतिहन्यान्महाहवे॥ वासुदेवसहायस्य गाण्डीवं धुन्वतो धनुः। कोऽर्जुनस्याग्रतस्तिष्ठेत् साक्षादपि शतक्रतुः॥ महेश्वरोऽपि पार्थेन श्रूयते योधितः पुरा। पदातिना महावीर्यो गिरौ हिमवति प्रभुः॥ दानवानां सहस्राणि हिरण्यपुरवासिनाम्। जघानैकरथेनैव देवराजप्रचोदितः॥ समायुक्तो हि कौन्तेयो वासुदेवेन धीमता। सामरानपि लोकांस्त्रींन् हन्यादिति मतिर्मम॥ सोऽहमिच्छाम्यनुज्ञातुं रक्षितुं वा महात्मना। द्रोणेन सहपुत्रेण वीरेण यदि मन्यसे॥ स राज्ञा स्वयमाचार्यो भृशमत्रार्थितोऽर्जुन। संविधानं च विहितं रथाश्च किल सज्जिताः॥ कर्णो भूरिश्रवा द्रोणिवृषसेनश्च दुर्जयः। कृपश्च मद्रराजश्च षडेतेऽस्य पुरोगमाः॥ शकटः पद्मक्श्चा? व्यूहो द्रोणेन निर्मितः। पद्मकर्णिकमध्यस्थः सूचीपार्वे जयद्रथः॥ स्थास्यते रक्षितो वीरैः सिंधुराट् स सुदुर्मदः। धनुष्यस्त्रे च वीर्ये च प्राणे चैव तथौरसे॥ अविषह्यतमा ह्येते निश्चिताः पार्थ षड्रथाः। एतानजित्वा षड् रथान् नैव प्राप्यो जयद्रथः॥ तेषामेकैकशो वीर्यं षण्णां त्वमनुचिन्तय। सहिता हि नरव्याघ्र न शक्या जेतुमञ्जसा॥ भूयस्तु मन्त्रयिष्यामि नीतिमात्महिताय वै। मन्त्रज्ञैः सचिवैः सार्धं सुद्भिः कार्यसिद्धये॥ अर्जुन उवाच षड्थान् धार्तराष्ट्रस्य मन्यसे यान् बलाधिकान्। तेषां वीर्ये ममार्धेन न तुल्यमिति मे मतिः॥ अस्त्रमस्त्रेण सर्वेषामेतेषां मधुसूदन। मया द्रक्ष्यसि निर्भिन्नं जयद्रथवधैषिणा॥ द्रोणस्य मिषतश्चाहं सगणस्य विलप्यतः। मूर्धानं सिन्धुराजस्य पातयिष्यामि भूतले॥ यदि साध्याश्च रुद्राश्च वसवश्च सहाश्विनः। मरुतश्च सहेन्द्रेण विश्वेदेवाः सहेश्वराः॥ पितरः सहगन्धर्वाः सुपर्णाः सागरादयः। द्यौर्वियत् पृथिवीं चेयं दिशश्च सदिगीश्वराः॥ ग्रामारण्यानि भूतानि स्थावराणि चराणि च। त्रातारः सिन्धुराजस्य भवन्ति मधुसूदन॥ तथापि बाणैर्निहतं श्वो द्रष्टासि रणे मया। सत्येन च शपे कृष्ण तथैवायुधमालभे॥ यस्तु गोप्ता महेष्वासस्तस्य पापस्य दुर्मतेः। तमेव प्रथमं द्रोणमभियास्यामि केशव॥ तस्मिन् द्यूतमिदं बद्धं मन्यते स सुयोधनः। तस्मात् तस्यैव सेनाग्रं भित्त्वा यास्याभि सैन्धवम्॥ द्रष्टासि श्वो महेष्वासान् नाराचैस्तिग्मतेजितैः। शृङ्गाणीव गिरेर्वत्रैर्दार्यमाणान् मया युधि॥ नरनागाश्वदेहेभ्यो विस्रविष्यति शोणितम्। पतद्भ्यः पतितेभ्यश्च विभिन्नेभ्य: शितैः शरैः॥ गाण्डीवप्रेषिता बाणा मनोऽनिलसमा जवे। नृनागाश्वान् विदेहासून् कर्तारश्च सहस्रशः॥ यमात् कुबेराद् वरुणादिन्द्राद् रुद्राच्च यन्मया। उपात्तमस्त्रं घोरं तद् द्रष्टारोऽत्र नरा युधि॥ ब्राह्मणास्त्रेण चास्त्राणि हन्यमानानि संयुगे। मया द्रष्टासि सर्वेषां सैन्धवस्याभिरक्षिणाम्॥ शरवेगसमुत्कृत्तै राज्ञां केशव मूर्धभिः। आस्तीर्यमाणां पृथिवीं द्रष्टासि श्वो मया युधि॥ क्रव्यादास्तर्पयिष्यामि द्रावयिष्यामि शात्रवान्। सुहृदो नन्दयिष्यामि प्रमथिष्यामि सैन्धवम्॥ बह्वागस्कृत कुसम्बन्धी पापदेशसमुद्भवः। मया सैन्धवको राजा हतः स्वान् शोचयिष्यति॥ सर्वक्षीरानभोक्तारं पापाचारं रणाजिरे। मया सराजकं बाणैर्भिन्नं द्रक्ष्यसि सैन्धवम्॥ तथा प्रभाते कर्तास्मि यथा कृष्ण सुयोधनः। नान्यं धनुर्धरं लोके मंस्यते मत्समं युधि॥ गाण्डीवं च धनुर्दिव्यं योद्धा चाहं नरर्षभ। त्वं च यन्ता हृषीकेश किं नु स्यादजितं मया॥ तव प्रसादाद् भगवान् किं नावाप्तं रणे मम। अविषह्यं हृषीकेश किं जानन् मां विगर्हसे॥ यथा लक्ष्म स्थिरं चन्द्रे समुद्रे च यथा जलम्। एवमेतां प्रतिज्ञां मे सत्यां विद्धि जनार्दन॥ मावसंस्था ममास्त्राणि मावमंस्था धनुदृढम्। मावमंस्था बलं बाह्वोमावमंस्था धनंजयम्॥ तथाभियामि संग्रामं न जीयेयं जयामि च। तेन सत्येन संग्रामे हतं विद्धि जयद्रथम्॥ ध्रुवं वै ब्राह्मणे सत्यं ध्रुवा साधुषु संनतिः। श्रीधुंवापि च यज्ञेषु ध्रुवो नारायणे जयः॥ संजय उवाच एवमुक्त्वा हृषीकेशं स्वयमात्मानमात्मना। संदिदेशार्जुनो नर्दन् वासविः केशवं प्रभुम्॥ यथा प्रभातं रजनी कल्पितः स्याद् रथो मम। तथा कार्यं त्वया कृष्ण कार्यं हि महदुद्यतम्॥ संजय उवाच तां निशां दुःखशोकातॊ निःश्वसन्ताविवोरगौ। निद्रां नैवोपलेभाते वासुदेवधनंजयौ॥ नरनारायणौ क्रुद्धौ ज्ञात्वा देवाः सवासवाः। व्यथिताश्चिन्तयामासुः किंस्विदेतद् भविष्यति॥ ववुश्च दारुणा वाता रूक्षा घोराभिशंसिनः। सकबन्धस्तथाऽऽदित्ये परिधिः समदृश्यत॥ शुष्काशन्यश्च निष्पेतुः सनिर्घाताः सविद्युतः। चचाल चापि पृथिवी सशैलवनकानना॥ चुक्षुभुश्च महाराज सागरा मकरालयाः। प्रतिस्रोतः प्रवृत्ताश्च तथा गन्तुं समुद्रगाः॥ रथाश्वनरनागानां प्रवृत्तमधरोत्तरम्। क्रव्यादानां प्रमोदार्थं यमराष्ट्रविवृद्धये॥ वाहनानि शकृन्मूत्रे मुमुचू रुरुदुश्च ह। तान् दृष्ट्वादारुणान् सर्वानुत्पाताँल्लोमहर्षणान्॥ सर्वे ते व्यथिताः सैन्यास्त्वदीया भरतर्षभ। श्रुत्वा महाबलस्योग्रां प्रतिज्ञा सव्यसाचिनः॥ अथ कृष्णं महाबाहुब्रवीत् णकशासनिः। आश्वासय सुभद्रां त्वं भगिनी स्नुषया सह॥ स्नुषां चास्या वयस्याश्च विशोकाः कुरु माधव। साम्ना सत्येन युक्तेन वचसाऽऽश्वासय प्रभो॥ ततोऽर्जुनगृहं गत्वा वासुदेवः सुदुर्मनाः। भगिनीं पुत्रशोकार्तामाश्वासयत दुःखिताम्॥ वासुदेव उवाच कुरु वार्ष्णेयि कुमारं प्रति सस्नुषा। सर्वेषां प्राणिनां भीरु निष्ठैषा कालनिर्मिता॥ कुले जातस्य धीरस्य क्षत्रियस्य विशेषतः। सदृशं मरणं ह्येतत् तव पुत्रस्य मा शुचः॥ मा शोकं दिष्ट्या महारथो धीरः पितुस्तुल्यपराक्रमः। क्षात्रेण विधिना प्राप्तो वीराभिलषितां गतिम्॥ जित्वा सुबहुशः शत्रून् प्रेषयित्वा च मृत्यवे। गतः पुण्यकृतां लोकान् सर्वकामदुहोऽक्षयान्॥ तपसा ब्रह्मचर्येण श्रुतेन प्रज्ञयाऽपि च। सन्तो यां गतिमिच्छन्ति तां प्राप्तस्तव पुत्रकः॥ वीरसूर्वीरपत्नी त्वं वीरजा वीरबान्धवा। मा शुचस्तनयं भद्रे गतः स परमां गतिम्॥ प्राप्स्यते चाप्यसौ पापः सैन्धवो बालघातकः। अस्यावलेपस्य फलं ससुहृद्गणबान्धवः॥ व्युष्टायां तु वरारोहे रजन्यां पापकर्मकृत्। न हि मोक्ष्यति पार्थात स प्रविष्टोऽप्यमरावतीम्॥ श्वः शिरः श्रोष्यसे तस्य सैन्धवस्य रणे हृतम्। समन्तपञ्चकाद् बाह्यं विशोका भव मा रुंदः॥ क्षत्रधर्मं पुरस्कृत्य गतः शूरः सतां गतिम्। यां गतिं प्राप्नुयामेह ये चान्ये शस्त्रजीविनः॥ व्यूढोरस्को महाबाहुरनिवर्ती स्थप्रणुत्। गतस्तव वरारोहे पुत्रः स्वर्ग ज्वरं जहि॥ अनुयातश्च पितरं मातृपक्षं च वीर्यवान्। सहस्राशो रिपून हत्वा हतः शूरो महारथः॥ आश्वासन स्नुषां राज्ञि मा शुचः क्षत्रिये भृशम्। श्वः प्रियं सुमहच्छ्रुत्वा विशोका भव नन्दिनि॥ यत् पार्थेन प्रतिज्ञातं तत् तथा न तदन्यथा। चिकीर्षितं हि ते भर्तुर्न भवेज्जातु निष्फलम्॥ यदि च मनुजपन्नगा: पिशाचा रजनिश्चा पतगाः सुरासुराश्च। रणगतमभियान्ति सिन्धुराज नस भविता सह तैरपि प्रभाते॥ संजय उवाच एतच्छ्रुत्वा वचस्तस्य केशवस्य महात्मनः। सुभद्रा पुत्रशोकार्ता विललाप सुदुःखिता॥ हा पुत्र मम मन्दायाः कथमेत्यासि संयुगम्। निधनं प्राप्तवांस्तात पितुस्तुल्यपराक्रमः॥ कथमिन्दीवरश्यामं सुदंष्ट्रं चारुलोचनम्। मुखं ते दृश्यते वत्स गुण्ठितं रणरेणुना॥ नूनं शूरं निपतितं त्वां पश्यन्त्यनिवर्तिनम्। सुशिरोग्रीवबाह्वसं व्यूढोरस्कं नतोदरम्॥ चारूपचितसर्वांङ्गं स्वक्षं शस्त्रक्षताचितम्। भूतानि त्वां निरीक्षन्ते नूनं चन्द्रमिवोदितम्॥ शयनीयं पुरा यस्य स्पर्ध्यास्तरणसंवृतम्। भूमावद्य कथं शेषे विप्रविद्धः सुखोचितः॥ योऽन्वास्यत पुरा वीरो वस्त्रीभिर्महाभुजः। कथमन्वास्यते सोऽद्य शिवभिः पतितो मृधे॥ सोऽस्तूयत पुरा हृष्टैः सूतमागधबन्दिभिः। सोऽद्य क्रव्याद्गणैधौरैर्विनदद्भिपास्यते॥ पाण्डवेषु च नाथेषु वृष्णिवीरेषु वा विभो। पञ्चालेषु च वीरेषु हतः केनास्यनाथवत्॥ अतृप्तदर्शना पुत्र दर्शनस्य तवानघ। मन्दभाग्या गमिष्यामि व्यक्तमद्य यमक्षयम्॥ विशालाक्षं सुकेशान्तं चारुवाक्यं सुगन्धि च। तव पुत्र कदा भूयो मुखं द्रक्ष्यामि निव्रणम्॥ धिग् बलं भीमसेनस्य धिक् पार्थस्य धनुष्मताम्। धिग् वीर्यं वृष्णिवीराणां पञ्चालानां च धिग्बलम्।। धिक्केकयांस्तथा चेदीन् मत्स्यांश्चैवाथ सृञ्जयान्। ये त्वां रणगतं वीरं न शेकुरभिरक्षितुम्॥ अद्य पश्यामि पृथिवीं शून्यामिव हतत्विषम्। अभिमन्युमपश्यन्ती शोकव्याकुललोचना॥ स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः। कथं त्वातिरथं वीरं द्रक्ष्याम्यद्य निपातितम्॥ एह्येहि तृषितो वत्स सतनौ पूर्णो पिबाशु मे। अङ्कमारुह्य मन्दाया ह्यतुप्तायाश्च दर्शने॥ हा वीर दृष्टो नष्टश्च घनं स्वप्न इवासि मे। अहो ह्यनित्यं मानुष्यं जलबुद्बुदचञ्चलम्॥ इमां ते तरुणी भार्यां तवाधिभिरभिप्लुताम्। कथं संधारयिष्यामि विवत्सामिव धेनुकाम्॥ अहो ाकाले प्रस्थानं कृतवानसि पुत्रका विहाय फलकाले मां सुगृद्धां तव दर्शने॥ नूनं गतिः कृतान्तस्य प्राज्ञैरपि सुदुर्विदा। यत्र तत्वं केशवे नाथे संग्रामेऽनाथवद्धतः॥ यज्वनां दानशीलानां ब्राह्मणानां कृतात्मनाम्। चरितब्रह्मचर्याणां पुण्यतीर्थावगाहिनाम्॥ कृतज्ञानां वदान्यानां गुरुशुश्रूषिणामपि। सहस्रदक्षिणानां च या गतिस्तामवाप्नुहि॥ या गतिर्युध्यमानानां शूराणामनिवर्तिनाम्। हत्वारीन् निहतानां च संग्रामे तां गतिं व्रज॥ गोसहस्रप्रदातॄणां क्रतुदानां च या गतिः। नैवेशिकं चाभिमतं ददतां या गति: शुभा।॥ ब्राह्मणेभ्यः शरण्येभ्यो निधिं निदधतां च या। या चापि न्यस्तदण्डानां तां गतिं व्रज पुत्रक॥ ब्रह्मचर्येण यां यान्ति मुनयः संशितव्रताः। एकपल्यश्च यां यान्ति तां गतिं व्रज पुत्रक॥ राज्ञां सुचरितैर्या च गतिर्भवति शाश्वती। चतुराश्रमिणां पुण्यैः पावितानां सुरक्षितैः॥ दीनानुकम्पिनां या च सततं संविभागिनाम्। पैशुन्याच्च निवृत्तानां तां गतिं व्रज पुत्रक॥ व्रतिनां धर्मशीलानां गुरुशुश्रूषिणामपि। अमोघातिथिनां या च तां गतिं व्रज पुत्रक॥ कृच्छ्रेषु या धारयतामात्मानं व्यसनेषु च। गतिः शोकाग्निदग्धानां तां गतिं व्रज पुत्रका॥ मातापित्रोश्च शुश्रूषां कल्पयन्तीह ये सदा। स्वदारनिरतानां च या गतिस्तामवाप्नुहि॥ ऋतुकाले स्वकां भार्यां गच्छतां या मनीषिणाम्। परस्त्रीभ्यो निवृत्तानां तां गतिं व्रज पुत्रक॥ साम्ना ये सर्वभूतानि पश्यन्ति गतमत्सराः। नारुंतुदानां क्षमिणां या गतिस्तामवाप्नुहि॥ मधुमांसनिवृत्तानां मदाद् दम्भात् तथानृतात्। परोपतापत्यक्तानां तां गतिं व्रज पुत्रक॥ ह्रीमन्तः सर्वशास्त्रज्ञा ज्ञानतृप्ता जितेन्द्रियाः। यां गतिं साधवो यान्ति तां गति व्रज पुत्रक॥ एवं विलपती दीनां सुभद्रां शोककर्शिताम्। अन्वपद्यत पाञ्चाली वैराटिसहितां तदा॥ ताः प्रकामं रुदित्वा च विलय च सुदुःखताः। उन्मत्तवत् तदा राजन् विसंज्ञा न्यपतन् क्षितौ॥ सोपचारस्तु कृष्णश्च दुःखितां भृशदुःखितः। सिक्त्वांभसा समाश्वास्य तत्तदुक्त्वा हितं वचः॥ विसंज्ञकल्पां रुदती मर्मविद्धां प्रवेपतीम्। भगिनीं पुण्डरीकाक्ष इदं वचनमब्रवीत्॥ सुभद्रे मा शुचः पुत्रं पाञ्चाल्याश्वासयोत्तराम्। गतोऽभिमन्युः प्रथितां गतिं क्षत्रियपुङ्गवः॥ ले सन्ति पुरुषा नो वरानने। *गांत यान्तु ह्यभिमन्योर्यशस्विनः॥ कुर्याम तद् वयं कर्म क्रियासु सुहृदश्च नः। कृतवान् यादृगौकस्तव पुत्रोमहारथः॥ एवमाश्वास्य भगिनीं द्रौपदीमपि चोत्तराम्। पार्थस्यैव महाबाहुः पार्श्वमागादरिंदमः॥ ततोऽभ्यनुज्ञाय नृपान् कृष्णा बन्धूंस्तथार्जुनम्। विवेशान्त:पुरे राजस्ते च जग्मुर्यथालयम्॥ संजय उवाच कुन्तीपुत्रस्तु तं मन्त्रं स्मरन्नेव धनंजयः। प्रतिज्ञामात्मनो रक्षन् मुमोहाचिन्त्यविक्रमः॥ तं तु शोकेन संतप्तं स्वप्ने कपिवरध्वजम्। आससाद महातेजा ध्यायन्तं गरुडध्वजः॥ प्रत्युत्थानं च कृष्णस्य सर्वावस्थो धनंजयः। न लोपयति धर्मात्मा भक्त्या प्रेम्णा च सर्वदा॥ प्रत्युत्थाय च गोविन्दं स तस्मा आसनं ददौ। न चासने स्वयं बुद्धिं बीभत्सुर्व्यदधात् तदा॥ ततः कृष्णोमहातेजा जानन् पार्थस्य निश्चयम्। कुन्तीपुत्रमिदं वाक्यमासीनः स्थितमब्रवीत्॥ मा विषादे मनः पार्थ कृथाः कालो हि दुर्जयः। कालः सर्वाणि भूतानि नियच्छति परे विधौ॥ किमर्थे च विषादस्ते तद् ब्रूहि द्विपदां वर। न शोच्यं विदुषां श्रेष्ठ शोकः कार्यविनाशनः॥ यत् तु कार्यं भवेत् कार्ये कर्मणा तत् समाचर। हीनचेष्टस्य यः शोकः स हि शत्रुर्धनंजय॥ शोचन् नन्दयते शत्रून् कर्शयत्यपि बान्धवान्। क्षीयते च नरस्तस्मान्न त्वं शोचितुमर्हसि॥ इत्युक्तो वासुदेवेन बीभत्सुरपराजितः। आबभाषे तदा विद्वानिदं वचनमर्थवत्॥ मया प्रतिज्ञा महती जयद्रथवधे कृता। श्वोऽस्मि हन्ता दुरात्मानं पुत्रघ्नमिति केशव॥ मत्प्रतिज्ञाविघातार्थं धार्तराष्ट्रः किलाच्युत। पृष्ठतः सैन्धवः कार्यः सर्वैर्गुप्तो महारथैः ॥ दश चैका चताः कृष्ण अक्षौहिण्यः सुदुर्जयाः। हतावशेषास्तत्रेमा हन्त माधव संख्यया॥ ताभिः परिवृतः संख्ये सर्वेश्चैव महारथैः। कथं शक्येत संद्रष्टुं दुरात्मा कृष्ण सैन्धवः॥ प्रतिज्ञापारणं चापि न भविष्यति केशव। प्रतिज्ञायां च हीनायां कथं जीवेत मद्विधः॥ दुःखोपायस्य मे वीर विकाङ्क्षा परिवर्तते। द्रुतं च याति सविता तत एतद् ब्रवीम्यहम्॥ पार्थस्य द्विजकेतनः। संस्पृश्याम्भस्ततः कृष्णः प्राङ्मुखः समवस्थितः॥ इदं वाक्यं महातेजा बभाषे पुष्करेक्षणः। हितार्थं पाण्डुपुत्रस्य सैन्धवस्य वधे कृती॥ पार्थ पाशुपतं नाम परमास्त्रं सनातनम्। येन सर्वान् मृधे दैत्याञ्जघ्ने देवो महेश्वरः॥ शोकस्थानं तु तच्छ्रुत्वा यदि तद् विदितं तेऽद्यश्वो हन्तासि जयद्रथम्। अथाज्ञातं प्रपद्यस्व मनसा वृषभध्वजम्॥ तं देवं मनसा ध्यात्वा जोषमास्व धनंजय। ततस्तस्य प्रसादात् त्वं भक्तः प्राप्स्यसि तन्महत्॥ ततः कृष्णवचः श्रुत्वा संस्पृश्याम्भो धनंजयः। भूमावासीन एकाग्रो जगाम मनसा भवम्॥ ततः प्रणिहितो ब्राह्ये मुहूर्ते शुभलक्षणे। आत्मानमर्जुनोऽपश्यद् गगने सहकेशवम्॥ पुण्यं हिमवतः पादं मणिमन्तं च पर्वतम्। ज्योतिर्भिश्च समाकीर्णं सिद्धचारणसेवितम्॥ वायुवेगगतिः पार्थः खं भेजे सहकेशवः। केशवेन गृहीत: स दक्षिणे विभुना भुजे॥ प्रेक्षमाणो बहून् भावाञ्जगामाद्भुतदर्शनान्। उदीच्यां दिशि धर्मात्मासोऽपश्यच्छ्वेतपर्वतम्॥ कुबेरस्य विहारे च नलिनी पद्मभूषिताम्। सरिच्छेष्ट्रां च तां गङ्गां वीक्षमाणो बहूदकाम्॥ सदा पुष्पफलैर्वृक्षरुपेतां स्फटिकोपलाम्। सिंहव्याघ्रसमाकीर्णो नानामृगसमाकुलाम्॥ पुण्याश्रमवती रम्यां मनोज्ञाण्डजसेविताम्। मन्दरस्य प्रदेशांश्च किन्नरोद्गीतनादितान्॥ हेमरूप्यमयैः शृङ्गै नौषधिविदीपितान्। तथा मन्दारवृक्षेश्च पुष्पितैरुपशोभितान्॥ ग्निग्धाञ्जनचयाकारं सम्प्राप्तः कालपर्वतम्। ब्रह्मतुङ्गं नदीश्चान्यास्तथा जनपदानपि॥ स तुङ्गं शत शृङ्गं च शर्यातिवनमेव च। पुण्यमश्वशिरःस्थानं स्थानमाथर्वणस्य च।॥ वृषदंशं च शैलेन्द्र महामन्दरमेव च। अप्सरोभिः समाकीर्णं किन्नरैचोपशोभितम्॥ तस्मिशैले व्रजन् पार्थः सकृष्णः समवेक्षता शुभैः प्रस्रवणैजुष्टां हेमधातुविभूषिताम्॥ चन्द्ररश्मिप्रकाशाङ्गी पृथिवीं पुरमालिनीम्। समुद्रांश्चाद्भुताकारानपश्यद् बहुलाकरान्॥ वियद् द्यां पृथिवीं चैव तथा विष्णुपदं व्रजन्। विस्मितः सह कृष्णोन क्षिप्तो बाण इवाभ्यगात्॥ ग्रहनक्षत्रसोमानां सूर्याग्न्योश्च समत्विषम्। अपश्यत तदा पार्थो ज्वलन्तमिव पर्वतम्॥ स्मासाद्य तु तं शैलं शैलाग्रे समवस्थितम्। तपोनित्यं महात्मानमपश्यद् वृषभध्वजम्॥ सहस्रमिव सूर्याणां दीप्यमानं स्वतेजसा। शूलिनं जटिलं गौरं वल्कलाजिनवाससम्॥ नयनानां सहस्रश्च विचित्राङ्गं महौजसम्। पार्वत्या सहितं देवं भूतसंधैश्च भास्वरैः॥ गीतवादित्रसंनादैर्हास्यलास्यसमन्वितम्। वल्गितास्फोटितोत्क्रुष्टैः पुण्यैर्गन्धैश्च सेवितम्॥ स्तूयमानं स्तवैद्रिव्यैर्ऋषिभिर्ब्रह्मवादिभिः। गोप्तारं सर्वभूतानामिष्वासधरमच्युतम्॥ वासुदेवस्तु तं दृष्ट्वा जगाम शिरसा क्षितिम्। पार्थेन सह धर्मात्मा गृणन् ब्रह्म सनातनम्॥ लोकार्दि विश्वकर्माणमजमीशानमव्ययम्। मनसः परमं योनि खं वायुं ज्योतिषां निधिम्॥ स्रष्टारं वारिधाराणां भुवश्च प्रकृति पराम्। देवदानवयक्षाणां मानवानां च साधनम्॥ योगानां च परं धाम दृष्टं ब्रह्मविदां निधिम्। चराचरस्य स्रष्टारं प्रतिहारमेव च॥ कालकोपं महात्मानं शक्रसूर्यगुणोदयम्। ववन्दे तं तदा कृष्णो वाङ्मनोबुद्धिकर्मभिः॥ यं प्रपद्यन्ति विद्वांसः सूक्ष्माध्यात्मपदैषिणः। तमजं कारणात्मानं जग्मतुः शरणं भवम्॥ अर्जुनश्चापि तं देवं भूयो भूयोऽप्यवन्दता ज्ञात्वा तं सर्वभूतादि भूतभव्यभवोद्भवम्॥ ततस्तावागतौ दृष्ट्वा नरनारायणावुभौ। सुप्रसन्नमनाः शर्वः प्रोवाच प्रहसन्निव॥ किं च वामीप्सितं वीरौ मनसः क्षिप्रमुच्यताम्॥ येन कार्येण सम्प्राप्तौ युवां तत् साधयामि किम्। वियतामात्मनः श्रेयस्तत् सर्वे प्रददानि वाम्॥ ततस्तद् वचनं श्रुत्वा प्रत्युत्थाय कृताञ्जली। वासुदेवार्जुनौ सर्वं तुष्टुवाते महामती॥ भक्त्या स्तवेन दिव्येन महात्मानाविनिन्दितौ॥ । कृष्णार्जुनावूचतुः नमो भवाय शर्वाय रुद्राय वरदाय च। पशूनां पतये नित्यमुग्राय च कपर्दिने॥ महादेवाय भीमाय त्र्यम्बकाय च शान्तये। ईशानाय मखघ्नाय नमोऽस्त्वन्धकघातिने॥ कुमारगुरवे तुभ्यं नीलग्रीवाय वेधसे। पिनाकिने हविष्याय सत्याय विभवे सदा॥ विलोहिताय धूम्राय व्याधायानपराजिते। नित्यनीलशिखण्डाय शूलिने दिव्यचक्षुषे॥ होने पोत्रे त्रिनेत्राय व्याधाय वसुरेतसे। अचिनत्यायाम्बिकाभर्ने सर्वदेवस्तुताय च॥ वृषध्वजाय मुण्डाय जटिने ब्रह्मचारिणे। तप्यमानाय सलिले ब्रह्मण्यायाजिताय च॥ विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते। नमो नमस्ते सेव्याय भूतानां प्रभवे सदा॥ ब्रह्मवक्त्राय सर्वाय शङ्कराय शिवाय च। नमोऽस्तु वाचस्पतये प्रजानां पतये नमः॥ नमो विश्वस्य पतये महतां पतये नमः। नमः सहस्रशिरसे सहस्रभुजमृत्यवे॥ सहस्रनेत्रपादाय नमोऽसंख्येयकर्मणे। नमो हिरण्यवर्णाय हिरण्यकवचाय च। भक्तानुकम्पिने नित्यं सिध्यतां नो वरः प्रभौ॥ संजय उवाच एवं स्तुत्वा महादेवं वासुदेवः सहार्जुनः। प्रसादयामास भवं तदा शस्त्रोपलब्धये॥ संजय उवाच ततः पार्थः प्रसन्नात्मा प्राञ्जलिर्वृषभध्वजम्। ददर्शोत्फुल्लनयनः समस्तं तेजसां निधिम्॥ तं चोपहारं सुकृतं नैशं नैत्यकमात्मना। ददर्श त्र्यम्बकाभ्याशे वासुदेवनिवेदितम्॥ ततोऽभिपूज्य मनसा कृष्णं शर्वं च पाण्डवः। इच्छाम्यहं दिव्यमस्त्रमित्यभाषत शङ्करम्॥ ततः पार्थस्य विज्ञाय वरार्थे वचनं तदा। वासुदेवार्जुनौ देवः स्मयमानोऽभ्यभाषत॥ वेन कामेन सम्प्राप्तौ भवद्भ्यां तं ददाम्यहम्॥ सरोऽसृतमयं दिव्यमभ्याशे शत्रुसूदनौ। तत्र मे तद् धनुर्दिव्यं शश्च निहितः पुरा॥ येन देवारयः सर्वे मया युधि निपातिताः। तत आनीयतां कृष्णौ सशरं धनुरुत्तमम्॥ अथेत्युक्त्वा तु तौ वीरौ सर्वपारिषदैः सह। प्रस्थितौ तत्सरो दिव्यं दिव्यैश्वर्यशतैर्युतम्॥ निर्दिष्टं यद् वृषाङ्केण पुण्यं सर्वार्थसाधकम्। तौ जग्मतुरसम्भ्रान्तौ नरनारायणावृषी॥ ततस्तौ तत् सरो गत्वा सूर्यमण्डलसंनिभम्। नागमन्तर्जले घोरं ददृशातेऽर्जुनाच्युतौ॥ द्वितीयं चापरं नाग सहस्रशिरसं वरम्। मन्तं विपुला ज्वाला ददृशातेऽग्निवर्चसम्॥ ततः कृष्णश्च पार्थश्च संस्पृश्याम्भः कृताञ्जली। तौ नागावुपतस्थाते नमस्यन्तौ वृषध्वजम्॥ गृणन्तौ वेदविद्वांसौ तद् ब्रह्म शतरुद्रियम्। अप्रमेयं प्रणमतो गतवा सर्वात्मना भवम्॥ ततस्तो रुद्रमाहात्म्याद्धित्वा रूपं महोरगौ। धुनर्बाणश्च शत्रुधं तद् द्वन्द्वंद्व समपद्यत॥ तौ तज्ज्गृहतुः प्रीतौ धनुर्बाणं च सुप्रभम्। आजह्रतुर्महात्मानौ ददतुश्च महात्मने॥ ततः पार्वाद् वृषाङ्कस्य ब्रह्मचारी न्यवर्तत। पिङ्गाक्षस्तपसः क्षेत्रं बलवान् नीललोहितः॥ स तद् गृह्य धनुःश्रेष्ठं तस्थौ स्थानं समाहितः। विचकर्षाथ विधिवत् सशरं धनुरुत्तमम्॥ तस्य मौर्वी च मुष्टिं च स्थानं चालक्ष्य पाण्डवः। श्रुत्वा मन्त्रं भवप्रोक्तं जग्राहाचिन्त्यविक्रमः॥ स सरस्येव तं बाणं मुमोचातिबलः प्रभुः। चकार च पुनर्वीरस्तस्मिन् सरसि तद्धनुः॥ ततः प्रीतं भवं ज्ञात्वा स्मृतिमानर्जुनस्तदा। वरमारण्यके दत्तं दर्शनं शङ्करस्य च॥ मनसा चिन्तयामास तन्मे सम्पद्यतामिति। तस्य तन्मतमाज्ञाय प्रीतः प्रादाद् वरं भवः॥ तच्च पाशुपतं घोरं प्रतिज्ञायाश्च पारणम्। ततः पाशुपतं दिव्यमवाप्य पुनरीश्वरात्॥ संहष्टरोमा दुर्धर्षः कृतं कार्यममन्यत। ववन्दतुश्च संहृष्टौ शिरोभ्यां तं महेश्वरम्॥ अनुज्ञातौ क्षणे तस्मिन् भवेनार्जुनकेशवौ। प्रापतौ स्वशिविरं वीरौ मुदा परमया युतौ॥ तथा भवेनानुमतौ महासुरनिघातिना। इन्द्राविष्णू यथा प्रीतौजम्भस्य वधकाक्षिणौ॥ संजय उवाच तथा तु वदतां तेषां प्रादुरासीद् धनंजयः। दिक्षुर्भरतश्रेष्ठं राजानं ससुहृद्गणम्॥ तं निविष्टं शुभां कक्ष्यामभिवन्द्याग्रतः स्थितम्। तमुत्थायार्जुनं प्रेम्णा सस्वजे पाण्डवर्षभः॥ मूनि चैनमुपाघ्राय परिष्वज्य च बाहुना। आशिषः परमाः प्रोच्य स्मयमानोऽभ्यभाषत॥ व्यक्तमर्जुन संग्रामे ध्रुवस्ते विजयो महान्। याग्रूपा च ते च्छाया प्रसन्नश्च जनार्दनः॥ तमब्रवीत् ततो जिष्णुर्महदाश्चर्यमुत्तमम्। दृष्टवानस्मि भद्रं ते केशवस्य प्रसादजम्॥ ततस्तत् कथयामास यथा दृष्टं धनंजयः। आश्वासनार्थं सुहृदां त्र्यम्बकेण समागमम्॥ ततः शिरोभिरवर्नि स्पृष्टवा सर्वे च विस्मिताः। नमस्कृत्य वृषाङ्काय साधु साध्वित्यथाब्रुवन्॥ अनुज्ञातास्ततः सर्वे सुहृदो धर्मसूनुना। त्वरमाणा: सुसंनद्धा हृष्टा युद्धाय निर्ययुः॥ अभिवाद्य तु राजानं युयुधानाच्युतार्जुनाः। हृष्टा विनिर्ययुस्ते वै युधिष्ठिरनिवेशनात्॥ रथेनैकेन दुर्धर्षों युयुधानजनार्दनौ। जग्मतुः सहितौ वीरावर्जुनस्य निवेशनम्॥ तत्र गत्वा हृषीकेशः कल्पयामास सूतवत्। रथं रथवरस्याजौ वानरर्षभलक्षणम्॥ स मेघसमनिर्घोषस्तप्तकाञ्चनसप्रभः। बभौ रथवदः क्लृप्तः शिशुर्दिवसकृद् यथा॥ ततः पुरुषशार्दूलः सज्जं सज्जपुरःसरः। कृताह्निकाय पार्थाय न्यवेदत तं रथम्॥ तं तु लोकवरः पुंसा किरीटी हेमवर्मभृत्। चापबाणधरो वाहं प्रदक्षिणमवर्तत॥ तपोविद्यावयोवृद्धैः क्रियावद्भिर्जितेन्द्रियैः। स्तूयमानो जयाशीर्भिरारुरोह महारथम्॥ जैत्रैः सांग्रामिकैर्मन्त्रैः पूर्वमेव रथोत्तमम्। अभिमन्त्रितमर्चिष्मानुदयं भास्करो यथा॥ स रथे रथिनां श्रेष्ठः काञ्चने काञ्चनावृतः। विबभौ विमलोऽर्चिष्मान् मेराविव दिवाकरः॥ अन्वारुरुहतुः पार्थे युयुधानजनार्दनौ। शर्यातेर्यज्ञमायान्तं यथेन्द्र देवमश्विनौ॥ अथ जग्राह गोविन्दो रश्मीन् रश्मिविदां वरः। मातलिसिवस्येव वृत्रं हन्तुं प्रयास्यतः॥ स ताभ्यां सहितः पार्थो रथप्रवरमास्थितः। सहितोबुधशुक्राभ्यां तमोनिघ्नन् यथा शशी॥ सैन्धवस्य वधं प्रेप्सुः प्रयातः शत्रुपूगहा। सहाम्बुपतिमित्राभ्यां यथेन्द्रस्तारकामये॥ ततो वादित्रनिर्घोषैर्माङ्गल्यैश्च स्तवैः शुभैः। प्रायान्तमर्जुनं वीरं मागधाश्चैव तुष्टुवुः॥ सजयाशीः सपुण्याहः सूतमागधनिःस्वनः। युक्तो वादित्रघोषेण तेषां रतिकरोऽभवत्॥ तमनुप्रयतो वायुः पुण्यगन्धवहः शुभः। ववौ संहर्षयन् पार्थं द्विषतश्चापि शोषयन्॥ ततस्तस्मिन् क्षणे राजन् विविधानि शुभानि च। प्रादुरासन् निमित्तानि विजयाय बहूनि च। पाण्डवानां त्वदीयानां विपरीतानि मारिष॥ दृष्ट्वार्जुनो निमित्तानि विजयाय प्रदक्षिणम्। युयुधानं महेष्वासमिदं वचनमब्रवीत्॥ युयुधानाद्य युद्ध मे दृश्यते विजयो ध्रुवः। यथा होमानि लिङ्गानि दृश्यन्ते शिनिपुङ्गव॥ सोऽहं तत्र गमिष्यामि यत्र सैन्धवको नृपः। यियासुर्यमलोकाय मम वीर्यं प्रतीक्षते॥ यथा परमकं कृत्यं सैन्धवस्य वधो मम। तथैव सुमहत् कृत्यं धर्मराजस्य रक्षणम्॥ स त्वमद्य महाबाहो राजानां परिपालय। यथैव हि मया गुप्तस्त्वया गुप्तो भवेत् तथा॥ न पश्यामि च तं लोके यस्त्वां युद्धे पराजयेत्। वासुदेवसमं युद्धे स्वयमप्यमरेश्वरः॥ त्वयि चाहं पराश्वस्तः प्रद्युम्ने वा महारथे। शक्नुयां सैन्धवं हन्तुमनपेक्षो नरर्षभ॥ मय्यपेक्षा न कर्तव्या कथंचिदपि सात्वत। राजन्येव परा गुप्तिः कार्या सर्वात्माना त्वा॥ न हि यत्र महाबाहुर्वासुदेवो व्यवस्थितः। किंचिद् व्यापद्यते तत्र यत्राहमपि च ध्रुवम्॥ एवमुक्तस्तु पार्थेन सात्यकिः परवीरहा। तथेत्युक्त्वागमत् तत्र यत्र राजा युधिष्ठिरः॥ धृतराष्ट्र उवाच श्वोभूते किमकार्पुस्ते दुःखशोकसमन्विताः। अभिमन्यौ हते तत्र के वायुध्यन्त मामकाः॥ जानन्तस्तस्य कर्माणि कुरुः सव्यसाचिनः। कथं तत् किल्बिषं कृत्वा निर्भया ब्रूहि मामकाः॥ पुत्रशोकाभिसंतप्तं क्रुद्धं मृत्युमिवान्तकम्। आयान्तं पुरुषव्याघ्रं कथं ददृशुराहवे॥ कपिराजध्वजं संख्ये विधुन्वानं महद् धनुः। दृष्टवा पुत्रपरिघुनं किमकुर्वत मामकाः॥ किं नु संजय संग्रामे वृत्तं दुर्योधनं प्रति। परिदेवो महानद्य श्रुतो मे नाभिनन्दनम्॥ वभूवुर्ये मनोग्राह्याः शब्दाः श्रुतिसुखावहाः। न श्रूयन्तेऽद्य सर्वे ते सैन्धवस्य निवेशने॥ स्तुवतां नाद्य श्रूयन्ते पुत्राणां शिबिरे मम। सूतमागधसंघानां नर्तकानां च सर्वशः॥ शब्देन नादिताभीक्ष्णमभवद् यत्र मे श्रुतिः। दीनानामद्य तं शब्दं न शृणोमि समीरितम्॥ निवेशने सत्यधृतेः सोमदत्तस्य संजय। आसीनोऽहं पुरा तात शब्दमश्रौषमुत्तमम्॥ तदद्य पुण्यहीनोऽहमार्तस्वरनिनादितम्। निवेशनं गतोत्साहं पुत्राणां मम लक्षये॥ विविंशतेर्तुर्मुखस्य चित्रसेनविकर्णयोः। अन्येषां च सुतानां मे न तथा श्रूयते ध्वनिः॥ ब्राह्मणाः क्षत्रिया वैश्या यं शिष्याः पर्युपासते। द्रोणपुत्रं महेष्वासं पुत्राणां मे परायणम्॥ वितण्डालापसंलापैर्दुतवादित्रवादितैः। गीतैश्च विविधैरिष्टै रमते यो दिवानिशम्॥ उपास्यमानो बहुभिः कुरुपाण्डवसात्वतैः। सूत तस्य गृहे शब्दो नाद्य द्रौणेर्यथा पुरा॥ द्रोणपुत्रं महेष्वासं गायना नर्तकाश्च ये। अत्यर्थमुपतिष्ठन्ति तेषां न श्रूयते ध्वनिः॥ विन्दानुविन्दयोः सायं शिबिरे योमहाध्वनिः॥ श्रूयते सोऽद्य न तथा केकयानां च वेश्मसु। नित्यं प्रमुदितानां च तालगीतस्वनो महान्॥ नूत्यतां श्रूयते तात गणानां सोऽद्य न स्वनः। सप्त तन्तून् वितन्वाना याजका यमुपासते॥ सौमदत्तिं श्रुतनिधि तेषां न श्रूयते ध्वनिः। ज्याघोषो ब्रह्मघोषश्च तोमरासिरथध्वनिः॥ द्रोणस्यासीदविरतो गृहे तं न शृणोम्यहम्। नानादेशसमुत्थानां गीतानां योऽभवत् स्वनः॥ वादिननादितानां च सोऽद्य न श्रूयते महान्। यदा प्रभृत्युप्लव्याच्छानितमिच्छञ्जनार्दनः॥ आगतः सर्वभूतानामनुकम्पार्थमच्युतः। ततोऽहमब्रुवं सूत मन्दं दुर्योधनं तदा॥ वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः। कालप्राप्तमहं मन्ये मा त्वं दुर्योधनातिगाः॥ शमं चेद् याचमानं त्वं प्रत्याख्यास्यसि केशवम्। हिमार्थमभिजल्पन्तं न तवास्ति रणे जयः॥ प्रत्याचष्ट स दाशार्हमृषभं सर्वधन्विनाम्। अनुनेयानि जल्पन्तमनयान्नान्वपद्यत॥ ततो दुःशासनस्यैव कर्णस्य च मतं द्वयोः। अन्ववर्तत मां हित्वा कृष्टः कालेन दुर्मतिः॥ न ह्यहं द्यूतमिच्छामि विदुरो न प्रशंसति। सैन्धवो नेच्छति द्यूतं भीष्मो न द्यूतमिच्छति॥ शल्यो भूरिश्रवाश्चैव पुरुमित्रो जयस्तथा। अश्वत्थामा कृपो द्रोणो द्यूतं नेच्छन्ति संजय!॥ एतेषां मतमादाय यदि वर्तेत पुत्रकः। सज्ञातिमित्रः ससुच्चिरं जीवेदनामयः॥ श्लक्ष्णा मधुरसम्भाषा ज्ञातिबन्धुप्रियंवदाः। कुलीनाः सम्मताः प्राज्ञाः सुखं प्राप्स्यन्ति पाण्डवाः॥ धर्मापेक्षी नरो नित्यं सर्वत्र लभते सुखम्। प्रेत्यभावे च कल्याणं प्रसादं प्रतिपद्यते॥ अर्हास्ते पृथिवीं भोक्तुं समर्थाः साधनेऽपि च। तेषामपि समुद्रान्ता पितृपैतामही मही॥ नियुज्यमानाः स्थास्यन्ति पाण्डवा धर्मवर्मनि। सन्ति मे ज्ञातयस्तात येषां श्रोष्यन्ति पाण्डवाः॥ शल्यस्य सोमदत्तस्य भीष्मस्य च महात्मनः। द्रोणस्याथ विकर्णस्य बाह्रीकस्य कृपस्य च॥ अन्येषां चैव वृद्धानां भरतानां महात्मनाम्। त्वदर्थं ब्रुवतां तात करिष्यन्ति वचो हि ते॥ कं वा त्वं मन्यसे तेषां यस्तान् ब्रूयादतोऽन्यथा। कृष्णो न धर्म संजह्यात् सर्वे ते हि तदन्वयाः॥ पयापि चोक्तास्ते वीरा वचनं धर्मसंहितम्। नान्यथा प्रकरिष्यन्ति धर्मात्मानो हि पाण्डवाः॥ इत्यहं विलपन् सूत बहुशः पुत्रमुक्तवान्। न च मे श्रुतवान् मूढो मन्ये कालस्य पर्ययम्॥ वृकोदरार्जुनौ यत्र वृष्णिवीरश्च सात्यकिः। उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः॥ धृष्टद्युम्नश्च दुर्धर्षः शिखण्डी चापराजितः। अश्मकाः केकयाश्चैव क्षत्रधर्मा च सौमकिः॥ चैद्यश्च चेकितानश्च पुत्रः काश्यस्य चाभिभूः। द्रौपदेया विराटश्च दुपदश्च महारथः॥ यमो च पुरुषव्याघ्रौ मन्त्री च मधुसूदनः। क एताजातु युध्येत लोकेऽस्मिन् वै जिजीविषुः॥४२ दिव्यमस्त्रं विकुर्वाणान् प्रसहेद् वा परान् मम। अन्योदुर्योधनात् कर्णाच्छकुनेश्चापि सौबलात्॥ दुःशासनचतुर्थानां नान्यं पश्यामि पञ्चमम्। येषामभीषुहस्तः स्याद् विष्वक्सेनो रथे स्थितः॥ संनद्धश्चार्जुनो योद्धा तेषां नास्ति पराजयः। तेषामथ विलापानां नायं दुर्योधनः स्मरेत्॥ हतौ हि पुरुषव्याघ्रौ भीष्मद्रोणौ त्वमात्य वै। तेषां विदुरवाक्यानां मुक्तानां दीर्घदर्शनात्॥ दृष्ट्वेमां फलनिर्वृत्तिं मन्ये शोचन्ति पुत्रकाः। सेनां दृष्ट्वाभिभूतां मे शैनेयेनार्जुनेन च॥ शून्यान् दृष्ट्वा रथोपस्थान् मन्ये शोचन्ति पुत्रकाः। हिमात्यये यथा कक्षं शुष्कं दातेरितो महान्॥ अग्निहेत् तथा सेनां मामिकां स धनंजयः। आचक्ष्व मम तत् सर्वे कुशलो ह्यसि संजयः॥ यदुपायात सायाह्ने कृत्वा पार्थस्य किल्बषम्। अभिमन्यौ हते तात कथमासीन्मनो हि वः॥ न जातु तस्य कर्माणि युधि गाण्डीवधन्वनः। अपकृत्यमहत् तात सोढुं शक्ष्यन्ति मामकाः॥ किन्नु दुर्योधनः कृत्यं कर्णः कृत्यं किमब्रवीत्। दुःशासनः सौबलश्च तेषामेवं गतेष्वपि॥ सर्वेषां समवेतानां पुत्राणां मम संजय। यद् वृत्तं तात संग्रामे मन्दस्यापनयैर्भृशम्॥ लोभानुगस्य दुर्बुद्धेः क्रोधेन विकृतात्मनः। राज्यकामस्य मूढस्य रागोपहतचेतसः। दुर्नीतं वा सुनीतं वा तन्ममाचक्ष्व संजय॥ संजय उवाच हन्त ते सम्प्रवक्ष्यामि सर्वे प्रत्यक्षदर्शिवान्। शुश्रूषस्व स्थिरो भूत्वा तव ह्यपनयो महान्॥ गतोदके सेतुबन्धो याक् तागयं तव। विलापो निष्फलो राजन् मा शुचो भरतर्षभ॥ अनतिक्रमणीयोऽयं कृतान्तस्याद्भुतो विधिः। मा शुचो भरतश्रेष्ठ दिष्टमेतत् पुरातनम्॥ यदि त्वं हि पुरा द्यूतात् कुन्तीपुत्रं युधिष्ठिरम्। निवर्तयेथाः पुत्रांश्च न त्वां व्यसनमाव्रजेत्॥ युद्धकाले पुनः प्राप्ते तदैव भवता यदि। निवर्तिताः स्युः संरब्धा न त्वां व्यसनमाव्रजेत्॥ दुर्योधनं चाविधेयं बनीतेति कुरूनचोदयिष्यस्त्वं न त्वां व्यसनमाव्रजेत्॥ पुरा यदि। तत् ते बुद्धिव्यभीचारमुपलप्स्यन्ति पाण्डवाः। पञ्चाला वृष्णयः सर्वे ये चान्येऽपि नराधिपाः॥ स कृत्वा पितृकर्म त्वं पुत्रं संस्थाप्य सत्पथे। वर्तेथा यदि धर्मेण न त्वां व्यसनमाव्रजेत्॥ त्वं तु प्राज्ञतमो लोके हित्वा धर्मे सनातनम्। दुर्योधनस्य कर्णस्य शकुनेश्चान्वागा मतम्॥ तत् तं विलपितं सर्वं मया राजन् निशामितम्। अर्थे निविशमानस्य विषमिश्रं यथा मधु॥ नामन्यत तदा कृष्णो राजानं पाण्डवं पुरा। न भीष्मं नैव च द्रोणं यथा त्वां मन्यतेऽच्युतः॥ अजानात् स यदा तु त्वां राजधर्मादधश्च्युतम्। तदाप्रभृति कृष्णस्त्वां न तथा बहु मन्यते॥ परुषाण्युच्यमानांश्च यथा पार्थानुपेक्षसे। तस्यानुबन्धः प्राप्तस्त्वां पुत्राणां राज्यकामुक॥ पितृपैतामहं राज्यमपवृत्तं तदानघ। अथ पार्जितां कृत्स्नां पृथिवीं प्रत्यपद्यथाः॥ पाण्डुना निर्जितं राज्यं कौरवाणां यशस्तथा। ततश्चाप्यधिक भूयः पाण्डवैर्धर्मचारिभिः॥१५॥ तेषां तत् तादृशं कर्म त्वामासाद्य सुनिष्फलम्। यत् पित्र्याद् भ्रंशिता राज्यात् त्वयेहामिषगृद्धिना॥ यत् पुनयुद्धकाले त्वं पुत्रान् गर्हयसे नृप। बहुधा व्याहरन् दोषान् न तदद्योपपद्यते॥ न हि रक्षन्ति राजानो युध्यन्तो जीवितं रणे। चमू विगाह्य पार्थानां युध्यन्ते क्षत्रियर्षभाः॥ यांतु कृष्णार्जुनौ सेनां यां सात्यकिवृकोदरौ। रक्षेरन् को नु तां युध्येच्चमूमन्यत्र कौरवैः॥ येषां योद्धा गुडाकेशो येषां मन्त्री जनार्दनः। येषां च सात्यकिर्योद्धा येषां योद्धा वृकोदरः॥ को हि तान् विषहेद् योद्धं मर्त्यधर्मा धनुर्धरः। अन्यत्र कौरवेयेभ्यो ये वा तेषां पदानुगाः॥ यावत् तु शक्यते कर्तुमन्तरज्ञैर्जनाधिपः। क्षत्रधर्मरतैः शूरैस्तावत् कुर्वन्ति कौरवाः॥ यथा तु पुरुषव्या युद्ध परमसंकटम्। कुरूणां पाण्डवैः सार्धं तत् सर्वं शृणु तत्त्वतः॥ संजय उवाच तस्यां निशायां व्युष्टायं द्रोणः शस्त्रभृतां वरः। स्वान्यनीकानि सर्वाणि प्राक्रामद् व्यूहितुं ततः॥ शूरूणां गर्जतां राजन् संक्रुद्धानाममर्षिणाम्। श्रूयन्ते स्म गिरश्चित्राः परस्परवधैषिणाम्॥ विस्कार्य च धनूंष्यन्ये ज्याः परे परिमृज्य च। विनिःश्वसन्तः प्राक्रोशन् क्वेदानीं सधनंजयः॥ विकोशान् सुत्सरूनन्ये कृतधारान् समाहितान्। पीतानाकाशसंकाशानसीन् केचिच्च चिक्षिपुः॥ चरन्तस्त्वसिमाश्चि शिक्षया। संग्राममनसः शूरा दृश्यन्ते सम सहस्रशः॥ सघण्टाश्चन्दनादिग्धाः स्वर्णवज्रविभूषिताः। समुत्क्षिप्य गदाश्चान्ये पर्यपृच्छन्त पाण्डवम्॥ अन्ये बलमदोन्मत्ताः परिधैर्बाहुशालिनः। चक्रुः सम्बाधमाकाशमुच्छ्रितेन्द्रध्वजोपमैः॥ नानाप्रहरणैश्चान्ये विचित्रस्रगलकृताः। संग्राममनसः शूरास्तत्र तत्र व्यवस्थिताः॥ क्वार्जुनः क्व सगोविन्दः क्व च मानी वृकोदरः। क्व च ते सुहृदस्तेशामाह्वयन्ते रणे तदा॥ ततः शङ्खमुपाध्याय त्वरयन् वाजिनः स्वयम्। इतस्ततस्तान् रचयन् द्रोणश्चरति वेगितः॥ तेष्वनीकेषु सर्वेषु स्थितेष्वाहवनन्दिषु। भरद्वाजो महाराज जयद्रथमथाब्रवीत्॥ त्वं चैव सौमदत्तिश्च कर्णश्चैव महारथः। अश्वत्थामा च शल्यश्च वृषसेनः कृपस्तथा॥ शतं चाश्वसहस्राणां रथानामयुतानि षट्। द्विरदानां प्रभिन्नानां सहस्राणि चतुर्दश॥ पदातीनां सहस्राणि दंशितान्येकविंशतिः। गव्यूतिषु त्रिमात्रासु मामनासाद्य तिष्ठत॥ तत्रस्थं तवां न संसोढुं शक्ता देवाः सवासवाः। किं पुनः पाण्डवाः सर्वे सामश्वसिहि सैन्धव॥ एवमुक्तः समाश्वस्त: सिन्धुराजो जयद्रथः। सम्प्रायात् सह गान्धारैर्वृतस्तैश्च महारथैः॥ वर्मिभिः सादिभिर्यत्तैः प्रासपाणिभिरास्थितैः। चामरापीडिनः सर्वे जाम्बूनदविभूषिताः॥ जयद्रथस्य राजेन्द्र हयाः साधुप्रवाहिनः। ते चैक सप्तसाहस्रास्त्रिसाहस्राश्च सैन्धवाः॥ मत्तानां सुविरूढानां हस्त्यारोहैर्विशारदैः। नागानां भीमरूपाणां वर्मिणां रौद्रकर्मिणाम्॥ अध्यर्धेन सहस्रेण पुत्रो दुर्मर्षणस्तव। अग्रतः सर्वसैन्यानां युध्यमानां युध्यमानो व्यवस्थितः।। ततो दुःशासनश्चैव विकर्णश्च तवात्मजौ। सिन्धुराजार्थसिद्ध्यर्थमग्रानीके व्यवस्थितौ॥ दी? द्वादश गव्यूतिः पश्चाः पञ्च विस्तृतः। व्यूहस्तु चक्रशकटो भारद्वाजेन निर्मितः॥ नानानृपतिभिर्वीरैस्तत्र तत्र व्यवस्थितैः। स्थाश्वगजपत्त्योधैर्दोणेन विहितः स्वयम्॥ पश्चार्धे तस्य पद्मस्तु गर्भव्यूहः सुदुर्भिदः। सूची पद्मस्य गर्भस्थो गूढो व्यूहः कृतः पुनः॥ एवमेतं महाव्यूहं व्यूह्य द्रोणो व्यवस्थितः। सूचीमुखे महेष्वासः कृतवर्मा व्यवस्थितः॥ अनन्तरं च काम्बोजो जलसंधश्च मारिष। दुर्योधनश्च कर्णश्च तदनन्तरमेव॥ ततः शतसहस्राणि योधानामनिवर्तिनाम्। व्यवस्थितानि सर्वाणि शकटे मुखरक्षिणाम्॥ तेषां च पृष्ठतो राजा बलेन महता वृतः। जयद्रथस्ततो राजा सूचीपार्वे व्यवस्थितः॥ शकटस्य तु राजेन्द्र भारद्वाजो मुखे स्थितः। अनु तस्याभवद् भोजो जुगोपैनं ततः स्वयम्॥ श्वेतवर्माम्बरोष्णीषो व्यूढोरस्को महाभुजः। धनुर्विस्फारयन् द्रोणस्तस्थौ क्रुद्ध इवान्तकः॥ पताकिनं शोणहयं वेदिकृष्णाजिनध्वजम्। द्रोणस्य रथमालोक्य प्रहृष्टाः कुरवोऽभवन्॥ सिद्धचारणसंघानां विस्मयः सुमहानभूत्। द्रोणेन विहितं दृष्ट्वा व्यूहं क्षुब्धार्णवोपमम्॥ सशैलसागरवनां नानाजनपदाकुलाम्। ग्रसेद् व्यूहः क्षितिं सर्वामिति भूतानि मेनिरे॥ बहुरथमनुजाश्वपत्तिनागं प्रतिभयनिः स्वनमद्भुतानुरूपम्। अतिहहृदयभेदनं महद् वै शकटमवेक्ष्यकृतं ननन्द राजा॥ अर्जुन उवाच चोदयाश्वान् हृषीकेश यत्र दुर्मर्षणः स्थितः। एतद् भित्त्वा गजानीकं प्रवेक्ष्याम्यरिवाहिनीम्॥ संजय उवाच एवमुक्तो महाबाहुः केशवः सव्यसाचिना। अचोदयद्धयांस्तत्र यत्र दुर्मर्षणः स्थितः॥ स समप्रहारस्तुमुलः सम्प्रवृत्तः सुदारुणः। एकस्य च बहूनां च रथनागनरक्षयः॥ ततः सायकवर्षेण पर्जन्य इव वृष्टिमान्। परानवाकिरत् पार्थः पर्वतानिव नीरदः॥ ते चापि रथिनः सर्वे त्वरिताः कृतहस्तवत्। अवाकिरन् बाणजालैस्तत्र कृष्णधनंजयौ॥ ततः क्रुद्धो महाबाहुर्वार्यमाणः परैयुधि। शिरांसि रथिनां पार्थः कायेभ्योऽपाहरच्छरैः। :॥ उद्भान्तनयनैर्वक्त्रैः संदष्टौष्ठपुटैः शुभैः। सकुण्डलशिरस्त्राणैर्वसुधा समकीर्यत॥ पुण्डरीकवनानीव विध्यस्तानि समन्ततः। विनिकर्णानि योधानां वदनानि चकाशिरे॥ तपनीयतनुत्राणाः संसिक्ता रुधिरेण च। संसक्ता इव दृश्यन्ते मेघसंघाः सविद्युतः॥ शिरसां पततां राजशब्दोऽभूद् वसुधातले। कालेन परिपक्वानां तालानां पततामिव॥ ततः कबन्धं किंचित् तु धनुरालम्ब्य तिष्ठति। किंचित् खङ्गं विनिष्कृष्य भुजेनोद्यम्य तिष्ठति॥ पतितानि न जानन्ति शिरांसि पुरुषर्षभाः। अमृष्यमाणाः संग्रामे कौन्तेयं जयगृद्धिनः॥ हयानामुत्तमाङ्गैश्च हस्तिहस्तैश्च मेदिनी। बाहुभिश्च शिरोभिश्च वीराणां समकीर्यत॥ अयं पार्थः कुत पार्थ एष पार्थ इति प्रभो। तव सैन्येषु योधानां पार्थभूतमिवाभवत्॥ अन्योन्यमपि चाजघ्नुरात्मानमपि चापरे। पार्थभूतममन्यन्त जगत कालेन मोहिताः॥ निष्टनन्तः सरुधिरा विसंज्ञा गाढवेदनाः। शयाना बहयो वीराः कीर्तयन्तः स्वबान्धवान्॥ सभिन्दिपालाः सप्रासा: सशक्त्यृष्टिपरश्वधाः। सनियूहाः सनिस्त्रिंशाः सशरासनतोमराः॥ सबाणवर्माभरणाः सगदाः साङ्गदा रणे। महाभुजगसंकाशा बाहवः परिघोपमाः॥ उद्वेष्टन्ति विचेष्टन्ति संचेष्टन्ति च सर्वशः। वेगं कुर्वन्ति संरब्धा निकृत्ताः परमेषुभिः॥ यो यः स्म समरे पार्थे प्रतिसंचरते नरः। तस्य तस्यान्तको बाणः शरीरमुपसर्पति॥ नृत्यतो रथमार्गेषु धनुर्व्यायच्छतस्तथा। न कश्चित् तत्र पार्थस्य ददृशोऽन्तरमण्वपि॥ यत्तस्य घटमानस्य क्षिप्रं विक्षिपतः शरान्। लाघवात् पाण्डुपुत्रस्य व्यस्मयन्त परे जनाः॥ हस्तिनं हस्तियन्तारमश्वमाश्विकमेव च। अभिनत् फाल्गुनो बाणै रथिनं च ससारथिम्॥ आवर्तमानमावृत्तं युध्यमानं च पाण्डवः। प्रमुखे तिष्ठमानं च न किंचिन्न निहन्ति सः॥ यथोदयन् वै गगने सूर्यो हन्ति महत् ममः। तथार्जुनो गजानीकमवधीत् कङ्कपत्रिभिः॥ हस्तिभिः पतितैर्भिन्नैस्तव सैन्यमदृश्यत। अन्तकाले यथा भूमिळवकीर्णा महीधरैः॥ यथा मध्यन्दिने सूर्यो दुष्प्रेक्ष्यः प्राणिभिः सदा। तथा धनंजयः क्रुद्धो दुष्प्रेक्ष्यो युधि शत्रुभिः॥ तत् तथा तव पुत्रस्य सैन्यं युधि परंतप। प्रभग्नं द्रुतमाविग्नमतीव शरपीडितम्॥ मारुतेनेव महता मेघानीकं व्यदीर्यत। प्रकाल्यमानं तत् सैन्यं नाशकत् प्रतिवीक्षितुम्॥ प्रतोदैश्चापकोटीभिर्हङ्कारैः साधुवाहितैः। कशापाय॑भिघातैश्च वाग्भिरुग्राभिरेव च॥ चोदयन्तो हयांस्तूर्णे पलायन्ते स्म तावकाः। सादिनो रथिनश्चैव पत्तयश्चार्जुनार्दिताः॥ पाष्णर्यंङ्गुष्टाङ्कुशे गं चादयन्तस्तथा परे। शरैः सम्मोहिताश्चान्ये तमेवाभिमुखा ययुः। तव योधा हतोत्साहा विभ्रान्तमनसस्तदा।॥ धृतराष्ट्र उवाच तस्मिन् प्रभग्ने सैन्याने वध्यमाने किरीटिना। के तु तत्र रणे वीराः प्रत्युदीयुर्धनंजयम्॥ आहोस्विच्छकटव्यूहं प्रविष्टा मोघनिश्चयाः। द्रोणमाश्रित्य तिष्ठन्तं प्राकारमकुतोभयम्॥ संजय उवाच तथार्जुनेन सम्भग्ने तस्मिंस्तव बलेऽनघ। हतवीरे हतोत्साहे पलायनकृतक्षणे॥ पाकशासनिनाभीक्ष्णं वध्यमाने शरोत्तमैः। न तत्र कश्चित् संग्रामे शशाकार्जुनमीक्षितुम्॥ ततस्तव सुतो राजन् दृष्ट्वा सैन्यं तथागतम्। दुःशासनो भृशं क्रुद्धो युद्धायार्जुनमभ्यगात्॥ स काञ्चनविचित्रेण कवचेन समावृतः। जाम्बूनदशिरस्त्राणः शूरस्तीव्रपराक्रमः॥ नागानीकेन महता ग्रसन्निव महीमिमाम्। दुःशासनो महाराज सव्यसाचिनमावृणोत्॥ ह्रादेन गजघण्टानां शङ्खानां निनदेन च। ज्याक्षेपनिनदैश्चैव विरावेण च दन्तिनाम्॥ भूर्दिशश्चान्तरिक्षं च शब्देनासीत् समावृतम्। स मुहूर्ते प्रतिभयो दारुणः समपद्यत॥ तान् दृष्ट्वा पततस्तूर्णमङ्कुशैरभिचोदितान्। व्यालम्बहस्तान् संरब्धान् सपक्षानिव पर्वतान्॥ सिंहनादेन महता नरसिंहो धनंजयः। गजानीकममित्राणामभीतो व्यधमच्छरैः॥ महोर्मिणमिवोद्भूतं श्वसनेन महार्णवम्। किरीटी तद् गजानीकं प्राविशन्मकरो यथा॥ काष्ठातीत इवादित्यः प्रतपन् स युगक्षये। ददृशे दिक्षु सर्वासु पार्थः परपुरंजयः॥ खुरशब्देन चाश्वानां नेमिघोषेण तेन च। तेन चोत्कृष्टशब्देन ज्यानिनादेन तेन च॥ नानावादिवशब्देन पाञ्चजन्यस्वनेन च। देवदत्तस्य घोषेण गाण्डीवनिनदेन च॥ मन्दवेगा नरा नागा बभूवुस्ते विचेतसः। शरैराशीविषस्पर्शनिर्भिन्नाः सव्यसाचिना॥ ते गजा विशिखैस्तीक्ष्णैर्युधि गाण्डीवचोदितैः। अनेकशतसाहस्रः सर्वाङ्गेषु समर्पिताः॥ आरावं परमं कृत्वा वध्यमानाः किरीटिना। निपेतुरनिशं भूमौ छिन्नपक्षा इवाद्रयः॥ अपरे दन्तवेष्टेषु कुम्भेषु च कटेषु च। शरैः समर्पिता नागाः क्रोञ्चवद् व्यन्दन् मुहुः॥ गजस्कन्धगतानां च पुरुषाणां किरीटिना। छिद्यन्ते चोत्तमाङ्गानि भल्लैः संनतपर्वभिः॥ सकुण्डलानां पततां शिरसां धरणीतले। पद्यानामिव संघातैः पार्थश्चके निवेदनम्॥ यन्त्रबद्धा विकवचा व्रणार्ता रुधिरोक्षिताः। भ्रमत्सु युधि नागेषु मनुष्या विललम्बिरे॥ केचिदेनकेन बाणेन सुयुक्तेन सुपत्रिणा। ह्रौ त्रयश्च विनिर्भिन्ना निपेतुर्धरणीतले॥ अतिविद्धाश्च नाराचैर्वमन्तो रुधिरं मुखैः। सारोहा न्यपतन् भूमौ दुमवन्त इवाचलाः॥ मौर्वी ध्वजं धनुश्चेव युगमीषां तथैव च। रथिनां कुट्टयामास भल्लैः संनतपर्वभिः॥ न संदधन् न चाकर्षन् न विमुञ्जन् न चोद्वहन्। मण्डलेनैव धनुषा नृत्यन् पार्थः स्म दृश्यते॥ अतिविद्धाश्च नाराचैर्वमन्तो रुधिरं मुखैः। मुहूर्तात्र्यपतन्नन्ये वारणा वसुधातले॥ उत्थितान्यगणेयानि कबन्धानि समन्ततः। अदृश्यन्त महाराज तस्मिन् परमसंकुले॥ सचापा: साङ्गुलित्राणा सखगाः साङ्गदा रणे। अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः॥ सूपस्करैरधिष्ठानैरीषादण्डकबन्धुरै :। चक्रैर्विमथितैरक्षैर्भग्नैश्च बहुधा युगे॥ चर्मचापधरैश्चैव व्यवकीर्णैस्ततस्ततः। स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः॥ निहतैर्वारणैरश्वैः क्षत्रियैश्च निपातितैः। अदृश्यत मही तत्र दारुणप्रतिदर्शना॥ एवं दुःशासनबलं वध्यमानं किरीटिना। सम्प्राद्रवन्महाराज व्यथितं सहनायकम्॥ ततो दुःशासनस्त्रस्तः सहानीकः शरार्दितः। द्रोणं त्रातारमाकाक्षशकटव्यूहमभ्यगात्॥ संजय उवाच संनिरुद्धस्तु तैः पार्थो महाबलपराक्रमः। द्रुतं समनुयातश्च द्रोणेन रथिनां वरः॥ किरनिषुगणांस्तीक्ष्णान् स रश्मीनिव भास्कर.। तापयामास तत् सैन्यं देहं व्याधिगणो यथा॥ अश्वो विद्धो रथश्छिन्नः सारोहः पातितो गजः। छत्राणि चापविद्धानि रथाश्चकैर्विना कृताः॥ विदूतानि च सैन्यानि शरार्तानि समन्ततः। इत्यासीत् तुमुलं युद्धं न प्रज्ञायत किञ्चन॥ तेषां संयच्छता संख्ये परस्परमजिह्मगैः। अर्जुनो ध्वजिनीं राजन्नभीक्ष्णं समकम्पयत्॥ सत्यां चिकीर्षमाणस्तु प्रतिज्ञां सत्यसंगरः। अभ्यद्रवचद् रथश्रेष्ठं शोणाश्वं श्वेतवाहनः॥ तं द्रोणः पञ्चविंशत्या मर्मभिद्भिरजिह्मगैः। अन्तेवासिनमाचार्यो महेष्वासं समार्पयत्॥ तु तूणमिव बीभत्सुः सर्वशस्त्रभृतां वरः। अभ्यधावदिघूनस्यनिषुवेगविघातकान्॥ तस्याशुक्षिप्तान् भल्लान् हि भल्लैः संनतपर्वभिः। प्रत्यविध्यदमेयात्मा ब्रह्मास्त्रं समुदीरयन्॥ तदद्भुतमपश्याम द्रोणस्याचार्यकं युधि। यतमानो युवा नैनं प्रत्यविध्यद् यदर्जुनः॥ क्षरन्निव महामेघो वारिधाराः सहस्रशः। द्रोणमेघः पार्थशैलं ववर्ष शरवृष्टिभिः॥ अर्जुनः शरवर्षे तद् ब्रह्मास्त्रेणैव मारिष। प्रतिजग्राह तेजस्वी बाणैर्वाणान् निशातयन्।॥ द्रोणस्तु पञ्चविंशत्या श्वेतवाहनमार्दयत्। वासुदेवं च सप्तत्या बाह्वोरुरसि चाशुगैः॥ पार्थस्तु प्रहसन् धीमानाचार्यं सशरौघिणम्। विसृजन्तं शितान् बाणानवारयत तं युधि॥ अथ तौ वध्यमानौ तु द्रोणेन रथसत्तमौ। आवर्जयेतां दुर्धर्षे युगान्ताग्निमिवोत्थितम्॥ वर्जयन् निशितान् बाणान् द्रोणचापिविनिः सृतान्। किरीटमाली कौन्तेयो भोजानीकं व्यशातयत्॥ सोऽन्तरा कृतवर्माणं काम्बोजं च सुदक्षिणम्। अभ्ययाद् वर्जयन् द्रोणं मैनाकमिव पर्वतम्॥ ततो भोजो नरव्याघ्रो दुर्धर्षं कुरुसत्तमम्। अविध्यत् तूर्णमव्यग्रो दशभिः कङ्कपत्रिभिः॥ तमर्जुनः शतेनाजौ राजन् विव्याध पत्रिणाम्। पुनश्चान्यैस्त्रिभिर्बाणैर्मोहयन्निव सात्वतम्॥ भोजस्तु प्रहसन् पार्थे वासुदेवं च माधवम्। एकैकं पञ्चविंशत्या सायकान समार्पयत्॥ तस्यार्जुनो धनुश्छित्त्वा विव्याधैनं त्रिसप्तभिः। शरैरग्निशिखाकारैः क्रुद्धाशीविषसंनिभैः॥ अथान्यद् धनुरादाय कृतवर्मा महारथः। पञ्चभिः सायकैस्तूर्णं विव्याधोरसि भारत॥ पुनश्च निशितैर्बाणैः पार्थे विव्याध पञ्चभिः। तं पार्थो नवभिर्बाणैराजघान स्तनान्तरे॥ दृष्ट्वा विषक्तं कौन्तेयं कृतवर्मरथं प्रति। चिन्तयामास वार्ष्णेयो न नः कालात्ययो भवेत्॥ ततः कृष्णोऽब्रवीत् पार्थे कृतवर्मणि मा दयाम्। कुरु सम्बन्धकं हित्वा प्रमध्यैनं विशातय॥ ततः स कृतवर्माणं मोहयित्वाऽर्जुनः शरैः। अभ्यगाज्जवनैरश्वैः काम्बोजानामानीकिनीम्॥ अमर्षितस्तु हार्दिक्यः प्रविष्टे श्वेतवाहने। विधुन्वन् सशरं चापं पाञ्चाल्याभ्यां समागतः॥ चक्ररक्षो तु पाञ्चाल्यावर्जुनस्य पदानुगौ। पर्यवारयदायान्तौ कृतवर्मा रथेषुभिः॥ तावविध्यत् ततो भोजः कृतवर्मा शितैः शरैः। त्रिभिरेव युधामन्युं चतुभिश्चोत्तमौजसम्॥ तावप्येनं विविधतुर्दशभिर्दशभिः शरैः। त्रिभरेव युधामन्युरुत्तमौजास्त्रिभिस्तथा॥ संचिच्छिदतुरप्यस्य ध्वज कार्मुकमेव च। अथान्यद् धनुरुदाय हार्दिक्य: क्रोधमूर्छितः॥ कृत्वा विधनुषौ वीरौ शरवर्शेरवाकिरत्। तावन्ये धनुषी सज्ये कृत्वा भोज विजघ्नतुः॥ तेनान्तरेण बीभत्सुविंवेशामित्रबाहिनीम्। न लेभाते तु तौ द्वारं वारितौ कृतवर्मणा॥ धार्तराष्ट्रेष्वनीकेषु यतमानौ नरर्षभौ। अनीकान्यर्दयन् युद्धे त्वरितः श्वेतवाहनः॥ नावधीत् कृतवर्माणं प्राप्तमष्यरिषूदनः। तं दृष्ट्वा तु तथा यान्तं शूरो राजा श्रुतायुधः॥ अभ्यद्रवत् सुसंक्रुद्धो विधुन्वानो महद् धनुः। स पार्थं त्रिभिरानर्छत् सप्तत्या च जनार्दनम्॥ क्षुप्रेण सुतीक्ष्णेन पार्थकेतुमताडयत्। ततोऽर्जुनो नवत्या तु शराणां तनपर्वणाम्॥ आजघान भृशं क्रुद्धस्तोत्रैरिव महाद्विपम्। स तन्न ममृषे राजन् पाण्डवेयस्य विक्रमम्॥ अधैनं सप्तसप्तत्या नाराचानां समार्पयत्। तस्यार्जुनो धनुश्छित्त्वा शरावापं निकृत्य च॥ आजधानोरसि क्रुद्धः सप्तभिर्नतपर्वभिः। अथान्यद् धनुरादाय स राजा क्रोधमूर्छितः॥ वासविं नवभिर्बाणैर्बाह्वोरुरसि चार्पयत्। ततोऽर्जुनः स्मयन्नेव श्रुतायुधमरिंदमः॥ शरैरनेकसाहौः पीडयामास भारत। अश्वांश्वास्यावधीत् तूर्णे सारथं च महारथः॥ विव्याध चैनं सप्तत्या नाराचानां महाबलः। हताश्वं रथमुत्सृज्य स तु राजा श्रुतायुधः॥ अभ्यद्रवद् रणे पार्थे गदामुद्यम्य वीर्यवान्। वरुणस्यात्मजो वीरः स तु राजा श्रुतायुधः॥ पर्णाशा जननी यस्य शीततोया महानदी। तस्य माताब्रवीद् राजन् वरुणं पुत्रकारणात्॥ अवध्योऽयं भवेल्लोके शत्रूणां तनयो मम। वरुणस्त्वब्रवीत् प्रीतो ददाम्यस्मै वरं हितम्॥ दिव्यमस्त्रं सुतस्तेऽयं येनावध्यो भविष्यति। नास्ति चाप्यमरत्वं वै मनुष्यस्य कथंचन॥ सर्वेणावश्यमर्तव्यं जातेन सरितां वरे। दुर्धर्षस्त्वेष शत्रूणां रणेषु भविता सदा॥ अस्त्रस्यास्य प्रभावाद् वै व्येतु ते मानसो ज्वरः। इतयुक्त्वा वरुणः प्रादाद् गदां मत्रपुरुकृताम्॥ यामासाद्य दुराधर्षः सर्वलोके श्रुतायुधः। उवाच चैनं भगवान् पुनरेव जलेश्वरः॥ अयुध्यति न मोक्तव्या सा त्वय्येव पतेदिति। हन्यादेशा प्रतीपं हि प्रयोक्तारमपि प्रभो॥ न चाकरोत् स तद्वाक्यं प्राप्ते काले श्रुतायुधः। स तया वीरघातिन्या जनार्दनमताडयत्॥ प्रतिजग्राह तां कृष्णाः पीनेनांसेन वीर्यवान्। नाकम्पयत शौरि सा विन्ध्यं गिरिमिवानिलः॥ प्रत्युद्यान्ती तमेवैषा कृत्येव दुरधिष्ठिता। जघान चास्थितं वीरं श्रुतायुधममर्षणम्॥ हत्वा श्रुतायुधं वीरं धरणीमन्वपद्यत। गदां निवर्तितां दृष्ट्वा निहतं च श्रुतायुधम्॥ हाहाकारो महांस्तत्र सैन्यानां समजायत। स्वेनास्त्रेण हतं दृष्ट्वा श्रुतायुधमरिंदमम्॥ अयुध्यमानाय ततः केशवाय नराधिप। क्षिप्ता श्रुतायुधेनाथ तस्मात् तमवधीदृ गदा॥ यथोक्तं वरुणेनाजौ तथा स निधनं गतः। व्यसुश्चाप्यपतद् भूमौ प्रेक्षतां सर्वधन्विनाम्॥ पतमानस्तु स बभौ पर्णाशायाः प्रियः सुतः। स भग्न इव वातेन बहुशाखो वनस्पतिः॥ ततः सर्वाणि सैन्यानि सेनामुख्याश्च सर्वशः। प्राद्रवन्त हतं दृष्ट्वा श्रुतायुधमरिंदमम्॥ ततः काम्बोजराजस्य पुत्रः शूरः सुदक्षिणः। अभ्ययाज्जवनैरश्वैः फाल्गुनं शत्रुसूदनम्॥ तस्य पार्थः शरान् सप्त प्रेषयामास भारत। ते तं शूरं विनिर्भिद्य प्राविशन् धरणीतलम्॥ सोऽतिविद्धः शरैस्तीक्ष्णैर्गाण्डीवप्रेषितैर्मधे। अर्जुनं प्रतिविव्याध दशभिः कङ्कपत्रिभिः॥ तस्य पार्थो धनुश्छित्त्वा केतुं चिच्छेद मारिष॥ वासुदेवं त्रिभिर्विद्धवा पुनः पार्थं च पञ्चभिः। भल्लाभ्यां भृशतीक्ष्णाभ्यां तं च विव्याध पाण्डवः। स तु पार्थं त्रिभिर्विद्ध्वा सिंहनादमथानदत्॥ सर्वपारशवीं चैव शक्तिं शूरः सुदक्षिणः। सघण्टां प्राहिणोद् घोरां क्रुद्धो गाण्डीवधन्वने॥ सा जवलन्ती महोल्केव तमासाद्य महारथम्। सविस्फुलिङ्गा निर्भिद्य निपपात महीतले॥ शक्त्या त्वभिहतो गाढं मूर्छयाभिपरिप्लुतः। समाश्वास्य महातेजाः सृक्किणी परिलेलिहन्॥ तं चतुर्दशभिः पार्थो नाराचैः कङ्कपत्रिभिः। साश्वध्वजधनुः सूतं विव्याधाचिन्त्यविक्रमः॥ रथं चान्यैः सुबहुभिश्चक्रे विशकलं शरैः। सुदक्षिणं तं काम्बोजं मोघसंकल्पविक्रमम्॥ बिभेद हदि बाणेन पृथुधारेण पाण्डवः। स भिन्नवर्मा स्रस्ताङ्ग प्रभ्रष्टमुकुटाङ्गदः॥ पपातभिमुखः शूरो यन्त्रमुक्त इव ध्वजः। गिरेः शिखरजः श्रीमान् सुशाखः सुप्रतिष्ठितः॥ निर्भग्न इव वातेन कर्णिकारो हिमात्यये। शेते स्म निहतो भूमौ काम्बोजास्तरणोचितः॥ महार्हाभरणोपेतः सानुमानिव पर्वतः। सुदर्शनीयस्ताम्राक्षः कर्णिना स सुदक्षिणः॥ पुत्रः काम्बोजराजस्य पार्थेन विनिपातितः। धारयन्नग्निसंकाशां शिरसा काञ्चनीं स्रजम्॥ अशोभत महाबाहुर्व्यसुर्भूमौ निपातितः ततः सर्वाणि सैन्यानि व्यद्रवन्त सुतस्य ते। हतं श्रुतायुधं दृष्ट्वा काम्बोजं च सुदक्षिणम्॥ संजय उवाच ततः प्रविष्टि कौन्तेये सिंधुराजजिधांसया।।। द्रोणनीकं विनिर्भिद्य भोजानीकं च दुस्तरम्॥ काम्बोजस्य च दायादे हते राजन् सुदक्षिणे। श्रुतायुधे च विक्रान्ते निहते सव्यसाचिना॥ विप्रद्रुतेष्वनीकेषु विध्वस्तेषु समन्ततः। प्रभग्नं स्वबलं दृष्ट्वा पुत्रस्ते द्रोणमभ्ययात्॥ त्वरन्नेकरथेनैव समेत्य द्रोणमब्रवीत्। गतः स पुरुषव्याघ्रः प्रमथ्यैतां महाचमूम्॥ अथबुद्ध्या समीक्षस्व किन्नु कार्यमनन्तरम्। अर्जुनस्य विघाताय दारुणेऽस्मिञ्जनक्षये॥ यथा स पुरुषव्याघ्रो न हन्येत जयद्रथः। तथा विधत्स्व भद्रं ते त्वं हि न: परमा गतिः॥ असौ धनंजयाग्निर्हि कोपमारुतचोदितः। सेनाकक्षं दहति मे वह्निः कक्षमिवोत्थितः॥ अतिक्रान्ते हि कौन्तेये भित्त्वा सैन्यं परंतप। जयद्रथस्य गोप्तारः संशयं परमं गताः॥ स्थिरा बुद्धिनरेन्द्राणामासीद् ब्रह्मविदां वर। नातिक्रमिष्यति द्रोणं जातु जीवं धनंजयः॥ योऽसौ पाथे व्यतिक्रान्तो मिषतस्ते महायुते। सर्वे ह्यद्यातुरं मन्ये नेदमस्ति बलं मम॥ जानामि त्वा महाभाग पाण्डवानां हिते रतम्। तथा मुह्यामि च ब्रह्मन् कार्यवत्तां विचिन्तयन्॥ यथाशक्ति च ते ब्रह्मन् वर्तये वृत्तिमुत्तमाम्। प्रीणामि च यथाशक्ति तच्च त्वं नावबुध्यसे॥ अस्मान्न त्वं सदा भक्तानिच्छस्यमितविक्रम। पाण्डवान् सततं प्रीडास्यस्माकं विप्रिये रतान्॥ अस्मानेवोपजीवंस्त्वमस्माकं विप्रिये रतः। न ह्ययं त्वां विजानामि मधुदिग्धमिव क्षुरं॥ नादास्यच्चेद् वरं मह्यं भवान् पाण्डवनिग्रहे। नाचारयिष्यं गच्छन्तमहं सिन्धुपतिं गृहान्॥ मया त्वाशंसमानेन त्वत्तस्त्राणमबुद्धिना। आश्वासितः सिन्धुपतिर्मोहाद् दत्तश्च मृत्यवे॥ यमदंष्ट्रान्तरं प्राप्तो मुच्येतापि हि मानवः। नार्जुनस्य वशं प्राप्तो मुच्येताजौ जयद्रथः॥ स तथा कुरुशोणाश्व यथा मुच्येत सैन्धवः। मम चार्तप्रलापानां मा कुधः पाहि सैन्धवम्॥ द्रोण उवाच नाभ्यसूयामि ते वाक्यमश्वत्थाम्नासि मे समः। सत्यं तु ते प्रवक्ष्यामि तज्जुषस्व विषाम्पते॥ सारथिः प्रवरः कृष्णः शीघ्राश्चास्य हयोत्तमाः। अल्पं च विवरं कृत्वा तूर्णं याति धनंजयः॥ किं न पश्यसि बाणौधान् क्रोशमाने किरीटिनः। पश्चाद् रथस्य पतितान् क्षिप्ताशीघ्रं हि गच्छत॥ न चाहं शीघ्रयानेऽद्य समर्थो वयसान्वितः। सेनामुर न च पार्थानामेतद् बलमुपस्थितम्॥ युधिष्ठिरश्च मे ग्राह्यो मिषतां सर्वधन्विनाम्। एवं मया प्रतिज्ञातं क्षत्रमध्ये महाभुज॥ धनंजयेन चोत्सृष्टो वर्तते प्रमुखे नृप। तस्माद् व्यूहमुखं हित्वा नाहं योत्स्यामि फाल्गुनम्।। तुल्याभिजनकर्माणं शत्रुनेकं सहायवान्। गत्वा योधय मा भैस्त्वं त्वं ह्यस्य जगतः पतिः॥ राजा शूरः कृती दक्षो वैरमुत्पाद्य पाण्डवैः। वीर स्वयं प्रयाह्यत्र यत्र पार्थो धनंजयः॥ दुर्योधन उवाच कथं त्वामप्यतिक्रान्तः सर्वशस्त्रभृतां वरम्। धनंजयो मया शक्य आचार्य प्रतिबाधितुम्॥ अपि शक्यो रणे जेतुं वज्रहस्तः पुरंदरः। नार्जुनः समरे शक्यो जेतुं परपुरंजयः॥ येन भोजश्य हार्दिक्यो भवांश्च त्रिदशोपमः। अस्त्रप्रतापेन जितौ श्रुतायुश्च निबर्हितः॥ सुदक्षिणश्च निहतः स च राजा श्रुतायुधः। श्रुतायुश्चाच्युतायुश्चम्लेच्छाश्चायुतशो हताः॥ तं कथं पाण्डवं युद्धे दहन्तमिव पावकम्। प्रतियोत्स्यामि दुर्धर्षे तमहं शस्त्रकोविदम्॥ क्षमं च मन्यसे युद्धं मम तेनाद्य संयुगे। परवानस्मि भवति प्रेष्यवद् रक्ष मद्यशः॥ द्रोण उवाच सत्यं वदसि कौरव्य दुराधर्षो धनंजयः। अहं तु तत् करिष्यामि यथैनं प्रसहिष्यसि॥ अद्भुतं चाद्य पश्यन्तु लोके सर्वधनुर्धराः। विषक्तं त्वयि कौन्तेयं वासुदेवस्य पश्यतः॥ एष ते कवचं राजंस्तथा बजामि काञ्चनम्। यथा न बाणा नास्त्राणि प्रहरिष्यन्ति ते रणे॥ यदि त्वां सासुरसुरा: सयक्षोरगराक्षसाः। योधयन्ति त्रयो लोकाः सनरा नास्ति ते भयम्॥ न कृष्णो न च कौन्तेयो न चान्यः शस्त्रभृद् रणे। शरानर्पयितुं कश्चित् कवचे तव शक्ष्यति॥ स त्वं कवचमास्थाय क्रुद्धपद्य रणेऽर्जुनम्। त्वरमाणः स्वयं यानि न त्वासौ विसहिष्यति॥ संजय उवाच एवमुक्त्वा त्वरन् द्रोणः स्पृष्ट्वाम्भो वर्म भास्वरम्। आबबन्धाद्भुततमं जपन् मन्त्रं यथाविधि॥ रणे तस्मिन् सुमहति विजयस्य सुतस्य ते। विसिस्मापयिषुर्लोकान् विद्यया ब्रह्मवित्तमः॥ द्रोण उवाच करोतु स्वस्ति ते ब्रह्म ब्रह्मा चापि द्विजातयः। सरीसृपाश्च ये श्रेष्ठास्तेभ्यस्ते स्वस्ति भारत॥ ययाति हुषश्चैव धुन्धुमारो भगीरथः। तुभ्यं राजर्षयः सर्वे स्वस्ति सकुर्वन्तु ते सदा॥ स्वस्ति तेऽस्त्वेकपादेभ्यो बहुपादेभ्य एव च। स्वस्तयस्त्वपादकेभ्यश्च नित्यं तव महारणे॥ स्वाहा स्वधा शची चैव स्वस्ति कुर्वन्तु ते सदा। लक्ष्मीररुन्धती चैव कुरुतां स्वस्ति तेऽनघ॥ असितो देवलश्चैव विश्वामित्रस्तथाङ्गिराः। वसिष्ठः कश्यपश्चैव स्वस्ति कुर्वन्तु ते नृप॥ धाता विधाता लोकेशो दिशश्च सदिगीश्वराः। स्वस्ति तेऽद्य प्रयच्छन्तु कार्तिकेयश्च षण्मुखः॥ विवस्वान् भगवान् स्वस्ति करोतु तव सर्वशः। दिग्गजाश्चैव चत्वारः क्षितिश्च गगनं ग्रहाः॥ अधस्ताद् धरणीं योऽसौ सदा धारयते नृप। शेषश्च पनगश्रेष्ठः स्वस्ति तुभ्यं प्रयच्छतु॥ गान्धारे युधि विक्रम्य निर्जिताः सुरसत्तमाः। पुरा वृत्रेण दैत्येन भिन्नदेहाः सहस्रशः॥ हातेजोबलाः सर्वे तदा सेन्द्रा दिवौकसः। ब्रह्माणं शरणं जग्मुर्वत्राद् भीता महासुरात्॥ देवा ऊचुः प्रमर्दितानां वृत्रेण देवानां देवसत्तम। गतिर्भव सुरश्रेष्ठ त्राहि नो महतो भयात्॥ अथ पार्श्वे स्थितं विष्णुं शक्रादींश्च सुरोत्तमान्। प्राह तथ्यमिदं वाक्यं विषण्णान् सुरसत्तमान्॥ रक्ष्या मे सततं देवाः सहेन्द्राः सद्विजातयः। त्वष्टः सुदुर्धरं तेजो येन वृत्रो विनिर्मितः॥ त्वष्ट्रा पुरा तपस्तप्त्वा वर्षायुतशतं तदा। वृत्रो विनिर्मितो देवाः प्राप्यानुज्ञां महेश्वरात्॥ स तस्यैव प्रसादाद् वो हन्यादेव रिपुर्बली। नागत्वा शंकरस्थानं भगवान् दृश्यते हरः॥ दृष्ट्वा जेष्यथ वृत्रं तं क्षिप्रं गच्छत मन्दरम्। यत्रास्ते तपसां योनिर्दक्षयज्ञविनाशनः॥ पिनाकी सर्वभूतेशो भगनेत्रनिपातनः। ते गत्वा सहिता देवा ब्राह्मणा सह मन्दरम्॥ अपश्यंस्तेजसां राशिं सूर्यकोटिसमप्रभम्। सोऽब्रवीत् स्वागतं देवा ब्रूत किं करवाण्यहम्॥ अमोघं दर्शनं मह्यं कामप्राप्तिरतोऽस्तु वः। एवमुक्तास्तु ते सर्वे प्रत्यूचुस्तं दिवौकसः॥ तेजो हृतं नो वृत्रेण गतिर्भव दिवौकसाम्। मूर्तीरीक्षस्व नो देव प्रहारैर्जर्जरीकृताः। शरणं त्वां प्रपन्ना स्म गतिर्भव महेश्वर॥ शर्व उवाच विदितं वो यथा देवाः कृत्येयं सुमहाबला। त्वष्टस्तेजोभवा घोरा दुर्निवार्याकृतात्मभिः॥ अवश्यं तु मया कार्यं साह्यं सर्वदिवौकसाम्। ममेदं गात्रजं शक्र कवचं गृह्य भास्वरम्॥ बधानानेन मन्त्रेण मानसेन सुरेश्वर। वधायासुरमुख्यस्य वृत्रस्य सुरघातिनः॥ द्रोण उवाच इत्युक्त्वा वरदः प्रादाद् वर्म तन्मन्त्रमेव च । स तेन वर्मणा गुप्तः प्रायाद् वृत्रचमूं प्रति॥ नानाविधैश्च शस्त्रौघैः पात्यमानैर्महारणे। न संधिः शक्यते भेत्तुं वर्मबन्धस्य तस्य तु॥ ततो जघान समरे वृत्रं देवपतिः स्वयम्। तं च मन्त्रमयं बन्धं वर्म चाङ्गिरसे ददौ॥ अङ्गिराः प्राह पुत्रस्य मन्त्रज्ञस्य बृहस्पतेः। बृहस्पतिरथोवाच अग्निवेश्याय धीमते॥ आग्निवेश्यो मम प्रादात् तेन बघ्नामि वर्म ते। तवाद्य देहरक्षार्थ मन्त्रेण नृपसत्तम॥ संजय उवाच एवमुक्त्वा ततो द्रोणस्तव पुत्रं महाद्युतिम्। पुनरेव वचः प्राह शनैराचार्यपुङ्गवः॥ ब्रह्मसूत्रेण बध्नामि कवचं तव भारत। हिरण्यगर्भेण यथा बद्धं विष्णोः पुरा रणे॥ यथा च ब्रह्मणा बद्धं संग्रामे तारकामये। शक्रस्य कवचं दिव्यं तथा बधाम्यहं तव।।७शा बद्ध्वा तु कवचं तस्य मन्त्रेण विधिपूर्वकम्। प्रेषयामास राजानं युद्धाय महते द्विजः॥ स संनद्धो महाबाहुराचार्येण महात्मना। रथानां च सहस्रेण त्रिगर्तानां प्रहारिणाम्॥ तथा दन्तिसहस्रेण मत्तानां वीर्यशालिनाम्। अश्वानां नियुतेनैव तथान्यैश्च महारथैः॥ वृतः प्रायान्महाबाहुरर्जुनस्य रथं प्रति। नानावादित्रघोषेण यथा वैराचनिस्तथा॥ ततः शब्दो महानासीत् सैन्यानां तव भारत। अगाधं प्रस्थितं दृष्ट्वा समुद्रमिव कौरवम्॥ संजय उवाच प्रविष्टयोर्महाराज पार्थवार्ष्णेययो रणे। दुर्योधने प्रयाते च पृष्ठतः पुरुषर्षभे॥ जवेनाभ्यद्रवद् द्रोणं महता नि:स्वनेन च। पाण्डवाः सोमकैः सार्धं ततो युद्धमवर्तत॥ तद् युद्धमभवत् तीव्र तुमुलं लोमहर्षणम्। कुरूणां पाण्डवानां च व्यूहस्य पुरतोऽद्भुतम्॥ राजन् कदाचिन्नास्माभिईष्टं तादृङ् न च श्रुतम्। यादृङ् मध्यगते सूर्ये युद्धमासीद् विशाम्पते॥ धृष्टाद्युम्नमुखाः पार्था व्यूढानीकाः प्रहारिणः। द्रोणस्य सैन्यं ते सर्वे शरवर्षैरवाकिरन्॥ वयं द्रोणं पुरस्कृत्य सर्वशस्त्रभृतां वरम्। पार्षतप्रमुखान् पार्थानभ्यवर्षाम सायकैः॥ महामेघाविवोदीर्णौ मिश्रवातौ हिमात्यये। सेनाग्रे प्रचकाशेते रुचिरे रथभूषिते॥ समेत्य तु महासेने चक्रतुर्वेगमुत्तमम्। जाह्नवीयमुने नद्यौ प्रावृषीवोल्बणोदके॥ नानाशस्त्रपुरोवातो द्विपाश्वरथसंवृतः। गदाविद्युन्महारौद्रः संग्रामजलदो महान्॥ भारद्वाजानिलोद्भूतः। शरधारासहस्रवान्। अभ्यवर्षन्महासैन्यः पाण्डुसेनाग्निमुद्धतम्॥ समुद्रमिव धर्मान्ते विशन् घोरो महानिलः। व्याक्षोभयदनीकानि पाण्डवानां द्विजोत्तमः॥ तेऽपि सर्वप्रयत्नेन द्रोणमेव समाद्रवन्। बिभित्सन्तो महासेतुं वार्योधाः प्रबला इव॥ वारयामास तान् द्रोणो जलौघमचलो यथा। पाण्डवान् समरे क्रुद्धान् पाञ्चालांश्च सकेकयान्॥ अथापरे च राजानः परिवृत्य समन्ततः। महाबला रणे शूराः पञ्चालानन्ववारयन्॥ ततो रणे नरव्याघ्रः पार्षतः पाण्डवैः सह। संजघानासकृद् द्रोणं विभित्सुररिवाहिनीम्॥ यथैव शरवर्षाणि द्रोणो वर्षति पार्षते। तथैव शरवर्षाणि धृष्टद्युम्नोऽप्यवर्षत॥ सनिस्त्रिंशपुरोवातः शक्तिप्रासर्टिसंवृतः। ज्याविधुच्चापसंहादो धृष्टद्युम्नबलाहकः॥ शरधाराश्मवर्षाणि व्यसृजत् सर्वतो दिशम्। निनन् रथवराश्वौघान् प्लावयामास वाहिनीम्॥ यं यमाच्छच्छरैोणः पाण्डवानां रथव्रजम्। ततस्ततः शरैर्दोणमपाकर्षत पार्षतः॥ तथा तु यतमानस्य द्रोणस्य युधि भारत। धृष्टद्युम्नं समासाद्य त्रिधा सैन्यमभिद्यत॥ भोजमेकेऽभ्यवर्तन्त जलसन्धं तथापरे। पाण्डवैर्हन्यमानाश्च द्रोणमेवापरे ययुः॥ संघट्टयति सैन्यानि द्रोणस्तु रथिनां वरः। व्यधमच्चापि तान्यस्य धृष्टद्युम्नो महारथः॥ धार्तराष्ट्रास्तथाभूता वध्यन्ते पाण्डुसृञ्जयैः। अगोपाः पशवोऽरण्ये बहुभिः श्वापदैरिव॥ कालः स्म ग्रसते योधान् धृष्टद्युम्नेन मोहितान्। संग्रामे तुमुले तस्मिन्निति सम्मेनिरे जनाः॥ कुनृपस्य यथा राष्टं दुर्भिक्षव्याधितस्करैः। द्राव्यते तद्वदापन्ना पाण्डवैस्तव वाहिनी॥ अर्करश्मिविमिश्रेषु शस्त्रेषु कवचेषु च। चढूंषि प्रत्यहन्यन्त सैन्येन रजसा तथा॥ त्रिधाभूतेषु सैन्येषु वध्यमानेषु पाण्डवैः। अमर्षितस्ततो द्रोणः पञ्चालान् व्यधमच्छरैः॥ मृद्गतस्तान्यनीकानि निघ्नतश्चापि सायकैः। बभूव रूपं द्रोणस्य कालाग्नेरिव दीप्यतः॥ रथं नागं हयं चापि पत्तिनश्च विशाम्पते। एकैकेनेषुणा संख्ये निर्बिभेद महारथः॥ पाण्डवानां तु सैन्येषु नास्ति कश्चित् स भारत। दधार योरणे बाणान् द्रोणचापच्युतान् प्रभो॥ तत् पच्यमानमर्केण द्रोणसायकतापितम्। बभ्राम पार्षतं सैन्यं तत्र तत्रैव भारत॥ तथैव पार्षतेनापि काल्यमानं बलं तव। अभवत् सर्वतो दीप्तं शुष्कं वनमिवाग्निना॥ बाध्यमानेषु सैन्येषु द्रोणपार्षतसायकैः। त्यक्त्वा प्राणान् परं शक्त्या युध्यन्ते सर्वतोमुखाः॥३३ तावकानां परेषां च युध्यतां भरतर्षभ। नासीत् कश्चिन्महाराज योऽत्याक्षीत् संयुगं भयात्।।३४ भीमसेनं तु कौन्तेयं सोदर्याः पर्यवारयन्। विविंशतिचित्रसेनो विकर्णश्च महारथः॥ विन्दानुविन्दावावन्त्यौ क्षेमधूर्तिश्च वीर्यवान्। त्रयाणां तव पुत्राणां त्रय एवानुयायिनः॥ बाह्लीकराजस्तेजस्वी कुलपुत्रो महारथः। सहसेन; सहामात्यो द्रौपदेयानवारयत्॥ शैब्यो गोवासनो राजा योधैर्दशशतावरैः। काश्यस्याभिभुवः पुत्रं पराक्रान्तमवारयत्॥ अजातशत्रु कौन्तेयं ज्वलन्तमिव पावकम्। मदाणामीश्वरः शल्योराजाराजानमावृणोत्॥ दुःशासनस्त्ववस्थाप्य स्वमनीकममर्षणः। सात्यकि प्रत्ययौ क्रुद्धः शूरो रथवरं युधि॥ स्वकेनाहमनीकेन संनद्धः कवचावृतः। चतुःशतैर्महेष्वासैश्चेकितानमवारयम्॥ शकुनिस्तु सहानीको माद्रीपुत्रमवारयत्। गान्धारकैः सप्तशतैश्चापशक्त्यसिपाणिभिः॥ विन्दानुविन्दावावन्त्यौविराटं मस्यमार्च्छताम्। प्राणांस्त्यक्त्वा महेष्वासौ मित्रार्थेऽभ्युद्यतायुधौ॥ शिखण्डिनं याज्ञसेनि रुन्धानमपराजितम्। बाह्रीकः प्रतिसंयत्तः पराक्रान्तमवारयत्॥ धृष्टद्युम्नं तु पाञ्चाल्यं क्रूरैः सार्धं प्रभद्रकैः। आवन्त्यः सहसौवीरैः क्रुद्धरूपमवारयत्॥ घटोत्कचं तथा शूरं राक्षसं क्रूरकर्मिणम्। अलायुधोऽद्रवत् क्रुद्धमायान्तमाहवे॥ अलम्बुषं राक्षसेन्द्रं कुन्तिभोजो महारथः। सैन्येन महता युक्तः क्रुद्धरूपमवारयत्॥ सैन्धवः पृष्ठतस्त्वासीत् सर्वसैन्यस्य भारत। रक्षितः परमेष्वासे: कृपप्रभृतिभी रथैः॥ तस्यास्तां चक्ररक्षौ द्वौ सैन्धवस्य बृहत्तमौ। द्रौणिर्दक्षिणतो राजन् सूतपुत्रश्च वामतः॥ पृष्ठगोपास्तु तस्यासन् सौमदत्तिपुरोगमाः। कृपश्च वृषसेनश्च शल: शल्यश्च दुर्जयः॥ नीतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः। सैन्धवस्य विधायैवं रक्षां युयुधिरे ततः॥ संजय उवाच राजन् संग्राममाश्चर्यं शृणु कीर्तयतो मम। कुरूणां पाण्डवानां च यथा युद्धमवर्तत॥ भारद्वाजं समासाद्य व्यूहस्य प्रमुखे स्थितम्। अयोधयन् रणे पार्था द्रोणानीकं बिभित्सवः॥ रक्षमाणः स्वकं व्यूह द्रोणोऽपि सह सैनिकैः। अयोधयद् रणे पार्थान् प्रार्थयानो महद् यशः॥ विन्दानुविन्दावावन्त्यौ विराटं दशभिः शरैः। आजघ्नतुः सुसंक्रुद्धौ तव पुत्रहितैषिणौ॥ विराटश्च महाराज तावुभौ समरे स्थितौ। पराक्रान्तौ पराक्रम्य योधयामास सानुगौ॥ तेषां युद्धं समभवद् दारुणं शोणितोदकम्। सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने ॥ बाह्रीकं रभसं युद्धे याज्ञसेनिर्महाबलः। आजघ्ने विशिखैस्तीक्ष्णैरैर्मर्माथिभेदिभिः॥ बाह्नीको याज्ञसेनि तु हेमपुजैः शिलाशितैः। आजघान भूशं क्रुद्धो नवभिनतपर्वभिः॥ तद् युद्धमभवद् घोरं शरशक्तिसमाकुलम्। भीरूणां त्रासजननं शूरूणां हर्षवर्धनम्॥ ताभ्यां तत्र शरैर्मुक्तैरन्तरिक्षं दिशस्तथा। अभवत् संवृतं सर्वे न प्राज्ञायत किंचन॥ शैब्यो गोवासनो युद्धे काश्यपुत्रं महारथम्। ससैन्यो योधयामास गजः प्रतिगजं यथा॥ बाह्रीकराजः संकुद्धो द्रोपदेयान् महारथान्। मनः पञ्चेन्द्रियाणीव शुशुभे योधयन् रणे॥ अयोधयस्ते सुभृशं तं शरौघैः समन्ततः। इन्द्रियार्था यथा देहं शश्वद् देहवतां वर॥ वार्ष्णेयं सात्यकि युद्धे पुत्रो दुःशासनस्तव। आजघ्ने सायकैस्तीक्ष्णैर्नवभिनतपर्वभिः॥ सोऽतिविद्धो बलवता महेष्वासेन धन्विना। ईषन्मूर्छा जगामाशु सात्यकिः सत्यविक्रमः॥ समाश्वस्तस्तु वार्ष्णेयस्तव पुत्रं महारथम्। विव्याध दशभिस्तूर्णं सायकैः कङ्कपत्रिभिः॥ तावन्योन्यं दृढं विद्धावन्योन्यशरपीडितौ। रेजतुः समरे राजन् पुष्पिताविव किंशुकौ॥ अलम्बुषस्तु संक्रुद्धः कुन्तिभोजशरार्दितः। अशोभत भृशं लक्ष्म्या पुष्पाढ्य इव किंशुकः॥ कुन्तिभोजं ततो रक्षो विद्ध्वा बहुभिरायसैः। अनदद् भैरवं नादं वाहिन्याः प्रमुखे तव॥ ततस्तौ समरे शूरौ योधयन्तौ परस्परम्। ददृशुः सर्वसैन्यानि शक्रजम्भौ यथा पुरा॥ शकुनि रभसं युद्धे कृतवैरं च भारत। माद्रीपुत्रौ च संरब्धौ शरैश्चार्दयतां भृशम्॥ तुमुलः स महान् राजन् प्रावर्तत जनक्षयः। त्वया संजनितोऽत्यर्थं कर्णेन च विवर्धितः॥ रक्षितस्तव पुत्रैश्च क्रोधमूलो हुताशनः। य इमां पृथिवीं राजन् दग्धुं सर्वां समुद्यतः॥ शकुनिः पाण्डुपुत्राभ्यां कृतः सविमुखः शरैः। न स्म जानाति कर्तव्यं युद्धे किंचित् पराक्रमम्॥ विमुखं चैनमालोक्य माद्रीपुत्रौ महारथौ। ववर्षतुः पुनर्बाणैर्यथा मेघौ महागिरिम्॥ स वध्यमानो बहुभिः शरैः संनतपर्वभिः। सम्प्रायाज्जवनैरश्वैोणानीकाय सौबलः॥ घटोत्कचस्तथा शूरं राक्षसं तमलायुधम्। अभ्यवाद् रभसं युद्धे वेगमास्थाय मध्यमम्॥ तयोर्युद्धं महाराज चित्ररूपमिवाभवत्। यादृशं हि पुरा वृत्तं रामरावणयोमृधे॥ ततो युधिष्ठिरो राजा मद्रराजानमाहवे। विद्ध्वा पञ्चाशताबाणैः पुनर्विव्याध सप्तभिः॥ ततः प्रववृते युद्धं तयोरत्यद्भुतं नृप। यथा पूर्वे महद् युद्धं शम्बरामरराजयोः॥ विविंशतिश्चित्रसेनो विकर्णश्च तवात्मजः। अयोधयन् भीमसेनं महत्या सेनया वृताः॥ संजय उवाच तथा तस्मिन् प्रवृत्ते तु संग्रामे लोमहर्षणे। कौरवेयांस्त्रिधाभूतान् पाण्डवा: समुपाद्रवन्॥ जलसंधं महाबाहुं भीमसेनोऽभ्यवर्तत। युधिष्ठिरः सहानीकः कृतवर्माणमाहवे॥ किरंस्तु शरवर्षाणि रोचमान इवांशुमान्। धृष्टद्युम्नो महाराज द्रोणमभ्यद्रवद् रणे॥ ततः प्रवृते युद्धं त्वरतां सर्वधन्विनाम्। कुरूणां पाण्डवानां च संक्रुद्धानां परस्परम्॥ संक्षये तु तथा भूते वर्तमाने महाभये। द्वन्द्वीभूतेषु सैन्येषु युध्यमानेष्वभीतवत्॥ द्रोणः पाञ्चालपुत्रेण बली बलवता सह। यदक्षिपत् पृषत्कौघांस्तदद्भुतमिवाभवत्॥ पुण्डरीकवनानीव विध्वस्तानि समन्ततः। चक्राते द्रोणपाञ्चाल्यौ नृणां शीर्षाण्यनेकशः॥ विनिकीर्णानि वीराणामनीकेषु समन्तताः। वस्त्राभरणशस्त्राणि ध्वजवर्मायुधानि च॥ तपनीयतनुत्राणाः संसिक्ता रुधिरेण च। संसक्ता इव दृश्यन्ते मेघसंघाः सविद्युतः॥ कुञ्जराश्वनरानन्ये पातयन्ति स्म पत्रिभिः। तालमात्राणि चापानि विकर्षन्तो महारथाः॥ असिचर्माणि चापानि शिरांसि कवचानि च। विप्रकीर्यन्त शूराणां सम्प्रहारे महात्मनाम्॥ उत्थितान्यगणेयानि कबन्धानि समन्ततः। अदृश्यन्त महाराज तस्मिन् परमसंकुले॥ गृध्राः कङ्का बकाः श्येना वायसा जम्बुकास्तथा। बहुशः पिशिताशाश्च तत्रादृश्यन्त मारिष॥ भक्षयन्तश्च मांसानि पिबन्तश्चापि शोणितम्। विलुम्पन्तश्च केशांश्च मज्जाश्च बहुधा नृप॥ आकर्षन्तः शरीराणि शरीरावयवांस्तथा। नराश्वगजसंघानां शिरांसि च ततस्ततः॥ कृतास्त्रा रणदीक्षाभिर्दीक्षिता रणशालिनः। रणे जयं प्रार्थयाना भृशं युयुधिरे तदा॥ असिमार्गान् बहुविधान् विचेरुः सैनिकारणे। ऋष्टिभिः शक्तिभिः प्रासैः शूलतोमरपट्टिशैः॥ गदाभिः परिर्पश्चान्यैरायुधैश्च भुजैरपि। अन्योन्यं जजिरे क्रुद्धा युद्धरङ्गगता नराः॥ रथिनो रथिभिः सार्धमश्वारोहाश्च सादिभिः। मातङ्गा वरमातङ्गैः पदाताश्च पदातिभिः॥ क्षीबा इवान्ये चोन्मत्ता रङ्गेष्विव च वारणाः। उच्चुक्रुशुरथान्योन्यं जघ्नुरन्योन्यमेव च॥ वर्तमाने तथा युद्धे निर्मर्यादे विशाम्पते। धृष्टद्युम्नो हयानश्वैणिस्य व्यत्यमिश्रयत्॥ ते हयाः साध्वशोभन्त मिश्रिता वातरंहसः। पारावतसवर्णाश्च रक्तशोणाश्च संयुगे॥ पारावतसवर्णास्ते रक्तशोणविमिश्रिताः। हयाः शुशुभिरे राजन् मेघा इव सविद्युतः॥ धृष्टद्युम्नस्तु सम्प्रेक्ष्य द्रोणमभ्याशमागतम्। असिचर्मादद वीरो धनुरुत्सृज्य भारत॥ चिकीर्षुर्दुष्करं कर्म पार्षतः परवीरहा। ईषया समतिक्रम्य द्रोणस्य रथमाविशत्॥ अतिष्ठ युगमध्ये स युगसनहनेषु च। जधानार्थेषु चाश्वानां तत् सैन्यान्यभ्यपूजयन्॥ खङ्गेन चरतस्तस्य शोणाश्वानधितिष्ठतः। न ददर्शान्तरं द्रोणस्तदद्भुतमिवाभवत्॥ यथा श्येनस्य पतनं वनेष्वामिषगृद्धिनः। तथैवासीदभीसारस्तस्य द्रोणं जिघांसतः॥ ततः शरशतेनास्य शतचन्द्रं समाक्षिपत्। द्रोणो दुपदपुत्रस्य खङ्गं च दशभिः शरैः॥ हयांश्चैव चतुःषष्ट्या शराणां जनिवान् बली। ध्वजं क्षत्रं च भल्लाम्यां तथा तौ पार्ष्णसारथी॥ अथास्मै त्वरितो बाणमपरं जीवितान्तकम्। आकर्णपूर्णं चिक्षेप वज्रं वज्रधरो यथा॥ तं चतुर्दशभिस्तीक्ष्णैर्बाणैश्चिच्छेद सात्यकिः। ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नं व्यमोचयत्॥ सिंहेनेव मृगं ग्रस्तं नरसिंहेन मारिष। द्रोणेन मोचयामास पाञ्चाल्यं शिनिपुङ्गवः॥ सात्यकि प्रेक्ष्य गोप्तारं पाञ्चाल्यं च महाहवे। शराणां त्वरितो द्रोणः षड्विंशत्या समार्पयत्॥ ततो द्रोणं शिनेः पौत्रो ग्रसन्तमपि सुंजयान्। प्रत्यविध्यच्छितैर्बाणैः षड्विंशत्या स्तनान्तरे॥ ततः सर्वे रथास्तूर्णं पाञ्चाल्या जयगृद्धिनः। सात्वताभिसृते द्रोणे धृष्टद्युम्नमवाक्षिपन्॥ संजय उवाच विवर्तमाने त्वादित्ये तत्रास्तशिखरं प्रति। रजसा कीर्यमाणे च मन्दीभूते दिवाकरे॥ तिष्ठतां युध्यमानानां पुनरावर्ततामपि। अज्यतां जयतां चैव जगाम तदहः शनैः॥ तथा तेषु विषक्तेषु सैन्येषु जयगृद्धिषु। अर्जुनो वासुदेवश्च सैन्धवायैव जग्मतुः॥ रथमार्गप्रमाणं कौन्तेयो निशितैः शरैः। चकार यत्र पन्थानं ययौ येन जनार्दनः॥ यत्र यत्र रथो याति पाण्डवस्य महात्मनः। तत्र तत्रैव दीर्यन्ते सेनास्तव विशाम्पते॥ रथशिक्षां तु दाशार्हो दर्शयामास वीर्यवान्। उत्तमाधममध्यानि मण्डलानि विदर्शयन्॥ तेतु नामाङ्किताः पीता: कालज्वलनसंनिभाः। स्नायुनद्धाः सुपर्वाणः पृथवो दीर्घगामिनः॥ वैणवाश्चायसाश्चोग्रा ग्रसन्तौ विविधानरीन्। रुधिरं पतगैः सार्धे प्राणिनां पपुराहवे॥ रथस्थितोऽग्रतः क्रोशं यानस्यत्यर्जुनः शरान्। रथे क्रोशमतिक्रान्ते तस्य ते नन्ति शात्रवान्॥ तार्श्वमारुतरंहोभिर्वाजिभिः साधुवाहिभिः। तदागच्छद्धृषीकेशः कृत्स्नं विस्मापयजगत्॥ न तथा गच्छति रथस्तयनस्य विशाम्पते। नेन्द्रस्य न तु रुद्रस्य नापि वैश्रवणस्य च॥ नान्यस्य समरे राजन् गतपूर्वस्तथा रथः। यथा ययावर्जुनस्य मनोऽभिप्रायशीघ्रगः॥ प्रविश्य तु रणे राजन् केशवः परवीरहा। सेनामध्ये हयांस्तूर्णं चोदयामास भारत॥ ततस्तस्य रथौघस्य मध्यं प्राप्य हयोत्तमाः। कृच्छ्रेण रथमूहुस्तं क्षुत्पिपासासमन्विताः॥ क्षताश्च बहुभिः शस्त्रैर्युद्धशौण्डैरनेकशः। मण्डलानि विचित्राणि विचेरुस्ते मुहुर्मुहुः॥ हतानां वाजिनागानां स्थानां च नरैः सह। उपरिष्टादतिक्रान्ताः शैलाभानां सहस्रशः॥ एतस्मिन्नन्तरे वीरावावन्त्यौ भ्रातरौ नृप। सहसेनो समाच्छेतां पाण्डवं क्लान्तवाहनम्॥ तावर्जुनं चतुःषष्ट्यासप्तत्या च जनार्दनम्। शराणां च शतैरश्वानविध्येतां मुदान्वितौ॥ तावर्जुनो महाराज नवभिनतपर्वभिः। आजघान रणे क्रुद्धो मर्मज्ञो मर्मभेदिभिः॥ ततस्तौ तु शरौघेण वीभत्सुं सहकेशवम्। आच्छदयेतां संरब्धौ सिंहनादं च चक्रतुः॥ तयोस्तु धनुषी चित्रे भल्लाभ्यां श्वेतवाहनः। चिच्छेद समरे तूर्णं ध्वजौ च कनकोज्ज्वलौ॥ अथान्ये धनुषी राजन् प्रगृह्य समरे तदा। पाण्डवं भृशसंक्रुद्धावर्दयामासतुः शरैः॥ तयोस्तु भृशसंक्रुद्धः शराभ्यां पाण्डुनन्दनः। धनुशी चिच्छिदे तूर्णं भूय एव धनंजयः॥ तथान्यैर्विशिखैस्तूर्णं रुक्मपुत्रैः शिलाशितैः। जघानाश्वांस्तथा सूतौ पार्णी च सपदानुगौ॥ ज्येष्ठस्य च शिरः कायात् क्षुरप्रेण न्यकृन्तत। स पपात हतः पृथ्व्यां वातरुग्ण इव दुमः॥ विन्दं तु निहतं दृष्ट्वा ह्यनुविन्दः प्रतापवान्। हताश्वं रथमुत्सृज्य गदां गृह्य महाबलः॥ अभ्यवर्तत संगामे भ्रातुर्वधमनुस्मरम्। गदया रथिनां श्रेष्ठो नृत्यन्निव महारथः॥ अनुविन्दस्तु गदया ललाटे मधुसूदनम्। स्पृष्ट्वा नाकम्पयत् क्रुद्धो मैनाकमिव पर्वतम्॥ तस्यार्जुनः शरैः षड्भिर्गीवां पादौ भुजौ शिरः। निचकर्त स संछिन्नः पपातादिचयो यथा॥ ततस्तौ निहतौ दृष्ट्वा तयो राजन् पदानुगाः। अभ्यद्रवन्त संक्रुद्धाः किरन्तः शतशः शरान्॥ तानर्जुनः शरैस्तूर्णं निहत्य भरतर्षभ। व्यरोचत यथा वह्निवं दग्ध्वा हिमात्यये॥ तयोः सेनामतिक्राम्य कृच्छ्रादिव धनंजयः। विबभौ जलदं हित्वा दिवाकर इवोदितः॥ तं दृष्ट्वा कुरवस्त्रस्ताः प्रहृष्टाश्चाभवन् पुनः। अभ्यवर्तन्त पार्थे च समन्ताद् भरतर्षभ॥ श्रान्तं चैनं समालक्ष्य ज्ञात्वा दूरे च सैन्धवम्। सिंहनादेन महता सर्वतः पर्यवारयन्॥ तांस्तु दृष्ट्वा सुसंरब्धानुत्स्मयन् पुरुषर्षभः। शनकैरिव दाशार्हमर्जुनो वाक्यमब्रवीत्॥ शरार्दिताश्च ग्लानाश्च हया दूरे च सैन्धवः। किमिहानन्तरं कार्यं ज्यायिष्ठं तव रोचते॥ ब्रूहि कृष्ण यथातत्त्वं त्वं हि प्राज्ञतमः सदा। भवन्नेत्रा रणे शत्रून् विजेष्यन्तीह पाण्डवाः॥ मम त्वनन्तरं कृत्यं यद् वै तत् त्वं निबोध मे। हयान् विमुच्य हि सुखं विशल्यान् कुरु माधव॥ एवमुक्तस्तु पार्थेन केशवः प्रत्युवाच तम्। म्माप्येतन्मतं पार्थ यदिदं ते प्रभाषितम्॥ अर्जुन उवाच अहमावारयिष्यामि सर्वसैन्यानि केशव। त्वमप्यत्र यथान्यायं कुरु कार्यमनन्तरम्॥ संजय उवाच सोऽवतीर्य रथोपस्थादसम्भ्रान्तो धनंजयः। गाण्डीवं धनुरादाय तस्थो गिरिरिवाचलः॥ तमभ्यधावन् क्रोशन्तः क्षत्रिया जयकाक्षिणः। इदं छिद्रमिति ज्ञात्वा धरणीस्थं धनंजयम्॥ तमेकं रथवंशेन महता पर्यवारयन्। विकर्षन्तश्च चापानि विसृजन्तश्च सायकान्॥ शस्त्राणि च विचित्राणि क्रुद्धास्तव व्यदर्शयन्। छादयन्तः शरैः पार्थं मेघा इव दिवाकरम्॥ अभ्यद्रवन्त वेगेन क्षत्रियाः क्षत्रियर्षभम्। नरसिंहं रथोदारा: सिंह मत्ता इव द्विपाः॥ तत्र पार्थस्य भुजयोर्महद्बलमदृश्यत। यत् क्रुद्धो बहुलाः सेनाः सर्वतः समवारयत्॥ अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतोविभुः। इषुभिर्बहुभिस्तूर्णं सर्वानेव समावृणोत्॥ तत्रान्तरिक्षे बाणानां प्रगाढानां विशाम्पते। संघर्षण महार्चिष्मान् पावकः समजायत॥ तत्र तत्र महेष्वासैः श्वसद्भिः शोणितोक्षितैः। हयैर्नागैश्च सम्मिन्नैर्नदद्धिश्चारिकर्षणैः॥ संरब्धैश्चारिभिर्वीरैः प्रार्थयद्भिर्जयं मृधे। एकस्थैर्बहुभिः क्रुद्धैरूष्मेव समजायत॥ शरोर्मिणं ध्वजावर्तं नागनकं दुरत्ययम्। पदातिमत्स्यकलिलं शङ्खदुन्दुभिनि:स्वनम्॥ असंख्येयमपारं च रथोर्मिणमतीव च। उष्णीषकमठं छत्रपताकाफेनमालिनम्॥ रणसागरमक्षोभ्यं मातङ्गाङ्गशिलाचितम्। वेलाभूतस्तदा पार्थः पत्रिभिः समवारयत्॥ धृतराष्ट्र उवाच अर्जुने धरणी प्राप्ते हयहस्ते च केशवे। एतदन्तरमासाद्य कथं पार्थो न घातितः॥ संजय उवाच सद्यः पार्थिव पार्थेन निरुद्धाः सर्वपार्थिवाः। रथस्था धरणीस्थेन वाक्यमच्छान्दसं यथा॥ सपार्थः पार्थिवान् सर्वान् भूमिस्थोऽपिरथस्थितान्। एको निवारयामास लोभः सर्वगुणानिव॥ ततो जनार्दनः संख्ये प्रिय पुरुषसत्तमम्। असम्भ्रान्तो महाबाहुरर्जुनं वाक्यमब्रवीत्॥ परीप्सन्ते जलं चेमे पेयं न त्ववगाहनम्॥ इदमस्तीत्यसम्भ्रान्तो ब्रुवन्नस्त्रेण मेदिनीम्। अभिहत्यार्जुनश्चक्रे वाजिपानं सरः शुभम्॥ हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम्। सुविस्तीर्णं प्रसन्नाम्भः प्रफुल्लवरपङ्कजम्॥ कूर्ममत्स्यगणाकीर्णमगाधमृषिसेवितम्। आगच्छन्नारदमुनिदर्शनार्थं कृतं क्षणात्॥ शरवंशं शरस्थूणं शराच्छादनमद्भुतम्। शरवेश्माकरोत् पार्थस्त्वष्टेवाद्भुतकर्मकृत्॥ ततः प्रहस्य गोविन्दः साधु साध्वित्यथाब्रवीत्। शरवेश्मनि पार्थेन कृत तस्मिन् महात्मना॥ संजय उवाच सलिले जनिते तस्मिन् कौन्तेयेन महात्मना। निस्तारिते द्विषत्सैन्ये कृते च शरवेश्मनि॥ वासुदेवो रथात् तूर्णमवतीर्य महाद्युतिः। मोचयामास तुरगान् विनुन्नान् कङ्कपत्रिभिः॥ अदृष्टपूर्वे तद् दृष्ट्वा साधुवादो महानभूत्। सिद्धचारणसंघानां सैनिकानां च सर्वशः॥ पदातिनं तु कौन्तेयं युध्यमानं महारथाः। नाशक्नुवन् वारयितुं तदद्भुतमिवाभवत्॥ आपतत्सु रथौधेषु प्रभूतगजवाजिषु। नासम्भ्रमत् तदा पार्थस्तदस्य पुरुषानति॥ व्यसृजन्त शरौघांस्ते पाण्डवं प्रति पार्थिवाः। न चाव्यथत धर्मात्मा वासविः परवीरहा॥ स तानि शरजालानि गदाः प्रासांश्च वीर्यवान्। आगतानग्रसत् पार्थः सरितः सागरो यथा॥ अस्त्रवेगेन महता पार्थो बाहुबलेन च। सर्वेषां पार्थिवेन्द्राणामग्रसत् तान् शरोत्तमान्॥ तत् तु पार्थस्य विक्रान्तं वासुदेवस्य चोभयोः। अपूजयन् महाराज कौरवा महदद्भुतम्॥ किमद्भुततमं लोके भविताप्यथवा ह्यभूत्। यदश्वान् पार्थगोविन्दौ मोचयामासतू रणे॥ भयं विपुलमस्मासु तावधत्तां नरोत्तमौ। तेजो विदधतुश्चोग्रं विस्रब्धौ रणमूर्धनि॥ अथ स्मयन् हृषीकेशः स्त्रीमध्य इव भारत। अर्जुनेन कृते संख्ये शरगर्भगृहे तथा॥ उपावर्तयदव्यग्रस्तानश्वान् पुष्करेक्षणः। मिषतां सर्वसैन्यानां त्वदीयानां विशाम्पते॥ तेषां श्रमं च ग्लानिं च वमथु वेपथु व्रणान्। सर्वं व्यपानुदत् कृष्णः कुशलो ह्यश्वकर्मणि॥ शल्यानुद्धृत्य पाणिभ्यां परिमृज्य च तान् हयान्। उपावर्त्य यथान्यायं पाययामास वारि सः॥ सताँल्लब्धोदकान् स्नातान् जग्धान्नान् विगतक्लमान्। योजयामास संहृष्टः पुनरेव रथोत्तमे।॥ स तं रथवरं शौरिः सर्वशस्रभृतां वरः। सामास्थाय महादेवाः सार्जुनः प्रययौ द्रुतम्॥ रथं रथवरस्याजौ युक्तं लब्धोदकैर्हयैः। दृष्ट्वा कुरुबलश्रेष्ठाः पुनर्विमनसोऽभवन्॥ विनिःश्वसन्तस्ते राजन् भग्नदंष्ट्रा इवोरगाः। धिगहो धिग्गतः पार्थः कृष्णश्चेत्यब्रुवन् पृथक्॥ त्वत्सेनाः सर्वतो दृष्ट्वा लोमहर्षणमद्भुतम्। त्वरध्वमिति चाक्रन्दन् नैतदस्तीति चाब्रुवन्॥ सर्वक्षत्रस्य मिषतो रथेनैकेन दंशितौ। बालः क्रीडनकेनेव कद कृत्य नो बलम्॥ क्रोशतां यतमानानामसंसक्तौ परंतपौ। दर्शयित्वाऽऽत्मनो वीर्यं प्रयातौ सर्वराजसु॥ तौ प्रयातौ पुनदृष्ट्वा तदान्ये सैनिकाब्रुवन्। त्वरध्वं कुरवः सर्वे वधे कृष्णकिरीटिनोः॥ रथयुक्तो हि दाशार्हो मिषतां सर्वधन्विनाम्। ज्यद्रथाय यात्येष कद कृत्य नो रणे॥ तत्र केचिन्मिथो राजन् समभाषन्त भूमिपाः। अदृष्टपूर्वं संग्रामे तद दृष्ट्वा महदद्भुतम्॥ सर्वसैन्यानि राजा च धृतराष्ट्रोऽत्ययं गतः। दुर्योधनापराधेन क्षत्रं कृत्स्ना च मेदिनी॥ विलयं समनुप्राप्ता च्च राजा न बुध्यते। इत्येवं क्षत्रियास्तत्र ब्रुवन्त्यन्ये च भारत।॥ सिन्धुराजस्य यत् कृत्यं गतस्य यमसादनम्। तत् करोतु वृथाष्टिर्धार्तराष्ट्रोऽनुपायवित्॥ ततः शीघ्रतरंप्रायात् पाण्डवः सैन्धवं प्रति। विवर्तमाने तिग्मांशौ हृष्टैः पीतोदकैर्हयैः॥ तं प्रयान्तं महाबाहुं सर्वशस्त्रभृतां वरम्। नाशक्नवन् वारयितुं योधाः क्रुद्धमिवान्तकम्॥ विद्राव्य तु ततः सैन्यं पाण्डवः शत्रुतापनः। यथा मृगगणान् सिंहः सैन्धवार्थे व्यलोडयत्॥ गाहमानस्त्वनीकानि तूर्णमश्वानचोदयत्। बलाकाभं तु दाशार्हः पाञ्चजन्यं व्यनादयत्।॥ कौन्येनाग्रतः सृष्टा न्यपतन् पृष्ठतः शराः। तूर्णात् तूर्णतरं हाश्वाः प्रावहन् वातरंहसः॥ ततो नृतपयः क्रुद्धाः परिवQर्धनंजयम्। क्षत्रिया बहवश्चान्ये जयद्रथवधैषिणम्॥ सैन्येषु विप्रयातेषु धिष्ठितं पुरुषर्षभम्। दुर्योधनोऽन्वयात् पार्थं त्वरमाणो महाहवे॥ वातोद्धृतपताकं तं रथं जलदनिःस्वनम्। घोरं कपिध्वजं दृष्ट्वा विषण्णा रथिनोऽभवन्॥ दिवाकरेऽथ रजसा सर्वतः संवृते भृशम्। शरार्ताश्च रणे योधाः शेकुः कृष्णौ न वीक्षितुम्॥ संजय उवाच संसन्त इव मज्जानस्तावकानां भयानृप। तौ दृष्ट्वा समतिक्रान्तौ वासुदेवधनंजयौ॥ सर्वे तु प्रतिसंरब्धा ह्रीमन्तः सत्त्वचोदिताः। स्थिरीभूता महात्मानः प्रत्यगच्छन् धनंजयम्॥ ये गताः पाण्डवं युद्धे रोषामर्षसमन्विताः। तेऽद्यापि न निवर्तन्ते सिन्धवः सागरादिव॥ असन्तस्तु न्यवर्तन्त वेदेभ्य इव नास्तिकाः। नरकं भजमानास्ते प्रत्यपद्यन्त किल्बिषम्॥ तावतीत्य रथानीकं विमुक्तौ पुरुषर्षभौ। ददृशाते यथा राहोरास्यान्मुक्ती प्रभाकरौ॥ मत्स्याविव महाजालं विदार्य विगतक्लमौ। तथा कृष्णावदृश्येतां सेनाजालं विदार्य तत्॥ विमुक्तौ शस्त्रसम्बाधाद् द्रोणानीकात् सुदुर्भिदात्। अदृश्येतां महात्मानौ कालसूर्याविवोदितौ॥ अस्त्रसम्बाधनिर्मुक्तौ विमुक्तौ शस्त्रसंकटात्। अदृश्येतां महात्मानौ शत्रुसम्बाधकारिणौ॥ विमुक्तौ ज्वलनस्पर्शान्मकरास्याज्झषाविव। अक्षोभयेतां सेनां तौ समुद्रं पकराविव॥ तावकास्तव पुत्राश्च द्रोणानीकस्थयोस्तयोः। नैतौ तरिष्यतो द्रोणमिति चक्रुस्तदा मतिम्॥ तौ तु दृष्ट्वा व्यतिक्रान्तौ द्रोणानीकं महायुती। नाशशंसुर्महाराज सिन्धुराजस्य जीवितम्॥ आशा बलवती राजन् सिन्धुराजस्य जीविते। द्रोणहार्दिक्ययोः कृष्णो न मोक्ष्येते इति प्रभो॥ तामाशां विफलीकृत्य संतीर्णौ तौ परंतपौ। द्रोणानीकं महाराज भोजानीकं च दुस्तरम्॥ अथ दृष्ट्वा व्यतिक्रान्तौ ज्वलिताविव पावकौ। निराशाः सिन्धुराजस्य जीवितं न शशंसिरे॥ मिथश्च समभाषेतामभीतौ भयवर्धनां। जयद्रथवधे वाचस्तास्ताः कृष्णधनंजयौ॥ असौ मध्ये कृतः षड्भिर्धार्तराष्ट्रमहारथैः। चक्षुर्विषयसम्प्राप्तौ न मे मोक्ष्यति सैन्धवः॥ यद्यस्य समरे गोप्ता शक्रो देवगणैः सह। तथाप्येनं निहंस्याव इति कृष्णावभाषताम्॥ इति कृष्णौ महाबाहू मिथोऽकथयतां तदा। सिन्धुराजमवेक्षन्तौ त्वत्पुत्रा बहु चुकुशुः॥ अतीत्य मरुधन्वानं प्रयान्तौ तृषितौ गजौ। पीत्वा वारि समाश्वस्तौ तथैवास्तामरिंदमौ॥ व्याघ्रसिंहगजाकीर्णानतिक्रम्य च पर्वतान्। वणिजाविव दृश्येतां हीनमृत्यू जरातिगौ॥ तथा हि मुखवर्णोऽयमनयोरिति मेनिरे। तावका वीक्ष्य मुक्तौतौ विक्राशन्ति स्म सर्वशः॥ द्रोणादाशीविषाकाराज्ज्वलितादिव पावकात्। अन्येभ्यः पार्थिवेभ्यश्च भास्वन्ताविव भास्करौ॥ विमुक्तौ सागरप्रख्याद् द्रोणानीकादरिंदमौ। अदृश्येतां भुदा युक्तौ समुत्तीर्यार्णवं यथा॥ अस्त्रौघान्महतो मुक्तौ द्रोणहार्दिक्यरक्षितात्। राच्मानावदृश्येतामिन्द्राग्न्योः सदृशौ रणे॥ उद्भिनरुधिरौ कृष्णौ भारद्वाजस्य सायकैः। शितैश्चितौ व्यरोचेतां कर्णिकारैरिवाचलौ॥ द्रोणग्राहह्रदान्मुक्तौ शक्त्याशीविषसंकटात्। अयःशरोग्रमकरात् क्षत्रियप्रवराम्भसः॥ ज्याघोषतलनिर्हादाद् गदानिस्त्रिंशविद्युतः। द्रोणास्त्रमेघानिर्मुक्तौ सूर्येन्दू तिमिरादिव॥ बाहुभ्यामिव संती# सिन्धुषष्ठाः समुद्रगाः। तपान्ते सरितः पूर्णा महाग्राहसमाकुलाः॥ इति कृष्णौ महेष्वासौ प्रशस्तौ लोकविश्रुतौ। सर्वभूतान्यमन्यनत द्रोणास्त्रबलवारणात्॥ जयद्रथं समीपस्थमवेक्षन्तौ जिघांसया। रुरुं निपाने लिप्सन्तौ व्याघ्राविव व्यतिष्ठताम्॥ यथा हि मुखवर्णोऽयमनयोरिति मेनिरे। तव योधा महाराज हतमेव जयद्रथम्॥ लोहिताक्षौ महाबाहू संयुक्तौ कृष्णपाण्डवौ। सिन्धुराजमभिप्रेक्ष्य हृष्टौ व्यनदतां मुहुः॥ शौरेरभीषुहस्तस्य पार्थस्य च धनुष्मतः। तयोरासीत् प्रभा राजन् सूर्यपावकयोरिव॥ हर्ष एव तयोरासीद् द्रोणानीकप्रमुक्तयोः। समीपे सैन्धवं दृष्ट्वा श्येनयोरामिषं यथा।॥ तौ तु सैन्धवमालोक्य वर्तमानमिवान्तिके। सहसा पेततुः क्रुद्धौ क्षिप्रं श्येनाविवामिषम्॥ तौ दृष्ट्वा तु व्यतिक्रान्तौ हृषीकेशधनंजयौ। सिन्धुराजस्य रक्षार्थं पराक्रान्तः सुतस्तव॥ द्रोणेनाबद्धकवचो राजा दुर्योधनस्ततः। ययावेकरथेनाजौ हयसंस्कारवित् प्रभो॥ कृष्णपार्थो महेष्वासौ व्यतिक्रम्याथ ते अग्रतः पुण्डरीकाक्षं प्रतीयाय नराधिप॥ ततः सर्वेषु सैन्येषु वादित्राणि प्रहृष्टवत्। प्रावाद्यन्त व्यतिक्रान्ते तव पुत्रे धनंजयम्॥ सुतः। सिंहनादरवाश्चासशङ्खशब्दविमिश्रिताः। दृष्ट्वा दुर्योधनं तत्र कृष्णयोः प्रमुखे स्थितम्॥ ये च ते सिन्धुराजस्य गोप्तारः पावकोपमाः। ते प्राहृष्यन्त समरे दृष्ट्वा पुत्रं तव प्रभो॥ दृष्ट्वा दुर्योधनं कृष्णो व्यतिक्रान्तं सहानुगम्। अब्रवीदर्जुनं राजन् प्राप्तकालमिदं वचः॥ वासुदेव उवाच दुर्योधनमतिक्रान्तमेतं पश्य धनंजय। अत्यद्भुतमिमं मन्ये नास्त्यस्य सदृशो रथः॥ दूरपाती महेष्वासः कृतास्त्रो युद्धदुर्मदः। दृढास्त्रश्चित्रयोधी च धार्तराष्ट्रो महाबलः॥ अत्यन्तसुखसंवृद्धो मानितश्च महारथः। कृती च सततं पार्थ नित्यं द्वेष्टि च बान्धवान्॥ तेन युद्धमहं मन्ये प्राप्तकालं तवानघ। अत्र वो द्यूतमायत्तं विजयायेतराय वा॥ अत्र क्रोधविषं पार्थ विमुञ्च चिरसम्भृतम्। एष मूलमनर्थानां पाण्डवानां महारथः॥ सोऽयं प्राप्तस्तवाक्षेपं पश्य साफल्यमात्मनः। कथं हि राजा राज्यार्थी त्वया गच्छेत संयुगम्॥६ दिष्ट्या त्विदानी सम्प्राप्त एष ते बाणगोचरम्। यथायं जीवितं जह्यात् तथा कुरु धनंजय॥ ऐश्वर्यमदसम्मूढो नैष दुःखमुपेयिवान्। न च ते संयुगे वीर्ये जानाति पुरुषर्षभ॥ त्वां हि लोकास्त्रयः पार्थ ससुरासुरमानुषाः। नोत्सहन्ते रणे जेतुं किमुतैकः सुयोधनः॥ स दिष्ट्या समनुप्राप्तस्तव पार्थ रथान्तिकम्। जह्येनं त्वं महाबाहो यथा वृत्रं पुरंदरः॥ एष ह्यनर्थे सततं पराक्रान्तस्तवानघ। निकृत्या धर्मराजं च द्यूते वञ्चितवानयम्॥ बहूनि सुनृशंसानि कृतान्येतेन मानद। युष्मासु पापमतिना अपापेष्वेव नित्यदा॥ तमनार्यं सदा क्रुद्धं पुरुषं कामचारिणम्। आर्यां युद्धे मतिं कृत्वा जहि पार्थाविचारयन्॥ निकृत्या राज्यहरणं वनवासं च पाण्डव। परिक्लेशं च कृष्णाया हदि कृत्वा पराक्रमम्॥ दिष्ट्यैष तव बाणानां गोचरे परिवर्तते। प्रतिघाताय कार्यस्य दिष्ट्या च यततेऽग्रतः॥ दिष्ट्या जानाति संग्रामे योद्धव्यं हि त्वया सह। दिष्ट्या च सफलाः पार्थसर्वे कामा ह्यकामिताः॥ तस्माज्जहि रणे पार्थ धार्तराष्ट्र कुलाधमम्। यथेन्द्रेण हतः पूर्वे जम्भो देवासुरे मृधे॥ अस्मिन् हते त्वया सैन्यमनाथं भिद्यतामिदम्। वैरस्यास्यास्त्ववभृथो मूलं छिन्धि दुरात्मनाम्॥ संजय उवाच तं तथेत्यब्रवीत् पार्थः कृत्यरूपमिदं मम। सर्वमन्यदनात्य गच्छ यत्र सुयोधनः॥ येनैतद् दीर्घकालं नो भुक्तं राज्यमकण्टकम्। अप्यस्य युधि विक्रम्य छिन्द्यां मूर्धानमाहवे॥ अपि तस्य शनायाः परिक्लेशस्य माधव। कृष्णायाः शकुयां गन्तुं पदं केशप्रधर्षणे॥ इत्येवंवादिनौ कृष्णौ हृष्टौ श्वेतान् हयोत्तमान्। प्रेषयामासतुः संख्ये प्रेप्सन्तौ तं नराधिपम्॥ त्योः समीपं सम्प्राप्य पुत्रस्ते भरतर्षभ। न चकार भयं प्राप्ते भये महति मारिष॥ तदस्य क्षत्रियास्तत्र सर्व एवाभ्यपूजयन्। यदर्जुनहषीकेशौ प्रत्युद्यातौ न्यवारयत्॥ ततः सर्वस्य सैन्यस्य तावकस्य विशाम्पते। महानादो ह्यभूत् तत्र दृष्ट्वा राजानमाहवे॥ तस्मिञ्जनसमुन्नादे प्रवृत्ते भैरवे सति। कदर्थीकृत्य ते पुत्रः प्रत्यमित्रमवारयत्॥ आवारितस्तु कौन्तेयस्तव पुत्रेण घन्विना। संरम्भमगमद् भूयः स च तस्मिन् परंतपः॥ तौ दृष्ट्वा प्रतिसंरब्धौ दुर्योधनधनंजयौ। अभ्यवैक्षन्त राजानो भीमरूपाः समन्ततः॥ दृष्ट्वा तु पार्थे संरब्धं वासुदेवं च मारिष। प्रसन्नेव पुत्रस्ते योद्धुकामः समाह्वयत्॥ ततः प्रहष्टो दाशार्हः पाण्डवश्च धनंजयः। व्यक्रोशेतां महानादं दध्यतुश्चाम्बुजोत्तमौ॥ तौ हृष्टरूपौ सम्प्रेक्ष्य कौरवेयास्तु सर्वशः। निराशाः समपद्यन्त पुत्रस्य तव जीविते॥ शोकमायुः परे चैव कुरुः सर्व एव ते। अमन्यन्त च पुत्रं ते वैश्वानरमुखे हुतम्॥ तथा तु दृष्ट्वा योधास्ते प्रहृष्टौ कृष्णपाण्डवौ। हतो राजा हतो राजेत्यूचिरे च भयार्दिताः॥ जनस्य संनिनादं तु श्रुत्वा दुर्योधनोऽब्रवीत्। व्येतु वो भीरहं कृष्णौ प्रेषयिष्यामि मृत्यवे॥ इत्युक्त्वा सैनिकान् सर्वाञ्जयापेक्षी नराधिपः। पार्थमाभाष्य संरम्भादिदं वचनमब्रवीत्॥ तद् दर्शय मयि क्षिप्रं यदि जातोऽसि पाण्डुना॥ यद् बलं तव वीर्यं च केशवस्य तथैव च। तत् कुरुष्व मयि क्षिप्रं पश्यामस्तव पौरुषम्॥ अस्मत्परोक्षं कर्माणि कृतानि प्रवहन्ति ते। स्वामिसत्कारयुक्तानि यानि तानीह दर्शय॥ अस्मत्परोक्षं कर्माणि कृतानि प्रवहन्ति ते। स्वामिसत्कारयुक्तानि यानि तानीह दर्शय॥ संजय उवाच एवमुक्त्वार्जुनं राजा त्रिभिर्मर्मातिगैः शरैः। अभ्यविध्यन्महावेगैश्चतुर्भिश्चतुरो हयान्॥ वासुदेवं च दशभिः प्रत्यविध्यत् स्तनान्तरे। प्रतोदं चास्य भल्लेन छित्त्वा भूमावपातयत्॥ तं चतुर्दशभिः पार्थश्चित्रपुजैः शिलाशितैः। अविध्यत् तूर्णमव्यग्रस्ते चाभ्रश्यन्त वर्मणि॥ तेषां नैष्फल्यमालोक्य पुनर्नव च पञ्च च। प्राहिणोनिशितान् बाणांस्ते चाभ्रश्यन्त वर्मणः॥ अष्टाविंशांस्तु तान् बाणानस्तान् विप्रेक्ष्य निष्फलान्। अब्रवीत् परवीरनः कृष्णोऽर्जुनमिदं वचः॥ अदृष्टपूर्वं पश्यामि शिलानामिव सर्पणम्। त्वया सम्प्रेषिताः पार्थ नार्थं कुर्वन्ति पत्रिणः॥ कच्चिद् गाण्डीवजः प्राणस्तथैव भरतर्षभ। मुष्टिश्च ते यथापूर्वं भुजयोश्च बलं तव॥ न वा कच्चिदयं कालः प्राप्तः स्यादद्य पश्चिमः। तव चैवास्य शत्रौश्च तन्ममाचक्ष्व पृच्छतः॥ विस्मयो मे महान् पार्थ तव दृष्ट्वा शरानिमान्। व्यर्थान् निपतितान् संख्ये दुर्योधनरर्थ प्रति॥ वज्राशनिसमा घोराः परकायावभेदिनः। शराः कुर्वन्ति ते नार्थं पार्थ काऽद्य विडम्बना॥ अर्जुन उवाच द्रोणेनैषा मतिः कृष्ण धार्तराष्ट्र निवेशिता। अभेद्या हि मास्त्राणामेषा कवचधारणा॥ अस्मिन्नन्तर्हितं कृष्ण त्रैलोक्यमपि वर्मणि। एको द्रोणो हि वैदेतदहं तस्माच्च सत्तमात्॥ न शक्यमेतत् कवचं बाणैर्भेत्तुं कथंचन। अपि वज्रेण गोविन्द स्वयं मघवता युधि॥ आनंस्त्वमपि वै कृष्ण मां विमोहयसे कथम्। यद् वृत्तं त्रिषु लोकेषु यच्च केशव वर्तते॥ तथा भविष्यद् यच्चैव तत् सर्वं विदितं तव। न त्विदं वेद वै कश्चिद् यथा त्वं मधुसूदन॥ एष दुर्योधनः कृष्ण द्रोणेन विहितामिमाम्। तिष्ठत्यभीतवत् संख्ये बिभ्रत् कवचधारणाम्॥ यत्त्वत्र विहितं कार्ये नैष तद् वेत्ति माधव। स्त्रीवदेष बिभ]तां युक्तां कवचधारणाम्॥ पश्य बाह्वोश्च मे वीर्यं धनुषश्च जनार्दन। पराजयिष्ये कौरव्यं कवचेनापि रक्षितम्॥ इदमङ्गिरसे प्रादाद् देवेशो वर्म भास्वरम्। तस्माद् बृहस्पतिः प्राप ततः प्राप पुरंदरः॥ पुनर्ददौ सुरपतिर्मह्यं वर्म ससंग्रहम्। दैवं यद्यस्य वर्मैतद् ब्रह्मणा वा स्वयं कृतम्॥ नैनं गोप्स्यति दुर्बुद्धिमद्य बाणहतं मया। संजय उवाच एवमुक्त्वार्जुनो बाणमभिमन्त्र्य व्यकर्षयत्॥ मानवास्त्रेण मानार्हस्तीक्ष्णावरणभेदिना! विकृष्यमाणांस्तेनैव धनुर्मध्यगताञ्छरान्॥ तानस्यास्त्रेण चिच्छेद द्रौणिः सर्वास्त्रघातिना। तान् निकृत्तानिषून् दृष्ट्वा दूरतो ब्रह्मवादिना॥ न्यवेदयत् केशवाय विस्मितः श्वेतवाहनः। नैतदस्त्रं मया शक्यं द्विः प्रयोक्तुं जनार्दन॥ अस्त्रं मामेव हन्याद्धि हन्याच्चापि बलं मम। ततो दुर्योधनः कृष्णौ नवभिनवभिः शरैः॥ अविध्यत रणे राजञ्छरैराशीविषोपमैः। भूय एवाभ्यवर्षच्च समरे कृष्णपाण्डवौ॥ शरवर्षेण महता ततोऽहष्यन्त तावकाः। चक्रुर्वादिनिनदान् सिंहनादरवांस्तथा॥ ततः क्रुद्धो रणे पार्थः सृक्किणी परिसंलिहन्। नापश्यच्च ततोऽस्याङ्गं यन्न स्याद् वर्मरक्षितम्॥ ततोऽस्य निशितैर्बाणैः सुमुक्तैरन्तकोपमैः। हयांश्चकार निर्देहानुभौ च पार्णिसारथी॥ धनुरुयाच्छिनत् तूर्णं हस्तावापं च वीर्यवान्। रथं च शकलीकर्तुं सव्यसाची प्रचक्रमे।॥ दुर्योधनं च बाणाभ्यां तीक्ष्णाभ्यां विरथीकृतम्। आविध्यद्धस्ततलयोरुभ्योरर्जुनस्तदा॥ प्रयत्नज्ञो हि कौन्तेयो नखमांसान्तरेषुभिः। स वेदनाभिराविग्नः पलायनपरायणः॥ तं कृच्छ्रामापदं प्राप्तं दृष्ट्वा परमधन्विनः। समापेतुः परीप्सन्तो धनंजयशरादितम्॥ तं रथैर्बहुसाहस्रैः कल्पितैः कुञ्जरैर्हयैः। पदात्योपैश्च संरब्धैः परिबर्धनंजयम्॥ अथ नार्जुनगोविन्दौ न रथो वा व्यदृश्यता अस्त्रवर्षेण महता जनौधैश्चापि संवृतौ॥ ततोऽर्जुनोऽस्त्रवीर्येण निजघ्ने तां वरूथिनीम्। तत्र व्यङ्गीकृताः पेतुः शतशोऽथ रथद्विपाः॥ ते हता हन्यमानाश्च न्यगृहंस्तं रथोत्तमम्। स रथस्तम्भितस्तस्थौ क्रोशमात्रे समन्ततः॥ ततोऽर्जुनं वृष्णिवीरस्त्वरितो वाक्यमब्रवीत्। धनुर्विस्फारयात्यर्थमहं ध्यास्यामि चाम्बुजम्॥ ततो विस्फार्य बलवद् गाण्डीवं जनिवान् रिपून्। महता शरवर्षेण तलशब्देन चार्जुनः॥ पाञ्चजन्यं च बलवान् दध्मौ तारेण केशवः। रजसा ध्वस्तपक्ष्मान्तः प्रस्विन्नवदनो भृशम्॥ तस्य शङ्खस्य नादेन धनुषो निःस्वनेन च। निःसत्त्वाश्च ससत्त्वाश्च क्षितौ पेतुस्तदा जनाः॥ तैर्विमुक्तो रथो रेजे वाय्वीरित इवाम्बुदः। जयद्रथस्य गोप्तारस्ततः क्षुब्धाः सहानुगाः॥ ते दृष्ट्वा सहसा पार्थे गोप्तारः सैन्धवस्य तु। चक्रुर्नादान् महेष्वासाः कम्पयन्तो वसुंधराम्॥ बाणशब्दरवांश्चोग्रान् विमिश्राशङ्खनिःस्वनैः। प्रादुश्चक्रुर्महात्मानः सिंहनादरवानपि॥ तं श्रुत्वा निनदं घोरं तावकानां समुत्थितम्। प्रदध्मतुः शङ्खवरौ वासुदेवधनंजयौ॥ तेन शब्देन महता पूरितेयं वसुंधरा। सशैला सार्णवद्वीपा सपाताला विशाम्पते॥ स शब्दो भरतश्रेष्ठ व्याप्य सर्वा दिशो दश। प्रतिसस्वान तत्रैव कुरुपाण्डवयोर्बले॥ तावका रथिनस्तत्र दृष्ट्वा कृष्णधनंजयौ सम्भ्रमं परमं प्राप्तास्त्वरमाणा महारथाः॥ अथ कृष्णौ महाभागौ तावका वीक्ष्य दंशितौ। अभ्यद्रवन्त संक्रुद्धास्तदद्भुतमिवाभवत्॥ संजय उवाच तावका हि समीक्ष्यैवं वृष्ण्यन्धककुरूत्तमौ। प्रागत्वरञ्जिघांसन्तस्तथैव विजयः परान्॥ सुवर्णचित्रैर्वैयाप्रैः स्वनवद्भिर्महारथैः। दीपयन्तो दिशः सर्वा ज्वलद्भिरिव पावकैः॥ रुक्मपुबैश्च दुष्प्रेक्ष्यैः कार्मुकैः पृथिवीपते। कूजद्भिरतुलानादान् कोपितैस्तुरगैरिव॥ भूरिश्रवाः शलः कर्णो वृषसेनो जयद्रथः। कृपश्च मद्रराजश्च द्रौणिश्च रथिनां वरः॥ ते पिबन्त इवाकाशमश्वैरष्टौ महारथाः। व्यराजयन् दश दिशो वैयाघेहेमचन्द्रकैः॥ ते दंशिताः सुसंरब्धा स्थैर्मेघौघनिःस्वनैः। समावृण्वन् दश दिशः पार्थस्य निशितैः शरैः।।६। कौलूतका हयाचित्रा वहन्तस्तान् महारथान्। व्यशोभन्त तदा शीघ्रा दीपयन्तो दिशो दश॥ आजानेवैर्महावेगैर्नानादेशसमुत्थितैः। पर्वतीयैर्नदीजैश्च सैन्धवैश्च हयोत्तमैः॥ कुरुयोधवरा राजस्तव पुत्रं परीप्सवः। धनंजयरथं शीघ्रं सर्वतः समुपाद्रवन्॥ प्रगृह्य महाशलान् दध्मुः पुरुषसत्तमाः। पूरयन्तो दिवं राजन् पृथिवीं च ससागराम्॥ ते तथैव दध्मतुः शङ्खौ वासुदेवधनंजयौ। प्रवरौ सर्वदेवानां सर्वशङ्खवरौ भुवि॥ देवदत्तं च कौन्तेयः पाञ्चजन्यं च केशवः। शब्दस्तु देवदत्तस्य धनंजयसमीरितः॥ पृथिवीं चान्तरिक्षं च दिशश्चैव समावृणोत्। तथैव पाञ्चजन्योऽपि वासुदेवसमीरितः॥ सर्वशब्दानतिक्रम्य पूरयामास रोदसी। तस्मिंस्तथा वर्तमाने दारुणे नादसंकुले॥ भीरूणां त्रासजनने शूराणां हर्षवर्धने। प्रवादितासु भेरीषु झर्झरेष्वानकेषु च॥ मृदङ्गेष्वपि राजेन्द्र वाद्यमानेष्वनेकशः। महारथाः समाख्याता दुर्योधनहितैषिणः॥ अमृष्यमाणास्तं शब्दं क्रुद्धाः परमधन्विनः। नानादेश्या महीपाला: स्वसैन्यपरिरक्षिणः॥ अमर्षिता महाशङ्खान् दध्मुर्वीरा महारथाः। कृते प्रतिकरिष्यन्तः केशवस्यार्जुनस्य च॥ बभूव तव तत् सैन्यं शङ्खशब्दसमीरितम्। उद्विग्नथनागाश्वमस्वस्थमिव वा विभो॥ तत् प्रविद्धमिवाकाशं शूरैः शङ्खविनादितम्। बभूव भृशमुद्विग्नं निर्घातैरिव नादितम्॥ स शब्दः सुमहान् राजन् दिशः सर्वा व्यनादयत्। त्रासयामास तत् सैन्यं युगान्त इव सम्भृतः॥ ततो दुर्योधनोऽष्टौ च राजानस्ते महारथाः। जयद्रथस्य रक्षार्थे पाण्डवं पर्यवारयन्॥ ततो द्रौणिस्त्रिसप्तया वासुदेवमताडयत्। अर्जुनं च त्रिभिर्भल्लैर्ध्वजमश्वांश्च पञ्चभिः॥ तमर्जुनः पृषत्कानां शतैः षड्भिरताडयत्। अत्यर्थमिव संक्रुद्धः प्रतिविद्धे जनार्दने॥ कर्णं च दशभिर्विद्ध्वा वृषसेनं त्रिभिस्तथा। शल्यस्य सशरं चापं मुष्टौ चिच्छेद वीर्यवान्॥ गृहीत्वा धनुरन्यत्तु शल्यो विव्याध पाण्डवम्। भूरिश्रवास्त्रिभिर्बाणैर्हेमपुङ्खः शिलाशितैः॥ कर्णो द्वात्रिंशत चैव वृषसेनश्च सप्तभिः। जयद्रथस्त्रिसप्तत्या कृपश्च दशभिः शरैः॥ मद्रराजश्च दशभिर्विव्यधुः फाल्गुनं रणे। ततः शराणां षष्ट्या तु द्रौणिः पार्थमवाकिरत्॥ वासुदेवं च विंशत्या पुनः पार्थं च पञ्चभिः। प्रहसंस्तु नरव्याघ्रः श्वेताश्वः कृष्णसारथिः॥ प्रत्यविध्यत् स तान् सर्वान् दर्शयन् पाणिलाघवम्। कर्णं द्वादशभिर्विद्ध्वा वृषसेनं त्रिसिः शरैः॥ शल्यस्य सशरं चापं मुष्टिदेशे व्यकृन्तत। सौमदत्तिं त्रिभिर्विद्ध्वा शल्यं च दशभिः शरैः॥ शितैरग्निशिखाकारैौणिं विव्याध चाष्टभिः। गौतमं पञ्चविंशत्या सैन्धवं च शतेन ह॥ पुनद्रौणिं च सप्तत्या शराणां सोऽभ्यताडयत्। भूरिश्रवास्तु संक्रुद्धः प्रतोदं चिच्छिदे हरेः॥ अर्जुनं च त्रिसप्तत्या बाणानामाजघान ह॥ ततः शरशतैस्तीक्ष्णैस्तानरीश्वेतवाहनः। प्रत्यषेधद् द्रुतं क्रुद्धो महावातो घनानिव॥ धृतराष्ट्र उवाच ध्वजान् बहुविधाकारान् भ्राजमानानति श्रिया। पार्थानां मामकानां च तान् ममाचक्ष्व संजय॥ संजय उवाच ध्वजान् बहुविधाकाराशृणु तेषां महात्मनाम्। रूपतो वर्णतश्चैव नामतश्च निबोध मे॥ तेषां तु रथमुख्यानां रथेषु विविधा ध्वजाः। प्रत्यदृश्यन्त राजेन्द्र ज्वलिता इव पावकाः॥ काञ्चनाः काञ्चनापीडाः काञ्चनस्रगलंकृताः। काञ्चनानीव शृङ्गाणि काञ्चनस्य महागिरेः॥ अनेकवर्णा विविधा ध्वजाः परमशोभनाः। ते ध्वजा: संवृतास्तेषां पताकाभिः समन्ततः॥ नानावर्णविरागाभिः शुशुभुः सर्वतो वृताः। पताकाश्च ततस्तास्तु श्वसनेन समीरिताः॥ नृत्यमाना व्यदृश्यन्त रङ्गमध्ये विलासिकाः। इन्द्रायुधसवर्णाभाः पताका भरतर्षभ॥ दोधूयमाना रथिनां शोभयन्ति महारथान्। सिंहलाङ्गलमुग्रास्यं ध्वजं वानरलक्षणम्॥ धनञ्जयस्य संग्रामे प्रत्यदृश्यत भैरवम्। स वानरवरो राजन् पताकाभिरलंकृतः॥ त्रासयामास तत् सैन्यं ध्वजो गाण्डीवधन्वनः। तथैव सिंहलाङ्गलं द्रोणपुत्रस्य भारत॥ ध्वजाग्रं समपश्याम गलसूर्यसमप्रभम्। काञ्चनं पवनोद्भूतं शक्रध्वजसमप्रभम्॥ नन्दनं कौरवेन्द्राणां द्रौणेर्लक्ष्म समुच्छ्रितम्। हस्तिकक्ष्या पुनहैमी बभूवाधिस्थेर्ध्वजः॥ आहवे खं महाराज ददृशे पूरयन्निव। पताका काञ्चनी स्रग्वी ध्वजे कर्णस्य संयुगे॥ नृत्यतीव रथोपस्थे श्वसनेन समीरिता। आचार्यस्य तु पाण्डूनां ब्राह्मणस्य तपस्विनः॥ गोवृषो गौतमस्यासीत् कृपस्य सुपरिष्कृतः। स तेन भ्राजते राजन् गोवृषेण महारथः॥ त्रिपुरनरथो यद्वद् गोवृषेण विराजता। मयूरो वृषसेनस्य काञ्चनो मणिरत्नवान्॥ व्याहरिष्यन्निवातिष्ठत् सेनाग्रमुपशोभयन्। तेन तस्य रथो भाति मयूरेण महात्मनः॥ यथा स्कन्दस्य राजेन्द्र मयूरेण विराजता। मद्रराजस्य शल्यस्य ध्वजाग्रेऽग्निशिखामिव॥ सौवर्णी प्रतिपश्याम सीतामप्रतिमां शुभाम्। सा सीता भ्राजते तस्य रथमास्थाय मारिष॥ सर्वबीजविरूढेव यथा सीता श्रिया वृता। वराहः सिन्धुराजस्य राजतोऽभिविराजते॥ ध्वजाग्रेऽलोहितार्काभो हेमजालपरिष्कृतः। शुशुभे केतुना तेन राजतेन जयद्रथः॥ यथा देवासुरे युद्धे पुरा पूषा स्म शोभते। सौमदत्तेः पुन पो यज्ञशीलस्य धीमतः॥ ध्वजः सूर्य इवाभाति सोमश्चात्र प्रदृश्यते। स यूपः काञ्चनो राजन् सौमदत्तेर्विगजते॥ राजसूये मखश्रेष्ठे यथा यूपः समुच्छ्रितः। शलस्य तु महाराज राजतो द्विरदो महान्॥ केतुः काञ्चनचित्राङ्गैर्मयूरैरुपशोभितः। स केतुः शोभयामास सैन्यं ते भरतर्षभ।॥ स्तदा। यथा श्वेतो महानागो देवराजचमूं तथा। नागो मणिमयो राज्ञो ध्वजः कनकसंवृतः॥ किंकिणीशतसंहादो भ्राजंचित्रो रथोत्तमे। व्यभ्राजत भृशं राजन् पुत्रस्तव विशाम्पते॥ ध्वजेन महता संख्ये कुरूणामृषभस्त नवैते तव वाहिन्यामुच्छ्रिताः परमध्वजाः॥ व्यदीपयंस्ते पृतनां युगान्तादित्यसन्निभाः। दशमस्त्वर्जुनस्यासीदेक एव महाकपिः॥ अदीप्यतार्जुनो येन हिमवानिव वह्निना। ततश्चित्राणि शुभ्राणि सुमहान्ति महारथाः॥ कार्मुकाण्याददुस्तूर्णमर्जुनार्थे परंतपाः। तथैव धनुरायच्छत् पार्थः शत्रुविनाशनः॥ गाण्डीवं दिव्यकर्मा तद् राजन् दुर्मन्त्रिते तव। तवापराधाद् राजानो निहता बहुशो युधि॥ नानादिग्भ्यः समाहूताः सहयाः सरथद्विपाः। तेषामासीद् व्यतिक्षेपौ गर्जतामितरेतरम्॥ दुर्योधनमुखानां च पाण्डूनामृषभस्य च। तत्राद्भुतं परं चक्रे कौन्तेयः कृष्णसारथिः॥ यदेको बहुभिः सार्धं समागच्छदभीतवत्। अशोभत महाबाहुर्गाण्डीवं विक्षिपन् धनुः॥ जिगीषुस्तान् नरव्याघ्रो जिघांसुश्च जयद्रथम्। तत्रार्जुनो नरव्याघ्रः शरैर्मुक्तैः सहस्रशः॥ अदृश्यांस्तावकान् योधान् प्रचक्रे शत्रुतापनः। ततस्तेऽपि नरव्याघ्राः पार्थं सर्वे महारथाः॥ अदृश्यं समरे चक्रुः सायकौघैः समन्ततः। संवृते नरसिंहैस्तु कुरूणामृषभेऽर्जुने। महानासीत् समुद्भूतस्तस्य सैन्यस्य नि:स्वनः॥ धृतराष्ट्र उवाच अर्जुने सैन्धवं प्राप्ते भारद्वाजेन संवृताः। पञ्चाला; कुरुभिः सार्धं किमकुर्वत संजय॥ संजय उवाच अपराह्ने महाराज संग्रामे लोमहर्षणे। पञ्चालानां कुरुणां च द्रोणद्यूतमवर्तत॥ पञ्चाला हि जिघांसन्तो द्रोणं संहृष्टचेतसः। अभ्यमुञ्चन्त गर्जन्तः शरवर्षाणि मारिष।॥ ततस्तु तुमुलस्तेषां संग्रामोऽवर्तताद्भुतः। पञ्चालानां कुरूणां च घोरो देवासुरोपमः॥ सर्वे द्रोणरथं प्राप्य पञ्चालाः पाण्डवैः सह। तदनीकं बिभित्सन्तो महास्त्राणि व्यदर्शयन्॥ द्रोणस्य रथपर्यन्तं रथिनो रथमास्थिताः। कम्पयन्तोऽभ्यवर्तन्त वेगमास्थाय मध्यमम्॥ तमभ्ययाद् बृहत्क्षत्रः केकयानां महारथः। प्रवपन् निशितान् बाणान् महेन्द्राशनिसंनिभान्॥ तं तु प्रत्युद्ययौ शीघ्रं क्षेमधूर्तिर्महायशाः। विमुञ्चद् निशितान् बाणाशतशोऽथ सहस्रशः॥ धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः। त्वरितोऽभ्यद्रवद द्रोणं महेन्द्र इव शम्बरम्॥ तमापतन्तं सहसा व्यादितास्यमिवान्तकम्। वीरधन्वा महेष्वासस्त्वरमाणः समभ्ययात्॥ युधिष्ठिरं महाराजं जिगीषू समवस्थितम्। सहानीकं ततो द्रोणो न्यवारयत वीर्यवान्॥ नकुलं कुशलं युद्धे पराक्रान्तं पराक्रमी। अभ्यगच्छत् समायान्तं विकर्णस्ते सुतः प्रभो॥ सहदेवं तथाऽऽयान्तं दुर्मुखः शत्रुकर्षणः। शरैरनेकसाहस्रैः समवाकिरदाशुगैः॥ सात्यकि त नरव्याघ्रं व्याघ्रदत्तरत्ववारयत्। शरैः सुनिशितैस्तीक्ष्णैः कम्पयन् वै मुहुर्मुहुः॥ द्रौपदेयान् नरव्याघ्रान् मुञ्चतः सायकोत्तमान्। संरब्धान् रथिनः श्रेष्ठान् सौमदत्तिरवारयत्॥ भीमसेनं तदा क्रुद्धं भीमरूपो भयानकः। प्रत्यवारयदायान्तमार्घ्यशृङ्गिर्महारथः॥ तयोः समभवद् युद्धं नरराक्षसयोर्मधे। याहगेव पुरा वृत्तं रामरावणयोर्नृप॥ ततो युधिष्ठिरो द्रोणं नवन्या नतपर्वणाम्। अजघ्ने भरतश्रेष्ठः सर्वमर्मसु भारत॥ तं द्रोणः पञ्चविंशत्या निजघान स्तनान्तरे। रोषितो भरतरेष्ठ कौन्तेयेन यशस्विना॥ भूय एव तु विंशत्या सायकानां समाचिनोत्। साश्वसूतध्वजं द्रोणः पश्यतां सर्वधन्विनाम्॥ ताशरान् द्रोणमुक्तांस्तु शरवर्षेण पाण्डवः अवारयत धर्मात्मा दर्शयन् पाणिलाघवम्॥ ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य संयुगे। चिच्छेद समरे धन्वी धनुस्तस्य महात्मनः॥ अथैनं छिन्नधन्वानं त्वरमाणो महारथः। शरैरनेकसाहस्रैः पूरयामास सर्वतः॥ अदृश्यं वीक्ष्य राजानं भारद्वाजस्य सायकैः। सर्वभूतान्यमन्यन्त हतमेव युधिष्ठिरम्॥ केचिच्चैनममन्यन्त तथैव विमुखीकृतम्। हयो राजेति राजेन्द्र ब्राह्मणेन महात्मना॥ स कृच्छू परमं प्राप्तो धर्मराजो युधिष्ठिरः। त्यक्त्वा तत् कार्मुकं छिन्नं भारद्वाजेन संयुगे॥ आददेऽन्यद् धनुर्दिव्यं भास्वरं वेगवत्तरम्। ततस्तान् सायकांस्तत्र द्रोणनुन्नान् सहस्रशः॥ चिच्छेद समरे वीरस्तदद्भुतमिवाभवत्। छित्त्वा तु नाशरान् राजन् कोधसरक्तलोचनः॥ शक्तिं जग्राह समरे गिरीणामपि दारिणीम्। स्वर्णदण्डां महाघोरामष्टघण्टा भयावहाम्॥ समुत्क्षिप्य च तां हृष्टो ननाद बलवद् बली। नादेन सर्वभूतानि त्रासयन्निव भारत॥ शक्तिं समुद्यतां दृष्ट्वा धर्मराजेन संयुगे। स्वस्ति द्रोणाय सहसा सर्वभूतान्यथाब्रुवन्॥ सा राजभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा। प्रज्वालयन्ती गगनं दिशः सप्रदिशस्तथा॥ द्रोणान्तिकमनुप्राप्ता दीप्तास्या पन्नगी यथा। तामापतन्ती सहसा दृष्ट्वा द्रोणो विशाम्पते॥ प्रादुश्चक्रे ततो ब्राह्ममस्त्रमस्त्रविदां वरः। तदस्त्रं भस्मसात्कृत्य तां शक्तिं घोरदर्शनाम्॥ जगाम स्यन्दनं तूर्णं पाण्डवस्य यशस्विनः। ततो युधिष्ठिरो राजा द्रोणास्त्रं तत् समुद्यतम्॥ अशामयन्महाप्राज्ञो ब्रह्मास्त्रेणैव मारिष। विद्ध्वा तं च रणे द्रोणं पञ्चभिर्नतपर्वभिः॥ क्षुरप्रेण सुतीक्ष्णेन विच्छेदास्य महद् धनुः। तदपास्य धनुश्छिन्नं द्रोणः क्षत्रियमर्दनः॥ गदां चिक्षेप सहसा धर्मपुत्राय मारिष। तामापतन्ती सहसा गदां दृष्ट्वा युधिष्ठिरः॥ गादामेवाग्रहीत् क्रुद्धश्चिक्षेप च परंतप। ते गदे सहसा मुक्त समासाद्य परस्परम्॥ संघर्षात् पावकं मुक्त्वा समेयातां महीतले। ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य मारिष॥ चतुर्भिनिशितैस्तीक्ष्णैर्हयाञ्जने शरोत्तमैः। चिच्छेदैकेन भल्लेन धनुश्चेन्द्रध्वजोपमम्॥ केतुमेकेन चिच्छेद पाण्डवं चादयत् त्रिभिः। हताश्वात् तु रथात् तूर्णमवप्लुत्य युधिष्ठिरः॥ तस्थावूलभुजो राजा व्यायुधो भरतर्षभ। विरथं तं समालोक्य व्यायुधं च विशेषतः॥ द्रोणो व्यमोहयच्छत्रून् सर्वसैन्यानि वा विभो। मुञ्चश्चेषुगणांस्तीक्ष्णाल्लँघुहस्तो दृढव्रतः॥ अभिदुद्राव राजानं सिंहो मृगमिवोल्बणः। तमभिद्रुतमालोक्य द्रोणेनामित्रघातिना॥ हाहेति सहसा शब्दः पाण्डूनां समजायत। हतो राजा हतो राजा भारद्वाजेन मारिष॥ इत्यासीत् सुमहाञ्छब्दः पाण्डुसैन्यस्य भारत। ततस्त्वरितमारुह्य सहदेवरथं नृपः। अपायाज्जवनैरश्वैः कुन्तीपुत्रो युधिष्ठिरः॥ संजय उवाच बृहत्क्षत्रमथायान्तं कैकेयं दृढविक्रमम्। क्षेमधूतिर्महाराज विव्याधोरसि मार्गणैः॥ बृहत्क्षत्रस्तु तं राजा नवत्या नतपर्वणाम्। अजघ्ने त्वरितो राजन् द्रोणानीकबिभित्सया॥ क्षेमधूर्तिस्तु संक्रुद्धः कैकेयस्य महात्मनः। धनुचिच्छेद भल्लेन पीतेन निशितेन ह॥ अथैनं छिन्नधन्वानं शरेणानतपर्वणा। विव्याध समरे तूर्णं प्रवरं सर्वधन्विनाम्॥ अथान्यद् धनुरादाय बृहत्क्षत्रो हसन्निव। व्यश्वसूतरथं चक्रे क्षेमधूति महारथम्॥ ततोऽपरेण भल्लेन पीतेन निशितेन च। जहार नृपतेः कायाच्छिरो ज्वलितकुण्डलम्॥ तच्छिन्नं सहसा तस्य शिरः कुञ्चितमूर्धजम्। सकिरीटं महीं प्राप्य बभौ ज्योतिरिवाम्बरात्॥ तं निहत्य रणे हृष्टो बृहत्क्षत्रो महारथः। सहसाभ्यपतत् सैन्यं तावकं पार्थकारणात्॥ धृष्टकेतुं तथाऽऽयान्तं द्रोणहेतोः पराक्रमी। वीरधन्वा महेष्वासो वारयामास भारत॥ तौ परस्परमासाद्य शरदंष्ट्रौ तरस्विनौ। शरैरनेकसाहौरन्योन्यमभिजघ्नतुः॥ तावुभौ नरशार्दूलौ युयुधाते परस्परम्। महावने तीव्रमदौ वारणाविव यूथयौ॥ गिरिगह्वरमासाद्य शार्दूलाविव रोषितौ। युयुधाते महावीर्यो परस्परजिघांसया॥ तद् युद्धमासीत् तुमुलं प्रेक्षणीयं विशाम्पते। सिद्धचारणसंघानां विस्मयाद्भुतदर्शनम्॥ वीरधन्वा ततः क्रुद्धो धृष्टकेतोः शरासनम्। द्विघा चिच्छेद भल्लेन प्रहसनिनव भारत॥ तदुत्सृज्य धनुश्छिन्नं चेदिराजो महारथः। शक्ति जग्राह विपुलां हेमदण्डामयस्मयीम्॥ तां तु शक्तिं महावीर्यां दोामायम्य भारत। चिक्षेप सहसा यत्तो वीरधन्वरथं प्रति॥ तया तु वीरघातिन्या शक्त्या त्वभिहतो भृशम्। निर्भिन्नहृदयस्तूर्णं निपपात रथान्महीम्॥ तस्मिन् विनिहते वीरे त्रैगर्तानां महारथे। बलं तेऽभज्यत विभो पाण्डवेयैः समन्ततः॥ सहदेवे ततः षष्टिं सायकान् दुर्मुखोऽक्षिपत्। ननाद च महानादं तर्जयन् पाण्डवं रणे॥ माद्रेयस्तु ततः क्रुद्धो दुर्मुखं च शितैः शरैः। भ्राता भ्रातरमायान्तं विव्याध प्रहसन्निव॥ तं रणे रभसं दृष्ट्वा सहदेवं महाबलम्। दुर्मुखो नवभिर्बाणैस्ताडयामास भारत॥ दुर्मुखस्य तु भल्लेन छित्त्वा केतुं महाबलः। जघान चतुरो वाहांश्चतुर्भिनिशितैः शरैः॥ अथापरेण भल्लेन पीतेन निशितेन हा चिच्छेद सारथेः कायाच्छिरो ज्वलितकुण्डलम्॥ क्षुरप्रेण च तीक्ष्णेन कौरव्यस्य महद् धनुः। सहदेवो रणे छित्त्वा तं च विव्याध पञ्चभिः॥ हताश्वं तु रथं त्यक्त्वा दुर्मुखो विमनास्तदा। आरुरोह रथं राजन् निरमित्रस्य भारत॥ सहदेवस्ततः क्रुद्धो निरमित्रं महाहवे। जघान पृतनामध्ये भल्लेन परवीरहा॥ स पपात रथोपस्थानिरमित्रो जनेश्वरः। त्रिगर्तराजस्य सुतो व्यथयंस्तव वाहिनीम्॥ तं तु हत्वा महाबाहुः सहदेवो व्यरोचत। यथा दाशरथी रामः खरं हत्वा महाबलम्॥ हाहाकारो महानासीत् त्रिगर्तानां जनेश्वर। राजपुत्रं हतं दृष्ट्वा निरमित्रं महारथम्॥ नकुलस्ते सुतं राजन् विकर्णे पृथुलोचनम्। मुहूर्ताज्जितवाँल्लोके तदद्भुतमिवाभवत्॥ सात्यकिं व्याघ्रदत्तस्तु शरैः संनतपर्वभिः। चक्रेऽदृश्यं साश्वसूतं सध्वजं पृतनान्तरे॥ तान् निवार्य शराशूरः शैनेयः कृतहस्तवत्। साश्वसूतध्वजं बाणैर्व्याघ्रदत्तमपातयत्॥ कुमारे निहते तस्मिन् मागधस्य सुते प्रभो। मागधाः सर्वतो यत्ता युयुधानमुपाद्रवन्॥ विसृजन्तः शरांश्चैव तोमरांश्च सहस्रशः। भिन्दिपालांस्तथा प्रासान् मुद्गरान् मुसलानपि॥ अयोधयन् रणे शूराः सात्वतं युद्धदुर्मदम्। तांस्तु सर्वान् स बलवान् सात्यकियुद्धदुर्मदः॥ नातिकृच्छ्राद्धसन्नेव विजिग्ये पुरुषर्षभः। मागधान् द्रवतो दृष्ट्वा हतशेषान् समन्ततः॥ बलं तेऽभज्यत विभो युयुधानशरार्दितम्। नाशयित्वा रणे सैन्यं त्वदीयं माधवोत्तमः॥ विधुन्वानो धनुः श्रेष्ठं व्यभ्राजत महायशाः। भज्यमानं बलं राजन् सात्वतेन महात्मना॥ नाभ्यवर्तत युद्धाय त्रासितं दीर्घबाहुना। ततो द्रोणो भृशं क्रुद्धः सहसोवृत्य चक्षुषी। सात्यकिं सत्यकर्माणं स्वयमेवाभिदुद्रुवे॥ संजय उवाच अलम्बुषं तथा युद्धे विचरन्तमभीतवत्। हैडिम्बिः प्रययौ तूर्णे विव्याध निशितैः शरैः॥ तयोः प्रतिभयं युद्धमासीद् राक्षससिंहयोः। कुर्वतोर्विविधा मायाः शक्रशम्बरयोरिव॥ अलम्बुषो भृशं क्रुद्धो घटोत्कचमताडयत्। तयोर्युद्धं समभवद् रक्षोग्रामणिमुख्ययोः॥ याहगेव पुरावृत्तं रामरावणयोः प्रभो। घटोत्कचस्तु विंशत्या नाराचानां स्तनान्तरे।४॥ अलम्बुषमथो विद्ध्वा सिंहवद् व्यनदन्मुहुः। तथैवालम्बुषो राजन् हैडिम्बि युद्धदुर्मदम्॥ विद्ध्वा विद्ध्वा नदष्टः पूरयन् खं समनततः। तथा तौ भृशसंक्रुद्धौ राक्षसेन्द्रौ महाबलौ॥ निर्विशेषमयुध्येतां मायाभिरितरेतरम्। मायाशतसृजौ नित्यं मोहयन्तौ परस्परम्॥ मायायुद्धेषु कुशलौ मायायुद्धमयुध्यताम्। यां यां घटोत्कचो युद्धे मायां दर्शयते नृप॥ तां तामलम्बुषो राजन् माययेव निजनिवान्। तं तथा युध्यमानं तु मायायुद्धविशारदम्॥ अलम्बुषं राक्षसेन्द्रं दृष्ट्वाक्रुध्यन्त पाण्डवाः। त एनं भृशसंविग्नाः सर्वतः प्रवरा रथैः॥ अभ्यद्रवन्त संक्रुद्धा भीमसेनादयो नृप। त एनं कोष्ठकीकृत्य रथवंशेन मारिष॥ सर्वतो व्यकिरन् बाणैरुल्काभिरिव कुञ्जरम्। स तेषामस्त्रेवेगं तं प्रतिहत्यास्त्रमायया॥ तस्माद् रथव्रजान्मुक्तो वनदाहादिय द्विपः। स विस्फार्य धनु।रमिन्द्राशनिसमस्वनम्॥ मारुतिं पञ्चविंशत्या भैमसेनि च पञ्चभिः। युधिष्ठिरं त्रिभिर्विध्वा सहदेवं च सप्तभिः॥ नकुलं च त्रिसप्तत्या द्रौपदेयांश्च मारिष। पञ्चभिः पञ्चभिर्विद्ध्वा घोरं नादं ननाद ह॥ तं भीमसेनो नवभिः सहदेवस्तु पञ्चभिः। युधिष्ठिरः शतेनैव राक्षसं प्रत्यविध्यत॥ नकुलस्तुचतुःषष्ट्या द्रौपदेयास्त्रिभिस्त्रिभिः। हैडिम्बो राक्षसं विद्ध्वा युद्धे पञ्चाशता शरैः॥ पुनर्विव्याध सप्तत्या ननाद च महाबलः। तस्य नादेन महता कम्पितेयं वसुंधरु॥ सपर्वतवना राजन् सपादपजलाशया। सोऽतिविद्धो महेष्वासैः सर्वतस्तैर्महारथैः॥ प्रतिविव्याध तान् सर्वान् पञ्चभिः पञ्चभिः शरैः। तं क्रुद्धं राक्षसं युद्धे प्रतिक्रुद्धस्तु राक्षसः॥ हैडिम्बो भरतश्रेष्ठ शरैर्विव्याघ सप्तभिः। सोऽतिविद्धो बलवता राक्षसेन्द्रो महाबलः॥ व्यसृजत् सायकांस्तूर्णं रुक्मपुङ्खान् शिलाशितान्। ते शरा नतपर्वाणो विविशू राक्षसं तदा॥ रुषिताः पन्नगा यद्वद् गिरिशृङ्गं महाबलाः। ततस्ते पाण्डवा राजन् समन्तानिनशिताशरान्॥ प्रेषयामासुरुद्विग्ना हैडिम्बश्च घटोत्कचः। स विध्यमानः समरे पाण्डवैर्जितकाशिभिः॥ मर्त्यधर्ममनुप्राप्तः कर्तव्यं नान्वपद्यत। ततः समरशौण्डो वै भैमसेनिर्महाबलः॥ समीक्ष्य तदवस्थं तं वधायास्य मनो दधे। वेगं चक्रे महान्तं च राक्षसेन्द्ररथं प्रति॥ दग्धाद्रिकूटशृङ्गाभं भिन्नाञ्जनचयोपमम्। रथाद् रथमभिदुत्य क्रुद्धो हैडिम्बिराक्षिपत्॥ उद्वबर्ह रथाच्चापि पन्नगं गरुडो यथा। समुत्क्षिप्य च बाहुभ्यामाविध्य च पुनः पुनः॥ निष्पिपेष क्षितौ क्षिप्रं पूर्णकुम्भमिवाश्मनि। बललाघवसम्पन्नः सम्पन्नो विक्रमेण च॥ भैमसेनी रणे क्रुद्धः सर्वसैन्यान्यभीषयत्। स विस्फारितसर्वाङ्गश्शूर्णितास्थिर्विभीषणः॥ घटोत्कचेन वीरेण हतः शालकटङ्कटः। ततः सुमनसः पार्था हते तस्मिन् निशाचरे॥ चुक्रुशुः सिंहनादांश्च वासांस्यादुधुवुश्च ह। तावकाश्च हतं दृष्ट्वा राक्षसेन्द्रं महाबलम्॥ अलम्बुषं तथा शूरा विशीर्णमिव पर्वतम्। हाहाकारमकार्षुश्च सैन्यानि भरतर्षभ॥ जनाश्च तद् ददृशिरे रक्षः कौतूहलान्विताः। यदृच्छया निपतितं भूमावङ्गारकं यथा॥ घटोत्कचस्तु तद्धत्वा रक्षो बलवतां वरम्। मुमोच बलचन्नादं बलं हत्वेव वासवः॥ घटोत्कचः कर्मणि दुष्करे कृते। रिपुं निहत्याभिननन्द वै तदा ह्यलम्बुषं पक्वमलम्बुषं यथा॥ ततो निनादः सुमहान् समुत्थितः सशङ्खनानाविधबाणघोषवान्। स्ततोध्वनिर्भुवनमथास्पृशद् भृशम्॥ ततो निनादः सुमहान् समुत्थितः सशङ्खनानाविधबाणघोषवान्। स्ततोध्वनिर्भुवनमथास्पृशद् भृशम्॥ संजय उवाच प्रीतियुक्तं च हृद्यं च मधुराक्षरमेव च। कालयुक्तं च चित्रं चन्याय्यं यचापि भाषितुम्॥ धर्मराजस्य तद् वाक्यं निशम्य शिनिपुङ्गवः। सात्यकिर्भरतश्रेष्ठ प्रत्युवाच युधिष्ठिरम्॥ श्रुतं ते गदतो वाक्यं सर्वमेतन्मयाच्युत। न्याययुक्तं च चित्रं च फाल्गुनार्थे यशस्करम्॥ एवंविधे तथा काले मादृशं प्रेक्ष्य सम्मतम्। वक्तमर्हसि राजेन्द्र यथा पार्थ तथैव माम्॥ न मे धनंजयस्यार्थे प्राणा रक्ष्याः कथंचन। त्वत्प्रयुक्तः पुनरहं किं न कुर्यो महाहवे॥ लोकत्रयं योधयेयं सदेवासुरमानुषम्। त्वत्प्रयुक्तो नरेन्द्रेह किमुतैतत् सुदुर्बलम्॥ सुयोधनबलं त्वद्य योधयिष्ये समन्ततः। विजेष्ये च रणे राजन् सत्यमेतद् ब्रवीमि ते॥ कुशल्यहं कुशलिनं समासाद्य धनंजयम्। हते जयद्रथे राजन् पुनरेष्यामि तेऽन्तिकम्॥ अवश्यं तु मया सर्व विज्ञाप्यस्त्वं नराधिपा वासुदेवस्य यद् वाक्यं फाल्गुनस्य च धीमतः॥ दृढं त्वभिपरीतोऽहमर्जुनेन पुनः पुनः। मध्ये सर्वस्य सैन्यस्य वासुदेवस्य शृण्वतः॥ अद्य माधव राजानमप्रमत्तोऽनुपालय। आर्यो युद्धे मतिं कृत्वा यावद्धन्मि जयद्रथम्॥ त्वयि चाहं महाबाहो प्रद्युम्ने वा महारथे। नृपं निक्षिप्य गच्छेयं निरपेक्षो जयद्रथम्॥ जानीषे हि रणे द्रोणं रभसं श्रे. पम्मतम्। प्रतिज्ञा चापि ते नित्यं श्रुता द्रोणस्य माधव॥ ग्रहणे धर्मराजस्य भारद्वाजोऽपि गृध्यति। शक्तश्चापि रणे द्रोणो निग्रहीतुं युधिष्ठिरम्॥ एवं त्वयि समाधाय धर्मराजं नरोत्तमम्। अहमद्य गमिष्यामि सैन्धवस्य वधाय हि॥ जयद्रथं च हत्वाहं द्रुतमेष्यामि माधव। धर्मराजं न चेद् द्रोणो निगृह्णीयाद् रणे बलात्॥ निगृहीते नरश्रेष्ठे भारद्वाजेन माधव। सैन्धवस्य वधो न स्यान्ममाप्रीतिस्तथा भवेत्॥ एवंगते नरश्रेष्ठे पाण्डवे सत्यवादिनी। अस्माकं गमनं व्यक्तं वनं प्रति भवेत् पुनः॥ सोऽयं मम जयो व्यक्तं व्यर्थ एव भविष्यति। यदि द्रोणो रणे क्रुद्धो निगृह्णीयाद् युधिष्ठिरम्॥ स त्वमद्य महाबाहो प्रियार्थे मम माधव। जयार्थं च यशोऽर्थं च रक्ष राजानमाहवे॥ स भवान् मयि निक्षेपो निक्षिप्तः सव्यसाचिना। भारद्वाजाद् भयं नित्यं मन्यमानेन वै प्रभो॥ तस्यापि च महाबाहो नित्यं पश्यामि संयुगे। नान्यं हि प्रतियोद्धारं रौक्मिणेयादृते प्रभो॥ मां चापि मन्यते युद्धे भारद्वाजस्य धीमतः। सोऽहं सम्भावनां चैतामाचार्यवचनं च तत्॥ पृष्ठतो नोत्सहे कर्तु त्वां वा त्युक्तं महीपते। आचार्यो लघुहस्तत्वादभेद्यकवचावृतः॥ उपलभ्य रणे क्रीडेद् यथा शकुनिना शिशुः। यदि काष्णिर्धनुष्पाणिरिह स्यान्मकरध्वजः॥ तस्मै त्वं विसृजेयं वै स त्वां रक्षेद् यथार्जुनः। कुरु त्वमात्मनो गुप्ति कस्ते गोप्ता गते मयि॥ यः प्रतीयाद् रणेद्रोणं यावद् गच्छामि पाण्डवम्। मा च ते भयमद्यास्तु राजन्नर्जुनसम्भवम्॥ न स जातु महाबाहुर्भारमुद्यम्य सीदति। ये च सौवीरका योधास्तथा सैन्धपौरवाः॥ उदीच्या दाक्षिात्याश्च ये चान्येऽपि महारथाः। ये च कर्णमुखा राजन् रथोदाराः प्रकीर्तिताः॥ एतेऽर्जुनस्य क्रुद्धस्य कलां नार्हन्ति षोडशीम्। उद्युक्ता पृथिवी सर्वा ससुरासुरमानुषा॥ सराक्षसगणा राजन् सकिन्नरमहोरगा। जङ्गमाः स्थावराः सर्वे नालं पार्थस्य संयुगे॥ एवं ज्ञात्वा महाराज व्येतु ते भीर्धनंजये। यत्र वीरौ महेष्वासौ कृष्णौ सत्यपराक्रमौ॥ न तत्र कर्मणो व्यापत् कथञ्चिदपि विद्यते। दैवं कृतास्रतां योगममर्षमपि चाहवे॥ कृतज्ञतां दयां चैव भ्रातुस्त्वमनुचिन्तय। मयि चापि सहाये ते गच्छमानेऽर्जुनं प्रति॥ द्रोणे चित्रास्रता संख्ये राजंस्तवमनुचिन्तय। आचार्यो हि भृशं राजन् निग्रहे तव गृध्यति॥ प्रतिज्ञामात्मनो रक्षन् सत्यां कर्तु च भारत। कुरुष्वाद्यत्मनो गुप्ति कस्ते गोप्ता गते मयि॥ यस्याहं प्रत्ययात् पार्थ गच्छेयं फाल्गुनं प्रति। न ह्यहं त्वां महाराज अनिक्षिप्य महाहवे॥ क्वचिद् यास्यामि कौरव्य सत्यमेतद् ब्रवीमि ते। एतद्विचार्य बहुशो बुद्ध्या बुद्धिमतां चर॥ दृष्ट्वाश्रेयः परं बुद्ध्या ततो राजन् प्रशाधिमाम्॥ युधिष्ठिर उवाच एवमेतन्महाबाहो यथा वदसि माधव। न तु मे शुद्ध्यते भावः श्वेताश्वं प्रति मारिष॥ रोचय॥ करिष्ये परमं यत्नमात्मनो रक्षणे ह्यहम्। गच्छ त्वं समनुज्ञातो यत्र यातो धनंजयः॥ आत्मसंरक्षणं संख्ये गमनं चार्जुनं प्रति। विचार्यैतत् स्वयं बुद्ध्या गमनं तत्र स त्वमातिष्ठ यानाय यत्र यातो धनंजयः। ममापि रक्षणं भीमः करिष्यति महाबलः॥ पार्वतश्च ससोदर्यः पार्थिवाश्च महाबलाः। द्रौपदेयाश्च मां तात रक्षिष्यन्ति न संशयः॥ केकया भ्रातरः पञ्च राक्षसश्च घटोत्कचः। विराटो दुपदश्चैव शिखण्डी च महारथः॥ धृष्टकेतुश्च बलवान् कुन्तिभोजश्च मातुलः। नकुल-सहदेवश्च पञ्चालाः सृञ्जयास्तथा॥ एते समाहितास्तात रक्षियन्ति न संशयः। न द्रोणः सह सैन्येन कृतवर्मा च संयुगे॥ समासादयितुं शतो न च मां धर्षयिष्यति। धृष्टद्युम्नश्च समरे द्रोणं क्रुद्धं परंतपः॥ वारयिष्यति विक्रम्य वेलेव मकरालयम्। यत्र स्थास्यति संग्रामे पार्षतः परवीरहा॥ द्रोणो न सैनयं बलवत् कामेत् तत्र कथंचन। एष द्रोणविनाशाय समुत्पन्नो हुताशनात्॥ कवची स शरी खड्गी धन्वी च वरभूषणः। विश्रब्धं गच्छ शैनेय मा कार्षीर्मयि सम्भ्रमम्। धृष्टद्युम्नो रणे क्रुद्धं द्रोणमावारयिष्यति॥ संजय उवाच प्रयाते तव सैन्यं तव सैनयं तु युयुधाने युयत्सया। धर्मराजो महाराज स्वेनानीकेन संवृतः॥ पार्थिवः। प्रायाद् द्रोणरथं प्रेप्सुर्युयुधानस्य पृष्ठतः। ततः पाञ्चालराजस्य पुत्रः समादुर्मदः॥ प्राक्रोशत् पाण्डवानीके वसुदानश्च आगच्छत प्रहरत द्रुतं विपरिधावत॥ यथा सुखेन गच्छत सात्यकिर्युद्धदुर्मदः। महारथा हि बहवो यतिष्यन्त्यस्य निर्जये॥ इति ब्रुवन्तो वेगेन निपेतुस्ते महारथाः। वयं प्रतिजिगीषन्तस्तत्र तान् समभिद्रुताः॥ ततः शब्दो महानासीद् युयुधानरथं प्रति। आकीर्यमाणा धावन्ती तव पुत्रस्य वाहिनी॥ सात्वतेन महाराज शतधाभिव्यशीर्यत। तस्यां विदीर्यमाणायां शिनेः पौत्रो महारथः॥ सप्त वीरान् महेष्वासानग्रानीकेष्वपोथयत्। अथान्यानपि राजेन्द्र नानाजनपदेश्वरान्॥ शरैरगलसंकाशैनिन्ये वीरान् यमक्षयम्। शतमेकेन विव्याध शतेनैकं च पत्रिणाम्॥ द्विपारोहान् द्विपांश्चैव हयारोहान् हयांस्तथा। रथिनः साश्वसूतांश्च जघानेशः पशूनिव॥ तं तथाद्भुतकर्माणं शरसम्पातवर्षिणम्। न केचनाभ्यधावन् वै सात्यकि सैनिकाः॥ ते भीता मृद्यमानाश्च प्रमृष्टा दीर्घबाहुना। आयोधनं जहुर्वीरा दृष्टवा तमतिमानिनम्॥ तमेकं बहुधापश्यन् मोहितास्तस्य तेजसा। रथैर्विमथितैश्चैव भग्नीडैश्च मारिष॥ चक्रैर्विमथितैश्छत्रैर्ध्वजैश्च विनिपातितः। अनुकषैः पताकाभिः शिरस्त्राणैः सकाञ्चनैः॥ बाहुभिश्चन्दनादिग्धैः साङ्गदैश्च विशाम्पते। हस्तिहस्तोपमैश्चापि भुजङ्गाभोगसंनिभैः॥ ऊरुभिः पृथिवी च्छन्ना मनुजानां नराधिप। शशाङ्कसंनिभैश्चैव वदनैश्चारुकुण्डलैः॥ पतितैर्ऋषभाक्षाणां सा बभावति मेदिनी। गजैश्च बहुधा छिन्नैः शयानैः पर्वतोपमैः॥ रराजातिभृशं भूमिविकीर्णैरिव पर्वतैः। तपनीयमयैर्योक्त्रैर्मुक्ताजालविभूषितैः॥ उरश्छदैर्विचित्रैश्च व्यशोभनत तुरङ्गमाः। गतसत्त्वा महीं प्राप्य प्रमृष्टा दीर्घबाहुना॥ नानाविधानि सैन्यानि तव हत्वा तु सात्वतः। प्रविष्टस्तावकं सैन्यं द्रावयित्वा चमूं भृशम्॥ ततस्तेनैव मार्गेण येन यातो धनंजयः। इयेष सात्यकिर्गन्तुं ततो द्रोणेन वारितः॥ भारद्वाजं समासाद्य युयुधानश्च सात्यकिः। न न्यवर्तते संक्रुद्धो वेलामिव जलाशयः॥ निवार्य तु रणे द्रोणो युयुधानं महारथम्। विव्याध निशितैर्बाणैः पञ्चभिर्मर्मभेदिभिः॥ सात्यकिस्तु रणे द्रोणं राजन् विव्याध सप्तभिः। हेमपुङ्खैः शिलाधौतैः कङ्कबर्हिणवाजितैः॥ तं षभिः सायकैनॊणः साश्वयन्तारमार्दयेत्। स तं न ममृषे द्रोणं युयुधानो महारथः॥ सिंहनादं ततः कृत्वा द्रोणं विव्याध सात्यकिः। दशभिः सायकैश्चान्यैः षड्भिरष्टाभिरेव च॥ युयुधानः पुनद्रोणं विव्याध दशभिः शरैः। एकेन सारथिं चास्य चतुर्भिश्चतुरो हयान्॥ ध्वजमेकेन बाणेन विव्याध युधि मारिष। तं द्रोण: साश्वयन्तारं सरथध्वजमाशुगैः॥ त्वरन् प्राच्छादयद् बाणैः शलभानामिव व्रजैः। तथैव युयुधानोऽपि द्रोणं बहुभिराशुगैः॥ आच्छादयदसम्भ्रान्तस्ततो द्रोण उवाच हा तवाचार्यो रणं हित्वा गतः कापुरुषो यथा॥ युध्यमानं च मां हित्वा प्रदक्षिणमवर्तत। त्वं हि मे युध्यतो नाद्य जीवन् यास्यसि माधव॥ सात्यकिरुवाच यदि मां त्वं रणे हित्वा न यास्याचार्यवद्रुतम्। धनंजयस्य पदवीं धर्मराजस्य शासनात्॥ गच्छामिस्वस्ति ते ब्रह्मन् न मे कालात्ययो भवेत्। आचार्यानुग्रतो मार्ग: शिष्यैरन्वास्यते सदा॥ संजय उवाच तस्मादेव व्रजाम्याशु यथा मे स गुरुर्गतः। एतावदुक्त्वा शैनेय आचार्य परिवर्जयन्॥ प्रयातः सहसा राजन् सारथिं चेदमब्रवीत्। द्रोणः करिष्यते यत्नं सर्वथा मम वारणे॥ यत्तो याहि रणे सूत शृणु चेदं वचः परम्। एतदालोक्यते सैन्यमावन्त्यानां महाप्रभम्॥ आस्यानन्तरतस्त्वेतद् दाक्षिणात्यं महद् बलम्। तदनन्तरमेतच बाह्निकानां महद् बलम्॥ बाह्निकाभ्याशतो युक्तं कर्णस्य च महद् बलम्। अन्योन्येन हि सैन्यानि भिन्नान्येतानि सारथे॥ अन्योन्यं समुपाश्रित्य न त्यक्ष्यन्ति रणाजिरम्। एतदन्तमासाद्य चोदयाश्वान् प्रहृष्टवत्॥ मध्यमं जवमास्थाय वह मामत्र सारथे। वाह्निका यत्र दृश्यन्ते नानाप्रहरणोद्यताः॥ दाक्षिणत्याश्च बहवः सूतपुत्रपुरोगमाः हस्त्यश्वरथसम्बाधं यचानीकं विलोक्यते॥ नानादेशसमुत्यैश्च पदातिभिरधिष्ठितम्। एतावदुक्त्वा यन्तारं ब्राह्मणं परिवर्जयन्॥ स व्यतीयाय यत्रोग्रं कर्णस्य च महद् बलम्। तंद्रोणोऽनुययौ क्रुद्धो विकिरन् विशिखान् बहून्॥ युयुधानं महाभागं गच्छन्तमनिवर्तिनम्। कर्णस्य सैन्यं सुमहदभिहत्य शितैः शरैः॥ प्राविशद् भारती सेनामर्पयन्तां च सात्यकिः। प्रविष्टे युयुधाने तु सैनिकेषु दुतेषु च॥ अमषीं कृतवर्मा तु सात्यकिं पर्यवारयत्। तमापतन्तं विशिखैः षड्भिराहत्य सात्यकिः॥ चतुर्भिश्चतुरोऽस्याश्वानाजघानाशु वीर्यवान्। ततः पुनः षोडशभिर्नतपर्वभिराशुगैः॥ सात्यकिः कृतवर्माणं प्रत्यविध्यत् स्तनान्तरे। स ताड्यमानो विशिखैर्बहुभिस्तिग्मतेजनैः॥ सात्वतेन महाराज कृतवर्मा न चक्षमे। स वत्सदन्तं संधाय जिह्मगानलसंनिभम्॥ आकृष्य राजन्नाकर्णाद् विव्याधोरसि सात्यकिम्। स तस्य देहावरणं भित्त्वा देहं च सायकः॥ सपुङ्खपत्रः पृथिवीं विवेश रुधिरोक्षितः। अथास्य बहुर्भिर्बाणैरच्छिनत् परमास्त्रवित्॥ समार्गणगणं राजन् कृतवर्मा शरासनम्। विव्याध च रणे राजन् सात्यकिं सत्यविक्रमभू॥ दशभिर्विशिस्तीक्ष्णैरभिक्रुद्धः स्तनान्तरे। ततः प्रशीर्णे धनुषि शक्त्या शक्तिमतां वरः॥ जधान दक्षिण बाहुं सात्यकिः कृतवर्मणः। ततोऽन्यत् सुदृढं चापं पूर्णमायम्य सात्यकिः॥ व्यसृजद् विशिखांस्तूर्णे शतथोऽथ सहस्रशाः। सरथं कृतवर्माणं समन्तात् पर्यवारयत्॥ छादयित्वारणे राजन् हार्दिक्यं स तु सात्यकिः। अथास्य भल्लेन शिरः सारथेः समकृन्तत॥ स पपात हतः सूतो हार्दिक्यस्य महारथात्। ततम्ते यन्तृरहिताः प्राद्रवंस्तुरगा भृशम्॥ अथ भोजस्तु सम्भ्रान्तो निगृह्य तुरगान् स्वयम्। तस्थौ वीरो धनुष्पाणिस्तत् सैन्यान्यभ्यपूजयन्।।' ८॥ स मुहूर्तमिवाश्वस्य सदश्वान् समनोदयत्। व्यपेतभीरमित्राणामावहत् सुमहद् भयम्॥ सात्यकिश्चाभ्यगात् तस्मात् स तु भीममुपाद्रवत्! युयुधानोऽपि राजेन्द्र भोजानीकाद् विनिःसृतः॥ प्रययौ त्वरितस्तूर्ण काम्बोजानां महाचमूम्। स तत्र बहुभिः शूरैः संनिरुद्धो महारथैः॥ न चचाल तदा राजन् सात्यकिः सत्यविक्रमः। संधाय च चमू द्रोणो भोजे भारं निवेश्य स॥ अभ्यघावद् रणे यत्तो युयुधानं युयुत्सया। तथा तमनुधावन्तं युयुधानस्य पृष्ठतः॥ न्यवारयन्त संहृष्टाः पाण्डुसैन्ये वृहत्तमाः। सामसाद्य तु हार्दिक्यं रथानां प्रवरं रथम्॥ पञ्चाला विगतोत्साहा भीमसेनपुरोगमाः। विक्रम्य वारिता राजन् वीरेण कृतवर्मणा॥ यतमानांश्च तान् सर्वानीषद्विगतचेतसः। अभितस्ताशरौघेण कान्तवाहानकारयत्॥ निगृहीतास्तु भोजेन भोजानीकेप्सवो रणे। अतिष्ठन्नार्यवद् वीराः प्रार्थयन्तो महदृशः॥ संजय उवाच शृणुष्वैकमना राजन् यन्मां त्वं परिपृच्छसि। द्राव्यमाणे बलेतस्मिन् हार्दिक्येन महात्मना॥ लज्जयाऽवनते चापि प्रत्दृष्टैश्चापि तावकैः। द्वीपो य आसीत् पांडूनामगाधे गधामेच्छतां॥ श्रुत्वा स निनदं भीमं तावकानां महाहवे। शैनेयस्त्वरितो राजन् कृतवर्माणमभ्ययात्॥ उवाच सारथिं तत्र क्रोधामर्षसमन्वितः। हार्दिक्याभिमुखं सूत कुरु मे रथमुत्तमम्॥ कुरुते कदनं पश्य पाण्डुसैन्ये ह्यमर्षितः। एनं जित्वा पुनः सूत यास्यामि विजयं प्रति॥ एवमुक्ते तु वचने सूतस्तस्य महामते। निमेषान्तरमात्रेण कृतवर्माणमभ्ययात्॥ कृतवर्मा तु हार्दिक्य: शैनेयं निशितैः शरैः। अवाकिरत्सुसंक्रुद्धस्ततोऽक्रुद्ध्यत्स सात्यकिः॥ अथाशु निशितं भल्लं शैनेयः कृतवर्मणः। प्रेषयामास समरे शरांश्च चतुरोऽपरान्॥ ते तस्य जजिरे ब्राहान् भल्लेनास्याच्छिद्धनुः। पृष्ठरक्षं तथा सूतमविध्यन्निशितैः शरैः॥ ततस्तं विरथं कृत्वा सात्यकिः सत्यविक्रमः। सेनामस्यार्दयामास शरैः सन्नतपर्वभिः॥ अभज्यताथ पृतना शैनेयशरपीडिता। ततः प्रायात्स त्वरितः सात्यकिःसत्यविक्रमः॥ शृणु राजन् यदकरोत् तव सैन्येषु वीर्यवान्। अतीत्य स महाराज द्रोणानीकमहार्णवम्॥ पराजित्य तु संदृष्टः कृतवर्माणमाहवे। यन्तारमब्रवीच्छूरः शनैर्याहीत्यसंभ्रमम्॥ दृष्ट्वा तु तव तत् सैन्यं रथाश्वद्विपसंकुलम्। पदातिजनसंपूर्णमब्रवीत् सारर्थि पुनः॥ सुमहत् कुञ्जरानीकं यस्य रुक्मरथो मुखम्॥ एते हि बहवः सूत दुर्निवाराश्च संयुगे। दुर्योधनसमादिष्टा मदर्थे त्यक्तजीविताः॥ राजपुत्रा महेष्वासाः सर्वे विक्रान्तयोधिनः। त्रिगर्तानां रथोदाराः सुवर्णविकृतध्वजाः॥ मामेवाभिमुखा वीरा योत्स्यमाना व्यवस्थिताः। अत्र मां प्रापय क्षिप्रमश्वांश्चोदय सारथे॥ त्रिगर्तेः सह योत्स्यामि भारद्वाजस्य पश्यतः। ततः प्रायाच्छनैःसूतः सात्वतस्य मते स्थितः॥ रथेनादित्यवर्णेन भास्वरेण पताकिना। तमूहुः सारथेवश्य वल्गमाना हयोत्तमाः॥ वायुवेगसमाः संख्ये कुन्देन्दुरजप्रभाः। आपतन्तं रणे तं तु शंखवणैर्हयोत्तमैः॥ परिवयुस्ततः शूरा गजीनीकेन सर्वतः। किरन्तो विधिधास्तीक्ष्णान् सायकान् लघुवेधिनः॥ सात्वतो निशितैर्बाणैर्गजानीकमयोधयत्। पर्वतानिव वर्षेण तपान्ते जलदो महान्॥ वज्राशनिसमस्पर्शर्वध्यमानाः शरैर्गजाः। प्राद्रवन् रणमुत्सृज्य शिनिवीरसमीरितैः॥ :॥ शीर्णदन्ता विरुधिरा भिन्नमस्तकपिण्डिकाः। विशीर्णकर्णास्यकरा विनियन्तृपताकिनः॥ संभिन्नमर्मघण्टाश्च विनिकृत्तमहाध्वजाः। हतारोहा दिशो राजन् भेजिरे भ्रष्टकंवला:॥ रुवन्तो विविधान्नदान जलदोपमनि:स्वना। नाराचैर्वत्सदन्तैश्च भल्लैरञ्जलिकैस्तथा॥ क्षुरप्रैरर्धचन्दैश्च सात्वतेन विदारिताः। क्षरन्तोऽसृक् तथा मूत्रं पुरीषं च प्रदुद्रुवुः॥ बभ्रमुश्चस्खलुश्चान्ये पेतुर्मम्लुस्तथाऽपरे। एवं तत् कुञ्जरानीकं युयुधानेन पीडितम्॥ शरैरग्न्यर्कसंकाशैः प्रदुद्राव समन्ततः। तस्मिन्हते गजानीके जलसन्धो महाबलः॥ यत्तः संप्रापयन्नागं रजताश्वरथं प्रति। रुक्मवर्मधरः शूरस्तपनीयांगदः शुचिः॥ कुण्डली मुकुटी खड्गी रक्तचन्दनरूषितः। शिरसा धारयन् दीप्तां तपनीयमी स्रजम्॥ उरसा धारयन्निष्कं कण्ठसूत्रं च भास्वरम्। चापं च रुक्मविकृतं विधुन्वन् गजमूर्धनि॥ अशोभत महाराज सविद्युदिव तोयदः। तमापतन्तं सहसा मागधस्य गजोत्तमम्॥ सात्यकिर्वारयामास वेलेव मकरालयम्। नागं निवारितं दृष्ट्वा शैनेयस्य शरोत्तमैः॥ अक्रुद्ध्यत रणे राजन् जलसंधो महाबलः। ततः क्रुद्धो महाराज मार्गणै रसाधनैः॥ अविध्यत शिनेः पौत्रं जलसन्धो महोरसि। ततोऽपरेण भल्लेन पीतेन निशितेन च॥ अस्यतो वृष्णिवीरस्य निचकर्त शरासनम्। सात्यकि छिन्नधन्वानं प्रहसन्निव भारत॥ अविध्यन्मागधो वीरः पञ्चभिर्निशितैः शरैः। स विद्धो बहुभिबाणैर्जलसन्धेन वीर्यवान्॥ नाकम्पत महाबाहुस्तदद्भुतमिवाभवत्। अचिन्तयन् वै स शरान्नात्यर्थं सम्भ्रभावली॥ धनुरन्यत् समादाय तिष्ठ तिष्ठेत्युवाच ह। एतावदुक्त्वा शैनेयो जनसन्धं महोरसि॥ विव्याध पष्ट्या सुभृशं शराणां प्रहसन्निव। क्षुरप्रेण सुतीक्ष्णेन मुष्टिदेशे महद्धनुः॥ जलसंधस्य चिच्छेद विव्याध च त्रिभिः शरैः। जलसंधस्तु तत्त्यक्त्वा सशरं वै शरासनम्॥ तोमरं व्यसृजत्तूर्णं सात्यकिं प्रति मारिष स निर्भिद्य भुजं सव्यं माधवस्य महारणे॥ अभ्यगाद्धरणी घोरः श्वसन्निव महोरगः। निर्भिन्ने तु भुजे सव्ये सात्यकिः सत्यविक्रमः॥ त्रिंशद्भिर्विशिखैस्तीक्ष्णैर्जलसन्धमताडयत्। प्रगृह्य तु ततः खां जलसन्धो महाबलः॥ आर्षभं चर्म च महच्छतचन्द्रकसंङ्कुलम्। आविध्य च ततः खङ्गं सात्वतायोत्ससर्ज ह॥ शैनेयस्य धनुश्छित्त्वा स खगोन्यपतन्मर्हाम्। अलातचक्रवश्चैव व्यरोचत महीं गतः॥ अथान्यद्धनुरादाय सर्वकायावदारणम्। शालस्कन्धप्रतीकाशमिन्द्राशनिसमस्वनम्॥ विस्फार्य विव्यधे क्रुद्धो जलसन्धं शरेण ह। तत: साभरणौ बाहू क्षुराभ्यां माधवोत्तमः॥ सात्यकिर्जलसन्धस्य चिच्छेद प्रहसन्निव। तौ बाहू परिधप्रख्यौ पेततुर्गजसत्तमात्॥ वसुन्धराधरद्धष्टौ पञ्चशीर्षाविवोरगौ। ततः सुदंष्ट्र सुमहश्चारुकुण्डलमण्डितम्॥ क्षुरेणास्य तृतीयेन शिरश्चिच्छेद सात्यकिः। तत्पातितशिरोबाहुकबन्धं भीमदर्शनम्॥ द्विरदं जलसन्धस्य रुधिरेणाभ्यषिञ्चत। जलसन्धं निहत्याजौ त्वरयाणस्तु सात्वतः॥ विमां पातयामास गजस्कन्धाद्विशांपते। रुधिरेणावसिक्तांगो जलसन्धस्य कुञ्जरः॥ विलम्बमानमवहत् संश्लिष्टं परग्रासनम्। शरादितः सात्वतेन मर्दमान: स्ववाहिनीम्॥ घोरमार्तस्वरं कृत्वा विदुद्राव महागजः। हाराकारो महानीसीत्तव सैन्यस्य मारिष॥ जलसन्धं हतं दृष्ट्वा वृष्णीनामृषभेण तु। विमुखाश्चाभ्यधावन्त तव योधाः समन्ततः॥ पलायनकृतोत्साहा निरुत्साहा द्विषजये। एतस्मिन्नन्तरे राजन् द्रोणः शस्त्रभृतां वरः॥ अभ्यायञ्जवनैरश्चैर्युयुधानं महारथम्। तमुदीर्णं तथा दृष्ट्वा शैनेयं नरपुङ्गवाः॥ द्रोणेनैव सह क्रुद्धाः सात्यकिं समुपाद्रवन्। ततः प्रववृते युद्धं कुरुणां सात्वतस्य च। द्रोणस्य च रणे राजन् घोरं देवासुरोपमम्॥ संजय उवाच काल्यमानेषु सैन्येषु शैनेयेन ततस्ततः। भारद्वाजः शरवातैर्महद्भिः समवाकिरत्॥ स सम्प्रहारस्तुमुलो द्रोणसात्वतयोरभूत्। पश्यतां सर्वसैन्यानां बलिवासवयोरिव॥ ततो द्रोण: पौत्रं चित्रैः सर्वायसैः शरैः। त्रिभिराशीविपाकरैर्ललाटे समविध्यत॥ तैर्ललाटार्पितैर्वाणैर्युयुधानस्त्वजिह्मगैः। व्यरोचत महाराज त्रिशृङ्ग इव पर्वतः॥ ततोऽस्य बाणानपरानिन्द्राशनिसमस्वनान्। भारद्वाजोऽन्तरप्रेक्षी प्रेषयामास संयुगे॥ तान् द्रोणचापनिर्मुक्तान् दाशार्हः पतत: शरान्। द्वाभ्यां द्वाभ्यां सुषुङ्खाभ्यां चिच्छेद परमास्त्रवित्॥ तामस्य लघुतां द्रोण: समवेक्ष्य विशाम्पते। प्रहस्य सहसाविध्यत् त्रिंशता शिनिपुङ्गवम्॥ पुनः पञ्चाशतेषूणां शितेन च समापयत्। लघुतां युयुधानस्य लाघवेन विशेषयन्॥ समुन्पतन्ति वल्मीकाद् यथाक्रुद्धा महोरगाः। तथा द्रोणरथाद् राजन्नापतन्ति तनुच्छिदः॥ तथैव युयुधानेन सृष्टाः शतसहस्रशः। अवाकिरन् द्रोणरथं शरा रुधिरभोजनाः॥ लाघवाद् द्विजमुख्यस्य सात्वतस्य च मारिष। विशेषं माध्यगच्छाम समावास्तां नरर्षभौ॥ सात्यकिस्तु ततो द्रोणं नवभिनतपर्वभिः। आजघान भृशं क्रुद्धो ध्वजं च निशितैःशरैः॥ सारथिं च शतेनैव भारद्वाजस्य पश्यतः। लाघवं युयुधानस्य दृष्ट्वा द्रोणो महारथः॥ सप्तत्या सारथिं विद्ध्वा तुरङ्गांश्चत्रिस्त्रिभिः। ध्वजमेकेन चिच्छेद माधवस्य रथे स्थितम्॥ अथापरेण भल्लेन हेमपुखेन पत्रिणा। धनुचिच्छेद समरे माधवस्य महात्मनः॥ सात्यकिस्तुततःक्रुद्धो धनुस्त्यक्त्वा महारथः। गदां जग्राह महती भारद्वाजाय चाक्षिपत्॥ तामापतन्ती सहसा पट्टबद्धामयस्मयीम्। न्यवारयच्छरैद्रोणो बहुभिर्बहुरूपिभिः॥ अथान्यद् धनुरादाय सात्यकिः सत्यविक्रमः। बिव्याध बहुभिर्वीरं भारद्वाजं शिलाशितैः॥ स विद्ध्वा समरे द्रोणं सिंहनादममुञ्चत। तं वै न ममृषे द्रोणः सर्वशस्त्रभृतां वरः॥ ततः शक्तिं गृहीत्वा तु रुक्मदण्डामयस्मयीम्। तरसा प्रेषयामास माधवस्य रथं प्रति॥ अनासाद्य तु शैनेयं सा शक्तिः कालसंनिभा। भित्त्वा रथं जगामोग्रा धरणी दारुणस्वना॥ ततोद्रोणं शिने:पौत्रो राजन् विव्याध पत्रिणा। दक्षिणं भुजमासाद्य पीडयन् भरतर्षभ॥ द्रोणोऽपि समरे राजन् माधवस्य महद् धनुः। अर्धचन्द्रेण चिच्छेद रथशक्त्वा च सारथिम्॥ मुमोह सारथिस्तस्य रथशक्त्या समाहतः। स रथोपस्थमासाद्य मुहूर्त संन्यषीदत॥ चकार सात्यकी राजन् सूतकर्मातिमानुषम्। अयोधयच यद् द्रोणं रश्मीञ्जग्राह च स्वयम्॥ ततः शरशतेनैव युयुधानो महारथः। अविध्यद् ब्राह्मणं संख्ये दृष्टरूपो विशाम्पते॥ तस्य द्रोणः शरान् पञ्च चप्रेषयामास भारत। ते घोराः कवचं भित्त्वा पपुः शोणितमाहवे॥ निर्विद्धस्तु शरैोरैरक्रुद्ध्यत् सात्यकि शम्। सायकान् व्यसृजचापि वीरो रुक्मरथं प्रति॥ ततो द्रोणस्य यन्तारं निपात्यैकेषुणा भुवि। अश्वान् व्यद्रावयद् बाणैर्हतसूतांस्ततस्ततः॥ स रथः प्रद्रुतः संख्ये मण्डलानि सहस्रशः। चकार राजतो राजन् भ्राजमान इवांशुमान्॥ अभिद्रवत गृह्णीत हयान् द्रोणस्य धावत। इति स्म चुक्रुशुः सर्वे राजपुत्राः सराजकाः॥ ते सात्यकिमपास्याशु राजन् युधि महारथाः। यतो द्रोणस्ततः सर्वे सहसा समुपाद्रवन्॥ तान् दृष्ट्वाप्रदुतान् संख्ये सात्वतेन शरार्दितान्। प्रभग्नं पुनरेवासीत् तव सैन्यं समाकुलम्॥ व्यूहस्यैव पुनरं गत्वा द्रोणो व्यवस्थितः। वातायमानैस्तैरश्वैर्नीतो वृष्णिशरार्दितैः॥ पाण्डुपाञ्चालसम्भिन्नं व्यूहमालोक्य वीर्यवान्। शैनेये नाकरोद् यत्नं व्यूहमेवाभ्यरक्षत॥ निवार्य पाण्डुपञ्चालान् द्रोणाग्निः प्रदहनिव। तस्थौ क्रोधेमसंदीप्तः कालसूर्य इवोद्यतः॥ संजय उवाच स्तथैव हार्दिक्यमुखांस्त्वदीयान्। प्रहस्य सूतं वचनं बभाषे शिनिप्रवीरः कुरुपुङ्गवाय॥ हतान् निहन्मेह नरर्षभेण वयं सुरेशात्मसमुद्भवेन॥ तमेवमुक्त्वा शिनिपुङ्गवस्तदा महामृधे सोऽग्र्यधनुर्धरोऽरिहा। किरन् समन्तात् सहसा शरान् बली समापतच्छ्येन इवामिषं यथा।॥ विगाह्य सैन्यं पुरुषप्रवीरम्। नाशक्नुवन् वारयितुं समन्ता दादित्यरश्मिप्रतिमं रथाग्र्यम्॥ असह्यविक्रान्तमदीनसत्त्वं सर्वे गणा भारत ये त्वदीयाः। सहस्रनेत्रप्रतिमप्रभावं दिवीव सूर्यं जलदव्यपाये॥ अमर्षपूर्णस्त्वतिचित्रयोधी शरासनी काञ्चनवर्मधारी। सुदर्शनः सात्यकिमापतन्तं न्यवारयद् राजवरः प्रसह्य॥ तयोरभूद् भारत सम्प्रहारः सुदारुणस्तं समतिप्रशंसन्। योधास्त्वदीयाश्च हि सोमकाश्च वृत्रेन्द्रयोयुद्धमिवामरौघाः॥ शरैः सुतीक्ष्णैःशतशोऽभ्यविध्यत् सुदर्शन: सात्वतमुख्यमाजौ। श्चिच्छेद राजशिनिपुङ्गवोऽपि॥ तथैव शक्रप्रतिमोऽपि सात्यकिः सुदर्शने यान् क्षिपति स्म सायकान्। द्विधा त्रिधा तानकरोत् सुदर्शन: शरोत्तमैः स्यन्दनवर्यमास्थितः॥ तान् वीक्ष्य बाणान् निहतांस्तदानीं सुदर्शन: सात्यकिबाणबेगैः। क्रोधाद् दिधक्षन्निव तिग्मतेजाः शरानमुञ्चत् तपनीयचित्रान्॥ राकर्णपूर्णैर्निशितैः सुपुजैः। विव्याध देहावरण विभिद्य ते सात्यकेराविविशुः शरीरम्॥ तथैव तस्यावनिपालपुत्रः संधाय बाणैरपरैवलद्भिः। श्चतुर्भिरश्वांश्चतुरः प्रसह्य॥ तथा तु तेनाभिहतस्तरस्वी नप्ता शिनेरिन्द्रसमानवीर्यः। हयान् निहत्याशु ननाद नादम्॥ अथास्य सूतस्य शिरो निकृत्य भल्लेन शक्राशनिसंनिभेन। सुदर्शनस्यापि शिनिप्रवीरः क्षुरेण कालानलसंनिभेन॥ सकुण्डलं पूर्णशशिप्रकाशं भ्राजिष्णु वक्त्रं विचकर्त देहात्। यथा पुरा वज्रधरः प्रसह्य बलस्य संख्येऽतिबलस्य राजन्॥ निहत्य तं पार्थिवपुत्रपौत्रं रणे यदूनामृषभस्तरस्वी। मुदा समेतः परया महात्मा रराज राजन् सुरराजकल्पः॥ ततो ययावर्जुन एव येन निबार्य सैन्य तव मार्गणौधैः। ल्लोकं विसिस्मापयिषुर्दैवीरः॥ तत् तस्य विस्मापयनीयमय मपूजयन् योधबराः समेताः। प्रवर्तमानानिषुगोचरेऽरीन् ददाह बाणैर्तुतभुग् यथैव॥ संजय उवाच जित्वा यवन काम्बोजान् युयुधानस्ततोऽर्जुनम्। जगाम तव सैन्यस्य मध्येन रतिनां वरः॥ चारुदंष्ट्रो नरव्याघ्रो विचित्रकवचध्वजः। मृगं व्याघ्र इवाजिघ्रंस्तव सैन्यमभीषयत्॥ स रथेन चरन् मार्गान् धनुरभ्रामयद् भृशम्। रुक्मपृष्ठं महावेगं रुक्मचन्द्रकसंकुलम्॥ रुक्माङ्गदशिस्त्राणो रुक्मवर्मसमावृतः। रुक्मध्वजधनुः शूरो मेरुशृङ्गमिवाबभौ॥ सधनुर्मण्डल: संख्ये तेजोभास्कररश्मिवान्। शरदीवोदितः सूर्यो नृसूर्यो नृसूर्यो विरराज ह॥ वृषभस्कन्धविक्रान्तो वृषभाक्षो नरर्षभः। तावकानां बभौ मध्ये गवां मध्ये यथा वृषः॥ मत्तद्विरदसंकाशं मत्तद्विरदगामिनम्। प्रभिन्नमिव मातङ्गं यूथमदे व्यवशअथितम्॥ व्याघ्रा इव जिघांसन्तस्त्वदीयाः समुपाद्रवन्। द्रोणानीकमतिक्रान्तं भोजानीकं च दुस्तरम्॥ जलसंधार्णवं तीा काम्बोजानां च वाहिनीम्। हार्दिक्यमकरान्मुक्तं तीर्णे वै सैन्यसागरम्॥ परिवठ्ठः सुसंक्रुद्धास्त्वदीयाः सात्यकिं रथाः। दुर्योधनश्चित्रसेनो दुःशासनविविंशती॥ शकुनिर्दुःसहश्चैव युवा दुर्धर्षण: ऋथः। अन्ये च बहवः शूराः शस्त्रवन्तो दुरासदाः॥ पृष्ठतः सात्यकिं यान्तमन्वधावन्नमर्षिणः। अथ शब्दो महानासीत् तव सैन्यस्य मारिष॥ मारुतोद्भूतवेगस्य सागरस्येव पर्वणि। तानभिद्रवतः सर्वान् समीक्ष्य शिनिपुङ्गवः॥ शनैर्याहीति यन्तारमब्रवीत् प्रहसन्निव। इदमेतत् समुद्भूतं धार्तराष्ट्रस्य यद् बलम्॥ मामेवाभिमुखं तूर्णे गजाश्वरथपन्तिमत्। नादयन् वै दिशः सर्वा रथघोषेण सारथे॥ पृथवीं चान्तरिक्षं च कम्पयन् सागरानपि। एतद् बलार्णवं सूत वारयिष्ये महारणे॥ पौर्णमास्यामिवोद्भूतं वेलेव मकरालयम्। पश्य मे सूत तविक्रान्तमिन्द्रस्येव महामृधे॥ एष सैन्यानि शत्रूणां विधमामि शितैः शरै। निहतानाहवे पश्य पदात्यश्वरथाद्विपान्॥ मच्छरैरग्निसंकाशैविद्धदेहान् सहस्रशः। इत्येवं ब्रुवतस्तस्य सात्यकेरमितौजसः॥ समीपे सैनिकास्ते तु शीघ्रमीयुर्युयुत्सवः। जह्याद्रवस्व तिष्ठेति पश्य पस्येति वादिनः॥ तानेवं ब्रुवतो वीरान् सात्यकिनिशितैः शरैः। जधान त्रिशतानश्वान् कुञ्जरांश्च चतुःशतान्॥ स समप्रहारस्तुमुलस्तस्य तेषां च धन्विनाम्। देवासुररणप्रख्यः प्रावर्तत जनक्षयः॥ मेघजालनिमं सैन्यं तव पुत्रस्य मारिष। प्रत्यगृह्णाच्छिने: पौत्रः शरैराशीविषोपमैः॥ प्रच्छाद्यमानः समरे शरजालैः स वीर्यवान्। असम्भ्रमन् महाराज तावकानवधीद् बहून्॥ आश्चर्ये तत्र राजेन्द्र सुमहद् दृष्टवानहम्। न मोघः सायकः कश्चित् सात्यकेरभवत् प्रभो॥ रथनागाश्वकलिल: पदात्यूर्मिसमाकुलः। शैनेयवेलामासाद्य स्थितः सैन्यमहार्णवः॥ सम्भ्रान्तनरनागाश्वमावर्तत मुहुर्मुहुः। तत् सैन्चमिषुभिस्तेन वध्यमानं समन्ततः॥ बभ्राम तत्र तत्रैव गावः शीतार्दिता इव। पदातिनं रथं मागं सादिनं तुरगं तथा॥ अविद्धं तत्र नाद्राक्षं युयुधानस्य सायकः। न तादृक् कदनं राजन् कृतवांस्तत्र फाल्गुनः॥ यादृक् क्षयमनीकानामकरोत् सात्यकिर्नृप। अत्यर्जुनं शिनेः पौत्रो युध्यते पुरुषर्षभः॥ वीतभीाघवोपेतः कृतित्वं सम्प्रदर्शयन्। ततो दुर्योधनो राजा सात्वतस्य त्रिभिः शरैः॥ विव्याध सूतं निशितैश्चतुर्भिश्चतुरो हयान्। मात्यकिं च त्रिभिविद्ध्वा पुनरष्टाभिरेव च॥ दुःशासनः षोडशभिर्विव्याध शिनिपुङ्गवम्। शकुनिः पञ्चविंशत्या चित्रसेनश्च पञ्चभिः॥ दुःसहः पञ्चदशभिर्विव्याधोरसि सात्यकिम्। उत्स्मयन् वृष्णिशार्दूलस्तथा बाणैः समाहतः॥ तानविध्यन्महाराज सर्वानेव त्रिभिस्त्रिभिः। गाढविद्वानरीन् कृत्वा मार्गणैःसोऽतितेजनैः॥ शैनेयः श्येनवत् संख्ये व्यचरल्लघुविक्रमः। सौबलस्य धनुश्छित्त्वाहस्तावापं निकृत्य च॥ दुर्योधनं त्रिभिर्बाणैरभ्यविध्यत् स्तनान्तरे। चित्रसेनं शतेनैव दशभिर्दुःसहं तथा॥ दुःशासनं तु विंशत्या विव्याध शिनिपुङ्गवः। अथान्यद् धनुरादाय श्यालस्तव विशाम्पते॥ अष्टाभिःसात्यकि विद्ध्वा पुनर्विव्याध पञ्चभिः। दुःशासनश्च दशभिर्दुःसहश्च त्रिभिः शरैः॥ दुर्मुखश्च द्वादशमी राजन् विव्याध सात्यकिम्। दुर्योधनस्त्रिसप्तत्या विद्ध्वा भारत माधवम्॥ ततोऽस्यनिशितैर्वाणैस्त्रिभिर्विव्याध सारथिम्। तान् सर्वान् सहिताशूरान् यतमानान् महारथान्॥ पञ्चभिः पञ्चभिर्बाणैः पुनर्विव्याध सात्यकिः। ततः स रथिनां श्रेष्ठस्तव पुत्रस्य सारथिम्॥ आजघानाशु भल्लेन स हतो न्यपतद् भुवि। पतिते सारथौ तस्मिंस्तव पुत्ररथः प्रभो॥ वातायमानैस्तैरश्वैरपानीयत संगरात्। ततस्तव सुता राजन् सैनिकाच विशाम्पते॥ राज्ञो रथमभिप्रेक्ष्य विद्रुताः शतशोऽभरन्। विद्रुतं तत्र तत् सैन्यं दृष्ट्वा भारत सात्यकिः॥ अवाकिरच्छरैस्तीक्ष्णै रुक्मपुङ्खः शिलाशितैः। विद्राव्य सर्वसैन्यानि तावकानि सहस्रशः॥ तं शरानाददानं च रक्षमाणं च सारथिम्। आत्मानं पालयानं स तावकाः समपूजयन्॥ संजय उवाच दुःशासनरथं दृष्टवा समीपे पर्यवस्थितम्। भारद्वाजस्ततो वाक्यं दुःशासनमथाब्रवीत्॥ कचित् क्षेनं तु नृपतेः कचिजीवति सैन्धवः॥ राजपुत्रो भवानत्र राजभ्राता महारथः। किमर्थ द्रवते युद्धे यौवराज्यमवाप्य हि॥ दासी जितासि द्यूते त्वं यथाकामचरी भव। वाससां वाहिका राज्ञो भ्रातुर्येष्ठस्य मे भव॥ न सन्ति पतयः सर्वे तेऽद्य षण्ढतिलैः समा। दुःशासनैवं कस्मात् त्वं पूर्वमुक्त्वा पलायसे॥ स्वयं वैरं महत् कृत्वा पञ्चालैः पाण्डवैः सह। एकं सात्यकिमासाद्य कथं भीतोऽसि संयुगे॥ न जानीषे पुरा पं तु गृह्णन्नक्षान् दुरोदरे। शरा ह्येते भविष्यन्ति दारुणाशीविषोपमाः॥ अप्रियाणां हि वचसां पाण्डवस्य विशेषतः। द्रौपद्याश्च परिक्लेशस्त्वन्मूलो ह्यमवत् पुरा॥ क्व ते मानश्च दर्पश्च व ते वीर्ये क्व गर्जितम्। आशीविषसमान् पार्थान् कोपयित्वा व यास्यसि॥ शोच्येयं भारती सेना राज्यं चैव सुयोधनः। यस्य त्व कर्कशो भ्राता पलायनपरायणः॥ ननु नाम त्वया वीर दीर्यमाणा भयार्दिता। स्वबाहुबलमास्थाय रक्षितव्य ह्यनीकिनी॥ स त्वमद्य रणं हित्वा भीतो हर्षयसे परान्। विद्रुते त्वयि सैन्यस्य नायके शत्रुसूदन॥ कोऽन्यः स्थास्यति संग्रामे भीतो भीते व्यपाश्रये। एकेन सात्वतेनाद्य युध्यमानस्य तेन वै॥ पलायने तव मतिः संग्रामाद्धि प्रवर्तते। यदा गाण्डीवधन्वानं भीमसेनं च कौरव॥ यमौ वा युधि द्रष्टासि तदा त्वं कि करिष्यसि। युधि फाल्गुनबाणानां सूर्याग्निसमवर्चसाम्॥ न तुल्याः सात्यकिशराः येषां भीतः पलायसे। त्वरितो वीर गच्छ त्वं गान्धार्युदरमाविश॥ पृथिव्यां धावमानस्य नान्यत् पश्यामि जीवनम्। यदि तावत् कृता बुद्धिः पलायणपरायणा॥ पृथिवी धर्मराजाय शमेनैव प्रदीयताम्। यावत् फाल्गुननाराचा निर्मुक्तोरगसंनिभाः॥ नाविशन्ति शरीरं ते तावत् संशाम्य पाण्डवैः। यावन्न क्रुद्धयते राजा धर्मपुत्रो युधिष्ठिरः॥ कृष्णश्च समरश्लाघी तावत् संशाम्य पाण्डवैः। यावद् भीमो महाबाहुर्विगाह्य महतीं चमूम्॥ पाण्डवैः। सोदरांस्ते न गृह्णाति तावत् संशाम्य पाण्डवैः। पूर्वमुक्तश्च ते भ्राता भीष्मेणासौ सुयोधनः॥ अजेयाः पाण्डवाः संख्ये सौम्य सशाम्य तैः सह। न च तत् कृतवान् मन्दस्त्व भ्राता सुयोधनः॥ स युद्धे धृतिमास्थाय यत्तो युध्यस्य तवापि शोणितं भीमः पास्यतीति मया श्रुतम्॥ तच्चप्यवितथं तस्य तत् तथैव भविष्यति। किं भीमस्य न जानासि विक्रमं त्वं सुबालिश॥ यत्त्वया वैरमारब्धं संयुगे प्रपलायिना। गच्छ तूर्णं रथेनैव यत्र तिष्ठति सात्यकिः॥ त्वया हीनं बल ह्येतद् विद्रविष्यति भारत। आत्मार्थ योधय रणे सा सात्यकिं सत्यविक्रमम्॥ एवमुक्तस्तव सुतो नाब्रवीत् किंचिदप्यसौ। श्रुतं चाश्रुतवत् कृत्वा प्रायाद् येन स सात्यकिः॥ सैन्येन महता युक्तो म्लेच्छानामनिवर्तिनाम्। आसाद्य च रणे यत्तो युयुधानमयोधयत्॥ द्रोणोऽपि रथिनां श्रेष्ठः पञ्चालान् पाण्डवांस्तथा। अभ्यद्रवत संक्रुद्धो जवमास्थाय मध्यमम्॥ प्रविश्य च रणे द्रोणः पाण्डवानां वरूथिनीम्। द्रावयामास योधान् वै शतशोऽथ सहस्रशः॥ ततो द्रोणो महाराज नाम विश्राव्य संयुगे। पाण्डुपाञ्चालमत्स्यानां प्रचक्रे कदनं महत्॥ तं जयन्तमनीकानि भारद्वाजं ततस्ततः। पाञ्चालपुत्रो द्युतिमान् वीरकेतुः समभ्ययात्॥ स द्रोणं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः। ध्वजमेकेन विव्याध सारथिं चास्य सप्तभिः॥ तत्राद्भुतं महाराज दृष्टवानस्मि संयुगे। यद् द्रोणो रभसं युद्धे पाञ्चाल्यं नाभ्यवर्तत॥ संनिरुद्धं रणे द्रोणं पञ्चाला वीक्ष्य मारिष। आवत्रुः सर्वतो राजन् धर्मपुत्रजयैषिणः॥ ते शरैरग्निसंकाशैस्तोमरैश्च महाधनैः। शस्त्रैश्च विविधै राजन् द्रोणमेकमवाकिरन्॥ निहत्य तान् बाणगणैोणो राजन् समन्ततः। महाजलधरान् व्योम्नि मातरिश्वेव चावभौ॥ ततः शरं महाघोरं सूर्यपावकसंनिभम्। संदधे परवीरघ्नो वीरकेतो रथं प्रति॥ स भित्त्वा तु शरो राजन् पाञ्चालकुलनन्दनम्। अभ्यगाद् धरणीं तूर्णं लोहितार्दो ज्वलन्निव॥ ततोऽपतद् रथात् तूर्णं पाञ्चालकुलनन्दनः। पर्वताग्रादिव महांश्चम्पको वायुपीडितः॥ तस्मिन् हते महेष्वासे राजपुत्रे महाबले। पञ्चालास्त्वरिता द्रोणं समन्तात् पर्यवारयन्॥ चित्रकेतुः सुधन्वा च चित्रवर्मा च भारत। तथा चित्ररथश्चैव भ्रातृव्यसनकशिंताः॥ अभ्यद्रवन्त सहिता भारद्वाजं युयुत्सवः। मुञ्चन्तः शरवर्षाणि तपान्ते जलदा इव॥ स वध्यमानो बहुधा राजपुत्रैर्महारथैः। क्रोधमाहारयत् तेषामभावाय द्विजर्षभः॥ ततः शरमयं जालं द्रोणस्तेषामवासृजत्। ते हन्यमाना द्रोणस्य शरैराकर्णचोदितैः॥ कर्तव्यं नाभ्यजानान् वै कुमारा राजसत्तम। तान् विमूढान् रणे द्रोणः प्रहसन्निव भारत॥ व्यश्वसूतरथांश्चक्रे कुमारान् कुपितो रणे। अथापरैः सुनिशितैर्भल्लैस्तेषां महायशाः॥ पुष्पाणीव विचिन्वन् हि सोत्तमाङ्गान्यपातयत्। ते रथेभ्यो हताः पेतुः क्षितौ राजन् सुवर्चसः॥ देवासुरे पुरा युद्धे यथा दैतेयदानवाः। तान् निहत्य रणे राजन् भारद्वाजः प्रतापवान्॥ कार्मुकं भ्रामयामास हेमपृष्ठं दुरासदम्। पञ्चालान् निहतान् दृष्ट्वा देवकल्पान् महारथान्॥ धृष्टद्युम्नो भृशोद्विग्नो नेत्राभ्यां पातयञ्जलम्। अभ्यवर्तते संग्रामे क्रुद्धो द्रोणरथं प्रति॥ ततो हाहेति सहसा नादः समभवन्नृप। पाञ्चाल्येन रणे दृष्ट्वा द्रोणमावारितं शरैः॥ बहुधा पार्षतेन महात्मना। न विव्यथे ततो द्रोण: स्मयन्नेवान्वयुध्यत॥ ततो द्रोणं महाराज पाञ्चाल्यः क्रोधमूर्छितः। आजघानोरसि क्रुद्धो नवत्या नतपर्वणाम्॥ स गाढविद्धो बलिना भारद्वाजो महायशाः। निषसाद रथोपस्थे कश्मलं च जगाम ह॥ स च्छाद्यमानो तं वै तथागतं दृष्ट्वा धृष्टद्युम्नः पराक्रमी। चापमुत्सृज्य शीघ्रं तु असिं जग्राह वीर्यवान्॥ अवप्लुत्य रथाचापि त्वरितः स महारथः। आरुरोह रथं तूर्णं भारद्वाजस्य मारिष॥ हर्तुमिच्छशिरः कायात् क्रोधसंरक्तलोचनः। प्रत्याश्वस्तस्ततो द्रोणो धनुर्गृह्य महारवम्॥ आसन्नमागतं दृष्ट्वा धृष्टद्युम्नं जिघांसया। शरैर्वैतस्तिकै राजन् विव्याधासन्नवेधिभिः॥ योधयामास समरे धृष्टद्युम्नं महारथम्। ते हि वैतस्तिका नाम शरा आसन्नयोधिनः॥ द्रोणस्य विहिता राजन् यैधृष्टद्युम्नमाक्षिणोत्। स वध्यमानो बहुभिः सायकैस्तैर्महाबलः॥ अवप्लुत्य रथात् तूर्णं भग्नवेगः पराक्रमी। आरुह्य स्वरथं वीरः प्रगृह्य च महद् धनुः॥ विव्याध समरे द्रोणं धृष्टद्युम्नो महारथः। द्रोणश्चापि महाराज शरैर्विव्याध पार्षतम्॥ तदतद्भुतमभूद् युद्धं द्रोणपाञ्चालयोस्तदः। त्रैलोक्यकाक्षिणोरासीच्छक्रप्रह्लादयोरिव॥ मण्डलानि विचित्राणि यमकानीतराणि च। चरन्तौ युद्धमार्गशो ततक्षतुरथेषुभिः॥ मोहयन्तौ मनांस्याजौ योधानां द्रोणपार्षतौ। सृजन्तौ शरवर्षाणि वर्षास्विव बलाहकौ॥ छादयन्तौ महात्मनौ शरैर्योम दिशो महीम्। तदद्भुतं तयोर्युद्धं भूतसङ्घा ह्यपूजयन्॥ क्षत्रियाश्च महाराज ये चान्ये तव सैनिकाः। अवश्यं समरे द्रोणो धृष्टद्युम्नेन सङ्गतः॥ वशमेष्यति नो राजन् पञ्चाला इति चुक्रुशः। द्रोणस्तु त्वरितो युद्धे धृष्टद्युम्नस्य सारथेः॥ शिरः प्रच्यावयामास फलं पक्वं तरोरिव। ततस्तु प्रदुता वाहा राजंस्तस्य महात्मनः॥ तेषु प्रद्रवमाणेषु पञ्चालान् सृञ्जयांस्तथा। अयोधयद् रणे द्रोणस्तत्र तत्र पराक्रमी॥ विजित्य पाण्डुपञ्चालान् भारद्वाजः प्रतापवान्। स्वं व्यूह पुनरास्थाय स्थितोऽभवदरिंदमः। न चैनं पाण्डवा युद्धे जेतुमुत्सेहिरे प्रभो॥ संजय उवाच ततो दुःशासनो राजशैनेयं समुपाद्रवत्। किरशतसहस्त्राणि पर्जन्य इव वृष्टिमान्॥ स विद्धवा सात्यकिं षष्ट्या तथा षोडशभिः शरैः। नाकम्पय स्थितं युद्धे मैनाकमिव पर्वतम्॥ तं तु दुःशासनः शूरः सायकैरावृणोद् भृशम्। रथावातेन महता नानादेशोद्भवेन च॥ सर्वतो भरतश्रेष्ठ विसृजन् सायकान् बहून्। पर्जन्य इव घोषेण नादयन् वै दिशो दश॥ तमापतन्तमालोक्य सात्यकिः कौरवं रणे। अभिदुत्य महाबाहुश्छादयामास सायकैः॥ ते छाद्यमाना बाणौधैर्दुःशासनपुरोगमाः। प्राद्रवन् समरे भीतास्तव सैन्यस्य पश्यतः॥ तेषु द्रवत्सु राजेन्द्र पुत्रो दुःशासनस्तव। तस्थौ व्यपेतभी राजन् सात्यकिं चार्दयच्छरैः॥ चतुर्भिर्वाजिनस्तस्य सारथिं च त्रिभिः शरैः। सात्यकिं च शतेनाजौ विद्ध्वा नादं मुमोच सः॥ तत: क्रुद्धो महाराज माधवस्तस्य संयुगे। रथं सूतं ध्वजं तं च चक्रेऽदृश्यमजिह्मगैः॥ स तु दुःशासनं शूरं सायकैरावृणोद् भृशम्। सशकं समनुप्राप्तमूर्णनाभिरिवोर्णया॥ त्वरन् समावृणोद् बाणैर्दुःशासनममित्रजित्। दृष्टा दुःशासनं राजा तथा शरशताचितम्॥ त्रिगर्मीश्चोदयामास युयुधानस्थं प्रति। तेऽगच्छन् युयुधानस्य समीपं क्रूरकर्मणः। त्रिगर्तानां त्रिसाहस्त्रा रथा युद्धविशारदाः। ते तु तं रथवंशेन महता एर्यवारयन्॥ स्थिरां कृत्वा मतिं युद्धे भूत्वा संशप्तका मिथः। तेषां प्रपततां युद्धे शरवर्षाणि मुञ्चताम्॥ योधान् पञ्चशतान् मुख्यानग्रयानीके व्यपोथयत्। तेऽपतन् निहतास्तूर्ण शिनिप्रवरसायकैः॥ महामारुतवेगेन भग्ना इव नगाद् दुमाः। नागैश्च बहुधा च्छिन्नैर्ध्वजैश्चैव विशाम्पते॥ हयैश्च कनकापीडैः पतितैस्तत्र मेदिनी। शैनेयशरसंकृतैः शोणितौघपरिप्लुतैः॥ अशोभत महाराज किंशुकैरिव पुष्पितैः। ते वध्यमानाः समरे युयुधानेन तावकाः॥ त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः। ततस्ते पर्यवर्तन्त सर्वे द्रोणरथं प्रति॥ भयात् पतगराजस्य गर्तानीव महोरगाः। हत्वा पञ्चशतान् योधाञ्छरैराशिविषोपमैः॥ प्रायात् स शनकैर्वीरो धनंजयरथं प्रति। तं प्रयान्तं नरश्रेष्ठं पुत्रो दुःशासनस्त्व॥ विव्याध नवभिस्तूर्ण शरैः संनतपर्वभिः। स तु तं प्रतिविव्याध पञ्चभिर्निशितैः शरैः॥ रुक्मपुखैर्महेष्वासो गापत्रैरजिह्मगैः। सात्यकिं तु महाराज प्रहसन्निव भारत॥ दुःशासनस्त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः। शैनेयस्तव पुत्रं तु हत्वा पञ्चभिराशुगैः॥ धनुश्चास्य रणे छित्त्वा विस्मयन्नर्जुनं ययौ। ततो दुःशासनः क्रुद्धो वृष्णिरवीराय गच्छते॥ सर्वपारशवीं शक्तिं विससर्ज जिघांसया। तां तु शक्तिं तदा घोरां तव पुत्रस्य सात्यकिः॥ चिच्छेद शतधा राजन् निशितैः कङ्कपत्रिभिः। अथान्यद् धनुरादाय पुत्रस्तव जनेश्वर॥ सात्यकिं च शरैर्विद्ध्वा सिंहनादं ननर्द ह। सात्यकिस्तु रणे क्रुद्धो मोहयित्वा सुतं तव॥ शरैरग्निशिखाकारैराजघान स्तनान्तरे। त्रिभिरेव महाभागः शरैः संनतपर्वभि। सर्वायसैस्तीक्ष्णवक्त्रैः पुनर्विव्याध चाष्टभिः॥ दुःशासनस्तु विंशत्या सात्यकिं प्रत्यविध्यत। सात्वतोऽपि महाराज तं विव्याध स्तनान्तरे॥ त्रिभिरेव महाभागः शरैः संनतपर्वभिः। सारथिं च सुसंक्रुद्धः शरैः संनतपर्वभिः। ततोऽस्य वाहान निशितैः शरैर्जने महारथः॥ धनुरेकेन भल्लेन हस्तावापं च पञ्चभिः॥ ध्वजं च रथशक्तिं च भल्लाभ्यां परमास्त्रवित्। चिच्च्द विशिखैस्तीक्ष्णैस्तथोभौ पार्णिसारथी॥ स च्छिन्नधन्वा विस्थो हताश्वो हतसारथिः। त्रिगर्तसेनापतिना स्वरथेनापवाहितः॥ तमभिद्रुत्य शैनेया मुहूर्तमिव भारत! न जघान महाबाहुर्भीमसेनवचः स्मरन्॥ भीमसेनेन तु वधः सुतानां तव भारत। प्रतिज्ञातः सभामध्ये सर्वेषामेव संयुगे॥ धृतराष्ट्र उवाच किं तस्यां मम सेनायां नासन् केचिन्महारथाः। ये तथा सात्यकिं यान्तं नैवाघ्नन् नाष्यवारयन्॥ एको हि समरे कर्म कृतवान् सत्यविक्रमः। शक्रतुल्यबलो युद्धे महेन्द्रो दानवेष्विव॥ अथवा शून्यमासीत् तद्येन यातः स सात्यकिः। हतभूयिष्ठमथवा येन यातः स सात्यकिः॥ न सन्ति तस्मात् पुत्रा यत् कृतं वृष्णिवीरेण कर्म शंससि मे रणे। नैतदुत्सहते कर्तु कर्म शक्रोऽपि संजय॥ संजय उवाच अश्रद्धेयमचिन्यं च कर्म तस्य महात्मनः। वृष्णयन्धकप्रवीरस्य श्रुत्वा मे व्यथितं मनः॥ मे यथा संजय भाषसे। एको वै बहुला: सेनाः प्रामृद्गत् सत्यविक्रमः॥ कथं च युध्यमानानामपक्रान्तो महात्मनाम्। एको बहूनां शैनेयस्तन्ममाचक्ष्व संजय॥ राजन् सेनासमुद्योगो रथनागाश्वपत्तिमान्। तुमुलस्तव सैन्यानां युगान्तसदृशोऽभवत्॥ आहूतेषु समूहेषु तव सैन्यस्य मानद। नाभूल्लोके समः कश्चित् समूह इति मे मतिः॥ तत्र देवास्त्वभाषन्त चारणाश्च समागताः। एतदन्ताः समूहा वै भविष्यन्ति महीतले॥ । न च वैतादृशो व्यूह आसीत् कश्चिद् विशाम्पते। यादृग् जयद्रथवधे द्रोणेन विहितोऽभवत्॥ चण्डवातविभिन्नानां समुद्राणामिव खनः। रणेऽभवद् बलौघानामन्योन्यमभिधावताम्॥ तबले पाण्डवानां च सहस्त्राणि शतानि च॥ संरब्धानां प्रवीराणां समरे दृढकर्मणाम्। तत्रासीत् सुमहाशब्दस्तुमुलो लोमहर्षणः॥ अथाक्रन्दद् भीमसेनो धृष्टद्युम्नश्च मारिष। नकुलः सहदेवश्च धर्मराजश्च पाण्डवः॥ आगच्छत प्रहरत दुतं विपरिधावत। प्रविष्टावरिसेनां हि वीरौ माधवपाण्डवौ॥ यथा सुखेन गच्छेतां जयद्रथ वधं प्रति। तथा प्रकुरुत क्षिप्रमिति सैन्यान्यचोदयन्॥ तयोरभावे कुरवः कृतार्थाः स्युर्वयं जिताः। ते यूयं सहिता भूत्वा तूर्णमेव बलार्णवम्॥ क्षोभयध्वं महावेगा: पवनः सागरं यथा। प्रियान्। भीमसेनेन ते राजन् पाञ्चाल्येन च नोदिताः॥ आजघ्नुः कौरवान् संख्ये त्यक्त्वासूनात्मनः तस्मिन् सुतुमले युद्धे वर्तमाने भयावहे॥ जित्वा सर्वाणि सैन्यानि प्रायात् सात्यकिरर्जुनम्। कवचानां प्रभास्ता सूर्यरश्मिविराजिताः॥ दृष्टीः संख्ये सैनिकानां प्रतिजघ्नुः समन्ततः। तथा प्रयतमानानां पाण्डवानां महात्मनाम्॥ दुर्योधनो महाराज व्यगाहत महद् वलम्। स संनिपातस्तुमुलस्तेषां तस्य च भारत॥ अभवत् सर्वभूतानामभावकरणो महान्। धृतराष्ट्र उवाच कथा यातेषु सैन्येषु तथा कृच्छ्रगत: स्वयम्॥ कचिद् दुर्योधनः सूत नाकार्षीत् पृष्ठतो रणम्। एकस्य च बहूनां च संनिपातो महाहवे॥ विशेषतो नरपतेर्विषमः प्रतिभाति मे। सोऽत्यन्तसुखसंवृद्धो लक्षम्या लोकस्य चेश्वरः॥ एकोबहून् समासाद्य कचिन्नासीत् पराङ्मुखः। संजय उवाच राजन् संग्राममाश्चर्य तव पुत्रस्य भारत॥ एकस्य बहुभिः सार्ध शृणुष्व गदतो मम। दुर्योधनेन समरे पृतना पाण्डवी रणे॥ नलिनी द्विरदेनेव समन्तात् प्रतिलोडिता। ततस्तां प्रहितां सेनां दृष्ट्वा पुत्रेण ते नृप॥ भीमसेनपुरोगास्तं पञ्चालाः समुपाद्रवन्। स भीमसेनं दशभिः शरैर्विव्याध पाण्डवम्॥ त्रिभिस्त्रिभिर्यमौ वीरौ धर्मराजं च सप्तभिः। विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम्॥ धृष्टद्युम्नं च विंशत्या द्रौपदेयांस्त्रिभिस्त्रिभिः। शतशश्चापरान् योधान् सद्विपांश्च रथान् रणे॥ शरैरवचकर्ताग्रैः क्रुद्धोऽन्तक इव प्रजाः। समरे जनाः। न संदधन् विमुञ्चन् वा मण्डलीकृतकार्मुकः॥३ :॥ अदृश्यत रिपून निघ्नञ्छिक्षयास्त्रबलेन च। तस्य तान् निघ्नतः शत्रून् हेमपृष्ठं महद्धनुः॥ अजस्रं मण्डलीभूतं ददृशुः ततो युधिष्ठिरो राजा भल्लाभ्यामच्छिनद् धनुः॥ तव पुत्रस्य कौरव्य यतमानस्य संयुगे। विव्याध चैनं दशभिः सम्यगस्तैः शरोत्तमैः॥ वर्म चाशु समासाद्य ते भित्त्वा क्षितिमाविशन्। ततः प्रमुदिताः पार्थाः परिवर्युधिष्ठिरम्॥ यथा वृत्रवधे देवाः पुरा शक्र महर्षयः। ततोऽन्यद् धनुरादाय तव पुत्रः प्रतापवान्॥ तिष्ठ तिष्ठेति राजानं ब्रुवन् पाण्डवमभ्ययात्। तमायान्तमभिप्रेक्ष्य तव पुत्रं महामृधे॥ प्रत्युद्ययुः समुदिताः पञ्चाला जयगृद्धिनः। तान् द्रोणः प्रतिजाग्राह परीप्सन् युधि पाण्डवम्॥ चण्डवातोद्भुतान् मेघान् गिरिरम्बुमुचो यथा। तत्र राजन् महानासीत् संग्रामो लोमहर्षणः॥ पाण्डवानां महाबाहो तावकानां च संयुगे। रुद्रस्याक्रीडसदृशः संहारः सर्वदेहिनाम्॥ ततः शब्दो महानासीत् पुनर्येन धनंजयः। अतीव सर्वशब्देभ्यो लोमहर्षकरः प्रभो॥ अर्जुनस्य महाबाहो तावकानां च धन्विनाम्। मध्ये भारतसैन्यस्य माधवस्य महारणे॥ द्रोणस्यापि परैः सार्ध व्यूहद्वारे महारणे। एवमेष क्षयो वृत्तः पृथिव्यां पृथिवीपते। क्रुद्धेऽर्जुने तथा द्रोणे सात्वते च महारथे॥ संजय उवाच अपराह्ने महाराज संग्रामः सुमहानभूत्। पर्जन्यसमनिर्घोषः पुनद्रोणस्य सोमकैः॥ शोणाश्वं रथमास्थाय नरवीरः समाहितः। समरेऽभ्यद्रवत् पाण्डूञ्जवमास्थाय मध्यमम्॥ तव प्रियहिते युक्तो महेष्वासो महाबलः। चित्रपुङ्खः शितैर्बाणैः कलशोत्तमसम्भवः॥ वरान् वरान् हि योधानां विचिन्वन्निव भारत। आक्रीडत रणे राजन् भारद्वाजः प्रतापवान्॥ तमभ्ययाद् बृहत्क्षत्रः केकयानां महारथः। भ्रातृणां नृप पञ्चानां श्रेष्ठः समरकर्कशः॥ विमुञ्चन् विशिखांस्तीक्ष्णानाचार्ये भृशमार्दयत्। महामेघो यथा वर्ष विमुञ्चन् गन्धमादने॥ तस्य द्रोणो महाराज स्वर्णपुवाञ्छिलाशितान्। प्रेषयामास संकुद्धः सायकान् दश पञ्च च॥ तांस्तु द्रोणविनिर्मुक्तान् क्रुद्धाशीविषसंनिभान्। एकैकं पञ्चभिर्बाणैयुद्धि चिच्छेद हृष्टवत्॥ तदस्य लाघवं दृष्ट्वा प्रहस्य द्विजपुङ्गवः। प्रेषयामास विशिखानष्टौ संनतपर्वणः॥ तान् दृष्ट्वापततस्तूर्ण द्रोणचापच्युताशरान्। अवारयच्छरैरेव तावद्भिर्निशितैर्मधे॥ ततोऽभवन्महाराज तव सैन्यस्य विस्मयः। कर्म कृतं दृष्ट्वा सुदुष्करम्॥ ततो द्रोणे महाराज बृहत्क्षत्रं विशेषयन्। प्रादुश्चक्रे रणे दिव्यं ब्राह्ममस्रं सुदुर्जयम्॥ कैकेयोऽस्रं समालोक्य मुक्तं द्रोणेन संयुगे। ब्रह्मास्त्रेणैव राजेन्द्र ब्राह्ममस्रमशातयत्॥ बृहत्क्षत्रेण तत् ततोऽस्रे निहते ब्राह्मे बृहत्क्षवस्तु भारत। विव्याध ब्राह्मणं षष्ट्या स्वर्णपुजैः शिलाशितैः॥ तं द्रोणो द्विपदां श्रेष्ठो नाराचेन समार्पयत्। स तस्य कवचं भित्त्वा प्राविशद् धरणीतलम्॥ कृष्णसर्पो यथा मुक्तो वल्मीकं नृपसत्तम। तथात्यगान्महीं बाणो भित्त्वा कैकेयमाहवे॥ सोऽतिविद्धो महाराज कैकेयो द्रोणसायकैः। क्रोधेन महताऽऽविष्टो व्यावृत्य नयने शुभे॥ द्रोणं विव्याध सप्तत्या स्वर्णपुङ्खः शिलाशितैः। सारथिं चास्य बाणेन भृशं मर्मस्वताडयत्॥ द्रोणस्तु बहुभिर्विद्धो बृहत्क्षत्रेण मारिष। असृजद् विशिखांस्तीक्ष्णान् कैकेयस्य रथं प्रति॥ व्याकुलीकृत्य तं द्रोणो बृहत्क्षत्रं महारथम्। अश्वांश्चतुर्भिर्व्यवधीच्चतुरोऽस्य पतत्रिभिः॥ सूतं चैकेन बाणेन रथनीडादपातयत्। द्वाभ्यां ध्वजं च च्छत्रं च च्छित्वा भूमावपातयत्॥ ततः साधुविसृष्टेन नाराचेन द्विजर्षभः। हृद्यविध्यद् बृहत्क्षत्रं स च्छिन्नहृदयोऽपतत्॥ बृहत्क्षत्रे हते राजन् केकयानां महारथे। शैशुपालिरभिक्रुद्धो यन्तारमिदमब्रवीत्॥ सारथे याहि यत्रैष द्रोणस्तिष्ठति दंशितः। विनिघ्नन् केकयान् सर्वान् पञ्चालानां च वाहिनीम्॥ वचनं श्रुत्वा सारथी रथिनां वरम्! द्रोणाय प्रापयामास काम्बोजैर्जवनैर्हयैः॥ धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः। वधायाभ्यद्रवद् द्रोणं पतङ्ग इव पावकम्॥ सोऽविध्यत तदा द्रोणं षष्ट्या साश्वरथध्वजम्। पुनश्चान्यैः शरैस्तीक्ष्णैः सुप्तं व्याघ्रं तुदनिव॥ तस्य द्रोणो धनुर्मध्ये क्षुरप्रेण शितेन च। चकर्त गार्धपत्रेण यतमानस्य शुष्मिणः॥ तस्य तद् अथान्यद् धनुरादाय शैशुपालिमहारथः। विव्याध सायकैलॊणं कङ्कबहिणवाजितैः॥ तस्य द्रोणो हयान् हत्वा चतुर्भिश्चतुरः शरैः। सारथेश्च शिरः कायाचकर्त प्रहसन्निव॥ अथैनं पञ्चविंशत्या सायकानां समार्पयत्। अवप्लुत्य रथाच्चैद्यो गदामादाय सत्वरः॥ भारद्वाजाय चिक्षेप रुषितामिव पन्नगीम्। तामापतन्तीमालोक्य कालरात्रिमिवोद्यताम्॥ अश्मसारमयीं गुर्वी तपनीयविभूषिताम्। शरैरनेकसाहस्रर्भारद्वाजोऽच्छिनच्छितैः॥ सा छिन्ना बहुभिर्बाणैर्धारद्वाजेन मारिष। गदा पपात कौरव्य नादयन्ती धरातलम्॥ गदां विनिहतां दृष्ट्वा धृष्टकेतुरसर्षणः। तोमरं व्यसृजद् वीरः शक्तिं च कनकोज्ज्वलाम्॥ तोमरं पञ्चभिर्भित्त्वा शक्तिं चिच्छेद पञ्चभिः। तौ जग्मतुर्महीं छिन्नौ सर्पाविव गरुत्पता॥ ततोऽस्य विशिखं तीक्ष्णं विधाय वधकाङ्क्षिणः। प्रेषयामास समरे भारद्वाजः प्रतापवान्॥ स तस्य कवचं भित्त्वा हृदयं चाभितौजसः। अभ्यगाद् धरणीं बाणो हंसः पद्मवनं यथा॥ पतङ्गं हि ग्रसेचाषो यथा क्षुद्रं बुभुक्षितः। तथा द्रोणोऽग्रसच्छूरो धृष्टकेतुं महाहवे॥ निहते चेदिराजे तु तत् खण्डं पित्र्यमाविशत्। अमर्षवशमापन्नः पुत्रोऽस्य परमास्रवित्॥ तमपि ग्रहसन् द्रोणः शरैर्निन्ये यमक्षयम्। महाव्याघ्रो महारण्ये मृगशावं यथा बली॥ तेषु प्रक्षीयमाणेषु पाण्डवेयेषु भारत। जरासंधसुतो वीरः स्वयं द्रोणमुपाद्रवत्॥ स तु द्रोणं महाबाहुः शरधाराभिराहवे। अदृश्यमकरोत् तूर्ण जलदो भास्करं यथः॥ तस्य तल्लाघवं दृष्ट्वा द्रोणः क्षत्रियमर्दनः। व्यसृजत् सायकांस्तूर्ण शतथोऽथ सहस्रशः॥ छादयित्वा रणे द्रोणो रथस्थं रथिनां वरम्। जारासंधि जघानाशु मिषतां सर्वधन्विनाम्॥ यो यः स्म नीयते तत्र तं द्रोणो द्वन्तकोपमः। आदत्त सर्वभूतानि प्राप्ते काले यथान्तकः॥ ततो द्रोणो महाराज नाम विश्राव्य संयुगे। शरैरनेकसाहौः पाण्डवेयान् समावृणोत्॥ ते तु नामाङ्किता बाणा द्रोणेनास्ताः शिलाशिताः। नरान् नागान् हयांश्चैवनिजघ्नुः शतशो मृधे॥ ते वध्यमाना द्रोणेन शक्रेणेव महासुराः। समकम्पन्त पञ्चाला गावः शीतार्दिता इव॥ ततो निष्ठानको घोरः पाण्डवानामजायत। द्रोणेन वध्यमानेषु सैन्येषु भरतर्षभ।॥ प्रताप्यमानाः सूर्येण हन्यमानाश्च सायकैः। अन्वपद्यन्त पञ्चालास्तदा संत्रस्तचेतसः॥ मोहिता बाणजालेन भारद्वाजेन संयुगे। ऊरुग्राहगृहीतानां पञ्चालानां महारथाः॥ चेदयश्च महाराज सृञ्जयाः काशिकोसलाः। अभ्यद्रवन्त संहृष्टा भारद्वाजं युयुत्सया॥ ब्रुवन्तश्च रणेऽन्योन्यं चेदिपञ्चालसृञ्जयाः। घ्रत द्रोणं मत द्रोणमिति ते द्रोणमभ्ययुः॥ यतन्तः पुरुषव्याघ्राः सर्वशत्तया महाद्युतिम्। निनीषवो रणे द्रोणं यमस्य सदनं प्रति॥ यतमानांस्तुतान् वीरान् भारद्वाजः शिलीमुखैः। यमाय प्रेषयामास चेदिमुख्यान् विशेषतः॥ तेषु प्रक्षीयमाणेषु चेदिमुख्येषु सर्वशः। पञ्चाला: समकम्पन्त द्रोणसायकपीडिताः॥ प्राक्रोशन् भीमसेनं ते धृष्टद्युम्नं च भारत। दृष्ट्वा द्रोणस्य कर्माणि तथारूपाणि मारिष॥ ब्राह्मणेन तपो नूनं चरितं दुश्चरं महत्। तथा हि युधि संक्रुद्धो दहति क्षत्रियर्षभान्॥ धर्मो युद्धं क्षत्रियस्य ब्राह्मणस्य परं तपः। तपस्वी कृतविद्यश्च प्रेक्षितेनापि निर्दहेत्॥ द्रोणाग्निमस्रसंस्पर्श प्रविष्टाः क्षत्रियर्षभाः। बहवो दुस्तरं घोरं यत्राह्यन्तं भारत॥ यथाबलं यथोत्साहं यथासत्त्वं महाद्युतिः। मोहयन् सर्वभूतानि द्रोणो हन्ति बलानि नः॥ तेषां श्रुत्वा क्षत्रधर्मा व्यवस्थितः। अर्धचन्द्रेण चिच्छेद क्षत्रधर्मा महाबलः॥ क्रोधसंविग्नमनसो द्रोणस्य सशरं धनुः। स संरब्धतरो भूत्वा द्रोणः क्षत्रियमर्दनः॥ तद् वचनं अन्यत् कार्मुकमादाय भास्वरं वेगवत्तरम्। तत्राधाय शरं तीक्ष्णं परानीकविशातनम्॥ आकर्णपूर्णमाचार्यो बलवानभ्यवासृजत्। स हत्वा क्षत्रधर्माणं जगाम धरणीतलम्॥ स भिन्नहृदयो वाहान्नयपतन्मेदिनीतले। ततः सैन्यान्यकम्पन्त धृष्टद्युम्नसुते हते॥ अथ द्रोणं समारोहचेकितानो महाबलः। स द्रोणंदशभिर्विद्धवा प्रत्यविद्धयत् स्तनान्तरे॥ चतुर्भिः सारथिं चास्य चतुर्भिश्चतुरो हयान्। तमाचार्यसिभिर्बाणैर्बाह्वोरुरसि चार्पयत्॥ ध्वजं सप्तभिरुन्मथ्य यन्तारमवधीत् त्रिभिः। तस्य सूते हते तेऽश्वा रथमादाय विद्रुताः॥ समरे शरसंवीता भारद्वाजेन मारिष। चेकितानरथं दृष्ट्वा हताश्वं हतसारथिम्॥ तान् समेतान् रणे शूरांश्चेदिपञ्चालसृञ्जयान्। समन्ताद् द्रावयन् द्रोणो वह्वशोभत मारिष॥ आकर्णपलितः श्यामो वयसाशीतिपञ्चकः। रणे पर्यचरद् द्रोणो वृद्धः षोडशवर्षवत्॥ अथ द्रोणं महाराज विचरन्तमभीतवत्। वज्रहस्तममन्यन्त शत्रवः शत्रुसूदनम्॥ ततोऽब्रवीन्महाबाहुपदो बुद्धिमान् नृप। लुब्धोऽयं क्षत्रियान् हन्ति व्याघ्रः क्षुद्रमृगानिव॥ कृच्छ्रान् दुर्योधनो लोकान् पापः प्राप्स्यति दुर्मतिः। यस्य लोभाद् विनिहताः समरे क्षत्रियर्षभाः॥ शतशः शेरते भूमौ निकृत्ता गोवृषा इव। रुधिरेण परीताङ्गाः श्वशृगालदनीकृताः॥ एवमुक्त्वा महाराज दुपदोऽक्षौहिणीपतिः। पुरस्कृत्य रणेपार्थान् द्रोणमभ्यद्रवद् दुतम्॥ एवमुक्त्वा महाराज दुपदोऽक्षौहिणीपतिः। पुरस्कृत्य रणेपार्थान् द्रोणमभ्यद्रवद् दुतम्॥ संजय उवाच व्यूहेष्वालोड्यमानेषु पाण्डवानां ततस्ततः। सुदूरमन्वयुः पार्थाः पञ्चालाः सह सोमकैः॥ वर्तमाने तथा रौद्रे संग्रामे लोमहर्षणे। संक्षये जगतस्तीने युगान्त इव भारत॥ द्रोणे युधि पराक्रान्ते नर्दमाने मुहुर्मुहुः। पञ्चालेषु च क्षीणेषु वध्यमानेषु पाण्डुषु॥ नापश्यच्छरणं किञ्चिद् धर्मराजो युधिष्ठिरः। चिन्तयामास राजेन्द्र कथमेतद् भविष्यति॥ ततो वीक्ष्य दिशः सर्वाः सव्यसाचिदिदृक्षया। युधिष्ठिरो ददर्शाथ नैव पार्थ न माधवम्॥ सोऽपश्यन् नरशार्दूलं वानरर्षभलक्षणम्। गाण्डीवस्य च नि?षमशृण्वन् व्यथितेन्द्रियः॥ अपश्यन् सात्यकिं चापि वृष्णीनां प्रवरं रथम्। चिन्तयाभिपरिताङ्गो धर्मराजो युधिष्ठिरः॥ नाध्यगच्छत् तदा शान्ति तावपश्यन् नरोत्तमौ। लोकोपक्रोशभीरुत्वाद् धर्मराजो महामनाः॥ अचिन्तयन्महाबाहुः शैनेयस्य रथं प्रति। पदवीं प्रेषितश्चैव फाल्गुनस्य मया रणे॥ शैनेयः सात्यकिः सत्यो मित्राणामभयंकरः। तदिदं ह्येकमेवासीद् द्विधा जातं ममाद्य वै॥ सात्यकिश्च हि विज्ञेयः पाण्डवश्च धनंजयः। सात्यकिं प्रेषयित्वा तु पाण्डवस्य पदानुगम्॥ सात्वतस्यापि कं युद्धे प्रेषयिष्ये पदानुगम् करिष्यामि प्रयत्नेन भ्रातुरन्वेषणं यदि॥ युयुधानमनन्विषय लोको मां गर्हयिष्यति। भ्रातुरन्वेषणं कृत्वा धर्मपुत्रो युधिष्ठिरः॥ परित्यजति वार्ष्णेयं सात्यकिं सत्यविक्रमम्। लोकापवादभीरुत्वात् सोऽहं पार्थ वृकोदरम्॥ पदवीं प्रेषयिष्यामि माधवस्य महात्मनः। यथैव च मम प्रीतिरर्जुने शत्रुसूदने॥ तथैव वृष्णिवीरेऽपि सात्वते युद्धदुर्मदे। अतिभारे नियुक्तश्च मया शैनेयनन्दनः॥ स तु मित्रोपरोधने गौरवात्तु महाबलः। प्रविष्टो भारती सेनां मकरः सागरं यथा॥ असौ हि श्रूयते शब्दः शूराणामनिवर्तिनाम्। मिथः संयुध्यमानानां वृष्णिवीरेण धीमता॥ प्राप्तकालं सुबलवनिश्चितं बहुधा हि मे। तत्रैव पाण्डवेयस्य भीमसेनस्य धन्विनः॥ गमनं रोचते मह्यं यत्र यातौ महारथौ। न चाप्यसह्यं भीमस्य विद्यते भुवि किंचन॥ शक्तो ह्येष रणे यत्तः पृथिव्यां सर्वधन्विनाम्। त्वबाहुवलमास्थाय प्रतिव्यूहितुमासा॥ यस्य बाहुबलं सर्वे समाश्रित्य महात्मनः। वनवासानिवृत्ताः स्म न च युद्धेषु निर्जिताः॥ इतो गते भीमसेने सात्वतं प्रति पाण्डवे। सनाथौ भवितारौ हि युधि सात्वतफाल्गुनौ॥ कामं त्वशोचनीयौ तौ रणे सात्वतफाल्गुनौ। रक्षितौ वासुदेवेन स्वयं शस्त्रविशारदौ॥ अवश्यं तु मया कार्यमात्मनः शोकनाशनम्। तस्माद् भीमं नियोक्ष्यामि सात्वतस्य पदानुगम्॥ ततः प्रतिकृतं मन्ये विधानं सात्यकिं प्रति। एवं निश्चित्य मनसा धर्मपुत्रो युधिष्ठिरः॥ यन्तारमब्रवीद् राजा भीमं प्रति नयस्व माम्। धर्मराजवचः श्रुत्वा सारथिर्हयकोविदः॥ रथं हेमपरिष्कारं भीमान्तिकमुपानयत्। भीमसेनमनुप्राप्य प्राप्तकालमचिन्तयत्॥ कश्मलं प्राविशद् राजा बहु तत्र समादिशन्। स कश्मलसमाविष्टो भीममाहूय पार्थिवः॥ अब्रवीद् वचनं राजन् कुन्तीपुत्रो युधिष्ठिरः। यः सदेवान् सगन्धर्वान् दैत्यांश्चैकरथोऽजयत्॥ तस्य लक्ष्म न पश्यामि भीमसेनानुजस्य ते। ततोऽब्रवीद् धर्मराजं भीमसेनस्तथागतम्॥ नैवाद्राक्षं न चाश्रौषं तव कश्मलमीदृशम्। पुरातिदुःखदीर्णानां भवान् गतिरभूद्धि नः॥ उत्तिष्ठोत्तिष्ठ राजेन्द्र शाधि किं करवाणि ते। न ह्यसाध्यमकार्य वा विद्यते मम मानद॥ आज्ञापय कुरुश्रेष्ठ मा च शोके मनः कृथाः। तमब्रवीदश्रुपूर्णः कृष्णसर्प इव श्वसन्॥ भीमसेनमिदं वाक्यं प्रम्लानवदनो नृपः। यथा शङ्खस्य निर्घोषः पाञ्चजन्यस्य श्रूयते॥ पूरितो वासुदेवेन संरब्धेन यशखिना। नूनमद्य हतः शेते तव भ्राता धनंजयः॥ तस्मिन् विनिहते नूनं युध्यतेऽसौ जनार्दनः। यस्य सत्त्ववतो वीर्य ह्युपजीवन्ति पाण्डवाः॥ यं भयेष्वभिगच्छन्ति सहस्राक्षमिवामराः। स शूरः सैन्धवप्रेप्सुरन्वयाद् भारती चमूम्॥ तस्य वै गमनं विद्मो भीम नावर्तनं पुनः। श्यामो युवा गुडाकेशो दर्शनीयो महारथः॥ व्यूढोरस्को महाबाहुर्मत्तद्विरदविक्रमः। चकोरनेत्रस्ताम्रास्यो द्विषतां भयवर्धनः॥ तदिदं मम भद्रं ते शोकस्थानमरिंदम। अर्जुनार्थे महाबाहो सात्वतस्य च कारणात्॥ वर्धते हविषेवाग्निरिध्यमानः पुनः पुनः। तस्य लक्ष्म न पश्यामि तेन विन्दामि कश्मलम्॥ तं विद्धि पुरुषव्याघ्रं सात्वतं च महारथम्। स तं महारथं पश्चादनुयातस्तवानुजम्॥ तमपश्यन्महाबाहुमहं विन्दामि कश्मलम्। पार्थे तस्मिन् हते चैव युध्यते नूनमग्रणीः॥ सहायो नास्य वै कश्चित् तेन विन्दामि कश्मलम्। तस्मिन् कृष्णे हते नूनं युध्यते युद्धकोविदः॥ न हि मे शुध्यते भावस्तयोरेव परंतप। स तत्र गच्छ कौन्तेय यत्र यातो धनंजयः॥ सात्यकिश्च महावीर्यः कर्तव्यं यदि मन्यसे। वचनं मम धर्मज्ञ भ्राता ज्येष्ठो भवामि ते॥ न तेऽर्जुनस्तथा ज्ञेयो ज्ञातव्यः सात्यकिर्यथा। चिकीर्षुर्मत्प्रियं पार्थ स यातः सव्यसाचिनः। पदवी दुर्गमां घोरामगम्यामकृतात्मभिः॥ दृष्ट्वा कुशलिनौ कृष्णौ सात्वतं चैव सात्यकिम्। संविदं चैव कुर्यास्त्वं सिंहनादेन पाण्डव॥ संजय उवाच समुत्तीर्ण रथानीकं पाण्डवं विहसन् रणे। विवारयिषुराचार्यः शरवर्षैरवाकिरत्॥ पिबनि शरौधांस्तान् द्रोणचापपरिच्युतान्। सोऽभ्यद्रवत सोदर्यान् मोहयन् बलमायया॥ तं मृधे वेगमास्थाय नृपाः परमधन्विनः। चोदितास्तव पुत्रैश्च सर्वतः पर्यवारयन्॥ स तस्तु संवृतो भीमः प्रहसन्निव भारत। उद्यच्छन् स गदां तेभ्यः सुघोरां सिंहवन्नदन्। अवासृजच्च वेगेन शत्रुपक्षविनाशिनीम्॥ इन्द्राशनिरिवेन्द्रेण प्रविद्धा संहतात्मना। प्रामथ्यात् सा महाराज सैनिकांस्तव संयुगे॥ घोषेण महता राजन् पूरयन्तीव मेदिनीम्। ज्वलन्ती तेजसाभीमा त्रासयामास ते सुतान्॥ तां पतन्तीं महावेगां दृष्ट्वा तेजोऽभिसंवृताम्। प्राद्रवंस्तावकाः सर्वे नदन्तो भैरवान् रवान्॥ तं च शब्दमसह्य वै तस्याः संलक्ष्य मारिष। प्रापतन्मनुजास्तत्र रथेभ्यो रथिनस्तदा॥ ते हन्यमाना भीमेन गदाहस्तेन तावकाः। प्राद्रवन्त रणे भीता व्याघ्रघ्राता मृगा इव।॥ सतान् विद्राव्य कौन्तेयः संख्येऽमित्रान् दुरासदान्। सुपर्ण इव वेगेन पक्षिराडत्यगाचमूम्॥ तथा तु विप्रकुर्वाणं रथयूथपयथूपम्। भारद्वाजो महाराज भीमसेनं समभ्ययात्॥ भीमं तु समरे द्रोणो वारयित्वा शररोर्मिभिः। अकरोत् सहसा नारदं पाण्डूनां भयमादधत्॥ तद् युद्धमासीत् युमहद् घोरं देवासुरोपमम्। द्रोणस्य च महाराज भीमस्य च महात्मनः॥ यदा तु विशिखैस्तीक्ष्णैर्दोणचापविनिः सृतैः। वध्यन्ते समरे वीराः शतथोऽथ सहस्रशः॥ ततो रथादवप्लुत्य वेगमास्थाय पाण्डवः। वेगमास्थाय बलवान् निमील्य नयने राजन् पदातिनॊणमभ्ययात्॥ अंसे शिरा भीमसेनः करौ कृत्वोरसि स्थिरौ। मनोऽनिलगरुत्मताम्॥ यथा हि गोवृषा वर्ष प्रतिगृह्णाति लीलया। तथा भीमो नरव्याघ्रः शरवर्ष समग्रहीत्॥ स वध्यमानः समरे रथं द्रोणस्य मारिष। ईषायां पाणिना गृह्य प्रचिक्षेप महाबलः॥ द्रोणस्तु सत्वरो राजन् क्षिप्तो भीमेन संयुगे। रथमन्यं समारुह्य व्यूहद्वारं ययौ पुनः॥ तमायान्तं तथा दृष्ट्वा भग्नोत्साहं गुरुं तदा। गत्वा वेगात् पुनर्भीमो धुरं गृह्य रथस्य तु॥ तमप्यतिरथं भीमश्चिक्षेप भृशरोषितः। एवमष्टौ रथाः क्षिप्ता भीमसेनेन लीलया॥ पुनः स्वस्थमास्थितः। दृश्यते तावकर्योधैर्विस्मयोत्फुल्ललोचनैः॥ तस्मिन् क्षणे तस्या यन्ता तूर्णश्वानचोदयत्। भीमसेनस्य कौरव्य तदद्भुतमिवाभवत्॥ ततः स्वरथमास्थाय भीमसेनो महाबलः। अभ्यद्रवत वेगेन तव पुत्रस्य वाहिनीम्॥ व्यदृश्यत निमेषेण स मृद्गन् क्षत्रियानाजौ वातो वृक्षानिवोद्धतः। आगच्छद् दारयन् सेनां सिन्धुवेगो नगानिव॥ भोजानीकं समासाद्य हार्दिक्येनाभिरक्षितम्। प्रमथ्य तरसा वीरस्तदप्यतिबलोऽभ्ययात्॥ संत्रासयन्ननीकानि तलशब्देन पाण्डवः। अजयत् सर्वसैन्यानि शार्दूल इव गोवृषान्॥ भोजानीकमतिक्रम्य दरदानां च वाहिनीम्। तथा म्लेच्छगणानन्यान् बहून् युद्धविशारदान्॥ सात्यकिं चैव सम्प्रेक्ष्य युध्यमानं महारथम्। रथेन यत्तः कौन्तेयो वेगेन प्रययौ तदा॥ भीमसेनो महाराज द्रष्टकामो धनंजयम्। अतीत्य समरे योधांस्तावकान् पाण्डुनन्दनः॥ सोऽपश्यदर्जुनं तत्र युध्मानं महारथम्। सैन्धवस्य वधार्थ हि पराक्रान्तं पराक्रमी॥ तं दृष्ट्वा पुरुषव्याघ्रश्चुक्रोश महतो रवान्। प्रावृट्काले कौरव्य भीमसेनस्य संयुगे।॥ तं तस्य निनदं घोरं पार्थः शुश्राव नर्दतः। वासुदेवश्च कौरव्य भीमसेनस्य संयुगे॥ तौ श्रुत्वा युगपद् वीरौ निनदं तस्य शुष्मिणः। पुनः पुनः प्राणदतां दिदृक्षन्तौ वृकोदरम्॥ ततः पार्थो महानादं मुञ्चन् वै माधवश्च ह। अभ्ययातां महाराज नर्दन्तौ गोवृषाविव॥ भीमसेनरवं श्रुत्वा फाल्गुनस्य च धन्विनः। अप्रीयत महाराज धर्मपुत्रो युधिष्ठिरः॥ विशोकश्चाभवद् राजा श्रुत्वा तं निनदं तयोः। धनंजयस्य समरे जयमाशास्तवान् विभुः॥ तथा तु नर्दमाने वै भीमसेने मदोत्कटे। स्मितं कृत्वा महाबाहुधर्मपुत्रो युधिष्ठिरः॥ हृद्गतं मनसा प्राह ध्यात्वा धर्मभृतां वरः। दत्ता भीम त्वया संवित् कृतं गुरुवचस्तथा॥ न हि तेषां जयो युद्धे येषां द्वेष्टासि पाण्डव। दिष्ट्या जीवति संग्रामे सव्यसाची धनंजयः॥ दिष्ट्या च कुशली वीरः सात्यकिः सत्यविक्रमः। दिष्ट्या शृणोमि गर्जन्तौ वासुदेवधनंजयौ॥ येन शक्रं रणे जित्वा तर्पितो हव्यवाहनः। स हन्ता द्विषतां संख्ये दिष्ट्या जीवति फाल्गुनः॥४२ निवातकवचा येन देवैरपि सुदुर्जयाः। निर्जिता धनुषैकेन दिष्ट्या पार्थः स जीवति॥ कौरवान् सहितान् सर्वान् गोग्रहार्थ समागतान्। योऽजयन्मत्स्यनगरे दिष्ट्या पार्थः स जीवति॥ कालकेयसहस्राणि चतुर्दश महारणे। योऽवधीद् भुजवीर्येण दिष्ट्या पार्थः स जीवति॥ गन्धर्वराजं बलिनं दुर्योधनकृते च वै। जितवान् योऽस्रवीर्येण दिष्ट्या पार्थः स जीवति॥४४ किरीटमाली बलवाञ्छवेताश्वः कृष्णसारथिः। मम प्रियश्च सततं दिष्ट्या पार्थः स जीवति॥ पुत्रशोकाभिसंतप्तश्चिकीर्षन् कर्म दुष्करम्। जयद्रथवधान्वेषी प्रतिज्ञां कृतवान् हि यः॥ कचित् स सैन्धवं संख्ये हनिष्यति धनंजयः। कचित् तीर्णप्रतिज्ञं हि वासुदेवेन रक्षितम्॥ अनस्तमित आदित्ये समेष्याम्यहमर्जुनम्। कचित् सैन्धवको राजा दुर्योधनहिते रतः॥ नन्दयिष्यत्यमित्रान् हि फाल्गुनेन निपातितः। कश्चिद् दुर्योधनो राजा फाल्गुनेन निपातितम्॥ दृष्ट्वा सैन्धवकं संख्ये शममस्मासु धास्यति। दृष्ट्वा विनिहतान् भ्रातॄन् भीमसेनेन संयुगे॥ कच्चिद् दुर्योधनो मन्दः शममस्मासु धास्यति। दृष्ट्वा चान्यान् महायोधान् पातितान् धरणीतले। कचिद् दुर्योधनो मन्दः पश्चात्तापं गमिष्यति॥ कश्चिद् भीष्मेण नो वैरं शममेकेन यास्यति। शेषस्य रक्षणार्थ च संधास्यति सुयोधनः॥५५ एवं बहुविधं तस्य राज्ञश्चिन्तयतस्तदा। कृपयाभिपरीतस्य घोरं युद्धमवर्तत॥ संजय उवाच तस्मिन् विलुलिते सैनये सैन्धवायार्जुने गते। सात्वते भीमसेने च पुत्रस्ते द्रोणमभ्ययात्॥ त्वरनेकरथेनैव बहुकृत्यं विचिन्तयन्। स रथस्तव पुत्रस्य त्वरया परया युतः॥ तूर्णमभ्यद्रवद् द्रोणं मनोमारुतवेगवान्। उवाच चैनं पुत्रस्ते संरम्भाद् रक्तलोचनः॥ ससम्भ्रममिदं वाक्यमब्रवीत् कुरुनन्दनः। अर्जुनो भीमसेनश्च सात्यक्श्चिपराजितः॥ विजित्य सर्वसैन्यानि सुमहान्ति महारथाः। सम्प्राप्ताः सिन्धुराजस्य समीपमनिवारताः॥ व्यायच्छन्ति च तत्रापि सर्व एवापराजिताः। यदि तावद् रणे पार्थो व्यतिक्रान्तो महारथः॥ कथं सात्यकिभीमाभ्यां व्यतिक्रान्तोऽसि मानद। आश्चर्यभूतं लोकेऽस्मिन् समुद्रस्येव शोषणम्॥ निर्जयस्तव विप्रण्य सात्वतेनार्जुनेन च। तथैव भीमसेनेन लोकः संवदते भृशम्॥ कथं द्रोणो जित: संख्ये धनुर्वेदस्य पारगः। इत्येवं ब्रुवते योधा अश्रद्धेयमिदं तव॥ नाश एव तु मे नूनं मन्दभाग्यस्य संयुगे। यत्र त्वां पुरुषव्याघ्रं व्यतिक्रान्तास्रयो रथाः॥ एवं गते तुकृत्येऽस्मिन् ब्रूहि यत् ते विवक्षितम्। यद् गतं गतमेवेदं शेषं चिन्तय मानद॥ यत् कृत्यं सिन्धुराजस्य प्राप्तकालमनन्तरम्। तत् संविधीयतां क्षिप्रं साधु संचिन्त्य नो द्विज॥ द्रोण उवाच चिन्त्यं बहुविधं तात यत् कृत्यं तच्छृणुष्व मे। त्रयो हि समतिक्रान्ताः पाण्डवानां महारथाः॥ यावत् तेषां भयं पश्चात् तावदेषां पुरःसरम्। तद् गरीयस्तरं मन्ये यत्र कृष्णधनंजयौ॥ सा पुरस्ताच पश्चाच गृहीता भारती चमूः। तत्र कृत्यमहं मन्ये सैन्धवस्याभिरक्षणम्॥ स नो रक्ष्यतमस्तात क्रुद्धाद् भीतो धनंजयात्। गतौ च सैन्धवं भीमौ युयुधानवृकोदरौ॥ समप्राप्तं तदिदं द्यूतं यत् तच्छकुनिबुद्धिजम्। न सभायां जपो वृत्तो नापि तत्र पराजयः॥ इह नो ग्लहमानानामद्य तावजयाजयौ। यान् स्म तान् ग्लहते घोराज्छकुनिः कुरुसंसदि॥ अक्षान् स मन्यमानः प्राक् शरास्ते हि दुरासदाः। यत्र ते बहवस्तात कौरवेया व्यवस्थिताः॥ सेनां दुरोदरं विद्धि शरानक्षान् विशाम्पते। ग्लहं च सैन्धवं राजंस्तत्र द्युतस्य निश्चयः॥ सैन्धवे तु महद् द्यूतं समासक्तं परैः सह। अत्र सर्वे महाराज त्यक्त्वा जीवितमात्मनः॥ सैन्धवस्य रणे रक्षा विधिवत् कर्तुमर्हथ। तत्र नो ग्लहमानानां ध्रुवौ जयपराजयौ॥ यत्र ते परमेष्वासा यत्ता रक्षन्ति सैन्धवम्। ॥ तत्र गच्छ स्वयं शीघ्रं तांश्च रक्षस्व रक्षिणः॥ इहैव त्वहमासिष्ये प्रेषयिष्यामि चापरान्। निरोत्स्यामि च पञ्चालान् सहितान् पाण्डुसृञ्जयैः॥२४ ततोऽदुर्योधनोऽगच्छत् तूर्णमाचार्यशासनात्। उद्यम्यात्मानमुग्राय कर्मणे सपदानुगाः॥ चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ। बाह्येन सेनामभ्येत्य जग्मतुः सव्यसाचिनम्॥ यौ तु पूर्व महाराज वारितौ कृतवर्मणा। प्रविष्टे त्वर्जुने राजंस्तव सैन्यं युयुत्सया॥ पार्वे भित्त्वा चमूं वीरौ प्रविष्टौ तव वाहिनीम्। पार्बेन सैन्यमायान्तौ कुरुराजो ददर्श ह॥ ताभ्यां दुर्योधनः सार्धमकरोत् संख्यमुत्तमम्। त्वरितस्त्वरमाणाभ्यां भ्रातृभ्यां भारतो बली॥ तावेनमभ्यद्रवतामुभावुद्यतकार्मुकौ। महारथसमाख्यातौ क्षत्रियप्रवरौ युधि॥ तमविध्यद् युधामन्युत्रिंशताः कङ्कपत्रिभिः। विंशत्या सारथिं चास्य चतुर्भिश्चतुरो हयान्॥ दुर्योधनो युधामन्योर्ध्वजमेकेषुणाच्छिनत्। एकेन कार्मुकं चास्य चकर्त तनयस्तव॥ सारथिं चास्य भल्लेन रथनीडादपाहरत्। ततोऽविध्यच्छरैस्तीक्ष्णैश्चतुर्भिश्चतुरो हयान्॥ युधामन्युश्च संक्रुद्धः शरांत्रिंशतमाहवे। व्यसृजत् तव पुत्रस्य त्वरमाणः स्तनान्तरे॥ तथोत्तमौजा: संक्रुद्धः शरैर्हेमविभूषितैः। अविध्यत् सारथिं चास्य प्राहिणोद् यमसादनम्॥ दुर्योधनोऽपि राजेन्द्र पाञ्चाल्यस्योत्तमौजसः। जघान चतुरोऽस्याश्वानुभौ तौ पाणिसारथी॥ उत्तमौजा हताश्वस्तु हतसूतश्च संयुगे। आरुरोह रथं भ्रातुर्युधामन्योरभित्वरन्॥ स रथं प्राप्य तं भ्रातुर्दुर्योधनहयाशरैः। बहुभिस्ताडयामास ते हताः प्रापतन् भुवि॥ हयेषु पतितेष्वस्य चिच्छेद परमेषुणा। युधामन्युर्धनुः शीघ्रं शरावापं च संयुगे॥ हताश्वसूतात् स रथादवतीर्य नराधिपः। गदामादाय ते पुत्रः पाञ्चाल्यावभ्यधावत॥ तमापतन्तं सम्प्रेक्ष्य क्रुद्धं कुरुपतिं तदा। अवप्लुतौ रथोपस्थाद् युधामन्यूत्तमौजसो॥ ततः स हेमचित्रं तं गदया स्यन्दनं गदी। संक्रुद्धः पोथयामास साश्वसूतध्वजं नृप॥ भक्त्वा रथं स पुत्रस्ते हताश्वो हतसारथिः। मद्रराजरथं तूर्णमारुरोह परंतपः॥ पञ्चालानां ततो मुख्यौ राजपुत्रौ महारथौ। रथावन्यौ समारुह्य बीभत्सुमभिजग्मतुः॥ संजय उवाच वर्तमाने महाराज संग्रामे लोमहर्षणे। व्याकुलेषु च सर्वेषु पीड्यमानेषु सर्वशः॥ राधेयो भीममानछेद् युद्धाय भरतर्षभ यथा नागो वने मार्ग मत्तो मत्तमभिद्रवन्॥ धृतराष्ट्र उवाच यौ तौ कर्णश्च भीमश्च सम्प्रयुद्धौ महाबलौ। अर्जुनस्य रथोपान्ते कीदृशः सोऽभवद् रणः॥ पूर्व हि निर्जितः कर्णो भीमसेनेन संयुगे। कथं भूयः स राधेयो भीममागान्महारथः॥ भीमो वा सूततनयं प्रत्युद्यातः कथं रणे। महारथं समाख्यातं पृथिव्यां प्रवरं रथम्॥ भीष्मद्रोणवतिक्रम्य धर्मराजो युधिष्ठिरः। नान्यतो भयमादत्त विना कर्णान्महारथात्॥ भयाद्यस्य महाबाहोर्न शेते बहुलाः समाः। चिन्तयन् नित्यशो वीर्य राधेयस्य महात्मनः। तं कथं सूतपुत्रं तु भीमोऽयोधयताहवे॥ ब्रह्मण्यं वीर्यसम्पन्नं समरेष्वनिवर्तिनम्। कथं कर्ण युधां श्रेष्ठं योधयामास पाण्डवः॥ यौ तौ समीयतुर्वीरौ वैकर्तनवृकोदरौ। कथं तावत्र युध्येतां महाबलपराक्रमौ॥ भ्रातृत्वं दर्शितं पूर्व घृणी चापि स सूतजः। कथं भीमेन युयुधे कुन्त्या वाक्यमनुस्मरन्॥ भीमो वा सूतपुत्रेण स्मरन् वैरं पुरा कृतम्। अयुध्यत कथं शूरः कर्णेन सह संयुगे।॥ आशास्ते च सदा सूत पुत्रो दुर्योधनो मम। कर्णो जेष्यति संग्रामे समस्तान् पाण्डवानिति॥ जयाशा यत्र पुत्रस्य मम मन्दस्य संयुगे। स कथं भीमकर्माणं भीमसेनमयोधयत्॥ यं समासाद्य पुत्रैर्मे कृतं वैरं महारथैः। तं सूततनयं तात कथं भीमो ह्ययोधयत्॥ अनेकान् विप्रकारांश्च सूतपुत्रसमुद्भवान्। स्मरमाणः कथं भीमो युयुधे सूतसूनुना॥ योऽजयत् पृथिवीं सर्वा रथेनैकेन वीर्यवान्। तं सूततनयं युद्धे कथं भीमो ह्ययोधयत्॥ यो जात: कुण्डलाभ्यां च कवचेन सहैव च। तं सूतपुत्रं समरे भीमः कथमयोधयत्॥ यथा तयोर्युद्धमभूद् यश्चासीद् विजयी तयोः। तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि संजय॥ संजय उवाच भीमसेनस्तु राधेयमुत्सृज्य रथिनां वरम्। इयेष गन्तुं यत्रास्तां वीरौ कृष्णधनंजयौ॥ तं प्रयान्तमभिद्रुत्य राधेयः कङ्कपत्रिभिः। अभ्यवर्षन्महाराज मेघो वृष्ट्येव पर्वतम्॥ फुल्लता पङ्कजेनेव वक्त्रेण विहसन् बली। आजुहाव रणे यान्तं भीममाधिरथिस्तदा॥ कर्ण उवाच भीमाहितैस्तव रणे स्वप्नेऽपि न विभावितम्। तद् दर्शयसि कस्मान्मे पृष्ठं पार्थदिदृक्षया॥ कुन्त्याः पुत्रस्य सदृशं नेदं पाण्डवनन्दन। तेन मामभितः स्थित्वा शरवर्षैरवाकिर॥ भीमसेनस्तदाबानं कर्णान्नामर्षयद् युधि। अर्धमण्डलमावृत्य सूतपुत्रमयोधयत्॥ अवक्रगामिभिर्बाणैरभ्यवर्षन्महायशाः। दंशितं द्वैरथे यत्तं सर्वशस्त्रविशारदम्॥ विधित्सुः कलहस्यान्तं जिघांसुः कर्णमक्षिणोत्। हत्वा तस्यानुगांस्तं च हन्तुकामो महाबलः॥ तस्मै व्यसृजदुग्राणि विविधानि परंतपः। अमर्षात् पाण्डवः क्रुद्धः शरवर्षाणि मारिष।॥ तस्य तानीषुवर्षाणि मत्तद्विरदगामिनः। सूतपुत्रोऽस्रमायाभिरग्रसत् परमास्त्रवित्॥ स यथावन्महाबाहुर्विद्यया वै सुपूजितः। आचार्यवन्महेष्वासः कर्णः पर्यचरद् बली॥ युध्यमानं तु संरम्भाद् भीमसेनं हसन्निवा अभ्यपद्यत कौन्तेयं कर्णो राजन् वृकोदरम्॥ तन्नामृष्यत कौन्तेयः कर्णस्य स्मितमाहवे। युध्यमानेषु वीरेषु पश्यत्सु च समन्ततः॥ तं भीमसेनः सम्प्राप्तं वत्सदन्तैः स्तनान्तरे। विव्याध बलवान् क्रुद्धस्तोत्रैरिव महाद्विपम्॥ पुनश्च सूतपुत्रं तु स्वर्णपुजैः शिलाशितैः। सुमुक्तेश्चित्रवर्माणं निर्बिभेद त्रिसप्तभिः॥ कर्णो जाम्बूनदैर्जालैः संछन्नान् वातरंहसः। हयान् विव्याध भीमस्य पञ्चभिः पञ्चभिः शरैः॥ ततो बाणमयं जालं भीमसेनस्थं प्रति। कर्णेन विहितं राजन् निमेषार्धाददृश्यत॥ सरथः सध्वजस्तत्र ससूतः पाण्डवस्तदा। प्राच्छाद्यत महाराज कर्णचापच्युतैः शरैः॥ तस्य कर्णश्चतुःषष्ट्या व्यधमत् कवचं दृढम्। क्रुद्धश्चाप्यहनत् पार्थ नाराचैर्मर्मभेदिभिः॥ ततोऽचिन्त्य महाबाहुः कर्णकार्मुकनिःसृतान्। समाश्लिष्यदसम्भ्रान्तः सूतपुत्रं वृकोदरः॥ स कर्णचापप्रभवानिषूनाशीविषोपमान्। बिभ्रद्र भीमो महाराज न जगाम व्यथां रणे॥ ततो द्वात्रिंशता भल्लैर्निशितैस्तिग्मतेजनैः। विव्याध समरे कर्ण भीमसेनः प्रतापवान्॥ अयत्नेनैव तं कर्णः शरैर्भृशमवाकिरत्। भीमसेनं महाबाहुं सैन्धवस्य वधैषिणम्॥ मृदुपूव तु राधेयो भीममाजावयोधयत्। क्रोधपूर्व तथा भीमः पूर्व वैरमनुस्मरन्॥ तं भीमसेनो नामृष्यदवमानममर्षणः। स तस्मै व्यसृजत् तूर्ण शरवर्षममित्रहा॥ ते शरा: प्रेषितास्तेन भीमसेनेन संयुगे। निपेतुः सर्वतो वीरे कूजन्त इव पक्षिणः॥ हेमपुङ्खा प्रसन्नाग्रा भीमसेनधनुश्च्युताः। प्राच्छादयंस्ते राधेयं शलभा इव पावकम्॥ कर्णस्तु रथिनां श्रेष्ठश्छाद्यमानः समन्ततः। राजन् व्यसृजदुग्राणि शरवर्षाणि भारत॥ तस्य तानशनिप्रख्यानिषून् समरशोभिनः। चिच्छेद बहुभिर्भल्लैरसम्प्राप्तान् वृकोदरः॥ पुनश्च शरवर्षेण च्छादयामास भारत। कर्णो वैकर्तनो युद्धे भीमसेनमरिंदमः॥ तत्र भारत भीमं तु दृष्टवन्तः स्म सायकैः। समाचिततनुं संख्ये श्वाविधं शललैरिव॥ हेमपुङ्खाच्छिलाधौतान् कर्णचापच्युताञ्छरान्। दधार समरे वीरः खरश्मीनिव रश्मिवान्॥ रुधिरोक्षितसर्वाङ्गो भीमसेनो व्यराजत। समृद्धकुसुमापीडो वसन्तेऽशोकवृक्षवत्॥ तत्तु भीमो महाबाहोः कर्णस्य चरितं रणे। नामृष्यत महाबाहुः क्रोधादुद्वत्तलोचनः॥ स कर्ण पञ्चविंशत्या नाराचानां समार्पयत्। महीधरमिव श्वेतं गूढपादैर्विषोल्बणैः॥ पुनरेव च विव्याध षभिरष्टाभिरेव च। मर्मखमरविक्रान्तः सूतपुत्रं तनुत्यजम्॥ पुनरन्येन बाणेन भीमसेनः प्रतापवान्। चिच्छेद कार्मुकं तूर्णं कर्णस्य ग्रहसन्निव॥ जघान चतुरश्चाश्वान् सूतं च त्वरितः शरैः। नाराचैरर्करश्म्याभैः कर्ण विव्याध चोरसि॥ ते जग्मुर्धरणीमाशु कर्ण निर्भिद्य पत्रिणः। यथा जलधरं भित्त्वा दिवाकरमरीचयः॥ स वैकव्यं महत् प्राप्य छिन्नधन्वा शराहतः। तथा पुरुषमानी स प्रत्यपायाद् रथान्तरम्॥ धृतराष्ट्र उवाच स्वयं शिष्यो महेशस्य भृगूत्तमधनुर्धरः। शिष्यत्वं प्राप्तवान् कर्णस्तस्य तुल्योऽस्रविद्यया॥ तद्विशिष्टोऽपि वा कर्णः शिष्यः शिष्यगुणैर्युतः। कुन्तीपुत्रेण भीमेन निर्जितः स तु लीलया॥ यस्मिञ्जयाशा महती पुत्राणां मम संजय। तं भीमाद् विमुखं दृष्ट्वा किं नु दुर्योधनोऽब्रवीत्॥ कथं च युयुधे भीमो वीर्यश्लाघी महाबलः। कर्णो वा समरे तात किमकार्षीत् ततः परम्। भीमसेनं रणे दृष्ट्वा ज्वलन्तमिव पावकम्॥ संजय उवाच रथमन्यं समास्थाय विधिवत् कल्पितं पुनः। अभ्ययात् पाण्डवं कर्णो वातोद्भूत इवार्णवः॥ क्रुद्धमाधिरथिं दृष्ट्वा पुत्रास्तव विशाम्पते। भीमसेनममन्यन्त वैश्वानरमुखे हुतम्॥ चापशब्दं ततः कृत्वा तलशब्दं च भैरवम्। अभ्यद्रवत राधेयो भीमसेनरथं प्रति॥ पुनरेव तयो राजन् घोर आसीत् समागमः। वैकर्तनस्य शूरस्य भीमस्य च महात्मनः॥ संरब्धौ हि महाबाहु परस्परवधैषिणौ। अन्योन्यमीक्षांचक्राते दहन्ताविव लोचनैः॥ क्रोधरक्तक्षणौ तीव्रौ निःश्वसन्ताविवोरगौ। शूरावन्योन्यमासाद्य ततक्षतुररिंदमौ॥ व्याघ्राविव सुसंरब्धौ श्येनाविव च शीघ्रगौ। शरभाविव संक्रुद्धौ युयुधाते परस्परम्॥ ततो भीमः स्मरन् क्लेशानक्षद्यूते वनेऽपि च। विराटनगरे चैव दुःखं प्राप्तमरिंदमः॥ राष्ट्राणां स्फीतरत्नानां हरणं च तवात्मजैः। सततं च परिक्केशान् सपुत्रेण त्वया कृतान्॥ दग्धुमैच्छच्च यः कुन्तीं सपुत्रां त्वमनागसम्। कृष्णायाश्च परिक्लेशं सभामध्ये दुरात्मभिः॥ केशपक्षग्रहं चैव दुःशासनकृतं तथा। परुषाणि च वाक्यानि कर्णेनोक्तानि भारत।॥ पतिमन्यं परीप्सख न सन्ति पतयस्तव। पतिता नरके पार्थाः सर्वे षण्ढतिलोपमाः॥ समक्षं तव कौरव्य रव्य यदूचुः कौरवास्तदा। दासीभावेन कृष्णां च भोक्तुकामाः सुतास्तव॥ यचापि तान् प्रव्रजतः कृष्णाजिननिवासिनः। परुषाण्युक्तवान् कर्णः सभायां संनिधौ तव॥ तृणीकृत्य यथा पार्थास्तव पुत्रो ववल्ग हा विषमस्थान् समस्थो हि संरब्धो गतचेतनः॥ बाल्यात् प्रभृति चारिजः स्वानि दुःखानि चिन्तयन्। निरविद्यत धर्मात्मा जीवितेन वृकोदरः॥ ततो विस्फार्य सुमहद्धेमपृष्ठं दुरासदम्। चापं भरतशार्दूलस्त्यक्तात्मा कर्णमभ्ययात्॥ स सायकमयैर्जालैभीमः कर्णरथं प्रति। भानुमद्धि शिलाधौतैर्भानोः प्राच्छादयत् प्रभाम्॥ ततः प्रहस्याधिरथिस्तूर्णमस्य शिलाशितैः। व्यधमद् भीमसेनस्य शरजालानि पत्रिभिः॥ महारथो महाबाहुर्महाबाणैर्महाबलः। विव्याधाधिरथिर्भीमं नवभिर्निशितैस्तदा॥ स तोत्रैरिव मातङ्गो वार्यमाणः पतत्रिभिः। अभ्यधावदसम्भ्रान्तः सूतपुत्रं वृकोदरः॥ तमापतन्तं वेगेन रभसं पाण्डवर्षभम्। कर्णः प्रत्युद्ययौ युद्धे मत्तो मत्तमिव द्विपम्॥ ततः प्रध्यमाष्य जलजं भेरीशतसमखनम्। अक्षुभ्यत बलं हर्षादूर्भूत इव सागरः॥ तदुद्भूतं बलं दृष्ट्वा नागाश्वरथपत्तिमत्। भीमः कर्णे समासाद्य च्छादयामास सायकैः॥ अश्वानृक्षसवर्णोच हंसवर्णैर्हयोत्तमैः। व्यामिश्रयद् रणे कर्णः पाण्डवं छादयञ्छरैः॥ ऋक्षवर्णान् हयान् कर्मिश्रान् मारुतरहंसः। निरीक्षय तव पुत्राणां हाहाकृतमभूद् बलम्॥ ते हया बह्वशोभन्त मिश्रिता वारंहसः। सितासिता महारात यथा व्योम्नि बलाहकाः॥ संरब्धौ क्रोधताम्राक्षौ प्रेक्ष्य कर्णवृकोदरौ। संत्रस्ताः समकम्पन्त त्वदीयानां महारथाः॥ यमराष्ट्रोपमं घोरमासीदायोधनं तयोः। दुर्दर्श भरतश्रेष्ठ प्रेतराजपुरं यथा॥ समाजमिव तचित्रं प्रेक्षमाणा महारथाः। नालक्षयञ्जय व्यक्तमेकस्यैव महारणे॥ तयोः प्रेक्षन्त सम्मर्द संनिकृष्टं महास्रयोः। तव दुर्मन्त्रिते राजन् सपुत्रस्य विशाम्पते॥ छादयन्तौ हि शत्रुनावन्योन्यं सायकैः शितैः। शरजालावृतं व्योम चक्रातेऽद्भुतविक्रमौ॥ तावन्योन्यं जिघांसन्तौ शरैस्तीक्ष्णैर्महारथौ। प्रेक्षणीयतरावास्तां वृष्टिमन्ताविवाम्बुदौ॥ ॥ सुवर्णविकृतान् बाणान् विमुञ्चान्तावरिंदमौ। भाखरं व्योम चक्राते महोल्काभिरिव प्रभौ॥ ताभ्यां मुक्ताः शरा राजन् गार्धपत्राश्चकाशिरे। श्रेण्यः शरदि मत्तानां सारसानामिवाम्बरे॥ संसक्तं सूतपुत्रेण दृष्ट्वा भीममरिंदमम्। अतिभारममन्येतां भीमे कृष्णधनंजयौ॥४ तत्राधिरथिभीमाभ्यां शरैर्मुक्तैर्दढे हताः। इषुपातमतिक्रम्य पेतुरश्चनरद्विपाः॥ पतद्भिः पतितैश्चान्यैर्गतासुभिरनेकशः। कृतो राजन् महाराज पुत्राणां ते जनक्षयः॥ मनुष्याश्वगजानां च शरीरैर्गतजीवितैः। क्षणेन भूमिः संजज्ञे संवृता भरतर्षभ॥ धृतराष्ट्र उवाच अत्यद्भुमहं मन्ये भीमसेनस्य विक्रमम्। यत् कर्ण योधयामास समरे लघुविक्रमम्। त्रिदशानपि वा युक्तान् सर्वशस्त्रधरान् युधि। वारयेद् यो रणे कर्णः सयक्षासुरमानुषान्॥ स कथं पाण्डवं युद्धे भ्राजमानमिव श्रिया। नातरत् संयुगे पार्थ तन्ममाचक्ष्व संजय॥ कथं च युद्धं सम्भूतं तयोः प्राणदुरोदरे। अत्र मन्ये समायत्तो जयो वाजय एव च॥ कर्ण प्राप्य रणे सूत मम पुत्रः सुयोधनः। जेतुमुत्सहते पार्थान् सगोविन्दान् ससात्वतान्॥ श्रुत्व तु निर्जितं कर्णमसकृद भीमकर्मणा। भीमसेनेन समरे मोह आविशतीव माम्॥ विनष्टान् कौरवान् मन्ये मम पुत्रस्य दुर्नयैः। न हि कर्णो महेष्वासान् पार्थाञ्जेष्यति संजय॥ कृतवान् यानियुद्धानि कर्णः पाण्डुसुतैः सह। सर्वत्र पाण्डवाः कर्णमजयन्त रणाजिरे॥ अजेयाः पाण्डवास्तात देवैरपि सवासवैः। न च तद् बुध्यते मन्दः पुत्रो दुर्योधनो मम॥ धनं धनेश्वरस्येव हृत्वा पार्थस्य मे सुतः। मधुप्रेप्सुरिवाबुद्धिः प्रपातं नावबुध्यते॥ निकृत्या निकृतिप्रज्ञो राज्यं हत्वा महात्मनाम्। जितमित्येव मन्वानः पाण्डवानवमन्यते॥ पुत्रस्नेहाभिभूतेन मया चाप्यकृतात्मना। धर्मे स्थिता महात्मनो निकृताः पाण्डुनन्दनाः॥ शमकामः ससोदो दीर्घप्रेक्षी युधिष्ठिरः। अशक्त इति मत्वा तु मम पुत्रैर्निराकृतः॥ तानि दुःखान्यनेकानि विप्रकारंश्च सर्वशः। हृदि कृत्वा महाबाहुर्रमोऽयुध्यत सूतजम्॥ तस्मान्ते संजय ब्रूहि कर्णभीमौ यथा रणे। अयुध्येतां युधि श्रेष्ठौ परस्परवधैषिणौ॥ संजय उवाच शृणु राजन् यथावृत्तं संग्रामं कर्णभीमयोः। परस्परवधप्रेप्स्वोर्वनकुञ्जरयोरिव॥ राजन् वैकर्तनो भीमं क्रुद्धः क्रुद्धमरिंदमम्। पराक्रान्तं पराक्रम्य विव्याध त्रिंशता शरैः॥ महावेगैः प्रसन्नाग्रैः शातकुम्भपरिष्कृतैः। अहमद् भरतश्रेष्ठं भीमं वैकर्तनः शरैः॥ तस्यास्यतो धनुर्भीमश्चकर्त निशितैसिभिः। रथानीडाच यन्तारं भल्लेनापतयत् क्षितौ।॥ स काङ्क्षन् भीमसनेसर वधं वैकर्तनो भृशम्। शक्तिं कनकवैदूर्यचित्रदण्डां परामृशत्॥ प्रगृह्य च महाशक्तिं कालशक्तिमिवापराम्। समुत्क्षिप्य च राधेयः संधाय च महाबलः॥ चिक्षेप भीमसेनाय जीवितान्तकरीमिव। शक्तिं विसृज्य राधेयः पुरंदर इवाशनिम्॥ नवाद सुमहानादं बलवान् सूतनन्दनः। तं च नादं ततः श्रुत्वा पुत्रास्ते हर्षिताऽभवन्॥ तां कर्णभुजनिर्मुक्तामकैवैश्वानरप्रभाम्। शक्तिं वियति चिच्छेद भीमः सप्तभिराशुगैः॥ छित्त्वा शक्तिं ततो भीमो निर्मुक्तोरगसंनिभाम्। मार्गमाण इव प्राणान् सूतपुत्रस्य मारिष॥ प्राहिणोत् कृतसंरम्भः शरान् बहिणवाससः। स्वर्णपुङ्खाशिलाधौतान् यमदण्डोपमान् मृधे॥ कर्णोऽप्यपद् धनुर्गृह्य हेमपृष्ठं दुरासदम्। विकृष्य तन्महचापं व्यसृजत् सायकांस्तदा॥ तान् पाण्डुपुत्रश्चिच्छेद नवभिनतपर्वभिः। वसुषेणेन निर्मुक्तान् इव राजन् महाशरान्॥ छित्त्वा भीमो महाराज नादं सिंह इवानदत्। तौ वृषाविव नर्दन्तौ बलिनौ वासितान्तरे॥ शार्दूलाविव चान्योन्यमामिषार्थेऽभ्यगर्जताम्। अन्योन्यं प्रजिहीर्षन्तावन्योन्यस्यान्तरैषिणौ॥ अन्योन्यमभिवीक्षन्तौ गोष्ठेष्विव महर्षभौ। महागजाविवासाद्य विषाणाप्रैः परस्परम्॥ शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः। निर्दहन्तौ महाराज शस्त्रवृष्ट्या परस्परम्॥ अन्योन्यमभिवीक्षन्तौ कोपाद् विवृतलोचनौ। प्रहसन्तौ तथान्योन्यं भर्त्सयन्तौ मुहुर्मुहुः॥ शङ्खशब्दं च कुर्वाणौ युयुधाते परस्परम्। तस्य भीमः पुनश्चापं मुष्टौ चिच्छेद मारिष॥ इव क्रोधाद् शङ्खवर्णाश्च तानश्वान् बाणैर्निन्ये यमक्षयम्। सारथिं च तथाप्यस्य रथनीडादपातयत्॥ ततो वैकर्तनः कर्णश्चिन्तां प्राप दुरत्ययाम्। स च्छाद्यमानः समरे हताश्वो हतसारथिः॥ मोहितः शरजालेन कर्तव्यं नाभ्यपद्यत। तथा कृच्छ्रगतं दृष्ट्वा कर्ण दुर्योधनो नृपः॥ वेपमान व्यादिदेशाथ दुर्जयम्। गच्छ दुर्जय राधेयं पुरो ग्रसति पाण्डवः॥ जहि तूबरकं क्षिप्रं कर्णस्य बलमादधत्। एवमुक्तस्तथेत्युक्त्वा तव पुत्रं तवात्मजः॥ अभ्यद्रवद् भीमसेनं व्यासक्तं विकिरज्छरैः। स भीमं नवभिर्बाणैरश्वानष्टभिरापर्यत्॥ षभिः सूतं त्रिभिः केतुं पुनस्तं चापि सप्तभिः। भीमसेनोऽपि संक्रुद्धः साश्वयन्तारमाशुगैः॥ दुर्जयं भिन्नमर्माणमनयद् यमसादनम्। स्वलंकृतं क्षितौ क्षुण्णं चेष्टमानं यथोरगम्॥ रुदन्नातस्तव सुतं कर्णश्चके प्रदक्षिणम्। स तु तं विरथं कृत्वा स्मयन्नत्यन्तवैरिणम्॥ समाचिनोद बाणगणैः शतनीभिश्च शङ्कुभिः। तथाप्यतिरथः कर्णो भिद्यमानोऽस्य सायकैः॥ न जहौ समरे भीमं क्रुद्धरूपं परंतपः॥ धृतराष्ट्र उवाच दैवमेव परं मन्ये धिक् पौरुषमनर्थकम्। यत्राधिरथिरायत्तो नातरत् पाण्डवं रणे॥ कर्णः पार्थान् सगोविन्दान् जेतुमुत्सहते रणे। न च कर्णसमं योधं लोके पश्यामि कञ्चन॥ इति दुर्योधनस्याहमश्रौषं जल्पतो मुहुः। कर्णो हि बलवाञ्छूरो दृढधन्वा जितक्लमः॥ इति मामब्रवीत् सूत मन्दो दुर्योधनः पुरा। वसुषेणसहायं मां नालं देवाऽपि संयुगे॥ किं नु पाण्डुसुता राजन् गतसत्त्वा विचेतसः। तत्र तं निर्जितं दृष्ट्वा भुजङ्गमिव निर्विषम्॥ युद्धात् कर्णमपक्रान्तं किंख्दि दुर्योधनोऽब्रवीत्। अहो दुर्मुखमेवैकं युद्धानामविशादरम्॥ प्रावेशयद्भुतवहं पतङ्गमिव मोहितः। अश्वत्थामा मद्रराजः कृपः कर्णश्च संगताः॥ न शक्ताः प्रमुखे स्थातुं नूनं भीमस्य संजय। तेऽपि चास्य महाघोरं बलं नागायुतोपमम्॥ जानन्तो व्यवसायं च क्रूरं मारुततेजसः। किमर्थ क्रूरकर्माणं यमकालान्तकोपमम्॥ बलसंरम्भवीर्यज्ञाः कोपयिष्यन्ति संयुगे। कर्णस्त्वेको महाबाहुः स्वबाहुबलदर्पितः॥ भीमसेनमनादृत्य रणेऽयुध्यत सूतजः। योऽजयत् समरे कर्ण पुरंदर इवासुरम्॥ न स पाण्डुसुतो जेतुं शक्यः केनचिदाहवे। द्रोणं यः सम्प्रमथ्यैक प्रविष्टो मम वाहिनीम्॥ भीमो धनंजयान्वेषी कस्तमाछेजिजीविषुः। को हि संजय भीमस्य स्थातुमुत्सहतेऽग्रतः॥ उद्यताशनिहस्तस्य महेन्द्रस्येव दानवः। प्रेतराजपुरं प्राप्य निवर्तेतापि मानवः॥ न भीमसेनं सम्प्राप्य निवर्तेत कदाचन। पतङ्गा इव वह्निं ते प्राविशन्नल्पचेतसः॥ ये भीमसेनं संक्रुद्धमन्वधावन् विमोहिताः। यत् तत् सभायां भीमेन मम पुत्रवधाश्रयम्॥ उक्तं संरम्भिणोग्रेण कुरूणां शृण्वतां तदा। तन्नूनमभिसंचिन्त्य दृष्ट्वा कर्ण च निर्जितम्॥ दुःशासनः सह भ्रात्रा भयाद् भीमादुपारमत्। यश्च संजय दुर्बुद्धिरब्रवीत् समितौ मुहुः॥ कर्णो दुःशासनोऽहं च जेष्यामो युधि पाण्डवान्। स नूनं विस्थं दृष्ट्वा कर्ण भीमेन निर्जितम्॥ प्रत्याख्यानाच कृष्णस्य भृशं तप्यति पुत्रकः। दृष्ट्वा भ्रातृन् हतान् संख्ये भीमसेनेन दंशितान्॥ आत्मापराधे सुमहन्नूनं तप्यति पुत्रकः। को हि जीवितमन्विच्छन् प्रतीपं पाण्डवं व्रजेत्॥ भीमं भीमायुधं क्रुद्धं साक्षात् कालमिव स्थितम्। वडवामुखमध्यस्थो मुच्येतापि हि मानवः॥ न भीममुखसम्प्राप्तो मुच्येदिति मतिर्मम। न पार्था हि पञ्चाला न च केशवसात्यकी॥ जानते युधि संरब्धा जीवितं परिरक्षितुम्। अहो मम सुतानां हि विपन्नं सूत जीवितम्॥ संजय उवाच यस्त्वं शोचसि कौरव्य वर्तमाने महाभये। त्वमस्य जगतो मूलं विनाशस्य न संशयः॥ स्वयं वैरं महत् कृत्वा पुत्राणां वचने स्थितः। उच्यमानो न गृह्णीघे मर्त्यः पथ्यमिवौषधम्॥ स्वयं पीत्वा महाराज कालकूटं सुदुर्जरम्। तस्येदानी फलं कृत्स्नमवाप्नुहि नरोत्तम।॥ यत् तु कुत्सयसे योधान् युध्यमानान् महाबलान्। तत्र ते वर्तयिष्यामि यथा युद्धमवर्तत॥ दृष्ट्वा कर्ण तु पुत्रास्ते भीमसेनपराजितम्। नामृष्यन्त महेष्वासाः सोदर्याः पञ्च भारत॥ दुर्मर्षणो दुःसहश्च दुर्मदो दुर्धरो जयः। पाण्डवं चित्रसंनाहास्तं प्रतीपमुपाद्रवन्॥ ते समन्तान्महाबाहुं परिवार्य वृकोदरम्। दिशः शरैः समावृण्वशलभानामिव व्रजैः॥ आगच्छतस्तान् सहसा कुमारान् देवरूपिणः। प्रतिजग्राह समरे भीमसेनो हसन्निव॥ तव दृष्ट्वा तु तनयान् भीमसेनपुरोगतान्। अभ्यवर्तते राधेयो भीमसेनं महाबलम्॥ विसृजन विशिखांस्तीक्ष्णान् स्वर्णपुङ्खाञ्छिलाशितान्। तं तु भीमोऽभ्ययात् तूर्ण वार्यमाणः सुतैस्तव॥ कुरवस्तु ततः कर्ण परिवार्य समन्ततः। अवाकिरन् भीमसेनं शरैः संनतपर्वभिः॥ तान् बाणैः पञ्चविंशत्या साश्वान् राजन् नरर्षभान्। ससूतान् भीमधनुषो भीमो निन्ये यमक्षयम्॥ प्रापतन् स्यन्दनेभ्यस्ते सार्ध सूतैर्गतासवः। चित्रपुष्पधरा भग्ना वातेनेव महाद्रुमाः॥ तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम्। संवार्याधिरथिं बाणैर्यञ्जघान तवात्मजान्॥ य वार्यमाणो भीमेन शितैर्बाणैः समन्ततः। सूतपुत्रो महाराज भीमसेनमवैक्षत॥ तं भीमसेनः संरम्भात् क्रोधसंरक्तलोचनः। विस्फार्य सुमहचापं मुहुः कर्णमवैक्षत॥ संजय उवाच तवात्मजांस्तु पतितान् दृष्ट्वा कर्णः प्रतापवान्। क्रोधेन महताऽऽविष्टो निर्विण्णोऽभूत् स जीवितात्॥ आगस्कृतमिवात्मानं मेने चाधिरथिस्तदा। यत्प्रत्यक्षं तव सुता भीमेन निहता रणे॥ भीमसेनस्ततः क्रुद्धः कर्णस्य निशिताशरान्। निचखान स सम्भ्रान्तः पूर्ववैरमनुस्मरन्॥ स भीमं पञ्चभिर्विद्ध्वा राधेयः प्रहसन्निव। पुनर्विव्याध सप्तत्या स्वर्णपुङः शिलाशितैः॥ अविचिन्त्याथ तान् बाणान् कर्णेनास्तान् वृकोदरः। रणे विव्याध राधेयं शतेनानतपर्वणाम्॥ पुनश्च विशिखैस्तीक्ष्णैर्विद्ध्वा मर्मसु पञ्चभिः। धनुश्चिच्छेद भल्लेन सूतपुत्रस्य मारिष॥ अथान्यद् धनुरादाय कर्णो भारत दुर्मनाः। इषुभिश्छादयामास भीमसेनं परंतपः॥ तस्य भीमो हयान् हत्वा विनिहत्य च सारथिम्। प्रजहास महाहासं कृते प्रतिकृते पुनः॥ इषुभिः कार्मुकं चास्य चकर्त पुरुषर्षभः। तत् पपात महाराज स्वर्णपृष्ठं महाखनम्॥ अवारोहद् रथात् तस्मादथ कर्णो महारथः। गदां गृहीत्वा समरे भीमाय प्राहिणोद् रुषा॥ तामापतन्तीमालक्ष्य भीमसेनो महागदाम्। शरैरवारयद् राजन् सर्वसैन्यस्य पश्यतः॥ ततो बाणसहस्राणि प्रेषयामास पाण्डवः। सूतपुत्रवधाकाङ्क्षी त्वरमाणः पराक्रमी॥ तानिषूनिषुभिः कर्णो वारयित्वा महामृधे। कवचं भीमसेनस्य पाट्यामास सायकैः॥ अथैनं पञ्चविंशत्या नाराचानां समार्पयत्। पश्यतां सर्वसैन्यानां तदद्भुतमिवाभवत्॥ ततो भीमो महाबाहुर्नवभिनतपर्वभिः। प्रेषयामास संक्रुद्धः सूतपुत्रस्य मारिष॥ ते तस्य कवचं भित्त्वा तथा बाहुं च दक्षिणम्। अध्ययुर्धरणी तीक्ष्णा वल्मीकमिव पन्नगाः॥ स च्छाद्यमानो बाणौधैर्भीमसेनधनुश्चयुतैः। पुनरेवाभवत् कर्णो भीमसेनात् पराङ्मुखः॥ तं पराङमुखमालोक्य पदाति सूतनन्दनम्। कौन्तेयशरसंछन्नं राजा दुर्योधनोऽब्रवीत्॥ त्वरध्वं सर्वतो यत्ता राधेयस्य रथं प्रति। ततस्तव सुता राजञ्छ्रुत्वा भ्रातुर्वचो द्रुतम्॥ अभ्ययुः पाण्डवं युद्धे विसृजन्तः शिलीमुखान्। चित्रोपचित्रश्चित्राक्षश्चारुचित्र: शरासनः॥ चित्रायुधश्चित्रवर्मा समरे चित्रयोधिनः। तानापतत एवाशु भीमसेनो महारथः॥ एकैकेन शरेणाजौ पातयामास ते सुतान्। ते हता न्यपतन् भूमौ वातरुग्णा इव दुमाः॥ दृष्ट्वा विनिहतान् पुत्रांस्तव राजन् महारथान्। अश्रुपूर्णमुखः कर्णः क्षत्तुः सस्मार तद् वचः॥ रथं चान्यं समास्थाय विधिवत् कल्पितं पुनः। अभ्ययात् पाण्डवं युद्धे त्वरमाणः पराक्रमी॥ तावन्योन्यं शरैर्भित्त्वा स्वर्णपुजैः शिलाशितैः। व्यभ्राजेतां यथा मेघौ संस्यूतौ सूर्यरश्मिभिः॥ षट्त्रिंशद्भिस्ततो भल्लैर्निशितैस्तिग्मतेजनैः। व्यधमत् कवचं क्रुद्धः सूतपुत्रस्य पाण्डवः॥ सूतपुत्रोऽपि कौन्तेयं शरैः संनतपर्वभिः। पञ्चाशता महाबाहुर्विव्याध भरतर्षभ॥ रक्तचन्दनदिग्धाङ्गो शरैः कृतमहाव्रणौ। शोणिताक्तौ व्यराजेतां चन्द्रसूर्याविवोदितौ॥ तौ शोणितोक्षितैर्गात्रैः शरैश्छिन्नमनुच्छदौ। कर्णभीमौ व्यराजेतां निर्मुक्ताविव पन्नगौ॥ व्याघ्राविव नरव्याघ्रौ दंष्ट्राभिरितरेतरम्। शरधारासृजौ वीरौ मेघाविव ववर्षतुः॥ वारणाविव चान्योन्यं विषाणाभ्यामरिंदमौ। निर्भिन्दन्तौ स्वगात्राणि सायकैश्चारु रेजतुः॥ नादयन्तौ प्रहर्षन्तौ विक्रीडन्तौ परस्परम्। मण्डलानि विकुर्वाणौ रथाभ्यां रथसत्तमौ॥ वृषाविवाथ नर्दन्तौ बलिनौ वासितान्तरे। सिंहाविव पराक्रान्तौ नरसिंहौ महाबलौ॥ परस्परं वीक्षमाणौ क्रोधसंरक्तलोचनौ। युयुधाते महावी? शक्रवैरोचनी यथा॥ ततो भीमो महाबाहुर्बाहुभ्यां विक्षिपन् धनुः। व्यराजत रणे राजन्सविद्युदिव तोयदः॥ स नेमिघोषस्तनितश्चापविद्युच्छराम्बुभिः। भीमसेनमहामेघः कर्णपर्वतमावृणोत्॥ ततः शरसहस्रेण सम्यगस्तेन भारत। पाण्डवो व्यकिरत् कर्ण भीमो भीमपराक्रमः॥ तत्रापश्यंस्तव सुता भीमसेनस्य विक्रमम्। सुपुङ्खैः कङ्कवासोभिर्यत् कर्ण छादयच्छरैः॥ स नन्दयन् रणे पार्थ केशवं च यशस्विनम्। सात्यकिं चक्ररक्षौ च भीमः कर्णमयोधयत्॥ विक्रमं भुजयोर्वीर्य धैर्य च विदितात्मनः। पुत्रास्तव महाराज दृष्ट्वा विमनसोऽभवन्॥ संजय उवाच भीमसेनस्य राधेयः श्रुत्वा ज्यातलनि: स्वनम्। नामृष्यत यथा मत्तो गजः प्रतिगजस्वनम्॥ सोऽपक्रम्य मुहूर्त तु भीमसेनस्य गोचरात्। पुत्रांस्तव ददर्शाथ भीमसेनेन पातितान्॥ तानवेक्ष्य नरश्रेष्ठ विमना दुःखितस्तदा। निःश्वसन् दीर्घमुष्णं च पुनः पाण्डवमभ्ययात्॥ स ताम्रनयनः क्रोधाच्छ्वसन्निव महोरगः। बभौ कर्णः शरानस्यन् रश्मीनिव दिवाकरः॥ किरणैरिव सूर्यस्य महीथ्रो भरतर्षभ। कर्णचापच्युतैर्बाणैः प्राच्छाद्यत वृकोदरः॥ ते कर्णचापप्रभवाः शरा बर्हिणवाससः। विविशुः सर्वतः पार्थ वासायेवाण्डजा द्रुमम्॥ कर्णचापच्युता बाणा: सम्पतन्तस्ततस्ततः। रुक्मपुङ्खा व्यराजन्त हंसाः श्रेणीकृता इव॥ चापध्वजोपस्करेभ्यश्छत्रादीषामुखाद् युगात्। प्रभवन्तो व्यदृश्यन्त राजन्नाधिरथेः शराः॥ खं पूरयन् महावेगान् खगमान् गृध्रवाससः। सुवर्णविकृतांश्चित्रान् मुमोचाधिरथिः शरान्॥ तमन्तकमिवायस्तमापतन्तं वृकोदरः। त्यक्त्वा प्राणानतिक्रम्य विव्याध निशितैः शरैः॥ तस्य वेगमसह्य स दृष्ट्वा कर्णस्य पाण्डवः। महतश्च शरौघांस्तान् न्यवारयत वीर्यवान्॥ ततो विधम्याधिस्थेः शरजालानि पाण्डवः। विव्याध कर्ण विंशत्या पुनरन्यैः शिलाशितैः॥ यथैव हि स कर्णेन पार्थः प्रच्छादितः शरैः। तथैव स रणे कर्ण छादयामास पाण्डवः॥ दृष्ट्वा तु भीमसेनस्य विक्रमं युधि भारत। अभ्यनन्दंस्त्वदीयाश्च सम्प्रहृष्टाश्च चारणाः॥ भूरिश्रवाः कृपो द्रौणिर्मद्रराजो जयद्रथः। उत्तमौजा युधामन्युः सात्यकिः केशवार्जुनौ॥ कुरुपाण्डवप्रवरा दश राजन् महारथाः। साधु साध्विति वेगेन सिंहनादमथानदन्॥ तस्मिन् समुत्थिते शब्दे तुमुले लोमहर्षणे। अभ्यभाषत पुत्रस्ते राजन् दुर्योधनस्त्वरन्॥ राज्ञः सराजपुत्रांश्च सोदर्याश्च विशेषतः। कर्ण गच्छत भद्रं वः परीप्सन्तो वृकोदरात्॥ पुरा निघन्ति राधेयं भीमचापच्युताः शराः। ते यतध्वं महेष्वासाः सूतपुत्रस्य रक्षणे॥ दुर्योधनसमादिष्टाः सोदर्याः सप्त भारत। भीमसेनमभिद्रुत्य संरब्धाः पर्यवारयन्॥ ते समासाद्य कौन्तेयमावृण्वशरवृष्टिभिः। पर्वतं वारिधाराभिः प्रावृषीव वलाहकाः॥ तेऽपीडयन् भीमसेनं क्रुद्धाः सप्त महारथाः। प्रजासंहरणे राजन् सोमं सप्त ग्रहा इव।॥ ततो वेगेन कौन्तेयः पीडयित्वा शरासनम्। मुष्टिना पाण्डवो राजन् दृढेन सुपरिष्कृतम्॥ मनुष्यसमतां ज्ञात्वा सप्त संधाय सायकान्। तेभ्यो व्यसृजदायस्तः सूर्यरश्मिनिभान् प्रभुः॥ निरस्यन्निव देहेभ्यस्तनयानामसूंस्तव। भीमसेनो महाराज पूर्ववैरमनुस्मरन्॥ ते क्षिप्ता भीमसेनेन शरा भारत भारतान्। विदार्य खं समुत्पेतुः स्वर्णपुङ्खाः शिलाशिताः॥ तेषां विदार्य चेतांसि शरा हेमविभूषिताः। व्यराजन्त महाराज सुपर्णा इव खेचराः॥ शोणितादिग्धवाजाग्राः सप्त हेमपरिष्कृताः। पुत्राणां तव राजेन्द्र पीत्वा शोणितमुद्गताः॥ ते शरैर्भिन्नमर्माणो रथेभ्यः प्रापतन् क्षितौ। गिरिसानुरुहा भग्ना द्विपेनेव महाद्रुमाः॥ शत्रुजयः शत्रुसहश्चित्रश्चित्रायुधो दृढः। चित्रसेनो विकर्णश्च सप्तैते विनिपातिताः॥ पुत्राणां तव सर्वेषां निहतानां वृकोदरः। शोचत्यतिभृशं दुःखाद् विकर्ण पाण्डवः प्रियम्॥ प्रतिज्ञेयं मया वृत्ता निहन्तव्यास्तु संयुगे। विकर्ण तेनासि हतः प्रतिज्ञा रक्षिता मया।॥ त्वमागाः समरं वीर क्षात्रधर्ममनुस्मरन्। ततो विनिहत: संख्ये युद्धधर्मो हि निष्ठुरः॥ विशेषतो हि नृपतेस्तथास्माकं हिते रतः। न्यायतोऽन्यायतो वापि हतः शेते महाद्युतिः॥ अगाधबुद्धिर्गाङ्गेयः क्षितौ सुरगुरोः समः। त्याजितः समरे प्राणांस्तस्माद् युद्धं हि निष्ठुरम्॥ तान् निहत्य महाबाहू राधेयस्यैव पश्यतः। सिंहनादरवं घोरमसृजत् पाण्डुनन्दनः॥ स रवस्तस्य शूरस्य धर्मराजस्य भारत। आचख्याविव तद् युद्धं विजयं चात्मनो महत्॥ तं श्रुत्वा तु महानादं भीमसेनस्य धन्विनः। बभूव परमा प्रीतिधर्मराजस्य धीमतः॥ ततो दृष्टमना राजन् वादित्राणां महाखनैः। सिंहनादरवं भ्रातुः प्रतिजग्राह पाण्डवः॥ हर्षेण महता युक्तः कृतसंज्ञो वृकोदरे। अभ्ययात् समरे द्रोणं सर्वशस्त्रभृतां वरः॥ एकत्रिंशन्महाराज पुत्रांस्तव निपातितान्। हतान् दुर्योधनो दृष्ट्वा क्षत्तुः सस्मार तद् वचः॥ तदिदं समनुप्राप्तं क्षत्तुनिःश्रेयसं वचः। इति संचिन्त्य ते पुत्रो नोत्तरं प्रत्यपद्यत॥ दुर्बुद्धिरब्रवीत् तनयस्तव। सभामानाय्य पाञ्चाली कर्णेन सहितोऽल्पधीः॥ यच्च कर्णोऽब्रवीत् कृष्णां सभायां परुषं वचः। प्रमुख पाण्डुपुत्राणां तव चैव विशाम्पते॥ यद् द्यूतकाले शृण्वतस्तव राजेन्द्र कौरवाणां च सर्वशः। विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः॥ पतिमन्यं वृणीष्वेति तस्येदं फलमागतम्। यच षण्ढतिलादीनि परुषाणि तवात्मजैः। श्रावितास्ते महात्मानः पाण्डवाः कोपयिष्णुभिः॥ तं भीमसेनः क्रोधाग्नि त्रयोदश समाः स्थितम्। उद्गिरंस्तव पुत्राणामन्तं गच्छति पाण्डवः॥ विलपंश्च बहु क्षत्ता शमं नालभत त्वयि। सपुत्रो भरतश्रेष्ठ तस्य भुटव फलोदयम्॥ त्वया वृद्धेन धीरेण कार्यतत्त्वार्थदर्शिना। न कृतं सुहृदां वाक्यं दैवमत्र परायणम्॥ तन्मा शुचो नरव्याघ्र तवैवापनयो महान्। विनाशहेतुः पुत्राणां भवानेव मतो मम॥ हतो विकर्णो राजेन्द्र चित्रसेनश्च वीर्यवान्। प्रवराश्चात्मजानां ते सुताश्चान्ये महारथाः॥ यानन्यान् ददृशे भीमश्चक्षुर्विषयमागतान्। पुत्रांस्तव महाराज त्वरया ताञ्जघान ह॥ त्वत्कृते ह्यहमद्राक्षं दह्यमानां वरूथिनीम्। सहस्रशः शरैर्मुक्तैः पाण्डवेन वृषेण च॥ यानन्यान् ददृशे भीमश्चक्षुर्विषयमागतान्। पुत्रांस्तव महाराज त्वरया ताञ्जघान ह॥ त्वत्कृते ह्यहमद्राक्षं दह्यमानां वरूथिनीम्। सहस्रशः शरैर्मुक्तैः पाण्डवेन वृषेण च॥ संजय उवाच ततः कर्णोमहाराज भीमं विद्धवा त्रिभिः शरैः। मुमोच शरवर्षाणि विचित्राणि बहूनि च॥ वध्यमानो महाबाहुः सुतपुत्रेण पाण्डवः। न विव्यथे भीमसेनो भिद्यमान इवाचलः॥ स कर्ण कर्णिना कर्णे पीतेन निशितेन च। विव्याध सुभृशं संख्ये तैलधौतेन मारिष॥ स कुण्डलं महच्चारु कर्णस्यापातयद् भुवि। तपनीयं महाराज दीप्तं ज्योतिरिवाम्बरात्॥ अथापरेण भल्लेन सूतपुत्रं स्तनान्तरे। आजघान भृशं क्रुद्धो हसन्निव वृकोदरः॥ पुनरस्य त्वरन् भीमो नाराचान् दश भारत। रणे प्रैषीन्महाबाहुर्निमुक्ताशीविषोपमान्॥ ते ललाटं विनिर्भिद्य सूतपुत्रस्य भारत। विविशुश्चोदितास्तेन वल्मीकमिव पन्नगाः॥ ललाटस्थैस्ततो बाणैः सूतपुत्रो व्यरोचत। नीलोत्पलमयीं मालां धारयन् वै यथा पुरा॥ सोऽतिविद्धो भृशं कर्णः पाण्डवेन तरस्विना। रथकूबरमालम्ब्य न्यमीलयत लोचने॥ स मुहूर्तात् पुनः संज्ञां लेभे कर्णः परंतपः। रुधिरोक्षितसर्वाङ्ग क्रोधमाहारयत् परम्॥ ततः क्रुद्धो रणे कर्णः पीडितो दृढधन्वना। वेगं चक्रे मगवेगो भीमसेनस्थं प्रति॥ तस्मै कर्णः शतं राजनिघूणां गार्धवाससाम्। अमर्षी बलवान् क्रुद्धः प्रेषयामास भारत॥ ततः प्रासृजदुग्राणि शरवर्षाणि पाण्डवः। समरे तमनादृत्य तस्य वीर्यमचिन्तयन्॥ कर्णस्ततो महाराज पाण्डवं नवभिः शरैः। आजघानोरसि क्रुद्धः क्रुद्धरूपं परंतप॥ तावुभौ नरशार्दूलौ शार्दूलाविव दंष्ट्रिणौ। जीमूताविव चान्योन्यं प्रववर्षतुराहवे॥ तलशब्दरवैश्चैव त्रासयेतां परस्परम्। शरजालैश्च विविधैस्रासयामासतुर्मधे॥ अन्योन्यं समरे क्रुद्धौ कृतप्रतिकृतैषिणौ। ततो भीमो महाबाहुः सूतपुत्रस्य भारत॥ क्षुरप्रेण धनुश्छित्त्वा ननाद परवीरहा। तदपास्य धनुश्छिन्नं सूतपुत्रो महारथः॥ अन्यत् कार्मुकमादत्त भारघ्नं वेगवत्तरम्। तदप्यथ निमेषार्धाचिच्छेदास्य वृकोदरः॥ तृतीयं च चतुर्थ च पञ्चमं षष्ठमेव हि। सप्तमं चाष्टमं चैव नवमं दशमं तथा॥ एकादशं द्वादशं च त्रयोदशमथापि च। चतुर्दशं पञ्चदशं षोडशं च वृकोदरः॥ तथा सप्तदशं वेगादष्टादशमथापि वा। बहूनि भीमश्चिच्छेद कर्णस्यैवं धनूंषि हि॥ निमेषार्धात् ततः कर्णो धनुर्हस्तो व्यतिष्ठत। दृष्ट्वा स कुरुसौवीरसिन्धुवीरबलक्षयम्॥ सवर्मध्वजशस्त्रैश्च पतितैः संवृतां महीम्। हस्त्यश्वरथदेहांश्च गतासून प्रेक्ष्य सर्वशः॥ सूतपुत्रस्य संरम्भाद् दीप्तं वपुरजायत। स विस्फार्य महचापं कार्तस्वरविभूषितम्॥ भीमं प्रेक्षत राधेयो घोरं घोरेण चक्षुषा। ततः क्रुद्धः शरानस्यन् सूतपुत्रो व्यरोचत॥ मध्यंदिनगतोऽर्चिष्माशरदीव दिवाकरः। मरीचिविकचस्येव राजन् भानुमतो वपुः॥ आसीदाधिरथे।रं वपुः शरशताचितम्। कराभ्यामाददानस्य संदधानस्य चाशुगान्॥ कर्षतो मुञ्चतो बाणान् नान्तरं ददृशे रणे। अग्निचक्रोपमं घोरं मण्डलीकृतमायुधम्॥ कर्णस्यासीन्महीपाल सव्यदक्षिणमस्यतः। स्वर्णपुङ्खाः सुनिशिताः कर्णचापच्युताः शराः॥ प्राच्छादयन्महाराज दिशः सूर्यस्य च प्रभाः। ततः कनकपुड्वानां शराणां नतपर्वणाम्॥ धनुश्च्युतानां वियति ददृशे बहुधा व्रजः। बाणासनादाधिरथेः प्रभवन्ति स्म सायकाः॥ श्रेणीकृता व्यरोचन्त राजन् क्रौञ्चा इवाम्बरे। गार्धपत्राशिलधौतान् कार्तस्वरविभूषितान्॥ महावेगान् प्रदीप्ताग्रान् मुमोचाधिरथिः शरान्। ते तु चापबलोद्धता: शातकुम्भविभूषिताः॥ अजस्रमपतन् बाणा भीमसेनस्थं प्रति। ते व्योम्नि रुक्मविकृता व्यकाशन्त सहस्रशः॥ शलभानामिव वाताः शराः कर्णसमीरिताः। चापादाधिरथेर्बाणा: प्रपतन्तश्चकाशिरे॥ एको दीर्घ इवात्यर्थमाकाशे संस्थितः शरः। पर्वतं वारिधाराभिश्छादयन्निव तोयदः॥ कर्णः प्राच्छादयत् क्रुद्धो भीमं सायकवृष्टिभिः। तत्र भारत भीमस्य बलं वीर्ये पराक्रमम्॥ व्यवसायं च पुत्रास्ते ददृशुः सहसैनिकाः। तां समुद्रमिवोद्धतां शरवृष्टिं समुत्थिताम्॥ अचिन्तयित्वा भीमस्तु क्रुद्धः कर्णमुपाद्रवत्। रुक्मपृष्ठं महचापं भीमस्यासीद् विशाम्पते॥ आकर्षान्मण्डलीभूतं शक्रचापमिवापरम्। तस्माच्छरा: प्रादुरासन् पूरयन्त इवाम्बरम्॥ सुवर्णपुङ्खीमेन सायकैर्नतपर्वभिः। गगने रचिता माला काञ्चनीव व्यरोचत॥ ततो व्योम्नि विषक्तानि शरजालानि भागशः। आहतानि व्यशीर्यन्त भीमसेनस्य पत्रिभिः॥ कर्णस्य शरजालौघैर्भीमसेनस्य चोभयोः। अग्निस्फुलिङ्गसंस्पर्शेरञ्जोगतिभिराहवे॥ तैस्तैः कनकपुङ्खानां द्यौरासीत् संवृता व्रजैः। न स्म सूर्यस्तदा भाति न स्म वाति समीरणः॥ शरजालावृते व्योम्नि न प्राज्ञायत किंचन। स भीमं छादयन् बाणैः सूतपुत्रः पृथग्विधैः॥ उपारोहदनादृत्य तस्य वीर्य महात्मनः। तयोर्विसृजतोस्तत्र शरजालानि मारिष॥ वायुभूतान्यदृश्यन्त संसक्तानीतरेतरम्। अन्योन्यशरसंस्पर्शात् तयोर्मनुजसिंहयोः॥ आकाशे भरतश्रेष्ठ पावकः समजायत। तथा कर्णः शितान् बाणान् कर्मारपरिमार्जितान्॥ सुवर्णविकृतान् क्रुद्धः प्राहिणोद् वधकाङ्क्षया। तातन्तरिक्षे विशिखैस्त्रिधैकैकमशातयत्॥ विशेषयन् सूतपुत्रं भीमस्तिष्ठेति चाब्रवीत्। पुनश्चासृजदुग्राणि शरवर्षाणि पाण्डवः॥ अमर्षी बलवान् क्रुद्धो दिधक्षन्निव पावकः। ततश्चटचटाशब्दो गोधाघातादभूत् तयोः॥ तलशब्दश्च सुमहान् सिंहनादश्च भैरवः। स्थनेमिनिनादच ज्याशब्दश्चैव दारुणः॥ विशेषयन् सूतपुत्रं भीमस्तिष्ठेति चाब्रवीत्। पुनश्चासृजदुग्राणि शरवर्षाणि पाण्डवः॥ योधा व्युपारमन् युद्धाद् दिदृक्षन्तः पराक्रमम्। कर्णपाण्डवयो राजन् परस्परवधैषिणोः॥ देवर्षिसिद्धगन्धर्वाः साधु साध्वित्यपूजयन्। मुमुचुः पुष्पवर्ष च विद्याधरगणास्तथा॥ ततो भीमो महाबाहुः संरम्भी दृढविक्रमः। अस्त्रैरस्त्राणि संवार्य शरैर्विव्याधय सूतजम्॥ कर्णोऽपि भीमसेनस्य निवार्येषून् महाबलः। प्राहिणोन्नव नाराचानाशीविषसमान् रणे॥ तावद्भिरथ तान् भीमो व्योम्नि चिच्छेद पत्रिभिः। नाराचान् सूतपुत्रस्य तिष्ठ तिष्ठेति चाब्रवीत्॥ ततो भीमो महाबाहुः शरं क्रुद्धान्तकोपमम्। मुमोचाधिरथर्वीरो यमदण्डमिवापरम्॥ तमापतन्तं चिच्छेद राधेयः प्रहसन्निवा त्रिभिः शरैः शरं राजन् पाण्डवस्य प्रतापवान्॥ पुनश्चासृजदुग्राणि शरवर्षाणि पाण्डवः। तस्य तान्याददे कर्णः सर्वाण्यस्राण्यभीतवत्॥ युध्यमानस्य भीमस्य सूतपुत्रोऽसमायया। तस्येषुधी धनुर्ध्या च बाणैः संनतपर्वभिः॥ रश्मीन् योक्त्राणि चाश्वानां क्रुद्धः कर्णोऽच्छिनन्मृधे। तस्याश्वांश्च पुनर्हत्वा सूतं विव्याध पञ्चभिः॥ सोऽपसृत्य दुतं सूतो युधामन्यो रथं ययौ। विहसन्निव भीमस्य क्रुद्धः कालानलद्युतिः॥ ध्वज चिच्छेद राधेयः पताकां च व्यपातयत्। स विधन्वा महाबाहुरथ शक्तिं परामृशत्॥ तां व्यवासृजदाविध्य क्रुद्धः कर्णरथं प्रति। तामाधिरथिरायस्तः शक्तिं काञ्चनभूषणाम्॥ आपतन्ती महोल्काभां चिच्छेद दशभिः शरैः। सापतद् दशधा छिन्ना कर्णस्य निशितैः शरैः॥ अस्यतः सूतपुत्रस्य मित्रार्थे चित्रयोधिनः। स चर्मादत्त कौन्तेयो जातरूपपरिष्कृतम्॥ खङ्गं चान्यतरप्रेप्सुर्मृत्योरगे जयस्य वा। तदस्य तरसा क्रुद्धो व्यधमचर्म सुप्रभम्॥ शरैर्बहुभिरत्युग्रैः प्रहसन्निव भारत। स विचर्मा महाराज विरथः क्रोधमूर्छितः॥ असिं प्रासृजदाविध्य त्वरन् कर्णरथं प्रति। स धनुः सूतपुत्रस्य सज्यं छित्त्वा महानसिः॥ पपात भुवि राजेन्द्र क्रुद्धः सर्प इवाम्बरात्। ततःप्रहस्याधिरथिन्यदादाय कार्मुकम्॥ शत्रुघ्नं समरे क्रुद्धो दृढज्यं वेगवत्तरम्। व्यायच्छत् स शरान् कर्णः कुन्तीपुत्रजिघांसया॥ सहस्रशो महाराज रुक्मपुङ्खान् सुतेजनान्। स वध्यमानो बलवान् कर्णचापच्युतैः शरैः॥ वैहायसं प्राक्रमद् वै कर्णस्य व्यथयन्मनः। स तस्य चरितं दृष्ट्वा संग्रामे विजयैषिणः॥ लयमास्थाय राधेयो भीमसेनमवञ्चयत्। तं च दृष्ट्वा रथोपस्थे निलीनं व्यथितेन्द्रियम्॥ ध्वजमस्य समासाद्य तस्थौ भीमो महीतले। तदस्य कुरवः सर्वे चारणाश्चाभ्यपूजयन्॥ यदियेष रथात् कर्ण हतु तार्क्ष्य इवोरगम्। स च्छिन्नधन्वा विस्थः स्वधर्ममनुपालयन्॥ स्वरथं पृष्ठतः कृत्वा युद्धायैव व्यवस्थितः। तद् विहत्यास्य राधेयस्तत एनं समभ्ययात्॥ संरम्भात् पाण्डवं संख्ये युद्धाय समुपस्थितम्। तौ समेतौ महाराज स्पर्धमानौ महाबलौ॥ जीमूताविव धर्मान्ते गर्जमानौ नरर्षभौ। तयोरासीत् सम्प्रहारः क्रुद्धयोर्नरसिंहयोः॥ अमृष्यमाणयोः संख्ये देवदानवयोरिव। क्षीणशस्त्रस्तु कौन्तेयः कर्णेन समभिद्रुतः॥ दृष्ट्वार्जुनहतान् नागान् पतितान् पर्वतोपमान्। रथमार्गविघातार्थ व्यायुधः प्रविवेश ह॥ हस्तिनां व्रजमासाद्य रथदुर्ग प्रविश्य च। पाण्डवो जीविताकाङ्क्षी राधेयं नाभ्यहारयत्॥ व्यवस्थानमथाकासन् धनंजयशरैर्हतम्। उद्यम्य कुञ्जरं पार्थस्तस्थौ परपुरंजयः॥ महौषधिसमायुक्तं हनूपानिव पर्वतम्। तमस्य विशिखैः कर्णो व्यधमत् कुञ्जरं पुनः॥ हस्त्यङ्गान्यथ कर्णाय प्राहिणोत् पाण्डुनन्दनः। चक्राण्यश्वांस्तथा चान्यद् यत् यत् पश्यति भूतले॥८७ तत् तदादाय चिक्षेप क्रुद्धः कर्णाय पाण्डवः। तदस्य सर्व चिच्छेद क्षिप्त क्षिप्तं शितैः शरैः॥ भीमोऽपि मुष्टिमुद्यम्य वज्रगर्मी सुदारुणाम्। हन्तुमैच्छत् सूतपुत्रं संस्मरन्नर्जुनं क्षणात्॥ शक्तोऽपि नावधीत् कर्ण समर्थः पाण्डुनन्दनः। रक्षमाणः प्रतिज्ञां तां या कृता सव्यसाचिना॥ तमेवं व्याकुलं भीमं भूयो भूयः शितैः शरैः। मूर्च्छयाभिपरीताङ्गमकरोत् सूतनन्दनः॥ धनुषा स्पृष्टमात्रेण व्यायुधं नावधीच्चैनं कर्णः कुन्त्या वचः स्मरन्। धनुषोऽग्रेण तं कर्ण सोऽभिद्रुत्य परामृशत्॥ क्रुद्धः सर्प इव वसन्। आच्छिद्य स धनुस्तस्य कर्ण मूर्धन्यताडयत्॥ ताडितो भीमसेनेन क्रोधादारक्तलोचनः। विहसन्निव राधेयो वाक्यमेतदुवाच ह॥ पुनः पुनस्तूबरक मूढ औदरिकेति च। अकृतास्रक मा योत्सीर्बाल संग्रामकातर॥ यत्र भोज्यं बहुविधं भक्ष्यं पेयं च पाण्डव। तत्र त्वं दुर्मते योग्यो न युद्धेषु कदाचन॥ मूलपुष्पफलाहारो व्रतेषु नियमेषु च। उचितस्त्वं वने भीम न त्वं युद्धविशारदः॥ क्व युद्धं व मुनित्वं च वनं गच्छ वृकोदर। न त्वं युद्धोचितस्तात वनवासरतिर्भवान्॥ सूदान् भृत्यजनान् दासांस्त्वं गृहे त्वरयन् भृशम्। योग्यस्ताडयितुं क्रोधाद् भोजनार्थ वृकोदर॥ मुनिर्भूत्वाथवा भीम फलान्यादत्ख दुर्मते। वनाय व्रज कौन्तेय न त्वं युद्धविशारदः॥ फलमूलाशने शक्तस्त्वं तथातिथिपूजने। न त्वां शत्रसमुद्योगे योग्यं मन्ये वृकोदर॥ कौमारे यानि वृत्तानि विप्रियाणि विशाम्पते। तानि सर्वाणि चाप्येव रूक्षाण्यश्रावयद् भृशम्॥ अथैनं तत्र संलीनमस्पृशद् धनुषा पुनः। प्रहसंश्च पुनर्वाक्यं भीममाह वृषस्तदा॥ योद्धव्यं मारिषान्यत्र न योद्धव्यं च मादृशैः। मादृशैर्युध्यमानानामेतचान्यच विद्यते॥ गच्छ वा यत्र तौ कृष्णौ तौ त्वां रक्षिष्यतो रणे। गृहं वा गच्छ कौन्तेय किं ते युद्धेन बालक॥ कर्णस्य वचनं श्रुत्वा भीमसेनोऽतिदारुणम्। उवाच कर्ण प्रहसन् सर्वेषां शृण्वतां वचः॥ जितस्त्वमसकृद् दुष्ट कत्थसे किं वृथाऽऽत्मना। जयाजयौ महेन्द्रस्य लोके दृष्टौ पुरातनैः॥ मल्लयुद्धं मया सार्ध कुरु दुष्कुलसम्भव। महाबलो महाभोगी कीचको निहतो यथा॥ तथा त्वां घातयिष्यामि पश्यत्सु सर्वराजसु। भीमस्य मतमाज्ञाया कर्णो बुद्धिमतां वरः॥ विररामरणात् तस्मात् पश्यतां सर्वधन्विनाम्। एवं तं विरथं कृत्वा कर्णो राजन् व्यकत्थयत्॥ प्रमुखे वृष्णिसिंहस्य पार्थस्य च महात्मनः। ततो राजशिलाधौताशराशाखामृगध्वजः॥ प्राहिणोत् सूतपुत्राय केशवेन प्रचोदितः। ततः पार्थभुजोत्सृष्टाः शराः कनकभूषणाः॥ गाण्डीवप्रभवाः कर्ण हंसाः क्रौञ्चमिवाविशन्। स भुजङ्गैरिवाविष्टैर्गाण्डीवप्रेषितैः शरैः॥ भीमसेनादपासेधत् सूतपुत्रं धनंजयः। स च्छिन्नधन्वा भीमेन धनंजयशराहतः॥ कर्णो भीमदपासासीद् रथेन महता दुतम्। भीमोऽपि सात्यकेहिं समारुह्य नरर्षभः॥ अन्यवयाद् भ्रातरं संख्ये पाण्डवं सव्यसाचिनम्। ततः कर्णे समुद्दिश्य त्वरमाणो धनंजयः॥ नाराचं क्रोधताम्राक्षः प्रैषीन्मृत्युमिवान्तकः। स गरुत्मानिवाकाशे प्रार्थयन् भुजगोत्तमम्॥ नाराचोऽभ्यपतत् कर्ण तूर्ण गाण्डीवचोदितः। तमन्तरिक्षे नाराचं द्रौणिश्चिच्छेद पत्रिणा॥ धनंजय भयात् कर्णमुजिहीर्षन् महारथः ततो द्रौणिं चतुःषष्ट्या विव्याध कुपितोऽर्जुनः॥ शिलीमुखैमहाराज् मा गास्तिष्ठेति चाब्रवीत्। स तु मत्तगजाकीर्णमानकं रथसंकुलम्।। १२० तूर्णमभ्याविशद् द्रौणिर्धनंजयशरादितः। ततः सुवर्णपृष्ठानां चापानां कूजतां रणे॥१२१ शब्दं गाण्डीवघोषेण कौन्तेयोऽभ्यभवद् बली। धनंजयस्तथा यान्तं पृष्ठतौ द्रौणिमभ्यगात्॥ नातिदीर्घमिवाध्वानं शरैः संत्रासयन् बलम्। विदार्य देहान् नाराचैर्नरवारणवाजिनाम्॥१२३ कङ्कबर्हिणवासोभिर्बलं व्यधमदर्जुनः। तद् बलं भरतश्रेष्ठ सवाजिद्विपमानवम्॥ पाकशासनिरायत्तः पार्थः स निजघान ह॥ धृतराष्ट्र उवाच अहन्यहनि मे दीप्तं यशः पतति संजय। हता मे बहवो योधा मन्ये कालस्य पर्ययम्॥ धनंजयः सुसंकुद्धः प्रविष्टो मामकं बलम्। रक्षितं द्रौणिकर्णाभ्यामप्रवेश्यं सुरैरपि॥ ताभ्यामूर्जितवीर्याभ्यामाप्यायितपराक्रमः। सहितः कृष्णभीमाभ्यां शिनीनामृषभेण च॥ तदाप्रभृति मां शोको दहत्यग्निरिवाशयम्। ग्रस्तानिव प्रपश्यामि भूमिपालान् ससैन्धवान्।॥ अप्रियं सुमहत् कृत्वा सिन्धुराजः किरीटिनः। चक्षुर्विषयमा यमापन्नः कथं जीवितमाप्नुयात्॥ अनुमानाच पश्यामि नास्ति संजय सैन्धवः। युद्धं तु तद् यथावृत्तं तन्ममाचक्ष्व तत्त्वतः॥ यश्च विक्षोभ्य महतीं सेनामालोड्य चासकृत्। एकः प्रविष्टः संक्रुद्धो नलिनीमिव कुञ्जरः॥ तस्य मे वृष्णिवीरस्य ब्रूहि युद्धं यथातथम्। धनंजयार्थे यत्तस्य कुशलो ह्यसि संजय॥ संजय उवाच तथा तु वैकर्तनपीडितं तं भीमं प्रयान्तं पुरुषप्रवीरम् समीक्ष्य राजन् नरवीरमध्ये शिनिप्रवीरोऽनुययौ रथेन।॥ नदन् यथा वज्रधरस्तपान्ते ज्वलन् यथा जलदान्ते च सूर्येः। निघ्नन्नमित्रान् धनुषा दृढेन स कम्पयंस्तव पुत्रस्य सेनाम्॥ तं यान्तमश्वै रजतप्रकाशैरायोधने वीरवरं नदन्तम्। नाशक्नुवन् वारयितुं त्वदीयाः सर्वे तथा भारत माधवाग्रयम्॥ अमर्षपूर्णस्त्वनिवृत्तयोधी शरासनी काञ्चनवर्मधारी। अलम्बुषः मवारयद् राजवरोऽभिपत्य॥ तयोरभूद् भारत सम्प्रहारो यथाविधो नैव बभूव कश्चित्। प्रेक्षन्त एवाहवशोभिनौ तौ योधास्त्वदीयाश्च परे च सर्वे॥ रलम्बुषो राजवरः प्रसा। अनागतानेव तु तान् पृषत्कां श्चिच्छेद बाणैः शिनिपुङ्गवोऽपि॥ राकर्णपूर्णैर्निशितैः सपुकैः। विव्याध देहावरणं विदार्य ते सात्यकेराविविशुः शरीरम्॥ विदार्य बाणैर्निशितैर्व्वलद्भिः। नश्वांश्चतुर्भिश्चतुरः प्रसा॥ तथा तु तेनाभिहतस्तरस्वी। नप्ता शिनेश्चक्रधरप्रभावः। रश्वांश्चतुर्भिनिजघान बाणैः॥ अथास्य सूतस्य शिरो निकृत्य भल्लेन कालानलसंनिभेन। सकुण्डलं पूर्णशशिप्रकाशं भ्राजिष्णु वक्त्रं निचकर्त देहात्॥ निहत्य तं पार्थिवपुत्रपौत्रं संख्ये यदूनामृषभः प्रमाथी। ततोऽन्वयादर्जुनमेव वीरः। सैन्यानि राजंस्तव संनिवार्य॥ अन्वागतं वृष्णिवीरं समीक्ष्य तथारिमध्ये परिवर्तमानम्। मन्तं कुरूणामिषुभिर्बलानि पुनः पुनर्वायुमिवाभ्रपूगान्॥ ततोऽवहन् सैन्धवाः साधुदान्ता गोक्षीरकुन्देन्दुहिमप्रकाशाः। सुवर्णजालावतताः सदश्वा यतो यतः कामयते नृसिंहः॥ रन्ये च योधास्त्वरितास्त्वदीयाः। कृत्वा मुखं भारत योधमुख्यं दुःशासनं त्वत्सुतमाजमीढ॥ ते सर्वतः सम्परिवार्य संख्ये शैनेयमाजघ्नुरनीकसाहाः। स चापि तान् प्रवरः सात्वतानां न्यवारयद् बाणजालेन वीरः॥ निवार्य तांस्तूर्णममित्रघाती नप्ता शिनेः पत्रिभिरग्निकल्पैः। नुद्यम्य बाणासनमाजमीढ॥ ततोऽर्जुनो हर्षमवाप संख्ये कृष्णश्च दृष्ट्वा पुरुषप्रवीरम्॥ संजय उवाच तमुद्यतं महाबाहुं दुःशासनरथं प्रति। त्वरितं त्वरणीयेषु धनंजयजयैषिणम्॥ क्रुद्धाःय त्रिगर्तानां महेष्वासाः सुवर्णविकृतध्वजाः। सेनासमुद्रमाविष्टमनन्तं पर्यवारयन्॥ अथैनं रथवंशेन सर्वतः संनिवार्य ते। अवाकिरज्छरवातैः परमधन्विनः॥ अजयद् राजपुत्रांस्तान् भ्राजमानान् महारणे। एकः पञ्चाशतं शत्रून् सात्यकिः सत्यविक्रमः॥ सम्प्राप्य भारतीमध्यं तलघोषसमाकुलम्। असिशक्तिगदापूर्णमप्लवं सलिलं यथा॥ तत्राद्भुतमपश्याम शैनेयचरितं रणे। प्रतीच्यां दिशितं दृष्ट्वा प्राच्यां पश्यामि लाघवात्॥ उदीची दक्षिणां प्राची प्रतीची विदिशस्तथा। नृत्यन्त्रिवाचरच्छूरो यथा रथशतं तथा॥ तद् दृष्ट्वा चरितं तस्य सिंहविक्रान्तगामिनः। त्रिगर्ताः संन्यवर्तन्त संतप्ताः स्वजनं प्रति॥ तमन्ये शूरसेनानां शूराः संख्ये न्यवारयन्। नियच्छन्तः शरव्रातैर्मतं द्विपमिवाङ्कुशैः॥ तैर्व्यवाहरदार्यात्मा मुहूर्तादेव सात्यकिः। ततः कलिङ्गैर्युयुधे सोऽचिन्त्यबलविक्रमः॥ तां च सेनामतिक्रम्य कलिङ्गानां दुरत्ययाम्। अथ पार्थ महाबाहुर्धनंजयमुपासदत्॥ तरन्निव जले श्रान्तो यथा स्थलमुपेयिवान्। तं दृष्ट्वा पुरुषव्याघ्रं युयुधानः समाश्वसत्॥ तमायान्तमभिप्रेक्ष्य केशवः पार्थमब्रवीत्। असावायति शैनेयस्तव पार्थ पदानुगः॥ एष शिष्यः सखा चैव तव सत्यपराक्रमः। सर्वान् योधांस्तृणीकृत्य विजिग्ये पुरुषर्षभः॥ एष कौरवयोधानां कृत्वा घोरमुपद्रवम्। तव प्राणैः प्रियतमः किरीटिन्नेति सात्यकिः॥ एष द्रोणं तथा भोजं कृतवर्माणमेव च। कदर्थीकृत्य विशिखैः फाल्गुनाभ्येति सात्यकिः॥ धर्मराजप्रियान्वेषी हत्वा योधान् वरान् वरान्। शूरश्चैव कृतास्रश्च फाल्गुनाभ्येति सात्यकिः॥ कृत्वा सुदुष्करं कर्म सैन्यमध्ये महाबलः। तव दर्शनमन्विच्छन् पाण्डवाभ्येति सात्यकिः॥ बहूनेकरथेनाजौ योधयित्वा महारथान्। आचार्यप्रमुखान् पार्थ प्रयात्येष स सात्यकिः॥ स्वबाहुबलमाश्रित्य विदार्य च वरूथिनीम्। प्रेषितो धर्मराजेन पार्थेषोऽभ्येति सात्यकिः॥ यस्य नास्ति समो योधः कौरवेषु कथंचन। सोऽयमायाति कौन्तेय सात्यकिर्युद्धदुर्मदः॥ कुरुसैन्याद् विमुक्तो वै सिंहो मध्याद् गवामिव। निहत्य बहुला: सेनाः पार्थेषोऽभ्येति सात्यकिः॥ एष राजसहस्राणां वक्त्रैः पङ्कजसंनिभैः। आस्तीर्य वसुधां पार्थ क्षिप्रमायाति सात्यकिः॥ एष दुर्योधनं जित्वा भ्रातृभिः सहितं रणे। निहत्य जलसंधं च क्षिप्रमायासि सात्यकिः॥ रुधिरौघवतीं कृत्वा नदीं शोणितकर्दमाम्। तृणवद् व्यस्य कौरव्यानेष ह्यायाति सात्यकिः॥ ततः प्रहृष्टः कौन्तेयः केशवं वाक्यमब्रवीत्। न मे प्रियं महाबाहो यन्मामभ्येति सात्यकिः॥ न हि जानामि वृत्तान्तं धर्मराजस्य केशव। सात्वतेन विहीनः स यदि जीवति वा न वा॥ एतेन हि महाबाहो रक्षितव्यः स पार्थिवः। तमेष कथमुत्सृज्य मम कृष्ण पदानुगः॥ राजा द्रोणाय चोत्सृष्टः सैन्धवश्चानिपातितः। प्रत्युद्याति च शैनेयमेष भूरिश्रवा रणे॥ सोऽयं गुरुतरो भारः सैन्धवार्थ समाहितः। ज्ञातव्यश्च हि मे राजा रक्षितव्यश्च सात्यकिः॥ जयद्रथश्च हन्तव्यो लम्बते च दिवाकरः। श्रान्तश्चैष महाबाहुरल्पप्राणश्च साम्प्रतम्॥ परिश्रान्ता हयाश्चास्य हययन्ता च माधव। न च भूरिश्रवाः श्रान्तः ससहायश्च केशव॥ अपीदानीं भवेदस्य क्षेममस्मिन् समागमे। कचिन्नं सागरं तीर्वा सात्यकिः सत्यविक्रमः॥ गोष्पदं प्राप्य सीदेत महौजाः शिनिपुङ्गवः। अपि कौरवमुख्येन कृतास्रेण महात्मना॥ समेत्य भूरिश्रवसा स्वस्तिमान् सात्यकिर्भवेत्। व्यतिक्रममिमं मन्ये धर्मराजस्य केशव॥ आचार्याद् भयमृत्सृज्य यः प्रैषयत् सात्यकिम्। ग्रहणं धर्मराजस्य खगः श्येन इवामिषम्॥ नित्यमाशंसते द्रोणः कचित् स्यात् कुशली नृपः॥३७ संजय उवाच तमापतन्तं सम्प्रेक्ष्य सात्वकं युद्धदुर्मदम्। क्रोधाद् भूरिश्रवा राजन् सहसा समुपाद्रवत्॥ तमब्रवीन्महाराज कौरव्यः शिनिपुङ्गवम्। अद्य प्राप्तोऽसि दिष्ट्या मे चक्षुर्विषयमित्युत॥ चिराभिलषितं काममहं प्राप्स्यामि संयुगे। न हि मे मोक्ष्यसे जीवन् यदि नोत्सृजसे रणम्॥ अद्य त्वां समरे हित्वा नित्यं शूराभिमानिनम्। नन्दयिष्यामि दाशार्ह कुरुराजं सुयोधनम्॥ अद्य मद्वाणनिर्दग्धं पतितं धरणीतले। द्रक्ष्यतस्त्वां रणे वीरौ सहितौ केशवार्जुनौ॥ अद्य धर्मसुतो राजा श्रुत्वा त्वां निहतं मया। सवीडो भविता सद्यो येनासीह प्रवेशितः॥ अद्य मे विक्रम पार्थो विज्ञास्यति धनंजयः। त्वयि भूमौ विनिहते शयाने रुधिरोक्षिते॥ चिराभिलषितो ह्येष त्वया सह समागमः। पुरा देवासुरे युद्धे शक्रस्य बलिना यथा॥ अद्य युद्धं महाघोरं तव दास्यामि सात्वत। ततो ज्ञास्यसि तत्त्वेन मद्वीर्यबलपौरुषम्॥ अद्य संयमनी याता मया त्वं निहतो रणे। यथा रामानुजेनाजौ रावणिर्लक्ष्मणेन ह॥ अद्य कृष्णश्च पार्थश्च धर्मराजश्च माधवा हते त्वयि निरुत्साहा रणं त्यक्ष्यन्त्यसंशयम्॥ अद्य तेऽपचितिं कृत्वा शितैमाधव सायकैः। तस्त्रियो नन्दयिष्यामि ये त्वया निहता रणे॥ मचक्षुर्विषयं प्राप्तो न त्वं माधव मोक्ष्यसे। सिंहस्य विषयं प्राप्तो यथा क्षुद्रमृगस्तथा॥ युयुधानस्तु तं राजन् प्रत्युवाच हसन्निव। कौरवेय न संत्रासो विद्यमे मम संयुगे॥ नाहं भीषयितुं शक्यो वाङ्मात्रेण तु केवलम्। स मां निहन्यात् संग्रामे यो मां कुर्यान्निरायुधम्॥ समास्तु शाश्वतीर्हन्याद् यो मां हन्याद्वि संयुगे। किं वृथोक्तेन बहुना कर्मणा तत् समाचर॥ शारदस्येव मेघस्य गर्जितं निष्फलं हि ते। श्रुत्वा त्वद्गर्जितं वीरं हास्यं हि मम जायते॥ चिरकालेप्सितं लोके युद्धमद्यास्तु कौरव। त्वरते मे मतिस्तात तप युद्धाभिकाङ्क्षिणी॥ नाहत्वाहं निवर्तिष्ये त्वामद्य पुरुषाधम। अन्योन्यं तौ तथा वाग्भिस्तक्षन्तौ नरपुङ्गवौ।॥ जिघांसू परमक्रुद्धावभिजघ्नतुराहवे। समेतौ तौ महेष्वासौ शुष्मिणो स्पर्धिनो रणे॥ द्विरदाविव संक्रुद्धौ वासितार्थ मदोत्कटौ। भूरिश्रवाः सात्यकिश्च ववर्षतुररिंदमौ॥ शरवर्षाणि घोराणि मेघाविव परस्परम्। सौमदत्तिस्तु शैनेयं प्रच्छायेषुभिराशुगैः॥ जिघांसुर्भरतश्रेष्ठ विव्याध निशितैः शरैः। दशभिः सात्यकि विदध्वा सौमदत्तिरथापरान्॥ मुमोच निशितान् बाणान् जिघांसुः शिनिपुङ्गवम्। तानस्य विशिखांस्तीक्ष्णानन्तरिक्षे विशाम्पते।॥ अप्राप्तानसमायाभिरग्रसत् सात्यकिः प्रभो। तौ पृथक् शस्त्रवर्षाभ्यामवर्षतां परस्परम्॥ उत्तमाभिजनौ वीरौ कुरुवृष्णियशस्करौ। तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ॥ रथशक्तिभिरन्योन्यं विशिग्वैश्चाप्यकृन्तताम्। निर्भिन्दन्तौ हि गात्राणि विक्षरन्तौ च शोणितम्॥ व्यष्टम्भयेतामन्योन्यं प्राणद्यूताभिदेविनौ। एवमुत्तमकर्माणौ कुरुवृष्णियशस्करौ॥ परस्परमयुध्येतां वारणाविव यूथपौ। तावदीर्पण कालेन ब्रह्मलोकपुरस्कृतौ॥ यियासन्तौ परं स्थानमन्योन्यं संजगर्जतुः। सात्यकिः सौदत्तिश्च शरवृष्ट्या परस्परम्॥ हृष्टवद् धार्तराष्ट्राणां पश्यतामभ्यवर्षताम्। सम्प्रेक्षन्त जनास्तौ तु युध्यमानौ युधाम्पती॥ यूथपौ वासिताहेतोः प्रयुद्धाविव कुञ्जरौ। अन्योन्यस्य हयान् हत्वा धनुषी विनिकृत्य च॥ विरथावसियुद्धाय समेयातां महारणे। आर्षभे चर्मणी चित्रे प्रगृह्य विपुले शुभे॥ विकोशौ चाप्यसी कृत्वा समरे तौ विचेरतुः। चरन्तौ विविधान् मार्गान् मण्डलानि च भागशः॥ मुहुराजघ्नतुः क्रुद्धावन्योन्यमरिमर्दनौ। सखड्गी चित्रवर्माणौ सनिष्काङ्गदभूषणौ॥ भ्रान्तमुद्भरान्तमाविद्धमाप्लुतं विप्लुतं सृतम्। सम्पातं समुदीर्ण च दर्शयन्तौ यशस्विनौ॥ असिभ्यां सम्प्रजह्राते परस्परमरिंदमौ। उभौ छिट्टैषिणो वीरावुभौ चित्रं ववल्गतुः॥ दर्शयन्तावुभौ शिक्षा लाघवं सौष्ठवं तथा। रणे रणकृतां श्रेष्ठावन्योन्यं पर्यकर्षताम्॥ मुहूर्तमिव राजेन्द्र समाहत्य परस्परम्। पश्यतां सर्वसैन्यानां वीरावाश्वासतां पुनः॥ असिभ्यां चर्मणी चित्रे शतचन्द्रे नराधिप। निकृत्य पुरुषव्याघ्रौ बाहुयुद्धं प्रचक्रतुः॥ व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ। बाहुभिः समसज्जेतामायसैः परिधैरिव॥ तयो राजन् भुजाधातनिग्रहप्रग्रहास्तथा। शिक्षाबलसमुद्भूताः सर्वयोधप्रहर्षणाः॥ तयोर्नृवरयो राजन् समरे युध्यमानयोः। भीमोऽभवन्महाशब्दो वज्रपर्वतयोरिव॥ द्विपाविव विषाणाग्रैः शृङ्गैरिव महर्षभौ। भुजयोक्त्रावबन्धैश्च शिरोभ्यां चावघातनैः॥ पादावकर्षसंधानैस्तोमराङ्कुशलासनैः। पादोदरविबन्धैश्च भूतावुभ्रमणैस्तथा॥ गतप्रत्यागताक्षेपैः पातनोत्थानसम्प्लुतैः। युयुधाते महात्मानौ कुरुसात्वतपुङ्गवौ॥ युध्यमानं द्वात्रिंशत्करणानि स्युर्यानि युद्धानि भारत। तान्यदर्शयतां तत्र युध्यमानौ महाबलौ॥ क्षीणायुधे सात्वते युध्यमाने ततोऽब्रवीदर्जुनं वासुदेवः। पश्यस्वैनं विरथं रणे वरं सर्वधनुर्धराणाम्॥ प्रविष्टो भारती भित्त्वा तव पाण्डव पृष्ठतः। योधितश्च महावीर्यैः सर्वैर्भारत भारतैः॥ परिश्रान्तं युधां श्रेष्ठं सम्प्राप्तो भूरिदक्षिणः। युद्धाकाङ्क्षी समायान्तं नैतत् सममिवार्जुन॥ ततो भूरिश्रवाः क्रुद्धः सात्यकिं युद्धदुर्मदः। उद्यम्याभ्याहनद् राजन् मत्तो मत्तमित द्विपम्॥ स्थस्थयोर्द्वयोर्युद्धे क्रुद्धयोर्योधमुख्ययोः। केशवार्जुनयो राजन् समरे प्रेक्षमाणयोः॥ अथ कृष्णो महाबाहुरर्जुनं प्रत्यभाषत। पश्य वृष्ण्यन्धकव्यानं सौमदत्तिवशं गतम्॥ परिश्रान्तं गतं भूतौ कृत्वा कर्म सुदुष्करम्। तवान्तेवासिनं वीरं पालयार्जुन सात्यकिम्॥ न वशं यज्ञशीलस्य गच्छेदेष वरोऽर्जुन। त्वत्कृते पुरुषव्याघ्र तदाशु क्रियतां विभो॥ अथाब्रवीद्धष्टमना वासुदेवं धनंजयः। पश्य वृष्णिप्रवीरेण क्रीडन्तं कुरुपुङ्गवम्॥ महाद्विपेनेव वने मत्तेन हरियूथपम्। इत्येवं भाषमाणे तु पाण्डवे वै धनंजये॥ हाहाकारो महानासीत् सैन्यानां भरतर्षभ। तदुद्यम्य महाबाहुः सात्यकिं न्यहनद् भुवि॥ स सिंह इव मातङ्गं विकर्षन् भूरिदक्षिणः। व्यरोचत कुरुश्रेष्ठः सात्वतप्रवरं युधि॥ अथ कोशाद् विनिष्कृष्य खङ्गं भूरिश्रवा रणे। मूर्धजेषु निजग्राह पदा चोरस्यताडयत्॥ ततोऽस्य छेत्तुपारब्धः शिरः कायात् सकुण्डलम्। तावत्क्षणात् सात्वतोऽपि शिरः सम्भ्रमयंस्त्वरन्॥ यथा चक्रं तु कौलालो दण्डविद्ध तु भारत। सहैव भूरिश्रवसो बाहुना केशधारिणा॥ तं तथा परिकृष्यन्तं दृष्ट्वा सात्वतमाहवे। वासुदेवस्ततो राजन् भूयोऽर्जुनमभाषत॥ पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम्। तव शिष्यं महाबाहो धनुष्यनवरं त्वया॥ असत्यो विक्रमः पार्थ यत्र भूरिश्रवा रणे। विशेषयति वार्ष्णेयं सात्यकिं सत्यविक्रमम्॥ एवमुक्तो महाबाहुर्वासुदेवेन पाण्डवः। मनसा पूजयामास भूरिश्रवसमाहवे॥ विकर्षन् सात्वतश्रेष्ठं क्रांडमान इवाहवे। संहर्षयति मां भूयः कुरूणां कीर्तिवर्धनः॥ प्रवरं वृष्णिवीराणां यत्र हन्याद्धि सात्यकिम्। महाद्विपमिवारण्ये मृगेन्द्र इव कर्षति॥ एवं तु मनसा राजन् पार्थः सम्पूज्य कौरवम्। वासुदेवं महाबाहुरर्जुनः प्रत्यभाषत॥ सैन्धवे सक्तदृष्टित्वान्नैनं पश्यामि माधवम्। एतत् त्वसुकरं कर्म यादवार्थे करोम्यहम्॥ इत्युक्त्वा वचनं कुर्वन् वासुदेवस्य पाण्डवः। ततः क्षुरप्रं निशितं गाण्डीवे समायोजयत्॥ पार्थबाहुविसृष्टः स महोल्केव नभश्च्युता। सखङ्गं यज्ञशीलस्य साङ्गदं बाहुमच्छिनत्॥ संजय उवाच स बाहुय॑पतद् भमौ सखङ्ग सशुभाङ्गदः। आदधजीवलोकस्य दुःखमद्भुतमुत्तमः॥ प्रहरिष्यन् हृतो बाहुरदृश्येन किरीटिना। वेगेन न्यपतद् भूमौ पञ्चास्य इव पन्नगः॥ स मोघं कृतमात्मानं दृष्ट्वा पार्थेन कौरवः। उत्सृज्य सात्यकि क्रोधाद् गर्हयामास पाण्डवम्॥ भूरिश्रवा उवाच नृशंसं बत कौन्तेय कर्मेदं कृतवानसि। अपश्यतो विषक्तस्य यन्मे बाहुमचिच्छिदः॥ किं नु वक्ष्यसि राजानं धर्मपुत्रं युधिष्ठिरम्। किं कुर्वाणो मया संख्ये हतो भूरिश्रवा रणे॥ इदमिन्द्रेण ते साक्षादुपदिष्टं महात्मना। अस्त्रं रुद्रेण वा पार्थ द्रोणेनाथ कृपेण वा॥ ननु नामास्रधर्मज्ञस्त्वं लोकेऽभ्यधिकः परैः। सोऽयुध्यमानस्य कथं रणे प्रहृतवानसि॥ न प्रमत्ताय भीताय विरथाय प्रयाचते। व्यसने वर्तमानाय प्रहरन्ति मनस्विनः॥ इदं तु नीचाचरितमसत्पुरुषसेवितम्। कथमाचरितं पार्थ पापकर्म सुदुष्करम्॥ आर्येण सुकरं त्वाहुरार्यकर्म धनंजय। अनार्यकर्म त्वार्येण सुदुष्करतमं भुवि॥ येषु येषु नरव्याघ्र यत्र यत्र च वर्तते। आशु तच्छीलतामेति तदिदं त्वयि दृश्यते॥ कथं हि राजवंश्यस्त्वं कौरवेया विशेषतः। क्षत्रधर्मादपक्रान्तः सुवृत्तश्चरितव्रतः॥ इदं तु यदतिक्षुद्रं वार्ष्णेयार्थे कृतं त्वया। वासुदेवमतं नूनं नैतत् त्वय्युपपद्यते॥ को हि नाम प्रमत्ताय परेण सह युध्यते। ईदृशं व्यसनं दद्याद् यो न कृष्णसखो भवेत्॥ व्रात्याः संक्लिष्टकर्माणः प्रकृत्यैव च गर्हिताः। वृष्ण्यन्धकाः कथं पार्थ प्रमाणं भवता कृताः॥ अर्जुन उवाच व्यक्तं हि जीर्यमाणोऽपि बुद्धिं जरयते नरः॥ अनर्थकमिदं सर्व यत् त्वया व्याहृतं प्रभो। जानन्नेव हृषीकेशं गर्हसे मां च पाण्डवम्॥ संग्रामाणां हि धर्मज्ञः सर्वशास्त्रार्थपारगः। न चाधर्ममहं कुर्या जानंश्चैव हि मुह्यसे॥ युध्यन्ति क्षत्रियाः शत्रून् स्वैः स्वैः परिवृता नराः। भ्रातृभिः पितृभिः पुत्रैस्तथा सम्बन्धिबान्धवैः॥ वयस्यैरथ मित्रैश्च ते च बाहुं समाश्रिताः। स कथं सात्यकिं शिष्यं सुखसम्बन्धमेव च॥ अस्मदर्थे च युध्यन्तं त्यक्त्वा प्राणान् सुदुस्त्यजान्। मम बाहुं रणे राजन् दक्षिणं युद्धदुर्मदम्॥ न चात्मा रक्षितव्यो वै राजन् रणगतेन हि। यो यस्य युज्यतेऽर्थेषु स वे रक्ष्यो नराधिप॥ तै रक्ष्यमाणैः स नृपो रक्षितव्यो महामृधे। यहहं सात्यकिं पश्ये वध्यमानं महारणे॥ ततस्तस्य वियोगेन पापं मेऽनर्थतो भवेत्। रक्षितश्च मया यस्मात् तस्मात् क्रुध्यसि किं मयि॥२४ यच्च मे गर्हसे राजन्नन्येन सह संगतम्। अहं त्वया विनिकृतस्तत्र मे बुद्धिविभ्रमः॥ कवचं धुन्वतस्तुभ्यं रथं चारोहतः स्वयम्। धनुर्ध्या कर्पतश्चैव युध्यतः सह शत्रुभिः॥ एवं रथगजाकीर्णे हयपत्तिसमाकुले। सिंहनादोद्धतरवे गम्भीरे सैन्यसागरे॥ स्वैः परैश्च समेतेभ्यः सात्वतेन च संगमे। एकस्यैकेन हि कथं संग्रामः सम्भविष्यति॥ बहुभिः सह संगम्य निर्जित्य च महारथान्। श्रान्तश्च श्रान्तवाहश्च विमनाः शस्त्रपीडितः॥ ईदृशं सात्यकि संख्ये निर्जित्य च महारथम्। ईदृशं सात्यकिं संख्ये निर्जित्य च महारथम्। अधिकत्वं विजानीषे स्ववीर्यवशमागतम्॥ यदिच्छसि शिरश्चास्य असिना हन्तुमाहवे। तथा कृच्छ्रगतं चैव सात्यकिं कः क्षमिष्यति॥ त्वं वै विगर्हयात्मानमात्मानं यो न रक्षसि। कथं करिष्यसे वीर यो वा त्वां संश्रयेज्जनः॥ संजय उवाच एवमुक्तो महाबाहुपकेतुर्महायशाः। युयुधानं समुज्सृज्य रणे प्रायमुपाविशत्॥ शरानास्तीर्य सव्येन पाणिना पुण्यलक्षणः। यियासुर्ब्रह्मलोकाय प्राणान् प्राणेष्वथाजुहोत्॥ सूर्ये चक्षुः समाधाय प्रसन्नं सलिले मनः। ध्यायन् महोपनिषदं योगयुक्तोऽभवन्मुनिः॥ ततः स सर्वसेनायां जनः कृष्णधनंजयौ। गर्हयामास तं चापि शशंस पुरुषर्षभम्॥ निन्द्यमानौ तथा कृष्णौ नोचतुः किंचिदप्रियम्। ततः प्रशस्यमानश्च नाहृष्यद् यूपकेतनः॥ तांस्तथावादिनो राजन् पुत्रांस्तव धनंजयः। अमृष्यमाणो मनसा तेषां तस्य च भाषितम्॥ असंक्रुद्धमना वाचः स्मारयन्निव भारत। उवाच पाण्डुतनयः साक्षेपमिव फाल्गुनः॥ मम सर्वेऽपि राजानो जानन्त्येव महाव्रतम्। न शक्यो मामको हन्तुं यो मे स्याद् बाणगोचरे॥ यूपकेतो निरीक्ष्यैतन्न मामर्हसि गर्हितुम्। न हि धर्ममविज्ञाय युक्तं गर्हयितुं परम्॥ आत्तशस्त्रस्य हि रणे वृष्णिवीरं जिघांसतः। यदहं बाहुमच्छत्सं न स धर्मो विगर्हितः॥ न्यस्तशस्त्रस्य बालस्य विरथस्य विवर्मणः। अभिमन्योर्वधं तात धार्मिकः को नु पूजयेत्॥ एवमुक्तः स पार्थेन शिरसा भूमिमस्पृशत्। पाणिना चैव सव्येन प्राहिणोदस्य दक्षिणम्॥ एतत् पार्थस्य तु वचस्ततः श्रुत्वा महाद्युतिः। यूपकेतुर्महाराज तूष्णीमासीदवाङ्मुखः॥ या प्रीतिधर्मराजे मे भीमे च बलिनां वरे। नकुले सहदेवे च सा मे त्वयि शलाग्रज॥ मया त्वं समनुज्ञातः कृष्णेन च महात्मना। गच्छ पुण्यकृताल्लोकाञ्छिबिरौशीनरो यथा॥ वासुदेव उवाच ये लोका मम विमला: सकृद् विभाता ब्रह्माद्यैः सुरवृषभैरपीष्यमाणाः। तान् क्षिप्रं व्रज सतताग्निहोत्रयाजिन् मत्तुल्यो भव गरुडोत्तमाङ्गयानः॥ संजय उवाच उत्थितः स तु शैनेया विमुक्तः सौमदत्तिना। खङ्गमादाय चिच्छित्सुः शिरस्तस्य महात्मनः॥ निहतं पाण्डुपुत्रेण प्रसक्तं भूरिदक्षिणम्। इयेष सात्यकिर्हन्तुं शलाग्रजमकल्मषम्॥ निकृत्तभुजमासीनं छिन्नहस्तमिव द्विपम्। क्रोशतां सर्वसैन्यानां निन्द्यमानः सुदुर्मनाः॥ गीर्यमाणः च कृष्णेन पार्थेन च महात्मना। भीमेन चक्ररक्षाभ्यामश्वत्थाम्ना कृपेण च॥ कर्णेन वृषसेनेन सैन्धवेन तथैव च। विक्रोशतां च सैन्यानामवधीत् तं धृतव्रतम्॥ प्रायोपविष्टाय रणे पार्थेन छिन्नबाहवे। सात्यकिः कौरवेयाय खड्ड्रेनापाहरच्छिरः॥ नाभ्यनन्दन्त सैन्यानि सात्यकिं तेन कर्मणा। अर्जुनेन हतं पूर्व यजघान कुरूद्वहम्॥ सहस्राक्षसमं चैव सिद्धचारणमानवाः। भूरिश्रवसमालोक्य युद्धे प्रायगतं हतम्॥ अपूजयन्त तं देवा विस्मितास्तेऽस्य कर्मभिः। पक्षवादांश्च सुबहून् प्रावदंस्तव सैनिकाः॥ न वार्ष्णेयस्यापराधो भवितव्यं हि तत् यथा। तस्मान्मन्युर्न वः कार्यः क्रोधो दुःखतरो नृणाम्॥ हन्तव्यश्चैव वीरेण नात्र कार्या विचारणा। विहितो ह्यस्य धात्रैव मृत्युः सात्यकिराहवे॥ सात्यकिरुवाच न हन्तव्यो न हन्तव्यो इति यन्मां प्रभाषत। धर्मवादैरधर्मिष्ठा धर्मकञ्चकमास्थिताः॥ यदा बाल: सुभद्रायाः सुतः शस्त्रविना कृतः। युष्माभिनिहतो युद्धे तदा धर्मः क वो गतः॥ मया त्वेतत् प्रतिज्ञातं क्षेपे कस्मिंश्चिदेव हि। यो मां निष्पिष्य संग्रामे जीवन् हन्यात् पदा रुषा॥६२ स मे वध्यो भवेच्छत्रुर्यद्यपि स्यान्मुनिव्रतः। चेष्टमानं प्रतीघाते सभुजं भां सचक्षुषः॥ मन्यध्वं मृत इत्येवमेतद् वो बुद्धिलाघवम्। युक्तो ह्यस्य प्रतीघातः कृतो मे कुरुपुङ्गचाः॥ यत् तु पार्थेन मां दृष्ट्वा प्रतिज्ञामभिरक्षता। सखङ्गोऽस्य हृतो बाहुरेतेनैवास्मि वञ्चितः॥ भवितव्यं हि यद् भावि दैवं चेष्टयतीव च। सोऽयं हतो विमर्देऽस्मिन् किमत्राधर्मचेष्टितम्॥ अपि चायं पुरा गीतः श्लोको वाल्मीकिना भुवि। न हन्तव्याः स्त्रिय इति यद् ब्रवीषि प्लवङ्गम॥ सर्वकालं मनुष्येण व्यवसायवता सदा। पीडाकरममित्राणां यत् स्यात् कर्तव्यमवे तत्॥ संजय उवाच एवमुक्त महाराज सर्वे कौरवपुङ्गवाः। न स्म किंचिदभाषन्त मनसा समपूजयन्॥ मन्त्राभिपूतस्य महाध्वरेषु। यशखिनो भूरिसहस्रदस्य चा मुनेरिवारण्यगतस्य तस्या न तत्र कश्चिद् वधमभ्यनन्दत॥ सुनीलकेशं वरदस्य तस्य शूरस्य पारावतलोहिताक्षम्। अश्वस्य मेध्यस्य शिरो निकृत्तं न्यस्तं हविर्धानमिवान्तरेण॥ स तेजसा शस्त्रकृतेन पूतो महाहवे देहवरं विसृज्य। आक्रामदूर्ध्व वरदो वरा) व्यावृत्त्य धर्मेण परेण रोदसी॥ धृतराष्ट्र उवाच अजितो द्रोणराधेयविकर्णकृतवर्मभिः। तीर्णः सैन्यार्णवं वीरः प्रतिश्रुत्य युधिष्ठिरे॥ स कथं कौरवेयेण समरेष्वनिवारितः। निगृह्य भूरिश्रवसा बलाद् भुवि निपातितः॥ शृणु राजन्निहोत्पतिं शैनेयस्य यथा पुरा। यथा च भूरिश्रवसो यत्र ते संशयो नृप॥ अत्रेः पुत्रोऽभवत् सोमः सोमस्य तुबुधः स्मृतः। बुधस्यैको महेन्द्राभः पुत्र आसीत् पुरूरवाः॥ पुरूरवस आयुस्तु आयुषो नहुषः सुतः। नहुषस्य ययातिस्तु राजा देवर्षिसम्मतः। ययातेर्देवयान्यां तु यदुर्येष्ठोऽभवत् सुतः। यदोरभूदन्ववाये देवमीढ इति स्मृतः॥ यादवस्तस्य तु सुतः शूरस्त्रैलोक्यसम्मतः। शूरस्य शौरिवरो वसुदेवो महायशाः॥ धनुध्यनवरः शूरः कार्तवीर्यसमो युधि। तद्वीर्यश्चापि तत्रैव कुले शिनिरभून्नृप॥ एतस्मिन्नेव काले तु देवकस्य महात्मनः। दुहितु, स्वयंवरे राजन् सर्वक्षत्रसमागमे॥ तत्र वै देवकी देवीं वसुदेवार्थमाशु वै। निर्जित्य पार्थिवान् सर्वान् रथमारोपयच्छिनिः॥ तां दृष्ट्वा देवकी शूरो रथस्थां पुरुषर्षभ। नामृष्यत महातेजाः सोमदत्तः शिने प॥ तयोर्युद्धमभूद् राजन् दिनार्ध चित्रमद्भुतम्। बाहुयुद्धं सुबलिनोः प्रसक्तं पुरुषर्षभ॥ शिनिना सोमदत्तस्तु प्रसह्य भुवि पातितः। असिमुद्यम्य केशेषु प्रगृह्य च पदा हतः॥ मध्ये राजसहस्राणां प्रेक्षकाणां समन्ततः। कृपया च पुनस्तेन स जीवेति विसर्जितः॥ तदवस्थः कृतस्तेन सोमदत्तोऽथ मारिष। प्रासादयन्महादेवममर्षवशमास्थितः॥ तस्य तुष्टो महादेवो वराणां वरदः प्रभुः। वरेण च्छन्दयामास स तु वने वरं नृपः॥ पुत्रमिच्छामि भगवन् यो निपात्य शिनेः सुतम्। मध्ये राजसहस्राणां पदा हन्याच संयुगे॥ तस्य तद् वचनं श्रुत्वा सोमदत्तस्य पार्थिव। एवमस्त्विति तत्रोक्त्वा स देवोऽन्तरधीयत॥ स तेन वरदानेन लब्धवान् भूरिदक्षिणम्। अपातयच समरे सौमदत्तिः शिनेः सुतम्॥ पश्यतां सर्वसैन्यानां पदा चैनमताडयत्। एतत् ते कथितं राजन् यन्मां त्वं परिपृच्छसि।॥ न हि शक्यो रणे जेतुं सात्वतो मनुजर्षौः। लब्धलक्ष्याश्च संग्रामे बहुशश्चित्रयोधिनः॥ देवदानवगन्धर्वान् विजेतारो ह्यविस्मिताः। स्ववीर्यविजये युक्ता नैते परपरिग्रह्यः॥ न तुल्यं वृष्णिभिरिह दृश्यते किंचन प्रभो। भूतं भव्यं भविष्यच बलेन भरतर्षभ।॥ न ज्ञातिमवमन्यन्ते वृद्धानां शासने रताः। न देवासुरगन्धर्वा न यक्षोरगराक्षसाः॥ जेतारो वृष्णिवीराणां किं पुनर्मानवा रणे। ब्रह्मद्रव्ये गुरुद्रव्ये ज्ञातिस्वे चाप्यहिंसकाः॥ एतेषां रक्षितारश्च ये स्युः कस्याञ्चिदापदि। अर्थवन्तोन चोत्सित्ता ब्रह्मण्याः सत्यवादिनः॥ समर्थान् नावमन्यन्ते दीनानभ्युद्धरन्ति च। नित्यं देवपरा दान्तास्त्रातारश्चाविकत्थनाः॥ तेन वृष्णिप्रवीराणां चक्रं न प्रतिहन्यते। अपि मेरुं वहेत् कश्चित् तरेद् वा मकरालयम्। न तु वृष्णिप्रवीराणां समेत्यान्तं व्रजेन्नृप॥ एतत् ते सर्वमाख्यातं यत्र ते संशयः प्रभो। कुरुराज नरश्रेष्ठ तव व्यपनयो महान्।॥ धृतराष्ट्र उवाच तदवस्थे हते तस्मिन् भूरिश्रवसि कौरवे। यथा भूयोऽभवद् युद्धं तन्ममाचक्ष्व संजय॥ संजय उवाच भूरिश्रवसि संक्रान्ते परलोकाय भारत। वासुदेव महाबाहुरर्जुनः समचूचुदत्॥ यतो राजा जयद्रथ.i श्रूयते पुण्डरीकाक्ष त्रिषु धर्मेषु वर्तते॥ प्रतिज्ञा सफलां चापि कर्तुमर्हसि मेऽनघ। अस्तमेति महाबाहो त्वरमाणो दिवाकरः॥ एतद्धि पुरुषव्याघ्र महदभ्युद्यतं मया। कार्य संरक्ष्यते चैष कुरुसेनामहारथैः॥ तथा नाभ्येति सूर्योऽस्तं यथा सत्यं भवेद् वचः। चोदयाश्वांस्तथा कृष्ण यथा हन्यां जयद्रथम्॥ ततः कृष्णो महाबाहु रजतप्रतिमान् हयान्। हयज्ञश्चोदयामास जयद्रथवधं प्रति॥ तं प्रयान्तममोघेषुमुत्पतद्भिरिवाशुगैः। त्वरमाणा महाराज सेनामुख्या: समाद्रवन्॥ दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट्। अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः॥ समासाद्य च बीभत्सुः सैन्धवं समुपस्थितम्। नेत्राभ्यां क्रोधदीप्ताभ्यां सम्प्रेक्षन्निर्दहनिव॥ ततो दुर्योधनो राजा राधेयं त्वरितोऽब्रवीत्। अर्जुनं प्रेक्ष्य संयातं जयद्रथवधं प्रति॥ अयं स वैकर्तन युद्धकालो विदर्शयस्वात्मबलं महात्मन्। यथा न वध्येत रणेऽर्जुनेन जयद्रथः कर्ण तथा कुरुष्व॥ अल्पावशेषो दिवसो नृवीर विघातयस्वाद्य रिपुं शरौघैः। दिनक्षयं प्राप्य नरप्रवीर ध्रुवोहि नः कर्ण जयो भविष्यति॥ सैन्धवे रक्ष्यमाणे तु सूर्यस्यास्तमनं प्रति। मिथ्याप्रतिज्ञः कौन्तेयः प्रवेक्ष्यति हुताशनम्॥ अनर्जुनायां च भुवि मुहूर्तमपि मानद। जीवितुं नोत्सहरेन् वै भ्रातरोऽस्य सहानुगाः॥ विनष्टैः पाण्डवेयैश्च सशैलवनकाननाम्। वसुंधरामिमां कर्ण भोक्ष्यामो हतकण्टकाम्॥ दैवेनोपहतः पार्थो विपरीतश्च मानद। कार्याकार्यमजानानः प्रतिज्ञां कृतवान् रणे॥ नूनमात्मविनाशाय पाण्डवेन किरीटिना। कर्ण जयद्रथवधं प्रति॥ कथं जीवति दुर्धर्षे त्वयि राधेय फाल्गुनः। अनस्तंगत आदित्ये हन्यात् सैन्धवकं नृपम्॥ प्रतिज्ञेयं कृता रक्षितं मद्रराजेन कृपेण च महात्मना। जयद्रथं रणमुखे कथं हन्याद् धनंजयः॥ द्रौणिना रक्ष्यमाणं च मया दुःशासनेन च। कथं प्राप्स्यति बीभत्सुः सैन्धवं कालचोदितः॥ युध्यन्ते बहवः शूरा लम्बते च दिवाकरः। शङ्के जयद्रथं पार्थो नैव प्राप्स्यति मानद॥ स त्वं कर्ण मया साधु शूरैश्चान्यैर्महारथैः। द्रौणिना त्वं हि सहितो मद्रेशेन कृपेण च॥ युध्यस्व यत्नमास्थाय परं पार्थेन संयुगे। एवमुक्तस्तु राधेयस्तव पुत्रेण मारिष॥ दुर्योधनमिदं वाक्यं प्रत्युवाच कुरूत्तमम्। दृढलक्ष्येण वीरेण भीमसेनेन धन्विना॥ भृशं भिन्नतनुः संख्ये शरजालैरनेकशः। स्थातव्यमिति तिष्ठामि रणे सम्प्रति मानद॥ नाङ्गमिङ्गति किंचिन्मे संतप्तस्य महेषुभिः। योत्स्यामि तु यथाशक्त्यात्वदर्थं जीवितं मम॥ यथा पाण्डवमुख्योऽसौ न हनिष्यति सैन्धवम्। न हि मे युध्यमानस्य सायकानस्यतः शितान्॥ सैन्धवं प्राप्स्यते वीरः सव्यसाची धनंजयः। यत्तु भक्तिमता कार्यं सततं हितकाङ्क्षिणा॥ तत् करिष्यामि कौरव्य जयो दैवे प्रतिष्ठितः। सैन्धवार्थे परं यत्नं करिष्याम्यद्य संयुगे॥ त्वत्प्रियार्थ महाराज जयो दैवे प्रतिष्ठितः। अद्य योत्स्येऽर्जुनमहं पौरुषं स्वं व्यपाश्रितः॥ त्वदर्थे पुरुषव्याघ्र जयो दैवे प्रतिष्ठितः। अद्य युद्धं कुरुश्रेष्ठ मम पार्थस्य चोभयोः॥ पश्यन्तु सर्वसैन्यानि दारुणं लोमहर्षणम्। कर्णकौरवयोरेवं रणे सम्भाषमाणयोः॥ अर्जुनो निशितैर्बाणैर्जघान तव वाहिनीम्। चिच्छेद निशितैर्बाणैः शूराणामनिवर्तिनाम॥ भुजान् परिघसंकाशान् हस्तिहस्तोपमान् रणे। शिरांसि च महाबाहुश्चिच्छेद निशितै शरैः॥ हस्तिहस्तान् हयग्रीवान् रथाक्षांश्च समन्ततः। शोणिाक्तान् हयारोहान् गृहीतप्रासतोमरान्॥ क्षुरैश्चिच्छेद बीभत्सुधैिकैकं त्रिधैव च। हया वारणमुख्याश्च प्रापतन्त समन्ततः३७॥ ध्वजाश्छत्राणि चापानि चामराणि शिरांसि च। कक्षमग्निरिवोद्भूतः प्रदहंस्तव वाहिनीम्॥ अचिरेण महीं पार्थश्चकार रुधिरोत्तराम्। हतभूयिष्ठयोधं तत् कृत्वा तव बलं बली॥ आससाद दुराधर्षः सैन्धवं सत्यविक्रमः। बीभत्सुभीमसेनेन सात्वतेन च रक्षितः॥ प्रबभौ भरतश्रेष्ठ ज्वलन्निव हुताशनः। तं तथावस्थितं दृष्ट्वा त्वदीया वीर्यसम्पदा॥ नामृष्यन्त महेष्वासाः पाण्डवं पुरुषर्षभाः। दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट्॥ अश्वत्थाम कृपश्चैव स्वयमेव च सैन्धवः। संनद्धाः सैन्धवस्यार्थे समावृण्वन् किरीटिनम्॥ नृत्यन्तं रथमार्गेषु धनुर्ध्यातलनिःस्वनैः। संग्रामकोविदं पार्थ सर्वे युद्धविशारदाः॥ अभीताः पर्यवर्तन्त व्यादितास्यमिवान्तकम्। सैन्धवं पृष्ठतः कृत्वा जिघांसन्तोऽच्युतार्जुनौ॥ सूर्यास्तमनमिच्छन्तो लोहितायति भास्करे। ते भुजैर्भोगिभोगाभै—yष्यानम्य सायकान्॥ मुमुचः सूर्यरश्म्याभाञ्छतशः फाल्गुनं प्रति। ततस्तानस्यमानांश्च किरीटी युद्धदुर्मदः॥ द्विधा त्रिधाष्टधैकैकं छित्त्वा विव्याध तान् रथान्। ॥ सिंहलाडुलकेतुस्तु दर्शयन् वीर्यमात्मनः॥ शारद्वतीसूतो राजन्नर्जुनं प्रत्यवारयत्। स विदध्वा दशभिः पार्थ वासुदेवं च सप्तभिः॥ अतिष्ठद् रथमार्गेषु सैन्धवं प्रतिपालयन्। अथैनं कौरवश्रेष्ठाः सर्व एव महारथाः॥ महता रथवंशेन सर्वतः प्रत्यवारयन्। विस्फारयन्तश्चापानि विसृजन्तश्च सायकान्॥ सैन्धवं पर्यरक्षन्त शासनात् तनयस्य ते। ततः पार्थस्य शूरस्य बाह्वोर्बलमदृश्यत॥ इषूणामक्षयत्वं च धनुषो गाण्डिवस्य च। अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च॥ एकैकं दशभिबाणैः सर्वानेव समापर्यत्। तं द्रौणिः पञ्चविंशत्या वृषसेनश्च सप्तभिः॥ दुर्योधनस्तु विंशत्या कर्णशल्यौ त्रिभित्रिभिः। त एनमभिगर्जन्तो विध्यन्तश्च पुनः पुनः॥ विधुन्वतश्च चापानि सर्वतः प्रत्यवारयन्। श्लिष्टं च सर्वतश्चक्रू रथमण्डलमाशु ते॥ सूर्यास्तमनमिच्छन्तस्त्वरमाणा महारथाः। त एनमभिनर्दन्तो विधुन्वाना धनूंषि च॥ सिषिचुर्मार्गणैस्तीक्ष्णैर्गिरिं मेघा इवाम्बुभिः। ते महास्त्राणि दिव्यानि तत्र राजन् व्यदर्शयन्॥ धनंजयस्य गात्रे तु शूराः परिघबाहवः। हतभूयिष्ठयोधं तत् कृत्वा तव बलं बली॥ आससाद दुराधर्षः सैन्धवं सत्यविक्रमः। तं कर्णः संयुगे राजन् प्रत्यवारयदाशुगैः॥ मिषतो भीमसेनस्य सात्वतस्य च भारत। तं पार्थो दशभिबाणैः प्रत्यविध्यद् रणाजिरे॥ सूतपुत्रं महाबाहुः सर्वसैन्यस्य पश्यतः। सात्वतश्च त्रिभिर्बाणैः कर्ण विव्याध मारिष॥ भीमसेनस्रिभिश्चैव पुनः पार्थश्च सप्तभिः। तान् कर्णः प्रतिविव्याध षष्ट्या षष्ट्या महारथः॥ तद् युद्धमभवद् राजन् कर्णस्य बहुभिः सह। तत्राद्भुतमपश्याम सूतपुत्रस्य मारिष॥ यदेकः समरे क्रुद्धस्त्रीन् रथान् पर्यवारयत्। फाल्गुनस्तु महाबाहुः कर्ण वैकर्तनं रणे॥ सायकानां शतेनैव सर्वमर्मस्वताडयत्। रुधिरोक्षितसर्वाङ्ग सूतपुत्रः प्रतापवान्॥ शरैः पञ्चाशता वीरः फाल्गुनं प्रत्यविध्यता तस्य तल्लाघ्वं दृष्ट्वा नामृष्यत रणेऽर्जुनः॥ ततः पार्थो धनुश्छित्त्वा विव्याधैनं स्तनान्तरे। सायकैनवभिवीरस्त्वरमाणो धनंजयः॥ अथान्यद् धनुरादाय सूतपुत्रः प्रतापवान्। सायकैरष्टसाहस्रश्छादयामास पाण्डवम्॥ तां बाणवृष्टिमतुला कर्णचापसमुत्थिताम्। व्यधमत् सायकैः पार्थः शलभानिव मारुतः॥ छादयामास च तदा सायकैरर्जुनो रणे। पश्यतां सर्वयोधानां दर्शयन् पाणिलाघवम्॥ वधार्थ चास्य समरे सायकं सूर्यवर्चसम्। चिक्षेप त्वरया युक्तस्त्वराकाले धनंजयः॥ तमापतन्तं वेगेन द्रौणिश्चिच्छेद सायकम्। अर्धचन्द्रेण तीक्ष्णेन स च्छिन्नः प्रापतद् भुवि॥ कर्णोऽपि द्विषतां हन्ता छादयामास फाल्गुनम्। सायकैर्बहुसाहस्रैः कृतप्रतिकृतेप्सया॥ तौ वृषाविव नर्दन्तौ नरसिंहौ महारथौ। सायकैस्तु प्रतिच्छन्नं चक्रतुः खमजिह्मगैः॥ अदृश्यौ च शिरोघेस्तो निघ्नन्तावितरेतरम्। कर्ण पार्थोऽस्मि तिष्ठ त्वं कर्णोऽहं तिष्ठ फाल्गुन।।७६ इत्येवं तर्जयन्तौ तौ वाक्शल्यैस्तुदतां तदा। युध्येतां समरे वीरौ चित्रं लघु च सुष्ठु च॥ प्रेक्षणीयौ चाभवतां सर्वयोधसमागमे। प्रशस्यमानो समरे सिद्धचारपपन्नगैः॥ अयुध्येतां महाराज परस्परवधैषिणौ। ततो दुर्योधनो राजस्तावकानभ्यभाषत॥ यत्नाद् रक्षत राधेयं नाहत्वा समरेऽर्जुनम्। निवर्तिष्यति राधेय इति मामुक्तवान् वृषः॥ एतस्मिन्नन्तरे राजन् दृष्ट्वा कर्णस्य विक्रमम्। आकर्णमुक्तैरिषुभिः कर्णस्य चतुरो हयान्॥ अनयत् प्रेतलोकाय चतुर्भिः श्वेतवाहनः। सारथिं चास्य भल्लेन रथनीडादपातयत्॥ छादयामास स शरैस्तव पुत्रस्य पश्यतः। संछाद्यमानः समरे हताश्वो हतसारथिः॥ मोहितः शरजालेन कर्तव्यं नाभ्यपद्यता तं तथा विस्थं दृष्ट्वा रथमारोप्य तं तदा॥ अश्वत्थामां महाराज भूयोऽर्जुनमयोधयत्। मद्रराजश्च कौन्तेयमविध्यत् त्रिंशता शरैः॥ शारद्वतस्तु विंशत्या वासुदेवं समार्पयत्। धनंजयं द्वादशभिराजघान शिलीमुखैः॥ चतुर्भिः सिन्धुराजश्च वृषसेनश्च सप्तभिः। पृथक् पृथङ्महाराज विव्यधुः कृष्णपाण्डवौ॥ तथैव तान् प्रत्यविध्यत् कुन्तीपुत्रो धनंजयः। द्रोणपुत्रं चतुःषष्ट्या मद्रराजं शतेन च॥ सैन्धवं दशभिर्गाणैर्वृषसेनं त्रिभिः शरैः। शारद्वतं च विंशत्या विद्ध्वा पार्थो ननाद ह॥ ते प्रतिज्ञाप्रतीधातमिच्छन्त: सव्यसाचिनः। सहितास्तावकास्तूर्णमभिपेतुर्धनंजयम्॥ अथार्जुनः सर्वतो वारुणास्रं प्रादुश्चके त्रासयन् धार्तराष्ट्रान्। तं प्रत्युदीयुः कुरवः पाण्डुपुत्रं स्थैर्महाहैः शरवर्षाण्यवर्षन्॥ ततस्तु तस्मिंस्तुमुले समुत्थिते। सुदारुणे भारत मोहनीये। नोऽमुह्यत प्राप्य स राजपुत्रः। किरीटमालीव्यसृजच्छरौघान्॥ राज्यप्रेप्सुः सव्यसाची कुरूणां स्मरन् क्लेशान् द्वादशवर्षवृत्तान्। गाण्डीवमुक्तैरिषुभिर्महात्मा। सर्वा दिशो व्यावृणोदप्रमेयः॥ प्रदीप्तोल्कमभवचान्तरिक्ष मृतेषु देहेष्वपतन् वयांसि। यत् पिङ्गलज्येन किरीटमाली क्रुद्धो रिपूनाजगवेन हन्ति॥ ततः किरीट महता महायशाः शरासनेनास्य शराननीकजित्। हयप्रवेकोत्तमनागधूर्गतान् कुरुप्रवीरानिषुभिर्व्यपातयत्॥ नसींश्च शक्तीश्च नराधिपाः। महान्ति शस्त्राणि च भीमदर्शनाः प्रगृह्य पार्थ सहसाभिदुद्रुवुः॥ ततो युगान्ताभ्रसमखनं महन्महेन्द्रचापप्रतिमं च गाण्डिवम्। चकर्ष दोर्ध्या विहसन् भृशं ययौ दहंस्त्वदीयान् यमराष्ट्रवर्धनः॥ स तानुदीर्णान् सरथान् सवारणान् पदातिसङ्घांश्च महाधनुर्धरः। विपन्नसर्वायुधजीवितान् रणे चकार वीरो यमराष्ट्रवर्धनान्॥ संजय उवाच श्रुत्वा निनादं धनुषश्च तस्य विस्पष्टमुत्क्रुष्टमिवान्तकस्य। शक्राशनिस्फोटसमं सुधोरं विकृष्यमाणस्य धनंजयेन॥ त्रासोद्विग्नं तथोद्भान्तं त्वदीयं तद् बलं नृप। युगान्तवातसंक्षुब्धं चलद्वीचितरङ्गितम्॥ प्रलीनमीनमकरं सागराम्भ इवाभवत्। सरणे व्यचरत् पार्थः प्रेक्षमाणो धनंजयः॥ युगपद् दिक्षु सर्वासु सर्वाण्स्त्राणि दर्शयन्। आददातुं महाराज संदधानं च पाण्डवम्॥ उत्कर्षन्तं सृजन्तं च न स्म पश्याम लाघवात्। ततः क्रुद्धो महाबाहुरैन्द्रमस्रं दुरासदम्॥ प्रादुश्चक्रे महाराज त्रासयन् सर्वभारतान्। ततः शराः प्रादुरासन् दिव्यास्रप्रतिमन्त्रिताः॥ प्रदीप्ताश्च शिखिमुखा: शतशोऽथ सहस्रशः। आकर्णपूर्णनिर्मुक्तैरग्न्याशुनिभैः शरैः॥ नभोऽभवत् तद् दुष्प्रेक्ष्यमुल्काभिरिव संवृतम्। ततः शस्रान्धकारं तत् कौरवैः समुदीरितम्॥ अशक्यं मनसाप्यनयैः पाण्डवः सम्भ्रमनिव। नाशयामास विक्रम्य शरैर्दिव्यास्रमन्त्रितैः॥ नैशं तमोऽशुभिः क्षिप्रं दिनादाविव भास्करः। ततस्तु तावकं सैन्यं दीप्तैः शरगभस्तिभिः॥ आक्षिपत् पल्वलाम्बूनि निदाघार्क इव प्रभुः। ततो दिव्यास्रविदुषा प्रहिताः सायकांशवः॥ समाप्लवन् द्विषत्सैन्यं लोकं मानोरिवांशवः। अथापरे समुत्सृष्टा विशिखास्तिग्मतेजसः॥ हृदयान्याशु वीराणां विविशुः प्रियबन्धुवत्। य एनमीयुः समरे त्वद्योधाः शूरमानिनः॥ शलभा इव ते दीप्तमग्निं प्राप्य ययुः क्षयम्। एवं स मृद्गशत्रूणां जीवितानि यशांसि च॥ पार्थश्चचार संग्रामे मृत्युर्विग्रहवानिव। सकिरीटानि वक्त्राणि साङ्गदान् विपुलान् भुजान्॥१५ सकुण्डलयुगान् कर्णान् केषांचिदहरज्छरैः। सतोमरान् गजस्थानां सप्रासान् हयसादिनाम्॥ सचर्मणः पदातीनां रथीनां च सधन्वनः सप्रतोदान् नियन्तॄणां बाहूंश्चिच्छेद पाण्डवः॥ प्रदीप्तोग्रशरार्चिष्मान् बभौ तत्र धनंजयः। सविस्फुलिङ्गाग्रशिखो ज्वलन्निव हुताशनः॥ तं देवराजप्रतिमं सर्वशस्त्रभृतां वरम्। युगपद् दिक्षु सर्वासु रथस्थं पुरुषर्षभम्॥ निक्षिपन्तं महास्त्राणि प्रेक्षणीयं धनंजयम्। नृत्यन्तं रथमार्गेषु धनुातलनादिनम्॥ निरीक्षितुं न शेकुस्ते यत्नवन्तोऽपि पार्थिवाः। मध्यंदिनगतं सूर्य प्रतपन्तमिवाम्बरे॥ दीप्तोग्रसम्भृतशरः किरीट विरराज ह। वर्षास्विवोदीर्णजल: सेन्द्रधन्वाम्बुदो महान्॥ महास्रसम्पल्वे तस्मिञ्जिष्णुना सम्प्रवर्तिते। सुदुस्तरे महाघोरे ममज्युर्योधपुङ्गवाः॥ उत्कृत्तवदनैर्दैहैः शरीरैः कृत्तबाहुभिः। भुजैश्च पाणिनिर्मुक्तैः पाणिभिर्व्यङ्गुलीकृतैः॥ कृत्ताग्रहस्तैः करिभिः कृत्तदन्तैर्मदोत्कटैः। हयैश्च विधुरग्रीवै रथैश्च शकलीकृतैः॥ निकृत्तान्त्रैः कृत्तपादैस्तथान्यैः कृत्तसंधिभिः। निश्चेष्टैर्विस्फुरद्भिश्च शतशोऽथ सहस्रशः॥ मृत्योराघातललितं तत्पार्थायोधानं महत्। अपश्याम महीपाल भीरूणां भयवर्धनम्॥ आक्रीडमिव रुद्रस्य पुराभ्यर्दयतः पशून्। गजानां क्षुरनिर्मुक्तैः करैः सभुजगेव भूः॥ क्वचिद् बभौ स्रग्विणीव वक्त्रपझैः समाचिता। विचित्रोष्णीषमुकुटैः केयूराङ्गदकुण्डलैः॥ स्वर्णचित्रतनुत्रैश्च भाण्डैश्च गजवाजिनाम्। किरीटशतसंकीर्णा तत्र तत्र समाचिता॥ विरराज भृशं चित्रा मही नववधूरिव। मञ्जामेदःकर्दमिनी शोणितौघतरङ्गिणीम्॥ मर्मास्थिभिरगाधां च केशशैवलशाद्वलाम्। शिरोबाहूपलतटां रुग्णक्रोडास्थिसंकटाम्॥ चित्रध्वजपताकाढ्यां छत्रचापोर्मिमालिनीम्। विगतासुमहाकायां गजदेहाभिसंकुलाम्॥ रथोडुपशताकीर्णा हयसंघातरोधसम्। रथचक्रयुगेपाक्षकूबरैरतिदुर्गमाम्॥ प्रासासिशक्तिपरशुविशिखाहिदुरासदाम्। बलकङ्कमहानक्रां गोमायुमकरोत्कटाम्॥ गृध्रोदग्रमहाग्राहां शिवाविरुतभैरवाम्। नृत्यत्प्रेतपिशाचाद्यैर्भूताकीर्णा सहस्रशः॥ गतासुयोधनिश्चेष्टशरीरशतवाहिनीम्। महाप्रतिभयां रौद्रां घोरां वैतरणीमिव॥ नदी प्रवर्तयामास भीरूणां भयवर्धिनीम्। तं दृष्ट्वा तस्य विक्रान्तमन्तकस्येव रूपिणः॥ अभूतपूर्व कुरूषु भयमागाद् रणाजिरे। तत आदाय वीराणामस्त्रैरस्त्राणि पाण्डवः॥ आत्मानं रौद्रमाचष्ट रौद्रकर्मण्यधिष्ठितः। ततो रथवरान् राजन्नत्यतिक्रामदर्जुनः॥ मध्यंदिनगतं सूर्य प्रतपन्तमिवाम्बरे। न शेकुः सर्वभूतानि पाण्डवं प्रतिवीक्षितुम्॥ प्रसृतांस्तस्य गाण्डीवाच्छरवातान् महात्मनः। संग्रामे सम्प्रपश्यामो हंसपङ्क्तिमिवाम्बरे॥ विनिवार्य स वीराणामस्त्रैरस्त्राणि सर्वतः। दर्शयन् रौद्रमात्मानमुने कर्मणि धिष्ठितः॥ स तान् रथवरान् राजन्नत्याक्रामत् तदार्जुनः। मोहयन्निव नाराचैर्जयद्रथवधेप्सया। विसृजन् दिक्षु सर्वासु शरानसितसारथिः॥ सरथो व्यचरत् तूर्णं प्रेक्षणीयो धनंजयः। भ्रमन्त इव शूरस्य शरव्राता महात्मनः॥ अदृश्यन्तान्तरिक्षस्थाः शतशोऽथ सहस्रशः। आददानं महेष्वासं संदधानं च सायकम्॥ विसृजन्तं च कौन्तेयं नानुपश्याम वै तदा। तथा सर्वा दिशो राजन् सर्वाश्च रथिनो रणे॥ कदम्बीकृत्य कौन्तेयो जयद्रथमुपाद्रवत्। विव्याध च चतुःषष्ट्या शराणां नतपर्वणाम्॥ सैन्धवाभिमुखं यान्तं योधाः सम्प्रेक्ष्य पाण्डवम्। न्यवर्तन्त रणाद् वीरा निराशास्तस्य जीविते॥ यो योऽभ्यधावदाक्रन्दे तावकः पाण्डवं रणे। तस्य तस्यान्तगा बाणाः शरीरे न्यपतन् प्रभो॥ कबन्धसंकुलं चक्रे तव सैन्यं महारथः। अर्जुनो जयतां श्रेष्ठः शरैरग्न्यंशुसंनिभैः॥ एवं तत् तव राजेन्द्र चतुरङ्गबलं तदा। व्याकुलीकृत्य कौन्तेयो जयद्रथमुपाद्रवत्॥ द्रौणिं पञ्चाशताविध्यद् वृषसेनं त्रिभिः शरैः। कृपायमाणः कौन्तेयः कृपं नवभिरार्दयत्॥ शल्यं षोडशभिर्बाणैः कर्णं द्वात्रिंशता शरैः। सैन्धवं तु चतुःषष्ट्या विद्ध्वा सिंह इवानदत्॥ सैन्धवस्तु तथा विद्धः शरैर्गाण्डीवधन्वना। न चक्षमे सुसंक्रुद्धस्तोत्रादित इव द्विपः॥ स वराहध्वजस्तूर्णं गार्धपत्रानजिह्मगान्। क्रुद्धाशीविषसंकाशान् कर्मारपरिमार्जितान्॥ आकर्णपूर्णाञ्चिक्षेप फाल्गुनस्य रथं प्रति। स विक्षिप्यार्जुनस्तूर्णं सैन्धवप्रहिताशरान्॥ युगपत् तस्य चिच्छेद शराभ्यां सैन्धवस्य ह। सारथेश्च शिरः कायाद् ध्वजं च समलंकृतम्॥ स छिन्नयष्टिः सुमहान् धनंजयशराहतः। वराहः सिन्धुराजस्य पपाताग्निशिखोपमः॥ एतस्मिन्नेव काले तु द्रुतं गच्छति भास्करे। अब्रवीत् पाण्डवं राजंस्त्वरमाणो जनार्दनः॥ एष मध्ये कृतः षड्भिः पार्थ वीरैर्महारथैः। जीवितेप्सुर्महाबाहो भीतस्तिष्ठति सैन्धवः॥ एताननिर्जित्य रणे षड् स्थान् पुरुषर्षभ। न शक्यः सैन्धवो हन्तुं यतो निर्व्याजमर्जुन॥ योगमत्र विधास्यामि सूर्यस्यावरणं प्रति। अस्तंगत इति व्यक्तं द्रक्ष्यत्येकः स सिन्धुराट्। ६४ हर्षेण जीविताकाक्षी विनाशार्थं तव प्रभो। न गोप्स्यति दुराचारः स आत्मानं कथंचन॥ तत्र छिद्रे प्रहर्तव्यं त्वयास्य कुरुसत्तम। व्यपेक्षा नैव कर्तव्या गतोऽस्तमिति भास्करः॥ एवमस्त्विति बीभत्सुः केशवं प्रत्यभाषत। ततोऽसृजत् तमः कृष्णः सूर्यस्यावरणं प्रति॥ योगी योगेन संयुक्तो योगिनामीश्वरो. हरिः। सृष्टे तमसि कृष्णेन गतोऽस्तमिति भास्करः॥ त्वदीया जहषुर्योधाः पार्थनाशानराधिप। प्रहृष्टा रणे राजन् नापश्यन् सैनिका रविम्॥ उन्नाम्य वक्त्राणि तदा स च राजा जयद्रथः। वीक्षमाणे ततस्तस्मिन् सिन्धुराजे दिवाकरम्॥ पुनरेवाब्रवीत् कृष्णो धनंजयमिदं वचः। पश्य सिन्धुपतिं वीरं प्रेक्षमाणं दिवाकरम्॥ भयं हि विप्रमुच्यैतत् त्वत्तो भरतसत्तम। ते अयं कालो महाबाहो वधायास्य दुरात्मनः॥ छिन्धि मूर्धानमस्याशु कुरु साफल्यमात्मनः। इत्येवं केशवेनोक्तः पाण्डुपुत्रः प्रतापवान्॥ न्यवधीत् तावकं सैन्यं शरैराग्निसंनिभैः। कृपं विव्याध विंशत्या कर्ण पञ्चाशता शरैः॥ शल्यं दुर्योधनं चैव षभिः षड्भिरताडयत्। वृषसेनं तथाष्टाभिः षष्ट्या सैन्धवमेव च॥ तथैव च महाबाहुस्त्वदीयान् पाण्डुनन्दनः। गाढं विद्ध्वा शरै राजन् जयद्रथमुपाद्रवत्॥ तं समीपस्थितं दृष्ट्वा लेलिहानमिवानलम्। जयद्रथस्य गोप्तारः संशयं परमं गताः॥ ततः सर्वे महाराज तव योधा जयैषिणः। सिषिचुः शरधाराभिः पाकशासनिमाहवे॥ संछाद्यमानः कौन्तेयः शरजालैरनेकशः। अक्रुध्यत् स महाबाहुरजितः कुरुनन्दनः॥ ततः शरमयं जालं तुमुलं पाकशासनिः। व्यसृजत् पुरुषव्याघ्रस्तव सैन्यजिघांसया॥ ते हन्यमाना वीरेण योधा राजन् रणे तव। प्रजहुः सैन्धवं भीता द्वौ समं नाप्यधावताम्॥ तत्राद्भुतमपश्याम कुन्तीपुत्रस्य विक्रमम्। तादृड्न भावी भूतो वा यच्चकार महायशाः॥ द्विपान् द्विपगतांश्चैव हयान् हयगतानपि। तथा स रथिनश्चैव न्यहन् रुद्रः पशूनिव॥ न तत्र समरे कश्चिन्मया दृष्टो नराधिप। गजो वाजी नरो वापि यो न पार्थशराहतः॥ रजसा तमसा चैव योधाः संछन्नचक्षुषः। कश्मलं प्राविशन् घोरं नान्वजानन् परस्परम्॥ ते शरैर्भिन्नमर्माणः सैनिकाः पार्थचोदितैः। बभ्रमुश्चस्खलुः पेतुः सेदुर्मम्लुश्च भारत॥ तस्मिन् महाभीषण के प्रजानामिव संक्षये। रणे महति दुष्पारे वर्तमाने सुदारुणे॥ शोणितस्य प्रसेकेन शीघ्रत्वादनिलस्य च। अशाम्यत् तद् रजो भौममसृक्सिक्ते धरातले॥ आनाभि निरमज्जश्च रथवक्त्राणि शोणिते। मत्ता वेगवतो राजस्तावकानां रणाङ्गणे॥ हस्तिनश्च हतारोहा दारिताङ्गा सहस्रशः। स्वान्यनीकानि मृद्गन्त आर्तनादाः प्रदुद्रुवुः॥ हयाच पतितारोहाः पत्तयश्च नराधिप। प्रदुद्रुवुर्भयाद् राजन् धनंजयशराहताः॥ मुक्तकेशा विकवचाः क्षरन्तः क्षतज क्षतैः। प्रापलायन्त संत्रस्तास्त्यक्त्वा रणशिरो जनाः॥ ऊरुग्राहगृहीताश्च केचित् तत्राभवन् भुवि। हतानां चापरे मध्यं द्विरदानां निलिल्यिरे॥ एवं तव बलं राजन् द्रावयित्वा धनंजयः। न्यवधीत् सायकै?रैः सिन्धुराजस्य रक्षिणः॥ द्रौणिं कृपं कर्णशल्यौ वृषसेनं सुयोधनम्। छादयामास तीव्रण शरजालेन पाण्डवः॥ न गृह्णन् न क्षिपन् राजन् मुञ्चन्नापि च संदधत्। अदृश्यतार्जुनः संख्ये शीघ्रास्रत्वात् कथंचन॥ धनुर्मण्डलमेवास्य दृश्यते स्मास्यतः सदा। सायकाश्च व्यदृश्यन्त निश्चरन्तः समन्ततः॥ कर्णस्य तु धनुश्छित्त्वा वृषसेनस्य चैव ह। शल्यस्य सूतं भल्लेन रथनीडादपातयत्॥ गाढविद्धावुभौ कृत्वा शरैः स्वस्त्रीयमातुलौ। अर्जुनो जयतां श्रेष्ठो द्रौणिशारद्वतौ रणे॥ एवं तान् व्याकुलीकृत्य त्वदीयानां महारथान्। उनहार शरं घोरं पाण्डवोऽनलसंनिभम्॥ इन्द्राशनिसमप्रख्यं दिव्यमस्त्राभिमन्त्रितम्। सर्वभारसह शश्वद् गन्धमाल्यार्चितं महत्॥ वज्रेणास्त्रेण संयोज्य विधिवत् कुरुनन्दनः। समादधन्माहाबाहुर्गाण्डीवे क्षिप्रमर्जुनः॥ तस्मिन् संधीयमाने तु शरे ज्वलनतेजसि। अन्तरिक्षे महानादो भूतानामभवन्नृप॥ अब्रवीच पुनस्तत्र त्वरमाणो जनार्दनः। धनंजय शिरश्छिन्धि सैन्धवस्य दुरात्मनः॥ अस्तं महीधरश्रेष्ठं यियासति दिवाकरः। शृणुष्वैतच वाक्यं मे जयद्रथवधं प्रति॥ वृद्धक्षत्रः सैन्धवस्य पिता जगति विश्रुतः। स कालेनेह महता सैन्धवं प्राप्तवान् सुतम्॥ जयद्रथममित्रघ्नं वागुवाचाशरीरिणी। नृपमन्तर्हिता वाणी मेघदुन्दुभिनिःस्वना॥ तवात्मजो मनुष्येन्द्र कुलशीलदमादिभिः। गुणैर्भविष्यति विभो सदृशो वंशयोर्द्वयोः॥ क्षत्रियप्रवरो लोके नित्यं शूराभिसत्कृतः। किं त्वस्य युध्यमानस्य संग्रामे क्षत्रियर्षभः॥ शिरश्छेत्स्यति संक्रुद्धः शत्रुरालक्षितो भुवि। एतच्छुत्वा सिन्धुराजो ध्यात्वा चिरमरिंदमः॥ ज्ञातीन् सर्वानुवाचेदं पुत्रस्नेहाभिचोदितः। संग्रामे युध्यमानस्य वहतो महतीं धुरम्॥ धरण्यां मम पुत्रस्य पातयिष्यति यः शिरः। तस्यापि शतधा मूर्धा फलिष्यति न संशयः॥ एवमुक्त्वा ततो राज्ये स्थापयित्वा जयद्रथम्। वृद्धक्षत्रो वनं यातस्तपश्चोग्रं समास्थितः॥ सोऽयं तप्यति तेजस्वी तपो घोरं दुरासदम्। समन्तपञ्चकादस्माद् बहिर्वानरकेतन॥ तस्माजयद्रथस्य त्वं शिरश्छित्त्वा महामृधे। दिव्येनास्त्रेण रिपुहन् घोरेणाद्भुतकर्मणा॥ सकुण्डलं सिन्धुपतेः प्रभञ्जनसुतानुजा उत्सङ्गे पातयस्वास्य वृद्धक्षत्रस्य भारत॥ अथ त्वमस्य मूर्धानं पातयिष्यासि भूतले। तवापि शतधा मूर्धा फलिष्यति न संशयः॥ यथा चेदं न जानीयात् स राजा तपसि स्थितः। तथा कुरु कुरुश्रेष्ठ दिव्यमस्रमुपाश्रितः॥ न ह्यसाध्यमकार्य वा विद्यते तव किंचन। समस्तेष्वपि लोकेषु त्रिषु वासवनन्दन॥ एतच्छ्रुत्वा तु वचनं सृक्किणी परिसंलिहन्। इन्द्राशनिसमस्पर्श दिव्यमन्त्राभिमन्त्रितम्॥ सर्वभारसहं शश्वद् गन्धमाल्यार्चितं शरम्। विससर्जार्जुनस्तूर्णं सैन्धवस्य वधे धृतम्॥ स तु गाण्डीवनिर्मुक्तः शरः श्येन इवाशुगः। छित्त्वा शिरः सिन्धुपतेरुत्पपात विहायसम्॥ तच्छिर: सिन्धुराजस्य शरैरूर्ध्वमवाहयत्। दुर्हदामप्रहर्षाय सुहृदां हर्षणाय च॥ शरैः कदम्बकीकृत्य काले तस्मिश्च पाण्डवः। योधयामास तांश्चैव पाण्डवः षण्महारथान्॥ ततः सुमहदाश्चर्ये तत्रापश्याम भारत। समन्तपञ्चकाद् बाह्यं शिरो यद् व्यहरत् ततः॥ एतस्मिन्नेव काले तु वृद्धक्षत्रो महीपतिः। संध्यामुपास्ते तेजस्वी सम्बन्धी तव मारिष॥ उपासीनस्य तस्याथ कृष्णकेशं सकुण्डलम्। सिन्धुराजस्य मूर्धानमुत्सङ्गे समपातयत्॥ तस्योत्सङ्गे निपतितं शिरस्तचारुकुण्डलम्। वृद्धक्षत्रस्य नृपतेरलक्षितमरिंदम॥ कृतजप्यस्य तस्याथ वृद्धक्षत्रस्य भारत। प्रोत्तिष्ठतस्तत् सहसा शिरोऽगच्छद् धरातलम्॥ ततस्तस्य नरेन्द्रस्य पुत्रमूर्धनि भूतले। गते तस्यापि शतधा मूर्धागच्छदरिंदम॥ ततः सर्वाणि सैन्यानि विस्मयं जग्मुरुत्तमम्। वासुदेवं च बीभत्सुं प्रशशंसुर्महारथम्॥ ततो विनिहते राजन् सिन्धुराजे किरीटिना। तमस्तद् वासुदेवेन संहृतं भरतर्षभ॥ पश्चाज्ज्ञातं महीपाल तव पुत्रैः सहानुगैः। वासुदेवप्रयुक्तेयं मायेति नृपसत्तम॥ एवं स निहतो राजन् पार्थेनामिततेजसा। अक्षौहिणीरष्ट हत्वा जामाता तव सैन्धवः॥ हतं जयद्रथं दृष्ट्वा तव पुत्रा नराधिप। दुःखादश्रूणि मुमुचुनिराशाश्चाभवञ्जये॥ ततो जयद्रथे राजन् हते पार्थेन केशवः। दध्मौ शङ्ख महाबाहुरर्जुनश्च परंतपः॥ भीमश्च वृष्णिसिंहश्च युधामन्युश्च भारत। उत्तमौजाश्च विक्रान्तः शङ्खान् दध्मुः पृथक् पृथक्॥ १३७ श्रुत्वा महान्तं तं शब्दं धर्मराजो युधिष्ठिरः। सैन्धवं निहतं मेने फाल्गुनेन महात्मना॥ ततो वादित्रघोषेण स्वान् योधान् पर्यहर्षयत्। अभ्यवर्तत संग्रामे भारद्वाजं युयुत्सया॥ ततः प्रववृते राजन्नस्तंगच्छति भास्करे। द्रोणस्य सोमकैः सार्धं संग्रामो लोमहर्षणः॥ ते तु सर्वे प्रयत्नेन भारद्वाजं जिघांसवः। सैन्धवे निहते राजन्नयुध्यन्त महारथाः॥ पाण्डवास्तु जयं लब्ध्वा सैन्धवं विनिहत्य च। अयोधयंस्तु ते द्रोणं जयोन्मत्तास्ततस्ततः॥ अर्जुनोऽपि ततो योधांस्तावकान् रथसत्तमान्। अयोधयन्महाबाहुर्हत्वा सैन्धवकं नृपम्॥ स देवशत्रूनिव देवराजः किरीटमालीव्यधमत्समन्तात्। यथा तमांस्यभ्युदितस्तमोनः पूर्वप्रतिज्ञां समवाप्य वीरः॥ धृतराष्ट्र उवाच तथा गतेषु शूरेषु तेषां मम च संजय। किं वै भीमस्तदाकार्षीत् तन्ममाचक्ष्व संजय॥ संजय उवाच विरथो भीमसेनो वै कर्णवाक्शल्यपीडितः। अमर्षवशमापन्नः फाल्गुनं वाक्यमब्रवीत्॥ पुनः पुनस्तूबरक मूढ औदरिकेति च। अकृतास्रक मा योत्सीर्बाल संग्रामकातर॥ इति मामब्रवीत् कर्णः पश्यतस्ते धनंजय। एवं वक्ता च मे वध्यस्तेन चोक्तोऽस्मि भारत॥ एतद् व्रतं महाबाहो त्वया सह कृतं मया। तथैतन्मम कौन्तेय यथा तव न संशयः॥ तद्वधाय नरश्रेष्ठ स्मरैतद् वचनं मम। यथा भवति तत् सत्यं तथा कुरु धनंजय॥ तच्छ्रुत्वा वचनं तस्य भीमस्यामितविक्रमः। ततोऽर्जुनोऽब्रवीत् कर्णं किंचिदभ्येत्य संयुगे॥ कर्ण कर्ण वृथादृष्टे सूतपुत्रात्मसंस्तुत। अधर्मबुद्धे शृणु मे यत् त्वां वक्ष्यामि साम्प्रतम्॥ द्विविधं कर्म शूराणां युद्धे जयपराजयौ। तौ चाप्यनित्यौ राधेय वासवस्यापि युध्यतः॥ मुमूर्षर्युयुधानेन विरथो विकलेन्द्रियः। मद्वध्यस्त्वमिति ज्ञात्वा जित्वा जीवन् विसर्जितः॥ यदृच्छया रणे भीमं युध्यमानं महाबलम्। कथंचिद् विरथं कृत्वा यत् त्वं सक्षमभाषथा:॥ अधर्मस्त्वेष सुमहाननार्चचरितं च तत्। नारिं जित्वातिकत्यन्ते न च जल्पन्ति दुर्वचः॥ न च कञ्चन निन्दन्ति सन्तः शूरा नरर्षभाः। त्वं तु प्राकृतविज्ञानस्तत् तद् वदसि सूतज॥ बह्वबद्धमकर्ण्य च चापलादपरीक्षितम्। युध्यमानं पराक्रान्तं शूरमार्यव्रते रतम्॥ यदवोचेऽप्रियं भीमं नैतत् सत्यं वचस्तव। पश्यतां सर्वसैन्यानां केशवस्य ममैव च।॥ विरथो भीमसेनेन कृतोऽसि बहुशो रणे। न च त्वां परुषं किंचिदुक्तवान् पाण्डुनन्दनः॥ यस्मात् तु बहु रूक्षं च श्रावितस्ते वृकोदरः। परोक्षं यच सौभद्रो युष्माभिनिहतो मम॥ तस्मादस्यावलेपस्य सद्यः फलमवाप्नुहि। त्वया तस्य धनुश्छिन्नमात्मनाशाय दुर्मते॥ तस्माद् वध्योऽसि मे मूढ सभृत्यसुतबान्धवः। कुरु त्वं सर्वकृत्यानि महत् ते भयमागतम्॥ हन्तास्मि वृषसेनं ते प्रेक्षमाणस्य संयुगे। ये चान्येऽप्युपयास्यन्ति बुद्धिमोहेन मां नृपाः॥ तांश्च सर्वान् हनिष्यामि सत्येनायुधमालभे। त्वां च मूढाकृतप्रज्ञमतिमानिनमाहवे॥ दृष्ट्वा दुर्योधनो मन्दो भृशं तप्स्यति पातितम्। अर्जुनेन प्रतिज्ञाते वधे कर्णसुतस्य तु॥ महान् सुतुमुलः शब्दो बभूव रथिनां तदा। तस्मिन्नाकुलसंग्रामे वर्तमाने महाभये॥ मन्दरश्मिः सहस्रांशुरस्तं गिरिमुपाद्रवत्। ततो राजन् हृषीकेशः संग्रामशिरसि स्थितम्॥ तीर्णप्रतिज्ञं बीभत्सुं परिष्वज्यैनमब्रवीत्। दिष्ट्या सम्पादिता जिष्णो प्रतिज्ञा महती त्वया॥ दिष्ट्या विनिहतः पापो वृद्धक्षत्र: सहात्मजः। धार्तराष्ट्रबलं प्राप्य देवसेनापि भारत॥ सीदेत समरे जिष्णो नात्र कार्या विचारणा। न तं पश्यामि लोकेषु चिन्तयन् पुरुषं क्वचित्॥ त्वदृते पुरुषव्याघ्र य एतद् योधयेद् बलम्। महाप्रभावा बहवस्त्वया तुल्याधिकाऽपि वा॥ समेताः पृथिव गला धार्तराष्ट्रस्य कारणात्। ते त्वां प्राप्य रणे क्रुद्धा नाभ्यवर्तन्त दंशिताः॥ तव वीर्य बलं चैव रुद्रशक्रान्तकोपमम्। नेदृशं शक्नुयात् कश्चिद् रणे कर्तुं पराक्रमम्॥ यादृशं कृतवानद्य त्वमेकः शत्रुतापनः। एवमेव हते कर्णे सानुबन्धे दुरात्मनि॥ वर्धयिष्यामि भूयस्त्वां विजितारिं हतद्विषम्। तमर्जुनः प्रत्युवाच प्रसादात् तव माधव॥ प्रतिज्ञेयं मया तीर्णा विबुधैरपि दुस्तरा। अनाश्चर्यो जयस्तेषां येषां नाथोऽसि केशव॥ त्वत्प्रसादान्महीं कृत्स्नां सम्प्राप्स्यति युधिष्ठिरः। तव प्रभावो वार्ष्णेय तवैव विजयः प्रभो। वर्धनीयास्तव वयं सदैव मधुसूदन॥ एवमुक्तस्ततः कृष्णः शनकैर्वाहयन् हयान्। दर्शयामास पार्थाय क्रूरमायोधनं महत्॥ श्रीकृष्ण उवाच प्रार्थयन्तो जयं युद्धे प्रथितं च महद् यशः। पृथिव्यां शरेते शूराः पार्थिवास्त्वच्छरैर्हताः :॥ विकीर्णशस्त्राभरणा विपन्नाश्वरथद्विपाः। संछिन्नभिन्नमर्माणो वैकुव्यं परमं गताः॥ ससत्त्वा गतसत्त्वाश्च प्रभया परया युताः। सजीव इव लक्ष्यन्ते गतसत्त्वा नराधिपाः॥ तेषां शरैः स्वर्णपुङ्खः शस्त्रैश्च विविधैः शितैः। वाहनैरायुधैश्चैव सम्पूर्णा पश्य मेदिनीम्॥ वर्मभिश्चर्मभिर्हारैः शिरोभिश्च सकुण्डलैः। उष्णीषैर्मुकुटैः स्रग्भिश्चूडामणिभिरम्बरैः॥ कण्ठसूत्रैरङ्गदैश्च निष्कैरपि च सप्रभैः। अन्यैश्चाभरणैश्चित्रै ति भारत मेदिनी॥ अनुकरुपासङ्गैः पताकाभिर्ध्वजैस्तथा। उपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः॥ चक्रैः प्रमथितैश्चिौरक्षश्च बहुधा रणे। युगैर्योक्त्रैः कलापैश्च धनुर्भिः सायकैस्तथा॥ परिस्तोमैः कुथाभिश्च परिघैरङ्कुशैस्तथा। शक्तिभिर्भिन्दिपालैश्च तूणैः शूलैः परश्वधैः॥ प्रासैश्च तोमरैश्चैव कुन्तैर्यष्टिभिरेव च। शतघ्नीभिर्भुशुण्डीभिः खङ्गैः परशुभिस्तथा॥ मुसलैर्मुद्गरैश्चैव गदाभिः कुणपैस्तथा। सुवर्णविकृताभिश्च कशभिर्भरतर्षभ॥ घण्टाभिश्च गजेन्द्राणां भाण्डैश्च विविधैरपि। स्रग्भिश्च नानाभरणैर्वस्त्रैश्चैव महाधनैः॥ अपविद्धैर्बभौ भूमिर्ग्रहैद्यौरिव शारदी। पृथिव्यां पृथिवीहेतोः पृथिवीपतयो हताः॥ पृथिवीमुपगुह्याङ्गैः सुप्ताः कान्तामिव प्रियाम्। इमांश्च गिरिकूटाभान् नागानैरावतोपमान्॥ क्षरतः शोणितं भूरि शस्त्रच्छेददरीमुखैः। दरीमुखैरिव गिरीन् गैरिकाम्बुपरिस्रवान्॥ तांश्च बाणहतान् वीर पश्य निष्टन्तः क्षितौ। हयांश्च पतितान् पश्य स्वर्ण भाण्डविभूषितान्॥ गन्धर्वनगराकारान् रथांश्च निहतेश्वरान्। छिन्नध्वजपताकाक्षान् विचक्रान् हतसारथीन्॥ निकृत्तकूबरयुगान् भग्नेषाबन्धुरान् प्रभो। पश्य पार्थ हयान् भूमौ विमानोपमदर्शनान्॥ पत्तींश्च निहतान् वीर शतशोऽथ सहस्रशः। धनुर्भृतश्चर्मभृतः शयानान् रुधिरोक्षितान्॥ महीमालिङ्गय सर्वाङ्गैः पांसुध्वस्तशिरोरुहान्। पश्य योधान् महाबाहो त्वच्छरैर्भिन्नविग्रहान्॥ मसृग्वसापिशितसमृद्धकर्दमम्। निशाचरश्ववृकपिशाचमोदनं महीतलं नरवर पश्य दुर्दशम्॥ इदं महत् त्वय्युपपद्यते प्रभो रणाजिरे कर्म यशोभिवर्धनम्। शतक्रतौ चापि स देवसत्तमे महाहवे जनुषि दैत्यदानवान्॥ संजय उवाच एवं संदर्शयन् कृष्णो रणभूमिं किरीटिने। स्वैः समेतः समुदितैः पाञ्चजन्यं व्यनादयत्॥ स दर्शयन्नेव किरीटिनेऽरिहा जनार्दनस्तामरिभूमिमञ्जसा। अजातशत्रु समुपेत्य पाण्डवं निवेदयामास हतं जयद्रथम्॥ संजय उवाच ततो राजानमभ्येत्य धर्मपुत्रं युधिष्ठिरम्। ववन्दे स प्रहृष्टात्मा हते पार्थेन सैन्धवे॥ दिष्ट्या वर्धसि राजेन्द्र हतशत्रुर्नरोत्तमा दिष्ट्या निस्तीर्णवांश्चैव प्रतिज्ञामनुजस्तव॥ स त्वेवमुक्तः कृष्णेन हृष्टः परपुरंजयः। ततो युधिष्ठिरो राजा रथादाप्लुत्य भारत।॥ पर्यष्वजत् तदा कृष्णावानन्दाश्रुपरिप्लुतः। प्रमृज्य वदनं शुभ्रं पुण्डरीकसमप्रभम्॥ अब्रवीद् वासुदेवं च पाण्डवं च धनंजयम्। प्रियमेतदुपश्रुत्य त्वत्तः पुष्करलोचन॥ नान्तं गच्छामि हर्षस्य तितीर्घरुदधेरिवा अत्यद्भुतमिदं कृष्ण कृतं पार्थेन धीमता॥ दिष्ट्या पश्यामि संग्रामे तीर्णभारौ महारथौ। दिष्ट्या विनिहतः पाप: सैन्धवः पुरुषाधमः॥ कृष्ण दिष्ट्या मम प्रीतिमहती प्रतिपादिता। त्वया गुप्तेन गोविन्द जता पापं जयद्रथम्॥ किं तु नात्यद्भुतं तेषां येषां नस्त्वं समाश्रयः। न तेषां दुष्कृतं किंचित् त्रिषु लोकेषु विद्यते॥ स्थितः सर्वात्मना नित्यं प्रियेषु च हितेषु च। त्वां चैवास्माभिराश्रित्य कृतः शस्रसमुद्यमः॥ सर्वलोकगुरुर्येषां त्वं नाथो मधुसूदन। त्वत्प्रसादाद्वि गोविन्द वयं जेष्यामहे रिपून्।॥ सुरैरिवासुरवधे शक्रं शक्रानुजाहवे। असम्भाव्यमिदं कर्म देवैरपि जनार्दन।॥ अमानुषाणि दिव्यानि महान्ति च बहूनि च। तदैवाज्ञासिषं शत्रून् हतान् प्राप्तां च मेदिनीम्॥ त्वत्प्रसादसमुत्थेन विक्रमेणारिसूदन। त्वद्बुद्धिबलवीर्येण कृतवानेष फाल्गुनः। बाल्यात् प्रभृति ते कृष्ण कर्माणि श्रुतवानहम्॥ सुरेशत्वं गतः शक्रो हत्वा दैत्यान् सहस्रशः॥ त्वत्प्रसादाद्धषीकेश जगत् स्थावरजङ्गमम्। स्ववर्त्मनि स्थितं वीर जपहोमेषु वर्तते॥ एकार्णवमिदं पूर्वं सर्वमासीत् तमोमयम्। त्वत्प्रसादान्महाबाहो जगत् प्राप्तं नरोत्तम॥ स्रष्टारं सर्वलोकानां परमात्मानमव्ययम्। ये पश्यन्ति हृषीकेशं न ते मुह्यन्ति कर्हिचित्॥ पुराणं परमं देवं देवदेवं सनातनम्। ये प्रपन्ना: सुरगुरुं न ते मुह्यन्ति कर्हिचित्॥ अनादिनिधनं देवं लोककर्तारमव्ययम्। ये भक्तास्त्वां हृषीकेश दुर्गाण्यतितरन्ति ते॥ परं पुराणं पुरुषं पराणां परमं च यत्। प्रपद्यतस्तत् परमं परा भूतिर्विधीयते॥ गायन्ति चतुरो वेदा यश्च वेदेषु गीयते। तं प्रपद्य महात्मानं भूतिमश्नाम्यनुत्तमाम्॥ परमेश परेशेश तिर्यगीश नरेश्वर। सर्वेश्वरेश्वरेशेश नमस्ते पुरुषोत्तम॥ त्वमीशेशेश्वरेशान प्रभो वर्धस्व माधव। प्रभवाप्यय सर्वस्य सर्वात्मन् पृथुलोचन॥ धनंजयसखा यश्च धनंजयहितश्च यः। धनंजयस्य गोप्ता तं प्रपद्य सुखमेधते॥ मार्कण्डेयः पुराणर्षिश्चरितज्ञस्तवानघ। माहात्म्यमनुभावं च पुरा कीर्तितवान् मुनिः॥ असितो देवलश्चैव नारदश्च महातपाः। पितामहश्च मे व्यासस्त्वामाहुर्विधिमुत्तमम्॥ त्वं तेजस्त्वं परं ब्रह्म त्वं सत्यं त्वं महत् तपः। त्वं श्रेयस्त्वं यशश्चायं कारणं जगतस्तथा॥ त्वया सृष्टमिदं सर्वं जगत् स्थावरजङ्गमम्। प्रलये समनुप्राप्ते त्वां वै निविशते पुनः॥ अनादिनिधनं देवं विश्वस्येशं जगत्पते। धातारमजमव्यक्तमाहुर्वेदविदो जनाः॥ भूतात्मानं महात्मानमनन्तं विश्वतोमुखम्। अपि देवा न जानन्ति गुह्यमाद्यं जगत्पतिम्॥ नारायणं परं देवं परमात्मानमीश्वरम्। ज्ञानयोनि हरि विष्णुं मुमुक्षूणां परायणम्। परं पुराणं पुरुषं पुराणानां परं च यत्॥ एवमादिगुणानां ते कर्मणां दिवि चेह च। अतीतभूतभव्यानां संख्यातात्र न विद्यते॥ सर्वतो रक्षणीयाः स्म शक्रेणेव दिवौकसः। यैस्त्वं सर्वगुणोपेतः सुहन्न उपपादितः॥ इत्येवं धर्मराजेन हरिरुक्तो महायशाः। अनुरूपमिदं वाक्यं प्रत्युवाच जनार्दनः॥ भवता तपसोग्रेण धर्मेण परमेण च। साधुत्वादर्जवाच्चैव हतः पापो जयद्रथः॥ अयं च पुरुषव्याघ्र त्वदनुध्यानसंवृतः। हत्वा योधसहस्त्राणि न्यहन् जिष्णुर्जयद्रथम्॥ कृतित्वे बाहुवीर्य च तथैवासम्भ्रमेऽपि च। शीघ्रतामोधबुद्धित्वे नास्ति पार्थसमः क्वचित्॥ तदयं भरतश्रेष्ठ भ्राता तेऽद्य यदर्जुनः। सैन्यक्षयं रणे कृत्वा सिन्धुराजशिरोऽहरत्॥ ततो धर्मसुतो जिष्णुं परिष्वज्य विशाम्पते। प्रसृज्य वदनं तस्य पर्याश्वासयत प्रभुः॥ अतीव सुमहत् कर्म कृतवानसि फाल्गुन। असह्यं चाविषह्यं च देवैरपि सवासवैः॥ दिष्ट्या निस्तीर्णभारोऽसि हतारिश्चासि शत्रुहन्। दिष्ट्या सत्या प्रतिज्ञेयं कृता हत्वा जयद्रथम्॥ एवमुक्त्वा गुडाकेशं धर्मराजो महायशाः। पस्पर्श पुण्यगन्धेन पृष्ठे हस्तेन पार्थिवः॥ एवमुक्तौ महात्मानावुभौ केशवपाण्डवौ। तावबूतां तदा कृष्णौ राजानं पृथिवीपतिम्॥ तव कोपाग्निना दग्धः पापो राजा जयद्रथः। उत्तीर्णं चापि सुमहद् धार्तराष्ट्रबलं रणे॥ हन्यस्ते निहताश्चैव विनश्यन्ति च भारत। तव क्रोधहता ह्येते कौरवाः शत्रुसूदन॥ त्वां हि चक्षुर्हणं वीरं कोपयित्वा सुयोधनः। समित्रबन्धुः समरे प्राणांस्त्यक्ष्यति दुर्मतिः॥ तव क्रोधहतः पूर्वं देवैरपि सुदुर्जयः। शरतल्पगतः शेते भीष्मः कुरुपितामहः॥ दुर्लभो विजयस्तेषां संग्रामे रिपुसूदन। याता मृत्युवशं ते वै येषां क्रुद्धोऽसि पाण्डव॥ राज्यं प्राणाः श्रियः पुत्राः सौख्यानि विविधानि च। अचिरात् तस्य नश्यन्ति येषां क्रुद्धोऽसि मानद॥ विनष्टान् कौरवान् मन्ये सपुत्रपशुबान्धवान्। राजधर्मपरे नित्यं त्वयि क्रुद्धे परंतप॥ ततो भीमो महाबाहुः सात्यकिश्च महारथः। अभिवाद्य गुरुं ज्येष्ठं मार्गणैः क्षतविक्षतौ॥ क्षितावास्तां महेष्वासौ पाञ्चाल्यैः परिवारितौ। तौ दृष्ट्वा मुदितौ वीरौ प्राञ्जली चाग्रतः स्थितौ॥ अभ्यनन्दत कौन्तेयस्तावुभौ भीमसात्यकी। दिष्ट्या पश्यामि वां शूरौ विमुक्तौ सैन्यसागरात्॥ द्रोणग्राहदुराधर्षाद्धार्दिक्यमकरालयात्। दिष्ट्या विनिर्जिताः संख्ये पृथिव्यां सर्वपार्थिवाः॥५५ युवां विजयिनौ चापि दिष्ट्या पश्यामि संयुगे। दिष्ट्या द्रोणो जित: संख्ये हार्दिक्यश्च महाबलः॥५६ दिष्ट्या विकर्णिभिः कर्णो रणे नीतः पराभवम्। विमुखश्च कृतः शल्यो युवाभ्यां पुरुषर्षभौ॥ दिष्ट्या युवां कुशलिनौ संग्रामात् पुनरागतौ। पश्यामि रथिनां श्रेष्ठावुभौ युद्धविशारदौ॥ मम वाक्यकरौ वीरौ मम गौरवयन्त्रितौ। सैन्यार्णवं समुत्तीर्णौ दिष्ट्या पश्यामि वामहम्॥ समरश्लाघिनौ वीरौ समरेष्वपराजितौ। मम वाक्य समौ चैव दिष्ट्या पश्यामि वामहम्॥ इत्युक्त्वा पाण्डवो राजन् युयुधानवृकोदरौ। सखजे पुरुषव्याघ्रौ हर्षाद् वाष्पं मुमोच ह॥ ततः प्रमुदितं सर्वं बलमासीद् विशाम्पते। पाण्डवानां रणे हृष्टं युद्धाय तु मनो दधे॥ संजय उवाच सैन्धवे निहते राजन् पुत्रस्तव सुयोधनः। अश्रुपूर्णमुखो दीनो निरुत्साहो द्विषज्जये॥ दुर्मना निःश्वसन् दुष्टो भग्नदंष्ट्र इवोरगः। आगस्कृत् सर्वलोकस्य पुत्रस्तेऽऽर्तिं परामगात्॥ दृष्ट्वा तत्कदनं घोरं स्वबलस्य कृतं महत्। जिष्णुना भीमसेनेन सात्वतेन च संयुगे।॥ स विवर्णः कृशो दीनो वाष्पविप्लुतलोचनः। अमन्यतार्जुनसमो न योद्धा भुवि विद्यते॥ न द्रोणो न च राधेयो नाश्वत्थामा कृपो न च। क्रुद्धस्य समरे स्थातुं पर्याप्ता इति मारिष॥ निर्जित्य हि रणे पार्थः सर्वान् मम महारथान्। अवधीत् सैन्धवं संख्ये न च कश्चिदवारयत्॥ सर्वथा हतमेवेदं कौरवाणां महद् बलम्। न ह्यस्य विद्यते त्राता साक्षादपि पुरंदरः॥ यमुपाश्रित्य संग्रामे कृतः शस्त्रमुद्यमः। स को निर्जितः संख्ये हतश्चैव जयद्रथः॥ यस्य वीर्यं समाश्रित्य शमं याचन्तमच्युतम्। तृणवत् तमहं मन्ये स कर्णो निर्जितो युधि॥ एवं कान्तमना राजन्नुपायाद् द्रोणमीक्षितुम्। आगस्कृत् सर्वलोकस्य पुत्रस्ते भरतर्षभ॥ ततस्तत्सर्वमाचख्यौ कुरूणां वैशसं महत्। परान् विजयतश्चापि धार्तराष्ट्रानं निमजतः॥ पश्य मूर्धाभिषिक्तानामाचार्य कदनं महत्। कृत्वा प्रमुखतः शूरं भीष्मं मम पितामहम्॥ तं निहत्य प्रलुब्धोऽयं शिखण्डी पूर्णमानसः। पाञ्चाल्यैः सहितः सर्वैः सेनाग्रमभिवर्तते॥ अपरश्चापि दुर्धर्षः शिष्यस्ते सव्यसाचिना। अक्षौहिणी: सप्त हत्वा हतो राजा जयद्रथः॥ अस्मद्विजयकामानां सुहृदामुपकारिणाम्। ॥ गन्तास्मि कथमानृण्यं गतानां यमसादनम्॥ ये मदर्थं परीप्सन्ते वसुधां वसुधाधिपाः। ते हित्वा वसुधैश्वर्यं वसुधामधिशेरते॥ सोऽहं कापुरुषः कृत्वा मित्राणां क्षयमीदृशम्। अश्वमेधसहस्रेण पावितुं न समुत्सहे॥ मम लुब्धस्य पापस्य तथा धर्मापचायिनः। व्यायामेन जिगीषन्तः प्राप्ता वैवस्वतक्षयम्॥ कथं पतितवृत्तस्य पृथिवी सुहृदां दुहः। विवरं नाशकद् दातुं मम पार्थिवसंसदि।॥ योऽहं रुधिरसिक्ताङ्गं राज्ञां मध्ये पितामहम्। किं वक्ष्यत्ति हि दुर्धर्षः समेत्य परलोकजित्॥ जलसंधं महेष्वासं पश्य सात्यकिना हतम्। मदर्थमुद्यतं शूरं प्राणांस्त्यक्त्वा महारथम्॥ काम्बोज निहतं दृष्ट्वा तथालम्बुषमेव च। अन्यान् बहूंश्च सुहृदो जीवितार्थोऽद्य को मम॥ न्यायच्छन्तो हताः शूरो मदर्थे येऽपराङ्मुखाः। यतमानाः परं शक्त्या विजेतुमहितान् मम॥ तेषां गत्वाहमानृण्यमद्य शक्त्या परंतप। तर्पयिष्यामि तानेव जलेन यमुनामनु॥ सत्यं ते प्रतिजानामि सर्वशस्त्रभृतां वर। इष्टापूर्तेन च शपे वीर्येण च सुतैरपि॥ निहत्य तान् रणे सर्वान् पञ्चालान् पाण्डवैः सह। शान्ति लब्धास्मि तेषां वा रणे गन्ता सलोकताम्॥ सोऽहं तत्र गमिष्यामि यत्र ते पुरुषर्षभाः। हता मदर्थे संग्रामे युध्यमानाः किरीटिना॥ न हीदानीं सहाया मे परीप्सन्त्यनुपस्कृताः। श्रेयो हि पाण्डून् मन्यन्ते न तथास्मान् महाभुज॥ स्वयं हि मृत्युर्विहितः सत्यसंधेन संयुगे। भवानुपेक्षां कुरुते शिष्यत्वादर्जुनस्य हि॥ अतो विनिहताः सर्वे येऽस्मजयचिकीर्षवः। कर्णमेव तु पश्यामि सम्प्रत्यस्मजयैषिणम्॥ यो हि मित्रमविज्ञाय याथातथ्येन मन्दधीः। मित्रार्थे योजयत्येनं तस्य सोऽर्थोऽवसीदति॥ तादृग् रूपं कृतमिदं मम कार्यं सुहृत्तमैः। मोहाल्लब्धस्य पापस्य जिह्मस्य धनमीहतः॥ हतो जयद्रथश्चैव सौमदत्तिश्च वीर्यवान्। अभीषाहा शूरसेनाः शिबयोऽथ वसातयः॥ सोऽहमद्य गमिष्यामि यत्र ते पुरुषर्षभाः। हता मदर्थे संग्रामे युध्यमानाः किरीटिना॥ न हि मे जीवितेनार्थस्तानृते पुरुषर्षभान्। आचार्यः पाण्डुपुत्राणामनुजानातु नो भवान्॥ धृतराष्ट्र उवाच सिन्धुराजे हते तात समरे सव्यसाचिना। तथैव भूरिश्रवसि किमासीद् वो मनस्तदा॥ दुर्योधनेन च द्रोणस्तथोक्तः कुरुसंसदि। किमुक्तवान् परं तस्मै तन्ममाचक्ष्व संजय॥ संजय उवाच निष्टान को महानासीत् सैन्यानां तव भारत। सैन्धवं निहतं दृष्ट्वा भूरिश्रवसमेव च॥ मन्त्रितं तव पुत्रस्य ते सर्वमवमेनिरे। येन मन्त्रेण निहताः शतशः क्षत्रियर्षभाः॥ द्रोणस्तु तद् वचः श्रुत्वा पुत्रस्य तव दुर्मनाः। मुहूर्तमिव तद् ध्यात्वा भृशमार्तोऽभ्यभाषत॥ द्रोण उवाच दुर्योधन किमेवं मां वाक्शरैरपि कृन्तसि। अजय्यं सततं संख्ये ब्रुवाणं सव्यसाचिनम्॥ एतेनैवार्जुनं ज्ञातुमलं कौरव संयुगे। यच्छिखण्ड्यवधीद् भीष्मं पाल्यमानः किरीटिना॥ अवध्यं निहतं दृष्ट्वा संयुगे देवदानवैः। तदैवाज्ञासिषमहं नेयमस्तीति भारती॥ यं पुंसां त्रिषु लोकेषु सर्वशूरममंस्महि। तस्मिन् निपतिते शूरं किं शेषं पर्युपास्महे॥ यान् स्म तान् ग्लहते तात शकुनिः कुरुसंसदि। अक्षान् न तेऽरक्षा निशिता बाणास्ते शत्रुतापनाः॥ त एते मन्ति नस्तात विशिखा: पार्थचोदिताः। तांस्तदाऽऽख्यायमानस्त्वं विदुरेण च बुद्धवान्॥ यास्ता विजयतश्चापि विदुरस्य महात्मनः। धीरस्य वाचो नाश्रौषीः क्षेमाय वदतः शिवाः॥ तदिदं वर्तते घोरमागतं वैशसं महत्। तस्यावमानाद् वाक्यस्य दुर्योधन कृते तव॥ योऽवमन्य वचः पथ्यं सुहृदामाप्तकारिणाम्। स्वमतं कुरुते मूढः स शोच्यो नचिरादिव॥ यच नः प्रेक्षमाणानां कृष्णामानाय्य तत्सभाम्। अनर्हन्ती कुले जातां सर्वधर्मानुचारिणीम्॥ तस्याधर्मस्य गान्धारे फलं प्राप्तमिदं महत्। नो चेत् पापं परे लोके त्वमर्छथास्ततोऽधिकम्॥ यच्च तान् पाण्डवान् द्यूते विषमेण विजित्य ह। प्रावाजयस्तदारण्ये रौरवाजिनवाससः॥ पुत्राणामिव चैतेषां धर्ममाचरतां सदा। दुह्येत् को नु नरो लोके मदन्यो ब्राह्मणब्रुवः॥ पाण्डवानामयं कोपस्त्वया शकुनिना सह। आहृतो धृतराष्ट्रस्य सम्मते कुरुसंसदि॥ दुःशासनेन संयुक्तः कर्णेन परिवर्धितः। क्षत्तुर्वाक्यमनाहृत्य त्वयाभ्यस्तः पुनः पुनः॥ यत्ताः सव्रे पराभूताः पर्यवारयताऽर्जुनम्। सिन्धुराजानमाश्रित्य स वो मध्ये कथं हतः॥ कथं त्वयि च कर्णे च कृपे शल्ये च जीवति। अश्वत्थानि च कौरव्य निधनं सैन्धवोऽगमत्॥ युध्यन्तः सर्वराजानस्तेजस्तिग्ममुपासते। सिन्धुराजं परित्रातुं स वो मध्ये कथं हतः॥ मय्येव हि विशेषेण तथा दुर्योधन त्वयि। आशंसत परित्राणमर्जुनात् स महीपतिः॥ ततस्तस्मिन् परित्राणमलब्धवति फाल्गुनात्। न किंचिदनुपश्यामि जीवित स्थानमात्मनः॥ मजन्तमिव चात्मानं धृष्टद्युम्नस्य किल्बिषे। पश्याम्यहत्वा पञ्चालान् सह तेन शिखण्डिना॥ तन्मां किमभितप्यन्तं वाक्शरैरेव कृन्तसि। अशक्तः सिन्धुराजस्य भूत्वा त्राणाय भारत॥ सौवर्णं सत्यसंधस्य ध्वजमकिष्टकर्मणः। अपश्यन् युधि भीष्मस्य कथमाशंससे जयम्॥ मध्ये महारथानां च यत्राहन्यत सैन्धवः। हतो भूरिश्रवाश्चैव किं शेषं तत्र मन्यसे॥ कृप एव च दुर्धर्षा यदि जीवति पार्थिव। यो नागात् सिन्धुराजस्य वर्त्म तं पूजयाम्यहम्॥ यत्रापश्यं हतं भीष्मं पश्यतस्तेऽनुजस्य वै। दुःशासनस्य कौरव्य कुर्वाणं कर्म दुष्करम्॥ अवध्यकल्पं संग्रामे देवैरपि सवासवैः। न ते वसुन्धरास्तीति तदाहं चिन्तये नृप॥ इमानि पाण्डवानां च सृञ्जयानां च भारत। अनीकान्याद्रवन्ते मां सहितान्यद्य भारत॥ नाहत्वा सर्वपञ्चालान् कवचस्य विमोक्षणम्। कर्तास्मि समरे कर्म धार्तराष्ट्र हितं तव॥ राजन् ब्रूयाः सुतं मे त्वमश्वत्थामानमाहवे। न सोमकाः प्रमोक्तव्या जीवितं परिरक्षता॥ यच्च पित्रानुशिष्टोऽसि तद् वचः परिपालय। आनृशंस्ये दमे सत्ये चार्जवे च स्थिरो भव॥ धर्मार्थकामकुशलो धर्मार्थावप्यपीडयन्। धर्मप्रधानकार्याणि कुर्याश्चेति पुनः पुनः॥ चक्षुर्मनोभ्यां संतोष्या विप्राः पूज्याश्च शक्तितः। न चैषां विप्रियं कार्यं ते हि वह्निशिखोपमाः॥ एष त्वहमनीकानि प्रविशाम्यरिसूदन। रणाय महते राजंस्त्वया वाक्शरपीडितः॥ त्वं च दुर्योधन बलं यदि शक्तोऽसि पालय। रात्रावपि च योत्स्यन्ते संरब्धाः कुरुसृञ्जयाः॥ एवमुक्त्वा ततः प्रायाद् द्रोणः पाण्डवसृञ्जयान्। मुष्णन् क्षत्रियतेजांसि नक्षत्राणामिवांशुमान्॥ संजय उवाच ततो दुर्योधनो राजा द्रोणेनैवं प्रचोदितः। अमर्षवशमापन्नो युद्धायैव मनो दधे॥ अब्रवीच तदा कर्णं पुत्रो दुर्योधनस्तव। पश्य कृष्णसहायेन पाण्डवेन किरीटिना॥ आचार्यविहितं व्यूहं भित्त्वा देवैः सुदुर्भिदम्। तव व्यायच्छमानस्य द्रोणस्य च महात्मनः॥ मिषतां योधमुख्यानां सैन्धवो विनिपातितः। पश्य राधेय पृथ्वीशाः पृथिव्यां प्रवरा युधि॥ पार्थेनैकेन निहताः सिंहेनेवेतरे मृगाः। मम व्यायच्छमानस्य द्रोणस्य च महात्मनः॥ अल्पावशेषं सैन्यं मे कृतं शक्रात्मजनेन ह। कथं नियच्छमानस्य द्रोणस्य युधि फाल्गुनः॥ भिन्द्यात् सुदुर्भिदं व्यूहं यतमानोऽपि संयुगे। प्रतिज्ञाया गतः पारं हत्वा सैन्धवमर्जुनः॥ पश्य राधेय पृथ्वीशान् पृथिव्यां पातितान् बहून्। पार्थेन निहतान् संख्ये महेन्द्रोपमविक्रमान्॥ अनिच्छतः कथं वीर द्रोणस्य युधि पाण्डवः। भिन्द्यात् सुदुर्भिदं व्यूह यतमानस्य शुष्मिणः॥ दयित: फाल्गुनो नित्यमाचार्यस्य महात्मनः। ततोऽस्य दत्तवान् द्वारमयुद्धेनैव शत्रुहन्।॥ अभयं सिन्धुराजाय दत्त्वा द्रोणः परंतपः। प्रादात् किरीटिने द्वारं पश्य निर्गुणतां मयि॥ यद्यदास्यदनुज्ञां वै पूर्वमेव गृहान् प्रति। प्रस्थातुं सिन्धुराजस्य नाभविष्यज्जनक्षयः॥ अद्य मे भ्रातरः क्षीणाश्चित्रसेनादयो रणे। भीमसेनं समासाद्य पश्यतां नो दुरात्मनाम्॥ कर्ण उवाच आचार्य मा विगर्हस्व शक्तयासौ युध्यते द्विजः। यथाबलं यथोत्साहं त्यक्त्वा जीवितमात्मनः॥ यद्येनं समतिक्रम्य प्रविष्टः श्वेतवाहनः। नात्र सूक्ष्मोऽपि दोषः स्यादाचार्यस्य कथंचन॥ कृती दक्षो युवा शूरः कृतास्रो लघुविक्रमः। दिव्यास्रयुक्तमास्थाय रथं वानरलक्षणम्॥ कृष्णेन च गृहीताश्वमभेद्यकवचावृतः। गाण्डीवमजरं दिव्यं धनुरादाय वीर्यमान्॥ प्रवर्षन् निशितान् बाणान् बाहुद्रविणदर्पितः। यदर्जुनोऽभ्ययाद् द्रोणमुपपन्नं हि तस्य तत्॥ आचार्यः स्थविरो राजशीघ्रयाने तथाक्षमः। बाहुव्यायामचेष्टायामशक्तस्तु नराधिप।॥ तेनैवमभ्यतिक्रान्तः श्वेताश्वः कृष्णसारथिः। तस्य दोषं न पश्यामि द्रोणस्यानेन हेतुना॥ दैवमत्र परं स्मृतम्। अजय्यान् पाण्डवान् मन्ये द्रोणेनासविदा मृधे। तथा ह्येनमतिक्रम्य प्रविष्टः श्वेतवाहनः॥ दैवादिष्टेऽन्यथाभावो नमन्ये विद्यते क्वचित्। यतो नो युध्यमानानां परं शक्त्या सुयोधन॥ सैन्धवो निहतो युद्धे परं यत्नं कुर्वतां च त्वया सार्धं रणाजिरे॥ हत्वास्माकं पौरुषं वै दैवं पश्चात् करोति नः। सततं चेष्टमानानां निकृत्या विक्रमेण च॥ दैवोपसृष्टः पुरुषो यत् कर्म कुरुते वचित्। कृतं कृतं हि तत्कर्म दैवेन विनिपात्यते॥ यत् कर्तव्यं मनुष्येण व्यवसायवता सदा। तत् कार्यमविशङ्केन सिद्धिदैवे प्रतिष्ठिता॥ निकृत्या वञ्चिताः पार्था विषयोगैश्च भारत। दग्धा जतुगृहे चापि द्यूतेन च पराजिताः॥ निरर्थकम्। राजनीतिं व्यपाश्रित्य प्रहिताश्चैव काननम्। यत्नेन च कृतं तत्तद् दैवेन विनिपातितम्॥ युध्यस्व यत्नमास्थाय दैवं कृत्वा यततस्तव तेषां च दैवं मार्गेण यास्यति॥ न तेषां मतिपूर्वं हि सुकृतं दृश्यते क्वचित्। दुष्कृतं तव वा वीर बुद्ध्या हीनं कुरूद्वह॥ दैवं प्रमाणं सर्वस्य सुकृतस्येतरस्य वा। अनन्यकर्म दैवं हि जागर्ति स्वपतामपि॥ बहूनि तव सैन्यानि योधाश्च बहवस्तव। न तथा पाण्डुपुत्राणामेवं युद्धमवर्तत॥ तैरल्पैर्बहवो यूयं क्षयं नीताः प्रहारिणः। शङ्के दैवस्य तत् कर्म पौरुषं येन नाशितम्॥ संजय उवाच एवं सम्भाषमाणानां बहु तत् तज्जनाधिप। पाण्डवानामनीकानि समदृश्यन्त संयुगे॥ । ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम्। तावकानां परैः सार्धं राजन् दुर्मन्त्रिते तव॥ संजय उवाच तदुदीर्णं गजानीकं बलं तव जनाधिप। पाण्डुसेनामतिक्रम्य योधयामास सर्वतः॥ पञ्चालाः कुरवश्चैव योधयन्तः परस्परम्। यमराष्ट्राय महते परलोकाय दीक्षिताः॥ शूराः शूरैः समागम्य शरतोमरशक्तिभिः। विव्यधुः समरेऽन्योन्यं निन्युश्चैव यमक्षयम्॥ रथिनां रथिभिः सार्धं रुधिरस्त्रावदारुणम्। प्रावर्तत महद् युद्धं निघ्नताभितरेतरम्॥ वारणाश्च महाराज समासाद्य परस्परम्। विषाणैर्दारयामासुः सुसंक्रुद्धा मदोत्कटाः॥ हयारोहान् हयारोहा: प्रासशक्तिपरश्वधैः। बिभिदुस्तुमुले युद्धे पार्थयन्तो महद् यशः॥ पत्तयश्च महाबाहो शतशः शस्त्रपाणयः। अन्योन्यमार्दयन् राजन् नित्यंयत्ताः पराक्रमे॥ गोत्राणां नामधेयानां कुलानां चैव मारिष। श्रवणाद्धि विजानीमः पञ्चालान् कुरुभिः सह॥ तेऽन्योन्यं समरे योधाः शरशक्तिपरश्वधैः। प्रेषयन् परलोकाय विचरन्तो ह्यभीतवत्॥ शरा दश दिशो राजंस्तेषां मुक्ताः सहस्रशः। न भ्राजन्ते यथातत्त्वं भास्करेऽस्तंगतेऽपि च॥ तथा प्रयुध्यमानेषु पाण्डवेयेषु भारत। दुर्योधनो महाराज व्यवागाहत तद् बलम्॥ सैन्धवस्य वधेनैव भृशं दुःखसमन्वितः। मर्तव्यमिति संचिन्त्य प्राविशच द्विपद्वलम्॥ नादयन् रथघोषेण कम्पयन्निव मेदिनीम्। अभ्यवर्तत पुत्रस्ते पाण्डवानामनीकिनीम्॥ स संनिपातस्तुमुलस्तस्य तेषां च भारत। अभवत् सर्वसैन्यानामभावकरणो महान्॥ यथा मध्यंदिने सूर्यं प्रतपन्तं गभस्तिभिः। तथा तव सुतं मध्ये प्रतपन्तं शराचिभिः॥ न शेकुर्धातरं युद्धे पाण्डवाः समुदीक्षितुम्। पलायनकृतोत्साहा निरुत्साहा द्विषज्जये॥ पर्यधावन्त पञ्चाला वध्यमाना महात्मना। रुक्मपुखैः प्रसन्नाग्रैस्तव पुत्रेण धन्विना॥ अर्घमानाः शरैस्तूर्णं न्यपतन् पाण्डुसैनिकाः। न तादृशं रणे कर्म कृतवन्तस्तु तावकाः॥ यादृशं कृतवान् राजा पुत्रस्तव विशाम्पते। पुत्रेण तव सा सेना पाण्डवी मथिता रणे॥ नलिनी द्विरदेनेव समन्तात् फुल्लपङ्कजा। क्षीणतोयानिलार्काभ्यां हतत्विडिव पद्मिनी॥ बभूव पाण्डवी सेना तव पुत्रस्य तेजसा। पाण्डुसेनां हतां दृष्ट्वा तव पुत्रेण भारत॥ भीमसेनपुरोगास्तु पञ्चालाः समुपाद्रवन्। स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभिस्त्रिभिः॥ विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम्। धृष्टद्युम्नं च सप्तत्या धर्मपुत्रं च सप्तभिः॥ केकयांश्चैव चेदींश्च बहुभिर्निशितैः शरैः। सात्वतं पञ्चभिर्विद्धवा द्रौपदेयांसिभिस्रिभिः॥ घटोत्कचं च समरे विद्ध्वा सिंह इवानदत्। शतशश्चापरान् योधान् सद्विपांश्च महारणे॥ शरैरवचकर्ताग्रैः क्रुद्धोऽन्तक इव प्रजाः। सा तेन पाण्डवी सेना वध्यमाना शिलीमुखैः॥ तव पुत्रेण संग्रामे विदुद्राव नराधिप। तं तपन्तमिवादित्यं कुरुराज महाहवे॥ नाशकन् वीक्षितुं राजन् पाण्डुपुत्रस्य सैनिकाः। ततो युधिष्ठिरो राजा कुपितो राजसत्तम॥ अभ्यधावत् कुरुपति तव पुत्रं जिघांसया। तावुभौ युधि कौरव्यो समीयतुररिंदमौ॥ स्वार्थहेतोः पराक्रान्तौ दुर्योधनयुधिष्ठिरौ। ततो दुर्योधनः क्रुद्धः शरैः संनतपर्वभिः॥ विव्याध दशभिस्तूर्णं ध्वजं चिच्छेद चेषुणा। इन्द्रसेनं त्रिभिश्चैव ललाटे जनिवान् नृप॥ सारथिं दयितं राज्ञः पाण्डवस्य महात्मनः। धनुश्च पुनरन्येन चकर्तास्य महारथः॥ चतुर्भिश्चतुरश्चैव बाणैर्विव्याध वाजिनः। ततो युधिष्ठिरः क्रुद्धो निमेषादिव कार्मुकम्॥ अन्यदादाय वेगेन कौरवं प्रत्यवारयत्। तस्य तान् निघ्नतः शत्रून् रुक्मपृष्ठं महद् धनुः॥ भल्लाभ्यां पाण्डवो ज्येष्ठसिधा चिच्छेद मारिष। विव्याध चैनं दशभिः सम्यगस्तैः शितैः शरैः॥ मर्म भित्त्वा तु ते सर्वे संलग्नाः क्षितिमाविशन्। ततः परिवृता योधाः परिवQर्युधिष्ठिरम्॥ वृत्रहत्यै यथा देवाः परिव्रवुः पुरंदरम्। ततो युधिष्ठिरो राजा तव पुत्रस्य मारिष। शरं च सूर्यरश्म्याभमत्युग्रमनिवारणम्॥ हा हतोऽसीति राजानमुक्त्वामुञ्चद् युधिष्ठिरः। स तेनाकर्णमुक्तेन विद्धो बाणेन कौरवः॥ निषसाद रथोपस्थे भृशं सम्मूढचेतनः। ततः पाञ्चाल्यसेनानां भृशमासीद् रवो महान्॥ हतो राजेति राजेन्द्र मुदितानां समन्ततः। बाणशब्दरवश्चोग्रः शुश्रुवे तत्र मारिष॥ अथ द्रोणो द्रुतं तत्र प्रत्यदृश्यत संयुगे। हृष्टो दुर्योधनश्चापि दृढमादाय कार्मुकम्॥ तिष्ठा तिष्ठेति राजानं ब्रुवन् पाण्डवमभ्ययात्। प्रत्युद्ययुस्तं त्वरिताः पञ्चाला जयगृद्धिनः॥ तान् द्रोणः प्रतिजग्राह परीप्सन् कुरुसत्तमम्। चण्डवातोद्भुतान् मेघान् निघ्नन् रश्मिमुचो यथा॥ ततो राजन् महानासीत् संग्रामो भूरिवर्धनः। तावकानां परेषां च समेतानां युयुत्सया॥ धृतराष्ट्र उवाच यत् तदा प्राविशत् पाण्डूनाचार्यः कुपितो बली। उक्त्वा दुर्योधनं मन्दं मम शास्त्रातिगं सुतम्॥ प्रविश्य विचरन्तं च रथे शूरमवस्थितम्। कथं द्रोणं महेष्वासं पाण्डवाः पर्यवारयन्।॥ केऽरक्षन् दक्षिणं चक्रमाचार्यस्य महाहवे। के चोत्तरमरक्षन्त निघ्नत: शात्रवान् बहून्॥ के चास्य पृष्ठतोऽन्वासन् वीरा वीरस्य योधिनः। के पुरस्तादवर्तन्त रथिनस्तस्य शत्रवः॥ मन्ये तानस्पृशच्छीतमतिवेलमनार्तवम्। मन्ये ते समवेपन्त गावो वै शिशिरे यथा॥ यत्प्राविशन्महेष्वासः पञ्चालानपराजितः। नृत्यन् स रथमार्गेषु सर्वशस्रभृतां वरः॥ निर्दहन् सर्वसैन्यानि पञ्चालानां रथर्षभः। धूमकेतुरिव क्रुद्धः कथं मृत्युमुपेयिवान्॥ संजय उवाच सायाह्ने सैन्धवं हत्वा राज्ञा पार्थः समेत्य च। सात्यक्श्चि महेष्वासो द्रोणमेवाभ्यधावताम्॥ तथा युधिष्ठिरस्तूर्णं भीमसेनश्च पाण्डवः। पृथक्कमूभ्यां संयत्तौ द्रोणमेवाभ्यधावताम्॥ तथैव नकुलो धीमान् सहदेवश्च दुर्जयः। धृष्टद्युम्नः सहानीको विराटश्च सकेकयः॥ मत्स्याः शाल्वाः ससेनाश्च द्रोणमेव ययुयुधि। दुपदश्च तथा राजा पञ्चालैरभिरक्षितः॥ धृष्टद्युम्नपिता राजन् द्रोणमेवाभ्यवर्तत। द्रौपदेया महेष्वासा राक्षसश्च घटोत्कचः॥ ससैन्यास्ते न्यवर्तन्त द्रोणमेव महाद्युतिम्। प्रभद्रकाश्च पञ्चालाः षट्रसहस्राः प्रहारिणः॥ द्रोणमेवाभ्यवर्तन्त पुरस्कृत्य शिखण्डिनम्। तथेतरे नरव्याघ्राः पाण्डवानां महारथाः॥ सहिताः सन्यवर्तन्त द्रोणमेव द्विजर्षभम्। तेषु शुरेषु युद्धाय गतेषु भरतर्षभ॥ बभूव रजनी घोरा भीरूणां भयवर्धिनी। योधानामशिवा रौद्रा राजन्नन्तकगामिनी॥ कुञ्जराश्वमनुष्याणां प्राणान्तकरणी तदा। तस्यां रजन्यां घोरायां नदन्त्यः सर्वतः शिवाः॥ न्यवेदयन् भयं घोरं सज्वालकवलैर्मुखैः। उलूकाश्चाप्यदृश्यन्त शंसन्तो विपुलं भयम्॥ विशेषतः कौरवाणां ध्वजिन्यामतिदारुणाः। ततः सैन्येषु राजेन्द्र शब्दः समभवन्महान्॥ भेरीशब्देन महता मृदङ्गानां स्वनेन च। गजानां हितैश्चापि तुरङ्गाणां च हृषितैः॥ खुरशब्दनिपातैश्च तुमुल: सर्वतोऽभवत्। ततः समभवद् युद्धं संध्यायामतिदारुणम्॥ द्रोणस्य च महाराज संजयानां च सर्वशः। तमसा चावृते लोके न प्राज्ञायत किंचन॥ सैन्येन रजसा चैव समन्तादुत्थितेन ह। नरस्याश्वस्य नागस्य समसजत शोणितम्॥ नापश्यम रजो भौमं कश्मलेनाभिसंवृताः। रात्रौ वंशवनस्येव दह्यमानस्य पर्वते॥ बभूव रजनीमुखे। घोरचटचटाशब्दः शस्राणां पततामभूत्। मृदङ्गानकनि दैर्झर्झरैः पटहैस्तथा॥ फेत्कारैर्हेषितैः शब्दैः सर्वमेवाकुलं बभौ। नैव स्वे न परे राजन् प्राज्ञायन्त तमोवृते॥ उन्मत्तमिव तत् सर्वं भौमं रजोऽथ राजेन्द्र शोणितेन प्रणाशितम्॥ शातकौम्भैश्च कवचैर्भूषणैश्च तमोऽभ्यगात्। ततः सा भारती सेना मणिहेमविभूषिता॥ द्यौरिवासीत् सनक्षत्रा रजन्यां भरतर्षभ। गोमायुबलसंघुष्टा शक्तिध्वजसमाकुला॥ वारणाभिरुता घोरा क्षवेडितोत्क्रुष्टनादिता। तत्राभवन्महाशब्दस्तुमुलो लोमहर्षणः॥ समावृण्वन् दिश: सर्वा महेन्द्राशनिनिःस्वनः। सा निशीथे महाराज सेनादृश्यत भारती॥ अङ्गदैः कुण्डलैर्निष्कैः शस्त्रैश्चैवावभासिता। तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः॥ निशायां प्रत्यदृश्यन्त मेघा इव सविद्युतः। ऋषिशक्तिगदाबाणमुसलप्रासपट्टिशाः॥ सम्पतन्तो व्यदृश्यन्त भ्राजमाना इवाग्नयः। दुर्योधनपुरोवातां रथनागबलाहकाम्॥ वादित्रघोषस्तनितां चापविद्युद्ज्ञैर्वृताम्। द्रोणपाण्डवपर्जन्या खड्गशक्तिगदाशनिम्॥ शरधारास्रपवनां भृशं शीतोष्णसंकुलाम्। घोरां विस्मापनीयमुग्रां जीवितच्छिदमप्लवाम्॥ तां प्राविशन्नतिभयां सेनां युद्धचिकीर्षवः। तस्मिन् रात्रिमुखे घोरे महाशब्दनिनादिते॥ भीरूणां त्रासजनने शूराणां हर्षवर्धने। रात्रियुद्धे महाघोरे वर्तमाने सुदारुणे॥ द्रोणमभ्यद्रवन् क्रुद्धाः सहिताः पाण्डुसृञ्जयाः। ये ये प्रमुखतो राजन्नावर्तन्त महारथाः॥ तान् सर्वान् विमुखांश्चके कांश्चिन्निन्ये यमक्षयम्। तानि नागसहस्राणि रथानामयुतानि च।॥ पदातिहयसंघानां प्रयुतान्यर्बुदानि च। द्रोणेनैकेन नाराचैर्निर्भिन्नानि निशामुखे॥ धृतराष्ट्र उवाच तस्मिन् प्रविष्टे दुधेर्षे सृञ्जयानमितौजसि। अमृध्यमाणे संरब्धे का वोऽभूद् वै मतिस्तदा॥ दुर्योधनं तथा पुत्रमुक्त्वा शास्त्रातिगं मम। यत् प्राविशदमेयात्मा किं पार्थः प्रत्यपद्यत॥ निहते सैन्धवे वीरे भूरिश्रवसि चैव ह। : यदाभ्यगान्महातेजाः पञ्चालानपराजित॥ किममन्यत दुधेचे प्रविष्टे शत्रुतापने। दुर्योधनस्तु किं कृत्यं प्राप्तकालममन्यत॥ के च तं वरदं वीरमन्वयुर्द्विजसत्तमम्। के चास्य पृष्ठतोऽगच्छन् वीराः शूरस्य युध्यतः॥ के पुरस्तादवर्तन्त निघ्नतः शात्रवान् रणे। मन्येऽहं पाण्डवान् सर्वान् भारद्वाजशरार्दितान्॥ शिशिरे कम्पमाना वै कृशा गाव इव प्रभो। प्रविश्य स महेष्वासः पञ्चालानरिमर्दनः। कथं नु पुरुषव्याघ्रः पञ्चत्वमुपजग्मिवान्॥ सर्वेणु योधेषु च संगतेषु रात्रौ समेतेषु महारथेषु। संलोड्यमानेषु पृथग्बलेषु के वस्तदानीं मतिमन्त आसन्॥ हतांश्चैव विषक्तांश्च पराभूतांश्च शंससि। रथिनो विरथांश्चैव कृतान् युद्धेषु मामकान्॥ तेषां संलोड्यमानानां पाण्डवैर्हतचेतसाम्। अन्धे तमसि मग्नानामभवत् का पतिस्तदा॥ प्रहृष्टांश्चाप्युदग्रांश्च संतुष्टांश्चैव पाण्डवान्। शंससीहाप्रहृष्टांश्च विभ्रष्टांश्चैव मामकान्॥ कथमेषां तदा तत्र पार्थानामपलायिनाम्। प्रकाशमभवद् रात्रौ कथं कुरुषु संजय॥ संजय उवाच रात्रियुद्धे तदा राजन् वर्तमाने सुदारुणे। द्रोणमभ्यद्रवन् सर्वे पाण्डवाः सह सोमकैः ॥ ततो द्रोण: केकयांश्च धृष्टद्युम्नस्य चात्मजान्। सम्प्रेषयत् प्रेतलोकं सर्वानिषुभिराशुगैः॥ तस्य प्रमुखतो राजन् येऽवर्तन्त महारथाः। तान् सर्वान् प्रेषयामास पितृलोकं स भारत॥ प्रमनन्तं तदा वीरान् भारद्वाजं महारथम्। अभ्यवर्तत संक्रुद्धः शिबी राजा प्रतापवान्॥ तमापतन्तं सम्प्रेक्ष्य पाण्डवानां महारथम्। विव्याध दशभिर्बाणैः सर्वपारशवैः शितैः॥ तं शिविः प्रतिविव्याध त्रिंशता निशितैः शरैः। सारथिं चास्य भल्लेन स्मयमानो न्यपातयत्॥ तस्य द्रोणो हयान् हत्वा सारथिं च महात्मनः। अथास्य सशिरस्त्राणं शिरः कायादपाहरत्॥ ततोऽस्य सारथिं क्षिप्रमन्यं दुर्योधनोऽदिशत्। स तेन संगृहीताश्वः पुनरभ्यद्रवद् रिपून्॥ कलिङ्गानामनीकेन कालिङ्गस्य सुतो रणे। पूर्वं पितृवघात् क्रुद्धो भीमसेनमुपाद्रवत्॥ स भीमं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः। विशोकं त्रिभिरानछेद् ध्वजमेकेन पत्रिणा॥ कलिङ्गानां तु तं शूरं क्रुद्धं क्रुद्धो वृकोदरः। रथाद् रथमभिद्रुत्य मुष्टिनाभिजघान ह॥ तस्य मुष्टिहतस्याजौ पाण्डवेन बलीयसा। सर्वाण्यस्थीनि सहसा प्रापतन् वै पृथक् पृथक्॥ तं कर्णो भ्रातरश्चास्य नामृष्यन्त परंतप। ते भीमसेनं नाराचैर्जघ्नुराशीविषोपमैः॥ ततः शत्रुरथं त्यक्त्वा भीमो ध्रुवरथं गतः। ध्रुवं चास्यन्तमनिशं मुष्टिना समपोथयत्॥ स तथा पाण्डुपुत्रेण बलिनाभिहतोऽपतत्। तं निहत्य महाराज भीमसेनो महाबलः॥ जयरातरथं प्राप्य मुहुः सिंह इवानदत्। जयरातमथाक्षिप्य नदन् सव्येन पाणिना॥ तलेन नाशयामास कर्णस्यैवाग्रतः स्थितः। कर्णस्तु पाण्डवे शक्तिं काञ्चनीं समवासृजत्॥ यतस्तामेव जग्राह प्रहसन् पाण्डुनन्दनः। कर्णायैव च दुर्धर्षश्चिक्षेपाजौ वृकोदरः॥ तामापतन्ती चिच्छेद शकुनिस्तैलपायिना। एतत् कृत्वा महत् कर्म रणेऽद्भुपराक्रमः॥ पुनः स्वरथमास्थाय दुद्राव तव वाहिनीम्। तमायान्तं जिघांसन्तं भीमं क्रुद्धमिवान्तकम्॥ न्यवारयन् महाबाहुं तव पुत्रा विशाम्पते। महता शरवर्षेण च्छादयन्तो महारथाः॥ दुर्मदस्य ततो भीमः प्रहसन्निव संयुगे। सारथिं च हयांश्चैव शर्निन्ये यमक्षयम्॥ दुर्मदस्तु ततो यानं दुष्कर्णस्यावचक्रमे। तावेकरथमारूढौ भ्रातरौ परतापनौ॥ संग्रामशिरसो मध्ये भीमं द्वावप्यधावताम्। यथाम्बुपतिमित्रौ हि तारकं दैत्यसत्तमम्॥ ततस्तु दुर्मदश्चैव दुष्कर्णश्च तवात्मजौ। रथमेकं समारुह्य भीमं बाणैरविध्यताम्॥ ततः कर्णस्य मिषतो द्रौणे दुर्योधनस्य च। कृपस्य सोमदत्तस्य बाहीकस्य च पाण्डवः॥ दुर्मदस्य च वीरस्य दुष्कर्णस्य च तं रथम्। पादप्रहारेण धरां प्रावेशयदरिंदमः॥ ततः सुतौ ते बलिनौ शूरौ दुष्कर्णदुर्मदौ। मुष्टिनाऽऽहत्य संक्रुद्धो ममर्द च ननर्द च॥ ततो हाहाकृते सैन्ये दृष्ट्वा भीमं नृपाऽब्रुवन्। रुद्रोऽयं भीमरूपेण धार्तराष्ट्रेषु युध्यति॥ एवमुक्त्वा पलायन्ते सर्वे भारत पार्थिवाः। विसंज्ञा वाहयन् वाहान् न च द्वौ सह धावतः॥ ततो बले भृशलुलिते निशामुखे। सुपूजितो नृपवृषभैर्वृकोदरः। महाबल: कमलविबुद्धलोचनो युधिष्ठिरं नृपतिमपूजयद् बली॥ ततो यमौ दुपदविराटकेकया युधिष्ठिरश्चापि परां मुदं ययुः। वृकोदरं भृशमनुपूजयंश्च ते यथान्धके प्रतिनिहते हरं सुराः॥ ततः सुतास्ते वरुणात्मजोपमा रुषान्विताः सह गुरुणा महात्मना। वृकोदरं सरथपदातिकुञ्जरा युयुत्सवो भृशमभिपर्यवारयन्॥ ततोऽभवत् तिमिरघनैरिवावृते महाभये भयदमतीव दारुणम्। निशामुखे वृकबलगृध्रमोदनं महात्मनां नृपवर युद्धमद्भुतम्॥ संजय उवाच प्रायोपविष्टे तु हते पुत्र सात्यकिना तदा। सोमदत्तो भृशं क्रुद्धः सात्यकिं वाक्यमब्रवीत्॥ तं त्वं सात्वत संत्यज्य दस्युधर्मे कथं रतः॥ पराङ्मुखाय दीनाय न्यस्तशस्त्राय सात्यके। क्षत्रधर्मरतः प्राज्ञः कथं नु प्रहरेद् रणे॥ द्वावेव किल वृष्णीनां तत्र ख्यातौ महारथौ। प्रद्युम्नश्च महाबाहुस्त्वं चैव युधि सात्वत॥ कथं प्रायोपविष्टाय पार्थेन छिन्नबाहवे। नृशंसं पतनीयं च तादृशं कृतवानसि॥ कर्मणस्तस्य दुर्वृत्त फलं प्राप्नुहि संयुगे। अद्य च्छेत्स्यामि ते मूढ शिरो विक्रम्य पत्रिणा॥ शपे सात्वत पुत्राभ्यामिष्टेन सुकृतेन च। अनतीतामिमां रात्रिं यदि त्वां वीरमानिनम्॥ अरक्ष्यमाणं पार्थन जिष्णुना ससुतानुजम्। न हन्यां नरके घोरे पतेयं वृष्णिपांसन॥ एवमुक्त्वा सुसंक्रुद्धः सोमदत्तो महाबलः दध्मौ शङ्ख च तारेण सिंहनादं ननाद च॥ ततः कमलपत्राक्षः सिंहदंष्ट्रो दुरासदः। सात्यकि शसंक्रुद्धः सोमदत्तमथाब्रवीत्॥ कौरवेय न मे त्रासः कथंचिदपि विद्यते। त्वया सार्धमथान्यैश्च युध्यतो हृदि कश्चन॥ यदि सर्वेण सैन्येन गुप्तो मां योधयिष्यसि। तथापि न व्यथा काचित् त्वयि स्यान्मम कौरव॥ युद्धसारेण वाक्येन असतां सम्मतेन च। नाहं भीषयितुं शक्यः क्षत्रवृत्ते स्थितस्त्वया॥ यदि तेऽस्ति युयुत्साद्य मया सह नराधिप। निर्दयो निशितैर्बाणैः प्रहर प्रहरामि ते॥ हतो भूरिश्रवा वीरस्तव पुत्रो महारथः। शलश्चैव महाराज भ्रातृव्यसनकर्षितः॥ त्वां चाप्यद्य वधिष्यामि सह पुत्रं सबान्धवम्। तिष्ठेदानीं रणे यत्तः कौरवोऽसि महारथः॥ यस्मिन् दानं दमः शौचमहिंसा ही तिः क्षमा। अनपायानि सर्वाणि नित्यं राज्ञि युधिष्ठिरे॥ मृदङ्गकेतोस्तस्य त्वं तेजसा निहतः पुरा। सकर्णसौबलः संख्ये विनाशमुपयास्यसि॥ शपेऽहं कृष्णचरणैरिष्टापूर्तेन चैव ह। यदि त्वां ससतुं पापं न हन्यां युधि रोषितः॥ अपयास्यसि चेत्युक्त्वा रणं मुक्तो भविष्यसि। एवमाभाष्य चान्योन्यं क्रोधसंरक्तलोचनौ।॥ प्रवृत्तौ शरसम्पातं कर्तुं पुरुषसत्तमौ। ततो रथसहस्रेण नागानामयुतेन च।॥ दुर्योधनः सोमदत्तः परिवार्य समन्ततः। शकुनिश्च सुसंक्रुद्धः सर्वशस्त्रभृतां वरः॥ पुत्रपौत्रैः परिवृतो भ्रातृभिश्चन्द्रविक्रमैः। स्यालस्तव महाबाहुर्वज्रसंहननो युवा॥ साग्रं शतसहस्रं तु हयानां तस्य धीमतः। सोमदत्तं महेष्वासं समन्तात् पर्यरक्षत॥ रक्ष्यमाणश्च बलिभिश्छादयामास सात्यकिम्। तं छाद्यमानं विशिखैर्दृष्ट्वा संनतपर्वभिः॥ धृष्टद्युम्नोऽभ्ययात् क्रुद्धः प्रगृह्य महतीं चमूम्। चण्डवाताभिसृष्टानामुदधीनामिव स्वनः॥ आसीद् राजन् वलौघानामन्योन्यमभिनिघ्नताम्। विव्याध सोमदत्तस्तु सात्वतं नवभिः शरैः॥ सात्यकिर्नवभिश्चैनमवधीत् कुरुपुङ्गवम्। सोऽतिविद्धो बलवता समरे दृढधन्विना॥ रथोपस्थं समासाद्य मुमोह गतचेतनः। तं विमूढं समालक्ष्य सारथिस्त्वरया युतः।॥ अपोवाह रणाद् वीरं सोमदत्तं महारथम्। तं विसंज्ञं समालक्ष्य युयुधानशरार्दितम्॥ अभ्यद्रवत् ततो द्रोणो यदुवीरजिघांसया। तमायान्तमभिप्रेक्ष्य युधिष्ठिरपुरोगमाः॥ परिवQर्महात्मानं परीप्सन्तो यदूत्तमम्। ततः प्रववृते युद्धं द्रोणस्य सह पाण्डवैः॥ बलेरिव सुरैः पूर्वं त्रैलोक्यजयकाङ्क्षया। ततः सायकजालेन पाण्डवानीकमावृणोत्॥ भारद्वाजो महातेजा विव्याध च युधिष्ठिरम्। सात्यकिं दशभिर्बाणैविंशत्या पार्षतं शरैः॥ भीमसेनं च नवभिर्नकुलं पञ्चभिस्तथा। सहदेवं तथाष्टाभिः शतेन च शिखण्डिनम्॥ द्रौपदेयान् महाबाहुः पञ्चभिः पञ्चभिः शरैः। विराटं मत्स्यमष्टाभिर्दुपदं दशभिः शरैः॥ युधामन्यु त्रिभिः षडभिरुत्तमौजसमाहवे। अन्यांश्च सैनिकान् विद्ध्वा युधिष्ठिरमुपाद्रवत्॥ ते वध्यमाना द्रोणेन पाण्डुपुत्रस्य सैनिकाः। प्राद्रवन् वै भयाद् राजन् सार्तनादा दिशो दश॥ काल्यमानं तु तत् सैन्यं दृष्ट्वा फाल्गुनः। किंचिदागतसंरम्भो गुरुं पार्थोऽभ्ययाद् द्रुतम्॥ दृष्ट्वा द्रोणं तु बीभत्सुमभिधावन्तमाहवे। संन्यवर्तत तत् सैन्यं पुनौधिष्ठिरं बलम्॥ ततो युद्धमभूद् भूयो भारद्वाजस्य पाण्डवैः। द्रोणस्तव सुतै राजन् सर्वतः परिवारितः॥ व्यधमत् पाण्डुसैन्यानि तूलराशिमिवानलः। तं ज्वलन्तमिवादित्यं दीप्तानलसमद्युतिम्॥ राजन्ननिशमत्यन्तं दृष्ट्वा द्रोणं शरार्चिषम्। मण्डलीकृतधन्वानं तपन्तमिव भास्करम्॥ दहन्तमहितान् सैन्ये नैनं कश्चिदवारयत्। यो यो हि प्रमुखे तस्य तस्थौ द्रोणस्य पुरुषः॥ तस्य तस्य शिरश्छित्त्वा ययुोणशराः क्षितिम्। एवं सा पाण्डवी सेना वध्यमाना महात्मना॥ प्रदुद्राव पुनर्भीता पश्यतः सव्यसाचिनः। सम्प्रभग्नं बलं दृष्ट्वा द्रोणेन निशि भारत॥ गोविन्दमब्रवीज्जिष्णुर्गच्छ द्रोणरथं प्रति। ततो रजतगोक्षीरकुन्देन्दुसदृशप्रभान्॥ चोदयामास दाशार्हो हयान् द्रोणरथं प्रति। भीमसेनोऽपि तं दृष्ट्वा यान्तं द्रोणस्य फाल्गुनम्॥ स्वसारथिमुवाचेदं द्रोणानीकाय मा वह। सोऽपि तस्य वचः श्रुत्वा विशोकोऽवाहयद्धयान्॥ ४९ पृष्ठतः सत्यसंधस्य जिष्णोर्भरतसत्तम। तौ दृष्ट्वा भ्रातरौ यत्तौ द्रोणानीकमभिद्रुतौ॥ पञ्चाला: सृञ्जया मत्स्याश्चेदिकारुषकोसलाः। अन्वगच्छन् महाराज केकयाश्च महारथाः॥ ततो राजन्नभूद् घोरः संग्रामो लोमहर्षणः। बीभत्सुर्दक्षिणं पार्श्वमुत्तरं च वृकोदरः॥ महद्भ्यां रथवृन्दाभ्यां बल जगृहतुस्तव। तौ दृष्ट्वा पुरुषव्याघ्रौ भीमसेनधनंजयौ॥ धृष्टद्युम्नोऽभ्ययाद् राजन् सात्यकिश्च महाबलः। चण्डवाताभिपन्नानामुदधीनामिव स्वनः॥ आसीद् राजन् बलौघानां तदान्योन्यमभिघ्नताम्। सौमदत्तिवधात् क्रुद्धो दृष्ट्वा सात्यकिमाहवे॥ द्रौणिरभ्यद्रवद् राजन वधाय कृतनिश्चयः। तमापतन्तं सम्प्रेक्ष्य शैनेयस्य रथं प्रति॥ भैमसेनिः सुसंक्रुद्धः प्रत्यमित्रमवारयत्। कार्णायसं महाघोरमृक्षचर्मपरिच्छदम्॥ महान्तं रथमास्थाय त्रिंशन्नल्वान्तरान्तरम्। विक्षिप्तयन्त्रसंनाहं महामेघौघनिःस्वनम्॥ युक्तं गजनिभैहिर्न हयैर्नापि वारणैः। विक्षिप्तपक्षचरणविवृताक्षेण कूजता॥ ध्वजेनोच्छ्रितदण्डेन गृध्रराजेन राजितम्। लोहितापताकं त अन्त्रमालाविभूषितम्॥ अष्टचक्रसमायुक्तमास्थाय विपुलं रथम्। शूलमुद्गरधारिण्या शैलपादपहस्तया।॥ रक्षसां घोररूपाणामक्षौहिण्या समावृतः। तमुद्यतमहाचापं निशम्य व्यथिता नृपाः॥ युगान्तकालसमये दण्डहस्तमिवान्तकम्। ततस्तं गिरिशृङ्गाभ भीमरूपं भयावहम्॥ दंष्ट्राकरलोग्रमुखं शङ्कुकर्णं महाहनुम्। अर्ध्वकेशं विरूपाक्षं दीप्तास्यं निम्नितोदरम्॥ महाश्वभ्रगलद्वारं किरीटच्छन्नमूर्धजम्। त्रासनं सर्वभूतानां व्यात्ताननमिवान्तकम्॥ वीक्ष्य दीप्तमिवायान्तं रिपुविक्षोभकारिणम्। तमुद्यतमहाचापं राक्षसेन्द्र घटोत्कचम्॥ भयार्दिता प्रचुक्षोभ पुत्रस्य तव वाहिनी। वायुना क्षोभितावर्ता गङ्गेचोर्ध्वतरङ्गिणी॥ घटोत्कचप्रयुक्तेन सिंहनादेन भीषिताः। प्रसुस्रवुर्गजा मूत्रं विव्यथुश्च नरा भृशम्॥ ततोऽश्मवृष्टिरत्यर्थमासीत् तत्र समन्ततः। संध्याकालाधिकबलैः प्रयुक्ता राक्षसैः क्षितौ॥ आयसानि च चक्राणि भुशुण्ड्यः प्रासतोमराः। पतन्त्यविरता: शूलाः शतघ्यः पट्टिशास्तथा॥ तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः। तनयास्तव कर्णश्च व्यथिताः प्राद्रवन् दिशः॥ तत्रैकोऽस्रबलश्लाघी द्रौणिर्मानी च विव्यथे। व्यधमच शरैर्मायां घटोत्कचविनिर्मिताम्॥ विहतायां तु मायायाममर्षी स घटोत्कचः। विससर्ज शरान् घोरांस्तेऽश्वत्थामानमाविशन्॥ भुजङ्गा इव वेगेन वल्मीकं क्रोधमूर्छिताः। ते शरा रुधिराक्ताङ्गा भित्त्वा शारद्वतीसुतम्॥ विविशुर्धरणीं शीघ्रा रुक्मपुङ्खाः शिलाशिताः। अश्वत्थामा तु संक्रुद्धो लघुहस्तः प्रतापवान्॥ घटोत्कचमभिक्रुद्धं बिभेद दशभिः शरैः। घटोत्कचोऽतिविद्धस्तु द्रोणपुत्रेण मर्मसु॥ चक्रं शतसहस्रारमृगह्नाद् व्यथितो भृशम्। क्षुरान्तं बालसूर्याभं मणिवज्रविभूषितम्॥ अश्वत्थाम्न स चिक्षेप भैमसेनिर्जिघांसया। वेगेन महताऽऽगच्छद् विक्षिप्तं द्रौणिना शरैः॥ अभाग्यस्येव संकल्पस्तन्मोघमपतद् भुवि। घटोत्कचस्ततस्तूर्णं दृष्ट्वा चक्रं निपातितम्॥ द्रौणिं प्राच्छादयद् बाणैः स्वर्भानुरिव भास्करम्। घटोत्कचसुतः श्रीमान् भिन्नाञ्जनचयोपमः॥ रुरोध द्रौणिमायान्तं प्रभञ्जनमिवाद्रिराट्। पौत्रेण भीमसेनस्य शरैरञ्जनपर्वणा॥ बभौ मेघेन धाराभिर्गिरिर्मेरुरिवावृतः। अश्वत्थामा त्वसम्भ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः॥ ध्वजमेकेन बाणेन चिच्छेदाञ्जनपर्वणः। द्वाभ्यां तु रथयन्तारौ त्रिभिश्चास्य त्रिवेणुकम्॥ धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान्। विरथस्योद्यतं हस्ताद्धेमबिन्दुभिरावितम्॥ विशिखेन सुतीक्ष्णेन खङ्गमस्य द्विधाकरोत्। गदा हेमाङ्गदा राजंस्तूर्णं हैडिम्बिसुनूना॥ भ्राम्योत्क्षिप्ता शरैः साऽपि द्रौणिनाभ्याहताऽपतत्। ततोऽन्तरिक्षमुत्प्लुत्य कालमेघ इवोन्नदन्॥ ववर्षाञ्जनीपर्वा स दुमवर्ष नभस्तलात्। ततो मायाधरं द्रौणिर्घटोत्कचसुतं दिवि॥ मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः। सोऽवतीर्य पुरस्तस्थौ रथे हेमविभूषिते॥ महीगत इवात्युग्रः श्रीमानञ्जनपर्वतः। तमयस्मयवर्माणं द्रौणिर्भीमात्मजात्मजम्॥ जघानाञ्जनपर्वाणं महेश्वर इवान्धकम्। अथ दृष्ट्वा हतं पुत्रमश्वत्थाम्ना महाबलम्॥ द्रौणेः सकाशमभ्येत्य रोषात् प्रज्वलिताङ्गदः। प्राह वाक्यमसम्भ्रान्तो वीरं शारद्वतीसुतम्॥ दहन्तं पाण्डवानीकं वनमग्निमिवोच्छ्रितम्। घटोत्कच उवाच तिष्ठ तिष्ठ न मे जीवन् द्रोणपुत्र गमिष्यसि॥ त्वामद्य निहनिष्यामि क्रौञ्चमग्निसुतो यथा। अश्वत्थामोवाच गच्छ वत्स सहान्यैस्त्वं युध्यस्वामरविक्रम॥ न हि पुत्रेण हैडिम्बे पिता न्याय्यः प्रबाधितुम्। कामं खलु न रोषो मे हैडिम्बे विद्यते त्वयि॥ किं तु रोषान्वितो जन्तुर्हन्यादात्मानमप्युता संजय उवाच श्रुत्वैतत् क्रोधताम्राक्षः पुत्रशोकसमन्वितः॥ अश्वत्थामानमायस्तो भैमसेनिरभाषत। यन्मा भीषयसे वाग्भिरसदेतद् वचस्तव। भीमात् खलु समुत्पन्नः कुरूणां विपुले कुले॥ पाण्डवानामहं पुत्रः समरेष्वनिवर्तिनाम्। रक्षसामधिराजोऽहं दशग्रीवसमो बले॥ तिष्ठ तिष्ठ न मे जीवन् द्रोणपुत्र गमिष्यसि। युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे॥ इत्युक्तवा क्रोधताम्राक्षो राक्षसः सुमहाबलः। द्रौणिमभ्यद्रवत् क्रुद्धो गजेन्द्रमिव केसरी॥ रथाक्षमात्रैरिषुभिरभ्यवर्षद् घटोत्कचः। रथिनामृषभं द्रौणिं धाराभिरिव तोयदः॥ शरवृष्टिं शरैौणिरप्राप्तां तां व्यशातयत्। ततोऽन्तरिक्षे बाणानां संग्रामोऽन्य इवाभवत्॥ अथास्त्रसम्मर्दकृतैर्विस्फुलिङ्गगैस्तदा बभौ। विभावरीमुखे व्योम खद्योतैरिव चित्रितम्॥ निशाम्य निहतां मायां द्रौणिना रणमानिना। घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः॥ सोऽभवद् गिरिरत्युचः शिखरैस्तरुसंकटैः। शूलप्रासासिमुसलजलप्रस्रवणो महान्॥ तमञ्जनगिरिप्रख्यं द्रौणिदृष्ट्वा महीधरम्। प्रपतद्धिश्च बहुभिः शस्रसंधैर्न विव्यथे॥ ततो हसन्निव द्रौणिर्वज्रमस्रमुदैरयत्। स तेनास्रेण शैलेन्द्रः क्षिप्तः क्षिप्रं व्यनश्यत॥ ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि। अश्मवृष्टिभिरत्युग्रो द्रौणिमाच्छादयद् रणे॥ अथ संधाय वायव्यमस्रमसविदां वरः। व्यथमद् द्रोणतनयो नीलमेघं समुत्थितम्॥ स मार्गणगणैौणिर्दिशः प्रच्छाद्य सर्वशः। शतं रथसहस्राणां जघान द्विपदां वरः॥ स दृष्ट्वा पुनरायान्तं रथेनायातकार्मुकम्। घटोत्कचमसम्भ्रान्तं राक्षसैर्बहुभिर्वृतम्॥ सिंहशार्दूलसदृशैर्मत्तद्विरदविक्रमैः गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैरपि॥ विकृतास्यशिरोग्रीवैर्हिडिम्बानुचरैः सह। पौलस्त्यैर्यातुधानैश्च तामसैश्चेन्द्रविक्रमैः॥ नानाशस्त्रधरैवीरैर्नानाकवचभूषणैः महाबलैर्भीमरवैः संरम्भोवृत्तलोचनैः॥ उपस्थितैस्ततो युद्धे राक्षसैयुद्धदुर्मदैः। विषण्णमभिसम्प्रेक्ष्य पुत्रं ते द्रौणिरब्रवीत्॥ तिष्ठ दुर्योधनाद्य त्वं न कार्य; सम्भ्रमस्त्वया। सहैभिर्धातृभिर्वीरैः पार्थिवैश्चेन्द्रविक्रमैः॥ निहनिष्याम्यमित्रांस्ते न तवास्ति पराजयः। सत्यं ते प्रतिजानामि पर्याश्वासय वाहिनीम्॥ दुर्योधन उवाच न त्वेतदद्भुतं मन्ये यत् ते महदिदं मनः। अस्मासु च परा भक्तिस्तव गौतमिनन्दन॥ संजय उवाच अश्वत्थामानमुक्त्वैवं ततः सौबलमब्रवीत्। वृतं रथसहस्रेण हयानां रणशोभिनाम्॥ षष्ट्या रथसहस्रैश्च प्रयाहि त्वं धनंजयम्। कर्णश्च वृषसेनश्च कृपो नीलस्तथैव च॥ उदीच्याः कृतवर्मा च पुरुमित्रः सुतापनः। दुःशासनो निकुम्भश्च कुण्डभेदी पराक्रमः॥ पुरंजयो दृढरथः पताकी हेमकम्पनः। शल्यारुणीन्द्रसेनाश्च संजयो विजयो जयः॥ कमलाक्षः परक्राथी जयवर्मा सुदर्शनः। एते त्वामनुयास्यन्ति पत्तीनामयुतानि षट्॥ जहि भीमं यमौ चोभौ धर्मराजं च मातुल। असुरानिव देवेन्द्रो जयाशा मे त्वयि स्थिता॥ दारितान् द्रौणिनां बाणैर्भृशं विक्षतविग्रहान्। जहि मातुल कौन्तेयानसुरानिव पावकिः॥ एवमुक्तौ ययौ शीघ्रं पुत्रेण तव सौबलः। पिप्रीषुस्ते सुतान् राजन् दिधक्षुश्चैव पाण्डवान्॥ अथ प्रववृते युद्धं द्रौणिराक्षसयोर्मधे। विभावर्यां सुतुमलं शक्रप्रह्लादयोरिव॥ ततो घटोत्कचो बाणैर्दशभिर्गौतमीसुतम्। जघानोरसि संक्रुद्धो विषाग्निप्रतिमैदृद्वैः॥ स तैरभ्याहतो गाढं शरैर्भीमसुतेरितैः। चचाल रथमध्यस्थो वातोद्धत इव दुमः॥ भूयश्चाञ्जलिकेनाथ मार्गणेन महाप्रभम्। द्रौणिहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः॥ ततोऽन्यद् द्रौणिरादाय धनुर्भारसहं महत्। ववर्ष विशिखांस्तीक्ष्णान् वारिधारा इवाम्बुदः।।१३१ ततः शारद्वतीपुत्रः प्रेषयामास भारत। सुवर्णपुलाञ्छत्रुघ्नान् खचरान् खचरं प्रति॥ तद् बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम्। सिंहैरिव बभौ मत्तं गजानामाकुलं कुलम्॥ विधम्य राक्षसान् बाणैः साश्वसूतरथद्विपान्। ददाह भगवान् वह्निर्भूतानीव युगक्षये॥ स दग्ध्वाक्षौहिणी बाणैर्नैर्ऋतीं रुरुचे नृप। पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः॥ युगान्ते सर्वभूतानि दग्ध्वेव वसुरुल्वणः। रराज जयतां श्रेष्ठो द्रोणपुत्रस्तवाहितान्॥ ततो घटोत्कचः क्रुद्धो रक्षसां भीमकर्मणाम्। द्रौणिं हतेति महती चोदयामास तां चमूम्॥ घटोत्कचस्य तामाज्ञां प्रतिगृह्याथ राक्षसाः। दंष्ट्रोज्ज्वला महावक्त्रा घोररूपा भयानकाः॥ ध्यात्तानना घोरजिह्वाः क्रोधतानेक्षणा भृशम्। सिंहनादेन महता नादयन्तो वसुन्धराम्॥ हन्तुमभ्यद्रवन् द्रौणिं नानाप्रहरणायुधाः। शक्तीः शतघ्नीः परिघानशनीः शूलपट्टिशान्॥ खङ्गान् गदा भिन्दिपालान् मुसलानि परश्वघान्। प्रासानसींस्तोमरांश्च कणपान् कम्पनाञ्छितान्॥ स्थूलान् भुशुण्ड्यश्मगदाःस्थूणान् कार्णायसांस्तथा। मुद्रांश्च महाघोरान् समरे शत्रुदारणान्॥ द्रौणिमूर्धन्यसंत्रस्ता राक्षसा भीमविक्रमाः। चिक्षिपुः क्रोधताम्राक्षाः शतशोऽथ सहस्रशः॥ तच्छस्रवर्षं सुमहद् द्रोणपुत्रस्य मूर्धनि। पतमानं समीक्ष्याथ योधास्ते व्यथिताभवन्॥ द्रोणपुत्रस्तु विक्रान्तस्तद् वर्ष घोरमुच्छ्रितम्। शरैर्विध्वंसयामास वज्रकल्पैः शिलाशितैः॥ ततोऽन्यैर्विशिखैस्तूर्णं स्वर्णपुखैर्महामनाः। निजघ्ने राक्षसान् द्रौणिर्दिव्यास्त्रप्रतिमन्त्रितैः॥ तद्बाणैरर्दितं यूथं राक्षसां पीनवक्षसाम्। सिंहैरिव बभौ मत्तं गजानामाकुलं कुलम्॥ ते राक्षसाः सुसंक्रुद्धा द्रोणपुत्रेण ताडिताः। क्रुद्धाः स्म प्राद्रवन् द्रौणिं जिघांसन्तो महाबलाः॥१४८ तत्राद्भुतमिमं द्रौणिर्दर्शयामास विक्रमम्। अशक्यं कर्तुमन्येन सर्वभूतेषु भारत॥ यदेको राक्षसी सेनां क्षणाद् द्रौणिर्महास्रवित्। ददाह ज्वलितैर्बाणै राक्षसेन्द्रस्य पश्यतः॥ स हत्वा राक्षसानीकं रराज द्रौणिराहवे। युगान्ते सर्वभूतानि संवर्तक इवानलः॥ तं दहन्तमनीकानि शरैराशीविषोपमैः। तेषु राजसहस्रेषु पाण्डवेयेषु भारत॥ नैनं निरीक्षितुं कश्चिदशक्नोद् द्रौणिमाहवे। ऋते घटोत्कचाद् वीराद् राक्षसेन्द्रान्महाबलात्॥ स पुनर्भरतश्रेष्ठ क्रोधादुद्भान्तलोचनः। तलं तलेन संहत्य संदश्य दशनच्छदम्॥ स्वं सूतमब्रवीत् क्रुद्धो द्रोणपुत्राय मां वह। स ययौ घोररुपेण सुपताकेन भास्वता॥ द्वैरथं द्रोणपुत्रेण पुनरष्यरिसूदनः। स विनद्य महानादं सिंहवद् भीमविक्रमः॥ चिक्षेपाविध्य संग्रामे द्रोणपुत्राय राक्षसः। अष्टघण्टां महाघोरामशनि देवनिर्मिताम्॥ तामवप्लुत्य जग्राह द्रौणिय॑स्य रथे धनुः। चिक्षेप चैनां तस्यैव स्यन्दनात् सोऽवपुप्लवे॥ साश्वसूतध्वजं यानं भस्म कृत्वा महाप्रभा। विवेश वसुधां भित्त्वा साशनिर्भृशदारुणा॥ द्रौणेस्तत् कर्म दृष्ट्वा तु सर्वभूतान्यपूजयन्। यदवप्लत्य जग्राह घोरां शङ्करनिर्मिताम्॥ धृष्टद्युम्नरथं गत्वा भैमसेनिस्ततो मृप। धनुर्घोरं समादाय महदिन्द्रायुधोपमम्। मुमोच निशितान् बाणान् पुनौणेर्महोरसि॥ मुमोचाशीविषोपमान्। सुवर्णपुङ्खान् विशिखान् द्रोणपुत्रस्य वक्षसि॥ ततो मुमाच नाराचान् द्रौणिस्तांश्च सहस्रशः। धृष्टद्युम्नस्त्वसम्भ्रान्तो तावप्यग्निशिखप्रख्यैर्जघ्नतुस्तस्य मार्गणान्॥ अतितीव्र महद् युद्धं तयोः पुरुषपिहयोः। योधानां प्रीतिजननं द्रौणेश्च भरतर्षभ॥ ततो रथसहस्रेण द्विरदानां शतैत्रिभिः। षड्भिर्वाजिसहस्रश्च भीमस्तं देशमागमत्॥ ततो भीमात्मजं रक्षो धृष्टद्युम्नं च सानुगम्। अयोधयत धर्मात्मा द्रौणिरक्लिष्टविक्रमः॥ तत्राद्भुततमं द्रौणिर्दर्शयामास विक्रमम्। अशक्यं कर्तुमन्येन सर्वभूतेषु भारत॥ निमेषान्तरमात्रेण साश्वसूतरथद्विपाम्। अक्षौहिणी राक्षसानां शितैर्बाणैरशातयत्॥ मिषतो भीमसेनस्य हैडिम्बेः पार्षतस्य च। यमयोधर्मपुत्रस्य विजयस्याच्युतस्य च॥ प्रगाढमञ्जोगतिभिर्नाराचैरभिताडिताः। निपेतुर्द्विरदा भूमौ सशृङ्गा इव पर्वताः॥ निकृत्तैर्हस्तिहस्तैश्च विचलद्भिरितस्ततः। रराज वसुधा कीर्णा विसर्पद्भिरिवोरगैः॥ क्षिप्तैः काञ्चनदण्डैश्च नृपच्छत्रैः क्षितिर्बभौ। द्यौरिवोदितचन्द्रार्का ग्रहाकीर्णा युगक्षये॥ प्रवृद्धध्वजमण्डूकां भेरीविस्तीर्णकच्छपाम्। छत्रहंसावलीजुष्टां फेनचामरमालिनीम्॥ कङ्कगृध्रमहाग्राहां नैकायुधझषाकुलाम्। विस्तीर्णगजपाषाणां हताश्वमकराकुलाम्॥ रक्षक्षिप्तमहावप्रां पताकारुचिरदुमाम्। शरमीनां महारौद्रां प्रासशक्त्यष्टिडुण्डुभाम्॥ मजामांसमहापां कबन्धावर्जितोडुपाम्। केशशैवलकल्माषां भीरूणां कश्मलावहाम्॥ नागेन्द्रहययोधानां शरीरव्ययसम्भवाम्। शोणितीयमहाघोरां द्रौणिः प्रावर्तयन्नदीम्॥ योधार्तरवनि?षां क्षतजोर्मिसमाकुलाम्। श्वापदातिमहाघोरां यमराष्ट्रमहोदधिम्॥ निहत्य राक्षसान् बाणैौणिहँडिम्बिमार्दयत्। पुनरप्यतिसंक्रुद्धः सवृकोदरपार्षतान्॥ स नाराच गणैः पार्थान् द्रौणिर्विद्ध्वा महाबलः। जघान सुरथं नाम द्रुपदस्य सुतं विभुः॥ पुनः शत्रुजयं नाम द्रुपदस्यात्मजं रणे। बलानीकं जयानीकं जयाश्वं चाभिजनिवान्॥ श्रुताह्वयं च राजानं द्रौणिनिन्ये यमक्षयम्। त्रिभिश्चान्यैः शरैस्तीक्ष्णैः सुपुजैर्हेममालिनम्॥ जधान स पृषघ्रं च चन्द्रसेनं च मारिष। कुन्तिभोजसुतांश्चासौ दशभिर्दश जनिवान्॥ अश्वत्थामा सुसंक्रुद्धः संधायोग्रमजिह्मगम्। मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम्॥ यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम्। स भित्त्वा हृदयं तस्य राक्षसस्य महाशरः॥ विवेश वसुधां शीघ्रं सुपुङ्खः पृथिवीपते। तं हतं पतितं ज्ञात्वा धृष्टद्युम्नो महारथः॥ द्रौणेः सकाशाद् राजेन्द्र व्यपनिन्ये रथोत्तमम्। ततः पराङ्मुखनृपं सैन्यं यौधिष्ठिरं नृप॥ पराजित्य रणे वीरो द्रोणपुत्रो ननाद ह। पूजितः सर्वभूतेषु तव पुत्रैश्च भारत॥ हतपतितैः क्षणदाचरैः समन्तात्। निधनमुपगतैर्मही कृताभूद् गिरिशिखरैरिव दुर्गमातिरौद्र॥ तं सिद्धगन्धर्वपिशाचसंघा नागाः सुपर्णाः पितरो वयांसि। मपूजयन्नप्सरसः सुराश्च॥ संजय उवाच दुपदस्यात्मजान् दृष्ट्वा कुन्तिभोजसुतांस्तथा। द्रोणपुत्रेण निहतान् राक्षसांश्च सहस्रशः॥ युधिष्ठिरो भीमसेनो धृष्टद्युम्नश्च पार्षतः। युयुधानश्च संयत्ता युद्धायैव मनो दधुः॥ सोमदत्तः पुनः क्रुद्धो दृष्ट्वा सात्यकिमाहवे। महता शरवर्षेणच्छादयामास भारत॥ ततः समभवद् युद्धमतीव भयवर्धनम्। त्वदीयानां परेषां च धोरं विजयकाक्षिणाम्॥ तं दृष्ट्वा समुपायान्तं रुक्मपुङ्खः शिलाशितैः। दशभिः सात्वतस्यार्थे भीमो विव्याध सायकैः॥ सोमदत्तोऽपि तं वीरं शतेन प्रत्यविध्यता सात्वतस्त्वभिसंक्रुद्धः पुत्राधिभिरभिप्लुतम्॥ वृद्ध वृद्धगुणैयुक्तं ययातिमिव नाहुषम्। विव्याध दशभिस्तीक्ष्णैः शरैर्वज्रनिपातनैः॥ शक्त्या चैनं विनिर्भिद्य पुनर्विव्याध सप्तभिः। ततस्तु सात्यकेरर्थे भीमसेनो नवं दृढम्॥ मुमोच परिघं घोरं सोमदत्तस्य मूर्धनि। सात्वतोऽप्यग्निसंकाशं मुमोच शरमुत्तमम्॥ सोमदत्तोरसि क्रुद्धः सुपत्रं निशितं युधि। युगपत् पेततुरि घोरौ परिघमार्गणौ॥ शरीरे सोमदत्तस्य स पपात महारथः। व्यामोहिते तु तनये बाह्रीकस्तमुपाद्रवत्॥ विसृजञ्छरवर्षाणि कालवर्षीव तोयदः। भीमोऽथ सात्वतस्यार्थे वाह्नीकं नवभिः शरैः॥ प्रपीडयन् महात्मानं विव्याण रणमूर्धनि। प्रातिपेयस्तु संक्रुद्धः शक्तिं भीमस्य वक्षसि॥ निचखान महाबाहुः पुरंदर इवाशनिम्। स तथाभिहतो भीमश्चकम्पे च मुमोह च॥ प्राप्य चेतश्च बलवान् गदामस्मै ससर्ज ह। सा पाण्डवेन प्रहिता बाह्रीकस्य शिरोऽहरत्॥ स पपात हतः पृथ्व्यां वज्राहत इवाद्रिराट्। तस्मिन् विनिहते वीरे बाह्लीके पुरुषर्षभ॥ पुत्रास्तेऽभ्यर्दयन् भीमं दश दशरथेः समाः। नागदत्तो दृढरथो महाबाहुरयोभुजः॥ दृढः सुहस्तो विरजाः प्रमाथ्युग्रोऽनुयाय्यपि। तान् दृष्ट्वा चुक्रुधे भीमो जगृहे भारसाधनान्॥ एकमेकं समुद्दिश्य पातयामास मर्मसु। ते विद्धा व्यसव: पेतुः स्यन्दनेभ्यो हतौजसः॥ चण्डवातप्रभग्नास्तु पर्वताग्रान्महीरुहाः। नाराचैर्दशभिर्भीमस्तान् निहत्य तवात्मजान्॥ कर्णस्य दयितं पुत्रं वृषसेनमवाकिरत्। ततो वृकरथो नाम भ्राता कर्णस्य विश्रुतः॥ जधान भीमं नाराचैस्तमप्यभ्यद्रवद् बली। ततः सप्त स्थान् वीरः स्यालानां तव भारत॥ निहत्य भीमौ नाराचैः शतचन्द्रमपोथयत्। अमर्षयन्तो निहतं शतचन्द्रं महारथम्॥ शकुने_तरो वीरा गवाक्षः शरभो विभुः। सुभगो भानुदत्तश्च शूराः पञ्च महारथाः॥ अभिद्रुत्य शरैस्तीक्षणैर्भीमसेनमताडयन्। स ताड्यमानो नाराचैर्वृष्टिवेगैरिवाचलः॥ जघान पञ्चभिर्बाणैः पञ्चैवातिरथान् बली। तान् दृष्ट्वा निहतान् वीरान् विचेलुनृपसत्तमाः॥ ततो युधिष्ठिरः क्रुद्धस्तवानीकमशातयत्। मिषत: कुम्भयोनेस्तु पुत्राणां तव चानघ॥ अम्बष्ठान् मालवाञ्छूरांस्रिगर्तान् स शिबीनापि। प्राहिणोन्मृत्युलोकाय क्रुद्धो युद्धे युधिष्ठिरः॥ अभीषाहाञ्छूरसेनान् बाह्रीकान् सवसातिकान्। निकृत्य पृथिवीं राजा चक्रे शोणितकर्दमाम्॥ यौधेयान् मालवान् राजन् मद्रकाणां गणान् युधि। प्राहिणोन्मृत्युलोकाय शूरान् बाणैर्युधिष्ठिरः॥ हताहरत गृह्णीत विध्यत व्यवकृन्तत। इत्यासीत् तुमुलः शब्दो युधिष्ठिररथं प्रति॥ सैन्यानि द्रावयन्तं तं द्रोणो दृष्ट्वा युधिष्ठिरम्। चोदितस्तव पुत्रेण सायकैरभ्यवाकिरत्॥ द्रोणस्तु परमक्रुद्धो वायव्यास्रेण पार्थिवम्। विव्याध सोऽपि तद् दिव्यमस्रमस्रेण जनिवान्॥ तस्मिन् विनिहते चास्रे भारद्वाजो युधिष्ठिरे। वारुणं याम्यमाग्नेयं त्वाष्ट्र सावित्रमेव च॥ चिक्षेप परमाद्धो जिघांसुः पाण्डुनन्दनम्। क्षिप्तानि क्षिप्यमाणानि तानि चास्त्राणि धर्मजः॥ जघानास्त्रैर्महाबाहुः कुम्भयोनेरवित्रसन्। सत्यां चिकीर्षमाणस्तु प्रतिज्ञां कुम्भसम्भवः॥ प्रादुश्चक्रेऽस्रमैन्द्रं वै प्राजापत्यं च भारत। जिघांसुर्धर्ततनयं तव पुत्रहिते रतः॥ पतिः कुरूणां गजसिंहगामी विशालवक्षाः पृथुलोहिताक्षः। प्रादुचकारास्रमहीनतेजा। माहेन्द्रमन्यत् स जघान तेन॥ विहन्यमानेष्वस्त्रेषु द्रोणः क्रोधसमन्वितः। युधिष्ठिरवधं प्रेप्सुाह्यमस्रमुदैरयत्॥ ततो नाज्ञासिषं किंचिद् घोरेण तमसाऽऽवृते। सर्वभूतानि च परं त्रासं जग्मुर्महीपते॥ ब्रह्मास्रमुद्यतं दृष्ट्वा कुन्तीपुत्रो युधिष्ठिरः। ब्रह्मास्रेणैव राजेन्द्र तदत्रं प्रत्यवारयत्॥ ततः सैनिकमुख्यास्ते प्रशशंसुर्नरर्षभौ। द्रोणपार्थो महेष्वासौ सर्वयुद्धविशारदौ॥ ततः प्रमुच्य कौन्तेयं द्रोणो दुपदवाहिनीम्। व्यधमत् क्रोधताम्राक्षो वायव्यास्रेण भारत॥ ते हन्यमाना द्रोणेन पञ्चालाः प्राद्रवन् भयात्। पश्यतो भीमसेनस्य पार्थस्य च महात्मनः॥ ततः किरीटी भीमश्च सहसा संन्यवर्तताम्। महद्भयां रथवंशाभ्यां परिगृह्य बलं तदा॥ बीभत्सुदक्षिणं पार्श्वमुत्तरं च वृकोदरः। भारद्वाजं शरौघाभ्यां महद्भयामभ्यवर्षताम्॥ केकयाः सृञ्जयाश्चैव पञ्चालाश्च महौजसः। अन्वगच्छन् महाराज मत्स्याश्च सह सात्वतैः॥ ततः सा भारती सेवा वध्यमाना किरीटिना। तमसा निद्रया चैव पुनरेव व्यदीर्यत॥ द्रोणेन वार्यमाणास्ते स्वयं तव सुतेन च। नाशक्यन्त महाराज योधा वारयितुं तदा॥ संजय उवाच उदीर्यमाणं तद् दृष्ट्वा पाण्डवानां महद् बलम्। अविषह्यं च मन्वानः कर्णं दुर्योधनोऽब्रवीत्॥ अयं स कालः सम्प्राप्तो मित्राणां मित्रवत्सल। त्रायस्व समरे कर्ण सर्वान् योधान् महारथान्॥ पञ्चालैर्मत्स्यकैकेयैः पाण्डवैश्च महारथैः। वृतान् समन्तात् संक्रुद्धैनिः श्वसद्भिरिवोरगैः॥ एते नदन्ति संहृष्टाः पाण्डवा जितकाशिनः। शक्रोपमाश्च बहवः पञ्चालानां स्थव्रजाः॥ कर्ण उवाच परित्रातुमिह प्राप्तो यदि पार्थं पुरंदरः। तमप्याशु पराजित्य ततो हन्तास्मि पाण्डवम्॥ सत्यं ते प्रतिजानामि समाश्वसिहि भारत। हन्तास्मि पाडुतनयान् पञ्चालांश्च समागतान्॥ जयं ते प्रतिदास्यामि वासवस्येव पावकिः। प्रियं तव मया कार्यमिति जीवामि पार्थिव॥ सर्वेषामेव पार्थानां फाल्गुनो बलवत्तरः। तस्यामोघां विमोक्ष्यामि शक्तिं शक्रविनिर्मिताम्॥ तस्मिन् हते महेष्वासे भ्रातरस्तस्य मानद। तव वश्या भविष्यन्ति वनं यास्यन्ति वा पुनः॥ मयि जीवति कौरव्य विषादं मा कृथाः क्वचित्। अहं जेष्यामि समरे सहितान् सर्वपाण्डवान्॥ पञ्चालान् केकयांश्चैव वृष्णींश्चापि समागतान्। बाणौधैः शकलीकृत्य तव दास्यामि मेदिनीम्॥ संजय उवाच एवं ब्रुवाणं कण तु कृपः शारद्वतोऽब्रवीत्। स्मयन्निव महाबाहुः सूतपुत्रमिदं वचः॥ शोभनं शोभनं कर्ण सनाथः कुरुपुङ्गवः। त्वया नाथेन राधेय वचसा यदि सिध्यति॥ बहुशः कत्थसे कर्ण कौरवस्य समीपतः। न तु ते विक्रमः कश्चिद् दृश्यते फलमेव वा॥ समागमः पाण्डुसुतैदृष्टस्ते बहुशो युधि। सर्वत्र निर्जितश्चासि पाण्डवैः सूतनन्दन॥ ह्रियमाणे तदा कर्ण गन्धर्वैधृतराष्टजे। तदायुध्यन्त सैन्यानि त्वमेकोऽग्रेऽपलायिथाः॥ विराटनगरे चापि समेताः सर्वकौरवाः। पार्थेन निर्जिता युद्धे त्वं च कर्ण सहानुजः॥ एकस्याप्यसमर्थस्त्वं फाल्गुनस्य रणाजिरे। कथमुत्सहसे जेतुं सकृष्णान् सर्वपाण्डवान्॥ अब्रुवन् कर्ण युध्यस्व कत्थसे बहु सूतज। अनुक्त्वा विक्रमेद् यस्तु तद् वै सत्पुरुषव्रतम्॥ गर्जित्वा सूतपुत्र त्वं शारदाभ्रमिवाफलम्। निष्फलो दृश्यसे कर्ण तब राजा न बुध्यते॥ तावद् गर्जस्व राधेय यावत् पार्थं न पश्यसि। आरात् पार्थं हि ते दृष्ट्वा दुर्लभं गर्जितं पुनः॥ त्वमनासाद्य तान् बाणान् फाल्गुनस्य विगर्जसि। पार्थसायकविद्धस्य दुर्लभं गर्जितं तव॥ बाहुभिः क्षत्रियाः शूरा वाग्भिः शूरा द्विजातयः। धनुषा फाल्गुनः शूरः कर्णः शूरो मनोरथैः॥ तोषितो येन रुद्रोऽपि क: पार्थं प्रतिघातयेत्। एवं संरुषिस्तेन तदा शारद्वतेन ह॥ कर्णः प्रहरतां श्रेष्ठः कृपं वाक्यमथाब्रवीत्। शूरा गर्जन्ति सततं प्रावृषीव बलाहकाः॥ फलं चाशु प्रयच्छन्ति बोजमुप्तमृताविव। दोषमत्र न पश्यामि शूराणां रर्णमूर्धनि॥ तत्तद् विकस्थमानानां भारं चोद्वहतां मृधे। यं भारं पुरुषो वोढं मनसा हि व्यवस्यति॥ दैवमस्य ध्रुवं तत्र साहाय्यायोपद्यते। व्यवसायद्वितीयोऽहं मनसा भारमुद्वहन्॥ हत्वा पाण्डुसुतानाजौ सकृष्णान् सहसात्वतान्। गर्जामि यद्यहं विप्र तव किं तत्र नश्यति॥ वृथा शूरा न गर्जन्ति शारदा अव तोयदाः। सामर्थ्यमात्मनो ज्ञात्वा ततो गर्जन्ति पण्डिताः॥ सोऽहमद्य रणे यत्तौ सहितौ कृष्णपाण्डवौ। उत्सहे मनसा जेतुं ततो गर्जामि गौतम॥ पश्य त्वं गर्जितस्यास्य फलं ते विप्र सानुगान्। हत्वा पाण्डुसुतानाजी सहकृष्णान् ससात्वतान्॥ दुर्योधनाय दास्यामि पृथिवीं हतकण्टकाम्। मनोरथप्रलापा मे न ग्राह्यास्तव सूतज॥ सदा क्षिपसि वै कृष्णौ धर्मराजं च पाण्डवम्। ध्रुवस्तत्र जयः कर्ण यत्र युद्धविशारदौ॥ देवगन्धर्वयक्षाणां मनुष्योरगरक्षसाम्। दंशितानामपि रणे अजेयौ कृष्णपाण्डवौ॥ ब्रह्मण्यः सत्यवाग दान्तो गुरुदैवतपूजकः। नित्यं धर्मरतश्चैव कृतास्रश्च विशेषतः॥ धृतिमांश्च कृतज्ञश्च धर्मपुत्रो युधिष्ठिरः। भ्रातरश्चास्य बलिन: सर्वानेषु कृतश्रमाः॥ गुरुवृत्तिरताः प्राज्ञा धर्मनित्या यशस्विनः। सम्बन्धिनश्चेन्द्रवीर्याः स्वनुरक्ताः प्रहारिणः॥ धृष्टद्युम्न: शिखण्डी च दौर्मुखिर्जनमेजयः। चन्द्रसेनो रुद्रसेनः कीर्तिधर्मा ध्रुवो धरः॥ वसुचन्द्रो दामचन्द्रः सिंहचन्द्रः सुतेजनः। दुपदस्य तथा पुत्रा दुपदश्च महासवित्॥ येषामर्थाय संयत्तो मत्स्यराजः सहानुजः। शतानीकः सूर्यदत्तः श्रुतानीकः श्रुतध्वजः॥ बलानीको जयानीको जयाश्वो रथवाहनः। चन्द्रोदयः समरथो विराटभ्रातरः शुभाः॥ यमौ च द्रौपदेयाश्च राक्षसश्च घटोत्कचः। येषामर्थाय युध्यन्ते न तेषां विद्यते क्षयः॥ एते चान्ये च बहवो गुणाः पाण्डुसुतस्य वै। कामं खलु जगत्सर्वं सदेवासुरमानुषम्॥ सयक्षराक्षसगणं सभूतभुजगद्विपम्। निःशेषमस्रवीर्येण कुर्वाते भीमफाल्गुनौ॥ युधिष्ठिरश्च पृथिवीं निर्दहेद् घोरचक्षुषा। अप्रमेयबलः शौरिर्येषामर्थे च दंशितः॥ कथं तान् संयुगे कर्ण जेतुमुत्र हसे परान्। महानपनयस्त्वेष नित्यं हि तव सूतज!॥ यस्त्वमुत्सहसे योद्धं समरे शौरिणा सह। संजय उवाच राधेयः प्रहसन् भरतर्षभ॥ एवमुक्तस्तु अब्रवीच तदा कर्णो गुरुं शारद्वतं कृपम्। सत्यमुक्तं त्वया ब्रह्मन् पाण्डवान् प्रति यद् वचः॥४९ एते चान्ये च बहवो गुणाः पाण्डुसुतेषु वै। अजय्याश्च रणे पार्था देवैरपि सवासवैः॥ सदैत्ययक्षगनधर्वैः पिशाचोरगराक्षसैः। तथापि पार्थाजेष्यामि शत्तया वासवदत्तया॥ मम ह्यमोघा दत्तेयं शक्तिः शक्रेण वै द्विज। एतया निहनिष्यामि सव्यसाचिनमाहवे॥ हते तु पाण्डवे कृष्णो भ्रातरश्चास्य सोदराः। अनर्जुना न शक्ष्यन्ति महीं भोक्तुं कथञ्चन॥ तेषु नष्टेषु सर्वेषु पृथिवीयं ससागरा। अयत्नात् कौरवेन्द्रस्य वश स्थास्यति गौतम॥ सुनीतैरिह सर्वार्थाः सिध्यन्ते नात्र संशयः। एतमर्थमहं ज्ञात्वा ततो गर्जामि गौतम॥ त्वं तु विप्रश्च वृद्धश्च अशक्तश्चापि संयुगे। कृतस्नेहश्च पार्थेषु मोहान्मामवमन्यसे॥ यद्यैवं वक्ष्यसे भूयो ममाप्रियमिह द्विजा ततस्ते खड्गमुद्यम्य जिह्वां छेत्स्यामि दुर्मते॥ यचापि पाण्डवान् विप्र स्तोतुमिच्छसि संयुगे। भीषयन् सर्वसैन्यानि कौरवेयाणि दुर्मते॥ अत्रापि शृणु मे वाक्यं रथावदब्रुवतो द्विजा दुर्योधनश्च द्रोणच शकुनिर्दुमुखो जयः॥ दुःशासनो वृषसेनो मद्रराजस्त्वमेव च। सोमदत्तश्च भूरिश्च तथा द्रौणिर्विविंशतिः॥ : तिष्ठेयुर्दशिता यत्र सर्वे युद्धविशारदाः। जयेदेतान् नरः को नु शक्रतुल्यबलोऽप्यरिः॥ शूराश्च हि कृतास्त्राश्च बलिनः स्वर्गलिप्सवः। धर्मज्ञा युद्धकुशला हन्युर्युद्धे सुरानपि॥ एते स्थास्यन्ति संग्रामे पाण्डवानां वधार्थिनः। जयमाकाङ्क्षमाणा हि कौरवेयस्य दंशिताः॥ दैवायत्तमहं मन्ये जयं सुबलिनामपि। यत्र भीष्मो महाबाहुः शेते शरशताचितः॥ विकर्णश्चित्रसेनश्च बाह्रीकोऽथ जयद्रथः। भूरिश्रवा जयश्चैव जलसंधः सुदक्षिणः॥ शलश्च रथिनां श्रेष्ठो भगदत्तश्च वीर्यवान्। एते चान्ये च राजानो देवैरपि सुदुर्जयाः॥ निहताः समरे शूराः पाण्डवैर्बलवत्तराः। किमन्यद् दैवसंयोगान्मन्यसे पुरुषाधम॥ यांश्च तान् स्तौषि सततं दुर्योधनरिपून् द्विजा तेषामपि हताः शूराः शतशोऽथ सहस्रशः॥ क्षीयन्ते सर्वसैन्यानि कुरूणां पाण्डवैः सह। प्रभावं नात्र पश्यामि पाण्डवानां कथंचन॥ यस्तान् बलवतो नित्यं मन्यसे त्वं द्विजाधम यतिष्येऽहं यथाशक्ति योद्धं तैः सह संयुगे। दुर्योधनहितार्थाय 'जयो दैवे प्रतिष्ठितः'॥ संजय उवाच तथा परुषितं दृष्ट्वा सूतपुत्रेण मातुलम्। खङ्गमुद्यम्य वेगेन द्रौणिरभ्यपतद् द्रुतम्॥ ततः परमसंक्रुद्धः सिंहो मत्तमिव द्विपम्। प्रेक्षतः कुरुराजस्य द्रौणिः कर्णं समभ्ययात्॥ अश्वत्थामोवाच यदर्जुनगुणांस्तथ्यान् कीर्तयानं नराधम। शूरं द्वेषात् सुदुर्बुद्धे त्वं भर्ल्सयसि मातुलम्॥ विकत्थमानः शौर्येण सर्वलोकधनुर्धरम्। दर्पोत्सेधगृहीतोऽद्य न कश्चिद् गणयन् मृधे॥ व ते वीय क चास्त्राणि यत्त्वां निर्जित्य संयुगे। गाण्डीवधन्वा हतवान् प्रेक्षतस्ते जयद्रथम्॥ येन साक्षान्महादेवो योधितः समरे पुरा। तमिच्छसि वृथा जेतुं सूताधम मनोरथैः॥ यं हि कृष्णेन सहितं सर्वशस्त्रभृतां वरम्। जेतुं न शक्ताः सहिताः सेन्द्रा अपि सुरासुराः॥ लोकैकवीरमजितमर्जुनं सूत संयुगे। किं पुनस्त्वं सुदुर्बुद्धे सहैभिर्वसुधाधिपः॥ कर्ण पश्य सुदुर्बुद्धे तिष्ठेदानी नराधमा एष तेऽद्य शिरः कायादुद्धरामि सुदुर्मते॥ संजय उवाच तमुद्यतं तु वेगेन राजा दुर्योधनः स्वयम्। न्यवारयन्महातेजाः कृपश्च द्विपदां वरः॥ कर्ण उवाच शूरोऽयं समरश्लाघी दुर्मतिश्च द्विजाधमः। आसादयतु मद्वीर्यं मुञ्चेम कुरुसत्तम॥ अश्वत्थामोवाच तवैतत् क्षम्यतेऽस्माभिः सूतात्मज सुदुर्मते। दर्पमुस्क्तिमेतत् ते फाल्गुनो नाशयिष्यति॥ दुर्योधन उवाच अश्वत्थामन् प्रसीदस्व क्षन्तुमर्हसि मानद। कोपः खलु न कर्तव्यः सूतपुत्रं कथंचन॥ त्वयि कर्णे कृपि द्रोणे मद्रराजेऽथ सौबले। महत् कार्यं समासक्तं प्रसीद द्विजसत्तम॥ एते ह्यभिमुखाः सर्वे राधेयेन युयुत्सवः। आयान्ति पाण्डवा ब्रह्मन्नाह्वयन्तः समन्ततः॥ संजय उवाच प्रसाद्यमानस्तु तनो राज्ञा द्रौणिर्महामनाः। प्रससाद महाराज क्रोधवेगसमन्वितः॥ तत: कृपोऽप्युवाचेदमाचार्य:सुमहामनाः। सौम्यस्वभावाद् राजेन्द्र क्षिप्रमागतमार्दवः॥ कृप उवाच तवैतत् क्षम्यतेऽस्माभिः सूतात्मज सुदुर्मते। दर्पमुत्सितमेतत् ते फाल्गुनो नाशयिष्यति॥ संजय उवाच ततस्ते पाण्डवा राजन् पञ्चालाश्च यशस्विनः। आजग्मुः सहिताः कर्णं तर्जयन्तः समन्ततः॥ कर्णोऽपि रथिनां श्रेष्ठश्चापमुद्यम्य वीर्यवान्। कौरवाग्रयैः परिवृतः शक्रो देवगणैरिव॥ पर्यतिष्ठत तेजस्वी स्वबाहुबलमाश्रितः। ततः प्रववृते युद्धं कर्णस्य सह पाण्डवैः॥ भीषणं सुमहाराज सिंहनादविराजितम्। ततस्ते पाण्डवा राजन् पञ्चालाश्च यशस्विनः॥ दृष्ट्वा कर्णं महाबाहुमुच्चैः शब्दमथानदन्। अयं कर्णः कुतः कर्णस्तिष्ठ कर्ण महारणे॥ युध्यस्व सहितोऽस्माभिर्दुरात्मन् पुरुषाधम। अन्ये तु दृष्ट्वा राधेयं क्रोधरक्तेक्षणाऽब्रुवन्॥ हन्यतामयमुत्सिक्तः सूतपुत्रोऽल्पचेतनः। सर्वैः पार्थिवशार्दूलै नेनार्थोऽस्ति जीवता॥ अत्यन्तवैरी पार्थानां सततं पापपुरुषः। एष मूलमनर्थानां दुर्योधनमते स्थितः॥ नतैनमिति जल्पन्तः क्षत्रियाः समुपाद्रवन्। महता शरवर्षेण च्छादयन्तो महारथाः॥ वधार्थं सूतपुत्रस्य पाण्डवेयेन चोदिताः। तांस्तु सर्वांस्तथा दृष्ट्वा धावमानान् महारथान्॥ न विव्यथे सूतपुत्रो न च त्रासमगच्छत। दृष्ट्वा संहारकल्पं तमुद्भूतं सैन्यसागरम्॥ पिप्रीषुस्तव पुत्राणां संग्रामेष्वपराजितः। सायकौघेन बलवान् क्षिप्रकारी महाबलः॥ वारयामास तत् सैन्यं समन्ताद् भरतर्षभ। ततस्तु शरवर्षेण पार्थिवास्तमवारयन्॥ धनूंषि ते विधुन्वानाः शतशोऽथ सहस्रशः। अयोधयन्त राधेयं शक्रं दैत्यगणा इव॥ शरवर्षं तु तत् कर्णः पार्थिवैः समुदीरितम्। शरवर्षेण महता समन्ताद् व्यकिरत् प्रभो॥ तद् युद्धमभवत् तेषां कृतप्रतिकृतैषिणाम्। यथा देवासुरे युद्धे शक्रस्य सह दानवैः॥ तत्राद्भुतमपश्याम सूतपुत्रस्य लाघवम्। यदेनं सर्वतो यत्ता नाप्नुवन्ति परे युधि॥ निवार्य च शरौघांस्तान् पार्थिवानां महारथः। युगेष्वीपासु च्छत्रेषु ध्वजेषु च हयेषु च॥ आत्मनामाङ्कितान् घोरान् राधेयः प्राहिणोच्छरान्। ततस्ते व्याकुलीभूताः राजानः कर्णपीडिताः॥ बभ्रमुस्तत्र तत्रैव गावः शीतार्दिता इव। हयानां वध्यमानानां गजानां रथिनां तथा॥ तत्र तत्राभ्यवेक्षाम संघान् कर्णेन ताडितान्। शिरोभिः पतितै राजन् बाहुभिश्च समन्ततः॥ आस्तीर्णा वसुधा सर्वा शूराणामनिवर्तिनाम्। हतैश्च हन्यमानैश्च निष्टनदिश्च सर्वशः॥ बभूवायोधनं रौद्रं वैवस्वतपुरोपमम्। ततो दुर्योधनो राजा दृष्ट्वा कर्णस्य विक्रमम्॥ अश्वत्थामानमासाद्य वाक्यमेतदुवाच ह। युध्यतेऽसौ रणे कर्णो दंशितः सर्वपार्थिवैः॥ पश्यैतां द्रवती सेनां कर्णसायकपीडिताम्। कार्तिकेयेन विध्वस्तामासुरी पृतनामिव॥ दृष्वैतां निर्जितां सेनां रणे कर्णेन धीमता। अभियात्येष बीभत्सुः सूतपुत्रजिघांसया॥ तद् यथा प्रेक्षमाणानां सूतपुत्रं महारथम्। न हन्यात् पाण्डव: संख्ये तथा नीतिर्विधीयताम्॥ ततो द्रौणिः कृपः शल्यो हार्दिक्यश्च महारथः। प्रत्युद्ययुस्तदा पार्थं सूतपुत्रपरीप्सया॥ आयान्तं वीक्ष्य कौन्तेयं शक्रं दैत्यचमूमिव। बीभत्सुरपि राजेन्द्र पञ्चालैरभिसंवृतः॥ प्रत्युद्ययौ तदा कर्णं यथा वृत्रं शतक्रतुः । धृतराष्ट्र उवाच संरब्धं फाल्गुनं दृष्ट्वा कालान्तकयमोपमम्॥ कर्णो वैकर्तनः सूत प्रत्यपद्यत् किमुत्तरम्। यो ह्यस्पर्धत पार्थेन नित्यमेव महारथः॥ आशंसते च बीभत्सुं युद्धे जेतुं सुदारुणम्। स तु त सहसा प्राप्तं नित्यमत्यन्तवैरिणम्॥ कर्णो वैकर्तनः सूत किमुत्तरमपद्यत। संजय उवाच आयान्तं पाण्डवं दृष्ट्वा गजं प्रतिगजो यथा॥ असम्भ्रान्तो रणे कर्णः प्रत्युदीयाद् धनंजयम्। तमापतन्तं वेगेन वैकर्तनमजिह्मगैः॥ छादयामास पार्थोऽथ कर्णस्तु विजयं शरैः। स कर्ण शरजालेन च्छादयामास पाण्डवः॥ ततः कर्णः सुसंरब्धः शरैसिभिरविध्यत। तस्य तल्लाघवं पार्थो नामृष्यत महाबलः॥ तस्मै बाणाशिलाधौतान् प्रसन्नाग्रानजिह्मगान्। प्राहिणोत् सूतपुत्राय त्रिशतं शत्रुतापनः॥ विव्याध चैन संरब्धो बाणेनैकेन वीर्यवान्। सव्ये भुजाग्रे बलवान् नाराचेन हसन्निव॥ तस्य विद्धस्य बाणेन कराच्चापं पपात ह। पुनरादाय तचापं निमेषार्धान्महाबलः॥ छादयामास बाणौघैः फाल्गुनं कृतहस्तवत्। शरवृष्टिं तु तां मुक्तां सूतपुत्रेण भारत॥ व्यधमच्छरवर्षेण सम्पन्निव धनंजयः। तौ परस्परमासाद्य शरवर्षेण पार्थिव॥ छादयेतां महेष्वासौ कृतप्रतिकृतैषिणौ। तदद्भुतं महद् युद्धं कर्णपाण्डवयोर्मधे॥ क्रुद्धयोर्वासिताहेतोर्वन्ययोर्गजयोरिव। ततः पार्थो महेष्वासो दृष्ट्वा कर्णस्य विक्रमम्॥ मुष्टिदेशे धनुस्तस्य चिच्छेद त्वरयान्वितः। अश्वांश्च चतुरो भल्लैरनयद् यमसादनम्॥ सारथेच शिरः कायादहरच्छत्रुतापनः। अथैनं छिन्नधन्वानं हताश्वं हतसारथिम्॥ विव्याध सायकैः पार्थश्चतुर्भिः पाण्डुनन्दनः। हताश्वात् तु रथात् तूर्णमवप्लुत्य नरर्षभः॥ आरुरोह रथं तूर्णं कृपस्य शरपीडितः। स नुन्नोऽर्जुनबाणौघेराचितः शल्यको यथा॥ जीवितार्थमभिप्रेप्सुः कृपस्य रथमारुहत्। राधेयं निर्जितं दृष्ट्वा तावका भरतर्षभ।॥ धनंजयशरैर्नुन्नाः प्राद्रवन्त दिशो दश। द्रवतस्तान् समालोक्य राजा दुर्योधनो नृप॥ निवर्तयामास तदा वाक्यमेतदुवाच ह। अलं दुतेन वः शूरास्तिष्ठध्वं क्षत्रियर्षभाः॥ एष पार्थवधायाहं स्वयं गच्छामि संयुगे। अहं पार्थान् हनिष्यामि सपञ्चालान् ससोमकान्॥ अद्य मे युध्यमानस्य सह गाण्डीवधन्वना। द्रक्ष्यन्ति विक्रमं पार्थाः कालस्येव युगक्षये॥ अद्य मदाणजालानि विमुक्तानि सहस्रशः। द्रक्ष्यन्ति समरे योधाः शलभानामिवायतीः॥ अद्य बाणमयं वर्षं सृजतो मम धन्विनः। जीमूतस्येव धर्मान्ते द्रक्ष्यन्ति युधि सैनिकाः॥ जेष्याम्यद्य रणे पार्थं सायकैर्नतपर्वभिः। तिष्ठध्वं समरे शूरा भयं त्यजत फाल्गुनात्॥ न हि मद्वीर्यमासाद्य फाल्गुनः प्रसहिष्यति। यथा वेलां समासाद्य सागरो मकरालयः॥ इत्युक्त्वा प्रययौ राजा सैन्येन महता वृतः। फाल्गुनं प्रति दुर्धर्षः क्रोधात् संरक्तलोचनः॥ तं प्रयान्तं महाबाहुं दृष्ट्वा शारद्वतस्तदा। अश्वत्थामानमासाद्य वाक्यमेतदुवाच ह॥ एष राजा महाबाहुरमर्षी क्रोधमूर्छितः। पतङ्गवृत्तिमास्थाय फाल्गुनं योद्भुमिच्छति॥ यावन्नः पश्यमानानां प्राणान् पार्थेन संगतः। । न जह्यात् पुरुषव्याघ्रस्तावद् वारय कौरवम्॥ यावत् फाल्गुनबाणानां गोचरं नाद्य गच्छति। कौरवः पार्थिवो वीरस्तावद् वारय संयुगे॥ यावत् पार्थशरै।रैर्निमुक्तोरगसंनिभैः। न भस्मीक्रियते राजा तावद् युद्धान्निवार्यताम्॥ अयुक्तमिव पश्यामि तिष्ठत्स्वस्मासु मानद। स्वयं युद्धाय यद् राजा पार्थं यात्यसहायवान् दुर्लभं जीवितं मन्ये कौरव्यस्य किरीटिना। युध्यमानस्य पार्थेन शार्दूलेनेव हस्तिनः॥ मातुलेनैवमुक्तस्तु द्रौणिः शस्त्रभृतां वरः। दुर्योधनमिदं वाक्यं त्वरितः समभाषत॥ मयि जीवति गान्धारे न युद्धं गन्तुमर्हसि। मामनादृत्य कौरव्य तव नित्यं हितैषिणम्॥ न हि ते सम्भ्रमः कार्यः पार्थस्य विजयं प्रति। अहमावारयिष्यामि पार्थं तिष्ठ सुयोधन॥ दुर्योधन उवाच आचार्य: पाण्डुपुत्रान् वै पुत्रवत् परिरक्षति। त्वमप्युपेक्षां कुरुषे तेषु नित्यं द्विजोत्तम॥ मम वा मन्दभाग्यत्वान्मन्दस्ते विक्रमो युधि। धर्मराजप्रियार्थं वा द्रौपद्या वा न विद्म तत्॥ धिगस्तु मम लुब्धस्य यत्कृते सर्ववान्धवाः। सुखार्हाः परमं दुःखं प्राप्नुवन्त्यपराजिताः॥ को हि शस्त्रविदां मुख्यो महेश्वरसमो युधि। शत्रु न क्षपयेच्छक्तो यो न स्याद् गौतमीसुतः॥ अश्वत्थामन् प्रसीदख नाशयैतान् ममाहितान्। तवारगोचरे शक्ताः स्थातुं देवा न दानवाः॥ पञ्चालान् सोमकांश्चैव जहि द्रौणे सहानुगान्। वयं शेषान् हनिष्यामस्त्वयैव परिरक्षिताः॥ एते हि सोमका विप्र पञ्चालाश्च यशस्विनः। मम सैन्येषु संक्रुद्धा विचरन्ति दवाग्निवत्॥ तान् वारय महाबाहो केकयांश्च नरोत्तम। पुरा कुर्वन्ति निःशेषं रक्ष्यमाणाः किरीटिना॥ अश्वत्थामंस्त्वरायुक्तो याहि शीघ्रमरिंदमा आदौ वा यदि वा पश्चात् तवेदं कर्म मारिष॥ त्वमुत्पन्नो महाबाहो पञ्चालानां वधं प्रति। करिष्यसि जगत् सर्वमपाञ्चालं किलोद्यतः॥ एवं सिद्धाऽब्रुवन् वाचो भविष्यति च तत् तथा। तस्मात्त्वं पुरुषव्याघ्र पञ्चालाञ्जहि सानुगान्॥ न तेऽस्रगोचरे शक्ताः स्थातुं देवाः सवासवाः। किमु पार्थाः सपाञ्चालाः सत्यमेतद् ब्रवीमि ते॥ न त्वां समर्थाः संग्रामे पाण्डवाः सह सोमकैः। बलाद् योधयितुं वीर सत्यमेतद् ब्रवीमि ते॥ गच्छ गच्छ महाबाहो न नः कालात्ययो भवेत्। इयं हि द्रवते सेना पार्थसायकपीडिता॥ शक्तो ह्यसि महाबाहो दिव्येन स्वेन तेजसा। निग्रहे पाण्डुपुत्राणां पञ्चालानां च मानद॥ संजय उवाच दुर्योधनेनैवमुक्तो द्रौणिराहवदुर्मदः। चकारारिवधे यत्नमिन्द्रो दैत्यवधे यथा॥ प्रत्युवाच महाबाहुस्तव पुत्रमिदं वचः। सत्यमेतनमहाबाहो यथा वदसि कौरव॥ प्रिया हि पाण्डवा नित्यं मम चापि पितुश्च मे। तथैवावां प्रियौ तेषां न तु युद्धे कुरूद्वह॥ शक्तितस्तात युध्यामस्त्यक्त्वा प्राणानभीतवत्। अहं कर्णश्च शल्यश्च कृपो हार्दिक्य एव च। निमेषात् पाण्डवीं सेनां क्षपयेम नृपोत्तम॥ ते चापि कौरवीं सेनां निमेषार्धात् कुरूद्वह। क्षपयेयुर्महाबाहो न स्याम यदि संयुगे॥ युध्यतां पाण्डवाञ्छक्त्या तेषां चास्मान् युयुत्सताम्। तेजस्तेजः समासाद्य प्रशमं याति भारत॥ अशक्या तरसा जेतुं पाण्डवानामनीकिनी। जीवत्सु पाण्डुपुत्रेषु तद्धि सत्यं ब्रवीमि ते॥ आत्मार्थं युध्यमानास्ते समर्थाः पाण्डुनन्दनाः। किमर्थं तव सैन्यानि न हनिष्यन्ति भारत॥ त्वं तु लुब्धतमो राजन् निकृतिज्ञश्च कौरव। सर्वाभिशङ्की मानी च ततोऽस्मानभिशङ्कसे॥ मन्ये त्वं कुत्सितो राजन् पापात्मा पापपुरुषः। अन्यानपि स नः क्षुद्र शङ्कसे पापभावितः॥ अहं तु यत्नमास्थाय त्वदर्थे त्यक्तजीवितः। ॥ एष गच्छामि संग्रामं त्वत्कृते कुरुनन्दन॥ योत्स्येऽहं शत्रुभिः सार्धं जेष्यामि च वरान् वरान्। पञ्चालैः सह योत्स्यामि सोमकैः केकयैस्तथा॥ पाण्डवेयैश्च संग्रामे त्वप्रियार्थमरिंदमा अद्य मद्वाणनिर्दग्धाः पञ्चालाः सोमकास्तथा॥ सिंहेनेवादिता गावो विद्रविष्यन्ति सर्वशः। अद्य धर्मसुतो राजा दृष्ट्वा मम पराक्रमम्॥ अश्वत्थाममयं लोकं मंस्यते सह आगमिष्यति निर्वेद धर्मपुत्रो युधिष्ठिरः॥ दृष्ट्वा विनिहतान् संख्ये पञ्चालान् सोमकैः सह। ये मां युद्धेऽभियोत्स्यन्ति तान् हनिष्यामि भारत॥ न हि ते वीर मोक्ष्यन्ते मद्वाह्वन्तरमागताः। एवमुक्त्वा महाबाहुः पुत्रं दुर्योधनं तव॥ अभ्यवर्तत युद्धाय त्रासयन् सर्वधन्विनः। सोमकैः। चिकीर्षुस्तव पुत्राणां प्रियं प्राणभृतां वरः॥ ततोऽब्रवीत् सकैकेयान् पञ्चालान् गौतमीसुतः। प्रहरध्वमितः सर्वे मम गात्रे महारथाः॥ स्थिरीभूताश्च युद्ध्यध्वंदर्शयन्तोऽस्रलाघवम्। एवमुक्तास्तु ते सर्वे शस्त्रवृष्टीरपातयन्।॥ द्रौणिं प्रति महाराज जलं जलधरा इव। तान् निहत्य शरान्द्रौणिर्दश वीरानपोथयत्॥ प्रमुखे पाण्डुपुत्राणां धृष्टद्युम्नस्य च प्रभो। ते हन्यमानाः समरे पञ्चालाः सोमकास्तथा॥ परित्यज्य रणे द्रौणिं व्यद्रवन्त दिशो दश। तान् दृष्ट्वा द्रवतः शूरान् पञ्चालान् सहसोमकान्॥२३ धृष्टद्युम्नो महाराज द्रौणिमभ्यद्रवद् रणे। ततः काञ्चनचित्राणां सजलाम्बुदनादिनाम्॥ वृतः शतेन शूराणां स्थानामनिवर्तिनाम्। पुत्रः पाञ्चालराजस्य धृष्टद्युम्नो महारथः॥ द्रौणिमित्यब्रवीद् वाक्यं दृष्ट्वा योधान् निपतितान्। आचार्यपुत्र दुर्बुद्धे किमन्यैर्निहतैस्तव॥ समागच्छ मया साधु यदि शूरोऽसि संयुगे। अहं त्वां निहनिष्यामि तिष्ठेदानीं ममाग्रतः॥ ततस्तमाचार्यसुतं धृष्टद्युम्नः प्रतापवान्। मर्मभिद्भिः शरैस्तीक्ष्णोर्जघान भरतर्षभ।॥ ते तु पतीकृता द्रौणिं शरा विविशुराशुगाः। रुक्मपुङ्खाः प्रसन्नाग्राः सर्वकायावदारणाः॥ मध्वर्थिन इवोद्दामा भ्रमराः पुष्पितं दुमम्। सोऽतिविद्धो भृशं क्रुद्धः पदाक्रान्त इवोरगः॥ मानी द्रौणिरसम्भ्रान्तो बाणपाणिरभाषत। धृष्टद्युम्न स्थिरो भूत्वा मुहूर्त प्रतिपालय॥ यावत् त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम्। द्रौणिरेवमथाभाष्य पार्षतं परवीरहा।॥ छादयामास बाणौघैः समन्ताल्लघुहस्तवत्। स बाध्यमानः समरे द्रौणिना युद्धदुर्मदः॥ द्रौणिं पाञ्चालतनयो वाग्भिरार्जयत् तदा। न जानीघे प्रतिज्ञां मे विप्रोत्पत्तिं तथैव च॥ द्रोणं हत्वा किल मया हन्तव्यस्त्वं सुदुर्मते। ततस्त्वाहं न हन्म्यद्य द्रोणे जीवति संयुगे॥ इमां तु रजनी प्राप्तामप्रभातां सुदुर्मते। निहत्य पितरं तेऽद्य ततस्त्वामपि संयुगे॥ नेष्यामि प्रेतलोकाय ह्येतन्मे मनसि स्थितम्। यस्ते पार्थेषु विद्वेषो या भक्तिः कौरवेषु च॥ तां दर्शय स्थिरो भूत्वा न मे जीवन् विमोक्ष्यसे। यो हि ब्राह्मण्यमुत्सृज्य क्षत्रधर्मरतो द्विजः॥ स वध्यः सर्वलोकस्य यथा त्वं पुरुषाधमः। इत्युक्तः परुषं वाक्यं पार्षतेन द्विजोत्तमः॥ क्रोधपाहारयत् तीव्र तिष्ठ तिष्ठेति चाब्रवीत्। निर्दहन्निव चक्षुर्त्या पार्षतं सोऽभ्यवेक्षत॥ छादयामास च शरैर्नि:श्वसन् पन्नगो यथा। स च्छाद्यमानः समरे द्रौणिना राजसत्तम॥ सर्वपाञ्चालसेनाभिः संवृतो रथसत्तमः। नाकम्पत महाबाहुः स्ववार्यं समपाश्रितः॥ सायकांश्चैव विविधानश्वत्थाग्नि मुमोच ह। तौ पुनः संन्यवर्तेतां प्राणधूतपणे रणे॥ निपीडयन्तौ बाणौधैः परस्परममर्षिणौ। उत्सृजन्तौ महेष्वासौ शरवृष्टीः समन्ततः॥ द्रौणिपार्षतयोर्युद्धं घोररूपं भयानकम्। दृष्ट्वा सम्पूजयामासुः सिद्धचारणवातिकाः॥ शरौघैः पूरयन्तौ तावाकाशं च दिशस्तथा। अलक्ष्यौ समयुध्येतां महत् कृत्वा शरैस्तमः॥ नृत्यमानाविव रणे मण्डलीकृतकार्मुकौ। परस्परवधे यत्तौ सर्वभूतभयङ्करौ॥ अयुध्येतां महाबाहू चित्रं लघु च सुष्ठु च। सम्पूज्यमानौ समरे योधमुख्यैः सहस्रशः॥ तौ प्रबुद्धौ रणे दृष्ट्वा वने वन्यौ गजाविव। उभयोः सेनयोर्हर्षस्तुमुलः समपद्यत॥ सिंहनादरवाश्चासन् दध्मुः शङ्खांश्च सैनिकाः। वादिवाण्यभ्यवाद्यन्त शतशोऽथ सहस्रशः॥ तस्मिंस्तु तुमुले युद्धे भीरूणां भयवर्धने। मुहूर्तमपि तद् युद्धं समरूपं तदाभवत्॥ ततो द्रौणिर्महाराज पार्षतस्य महात्मनः। ध्वजं धनुस्तथा छत्रमुभौ च पाणिसारथी॥ पञ्चालांश्चैव तान् सर्वान् बाणैः संनतपर्वभिः॥ व्यद्रावयदमेयात्मा शतशोऽथ सहस्रशः। ततस्तु विव्यथे सेना पाण्डवी भरतर्षभ॥ दृष्ट्वा द्रौणेर्महत् कर्म वासवस्येव संयुगे। शतेन च शतं हत्वा पञ्चालानां महारथः॥ त्रिभिश्च निशितैर्बाणैर्हत्वा त्रीन् वै महारथान्। द्रौणिर्दुपदपुत्रस्य फाल्गुनस्य च पश्यतः॥ नाशयामास पञ्चालान् भूयिष्ठं ये व्यवस्थिताः। ते वध्यमानाः पञ्चालाः समरे सह संजयैः॥ अगच्छन् द्रौणिमुत्सृज्य विकीर्णरथध्वजाः। स जित्वा समरे शत्रून् द्रोणपुत्रो महारथः॥ ननाद सुमहानादं तपान्ते जलदो यथा। स निहत्य बहूञ्छूरानश्वत्थामा व्यरोचत। युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः॥ सम्पूज्यमानो युधि कौरवेयैनिर्जित्य संख्येऽरिगणान् सहस्रशः। व्यरोचत द्रोणसुतः प्रतापवान्। यथा सुरेन्द्रोऽरिगणान् निहत्य वै॥ संजय उवाच सोमदत्तं तु सम्प्रेक्ष्य विधुन्वानं महद् धनुः। सात्यकिः प्राह यन्तारं सोमदत्ताय मां वह।।॥ न ह्यहत्वा रणे शत्रु सोमदत्तं महाबलम्। निवर्तिध्ये रणात् सूत सत्यमेतद् वचो मम॥ ततः सम्प्रेषयद् यन्ता सैन्धवांस्तान् मनोजवान्। तुरङ्गमाञ्छववर्णान् सर्वशब्दातिगान् रणे॥ तेऽवहन् युयुधानं तु मनोमारुतरंहसः। यथेन्द्रं हरयो राजन् पुरा दैत्यवधोद्यतम्॥ तमापतन्तं सम्प्रेक्ष्य सात्वतं रभसं रणे। सोमदत्तो महाबाहुरसम्भ्रान्तो न्यवर्तत॥ विमुञ्चञ्छरवर्षाणि पर्जन्य इव वृष्टिमान्। छादयामास शैनयं जलदो भास्करं यथा॥ असम्भ्रान्तश्च समरे सात्यकिः कुरुपुङ्गवम्। छादयामास बाणौधैः समन्ताद् भरतर्षभ॥ सोमदत्तस्तु तं षष्ट्या विव्याघोरसि माधवम्। सात्यकिश्चापि तं राजन्नविध्यत् सायकैः शितैः॥ तावन्योन्यं शरैः कृत्तौ व्यराजेतां नरर्षभौ। सुपुष्यौ पुष्पसमये पुष्पिताविव किंशुकौ॥ रुधिरोक्षितसर्वाङ्गौ कुरुवृष्णियशस्करौ। परस्परमवेक्षेतां दहन्ताविव लोचनैः॥ रथमण्डलमार्गेषु चरन्तावरिमर्दनौ। घोररूपौ हि तवास्तां वृष्टिमन्ताविवाम्बुदौ॥ शरसम्भिन्नगात्रौ तु सर्वतः शकलीकृतौ। श्वाविधाविव राजेन्द्र दृश्यतां शरविक्षतौ॥ सुवर्णपुङ्खरिषुभिराचितौ तौ व्यराजताम्। खद्योतैरावृतौ राजन् प्रावृषीव वनस्पती॥ सम्प्रदीपितसर्वाङ्गौ सायकैस्तैर्महारथौ। अदृश्येतां रणे क्रुद्धावुल्काभिरिव कुञ्जरौ॥ ततो युधि महाराज सोमदत्तो महारथः। अर्धचन्द्रेण चिच्छेद माधवस्य महद् धनुः॥ अथैनं पञ्चविंशत्या सायकानां समार्पयत्। त्वरमाणस्त्वरकाले पुनश्च दशभिः शरैः॥ अथान्यद् धनुरादाय सात्यकिर्वेगवत्तरम्। पञ्चभिः सायकैस्तूर्णं सोमदत्तमविध्यत॥ ततोऽपरेण भल्लेन ध्वजं चिच्छेद काञ्चनम्। बाह्रीकस्य रणे राजन् सात्यकिः प्रहसन्निव॥ सोमदत्तस्त्वसम्भ्रान्तो दृष्ट्वा केतुं निपातितम्। शैनेयं पञ्चविंशत्या सायकानां समाचिनोत्॥ सात्वतोऽपि रणे क्रुद्धः सोमदत्तस्य धन्विनः। धनुचिच्छेद भल्लेन क्षुरप्रेण शितेन ह॥ अथैनं रुक्मपुङ्खानां शतेन नतपर्वणाम्। आचिनोद वहुधा राजन भग्नदंष्ट्रमिव द्विपम्॥ अथान्यद् धनुरादाय सोमदत्तो महारथः। सात्यकि छादयामास शरवृष्ट्या महाबलः॥ सोमदत्तं तु संक्रुद्धो रणे विव्याध सात्यकः। सात्यकिं शरजालेन सोमदत्तोऽप्यपीड्यत्॥ दशभिः सात्वतस्यार्थे भीमोऽहन् बाह्निकात्मजम्। सोमदत्तोऽप्यसम्भ्रान्तो भीममाईच्छितैः शरैः॥ ततस्तु सात्वतस्यार्थे भीमसेनो नवं दृढम्। मुमोच परिघं घोरं सोमदत्तस्य वक्षसि॥ तमापतन्तं वेगेन परिघं घोरदर्शनम्। द्विधा चिच्छेद समरे प्रहसन्निव कौरवः॥ स पपात द्विधाछिन्न आयसः परिघो महान्। महीधरस्येव महच्छिखरं वज्रदारितम्॥ ततस्तु सात्यकी राजन् सोमदत्तस्य संयुगे। धनुश्चिच्छेद भल्लेन हस्तावापं च पञ्चभिः॥ ततश्चतुर्भिश्च शरैस्तूर्णं तांस्तुरगोत्तमान्। समीपं प्रेषयामास प्रेतराजस्य भारत॥ सारथेश्च शिरः कायाद् भल्लेन नतपर्वणा। जहार नरशार्दूलः प्रहसञ्छिनिपुङ्गवः॥ ततः शरं महाघोरं ज्वलन्तमिव पावकम्। मुमोच सात्वको राजन् स्वर्णपुङ्ख शिलाशितम्॥ स विमुक्तो बलवता शैनेयेन शरोत्तमः। घोरस्तस्योरसि विभो निपपाताशु भारत॥ सोऽतिविद्धो महाराज सात्वतेन महारथः। सोमदत्तो महाबाहुर्निपपात ममार च॥ तं दृष्ट्वा निहतं तत्र सोमदत्तं महारथाः। नहता शरवर्षेण युयुधानमुपाद्रवन्॥ छाद्यमानं शरैर्दृष्ट्वा युयुधानं युधिष्ठिरः। पाण्डवाश्च महाराज सह सर्वैः प्रभद्रकैः। महत्या सेनया साधु द्रोणानीकमुपाद्रवन्॥ ततो युधिष्ठिरः क्रुद्धस्तावकानां महाबलम्। शरैर्विद्रावयामास भारद्वाजस्य पश्यतः॥ सैन्यानि द्रावयन्तं तु द्रोणो दृष्ट्वा युधिष्ठिरम्। अभिदुद्राव वेगेन क्रोधसंरक्तलोचनः॥ ततः सुनिशितैर्बाणैः पार्थ विव्याध सप्तभिः। युधिष्ठिरोऽपि संक्रुद्धः प्रतिविव्याध पञ्चभिः॥ सोऽतिविद्धो महाबाहुः सृक्विणी परिसंलिहन्। युधिष्ठिरस्य चिच्छेद ध्वजं कार्मुकमेव च॥ स च्छिन्नधन्वा त्वरितस्त्वराकाले नृपोत्तमः। अन्यदादत्त वेगेन कार्मुकं समरे दृढम्॥ ततः शरसहस्रेण द्रोणं विव्याध पार्थिवः। साश्वसूतध्वजरथं तदद्भुतमिवाभवत्॥ ततो मुहूर्त व्यथित शरपातप्रपीडितः। निषसाद स्थोपस्थे द्रोणो भरतसत्तम॥ प्रतिलभ्य ततः संज्ञां मुहूर्ताद् द्विजसत्तमः। क्रोधेन महताऽऽविष्टो वायव्यास्रमवासृजत्॥ असम्भ्रान्तस्ततः पार्थो धनुराकृष्य वीर्यवान्। ततस्तदसमस्रेण स्तम्भयामास भारत॥ चिच्छेद च धनुदीर्घ ब्राह्मणस्य च पाण्डवः। ततोऽन्यद् धनुरादत्त द्रोणः क्षत्रियमर्दनः॥ तदप्यस्य शितैर्भल्लैश्चिच्छेद कुरुपुङ्गवः। ततोऽब्रवीद् वासुदेवः कुन्तीपुत्रं युधिष्ठिरम्॥ युधिष्ठिर महाबाहो यत्त्वां वक्ष्यामि तच्छृणु। उपारमख युद्धे त्वं द्रोणाद् भरतसत्तम॥ यतते हि सदा द्रोणो ग्रहणे तव संयुगे। युद्धमस्य त्वया सह॥ योऽस्य सृष्टो विनाशाय च एवैनं हनिष्यति। परिवर्त्य गुरुं याहि यत्र राजा सुयोधनः॥ नानुरूपमहं मन्ये राजा राज्ञा हि योद्धव्यो नाराज्ञा युद्धमिष्यते। तत्र त्वं गच्छ कौन्तेय हस्त्यश्वरथसंवृतः॥ यावन्तात्रेण च मया सहायेन धनंजयः। भीमश्च स्थशार्दूलो युध्यते कौरवैः सह॥ वासुदेववचः श्रुत्वा धर्मराजो युधिष्ठिरः। मुहूर्तं चिन्तयित्वा तु ततो दारुणमाहवम्॥ प्रायाद् द्रुतममित्रनो यत्र भीमो व्यवस्थितः। विनिप्रंस्तावकान् योधान् व्यादितास्य इवान्तकः॥५३ स्थघोषेण महता नादयन् वसुधातलम्। पर्जन्य इव धर्मान्ते नादयन् वै दिशो दश॥ भीमस्य निघ्नतः शत्रून् पाणिं जग्राह पाण्डवः। द्रोणोऽपि पाण्डुपञ्चालान् व्यधमद् रजनीमुखे॥ संजय उवाच वर्तमाने तथा युद्धे घोररूपे भयावहे। तमसा संवृते लोके रजसा च महीपते॥ नापश्यन्त रणे योधाः परस्परमवस्थिताः। अनुमानेन संज्ञाभिर्युद्धं तद् ववृधे महत्॥ नरनागाश्वमथनं परमं लोमहर्षणम्। द्रोणकर्णकृपा वीरा भीमपार्षतसात्यकाः॥ अन्योन्यं क्षोभयामासुः सैन्यानि नृपसत्तम। वध्यमानानि सैन्यानि समन्तात् तैर्महारथैः॥ तमसा संवृते चैव समन्ताद् विप्रदुद्रुवुः। ते सर्वतो विद्रवन्तो योधा विध्वस्तचेतनाः॥ अहन्यन्त महाराज धावमानाश्च संयुगे। महारथसहस्राणि जघ्नुरन्योन्यमाहवे॥ अन्धे तमसि मूढानि पुत्रस्य तव मन्त्रिते। ततः सर्वाणि सैन्यानि सेनागोपाश्च भारत। व्यमुह्यन्त रणे तत्र तमसा संवृते सति॥ धृतराष्ट्र उवाच तेषां संलोड्यमानानां पाण्डवैर्विहतौजसाम्। अन्धे तमसि मग्नानामासीत् किं वो मनस्तदा।॥ कथं प्रकाशस्तेषां वा मम सैन्यस्य वा पुनः। बभूव लोके तमसा तथा संजय संवृते॥ संजय उवाच ततः सर्वाणि सैन्यानि हतशिष्टानि यानि वै। सेनागोप्तनथादिश्य पुनर्वृहमकल्पयत्॥ स्तथा द्रौणिः पार्श्वतः सौबलश्चा स्वयं तु सर्वाणि बलानि राजन् राजाभ्ययाद् गोपयन् वै निशायाम्॥ उवाच सर्वांश्च पदातिसङ्घान् दुर्योधनः पार्थिव सान्त्वपूर्वम्। उत्सृज्य सर्वे परमायुधानि गृह्णीत हस्तैललितान् प्रदीपान्॥ ते चोदिताः पार्थिवसत्तमेन ततः प्रहृष्टाः जगृहुः प्रदीपान्। देवर्षिगन्धर्वसुरर्षिसङ्घा विद्याधराश्चाप्सरसां गणाच॥ नागाः सयक्षोरगकिन्नराच हृष्टा दिविस्था जगृहुः प्रदीपान्। ऽदृश्यन्त दीपाः ससुगन्धितैलाः॥ विशेषतो नारदपर्वताभ्यां सम्बोध्यमानाः कुरुपाण्डवार्थम्। सा भूय एव ध्वजिनी विभक्ता व्यरोचताग्निप्रभया निशायाम्॥ महाधनैराभरणैश्च दिव्यैः शस्त्रैश्च दीप्तैरपि सम्पतद्भिः। रथे रथे पञ्च विदीपकास्तु प्रदीपकास्तत्र गजे त्रयश्च॥ प्रत्यश्वमेकश्च महाप्रदीपः। कृतास्तु तैः पाण्डवैः कौरवेयैः। क्षणेन सर्वे विहिताः प्रदीपा व्यादीपयन्तो ध्वजिनीं तवाशु॥ सर्वास्तु सेना व्यतिसेव्यमानाः पदातिभिः पावकतैलहस्तैः। प्रकाश्यमाना ददृशुर्निशायां यथान्तरिक्षे जलदास्तडिद्भिः॥ प्रकाशितायां तु ततो ध्वजिन्यां द्रोणोऽग्निकल्पः प्रतपन् समन्तात्। रराज राजेन्द्र सुवर्णवर्मा मध्यं गतः सूर्य इवांशुमाली॥ जाम्बूनदेष्वाभरणेषु चैव निष्केषु शुद्धेषु शरासनेषु। पीतेषु शस्त्रेषु च पावकस्य प्रतिप्रभास्तत्र तदा बभूवुः॥ गदाश्च शैक्याः परिघाश्च शुभ्रा रथेषु शक्त्यश्च विवर्तमानाः। प्रतिप्रभारश्मिभिराजमीढ पुनः पुनः संजनयन्ति दीपान्॥ छत्राणि वालव्यजनानि खङ्गा दीप्ता महोल्काश्च तथैव राजन्। व्याघूर्णमानाश्च सुवर्णमाला व्यायच्छतां तत्र तदा विरेजुः॥ शस्त्रप्रभाभिश्च विराजमानं दीपप्रभाभिश्च तदा बलं तत्। भृशं प्रकाशं नृपते बभूव॥ पीतानि शस्राण्यसृगुक्षितानि वीरावधूतानि तनुच्छदानि। दीप्तां प्रभां प्राजनयन्त तत्र तपात्यये विद्युदिवान्तरिक्षे॥ रभिघ्नतां चापततां जवेन। वक्त्राण्यकाशन्त तदा नराणां वाय्वीरितानीव महाम्बुजानि॥ महावने दारूमये प्रदीप्ते यथा प्रभा भास्करस्यापि नश्येत्। तथा तदाऽऽसीद् ध्वजिनी प्रदीप्ता महाभया भारत भीमरूपा॥ तत् सम्प्रदीप्तं बलमस्मदीयं निशम्य पार्थास्त्वरितास्तथैव। नचोदयंस्तेऽपि चक्रुः प्रदीपान्॥ गजे गजे सप्त कृताः प्रदीपा रथे रथे चैव दश प्रदीपाः। द्वावश्वपृष्ठे परिपार्श्वतोऽन्ये ध्वजेषु चान्ये जघनेषु चान्ये॥ सेनासु सर्वासु च पार्श्वतोऽन्ये पश्चात् पुरस्ताच समन्ततश्च। मध्ये तथान्ये ज्वलिताग्निहस्ता व्यदीपयन् पाण्डुसुतस्य सेनाम्॥ मध्ये तथान्ये ज्वलिताग्निहस्ताः सेनाद्वयेऽपि स्म नरा विचेरुः। सर्वेषु सैन्येषु पदातिसङ्घा विमिश्रिता हस्तिरथाश्ववृन्दैः॥ व्यदीपयंस्ते ध्वजिनीं प्रदीप्तां तथा बलं पाण्डवेयाभिगुप्तम्। तेन प्रदीप्तेन तथा प्रदीप्तं बलं तवासीद् बलवद् बलेन॥ भाः कुर्वता भानुमता ग्रहेण दिवाकरेणाग्निरिवाभिगुप्तः। तयोः प्रभाः पृथिवीमन्तरिक्षं सर्वा व्यतिक्रम्य दिशश्च वृद्धाः॥ तेन प्रकाशेन भृशं प्रकाशं बभूव तेषां तव चैव सैन्यम्। तेन प्रकाशेन दिवं गतेन सम्बोधिता देवगणाश्च राजन्॥ गन्धर्वयक्षासुरसिद्धसंघाः समागमन्नप्सरसश्च सर्वाः। तद् देवगन्धर्वसमाकुलं च यक्षासुरेन्द्राप्सरसां गणैश्च॥ रायोधनं दिव्यकल्पं बभूव। रथाश्वनागाकुलदीपदीप्तं संरब्धयोधं हतविदुताश्वम्॥ महद् बलं व्यूढरथाश्वनागं सुरासुव्यहूसमं बभूवा तच्छक्तिसंघाकुलचण्डवातं महारथानं गजवाजिघोषम्॥ शस्त्रैघवर्षं रुधिराम्बुधारं निशि प्रवृत्तं रणदुर्दिनं तत्। तस्मिन् महाग्निप्रतिमो महात्मा संतापयन् पाण्डवान् विप्रमुख्यः॥ गभस्तिभिर्मध्यगमो यथार्को वर्षात्यये तद्वदभून्नरेन्द्र॥ संजय उवाच प्रकाशिते तदा लोके रजसा तमसाऽऽवृते। समाजग्मुरथो वीराः परस्परवधैषिणः॥ ते समेत्य रणे राजज्छस्रप्रासासिधारिणः। परस्परमुदैक्षन्त परस्परकृतागसः॥ प्रदीपानां सहस्रैश्च दीप्यमानैः समन्ततः। रत्नाचितैः स्वर्णदण्डैर्गन्धतैलावसिञ्चितैः॥ देवगन्धर्वदीपाद्यैः प्रभाभिरधिकोज्वलैः। विरराज तदा भूमिहैद्यौरिव भारत॥ उल्काशतैः प्रज्वलितै रणभूमिळराजत। दह्यमानेव लोकानामभावे च वसुंधरा॥ व्यदीप्यन्त दिशः सर्वाः प्रदीपैस्तैः समन्ततः। वर्षाप्रदोषे खद्योतैर्वृता वृक्षा इवाबभुः॥ असज्जन्त ततो वीरा वीरेष्वेव पृथक् पृथक्। नागा नागैः समाजग्मुस्तुरगा हयसादिभिः॥ रथा रथवरैरेव समाजग्मुर्मुदा युताः। तस्मिन् रात्रिमुखे घोरे तव पुत्रस्य शासनात्॥ चतुरङ्गस्य सैन्यस्य सम्पातश्च महानभूत्। ततोऽर्जुनो महाराज कौरवाणामनीकिनीम्॥ व्यधमत् त्वरया युक्तः क्षपयन् सर्वपार्थिवान्। धृतराष्ट्र उवाच तस्मिन् प्रविष्टे संरब्धे मम पुत्रस्य वाहिनीम्॥ अमृष्यमाणे दुर्धर्षे कथमासीन्मनो हि वः। किमकुर्वत सन्यानि प्रविष्ट परपीडने॥ दुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत। के चैनं समरे वीरं प्रत्युद्ययुररिंदमाः॥ द्रोणं च के व्यरक्षन्त प्रविष्टे श्वेतवाहने। के रक्षन् दक्षिणं चक्र के च द्रोणस्य सव्यतः॥ के पृष्ठतश्चाप्यभवन् वीरा वीरान् विनिघ्नतः। के पुरस्तादगच्छन्त निघ्नन्तः शात्रवान् रणे॥ यत् प्राविशन्महेष्वासः पञ्चालानपराजितः। नृत्यन्निव नरव्याघ्रो रथमार्गेषु वीर्यवान्॥ यो ददाह शरैर्दोणः पञ्चालानां रथव्रजान्। धूमकेतुरिव क्रुद्धः कथं मृत्युमुपेयिवान्॥ अव्यग्रानेव हि परान् कथयस्यपराजितान्। हृष्टानुदीर्णान् संग्रामे न तथा सूत मामकान्॥ हतांश्चैव विदीर्णाश्च विप्रकीर्णाश्च शंससि। रथिनो विरथांश्चैव कृतान् युद्धेषु मामकान्॥ संजय उवाच द्रोणस्य मतमाज्ञाय योद्धुकामस्य तां निशाम्। दुर्योधनो महाराज वश्यान् भ्रातूनुवाच ह॥ कर्णं च वृषसेनं च मद्रराजं च कौरव। दुर्धर्षं दीर्घबाहुं च ये च तेषां पदानुगाः॥ हार्दिक्यो दक्षिणं चक्रं शल्यश्चैवोत्तरं तथा॥ ये त्रिगर्तानां च शूरा हतशिष्टा महारथाः। तांश्चैव पुरतः सर्वान् पुत्रसते समचोदयत्॥ आचार्यो हि सुसंयत्तो भृशं यत्ताश्च पाण्डवाः। तं रक्षत सुसंयत्ता निघ्नतं शात्रवान् रणे॥ द्रोणो हि बलवान् युद्धे क्षिप्रहस्तः प्रतापवान्। निर्जयेत् त्रिदशान् युद्धे किमु पार्थान् ससोमकान्॥२४ ते यूयं सहिताः सर्वे भृशं यत्ता महारथाः। द्रोणं रक्षत पाञ्चालाद् धृष्टद्युम्नान्महारथात्॥ पाण्डवीयेषु सैन्येषु न तं पश्याम कञ्चन। यो योधयेद् रणे द्रोणं धृष्टद्युम्नाहृते नृपः॥ तस्मात् सर्वात्मना मन्ये भारद्वाजस्य रक्षणम्। सुगुप्तः पाण्डवान् हन्यात् संजयांश्च ससोमकान्॥ संजयेष्वथ सर्वेषु निहतेषु चमूमुखे। धृष्टद्युम्नं रणे द्रौणिर्हनिष्यति न संशयः॥ तथार्जुनं च राधेयो हनिष्यति महारथः। भीमसेनमहं चापि युद्धे जेष्यामि दीक्षितः॥ शेषांश्च पाण्डवान् योधाः प्रसभं हीनतेजसः। सोऽयं मम जयो व्यक्तो दीर्घकालं भविष्यति। तस्माद् रक्षत संग्रामे द्रोणमेव महारथम्॥ इत्युक्त्वा भरतश्रेष्ठ पुत्रो दुर्योधनस्तव। व्यादिदेश तथा सैन्यं तस्मिंस्तमसि दारुणे॥ ततः प्रववृते युद्धं रात्रौ भरतसत्तम। उभयोः सेनयो?रं परस्परजिगीषया॥ अर्जुनः कौरवं सैन्यमर्जुनं चापि कौरवाः। नानाशस्त्रसमावायैरन्योयं समपीडयन्॥ द्रौणिः पाञ्चालराजं च भारद्वाजश्च सुंजयान्। छादयांचक्रतुः संख्ये शरैः संनतपर्वभिः॥ पाण्डुपाञ्चालसैन्यानां कौरवाणां च भारत। आसीनिष्टानको घोरो निजतामितरेतरम्॥ नैवास्माभिस्तथा पूर्वैर्दृष्टपूर्वं तथाविधम्। श्रुतं वा यादृशं युद्धमासीद् रौद्रं भयानकम्॥ संजय उवाच वर्तमाने तदा रौद्रे रात्रियुद्धे विशाम्पते। सर्वभूतक्षयकरे धर्मपुत्रो युधिष्ठिरः॥ अब्रवीत् पाण्डवांश्चैव पञ्चालांश्चैव सोमकान्। अभिद्रवत् संयातं द्रोणमेव जिघांसया॥ राज्ञस्ते वचनाद् राजन् पञ्चालाः सृञ्जयास्तथा। द्रोणमेवाभ्यवर्तन्त नदन्तो भैरवान् रवान्॥ तं तु ते प्रतिगर्जन्तः प्रत्युद्यातास्त्वमर्षिताः। यथाशक्ति यथोत्साहं यथासत्त्वं च संयुगे॥ कृतवर्मा तु हार्दिक्यो युधिष्ठिरमुपाद्रवत्। द्रोणं प्रति समायान्तं मत्तो मत्तमिव द्विपम्॥ शैनेयं शरवर्षाणि विकिरन्तं समन्ततः। अभ्ययात् कौरवो राजन् भूरिः संग्राममूर्धनि॥ सहदेवमथायान्तं द्रोणप्रेप्सुं महारथम्। कर्णो वैकर्तनो राजन् वारयामास पाण्डवम्॥ भीमसेनमथायान्तं व्यादितास्यमिवान्तकम्। स्वयं दुर्योधनो राजा प्रतीपं मृत्युमाव्रजत्॥ नकुलं च युधां श्रेष्ठं सर्वयुद्धविशारदम्। शकुनिः सौबलो राजन् वारयामास सत्वरः॥ शिखण्डिनमथायान्तं रथेन रथिनां वरम्। कृपः शारद्वतो राजन् वारयामास संयुगे॥ प्रतिविन्ध्यमथायान्तं मयूरसदृशैर्हयैः। दुःशासनो महाराज यत्तो यत्तमवारयत्॥ भैमसेनिमथायान्तं मायाशतविशारदम्। अश्वत्थामा महाराज राक्षसं प्रत्यषेधयत्॥ द्रुपदं वृषसेनस्तु ससैन्यं सपदानुगम्। वारयामास समरे द्रोणप्रेप्सुं महारथम्॥ विराटं दुतमायान्तं द्रोणस्य निधनं प्रति। मद्रराजः सुसंक्रुद्धो वारयामास भारत॥ शतानीकमथायान्तं नाकुलिं रभसं रणे। चित्रसेनो रुरोधाशु शरैर्दोणपरीप्सया॥ अर्जुनं च युधां श्रेष्ठं प्राद्रवन्तं महारथम्। अलम्बुषो महाराज राक्षसेन्द्रो न्यवारयत्॥ तथा द्रोणं महेष्वासं निजतं शात्रवान् रणे। धृष्टद्युम्नोऽथ पाञ्चाल्यो हृष्टरूपमवारयत्॥ तथान्यान् पाण्डुपुत्राणां समायातान् महारथान्। तावका रथिनो राजन् वारयामासुरोजसा॥ गजारोहा गजैस्तूर्णं संनिपत्य महामृधे। योधयन्तश्च मृद्गन्तः शतशोऽथ सहस्रशः॥ निशीथे तुरगा राजन् द्रावयन्तः परस्परम्। समदृश्यन्त वेगेन पक्षवन्तो यथाऽद्रयः॥ सादिनः सादिभिः सार्धं प्रासशक्त्यष्टिपाणयः। समागच्छन् महाराज विनदन्तः पृथक् पृथक्॥ नरास्तु बहवस्तत्र समाजग्मुः परस्परम्। गदाभिर्मुसलैश्चैव नानाशस्त्रैश्च संयुगे॥ कृतवर्मा तु हार्दिक्यो धर्मपुत्रं युधिष्ठिरम्। वारयामास संक्रुद्धो वेलेवोवृत्तमर्णवम्॥ युधिष्ठिरस्तु हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः। पुनर्विव्याध विंशत्या तिष्ठ तिष्ठेति चाब्रवीत्॥ कृतवर्मा तु संक्रुद्धो धर्मपुत्रस्य मारिष। धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः॥ अथान्यद् धनुरादाय धर्मपुत्रो महारथः। हार्दिक्यं दशभिर्बाणैर्बाह्वोरुरसि चार्पयत्॥ माधवस्तु रणे विद्धो धर्मपुत्रेण मारिष। प्राकम्पत च रोषेण सप्तभिश्चादयच्छरैः॥ तस्य पार्थो धनुश्छित्त्वा हस्तावापं निकृत्य च। प्राहिणोन्निशितान् बाणान् पञ्च राजञ्छिलाशितान्।। २८ ते तस्य कवचं भित्त्वा हेमचित्रं महाधनम्। प्राविशन् धरणी भित्त्वा वल्मीकमिव पन्नगाः॥ अक्ष्णोनिमेषमात्रेण सोऽन्यदादाय कार्मुकम्। विव्याध पाण्डवं षष्ट्या सूतं च नवभिः शरैः॥ तस्य शक्तिममेयात्मा पाण्डवो भुजगोपमाम्। चिक्षेप भरतश्रेष्ठ रथे न्यस्य महद् धनुः॥ सा हेमचित्रा महती पाण्डवेन प्रवेरिता। निर्भिद्य दक्षिणं बाहुं प्राविशद् धरणीतलम्॥ एतस्मिन्नेव काले तु गृह्य पार्थः पुनर्धनुः। हार्दिक्यं छादयामास शरैः संनतपर्वभिः॥ ततस्तु समरे शूरो वृष्णीनां प्रवरो रथी। व्यश्वसूतरथं चक्रे निमेषार्धाद् युधिष्ठिरम्॥ ततस्तु पाण्डवो ज्येष्ठः खङ्गं चर्म समाददे। तदस्य निशितैर्बाणैर्व्यधमन्माधवो रणे॥ तोमरं तु ततो गृह्य स्वर्णदण्डं दुरासदम्। प्रेषयत् समरे तूर्णं हार्दिक्यस्य युधिष्ठिरः॥ तमापतन्तं सहसा धर्मराजभुजच्युतम्। द्विधा चिच्छेद हार्दिक्यः कृतहस्तः स्मयन्निव॥ ततः शरशतेनाजौ धर्मपुत्रमवाकिरत्। कवचं चास्य संक्रुद्धः शरैस्तीक्ष्णौरदारयत्॥ हार्दिक्यशरसंछन्नं कवचं तन्महाधनम्। व्यशीयर्त रणे राजंस्ताराजालमिवाम्बरात्॥ स च्छिन्नधन्वा विरथः शीर्णवर्मा शरार्दितः। अपायासीद् रणात् तूर्णं धर्मपुत्रो युधिष्ठिरः॥ कृतवर्मा तु निर्जित्य धर्मात्मानं युधिष्ठिरम्। पुनर्दोणस्य जुगुपे चक्रमेव महात्मनः॥ संजय उवाच विराटं सहसेनं तु द्रोणं वै द्रुतमागतम्। मद्रराजः शरौघेण च्छादयामास धन्विनम्॥ तयोः समभवद् युद्धं समरे दृढधन्विनोः। यादृशं ह्यभवद् राजञ्जम्भवासवयोः पुरा॥ मद्रराजो महाराज विराटं वाहिनीपतिम्। आजने त्वरितस्तूर्णं शतेन नतपर्वणाम्॥ प्रतिविव्याध तं राजन् नवभिर्निशितैः शरैः। पुनश्चैनं त्रिसप्तत्या भूयश्चैव शतेन तु॥ तस्य मद्राधिपो हत्वा चतुरो स्थवाजिनः। सूतं ध्वजं च समरे शराभ्यां संन्यपातयत्॥ हताश्वात् तु रथात् तूर्णमवप्लुत्य महारथः। तस्थौ विस्फारयंश्चापं विमुञ्चश्च शिताञ्छरान्॥ शतानीकस्ततो दृष्ट्वा भ्रातरं हतवाहनम्। रथेनाभ्यपतत् तूर्णं सर्वलोकस्य पश्यतः॥ शतानीकमथायान्तं मद्रराजो महामृधे। विशिखैर्बहुभिर्विद्ध्वा ततो निन्ये यमक्षयम्॥ तस्मिस्तु निहते वीरे विराटो रथसत्तमः। ततो विस्फार्य नयने क्रोधाद् द्विगुणविक्रमः। मद्रराजरथं तूर्णं छादयामास पत्रिभिः॥ ततो मद्राधिपः क्रुद्धः शरेणानतपर्वणा। आजधानोरसि दृढं विराटं वाहिनीपतिम्॥ सोऽतिविद्धो महाराज रथोपस्थ उपाविशत्। कश्मलं चाविशत् तीव्र विराटो भरतर्षभ॥ सारथिस्तमपोवाह समरे शरविक्षतम्। ततः सा महती सेना प्राद्रवन्निशि भारत॥ वध्यमाना शरशतैः शल्येनाहवशोभिना। तां दृष्ट्वा विद्रुतां सेनां वासुदेवधनंजयौ॥ प्रयातौ तत्र राजेन्द्र यत्र शल्यो व्यवस्थितः। तौ तु प्रत्युद्ययौ राजन् राक्षसेन्द्रो ह्यलम्बुषः॥ अष्टचक्रसमायुक्तमास्थाय प्रवरं रथम्। तुरङ्गममुखैर्युक्तं पिशाचै?रदर्शनैः॥ लोहितार्द्रपताकं तं रक्तमाल्यविभूषितम्। कार्णायसमयं घोरमृक्षचर्मसमावृतम्॥ रौद्रेण चित्रपक्षण विवृताक्षेण कूजता। ध्वजेनोच्छ्रितदण्डेन गृध्रराजेन राजता॥ स बभौ राक्षसो राजन् भिन्नाञ्जनचयोपमः। रुरोधार्जुनमायान्त प्रभञ्जनमिवाद्रिराट्॥ किरन् बाणगणान् राजशतशोऽर्जुनमूर्धनि। अतितीवं महद् युद्धं नरराक्षसयोस्तदा॥ द्रष्ट्णां प्रीतिजननं सर्वेषां तत्र भारता मृध्रकाकबलोलूककङ्कगोमायुहर्षणम्॥ तमर्जुनः शतेनैव पत्रिणां समताडयत्। नवभिश्च शितैर्बाणैर्ध्वजं चिच्छेद भारत।॥ सारथिं च त्रिभिर्बाणैसिभिरेव त्रिवेणुकम्। धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान्॥ पुनः सज्यं कृतं चापं तदप्यस्य द्विधाच्छिनत्। विरथस्योद्यतं खङ्गं शरेणास्य द्विधाकरोत्॥ अथैनं निशितैर्बाणैश्चतुर्भिर्भरतर्षभ। पार्थोऽविध्यद् राक्षसेन्द्रं स विद्धः प्राद्रवद् भयात्।।२४ तं विजित्यार्जुनस्तूर्णं द्रोणान्तिकमुपाययौ। किरशरगणान् राजन् नरवारणवाजिषु॥ वध्यमाना महाराज पाण्डवेन यशस्विना। सैनिका न्यपतन्नुर्व्या वातुनुन्ना इव दुमाः॥ तेषु तूत्साद्यमानेषु फाल्गुनेन महात्मना। सम्प्राद्रवद् बलं सर्वं पुत्राणां ते विशाम्पते॥ संजय उवाच शतानीकं शरैस्तूर्णं निर्दहन्तं चमू तवा चित्रसेनस्तव सुतो वारयामास भारत॥ नाकुलिचित्रसेनं तु विद्ध्वा पञ्चभिराशुगैः। स तु तं प्रतिविव्याध दशभिर्निशितैः शरैः॥ चित्रसेनो महाराज शतानीकं पुनर्युधि। नवभिर्निशितैर्बाणैराजधान स्तनान्तरे॥ नाकुलिस्तस्य विशिखैवर्म संनतपर्वभिः। गात्रात् संच्यावयामास तदद्भुतमिवाभवत्॥ सोऽपेतवर्मा पुत्रस्ते विरराज भृशं नृप। उत्सृज्य काले राजेन्द्र निर्मोकमिव पन्नगः॥ ततोऽस्य निशितैर्बाणैर्ध्वजं चिच्छेद नाकुलिः। धनुश्चैव महाराज यतमानस्य संयुगे॥ स च्छिन्नधन्वा समरे विवर्मा च महारथः। धनुरन्यन्महाराज जग्राहारिविदारणम्॥ ततस्तूर्णं चित्रसेनो नाकुलिं नवभिः शरैः। विव्याध समरे क्रुद्धो भरतानां महारथः॥ शतानीकोऽथ संक्रुद्धश्चित्रसेनस्य मारिष। जघान चतुरो वाहान् सारथिं च नरोत्तमः॥ अवप्लुत्य रथात् तस्माचित्रसेनो महारथः। नाकुलिं पञ्चविंशत्या शराणामार्दयद् बली॥ तस्य तत्कुर्वतः कर्म नकुलस्य सुतो रणे। अर्धचन्द्रेण चिच्छेद चापं रत्नविभूषितम्॥ स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः। आरुरोहं रथं तूर्णं हार्दिक्यस्य महात्मनः॥ दुपदं तु सहानीकं द्रोणप्रेप्सुं महारथम्। वृषसेनोऽभ्ययात् तूर्णं किरशरशतैस्तदा॥ यज्ञसेनस्तु समरे कर्णपुत्रं महारथम्। षष्ट्या शराणां विव्याध बाह्वोरुरसि चानघ॥ वृषसेनस्तु संक्रुद्धो यज्ञसेनं रथे स्थितम्। बहुभिः सायकैस्तीक्ष्णैराजघान स्तनान्तरे॥ तावुभौ शरनुन्नाङ्गो शरकण्टकितौ रणे। व्यभ्राजेतां महाराज श्वाविधौ शललैरिव॥ रुक्मपुजैः प्रसन्नाग्रैः शरैश्छिन्नतनुच्छदौ। रुधिरौघपरिकिनौ व्यभ्राजेतां महामृधे॥ तपनीयनिभौ चित्रौ कल्पवृक्षाविवाद्धातौ। किंशुकाविव चोत्फुल्लौ व्यकाशेतां रणाजिरे॥ वृषसेनस्ततो राजन् दुपदं नवभिः शरैः। विद्ध्वा विव्याध सप्तत्या पुनरन्यैस्रिभित्रिभिः॥ ततः शरसहस्राणि विमुञ्चन् विवभौ तदा। कर्णपुत्रो महाराज वर्षमाण इवाम्बुदः॥ दुपदस्तु ततः क्रुद्धो वृषसेनस्य कार्मुकम्। द्विधा चिच्छेद भल्लेन पीतेन निशितेन च॥ सोऽन्यत् कार्मुकमादाय रुक्मबद्धं नवं दृढम्। तूणादाकृष्य विमलं भल्लं पीतं शितं दृढम्॥ कार्मुके योजयित्वा तं दुपदं संनिरीक्ष्य च। आकर्णपूर्ण मुमुचे त्रासयन् सर्वसोमकान्॥ हृदयं तस्य भित्त्वा च जगाम वसुधातलम्। कश्मलं प्राविशद् राजा वृषसेनशराहतः॥ सारथिस्तमपोवाह स्मरन् सारथिचेष्टितम्। तस्मिन् प्रभग्ने राजेन्द्र पञ्चालानां महारथे॥ ततस्तु दुपदानीकं शरैश्छिन्नतानुच्छदम्। सम्प्राद्रवत् तदा राजन् निशीथे भैरवे सति॥ प्रदीपैर्हि परित्यक्तैर्व्वलद्भिस्तैः समन्ततः। व्यराजत मही राजन् वीताभ्रा द्यौरिव ग्रहैः॥ तथाङ्गदैर्नियतितैर्व्यराजत वसुंधरा। प्रावृट्काले महाराज विद्युद्भिरिव तोयदः॥ तत: कर्णसुतात् त्रस्ताः सोमका विप्रदुद्रवुः। यथेन्द्रभयवित्रस्ता दानवास्तारकामये॥ तेनार्यमानाः समरे द्रवमाणाश्च सोमकाः। व्यराजन्त महाराज प्रदीपैरवभासिताः॥ तांस्तु निर्जित्य समरे कर्णपुत्रोऽप्यरोचत। मध्यंदिनमनुप्राप्तो धर्मांशुरिव भारत॥ तेषु राजसहस्रेषु तावकेषु परेषु च। एक एव ज्वलंस्तस्थौ वृषसेनः प्रतापवान्॥ स विजित्य रणे शूरान् सोमकानां महारथान्। जगाम त्वरितस्तत्र यत्र राजा युधिष्ठिरः॥ प्रतिविन्ध्यमथ क्रुद्धं प्रदहन्तं रणे रिपून्। दुःशासनस्तव सुतः प्रत्यगच्छनमहारथः॥ तयोः समागमो राजंश्चित्ररूपो बभूव ह। व्यपेतजलद व्योम्नि बुधभास्करयोरिव॥ प्रतिविन्ध्यं तु समरे कुवार्णं कर्म दुष्करम्। दुःशासनसिभिर्बाणैर्ललाटे समविध्यत॥ सोऽतिविद्धो बलवता तव पुत्रेण धन्विना। विरराज महाबाहुः सशृङ्ग इव पर्वतः॥ दुःशासनं तु समरे प्रतिविन्धयो महारथः। नवभिः सायकैर्विद्धवा पुनर्विव्याध सप्तभिः॥ तत्र भारते पुत्रस्ते कृतवान् कर्म दुष्करम्। प्रतिविध्यहयानुप्रैः पातयामास सायकैः॥ सारथिं चास्य भल्लेन ध्वजं च सतपातयत्। रथं च तिलशो राजन् व्यधमत् तस्य धन्विनः॥ पताकाश्च सतूणीरा रश्मीन् योक्त्राणि च प्रभो। चिच्छेद तिलश: क्रुद्धः शरैः संनतपर्वभिः॥ विरथः स तु धर्मात्मा धनुष्पाणिरवस्थितः। अयोधयत् तव सुतं किरशरशतान् बहून्॥ क्षुरप्रेण धनुस्तस्य चिच्छेद तनयस्तव। अथैनं दशभिर्बाणैश्छिन्नधन्वानमार्दयत्॥ तं दृष्ट्वा विस्थं तत्र भ्रातरोऽस्य महारथाः। अन्ववर्तन्त वेगेन महत्या सेनया सह॥ आप्लुतः स ततो यानं सुतसोमस्य भास्वरम्। धनुर्गृह्य महाराज विव्याध तनयं तव॥ ततस्तु तावकाः सर्वे परिवार्य सुतं तव। अभ्यवर्तन्त संग्रामे महत्या सेनया वृताः॥ ततः प्रववृते युद्धं तव तेषां च भारत। निशीथे दारुणे काले यमराष्ट्रविवर्धनम्॥ संजय उवाच तस्मिन् सुतुमले युद्धे वर्तमाने भयावहे। धृष्टद्युम्नो महाराज द्रोणमेवाभ्यवर्तत॥ संदधानो धनुःश्रेष्ठं ज्यां विकर्षन् पुनः पुनः। अभ्यद्रवत द्रोणस्य रथं रुक्मविभूषितम्॥ धृष्टद्युम्नमथायान्तं द्रोणस्यान्तचिकीर्षया। परिववर्महाराज पञ्चालाः पाण्डवैः सह॥ तथा परिवृतं दृष्व द्रोणमाचार्यसत्तमम्। पुत्रास्ते सर्वतो यत्ता ररक्षुर्दोणमाहवे॥ बलार्णवौ ततस्तौ तु समेयातां निशामुखे। वातोधूतौ क्षुब्धसत्त्वौ भैरवौ सागरविव॥ ततो द्रोणं महाराज पाञ्चाल्यः पञ्चभिः शरैः। विव्याध हृदये तूर्णं सिंहनादं ननाद च॥ तं द्रोणः पञ्चविंशत्या विद्ध्वा भारत संयुगे। चिच्छेदान्येन भल्लेन धनुरस्य महास्वनम् ॥ धृष्टद्युम्नस्तु निर्विद्धो द्रोणेन भरतर्षभ। उत्ससर्ज धनुस्तूर्णं संदश्य दशनच्छदम्॥ ततः क्रुद्धो महाराज धृष्टद्युम्नः प्रतापवान्। आददेऽन्यद् धनुःश्रेष्ठं द्रोणस्यान्तचिकीर्षया॥ विकृष्य च धनुश्चित्रमाकर्णात् परवीरहा। द्रोणस्यान्तकरं घोरं व्यसृजत् सायकं ततः॥ स विसृष्टो बलवता शरो घोरो महामृधे। भासयामास तत् सैन्यं दिवाकर इवोदितः॥ तं तु दृष्ट्वा शरं घोरं देवगन्धर्वमानवाः। स्वस्त्यस्तु समरे राजन् द्रोणायेत्यब्रुवन् वचः॥ तं तु सायकमायान्तमाचार्यस्य रथं प्रति। कर्णो द्वादशधा राजंश्चिच्छेद कृतहस्तवत्॥ च च्छिन्नो बहुधा राजन् सूतपुत्रेण धन्विना। निपपात शरस्तूर्णं निर्विषो भुजगो यथा॥ धृष्टद्युम्नं ततः कर्णो विव्याध दशभिः शरै। पञ्चभिट्टैणपुत्रस्तुं स्वयं द्रोणस्तु सप्तभिः॥ शल्यश्च दशभिर्बाणैत्रिभिर्दुःशासनस्तथा। दुर्योधनस्तु विंशत्या शकुनिश्चापि पञ्चभिः॥ पाञ्चाल्यं त्वरयाविध्यन् सर्व एव महारथाः। स विद्धः सप्तभिवीरैर्दोणस्यार्थे महाहवे॥ सर्वानसम्भ्रमाद् राजन् प्रत्यविद्ध्यत् त्रिभित्रिभिः। द्रोणं द्रौणिं च कर्णं च विव्याध च तवात्मजम्॥ ते भिन्ना धन्विना तेन धृष्टद्युम्नं पुनर्मधे। विव्यधुः पञ्चभिस्तूर्णमेकैको रथिनां वरः॥ दुमसेनस्तु संक्रुद्धो राजन् विव्याध पत्रिणा। त्रिभिश्चान्यैःशरैस्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत्॥ स तु तं प्रतिविव्याध त्रिभिस्तीक्ष्णैरजिह्मगैः। स्वर्णपुङ्खः शिलाधौतैः प्राणान्तकरणैर्युधि॥ भल्लेनान्येन तु पुनः सुवर्णोज्ज्वलकुण्डलम्। निचकत शिरः कायाद् द्रुमसेनस्य वीर्यवान्॥ तच्छिरो न्यपतद् भूमौ संदष्टौष्ठपुटं रणे। महावातसमुद्भूतं पक्कं तालफलं यथा।॥ तान् स विद्ध्वा पुनर्योधान् वीरः सुनिशितैः शरैः। राधेयस्याच्छिनद् भल्लैः कार्मुकं चित्रयोधिनः॥ न तु तन्ममृषे कर्णो धनुषश्छेदनं तथा। निकर्तनमिवात्युग्रं लाङ्गलस्य महाहरिः॥ सोऽन्यद् धनुः समादाय क्रोधरक्तेक्षणःश्वसन्। अभ्यद्रवच्छरौघैस्तं धृष्टद्युम्नं महाबलम्॥ दृष्ट्वा कर्णं तु संरब्धं ते वीराः षड्रथर्षभाः। पाञ्चाल्यपुत्रं त्वरिता: परिवर्जिघांसया॥ घण्णां योधप्रवीराणां तावकानां पुरस्कृतम्। मृत्योरास्यमनुप्राप्तं धृष्टद्युम्नममंस्महि॥ एतस्मिन्नेव काले तु दाशार्हो विकिरछरान्। धृष्टद्युम्नं पराक्रान्तं सात्यकिः प्रत्यपद्यत॥ तमायान्तं महेष्वासं सात्यकिं युद्धदुर्मदम्। राधेयो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः॥ तं सात्यकिर्महाराज विव्याध दशभिः शरैः। पश्यतां सर्ववीराणां मा गास्तिष्ठेति चाब्रवीत्॥ स सात्यकेस्तु बलिनः कर्णस्य च महात्मनः। आसीत् समागमो राजन् बलिवासवयोरिव॥ त्रासयन् स्थघोषेण क्षत्रियान् क्षत्रियर्षभः। राजीवलोचनं कर्णं सात्यकिः प्रत्यविध्यत॥ कम्पयन्निव घोषेण धनुषो वसुधां बली। सूतपुत्रो महाराज सात्यकि प्रत्ययोधयत्॥ विपाठकर्णिनाराचैर्वत्सदन्तैः क्षुरैरपि। कर्णः शरशतैश्चापि शैनेयं प्रत्यविध्यत॥ तथैव युद्ध्यमानोऽपि वृष्णीनां प्रवरो युधि। अभ्यवर्षच्छरैः कर्णं तद् युद्धमभवत् समम्॥ तावकाश्च महाराज कर्णपुत्रश्च दंशितः। सात्यकि विव्यधुस्तूर्णं समन्तान्निशितैः शरैः॥ अस्त्रैरस्त्राणि संवार्य तेषां कर्णस्य वा विभो। अविद्ध्यत् सात्यकिः क्रुद्धो वृषसेनं स्तनान्तरे॥ तेन बाणेन निर्विद्धो वृषसेनो विशाम्पते। न्यपतत् स रथे मूढो धनुरुत्सृज्य वीर्यवान्॥ ततः कर्णो हतं मत्वा वृषसेनं महारथम्। पुत्रशोकाभिसंतप्तः सात्यकिं प्रत्यपीड्यत्॥ पीड्यमानसतु कर्णेन युयुधानो महारथः। विव्याध बहुभिः कर्णं त्वरमाणः पुनः पुनः॥ स कर्णं दशभिर्विद्ध्वा वृषसेनं च सप्तभिः। स हस्तावापधनुषी तयोश्चिच्छेद सात्वतः॥ तावन्ये धनुषी सज्ये कृत्वा शत्रुभयंकरे। युयुधानमविध्येतां समन्तान्निशितैः शरैः॥ वर्तमाने तु संग्रामे तस्मिन् वीवरक्षये। अतीव शुश्रुवे राजन् गाण्डीवस्य महास्वनः॥ श्रुत्वा तु स्थनिर्घोषं गाण्डीवस्य च निःश्वनम्। सूतपुत्रोऽब्रवीद् राजन् दुर्योधनमिदं वचः॥ एष सर्वां चमूं हत्वा मुख्यांश्चैव नरर्षभान्। पौरवांश्च महेष्वासो विक्षिपनुत्तमं धनुः॥ श्रूयते स्थघोषश्च वासवस्येव नर्दतः॥ करोति पाण्डवो व्यक्तं कर्मोपयिकमात्मनः। एषा विदार्यते राजन् बहुधा भारती चमूः॥ विप्रकीर्णान्यनेकानि न हि तिष्ठन्ति कर्हिचित्। वातेनेव समूद्धृतमभ्रजालं विदीर्यते॥ सव्यसाचिनमासाद्य भिन्ना नौरिव सागरे। द्रवतां योधमुख्यानां गाण्डीवप्रेषितैः शरैः॥ विद्धानां शतशो राजश्रूयते नि:स्वनो महान्। शृणु दुन्दुभिनिर्घोषमर्जुनस्य रथं प्रति॥ निशीथे राजशार्दूल स्तनयित्नोरिवाम्बरे। हाहाकाररवांश्चैव सिंहनादांश्च पुष्कलान्॥ शृणु शब्दान् बहुविधानर्जुनस्य रथं प्रति। अयं मध्ये स्थितोऽस्माकं सात्यकिः सात्वतां वरः॥५३ इह चेल्लभ्यते लक्ष्यं कृत्स्नाञ्जेष्यामहे परान्। एष पाञ्चालराजस्य पुत्रो द्रोणेन संगतः॥ सर्वतः संवृतो योधैः शूरैश्च रथसत्तमैः। सात्यकि यदि हन्याम धृष्टद्युम्नं च पार्षतम्॥ असंशयं महाराज ध्रुवो नो विजयो भवेत्। सौभद्रवदिमौ वीरौ परिवार्य महारथौ॥ प्रयतामो महाराज निहन्तुं वृष्णिपार्षतौ। सव्यसाची पुरोऽभ्येति द्रोणानीकाय भारत॥ संसक्तं सात्यकिं ज्ञात्वा बहुभिः कुरुपुङ्गवैः। तत्र गच्छन्तु बहवः प्रवरा रथसत्तमाः॥ यावत् पार्थो न जानाति सात्यकि बहुभिर्वृतम्। ते त्वरध्वं तथा शूराः शराणां मोक्षणे भृशम्॥ तथा त्विह व्रजत्येष परलोकाय माधवः। तथा कुरु महाराज सुनीत्या सुप्रयुक्तया॥ कर्णस्य मतमास्थाय पुत्रस्ते प्राह सौबलम्। यथेन्द्रः समरे राजन् प्राह विष्णुं यशस्विनम्॥ वृतः सहस्रैर्दशभिर्गजानामनिवर्तिनाम्। रथैश्च दशसाहस्रेस्तूर्णं याहि धनंजयम्॥ दुःशासनो दुर्विषहः सुबाहुर्दुष्प्रधर्षणः। एते त्वामनुयास्यन्ति पत्तिभिर्बहुभिर्वृताः॥ जहि कृष्णौ महाबाहो धर्मराजं च मातुल। नकुलं सहदेवं च भीमसेनं तथैव च॥ देवानामिव देवेन्द्र जयाशा त्वयि मे स्थिता। नहि मातुल कौन्तेयानसुरानिव पावकिः॥ एवमुक्तो ययौ पार्थान् पुत्रेण तव सौबलः। महत्या सेनया सार्धं सह पुत्रैश्च ते विभो॥ प्रियार्थं तव पुत्राणां दिक्षधुः पाण्डुनन्दनान्। ततः प्रववृते युद्धं तावकानां परैः सह॥ प्रयाते सौबले राजन् पाण्डवानामनीकिनीम्। बलेन महता युक्तः सूतपुत्रस्तु सात्वतम्॥ अभ्ययात् त्वरितो युद्धे किरशरशतान् बहून्। तथैव पार्थिवाः सर्वे सात्यकि पर्यवारयन्॥ भारद्वाजस्ततो गत्वा धृष्टद्युम्नरथं प्रति। महद् युद्धं तदाऽऽसीत् तु द्रोणस्य निशि भारत। धृष्टद्युम्नेन वीरेण पञ्चालैश्च सहाद्भुतम्॥ संजय उवाच ततस्ते प्राद्रवन् सर्वे त्वरिता युद्धदुर्मदाः। अमृष्यमाणाः संरब्धा युयुधानरथं प्रति॥ ते रथैः कल्पितै राजन् हेमरूप्यविभूषितैः। सादिभिश्च गजैश्चैव परिवठ्ठः समन्ततः॥ अथैनं कोष्ठकीकृत्य सर्वतस्ते महारथाः। सिंहनादांस्ततश्चक्रुस्तर्जयन्ति स्म सात्यकिम्॥ तेऽभ्यवर्षञ्छरैस्तीक्ष्णैः सात्यकिं सत्यविक्रमम्। त्वरमाणा महावीरा माधवस्य बधैषिणः॥ तान् दृष्ट्वा पततस्तूर्णं शैनेयः परवीरहा। प्रत्यगृह्णान्महाबाहुः प्रमुञ्चन् विशिखान् बहून्॥ तत्र वीरो महेष्वासः सात्यकियुद्धदुर्मदः। निचकर्त शिरांस्युग्रैः शरैः संनतपर्वभिः॥ हस्तिहस्तान् हयग्रीवा बाहूनापि च सायुधान्। क्षुरप्रैः शातयामास तावकानां स माधवः॥ पतितैश्चामरैश्चैव श्वेतच्छत्रैश्च भारत। बभूव धरणी पूर्णा नक्षत्रै?रिव प्रभो॥ एतेषां युयुधानेन युध्यतां युधि भारत। बभूव तुमुलः शब्दः प्रेतानां क्रन्दतामिव॥ तेन शब्देन महता पूरिताभूद् वसुन्धरा। रात्रिः समभवचैव तीव्ररूपा भयावहा॥ दीर्यमाणं बलं दृष्ट्वा युयुधानशराहतम्। श्रुत्वा च विपुलं नादं निशीथे लोमहर्षणे॥ सुतस्तवाब्रवीद् राजन् सारथिं रथिनां वरः। यत्रैष शब्दस्तत्राश्वांश्चोदयेति पुनः पुनः॥ तेन संचोद्यमानस्तु ततस्तांस्तुरगोत्तमान्। सूत: संचोदयामास युयुधानस्थं प्रति॥ ततो दुर्योधनः क्रुद्धो दृढधन्वा जितक्कमः। शीघ्रहस्तश्चित्रयोधी युयुधानमुपाद्रवत्॥ ततः पूर्णायतोत्सृष्टैः शरैः शोणितभोजनैः। दुर्योधनं द्वादशभिर्माधवः प्रत्यविध्यत॥ दुर्योधनस्तेन तथा पूर्वमेवादितः शरैः। शैनेयं दशभिर्बाणैः प्रत्यविध्यदमर्पितः॥ ततः समभवद् युद्धं तुमुलं भरतर्षभ। पञ्चालानां च सर्वेषां भरतानां च दारुणम्॥ शैनेयस्तु रणे क्रुद्धस्तव पुत्रं महारथम्। सायकानामशीत्या तु विव्याधोरसि भारत॥ ततोऽस्य वाहान् समरे शर्निन्ये यमक्षयम्। सारथिं च रथात् तूर्णं पातयामास पत्रिणा॥ हताश्वे तु रथे तिष्ठन् पुत्रस्तव विशाम्पते। मुमोच निशितान् बाणाशैनेयस्य रथं प्रति॥ शरान् पञ्चाशतस्तांस्तु शैनेयः कृतहस्तवत्। चिच्छेद समरे राजन् प्रेषितांस्तनयेन ते॥ अथापरेण भल्लेन मुष्टिदेशे महद् धनुः। चिच्छेद तरसा युद्धे तव पुत्रस्य माधवः॥ विरथो विधनुष्कश्च सर्वलोकेश्वरः प्रभुः। आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः॥ दुर्योधने परावृत्ते शैनेयस्तव वाहिनीम्। द्रावयामास विशिखैर्निशामध्ये विशाम्पते॥ शकुनिश्चार्जुनं राजन् परिवार्य समन्ततः। रथैरनेकसाहस्रैर्गजैश्चापि सहस्रशः॥ तथा हयसहस्रैश्च नानाशस्त्रैरवाकिरत्। ते महास्त्राणि सर्वाणि विकिरन्तोऽर्जुनं प्रति॥ अर्जुनं योधयन्ति स्म क्षत्रियाः कालचोदिताः। तान्यर्जुनः सहस्राणि रथवारणवाजिनाम्॥ प्रत्यवारयदायस्तः प्रकुर्वन् विपुलं क्षयम्। ततस्तु समरे शूरः शकुनिः सौबलस्तदा॥ विव्याध निशितैर्बाणैरर्जुनं प्रहसन्निव। पुनश्चैव शतेनास्य संरुरोध महारथम्॥ तमर्जुनस्तु विंशत्या विव्याध युधि भारत। अथेतरान् महेष्वासांसिभिस्रिभिरविध्यत॥ निवार्य तान् बाणगणैर्युधि राजन् धनंजयः। जघान तावकान् योधान् वज्रपाणिरिवासुरान्॥ भुजैश्छिन्नैर्महीपाल हस्तिहस्तोपमैर्मधे। समाकीर्णा मही भाति पञ्चास्यैरिव पन्नगैः॥ शिरोभिः सकिरीटैश्च सुनसैश्चारुकुण्डलैः। संदष्टौष्ठपुटैः क्रुद्धैस्तथैवोद्भूतलोचनैः॥ निष्कचूडामणिधरैः क्षत्रियाणां प्रियंवदैः। पङ्कजैरिव विन्यस्तैः पतितैर्विबभौ मही॥ कृत्वा तत् कर्म बीभत्सुरुग्रमुग्रपराक्रमः। विव्याध शकुनि भूयः पञ्चभिर्नतपर्वभिः॥ अताड्यदुलूकं च त्रिभिरेव तथा शरैः। उलूकस्तु तथा विद्धो वासुदेवमताड्यत्॥ ननाद च महानादं पूरयन्निव मेदिनीम्। अर्जुनः शकुनेश्चापं सायकैरच्छिनद् रणे॥ निन्ये च चतुरो वाहान् यमस्य सदनं प्रति। ततो रथादवप्लुत्य सौबलो भरतर्षभ॥ उलूकस्य रथं तूर्णमासरोह विशाम्पते। तावेकरथमारूढौ पितापुत्रौ महारथौ॥ पार्थं सिषिचतुर्बाणैर्गिरिं प्रेधाविवाम्बुभिः। तौ तु विद्ध्वा महाराज पाण्डवो निशितैः शरैः॥ विद्रावयंस्तव चमूं शतशो व्यधमच्छरैः। अनिलेन यथाभ्राणि विच्छिन्नानि समन्ततः॥ विच्छिन्नानि तथा राजन् बलान्यासन् विशाम्पते। तद् बलं भरतश्रेष्ठ वव्यमानं तदा निशि॥ प्रदुद्राव दिशः सर्वा वीक्षमाणं भयादितम्। उत्सृज्य वाहान् समरे चोदयन्तस्तथा परे॥ सम्भ्रान्ताः पर्यधावन्त तस्मिस्तमसि दारुणे। विजित्य समरे योधांस्तावकान् भरतर्षभ।॥ दध्मतुर्मुदितौ शङ्खौ वासुदेवधनंजयौ। धृष्टद्युम्नो महाराज द्रोणं विद्ध्वा त्रिभिः शरैः॥ चिच्छेद धनुषस्तूर्णं ज्यां शरेण शितेन ह। तन्निधाय धनुर्भूमौ द्रोणः क्षत्रियमर्दनः॥ आददेऽन्यद् धनुः शरू वेगवत् सारवत्तरम्। धृष्टद्युम्नं ततो द्रोणो विद्ध्वा सप्तभिराशुगैः॥ सारथिं पञ्चभिर्बाणै राजन् विव्याध संयुगे। तं निवार्य शरैस्तूर्णं धृष्टद्युम्नो महारथः॥ व्यधमत् कौरवीं सेनामासुरीं मघवानिव। वध्यमाने बले तस्निस्तव पुत्रस्य मारिष॥ प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी। उभयोः सेनयोर्मध्ये नराश्वद्विपवाहिनी॥ यथा वैतरणी राजन् यमराजपुरं प्रति। द्रावयित्वा तु तत् सैनयं धृष्टद्युम्नः प्रतापवान्॥ अभ्यराजत तेजस्वी शक्रो देवगणेष्विवा अथ दध्मुर्महाशङ्खान् धृष्टद्युम्नशिखण्डिनौ॥ यमौ च युयुधानश्च पाण्डवश्च वृकोदरः। जित्वा रथसहस्राणि तावकानां महारथाः। सिंहनादरवांश्चक्रुः पाण्डवा जितकाशिनः॥ पश्यतस्तव पुत्रस्य कर्णस्य च रणोत्कटाः। तथा द्रोणस्य शूरस्य द्रौणेश्चैव विशाम्पते॥ संजय उवाच ततः कर्णो रणे दृष्ट्वा पार्षतं परवीरहा। आजधानोरसि शरैर्दशभिर्मर्मभेदिभिः॥ प्रतिविव्याध तं तूर्णं धृष्टद्युम्नोऽपि मारिष। दशभिः सायकैर्हष्टस्तिष्ठ तिष्ठेति चाब्रवीत्॥ तावन्योन्यं शरैः संख्ये संछाद्य सुमहारथैः। पुनः पूर्णायतोत्सृष्टैर्विव्यधाते परस्परम्॥ ततः पाञ्चालमुख्यस्य धृष्टद्युम्नस्य संयुगे। सारथिं चतुरश्वाश्वान् कर्णो विव्याध सायकैः॥ कार्मुकप्रवरं चापि प्रचिच्छेद शितैः शरैः। सारथिं चास्य भल्लेन रथनीडादपातयत् ॥ धृष्टद्युम्नस्तु विरथो हताश्वो हतसारथिः। गृहीत्वा परिघं घोरं कर्णस्याश्वानपीपिषत्॥ विद्धश्च बहुभिस्तेन शरैराशीविषोपमैः। ततो युधिष्ठिरानीकं पद्भ्यामेवान्वपद्यत॥ आरुरोह रथं चापि सहदेवस्य मारिष। प्रयातुकामः कर्णाय वारितो धर्मनूनुना॥ कर्णस्तु सुमहातेजाः सिंहनादविमिश्रितम्। धनुःशब्दं महचके दध्मौ तारेण चाम्बुजम्॥ दृष्टवा विनिर्जितं युद्धे पार्षतं ते महारथाः। अमर्षवशमापन्नाः पञ्चालाः सहसोमकाः॥ सूतपुत्रवधार्थाय शस्त्राण्यादाय सर्वशः। प्रययुः कर्णमुद्दिश्य मृत्युं कृत्वा निवर्तनम्॥ कर्णस्यापि रथे वाहानन्यान् सूतोऽभ्ययोजयत्। शङ्खवर्णान् महावेगान् सैन्धवान् साधुवाहिनः॥ लब्धलक्ष्यस्तु राधेयः पञ्चालानां महारथान्। अभ्यपीडयदायस्तः शरैर्मेघ इवाचलम्॥ सा पीड्यमाना कर्णेन पञ्चालानां महाचमूः। सम्प्राद्रवत् सुसंत्रस्ता सिंहेनेवार्दिता मृगी॥ पतितास्तुगेभ्यश्च गजेभ्यश्च महीतले। रथेभ्यश्च नरास्तूर्णमदृश्यन्त ततस्ततः॥ धावमानस्य योधस्य क्षुरप्रैः स महामृधे। बाहू चिच्छेद वै कर्णः शिरश्चैव संकुण्डलम्॥ ऊरू चिच्छेद चान्यस्य गजस्थस्य विशाम्पते। वाजिपृष्ठगतस्यापि भूमिष्ठस्य च मारिष॥ नाज्ञासिषुर्धावमाना बहवश्च महारथाः। संछिन्नान्यात्मगात्राणि वाहनानि च संयुगे॥ ते वध्यमानाः समरे पञ्चालाः सृञ्जयैः सह। तृणप्रस्पन्दनाचापि सूतपुत्रं स्म मेनिरे॥ अपि स्वं समरे योधं धावमानं विचेतसम्। कर्णमेवाभ्यमन्यन्त ततो भीता द्रवन्ति ते॥ तान्यनीकानि भग्नानि द्रवमाणानि भारत। अभ्यद्रवद् द्रुतं कर्णः पृष्ठतो विकिरञ्छरान्॥ अवेक्षमाणास्त्वन्योन्यं सुसम्मूढा विचेतसः। नाशक्नुवन्नवस्थातुं काल्यमाना महात्मना॥ कर्णेनाभ्याहता राजन् पञ्चालाः परमेषुभिः। द्रोणेन च दिशः सर्वा वीक्षमाणाः प्रदुद्रवुः॥ ततो युधिष्ठिरो राजा स्वसैन्यं प्रेक्ष्य विद्रुतम्। अपयाने मनः कृत्वा फाल्गुनं वाक्यमब्रवीत्॥ पश्य कर्णं महेष्वासं धनुष्पाणिमवस्थितम्। निशीथे दारुणे काले तपन्तमिव भास्करम्॥ कर्णसायकनुन्नानां क्रोशतामेष निःस्वनः। अनिशं श्रूयते पार्थ त्वद्वन्धूनामनाथवत्॥ यथा विसृजतश्चास्य संदधानस्य चाशुगान्। पश्यामि नान्तरं पार्थ क्षपयिष्यति नो ध्रुवम्॥ यदत्रानन्तरं कार्य प्राप्तकालं च पश्यसि। कर्णस्य वधसंयुक्तं तत् कुरुष्व धनंजय॥ एवमुक्तो महाराज पार्थः कृष्णमथाब्रवीत्। भीतः कुन्तीसुतो राजा राधेयस्याद्य विक्रमात्॥ एवंगते प्राप्तकालं कर्णानीके पुनः पुनः। भवान् व्यवस्यतु क्षिप्रं द्रवते हि वरूथिनी॥ द्रोणसायकनुन्नानां भग्नानां मधुसूदन। कर्णेन त्रास्यमानानामवस्थानं न विद्यते॥ पश्यामि च तथा कर्णे विचरन्तमभीतवत्। द्रवमाणान् रथोदारान् किरन्तं निशितैः शरैः॥ नैनं शक्ष्यामि संसोढुं चरन्तं रणमूर्धनि। प्रत्यक्षं वृष्णिशार्दूलं पाढम्पर्शमिवोरगः॥ स भवांस्तत्र यात्वाशु यत्र कर्णो महारथः। अहमेनं हनिष्यामि मां वैष मधुसूदन॥ वासुदेव उवाच पश्यामि कर्णं कौन्तेय देवराजमिवाहवे। विचरन्तं नरव्याघ्रमतिमानुषविक्रमम्॥ नैतस्यान्योऽस्ति संग्रामे प्रत्युद्याता धनंजय। ऋते त्वां पुरुषव्याघ्र राक्षसाद् वा घटोत्कचात्॥ न तु तावदहं मन्ये प्राप्तकालं तवानघ। समागमं महाबाहो सूतपुत्रेण संयुगे॥ दीप्यमाना महोल्केव तिष्ठत्यस्य हि वासवी। त्वदर्थं हि महाबाहो सूतपुत्रेण संयुगे॥ रक्ष्यते शक्तिरेषा हि रौद्रं रूपं बिभर्ति च। घटोत्कचस्तु राधेयं प्रत्युद्यातु महाबलः॥ स हि भीमेन बलिना जातः सुरपराक्रमः। तस्मिन्नस्राणि दिव्यानि राक्षसान्यासुराणि च॥ सततं चानुरक्तो वो हितैषी च घटोत्कचः। विजेष्यति रणे कर्णमिति मे नात्र संशयः॥ एवमुक्तो महाबाहुः पार्थः पुष्करलोचनः। आजुहावाथ तद् रक्षस्तचासीत् प्रादुरग्रतः॥ कवची सशरः खड्गी सधन्वा च विशाम्पते। अभिवाद्य ततः कृष्णं पाण्डवं च धनंजयम्। अब्रवीच तदा कृष्णमयमस्यनुशाधि माम्॥ ततस्तं मेघसंकाशं दीप्तास्यं दीप्तकुण्डलम्। अभ्यभाषत हैडिम्बि दाशार्हः प्रहसन्निव॥ श्रीवासुदेव उवाच घटोत्कच विजानीहि यत् त्वां वक्ष्यामि पुत्रक। प्राप्तो विक्रमकालोऽयं तव नान्यस्य कस्यचित्॥ स भवान् मज्जमानानां बन्धूनां त्वं प्लवो भव। विविधानि तवास्राणि सन्ति माया च राक्षसी॥ पश्य कर्णेन हैडिम्बे पाण्डवानामनीकिनी। काल्यमाना यथा गावः पालेन रणमूर्धनि॥ एष कर्णो महेष्वासो मतिमान् दृढविक्रमः। पाण्डवानामनीकेषु निहन्ति क्षत्रियर्षभान्॥ किरन्तः शरवर्षाणि महान्ति दृढधन्विनः। न शक्रुवन्त्यवस्थातुं पीड्यमानाः शरार्चिषा॥ निशीथे सूतपुत्रेण शरवर्षेण पीडिताः। एते द्रवन्ति पञ्चालाः सिंहेनेवार्दिता मृगाः॥ एतस्यैवं प्रवृद्धस्य सूतपुत्रस्य संयुगे। निषेद्धा विद्यते नान्यस्त्वामृते भीमविक्रम॥ स त्वं कुरु महाबाहो कर्म युक्तमिहात्मनः। मातुलानां पितॄणां च तेजसोऽस्रबलस्य च॥ एतदर्थं हि हैडिम्बे पुत्रानिच्छन्ति मानवाः। कथं नस्तारयेद् दुःखात् स त्वं तारय बान्धवान्॥ इच्छन्ति पितरः पुत्रान् स्वार्थ हेतोर्घटोत्कच। इहलोकात् परे लोके तारयिष्यन्ति ये हिताः॥ तव ह्यत्र बलं भीमं मायाश्च तव दुस्तराः। संग्रामे युध्यमानस्य सततं भीमनन्दन॥ पाण्डवानां प्रभग्नानां कर्णेन निशि सायकैः। मजतां धार्तराष्ट्रेषु भव पारं परंतप॥ रात्रौ हि राक्षसा भूयो भवन्त्यमितविक्रमाः। बलवन्तः सुदुर्धर्षाः शूरा विक्रान्तचारिणः॥ जहि कर्णं महेष्वासं निशीथे मायया रणे। पार्था द्रोणं वधिष्यन्ति धृष्टद्युम्नपुरोगमाः॥ संजय उवाच केशवस्य वचः श्रुत्वा बीभत्सुरपि राक्षसम्। अभ्यभाषत कौरव्य घटोत्कचमरिंदमम्॥ घटोत्कच भवांश्चैव दीर्घबाहुश्च सात्यकिः। मतो मे सर्वसैन्येषु भीमसेनश्च पाण्डवः॥ तद्भवान् यातु कर्णेन द्वैरथं युध्यतां निशि। सात्यकिः पृष्ठगोपस्ते भविष्यति महारथः॥ जहि कर्णं रणे शूरं सात्वतेन सहायवान्। यथेन्द्रस्तारकं पूर्वं स्कन्देन सह जनिवान्॥ घटोत्कच उवाच अलमेवास्मि कर्णाय द्रोणायालं च भारत। अन्येषां क्षत्रियाणां च कृतास्राणां महात्मनाम्॥ अद्य दास्यामि संग्रामं सूतपुत्राय तं निशि। यं जनाः सम्प्रवक्ष्यन्ति यावद् भूमिर्धरिष्यति॥ न चात्र शूरान् मोक्ष्यामि न भीतान्न कृताञ्जलीन्। सर्वानेव वधिष्यामि राक्षस धर्ममास्थितः॥ संजय उवाच एवमुक्त्वा महाबाहु डिम्बिर्वरवीरहा। अभ्ययात् तुमुले कर्णं तव सैनयं विभीषयन्॥ तमापतन्तं संक्रुद्धं दीप्तास्यं दीप्तमूर्धजम्। प्रहसन् पुरुषव्याघ्रः प्रतिजग्राह सूतजः॥ तयोः समभवद् युद्धं कर्णराक्षसयोर्मधे। गर्जतो राजशार्दूल शक्रप्रहादयोरिव॥ संजय उवाच दृष्ट्वा घटोत्कचं राजन् सूतपुत्ररथं प्रति। आयान्तं तु तथा युक्तं जिबांसुं कर्णमाहवे॥ अब्रवीत् तत्र पुत्रस्ते दुःशासनमिदं वचः। एतद् रक्षो रणे तूर्णं दृष्ट्वा कर्णस्य विक्रमम्॥ अभियाति द्रुतं कर्णं तद् वारय महास्थम्। वृतः सैन्येन महता याहि यत्र महाबलः॥ कर्णो वैकर्तनो युद्धे राक्षसेन युयुत्सति। रक्ष कर्णं रणे यत्तो वृतः सैन्येन मानद॥ मा कर्ण राक्षसो घोरः प्रमादानाशयिष्यति। एतस्मिन्नन्तरे राजञ्जटासुरसुतो बली॥ दुर्योधनमुपागम्य प्राह प्रहरतां वरः। दुर्योधन तवामित्रान् प्रख्यातान् युद्धदुमदान्॥ पाण्डवान् हन्तुमिच्छामि त्वयाऽऽज्ञप्तः सहानुगान्। जटासुरो मम पिता रक्षसां ग्रामणीः पुरा॥ प्रयुज्य कर्म रक्षोघ्नं क्षुद्रैः पार्थेनिपातितः। तस्यापचितिमिच्छामि शत्रुशोणितपूजया। शत्रुमांसैश्च राजेन्द्र मामनुज्ञातुमर्हसि॥ तमब्रवीत् ततो राजा प्रीयमाणः पुनः पुनः। द्रोणकर्णादिभिः सार्धं पर्याप्तोऽहं द्विषद्वधे॥ त्वं तु गच्छ मयाऽऽज्ञप्तो जहि युद्धे घटोत्कचम्। राक्षसं क्रूरकर्माणं रक्षोमानुषसम्भवम्॥ पाण्डवानां हितं नित्यं हस्त्यश्वरथघातिनम्। वैहायसगतं युद्धे प्रेषयेर्यमसादनम्॥ तथेत्युक्त्वा महाकाय: समाहूय घटोत्कचम्। जाटासुरिभैंमसेनि नानाशस्त्रैरवाकिरत्॥ अलम्बुषं च कर्णं च कुरुसैन्यं च दुस्तरम्। हैडिम्बिः प्रममाथैको महावातोऽमबुदानिव॥ ततो मायाबलं दृष्ट्वा रक्षस्तूर्णंमलम्बुषः। घटोत्कचं शरव्रातैर्नानालिङ्गैः समार्पयत्॥ विद्ध्वा च बहुभिर्बाणैर्भमसेनि महाबलः। व्यद्रावयच्छरवातैः पाण्डवानामनीकिनीम्॥ तेन विद्राव्यमाणनि पाण्डुसैन्यानि भारत। निशीथे विप्रकीर्यन्ते वातनुन्ना घना इव॥ घटोत्कचशरैर्नुना तथैव तव वाहिनी। निशीथे प्राद्रवद् राजन्नुत्सृज्योल्काः सहस्रशः॥ अलम्बुषस्ततः क्रुद्धो भैमसेनि महामृधे। आजघ्ने दशभिर्बाणैस्तोत्रैरिव महाद्विपम्॥ तिलशस्तस्य संवाहं सूतं सर्वायुधानि च। घटोत्कचः प्रचिच्छेद प्रणदंश्चातिदारुणम्॥ ततः कर्णं शरवातैः कुरुनन्यान् सहस्रशः। अलम्बुषं चाभ्यवर्षन्मेघो मेरुमिवाचलम्॥ ततः संचुक्षुभे सैन्यं कुरूणां राक्षसार्दितम्। उपर्युपरि चान्योन्यं चतुरङ्गं ममर्द ह॥ जाटासुरिर्महाराज विरथो हतसारथिः। घटोत्कचं रणे क्रुद्धो मुष्टिनाभ्यहनद् दृढम्॥ मुष्टिनाभ्याहतस्तेन प्रचचाल घटोत्कचः। क्षितिकम्पे यथा शैलः सवृक्षस्तृणगुल्मवान्॥ ततः स परिघाभेन द्विट्संघनेन बाहुना। जाटासुरिं भैमसेनिरवधीन्मुष्टिना भृशम्॥ तं प्रमथ्य ततः क्रुद्धस्तूर्णं हैडिम्बिराक्षिपत्। दोामिन्द्रध्वजाभाभ्यां निष्पिपेष च भूतले॥ जाटासुरिर्मोक्षयित्वा आत्मानं च घटोत्कचात्। पुनरुत्थाय वेगेन घटोत्कचमुपाद्रवत्॥ अलम्बुषोऽपि विक्षिप्य समुत्क्षिप्य च राक्षसम्। घटोत्कचं रणे रोषानिष्पिपेष च भूतले॥ तयोः समभवद् युद्धं गर्जतोरतिकाययोः। घटोत्कचालम्बुषयोस्तुमुलं लोमहर्षणम्॥ विशेषयन्तावन्योन्यं मायाभिरतिमायिनौ। युयुधाते महावीर्याविन्द्रवैरोचनाविव॥ पावकाम्बुनिधी भूत्वा पुनर्गरुडतक्षको। पुनर्मेघमहावातौ पुनर्वज्रमहाचलौ।॥ पुनः कुञ्जरशार्दूलौ पुनः स्वर्भानुभास्करौ। एवं मायाशतसृजावन्योन्यवधकाङ्गिणौ॥ भृशं चित्रमयुध्येतामलम्बुषघटोत्कचौ। परिघैश्च गदाभिश्च प्रासमुद्गरपट्टिशैः॥ मुसलैः पर्वताग्रैश्च तावन्योन्यं विजनतुः। हयाभ्यां च गजाभ्यां च रथाभ्यां च पदातिभिः॥ युयुधाते महामायौ राक्षसप्रवरौ युधि। ततो घटोत्कचो राजन्नलम्बुषवधेप्सया॥ उत्पपात भृशं क्रुद्धः श्येनवनिपपात च। गृहीत्वा च महाकायं राक्षसेन्द्रमलम्बुषम्॥ उद्यम्य न्यवधीद् भूमौ मयं विष्णुरिवाहवे। ततो घटोत्कचः खङ्गमुद्धृत्याद्भुतदर्शनम्॥ रौद्रस्य काशिद्ध शिरो भीमं विकृतदर्शनम्। स्फुरतस्तस्य समरे नदतश्चातिभैरवम्॥ निचकर्त महाराज शत्रोरमितविक्रमः। शिरस्तच्चापि संगृह्य केशेषु रुधिरोक्षितम्॥ ययौ घटोत्कचस्तूर्णं दुर्योधनस्थं प्रति। अभ्येत्य च महाबाहुः स्मयमानः च राक्षसः॥ शिरो रथेऽस्य निक्षिप्य विकृताननमूधजम्। प्राणदद् भैरवं नादं प्रावृषीव बलाहकः॥ अब्रवीच ततो राजन् दुर्योधनमिदं वचः। एष ते निहतो बन्धुस्त्वया दृष्टोऽस्य विक्रमः॥ पुनर्देष्टासि कर्णस्य निष्ठामेतां तथाऽऽत्मनः। स्वधर्ममर्थं कामं च त्रितयं योऽभिवाञ्छति॥ रिक्तपाणिर्न पश्यत राजानं ब्राह्मणं स्त्रियम्। तिष्ठस्तव तावत् सुप्रीतो यावत् कर्ण वधाम्यहम्॥ एवमुक्त्वा ततः प्रायात् कर्णं प्रति नरेश्वर। किरज्छरगणांस्तीक्ष्णान् रुषितो रणमूर्धनि॥ ततः समभवद् युद्धं घोररूपं भयानकम्। विस्मापनं महाराज नरराक्षसयोर्मधे॥ संजय उवाच तमागतमभिप्रेक्ष्य भीमकर्माणमाहवे। हर्षमाहारयांचक्रुः कुरवः सर्व एव ते॥ तथैव तव पुत्रास्ते दुर्योधनपुरोगमाः। अप्लवाः प्लवमासाद्य तर्तुकामा इवार्णवम्॥ पुनर्जातमिवात्मानं मन्वानाः पुरुषर्षभाः। अलायुधं राक्षसेन्द्रं स्वागतेनाभ्यपूजयन्॥ तस्मस्त्वमानुषे युद्धे वर्तमाने महाभये। कर्णराक्षसयोनक्तं दारुणप्रतिदर्शने॥ उपप्रेक्षन्त पञ्चालाः स्मयमानाः सराजकाः। तथैव तावका राजन् वीक्षमाणास्ततस्ततः॥ चुक्रुशुर्नेदमस्तीति द्रोणद्रौणिकृपादयः। तत् कर्म दृष्ट्वा सम्भ्रान्ता हैडिम्बस्य रणाजिरे॥ सर्वमाविग्नमभवद्धाहाभूतमचेतनम्। तव सैन्यं महाराज निराशं कर्णजीविते॥ दुर्योधनस्तु सम्प्रेक्ष्य कर्णमार्तिं परां गतम्। अलायुधं राक्षसेन्द्रं समाहूयेदमब्रवीत्॥ एष वैकर्तनः कर्णो हैडिम्बेन समागतः। कुरुते कर्म सुमहद् यदस्यौपयिकं मृधे॥ पश्यैतान् पार्थिवान् शूरान् निहतान् भैमसेनिना। नानाशस्त्रैरभिहतान् पादपानिव दन्तिना॥ तवैष भागः समरे राजमध्ये मया कृतः। तवैवानुमते वीरं तं विक्रम्य निबर्हय॥ पुरा वैकर्तनं कर्णमेष पापो घटोत्कचः। मायाबलं समाश्रित्य कर्षयत्यरिकर्शन॥ एवमुक्तः स राज्ञा तु राक्षसो भीमविक्रमः। तथेत्युक्त्वा महाबाहुर्घटोत्कचमुपाद्रवत्॥ ततः कर्ण समुत्सृज्य भैमसेनिरपि प्रभो। प्रत्यमित्रमुपायान्तमर्दयामास मार्गणैः॥ तयोः समभवद् युद्धं क्रुद्धयो राक्षसेन्द्रयोः। मत्तयोर्वासिताहेतो िपयोरिव कानने॥ रक्षसा विप्रमुक्तस्तु कर्णोऽपि रथिनां वरः। अभ्यद्रवद् भीमसेनं रथेनादित्यवर्चसा॥ तमायान्तमनादृत्य दृष्ट्वा ग्रस्तं घटोत्कचम्। अलायुधेन समरे सिंहेनेव गवां पतिम्॥ रथेनादित्यवपुषा भीमः प्रहरतां वरः। किरञ्छरौघान् प्रययावलायुधरथं प्रति॥ तमायान्तमभिप्रेक्ष्य स तदालायुधः प्रभो। घटोत्कचं समुत्सृज्य भीमसेनं समाह्वयत्॥ तं भीमः सहसाभ्येत्य राक्षसान्तकरः प्रभो। सगणं राक्षसेन्द्रं तं शरवरवाकिरत्॥ तथैवालायुधो राजशिलाधौतैरजिह्मगैः। अभ्यवर्षत कौन्तेयं पुनः पुनररिंदप॥ तथा ते राक्षसाः सर्वे भीमसेनमुपाद्रवन्। नानाप्रहरणा भीमास्त्वत्सुतानां जयैषिणः॥ स ताड्यमानो बहुभिर्भीमसेनो महाबलः। पञ्चभिः पञ्चभिः सर्वांस्तानविध्यच्छितैः शरैः॥ ते वध्यमाना भीमेन राक्षसाः क्रूरबुद्धयः। विनेदुस्तुमुलान्नादान् दुद्रुवुस्ते दिशो दश॥ तांनास्यमानान् भीमेन दृष्ट्वा रक्षो महाबलम्। अभिदुद्राव वेगेन शरैश्चैनमवाकिरत्॥ तं भीमसेनः समरे तीक्ष्णागैरक्षिणोञ्छरैः। अलायुधस्तु तानस्तान् भीमेन विशिखान् रणे॥ चिच्छेद कांश्चित् समरे त्वरया कांश्चिदग्रहीत्। सतं दृष्टवा राक्षसेन्द्रं भीमो भीमपराक्रमः॥ गदां चिक्षेप वेगेन वज्रपातोपमा तदा। तामापतन्ती वेगेन गदां ज्वालाकुलां ततः॥ गदया ताड्यामास सा गदा भीममाव्रजत्। स राक्षसेन्द्रं कौन्तेयः शरवर्षैरवाकिरत्॥ तानप्यस्याकरोन्मोघान् राक्षसो निशितैः शरैः। ते चापि राक्षसाः सर्वे रजन्यां भीमरूपिणः॥ शासनाद् राक्षसेन्द्रस्य निजजू रथकुञ्जरान्। पञ्चालाः संजयाश्चैव वाजिनः परमद्विपः॥ न शान्ति लेभिरे तत्र राक्षसै शपीडिताः। तं तु दृष्ट्वा महाघोरं वर्तमानं महाहवम्॥ अब्रवीत् पुण्डरीकाक्षो धनंजयमिदं वचः। पश्य भीमं महाबाहुं राक्षसेन्द्रवशं गतम्॥ पदमस्यानुगच्छ त्वं मा विचारय पाण्डव। धृष्टद्युम्नः शिखण्डी च युधामन्यूत्तमौजसौ॥ सहितौ द्रौपदेयाश्च कर्णं यान्तु महारथाः। नकुलः सहदेवश्च युयुधानश्च वीर्यवान्॥ इतरान् राक्षसान् घनन्तु शासनात् तव पाण्डव। त्वमपीमां महाबाहो चमू द्रोणपुरस्कृताम्॥ वारयस्व नरव्याघ्र महद्धि भयमागतम्। एवमुक्ते तु कृष्णेन यथोद्दिष्टा महारथाः॥ जग्मुर्वैकर्तनं कर्णं राक्षसांश्चैव तान् रणे। अथ पूर्णायतोत्सृष्टैः शरैराशीविषोपमैः॥ धनुश्चिच्छेद भीमस्य राक्षसेन्द्रः प्रतापवान्। हयांश्चास्य शितैर्बाणैः सारथिं च महाबलः॥ जघान मिषतः संख्ये भीमसेनस्य राक्षसः। सोऽवतीर्य रथोपस्थाद्धताश्वो हतसारथिः॥ तस्मै गुर्वी गदां धोरां विनदन्नुत्ससर्ज ह। ततस्तां भीमनि?षामापतन्तीं महागदाम्॥ गदया राक्षसो घोरो निजघान ननाद च। तद् दृष्ट्वा राक्षसेन्द्रस्य घोरं कर्म भयावहम्॥ भीमसेनः प्रहृष्टात्मा गदामाशु परामृशत्। तयोः समभवद् युद्धं तुमुलं नररक्षसोः॥ गदानिपातसंह्रादैर्भुवं कम्पयतोम॑शम्। गदाविमुक्तौ तौ भूयः समासाद्येतरेतरम्॥ मुष्टिभिर्वज्रसह्रादैरन्योन्यमभिजघ्नतुः। रथचक्रैर्युगैरक्षैरधिष्ठानैरुपस्करैः॥ यथासन्नमुपादाय निजघ्नतुरमर्षणौ। तौ विक्षरन्तौ रुधिरं समासाद्येतरेतरम्॥ मत्ताविव महानागौ चकृषाते पुनः पुनः। तदपश्यद्धषीकेशः पाण्डवानां हिते रतः। स भीमसेनरक्षार्थं हैडिम्बि पर्यचोदयत्॥ संजय उवाच संदृश्य समरे भीमं रक्षसा ग्रस्तमन्तिकात्। वासुदेवोऽब्रवीद् राजन् घटोत्कचमिदं वचः॥ पश्य भीमं महाबाहो रक्षसा ग्रस्तमाहवे। पश्यतां सर्वसैन्यानां तव चैव महाद्युते॥ ॥ स कर्णं त्वं समुत्सृज्य राक्षसेन्द्रमलायुधम्। जहि क्षिप्रं महाबाहो पश्चात् कर्णं वधिष्यसि॥ स वार्ष्णेयवचः श्रुत्वा कर्णमुत्सृज्य वीर्यवान्। युयुधे राक्षसेन्द्रेण वकभ्रावा घटोत्कचः॥ तयोः सुतुमलं युद्धं बभूव निशि रक्षसोः। अलायुधस्य चैवाग्रं हैडिम्बेश्चापि भारत॥ अलायुधस्य योधांश्च राक्षसान् भीमदर्शनान्। वेगेनापततः शूरान् प्रगृहीतशरासनान्॥ आत्तायुधः सुसंक्रुद्धो युयुधानो महारथः। नकुलः सहदेवश्च चिच्छिदुर्निशितैः शरैः॥ सर्वांश्च समरे राजन् किरीटी क्षत्रियर्षभान्। परिचिक्षेप बीभत्सुः सर्वतः प्रकिरछरान्॥ कर्णश्च समरे राजन् व्यद्रावयत् पार्थिवान्। धृष्टद्युम्निशिखण्ड्यादीन् पञ्चालानां महारथान्॥ तान् वध्यमानान् दृष्ट्वाथ भीमो भीमपराक्रमः। अभ्ययात् त्वरित: कर्णं विशिखान् प्रकिरन् रणे॥ ततस्तेऽप्याययुर्हत्वा राक्षसान् यत्र सूतजः। नकुलः सहदेवश्च सात्यकिश्च महारथः॥ ते कर्णं योधयामासुः पञ्चाला द्रोणमेव तु। अलायुधस्तु संक्रुद्धो घटोत्कचमरिंदमम्। परिघेणातिकायेन ताड्यामास मूर्धनि॥ स तु तेन प्रहारेण भैमसेनिर्महाबलः। ईषन्मूर्छितमात्मानमस्तम्भयत वीर्यवान्॥ ततो दीप्ताग्निसंकाशां शतघण्टामलंकृताम्। चिक्षेप तस्मै समरे गदां काञ्चन भूषिताम्॥ सा हयांश्च रथं चास्य सारथिं च महास्वना। चूर्णयामास वेगेन विसृष्टा भीमकर्मणा॥ स भग्नहयचक्राक्षाद् विशीर्णध्वजकूबरात्। उत्पपात रथात् तूर्णं मायामास्थाय राक्षसीम्॥ स समास्थाय मायां तु ववर्ष रुधिरं बहु। विद्युद्विभाजितं चासीत् तुमुलाभ्राकुलं नभः॥ ततो वज्रनिपाताश्च साशनिस्तनयित्नवः। महांश्चटचटाशब्दस्तत्रासीच महाहवे॥ तां प्रेक्ष्य महतीं मायां राक्षसो राक्षसस्य च। ऊर्ध्वमुत्पत्य हैडिम्बिस्तां मायां माययावधीत्॥ सोऽभिवीक्ष्य हतां मायां मायावी माययैव हि। अश्मवर्षं सुतुमलं विससर्ज घटोत्कचे॥ अश्मवर्षं स तं घोरं शरवर्षेण वीर्यवान्। दिक्षु विध्वंसयामास तदद्भुतमिवाभवत्॥ ततो नानाप्रहरणैरन्योन्यमभिवर्षताम्। आयसैः परिघैः शूलैर्गदामुसलमुद्गरैः॥ पिनाकैः करवालैश्च तोमरप्रासकम्पनैः। नाराचैर्निशितैर्भल्लैः शरैश्चकैः परश्वधैः। अयोगुडैर्भिन्दिपालैगोंशीर्षोलूखलैरपि॥ उत्पाटितैर्महाशाखैर्विविधैर्जगतीसहैः। शंमीपीलुकदम्बैश्च चम्पकैश्चैव भारत॥ इनुदैर्बदरीभिश्च कोविदारैश्च पुष्पितैः। पलाशैश्चारिमेदैश्च प्लक्षन्यग्रोधपिप्पलैः॥ महद्भिः समरे तस्मिन्नन्योन्यमभिजघ्नतुः। विपुलैः पर्वतायैश्च नानाधातुभिराचितैः॥ तेषां शब्दो महानासीद् वज्राणां भिद्यतामिव। युद्धं समभवद् घोरं भैम्यलायुधयोर्नृप॥ हरीन्द्रयोर्यथा राजन् वालिसुग्रीवयोः पुरा। तौ युद्धवा विविधैोरैरायुधैर्विशिखैस्तथा। प्रगृह्य च शितौ खगावन्योन्यमभिपेततुः॥ तावन्योन्यमभिद्रुत्य केशेषु सुमहाबलौ। भुजाभ्यां पर्यगृह्णीतां महाकायौ महाबलौ॥ तौ स्विन्नगात्रौ प्रस्वेदं सुनुवाते जनाधिप। रुधिरं च महाकायावतिवृष्टाविवाम्बुदौ॥ अथाभिपत्य वेगेन समुद्धाम्य च राक्षसम्। बलेनाक्षिप्य हैडिम्बिश्चकर्तास्य शिरो महत्॥ सोऽपहत्य शिरस्तस्य कुण्डलाभ्यां विभूषितम्। तदा सुतुमुल नादं ननाद सुमहाबलः॥ हतं दृष्ट्वा महाकायं वकज्ञातिमरिंदमम्। पञ्चालाः पाण्डवाश्चैव सिंहनादान् विनेदिरे॥ ततो भेरीसहस्राणि शङ्खानामयुतानि च। अवादयन् पाण्डवेया राक्षसे निहते युधि॥ अतीव सा निशा तेषां बभूव विजयावहा। विद्योतमाना विबभौ समन्ताद् दीपमालिनी॥ अलायुधस्य तु शिरो भैमसेनिर्महाबलः। दुर्योधनस्य प्रमुखे चिक्षेप गतचेतसः॥ अथ दुर्योधनो राजा दृष्ट्वा हतमलायुधम्। बभूव परमोद्विग्नः सह सैन्येन भारत॥ तेन ह्यस्य प्रतिज्ञातं भीमसेनमहं युधि। हन्तेति स्वयमागम्य स्मरता वैरमुत्तमम्॥ ध्रुवं स तेन हन्तव्य इत्यमन्यत पार्थिवः। जीवितं चिरकालं हि भ्रातृणां चाप्यमन्यत॥ स तं दृष्ट्वा विनिहतं भीमसेनात्मजेन वै। प्रतिज्ञा भीमसेनस्य पूर्णामेवाभ्यमन्यत॥ संजय उवाच निहत्यालायुधं रक्षः प्रहृष्टात्मा घटोत्कचः। ननाद विविधान् नादान् वाहिन्याः प्रमुखे तव॥ तस्य तं तुमुलं शब्दं श्रुत्वा कुञ्जरकम्पनम्। तावकानां महाराज भयमासीत् सुदारुणम्॥ अलायुधविषक्तं तु भैमसेनि महाबलम्। दृष्ट्वा कर्णो महाबाहुः पञ्चालान् समुपाद्रवत्॥ दशभिर्दशभिर्बाणैर्वृष्टद्युम्नशिखण्डिनौ। दृढः पूर्णायतोत्सृष्टैर्बिभेद नतपर्वभिः॥ ततः परमनाराचैर्युधामन्यूत्तमौजसौ। सात्यकिं च रथोदारं कम्पयामास मार्गणैः॥ तेषामप्यस्यतां संख्ये सर्वेषां सव्यदक्षिणम्। मण्डलान्येव चापानि व्यदृश्यन्त जनाधिप॥ तेषां ज्यातलनिर्घोषो रथनेमिस्वनश्च ह। मेघानामिव धर्मान्ते बभूव तुमुलो निशि॥ ज्यानेमिघोषस्तनयित्नुमान् वै धनुस्तडिन्मण्डलकेतुशृङ्गः शरोघवर्षाकुलवृष्टिमांश्च संग्राममेघः च बभूव राजन्॥ तदद्भुतं शैल इवाप्रकम्पो वर्षं महाशैलसमानसारः। विध्वंसयामास रणे नरेन्द्र वैकर्तनः शत्रुगणावमर्दी॥ ततोऽतुलैर्वज्रनिपातकल्पैः शितैः शरैः काञ्चनचित्रपुङ्खः। शत्रून् व्यपोहत् समरे महात्मा वैकर्तनः पुत्रहिते रतस्ते॥ संछिन्नभिन्नध्वजिनश्च केचित् केचिच्छरैरर्दितभिन्नदेहाः। केचिद् विसूता विहयाश्च केचिद् वैकर्तनेनाशु कृता बभूवुः॥ अविन्दमानास्त्वथ शर्म संख्ये यौधिष्ठिरं तं बलमभ्यपद्यन्। तान् प्रेक्ष्य भग्नान् विमुखोकृतांश्च घटोत्कचो रोषमतीव चक्रे॥ आस्थाय तं काञ्चनरत्नचित्रं रथोत्तमं सिंहवत् संननादा वैकर्तनं कर्णमुपेत्य चापि विव्याध वज्रप्रतिमैः पृषत्कैः॥ तौ कर्णिनाराचशिलीमुखैश्च नालीकदण्डासनवत्सदन्तैः। वराहकर्णैः सविपाठशृङ्गैः क्षुरप्रवर्धेश्च विनेदतुः खम्॥ तद् बाणधारावृतमन्तरिक्षं तिर्यग्गताभिः समरे रराज। सुवर्णपुङ्खज्वलितप्रभाभि विचित्रपुष्पाभिरिव स्रजाभिः॥ समाहितावप्रतिमप्रभावा वन्योन्यमाजघ्नतुरुत्तमास्त्रैः। तयोर्हि वीरोत्तमयोर्न कश्चिद् ददर्श तस्मिन् समरे विशेषम्॥ अतीव तचित्रमतुल्यरूपं बभूव युद्धं रविभीमसून्चोः। समाकुलं शस्रनिपातघोरं दिवीव रावशुमतोः प्रमत्तम्॥ संजय उवाच घटोत्कचं यदा कर्णो न विशेषयते नृप। ततः प्रादुश्चकारोग्रमस्रमस्रविदां वरः॥ तेनास्रेणावधीत् तस्य रथं सहयसारथिम्। विस्थश्चापि हैडिम्बिः क्षिप्रमन्तरधीयत॥ धृतराष्ट्र उवाच तस्मिन्नन्तर्हिते तूर्णं कूटयोधिनि राक्षसे मामकैः प्रतिपन्नं यत् तन्ममाचक्ष्व संजय॥ संजय उवाच अन्तर्हितं राक्षसेन्द्रं विदित्वा सम्प्राक्रोशन् कुरवः सर्व एव। कथं नायं राक्षस: कूटयोधि हन्यात् कर्णं समरेऽदृश्यमानः॥ ततः कर्णो लघुचित्रानयोधी सर्वा दिशः प्रावृणोद् बाणजालैः। न वै किञ्चत् प्रापतत् तत्र भूतं तमोभूते सायकैरन्तरिक्षे॥ नैवाददानो न च संदधाना न चेषुधीः स्पृश्यमानः कराग्रैः। अदृश्यद् वै लाघवात् सूतपुत्रः सर्वं बाणैश्छादयानोऽन्तरिक्षम्॥ ततो मायां दारुणामन्तरिक्षे घोरा भीमा विहितां राक्षसेन। अपश्याम लोहिताभ्रप्रकाशा देदीप्यन्तीमग्निशिखामिवोग्राम्॥ नुल्काश्चापि ज्वलिताः कौरवेन्द्र। घोषश्चास्याः प्रादुरासीत् सुघोरः सहस्रशो नदतां दुन्दुभीनाम्॥ ततः शराः प्रापतन् रुक्मपुङ्खाः शक्त्यष्टिप्रासमुसलान्यायुधानि। परश्वधास्तैलधौताश्च खगाः। प्रदीप्तानास्तोमराः पट्टिशाश्च॥ मयूखिनः परिघा लोहबद्धा गदाश्चित्राः शितधाराश्च शूलाः। गुयॊ गदा हेमपट्टावनद्धाः शतघ्यश्च प्रादुरासन् समन्तात्॥ महाशिलाश्चापतस्तत्र तव सहस्रशः साशनयश्च वज्राः। चक्राणि चानेकशतक्षुराणि प्रादुर्बभूवुर्खलनप्रभाणि॥ तां शक्तिपाषाणपरश्वधानां प्रासासिवज्राशनिमुद्गराणाम्। वृष्टिं विशालां ज्वलितां पतन्तीं कर्णः शरौधैर्न शशाक हन्तुम्॥ शराहतानां पततां हयानां वज्राहतानां च तथा गजानाम्। शिलाहतानां च महारथानां महान् निनादः पततां बभूव॥ र्घटोत्कचेनाभिहतं समन्तात्। दौर्योधनं वै बलमार्तरूप मावर्तमानं ददृशे भ्रमत् तत्॥ हाहाकृतं सम्परिवर्तमान संलीयमानं च विषण्णरूपम्। ते त्वार्यभावात् पुरुषप्रवीराः पराङ्मुखा नो बभूवुस्तदानीम्॥ तां राक्षसी भीमरूपां सुघोरां वृष्टिं महाशस्रमयी पतन्तीम्। दृष्ट्वा बलौघांश्च निपात्यमानान् महद् भयं तव पुत्रान् विवेश॥ शिवाश्च वैश्वानरदीप्तजिह्वाः सुभीमनादाः शतशा नदन्तीः। रक्षोगणान् नर्दतश्चापि वीक्ष्य नरेन्द्र योधा व्यथिता बभूवुः॥ ते दीप्तजिह्वानलतीक्ष्णदंष्ट्रा विभीषणाः शैलनिकाशकायाः। नभोगताः शक्तिविषक्तहस्ता मेघा व्यमुञ्चन्निव वृष्टिमुग्राम्॥ र्गदाभिरुग्रैः परिघैश्च दीप्तैः। वजैः पिनाकैरशनिप्रहारैः शतनिचक्रैर्मथिताश्च पेतुः॥ सैन्यं शूला भुशुण्ड्योऽश्मगुडाः शतघ्न्यः स्थूणाश्च कार्णायसपट्टनद्धाः। तेऽवाकिरंस्तव पुत्रस्य ततो रौद्रं कश्मलं प्रादुरासीत्॥ विकीर्णान्त्रा विहतैरुत्तमाङ्गैः सम्भग्नाङ्गाः शिश्यिरे तत्र शूराः। छिन्ना हयाः कुञ्जराश्चापि भग्नाः संचूर्णिताश्चैव रथाः शिलाभिः॥ एवं महच्छस्रवर्षं सृजन्त स्ते यातुधाना भुवि घोररूपाः। मायासृष्टास्तत्र घटोत्कचेन नामुञ्चन् वै याचमानं न भीतम्॥ तस्मिन् घोरे कुरुवीरावमर्दे कालोत्सृष्टे क्षत्रियाणामभावे। ते वै भग्नाः सहसा व्यद्रवन्त प्राक्रोशन्तः कौरवाः सर्व एव॥ पलायध्वं कुरवो नैतदस्ति सेन्द्रा देवा घनन्ति नः पाण्डवार्थे। तथा तेषां मजतां भारतानां तस्मिन् द्वीपः सूतपुत्रो बभूव॥ तस्मिन् संक्रन्दे तुमुले वर्तमाने सैन्ये भग्ने लीयमाने कुरूणाम्। अनीकानां प्रविभागेऽप्रकाशे नाज्ञायन्त कुरवो नेतरे च॥ निर्मर्यादे विद्रवे घोररूपे सर्वा दिशः प्रेक्षमाणाः स्म शून्याः। तां शस्रवृष्टिमुरसा गाहमानं कर्णं स्मैकं तत्र राजन्नपश्यन्॥ ततो बाणैरावृणोदन्तरिक्षं दिव्यां मायां योधयन् राक्षसस्य। ह्रीमान् कुर्वन् दुष्करं चार्यकर्म नैवामुह्यत् संयुगे सूतपुत्रः॥ ततो भीताः समुदैक्षन्त कर्णं राजन् सर्वे सैन्धवा बालिकाश्चा असम्मोहं पूजयन्तोऽस्य संख्ये सम्पश्यन्तो विजयं राक्षसस्य॥ तेनोत्सृष्टा चक्रयुक्ता शतघ्नी समं सर्वांश्चतुरोऽश्वाञ्जघान। ते जानुभिर्जगतीमन्वद्यन् गतासवो निर्दशनाक्षिजिह्वाः॥ दन्तर्मनाः कुरुषु प्राद्रवत्सु। दिव्ये चारो मायया वध्यमाने नैवामुह्यचिन्तयन् प्राप्तकलम्॥ ततोऽब्रुवन् कुरवः सर्व एव कर्णं दृष्ट्वा घोररूपां च मायाम्। शक्त्या रक्षो जहि कर्णाद्य तूर्णं नश्यन्त्येते कुरवो धार्तराष्ट्राः॥ करिष्यत: किञ्च नो भीमपार्थों तपन्तमेनं जहि पापं निशीथे। यो नः संग्रामाद् घोररूपाद् विमुच्येत् स नः पार्थान् सबलान् योधयेत॥ तस्मादेनं राक्षसं घोररूपं शक्त्या जहि त्वं दत्तया वासवेन। मा कौरवाः सर्व एवेन्द्रकल्पा रात्रियुद्धे कर्ण नेशुः सयोधाः॥ स वध्यमानो रक्षसा वै निशीथे दृष्ट्वा राजस्रास्यमानं बलं च। महच्छ्रुत्वा निनदं कौरवाणां मतिं दधे शक्तिमोक्षाय कर्णः॥ स वै क्रुद्धः सिंह इवात्यमर्षी नामर्षयत् प्रतिघातं रणेऽसौ। शक्तिं श्रेष्ठां वैजयन्तीमसह्यां समाददे तस्य वधं चिकीर्षन्॥ यासौ राजनिहिता वर्षपूगान् वधायाजौ सत्कृता फाल्गुनस्य। यां वै प्रादात् सूतपुत्राय शक्रः शक्तिं श्रेष्ठां कुण्डलाभ्यां निमाय॥ तां वै शक्तिं लेलिहानां प्रदीप्तां पाशैर्युक्तामन्तकस्येव जिह्वाम्। मृत्योः स्वसारं ज्वलितामिवोल्का वैकर्तनः प्राहिणोद् राक्षसाय॥ तामुत्तमां परकायावहन्त्री दृष्ट्वा शक्तिं बाहुसंस्थां ज्वलन्तीम्। भीतं रक्षो विप्रदुद्राव राजन् कृत्वाऽऽत्मानं विध्यतुल्यप्रमाणम्॥ दृष्ट्वा शक्तिं कर्णबाह्वन्तरस्थां नेदुर्भूतान्यन्तरिक्षे नरेन्द्र। ववुर्वातास्तुमुलाश्चापि राजन् सनिर्याता चाशनिर्गा जगाम॥ सा तां मायां भस्म कृत्वा ज्वलन्ती भित्त्वा गाढं हृदयं राक्षसस्य। ऊर्ध्वं ययौ दीप्यमाना निशायां नक्षत्राणामन्तराण्याविवेश॥ दिव्यैर्नागैर्मानुषै राक्षसैश्चा नदन् नादान् विविधान् भैरवांश्च प्राणानिष्टांस्त्याजितः शक्रशक्त्या॥ इदं चान्यचित्रमाश्चर्यरूपं चकारासौ कर्म शत्रुक्षयाया तस्मिन् काले शक्तिनिर्भिन्नमर्मा बभौ राजशैलमेघप्रकाशः॥ ततोऽन्तरिक्षादपतद् गतासुः स राक्षसेन्द्रो भुवि भिन्नदेहः। अवाक्शिराः स्तब्धगात्रो विजिह्वो घटोत्कचो महदास्थाय रूपम्॥ स तद् रूपं भैरवं भीमकर्मा भीमं कृत्वा भैमसेनिः पपात। हतोऽप्येवं तव सैन्येकदेश मपोथयत् स्वेन देहेन राजन्॥ एतद् रक्षः स्वेन कायेण तूर्णं मतिप्रमाणेन विवर्धता च। रक्षौहिणीं तव तूर्णं जघान॥ भैर्यः शङ्खा मुरजाश्चानकाच। दग्धां मायां निहतं राक्षसं च दृष्ट्वा हृष्टाः कौरवेयाः॥ ततः कर्णः कुरुभिः पूज्यमानो यथा शक्रो वृत्रवधे मरुद्भिः। अन्वारूढस्तव पुत्रस्य यानं हृष्टश्चापि प्राविशत् तत् स्वसैन्यम्॥ संजय उवाच हैडिम्बि निहतं दृष्ट्वा विशीर्णमिव पर्वतम्। वासुदेववस्तु हर्षेण महताभिपरिप्लुतः। ननाद सिंहनादं वै पर्यष्वजत फाल्गुनम्॥ स विनद्य महानादमभीषून् संनियम्य च। ननर्त हर्षसंवीतो वातोद्भूत इव दुमः॥ तत: परिष्वज्य पुनः पार्थमास्फोट्य चासकृत्। रथोपस्थगतो धीमान् प्राणदत् पुनरच्युतः॥ प्रहृष्टमनसं ज्ञात्वा वासुदेवं महाबलः। अर्जुनोऽथाब्रवीद् राजन्नातिहृष्टमना इव॥ अतिहर्षोऽयमस्थाने तवाद्य मधुसूदन। शोकस्थाने तु सम्प्राप्ते हैडिम्बस्य वधेन तु॥ विमुखानीह सैन्यानि हतं दृष्ट्वा घटोत्कचम्। वयं च भृशमुद्विग्ना हैडिम्बेस्तु निपातनात्॥ नैतत्कारणमल्पं हि भविष्यति जनार्दन। तदद्य शंस मे पृष्टः सत्यं सत्यवतां वर॥ योतन्न रहस्यं ते वक्तुमर्हस्यरिंदम। धैर्यस्य वैकृतं ब्रूहि त्वमद्य मधुसूदन॥ समुद्रस्येव संशोषं मेरोरिव विसर्पणम्। तथैतदद्य मन्येऽहं तव कर्म जनार्दन॥ श्रीवासुदेव उवाच अतिहर्षमिमं प्राप्तं शृणु मे त्वं धनंजय। अतीव मनसः सद्यः प्रसादकरमुत्तमम्॥ शक्तिं घटोत्कचेनेमां व्यंसयित्वा महाद्युते। कर्णं निहतमेवाजौ विद्धि सद्यो धनंजय॥ शक्तिहस्तं पुनः कर्णं को लोकेऽस्ति पुमानिह। य एनमभितस्तिष्ठेत् कार्तिकेयमिवाहवे।॥ दिष्ट्यापनीतकवचो दिष्ट्यापहृतकुण्डलः। दिष्ट्या सा व्यंसिता शक्तिरमोघास्य घटोत्कचे॥ यदि हि स्यात् सकवचस्तथैव स्यात् कुण्डलः। सामरानपि लोकांस्त्रीनेकः कर्णो जयेद् रणे॥ वासवो वा कुबेरो वा वरुणो वा जलेश्वरः। यमो वा नोत्सहेत् कर्णं रणे प्रतिसमासितुम्॥ गाण्डीवमुद्यम्य भवांश्चक्रं चाहं सुदर्शनम्। न शक्तौ स्वो रणे जेतुं तथायुक्तं नरर्षभम्॥ त्वद्धितार्थं तु शक्रेण मायापहृतकुण्डलः। विहीनकवचश्चायं कृतः परपुरंजयः॥ उत्कृत्य कवचं यस्मात् कुण्डले विमले च ते। प्रादाच्छकाय कर्णो वै तेन वैकर्तनः स्मृतः॥ आशीविष इव क्रुद्धो जुभितो मन्त्रतेजसा। तथाद्य भाति कर्णो मे शान्तज्वाल इवानलः॥ यदाप्रभृति कर्णाय शक्तिर्दत्ता महात्मना। वासवेन महाबाहो क्षिप्ता यासौ घटोत्कच॥ कुण्डलाभ्यां निमायाथ दिव्येन कवचेन च। तां प्राप्यामन्यत वृषः सततं त्वां हतं रणे॥ एवंगतोऽपि शक्योऽयं हन्तुं नान्येन केनचित्। ऋते त्वां पुरुषव्याघ्र शये सत्येन चानघ॥ ब्रह्मण्यः सत्यवादी च तपस्वी नियतव्रतः। रिपुष्वपि दयावांश्च तस्मात् कर्णो वृषः स्मृतः॥ युद्धशौण्डो महाबाहुर्नित्योद्यतशरासनः। केसरीव वने नर्दन् मातङ्ग इव यूथपान्॥ विमदान् रथशार्दूलान् कुरुते रणमूर्धनि। मध्यं गत इवादित्यो यो न शक्यो निरीक्षितुम्॥ त्वदीयैः पुरुषव्याघ्र योधमुख्यैर्महात्मभिः। शरजालसहस्रांशु शरदीव दिवाकरः॥ तपान्ते जलदो यद्वच्छरधाराः क्षरन् मुहुः। दिव्यास्रजलदः कर्णः पर्जन्य इव वृष्टिमान्॥ त्रिदशैरपि चास्यद्भिः शरवर्ष समन्ततः। अशक्यस्तदयं जेतुं स्रवद्भिर्मासशोणितम्॥ कवचेन विहीनश्च कुण्डलाभ्यां च पाण्डव। सोऽद्य मानुषतां प्राप्तो विमुक्तः शक्रदत्तया॥ एको हि योगोऽस्य भवेद् वधाय च्छिद्रे ह्येनं स्वप्रमत्तः प्रमत्तम्। कृच्छं प्राप्तं रथचक्रे विमग्ने हन्याः पूर्वं त्वं तु सज्ञां विचार्य॥ मप्येकवीरो बलभित् सवज्रः। जरासंघश्चेदिराजो महात्मा महाबाहुश्चैकलव्यो निषादः॥ एकैकशो निहताः सर्व एते योगैस्तैस्तैस्त्वद्धितार्थं मयैव। अथापरे निहता राक्षसेन्द्रा। हिडिम्बकिर्मीरवकप्रधानाः। अलायुधः परचक्रावमर्दी घटोत्कचचोग्रकर्मा तरस्वी॥ अर्जुन उवाच कथमस्मद्धितार्थं ते कैश्च योगैर्जनार्दन। जरासंघप्रभृतयो घातिताः पृथिवीश्वराः॥ श्रीवासुदेव उवाच जरासंघश्चेदिराजो नैषादिश्व महाबलः। यदि स्युर्न हताः पूर्वमिदानीं स्युर्भयंकराः॥ दुर्योधनस्तानवश्यं वृणुयाद् रथसत्तमान्। तेऽस्मासु नित्यविद्विष्टाः संश्रयेयुश्च कौरवान्॥ ते हि वीरा महेष्वासाः कृतास्रा दृढयोधिनः। धार्तराष्ट्रां चमूं कृत्स्नां रक्षेयुरमरा इव॥ सूतपुत्रो जरासंघश्चेदिराजो निषादजः। सुयोधनं समाश्रित्य जयेयुः पृथिवीमिमाम्॥ योगैरपि हता यैस्ते तन्मे शृणु धनंजय। अजय्या हि विना योगैर्मधे ते दैवतैरपि॥ एकैको हि पृथक् तेषां समस्तां सुरवाहिनीम्। योधयेत् समरे पार्थ लोकपालाभिरक्षिताम्॥ जरासंधो हि रुषितो रौहिणेयप्रधर्षितः। अस्मद्वधार्थं चिक्षेप गदां वै सर्वघातिनीम्॥ सीमन्तमिव कुर्वाणा नभसः पावकप्रभा। अदृश्यतापतन्ती सा शक्रमुक्ता यथाशनिः॥ तामापतन्तीं दृष्टैव गदां रोहिणिनन्दनः। प्रतिघातार्थमस्रं वै स्थूणाकर्णमवासृजत्॥ अस्रवेगप्रतिहता सा गदा प्रापतद् भुवि। दारयन्ती धरां देवीं कम्पयन्तीव पर्वतान्॥ तत्र सा राक्षसी घोरा जरानाम्नी सुविक्रमा। संदधे सा हि संजातं जरासंधमरिंदमम्॥ द्वाभ्यां जातो हि मातृभ्यामर्धदेहः पृथक् पृथक्। जरया संधितो यस्माजरासंधस्ततोऽभवत्॥ सा तु भूमिं गता पार्थ हता ससुतबान्धवा। गदया तेन चास्त्रेण स्थूणाकर्णेन राक्षसी॥ विनाभूत: स गदया जरासंधो महामृधे। निहतो भीमसेनेन पश्यतस्ते धनंजय॥ यदि हि स्याद् गदापाणिर्जरासंधः प्रतापवान्। सेन्द्रा देवा न तं हन्तुं रणे शक्ता नरोत्तम॥ त्वद्धितार्थं च नैषादिरङ्गुष्ठेन वियोजितः। द्रोणेनाचार्यकं कृत्वा छद्मना सत्यविक्रमः॥ स तु बद्धाङ्गुलित्राणो नैषादिर्दृढविक्रमः। अतिमानी वनचरो बभौ राम इवापरः॥ एकलव्यं हि साङ्गुष्ठमशक्ता देवदानवाः। सराक्षसोरगाः पार्थ विजेतुं युधि कर्हिचित्॥ किमु मानुषमात्रेण शक्य:स्यात् प्रतिवीक्षितुम्। दृढमुष्टिः कृती नित्यमस्यमानो दिवानिशम्॥ त्वद्धितार्थं तु स मया हतः संग्राममूर्धनि। चेदिराजश्च विक्रान्तः प्रत्यक्षं निहतस्तव॥ स चाप्यशक्यः संग्रामे जेतुं सर्वसुरासुरैः। वधार्थं तस्य जातोऽहमन्येषां च सुरद्विषाम्॥ त्वत्सहायो नरव्याघ्र लोकानां हितकाम्यया। हिडिम्बवककिर्मीरा भीमसेनेन पातिताः॥ रावणेन समप्राणा ब्रह्मयज्ञविनाशनाः। हतस्तथैव मायावी हैडिम्बेनाप्यलायुधः॥ हैडिम्बश्चाप्युपायेन शक्त्या कर्णेन घातितः। यदि ह्येनं नाहनिष्यत् कर्णः शक्त्या महामृधे॥ मया वध्योऽभविष्यत् स भैमसेनिर्घटोत्कचः। मया न निहतः पूर्वमेष युष्पत्प्रियेप्सया॥ एष हि ब्राह्मणद्वेषी यज्ञद्वेषी च राक्षसः। धर्मस्य लोप्ता पापात्मा तस्मादेष निपातितः॥ व्यंसिता चाप्युपायेन शक्रदत्ता मयानघ। ये हि धर्मस्य लोप्तारो वध्यास्ते मम पाण्डव॥ कार्यः धर्मसंस्थापनार्थं हि प्रतिज्ञैषा ममाव्यया। ब्रह्म सत्यं दमः शौचं धर्मो ह्रीः श्रीकृतिः क्षमा॥ यत्र तत्र रमे नित्यमहं सत्येन ते शपे। न विषादस्त्वया कर्ण वैकर्तनं प्रति॥ उपदेक्ष्याम्युपायं ते येन ते प्रसहिष्यसि। सुयोधनं चापि रणे हनिष्यति वृकोदरः॥ तस्यापि च वधोपायं वक्ष्यामि तव पाण्डव। वर्धते तुमुलस्त्वेष शब्दः परचमूं प्रति॥ विद्रवन्ति च सैन्यानि त्वदीयानि दिशो दश। लब्धलक्ष्या हि कौरव्या विधमन्ति चमू तव। दहत्येष च वः सैन्यं द्रोणः प्रहरतां वरः॥ धृतराष्ट्र उवाच एकवीरवधे मोघा शक्तिः सूतात्मजे यदा। कस्मात् सर्वान् समुत्सृज्य स तां पार्थे न मुक्तवान्॥ तस्मिन् हते हता हि स्युः सर्वे पाण्डवसृञ्जयाः। एकवीरवधे कस्माद् युद्धे न जयमादधे॥ आहूतो न निवर्तेयमिति तस्य महाव्रतम्। स्वयं मार्गयितव्यः स सूतपुत्रेण फाल्गुनः॥ ततो द्वैरथमानीय फाल्गुनं शक्रदत्तया। जघान न वृषः कस्मात् तन्ममाचक्ष्व संजय॥ नूनं बुद्धिविहीनश्चाप्यसहायश्च ते सुतः। शत्रुभिर्व्यसितः पापः कथं नु स जयेदरीन्॥ या ह्यस्य परमा शक्तिर्जयस्य च परायणम्। सा शक्तिर्वासुदेवेन व्यंसिता च घटोत्कचे॥ कुणेर्यथा हस्तगतं ह्रियेत् फलं बलीयसा। तथा शक्तिरमोघा सा मोघीभूता घटोत्कचे॥ स्तयोरभावे श्वपचस्य लाभ:। मन्ये विद्वन् वासुदेवस्य तद्वद् युद्धे लाभः कर्णहैडिम्बयोवै॥ घटोत्कचो यदि हन्याद्धि कर्ण परोलाभः स भवेत् पाण्डवानाम्। वैकर्तनो वा यदि तं निहन्यात् तथापि कृत्यं शक्तिनाशात् कृतं स्यात्॥ इति प्राज्ञः प्रज्ञयैतद् विचिन्त्य घटोत्कचं सूतपुत्रेण युद्धे। अधातयद् वासुदेवो नृसिंहः प्रियं कुर्वन् पाण्डवानाहितं च॥ संजय उवाच एतचिकीर्षित ज्ञात्वा कर्णस्य मधुसूदनः। नियोजयामास तदा द्वैरथे राक्षसेश्वरम्॥ घटोत्कचं महावीर्यं महाबुद्धिर्जनार्दनः। अमोघाया विघातार्थं राजन् दुर्मन्त्रिते तव॥ तदैव कृतकार्या हि वयं स्याम कुरूद्वह। न रक्षेद् यदि कृष्णस्तं पार्थं कर्णान्महारणात्॥ साश्वध्वजरथः संख्ये धृतराष्ट्र पतेद् भुवि। विना जनार्दनं पार्थो योगानीमीश्वरं प्रभूम्॥ तैस्तैरुपायैर्बहुभी रक्ष्यमाणः च पार्थिवा जयत्यभिमुखः शत्रून् पार्थः कृष्णेन पालितः॥ स विशेषात् त्वमोघायाः कृष्णोऽरक्षत पाण्डवम्। हन्यात् क्षिप्रं हि कौन्तेयं शक्तिर्वृक्षमिवाशनिः॥ धृतराष्ट्र उवाच विरोधी च कुमन्त्री च प्राज्ञमानी ममात्मजः। यस्यैव समतिक्रान्तो वधोपायो जयं प्रति॥ स वा कर्णो महाबुद्धिः सर्वशस्त्रभृतां वरः। न मुक्तवान् कथं सूत ताममोघां धनंजये। १८॥ तवापि समतिक्रान्तमेतद् गावल्गणे कथम्। एतमर्थं महाबुद्धे यत् त्वया नावबोधितः॥ संजय उवाच दुर्योधनस्य शकुनेर्मम दुःशासनस्य च। रात्रौ रात्रौ भवत्येषा नित्यमेव समर्थना॥ श्वः सर्वसैन्यान्युत्सृज्य जहि कर्ण धनंजयम्। प्रेष्यवत् पाण्डुपञ्चालानुपभोक्ष्यामहे ततः॥ अथवा निहते पार्थं पाण्डवान्यतमं ततः। स्थापयेद् यदि वार्ष्णेयस्तस्मात्कृष्णो हि हन्यताम्॥२२ कृष्णो हि मूलं पाण्डूनां पार्थः स्कन्ध इवोद्गतः। शाखा इवेतरे पार्थाः पञ्चालाः पत्रसंज्ञिताः॥ कृष्णाश्रयाः कृष्णबलाः कृष्णनाथाश्च पाण्डवाः। कृष्णः परायणं चैषां ज्योतिषामिव चन्द्रमाः॥ तस्मात् पर्णानि शाखाश्च स्कन्धं चोत्सृज्य सूतज। कृष्णं हि विद्धि पाण्डूनां मूलं सर्वत्र सर्वदा॥ हन्याद् यदि हि दाशार्ह कर्णो यादवनन्दनम्। कृत्स्ना वसुमती राजन् वशे तस्य न संशयः॥ यदि हि स निहतः शयीत भूमौ यदुकुलपाण्डवनन्दनो महात्मा। ननु तव वसुधा नरेन्द्र सर्वा सगिरिसमुद्रवना वशं व्रजेत॥ सा तु बुद्धिः कृताप्येवं जाग्रति त्रिदशेश्वरे। अप्रमेये हृषीकेशे युद्धकालेऽप्यमुह्यत॥ अर्जुनं चापि राधेयात् सदा रक्षति केशवः। न ह्येनमैच्छत् प्रमुखे सौतेः स्थापयितुं रणे॥ अन्यांश्चस्मै रथोदारानुपास्थापयदच्युतः। अमोघां तां कथं शक्तिं मोघां कुर्यामिति प्रभो॥ यश्चैवं रक्षते पार्थं कर्णात् कृष्णो महामनाः। आत्मानं स कथं राजन् न रक्षेत् पुरुषोत्तमः॥ परिचिन्त्य तु पश्यामि चक्रायुधमरिंदमम्। न सोऽस्ति त्रिषु लोकेषु यो जयेत जनार्दनम्॥ ततः कृष्णं महाबाहुं सात्यकिः सत्यविक्रमः। पप्रच्छ रथशार्दूल: कर्णं प्रति महारथः॥ अयं च प्रत्ययः कर्णे शक्तिशामितविक्रमा। किमर्थं सूतपुत्रेण न मुक्ता फाल्गुने तु सा॥ श्रीवासुदेव उवाच दुःशासनश्च कर्णश्च शकुनिश्च ससैन्धवः। सततं मन्त्रयन्ति स्म दुर्योधनपुरोगमाः॥ कर्ण कर्ण महेष्वास रणेऽमितपराक्रम। नान्यस्य शक्तिरेषा ते मोक्तव्या जयतां वर॥ ऋते महारथात् कर्ण कुन्तीपुत्राद् धनंजयात्। स हि तेषामतियशा देवानामिव वासवः॥ तस्मिन् विनिहते पार्थे पाण्डवाः सृञ्जयैः सह। भविष्यन्ति गतात्मानः सुरा इव निरग्नयः॥ तथेति च प्रतिज्ञातं कर्णेन शिनिपुङ्गव। हृदि नित्यं च कर्णस्य वधो गाण्डीवधन्वनः॥ अहमेव तु राधेयं मोहयामि युधां वर। ततो नावासृजच्छक्तिं पाण्डवे श्वेतवाहने॥ फाल्गुनस्य हि सा मृत्युरिति चिन्तयतोऽनिशम्। न निद्रा न च मे हर्षो मनसोऽस्ति युधां वर॥ घटोत्कचे व्यंसितां तु दृष्ट्वा तां शिनिपुङ्गव। मृत्योरास्यान्तरान्मुक्तं पश्याम्यद्य धनंजयम्॥ न पिता न च मे माता न यूयं भ्रातरस्तथा। न च प्राणास्तथा रक्ष्या यथा बीभत्सुराहवे॥ त्रैलोक्यराज्याद् यत् किंचिद् भवेदन्यत् सुदुलभम्। नेच्छेयं सात्वताहं तद् विना पार्थं धनंजयम्॥ अतः प्रहर्षः सुमहान् युयुधानाद्य मेऽभवत्। मृतं प्रत्यागतमिव दृष्ट्वा पार्थं धनंजयम्॥ अतश्च प्रहितो युद्धे मया कर्णाय राक्षसः। न ह्यन्यः समरे रात्रौ शक्तः कर्णं प्रबाधितुम्॥ संजय उवाच इति सात्यकये प्राह तदा देवकिनन्दनः। धनंजयहिते युक्तस्तत्प्रिये सततं रतः॥ संजय उवाच इति सात्यकये प्राह तदा देवकिनन्दनः। धनंजयहिते युक्तस्तत्प्रिये सततं रतः॥ धृतराष्ट्र उवाच कर्णदुर्योधनादीनां शकुनेः सौबलस्य च। अपनीतं महत् तात तव चैव विशेषतः॥ यदि जानीथ तां शक्तिमेकघ्नीं सततं रणे। अनिवार्यामसह्यां च देवैरपि सवासवैः॥ सा किमर्थं तु कर्णेन प्रवृत्ते समरे पुरा। न देवकीसुते मुक्ता फाल्गुने वापि संजय॥ संजय उवाच संग्रामाद् विनिवृत्तानां सर्वेषां नो विशाम्पते। रात्रौ कुरुकुलश्रेष्ठ मन्त्रोऽयं समजायत॥ प्रभातमात्रे श्वोभूते केशवाया नाय वा। शक्तिरेषा हि मोक्तव्या कर्ण कर्णेति नित्यशः॥ ततः प्रभातसमये राजन् कर्णस्य दैवतैः। अन्येषां चैव योधानां सा बुद्धिर्नाश्यते पुनः॥ दैवमेव परं मन्ये यत् कर्णो हस्तसंस्थया। न जघान रणे पार्थं कृष्णं वा देवकीसुतम्॥ तस्य हस्तस्थिता शक्तिः कालरात्रिरिवोद्यता। दैवोपहतबुद्धित्वान्न तां कर्णो विमुक्तवान्॥ कृष्णे वा देवकीपुत्रे मोहितो देवमायया। पार्थे वा शक्रकल्पे वै वधार्थं वासवीं प्रभो॥ धृतराष्ट्र उवाच दैवेनोपहता यूयं स्वबुद्ध्या केशवस्य च। गता हि वासवी हत्वा तृणभूतं घटोत्कचम्॥ कर्णश्च मम पुत्राश्च सर्वे चान्ये च पार्थिवाः। तेन वै दुष्प्रणीतेन गता वैवस्वतक्षयम्॥ भूय एव तु मे शंस यथा युद्धमवर्तत। कुरूणां पाण्डवानां च हैडिम्बे निहते तदा॥ थे च तेऽभ्यद्रवन् द्रोणं व्यूढानीकः प्रहारिणः। सुंजयाः सह पञ्चास्तेऽप्यकुर्वन् कथं रणम्॥ सौमदत्तेर्वधाद् द्रोणमायान्तं सैन्धवस्य च। अमर्षाजीवितं त्यक्त्वा गाहमानं वरुथिनीम्॥ जृम्भमाणमिव व्याघ्रं व्यात्ताननमिवान्तकम्। कथं प्रत्युद्ययुयॊणमस्यन्तं पाण्डुसृञ्जयाः॥ आचार्यं ये च तेऽरक्षन् दुर्योधनपुरोगमाः। द्रौणिकर्णकृपास्तात ते वाकुर्वन् किमाहवे॥ भारद्वाजं जिघांसन्तौ सव्यसाचिवृकोदरौ। समार्च्छन् मामका युद्धे कथं संजय शंस मे॥ सिन्धुरावधेनेमे घटोत्कचवधेन ते। अमर्षिताः सुसंक्रुद्धा रणं चक्रुः कथं निशि॥ संजय उवाच हते घटोत्कचे राजन् कर्णेन निशि राक्षसे। प्रणदत्सु च हृष्टेषु तावकेषु युयुत्सुषु॥ आपतत्सु च वेगेन वध्यमाने बलेऽपि च। विगाढायां रजन्यां च राजा दैन्यं परं गतः॥ अब्रवीच महाबाहुर्भीमसेनमिदं वचः। आवारय महाबाहो धार्तराष्ट्रस्य वाहिनीम्॥ हैडिम्बेश्चैव घातेन मोहो मामाविशन्महान्। एवं भीमं समादिश्य स्वरथे समुपाविशत्॥ अश्रुपूर्णमुखो राजा निःश्वसंश्च पुनः पुनः। कश्मलं प्राविशद् घोरं दृष्टवा कर्णस्य विक्रमम्॥ तं तथा व्यथितं दृष्ट्वा कृष्णो वचनमब्रवीत्। मा व्यथां कुरु कौन्तेय नैतत् त्वय्युपपद्यते॥ वैकुव्यं भरतश्रेष्ठ यथा प्राकृतपूरुषे। उत्तिष्ठ राजन् युद्ध्यस्व वह गुर्वी धुरं विभो॥ त्वयि वैकुव्यमापन्ने संशयो विजये भवेत्। श्रुत्वा कृष्णस्य वचनं धर्मराजो युधिष्ठिरः॥ विमृज्य नेत्रे पाणिभ्यां कृष्णं वचनमब्रवीत्। विदिता मे महाबाहो धर्माणां परमा गतिः॥ ब्रह्महत्या फलं तस्य यैः कृतं नावबुध्यते। श्रस्माकं हि वनस्थानां हैडिम्बेन महात्मना॥ बालेनापि सता तेन कृतं साह्यं जनार्दन। असहेतोर्गतं ज्ञात्वा पाण्डवं श्वेतवाहनम्॥ असौ कृष्ण महेष्वासः काम्यके मामुपस्थितः। उषितश्च सहास्माभिर्यावन्नासीद् धनंजयः॥ गन्धमादनयात्रायां दुर्गेभ्यश्च स्म तारिताः। पाञ्चाली च परिश्रान्ता पृष्ठेनोढा महात्मना॥ आरम्भाच्चैव युद्धानां यदेष कृतवान् प्रभो। मदर्थे दुष्करं कर्म कृतं तेन महाहवे॥ मे स्वभावाद् या च मे प्रीतिः सहदेवे जनार्दन। सैव मे परमा प्रीती राक्षसेन्द्रे घटोत्कचे॥ भक्तश्च महाबाहुः प्रियोऽस्याहं प्रियश्च मे। तेन विन्दामि वार्ष्णेय कश्मलं शोकतापितः॥ पश्य सैन्यानि वार्ष्णेय द्राव्यमाणानि कौरवैः। द्रोणकर्णी तु संयत्तौ पश्य युद्धे महारथौ॥ निशीथे पाण्डवं सैन्यमेतत् सैन्यप्रमर्दितम्। गजाभ्यामिव मत्ताभ्यां यथा नलवनं महत्॥ अनादृत्य बलं बाह्वोर्भीमसेनस्य माधव। चित्रास्रतां च पार्थस्य विक्रमन्ति स्म कौरवः॥ एष द्रोणश्च कर्णश्च राजा चैव सुयोधनः। निहत्य राक्षसं युद्धे हृष्टाः नर्दन्ति संयुगे॥ कथं वास्मासु जीवत्सु त्वयि चैव जनार्दन। हैडिम्बिः प्राप्तवान् मृत्युं सूतपुत्रेण सङ्गतः॥ कदर्थीकृत्य नः सर्वान् पश्यतः सव्यसाचिनः। निहतो राक्षस: कृष्ण भैमसेनिर्महाबलः॥ यदाभिमन्युनिहतो धार्तराष्टैर्दुरात्मभिः। नासीत् तत्र रणे कृष्ण सव्यसाची महारथः॥ निरुद्धाश्च वयं सर्वे सैन्धवेन दुरात्मना। निमित्तमभवद् द्रोणः सपुत्रस्तत्र कर्मणि॥ उपदिष्टो वधोपायः कर्णस्य गुरुणा स्वयम्। व्यायच्छतश्च खड्ड्रेन द्विधा खङ्गं चकार ह॥ व्यसने वर्तमानस्य कृतवर्मा नृशंसवत्। अश्वाञ्जधान सहसा तथोभौ पाणिसारथी॥ तथेतरे महेष्वासः सौभद्रं युध्यपातयन्। अल्पे च कारणे कृष्ण हतो गाण्डीवधन्वना॥ सैन्धवो यादवश्रेष्ठ तच नातिप्रियं मम। यदि शत्रुवधो न्याय्यो भवेत् कर्तुं हि पाण्डवैः॥ कर्णद्रोणौ रणे पूर्वं हन्तव्याविति मे मतिः। एतौ हि मूलं दुःखानामस्माकं पुरुषर्षभ॥ एतौ रणे समासाद्य समाश्वस्तः सुयोधनः। यत्र वध्यो भवेद् द्रोणः सूतपुत्रश्च सानुगः॥ तत्रावधीन्महाबाहुः सैन्धवं दूरवासिनम्। अवश्यं तु मया कार्य: सूतपुत्रस्य निग्रहः॥ ततो यास्याम्यहं वीर स्वयं कर्णजिघांसया। भीमसेनो महाबाहुर्दोणानीकेन सङ्गतः॥ एवमुक्त्वा ययौ तूर्णं त्वरमाणो युधिष्ठिरः। स विस्फार्य महचापं शङ्ख प्रध्यमाप्य भैरवम्॥ ततो रथसहस्रेण गजानां च शतैसिभिः। वाजिभिः पञ्चसाहौः पञ्चालैः सप्रभद्रकैः॥ वृतः शिखण्डी त्वरितो राजानं पृष्ठतोऽन्वयात्। ततो भेरी: समाजघ्नुः शङ्खान् दध्मुश्च दंशिताः॥ पञ्चालाः पाण्डवाश्चैव युधिष्ठिरपुरोगमाः। ततोऽब्रवीन्महाबाहुर्वासुदेवो धनंजयम्॥ एष प्रयाति त्वरितः क्रोधाविष्टो युधिष्ठिरः। जिघांसुः सूतपुत्रस्य तस्योपेक्षा न युज्यते॥ एवमुक्त्वा हृषीकेशः शीघ्रमश्वानचोदयत्। दूरं प्रयान्तं राजानमन्वगच्छजनार्दनः॥ तं दृष्ट्वा सहसा यान्तं सूतपुत्रजिघांसया। शोकोपहतसंकल्पं दह्यमानमिवाग्निना॥ व्यास उवाच अभिगम्याब्रवीद् व्यासो धर्मपुत्रं युधिष्ठिरम्। कर्णमासाद्य संग्रामे दिष्ट्या जीवति फाल्गुनः॥ सव्यसाचिवधाकांक्षी शक्तिं रक्षितवान् हि सः। न चागाद् द्वैरथं जिष्णुर्दिष्ट्या तेन महारणे॥ सृजेता स्पर्धिनावेतौ दिव्यान्यस्राणि सर्वशः। वध्यमानेषु चास्रेषु पीडितः सूतनन्दनः॥ वासवीं समरे शक्तिं ध्रुवं मुञ्चेद् युधिष्ठिर। ततो भवेत् ते व्यसनं घोरं भरतसत्तम॥ दिष्ट्या रक्षो हतं युद्धे सूतपुत्रेण मानद। वासवीं कारणं कृत्वा कालेनोपहतो ह्यसौ॥ तवैव कारणाद् रक्षो निहतं तात संयुगे। मा क्रुधो भरतश्रेष्ठ मा च शोके मनः कृथाः॥ प्राणिनामिह सर्वेषामेषा निष्ठा युधिष्ठिर। भ्रातृभिः सहितः सर्वैः पार्थिवैश्च महात्मभिः॥ कौरवान् समरे राजन् प्रतियुध्यस्व भारत। पञ्चमे दिवसे तात पृथिवी ते भविष्यति॥ नित्यं च पुरुषव्याघ्र धर्ममेवानुचिन्तय। आनृशंस्यं तपो दानं क्षमां सत्यं च पाण्डव।॥ सेवेथाः परमप्रीतो यतो धर्मस्ततो जयः। इत्युक्त्वा पाण्डवं व्यासस्तत्रैवान्तरधीयत॥ संजय उवाच व्यासेनैवमथोक्तस्तु धर्मराजो युधिष्ठिरः। स्वयं कर्णवधाद् वीरो निवृत्तो भरतर्षभ॥ घटोत्कचे तु निहते सूतपुत्रेण तां निशाम्। दुःखामर्षवशं प्राप्तो धर्मराजो युधिष्ठिरः॥ दृष्ट्वा भीमेन महतीं वार्यमाणां चमू तव। धृष्टद्युम्नमुवाचेदं कुम्भयोनि निवारय॥ त्वं हि द्रोणविनाशाय समुत्पन्नो हुताशनात्। सशरः कवची खड्गी धन्वी च परतापनः॥ अभिद्रव रणे हृष्टो मा च ते भीः कथंचन। जनमेजयः शिखण्डी च दौर्मुखिश्च यशोधरः॥ अभिद्रवन्तु संहष्टाः कुम्भयोनि समन्ततः। नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः॥ दुपदश्च विराटश्च पुत्रभ्रातृसमन्वितौ। सात्यकि: केकयाश्चैव पाण्डवश्च धनंजयः॥ अभिद्रवन्तु वेगेन कुम्भयोनिवधेप्सया। तथैव रथिनः सर्वे हस्त्यश्वं यच किञ्चन॥ पदाताश्च रणे द्रोणं पातयन्तु महारथम्। तथाऽऽज्ञप्तास्तु ते सर्वे पाण्डवेन महात्मना॥ अभ्यद्रवन्त वेगेन कुम्भयोनिवधेप्सया। आगच्छतस्तान् सहसा सर्वोद्योगेन पाण्डवान्॥ प्रतिजग्राह समरे द्रोणः शस्रभृतां वरः। ततो दुर्योधनो राजा सर्वोद्योगेन पाण्डवान्॥ अभ्यद्रवत् सुसंक्रुद्ध इच्छन् द्रोणस्य जीवितम्। ततः प्रववृते युद्धं आन्तवाहनसैनिकम्॥ पाण्डवानां कुरूणां च गर्जतामितरेतरम्। निद्रान्धास्ते महाराज परिश्रान्ताश्च संयुगे॥ नाभ्यपद्यन्त समरे काञ्चिच्चेष्टां महारथाः। त्रियामा रजनी चैषा घोररूपा भयानका॥ सहस्रयामप्रतिमा बभूव प्राणहारिणी। वध्यतां च तथा तेषां क्षतानां च विशेषतः॥ अर्धरात्रिः समाजज्ञे निद्रान्धानां विशेषतः। सर्वे ह्यासन् निरुत्साहाः क्षत्रिया दीनचेतसः॥ तव चैव परेषां च गताम्रा विगतेषवः। ते तदापारयन्तश्च ह्रीमन्तश्च विशेषतः॥ स्वधर्ममनुपश्यन्तो न जहुः स्वामनीकिनीम्। अस्राण्यन्ये समुत्सृज्य निद्रान्धाः शेरते जनाः॥ रथेष्वन्ये गजेष्वन्ये हयेष्वन्ये च भारत। निद्रान्धा नो बुबुधिरे काञ्चिच्चेष्टां नराधिप॥ तानन्ये समरे योधाः प्रेषयन्तो यमक्षयम्। स्वप्नायमानांस्त्वपरे परानतिविचेतसः॥ आत्मानं समरे जघ्नुः स्वानेव च परानपि। नानावाचो विमुञ्चन्तो निद्रान्धास्ते महारणे॥ अस्माकं च महाराज परेभ्यो बहवो जनाः। योद्धव्यमिति तिष्ठन्तो निद्रासंरक्तलोचनाः॥ संसर्पन्तो रणे केचिन्निद्रान्धास्ते तथा परान्। जनुः शूरा रणे शूरांस्तस्मिस्तमसि दारुणे॥ हन्यमानमथात्मानं परेभ्यो बहवो जनाः। नाभ्यजानन्त समरे निद्रया मोहिता भृशम्॥ तेषामेतादृशी चेष्टां विज्ञाय पुरुषर्षभः। उवाच वाक्यं बीभत्सुरुच्चैः संनादयन् दिशः॥ श्रान्ता भवन्तो निद्रान्धाः सर्व एव सवाहनाः। तमसा च वृते सैनये रजसा बहुलेन च॥ ते यूयं यदि मन्यध्वमुपारमत सैनिकाः। निमीलयत चात्रैव रणभूमौ मुहूर्तकम्॥ ततो विनिद्रा विश्रान्ताश्चन्द्रमस्युदिते पुनः। संसाधयिष्यथान्योन्यं संग्रामं कुरुपाण्डवाः॥ तद् वचः सर्वधर्मज्ञा धार्मिकस्य विशाम्पते। अरोचयन्त सैन्यानि तथा चान्योन्यमब्रुवन्॥ चुक्रुशुः कर्ण कर्णेति तथा दुर्योधनेति च। उपारमत पाण्डूनां विरता हि वरुथिनी॥ तथा विक्रोशमानस्य फाल्गुनस्य ततस्ततः। उपारमत पाण्डूनां सेना तव च भारत॥ तामस्य वाचं देवाश्च ऋषयश्च महात्मनः। सर्वसैन्यानि चाक्षुद्रां प्रहृष्टाः प्रत्यपूजयन्॥ तत् सम्पूज्य वचोऽक्रूरं सर्वसैन्यानि भारत। मुहूर्तमखपन् राजश्रान्तानि भरतर्षभ॥ सा तु सम्प्राप्य विश्रामं ध्वजिनी तव भारत। सुखमाप्तवती वीरमर्जुनं प्रत्यपूजयत्॥ धर्मस्त्वयि महाबाहो दया भूतेषु चानघ॥ यचाश्वस्तास्तवेच्छामः शर्म पार्थ तदस्तु ते। मनसश्च प्रियानर्थान् वीर क्षिप्रमवाप्नुहि॥ इति ते तं नरव्याघ्र प्रशंसन्तो महारथाः। निद्रया समवाक्षिप्तास्तूष्णीमासन् विशाम्पते॥ अश्वपृष्ठेषु चाप्यन्ये रथनीडेषु चापरे। गजस्कन्धगताश्चान्ये शेरते चापरे क्षितौ॥ सायुधाः सगदाश्चैव सखगाः सपरश्वधाः। सप्रासकवचाश्चान्ये नराः सुप्ताः पृथक् पृथक्॥ गजास्ते पन्नगाभोगैर्हस्तै रेणुगुण्ठितः। निद्राधा वसुधां चक्रुना॑णनिःश्वासशीतलाम्॥ सुप्ताः शुशुभिरे तत्र निःश्वसन्तो महीतले। विकीर्णा गिरयो यद्वन्निःश्वसद्भिर्महोरगैः॥ समां च विषमां चक्रुः खुरागैर्विकृतां महीम्। हयाः काञ्चनयोक्त्रास्ते केसरालम्बिभिर्युगैः॥ सुषुपुस्तत्र राजेन्द्र युक्ता वाहेषु सर्वशः। एवं हयाश्च नागाश्च योधाश्च भरतर्षभ। युद्धाद् विरम्य सुषुपुः श्रमेण महतान्विता॥ तत् तथा निद्रया भग्नमबोधं प्रास्वपद् भृशम्। कुशलैः शिल्पिभिय॑स्तं पटे चित्रमिवाद्भुतम्॥ ते क्षत्रियाः कुण्डलिनो युवानः परस्परं सायकविक्षताङ्गाः। कुम्भेषु लीना: सुषुपुर्गजानां कुचेषु लग्ना इव कामिनीनाम्॥ ततः कुमुदनाथेन कामिनीगण्डपाण्डुना। नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलङ्कता॥ दशशताक्षककुब्दरिनिःसृतः किरणकेसरभासुरपिञ्जरः। तिमिरवारणयूथविदारण: समुदियादुदयाचलकेसरी॥ हरवृषोत्तमगात्रसमद्युतिः स्मरशरासनपूर्णसमप्रभः। नववधूस्मितचारुमनोहरः प्रविसृतः कुमुदाकरबान्धवः॥ ततो मुहूर्ताद् भगवान् पुरस्ताच्छशलक्षणः। अरुणं दर्शयामास ग्रसन् ज्योतिः प्रभाः प्रभुः॥ अरुणस्य तु तस्यानु जातरूपसमप्रभम्। रश्मिजालं महचन्द्रो मन्दं मन्दमवासृजत्॥ उत्सारयन्तः प्रभया तमस्ते चन्द्ररश्मयः। पर्यगच्छञ्छनैः सर्वा दिशः खंच क्षिति तथा॥ ततो मुहूर्ताद भुवनं ज्योतिर्भूतमिवाभवत्। अप्रख्यमप्रकाशं च जगामाशु तमस्तथा॥ प्रतिप्रकाशिते लोके दिवाभूते निशाकरे। विचेसन विचेस्श्च राजन् नक्तञ्चरास्ततः॥ बोध्यमानं तु तत् सैन्यं राजंश्चन्द्रस्य रश्मिभिः । बुबुधे शतपत्राणां वनं सूर्यांशुभिर्यथा॥ यथा चन्द्रोदयोद्भूतः क्षुभितः सागरोऽभवत्। तथा चन्द्रोदयोद्भूतः स बभूव बलार्णवः॥ ततः प्रववृते युद्धं पुनरेव विशाम्पते। लोके लोकविनाशाय परं लोकमभीप्सताम्॥ यथा चन्द्रोदयोद्भूतः क्षुभितः सागरोऽभवत्। तथा चन्द्रोदयोद्भूतः स बभूव बलार्णवः॥ ततः प्रववृते युद्धं पुनरेव विशाम्पते। लोके लोकविनाशाय परं लोकमभीप्सताम्॥ संजय उवाच ततो दुर्योधनो द्रोणमभिगम्याब्रवीदिदम्। अमर्षवशमापन्नो जनयन् हर्षतेजसी॥ दुर्योधन उवाच न मर्षणीयाः संग्रामे विश्रमन्तः श्रमान्विताः। सपत्ना ग्लानमनसो लब्धलक्ष्या विशेषतः॥ :॥ यत् तु मर्षितमस्माभिर्भवतः प्रियकाम्यया। त एते परिविश्रान्ताः पाण्डवा बलवत्तराः॥ सर्वथा परिहीनाः स्म तेजसा च बलेन च। भवता पाल्यमानास्ते विवर्धन्ते पुनः पुनः॥ दिव्यान्यस्राणि सर्वाणि ब्राह्मदीनि च यानि ह। तानि सर्वाणि तिष्ठन्ति भवत्येव विशेषतः॥ न पाण्डवेया न वयं नान्ये लोके धनुर्धराः। युध्यमानस्य ते तुल्याः सत्यमेतद् ब्रवीमि ते॥ ससुरासुरगन्धर्वानिमाँल्लोकान् द्विजोत्तम। सर्वात्रविद् भवान् हन्याद् दिव्यैरस्त्रैर्न संशयः॥ स भवान् मर्षयत्येतांस्त्वत्तो भीतान् विशेषतः। शिष्यत्वं वा पुरस्कृत्य मम वा मन्दभाग्यताम्॥ संजय उवाच एवमुद्धर्षितो द्रोण: कोपितश्च सुतेन ते। समन्युरब्रवीद् राजन् दुर्योधनमिदं वचः॥ घटे दुर्योधनाहवे। अतः परं मया कार्यं क्षुद्रं विजयगृद्धिना॥ अनस्रविदयं सर्वो हन्तव्योऽस्रविदा जनः। यद् भवान् मन्यते चापि शुभं वा यदि वाशुभम्॥ स्थविरः सन् परं शक्त्या तद् वै कर्तास्मि कौरव्य वचनात् तव नान्यथा। निहत्य सर्वपञ्चालान् युद्धे कृत्वा पराक्रमम्॥ विमोक्ष्ये कवचं राजन् सत्येनायुधमालमे। मन्यसे यच्च कौन्तेयमर्जुनं श्रान्तमाहवे॥ तस्य वीर्यं महाबाहो शृणु सत्येन कौरव। तं न देवा न गन्धर्वा न यक्षा न च राक्षसाः॥ उत्सहन्ते रणे जेतुं कुपितं सव्यसाचिनम्। खाण्डवे येन भगवान् प्रत्युद्यातः सुरश्वरः॥ सायकैर्वारितश्चापि वर्षमाणो महात्मना। यक्षा नागास्तथा दैत्या ये चान्ये बलगर्विताः॥ निहताः पुरुषेन्द्रेणर तचापि विदितं तव। गन्धर्वा घोषयात्रायां चित्रसेनादयो जिताः॥ यूयं तैह्रियमाणाश्च मोक्षिता दृढधन्वना। निवातकवचाश्चापि देवानां शत्रवस्तथा॥ सुरैरवध्याः संग्रामे तेन वीरेण निर्जिताः। दानवानां सहस्राणि हिरण्यपुरवासिनाम्॥ विजिग्ये पुरुषव्याघ्रः स शक्यो मानुषैः कथम्। प्रत्यक्षं चैव ते सर्वं यथाबलमिदं तव॥ संजय उवाच क्षपितं पाण्डुपुत्रेण चेष्टतां नो विशाम्पते। तं तदाभिप्रशंसन्तमर्जुनं कुपितस्तदा॥ द्रोणं तव सुतो राजन् पुनरेवेदमब्रवीत्। अहं दुःशासनः कर्णः शकुनिर्मातुलश्च मे॥ हनिष्यामोऽर्जुनं संख्ये द्विधा कृत्वाद्य भारतीम्। तस्य तद् वचनं श्रुत्वा भारद्वाजो हसन्निव॥ अन्ववर्तत राजानं स्वस्ति तेऽस्त्विति चाब्रवीत्। को हि गाण्डीवधन्वानं ज्वलन्तमिव तेजसा।॥ अक्षयं क्षपयेत् कश्चित् क्षत्रियः क्षत्रियर्षभम्। तं न वित्तपतिर्नेन्द्रो न यमो न जलेश्वरः॥ नासुरोगरक्षांसि क्षपयेयुः सहायुधम्। मूढास्त्वेतानि भाषन्ते यानीमान्यात्थ भारत॥ युद्धे ह्यर्जुनमासाद्य स्वस्तिमान् को व्रजेद् गृहान्। त्वं तु सर्वाभिशङ्कित्वान्निष्ठुरः पापनिश्चयः॥ श्रेयसस्त्वद्धिते युक्तांस्तत्तद् वक्तुमिहेच्छसि। गच्छ त्वमपि कौन्तेयमात्मार्थे जहि मा चिरम्॥ त्वमप्याशंसये योद्धं कुलजः क्षत्रियो ह्यसि। इमान् किं क्षत्रियान् सर्वान् घातयिष्यस्यनागसः॥ त्वमस्य मूलं वैरस्य तस्मादासादयार्जुनम्। दुर्दूतदेवी गान्धारे प्रयात्वर्जुनमाहवे। एषोऽक्षकुशलो जिह्मो द्यूतकृत् कितव: शठः॥ देविता निकृतिप्रज्ञो युधि जेष्यति पाण्डवान्। त्वया कथितमत्यर्थं कर्णेन सह हृष्टवत्॥ असकृच्छून्यवन्मोहाद् धृतराष्ट्रस्य शृण्वतः। अहं च तात कर्णश्च भ्राता दुःशासनश्च मे॥ पाण्डुपुत्रान् हनिष्यामः सहिताः समरे त्रयः। इति ते कत्थमानस्य श्रुतं संसदि संसदि॥ अनुतिष्ठ प्रतिज्ञा तां सत्यवाग् भव तैः सह। एष ते पाण्डवः शत्रुरविशङ्कोऽग्रतः स्थितः॥ क्षत्रधर्ममवेक्षस्व श्लाघ्यस्तव वधो जयात्। दत्तं भुक्तमधीतं च प्राप्तमैश्चर्यमीप्सितम्॥ कृतकृत्योऽनृणश्चासि मा भैयुध्यस्व पाण्डवम्। इत्युक्त्वा समरे द्रोणो न्यवर्तत यतः परे। द्वैधीकृत्य ततः सेनां युद्धं समभवत् तदा॥ संजय उवाच त्रिभागमात्रशेषायां रात्र्यां युद्धमवर्तत। कुरूणां पाण्डवानां च संहृष्टानां विशाम्पते॥ अथ चन्द्रपभां मुष्णन्नादित्यस्य पुरःसरः। अरुणोऽभ्युदयांचक्रे ताम्रीकुर्वन्निवाम्बरम्॥ प्राच्यां दिशि सहस्रांशोररुणेनारुणीकृतम्। तपनीयं यथा चक्रं भ्राजते रविमण्डलम्॥ न्युत्सृज्य सर्वे कुरुपाण्डुयोधाः। दिवाकरस्याभिमुखं जपन्तः संध्यागताः प्राञ्जलयो बभूवुः॥ ततो द्वैधीकृते सैन्ये द्रोणः सोमकपाण्डवान्। अभ्यद्रवत् सपाञ्चालान् दुर्योधनपुरोगमः॥ द्वैधीकृतान् कुरून् दृष्ट्वा माधवोऽर्जुनमब्रवीत्। सपत्नान् सव्यतः कृत्वा अपसव्यमिमं कुरु॥ स माधवमनुज्ञाय कुरुष्वेति धनंजयः। द्रोणकर्णी महेष्वासौ सव्यतः पर्यवर्तत॥ अभिप्रायं तु कृष्णस्य ज्ञात्वा परपुरंजयः। आजिशीर्षगतं पार्थं भीमसेनोऽभ्युवाच ह॥ भीमसेन उवाच अर्जुनार्जुन बीभत्सो शृणुष्वैतद् वचो मम। यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः॥ अस्मिश्चेदागते काले श्रेयो न प्रतिपत्स्यसे। असम्भावितरूपस्त्वं सुनृशंसं करिष्यसि।॥ सत्यश्रीधर्मयशसां वीर्यणानृण्यमाप्नुहि। भिन्ध्यनीकं युधां श्रेष्ठ अपसव्यमिमान् कुरु॥ संजय उवाच स सव्यसाची भीमेन चोदितः केशवेन च। कर्णद्रोणावतिक्रम्य समन्तात् पर्यवारयत्॥ तमाजिशीर्षपायान्तं दहन्तं क्षत्रियर्षभान्। पराक्रान्तं पराक्रम्य ततः क्षत्रियपुङ्गवः॥ नाशक्नुवन् वारयितुं वर्धमानमिवानलम्। अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः॥ अभ्यवर्षञ्छरव्रातैः कुन्तीपुत्रं धनंजयम्। तेषामस्राणि सर्वेषामुत्तमास्त्रविदां वरः॥ कदर्थीकृत्य राजेन्द्र शरवर्षैरवाकिरत्। अस्त्रैरस्त्राणि संवार्य लघुहस्तो जितेन्द्रियः॥ सर्वानविध्यन्निशितैर्दशभिर्दशभिः शरैः। उद्भूता रजसो वृष्टिः शरवृष्टिस्तथैव च॥ तमश्च घोरं शब्दश्च तदा समभवन्महान्। न द्यौर्न भूमिर्न दिशः प्राज्ञायन्त तथागते॥ सैन्येन रजसा मूढां सर्वमनधमिवाभवत्। नैव ते न वयं राजन् प्राज्ञासिष्म परस्परम्॥ उद्देशेन हि तेन स्म समयुध्यन्त पार्थिवाः। विरथा रथिनो राजन् समासाद्य परस्परम्॥ केशेषु समसज्जन्त कवचेषु भुजेषु च। हताश्वा हतसूताश्च निश्चेष्टा रथिनो हताः॥ जीवन्त इव तत्र स्म व्यदृश्यन्त भयार्दिताः। हतान् गजान् समाश्लिष्य पर्वतानिव वाजिनः॥ गतसत्त्वा व्यदृश्यन्त तथैव सह सादिभिः। ततस्त्वभ्यवसृत्यैव संग्रामादुत्तरां दिशम्॥ अतिष्ठदाहवे द्रोणो विधूमोऽग्निरिव ज्वलन्। तमाजिशीर्षादेकान्तमपक्रान्तं निशम्य तु॥ समकम्पन्त सैन्यानि पाण्डवानां विशाम्पते। भ्राजमानं श्रिया युक्तं ज्वलन्तमिव तेजसा॥ द्रोणं दृष्ट्वा परे त्रेसुश्चेरुर्मम्लुश्च भारत। आह्वयन्तं परानीकं प्रभिन्नमिव वारणम्॥ नैनमाशंसिरे जेतुं दानवा वासवं यथा। केचिदासन् निरुत्साहाः केचित् क्रुद्धा मनस्विनः॥ विस्मिताश्चाभवन् केचित् केचिदासन्नमर्षिताः। हस्तैर्हस्ताग्रमपरे प्रत्यपिंषन् नराधिपाः॥ अपरे दशनैरोष्ठानदशन् क्रोधमूर्छिताः। व्याक्षिपन्नायुधान्यन्ये ममृदुश्चापरे भुजान्॥ अन्ये चान्वपतन् द्रोणं त्यक्तात्मानो महौजसः। पञ्चालास्तु विशेषेण द्रोणसायकपीडिताः॥ समसज्जन्त राजेन्द्र समरे भृशवेदनाः। ततो विराटद्रुपदौ द्रोणं प्रययतू रणे॥ तथा चरन्तं संग्रामे भृशं समरदुर्जयम्। द्रुपदस्य ततः पौत्रास्त्रय एव विशाम्पते॥ चेदयश्च महेष्वासा द्रोणमेवाभ्ययुर्युधि। तेषां दुपदपौत्राणां त्रयाणां निशितैः शरैः॥ त्रिभिट्टैणोऽहरत् प्राणांस्ते हता न्यपतन् भुवि। ततो द्रोणोऽजयद् युद्धे चेदिकैकेयसंजयान्॥ मत्स्यांश्चैवाजयत् कृत्स्नान् भारद्वाजो महारथान्। ततस्तु दुपदः क्रोधाच्छरवर्षमवासृजत्॥ द्रोणं प्रति महाराज विराटश्चैव संयुगे। तं निहत्येषुवर्षं तु द्रोणः क्षत्रियमर्दनः॥ तौ शरैश्छादयामास विराटदुपदावुभौ। द्रोणेन च्छाद्यमानौ तु क्रुद्धौ संग्राममूर्धनि॥ द्रोणं शरैर्विव्यधतुः परमं क्रोधमास्थितौ। ततो द्रोणो महाराज क्रोधामर्षसमन्वितः॥ भल्लाभ्यां भृशतीक्ष्णाभ्यां चिच्छेद धनुषी तयोः। ततो विराटः कुपितः समरे तोमरान् दश॥ दश चिक्षेप च शरान् द्रोणस्य वधकाङ्क्षया। शक्तिं च दुपदो घोरामायसी स्वर्णभूषिताम्॥ चिक्षेप भुजगेन्द्राभां क्रुद्धो द्रोणरथं प्रति। ततो भल्लैः सुनिशितैश्छित्त्वा तांस्तोमरान् दश॥ शक्तिं कनकवैदूर्यां द्रोणश्चिच्छेद सायकैः। ततो द्रोणः सुपीताभ्यां भल्लाभ्यामरिमर्दनः॥ दुपदं च विराटं च प्रेषयामास मृत्यवे। हते विराटे दुपदे केकयेषु तथैव च॥ तथैव चेदिमत्स्येषु पञ्चालेषु तथैव च। हतेषु त्रिषु वीरेषु दुपदस्य च नृप्पृषु॥ द्रोणस्य कर्म तद् दृष्ट्वा कोपदुःखसमन्वितः। शशाप रथिनां मध्ये धृष्टद्युम्नो महामनाः॥ इष्टापूर्तात् तथा क्षात्राद् ब्राह्मण्याच स नश्यतु। द्रोणो यस्याद्य मुच्येत यं वा द्रोणः पराभवेत्॥ इति तेषां प्रतिश्रुत्य मध्ये सर्वधनुष्मताम्। आयाद द्रोणं सहानीकः पाञ्चाल्यः परवीरहा॥ पञ्चालास्त्वेकतो द्रोणमभ्यघ्नन् पाण्डवैः सह। दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः॥ सोदर्याश्च यथामुख्यास्तेऽरक्षन् द्रोणमाहवे। रक्ष्यमाणं तथा द्रोणं सर्वैस्तैस्तु महारथैः॥ यतमानास्तु पञ्चाला न शेकुः प्रतिवीक्षितुम्। तत्राक्रुध्यद् भीमसेनो धृष्टद्युम्नस्य मारिष॥ स एनं वाग्भिरुग्राभिस्ततक्ष पुरुषर्षभः। भीमसेन उवाच दुपदस्य कुले जातः सर्वानेष्वस्रवित्तमः॥ कः क्षत्रियो मन्यमानः प्रेक्षतारिमवस्थितम्। पितृपुत्रवधं प्राप्य पुमान् कः परिपालयेत्॥ विशेषतस्तु शपथं शपित्वा राजसंसदि। एष वैश्वानर इव समिद्धः स्वेन तेजसा॥ शरचापेन्धनो द्रोणः क्षत्रं दहति तेजसा। शरचापेन्धनो द्रोणः क्षत्रं दहति तेजसा। पुरा करोति निःशेषां पाण्डवानामनीकिनीम्॥ स्थिताः पश्यत मे कर्म द्रोणमेव व्रजाम्यहम्। संजय उवाच इत्युक्त्वा प्राविशत् क्रुद्धो द्रोणानीकं वृकोदरः॥ शरैः पूर्णायतोत्सृष्टै वयंस्तव वाहिनीम्। धृष्टद्युम्नोऽपि पाञ्चाल्यः प्रविश्य महतीं चमूम्॥ आससादरणे द्रोणं तदाऽऽसीत् तुमुलं महत्। नैव नस्तादृशं युद्धं दृष्टपूर्वं न च श्रुतम्॥ यथा सूर्योदये राजन् समुत्पिञ्जोऽभवन्महान्। संसक्तान्येव चादृश्यन् रथवृन्दानि मारिष॥ हतानि च विकीर्णानि शरीराणि शरीरिणाम्। केचिदन्यत्र गच्छन्तः पथि चान्यैरुपद्रुताः॥ विमुखाः पृष्ठतश्चान्ये ताड्यन्ते पार्श्वतः परे। तथा संसक्तयुद्धं तदभवद् भृशदारुणम्। अथ संध्यागतः सूर्यः क्षणेन समपद्यत॥ संजय उवाच ते तथैव महाराज दंशिता रणमूर्धनि। संध्यागतं सहस्रांशुमादित्यमुपतस्थिरे॥ उदिते तु सहस्रांशौ तप्तकाञ्चनसप्रभे। प्रकाशितेषु लोकेषु पुनयुद्धमवर्तत॥ द्वन्द्वानि तत्र यान्यासन् संसक्तानि पुरोदयात्। तान्येवाभ्युदिते सूर्ये समसज्जन्त भारत॥ स्थैर्हया हयैर्नागाः पादातैश्चापि कुञ्जराः। हयैर्हयाः समाजग्मुः पादाताश्च पदातिभिः॥ रथा रथैरिभैर्नागास्तथैव भरतर्षभ। संसक्ताश्च वियुक्ताक्ष योधाः संन्यपतन् रणे॥ ते रात्रौ कृतकर्माणः श्रान्ताः सूर्यस्य तेजसा। क्षत्पिपासापरीताङ्गा विसंज्ञा बहवोऽभवन्॥ शङ्खभेरीमृदङ्गानां कुञ्जराणां च गर्जताम्। विस्फारितविकृष्टानां कार्मुकाणां च कूजताम्॥ शब्दः समभवद् राजन् दिविस्पृग् भरतर्षभ। द्रवतां च पदातीनां शस्त्राणां पततामपि॥ हयानां द्वेषतां चापि रथानां च निवर्तताम्। क्रोशतां गर्जतां चैव तदाऽऽसीत् तुमुलं महत्॥ विवृद्धस्तुमुलः शब्दो द्यामगच्छन्महांस्तदा। नानायुधनिकृत्तानां चेष्टतामातुरः स्वनः॥ भूमावश्रूयत महांस्तदाऽऽसीत् कृपणं महत्। पततां पात्यमानानां पत्त्यश्वरथदन्तिनाम्॥ तेषु सर्वेष्वनीकेषु व्यतिषक्तेष्वनेकशः। स्वे परे स्वांश्च स्वान् परेषां परे परान्॥ वीरबाहुविमृष्टाश्च योधेषु च गजेषु च। राशयः प्रत्यदृश्यन्त वाससां नेजनेष्विव॥ उद्यतप्रतिपिष्टानां खङ्गानां वीरबाहुभिः। स एव शब्दस्तद्रूपो वाससां निज्यतामिव॥ अर्धासिभिस्तथा खड्नेस्तोमरैः सपरश्वधैः। निकृष्टयुद्धं संसक्तं महदासीत् सुदारुणम्॥ गजाश्वकायप्रभवां नरदेहप्रवाहिनीम्। शस्रमत्स्यसुसम्पूर्णां मांसशोणितकर्दमाम्॥ आर्तनादस्वनवतीं पताकाशस्रफेनिलाम्। नदीं प्रावर्तयन् वीराः परलोकौघगामिनीम्॥ शरशक्त्यर्दिताः कान्ता रात्रिमूढाल्पचेतसः। विष्टभ्य सर्वगात्राणि व्यतिष्ठन् गजवाजिनः॥ बाहुभिः कवचैश्चिवैः शिरोभिश्चारुकुण्डलैः। युद्धोपकरणैश्चान्यैस्तत्र तत्र चकाशिरे॥ क्रव्यादसङ्घराकीर्णं मृतैरर्धमृतैरपि। नासीद् रथपथस्तत्र सर्वमायोधनं प्रति॥ मज्जत्सु चक्रेषु रथान् सत्त्वमास्थाय वाजिनः। कथंचिदवहश्रान्ता वेपमानाः शरार्दिताः॥ कुलसत्त्वबलोपेता वाजिनो वारणोपमाः। विह्वलं तूर्णमुद्भरान्तं सभयं भारतातुरम्॥ बलमासीत् तदा सर्वमृते द्रोणार्जुनावुभौ। तावेवास्तां निलयनं तावार्तायनमेव च॥ तावेवान्ये समासाद्य जग्मुर्वैवस्वतक्षयम्। आविग्नमभवत् सर्वं कौरवाणां महद् बलम्॥ पञ्चालानां च संसक्तं न प्राज्ञायत किंचन। अन्तकाक्रीडसदृशं भीरूणां भयवर्धनम्॥ पृथिव्यां राजवंश्यानामुत्थिते महति क्षये। न तत्र कर्णं द्रोणं वा नार्जुनं न युधिष्ठिरम्॥ न भीमसेनं न यमौ न पाञ्चाल्यं न सात्यकिम्। न च दुःशासनं द्रौणिं न दुर्योधनसौबलो॥ न कृपं मद्रराजं च कृतवर्माणमेव च। न चान्यान् नैव चात्मानं च क्षितिं न दिशस्तथा॥ पश्याम राजन् संसक्तान् सैन्येन रजसाऽऽवृतान्। सम्भ्रान्ते तुमुले घोरे रजोमेघ समुत्थिते॥ द्वितीयामिव सम्प्राप्ताममन्यन्त निशां तदा। न ज्ञायन्ते कौरवेया न पञ्चाला न पाण्डवाः॥ न दिशो द्यौर्न चोर्वी च न समं विषमं तथा। हस्तसंस्पर्शमापन्नान् परानप्यथवा स्वकान्॥ न्यपातयंस्तदा युद्धे नराः स्म विजयैषिणः। उद्भूतत्वात् तु रजसः प्रसेकाच्छोणितस्य च॥ प्राशाम्यत रजो भौमं शीघ्रत्वादनिलस्य च। तत्र नागा हया योधा रथिनोऽथ पदातयः॥ पारिजातवनानीव व्यरोचन् रुधिरोक्षिताः। ततो दुर्योधनः कर्णो द्रोणो दुःशासनस्तथा॥ पाण्डवैः समसज्जन्त चतुर्भिश्चतुरो रथाः। दुर्योधनः सह भ्रात्रा यमाभ्यां समसज्जत॥ वृकोदरेण राधेयो भारद्वाजेन चार्जुनः। तद् घोरं महदाश्चर्यं सर्वे प्रेक्षन्त सर्वतः॥ रथर्षभाणामुग्राणां संनिपातममानुषम्। रथमागैर्विचित्रैस्तैर्विचित्ररथसंकुलम्॥ अपश्यन् रथिनो युद्धं विचित्रं चित्रयोधिनाम्। यतमानाः पराक्रान्ताः परस्परजिगीषवः॥ जीमूता इव धर्मान्ते शरव(रवाकिरन्। ते रथान् सूर्यसंकाशानास्थिताः पुरुषर्षभाः॥ अशोभन्त यथा मेघाः शारदाश्चलविद्युतः। योधास्ते तु महाराज क्रोधामर्षसमन्विताः॥ स्पर्धिनश्च महेष्वासाः कृतयला धनुर्धराः। अभ्यगच्छंस्तथान्योन्यं मत्ता गजवृषा इव॥ न नूनं देहभेदोऽस्ति काले राजन्ननागते। यत्र सर्वे न युगपद् व्यशीर्यन्त महारथाः॥ बाहुभिश्चरणैच्छिन्नै: शिरोभिश्च सकुण्डलैः। कार्मुकैर्विशिखैः प्रासैः खङ्गैः परशुपट्टिशैः॥ नालीकैः क्षुद्रनाराचैर्नखरैः शक्तितोमरैः। अन्यैश्च विविधाकारैधौतैः प्रहरणोत्तमैः॥ विचित्रविविधकारैः शरीरावरणैरपि। विचित्रैश्च रथैर्भग्नैर्हतैश्च गजवाजिभिः॥ विचित्रैश्च नगराकारैर्हतयोधध्वजै रथैः। अमनुष्यैर्हयैस्रस्तैः कृष्यमाणैस्ततस्ततः॥ वातायमानैरसकृद्धतवीरैरलङ्कतैः। व्यजनैः कङ्कटैश्चैव ध्वजैश्च विनिपातितैः॥ छत्रैराभरणैर्वस्त्रैर्माल्यैश्च ससुगन्धिभिः। हारैः किरीटैर्मुकुटैरुष्णीषैः किङ्किणीगणैः॥ उरस्थैर्मणिभिनिष्कैश्चूडामणिभिरेव च। आसीदायोधनं तत्र नभस्तारागणैरिव॥ ततो दुर्योधनस्यासीन्नकुलेन समागमः। अमर्षितेन क्रुद्धस्य क्रुद्धेनामर्षितस्य च॥ अपसव्यं चकाराथ माद्रीपुत्रस्तवात्मजम्। किरज्छरशतैर्हष्टस्तत्र नादो महानभूत्॥ अपसव्यं कृतं संख्ये भ्रातृव्येनात्यमर्षिणा। नामृष्यत तमप्याजौ प्रतिचक्रेऽपसव्यतः॥ पुत्रस्तव महाराज राजा दुर्योधनो द्रुतम्। ततः प्रतिचिकीर्षन्तमपसव्यं तु ते सुतम्॥ न्यवारयत तेजस्वी नकुलचित्रमार्गवित्। स सर्वतो निवार्यैनं शरजालेन पीडयन्॥ तिष्ठ तिष्ठेति नकुलो बभाषे तनयं तव। संस्मृत्य सर्वदुःखानि तव दुर्मन्त्रितं च तत्॥ संजय उवाच ततो दुःशासनः क्रुद्धः सहदेवमुपाद्रवत्। रथवेगेन तीव्रण कम्पयन्निव मेदिनीम्॥ तस्यापतत एवाशु भल्लेनामित्रकर्शनः। माद्रीपुत्रः शिरो यन्तुः सशिरस्त्राणमच्छिनत्॥ नैनं दुःशासनः सूतं नापि कश्चन सैनिकः। कृत्तोत्तमाङ्गमाशुत्वात् सहदेवेन बुद्धवान्॥ यदा त्वसंगृहीतत्वात् प्रयान्त्यश्वा यथासुखम्। ततो दुःशासनः सूतं बुबुधे गतचेतसम्॥ स हयान् संनिगृह्याजौ स्वयं हयविशारदः। युयुधे रथिनां श्रेष्ठो लघु चित्रं च सुष्ठु च॥ तदस्यापूजयन् कर्म स्वे परे चापि संयुगे। हतसूतरथेनाजौ व्यचरद् यदभीतवत्॥ सहदेवस्तु तानश्वांस्तीक्ष्णैर्बाणैरवाकिरत्। पीड्यमानाः शरैश्चाशु प्रादूर्वन्ते ततस्ततः॥ स रश्मिषु विषक्तत्वादुत्ससर्ज शरासनम्। धनुषा कर्म कुर्वस्तु रश्मींश्च पुनरुत्सृजत्॥ छिद्रेष्वेतेषु तं बाणैर्माद्रीपुत्रोऽभ्यवाकिरत्। परीप्यंस्त्वत्सुतं कर्णस्तदन्तरमवाप तत्॥ वृकोदरस्ततः कर्णं त्रिभिर्भल्लैः समाहितः। आकर्णपूर्णैरभ्यघ्नद् बाह्वोरुरसि चानदत्॥ स निवृत्तस्ततः कर्णः संघट्टित इवोरगः। भीममावारयामास विकिरन् निशिताञ्छरान्॥ ततोऽभूत् तुमुलं युद्धे भीमराधेययोस्तदा। तौ वृषाविव नर्दन्तौ विवृत्तनयनावुभौ॥ वेगेन महतान्योन्यं संरब्धावभिपेततुः। अभिसंश्लिष्टयोस्तत्र तयोराहवशौण्डयोः॥ विच्छिन्नशरपातत्वाद् गदायुद्धमवर्तत। गदया भीमसेनस्तु कर्णस्य रथकूबरम्॥ विभेद शतधा राजंस्तदद्भुतमिवाभवत्। ततो भीमस्य राधेयो गदामाविध्य वीर्यवान्॥ अवासृजद् रथे तां तु बिभेद गदया गदाम्। ततो भीमः पुनर्गुर्वी चिक्षेपाधिरथेर्गदाम्॥ तां गदां बहुभिः कर्णः सुपुङ्खः सुप्रवेजितैः। प्रत्यविध्यत् पुनश्चान्यैः सा भीमं पुनराव्रजत्॥ व्यालीव मन्त्राभिहता कर्णबाणैरभिद्रुता। तस्याः प्रतिनिपातेन भीमस्य विपुलो ध्वजः॥ पपात सारथिश्चास्य मुमोह च गदाहतः। स कर्णं सायकानष्टौ व्यसृजत् क्रोधमूर्छितः॥ तैस्तस्य निशितैस्तीक्ष्णैर्भीमसेनो महाबलः। चिच्छेद परवीरघ्नः प्रहसन्निव भारत॥ ध्वजं शरासनं चैव शरावापं च भारत। कर्णोऽप्यन्यद् धनुर्गृह्य हेमपृष्ठं दुरासदम्॥ ततः पुनस्तु राधेयो हयानस्य रथेषुभिः। ऋक्षवर्णाञ्जघानाशु तथोभौ पाणिसारथी॥ स विपन्नरथो भीमो नकुलस्याप्लुतो रथम्। हरिर्यथा गिरेः शृङ्गं समाक्रामदरिंदमः॥ तथा द्रोणर्जुनौ चित्रमयुध्येतां महारथौ। आचार्यशिष्यौ राजेन्द्र कृतप्रहरणौ युधि॥ लघुसंघानयोगाभ्यां रथयोश्च रणेन च। मोहयन्तौ मनुष्याणां चढूंषि च मनांसि च॥ उपारमन्त ते सर्वे योधा भरतसत्तम। अदृष्टपूर्वं पश्यन्तस्तद् युद्धं गुरुशिष्ययोः॥ विचित्रान् पृतनामध्ये रथमार्गानुदीर्य तौ। अन्योन्यमपसव्यं च कर्तुं वीरौ तदेषतुः।। :॥ पराक्रमां तयोर्योधा ददृशुस्ते सुविस्मिताः। तयोः समभवद् युद्धं द्रोणपाण्डवयोर्महत्॥ आमिषार्थे महाराज गगने श्येनयोरिव। यद् यचकार द्रोणस्तु कुन्तीपुत्रजिगीषया॥ तत् तत् प्रतिजघानाशु प्रहसंस्तस्य पाण्डवः। यदा द्रोणो न शक्नोति पाण्डवं स्म विशेषितुम्॥ ततः प्रादुश्चकारासमस्रमार्गविशारदः। ऐन्द्रं पाशुपतं त्वाष्ट्र वायव्यमथ वारुणम्॥ मुक्तं मुक्तं द्रोणचापात् तज्जघान धनंजयः। अस्त्राण्यस्त्रैर्यदा तस्य विधिवद्धन्ति पाण्डवः॥ ततोऽस्त्रैः परमैर्दिव्यैर्दोणः पार्थमवाकिरत्। यद् यदलं स पार्थाय प्रयुङ्क्ते विजिगीषया॥ तस्य तस्य विघाताय तत् तद्वि कुरुतेऽर्जुनः। य वध्यमानेष्वस्रेषु दिव्येष्वपि यथाविधि॥ अर्जुनेनार्जुनं द्रोणो मनसैवाभ्यपूजयत्। मेने-चात्मानमधिकं पृथिव्यामधि भारत॥ तेन शिष्येण सर्वेभ्यः शस्रविद्भयः परंतपः। वार्यमाणस्तु पार्थेन तथा मध्ये महात्मनाम्॥ यतमानोऽर्जुनं प्रीत्या प्रत्यवारयदुत्स्मयन्। ततोऽन्तरिक्षे देवाश्च गन्धर्वाश्च सहस्रशः॥ ऋषयः सिद्धसंघाश्च व्यतिष्ठनत दिदृक्षया। तदप्सरोभिकीर्णं यक्षगन्धर्वसंकुलम्॥ श्रीमदाकाशमभवद् भूयो मेघाकुलं यथा। तत्र स्मान्तर्हिता वाचो व्यचरन्त पुनः पुनः॥ द्रोणपार्थस्तवोपेता व्यश्रूयन्त नराधिप। विसृज्यमानेष्वस्रेषु ज्वालयत्सु दिशो दश॥ अब्रुवंस्तत्र सिद्धाश्च ऋषयश्च समागताः। नैवेदं मानुषं युद्धं नासुरं न च राक्षसम्॥ न दैवं न च गान्धर्वे ब्राह्मं ध्रवमिदं परम्। विचित्रमिदमाश्चर्यं न नो दृष्टं न च श्रुतम्॥ अति पाण्डवमाचार्यो द्रोणं चाप्यति पाण्डवः। नानयोरन्तरं शक्यं दुष्टमन्येन केनचित्॥ यदि रुद्रो द्विधाकृत्य युध्येतात्मानमात्मना। तत्र शक्योपमा कर्तुमन्यत्र तु न विद्यते॥ ज्ञानमेकस्थमाचार्ये ज्ञानं योगश्च पाण्डवे। शौर्यमेकस्थमाचार्य बलं शौर्यं च पाण्डवे॥ नेमौ शक्यौ महेष्वासौ युद्धे क्षपयितुं परैः। इच्छमानौ पुनरिमौ हन्येतां सामरं जगत्॥ इत्यब्रुवन् महाराज दृष्ट्वो तौ पुरुषर्षभौ। अन्तर्हितानि भूतानि प्रकाशानि च सर्वशः॥ ततो द्रोणो ब्राह्ममस्र प्रादुश्चक्रे महामतिः। संतापयन् रणे पार्थं भूतान्यन्तर्हितानि च॥ ततश्चचाल पृथिवी सपर्वतवनदुमा। ववौ च विषमो वायुः सागराश्चापि चुक्षुभुः॥ ततस्रासो महानासीत् कुरुपाण्डवसेनयोः। सर्वेषां चैव भूतानामुद्यतेऽने महात्मना॥ ततः पार्थोऽप्यसंम्भ्रान्तस्तदा प्रतिजनिवान्। ब्रह्मास्रेणैव राजेन्द्र ततः सर्वमशीशमत्॥ यदा न गम्यते पारं तयोरन्यतरस्य वा। ततः संकुलयुद्धेन तद् युद्धं व्याकुलीकृतम्॥ नाज्ञायत तत: किंचित् पुनरेव विशाम्पते। प्रवृत्ते तुमुले युद्धे द्रोणपाण्डवयोर्मधे॥ शरजालैः समाकीर्णे मेघजालैरिवाम्बरे। नापतच ततः कश्चिदन्तरिक्षचरस्तदा॥ संजय उवाच तस्मिस्तथा वर्तमाने गजाश्वनरसंक्षये। दुःशासनो महाराज धृष्टद्युम्नमयोधयत्॥ स तु रुक्मरथासक्तो दुःशासनशरार्दितः। अमर्षात् तव पुत्रस्य शरैर्वाहानवाकिरत्॥ क्षणेन च रथस्तस्य सध्वजः सहसारथिः। नादृश्यत महाराज पार्षतस्य शरैश्चितः॥ दुःशासनस्तु राजेन्द्र पाञ्चाल्यस्य महात्मनः। नाशकत् प्रमुखे स्थातुं शरजालप्रपीडितः॥ स तु दुःशासनं बाणैविर्मुखीकृत्य पार्षतः। किरञ्छरसहस्राणि द्रोणमेवाभ्ययाद् रणे॥ अभ्यपद्यत हार्दिक्यः कृतवर्मा चनन्नतरम्। सोदर्याणां त्रयश्चैव त एनं पर्यवारयन्॥ तं यमौ पृष्ठतोऽन्वैतां रक्षन्तौ पुरुषर्षभौ। द्रोणायाभिमुखं यान्तं दीप्यमानमिवानलम्॥ सम्प्रहारमकुर्वस्ते सर्वे च सुमहारथाः। अमर्षिताः सत्त्ववन्तः कृत्वा मरणमग्रतः॥ शुद्धात्मानः शुद्धवृत्ता राजन् स्वर्गपुरस्कृताः। आर्य युद्धमकुर्वन्त परस्परजिगीषवः॥ शुक्लाभिजनकर्माणो मतिमन्तो जनाधिप। धर्मयुद्धमयुध्यन्त प्रेप्सन्तो गतिमुत्तमाम्॥ न तत्रासीदधर्मिष्ठमशस्तं युद्धमेव च। नात्र कर्णी न नालीको न लिप्तो न च बस्तिकः॥ न सूची कपिशो नैव न गवास्थिर्गजास्थिजः। इषुरासीन्न संश्लिष्टो न पूतिर्न च जिह्मगः॥ ऋजून्येव विशुद्धानि सर्वे शस्त्राण्यधारयन्। सुयुद्धेन पराँल्लोकानीप्सन्तः कीर्तिमेव च॥ तदाऽऽसीत् तुमुलं युद्धं सर्वदोषविवर्जितम्। चतुर्णा तव योधानां तैसिभिः पाण्डवैः सह॥ धृष्टद्युम्नसतु तान् दृष्ट्वा तव राजन् रथर्षभान्। यमाभ्यां वारितान् वीराज्छीघ्रास्रो द्रोणमभ्ययात्॥ निवारितास्तु ते वीरास्तयोः पुरुषसिंहयोः। समसज्जन्त चत्वारो वाताः पर्वतयोरिव॥ द्वाभ्यां द्वाभ्यां यमौ सार्धं रथाभ्यां रथपुङ्गवौ। समासक्तौ ततो द्रोणं धृष्टद्युम्नोऽभ्यवर्तत॥ दृष्ट्वा द्रोणाय पाञ्चाल्यं व्रजन्तं युद्धदुर्मदम्। यमाभ्यां तांश्च संसक्तांस्तदन्तरमुपाद्रवत्॥ दुर्योधनो महाराज किरञ्छोणितभोजनान्। तं सात्यकिः शीघ्रतरं पुनरेवाभ्यवर्तत॥ तौ परस्परमासाद्य समीपे कुरुमाधवौ। हसमानौ नृशार्दूलावभीतौ समसज्जताम्॥ बाल्यवृत्तानि सर्वाणि प्रीयमाणौ विचिन्त्य तौ। अन्योन्यं प्रेक्षमाणौ च स्मयमानौ पुनः पुनः॥ अथ दुर्योधनो राजा सात्यकि समभाषत। प्रियं सखायं सततं गर्हयन् वृत्तमात्मनः॥ धिक् क्रोधं धिक् सखे लोभं धिडयोहं धिगमर्पितम्। धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम्॥ यत्र मामभिसंधत्से त्वां चाहं शिनिपुङ्गव। त्वं हि प्राणैः प्रियतरो ममाहं च सदा तव॥ स्मरामि तानि सर्वाणि बाल्यवृत्तानि यानि नौ। तानि सर्वाणि जीर्णानि साम्प्रतं नो रणाजिरे॥ किमन्यत्रोधलोभाभ्यां युद्धमेवाद्य सात्वत। तं तथावादिनं तत्र सात्यकि: प्रत्यभाषत॥ प्रहसन् विशिखांस्तीक्ष्णानुद्यम्य परमास्रवित्। नाचार्यस्य निवेशनम्॥ दुर्योधन उवाच क्व सा क्रीडा गतास्माकं बाल्ये वै शिनिपुङ्गव॥ क्व च युद्धमिदं भूय: ‘कालो हि दुरतिक्रमः'। किं नु नो विद्यते कृत्यं धनेन धनलिप्सया॥ यत्र युध्यामहे सर्वे धनलोभात् समागताः। नेयं सभा राजपुत्र संजय उवाच तं तथावादिनं तत्र राजानं माधवोऽब्रवीत्॥ एवंवृत्तं सदा क्षात्रं युध्यन्तीह गुरूनपि। यदि तेऽहं प्रियो राजन् जहि मां मा चिरं कृथाः॥ त्वत्कृते सुकृताल्लोकान् गच्छेयं भरतर्षभ। या ते शक्तिर्बलं यच्च तत् क्षिप्रं मयि दर्शय॥ नेच्छामि तदहं द्रष्टुं मित्राणां व्यसनं महत्। इत्येवं व्यक्तमाभाष्य प्रतिभाष्य च सात्यकिः॥ अभ्ययात् तूर्णमव्यग्रो दयां नाकुरुतात्मनि। तमायान्तं महाबाहुं प्रत्यगृह्णात् तवात्मजः॥ शरैश्चावाकिरद् राजशैनेयं तनयस्तव। ततः प्रववृते युद्धं कुरुमाधवसिंहयोः॥ अन्योन्यं क्रुद्धयो?रं यथा द्विरदसिंहयोः। ततः पूर्णायतोत्सृष्टैः सात्वतं युद्धदुर्मदम्॥ दुर्योधनः प्रत्यविध्यत् कुपितो दशभिः शरैः। तं सात्यकिः प्रत्यविध्यत् तथैवावाकिरच्छरैः॥ पञ्चाशता पुनश्चाजौ त्रिंशता दशभिश्च ह। सात्यकिं तु रणे राजन् प्रहसंस्तनयस्तव॥ आकर्णपूर्णैर्निशितैर्विव्याध त्रिंशता शरैः। ततोऽस्य सशरं चापं क्षुरप्रेण द्विधाच्छिनत्॥ सोऽन्यत् कार्मुकमादाय लघुहस्तस्ततो दृढम्। सात्यकिळसृजचापि शरश्रेणी सुतस्य ते॥ तामापतन्ती सहसा शरश्रेणी जिघांसया। चिच्छेद बहुधा राजा तत उचुक्रुशुर्जनाः॥ सात्यकिं च त्रिसप्तत्या पीडयामास वेगितः। स्वर्णपुङ्खः शिलाधौतैराकर्णापूर्णनिःसृतैः॥ तस्य संदधतश्चेषू संहितेषु च कार्मुकम्। आच्छिनत् सात्यकिस्तूर्णं शरैश्चैवाष्यवीविधत्॥ स गाढविद्धो व्यथितः प्रत्यपायाद् रथान्तरे। दुर्योधनो महाराज दाशार्हशरपीडितः॥ समाश्वस्य तु पुत्रस्ते सात्यकिं पुनरभ्ययात्। विसृजन्निषुजालानि युयुधानरथं प्रति॥ तथैव सात्यकिर्बाणान् दुर्योधनस्थं प्रति। सततं विसृजन् राजंस्तत् संकुलमवर्तत॥ तत्रेषुभिः क्षिष्यमाणैः पतद्भिश्च शरीरिषु। अग्नेरिव महाकक्षे शब्दः समभवन्महान्॥ तयोः शरसहस्रश्च संछन्नं वसुधातलम्। अगम्यरूपं च शरैराकाशं समपद्यत॥ तत्राप्यधिकमालक्ष्य माधवं रथसत्तमम्। क्षिप्रमभ्यपतत् कर्णः परीप्संस्तनयं तव॥ न तु तं मर्षयामास भीमसेनो महाबलः। सोऽभ्ययात्त्वरितः कर्ण विसृजन् सायकान् बहून्॥ तस्य कर्ण: शितान् बाणान् प्रतिहत्य हसन्निव। धनुः शरांश्च चिच्छेद सूतं चाभ्यहनच्छरैः॥ भीमसेनस्तु संक्रुद्धो गदामादाय पाण्डवः। ध्वजं धनुश्च सूतं च सम्ममर्दाहवे रिपोः॥ रथचक्रं च कर्णस्य बभञ्ज स महाबलः। भग्नचक्रे रथेऽतिष्ठदकम्पः शैलराडिव॥ एकचक्रं रथं तस्य तमूहुः सुचिरं हयाः। एकचक्रमिवार्कस्य रथं सप्त हया यथा॥ अमृष्यमाणः कर्णस्तु भीमसेनमयुध्यता विविधैरिषुजालैश्च नानाशस्त्रैश्च संयुगे॥ भीमसेनस्तु संक्रुद्धः सूतपुत्रमयोधयत्। तस्मिस्तथा वर्तगने क्रुद्धो धर्मसुतोऽब्रवीत्॥ पञ्चालानां नरव्याघ्रान् मत्स्यांश्च पुरुषर्षभान्। ये नः प्राणाः शिरोये च ये नो योधा महारथाः॥ त एते धार्तराष्ट्रेषु विषक्ताः पुरुषर्षभाः। किं तिष्ठत यथा मूढाः सर्वे विगतचेतसः॥ तत्र गच्छत यत्रैते युध्यन्ते मामका रथाः। क्षात्रधर्मं पुरस्कृत्य सर्व एव गतज्वराः॥ जयन्तो वध्यमानाश्च गतिमिष्टां गमिष्यथ। जित्वा वा बहुभिर्यज्ञैर्यजध्वं भूरिदक्षिणैः॥ हता वा देवसाद् भूत्वा लोकान् प्राप्स्यथ पुष्कलान्। ते राज्ञा चोदिता वीरा योत्स्यमाना महारथाः॥ क्षात्रधर्मं पुरस्कृत्य त्वरिता द्रोणमभ्ययुः। पञ्चालास्त्वेकतो द्रोणमभ्यमन् निशितैः शरैः॥ भीमसेनपुरोगाश्चाप्येकतः पर्यवारयन्। आसंस्तु पाण्डुपुत्राणां त्रयो जिह्या महारथाः॥ यमौ च भीमसेनश्च प्राक्रोशंस्ते धनंजयम्। अभिद्रवार्जुन क्षिप्रं कुरून् द्रोणादपानुद॥ तत एनं हनिष्यन्ति पञ्चाला हतरक्षिणम्। कौरवेयांस्ततः पार्थः सहसा समुपाद्रवत्॥ पञ्चालानेव तु द्रोणो धृष्टद्युम्नपुरोगमान्। ममर्दुस्तरसा वीराः पञ्चमेऽहनि भारत॥ संजय उवाच पञ्चालानां ततो द्रोणोऽप्यकरोत् कदनं महत्। यथा क्रुद्धो रणे शक्रो दानवानां क्षयं पुरा॥ द्रोणास्रेण महाराज वध्यमानाः परे युधि। नात्रसन्त रणे द्रोणात् सत्त्ववन्तो महारथः॥ युध्यमाना महाराज पञ्चालाः संजयास्तथा। द्रोणमेवाभ्ययुयुद्धे योधयन्तो महारथाः॥ तेषां तु च्छाद्यमानानां पञ्चालानां समन्ततः। अभवद् भैरवो नादो वध्यतां शरवृष्टिभिः॥ वध्यमानेषु संग्रामे पञ्चालेषु महात्मना। उदीर्यमाणे द्रोणारे पाण्डवान् भयमाविशत्॥ दृष्ट्वाश्वनरयोधानां विपुलं च क्षयं युधि। पाण्डवेया महाराज नाशशंसुर्जयं तदा॥ कचिद् द्रोणो न नः सर्वान् क्षपयेत् परमास्रवित्। समिद्धः शिशिरापाये दहन कक्षमिवानलः॥ न चैनं संयुगे कश्चित् समर्थः प्रतिवीक्षितुम्। न चैनमर्जुनो जातु प्रतियुध्येत धर्मवित्॥ त्रस्तान् कुन्तीसुतान् दृष्ट्वा द्रोणसायकपीडितान्। मतिमाश्रेयसे युक्तः केशवोऽर्जुनमब्रवीत्॥ नैष युद्धे न संग्रामे जेतुं शक्यः कथञ्चन। सधनुर्धन्विनां श्रेष्ठो देवैरपि सवासवैः॥ न्यस्तशस्त्रस्तु संग्रामे शक्यो हन्तुं भवेभिः। आस्थीयतां जये योगो धर्ममुत्सृज्य पाण्डवाः॥ यथा वः संयुगे सर्वान् न हन्याद् रुक्मवाहनः। अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम॥ तं हतं संयुगे कश्चिदस्मै शंसतु मानवः। एतन्नारोचयद् राजन् कुन्तीपुत्रो धनंजयः॥ अन्ये त्वरोचयन् सर्वे कृच्छ्रेण तु युधिष्ठिरः। ततो भीमो महाबाहुरनीके स्वे महागजम्॥ जघान गदया राजन्नश्वत्थामानमित्युत। परप्रमथनं घोरं मालवस्येन्द्रवर्मणः॥ भीमसेनस्तु सव्रीडमुपेत्य द्रोणमाहवे। अश्वत्थामा हत इति शब्दमुच्चैश्चकार ह॥ अश्वत्थामेति हि गजः ख्यातो नाम्ना हतोऽभवत्। कृत्वा मनसि तं भीमो मिथ्या व्याहृतवांस्तदा॥ भीमसेनवचः श्रुत्वा द्रोणस्तत् परमाप्रियम्। मनसा सन्नगात्रोऽभूद् यथा सैकतमम्भसि॥ शङ्कमानः स तन्मिथ्या वीर्यज्ञः स्वसुतस्य वै। हतः स इति च श्रुत्वा नैव धैर्यादकम्पत॥ स लब्ध्वा चेतनां द्रोणः क्षणेनैव समाश्वसत्। अनुचिन्त्यात्मनः पुत्रमविषयमरातिभिः॥ स पार्षतमभिद्रुत्य जिघांसुर्मृत्युमात्मनः। अवाकिरत् सहस्रेण तीक्ष्णानां कङ्कपत्रिणाम्॥ तं विंशतिसहस्राणि पञ्चालानां नरर्षभाः। तथा चरन्तं संग्रामे सर्वतोऽवाकिर छरैः॥ शरैस्तैरचितं द्रोणं नापश्याम महारथम्। भास्करं जलदै रुद्धं वर्षास्विव विशाम्पते॥ विधूय तान् बाणगणान् पञ्चालानां महारथः। प्रादुश्चक्रे ततो द्रोणो ब्राह्ममस्रं परंतपः॥ वधाय तेषां शूराणां पञ्चालानाममर्षितः। ततो व्यरोचत द्रोणो विनिघ्नन् सर्वसैनिकान्॥ शिरांस्यपातयचापि पञ्चालानां महामृधे। तथैव परिघाकारान् बाहून् कनकभूषणान्॥ ते वध्यमानाः समरे भारद्वाजेन पार्थिवाः। मेदिन्यामन्वकीर्यन्त वातनुन्ना इव द्रुमाः॥ कुञ्जराणां च पततां हयौघानां च भारत। अगम्यरूपा पृथिवी मांसशोणितकर्दमा।॥ हत्वा विंशतिसाहस्रान् पञ्चालानां रथव्रजान्। अतिष्ठदाहवे द्रोणो विधूमोऽग्निरिव ज्वलन्॥ तथैव च पुनः क्रुद्धो भारद्वाजः प्रतापवान्। वसुदानस्य भल्लेन शिरः कायादपाहरत्॥ पुनः पञ्चशतान् मत्स्यान् षट्सहस्रांश्च सुंजयान्। हस्तिनामयुतं हत्वा जघानाश्वायुतं पुनः॥ क्षत्रियाणामभावाय दृष्ट्वा द्रोणमवस्थितम्। ऋषयोऽभ्यागतास्तूर्णं हव्यवाहपुरोगमाः॥ विश्वामित्रो जमदग्निर्भरद्वाजोऽथ गौतमः। वसिष्ठः कश्यपोऽत्रिश्च ब्रह्मलोकं निनीषवः॥ सिकताः पृश्नयो गर्गा वालखिल्या मरीचिपाः। भृगवोऽङ्गिरसश्चैव सूक्ष्माश्चान्ये महर्षयः॥ त एनमब्रुवन् सर्वे द्रोणमाहवशोभिनम्। अधर्मतः कृतं युद्धं समयो निधनस्य ते॥ न्यस्यायुधं रणे द्रोण समीक्षास्मानवस्थितान्। नातः क्रूरतरं कर्म पुनः कर्तुमिहार्हसि॥ वेदवेदाङ्गविदुषः सत्यधर्मरतस्य ते। ब्राह्मणस्य विशेषेण तवैतन्नोपपद्यते॥ त्यजायुधममोघेषो तिष्ठ वर्त्मनि शाश्वते। परिपूर्णश्च कालस्ते वस्तुं लोकेऽद्य मानुषे॥ ब्रह्मास्त्रेण त्वथा दग्धा अनस्त्रज्ञा नरा भुवि। यदेतदीदृशां विप्र कृतं कर्म न साधु तत्॥ न्यास्यायुधं रणे विप्र द्रोण मा त्वं चिरं कृथाः। मा पापिष्ठतरं कर्म करिष्यसि पुनर्द्विज॥ इति तेषां वचः श्रुत्वा भीमसेनवचश्च तत्। धृष्टद्युम्नं च सम्प्रेक्ष्य रणे स विमनाऽभवत्॥ संदिह्यमानो व्यथितः कुन्तीपुत्रं युधिष्ठिरम्। अहतं वा हतं वेति पप्रच्छ सुतमात्मनः॥ स्थिरा बुद्धिर्हि द्रोणस्य न पार्थो वक्ष्यतेऽनृतम्। त्रयाणामपि लोकानामैश्वर्यार्थे कथञ्चन॥ तस्मात् तं परिपप्रच्छ नान्यं कञ्चिद् द्विजर्षभः। तस्मिंस्तस्य हि सत्याशा बाल्यात् प्रभृति पाण्डय।।४४ ततो निष्पाण्डवामुर्वी करिष्यन्तं युधां पतिम्। द्रोणं ज्ञात्वा धर्मराजं गोविन्दो व्यथितोऽब्रवीत्॥ यद्यदिवसं द्रोणो युध्यते मन्युमास्थितः। सत्यं ब्रवीमि ते सेना विनाशं समुपैष्यति॥ स भवांस्त्रातु नो द्रोणात् सत्याज्ज्यायोऽनृतं वचः। अनृतं जीवितस्यार्थे वदन्न स्पृश्यतेऽनृतैः॥ तयोः संवदतोरेवं भीमसेनोऽब्रवीदिदम्॥ श्रुत्वैवं तु महाराज वधोपायं महात्मनः। गाहमानस्य ते सेनां मालवस्येन्द्रवर्मणः॥ अश्वत्थामेति विख्यातो गजः शक्रगजोपमः। निहतो युधि विक्रम्य ततोऽहं द्रोणमब्रुवम्॥ अश्वत्थामा हतो ब्रह्मन्निवर्तस्वाहवादिति। नूनं नाश्रद्दधद् वाक्यमेष मे पुरुषर्षभः॥ स त्वं गोविन्दवाक्यानि मानयस्व जयैषिणः। द्रोणाय निहतं शंस राजशारद्वतीसुतम्॥ त्वयोक्तो नैव युध्येत जातु राजन् द्विजर्षभः। सत्यवान् हि त्रिलोकेऽस्मिन् भवान् ख्यातो जनाधिय॥ तस्य तद् वचनं श्रुत्वा कृष्णवाक्यप्रचोदितः। भावित्वाच महाराज वक्तुं समुपचक्रमे॥ तमतथ्यभये मग्नो जये सक्तो युधिष्ठिरः। अव्यक्तमब्रवीद् राजन् हतः कुञ्जर इत्युत॥ तस्य पूर्वे रथः पृथ्व्याश्चतुरङ्गुलमुच्छ्रितः। बभूवैवं च तेनोक्ते तस्य बाहाः स्पृशन्महीम्॥ युधिष्ठिरात् तु तद् वाक्यं श्रुत्वा द्रोणो महारथः। पुत्रव्यसनसंतप्तो निराशो जीवितेऽभवत्॥ आगस्कृतमिवात्मानं पाण्डवानां महात्मनाम्। ऋषिवाक्येन मन्वानः श्रुत्वा च निहतं सुतम्॥ विचेताः परमोद्विग्नो धृष्टद्युम्नमवेक्ष्य च। योद्धु नाशक्नुवद् राजन् यथापूर्वमरिदम्॥ संजय उवाच दृष्ट्वा परमोद्विग्नं शोकोपहतचेतसम्। पाञ्चालराजस्य सुतो धृष्टद्युम्नः समाद्रवत्॥ य इष्ट्वा मनुजेन्द्रेण दुपदेन महामखे। लब्धो द्रोणविनाशाय समिद्धाद्धव्यवाहनात्॥ स धनुर्जेत्रमादाय घोरं जलदनिःस्वनम्। दृढज्यमजरं दिव्यं शरं चाशीविषोपमम्॥ संदधे कार्मुके तस्मिंस्ततस्तमनलोपमम्। द्रोणं जिघांसुः पाञ्चाल्यो महाज्वालमिवम्लम्॥ तस्य रूपं शरस्यासीद् धनुर्ध्यामण्डलान्तरे। द्योततो भास्करस्येव धनान्ते परिवेषिणः॥ पार्षतेन परासृष्टं ज्वलन्तमिव तद् धनुः। अन्तकालमनुप्राप्तं मेनिरे वीक्ष्य सैनिकाः॥ तमिषु संहतं तेन भारद्वाजः प्रतापवान्। दृष्ट्वामन्यत देहस्य कालपर्यायमागतम्॥ ततः प्रयत्नमातिष्ठदाचार्यस्तस्य वारणे। न चास्यास्त्राणि राजेन्द्र प्रादुरासन्महात्मनः॥ तस्य त्वहानि चत्वारि क्षपा चैकास्यतो गता। तस्य चाह्नस्त्रिभागेन क्षयं जग्मुः पतत्रिणः॥ स शरक्षयमासाद्य पुत्रशोकेन चार्दितः। विविधानां च दिव्यानामस्त्राणामप्रसादतः॥ उत्स्रष्टुकामः शस्त्राणि ऋषिवाक्यप्रचोदितः। तेजसा पूर्यमाणश्च युयुधे न यथा पुरा॥ भूयश्चान्यत् समादाय दिव्यमाङ्गिरसं धनुः। शरांश्च ब्रह्मदण्डाभान् धृष्टद्युम्नमयोधयत्॥ ततस्तं शरवर्षेण महता समवाकिरत्। व्यशातयश्च संक्रुद्धो धृष्टद्युम्नममर्षणम्॥ शरांश्च शतधा तस्य द्रोणश्चिच्छेद सायकैः। ध्वजं धनुश्च निशितैः सारथिं चाप्यपातयत्॥ धृष्टद्युम्नः प्रहस्यान्यत् पुनरादाय कार्मुकम्। शितेन चैनं बाणेन प्रत्यविध्यत् स्तनान्तरे॥ सोऽतिविद्धो महेष्वासोऽसम्भ्रान्त इव संयुगे। भल्लेन शितधारेण चिच्छेदास्य पुनर्धनुः॥ यचास्य बाणविकृतं धनूंषि च विशाम्पते। सर्वं चिच्छेद दुर्घर्षो गदां खङ्गं च वर्जयन्॥ धृष्टद्युम्नं च विव्याध नवभिर्निशितैः शरैः। जीवितान्तकरैः क्रुद्धः क्रुद्धरूपं परंतपः॥ धृष्टद्युम्नोऽथ तस्याश्वान् स्वरथावैर्महारथः। व्यामिश्नयदमेयात्मा ब्राह्ममस्त्रमुदीरयन्॥ ते मिश्रा बह्वशोभन्त जवना वातरंहसः। पारावतसवर्णाश्च शोणाश्वा भरतर्षभ॥ यथा सविद्युतो मेघा नदन्तो जलदागमे। तथा रेजुर्महाराज मिश्रिता रणमूर्धनि॥ ईषाबन्धं चक्रबन्धं रथबन्धं तथैव च। प्राणाशयदमेयात्मा धृष्टद्युम्नस्य स द्विजः॥ स च्छिन्नधन्वा पाञ्चाल्यो निकृत्तध्वजसारथिः। उत्तमामापदं प्राप्य गदां वीरः परामृशतः॥ तामस्य विशिखैस्तीक्ष्णैः क्षिप्यमाणां महारथः। निजधान शरैर्दोणः क्रुद्धः सत्यपराक्रमः॥ तां तु दृष्ट्वा नरव्याघ्रो द्रोणेन निहतां शरैः। विमलं खङ्गमादत्त शतचन्द्रं च भानुमत्॥ असंशयं तथाभूतः पाञ्चाल्य: साध्वमन्यत। वधमाचार्यमुख्यस्य प्राप्तकालं महात्मनः॥ ततः स रथनीडस्थं स्वरथस्य रथेषया। अगच्छदसिमुद्यम्य शतचन्द्रं च भानुमत्॥ चिकीर्षुर्दुष्करं कर्म धृष्टद्युम्नो महारथः। इयेष वक्षो भेत्तुं स भारद्वाजस्य संयुगे।॥ सोऽतिष्ठद् युगमध्ये वै युगसन्नहनेषु च। जघनार्धेषु चाश्वानां तत् सैन्याः समपूजयन्॥ तिष्ठतो युगपालीषु शोणानष्यधितिष्ठतः। नापश्यदन्तरं द्रोणस्तदद्भुतमिवाभवत्॥ क्षिप्रं श्येनस्य चरतो यथैवामिषगृद्धिनः। तद्वदासीदबीसारो द्रोणपार्षतयो रणे॥ तस्य पारावतानश्वान् रथशक्त्या पराभिनत्। सर्वानेकैकशो द्रोणो रक्तानश्वान् विवर्जयन्॥ ते हता न्यपतन् भूमौ धृष्टद्युम्नस्य वाजिनः। शोणास्तु पर्यमुच्यन्त रथबन्धाद् विशाम्पते॥ तान् हयान् निहतान् दृष्ट्वा द्विजाग्र्येण स पार्षतः। नामृष्यत युधां श्रेष्ठो याज्ञसेनिर्महारथः॥ विस्थः स गृहीत्वा तु खङ्गं खगभृतां वर। द्रोणमभ्यपतद् राजन् वैनतेय इवोरगम्॥ तस्य रूपं बभौ राजन् भारद्वाजं जिघांसतः। यथा रूपं पुरा विष्णोर्हिरण्यकशिपोर्वधे॥ स तदा विविधान् मार्गान् प्रवरांश्चैकविंशतिम्। दर्शयामास कौरव्य पार्षतो विचरन् रणे॥ भ्रान्तमुद्भान्तमाविद्धमाप्लुतं प्रसृतं सृतम्। परिवृत्तं निवृत्तं च खङ्गं चर्म च धारयन्॥ सम्पातं समुदीर्णं च दर्शयामास पार्षतः। भारतं कौशिकं चैव सात्वतं चैव शिक्षया॥ दर्शयन् व्यचरद् युद्धे द्रोणस्यान्तचिकीर्षया। चरतस्तस्य तान् मार्गान् विचित्रान् खड्गचर्मिणः॥ व्यस्मयन्त रणे योधा देवताश्च समागताः। ततः शरसहस्रेण शतचन्द्रमपातयत्॥ चर्म खङ्गं च सम्बाधे धृष्टद्युम्नस्य स द्विजः। ये तु वैतस्तिका नाम शरा आसन्नयोधिनः॥ निकृष्टयुद्धे द्रोणस्य नान्येषां सन्ति ते शराः। ऋते शारद्वतात् पार्थाद् द्रौणे(कर्तनात् तथा॥ प्रद्युम्नयुयुधानाभ्यामभिमन्योश्च भारत। अथास्येषु समाधत्त दृढं परमसम्मतम्॥ अन्तेवासिनमाचार्यो जिघांसुः पुत्रसम्मितम्। तं शरैर्दशभिस्तीक्ष्णैश्चिच्छेद शिनिपुङ्गवः॥ पश्यतस्तव पुत्रस्य कर्णस्य च महात्मनः। ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नममोचयत्॥ चरन्तं रथमार्गेषु सात्यकिं सत्यविक्रमम्। द्रोणकर्णान्तरगतं कृपस्यापि च भारत॥ अपश्यतां महात्मानौ विष्वक्सेनधनंजयौ। अपूजयेतां वार्ष्णेयं ब्रुवाणौ साधु साध्विति॥ दिव्यान्यस्राणि सर्वेषां युधि निघ्नन्तमच्युतम्। अभिपत्य ततः सेनां विष्वक्सेनधनंजयौ॥ धनंजयस्ततः कृष्णमब्रवीत् पश्य केशव। आचार्यरथमुख्यानां मध्ये क्रीडन् मधूद्वहः॥ आनन्दयति मां भूयः सात्यकिः परवीरहा। माद्रीपुत्रौ च भीमं च राजानं च युधिष्ठिरम्॥ यच्छिक्षयानुद्धतः सन् रणे चरति सात्यकिः। महारथानुपक्रीडन् वृष्णीनां कीर्तिवर्धनः॥ तमेते प्रतिनन्दन्ति सिद्धाः सैन्याश्च विस्मितः। अजय्यं समरे दृष्ट्वा साधु साध्विति सात्यकिम्। योधाश्चोभयतः सर्वे कर्मभिः समपूजयन्॥ संजय उवाच सात्वतस्य तु तत् कर्म दृष्ट्वा दुर्योधनादयः। शैनेयं सर्वतः क्रुद्धा वारयामासुरञ्जसा॥ कृपकर्णौ च समरे पुत्राश्च तव मारिष। शैनेयं त्वरयाभ्येत्य विनिघ्नन् निशितैः शरैः॥ युधिष्ठिरस्ततो राजा माद्रीपुत्रौ च पाण्डवौ। भीमसेनश्च बलवान् सात्यकि पर्यवारयन्॥ कर्णश्च शरवर्षेण गौतमश्च महारथः। दुर्योधनादयस्ते च शैनेयं पर्यवारयन्॥ तां वृष्टिं सहसा राजन्नुत्थितां घोररूपिणीम्। वारयामास शैनेयो योधयंस्तान् महारथान्॥ तेषामस्राणि दिव्यानि संहितानि महात्मनाम्। वारयामास विधिवद् दिव्यैरस्त्रैर्महामृधे॥ क्रूरमायोधनं जज्ञे तस्मिन् राजसमागमे। रुद्रस्येव हि क्रुद्धस्य निघ्नतस्तान् पशून् पुरा॥ हस्तानामुत्तमाङ्गानां कार्मुकाणां च भारत। छत्राणां चापविद्धानां चामराणां च संचयैः॥ राशयः स्म व्यदृश्यन्त तत्र तत्र रणाजिरे। भग्नचकै रथैश्चापि पातितैश्च महाध्वजैः॥ सादिभिश्च हतैः शूरैः संकीर्णा वसुधाभवत्। बाणपातनिकृत्तास्तु योधास्ते कुरुसत्तम॥ चेष्टन्तो विविधाचेष्टा व्यदृश्यन्त महाहवे। वर्तमाने तथा युद्धे घोरे देवासुरोपमे॥ अब्रवीत् क्षत्रियांस्तत्र धर्मराजो युधिष्ठिरः। अभिद्रवत संयत्ताः कुम्भयोनि महारथाः॥ एषो हि पार्षतो वीरो भारद्वाजेन संगतः। घटते च यथाशक्ति भारद्वाजस्य नाशने॥ यादृशानि हि रूपाणि दृश्यन्तेऽस्य महारणे। अद्य द्रोणं रणे क्रुद्धो घातयिष्यति पार्षतः॥ ते यूयं सहिता भूत्वा युध्यध्वं कुम्भसम्भवम्। युधिष्ठिरसमाज्ञप्ताः सृञ्जयानां महारथाः॥ अभ्यद्रवन्त संयत्ता भारद्वाजजिघांसवः। तान् समापततः सर्वान् भारद्वाजो महारथः॥ अभ्यवर्तत वेगेन मर्तव्यमिति निश्चितः। प्रयाते सत्यसंधे तु समकम्पत मेदिनी॥ ववुर्वाताः सनिर्घातास्रासयाना वरूथिनीम्। पपात महती चोल्का आदित्यानिश्चरन्त्युत॥ दीपयन्ती उभे सेने शंसन्तीव महद् भयम्। जज्वलुश्चैव शस्त्राणि भारद्वाजस्य मारिष॥ रथाः स्वनन्ति चात्यर्थं हयाश्चाश्रूण्यवासृजन्। हतौजा इव चाप्यासीद् भारद्वाजो महारथः॥ प्रास्फुरन्नयनं चास्य वाम बाहुस्तथैव च। विमनाश्चाभवद् युद्धे दृष्ट्वा पार्षतमग्रतः॥ ऋषीणां ब्रह्मवादानां स्वर्गस्य गमनं प्रति। सुयुद्धेन ततः प्राणानुत्स्रष्टमुपचक्रमे॥ ततश्चतुर्दिशं सैन्यैर्दुपदस्याभिसंवृतः। निर्दहन् क्षत्रियव्रातान् द्रोणः पर्यचरद् रणे॥ हत्वा विंशतिसाहस्रान् क्षत्रियानरिमर्दनः। दशायुतानि करिणामवधीद् विशिखैः शितैः॥ सोऽतिष्ठदाहवे यत्तो विधूमोऽग्निरिव ज्वलन्। क्षत्रियाणामभावाय ब्राह्ममस्रं समास्थितः॥ पाञ्चाल्यं विरथं भीमो हतसर्वायुधं बली। सुविषण्णं महात्मानं त्वरमाणः समभ्ययात्॥ ततः स्वरथमारोप्य पाञ्चाल्यमरिमर्दनः। अब्रवीदभिसम्प्रेक्ष्य द्रोणमस्यन्तमन्तिकाम्॥ न त्वदन्य इहाचार्यं योद्धमुत्सहते पुमान्। त्वरख प्राग् वधायैव त्वयि भारः समाहितः॥ स तथोक्तो महाबाहुः सर्वभारसहं धनुः। अभिपत्याददे क्षिप्रमायुधप्रवरं दृढम्॥ संरब्धश्च शरानस्यन् द्रोणं दुर्वारणं रणे। विवारयिषुराचार्यं शरवर्षैरवाकिरत्॥ तौ न्यवारयतां श्रेष्ठौ संरब्धौ रणशोभिनौ। उदीरयेतां ब्राह्माणि दिव्यान्यस्राण्यनेकशः॥ स महास्त्रैर्महाराज द्रोणमाच्छादयद् रणे। निहत्य सर्वाण्यस्राणि भारद्वाजस्य पार्षतः॥ सवसातीशिबींश्चैव बाह्रीकान् कौरवानपि। रक्षिष्यमाणान् संग्रामे द्रोणं व्यधमदच्युतः॥ धृष्टद्युम्नस्तथा राजन् गभस्तिभिरिवांशुमान्। बभौ प्रच्छादयन्नाशाः शरजालैः समन्ततः॥ तस्य द्रोणो धनुश्छित्त्वा विद्ध्वा चैनं शिलीमुखैः। मर्माण्यभ्यहनद् भूयः स व्यथां परमामगात्॥ ततो भीमो दृढक्रोधो द्रोणस्याश्लिष्य तं रथम्। शनकैरिव राजेन्द्र द्रोणं वचनमब्रवीत्॥ यदि नाम न युध्येरशिक्षिता ब्रह्मबन्धवः। स्वकर्मभिरसंतुष्टा न स्म क्षत्रं क्षयं व्रजेत्॥ अहिंसां सर्वभूतेषु धर्म ज्यायस्तरं विदुः। तस्य च ब्राह्मणो मूलं भवांश्च ब्रह्मवित्तमः॥ श्वपाकवम्लेच्छगणान् हत्वा चान्याद् पृथग्विधान्। अज्ञानान्मूढवद् ब्रह्मन् पुत्रदारधनेप्सया॥ एकस्यार्थे बहून् हत्वा पुत्रस्याधर्मविद्यया। स्वकर्मस्थान् विकर्मस्थो न व्यपत्रसे कथम्॥ यस्यार्थे शस्त्रमादाय यमपेक्ष्य च जीवसि। च साद्य पतितः शेते पृष्ठे नावेदितस्तव॥ धर्मराजस्य तद् वाक्यं नाभिशङ्कितुमर्हसि। एवमुक्तस्ततो द्रोणो भीमेनोत्सृज्य तद् धनुः॥ सर्वाण्यत्राणि धर्मात्मा हातुकामोऽभ्यभाषत। कर्ण कर्ण महेष्वास कृप दुर्योधनेति च॥ संग्रामे क्रियतां यत्नो ब्रवीम्येष पुनः पुनः। पाण्डवेभ्य: शिवं वोऽस्तु शस्रमभ्युत्सृजाम्यहम्॥ इति तत्र महाराज प्राक्रोशद् द्रौणिमेव च। उत्सृज्य च रणे शस्त्रं रथोपस्थे निविश्य च॥ अभयं सर्वभूतानां प्रददौ योगमीयिवान्। तस्य तच्छिद्रमाज्ञाय धृष्टद्युम्नः प्रतापवान्॥ सशरं तद् धनुर्घोरं संन्यस्याथ रथे ततः। खड्गी रथादवप्लुत्य सहसा द्रोणमभ्ययात्॥ हाहाकृतानि भूतानि मानुषाणीतराणि च। द्रोणं तथागतं दृष्ट्वा धृष्टद्युम्नवशं गतम्॥ हाहाकारं भृशं चक्रुरहो धिगिति चाब्रुवन्। द्रोणोऽपि शस्त्राण्युत्सृज्य परमं सांख्यमास्थितः॥ तथोक्त्वा योगमास्थाय ज्योतिर्भूतो महातपाः। पुराणं पुरुषं विष्णुं जगाम मनसा परम्॥ मुखं किंचित् समुन्नाम्य विष्टभ्य उरमग्रतः। निमीलिताक्षः सत्त्वस्थो निक्षिप्य हृदि धारणाम्॥ ओमित्येकाक्षरं ब्रह्म ज्योतिर्भूतो महातपाः। स्मरित्वा देवदेवेशमक्षरं परमं प्रभुम्॥ दिवमाक्रामदाचार्यः साक्षात् सद्भिर्द्धराक्रमाम्। द्वौ सूर्याविति नो बुद्धिरासीत् तस्मिस्तथागते॥ एकाग्रमिव चासीच ज्योतिर्भिः पूरितं नमः। समपद्यत चार्काभे भारद्वाजदिवाकरे॥ निमेषमात्रेण च तज्जयोतिरन्तरधीयत। आसीत् किलकिलाशब्दः प्रहृष्टानां दिवौकसाम्॥ ब्रह्मलोकगते द्रोणे धृष्टद्युम्ने च मोहिते। वयमेव तदाद्राक्ष्म पञ्च मानुषयोनयः॥ योगयुक्तं महात्मानं गच्छन्तं परमां गतिम्। अहं धनंजयः पार्थो कृपः शारद्वतस्तथा॥ वासुदेवश्च वार्ष्णेयो धर्मपुत्रश्च पाण्डवः। अन्ये त सर्वे नापश्यन् भारद्वाजस्य धीमतः॥ महिमानं महाराज योगयुक्तस्य गच्छतः। ब्रह्मलोकं महद् दिव्यं देवगुह्यं हि तत् परम्॥ गतिं परमिकां प्राप्तमजानन्तो नृयोनयः। नापश्यन् गच्छमानं हि तं सार्धमृषिपुङ्गवैः॥ आचार्यं योगमास्थाय ब्रह्मलोकमरिंदमम्। वितुन्नाङ्गं शरव्रातैस्तायुधमसृकक्षरम्॥ धिक्कृतः पार्षतस्तं तु सर्वभूतैः परामृशत्। तस्य मूर्धानमालम्ब्य गतसत्त्वस्य देहिनः॥ किंचिद्रब्रुवतः कायाद् विचकर्तासिना शिरः। हर्षेण महता युक्तो भारद्वाजे निपातिते॥ सिंहनादरवं चक्रे भ्रामयन् खङ्गमाहवे। आकर्णपलितः श्यामो वयसाशीतिपञ्चकः॥ त्वत्कृते व्यचरत् संख्ये स तु षोडशवर्षवत्। उक्तवांश्च महाबाहुः कुन्तीपुत्रो धनंजयः॥ जीवन्तमानयाचार्य मा वधी?पदात्मजा न हन्तव्यो न हन्तव्य इति ते सैनिकाच ह॥ उत्क्रोशन्नर्जुनश्चैव सानुक्रोशस्तमाव्रजत्। क्रोशमानेऽर्जुने चैव पार्थिवेषु च सर्वशः॥ धृष्टद्युम्नोऽवधीद् द्रोणं रथतल्पे नरर्षभम्। शोणितेन परिक्लिन्नो रथाद् भूमिमथापतत्॥ लोहिताङ्ग इवादित्यो दुर्धर्षः समपद्यता एवं तं निहतं संख्ये ददृशे सैनिको जनः॥ धृष्टद्युम्नस्तु तद् राजन् भारद्वाजशिरोऽहरत्। तावकानां महेष्वासः प्रमुखे तत् समाक्षिपत्॥ ते तु दृष्ट्वा शिरो राजन् भारद्वाजस्य तावकाः। पलायनकृतोत्साहा दुद्रुवुः सर्वतो दिशम्॥ द्रोणस्तु दिवमास्थाय नक्षत्रमथमाविशत्। अहमेव तदाद्राक्षं द्रोणस्य निधनं नृप॥ ऋषेः प्रसादात् कृष्णस्य सत्यवत्याः सुतस्य च। विधूमामिह संयान्तीमुल्कां प्रज्वलितामिव॥ अपश्याम दिवं स्तब्वा गच्छन्तं तं महाद्युतिम्। हते द्रोणे निरुत्साहान् कुरून् पाण्डवसृञ्जयाः॥ अभ्यद्रवन् महावेगास्ततः सैन्यं व्यदीर्यत। निहता हतभूयिष्ठाः संग्रामे निशितैः शरैः॥ तावका निहते द्रोणे गतासव इवाभवन्। पराजयमथावाप्य परत्र च महद् भयम्॥ उभयेनैव ते हीना नाविन्दन् धृतिमात्मनः। अन्विच्छन्तः शरीरं तु भारद्वाजस्य पार्थिवाः॥ नान्वगच्छन् महाराज कबन्धायुतसंकुले। पाण्डवास्तु जयं लब्ध्वा परत्र च महद् यशः॥ बाणशङ्खरवांश्चक्रुः सिंहनादांश्च पुष्कलान्। भीमसेनस्ततो राजन् धृष्टद्युम्नश्च पार्षतः॥ वरूथिन्यामनृत्येतां परिष्वज्य परस्परम्। अब्रवीच तदा भीमः पार्षतं शत्रुतापनम्॥ भूयोऽहं त्वां विजयिनं परिष्वज्यामि पार्षत। सूतपुत्रे हते पापे धार्तराष्ट्रे च संयुगे॥ एतावदुक्त्वा भीमस्तु हर्षेण महता युतः। बाहुशब्देन पृथिवीं कम्पयामास पाण्डवः॥ तस्य शब्देन वित्रस्ताः प्राद्रवंस्तावका युधि। क्षत्रधर्मं समुत्सृज्य पलायनपरायणाः॥ पाण्डवास्तु जयं लब्ध्वा हृष्टा ह्यासन् विशाम्पते। अरिक्षयं च संग्रामे तेन ते सुखमाप्नुवन्॥ संजय उवाच ततो द्रोणे हते राजन् कुरवः शस्रपीडितः। हतप्रवीरा विध्वस्ता भृशं शोकपरायणाः॥ उदीर्णाश्च परान् दृष्ट्वा कम्पमानाः पुनः पुनः। अश्रुपूर्णक्षणास्रस्ता दीनास्त्वासन् विशाम्पते॥ विचेतसो हतोत्साहा: कश्मलाभिहतौजसः। आर्तस्वरेण महता पुत्रं ते पर्यवारयन्॥ रजस्वला वेपमाना वीक्षमाणा दिशो दश। अश्रुकण्ठा यथा दैत्या हिरण्याक्षे पुरा हते॥ स तैः परिवृतो राजा त्रस्तैः क्षुद्रमृगैरिव। अशक्नुवन्नवस्थातुमपायात् तनयस्तव॥ क्षुत्पिपासापरिम्लानास्ते योधास्तव भारत। आदित्येनेव संतप्ता भृशं विमनसोऽभवन्॥ भास्करस्यैव पतनं समुद्रस्येव शोषणम्। विपर्यासं यथा मेरोर्वासवस्येव निर्जयम्॥ अमर्षणीयं तद् दृष्ट्वा भारद्वाजस्य पातनम्। त्रस्तरूपतरा राजन् कौरवाः प्राद्रवन् भयात्॥ गान्धारराजः शकुनिस्रस्तस्त्रस्ततरैः सह। हतं रुक्मरथं श्रुत्वा प्राद्रवत् सहितौ रथैः॥ वरूथिनी वेगवतीं विद्रुतां सपताकिनीम्। परिगृह्य महासेनां सूतपुत्रोऽपयाद् भयात्॥ रथनागाश्वकलिलां पुरस्कृत्य तु वाहिनीम्। मद्राणामीश्वरः शल्यो वीक्षमाणोऽपयाद् भयात्॥ हतप्रवीरैर्भूयिष्ठैर्ध्वजैर्बहुपताकिभिः। वृतः शारद्वतोऽगच्छत् कष्टं कष्टमिति ब्रुवन्॥ भोजानीकेन शिष्टेन कलिङ्गारट्टबाह्निकैः। कृतवर्मा वृतो राजन् प्रायात् सुजवनैर्हयैः॥ पदातिगणसंयुक्तस्रस्तो राजन् भयादितः। उलूकः प्राद्रवत् तत्र दृष्ट्वा द्रोणं निपातितम्॥ दर्शनीयो युवा चैव शौर्येण कृतलक्षणः। दुःशासनो भृशोद्विगनः प्राद्रवद् गजसंवृतः॥ रथानामयुतं गृह्य त्रिसाहस्रं च दन्तिनाम्। वृषसेनो ययौ तूर्णं दृष्ट्वा द्रोणं निपातितम्॥ गजाश्वरथसंयुक्तो वृतश्चैव पदातिभिः। दुर्योधनो महाराज प्रायात् तत्र महारथः॥ संशप्तकगणान् गृह्य हतशेषान् किरीटिना। सुशर्मा प्राद्रवद् राजन् दृष्ट्वा द्रोणं निपातितम्॥ गजान् स्थान् समारुह्य व्युदस्य च हयाञ्जनाः। प्राद्रवन् सर्वतः संख्ये दृष्ट्वा रुक्मरथं हतम्॥ त्वरयन्तः पितृनन्ये भ्रातृनन्येऽथ मातुलान्। पुत्रानन्ये वयस्यांश्च प्राद्रवन् कुरवस्तदा॥ चोदयन्तश्च सैन्यानि स्वस्रीयांश्च तथापरे। सम्बन्धिनस्तथान्ये च प्राद्रवन्त दिशो दश।॥ प्रकीर्णकेशा विध्वस्ता न द्वावेकर धावतः। नेदमस्तीति मन्वाना हतोत्साहा हतौजसः॥ उत्सृज्य कवचानन्ये प्राद्रवंस्तावका विभो। अन्योन्यं ते समाक्रोशन सैनिका भरतर्षभ।॥ तिष्ठ तिष्ठेति न च ते स्वयं तत्रावतस्थिरे। धुर्यानुन्मुच्य च रथाद्धतसूतात् स्वलंकृतान्। अधिरुह्य हयान् योधाः क्षिप्रं पद्भिरचोदयान्॥ द्रवमाणे तथा सैन्ये त्रस्तरूपे हतौजसि। प्रतिस्रोत इव ग्राहो द्रोणपुत्रः परानियात्॥ तस्यासीत् सुमहद् युद्धं शिखण्डिप्रमुखैर्गणैः। प्रभद्रकैश्च पाञ्चालैश्चेदिभिश्च सकेकयैः॥ हत्वा बहुविधाः सेनाः पाण्डूनां युद्धदुर्मदः। कथंचित् संकटान्मुक्तो मत्तद्विरदविक्रमः॥ द्रवमाणं बलं दृष्ट्वा पलायनकृतक्षणम्। दुर्योधनं समासाद्य द्रोणपुत्रोऽब्रवीदिदम्॥ किमियं द्रवते सेना त्रस्तरूपेव भारत। द्रवमाणां च राजेन्द्र नावस्थापयसे रणे॥ त्वं चापि न यथापूर्वं प्रकृतिस्थो नराधिप। कर्णप्रभृतयश्चेमे नावतिष्ठन्ति पार्थिव॥ अन्येष्वपि च युद्धेषु नैव सेनाद्रवत् तदा। कचित् क्षेमं महाबाहो तव सैन्यस्य भारत॥ कस्मिन्निदं हते राजन् रथसिंहे बलं तवा एतामवस्थां सम्प्राप्तं तन्ममाचक्ष्व कौरव॥ तत्तु दुर्योधनः श्रुत्वा द्रोणपुत्रस्य भाषितम्। घोरमप्रियमाख्यातुं नाशक्नोत् पार्थिवर्षभः॥ भिन्ना नौरिव ते पुत्रो मग्नः शोकमहार्णवे। वाष्पेणापिहितो दृष्ट्वा द्रोणपुत्रं रथे स्थितम्॥ ततः शारद्वतं राजा सव्रीडमिदमब्रवीत्। शंसात्र भद्रं ते सर्वं यथा सैन्यमिदं दुतम्॥ अथ शारद्वतो राजन्नार्तिमार्छन् पुनः पुनः। शशंस द्रोणपुत्राय यथा द्रोणो निपातितः॥ कृप उवाच वयं द्रोणं पुरस्कृत्य पृथिव्यां प्रवरं रथम्। प्रावर्तयाम संग्रामं पञ्चालैरेव केवलम्॥ ततः प्रवृत्ते संग्रामे विमिश्राः कुरुसोमकाः। अन्योन्यमभिगर्जन्तः शस्त्रैर्देहानपातयन्॥ वर्तमाने तथा युद्धे क्षीयमाणेषु संयुगे। धार्तराष्ट्रेषु संक्रुद्धः पिता तेऽस्रमुदैरयत्॥ ततो द्रोणो ब्राह्ममस्रं विकुर्वाणो नरर्षभः। व्यहनच्छात्रवान् भल्लैः शतशोऽथ सहस्रशः॥ पाण्डवाः केकया मत्स्याः पञ्चालाच विशेषतः। संख्ये द्रोणरथं प्राप्य व्यनशन् कालचोदिताः॥ सहस्रं नरसिंहानां द्विसाहस्रं च दन्तिनाम्। द्रोणो ब्रह्मास्रयोगेन प्रेषयामास मृत्यवे॥ आकर्णपलित: श्यामो वयसाशीतिपञ्चकः। रणे पर्यचरद् द्रोणो वृद्धः षोडशवर्षवत्॥ क्लिश्यमानेषु सैन्येषु वध्यमानेषु राजसु। अमर्षवशमापन्नाः पञ्चाला विमुखाऽभवन्॥ तेषु किंचित् प्रभग्नेषु विमुखेषु सपत्नजित्। दिव्यमस्रं विकर्वाणो बभूवार्क इवोदितः॥ स मध्यं प्राप्य पाण्डूनां शररश्मिः प्रतापवान्। मध्यंगत इवादित्यो दुष्प्रेक्ष्यस्ते पिताभवत्॥ ते दह्यमाना द्रोणेन सूर्येणेव विराजता। दग्धवीर्या निरुत्साहा बभूवुर्गतचेतसः॥ तान् दृष्ट्वा पीडितान् बाणैर्दोणेन मधुसूदनः। जयैषी पाण्डुपुत्राणामिदं वचनमब्रवीत्॥ अपि वृत्रहणा संख्ये रथयूथपयूथपः॥ ते यूयं धर्ममुत्सृज्य जयं रक्षत पाण्डवाः। यथा वः संयुगे सर्वान् न हन्याद् रुक्मवाहनः॥ अश्वत्थाम्न हते नैष युध्यदिति मतिर्मम) हतं तं संयुगे कश्चिदाख्यात्वस्मै मृषा नरः॥ एतन्नारोचयद् वाक्यं कुन्तीपुत्रो धनंजयः। अरोचयंस्तु सर्वेऽन्ये कृच्छ्रेण तु युधिष्ठिरः॥ भीमसेनस्तु सव्रीडमब्रवीत् पितरं तव। अश्वत्थामा हत इति तं नाबुध्यत ते पिता॥ स शङ्कमानस्तन्मिथ्या धर्मराजमपृच्छत। हतं वाप्यहतं वाऽऽजौ त्वां पिता पुत्रवत्सलः॥ तमतथ्यभये मग्नो जये सक्तो युधिष्ठिरः। अश्वत्थामानमयोधे हतं दृष्ट्वा महागजम्॥ भीमेन गिरिवाणं मालवस्येन्द्रवर्मणः। उपसृत्य तदा द्रोणमुच्चैरिदमुवाच ह॥ यस्यार्थे शस्त्रमादत्से यमवेक्ष्य च जीवसि। पुत्रस्ते दयितो नित्यं सोऽश्वत्थामा निपातितः॥ शेते विनिहतो भूमौ वने सिंहशिशुर्यथा॥ जाननप्यनृतस्याथ दोषान् स द्विजसत्तमम्। अव्यक्तमब्रवीद् राजा हतः कुञ्जर इत्युत॥ स त्वां निहतमाक्रन्दे श्रुत्वा संतापतापितः। नियम्य दिव्यान्यस्राणि नायुध्यत यथा पुरा॥ तं दृष्ट्वा परमोद्विग्नं शोकातुरमचेतसम्। पाजालराजस्य सुतः क्रूरकर्मा समाद्रवत्॥ तं दृष्ट्वा विहितं मृत्यु लोकतत्त्वविचक्षणः। दिव्यान्यस्राण्यथोत्सृज्य रणे प्रायमुपाविशत्॥ ततोऽस्य केशान् सव्येन गृहीत्वा पाणिना तदा। पार्षतः क्रोशमानानां वीराणामच्छिनच्छिरः॥ न हन्तव्यो न हन्तव्य इति ते सर्वतोऽब्रुवन्। तथैव चार्जुनो वाहादवरुनिमाद्रवत्॥ उद्यम्य त्वरितो बाहुं ब्रुवाणश्च पुनः पुनः। जीवन्तमानयाचार्य मा वधीरिति धर्मवित्॥ तथा निवार्यमाणेन कौरवैरर्जुनेन च। हत एव नृशंसेन पिता तव नरर्षभ।॥ सैनिकाश्च ततः सर्वे प्राद्रवन्त भयार्दिताः। वयं चापि निरुत्साहा हते पितरि तेऽनघ॥ संजय उवाच तच्छ्रुत्वा द्रोणपुत्रस्तु निधनं पितुराहवे। क्रोधमाहारयत् तीव्र पदाहत इवोरगः॥ ततः क्रुद्धो रणे द्रौणि शं जज्वाल मारिष। यथेन्धनं महत् प्राप्य प्राज्वलद्धव्यवाहनः॥ तलं तलेन निष्यिष्य दन्तैर्दन्तानुपास्पृशत्। निःश्वसन्नुरगो यद्वलोहिताक्षोऽभवत् तदा॥ धृतराष्ट्र उवाच अधर्मेण हतं श्रुत्वा धृष्टद्युम्नेन संजय। ब्राह्मणं पितरं वृद्धमश्वत्थामा किमब्रवीत्॥ मानवं वारुणाग्नेयं ब्राह्ममस्त्रं च वीर्यवान्। ऐन्द्र नारायणं चैव यस्मिन् नित्यं प्रतिष्ठितम्॥ तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संयुगे। श्रुत्वा निहतमाचार्यं सोऽश्वत्थामा किमब्रवीत्॥ येन रामादवाप्येह धनुर्वेदं महात्मना। प्रोक्तान्यस्राणि दिव्यानि पुत्राय गुणकाक्षिणा॥ एकमेव हि लोकेऽस्मिन्नात्मनो गुणवत्तरम्। इच्छन्ति पुरुषाः पुत्रं लोके नान्यं कथंचन॥ आचार्याणां भवन्त्येव रहस्यानि महात्मनाम्। तानि पुत्राय वा दधुः शिष्यायानुगताय वा॥ स शिष्यः प्राप्य तत् सर्वं सविशेषं च संजया शूरः शारद्वतीपुत्रः संख्ये द्रोणादनन्तरः॥ रामस्य तु समः शस्त्रे पुरंदरसमो युधि। कार्तवीर्यसमो वीर्य बृहस्पतिसमो मतौ॥ महीधरसमः स्थैर्ये तेजसाग्निसमो युवा। समुद्र इव गाम्भीर्ये क्रोधे चाशीविषोपमः॥ र रथी प्रथमो लोके दृढधन्वा जितकमः। शीघ्रोऽनिल इवाक्रन्दे चरन् क्रुद्ध इवान्तकः॥ अस्यता येन संग्रामे धरण्यभिनिपीडिता। यो न व्यथति संग्रामे वीरः सत्यपराक्रमः॥ वेदस्नातो व्रतस्नातो धनुर्वेदे च पारगः। महोदधिरिवाक्षोभ्यो रामो दाशरथिर्यथा॥ तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संयुगे। श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत्॥ धृष्टद्युम्नस्य यो मृत्युः सृष्टस्तेन महात्मना। यथा द्रोणस्य पाञ्चाल्यो यज्ञसेनसुतोऽभवत्॥ तं नृशंसेन पापेन क्रूरेणादीर्घदर्शिना। श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत्॥ संजय उवाच छद्मना निहतं श्रुत्वा पितरं पापकर्मणा। बाष्पेणापूर्यत द्रौणी रोषेण च नरर्षभ।।।। तस्य क्रुद्धस्य राजेन्द्र वपुर्दीप्तमदृश्यत। अन्तकस्येव भूतानि जिहीर्षोः कालपर्यये॥ अश्रुपूर्णे ततो नेत्रे व्यपमृज्य पुनः पुनः। उवाच कोपान्निःश्वस्य दुर्योधनमिदं वचः॥ पिता मम यथा क्षुदैर्व्यस्तशस्रो निपातितः। धर्मध्वजवता पापं कृतं तद् विदितं मम॥ अनार्यं सुनृशंसं च धर्मपुत्रस्य मे श्रुतम्। युद्धेष्वपि प्रवृत्तानां ध्रुवं जयपराजयौ॥ द्वतमेतद् भवेद् राजन् वधस्तत्र प्रशस्यते। न्यायवृत्तो वधो यस्तु संग्रामे युध्यतो भवेत्॥ न स दुःखाय भवति तथा दृष्टो हि स द्विजैः। गतः स वीरलोकाय पिता मम न संशयः॥ न शोच्यः पुरुषव्याघ्र यस्तदा निधनं गतः। यत् तु धर्मप्रवृत्तः सन् केशग्रहणमाप्तवान्॥ पश्यतां सर्वसैन्यानां तन्मे मर्माणि कृन्तति। मयि जीवति यत् तात: केशग्रहमवाप्तवान्॥ कथमन्ये करिष्यन्ति पुत्रेभ्यः पुत्रिणः स्पृहाम्। कामात् क्रोधादविज्ञानाद्धर्षाद् बाल्येन वा पुनः॥ विधर्मकाणि कुर्वन्ति तथा परिभवन्ति च। तदिदं पार्षतेनेह महादाधर्मिकं कृतम्॥ अवज्ञाय च मां नूनं नृशंसेन दुरात्मना। तस्यानुबन्धं द्रष्टासौ धृष्टद्युम्नः सुदारुणम्॥ अकार्यं परमं कृत्वा मिथ्यावादी च पाण्डवः। यो ह्यसौ छानाऽऽचार्यं शस्रं संन्यासयत् तदा॥ तस्याद्य धर्मराजस्य भूमिः पास्यति शोणितम्। शपे सत्येन कौरव्य इष्टापूर्तेन चैव ह॥ अहत्वा सर्वपाञ्चालान् जीवेयं न कथंचन। सर्वोपायैर्यतिष्यामि पञ्चालानामहं वधे॥ धृष्टद्युम्नं च समरे हन्ताहं पापकारिणम्। कर्मणा येन तेनेह मृदुनो दारुणेन च॥ पञ्चालानां वधं कृत्वा शान्तिं लब्धास्मि कौरव। यदर्थं पुरुषव्याघ्र पुत्रानिच्छन्ति मानवाः॥ प्रेत्य चेह च सम्प्राप्तास्रायन्ते महतो भयात्। पित्रा तु मम सावस्था प्राप्ता निर्बन्धुना यथा॥ मयि शैलप्रतीकाशे पुत्रे शिष्ये च जीवति। धिङ्ममास्राणि दिव्यानि धिग् बाहू धिक्पराक्रमम्॥ यं स्म द्रोणः सुतं प्राप्य केशग्रहमवाप्तवान्। स तथाहं करिष्यामि तथा भरतसत्तम।॥ परलोकगतस्यापि भविष्याम्यनृणः पितुः। आर्येण हि न वक्तव्या कदाचित् स्तुतिरात्मनः॥ पितुर्वधममृष्यंस्तु वक्ष्यामोह पौरुषम्। अद्य पश्यन्तु मे वीर्यं पाण्डवाः सजनार्दनाः॥ मृद्गतः सर्वसैन्यानि युगान्तमिव कुर्वतः। न हि देवा न गन्धर्वा नासुरा न च राक्षसाः॥ अद्य शक्ता रणे जेतुं रथस्थं मां नरर्षभाः। मदन्यो नास्ति लोकेऽस्मिन्नर्जुनाद् वास्त्रवित् क्वचित्।। अहं हि ज्वलतां मध्ये मयूखानामिवांशुमान्। प्रयोक्ता देवसृष्टानामस्राणां पृतनागतः॥ भृयामिष्वसनादद्य मत्प्रयुक्ता महाहवे। दर्शयन्तः शरा वीर्य प्रमथिष्यन्ति पाण्डवान्॥ अद्य सर्वा दिशो राजन् धाराभिरिव संकुलाः। आवृताः पत्रिभिस्तीक्ष्णैर्द्रष्टरो मामकैरिह॥ विकिरज्छरजालानि सर्वतो भैरवस्वनान्। शत्रून् निपातयिष्यामि महावात इव दुमान्॥ न हि जानाति बीभत्सुस्तदस्त्रं न जनार्दनः। न भीमसेनो न यमौ न च राजा युधिष्ठिरः॥ न पार्षतो दुरात्मासौ न शिखण्डी न सात्यकिः। यदिदं मयि कौरव्य सकल्पं सनिवर्तनम्॥ नारायणाय मे पित्रा प्रणम्य विधिपूर्वकम्। उपहारः पुरा दत्तो ब्रह्मरूप उपस्थितः॥ तं स्वयं प्रतिगृह्याथ भगवान् स वरं ददौ। ववे पिता मे परममा नारायणं ततः॥ अथैनमब्रवीद् राजन् भगवान् देवसत्तमः। भविता त्वत्समो नान्यः कश्चिद् युधि नरः क्वचित्।। ३३ न त्विदं सहसा ब्रह्मन् प्रयोक्तव्यं कथंचन। न ह्येतदस्रमन्यत्र वधाच्छवोर्निवर्तते॥ न चैतच्छक्यते ज्ञातुं कं न वध्येदिति प्रभो। अवध्यमपि हन्याद्धि तस्मान्नैतत् प्रयोजयेत्॥ अथ संख्ये रथस्यैव शस्राणां च विसर्जनम्। प्रयाचतां च शूत्रणां गमनं शरणस्य च॥ एते प्रशमने योगा महास्रस्य परंतप। सर्वथा पीडितो हि स्यादवध्यान् पीडयन् रणे॥ तज्जग्राह पिता मह्यमब्रवीच्चैव स प्रभुः। त्वं वधिष्यसि सर्वाणि शस्रवर्षाण्यनेकशः॥ अनेनास्रेण संग्राते तेजसा च ज्वलिष्यसि। एवमुक्तवा स भगवान् दिवमाचक्रमे प्रभुः॥ एतन्नारायणादस्त्रं तत् प्राप्तं पितृबन्धुना। तेनाहं पाण्डवांश्चैव पञ्चालान् मत्स्यकेकयान्॥ विद्रावयिष्यामि रणे शचीपतिरिवासुरान्। यथा यथाहमिच्छेयं तथा भूत्वा शरा मम॥ निपतेयुः सपत्नेषु विक्रमत्स्वपि भारत। यथेष्टमश्मवर्षेण प्रवर्षिष्ये रणे स्थितः॥ अयोमुखैश्च विहगैर्द्रावयिष्ये महारथान्। परश्वधांश्च निशितानुत्स्रक्ष्येऽहमसंशयम्॥ सोऽहं नारायणस्रेण महता शत्रुतापनः। शत्रून् विध्वंसयिष्यामि कदर्थी कृत्य पाण्डवान्॥ मित्रब्रह्मगुरुद्रोही जाल्मकः सुविगर्हितः। पाञ्चालापसदश्चाद्य न मे जीवन विमोक्ष्यते॥ तच्छ्रुत्वा द्रोणपुत्रस्य पर्यवर्तते वाहिनी। ततः सर्वे महाशङ्खान् दध्मुः पुरुषसत्तमाः॥ भेरीचाभ्यहनन् हृष्टा डिण्डिमांश्च सहस्रशः। तथा ननाद वसुधा खुरनेमिप्रपीडिता॥ स शब्दस्तुमुल: खं द्यां पृथिवीं च व्यनादयत्। तं शब्दं पाण्डवाः श्रुत्वा पर्जन्यनिनदोपमम्॥ समेत्य रथिनां श्रेष्ठाः सहिताश्चाप्यमन्त्रयन्। तथोक्त्वा द्रोणपुत्रस्तु वायुपस्पृश्य भारत॥ प्रादुश्चकार तद् दिव्यमस्र नारायणं तदा।॥ संजय उवाच प्रादुर्भूते ततस्तस्मिन्नने नारायणे प्रभो। प्रावात् सपृषतो वायुरनभ्रे स्तनयित्नुमान्॥ चचाल पृथिवी चापि चुक्षुभे च महोदधिः। प्रतिस्रोतः प्रवृत्ताश्च गन्तुं तत्र समुद्रगाः॥ शिखराणि व्यशीर्यन्त गिरीणां तत्र भारत। अपसव्यं मृगाश्चैव पाण्डुसेनां प्रचक्रिरे॥ तमसा चावकीर्यन्त सूर्यश्च कलुषोऽभवत्। सम्पतन्ति च भूतानि क्रव्यादानि प्रहृष्टवत्॥ देवदानवगन्धर्वास्रस्तास्त्वासन् विशाम्पते। व.थंकथाभवत् तीव्रा दृष्ट्वा तद् व्याकुलं महत्॥ व्यथिताः सर्वराजानस्रस्ताश्चासन् विशाम्पते। तद् दृष्ट्वा घोररूपं वै द्रौणेरस्त्रं भयावहम्॥ धृतराष्ट्र उवाच निवर्तितेषु सैन्येषु द्रोणपुत्रेण संयुगे। भृशं शोकाभितत्पेन पितुर्वधममृष्यता॥ कुरूनापततो दृष्ट्वा धृष्टद्युम्नस्य रक्षणे। कोमन्त्रः पाण्डवेष्वासीत् तन्ममाचक्ष्व संजय॥ संजय उवाच प्रागेव विद्रुतान् दृष्ट्वा धार्तराष्ट्रान् युधिष्ठिरः। पुनश्च तुमुलं शब्दं श्रुत्वार्जुनमथाब्रवीत्॥ युधिष्ठिर उवाच आचार्ये निहते द्रोणे धृष्टद्युम्नेन संयुगे। निहते वज्रहस्तेन यथा वृत्रे महासुरे॥ नाशंसन्तो जयं युद्धे दीनात्मनो धनंजय। आत्मत्राणे मतिं कृत्वा प्राद्रवन् कुरवो रणात्॥ केचिद् भ्रान्तै रथैस्तूर्णं निहतैः पाणियन्तृभिः। विपताकध्वजच्छत्रैः पार्थिवाः शीर्णकूबरैः॥ भग्ननीडैराकुलाश्वैः प्रारुग्णाश्च विशेषतः। भग्नाक्षयुगचक्ष व्याकृष्यन्त समन्ततः॥ भीताः पादैहयान् केचित् त्वरयन्तः स्वयं रथान्। रथान् विशीर्णानुत्सृज्य पद्भिः केचिच विदुताः॥ हयपृष्ठगताश्चान्ये कृष्यन्तेऽर्धच्युतासनाः। गजस्कन्धेषु संस्यूता नाराचैश्चलितासनाः॥ शरातैर्विदूतैर्नागैर्हताः केचिद् दिशो दश। विशस्रकवचाश्चान्ये वाहनेभ्यः क्षितिं गताः॥ संछिन्ना नेमिभिश्चैव मृदिताश्च हयद्विपैः। क्रोशन्तस्तात पुत्रेति पलायन्ते परे भयात्॥ नाभिजानन्ति चान्योन्यं कश्मलाभिहतौजसः। पुत्रान् पितॄन् सखीन् भ्रातृन् समारोप्य दृढक्षतान्॥ जलेन क्लेदयन्यन्ये विमुच्य कवचान्यपि। अवस्थां तादृशीं प्राप्य हते द्रोणे द्रुतं बलम्॥ पुनरावर्तितं केन यदि जानासि शंस मे। हयानां हृषतां शब्दः कुञ्जराणां च बुंहताम्॥ रथनेमिस्वनैश्चात्र विमिश्रः श्रूयते महान्। एते शब्दा भृशं तीव्राः प्रवृत्ताः कुरुसागरे॥ मुहुर्मुहुरुदीर्यन्ते कम्पयन्त्यपि मामकान्। य एष तुमुल: शब्दः श्रूयते लोमहर्षणः॥ सेन्द्रानप्येष लोकांस्रीन् ग्रसेदिति मतिर्मम। मन्ये वज्रधरस्यैष निनदो भैरवस्वनः॥ द्रोणे हते कौरवार्थं व्यक्तमभ्येति वासवः। प्रहृष्टरोमकूपाश्च संविग्ना रथपुङ्गवाः॥ धनंजय गुरुं श्रुत्वा तत्र नादं सुभीषणम्। क एप कौरवान् दीर्णानवस्थाप्य महारथः॥ निवर्तयति युद्धार्थं मृधे देवेश्वरो यथा। अर्जुन उवाच उद्यम्यात्मानमुग्राय कर्मणे वीर्यमास्थिताः॥ धमन्ति कौरवाः शङ्खान् यस्य वीर्यं समाश्रिताः! यत्र ते संशयो राजन् न्यस्तशस्रे गुरौ हते॥ धार्तराष्ट्रानवस्थाप्य क एष नदतीति हि। ह्रीमन्तं तं महाबाहुं मत्तद्विरदगामिनम्॥ आख्यास्याम्युग्रकर्माणं कुरूणामभयंकरम्। यस्मिञ्जाते ददौ द्रोणो गवां दशशतं धनम्॥ ब्राह्मणेभ्यो महाहेभ्यः सोऽश्वत्थामैष गर्जति। जातमात्रेण वीरेण येनोच्चैःश्रवसा यथा॥ द्वेषता कम्पिता भूमिर्लोकाश्च सकलास्रयः। तच्छ्रुत्वान्तर्हितं भूतं नाम तस्याकरोत् तदा॥ अश्वत्थामेति सोऽौष शूरो नदति पाण्डव। यो ह्यनाथ इवाक्रम्य पार्षतेन हतस्तथा॥ कर्मणा सुनृशंसेन तस्य नाथो व्यवस्थितः। गुरुं ते यत्र पाञ्चाल्य: केशपक्षे परामृशत्॥ तन्न जातु क्षमेद् द्रौणिर्जानन् पौरुषमात्मनः। उपचीर्णो गुरुर्मिथ्या भवता राज्यकारणात्॥ धर्मज्ञेन सता नाम सोऽधर्मः सुमहान् कृतः। चिरं स्थास्यति चाकीर्तिस्त्रैलोक्ये सचराचरे॥ रामे वालिवधाद् यद्वदेवं द्रोणे निपातिते। सर्वधर्मोपपन्नोऽयं स मे शिष्यश्च पाण्डवः॥ नायं वदति मिथ्येति प्रत्ययं कृतवांस्त्वयि। स सत्यकञ्चुकं नाम प्रविष्टेन ततोऽनृतम्॥ आचार्य उक्तो भवता हत: कुञ्जर इत्युत। ततः शस्रं समुत्सृज्य निर्ममो गतचेतनः॥ आसीत् सुविह्वलो राजन् यथा दृष्टस्त्वया विभुः। स तु शोकसमाविष्टो विमुखः पुत्रवत्सलः॥ शाश्वतं धर्ममुत्सृज्य गुरुः शस्त्रेण घातितः। न्यस्तशस्रमधर्मेण घातयित्वा गुरुं भवान्॥ रक्षत्विदानीं सामात्यो यदि शक्तोऽसि पार्षतम्। ग्रस्तमाचार्यपुत्रेण क्रुद्धेन हतबन्धुना॥ सर्वे वयं परित्रातुं न शक्ष्यामोऽद्य पार्षतम्। सौहार्दै सर्वभूतेषु यः करोत्यतिमानुषः। सोऽद्य केशग्रहं श्रुत्वा पितुर्धक्ष्यति नो रणे॥ विक्रोशमाने हि मयि भृशमाचार्यगृद्धिनि। अपाकीर्य स्वयं धर्मं शिष्येण निहतो गुरुः॥ यदा गतं वयो भूयः शिष्टमल्पतरं च नः। तस्येदानी विकारोऽयमधर्मोऽयं कृतो महान्॥ पितेव नित्यं सौहार्दात् पितेव हि च धर्मतः। सोऽल्पकालस्य राजस्य कारणाद् घातितो गुरुः॥ धृतराष्ट्रेण भीष्माय द्रोणाय च विशाम्पते। विसृष्टा पृथिवी सर्वा सह पुत्रैश्च तत्परैः॥ सम्प्राप्य तादृशीं वृत्तिं सत्कृतः सततं परैः। अवृणीत सदा पुत्रान् मामेवाभ्यधिकं गुरुः॥ अवेक्षमाणस्त्वां मां च न्यस्तास्त्रश्चाहवे हतः। न त्वेनं युध्यमानं वै हन्यादपि शतक्रतुः॥ तस्याचार्यस्य वृद्धस्य द्रोहो नित्योपकारिणः। कृतो ह्यनार्चरस्माभी राज्यार्थे लुब्धवुद्धिभिः॥ अहो बत महत् पापं कृतं कर्म सुदारुणम्। यद् राज्यसुखलोभेन द्रोणोऽयं साधु घातितः :॥ पुत्रान् भ्रातॄन् पितॄन् दाराञ्जीवितं चैव वासविः। त्यजेत् सर्वं मम प्रेम्णा जानात्येवं हि मे गुरुः॥ स मया राज्यकामेन हन्यमानो झुपेक्षितः। तस्मादर्वाक्शिरा राजन् प्राप्तोऽस्मि नरकं प्रभो॥ ब्राह्मणं वृद्धमाचार्यं न्यस्तशस्त्रं महामुनिम्। घातयित्वाद्य राज्यार्थे मृतं श्रेयो न जीवितम्॥ संजय उवाच ततः स कदनं चक्रे रिपूणां द्रोणनन्दनः। युगान्ते सर्वभूतानां कालसृष्ट इवान्तकः॥ ध्वजदुमं शस्त्रशृङ्गं हतनागमहाशिलम्। अश्वकिंपुरुषाकीर्णं शरासनलतावृतम्॥ क्रव्यादपक्षिसंघुष्टं भूतयक्षगणाकुलम्। निहत्य शात्रवान् भल्लैः सोऽचिनोद् देहपर्वतम्॥ ततो वेगेन महता विनद्य स नरर्षभः। प्रतिज्ञां श्रावयामास पुनरेव तवात्मजम्॥ यस्माद् युध्यन्तमाचार्य धर्मकञ्चुकमास्थितः। मुञ्च शस्रमिति प्राह कुन्तीपुत्रो युधिष्ठिरः॥ तस्मात् सम्पश्यतस्तस्य द्रावयिष्यामि वाहिनीम्। विद्राव्य सर्वान् हन्तास्मि जाल्मं पाझाल्यमेव तु॥ सर्वानेतान् हनिष्यामि यदि योत्स्यन्ति मा रणे। सत्यं ते प्रतिजानामि परिवर्तय वाहिनीम्॥ तच्छ्रुत्वा तव पुत्रसतु वाहिनीं पर्यवर्तयत्। सिंहनादेन महता व्यपोह्य सुमहद् भयम्॥ ततः समागमो राजन् कुरुपाण्डवसेनयोः। पुनरेवाभवत् तीव्रः पूर्णसागरयोरिव॥ संरब्धा हि स्थिरीभूता द्रोणपुत्रेण कौरवाः। उदग्राः पाण्डुपञ्चाला द्रोणस्य निधनेन च॥ तेषां परमहृष्टानां जयमात्मनि पश्यताम्। संरब्धानां महावेगः प्रादुरासीद् विशाम्पते॥ यथा शिलोच्चये शैलः सागरे सागरो यथा। प्रतिहन्येत राजेन्द्र तथाऽऽसन् कुरुपाण्डवाः॥ ततः शङ्खसहस्राणि भेरीणामयुतानि च। अवादयन्त संहृष्टाः कुरुपाण्डवसैनिकाः॥ यथा निर्मथ्यमानस्य सागरस्य तु निःस्वनः। अभवत् तव सैन्यस्य सुमहानद्भुतोपमः॥ प्रादुश्चक्रे ततो द्रौणिरस्त्रं नारायणं तदा। अभिसंधाय पाण्डूनां पञ्चालानां च वाहिनीम्॥ प्रादुरासंस्ततो बाणा दीप्ताग्राः खे सहस्रशः। पाण्डवान् क्षपयिष्यन्तो दीप्तास्याः पन्नगा इव॥ दिशः खं च सैन्यं च समावृण्वन् महाहवे। मुहूर्ताद् भास्करस्येव लोके राजन् गभस्तयः॥ तथापरे द्योतमाना ज्योतीषीवामलाम्बरे। प्रादुरासन् महाराज कार्णायसमया गुडाः॥ चतुश्चक्रा द्विचक्राश्च शतघ्यो बहुला गदाः। चक्राणि च क्षुरान्तानि मण्डलानीव भास्वतः॥ शस्राकृतिभिराकीर्णमतीव पुरुषर्षभ। दृष्ट्वान्तरिक्षमाविग्नाः पाण्डुपाञ्चालसृञ्जयाः॥ यथा यथा ह्युयुध्यन्त पाण्डवानां महारथाः। तथा तथा तदस्रं वै व्यवर्धत जनाधिप॥ वध्यमानास्तदास्त्रेण तेन नारायणेन वै। दह्यमानानलेनेव सर्वतोऽभ्यर्दिता रणे॥ यथा हि शिशिरापाये दहेत् कक्षं हुताशनः। तथा तदस्रं पाण्डूनां ददाह ध्वजिनीं प्रभो॥ आपूयर्ममाणेनास्त्रेण सैन्ये क्षीयति च प्रभो। जगाम परमं त्रासं धर्मपुत्रो युधिष्ठिरः॥ द्रवमाणं तु तत् सैन्यं दृष्ट्वा विगतचेतनम्। मध्यस्थतां च पार्थस्य धर्मपुत्रोऽब्रवीदिदम्॥ सात्यके त्वं च गच्छस्व वृष्ण्यन्धकवृतो गृहान्॥ वासुदेवोऽपि धर्मात्मा करिष्यत्यात्मनः क्षमम्। श्रेयो ह्यपदिशत्येष लोकस्य किमुतात्मनः॥ संग्रामस्तु न कर्तव्यः सर्वसैन्यान् ब्रवीमि वः। अहं हि सह सौदर्येः प्रवेक्ष्ये हव्यवाहनम्॥ भीष्मद्रोणार्णवं तीर्खा संग्रामे भीरुदुस्तरे। विमजिष्यामि सलिले सगणो द्रौणिगोष्पदे॥ कामः सम्पद्यतामस्य बीभत्सोराशु मा प्रति। कल्याणवृत्तिराचार्यो मया युधि निपातितः॥ येन बालः स सौभद्रो युद्धानामविशारदः। समर्थैर्बहुभिः क्रूरैर्घातितो नाभिपालितः॥ येनामिब्रुवता प्रश्नं तथा कृष्णा सभां गता। उपेक्षिता सपुत्रेण दासभावं नियच्छती॥ जिघांसुर्धार्तराष्ट्रश्च श्रान्तेष्वश्वेषु फाल्गुनम्। कवचेन तथा गुप्तो रक्षार्थं सैन्धवस्य च॥ येन ब्रह्मास्रविदुषा पञ्चालाः सत्यजिन्मुखाः। कुर्वाणा मजये यत्न समूला विनिपातिताः॥ येन प्रव्राज्यमानाच राज्याद् वयमधर्मतः। निवार्यमाणा नु वयं नानुयातास्तदैषिणः॥ योऽसावत्यन्तमस्मासु कुर्वाणः सौहृदं परम्। हतस्तदर्थे मरणं गमिष्यामि सबान्धवः॥ एवं ब्रुवति कौन्तेये दाशार्हस्त्वरितस्ततः। निवार्य सैन्यं बाहुभ्यामिदं वचनमब्रवीत्॥ शीघ्रं न्यस्यत शस्त्राणि वाहेभ्यश्चावरोहत। एष योगोऽत्र विहितः प्रतिषेधे महात्मना॥ द्विपाश्वस्यन्दनेभ्यश्च क्षितिं सर्वेऽवरोहत। एवमेतन्न वो हन्यादस्त्रं भूमौ निरायुधान्॥ यथा यथा हि युध्यन्ते योधा ह्यस्रमिदं प्रति। तथा तथा भवन्त्येते कौरवा बलवत्तराः॥ निक्षेपस्यन्ति च शस्राणि वाहनेभ्योऽवरुह्य ये। तान्नैतदत्रं संग्रामे निहनिष्यति मानवान्॥ ये त्वेतत्प्रतियोत्स्यन्ति मनसापीह केचन। निहनिष्यति तान् सर्वान् रसातलगतानपि॥ ते वचस्तस्य तच्छ्रुत्वा वासुदेवस्य भारत। ईषुः सर्वे समुत्स्रष्टुं मनोभिः करणेन च॥ तत उत्स्स्रष्टुकामांस्तानस्राण्यालक्ष्य पाण्डवः। भीमसेनोऽब्रवीद् राजन्निदं संहर्षयन् वचः॥ न कथंचन शस्राणि मोक्तव्यानीह केनचित्। अहमावारयिष्यामि द्रोणपुत्रास्रमाशुगैः॥ गदयाप्यनया गुा हेमविग्रहया रणे। कालवत् प्रहरिष्यामि द्रौणेरस्त्रं विशातयन्॥ न हि मे विक्रमे तुल्यः कश्चिदस्ति पुमानिह। यथैव सवितुस्तुल्यं ज्योतिरन्यन्न विद्यते॥ पश्यतेमौ हि मे बाहू नागराजकरोपमौ। समर्थौ पर्वतस्यापि शैशिरस्य निपातने॥ नागायुतसमप्राणो ह्यहमेको नरेष्विह। शको यथाप्रतिद्वन्द्वो दिवि देवेषु विश्रुतः॥ अद्य पश्यत मे वीर्यं बाह्वोः पीनांसयोर्युधि। ज्वलमानस्य दीप्तस्य द्रौणेरस्त्रस्य वारणे॥ यदि नारायणास्रस्य प्रतियोद्धा न विद्यते। अद्यैतत् प्रतियोत्स्यामि पश्यत्सु कुरुपाण्डुषु॥ अर्जुनार्जुन बीभत्सो न न्यस्यं गाण्डिवं त्वया। शशाङ्कस्येव ते पङ्को नैर्मल्यं पातयिष्यति॥ अर्जुन उवाच भीम नारायणस्त्रे मे गोषु च ब्राह्मणेषु च। एतेषु गाण्डिवं न्यस्यमेतद्धि व्रतमुत्तमम्॥ संजय उवाच एवमुक्तस्ततो भीमो द्रोणपुत्रमरिंदमम्। अभ्ययान्मेघघोषेण रथेनादित्यवर्चसा॥ य एनमिषुजालेन लघुत्वाच्छीघ्रविक्रमः। निमेषमात्रेणासाद्य कुन्तीपुत्रोऽभ्यवाकिरत्॥ ततो द्रौणिः प्रहस्यैनं द्रवन्तमभिभाष्य च। अवाकिरत् प्रदीप्ताग्रैः शरैस्तैरभिमन्त्रितैः॥ पन्नगैरिव दीप्तास्यैर्वमद्भिर्व्वलनं रणे। अवकीर्णोऽभवत् पार्थः स्फुलिङ्गैरिव काञ्चनैः॥ तस्य रूपमभूद् राजन् भीमसेनस्य संयुगे। खद्योतैरावृतस्येव पर्वतस्य दिनक्षये॥ तदस्रं द्रोणपुत्रस्य तस्मिन् प्रतिसमस्यति। अवर्धत महाराज यथाग्निरनिलोद्धतः॥ विवर्धमानमालक्ष्य तदा भीमविक्रमम्। पाण्डुसैन्यमृते भीमं समहद् भयमाविशत्॥ ततः शस्त्राणि ते सर्वे अवारोहन रथेभ्यश्च हस्त्यश्वेभ्यश्च सवशः॥ तेषु निक्षिप्तशस्त्रेषु वाहनेभ्यश्च्युतेषु च। तदस्रवीर्यं विपुलं भीममूर्धन्यथापतत्॥ समुत्सृज्य महीतले। हाहाकृतानि भूतानि पाण्डवाश्च विशेषतः। भीमसेनमपश्यन्त तेजसा संवृतं तथा॥ संजय उवाच भीमसेनं समाकीर्णं दृष्ट्वास्रेण धनंजयः। तेजसः प्रतिघातार्थं वारुणेन समावृणोत्॥ नालक्षयत तत् कश्चिद् वारुणास्रेण संवृतम्। अर्जुनस्य लघुत्वाच संवृतत्वाच तेजसः॥ साश्वसूतरथो भीमो द्रोणपुत्रास्रसंवृतः। अग्नावग्निरिव न्यस्तो ज्वालामाली सुदुर्दशः॥ यथा रात्रिक्षये राजन् ज्योतीष्यस्तागिरि प्रति। समापेतुस्तथा बाणा भीमसेनरथं प्रति॥ स हि भीमो रथश्चास्य हयाः सूतश्च मारिष। संवृता द्रोणपुत्रेण पावकान्तर्गताऽभवन्॥ यथा दग्ध्वा जगत् कृत्स्नं समये सचराचरम्। गच्छेद् वह्निर्विभोरास्यं तथास्रं भीममावृणोत्॥ सूर्यमग्निः प्रविष्टः स्याद् यथा चाग्निं दिवाकरः। तथा प्रविष्टं तत् तेजो न प्राज्ञायत पाण्डवः॥ विकीर्णमस्रं तद् दृष्ट्वा तथा भीमरथं प्रति। उदीर्यमाणं द्रौणिं च निष्प्रतिद्वन्द्वमाहवे॥ सर्वसैन्यं च पाण्डूनां न्यस्तशस्रमचेतनम्। युधिष्ठिरपुरोगांश्च विमुखांस्तान् महारथान्॥ अर्जुनो वासुदेवश्च त्वरमाणौ महाद्युती। अवप्लुत्य रथाद् वीरौ भीममाद्रवतां ततः॥ ततस्तद् द्रोणपुत्रस्य तेजोऽस्रबलसम्भवम्। विगाह्य तौ सुबलिनौ माययाऽऽविशतां तथा॥ न्यस्तशस्त्रौ ततस्तौ तु नादहत् सोऽस्रजोऽनलः। वारुणास्रप्रयोगाच वीर्यवत्वाच कृष्णयोः॥ ततश्चकृषतुर्भीमं सर्वशस्त्रायुधानि च। नारायणास्रशान्त्यर्थं नरनारायणौ बलात्॥ आकृष्यमाणः कौन्तेयो नदत्येव महारवम्। वर्धते चैव तद् घोरं द्रौणेरस्त्रं सुदुर्जयम्॥ तमब्रवीद वासुदेवः किमिदं पाण्डुनन्दन। वार्यमाणोऽपि कौन्तेय यद् युद्धान्न निवर्तसे॥ यदि युद्धेन जेयाः स्युरिमे कौरवनन्दनाः। वयमप्यव युध्येम तथा चेमे नरर्षभाः॥ रथेभ्यस्त्ववतीर्णाः स्म सर्व एव हि तावकाः। तस्मात् त्वमपि कौन्तेय रथात् तूर्णमपाक्रम॥ एवमुक्त्वा तु तं कृष्णो रथाद् भूमिमवर्तयत्। निःश्वसन्तं यथा नागं क्रोधसंरक्तलोचनम्॥ यदपकृष्टः स रथान्नयासितश्चायुधं भुवि। ततो नारायणास्रं तत् प्रशान्तं शत्रुतापनम्॥ संजय उवाच तस्मिन् प्रशान्ते विधिना तेन तेजसि दुःसहे। बभूवुर्विमलाः सर्वा दिशः प्रदिश एव च॥ प्रववुश्च शिवा वाताः प्रशान्ता मृगपक्षिणः। वाहनानि च हृष्टानि प्रशान्तेऽस्त्रे सुदुर्जये॥ व्यपोढे च ततो घोरे तस्मिस्तेजसि भारत। बभौ भीमो निश्पाये धीमान् सूर्य इवोदितः॥ हतशेषं बलं तत् तु पाण्डवानामतिष्ठत। अस्रव्युपरमासृष्टं तव पुत्रजिघांसया॥ व्यवस्थिते बले तस्मिन्नने प्रतिहते तथा। दुर्योधनो महाराज द्रोणपुत्रमथाब्रवीत्॥ अश्वत्थामन् पुनः शीघ्रमस्त्रमेतत् प्रयोजय। अवस्थिता हि पञ्चालाः पुनरेते जयैषिणः॥ अश्वत्थामा तथोक्तस्तु तव पुत्रेण मारिष। सुदीनमभिनिःश्वस्य राजानमिदमब्रवीत्॥ आवृतं हि निवर्तेत प्रयोक्तारं न संशयः॥ एष चास्रप्रतीघातं वासुदेवः प्रयुक्तवान्। अन्यथा विहितः संख्ये वधः शत्रोर्जनाधिप॥ पराजयो वा मृत्युर्वा श्रेयान् मृत्युन निर्जयः। विजिताश्चारयो होते शस्रोत्सर्गान्मृतोपमाः॥ दुर्योधन उवाच आचार्यपुत्र यद्येतद् द्विरस्त्रं न प्रयुज्यते। अन्यैर्गुरुघ्ना वध्यन्तामस्त्रैरस्त्रविदां वर॥ त्वयि शस्राणि दिव्यानि त्र्यम्बके चामितौजसि। इच्छतो न हि ते मुच्येत् संक्रुद्धो हि पुरंदरः॥ धृतराष्ट्र उवाच तस्मिन्नने प्रतिहते द्रोणे चोपधिना हते। तथा दुर्योधनेनोक्तो द्रौणिः किमकरोत् पुनः॥ दृष्ट्वा पार्थांश्च संग्रामे युद्धाय समुपस्थितान्। नारायणास्रनिर्मुक्तांश्चरतः पृतनामुखे॥ संजय उवाच जानन् पितुः स निधनं सिंहलाङ्गुलकेतनः। सक्रोधो भयमुत्सृज्य सोऽभिदुद्रावे पार्षतम्॥ अभिद्रुत्य च विंशत्या क्षुद्रकाणां नरर्षभ। पञ्चभिश्चातिवेगेन विव्याध पुरुषर्षभः॥ धृष्टद्युम्नस्ततो राजन् ज्वलन्तमिव पावकम्। द्रोणपुत्रं त्रिषष्ट्या तुराजन् विव्याध पत्रिणाम्॥ सारथिं चास्य विंशत्या स्वर्णपुङ्खः शिलाशितैः। हयांश्च चतुरोऽविध्यचतुर्भिनिशितैः शरैः॥ विद्धवा विद्ध्वानदद् द्रौणिं कम्पयन्निव मेदिनीम्। आददे सर्वलोकस्य प्राणानिव महारणे॥ पार्षतस्तु बली राजन् कृतास्रः कृतनिश्चयः। द्रौणिमेवाभिदुद्राव मृत्युं कृत्वा निवर्तनम्॥ ततो बाणमयं वर्षं द्रोणपुत्रस्य मूर्धनि। अवासृजदमेयात्मा पाञ्चाल्यो रथिनां वरः॥ तं द्रौणिः समरे क्रुद्धं छादयामास पत्रिभिः। विव्याध चैनं दशभिः पितुर्वधमनुस्मरन्। ४१॥ द्वाभ्यां च सुविसृष्टाभ्यां क्षाभ्यां ध्वजकार्मुके। छित्त्वा पाञ्चालराजस्य द्रौणिरन्यैः समार्दयत्॥ व्यश्वसूतरथं चैनं द्रौणिश्चक्रे महाहवे। तस्य चानुचरान् सर्वान् क्रुद्धः प्राद्रावयच्छरैः॥ ततः प्रदुद्रवे सैन्यं पाञ्चालानां विशाम्पते। सम्भ्रान्तरूपमार्तं च न परस्परमैक्षत॥ दृष्ट्वातु विमुखान् योधान् धृष्टद्युम्नं च पीडितम्। शैनेयोऽचोदयत् तूर्णं रथं द्रौणिरथं प्रति॥ अष्टभिर्निशितैर्बाणैरश्वत्थामानमार्दयत्। विंशत्या पुनराहत्य नानारूपैरमर्षणः॥ विव्याध च तथा सूतं चतुर्भिश्चतुरो हयान्। धनुर्ध्वजं च संयत्तश्चिच्छेद कृतहस्तवत्॥ स साश्वं व्यधमचापि रथं हेमपरिष्कृतम्। हृदि विव्याध समरे त्रिंशता सायकैभृशम्॥ एवं स पीडितो राजन्नश्वत्थामा महाबलः। शरजालैः परिवृतः कर्तव्यं नान्वपद्यत॥ एवं गते गुरोः पुत्रे तव पुत्रो महारथः। कृपकर्णादिभिः सार्धं शरैः सात्वतमावृणोत्॥ दुर्योधनस्तु विंशत्या कृपः शारद्वतस्रिभिः। कृतवर्माथ दशभिः कर्णः पञ्चाशता शरैः॥ दुःशासनः शतेनैव वृषसेनश्च सप्तभिः। सात्यकि विव्यधुस्तूर्णं समन्तान्निशितैः शरैः॥ ततः स सात्यकी राजन् सर्वानेव महारथान्। विरथान् विमुखांश्चैव क्षणेनैवाकरोन्नृप॥ अश्वत्थामा तु सम्प्राप्य चेतनां भरतर्षभ। चिन्तयामास दुःखार्ता निःश्वसंश्च पुनः पुनः॥ अथो स्थान्तरं द्रौणिः समारुह्य परंतपः। सात्यकिं वारयामास किरशरशतान् बहून्॥ तमापतन्तं सम्प्रेक्ष्य भारद्वाजसुतं रणे। विरथं विमुखं चैव पुनश्चक्रे महारथः॥ ततस्ते पाण्डवा राजन् दृष्ट्वा सात्यकिविक्रमम्। शङ्खशब्दान् भृशं चक्रुः सिंहनादांश्च नेदिरे॥ एवं तं विरथं कृत्वा सात्यकिः सत्यविक्रमः। जघान वृषसेनस्य त्रिसाहस्रान् महारथान्॥ निजधान सः। अयुतं दन्तिनां साधु कृपस्य पञ्चायुतानि चाश्वानां शकुनेर्निजघान ह॥ ततो द्रौणिर्महाराज रथमारुह्य वीर्यवान्। सात्यकिं प्रतिसंक्रुद्धः प्रययौ तद्वधेप्सया॥ पुनस्तमागतं दृष्ट्वा शैनेयिा निशितैः शरैः। अदारयत् क्रूरतरैः पुन: पुनररिंदम॥ सोऽतिविद्धो महेष्वासौ नानालिङ्गैरमर्षणः। युयुधानेन वै द्रौणिः प्रहसन् वाक्यमब्रवीत्॥ शैनेयाभ्युपपत्तिं ते जानाम्याचार्यघातिनि। न चैनं त्रास्यसि मया ग्रस्तमात्मानमेव च॥ शपेऽऽत्मनां शैनेय सत्येन तपसा तथा। अहत्वा सर्वपाञ्चालान् यदि शान्तिमहं लभे॥ यद् बलं पाण्डवेयानां वृष्णीनामपि यद् बलम्। क्रियतां सर्वमेवेह निहनिष्यामि सोमकान्॥ एवमुक्त्वार्करश्म्याभं सुतीक्ष्णं तं शरोत्तमम्। व्यसृज्यत् सात्वते द्रौणिर्वज्रं वृत्रे यथा हरिः॥ स तं निर्भिद्य तेनास्तः सायकः सशरावरम्। विवेश वसुधा भित्त्वा श्वसन् बिलमिवोरगः॥ स भिन्नकवचः शूरस्तोत्रादित इव द्विपः। विमुच्य सशरं चायं भूरिव्रणपरिस्रवः॥ सीदन् रुधिरसिक्तश्च रथोपस्थ उपाविशत्। सूतेनापहृतस्तूर्णं द्रोणपुत्राद् रथान्तरम्॥ अथान्येन सुपुढेन शरेणानतपर्वणा। आजधान भ्रुवोर्मध्ये धृष्टद्युम्नं परंतपः॥ स पूर्वमतिविद्धश्च भृशं पश्चाच पीडितः। ससादाथ च पाञ्चाल्यो व्यपाश्रयत च ध्वजम्॥ तं नागमिव सिंहेन दृष्ट्वा राजशरादितम्। जवेनाभ्यद्रवञ्छूराः पञ्च पाण्डवतो रथाः॥ किरीटी भीमसेनश्च वृद्धक्षत्रश्च पौरवः। युवराजश्च चेदीनां मालवश्च सुदर्शनः॥ एते हाहाकृताः सर्वे प्रगृहीतशरासनाः। वीरं द्रौणायनिं वीराः सर्वतः पर्यवारयन्॥ ते विंशतिपदे यत्ता गुरुपुत्रममर्षणम्। पञ्चभिः पञ्चभिर्बाणैरभ्यजन् सर्वतः समम्॥ आशीविषाभैर्विंशत्या पञ्चभिस्तु शितैः शरैः। चिच्छेद युगपद् द्रौणिः पञ्चविंशतिसायकान्॥ सप्तभिस्तु शितैर्बाणैः पौरवं द्रौणिरादयत्। मालवं त्रिभिरेकेन पार्थं षड्भिर्वृकोदरम्॥ ततस्ते विव्यधुः सर्वे द्रौणिं राजन् महारथाः। युगपच पृथक् चैव रुक्मपुत्रैः शिलाशितैः॥ युवराजश्च विंशत्या द्रौणिं विव्याध पत्रिभिः। पार्थश्च पुनरष्टाभिस्तथा सर्वे त्रिभित्रिभिः॥ ततोऽर्जुनं षड्भिरथाजधान द्रौणायनिर्दशभिर्वासुदेवम्। भ्यां द्वाभ्यां मालवं पौरवं च॥ भ्यां विद्ध्वा कार्मुकं च ध्वजं चा पुनः पार्थं शरवप्रेण विद्ध्वा द्रौणिोरं सिंहनादं ननाद॥ तस्यास्यतस्तान् निशितान् पीतधारान् द्रौणे: शरान् पृष्ठतश्चाग्रतश्चा धरा वियद् द्यौः प्रदिशो दिशश्च च्छन्ना बाणैरभवन् घोररूपैः॥ आसन्नस्य स्वरथं तीव्रतेजाः। सुदर्शनस्येन्द्रकेतुप्रकाशौ। सिभिः शरैर्युगपत् संचकर्त॥ स पौरवं रथशक्त्या निहत्य छित्त्वा रथं तिलशश्चास्य बाणैः। छित्त्वा च बाहू वरचन्दनाक्ती भल्लेन कायाच्छिर उच्चकर्त॥ युवानमिन्दीवरदामवर्णं चेदिप्रभुं युवराज प्रसह्या विद्ध्वा प्रादान्मृत्यवे साश्वसूतम्॥ पालवं पौरवं चैव युवराजं च चेदिपम्। दृष्ट्वा समक्षं निहतं द्रोणपुत्रेण पाण्डवः॥ भीमसेनो महाबाहुः क्रोधमाहारयत् परम्। ततः शरशतैस्तीक्ष्णैः संक्रुद्धाशीविषोपमैः॥ छादयामास समरे द्रोणपुत्रं परंतपः। ततो द्रौणिर्महातेजाः शरवर्षं निहत्य तम्॥ विव्याध निशितैर्बाणैर्भीमसेनममर्षणः। ततो भीमो महावाहुयॊणेर्युधि महाबलः॥ क्षुरप्रेण धनुश्छित्त्वा द्रौणिं विव्याध पत्रिणा। तदपास्य धनुश्छिन्नं द्रोणपुत्रो महामनाः॥ अन्यत् कार्मुकमादाय भीमं विव्याध पत्रिभिः। तौ द्रौणिभीमौ समरे पराक्रान्तौ महाबलौ॥ अवर्षतां शरवर्षं वृष्टिमन्ताविवाम्बुदौ। भीमनामाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः॥ द्रौणिं संछादयामासुर्घनौघा इव भास्करम्। तथैव द्रौणिनिर्मुक्तैर्भीमः संनतपर्वभिः॥ अवाकीर्यत स क्षिप्रं शरैः शतसहस्रशः। स च्छाद्यमानः समरे द्रौणिना रणशालिना॥ न विव्यथे महाराज तदद्भुतमिवाभवत्। ततो भीमो महाबाहुः कार्तस्वरविभूषितान्॥ नाराचान् दश सम्प्रैषीद् यमदण्डनिभाञ्छितान्। ते जत्रुदेशमासाद्य द्रोणपुत्रस्य मारिष॥ निर्भिद्य विविशुस्तूर्णं वल्मीकमिव पन्नगाः। सोऽतिविद्धो भृशं द्रौणिः पाण्डवेन महात्मना॥ ध्वजयष्टिं समासाद्य न्यमीलयत लोचने। स मुहूर्तात् पुनः संज्ञांलब्वा द्रौणिर्नराधिप॥ क्रोधं परममातस्थौ समरे रुधिरोक्षितः। दृढं सोऽभिहतस्तेन पाण्डवेन महात्मना॥ वेगं चक्रे महाबाहुर्भीमसेनस्थं प्रति। तत आकर्णपूर्णानां शराणां तिग्मतेजसाम्॥ शतमाशीविषाभानां प्रेषयामास भारत। भीमोऽपि समरश्लाघी तस्य वीर्यमचिन्तयन्॥ तूर्णं प्रासृजदुग्राणि शरवर्षाणि पाण्डवः। ततो द्रौणिर्महाराज छित्त्वास्य विशिखैर्धनुः॥ आजघानोरसि क्रुद्धः पाण्डवं निशितैः शरैः। ततोऽन्यद् धनुरादाय भीमसेनो ह्यमर्षणः॥ विव्याध निशितैर्बाणैौणिं पञ्चभिराहवे। जीमूताविव धर्मान्ते तो शरौघप्रवर्षिणौ॥ अन्योन्यक्रोधताम्राक्षौ छादयामासतुर्युधि। तलशब्दैस्ततो घोरैस्रासयन्तौ परस्परम्॥ अयुध्येतां सुसंरब्धौ कृतप्रतिकृतैषिणौ। ततो विस्फार्य सुमहचापं रुक्मविभूषितम्॥ भीमं प्रेक्षत स द्रौणिः शरानस्यन्तमन्तिकात्। शरद्यहर्मध्यगतो दीप्तार्चिरिव भास्करः॥ आददानस्य विशिखान् संदधानस्य चाशुगान्। विकर्षतो मुञ्चतश्च नान्तरं ददृशुर्जनाः॥ अलातचक्रप्रतिमं तस्य मण्डलमायुधम्। द्रौणेरासीन्महाराज बाणान् विसृजतस्तदा॥ धनुश्च्युताः शरास्तस्य शतशोऽथ सहस्रशः। आकाशे प्रत्यदृश्यन्त शलभानामिवायतीः॥ ते तु द्रौणिविनिर्मुक्ताः शरा हेमविभूषिताः। अजसमन्वकीर्यन्त घोरा भीमरथं प्रति॥ तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम्। बलं वीर्यं प्रभावं च व्यवसायं च भारत॥ तां स मेघादिवोद्भूतां बाणवृष्टिं समन्ततः। जलवृष्टिं महाघोरां तपान्त इव चिन्तयन्॥ द्रोणपुत्रवधप्रेप्सुर्भीमो भीमपराक्रमः। अमुञ्चच्छरवर्षाणि प्रावृषीव बलाहकः॥ तद् रुक्मपृष्ठं भीमस्य धनुर्घोरं महारणे। विकृष्यमाणं विबभौ शक्रचापमिवापरम्॥ तस्माच्छराः प्रादुरासञ्छतशोऽथ सहस्रशः। संछादयन्तः समरे द्रौणिमाहवशोभिनम्॥ तयोर्विसृजतोरेवं शरजालानि मारिष। वायुरप्यन्तरा राजन् नाशक्नोत् प्रतिसर्पितुम्॥ तथा द्रौणिर्महाराज शरान् हेमविभूषितान्। तैलधौतान् प्रसन्नाग्रान् प्राहिणोद् वधकासया॥ तानन्तरिक्षे विशिखैसिधैकैकमशातयत्। विशेषयन् द्रोणसुतं तिष्ठ तिष्ठेति चाब्रवीत्॥ पुनश्च शरवर्षाणि घोराण्युग्राणि पाण्डवः। व्यसृजद् बलवान् क्रुद्धो द्रोणपुत्रवधेप्सया॥ ततोऽसमायया तूर्णं शरवृष्टिं निवार्य ताम्। धनुश्चिच्छेद भीमस्य द्रोणपुत्रो महास्त्रवित्॥ शरैश्चैनं सुबहुभिः क्रुद्धः संख्ये पराभिनत्। स छिन्नधन्वा बलवान् रथशक्तिं सुदारुणम्॥ वेगेनाविध्य चिक्षेप द्रोणपुत्ररथं प्रति। तामापतन्ती सहसा महोल्काभां शितैः शरैः॥ चिच्छेद समरे द्रौणिर्दर्शयन् पाणिलाघवम्। एतस्मिन्नन्तरे भीमो दृढमादाय कार्मुकम्॥ द्रौणिं विव्याध विशिखैः स्मयमानो वृकोदरः। ततो द्रौणिर्महाराज भीमसेनस्य सारथिम्॥ ललाटे दारयामास शरेणानतपर्वणा। सोऽतिविद्धो बलवता द्रोणपुत्रेण सारथिः॥ व्यामोहमगमद् राजन् रश्मीनुत्सृज्यवाजिनाम्। ततोऽश्वाः प्राद्रवंस्तूर्णं मोहिते रथसारथौ॥ भीमसेनस्य राजेन्द्र पश्यतां सर्वधन्विनाम्। तं दृष्ट्वा प्रद्रुतै प्रद्रुतैरश्वैरपकृष्टं रणाजिरात्॥ दध्मौ प्रमुदितः शङ्ख बृहन्तमपराजितः। तत: सर्वे च पञ्चाला भीमसेनश्च पाण्डवः॥ धृष्टद्युम्नरथं त्यक्त्वा भीताः सम्प्राद्रवन् दिशः। तान् प्रभग्नांस्ततो द्रौणिः पृष्ठतो विकिरशरान्॥ अभ्यवर्तत वेगेन कालयन् पाण्डुवाहिनीम्। ते वध्यमानाः समरे द्रोणपुत्रेण पार्थिवाः॥ द्रोणपुत्रभयाद् राजन् दिश: सर्वाश्च भेजिरे॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवी सरस्वतीं व्यासं ततो जयमुदीरयेत्॥ वैशम्पायन उवाच ततो द्रोणे हते राजन् दुर्योधनमुखा नृपाः। भृशमुद्विग्नमनसो द्रोणपुत्रमुपागमन्॥ ते द्रोणमनुशोचन्तः कश्मलाभिहतौजसः। पर्युपासन्त शोकार्तास्ततः शारद्वतीसुतम्॥ ते मुहूर्त समाश्वस्य हेतुभिः शास्त्रसम्मितैः। रात्र्यागमे महीपालाः स्वानि वेश्मानि भेजिरे॥ ते वेश्मस्वपि कौरव्य पृथ्वीशानाप्नुवन् सुखम्। चिन्तयन्तः क्षयं तीवं दुःखशोकसमन्विताः॥ विशेषत: सूतपुत्रो राजा चैव सुयोधनः। दुःशासनश्च शकुनिः सौबलश्च महाबलः॥ दुःशासनश्च निशां तां तु दुर्योधननिवेशने। चिन्तयन्तः परिक्लेशान् पाण्डवानां महात्मनाम्॥ यत् तद्यूते परिविष्टा कृष्णा चानायिता सभाम्। तत् स्मरन्तोऽनुशोचन्तो भृशमुद्विग्नचेतसः॥ तथा तु संचिन्तयतां तान् केशान् द्यूतकारितान्। दुःखेन क्षणदा राजन् जगामाब्दशतोपमा॥ ततः प्रभाते विमले स्थिता दिष्टस्य शासने। चक्रुरावश्यकं सर्वे विधिद्दष्टेन कर्मणा॥ कृत्वावश्यकार्याणि समाश्वस्य च भारत। योगमाज्ञापयामासुयुद्धाय च विनिर्ययुः॥ ते कर्णं सेनापतिं कृत्वा कृतकौतुकमङ्गलाः। पूजायित्वा द्विजश्रेष्ठान् दधिपात्रघृताक्षतैः॥ गोभिरश्चैश्च निष्कैश्च वासोभिश्च महाधनैः। वन्धमाना जयाशीर्भिः सूतमागधवन्दिभिः॥ तथैव पाण्डवा राजन् कृतपूर्वाह्निकक्रियाः। शिबिरान्निर्ययुस्तूर्णं युद्धाय कृतनिश्चयाः॥ ततः प्रववृते युद्धं तुमुलं लोमहर्षणम्। कुरूणां पाण्डवानां च परस्परजयैषिणाम्॥ तयोर्दी दिवसो युद्धं कुरुपाण्डवसेनयोः। कर्णे सेनापतौ राजन् बभूवाद्भुतदर्शनम्॥ ततः शत्रुक्ष्यं कृत्वा समुहान्तं रणे वृषः। पश्वतां धार्तराष्ट्राणां फाल्गुनेन निपातितः॥ ततस्तु संजयः सर्वे गत्वा नागपुरं द्रुतम्। आचष्ट धृतराष्ट्राय यद् वृत्तं कुरुजाङ्गले॥ जनमेजय उवाच आपगेयं हतं श्रुत्वा द्रोणं चापि महारथम्। आजगाम परामार्तिं वृद्धो राजाऽम्बिकासुतः॥ स श्रुत्वा निहतं कर्णं दुर्योधनहितैषिणम्। कथं द्विजवर प्राणानधारयत दुःखितः॥ यस्मिञ्जयाशां पुत्राणां सममन्यत पार्थिवाः। तस्मिन् हते स कौरव्यः कथं प्राणानधारयत्॥ दुर्मरं तदहं मन्ये नृणां कृच्छ्रेऽपि वर्तताम्। यत्र कर्णं हतं श्रुत्वा नात्यजजीवितं नृपः॥ तथा शान्तनवं वृद्धं ब्रह्मन् बाह्रीकमेव च। द्रोण च सोमदत्तं च भूरिश्रवसमेव च॥ तथैव चान्यान् सुहृदः पुत्रान् पौत्रांच पातितान्। श्रुत्वा यन्नाजहात् प्राणां स्तन्मन्ये दुष्करं द्विज॥ एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने। न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्॥ वैशम्पायन उवाच हते कर्णे महाराज निशि गावल्गणिस्तदा। दीनो ययौ नागपुरमश्वैर्वातसमैर्जवे॥ स हास्तिनपुरं गत्वा भृशमुद्विग्नचेतनः। जगाम धृतराष्ट्रस्य क्षयं प्रक्षीणबान्धवम्॥ स तमुवीक्ष्य राजानं कश्मलाभिहतौजसम्। ववन्दे प्राञ्जलिर्भूत्वा मूर्धा पादौ नृपस्य ह॥ सम्पूज्य च यथान्यायं धृतराष्ट्रं महीपतिम्। हा कष्टमिति चोक्त्वा स ततो वचनमाददे॥ संजयोऽहं क्षितिपते कचिदास्ते सुखं भवान्। स्वदोषैरापदं प्राप्य कचिन्नाद्य विमुह्यति॥ हितान्युक्तानि विदुरद्रोणगाङ्गेयकेशवैः। अगृहीतान्यनुस्मृत्य कचिन्न कुरुषे व्यथाम्॥ रामनारदकण्वाद्यैर्हितमुक्त सभातले। न गृहीतमनुस्मृत्य कचिन्न कुरुषे व्यथाम्॥ सुहृदस्त्वद्धिते युक्तान् भीष्मद्रोणमुखान् परैः। निहतान् युधि संस्मृत्य कचिन्न कुरुषे व्यथाम्॥ तमेवंवादिनं राजा सूतपुत्रं कृताञ्जलिम्। सुदीर्घमथ निःश्वस्य दुःखात इदमब्रवीत्॥ धृतराष्ट्र उवाच आपगेये हते शूरे दिव्यास्त्रवति संजय। द्रोणे च परमेष्वासे भृशं मे व्यथितं मनः॥ यो रथानाह सहस्राणि दंशितानां दशैव तु। अहन्यहनि तेजस्वी निजघ्ने वसुसम्भवः॥ तं हतं यज्ञसेनस्य पुत्रेणेह शिखण्डिना। पाण्डवेयाभिगुप्तेन श्रुत्वा मे व्यथितं मनः॥ भार्गवः प्रददौ यस्मै परमास्त्रं महाहवे। साक्षाद् रामेण यो बाल्ये धनुर्वेद उपाकृतः॥ यस्य प्रसादात् कौन्तेया राजपुत्र महारथाः। महारथत्वं सम्प्राप्तास्तथान्ये वसुधाधिपाः॥ तं द्रोण निहतं श्रुत्वा धृष्टद्युम्नेन संयुगे। सत्यसंधं महेष्वासं भृशं मे व्यथितं मनः॥ ययोलेकि पुमानस्त्रे न समोऽस्ति चतुर्विधे। तौ द्रोणभीष्मौ श्रुत्वा तु हतौ मे व्यथितं मनः॥ त्रैलोक्ये यस्य चास्त्रेषु न पुमान् विद्यते समः। तं द्रोण निहतं श्रुत्वा किमकुर्वत मामकाः॥ संशप्तकानां च बले पाण्डवेन महात्मना। धनंजयेन विक्रम्य गमिते यमसादनम्॥ नारायणास्त्रे च हते द्रोणपुत्रस्य धीमतः। विप्रदुतेष्वनीकेषु किमकुर्वत मामकाः॥ विप्रदुतानहं मन्ये निमग्नाशोकसागरे। प्लवमानान् हते द्रोणे सन्ननौकानिवार्णवे॥ दुर्योधन कर्णस्य भोजस्य कृतवर्मणः। मद्रराजस्य शल्यस्य द्रौणेश्चैव कृपस्य च ॥ मत्पुत्रस्य च शेषस्य तथाऽन्येषां च संजय। विप्रद्रुतेष्वनीकेषु मुखवर्णोऽभवत् कथम्॥ एतत् सर्वं यथावृत्तं तथा गावल्गणे मप। आचक्ष्व पाण्डवेयानां मामकानां च विक्रमम्॥ संजय उवाच तवापराधाद् यद् वृत्तं कौरवेयेषु मारिष। तच्छ्रुत्वा मा व्यथां कार्षीर्दिष्टे न व्यथते बुधः॥ यस्मादभावी भावी वा भवेदर्थो नरं प्रति। अप्राप्तौ तस्य वा प्राप्तौ न कश्चिद् व्यथते बुधः॥ धृतराष्ट्र उवाच न व्यथाभ्यधिका काचिद् विद्यतेमम संजय। दिष्टमेतत् पुरा मन्ये कथयस्व यथेच्छकम्॥ संजय उवाच हते द्रोणे महेष्वासे तव पुत्रा महारथाः। बभूवुरस्वस्थमुखा विषण्णा गतचेतसः॥ अवाङ्मुखाः शस्त्रभृतः सर्व अप्रेक्षमाणाःशोकार्ता नाभ्यभाषन् परस्परम्॥ एव विशाम्पते। तु तान् दृष्ट्वा व्यथिताकारान् सैन्यानि तव भारत। ऊर्ध्वमेव निरैक्षन्त दुःखत्रस्यान्यनेकशः॥ शस्त्राण्येषां राजेन्द्र शोणिताक्तानि सर्वशः। प्राभ्रश्यन्त करोग्रेभ्यो दृष्ट्वा द्रोणं हतं युधि॥ तानि बद्धान्यरिष्टानि लम्बमानानि भारत। अदृश्यन्त महाराज नक्षत्राणि यथा दिवि॥ तथा तु स्तिमितं दृष्ट्वा गतसत्त्वमवस्थितम्। बलं तव महाराज राजा दुर्योधनोऽब्रवीत्॥ भवतां बाहुवीर्यं हि समाश्रित्य मया युधि। पाण्डवेयाः : समाहूता युद्धं चेदं प्रवर्तितम्॥ तदिदं निहते द्रोणे विषण्णमिव लक्ष्यते। युध्यमानाश्च समरे योधा वध्यन्ति सर्वशः॥ जयो वापि क्धो वापि युध्यमानस्य संयुगे। भवेत् किमत्र चित्रं वै युध्यध्वं सर्वतोमुखाः॥ पश्यध्वं च महात्मानं कर्णं वैकर्तनं युधि। प्रचरन्तं महेष्वासं दिव्यैरस्त्रैर्महाबलम्॥ यस्य वै युधि संत्रासात् कुन्तीपुत्रो धनंजयः। निवर्तते सदा मन्दः सिहात् क्षुद्रमृगो यथा।॥ येन नागायुतप्राणो भीमसेनो महाबलः। मानुषेणैव युद्धेन तामवस्थां प्रवेशितः॥ येन दिव्यास्त्रविच्छूरो मायावी स घटोत्कचः। अमोघया रणे शक्त्या निहतो भैरवं नदन्॥ तस्य दुर्वारवीर्यस्य सत्यसंधस्य धीमतः। बाह्वोर्द्रविणमक्षय्यमद्य द्रक्ष्यथ संयुगे॥ द्रोणपुक्षस्य विक्रान्तं राधेयस्यैव चोभयोः। पश्यन्तु पाण्डुपुत्रास्ते विष्णुवासवयोरिव॥ सर्व एव भवन्तश्च शक्ताः प्रत्येकशोऽपि वा। पाण्डुपुत्रान् रणे हन्तुं ससैन्यान् किमुसंहताः॥ संजय उवाच वीर्यवन्तः कृतास्त्राश्च द्रक्ष्यथाद्य परस्परम्। एवमुक्त्वा ततः कर्णं चके सेनापति तदा। तव पुत्रो महावीर्यो भ्रातृभिः सहितोऽनघ॥ सैनापत्यमथावाप्य कर्णो राजन् महारथः। सिंहनादं विनद्योचैः प्रायुध्यत रणोत्कटः॥ स सृञ्जयानां सर्वेषां पञ्चालानां च मारिष। केकयानां विदेहानां चकार कदनं महत्॥ तस्येषुधाराः शतशः प्रादुरासञ्छरासनात्। अग्रे पुढेषु संसक्ता यथा भ्रमरपङ्क्तयः॥ स पीडयित्वा पञ्चालान् पाण्डवांश्च तरस्विनः। हत्वा सहस्रशो योधानर्जुनेन निपातितः॥२१ वैशम्पायन उवाच एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः। शोकस्यान्तमपश्यन् वै हतं मेने सुयोधनम्॥ विह्वलः पतितो भूमौ नष्टचेता इव द्विपः। तस्मिन् निपतिते भूमौ विह्वले राजसत्तमे॥ आर्तनादो महानासीत् स्त्रीणां भरतसत्तम। स शब्दः पृथिवी कृत्स्नां पूरयामास सर्वशः॥ शोकार्णवे महाघोरे निमग्ना भरतस्त्रियः। रुरुदुर्दुःखशोकार्ता भृशमुद्विग्नचेतसः॥ राजानं च समासाद्य गान्धारी भरतर्षभ। निःसंज्ञा पतिता भूमौ सर्वाण्यन्तः पुराणि च ॥ ततस्ताः संजयो राजन् समाश्वासयदातुराः। मुह्यमानाः सुबहुशो मुञ्चन्त्यो वारि नेत्रजम्॥ समाश्वस्ताः स्त्रियस्तास्तु वेपमाना मुहुर्मुहुः। कदल्य इव वातेन धूयमानाः समन्ततः॥ राजानं विदुस्थापि प्रज्ञाचक्षुषमीश्वरम्। आश्वासयामास तदा सिञ्चस्तोयेन कौरवम्॥ स लब्वा शनकैःसंज्ञां ताश्च दृष्टा स्त्रियो नृप। उन्मत्त इव राजेन्द्र स्थितस्तूष्णीं विशाम्पते॥ ततो ध्यात्वा चिरं कालं निःश्वस्य च पुनः पुनः। स्वान् पुत्रान् गर्हयामास बहु मेने त्व पाण्डवान्॥ गर्हयंश्चात्मनो बुद्धिं शकुनेः सौबलस्य च। ध्यात्वा तु सुचिरं कालं वेपमानो मुहुर्मुहुः॥ संस्तभ्य च मनो भूयो राजा धैर्यसमन्वितः। पुनर्गावल्गर्णि सूतं पर्यपृच्छत संजयम्॥ यत् त्वया कथितं वाक्यं श्रुतं संजय तन्मया। कच्चिद् दुर्योधनः सूत न गतो वै यमक्षयम्॥ जये निराशः पुत्रो मे सततं जयकामुकः। ब्रूहि संजय तत्त्वेन पुनरुक्तां कथामिमाम्॥ एवमुक्तोऽब्रवीत् सूतो राजानं जनमेजय। हतो वैकर्तनो राजन् सह पुत्रैर्महारथः॥ भ्रातृभिश्च महेष्वासैः सूतपुत्रैस्तनुत्यजैः। दुःशासनश्च निहतः पाण्डवेन यशस्विना। पीतं च रुधिरं कोपाद् भीमसेनेन संयुगे॥ वैशम्पायन उवाच इति श्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः। अब्रवीत् संजयं सूतं शोकसंविग्नमानसः॥ दुष्प्रणीतेन मे तात पुत्रस्यादीर्घजीविनः। हतं वैकर्तनं श्रुत्वा शोको मर्माणि कृन्तति॥ तस्य मे संशयं छिन्धि दुःखपारं तितीर्षतः। कुरुणां सृञ्जयानां च के च जीवन्ति के मृताः॥ संजय उवाच हतः शान्तनवो राजन् दुराधर्षः प्रतापवान्। हत्त्वा पाण्डवयोधानामव॒दं दशभिर्दिनैः॥ तथा द्रोणो महेष्वासः पञ्चालानां रथव्रजान्। निहत्य युधि दुर्धर्षः पश्चाद् रुक्मरथो हतः॥ हतशेषस्य भीष्मेण द्रोणेन च महात्मना। अर्धं निहत्य सैन्यस्य कर्णो वैकर्तनो हतः॥ विविंशतिर्महाराज राजपुत्रो महाबलः। आनर्तयोधाशतशो निहत्य निहतो रणे।॥ तथा पुत्रो विकर्णस्ते क्षत्रव्रतमनुस्मरन्। क्षीणवाहायुधः शूरः स्थितोऽभिमुखतः परान्॥ घोररूपान् परिक्केशान दुर्योधनकृतान् बहून्। प्रतिज्ञा स्मरता चैव भीमसेनेन पातितः॥ विन्दानुविन्दावावन्तयौ राजपुत्रौ महारथौ। कृत्वा त्वसुकरं कर्म गतौ वैवस्वतक्षयम्॥ सिधुराष्ट्रमुखानीह दश राष्ट्राणि यानिह। वशे तिष्ठन्ति वीरस्य यः स्थितस्तव शासने॥ अक्षौहिणीर्दशैकां च विनिर्जित्य शितैः शरैः। अर्जुनेन हतो राजन् महावीर्यो जयद्रथः॥ तथा दुर्योधनसुतस्तरस्वी युद्धदुर्मदः। वर्तमानः पितुः शास्त्रे सौभद्रेण निपातितः॥ तथा दौःशासनिः शूरो बाहुशाली रणोत्कटः। द्रौपदेयेन सङ्गभ्य गमितो यमसादनम्॥ किरातानामधिपतिः सागरानूपवासिनाम्। देवराज्य धर्मात्मा प्रियो बहुमतः सखा॥ भगदत्तो महीपालः क्षत्रधर्मरतः सदा। धनंजयेन विक्रम्य गमितो यमसादनम्॥ तथा कौरवदायादो न्यस्तशस्त्रो महायशाः। हतो भूरिश्रवा राजशूरः सात्यकिना युधि॥ श्रुतायुरपि चाम्बष्ठः क्षत्रियाणां धुरंधरः। चरन्नभीतवत् संख्ये निहतः सव्यसाचिना॥ तव पुत्रः सदामर्षी कृतास्त्रो युद्धदुर्मदः। दुःशासनो महाराज भीमसेनेन पातितः॥ यस्य राजन् गजानीकं बहु साहस्त्रमद्भुतम्। सुदक्षिणः स संग्रामे निहत: सव्यसाचिना॥ कोसलानामधिपतिर्हत्वा बहुमतान् परान्। सौभद्रेण हि विक्रम्य गमितो यमसादनम्॥ बहुशो योधयित्वा तु भीमसेनं महारथम्। मद्राराजात्मजः शूरः परेषां भयवर्धनः। असिचर्मधरः श्रीमान् सौभद्रेण निपातितः॥ समः कर्णस्य समरे यः स कर्णस्य पश्यतः। वृषसेनो महातेजाः शीघ्रास्त्रो दृढविक्रमः॥ अभिमन्योर्वधं श्रुत्वा प्रतिज्ञामपि चात्मनः। धनंजयेन विक्रम्य गमितो यमसादनम्॥ नित्यं प्रसक्तवैरो यः पाण्डवैः पृथिवीपतिः। विश्राव्य वैरं पार्थेन श्रुतायुः स निपातितः॥ शल्यपुत्रस्तु विक्रान्तः सहदेवेन मारिष। हतो रुक्मरथो राजन् भ्राता मातुलजो युधि॥ राजा भगीरथो वृद्धो बृहत्क्षत्रश्च केकयः। पराक्रमन्तौ विक्रान्तौ निहतौ वीर्यवत्तरौ॥ भगदत्त सुतो राजन् कृतप्रज्ञो महाबलः। श्येनवचरता संख्ये नकुलेन निपातितः॥ पितामहस्तव तथा बाह्लीकः सह बाह्निकैः। निहतो भीमसेन महाबलपराक्रमः॥ जयत्सेनस्तथा राजञ्जारासंधिर्महाबलः। मागधो निहत: संख्ये सौभद्रेण महात्मना॥ पुत्रस्ते दुर्मुखो राजन् दुःसहश्च महारथः। गदया भीमसेनेन निहतौ शूरमानिनौ॥ दुर्मर्षणो दुर्विषहो दुर्जयश्च महारथः। कृत्वा त्वसुकरं कर्म गता वैवस्वतक्षयम्॥ उभौ कलिङ्गवृषको भ्रातरौ युद्धदुर्मदौ। कृत्वा चासुकरं कर्म गतौ वैवस्वतक्षयम्॥ सचिवो वृषवर्मा ते शूरः परमवीर्यवान्। भीमसेनेन विक्रम्य गमितो यमसादनम्॥ तथैव पौरवो राजा नागायुतबलो महान्। समरे पाण्डुपुत्रेण निहतः सव्यसाचिना॥ वसातयो महाराज द्विसासस्त्राः प्रहारिणः। शूरसेनाश्च विक्रान्ताः सर्वे युधि निपातिताः॥ अभीषाहाः कवचिनः प्रहरन्तो रणोत्कटाः। शिवयश्च रथोदाराः कालिङ्गसहिता हताः॥ गोकुले नित्यसंवृद्धा युद्धे परमकोपनाः। तेऽपावृत्तकवीराश्च निहताः सव्य साचिना॥ श्रेणयो बहुसाहस्त्राः संशप्तकगणाश्च ये। ते सर्वे पार्थमासाद्य गता वैवस्वतक्षयम्॥ स्यालौ तव महाराज राजानौ वृषकाचलौ। त्वदर्थमतिविक्रान्तौ निहतौ सव्यसाचिना॥ उग्रकर्मा महेष्वासो नामतः कर्मतस्तथा। शाल्वराजो महाबाहुर्भीमसेनेन पातितः॥ ओघवांश्च महाराज बृहन्तः सहितौ रणे। पराक्रमन्तौ मित्रार्थे गतौ वैवस्वतक्षयम्॥ तथैव रथिनां श्रेष्ठः क्षेम धूर्तिर्विशाम्पते। निहतो गदया राजन् भीमसेनेन संयुगे॥ तथा राजन् महेष्वासो जलसंधो महाबलः। सुमहत् कदनं कृत्वा हतः सात्यकिना रणे॥ अलम्बुषो राक्षसेन्द्र खरबन्धुरयानवान्। घटोत्कचेन विक्रम्य गमितो यमसादनम्॥ राधेयः सूतपुत्रश्च भ्रातरश्च महारथाः। केकयाः सर्वशश्चापि निहताः सव्यसाचिना॥ मालवा मद्रकाश्चैव द्राविडाश्चोग्रकर्मिणः। यौधेयाश्च ललित्याश्च क्षुद्रकाश्चाप्युशीनराः॥ मावेल्लाकास्तुण्डिकेरा: सावित्रीपुत्रकाश्च ये। प्रोच्योदीच्याः प्रतीत्याश्च दाक्षिणात्याश्च मारिष॥ पत्तीनां निहताः संघा हयानां प्रयुतानि च। रथव्रजाश्च निहता हताश्च वरवारणाः॥ सध्वजाः सायुधाः शूराः सवर्माम्बरभूषणाः। कालेन महता यत्ताः सुशलैर्ये च वर्धिताः॥ ते हताः समरे राजन् पार्थेनाक्लिष्टकर्मणा। अन्ये तथाऽमितबलाः परस्परवधैषिणः॥ एते चान्ये च बहवो राजानः सगणा रणे। हताः सहस्रशो राजन् यन्मां त्वं परिपृच्छसि॥ एवमेष क्षयो वृत्तः कर्णार्जुनसमागमे। महेन्द्रेण यथा वृत्रो यथा रामेण रावणः॥ यथा कृष्णेन नरको मुस्श्च नरकारिणा। कार्तवीर्यश्च रामेण भार्गवेण यथा हतः॥ सज्ञातिबान्धवः शूर समरे युद्धदुर्मदः। रणे कृत्वा महद् युद्धं घोरं त्रैलोक्यमोहनम्॥ यथा स्कन्देन महिषो यथा रुद्रेण चान्धकः। तथाऽर्जुनेन सहतो द्वैरथे युद्धदुर्मदः॥ सामात्यबान्धवो राजन् कर्णः प्रहरतां वरः। जयाशा धार्तराष्ट्राणां वैरस्य च मुखं यतः॥ तीर्णस्तत् पाण्डवो राजन् यत् पुरा नावबुध्यसे। उच्यमानो महाराज बन्धुभिर्हितकाटिभिः॥ तदिदं समनुप्राप्तं व्यसनं सुमहात्मययम्। पुत्राणां राज्यकामानां त्वया राजन् हितैषिणा॥ अहितान्येव चीर्णानि तेषां तत् फलमागतम्॥ धृतराष्ट्र उवाच आख्याता मामकास्तात निहता युधि पाण्डवैः। हताश्च पाण्डवेयानां मामकै—हि संजया॥ संजय उवाच कुन्तयो युधि विक्रान्ता महासत्त्वा महाबलाः। सानुबन्धाः सहामात्या गाङ्गेयेन निपातिताः॥ नारायण बलभद्राः शूराश्च शतशोऽपरे। अनुरक्ताश्च वीरेण भीष्मेण युधि पातिताः॥ समः किरीटिना संख्ये वीर्येण च बलेन च। सत्यजित् सत्यसंधेन द्रोणेन निहतो युधि॥ पञ्चालानां महेष्वासाः सर्वे युद्धिविशारदाः। द्रोणेन सह संगम्य गता वैवस्वतक्षयम्॥ तथा विराटदुपदौ वृद्धौ सहसुतौ नृपौ। पराक्रमन्तौ मित्रार्थे द्रोणेन निहतौ रणे॥ यो बाल एव समरे सम्मितः सव्यसाचिना। केशवेन च दुर्धर्षो बलदेवेन वा विभो॥ परेषां कदनं कृत्वा महास्थविशारदः। परिवार्य महामात्रैः षड्भिः परमकै रथैः॥ अशक्नुवद्भिर्बीभत्सुमभिमन्युनिपातितः। कृतं तं विरथं वीरं क्षत्रधर्मे व्यवस्थितम्॥ दौःशासनिर्महाराज सौभद्रं हतवान् रणे। सपत्नानां निहन्तां च महत्या सेनया वृत्तः॥ अम्बष्ठस्य सुतः श्रीमान् मित्रहेतोः पराक्रमन्। आसाद्य लक्ष्मणं वीरं दुर्योधनसुतं रणे॥ सुमहत् कदनं कृत्वा गतो वैवस्वतक्षयम्। बृहन्तः सुमहेष्वासः कृतास्त्रो युद्धदुर्मदः॥ दुःशासनेन विक्रम्य गमितो यमसादनम्। मणिमान् दण्डधारश्च राजानौ युद्धदुर्मदौ॥ पराक्रमन्तौ मित्रार्थे द्रोणेन युधि पातितौ। अंशुमान् भोजराजस्तु सहसैन्यै महारथः॥ भारद्वाजेन विक्रम्य गमितो यमसादनम्। सामुद्रश्चिसेनश्च सह पुत्रेण भारत॥ समुद्रसेनेन बलाद् गमितो यमसादनम्। अनूपवासी नीलश्च व्याघ्रदत्तश्च वीर्यवान्॥ अश्वत्थाम्ना विकर्णेन गमितो यमसादनम्। चित्रायुधश्चित्रयोधी कृत्वा च कदनं महत्॥ चित्रमार्गेण विक्रम्य विकर्णेन हतो मृधे। वृकोदरसमो युद्धे वृतः कैकेययोधिभिः॥ कैकेयेन च विकम्य भ्रात्रा भ्राता निपातितः। जनमेजयो गदायोधी पर्वतीयः प्रतापवान्॥ दुर्मुखेन महाराज तव पुत्रेण पातितः। रोचमानो नरव्याघ्रौ रोचमानौ ग्रहाविव।॥ द्रोणेन युगपद् राजन् दिवं सम्प्रापितौ शरैः। नृपाश्च प्रतियुध्यन्तः पराक्रान्ता विशाम्पते॥ कृत्वा नसुकरं कर्म गता वैवस्वतक्षयम्। पुरुजित् कुन्ति भोजश्च मातुलौ सव्यसाचिनः॥ संग्रामनिर्जिताँल्लोकान् गमितौ द्रोणसायकैः। अभिभूः काशिराजश्च काशिकैर्बहुभिर्वृतः॥ वसुदानस्य पुत्रेण न्यासितो देहमाहवे। अमितौजा युधामन्युरुत्तमौजाश्च वीर्यवान्॥ निहत्य शतशः शूरानस्मदीयैर्निपातिताः। मित्रवर्मा त पाञ्चाल्यः क्षत्रधर्मा च भारत॥ द्रोणेन परमेष्वासो गमितो यमसादनम्। शिखण्डितनयो युद्धे क्षत्रदेवो युधां पतिः॥ लक्ष्मणेन हतो राजंस्तव पौत्रेण भारत। सुचित्रश्चित्रवर्मा च पितापुत्रौ महारथौ॥ प्रचरन्तौ महावीरौ द्रोणेन निहतो रणे। वार्धक्षेमिर्महाराज समुद्र इव पर्वणि॥ आयुध्क्षयमासाद्य प्रशान्तिं परमां गतः। सेनाबिन्दुसुतः श्रेष्ठः शास्त्रवान् प्रहरन् युधि॥ बाबिकेन महाराज कौरवेन्द्रेण पातितः। धृष्टकेतुर्महाराज चेदीनां प्रवरो रथः॥ कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम्। तथा सत्यधृतिर्वीरः कृत्वा कदनमाहवे॥ पाण्डवार्थे पराक्रान्तो गमितो यमसादनम्। सेनाबिन्दुः कुरुश्रेष्ठ कृत्वा कदनमाहवे॥ पुत्रस्तु शिशुपालस्य सुकेतुः पृथिवीपतिः। निहत्य शात्रवान् संख्ये द्रोणेन निहतो युधि॥ तथा सत्यधृतिर्वीरो मदिराश्वश्च वीर्यवान्। सूर्यदत्तश्च विक्रान्तो निहतो द्रोणसायकैः॥ श्रेणिमांश्च महाराज युध्यमानः पराक्रमी। कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम्॥ तथैव युधि विक्रान्तो मागधः परमास्त्रवित्। भीष्मेण निहतो राजशेतेऽद्य परवीरहा।॥ विराटपुत्रः शङ्खस्तु उत्तरश्च महारथः। कुर्वन्तौ सुमहत् कर्म गतौ वैवस्वतक्षयम्॥ वसुदानश्च कदनं कुर्वाणोऽतीव संयुगे। भारद्वाजेन विक्रम्य गमितो यमसादनम्३८॥ एते चान्ये च बहवः पाण्डवानां महारथः। हता द्रोणेन विक्रम्य यन्मां त्वं परिपृच्छसि॥ धृतराष्ट्र उवाच मामकस्यास्य सैन्यस्य हृतोत्सेकस्य संजय। अवशेषं न पश्यामि ककुदे मृदिते सति॥ तौ हि वीरौ महेष्वासौ मदर्थे कुरुसत्तमौ। भीष्मद्रोणौ हतो श्रुत्वा नार्थो वै जीवितेऽसति॥ न च मृष्यामि राधेयं हतमाहवशोभनम्। यस्य बाह्वोर्बलं तुल्यं कुञ्जराणां शतं शतम्॥ हतप्रवरसैन्यं मे यथा शंससि संजय। अहतानपि मे शंस येऽत्र जीवन्ति केचन॥ एतेषु हि मृतेष्वद्य ये त्वया परिकीर्तिताः। येऽपि जीवन्ति ते सर्वे मृता इति मतिर्मम॥ संजय उवाच यस्मिन् महास्त्राणि समर्पितानि चित्राणि शुभ्राणि चतुर्विधानित दिव्यानि राजन् विहितानि चैव द्रोणेन वीरे द्विजसत्तमेन॥ महारथः कृतिमान् क्षिप्रहस्तो दृढायुधो दृढमुष्टिढेषुः। स वीर्यमान् द्रोणपुत्रस्तरस्वी व्यवस्थितो योद्धुकामस्त्वदर्थे ॥ आनर्तवासी हृदिकात्मजोऽसौ महारथः सात्वतानां वरिष्ठः। स्वयं भोजः कृतवर्मा कृतास्त्रो व्यवस्थितो योद्धुकामस्त्वदर्थे। ८॥ आर्यायनिः समरे दुष्प्रकम्प्यः सेनाग्रणीः प्रथमस्तावकानाम्। यः स्वस्त्रीयान् पाण्डवेयान् विसृज्य सत्यां वाचं स्वां चिकीर्षुस्तरस्वी॥ तेजोवधं सूतपुत्रस्य संख्ये प्रतिश्रुत्याजातशत्रोः पुरस्तात्। दुराधर्षः शक्रसमानवीर्यः शल्यः स्थितो योद्धुकामस्त्वदर्थे॥ आजानेयैः सैन्धवैः पर्वतीयै नदीजकाम्बोजवनायुजैश्च। गान्धारराजः स्वबलेन युक्तो व्यवस्थितो योदुकामस्त्वदर्थे॥ शारद्वतो गौतमश्चापि राजन् महाबाहुर्बहुचित्रास्त्रयोधी। धनुश्चित्रं सुमहद् भारसाहं व्यवस्थितो योद्धुकामः प्रगृह्य॥ महारथः केकयराजपुत्रः सदश्वयुक्तं च पताकिनं च। रथं समारुह्य कुरुप्रवीर व्यवस्थितो योद्धुकामस्त्वदर्थे ॥ तथा सुतस्ते ज्वलनार्कवर्णं रथं समास्थाय कुरुप्रवीरः। व्यवस्थितः पुरुमित्रो नरेन्द्र व्यभ्रे सूर्यो भ्राजमानो यथा खे॥ दुर्योधन नागकुलस्य मध्ये व्यवस्थितेः सिंह इवाबभासे। रथेन जाम्बूनदभूषणेन व्यवस्थितः समरे योत्स्यमानः॥ स राजमध्ये पुरुषप्रवीरो रराज जाम्बूनदचित्रवर्मा। पद्मप्रभो वह्निरिवाल्पधूमो मेघान्तरे सूर्य इव प्रकाशः॥ स्तवात्मजः सत्यसेनश्च वीरः। व्यवस्थितौ चित्रसेनेन सार्ध हृष्टात्मानौ समरे योद्धुकामौ॥ हीनिषेवो भारत राजपुत्र उग्रायुधः क्षणभोजी सुदर्शः। जारासंधिः प्रथमश्चादृढश्च चित्रायुधः श्रुतवर्मा जयश्च॥ शलश्च सत्यव्रतदुःशलौ च व्यवस्थिताः सहसैन्या नराग्र्याः। कैतव्यानामधिपः शूरमानी रणे रणे शत्रुहा राजपुत्रः॥ रथी हयी नागपत्तिप्रयायी व्यवस्थितो योधुकामस्त्वदर्थे। वीरः श्रुतायुश्च धृतायुधश्च चित्राङ्गदश्चित्रसेनश्च वीरः॥ व्यवस्थिता योधुकामा नराम्या: प्रहारिणो मानिनः सत्यसंधाः। कर्णात्मजः सत्यसंधो महात्मा व्यवस्थितः समरे यो कामः॥ अथापरौ कर्णसुतौ वरास्त्री व्यवस्थितौ लघुहस्तौ नरेन्द्र। बलं महद् दुर्भिदमल्पधैर्यैः सम्माश्रितौ योत्स्यमानौ त्वदर्थे॥ एतैश्च मुख्यैरपरैश्च राजन् योधप्रवीरैरमितप्रभावैः। व्यवस्थितो नागकुलस्य मध्ये यथा महेन्द्रः कुरुराजो जयाय॥ धृतराष्ट्र उवाच आख्याता जीवमान येऽपरे सैन्या यथायथम्। इतीदमवगच्छामि व्यक्तमर्थाभिपत्तितः॥ वैशम्पायन उवाच एवं ब्रुवत्रेव तदा धृतराष्टोऽम्बिकासुतः। हतप्रवीरं विध्वस्तं किचिच्छेषं स्वकं बलम्॥ श्रुत्वा व्यामोहमागच्छच्छोकव्याकुलितेन्द्रियः। धृतराष्ट्र उवाच मुह्यमानोऽब्रवीच्चापि मुहूर्त तिष्ठ संजय॥ व्याकुलं मे मनस्तात श्रुत्वा सुमहदप्रियम्। मनो मुह्यति चाङ्गानि न च शक्नोमि धारितुम॥ इत्येवमुक्त्वा वचनं धृतराष्ट्रोऽम्बिकासुतः। भ्रान्तचित्तस्ततः सोऽथ बभूव जगतीपतिः॥ जनमेजय उवाच श्रुत्वा कर्णं हतं युद्धे पुत्रांश्चैव निपातितान्। नरेन्द्रः किंचिदाश्वस्तो द्विजश्रेष्ठ किमब्रवीत्॥ प्राप्तवान् परम् दुखं पुत्रव्यसनजं महत्। तस्मिन् यदुक्तवान् काले तन्ममाचक्ष्व पृच्छतः॥ वैशम्पायन उवाच श्रुत्वा कर्णस्य निधनमश्रद्धेयमिवाद्भुतम्। भूतसम्मोहनं भीमं मेहोः संसर्पणं यथा।॥ चित्तमोहमिवायुक्त भार्गवस्य महामतेः। पराजयमिवेन्द्रस्य द्विषद्भयो भीमकर्मणः॥ दिवः प्रपतनं भानोरुपया॑मिव महाद्युतेः। संशोषणमिवाचिन्त्यं समुद्रस्याक्षयाम्भसः॥ महीवियद्दिगम्बूनां सर्वनाशमिवाद्भुतम्। कर्मणोरिव वैफल्यमुभयोः पुण्यपापयोः॥ संचिन्त्य निपुणं बुद्धया धृतराष्ट्रो जनेश्वरः। नेदमस्तीति संचिन्त्य कर्णस्य समरे वधम्॥ प्राणीनामेवमन्येषां स्यादपीति विनाशनम्। शोकाग्निना दह्यमानो धम्यमान इवाशये॥ विस्त्रस्ताङ्ग श्वसन् दीनो हाहेत्युकत्वा सुदुःखित। विललाप महाराज धृतराष्ट्रोऽम्बिकासुतः॥ धृतराष्ट्र उवाच संजयाधिररथिवीर सिंहद्विरदविक्रमः। वृषभप्रतिमस्कन्धो वृषभाक्षगतिश्चरन्॥ वृषभो वृषभस्येव यो युद्धे न निवर्तते। शत्रोरपि महेन्द्रस्य वज्रसंहननो युवा॥ यस्य ज्यातलशब्देन शरवृष्टिरवेण च। रथाश्वनरमातङ्गा नावतिष्ठन्ति संयुगे॥ यमाश्रित्य महाबाहुं विद्विषां जयकाङ्क्षया। दुर्योधनोऽकरोद् वैरं पाण्डुपुत्रैर्महारथैः॥ स कथं रथिनां श्रेष्ठः कर्णः पार्थेन संयुगे। निहतः पुरुष व्याघ्रः प्रसह्यासह्यविक्रमः॥ यो नामन्यत वै नित्यमच्युतं च धनंजयम्। न वृष्णीन् सहितान्यान् स्वबाहुबलदर्पितः॥ शार्ङ्गगाण्डीवधन्वानौ सहितावपराजितौ। अहं दिव्याद् रथादेकः पातयिष्यायमि संयुगे॥ इति यः सततं मन्दमवोचल्लोभमोहितम्। दुर्योधनमवाचीनं राज्यकामुकमातुरम्॥ योऽजयत् सर्वकाम्बोजानावन्त्यान् केकयैः सह। गान्धारान् मद्रकान् मत्स्यास्त्रिगर्तास्तङ्गणाशकान्॥१८ पञ्चारां विदेहांश्च कुलिन्दान् काशिकोसलान्। सुह्यानङ्गांश्च वङ्गांश्च निषादान् पुण्ड्रचीरकान्॥ वत्सान् कलिङ्गाहस्तरलानश्मकानृषिकानपि। जित्वैतान् समरे वीरश्चके वलिभृतः पुरा॥ शरवातैः सुनिशितैः सुतीक्ष्णैः कङ्कपत्रिभिः। दुर्योधनस्य वृद्ध्यर्थं राधेयो रथिनां वरः॥ दिव्यास्त्रविन्महातेजाः कर्णो वैकर्तनो वृषः। सेनागोपश्च स कथं शत्रुभिः परमास्त्रवित्॥ घातितः पाण्डवैः शूरैः समरे वीर्यशालिभिः। वृषो महेन्द्रो देवेषु वृषः कर्णो नरेष्वपि॥ तृतीयमन्यं लोकेषु वृषं नैवानुशुश्रुम। उच्चैःश्रवा वरोऽश्वानां राज्ञां वैश्रवणो वरः॥ वरो महेन्द्रो देवानां कर्णः प्रहरतां वरः। योजितः पार्थिवः शूरैः समथैवीर्यशालिभिः॥ दुर्योधनस्य वृद्ध्यर्थं कृत्स्त्रामुर्वीमथाजयत्। यं लब्ध्वा मागधो राजा सान्त्वमानोऽथ सौहदैः॥२६ अरौत्सीत् पार्थिवं क्षत्रमृते यादवकौरवान्। तं श्रुत्वा निहतं कर्णं द्वैरथे सव्यसाचिना॥ शोकार्णवे निमग्नोऽहं भिन्ना नौरिव सागरे। तं वृषं निहतं श्रुत्वा द्वैरथे रथिनां वरम्॥ शोकार्णवे निमग्नोऽहमप्लवः सागरे यथा। ईदृशैर्यद्यहं दुःखैन विनश्यामि संजय॥ वज्राद् दृढतरं मन्ये हृदयं मम दुर्भिदम्। ज्ञातिसम्बन्धिमित्राणामिमं श्रुत्वा पराभवम्॥ को मदन्यः पुमाँल्लोके न जह्यात् सूत जीवितम। विषमग्निं प्रपातं च पर्वतग्रादहं वृणे। न हि शक्ष्यामि दुःखानि सोढुं कष्टानि संजय॥ संजय उवाच श्रिया कुलेन यशसा तपसा च श्रुतेन च। त्वामद्य सन्तो मन्यन्ते ययातिमिव नाहुषम्॥ श्रुते महर्षिप्रतिमः कृतकृत्योऽसि पार्थिव। पर्यवस्थापयात्मानं मा विषादे मनः कृथा॥ धृतराष्ट्र उवाच दैवमेव परं मन्ये धिक् पौरुषमनर्थकम्। यत्र शालप्रतीकाशः कर्णोऽहन्यत संयुगे॥ हत्वा युधिष्ठिरानीकं पञ्चालानां रथव्रजान्। प्रताप्य शरवर्षेण दिश: सर्वा महारथः॥ मोहयित्वा रणे पार्थान् वज्रहस्त इवासुरान्। स कथं निहतः शेते वायुरुग्ण इव द्रुमः॥ शोकस्यान्तं न पश्यामि पारं जलनिधेरिव। चिन्ता मे वर्धतेऽतीव मुमूर्षा चापि जायते॥ कर्णस्य निधनं श्रुत्वा विजयं फाल्गुनस्य च। अश्रद्धेयमहं मन्ये वधं कर्णस्य संजय॥ वज्रसारमयं नूनं हृदयं दुर्भिदं मम। यच्छ्रुत्वा पुरुषव्याघ्रं हतं कर्णं न दीर्यते॥ आयुनूनं सुदीर्घं मे विहित दैवतैः पुरा। यत्र कर्णं हतं श्रुत्वा जीवामीह सुदुःखितः॥ घिग्जीवितमिदं चैव सुहृद्धीनश्च संजय। अद्य चाहं दशोमेतां गतः संजय गर्हिताम्॥ कृपणं वर्तयिष्यामि शोच्यः सर्वस्य मन्दधीः। अहमेव पुरा भूत्वा सर्वलोकस्य सत्कृतः॥ परिभूतः कथं सूत परैः शक्ष्यामि जीवितुम्। दुःखात् सुदुःखव्यसनं प्राप्तवानस्मि संजय॥ भीष्मद्रोणवधैनैव कर्णस्य च महात्मनः। नावशेष प्रपश्यामि सूतपुत्रे हते युधि॥ स हि पारो महानासीत् पुत्राणां मम संजय। युद्धे हि निहतः शूरो विसृजन् सायकान् बहून्॥ को हि मे जीवितेनार्थस्तमृते पुरुषर्षभम्। रथादाधिरथिनं न्यपतत् सायकार्दितः॥ पर्वतस्येव शिखरं वज्रपाताद् विदारितम्। स शेते पृथिवीं नूनं शोभयन् रुधिरोक्षितः॥ मातङ्ग इव मत्तेन द्विपेन्द्रेण निपातितः यो बलं धार्तराष्ट्राणां पाण्डवानां यतो भयम्॥ सोऽर्जुनेन हतः कर्णः प्रतिमानं धनुष्मताम्। स हि वीरो महेष्वासो मित्राणामभयंकरः॥ शेते विनिहतो वीरो देवेन्द्रेण इवाचलः। पङ्गोरिवाध्वगमनं दरिद्रस्येव कामितम्॥ दुर्योधनस्य चाकूतं तृषितस्येव विपुषः। अन्यथा चिन्तितं कार्यमन्यथा तत् तु जायते॥ अहो नु बलवद् दैवं कालश्च दुरतिक्रमः। पलायमानः कृपणे दीनात्मा दीनपौरुषः॥ कचिद् विनिहतः सूत पुत्रो दुःशासनो मम। कचिन्न दीनाचरितं कृतवांस्तात संयुगे॥ कचिन्न निहतः शूरो यथाऽन्ये क्षत्रियर्षभाः। युधिष्ठिरस्य वचनं मा युध्यस्वेति सर्वदा॥ दुर्योधन नाभ्यगृह्णानमूढः पथ्यमिवौषधम्। शरतल्पे शयानेन भीष्मेण सुमहात्मना॥ पानीयं याचितः पार्थः सोऽविध्यन्पेदिनीतलम्। जलस्य धारां जनितां दृष्ट्वा पाण्डुसुतेन च॥ अब्रवीत् स महाबाहुस्तात संशाम्य पाण्डवैः। प्रशमाद्धि भवेच्छान्तिर्मदन्तं युद्धमस्तु वः॥ भ्रातृभावेन पृथिवी भुक्ष्व पाण्डुसुतैः सह। अकुर्वन् वचनं तस्य नूनं शोचति पुत्रकः॥ तदिदं समनुप्राप्तं वचनं दीर्घदर्शनः। अहं तु निहतामात्यो हतपुत्रश्च संजय॥ द्यूततः कृच्छ्रमापन्नो लूनपक्ष इव द्विजः। यथा हि शकुनि गृह्य छित्वा पक्षौ च संजय॥ विसर्जयन्ति संहृष्टाः क्रीडमानाः कुमारकाः। लूनपक्षतया तस्य गमनं नोपपद्यते॥ तथाऽमहपि सम्प्राप्तो लूनपक्ष इव द्विजः। क्षीणः सर्वार्थहीनश्च निर्घातिबन्धुवर्जितः। को दिशं प्रतिपत्स्यामि दीनः शत्रुवशं गतः॥ वैशम्पायन उवाच इत्येवं धृतराष्ट्रोऽथ विलप्य बहु दुःखितः। प्रोवाच संजय भूयः शोकव्याकुलमानसः॥ धृतराष्ट्र उवाच योऽजयत् सर्वकाम्बोजानम्बष्ठान् केकयैः सह। गान्धाराचं विदेहांश्च जित्वा कार्यार्थमाहवे॥ दुर्योधनस्य वृद्ध्यर्थं योऽजयत् पृथिवी प्रभुः। स जितः पाण्डवैः शूरैः समरे बाहुशालिभिः॥ तस्मिन् हते महेष्वासे कर्णे युधि किरीटिना। के वीराः पर्यतिष्ठन्त तन्ममाचक्ष्व संजय॥ कचिन्नैकः परित्यक्तः पाण्डवैर्निहतो रणे। उक्तं त्वया पुरा तात यथा वीरो निपातितः॥ भीष्ममप्रतियुद्ध्यन्तं शिखण्डी सायकोत्तमैः। पातयामास समरे सर्वशस्त्रभृतां वरम्॥ तथा द्रौपदिना द्रोणो न्यस्यसर्वायुधो युधि। युक्तयोगो महेष्वासः शरैर्बहुभिराचितः॥ निहतः खङ्गमुद्यम्य धृष्टद्युम्नेन संजय। अन्तरेण हतावेतौ छलेन च विशेषतः॥ अश्रौषमहमेतद् वै भीष्मद्रोणौ निपातितौ। भीष्मद्रोणौ हि समरे न हन्याद् वज्रभृत् स्वयम्॥ न्यायेन युध्यमानौ हि तद् वै सत्यं ब्रवीमि ते। कर्णं त्वस्यन्तमस्त्राणि दिव्यानि च बहूनि च॥ कथमिन्द्रोपमं वीरं मृत्युर्युद्धे समस्पृशत्। यस्य विद्युत्प्रभा शक्तिं दिव्यां कनकभूषणाम्॥ प्रायच्छद् द्विषतां हन्त्री कुण्डलाभ्यां पुरंदरः। यस्य सर्पमुखो दिव्यः शरः काञ्चनभूषणः॥ अशेत निहितः पत्री समरेष्वरिसूदनः। भीष्मद्रोणमुखान् वीरान् योऽवमन्ये महारथान्॥ जामदग्न्यान्महाघोरं ब्राह्ममस्त्रमशिक्षत। यश्च द्रोणमुखान् दृष्ट्वा विमुखानर्दिताशरैः॥ सौभद्रस्य महाबाहुर्व्यधमत् कार्मुकं शितैः। यश्च नागायुतप्राणं वज्ररंहसमच्यतुम्॥ विरथं सहसा कृत्वा भीमसेनमथाहसत्। सहदेवं च निर्जित्य शरैः संनतपर्वभिः॥ कृपया विरथं कृत्वा नाहनद् धर्मचिन्ता। यश्च मायासहस्राणि विकुर्वाणं जयैषिणम्॥ घटोत्कचं राक्षसेन्द्रं शक्रशक्त्या निजनिवान्। एतांश्च दिवसान् यस्य युद्धे भीतो धनंजयः॥ नागमद् द्वैरथं वीरः स कथं निहतो रणे। संशप्तकानां योधा ये आह्वयन्त सदान्यतः॥ एतान् हत्वा हनिष्यामि पश्चाद् वैकर्तन रणे। इति व्यपदिशन् पार्थो वर्जयन् सूतजं रणे॥ स कथं निहतो वीरः पार्थेन परवीरहा। रथभङ्गो न चेत् तस्य धनुर्वा न व्यशीर्यत॥ न चेदस्त्राणि निर्णेशुः स कथं नहतः परैः। को हि शक्तो रणे कर्णं विधुन्वानं महद् धनुः॥ विमुञ्चन्तं शरान् घोरान् दिव्यान्यस्त्राणि चाहवे। जेतुं पुरुषशार्दूलं शार्दूलमिव वेगिनम्॥ ध्रुवं तस्य धनुश्छिन्नं रथो वापि महीं गतः। अस्त्राणि वा प्रणष्टानि यथा शंससि मे हतम्॥ न ह्यन्यदपि पश्यामि कारणं तस्य नाशने। न हन्मि फाल्गुनं यावत् तावत् पादौ न धावये॥ इति यस्य महाघोरं व्रतमासीन्महात्मनः। यस्य भीतो रणे निद्रां धर्मराजो युधिष्ठिरः॥ त्रयोदश समा नित्यं नाभजत् पुरुषर्षभः। यस्य वीर्यवतो वीर्यमुपाश्रित्य महात्मनः॥ मम पुत्रः सभां भार्या पाण्डूनां नीतवान् बलात्। तत्रापि त सभामध्ये पाण्डवानां च पश्यताम्॥ दासभार्येति पाञ्चलीमब्रवीत् कुरुसंनिधौ। न सन्ति पतयः कृष्णे सर्वे षण्ढतिलैः समाः॥ उपतिष्ठस्व भर्तारमन्यं वा वरवर्णिनि। इत्येवं यः पुरा वाचो रूक्षाश्चाश्रवयन् रुषा॥ सभायां सूतजः कृष्णं स कथं निहतः परैः। यदि भीष्मो रणश्लाघी द्रोणो वा युधि दुर्मदः॥ न हनिष्यति कौन्तेयान् पक्षपातात् सुयोधन। पुनस्तात पाण्डवैः। सर्वानेव हनिष्यामि व्येतु ते मानसो ज्वरः॥ किं करिष्यति गाण्डीवमक्षय्यौ च महेषुधी। स्निग्धचन्दनदिग्धस्य मच्छरस्यभिधावतः॥ स नूनमृषभस्कन्धो ह्यर्जुनेन कथं हतः। यश्च गाण्डीवमुक्तानां स्पर्शमुग्रमचिन्तयन्॥ अपतिसि कृष्णेति ब्रुवन् पार्थानवैक्षत। यस्य नासीद् भयं पार्थैः सपुत्रैः सजनार्दनैः॥ स्वबाहुलमाश्रित्य मुहूर्तमपि संजय। तस्य नाहं वधं मन्ये देवैरपि सवासवैः॥ प्रतीपमभिधावद्भिः किं न हि ज्यां संस्पृशानस्य तलने वाऽपि गृह्णतः॥ पुमानाधिरथेः स्थातुं कश्चित् प्रमुखतोऽर्हति। अपि स्यान्मेदिनी हीना सोमसूर्यप्रभांशुभिः॥ न वधः पुरुषेन्द्रस्य संयुगेष्वपलायिनः। येन मन्दः सहायेन भ्रात्रा दुःशासनेन च॥ वासुदेवस्य दुर्बुद्धिः प्रत्याख्यानमरोचत। स नूनं वृषभस्कन्धं कर्णं दृष्ट्वा निपातितम्॥ दुःशासनं च निहत् मन्ये शोचति पुत्रकः। हतं वैकर्तनं श्रुत्वा द्वैरथे सव्यसाचिना॥ जयतः पाण्डवान् दृष्ट्वा किंस्विदं दुर्योधनऽब्रवीत्। दुर्मर्षणं हतं दृष्ट्वा वृषसेनं च संयुगे॥ प्रभग्नं च बलं दृष्ट्वा वध्यमानं महारथैः। पराङ्मुखांश्च राज्ञस्तु पलायनपरायणान्॥ विद्रुतान् रथिनो दृष्ट्वा मन्ये शोचति पुत्रकः। अनेयश्चाभिमानी च दुर्बुद्धिरजितेन्द्रियः॥ हतोत्साहं बलं दृष्ट्वा किंस्विद् दुर्योधनऽब्रवीत्। स्वयं वैरं महत् कृत्वा वार्यमाणः सुहृद्गणैः॥ प्रधने हतभूयिष्ठैः किंस्विद् दुर्योधनऽब्रवीत्। भ्रातरं निहतं दृष्ट्वा भीमसेनेन संयुगे॥ रुधिरे पीयमाने च किंस्विद् दुर्योधनऽब्रवीत्। सह गान्धारराजेन सभायां यदभाषत्॥ कर्णोऽर्जुनं रणे हन्ता हते तस्मिन किमब्रवीत्। द्यूतं कृत्वा पुरा हृष्टो वञ्चयित्वा च पाण्डवान्॥ शकुनिः सौबलस्तात हते कर्णे किमब्रवीत्। कृतवर्मा महेष्वासः सात्वतानां महारथः॥ हतं वैकर्तनं दृष्ट्वा हार्दिक्यः किमभाषत। ब्राह्मणाः क्षत्रिया वैश्या यस्य शिक्षामुपासते॥ धनुर्वेद चिकीर्षन्तो द्रोणपुत्रस्य धीमतः। युवा रूपेण सम्पन्नो दर्शनीयो महायशाः॥ अश्वत्थामा हते कर्णे किमभाषत संजय। आचार्यो यो धनुर्वेद गौतमो रथसत्तमः॥ कृपः शारद्वतस्तात हते कर्णे किमब्रवीत्। मद्रराजो महेष्वासः शल्यः समितिशोभनः॥ दृष्ट्वा विनिहतं कर्णं सारथ्ये रथिनां वरः। किमभाषत वीरोऽसौ मद्राणामधिपो बली॥ दृष्ट्वा विनिहतं सर्वे योधा वा रणदुर्जयाः। ये च केचन राजानः पृथिव्यां यो मागताः। वैकर्तनं हतं दृष्ट्वा कान्यभाषन्त संजय॥ द्रोणे तु निहते वीरे रथव्याने नरर्षभे। के वा मुखमनीकानामासन् संजय भागशः॥ मद्रराजः कथं शल्यो नियुक्तो रथिनां वरः। वैकर्तनस्य सारथ्ये तन्ममाचक्ष्व संजय॥ केऽरक्षनं दक्षिणं चक्रं सूतपुत्रस्य युध्यतः। वामं चक्रं ररक्षुर्वा के वा वीरस्य पृष्ठतः॥ के क्षुद्राः प्राद्रवंस्ततः। कथं च वः समेतानां हतः कर्णो महारथः॥ पाण्डवाश्च स्वयं शूराः प्रत्युदीयुर्महारथाः। सृजन्तः शरवर्षाणि वारिधारा इवाम्बुदाः॥ स च सर्पमुखो दिव्यो महेषुप्रवरस्तदा। के कर्णं न जहुः शूराः व्यर्थः कथं समभवत् तन्ममाचक्ष्व संजय॥ मामकस्यास्य सैन्यस्य हतोत्सेधस्य संजय। अवशेषं न पश्यामि ककुदे मृदिते सति॥ तौ हि वीरौ महेष्वासौ मदर्थे त्यक्तजीवितौ। भीष्मद्रोणौ हतौ श्रुत्वा को न्वर्थो जीवितेन मे॥ पुनः पुनर्न मृष्यामि हतं कर्णं च पाण्डवैः। यस्य बाह्वोर्बलं तुल्यं कुञ्जराणां शतं शतैः॥ द्रोणे हते च यद् वृत्तं कौरवाणां परैः सह। संग्रामे नरवीराणां तन्ममाचक्ष्व संजय॥ यथा कर्णश्च कौन्तेयैः सह युद्धमयोजयत्। यथा च द्विषतां हन्ता रणे शान्तस्तदुच्यताम्॥ संजय उवाच हते द्रोणे महेष्वासे तस्मिन्नहनि भारत। कृते च मोघसंकल्पे द्रोणपुत्रे महारथे॥ द्रवमाणे महाराज कौरवाणां बलार्णवे। व्यूह्य पार्थः स्वकं सैन्यमतिष्ठद् भ्रातृभिर्वृतः॥ तमवस्थितमाज्ञाय पुत्रस्ते भरतर्षभ। विद्रुतं स्वबलं दृष्ट्वा पौरुषेण न्यवारयत्॥ स्वमनीकमवस्थाप्य बाहुवीर्यमुपाश्रितः। युद्ध्वा च सुचिरं कालं पाण्डवैः सह भारत॥ लब्धलक्ष्यैः परैर्हष्टैक्यच्छद्भिश्चिरं तदा। संध्याकालं समासाद्य प्रत्याहारमकारयत्॥ कृत्वावहारं सैन्यानां प्रविश्य शिबिरं स्वकम्। कुरवः सुहितं मन्त्रं मन्त्रयाञ्चक्रिरे मिथः॥ पर्यङ्केषु परार्येषु स्पास्तरणवत्सु च। वरासनेषूपविष्टाः सुखशय्यास्विवामराः॥ ततो दुर्योधनो राजा साम्ना परमवल्गुना। तानाभाष्य महेष्वासान् प्राप्तकालमभाषत।॥ दुर्योधन उवाच मतं मतिमतां श्रेष्ठाः सर्वे प्रबूत मा चिरम्। एवं गते तु किं कार्यं किं च कार्यतरं नृपाः॥ संजय उवाच एवमुक्ते नरेन्द्रेण नरसिंहा युयुत्सवः। चक्रुर्नानाविधाश्चेष्टाः सिंहासनगतास्तदा॥ तेषां निशाम्येगितानि युद्धे प्राणाञ्जुहूषताम्। समुद्वीक्ष्य मुखं राज्ञो बालार्कसमवर्चसम्॥ आचार्यपुत्रो मेधावी वाक्यज्ञो वाक्यमाददे। रागो योगस्तथा दाक्ष्यं नयश्चेत्यर्थसाधकाः॥ उपाया: पण्डितैः प्रोक्तास्ते तु दैवमुपाश्रिताः। लोकप्रवीरा येऽस्माकं देवकल्पा महारथः॥ नीतिमन्तस्तथा युक्ता दक्षा रक्ताक्ष ते हताः। न त्वेव कार्यं नैराश्यमस्माभिर्विजयं प्रति॥ सुनीतैरिह सर्वार्थैर्देवमप्यनुलोम्यते। ते वयं प्रवरं नृणां सर्वैगुणगणौर्युतम्॥ कर्णमेवाभिषेक्ष्यामः सैनापत्येन भारत। कर्ण सेनापति कृत्वा प्रमथिष्यामहे रिपून्॥ एष ह्यतिबलः शूरः कृतास्त्रो युद्धदुर्मदः। वैवस्वत इवासह्यः शक्तो जेतुं रणे रिपून्॥ एतदाचार्यतनयाच्छ्रुत्वा राजंस्तवात्मजः। आशा बहुमती चक्रे कर्णं प्रति स वै तदा॥ हते भीष्मे च द्रोणे च कर्णो जेष्यति पाण्डवान्। तामाशां हृदये कृत्वा समाश्वस्य च भारत॥ ततो दुर्योधनः प्रीतः प्रियं श्रुत्वाऽस्य तद् वचः। प्रीतिसत्कार संयुक्तं तथ्यमात्महितं शुभम्॥ स्वं मनः समवस्थाप्य बाहुवीर्यमुपाश्रितः। दुर्योधनो महाराज राधेयमिदमब्रवीत्॥ कर्ण जानामि ते वीर्यं सौहृदं परमं मयि। तथापि त्वां महाबाहो प्रवक्ष्यामि हितं वचः॥ श्रुत्वा यथेष्टं च कुरु वीर यत् तव रोचते। भवान् प्राज्ञतमो नित्यं मम चैव परा गतिः॥ भीष्मद्रोणावतिरथौ हतौ सेनापति मम। सेनापतिर्भवानस्तु ताभ्यां द्रविणवत्तरः॥ वृद्धौ च तौ महेष्वासौ सापेक्षौ च धनंजये। मानितौ च मया वीरौ राधेय वचनात् तव॥ पितामहत्वं सम्प्रेक्ष्य पाण्डुपुत्रा महारणे। रक्षितास्तात भीष्मेण दिवसानि दशैव तु॥ न्यस्तशस्त्रे च भवति हतो भीष्मः पितामहः। शिखण्डिन पुरस्कृस्य फाल्गुनेन महाहवे॥ हते तस्मिन् महेष्वासे शरतल्पगते तथा। त्वयोक्ते पुरुष व्याघ्र द्रोणो ह्यासीत् पुरः सरः॥ तेनापि रक्षिताः पार्थाः शिष्यत्वादिति मे मतिः। स चापि निहतो वृद्धो धृष्टद्युम्नेन सत्वरम्॥ निहताभ्यां प्रधानाभ्यां ताभ्यानमितविक्रम। त्वत्समं समरे योधं नान्यं पश्यामि चिन्तयन्॥ भवानेव तु नः शक्तो विजयाय न संशयः। पूर्वं मध्ये च पश्चाच तथैव विहितं हितम्॥ स भवान् धुर्यवत् संख्ये धुरमुद्वोढुमहति। अभिषेचय सैनान्ये स्वयमात्मानमात्मना॥ देवतानां यथा स्कन्दः सेनानीः प्रभुरव्ययः। तथा भवानिमां सेनां धार्तराष्ट्रीं बिभर्तु वै॥ जहि शत्रुगणान् सर्वान् महेन्द्रो दानवानिव। अवस्थितं रणे दृष्ट्वा पाण्डवास्त्वां महारथाः॥ द्रविष्यन्ति च पञ्चाला विष्णुं दृष्ट्वेव दानवाः। तस्मात् त्वं पुरुषव्याघ्र प्रकर्षैतां महाचमूम्॥ भवत्यवस्थिते यत्ते पाण्डवा मन्दचेतसः। द्रविष्यन्ति सहामात्याः पञ्चालाः सुंजयाश्च ह॥ यथा ह्यभ्युदितः सूर्यः प्रतपन् स्वेन तेजसा। व्यपोहति समस्तीव्र तथा शत्रून् प्रतापय॥ संजय उवाच आशा बलवती राजन् पुत्रस्य तव याऽभवत्। हते भीष्मे च द्रोणे च कर्णो जेष्यति पाण्डवान्॥ तामाशां हृदये कृत्वा कर्णमेवं तदाब्रवीत्। सूतपुत्र न ते पार्थः स्थित्वाग्रे संयुयुत्सति॥ कर्ण उवाच उक्तमेतन्मया पूर्वं गान्धारे तव संनिधौ। जेष्यामि पाण्डवान् सर्वान् सपुत्रान् सजनार्दनान्॥४० सेनापतिर्भविष्यामि तवाहं नात्र संशयः। स्थिरो भव महाराज जितान् विद्धि च पाण्डवान्॥४१ संजय उवाच एवमुक्तो महाराज ततो दुर्योधनो नृपः। उत्तस्थौ राजभिः सार्धं देवैरिव शतक्रतुः॥ सेनापत्येन सत्कर्तुं कर्णं स्कन्दमिवामराः। ततोऽभिषिषिचुः कर्णं विधिदृष्टेन कर्मणा॥ दुर्योधनमुखा राजन् राजानो विजयैषिणः। शातकुम्भमयैः कुम्भैर्माहेयैश्चभिमन्त्रितैः॥ तोयपूर्णविषाणैश्च द्विपखङ्गमहर्षभैः। मणिमुक्तायुतैश्चान्यैः पुण्यगन्धस्तथौषधैः। औदुम्बरे सुखासीनमासने क्षौमसंवृत। शास्त्रदृष्टेन विधिना सम्भारैश्च सुसम्भृतैः॥ ब्राह्मणः क्षत्रिया वैश्यास्तथा शूद्राश्च सम्मताः। तुष्टुवुस्तं महात्मानमभिषिक्तं वरासने॥ ततोऽभिषिक्ते राजेन्द्र निष्कर्गोभिर्धनेन च। वाचयामास विप्राय्यान् राधेयः परवीरहा॥ जय पार्थान सगोविन्दान् सानुगांस्तान् महामृधे। इति तं वन्दिनः प्राहुर्द्विजाश्च पुरुषर्षभम्॥ जहि पार्थान् सपाञ्चालान् राधेय विजयाय नः। उद्यन्निव सदा भानुस्तमांस्युप्रैर्गभस्तिभिः॥ न ह्यलं त्वद्विसृष्टानां शराणां वै सकेशवाः। उलूकाः सूर्यरश्मीनां ज्वलतामिव दर्शने॥ न हि पार्थाः सपाञ्चाला: स्थातुं शक्तास्तवाग्रतः। आत्तशस्त्रस्य समरे महेन्द्रस्येव दानवाः॥ अभिषिक्तस्तु राधेयः प्रभया सोऽमितप्रभः। अत्यरिच्यत रूपेण दिवाकर इवापरः॥ सैनापत्ये तु राधेमभिषिच्य सुतस्तव। अमन्यत् तदाऽऽत्मानं कृतार्थं कालचोदितः॥ कर्णोऽपि राजन् सम्प्राप्य सैनापत्यमरिंदमः। योगामाज्ञापगमास सूर्यस्योदयनं प्रति॥ तव पुत्रैर्वृतः कर्णः शुशुभे तत्र भारत। देवैरिव यथा स्कन्दः संग्रामे तारकामये॥ धृतराष्ट्र उवाच सैनापत्यं तु सम्प्राप्य कर्णो वैकर्तनस्तदा। तथोक्तश्च स्वयं राज्ञा स्निग्धं भ्रातृसमं वचः॥ योगमाज्ञाप्य सेनानामादित्येऽभ्युदिते तदा। अकरोत् किं महाप्राज्ञास्तन्ममाचक्ष्व संजय॥ संजय उवाच कर्णस्य मतमाज्ञाय पुत्रास्ते भरतर्षभ। योगमाज्ञापयामासुर्नन्दितूर्यपुरःसरम्॥ महत्यपररात्रे च तव सैन्यस्य मारिष। योगो योगेति सहसा प्रादुरासीन्महास्वनः॥ कल्पतां नागमुख्यानां रथानां च वरूथिनाम्। संनयतां नराणां च वाजिनां च विशाम्पते॥ क्रोशतां चैव योधानां त्वरितानां परस्परम्। बभूव तुमुलः शब्दो दिवस्पृक् सुमहांस्ततः॥ ततः श्वेतपताकेन बलाकावर्णवाजिना। हेमपृष्टेन धनुषा नागकक्षेण केतुना॥ तूणीरशतपूर्णेन सगदेन वरूथिना। शतध्वीकिंकिणीशक्तिशूलतोमरधारिणा॥ कार्मुकैरूपन्नेन विमलादित्यवर्चसा। रथेनाभिपताकेन सूतपुत्रोऽभ्यदृश्यत॥ ध्मापयन् वारिजं राजन् हेमजालविभूषितम्। विधुन्वानो महचापं कार्तस्वरविभूषितम्॥ दृष्ट्वा कर्णे महेष्वासं रथस्थं रथिनां वरम्। भानुमन्तमिवोद्यन्तं तमो निनन् दुरासदम्॥ न भीष्मव्यसनं केचिन्नापि द्रोणस्य मारिष। नान्येषां पुरुषव्याघ्र मेनिरे तत्र कौरवाः॥ ततस्तु त्वरयन् योधाशङ्खशब्देन मारिष। कर्णो निष्कर्षयामास कौरवाणां महद् बलम्॥ व्यूहं व्यूह्य महेष्वासो मकरं शत्रुतापनः। प्रत्युद्ययौ तथा कर्णः पाण्डवान् विजिगीषया॥ मकरस्य तु तुण्डे वै कर्णो राजन् व्यवस्थितः। नेत्राभ्यां शकुनिः शूर उलूकश्च महारथः॥ द्रोणपुत्रस्तु शिरसि ग्रीवायां सर्वसोदरा। मध्ये दुर्योधनो राजा बलेन महता वृतः॥ वामपादे तु राजेन्द्र कृतवर्मा व्यवस्थितः। नारायणबलैर्युक्तो गोपालैर्युद्धदुर्मदैः॥ पादे तु दक्षिणे राजन् गौतमः सत्यविक्रमः। त्रिगतैः सुमहेष्वासैर्दाक्षिणात्यैश्च संवृतः॥ अनुपादे तु यो वामस्तत्र शल्यो व्यवस्थितः। महत्या सेनया सार्धं मद्रदेशसमुत्थया॥ दक्षिणे तु महाराज सुषेणः सत्यसंगरः। वृतो रथसहस्रेण दन्तिनां च त्रिभिः शतै॥ पुच्छे ह्यास्तां महावीर्यो भ्रातरौ पार्थिवौ तदा। चित्रश्च चित्रसेनश्च महत्या सेनया वृतौ॥ तथा प्रयाते राजेन्द्र कर्णे नरवरोत्तमे। धनंजयमभिप्रेक्ष्य धर्मराजोऽब्रवीदिदम्॥ पार्थ यथा सेना धार्तराष्ट्रीह संयुगे। कर्णेन विहिता वीर गुप्ता वीरैर्महारथैः॥ हतवीरतमा ह्येषा धार्तराष्ट्री महाचमूः। फल्गुशेषा महाबाहो तृणैस्तुल्या मता मम॥ एको ह्यत्र महेष्वासः सूतपुत्रो विराजते। सदेवासुरगन्धर्वैः सकिन्नरमहोरगैः॥ चराचरैस्त्रिभिलेकिर्योऽजय्यो रथिनां वरः। तं हत्वाद्य महाबाहो विजयस्तव फाल्गुन॥ उद्धृतश्च भवेच्छल्यो मम द्वादशवार्षिकः। एवं ज्ञात्वा महाबाहो व्यूहं व्यूह यथेच्छसि।॥ भ्रातुरेतद् वचः श्रुत्वा पाण्डवः श्वेतवाहनः। अर्धचन्द्रेण व्यूहेन प्रत्यव्यूहत तां चमूम्॥ वामपार्वे तु तस्याथ भीमसेनो व्यवस्थितः। दक्षिणे च महेष्वासो धृष्टद्युम्नो व्यवस्थितः॥ मध्ये व्यूहस्य राजा तु पाण्डवश्च धनंजयः। नकुलः सहदेवश्च धर्मराजस्य पृष्ठतः॥ चक्ररक्षौ तु पाञ्चाल्यौ युधामन्युत्तमौजसौ। नार्जुनं जहतुयुद्धे पाल्यमानौ किरीटिना।३१॥ शेषा नृपतयो वीराः स्थिता व्यूहस्य दंशिताः। यथाभागं यथोत्साहं यथायत्नं च भारतः॥ एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः। तावकाश्च महेष्वासा युद्धोयैव मनो दधुः॥ दृष्ट्वा व्यूढां तव चमूं सूतपुत्रेण संयुगे। निहतान् पाण्डवान् मेनेधार्तराष्ट्रः सबान्धवः॥ तथैव पाण्डवी सेनां व्यूढां दृष्ट्वा युधिष्ठिरः। धार्तराष्ट्रान् हतान् मेने सकर्णान् वै जनाधिपः॥ ततः शङ्खाश्च भेर्यश्च पणवानकदुन्दुभिः। डिण्डिमाश्चाप्यहन्यन्त झर्झराश्च समन्ततः॥ सेनायोरुभयो राजन् प्रावाद्यन्त महास्वनाः। सिंहनादश्च संजज्ञे शूराणां जयगृद्धिनाम्॥ हयहेषितशब्दाश्च वारणानां च बृंहताम्। रथनेमिस्वनाचोग्रा: सम्बभूवर्जुनाधिप॥ न द्रोणव्यसनं कश्चिजीनीते तत्र भारत। दृष्ट्वा कर्णं महेष्वासं मुखे व्यूहस्य दंशितम्॥ उभे सैन्ये महाराज प्रहृष्टनरसंकुले। योद्भुकामे स्थिते राजन् हन्तुमन्योन्यमोजसा॥ तत्र यत्तौ सुसंरब्धौ दृष्ट्वान्योन्यं व्यवस्थितौ। अनीकमध्ये राजेन्द्र चेरतुः कर्णपाण्डवौ॥ नृत्यमाने च ते सेने समेयातां परस्परम्। तेषां पक्षैः प्रपक्षेभ्यो निर्जग्मुस्ते युयुत्सवः॥ ततः प्रववृते युद्धं नरवारणवाजिनाम्। रथानां च महाराज अन्योन्यमभिनिघ्नताम्॥ संजय उवाच ते सेनेऽन्योन्यमासाद्य प्रहष्टाश्चनरद्विपे। बृहत्यौ सम्प्रजह्वाते देवासुरमसप्रभे॥ ततो नररथाश्वेभैः पतयशोग्रविक्रमाः। सम्प्रहारान् भृशं चक्रुर्देपाप्मसुनाशनान्॥ पूर्णचन्द्रार्कपद्मानां कान्तिभिर्गन्धतः समैः। उत्तमा.सिंहानां नृसिंहास्तस्तरुर्महीम्॥ अर्धचन्द्रैस्तथा भल्लैः क्षुरप्रैरसिपट्टिशैः। परश्वधैश्चाप्यकृन्तन्नुत्तमाङ्गानि युध्यताम्॥ व्यायतायतबाहूनां व्यायतातबाहुभिः। बाहवः पातिता रेजुर्धरण्यां सायुधाङ्गदा॥ तैः स्फुरद्भिर्मही भाति रक्ताङ्गुलितलैस्तथा। गरुडाहितैरुप्रैः पञ्चास्यैरुरगैरिव॥ द्विरदस्यन्दनाश्वेभ्यः पेतुर्वीरा द्विषद्धताः। विमानेभ्यो यथा क्षीणे पुण्ये स्वर्गसदस्तथा॥ गदाभिरन्ये गुर्वीभिः परिधैर्मुसलैरपि। पोथिताः शतश: पेतुर्वीरा वीरतरै द्विपैः॥ स्था रथैर्विमथिता मत्ता मत्तैर्द्विपा द्विपैः। सादिनः सादिभिश्चैव तस्मिन् परमसंकुले॥ रथैरा रथा नागैरश्वारोहाश्च पत्तिभिः। अश्वारोहैः पदाताश्च निहता युधि शेरते॥ रथाश्वपत्तयो नागै रथाश्वेभाश्च पत्तिभिः। रथपत्तिद्विपाश्चाश्चै रथैश्चापि नरद्विपाः॥ रथाश्चेभनराणां तु नराश्चेभरथैः कृतम्। पाणिपादैश्च शस्त्रैश्च रथैश्च कदनं महत्॥ तथा तस्मिन् बले शूरैर्वध्यमाने हतेऽपि च। अस्मानभ्याययुः पार्था वृकोदरपुरोगमाः॥ धृष्टद्युम्न: शिखण्डी च द्रौपदेयाः प्रभद्रकाः। सात्यकिश्चेकितानश्च द्राविडैः सैनिकैः सह।॥ वृता व्यूहेन महता पाण्ड्याश्चोलाः सकेरलाः। व्यूढोरस्का दीर्घभुजा: प्रांशवः पृथुलोचनाः॥ आपीडिनो रक्तदन्ता मत्तमातङ्गविक्रमाः। नानाविरागवसना गन्धचूर्णावचूर्णिताः॥ बद्धासयः पाशहस्ता वारप्रतिवारणा:। समानमृत्यवो राजन् नात्यजन्त परस्परम्॥ कलापिनश्चापहस्ता दीर्घकेशाः प्रियंवदाः। पत्तयः सादिनश्चान्ये घोररूपराक्रमाः॥ अथापरे पुनः शूराश्चेदिपश्चालकेकयाः। कारूषाः कोसलाः काच्या मागधाश्चपि दुद्रुवः॥ तेषां रथाश्वनागाश्च प्रवराचोग्रपत्तयः। नानावाद्यधरैर्हष्टा नृत्यन्ति च हसन्ति च॥ तस्य सैन्यस्य महतो महामात्रवरैर्वृतः। मध्ये वृकोदरोऽभ्यायात् त्वदीयान् नागधूर्गतः॥ स नागप्रवरोऽत्युग्रो विधिवत् कल्पितो बभौ। उदयाग्रादिभवनं यथाभ्युदितभास्करम्॥ तस्यायसं वर्म वरं वररत्नविभूषितम्। ताराव्याप्तस्य नभसः शारदस्य समत्विषम्॥ स तोमरव्यग्रकरश्चरूमौलिः स्वलंकृतः। शरन्मध्यंदिनार्काभस्तेजसा व्यदहद् रिपून॥ तं दृष्ट्वा द्विरदं दूरात् क्षेमधूर्तिपिस्थितः। आह्वयन्नभिदुद्राव प्रमनाः प्रपनस्तरम्॥ तयोः समभवद् युद्धं द्विपयोरुग्ररूपयोः। यद्दच्छया द्रुमवतोर्महापर्वतयोरिव॥ संसक्तनागौ तौ वीरौ तोमरैरितरेतरम्। बलवत् सूर्यरश्म्याभौर्भित्त्वान्योन्यं विनेदतुः॥ व्यपसृत्य तु नागाभ्यां मण्डलानि विचेरतुः। प्रगृह्य चोभौ धनुषी जनतुर्वै परस्परम्॥ क्ष्वेडितास्फोटितरवैर्बाणशब्दैस्तु सर्वतः। तौ जनं हर्षयन्तौ च सिंहनादं प्रचक्रतुः॥ समुद्यतकराभ्यां तौ द्विपाभ्यां कृतिनावुभौ। वातोद्भूतपताकाभ्यां युयुधाते महाबलौ॥ तावन्योन्यस्य धनुषी छित्त्वान्योन्यं विनेदतुः। शक्तितोमरवर्षेण प्रावृण्मेधाविवाम्बुभिः॥ क्षेमधूर्तिस्तदा भीमं तोमरेण स्तनान्तरे। निर्बिभेदातिवेगेन षड्भिश्चाप्यपरैर्नदन्॥ स भीमसेनः शुशुभे तोमरै रङ्गमाश्रितैः। क्रोधदीप्तवपुर्मेधैः सप्तसप्तिरिवांशुमान्॥ ततो भास्करवर्णाभमञ्जोगतिमयस्मयम्। ससर्ज तोमरं भीमः प्रत्यमित्राय यत्नवान्॥ ततः कुलूताधिपतिश्चापमानम्य सायकैः। दशभिस्तोमरं भित्वा षष्ट्या विव्याध पाण्डवम्॥ अथ कार्मुकमादाय भीमो जलदनि:स्वनम्। रिपोरभ्यर्दयन्नागमुन्नदन् पाण्डवः शरैः॥ स शरोघार्दितो नागो भीमसेनेन संयुगे। गृह्यमाणोऽपि नातिष्ठद् वातोद्भूत इवाम्बुदः॥ तमभ्यधावद् द्विरदं भीमो भीमस्य नागराट्। महावातेरितं मेघं वातोद्भूत इवाम्बुदः॥ संनिवार्यात्मनो नागं क्षेमधूर्तिः प्रतापवान्। विध्याधाभिद्रुतं बाणैर्भीमसेनस्य कुञ्जरम्॥ ततः साधुविसृष्टेन क्षुरेणानतपर्वणा। छित्त्वा शरासनं शत्रो गमामित्रमार्दयत्॥ ततः क्रुद्धो रणे भीमं क्षेमधूर्तिः पराभिनत्। जघान चास्य द्विरदं नाराचैः सर्वमर्मसु॥ स पपात महानागो भीमसेनस्य भारत। पुरा नागस्य पतनादवप्लुत्य स्थितो महीम्॥ तस्य भीमोऽपि द्विरदं गदया समपोथयत्। तस्मात् प्रमथितान्नागात् क्षेमधूर्तिमवप्लुतम्॥ उद्यतायुधमायान्तं गदयाऽहन् वृकोदरः। स पपात हतः सासिळसुस्तमभितो द्विपम्॥ वज्रप्रभग्नमचलं सिंहो वज्रहतो यथा। तं हतं नृपति दृष्ट्वा कुलूतानां यशस्करम्। प्रादवद् व्यथिता सेना त्वदीना भरतर्षभ॥ संजय उवाच ततः कर्णो महेष्वासः पाण्डवानामानीकिनीम्। जघान समरे शूरः शरैः संनतपर्वभिः॥ तथैव पाण्डवा राजंस्तव पुत्रस्य वाहिनीम्। कर्णस्य प्रमुखे क्रुद्धा निजध्नुस्ते महारथाः॥ कर्णोऽपिराजन् समरे व्यहनत् पाण्डवीं चमूम्। नाराचैरर्करशम्याभैः कर्मारपरिमार्जितैः॥ तत्र भारत कर्णेन नाराचैस्ताडिता गजाः। नेदुः सेदुश्च मम्लुश्च बभ्रमुश्च दिशो दश॥ वध्यमाने बले तस्मिन् सूतपुत्रेण मारिष। नकुलोऽभ्यद्रवत तूर्ण सूतपुत्रं महारणे॥ भीमसेनस्तथा द्रौणिं कुर्वाणं कर्म दुष्करम्। विन्दानुविन्दौ कैकेयौ सात्यकिः समवारयत्॥ श्रुतकर्माणमायान्तं चित्रसेनो महीपतिः। प्रतिविध्यस्तथा चित्रं चित्रकेतनकार्मुकम्॥ दुर्योधनस्तु राजानं धर्मपुत्रं युधिष्ठिरम्। संशप्तकगणान् क्रुद्धो ह्यभ्यधावद् धनंजयः॥ धृष्टधुम्नः कृपेणाथ तस्मिन् वीरवरक्षये। शिखण्डी कृतवर्माणं समासादयदच्युतम्॥ श्रुतकीर्तिस्तथा शल्यं माद्रीपुत्रः सुतं तव। दुःशासनं महाराज सहदेवः प्रतापवान्॥ कैकेयौ सात्यकिं युद्धे शरवर्षेण भास्वता। सात्यकिः केकयौ चापि च्छादयामास भारत॥ तावेनं भ्रातरौ वीरौ जघ्नतुर्हदये भृशम्। विषाणाभ्यां यथा नागौ प्रतिनागं महावने॥ शरसम्भिन्नवर्माणौ तावुभौ भ्रातरौ रणे। सात्यकिं सत्यकर्माणं राजन् विव्यधतुः शरैः॥ तौ सात्यकिर्महाराज प्रहसन् सर्वतोदिशः। छादयञ्छरवर्षेण वारयामास भारत॥ वार्यमाणौ ततस्तौ हि शैनेयशरवृष्टिभिः। शैनेयस्य रथं तूर्णं छादयामासतुः शरैः॥ तयोस्तु धनुषी चित्रे छित्त्वा शौरिर्महायशाः। अथ तौ सायकैस्तीक्ष्णैर्वारयामास संयुगे॥ अथान्ये धनुषी चित्रे प्रगृह्य च महाशरान्। सात्यकिं छादयन्तौ तौ चेरतुर्लघु सुष्ठु च॥ ताभ्यां मुक्ता महाबाणाः कङ्कबर्हिणवाससः। द्योतयन्तो दिशः सर्वाः सम्पेतुः स्वर्णभूषणाः॥ बाणान्धकारमभवत् तयो राजन् महामृधे। अन्योन्यस्य धनुश्चैव चिच्छिदुस्ते महारथाः॥ ततः क्रुद्धो महाराज सात्वतो युद्धदुर्मदः। धनुरन्त्यत् समादाय सज्यं कृत्वा च संयुगे।॥ क्षुरप्रेण सुतीक्ष्णेन अनुविन्दशिरोऽहरत्। अपतत् तच्छिरो राजन् कुण्डलोपचितं महत्॥ शम्बरस्य शिरो यद्वनिहतस्य महारणे। शोचयन् केकयान् सर्वाञ्जगामाशु वसुन्धराम्॥ तं दृष्ट्वा निहतं शूरं भ्राता तस्य महारथः। सज्यमन्यद् धनुः कृत्वा शैनेयः पर्यवारयत्॥ स षष्ट्या सात्यकिं विद्धा स्वर्णपु? शिलाशितैः। ननाद बलवन्नादं तिष्ठ तिष्ठेति चाब्रवीत्॥ सात्यकिं च ततस्तूर्णं केकयानां महारथः। शरैरनेकसाहस्त्रैर्बाह्वोरुरसि चार्पयत्॥ स शरैः क्षतसर्वाङ्गः सात्यकिः सत्यविक्रमः। रराज समरे राजन् सपुष्प इव किंशुकः॥ सात्यकिः समे विद्धः कैकेयेन महात्मना। कैकेयं पञ्चविंशत्या विव्याध प्रहसत्रिव॥ तावन्योन्यस्य समरे संछिद्य धनुषी शुभे। हत्वा च सारथी तूर्णं हयाश्च रथिनां वरौ॥ विरथावसियुद्धाया समाजग्मतुराहवे। शतचन्द्रचिते गृह्य चर्मणी सुभुजौ तथा॥ व्यरोचेतां महारङ्गे निस्त्रिंशवरधारिणौ। यथा देवासुरे युद्धे जम्भशक्रौ महाबलौ॥ मण्डलानि ततस्तौ तु विचरन्तौ महारणे। अन्योन्यमभितस्तूर्णं समाजग्मतुराहवे॥ अन्योयन्यस्य वधे चैव चक्रतुर्यनमुत्तमम्। कैकेयस्य द्विधा चर्म ततश्चिच्छेद सात्वतः॥ सात्यकेस्तु तथैवासौ चर्म चिच्छेद पार्थिवः। चर्म च्छित्त्वा तु कैकेयस्तारागणशतैर्वृतम्॥ चचार मण्डलान्येव गतप्रत्यागतानि च। तं चरन्तं महारङ्गे निस्त्रिंशवरधारिणम्॥ अपहस्तेन चिच्छेद शैनेयस्त्वरयान्वितः। सवर्मा केकयो राजन् द्विधा छिन्नो महारणे॥ निपपात महेष्वासो वजाहत् इवाचलः। तं निहत्य रणे शूरः शैनेयो रथसत्तमः॥ युधामन्युरथं तूर्णमासरोह परंतपः। ततोऽन्यं रथमास्थाय विधिवत्कल्पितं पुनः। केकयानां महत् सैन्यं व्यधमत् सात्यकिः शरैः॥ सा वध्यामाना समरे केकयानां महाचमूः। तमुत्सृज्य रणे शत्रु प्रदुद्राव दिशो दश॥ संजय उवाच श्रुतकर्मा ततो राजंश्चित्रसेनं महीपतिम्। आजध्ने समरे क्रुद्धः पश्चाशद्भिः शिलीमुखैः॥ अभिसारस्तु तं राजन् नवभिनतपर्वभिः। श्रुतकर्माणमाहत्य सूतं विव्याध पञ्चभिः॥ श्रुतकर्मा ततः क्रुद्धश्चित्रसेनं चमूमुखे। नाराचेन सुतीक्ष्णेन मर्मदेशे समार्पयत्॥ सोऽतिविद्धो महाराज नाराचेन महात्मना। मूर्छामभिययौ वीरः कश्मलं चाविवेश ह॥ एतस्मिन्नन्तरे चैनं श्रुतकीर्तिर्महायशाः। नवत्या जगतीपालं छादयामास पत्रिभिः॥ प्रतिलभ्य ततः संज्ञा चित्रसेनो महारथः। धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः॥ सोऽन्यत् कार्मुकमादाय वेगघ्नं रुक्मभूषितम्। चित्ररूपधर चक्रे चित्रसेनं शरोर्मिभिः॥ स शरैश्चित्रितो राजा चित्रमाल्यधरो युवा। युवेव समरेऽशोभद्गोष्ठीमध्ये स्वलंकृतः॥ श्रुतकर्माणमथ वै नाराचेन स्तनान्तरे। बिभेद तरसा शूरस्तिष्ठ तिष्ठेति चाब्रवीत्॥ श्रुतकर्मापि समरे नाराचेन समर्पितः। सुस्त्राव रुधिरं तत्र गैरिकाई इवाचलः॥ ततः स रुधिराक्ताङ्गो रुधिरेण कृतच्छविः। रराज समरे वीरः सपुष्प इव किंशुकः॥ श्रुतकर्मा ततो राजशत्रुणा समभिद्रुतः। शत्रुसंवारणं क्रुद्धो द्विधा चिच्छेद कार्मुकम्॥ अथैनं छिन्नधन्वानं नाराचानां शतैस्त्रिभिः। छादयन् समरे राजन् विव्याध च सुपत्रिभि॥ ततोऽपरेण भल्लेन तीक्ष्णेन निशितेन च। जहार सशिरस्त्राणं शिरस्तस्य महात्मनः॥ तच्छिरो न्यपतद् भूमौ चित्रसेनस्य दीप्तिमत्। यद्दच्छया यथा चन्द्रश्चयुतः स्वर्गान्महीतलम्॥ राजानं निहतं दृष्ट्वा तेऽभिसारं तु मारिष। अभ्यद्रवन्त वेगेन चित्रसेनस्य सैनिकाः॥ ततः क्रुद्धो महेष्वासस्तत्सैन्यं प्राद्रवच्छरैः। अन्तकाले यथा क्रुद्धः सर्वभूतानि प्रेतराट्।॥ ते वध्यामानाः समरे तव पौत्रेव धन्विना। व्यद्रवन्त दिशस्तूर्णं दावदग्धा इव द्विपाः॥ तास्तु विद्रवतो दृष्ट्वा निरुत्साहन द्विषजये। द्रावयन्निषुभिस्तीक्ष्णैः श्रुतवर्मा व्यरोचत॥ प्रतिविन्ध्यस्यतश्चित्रं भित्वा पञ्चभिराशुगैः। सारथिं च त्रिभिर्विद्ध्वा ध्वजमेकेषुणापि च ॥ तं चित्रो नवभिल्लैर्बाह्वोरुरसि चार्पयत्। स्वर्णपुङः प्रसन्नात्रैः कङ्कबर्हिणवाजितैः॥ प्रतिविन्थ्यो धनुश्छित्त्वा तस्य भारत सायकैः। फञ्चभिर्निशितैर्बाणैरथैनं स हि जनिवान्॥ ततः शक्ति महाराज स्वर्णघण्टां दुरासदाम्। प्राहिणोत् तव पौत्राय घोरामग्निशिखामिव॥ तामापतन्तीं सहसा महोल्काप्रतिमां तदा। द्विधा चिच्छेद समरे प्रतिविन्ध्यो हसन्निव॥ सा पपात द्विधा छिन्न प्रतिविन्ध्यशरैः शितैः। युगान्ते सर्वभूतानि त्रासयन्ती यथाऽशनिः॥ शक्तिं तां प्रहतां दृष्ट्वा चित्रो गृह्य महागदाम्। प्रतिविन्ध्याय चिक्षेम रुक्मजालविभूषिताम्॥ सा जघान हयांस्तस्य सारथिं च महारणे। रथं प्रमृद्य वेगेन धरणीमन्वपद्यत॥ एतस्मिन्नेव काले तु रथादाप्लुत्य भारत। शक्तिं चिक्षेप चित्राय स्वर्णदण्डामलंकृताम्॥ तामापतन्ती जग्राह चित्रो राजन् महामनाः। ततस्तामेव चिक्षेप प्रतिविन्ध्याय पार्थिवः॥ समासाद्य रणे शूरं प्रतिविन्ध्यं महाप्रभा। निर्भिद्य दक्षिणं बाहु निपपात महीतले। पतिताभासयचैव त देशमशनिर्यथ॥ प्रतिविन्ध्यस्ततो राजस्तोमरं हेमभूषितम्। प्रेषयामास संक्रुद्धश्चित्रस्य वधकाङ्क्षया।॥ स तस्य गात्रावरणं भित्वा हृदयमेव च। जगाम धरणी तूर्णं महोरग इवाशयम्॥ स पपात तदा राजा तोमरेण समाहतः। प्रसार्य विपुलौ बाहू पीनौ परिघसंनिभौ॥ चित्रं सम्प्रेक्ष्य निहतं तावका रणशोभिनः। अभ्यद्रवन्त वेगेन प्रतिविन्ध्यं समन्ततः॥ सृजन्तौ विविधान् बाणशतघ्नीश्च सकिंकिणीः। तमवच्छादयामासुः सूर्यमभ्रगणा इव॥ तान् विधम्य महाबाहुः शरजालेन संयुगे। व्यद्रावयत् तव चमूं वज्रहस्त इवासुरीम्॥ ते वध्यमानाः समरे तावकाः पाण्डवैर्नृप। विप्राकीर्यन्त सहसा वातनुन्ना घना इव॥ विप्रदुते बले तस्मिन् वध्यमाने समन्ततः। द्रौणिरेकोऽभ्ययात् तूर्णं भीमसेनं महाबलम्॥ ततः समागमो घोरो बभूव सहसा तयोः। यथा देवासुरे युद्धे वृत्रवासवयोरिव॥ संजय उवाच भीमसेनं ततो द्रोणी राजन् विव्याध पत्रिणा। परया त्वरया युक्तो दर्शयन्नस्त्रलाघवम्॥ अथैनं पुनराजने नवत्या निशितैः शरैः। सर्वमर्माणि सम्प्रेक्ष्य मर्मज्ञो लघुहस्तवत्॥ भीमसेनः समाकीरें द्रौणिना निशितैः शरैः। रराज समरे राजन् रश्मिवानिव भास्करः॥ ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः। द्रोणपुत्रमवच्छाद्य सिंहनादममुञ्चत॥ शरैः शरांस्ततो द्रौणि: संवार्य युधि पाण्डवम्। ललाटेऽभ्यानद् राजन् नाराचेन स्मयन्निव॥ ललाटस्थं ततो बाणं धारयामासं पाण्डवः। यथा शृङ्गं वने दृप्तः खङ्गो धारयते नृप॥ ततो द्रौणि रणे भीमो यतमानं पराक्रमी। त्रिभिर्विव्याध नाराचैर्ललाटे विस्मयन्निव॥ ललाटस्थैस्ततौ बाणैर्ब्राह्मणोऽसौ व्यशोभत। प्रावृषीव यथा सिक्तस्त्रिशृङ्गः पर्वतोत्तमः॥ ततः शरशतैद्रौणिरर्दयामास पाण्डवम्। न चैनं कम्पयामास मातरिश्वेव पर्वतम्॥ तथैव पाण्डवो युद्धे द्रौणि शरशतैः शितैः। नाकम्पयत् संहृष्टो वार्योघ इव पर्वतम्॥ तावन्योन्यं शरैोरैश्छादयानौ महारथौ। रथवर्यगतौ वीरौ शुशुभाते बलोत्कटौ।॥ आदित्याविव संदीप्तौ लोकक्षयकरावुभौ। स्वरश्मिभिरिवान्योन्यं तापयन्तौ शरोत्तमैः॥ ततः प्रतिकृते यत्नं कुर्वाणौ तौ महारणे। कृतप्रतिकृते यत्तौ शरसङ्घरभीतवत्॥ व्याघ्राविव च संग्रामे चेरतुस्तौ नरोत्तमौ। शरदंष्ट्रौ दुराधर्षों चापवक्त्रौ भयंकरौ॥ अभूतां तावदृश्यौ च शरजालैः समन्ततः। मेघजालैरिव च्छन्नौ गगने चन्द्रभास्करौ॥ चकाशेते मुहूर्तेन ततस्तावष्यरिंदमौ। विमुक्तावभ्रजालेन अङ्गारकबुधाविव॥ अथ तत्रैव संग्रामे वर्तमाने सुदारुणे। अपसव्यं ततश्चक्रे द्रौणिस्तत्र वृकोदरम्॥ किरज्छरशतैरुपैराभिरिव पर्वतम्। न तु तन्ममृषे भीमः शत्रोर्विजयलक्षणम्॥ प्रतिचक्रे ततो राजन् पाण्डवोऽप्यपसव्यतः। मण्डलानां विभोगेषु गतप्रत्यागतेषु च॥ बभूव तुमुलं युद्धं तयोः पुरुषसिंहयोः। चरित्वा विविधान् मार्गान् मण्डलस्तथानमेव त॥ शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः। अन्योन्यस्य वधे चैव चक्रतुर्यनमुत्तमम्॥ ईषतुर्विरथ चैव कर्तुमन्योन्यमाहवे। ततो द्रौणिर्महास्त्रणि प्रादुश्चक्रे महारथः॥ तान्यस्त्रैरेव समरे प्रतिजघ्नेऽथ पाण्डवः। ततो घोरं महाराज अस्त्रयुद्धमवर्तत॥ ग्रहयुद्धं यथां घोरं प्रजासंहरणे ह्यभूत। ते बाणः समसज्जन्त मुक्तास्ताभ्यां तु भारत॥ द्यौतयन्तो दिशः सर्वास्तव सैन्यं समन्ततः। बाणसङ्घवृत घोरमाकाशं समपद्यत॥ उल्कापातावृतं युद्धं प्रजानां संक्षये नृप। बाणभिघातात् संजज्ञे तत्र भारत पावकः॥ सविस्फुलिङ्गौदीप्तर्चिर्योऽदहद् वाहिनीद्वयम्। तत्र सिद्धा महाराज सम्पतन्तोऽब्रुवन् वचः॥ युद्धानामति सर्वेषां युद्धमेतदिति प्रभो। सर्वयुद्धानि चैतस्य कलां नार्हन्ति षोडशीम्॥ नेदृशं त पुनर्युद्धं भविष्यति कदाचन। अहो ज्ञानेन सम्पन्नाबुभौ ब्राह्मणक्षत्रियौ॥ अहो शौर्येण सम्पन्नावुभौ चोग्रपराक्रमौ। अहो भीमबलो भीम एतस्य च कृतास्त्रताः॥ अहो वीर्यस्य सारत्वमहो सौष्ठवमेतयोः। स्थितावेतौ हि समरे कालान्तकयमोपमौ॥ रुद्रौ द्वाविव सम्भूतौ यथा द्वाविव भास्करौ। यमौ वा पुरुषव्याघ्रौ घौररूपावुभौ रणे॥ इति वाचः स्म श्रूयन्ते सिद्धानां वै मुहुर्मुहुः। सिंहनादश्च संजज्ञे समेतानां दिवौकसाम्॥ अद्भुतं चाप्यचिन्त्यं च दृष्ट्वा कर्म तयो रणे। सिद्धरचारणसंघाना विस्मयः समपद्यत॥ प्रशंसन्ति तदा देवाः सिद्धाश्च परमर्षयः। साधु द्रौणे महाबाहो साधु भीमेति चाब्रुवन्॥ तौ शूरौ समरे राजन् परस्परकृतागसौ। परस्परमुदीक्षेतां क्रोधादुद्दृत्य चक्षुषी॥ क्रोधरक्तेक्षणौ तौ तु क्रोधात् प्रस्फुरिताधरौ। क्रोधात् संदष्टदशनौ तथैव दशनच्छदौ॥ अन्योन्यं छादयन्तौ स्म शरवृष्ट्या महारथौ। शराम्बुधारौ समरे शस्त्रविद्युत्प्रकाशिनौ॥ तावन्योन्यं ध्वजं विद्ध्वा सारथिं च महारणे। अन्योन्यस्य हयान् विद्ध्वा बिभिदाते परस्परम्।। ३९ ततः क्रुद्धौ महाराज बाणौ गृह्य महाहवे। उभौ चिक्षिपतुस्तूर्णमन्योन्यस्य वधैषिणौ।॥ तौ सायकौ महाराज द्यौतमानौ चमूमुखे। आजघ्नतुः समासाद्य वज्रवेगौ दुरासदौ॥ तौ परस्परवेगाच शराभ्यां च भृशाहतौ। निपेततुर्महावीयौ रथोपस्थे तयोस्तदा॥ ततस्तु सारथिख़त्वा द्रोणपुत्रमचेतनम्। अपोवाह रणाद् राजन् सर्वसैन्यस्य पश्यतः॥ तथैव पाण्डवं राजन् विह्वलन्तं मुहुर्मुहुः। अपोवाह रथेनाजौ सारथिः शत्रुतापनम्॥ संजय उवाच ततः समभवद् युद्धं शुक्राङ्गिरसवर्चसोः। नक्षत्रमभितो व्योम्नि शुक्राङ्गिरसयोरिव॥ संतापयन्तावन्योन्यं दीप्तैः शरगभस्तिभिः। लोकत्रासकरावास्तां विमार्गस्थौ ग्रहाविव॥ ततोऽविध्यद् ध्रुवोर्मध्ये नाराचेनार्जुनो भृशम्। स तेन विबभौ द्रौणिरूलरश्मिर्यथा रविः॥ अथ कृष्णौ शरशतैरश्वत्थाम्नार्दितौ भृशम्। स्वरश्मिजालविकचौ युगान्तार्काविवासतुः॥ मवासृजद् वासुदेवेऽभिभूते। र्वज्रग्निवैवस्वतदण्डकल्पैः॥ स केशवं चार्जुनं चातितेजा विव्याध मर्मस्वतिरौद्रकर्मा। राहतो मृत्युपरि व्यथेत॥ द्रौणेरिघुनर्जुनः संनिवार्य व्यायच्छतस्तविगुणैः सुपुङ्खः। मावृत्य संशप्तकसैन्यमार्च्छत्॥ धनूंषि बाणनिषुधीर्धनाः पाणीन् भुजान् पाणिगतं च शस्त्रम्। छत्राणि केतूंस्तुरगान रथेषां वस्त्राणि माल्यान्यथ भूषणानि॥ चर्माणि वर्माणि मनोरमाणि प्रियाणि सर्वाणि शिरांसि चैव। र्बाणैः स्थितानामपराडमुखानाम्॥ सुकल्पिताः स्यन्दनवाजिनागा: समास्थिताः कृतयत्नकृतैर्नृवीरैः। स्तैरेव साधु नृवरा निपेतुः॥ पद्मार्कपूर्णन्दुनिभाननानि किरीटमाल्याभरणोज्ज्वलानि। भल्लार्धचन्द्रक्षुरकर्तितानि प्रपेतुरुवा॒ नृशिरांस्यजस्त्रम॥ वारिदर्पापहमत्युदयम्। कलिङ्गवङ्गाङ्गनिषादवीरा जिघांसवः पाण्डवमभ्यधावन्॥ तेषां द्विपानां निचकर्त पार्थो वर्माणि चर्माणि करान् नियन्तृन्। र्वजाहतानीव गिरेः शिरांसि॥ तेषु प्रभग्नेषु गुरोस्तनूजं बाणैः किरीटी नवसूर्यवर्णैः। र्वायुः समुद्यन्तमिवांशुमन्तम्॥ ततोऽर्जुनेषूनिषुभिर्निरस्य द्रौणि शितैरर्जुनवासुदेवौ। प्रच्छादयित्वा दिवि चन्द्रसूर्यो ननाद सोऽम्भोद इवातपान्त॥ नभ्यर्दितस्तैरभिसृत्य शस्त्रैः। बाणान्धकारं सहसैव कृत्त्वा विव्याध सर्वानिषुभिः सुपुङ्खः ॥ नाप्याददत् संदधन्नैव मुञ्चन् वाणान् रथेऽद्दश्यत सव्यसाची। रथांश्च नागांस्तुरगान् पदातीन् संस्यूतदेहान् दद्दशुर्हतांश्च॥ संधाय नाराचवरान् दशाशु द्रौणिस्त्वरनेकमिवोत्ससर्ज। तेषां त पञ्चार्जुनमभ्यविध्यन् पञ्चाच्युतं निर्बिभिदुः सुपुङ्खाः॥ वसृक् स्त्रवन्तौ धनदेन्द्रकल्पौ। समाप्तविधेन तथाभिभूतौ हतौ रणे ताविति मेनिरेऽन्ये॥ अथार्जुनं प्राह दशार्हनाथः प्रमाद्यसे सिं जहि योधमेतम्। कुर्याद्धि दोषं समुपेक्षितोऽयं कष्टो भवेद् व्याधिरिवाक्रियावान्॥ तथेति चोक्तवाच्युमप्रमादी द्रौणि प्रयत्नदिषुभिस्ततक्षा भुजौ वरौ चन्दनसारदिग्धौ वक्षः शिरोऽथाप्रतिमौ तथोरु॥ गाण्डीवमुक्तैः कुपितोऽविकणे द्रौणि शरैः संयति निर्बिभेद। छित्वा तु रश्मीस्तुरमानविध्यत् ते तं रणादूहुरतीव दूरम्॥ द्रौणिर्दढं पार्थशराभिभूतः। इयेष नावृत्य पुनस्तु योद्धं पार्थेन सार्धं मतिमान् विमृश्य। जानञ्जयं नियतं वृष्णिवीरे धनंजये चाङ्गिरसां वरिष्ठः॥ नियम्य सहयान द्रौणिः समाश्वास्य च मारिष। रथाश्वनरसम्बाधं कर्णस्य प्राविशद् बलम्॥ प्रतीपकारिणी रणादश्वत्थाम्नि हते हयैः। मन्त्रौषधीक्रियायोगैाधौ देहादिवाहते॥ संशप्तकानभिमुखौ प्रयातौ केशवार्जुनौ। वातोद्भूतपताकेन स्यन्दनेनौघनादिना॥ संशप्तकानभिमुखौ प्रयातौ केशवार्जुनौ। वातोद्भूतपताकेन स्यन्दनेनौघनादिना॥ संजय उवाच अथोत्तरेण पाण्डूनां सेनायां ध्वनिरुत्थितः। रथनागाश्वपत्तीनां दण्डधारेण वध्यताम्॥ निवर्तयित्वा तु रथं केशवोऽर्जुनमब्रवीत्। वाहयन्नेव तुरगान् गरुडानिलरंहसः॥ मागधौऽप्यतिविक्रान्तो द्विरदेन प्रमाथिना। भगदत्तादनवरः शिक्षया च बलेन च॥ एनं हत्वा निहन्तासि पुनः संशप्तकानिति। वाक्यान्ते प्रापयत् पार्थं दण्डधारान्तिकं प्रति॥ स मागधानां प्रवरोऽङ्कुशग्रहे ग्रहेऽप्रसह्योविकचो यथा ग्रहः। सपत्नसेनां प्रममाथ दारुणो महीं समयां विकचो यथा ग्रहः॥ सुकल्पितं दानवनागसंनिभं महाभ्रनि दममित्रमर्दनम्। रथाश्वमातङ्गगणान् सहस्रशः समास्थितो हन्ति शरैर्नरानपि॥ स्थानधिष्ठाय सवाजिसारथीन् नरांश्च पादैर्द्विरदो व्यपोथयत्। द्विपाश्च पद्भ्यां ममृदे करेण द्विपोत्तमो हन्ति च कालचक्रवत्॥ नरास्तु कार्णायसवर्मभूषणान् निपात्य साश्वानपि पत्तिभिः सह। व्यपोथयद् दन्तिवरेण शुष्मिणा स शब्दवत् स्थूलनलं यथा तथा॥ अथार्जुनो ज्यातलनेमिनिःस्वने मृदङ्गभेरीबहुशङ्खनादिते। रथाश्वमातङ्गसहस्रसंकुले रथोत्तमेनाभ्यपतद् द्विपोत्तमम्॥ जनार्दनं षोडशभिः समार्पयत्। स्ततो ननाद प्रजहास चासकृत्॥ ततोऽस्य पार्थः सगुणेषुकार्मुकं चकर्त भल्लैर्ध्वजमप्यलंकृतम्। स्ततः स चुक्रोध गिरिव्रजेश्वरः॥ ततोऽर्जुनं भिन्नकटेन दन्तिना घनाघनेनानिलतुल्यवर्चसा। अतीव चुक्षोभयिषुर्जनार्दनं धनंजयं चाभिजघान तोमरैः॥ अथास्य बाहू द्विपहस्तसंनिभौ शिरश्च पूर्णेन्दुनिभाननं त्रिभिः। स्ततो द्विपं बाणशतैः समार्पयत्॥ स पार्थबाणैस्तपनीयभूषणैः समाचितः काञ्चनवर्मभृद् द्विपः। तथा चकाशे निशि पर्वतो यथा दावाग्निना प्रज्वलितौषधिदुमः॥ श्वरन् भ्रमन् प्रस्खलितान्तरोऽद्रवत्। पपात रुग्णः सनियन्तृकस्तथा यथा गिरिर्वत्रविदारितस्तथा॥ हिमावदातेन सुवर्णमालिना हिमाद्रिकूटप्रतिमेन दन्तिना। जिघांसुरिन्द्रावरजं धनंजयम्॥ जनार्दनं पञ्चभिरर्जुनं शितैः। समर्पयित्वा विननाद नर्दयंस्ततोऽस्य बाहू निचकर्त पाण्डवः॥ क्षुरप्रकृत्तौ सुभृशं सतोमरौ शुभाङ्गदौ चन्दनरूषितौ भुजौ। गजात् पतन्तौ युगपद युगपद विरेजतुयथाद्रिशृङ्गाद् रुचिरौ महोरगौ॥ तथार्धचन्द्रेण हतं किरीटिना पपात दण्डस्य शिरः क्षितिं द्विपात्। तच्छोणिताई निपतद् विरेजे दिवाकरोऽस्तादिव पश्चिमां दिशम्॥ अथ द्विपं श्वेतवराभ्रसंनिभं दिवाकरांशुप्रतिमैः शरोत्तमैः। बिभेद पार्थः स पपात नादयन् हिमाद्रिकूटं कुलिशाहतं यथा॥ ततोऽपरे तत्प्रतिमा गजोत्तमा जिगीषवः संयति सव्यसाचिना। तथा कृतास्ते च यथैव तौ द्विपौ ततः प्रभग्नं सुमहद्रिपोर्बलम्॥ गजा रथाश्वाः पुरुषाश्च संघशः परस्परघ्नाः परिपेतुराहवे। परस्परं प्रस्खलिताः समाहता भृशं निपेतुर्बहुभाषिणो हताः॥ अथार्जुनं स्वे परिवार्य सैनिकाः पुरन्दरं देवगणा इवाब्रुवन्। अभैष्म यस्मान्मरणादिव प्रजाः स वीर दिष्ट्या निहतस्त्वयारिपुः॥ न चेदरक्षिष्य इमं जनं भयाद् द्विषद्भिरेवं बलिभिः प्रपीडितम्। तथाभविष्यद् विषतां प्रमोदनं यथा हतेष्वेष्विह नोऽरिसूदन॥ इतीव भूयश्च सुहृद्भिरीडिता निशम्य वाचः सुमनास्ततोऽर्जुनः। यथानुरूपं प्रतिपूज्य तं जनं जगाम संशप्तसंघहा पुनः॥ धृतराष्ट्र उवाच प्रोक्तस्त्वया पूर्वमेव प्रवीरो लोकविश्रुतः। न त्वस्य कर्म संग्रामे त्वया संजय कीर्तितम्॥ तस्य विस्तरशो ब्रूहि प्रवीरस्याद्य विक्रमम्। शिक्षा प्रभावं वीर्यं च प्रमाणं दर्पमेव च।॥ संजय उवाच भीष्पद्रोणकृपद्रौणिकर्णर्जुनजानर्दनान्। समाप्तविद्यान् धनुषि श्रेष्ठान् यान् मन्यसे रथान्॥ यो ह्याक्षिपति वीर्येण सर्वानेतान् महारथान्। य मेने चात्मना तुल्यं कंचिदेव नरेश्वरम्॥ तुल्यतां द्रोणभीष्माभ्यामात्मनो यो न मृष्यते। वासुदेवार्जुनाभ्यां च न्यूनतां नैच्छातात्मनि॥ स पाण्ड्यो नृपतिश्रेष्ठः सर्वशस्त्रभृतां वरः। कर्णस्यानीकमहनत् पराभूत इवान्तकः॥ तदुदीर्णरथाश्वं च पत्तिप्रवरसंकुलम्। कुलालचक्रवद् भ्रान्तं पाण्डयेनाभ्याहतं बलात्॥ व्यश्वसूतध्वरथान् विप्रविद्धायुधद्विपान्। सम्यगस्तैः शरैः पाण्डयौ वायुर्मेघानिवाक्षिपत्॥ द्विरदान् द्विरदारोहान् विपताकायुधध्वजान्। सपादरक्षानहनद् वज्रेणाद्रीनिवाद्रिहा।॥ सशक्तिप्रासतूणीरानश्वारोहान् हयानपि। पुलिन्दखसबाह्वीकनिषादान्ध्रककुन्तलान्॥ दाक्षिणात्यांश्च भोजांश्च शूरान् संग्रामकर्कशान्। विशस्त्रकवचान् बाणैः कृत्वा चैवाकरोद् व्यसन्॥११ चतुरङ्गं बलं बाणैर्निघ्नन्तं पाण्ड्यमाहवे। दृष्ट्वा द्रौणिरसम्भ्रान्तमसम्भ्रान्तस्ततोऽभ्ययात्॥ आभाष्य चैनं मधुरमभीतं तमभीतवत्। प्राह प्रहरता श्रेष्ठः स्मितपूर्वं समाह्वयत्॥ राजन् कमलपत्राक्ष विशिष्टभिजनश्रुत। वज्रसंहननप्रख्य प्रख्यातबलपौरुष॥ मुष्टिश्लिष्टायतज्यं च व्यायताभ्यां महद् धनुः। दोयो विस्फारयन् भासि महाजलदवद् भृशम्॥ शरवषैर्महावेगैरमित्रानभिवर्षतः। मदन्यं नानुपश्यामि प्रतिवीरं तवाहवे॥ रथद्विरदपत्यश्वानेकः प्रमथसे बहून्। मृगसंघानिवारण्ये विर्भीर्भीमबलो हरिः॥ महता रथघोषेण दिवं भूमिं च नादयन्। वर्षान्ते सस्यहा मेघो भासि हादीव पार्थिव॥ संस्पृशानः शरांस्तीक्ष्णस्तूणादाशीविषोपमान्। मयैवैकेन युध्यस्व त्र्यम्बकेनान्धको यथा॥ एवमुक्तस्तथेत्युक्त्वा प्रहरेति च ताडितः। कर्णिना द्रोणतनयं विव्याध मलयध्वजः॥ मर्मभेदिभिरत्युप्रैर्वाणैरग्निशिखोपमैः। स्मयन्नभ्यहनद् द्रौणिः पाण्ड्यमाचार्यसत्तमः॥ ततोऽपरान् सुतीक्ष्णाग्रान् नाराचान् मर्मभेदिनः। गत्या दशम्या संयुक्तनश्वत्थामाप्यवासृजत्॥ ताशरानच्छिनत् पाण्ड्यो नवभिर्निशितैः शरैः। चतुर्भिरर्दयश्चश्वानाशु ते व्यसवोऽभवन्॥ अथ द्रोणसुतस्येचूंस्ताञ्छित्त्वा निशितैः शरैः। धनुर्त्यां विततां पाण्ड्यश्चिच्छेदादित्यतेजसः॥ दिव्यं धनुरथाधिज्यं कृत्वा द्रौणिरमित्रहा। प्रेक्ष्य चाशु रथे युक्तान् नरैरन्यान् हयोत्तमान्॥ ततः शरसहस्राणि प्रेषयामास वै द्विजः। इषुसम्बाधमाकाशमकरोद् दिश एव च॥ ततस्तानस्यतः सर्वान द्रौणेर्बाणान् महात्मनः। जानानोऽप्यक्षयान् पाण्ड्योऽशातयत् पुरुर्षभः॥ प्रयुक्तांस्तान् प्रयत्नेन छित्वा द्रौणिरिषूनरिः। चक्ररक्षौ रणे तस्य प्राणुदनिशितैः शरैः॥ अथारेर्लाघवं दृष्ट्वा मण्डलीकृतकार्मुकः। प्रास्यद् द्रोणसुतो बाणान् वृष्टिं पूषानु जो यथा॥ अष्टावष्टगवान्युहुः शकटानि यदायुधम्। अह्नस्तदष्टभागेन द्रौणिश्चिक्षेप मारिष।॥ तमन्तकमिव क्रुद्धमन्तकस्यान्तकोपमम्। ये ये दद्दशिरे यत्र विसंज्ञाः प्रायसोऽभवन्॥ पर्जन्य इव धर्मान्ते वृष्ट्या साद्रिद्रुमां महीम्। आचार्यपुत्रस्तां सेनां बाणवृष्ट्या व्यवीवृषत्॥ द्रौणिपर्जन्यमुक्तां तां बाणवृष्टिं सुदुःसहाम्। वायव्यास्त्रेण संक्षिप्य मुदा पाण्डयानिलोऽनुदत्॥३३ तस्य नानदतः केतुं चन्दनागुरुषितम्। मलयप्रतिमं द्रौणिश्छित्त्वाश्वांश्चतुरोऽहनत्॥ सूतमेकेषुणा हत्वा महाजलदनिःस्वनम्। धनुश्छित्त्वार्धचन्द्रेण तिलशो व्यधमद् रथम्॥ अस्त्रैरस्त्राणि संवार्य छित्वा सर्वायुधानि च। प्राप्तमयहितं द्रौणिर्न जघान रणेप्सया॥ एतस्मिन्नन्तरे को गजानीकमुपाद्रवत्। द्रावयामास स तदा पाण्डवानां महद् बलम्॥ विरथान् रथिननश्चक्रे गजानश्वांश्च भारत। गजान् बहुभिरानर्छच्छरैः संनतपर्वभिः॥ अथ द्रौणिर्महेष्वासः पाण्ड्यं शत्रुनिबर्हणम्। विरथं रथिनां श्रेष्ठं नाहनद् युद्धकासया॥ स्त्वरभिसृष्टः प्रतिशब्दो बली। तमाद्रवद् द्रौणिशराहतस्त्वरन् जवेन कृत्वा प्रतिहस्तिगर्जितम्॥ तं वारणं वारणयुद्धकोविदो द्विपोत्तमं पर्वतसानुसंनिभम्। समभ्यतिष्ठन्मलयध्वजस्त्वरन् यथाद्रिशृङ्गं हरिरुन्नदंस्तथा॥ स तोमरं भास्कररश्मिवर्चसं बलास्त्रसर्गोत्तमयत्नमन्युभिः। ससर्ज शीघ्रं परिपीडयन् गजं गुरोः सुतायाद्रिपतीश्वरो नदन्॥ रलंकृतं चाशुकमाल्यमौक्तिकैः। हतोहतोऽसीत्यसकृन्मुदा नदन् पराहनद् द्रौणिवराङ्गभूषणम्॥ तदर्कचन्द्रग्रहपावकत्विषं भृशातिपातात् पतितं विचूर्णितम्। महेन्द्रवज्राभिहतं महस्वनं यथाद्रिशृङ्गं धरणीतले तथा।४४॥ ततः प्रजज्वाल परेण मन्युना पादाहतो नागपतिर्यथा तथा। निषूनमित्रार्तिकरांश्चतुर्दश॥ नृपस्य बाहू च शिरोऽथ च त्रिभिः। जघान षड्भिः षडनुत्तमत्विषः स पाण्ड्यराजानुचरान् महारथान्॥ सुदीर्घवृत्तौ वरचन्दनोक्षितौ सुवर्णमुक्तामणिवज्रभूषणो। भुजौ धरायां पतितौ नृपस्य तौ विचेष्टतुस्ताह्महताविवोरगौ॥ शिरश्च तत् पूर्णशशिप्रभाननं सरोषताम्रायतनेत्रमुन्नसम्। क्षितावपि भ्राजति तत् सकुण्डलं विशाख्योर्मध्यगतः शशी यथा॥ स तु द्विपः पञ्चभिरुत्तमेषुभिः कृतः षडंशश्चतुरो नृपस्त्रिभिः। कृतो दशांशः कुशलेन युध्यता यथा हवित्सद्दशदैवतं तथा॥ स पादशो राक्षसभोजनान् बहून् प्रदाय पाण्ड्योऽश्वमनुष्यकुञ्जरान्। स्ततः प्रशान्तः सलिलप्रकवाहतः॥ समाप्तविद्यं गुरोः सुतं नृपं समाप्तकर्माणमुप्यते ते सुतः। सुहृवृतोऽत्यर्थमपूजयन्मुदा जिते बलौ विष्णुमिवामरेश्वरः॥ धृतराष्ट्र उवाच पाण्ड्ये हते किमकरोदर्जुनो युधि संजय। एकवीरेण कर्णेन द्रावितेषु परेषु च॥ समाप्तविद्यो बलवान् युक्तो वीरः स पाण्डवः। सर्वभूतेष्वनुज्ञातः शङ्करेण महात्मना॥ तस्मान्महद् भयं तीव्रममित्रनाद धनंजयात्। स यत् तत्राकरोत् पार्थस्तन्ममाचक्ष्व संजय॥ संजय उवाच हते पाण्ड्येऽर्जुनं कृष्णस्त्वरन्नाह वचो हितम्। पश्यामि नाहं राजानमपयातांश्च पाण्डवान्॥ निवृत्तैश्च पुनः पार्थर्भग्नं शत्रुबलं महत्। अश्वत्थाम्नश्च सङ्कल्पाद्धताः कर्णेन सृञ्जयाः॥ तथाश्वरथनागानां कृतं च कदनं महत्। सर्वमाख्यातवान् वीरो वासुदेवः किरीटिने॥ एतच्छ्रुत्वा च दृष्ट्वा च भ्रातुर्घोरं महद्भयम्। वाहयाश्वान् हृषीकेश क्षिप्रमित्याह पाण्डवः॥ ततः प्रायाद्हृषीकेशो रथेनाप्रतियोधिना। दारुणश्च पुनस्तत्र प्रादुरासीत् समागमः॥ ततः पुनः समाजग्मुरभीताः कुरुपाण्डवाः। भीमसेनमुखाः पार्थाः सूतपुत्रमुखा वयम्॥ ततः प्रववृत्ते भूयः संग्रामो राजसत्तम। कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः॥ धनूर्षि बाणान् परिघानसिपट्टिशतोमरान्। मुसलानि भुशुण्डीश्च सशत्तवृष्टिपरश्वधान्॥ गदाः प्रासाञ्छितान् कुन्तान् भिन्दिपालान् महाङ्कुशान्। प्रगृह्य क्षिप्रमापेतुः परस्परजिघांसया॥ बाणज्यातलशब्देन द्यां दिशः प्रदिशो वियत्। पृथिवी नेमिघोषेण नादयन्तोऽभ्ययुः परान्॥ तेन शब्देन महता संहृष्टाक्रुराहवम्। वीरा वीरैर्महाघोरं कलहान्तं तितीर्षवः॥ ज्यातलज्ञधनुःशब्दः कुञ्जराणां च बुंहताम्। पादातानां च पततां नृणां नादो महानभूत्॥ तालशब्दांश्चविविधाञ्शूराणां चाभिगर्जताम्। श्रुत्वा तत्र भृशं त्रेसुः पेतुर्मम्लुश्च सैनिकाः॥ तेषां निनदतां चैव शस्त्रवर्षं च मुश्चताम्। बहूनाधिरथिर्वीरः प्रममाथेषुभिः परान्॥ पश्च पश्चालवीराणां रथान् दश च पञ्च च। शाश्वसूतध्वजान् कर्णः शरैर्निन्ये यमक्षयम्॥ योधमुख्या महावीर्याः पाण्डूनां कर्णमाहवे। शीघ्रास्त्रास्तूर्णमावृत्य परिवठ्ठः समन्ततः॥ ततः कर्णो द्विषत्सेना शरवर्षेर्विलोडयन्। विजगाहाण्डजाकीर्णां पद्यिनामिव यूथयः॥ द्विषन्मध्यमवस्कन्ध राधेयो धनुरुत्तमम्। विधुन्वान्ः शितैर्वाणैः शिरांस्युन्मथ्य पातयत्॥ चर्मवर्माणि संछिन्नान्यपतन् भुवि देहिनाम्। विषेहुर्नास्य संस्पर्शं द्वितीयस्य पतत्रिणः॥ वर्मदेहासुमथनैर्धनुषः प्रत्युतैः शरै। मौळ तलवे न्यहनत् कशया वाजिनो यथा॥ पाण्डुसृञ्जयपञ्चालाशरगोचरमागतान्। ममर्द तरसा कर्णः सिंहो मृगगणानिव॥ ततः पाञ्चालराजश्च द्रौपदेयाश्च मारिष। यमौ च युयुधानश्च सहिताः कर्णमभ्ययुः॥ तेषु व्यायच्छमानेषु कुरुपाञ्चालपाण्डुषु। प्रियानसून् रणेत्यक्त्वा योधा जघ्नुः परस्परम्॥ सुसंनद्धाः कवचिनः सशिरस्त्राणभूषणाः। गदाभिर्मुसलैश्चान्ये परिधैश्च महाबलाः॥ समभ्यधावन्त भृशं कालदण्डैरिवोद्यते। नर्दन्तश्चह्वयन्तश्च प्रवल्गन्तश्च मारिष॥ ततो निजघ्नुरन्योन्यं पेतुश्चान्योन्यताडिताः। वमन्तो रुधिरं गात्रैर्विमस्तिष्केक्षणायुधाः॥ दन्तपूर्णैः सरुधिरैर्वक्त्रैर्दाडिमसंनिभैः। जीवन्त इव चाप्येके तस्थुः शस्त्रोपबृंहिताः॥ परश्वधैश्चाप्यवरे पट्टिशैरसिभिस्तथा। शक्तिभिर्भिन्दिपालैश्च नखरपासतोमरैः॥ ततक्षुश्चिच्छिदुश्चान्ये बिभिदुश्चिक्षिपुस्तथा। संचकर्तुश्च जघ्नुश्च क्रुद्धा रणमहार्णवे॥ पेतुरन्योन्यनिहता व्यसवो रुधिरोक्षिताः। क्षरन्तः सुरसं रक्तं प्रकृत्ताश्चन्दना इव।॥ रथै रथा विनिहता हस्तिभिश्चापि हस्तिनः। नरैर्नरा हताः पेतुरश्वश्चाश्वैः सहस्रशः॥ ध्वजाः शिरांसि छत्राणि द्विपहस्ता नृणां भुजाः। क्षुरैर्भल्लार्धचन्द्रश्च च्छिन्ना: पेतुर्महीतले॥ नरांश्च नागान् सरथान् हयान् समृदुराहवे। अश्वरोहैर्हताः शूराश्छिन्नहस्ताश्च दन्तिनः॥ सपताकाध्वजा: पेतुर्विशीर्णा इव पर्वताः। पत्तिभिश्च समाप्लुत्य द्विरदाः स्यन्दनास्तथा॥ हताश्च हन्यमानाश्च पतिताश्चैव सर्वशः। अश्वारोहाः सामासाद्य त्वरिताः पत्तिभिर्हताः॥ सादिभिः पत्तिसंघाश्च निहता युधि शेरते। मृदितानीव पद्मानि प्रम्लाना इव च स्त्रजः॥ हतानां वदनान्यासन् गात्राणि च महाहवे। रूपाण्यत्यर्थकान्तानि द्विरदाश्वनृणां नृप। समुन्नानीव वस्त्राणि ययुर्दुर्दर्शतां पराम्॥ संजय उवाच हस्तिभिस्तु महामात्रास्तव पुत्रेण चोदिताः। धृष्टद्युम्नं जिघांसन्तः क्रुद्धाः पार्षतमभ्ययुः॥ प्राच्याश्च दाक्षिणात्याच प्रवरा गजयोधिनः। अङ्ग वङ्गाश्च पुण्ड्राश्च मागधास्ताम्रलिप्तकाः॥ मेकला: कोसला मद्रा दशार्णा निषधास्तथा। गजयुद्धेषु कुशलाः कलिङ्गैः सह भारत॥ शरतोमरनाराचैर्वृष्टिमन्त इवाम्बुदाः। सिषिचुस्ते ततः सर्वे पाञ्चालबलमाहवे।॥ तान् सम्मिमर्दिषून् नागान् पाष्णर्यंङ्गुष्ठाङ्कशै शम्। चोदितान् पार्षतो बाणैराचैरभ्यवीवृषत्॥ एकैकं दशभिः षड्भिरष्टाभिरपि भारत। द्विरदानभिविव्याध क्षिप्तैर्गिरिनिभाशरैः :॥ प्रच्छाद्यमानं द्विरदैर्मेधैरिव दिवाकरम्। प्रययुः पाण्डुपश्चाला नदन्तो निशितायुधाः॥ तान् नागानभिवर्षन्तो ज्यातन्त्रीतलनादितैः। वीरनृत्यं प्रनृत्यन्तः शूरतालप्रचोदितैः। नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः॥ सात्यकिश्च शिखण्डी च चेकितानश्च वीर्यवान्। समन्तात् सिषिचुर्वीरा मेघास्तोयैरिवाचलान्॥ ते म्लेच्छः प्रेषिता नागा नरानश्वान् स्थानपि। हस्तैराक्षिप्य ममृदुः पश्चिाप्यतिमन्यवः॥ बिभिदुश्च विषाणाप्रैः समाक्षिप्य च चिक्षिपुः। विषाणलग्नाश्चाप्यन्ये परिपेतुर्विभीषणः॥ प्रमुखे वर्तमानं तु द्विप मङ्गस्य सात्यकिः। नाराचेनोग्रवेगेन भित्वा मर्माण्यपातयत्॥ तस्यावर्जितकायस्य द्विरदादुत्पतिष्यतः। नाराचेनाहनद् वक्षः सात्यकिः सोऽपतद् भुवि॥ पुण्ड्रस्यापततो नागं चलन्तमिव पर्वतम्। सहदेवः प्रयत्नस्तैर्नाराचैरहनत् त्रिभिः॥ विपताकं वियन्तारं विवर्मध्वजजीवितम्। तं कृत्वा द्विरदं भूयं सहदेवोऽङ्गमभ्ययात्॥ सहदेवं तु नकुलो वारयित्वाङ्गमार्दयत्। नाराचैर्यमदण्डाभैस्त्रिभिर्नागं शतेन तम्॥ दिवाकरकरप्रख्यानङ्गचिक्षेप तोमरान्। नकुलाय शतान्यष्टौ त्रिधैकैकं तु सोऽच्छिनत्॥ तथार्धचन्द्रेण शिरस्तस्य चिच्छेद पाण्डवः। स पपात हतो म्लेच्छस्तेनैव सह दन्तिना॥ अथाङ्गपुत्रे निहते हस्तिशिक्षाविशारदे। अङ्गा क्रुद्धा महामात्रा नागैर्नकुलमभ्ययुः॥ चलत्पताकैः सुमुखैहेमकक्षातनुच्छदैः। मिमर्दिषन्तस्त्वरिताः प्रदीप्तैरिव पर्वतैः॥ मेकलोत्कलकालिङ्गा निषधास्ताम्रलिप्तकाः। शरतोमरवर्षाणि विमुञ्चन्तो जिघांसव॥ तैश्छाद्यमानं नकुलं दिवाकरमिवाम्बुदैः। परिपेतुः सुसंरब्धा पाण्डुपञ्चालसोमकाः॥ ततस्तदभवद् युद्धं रथिनां हस्तिभिः सह। सृजतां शरवर्षाणि तोमरांश्च सहस्रशः॥ नागानां प्रास्फुटन् कुम्भा मर्माणि विविधानि च। दन्ताश्चैवातिविद्धानां नाराचैर्भूषणानि च॥ तेषामष्टौ महानागांश्चतुःषष्ट्या सुतेजनैः। सहदेवो जघानाशु तेऽपतन् सह सादिभिः॥ अञ्जोगतिभिरायम्य प्रयत्नाद् धनुरुत्तमम्। नाराचैरहनन्नागान् नकुलः कुलनन्दनः॥ ततः पाञ्चालशैनेयौ द्रौपदेयाः प्रभद्रकाः। शिखण्डी च महानागान् सिषिचुः शरवृष्टिभिः॥२७ ते पाण्डुयोधाम्बुधरैः शत्रुद्विरदपर्वताः। बाणवर्हताः पेतुर्वज्रवरिवाचलाः॥ एवं हत्वा तव गजांस्ते पाण्डुरथकुञ्जराः। द्रुतां सेनामवैक्षन्त भिन्नकूलामिवापगाम्॥ तां ते सेना समालोड्य पाण्डुपुत्रस्य सैनिकाः। विक्षोभयित्वा च पुनः कर्णं समभिदुदुवुः॥ संजय उवाच सहदेवं तथा क्रुद्धं दहन्तं तव वाहिनीम्। दुःशासनो महाराज भ्राता भ्रातरमभ्ययात्॥ तौ समेतौ महायुद्धे दृष्ट्वा तत्र महारथाः। सिंहनादरवांश्चक्रुर्वासांस्यादुधुवुश्च ह॥ ततो भारत कुद्धेन तव पुत्रेण धन्विना। पाण्डुपुत्रस्त्रिभिर्बाणैर्वक्षस्यभिहतो बली॥ सहदेवस्तौ राजन् नाराचेन तवात्मजम्। विद्ध्वा विव्याध सप्तत्या सारथिं च त्रिभिः शरै॥ दुःशासनस्ततश्चापं छित्वा राजन् महाहवे। सहदेवं त्रिसप्तत्या बाह्वोरुरसि चार्पयत्॥ सहदेवस्तु संक्रुद्धः खड्गं गृह्य महाहवे। आविध्य प्रासृजत् तूर्णं तव पुत्ररथं प्रति॥ समार्गणगुणं चापं छित्वा तस्य महानसिः। निपपात ततो भूमौ च्युतः सर्प इवाम्बरात्॥ अधान्यद् धनुरादाय सहदेवः प्रतापवान्। दुःशासनाय चिक्षेप बाणमन्तकरं ततः॥ तमापतन्तं विशिखं यमदण्डोपमत्विषम्। खड्गेन शितधारेण द्विधा चिच्छेद कौरवः॥ ततस्तं निशित खड्गमाविध्य युधि सत्वरः। धनुश्चान्यत् समादाय शरं जग्राह वीर्यवान्॥ तमापतन्तं सहसा निस्त्रिंशं निशितैः शरैः। पातयामास समरे सहदेवो हसन्निव॥ ततो बाणांश्चतुःष्टिं तव पुत्रो महारणे। सहदेवरथं तूर्णं प्रेषयामास भारत॥ ताञ्छरान् समरे राजन् वेगेनापततो बहून्। एकैकं पञ्चभिर्बाणैः सहदेवो न्यकृन्तत॥ संनिवार्य महाबाणांस्तवं पुत्रेण प्रेषितान्। अथास्मै सुबहून् बाणान् प्रेषयामास संयुगे॥ तान् बाणांस्तव पुत्रोऽपि छित्त्वैकैकं त्रिभिः शरैः। ननाद सुमहानादं दारयाणो वसुन्धराम्॥ ततोदुःशासनो राजन् विद्ध्वा पाण्डुसुतं रणे। सारथिं नवभिर्बाणैर्माद्रेयस्य समार्पयत्॥ तत: क्रुद्धो महाराज सहदेवः प्रतापवान्। समाधत्त शरं घोरं मृत्युकालान्तकोपमम्॥ विकृष्य बलवञ्चापं तव पुत्राय सोऽसृजत्। स तं निभिद्य वेगेन भित्त्वा च कवचं महत्॥ प्राविशद् धरणी राजन् वल्मीकमिव पन्नगः। ततः सम्मुमुहे राजस्तव पुत्रो महारथः॥ मूढ चैनं समालोक्य सारथिस्त्वरितो रथम्। अपोवाह भृशं त्रस्तो वध्यमानः शितैः शरैः॥ पराजित्य रणे तं तु कौरव्यं पाण्डुनन्दनः। दुर्योधनबलं दृष्ट्वा प्रममाथ समन्ततः॥ पिपीलिकपुटं राजन् यथा मृद्गन्नरो रुषा। तथा सा कौरवी सेना मृदिता तेन भारत॥ संजय उवाच नकुलं रभसं युद्धे द्रावयन्तं वरूथिनीम्। कर्णो वैकर्तनो राजन् वारयामास वै रुषा॥ नकुलस्तु ततः कर्णं प्रहसन्निदमब्रवीत्। चिरस्य बत दृष्टोऽहं दैवतैः सौम्यचक्षुषा॥ पश्य मां त्वं रणे पाप चक्षुर्विषयमागतम्। त्वं हि मूलमनर्थानां वैरस्य कलहस्य च॥ त्वद्दोषात् कुरवः क्षीणाः समासाद्य परस्परम्। त्वामद्य समरे हत्वा कृतकृत्योऽस्मि विज्वरः॥ एवमुक्तः प्रत्युवाच नकुलं सूतनन्दनः। सदृशं राजपुत्रस्य धन्विनश्च विशेषतः॥ प्रहरस्व च मे वीर पश्यामस्तव पौरुषम्। कर्म कृत्वा रणे शूर ततः कस्थितुमर्हसि॥ अनुक्त्वा समरे तात शूरा युध्यन्ति शक्तित:। प्रयुध्यस्व मया शक्त्या हनिष्ये दर्पमेव ते॥ इत्युक्त्वा प्राहरत् तूर्णं पाण्डुपुत्राय सूतजः। विव्याध चैनं समरे त्रिसप्तत्या शिलीमुखैः॥ नकुलस्तु ततो विद्धः सूतपुत्रेण भारत। अशीत्याशीविषप्रख्यैः सूतपुत्रमविध्यत॥ तस्य कर्णो धनुश्छित्त्वास्वर्णपुङ्खः शिलाशितैः। त्रिंशता परमेष्वासः शरैः पाण्डवमर्दयत्॥ ते तस्य कवच भित्वा पपुः शोणितमाहवे। आशीविषा यथा नागाभित्त्वा गां सलिलं पपुः॥ अथान्यद् धनुरादाय हेमपृष्ठं दुरासदम्। कर्ण विव्याध सप्तत्या सारथिं च त्रिभिः शरैः॥ ततः क्रुद्धो महाराज नकुलः परवीरहा। क्षुरप्रेण सुतीक्ष्णेन कर्णस्य धनुराच्छिनत्॥ अथैनं छिन्नधन्वानं सायकानां शतैस्त्रिभिः। आजघ्ने प्रहसन वीरः सर्वलोकमहारथम्॥ कर्णमभ्यर्दितं दृष्ट्वा पाण्डुपुत्रेण मारिष। विस्मयं परमं जम्मू रथिनः सह दैवतैः॥ अथान्यद् धनुरादाय कर्णो वैकर्तनस्तदा। नकुलं पञ्चभिर्बाणैर्जत्रुदेशे समार्पयत्॥ तत्रस्थैरथ तैर्बाणैर्माद्रीपुत्रो व्यरोचयत्। स्वरश्मिभिरिवादित्यो भुवने विसृजन् प्रभाम्॥ नकुलस्तु ततः कर्णं विद्ध्वा सप्तभिराशुगैः। अथास्य धनुषः कोटि पुनश्चिच्छेद मारिष॥ सोऽन्यत् कार्मुकमादाय समरे वेगवत्तरम्। नकुलस्य ततो बाणैः सर्वतोऽवारयद् दिशः॥ संछाद्यमानः सहसा कर्णचापच्युतैः शरैः। चिच्छेद स शरांस्तूर्णं शरैरेव महारथः॥ ततो बाणमयं जालं विततं व्योम्नि दृश्यते। खद्योतानामिव वातैः संपतद्भिर्यथा नभः॥ तैविमुक्तैः शरशतैश्छादितं गगनं तदा। शलभानां यथा वातैस्तद्वदासीद् विशांमते॥ ते शरा हेमविकृताः सम्पतन्तो मुहुर्मुहुः। श्रेणीकृता व्यकाशन्त क्रौञ्चाः श्रेणीकृता इव॥ बाणजालावृत्ते व्योम्नि च्छादिते च दिवाकरे। न स्म सम्पतते भूम्यां किंचिदप्यन्तरिक्षगम्॥ निरुद्ध तत्र मार्गे च शरसंधैः समन्ततः। व्यरोचेतां महात्मानौ कालसूर्याविवोदितौ॥ कर्णचापच्युतैर्बाणैर्वध्यमानास्तु सोमकाः अवालीयन्त राजेन्द्र वेदनार्ता भृशार्दिताः॥ नकुलस्य तथा बाणैर्हन्यमाना चमूस्तव। व्यशीर्यत दिशो राजन् वातनुन्ना इवाम्बुदा॥ ते सेने हन्यमाने तु ताभ्यां दिव्यैर्महाशरैः। शरपातमपाक्रम्य तस्थतुः प्रेक्षिके तदा॥ प्रोत्सारितजने तस्मिन् कर्णपाण्डवयोः शरैः। अविध्येतां महात्मानावन्योन्यं शरवृष्टिभिः॥ विदर्शयन्तौ दिव्यानि शस्त्राणि रणमूर्धनि। छादयन्तौ च सहसा परस्परवधैषिणौ।॥ नकुलेन शरा मुक्ताः कङ्कबहिणवाससः। सूतपुत्रमवच्छाद्य व्यतिष्ठन्त यथाम्बरे॥ तथैव सूतपुत्रेण प्रेषिताः परमाहवे। पाण्डुपुत्रमवच्छाद्य व्यतिष्ठन्ताम्बरे शराः॥ शरवेश्मप्रविष्टौ तौ ददृशाते न कैश्चन। सूर्याचन्द्रमसौः राजञ्छाद्यमानौ घनैरिव॥ तत: क्रुद्धो रणे कर्णः कृत्वा घोरतरं वपुः। पाण्डवं छादयामास समन्ताच्छरवृष्टिभिः॥ सोऽतिच्छन्नो महाराज सूतपुत्रेण पाण्डवः। न चकार व्यथां राजन् भास्करो जलदैर्यथा।॥ ततः प्रहस्याधिरथिः शरजालानि मारिष। प्रेषयामास समरे शतशोऽथ सहस्रशः॥ एकच्छायमभूत् सर्व तस्य बाणैर्महात्मनः। अभ्रच्छायेव संजज्ञे सम्पतद्भिः शरोत्तमैः॥ ततः कर्णो महाराज धनुश्छित्त्वा महात्मनः। सारथिं पातयामास रथनीडाद्धसन्निव॥ ततोऽश्वांश्चतुस्चास्य चतुर्भिनिशितैश्र शरैः। यमस्य भवनं तूर्णं प्रेषयामास भारत॥ अथास्यं त रथं दिव्यं तिलशो व्यधमच्छरैः। पताकां चक्ररक्षांश्च गदां खङ्गं च मारिष॥ शतचन्द्रं त तधर्म सर्वोपकरणानि च। हताश्वो विस्थाश्चैव विवर्मा च विशाम्पते॥ अवतीर्य रथातूर्णं परिघं गृह्य धिष्ठितः। तमुद्यतं महाघोरं परिघं तस्य सूतजः॥ व्यहनत् सायकै राजन् सुतीक्ष्णैर्भारसाधनैः। व्यायुधं चैनमालक्ष्य शरैः संनतपर्वभिः॥ आर्पयद् बहुभिः कर्णो न चैनं समपीडयत्। स हन्यमानः समरे कृतास्त्रेण बलीयसा॥ प्राद्रवत् सहसा राजन् नकुलो व्याकुलेन्द्रियः। तमभिदुत्य राधेयः प्रहसन् वै पुनः पुनः॥ सज्यमस्य धनुः कण्ठे व्यवासृजत भारत। ततः स शुशुभे राजन् कण्ठासक्तमहाधनुः॥ परिवेषमनुप्राप्तो यथा स्याद् व्योम्नि चन्द्रमाः। यथैव चासितो मेघः शक्रचापेन शोभितः॥ तमब्रवीत्ततः कर्णो व्यर्थं व्याहृतवानसि। वदेदानीं पुनर्हष्टो वध्यमानः पुनः पुनः॥ मा योत्सीः कुरुभिः सार्धे बलवद्भिश्च पाण्डव। सदृशैस्तात युध्यस्व व्रीडां मा कुरु पाण्डव॥ गृहं वा गच्छ माद्रेय यत्र वा कृष्णफाल्गुनौ। एवमुक्त्वा महाराज व्यसर्जयत् तं तदा॥ वधप्राप्तं तु तं शरो नाहनद् धर्मवित्तदा। स्मृत्वा कुन्त्यावचो राजंस्तत एनं व्यसर्जयत्॥ विसृष्टः पाण्डवो राजन् सूतपुत्रेण धन्विना। ब्रीडन्निव जगामाथ युधिष्ठिररथं प्रति॥ आरुरोह रथं चापि सूतपुत्रप्रतापितः। निश्वसन् दुःखसंतप्तः कुम्थ्यस्थ इव पन्नगः॥ तं विजित्याथ कर्णोऽपि पञ्चालांस्त्वरितो ययौ। रथेनातिपताकेन चन्द्रवर्णहयेन त ॥ तत्राक्रन्दो महानासीत् पाण्डवानां विशाम्पते। दृष्ट्वा सेनापति यान्तं पञ्चालानां रथव्रजान्॥ तत्राकरोन्महाराज कदनं सूतनन्दनः। मध्यं प्राप्ते दिनकरे चक्रवद् विचरन् प्रभुः॥ भग्नचकै रथेः सांश्चिच्छिन्नध्वजपताकिभिः हताश्चैर्हतसूतैश्च भग्नाक्षैश्चैव मारिष॥ ह्रियमाणानपश्याम पञ्चालानां रथव्रजान्। तत्र तत्र च सम्भ्रान्ता विचेरुरथकुञ्जराः॥ दावाग्निपरिदग्धाङ्गा यथैव स्युर्महावने। भिन्नकुम्भारुधिरश्छिन्नहस्ताश्च वारणाः॥ छिन्नगात्रावराचैव च्छिन्नवालधयोऽपरे। छिन्नाभ्राणीव सम्पेतुर्हन्यमाना महात्मना॥ अपरे त्रासिता नागा नाराचशरतोमरैः। तमेवाभिमुखं जग्मुः शलभा इव पावकम्॥ अपरे निष्टनन्तश्च व्यद्दश्यन्त महाद्विपाः। क्षरन्तः शोणितं गात्रैर्नगा इव जलस्त्रवाः॥ उरश्छदैर्वियुक्तांश्च वालबन्धैश्च वाजिनः। राजतैश्च तथा कांस्यैः सौवर्णेश्चैव भूषणैः॥ हीनांश्चाभरणैश्चैव खलीनैश्च विवर्जितान्। चामरैश्च कुथाभिश्चैव तूणीरैः पतितैरपि॥ निहतैः सादिभिश्चैव शूरैराहवशोभितैः। अपश्याम रणे भ्राम्यमाणान् हयोत्तमान्॥ प्रासैः खङ्गैश्च रहितानृष्टिभिश्चापि भारत। हयतादीनपश्याम कञ्चकोष्णीधारिणः॥ निहतान् वध्यमानांश्च वेपमानांश्च भारत। नानागावयवैीनास्तत्र तत्रैव भारत॥ रथान् हेमपरिष्करान् संयुक्तञ्जवनैर्हयैः। भ्राम्यमाणानपश्याम हतेषु रथिषु द्रुतम्॥ भग्नाक्षकूबरान् कांश्चिद् भग्नचक्रांश्च भारत। विपताकध्वजांश्चान्यच्छिन्नेषादण्डबन्धुरान्॥ विहतान् रथिनस्तत्र धावमानांस्ततस्ततः। सूतपुत्रशरैस्तीक्ष्णैर्हन्यमानान् विशाम्पते॥ विशस्त्रांश्च तथैवान्यान् सशस्त्रांश्च हतान् बहून्। तारकाजालसंछन्नान् वंरघण्टाविशोभितान्॥ नानावर्णविचित्राभिः पताकाभिरलंकृतान्। वारणाननुपश्याम धावमानान् समन्ततः॥ शिरांसि बाहूनूरूंश्च च्छिन्नानन्यांस्तथैव च। कर्णचापच्युतैर्बाणैरापश्याम समन्ततः॥ महान् व्यतिकरो रौद्रो योधामान्वपद्यत। कर्णसायकनुन्नानां युध्यतां च शितैः शरैः॥ ते वध्यमाना समरे सूतपुत्रेण सृञ्जयाः। तमेवाभिमुखं यान्ति पतङ्गा इव पावकम्॥ तं दहन्तमनीकानि तत्र तत्र महारथम्। क्षत्रिया वर्जयामासुर्युगान्तग्निमिवोल्बणम्॥ हतशेषास्तु ये वीराः पञ्चालानां महारथाः। तान् प्रभग्नान् दुतान् वीरः पृष्ठतो विकिरञ्छरैः॥ अभ्यधावत तेजस्वी विशीर्णकवचध्वजान्। तापयामास तान् बाणैः सूतपुत्रो महाबलः। मध्यंदिनमनुप्राप्तो भूतानीव तमोनुदः॥ संजय उवाच युयुत्सुं तव पुत्रस्य द्रावयन्तं बलं महत्। उलूको न्यपतत्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत्॥ युयुत्सुश्च ततो राजशितधारेण पत्रिण। उलूकं ताडयामास वज्रेणेव महाबलम्॥ उलूकस्तु ततः क्रुद्धस्तव पुत्रस्य संयुगे। क्षुरप्रेण धनुश्छित्त्वा ताडयामास कर्णिना॥ तदपास्य धनुश्छिन्नं युयुत्सुर्वेगवत्तरम्। अन्यदादत्त सुमहचापं संरक्तलोचनः॥ शाकुनिं तु ततः षष्ट्या विव्याध भरतर्षभ। सारथिं त्रिभिरानर्छनं च भूयो व्यविध्यत॥ उलूकस्तं तु विंशत्या विद्ध्वा स्वर्णविभूषितैः। अथास्य समरे क्रुद्धो ध्वजं चिच्छेद काञ्चनम्॥ सच्छिन्नयष्टिः सुमहाशीर्यमाणो महाध्वजः। पपात प्रमुखे राजन् युयुत्सोः काञ्चनध्वजः॥ ध्वजमुन्मथितं दृष्ट्वा युयुत्सुः क्रोधमूर्च्छितः। उलूकं पञ्चभिर्बाणैराजधान स्तनान्तरे॥ उलूकस्तस्य समरे तैलधौतेन मारिष। शिरश्चिच्छेद भल्लेन यन्तुर्भरतसत्तम॥ तच्छिन्नमपतद् भूमौ युयुत्सोः सारथेस्तदा। तारारूपं यथा चित्रं निपपात महीतले॥ जघान चतुरोऽश्वांश्च तं च विव्याध पञ्चभिः। सोऽतिविद्धो बलवता प्रत्यपायाद् रथान्तरम्॥ तं निर्जित्य रणे राजन्नुलूकस्त्वरितो ययौ। पञ्चालान् सृञ्जयांश्चैव विनिघ्नन् निशितैः शरैः॥ शतानीकं महाराज श्रुतकर्मा सुतस्तव। व्यश्वसूतरथं चक्रे निमेषार्धादसम्भ्रमः॥ हताश्वे तु रथे तिष्ठञ्शतानीको महारथः। गदां चिक्षेप संक्रुद्धस्तव पुत्रस्य मारिष॥ सा कृत्वा स्यन्दनं भस्म हयांश्चैव ससारथीन्। पपात धरणी तूर्ण दारयन्तीव भारत॥ तावुभौ विरथौ वीरौ कुरुणां कीर्तिवर्धनौ। व्यपाक्रमेतां युद्धात्तु प्रेक्षमाणौ परस्परम्॥ पुत्रस्तु तव सम्भ्रान्तो विविंशो रथामारुहत्। शतानीकोऽपि त्वरितः प्रतिविन्ध्यरथं गतः॥ सुतसोमं तु शकुनिर्विद्ध्वा तु निशितैः शरैः। नाकम्पयत संक्रुद्धो वार्योघ इव पर्वतम्॥ सुतसोमस्तु तं दृष्ट्वा पितुरत्यन्तवैरिणम्। शरैरनेकसाहस्त्रैश्छादयामास भारत॥ ताशराशकुनिस्तूर्णं चिच्छेदान्यैः पतित्रिभिः। लघ्वस्त्रश्चित्रयोधी च जितकाशी च संयुगे॥ निवार्य समरे चापि शरांस्तान् निशितैः शरैः। आजघान सुसंक्रुद्धः सुतसोमं त्रिभिः शरैः॥ तस्याश्वान् केतनं सूतं तिलशो व्यधमच्छरैः। स्यालस्तव महाराज तत उच्चुक्रुशुर्जनाः॥ हताश्वो विरथश्चैव छिन्नकेतुश्च मारिष। धन्वी धनुर्वरं गृह्य रथाद् भूमावतिष्ठत॥ व्यसृजत सायकांश्चैव स्वर्णपुङ्खशिलाशितान्। छादयामास समरे तव स्यालस्य त रथम्॥ शलभानामिव वाताशरवातान् महारथः। रथोपगान् समीक्ष्यैवं विव्यथे नैव सौबलः॥ प्रममाथ शरांस्तस्य शरवातैर्महायशाः। तत्रातुष्यन्त योधाश्च सिद्धाश्चापि दिवि स्थिताः॥ सुतसोमस्य तत् कर्म दृष्ट्वा श्रद्धेयमद्भुतम्। रथस्यं शकुनि यस्तु पदाति: समयोधयत्॥ तस्य तीक्ष्णैर्महावेगैर्भल्लैः संनतपर्वभिः व्यहनत् कार्मुकं राजंस्तूणीरांश्चैव सर्वशः॥ स च्छिन्नधन्वा विरथः खङ्गमुद्यम्य चानदत्। वैदूर्योत्पलवर्णाभं दन्तिदन्तमयत्सरुम्॥ भ्राम्यमाणं ततस्तं तु विमलाम्बरवर्चसम्। कालदण्डोपमं मेने सुतसोमस्य धीमतः॥ सोऽचरत् सहसा खड्गी मण्डलानि सहस्रशः। चतुर्दश महाराज शिक्षाबलसमन्वितः॥ भ्रान्तमुद्धान्तमाविद्धमाप्लुतं विप्लुतं सृतम्। सम्पातसमुदीर्णे च दर्शयामास संयुगे।॥ सौबलस्तु ततस्तस्य शरांश्चिक्षेप वीर्यवान्। तानापतत एवाशु चिच्छेद परमासिना॥ ततः क्रुद्धो महाराज सौबलः परवीरहा। प्राहिणेत् सुतसोमाय शरानिशीविषोपमान्॥ चिच्छेद तांस्तु खड्ड्रेन शिक्षया च बलेन च। दर्शयँल्लाघवं युद्धे तार्क्ष्यतुल्यपराक्रमः॥ तस्य संचरतो राजन् मण्डलावर्तने तदा। क्षुरप्रेण सुतीक्ष्णेन खङ्गं चिच्छेद सुप्रभम्॥ स च्छिन्नः सहसा भूमौ निपपात महानसिः। अर्धपस्य स्थितं हस्ते सुत्सरोस्तत्र भारत॥ छिन्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट्। प्राविध्यत ततः शेषं सुतसोमो महारथः॥ तच्छित्त्वा सगुणं चापं रणे तस्य महात्मनः। पपात धरणी तूर्णे स्वर्णवज्रविभूषितम्॥ सुतसोमस्ततोऽगच्छुतकीर्तेर्महारथम् । सौबलोऽपि धनुर्गृह्य घोरमन्यत् सुदुर्जयम्॥ अभ्ययात् पाण्डवानीकं निघ्नशत्रुगणान् बहून्। तत्र नादो महानासीत् पाण्डवानां विशाम्पते॥ सौबलं समरे दृष्ट्वा विचरन्तमभीतवत्। तान्यनीकानि दृप्तानि शस्त्रवन्ति महान्ति च॥ द्राव्यमाणान्यदृश्यन्त सौबलेन महात्मना। यथा दैत्यचमं राजन देवराजो ममर्द ह। तथैव पाण्डवीं सेनां सौबलेया व्यनाशयत्॥ संजय उवाच धृष्टधुम्नं कृपो राजन् वारयामास संयुगे। यथा दृष्ट्वा वने सिंह शरभो वारयेद युधि॥ निरुद्धः पार्षतस्तेन गौतमेन बलीयसा। पदात् पदं विचलितं नाशकत्तत्र भारत॥ गौतमस्य रथं दृष्ट्वा धृष्टधुम्नरथं प्रति। वित्रेसुः सर्वभूतानि क्षयं प्राप्तं च मेनिरे॥ तत्रावोचन विमनसो रथिन: सादिनस्तथा। द्रोणस्य निधनान्नूनं संक्रुद्धो द्विपदां वरः॥ शारद्वतो महातेजा दिव्यास्त्रविदुदारधीः। अपि स्वस्ति धृष्टधुम्नस्य गौतमात्॥ अपीयं वाहिनी कृत्स्त्रा मुच्येत महतो भयात्। अप्ययं ब्राह्मणः सर्वान्न नो हन्यात् समागतान्॥ यादृशं दृश्यते रूपन्तकप्रतिमं भृशम्। गमिष्यत्यद्य पदवी भारद्वाजस्य गौतमः॥ आचार्यः क्षिप्रहस्तश्च विजयी च. सदा युधि। अस्त्रवान् वीर्यसम्पन्नः क्रोधेन च समन्वितः॥ पार्षतश्च महायुद्धे विमुखोऽद्याभिलक्ष्यते। इत्येवं विविधा वाचस्तावकानां परैः सह॥ व्यश्रूयन्त महराज तयोस्तत्र समागमे। विनिःश्वस्य ततः क्रोधात् कृपः शारद्वतो नृप॥ पार्षतं चार्दयामास निश्चेष्टं सर्वमर्मसु। स हन्यमानः समरे गौतमेन महात्मना॥ कर्तव्यं न स्म जानाति मोहेन महताऽऽवृतः। तमब्रवीत्ततो यन्ता कचित् क्षेमं तु पार्षत॥ ईद्दशं व्यसनं युद्धे न ते दृष्टं मया क्वचित्। दैवयोगात्तु ते बाणा नापतन् मर्मभेदिनः॥ प्रेषिता द्विजमुख्येन मर्माण्युद्दिश्य सर्वतः! व्यावर्तये रथं तूर्णं नदीवेगमिवार्णवात्॥ अवध्यं ब्राह्मणं मन्ये येन ते विक्रमो हतः। धृष्टधुम्नस्ततो राजशनकैरब्रवीद् वचः॥ मुह्यते मे मनस्तात गात्रस्वेदश्च जायते। वेपथुश्च शरीरे मे रोमहर्षश्च सारथे॥ वर्जयन् ब्राह्मणं युद्धे शनैर्याहि यतोऽर्जुनः। अर्जुनं भीमसेनं वा समरे प्राप्य सारथे॥ क्षेममद्य भवेदेवमेषा मे नैष्ठिकी मतिः। ततः प्रायान्महाराज सारथिस्त्वरयन् हयान्॥ यतो भीम महेष्वासो युयुधे तव सैनिकैः। प्रद्रुतं च रथ दृष्ट्वा धृष्टधुम्नस्य मारिष॥ किरशतशतान्येव गौतमोऽनुययौ तदा। शङ्ख च पूरयामास मुहुर्मुहुररिंदमः॥ पार्षतं त्रासयामास महेन्द्रो नमुचिं यथा। शिखण्डिनं तु समरे भीष्ममृत्यु दुरासदम्॥ हार्दिक्यो वारयामास स्मयन्निव मुहुर्मुहुः। शिखण्डी तु समासाद्य हृदिकानां महारथम्॥ पञ्चभिर्निशितैर्भल्लै त्रुदेशे समाहनत्। पा कृतवर्मा तु संक्रुद्धो भित्वा षष्ट्या पतित्रिभिः॥ धनुरेकेन चिच्छेद हसन् राजन् महारथः। अथान्यद् धनुरादाय द्रुपदस्यात्मजो बली॥ तिष्ठ तिष्ठेति संक्रुद्धो हार्दिक्यं प्रत्यभाषत। ततोऽस्य नवर्ति बाणान् रूक्मपुङ्खान् सुतेजनान्॥२५ प्रेषयापास राजेन्द्र तेऽस्याभ्रशयन्त वर्मणः। वितथांस्तान् समालक्ष्य पतितांश्च महीतले॥ क्षुरप्रेण सुतीक्ष्णेन कार्मुकं चिच्छिदे भृशम्। अथैनं छिन्नधन्वानं भग्नशृङ्गमिवर्षभम्॥ अशीत्या मार्गणैः क्रुद्धो बाह्वोरुरसि चार्पयत्। कृतवर्मा तु संक्रुद्धो मार्गणैः क्षतविक्षतः॥ ववाम रुधिरं गात्रैः कुम्भवक्त्रादिवोदकम्। रुधिरेण परिक्किन्नः कृतवर्मा त्वराजत॥ वर्षेण केदिता राजन् यथा गैरिकपर्वतः। अथान्यद् धनुरादाय समार्गणगुणं प्रभुः॥ शिखण्डिनं बाणगणैः स्कन्धदेशे व्यताडयत्। स्कन्धदेशस्थितैर्बाणैः शिखण्डी तु व्यराजत॥ शाखाप्रशाखाविपुलः सुमहान् पादपो यथा। तावन्योन्यं भृशं विदध्वा रुधिरेण समुक्षितौ॥ अन्योन्याभिहतौ रेजतुर्वृषभाविव। अन्योन्यस्य वधे यत्नं कुर्वाणौ तौ महारथौ॥ रथाभ्यां चेरतुस्तत्र मण्डलानि सहस्रशः। कृतवर्मा महाराज पार्षतं निशितैः शरैः॥ रणे विव्याध सप्तत्या स्वर्णपुङः शिलाशितैः। ततोऽस्य समरे बाणं भोजः प्रहरतां वरः॥ जीवितान्तकरं घोरं व्यसृजत्त्वरयान्वितः। स तेनाभिहतो राजन् मूर्छामाशु समाविशत्॥ ध्वजयष्टिं च सहसा शिश्रिये कश्मलावृतः। अपोवाह रणातूर्णं सारथिनां वरम्॥ हार्दिक्यशरसंतप्तं निःश्वसन्तं पुनः पुनः। पराजिते ततः शूरे दुपदस्यात्मजे प्रभो। व्यद्रवत् पाण्डवी सेना वध्यमाना समन्ततः॥ संजय उवाच श्वेताश्वोऽथ महाराज व्यधमत्तावकं बलम्। यथा वायुः समासाद्य तूलराशिं समन्ततः॥ प्रत्युद्ययुस्त्रिगर्तास्तं शिबयः कौरवैः सह। शाल्वः संशप्तकाश्चैव नारायणबलं च तत्॥ सत्यसेनश्चन्द्रदेवो मित्रदेवः सुतंजयः। सौश्रुतिश्चित्रसेनश्च मित्रवर्मा च भारत॥ ते त्रिगर्तराजः समरे भ्रातृभिः परिवारितः। पुत्रैश्चैव महेष्वासै नाशस्त्रविशारदैः॥ सृजन्तः शरवातान् किरन्तोऽर्जुनमाहवे। अभ्यवर्तन्त सहसा वार्योधा इव सागरम्॥ ते त्वर्जुनं समासाद्य योधाः शतसहस्रशः। अगच्छन् विलयं सर्वे तायं दृष्ट्वेव पन्नगाः॥ ते हन्यमानाः समरे नाजहुः पाण्डवं रणे। हन्यमाना महाराज शलभा इव पावकम्॥ सत्यसेनस्त्रिभिर्बाणैर्विव्याध युधि पाण्डवम्। मित्रदेवस्त्रिषष्ट्या तु चन्द्रदेनस्तु सप्तभिः॥ मित्रवर्मा त्रिसप्तत्या सौश्रुतिश्चापि सप्तभिः। शत्रुजयस्तु विशत्या सुशर्मा नवभिः शरैः॥ स विद्धो बहुभिः संख्ये प्रतिविव्याध तान् नृपान्। सौश्रुतिं सप्तभिरिद्ध्वा सत्यसेनं त्रिभिः शरै॥ शत्रुजयं च विंशत्या चन्द्रदेवं तथाऽष्टभिः। मित्रदेवं शतेनैव श्रुतसेनं त्रिभिः शरै॥ नवभिर्मित्रवर्माणं सुशर्माणं तथाऽष्टभिः। शत्रुजय च राजनं हत्वा तत्र शिलाशितैः॥ सौश्रुतेः सशिरस्त्राणं शिरः कायादपाहरत्। त्वरितश्चन्द्रदेवं च शरैर्निन्ये यमक्षयम्॥ तथेतरान् महाराज यतमानान् महारथान्। पञ्चभिः पञ्चभिर्बाणैरेकैकं प्रत्यवारयत्॥ सत्यसेनस्तु संक्रुद्धस्तोमरं व्यसृजन्महत्। समुद्दिश्य रणे कृष्णं सिंहनादं ननाद च॥ स निर्भिद्य भुजं सव्यं माधवस्य महात्मनः। अयस्मयो हेमदण्डो जगान् धरणीं तदा॥ माधवस्य तु विद्धस्य तोमरेण महारणे। प्रतोदः प्रापतद्धस्ताद रश्मयश्च विशाम्पते॥ वासुदेवं विभिन्नाङ्गं दृष्ट्वा पार्थो धनंजयः। क्रोधमाहरयत्तीव्र कृष्णं चेदमुवाच ह॥ प्रापयाश्वान् महाबाहो सत्यसेनं प्रति प्रभो। यावदेनं शैरस्तीक्ष्णैर्नयामि यमसादनम्॥ प्रतोदं गृह्य सोऽन्यत्तु रश्मीनपि यथा पुरा। वाहयामास तानश्वान् सत्यसेनरथं प्रति॥ विष्वक्सेनं तु निर्भिन्नं दृष्ट्वा पार्थो धनंजयः। सत्यसेनं शरैस्तीक्ष्णैर्वारयित्वा महारथः॥ ततः सुनिशितैर्भल्लै राज्ञस्तस्य महच्छिरः। कुण्डलोपचितं कायाश्चकर्त पृतनान्तरे॥ तन्निकृत्य शितैर्बाणैर्मित्रवर्माणमाक्षिपत्। वत्सदन्तेन तीक्ष्णोन सारथिं चास्य मारिष॥ ततः शरशतैर्भूयः संशप्तकगणान् बली। पातयामास संक्रुद्धः शतशोऽथ सहस्रशः॥ ततो रजतपुड्वेन राजशीर्षं महात्मनः। मित्रदेवस्य चिच्छेद क्षुरप्रेण महारथः॥ सुशर्माणं सुसंक्रुद्धो जत्रुदेशे समाहनत्। तत: संशप्तकाः सर्वे परिवार्य धनंजयम्॥ शस्त्रौधैर्ममृदुः क्रुद्धा नादयन्तो दिशो दश। अभ्यर्दितस्तु तैर्जिष्णुः शक्रतुल्यपराक्रमः॥ ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे महारथः। ततः शरसहस्राणि प्रादुरासन् विशाम्पते॥ ध्वजानां छिद्यमानानां कार्मुकाणां च मारिष। रथानां सपताकानां तूणीराणां युगैः सह।॥ अक्षाणामथ चक्राणां योक्त्राणां रश्मिभिः सह। कूबराणां वरूथाणां पृषत्कानां च संयुगे॥ अश्वानां पततां चापि प्रासनामृष्टिभिः सह। गदानां परिधाना च शक्तितोमरपट्टिशैः॥ शतघ्नींनां सचक्राणां भुजानां चोरुभिः सह। कण्ठसूत्रामदानां च केयूराणां च मारिष॥ हाराणामथ निष्काणां तनुत्राणां च भारत। छत्राणां व्यजनानां च शिरसां मुकुटैः सह॥ अश्रूयत महाशब्दस्तत्र तत्र विशम्पते। सकुण्डलानि स्वक्षीणि पूर्णचन्द्रनिभानि च॥ शिरांस्युामद्दश्यन्त ताराजालमिवाम्बरे। सुस्त्रग्वीणि सुवासांसि चन्दनेनोक्षितानि च॥ शरीराणि व्यदृश्यन्त निहतानां महीतले। गन्धर्वनगराकारं घोरमायोधनं तदा॥ निहतै राजपुत्रेश्च क्षत्रियैश्च महाबलैः। हस्तिभिः पतितैश्चैव तुरङ्गैश्चाभवन्मही॥ अगम्यरूपा समरे विशीर्णैरिव पर्वतैः। नासीचक्रपथस्तत्र पाण्डवस्य महात्मनः॥ निघ्नतः शात्रवान् भल्लैर्हरत्यश्वं चास्यतो महत्। स्वानुगा इव सीदन्ति रथचक्राणि मारिष॥ चरतस्तस्य संग्रामे तस्मॅिल्लोहितकर्दमे। सीदमानानि चक्राणि समूहुस्तुरगा भृशम्॥ श्रमेण महता युक्ता मनोमारुतरंहसः। वध्यमानं तु तत्सैन्यं पाण्डुपुत्रेण धन्विना॥ प्रायशो विमुखं सर्व नावतिष्ठत भारत। ताजित्वा समरे जिष्णुः संशप्तकगणान् बहून्॥ विरराज तदा पार्थो विधूमोऽग्निरिव ज्वलन्। ४३॥ संजय उवाच युधिष्ठिरं महाराज विसृजन्तं शरान् बहून्। स्वयं दुर्योधनो राजा प्रत्यगृह्णदभीतवत्॥ तमापतन्तं सहसां तव पुत्रं महारथम्। धर्मराजो द्रुतं विद्ध्वा तिष्ठ तिष्ठेति चाब्रवीत्॥ स तु तं प्रतिविव्याध नवभिर्निशितैः शरैः। सारथिं चास्य भल्लेन भृशं क्रुद्धोऽभ्यताडयत्॥ ततो युधिष्ठिरो राजन् स्वर्णपुखञ्छिलीमुखान्। दुर्योधन चिक्षेप त्रयोदश शिलाशितान्॥ चतुर्भिश्चतुरो वाहंस्तस्य हत्वा महारथः। पञ्चमेन शिरः कायात् सारथेश्च समाक्षियत्॥ षष्ठेन तु ध्वज राज्ञः सप्तमेन त कार्मुकम्। अष्टभेन तथा खङ्गं पातयामास भूतले॥ पञ्चभिर्नृपतिं चापि धर्मराजोऽर्दयद् भृशम्। हताश्वात्तु रथात्तस्मादवप्लुत्य सुतस्तव॥ उत्तमं व्यसन प्राप्तो भूमावेवावतिष्ठत। तं तु कृच्छ्रगतं दृष्ट्वा कर्णद्रौणिकृपादयः॥ अभ्यवर्तन्त सहसा परीप्सन्तो नराधिपम्। अथ पाण्डुसुताः सर्वे परिवार्य युधिष्ठिरम्॥ अन्वयुः समरे राजंस्ततो युद्धमवर्तत। ततस्तूर्यसहस्राणि प्रावाद्यन्त महामृधे॥ ततः किलाकिलाशब्दः प्रादुरासन् महीपते। यत्राभ्यगतच्छन् समरे पञ्चालाः कौरवैः सहा। ११॥ नरा नरैः समजाग्मुर्वारणा वरवारणैः। रथाश्च रथिभिः सार्धं हयाश्च हयसादिभिः॥ द्वन्द्वान्यासन् महाराज प्रेक्षणीयानि संयुगे। विविधान्यप्यचिन्त्यानि शस्त्रवन्त्युत्तमानि त॥ ते शराः समरे सर्वे चित्रं लघु च सुष्टु च। अयुध्यन्त महावेगाः परस्परवधैषिणः॥ अन्योन्यं समरे जघ्नुर्योधव्रतमनुष्ठिताः। न हि ते समरं चक्रः पृष्ठतो वै कथञ्चन॥ मुहूर्तमेव तद् युद्धमासीन्मधुरदर्शनम्। तत उन्मत्तवद राजन् निर्मर्यादमवर्तत॥ रथी नागं समासाद्य दारयन् निशितैः शरैः। प्रेषयामास कालाय शरैः संनतपर्वभिः॥ नागा हयान् समासाद्य विक्षिपन्तो बहून् रणे। दारयामासुरत्युग्रं तत्र तत्र तदा तदा॥ हयारोहाश्च बहवः परिवार्य हयोत्तमान्। तलशब्दरवांश्चक्रुः सम्पतन्तस्ततस्ततः॥ धावमानांस्ततस्तांस्तु द्रवमाणान् महागजान्। पार्श्वतः पृष्ठतश्चैव निजघ्नुर्हयसादिनः॥ विद्राव्य च बहूनश्वान् नागा राजन् मदोत्कटाः। विषाणैश्चापरे जघ्नुर्ममृदुश्चापरे भृशम्॥ साश्वारोहांश्च तुरगान् विषाणैविव्यधू रुषा। अपरे चिक्षिपुर्वेगात् प्रगृह्यातिबलास्तदा॥ पादतैराहता नागा विवरेषु समन्ततः। चक्रुरार्तस्वरं घोरं दुदुवुश्च दिशो दश॥ पदातीनां तु सहसा प्रदुतानां महाहवे। उत्सृज्याभरणं तूर्णमवप्लुत्य रणाजिरे॥ निमित्तं मन्यमानास्तु परिणाम्य महागजाः। जगृहुर्बिभिदुश्चैर चित्राण्याभरणानि॥ तांस्तु तत्र प्रसक्तान् वै परिवार्य पदातयः। हस्तोरोहान् निजघ्नुस्ते महावेगा बलोत्कटाः॥ अपरे हस्तिभिहैस्तैः खं विक्षिप्ता महाहवे। निपतन्तो विषाणौ शं विद्धाः सुशिक्षितैः॥ अपरे सहसा गृह्य विषाणैरेव सूदिताः। सेनान्तरं समासाद्य केचित् तत्र महागजैः॥ क्षुण्णगात्रा महाराज विक्षिप्य च पुनः पुनः। अपरे व्यजनानीव विभ्राम्य निहता मृधे॥ पुरःसराश्च नागानामपरेषां विशाम्पते। शरीराण्यतिविद्धानि तत्र तत्र रणाजिरे॥ प्रतिमानेषु कुम्भेषु दन्तवेष्टेषु चापरे। निगृहीतां भृशं नागाः प्रासतोमरशक्तिभिः॥ निगृह्य च गजाः केचित् पार्श्वस्थैर्भृशदारुणैः। रथाश्वसादिभिस्तत्र सम्भिन्ना न्यपतन् भुवि॥ सहयाः सादिनस्तत्र तोमरेण महामृधे। भूमावमृद्गन वेगेन सचर्माणं पदातिनम्॥ तथा सावरणान् कांश्चित्तत्र तत्र विशाम्पते। रथान् नागाः समासाद्य परिगृह्य च मारिष॥ व्याक्षिपन् सहसा तत्र घोररूपे भयानके। नाराचैर्निहताश्चापि गजाः पेतुर्महाबलाः॥ पर्वतस्येव शिखरं वज्ररुग्णं महीतले। योधा योधान् समासाद्य मुष्टिभिर्व्यहनन् युधि॥ केशेष्वन्योन्यमाक्षिप्य चिक्षिपुर्बिभिदुश्च ह। उद्यम्य त भुजानन्ये निक्षिप्य च महीतले॥ पदा चोरः समाक्रम्य स्फुरतोऽपाहरच्छिरः। पततश्चापरो राजन् विजहारासिना शिरः॥ जीवतश्च तथैवान्यः शस्त्रं काये न्यमज्जयत्। मुष्टियुद्धं महचासीद् योधानां तत्र भारत॥ तथा केशग्रहश्चोगो बाहुयुद्धं च भैरवम्। समासक्तस्य चान्येन अविज्ञातस्तथाऽपरः॥ जहार समरे प्राणान् नानाशस्त्रैर नेकधा। संसक्तेषु च योधेषु वर्तमारे च संकुले॥ कबन्धान्युत्थितानि स्युःशतशोऽथ सहस्रशः। शोणितैः सिच्यमानानि शस्त्राणि कवचानि च।॥ महारागनुरक्तानि वस्त्राणीव चकाशिरे। एवमेतन्मद् युद्धं दारुणे शस्त्रसंकुलम्॥ उन्मत्तगङ्गाप्रतिमं शब्देनापूरयजगत्। नैव स्वे न परे राजन् विज्ञायन्ते शरातुराः॥ योद्धव्यमिति युध्यन्ते रानानो जयगृद्धिनः। स्वान् स्वे जनुर्महाराज परांश्चैव समागतान्॥ उभयोः सेनयोर्वीरैर्व्याकुलं समपद्यत। रथैर्भग्नैर्महाराज वारणैश्च निपातितैः॥ हयैश्च पतितस्तत्र नरैश्च विनिपातितः। अगम्यरूपा पृथिवी क्षणेन समपद्यत॥ क्षणेनासीन्महीपाल क्षतजौघप्रवर्तिनी। पञ्चालानहनत् कर्णस्त्रिगर्ताश्च धनंजयः॥ भीमसेनः कुरून् राजन् हस्त्यनीकं च सर्वशः। एवमेष क्षयो वृत्तः कुरुपाण्डवसेनयोः। अपराह्ने गते सूर्ये कासतां विपुलं यश॥ धृतराष्ट्र उवाच अतितीव्राणि दुःखानि दुःसहानि बहूनि च। त्वतोऽहं संजयश्रौषं पुत्राणां चैव संत्रयम्॥ यथा त्वां मे कथयसे तथा युद्धमवर्तत। न सन्ति सूत कौरव्या इति मे निश्चिता मतिः॥ दुर्योधनश्च विरथः कृतस्तत्र महारथः। धर्मपुत्रः कथं चक्रे तस्य वा नृपतिः कथम्॥ अपराह्ने कथं युद्धमभवल्लोमहर्षणम्। तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि संजय॥ संजय उवाच संसक्तेषु तु सैन्येषु वध्यमानेषु भागशः। रथमन्यं समास्थाय पुत्रस्तव विशाम्पते॥ क्रोधेन महता युक्तः सविषो भुजगो यथा। दुर्योधनः समालक्ष्य धर्मराज युधिष्ठिरम्॥ प्रोवाच सूतं त्वरितो याहि याहीति भारत। तत्र मां प्रापय क्षिप्रं सारथे यत्र पाण्डव॥ ध्रियमाणातपत्रेण राजा राजति दंशितः। स सूतश्चोदितो राज्ञा राज्ञः स्यन्दनमुत्तमम्॥ युधिष्ठिरस्याभिमुखं प्रेषयामास संयुगे। ततो युधिष्ठिरः क्रुद्धः प्रभिन्न इव कुञ्जरः॥ सारथिं चोदयामास याहि यत्र सुयोधनः। तौ समाजग्मतुर्वीरो भ्रातरौ रथसत्तमौ॥ समेत्य च महावीरौ संरब्धौ युद्धदुर्मदौ। ववर्षतुर्महेष्वासौ शरैरन्योन्यमाहवे॥ ततो दुर्योधनो राजा धर्मशीलस्य मारिष। शिलाशितेन भल्लेन धनुश्चिच्छेद संयुगे॥ तं नामृष्यत संक्रुद्धो ह्यवमानं युधिष्ठिरः। अपविध्य धनुश्छिन्नं क्रोधसंरक्तलोचनः॥ अन्यत् कार्मुकमादाय धर्मपुत्रश्चमूमुखे। दुर्योधनस्य चिच्छेद ध्वजं कार्मुकमेव च॥ अथान्यद् धनुरादाय प्राविध्यत युधिष्ठिरम्। तावन्योन्यं सुसंक्रुद्धौ शस्त्रवर्षाण्यमुञ्चताम्॥ सिंहाविव सुसंरब्धौ परस्परजिगीषया। जघ्नतुस्तौ रणेऽन्योन्यं नर्दमानौ वृषाविव॥ अन्तरं मार्गमाणौ च चेरतुस्तौ महारथौ। ततः पूर्णायतोत्सृष्टैः शरैस्तौ तु कृतव्रणौ॥ विरेजतुर्महाराज किंशुकाविव पुष्पितौ। ततो राजन् विमुञ्चन्तौ सिंहनादान् मुहुर्मुहुः॥ तलयोश्च तथा शब्दान् धनुषश्च महाहवे। शङ्खशब्दवरांश्चैव चक्रतुस्तौ नरेश्वरो॥ अन्योयं तौ महाराज पीडयांचाक्रतुर्भृशम्। ततो युधिष्ठिरो राजा पुत्रं तव शरैस्त्रिभिः॥ आजघानोरसि क्रुद्धो वज्रवेगैर्दुरासदैः। प्रतिविव्याध तं तूर्णं तव पुत्रो महीपतिः॥ पञ्चभिर्निशितैबाणैः स्वर्णपुकैः शिलाशित। ततो दुर्योधनो राजा शक्तिं चिक्षेप भारत॥ सर्वपारसवीं तीक्ष्णां महोल्काप्रतिमां तदा। तामापतन्ती सहसा धर्मराजः शितैः शरैः॥ त्रिभिश्चिच्छेद सहसा तं च विव्याध पञ्चभिः। निपपात ततः साऽथ स्वर्णदण्डा महास्वना॥ निपतन्ती महोल्केव व्यराजच्छिखिसंनिभा। शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशाम्पते॥ नवभिर्निशितैर्भल्लैर्निजघान युधिष्ठिरम्। सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः॥ दुर्योधन समुद्दिश्य बाणं जग्राह सत्वरः। समाधत्त च तं बाणं धनुर्मध्ये महाबलः॥ चिक्षेप च महाराज ततः क्रुद्धः पराक्रमी। स तु बाणः समासाद्य तव पुत्रं महारथम्॥ व्यामोहयत राजानं धरणीं च ददार ह। ततो दुर्योधनः क्रुद्धो गदामुद्यम्य वेगितः॥ विधित्सुः कलहस्यान्तं धर्मराजमुपाद्रवत्। तमुद्यतगदं दृष्ट्वा दण्डहस्तमिवान्तकम्॥ धर्मराजो महाशक्तिं प्राहिणोत् तव सूनवे। दीप्यमानां महावेगां महोल्का ज्वलितामिव॥ रथस्थः स तया विद्धो वर्म भित्त्वा स्तनान्तरे। भृशं संविग्नहृदयः पपात च मुमोह च॥ पीमस्तमाह च ततः प्रतिज्ञामनुचिन्तयन्। नायं वध्यस्तव नृप इत्युक्तः स न्यवर्तत॥ ततस्त्वरितमागम्य कृतवर्मा तवात्मजम्। प्रत्यपद्यत राजानं निमग्नं व्यसनार्णवे॥ गदामादाय भीमोऽपि हेमपट्टपरिष्कृताम्। अभिदुद्राव वेगेन कृतवर्माणमाहवे॥ एवं तदभवद् युद्धं त्वदीयानां परैः सह। अपराह्णे महाराज काङ्क्षतां विजयं युधि॥ धृतराष्ट्र उवाच स्वेनच्छन्देन नः सर्वानवधीद् व्यक्तमर्जुनः। न ह्यस्य समरे मुच्येदन्तकोऽप्याततायिनः॥ पार्थश्चैकोऽहरद् भद्रामेकश्चाग्निमतर्पयत्। एकश्चमां महीं जित्वा चक्रे बलिभृतो नृपान्॥ एको निवातकवचानहनद् दिव्यकार्मुकः। एकः किरातरूपेण स्थितं शर्वमयोधयत्॥ एको ह्यरक्षद् भरतानेको भवमतोषयत्। तेनैकेन जिताः सर्वे महीपा [ग्रतेजसा॥ न ते निन्द्याः प्रशस्यास्ते यत्ते चक्रुर्ब्रवीहि तत्। ततो दुर्योधनः सूत पश्चात् किमकरोत् तदा॥ संजय उवाच दीनस्वरा दूयमाना हताहतविध्वस्ता विवर्मायुधवाहनाः। मानिनः शत्रुनिर्जिताः॥ शिबिरस्थाः पुनर्मन्त्रं मन्त्रयन्ति स्म कौरवाः। भग्नदंष्ट्रा हतिविषाः पादाक्रान्ता इवोरगाः॥ तानब्रवीत् ततः कर्ण क्रुद्धः सर्प इव श्वसन्। करं करेण निष्पीड्य प्रेक्षमाणस्तवात्मजम्॥ यत्तो दृढश्च दक्षश्च धृतिमानर्जुनस्तदा। सम्बोधयति चाप्येनं यथाकालमधोक्षजः॥ सहसास्त्रविसर्गेण वयं तेनाद्य वञ्चिताः। श्वस्तवहं तस्य संकल्प सर्वं हन्ता महीपते॥ एवमुक्तस्तथेत्युक्त्वा सोऽनुजज्ञे नृपोत्तमान्। तेऽनुज्ञाता नृपा सर्वे स्वानि वेश्मानि भेजिरे॥ सुखोषितास्तां रजनीं हृष्टा युद्धाय निर्ययुः। तेऽपश्यन् विहितं व्यूहं धर्मराजेन दुर्जयम्॥ प्रयत्नात् कुरुमुख्येन बृहस्पत्युशनोमते। अथ प्रतीपकर्तारं प्रवीरं परवीरहा॥ सस्मार वृषभस्कन्धं कर्णं दुर्योधनस्तदा। पुरंदरसमं युद्धे मरुद्गणसमं बले॥ कार्तवीर्यसमं वीर्ये कर्ण राज्ञोऽगमन्मनः। सर्वेषां चैवसैन्यानां कर्णमेवागमन्मनः। सूतपुत्रं महेष्वासं बन्धुमात्यकिकेष्विव॥ धृतराष्ट्र उवाच ततो दुर्योधनः सूत पश्चात् किमकरोत्तदा। यद्धोऽगमन्मनो मन्दाः कर्णं वैकर्तनं प्रति॥ अप्यपश्यत राधेयं शीतात इव भास्करम्। कृतेऽवहारे सैन्यानां प्रवृत्ते च रणे पुनः॥ कथं वैकर्तनः कर्णस्तत्रायुध्यत संजय। कथं च पाण्डवाः सर्वे युयुधुस्तत्र सूतजम्॥ कर्णो ह्येको पहाबाहुर्हन्यात् पार्थान् सगुंजयान्। कर्णस्य भुजयोवीर्यं शक्रविष्णुसमं युधि॥ तस्य शस्त्राणि घोराणि विक्रमश्च महात्मनः। कर्णमाश्चित्य संग्रामे पत्तो दुर्योधनो नृपः॥ दुर्योधन ततो दृष्ट्वा पाण्डवेन भृशार्दितम्। पराक्रान्तान् पाण्डुसुतान् दृष्ट्वा चापि महारथः॥ कर्णमाश्चित्य संग्रामे मन्दो दुर्योधनः पुनः। जेतुमुत्सहते पार्थान् सपुत्रान् सहकेशवान्॥ अहो बत महद् दुःखं यत्र पाण्डुसुतान् रणे। नातरद् रभसः कर्णो दैवं नूनं परायणम्॥ अहो द्यूतस्य निष्ठेयं घोरा सम्प्रति वर्तते। अहो तीव्राणि दुःखानि दुर्योधनकृतान्यहम्॥ सोढा घोराणि बहुशः शल्यभूतानि संजय। सौबलं च तदा तात नीतिमानिति मन्यते॥ कर्णश्च रभसो नित्यं राजा तं चाप्यनुव्रतः। यदेवं वर्तमानेषु महायुद्धेषु संजय॥ अश्रौषं निहतान् पुत्रान् नित्यदेव विनिर्जितान्। न पाण्डवानां समरे कश्चिदस्ति निवारकः॥ स्त्रीमध्यमिव गाहन्ते दैवं तु बलवत्तरम्। संजय उवाच राजन् पूर्वनिमित्तानि धर्मिष्ठानि विचिन्तय॥ अतिक्रान्तं हि यत् कार्य पश्चाचिन्तयते नरः। तचास्य न भवेत् कार्य चिन्तया च विनश्यति॥ तदिदं तव कार्यं तु दूरप्राप्तं विजानता। न कृतं यत् त्वया पूर्व प्राप्ताप्राप्तविचारणम्॥ उक्तोऽसि बहुधा राजन् मा युध्यस्वेति पाण्डवैः। गृह्णीषे न च तन्मोहाद् वचनं च विशाम्पते॥ त्वया पापानि घोराणि समाचीर्णानि पाण्डुषु। त्वकृते वर्तते घोर: पार्थिवानां जनक्षयः॥ तत्त्विदानीमतिक्रान्तं मा शुचो भरतर्षभ। शृणु सर्वं यथावृत्तं घोरं वैशसमुच्यते॥ प्रभातायां रजन्यां तु कर्णो राजानमभ्ययात्। समेत्य च महाबाहुदुर्योधनमथाब्रवीत्॥ कर्ण उवाच अद्य राजन् समेष्यामि पाण्डवेन यशस्विना। निहनिष्यामि तं वीरं स वा मां निहनिष्यति॥ बहुत्वान्मम कार्याणां तथा पार्थस्य भारत। नाभूत् समागमो राजन् मम चैवार्जुनस्य च॥ इदं तु मे यथा प्राज्ञं शृणु वाक्यं विशाम्पते। अनिहत्य रणे पार्थं नाहमेष्यामि भारत॥ हतप्रवीरै सैन्येऽस्मिन् मयि चावस्थिते युधि। अभियास्यति मां पार्थं शक्रशक्तिविनाकृतम्॥ ततः श्रेयस्करं यच्च तन्निबोध जनेश्वर। आयुधानां च मे वीर्यं दिव्यानामर्जुनस्य च॥ कायस्य महतो भेदे लाघवे दूरपातने। सौष्ठवे चास्त्रपाते च सव्यसाची न मत्समः॥ प्राणे शौर्येऽथ विज्ञाने विक्रमे चापि भारत। निमित्तज्ञानयोगे च सव्यसाची न मत्समः॥ सर्वायुधमहामानं विजयं नाम तद्धनुः। इन्द्रार्थं प्रियकामेन निर्मितं विश्वकर्मणा॥ येन दैत्यगणान् राजञ्जितवान् वै शतक्रतुः। यस्य घोषेण दैत्यानां व्यामुह्यन्तः दिशो दशः॥ तद् भार्गवाय प्रायच्छच्छकः परमसम्मतम्। तद् दिव्य भार्गवो मह्यमददद् धनुरुत्तमम्॥ तेन योत्स्ये महाबाहुमर्जुनं जयतां वरम्। यथेन्द्रं समरे सर्वान् दैतेयान् वै समागतान्॥ धनुर्घोरं रामदत्तं गाण्डीवात् तद् विशिष्यते। त्रिस्सप्तकृत्वः पृथिवी धनुषा येन निर्जिता॥ धनुषो ह्यस्य कर्माणि दिव्यानि प्राह भार्गवः। तद् रामो ह्यददन्मह्यं तेन योत्स्यामि पाण्डवम्॥४७ अद्य दुर्योधन त्वां नन्दयिष्ये सबान्धवम्। निहत्य समरे वीरमर्जुनं जयतां वरम्॥ सपर्वतवनद्वीपा हतवीरा ससागरा। पुत्रपौत्रप्रतिष्ठा ते भविष्यत्यद्य पार्थिव॥ नाशक्यं विद्यते मेऽद्य त्वत्प्रियार्थं विशेषतः। सम्यग्धर्मानुरक्तस्य सिद्धिरात्मवतो यथा॥ न हि मां समरे सोढुं संशक्तोऽग्नि तसर्यथा। अवश्यं तु मया वाच्यं येन हीनोऽस्मि फाल्गुनात्।।५१ ज्या तस्य धनुषो दिव्या तथाक्षय्ये महेषुधी। सारथिस्तस्य गोविन्दो मम तादृङ् न विद्यते॥ तस्य दिव्यं धनुः श्रेष्ठं गाण्डीवमजितं युधि। विजयं च महद्दिव्यं ममापि धनुरुत्तमम्॥ तत्राहमधिकः पार्थाद् धनुषा तेन पार्थिवा येन चाप्यधिको वीरः पाण्डवस्तन्निबोध मे॥ रश्मिग्राहश्च दाशार्हः सर्वलोकनमस्कृतः। अग्निदत्तश्च वै दिव्यो रथः काञ्चनभूषणः॥ अच्छेद्यः सर्वतो वीर वाजिनश्च मनोजवाः। ध्वजच दिव्यो द्युतिमान् वानरो विस्मयंकरः॥ कृष्णाश्च स्रष्टा जगतो रथं तमभिरक्षति। एतैर्द्रव्यैरहं हीनो योद्धुमिच्छामि पाण्डवम्॥ अयं तु सदृशः शौरेः शल्यः समितिशोभन:। सारथ्यं यदि मे कुर्याद् ध्रुवस्ते विजयो भवेत्॥ तस्य मे सारथिः शल्यो भवत्वसुकरः परैः। नाराचान् गार्धपत्रांश्च शकटानि वहन्तु मे॥ रथाश्च मुख्या राजेन्द्र युक्ता वाजिभिरुत्तमैः। आयान्तु पश्चात् सततं मामेव भरतर्षभ॥ एवमभ्यधिकः पार्थाद् भविष्यामि गुणैरहम्। शल्योऽप्यभ्यधिकः कृष्णादर्जुनादपि चाप्यहम्॥ यथाश्चहृदयं वेद दाशार्हः परवीरहा। तथा शल्यो विजानीते हयज्ञानं महारथः॥ बाहुवीर्यं समो नास्ति मद्रराजस्य कश्चन। तथाऽस्त्रे मत्समो नास्ति कश्चिदेव धनुर्धरः॥ तथा शल्यसमो नास्ति हयज्ञाने हि कश्चन। सोऽयमभ्यधिकः कृष्णाद् भविष्यति रथो मम॥ एवं कुते रथस्थोऽहं गुणैरभ्यधिकोऽर्जुनात्। भवे युधि जयेयं च फाल्गुनं कुरुसत्तम।॥ समुद्यातुं न शक्ष्यन्ति देवा अपि सवासवाः। एतत् कृतं महाराज त्वयेच्छामि परंतप॥ क्रियतामेष कामो मे मा वः कालोऽत्यगादयम्। एवं कृते कृतं सह्यं सर्वकामैर्भविष्यति॥ ततो द्रक्ष्यसि संग्रामे यत् करिष्यामि भारत। सर्वथा पाण्डवान् संख्ये विजेष्ये वै समागतान्॥ न हि मे समरे शक्ताः समुद्यातुं सुरासुराः। किमु पाण्डुसुता राजन् रणे मानुषयोनयः॥ संजय उवाच एवमुक्तस्तव सुतः कर्णेनाहवशोभिना। सम्पूज्य सम्प्रहृष्टात्मा ततो राधेयमब्रवीत्॥ दुर्योधन उवाच एवमेतत् करिष्यामि यथा त्वं कर्ण मन्यसे। सोपासङ्गा रथाः साश्वाः स्वनुयास्यन्ति संयुगे॥ नाराचान् गार्धपत्रांश्च शकटानि वहन्तु ते। अनुयास्याम कर्ण त्वां सर्वे च पार्थिवाः॥ संजय उवाच एवमुक्त्वा महाराज तव पुत्रः प्रतापवान्। अभिगम्याब्रवीद् राजा मद्रराजमिदं वचः॥ संजय उवाच पुत्रस्तव महाराज मद्रराजं महारथम्। विनयेनोपसंगम्य प्रणयाद् वाक्यमब्रवीत्॥ सत्यव्रत महाभाग तापवर्धन। मद्रेश्वर रणे शूर परसैन्यभयंकर।॥ श्रुतवानसि कर्णस्य ब्रुवतो वदतां वर। यथा नृपतिसिंहानां मध्ये त्वां वरये स्वयम्॥ तत्त्वामप्रतिवीर्याद्य शत्रुपक्षक्षयावह। मद्रेश्वर प्रयाचेऽहं शिरसा विनयेन च॥ तस्मात् पार्थविनाशार्थं हितार्थं मम चैव हि। सारथ्यं रथिनां श्रेष्ठ प्रणयात् कर्तुमर्हसि॥ त्वयि यन्तरि राधेयो विद्विषो मे विजेष्यते। अभीषूणां हि कर्णस्य ग्रहीतान्यो न विद्यते॥ ऋते हि त्वां महाभाग वासुदेवसमं युधि। स पाहि सर्वथा कर्णं यथा ब्रह्मा महेश्वरम्॥ यथा च सर्वथाऽऽपत्सु वार्ष्णेयः पाति पाण्डवम्। तथा मद्रेश्वराद्य त्वं राधेयं प्रतिपालय॥ भीष्मो द्रोणः कृपः कर्णो भवान् भोजश्च वीर्यवान्। शकुनिः सौबलो द्रौणिरहमेव च नो बलम्॥ एवमेव कृतो भागो नवधा पृथिवीपते। न च भागोऽत्र भीष्मस्य द्रोणस्य च महात्मनः॥ ताभ्यामतीत्य तौ भागौ निहता मम शत्रवः। वृद्धौ हि तौ महेष्वासौ छलेन निहतौ युधि॥ कृत्वा नसुकरं कर्म गतौ स्वर्गमितोऽनघ। तथान्ये पुरुषव्याघ्राः परैर्विनिहता युधि॥ अस्मदीयाश्च बहवः स्वर्गयोपगता रणे। त्यक्त्वा प्राणान् यथाशक्ति चेष्टां कृत्वा च पुष्कलाम्।। तदिदं हतभूयिष्ठं बलं मम नराधिप। पूर्वमष्यल्पकैः पार्थैर्हतं किमुत साम्प्रतम्॥ बलवन्तो महात्मानः कौन्तेयाः सत्यविक्रमाः। बलं शेषं न हन्युर्मे यथा तत् कुरु पार्थिव॥ हतवीरमिदं सैन्यं पाण्डवैः समरे विभो। कर्णो ोको महाबाहुरस्मत्प्रियहिते रतः॥ भवांश्च पुरुषव्याघ्र सर्वलोकमहारथः। शल्य कर्णोऽर्जुनेनाद्य योद्भुमिच्छति संयुगे॥ तस्मिञ्जयाशा विपुला मद्रराज नराधिप। तस्याभिषुग्रहवरो नान्योऽस्ति भुवि कश्चन॥ पार्थस्य समरे कृष्णो यथाभीषुग्रहो वरः। तथा त्वमपि कर्णस्य रथेऽभीषुग्रहो भव॥ तेन युक्तो रणे पार्थो रक्ष्यमाणश्च पार्थिव। यानि कर्माणि कुरुते प्रत्यक्षाणि तथैव तत्॥ पूर्व न समरे ह्येवमवधीदर्जुनो रिपून्। इदानीं विक्रमो ह्यस्य कृष्णेन सहितस्य च॥ कृष्णेन सहित: पार्थो धार्तराष्ट्री महाचमूम्। अहन्यहनि मद्रेश द्रावयन् दृश्यते युधि॥ भागोऽवशिष्टः कर्णस्य तव चैव महाद्युते। तं भागं सह कर्णेन युगपन्नाशयाद्य हि॥ अरुणेन यथा सार्धं तमः सूर्यो व्यपोहतिः। तथा कर्णेन सहितो जहि पार्थं महाहवे॥ उद्यन्तौ च यथा सूर्यो बालसूर्यसमप्रभौ। कर्णशल्यौ रणे दृष्ट्वा विद्रवन्तु महारथाः॥ सूर्यारुणौ यथा दृष्ट्वा तमो नश्यति मारिष। तता नश्यन्तु कौन्तेयाः : सपञ्चाला: ससुंजयाः॥ रथिनां प्रवरः कर्णो यन्तॄणां प्रवरो भवान्। संयोगो युवयोलेकि नाभून्न च भविष्यति॥ यथा सर्वास्ववस्थासु वार्ष्णेयः पाति पाण्डवम्। तथा भवान् परित्रातुं कर्ण वैकर्तनं रणे॥ त्वया सारथिना ह्येष अप्रधृष्यो भविष्यति। देवतानामपि रणे सशक्राणां महीपते। किं पुनः पाण्डवेयानां मा विशंकीर्वचो मम॥ संजय उवाच दुर्योधनः श्रुत्वा शल्यः क्रोधसमन्वितः। विशिखां भृकुटिं कृत्वा धुन्वन् हस्तौ पुनः पुनः॥३० क्रोधरक्ते महानेत्रे परिवृत्य महाभुजः। कुलैश्चर्यश्रुतबलैर्दृप्तः शल्योऽब्रवीदिदम्॥ शल्य उवाच अवमन्यसि गान्धारे ध्रुवं च परिशङ्कसे। यन्मां ब्रवीषि विश्रब्धं सारथ्यं क्रियतामिति॥ अस्मतोऽभयधिकं कर्णं मन्यमानः प्रशंससि। न चाहं युधि राधेय गणये तुल्यमात्मनः॥ आदिश्यतामभ्यधिको ममांशः पृथिवीपते। तमहं समरे जित्वा गमिष्यामि यथागतम्॥ अथवाष्येक एवाहं योत्स्यामि कुरुनन्दन। पश्य वीर्य ममाद्यत्वं संग्रामे दहतो रिपून्।॥ न चापि कामान् कौरव्य निधाय हृदये पुमान्। अस्मद्विधः प्रवर्तेत मा मां त्वमभिशङ्किथाः॥ युधि वाप्यवमानो मे न कर्तव्यः कथञ्चन। पश्य पीनौ मम भुजौ वज्रसंहननौ पमौ॥ धनुः पश्य च मे चित्रं शरांश्चाशीविषोपमान्। रथं पश्य च मे कृप्तं सदश्चैर्वातवेगितैः॥ गदां च पश्य गान्धारे हेमपट्टविभूषिताम्। दारयेयं महीं कृत्स्नां विकिरेयं च पर्वतान्॥ शोषयेयं समुद्रांश्च तेजसा स्वेन पार्थिव। तं मामेवंविधं राजन् समर्थमरिनिग्रह॥ कस्माद् युनसि सारथ्ये नीचस्याधिरथे रणे। ह्यभ्युगतं न मामधुरि राजेन्द्र नियोक्तुं त्वमिहार्हसि॥ न हि पापीयसः श्रेयान् भूत्वा प्रेष्यत्वमुत्सहे। यो प्रीत्या गरीयांसं वशे स्थितम्॥ वशे पापीयसो धत्ते तत् पापमधरोत्तरम्। ब्रह्मणा ब्राह्मणाः सृष्टा मुखात् क्षत्रं च बाहुतः॥ ऊरुभ्यामसृजद् वैश्याशूद्रान पद्भ्यामिति श्रुतिः। तेभ्यो वर्णविशेषाश्च प्रतिलोमानुलोमजाः॥ अथान्योन्यस्य संयोगाचातुर्वर्ण्यस्य भारत। गोप्तारः संगृहीतारो दातारः क्षत्रिया:स्मृताः॥ याजनाध्यापनैर्विप्रा विशुद्धैश्च प्रतिग्रहैः। लोकस्युनुग्रहार्थाय स्थापित ब्राह्मण भुवि॥ कृषिश्च पाशुपाल्यं च दिशां दानं च धर्मतः। ब्रह्मक्षत्रविशां शूद्रा विहिताः परिचारकाः॥ ब्रह्मक्षत्रस्य विहिताः सूता वै परिचारकाः। न क्षत्रियोवै सूतानां शृणुयाच कथञ्चन॥ अहं मूर्धाभिषिक्तो हि राजर्षिकुलजो नृपः। महारथः समाख्यातः सेव्यः स्तुत्यश्च वन्दिनाम्॥४९ सोऽहमेतादृशो भूत्वा नेहारिबलसूदनः। सूतपुत्रस्य संग्रामे सारथ्यं कर्तुमुत्सहे॥ अवमानमहं प्राप्य न योत्स्यामि कथञ्चन। आपृच्छे त्वाद्य गान्धारे गमिष्यामि गृहाय वै॥ संजय उवाच एवमुक्त्वा महाराज शल्यः समितिशोभन:। उत्थाय प्रयसौ तूर्णे राजमध्यादमर्षितः॥ प्रणयाद् बहुमानाश्च तं निगृह्य सुतस्तव। अब्रवीन्मधुरं वाक्यं साम्ना सर्वार्थसाधकम्॥ यथा शल्य विजानीषे एवमेतदसंशयम्। अभिप्रायस्तु मे कश्चित् तं निबोध जनेश्वर॥ न कर्णोऽभ्यधिकस्त्वत्तो न शके त्वां च पार्थिव। न हि मद्रेश्वरो राजा कुर्याद् यदनृतं भवेत्॥ ऋतमेव हि पूर्वास्ते वदन्ति पुरुषोत्तमाः। तस्मादार्तायनिः प्रोक्तो भवानिति मतिर्मम॥ शल्यभूतस्तु शत्रूणा यस्मात्त्वं युधि मानद। तस्माच्छल्यो हि ते नाम कथ्यते पृथिवीतले॥ यदेतद् व्याहतं पूर्व भवता भूरिदक्षिण। तदेव कुरु धर्मज्ञ मदर्थे यद् यदुच्यते॥ न त त्वत्तो हि राधेयो न चाहमपि वीर्यवान्। वृणेऽहं त्वां हयाग्र्याणां यन्तारमिह संयुगे॥ मन्ये चाभ्यधिकं शल्य गुणैः कर्णं धनंजयात्। भवन्तं वासुदेवाश्च लोकोऽयमिति मन्यते॥ कर्णो ह्यभ्यधिकः पार्थादस्त्रैरेव नरर्षभः। भवानभ्यधिकः कृष्णादश्वज्ञाने बले तथा॥ यथाश्वहृदयं वेद वासुदेवो महामनाः। द्विगुणं त्वं तथा वेत्सि मद्रराजेश्वरात्मज॥ शल्य उवाच यन्मां ब्रवीषि गान्धारे मध्ये सैन्यस्य कौरव। विशिष्टं देवकीपुत्रात् प्रीतिमनम्यहं त्वहि॥ एष सारथ्यमातिष्ठे राधेयस्य यशस्विनः। युध्यतः पाण्डवाग्र्येण यथा त्वं वीर मन्यसे॥ समयश्च हि मे वीर कश्चिद् वैकर्तनं प्रति। उत्सृजेयं यथाश्रद्धमहं वाचोऽस्य संनिधौ॥ संजय उवाच तथेति राजन् पुत्रस्ते सह कर्णेन भारत। अब्रबीन्मद्रराजस्य मतं भरतसत्तम्॥ दुर्योधन उवाच भूय एव तु मद्रेश यत्ते वक्ष्यामि तच्छृणु। यथा पुरावृत्तमिदं युद्धे देवासुरे विभो॥ यदुक्तवान् पितुर्मह्यं मार्कण्डेयो महानुषिः। तदशेषेण ब्रुवतो मम राजर्षिसत्तम॥ नितोध मनसा चात्र न ते कार्या विचारणा। देवानामसुराणां च परस्परजिगीषया॥ बभूव प्रथमो राजन् संग्रामस्तारकामयः। निर्जिताच तदा दैत्या दैवतैरिति नः श्रुतम्॥ निर्जितेषु च दैत्येषु तारकस्य सुतास्त्रयः। ताराक्षः कमलाक्षश्च विद्युन्माली च पार्थिव॥ तप उग्रं समास्थाय नियमे परमे स्थिताः। तपसा कर्षयामसुर्देशन् स्वान् शत्रुतापन॥ दमेन तपसा चैव नियमेन समाधिना। तेषां पितामहः प्रीतो वरदः प्रददौ वरम्॥ अवध्यत्वं च ते राजन् सर्वभूतस्य सर्वदा। सहिता वरयामासुः सर्वलोकपितामहम्॥ तानब्रवीत्तदा देवो लोकानां प्रभुरीश्वरः। नास्ति सर्वामरत्वं वै निवर्तध्वमितोऽसुराः॥ अन्यं वरं वृणीध्वं वै यादृशं सम्प्ररोचते। ततस्ते सहिता राजन् सम्प्रधार्यासकृत प्रभुम्॥ सर्वलोकेश्वरं वाक्यं प्रणम्येदमथाब्रुवन्। अस्मभ्यं त्वं वरं देव सम्प्रयच्छ पितामह॥ दैत्या ऊचुः वयं पुराणि त्रीण्येव समास्थाय महीमिमाम्। विचरिष्याम लोकेऽस्मिस्त्वत्प्रसाद पुरुस्कृताः॥ ततो वर्षसहस्रे तु समेष्याम:परस्परम्। एकीभावं गमिष्यन्ति पुराण्येतानि चानघ॥ समागतानि चैतानि यो हन्याद् भगवंस्तदा। एकेषुणाः देववरः स नो मृत्युभविष्यति॥ एवमस्त्विति तान् देवः प्रत्युक्त्वा प्राविशद् दिवम्। तु लब्धवराः प्रीताः सम्प्रधार्य परस्परम्॥ पुरत्रयबिसृष्टयर्थ मयं वदुर्महासुरम्। विश्वकर्माणमजरं दैत्यदानवपूजितम्॥ ततो मयः स्वतपसा चक्रे धीमान् पुराणि च। त्रीणि काञ्चनमेकं वै रौप्यं कार्णायसं तथा॥ ते काञ्चनं दिवि तत्रासीदन्तरिक्षे च राजतम्। आयसं चाभवद् भौमं चक्रस्थं पृथिवीपते॥ एकैकं योजनशतं विस्तारायामतः समम्। गृहाट्टालकसंयुक्तं बहुप्राकारतोरणम्॥ गृहप्रवहसम्बाधमसम्बाधमहापथम्। प्रासादैर्विविधैश्चापि द्वारैश्चैवोपशोभितम्॥ पुरेषु चाभवन् राजन् राजानो वै पृथक्-पृथक्। काञ्चनं तारकाक्षस्यचित्रमासीन्महात्मनः॥ राजतं कमलाक्षस्य विद्युन्मालिन आयसम्। त्रयस्ते दैत्यराजानस्त्रील्लोकानस्त्रतेजसा॥ आक्रम्य तस्थुरूचुश्च कश्च नाम प्रजापतिः। तेषां दानवमुख्यानां प्रयुतान्तयर्बुदानि च॥ कोट्यश्चाप्रतिवीराणां समाजग्मुस्ततस्ततः। मांसाशिनः सुद्दप्ताश्च सुरैर्विनिकृताः पुरा॥ महदैश्चर्यमिच्छन्तस्त्रिपुरं दुर्गमाश्रिताः। सर्वेषां च पुनश्चैषां सर्वयोगवहो मयः॥ तमाश्रित्य हि ते सर्वे वर्तयन्तेऽकुतोभयाः। यो हि यन्मनसा कामं दध्यौ त्रिपुरसंश्रयः॥ तस्मै कामं मयस्तं त विदधे मायया तदा। तारकाक्षसुतो वीरो हरिर्नाम महाबलः॥ तपस्तेपे परमकं येनातुष्यत् पितामाहः। संतुष्टवृणोद् देवं वापी भवतु नः पुरे॥ शस्त्रैर्विनिहता यत्र क्षिप्ताः स्युर्बलवत्तरा। स तु लब्धा वरं वीरस्तारक्षसुतो हरिः॥ ससृजे तत्र वापी तां मृतानां जीविनीं प्रभो। येन रूपेण दैत्यस्यु येन वेषेण चैव ह॥ मृतस्तस्यां परिक्षिप्तस्तादृशेनैव जज्ञिवान्। तां प्राप्य तेपुनस्तास्तु लोकान् सर्वान् बबाधिरे॥ महता तपसा सिद्धाः सुराणां भय वर्धना। न तेषामभवद् राजन् क्षयो युद्धे कदाचन॥ ततस्ते लोभमोहाभ्यामभिभूता विचेतसः। निर्टीका: संस्थिताः सर्वे स्थापिताः समलूलुपन्॥३३ विद्राव्य सगणान् देवांस्तत्र तत्र तदा तदा। विचेसः स्वेन कामेन वरदानेन दर्पिताः॥ देवोद्यानानि सर्वाणि प्रियाणि च दिवोकसाम्। ऋषीणामाश्रमान् पुण्यान् रभ्याजनपदांस्तथा॥ व्यनाशयन्नमर्यादा दानवा दुष्टचारिणः। पीड्यमानेषु लोकेषु ततः शक्रो मरुवृतः॥ पुराण्यायोधयांचक्रे वज्रपातैः समन्ततः। नाशकत् तान्यभेद्यानि यदा भेत्तुः पुरंदरः॥ पुराणि वरदत्तानि धात्रा तेन नराधिप। तदा भीतः सुरपतिर्मुक्त्वा तानि पुराण्यथ॥ तैरेव विबुधैः सार्ध पितामहमरिदम्। जगामाथ तदाख्यातुं विप्रकारं सुरेतरैः॥ ते तत्त्वं सर्वमाख्याय शिरोभिः सम्प्रणम्य च। वधोपायमपृच्छन्त भगवन्तं पितामहम्॥ श्रुत्वा तद् भगवान् देवो देवानिदमुवाच ह। ममापि सोऽपरानोति यो युष्माकामसौम्यकृत्य्॥ असुरा हि दुरात्मानः सर्व एव सुरद्विष। अपराध्यन्ति सततं ये युष्मान् पीडयन्त्युत॥ अहं हि तुल्यः सर्वेषां भूतानां नात्र संशयः। अधार्मिकास्तु हन्तव्या इति मे व्रतमाहितम्॥ एकेषुणा विभेद्यानि तानि दुर्गाणि नान्यथा। न च स्थाणुमते शक्तो भेत्तुमेकेषुणा पुरः॥ ते यूयं स्थाणुमीशानं जिष्णुमक्लिष्टकारिणम्। योद्धारं वृणुतादित्याः स तान् हन्तासुरेतरान्॥ इति तस्य वचः श्रुत्वा देवाः शक्रपुरोगमाः। ब्रह्माणमग्रतः कृत्वा वृषाङ्कं शरणं ययुः॥ तपो नियममास्थाय गृणन्तो ब्रह्म शाश्वतम्। ऋषिभिः सह धर्मज्ञा भवं सर्वात्मना गताः॥ तुष्टवुर्वाग्भिरिष्टाभिर्भयेष्वभयदं नृप। सर्वात्मानं महात्मानं येनाप्तं सर्वमात्मना॥ तपोविशेषैर्विविधैर्योगं यो वेद चात्मनः। यः सांख्यमात्मनो वेत्ति यस्य चात्मा वशे सदा॥४९ तं ते ददृशुरीनां तेजोराशिमुमापतिम्। अनन्यसदृशं लोके भगवन्तमकल्मषम्॥ एकं भगवन्तं ते नानरूपमकल्पयन्। आत्मनः प्रतिरूपाणि रूपाण्यथ महात्मनि॥ परस्परस्य चापश्यन् सर्वे परमविस्मिताः। सर्वभूतमयंदृष्ट्वा तमजं जगतः पतिम्॥ देवा ब्रह्मर्षयश्चैव शिरोभिर्धरणीं गताः। तान् स्वतिवादेनाभ्यर्च्य समुत्थाप्य च शङ्करः॥ ब्रूत ब्रूतेति भगवान् स्मयमानोऽभ्यभाषत। त्र्यम्बकेणाभ्यनुज्ञातास्ततस्ते स्वस्थचेतसः॥ नमो नमो नमस्तेऽस्तु प्रभो इत्यब्रुवन् वचः। नमो देवाधिदेवाय धन्विने वनमालिने॥ प्रजापतिखध्नाय प्रजापतिभिरीड्यते। नमः स्तुताय स्तुत्याय स्तूयमानाय शम्भवे॥ विलोहिताय रुद्राय नीहग्रीबाय शूलिने। अमोघाय मृगाक्षाय प्रवरायुधयोधिने॥ अर्हाय चैव शुद्धाय क्षयाय क्रथनाय च। दुर्वारणाय शुक्राय ब्रह्मणे ब्रह्मचारिणे॥ ईशानायाप्रमेयाय नियन्त्रे चर्मवाससे। तपोरताय पिङ्गाय वतिने कृत्तिवाससे॥ कुमारपित्रे त्र्यक्षाय प्रवकायुधधारिणे। प्रपन्नार्तिविनाशाय ब्रह्मद्विसंघघातिने॥ वनस्पतीनां पतये नराणां पतये नमः। गवां च पतये नित्यं यज्ञानां पतये नमः॥ नमोस्तुते ससैन्याय त्र्यम्बकायामितौजसे। मनोवाक्वर्मभिर्देव त्वां प्रपन्नान् भजस्व नः॥ ततः प्रसन्नो भगवान् स्वागतेनाभिनन्द्य च। प्रोवाच व्येतु वस्त्रासो ब्रूतं किं करवाणि वः॥ दुर्योधन उवाच पितृदेवर्षिसंघेभ्योऽभये दत्ते महात्मना। सत्कृत्य शङ्करं प्राह ब्रह्मा लोकहितं वचः॥ तवातिसर्गाद् देवेश प्राजापत्यमिदं पदम्। मयाधितिष्ठता दत्तो दानवेभ्यो महान् वरः॥ तानतिक्रान्तमर्यादान् नान्यः संहर्तुमर्हति। त्वामृते भूतभव्येश त्वं ह्येषां प्रत्यरिर्वधे॥ स त्वंदेव प्रपन्नानां याचतां च दिवौकसाम्। कुरु प्रसादं देवेश दानवाञ्जहि शङ्कर॥ त्वत्प्रसादाजगत् सर्वं सुखमैधत मानद। शरणयस्त्वं हि लोकेश ते वयं शरणं गताः॥ स्थाणुरुवाच हन्तव्याः शत्रवः सर्वे युष्माकमिति मे मतिः। न त्वेक उत्सहेहन्तुं बलस्था हि सुरद्विषः॥ ते यूयं संहताः सर्वे मदीयेनार्धतेजसा। जयध्वं युधि ताशत्रून् संहता हि महाबलाः॥ देवा ऊचुः अस्मेत्तेजोबलं यावत् तावद्विगुणमाहवे। तेषामिति हि मन्यामो दृष्टतेजोबला हि ते॥ स्थाणुरुवाच वध्यास्ते सर्वतः पापाये युष्मास्वपराधिनः। मम तेजोबलार्धेन सर्वान् निघ्नत शात्रवान्॥ देवा ऊचुः बिभर्तुं भवतोऽर्धं तु न शक्ष्यामो महेश्वर। सर्वेषां नो बलार्धेन त्वमेव जहि शात्रवान्॥ स्थाणुरुवाच यदि शक्तिर्न वः काचिद् बिभर्तु मामकं बलम्। अहमेतान् हनिष्यामि युष्मत्तेजोऽर्धबृंहितः॥ ततस्तेथेति देवेशस्तैरुक्तो राजसत्तम। अर्धमादाय सर्वेषां तेजसाभ्यधिकोऽभवत्॥ स तु देवो बलेनासीत् सर्वेभ्या बलवत्तरः। महादेव इति ख्यातस्ततः प्रभृति शङ्करः॥ ततोऽब्रवीन्महादेवो धनुर्बाणधरो ह्यहम्। हनिष्यामिरथेनाजौ तान् रिपून् वो दिवौकसः॥ ते यूयं मे रथं चैव धनुर्वाणं तथैव च। पश्यध्वं यावदद्यैतान् पातयामि महीतले॥ देवा ऊचुः मूर्तीः सर्वाः समाधान त्रैलक्यस्य ततस्ततः। रथं ते कल्पयिष्यामो देवेश्वर सुवर्चसम्॥ तथैव बुद्ध्या विहितं विश्वकर्मकृतं शुभम्। ततो विबुधशार्दूलास्ते च तस्येषु समकल्पयन्॥ विष्णुंन सोमं हुताशं च तस्येधुं समकल्पयन्। शृङ्गमग्निर्बभूवास्य भल्लः सोमो विशामप्ते॥ कुड्मलश्चाभवद् विष्णुस्तस्मिन्निषुवरे तदा। रथं वसुन्धरां देवीं विशालपुरमालिनीम्॥ सपर्वतवनद्वीपां चक्रुर्भूतधरां तदा। मन्दरः पर्वतश्चाक्षो जङ्घा तस्य महानदी॥ दिशश्च प्रदिशश्चैव परिवारो रथस्य तु। ईषा नक्षत्रवंशश्च युगः कृतयुगोऽभवत्॥ कूबरश्च रथस्यासीद् वासुकिर्भुजगोत्तमः । अपस्करमधिष्ठाने हिमवान् विन्ध्यपर्वतः उदयास्तावधिष्ठाने गिरी चक्रुः सुरोत्तमाः॥ समुद्रमक्षमसृजन् दानवालयमुत्तमम्। सप्तर्षिमण्डलं चैवरथस्यासीत् परिष्करः॥ गङ्गा सरस्वती सिन्धुधुरमाकाशमेव च। उपस्करो रथस्यासन्नाप: सर्वाश्च निम्नगाः॥ अहोरात्रं कलाश्चैव काष्ठाश्च ऋतवस्तथा। अनुकर्षं ग्रहा दीप्ता वरुथं चापि तारकाः॥ धर्मार्थकामं संयुक्तं त्रिवेणु दारु बन्धुरम्। ओषधीर्वीरुधश्चैव घण्टाः पुष्पफलोपगाः॥ सूर्याचन्द्रमसौ कृत्वा चक्रे रथवरोत्तमे। पक्षौ पूर्वापरौ तत्र कृते रात्र्यहनी शुभे॥ दश नागपतीनीषां धृतराष्ट्रमुखांस्तदा। योक्त्राणि चक्रुर्नागांश्च निश्वसन्तो महोरगान्॥ द्यां युगं युगचर्माणि संवर्तकबलाहकान्। कालपृष्टोऽथ नहुषः कर्कोटकधनंजयौ॥ इतरे चाभवन् नागा हयानां बालबन्धनाः। दिशश्च प्रदिशश्चैव रश्मयो रथवाजिनाम्॥ संध्यां धृतिं च मेधां च स्थिति संनतिमेव च। ग्रहनक्षत्रताराभिश्चर्म चित्रं नभस्तलम्॥ सुराम्बुप्रेतवित्तानां पतील्लोकेश्वरान् हयान्। सिनीवालीमनुमतिं कुहूं राकां च सुव्रताम्॥ योकत्राणिं चक्रुर्वाहानां रोहकांस्तत्र कण्टकान्। धर्मः सत्यं तपोऽर्थश्च विहितास्तत्र रश्मयः॥ अधिष्ठानं मनश्चासीत् परिरथ्या: सरस्वती। नानावर्णाश्च चित्राश्च पताकाः पवनेरिताः॥ विद्युदिन्द्रधनुर्नद्धं रथं दीप्तं व्यदीपयन्। वषट्कार :प्रतोदोऽभूद्गायत्री शीर्षबन्धना॥ यो यज्ञे विहितः पूर्वमीशानस्य महात्मनः। संवत्सरो धनुस्तद् वै सावित्री ज्या महास्वना॥ दिव्यं च वर्म विहितं महार्ह रत्नभूषितम्। अभेद्यं विरजस्कं वै कालचक्रबहिष्कृतम्॥ ध्वजयष्टिरभून्मेरुः श्रीमान् कनकपर्वतः। पताकाश्चाभवन् मेघास्तडिद्भिः समलकृताः॥ रेजुरध्वर्युमध्यस्था ज्वलन्त इव पार्वकाः। क्लृप्तं तु तं रथं दृष्ट्वा विस्मिता देवताऽभवन्॥ सर्वलोकस्य तेजसिं दृष्ट्वैकस्थानि मारिष। युक्तं निवेदयामासुर्देवास्तस्मै महात्मने।॥ एवं तस्मिन् महाराज कल्पिते रथसत्तमे। देवैर्मनुजशार्दूल द्विषतामभिमर्दने॥ स्वान्यायुधानि मुख्यानि न्यदधाच्छङ्करो रथे। ध्वजयष्टिं वियत् कृत्वा स्थापयामास गोवृषम्॥ ब्रह्मदण्डः कालदण्डो रूद्रदण्डस्तथा ज्वरः। परिस्कन्दा रथस्यासन् सर्वतोदिशमुद्यताः॥ अथर्वाङ्गिरसावास्तां चक्ररक्षौ महात्मनः। ऋग्वेदः सामवेदश्च पुराणं च पुरःसराः॥ इतिहासयजुर्वेदो पृष्ठरक्षौ बभूवतुः। दिव्या वाचश्च विद्याश्च परिपार्श्वचराः स्थिताः॥ स्तोत्रादयश्च राजेन्द्र वषट् कारस्तथैव त। ओंकारच मुखे राजन्नतिशोभकरोऽभवत्॥ विचित्रमृतुभिः षड्भिः कृत्वा संवत्सरं धनुः। छायामेवामनश्चक्रे धनुर्ध्यामक्षयां रणे॥ कालो हि भगवान् रुद्रस्तस्य संवत्सरो धनुः। तस्माद् रौद्री कालरात्रिा कृताः धनुषोऽजरा॥ इषुश्चाप्यभवद् विष्णुर्व्वलनः सोम एव च। अग्नीषोमौ जगत् कृत्स्नं वैष्णवं चोच्यते जगत्॥ विष्णुश्चात्मा भगवतो भवस्यामिततेजसः। तस्माद् धनुासंस्पर्श न विषेहुर्हरस्य ते॥ तस्मिशरे तिग्ममन्यु मुमोचासह्यमीश्वरः। भृग्वङ्गिोमन्युभवं क्रोधाग्निमतिदुःसहम्॥ स नीललोहितो धूम्रः कृत्तिवासाभयंकरः। आदित्ययुतसंकाशस्तेजोज्वालावृतो ज्वलन्॥ दुश्चयावच्यावनो जेता हन्ता ब्रह्मद्विषां हरः। नित्यं त्राता च हन्ता त धर्माधर्माश्रितान् नरान्॥ प्रामाथिभिर्भीमबलैर्भीमरूपैर्मनोजवैः। विभाति भगवान् स्थाणुस्तैरेवत्मगुणैर्वृतः॥ तस्याङ्गानि समाश्रित्यं विश्वमिदं जगत्। जङ्गमाजङ्गमं राजशुशुभेऽद्भुतदर्शनम्॥ दृष्ट्वा तु तं रथं युक्तं कवची स शरासनी। बाणमादाय तं दिव्यं सोमविष्णवग्निसम्भवम्॥ तस्य राजस्तदा देवाः कल्पयाञ्चक्रिरे प्रभो। पुण्यगन्धवहं राजश्वसनं देवसत्तमम्॥ तमास्थाय महादेवस्त्रासयन् दैवतान्यपि। आरुरोह तदा यत्तः कम्पयन्निव मेदिनीम्॥ तमारुरुधू देवेशं तुष्टुवः परमर्षयः। गन्धर्वा दैवसङ्घाश्च तथैवाप्सरसां गणाः॥ ब्रह्मर्षिभिः स्तूयमानो वन्द्यमानश्च वन्दिभिः। तथैवाप्सरसां वृन्दैर्नृत्यद्भिर्नृत्यकोविदैः॥ स शोभमानो वरदः खड्गी बाणी शरासनी। हसन्निवाब्रवीद् देवान् सारथिः को भविष्यति॥ तमब्रुवन् देवगणां यं भवान् संनियोक्ष्यते। स भविष्यति देवेशं सारथिस्ते न संशयः॥ तानब्रवीत् पुनर्देवो मत्तः श्रेष्ठतरो हि यः। तं सारथिं कुरुवं मे स्वयं संचिन्त्य मा चिरम्॥ एतच्छ्रुत्वा ततो देवा वाक्यमुक्तं महात्मना। गत्वा पितामाहं देवाः प्रसाद्येदं वचोऽब्रुवन्॥ यथा त्वत्कथितं देव त्रिदशारिविनिग्रह। तथा च कृतमस्माभिः प्रसन्नो नो वृषध्वजः॥ रथश्च विहितोऽस्माभिर्विचित्रायुधसंवृतः। सारथिं च न जानीमः कः स्यात् तस्मिन् रथोत्तमे।।६६ तस्माद् विधीयतां कश्चित् सारथिदेवसत्तम। सफलां तान गिरं देवकर्तुमर्हसि नो विभो॥ एवमस्मासु हि पुरा भगवन्नुक्तवानसि। हितकार्तस्मि भवतामिति तत् कर्तृमर्हसि॥ स देव युक्तो रथसत्तमो नो दुराधरो द्रावणः शात्रवाणाम्। पिनाकपाणिर्विहितोऽत्र योद्धा विभीषयन् दानवानुद्यतोऽसौ॥ तथैव वेदाश्चतुरो हयाग्र्या धरा सशैला च रथो महात्मनः। नक्षत्रवंशानुगतो वरूथी हरो योद्धा सारथि भिलक्ष्यः॥ तत्र सारथिरेष्टव्यः सवैरेतैर्विशेषवान्। तत्प्रतिष्ठो रथो देव हया योद्धा तथैव च॥ कवचानि सशस्त्राणि कार्मुकं च पितामह। त्वामृतेसारथिं तत्र नान्यं पश्यामहे वयम्॥ त्वं हि सर्वगुणैर्युक्तो दैवतेभ्योऽधिकः प्रभो। स रथं तूर्णमारुध संयच्छ परमान् हयान्॥ जयाय त्रिदेवशानां वधाय त्रिदशद्विषाम्। इति ते शिरसा गत्वा त्रिलोकेशं पितामहम्॥ देवाः प्रसादयामासुःसारथ्यायेति नः श्रुतम्। पितामह उवाच नात्रं किंचिन्मृषा वाक्यं यदुक्तं त्रिदिवौकसः॥ संयच्छामि हयानेषयुध्यतो वै कपर्दिनः। ततः स भगवान् देवो लोकस्रष्टा पितामहः॥ सारथ्ये कल्पितो देवैरीशानस्य महात्मनः। तस्मिन्नोरोहति क्षिप्रं स्यन्दने लोकपूजिते॥ शिरोभिरागमन् भूमि ते हया वातरंहसः। आरुह्य भगवान देवो दीप्यमानः स्वतेजसा।।७८ अभीषून हि प्रतोदं च संजग्राह पितामहः। तत उत्थाप्य भगवास्तान् हयाननिलोपमान्॥ बभाषे च तदा स्थाणुमारोहेति सुरोत्तमः। ततस्तमिषुमादाय विष्णुमोमग्निसम्भवम्॥ आरुरोह तदा स्थाणुर्धनुषा कम्पयन् परान्। तमारूढं तु देवेशं तुष्टुवुः परमर्षयः॥ गन्धर्वा देवसंघाश्च तथैवाप्सरसां गणाः। स शोभमानो वरदः खगी बाणी शरासनी॥ प्रदीपयन् रथे तस्थौ त्रील्लोकान् स्वेन तेजसा। ततो भूयोऽब्रवीद् देवो देवानिन्द्रपुरोगमान्॥ न हन्यादिति कर्तव्यो न शोको वः कथञ्चन। हतानित्येव जानीत बाणेनानेन तासुरान्॥ ते देवाः सत्यमित्याहुर्निहता इति चाब्रुवन्। न च तद वचनं मिथ्या यदाऽह भगवान् प्रभुः॥ इति संचिन्त्य वै देवाः परां तुष्टिमवाप्नुवन्। ततः प्रयातो देवेशः सर्वैर्देवगणैर्वृतः॥८६॥ रथेन महता राजन्नुपमा नास्ति यस्य ह। स्वैश्च पारिषदैर्देवः पूज्यमानो महायशाः॥ नृत्यद्भिरपरैश्चेवः मांसभक्षैर्दुरासदैः। धावमानैः समन्ताच तर्जमानैः परस्परम्॥ ऋषयश्च महाभागास्तपोयुक्ता महागुणाः। आशंसुवै जना देवा महादेवस्य सर्वशः॥ एवं प्रयाते देवेश लोकानामभयंकरे। तुष्टमासीजगत् सर्वे देवताश्च नरोत्तम॥ ऋषयस्तत्र देवेशं स्तुवन्तो बहुभिः स्तवैः। तेजश्चास्मै वर्धयन्तो राजन्नासन् पुनः पुनः॥ गन्धर्वाणां सहस्राणि प्रयुतान्यर्बुदानि च। वादयन्ति प्रयाणेऽस्य वाद्यानि विविधानि च॥ ततोऽधिरूढे वरदे प्रयाते चासुरान् प्रति। साधु साध्विति विश्वेशः स्मयमानोऽभ्यभाषत॥ याहि देव यतो दैत्याश्चोदयाश्वानतन्द्रितः। पश्य बाह्वोर्बलं मेऽद्य निघ्नतः शात्रवान् रणे॥ ततोऽश्वांश्चोदयामास मनोमारुतरंहसः। येन तत् त्रिपुरं राजन् दैत्यदानवरक्षितम्॥ पिबद्भिरिव चाकाशं तैर्हयैर्लोकपूजितैः। जगाम् भगवान् क्षिप्रं जयाय त्रिदिवौकसाम्॥ प्रयाते रथमास्थाय त्रिपुराभिमुखे भवे। ननाद सुमहानादं वृषभः पूरयन् दिशः॥ वृषभस्यास्य निनदं श्रुत्वा भयकरं महत्। विनाशमगर्मस्तत्र तारकाः सुरशत्रवः॥ अपरेऽवस्थितास्तत्र युद्धायाभिमुखास्तदा। ततः स्थाणुर्महाराज शूलधृक् क्रोधमूर्छितः॥ वस्तानि सर्वभूतानि त्रैलोक्यं भूः प्रकम्पते। निमित्तानि च घोराणि तत्र संदधत: शरम्॥ तस्मिन् सोमाग्निविष्णूनां क्षोभेण ब्रह्मरुद्रयोः। स रथो धनुषः क्षोभादतीव ह्यवसीदति॥ ततो नारायणस्तस्माच्छरभागाद् विनिःसृतः। वृषरूपं समास्थाय उनहार महारथम्॥ सीदमाने रथे चैव नर्दमानेषु शत्रुषु। स सम्भ्रमात तु भगवान् नादं चक्रे महाबलः॥ वृषभस्य स्थितो मूर्ध्नि हयपृष्ठे त मानद। तदा स भगवान् रुद्रो निरैक्षद् दानवं पुरम्॥ वृषभस्यास्थितो रुद्रो हयस्य च नरोत्तम। स्तनांस्तदाऽशातयत खुरांश्चैव द्विधाकरोत्॥ ततः प्रभूति भद्रं ते गवां द्वैधीकृताः खुराः। हयानां च स्तना राजंस्तदाप्रभृति नाभवन्॥ पीडितानां बलवता रुद्रेणाद्भुतकर्मणा। अथाधित्यं धनुः कृत्वा शर्वः संधाय तं शरम्॥ युक्त्वा पाशुपतास्त्रेण त्रिपुरं समचिन्तयत्। तस्मिन् स्थिते महाराज रुद्रे विधृतकार्मुके॥ पुराणि तानि कालेन जग्मुरेवैकतां तदा। एकीभावं गते चैव त्रिपुरत्वमुपागते॥ बभूव तुमुलो हर्षो देवतानां महात्मनाम्। ततो देवगणाः सर्वे सिद्धाश्च परमर्षयः॥ जयेति वाचो मुमुचुः संस्तुवन्तो महेश्वरम्। ततोऽग्रतः प्रादुरभूत् त्रिपुर निघ्नतोऽसुरान्॥ अनिर्देशयोग्रवपुषो देवस्यासह्यतेजसः। स तद् विकृष्य भगवान् दिव्यं लोकेश्वरो धनुः॥ ११२ त्रैलोक्यसारं तमिषु मुमोच त्रिपुरं प्रति। उत्सृष्टे वै महाभाग तस्मिन्निषुवरे तदा॥ महानार्तस्वरो ह्यसीत् पुराणां पततां भुवि। तान् सोऽसुरगणान् दग्ध्वा प्राक्षिपत् पश्चिमार्णवे।। ११४ एवं तु त्रिपुरं दग्धं दानवाश्चाप्यशेषतः माहेश्वरेण क्रुद्धेन त्रैलोक्यस्य हितैषिणा॥ स चात्मक्रोधजोवह्निर्हाहेत्युक्त्वा निवारितः। मा कार्भस्म साल्लोकानितित्र्यक्षोऽब्रवीच तम्।।११६ ततः प्रकृतिमापन्ना देवा लोकास्त्वथर्षयः। तुष्टुर्वाग्भिग्र्याभिः स्थाणुमप्रतिमौजसम्॥ तेऽनुज्ञाता भगवता जग्मुः सर्वे यथागतम्। कृतकामाः प्रयत्नेन प्रजापतिमुखाः सुरा॥ एवं स भगवान देवो लोकस्त्रष्टा महेश्वरः। देवासुरगणाध्यक्षो लोकानां विदधे शिवम्॥ यथैव भगवान ब्रह्मा लोकधाता पितामहः। सारथ्यमकरोत्तत्र रुद्रस्य परमोऽव्ययः॥ तथा भवानपि क्षिप्रं रुद्रस्येव पितामहः। संयच्छतु हयानस्य राधेयस्य महात्मन॥ त्वं हि कृष्णाय कर्णाच विशिष्टो राजशार्दूल नास्ति तत्र विचारणा॥ युद्धे ह्ययं रुद्रकल्पस्त्वं च ब्रह्मसमो नये। तस्माच्छक्तोभवाञ्जेतुं मच्छयूँ स्तानिवासुरान्॥ फाल्गुनाश्च विशेषता यथा शल्याद्य कर्णोऽयं श्वेताश्वं कृष्णसारथिम्। प्रमथ्य हन्यात् कौन्तेयं तथा शीघ्रं विधीयताम्॥ त्वयि मद्रेश राज्याशा जीविताशा तथैव च। विजयश्च तथैवाद्य कर्णसाचिव्यकारितः॥ त्वयि कर्णश्च राज्यं च वयं चैव प्रतिष्ठिताः। विजयश्चैव संग्रामे संयच्छाद्य हयोत्तमान्॥ इमं चाप्यपरं भूय इतिहासं निबोध मे। पितुर्मम सकाशे यद् ब्राह्मणः प्राह धर्मवित्॥ श्रुत्वा चैतद् वचश्चित्रं हेतुकार्यार्थसंहितम्। कुरु शल्य विनिश्चित्य माभूदत्र विचारणा॥ भार्गवाणां कुले जातो जमदग्निर्महायशाः। तस्य रामेति विख्यातः पुत्रस्तेजोगुणान्वितः॥ स तीव्र तप आस्थाय प्रसादयितवान् भवम्। अस्त्रहेतोः प्रसन्नात्मा नियतः संयतेन्द्रियः॥ तस्य तुष्टो महादेवो भक्त्या च प्रशमेन च। हृद्गतं चास्य विज्ञाय दर्शयामास शङ्करः॥ महेश्वर उवाच राम तुष्टोऽस्मि भद्रं ते विदितं मे तवेप्सितम्। कुरुष्व पूतमात्मानं सर्वमेतदवाप्स्यसि॥ दास्यामि ते तदास्त्राणि यदा पूतो भविष्यसि। अपात्रमसमर्थं च दहन्त्यस्त्राणि भार्गव॥ इत्युक्तो जामदग्न्यस्तु देवदेवेन शूलिना। प्रत्युवाच महात्मानं शिरसावनतः प्रभुम्॥ यदा जानाति देवेशः पात्रं मामस्त्रधारणे। तदा शुश्रूषवेऽस्त्राणि भवान् मे दातुमर्हति॥ दुर्योधन उवाच ततः स तपसा चैव दमेन नियमेन च। पूजोपहारबलिभिर्होममन्त्रपुरस्कृतैः॥ आराधयितवान् शर्वं बहून् वर्षगणांस्तदा। प्रसन्नश्च महादेवो भार्गवस्य महात्मनः॥ अब्रवीत् तस्य बहुशो गुणान् देव्याः समीपतः। भक्तिमानेष सततं मयि रामो दृढव्रतः॥ एवं तस्य गुणान् प्रीतो बहुशोऽकथयत् प्रभुः। देवतानां पितॄणां च समक्षमरिसूदन॥ एतस्मिन्नेव काले दैत्या ह्यासन् महाबलाः। तैस्तदा दर्पमोहाद्यैरबाध्यन्त दिवौकसः॥ ततः सम्भूय विबूधास्तान् हन्तुं कृतनिश्चयाः। चक्रुः शत्रुवधे यत्नं न शेकुर्जेतुमेव तान्॥ अभिगम्य ततो देवा महेश्वरमुमापतिम्। प्रासादयंस्तदा भक्त्या जहि शत्रुगणानिति॥ प्रतिज्ञाय ततो देवो देवतानां रिपुक्षयम्। रामं भार्गवमाहूय सोऽभ्यभाषत् शङ्करः॥ रिपून् भार्गव देवानां जहि सर्वान् समागतान्। लोकानां हितकामार्थं मत्प्रीत्यर्थं तथैव च ॥ एवमुक्तः प्रत्युवाच त्र्यम्बकं वरदं प्रभुम्। राम उवाच का शक्तिर्मम देवेश अकृतास्त्रस्य संयुगे॥ निहन्तुं दानवान् सर्वान् कृतास्त्रान युद्धदुर्मदान्। महेश्वर उवाच गच्छ त्वं मदनुज्ञातो निहनिष्यसि शात्रवान्॥ विजित्य च रिपून् सर्वान्गुणान् प्राप्यसि पुष्कलान्। एतच्छुत्वा तु वचनं प्रतिगृह्य च सर्वशः॥ रामः कृतस्वस्त्ययनः प्रययौ दानवान् प्रति। अब्रवीद् देवशāस्तान् महादर्पबलान्वितान्॥ मम युद्धं प्रयच्छध्वं दैत्या युद्धमदोत्कटाः। प्रेषिता देवदेवेन वो विजेतुं महासुराः॥ इत्युक्ता भार्गवेणाथ दैत्या युद्धं प्रचक्रमुः। स तान् निहत्य समरे दैत्यान् भार्गवनन्दनः॥ वज्राशनिसमस्पर्शः प्रहारैरेव भार्गवः। स दानवैः क्षततनुर्जामदग्न्यो द्विजोत्तमः॥ संस्पृष्टः स्थाणुना सद्यो निर्वण: समजायत। प्रीतश्च भगवान देवः कर्मणा तेन तस्य वै॥ वरान् प्रादाद् बहुविधान् भार्गवाय महात्मने। उक्तश्च देवदेवन प्रीतियुक्तेन शूलिना॥ निपातात्तव शस्त्राणां शरीरे याभवद् रुजा। तया ते मानुषं कर्म व्यपोढं भृगुनन्दन॥ गृहाणास्त्राणि दिव्यानि मत्सकाशाद् यथेप्सितम्। दुर्योधन उवाच ततोऽस्त्राणि समस्तानि वरांश्च मनसेप्सितान्॥ लख्वा बहुविधान् रामः प्रणम्य शिरसा भवम्। अनुज्ञां प्राप्य देवेशाजगाम स महातपाः॥ एवमेतत् पुरावृत्तं तदा कथितवानृषिः। भार्गवोऽपि ददौ धनुर्वेदं महात्मने। १५७॥ कर्णाय पुरुषव्याघ्र सुप्रीतेनान्तरात्मना। वृजिनं हि भवेत् किचिंद् यदि कर्णस्य पार्थिव॥ १५८ नास्मै शस्त्राणि दिव्यानि प्रादास्यद् भृगुनन्दनः। नापि सूतकुले जातं कर्ण पन्ये कथंचन॥ देवपुत्रमहं मन्ये क्षत्रियाणां कुलोद्भवम्। विसृष्टमवबोधार्थं कुलस्येति मतिर्मम॥ सर्वथा न ह्ययं शल्य कर्णः सूतकुलोद्भवः। सकुण्डलं सकवचं दीर्घबाहुं महारथम्॥ कथमादित्यसदृशं मृगी व्याघ्र जनिष्यति। यथा ह्यस्य भुजौ पीनौ नागराजकरोपमौ॥ वक्षः पश्य विशालं च सर्वशत्रुनिबर्हणम्। न त्वेष प्राकृतः कश्चित् कर्णो वैकर्तनो वृषः। महात्मा ह्येष राजेन्द्र रामशिष्यः प्रतापवान्॥ दुर्योधन उवाच एवं स भगवान् देवः सर्वलोकपितामहः। सारथ्यमकरोत् तत्र ब्रह्मा रुद्रोऽभवद् रथी।॥ रथिनोऽभ्यधिको वीर कर्तव्यो रथसारथिः। तस्मात्त्वं पुरुषव्याघ्र नियच्छ तुरगान् युधि॥ यथा देवगणैस्तत्र वृतो यत्नात् पितामहः। तथास्माभिर्भवान् यत्नात् कर्णादभ्यधिकोवृतः॥ यथा ददैवैर्महाराज ईश्वरादधिको वृतः। तथा भवानि क्षिप्रं रुद्रस्येव पितामहः॥ नियच्छ तुरगान् युद्धे राधेयस्य महायुते। शल्य उवाच मयाप्येतन्नरश्रेष्ठ बहुशोऽनरसिंहयोः॥ कथ्यमानं श्रुतं दिव्यमाख्यानमतिमानुषम्। यथा च चक्रे सारथ्यं भवस्य प्रपितामहः॥ यथासुराश्च निहता इषुणैकेन भारत। कृष्णस्य चापि विदितं सर्वमेतत् पुरा ह्यभूत्॥ यथा पितामहो जज्ञे भगवान् सारथिस्तदा। अनागतमतिक्रान्तं वेद कृष्णोऽपि तत्त्वतः॥ एतदर्थं विदित्वापि सारथ्यमुपजग्मिवान्। स्वयं भूरिव रुद्रस्य कृष्णः पार्थस्य भारत॥ यदि हन्याच कौन्तेयं सूतपुत्रः कथंचन। दृष्ट्वा पार्थं हि निहतं योत्स्यति केशवः॥ शङ्खचक्रगदापाणिर्धक्ष्यते तव वाहिनीम्। न चापि तस्य क्रुद्धस्य वार्ष्णेयस्य महात्मनः॥ स्थास्यते प्रत्यनीकेषु कश्चिदत्र नृपस्तव। संजय उवाच सं तथा भाषमाणं तु मद्रराजमरिंदमः॥ प्रत्युवाच महाबाहुदीनात्मा सुतस्तव। मावमंस्था महाबाहो कर्णं वैकर्तनं रणे॥ सर्वशस्त्रभृतां श्रेष्ठं सर्वशास्त्रार्थपारगम्। यस्य ज्यातलनर्घोष श्रुत्वा भयकरं महत्॥ पाण्डवेयानि सैन्यानि विद्रवन्ति दिशो दश। प्रत्यक्षं ते महाबाहो यथा रात्रौ घटोत्कचः॥ मायाशतानि कुर्वाणो हतो मायापुरस्कृतः। न चातिष्ठतः बीभत्सुः प्रत्यनीके कथंचन॥ एतांश्च दिवसान् सर्वान् भयेन महता वृतः। भीमसेनश्च बलवान् धनुष्कोट्याभिचोदितः॥ उक्तश्च संज्ञया राजन् मूढ औदरिको यथा। माद्रीपुत्रौ तथा शूरौ येन जित्वा महारणे॥ कमप्यर्थं पुरस्कृत्य न हतौ युधि मारिष। येन वृष्णिप्रवीरस्तु सात्यकिः सात्वतां वरः॥ निर्जित्य समरे शूरो विरथश्च बलात् कृतः। सृञ्जयाश्चेतरे सर्वे धृष्टद्युम्नपुरोगमाः॥ असकृन्निर्जिताः संख्ये स्मयमानेन संयुगे। तं कथं पाण्डवा युद्धे विजेष्यन्ति महारथम्॥ यो हन्यात् समरे क्रुद्धो वज्रहस्तं पुरंदरम्। त्वं च सर्वास्त्रविद् वीरः सर्वाविद्यास्त्रपारगः॥ बाहुवीर्येण ते तुल्यः पृथिव्यां नास्ति कश्चन। त्वं शल्यभूतः शत्रूणामविषह्यः पराक्रमे॥ ततस्त्वमुच्यसे राजशल्य इत्यरिसूदन। तव बाहुबलं प्राप्य न शेकुः सर्वसात्वताः॥ तव बाहुबलाद् राजन् किं नु कृष्णो बलाधिकः। यथा हि कृष्णेन बलं धार्यं वै फाल्गुने हते॥ तथा कर्णात्ययीभावे त्वया धार्यं महद् बलम्। किमर्थं समरे सैन्यं वासुदेवो न्यवारयत्॥ किमर्थं च भवान् सैन्यं न हनिष्यति मारिष। त्वत्कृते पदवीं गन्तुमिच्छेयं युधि मारिष। सोदराणां च वीराणां सर्वेषां त महीक्षिताम्॥ शल्य उवाच यन्मां ब्रवीषि गान्यारे अग्रे सैन्यस्य मानद। विशिष्टं देवकीपुत्रात् प्रीतिमानस्म्यहं त्वहि॥ एष सारथ्यमातिष्ठे राधेयस्य यशस्विनः। युध्यतः पाण्डवार्येण यथा त्वं वीर मन्यसे॥ समयश्च हि मे वीर कश्चिद् वैकर्तनं प्रति। उत्सृजेयं यथाश्रद्धमहं वाचोऽस्य संनिधौ॥ संजय उवाच तथेति राजन् पुत्रस्ते सह कर्णेन मारिष। अब्रवीन्मद्रराजानं सर्वक्षत्रस्य संनिधौ।॥ सारथ्यस्याभ्युपगमाच्छल्येनाश्वासितस्तदा। दुर्योधनस्तदा दृष्टः कर्णं तमभिषस्वजे॥ अब्रवीच पुनः कर्णं स्तूयमानः सुतस्तव। जहि पार्थान् रणे सर्वान् महेन्द्रो दानवानिव॥ स शल्येनाभ्युपगते हयानां संनियच्छने। कर्णो हृष्टमना भूयो दुर्योधनमभाषत॥ नातिहष्टमना ह्येष मद्रराजोऽभिभाषते। राजन् मधुरया वाचा पुनरेनं ब्रवीहि वै॥ ततो राजा महाप्रज्ञः सर्वास्त्रकुशलो बली। दुर्योधनऽब्रवीच्छलयं मद्रराजं महीपतिम्॥ पूरयन्निव घोषेण मेघगम्भीरया गिरा। शल्य कर्णोऽजुनेनाद्य योद्धव्यमिति मन्यते॥ तस्य त्वं पुरुषव्याघ्र नियच्छ तुरगान् युधि। कर्णो हत्वेतरान् सर्वान् फाल्गुनं हन्तुमिच्छति॥ तस्याभीषुग्रहे राजन् प्रयाचे त्वां पुनः पुनः। पार्थस्य सचिवः कृष्णो यथाभीषुग्रहो वरः। तथा त्वमपि राधेयं सर्वतः परिपालया॥ संजय उवाच ततः शल्यः परिष्वज्य सुतं ते वाक्यमब्रवीत्। दुर्योधनममित्रघ्न प्रीतो मद्रधिपस्तदा॥ शल्य उवाच एवं चेन्मन्यसे राजन् गान्धारे प्रियदर्शन। तस्मात्ते यत् प्रियं किंचित् तत् सर्वं करवाण्यहम्।। यत्रास्मि भरतश्रेष्ठ योग्यः कर्मणि कर्हिचित्। तत्र सर्वात्मना युक्तो वक्ष्ये कार्यं परंतप॥ यत्तु कर्णमहं ब्रूयां हितकामः प्रियाप्रिये। मम तत् क्षमतां सर्व भवान् कर्णश्च सर्वशः॥ कर्ण उवाच ईशानस्य यथा ब्रह्मा यथा पार्थस्य केशवः। तथा नित्यं हिते युक्तो मद्रराज भवस्व नः॥ शल्य उवाच आत्मनिन्दाऽऽत्मपूला च परनिन्दा परस्तवः। अनाचरितमार्याणां वृत्तमेतचतुर्विधम्॥ यत् तु विद्वन् प्रवक्ष्यामि प्रत्ययार्थमहं तव। आत्मनः स्तवसंयुक्तं तन्निबोध यथातथम्॥ अहं शक्रस्य सारथ्ये योग्यो मातलिवत् प्रभो। अप्रमादात् प्रयोगाच ज्ञानविद्याचिकित्सनैः॥ ततः पार्थेन संग्रामे युध्यमानस्य तेऽनघ। वाहयिष्यानि तुरगान् विज्वरो भव सूतज॥ दुर्योधन उवाच अयं ते कर्णं सारथ्यं मद्रराजः करिष्यति। कृष्णादभ्यधिको यन्ता देवेशस्येव मातलिः॥ यथा हरिहयैर्युक्तं संगृह्णाति स मातलिः। शल्यस्तथा तवाद्यायं संयन्ता स्थवाजिनाम्॥ योधे त्वयि रथस्ये च मद्रराजे च सारथौ। संख्ये पार्थनभिभविष्यति॥ रथश्रेष्ठो ध्रुवं संजय उवाच ततो दुर्योधन भूयो मद्रराजं तरस्विनम्। उवाच राजन् संग्रामेऽध्युषिते पर्युपस्थिते॥ कर्णस्य यच्छ संग्रामे मद्रराज हयोत्तमान्। त्वयाभिगुप्तो राधेयो विजेष्यति धनंजयम्॥ इत्युक्तो रथमास्थाय तथेति प्राह भारत। शल्येऽभ्युपगते कर्णः सारथिं सुमनाऽब्रवीत्॥ त्वं सूत स्यादनं मह्यं कल्पयेत्यसकृत् त्वरन्। ततो जैत्रं रथवरं गन्धर्वनगरोपमम्॥ विधिवत् कल्पितं भद्रं जयेत्युक्त्वा न्यवेदयत्। तं रथं रथिनां श्रेष्ठः कर्णोऽभ्यर्च्य यथाविधि॥ सम्पादितं ब्रह्माविदा पूर्वमेव पुरोधसा। कृत्वा प्रदक्षिणं यत्नादुपस्थाय च भास्करम्॥ समीपस्थं मद्रराजमारोह त्वमथाब्रवीत्। ततः कर्णस्य दुर्घषं स्यन्दनप्रवरं महत्॥ आरुरोह महातेजाः शल्यः सिंह इवाचलम्। ततः शल्याश्रित दृष्ट्वा कर्णः स्वं रथमुत्तमम्॥ अध्यतिष्ठद् यथाम्भोदं विद्युत्वन्तं दिवाकरः। तावेकरथमारूढावादत्याग्निसमत्विषौ॥ अभ्रजेतां यथा मेघ सूर्याग्नी सहितौ दिवि। संस्तूयमानो तौ वीरौ तदास्तां द्युतिमत्तसौ॥ ऋत्विक्सदस्यैरिन्द्राग्नी स्तूयमानाविवाध्वरे। स शल्यसंगृहीताश्वे रथे कर्णः स्थितो बभौ॥ धनुर्विस्फारयन् घोरं परिवेषीव भास्करः। आस्थितः स स्थश्रेष्ठं कर्णः शरगभस्तिमान्।॥ प्रबभौ पुरुषव्याघ्रौ मन्दरस्थ इवांशुमान्। तं रथस्थं महाबाहुं युद्धायामिततेजसम्॥ दुर्योधनस्तु राधेयमिदं वचनमब्रवीत्। अकृतं द्रोणभीष्माभ्यां दुष्करं कर्म संयुगे॥ कुरुष्वाधिरथे वीर मिषतां सर्वधन्विनाम्। मनोगतं मम ह्यासीद् भीष्मद्रोणौ महारथौ॥ अर्जुनं भीमसेनं च निहन्ताराविति ध्रुवम्। ताभ्यां यदकृतं वीर वीरकर्म महामृधे॥ तत् कर्म कुरु राधेय वज्रपाणिरिवापरः। गृहाण धर्मराजं वा जहि वा त्वं धनंजयम्॥ भीमसेनं च राधेय माद्रीपुत्रौ यमावपि। जयश्च तेऽस्तु भद्रं ते प्रयाहि पुरुषर्षभ॥ पाण्डुपुत्रस्य सैन्यानि कुरु सर्वाणि भस्मसात्। ततस्तूर्यसहस्राणि भेरीणामयुतानि च॥ वाद्यमानान्यराजन्त मेघशब्दो यथा दिवि। प्रतिगृह्य तु तद् वाक्यं रथस्थो रथसत्तमः॥ अभ्यभाषत राधेयः शल्यं युद्धविशारदम्। चोदयाश्वान महाबाहो यावद्धन्मि धनंजयम्॥ भीमसेनं यमौ चौभौ राजानं च युधिष्ठिरम्। अद्य पश्यतु मे शल्य बाहुवीर्यं धनंजयः॥ अस्यतः कङ्कपत्राणां सहस्राणि शतानि च। अद्य क्षेप्स्याम्यहं शल्यं शरान् परमतेजनान्॥ पाण्डवानां विनाशाय दुर्योधनजयाय च। शल्य उवाच सूतपुत्र कथं नु त्वं पाण्डवानवमन्यसे॥ सर्वास्त्रज्ञान महेष्वासान् सर्वानेव महाबलम्। अनुवर्तिनो महाभागानजय्यान् सत्यविक्रमान्॥ अपि संतनयेयुर्धे भयं साक्षाच्छतक्रतोः। यदा श्रोष्यसि निर्घोषं विस्फूर्जितमिवाशनेः॥ राधेय गाण्डिवस्याजौ तदा नैवं वदिष्यसि। यदा द्रक्ष्यसि भीमेन कुञ्जरानीकमाहवे॥ विशीर्णदन्तं निहतं तदा नैवं वदिष्यसि। यदा द्रक्ष्यसि संग्रामे धर्मपुत्रं यमौ तथा॥ शितैः पृषत्कैः कुर्वाणानभ्रच्छायामिवाम्बरे। अस्यतः क्षिण्वतश्चारील्लँघुहस्तान् दुरासदान्। पार्थिवानपि चान्यास्त्वं तदा नैवं वदिष्यसि॥ संजय उवाच अनाद्दत्य तु तद् वाक्यं मद्रराजेन भाषितम्। याहीत्येवाब्रवीत् कर्णो मद्रराजं तरस्विनम्॥ संजय उवाच प्रयाणे च ततः कर्णो हर्षयन् वाहिनीं तवा एकैकं समरे दृष्ट्वा पाण्डवान् पर्यपृच्छत॥ यो मामद्य महात्मानं दर्शयेच्छवेतवाहनम्। तस्मै दद्यामभिप्रेतं धनं यन्मनसेच्छति॥ न चेत् तदभिमन्येत तस्मै दद्यामहं पुनः। शकटं रत्नसम्पूर्ण यो मे ब्रूयाद् धनंजयम्॥ न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्। शतं दद्यां गवां तस्मै नैत्यकं कांस्यदोहनम्॥ शतं ग्रामवरांश्चैव दद्यामर्जुनदर्शिने। तथा तस्मै पुनर्दद्यां श्वेतमस्वतरीरथम्॥ युक्तमञ्जनकेशीभिर्यो मे ब्रूयाद् धनंजयम्। न चेत् तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्॥ अन्यं वास्मै पुनर्दद्यां सौवर्णं हस्तिषड्गवम्। तथाप्यस्मै पुनर्दद्यां स्त्रीणां शतमलंकृतम्॥ श्यामानां निष्ककण्ठीनां गीतवाद्यविपश्चिताम्। न चेत् तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्॥ तस्मै दद्यां शतं नागाशतं ग्रामाञ्शतं रथान्। सुवर्णस्य च मुख्यस्य हयाग्र्याणां शतं शतान्॥ ऋद्धया गुणैः सुदान्तांश्च धुर्यवाहान् सुशिक्षितान्। तथा सुवर्णशृङ्गीणां गोधेनूनां चतुःशतम्॥ दद्यां तस्मै सवत्सानां यो मे ब्रूयाद् धनंजयम्। चैत तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्।॥ अन्यदस्मै वरं दद्यां श्वेतान् पञ्चशतान् हयान्। हेमभाण्डपरिछन्नान् सुमृष्टमणिभूषणान्॥ सुदान्तानपि चैवाहं दद्यामष्टादशापरान्। रथं च शुभ्रं सौवर्णं दद्यां तस्मै स्वलंकृतम्॥ युक्तं परमकाम्बोजैर्यो मे ब्रूयाद् धनंजयम्। न चेत् तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्॥ अन्यदस्मै वरं दद्यां कुञ्जराणां शतानि षट्। काञ्चनैर्विविधैर्भाण्डैराच्छन्नान् हेममालिनः॥ उत्पन्नानपरान्तेषु विनीतान् हस्तिशिक्षकैः। न चेत् तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्॥ अन्यदस्मै वरं दद्यां वैश्यग्रामांश्चतुर्दश। सुरफीतान् धनसंयुक्तान् प्रत्यासन्नवनोदकान्। अकुतोभयान् सुसम्पन्नान् राजभोज्यांश्चतुर्दश॥ दासीनां निष्ककण्ठीनां मागधीनां शतं तथा। प्रत्यग्रवयसां दद्यां यो मे ब्रूयाद् धनंजयम्॥ न चेत् तदभिमन्येन पुरुषोऽर्जुनदर्शिवान्। अन्यं तस्मै वरं दद्यां यमसौ कामयेत् स्वयम्॥ दद्यामहं यो मे पुत्रदारान् विहारांश्च यदन्यद् वित्तमस्ति मे। तय तस्मै पुनर्दद्या यद् यच मनसेच्छति॥ हत्वा च सहितौ कृष्णौ तयोर्वित्तानि सर्वशः। तस्मै प्रबूयात् केशवार्जुनौ॥ एता वाचः सुबहुश: कर्ण उच्चारयन् युधि। दध्मौ सागरसम्भूतं सुखरं शङ्खमुत्तमम्॥ ता वाचः सूतपुत्रस्य तथा युक्ता निशम्य तु। दुर्योधनो महाराज संदृष्टः सानुगोऽभवत्।॥ ततो दुन्दुभिनिर्घोषो मृदङ्गानां च सर्वशः। सिंहनादः सवादिनः कुञ्जराणां च निःस्वनः॥ प्रादुरासीत् तदा राजन् सैन्येषु पुरुषर्षभ। योधानां सम्प्रहृष्टानां तथा समभवत् स्वनः॥ तथा प्रहृष्टे सैन्ये तु प्लवमानं महारथम्। विकत्थमानं च तदा राधेयमरिकर्षणम्। मद्रराज प्रहस्येदं वचनं प्रत्यभाषत।॥ शल्य उवाच मा सूतपुत्र दानेन सौवर्णं हस्तिषड्वम्। प्रयच्छ पुरुषायाद्य द्रक्ष्यसि त्वं धनंजयम्॥ बाल्यदिह त्वं त्यजसि वसु वैश्रवणो यथा) अयत्नेनैव राधेय द्रष्टास्यद्य धनजयम्॥ परान् सृजसि यद् वित्तं किंचित्त्वं बहु मूढवत्। अपात्रदाने ये दोषास्तान् मोहान्नावबुध्यसे॥ यत् त्वं प्रेरयसे वित्तं बहु तेन शक्यं बहुविधैर्यज्ञैर्यष्टुं सूतं यजस्व तैः॥ यच प्रार्थयसे हन्तुं कृष्णौ मोहाद् वृथैव तत्। न हि शुश्रुम सम्मः क्रोष्ट्रा सिंहौ निपातितौ॥ अप्रार्थितं प्रार्थयसे सुहृदो न हि सन्ति ते। ये त्वां निवारयन्त्याशु प्रपतन्तं हुताशने॥ खलु त्वया। कार्याकार्यं न जानीघे कालपक्वोऽस्यसंशयम्। बह्वबद्धमकर्णीयं को हि ब्रूयाजिजीविषुः॥ समुद्रतरणं दो• कण्ठे बद्ध्वा यथा शिलाम्। गिर्यग्राद् वा निपतनं ताद्दक् तव चिर्कीर्षितम्॥ सहित: सर्वयोधैस्त्वं व्यूढानीकैः सुरक्षितः। धनंजयेन युध्यस्व श्रेयश्चेत् प्राप्तुमिच्छसि॥ हितार्थं धार्तराष्ट्रस्य ब्रवीमि त्वां न हिंसया। श्रद्धस्वैवं मया प्रोक्तं यदि तेऽस्ति जिजीविषा॥ कर्ण उवाच स्वबाहुवीर्यमाश्रित्य प्रार्थयाम्यर्जुनं रणे। त्वं तु मित्रमुखः शत्रुर्मा भीषयितुमिच्छसि॥ न मामस्मादभिप्रायात् कश्चिदद्य निवतये । अपीन्द्रो वज्रमुद्यम्य किमु मर्त्यः कचन॥ संजय उवाच इति कर्णस्य वाक्यान्ते शल्यः प्राहोत्तरं वचः। चुकोपयिषुरत्यर्थं कर्ण मद्रेश्वरः पुनः॥ यदा वै त्वां फाल्गुनवेगयुक्ता ज्याचोदिता हस्तवता विसृष्टाः। स्तदा तप्स्यर्जुनस्यानुयोगात्॥ यदा दिव्यं धनुरादाय पार्थः प्रतापयन् पृतनां सव्यमाची। स्तदा पश्चात् तप्स्यसे सूतपित्र॥ बालश्चन्द्रं मातुरङ्के शयानो यथा कश्चित् प्रार्थयतेऽपहर्तुम्। तद्वन्मोहाद् द्योतमान रथस्थं सम्प्रार्थयस्यर्जुनं जेतुमद्य॥ त्रिशूलमाश्रित्य सुतीक्ष्णधारं सर्वाणि गात्राणि विघर्षसि त्वम्। सुतीक्ष्णधारोपमकर्मणा त्वं युयुत्ससे योऽर्जुनेनाद्य कर्ण॥ क्रुद्धं सिंह केसरिणं बृहन्तं बालो मूढः क्षुद्रमृगस्तरस्वी। समाह्वयेत् तद्वदेतत् तवाद्य समाह्वानं सूतपुत्रार्जुनस्य॥ मा सूतपुत्रालय राजपुत्रं महावीर्यं केसरिणं यथैव। वने शृगाल: पिशितेन तृप्तो मा पार्थमासाद्य विनश्यसि त्वम्॥ ईषादन्तं महानागं प्रभिन्नकरटामुखम्। शशको ह्वयसे युद्ध कर्ण पार्थं धनंजयम्॥ विलस्थं कृष्णसर्प त्वं बाल्यात् काष्ठेन विध्यसि। महाविषं पूर्णकोपं यत् पार्थं योद्धुमिच्छसि॥ सिंह केसरिणं क्रुद्धमतिक्रम्याभिनर्दसे। शृगाल इव मूढस्त्वं नृसिंह कर्ण पाण्डवम्॥ सुपर्णं पतगश्रेष्ठ वैनतेयं तरस्विनम्। भोगीवाह्वयसे पाते कर्ण पार्थं धनंजयम्॥ सर्वाम्भसां निधि भीमं मूर्तिमन्त झषायुतम्। चन्द्रोदये विवर्धन्तमप्लव: सन् तितीर्षसि॥ ऋषभं दुन्दुभिग्रीवं तीक्ष्णशृङ्गं प्रहारिणम्। वत्स आह्वयसे युद्धे कर्ण पार्थं धनंजयम्॥ महामेघं महाघोरं दर्दुरः प्रतिनर्दसि। कामतोयप्रदं लोके नरपर्जन्यमर्जुनम्॥ यथा च स्वगृहस्थः श्वा व्याघ्रं वनगतं भषेत्। तथा त्वं भषसे कर्ण नरव्याघ्रं धनंजयम्॥ शृगालोऽपि वने कर्ण शशैः परिवृतो वसन्। मन्यते सिंहमात्मानं यावत् सिंह न पश्यति॥ तथा त्वमपि राधेय सिंहमात्मानमिच्छसि। अपश्यशत्रुदमनं नरव्याघ्र धनंजयम्॥ व्यानं त्वं मन्यसेऽऽत्मानं यावत् कृष्णौ न पश्यसि। समास्थितावेकरथे सूर्याचन्द्रमसाविव॥ यावद् गाण्डीवघोषं त्वं न शृणोषि महाहवे। तावदेव त्वया कर्ण शक्यं वक्तुं यथेच्छसि॥ रथशब्दधनुः शब्दैर्नादयन्त दिशो दश। नर्दन्तमिव शार्दूलं दृष्ट्वा क्रोष्टा भविष्यसि॥ नित्यमेव शृगालस्तवं नित्यं सिंहो धनंजयः। वीरप्रद्वेषणान्मूढ तस्मात् क्रोष्टेव लक्ष्यसे॥ यथाखुःस्याद् विडालश्च व्याघ्रश्च बलाबले। यथा शृगाल: सिंहश्च यथा च शशकुञ्जरौ॥ यथानृतं च सत्यं च यथा चापि विषामृते। तथा त्वमपि पार्थश्च प्रख्यातावात्मकर्मभिः॥ संजय उवाच अधिक्षिप्तस्तु राधेय शल्येनामिततेजसा। शल्यमाह सुसंक्रुद्धो वाक्शल्यमवधारयन्॥ कर्ण उवाच गुणान् गुणवतां शल्य गुणवान् वेत्ति नागुणः। त्वं तु शल्य गुणैर्हीनः किं ज्ञास्यसि गुणागुणम्॥ अर्जुनस्य महास्त्राणि क्रोधं वीर्य धनुः शरान्। अहं शल्याभिजानाभि विक्रमं च महात्मनः॥ तथा कृष्णस्य महात्म्यमृषभस्य महीक्षिताम्। यथाहं शल्य जानामि न त्वं जानासि तथा॥ एवमेवात्मनो वीर्यमहं वीर्यं च पाण्डवे। जाननेवाह्वये युद्धे शल्य गाण्डीवधारिणम्॥ अस्ति वाऽयमिषुः शल्य सुपुङ्खो रक्तभोजनः। एकतूणीशयः पत्री सुधौत: समलंकृतः॥ शेते चन्दनचूर्णेषु पूजितो बहुलाः समाः। आहेयो विषवानुग्रो नराश्वद्विपसंघहा॥ घोररूयो महारौद्रस्तनुत्रास्थिविदारणः। निर्भिन्द्यां येन रुष्टोऽमहपि मेरुं महागिरम्॥ तमहं जातु नास्येयमन्यस्मिन् फाल्गुनाहते। कृष्णाद् वा देवकीपुत्रात् सत्यं चापि शृणुष्व मे॥ तेनाहमिषुणा शल्य वासुदेवधनंजयौ। योत्स्ये परमसंक्रुद्धस्तत् कर्म सदृशं मम॥ सर्वेषां वृष्टिवीराणां कृष्णे लक्ष्मी: प्रतिष्ठिता। सर्वेषां पाण्डुपुत्राणां जयः पार्थे प्रतिष्ठितः॥ उभयं तु समासाद्य को निवर्तितुमर्हति। तावेतौ पुरुषव्याधौ समेतो स्यन्दने स्थितौ॥ मामेकमभिसंयातौ सुजातं पश्य शल्य मे। पितृष्वसा मातुलजौ भ्रातरावपराजितौ॥ मणी सूत्र इव प्रोतौ द्रष्टासि निहतौ मया। अर्जुने गाण्डिवं कृष्णे चक्रं तार्थ्यकपिध्वजौ॥ भीरूणां त्रासजननं शल्य हर्षकरं मम। त्वं तु दुष्प्रकृतिर्मूढो महायुद्धेष्वकोविदः॥ भयावदीर्ण: संत्रासादबद्धं बहु भाषसे। संन्तौषि तौ तु केनापि हेतुना त्वं कुदेशज॥ तौ हत्वा समरे हन्ता त्वामद्य सहबान्धवम्। पापदेशज दुर्बुद्धे क्षुद्र क्षत्रियपांसन॥ सुहृद् भूत्वा रिपुः किं मा कृष्णाभ्यां भीषयिष्यसि तौ वा मामद्य हन्तारौ हनिष्ये वापि तावहम्॥ नाहं विभेमि कृष्णाभ्यां विजानन्नात्मनो बलम्। वासुदेवसहस्रं वा फाल्गुनानां शतानि वा॥ अहमेको हनिष्यामि जोषमास्स्व कुदेशज। स्त्रियो बालाश्च वृद्धाश्च प्रायः क्रीडागता जनाः॥ या गाथाः सम्प्रगायन्ति कुर्वतोऽध्ययनं यथा। ता गाथाः शृणु मे शल्य मद्रकेषु दुरात्मसु॥ ब्राह्मणैः कथिताः पूर्वं यथावद् राजसंनिधौ। श्रुत्वा चैकमना मूढ क्षम वा ब्रूहि चोत्तरम्॥ मित्रध्रुङ्गभद्रको नित्यं यो नो द्वेष्टि स मद्रकः। मद्रके संगतं नास्ति क्षुद्रवाक्ये नराधमे॥ दुरात्मा मद्रको नित्यं नित्यमानृतिकोऽनृजुः। यावदन्त्यं हि दौरात्म्यं मद्रकेष्विति नः श्रुतम्॥ पिता पुत्रश्च माता च श्वश्रूश्वशुरमातुलाः। जामाता दुहिता भ्राता नप्तान्ये तै च बान्धवाः॥ वयस्याभ्यागताश्चान्ये दासीदासं च संगतम्। पुम्भर्विमिश्रा नार्यश्च ज्ञाताज्ञाता: स्वयेच्छा॥ येषां गृहेष्वशिष्टानां सक्तुमत्स्याशिनां तता। पीत्वा सीधु सगोमांसं क्रन्दन्ति च हसन्ति च ॥ गायन्ति चाप्यबद्धानि प्रवर्तन्ते च कामतः। कामप्रलापिनोऽन्योन्यं तेषु धर्मः कथं भवेत्॥ मद्रकेष्ववलिप्तेषु प्रख्याताशुभकर्मसु। नापि वैरं न सौहार्द मद्रकेण समाचरेत्॥ मद्रके संगतं नास्ति मद्रको हि सदामलः। मद्रकेषु न संसृष्टं शौचं गान्धारकेषु च॥ राजयाजकयाज्ये च नष्टं दत्तं हरिभवेत्। शूद्रसंस्कारको विप्रो यथा याति पराभवम्॥ यथा ब्रह्मद्विषो नित्यं गच्छन्तीह पराभवम्। यथैव संगतं कृत्वा नरः पतति मद्रकैः॥ मद्रके संगतं नास्ति हतं वृश्चिक ते विषम्। आथर्वणेन मन्त्रेण यथा शान्तिः कृता मया।॥ इति वृश्चिकदष्टस्य विषवेगहतस्य च। कुर्वन्ति भेषजं प्राज्ञाः सत्यं तचापि दृश्यते॥ एवं विद्वजोधमास्स्व शृणु चात्रोत्तरं वचः। वासांस्युत्सृज्य नृत्यानि स्त्रियो या मद्यमोहिताः॥३५ मैथुनेऽसंयताअपि यथाकामवराश्च ताः। तासां पुत्रः कथं धर्म मद्रको वक्तुमर्हति॥ यास्तिष्ठन्त्यः प्रमेहन्ति यथैवोष्ट्रदशेरकाः। तासां विभ्रष्टधर्माणां निर्लज्जानां ततस्ततः॥ त्वं पुत्रस्तादृशीनां हि धर्मे वक्तुमिहेच्छसि। सुवीरकं याच्यमाना मद्रिका कर्षति स्फिचौ॥ अदातुकामा वचनमिदं वदति दारुणम्। मा मां सुवीरकं कश्चिद् याचतां दयितं मम॥ पुत्रं दद्यां पतिं दद्यां न तु दद्याहं सुवीरकम्। गौर्यो बृहत्यो निहींका मद्रिकाः कम्बलावृताः॥ घस्मरा नष्टशौचाश्च प्राय इत्यनुशूश्रुम। एवमादि मयान्यैर्वा शक्यं वक्तुं भवेद् बाहु॥ आकेशाग्रान्नखाग्राच वक्तव्येषु कुकर्मसु। मद्रकाः सिन्धुसौवीराः धर्म विद्युः कथं त्वित्॥ पापदेशोद्भवा म्लेच्छा धर्माणामविचक्षणाः। एष मुख्यतमो धर्मः क्षत्रियस्येति नः श्रुतम्॥ यदाजौ निहतः शेते सद्भिः समभिपूजितः। आयुधानां साम्पराये यन्मुच्येयमहं ततः॥ ममैष प्रथमः कल्पो निधने स्वर्गमिच्छतः। सोऽयं प्रियः सखा चास्मि धार्तराष्ट्रस्य धीमतः॥४५ तदर्थे हि मम प्राणा यच मे विद्यते वसु। व्यक्तं त्वमप्युपहितः पाण्डवैः पापदेशज॥ यथा चामित्रवत् सर्वं त्वमस्मासु प्रवर्तसे। कामं न खलु शक्योऽहं त्वद्विधानां शतैरपि॥ संग्रामाद् विमुखः कर्तुं धर्मज्ञ इव नास्तिकैः। सारङ्ग इव धर्मातः काम विलप शुष्य च॥ नाहं भीषयितुं शक्यं क्षत्रवृत्ते व्यवस्थितः। तनुत्यजां नृसिंहानामाहवेष्वनिवर्तिनाम्॥ या गतिर्गुरुणा प्रोक्ता पुरा रामेण तां स्मरे। तेषां त्राणार्थमुद्यन्तं वधार्थं द्विषतामपि॥ विद्धि मामास्थितं वृत्तं पौरूरवसमुत्तमम्। न तद् भूतं प्रपश्यामि त्रिषु लोकेषु मद्रप॥ यो मामस्मादभिप्रायाद् वारयेदिति मे मतिः। एवं विद्वञ्जोषमास्स्व त्रासात् किं बहु भाषसे॥ मा त्वा हत्वा प्रदास्यामि क्रव्याद्भयो मद्रकाधम। मित्रप्रतीक्षया शल्य धृतराष्ट्रस्य चोभयोः॥ अपवादतितिक्षाभिस्त्रिभिरेतैर्हि जीवसि। पुनश्चेदीदृशं वाक्यं मद्रराज वदिष्यसि॥ शिरस्ते पातयिष्यामि गदया वज्रकल्पया। श्रोतारस्तिवदमोह द्रष्टारो वा कुदेशज॥ कर्णवा जघ्नतुः कृष्णौ कर्णो वा निजघान तौ। एवमुक्त्वा तु राधेयः पुनरेव विशाम्पते । अब्रवीन्मद्रराजानं याहि याहीत्यसम्भ्रमम्॥ श्रोतारस्तिवदमोह द्रष्टारो वा कुदेशज॥ कर्णवा जघ्नतुः कृष्णौ कर्णो वा निजघान तौ। एवमुक्त्वा तु राधेयः पुनरेव विशाम्पते । अब्रवीन्मद्रराजानं याहि याहीत्यसम्भ्रमम्॥ संजय उवाच मारिषाधिरथेः श्रुत्वा वाचो युद्धाभिनन्दिनः। शल्योऽब्रवीत् पुनः कर्णं निदर्शनमिदं वचः॥ जातोऽहं यज्वनां वंशे संग्रामेष्वनिवर्तिनाम्। राज्ञां मूर्धाभिषिक्तानां स्वयं धर्मपरायणः॥ यथैव मत्तो मद्येन त्वं तथा लक्ष्यसे वृष। तथाऽद्य त्वां प्रमाद्यन्तं चिकित्सेयं सुहत्तया॥ इमां काकोपमा कर्ण प्रोच्यमानां निबोध मे। श्रुत्वा यथेष्टं कुर्यास्त्वं निहीन कुलपांसन॥ नाहमात्मनि कंचिद् वै किल्बिषं कर्ण संस्मरे। येन मां त्वं महाबाहो हन्तुमिच्छस्यनागसम्॥ अवश्यं तु मया वाच्यं बुद्ध्यता त्वद्धिताहितम्। विशेषतो रथस्थेन राज्ञश्चैव हितैषिणा॥ समं च विषमं चैव रथिनश्च बलाबलम्। श्रमः खेदश्च सततं हयानां रथिना सह॥ आयुधस्य परिज्ञानं रुतं च मृगपक्षिणाम्। भारश्चाप्यतिभारश्च शल्यानां च प्रतिक्रिया॥ अस्त्रयोगश्च युद्धं च निमित्तानि तथैव च। सर्वमेतन्मया ज्ञेयं रथस्यास्य कुटुम्बिना॥ अतस्त्वां कथये कर्ण निदर्शनमिदं पुनः। वैश्यः किल समुद्रान्ते प्रभूतधनधान्यवान्॥ यज्वा दानपति: क्षान्तः स्फकर्मस्थोऽभवच्छुचिः। बहुपुत्रः प्रियापत्यः सर्वभूतानुकम्पकः॥ राज्ञो धर्मप्रधानस्य राष्ट्रे वसति निर्भयः। पुत्राणां तस्य बालानां कुमाराणां यशस्विनाम्॥ काको बहूनामभवदुच्छिष्टकृतभोजनः। तस्मै सदा प्रयच्छन्ति वैश्यपुत्राः कुमारकाः॥ मांसौदन दधि क्षीरं पायसं मधुसर्पिषी। स चोच्छिष्टभूतः काको वैश्यपुत्रैः कुमारकैः॥ सदृशान् पक्षिणादृप्तः श्रेयसञ्चाधिचिक्षिपे। अथ हंसाः समुद्रान्ते कदाचिदतिपातिनः॥ गरुडस्य गतौ तुल्याश्चक्राङ्गा हृष्टचेतसः। कुमारकास्तदा हंसान् दृष्ट्वा काकमथाब्रुवन॥ भवानेव विशिष्टो हि पतत्रिभ्यो विहङ्गम्। प्रतार्यमाणस्तैः सर्वैरल्पबुद्धिभिरण्डजः॥ तद्वचः सत्यमित्येव मौाद् दर्पाच मन्यते। तान् सोऽभिपत्य जिज्ञासुः क एषां श्रेष्ठभागिति॥ उच्छिष्टदर्पितः काको बहूनां दूरपातिनाम्। तेषां यं प्रवरं मेने हंसानां दूरपातिनाम्॥ तमाह्वयत दुर्बुद्धिः पताव इति पक्षिणम्। तच्छुत्वा प्राहसन् हंसा ये तत्रासन् समागताः॥ भाषतो बहु काकस्य बलिनः पततां वराः। इदमूचुः स्म चक्राङ्गा वचः काकं विहङ्गमाः॥ हंसा ऊचुः वयं हंसाश्चरामेमां पृथिवीं मानसौकसः। पक्षिणां च वयं नित्यं दूरपातेन पूजिताः॥ कथं हंस नु बलिनं चक्राङ्गं दूरपातिनम्। काको भूत्वा निपतने समाह्वयसि दुर्मते॥ कथं त्वं पतिता काक साहस्माभिब्रवीहि तत्। अथ हंसवचो मूढः कुत्सयित्वा पुनः पुनः। प्रजगादोत्तरं काकः कत्थनो जातिलाघवात्॥ काक उवाच शतमेकं च पातानां पतिताऽस्मि न संशयः। शतयोजनमेकैकं विचित्रं विविधं तथा॥ उड्डीनमवडीनं च प्रडीनं डीनमेव च। निडीनमथ संडीनं तिर्यगडीनगतानि च॥ विडीनं परिडीनं च पराडीनं सुडीनकम्। अभिडीनं महाडीनं निर्डीनमतिडीनकम्॥ अवडीनं प्रडीनं च सडीनं डीनडीनकम्। संडीनोड्डीनडीनं च पुनर्जीनविडीनकम्॥ सम्पातं समुदीषं च ततोऽन्यद् व्यतिरिक्तकम्। गतागतप्रतिगतं बह्वीश्च निकुलीनकाः॥ कर्तास्मि मिषतां वोऽद्य ततो द्रक्ष्यथ मे बलम्। तेषामन्यतमेनाहं पतिष्यामि विहायसम्॥ प्रादिशध्वं यथान्यायं केन हंसाः पताम्यहम्। ते वै ध्रुवं विनिश्चित्य पतध्वं न मया सह॥ पातैरेभिः खलु खगाः पतितुं खे निराश्रये। एवमुक्ते तु काकेन प्रहस्यैको विहंगमः॥ उवाच काकं राधेय वचनं तन्निबोध मे। हंस उवाच शतमेकं च पातानां त्वं काक पतिता ध्रुवम्॥ एकमेव तु यं पातं विदुः सर्वे विहंगमाः तमहं पतिता काक नान्यं जानामि कञ्चन॥ पत त्वमपि ताम्राक्ष येन पातेन मन्यसे। अथ काकाः प्रजहसुर्ये तत्रासन् समागताः॥ कथमेकेन पातेन हसः पातशतं जयेत्। एकेनैव शतस्यैष पातेनाभिभविष्यति॥ हंसस्य पतितं काको बलवानाशुविक्रमः। प्रपेततुः स्पर्धया च ततस्तौ हंसवायसौ॥ एकपाती च चक्राङ्गः काकः पातशतेन च। पेतिवानथ चक्राङ्ग पेतिवानथ वायसः॥ विसिस्मापयिषुः पातैराचक्षाणोऽऽत्मनः क्रियाः। अथ काकस्य चित्राणि पतितानि मुहुर्मुहुः॥ दृष्ट्वा प्रमुदिताः काका विनेदुरधिकैः स्वरैः। हंसांश्चावहसन्ति स्म प्रावदन्नप्रियाणि च॥ उत्पत्योत्पत्य च मुहुर्मुहूर्तमिति चेति च। वृक्षाग्रेभ्यः स्थलेभ्यश्च निपतन्त्युत्पतन्ति त॥ कुर्वाणा विविधान् रावानाशंसन्तो जयं तथा। हंसस्तु मृदुनैकेन विक्रान्तुमुपचक्रमे॥ प्रत्यहीयत काकाच मुहूर्तमिव मारिष। अवमन्य च हंसांस्तानिदं वचनमब्रुवन्॥ योऽसावुत्पतितो हंसः सोऽसावेवं प्रहीयते। अथ हंसः स तच्छ्रुत्वा प्रापतत् पश्चिमां दिशम्॥ उपर्युपरि वेगेन सागरं मकरालयम्। ततोभी: प्राविशत् काकं तदा तत्र विचेतसम्॥ द्वीपगुमानपश्यन्तं निपातार्थे श्रमान्वितम्। निपतेयं क्व नु श्रान्त इति तस्मिञ्जलार्णवे॥ अविषह्यः समुद्रो हि बहुसत्त्वगणालयः। महासत्त्वशतोद्भासी नभसोऽपि विशिष्यते॥ गाम्भीर्याद्धि समुद्रस्य न विशेषं हि सूतज। दिगम्बराम्भसः कर्ण समुद्रस्था विदुर्जनाः॥ विदूरपातात् तोयस्य किं पुनः कर्ण वायसः। अथ हंसोऽप्यतिक्रम्य मुहूर्तमिति चेति च॥ अवेक्षमाणस्तं काकं नाशकद् व्यपसर्पितुम। अतिक्रम्य च चक्राङ्गः काकं तं समुदैक्षत॥ यावद् गत्वा पतत्येष काको मामिति चिन्तयन्। ततः काको भृषं श्रान्तो हंसमभ्यागमत्तदा॥ तं तथा हीयमानं तु हंसो दृष्ट्वाब्रवीदिदम्। उजिहीर्षुर्निमज्जन्त स्मरन् सत्पुरुषव्रतम्॥ हंस उवाच बहूनि पतितानि त्वमाचक्षाणो मुहुर्मुहुः। पातस्य व्याहरंश्चेदं न नो गुह्यं प्रभाषसे॥ किं नाम पतितं काकः यत्त्व पतसि सामप्रतम्। जलं स्पृशसि पक्षाभ्यां तुण्डेन च पुनः पुनः॥ प्रबूहि कतमे तत्र पाते वर्तसि वायस। एोहि काक शीघ्रं त्वमेष त्वां प्रतिपालये॥ शल्य उवाच स पक्षाभ्यां स्पृशन्नार्तस्तुण्डेन च जलं तदा। दृष्टो हंसेन दुष्टात्मन्निदं हंस ततोऽब्रवीत्॥ अपश्यन्नम्भसः पारं निपतंश्च श्रमान्वितः। पातवेगप्रमथितो हंसं काकोऽब्रवीदिदम्॥ वयं काकाः कुतो नाम चरामः काकवाशिकाः। हंस प्राणैः प्रपद्ये त्वामुदकान्तं नयस्व माम्॥ स पक्षाभ्यां स्पृशन्नार्तस्तुण्डेन च महार्णवे। काको दृढपरिश्रान्तः सहसा निपपात ह॥ सागराम्भसि तं दृष्ट्वा पतितं दीनचेतसम्। प्रियमाणमिदं काकं हंसो वाक्यमुवाच ह॥ शतमेकं च पातानां पताम्यहमनुस्मर। श्लाघमानस्त्वमात्मानं काक भाषितवानसि॥ स त्वमेकशतं पातं पतन्नभ्यधिको मया। कथमेवं परिश्रान्तः पतितोऽसि महार्णवे॥ प्रत्युवाचः ततः काकः सीदमान उदं वचः। उपरिष्टं तदा हंसमभिवीक्ष्य प्रसादयन्॥ काक उवाच उच्छिष्टदर्पितो हंस मन्येऽऽत्मानं सुपर्णवत्। अवमन्य बहूंचाहं काकानन्यांश्च पक्षिणः॥ प्राणहंस प्रपद्ये त्वां द्वीपान्तं प्रापयस्व माम्। यद्यहं स्वस्तिमान् हंस स्वं देशं प्राप्नुयां प्रभो॥ न कंचिदवमन्येऽहमापदो मां समुद्धर। तमेवं वादिनं दीनं विलपन्तमचेतनम्॥ काक काकेति वाशन्तं निमज्जन्तं महार्णवे। कृपयाऽऽदाय हंसस्तं जलक्किन्नं सुदुर्दसम्॥ पद्धयामुक्षिप्य वेगेन पृष्ठमारोपयच्छनैः। आरोप्य पृष्ठं हंसस्तं काकं तूर्णं विचेतनम्॥ आजगाम पुनर्दीपं स्पर्धया पेततुर्यतः। संस्थाप्य तं चापि पुनः समाश्वास्य च खेचरम्॥ गतो यथेप्सितं देश हंसो मन इवाशुगः। एवमुच्छिष्टपुष्टः स काको हंसपराजितः॥ बलं वीर्यं महत्कर्ण त्यक्त्वा क्षान्तिमुपागतः। उच्छिष्टभोजन: काको यथा वैश्यकुले पुरा॥ एवं त्वमुच्छिष्टभृतो धार्तराष्ट्र संशयः। सदृशाश्रेयसश्चापि सर्वान् कर्णावमन्यसे॥ द्रोणद्रौणिकृपैर्गुप्तो भीष्मेणान्यैश्च कौरवैः। विराटनगरे पार्थमेकं किं नावधीस्तदा॥ यत्र व्यस्ता: समत्सांश्च निर्जिताः स्थ किरीटिना। शृगाला इव सिंहेन क्व ते वीर्तमभूत् तदा॥ भ्रातरं निहतं दृष्ट्वा समरे सव्यसाचिना। पश्यतां कुरुवीराणां प्रथमं त्वं पलायितः॥ तथा द्वैतवने कर्ण गन्धर्वेः समभिद्रुतः। कुरून् समयानुत्सृज्य प्रथमं त्वं पलायितः॥ हत्वा जित्वा च गन्धर्वाचित्रसेनमुखान् रणे। कर्ण दुर्योधनं पार्थं सभार्यं सममोक्षयत्॥ पुनः प्रभाव पार्थस्य पौराणः केशवस्य च। कथितः कर्ण रामेण सभायां राजसंसदि॥ सततं च त्वमश्रौषीर्वचनं द्रोणभीष्मयोः। अवध्यौ वदन्तः कृष्णौ संनिधौ च महीक्षिताम्॥ कियत् तत् तत् प्रवक्ष्यामि येन येन धनंजयः। त्वत्तोऽतिरिक्तः सर्वेभ्यो भूतेभ्यो ब्राह्मणों यथा॥ इदानीमेव द्रष्टासि प्रधाने स्यन्दने स्थितौ। पुत्रं च वसुदेवस्य कुन्तीपुत्रं च पाण्डवम्॥ यथाश्रयत चक्राङ्गं वायसो बुद्धिमास्थितः। तथाश्रयस्व वार्ष्णेयं पाण्डवं च धनंजयम्॥ यदा त्वं युधि विक्रान्तौ वासुदेवधनंजयौ। द्रष्टास्येकरथे कर्ण तदा नैवं वदिष्यसि॥ यदा शरशतैः पार्थो दर्प तव वधिष्यति। तदा त्वमन्तरं द्रष्टा आत्मनंश्चार्जुनस्य त॥ देवासुरमनुष्येषु प्रख्यातौ यौ नरोत्तमौ। तौ मावमंस्था मौात् त्वं खद्योत इव रोचनौ॥८५ सूर्याचन्द्रमसौ यद्वत् तद्वदर्जुनकेशवौ। प्राकाश्वेनाभिविख्यातौ त्वं तु खद्योतवन्नृषु॥ एवं विद्वान् मावमंस्थाः सूतपुत्राच्युतार्जुनौ। नृसिंहो तो महात्मानौ जोषमास्स्व विकत्थने॥ संजय उवाच मद्राधिपस्याधिरथिर्महात्मा वचो निशम्याप्रियमप्रतीतः। उवाच शल्यं विदितं ममैतद् यथाविधावर्जुनवासुदेवौ॥ शौरे रथं वाहयतोऽर्जुनस्य बलं महास्त्राणि च पाण्डवस्य। अहं विजानामि यथावदद्य परोक्षभूतं तव तत् तु शल्य॥ तौ चाप्यहं शस्त्रभृतां वरिष्ठौ व्यपेतभीर्योधयिष्यामि कृष्णौ। च्छापोऽद्य मां ब्राह्मणसत्तमाच॥ अवसं वै ब्राह्मणच्छद्मनाहं रामे पुरा दिव्यमस्त्रं चिकीर्षुः। तत्रापि मे देवराजेन विघ्नो हितार्थिना फाल्गुनस्यैव शल्य॥ कृतो विभेदेन ममोरुमेत्य प्रविश्य कीटस्य तनुं विरूपाम्। ममोरुमेत्य प्रबिभेद कीट: सुप्ते गुरौ तत्र शिरो निधाय॥ ऊरुप्रभेदाच महान् बभूव शरीरतो मे घनशोणितौधः। गुरोभयाचापि न चेलिवानहं ततो विबुद्धो ददृशे स विप्रः॥ स धैर्ययुक्तं प्रसमीक्ष्य मां वै न त्वं विप्रः कोऽसि सत्यं वदेति। दाख्यातवान् सूत इत्येव शल्य॥ स मां निशम्याथ महातपस्वी संशप्तवान् रोषपरीतचेताः। सूतोपधावाप्तमिदं तवास्त्रं न कर्मकाले प्रतिभास्यति त्वाम्॥ दब्राह्मणे ब्रह्म न हि ध्रुवं स्यात्। मस्मिन् संग्रामे तुमुलेऽतीव भीमे॥ योऽयं शल्य भरतेषूपपन्नः प्रकर्षणः सर्वहरोऽतिभीमः। सोऽभिमन्ये क्षत्रियाणां प्रवीरान् प्रतापिता बलवान् वै विमर्दः॥ शल्योगधन्वानमहं वरिष्ठं तरस्विनं भीममसह्यवीर्यम्। सत्यप्रतिज्ञं युधि पाण्डवेयं धनंजय मृत्युमुखं नयिष्ये॥ अस्त्रं ततोऽन्यत् प्रतिपन्नमद्य येन क्षेप्स्ये समरे शत्रुपूगान्। प्रतापिनं बलवन्तं कृतास्त्रं तमुग्रधन्वानमिततौजसं च॥ क्रूरं शूरं रौद्रममित्रसाह धनंजयं संयुगेऽहं हनिष्ये। अपां पतिर्वेगवानप्रमेयो निमज्जयिष्यन् बहुलाः प्रजांश्च॥ महावेगं संकृरुते समुद्रो वेला चैनं धरायत्यप्रमेयम्। प्रमुञ्चन्तं बाणसंघानमेयान् मर्मच्छिदो वीरहणः सुपत्रान्॥ कुन्तीपुत्रं यत्र योतस्यामि युद्धे ज्यां कर्षतामुत्तममद्य लोके। एवं बलेनातिबलं महास्त्रं समुद्रकल्पं सुदुरापमुग्रम्॥ शरोधिणं पार्थिवान् मञ्जयन्तं वेलेव पार्थमिषुभिः संसाहिष्ये। अद्याहवे यस्य न तुल्यमन्यं मन्ये मनुष्यं धनुराददानम्॥ सुरासुरान् युधि वै यो जयेत तेनाद्य मे पश्य युद्धं सुघोरम्। अतीव मानी पाण्डवो युद्धकामो ह्यमानुषैरष्यति मे महास्त्रैः॥ तस्यास्त्रमस्त्रैः प्रतिहत्य संख्ये बाणोत्तमैः पातयिश्यामि पार्थम्। सहस्ररश्मिप्रतिमं ज्वलन्तं दिशश्च सर्वाः प्रतपन्तमुग्रम॥ तमोनुदं मेघ इवातिमात्रं धनंजयं छादयिष्यामि बाणैः। वैश्वानरं धूमशिखं ज्वलन्तं तेजस्विनं लोकमिदं दहन्तम्॥ पर्जन्यभूतः शरवर्षेथाग्नि तथा पार्थं शमयिष्यामि युद्धे। आशीविषं दुर्धरमप्रमेयं सुतीक्ष्णदंष्ट्र ज्वलनप्रभावम्॥ क्रोधप्रदीप्तं त्वहितं महान्तं कुन्तीपुत्रं शमयिष्यामि भल्लैः। प्रमाथिनं बलवन्तं प्रहारिणं प्रभञ्जनं मातारिश्वानमुग्रम्॥ युद्धे सहिष्ये हिमवानिवाचलो धनंजयं क्रुद्धममृष्यमाणम्। विशारदं रथमार्गेषु शक्तं धुर्यं नित्य समरेषु प्रवीरम्॥ लोके वरं सर्वधनुर्धराणां धनंजयं संयुगे संसहिष्ये। अद्याहवे यस्य न तुल्यमन्यं मन्ये मनुष्यं धनुराददानम्॥ सर्वामिमां यः पृथिवीं विजिग्ये तेन प्रयोद्धास्मि समेत्य संख्ये। यः सर्वभूतानि सदैवतानि प्रस्थेऽजयत् खाण्डवे सव्यसाची॥ को जीवितं रक्ष्यमाणो हि तेन युयुत्सेद् वै मानुषो मामृतेऽन्यः। मानी कृतास्त्रः कृतहस्तयोगो दिव्यास्त्रविच्छ्वेतहयः प्रमाथी॥ च्छिरो हरिष्यामि शितैः पृषत्कैः। योत्स्याम्येनं शल्य धनंजयं वै मृत्युं पुरस्कृत्य रणे जयं वा॥ अन्यो हि न ह्येकरथेन मयों युध्येत यः पाण्डवमिन्द्रकल्पम्। तस्याहवे पौरुषं पाण्डवस्य ब्रूया हृष्टः समितौ क्षत्रियाणाम्॥ किं त्वं मूर्खः प्रसभं मूढचेता ममावोचः पौरुषं फाल्गुनस्या अप्रियो यः पुरुषो निष्ठुरो हि क्षुद्रः क्षेप्ता क्षमिणंश्चाक्षमावान्॥ हन्यामहं तादृशानां शतानि क्षमाम्यहं क्षमया कालयोगात्। अवोचस्त्वं पाण्डवार्थेऽप्रियाणि प्रधर्षयन् मां मूढवत् पापकर्मन्॥ मय्यार्जवे जिामतिर्हतस्त्वं मित्रद्रोही साप्तपदं हि मैत्रम्। कालस्त्वयं प्रत्युपयाति दारुणो दुर्योधनो युद्धमुपागमद् यत्॥ स्तन्मन्यसे यत्र नैकान्त्यमस्ति। मित्रं मिन्देन्दतेः प्रीयतेर्वा संत्रायतेर्मिनुतेर्मोदतेर्वा॥ ब्रवीमि ते सर्वमिदं ममास्ति तचापि सर्वं मम वेत्ति राजा। शत्रुः शदेः शासतेर्वा श्यतेर्वा शृणातेर्वा श्वसतेः सीदतेर्वा॥ उपसर्गाद् बहुधा सूदतेश्च प्रा येण सर्वं त्वयि तच मह्यम्। दुर्योधनर्थं तव च प्रियार्थं यशोऽर्थमात्मार्थमपीश्वरार्थम्॥ तस्मादहं पाण्डववासुदेवौ योत्स्ये यत्नात् कर्म तत् पश्य मेऽद्य। अस्त्राणि पश्याद्य ममोत्तमानि ब्राह्माणि दिव्यान्यथ मानुषाणि॥ आसादयिष्याम्यहमुग्रवीर्य द्विपो द्विपं मत्तमिवातिमत्तः। अस्त्रं ब्राह्मं मनसा युध्यजेयं क्षेप्स्ये पायाप्रमेयं जयाय। तेनापि मे नैव मुच्येत युद्धे न चेत् पतेद् विषमेमेऽद्य चक्राम्॥ वैवस्वताद् दण्डहस्ताद्वरुणाद् वापि पाशिनः। सगदाद् वा धनपतेः सवज्राद् वापि वासवात्॥ अन्यस्मदपि कस्माचिदमित्रादाततायिनः। इति शल्य विजानीहि यथा नाहं विभेम्यतः।। तस्मान्न मे भयं पार्थान्नापि चैव जनार्दनात्॥ सहं युद्धं हि मे ताभ्यां साम्पराये भविष्यति। तदाचिद् विजयस्यामस्त्रहेतोरटन्नृप॥ अज्ञानाद्धि क्षिपन् बाणान् घोररूपान् भयानकान्। होमधेन्वा वत्समस्य प्रमत्त इषुणाहनम्॥ चरन्तं विजने शल्य ततोऽनुव्याजहार माम्। यस्मात् त्वया प्रमत्तेन होमधेन्वा हतः सुतः॥ श्वभ्रे ते पततां चक्रमिति मां ब्राह्मणोऽब्रवीत्। युध्यमानस्य संग्रामे प्राप्तस्यैकायनं भयम्॥ तस्माद् बिभेमि बलवद् ब्राह्मणव्याहतादहम्। एते हि सोमराजान ईश्वराः सुखदुःखयो॥ अदां तस्मै गोसहस्रं बलीवर्दाश्च षट्शतान्। प्रसादं न लभे शल्य ब्राह्मणान्मद्रकेश्वर॥ ईषादन्तान् सप्तशतान् दासीदासशतानि च। ददतो द्विजमुख्यो मे प्रसादं न चकार सः॥ कृष्णानां श्वेतवत्सानां सहस्राणि चतुर्दश। आहरं न लभे तस्मात् प्रसाद द्विजसत्तमात्॥ ऋद्धं गृहं सर्वकामैर्यच मे वसु किंचन। तत् सर्वमस्मै सत्कृत्य प्रयच्छामि न चेच्छति॥ ततोऽब्रवीन्मा याचन्तमपराधं प्रयत्नतः। व्याहृतं यन्मया सूत तत् तथा न तदन्यथा॥ अनुतोक्तं प्रजां हन्यात् ततः पापमवाप्नुयाम्। तस्माद् धर्माभिरक्षार्थ नानृतं तक्तुमुत्सहे॥ मा त्वं ब्रह्मगति हिंस्याः प्रायश्चित्तं कृतं त्वया। मद्वाक्यं नानृतं लोके कश्चित् कुर्यात् समानुहि॥ इत्येतत्ते मया प्रोक्तं क्षिप्तेनापि सुहृत्तया। जानामि त्वां विक्षिपन्तं जोषमास्स्वोत्तरं शृणु।॥ संजय उवाच ततः पुनर्महाराज मद्रराजमरिंदमः। अभ्यभाषत राधेयः संनिवार्योत्तरं वचः। ॥ यत् त्वं निदर्शनार्थं मां शल्य जल्पितवानसि। नाहं शक्यस्त्वया वाचा बिभीषयितुमाहवे॥ यदि मां देवताः सर्वा योधयेयुः सवासवाः। तथापि मे भयं न स्यात् किमु पार्थात् सकेशवात्॥ नाहं भीषयितुं शक्यो वामात्रेण कथंचन। अन्यं जानिहि यः शक्यस्त्वया भीषयितुं रणे।॥ नीचस्य बलमेतावत् पारुष्यं यत्त्वमात्थ माम्। अशक्तो मद्गुणान् वक्तुं वल्गसे बहु दुर्मते॥ न हि कर्णः समुद्भूतो भयार्थमिह मद्रका विक्रमार्थमहं जातो यशोऽर्थं च तथाऽऽत्मनः॥ सखिभावेन सौहार्दान्मित्रभावेन चैव हि। कारणैस्त्रिभिरेतैस्त्वं शल्य जीवसि साम्प्रतम्॥ राशंश्च धार्तराष्ट्रस्य कार्यं सुमहदुद्यतम्। मयि तचाहितं शल्य तेन जीवसि मे क्षणम्॥ कृतंश्च समयः पूर्वं क्षन्यव्यं विप्रियं तव। ऋते शल्यसहस्रेण विजयेयमहं परान्। मित्रद्रोहस्तु पापीयानिति जीवसि साम्प्रतम्॥ शल्य उवाच परान् प्रति। ननु प्रलापाः कफ्ते यान् ब्रवीपि ऋते कर्णसहस्रेण शक्या जेतुं परे युधि॥ संजय उवाच तथा ब्रुवन्तं परुषं कर्णो मद्रधिपं तदा। परुषं द्विगुण भूयः प्रोवाचाप्रियदर्शनम्॥ कर्ण उवाच इदं तु ते त्वमेकाग्रः शृणु मद्रजनाधिप। शंनिधौ धृतराष्ट्रस्य प्रोच्यमानं मया श्रुतम्॥ देशांश्च विविधांश्चित्रान् पूर्ववृत्तांश्च पार्थिवान्। ब्राह्मणः कथयन्ति स्म धृतराष्ट्रनिवेशने॥ तत्र वृद्धः पुरावृत्ताः कथा कश्चिद् द्विजोत्तमः। वाहीकदेशं मद्रांश्च कुत्सयन् वाक्यमब्रवीत्॥ बहिष्कृता हिमवता गङ्गया च बहिष्कृताः। शरस्वत्या यमुनया कुरक्षेत्रेण चापि ये॥ पञ्चानां सिन्धुषष्ठानां नदीनां येऽन्तराश्रिताः। तान् धर्मबाह्यानशुचीन वाहीकानपि वर्जयेत्॥ गोवर्धनो नाम वटः सुभद्रं नाम चत्वरम्। एतद् राजकुलद्वारमाकुमारात् स्मराम्यहम्॥ कार्येणात्यर्थगूढेन वाहीकेषूषितं मया। तत एषां समाचारः संवासाद् विदितो मम॥ शाकलं नाम नगरमापगा नाम निम्नगा। जर्त्तिका नाम वाहीकास्तेषां वृत्तं सुनिन्दतम्॥ धाना गौड्यासवं पीत्वा गोमांसं लशुनैः सह। अपूपमांसवाट्यानामाशिनः शीलवर्जिताः॥ गायन्त्यथ च नृत्यन्ति स्त्रियो मत्ता विवाससः। नगरागारवप्रेषु बहिर्माल्यानुलेपनाः॥ मत्तावगीतैर्विविधैः खरोष्ट्रनिनदोपमैः। अनावृता मैथुने ताः कामचाराश्च सर्वशः॥ आहुरन्योन्यसूक्तानि प्रब्रुवाणा मदोत्कटाः। हे हते हे हतेत्येव स्वामिभर्तृहतेति च॥ आक्रोशन्त्यः प्रनृत्यन्ति व्रात्याः पर्वस्वसंयता। तासां किलावलिप्तानां निवसन् कुरुजाङ्गले॥ कश्चिद् वाहीकदुष्टानां नातिहष्टमना जगौ। सा नूनं बृहती गौरी सूक्ष्मकम्बलवासिनी॥ मामनुस्मरती शेते वाहीकं कुरुजाङ्गले। शतद्रुकामहं तीर्खा तां च रम्यामिरावतीम्॥ गत्वा स्वदेश द्रक्ष्यामि स्थूलशङ्खा शुभाः स्त्रियः। मनः शिलोजवलापाङ्गयो गौर्यस्त्रिककुदाञ्जनाः॥ कम्बलजिनसंवीता क्रन्दन्त्यः प्रियदर्शनाः। मृदङ्गानकशङ्खानां मर्दलानां च निःस्वनैः॥ खरोष्ट्राश्वतरैश्चैव मत्ता यास्यामहे सुखम्। शमीपीलुकरीराणां वनेषु सुखवमसु॥ अपूपान् सक्तुपिण्डांश्चं प्राश्नन्तो मथितान्वितान्। पथि सुप्रबला भूत्वा कदा सम्पततोऽध्वगान्॥ चेलापहारं कुर्वाणस्ताडयिष्याम भूयसः। एवंशीलेषु व्रात्येषु वाहीकेषु दुरात्मसु॥ कश्चेतयानो निवसेनमुहूर्तमपि मानवः। ईदृशा ब्राह्मणेनोक्ता वाहीका मोघचारिणः॥ येषां षड्भागहर्ता त्वमुभयोः शुभपापयोः। इत्युक्त्वा ब्राह्मणः साधुरुत्तरं पुनरुक्तवान्॥ वाहीकेष्वविनीतेषु प्रोत्यमानं निबोध तत्। तत्र स्म राक्षसी गाति सदा कृष्णचतुर्दशीम्॥ नगरे शाकले स्फीते आहत्य निशि दुन्दुभि। कदा वाहेयिका गाथा: पुनर्गास्यामि शाकले।॥ गव्यस्य तृप्ता मांसस्य पीत्वा गौडं सुरासवम्। गौरीभिः सह नारीभिहतीभिः स्वलंकृताः॥ पलाण्डुगंडूषयुतान् खादन्ती चैडकान् बहून्। वाराहं कौक्कुटं मांसं गव्यं गार्दभमौष्ट्रिकम्॥ ऐडं च ये न खादन्ति तेषां जन्म निरर्थकम्। इति गायन्ति ये मत्ताः सीधुना शाकलाश्च ये॥ सबालवृद्धाः क्रन्दनन्तस्तेषु धर्मः कथं भवेत्। इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते॥ यदन्योऽप्युक्तवानस्मान् ब्राह्मणः कुरुसंसदि। पञ्च नद्यो वहन्त्येता यत्र पीलुवनान्युत॥ शतर्दुश्च विपासा च तृतीयैरावती तथा। चन्द्रभागा वितस्ता च सिन्धुषष्टा बहिर्गिरेः॥ आरट्टा नाम ते देशा नष्टधर्मा न तान् व्रजेत्।' व्रात्यानां दासमीयानां वाहीकानामयज्वनाम्॥ न देवाः प्रतिगृह्णन्ति पितरो ब्राह्मणास्तथा। तेषां प्रनष्टधर्माणां वाहीकानामिति श्रुतिः॥ ब्राह्मणेन तथा प्रोक्तं विदुषा साधुसंसदि। काष्ठकुण्डेषु वाहीका मृन्मयेषु च भुञ्जते॥ सक्तुमद्यावलिप्तेषु श्वावलीढेषु निघृणाः। आविकं चौष्टिकं चैव क्षीरं गार्दभमेव च॥ तद्विकारांश्च वाहीका: खादन्ति च पिबन्ति च। पुत्रसंकरिणो जाल्माः सर्वान्नक्षीरभोजनाः॥ आरट्टा नाम वाहीका वर्जनीया विपश्चिता। हन्त शल्य विजानीहि हन्त भूयो ब्रवीमि ते॥ यदन्योऽप्युक्तवान् मह्यं ब्राह्मणः कुरुसंसदि। युगन्धरे पयः पीत्वा प्रोष्य चाप्यच्युतस्थले॥ तद्वद् भूतिलये स्नात्वा कथं स्वर्ग गमिष्यति। पञ्च नद्यो वहन्त्येता यत्र निःसृत्य पर्वतात्॥ आरट्टा नाम दीका न तेष्वार्योद्वयहं वसेत्। बहिश्च नाम हीच विपाशानां पिशाचकौ॥ तयोरपत्यं वाहीका नैषा सृष्टिः प्रजापतेः। ते कथं विविधान् धर्मान् ज्ञास्यन्ते हीनयोनयः॥ कारस्करान्माहिषकान् कुरण्डान् केरलांस्तथा। कर्कोटकान् वीरकांश्च दुर्धर्माचं विवर्जयेत्॥ इति तीर्थानुसारं राक्षसी काचिदब्रवीत्। एकरात्रशयी गेहे महोलूखलमेखला॥ आरट्टा नाम ते देशा वाहीकं नाम तज्जलम्। ब्राह्मणापसदा यत्र तुल्यकालाः प्रजापतेः॥ वेदा न तेषां वेद्यंश्च यज्ञा यजनमेव च। व्रात्यानां दासमीयानामन्नं देवा न भुञ्जते॥ प्रस्थला मद्रगान्धारा आरट्टा नामतः खशाः। वसातिसिन्धुसौवीरा इति प्रायोऽतिकुत्सिताः॥ प्रस्थला मद्रगान्धारा आरट्टा नामतः खशाः। वसातिसिन्धुसौवीरा इति प्रायोऽतिकुत्सिताः॥ कर्ण उवाच हन्त शल्य विजानीहि हन्त भूयो ब्रवीमि ते। उच्यमानं मया सम्यक् त्वमेकाग्रमनाः शृणु।॥ ब्राह्मणः किल नो गेहमध्यगच्छत् पुरातिथिः। आचारं तत्र सम्प्रेक्ष्य प्रीतो वचनमब्रवीत्॥ मया हिमवतः शृङ्गमेकेनाध्युषितं चिरम्। दृष्टांश्च बहवो देशा नानाधर्मसमावृताः॥ न च केन च धर्मेण विरुध्यन्ते प्रजा इमाः। सर्व हि तेऽब्रुवन् धर्मं यदुक्तं वेदपारगैः॥ अटता तु ततो देशान् नानाधर्मसमाकुलान्। आगच्छता महाराज वाहीकेषु निशामितम्॥ तत्र वै ब्राह्मणो भूत्वा ततो भवति क्षत्रियः। वैश्यः शूद्रश्च वाहीकस्ततो भवति नापितः॥ नापितंश्च ततो भूत्वा पुनर्भवति ब्राह्मणः। द्विजो भूत्वा च तत्रैव पुनर्दासोऽभिजायते॥ भवन्त्येककुले विप्राः प्रसृष्टा: कामचारिणः। गान्धारा मद्रकांश्चैव वाहीकांचाल्पचेतसः॥ एतन्मया श्रुतं तत्र धर्मसंकरकारकम्। कृत्स्त्रामटित्वा पृथिवीं वाहीकेषु विपर्ययः॥ हन्त शल्य विजानीहि हन्त भूयो ब्रवीमे ते। यदप्यन्योऽबवीद् वाक्यं वाहीकानां च कुत्सितम्॥१० सती पुरा हृता काचिदारट्टात् किल दस्युभिः। अधर्मतंश्योपयाता सा तानभ्यशपत् ततः॥ बालां बन्धुमती यन्मामधर्मेणोपगच्छथ। तस्मानार्यो भविष्यन्ति बन्धक्यो वै कुलस्य च॥ न चैवास्मात् प्रमोक्षध्वं घोरात् पापानराधमाः। तस्मात् तेषां भागहरा भागिनेया न सूनवः॥ कुरवः सहपञ्चाला: शाल्वा मत्स्याः सनैमिषाः। कोसलाः काशपौण्ड्राश्च कालिङ्गा मागधास्तथा।॥ चेदयंश्च महाभागा धर्मं जानान्ति शाश्वतम्। नानादेशेषु सन्तंश्च प्रायो बाह्यलयादृते॥ आ मत्स्येभ्यः कुरुपञ्चालदेश्या आ नैमिषाचेदयो ये विशिष्टाः। धर्म पुराणमुपजीवन्ति सन्तो मद्रादृते पाञ्चनदांश्च जिह्यान्॥ स्तूष्णीभूतो जडवच्छल्य भूयाः। त्वं तस्य गोप्ता च जनस्य राजा षड्भागहर्ता शुभदृष्कृतस्य॥ अथवा दुष्कृतस्य त्वं हर्ता तेषामरक्षिता। रक्षिता पुण्यभागाजा प्रजानां त्वं ह्यपुण्यभाक्॥ पूज्यमाने पुरा धर्मे सर्वदेशेषु शाश्वते। धर्मं पाञ्चनदं दृष्ट्वा धिगित्याह पितामहः॥ व्रात्यानां दासमीयानां कृतेऽप्यशुभकर्मणाम्। ब्रह्मणा निन्दिते धर्मे स त्वं लोके किमब्रवीः॥ इति पाञ्चनदं धर्ममवमेने पितामहः। स्वधर्मस्थेषु वर्षेषु सोऽप्येतान् नाभ्यपूजयत्॥ हन्त शल्य विजानीहि हन्त भूयो ब्रवीमि ते। कल्माषपादः सरसि निमजन् राक्षसोऽब्रवीत्॥ क्षत्रिस्य मलं भक्ष्यं ब्राह्मणस्याश्रुतं मलम्। मलं पृथिव्यां वाहीकाः स्त्रीणां मद्रस्त्रियो मलम्॥२३ निमज्जमानमुद्धत्य कश्चिद् राजा निशाचरम्। अपृच्छत् तेन चाख्यातं प्रोक्तवांस्तन्निबोध मे॥ मानुषाणां मलं म्लेच्छा म्लेच्छाना मौष्ट्रिका मलम्। शौण्डिकानां मलं घण्ढाः षण्ढानां राजयाजकाः॥२५ राजयाजकयाज्यानां मद्रकाणां च यन्मलम्। तद् भवेद् वै तव मलं यद्यस्मान विमुञ्चसि॥ इति रक्षोपसृष्टेषु विषवीर्यहतेषु च। राक्षसं भैषजं प्रोक्तं संसिद्धवचनोत्तरम्॥ ब्राह्यं पञ्चालाः कौरवेयास्तु धर्म्य सत्यं मत्स्याः शूरसेनाश्च यज्ञम्। प्राच्या दासा वृषला दाक्षिणात्याः स्तेना वाहीका: संकरा वै सुराष्ट्राः॥ कृतघ्नता परवित्तपहारो मद्यपानं गुरुदारावमर्दः। वावपारुष्यं गोवधो रात्रिचर्या बहिर्गेहं परवस्त्रोपभोगः॥ येषां धर्मस्तान् प्रति नास्त्यधर्मो ह्यारट्टानां पञ्चनदान धिगस्तु। आ पाञ्चाल्येभ्यः कुरवो नैमिषाश्च मत्स्याश्चैतेऽप्यथ जानन्ति धर्मम्। अथोदीच्याश्चाङ्गका मागधाश्च शिष्टान् धर्मानुपजीवन्ति वृद्धाः॥ प्राची दिशं श्रिता देवा जातवेदः पुरोगमाः। दक्षिणां पितरो गुप्तां यमेन शुभकर्मणा॥ प्रतीची वरुणः पाति पालयानः सुरान् बली। उदीची भगवान् सोमो ब्राह्मणैः सह रक्षति॥ तथा रक्षः पिशाचाच हिमवन्तं नगोत्तमम्। गुह्यकाश्च महाराज पर्वतं गन्धमादनम्॥ ध्रुवः सर्वाणि भूतानि विष्णुः पाति जनार्दनः। इङ्गितज्ञाश्च मगधाः प्रेक्षितज्ञाश्च कोसलाः॥ अर्थोक्ताः कुरुपञ्चालाः शाल्वाः कृत्स्नानुशासनाः। पर्वतीयाच विषमा यथैव शिवयस्तथा॥ सर्वज्ञा यवना राजशूश्चैव विशेषतः। म्लेच्छाः स्वसंज्ञानियता नानुक्तमितरे जनाः॥ प्रतिरथास्तु वाहिका न च केचन मद्रकाः। स त्वमेतादृशः शल्य नोत्तरं वक्तुमर्हसि॥ साधोः पानं गुरुतल्यावमर्दो भ्रूणहत्या परवित्तापहारः। येषां धर्मस्तान् प्रति नास्त्यधर्म आरट्टजान् पञ्चनदान् धिगस्तु॥ एतज्ज्ञावा जोषमास्स्व प्रतीपं मा स्म वै कृथाः। मा त्वां पूर्वमहं हत्वा हनिष्ये केशवार्जुनौ॥ शल्य उवाच आतुराणां परित्याग: स्वदारसुतविक्रयः। अङ्गे प्रवर्तते कर्ण येषामधिपतिर्भवान्॥ रथातिरथसंख्यायां यत् त्वां भीष्मस्तदाब्रवीत्। तान् विदित्वाऽऽत्मनो दोषान् निर्मन्युभव मा क्रुधः॥४ सर्वत्र ब्राह्मणा सन्ति सन्ति सर्वत्र क्षत्रियाः। वैश्याः शूद्रास्तथा कर्ण स्त्रियः साध्व्यश्च सुव्रताः॥ रमन्ते चोपहासने पुरुषाः पुरुषैः सह अन्योन्यमवतक्षन्तो देशे देशे समैथुनाः॥ परवाच्येषु निपणः सर्वो भवति सर्वदा। आत्मवाच्यं न जानीते जानन्नपि च मुह्यति॥ सर्वत्र सन्ति राजानः स्वं स्वं धर्ममनुव्रताः। दुर्मनुष्यान् निगृह्णन्ति सन्ति सर्वत्र धार्मिका॥ न कर्ण देशसामान्यात् सर्वः पापं निषेवते। यादृशाः स्वस्वभावेन देवा अपि न तादृशा॥ संजय उवाच ततो दुर्योधन राजा कर्णशल्याववारयत्। सखिभावेन राधेयं शल्यं स्वाञ्जल्यकेन च॥ ततो निवारितः कर्णो धार्तराष्ट्रेण मारिष। कर्णोऽपिनोत्तरं प्राह शल्योऽप्यभिमुखः परान्। ततः प्रहस्य राधेयः पुनर्याहीत्यचोदयत्॥ धृतराष्ट्र उवाच तथा व्यूढेष्वनीकेषु संसक्तेषु च संजय। संशप्तकान् कथं पार्थो गतः कर्णश्च पाण्डवान्॥ एतद् विस्तरशो युद्धं प्रब्रूहि कुशलो ह्यासि। न हि तृप्यामि वीराणां शृण्वानो विक्रमान् रणे॥ संजय उवाच तदास्थितमवज्ञाय प्रत्यमित्रबलं महत्। अव्यूहतार्जुनो व्यूहं पुत्रस्य तव दुर्नये॥ तत् सादिनागकलिलं पदातिरथसंकुलम्। धृष्टद्युम्नमुखं व्यूहमशोभत महद् बलम्॥ पारावतसवर्णाश्वश्चन्द्रादित्यसमद्युतिः। पार्षतः प्रबभौ धन्वी कालो विग्रहवानिव॥ पार्षतं जुगुपुः सर्वे द्रौपदेया युयुत्सवः। दिव्यवर्मायुधधराः शार्दूलसमविक्रमाः॥ सानुगा दीप्तवपुषश्चन्द्रं तारागणा इव। अथ व्यूढेष्वनीकेषु प्रेक्ष्य संशप्तकान् रणे॥ क्रुद्धोऽर्जुनोऽभिदुद्राव व्याक्षिपन् गाण्डिवं धनुः। अथ संशप्तकाः पार्थमभ्यधावन् वधैषिणः॥ विजये धृतसंकल्पा मृत्युं कृत्वा निवर्तनम्। तन्नराश्वौधबहुलं मत्तनागरथाकुलम्॥ पत्तिमच्छूरवीरौधं दुतमर्जुनमार्दयत्। स सम्प्रहारस्तुमुलस्तेषामासीत् किरीटिना॥ तस्यैव नः श्रुतो यादृनिवातकवचैः सह। रथानश्वान् ध्वजान नागान् पतीन् रणगतानपि॥ इघून धनूंषि खड्गाश्च चक्राणि च परश्वधान्। सायुधानुद्यतान् बाहून् विविधान्यायुधानि च॥ चिच्छेद द्विषतां पार्थः शिरांसि च सहस्रशः। तस्मिन् सैन्यमहावर्ते पातालतलसंनिभे॥ निमग्न त रथं मत्वा नेदुः संशप्तकास्नथा। स पुनस्तानरीन् हत्वा पुनरुत्तरतोऽत्वधीत्॥ दक्षिणेन च पश्चाच क्रुद्धो रुद्रः पशूनिव। अथ पञ्चालचेदीनां संजयानां च मारिष॥ त्वदीयैः सह संग्राम आसीत् परमदारुणः! कृपश्च कृतवर्मा च शकुनिश्चापि सौबलः॥ हृष्टसेनाः सुसंरब्धा रथानीकप्रहारिणः। कोसलैः काश्यमत्स्यैश्च कारुषैः केकयैरपि॥ शूरसेनैः शूरवरैर्युयुधुर्युद्धदुर्मदाः। तेषामन्तकरं युद्धं देहपाप्मासुनाशनम्॥ क्षत्रविट्शूद्रवीराणां धर्म्य स्वर्ग्य यशस्करम्। दुर्योधनऽथ सहितो भ्रातृर्भिरतर्षभ॥ गुप्तः कुरुप्रवीरैश्च मद्राणां च महारथैः। पाण्डवैः सह पञ्चालैश्चैदिभिः सात्यकेन च॥ युध्यमानं रणे कुरुवीरो भ्यपालत्। कर्णोऽपि निशितैर्बाणैर्विनिहत्य महाचमूम्॥ प्रमृद्य च रथश्रेष्ठान् युधिष्ठिरमपीडयत्। विवस्त्रायुधदेहासून कृत्वा शत्रून् सहस्रशः॥ युक्त्वा स्वर्गयशोभ्यां च स्वेभ्यो मुदमुदावहत्। एवं मारिष संग्रामो नरवाजिगजक्षयः। कुरूणां सृञ्जयानां च देवासुरसमोऽभवत्॥ धृतराष्ट्र उवाच यत्तत् प्रविश्य पार्थानां सैन्यं कुर्वञ्जनक्षयम्। कर्णो राजानमभ्येत्य तन्माचक्ष्व संजय॥ के च प्रवीराः पार्थानां युधि कर्णमवारयन्। कांश्च प्रमथ्याधिरथियुधिष्ठिरमपीडयत्॥ संजय उवाच धृष्टद्युम्नमुखान् पार्थान् दृष्ट्वा कर्णो व्यवस्थितान्। समभ्यधावत्त्वरितः पञ्चालाञ्छत्रुकर्षिणः॥ तं तूर्णमभिधावन्तं पञ्चाला जितकाशिनः। प्रत्युद्ययुर्महात्मानं हंसा इव महार्णवम्॥ ततः शङ्खसहस्राणां निःस्वनो हृदयङ्गम। प्रादुरासीदुभयतो भेरीशब्दश्च दारुणः॥ नानाबाणनिपाताश्च द्विपाश्वरथनिःस्वनः। सिंहनादच वीराणामभवद् दारुणस्तदा॥ साद्रिद्रुमार्णवा भूमि: सवाताम्बुदमम्बरम्। सार्केन्दुग्रहनक्षत्रा द्यौश्च व्यक्तं विघूर्णितः॥ इति भूतानं तं शब्दं मेनिरे ते च विव्यथुः। यानि चाप्यल्पसत्त्वानि प्रायस्तानि मृतानि च॥ अथ कर्णो भृशं क्रुद्धः शीघ्रमस्त्रमुदीरयन्। जघान पाण्डवीं सेनामासुरीं मघवानिव॥ स पाण्डवबलं कर्णः प्रविश्य विसृजञ्छरान्। प्रभद्रकाणां प्रवरानहनत् सप्तसप्ततिम्॥ ततः सुपुडैनिशितै स्थश्रेष्ठो रथेषुभिः। अवधीत् पञ्चविंशत्या पञ्चालान् पञ्चविंशतिम्॥ सुवर्णपुढे राचैः परकायविदारणैः। चेदिकानवधीद वीरः शतशोऽथ सहस्रशः॥ तं तथा समरे कर्म कुर्वाणमतिमानुषम्। परिवर्महाराज पञ्चालानां रथव्रजाः॥ ततः संधाय विशिखान् पञ्च भारत दुःसहान्। पञ्चालानवधीत् पञ्च कर्णो वैकर्तनो वृषः॥ भानुदेवं चित्रसेनं सेनाबिन्दुं च भारत। तपनं शूरसेन च पञ्चालानहनद् रणे॥ पञ्चालेषु च शूरेषु वध्यमानेषु सायकैः। हाहाकारो महानासीत् पञ्चालानां महाहवे॥ परिवर्महाराज पञ्चालानां रथा दश। पुनरेव च तान् कर्णो जघानाशु पतत्रिभिः॥ चक्ररक्षौ तु कर्णस्य पुत्रौ मारिष दुर्जयौ। सुषेण: सत्यसेननश्च त्यक्त्वा प्राणानयुध्यताम्॥ पृष्ठगोप्ता तु कर्णस्य ज्येष्ठः पुत्रो महारथः। वृषसेनः स्वयं कर्ण पृष्ठतः पर्यपालयत्॥ धृष्टद्युम्नः सात्यकिश्च द्रौपदेया वृकोदरः। जनमेजयः शिखण्डी च प्रवीराश्च प्रभद्रकाः॥ चेदिकेकयपञ्चाला यमौ मत्स्याश्च दंशिताः। सम्भ्यधावन् राधेयं जिघांसन्तः प्रहारिणम्॥ त एनं विविधैः शस्त्रैः शरधाराभिरेव च। अभ्यवर्षन् विमर्दन्तं प्रावृषीभाम्बुदा गिरिम्॥ पितरं तु परीप्सन्तः कर्णपुत्राः प्रहारिणः। त्वदीयाश्चारे राजन् वीरा वीरानवारयन्॥ सुषेणो भीमसेनस्य च्छित्त्वा भल्लेन कार्मुकम्। नाराचैः सप्तभिर्विद्ध्वा हृदि भीमं ननाद ह॥ अथान्यद् धनुरादाय सुदृढं भीमविक्रमः। सज्यं वृकोदरः कृत्वा सुषेणस्याच्छिनद् धनुः॥ विव्याध चैन दशभिः क्रुद्धो नृत्यन्निवेषुभिः। कर्णं च तूर्णं विव्याधि त्रिसप्तत्या शितैः शरै॥ भानुसेनं च दशभिः साश्वसूतायुधध्वजम्। पश्यतां सुहृदां मध्ये कर्णपुत्रमपातयत्।॥ क्षुरप्रणुन्नं तत्तस्य शिरश्चन्द्रनिभाननम्। शुभदर्शनमेवासीन्नालभ्रष्टमिवाम्बुजम्॥ हत्वा कर्णसुतं भीमस्तावकान् पुनरार्दयत्। कृपहार्दिक्ययोश्छित्त्वा चापौ तावप्यथार्दयत्॥ दुःशासनं त्रिभिर्विद्ध्वा शकुनि षड्भिरायसैः। उलूकं च पतत्रिं च चकार विरथावुभौ॥ सुषेणं च हतोऽसीति बुवन्नादत्त सायकम्। तमस्य कर्णश्चिच्छेद त्रिभिश्चैनमताडयत्॥ अथान्यं परिजग्राह सुपर्वाणं सुतेजनम्। सुषेणायासृजद् भीमस्तमप्यस्याच्छिनद् वृषः॥ पुनः कर्णस्त्रिसप्तत्या भीमसेनपथेषुभिः। पुत्रं परीप्सन् विव्याध क्रूरं क्रूरैर्जिघांसया॥ सुषेणस्तु धनुर्गृह्य भारसाधानमुक्तमम्। नकुलं पञ्चभिर्बाणैर्पाह्वोरुरसि चार्पयत्॥ नकुलस्तं तु विंशत्या विद्ध्वा भारसहैईलैः। ननाद बलवन्नादं कर्णस्य भयमादधत्॥ तं सुषेणो महाराज विद्ध्वा दशभिराशुगैः। चिच्छेद च धनुः शीघ्र क्षुरप्रेण महारथः॥ अथान्यद् धनुरादाय नकुलः क्रोधमूर्छितः। सुषेणं नवभिर्बाणैर्वारयामास संयुगे॥ स तु बाणैर्दिशो राजन्नाच्छाद्य परवीरहा। आजघ्ने सारथिं चास्य सुषेणं च ततस्त्रिभिः॥ चिच्छेद चास्य सुदृढं धनुर्भल्लैस्त्रिभिस्त्रिधा। अथान्यद् धनुरादाय सुषेणः क्रोधमूर्छितः। आविध्यन्नकुलं षष्ट्या सहदेवं च सप्तभिः। तद् युद्धं सुमहद् घोरमासीद् देवासुरोपमम्॥ निघ्नतां सायकैस्तूर्णमन्योन्यस्य वधं प्रति। सात्यकिवृर्षसेनस्य सूतं हत्वा त्रिभिः शरैः॥ धनुश्चिच्छेद भल्लेन जघानाश्वांश्च सप्तभिः। ध्वजमेकेषुणोन्मथ्य त्रिभिस्तं हृद्यताडयत्॥ अथावसन्नः स्वरथे मुहूर्तात् पुनरुत्थितः। स रणे युयुधानेन विसूताश्वरथध्वजः॥ कृतो जिघांसुः शैनेयं खड्गचर्मधृगभ्ययात्। तस्य चापततः शीघ्र वृषसेनस्य सात्यकिः॥ वाराहकणैर्दशभिरविध्यदसिचर्मणी। दुःशासनस्तु तं दृष्ट्वा विरथं व्यायुधं कृतम्॥ आरोप्य स्वरथं तूर्णमपोवाह रणातुरम्। अथान्यं रथमास्थाय वृषसेनो महारथः॥ द्रौपदेयांस्त्रिसप्तत्या युयुधानं च पञ्चभिः। भीमसेनं चतुःषष्टया सहदेवं च पञ्चभिः॥ नकुलं त्रिशता बाणैः शतानीकं च सप्तभिः। शिखण्डिनं च दशभिधर्मराजं शतेन च॥ एतांश्चान्यांश्च राजेन्द्र प्रवीराञ्जयगृद्धिनः। अभ्यर्दयन्महेष्वासः कर्णपुत्रो विशाम्पते॥ कर्णस्य युधि दुर्धर्षस्ततः पृष्ठमपालयत्। दुःशासन च शैनेयो नवैर्नवभिरायसैः॥ विसूताश्वरथं कृत्वा ललाटे त्रिभिरार्पयत्। स त्वन्यं रथमास्थाय विधिवत् कल्पित पुनः॥ युयुधे पाण्डुभिः सार्धं कर्णस्याप्याययन् बलम्। धृष्टद्युम्नस्ततः कर्णमविध्यद् दशभिः शरैः॥ द्रौपदेयास्त्रिसप्तत्या युयुधान्स्तु सप्तभिः। भीमसेनश्शुतःषष्ट्या सहदेव सप्तभिः॥ नकुलस्त्रिंशता बाणैः शतानीकस्तु सप्तभि। शिखण्डी दशभिर्वीरो धर्मराजः शतेन तु॥ एते चान्ये च राजेन्द्र प्रवीरा जयगृद्धिनः। अभ्यर्दयन् महेष्वासं सूतपुत्रं महामृधे॥ तान् सूतपुत्रो विशिखैर्दशभिर्दशभिः शरैः। रथेश्चारुचरन् वीरः प्रत्यविध्यदरिंदमः॥ तत्रास्त्रवीर्यं कर्णस्य लाघवं च महात्मनः। अपश्याम महाभाग तदद्भुतमिवाभवत्॥ न ह्याददानं ददृशुः संदधानं च सायकान्। विमुञ्चन्तं च संरम्भादपश्यन्त हतानरीन्॥ द्यौर्वियद्धर्दिशश्चैव प्रपूर्णानिशितैः शरै। अरुणाभ्रावृताकारं तस्मिन् देशे बभौ वियत्॥ नृत्यन्निव हि राधेयश्चापहस्तः प्रतापवान्। यैर्विद्धः प्रत्यविद्धयत् तानेकैकं त्रिगुणैः शरै॥ दशभिर्दशभिश्चैतान् पुनर्विद्ध्वा ननाद च। साश्वसूतरथच्छत्रांस्ततस्ते विवरं ददुः॥ तान् प्रमथ्य महेष्वासन् राधेयः शरवृष्टिभिः। राजानीकमसम्बाधं प्राविशच्छत्रुकर्शनः॥ स रथंस्त्रिशतं हत्वा चेदीनामनिवर्तिनाम्। राधेयो निशितैर्बाणैस्ततोऽभ्याईद् युधिष्ठिरम्॥ ततस्ते पाण्डवा राजशिखण्डी च ससात्यकिः। राधेयात् परिरक्षन्तो राजानं पर्यवारयन्॥ तथैव तावकाः सर्वे कर्ण दुर्वारणं रणे। यत्ताः शूरा महेष्वासाः पर्यरक्षन्त सर्वशः॥ नानावादित्रघोषाश्च प्रादुरासन् विशाम्पते। सिंहनादश्च संजज्ञे शूराणामभिगर्जताम्॥ ततः पुनः समाजग्मुरभीताः कुरुपाण्डवाः। युधिष्ठिरमुखाः पार्थाः सूतपुत्रमुखा वयम्॥ धृतराष्ट्र उवाच सुदुष्करमिदं कर्म कृतं भीमेन संजय। येन कर्णो महाबाहू रथोपस्थे निपातितः॥ कर्णो ोको रणे हन्ता पाण्डवान् सृञ्जयैः सह। इति दुर्योधनः सूत प्राब्रवीन्मां मुहुर्मुहुः॥ पराजितं तु राधेयं दृष्ट्वा भीमेन संयुगे। ततः परं किमकरोत् पुत्रो दुर्योधनो मम॥ ते संजय उवाच विमुखं प्रेक्ष्य राधेय सूतपुत्रं महाहवे। पुत्रस्तव महाराज सोदर्यान् समभाषत॥ शीघ्रं गच्छतं भद्रं वो राधेयं परिरक्षत। भीमसेनभयागाधे मजन्तं व्यसनार्णवे॥ तु राज्ञा समादिष्टा भीमसेनं जिघांसवः। अभ्यवर्तन्त संक्रुद्धाः पतङ्गाः पावकं यथा॥ श्रुतर्वा दुर्धरः क्राथो विवित्सुर्विकटः समः। निषङ्गी कवची पाशी तथा नन्दोपनन्दकौ॥ दुष्प्रधर्षः सुबाहुश्च वातवेगसुवर्चसौ। धनुर्लाहो दुर्मदश्च जलसंधः शलः सहः॥ एते रथैः परिवृता वीर्यवन्तो महाबलाः। भीमसेनं समासाद्य समन्तान् पर्यवारयन्॥ व्यमुञ्चञ्छरवातान् नानालिङ्गान् समन्ततः। से तैरभ्यर्घमानस्तु भीमसेनो महाबलः॥ तेषामापततां क्षिप्रं सुतानां ते जनाधिप। रथैःपञ्चादशैः सार्ध पञ्चाशदहनद् रथान्॥ ते विवित्सोस्तु ततः क्रुद्धो भल्लेनापाहरच्छिरः। भीमसेनो महाराज तत् पपात हतं भुवि।॥ सकुण्डलशिरस्त्राणं पूर्णचन्द्रोपमं तथा। तं दृष्ट्वा निहतं शूरं भ्रातरः सर्वतः प्रभो॥ अभ्यद्रवन्त समरे भीमं भीमपराक्रमम्। ततोऽपराभ्यां भल्लाभ्यां पुत्रयोस्ते महाहवे॥ जहार समरे प्राणान् भीमो भीमपराक्रमः। तौ धरामन्वपद्येतो वातरुग्णाविव दुमौ॥ विकटश्च सहयोभौ देवपुत्रोपमौ नृप। ततस्तु त्वरितो भीमः क्राथं निन्ये यमक्षयम्॥ नाराचेन सुतीक्ष्णेन स हतो न्यपतद् भुवि। हाहाकारस्ततस्तीव्रः सम्बभूव जनेश्वर॥ वध्यमानेषु वीरेषु तव पुत्रेषु धान्विषु। तेषां सुलुलिते सैन्ये पुनर्भीमो महाबलः॥ नन्दोपनन्दौ समरे प्रेषयद् यमसादनम्। ततस्ते प्राद्रवन् भीताःपुत्रास्ते विह्वलीकृताः॥ भीमसेनं रणे दृष्टा कालान्तकयमोपमम्। पुत्रांस्ते निहतान् दृष्ट्वा सूतपुत्रः सुदुर्मनाः॥ हंसवर्णान् हयान् भूयः प्रेषयद् यत्र पाण्डवः। ते प्रेषिता महाराज मद्रराजेन वाजिनः॥ भीमसेनरथं प्राप्य समसज्जन्त वेगिताः। स संनिपातस्तुमुलो घोररूपो विशाम्पते॥ आसीद् रौद्रो महाराज कर्णपाण्डवयोर्मधे। दृष्ट्वा मम महाराज तौ समेतौ महारथौ॥ आसीद् बुद्धिः कथं युद्धमेतदद्य भविष्यति। ततो भीम रणश्लाघी छादयामास पत्रिभिः॥ कर्णं रणे महाराज पुत्राणां तव पश्यताम्। ततः कर्णो भृषं क्रुद्धो भीमं नवभिरायसैः॥ विव्याध परमास्त्रज्ञो भल्लैः संनतपर्वभिः। आहत: स महाबाहुर्भीमो भीमपराक्रमः॥ आकर्णपूणैर्विशिखैःकर्ण विव्याध सप्तभिः। ततः कर्णो महाराज आशीविष इव श्वसन्॥ शरवर्षेण महता छादयामास पाण्डवम्। भीमोऽपि तं शरवातैश्छादयित्वा महारथम्॥ पश्यतां कौरवेयाणां विननद महाबलः। ततः कर्णो भृशं क्रुद्धोः दृढमादाय कार्मुकम्॥ भीमं विव्याध दशभिः कङ्कपत्रैः शिलाशितैः। कार्मुकं चास्य चिच्छेद भल्लेन निशितेन च॥ ततो भीमो महाबाहुर्हमपट्टविभूषितम्। परिघं घोरमादाय मृत्युदण्डमिवापरम्॥ कर्णस्य निधनाकाङ्क्षी चिक्षेपातिबलो नदन्। तमापतन्तं परिघं वज्रशनिसमस्वनम्॥ चिच्छेद बहुधा कर्णः शरैराशीविषोपमैः। ततः कार्मुकमादाय भीमो दृढतरं तदा॥ छादयामास विशिखैः कर्णं परबलार्दनम्। ततो युद्धमभूद् घोरं कर्णपाण्डवयोर्मधे॥ हरीन्द्रयोरिव मुहुःपरस्परवधैषिणोः। ततः कर्णो महाराज भीमसेनं त्रिभिः शरैः॥ आकर्णमूलं विव्याध दृढमायम्य कार्मुकम्। सोऽतिविद्धो महेष्वासः कर्णेनबलिनां वरः॥ घोरमादत्त विशिखं कर्णकायावदारणम्। तस्य भित्वा तनुत्राणं भित्वा कायं च सायकः॥ प्राविशद् धरणी राजन् वल्मीकमिव पन्नगः। स तेनातिप्रहारेण व्यथितो विह्वलनिवा। ३८॥ संचचाल रथे कर्णः क्षितिकम्पे यथाचलः। ततः कर्णो महाराज रोषामर्षसमन्वितः॥ पाण्डवं पञ्चविंशत्या नाराचानां समार्पयत्। आजघ्ने बहुभिर्बाणैर्ध्वजमेकेषुणाहनत्॥ सारर्थि चास्य भल्लेन प्रेषयामास मृत्यवे। छित्त्वा च कार्मुकं तूर्ण पाण्डवस्याशुपत्रिणा॥ ततो मुहूर्ताद् राजेन्द्र नातिकृच्छ्राद्धसन्निवा विरथं भीमकर्माणं भीमं कर्णश्चकार ह। ४२॥ विरथो भरतश्रेष्ठ प्रहसन्ननिलोपमः। गदां गृह्य महाबाहुरपतत् स्यन्दनोत्तमात्॥ अवप्लुत्य च वेगेन तव सैन्यं विशाम्पते। व्यधमद् गदया भीमः शरन्मेधानिवानिलः॥ नागान् सप्तशतान् राजन्नीषादन्तान् प्रहारिणः। व्यधमत् सहसा भीमः क्रुद्धरूपः परंतपः॥ दन्तवेष्टेषु नेत्रेषु कुम्भेषु च कटेषु च। मर्मस्वपि च मर्मज्ञस्तान नागानवधीद् बली॥ ततस्ते प्राद्रवन् भीताः प्रतीपं प्रहिताः पुनः। महामात्रैस्तामवतुर्मेघा इव दिवाकरम्॥ तान् स सप्तशतान् नागान् सारोहायुधकेतनान्। भूमिष्टो गदया जने वज्रेणेन्द्रि इवाचलान्॥ ततः सुबलपुत्रस्य नागानतिबलान् पुनः। पोथयामास कौन्तेयो द्विपञ्चाशदरिंदमः॥ तथा रथशतंसाग्रं पत्तींश्च शतशोऽपरान्। न्यहनत् पाण्डवो युद्धे तापयंस्तव वाहिनीम्॥ प्रताप्यमानं सूर्येण भीमेन च महात्मना। तव सैन्यं संचुकोच चर्माग्नावाहितं यथा॥ ते भीमभयसंत्रस्तावका भरतर्षभ। विहाय समरे भीमं दुद्रुवः दिशो दश॥ रथाः पञ्चशताश्चान्ये हादिनचर्मवर्मिणः। भीममभ्यद्रवन् जन्तः शरपूगैः समन्ततः॥ तान् स पञ्चशतान् वीरान् सपताकध्वजायुधान्। पोथयामास गदया भीमो विष्णुरिवासुरान्॥ ततः शकुनिनिर्दिष्टाः सादिनः शूरसम्मताः। त्रिसाहस्त्राभ्ययुभीमं शक्त्यृष्टिप्रासपाणयः॥ प्रत्युट्रम्य जवे पशु साश्वारोहांस्तदारिहा। विविधान् विचरन् मार्गान् गदया समपोथयत्॥ तेषामासीन्महाञ्छब्दस्ताडितानां त सर्वशः। अश्मभिर्विध्यमानां नगानामिव भारत॥ एवं सुबलपुत्रस्य त्रिसाहस्त्रान् हयोत्तमान्। हत्वान्यं रथमास्थाय क्रुद्धो राधेयमभ्ययात्॥ कर्णोऽपि समरे राजन् धर्मपुत्रमरिंदमम्। स शैरश्छादयामास सारथिं चाप्यपातयत्॥ ततः स प्रद्रुतं संख्ये रथं दृष्ट्वा महारथः। अन्वधावत् किरन् बाणैः कङ्कपत्रैरजिह्मगैः॥ राजानमभिधावन्तं शरैरावृत्य रोदसी। क्रुद्धः प्रच्छादयामास शरजालेन मारुतिः॥ संनिवृत्तस्ततस्तूर्णं राधेयः शत्रुकर्शनः। भीमं प्रच्छादयामास समन्तनिशितैः शरैः॥ भीमसेनरथव्यग्रं कर्ण भारत सात्यकिः। अभ्यर्दयदजमेयात्मा पाणिग्रहणकारणात्॥ अभ्यवर्तत कर्णस्तदितोऽपि शरैर्भृशम्। तावन्योन्यं समासाद्य वृषभौ सर्वधन्विनाम्॥ विसृजन्तौ शरान् दीप्तान् व्यभ्राजेता मनस्विनौ। ताभ्यां वियति राजेन्द्र विततं भीमदर्शनम्॥ क्रौञ्चपृष्ठारुणं रौद्रं नाणजालं व्यदृश्यता नैव सूर्यप्रभा राजन् न दिशः प्रदिशस्तथा॥ प्राज्ञासिष्म वयं ते वा शरैमुक्तैः सहस्रशः। मध्याह्ने तपतो राजन् भास्करस्य महाप्रभाः॥ हृताः सर्वाः शरौघैस्तैः कर्णपाण्डवयोस्तदा। सौबलं कृतवर्माणं द्रौणिमाधिरथिं कुपम्॥ संसक्तान् पाण्डवैर्दृष्ट्वा निवृत्ताः कुरवः पुनः। तेषामापततां शब्दस्तीव्र आसीद् विशाम्पते॥ उवृत्तानां यथा वृष्ट्या सागराणां भयावहः। ते सेने भृशसंसक्ते दृष्ट्वान्योन्यं महाहवे॥ हर्षेण महता युक्ते परिगृह्य परस्परम्। ततः प्रववृते युद्धं मध्यं प्राप्ते दिवाकरे॥ तादृश न कदाचिद्धि दृष्टपूर्वं न च श्रुतम्। बलौद्यस्तु समासाद्य बलौघं सहसा रणे॥ उपासर्पत वेगेन वार्योघ इव सागरम्। आसीन्निनादः सुमहान् बाणौघानां परस्परम्॥ गर्जतां सागरौघाणां यथा स्यान्निःस्वनौ महान्। ते तु सेने समासाद्य वेगवत्यौ परस्परम्॥ एकीभावमनुप्राप्ते नद्याविव समागमे। ततः प्रववृते युद्धं घोररूपं विशाम्पते॥ कुरूणां पाण्डवानां च लिप्सतां सुमहद् यशः। शूराणां गर्जतां तत्र ह्यविच्छेदकृता गिरः॥ श्रूयन्ते विविधा राजन् नामान्युद्दिश्य भारत। यस्य यद्धि रणे व्यङ्गं पितृतो मातृतोऽपि वा॥ कर्मतः शीलतो वापि स तच्छ्रावयते युधि। तान् दृष्ट्वा समरे शूरांस्तर्जमानान् परस्परम्॥ अभवन्मे मती राजन् नैषामस्तीति जीवितम्। तेषां दृष्ट्वा तु क्रुद्धानां वपूष्यमिततेजसाम्॥ अभवन्मेभयं तीव्र कथमेतद् भविष्यति। ततस्ते पाण्डवा राजन् कौरवाश्च महारथाः। ततक्षुः सायकैस्तीक्ष्णैर्निजन्तो हि परस्परम्॥ संजय उवाच क्षत्रियास्ते महाराज परस्परवधैषिणः। अन्योन्यं समरे जघ्नुः कृतवैरा: परस्परम्॥ रथौघाश्च हयौघाश्च नरौघाश्च समन्ततः। गजौघाश्च महाराज संसक्ताश्च परस्परम्॥ गदानां परिधाणां च कणपानां च क्षिप्यताम्। प्रासानां भिन्दिपालानां भुशुण्डीनां च सर्वशः॥ सम्पातं चानुपश्याम संग्रामे भृशदारुणे। शलभा इव सम्पेतुः समन्ताच्छरवृष्टयः॥ नागान् नागा: समासाद्य व्यधमन्त परस्परम्। हया हयांश्च समरे रथिनो रशिनस्तथा॥ पत्तयः पत्तिसंघांश्च हयसंघांश्च पत्तयः। पत्तयो रथमातङ्गान् रथा हस्त्यश्वमेव च॥ नागाश्च समरे त्र्यङ्गं ममृदुः शीघ्रगा नृप। वध्यतां तत्र शूराणां क्रोशतां च परस्परम्॥ घोरमायोधनं जज्ञे पशूनां वैशसं यथा। रुधिरेण समास्तीर्ण भाति भारत मेदिना॥ शक्रगोपगणाकीर्णा प्रावृषीव यथा धरा। यथा वा वाससी शुक्के महारञ्जनिञ्जिते॥ बिभृयाद् युवती श्यामा तद्वदासीद् वसुंधरा। मासंशोणितचित्रेव शातुकम्भमयीव च॥ भिन्नानां चोत्तमाङ्गानां बाहूनां चोरुभिः सह। कुण्डालानां प्रवृद्धानां भूषणानां च भारत॥ निष्काणामथ शूराणां शरीराणां च धन्विनाम्। चर्मणां सपताकानां संघास्तत्रापतन् भुवि॥ गजा गजान् समासाद्य विषाणैरार्दयन् नृप। विषाणाभिहतास्तत्र भ्राजन्ते द्विरदास्तथा॥ रुधिरेणावसिक्ताङ्गा गैरिकप्रस्त्रवा इव। यथा भ्राजन्ति स्यन्दन्तः पर्वता धातुमण्डिताः॥ तोमरान् सादिभिर्मुक्तान् प्रतीपानास्थितान् बहून्। हस्तैर्विचेरुस्ते नागा बभञ्जुश्चापरे तथा॥ नाराचैश्छिन्नवर्माणो भ्राजन्ति स्म गजोत्तमाः। हिमागमे यथा राजन् व्यभ्रा इव महीधराः॥ शरैः कनकपुडैश्च चित्रा रेजुर्गजोत्तमाः। उल्काभिः सम्प्रदीप्तायाः पर्वता इव भारत॥ केचिदभ्याहता नागैर्नागा नगनिभोपमाः। विनेशुः समरे तस्मिन् पत्रवन्त इवाद्रयः॥ अपरे प्राद्रवन् नागाः शल्यार्ता व्रणपीडिताः। प्रतिमानैश्च कुम्भैश्च पेतुरुवा॒ महाहवे॥ विनेदुः सिंहवचान्ये नदन्तो भैरवान् रवान्। बभ्रमुर्बहवो राजंश्चक्रुशुश्चापरे गजाः॥ हयाश्च निहता बाणैर्हेमभाण्डविभूषिताः। निषेदुश्चैव मम्लुश्च बभ्रमुश्च दिशो दश॥ अपरे कृष्यमाणाश्च विचेष्टन्तो महीतले। भावान् बहुविधांश्चक्रुस्ताडिताः शरतोमरैः॥ नरास्तु निहता भूमौ कूजन्तस्तत्र मारिष। दृष्ट्वा च बान्धवानन्ये पितॄनन्ये पितामहान्॥ धावमानान् परांश्चान्यान् दृष्टाऽन्ये तत्र भारत। गोत्रनामानि ख्यातानि शशंसुरितरेतरम्॥ तेषां छिन्ना महाराज भुजाः कनकभीषणाः। उद्वेष्टन्ते विचेष्टन्तेपतन्त चोत्पतन्ति च॥ निपतन्ति तथैवान्ये स्फुरन्ति च सहस्रशः। वेगांश्चान्ये रणे चक्रुः पञ्चास्या इव पन्नगाः॥ ते भुजा भोगिभोगाभाश्चन्दनाक्ता विशाम्पते। लोहितार्दा भृशं रेजुस्तपनयध्वजा इव॥ वर्तमाने तथा घोरं संकुले सर्वतोदिशम्। अविज्ञाताः स्म युध्यन्ते विनिघ्नन्तः परस्परम्॥ भौमेन रजसाऽऽकीर्णे शस्त्रसम्पातसंकुले। नैव स्वे न परे राजन् व्यज्ञायन्त तमोवृताः॥ तथा तद्भवद् युद्धं घोररूपं भयानकम्। लोहितोदा महानद्यः प्रसस्रुस्तत्र चासकृत्॥ शीर्षपाषाणसंछन्नाः केशशैवलशाद्वलाः। अस्तिमीनसमाकीर्णा धनुःशरगदोडुपाः॥ मांसशोणितपकिन्यो घोररूपाः सुदारुणाः। नदी:प्रवर्तयामत्सुः शोणितौघविवर्धिनीः॥ भीरुवित्रासकारिण्यः शूराणां हर्षवर्धनाः। ता नद्यो घोररूपास्तु नयन्त्यो यमसादनम्॥ अवगाढान् मजयन्त्यः क्षत्रस्याजनयन् भयम्। क्रव्यादानां नरव्याघ्र नर्दतां तत्र तत्र ह॥ घोरमायोधनं जज्ञे प्रेतराजपुरोपमम्। उत्थितान्यगणेयानि कबन्धानि समन्ततः॥ नृत्यन्ति वै भूतगणाः सुतृप्ता मांसशोणितैः। पीत्वा च शौणितं तत्र वसां पीत्वा च भारत॥ मेदोमजावसामत्तास्तृप्त मांसस्य चैव ह। धावमानाः स्म दृश्यन्ते काकगृघ्रबकास्तथा॥ शूरास्तु समरे राजन् भयं त्यक्त्वा सुदुस्त्यजम्। योघव्रतसमाख्याताश्चक्रुः कर्माण्यभीतवत्॥ शरशक्तिसमाकीर्णे क्रव्यादगणसंकुले। व्यचरन्त रणे शूराः ख्यापयन्तः स्वपौरुषम्॥ अन्योन्यं श्रावयन्ति स्म नामगोत्राणि भारत। पितृनामानि च रणे गोत्रनामानि वा विभो॥ श्रावयाणाश्च बहवस्तत्र योद्धा विशाम्पते। अन्योन्यमवमृद्नन्तः शक्तितोमरपट्टिशैः॥ वर्तमाने तथा युद्धे घोररूपे सुदारुणे। व्यषीदत् कौरवी सेना भिन्ना नौरिव सागरे॥ संजय उवाच वर्तमाने तथा युद्धे क्षत्रियाणां निमञ्जने। गाण्डीवस्य महाघोषः श्रूयते युधि मारिष॥ संशप्तकानां कदनमकरोद् यत्र पाण्डवः। कोसलानां तथा राजन् नारायणबलस्य च॥ संशप्तकास्तु समरे शरवृष्टीः समन्ततः। अपातयन् पार्थमूर्ध्नि जयगृद्धाः प्रमन्यवः॥ ता वृष्टीः सहसा राजंस्तरसा धारयन् प्रभुः। व्यगाहत रणे पार्थो विनिनन् रथिनां वरान्॥ विगाह्य तद् स्थानीकं कङ्कपत्रैः शिलाशितैः। आससाद ततः पार्थः सुशर्माणं वरायुधम्॥ स तस्य शरवर्षाणि ववर्ष रथिनां वरः। तथा संशप्तकाश्चैव पार्थं बाणैः समार्पयन्॥ सुशर्मा तु ततः पार्थं विद्ध्वा दशभिराशुगैः। जनार्दनं त्रिभिर्बाणैरहनद् दक्षिणे भुजे॥ ततोऽपरेण भल्लेन केतुं विव्याध मारिष। स वानरवरो राजन् विश्वकर्मकृतो महान्॥ ननाद सुमहानादं भीषयाणो जगर्ज च। कपेस्तु निनदं श्रुत्वा संत्रस्ता तव वाहिनी॥ भयं विपुलमाधाय निश्चेष्टा समपद्यत। तत: सा शुशुभे सेना निश्चेष्टावस्थिता नृप।॥ नानापुष्पसमाकीर्णं यथा चैत्ररथं वनम्। प्रतिलभ्यं तत: संज्ञां योधास्ते कुरुसत्तम॥ अर्जुनं सिषिचुर्बाणैः पर्वतं जलदा इव। परिवब्रुस्ततः सर्वे पाण्डवस्य महारथम्॥ निगृह्य तं प्रचुक्रुशुर्वध्यामानां शितैः शरैः। ते हयान् रथचक्रे च रथेषां चापि मारिष॥ निग्रहीतुमुपाक्रामन् क्रोधाविष्टाः समन्ततः। निगृह्य तं रथं तस्य योधास्ते तु सहस्रशः॥ निगृह्य बलवत् सर्वे सिंहनादमथानदन्। अपरे जगृहुश्चैव केशवस्य महाभुजौ॥ पार्थमन्ये महाराज रथस्थं जगृहुर्मुदा। केशवस्तु ततो बाहू विधुन्वन् रणमूर्धनि॥ पातयामास तान् सर्वान् दुष्टहस्तीव हस्तिपान्। ततः क्रुद्धो रणे पार्थः संवृतस्तैर्महारथैः॥ निगृहीतं रथं दृष्ट्वा केशवं चाप्यभिद्रुतम्। रथारूढांस्तु सुबहून् पदातींश्चाप्यपातयत्॥ आसन्नांश्च तथा योधान् शरैरासन्नयोधिभिः। छादयामास समरे केशवं चेदमब्रवीत्॥ पश्य कृष्ण महाबाहो संशप्तकगणान् बहून्। कुर्वाणान् दारुणं कर्म वध्यमानान् सहस्रशः॥ रथबन्धमिमं घोरं पृथिव्यां नास्ति कश्चन। यः सहेत पुमाँल्लोके मदन्यो यदुपुङ्गव॥ इत्येवमुक्त्वा बीभत्सुर्देवदत्तमथाधमत्। पाञ्चजन्यं च कृष्णोऽपि पूरयन्निव रोदसी॥ तं तु शङ्खस्वनं श्रुत्वा संशप्तकवरूथिनी। संचचाल महाराज वित्रस्ता चादवद् भृशम्॥ पादबन्धं ततश्चक्रे पाण्डवः परवीरहा। नागमस्त्रं महाराज सम्प्रकीर्य मुहुर्मुहुः॥ ते बद्धाः पादबन्धेन पाण्डवेन महात्मना। निश्चेष्टाश्चाभवन् राजन्नश्मसारमया इव॥ निश्चेष्टास्तुं ततो योधानबधीत् पाण्डुनन्दनः। यथेन्द्रः समरे दैत्यांस्तारकस्य वधे पुरा॥ ते वध्यमानाः समरे मुमुचुस्तं रथोत्तमम्। आयुधानि च सर्वाणि विस्त्रष्टुमुपचक्रमुः॥ ते बद्धाःपादबधेन न शेकुश्चेष्टितुं नृप। ततस्तानवधीत् पार्थः शरैः संनतपर्वभिः॥ सर्वयोधा हि समरे भुजगैर्वेष्टिताभवन्। यानुद्दिश्य रणे पार्थः पादबन्धं चकार ह॥ ततः सुशर्मा राजेन्द्र गृहीतां वीक्ष्य वाहिनीम्। सौपर्णमस्त्रं त्वरित: प्रादुश्चके महारथः॥ तत: सुपर्णाः सम्पेतुर्भक्षयन्तो भुजङ्गमान्। ते वै विदुद्रुवुर्नागा दृष्ट्वा तान् खचरानृप॥ बभौ बलं तद्विमुक्तं पादबन्धाद् विशाम्पते। मेघवृन्दाद् यथा मुक्तो भास्करस्तापयन् प्रजाः॥ विप्रमुक्तास्तु ते योधाः फाल्गुनस्य रथं प्रति। ससृजुर्बाण संघाश्च शस्त्रसंघांश्च मारिष॥ विविधानि च शस्त्राणि प्रत्यविध्यन्त सर्वशः। तां महास्त्रमयीं वृष्टिं संछिद्य शरवृष्टिभिः॥ न्यवधीच ततो योधान् वासविः परवीरहा। सुशर्मा तु ततो राजन् बाणेनानतपर्वणा॥ अर्जुनं हृदये विद्ध्वा विव्याधान्यैस्त्रिभिः शरैः। स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्॥ तत उचुक्रुशुः सर्वे हतः पार्थ इति स्म हो ततः शङ्खनिनादाश्च भेरीशब्दाश्च पुष्कलाः॥ नानावादिनानिनदाः सिंहनादाश्च जज्ञिरे। प्रतिलभ्य ततः संज्ञां श्वेतचाश्वः कृष्णसारथिः॥ ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्ते त्वरान्वितः। ततो बाणसहस्राणि समुत्पन्नानि मारिष॥ सर्वदिक्षु व्यदृश्यन्त निघ्नन्ति तव वाहिनीम्। हयान् रथांश्च समरे शस्त्रैः शतसहस्रशः॥ वध्यमाने ततः सैन्ये भयं सुमहदाविशत्। संशप्तकगणानां च गोपालानां च भारत॥ न हि तत्र पुमान् कश्चिद योऽर्जुनं प्रत्यविध्यत। पश्यतां तत्र वीराणामहन्यत बलं तव॥ हन्यमानमपश्यंश्च निश्चेष्टं स्म पराक्रमे। अयुतं तत्र योधानां हत्वा पाण्डुसुतो रणे॥ व्यभ्राजत महाराज विधूमोऽग्निरिव ज्वलन्। चतुर्दश सहस्राणि यानि शिष्टानि भारत॥ रथानामयुतं चैव त्रिसाहस्त्राश्च दन्तिनः। तत: संशप्तका भूयः परिवर्धनंजयम्॥ मर्तव्यमिति निश्चित्य जयं वाप्यनिवर्तनम्। तत्र युद्धं महवासीत् तावकानां विशाम्पते। शूरेण बलिना सार्धं पाण्डवेन किरीटिना॥ संजय उवाच द्रौणियुधिष्ठिरं दृष्ट्वा शैनेयेनाभिरक्षितम्। द्रौपदेयैस्तथा शूरैरभ्यवर्तत हृष्टवतः॥ किरन्निषुगणान् घोरान् स्वर्णपुङ्खाशिलाशितान्। दर्शयन् विविधान् मार्गान् शिक्षाश्च लघुहस्तवत्॥ ततः खं पूरयामास शरैर्दिव्यास्त्रमन्त्रितैः। युधिष्ठिरं च समरे परिवार्य महास्त्रवित्॥ द्रौणायनिशरच्छन्नं न प्राज्ञायत किञ्चन। बाणभूतमभूत् सर्वमायोधनशिरो महत्॥ बाणजालं दिविच्छन्नं स्वर्णजालविभूषितम्। शुशुभे भरतश्रेष्ठ वितानमिव धिष्ठितम्॥ तेनच्छन्न नभो राजन् बाणजालेन भास्वता। अभ्रच्छायेव संजज्ञे बाणरुद्ध नभस्तले॥ तत्राश्चर्यमपश्याम बाणभूते तथाविधे। न स्म सम्पतते भूतंकिंचिदेवान्तरिक्षगम्॥ सात्यकिर्यतमानस्तु धर्मराजश्च पाण्डवः। तथेतराणि सैन्यानि न स्म चक्रुः पराक्रमम्॥ लाघवं द्रोणपुत्रस्य दृष्ट्वा तत्र महारथाः। व्यस्मयन्त महाराज न चैनं प्रत्युदीक्षितुम्॥ शेकुस्ते सर्वराजानस्तपन्तमिव भास्करम्। वध्यमाने ततः सैन्ये द्रौपदेया महारथाः॥ सात्यकिधर्मराजश्च पञ्चालाश्चाप संगताः। त्यक्त्वा मृत्युभयं घोरं द्रौणायनिमुपाद्रवन्॥ सात्यकिः सप्तविंशत्या द्रौणि विद्ध्वा शिलीमुखैः। पुनर्विव्याध नाराचैः सप्तभिः स्वर्णभूषितैः॥ युधिष्ठिरस्त्रिसप्ततया प्रतिबिध्यश्च सप्तभिः। श्रुतकर्मा त्रिभिर्बाणैः श्रुतकीर्तिश्च सप्तभि॥ सुतसोमस्तु नवभिः शतानीकश्च सप्तभिः। अन्ये च बहवः शूरा विव्यधुस्तं समन्ततः॥ स तु क्रुद्धस्ततो राजन्नाशीविष इव श्वसन्। सात्यकिं पञ्चविंशत्या प्रत्यविध्यच्छिलीमुखैः॥ श्रुतकीर्ति च नवभिः सुतसोमं च पञ्चभिः। अष्टभिः श्रुतकर्माणं प्रतिविध्यं त्रिभिः शरैः॥ शतानीकं च नवभिर्धर्मपुत्रं च पञ्चभिः। तथेतरांस्ततः : शूरान् द्वाभ्यां द्वाभ्यामताडयत्॥ श्रुतकीर्तेस्तथा चापं चिच्छेद निशितैः शरैः। अथान्यद् धनुरादाय श्रुतिकीर्तिर्महारथः॥ द्रौणानि त्रिभिर्विद्ध्वा विव्याधान्यैः शितैः शरैः। ततो द्रौणिर्महाराज शरवर्षेण मारिष॥ छादयामास तत् सैन्यं समन्ताद् भरतर्षभ। ततः पुनरमेयात्मा धर्मराजस्य कार्मुकम्॥ द्रौणिश्चिच्छेद विहसन् विव्याध च शरैस्त्रिभिः। ततो धर्मसुतो राजन् प्रगृह्यान्यन्महद् धनुः॥ द्रौणिं विव्याधं सप्तत्या बाह्वोरुरसि चार्पयत्। सात्यकिस्तु ततः क्रुद्धो द्रौणेः प्रहरतो रणे॥ अर्धचन्द्रेण तीक्ष्णेन धनुश्छित्त्वानदद् भृशम्। छिन्नधन्वा ततो द्रौणिः शक्त्या शक्तिमतां वरः॥ सारथिं पातयामास शैनेयस्य रथा द्रुतम्। अथान्यद् धनुरादाय द्रोणपुत्रः प्रतापवान्॥ शैनेयं शरवर्षेणच्छादयामास भारत! तस्याश्वाः प्रदूताः संख्ये पतिते रथसारथौ॥ तत्र तत्रैव धावन्तः समदृश्यन्त भारत। युधिष्ठिरपुरोगास्तु द्रौणिशस्त्रभृतां वरम्॥ अभ्यवर्षन्त वेगेन विसृजन्तः शिताञ्छरान्। आगच्छमानांस्तान् दृष्ट्वा क्रुद्धरूपान् परंतपः॥ प्रहसन् प्रतिजग्राह द्रोणपुत्रो महारणे। ततः शरशतज्वाल: सेनाकक्षं महारथः॥ द्रौणिर्ददाह समरे कक्षमग्निर्यथा वने। तद् बलं पाण्डुपुत्रस्य द्रोणपुत्रप्रतापितम्॥ चुक्षुभे भरतश्रेष्ठ तिमिनेव नदीमुखम्। दृष्ट्वा चैव महाराज द्रोणपुत्रपराक्रम्॥ निहतान् मेनिरे सर्वान् पाण्डून द्रोणसुतेन् वै। युधिष्ठिरस्तु त्वरितो द्रोणशिष्यो महारथः॥ अब्रवीद् द्रोणपुत्राय रोषमर्षसमन्वितः। नैव नाम तव प्रीत व नाम कृतज्ञता॥ यतस्तवं पुरुषव्याघ्र मामेवाद्य जिघांससि। ब्राह्मणेन तपः कार्ये दानमध्ययनं तथा॥ क्षत्रियेण धनुर्नाम्यं स भवान् ब्राह्मणब्रुवः। मिषतस्ते महाबाहो युधि जेष्यामि कौरवान्॥ कुरुष्व समरे कर्म ब्रह्मबन्धुरसि ध्रुवम्। एवमुक्तो महाराज द्रोणपुत्रः स्मयन्निव॥ युक्तं तत्त्वं च संचिन्त्य नोत्तरं किंचिद्ब्रवीत्। अनुक्त्वा च ततः किंचिच्छरवर्षेण पाण्डवम्॥ छादयामास समरे क्रुद्धोऽन्तक इव प्रजाः। स च्छाद्यमानस्तु तदा द्रोणपुत्रेण मारिष॥ पार्थोऽययातः शीघ्रं वै विहाय महतीं चमूम्। अपयाते ततस्तस्मिन् धर्मपुत्रे युधिष्ठिरे॥ द्रोणपुत्रस्ततो राजन् प्रत्यगात् स महामनाः। ततो युधिष्ठिरो राजंस्तत्यक्त्वा द्रौणिं महाहवे। प्रवयौ तावकं सौन्यं युक्तः क्रूराय कर्मणे॥ संजय उवाच भीमसेन सपाञ्चाल्यं चेदिकेकयसंवृतम्। वैकर्तनःस्वयं रुद्ध्वा वारयामास सायकैः॥ ततस्तु चेदिकारूषान् सृञ्जयांश्च महारथान्। कर्णो जघान समरे भीमसेनस्य पश्यतः॥ भीमसेनस्ततः कर्ण विहाय रथसत्तमम्। प्रयसौ कौरवं सैन्य कक्षमग्निरिव ज्वलन्॥ सूतपुत्रोऽपि समरेपञ्चालन् केकयांस्तथा। सृञ्जयांश्च महेष्वासान् निजधान सहस्रशः॥ संशप्तकेषु पार्थश्च कौरवेषु वृकोदरः। पञ्चालेषु तथा कर्ण क्षयं चक्रुर्महारथाः॥ ते क्षत्रिया दह्यमानास्त्रिभिस्तैः पावकोपमैः। जग्मुर्विनाश समरे राजन् दुर्मत्रिते तव॥ ततो दुर्योधनः क्रुद्धो नकुलं नवभिः शरैः। विव्याध भरतश्रेष्ठ चतुरश्चास्य वाजिनः॥ ततः पुनरमेयात्मा तव पुत्रो जनाधिप। क्षुरेण सहदेवस्य ध्वजं चिच्छेद काञ्चनम्॥ नकुलस्तु ततः क्रुद्धस्तव पुत्रं च सप्तभिः। जघान समरे राजन् सहदेवश्च पञ्चभिः॥ तावुभो भरतश्रेष्ठौ ज्येष्ठौ सर्वधनुष्मताम्। विव्याधोरसि संक्रुद्धः पञ्चभिः पञ्चभि शरैः॥ ततोऽपराभ्यां भल्लाभ्यां धनुषी समकृन्तत। यमयोः सहसा राजन् विव्याध च त्रिसप्तभिः॥ तावन्ये धनुषी श्रेष्ठे शक्रचापनिभे शुभे। प्रगृह्य रेजतुः शूरौ देवपुत्रसौ युधि॥ ततस्तौ रभसौ युद्धे भ्रातरौ भ्रातरं युधि। शरैर्ववृषतुोरैर्महामेघो यथाऽचलम्॥ ततः क्रुद्धो महाराज तव पुत्रो महारथः। पाण्डुपुत्रौ महेष्वासौ वारयामास पत्रिभिः॥ धनुर्मण्डलमेवास्य दृश्यते युधि भारत। सायकाश्चैव दृश्यते निश्चरन्तः समन्ततः॥ आच्छादयन् दिशः सर्वाः सूर्यस्येवांशवो यथा। बाणभूते ततस्तस्मिन् संछन्ने च नभस्तले॥ यमाभ्यो ददृशे रूपं कालान्तकयमोपमम्। पराक्रमं तु तं दृष्ट्वा तर सूनोर्महारथाः॥ मृत्योरुपान्तिकं प्राप्तौ मादीपुत्रौ स्म मेनिरे। ततः सेनापती राजन् पाण्डवस्य महारथः॥ पार्षतःप्रयसौ तत्र यत्र राजा सुयोधनः। माद्रीपुत्रौ ततः शूरौ व्यतिक्रम्य महारथौ।॥ धृष्टद्युम्नस्तव सुतं वारयामास सायकैः। तमविध्यदमेयात्मा तव पुत्रो ह्यमर्षणः॥ पाञ्चाल्यं पञ्चविंशत्या प्रहसन पुरुषर्षभः। ततः पुनरमेयात्मा तव पुत्रो ह्यमर्षणः॥ विद्ध्वा ननाद् पाञ्चाल्यं षष्ट्या पञ्चभिरेव च। तथास्य सशरं चापं हस्तावापं च मारिष॥ क्षुरप्रेण सुतीक्ष्णेन राजा चिच्छेद संयुगे। तदपास्य धनुश्छिन्नं पाञ्चाल्यः शत्रुकर्शनः॥ अन्यदादत्त वेगेन धनुर्भारसहं नवम्। प्रज्वलन्निव वेगेन संरम्भाद रुधिरेक्षणः॥ अशोभत महेष्वासो धृष्टद्युम्नः कृतव्रणः। स पञ्चदश नाराचाश्वसतः पन्नगानिव॥ जिघांसुर्भरतश्रेष्ठं धृष्टद्युम्नो व्यपासृजत्। ते वर्म हेमविकृतं भित्वा राज्ञः शिलाशिताः॥ विविशुर्वसुधां वेगात् कङ्कबर्हिणवाससः। सोऽतिविद्धो महाराज पुत्रस्तेऽतिव्यराजत॥ वसन्तकाले सुमहान् प्रफुल्ल इव किंशुकः। सच्छिन्नवर्मा नाराचप्रहारैर्जर्जरीकृतः॥ धृष्टद्युम्नस्य भल्लेन क्रुद्धश्चिच्छेद कार्मुकम्। अथैनं छिन्नधन्वानं त्वरमाणो महीपतिः॥ सायकैर्दशभी राजन् भ्रुवोर्मध्ये समार्पयत्। तस्य तेऽशोभयन् वक्त्रं कर्मारपरिमार्जिताः॥ प्रफुल्लं पङ्कजं यद्वद् भ्रमरा मधुर्लिप्सवः। तदपास्य धनुश्छिन्नं धृष्टद्युम्ना महामनाः॥ अन्यदादत्त वेगेन धनुर्भल्लांश्च षोडशा ततो दुर्योधनस्याश्चन् हत्वा सूतं च पश्चभिः॥ धनुश्चिच्छेद भल्लेन जातरूपपरिष्कृतम्। रथं सोपस्करं छत्रं शक्तिं खङ्गं गदां ध्वजम्॥ भल्लैचिच्छेद दशभिः पुत्रस्य तव पार्षतः। तपनीयाङ्गदं चित्रं नागं मणिमयं शुभम्॥ ध्वजं कुरुपतेच्छिन्नं ददृशुः सर्वपार्थिवाः। दुर्योधन तु विरथं छिन्नवर्मायुधं रणे॥ भ्रातरः पर्यरक्षन्त सोदरा भरतर्षभा तमोरोप्य रथे राजन् दण्डधारो नराधिपमः॥ अपाहरदसम्भ्रान्तो धृष्टद्युम्नस्य पश्यतः। कर्णस्तु सात्यकि जित्वां राजगृद्धी महाबलः॥ द्रोणहन्तारमुग्रेषु ससारभिमुखो रणे। तं पृष्ठतोऽभ्ययात् तूर्णं शैनेयो वितुदञ्छरैः॥ वारणं जघनोपान्ते विषाणाभ्यामिव द्विपः। स भारत महानासीद् योधानां सुमहात्मनाम्॥ कर्णपार्षतयोर्मध्ये त्वदीयानां महारणः। न पाण्डवानां नास्माकं योधः कश्चित् पराङ्मुखः॥४० प्रत्यदृश्यत् ततः कर्णः पञ्चालांस्त्वरितो ययौ। तस्मिन् क्षणे नरश्रेष्ठ गजवाजिजनक्षयः॥ प्रादुरीसादुभयतो राजन् मध्यगतेऽहनि। पञ्चालास्तु महाराज त्वरिता विजिगीषवः॥ ते सर्वेऽभ्यद्रवन कर्णं पतित्रिण इव दुमम्। तांस्तथाधिरथि: क्रुद्धो यतमानान् मनस्विनः॥ विचिन्वन्निव बाणौथैः समासादयदग्रगान्। व्याघ्रकेतुं सुशर्माणं चित्रं चोग्रायुधं जयम्॥ शुक्वं च रोचमानं च सिंहसेनं च दुर्जयम्। ते वीरा रथमार्गेण परिवर्नरोत्तमम्॥ सृजन्त सायकान् क्रुद्धं कर्णमाहवशोभिनम्। युध्यमानांस्तु तान् दूरान्मनुजेन्द्र प्रतापवान्॥ अष्टभिरष्टौ राधेयोऽभ्यर्दयनिशितैः शरैः। अथापरान् महाराज सूतपुत्रः प्रतापवान्॥ जघान् बहुसाहस्रान् योधान् युद्धविशारदान्। जिष्णुं च जिष्णुकर्माणं देवापि भद्रमेव च।॥ दण्डं च राजन् समरे चित्रं चित्रायुधं हरिम्। सिंहकेतुं रोचमान् शलभं च महारथम्॥ निजधान सुसंक्रुद्धश्चेदीनां त महारथान्। तेषामाददतः प्राणानासीदाधिरथेवपुः॥ शोणिताभ्युक्षिताङ्गस्य रुद्रस्येवोर्जितं महत्। तत्र भारत कर्णेन मातङ्गास्ताडिताः शरैः॥ सर्वतोऽभ्यद्रवन् भीताः कुर्वन्तो महदाकुलम्। निपेतुरुर्व्य समरे कर्णसायकताडिताः॥ कुर्वन्तो विविधान् नादान् वज्रनुन्ना इवाचलाः। गजवाजिनमनुष्यैश्च निपतद्भिः समन्ततः॥ रथैश्चाधिरथेर्मार्गे समास्तीर्यत मेदिनी। नैवं भीष्मो न च द्रोणो नान्ये युधि च तावकाः॥५४ चक्रुः स्म तादृशं सर्म यादृशं वै कृतं रणे। सूतपुत्रेण नागेषु हयेषु त रथेषु च॥ नरेषु च महाराज कृतं स्म कदनं महत्। मृगमध्ये यथा सिंहो दृश्यते निर्भयश्चरन्॥ पञ्चालानां तथा मध्ये कर्णोऽचरदभीतवत् । यथा मृगगणांस्त्रस्तान सिंहो द्रावयते दिशः॥ पञ्चालानां रथवातान् कर्णो व्यद्रावयत् तथा। सिहास्यं च यथा प्राप्य न जीवन्ति मृगाः क्वचित्।। तथा कर्णमुप्राप्य न जिजीवुर्महारथाः। वैश्वानरं यथा प्राप्य प्रतिदह्यन्ति वै जनाः॥ कर्णाग्निना रणे तद्वद् दग्धा भारत सृञ्जयाः। कर्णेन चेदिकैकेयपाञ्चालेषु च भारत॥ विश्राव्य नाम निहता बहवः शूरसम्मताः। मम चासीन्मती राजन् दृष्ट्वा कर्णस्य विक्रमम्॥ नैकोऽप्याधिरथेर्जीवन् पाञ्चाल्यो मोक्ष्यते युधि। पञ्चालान् व्यधमत् संख्ये सूतपुत्रः पुनः पुनः॥ पञ्चालानथ निघ्नन्तं कर्णं दृष्ट्वा महारणे। अभ्यधावत् सुसंक्रुद्धो धर्मराजो युधिष्ठिरः॥ धृष्टद्युम्नश्च राधेयं द्रौपदेयाश्च मारिष परिवब्रुरमित्रघ्नं शतशश्चापरे जनाः॥ शिखण्डी सहदेवश्च नकुलो नाकुलिस्तथा। जनमेजयः शिरेर्नप्ता बहवश्च प्रभद्रकाः॥ एते पुरोगमा भूत्वा धृष्टद्युम्नस्य संयुगे। कर्णमस्यन्तमिध्वस्त्रैर्विचेरुरमितौजसः॥ तांस्तत्राधिरथिः संख्ये चेदिपाञ्चालपाण्डवान्। एको बहूनभ्यपतद् गरुत्मान् पन्नगानिव॥ तैः कर्णस्याभवद् युद्धं घोररूपं विशाम्पते। तादृग् याद्दक् पुरा वृत्तं देवानां दानवैः सह॥ तान् समेतान् महेष्वासाशरवर्षांघवर्षिणः। एको व्यधमदाव्यग्रस्तमांसीव दिवाकरः॥ भीमसनस्तु संसक्ते राधेये पाण्डवैः सह। सर्वतोऽभ्यहनत् क्रुद्धो यमदण्डनिभैः शरैः॥ वाह्रीकान् केकयान् मत्स्यान् वासात्यान् मद्रसैन्धवान्। एक: संख्ये महेष्वासो योधयन् बह्वशोभत। तत्र मर्मसु भीमेन नाराचैस्ताडिता गजाः॥ प्रपतन्तो हतारोहाः कम्पयन्ति स्म मेदिनाम्। वाजिनश्च हतारोहा: पत्तयश्च गतासवः॥ शेरते युधि निर्भिन्ना वमन्तो रुधिरं बहु। सहस्रशश्च रथिनः पातितः पतितायुधाः॥ ते क्षताः समदृश्यन्त भीमभीता गतासवः। रथिभिः सादिभिः सूतैः पादातैर्वाजिभिर्गजैः॥ भीमसेनशरैश्छिन्नराच्छन्ना वसुधामवत्। तत् स्तम्भितमिवातिष्ठद् भीमसेनभयादितम्॥ दुर्योधन बलं सर्वं निरुत्साहं कृतव्रणम्। निश्चेष्टं तुमुलं दीनं वभौ तस्मिन् महारणे॥ प्रसन्नसलिले काले यथा स्यात् सागरो नृप। तद्वत् तव बलं तद् वै निश्चलं समवस्थितम॥ मन्युवीर्यबलोपेतं दर्पात् प्रत्यवरोपितम्। अभवत् तव पुत्रस्य तत् सैन्यं निष्प्रभं तदा॥ तद् बलं भरतश्रेष्ठ वध्यमानं परस्परम्। रुधिरौघपरिक्किन्नं रुधिरा, बभूव ह ॥ जगाम भरतेश्रेष्ठ वध्यमानं परस्परम्। सूतपुत्रो रणे क्रुद्धः पाण्डवानापनीकिनीम्॥ भीमसेनः कुरुश्चापि द्रावयन्तौ विरेजतुः। वर्तमाने तथा रौद्रे संग्रामेऽद्भुतदर्शने॥ निहंत्य पृतनामध्ये संशप्तकगणान् बहून्। अर्जुनो जयतां श्रेष्ठो वासुदेवमताब्रवीत्॥ प्रभग्नं बलमेतद्धि योत्स्यमानं जनार्दन। एते द्रवन्ति सगणा: संशप्तकमहारथाः॥ अपारयन्तो मद्वाणान् सिंहशब्दं मृगा इव। दीर्यते चमहत् सैन्यं सृञ्जयानां महारणे॥ हस्तिकक्षो ह्यसौ कृष्ण केतुः कर्णस्य धीमतः। दृश्यते राजसैन्यस्य मध्ये विचरतो मुदा॥ न च कर्णं रणे शक्ता जेतुमन्ये महारथाः। कर्ण वीर्यवन्तं पराक्रमे॥ जानीते हि भवान् तत्र याहि यतः कर्णो द्रावयत्येष नो बलम्। वर्जयित्वा रणे याहि सूतपुत्रं महारथम्॥ एतन्मे रोचते कृष्ण यथा वा तव रोचते। एतच्छ्रुत्वा वचस्तस्य गोविन्दः प्रहसन्निव॥ अब्रवीदर्जुनं तूर्ण कौरवाञ्जहि पाण्डव। ततस्तव महासैन्यं गोविन्दप्रेरिता हयाः॥ हंसवर्णाः प्रविविशुर्वहन्तः कृष्णपाण्डवौ। केशवप्रेरितैरश्वैः श्वेतैः काञ्चनभूषणैः॥ प्रविशद्भिस्तव बलं चतुर्दिशमभिट्टात। मेघस्तनितनिर्हादः स रथो वानरध्वजः॥ चलत्पताकस्तां सेनां विमानं द्यामिवविशत्। तौ विदार्य महासेनां प्रविष्टौ केशवार्जुनौ॥ क्रुद्धौ संरम्भरक्ताक्षौ व्यभ्राजेतां महाद्युती। युद्धशौण्डी समाहूतावागतौ तौ रणाध्वरम्॥ यज्वभिर्विधिनाहूतौ मखे देवाविवाश्विनौ। क्रुद्धौ तौ तु नरव्याघ्रौ वेगवन्तौ बभूवतुः॥ तलशब्देन रुषितौ यथा नागौ महावने। विगाह्य तु स्थानीकमश्वसंघांश्च फाल्गुनः॥ व्यचरत् पृतनामध्ये पाशहस्त इवान्तकः। तं दृष्ट्वा युधि विक्रान्तं सेनायां तव भारत॥ संशप्तकगणान् भूयः पुत्रस्ते समचूचुदत्। ततो रथसहस्रेण द्विरदानां त्रिभिः शतैः॥ चतुर्दशसहस्रेस्तु तुरगाणां महाहवे। द्वाभ्यां शतसहस्राभ्यं पदातीनां च धन्विनाम्॥ शूराणांबल्धलक्ष्याणां विदितानां समन्ततः। अभ्यवर्तन्त कौन्तेयं छादयन्तो महारथाः॥ शरवर्षेमहाराज सर्वतः पाण्डुनन्दनम्। स च्छाद्यमानः समरे शरैः परबलार्दनः॥ दर्शयन् रौद्रमात्मानं पाशहस्त इवान्तकः। निघ्नन् संशप्तकान् पार्थः प्रेक्षणीयतरोऽभवत्॥ ततो विद्युत्प्रभैर्बाणैः कार्तस्वरविभूषितैः। निरन्तरमिवाकाशमासीच्छन्नं किरीटिना॥ किरीटिभुजनिर्मुक्तैः सम्पतद्भिर्महाशरैः। समाच्छन्नं बभौ सर्वं काद्रवेयैरिव प्रभो॥ रुक्मपुङ्खान् प्रसन्नाग्राञ्छरान् संनतपर्वणः। अवासृजदमेयात्मा दिक्षु सर्वासु पाण्डवः॥ मही वियद् दिशः सर्वाः समुद्रा गिरयोऽपि वा। स्फुटन्तीति जना जजुः पार्थस्य तलनिःस्वनात्।। १०५ हत्वा दशसहस्राणि पार्थिवानां महारथः। संशप्तकानां कौन्तेयः प्रत्यक्षं त्वरितोऽभ्ययात्॥ प्रत्यक्षं च समासाद्य पार्थः काम्बोजरक्षितम्। प्रममाथ बलं बाणैर्दनवानिव वासवः॥ प्रचिच्छेदाशु भल्लेन द्विषतामाततायिनाम्। शस्त्रं पाणिं तथा बाहुं तथापि च शिरांस्युत॥ अङ्गाङ्गावयवैश्छिन्नायुधास्तेऽपतन भुवि। विष्वग्वाताभिसम्भग्ना बहुशाखा इव द्रुमाः॥ हस्त्यश्वरथपत्तीनां वातान् निनन्तमर्जुनम्। सुदक्षिणादवरजः शरवृष्ट्याभ्यवीवृषत्॥ तस्यास्यतोऽर्धचन्द्राभ्यां बाहू परिघसंनिभौ। पूर्णचन्द्राभवक्त्रं च क्षेरेणाभ्यहरच्छिरः॥ स पपात ततो वाहात् सुलोहितपरिस्त्रवः। मनःशिलागिरेः शृङ्गं वज्रेणोवावदारितम्॥ सुदक्षिणादवरजं काम्बोजं ददृशुर्हतम्। प्रांशु कमलपत्राक्षमत्यर्थं प्रियदर्शनम्॥ काञ्चनस्तम्भसदृशं भिन्नं हेमगिरिं यथा। ततोऽभवत् पुनर्युद्धं घोरमत्यर्थमद्भुतम्॥ नानावस्थाश्च योधानां बभूवस्तत्र युद्धयताम्। एकेषुनिहतैरश्वैः काम्बोजैर्यवनैः शकैः॥ शोणिताक्तैस्तदा रक्तं सर्वमासीद् विशाम्पते। स्थताश्वसूतैश्च हतारोहैश्च वाजिभिः॥ द्विरदैश्च हतारोहमहामात्रैर्हतद्विपैः। अन्योन्येन महाराज कृतो घोरो जनक्षयः॥ तस्मिन् प्रपक्षे पक्षे च निहते सव्यसाचिना। अर्जुनं जयता श्रेष्ठं त्वरितो द्रौणिरभ्ययात्॥ विधुन्वानो महचापं कार्तस्वरविभूषितम्। आददानः शरान् घोरान् स्वरश्मीनिव भास्करः॥११९ क्रोधामर्षविवृत्तास्यो लोहिताक्षो बभौ बली। अन्तकाले यथा क्रुद्धो मृत्युः किङ्करदण्डभृत्॥ ततः प्रासृजदुग्राणि शरवर्षाणि संघशः। तैर्विसृष्टैर्महाराज व्यद्रवत पाण्डवी चमूः॥ स दृष्टैव तु दासार्ह स्यन्दनस्थं विशाम्पते। पुनः प्रासृजदुग्राणि शरवर्षाणि मारिष॥ तैः पतद्भिर्महाराज द्रौणिमुक्तैः समन्ततः। संछादितौ रथस्थौ तावुभौ कृष्णधनंजयौ॥ ततः शरशतैस्तीक्षणैरश्वत्थामा प्रतापवान्। निश्चैष्टौ तावुभौ युद्धे चक्रे माघवपाण्डवौ॥ हाहाकृतमभूत सर्व स्थावरं जङ्गम् तथा। चराचरस्य गोप्तारौ संछादितौ शरैः॥ सिद्धचारणसंघाश्च सम्पेतुस्ते समन्ततः। चिन्तयन्तो भवेदद्य लोकानां स्वस्तयपीति च॥ न मया तादृशो राजन् दृष्टपूर्वः पराक्रमः। संग्रामे यादृशो द्रौणेः कृष्णौ संचादयिष्यतः॥ द्रौणेस्तु धनुषः शब्दमहितत्रासनं रणे। अश्रौषं बहुशो राजन् सिंहस्य निनदो यता॥ ज्या चास्य चरतो युद्धे सव्यदक्षिणमस्यतः। विद्युतम्बुदमध्यस्था भ्राजमानेव साभवत्॥ स तथा क्षिप्रकारी च दृढहस्तश्च पाण्डवः। प्रमोहं परमं गत्वा प्रेक्ष्य तं द्रोणजं ततः॥ विक्रम विहतं मेन आत्मनः स महायशाः। तस्यास्य समरे राजन् वपुरासीत् सुदुद्देशम्॥ द्रौणिपाण्डवयोरेवं वर्तमाने महारणे। वर्धमाने च राजेन्द्र द्रोणपुत्रे महाबले॥ हीयमाने च कौन्तेये कृष्णे रोषः समाविशत्। स रोषान्निःश्वसन् राजन् निर्दहन्निव चक्षुषा॥ द्रौणि ह्यपश्यत् संग्रामे फाल्गुनं च मुहर्मुहुः। ततः क्रुद्धोऽब्रवीत् कृष्णः पार्थ सप्रणयं तदा॥ अत्यद्भुतमिदं पार्थ तव पश्यामि संयुगे। अतिशेते हि यत्र त्वां द्रोणपुत्रोऽद्य भारत॥ कचिद् वीर्यं यथापूर्वं भुजयोर्वा बलं तव। कचित् ते गाण्डिवं हस्ते रथे तिष्ठसि चार्जुन॥ कचित् कुशालिनौ बाहू मुष्टिर्वा न व्यशीर्यत। उदीर्यमाणं हि रणे पश्यामि द्रौणिमाहवे॥ गुरुपुत्र इति ह्येनं मानयन् भरतर्षभ। उपेक्षा कुरु मा पार्थ नायं काल उपेक्षितुम्॥ एवमुक्तस्तु कृष्णेन गृह्य भल्लांश्चतुर्दश। त्वरमाणस्तवराकाले द्रौणेर्धनुरथाच्छिनत्॥ ध्वजं छत्रं पताकाश्च खङ्ग शक्तिं गदां तथा। जत्रुदेशे च सुभृशं वत्सदन्तैरताडयत्॥ स मूर्छा परमां गत्वा ध्वजयष्टिं समाश्रितः। तं विसंज्ञं महाराज शत्रुणा भृशपीडितम्॥ अपोवाह रणात् सूतो रक्षमाणो धनंजयात्। एतस्मिन्नेव काले च विजयः शत्रुतापनः॥ व्यहनत् तावकं सैन्यं शतशोऽथ सहस्रशः। पश्यतस्तस्य वीरस्य तव पुत्रस्य भारत॥ एवमेष क्षयो वृत्तस्तावकानां परैः सह। क्रूरो विशसनो घोरो राजन् दुर्मत्रिते तव॥ संशप्तकांश्च कौन्तेयः कुरूंश्चापि वृकोदरः। वसुषेणश्च पञ्चालान् क्षणेन व्यधमद् रणे॥ वर्तमाने तथा रौद्रे राजन् वीरवरक्षये। उत्थितान्यगणेयानि कबन्धानि समन्ततः॥ युधिष्ठिरोऽपि संग्रामे प्रहारर्गाढवेदनः। क्रोशमात्रमपक्रम्य तस्थौ भरतसत्तमः॥ संजय उवाच दुर्योधन कर्णमुपेत्य भरतर्षभ। अब्रवीन्मद्रराजं च तथैवान्यांश्च पार्थिवान्॥ यदृच्छयैतत् सम्प्राप्तं स्वर्गद्वारमपावृतम्। सुखिनः क्षत्रियाः कर्ण लभन्ते युद्धमीदृशम्॥ सदृशैः क्षत्रियैः शूरैः शूराणां युद्धतां युधि। इष्टं भवति राधेय तदिदं समुपस्थितम्॥ हत्वा च पाण्डवान् युद्धे स्फीतामुर्वीमवात्स्यथ। निहता वा परैयुद्धे वीरलोकमवाप्स्यथ॥ दुर्योधनस्य तच्छ्रुत्वा वचनं क्षत्रियर्षभाः। हृष्टा नादानुदक्रोशन् वादित्राणि च सर्वशः॥ ततः प्रमुदिते तस्मिन् दुर्योधन बले तदा। हर्षयंस्तावकान् योधान् द्रौणिर्वचनमब्रवीत्॥ प्रत्यक्षं सर्वसैन्यानां भवतां चापि पश्यताम्। न्यस्तशस्त्रौ मम पिता धृष्टद्युम्नेन पातितः॥ स तेनाहममर्षेण मित्रार्थे चापि पार्थिवाः। सत्यं वः प्रतिजानामि तद् वाक्यं मे निबोधत॥ धृष्टद्युम्नमहत्वाहं न विमोक्ष्यामि दंशनम्। अनृतायां प्रतिज्ञायां नाहं स्वर्गमवाप्नुयाम्॥ अर्जुनो भीमसेनश्च योधो यो रक्षिता रणे। धृष्टद्युम्नस्य तं संख्ये निहनिष्यामि सायकैः॥ एवमुक्ते ततः सर्वा सहिता भारतीचमूः। अभ्यद्रवत कौन्तेयांस्तथा ते चापि पाण्डवाः॥ स संनिपातो रथयूथपानां बभूव राजन्नतिभीमरूपः। जनक्षयः कालयुगान्तकल्पः प्रावर्तताग्ने कुरसृञ्जयानाम्॥ ततः प्रवृत्ते युधि सम्प्रहारे भूतानि सर्वाणि सदैवतानि। दिदृक्षमाणानि नरप्रवीरान्॥ दिव्यैश्च रत्नैर्विविधैर्नराग्र्यान्। नवाकिरन्नप्सरसः प्रहृष्टाः॥ समीराणस्तांश्च निषेव्य गन्धान् सिषेव सर्वानपि योधमुख्यान्। निषेव्यमाणास्तवनिलेन योधाः परस्परांना धरणी निपेतुः॥ सा दिव्यमाल्यैरवकीर्यमाणा सुवर्णपुढेश्च शरैर्विचित्रैः। नक्षत्रसंधैरिव चित्रिता द्यौः क्षितिर्बभौ योधवरैर्विचित्रा॥ र्वादित्रघोषैः समुदीर्यमाणः। ज्योघोषनेमिस्वननदचित्र: समाकुलः सोऽभवत् संप्रहारः॥ र्वादित्रघोषैः समुदीर्यमाणः। ज्योघोषनेमिस्वननदचित्र: समाकुलः सोऽभवत् संप्रहारः॥ संजय उवाच एवमेष महानासीत् संग्रामः पृथिवीक्षिताम्। क्रुद्धेऽर्जुने तथा कर्णे भीमसेने च पाण्डवे॥ द्रोणपुत्रं पराजित्य जित्वा चान्यान् महारथान्। अब्रवीदर्जुनो राजन् वासुदेवमिदं वचः॥ चमूम्॥ कर्ण पश्य च संग्रामे कालयन्तं महारथान्॥ न च पश्यामि दाशार्ह धर्मराज युधिष्ठिरम्। नापि केतुर्युधा श्रेष्ठ धर्मराजस्य दृश्यते॥ त्रिभागश्चावशिष्टोऽयं दिवसस्य जनार्दन। न च मां धार्तराष्ट्रेषु कचिद युध्यति संयुगे॥ तस्मात् त्वं मत्प्रियं कुर्वन् याहि यत्र युधिष्ठिरः। दृष्ट्वा कुशलिनं युद्धे धर्मपुत्रं सहानुजम्॥ पुनर्योद्धास्मि वार्ष्णेय शत्रुभिः सं संयुगे। ततः प्रायाद् रथेनाशु बीभत्सोर्वचनाद्धरिः॥ यतो युधिष्ठिरो राजा सृञ्जयाश्च महारथाः। अयुध्यस्तावकैः सार्धं मृत्युं कृत्वा निवर्तनम्॥ तत: संग्रामेभूमि तां वर्तमाने जनक्षये। अवेक्षमाणो गोविन्दः सव्यसाचिनमब्रवीत्।॥ पश्य पार्थ महारौद्रो वर्तते भरतक्षयः। पृथिव्यां क्षत्रियाणां वै दुर्योधन महान्॥ पश्य भारत चापानि रुक्मपृष्ठानि धन्विनाम्। मृतानामपविद्धानि कलापांश्च महाधनान्॥ जातरूपमयैः पुढेः शरांश्चानतपर्वणः। तैलधौतांश्च नाराचान् निर्मुक्तान् पन्नगानिव॥ हस्तिदन्तत्सरून् खङ्गान् जातरूपरिष्कृतान्। वर्माणि चापविद्धानि रुक्मगर्भाणि भारत॥ सुवर्णविकृतान् प्रासाशक्तीः कनकभूषणाः। जाम्बूनमयैः पट्टैर्बद्धाश्च विपुला गदाः॥ जातरूपमयीश्चर्टीः पट्टिशान् हेमभूषणान्। दण्डैः कनकचित्रैश्च विप्रविद्धान् परश्वधान्॥ अयःकुन्तांश्च पतितान् मुसलानि गुरूणि च। शतघ्नी: पश्य चित्राश्च विपुलान् परिघांस्तथा॥ चक्राणि चापविद्धानि तोमरांश्च महारणे। नानाविधानि शस्त्राणि प्रगृह्य जयगृद्धिनः॥ जीवन्त इव दृश्यन्ते गततत्त्वासनस्विनः। गदाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकान्॥ गजवाजिरथक्षुण्णान् पश्य योधान् सहस्रशः। मनुष्यहयनागानां शरशक्तवृष्टिपट्टिशैः॥ परिवैरायसैोरैरयस्कुन्तैः परश्वधैः। शरीरैर्बहुभिश्छिन्नैः शोणितौघपरिप्लुतैः॥ गतासुभिरमित्रघ्न संवृता रणभूमयः। बाहुभिश्चन्दनादिग्धैः साङ्गदैर्हेमभूषितैः॥ सतलवैः सकेयूरै ति भारत मेदिना। साङ्गुलित्रैर्भुजायैश्च विप्रविरिलंकृतैः॥ हस्तिहस्तोपमैश्छिन्नरूरुभिश्च तरस्विनाम्। बद्धचूडामणिवरैः शिरोभिश्च सकुण्डलैः॥ पतितैर्ऋषभाक्षाणां विराजति वसुंधरा। कबन्धैः शोणितादिग्धैश्छिन्नगात्रशिरोधरैः॥ भूर्भाति भरतश्रेष्ठ शान्तार्चिभिरिवाग्निभिः। रथांश्च बहुधा भग्नान् हेमकिङ्किणिनः शुभान्॥ वाजिनश्च हतान् पश्य निष्कीर्णान्त्राशराहतान्। अनुकर्षानुपासंगान् पताका विविधध्वजान्॥ रथिनां च महाशङ्खान् पाण्डुरांश्च प्रकीर्णकान्। निरस्तजिह्वान् मातङ्गासयानान् पर्वतोपमान्॥ वैजयन्तीविचित्राश्च हतांश गजवाजिनः। वारणानां परिस्तोमांस्तथैवाजिनकम्बलान्॥ विपाटितविचित्रांश्च रूप्यचित्रान् कुथाङ्कुशान्। भिन्नाश्च बहुधा घण्टा महद्भिः पतितैर्गजैः॥ वैदूर्यदण्डांश्च पतिताङ्कुशान भुषि। बद्धाः सादिभुजाग्रेषु सुवर्णविकृताः कशाः॥ विचित्रमणिचित्रांश्च जातरूपपरिष्कृतान्। अश्वास्तरपरिस्तोमान् राङ्कवान् पतितान् भुवि॥ चूडामणीन् नरेन्द्राणां विचित्राः काञ्चनस्त्रजः। छत्राणि चापविद्धानि चामरव्यजनानि च॥ चन्द्रनक्षत्रभासैश्च वदनैश्चारुकुण्डलैः। क्लृप्तश्मश्रुभिरत्यर्थ वीराणां समलंकृतैः॥ वदनैः पश्य संछन्नां महीं शोणितकर्दमाम्। सजीवांश्चापरान् पश्य कूजमानान् समन्ततः॥ उपास्यमानान् बहुशो न्यस्तशस्त्रैर्विशाम्पते। ज्ञातिभिः सहितांस्तत्र रोदमानैर्मुहुर्मुहुः॥ व्युतक्रान्तानपरान् योधांश्छादयित्वा तरस्विनः। पुनर्युद्धाय गच्छन्ति जयगृद्धाःप्रमन्यवः॥ अपरे तत्र तत्रैव परिधावन्ति मानवः। ज्ञातिभि:पतितैः शूरैर्याच्यमानास्ततोदकम्॥ जलार्थं च गताः केचिन्निष्प्राण बहवोऽर्जुन। संनिवृत्ताश्च ते शूरास्तान् वै दृष्ट्वा विचेतसः॥ जलं त्यक्त्वा प्रधावन्ति क्रोशमानाः परस्परम्। जलं पीत्वा मृतान् पश्य पिबतोऽन्यांश्च मारिष॥ परित्यज्य प्रियानन्ये बान्धवान् बान्धवप्रियाः। व्युत्क्रान्ता:समदृश्यन्त तत्र तत्र महारणे॥ तथापरान् नरश्रेष्ठ संदष्टौष्ठपुटान् पुनः। भृकुटीकुटिलैर्वक्त्रैः प्रेक्षमाणान् समन्ततः॥ एवं बुवंस्तदा कृष्णो ययौ यत्रयुधिष्ठिरः। अर्जुनश्चापि नृपतेदर्शनार्थं महारणे॥ याहि याहिति गोविन्दं मुहुर्मुहुरचोदयत्। तां युद्धभूमिं पार्थस्य दर्शयित्वा च माधवः॥ त्वरमाणस्ततः कृष्णः पार्थमाह शनैरिदम्। पश्य पाण्डव राजानमुपयातांश्च पार्थिवान्॥ कर्ण पश्य महारङ्गे ज्वलन्तमिव पावकम्। असौ भीमो महेष्वासः सनिवृत्तो रणं प्रति॥ तमेते विनिवर्तन्ते धृष्टद्युम्नपुरोगमाः। पाञ्चालसृञ्जयानां च पाण्डवानां च ये मुखम्॥ निवृत्तैश्च पुनः पार्थेर्भग्नं शत्रुबलं महत्। कौरवान् द्रवतो ह्येष कर्णो रोधयतेऽर्जुन॥ अन्तकप्रतिमो वेगे शक्रतुल्यपराक्रमः। असौ गच्छति कौरव्य द्रौणिः शस्त्रभूतां वरः॥ तमेव पुदुतं संख्ये धृष्टद्युम्नो महारथः। अनुप्रयाति संग्रामे हतान् पश्य चसृञ्जयान्॥ सर्वमाह सुदुर्धर्षो वासुदेवः किरीटिने। ततो राजन् महाघोरः प्रादुरासीन्महारणः॥ सिंहनादरवाश्चैव प्रादुरासन् समागमे। उभयोः सेनयो राजन् मृत्युं कृत्वा निवर्तनम्॥ एवमेष क्षयो वृत्तः पृथिव्यां पृथिवीपते। तावकानां परेषांच राजन् दुर्मन्त्रिते तव॥ संजय उवाच ततः पुनः समाजग्मुरभीताः कुरुसृञ्जयाः। युधिष्ठिरमुखाः पार्थाः सूतपुत्रमुखा वयम्॥ ततः प्रववृते भीमः संग्रामो लोमहर्षणः। कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः॥ तस्मिन् प्रवृत्ते संग्रामे तुमुले शोणितोदके। संशप्तकेषु शूरेषु किंचिच्छिष्टेषु भारत॥ धृष्टद्युम्नो महाराज सहित: सर्वराजभिः । कर्णमेवभिदुद्राव पाण्डवाश्च महारथाः॥ आगच्छमानास्तान् संख्ये प्रहृष्टान् विजयैषिणः। दधारैको रणे कर्णो जलौघानिव पर्वतः॥ समासाद्य तु ते कर्ण व्यशीर्यन्त महारथाः। यथाचलं समासाद्य वार्योधाः सर्वतोदिशम्॥ तयोरासीन्महाराज संग्रामो लोमहर्षणः। धृष्टद्युम्नस्तु राधेयं शरेणान्तपर्वणा॥ ताडयामास समरे तिष्ठ तिष्ठेति चाब्रवीत्। विजयं च धनुः श्रेष्ठं विधुन्वानो महारथः॥ पार्षतस्य धनुश्छित्त्वा शरांश्चाविषोपमान्। ताडयामास संक्रुद्धः पार्षतं नवभिः शरैः॥ ते वर्म हेमविकृतं भित्त्वा तस्य महात्मनः। शोणिताक्ता व्यराजन्त शक्रगोपा इवानघ॥ तदपास्य धनुश्छिन्नं धृष्टद्युम्नो महारथः। अथान्यद् धनुरादाय शरांश्चासीविषोपमान्॥ कर्णं विव्याध सप्तत्या शरैः संनतपर्वभिः। तथैव राजन् कर्णोऽपि पार्षतं शत्रुतापनम्॥ छादयामास समरे शरैराशीविषोपमैः। द्रोणशत्रुर्महेष्वासो विव्याध निशितैः शरैः॥ तस्य कर्णो महाराज खरं कनकभूषणम्। प्रेषयामास संक्रुद्धो मृत्युदण्डमिवापरम्॥ तमापतन्तं सहसा घोररूपं विशाम्पते। चिच्छेद शतधा राजशैनेयः कृतहस्तवत्॥ दृष्ट्वा विनिहतं बाणं शरैः कर्णो विशाम्पते। सात्यकिं शरवर्षेण समन्तान् पर्यवारयत्॥ विव्याध चैनं समरे नाराचैस्तत्र सप्तभिः। तंप्रत्यविध्यच्छैनेयः शरैर्हेमपरिष्कृतैः॥ ततो युद्धं महाराज चक्षुःश्रोत्रभयानकम्। आसीद् घोरं च चित्रं च प्रेक्षणीयं समन्ततः॥ सर्वेषां तत्र भूतानां लोमहर्षोऽभ्य तद् दृष्ट्वा समरे कर्म कर्णशैनेययोर्नृप।॥ एतस्मिन्नन्तरे द्रौणिरभ्ययात् सुमहाबलम्। पार्षतं शत्रुदमनं शत्रुवीर्यसुनाशनम्॥ अभ्यभाषतं संक्रुद्धो द्रौणि परपुरंजयः। तिष्ठ तिष्ठाय ब्रह्मघ्न न मे जीवन् विमोक्ष्यसे।॥ इत्युक्त्वा सुभृशं वीरं शीघ्रकृन्निशितैः शरैः। पार्षतं छादयामास घोररूपैः सुतेजनैः॥ यतमानं परं शक्तया यतमानो महारथः। यथा हि समरे द्रोणः पार्षतं वीक्ष्य मारिष।॥ तथा द्रौणिं रणे दृष्ट्वा पार्षतः परवीरहा। नातिहष्टमना भूत्वा मन्यते मृत्युमात्मनः॥ स ज्ञात्वा समरेऽऽत्मानं शस्त्रेणावध्यमेव तु। जवेनाभ्याययौ द्रौणि कालः कालमिव क्षयेया॥ द्रौणिस्तु दृष्ट्वा राजेन्द्र धृष्टद्युम्नमवस्थितम्। क्रोधेन निःश्वसन् वीरः पार्षतं समुपाद्रवत्॥ तावन्योन्यं तु दृष्टैव संरम्भं जग्मतुः परम्। अथाब्रवीन्महाराज द्रोणपुत्रः प्रतापवान्॥ धृष्टद्युम्नं समीपस्थं त्वरमाणो विशाम्पते। पाञ्चालापसदाद्य त्वां प्रेषयिष्यामि मृत्यवे॥ पापं हि यत् त्वया कर्म नता द्रोणंपुरा कृतम्। अद्यं त्वां तप्स्यते तद् वै यथा न कुशल तथा॥ अरक्ष्यमाणः पार्थेन यदि तिष्ठसि संयुगे। नापक्रामसि वा मूढ सत्यमेतद् ब्रवीमि ते॥ एवमुक्तः प्रत्युवाच धृष्टद्युम्नः प्रतापवान्। प्रतिवाक्यं स एवासिर्मामको दास्यते तव॥ तेनैव ते पितुर्दत्तं यतमानस्य संयुगे। यदि तावन्मया द्रोणो निहतो ब्राह्मणब्रुवः॥ त्वामिदानीं कथं युद्धे न हनिष्यामि विक्रमात्। एवमुक्त्वा महाराज सेनापतिरमर्षणः॥ निशितेनातिबाणेन द्रौणिहं विव्याध पार्षतः। ततो द्रौणिः संसंक्रुद्धः शरैः संनतपर्वभिः॥ आच्छादयद् दिशो राजन् धृष्टद्युम्नस्य संयुगे। नैवान्तरिक्षं न दिशो नापि योधाः समन्ततः॥ दृश्यन्ते वै महाराज शरैश्छन्नाः सहस्रशः। तथैव पार्षतो राजन् द्रौणिमाहवशोभिनम्॥ शरैः संछादयामास सूतपुत्रस्य पश्यतः। राधेयोऽपि महाराज पञ्चालान् सह पाण्डवैः॥ द्रौपदेयान् युधामन्यु सात्यकिं च महारथम्। एकः संवारयामास प्रेक्षणीयः समन्ततः॥ धृष्टद्युम्नस्तु समरे द्रौणिश्चिच्छेद कार्मुकम्। तदपास्य धनुौणिरन्यदादाय कार्मुकम्॥ वेगवान् समरे घोरे शरांश्चाशीविषोपमान्। स पार्षतस्य राजेन्द्र धनुः शक्तिं गदां ध्वजम्॥ हयान् सूतं रथं चैव निमेषाद् व्यधमच्छरैः। सच्छिन्नधन्वा विरतो हताश्वो हतसारथिः॥ खङ्गमादत्त विपुलं शतचन्द्रं च भानुमत्। द्रौणिस्तदपि राजेन्द्र भल्लैः क्षिप्रं महारथः॥ चिच्छेद समरे वीरः क्षिप्रहस्तो दृढायुधः। रथादनवरूढस्य तदद्भुतमिवाभवत्॥ धृष्टद्युम्नं हि विरथं हताश्वं छिन्नकार्मुकम्। शरैश्च बहुधा विद्धमस्त्रैश्च शकलीकृतम्॥ नाशकद् भरतश्रेष्ठ यतमानो महारथः। तस्यान्तमिषुभी राजन् यदा द्रौणिर्न जग्मिरान्॥ अथ त्यक्त्वा धनुर्वीरः पार्षतं त्वरितोऽन्वगात्। आसीदाल्पवतो वेदस्तस्य राजन् महात्मनः॥ गरुडस्येव पततो जिघृक्षोः पन्नगोत्तमम्। एतस्मिन्नेव काले तु माधवोऽर्जुनमब्रवीत्॥ पश्य पार्थ यथा द्रौणिः पार्षतस्य वधं प्रति। यत्नं करोति विपुलं हन्याचैनं न संशयः॥ तं मोचय महाबाहो पार्षतं शत्रुकर्शन। द्रौणेरास्यमनुप्राप्तं मृत्योरास्यगतं यथा॥ एवमुक्त्वा महाराज वासुदेवः प्रतापवान्। प्रेषयत् तुरगांस्तत्र यत्र द्रौणिर्व्यवस्थितः॥ ते हयाश्चन्द्रसंकाशाः केशवेन प्रचोदिताः। आपिबन्त इव व्योम जग्मुद्रौणिरथं प्रति॥ दृष्ट्वाऽऽयातौ महावीर्याबुभौ कृष्णधनंजयौ। धृष्टद्युम्नवधे यत्रं चक्रे राजन् महाबलः॥ विकृष्यमाणं दृष्टैव दृष्टद्युम्नं नरेश्वर। शरांश्चिक्षेप वै पार्थो द्रौणि प्रति महाबलः॥ ते शरा हेमविकृता गाण्डीवप्रेषिता भृशम्। द्रौणिमासाद्य विविशुर्वल्मीकमिव फन्नगाः॥ स विद्धस्तैः शरैधीरैर्दोणपुत्रः प्रतापवान्। उत्सृज्य समरे राजन् पाञ्चाल्यममितौजसम्॥ रथामारुरुहे वीरो धनंजयशरार्दितः। प्रगृह्य च धनुः श्रेष्ठ पार्थ विव्याध सायकैः॥ एतस्मिन्नन्तरे वीरः सहदेवो जनाधिप। अपोवाह रथेनाजौ पार्षतं शत्रुतापनम्॥ अर्जुनोऽपि महाराज द्रौणिं विव्याध पत्रिभिः: तं द्रोणपुत्रः संक्रुद्धो बाह्वोरुरसि चार्पयत्॥ क्रोधितस्यु रणे पार्थो नाराचं कालसम्मितम्। द्रोणपुत्राय चिक्षेप कालदण्डमिवापरम्॥ ब्राह्मणस्यांसदेशे स निपपात महाद्युतिः। स विह्वलो महाराज शरवेगेन संयुगे॥ निषसाद रथोपस्थे वैकुव्यं च परं ययौ। ततः कर्णो महाराज व्याक्षिपद् विजयं धनुः॥ अर्जुनं समरे क्रुद्धः प्रेक्षमाणो मुहुमुर्हः। द्वैरथं चापि पार्थेन कामयानो महारणे॥ विह्वलं तं तु वीक्ष्याथ द्रोणपुत्रं च सारथिः। अपोवाह रथेनाजौ त्वरमाणो रणाजिरात्॥ अथोत्क्रुष्टं महाराज पञ्चालैर्जितकाशिभिः। मोक्षितं पार्षतं दृष्ट्वा द्रोणपुत्रं च पीडितम्॥ वादित्राणि च दिव्यानि प्रावाद्यन्त सहस्रशः। सिंहनादांश्च चक्रुस्ते दृष्ट्वा संख्ये तदद्भुतम्॥ एवं कृत्वाब्रवीत् पार्थो वासुदेव धनंजयः। याहि संशप्तकान् कृष्ण कार्यमेतत् परं मम॥ ततः प्रयातो दाशार्हः श्रुत्वा पाण्डवभाषितम्। रथेनातिपताकेन मनोमारुतरंहसा॥ संजय उवाच एतस्मिन्नन्तरे कृष्णः पार्थ वचनमब्रवीत्। दर्शयन्निव कौन्तेयं धर्मराज युधिष्ठिरम्॥ एष पाण्डव ते भ्राता धार्तराष्टैर्महाबलेः। जिघांसुभिर्महेष्वासैर्वृतं पार्थोऽनुसार्यते॥ तं चानुयान्ति संरब्धा पञ्चाला युद्धदुर्मदाः। युधिष्ठिरं महात्मानं परीप्सन्तो महाबलाः॥ एष दुर्योधनः पार्थ रथानीकेन दंशितः। राजा सर्वस्य लोकस्य राजानमनुधावति॥ जिघांसु पुरुषव्याघ्र भ्रातृभिः सहितो बली। आशीविषसमस्पशैः सर्वयुद्धविशारदैः॥ एते जिघृक्षवो यान्ति द्विपाश्वरथपत्तयः। युधिष्ठिरं धार्तराष्ट्रा नरोत्तममिवार्थिनः॥ पश्य सात्वत भीमाभ्यां निरुद्धाधिष्ठिताः पुनः। जिहीर्षवोऽमृतं दैत्याः शक्रग्निभ्यामिवासकृत्॥ एते बहुत्वात्त्वारिताः पुनर्गच्छन्ति पाण्डवम्। समुद्रमिव वार्योधाः प्रावृट्काले महारथाः॥ नदन्तः सिंहनादांश्च धमन्तश्चापि वारिजान्। बलवन्तो महेष्वासा विधुन्वन्तो धनूंषि च॥ मृत्योर्मुखगतं मन्ये कुन्तीपुत्रं युधिष्ठिरम्। हुतमग्नौ च कौन्तेयं दुर्योधनवशं गतम्॥ यथाविधमनीकं तु धार्तराष्ट्रस्य पाण्डव। नास्य शक्रोऽपिमुच्येत सम्प्रातो बाणगोचरम्॥ दुर्योधनस्य वीरस्य शरौघाशीघ्रमस्यतः। संक्रुद्धस्यान्तकस्येव को वेगं संसहेद् रणे॥ दुर्योधनस्य वीरस्य द्रौणे: शारद्वतस्य च। कर्णस्य चेषुवेगो वै पर्वतानपि शातयेत्॥ कर्णेन च कृतो राजा विमुखः शत्रुतापनः। बलवाँल्लघुहस्तश्च कृती युद्धविशारदः॥ राधेयः पाण्डवश्रेष्ठं शक्तः पीडयितुं रणे। सहितो धृतराष्ट्रस्य पुत्रैः शूरैर्महाबलेः॥ तस्यैभिर्युध्यमानस्य संग्रामे संयतात्मनः। अन्यैरपि च पार्थस्य कृतं कर्म महारथैः॥ उपवासकृशो राजा भृशं भरतसत्तमः। ब्राह्मे बले स्थितो ह्येष न क्षात्रे हि बले विभुः॥ कर्णेन चाभियुक्तोऽयं भूपतिः शत्रुतापनः। शंशयं समनुप्राप्तः पाण्डवो वै युधिष्ठिरः॥ न जीवित महाराजो मन्ये पार्थ युधिष्ठिरः। यद् भीमसेनः सहते सिंहनादममर्षणः॥ नदतां धार्तराष्ट्राणां पुन: सिहनादममर्षणः। धमता च महाशङ्खान् संग्रामे जितकाशिनाम्॥ युधिष्ठिरं पाण्डवेयं हतेति भरतर्षभ। शंचोदयत्यसौ कर्णो धार्तराष्ट्रान् महाबलान्॥ स्थूणाकर्णेन्द्रजालेन पार्थ पाशुपतेन च। प्रच्छादयन्ति राजानं शस्त्रजालैर्महारथाः॥ आतुरो हि कृतो राजा संनिषेव्यश्च भारत। यथैनमनुवर्तन्ते पञ्चालाः सह पाण्डवैः॥ त्वरमाणास्त्वराकाले सर्वशस्त्रभृता वराः। मज्जन्तमिव पाताले बलिनोऽप्युजिहीर्षवः॥ न केतुर्दृश्यते राज्ञः कर्णेन निहतः शरैः। पश्यतोर्यमयोः पार्थ सात्यकेश्च शिखण्डिनः॥ धृष्टद्युम्नस्य भीमस्य शतानीकस्य वा विभो। पञ्चालानां च सर्वेषां चेदीनां चैव भारत॥ एष कर्णो रणे पार्थ पाण्डवानामनीकिनीम्। शरैविध्वंसयति वै नलिनीमिव कुञ्जरः॥ एते द्रवन्ति रथिनस्त्वदीयाः पाण्डुनन्दन। पश्य पश्य यथा पार्थ गच्छन्त्येते महारथाः॥ एतं भारत मातङ्गा कर्णेनभिहताः शरैः। आर्तनादान विकुर्वाणा विद्रवन्ति दिशो दश॥ रथानां द्रवते वृन्दमेतचैव समन्ततः। द्राव्यमाणं रणे पार्थ कर्णेनमित्रकर्षिणा॥ हस्तिकक्ष्यां रणे पश्य चरन्तीं तत्र तत्र ह। व्यस्यं सूतपुत्रस्य केतुं केतुमतां वर॥ असौ धावति राधेयो भीमसेनरथं प्रति। किरशरशतान्येव विनिघ्नस्तवं वाहिनीम्॥ एतान् पश्य च पञ्चालान् द्राव्यमाणान् महारथान्। शक्रेणेव यथा दैत्यान् हन्यमानान् महाहवे॥ एष कर्णो रणे जित्वा पञ्चालान् पाण्डुसृञ्जयान्। दिशो विप्रेक्षते सर्वास्त्वदर्थमिति मे मतिः॥ पश्य पार्थ धनुः श्रेष्ठ विकर्षन् साधु शोभते। शत्रु जित्वा यथा शक्रो देवसंघैः समावृतः॥ एते नर्दन्ति कौरव्या दृष्ट्वा कर्णस्य विक्रमम्। त्रासयन्तो रणे पाण्डून् सृञ्जयांश्च समन्ततः॥ एष सर्वात्मना पाण्डूंस्त्रासयित्वा महारणे। अभिभाषित राधेयः सर्वसैन्यानि मानद॥ अभिद्रवत भद्रं वो दुतं द्रवत कौरवाः। यथा जीवन वः कश्चिन्मुच्येत युधि सृञ्जयः॥ तथा कुरुत संयत्ता वयं यास्याम पृष्ठतः। एवमुक्त्वा गतो ह्येष पृष्ठतो विकिरञ्छरान्॥ पश्य कर्ण रणे श्वेतच्छत्रविराजितम्। उदयं पर्वतं यद्वच्छसाङ्केनाभिशोभितम्॥ पूर्णचन्द्रनिकाशेन मूर्ध्निच्छत्रेण भारत। ध्रियमाणेन समरे श्रीमच्छतशलाकिना॥ एष त्वां प्रेक्षते कर्णः सकटाक्षं विशाम्पते। उत्तमं जवमास्थाय ध्रुवमेष्यति संयुगे॥ पश्य होनं महाबाहो विधुन्वानं महद् धनुः। शरांश्चाशीविषाकारान् विसृजन्तं महारणे॥ असौ निवृत्तौ राधेयो दृष्ट्वा ते वानरध्वजम्। प्रार्थयन् समरे पार्थ त्वया सह परंतप॥ वधाय चात्मनोऽभ्येति दीप्तास्यं शलभो यथा। कर्णमेकाकिनं दृष्ट्वा रथानीकेन भारत॥ रिरक्षिषुः सुसंवृत्तो धार्तराष्ट्रो निवर्तते। सर्वैः सहैभिर्दुष्टात्मा वध्यतां च प्रयत्नतः॥ त्वया यशश्च राज्यं च सुखं चोत्तममिच्छता। अदीनयोर्विश्रुतयोर्युवयोर्योत्स्यमानयोः॥ देवासुरे पार्थ मृधे देवदानवयोरिव। पश्यन्तु कौरवाः सर्वे तव पार्थ पराक्रमम्॥ त्वां च दृष्ट्वातिसंरब्धं कर्णं च भरतर्षभ। असौ दुर्योधनः क्रुद्धो नोत्तरं प्रतिपद्यते॥ आत्मानं च कृतात्मानं समीक्ष्य भरतर्षभ। कृतागसं च राधेयं धर्मात्मनि युधिष्ठिरे। प्रतिपद्यस्व कौन्तेयं प्राप्तकालमनन्तरम्॥ आर्यां युद्धे मति कृत्वा प्रत्येहि रथयूथपम्। पञ्च ह्येतानि मुख्यानि स्थानां रथसत्तम॥ शतान्यायान्ति समरे बलिनां तिग्मतेजसाम्। पञ्च नागसहस्राणि द्विगुणा वाजिनस्तथा॥ अभिसंहत्य कौन्तेयं पदातिप्रयुतानि च। अन्यान्यरक्षितं वीर बलं त्वामभिवर्तते॥ द्रोणपुत्रं पुरस्कृत्य तच्छीघ्रं संनिषूदय। निकृत्यैतद्रथानीकं बलिनं लोकविश्रुतम्॥ सूतपुत्रं महेष्वासं दर्शयात्मानमात्मना। उत्तमं जवमास्थाय प्रत्येहि भरतर्षभ।॥ असौ कर्णः सुसंरब्धः पञ्चालानभिधावति। केतुमस्य हि पश्यामि धृष्टद्युम्नरथं प्रति॥ समुपैष्यति पञ्चालानिति मन्ये परंतप। आचक्षे च प्रियं पार्थ तवेदं भरतर्षभ॥ राजासौ कुशली श्रीमान् धर्मपुत्रो युधिष्ठिरः। असौ भीमो महाबाहुः संनिवृत्तश्चमूमुखे॥ वृतः सृञ्जयसैन्येन शैनेयेन च भारत। वध्यन्त एते समरे कौरवा निशितैः शरै॥ भीमसेनेन कौन्तेय पञ्चालैश्च महात्मभिः। सेना हि धार्तराष्ट्रस्य विमुखा विक्षरवणा॥ विप्रधावति वेगेन भीमस्याभिहता शरैः। विपन्नसस्येव मही रुधिरेण समुक्षिता॥ भारती भरतश्रेष्ठ सेना कृपणदर्शना। निवृत्तं पश्य कौन्तेय भीमसेनं युधां पतिम्॥ आशीविषमिव क्रुद्धं द्रावयन्तं वरूथिनीम्। पीतरक्तासितसितास्ताराचन्द्रार्कमण्डिताः॥ पताका विप्रकीर्यन्ते छत्राण्येतानि चार्जुन। सौवर्णा राजताश्चैव तैजसाश्च पृथग्विधाः॥ केतवोऽभिनिपात्यन्ते हस्त्यश्वं च प्रकीर्यते। रथेभ्यः प्रपतन्त्येते रथिनो विगतासवः॥ नानावणैर्हता बाणैः पञ्चालैरपलायिभिः। निर्मनुष्यान् गजानश्वान् रथांश्चैव धनंजय॥ समाद्रवन्ति पञ्चाला धार्तराष्ट्रांस्तरस्विनः। विमृद्नन्ति नरव्याघ्रा भीमसेनबलाश्रयात्॥ बलं परेषां दुर्धर्षास्त्यक्त्वा प्राणानरिंदम। एते नर्दन्ति पञ्चाला ध्मापयन्ति च वारिजान्॥ अभिद्रवन्ति च रणे मृदनन्तः सायकैः : परान्। पश्यस्वैषां च माहात्म्यं पञ्चाला हि पराक्रमात्॥ धार्तराष्ट्रान् विनिघ्नन्ति क्रुद्धाः सिंहा इव द्विपान्। शस्त्रमाच्छिद्य शत्रूणां सायुधानां निरायुधाः॥ तेनैवैतानमोधास्त्रा निघ्नन्ति च नदन्ति च। शिरांस्येतानि पात्यन्ते शत्रूणां बाहवोऽपि च॥ रथनागहया वीरा यशस्याः सर्व एव च। सर्वतश्चाभिपन्नैषा धार्तराष्ट्री महाचमूः॥ पञ्चलैर्मानसादेत्य हंसर्गनेव वेगितैः। सुभृशं च पराक्रान्ताः पञ्चालानां निवारणे॥ कृपकर्णादयो वीरा ऋषभाणामिवर्षभाः। भीमास्त्रेण सुनिर्भग्नान् धार्तराष्ट्रान् महारथान्॥ धृष्टद्युम्नमुखा वीरा घ्नन्ति शत्रून् सहस्रशः। पञ्चालेष्वभिभूतेषु द्विषद्भिरपभीर्नदन्॥ शत्रुपक्षमवस्कन्ध शरानस्यति मारुतिः। विषण्णभूयिष्ठतरा धार्तराष्ट्री महाचमूः॥ रथाश्चैते सुवित्रस्ता भीमसेनभयार्दिताः। पश्य भीमेन नाराचैर्भिन्ना नागाः पतन्त्यमी॥ वज्रिवज्रहतानीव शिखराणि धराभृताम्। भीमसेनस्य निर्विदा बाणैः संनतपर्वभिः॥ स्वान्यनीकानि मृदनन्तो द्रवन्त्येते महागजा:। अभिजानीहि भीमस्य सिंहनादं सुदुःसहम्॥ नदतोऽर्जुनं संग्रामे वीरस्य जितकाशिनः। एष नैषादिरभ्येति द्विपमुख्येन पाण्डवम्॥ जिघांसुस्तोमरैः क्रुद्धो दण्डपाणिरिवान्तकः। सतोमरावस्य भुजौ छिन्नौ भीमेन गर्जतः॥ तीक्ष्णैरग्निविप्रख्यैर्नाराचैर्दशभिर्हतः। हत्वैन पुनरायाति नागानन्यान् प्रहारिणः॥ पश्य नीलाम्बुदनिभान् महासात्रैरधिष्ठितान्। शक्तितोमरसंघातैविनिघ्नन्तं वृकोदरम्॥ सप्तसप्त च नागांस्तान् वैजयन्तीश्च सध्वजाः। निहत्य निशितैर्बाणश्छिन्नाः पार्थाग्रजेन ते॥ दशभिर्दशाभिश्चैको नाराचैर्निहतो गजः। न चासौ धार्तराष्ट्राणां श्रूयते निनदस्तथा॥ पुरंदरसमे क्रुद्धे निवृत्ते भरतर्षभ। अक्षौहिण्यस्तथा तिस्त्रो धार्तराष्ट्रस्य संहता। क्रुद्धेन भीमसेनेन नरसिंहने वारिताः॥ न शक्नुवन्ति वै पार्थ पार्थिवाः समुदीक्षितुम्। मध्यंदिनगतं सूर्य यथा दुर्बलचक्षुषः॥ एते भीमस्य संत्रस्ता: सिंहस्येवेतरे मृगाः। शरैः संत्रासिताः संख्ये न लभन्ते सुखं क्वचित्।। ८८ संजय उवाच एतच्छ्रुत्वा महाबाहुर्वासुदेवाद् धनंजयः। भीमसेनेन तत् कर्मकृतं दृष्ट्वा सुदुष्करम्॥ अर्जुनो व्यधमच्छिष्टानहितान् निशितैः शरैः। ते वध्यमानाः समरे संशप्तकगणाः प्रभो॥ प्रभग्नाः समरे भीता दिशो दश महाबलाः। शक्रस्यातिथितां गत्वा विशोका ह्यभवंस्तदा॥ पार्थश्च पुरुषव्याघ्रः शरैः संनतपर्वभिः। जघान् धार्तराष्ट्रस्य चतुर्विधबलां चमूम्॥ पार्थश्च पुरुषव्याघ्रः शरैः संनतपर्वभिः। जघान् धार्तराष्ट्रस्य चतुर्विधबलां चमूम्॥ धृतराष्ट्र उवाच निवृत्ते भीमसेने च पाण्डवे च युधिष्ठिरे। वध्यमाने बले चापि मामके पाण्डुसृञ्जयैः॥ द्रवमाणे बलौघे च निरानन्दे मुहुर्मुहुः। किमकुर्वन्त कुरवस्तन्ममाचक्ष्व संजय॥ संजय उवाच दृष्ट्वा भीमं महाबाहुं सूतपुत्रः प्रतापवान्। क्रोधरक्तेक्षणो राजन् भीमसेनमुपाद्रवत्॥ तावकं तु बलं दृष्ट्वा भीमसेनात् पराङ्मुखम्। यत्नेन महता राजन् पर्यवस्थापयद् बली॥ व्यवस्थाप्य महाबाहुस्तव पुत्रस्य वाहिनीम्। प्रत्युद्ययौ तदा कर्णः पाण्डवान् युद्धदुर्मदान्॥ प्रत्युद्ययुस्तु राधेयं पाण्डवानां महारथाः। धुन्वानाः कार्मुकाण्याजौ विक्षिपन्तश्च सायकान्॥ भीमसेनः शिनेनप्ता शिखण्डी जनमेजयः। धृष्टद्युम्नश्च बलवान् सर्वे चापि प्रभद्रकाः॥ जिघांसन्तो नरव्याघ्राः समन्तात् तव वाहिनीम्। अभ्यद्रवन्त संक्रुद्धाः समरे जितकाशिनः॥ तथैव तावका राजन् पाण्डवानामनीकिनीम्। अभ्यद्रवन्त त्वरिता जिघांसन्तो महारथाः॥ रथनागाश्वकलिलं पत्तिध्वद समाकुलम्। बभूव पुरुषव्याघ्र सैन्यमद्भुतदर्शनम्॥ शिखण्डी च ययौ कर्ण धृष्टद्युम्नः सुतं तव। दुःशासनं महाराज महत्या सेनया वृत्तम्॥ नकुलो वृषसेनं तु चित्रसेनं युधिष्ठिरः। उलूकं समरे राजन् सहदेवः समभ्ययात्॥ सात्यकिः शकुनि चापि द्रौपदेयाश्च कौरवान्। अर्जुनं च रणे यत्तो द्रोणपुत्रो महारथः॥ युधामन्युं महेष्वासं गौतमोऽभ्यपतद्रणे। कृतवर्मा च बलवानुत्तमौजसमाद्रवत्॥ भीमसेनः कुरून् सर्वान् पुत्रांश्च तव मारिष। सहानीकान् महाबाहुरेक एव न्यवारयत्॥ शिखण्डी तु ततः कर्ण विचरन्तमभीतवत्। भीष्महन्ता महाराज वारयामास पत्रिभिः॥ प्रतिरुद्धस्ततः कर्णो रोषात् प्रस्फुरिताधरः। शिखण्डिनं त्रिभिर्बाणैभ्रुवोर्मध्येऽभ्यताडयत्॥ धारयंस्तु स तान् बाणाशिखण्डी बह्वशोभत। राजतः पर्वतो यद्वत् त्रिभिः शृङ्गैरिवोत्थितैः॥ सोऽतिविद्धो महेष्वासः सूतपुत्रेण संयुगे। कर्ण विव्याध समरे नवत्या निशितैः शरैः॥ तस्य कर्णो हयान् हत्वा सारथिं च त्रिभिः शरैः। उन्ममाथ ध्वजं चास्य क्षुरप्रेण महारथः॥ हताश्वात्तु ततो यानादवप्लुत्य महारथः। शक्तिं चिक्षेप कर्णाय संक्रुद्ध शत्रुतापनः॥ तां छित्वा समरे कर्णस्त्रिभिारत सायकैः। शिखण्डिनमथाविध्यन्नवभिर्निशितैः शरैः॥ कर्णचापच्युतान् बाणान् वर्जयंस्तु नरोत्तमः। अपयातस्तस्तूर्णं शिखण्डी भृशविक्षतः॥ ततः कर्णो महाराज पाण्डुसैन्यान्यशातयत्। तूलराशि समासाद्य यथा वायुर्महाबलः॥ धृष्टद्युम्नो महाराज तव पुत्रेण पीडितः। दुःशासनं त्रिभिर्बाणैः प्रत्यविध्यत स्तनान्तरे॥ तस्य दुःशासनो बाहुं सव्यं विव्याध मारिष। स तेन रुक्मपुड्वेन भल्लेनानतपर्वणा॥ धृष्टद्युम्नस्तु निर्विद्धः शरं घोरममर्षणः। दुःशासनाय संक्रुद्धः प्रेषयामास भारत॥ आपतन्तं महावेगं धृष्टद्युम्नसमीरितम्। शरैश्चिच्छेद पुत्रस्ते त्रिभिरेव विशाम्पते॥ अथान्यैः सप्तदशभिर्भल्लैः कनकभूषणैः। धृष्टद्युम्नं मसासाद्य बाह्वोरुरसि चार्पयत्॥ ततः स पार्षतः क्रुद्धो धनुश्चिच्छेद मारिष। क्षुरप्रेण सुतीक्ष्णेन तत उचुक्रुशुर्जनाः॥ अथान्यद् धनुरादाय पुत्रस्ते प्रहसन्निव। धृष्टद्युमं शरव्रातः समन्तात् पर्यवारयत्॥ तव पुत्रस्य ते दृष्ट्वा विक्रमं सुमहात्मनः। व्यस्मयन्त रणे योधाः सिद्धाश्चाप्सरसां गणाः॥ धृष्टद्युम्नं न पश्याम घटमानं महाबलम्। दुःशासनेन संरुद्धं सिंहेनव महगजम्॥ ततः सरथनागाश्वाः पञ्चालाः पाण्डुपूर्वज। सेनापतिं परीप्सन्तो रुरुधुस्तनयं तव॥ ततः प्रववृत्ते युद्धं तावकानां परैः सह। घोरं प्राणभृतां काले भीमरूपं परंतप॥ नकुलं वृषसेनस्तु भित्वा पञ्चभिरायसैः। पितुः समीपे तिष्ठन् वै त्रिभिरन्यैरविध्यत॥ नकुलस्तु ततः शूरो वृषसेनं हसन्निव। नाराचेन सुतीक्ष्णेन विव्याध हृदये भृशम्॥ सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्षण। शत्रु विव्याध विंशत्या स च तं पञ्चभिः शरैः॥ ततः शरसहस्रेण तावुभौ पुरुर्षभौ। अन्योन्यमाच्छादयतामथोऽभज्यत वाहिनी॥ स दृष्ट्वा प्रदुतां सेनां धार्तराष्ट्रस्य सूतजः। निवारयामास बलादनुसृत्य विशाम्पते॥ निवृत्ते तु ततः कर्णे नकुलः कौरवान् ययौ। कर्णपुत्रस्तु सपरे हित्वा नकुलमेव तु॥ जुगोप चक्रं त्वरितो राधेयस्यैव मारिष। उलूकस्तु रणे क्रुद्धः सहदेवेन वारितः॥ तस्याश्वांश्चतुरो हत्वा सहदेवः प्रतापवान्। सारथिं प्रेषयामास यमस्य सूदनं प्रति॥ उलूकस्तु ततो यानादवप्लुत्य विशाम्पते। त्रिगर्तानां बलं तूर्णं जगाम पितृनन्दनः॥ सात्यकिः शकुनि विद्ध्वा विंशत्या निशितैः शरैः। ध्वजं चिच्छेद भल्लेन सौबलस्य हसन्निव॥ सौबलस्तस्य समरे क्रुद्धो राजन् प्रतापवान्। विदार्य कवचं भूयो ध्वजं चिच्छेद काञ्जनम्॥ तथैनं निशितैबाणैः सात्यकिःप्रत्यविध्यत। सारथिं च महाराज त्रिभिरेव समार्पयत्॥ अथास्य वाहांस्त्वरितः शरैर्निन्ये यमक्षयम्। ततोऽवप्लुत्य सहसा शकुनिर्भरतर्षभ॥ आरुहोह रथं तूर्णमुलूकस्य महात्मनः। अपोवाहाथ शीघ्रं स शैनेयाद् युद्धशालिनः॥ सात्यकिस्तु रणे राजस्तावकानामनीकिनीम्। अभिदुद्राव वेगेन ततोऽनीकमभज्यत॥ शैनेयशकसहंछन्नं तव सैन्यं विशाम्पते। भेजे दश दिशस्तूर्णं न्यपतच गतासुवत्॥ भीमसेनं तव सुतो वारयामास संयुगे। तं तु भीमो मुहूर्तेन व्यश्वसूतरथध्वजम्॥ चक्रे लोकेश्वर तत्र तेनातुष्यन्त वै जनाः। ततोऽपायानृपस्तत्र भीमसेनस्य गोचरात्॥ कुरुसैन्यं ततः सर्व भीमसेनमुपाद्रवत्। तत्र नादो महानासीद् भीमसेन जिघांसताम्॥ युधामन्युः कृपं विद्ध्वा धनुरस्याशु चिच्छिदे। अथान्यद् धनुरादाय कृपः शस्त्रभृतां वरः॥ युधामन्योर्ध्वजं सूतं छत्रं चापातयत् क्षितौ। ततोऽपायाद् रथेनैव युधामन्युर्महारथः॥ उत्तमौजाश्च हार्दिक्यं भीमं भीमपराक्रमम्। छादयामास सहसा मेघो वृष्ट्येव पर्वतम्॥ तद् युद्धमासीत् सुमहद् घोररूपं परंतप। यादृशं न मया युद्धं दृष्टपूर्व विशाम्पते॥ कृतवर्मा ततो राजन्नुत्तमौजसमाहवे। हृदि विव्याध सहसा रथोपस्थ उपाविशत्॥ सारथिस्तमपोवाह रथेन रथिनां वरम्। कुरुसैन्यं ततः सर्व भीमसेनमुपाद्रवत्॥ दुःशासनः सौबलश्च गजानीकेन पाण्डवम्। महता परिवार्यैव क्षुद्रकैरभ्याताडयत्॥ ततो भीमः शरशतैर्दुर्योधनममर्षणम्। विमुखीकृत्य तरसा गजानीकमुपाद्रवत्॥ तमापतन्तं सहसा गजानीकं वृकोदरः। दृष्टैव सुभृशं क्रुद्धो दिव्यमस्त्रमुदैरयत्॥ गजैर्गजानभ्यहनद् वज्रणेन्द्र इवासुरान्। ततोऽन्तरिक्षं बाणैघैः शलभैरिव पादपम्॥ छादयामास समरे गजान् निघ्नन् वृकोदरः। ततः कुञ्जरयूथानि समेतानि सहस्रशः॥ व्यधमत् तरसा भीमो मेघसङ्घानिवानिलः। सुवर्णजालापिहिता मणिजालैश्च कुञ्जराः॥ रेजुरभ्यधिकं संख्ये विद्युत्वन्त इवाम्बुदाः। ते वध्यमाना भीमेन गजा राजन् विदुद्रुवुः॥ केचिद् विभिन्नहृदयाः कुञ्जरा न्यपतन् भुवि। पतितैर्निपतद्भिश्च गजैर्हेमविभूषितैः॥ अशोभत मही तत्र विशीर्णैरिव पर्वतैः। दीप्ताभै रत्नवद्भिश्च पतितैर्गजयोधिभिः॥ रराज भूमिः पतितैः क्षीणपुण्यैरिव ग्रहैः। ततो भिन्नकटा नागा भिन्नकुम्भकरास्तथा॥ दुद्रुवु शतशः संख्ये भीमसेनशराहताः। केचिद् वमन्तो रुधिरं भयार्ताः पर्वतोपमाः॥ व्यद्रवञ्छरविद्धागा धातुचित्रा इवाचलाः। महाभुजगसंकाशौ चन्दनागुरुरूषितौ॥ अपश्यं भीमसेनस्य धनुर्विक्षिपतो भुजौ। तस्य ज्यातलनिर्घोषं श्रुत्वाशनिसमस्वनम्॥ विमुञ्चन्तः शकृन्मूत्रं गजाः प्रादुद्रुवु शम्। भीमसेनस्य तत् कर्म राजन्नेकस्य धीमतः। निघ्नतः सर्वभूतानि रुद्रस्येव च निर्बभौ॥ संजय उवाच ततः श्वेताश्वसंयुक्ते नारायणसमाहिते। तिष्ठन् रथवरे श्रीमानर्जुनः समपद्यत॥ तद् बलं नृपतिश्रेष्ठ तावकं विजयो रणे। व्यक्षोभयदुदीर्णाश्वं महोदधिमिवानिलः॥ दुर्योधनस्तव सुतः प्रमत्ते श्वेतवाहने। अभ्येत्य सहसा क्रुद्धः सैन्यार्धेनाभिसंवृतः॥ पर्यवारयदायान्तं युधिष्ठिरममर्षणम्। क्षुरप्राणां त्रिसप्तत्या ततोऽविध्यत पाण्डवम्॥ अक्रुध्यत भृशं तत्र कुन्तीपुत्रो युधिष्ठिरः। स भल्लास्त्रिशतस्तूर्णं तव पुत्रे न्यवेशयत्॥ ततोऽधावन्त कौरव्या जिघृक्षन्तो युधिष्ठिरम्। दुष्टभावान् पाराज्ज्ञात्वा समवेता महारथाः॥ आजग्मुस्तं परीप्सन्त:कुन्तीपुत्रं युधिष्ठिरम्। धृष्टद्युम्नश्च पार्षतः॥ अक्षौहिण्या परिवृतास्तेऽभ्यधावन् युधिष्ठिरम्। भीमसेनश्च समरे मृदनंस्तव महारथान्॥ अभ्यधावदभिप्रेप्स राजानं शत्रुभिर्वृतम्। तांस्तु सर्वान् महेष्वासान् कर्णो वैकर्तनो नृप॥ शरवर्षेण महता प्रत्यवारयदागतान्। नकुलः सहदेवश्च शरौघान् विसृजन्तस्ते प्रेरयन्तश्च तोमरान्॥ न शेकुर्यनवन्तोऽपि राधेयं प्रतिवीक्षितुम्। तांश्च सर्वान् महेष्वासान् सर्वशस्त्रास्त्रपारगः॥ महता शरवर्षेण राधेयः प्रत्यवारयत्। दुर्योधनं च विंशत्या शीघ्रमस्त्रमुदीरयन्॥ अविध्यत् तूर्णमभ्येत्य सहदेवः प्रतापवान्। स विद्धः सहदेवेन रराजाचलसंनिभः॥ प्रभिन्न इव मातङ्गो रुधिरेण परिप्लुतः। दृष्ट्वा तव सुतं तत्र गाढविद्धं सुतेजनैः॥ अभ्यधावद् दृढं क्रुद्धो राधेयो रथिनां वरः। दुर्योधनं तथा दृष्ट्वा शीघ्रमस्त्रमुदैरयत्॥ तेन यौधिष्ठिरं सैन्यमवधीत् पार्षतं तथा। ततो यौधिष्ठिरं सैन्यं वध्यमान महात्मना॥ सहसा प्राद्रवद राजन् सूतपुत्रशरार्दितम्। विविधा विशिखास्तत्र सम्पतन्तः परस्परम्॥ फलैः पुत्रान् समाजग्मुः सूतपुत्रधनुच्युताः। अन्तरिक्षे शरौघाणां पततां च परस्परम्॥ संघर्षेण महाराज पावकः समजायत। ततो दश दिशः कर्णः शलभैरिव यायिभिः॥ अभ्यघ्नंस्तरसा राजशरैः परशरीरगैः। रक्तचन्दनसंदिग्धौ मणिहेमविभूषितौ॥ बाहू व्यत्यक्षिपत् कर्णः परमास्त्रं विदर्शयन्। ततः सर्वा दिशो राजन् सायकैर्विप्रमोहयन्॥ अपीडयद् भृशं कर्णो धर्मराज युधिष्ठिरम्। ततः क्रुद्धो महाराज धर्मपुत्रो युधिष्ठिरः॥ निशितैरिषुभिः कर्णं पञ्चाशद्भिः समार्पयत्। बाणान्धकारमभवत्तद् युद्धं घोरदर्शनम्॥ हाहाकारो महानासीत्तावकानां विशाम्पते। वध्यमाने तदा सैन्ये धर्मपुत्रेण मारिष॥ सायकेविधैस्तीक्ष्णैःकङ्कपत्रैः शिलाशितैः। भल्लैरनेकैर्विविधैः शक्त्यृष्टिमुसलैरपि॥ यत्र यत्र स धर्मात्मा दुष्टां दृष्टिं व्यसर्जयत्। तत्र तत्र व्यशीर्यन्त तावका भरतर्षभ॥ कर्णोऽपि भृशसंक्रुद्धो धर्मराज युधिष्ठिरम्। नाराचैरर्धचन्द्रश्च वत्सदन्तैश्च संयुगे॥ अमर्षी क्रोधनश्चैव रोषप्रस्फुरिताननः। सायकैरप्रमेयात्मा युधिष्ठिरमभिद्रवत्॥ युधिष्ठिरश्चापि स तं स्वर्णपुडैः शितैः शरै। प्रहसन्निव तं कर्ण:कङ्कपत्रैः शिलाशितैः॥ उरस्यविध्यद् राजानं त्रिभिर्भल्लैश्च पाण्डवम्। स पीडितो भृशं तेन धर्मराजो युधिष्ठिरः॥ उपविश्य रथोपस्थे सूतं याहीत्यचोदयत्। अक्रोशन्त ततः सर्वे धार्तराष्ट्राः सराजकाः॥ गृह्णीध्वमिति राजानमभ्यधावन्त सर्वशः। ततः शताः सप्तदश केकयानां प्रहारिणाम्॥ पञ्चालैः सहिता राजन् धार्तराष्ट्रान् न्यवारयन्। तस्मिन सुतुमुले युद्धे वर्तमाने जनक्षये॥ दुर्योधनश्च भीमश्च समेयातां महाबलौ॥ संजय उवाच कर्णोपि शरजालेन केकयानां महारथान्। व्यधमत् परमेष्वासानग्रतः पर्यवस्थितान्॥ तेषां प्रयतमानानां राधेयस्य निवारणे। रथान् पञ्चशतान् कर्णः प्राहिणोद् यमसादनम्॥ अविषह्यं ततो दृष्ट्वा राधेयं युधि योधिनः। भीमसेनमुपागच्छन् कर्णबाणप्रपीडिताः॥ रथनीकं विदार्यैव शरजालैरनेकधा। कर्ण एकरथेनैव युधिष्ठिरमुपाद्रवत्॥ सेनानिवेशमार्छन्त मार्गणैः क्षतविक्षतम्। यमयोर्मध्यगं वीरं शनैर्यान्तं विचेतसम्॥ समासाद्य तु राजानं दुर्योधनहितेप्सया। सूतपुत्रस्त्रिभिस्तीक्ष्णैर्विव्याध परमेषुभिः॥ तथैव राजा राधेयं प्रत्यविध्यत् स्तनान्तरे। शरैस्त्रिभिश्च यन्तारं चतुर्भिश्चतुरो हयान्॥ चक्ररक्षौ तु पार्थस्य माद्रीपुत्रौ परंतपौ। तावप्यधावतां कर्ण राजानं मा वधीरिति॥ तौ पृथक् शरवर्षाभ्यां राधेयमभ्यवर्षताम्। नकुलः सहदेवश्च परमं यत्नमास्थितौ॥ तथैव तौ प्रत्यविध्यत् सूतपुत्रःप्रतापवान्। भल्लाभ्यां शितधाराभ्यां महात्मानावरिंदमौ॥ दन्तवर्णांस्तु राधेयो निजघान मनोजवान्। युधिष्ठिरस्य संग्रामे कालवालान् हयोत्तमान्॥ ततोऽपरेण भल्लेन शिरस्त्राणमपातयत्। कौन्तेयस्य महेष्वासः प्रहसन्निव सूतजः॥ तथैव नकुलस्यापि हयान् हत्वा प्रतापवान्। ईषां धनुश्च चिच्छेद माद्रीपुत्रस्य धीमतः॥ तौ हताश्वौ हतरथौ पाण्डवौ भृशविक्षतौ। भ्रातरावारुरुहतुः सहदेवरथं तदा॥ तौ दृष्ट्वा मातुलस्तत्र विरथौ परवीरहा। अभ्यभाषत राधेयं मद्रराजोऽनुकम्पया॥ योद्धव्यमद्य पार्थेन फाल्गुनेन त्वया सह। किमर्थ धर्मराजेन युध्यसे भृशरोषितः॥ क्षीणशस्त्रास्त्रकवचः क्षीणबाणो विबाणधिः। श्रान्तसारथिवाहश्च च्छन्नोऽस्त्रैररिभिस्तथा।॥ पार्थमासाद्य राधेय उपहास्यो भविष्यसि। एवमुक्तोऽपि कर्णस्तु मद्रराजेन संयुगे॥ तथैव कर्णः संरब्धो युधिष्ठिरमताडयत्। शरैस्तीक्ष्णैः पराविध्य माद्रीपुत्रौ च पाण्डवौ॥ प्रहस्य समरे कर्णश्चकार विमुखं शरैः। ततः शल्यः प्रहस्येदं कर्ण पुनरुवाच ह॥ रथस्थमतिसंरब्धं युधिष्ठिरवधे धृतम्। यदर्थ धार्तराष्टैण सततं मानितो भवान्॥ तं पार्थ जहि राधेय किं ते हत्वा युधिष्ठिरम्। शङ्खयोर्ध्यायतोः शब्दः सुमहाने कृष्णयोः॥ श्रूयते चापघोषोऽयं प्रावृषीवाम्बुदस्य ह। असौ निघ्नन् रथोदारानर्जुनः शरवृष्टिभिः॥ सर्वा ग्रसति नः सेनां कर्ण पश्यैनमाहवे। पृष्ठरक्षौ च शूरस्य युधामन्युत्तमौजसौ॥ उत्तरं चास्य वै शूरश्चक्रं रक्षति सात्यकिः। धृष्टद्युम्नस्तथा चास्य चक्रं रक्षति दक्षिणम्॥ भीमसेनश्च वै राज्ञा धार्तराष्ट्रेण युध्यते। यथा न हन्यात्तं भीमः सर्वेषां नोऽद्य पश्यताम्॥ तथा राधेय क्रियतां राजा मुच्येत नो यथा। पश्यैनं भीमसेनेन ग्रस्तमाहवशोभिनम्॥ यदि त्वासाद्य मुच्येत विस्मयः सुमहान् भवेत्। परित्राोनमभ्येत्य संशयं परमं गतम्॥ किं नु माद्रीसुतौ हत्वा राजानं च युधिष्ठिरम्। इति शल्यवचः श्रुत्वा राधेयः पृथिवीपते॥ दृष्ट्वा दुर्योधनं चैव भीमग्रस्तं महाहवे। राजगृद्धी भृशं चैव शल्यवाक्यप्रचोदितः॥ अजातशत्रुमुत्सृज्य माद्रीपुत्रौ च पाण्डवौ। तव पुत्रं परित्रातुमभ्यधावत वीर्यवान्।॥ मद्रराजप्रणुदितैरश्वैराकाशगैरिव। गते कर्णे तु कौन्तेयः पाण्डुपुत्रो युधिष्ठिरः॥ अपायाजवनैरश्वैः सहदेवश्च मारिष। ताभ्यां स सहितस्तूर्णं वीडन्निव नरेश्वरः॥ प्राप्य सेनानिवेशं त मार्गणैः क्षतविक्षतः अवतीर्णो रथातूर्णमाविशच्छयनं शुभम्॥ अपनीतशल्यः सुभृशं हृच्छल्याभिनिपीडितः। सोऽब्रवीभ्रातरौ राजा माद्रीपुत्रौ महारथौ॥ अनीकं भीमसेनस्य पाण्डवावाशु गच्छताम्। जीमूत इव नद॑स्तु युध्यते स वृकोदरः॥ ततोऽन्यं रथमास्थाय नकुलो रथपुङ्गवः। सहदेवश्च तेजस्वी भ्रातरौ शत्रुकर्षणौ॥ तुरगैरर्य्यरहोभिर्यात्वा भीमस्य शुष्मिणौ। अनीकैः सहितौ तत्र भ्रातरौ समवस्थितौ॥ संजय उवाच द्रौणिस्तु रथवंशेन महता परिवारितः। अपतत्सहसा राजन् यत्र पार्थो व्यवस्थितः॥ तमापतन्तं सहसा शूरः शौरिसहायवान्। दधार सहसा पार्थो वेलेव मकरालयम्॥ ततःक्रुद्धो महाराज द्रोणपुत्रः प्रतापवान्। अर्जुनं वासुदेवं च छादयामास सायकैः॥ अवस्छन्नौ ततः कष्णै दृष्ट्वा तत्र महारथाः। विस्मयं परमं गत्वा प्रेक्षन्त कुरवस्तदा॥ अर्जुनस्तु ततो दिव्यमस्त्रं चक्रे हसन्निव। तदस्त्रं वारयामास ब्राह्मणो युधि भारत॥ यद् यद्धि व्याक्षिपद युद्धे पाण्डवोऽस्त्रजिघांसया। तत् तदस्त्रं महेष्वासो द्रोणपुत्रो व्यसातयत्॥ अस्त्रयुद्धे ततो राजन् वर्तमाने महाभये। अपश्याम रणे द्रौणि व्यात्ताननमिवान्तकम्॥ स दिशः प्रादिशश्चैव च्छादयित्वा ह्यजिह्यगैः। वासुदेवं त्रिभिर्बाणैरविध्यद् दक्षिणे भुजे॥ ततोऽर्जुनो हयान् हत्वा सर्वांस्तस्य महात्मनः। चकार समरे भूमि शोणितौघतरङ्गिणीम्ः॥ सर्वलोकवहां रौद्रां परलोकवहां नदीम्। सस्थान् रथिनः सर्वान् पार्थचापच्युतैः शरैः॥ द्रौणेरपहतान् संख्ये ददृशुः स च तां तथा। प्रावर्तयन्महाघोरां नदी परवहां तदा॥ तयोस्तु व्याकुले युद्धे द्रौणेः पार्थस्य दारुणे। अमर्यादं योधयन्तः पर्यधावन्त पृष्ठतः॥ रथैर्हताश्वसूतैश्च हतारोहैश्च वाजिभिः। द्विरदैश्च हतारोहैर्महामात्रैर्हतद्विपैः॥ पार्थेन समरे राजन् कृतो घोरो जनक्षयः। निहता रथिनः पेतुः पार्थचापच्युतैः शरैः॥ हयाश्च पर्यधावन्त मुक्तयोक्त्रास्ततस्ततः। तद् दृष्ट्वा कर्म पार्थस्य द्रौणिराहवशोभिनः॥ अर्जुनं जयतां श्रेष्ठं त्वरितोऽभ्येत्य वीर्यवान्। विधुन्बानो महचापं कार्तस्वरविभूषितम्॥ अवाकिरत्ततो द्रौणिः समन्तान्निशितैः शरैः। भूयोऽर्जुनं महाराज द्रौणिरायम्य पत्रिणा॥ वक्षोदेशेभृशं पार्थं ताडयामास निर्दयम्। सोऽतिविद्धो रणे तेन द्रोणपुत्रेण भारत॥ गाण्डीवधन्वा प्रसभं शरवर्षेरुदारधीः। संछाद्य समरे द्रौणिं चिच्छेदास्य च कार्मुकम्॥ स छिन्नधन्वा परिघं वज्रस्पर्शसमं युधि। आदाय चिक्षेप तदा द्रोणपुत्रः किरीटिने॥ तमापतन्तं परिधं जाम्बूनदपरिष्कृतम्। चिच्छेद सहसा राजन् प्रहसन्निव पाण्डवः॥ स पपात तदा भूमौ निकृत्यः पार्थसायकैः। विकीर्ण: पर्वतो राजन् यथा वज्रेण ताडितः॥ ततः क्रुद्धो महाराज द्रोणपुत्रो महारथः। ऐन्द्रेण चास्त्रवेगेन बीभत्सुं समवाकिरत्॥ तस्येन्द्रजप्लावततं समीक्ष्य पार्थो राजन् गाण्डिवमाददे सः। ऐन्द्रं जालं प्रत्यहरत् तरस्वी वरास्त्रमादाय महेन्द्रसृष्टम्॥ विदार्य तज्जालमथेन्द्रमुक्तं पार्थस्ततो द्रौणिरथं क्षणेना प्रच्छादयामास ततोऽभ्युपेत्य द्रौणिस्तदा पार्थशराभिभूतः॥ विगाह्य तां पाण्डवबाणवृष्टिं शरैः परं नाम ततः प्रकाश्य। शतेन कृष्णं सहसाभ्यविद्ध्यत् त्रिभिः शतैरर्जुनं क्षुद्रकाणाम्॥ ततोऽर्जुनः सायकानां शतेन गुरोः सुतं मर्मसु निर्बिभेद। मवाकिरत् पश्यतां तावकानाम्॥ स विद्ध्वा मर्मसु द्रौणि पाण्डवः परवीरहा। सारथिं चास्य भल्लेन रथनीडादपातयत्॥ स संगृह्य स्वयं वाहान् कृष्णौ प्राच्छादयच्छरैः। तत्राद्भुतमपश्याम द्रौणेराशु पराक्रमम्॥ प्रायच्छत्तुरगान् यच्च फाल्गुनं चाप्ययोधयत्। यदस्य समरे राजन् सर्वे योधा अपूजयन्॥ तत: प्रहस्य बीभत्सुद्रौणपुत्रस्य संयुगे। क्षिप्रं रश्मीनताश्वानां क्षुरप्रैश्चिच्छिदे जयः॥ प्राद्रवतंस्तुरगास्ते तु शरवेगप्रपीडिताः। ततोऽभून्निनदो घोरस्तव सैन्यस्य भारत॥ पाण्डवास्तु जयं लब्वा तव सैन्यं समाद्रवन्। समन्तान्निशितान् बाणान् विमुञ्चन्तो जयैषिणः॥ पाण्डवैस्तु महाराज धार्तराष्ट्री महाचमूः। पुनः पुनरथो वीरैः संयुगे जितकाशिभिः॥ पश्यतां ते महाराज पुत्राणां चित्रयोधिनाम्। शकुनेः सौबलेयस्य कर्णस्य च विशाम्पते॥ वार्यमाणा महासेना पुत्रैस्तव जनेश्वरः। न चातिष्ठत संग्रामे पीड्यमाना समन्ततः॥ ततो योधैर्महाराज पलायद्भिः समन्ततः। अभवद् व्याकुलं भीतं पुत्राणां ते महद् बलम्॥ तिष्ठ तिष्ठेति च तत: सूतपुत्रस्य जल्पतः। नावतिष्ठति सा सेना वध्यामाना महात्मभिः॥ अथोत्क्रुष्टं महाराज पाण्डवैर्जितकाशिभिः। धार्तराष्ट्रबलं दृष्ट्वा विद्रुतं वै समन्ततः॥ ततो दुर्योधनः कर्णमब्रवीत् प्रणयादिव। पश्य कर्णं महासेना पञ्चालैरर्दिता भृशम्॥ त्वयि तिष्ठति संत्रासात् पलायनपरायणा। एतज्ज्ञात्वा महाबाहो कुरु प्राप्तमरिंदम॥ सहस्राणि च योधानां त्वामेव पुरुषोत्तम। क्रोशन्ति समरे वीर द्राव्यमाणानि पाण्डवैः॥ एतच्छुत्वापि राधेयो दुर्योधनवचो महान्। मद्रराजमिदं वाक्यमब्रवीत प्रहसन्निव॥ पश्य मे भुजयोर्वीर्यमस्त्राणं च जनेश्वर। अद्यहन्मि रणे सर्वान पञ्चालन् पाण्डुभिः सह।॥ वाहयाश्वान् नरव्याघ्र भद्रेणैव न संशयः। एवमुक्त्वा महाराज सूतपुत्रः प्रतापवान्॥ प्रगृह्य विजयं वीरो धनुः श्रेष्ठं पुरातनम्। सज्यं कृत्वा महाराज संगृह्य च पुनः पुनः॥ संनिवार्य च योधान् स सत्येन शपथेन च। प्रायोजयदमेयात्मा भार्गवास्त्रं महाबलः॥ ततो राजन् सहस्राणि प्रयुतान्यर्बुदानि च। कोटिशश्च शरास्तीक्ष्ण निरगच्छन् महामृधे॥ ज्वलितैस्तैः शरै।रैः कङ्कबहिणवाजितैः। संछन्ना पाण्डवी सेना न प्राज्ञायत किञ्चन॥ हाहाकारो महानासीत् पञ्चालानां विशाम्पते। पीडितानां बलवता भार्गवास्त्रेण संयुगे॥ निपतद्भिर्गजै राजन्नश्चैश्चापि सहस्रशः। रथैश्चापि नरव्याघ्र नरैश्चैव समन्ततः॥ प्राकम्पत मही राजन् निहतैस्तैः समन्ततः। व्याकुलं सर्वमभवत् पाण्डवानां महद् बलम्॥ कर्णस्त्वेको युधां श्रेष्ठो विधूम इव पावकः। दहशत्रून् नरव्याघ्र शुशुभे स परंतपः॥ ते वध्यमानां कर्णेन पञ्चालाश्चेदिभिः सह। तत्र तत्र व्यमुह्यन्त वनदाहे यथा द्विपाः॥ चुक्रुशुश्च नरव्याघ्र यथा व्याघ्रा नरोत्तमाः। तेषा तु क्रोशतामासीद् भीतानां रणमूर्धनि॥ धावतां च ततो राजंस्त्रस्तानां च समन्ततः। आर्तनादो महांस्तत्र भूतानामिव सम्ल्वे॥ वध्यमानांस्तु तान् दृष्ट्वा सूतपुत्रेण मारिष। वित्रेसुः सर्वभूतानि तिर्यग्योनिगतान्यपि॥ ते वध्यमानाः समरे सूतपुत्रेण संजयाः। अर्जुनं वासुदेवं च क्रोशन्ति च मुहुर्महुः॥ प्रेतराजपुरे यद्वत प्रेतराजं विचेतसः। श्रुत्वा तु निनदं तेषां वध्यता कर्णसायकैः॥ अथाब्रवीद् वासुदेवं कुन्तीपुत्रो धनंजयः। भार्गवास्त्रं महाघोरं दृष्ट्वा तत्र समीरितम्॥ पश्य कुष्ण महाबाहो भार्गवास्त्रस्य विक्रमम्। नैतदस्त्रं हि समरे शक्यं हन्तुं कथञ्चन॥ सूतपुत्रं च संरब्धं पश्य कृष्ण महारणे। अन्तकप्रतिमं वीर्ये कुर्वाणं कर्म दारुणम्॥ अभीक्ष्णं चोदयन्नश्वान् प्रेक्षते मां मुहुर्मुहुः। न च पश्यामि समरे कर्णं प्रति पलायितुम्॥ जीवन् प्राप्नोति पुरुषः संख्ये जयपराजयौ। मृतस्य तु हृषीकेश भङ्ग एव कुतो जयः॥ एवमुक्तस्तु पार्थेन कृष्णो मतिमतां वरम्। धनंजयमुवाचेदं प्राप्तकालमरिंदमम्॥ कर्णेनहि दृढं राजा कुन्तीपुत्रः परिक्षितः। तं दृष्ट्वाऽऽश्वास्य च पुनः कर्णं पार्थ वधिष्यसि॥ एवमुक्त्वा पुनः प्रायाद् द्रष्टुमिच्छन् युधिष्ठिरम्। श्रमेण ग्राहयिष्यंश्च युद्धे कर्ण विशाम्पते॥ ततो धनंजयो द्रष्टुं राजानं बाणपीडितम्। रथेन प्रययौ क्षिप्रं संग्रामात् केशवाज्ञया॥ गच्छन्नेव तु कौन्तेयो धर्मराजदिदृक्षया। सैन्यमालोकयामास नापश्यत् तत्रचाग्रजम्॥ युद्धं कृत्वा तु कौन्तेयो द्रोणपुत्रेण भारत। दुःसह वज्रिणा संख्ये पराजित्य गुरोः सुतम्॥ संजय उवाच द्रौणि पराजित्य ततोऽग्रधन्वा कृत्वा महद् दुष्करं शूरकर्म। आलोकयामास ततः स्वसैन्यं धनंजयः शत्रुभिरप्रधृष्यः॥ स युध्यमानान् पृतनामुखस्थान् शूरः शूरान् हर्षयन् सव्यसाची। पूर्वप्रहारैर्मथितान् प्रशंसन् स्थिरांश्चकारत्मरथाननीके॥ अपश्यमानस्तु किरीटमाली युधिष्ठिरं भ्रातरमाजमीढम्। उवाच भीमं तरसाभ्युपेत्य राज्ञः प्रवृत्तिं त्विह कुत्र राजा॥ भीमसेन उवाच अपयात इतो राजा धर्मपुत्रो युधिष्ठिरः। कर्मबाणाभितप्ताङ्गो यदि जीवेत् कथञ्चन्॥ अर्जुन उवाच तस्माद् भवाशीघ्रमितः प्रयातु राज्ञः प्रवृत्यै कुरुसत्तमस्य। नूनं स विद्धोनऽतिभृशं पृषत्कैः कर्णेन राजा शिबिरं गतोऽसौ॥ द्रोणेन विद्धोऽतिभृशं तरस्वी। तस्थौ स तत्रापि जयप्रतीक्षो द्रोणोऽपियावन्न हत: किलासीत्॥ स संशयं गमितः पाण्डवाग्र्यः संख्येऽद्य कर्णेन महानुभावः। ज्ञातुं प्रयाह्यासु तमद्य भीम स्थास्याम्यहं शत्रुगणान् निरुद्धय॥ भीमसेन उवाच त्वमेव जानाहिह महानुभाव राज्ञः प्रवृत्तिं भरतर्षभस्य। अहं हि यद्यर्जुन याम्यमित्रा वदन्ति मां भीत इति प्रवीराः॥ ततोऽब्रवीदर्जुनो भीमसेनं संशप्तकाः प्रत्यनीकं स्थिता मे। मितोऽपयातुं रिपुसङ्घगोष्ठात्॥ अथाब्रवीदर्जुनं भीमसेनः स्ववीर्यमासाद्य कुरुप्रवीर। संशप्तकान् प्रतियोत्स्यामि संख्ये सर्वानहं याहि धनंजय त्वम्॥ संजय उवाच तद् भीमसेनस्य वचो निशम्य सुदुष्करं भ्रातुरमित्रमध्ये। संशप्तकानीकमसामेकः सुदुष्करं धारयामीति पार्थः॥ उवाच नारायणमप्रमेय कपिध्वजः सत्यपराक्रमस्य। स्तदाहवे सत्यवतो महात्मा। द्रष्टुं कुरुश्रेष्ठमभिप्रयास्यन् प्रोवाच वृष्णिप्रवरं तदानीम्॥ अर्जुन उवाच चोदयाश्वान् हृषीकेश विहायैतद् बलार्णवम्। अजातशत्रु राजानं द्रष्टुमिच्छामि केशव॥ संजय उवाच ततो हयान् सर्वदाशार्हमुख्यः प्रचोदयन् भीममुवाच चेदम्। नैतचित्रं तव कर्माद्य भीम यास्माम्यहं पार्थारिसंघान्॥ ततो ययौ हृषीकेश यत्र राजा युधिष्ठिरः। शीघ्रच्छीघ्रतरं राजन् वीजिभिर्गरुडोपमैः॥ प्रत्यनीके व्यवस्थाप्य भीमसेनमरिंदमम्। संदिश्य चैतं राजेन्द्र युद्धं प्रति वृकोदरम्॥ ततस्तु गत्वा पुरुषप्रवीरौ राजानमासाद्य शयानमेकम्। रथादुभौ प्रत्यवरुद्य तस्माद् ववन्तुर्धर्मराजस्य पादौ॥ तं दृष्ट्वा पुरुष व्याघ्रं क्षेमिणं पुरुर्षभम्। मुदाभ्युपगतौ कृष्णावश्विनाविव वासवम्॥ तावभ्यनन्दद् राजापि विवस्वानविनाविव। हते महासुरे जम्भे शक्रविष्णू यथा गुरुः॥ मन्यमानो हतं कर्णं धर्मराजो युधिष्ठिरः। हर्षगद्गदया वाचा प्रीतः प्राह परंतपः॥ संजय उवाच अथोपयातौ पृथुलोहिताक्षौ शरचिताङ्गौ रुधिरप्रदिग्धौ। समीक्ष्य सेनाग्रनरप्रवीरौ युधिष्ठिरो वाक्यमिदं बभाषे॥ महासत्त्वौ हि तौ दृष्ट्वा सहितौ केशवार्जुनौ। हतमाधिरथिं मेने संख्ये गाण्डीवधन्वना॥ तावभ्यनन्दत् कौन्तयेः साम्ना परमवल्गुना। स्मितपूर्वममित्रघ्नं पूजयन् भरतर्षभ॥ युधिष्ठिर उवाच स्वागतं देवकीमातः स्वागतं ते धनंजय। प्रियं मे दर्शनं गाढं युवयोरच्युतार्जुनौ॥ अक्षताभ्यामरिष्टाभ्यां हतः कर्णो महारथः। आशीविषसमं युद्धे सर्वशास्त्रविशारदम्॥ अग्रगं धार्तराष्ट्राणां सर्वेषां शर्म वर्म च। रक्षितं वृषसेन सुषेणेन च धन्विना॥ अनुज्ञातं महावीर्यं रामेणास्त्रे सुदुर्जयम्। अग्र्यं सर्वस्य लोकस्य रथिनं लोकविश्रुतम्॥ त्रातारं धार्तराष्ट्राणां गन्तारं वाहिनीमुखे। हन्तारं परसैन्यानाममित्रगणमर्दनम्॥ दुर्योधनसहिते युक्तमस्मदुःखाय चोद्यतम्। अप्रधृष्यं महायुद्धे देवैरपि सवासवैः॥ अनलानिलयोस्तुल्यं तेजसा न बलेन च। पातालमिव गम्भीरं सुहृदां नन्दिवर्धनम्॥ अन्तकं मम मित्राणां हत्वा कर्णं महामृधे। दिष्ट्या युवामनुप्राप्तौ जित्वासुरमिवामरौ॥ घोरं युद्धमदीनेन मया हृद्याच्युतार्जुनौ। कृतं तेनान्तकेनेव प्रजाः सर्वा जिघांसता॥ तेन केतुश्च मे छिन्नो हतौ च पार्णिसारथी। हतावाहस्तुश्चास्मि युयुधानस्य पश्यतः॥ धृष्टद्युम्नस्य यमयोर्वीरस्य च शिखण्डिनः। पश्यतां द्रौपदेयानां पञ्चालानां च सर्वशः॥ एताञ्जित्वा महावीर्यः कर्णः शत्रुगणान् बहून्। जितवान् मां महाबाहो यतमानो महारणे॥ अभिसृत्य च मां युद्धे परुषाण्युक्तवान् बहु। तत्र तत्र युधां श्रेष्ठ परिभूय न संशयः॥ भीमसेनप्रभावात्तु यजीवामि धनंजय। बहुनात्र किमक्तेन नाहं तत् सोढुमुत्सहे॥ त्रयोदशाहं वर्षाणि यस्माद् भीतो धनंजय। न स्म निद्रा लभे रात्रौ न चाहनि सुखं क्वचित्।। १५ तस्य द्वेषेण संयुक्तः परिदह्ये धनंजय। आत्मनो मरणे यातो वाध्रीणस इव द्विपः॥ तस्यायमगमत् कालश्चिन्तयानस्य मे चिरम्। कथं कर्णो मया शक्तो युद्धे क्षपयितुं भवेत्॥ जाग्रत्स्वपुंश्च कौन्तेय कर्णमेव सदा ह्यहम्। पश्यामि तत्र तत्रैव कर्णभूतमिदं जगत्॥ यत्र यत्र हि गच्छामि कर्णाद् भीतो धनंजय। तत्र तत्र हि पश्यामि कर्णमेवाग्रतः स्थितम्॥ सोऽहं तेनैव वीरेण समरेष्वपलायिना। सहयः सरथः पार्थ जित्वा जीवन् विसर्जितः॥ को न मे जीवितेनार्थो राज्येनार्थो भवेत् पुनः। ममैवं विक्षतस्याद्य कर्णेनाहवशोभिना॥ न प्राप्तपूर्वं यद् भीष्मात् कृपद्रोणाच संयुगे। तत् प्राप्तमद्य मे युद्धे सूतपुत्रान्महारथात्॥ स त्वां पृच्छामि कौन्तेय यथाद्य कुशलं तथा। तन्ममाचक्ष्व कात्स्नर्येन यथा कर्णो हतस्त्वया॥ शक्रतुल्यबलो युद्धे यमतुल्य: पराक्रमे। रामतुल्यस्तथास्त्रेण स कथं वै निषूदितः॥ महारथः समाख्यातः सर्वयुद्धविशारदः। धनुर्धराणां प्रवरः सर्वेषामेकपूरुषः॥ पूजितो धृतराष्ट्रेण सपुत्रेण महाबलः। त्वदर्थमेव राधेयः स कथं निहतस्त्वया॥ धार्तराष्ट्रो हि योधेषु सर्वेष्वेव सदार्जुन। तव मृत्युं रणे कर्णं मन्यते पुरुषर्षभ॥ स त्वया पुरुषव्याघ्र कथं युद्धे निषूदितः। तन्ममाचक्ष्व कौन्तेय यथा कर्णो हतस्त्वया॥ युध्यमानस्य च शिरः पश्यतां सुहृदा हृतम्। त्वया पुरुषशार्दूल सिंहेनेव यथा रुरोः॥ यः पर्युपासीत् प्रदिशो दिशश्च त्वां सूतपुत्रः समरे परीप्सन्। दित्सुः कर्णः समरे हस्तिषगवं स हीदानी कङ्कपत्रैः सुतीक्ष्णैः॥ त्वया रणे निहतः सूतपुत्रः कचिच्छेते भूमितले दुरात्मा। प्रियुश्च मे परमो वै कृतोऽयं त्वया रणे सूतपुत्रं निहत्य॥ यः सर्वतः पर्यपतत्त्वदर्थे सदार्चितो गर्वितः सूतपुत्रः। स शूरमानी समरे समेत्य कचित्त्वया निहतः संयुगेऽसौ॥ रौक्मं वरं हस्तिगजाश्वयुक्तं रथं प्रदित्सुर्यः परेभ्यस्त्वदर्थे। सदा रणे स्पर्धते यः स पापः कचित्त्वया निहतस्तात युद्धे॥ योऽसौ सदा शूरमदेन मत्तो विकत्थते संसदि कौरवाणाम्। प्रियोऽत्यर्थं तस्य सुयोधनस्य कञ्चित् सपापो निहतस्त्वसाध॥ स्त्वप्रेषितैर्लोहिताङ्गैर्रिहहै। शेते स पापः सुविभिन्नगात्रः कच्चिद् भग्नौ धार्तराष्ट्रस्य बाहू॥ योऽसौ सदा श्लाघते राजमध्ये दुर्योधनं हर्षयन् दर्पपूर्णः। अहं हन्ता फाल्गुनस्येति मोहात् कचिद्वचस्तस्य न वै तथा तत्॥ नाहं पादौ धाविष्ये कदाचित् यावत् स्थितः पार्थ इत्यल्पबुद्धेः। व्रतं तस्यैत त् सर्वदा शक्रसूनो कच्चिन त्वया निहतः सोऽद्य कर्णः॥ योऽसौ कृष्णामब्रवीद् दुष्टबुद्धिः कर्णः सभायां कुरुवीरमध्ये। किं पाण्डवांस्त्वं न जहासि कृष्णे सुदुर्बलान् पतितान् हीनसत्त्वान्॥ योऽसौ कर्णः प्रत्यजानात्त्वदर्थे नाहं हत्वा सह कृष्णेन पार्थम्। इहोपयातेति स पापबुद्धिः कचिच्छेते शरसम्भिन्नगात्रः॥ कचित् संग्रामो विदतौ वै तवायं समागमे सृञ्जयकौरवाणाम्। यत्रावस्थामीदृशी प्रापितोऽहं कञ्चित् त्वया सोऽद्य हतो दुरात्मा॥ र्गाण्डीवमुक्तैर्विशिखैलद्धिः। सकुण्डलं भानुमदुत्तमाङ्गं कायात् प्रकृत्तं युधि सव्यसाचिन्॥ यत्तन्मया बाणसमर्पितेन ध्यातोऽसि कर्णस्य वधाय वीर। तन्मे त्वया कचिदमोघमद्य ध्यानं कृतं कर्णनिपातनेन॥ नः पुरा नुदीक्षते कर्णसमाश्रयेण। कचित् त्वया सोऽद्य समाश्रयोऽस्य भग्नः पराक्रम्य सुयोधनस्य॥ यो षण्ढतिलानवोचत् सभामध्ये कौरवाणां समक्षम्। स दुर्मतिः कचिदुपेत्य संख्ये त्वया हतः सूतपुत्रो ह्यमर्षी॥ यः सूतपुत्रः प्रहसन् दुरात्मा पुराब्रवीनिर्जिता सौबलेन। मपीह कचित् स हतस्त्वयाद्य॥ यः शस्त्रभृच्छ्रेष्ठतमः पृथिव्यां पितामहं व्याक्षिपदल्पचेताः। संख्यायमानोऽर्धरथः स कचित् त्वया हतोऽद्याधिरथिर्महात्मन्॥ अमर्षजं निकृतिमसीरणेरितं हृदिस्थितं ज्वलनमिमं सदा मम। हतोमया सोऽद्य समेत्य कर्ण इति ब्रुवन् प्रशमयसेऽद्य फाल्गुन॥ ब्रवीहि मे दुर्लभमेतदद्य कथं त्वया निहतः सूतपुत्रः। अनुध्याये त्वां सततं प्रवीर वृत्रे हतेऽसौ भगवानिवेन्द्रः॥ संजय उवाच तद् धर्मशीलस्य वचो निशम्य राज्ञः क्रुद्धस्यातिरथो महात्मा। उवाच दुर्धर्षमदीनसत्त्वं युधिष्ठिरं जिष्णुरनन्तवीर्यः॥ अर्जुन उवाच संशप्तकैर्युध्यमानस्य मेऽद्य सेनाग्रयायी कुरुसैन्येषु राजन्। आशीविषाभान् खगमान् प्रमुञ्चन् द्रौणिः पुरस्तात् सहसाभ्यतिष्ठत्॥ दृष्ट्वा रथं मेघरवं ममैव समस्तसेना च रणेऽभ्यतिष्ठत्। तेषामहं पञ्च शतानि हत्वा ततो द्रौणिमगभं पार्थिवाग्र्य॥ स मा समासाद्य नरेन्द्र यत्त: समभ्ययात् सिंहमिव द्विपेन्द्रः। अकार्षीच रथिनामुजिहीर्षां महाराज वध्यता कौरवाणाम्॥ ततो रणे भारत दुष्प्रकम्प्य आचार्यपुत्रः प्रवरः कुरूणाम्। जनार्दनं चैव विषाग्निकल्पैः॥ अष्टागवामष्ट शतानि बाणान् मया प्रयुद्धस्य वहन्ति तस्य। तांस्तेन सुक्तानहमस्य बाणैळनाशयं वायुरिवाभ्रजालम्॥ नाकर्णपूर्णायतरिप्रमुक्तान्। स्तथा यथा प्रावृषि कालमेघः॥ नैवाददानं न च संदधानं जानीमहे कतरेणास्यतीति। वामेन वा यदि वा दक्षिणेन स द्रोणपुत्रः समरे पर्यवर्तत्॥ तस्याततं मण्डलमेव सज्यं प्रदृश्यते कार्मुकं द्रोणसूनोः। सोऽविध्यन्मां पञ्चभिर्दोणपुत्रः शितैः शरैः पञ्चभिर्वासुदेवम्॥ अहं हि तं त्रिंशता वज्रकल्पैः समार्दयं निमिषस्यान्तरेणा क्षणाच्छवावित्समरूपौ बभूव समादितो मद्विसृष्टैः पृषत्कैः॥ स विक्षरन् रुधिरं सर्वगात्रे रथानीकं सूतसूनोर्विवेश। नसौ प्रपश्यन् रुधिरप्रदिग्धान्॥ ततोऽभिभूतं युधि वीक्ष्य सैन्यं वित्रस्तयोधं दुतवाजिनागम्। पञ्चाशता रथमुख्यैः समेत्य कर्णस्त्वरन् मामुपायात् प्रमाथी॥ तान् सूदयित्वाहमपास्य कर्ण दुष्टुं भवन्तं त्वतयाभियातः। सर्वेपञ्चाला झुद्विजन्ते स्म कर्णं दृष्ट्वा गाव: केसरिणं यथैव॥ मृत्योरास्यं व्यात्तमिवाभिपद्य प्रभद्रकाः कर्णमासाद्य राजन्। स्तदा कर्णः प्राहिणोन्मृतयुसद्म॥ न चाप्यभूत् कान्तमनाः स राजन् यावन्नास्मान् दृष्ट्वान् सूतपुत्रः। मश्वतथाम्ना पूर्वतरं क्षतं च॥ मन्ये कालमपयानस्य राजन् क्रूरात् कर्णात् तेऽहमचितन्त्यकर्मन्। मया कर्णस्यास्त्रमिदं पुरस्ताद् युद्धे दृष्टं पाण्डव चित्ररूपम्॥ न ह्यन्ययोद्धा विद्यते सृञ्जायानां महारथं योऽद्य सहेत कर्णम्। शैनेयो मे सात्यकिश्चक्ररक्षौ धृष्टद्युम्नश्चापि तथैव राजन्॥ युधामन्युश्चोत्तमौजाश्च शूरौ पृष्ठतो मां रक्षतां राजपुत्रौ। रथप्रवीरेण महानुभाव द्विषत्सैन्ये वर्तता दुस्तरेण॥ समेत्याहं सूतपुत्रेण संख्ये वृत्रेण वज्रीव नरेन्द्रमुख्या मस्मिन् संग्रामे यदि वै दृश्यतेऽद्य॥ आयाहि पश्याद्य युयुत्समानं मां सूतपुत्रस्य रणे जयाय। महोरगस्येव मुखं प्रपन्नाः प्रभद्रकाः कर्णमभिद्रवन्ति॥ षट्साहना भारत राजपुत्राः स्वर्गाय लोकाय रणे निमग्नाः। कर्ण न चेदद्य निहन्मि राजन् सबान्धवं युध्यमानं प्रसह्य॥ प्रतिश्रुत्याकुर्वतो वै गतिर्या कष्टा याता तामहं राजसिंह। आमन्त्रये त्वां ब्रूहि जयं रणे मे पुरा भीमं धार्तराष्ट्रा ग्रसन्ते॥ सौति हनिष्यामि नरेन्द्रसिंह सैन्यं तथा शत्रुगणांश्च सर्वान्॥ संजय उवाच श्रुत्वा कर्ण कल्पमुदारवीर्य क्रुद्धः पार्थः फाल्गुनस्यामितौजाः। धनंजयं वाक्यमुवाच चेदं युधिष्ठिरः कर्णशराभितप्तः॥ तिरस्कृता चाद्य यथा न साधु। भीतो भीमं त्यज्य चायास्तथा त्वं यन्नाशकः कर्णमथो निहन्तुम्॥ स्नेहस्त्वया पार्थ कृतः पृथाया दर्भ समाविश्यः यथा न साधु। त्यक्त्वा रणे यदापायाः स भीम यन्नाशकः सूतपुत्रं निहन्तुम्॥ यत् तद् वाक्यं द्वैतवने त्वयोक्तं कर्णं हन्तास्म्येकरथेन सत्यम्। त्यक्त्वा तं वै कथमद्यापयातः कर्णाद् भीतो भीमसेनं विहाय॥ इदं यदि द्वैतवनेऽप्यचक्षः कर्णं योद्धं न प्रशक्ष्ये नृपेति। वयं ततः प्राप्तकालं च सर्वे कृत्यान्युपैष्याम तथैव पार्थ॥ मयि प्रतिश्रुत्य वदं हि तस्य न वै कृत तच तथैव वीर। आनीय नः शत्रुमध्यं स कस्मात् समुत्क्षिप्य स्थण्डिले प्रत्यपिष्ठा॥ अप्याशिष्म वयमर्जुन त्वयि यियासवो बहु कल्याणमिष्टम्। तन्नः सर्व विफलं राजपुत्र फलार्थिना विफल इवातिपुष्पः॥ प्रच्छादितं बडिशमिवामिषेण संछादितं गरलमिवाशनेन। अनर्थकं मे दर्शितवानसि त्वं राज्यार्थिनो राज्यरूपं विनाशम्॥ त्रयोदशेमा हि समाः सदा वयं त्वामन्वजीविष्म धनंजयाशया। काले वर्षं देवमिवोप्तबीजं तन्नः सर्वान् नरके त्वं न्यमजः॥ यत्तत् पृथां वागुवाचान्तरिक्षे सप्ताहजाते त्वयि मन्दबुद्धे। जातः पुत्रो वासवविक्रमोऽयं सर्वाशूराशात्रवाञ्जेष्यतीति॥ अयं जेता खाण्डवे देवसंघान् सर्वाणि भूयान्यपि चोत्तमौजाः। नयं कुरूपन् राजमध्ये निहत्या॥ अस्मात् परो नो भविता धनुर्धरो नैनं भूतं किंचन जातु जेता। इच्छन्नयं सर्वभूतानि कुर्याद् वशे वशी सर्वसमाप्तविद्यः॥ कान्त्या शशाङ्कस्य जवेन वायोः स्थैर्येण मेरोः क्षमया पृथिव्याः। सूर्यस्य भासा धनदस्य लक्ष्म्या शौर्येण शक्रस्य बलेन विष्णोः॥ तुल्यो महात्मा तव कुन्ति पुत्रो जातोऽदितेर्विष्णुरिवारिहन्ता। स्वेषां जयाय द्विषतां वधाय ख्यातोऽमितौजाः कुलतन्तुकर्ता॥ इत्यन्तरिक्षे शतशृङ्गमूर्ध्नि तपस्विनां शृण्वतां वागुवाच। एवंविधं तच नाभूत तथा च देवापि नूनमनृतं वदन्ति॥ तथा परेषामृषिसत्तमानां श्रुत्वा गिरः पूजयतां सदात्वाम्। न संनति प्रेमि सुयोधनस्य न त्वां जानाम्याधिस्थेर्भयार्तम्॥ पूर्व यदुक्तं हि सुयोधनेन न फाल्गुनः प्रमुखे स्थास्ययीति। कर्णस्य युद्धे हि महाबलस्य मौात् तु तन्नावबुद्धं मयाऽऽसीत्॥ तेनाद्य तप्स्ये भृशमप्रमेयं यच्छत्रुवर्गे नरकं प्रविष्टः। तदैव वाच्योऽस्मि ननु त्वयाहं न योत्स्येऽहं सूतपुत्र कथंचित्॥ ततो नाहं सृञ्जयान् केकयांश्च समानयेयं सुहृदो रणाय। एवं गते किंच मयाद्य शक्यं कार्यं कर्तुं विग्रहे सूतजस्य॥ तथैव राज्ञश्च सुयोधनस्य ये वापि मां योद्धुकामाः समेताः। धिगस्तु मजीवितमद्य कृष्ण योऽहं वशं सूतपुत्रस्य यातः॥ मध्ये कुरूणां सुहृदां च मध्ये ये चाप्यन्ये योद्धुकामाः समेताः। यदि स्म जीवेत् स भवेनिहन्ता महारथानां प्रवरो रथोत्तमः। तवाभिमन्युस्तनयोऽद्य पार्थ न चास्मि गन्ता समरे पराभवम्॥ स्तथापि नाहं समरे पराङ्मुखः। मम ह्यभाग्यानि पुरा कृतानि पापानि नूनं बलवन्ति युद्धे॥ तृणं च कृत्वा समरे भवन्तं ततोऽहमेवं निकृतो दुरात्मना। वैकर्तनेनैव तथा कृतोऽहं यथा ह्यशक्तः क्रियते ह्यबान्धवः॥ आपद्गतं कश्चन यो विमोक्षेत् स बान्धवः स्नेहयुक्तः सुहृच। एवं पुराणा मुनयो वदन्ति धर्मः सदा सद्भिरनुष्टितश्च॥ त्वष्ट्रा कृतं वाहमकूजनाक्षं शुभं समास्थायं कपिध्वजं तम्। खङ्ग गृहीत्वा हेमपट्टानुबद्धं धनुश्चेदं गाण्डिवं तालमात्रम्॥ स केशवेनोहमानः कथं त्वं कर्णाद् भीतो व्यपयातोऽस्मि पार्थ। धनुश्च तत् केशवाय प्रयच्छ यन्ता भविष्यस्त्वं रणे केशवस्य॥ तदाहनिष्यत् केशवः कर्णमुग्रं मरुत्पतिवृत्रमिवात्तवज्रः। श्चरन्तमुग्रं प्रतिबाधनाय॥ प्रयच्छान्यस्मै गाण्डिवमेदद्य त्वत्तो योऽस्त्रैरभ्यधिको वा नरेन्द्रः। अस्मान् नैवं पुत्रदारैर्विहीनान् सुखाद्धृष्टान् राज्यनाशाच भूयः॥ द्रष्टा लोकः पतिनानप्यगाधे पापैर्जुष्टे नरके पाण्डवेय। मासेऽपतिष्यः पञ्चमे त्वं सुकृच्छ्रे न वा गर्भे आभविष्यः पृथायाः॥ तत् ते श्रेयो राजपुत्राभविष्यन्न चेत् संग्रामदपयानं दुरात्मन्। मसंख्येयान् बाणगणांश्च धिक् ते। धिक् ते केतुं केसरिणः सुतस्य कृशानुदत्तं च रथं च धिक् ते॥ संजय उवाच युधिष्ठिरणैवमुक्तः कौन्तेयः श्वेतवाहनः। असिं जग्राह संक्रुद्धो जिघांसुर्भरतर्षभम्॥ तस्य कोपं समुद्वीक्ष्य चित्तज्ञः केशवास्तदा। उवाच किमिदं पार्थ गृहीतः खङ्ग इत्युत॥ न हि पश्यामि योद्धव्यं त्वयां किञ्चिद् धनंजय। ते ग्रस्ता धार्तराष्ट्रा हि भीमसेनेन धीमता॥ अपयातोऽसि कौन्तेयः राजा द्रष्टव्य इत्यापि। स राजा भवता दृष्टः कुशली च युधिष्ठिरः॥ स दृष्ट्वा नृपशार्दूलं शार्दूलसमविक्रमम्। हर्षकाले च सम्प्राप्त किमिदं मोहकारितम्॥ न तं पश्यामि कौन्तेय यस्ते वध्यो भविष्यति। प्रहर्तुमिच्छसे कस्मात् किं वा ते चित्तविभ्रमः॥ कस्माद् भवान् महाखङ्गं परिगृह्णाति सत्वरः। तत् त्वां पृच्छामि कौन्तेयं किमिदं ते चिकीर्षितम्॥ परामृशसि यत् क्रुद्धः खङ्गमद्भुतविक्रम। एवमुक्तस्तु कृष्णेन प्रेक्षमाणो युधिष्ठिरम्॥ अर्जुन: प्राह गोविन्दं क्रुद्धः सर्प इव श्वसन। अन्यस्मै देहि गाण्डीवमिति मां योऽभिचोदयेत्॥ भिन्द्यामहं तस्य शिर इत्युपांशुव्रत मम। तदुक्तं मम चानेन राज्ञामितपराक्रम॥ समक्षं तव गोविन्द न तत् क्षन्तुमिहोत्सहे। तस्मादेनं वधिष्यामि राजानं धर्मभीरुकम्॥ प्रतिज्ञा पालयिष्यामि हत्वैनं नरसत्तमम्। एतदर्थं मया खड्गो गृहीतो यदुनन्दन॥ सोऽहं युधिष्ठिरं हत्वा सत्यस्यानृण्यतां गतः। विशोका विज्वरश्चापि भविष्यामि जनार्दन॥ किं वा त्वं मन्यसे प्राप्तमस्मिन् काल उपस्थिते। त्वमस्य जगतस्तात वेत्थ सर्वं गतागतम्॥ तत् तथा प्रकरिष्यामि यथा मां वक्ष्यते भवान्। संजय उवाच घिग् धिगित्येव गोविन्दः पार्थमुक्तराब्रवीतः पुनः॥१५ श्रीकृष्ण उवाच इदानीं पार्थ जानामि न वृद्धाः सेवितास्त्वया। काले न पुरुषव्याघ्र संरम्भं यद् भवानगात्॥ न हि धर्मविभागज्ञः कुर्यादेवं धनंजय। यथा त्वं पाण्डवाद्येह धर्मभीरुरपण्डितः॥ अकार्याणं क्रियाणां च संयोगं यः करोति वै। कार्याणामक्रियाणां च स पार्थ पुरुषाधमः॥ अनुसृत्य तु ये धर्मं कथयेयुरुपस्थिताः। समासाविस्तरविदां न तेषां वेत्सि निश्चयम्॥ अनिश्चयज्ञो हि नरः कार्याकार्यविनिश्चये। अवशो मुह्यते पार्थ यथा त्वं मूढ एव तु॥ न हि कार्यमकार्यं वा सुखं ज्ञातु कथंचन। श्रुतेन ज्ञायते सर्व तच त्वं नावबुध्यसे॥ अविज्ञानाद् भवान् यच्च धर्म रक्षति धर्मवित्। प्राणिनां त्वं वधं पार्थ धार्मिको नावबुध्यसे॥ प्राणिनामवधस्तात सर्वज्यायान् मतो मम। अनृतां वा वदेद् वाचं न तु हिंस्यात् कथञ्चन॥ स कथं भ्रातरं ज्येष्ठं राजान् धर्मकोविदम्। हन्याद् भवान् नरश्रेष्ठ प्राकृतोऽन्यः पुमानिव॥ अयुध्यमानस्य वधस्तथाशत्रोश्च मानदा। पराङ्मुखास्य द्रवतःशरणं चापि गच्छतः॥ कृताञ्जलेः प्रपन्नस्य प्रमत्तस्य तथैव च। न वधः पूज्यते सद्भिस्तच सर्व गुरौ तव॥ त्वया चैवं व्रतं पार्थ बालेनेव कृतं पुरा। तस्मादधर्मसंयुक्तं मौात् कर्म व्यवस्यसि॥ स गुरुं पार्थ कस्मात् त्वं हन्तुकामोऽभिधावसि। असम्प्रघार्य धर्माणां गति सूक्ष्मा दुरत्ययाम्॥ इदं धर्मरहस्यं च तव वक्ष्यामि पाण्डव। यद् ब्रूयात् तव भीष्मो हि पाण्डवो वा युधिष्ठिरः॥२ विदुरो वा यथा क्षत्ता कुन्ती वापि यशस्विनी। तत् ते वक्ष्यामि तत्त्वेन निबोधैतद् धनंजय॥ सत्यस्य वचनं साधु न सत्याद् विद्यते परम्। तत्त्वेनैव सुदुर्जेयं पश्य सत्यमनुष्ठितम्॥ भवेत सत्यमवक्तव्यं वक्तव्यमनृतं भवेत्। यत्रानृतं भवेत् सत्यं चाप्यनृतं भवेत्॥ विवाहकाले रतिसम्प्रयोगे प्राणात्यये सर्वधनापहारे। विप्रस्य चार्थे ह्यनृतं वदेत पञ्चानृतान्याहुरपातकानि॥ सर्वस्वस्यापहारे तु वक्तव्यमनृतं भवेत्। तत्रानृतं भवेत् सत्यं चाप्यनृतं भवेत्॥ तादृशं पश्यते बालो यस्य सत्यमनुष्ठितम्। भवेत् सत्यमवक्तव्यं न वक्तव्यमनुष्ठितम्। सत्यानृते विनिश्चित्य ततो भवति धर्मवित्॥ किमाश्चर्यं कृतप्रज्ञः पुरुषोऽपि सुदारुणः। सुमहत् प्राप्नुयात् पुण्यं बलाकोऽन्धवधादिव॥ किमाश्चर्यं पुनमूर्दो धर्मकामो ह्यपण्डितः। सुमहत् प्राप्नुयात् पापमापगास्विव कौशिकः॥ अर्जुन उवाच आचक्ष्व भगवन्नेतद् यथा विन्दाम्यहं तथा। बलाकस्यानुसम्बन्धं नदीनां कौशिकस्य च॥ वासुदेव उवाच पुराव्याधोऽभवत् कश्चिद् बलाको नाम भारत। यात्रार्थ पुत्रदारस्य मृगान् हन्ति न कामतः॥ वृद्धौ च मातापितरौ बिभर्त्यन्यांश्च संश्रितान्। स्वधर्मनिरतो नित्यं सत्यवागनसूयकः॥ स कदाचिन्सृगं लिप्सु भ्यविन्दन्मृगं क्वचित्। अपः पिबन्त ददृशे श्वपादं घ्राणचक्षुषम्॥ अदृष्टपूर्वमपि तत् सत्त्व तेन हतं तदा। अन्धे हते ततो व्योग्नः पुष्पवर्षं पपात च॥ अप्सरोगीतवादित्रैर्नादितं च मनोरमम्। विमानमगमत् स्वर्गन्मृगव्यधनिनीषया॥ तद् भूतं सर्वभूतानामभावाय किलार्जुन। तपस्तप्तवा वरं प्राप्तं कृतमन्धं स्वयम्भुवा॥ तद्धत्वा सर्वभूतानामभावकृतनिश्चयम्। ततो बालकः स्वरगादेवं धर्मः सुदुर्विदः॥ कौशिकोऽप्यभवद् विप्रस्तपस्वी नो नदीनां संगमे ग्रामाददूरात स किलावसत्॥ सत्यं मया सदा वाच्यमिति तस्याभवद् व्रतम्। सत्यवादिति विख्यातः स तदाऽऽसीद् धनंजय॥ अथ दस्युभयात् केचित् तदा तद् वनमाविशन। तत्रापि दस्यवः क्रुद्धास्तानमार्गन्त यत्नतः॥ बहुश्रुतः। अथ कौशिकमभ्येत्य प्राहुस्ते सत्यवादिनम्। कतमेन पथा भगवन् बहवो जनाः॥ सत्येन पृष्टः प्रबूहि यदि तान् वेत्थ शंस नः। श पृष्टः कौशिकः सत्यं तानुवाच ह॥ बहुवृक्षलतागुल्ममेतद् वनमुपाश्रिताः। इति तान् ख्यापयामास तेभ्यस्तत्त्वं स कौशिकः॥५१ ततस्ते तान् समासाद्य क्रूरा जघ्नुरिति श्रुतिः। तेनाधर्मेण महता वाग्दुरुक्तेन कौशिकः॥ गतः स कष्टं नरकं सूक्ष्मधर्मेष्वकोविदः। यथा चाल्पश्रुतो मूढो धर्माणामविभागवित्॥ वृद्धानपृष्ट्वा संदेह महच्छवभ्रमिवार्हति। तत्र ते लक्षणोद्देशः कश्चिदेवं भविष्यति॥ दुष्करं परमं ज्ञानं तर्केणानुव्यवस्यति। श्रुतेधर्म इति वदन्ति बहवो जनाः॥ तत् ते न प्रत्यसूयामि चन स सर्व विधीयते। प्रभवार्थाय भूतानां धर्मप्रवचन कृतम्॥ यत् स्यादहिंसासंयुक्तं च धर्म इति निश्चयः। अहिंसाय भूतानां धर्मप्रवचनं कृतम्॥ धारणाद् धर्ममित्याहुर्धर्मो धारयते प्रजाः। यत् स्याद् धारणसंयुक्तंस धर्म इति निश्चयः॥ येऽन्यायेन निहीर्षन्तो धर्ममिच्छन्ति कर्हिचित्। अकूजनेन मोक्षं वा नानुकूजेत् कथंचन॥ अवश्यं कूजितव्ये वा शङ्करन्नप्यकूजतः। श्रेयस्तत्रानृतं वक्तुं तत् सत्यमविचारितम्॥ यः कार्येभ्यो व्रतं कृत्वा तस्य नानोपपादयेत। न तत्फलमवाप्नोति एवमाहुर्मनीषिणः॥ प्राणात्यये विवाहे वा सर्वज्ञातिवधात्यये। नर्मण्यभिप्रवृत्ते वा न च प्रोक्तं मृषा भवेत्॥ अधर्म नात्र पश्यन्ति धर्मतत्त्वार्थदर्शिनः। यः स्तेनैः सह सम्बन्धान्मुच्यते शपथैरपि॥ श्रेयस्तत्रानृतं वक्तुं तत् सत्यमविचारितम्। न च तेभ्यो धनं देयं शक्ये सति कथंचन॥ पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत्। तस्माद् धमार्थमनृत्तमुक्त्वा नानृतभाग् भवेत्॥ एष ते लक्षणोद्देशो मयोद्दिष्टो यथाविधि। यथाधर्मं यथाबुद्धि मयाद्य वै हितार्थिना॥ एतच्छ्रुत्वा ब्रूहि पार्थ यदि वध्यो युधिष्ठिरः। अर्जुन उवाच यश्चा ब्रूयान्महाप्राज्ञो यथा ब्रूयान्महामतिः॥ हितं चैव यथास्माकं तथैतद् वचनं तव। भवान् मातृसमोऽस्माकं तथा पितृसमोऽपि च॥ गतिश्च परमा कृष्ण त्वमेव च परायणम्। न हि ते त्रिषु लोकेषु विद्यतेऽविदितं क्वचिन्॥ तस्माद् भवान् परम धर्मं वेद सर्व यथातथम्। अवध्यं पाण्डवं मन्ये धर्मराज युधिष्ठिरम्॥ अस्मिंस्तु मम संकल्पे ब्रूहि किंचिदनुग्रहम्। इदं वा परमत्रैव शृणु हृत्स्थं विविक्षितम्॥ जानासि दासार्ह मम व्रतं त्वं यो मां ब्रूयात् कश्चन मानुषेषु। अन्यस्मै त्वं गाण्डिव देहि पार्थ त्वत्तोऽस्त्रैर्वा वीर्यतो वा विशिष्टः॥ हन्यामहं केशव तं प्रसह्य भीमो हन्यात् तूबरकेति चोक्तः। तन्मे राजा प्रोक्तवास्ते समक्षं धनुर्देहीत्यसकृद् वृष्णिवीर॥ तं हन्यां चेत् केशव जीवलोके स्थाता नाहं कालमप्यल्पमात्रम्। ध्यात्वा नूनं ह्येनसा चापि मुक्तो वधं राज्ञो भ्रष्टवीर्यो विचेताः॥ यथा प्रतिज्ञा मम लोकबुद्धौ भवेत् सत्या धर्मभृतां वरिष्ठ। यथा जीवेत् पाण्डवोऽहं च कृष्ण तथा बुद्धि दातुमप्यर्हसि त्वम्॥ वासुदेव उवाच राजा श्रान्तो विक्षतो दुःखितश्च कर्णेन संख्ये निशितैबार्णसंधैः। यश्चानिशं सूतपुत्रेण वीर शरैर्भृशं ताडितोऽयुध्यमानः॥ अतस्त्वमेतेन सरोषमुक्तो दुःखाचितेनेदमयुक्तरूपम्। अकोपितो ह्येष यदि स्म संख्ये कर्णं न हन्यादिति चाब्रवीत् सः॥ जानाति तं पाण्डव एष चापि पापं लोके कर्णमसामन्यैः। ततस्त्वमुक्तो भृशरोषितेन राज्ञा समक्षं परुषाणि पार्थ॥ नित्योद्युक्ते सततं चाप्रसह्ये कर्णे द्यूतं ह्यद्य रणे निबद्धम्। रेवं बुद्धिः पार्थिवे धर्मपुत्रे॥ स्त्वया प्रतिज्ञार्जुन पालनीया। जीवनयं येन मृतो भवेद्धि तन्मे निबोघेह तवानुरूपम्॥ स्तदा स वै जीवति जीवलोके। यदाऽवमानं लभते महान्तं तदा जीवन्मृत इत्युच्यते सः॥ सम्मानितः पार्थिवोऽयं सदैव त्वयाच भीमेन तथा यमाभ्याम्। स्तस्यापमानं कलया प्रयुडक्ष्व॥ त्वमित्यत्रभवन्तं हि ब्रूहि पार्थ युधिष्ठिरम्। त्वमित्युक्तो हि निहतो गुरुर्भवति भारत॥ एवमाचर कौन्तेय धर्मराजे युधिष्ठिरे। अधर्मयुक्तं संयोग कुरुष्वैन कुरूद्वह॥ अथर्वाङ्गिरसी ह्येषा श्रुतीनामुत्तमा श्रुतिः। अविचार्यैव कार्येषा श्रेयस्कामैनरैः सदा॥ अवधेन वधः प्रोक्तो यद् गुरुस्त्वमिति प्रभुः। तद् ब्रूहि त्वं यन्मयोक्तं धर्मराजस्य धर्मवित्॥ स्त्वत्तोऽयुक्तं वेत्स्यते चैवमेषः। ततोऽस्य पादावभिवाद्य पश्चात् समं ब्रूया: सान्त्वयित्वा च पार्थम्॥ भ्राता प्राज्ञास्तव कोपं न जातु कुर्याद् राजा धर्ममवेक्ष्य चापि। मुक्तोऽनृताद् भ्रातवधाच पार्थ हृष्टः कर्णं त्वं जहि सूतपुत्रम्॥ संजय उवाच इत्येवमुक्तस्तु जनार्दनेन पार्थः प्रशस्याथ सुहृदवचस्तत्। मनुक्तपूर्वं परुषं प्रसह्य॥ काले हि अर्जुन उवाच मा त्वं राजन् व्याहर व्याहरस्व यस्तिष्ठसे क्रोशमात्रे रणाद् वै। भीमस्तु मामर्हति गर्हणाय यो युध्यते सर्वलोकप्रवीरैः॥ शत्रून् परिपीड्य संख्ये हत्वा च शूरान् पृथिवीपतींस्तान्। रथप्रधानोत्तमनागमुख्यान् सादिप्रवेकानमितांश्च वीरान्॥ यः कुञ्जराणामधिकं सहस्रं हत्वा नदंस्तुमुलं सिंहनादम्। काम्बोजानामयुतं पर्वतीयान् मृगान् सिंहो विनिहत्येव चाजौ॥ सुदुष्करं कर्म करोति धीरः कर्तुं यथा नार्हसि त्वं कदाचित्। स्तया निहन्त्यश्वरथद्विपान् रणे॥ स्तथा रथाङ्गैर्धनुषा दहत्यरीन्। प्रमृद्य पद्भ्यामहितान् निहन्ति पुनस्तु दो• शतमन्युविक्रमः॥ महाबलौ वैश्रवणान्तकोपमः प्रसह्य हन्ता द्विषतामनीकिनाम्। स भीमसेनोऽर्हति गर्हणां मे न त्वं नित्यं रक्ष्यसे यः सुहृद्भिः॥ महारथान् नागवनरान् हयांश्च पदातिमुख्यानपि च प्रमथ्य। एको भीमो धार्तराष्ट्रेषु मग्नः स मामुपालब्धुमरिंदमोऽर्हति॥ कलिङ्गवङ्गनिषादमागधान् सदामदानीलवलाहकोपमान्। निहन्ति यः शत्रुगजाननेकान् स मामुपालब्धुमरिंदमोऽर्हति॥ स युक्तमास्थाय रथं हि काले धनुर्विधुन्वशरपूर्णमुष्टिः। सृजत्यसौ शरवर्षाणि वीरो महाहवे मेघ इवाम्बुधाराः॥ शतान्यष्टौ वारणानामवश्यं विशातितैः कुम्भकराग्रहस्तः। भीमेनाजौ निहतान्यद्य बाणैः स मां क्रूरं वक्तुमर्हत्यरिजः॥ बलं तु वाचि द्विजसत्तमानां क्षात्रं बुधा बाहुबलं वदन्तिा त्वं वाग्बलो भारत निष्ठुरश्च त्वमेव मां वेत्य यथाबलोऽहम्॥ यते हि नित्यं तव कर्तुमिष्टं दारैः सुतैर्जीवितेनात्मना च। एवं यन्मां वाग्विशिखेन हंसि त्वत्तः सुखं न वयं विद्म किंचित्॥ मां मावसंस्था द्रौपदीतल्पसंस्थो महारथान् प्रतिहन्मि त्वदर्थे। तेनातिशङ्की भारत निष्ठुरोऽसि त्वत्तः सुखं नाभिजानामि किंचित्॥ स्त्व प्रियार्थं नरदेव युद्धे। वीरः शिखण्डी द्रौपदोऽसौ महात्मा मयाभिगुप्तेन हतश्च तेन॥ न चाभिनन्दामि तवाधिराज्यं यतस्त्वमक्षेष्वहिताय सक्तः। मस्माभिर्वा तर्तुमिच्छस्यरीस्त्वम्॥ अक्षेपु दोषा बहवो विधर्माः श्रुतास्त्वया सहदेवोऽब्रवीद् यान्। स्तेन स्म सर्वे निरयं प्रपन्नाः॥ सुखं त्वत्तो नाभिजानीमकिंचिद् यतस्त्वमक्षैर्देवितुं संप्रवृतः। स्वयं कृत्वा व्यसनं पाण्डव त्वमस्मास्तीवाः श्रावयस्यद्य वाचः॥ शेतेऽस्माभिनिहता शत्रुसेना छिन्नैर्गात्रैर्भूमितले नदन्ती। त्वया हि तत् कर्म कृत् नृशंसं यस्माद् दोष: कौरवाणां वधश्च॥ हता उदीच्या निहताः प्रतीच्या नष्टाः प्राच्या दाक्षिणात्या विशस्ताः। स्तेषां योधैरस्मदीयैश्च युद्धे॥ स्त्वसम्भवं नो व्यसनं नरेन्द्र। मास्मान् क्रूरैर्वाक्प्रतोदैस्तुदंस्तवं भूयो राजन् कोपयेस्त्वल्पभाग्यः॥ संजय उवाच एता वाचः परुषाः सव्यसाची स्थिरप्रज्ञः श्रावयित्वा तु रुक्षाः। बभूवासौ विमना धर्मभीरुः कृत्वा प्राज्ञाः पातकं किंचिदेवम्॥ तदानुतेपे सुरराजपुत्रो विनिःश्वसंश्चासिमथोद्वबह। तमाह कृष्णः किमिदं पुनर्भवान् विकोशमाकाशनिभं करोत्यसिम्॥ स्तथा प्रवक्ष्याम्यहमर्थसिद्धये। इत्येमुक्तः पुरुषोत्तमेन सुदुःखितः केशवमर्जुनोऽब्रवीत्॥ प्रसह्य येनाहितमाचरं वै। निशम्य तत् पार्थवचोऽब्रवीदिदं धनंजय धर्मभृतां वरिष्ठः॥ किं कश्मलं प्राविशः पार्थ घोरम्। त्वं चात्मानं हन्तुमिच्छस्यरिघ्न नेदं सद्भिः सेवितं वै किरीटिन्॥ धर्मात्मानं भ्रातरं ज्येष्ठमद्य खड्ड्रेन चैनं यदि हन्या नृवीर। धर्माद् भीतस्तत् कथं नाम ते स्यात् किंचोत्तरं वाकरिष्यस्त्वमेव॥ सूक्ष्मो धर्मो दुर्विदश्चापि पार्थ विशेषतोऽज्ञैः प्रोच्यमानं निबोध। हत्वाऽऽत्मानमात्मना प्राप्नुयास्त्वं वधाद् भ्रातुर्नरकं चातिघोरम्॥ स्तथा हतात्मा भवितासि पार्थ। तथास्तु कृष्णेत्यभिनन्द्य तद्वचो धनंजयः प्राह धनुर्विनाम्य॥ युधिष्ठिरं धर्मभृतां वरिष्ठं शृणुष्व राजनिति शक्रसूनुः। न मादृशोऽन्यो नरदेव विद्यते धनुर्धरो देवमृते पिनाकिनम्॥ अहं हि तेनानुमतो महात्मना क्षणेन हन्यां सचराचरं जगत्। मया हि राजन् सादिगीश्वरा दिशो विजित्य सर्वा भवतः कृता वशे॥ स राजसूयश्च समाप्तदक्षिणः सभा च दिव्या भवतो ममौजसा। पाणौ पृषत्का निशिता ममैव धनुश्च सज्यं विततं सबाणम्॥ पादौ च मे सरथौ सध्वजौ च न मादृशं युद्धगतं जयन्ति। हता उदीच्या निहताः प्रतीच्याः प्राच्या निरस्ता दाक्षिणात्या विशस्ताः॥ संशप्तकानां किंचिदेवास्ति शिष्टं सर्वस्य सैन्यस्य हतं मयार्धम्। शेते मया निहता भारतीयं चमू राजन् देवचमूप्रकाशा॥ स्तस्माल्लोकानेष करोभि भस्मसात्। जैत्रं रथं भीममास्थाय कृष्ण यावः शीघ्रं सूतपुत्र निहन्तुम्॥ राजा भवत्वद्य सुनिर्वृतोऽयं कर्णं रणे नाशयितासि बाणैः। इत्येवमुक्त्वा पुनराह पार्थो युधिष्ठिरं धर्मभृतां वरिष्ठम्॥ अद्यापुत्र सूतमाता भवित्री कुन्ती वाथो वा मया तेन वापि। सत्यं वदाम्यद्य न कर्णमाजी शरैरहत्वा कवचं विमोक्ष्ये॥ संजय उवाच इत्येवमुक्त्वा पुनरेव पार्थो युधिष्ठिरं धर्मभृता वरिष्ठम्। विमुच्य शस्त्राणि धनुर्विसृज्य कोशे च खङ्ग विनिधाय तूर्णम्॥ स वीडया नम्रशिराः किरीटी युधिष्ठिरं प्राञ्जलिरभ्युवाच। प्रसीद राजन् क्षम यन्मयोक्तं काले भवान् वेत्सस्यति तन्नमस्ते॥ प्रसाद्य राजानममित्रसाह स्थितोऽब्रवीचैव पुन: प्रवीरः। त्यावर्ततेऽसाध्वभियामि चैनम्॥ याम्येष भीमं समरात् प्रमोक्तुं सर्वात्मना सूतपुत्रं च हन्तुम्। तव प्रियार्थं मम जीवितं हि ब्रवीमि सत्यं तदवेहि राजन्॥ इति प्रयास्यन्नुपदृह्य पादौ समुत्थितौ दीप्ततेजाः किरीटी। एतच्छ्रुत्वा पाण्डवो धर्मराजो भ्रातुर्वाक्यं परुषं फाल्गुनस्य॥ उत्थाय तस्माच्छयनादुवाच पार्थं ततो दुःखपरीतचेताः। कृतं मया पार्थ यथा न साधु येन प्राप्त व्यसनं वः सुघोरम्॥ तस्माच्छिरश्छिन्धि ममेदमद्य कुलान्तकस्याधमपूरुषस्य। पापस्य पापाव्यसनान्वितस्य विमूढबुद्धेरलसस्य भीरोः॥ वृद्धावमन्तुः परुषस्य चैव किं ते चिरं मे ह्यनुसृत्य रुक्षम्। गच्छाम्यहं वनमेवाद्य पापः सुखं भवान् वर्ततां मद्विहीनः॥ योग्यो राजा भीमसेनो महात्मा कीबस्य वा मम किं राज्यकृत्यम्। न चापि शक्तः परुषाणि सोढुं पुनस्तवेमानि रुषान्वितस्य॥ भीमोऽस्तु राजा मम जीवितेन न कार्यमद्यावमतस्य वीर। इत्येवमुक्त्वा सहसोत्पपात राजा ततस्तच्छयनं विहाय॥ इयेष निर्गन्तुमथो वनाय तं वासुदेवः प्रणतोभ्युवाच॥ राजन् विदितमेतद् वै यथा गाण्डीवधन्वनः। प्रतिज्ञा सत्यसंधस्य गाण्डीवं प्रति विश्रुता॥ ब्रूयाद् एवं गाण्डीवमन्यस्मै देयमित्युत। वध्योऽस्य स पुमाँल्लोके त्वया चोक्तोऽयमीदृशम्॥५० ततः सत्यां प्रतिज्ञां ता पार्थेन प्रतिरक्षता। मच्छन्दादवमानोऽयं कृतस्तव महीपते॥ गुरूणामवमानो हि वध इत्यभिधीयते। तस्मात् त्वं वै महाबाहो मम पार्थस्य चोभयोः॥ व्यतिक्रममिमं राजन् सत्यसंरक्षणं प्रति। शरणं त्वां महाराज प्रपन्नौ स्व उभावपि॥ क्षन्तुमर्हसि मे राजन् प्रणतस्याभियाचतः। राधेयस्याद्य पापस्य भूमि: पास्यति शोणितम्॥ सत्यं ते प्रतिजानामि हतं विद्ध्यद्य सूतजम्। यस्येच्छसि वधं तस्य गतमप्यस्य जीवितम्॥ इति कृष्णवचः श्रुत्वा धर्मराजौ युधिष्ठिरः। ससम्भ्रमं हृषीकेशमुत्थाप्य प्रणतं तदा॥ कृताञ्जलिस्ततो वाक्यमुवाचानन्तरं वचः। एवमेव यथाऽऽत्य त्वमस्त्येषोऽतिक्रमो मम॥ अनुनीतोऽस्मि गोविन्द तारितश्चास्मि माधव। मोचिता व्यसनाद् घोराद् वयमद्य त्वयाच्युत॥ भवन्तं नाथमासाद्य ह्यावां व्यसनसागरात्। घोरादद्य समुत्तीर्णाबुभावज्ञानमोहितौ॥ त्वबुद्धिप्लवमासाद्य दुःखशोकार्णवाद् वयम्। समुत्तीर्णाः सहामात्याः सनाथाः स्म त्वयाच्युत।।६० संजय उवाच धर्मराजस्य तच्छ्रुत्वा प्रीतियुक्तं वचस्ततः। पार्थं प्रोवाच धर्मात्मा गोविन्दो यदुनन्दनः॥ इतिस्म कृष्णवचनात् प्रत्युचार्य युधिष्ठिरम्। भभूव विमनाः पार्थः किंचित् कृत्वेन पातकम्॥ ततोऽब्रवीद् वासुदेवः प्रहसन्निव पाण्डवम्। कथं नाम भवेदेतद् यदि त्वं पार्थ धर्मजम्॥ असिना तीक्ष्णधारेण हन्या धर्मे व्यवस्थितम्। त्वमित्युक्त्वाथ राजानमेवं कश्मलमाविशः॥ हत्वा तु नृपति पार्थ अकरिष्यः किमुत्तरम्। एवं हि दुर्विदो धर्मो मन्दप्रज्ञैर्विशेषतः॥ स भवान् धर्मभीरुत्वाद् ध्रुवमैष्यन्महत्तमः। नरकं घोररूपं च भ्रातुर्येष्ठस्य वै वधात्॥ स त्वं धर्मभृतां श्रेष्ठं राजानं धर्मसंहितम्। प्रसादय कुरुश्रेष्ठमेतदत्र मतं मम॥ प्रसाद्य भक्त्या राजानं प्रीते चैव युधिष्ठिर। प्रयावस्त्वरितौ योद्धं सूतपुत्ररथं प्रति॥ हत्वा तु समरे कर्णं त्वमद्य निशितैः शरैः। विपुला प्रीतिमाधत्स्व धर्मपुत्रस्य मानद॥ एतदत्र महाबाहो प्राप्तकालं मतं मम। एवं कृते कृतं चैव तव कार्यं भविष्यति॥ ततोऽर्जुनो महाराज लज्जया वै समन्वितः। धर्मराजस्य चरणौ प्रपद्य शिरसा नतः॥ उवाच भरतश्रेष्ठं प्रसीदेति पुनः पुनः। क्षमस्व राजन् यत् प्रोक्तं धर्मकामेन भीरुणा॥ दृष्ट्वा तु पतितं पद्भ्यां धर्मराजो युधिष्ठिरः। धनंजयममित्रघ्नं रुदन्तं भरतर्षभ।॥ उत्थाय भ्रातरं राजा धर्मराजो धनंजयम्। समाश्लिष्य च सस्नेहं प्ररुरोद महीपतिः॥ रुदित्वा सुचिरं कालं भ्रातरौ सुमहाद्युती। कृतशौचौ महाराज प्रीतिमन्तौ बभूवतुः॥ तत अतिश्लिष्य तं प्रेम्णा मूर्ध्नि चाध्राय पाण्डवः। प्रीत्या परमया युक्तो विस्मयंञ्च पुनः पुनः॥ अब्रवीत् तं महेष्वासं धर्मराजे धनंजयम्। कर्णेन मे महाबाहो सर्वसैन्यस्य पश्यतः॥ कवचं च ध्वजं चैव धनुः शक्तिर्हयाः शराः। शरैः कृत्ता महेष्वास यतमानस्य संयुगे॥ सोऽहं ज्ञात्वा रणे तस्य कर्म दृष्ट्वा च फाल्गुन। व्यवसीदामि दुःखेन न च मे जीवितं प्रियम्॥ न चेदद्य हि तं वीरं निहनिष्यसि संयुगे। प्राणानेव परित्यक्ष्ये जीवितार्थो हि को मम॥ एवमुक्तः प्रत्युवाच विजयो भरतर्षभ। सत्येन ते शपे राजन् प्रसादेन तथैव च। भीमेन च नरश्रेष्ठ यमाभ्यां च महीपते॥ यथाद्य समरे कर्णं हनिष्यामि हतोऽपि वा। महीतले पतिष्यामि सत्येनायुधमालभे॥ एवमाभाष्य राजानमब्रवीन्माधवं वचः। अद्य कर्णं रणे कृष्ण सूदयिष्ये न संशयः॥ तव बुद्ध्या हि भद्रं ते वधस्तस्य दुरात्मनः। एवमुक्तोऽब्रवीत् पार्थ केशवो राजसत्तम॥ शक्तोऽसि भरतश्रेष्ठ हन्तुं कर्णं महाबलम्। एष चापि हि मे कामो नित्यमेव महारथ॥ कथं भवान् रणे कर्णं निहन्यादिति सत्तम। भूयश्चोवाच मतिमान् माधवो धर्मनन्दनम्॥ युधिष्ठिरेमं बीभत्सुं त्वं सान्त्वयितुमर्हसि। अनुज्ञातु च कर्णस्य वधायाद्य दुरात्मनः॥ श्रुत्वा ह्यहमयं चैव त्वां कर्णशरपीडितम्। प्रवृत्ति ज्ञातुमायाताविहावां पाण्डुनन्दन॥ दिष्ट्यासि राजन् न हतो दिष्ट्या न ग्रहणं गतः। परिसान्त्वय बीभत्सुं जयमाशाधि चानघ॥ युधिष्ठिर उवाच एह्येहि पार्थ बीभत्सो मां परिष्वज पाण्डव। वक्तव्यमुक्तोऽस्मि हितं त्वया क्षान्तं च तन्मया॥ अहं त्वामनुजानामि जहि कर्णं धनंजय। मन्युं च मा कृथाः पार्थ यन्मयोक्तोऽसि दारुणम्॥३१ संजय उवाच ततो धनंजयो राजशिरसा प्रणतस्तदा। पादौ जग्राह पाणिभ्यां भ्रातुर्येष्ठस्य मारिष॥ तमुत्थाप्य ततो राजा परिष्वज्य च पीडितम्। मू[पाघ्राय चैवैनमिदं पुनरुवाच ह॥ धनंजय महाबाहो मानितोऽस्मि दृढं त्वाय। माहात्म्यं विजयं चैव भूयः प्राप्नुहि शाश्वतम्॥ अर्जुन उवाच अद्य तं पापकर्माण सानुबन्धं रणे शरैः। नयाम्यन्तं समासाद्य राधेयं बलगर्वितम्॥ येत त्वं पीडितो बाणैदृढमायम्य कार्मुकम्। तस्याद्य कर्मणः कर्णः फलमाप्स्यति दारुणम्॥ अद्य त्वामनुपश्यति कर्ण हत्वा महीपते। सभाजयितुमाक्रन्दादिति सत्यं ब्रवीमि ते॥ नाहत्वा विनिवर्तिष्ये कर्णमद्य रणाजिरात्। इति सत्येन ते पादौ स्पृशामि जगतीपते॥ संजय उवाच इति ब्रुवाणं सुमनाः किरीटिनं युधिष्ठिरः प्राह वचो बृहत्तरम्। यशोऽक्षयं जीवितमाप्सितं ते जयं सदा वीर्यमरिक्षयं तदा॥ प्रयाहि वृद्धिं च दिशन्तु देवता यथाहमिच्छामि तवास्तु तत् तथा। प्रयाहि शीघ्रं जहि कर्णमाहवे पुरंदरो वृत्रमिवात्मवृद्धये॥ संजय उवाच प्रसाद्य धर्मराजानं प्रहृष्टेनान्तरात्मना. पार्थः प्रोवाच गोविन्दं सूतपुत्रवधोद्यतः॥ कल्पतां मे रथो भूयो युज्यन्तां च हयोत्तमाः। आयुधानि च सर्वाणि सज्जन्तां मे महारथे।॥ उपावृत्ताश्च तुरगाः शिक्षिताश्चाश्वसादिभिः। रथोपकरणैः सजा उपायान्तु त्वरान्विताः॥ प्रयाहि शीघ्रं गोविन्द सूतपुत्रजिघांसया। एवमुक्तो महाराज फाल्गुनेन महात्मना॥ उवाच दारुकं कृष्णः कुरुं सर्व यथाब्रवीत्। अर्जुनो भरतश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम्॥ आज्ञाप्तस्त्वथ कृष्णेन दारुको राजसत्तम। योजयामास स रथं वैयाघ्र शत्रुतापनम्॥ सज्जं निवेदयामास पाण्डवस्य महात्मनः। युक्तं तु तं रथं दृष्ट्वा दारुकेण महात्मना।॥ आपृच्छय धर्मराजानं ब्राह्मणान् स्वस्ति वाच्य च। सुमङ्गलस्वस्त्ययनमारुरोह रथोत्तमम्॥ तस्य राजा महाप्राज्ञो धर्मराजो युधिष्ठिरः। आशिषोऽयुक्त स ततः प्रायात् कर्ण रथं प्रति॥ तमायान्तं प्रहेष्वासं दृष्ट्वा भूतानि भारत। निहतं मेनिरे कर्णं पाण्डवेन महात्मना॥ बभूवुर्विमला: सर्वा दिशो राजन् समन्ततः। चाषाक्ष शतपत्राश्च क्रौञ्चाश्चैव जनेश्वर॥ प्रदक्षिणमकुर्वन्त तदा वै पाण्डुनन्दनम्। बहवः पक्षिणो राजन् पुन्नामानः शुभाः शिवाः॥१२ त्वरयन्तोऽर्जुनं युद्धे हृष्टरूपा ववाशिरे। कङ्का गृध्रा बकाः श्येना वायसाश्च विशाम्पते॥ अग्रतस्तस्य गच्छन्ति मांसहेतोभयानकाः। निमित्तानि च धन्यानि पाण्डवस्य शशंसिरे॥ विनाशमरिसैन्यानां कर्णस्य च वधं प्रति। प्रयातस्याथ पार्थस्य महान् स्वेदो व्यजायत।॥ चिन्ता च विपुला जज्ञे कथं चेदं भविष्यति। ततो गाण्डीवधन्वानमब्रवीन्मधुसूदनः॥ पार्थं तथा यान्तं चिन्तापरिगतं तदा। वासुदेव उवाच गाण्डीव धन्वन् संग्रामे ये त्वया धनुषा न तेषा मानुषो जेता त्वदन्य इह विद्यते। जिताः॥ दृष्टा हि बहवः शूराः शक्रतुल्यपराक्रमाः॥ त्वां प्राप्य समरे शूरं ते गताः परमां गतिम्। को हि द्रोणं च भीष्मं च भगदत्तं च मारिष॥ विन्दानुविन्दावावन्तयौ काम्बोजं च सुदक्षिणम्। श्रुतायुषं महावीर्यमच्युतायुषमेव च। प्रत्युद्गम्य भवेत् क्षेमी यो न स्यात् त्वमिव प्रभो॥२० तव शस्त्राणि दिव्यानि लाघवं बलमेव च। असम्मोहश्च युद्धेषु विज्ञानस्य च संततिः॥ वेधः पातश्च लक्ष्येषु योगश्चैव तथार्जुन। भवान् देवान् सगन्धर्वान् हन्यात् सह चराचरान्॥२२ पृथिव्यां तु रणे पार्थ न योद्धा त्वत्समः पुमान्। धनुग्रार्हा हि ये केचित् क्षत्रिया युद्धदुर्मदाः॥ आ देवात् त्वत्समं तेषां न पश्यामि शृणोमि च। ब्रह्मणा च प्रजाः सृष्टा गाण्डीवं च महद् धनुः॥ येनं त्वं युध्यसे पार्थ तस्मान्नास्ति त्वया समः। अवश्यं तु मया वाच्यं यत् पथ्यं तव पाण्डव॥ मावमंस्था महाबाहो कर्णमाहवशोभिनम्। कर्णो हि बलवान् दृप्तः कृतास्त्रश्च महारथः॥ कृती च चित्रयोधी च देशकालस्य कोविदः। बहुनात्र किमुक्तेन संक्षेपाच्छृणु पाण्डव॥ त्वत्समं त्वद्विशिष्टं वा कर्णं मन्ये महारथम्। परमं यत्नमास्थाय त्वया वध्यो महाहवे॥ तेजसा वह्निसदृशो वायुवेगसमो जवे। अन्तकप्रतिमः क्रोधे सिंहसंहननो बली॥ अष्टरनिर्महाबाहुयूंढोरस्कः सुदुर्जयः। अभिमानी च शूरश्च प्रवीरः प्रियदर्शनः॥ सर्वयोधगुणैर्युक्तो मित्राणामभयंकरः। सततं पाण्डवद्वेषी धार्तराष्ट्रहिते रतः॥ सर्वैविध्यो राधेयो देवैरपि सवासवैः। ऋते त्वामिति मे बुद्धिस्तदद्य जहि सूतजम्॥ देवैरपि हि संयत्तैर्बिभ्रद्भिर्मासशोणितम्। अशक्यः स रथो जेतुं सर्वैरपि युयुत्सुभिः॥ दुरातमानं पापवृत्तं नृशंसं दुष्टप्रज्ञं पाण्डवेयेषु नित्यम्। हीनस्वार्थ पाण्डवेयैर्विरोधे हत्वा कर्ण निश्चितार्थो भवाद्य॥ तं सूतपुत्रं रथिनां वरिष्ठं निष्कालिकं कालवशं नयाद्य। तं सूतपुत्रं रथिनां वरिष्ठं हत्वा प्रीति धर्मराजे कुरुष्व॥ जानामि ते पार्थ वीर्यं यथावद् दुर्वारणीयं च सुरासुरैश्च। नसौ दर्पात् सूतपुत्रो दुरात्मा॥ आत्मानं मन्यते वीरं येन पापः सुयोधनः। तमद्य मूलं पापानां जहि सौतिं धनंजय॥ खङ्गजिआँ धनुरास्यं शरदंष्ट्रं तरस्विनम्। दृप्तं पुरुषशार्दूलं जहि कर्ण धनंजय॥ अहं त्वामनुजानामि वीर्येण च बलेन च। जहि कर्ण रणे शूर मातङ्गमिव केसरी॥ यस्य वीर्येण वीर्यं ते धार्तराष्ट्रोऽवमन्यते। तमद्य पार्थ संग्रामे कर्ण वैकर्तनं जहि॥ संजय उवाच ततः पुनरमेयात्मा केशवोऽर्जुनमब्रवीत्। कृतसंकल्पमायन्तं वधे कर्णस्य भारत॥ अद्य सप्तदशाहानि वर्तमानस्य भारत। विनाशस्यातिघोरस्य नरवारणवाजिनाम्॥ भूत्वा हि विपुला सेना तावकानां परैः सह। अन्योन्यं समरं प्राप्य किंचिच्छेषा विशाम्पते॥ भूत्वा वै कौरवाः पार्थ प्रभूतगजवाजिनः। त्वां वै शत्रु समासाद्य विनष्टा रणमूर्धनि॥ एते ते पृथिवीपालाः सृञ्जयाश्च समागताः। त्वां सभासाद्य दुर्धर्षं पाण्डवाश्च व्यवस्थिताः॥ पाञ्चालैः पाण्डववैर्मत्स्यैः कारूषैश्चेदिभिः सह। त्वया गुप्तैरमित्रनैः कृतः शत्रुगणक्षयः॥ को हि शक्तो रणे जेतुं कौरवांस्तात संयुगे। अन्यत्र पाण्डवान् युद्धे त्वया गुप्तान् महारथान्॥ शक्तस्त्वं हि रणे जेतुं ससुरासुरमानुषान्। त्रील्लोकान् समरे युक्तान् किं पुनः कौरवं बलम्॥८ भगदत्तं च राजानं कोऽन्यः शक्तसत्वया बिना। जेतुं पुरुषशार्दूल योऽपि स्याद् वासवोपमः॥ तथेमा विपुलां सेनां गुप्ता पार्थ त्वयानघ। न शेकुः पार्थिवाः सर्वे चक्षुर्भिरपि वीक्षितुम्॥ तथैव सततं पार्थ रक्षिताभ्यां त्वाय रणे। धृष्टद्युम्नशिखण्डिभ्यां भीष्मद्रोणौ निपातितौ॥ को हि शक्तो रणे पार्थ भारतानां महारथौ। भीष्मद्रोणौ युधा जेतुं शक्रतुल्यपराक्रमौ॥ को हि शान्तनवं भीष्मं द्रोणं वैकर्तनं कृपम्। द्रौणिं च सौमदत्तिं च कृतवर्माणमेव च॥ सैन्धवं मद्रराजानं राजानं च सुयोधनम्। वीरान् कृतास्त्रान् समरे सर्वानेवानिवर्तिनः॥ अक्षौहिणीपतीनुग्रान संहतान् युद्धदुर्मदान्। त्वामृते पुरुषव्याघ्र जेतुं शक्तः पुमानिह॥ श्रेण्यश्च बहुलाः क्षीणाः प्रदीर्णाश्वरथद्विपाः। नानाजनपदाचोग्राः क्षत्रियाणमर्षिणाम्॥ गोवासदासमीयानां वसातीनां च भारत। प्राच्यानां वाटधानानां भोजानां चाभिमानिनाम्॥ उदीर्णाश्वगजा सेना सर्वक्षत्रस्य भारत। त्वां समासाद्य निधनं गता भीमं च भारत॥ उग्राश्च भीमकर्माणस्तुषारा यवनाः खशाः। दाभिसारा दरदाः शका माठरतङ्गणाः॥ आन्ध्रकाश्च पुलिन्दाश्च किराताश्चोग्रविक्रमाः। म्लेच्छाश्च पर्वतीयाश्च सागरानूपवासिनः॥ संरम्भिणो युद्धशौण्डा बलिनो दण्डपाणयः। एते सुयोधनस्यार्थे संरब्धाः कुरुभिः सह॥ न शक्या युधि निर्जेतुं त्वदन्येन परंतप। धार्तराष्ट्रमुदग्रं हि व्यूढं दृष्ट्वा महद् बलम्॥ यदि त्वां न भवेस्त्राता प्रतीयात् को नु मानवः। तत् सागरमिवोधुतं रजसा संवृत्तं बलम्॥ विदार्य पाण्डवैः क्रुद्धस्त्वया गुप्तैर्हतं बिभो। मगधानामधिपतिर्जयत्सेनो महाबलः॥ अद्य सप्तैव चाहानि हतः संख्येऽभिमन्युना। ततो दशसहस्राणि गजानां भीमकर्मणाम्॥ जधान गदया भीमस्तस्य राज्ञः परिच्छदम्। ततोऽन्येभिहता नागा रथाश्च शतशो बलात्॥ तदेवं समरे पार्थ वर्तमाने महाभये। भीमसेनं समासाद्य त्वां च पाण्डव कौरवाः॥ सवाजिरथमातङ्गा मृत्युलोकमितो गताः। तथा सेनामुखे तत्र निहते पार्थ पाण्डवैः॥ भीष्मः प्रासृजदुग्राणि शरजालानि मारिष। स चेदिकाशिपाञ्चालन करूषान् मत्स्यकेकयान्॥२९ शरैः प्रच्छाद्य निधनमनयत् परमास्त्रवित्। तस्य चापच्युतैर्बाणैः परदेहविदारणैः॥ पूर्णामाकाशमभवद् रुक्मपुङ्खैरजिह्मगैः। हन्याद् रथसहस्राणि एकैकेनैव मुष्टिना॥ लक्षं नरद्विपान् हत्वा समेतान् समहाबलान्। गत्या दशम्या ते गत्वा जनुर्वाजिरथद्विपान्॥ हित्वा नवगतीर्दुष्टाः स बाणनाहवेऽत्यजत्। दिनानि दश भीष्मेण निघ्नता तावकं बलम्॥ शून्याः कृता रथोपस्था हताश्च गजवाजिनः। दर्शयित्वाऽऽत्मनो रूपं रुदोपेन्द्रसमं युधि॥ पाण्डवानामनीकानि प्रगृह्यसौ व्यशातयत्। विनिघ्नन् पृथिवीपालांश्चेदि पञ्चालकेकयान्॥ अदहत् पाण्डवी सेनां रथाश्वगजसंकुलाम्। मजन्तचमप्लवे मन्दमुजिहीर्षुः सुयोधनम्॥ तथा चरन्तं समरे तपन्तमिव भास्करम्। पदातिकोटिसाहस्त्राः प्रवरायुधपाणयः॥ न शेकुः संजया द्रष्टुं तथैवान्ये महीक्षितः। विचरन्तं तथा तं तु संग्रामे जितकाशिनम्॥ सर्वोद्यमेन महता पाण्डवा समभिद्रवत्। स तु विद्राव्य समरे पाण्डवन् संजयानपि॥ एक एव रणे भीष्म एकवीरत्वमागतः। तं शिखण्डी समासाद्य त्वया गुप्तो महाव्रतम्॥ जघान पुरुषव्याघ्रं शरैः संनतपूर्वभिः। स एष पतितः शेते शरतल्पे पितामहः॥ त्वां प्राप्य पुरुषव्याघ्र वृत्रः प्राप्येव वासवम्। द्रोणः पञ्चदिनान्युमो विधम्य रिपुवाहिनीम्॥ कृत्वा व्यूहमभेद्यं च पातयित्वा महारथान्। जयद्रथस्य समरे कृत्वा रक्षां महारथः॥ अन्तकप्रतिमश्चोग्रो रात्रियुद्धेऽदहत् प्रजाः। दग्ध्वा योधाञ्छरैर्वीरो भारद्वाजः प्रतापवान्॥ धृष्टद्युम्नं समासाद्य स गतः परमां गतिम्। यदि वाद्य भवान् युद्धे सूतपुत्रमुखान् रथान्॥ नावारयिष्यः संग्रामे न स्म द्रोणो व्यनंक्ष्यत। भवता तु बलं सर्व धार्तराष्ट्रस्य वारितम्॥ ततो द्रोणो हतो युद्धे पार्षतेन धनंजय। एवं वा को रणे कुर्यात् त्वदन्यः क्षत्रियो युधि॥ यादृशं ते कृतं पार्थ जयद्रथवधं प्रति। निवार्य सेनां महतीं हत्वा शूरांश्च पार्थिवान्॥ निहतः सैन्धवो राजा त्वयास्त्रबलतेजसा। आश्चर्य सिन्धुराजस्य वधं जानन्ति पार्थिवाः॥ अनाश्चर्यं हि तत् त्वत्तस्तवं हि पार्थं महारथः। त्वां हि प्राप्य रणे क्षत्रमेकाहादिति भारत॥ नश्यमानमहं युक्तं मन्येयमिति मे मतिः। सेयं पार्थ चमूर्घोरा धार्तराष्ट्रस्य संयुगे॥ हतसर्वस्ववीरा हि भीष्मद्रोणौ यदा हतौ। शीर्णप्रवरयोधाऽद्य हतवाजिरथद्विपा॥ हीना सूर्येन्दुनक्षत्रैद्यौरिवाभाति भारती। विध्वस्ता हि रणे पार्थ सेनेयं भीमविक्रम॥ सेना शक्रस्येव पराक्रमैः। तेषां हतवशिष्टास्तु सन्ति पञ्च महारथाः॥ अश्वत्थामा कृतवर्मा कर्णो मद्राधिपः कृपः। आसुरीव पुरा तांस्त्वमद्य नरव्याघ्र हत्वा पञ्च महारथान्॥ हतामित्रः प्रयच्छोर्वी राज्ञे सद्वीपपत्तनाम्। साकाशजलपाताला सपर्वतमहावनाम्॥ प्राप्नोत्वमितवीर्यश्रीरद्य पार्थो वसुन्धराम्। एतां पुरा विष्णुरिव हत्वा दैतेयदानवान्॥ प्रयच्छ मेदिना राज्ञे शक्रायैव हरिर्यथा। अद्य मोदन्तु पञ्चाला निहतेष्वरिषु त्वया। विष्णुना निहतेष्वेव दानवेयुषु देवताः॥ यदि वा द्विपदां श्रेष्ठ द्रोणं मानयतो गुरुम्। अश्वत्थाम्नि कृपा तेऽस्ति कृपे वाचार्यगौरवात्॥ अत्यन्तापचितान् बन्धून मानयन् मातृबान्धवान्। कृतवर्माणमासाद्य न नेष्यसि यमक्षयम्॥ भ्रातरं मातुरासाद्य शल्यं मद्रजनाधिपम्। यदि त्वमरविन्दाक्ष दयावान् न जिघांससि॥ इमं पापमति क्षुद्रमत्यन्तं पाण्डवान् प्रति। कर्णमद्य नरश्रेष्ठ जह्याः सुनिशितैः शरैः॥ एतत् ते सुकृतं कर्म नात्र किंचन युज्यते। वयमप्यनूजानीमो नात्र दोषोऽस्ति कश्चन॥ दहने यत् सपुत्राया दिशि मातुस्तवानघ। द्यूतार्थे यच युष्मासु प्रावर्तत सुयोधनः॥ तस्य सर्वस्य दुष्टात्मा कर्णो वै मूलमित्युत। कर्णाद्धि मन्यते त्राणं नित्यमेव सुयोधनः॥ ततो मामपि संरब्धो निग्रहीतुं प्रचक्रमे। स्थिरा बुद्धिनरेन्द्रस्य धार्तराष्ट्रस्य मानद॥ कर्णः पार्थान् रणे सर्वान् विजेष्यति न संशयः। कर्णमाश्रित्य कौन्तेय धार्तराष्ट्रेण विग्रहः॥ रोचितो भवता सार्धं जानतापि बलं तव। कर्णो हि भाषते नित्यमहं पार्थान् समागतान्॥ वासुदेवं च दाशार्ह विजेष्यामि महारथम्। प्रोत्साहयन् दुरात्मानं धार्तराष्ट्र सुदुर्मतिम्॥ समिती गर्जते कर्णस्तमद्य जहि भारत। यच युष्मासु पापं वै धार्तराष्ट्रः प्रयुक्तवान्॥ तत्र सर्वत्र दुष्टात्मा कर्णः पापमतिर्मुखम्। यच तद् धार्तराष्ट्रस्य क्रूरैः षड्भिर्महारथैः॥ अपश्यं निहतं वीरं सौभद्रमृषभेक्षणम्। द्रोणद्रौणिकृपान् वीरान् कर्षयन्तं नरर्षभान्॥ निर्मनुष्यांश्च मातङ्गान् विरथांश्च महारथान्। व्यश्वारोहांश्च तुरगान् पत्तीन् व्याधुजीविनः॥ कुर्वन्तमृषभस्कन्धं कुरुवृष्णियशस्करम्। विधमन्तमनीकानि व्यथयन्तं महारथान्॥ मनुष्यवाजिमातङ्गान् प्राहिण्वन्तं यमक्षयम्। शरैः सौभद्रमायान्तं दहन्तमिव वाहिनीम्॥ तन्मे दहति गात्राणि सखे सत्येन ते शपे। यत् तत्रापि च दुष्टात्मा कर्णोऽभ्यद्रुह्यत प्रभो॥ अशक्नुवंश्चाभिमन्योः कर्णः स्थातु रणेऽग्रतः। सौभद्रशरनिर्भिन्नो विसंज्ञः शोणितोक्षितः॥ निःश्वसन क्रोधसंदीप्तो विमुखः सायकार्दितः। अपयान्कृतोत्साहो निराशश्चापि जीविते॥ तस्थौ सुविह्वल: संख्ये प्रहारजनितश्रमः। अथ द्रोणस्य समरे तत्कालसदृशं तदा॥ श्रुत्वा कर्णो वचः क्रूरं ततश्चिच्छेद कार्मुकम्। ततश्छिन्नायुधं तेन रणे पञ्च महारथाः॥ तं चैव निकृतिप्रज्ञाः प्राहरञ्छरवृष्टिभिः। तस्मिन विनिहते वीरे सर्वेषां दुःखमाविशत्॥ प्राहसत् स तु दुष्टात्मा कर्णः स च सुयोधनः। यच कर्णोऽब्रवीत् कृष्णां सभायां परुषं वचः॥ प्रमुखे पाण्डवेयानां कुरुणां च नृशंसवत्। विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः॥ पतिमन्यं पृथुश्रोणि वृणीष्व मृदुभाषिणि। एषा त्वं धृतराष्ट्रस्य दासीभूता निवेशनम्॥ प्रविशारालपक्ष्माक्षि न सन्ति पतयस्त्व। न पाण्डवाः प्रभवन्ति तव कृष्णे कथञ्चन॥ दासभार्या च पाञ्चालि स्वयं दासी च शोभने। अद्य दुर्योधनो ह्येकः पृथिव्यां नृपतिः स्मृतः॥ सर्वे चास्य महीपाला योगक्षेममुपासते। पश्येदानीं यथा भद्रे विनष्टाः पाण्डवाः समम्॥ अन्योन्यं समुदीक्षन्ते धार्तराष्ट्रस्य तेजसा। व्यक्तं षण्ढतिला ह्येते निरये च निमज्जितः॥ प्रेष्यवचापि राजानमुपस्थास्यन्ति कौरवम्। इत्युक्तवानधर्मज्ञस्तदा परमदुर्मतिः॥ पापः पापवचः कर्णः शृण्वतस्त्व भारत। अद्य पापास्य तद् वाक्यं सुवर्णविकृताः शराः।।९० शमयन्तु शिलाधौतास्त्वयास्ता जीवितच्छिदः। यानि चान्यानि दुष्टात्मा पापानि कृतवांस्त्वयि॥ तान्यद्य जीवितं चास्य शमयन्तु शरास्तव। गाण्डीव प्रहितान् घोरानद्य गात्रैः स्पृशञ्छरान्॥ कर्णः स्मरतु दुष्टात्मा वचनं द्रोणभीष्मयोः। सुवर्णपुङ्खा नाराचाः शत्रुघ्ना वैद्युतप्रभाः॥ त्वयास्तास्तस्य वर्माणि भित्वा पास्यन्ति शोणितम्। उपास्त्वद्भुजनिर्मुक्ता मर्म भित्वा महाशराः॥ अद्य कर्णं महावेगा: प्रेषयन्तु यमक्षयम्। अद्य हाहाकृता दीना विषण्णास्त्वच्छरार्दिताः॥ प्रपतन्तं रथात् कर्णं पश्यन्तु वसुधाधिपाः। अद्य शोणितसम्मग्नं शयानं पतितं भुवि॥ अपविद्धायुधं कर्ण दीनाः पश्यन्तु बान्धवाः। हस्तिकक्षो महानस्य भल्लेनोन्मथितस्त्वया। प्रकम्पमानः पततु भूमावाधिरथेध्वजः॥ त्वया शरशतैश्छिन्नं रथं हेमविभूषितम्। हतयोधाश्वमुत्सृज्य भीतः शल्यः पलायताम्॥ त्वं चेत् कर्णसुतं पार्थ सूतपुत्रस्य पश्यतः। प्रतिज्ञावारणार्थाय निहनिष्यसि सायकैः॥ हतं कर्णस्तु तं दृष्ट्वा प्रियं पुत्रं दुरात्मवान्। स्मरतां द्रोणभीष्माभ्यां वचः क्षत्तुश्च मानद॥ ततः सुयोधनो दृष्ट्वा हतमाधिरथिं त्वया। निराशो जीविते त्वद्य राज्ये चैव भवत्वरिः॥ एते द्रवन्ति पञ्चाला वध्यमानाः शितैः शरैः। कर्णेन भरतश्रेष्ठ पाण्डवानुजिहीर्षवः॥ पञ्चालान् द्रौपदेयांश्च धृष्टद्युम्न् शिखण्डिना। धृष्टद्युम्नतनूजांश्च शतानीकं च नाकुलिम्॥ नकुलं सहदेव च दुर्मुखं जनमेजयम्। सुधर्माणं सात्यकिं च विद्धि कर्णवशं गतान्॥ अभ्याहतानां कर्णेन पञ्चालानामसौ रणे। श्रूयते निनदो घोरस्त्वद्वन्धूनां परंतप॥ न त्वेव भीताः पञ्ज्ञालाः कथंचित् स्युः पराङ्मुखाः। न हि मृत्युं महेष्वासा गणयन्ति महारणे॥ य एकः पाण्डवी सेनां शरौघैः समवेष्टयत्। तं समासाद्य पञ्चाला भीष्मं नासन् पराङ्मुखाः।।१०७ ते कथं कर्णमासाद्य विद्रवेयुर्महारथाः। यस्त्वेकः सर्वपञ्चालानहन्यहनि नाशयन्॥ कालवच्चरते वीरः पञ्चालानां रथव्रजे। तमप्यासाद्य समरे मित्रार्थे मित्रवत्सल॥ तथा ज्वलन्तमस्त्राग्निं गुरुं सर्वधनुष्मताम्। निर्दहन्तं च समरे दुर्धर्ष द्रोणमोजसा॥ ते नित्यमुदिता जेतुं मृधे शत्रूनरिंदम। न जात्वाधिस्थे ताः पञ्चालाः स्युः पराङ्मुखाः॥ तेषामापततां शूरः पञ्चालानां तरस्विनाम्। आदत्तासूशरैः कर्णः पतङ्गानामिवानलः॥ एते द्रवन्ति पाञ्चाला द्राव्यन्ते योधिभिर्बुवम्। कर्णेन भरतश्रेष्ठ पश्य पश्य तथाकृतान्॥ तांस्तथाभिमुखान् वीरान् मित्रार्थे त्यक्तजीवितान्। क्षयं नयति राधेयः पञ्चालाञ्छतशो रणे॥ तद् भारत महेष्वासानगाधे मजतोऽप्लवे। कर्णार्णवे प्लवो भूत्वा पञ्चालास्त्रातुमर्हसि॥ अस्त्र हि रामात् कर्णेन भार्गवादृषिसत्तमात्। यदुपात्तं महाघोरं तस्य रूपमुदीर्यते॥ तापनं सर्वसैन्यानां घोररूपं सुदारुणम्। समावृत्य महासेनां ज्वलन्तं स्वेन तेजसा॥ एते चरन्ति संग्रामे कर्णचापच्युताः शराः। भ्रमराणामिव वातास्तापयन्ति स्म तावकान्॥ एते द्रवन्ति पञ्चाला दिक्षु सर्वासु भारत। कर्णास्त्रं समरे प्राप्य दुर्निवार्यमनात्मभिः॥ एष भीमो दृढक्रोधो वृतः पार्थ समन्ततः। सृञ्जयैर्योध्यन् कर्णं पीड्यते निशितैः शरैः॥ पाण्डवान् सृञ्जयांश्चैव पञ्चालांश्चैव भारता हन्यादुपेक्षितः कर्णो रोगो देहमिवागतः॥ नान्यं त्वत्तो हि पश्यामि योधं यौधिष्ठिरे बले। यः समासाद्य राधेयं स्वस्तिमानाव्रजेद् गृहम्॥ तमद्य निशितैर्बाणैर्विनिहत्य नरर्षभ। यथाप्रतिज्ञं पार्थ त्वं कृत्वा कीर्तिमवाप्नुहि॥ त्वं हि शक्तो रणे जेतुं सकर्णानपि कौरवान्। नान्यो युधि युधां श्रेष्ठ सत्यमेतद् ब्रवीमि ते॥ एतत् कृत्वा महत् कर्म हत्वा कर्ण महारथम्। कृतार्थः सफलः पार्थ सुखी भव नरोत्तम॥ संजय उवाच स केशवस्य बीभत्सुः श्रुत्वा भारत भाषितम्। विशोकः सम्प्रहृष्टश्च क्षणेन समपद्यत॥ ततो ज्यामभिमृज्याशु व्याक्षिपद् गाण्डिवं धनुः। दने कर्णविनाशाय केशवं चाभ्यभाषत॥ त्वया नाथेन गोविन्द ध्रुव एव जयो मम। प्रसन्नो यस्य मेऽद्य त्वं लोके भूतभविष्यकृत्॥ त्वत्सहायो ह्यहं कृष्ण त्रील्लोकान् वै समागतान्। प्रापयेयं परं लोकं किमु कर्णं महाहवे॥ पश्यामि द्रवती सेनां पञ्चालानां जनार्दन। पश्यामि कर्णं समरे विचरन्तमभीतवत्॥ भार्गवास्त्रं च पश्यामि ज्वलन्तं कृष्ण सर्वशः। सृष्टं कर्णेन वार्ष्णेय शक्रेणेव यथाशनिम्॥ अयं खलु स संग्रामो यत्र कर्ण मया हतम्। कथयिष्यन्ति भूतानि यावद् भूमिर्धरिष्यति॥ अद्य कृष्ण विकर्णा मे कर्णं नेष्यन्ति मृत्यवे। गाण्डीवमुक्ताः क्षिण्वन्तो मम हस्तप्रचोदिताः॥ अद्य राजा धृतराष्ट्रः स्वां बुद्धिमवमंस्यते। दुर्योधनमराजयाह यया राज्येऽभ्यषेचयत्॥ अद्य राज्यात् सुखाश्चैव श्रियो राष्ट्रात् तथा पुरात्। पुत्रेभ्यश्च महाबाहो धृतराष्ट्रो विमोक्ष्यति॥ गुणवन्तं हि यो द्वेष्टि निर्गुण कुरुते प्रभुम्। स शोचति नृपः कृष्ण क्षिप्रमेवागते क्षये॥ यथा च पुरुषः कश्चिच्छित्त्वा चाम्रवर्ण महत्। फलं दृष्ट्वा भृशं दुःखी भविष्यति जनार्दन। सूतपुत्रे हते त्वद्य निराशो भविता प्रभुः॥ अद्य दुर्योधनो राज्याजीविताच निराशकः। भविष्यति हते कर्णे कृष्ण सत्यं ब्रवीमि ते॥ अद्य दृष्ट्वा मया कर्णं शरैर्विशकलीकृतम्। स्परता तव वाक्यानि शमं प्रति जनेश्वरः॥ अद्यसौ सौबलः कृष्ण ग्लहाजानातु वै शरान्। दुरोदरं च गाण्डीवं मण्डलं च रथं प्रति॥ अद्य कुन्तीसुतस्याहं दृढ राज्ञः प्रजागरम्। व्यपनेष्यामि गोविन्द हत्वा कर्णं शितैः शरैः॥ अद्य कुन्तीसुतो राजा हते सूतसुते मया। सुप्रहृष्टमनाः प्रीतिश्चिरं सुखमवाप्स्यति॥ अद्य चाहमनाधृष्यं केशवाप्रतिमं शरम्। उत्स्त्रक्ष्यामीह यः कर्णं जीविताद् भ्रंशयिष्यति॥ यस्य चैतद् व्रतं मह्यं वधे किल दुरात्मनः। पादौ न धावये तावद् यावद्धन्यां न फाल्गुनम्॥ मृषा कृत्वा व्रतं तस्य पापस्य मधुसूदन। पातयिष्ये रथात् कायं शरैः संनतपर्वभिः॥ योऽसौ रणे नरं नान्यं पृथिव्यामनुमन्यते। तस्याद्य सूतपुत्रस्य भूमिः पास्यति शोणितम्॥ अपतिहसि कृष्णेति सूतपुत्रो यदब्रवीत्। धृतराष्ट्रमते कर्णः श्लाघमानः स्वकान् गुणान्॥ अनृतं तत् करिष्यन्ति मामका निशिताः शराः। आशीविषा इव क्रुद्धास्तस्य पास्यन्ति शोणितम्।। २३ मया हस्तवता मुक्ता नाराचा वैद्युतत्विषः। गाण्डीवसृष्टा दास्यन्ति कर्णस्य परमां गतिम्॥ अद्य तप्स्यति राधेयः पाञ्चालीं यत्तदाब्रवीत्। सभामध्ये वचः क्रूरं कुत्सयन् पाण्डवान् प्रति॥ ये वै षण्ढतिलास्तत्र भवितारोऽद्य ते तिला:। हते वैकर्तने कर्णे सूतपुत्रे दुरात्मनि॥ अहं वः पाण्डुपुत्रेभ्यस्त्रास्यामीति तदब्रवीत्। धृतराष्ट्रसुतान् कर्णः श्लाघमानोऽऽत्मनो गुणान्॥२७ अनृतं तत् करिष्यन्ति मामका निशिताः शराः। उद्योगः पाण्डुपुत्राणां समाप्तिमुपयास्यति॥ हन्ताहंन पाण्डवान् सर्वान् सुपुत्रानिति योऽब्रवीत्। तमद्य कर्णं हन्तास्मि मिषतां सर्वधन्विनाम्॥ यस्य वीर्यं समाश्रित्य धार्तराष्ट्रो महामनाः। अवामन्यत दुर्बुद्धिर्नित्यमस्मान् दुरात्मवान्॥ हत्वाहं कर्णमाजौ हि तोषयिष्यामि भ्रातरम्। शरान् नानाविधान् मुक्त्वा त्रासयिष्यामि शात्रवान्। आकर्णमुक्तैरिषुभिर्यमराष्ट्रविवर्धनैः॥ भूमिशोभां करिष्यामि पतितै रथकुञ्जरैः। तत्राहं वै महासंख्ये युद्धदुर्मदम्॥ अद्य कर्णमहं घोरं सूदयिष्यामि सायकैः। अद्य कर्णे हते कृष्ण धार्तराष्ट्राः सराजकाः॥ विद्ववन्तु दिशो भीताः सिंहजस्ता मृगा इव। अद्य दुर्योधन राजा आत्मानं चानुशोचताम्॥ हते कर्णे मया संख्ये सपुत्रे ससुहजने। अद्य कर्णं हतं दृष्ट्वा धार्तराष्ट्रोऽत्यमर्षणः॥ जानातु मां रणे कृष्ण प्रवरं सर्वधन्विनाम्। सपुत्रपौत्रं सामात्यं सभृत्यं च निराशिषम्॥ अद्य राज्ये करिष्यामि धृतराष्ट्र जनेश्वरम्। अद्य कर्णस्य चक्राङ्गाः क्रव्यदाश्च पृथग्विधाः॥ शरैश्छिन्नानि गात्राणि विहरिष्यन्ति केशव। अद्य राधासुतस्याहं संग्रामे मधुसूदन॥ शिरश्छेत्स्यामि कर्णस्य मिषतां सर्वधन्विनाम्। अद्य तीक्ष्णैर्विपाठैश्च क्षुरेश्च मधुसूदन॥ रणे छेत्स्यामि गात्राणि राधेस्य दुरात्मनः। अद्य राजा महत् कृच्छं संत्यक्ष्यति युधिष्ठिरः॥ संतापं मानसं वीरश्चिरसम्भृतमात्मनः। अद्य केशव राधेयमहं हत्वा सबान्धवम्॥ नन्दयिष्यामि राजानं धर्मपुत्रं युधिष्ठिरम्। अद्याहमनुगान् कृष्ण कर्णस्य कृपणान् युधि॥ हन्ता ज्वलनसंकाशैः शरैः सर्पविषोपमैः। अद्याहं हेमकवचैराबद्धमणिकुण्डलैः॥ संस्तारिष्यामि गोविन्द वसुधां वसुधाधिपैः। अद्याभिमन्योः शत्रूणां सर्वेषां मधुसूदन॥ प्रमथिष्यामि गात्राणि शिरांसि च शितैः शरैः। अद्य निर्धार्तराष्ट्रां च भ्रात्रे दास्यामि मेदिनीम्॥ निरर्जुनां वा पृथिवीं केशवनुचरिष्यसि। अद्याहमनृणः कृष्ण भविष्यामि धनुर्भृताम्॥ कोपस्य च कुरूणां च शराणां गाण्डिवस्य च। अद्य दुःशमहं मोक्ष्ये त्रयोदशसमार्जितम्॥ हत्वा कर्णं रणे कृष्ण शम्बरं मघवानिव। अद्य कर्णे हते युद्धे सोमकानां महारथाः॥ कृतं कार्यं च मन्यन्तां मित्रकार्येप्सवो युधि। न जाने च कथं प्रीतिः शैनेयस्याद्य माधव॥ भविष्यति हते कर्णे मयि चापि जयाधिके। अहं हत्वा रणे कर्णं पुत्रं चास्य महारथम्॥ प्रीतिं दास्यामि भीमस्य यमयोः सात्यकस्य च। धृष्टद्युम्नशिखण्डिभ्यां पञ्चालानां च माधव॥ अद्यानृण्यं गमिष्यामि हत्वा कर्ण महाहवे। अद्य पश्यन्तु संग्रामे धनंजयमर्षणम्॥ युध्यन्तं कौरवान् संख्ये घातयन्तं च सूतजम्। भवत्सकाशे वक्ष्ये च पुनरेवात्मस्तवम्॥ धनुर्वेद मत्समो नास्ति लोके पराक्रमे वा मम कोऽस्ति तुल्यः। स्तथा क्रोधे सदृशोऽन्यो मेऽस्ति॥ अहं धनुष्मान् ससुरासुरांश्च सर्वाणि भूतानि च सङ्गतानि। स्वबाहुवीर्याद् गमये पराभवं मत्पौरुषं विद्धि परं परेभ्यः॥ शरार्चिषा गाण्डिवेनाहपेकः सर्वान् कुरून् बाह्निकांश्चाभिहत्य। स्तथा दहेयं सगणान् प्रसा॥ पाणौ पृषत्का लिखिता ममैते धनुश्च दिव्यं विततं सबाणम्। पादौ च मे सरथौ सध्वजौ च न मादृशं युद्धगतं जयन्ति॥ इत्येवमुक्त्वार्जुन एकवीरः क्षिप्रं रिपुनः क्षतजोपमाक्षः। भीमं मुमुक्षः समरे प्रयातः कर्णस्य कायाच शिरो जिहीर्घः॥ धृतराष्ट्र उवाच समागमे पाण्डवसुंजयानां महाभये मामकानामगाधे। धनंजये तात रणाय याते कर्णेन तद् युद्धमथोऽत्र कीदृक्॥ संजय उवाच तेषामनीकानि बृहद्ध्वजानि रणे समृद्धानि समागतानि। गर्जन्ति भेरीनिनदोन्मुखानि नादैर्यथा मेघगणास्तपान्ते॥ महागजाभ्राकुलमस्त्रतोयं वादित्रनेमीतलशब्दवच। हिरण्यचित्रायुधाविद्युतं च शरासिनाराचमहास्त्रधारम्॥ तद् भीमवेग रुधिरौघवाहि खड्गाकुलं क्षत्रियजीवघाति। अनार्तवं क्रूरमनिष्टवर्षं बभूव तत् संहरण प्रजानाम्॥ एकं रथं सम्परिवार्य मृत्यु नयन्त्यनेके च रथाः समेताः। स्तथा रथश्चापि रथाननेकान्॥ रथं ससूतं सहयं च कञ्चित् कश्चिद्रथी मृत्युवशं निनाय। निनाय चाप्येकगजेन कश्चिद् रथान् बहून् मृत्युवशे तथाश्वान्॥ रथान् ससूतान् सहयान् गजांश्च सर्वानरीन् मृत्युवशं शरौघैः। निन्ये हयांश्चैव तथा ससादीन् पदातिसङ्घांश्च तथैव पार्थः॥ कृपः शिखण्डी च रणे समेतौ दुर्योधन सात्यकिरभ्यगच्छत्। श्रुतस्तथा द्रोणपुत्रेण सार्धं युधामन्युश्चित्रसेनेन सार्धम्॥ कर्णस्य पुत्रं तु रथी सुषेणं समागतं संजयश्चोत्तमौजाः। गान्धारराजं सहदेवः क्षुधार्ता महर्षभं सिंह इवाभ्यधावत्॥ शतानीको नाकुलिः कर्णपुत्रं युवा युवानं वृषसेन शरौघैः। समार्पयत् कर्णपुत्रश्च शूरः पाञ्चालेयं शरवर्षैरनेकैः॥ न्माद्रीपुत्रो नकुलचित्रयोधी। पञ्चलानामधिपो याज्ञसेनिः सेनापतिः कर्णमार्छत् ससैन्यम्॥ दुःशासनो भारत भारती च संशप्तकानां पृतना समृद्धा। भीमं रणे शस्त्रभृतां वरिष्ठं भीमं समार्छत्तमसह्यवेगम्१२॥ कर्णात्मजं तत्र जघान वीरस्तथाच्छिनचोत्तमौजाः प्रसह्य। तस्योत्तमाङ्गं निपपात भूमौ निनादयद् गां निनदेन खं च॥ सुषेणशीर्षं पतितं पृथिव्यां विलोक्य कर्णोऽथ तदार्तरूपः। क्रोधाद्धयांस्तस्य रथं ध्वजं च बाणैः सुधारैर्निशितैरकृन्तत्॥ स तूत्तमौजा निशितैः पृषत्कैविव्याध खङ्गेन च भास्वरेण। पाणि हयांश्चैव कृपस्य हत्वा शिखण्डिवाहं स ततोऽध्यरोहत्॥ कृपं तु दृष्ट्वा विरथं रथस्थो नैच्छच्छरैस्ताडयितुं शिखण्डी। तं द्रौणिरावार्य रथं कृपस्य समुजहे पङ्कगतां यथा गाम्॥ हिरण्यवर्मा निशितैः प्रुषत्केस्तवात्मजानामनिलात्मजो वै। अतापयत् सैन्यमतीव भीमः काले शुचौ मध्यगतो यथार्कः॥ धृतराष्ट्र उवाच ततो भग्नेषु सैन्येषु भीमसेनेन संयुगे। दुर्योधनऽब्रवीत् किं नु सौबलो वापि संजय॥ कर्णो वा जयतां श्रेष्ठो योधा वा मामका युधि। कृपो वा कृतवर्मा वा द्रौणिर्दुःशासनोऽपि वा॥ अत्यद्भुतमहं मन्ये पाण्डवेयस्य विक्रमम्। यदेकः समरे सर्वान् योधयामास मामकान्॥ यथाप्रतिज्ञं योधानां राधेयः कृतवानपि। कुरूणामथ सर्वेषां कर्णः शत्रुनिषूदनः॥ शर्म वर्म प्रतिष्ठा च जीविताशा च संजय। तत् प्रभग्नं बलं दृष्ट्वा कौन्तेयेनामितौजसा॥ राधेयो वाप्याधिरथिः कर्णः किमकरोद् युधि। पुत्रा वा मम दुर्धर्षा राजानो वा महारथाः। एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि संजय॥ संजय उवाच अपराह्ने महाराज सूतपुत्रः प्रतापवान्। जघान सोमकान् सर्वान् भीमसेनस्य पश्यतः॥ भीमोऽप्यतिबलं सैन्यं धार्तराष्ट्र व्यपोथयत् । अथ कर्णोऽब्रवीच्छल्यं पञ्चालान् प्रापयस्व माम्॥ द्राव्यमाणं बलं दृष्ट्वा भीमसेनेन धीमता। यन्तारमब्रवीत कर्णः पञ्चालानेव मां वह॥ मद्रराजस्ततः शल्यः श्वेतानश्वान् महाजवान्। प्राहिणोचेदिपपञ्चालान् करूषांश्च महाबलः॥ प्रविश्य च महत् सैन्यं शल्य: परबलार्दनः। न्ययच्छत् तुरगान् हृष्टो यत्र यत्रैच्छरग्रणीः॥ तं रथं मेघसंकाशं वैयाघ्नपरिवारणम्। संदृश्य पाण्डुपञ्चालस्त्रस्ता ह्यासन् विशाम्पते॥ ततो रथस्य निनदः प्रादुरासीन्महारणे। पर्जन्यसमनिर्घोषः पर्वतस्येव दीर्यतः॥ ततः शरशतैस्तीक्ष्णैः कर्ण आकर्णनिःसृतः। जघान पाण्डबलं शतशोऽथ सहस्रशः॥ तं तथा समरे कर्म कुर्वाणमपराजितम्। परिवतुर्महेष्वासाः पाण्डवानां महारथाः॥ तं शिखण्डी च भीमश्च धृष्टद्युम्नश्च पार्षतः। नकुलः सहदेवश्च द्रौपदेयाश्च सात्यकिः॥ परिवर्जिघांसन्तो राधेयं शरवृष्टिभिः। सात्यकिस्तु तदा कर्णं विंशत्या निशितैः शरैः॥ अताडयद् रणे शूरो जत्रुदेशे नरोत्तमः। शिखण्डी पञ्चविंशत्या धृष्टद्युम्नश्च सप्तभिः॥ द्रौपदेयाश्चातुःषष्ट्या सहदेवश्च सप्तभिः। नकुलश्च शतेनाजौ कर्ण विव्याध सायकैः॥ भीमसेनस्तु राधेयं नवत्या नतपर्वणाम्। विव्याध समरे क्रुद्धो जत्रुदेशे महाबलः॥ अथ प्रहस्याधिरथिर्व्याक्षिपद् धनुरुत्तमम्। मुमोच निशितान् बाणान् पीडन् सुमहाबलः॥ तान् प्रत्यविध्यद् राधेयः पञ्चभिः पञ्चभिः शरैः। सात्यकेस्तु धनुश्छित्त्वा ध्वजं च भरतर्षभ॥ तं तथा नवर्भिर्बाणैराजघान स्तनान्तरे। भीमसेनं ततः क्रुद्धोविव्याध त्रिंशता शरैः॥ सहदेवस्य भल्लेन ध्वज चिच्छेद मारिष। सारथिं च त्रिभिर्बाणैराजघान परंतपः॥ विरथान् द्रौपदेयांश्च चकार भरतर्षभ। अक्ष्णौनिमेषमात्रेण तदद्भुतमिवाभवत्॥ विमुखीकृत्य तान् सर्वाशरैः संनपपर्वभिः। पञ्चालानहनच्छूरांश्चेदीनां त महारथान्॥ ते वध्यमानाः समरे चेदिमत्स्स्या विशांपते। कर्णमेकमभिद्रुत्य शरसङ्घः समार्पयन्॥ ताञ्जघान शितैर्बाणैः सूतपुत्रो महारथः। ते वध्यमानाः समरे चेदिमत्या विशाम्पते॥ प्राद्रवन्त रणे भीताः सिंहनस्ता मृगा इव। एतदुत्यद्भुतं कर्म दृष्ट्वानस्मि भारत॥ यदेकः समरे शूरान् सूतपुत्रः प्रतापवान्। यतमानान् परं शक्त्या योधयानांश्च धन्विनः॥ पाण्डवेयान् महाराज शरैर्वारितवान् रणे। तत्र भारत कर्णस्य लाघवेन महात्मनः॥ तुतुषुर्देवताः सर्वाः सिद्धाश्च सह चारणैः। अपूजयन् महेष्वासा धार्तराष्ट्रा नरोत्तमम्॥ कर्णं रथवरश्रेष्ठं श्रेष्ठं सर्वधनुष्मताम्। ततः कर्णो महाराज ददाह रिपुवाहिनीम्॥ कक्षमिद्धो यथा वह्निर्निदाधे ज्वलितो महान्। ते वध्यामानाः कर्णेन पाण्डवेयास्ततस्ततः॥ प्राद्रवन्त रणे भीताः कर्ण दृष्ट्वा महारथम्। तत्राक्रन्दो महानासीत् पञ्चालानां महारणे॥ वध्यतां सायकैस्तीक्ष्णैः कर्णचापवरच्युतैः। तेन शब्देन विवस्ता पाण्डवानां मराचमूः॥ कर्णमेकं रणे योधं मेनिरे तत्र शात्रवाः। तत्राद्भुतं पुनश्चक्रे राधेयः शत्रुकर्शनः॥ यदेनं पाण्डवाः सर्वे न शेकुरभिवीक्षितुम्। यथौघः पर्वतश्चेष्ठमासाद्याभिप्रदीर्यते॥ तथा तत् पाण्डवं सैन्यं कर्णमासाद्य दीर्यते। कर्णोऽपि समरे राजन् विधूमोऽग्निरिव ज्वलन्॥ दहंस्तस्थौ महाबाहुः पाण्डवानां महाचमूम्। शिरांसि च महाराज कर्णाश्चैव स कुण्डलान्॥ बाहूंश्च वीरो वीराणां चिच्छेद लधु चेषुभिः। हस्तिदन्तत्सरून् खङ्गान् ध्वजाशक्तीर्हयान् गजान्॥४१ स्थांश्च विविधान् राजन् पताका व्यजनानि च। अक्षं च युगयोक्त्राणि चक्राणि विविधानि च॥ शरान्धकारे तु चिच्छेद बहुधा कर्णो योधव्रतमनुष्ठितः। तत्र भारत कर्णेन निहतैर्गजवाजिभिः४३।। अगम्यरूपा पृथिवी मांसशोणितकर्दमा। विषमं च समं चैव हतैरश्वपदातिभिः॥ रथैश्च कुञ्चरैश्चैव न प्राज्ञायत किञ्चन। नापि स्वे न परे योधाः प्राज्ञायन्त परस्परम्॥ घोरे कर्णस्त्रे च विजृम्भिते। राधेयचापनिर्मुक्तैः शरैः काञ्चनभूषणैः॥ संछादिता महाराज पाण्डवानां महारथाः। ते पाण्डवेयाः समरे राधेयेन पुनः पुनः॥ अभज्यन्त महाराज यतमाना महारथाः। मृगसङ्घान यथा क्रुद्धः सिंहो द्रावयते वने॥ पञ्चालानां रयश्रेष्ठान् द्रावयशात्रवांस्तथा। कर्णस्तु समरे योधास्त्रासयन् सुमहायशाः॥ कालयामास तत् सैन्यं यथा पशुगणान् वृकः। दृष्ट्वा तु पाण्डवी सेनां धार्तराष्ट्राः पराङ्मुखीम्॥ तत्राजग्मुर्महेष्वासा रुवन्तो भैरवान् रवान्। दुर्योधन हि राजेन्द्र मुदा परमया युतः॥ वादयामास संहृष्टो नानावाद्यानि सर्वशः। पञ्चालापि महेष्वासा भग्नास्तत्र नरोत्तमाः॥ न्यवर्तन्त यथा शूरं मृत्यु कृत्वा निवर्तनम्। तान् निवृत्तान् रणे शूरान् राधेयः शत्रुतापनः :॥ अनेकशो महाराज बभञ्ज पुरुषर्षभः। तत्र भारत कर्णेन पञ्चाला विंशती रथाः॥ निहताः सायकैः क्रोधाचेदयश्च परः शताः। कृत्वा शून्यान् रथोपस्थान् वाजिपृष्ठांश्च भारत॥ निर्मनुष्यान् गजस्कन्धान् पादातांश्चैव विद्वतान्। आदित्य इव मध्याह्ने दुर्निरीक्ष्यः परंतपः॥ कालान्तकवपुः शूरः सूतपुत्रोऽभ्यराजत। एवमेतन्महाराज नरवाजिरथद्विपान्॥ हत्वा तस्थौ महेष्वासः कर्णोऽरिगणसूदनः। यथा भूतगणान् हत्वा कालस्तिष्ठेन्महाबलः॥ तथा स सोमकान् हत्वा तस्थावेको महारथः। तत्राद्भुतपपश्याम पञ्चालानां पराक्रमम्॥ वध्यमानापि यत् कर्ण नाजहू रणमूर्धनि। राजा दुःशासनश्चैव कृपः शारद्वतस्तथा॥ अश्वत्थामा कृतवर्मा शकुनिश्च महाबलः। न्यहनन् पाण्डवीं सेनां शतशोऽथ सहस्रशः॥ कर्णपुत्रौ तु राजेन्द्र भ्रातरौ सत्यविक्रमौ। निजघ्नाते बलं क्रुद्धौ पाण्डवानामितस्ततः॥ तत्र युद्ध महचासीत् क्रूरं विशसनं महत् । तथैव पाण्डवाः शूरा धृष्टद्युम्नशिखण्डिनौ॥ द्रौपदेयाश्च संक्रुद्धा अभ्यघ्नंस्तावकं बलम्। एवमेष क्षयो वृत्तः पाण्डवानां ततस्ततः। तावकानामपि रणे भीमं प्राप्य महाबलम्॥ संजय उवाच अर्जुनस्तु महाराज हत्वा सैन्यं चतुर्विधम्। सूतपुत्रं च संक्रुद्ध दृष्ट्वा चैव महारणे॥ शोणितोदां महीं कृत्वा सांसमजास्थिपङ्कलाम्। मनुष्य शीर्षपाषाणां हस्त्यश्वकृतरोधसम्॥ शूरस्थिचयसंकीर्णा काकगृध्रानुनादिताम्। छत्रहंसप्लवोपेता वीरवृक्षापहरिणीम्॥ हारपद्माकरवतीमुष्णीषवरफेनिलाम्। धनुःशरध्वजोपेतांन नरक्षुद्रकपालिनीम्॥ चर्मवर्मभ्रमोपेतां रथोडुपसामाकुलाम्। जयैषिणां च सुतरां भीरूणां च सुदुतराम्॥ नदी प्रवर्तयित्वा च बीभत्सुः परवीरहा। वासुदेवमिदं वाक्यमब्रवीत पुरुषर्षभः॥ अर्जुन उवाच एष केतू रणे सूतपुत्रस्य दृश्यते। भीमसेनादयश्चैते योधयन्ति महारथम्॥ एते द्रवन्ति पञ्चालाः कर्णवस्ता जनार्दन। एष दुर्योधनो राजा श्वेतच्छत्रेण धार्यता॥ कर्णेन भग्नान् पञ्चाला: द्रावयन् बहु शोभते। कृपुश्च कृतवर्मा च द्रौणिश्चैव महारथः॥ एते रक्षान्ति राजानं सूतपूत्रेण रक्षिताः। अवध्यमानास्तेऽस्माभिर्घातयिष्यन्ति सोमकान्॥ एष शल्यो रथोपस्थे रश्मिसंचारकोविदः। सूतपुत्ररथं कृष्ण वाहयन् बहु शोभते॥ तत्र मे बुद्धित्पन्ना वाहयात्र महारथम्। नाहत्वा समरे कर्णं निवर्तिष्ये कथञ्चन॥ राधेयो ह्यन्यथा पार्थान् सृञ्जयांश्च महारथान्। निःशेषान् समरे कुर्यात् पश्यता नो जनार्दन॥ ततः प्रायाद् रथेनाशु केशवस्तव वाहिनीम्। कर्णं प्रति महेष्वासं द्वैरथे सव्यसाचिना॥ प्रयातश्च महाबाहुः पाण्डवानुज्ञया हरिः। आश्वासयन् रथेनैव पाण्डुसैन्यानि सर्वशः॥ रथघोषः स संग्रामे पाण्डवेयस्य सम्बभौ। वासवाशनितुल्यस्य मेघौघस्येव मारिष॥ महता रथघोषेण पाण्डवः सत्यविक्रमः। अभ्ययादप्रमेयात्मा निर्जयंस्तव वाहिनीम्॥ तमायान्तं समीक्ष्यैव श्वेताश्वं कृष्णसारथिम्। मद्रराजोऽब्रवीत् कर्णं केतुं दृष्ट्वा महात्मनश्च :॥ अयं स रथ आयाति श्वेताश्वः कृष्णसारथिः। निजन्नमित्रान् समरे यं कर्णं परिपृच्छसि॥ एष तिष्ठति कौन्तेयः संस्पृशन् गाण्डिवं धनुः। तं हनिष्यसि चेदद्य तन्नः श्रेयो भविष्यति॥ धनुा चन्द्रचाराङ्का पताकाकिङ्किणीयुता। पश्य कर्णार्जुनस्यैषा सौदामन्यम्बरे यथा॥ एष ध्वजाग्रे पार्थस्य प्रेक्षमाणः समन्ततः। दृश्यते वानरो भीमो वीराणां भयवर्धनः॥ एतचक्रं गदा शङ्खः शार्ङ्ग कृष्णसह्यच च प्रभो। दृश्यते पाण्डवरथे वाहयान्सय वाजिनः॥ एतत् कूजित गाण्डिवंन विसृष्ट सव्यसाचिना। एते हस्तवता मुक्ता मन्त्यमित्राशिताः शराः॥ विशालायतताम्राक्षैः पूर्णचन्द्रनिभाननैः। एषा भूः कीर्यते राज्ञां शिरोभिरपलायिनाम्॥ एते परिघसंकाशाः पुण्यगन्धानुलेपनाः। उद्धता रणशूराणां पात्यन्ते सायुधा भुजाः॥ निरस्तजिह्वानेत्रान्ता वाजिनः सह सादिभिः। पतिताः पात्यमानाश्च क्षितौ क्षीणा विशेरते॥ एते पर्वतश्रृङ्घाणां तुल्या हैमवता गजाः। संछिन्नकुम्भाः पार्थेन प्रपतन्त्यद्रयो यथा।॥ गन्धर्वनगराकारा रथा वा ते नरेश्वराः। विमानादिव पुण्यान्ते स्वर्गिणे निपतन्त्यमी॥ व्याकुलीकृतमर्थ परसैन्य किरीटिना। नानामृगसहस्राणां यूथं केसरिणां यथा॥ त्वामिभिप्रेप्सुरायाति कर्ण निनन् वरान् रथान्। असह्यमानो राधेय तं याहि प्रति भारत॥ एषा विदीर्यते सेना धार्तराष्ट्री समन्ततः। अर्जुनस्य भयात् तूर्ण निघ्नतः शात्रवान् बहून्॥ वर्जयन् सर्वसैन्यानि त्वरते हि धनंजय। त्वदर्थमिति मन्येहं यथास्योदीर्यते वपुः॥ न ह्यवस्थास्यते पार्थो युयुत्सुः केनचित् सह। त्वामृते क्रोधदीप्तो हि पीडयमाने वृकोदरे॥ विरथं धर्मराज तु दृष्ट्वा सुदृढविक्षतम्। शिखण्डिनं सात्यकिं च धृष्टद्युमं च पार्षतम्॥ द्रौपदेयान् युधामन्युमुत्तमौजसमेव च। नकुलंन सहदेव च भ्रातरौ द्वौ समीक्ष्य च॥ सहसैकरथः पार्थस्त्वामभ्येति परंतपः। क्रोधरक्तेक्षणः क्रुद्धो जिघासुः सर्वपार्थिवान्॥ त्वरितोऽभिपतत्यस्मांस्त्यक्तवा सैन्यान्यसंशयम्। त्वं कर्ण प्रतियाह्येनं नास्त्यन्यो हि धनुर्धरः॥ न तं पश्यामि लोकेऽस्मिस्त्वत्तो ह्यन्यं धनुर्धरम्। अर्जुनं समरे क्रुद्धं यो वेलामिव धारयेत्॥ न चास्य रक्षां पश्यामि पार्श्वतो न च पृष्ठतः। एक एवाभियाति त्वां पश्य साफल्यमात्मनः॥ त्वं हि कृष्णौ रणे शक्तः संसाधयितुमाहवे। तवैव भारो राधेय प्रत्युद्याहि धनंजयम्॥ समानो ह्यसि भीष्मेण द्रोणद्रौणिकृपेण च। शव्यसाचिनमायान्तं निवारय महारणे॥ लेलिहानं यथा सर्प गर्जन्तमृषभ यथा। वनस्थितं यथा व्याघ्र जहि कर्ण धनंजयम्॥ एते द्रवन्ति समरे धार्तराष्ट्रा महारथाः। अर्जुनस्य भयात् तूर्णं निरपेक्षा जनाधिपाः॥ द्रवतामथ तेषां तु नान्योऽस्ति युधि मानवः। भयहा यो भवेद् वीरस्त्वामृते सूतनन्दन॥ एते त्वां कुरवः सर्वे द्वीपमासाद्य संयुगे। धिष्ठिताः पुरुषव्याघ्र त्वत्तः शरणकाङ्क्षिणः॥ तां धृतिं कुरु वैदेहाम्बष्ठ काम्बोजास्तथा नग्नजितस्त्वया। गान्धाराश्च यया धृत्या जिताः संख्ये सुदुर्जयाः। राधेय ततः प्रत्येहि पाण्डवम्॥ वासुदेवं च वार्ष्णेय प्रीयमाणं किरीटिना। प्रत्युद्याहि महाबाहो पौरुषे महति स्थितः॥ कर्ण उवाच प्रकृतिस्थोऽसि मे शल्य इदानी सम्पतस्तथा। प्रतिभासि महाबाहो मा भैषीस्त्वं धनंजयात्॥ पश्य बाह्वबलं मेऽद्य शिक्षितस्य च पश्य मे। एकोऽद्य निहनिषयामि पाण्डवानां महाचमूम॥ कृष्णौ च पुरुष व्याघ्र ततः सत्यं ब्रवीमि ते। नाहत्वा युधि तौ वीरो व्यपयास्ये कथंचन॥ स्वप्स्ये वा निहतस्ताभ्यामनित्यो हि रणे जयः। कृतार्थोऽद्य भविष्यामि हत्वा वाप्यथवा हतः॥ शल्य उवाच अजय्यमेनं प्रवदन्तिन युद्धे महारथाः कर्ण रथप्रवीरम्। एकाकिनं किमु कृष्णाभिगुप्तं विजेतुमेनं क इहोत्सहेत॥ कर्ण उवाच नैतादृशो जातु बभूव लोके रथोत्तमो यावदुपश्रुतं नः। तमीदृशं प्रतियोत्यामि पार्थं महाहवे पश्य च पौरुषं मे॥ रणे चरत्येष रथप्रवीरः सितैर्हयैः कौरवराजपुक्षः। स वाद्य मां नेष्यति कृच्छमेतत् कर्णस्यान्तादेतन्तास्तु सर्वे॥ ववेपमानी जातकिणौ बृहन्ती। दृढायुधः कृतिमान् क्षिप्रहस्तो न पाण्डवेयेन समोऽस्ति योधः॥ नेकं यथा तान् प्रतियोज्य चाशु। ते क्रोशमात्रे निपतन्त्यमोघाः कस्तेन योघोऽस्ति समः पृथिव्याम्॥ अतोषयत् खाण्डवे यो हुताशं कृष्णद्वितीयोऽतिरथस्तरस्वी। लेभे चक्रं यत्र कृष्णो महात्मा धनुर्गाण्डीवं पाण्डवः सव्यसाची॥ श्वेताश्वयुक्तं च सुघोषमुग्रं रथं महाबाहुरदीनसत्त्वः। महेषुधी चाक्षये दिव्यरूपे शस्त्राणि दिव्यानि च हव्यवाहात्॥ नसंख्येयान् कालकेयांश्च सर्वान। लेभे शङ्ख देवदत्त स्म तत्र को नाम तेनाभ्यधिकः पृथिव्याम्॥ महादेवं तोषयामास योऽस्त्रैः साक्षात् सुयुद्धेन महानुभावः। लेभे ततः पाशुपतं सुघोरं त्रैलोक्यसंहारकरं महासम्॥ पृथक् पृथग्लोकपाला: समेता ददुर्महास्राण्यमेयाणि संख्ये। यैस्ताञ्जघानाशु रणे नृसिंहः सकालकेयानसुरान् समेतान्॥ तथा विराटस्य पुरे समेतान् सर्वानस्मनेकरथेन जित्वा। जहार तद् गोधनमाजिमध्ये वस्त्राणि चादत्त महारथेभ्यः॥ तमीदृशं वीर्यगुणोपपन्नं कृष्णद्वितीयं परमं नृपाणाम्। तमाह्वयन् साहसमुत्तमं वै जाने स्वयं सर्वलोकस्य शल्य॥ अनन्तवीर्येण च केशवेन नारायणेनाप्रतिमेन गुप्तः। वर्षायुतैर्यस्तु गुणा न शक्या वक्तुं समेतैरपि सर्वलोकैः॥ विष्णोर्जिष्णोर्वसुदेवात्मजस्या भयं मे वै जायते साध्वसं च दृष्ट्वा कृष्णावेकरथे समेतौ॥ अतीव पार्थो युधि कार्मुकिभ्यो नारायणश्चाप्रति चक्रयुद्धे। एवंविधौ पाण्डववासुदेवौ चलेत् स्वदेशाद्धिमवान् न कृष्णौ॥ उभौहि शूरौ बलिनौ दृढायुधौ महारथौ संहननोपपन्नौ। एतादृशौ फाल्गुनवासुदेवौ कोऽन्यः प्रतीयान्मदृते तौ तु शल्य॥ मनोरथो यस्तु ममाद्य तस्य मद्रेश युद्धं प्रति पाण्डवस्य। मत्यद्भुतं चित्रमतुल्यरूपम्॥ एतौ च हत्वा युधि पातयिष्ये मां वापि कृष्णौ निहनिष्यतोऽद्य। इति ब्रुवशल्यममित्रहन्ता कर्णो रणे मेघ इवोन्ननाद॥ अभ्येत्य पुत्रेण तवाभिनन्दितः समेत्य चोवाच कुरुप्रवीरम्। कृपं च भोज च महाभुजावुभौ तथैव गान्धारपति सहानुजम्॥ गुरोः सुतं चावरजं तथाऽऽत्मनः पदातिनोऽथ द्विपसादिनश्च तान्। निरुध्यताभिद्रवताच्युतार्जुनौ श्रमेण संयोजयताशु सर्वशः॥ यथा भवद्भिर्भृशविक्षितावुभौ सुखेन हन्यामहमद्य भूमिपाः। तथेति चोक्तवा त्वरिताः स्म तेऽर्जुनं जिघांसवो वीरतराः समभ्ययुः॥ शरैश्च जघ्नुयुधि तं महारथा धनंजय कर्णनिदेशकारिणः। नदीनदं भूरिजलो महार्णवो यथा तथा तान् समरेऽर्जुनोऽग्रसत्॥ न संदधानोन तथा शरोत्तमान् प्रमुञ्चमानो रिपुभिः प्रजृश्यते। धनंजयास्तैस्तु शरैर्विदारिता हता निपेतुर्नरवाजिकुञ्जराः॥ शरार्चिष गाण्डिवचारुमण्डलं युगान्तसूर्यप्रतिमानतेजसम्। न कौरवाः शेकुरुदीक्षितुं जयं यथा रविं व्याधितचक्षुषो जनाः॥ श्चिच्छेद पार्थः प्रहसञ्छरौघैः। भूयश्च तानहन बाणसङ्घान् गाण्डीवधन्वायतपूर्णमण्डलः॥ यथोग्ररश्मिः शुचिशुक्रमध्यगः सुखं विवस्वान् हरते जलैघान्। तथार्जुनो बाणगणान् निरस्य ददाह सेनां तव पार्थिवेन्द्र॥ स्तथैव भोजस्तव चात्मजः स्वयम्। रवाकिरंस्तोयधरा यथाचलम्॥ जिघांसुभिस्तान् कुशल: शरोत्तमान् महात्वे सम्प्रहितान् प्रयत्नतः। शरैः प्राचिच्छेद स पाण्डवस्त्वरन् पराभिनद् वक्षसि चेषुभिस्त्रिभिः॥ स्तपन् रिपूनर्जुनभास्करो बभौ। शरोद्ररश्मिः शुचिशुक्रमध्यगो यथैव सूर्यः परिवेषवांस्तथा॥ अथाययबाणैर्दशबिर्धनंजयं पराभिनद् द्रोणसुतोऽच्युतं त्रिभिः। चतुर्भिरश्वांश्चतुरः कपि ततः शरैश्च नारावरैरवाकिरत्॥ तथापि तं प्रस्फुरदात्तकार्मुकं त्रिभिः शरैर्यन्तृशिरः क्षुरेणा हयांश्चतुर्भिश्च पुनस्त्रिभिर्ध्वज धनंजयो द्रौणिरथादपातयत्॥ रलङ्कत तक्षकभोगवर्चसम्। महाधनं कार्मुकमन्यदाददे यथा महाहिप्रवरं रिगेस्तटात्॥ स्वमायुधं चोपनिकीर्य भूतले धनुश्च कृत्वा सगुणं गुणाधिकंः। समार्दयत्तावजितौ नरोत्तमौ शरोत्तमैद्रौणिरविध्यदन्तिकात्॥ कृपश्च भोजश्च तवात्मजश्च ते शरैरनेकैयुधि पाण्डवर्षभम्। स्तमोनुदं वारिधरा इवापतन्॥ कृपस्य पार्थः सशरं शरासनं हयान् ध्वजान् सारथिमेव पत्रिभिः। स्तथा यथा वज्कधरः पुरा बलेः॥ स पार्थबाणैर्विनिपातितायुधो ध्वजावमः च कृते महाहवे। कृतः कृपो बाणसहस्रयन्त्रितो यथाऽऽपगेयः प्रथमं किरीटिना॥ शरैः प्रचिच्छेद तवात्मजस्य ध्वजं धनुश्च प्रचकर्त नर्दतः। जघान चाश्वन् कृतवर्मणः शुभान् ध्वजं च चिच्छेद ततः प्रतापवान्॥ सवाजिसूतेष्वसनान् सकेतनान् जघान् नागाश्वरथांस्त्वरंश्च सः। ततः प्रकीर्ण सुमहद् बलं तव प्रदारितः सेतुरिराम्भसा यथा॥ श्चकार शत्रूनपसव्यमातुरान्। ततः प्रयातं त्वरितं धनंजय शतक्रतुं वृत्रनिजघ्नुषं यथा॥ समन्वधावन् पुनरुत्थितैर्ध्वजै रथैः सुयुक्तैरपरे युयुत्सवः। अथाभिसृत्य प्रतिवार्य तानरीन् धनंजयस्याभिमुखं महारथाः॥ विदारयन्तो व्यनदन् सुभैरवम्। ततोऽभिजघ्नुः कुपिताः परस्परं शरैस्तदाञ्जोगतिभिः सुतेजनैः॥ सुराः पुरा देवगणैस्तथाऽऽहवे। जयेप्सवः स्वर्गमनाय चोत्सुकाः पतान्ति नागाश्वरथाः परतप॥ जगर्जुरुच्चैर्बलवच्च विव्यधुः शरैः सुमुक्तैरितरेतरं पृथक्। शरान्धकारे तु माहत्मभिः कुते महामृधे योधवरैः परस्परम्। चतुर्दिशो वै विदिशश्च पार्थिव प्रभा च सूर्यस्य तमोवृताभवत्॥ संजय उवाच राजन् कुरूणां प्रवरैबलैर्भीममभिद्रुतम्। मजन्तमिव कौन्तेयमुजिहीर्घर्धनंजयः॥ विसृज्य सूतपुत्रस्य सेनां भारत सायकैः। प्राहिणोन्मृत्यलोकास्य परवीरान् धनंजयः॥ ततोऽस्याम्बरमाश्रित्य शरजालानि भागशः। अदृश्यन्त तथान्ये च निघ्नन्तस्तव वाहिनीम्॥ स पक्षिसंघाचरितामाकाशं पूरयशरैः। धनंजयो महाबाहुः कुरूणामन्तकोऽभवत्॥ ततो भल्लैः क्षुरप्रैश्च नाराचैर्विमलैरपि। गात्राणि प्राच्छिन्त् पार्थः शिरांसि च चकर्त ह॥ छिन्नगात्रैर्विकवचैर्विशिरस्कैः समन्ततः। पातितैश्च पतद्धिश्च योधैरासीत् समावृता॥ धनंजयशराभ्यस्तैः स्यन्दनाश्वरथद्विपैः। संछिन्नभिन्नविध्वस्तैर्व्यङ्गङ्गावयवैः स्तृता॥ सुदुर्गमा सुविषमा घोरात्यर्थ सुदुर्दशा। रणभूमिरभूद राजन् महावैतरणी यथा।॥ ईषाचक्राक्षभग्नैश्च व्यश्वैः साश्चैश्च युध्यताम्। ससूतैर्हतसूतैश्च रथैस्तीर्णाभवन्मही॥ सुवर्णवर्णसंनाहैर्योधैः कनकभूषणैः। आस्थिता: क्लृप्तवर्माणो भद्रा नित्यमदा द्विपाः॥ क्रुद्धाः क्रूरैर्महामात्रैः पाष्णार्यष्ठप्रचोदिताः। चतुःशताः शरवरैर्हता: पेतुः किरीटिना॥ पर्यस्तानीव श्रृङ्गाणि ससत्त्वानि महागिरेः। धनंजयशराभ्यस्तैः स्तीर्णा भूर्वरवारणैः॥ समन्ताज्जालदप्रख्यान् वारणान् मदवर्षिणः। अभिपेदेऽर्जुनरथो धनान् भिन्दनिवांशुमान्॥ हतैर्गजमनुष्याश्चैर्भित्रश्च बहुधा रथैः। विशस्त्रयन्त्रकवचैर्युद्धशौण्डैर्गतासुभिः॥ अपविद्धायुधैर्मागङ: स्तीर्णोभूत फाल्गुनेन वै। व्यस्फारयद् वै गाण्डीव सुमहद् भैरवारवम्॥ घोरवज्रविनिष्पेषं स्तनयित्नुरिवाम्बरे। ततः प्रादीर्यत चमूर्धनंजयशराहता॥ महावातमसाविद्धा महानौरिव सागरे। नानारूपाः प्राणाहरा: शरा गाण्डीवचोदिताः॥ अलातौल्काशनिप्रख्यास्तव सैन्यं विनिर्दहन्। महागिरौ वेणुवनं निशि प्रज्वलितं यथा।॥ तथा तव महासैन्यं प्रास्फुरच्छरपीडितम्। संपिष्टदग्धविध्वस्तं तव सैन्यं किरीटिना॥ कृतं प्रविहतं बाणैः सर्वतः प्रद्रुतं दिशः। महावने मृगगणा दावाग्नित्रासिता यथा।॥ कुरवः पर्यवर्तन्त निर्दग्धाः सव्यसाचिना। उत्सृज्य च महाबाहुं भीमसेन तथा रणे॥ बलं कुरूणामुद्धिग्नं सर्वमासीत् पराङ्मुखम्। ततः कुरुषु भग्नेषु बीभत्सुरपराजितः॥ भीमसेन समासाद्य मुहूर्तं सोऽभ्यवर्तत। समागम्य च भीमेन मन्त्रयित्वा च फाल्गुनः॥ विशल्यमरुजं चास्मै कथायित्वा युधिष्ठिरम्। भीमसेनाभ्यनुज्ञातस्ततः प्रायाद् धनंजयः॥ नादयन् रथघोषेण पृथिवीं यां च भारत। ततः परिवृतो वीरैर्दशभिर्योधपुङ्गवैः॥ दुःशासनादवरजैस्तव पुत्रैधनंजयः। ते तमभ्यर्दयन् बाणैरूल्काभिरिव कुञ्जरम्॥ अततेष्वसनाः शूरा नृत्यन्त इव भारत। अपसव्यांस्तु तांश्चक्रे रथेन मधुसूदनः॥ न युक्तान् हि स तान् मेने यमायाशु किरीटिना। तथान्ये प्राद्रवन मूढाः पराङ्मुखरथेऽर्जुन॥ तेषामापततां केतूनश्वांश्चापानि सायकान्। नाराचैरर्धचन्दैश्च क्षिप्रं पार्थो न्यपातयत्॥ अथान्यैर्बहुभिर्भल्लैः शिरांस्येषामपातयत्। रोषसंरक्तंनेत्राणि संदष्टौष्ठानि भूतले॥ तानि वक्त्राणि विवभुः कमलानीव भूरिशः। तांस्तु भल्लैर्महावेगैर्दशभिर्दश भारत॥ रुक्माङ्गदान रुक्मपुर्हत्वा प्रायादमित्रहा॥ संजय उवाच तं प्रयान्त महारेगैरश्वैः कपिवरध्वजम्। युद्धायाभ्यद्रवन वीराः कुरूणां नवती रथाः॥ कृत्व संशप्तका घोरं शपथं पारलौकिकम्। परिवर्नरव्याघ्रा नरव्याघ्रं रणेऽर्जुनम्॥ कृष्णः श्वेतान् महावेगानश्वान् काञ्चनभूषणान्। मुक्ताजालप्रतिच्छन्नान् प्रेषीत् कर्णरथं प्रति॥ ततः कर्णरथं यान्तमरिघ्नं तं धनंजयम्। बाणवरभिनन्तः संशप्ततरथा ययुः॥ त्वरमाणास्तु तान् सर्वान् ससूतेष्वसनध्वजान्। जघान् नवतिं वीरानुर्जुनो निशितैः शरैः॥ तेऽपतन्त हता बाणैर्नानारूपैः किरीटिना। सविमाना यथा सिद्धाः स्वर्गात् पुण्यक्षये तथा॥ ततः सरथनागाश्वाः कुरवाः कुरुसत्तमम्। निर्भया भरतश्रेष्ठमभ्यवर्तन्त फाल्गुनम्॥ तदायस्तमनुष्याश्वमुदीवर्णवरवारणम्। पुत्राणां ते महासैन्यं समरौत्सीद् धनंजयम्॥ शक्तयष्टितोमरप्रासैगडदानिस्त्रिंशसायकैः। प्राच्छादयन् महेष्वासाः कुरवः कुरुनन्दनम्॥ तामन्तरिक्षे विततां शस्त्रवृष्टिं समन्ततः। व्यधमत् पाण्डवो बाणैस्तमः सूर्य इवाशुभिः॥ ततो म्लेच्छाः स्थिता मत्तैस्त्रयोदशशतैर्गजैः। पार्श्वतो व्यहनन् पार्थं तव पुत्रस्य शासनात्॥ कर्णिनालीकनाराचैस्तोमरप्रासशक्तिभिः। मुसलैर्भिन्दिपालैश्च रथस्थं पार्थमार्दयन्॥ तां शस्त्रवृष्टिमतुलां द्विपहस्तैः प्रवेरिताम्। चिच्छेद निशितैर्भल्लैरर्धचन्दैश्च फाल्गुनः॥ अथ तान् द्विरदान् सर्वान नानालिङ्गैः शरोत्तमैः। सपताकध्वजारोहान् गिरीन् वज्रेरिवाहनत्॥ ते हेमपुलैरिषुभिरर्दिता हेममालिनः। हताः पेतुर्महानागाः साग्निज्वाला इराद्रयः॥ ततो गाण्डीवनि?षो महानासीद् विशाम्पते। स्तनतां कूजतां चैव मनुष्यगजवाजिनाम्॥ कुञ्जराश्च हता राजन् दुद्रुवुस्ते समन्ततः। अश्वाश्च पर्यधावन्त हतारोहा दिशो दश॥ स्था हीना महाराज रथिर्भिर्वाजिभिस्तथा। गन्धर्वनगराकारा दृश्यन्ते स्म सहस्रशः॥ अश्वारोहा महाराज धावमाना इतस्ततः। तत्र तत्रैव दृश्यन्ते निहताः पार्थसायकैः॥ तस्मिन क्षणे पाण्डवस्य बाह्वोर्बलमदृश्यत। यत् सादिनो वारणांश्च रथांश्चैकोऽजयद् युधि॥ ततस्त्र्यङ्गेण महता बलेन भरतर्षभ। दृष्ट्वा परिवृतं राजन् भीमसेनः किरीमिनम्॥ हतावशेषानुत्सृज्य त्वदीयान् कतिचिद् रथान्। जवेनाभ्यद्रवद राजन् धनंजयरथं प्रति॥ ततस्तत् प्राद्रवत् सैन्यं हतभूयिष्ठमातुरम्। दृष्ट्वार्जुन तदा भीमो जगाम् भ्रातरं प्रति॥ हातविशिष्टांस्तुरगानर्जुनेन महाबलान्। भीमो व्यधमदश्रान्तो गदापाणिर्महाहवे॥ कालरात्रिमिवात्युग्रां नरनागाश्वभोजनाम्। प्राकाराट्टपुरद्वारणीमतिदारुणाम्॥ ततो गदां नृनागाश्वेष्वाशु भीमो व्यवासृजत्। सा जघान बहूनश्वानश्वारोहांश्च मारिष।॥ कार्णायसतनुत्राणान् नरानश्वांश्च पाण्डवः। पोथयामास गदया सशब्दं तेऽपतन हताः॥ दन्तैर्दशन्तो वसुधां शेरते क्षतजोक्षिताः। भग्नमूर्धास्थिचरणा: क्रव्यादगणभोजनाः॥ असृड्यासवसाभिश्च तृप्तिमभ्यागता गदा। अस्थीन्यप्यश्नती तस्थौ कालरात्रीव दुर्दशा॥ सहस्राणि दशाश्वानां हत्वा पत्तींश्च भूयसा। भीमोऽभ्यधावत् संक्रुद्धो गदापाणिरितस्ततः॥ गदापाणिं ततो भीमं दृष्ट्वा भारत तावकाः। मेनिरे समनुप्राप्तं कालदण्डोद्यतं यमम्॥ स मत्त इव मातङ्गः संक्रुद्धः पाण्डुनन्दनः। प्रविवेश जगानीकं मकरः सागर यथा॥ विगाह्य च गजानीकं प्रगृह्य महतीं गदाम्। क्षणेन भीमः संक्रुद्धस्तन्निन्ये यमसादनम्॥ गजान् सकङ्कटान् मत्तान् सारोहान् सपताकिनः। पततः समपश्याम सपक्षान् पर्वतानिव॥ हत्वा तु तदु गजानीकं भीमसेनो महाबलः। पुनः स्वरथमास्थाय पृष्ठतोऽर्जुनमभ्ययात॥ ततः पराङ्मुखप्रायं निरुत्साहं बलं तव। व्यालम्बत महाराज प्रायशः शस्त्रवेष्टितम्॥ विलम्बमानं तत् सैन्यमप्रदल्भमवस्थितम्। दृष्ट्वा प्राच्छादयद् बाणैरर्जुनः प्राणतपनैः॥ नराश्वरथमातङ्गाः युधि गाण्डीवधन्वना। शरव्रातैश्चिता रेजुः कदम्बा इव केसरैः॥ ततः कुरूणामभवदीर्तनादो महान् नृप। नास्श्वनागासुहरैर्वध्यतामर्जुनेषुभिः॥ हाहाकृतं भृशं लीयमानं परस्परम्। अलातचक्रवात् सैन्यं तदाभ्रमत तावकम्॥ ततस्तद् युद्धमभवत् कुरूमां सुमहद् बलैः। न ह्यत्रासीदनिर्भित्रो रथः सादी हयो गजः॥ आदीप्तमिव तत् सैन्यं शरैश्छिन्नतनुच्छदम्। आसीत् सुशोणितक्किनं फुल्लाशोकवनं यथा॥ तं दृष्ट्वा कुरवस्तत्र विक्रान्तं सव्यसाचिनम्। निराशाः समपद्यन्त सर्वे कर्णस्य जीविते॥ अविषद्यं तु पार्थस्य शरसमप्तामाहवे। मत्वा न्यवर्तन् कुरवो जिता गाण्डीवधन्वना॥ ते हित्वा समरे कर्ण वध्यमानाश्च सायकैः। प्रदुद्रुवुर्दिशो भीताश्चक्रुशुश्चापि सूतजम्॥ अभ्यद्रवत तान् पार्थः किरशरशतान् बहून। हर्षयन् पाण्डवान् योधान् भीमसेनपुरोगमान्॥ पुत्रास्तु ते महाराज जग्मुः कर्णस्थ प्रति। अगाधे मज्जता तेषां द्वीपः कर्णोऽभवत्तदा॥ कुरवो हि महाराज निर्विषाः पन्नगा इष। कर्णमेवोपलीयन्त भयाद् गाण्डीवधन्वनः॥ यथा सर्वाणि भूतानि मृत्योर्भीतानि मारिष। धर्ममेवोपलीयन्ते कर्मवन्ति हि यानि च॥ तथा कर्ण महेष्वास, पुत्रास्तव नराधिपः। उपालीयन्त संत्रासात् पाण्डवस्य महात्मनः॥ ताशोणितपरिक्किन्नान् विषमस्थाशरातुरान्। मा भैष्ठेत्यब्रवीत् कर्णो ह्यभीतो मामितेति च॥ सम्भग्नं हि बलं दृष्ट्वा बलात् पार्थेन तावकम्। धनुर्विस्फारयन् कर्णस्तस्थौ शत्रुजिघांसया॥ तान् प्रदुतान् कुरून् दृष्ट्वा कर्णः शस्त्रभृतां वरः। संचिन्तयित्वा पार्थस्य वधे दने मनः श्वसन्॥ विस्फार्य सुमहचापं ततश्चाधिरथिवृषः। पञ्चलान् पुनराधावत् पश्यतः सव्यसाचिनाः॥ ततः क्षणेन क्षितिपाः क्षतजप्रतिमेक्षणाः। कर्णं ववर्षुर्बाणैधैर्यथा मेघा महीधरम्॥ ततः शरसहस्राणि कर्णमुक्तानि मारिष। व्ययोजयन्त पञ्चालन् प्राणैः प्राणभृतां वर॥ तत्र शब्दो महानासीत् पञ्चालानां महामते। वध्यतां सूतपुत्रेण मित्रार्थे मित्रगृद्धिना॥ संजय उवाच तत्राकरोद् दुष्करं राजपुत्रो दुःशासनस्तुमुलं युद्धयमानः। चिच्छेद भीमस्य धनुः शरेण षष्ट्या शरैः सारथिमप्यविध्यत्॥ स तत् कृत्वा राजपुत्रस्तरस्वी विव्याध भीमं नवभिः पृषत्कैः। ततोऽभिनद् बहुभिः क्षिप्रमेव वरेषुभिर्भीमसेन महात्मा।॥ ततः क्रुद्धो भीमसेनस्तरस्वी शक्तिं चोग्रा प्राहिणोत् ते सुताय। तामापतन्ती सहसातिघोरां दृष्ट्वा सूतस्ते ज्वलितामिवोल्काम्॥ आकर्णपूर्णरिषुभिर्महात्मा चिच्छेद पुत्रो दशभिः पृषत्कैः। दृष्ट्वा तु तत् कर्म कृतं सुदुष्करं प्रापूजयन् सर्वयोधाः प्रहृष्टाः॥ अथाशु भीमः चशरेण भूयो गाढं स विव्याध सुतस्त्वदीयः। चुक्रोध भीमः :पुनराशु तस्मै भृशं प्रजज्वाल रुषाभिवीक्ष्य॥ विद्धोऽस्मि वीराशु भृशं त्वयाद्य सहस्व भूयोऽपि गजाप्रहारम्। उक्तैवमुच्चैः कुपितोऽथ भीमो जग्राह तां भीमगदां वधाय॥ उवाच चाद्याहमहं दुरात्मन् पास्यामि ते शोणितमाजिमध्ये। अथैवमुक्तास्तनयस्तवोग्रां शक्तिं वेगात् प्राहिणोन्मृत्युरूपाम॥ आविध्य भीमोऽपि गदां सुघोरां विचिक्षिपे रोषपरीतमूर्तिः। सा तस्य शक्तिं सहसा विरुज्य पुत्रं तवाजौ ताडयामास मूर्ध्नि॥ स विक्षरन् नाग इव प्रभिन्नो गदामस्मै तुमुले प्राहिणोद् वै। तयाहरद् दश धन्वन्तराणि दुःशासनं भीमसेनः प्रसह्य॥ तया हतः पतितो वेपमानो दुःशासनो गदया वेगवत्या। विध्वस्तवर्माभरणाम्बरस्त्रम् विचेष्टमानो भृशवेदनातुरः॥ हयाः ससूता निहता नरेन्द्र चूर्णीकृतश्चास्य रथः पतन्त्या। दुःशासनं पाण्डवाः प्रेक्ष्य सर्वे हृष्टाः पञ्चालाः सिंहनादानमुञ्चन॥ तं पातियित्वात वृकोदरोऽथ जगर्ज हर्षेण विनादयन् दिशः। नादेन तेनाखिलपार्श्ववर्तिनो मूर्छाकुलाः पतितास्त्वाजमूढ॥ भीमोऽपि वेगादवतीर्य यानाद् दुःशासनं वेगवानभ्यधावत्। ततः स्मृत्वा भीमसेनस्तरस्वी सापनकं यत् प्रयुक्तं सुतैस्तै॥ तस्मिन सुघोरे तुमुले वर्तमाने प्रधानभूयिष्ठतरैः समन्तात्। दुःशासनं चत्र समीक्ष्य राजन् भीमो महाबाहुरचिन्त्यका॥ स्मृत्वाथ केशग्रहणं च देव्या वस्त्रापहारं च रजस्वलाया:। अनागसो भर्तृपराङ्मुखाया दुःखानि दत्तान्यपि विप्रचिन्त्य॥ जज्वाल क्रोधादथ भीमसेन आज्यप्रसिक्तो हि यथा हुताशः। तत्राह कर्ण च सुयोधनं च कृपं द्रौणिं कृतवर्माणमेव॥ निहन्मि दुःशासनमद्य पापं संरक्ष्यतामद्य समस्तयोधाः। इत्येवमुक्त्वा सहसाभ्यघावनिहन्तुकामोऽतिबलस्तरवी॥ तथा तु विक्रम्य रणे वृकोदरो महागजं केसरियो यथैव। निगृह्य दुःशासनमेकवीरः सुयोधन्याधिरथे: समक्षम्॥ रथादवप्लुत्य गतः स भूमौ यत्नेन तस्मिन प्रणिधाय चक्षुः। असिं समुद्यम्य सितं सुधारं कण्ठे पदाऽऽक्रम्यत वेपमानम्॥ उवाच तद्गौरिति यद् ब्रुवाणो हृष्टो वदेः कर्णसुयोधनाभ्याम्। ये राजसूयावभृथे पवित्रा जाताः कचा याज्ञसेन्या दुरात्मन्॥ स्तद् ब्रूहि त्वां पृच्छन्ति भीमसेनः। श्रुत्वा तु तद् भीमवचः सुघोरं दुःशासनो भीमसेनं निरीक्ष्य॥ जज्वाल भीमं स तदा स्मयेन संशृण्वतां कौरवसोमकानाम्। उक्तास्तदाऽऽजौ स तथा सरोषं जगाद भीमं परिवर्तनेत्रः॥ अयं करिकराकारः पीनस्तनविमर्दनः। गोसहस्रप्रदाता च क्षत्रियान्तकरः करः॥ अनेन याज्ञसेन्या मे भीम केशा विकर्षिताः। पश्यतां कुरुमुख्यानां युष्माकं च सभासदाम्॥ एवं त्वसौ राजसुतंन निशम्य ब्रुवन्तमाजौ विनिपीडय वक्षः। मुटुर्ननादाथ समस्तयोधान्॥ त्वसौ भवेदद्य निरस्तबाहुः। माक्षिप्य योधास्तरसा महाबलः॥ एवं क्रुद्धो भीमसेनः करेण उत्पाटयामास भुजं महात्मा। दुःशासनं तेन स वीरमध्ये जघान् वज्रशनिसंनिभेन॥ उत्कृत्य वक्षः पतितस्य भूमावथापिवच्छोणितमस्य कोष्णम्। ततो निपात्यास्य शिरोऽपकृत्य तेनासिना तव पुत्रस्य राजन्॥ सत्यां चिकीर्षुर्मतिमान् प्रतिज्ञा भीमोऽपिबच्छोणितमस्य कोष्णम्। आस्वाद्य चास्वाद्य च वीक्षमाणः क्रुद्धो हि चैनं निजगाद वाक्यम्॥ स्तन्यस्य मातुर्मदुसर्पिषोर्वा माध्वीकपानस्य च सत्कृतस्य। दिव्यस्य वा तोयरसस्य पानात् पयोदधिभ्यां मथिताञ्च मुख्यात्॥ अन्यानि पानानि च यानि लोके सुधामृतस्वादुरसानि तेभ्यः। सर्वेभ्य एवाभ्यधिको रसोऽयं ममाद्य चास्याहितलोहितस्य॥ अथाह भीमः पुनरुग्रकर्मा दुःशासनं क्रोधपरीतचेताः। गतासुमालोक्य विहस्य सुस्वरं किं वा कुर्यां मृत्युना रक्षितोऽसि॥ एवं ब्रुवाणां पुनराद्रवन्तमास्वाद्य रक्तं तमतिप्रहृष्टम्। ये भीमसेनं ददृशुस्तदानीं भयेन तेऽपि व्यथिता निपेतुः॥ ये चापि नासन् व्यथिता मनुष्यस्तेषां करेभ्यः पतितं हि शस्रम्। भयाच संचुक्रुशुरस्वरैस्ते निमीलिताक्षा ददृसुः समन्ततः॥ तं तत्र भीमं ददृशुः समन्ताद् दौःशासनं तद् रुधिरं पिबन्तम्। सर्वेऽपलायन्त भयाभिपन्ना न वै मनुष्योऽयमिति ब्रुवाणाः॥ तस्मिन कृते भीमसेनेन रूपे दृष्ट्वा जनाः शोणितं पीयमानम्। सम्प्राद्रवंश्चित्रसेनेन सार्ध भीमं रक्षो भाषमाणा भयार्ताः॥ युधामन्युः प्रदूतं चित्रसेनं सहानीकस्त्वभ्ययाद् राजपुत्रः। विव्याध चैनं निशितैः पृषत्कैर्व्यपेतभीः सप्तभिराशुमुक्तैः॥ संक्रान्तभोग इव लेलिहानो महोरगः क्रोधविषं सिसृक्षुः। त्रिभिः शरैः सारथिमस्य षड्भिः॥ तत: सुपुढेन सुयन्त्रितेन सुसंशिताग्रेण शरेण शूरः। आकर्णमुक्तेन समाहितेन युधामन्युस्तस्य शिरो जहार॥ तस्मिन् हते भ्रातरि चित्रसेने क्रुद्धः कर्णः पौरुषः दर्शयानः। व्यद्रावयत् पाण्डवानामनीकं प्रत्युद्यातो नकुलनामितौजाः॥ तत्रैव दुःशासनममर्षणम्। पूरयित्वाञ्जलिं भूयो रुधिरस्योगनिःस्वनः॥ शृण्वतां लोकवीराणामिदं वचनमब्रवीत्। एष ते रुधिरं कण्ठात् पिबामि पुरुषाधम॥ ब्रूहीदानीं तु संहृष्टः पुनर्गौरिति गौरिति। भीमोऽपि हत्वा ये तदास्मान् प्रनृत्यन्ति पुनगौरिति गौरिति॥ तान् वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति। प्रमाणकोटयां शयनं कालकूटस्य भोजनम्॥ दंशनं चाहिभिः कृष्णैर्दाहं च जतुवेश्मनि। द्यूतेन राज्यहरणमरण्ये वसतिश्च या॥ द्रौपद्याः केशपक्षस्य ग्रहणं च सुदारुणम्। इष्वस्त्राणि च संग्रामेष्वसुखानि च वेश्मनि॥ विराटभवने यश्च केशोऽस्माकं पृथग्विधः। शकुनेर्धार्तराष्ट्रस्य राधेयस्य च मन्त्रिते॥ अनुभूतानि दुःखानि तेषां हेतुस्त्वमेव हि। दुःशान्येतानि जानीमो न सुखानि कदाचन॥ धृतराष्ट्रस्य दौरात्म्यात् सपुत्रस्य सदा वयम्। इत्युक्तवा वचनं राजञ्जयं प्राप्य वृकोदरः। पुनराह महाराज स्मयंस्तौ केशवार्जुनौ॥ असृग्दिग्धो विस्त्रवल्लोहितास्यः क्रुद्धोऽत्यर्थ भीमसेनस्तरस्वी। दुःशासने यद् रणे संश्रुतं मे तद् वै सत्यं कृतमोह वीरौ॥ अत्रैव दास्याम्यपरं द्वितीयं दुर्योधन यज्ञपशु विशस्य। शिरो मृदिन्ता च पदा दुरात्मनः शान्ति लप्स्ये कौरवाणां समक्षम्॥ एतावदुक्तवा वचनं प्रहष्टो ननाद चोचै रुधिराईगात्रः। ननर्द चैवातिबलो महात्मा वृत्रं निहत्येव सहस्रनेत्रः॥ संजय उवाच दुःशासने तु निहते तव पुत्रा महारथाः। महाक्रोधविषा वीराः समरेष्वपलायिनः॥ दश राजन् महावीर्या भीमं प्राच्छादयशरैः। निषङ्गी कवची पाशी दण्डधारो धनुर्ग्रहः॥ अलोलुपः शल: सन्धो वातवेगसुवर्चसौ। एते समेत्य सहिता भ्रातृव्यसनकर्शिताः॥ भीमसेनं महाबाहु मार्गणैः समवारयन्। स वीर्यमाणो विशिखैः समन्तात्तैर्महारथैः॥ भीमः क्रोधाग्निरक्ताक्षः क्रुद्ध काल इवाबभौ। तांस्तु भल्लैर्महावेगैर्दशभिर्दश भारतान्॥ रुक्माङ्गदान रुक्मपुङ्खैः पार्थो निन्ये यमक्षयम्। हतेषु तेषु वीरेषु प्रदुद्राव बलं तव॥ पश्यतः सूतपुत्रस्य पाण्डवस्य भयादितम्। ततः कर्णो महाराज प्रविवेश महद् भयम्॥ दृष्ट्वा भीमस्य विक्रान्तमन्तकस्य प्रजास्विव। तस्य त्वाकारभावज्ञः शल्यः समितिशोभनः॥ उवाच वचनं कर्ण प्राप्तकालमरिंदमम्। मा व्यथां कुरु राधेय नैव त्वय्युपपद्यते॥ एते द्रवन्ति राजानो भीमसेनभयार्दिताः। दुर्योधनश्च सम्मूढो भ्रातृव्यसनकर्शितः॥ दुःशासनस्य रुधिरे पीयमाने महात्मना। व्यापनचेतसश्चैव शोकोपहतचेतसः॥ दुर्योधनमुपासन्ते परिवार्य समन्ततः। कृपप्रभृतश्चैते हतशेषाः सहोदताः॥ पाण्डवा लब्धलक्ष्याश्च धनंजयपुरोगमाः। त्वामेवाभिमुखाः शूरा युद्धाय समुपस्थिताः॥ स त्वं पुरुषशार्दूल पौरुषेण समास्थितः। क्षत्रधर्म पुरस्कृत्य प्रत्युद्याहि धनंजयम्॥ भारो हि धार्तराष्ट्रेण त्वयि सर्वः समाहितः। तमुद्वह महाबाहो यथाशक्ति यथाबलम्॥ जये स्याद् विपुला कीर्ति वः स्वर्ग पराजये। वृषसेन राधेय संक्रुद्धस्तनयस्तव॥ त्वयि मोहं समापन्ने पाण्डवानभिधावति। एतच्छुत्वा तु वचनं शल्यस्यामिततेजसः। हृदि चावश्यकं भावं चक्रे युद्धाय सुस्थित्॥ दविस्थितं प्रमुख पाण्डवं तम्। वृकोदरं कालमिवात्तदण्डं गदाहस्तं योधयन्तं त्वदीयान्॥ तमभ्यधावन्नकुलः प्रवीरो रोषादमित्रं प्रतुदान पृषत्कैः। कर्णस्य पुत्रं समरे प्रहृष्टं पुरा जिघांसुर्मघवेव जम्भम्॥ ततो ध्नं स्फाटिकचित्रकचुकं चिच्छेद वीरो नकुलः क्षुरेण। कर्णात्मजस्येष्वसनं च चित्रं भल्लेन जाम्बूनदचित्रनद्धम्॥ अथान्यदादाय धनुः स शीघ्र कर्णात्मजः पाण्डवमभ्यविध्यत्। दिव्यैरस्त्रैरभ्यवर्षच सोऽपि कर्णस्य पुत्रो नकुलं कृतास्त्रः॥ शराभिघाताच रुषा च राजन् स्वया च भासास्त्रसमीरणाच। मिद्धो यथाऽऽज्याहुतिभिर्हताशः॥ कर्णस्य पुत्रो नकुलस्य राजन् सर्वानश्वानक्षिणोदुत्तमास्त्रैः। नुदग्रगान् हेमजालावनद्धान्॥ दादाय चर्मालरुक्मचन्द्रम। आकाशसंकाशमसिं प्रगृह्य दोधूयमानः स्त्रगवचचार॥ ततोऽन्तरिक्षे च रथाश्वनागं चिच्छेद तूर्णं नकुलश्चित्रयोधी। ते प्रापतन्नसिना गां विशस्ता यथाश्वमेधे पशवः शमित्रा॥ द्विसाहस्रा: पातिता युद्धशौण्डा नानादेश्याः सुभृताः सत्यसंघाः। एकेन संख्ये नकुलेन कृत्ता जयेप्सुनानुत्त्म चन्द्रनाङ्गाः॥ तमापतन्तं नकुलं सोऽभिपत्य समन्ततः सायकैः प्रत्यविद्धयत्। विव्याध वीरं स चुकोप विद्धः॥ महाभये रक्ष्यमाणो महात्मा भ्रात्रा भीमेनाकरोत् भीमम्। तं कर्णपुत्रो विधमन्तमेकं नराश्वमातङ्गरथाननेकान्॥ विव्याध वीरं नकुलं सरोषः। स तेन विद्धोऽतिभृशं तरस्वी महाहवे वृषसेनेन राजन्॥ क्रुद्धेन धावन् समरे जिघांसुः कर्णात्मजं पाण्डुसुतो नृवीरः। वितत्य पक्षौ सहसा पतन्तं श्येनं यथैवामुिषलब्धमाजौ॥ अवाकिरद् वृषसेनस्ततस्तं शितैः शरैर्नकुलमुदारवीर्यम्। श्चचार मार्गान नकुलश्चित्ररूपान्॥ अथास्य तूर्ण चरतो नरेन्द्र खड्न चित्रं नकुलस्य तस्य। महेषुभिर्व्यधमत् कर्णपुत्रो महाहवे चर्म सहस्रतारम्॥ तं चायसं निशितं तीक्ष्णधारं विकोशमुग्रं गुरुभारसाहम्। माधुन्वतः सर्पमिवोग्ररूपम्॥ श्चकर्त खड्ने निशितैः सुवेगैः। पुनश्च दीप्तैर्निशितैः पृषत्कैः स्तनान्तरे गाढमथाभ्यविद्धयत्॥ मन्यैर्नरैः कर्म रणे महात्मा। ययौ रथं भीमसेनस्य राजन् शराभित्पतो नकुलस्त्वरावान्॥ स भीमसेनस्य रथं हताश्वो माद्रीसुतः कर्णसुताभितप्तः। आपुप्लुवे सिंह इवाचलाग्रं सम्प्रेक्षमाणस्य धनंजयस्य॥ तत्रः क्रुद्धो वृषसेनो महात्मा ववर्ष ताविषुजालेन वीरः। महारथावेकरथे समेतौ शरैः प्रभिन्दन्निव पाण्डवेयौ॥ तस्मिन रथे निहते पाण्डवस्य क्षिप्रं च खड्ने विशिखैर्निकृत। स्ततो न्यनशरवषैरुपेत्य॥ तौ पाण्डवेयौ परितः समेतान् संहूयमानाविव हव्यवाहौ। भीमार्जुनौ वृषसेनाय क्रुद्धौ ववर्षतुः शरवर्ष सुघोरम्॥ अथाब्रवीन्मारुतिः फाल्गुनं च पश्यस्वैनं नकुलं पीड्यामानम्। स्तस्माद् भवान् प्रत्युपयातु कार्णिम्॥ स तनिशम्यैव वचः किरीटी रथं समासाद्य वृकोदरस्य। मुपागतं शातय शीघ्रमेनम्॥ इत्येवमुक्तः सहसा किरीटी भ्रात्रा समत्रं नकुलेन संख्ये। कपिध्वजं केशवसंगृहीतं प्रैषीदुदग्रो वृषसेम्य वाहम्॥ संजय उवाच नकुलमथ विदित्वा छिन्नबाणासनासिं विरतमरिशरात कर्णपुत्रास्त्रभग्नम्। पवनधुतपताकालादिनो वल्गिताश्वा वरपुरुषनियुक्तास्ते रथैः शीघ्रमीयुः॥ द्रुपदसुतवरिष्ठाः पञ्च शैनेयषष्ठा दुपददुहितृपुत्राः पञ्च चामित्रसाहाः। द्विरदरथनराश्वान् सूदयन्तस्त्वदीयान् भुजगपतिनिकाशैर्मार्गणैरात्तशस्त्राः॥ अथ तव रथमुख्यास्तान् प्रतीयुस्त्वरन्तः कृपहदिकसुतौ च द्रौणिदुर्योधन च। शकुनिसुतवृकौ च क्राथदेवावृधौ च द्विरदजलदघोषैः स्यन्दनैः कार्मुकैश्च॥ तव नृप रतिवर्यास्तान् दशौकं च वीरान् नृवर शरवारौस्ताडयन्ताडयन्तोऽभरुन्धन्। गिरीशिखरनिकाशैर्भीमवेगैः कुलिन्दाः॥ सुकल्पिता हैमवता मदोत्कटा रणाभिकामैः कृतिभिः समास्थिताः। स्तथा यथा खे जलदाः सविद्युतः॥ कुलिन्दपुत्रो दशाभिर्महायसैः कृपं ससूताश्वमपीडयद् भृशम्। तत: शरद्वत्सुतसायकैर्हतः सहैव नागेन पपात भूतले॥ दिवाकरांशुप्रतिमैरयस्मयैः। स्ततोऽस्य गान्धारपतिः शिरोऽहरन्त्॥ तत: कुलिन्देषु हतेषु तेष्वथ प्रहृष्टरूपास्तव ते महारथाः। भृशं प्रदध्मुलवणाम्बुसम्भवान् परांश्च बाणासनपाणयोऽभ्ययुः॥ अथाभवद् युद्धमतीव दारुणं पुनः कुरूणां सं पाण्डुसृञ्जयैः। नराश्वनागासुहरं भृशाकुलम्॥ स्थाश्वमाकङ्गपदातिभिस्ततः परस्परं विप्रहतापतन् क्षितौ। यथा सविद्युत्स्तनिता बलाहका: समाहता दिग्भ्य इवोग्रामारुतैः॥ स्तथा रथान् पत्तिगणांश्च तान् बहूना जघान भोजस्तु हयानथापतन् क्षणाद् विशस्ताः कृतवर्मणः शरैः॥ स्त्रयः ससर्वायुधयोधकेतनाः। स्तथा यथा वज्रहता महाचलाः॥ कुलिन्दराजाफरजादनन्तरः स्तनान्तरे पत्रिवरैरताडयत्। तवात्मजं तस्य तवात्मजः शरैः शितैः शरीरं व्यहनद द्विप च तम्॥ स नागराजः सह राजसूनुना पपात रक्तं बहु महेन्द्रवज्रप्रहतोऽम्बुदागमे यथा जलं गौरिकपर्वतस्तथा।॥ सर्वतः क्षरन्। कुलिन्दपुत्रप्रहितोऽपरो द्विपः क्राथस्य सूताश्वरथं व्यपोथयत्। ततोऽपतत् क्राथशराभीधातितः सहेश्वरो वज्रहतो यथा गिरीः॥ रथी द्विपस्थेन हतोऽपतच्छरैः क्राथाधिप पर्वतजेन दुर्जयः। सवाजिसूतेष्वसनध्वजस्तथा यथा महावातहतो महाद्रुमः॥ वृको द्विपस्थं गिरिराजवासिनं भृशं शरैर्द्वादशभिः पारभिनत्। ततो वृकं साश्वरथं महाद्विपो दुतं चतुर्भिश्चरणैर्व्यपोथयत्॥ स नागराजः सनियन्तृकोऽपतत् तथा हतो बभ्रुसुतेषुभिभक्रशम्। स चापि देवावृधसूनुरर्दितः पपात नुन्नः सहदेवसूनुना॥ विषाणगात्राफरयोधपातिना गजेन हन्तुं शकुनि कुलिन्दजः। जगाम् वेगेन भृशार्दयंश्च तं ततोऽस्य गान्धारपतिः शिरोऽहरत्॥ ततः शतीनीकहता महागजा हता रथाः पत्तिगणाश्च तावकाः। स्तथागता गां विवशा विचूर्णिताः॥ ततोऽभ्वविद्धयद् बहुभिः शितैः शरैः कलिङ्गपुत्रो नकुलात्मजं स्मयन्। ततोऽस्य कोपाद् विचकर्त नाकुलिः शिरः क्षुरेणाम्बुजसंनिभाननम्॥ स्त्रिभिः शरैः कर्णसुतोऽर्जुनं त्रिभिः। जनार्दनं द्वादशभिश्च सायकैः॥ तु तदस्य कर्मातिमनुष्यकर्मणः समीक्ष्य हृष्टाः कुरवोऽभ्यपूजयन्। पराक्रमज्ञास्तु धनंजयस्य ये हुतोऽयमग्नाविति ते मेनिरे॥ ततः किरीटी परवीरघाती हताश्वमालोक्य नरप्रवीरः। णाद्रीसुतं नकुलं लोकमध्ये समीक्ष्य कृष्णं भृशविक्षतं च॥ समभ्यधावद् वृषसेनमाहवे स सूतजस्य प्रमुखे स्थितस्तदा। तमापतन्तं नरवीरमुग्रं महाहवे बाणसहस्रधारिणम्॥ अभ्यापतत् कर्णसुतो महारथं यथा महेन्द्रं नमुचिः पुरा तथा। ततो द्रुतं चैकशरेण पार्थ शितेन विद्ध्वा युधि कर्णपुत्रः॥ ननाद नादं सुमहानुभावो विद्ध्वेव शक्रं नमुचिः स वीरः। र्बाणैरविद्धयद् भुजमूले तु सव्ये॥ तथैव कृष्णं नवभिः समादयत् पुनश्च पार्थं दशाभिर्जधान्। रभ्याहतः श्वेतहयः शरैस्तैः॥ संरम्भमीषद्गमितो वधाय कर्णात्मजस्याथ मनः प्रदधे। ततः किरीटी रणमूर्ध्नि कोपात् कृत्वा त्रिशाखां भ्रकुटि ललाटे॥ मुमोच तूर्ण विशिखान् महात्मा वधे धतः कर्णसुतस्य संख्ये। आरक्तनेत्रोऽन्तकशत्रुहन्ता उवाच कर्ण भृशमुत्सस्मयंस्तदा॥ नहं रणे वृषसेन तमुग्रम्। सम्पश्यतः कर्ण तवाद्य संख्ये नयामि लोकं निशितैः पृषत्कैः॥ ऊरनं च तावाद्धि जना वदन्ति सर्वैर्भवद्भिर्मम सूनुर्हतोऽसहौ। एको रथो मद्विहीनस्तरस्वी अहं हनिष्ये भवता समक्षम्॥ महं हनिष्ये वृषकेनमुग्रम्। महं हनिष्येऽर्जुन आजिमध्ये॥ तमद्य मूलं कलहस्य संख्ये दुर्योधनापाश्रयजातदर्पम्। त्वामद्य हन्तास्मि रणे प्रसा अस्यैव हन्ता युधि भीमसेनः॥ दुर्योधनस्याधमपूरुषस्य यस्यानयादेष महान् क्षयोऽभवत्। स एवमुक्तवा विनिमृज्य चापं लक्ष्यं हि कृत्वा वृषसेनमाजौ॥ ससर्ज बाणान् विशिखान् महात्मा वधाय् राजन् कर्णसुतस्य संख्ये। मर्मस्वशङ्कं प्रहसन किरीटी॥ चिच्छेद चास्येष्वसनं भुजौ च क्षुरैश्चतुर्भिनिशितैः शिस्चा स पार्थबाणाभिहतः पपात रथाद् विबाहुर्विशिरा धरायाम्॥ सुपुष्पितो वृक्षवरोऽतिकायो वातेरितः शाल इवाद्रिश्रृङ्गात्। सम्प्रेक्ष बाणाभिहतं पतन्तं रथान् सुतं सूतज: क्षिप्रकारी॥ रथं रथेनाशु जगाम् रोषात् किरीटिनः पुत्रवधाभितप्तः। तत समक्षं स्वसुतं विलोक्य कर्णो हतं श्वेतहयेन संख्ये। संरम्भमागम्य रपं महात्मा कृष्णार्जुनौ सहसैवाभ्यधावत्॥ संजय उवाच तमायान्तमभिप्रेक्ष्य वेलोवृत्तमिवार्णवम्। गर्जन्त सुमहाकायं दुर्निवारं सुरैरपि।॥ अर्जुनं प्राह दाशार्हः प्रहस्य पुरुर्षभः। अयं सरथ आयाति श्वेताश्वः शल्यसारथिः॥ येन ते सह योद्धव्यं स्थिरो भव धनंजय। पश्य चैन समायुक्त रथं कर्णस्य पाण्डव॥ श्वेतराजिसमायुक्तं युक्तं राधासुतेन त। नानापताकाकलिलं किङ्किणीजालमालिनम्॥ उह्यमानमिवाकाशे विमानं पाण्डुरैर्हयैः। ध्वज त पश्यं कर्णस्य नागकक्षं महात्मनः॥ आखण्डलधनुः प्रख्यमुल्लिशन्तमिवाम्बरम्। पश्य कर्ण समायान्तं धार्तराष्ट्रप्रियैषिणम्॥ शरधारा विमुञ्चन्तं धारासारमिवाम्बुदम्। एष मद्रेश्वरो राजा रथाने पर्यवस्थितः॥ नियच्छति हयान्सय राधेयस्यामितौजसः। श्रृणु दुन्दुर्भिनिर्घोषं शङ्खशब्दं च दारुणम्॥ सिंहनादांश्च विविधाश्रेणु पाण्डव सर्वतः। अन्तर्धाय महाशब्दान् कर्णेनमिततेजसा॥ दोधूयमानस्य भृशं धनुषः शृणु निःस्वनम्। एते दीर्यन्ति सगणाः पञ्चालानां महारथाः॥ दृष्ट्वा केसरिणं क्रुद्धं मृगा इव महावने। सर्वयत्नेन कौन्तेय हन्तुमर्हसि सूतजम्॥ न हि कर्णशरानन्य सोढुमुत्सहते नरः। सदेवासुरगन्धर्वास्त्री लोकान् सतराचरांन्॥ त्वं हि जेतुं रणे शक्तस्तथैव विदितं मम। भीममुग्रं महात्मानं त्र्यक्षं शर्व कपर्दिनम्॥ न शक्ता द्रष्टमीशानं किं पुनर्योधित प्रभुम्। त्वया साक्षान्महादेव सर्वभूतशिवः शिवः॥ युद्धेनाराधितः स्थाणुर्देवाश्च वरदास्तव। तस्य पार्थ प्रसादेन देवदवस्य शूलिनः॥ जहि कर्णं महाबाहो नमुचिं वृत्रहा यथा। श्रेयस्तेऽस्तु सदा पार्थ युद्धे जयमवाप्नुहि॥ अर्जुन उवाच ध्रुवः एव जयः कृष्ण मम नास्त्यत्र संशयः। सर्वलोकगुरुर्यस्त्वं तुष्टोऽसि मधुसूदन॥ चोदयाश्वान् हृषीकेश रथं मम महारथ। नाहं त्वा समरे कर्णं निवर्तिष्यति फाल्गुनः॥ अद्य कर्णं हतं पश्य मच्छरैः शकलीकृतम्। मां रा द्रक्ष्यसि गोविन्द कर्णेन निहतं शरैः॥ उपस्थितमिदं घोरं युद्धं त्रैलोक्यमोहनम् यजनाः कथयिष्यन्ति यावद् भूमिर्धरिष्यति॥ एवं ब्रुर्वस्तदा पार्थः कृष्णमक्लिष्टकारिणम्। प्रत्युद्ययौ रथेनाशु गजं प्रतिगजो यथा॥ पुनरप्याह तेजस्वी पार्थः कृष्णमरिंदमम्। चोदयाश्चन हृषीकेष कालोऽयमतिवर्तते॥ एवमुक्तस्तदा तेन पाण्डवेन महात्मना। जयेन सम्पूज्य स पाण्डवं तदा। प्रचोदयामास हयान् मनोजवान् स पाण्डुपुत्रस्य रथो मनोजवः क्षणेन कर्णस्य रथागतोऽभवत्॥ संजय उवाच वृषसेन हतं दृष्ट्वा शोकामर्षसमन्वितः। पुत्रशोकोद्भवं वारि नेत्राभ्यां समवासृजत्॥ रथेन कर्णस्तेस्वी जगामभिमुखो रिपुम्। युद्धायामर्षताम्राक्षः समाहूय धनंजयम्॥ तौ रथौ सीर्यसंकशौ वैयाघ्रपरिवारितौ। समेतो दद्दशुस्तत्र द्वाविरामै समुद्गतौ॥ श्वेताश्वौ पुरुषौ दिव्यावास्थितावरिमर्दनौ। शुशुभाते महात्मानौ चन्द्रदित्यौ यथा दिवि॥ तौ दृष्ट्वा विस्मयं जग्मुः सर्वसैन्यानि मारिष। त्रैलोक्यविजये यत्ताविन्द्रवैरोचनाविव॥ रथज्यातलनिर्हादैर्वाणसिंहरवैस्तथा। तौ रथावभिधावन्तौ समालोक्य महीक्षिताम्॥ ध्वजौ च दृष्ट्वा संसक्तो विस्मयः समपद्यतः। हस्तिकक्षं च कर्णस्य वानरं च किरीटिनः॥ तौ रथौ सम्प्रसक्तौ तु दृष्ट्वा भारत पार्थिवाः। सिंहनादरवांश्चक्रुः साधुवादाश्च पुष्कलान्॥ दृष्ट्वा च द्वैरथं ताभ्यां तत्र योधा सहस्रशः। चक्रर्बाहुस्वनांश्चैव तथा चैलावधूननम्॥ आजघ्नुः कुरवस्तत्र वादित्राणि समन्ततः। कर्णं प्रहर्षयिष्यन्तः शङ्खान् दध्मुश्च सर्वशः॥ तथैव पाण्डवाः सर्वे हर्षयन्तो धनंजयम्। तूर्यशङ्खनिनादेन दिशः सर्वा व्यनादयन्॥ क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत्। बाहुशब्दैश्च शूराणां कर्णार्जुनसमागमे॥ तौ दृष्ट्वा पुरुषव्याघ्रौ रथस्थौ रथिनां वरौ। प्रगृहीतमहाचापौ शरशक्तिध्वजायुतौ॥ वर्मिणौ बद्धनिस्त्रिंशौ श्वेताश्वौ शङ्खशोभितौ। तूणीरवरसम्पन्नौ द्वावष्येतौ सुदर्शनौ॥ रक्तचन्दनदिग्धाङ्गौ समदौ गोवृषाविव। चापविद्युद्ध्वजोपेतौ शस्त्रसम्पत्तियोधिनौ॥ चामरव्यजनोपेतौ श्वेतच्छनोपशोभितौ। कृष्णशल्यरथोपेतौ तुल्यरूपौ महारथौ॥ सिंहस्कन्धौ दीर्घभुजौ रक्ताक्षौ हेममालिनौ। सिंहस्कन्धप्रतीकाशौ व्यूढोरस्कौ महाबलौ॥ अन्योन्यवधमिच्छन्तावन्योन्यजयकाङ्क्षिणौ। अन्योन्यमभिधावन्तौ गोष्ठे गोवृषभाविव। प्रभिन्नाविव मातङ्गौ सुसंहब्याविवाचलौ॥ आशीविषशिशुप्रख्यौ यमकालान्तकोपमौ। इन्द्रवृत्राविव क्रुद्धौ सूर्याचन्द्रसमप्रभौ॥ महाग्रहाविव क्रुद्धौ युगान्ताय समुत्थितौ। देवगर्भी देवबल देवतुल्यौ च रूपतः॥ यद्दच्छया समायातौ सूर्याचन्द्रमसौ यथा। बलिनौ समरे दृप्तौ नानाशस्त्रधरौ युधि॥ तौ दृष्ट्वा पुरुषव्याघ्रौ शार्दूलाविव धिष्ठितौ। बभूव परमो हर्षस्तावकानां विशाम्पते॥ संशयः सर्वभूतानां विजये समपद्यत। समेतौ पुरुषव्याघ्रौ प्रेक्ष्य कर्णधनंजयौ॥ उभौ वरायुधरावुभौ रणकृतश्रमौ। उभौ च बाहुशब्देन नादयन्तौ नभस्तलम्॥ उभौ विश्रुतकर्माणै पौरुषेण बलेन च। उभौ च सदृशौ युद्धे शम्बारामरराजयोः॥ कार्तवीर्यसमौ चोभौ तथा दाशरथेः समौ। विष्णुवीर्यसमौ चौभौ तथा भवसमौ युधि॥ उभौ श्वेतहयौ राजन् रथप्रवरवाहिनौ। सारथी प्रवरौ चैर तयोरास्तां महारणे॥ ततो दृष्ट्वा महाराज राजमानौ महारथौ। सिद्धतारणसंघाना विस्मयः समपद्यत॥ तव पुत्रास्ततः कर्ण सबला भरतर्षभ। परिवब्रुर्महात्मानं क्षिप्रमाहवसोभिनम्॥ तथैव पाण्डवा हृष्टा धृष्टद्युम्नपुरोगमाः। परिवब्रुर्महात्मानं पार्थमप्रतिमं युधि॥ तावकानां रणे कर्णो ग्लहो ह्यासीद विशाम्पते। तथैव पाण्डवेयानां ग्लहः पार्थोऽभवत् तदा॥ त एव सभ्यास्तत्रासन् प्रेक्षकाश्चाभवन् स्म ते। तत्रैषा ग्लहमानानां ध्रुवौ जयपराजयौय॥ ताभ्यां द्यूतं समासक्तं विजयायेतराय च। अस्माकं पाण्डवानां च स्थितानां रणमूर्धनि॥ तौ तु स्थितौ महाराज समरे युद्धशालिनौ। अन्योन्यं प्रतिसंरब्यावन्योन्यवधकाङ्क्षिणौ॥ ताबुभौ प्रजिहीर्षस्ताविन्द्रवृत्राविव प्रभौ। भीमरूपधरावास्तां महाधूमाविव ग्रहौ॥ ततोऽन्तरिक्षे साक्षेपा विवादा भरतर्षभ। मिथो भेदाश्च भूतानामासन् कर्णार्जुनान्तरे॥ व्यश्रूयन्त मिथो भिन्नाः सर्वलोकास्तु मारिष। देवदानवगन्धर्वाः पिशाचोरगराक्षसाः॥ प्रतिपक्षग्रहं चक्रुः कर्णार्जुनसमागमे। द्यौरासीत् सूतपुत्रस्य पक्षे मातेव धिष्ठिता॥ भूमिर्धनंजयस्यासीन्मातेव जयकाडिक्षणी। गिरयः सागराश्चैव नद्यश्च सजलास्तथा॥ वृक्षाश्चौषधयश्चैव व्याश्रयन्त किरीटिनम्। असुरा यातुधानाश्च गुह्यकाश्च परंतप॥ ते कर्ण समपद्यन्त ह्रष्टरूपाः समन्ततः। मुनयश्चारणाः सिद्धा वैनतेया वयांसि च॥ रत्नानि निधयः सर्वे वेदाश्चाख्यानपञ्चमाः। सोपवेदोपनिषदः सरहस्याः ससंग्रहाः॥ वासुकिश्चित्ररेग्नश्च तक्षको मणिकस्तथा। सर्पाश्चैव तथा सर्रे काद्रवेयाश्च सान्वयाः॥ विषवन्तो महाराज नागाश्चार्जुनतोऽभवन्। ऐरावताः सौरभेया वैशालेयाश्च भोगिनः॥ एतेऽभवन्नर्जुनतः क्षुद्रसर्माश्च कर्णतः। ईहामृगा व्यालमृगा माङ्गल्याश्च मृगद्विजाः॥ पार्थस्य विजये सर्व एवाभिसंसृताः। राजन् वसवो मरुतः साध्या रुद्रा विश्वेऽश्विनौ तथा॥ अग्निरिन्द्रश्च सोमश्च पवनोऽथ दिशो दश। धनंजयस्य ते पक्षे आदित्याः कर्णतोऽभवन्॥ विशः शूद्राश्च सूताश्च ये च संकर जायतः। सर्वशस्ते महाराज राधेयमभजस्तदा॥ देवास्तु पितृभिः सार्ध सगणा: सपदानुगाः। यमो वैश्रवणश्चैव वरुणश्च यतोऽर्जुनः॥ ब्रह्य क्षत्रं च यज्ञाश्च दक्षिणाश्चार्जुनं श्रिताः। प्रेताश्चैव पिशाचाश्च क्रव्यादाश्च मृगाण्डजाः॥ राक्षसाः सह यादोभिः श्वसृगालाश्च कर्णतः। देवब्रह्मनृपर्षीणां गणाः पाण्डवतोऽभवन्॥ तुम्बुरुप्रमुखा राजन् गन्धर्वाश्च यतोऽर्जुनः। प्राधेया सहमौनेया गन्धर्वाप्सरसां गणाः॥ ईमामृगाः पक्षिगणा द्विपाश्वरथपत्तिभिः। उह्यमानास्तथा मेधैर्वायुना चत मनीषिणः॥ दिद्दक्षवः समाजग्मुः कर्णार्जुनसमागमम्। देवदानवगन्धर्वा नागयक्षाः पतत्रिणः॥ महर्षयो वेदविदः पितरश्च स्वधाभुजः। तपोविद्यास्तथौषध्यो नानारूपबलान्विताः॥ अन्तरिक्षे महाराज विनदन्तोऽवतस्थिरे। ब्रह्मा ब्रह्मार्षिभिः सार्ध प्रजापतिभिरेव च॥ भवश्चैव स्थितो याने दिव्ये तं देशमागमत्। समेतौ तौ महात्मानौ दृष्ट्वा कर्णधनंजयौ॥ अर्जुनो जयतां कर्णमिति शक्रोऽब्रवीत्तदा। जयतामर्जुनं कर्ण इति सूर्योऽभ्यभाषत॥ हत्वार्जुनं मम सुतः कर्णो जयतु संयुगे। हत्वा कर्णं जयत्वद्य मम पुत्रो धनंजयः॥ इति सूर्यस्यत चैवासीद् विवादो वासवस्य च। पक्षसंस्थितयोस्तत्र तयोर्विबुधसिंहयोः। द्वैपक्ष्यमासीद् देवानामसुराणां च भारत॥ समेतौ तौ महात्मानौ दृष्ट्वा कणूदनंजयौ। अकम्पन्त त्रयौ लोकाः सहदेववर्षितारणाः॥ सर्वे देवगणाश्चैव सर्वभूतानि यानि च। यतः पार्थस्ततो देवा यतः कर्णस्ततोऽसुराः॥ रथयूथपयोः पक्षौ कुरुपाण्डववीरयोः। दृष्ट्वा प्रजापतिं देवाः स्वयम्भुवमचोदयन्॥ कोऽनयोर्विजयी देव कुरुपाण्डवयोधयोः। समोऽस्तु विजयो देव एतयोर्नरसिंहयो॥ कर्णार्जुनविवादेन सर्वं संशयितं जगत्। स्वयम्भो ब्रूहि नस्तथ्यमेतयोर्विजयं प्रभो॥ स्वयम्भो ब्रूहि तद्वाक्यं समोऽस्तु विजयोऽनयोः। तदुपश्रुत्य मघवा प्रणिपत्य पितामहम्॥ व्यज्ञापयत देवेशमिदं मतिमतां वरः। पूर्व भगवता प्रोक्तं कृष्णयोर्विजयो ध्रुवः॥ तत् तथास्तु नमस्तेऽस्तु प्रसीद भगवन् मम। ब्रह्येशानावथो वाक्यमूचस्त्रिदशेश्वरम्॥ विजयो ध्रुवमेवास्य विजयस्य महात्मनः। खाण्डवे येन हुतभुकतोषितः सव्यसाचिना॥ स्वर्ग त समनुप्राप्यं साहाय्यं शक्र ते कृतम्। कर्णश्च दानवः पक्ष अतः कार्यः पराजयः॥ एवं कृते भवेत् कार्य देवानामेव निश्चितम्। आत्मकार्यं च सर्वेषां गरीयस्त्रिदशेश्वर॥ महात्मा फाल्गुनश्चापि सत्यधर्मरतः सदा। विजयस्तस्य नयतं जायते नात्र संशयः॥ तोषितो भगवान् येन महात्मा वृषभध्वजः। कथं वा तस्य न जयो जायते शतलोचन॥ यस्य चक्रे स्वयं विष्णुः सारथ्यं जगतः प्रभुः। मनस्वी बलवाञ्शूरः कृतास्त्रोऽथ तपोधनः॥ बिभर्ति च महातेजा धनुर्वेदमशेषतः। पार्थः सर्वगुणेपेतो देवकार्यमिदं यतः॥ किश्यन्ते पाण्डवा नित्यं वनवासदिभिर्भृशम्। सम्पन्नस्तपसा चैव पर्याप्तः पुरुषर्षभः॥ अतिक्रमेच माहात्म्याद् दिष्टमप्यर्थपर्ययम्। अतिक्रान्ते च लोकानामभावो नियतं भवेत्॥ न विद्यते व्यवस्थानं क्रुद्धयोः कृष्णयोः कचित्। स्रष्टारौ जगतश्चैव सततं पुरुषर्षभौ॥ नरनारायणावतौ पुराणावृषित्तमौ। अनियम्यौ नियन्तारावेतौ तस्मात् परंतपौ।॥ नैतयोस्तु समः कश्चिद् दिवि वा मानुषेषु वा। अनुगम्यास्त्रयो लोकाः सह देवर्षिचारणैः॥ सर्वदेवगणाश्चापि सर्वभूतानि यानि च। अनयोस्तु प्रभावेण वर्तते निखिलं जगत्॥ कर्णो लोकानयं मुख्यानाप्नोतु पुरुषर्षभः। कर्णो वैकर्तनः शूरौ विजयस्त्वस्तु कृष्णयोः॥ वसूनां समलोकत्वं मरुतां वा समाप्नुयात्। सहितो द्रोणभीष्माभ्यां नाकलोकमवाप्नुयात्॥ इत्युक्तो देवदेवाभ्यां सहस्राक्षोऽब्रवीद् वचः। आमन्त्र्य सर्वभूतानि ब्रोशानानुशासनम्॥ श्रुतं भवद्भिर्यत् प्रोक्तं भगवद्भ्यां जगद्धितम्। तत्तथा नान्यथा तद्धि तिष्ठध्वं विगतज्वराः॥ इति श्रुत्वेन्द्रवचनं सर्वभूतानि मारिष। विस्मितान्यभवन् राजन् पूजायांचक्रिरे तदा॥ व्यसृजंश्च सुगन्धीनि पुष्पवर्षाणि हर्षिताः। नानारूपाणि विबुधा देवतूर्याण्यवादयन्॥ दिदक्षवश्चाप्रतिमं द्वैरथं नरसिंहयोः। देवदानवगन्धर्वाः सर्व एवावतस्थिरे॥ रथौ तयोः श्वेतहयौ दिव्यौ युक्तौ महात्मनोः। यौ तौ कर्णार्जुनौ राजन् प्रहृष्टावभ्यतिष्ठताम्॥ समागता लोकवीराः शंखान् दध्मुः पृथक् पृथक्। वासुदेवार्जुनौ वीरौ कर्णशल्यौ च भारत॥ तद् भीरुसंत्रासकर युद्धं समभवत्तदा। अन्योन्यस्पर्धिनोरुग्रं शक्रशम्बरयोरिव॥ तयोर्ध्वजौ वीतमलौ शुशुभाते रथे स्थितौ। राहुकेतू यथाऽऽकाशे उदितौ जगतः क्षये॥ कर्णस्याशीविषनिभा रत्नसारमयी दृढा। पुरन्दरधनुःप्रख्या हस्तिकक्ष्या व्यराजत॥ कपिश्रेष्ठस्तु पार्थस्य व्यादितास्य इवान्तकः। दंष्ट्राभिर्भीषयन् भाभिर्दुर्निरीक्ष्यो रविर्यथा॥ युद्धाभिलाषुको भूत्वा ध्वजो गाण्डीवधन्वनः। कर्णध्वजमुपातिष्ठत् स्वस्थानाद् वेगवान् कपिः॥ उत्पपात महावेगः कक्ष्यामध्याहनत्तदा। नखैश्च दशनैश्चैव गरुडः पन्नगं यथा॥ सा किङ्किणीकाभरणा कालपाशोपमाऽऽयसा। अभ्यद्रवत सुसंरब्धा हस्तिकक्ष्याथ तं कपिम्॥ तयो?रतरे युद्धे द्वैरथे द्यूत आहिते। प्रकुर्वाते ध्वजौ युद्धं पूर्वं पूर्वतरं तदा॥ हया हयानभ्यहेषन् स्पर्धमानाः परस्परम्। अविध्यत् पुण्डरीकाक्षः शल्यं नयनसायकैः॥ शल्यश्च पुण्डीरकाक्षं तथैवाभिसमैक्षतः। तत्राजयद् वासुदेवः शल्यं नयनसायकैः॥ कर्णं चाप्यजयद् दृष्टया कुन्तीपुत्रो धनंजयः। अथाब्रवीत्.सूतपुत्रः शल्यमाभाष्य स स्तिमतम्॥१०१ यदि पार्थो रणे हन्यादद्य मामिह कर्हिचित्। किं करिष्यसि संग्रामे शल्य सत्यमथोच्यताम्॥ शल्य उवाच यदि कर्ण रणे हन्यादद्य त्वां श्वेतवाहनः। उभावेकरथेनाहं हन्यां माधवपाण्डवौ॥ संजय उवाच एवमेव तु गोििन्दमर्जुन: प्रत्यभाषत। तं प्रहस्याब्रवीत् कृष्णः सत्यं पार्थमिदं वचः॥ पतेद् दिवाकरः स्थानाच्छुष्येदपि महोदधिः। शैत्यमग्निरियान त्वां हन्यात् कर्णो धनंजय॥ यदि चैतत् कथञ्जित् स्यालोकपर्यासनं भवेत्। हन्यां कर्णं तथा शल्यं बाहुभ्यामेव संयुगे॥ इति कृष्णवचः श्रुत्वा प्रहसन् कपिकेतनः। अर्जुनः प्रत्युवाचेदं कृष्णमक्लिष्टकारिणम्॥ मम तावदपर्याप्तौ कर्णशल्यौ जनार्दन। सपताकध्वजं कर्णं सशल्यस्थावाजिनम्॥ सच्छत्रकवचं चैव सशक्तिसवकार्मुकम्। द्रष्टास्यद्य रणे कृष्ण शरैश्छिन्नमनेकधा॥ अद्यैव सरथं सावं सशक्तिकवचायुधम्। संचूणितमिवारण्ये पादपं दन्तिता यथा॥ अद्य राधेयभार्याणां वैधव्यं समुपस्थितम्। ध्रुवं स्वप्नेष्वनिष्टानि ताभिर्दृष्टानि माधव॥ द्रष्टासि ध्रुवमद्यैव विधवाः कर्णयोषितः। न हि मे शाम्यते मन्युर्यदनेन पुरा कृतम्॥ कृष्णां सभागता दृष्टरा मूढेनादीर्धदर्शिना। अस्मांस्तथावहसता क्षिपता च पुनः पुनः॥ अद्य द्रष्टासि गोविन्द कर्णमुन्मथितं मया। वारणेनेव मत्तेन पुष्पितं जगतीरुहम्॥ अद्य ता मधुरा वाचः श्रोतासि मधुसूदन। दिष्ट्या जयसि वार्ष्णेय इति कर्णे निपातिते॥ अद्याभिमन्युजननीं प्रहृष्टः सान्त्वयिष्यसि। कुन्ती पितृष्वसारं च प्रहृष्टः सञ्जानार्दन॥ अद्य बाष्पमुखी कृष्णां सान्त्वयिष्यसि माधव। बाग्भिश्चामृतकल्पाभिर्धर्मराजं च पाण्डवम्॥ संजय उवाच र्गन्धर्वरक्षाऽप्सरसां च सर्वः। ब्रह्मर्षिराजर्षिसुपर्णजुष्टं बभौ वियद् विस्मयनीयरूपम्॥ दिवदगीतस्तुनृत्यहासैः। सर्वेऽन्तरिक्षं ददृशुर्मनुष्याः स्वस्थाश्च तद् विस्मयनीयरूपम्॥ ततः प्रहृष्टाः कुरुपाण्डुयोधा वादित्रशङ्खस्वनसिंहनादैः। विनादयन्तो वसुधां दिशश्च स्वनेन सर्वान द्विषतौ निजघ्नुः॥ नराश्वमातङ्गरथैः समाकुलं शरासिशक्तृष्टिनिपातदुःसहम्। अभीरुजुष्टं हतदेहसंकुलं रणाजिरं लोहितमाबभौ तदा॥ बभूव युद्धं कुरूपाण्डवानां यथा सुराणामसुरैः सहाभवत्। तथा प्रवृत्ते तुमुले सुदारुणे धनंजयस्याधिरथेश्च सायकैः॥ दिशश्च सैन्यं च शितैरजिह्मगैः परस्परं प्रावृणुतां सुदंशितौ। ततस्त्वदीयाश्च परे च सायकैः कृतेऽन्धकारे ददृशुर्न किंचन॥ स्ततोऽभवत् त्वद्भुतमेव सर्वतः। ततोऽस्त्रमस्त्रेण परस्परं तौ विधूय वाताविव पूर्वपश्चिमौ॥ घनान्धकारे वितते तमोनुदौ यथोदितौ तद्वदतीव रेजतुः। न चाभिसर्तव्यमिति प्रचोदिताः परे त्वदीयाश्च तथावतस्थिरे॥ महारथौ तौ परिवार्य सर्वतः सुरासुराः शम्बरवासवाविव। मृदङ्गभेरीपणवानकस्वनैः ससिंहनादैर्नदतुर्नरोत्तमौ॥ विरेजतुस्तौ पुरुषर्षभौ तदा। महाधनुर्मण्डलमध्यगावुभौ सुवर्चसौ बाणसहस्रदीधिती॥ युगान्तसूर्याविव दुःसहौ रणे। बुभौ जिघांसु कृतिनौ परस्परम्॥ महेन्द्रजम्भाविव कर्णपाण्डवौ। ततो महास्त्राणि महाधनुर्धरौ विमुञ्चमानाविषुभिर्भयानकैः॥ नराश्वनागानमितान् निजघ्नतुः परस्परं चापि महारथी नृप। ततो विसस्त्रः पुनपर्दिता नरा नरोत्तमाभ्यां कुरुपाण्डवाश्रयः॥ सनागपत्तयश्वरथा दिशो दश तथा यथा सिंहहता वनौकसः। ततस्तु दुर्योधनभोजसौबलाः कृपेण शारद्वतसूनुना सह॥ महारथाः पञ्च धनंजयाच्युतौ शरैः शरीरार्तिकरैरताडयन्। धनूषि तेषामिषुधीनध्वजान् हयान् रथांश्च सूतांश्च धनंजयः शरै॥ समं प्रमथ्याशु परान् समन्ततः शरोत्तमैदशभिश्च सूतजम्। अथाभ्यधावंस्त्वरिताः शतं रथाः शतं गजाश्चर्जुनमाततायिनः॥ शकास्तुषारा यवनाश्च सादिनः सहैष काम्बोजवरैर्जिघांसवः। वरायुधान् पाणिगतैः शरैः सह क्षुरैर्यकृन्तत् प्रपतन् शिरांसि च॥ हयांश्च नागांश्च रतांश्च युध्यतो धनंजयः शत्रुगणान् क्षितौ क्षिणोत्। ततोऽन्तरिक्षे सुरतूर्यनिःस्वनाः ससाधुवादा हृषितैः समीरिताः॥ निपेतुरप्युमपुष्पवृष्टयः सुगन्धिगन्धाः पवनेरिताः शुभाः। तदद्भुतं देवमनुष्यसाक्षिकं समीक्ष्य भूतानि विसिस्मियुस्तदा॥ तवात्मजः सूतसुतश्च न व्यथां न विस्मयं जग्मतुरे कनिश्चयौ। अथाब्ररीद् द्रोणसुतस्तवात्मजं करं करेण प्रतिपीडय सान्त्वयन्॥ रलं विरोधेन धिगस्तु विग्रहम्। हतो गुरुर्ब्रह्यसमो महास्त्रवित् तथैव भीष्मप्रमुखा महारथाः॥ अहं त्ववध्यो म चापि मातुलः प्रशाधि राज्यं सह पाण्डवैश्चिरम्। धनंजयः शाम्यति वारितो मया जनार्दनो नैव विरोधमिच्छति॥ युधिष्ठरो भूतहिते रतः सदा वृकोदरपस्तद्वशगस्तथा यमौ। त्वया तु पाथैश्च कृते च संविदे प्रजाः शिवं प्राप्नुयुरिच्छया तव॥ व्रजन्तु शेषाः स्वपुराणि बान्धवा निवृत्तयुद्धाश्च भवन्तु सैनिकाः। न चेद् वचः श्रोष्यसि मे नराधिप ध्रुवं प्रतप्तासि हतोऽरिभियुधि॥ इदं च दृष्टं जगता सहं त्वया कृतं यदेकेन किरीटमालिना। यथा न कुर्याद् बलभिन्न चान्तको न चापि धाता भगवान् न यक्षराट्॥ अतोऽपि भूयान् स्वगुणैर्धनंजयो न चातिवर्तिष्यति मे वचोऽखिलम्। तवानुयात्रां च सदा करिष्यति प्रसीद राजेन्द्र शमं त्वमाप्नुहि॥ ममापि मानः परमः सदा त्वयि ब्रवीम्यतस्त्वां परमाच सौह्रदात्। निवारयिष्यामि च कर्णमप्यहं यदा भवान् सप्रणयो भविष्यति॥ स्तथैव साम्ना च धनेन चार्दितम्। प्रतापतश्चोपनतं चतुर्विधं तदस्ति सर्वं तव पाण्डवेषु॥ नसर्गतस्ते तव वीर बान्धवाः पुनश्च साम्ना समवाप्नुहि प्रभो। तवयि प्रसन्ने यदि मित्रतां गते हितं कृतं स्याज्जगतस्त्वयातुलम्॥ स एवमुक्तः सुहृदा वचो हितं विचिन्त्य निःश्वस्य च दुमनाब्रवीत। न्ममापि विज्ञापयतो वचः शृणु॥ निहत्य दुःशासनमुक्तवान् वचः प्रसह्य शार्दूलवदेष दुर्मतिः। वृकोदरस्तद्धृदये मम स्थितं न तत् परोक्षं भवतः कुतः शमः॥ न चापि कर्ण प्रसहेद् रणेऽर्जुनो महागिरि मेरुमिवोगमारुतः। न चाश्वसिष्यन्ति पृथात्मजा मयि प्रसह्य वैरं बहुशो विचिन्त्य॥ दुपारमेत्यर्हसि वक्तुमच्युता स्तमेष कर्णः प्रसभं हनिष्यति॥ तमेवमुक्तवाप्यनुनीय चासकृत् तवात्मजः स्वाननुशास्ति सैनिकान्। विनिघ्नदाभिद्रवताहितान् मम स बाण हस्ताः किमु जोषमासत॥ संजय उवाच तौ शङ्खभेरीनिनदे समृद्धे समीयतुः श्वेतहतौ नराग्रयौ। वैकर्तनः सूतपुत्रोऽर्जुनश्च दुर्मत्रिते तव पुत्रस्य राजन्॥ यथा गजौ हैमवतौ प्रभिन्नौ प्रवृद्धदन्ताविव वासितार्थे। तथा समाजग्मतुरुग्रवी? दनंजयश्चाधिरथिश्च वीरौ॥ बलाहकेनेव महाबलाहको यद्दच्छया वा गिरिणा यथा गिरिः। तथा धनुातलनेमिनिस्वनैः समीयतुस्ताविषुवर्षवर्षिणौ॥ प्रवृद्धश्रृङ्गमवीरुदेषधी प्रवृद्धनानाविधनिर्झरौकसौ। यथाचलौ वा चलितौ महाबलौ तथा महास्त्रैरितरेतरं हतः॥ स संनिपातस्तु तयोर्महानभूत् सुरेशवैरोचनयोर्यथा पुरा। शरैर्विनुन्नाङ्गनियन्तृवाहयोः सुदुःसहोऽन्यैः कटुशोणिततोदकः॥ प्रभूतपद्मोत्पलमत्स्यतच्छपौ महाह्रदौ पक्षिगणैरिवावृतौ। सुसंनिकृष्टवनिलोद्धतौ यथा तथा रथौ तौ ध्वजिनौ समीयतुः॥ बुभौ महेन्द्रप्रतिमौ महारथौ। महेन्द्र वृत्राविव सम्प्रजघ्नतुः॥ सनागपत्यश्वरथे उभे बले विचित्रवर्माभरणाम्बरायुधे। चकम्पतुस्मयनीयरूपे वियद्गताश्चार्जुनकर्णसंयगु॥ भुजाः सवस्त्रगुलयः समुच्छ्रिताः ससिंहनादैह्रतैर्दिद्दक्षुभिः। यदर्जुनो मत्त इव द्विपो द्विपं समभ्ययादाधिरथिं जिघांसया॥ उदक्रोशन् सोमकास्तत्र पार्थ पुरःसराश्चर्जुन भिन्धि कर्णम्। छिन्धस्य मूर्धानमलं चिरेण श्रद्धां च राज्याद् धृतराष्ट्रसूनोः॥ तथास्माकं बहवस्तत्र योधाः कर्ण तथा याहि याहीत्यवोचन। जार्जुनं कर्ण शरैः सुतीक्ष्णैः पुनर्वनं यान्तु चिराय पार्थाः॥ ततः कर्णः प्रथमं तत्र पार्थ महेषुभिर्दशभिः प्रत्यविध्यत्। तं चार्जुनः प्रत्यविद्धयच्छिताग्रैः कक्षान्तरै दशभिः सम्प्रहस्य॥ स्ततक्षतुः सूतपुत्रोऽर्जुनश्च। परस्परं तौ बिभिदुर्विमर्दे सुभीममभ्यापततुश्च हृष्टौ॥ ततोऽर्जुनः प्रासृजदुग्रधन्वा भुजाबुभौ गाण्डिवं चानुमृज्य। नाराजनालीकवराहकर्णान् क्षुरांस्तथा साञ्जलिकार्धचन्द्रान्॥ ते सर्वतः समकीर्यन्त राजन् पार्थेषवः कर्णरथं विशन्तः। अवाङ्मुखा पक्षिगणा दिनान्ते विशन्ति केतार्थमिवाशु वृक्षम्॥ यानर्जुनः सभृकुटीकटाक्षं कर्णाय राजन्नसृजन्जितारिः। तान् सायकैर्यसते सूतपुत्रः क्षिप्तान् क्षिप्तान् पाण्डवस्याशु संघान्॥ ततोऽस्त्रमाग्नेयममित्र साधनं मुमोच कर्णाय महेन्द्रसूनुः। भूम्यन्तरिक्षे च दिशोऽर्कमार्ग प्रावृत्य देहोऽस्य बभूव दीप्तः॥ योधाश्च सर्वे ज्वलिताम्बरा भृशं प्रदुद्रुवुस्तत्र विदग्धवस्त्राः शब्दश्च घोरोऽतिबभूव तत्र यथा वने वेणुवनस्य दह्यतः॥ तद् वीक्ष्य कर्णो ज्वलनास्त्रमुद्यतं स वारुणं तत्प्रशमार्थमाहवे। समुत्सृजन् सूतसुतः प्रतापवान् स तेन वह्निं शमयाम्बभूव॥ बलाहकौघश्च दिशस्तरस्वी चकार सर्वास्तिमिरेण संवृताः। ततो धरित्रीधरतुल्यरोधसः समन्ततो वै परिवार्य वारिणा॥ तैश्चातिवेगात् स तथाविधोऽपि नीतः शमं वाहिरतिप्रचण्डः। बलाहकैरेव दिगन्तराणि व्याप्तानि सर्वाणि यथा नभश्च॥ तथा च सर्वास्तिमिरेण वै दिशो मेधैर्वृता न प्रदृश्येत किंचित्। अथापोवाह्याभ्रसंघान समस्तान् वायव्यास्त्रेणापततः स कर्णात्॥ ततोऽप्यस्त्रं दयितं देवराज्ञाः प्रादुश्चक्रे वज्रमतिप्रभावम्। गाण्डीवं ज्यां विशिखांश्चानुमन्त्र्य धनंजयः शत्रुभिरप्रधृष्यः॥ ततः क्षुरप्राञ्जलिकार्धचन्द्रा नालीकनाराचवराहकर्णाः। गाण्डीवः प्रादुरासन् सुतीक्ष्णाः सहस्रशो वज्रसमानवेगाः॥ ते कर्णमासाद्य महाप्रभावाः सुतेजना गापत्राः सुवेगाः। गात्रेषु सर्वेषु हयेषु चापि शरासने युगचक्रे ध्वजे च॥ स्ता_त्रसका भूमिमिवोरगास्ते। शराचिताङ्गो रुधिरागात्रः कर्णस्तदा रोषविवृत्तनेत्रः॥ दृढज्यमानाभ्य समुद्रघोषं प्रादुश्चक्ते भार्गवास्त्रं महात्मा। श्छित्त्वा कर्णः पाण्डवस्येषुसंघान्॥ तस्यास्त्रमस्त्रेण निहत्य सोऽथ जघान संख्ये रथनागपत्तीन्। अमृष्यमाणश्च महेन्द्रकर्मा महारणे भार्गवास्त्रप्रतापात्॥ पञ्चालानां प्रवरांश्चापि योधान् क्रोधाविष्टः सूतपुत्रस्तरस्वी। बाणैर्विर्याधाहवे सुप्रमुक्तैः शिलाशितै रुकमपुङ्खैः प्रसह्य॥ तत्पञ्चाला: सोमकाश्चापि राजन् कर्णेनाजौ पीडयामानाः शरौघैः। क्रोधाविष्टा विव्यधुस्तं समन्तात् तीक्ष्णैर्बाणैः सूतपुत्रं समेताः॥ तान् सूतपुत्रो निजधान बाणैः पञ्चालानां रथनागाश्वसंघान्। पर्दयद् बाणगणैः प्रसह्य विद्ध्वा हर्षात् सङ्गरे सूतपुत्रः॥ ते भिन्नदेहा व्यसरो निपेतुः कर्णेषुभिर्भूमितले स्वनन्तः। क्रुद्धेन सिंहेन यथेभयूथा महावने भीमबलेन तद्वत्॥ पञ्चालानां प्रवरान् संनिहत्य प्रसह्य योधानखिलानदीनः। ततः स राजन् विरराज कर्णो यथाम्बरे भास्कर उग्ररश्मिः॥ कर्णस्य मत्वा तु जयं त्वदीयाः परां मुदं सिंहनादांश्च चक्रुः। सर्वे ह्यमन्यन्त भृशाहतौ च कर्णेन कृष्णाविति कौरवेन्द्र॥ तत् तादृशं प्रेक्ष्य महारथस्य कर्णस्य वीर्यं च परैरसह्यम। दृष्ट्वा च कर्णेन धनंजयस्य तथाऽऽजिमध्ये निहतं तदस्त्रम्॥ ततस्त्वमर्षी क्रोधसंदीप्तनेत्रो वातात्मजः पाणिना पाणिमाछेत्। ममर्षितो निःश्वसज्जातमन्युः॥ कथं न पापोऽयमपेतधर्मः सूतात्मजः समरेऽद्य प्रसह्य। पञ्चालानां योधमुख्याननेकान् निजनिवांस्तव जिष्णो समक्षम्॥ पूर्व देवैरजितं कालकेयैः साक्षात् स्थाणोर्बाहुसंस्पर्शमेत्य। नथेषुभिर्दशभिः प्रागविद्धयत्॥ नाश्चर्यमेतत् प्रतिभाति मेऽद्या कृष्णापरिक्लेशमनुस्मर त्वं यथाब्रवीत षण्ढतिलान् स्म वाचः॥ रूक्षाः सुतीक्ष्णाश्च हि पापबुद्धिः सूतात्मजोऽयं गतभूर्दुरात्मा। संस्यमृत्य कर्ण तदिहाद्य पापं जह्यासु कर्ण युधि स्वायसाचिना॥ कस्मादुपेक्षा कुरुषे किरीटित्रुपेक्षितुं नायमिहाद्य कालः। सिं ददत् खाण्डवे पावकाय॥ तया धृत्या सूतपुत्रं जहि त्वमहं चैनं गदया पोथयिष्ये। अथाब्रवीद वासुदेवोऽपि पार्थं दृष्ट्वा रथेषून प्रतिहन्यमानान्॥ अमीमृदत् सर्वपातेऽद्य कर्णो ह्यस्त्रैरस्त्रं किमिदं भो किरीटिन्। स वीर किं मुह्यसि नावधत्से नदन्त्येते कुरवः सम्प्रहृष्टाः॥ कर्ण पुरस्कृत्य विदुर्हि सर्वे तवासस्त्रमस्त्रैर्विनिपात्यमानम्। यया धृत्या निहतं तामसास्त्रं युगे युगे राक्षसाश्चापि घोराः॥ दम्भोद्भवाश्चासुराश्चाहवेषु तया धृत्या जहि कर्णं त्वमद्य। अनेन चास्य क्षुरनेमिनाद्य संछिन्धि मूर्धानमरेः प्रसा॥ मया विसृष्टेन सुदर्शनेन वज्रेण शक्रो नमुचेरिवारेः। किरातारूपी भगवान् सुधृत्या त्वया महात्मा परितोषितोऽभूत्॥ तां त्वां पुनर्वीर धृतिं गृहीत्वा सहानुबन्धं जहि सूतपुत्रम्। ततो महीं सागरमेखलां त्वं सपत्तनां ग्रामवतीं समृद्धाम्॥ प्रयच्छ राज्ञे निहतारिसंघां यशश्च पार्थातुलमाप्नुहि त्वम्। स एवमुक्तोऽतिबलो महात्मा चकार बुद्धिं हि वधाय सौतेः॥ स चोदितो भीमजनार्दनाभ्यां स्मृत्वा तथाऽऽत्मानमवेक्ष्य सर्वम्। इहात्मनश्चागमने विदित्वा प्रयोजनं केशवमित्युवाच॥ प्रादुष्करोम्येष महास्त्रमुग्रं शिवाय लोकस्य वधाय सौतेः। तन्मेऽनुजानातु भवान् सुराश्च ब्रह्मा भवो वेदविदश्च सर्वे॥ इत्युच्य देवं स तु सव्यसाची नमस्कृत्वा ब्रह्मणे सोऽमितात्मा। तदुत्तमं ब्राह्ममसह्यमस्त्रं प्रादुश्चक्रे मनसा यद् विधेयम्॥ तदस्य हत्वा विरराज कर्णो मुक्त्वा शरान् मेघ इवाम्बुधाराः। समीक्ष्य कर्णेन किरीटिनस्तु तथाऽऽजिमध्ये निहतं तदस्त्रम्॥ ततोऽमर्षी बलवान् क्रोधदीप्तो भीमोऽब्रवीदर्जुनं सत्यसंधम्। ब्राह्म विधेयं परमं जनास्तत्॥ निति स्मोक्तोऽयोजयत् सव्यसाची। ततो दिशः प्रदिशश्चापि सर्वाः समावृणोत् सायकैर्भूरितेजाः॥ दिवाकरांशुप्रतिमै लद्भिः। सृष्टास्तु बाणा भरतर्षभेण शतं शतानीव सुवर्णपुङ्खाः॥ प्राच्छादयन् कर्णरथं क्षणेन युगान्तवयर्ककरप्रकाशाः। ततश्च शूलानि परश्वधानि चक्राणि नाराचशतानि चैव॥ स्ततो ह्यहन्यन्त समन्ततोऽपि। छिन्नं शिरः कस्यचिदाजिमध्ये पतात् योधस्य परस्य कायात्॥ वन्यः प्रणष्टः पतितं विलोक्य। अन्यस्य सासिनिपपात कृत्तो योधस्य बाहुः करिहस्ततुल्यः॥ अन्यस्त सव्यः सह वर्मणा च क्षुरप्रकृत्तः पतितो धरण्याम्। एवं समस्तानपि योधमुख्यान् विध्वंसयामास किरीटमाली॥ ौर्योधनं सैन्यमशेषमेव। वैकर्तनेनापि तथाऽऽजिमध्ये सहस्रशो बाणगणा विसृष्टाः॥ ते घोषिणः पाण्डवमभ्युपेयुः पर्जन्यमुक्ता इव वारिधाराः। ततः स कृष्णं च किरीटिनं च वृकोदरं चाप्रतिमप्रभावः॥ त्रिभिस्त्रिभिर्भीमबलो निहत्य ननाद घोरं महता स्वेण। स कर्णबाणाभिहतः किरीटी भीमं तथा प्रेक्ष्य जनार्दनं च॥ अमृष्यमाण पुनरेव पार्थः शरान् दशाष्टौ च समुद्वबर्ह। स केतुमेकेन शरेण विद्ध्वा शल्यं चतुभिस्त्रिभिरेव कर्णम्॥ ततः स मुक्तैर्दशभिर्जघान सभापति काजच्नवर्मनद्धम्। विवाजिसूतो विधनुर्विकेतुः॥ हतो रथाग्रादपतत् स रुग्णः परश्वधैः शाल इवावकृत्तः। पुनश्च कर्णं त्रिभिरष्टभिश्च द्वाभ्यां चतुर्भिर्दशभिश्च विद्ध्वा॥ चतुःशतान् द्विरदान् सायुधान् वै हत्वा रथानष्टशताञ्जघान्। नष्टौ सहस्राणि च पत्तिवीरान्॥ मदृश्यमञ्जोगतिभिः प्रचक्रे। अथाक्रोशन् कुरवो वध्यमाना धनंजयेनाधिरथिं समन्तान्॥ मुञ्चाभिविद्धयर्जुनमाशु कर्ण बाणैः पुरा हन्ति कुरून् समग्रान्। स चोदितः सर्वयत्नेन को मुमोच बाणान् सुबहून भीक्ष्णम्॥ मर्मच्छिदः शोणितपासुदिग्धाः। तावुत्तमौ सर्वधनुर्धराणां महाबलो सर्वसपत्नसाहौ॥ मन्योन्यमप्यस्त्रविदौ महास्त्रैः। ते मन्त्रौष्टीभिर्निरुजौ विशल्यः॥ युधिष्ठिरस्तत्र सुवर्णवर्मा। तथोफ्यातं युधि धर्मराज दृष्ट्वा मुदा सर्वभूतान्यन्दन्॥ राहोर्विमुक्तं विमलं समग्रं चन्द्रं यथैवाभ्युदितं तथैव। दृष्ट्वा तु मुख्यावथ युध्यमानौ दिद्दक्षवः शूरवरावरिघ्नौ॥ कर्ण च पार्थ च विलोकयन्तः खस्था महीस्थाश्च जनावतस्थुः। स कार्मुकज्यातलसंनिपातः सुमुक्तबाणस्तुमुलो बभूव॥ र्धनंजयस्याधिस्थेश्च तत्र। ततो धनुा सहसातिकृष्टा सुघोषमच्छिद्यत पाण्डवस्य॥ तस्मिन क्षणे पाण्डवं सूतपुत्रः समाचिनोत् क्षुद्रकाणां शतेन। निर्मुक्तसर्पप्रतिमैरभीक्ष्णं तैलप्रधौतैः खगपत्रवाजैः॥ मनन्तरं फाल्गुनमष्टभिश्च। पूषात्मजो मर्मसु निर्बिभेद मरुत्सुतं चायुतशः शराग्रयैः॥ कृष्णं च पार्थ च तथा ध्वजं च पार्थानुजान् सोमकान् पातयंश्च। प्राच्छादयंस्ते विशिखैः प्रुशक्तैर्जीमूतसंघा नभसीव सूर्यम्॥ आगच्छतस्तान् विशिखैरनेकैर्व्यष्टम्भयत् सूतपुत्रः कृतास्त्रः। तैरस्तमस्त्रं विनिहत्य सर्वं जघान तेषां रथवाजिनागान्॥ नभ्यर्दयन्मार्गणैः सूतपुत्रः। ते भिन्नदेहा व्यसवो निपेतुः कर्णेषुभिर्भूमितले स्वनन्तः॥ सिंहेन क्रुद्धेन यथा श्वयूथ्या महाबला भीमबलेन तद्वत्। पुनश्च पाञ्चालवरास्तथान्ये तदन्तरे कर्णधनंजयाभ्याम्॥ प्रस्कन्दन्तो बलिना साधुमुक्तैः कर्णेन बाणैर्निहताः प्रसा। स्तलान् निजघ्नुः सिंहनादांश्च नेदुः॥ सर्वे ह्यमन्यन्त वशे कृतौ तौ कर्णेन कृष्णाविति ते विम। ततो धनुामवनाम्य शीघ्रं शरानस्तानाधिरथेर्विधम्य॥ सुसंरब्धः कर्णशरक्षताङ्गो रणे पार्थः कौरवान् प्रत्यगृह्णात्। चक्रे॥ ज्यां चानुमृज्याभ्यहनत् तलत्रे बाणान्धकारं सहसा च ८३॥ कर्ण च शल्यं च कुरूंश्च सर्वान् बाणैरविध्यत् प्रसभं किरीटी। न पक्षिणो बभ्रमुरन्तरिक्षे तदा महास्त्रेण कृतेऽन्धकारे॥ रुवाह दिव्यः सुरभिस्तदानीम्। शल्यं च पार्थो दशभिः पृषत्कै भृशं तनुत्रे प्रहसन्नविध्यत्॥ ततः कर्णं द्वादशभिः सुमुक्तैर्विद्ध्वा पुनः सप्तभिरभ्यविद्ध्यत्। दृढाहत: पत्रिभिरुग्रवैगैः॥ विभिन्नगात्रः क्षतजोक्षिताङ्गः कर्णो बभौ रुद्र इवाततेषुः। प्रकीडमानोऽथ श्मशानमध्ये रौद्रे मुहूर्ते रुधिरागात्रः॥ ततस्त्रिभिस्तं त्रिदशाधिपोपमं शरैर्बिभेदाधिरर्थिर्धनंजयम्। शरांश्च पञ्च ज्वलितानिवोरगान् प्रवेशयामास जिघांसयाच्युतम्॥ ते वर्म भित्वा पुरुषोत्तमस्य सुवर्णचित्रा न्यपतन् सुमुक्ताः। वेगेन गामाविविशुः सुवेगाः स्नात्वा च कर्णाभिमुखाः प्रतीयुः॥ स्त्रिधा त्रिधैकैकमथोचकर्त। धनंजयास्त्रैर्यपतन् पृथिव्यां महाहयस्तक्षकपुत्रपक्षाः॥ ततः प्रजज्वाल किरीटमाली क्रोधेन कक्षं प्रदहन्निवाग्निः। थथा विनुन्नाङ्गमवेक्ष्य कृष्णं सर्वेषुभिः कर्णभुजप्रसृष्टैः॥ स कर्णमाकर्णविकृष्टसृष्टैः शरैः शरीरान्तकरैवलद्भिः। मर्मस्वरिध्यत् स चचाल दुःखाद् दैवादवातिष्ठत धैर्यबुद्धिः॥ ततः शरौघैः प्रदिशो दिशश्च रवेः प्रभा कर्णरथश्च राजन्। अदृश्यमासीत् कुपिते धनंजये तुषारनीहारवृत्तं यथा नभः॥ स चक्ररथानथ पादरक्षान् पुरःसरान् पृष्ठगोपांश्च सर्वान्। दुर्योधनेनानुमतानरिघ्नः समुद्यतान् स रथान् सारभूतान्॥ द्विसाहस्त्रान् समरे सव्यसाची कुरुप्रवीरानृषभः कुरूणाम्। क्षणेन सर्वान् सरथाश्वसूतान् निनाय राजन् क्षयमेकवीरः॥ ततोऽपलायन्त विहाय कर्णं तवात्मजाः कुरवो येऽवशिष्टाः। हतानपाकीर्य शरतांश्च लालप्यमानांस्तनयान् पितॄश्च॥ स सर्वतः प्रेक्ष्य दिशो विशून्या भयावदीणैः कुरुभिर्विहीनः। न विव्यथे भारत तत्र कर्णः प्रहृष्ट एवार्जुनमभ्यधावत्॥ न विव्यथे भारत तत्र कर्णः प्रहृष्ट एवार्जुनमभ्यधावत्॥ संजय उवाच मवस्थिताः कुरवो भिन्नसेनाः। विद्युत्प्रकाशं दद्दशुः समन्ताद् धनंजयास्त्रं समुदीर्यमाणम्॥ तदर्जुनास्त्रं असति स्म कर्णो वियद्गतं घोरतरैः शरैस्तत्। क्रुद्धेन पार्थेन भृशाभिसृष्टं वधाय कर्णस्य महाविम॥ उदीर्यमाणं स्म कुरून् दहन्तं सुवर्णपुङ्खैर्विशिखैर्ममर्द। कर्णस्त्वमोघेष्वसनं दृढज्यं विस्फारयित्वा विसृजञ्छरौघान्॥ रामादुपात्तेन महामहिम्ना ह्याथर्वणेनारिविनाशनेन। तदर्जुनास्त्रं व्यधमद् दहन्तं कर्णस्तु बाणैर्निशितैर्महात्मा॥ ततो विमर्दः सुमहान् बभूव तत्रार्जुनस्याधिरथेश्च राजन्। विषाणघातैर्द्विपयोरिवोग्रैः॥ तत्रास्त्रसंघातसमावृतं तदा बभूव राजंस्तुमुलं स्म सर्वतः। निरन्तरं चक्रतुरम्बरं तदा॥ ततो जालं बाणमयं महान्तं सर्वेऽद्राक्षुः कुरवः सोमकाचा नान्यं च भूतं दद्दशुस्तदा ते बाणान्धकारे तुमुलेऽथ किंचित्॥ तौ संदधानावनिशं च राजन् समस्यन्तौ चापि शराननेकान्। संदर्शयेतां युधि मार्गान् विचित्रान् धनुर्धरौ तौ विविधैः कृतास्त्रैः॥ तयोरेवं युद्ध्यतोराजिमध्ये सूतात्मजोऽभूदधिकः कदाचित्। पार्थः कदाचित् त्वधिकः किरीटी वीर्यस्त्रमायाबलपौरुषेण॥ दृष्ट्वा तयोस्तं युधि सम्प्रहारं परस्परस्यान्तरमीक्षमाणयोः। र्योधाः सर्वे विस्मयमभ्यगच्छन्॥ ततो भूतान्यन्तरिक्षस्थितानि तौ कर्णपार्थौ प्रशशंसुर्नरेन्द्र। भोः कर्ण साध्वर्जुन साधु चेति वियत्सु वाणी श्रूयते सर्वतोऽपि॥ स्तदाभिघातैर्दलिते हि भूतले। ततस्तु पातालतले शयानो नागोऽश्वसेनः कृतवैरोऽर्जुनेन॥ राजस्तदा खाण्डवदाहमुक्तो विवेश कोपाद् वसुधातले यः। अथोत्पपातोर्ध्वगतिर्जवेन संदृश्य कर्णार्जुनयोर्विमर्दम्॥ अयं हि कालोऽस्य दुरात्मनो वै पार्थस्य वैरप्रतियातनाय। संचिन्त्य तूणं प्रविवेश चैव कर्णस्य राजशररूपधारी॥ ततोऽस्त्रसंघातसमाकुलं तदा बभूव जन्यं विततांशुजालम्। तत् निरन्तरं चक्रतुरम्बरं तदा॥ तद् बाणजालैकमयं महान्तं सर्वेऽत्रसन् कुरवः सोमकाश्च। नान्यत् किंचिद् दद्दशुः सम्पतद्वै बाणान्धकारे तुमुलेऽतिमात्रम्॥ ततस्तौ पुरुषव्याघ्रौ सर्वलोकधनुर्धरौ। त्यक्तप्राणौ रणे वीरो युद्धश्रममुपागतौ। समुत्क्षेपैर्वीज्यमानौ सिक्तौ चन्दनवारिणा॥ सवालव्यजनैर्दिव्यैर्दिविस्थैरप्सरोगणैः। शक्रसूर्यकराब्जाभ्यां प्रमार्जितमुखाबुभौ॥ कर्णोऽथ पार्थं न विशेषयद् यदा भृशं च पार्थेन शराभितप्तः। ततस्तु वीरः शरविक्षताङ्गो दधे मनो ह्येकशयस्य तस्य॥ ततो रिपुजं समधत्त कर्णः सुसंचितं सर्पमुखं ज्वलन्तम्। रौद्रं शरं संनतमुग्रधौतं पार्थार्थमत्यर्थचिराभिगुप्तम्॥ सदार्चितं चन्दनचूर्णशायितं सुवर्णतूणीरशयं महार्चिषम्। आकर्णपूर्णं च विकृत्य कर्णः पार्थोन्मुखः संदधे चोत्तमौजाः॥ प्रदीप्तमैरावतवंशसम्भवं शिरो जिहीर्युर्युधि सव्यसाचिनः। ततः प्रजज्वाल दिशो नभश्च उल्काच घोराः शतशः प्रपेतः॥ तस्मिस्तु नागे धनुषि प्रयुक्ते हाहाकृता लोकपालाः सशक्राः। न चापि तं बुबुधे सूतपुत्रो बाणे प्रविष्टं योगबलेन नागम्॥ दशशतनयनोऽहिं दृश्य बाणे प्रविष्टं निहत इति सुतो मे स्त्रस्तगात्रो बभूव। जलजकुसुमयोनिः श्रेष्ठभावो जितात्मा त्रिदशपतिमवोचमा व्यथिष्टा जये श्रीः॥ ततोऽब्रवीन्मद्रराजो महात्मा दृष्ट्वा कर्णं प्रहितेषु तमुग्रम्। न कर्ण ग्रीवामिषुरेष लप्सस्यते समीक्ष्य संधस्त शरं शिरोध्रम॥ अथाब्रवीत् क्रोधसंरक्तनेत्रो मद्राधिपं सूतपुत्रस्तरस्वी। न संधत्ते द्विः शरं शल्य को न मादृशा जिह्ययुद्धा भवन्ति॥ इतीदमुक्तवा विससर्ज तं शरं प्रयत्नतो वर्षगणाभिपूजितम्। हतोऽसि वै फाल्गुन इत्यधिक्षिपत्रुवाच चोचैर्गिरमूर्जिता वृषः॥ स सायकाः कर्णभुजप्रसृष्टो हुताशनार्कप्रतिमः सुरः। गुणच्युतः कर्णधनुः प्रमुक्तो वियद्गतः प्राज्वलदन्तरिक्षे॥ तं प्रेक्ष्य दीप्तं युधि माधवस्तु त्वरान्वितं सत्वरयैव लीलया। पदा विनिष्पिष्य रथोत्तमं स प्रावेशयत् पृथिवीं किंचिदेव॥ क्षितिं गता जानुभिस्तेऽथ वाहा हेमच्छन्नाश्चन्द्रमरीचिवर्णाः। ततोऽन्तिरक्षे सुमहान् निनादः सम्पूजनार्थं मधुसूदनस्य॥ दिव्यानि पुष्पाण्यथ सिंहनादाः। तस्मिस्तथा वै धरणी निमग्ने रथे प्रयत्नान्मधुसूदनस्य॥ ततः शरः सोऽभ्यहनत् किरीटं तस्येन्द्रदत्तं सुदृढं च धीमतः। अथार्जुनस्योत्तमगात्रभूषण धरावियद्योसलिलेषु विक्षुतम्॥ व्यालास्त्रसर्गोत्तमयत्नमन्युभिः शरेण मूर्ध्न प्रजहार सूतजः। दिवाकरेन्दुज्वलनप्रभत्विषं सुवर्णमुक्तामणिवज्रभूषितम्॥ पुरन्दरार्थं तपसा प्रयत्नतः स्वयं कृतं यद् विभुना स्वयम्भुवा। महार्हरूपं द्विषता भयंकर बिभर्तुरत्यर्थसुख सुगन्धिनम्॥ जिघांसते देवरिपून सुरेश्वरः स्वयं ददौ यत् सुमनाः किरीटिने। हराम्बुपाखण्डलवित्तगोप्तृभिः पिनाकपाशाशनिस्क्वोत्तमैः॥ सुरोत्तमैरप्यविषामर्दितुं प्रसह्य नागेन जहार तद् वृषः। स दुष्टभावो वितथप्रतिज्ञः किरीटमत्यद्भुतमर्जुनस्या॥ नागो महार्ह तपनीयचित्रं पार्थोत्तमाङ्गात् प्रहरत् तरस्वी। तद्धेमजालावततं सुघोषं जाज्वल्यमानं निपपात भूमौ॥ तदुत्तमेषून्मथितं विषग्निना प्रदीप्तमर्चिष्मदथो क्षितौप्रियम्। पपात पार्थस्य किरीटमुत्तम् दिवाकरोऽस्तादिव रक्तमण्डलः॥ स वै किरीटं बहुरत्नभूषितं जहार नागोऽर्जुन मूर्धतो बलात्। गिरेः सुजाताङ्करपुष्तिदुमं महेन्द्रवज्रः शिखरोत्तमं यथा॥ महीवियद्योसलिलानि वायुना यथा विरुग्णानि नदन्ति भारत। तथैव शब्दं भुवनेषु तं तदा जना व्यवस्यन व्यथिताश्च चस्खलुः॥ विना किरीटं शुशुभे स पार्थः श्यामो युवा नील इवोचश्रृङ्गः। ततः समुदाय सितेन वाससा स्वमूर्धजानव्यथितस्तदार्जुनः। विभासितः सूर्यमरीचिना दृढं शिरोगतेनोदयपर्वतो यथा॥ गोकर्णासुमुखी कृतेन इषुणा गोपुत्रसम्प्रेषिता गोशाब्दात्मजभूषणं सुविहितं सुव्यक्तगोऽसुप्रभम्। दृष्ट्वा गोगतकं जहार मुकुटं गोशब्दगोपूरि वै गोकर्णासनमर्दनश्च न ययावप्राप्य मृत्योर्वशम्॥ स सायकः कर्णभुजप्रसृष्टो हुताशनार्कप्रतिमो महार्हः। महोरगः कृतवैरोऽर्जुनेन किरीटमाहत्य ततो व्यतीयात्॥ तं चापि दग्ध्वा तपनीयचित्रं किरीटमाकृत्य तदर्जुनस्या इयेष गन्तु पुनरेव तूणं दृष्टश्च कर्णेन ततोऽब्रवीत तम्॥ मुक्तस्त्वयाहं त्वसमीक्ष्य कर्ण शिरो हृतं यन्न मयार्जुनस्य। समीक्ष्य मां मुञ्च रणे त्वमाशु हन्तास्मि शत्रु तव चात्मनश्च॥ स एवमुक्तो युधि सूतपुत्रस्तमब्रवीत् को भवानुग्ररूपः। नागोऽब्रवीद् विद्धि कृतागसं मां पार्थेन मातुर्वधजातवैरम्॥ यदि स्वयं वज्रधरोऽस्य गोप्ता ततापि याता पितृराजवेश्मनि। कर्ण उवाच न नाग कोऽद्य रणे परस्य बलं समास्थाय जयं बुभूषेत्॥ न संदध्यां द्विः शरं चैव नाग यद्यर्जुनानां शतमेव हन्याम्। तमाह कर्णः पुनरेव नागं तदाऽऽजिमध्ये रविसूनुसत्त्मः॥ हन्तास्मि पार्थं सुसुखी व्रजत्वम्। इत्येवमुक्तो युधि नागराजः कर्णेन होषादसंहस्तस्य वाक्यम्॥ स्वयं प्रायात् पार्थवधाय राजन् कृत्वा स्वरूपं विजिघांसुरुमः। ततः कृष्णः पार्थमुवाच संख्ये महोरगं कृतवैरं जहि त्वम्॥ स एवमुक्तो मधुसदनेन गाण्डीवधन्वा रिपुवीर्यसाहः। उवाच को ह्येष ममाद्य नागः स्वयं य आयाद् गरुडस्य वक्त्रम्॥ कृष्ण उवाच योऽसौत्वया खाण्डवे चित्रभानु संतर्पयाणेन धनुर्धरेणा वियद्गतो जननीगुप्तदेहो मत्वैकरूपं निहतास्य माता॥ स एष तद् वैरमनुस्मरन वै त्वां प्रार्थयत्यात्मवधाय नूनम्। नभश्चयुतां प्रज्वलितामिवोल्का पश्यैनमायान्तममित्रसाह॥ संजय उवाच चिच्छेद षड्भिनिशितैः सुधारैः। नागं वियत्तिर्यर्गिवोत्पतन्तं स च्छिन्नगात्रो निपपात भूमौ॥ हते च तस्मिन भुजगे किरीटिना स्वयं विभुः पार्थिव भूतलादथ। समुजहाराशु पुनः पतन्तं रथं भुजाज्यां पुरुषोत्तमस्ततः॥ तस्मिन् मुहूर्ते दशभिः पृषत्कैः शिलाशितैर्बहिणबर्हवाजितैः। विव्याध कर्णः पुरुषप्रवीरो धनंजय तिर्यगवेक्षमाणः॥ वराहकणैर्निशितैः समर्प्य। माकर्णपूर्णायतमुत्ससर्ज॥ स चित्रवर्मेषुवरो विदार्य प्राणानिरस्यन्निव साधुमुक्तः। कर्णस्य पीत्वा रुधिरं विवेश वसुन्धरां शोणितदिग्धवाजः॥ ततो वृषो बाणनिपातकोपितो महोरगो दण्डविघट्टितो यथा। तदाशुकारी व्यसृजच्छरोत्तमान् महाविष: सर्प इवोत्तमंन विषम्॥ नवैर्नवत्या च शैरस्तथार्जुनम्। शरेण घोरेण पुनश्च पाण्डवं विदार्य को व्यनदजहास च॥ तमस्य हेह ममृषे न पाण्डवो बिभेद मर्माणि ततोऽस्य मर्मवित्। स्तथा यथेन्द्रो बलमोजसा रणे॥ ततः शराणां नवति तदार्जुनः ससर्ज कर्णेऽन्तकदण्डसंनिभाम्। तैः पत्रिभिर्विद्धतनुः स विव्यथे तथा यथा वज्रविदारितोऽजलः॥ रलंकृतं चास्य वराङ्गभूषणम्। र्धनजयेनोत्तमकुण्डलेऽपि च॥ महाधनं शिल्पिवरैः प्रयत्नतः कृतं यदस्योत्तमवर्म भास्वरम्। सुदीर्घकालेन ततोऽस्य पाण्डवः क्षणेन बाणैर्बहुधा व्यशातयत्॥ स तं विवर्माणमथोत्तमेषुभिः शितैश्चतुर्भिः कुपितः पराभिनत्। स विव्यथेऽत्यर्थमरिप्रताडितो यथातुरः पित्तकफानिलज्वरैः॥ महाधनुर्मण्डालनिः सृतैः शितैः क्रियाप्रयत्नप्रितैर्बलेन च। विभेद मर्मस्वपि चार्जुनस्त्वरन्॥ दृढाहतः पत्रिभिरुग्रवेगैः पार्थेन कर्णो विविधैः शिताः। बभौ गिरिगैरिकधातुरक्तः क्षरन् प्रपातैरिव रक्तमम्भः॥ ततोऽर्जुनः कर्णमवक्रागैर्नवैः सुवर्णपुङ्खः सुदृढैरयस्मयैः। यमाग्निदण्डप्रतिमैः स्तनान्तरे पराभिनत् क्रौञ्चमिवाद्रिमग्निजः॥ ततः शरावापमपास्य सूतजौ धनुश्च तच्छक्रशरासनोपमम्। ततो रथस्यः स मुमोह च स्खलन् प्रशीर्णमुष्टिः सुभृशाहतः प्रभो॥ निहन्तुमार्यः पुरुषव्रते स्थितः। दुवाच किं पाण्डव हे प्रमाद्यसे॥ नैवाहितानां सततं विपश्चितः क्षणं प्रतीक्षन्त्यपि दुर्बलीयसाम्। विशेषतोऽरीन् व्यसनेषु पण्डितो निहत्य धर्म च यशश्च विन्दते॥ तदेकवीरं तव चाहितं सदा त्वरस्व कर्णं सहसाभिमर्दितुम्। पुरा समर्थः समुपैति सूतजो भिन्धि त्वमेन नमुचिं यथा हरिः॥ ततस्तेदेवेत्यभिपूज्य सत्वरं जनार्दनं कर्णमविध्यदर्जुनः। स्तथा यथा शम्बरहा पुरा बलिम्॥ साश्वं तु कर्ण सरथं किरीटी समाचिनोद भारत वत्सदन्तैः। प्रच्छादयामास दिशश्च बाणैः सर्वप्रयत्नापनीयपुकैः॥ स वत्सदन्तै पृथुपीनवक्षाः समावित सोऽधिरथिर्विभाति। र्यथाचलश्चन्दनकाननायुतः॥ विभाति कर्णः समरे विशाम्पते। महीरुहैराचितसानुकन्दरो यथा गिरीन्द्रः स्फुटकर्णिकारवान्॥ स बाणसङ्घान् बहुधा व्यवासृजद् विभाति कर्णः शरजालरश्मिवान्। सलोहितो रक्तगभस्तिमण्डलो दिवाकरोऽस्ताभिमुखो यथा तथा॥ बाह्वन्तरादाधिरथेर्विमुक्तान् बाणान् महाहीनिव दाप्यमानान्। व्यध्वंसयनर्जुनबाहुमुक्ताः शराः समासाद्य दिशः शितायाः॥ ततः स कर्णः समवाप्य धैर्य बाणान् विमुञ्चन् कुपिताहिकल्पान्। विव्याध पार्थं दशभिः पृषत्कैः कृष्णं च षड्भिः कुपिताहिकल्पैः॥ ततः किरीटी भृशमुग्रनि:स्वनं महाशरं सर्पविषानलोपमम्। अयस्मयं रौद्रमसहास्त्रसम्भृतं महाहवे क्षेप्तुमना महामतिः॥ निदर्शयन् कर्णवधं ब्रुवाणः। भूमिस्तु चक्रं ग्रसतीत्यवोचत् कर्णस्य तस्मिन् वधकाल आगते॥ ततस्तदस्तत्रंन मनसः प्रणष्टं यद् भार्गवोऽस्मै प्रददौ महात्मा। चत्रम्च वामं असते भूमिरस्य प्राप्ते तस्मिन् वधकाले नृवीर॥ ततो रथो घूर्णितवान् नरेन्द्र शापत्तदा ब्राह्मणसत्तमस्य। ततश्चक्रमपतत्तस्य भूमौ स विह्वलः समरे सूतपुत्रः॥ सवेदिकश्चैत्य इवातिमात्रः सुपुष्पितो भूमितले निमग्नः। घूर्णे रथे ब्राह्मणस्याभिशापाद् रामादुपात्ते त्वविभाति चास्त्रे॥ छिन्ने शरे सर्पमुखे च घोरे पार्थेन तस्मिन विषसाद कर्णः। अमृष्यमाणो व्यसनानि तानि हस्तौ विधुन्वन् स विगर्हमाणः॥ धर्मप्रधानं किल पाति धर्म इत्यब्रुवन् धर्मविदः सदैव। वयं च धर्मे प्रयताम नित्यं चर्तुं यथाशक्ति यथाश्रुतं च॥ स चापि निघ्नाति न पाति भक्तान् मन्ये न नित्यं परिपाति धर्मः॥ एवं ब्रुवन् प्रस्खलिताश्वसूतो विचाल्यमानोऽर्जुनबाणपातैः। मर्माभिघाताच्छिथिल: क्रियासु पुनः पुनर्धर्ममसौ जगह॥ ततः शरैर्भीमतरैरविध्यत् त्रिभिराहवे। हस्ते कृष्णं तथा पार्थमभ्यविध्यच सप्तिभिः॥ ततोऽर्जुनः सप्तदश तिग्मरेगानजिह्यगान्। इन्द्राशनिसमान् घोरानसृजत् पावकोपमान्॥ निर्भिद्य ते भीमेवेगा ह्यपतन् पृथिवीतले। कम्पितात्मा ततः कर्णः शक्त्या चेष्टामदर्शयत्॥ बलेनाथ स संस्तभ्य ब्रह्मास्त्रं समुदैरयत्। ऐन्द्रं ततोऽर्जुनश्चापि तं दृष्ट्वाभ्युपमन्त्रयत्॥ गाण्डीवं ज्यां च बाणंश्च सोऽनुमन्त्र्य परंतपः। व्यसृजच्छरवर्षाणि वर्षाणीव पुरन्दरः॥ ततस्तेजोमया बाणा रथात् पार्थस्य निःसृताः। प्रादुरासन् महावीर्याः कर्णस्य रथमन्तिकात्॥ तान् कर्णस्त्वग्रतो न्यस्तान् मोघांश्चक्रे महारथः। ततोऽब्रवीद वृष्णिवीरस्तस्मिन्नस्त्रे विनाशिते॥ विसृजास्त्रं परं पार्थ राधेयो ग्रसते शरान्। ततो ब्रह्मास्त्रमत्युग्रं सम्मन्त्र्य समयोजयत्॥ छादयित्वा ततो बाणैः कर्णं प्रत्यस्यदर्जुनः। ततः कर्णः शितैर्बाणैा चिच्छेद सुतेजनैः॥ द्वितीयां च तृतीयां च चतुर्थी पञ्चमी तथा। षष्ठीमथास्य चिच्छेद सप्तमी च तथाष्टमीम्॥ नवमी दशमी चास्य तथा चैकादशी वृषः। ज्याशतं शतसंघानः स कर्णो नावबुध्यते॥ ततो ज्यां विनिधायान्यामभिमन्त्र्य च पाण्डवः। शरैरवाकिरत् कर्ण दीप्यमानैरिवाहिभिः॥ तस्य ज्योछेदन कर्णो ज्यावधानं च संयुगे। नान्वबुध्यत शीघ्रत्वात्तदद्भुतमिवाभवत्॥ अस्त्रैरस्त्राणि संवार्य प्रनिघ्नन् सव्यसाचिनः। चक्रे चाप्यधिकं पार्थात् स्ववीर्यमतिदर्शयन्॥ ततः कृष्णोऽर्जुनं दृष्ट्वा कर्णास्त्रेण च पीडितम्। अभ्यसेत्यब्रवीत् पार्थमातिष्ठास्त्रं व्रजेति च॥ ततोऽग्निसदृशं घोरं शरं सर्पविषोपमम्। अश्मसारमयं दिव्यमबिमन्त्र्य परंतपः॥ रौद्रमस्त्रं समाधाय क्षेप्तुकामः किरीटवान्। ततोऽग्रसन्मही चक्रं राधेयस्य तदा नृप॥ ततोऽवतीर्य राधेयो रथादाशु समुद्यतः। चक्रं भुजाभ्यामालम्ब्य समुत्क्षेप्तुमियेष सः॥ सप्तद्वीपा वसुमती सशैलवनकानना। जीर्णचक्रा समुत्क्षिप्ता कर्णेन चतुरङ्गुलम्॥१०६॥ ग्रस्तचक्रस्तु राधेयः क्रोधाश्रूण्यवर्तयत्। अर्जुनं वीक्ष्यं संरब्धमिदं वचनमब्रवीत्॥ भो भोः पार्थ महेष्वास मुहूर्तं परिपालय। यावचक्रमिदं ग्रस्तमुद्धरामि महीतलात्॥ सव्यं चक्रं महीग्रस्तं दृष्ट्वा देवादिदं मम। पार्थ कापुरुषतीर्णमभिसंधिं विसर्जय॥ न त्वं कापुरुषाचीर्ण मार्गमास्थातचुमर्हसि। ख्यातस्त्वमसि कौन्तेय विशिष्टो रणकर्मसु॥ विशिष्टतरमेव त्वं कर्तुमर्हसि पाण्डव। प्रकीर्णकेशे विमुखे ब्राह्मणेऽथ कृताञ्जलौ॥ शरणागते न्यस्तशस्त्रे यातमाने तथार्जुन। अबाणे भ्रष्टकवचे भ्रष्टभग्नायुधे तथा॥ न विमुञ्चन्ति शस्त्राणि शूराः साधुव्रते स्थितः। त्वं च शूरतमो लोके साधुवृत्तश्च पाण्डवः॥ अभिज्ञो युद्धधर्माणां वेदान्तावभृथाप्लुतः। दिव्यास्त्रविदमेयात्मा कार्तवीर्यसमो युधि॥ यावचक्रमिदं ग्रस्तमुद्धरामि महाभुजा न मां रथस्थो भूनिष्ठं विकलं हन्तुमर्हसि॥ न वासुदेवात् त्वत्तो वा पाण्डवेय बिभेम्यहम्। त्वं हि क्षत्रियदायादो महाकुलविवर्धनः। अतस्त्वां प्रब्रवीम्येष मुहूर्तं क्षम पाण्डव॥ संजय उवाच शल्यस्तु कर्णार्जुनयोर्विमर्दे बलानि दृष्ट्वा मृदितानि बाणैः। ययौ हते चाथिरथौ पदानुगे रथेन संछिन्नपरिच्छदेन॥ निपातितस्यन्दनवाजिनागं बलं च दृष्ट्वा हतसूतपुत्रम्। दुर्योधनोऽश्रुप्रतिपूर्णनेत्रो दीनो मुहुनिःश्वसंश्चार्तरूपः॥ कर्णं तु शूरं पतितं पृथिव्यां शराचितं शोणितदिग्धगात्रम्। यद्दच्छया सूर्यमिवावनिस्थं दिदृक्षवः सम्परिवार्य तस्थुः॥ प्रहृष्टवित्रस्तविषण्णाविस्मितास्तथा परे शोकहता इवाभवन्। परे त्वदीयथैषां परस्परेण यथायथैषां प्रकृतिस्तथाभवन्॥ प्रविद्धवर्माभरणाम्बरायुधं धनंजयेनाभिहतं महौजसम्। हतर्षभा गाव इवाजने वने॥ भीमश्च भीमेन तदा स्वनेन नादं कृत्वा रोदसी: कम्पयानः। आस्फोटयन् बल्गते नृत्यते च हते कर्णे त्रायसन् धार्तराष्ट्रान्॥ तथैव राजन् सोमकाः सृञ्जयाश्च शङ्खान् दध्मुः सस्वजुश्चापि सर्वे। परस्परं क्षत्रिया हृष्टरूपाः सूतात्मजे वै निहते तदानीम्॥ कृत्वा विमर्द महदर्जुनेन कर्णो हत: केसरिणेव नागः। तीर्णा प्रतिज्ञा पुरुषर्षभेण वैरस्यान्तं गतवांश्चापि पार्थः॥ स्तूर्ण रथेनापकृतध्वजेन। दुर्योधनस्यान्तिकमेत्य राजन् सबाष्पदुःखाद् वचनं बभाषे॥ विशीर्णनागाश्वरथप्रवीरं बलं त्वदीयं यमराष्ट्रकल्पम्। नैराश्वनागैगिरिकूटकल्पैः॥ नैतादृशं भारत युद्धमासीद् यथा तु कर्णार्जुनयोर्बभूव। ग्रस्तौहि कर्णेन समेत्य कृष्णावन्ये च सर्वे तव शत्रवो ये॥ दैवं ध्रुवं पार्थवशात् प्रवृत्तं यत् पाण्डवान् पाति हिनस्ति चास्मान्। तवार्थसिद्धयर्थकरास्तु सर्वे प्रसह्य वीरा निहता द्विषद्भिः॥ कुबेरेवैवस्वतवासवानं तुल्यप्रभावा नृपते सुवीराः। वीर्येण शौर्येण बलेन तेजसा तैस्ततैस्तु युक्ता विविधैर्गुणौघैः॥ स्तवार्थकामा युधि पाण्डवैयैः। तन्मा युत्रो भारत दिष्टमेतत् पर्याश्चस त्वं न सदास्ति सिद्धिः॥ एतद् वचो मद्रपतेर्निशम्य स्वं चाप्यनीतं मनसा निरीक्ष्य। दुर्योधन दीनमना विसंज्ञः पुनः पुनर्व्यश्वसदार्तरूपः॥ धृतराष्ट्र उवाच तस्मिंस्तु कर्णर्जुनयोर्विमर्दै दग्धस्य रौद्रेऽहनि विद्रुतस्य। बभूव रूपं कुरुसृञ्जयानां बलस्य बाणोन्मथितस्य कीद्दक्॥ संजय उवाच शृणु राजन्नवहितो यथा वृतो महाक्षयः। घोरो मनुष्यदेहानामाजौ च गजवाजिनाम्॥ यत्र कर्णे हते पार्थः सिंहनादमथाकरोत्। थदा तव सुतान् राजन्नविवेश महद् भयम्॥ न संघातुमनीकानि न चैवाशु पराक्रमे। आसीद् बुद्धिर्हते कर्णे तव योधस्य कर्हिचित्॥ वणिजो नापि भिन्नायामगाधे विल्पवे यथा। अपारे पारमिच्छन्तो हते द्वीपे किरिटिना॥ सूतपुत्रे हते राजन् वित्रस्ताः शस्त्रविक्षताः। अनाथा नाथमिच्छन्तो मृगाः सिहैविार्दिताः॥ भग्नशृङ्गा वृषा यद्वद् भग्नदंष्ट्रा इवोरगाः। प्रत्यपायाम सायाह्ने निर्जिताः सव्यसचिना॥ हतप्रवीरा विध्वस्ता निकृता निशितैः शरैः। सूतपुत्रे हते राजन् पुत्रास्ते दुद्रुबुर्भयात्॥ विस्त्रस्तयन्त्रकवचाः कांदिग्भूता रिचेतस्ः। अन्योन्यमवमृद्नन्तो वीक्षमाणा भयर्दिताः॥ मामेव नूनं बीभत्सुर्मामेव च वृकोदरः। अभियामिति मन्वाना: पेतुर्मम्लुश्च सम्भ्रमात्॥ हयानन्ये गजानन्ये स्थानन्ये महारथाः। आरुह्य जवसम्पन्नाः पदातीन् प्रजहुर्भयात्॥ कुञ्जरैश्र स्यन्दनाः क्षुण्णा: सादिनश्च महारथैः। पदातिसंघाश्चाश्चौघैः पलायद्भिर्भयार्दितैः॥ व्यालतस्करसंकीर्णे सार्थहीना यथा वने। सूतपुत्रे हते राजंस्तव योधास्तथाभवन्॥ हतारोहा यथा नागाश्छिन्नहस्ता यथा नराः। सर्वे पार्थमयं लोकं सम्पश्यन्तो भयार्दिताः॥ सम्प्रेक्ष्य द्रवतः सर्वान् भीमसेन भयार्दितान्। दुर्योधन स्वं सूतं हा हा कृत्वेदमब्रवीत्॥ नातिक्रमेच मां पार्थो धनुष्पाणिमवस्थितम्। जघने सर्वसैन्यानां शनैरश्वान् प्रचोदय॥ युध्यमानं हि कौन्तेयं हनिष्यामि न संशयः। नोत्सहेन्मातिक्रान्तुं वेलामिव महोदधिः॥ अद्यार्जुनं सगोविन्दं मानिनं तच वृकोदरम्। हन्यां शिष्टांस्तथा शत्रून कणम्यानृण्यमाप्नुयाम्॥ तच्छ्रुत्वा कुरुराजस्य शूरार्यसदृशं वचः। सूतो हेमपरिच्छन्नाशनैरश्वानचोदयत्॥ रथाश्वनागहीनास्तु पादातास्तव मारिष। पञ्चविंशतिसाहस्त्रा युद्धायैव व्यवस्थिताः॥ तान् भीमसेनः संक्रुद्धो धृष्टद्युम्नश्च पार्षतः। बलेन चतुरङ्गेन संवृत्याजघ्नतुः शरैः॥ प्रत्ययुध्यन्त समरे भीमसेनं सपार्षतम्। पार्थपार्षतयोश्चान्ये जगृहुस्तत्र नामनी॥ अक्रुध्यत रणे भीमस्तैस्तदा पर्यवस्थितैः। शोऽवथीर्य रथात्तर्ण गदापाणिरयुध्यत॥ न तान् रथस्थो भूमिष्ठान् धर्मापेक्षी वृकोदरः। योधयामास कौन्तेयो भुजवीर्यव्यपाश्रयः॥ जातरूपपरिच्छनानं प्रगृह्य महतीं गदाम्। अवधीत्तावकान् सर्वान दण्डपाणिरिवान्तकः॥ पदातिनोऽपि संत्यज्य प्रियं जीवितमात्मनः। भीमाभ्यद्रवन संख्ये पतङ्गा ज्वलनं यथा॥ आसाद्य भीमसेन तु संरब्धा युद्धदुर्मदाः। विनेशुः सहसा दृष्ट्वा भूतग्रामा इवान्तकम्॥ श्येनवद् विचरन् भीमो गदाहस्तो महाबलः। पञ्चविंशतिसाहस्रास्तावकान् समयोथयत्॥ हत्वा तत्पुरुषानीकं भीमः सत्यपराक्रमः। धृष्टद्युम्नं पुरस्कृत्य तस्थौ तत्र महाबलः॥ धनंजयो रथानीकमभ्यवर्तत वीर्यवान्। माद्रीपुत्रौ तु शकुनि सात्यकिश्च महारथः॥ जवेनाभ्यपतन् हृष्टा नन्तो दौर्योधनं बलम्। तस्याश्वसादीन् सुबहूंस्ते निहत्य शितैः शरैः॥ समभ्यधावंस्त्वरितास्तत्र युद्धमभून्महत्। धनंजयोऽपि चाभ्येत्य रथानीकं तव प्रभो॥ विश्रुतं त्रिषु लोकेषु गाण्डीवं व्याक्षिपद् धनुः। कृष्णसारथिमायान्तं दृष्ट्वा श्वेतहयं रथम्॥ अर्जुनं चापि योद्धारं त्वदीया प्राद्रवन् भयात्। विप्रहीणरथाश्चैव शरैश्च परकर्षिताः॥ पञ्चविंशतिसाहस्त्राः कालमार्थन् पदातयः। हत्वा तान् पुरुषव्याघ्रः पाञ्चालानां महारथः॥ पुत्रः पाञ्चालराजस्य धृष्टद्युम्नो महामनाः। भीमसेनं पुरस्कृत्य नचिरात् प्रत्यदृश्यत॥ महाधनुर्धरः श्रीमानमित्रगणतापनः। धृष्टद्युम्नं रणे दृष्ट्वा त्वदीयाः प्राद्रवन् भयात्। पारावतसवर्णाश्वं कोविदारमयध्वजम्॥ गान्धारराजं शीघ्रास्त्रमनुसृत्य यशस्विनौ॥ नचिरात् प्रत्यदृश्येतां माद्रीपुत्रौ ससात्यकी। चेकितानः शिखण्डी च द्रौपदेयाश्च मारिष।॥ हत्वा त्वदीयं सुमहत् सैन्यं शङ्खांस्तथाधमन्। ते सर्वे तावकान् प्रेक्ष्य द्रवतोऽपि पराङ्मुखान्॥ अभ्यवर्तन्त संरब्धान् वृषाञ्जित्वा यथा वृषाः। सेनावशेषं तं दृष्ट्वा तव सैन्यस्य पाण्डवः॥ व्यवस्थित: सव्यसाची चुक्रोध बलवान् नृप। धनंजयो स्थानीकमभ्यवर्तत वीर्यवान्॥ विश्रुतं त्रिषु लोकेषु व्याक्षिपद् गाण्डिवं धनुः। तत एनाशरवातैः सहसा समवाकिरत्॥ तमसा संवृतेनात न स्म किंचिद व्यदृश्यत। अन्धकारीकृते लोके रजोभूते महीतले॥ योधाः सर्वे महाराज तावका: प्राद्रवन् भयात्। सम्भज्यमाने सैन्ये तु कुरुराजो विशाम्पते॥ परानभिमुखांश्चैव सुतस्ते समुपाद्रवत्। ततो दुर्योधनः सर्वानाजुहावाथ पाण्डवान्॥ युद्धाय भरतश्रेष्ठ देवानिव पुरा बलिः। त एनमभिगर्जन्तः सहिताः समुपद्रवन्॥ नानाशस्त्रभृतः क्रुद्धा भर्त्ययन्तो मुहुर्मुहुः। दुर्योधनोऽऽप्यसम्भ्रान्तस्तान् रणे निशितैः शरैः॥ तत्रावधीत्ततः क्रुद्धः शतशोऽथ सहस्रशः। तत् सैन्यं पाण्डवेयानां योधयामास सर्वतः॥ तत्राद्भुतमपश्याम तव पुत्रस्य पौरुषम्। यदेकः सहितान् सर्वान् रणेऽयुध्यत पाण्डवान्॥ ततोऽपश्यन्महात्मा स स्वसैन्यं भृशदुःखितम्। ततोऽवस्थाप्य राजेन्द्र कृतबुद्धिस्तवात्मजः॥ हर्षयन्निव तान् योधानिदं वचनमब्रवीत्। न तं देशं प्रपश्यामि यत्र याता भयार्दिताः॥ गतानां यत्र वै मोक्षः पाण्डवात् किं गतेन वः। अल्पं च बलमेतेषां कृष्णौ च भृशविक्षतौ॥ अद्य सर्वान् हनिष्यामि ध्रुवोहि विजयो भवेत्। विप्नयातांस्तु वो भिन्नान् पाण्डवः कृतकिल्बिषान्॥ अनुसृत्य वधिष्यन्ति श्रेयान् नः समरे वधः। सुखं सांग्रामिको मृत्युः क्षत्रधर्मेण युध्यताम्॥ मृतो दुःखं न जानीते प्रेत्य चानन्तमश्नुते। शृणुध्वं क्षत्रियाः सर्वे यावन्तः स्थ समागताः॥ तदा शूरं च भीरुं च मारयत्यन्तको यमः को नु मूढो न युध्येत मादृशः क्षत्रियव्रतः॥ द्विषतो भीमसेनस्य क्रुद्धस्य वशमेष्यथ। पितामहैराचरितं न धर्मं हातुमर्हथ॥ न ह्यधर्मोऽस्ति पापीयान् क्षत्रियस्य पलायनात्। न युद्धधर्माच्छ्रेयो हि पन्थाः स्वर्गस्य कौरवाः। अचिरेण हता लोकान् सद्यो योधाः समश्नुता॥ संजय उवाच एवं ब्रुवति पुत्रे ते सैनिकां भृशविक्षताः। अनवेक्ष्यैव तद्वाक्यं प्राद्रवन् सर्वतो दिशः॥ संजय उवाच दृष्ट्वा तु सैन्यं परिवर्त्यमानं पुत्रेण ते मद्रपतिस्तदानीम्। संत्रस्तरूपः परिमूढचेता दुर्योधनं वाक्यमिदं बभाषे॥ शल्य उवाच रायोधनं वीरहतैः सुपूणम्। महीधराभैः पतितैश्च नागैः सकृत्यप्रभिन्नैः शरभिन्नदेहैः॥ सविह्वलद्भिश्च गतासुभिश्च प्रध्वस्तवर्मायुधचर्मखङ्गैः। विभिन्नपाषाणमहाद्रुमौषधैः॥ प्रविद्धघण्टाङ्कुशतोमरध्वजैः सहेमजालैः रुधिरौघसम्प्लुतैः। शरावभिन्नैः पतितैस्तुरङ्गमैः श्वसद्भिरातेश्र क्षतजं वमद्भिः॥ मही दशद्भिः कृपणं नदद्भिः। तथापविद्धैर्गजावाजियोधैः शरापरिद्धैरथ वीरसंधै।॥ मन्दासुभिश्चैव गतासुभिश्च नराश्वनागैश्च रथैश्च मर्दितैः। मन्दानशुभिश्चैव मही महाहवे नूनं यथा वैतरवणीव भाति॥ रुद्वेपमानैःपतितैः पृथिव्याम्। विशीर्णदन्तः क्षतजं वमद्धि स्फुद्भिराते करुणं नदद्भिः॥ निकृत्तचक्रेषुयुगैः सयोक्तृभिः प्रविद्धतूणीरपताककेतुभिः। महारथौळेर्जलदैरिवावृता॥ यशस्विभिर्नागरथाश्वयोधिभिः पदातिभिश्चाभिमुखैर्हतैः परैः। वृता प्रशान्तैरिव तावकैर्मही॥ स्वेक्ष्यमाणैः पतितैः सहस्रशः। नक्तं ग्रहैद्यौरमलप्रदीप्तैः॥ र्मही बभूवानुगतैरिवाग्निभिः। हतैः प्रवीरैः कुरुसृञ्जयानाम्॥ शरास्तु कर्णार्जुनबाहुमुक्ता विदार्य नागाश्वमनुष्यदेहान्। महोरगा वासमिवातिताम्नाः॥ हतैर्मनुष्याश्वगजैश संख्ये शरापविद्धैश्च रथैनरेन्द्र। रगम्यरूपा वसुधा बभूव॥ रथैर्वरेघून्मथितैः सुकल्पैः सयोधशस्त्रैश्च वरायुधैर्ध्वजैः। निकृत्तचक्राक्षयुगत्रिवेणुभिः॥ हतानुकर्विनिषङ्गबन्धनैः। प्रभग्निनीडैर्मणिहेमभूषितै स्तृता मही द्यौरिव शारदैर्घनैः॥ । पेतुश्च खङ्गा हतेश्वरे राजरथैः सुकल्पितैः। दे॒तं व्रजन्तो बहुधा विचूर्णिताः॥ सहेमपट्टाः परिधाः परश्वधाः शिताश्च शूला मुसलानि मुद्गराः। विमला विकोशा गदाश्च जाम्बूनदपट्टानद्धाः॥ चापानि रुक्माङ्गभूषणानि शराश्च कार्तस्वरचित्रपुङ्काः। ऋष्टयश्च पीता विमला विकोशाः प्रासाश्च दण्डै कनकावभासैः॥ श्छिन्नापविद्धाश्च स्रजो विचित्राः। कुथाः पताकाम्बरभूषणानि किरीटमाला मुकुटाश्च शुभ्राः॥ प्रकीर्णका विप्रकीर्णाश्च राजन् प्रवालमुक्तातरलाश्च हाराः। आपीडकेयूरवराङ्गदानि ग्रैवेयनिष्काः ससुवर्णसूत्राः॥ मण्युत्तमा वज्रसुवर्णमुक्ता रत्नानि चोचावचमङ्गलानि। गात्राणि चात्यन्तसुखोचितानि शिरासिं चेन्दुप्रतिमाननानि॥ देहाचं भोगाचं परिच्छादांश्च त्यक्तवा मनोज्ञानि सुखानि चैव। स्वधर्मनिष्ठां महसतीमवाप्य व्याप्याशु लोकान् यशसा गतास्ते॥ निर्वत दुर्योधन यान्तु सैनिका व्रजस्व राजशिबिराय मानदा दिवाकरोऽप्येष विलम्बते प्रभो पुनस्त्वमेवात्र नरेन्द्र कारणम्॥ इत्येवमुक्त्वा विरराम शल्यो दुर्योधनं शोकपरीतचेताः। मार्त विसंज्ञं भृशमश्रुनेत्रम्॥ तं द्रोणपुत्रप्रमुखा नरेन्द्राः सर्वे समाश्वास्य मुहुः प्रयान्ति। निरीक्षमाणा मुहुरर्जुनस्य ध्वजं महान्तं यशसा ज्वलन्तम्॥ नराश्वमातङ्गशरीरजेन रक्तेन सिक्तां च तथैव भूमिम्। नारी प्रकाशामिव सर्वगम्याम्॥ प्रच्छन्नरूपां रुधिरेण राजन् रौद्रे मुहुर्तेऽतिविराजमाने। नैवावतस्थुः कुरवः समीक्ष्य प्रव्राजिता देवलोकाय सर्वे॥ वधेन कर्णस्य तु दुःखितास्ते हा कर्ण हा कर्ण इति ब्रुवाणा। दुतं प्रयाताः शिबिराणि राजन् दिवाकरं रक्तमवेक्षमाणाः॥ गाण्डीवमुक्तैस्तु सुवर्णपुजैः शिलाशितैः शोणितदिग्धवाजैः। शरैश्चिताङ्गो युधि भाति कर्णो हतोऽपि सन् सूर्य इवांशुमाली॥ कर्णस्य देहं रुधिरावसिक्तं भक्तानुकम्पी भगवान् विवस्वान्। स्पृष्टवांशुभिर्लोहितरक्तरूपः सिष्णासुरभ्येति परं समुद्रम्॥ इतीव संचिन्त्य सुरर्षिसंघाः सम्प्रस्थिता यान्ति यथा निकेतनम्। यथासुखं खं च महीतलं च॥ तदद्भुतं प्राणभृतां भयंकर निशाम्य युद्धं कुरुवीरमुख्ययोः। धनंजयस्याधिरथेश्चः विस्मिताः प्रशंसमानाः प्रययुस्तदा जनाः॥ शरशंकृत्तवर्माणं रुधिरोक्षितवाससम्। गतासुमपि राधेयं नैव लक्ष्मीविमुञ्चति॥ तप्तजाम्बूदनदनिभं ज्वलनार्कसमप्रभम्। जीवन्तमिव तं शूरं सर्वभूतानि मेनिरे॥ हतस्यापि महाराज सूतपुत्रस्य संयुगे। वित्रेसुः सर्वतो योधाः सिंहस्येवेतरे मृगाः॥ हतोऽपि पुरुषव्याघ्र जीववानिव लक्ष्यते। नाभवद् विकृतिः काचिद्धतस्यापि महात्मनः॥ चारवेषधरं वीरं चारुमौलिशिरोधरम्। तन्मुखं सूतपुत्रस्य पूर्णचन्द्रसमद्युति॥ नानाभरणवान् राजस्तप्तजाम्बूनदाङ्गदः। हतो वैकर्तन: शेते पादपोऽडकुरवानिव॥ कनकोत्तमसंकाशो ज्वलन्निव विभावसुः। स शान्तः पुरुषव्याघ्र पार्थसायकावारिणा॥ यथा हि ज्वलनो दीप्तो जलमासाद्य शाम्यति। कर्णाग्निः समरे तद्वत् पार्थमेघेन शामितः॥ आहृत्य च यशो दीप्तं सुयुद्धेनात्मनो भुवि। विसृज्य शरवर्षाणि प्रताप्त च दिशो दश॥ सुपः समरे कर्णः स शान्तः पार्थतेजसा। प्रताप्य पाण्डवान् सर्वान् पञ्चालांश्चास्त्रतेजसा॥ वर्षित्य शरवर्षेण प्रताप्य रिपुवाहिनीम्। श्रीमानिव सहस्रांशुर्जगत् सर्वं प्रताप्य च॥ हतो वैकर्तनः कर्णः सपुत्रः सहवाहनः। अर्थिनां पक्षिसंघस्य कल्पवृक्षो निपातितः॥ ददानीत्येव योऽवोचन्न नास्तीत्यर्थितोर्थिभिः। सद्भिः सदा सत्यपुरुषः स हतो द्वैरथे वृषः॥ यस्य ब्राह्मणसात् सर्वं वित्तमासीन्महात्मनः। नादेयं ब्राह्मणेष्वासीद् यस्य स्वमपि जीवितम्॥ सदा स्त्रीणां प्रियो नित्यं दाता चैव महारथः। स वै पार्थास्त्रनिर्दग्धो गतः परमिकां गतिम्॥ यमाश्रित्याकरोद् वैरं पुत्रस्ते स गतो दिवम्। आदाय तव पुत्राणां जयाशां शर्म वर्म च॥ जगाम चास्तं सविता दिवाकरः। ग्रहश्च तिर्यग् ज्वलनार्कवर्णः सोमस्य पुत्रोऽभ्युदियाय तिर्यक्॥ नभः पफालेव ननाद चोर्वी वबुश्च वाताः परुषाः सुघोराः। दिगो बभूवुर्खलिताः सधूमा महार्णवाः सस्वनुश्चक्षुभुश्च॥ सकाननाश्चद्रिचयाश्चकम्पिरे प्रविव्यथुर्भूतगणाश्च सर्वे। बृहस्पतिः सम्परिवार्य रोहिणी बभूव चन्द्रार्कसमो विशाम्पते॥ स्तमोवृता द्यौर्विचचाल भूमिः। पपात चोल्का ज्वलनप्रकाशा निशाचराश्चाप्यभवन् प्रहृष्टाः॥ शशिप्रकाशाननमर्जुनो यदा क्षुरेण कर्णस्य शिरो न्यपातयत्। तदान्तरिक्षे सहसैव शब्दो बभूव हाहेति सुरैर्विमुक्तः॥ सदेवगन्धर्वमनुष्यपूजितं निहत्य कर्ण रिपुमाहवेऽर्जुनः। रराज राजन् परमेण वर्चसा यथा पुरा वृत्रवधे शतक्रतुः॥ ततो रथेनाम्बुदवृन्दनादिना शरन्नभोमध्यदिवाकरार्चिषा। तपाकिना भीमनिनादकेतुना हिमेन्दुशङ्खस्फटिकारभासिना॥ महेन्द्रवाहप्रितमेन तावुभौ महेन्द्रवीर्यप्रतिमानपौरुषौ। रलंकृतावप्रतिमेन रंहसा॥ नरोत्तमौ केशवपाण्डुनन्दनौ तदाहितावग्निदिवाकराविव। रणाजिरे वीतभयौ विरेजतुः समानयानाविव विष्णुवासवौ॥ ततो धनुातलबाणनिःस्वनैः प्रसह्य कृत्वा च रिपून हतप्रभान्। संछादयित्वा तु कुरूशरोत्तमैः कपिध्वजः पक्षिवरध्वजश्च॥ हृष्टौ ततस्तावमितप्रभावी मनांस्यरीणामवदारयन्तौ। सुवर्णजालावततौ महास्वनौ हिमावदातौ परिगृह्य पाणिभिः। चुचुम्बतुः शङ्खवरौ नृणां वरौ वराननाभ्यां युगपच दध्मतुः॥ पाञ्चजन्यस्य निर्घोषो देवदत्तस्य चोभयोः। पृथिवीं चान्तरिक्षं च दिशश्चैवान्वनादयत्॥ वित्रस्ताश्चाभवन् सर्वे कौरवा राजसत्तम। शङ्खशब्देन तेनाथ माधवस्यार्जुनस्य च॥ तौ शङ्खशब्देन निनादयन्तौ वनानि शैलान् सरितो गुहाश्च। वित्रासयन्तौ तव पुत्रसेनां युधिष्ठिरं नन्दयतां वरिष्टौ॥ ततः प्रयाता: कुरवो जवेन श्रुत्वैव शङ्खस्वनमीर्यमाणम्। विहाय मद्राधिपति पतिं च दुर्योधन भारत भारतानाम्॥ महाहवे तं बहु रोचमानं धनंजयं भूतगणा: समेताः। तदान्वमोदन्त जनार्दनं च दिवाकरावभ्युदितौ यथैव॥ बुभौ व्यभाता समरेऽच्युतार्जुनौ। तमो निहत्याभ्युदितौ यथामलौ शशाङ्कसूर्यो दिवि रश्मिमालिनौ॥ विहाय तान् बाणगणानथागतौ सुहृढतावप्रतिमानविक्रमौ। सुखं प्रविष्टौ शिबिरं स्वमीश्वरौ सदस्यनिन्द्याविव विष्णुवासवौ॥ महर्षिभिर्यक्षमहोरगैरपि। जयाभिवृद्ध्या परयाभिपूजितौ हते तु कर्णे परमाहवे तदा॥ यथानुरूपं प्रतिपूजिताबुभौ प्रशस्यमानौ स्वकृतैर्गुणौघैः। ननन्दतुस्तौ ससुहृद्गणौ तदा बलं नियम्येव सुरेशकेशवौ॥ संजय उवाच हते वैकर्तने राजन् कुरवो भयपीडिताः। वीक्षमाणा दिशः सर्वाः पर्यापेतुः सहस्रशः॥ कर्णं तु निहतं दृष्ट्वा शत्रुभिः परमाहवे। भीता दिशो व्यकीर्यन्त तावकाः क्षतविक्षताः॥ ततोऽवहारं चक्रुस्ते योधाः सर्वे समन्ततः। निवार्यमाणाश्चोद्विग्नास्तावका भृशदुःखिताः॥ तेषां तन्मतमाज्ञाय पुत्रो दुर्योधनस्तव। अवहारं ततश्चक्रे शल्यस्यानुमते नृप।॥ कृतवर्मा रथैस्तूर्णं वृतो भारत तावकैः। नारायणावशेषैश्च शिबिरायैव दुद्रुवे॥ गान्धाराणां सहस्रेण शकुनिः परिवारितः। हतमाधिरथिं दृष्ट्वा शिबिरायैव दुद्रुवे॥ कृपः शारद्वतो राजन् नागानीकेन भारत। महामेघनिभेनाशु शिबियैव दुहुवे॥ अश्वत्थामा ततः शूरो विनिःश्वस्य पुनः पुनः। पाण्डवानां जयं दृष्ट्वा शिबिरायैव दुगुरे॥ संशप्तकावशिष्टेन बलेन महात वृतः। सुशार्मापि ययौ राजन् वीक्षमाणो भयार्दितः॥ दुर्योधनोऽपि नृपतिर्हतसर्वस्वबान्धवः। ययौ शोकसमाविष्टश्चिन्तयन् विमना बहु॥ छिन्नध्वजेन शल्यस्तु रथेन रथिनां वरः। प्रययौ शिबिरायैव वीक्षमाणो दिशो दश॥ ततोऽपरे सुबहवो भरतानां महारथाः। प्राद्रवन्त भयत्रस्ता ह्रियाविष्टा विचेतसः॥ असृक् क्षरन्तः सोद्विग्ना रेपमानास्तथातुराः। कुरवो दुद्रुवः सर्वे दृष्ट्वा कर्ण निपातितम्॥ प्रशंसन्तोऽर्जुनं केचित् वेपमानास्तथातुराः। व्यद्रवन्त दिशो भीताः कुरवः कुरुसत्तम॥ तेषां योधसहस्राणांन तावकानां महामृधे। नासीत्तत्र पुमान् कश्चिद् यो युद्धाय मनो दधे।॥ हते कर्णे महाराज निराशाः कुरवोऽभवन्। जीवितेष्वपि राज्येषु दारेषु च धनेषु च॥ तान् समानीय पुत्रस्ते यत्नेन महता विभुः। निवेशाय मनो दघे दुःखशोकसमन्वितः॥ तस्याज्ञां शिरसा योधाः परिगृह्य विशाम्पते। विवर्णवदना राजन् न्यविशन्त महारथाः॥ तान् समानीय पुत्रस्ते यत्नेन महता विभुः। निवेशाय मनो दघे दुःखशोकसमन्वितः॥ तस्याज्ञां शिरसा योधाः परिगृह्य विशाम्पते। विवर्णवदना राजन् न्यविशन्त महारथाः॥ संजय उवाच तथा निपतिते कर्णे परसैन्ये च विद्रुते। आश्लिष्य पार्थ दाशार्हो हर्षाद् वचनमब्रवीत्॥ हतो वज्रभृता वृत्रस्त्वया कर्णो धनंजय। वृत्रकर्णवधं घो कथयिष्यन्ति मानवाः॥ वज्रेण निहतो वृत्र: संयुगे भूरितेजसा। त्वया तु निहतः कर्णो धनुषा निशितैः शरैः॥ तमिमं विक्रमं लोके प्रथितं ते यशस्करम्। निवेदयावः कौन्तेय कुरुराजस्य धीमतः॥ वधं कर्णस्य संग्रामे दीर्घकालचिकीर्षितम्। निवेद्य धर्मराजाय त्वमानृण्यं गमिष्यसि॥ वर्तमाने महायुद्धे तव कर्णस्य चोभयोः। द्रष्टुमायोधनं पूर्वमागतो धर्मनन्दनः॥ भृशं तु गाढविद्धत्वान्नाशकत् स्थातुमाहवे। ततः स शिबिरं गत्वा स्थितवान् पुरुषर्षभः॥ तथेत्युक्तः केशवस्तु पार्थेन यदुपुङ्गवः। पर्यावर्तयदव्यग्रो रथं रथवरस्य तम्॥ एवमुक्त्वार्जुनं कृष्णः सैनिकानिदमब्रवीत्। परानभिमुखा यत्तास्तिष्ठध्वं भद्रमस्तु वः॥ धृष्टद्युम्नं युधामन्युं माद्रीपुत्रौ वृकोदरम्। युयुधानं च गोविन्द इदं वचनमब्रवीत्॥ यावदावेद्यते राज्ञे हतः कर्णोऽर्जुनेन वै। तावद्भवद्भिर्यत्तैस्तु भवितव्यं नराधिपैः॥ स तैः शूरैरनुज्ञातो ययौ राजनिवेशनम्। पार्थमादाय गोविन्दो ददर्श च युधिष्ठिरम्॥ शयानं राजशार्दूलं काञ्चने शयनोत्तमे। अगृह्णीतां च मृदितौ चरणौ पार्थिवस्य तौ॥ तयोः प्रहर्षमालक्ष्य हर्षाश्रूण्यवर्तयत्। राधेयं निहतं मत्वा समुत्तस्थौ युधिष्ठिरः॥ उवाच च महाबाहुः पुनः पुनररिंदमः। वासुदेवार्जुनो प्रेम्णा तावुभौ परिषस्वजे॥ तत् तस्मै तद् यथावृत्तं वासुदेवः सहार्जुनः। कथयामास कर्णस्य निधनं यदुपुङ्गवः॥ ईषदुत्स्मयमानस्तु कृष्णो राजानमब्रवीत्। युधिष्ठिरं हतामित्रं कृताञ्जलिरथाच्युत॥ दिष्ट्या गाण्डीवधन्वा च पाण्डवश्च वृकोदरः। त्वं चापि कुशली राजन् माद्रीपुत्रौ च पाण्डवौ॥ मुक्ता वीरक्षयादस्मात् संग्रामाल्लोमहर्षणात्। क्षिप्रमुत्तरकालानि कुरु कार्याणि पाण्डव॥ हतो वैकर्तनो राजन् सूतपुत्रो महारथः। दिष्ट्या जयसि राजेन्द्र दिष्ट्या वर्धसि भारत॥ यस्तु द्यूतजितां कृष्णां प्राहसत् पुरुषाधमः। तस्याद्य सूतपुत्रस्य भूमिः पिबति शोणितम्॥ शेतेऽसौ शरपूर्णाङ्गः शत्रुस्ते कुरुपुङ्गव। तं पश्य पुरुषव्याघ्र विभिन्नं बहुभिः शरैः॥ हतामित्रामिमामुर्वीमनुशाधि महाभुजा यत्तो भूत्वा सहास्माभिर्भुडक्ष्व भोगांश्च पुष्कलान्॥ २३ संजय उवाच इति श्रुत्वा वचस्तस्य केशवस्य महात्मनः। धर्मपुत्रः प्रहृष्टात्मा दाशार्ह वाक्यमब्रवीत्॥ दिष्ट्या दिष्टेतिराजेन्द्र वाक्यं चेदमुवाच ह। नैतचित्रं महाबाहो त्वयि देवकीन्दन॥ त्वया सारथिना पार्थो यत्नवानहनच तम्। न तचित्रं महाबाहो युष्मबुद्धिप्रसादजम्॥ प्रगृह्य स कुरुश्रेष्ठ सागदं दक्षिणं भुजम्। उवाच धर्मभृत् पार्थ उभौ तौ केशवार्जुनौ॥ नरनारायणौ देवौ कथितौ नारदेन मे। धर्मात्मानौ महात्मानौ पुराणावृषित्तमौ॥ अन्ये च बहवः शूरा असकृचापि मेधावी कृष्णद्वैपायनो मम। कथामेतां महाभाग कथयामास तत्त्ववित्॥ तव कृष्ण प्रसादेन पाण्डवोऽयं धनंजयः। जिगायाभिमुखः शत्रून् न चासीद् विमुखः क्वचित्॥ जयश्चैव ध्रुवोऽस्माकं न त्वस्माकं पराजयः। यदा त्वं युधि पार्थस्य सारथ्यमुपजग्मिवान्॥ भीष्मो द्रोणश्च कर्णश्च महात्माः गौतमः कृपः। ये च तेषां पदानुगाः॥ त्वबुद्ध्या निहते कर्णे हता गोविन्द सर्वथा। इत्युक्त्वा धर्मराजस्तु रथं हेमविभूषितम्॥ श्वेतवर्णैर्हयैर्युक्तं कालवालैर्मनोजवैः। आस्थाय पुरुषव्याघ्रः स्वबलेनाभिसंवृत्तः॥ प्रययौ स महाबाहुर्रेष्टुमायोधनं तदा। कृष्णार्जुनाभ्यां वीराभ्यामनुमन्त्र्य ततः प्रियम्॥ आभाषमाणस्तौ वीराबुभौ माधवफाल्गुनौ। स ददर्श रणे कर्णं शयानं पुरुषर्षभम्॥ यथा कदम्बकुसुमं केसरैः सर्वतो वृतम्। चितं शरशतैः कर्णं धर्मराजो ददर्श सः॥ गन्धतैलावसिक्ताभिः काञ्चनीभिः सहस्रशः। दीपिकाभिः कृतोद्योतं पश्यते वै वृतं तदा।॥ संछिन्नभिन्नकवचं बाणैश्च विदलीकृतम्। सपुत्रं निहतं दृष्ट्वा कर्णं राजा युधिष्ठिरः॥ संजातप्रत्ययोऽतीव वीक्ष्य चैवं पुनः पुनः। प्रशशंस नरव्याघ्राबुभौ माधवपाण्डवौ॥ अद्य राजास्मि गोविन्द पृथिव्यां भ्रातृभिः सह। त्वया नाथेन वीरेण विदुषा परिपालितः॥ हतं श्रुत्वा नरव्याघ्र राधेयमतिमानिनम्। निराशोऽद्य दुरात्मासौ धार्तराष्ट्रो भविष्यति॥ जीविते चैव राज्ये च हते राधात्मजे रणे। त्वत्प्रसादाद् वयं चैव कृतार्थाः पुरुषर्षभ॥ दिष्ट्या जयसि गोविन्द दिष्ट्या शत्रुर्निपातितः। दिष्ट्या गाण्डीवधन्वा च विजयी पाण्डुनन्दनः॥ त्रयोदश समास्तीर्णा जागरेण सुदुःखिताः। स्वप्स्यामोऽद्य सुखं रात्रौ त्वत्प्रसादान्महाभुज॥ संजय उवाच एवं च बहुशो राजा प्रशशंस जनार्दनम्। अर्जुनं च कुरुश्रेष्ठं धर्मराजो युधिष्ठिरः॥ दृष्ट्वा च निहतं कर्णं सपुत्रं पार्थसायकैः। पुनर्जातमिवात्मानं मेने च स महीपतिः॥ समेत्य च महाराज कुन्तीपुत्रं युधिष्ठिरम्। हर्षयन्ति स्म राजानं हर्षयुक्ता महारथाः॥ नकुलः सहदेवश्च पाण्डवश्च वृकोदरः। सात्यकिश्च महाराज वृष्णीनां प्रवरो रथः॥ धृष्टद्युम्नः शिखण्डी च पाण्डुपाञ्चालसृञ्जयाः) पूजयन्ति स्म कौन्तेयं निहते सूतनन्दने॥ ते वर्धयित्वा नृपतिं धर्मात्मानं युधिष्ठिरम्। जितकाशिनो लब्धलक्ष्या युद्धशौण्डा: प्रहारिणः॥ स्तुवन्तः स्तवयुक्ताभिर्वाग्भिः कृष्णौ परंतपौ। जग्मुः स्वशिबिरायैव मुदाः युक्ता महारथाः॥ एवमेष क्षयो वृत्तः सुमहाँल्लोमहर्षणः। तव दुर्मन्त्रिते राजन् किमर्थमनुशोचसि॥ वैशम्पायन उवाच श्रुत्वैतदप्रियं राजा धृतराष्ट्रोऽम्बिकासुतः। पपात भूमौ निश्चेष्टश्छिन्नमूल इव द्रुमः॥ तथा सा पतिता देवी गान्धारी दीर्घदर्शिनी। शुशोच बहुलालापैः कर्णस्य निधनं युधि॥ तां पर्यगृह्णाद् विदुरो नृपतिं संजयस्तथा। पर्याश्वासयतां चैव तावुभावेव भूमिपम्॥ तथैवोत्थापयामासुर्गान्धारी कुरुयोषितः। स दैवं परमं मत्वा भवितव्यं च पार्थिवः॥ परां पीडां समाश्रित्य नष्टचित्तो महातपाः। चिन्ताशोकपरीतात्मा न जज्ञे मोहपीडितः। स समाश्वासितो राजा तूष्णीमासीद् विचेतनः॥ श्रवणमहिमा र्धनञ्जयस्याधिरथेश्च यः पठेत्। स सम्यगिष्टस्य मुखस्य यत् फलं तदाप्नुयात् संश्रवणाच भारत॥ मखो हि विष्णुर्भगवान् सनातनो वदन्ति तचाग्न्यनिलेन्दुभानवः! अतोऽनसूयुः शृणुयात् पठेच यः स सर्वलोकानुचरः सुखी भवेत्॥ तां सर्वदा भक्तिमुपागता नरा: पठन्ति पुण्यां वरसंहितामिमाम्। धनेन धान्येन यशसा च मानुषा नन्दन्ति ते नात्र विचारणास्ति॥ अतोऽनसूयुः शृणुयात् सदा तु वै नरः स सर्वाणि सुखानि चाप्नुयात्। विष्णुः स्वयंभूर्भगवान् भवश्च तुष्यन्ति ते तस्य नरोत्तमस्य॥ वेदावाप्तिाह्मणस्येह दृष्टा रणे बलं क्षत्रियाणां जयो युधि। धनज्येष्ठाश्चापि भवन्स् िवैश्या: शूद्राऽऽरोग्यं प्राप्नुवन्तीह सर्वे॥ तथैव विष्णुर्भगवान् सनातनः स चात्र देवः परिकीर्त्यते यतः। ततः स कामाँल्लभते सुखी नरो महामुनेस्तस्य वचोऽर्चितं यथा॥ कपिलानां सवत्सानां वर्षमेकं निरन्तरम्। यो दद्यात् सुकृतं तद्धि श्रवणात् कर्णपर्वणः॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवी सरस्वतीं व्यासं ततो जयमुदीरयेत्।। जनमेजय उवाच एवं निपातिते कर्णे समरे सव्यसाचिना। अल्पावशिष्टाः कुरवः किमकुर्वत वै द्विज॥ उदीर्यमाणं च बलं दृष्ट्वा राजा सुयोधनः। पाण्डवैः प्राप्तकालं च किं प्रापद्यत कौरवः॥ एतदिच्छाम्यहं श्रोतुं तदाचक्ष्व द्विजोत्तम। न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्॥ वैशम्पायन उवाच ततः कर्णे हते राजन् धार्तराष्ट्रः सुयोधनः। भृशं शोकार्णवमग्नो निराशः सर्वतोऽभवत्॥ हा कर्ण हा कर्ण इति शोचमानः पुनः पुनः। कृच्छ्रात् स्वशिबिरं प्राप्तो हतशेषैःनृपैः सह॥ स समाश्वास्यमानोऽपि हेतुभिः शास्त्रनिश्चितैः। राजभि लभच्छर्म सूतपुत्रवधं स्मरन्॥ स दैवं बलवन्मत्वा भवितव्यं च पार्थिवः। संग्रामे निश्चयं कृत्वा पुनर्युद्धाय निर्ययौ॥ शल्यं सेनापतिं कृत्वा विधिवद् राजपुङ्गवः। रणाय निर्ययौ राजा हतशैषैर्नृपैः सह॥ ततः सुतुमुलं युद्धं कुरुपाण्डवसेनयोः। बभूव भरतश्रेष्ठ देवासुररणोपमम्॥ ततः शल्यो महाराज कृत्वा कदनमाहवे। ससैन्योऽथ स मध्याह्ने धर्मराजेन घातितः॥ ततो दुर्योधनो राजा हतबन्यू रणाजिरात्। अपसृत्य ह्रदं घोरं विवेश रिपुजाद् भयात्॥ अथापराह्ने तस्याह्नः परिवार्य सुयोधनः। ह्रदादाहूय युद्धाय भीमसेनेन पतितः॥ तस्मिन् हते महेष्वासे हतशिष्टास्त्रयो रथाः। संरम्भान्निशि राजेन्द्र जघ्नुः पाञ्चालसोमकान्॥ ततः पूर्वाह्नसमये शिबिरादेत्य संजयः। प्रविवेश पुरीं दीनो दुःखशोकसमन्वितः॥ स प्रविश्य पुरीं सूतो भुजावुच्छ्रित्य दुखितः। वेपमानस्ततो राज्ञः प्रविवेश निकेतनम्॥ रुरोद च नरव्याघ्रं हा राजनिति दुखितः। अहो बत विनष्टाः स्म निधनेन महात्मनः॥ विधिश्च बलवानत्र पौरुषं तु निरर्थकम्। शक्रतुल्यबलाः सर्वे यथावध्यन्त पाण्डवैः॥ दृष्ट्वैव च पुरे राजञ्जन: सर्वः स संजयम्। केशेन महता युक्तं सर्वतो राजसत्तम॥ रुरोद च भृशोद्विग्नो हा राजनिति विस्वरम्। आकुमारं नरव्याघ्र तत्र तत्र समन्ततः॥ आर्तनादं ततश्चक्रे श्रुत्वा विनिहतं नृपम्। धावतश्चाप्यपश्यामस्तत्र तान् पुरुषर्षभान्॥ नष्टचित्तानिवोन्मत्ताशोकेन भृशपीडितान्। तथा स विह्वलः सूतः प्रविश्य नृपतिक्षयम्॥ ददर्श नृपतिश्रेष्ठं प्रज्ञाचक्षुषमीश्वरम्। तथा चासीनमनघं समन्तात् परिवारितम्॥ स्नुषाभिर्भरतश्रेष्ठ गान्धार्या विदुरेण च। तथान्यैश्च सुहृद्धिश्च ज्ञातिभिश्च हितैषिभिः॥ तमेव चार्थं ध्यायन्तं कर्णस्य निधनं प्रति। रुदन्नेवाब्रवीद् वाक्यं राजानं जनमेजय॥ नातिहष्टमना: सूतो वाक्यसंदिग्धया गिरा। संजयोऽहं नरव्याघ्र नमस्ते भरतर्षभ॥ मद्राधिपो हतः शल्यः शकुनिः सौबलस्तथा। उलूकः पुरुषव्याघ्र कैतव्यो दृढविक्रमः॥ संशप्तका हताः सर्वे काम्बोजाश्च शकैः सहा म्लेच्छाश्च पर्वतीयाश्च यवना विनिपातिताः॥ प्राच्या हता महाराज दाक्षिणात्याश्च सर्वशः। उदीच्याश्च हताः सर्वे प्रतीच्याच नरोत्तमाः॥ राजानो राजपुत्राश्च सर्वे ते निहता नृप। दुर्योधनो हतो राजा यथोक्तं पाण्डवेन ह॥ भग्नसक्तो महाराज शेते पांसुषु रूषितः। धृष्टद्युम्नो महाराज शिखण्डी चापराजितः॥ उत्तमौजा युधामन्युस्तथा राजन् प्रभद्रकाः। पाञ्चालाश्च नरव्याघ्र चेदयश्च निषूदिताः॥ तव पुत्रा हताः सर्वे द्रौपदेयाश्च भारत। कर्णपुत्रो हतः शूरो वृषसेनः प्रतापवान्॥ नरा विनिहताः सर्वे गजाश्च विनिपातिताः। रथिनश्च नरव्याघ्र हयाश्च निहता युधि॥ किञ्चिच्छेषं च शिबिरं तावकानां कृतं प्रभो। पाण्डवानां कुरूणां च समासाद्य परस्परम्॥ प्राय: स्त्रीशेषमभवजगत् कालेन मोहितम्। सप्त पाण्डवतः शेषा धार्तराष्ट्रस्त्रयो रथाः॥ ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः। कृपश्च कृतवर्मा च द्रौणिश्च जयतां वरः॥ तथाप्येते महाराज रथिनो नृपसत्तम। अक्षौहिणीनां सर्वासां समेतानां जनेश्वर॥ एते शेषा महाराज सर्वेऽन्ये निधनं गताः। कालेन निहतं सर्वं जगद् वै भरतर्षभ॥ दुर्योधनं वै पुरतः कृत्वा वैरं च भारत। वैशम्पायन उवाच एतच्छुत्वा वचः क्रूरं धृतराष्ट्रा जनेश्वरः॥ निपपात स राजेन्द्रो गतसत्त्वो महीतले। तस्मिन् निपतिते भूमौ विदुरोऽपि महायशाः॥ निपपात महाराज शोकव्यसनकर्षितः। गान्धारी च नृपश्रेष्ठ सर्वांश्च कुरुयोषितः॥ पतिताः सहसा भूमौ श्रुत्वा क्रूरं वचस्तदा। नि:सज्ञं पतितं भूमौ तदासीद् राजमण्डलम्॥ प्रलापयुक्तं महति चित्रन्यस्तं पटे यथा। कृच्छ्रेण तु ततो राजा धृतराष्ट्रो महीपतिः॥ शनैरलभत प्राणान् पुत्रव्यसनकर्शितः। लम्वा तु स नृपः संज्ञा वेपमानः सुदुःखितः॥ उदीक्ष्य च दिशः सर्वाः क्षत्तारं वाक्यमब्रवीत्। विद्वन् क्षत्तर्महाप्राज्ञ त्वं गतिर्भरतर्षभ॥ ममानाथस्य सुभृशं पुत्रैर्हीनस्य सर्वशः। एवमुक्त्वा ततो भूयो विसंज्ञो निपपात ह॥ तं तथा पतितं दृष्ट्वा बान्धवा येऽस्य केचन। शीतैस्ते सिषिचुस्तोयैर्विव्यजुर्व्यजनैरपि॥ स तु दीर्घेण कालेन प्रत्याश्वस्तो नराधिपः। तूष्णीं दध्यौ महीपाल: पुत्रव्यसनकर्शितः॥ निःश्वसञ्जिह्मग इव कुम्भक्षिप्तो विशाम्पते। संजयोऽप्यरुदत् तत्र दृष्ट्वा राजानमातुरम्॥ तथा सर्वाः स्त्रियश्चैव गान्धारी च यशस्विनी। ततो दीर्पण कालेन विदुरं वाक्यमब्रवीत्॥ धृतराष्ट्रो नरश्रेष्ठ मुह्यमानो मुहुर्मुहुः। गच्छन्तु योषितः सर्वा गान्धारी च यशस्विनी॥ तथेमे सुहृदः सर्वे भ्राम्यते मे मनो भृशम्। एवमुक्तस्ततः क्षत्ता ताः स्त्रियो भरतर्षभ॥ विसर्जयामास शनैर्वेपमानः पुनः पुनः। निश्चक्रमुस्ततः सर्वाः स्त्रियो भरतसत्तम।॥ सर्वे दृष्ट्वा राजानमातुरम्। सुहृदश्च तथा ततो नरपतिं तत्र लब्धसंज्ञं परंतप॥ अवैक्षत् संजयो दीनं रोदमानं भृशातुरम्। प्राञ्जलिर्निश्वसन्तं च तं नरेन्द्रं मुहुर्मुहुः। समाश्वासयत क्षत्ता वचसा मधुरेण च॥ वैशम्पायन उवाच विसृष्टास्वथ नारीषु धृतराष्ट्रोऽम्बिकासुतः। विललाप महाराज दुःखाद् दुःखान्तरं गतः॥ सधूममिव निःश्वस्य करौ धुन्वन् पुनः पुनः। विचिन्त्य च महाराज वचनं चेदमब्रवीत्॥ धृतराष्ट्र उवाच अहो बत महद् दुःखं यदहं पाण्डवान् रणे। क्षेमिणश्चाव्ययांश्चैव त्वत्त: सूत शृणोमि वै॥ वज्रसारमयं नूनं हृदयं सुदृढं मम। यच्छुत्वा निहतान् पुत्रान् दीर्यते न सहस्रधा॥ चिन्तयित्वा वयस्तेषां बालक्रीडां च संजय। हतान् पुत्रानशेषेण दीर्यते मे भृशं मनः॥ अनेत्रत्वाद् यदेतेषां न मे रूपनिदर्शनम्। पुत्रस्नेहकृता प्रीतिर्नित्यमेतेषु धारिता॥ बालभावमतिक्रम्य यौवनस्थांश्च तानहम्। मध्यप्राप्तांस्तथा श्रुत्वा हृष्ट आसं तदानघ॥ तानद्य निहतान् श्रुत्वा हतैश्वर्यान् हतौजसः। न लभेयं क्वचिच्छान्तिं पुत्राधिभिरभिप्लुतः॥ एह्येहि पुत्र राजेन्द्र ममानाथस्य साम्प्रतम्। त्वया हीनो महाबाहो का नु यास्याम्यहं गतिम्॥ कथं त्वं पृथिवीपालांस्त्यक्त्वा तात समागतान्। शेषे विनिहतो भूमौ प्राकृतः कुनृपो यथा।॥ गतिर्भूत्वा महाराज ज्ञातीनां सुहृदां तथा। अन्धं वृद्धं च मां वीर विहाय क्क नु यास्यसि॥ सा कृपा सा च ते प्रीतिः क्क सा राजन् सुमानिता। कथं विनिहतः पार्थैः संयुगेष्वपराजितः॥ को नु मामुत्थितं वीर तात तातेति वक्ष्यति। महाराजेति सततं लोकनाथेति तासकृत्॥ परिष्वज्य च मां कण्ठे स्नेहेन किन्नलोचनः। अनुशाधीति कौरव्य तत् साधु वद मे वचः॥ ननु नामाहमश्रौषं वचनं तव पुत्रका भूयसी मम पृथ्वीयं यथा पार्थस्य नो तथा॥ भगदत्तः कृपः शल्य आवन्त्योऽथ जयद्रथः। भूरिश्रवाः सोमदत्तो महाराजश्च बाह्निकः॥ अश्वत्थामा च भोजश्च मागधश्च महाबलः। बृहद्वलश्च क्राथश्च शकुनिश्चापि सौबलः॥ म्लेच्छश्च शतसाहस्राः शकाश्च: यवनैःसह। सुदक्षिणश्च काम्बोजस्त्रिगलाधिपतिस्तथा॥ भीष्मः पितामहश्चैव भारद्वाजोऽथ गौतमः। श्रुतायुश्चायुतायुश्च शतायुश्चापि वीर्यवान्॥ जलसन्धोऽथार्थ्यशृङ्गी राक्षसश्चाप्यलायुधः। अलम्बुषो महाबाहुः सुबाहुश्च महारथः॥ एते चान्ये च बहवो राजानो राजसत्तम। मदर्थमुद्यताः सर्वे प्राणांस्त्यक्त्वा धनानि च।२१।। तेषां मध्ये स्थितो युद्धे भ्रातृभिः परिवारितः। योधयिष्याम्यहं पार्थान् पञ्चालांश्चैव सर्वशः॥ चेदींश्च नृपशार्दूल द्रौपदेयांश्च संयुगे। सात्यकिं कुन्तिभोजं च राक्षसं च घटोत्कचम्॥ एकोऽप्येषां महाराज समर्थः संनिवारणे। समरे पाण्डवेयानां संक्रुद्धो ह्यभिधावताम्॥ किं पुनः सहिता वीराः कृतवैराश्च पाण्डवैः। अथवा सर्व एवैते पाण्डवस्यानुयायिभिः॥ योत्स्यन्ते सह राजेन्द्र हनिष्यन्ति च तान् मृघे। कर्ण एको मया सार्धं निहनिष्यति पाण्डवान्॥ ततो नृपतयो वीराः स्थास्यन्ति मम शासने। यश्च तेषां पणेता वै वासुदेवो महाबलः ॥ न स संनह्यते राजनिति मामब्रवीद् वचः। तस्याथ वदतः सूत बहुशो मम संनिधौ।॥ शक्तितो हुनुपस्यामि निहतान् पाण्डवान् रणे। तेषां मध्ये स्थिता यत्र हन्यन्ते मम पुत्रकाः॥ व्यायच्छमानाः समरे किमन्यद् भागधेयतः। भीष्मश्च निहतो यत्र लोकनाथः प्रतापबान्॥ शिखण्डिनं समासाद्य मृगेन्द्र इव जम्बुकम्। द्रोणश्च ब्राह्मणो यत्र सर्वशस्त्रास्त्रपारगः॥ निहतः पाण्डवैः संख्ये किमन्यद् भागधेयतः। कर्णश्च निहतं संख्ये दिव्यास्त्रज्ञो महाबलः॥ भूरिश्रवा हतो यत्र सोमदत्तश्च संयुगे। बाह्निकश्च महाराजः किमन्यद् भागधेयतः॥ भगदत्तो हतो यत्र गजयुद्धविशारदः। जयद्रथश्च निहतः किमन्यद् भादधेयतः॥ सुदक्षिणो हतो यत्र जलसन्धश्च पौरवः। श्रुतायुश्चायुतायुश्च किमन्यद् भागधेयतः॥ महाबलस्तथा पाण्डयः सर्वशस्त्रभृतां वरः। निहतः पाण्डवैः संख्ये किमन्यद् भागधेयतः॥ बृहद्वलो हतो यत्र मागधश्च महाबलः। उग्रायुधश्च विक्रान्तः प्रतिमानं धनुष्मताम्॥ आवन्त्यो निहतो यत्र त्रैगर्तश्च जनाधिपः। संशप्तकाश्च निहताः किमन्यद् भागधेयतः॥ अलम्बुषो महाशूरो राक्षसश्चाप्यलायुधः। आर्थ्यशृङ्गिश्च निहत: किमन्यद् भागधेयतः॥ नारायणा हता यत्र गोपाला युद्धदुर्मदाः। म्लेच्छाश्च बहुसाहस्रा: किमन्यद् भागधेयतः॥ शकुनिः सौबलो यत्र कैतव्यश्च महाबलः। निहत: सबलो वीरः किमन्यद् भागधेयतः॥ एते चान्ये च बहवः कृतास्त्रा युद्धदुर्मदाः। राजानो राजपुत्राश्च शूराः परिघबाहवः॥ निहता बहवो यत्र किमन्यद् भागधेयतः। यत्र शूरा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः॥ बहवो निहता: सूत महेन्द्रसमविक्रमाः। नानादेशसमावृत्ताः क्षत्रिया यत्र संजय॥ निहताः समरे सर्वे किमन्यद् भागधेयतः। पुत्राश्च मे विनिहताः पौत्राश्चैव महाबलाः॥ वयस्या भ्रातरश्चैव किमन्यद् भागधेयतः। भागधेयसमायुक्तो ध्रुवमुत्पद्यते नरः॥ यस्तु भाग्यसमायुक्तः स शुभं प्राप्नुयान्नरः। अहं वियुक्तस्तैर्भाग्यैः पुत्रैश्चैवेह संजय॥ कथमद्य भविष्यामि वृद्धः शत्रुवशं गतः। नान्यदत्र परं मन्ये वनवासादृते प्रभो॥ सोऽहं वनं गमिष्यामि निर्बधुओतिसंक्षये। न हि मेऽन्यद् भवेच्छेयो वनाभ्युपगमादृते॥ इमामवस्थां प्राप्तस्य लूनपक्षस्य संजय। दुर्योधनो हतो यत्र शल्यश्च निहतो युधि॥ दुःशासनो विविंशश्च विकर्णश्च महाबलः। कथं हि भीमसेनस्य श्रोष्येऽहं शब्दमुत्तमम्॥ एकेन समरे येन हतं पुत्रशतं मम। असकृद्वदतस्तस्य दुर्योधनवधेन च॥ दुःखशोकाभिसंतप्तो न श्रोष्ये परुषा गिरः। वैशम्पायन उवाच एवं वृद्धश्च संतप्तः पार्थिवो हतबान्धवः॥ मुहुर्मुहुर्मुह्यमानः पुत्रादिभिरभिप्लुतः। विलप्य सुचिरं कालं धृतराष्ट्रोऽम्बिकासुतः॥ दीर्घमुष्णं स निःश्वस्य चिन्तयित्वा पराभवम्। दुःखेन महता राजन् संतप्तो भरतर्षभः॥ पुनर्गावल्गणिं सूतं पर्यपृच्छद् यथातथम्। धृतराष्ट्र उवाच भीष्मद्रौणौ हतौ श्रुत्वा सूतपुत्रं च घातितम्॥ सेनापति प्रणेतारं किमकुर्वत मामकाः। यं यं सेनाप्रणेतारं युधि कुर्वन्ति मामकाः॥ अचिरेणैव कालेन तं तं निघ्नन्ति पाण्डवाः। रणमूर्ध्नि हतो भीष्मः पश्यतां वः किरीटिना॥ एवमेव हतो द्रोणः सर्वेषामेव पश्यताम्। एवमेव हतः कर्णः सूतपुत्रः प्रतापवान्॥ स राजकानां सर्वेषां पश्यतां वः किरीटिना। पूर्वमेवाहमुक्तो वै विदुरेण महात्मना॥ दुर्योधनापराधेन प्रजेयं विनशिष्यति। केचिन्न सम्यक् पश्यन्ति मूढाः सम्यगवेक्ष्य च। तदिदं मम मूढस्य तथाभूतं वचः स्म तत्॥ यदब्रवीत् स धर्मात्मा विदुरो दीर्घदर्शिवान्। तत्तथा समनुप्राप्तं वचनं सत्यवादिनः॥ दैवोपहतचित्तेन यन्मया न कृतं पुरा। अनयस्य फलं तस्य ब्रूहि गावल्गणे पुनः॥ को वा मुखमनीकानामासीत् कर्णे निपातिते। अर्जुनं वासुदेवं च को वा प्रत्युद्ययौ रथी॥ केऽरक्षन् दक्षिणं चक्रं मद्रराजस्य संयुगे। वामं च योद्धुकामस्य के वा वीरस्य पृष्ठतः॥ कथं च वः समेतानां मद्रराजो महारथः। निहतः पाण्डवैः संख्ये पुत्रो वा मम संजय॥ ब्रूहि सर्वं यथातत्त्वं भरतानां महाक्षयम्। यथा च निहतः संख्ये पुत्रो दुर्योधनो मम॥ पञ्चालानां यथा सर्वे निहताः सपदानुगाः। धृष्टद्युम्नः शिखण्डी च द्रौपद्याः पञ्च चात्मजाः॥ पाण्डवाश्च यथा मुक्तास्तथोभौ माधवौ युधि। कृपश्च कृतवर्मा च भारद्वाजस्य चात्मजः॥ यद् यथा यादृशं चैव युद्धं वृत्तं च साम्प्रतम्। अखिलं श्रोतुमिच्छामि कुशलो ह्यसि संजय॥ संजय उवाच पतितान् रथनीडांश्च रथांश्चापि महात्मनाम्। रणे च निहतान् नागान् दृष्ट्वा पत्तींश्च मारिष॥ आयोधनं चातिघोरं रुद्रस्याक्रीड संनिभम्। अप्रख्याति गतानां तु राज्ञां शतसहस्रशः॥ विमुखे तव पुत्रे तु शोकोपहतचेतसि। भृशोद्विग्नेषु सैन्येषु दुःखं पार्थस्य विक्रमम्॥ ध्यायमानेषु सैन्येषु दुःखं प्राप्तेषु भारत! बलानां मथ्यमानानां श्रुत्वा निनदमुत्तमम्॥ अभिज्ञानं नरेन्द्राणां विक्षतं प्रेक्ष्य संयुगे। कृपाविष्टः कृपो राजन् वयः शीलसमन्वितः॥ अब्रवीत् तत्र तेजस्वी सोऽभिसृत्य जनाधिपम्। दुर्योधनं मन्युवशाद् वाक्यं वाक्यविशारदः॥ दुर्योधन निबोधेदं यत् त्वां वक्ष्यामि कौरव। श्रुत्वा कुरु महाराज यदि ते रोचतेऽनघ॥ न युद्धधर्माच्छेयान् वै पन्था राजेन्द्र विद्यते। यं समाश्रित्य युद्ध्यन्ते क्षत्रियाः क्षत्रियर्षभ॥ पुत्रो भ्राता पिता चैव स्वस्रीयो मातुलस्तथा। सम्बन्धिबान्धवाश्चैव योद्ध्या वै क्षत्रजीविना॥ वधे चैव परो धर्मस्तथाधर्मः पलायने। ते स्म घोरां समापन्ना जीविका जीवितार्थिनः॥ तदत्र प्रतिवक्ष्यामि किंचिदेव हितं वचः। हते भीष्मे च द्रोणे च कर्णे चैव महारथे॥ जयद्रथे च निहते तव भ्रातृषु चनाघ! लक्ष्मणे तव पुत्रे च किं शेषं पर्युपासते॥ येषु भारं समासाद्य राज्ये मतिमकुर्महि। ते संत्यज्य तनूर्याताः शूरा ब्रह्मविदां गतिम्॥ वयं त्विह विना भूता गुणवद्भिर्महारथैः। कृपणं वर्तयिष्याम पातयिता नृपान् बहून्।१४।। सर्वैरथ च जीवद्भिभित्सुरापराजितः। कृष्णनेत्रो महाबाहुर्देवैरपि दुरासदः॥ इन्द्रकार्मुकतुल्याभमिन्द्रकेतुमिवोच्छ्रितम्। निरं केतुमासाद्य संचचाल महाचमूः॥ सिंहनादाच भीमस्य पाञ्चजन्यस्वेनन च। गाण्डीवस्य च निर्घोषात् सम्मुह्यन्ते मनांसि नः॥ चरन्तीव महाविद्युन्मुष्णन्ती नयनप्रभाम्। अलातमिव चाविद्धं गाण्डीवं समदृश्यत॥ जाम्बूनदविचित्रं च धूयमानं महद् धनुम्। दृश्यते दिक्षु सर्वासु विद्युदभ्रघनेष्विव॥ श्वेताश्च वेगसम्पन्ना शशिकाशसमप्रभाः। पिबन्त इव चाकाशं रथे युक्तान्तु वाजिनः॥ उह्यमानांश्च कृष्णेन वायुनेव बलाहकाः। जाम्बूनदविचित्राङ्गा वहन्ते चार्जुनं रणे॥ तावकं तद् बलं राजनर्जुनोऽस्त्रविशारदः। गहनं शिशिरापाये ददाहाग्निरिवोल्बणः॥ गाहमानमनीकानि महेन्द्रसदृशप्रभम्। धनंजयमपश्याम चतुर्दष्ट्रमिव द्विपम्॥ विक्षोभयन्तं सेनां ते त्रासयन्तं च पार्थिवान्। धनंजयमपश्याम नलिनीमिव कुञ्जरम्॥ त्रासयन्तं तथा योधान् धनुघोषेण पाण्डवम्। भूय एनमपश्याम सिंह मृगगणानिव॥ सर्वलोकमहेष्वासौ वृषभौ सर्वधन्विनाम्। आमुक्तकवचौ कृष्णौ लोकमध्ये विचेरतुः॥ अद्य सप्तदशाहानि वर्तमानस्य भारत। संग्रामस्यातिघोरस्य वध्यतां चाभितो युधि॥ ते वायुनेव विधूतानि तव सैन्यानि सर्वतः। शरदम्भोदजालानि व्यशीर्यन्त समन्ततः॥ तां नावमिव पर्यस्ता वातधूतां महार्णवे। तव सेनां महाराज सव्यसाची व्यकम्पयत्॥ क्व नु ते सूतपुत्रोऽभूत् क्व न द्रोण: सहानुगः। अहं क्व च क्व चात्मा ते हादिक्यश्च तथा क्व नु॥ दुःशासनश्च भ्राता भ्रातृभिः सहितः क्व नु। बाणगोचरसम्प्राप्तं प्रेक्ष्य चैव जयद्रथम्॥ सम्बन्धिनस्ते भ्रातूंश्च सहायान् मातुलांस्तथा। सर्वान् विक्रम्य मिषतो लोकमाक्रस्य मूर्धनि।॥ जयद्रथो हतो राजन्किं नु शेषमुपास्महे। को हीह स पुमानस्ति यो विजेष्यति पाण्डवम्॥ तस्य चास्त्राणि दिव्यानि विविधानि महात्मनः। गाण्डीवस्य न निर्घोषो धैर्याणि हरते हि नः॥ नष्टचन्द्रा यथा रात्रि: सेनेयं हतनायका। नागभग्नद्रुमा शुष्का नदीवाकुलतां गता॥ ध्वजिन्यां हतनेत्रायां यथेष्टं श्वेतवाहनः। चरिष्यति महाबाहुः कक्षेष्वग्निरिव ज्वलन्॥ सात्यकेश्चैव यो वेगो भीमसेनस्य चोभयोः। दारयेच गिरीन् सर्वाशोषयेचैव सागरान्॥ उवाच वाक्यं यद् भीमः सभामध्ये विशाम्पते। कृतं तत् सफलं तेन भूयश्चैव करिष्यति॥ प्रमुखस्थे तदा कर्णे बलं पाण्डवरक्षितम्। दुरासदं तदा गुप्तं व्यूढं गाण्डीवधन्वना॥ युष्माभिस्तानि चीर्णानि यान्यसाधूनि साधुषु। अकारणकृतान्येव तेषां वः फलमागतम्॥ आत्मनोऽर्थे त्वया लोको यत्नतः सर्व आहृतः। स ते संशायितस्तात आत्मा वै भरतर्षभ॥ रक्ष दुर्योधनात्मानमात्मा सर्वस्य भाजनम्। भिन्ने हि भाजने तात दिशो गच्छति तद्गतम्॥ हीयमानेन वै सन्धिः पर्येष्टव्यः समेन वा। विग्रहो वर्धमानेन मतिरेषा बृहस्पतेः॥ ते वयं पाण्डुपुत्रेभ्यो हीना स्म बलशक्तितः। तदत्र पाण्डवैः सार्धं सन्धिं मन्ये क्षमं प्रभो॥ न जानीते हि यः श्रेयः श्रेयसश्चावमन्यते। स क्षिप्रं भ्रश्यते राज्यान च श्रेयोऽनुविन्दते॥ प्रणिपत्य हि राजानं राज्यं यदि लभेमहि। श्रेयः स्यान्न तु मौढ्येन राजन् गन्तुः पराभवम्॥ वैचित्रवीर्यवचनात् कृपाशीलो युधिष्ठिरः। विनियुञ्जीत राज्ये त्वां गोविन्दवचनेन त॥ यद् ब्रूयाद्धि हृषीकेशो राजानमपराजितम्। अर्जुनं भीमसेनं च सर्वे कुर्यरसंशयम्॥ नातिक्रमिष्यते कृष्णो वचनं कौरवस्य तु। धृतराष्ट्रस्य मन्येऽहं नापि कृष्णस्य पाण्डवः॥ एतत् क्षेममहं मन्ये न च पार्थेश्च विग्रहम्। न त्वां ब्रवीमि कार्पण्यान प्राणपरिरक्षणात्॥ पथ्यं राजन् ब्रवीमि त्वां तत्परासुः स्मरिष्यसि। इति वृद्धो विलप्यैतत् कृपः शारद्वतो वचः। दीर्घमुष्णं च निःश्वस्य शुशोच च मुमोह च॥ संजय उवाच अथ हैमवते प्रस्थे स्थित्वा युद्धाभिनन्दिनः। सर्व एव महायोधास्तत्र तत्र समागताः॥ शल्यश्च चित्रसेनश्च शकुनिश्च महारथः। अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः॥ सुषेणोऽरिष्टसेनश्च धृतसेनश्च वीर्यवान्। जयत्सेनश्च राजानस्ते रात्रिमुषितास्ततः॥ रणे कर्णे हते वीरे त्रासिता जितकाशिभिः। नालभशर्म ते पुत्रा हिमवन्तमृते गिरिम्॥ तेऽब्रुवन् सहितास्तत्र राजानं शल्यसंनिधौ। कृतयत्ना रणे राजन् सम्पूज्य विधिवत्तदा॥ कृत्वा सेनाप्रणेतारं परांस्त्वं योद्भुमर्हसि। येनाभिगुप्ता: संग्रामे जयेमासुहृदो वयम्॥ ततो दुर्योधनः स्थित्वा रथे रथवरोत्तमम्। सर्वयुद्धविभावज्ञमन्तकप्रतिमं युधि॥ स्वङ्गं प्रच्छन्नशिरसं कम्बुग्रीवं प्रियंवदम्। व्याकोशपद्मपत्राक्षं व्याघ्रास्यं मेरुगौरवम्॥ स्थाणोवृषस्य सदृशं स्कन्धनेत्रगतिस्वरैः। पुष्टश्लिष्टायतभुजं सुविस्तीर्णवरोरसम्॥ बले जवे च सदृशमरुणानुजवातयोः। आदित्यस्यार्चिषा तुल्यं बुद्ध्या चोशनसा समम्॥ कान्तिरूयमुखैश्वर्यस्त्रिभिश्चन्द्रमसा समम्। काञ्चनोपलसंघातैः सदृशं श्लिष्टसंधिकम्॥ सुवृत्तोरुकटीजङ्घ सुपादं स्वङ्गुलीनखम्। स्मृत्वा स्मृत्वैव तु गुणान् धात्रा यत्नाद् विनिर्मितम्।। सर्वलक्षणसम्पन्नं निपुणं श्रुतिसागरम्। जेतारं तरसारीणामजेयमरिभिर्बलात्॥ दशाङ्गं यश्चतुष्पादमिष्वस्त्रं वेद तत्त्वतः। साङ्गांस्तु चतुरो वेदान् सम्यगाख्यानपञ्चमान्॥ आराध्य त्र्यम्बकं यत्नाद् व्रतैरुपैर्महातपाः। अयोनिजायामुत्पन्नो द्रोणेनायोनिजेन यः॥ तमप्रतिमकर्माणं रूपेणाप्रतिमं भुवि। पारगं सर्वविद्यानां गुणार्णवमनिन्दितम्॥ तमभ्येत्यात्मजस्तुभ्यमश्वत्थामानमब्रवीत्। यं पुरस्कृत्य सहिता युधि जेष्याम पाण्डवान्॥ गुरुपुत्रोऽद्य सर्वेषामस्माकं परमा गतिः। भवांस्तस्मान्नियोगात्ते कोऽस्तु सेनापतिर्मम॥ द्रौणिरुवाच अयं कुलेन रूपेण तेजसा यशसा श्रिया। सर्वैर्गुणैः समुदितः शल्यो नोऽस्तु चमूपतिः॥ युद्धाय च मति भागिनेयान् निजांस्त्यक्त्वा कृतज्ञोऽस्मानुपागतः। महासेनो महाबाहुर्महासेन इवापरः॥ एनं सेनापतिं कृत्वा नृपतिं नृपसत्तम। शक्यः प्राप्तुं जयोऽस्माभिर्देवैः स्कन्दमिवाजितम्॥२१ तथोक्ते द्रोणपुत्रेण सर्व एव नराधिपाः। परिवार्य स्थिताः शल्यं जयशब्दांश्च चक्रिरे॥ चक्रुरावेशं च परं ययुः। ततो दुर्योधनो भूमौ स्थित्वा रथवरे स्थितम्॥ उवाच प्राञ्जलिर्भूत्वा द्रोणभीष्मसमं रणे। अयं स कालः सम्प्राप्तो मित्राणां मित्रवत्सल॥ यत्र मित्रममित्रं वा परीक्षन्ते बुधा जनाः। स भवानस्तु न शूरः प्रणेता वाहिनीमुखे॥ रणं याते च भवति पाण्डवा मन्दचेतसः। भविष्यन्ति सहामात्यः पञ्चालाश्च निरुद्यमा:॥ दुर्योधनवचः श्रुत्वा शल्यो मद्राधिपस्तदा। उवाच वाक्यं वाक्यज्ञो राजन् राजसंनिधौ॥ यत्तु मां मन्यसे राजन् कुरुराज करोमि तत्। त्वत्प्रियार्थं हि मे सर्वं प्राणा राज्यं धनानि च॥ दुर्योधन उवाच सैनापत्येन वरये त्वामहं मातुलातुलम्। सोऽस्मान् पाहि युधां श्रेष्ठ स्कन्दो देवानिवाहवे॥ अभिषिच्यस्व राजेन्द्र देवानामिव पावकिः। जहि शत्रून् रणे वीर महेन्द्रो दानवानिव॥ संजय उवाच एतच्छ्रुत्वा वचो राज्ञो मद्रराजः प्रतापवान्। दुर्योधन तदा राजन् वाक्यमेतदुवाच ह॥ दुर्योधन महाबाहो शृणु वाक्यविदां वर। यावतौ मन्यसे कृष्णो रथस्थौ रथिनां वरौ॥ न मे तुल्याबुभावेतौ वाहुवीर्ये कथंचन। उद्यतां पृथिवी सर्वा ससुरासुरमानवाम्॥ योधयेयं रणमुखे संक्रुद्धः किमु पाण्डवान्। विजेष्यामि रणे पार्थन् सोमकांश्च समागतान्॥ अहं सेनाप्रणेता ते भविष्यामि न संशयः। तं च व्यूहं विधास्यामि न तरिष्यन्ति यं परे॥ इति सत्यं ब्रवीम्येष दुर्योधन न संशयः। एवमुक्तस्ततो राजा मद्राधिपतिमञ्जसा॥ अभ्यपिञ्चत सेनाया मध्ये भरतसत्तम। विधिना शास्त्रदृष्टेन किष्टरूपो विशाम्पते।॥ अभिषिक्ते ततस्तस्मिन् सिंहनादो महानभूत्। तव सैन्येऽभ्यवाद्यन्त वादित्राणि च भारत॥ हृष्टाश्चासंस्तथा योधा मद्रकाश्च महारथाः। तुष्टुवुश्चैव राजानं शल्यमाहवशोभिनम्॥ जय राजंश्चिरञ्जीव जहि शत्रून् समागतान्। तव बाहुबलं प्राप्य धार्तराष्ट्रा महाबलाः॥ निखिलाः पृथिवी सर्वा प्रशासन्तु हतद्विषः। त्वं हि शक्तो रणे जेतुं ससुरासुरमानवान्॥ मर्त्यधर्माण इह तु किमु सृञ्जयसोमकान्। एवं सम्पूज्यमानस्तु मद्राणामधिपो बली॥ हर्ष प्राप तदा वीरो दुरापमकृतात्मभिः। शल्य उवाच अद्य चाहं रणे सर्वान् पञ्चालान् सह पाण्डवैः॥ निहनिष्यामि वा राजन् स्वर्ग यास्यामि वा हतः। अद्य पश्यन्तु मां लोका विचरन्तमभीतवत्॥ अद्य पाण्डुसुताः सर्वे वासुदेवः ससात्यकिः। पञ्चालाश्चेदयश्चैव द्रौपदेयाश्च सर्वशः॥ धृष्टद्युम्नः शिखण्डी च सर्वे चापि प्रभद्रकाः। विक्रमं मम पश्यन्तु धनुषश्च महद् बलम्॥ लाघवं चास्त्रवीर्यं च भुजयोश्च बलं युधि। अद्य पश्यन्तु मे पार्थाः सिद्धाश्च सह चारणैः॥ यादृशं मे बलं बाह्वोः सम्पदस्त्रेषु या च मे। अद्य मे विक्रमं दृष्ट्वा पाण्डवानां महारथाः॥ प्रतीकारपरा भूत्वा चेष्टन्तां विविधाः क्रियाः। अद्य सैन्यानि पाण्डूनां द्रावयिष्ये समन्ततः॥ द्रोणभीष्मावति विभो सूतपुत्रं च संयुगे। विचरिष्ये रणे युध्यन् प्रियार्थं तव कौरव॥ संजय उवाच अभिषिक्ते तथा शल्ये तव सैन्येषु मानद। न कर्णव्यसनं किंचिन्मेनिरे तत्र भारत॥ हृष्टाः सुमनसश्चैव बभूवुस्तत्र सैनिकाः। मेनिरे निहतान् पार्थान् मद्रराजवशं गतान्॥ प्रहर्षं प्राप्य सेना त तावकी भरतर्षभ। तां रात्रिमुषिता सुप्ता हर्षचित्ता च साभवत्॥ सैन्यस्य तव तं शब्दं श्रुत्वा राजा युधिष्ठिरः। वार्ष्णेयमब्रवीद् वाक्यं सर्वक्षत्रस्य पश्यतः॥ मद्रराजः कृतः शल्यो धार्तराष्ट्रेण माधव। सेनापतिर्महेष्वासः सर्वसैन्येषु पूजितः॥ एतज्ज्ञात्वा यथाभूतं कुरु माधव यक्षमम्। भवान् नेता च गोप्ता च विधत्स्व यदनन्तरम्॥ तमब्रवीन्महाराज वासुदेवो जनाधिपम्। आर्तायनिमहं जाने यथातत्त्वेन भारत॥ वीर्यवांश्च महातेजा महात्मा च विशेषतः। कृती च चित्रयोधी च संयुक्तो लाघवेन च॥ यादृग् भीष्मस्तथा द्रोणो यादृक् कर्णश्च संयुगे। तादृशस्तद्विशिष्टो वा मद्रराजो मतो मम॥ युद्ध्यमानस्य तस्याहं चिन्तयानश्च भारत। योद्धारं नाधिगच्छामि तुल्यरूपं जनाधिप॥ शिखण्ड्यर्जुनभीमानां सात्वतस्य च भारत। धृष्टद्युम्नस्य च तथा बलेनाभ्यधिको रणे॥ मद्रराजो महाराज सिंहद्विरदविक्रमः। विचरिष्यत्यभीः काले कालः क्रुद्धः प्रजास्विव॥ तस्याद्य न प्रपश्यामि प्रतियोद्धारमाहवे। त्वामृते पुरुषव्याघ्र शार्दूलसमविक्रमम्॥ सदेवलोके कृत्स्नेऽस्मिन् नान्यस्त्वत्तः पुमान् भवेत्। मद्रराजं रणे क्रुद्ध यो हन्यात् कुरुनन्दन॥ अहन्यहनि युध्यन्तं क्षोभयन्तं बलं तव। तस्माजहि रणे शल्यं मघवानिव शम्बरम्॥ अजेयश्चाप्यसौ वीरो धार्तराष्ट्रेण सत्कृतः। तवैव हि जयो नूनं हते मद्रेश्वरे युधि॥ तस्मिन् हते हतं सर्वं धार्तराष्ट्रबलं महत्। एतच्छुत्वा महाराज वचनं मम साम्प्रतम्॥ प्रत्युद्याहि रणे पार्थ मद्रराजं महारथम्। जहि चैनं महाबाहो वासवो नमुचिं यथा॥ न चैवात्र दया कार्या मातुलोऽयं ममेति वै। क्षत्रधर्मं पुरस्कृत्य जहि मद्रजनेश्वरम्॥ द्रोणभीष्मार्णवं ती। कर्णपातालसम्भवम्। मा निमजस्व सगणः शल्यमासाद्य गोष्पदम्॥ यच ते तपसो वीर्यं यच क्षात्रं बलं तव। तद् दर्शय रणे सर्वं जहि चैनं महारथम्॥ एतावदुक्त्वा वचनं केशवः परवीरहा। जगाम शिविरं सायं पूज्यमानोऽथ पाण्डवैः॥ केशवे तु तदा याते धर्मपुत्रो युधिष्ठिरः। विसृज्य सर्वान् भ्रातूंश्च पञ्चालानथ सोमकान्॥ सुष्वाप रजनीं तां तु विशल्य इव कुञ्जरः। ते च सर्वे महेष्वासाः पञ्चालाः पाण्डवास्तथा॥ कर्णस्य निधने हृष्टाः सुषुपुस्तां निशां तदा। गतज्वरं महेष्वासं तीर्णपारं महारथम्॥ बभूव पाण्डवेयानां सैन्यं च मुदितं नृप। सूतपुत्रस्य निधने जयं लब्ध्वा च मारिष॥ संजय उवाच व्यतीतायां रजन्यां तु राजा दुर्योधनस्तदा। अब्रवीत् तावकान् सर्वान् संनह्यन्तां महारथाः॥ राज्ञश्च मतमाज्ञाय समनात सा चमूः। अयोजयन् रथांस्तूर्णं पर्यधावंस्तथा परे॥ अकल्प्यन्त च मातङ्गा समनह्यन्त पत्तयः। रथानास्तरणोपेतांश्चक्रुरन्ये सहस्रशः॥ वादित्राणां च निनदः प्रादुरासीद् विशाम्पते। आयोधनार्थं योधानां बलानां चाप्युदीर्यताम्॥ ततो बलानि सर्वाणि हतशिष्टानि भारत। प्रस्थितानि व्यदृश्यन्त मृत्युं कृत्वा निवर्तनम्॥ शल्यं सेनापतिं कृत्वा मद्रराजं महारथाः। प्रविभज्य बलं सर्वमनीकेषु व्यवस्थिताः॥ तत: सर्वे समागम्य पुत्रेण तव सैनिकाः। कृपश्च कृतवर्मा च द्रौणिः शल्योऽथ सौबलः॥ अन्ये च पार्थिवाः शेषाः समयं चक्रुरादृताः। न न एकेन योद्धव्यं कथञ्चिदपि पाण्डवैः॥ यो ह्येकः पाण्डवैर्युध्येद् यो वा युध्यन्तमुत्सृजेत्। स पञ्चभिर्भवेद् युक्तः पातकैचोपपातकैः॥ (अद्याचार्यसुतो द्रौणिर्नैको युध्येत शत्रुभिः।) अन्योन्यं परिरक्षद्भिर्योद्धव्यं सहितैश्च ह। एवं ते समयं कृत्वा सर्वे तत्र महारथाः॥ मद्रराजं पुरस्कृत्य तूर्णमभ्यद्रवन् परान्। तथैव पाण्डवा राजन् व्यूह्य सैन्यं महारणे॥ अभ्ययुः कौरवान् राजन् योत्स्यमानाः समन्ततः। तद् बलं भरतश्रेष्ठ क्षुब्धार्णवसमस्वनम्॥ समुद्धतार्णवाकारमुद्भूतरथकुञ्जरम्। धृतराष्ट्र उवाच द्रोणस्य चैव भीष्मस्य राधेयस्य च में श्रुतम्॥ पातनं शंस मे भूयः शल्यस्याथ सुतस्य मे। कथं रणे हतः शल्यो धर्मराजेन संजय॥ भीमेन च महाबाहुः पुत्रो दुर्योधनो मम। संजय उवाच क्षयं मनुष्यदेहानां तथा नागाश्वसंक्षयम्॥ शृणु राजन् स्थिरो भूत्वा संग्रामं शंसतो मम। आशा बलवती राजन् पुत्राणां तेऽभवत्तदा॥ हते द्रोणे च भीष्मे च सूतपुत्रे च पातिते। शल्यः पार्थान् रणे सर्वान् निहनिष्यति मारिष॥ तामाशां हृदये कृत्वा समाश्वस्य च भारत। मद्रराजं च समरे समाश्रित्य महारथम्॥ नाथवन्तं तदाऽऽत्मानममन्यन्त सुतास्तव। यदा कर्णे हते पार्थाः सिंहनादं प्रचक्रिरे॥ तदा तु तावकान् राजन्नाविवेश महद् भयम्। तान् समाश्वास्य योधास्तु मद्रराजः प्रतापवान्॥ व्यूह्य व्यूहं महाराज सर्वतोभद्रमृद्धिमत्। प्रत्युद्ययौ रणे पार्थान् मद्रराजः प्रतापवान्॥ विधुन्वन् कार्मुकं चित्रं भारघ्नं वेगवत्तरम्। रथप्रवरमास्थाय सैन्धवाश्वं महारथः॥ तस्य सूतो महाराज रथस्थोऽशोभयद् रथम्। स तेन संवृतो वीरो रथेनामित्रकर्षणः॥ तस्थौ शूरो महाराज पुत्राणां ते भयप्रणुत्। प्रयाणे मद्रराजोऽभून्मुखः व्यूहस्य दंशितः॥ मद्रकैः सिहतौ वीरैः कर्णपुत्रैश्च दुर्जयैः। सव्येऽभूत् कृतवर्मा च त्रिगर्तेः परिवारितः॥ गौतमो दक्षिणे पार्श्व शकैश्च यवनैः सह। अश्वत्थामा पृष्ठतोऽभूत् काम्बोजैः परिवारितः॥ दुर्योधनोऽभवन्मध्ये रक्षितः कुरुपुङ्गवैः। हयानीकेन महता सौबलश्चापि संवृतः॥ प्रययौ सर्वसैन्येन कैतव्यश्च महारथः। पाण्डवाश्च महेष्वासा व्यूह्य सैन्यमरिन्दमाः॥ विधा भूता महाराज तव सैन्यमुपाद्रवन्। धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः॥ शल्यस्य वाहिनी हन्तुमभिदुद्रुवुराहवे। ततो युधिष्ठिरो राजा स्वेनानीकेन संवृतः॥ शल्यमेवाभिदुद्राव जिघांसुर्भरतर्षभः। हादिक्यं च महेष्वाससमर्जुनः शत्रुसैन्यहा॥ संशप्तकगणांश्चैव वेगितोऽभिविदुद्रुवे। गौतमं भीमसेनो वै सोमकाश्च महारथाः॥ अभ्यद्रवन्त राजेन्द्र जिघांसन्तः परान् युधि। माद्रीपुत्रौ तु शकुनिमुलूकं च महारथम्॥ ससैन्यौ सहसैन्यौ तावुपतस्थतुराहवे। तथैवायुतशो योधास्तावकाः पाण्डवान् रणे॥ अभ्यवर्तन्त संक्रुद्धा विविधायुधपाणयः। धृतराष्ट्र उवाच हते भीष्म महेष्वासे द्रोणे कर्णे महारथे॥ कुरुष्वल्पावशिष्टेषु पाण्डवेषु च संयुगे। सुसंरब्धेषु पार्थेषु पराक्रान्तेषु संजय॥ मामकानां परेषां च किं शिष्टमभवद् बलम्। संजय उवाच यथा वयं परे राजन् युद्धाय समुपस्थिताः॥ यावघासीद् बलं शिष्टं संग्रामे तन्निबोध मे। एकादश सहस्राणि रथानां भरतर्षभ॥ दश दन्तिसहस्राणि सप्त चैव शतानि च। पूर्णे शतसहस्रे द्वे हयानां तत्र भारत॥ पत्तिकोट्यस्तथा तिस्रो बलमेतत्तवाभवत्। रथानां षट्सहस्राणि षट्सहस्राश्च कुञ्जराः॥ दश चाश्वसहस्राणि पत्तिकोटी च भारत। एतद् बलं पाण्डवानामभवच्छेषमाहवे॥ एत एव समाजग्मुर्युद्धाय भरतर्षभ। एवं विभज्य राजेन्द्र मद्रराजठशे स्थिताः॥ पाण्डवान् प्रत्युदीयुस्ते जयगृद्धाः प्रमन्यवः। तथैव पाण्डवाः शूराः समरे जितकाशिनः॥ उपयाता नरव्याघ्राः पूर्वां संध्यां प्रति प्रभो। ततः प्रवर्तते युद्धं घोररूपं भयानकम्। तावकानां परेषां च निघ्नतामितरेतरम्॥ संजय उवाच तत् प्रभग्नं बलं दृष्ट्वा मद्रराजः प्रतापवान्। उवाच सारथिं तूर्णं चोदयाश्वान्महाजवान्॥ एष तिष्ठति वै राजा पाण्डुपुत्रो युधिष्ठिरः। छत्रेण ध्रियमाणेन पाण्डुरेण विराजता॥ अत्र मां प्रापय क्षिप्रं पश्य मे सारथे बलम्। न समर्थो हि मे पार्थः स्थातुमद्य पुरो युधि॥ एवमुक्तस्ततः प्रायान्मद्रराजस्य सारथिः। यत्र राजा सत्यसंधो धर्मपुत्रो युधिष्ठिरः॥ प्रापतत् तच्च सहसा पाण्डवानां महद् बलम्। दधारैको रणे शल्यो वेलोवृत्तमिवार्णवम्॥ पाण्डवानां बलौघस्तु शल्यमासाद्य मारिष। व्यतिष्ठत तदा युद्धे सिन्धोर्वेग इवाचलम्॥ मद्रराजं तु समरे दृष्ट्वा युद्धाय धिष्ठितम्। कुरवः संन्यवर्तन्त मृत्युं कृत्वा निवर्तनम्॥ तेषु राजन् निवृत्तेषु व्यूढानीकेषु भागशः। प्रावर्तत महारौद्रः संग्रामः शोणितोदकः॥ समाळुचित्रसेनं तु नकुलो युद्धदुर्मदः। तौ परस्परमासाद्य चित्रकार्मुकधारिणौ॥ मोघाविव यथोवृत्तौ दक्षिणोत्तरवर्षिणौ। शरतोयैः सिषिचतुस्तौ परस्परमाहवे॥ नान्तरं तत्र पश्यामि पाण्डवस्येतरस्य च। उभौ कृतास्त्रौ बलिनौ रथचर्याविशारदौ॥ परस्परवधे यत्तौ छिद्रान्वेषणतत्परौ। चित्रसेनस्तु भल्लेन पीतेन निशितेन च॥ नकुलस्य महाराज मुष्टिदेशेऽच्छिनद् धनुः। अथैनं छिन्नधन्वानं रुक्मपुङ्खः शिलाशितैः॥ त्रिभिः शरैरसम्भ्रान्तो ललाटे वै समार्पयत्। हयांश्चास्य शरैस्तीक्ष्णैः प्रेषयामास मृत्यवे॥ तथा ध्वजं सारथिं च त्रिभिस्त्रिभिरपातयत्। स शत्रुभुजनिर्मुक्तैर्ललाटस्थैस्त्रिभिः शरैः॥ नकुलः शुशुभे राजंस्त्रिशृङ्ग इव पर्वतः। स च्छिन्नधन्वा विरथः खड्गमादाय चर्म च॥ रथादवातरद् वीरः शैलाग्रादिव केसरी। पझ्यामापततस्तस्य शरवृष्टिं समासृजत्॥ नुकलोऽप्यग्रसत् ता वै चर्मणा लघुविक्रमः। चित्रसेनरथं प्राप्य चित्रयोधी जितश्रमः॥ आरुरोह महाबाहुः सर्वसैन्यस्य पश्यतः। सकुण्डलं समुकुटं सुमनसं स्वायतेक्षणम्॥ चित्रसेनशिरः कायादपाहरत पाण्डवः। स पपात रथोपस्थे दिवाकरसमद्युतिः॥ चित्रसेनं विशस्तं तु दृष्ट्वा तत्र महारथाः। साधुवादस्वनांश्चक्रुः सिंहनादांश्च पुष्कलान्॥ विशस्तं भ्रातरं दृष्ट्वा कर्णपुत्रौ महारथौ। सुषेणः सत्यसेनश्च मुञ्चन्तौ विविधाशरान्॥ ततोऽभ्यधावतां सूर्णं पाण्डवं रथिनां वरम्। जिघांसन्तौ यथा नागं व्याघ्रौ राजन् महावने।॥ तावभ्यधावतां तीक्ष्णौ द्वावप्येनं महारथम्। शरोधान् सम्यगस्यन्तौ जीमूतौ सलिलं यथा।॥ स शरैः सर्वतो विद्धः प्रहष्ट इव पाण्डवः। अन्यत् कार्मुकमादाय रथमारुह्य वेगवान्॥ अतिष्ठत रणे वीरः क्रुद्धरूप इवान्तकः। तस्य तौ भ्रातरौ राजशरैः संनतपर्वभिः॥ रथं विशकलीकर्तुं समारब्धौ विशाम्पते। ततः प्रहस्य नकुलश्चतुर्भिश्चतुरो रणे॥ जघान निशितैर्बाणैः सत्यसेनस्य वाजिनः। ततः संधाय नाराचं रुक्मपुङ्ख शिलाशितम्॥ धनुश्चिच्छेद राजेन्द्र सत्यसेनस्य पाण्डवः। अथान्यं रथमास्थाय धनुरादाय चापरम्॥ सत्यसेनः सुषेणश्च पाण्डवं पर्यधावताम्। अविध्यत् तावसम्भ्रान्तौ माद्रीपुत्रः प्रतापवान्॥ द्वाभ्यां द्वाभ्यां महाराज शराभ्यां रणमूर्धनि। सुषेणस्तु ततः क्रुद्धः पाण्डवस्य महद् धनुः॥ चिच्छेद प्रहसन् युद्धे क्षुरप्रेण महारथः। अथान्यद् धनुरादाय नकुलः क्रोधमूर्छितः॥ सुषेण पञ्चभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे। सत्यसेनस्य च धनुर्हस्तावापं च मारिष॥ चिच्छेद तरसा युद्धे तत उच्चुक्रुशुर्जनाः। अथान्यद् धनुरादाय वेगनं भारसाधनम्॥ शरैः संछादयामास समन्तात् पाण्डुनन्दनम्। संनिवार्य तु तान् बाणान् नकुलः परवीरहा॥ सत्यसेनं सुषेणं च द्वाभ्यां द्वाभ्यामविध्यत। तावेन प्रत्यविध्येतां पृथक् पृथगजिह्मगैः॥ सारथिं चास्य राजेन्द्र शितैर्विव्यधतुः शरैः। सत्यसेनो रथेषां तु नकुलस्य धनुस्तथा॥ पृथक्छराभ्यां चिच्छेद कृतहस्त: प्रतापवान्। स रथेऽतिरथस्तिष्ठन् रथशक्तिं परामृशत्॥ स्वर्णदण्डामकुण्ठायां तैलधौतां सुनिर्मलाम्। लेलिहानामिव विभो नागकन्यां महाविषाम्॥ समुद्यम्य च चिक्षेप सत्यसेनस्य संयुगे। सा तस्य हृदयं संख्ये बिभेद च तथा नृप॥ स पपात रथाद् भूमिं गतसत्त्वोऽल्पचेतनः। भ्रातरं निहतं दृष्ट्वा सुषेणः क्रोधमूर्च्छितः॥ अभ्यवर्षच्छरैस्तूर्णं पादातं पाण्डुनन्दनम्। चतुर्भिश्चतुरो वाहान् ध्वजं छित्वा च पञ्चभिः॥ त्रिभिर्वै सारथिं हत्वा कर्णपुत्रो ननाद ह। नकुलं विरथं दृष्ट्वा द्रौपदेयो महारथम्॥ सुतसोमोऽभिदुद्राव परीप्सन् पितरं रणे। ततोऽधिरुह्य नुकलः सुतसोमस्य तं रथम्॥ शुशुभे भरतश्रेष्ठो गिरिस्थ इव केसरी। अन्यत् कार्मुकमादाय सुषेणं समयोधयत्॥ तावुभौ शरवर्षाभ्यां समासाद्य परस्परम्। परस्परवधे यत्नं चक्रतुः सुमहारथौ॥ सुषेणस्तु ततः क्रुद्धः पाण्डवं विशिखैस्त्रिभिः। सुतसोमं तु विंशत्या बाह्वोरुरसि चार्पयत्॥ ततः क्रुद्धो महाराज नकुलः परवीरहा। शरैस्तस्य दिशः सर्वाश्छादयामास वीर्यवान्॥ ततो गृहीत्वा तीक्ष्णाग्रमर्धचन्द्रं सुतेजनम्। सुवेगवन्तं चिक्षेप कर्णपुत्राय संयुगे॥ तस्य तेन शिरः कायाजहार नृपसत्तम। पश्यतां सर्वसैन्यानां तदद्भुतमिवाभवत्॥ स हतः प्रापतद् राजन् नकुलेन महात्मना। नदीवेगादिवारुग्णस्तीरजः पादपो महान्॥ कर्णपुत्रवधं दृष्ट्वा नकुलस्य च विक्रमम्। प्रदुद्राव भयात् सेना तावकी भरतर्षभ॥ तां तु सेनां महाराज मद्रराजः प्रतापवान्। अपादयद् रणे शूरः सेनापतिररिंदमः॥ विभीस्तस्थौ महाराज व्यवस्थाप्य च वाहिनीम्। सिंहनादं भृशं कृत्वा धनुःशब्दं च दारुणम्॥ तावकाः समरे राजन् रक्षिता दृढधन्वना। प्रत्युद्ययुश्च तांस्ते तु समन्ताद् विगतव्यथा:॥ मद्रराजं महेष्वासं परिवार्य समन्ततः। स्थिता राजन् महासेना योद्धुकामा समन्ततः॥ सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ। युधिष्ठिरं पुरस्कृत्य ह्रीनिषेवमरिंदमम्॥ परिवार्य रणे वीराः सिंहनादं प्रचक्रिरे। बाणशङ्खरवांस्तीवान् श्वेडाश्च विविधा दधुः॥ तथैव तावकाः सर्वे मद्राधिपतिमञ्जसा । परिवार्य सुसंरब्धाः पुनयुद्धमरोचयन्॥ ततः प्रववृते युद्ध भीरूणां भयवर्धनम्। तावकानां परेषां च मृत्युं कृत्वा निवर्तनम्॥ यथा देवासुरं युद्धं पूर्वमासीद् विशाम्पते। अभीतानां तथा राजन् यमराष्ट्रविवर्धनम्॥ ततः कपिध्वजो राजन् हत्वा संशप्तकान् रणे। अभ्यद्रवत तां सेनां कौरवीं पाण्डुनन्दनः॥ तथैव पाण्डवाः सर्वे धृष्टद्युम्नपरोगमा:। अभ्यधावन्त तां सेनां विसृजन्तः शिताशरान्॥ पाण्डवैरवकीर्णानां सम्मोहः समजायत। न च जजुस्त्वनीकानि दिशो वा विदिशस्तथा॥ आपूर्यमाणा निशितैः शरैः पाण्डवचोदितैः। हतप्रवीरा विध्वस्ता वार्यमाणा समन्ततः॥ कौरव्यवध्यत चमूः पाण्डुपुत्रैर्महारथैः। तथैव पाण्डवं सैन्यं शरै राजन् समन्ततः॥ रणेऽहन्यत पुत्रैस्ते शतशोऽथ सहस्रशः। ते सेने भृशसंतप्ते वध्यमाने परस्परम्॥ व्याकुले समपद्येतां वर्षासु सरिताविव। आविवेश ततस्तीव्र तावकानां महद् भयम्। पाण्डवानां च राजेन्द्र तथाभूते महाहवे॥ संजय उवाच तस्मिन् विलुलिते सैन्ये वध्यमाने परस्परम्। द्रवमाणेषु योधेषु विद्रवत्सु च दन्तिषु॥ कूजतां स्तनतां चैव पदातीनां महाहवे। निहतेषु महाराज हयेषु बहुधा तदा॥ प्रक्षये दारुणे घोरे संहारे सर्वदेहिनाम्। नानाशस्त्रसमावाये व्यतिषक्तरथद्विपे॥ हर्षणे युद्धशौण्डानां भीरूणां भयवर्धने। गाहमानेषु योधेषु परस्परवधैषिषु॥ प्राणादाने महाघोरे वर्तमाने दुरोदरे। संग्रामे घोररूपे तु यमराष्ट्रविवर्धने॥ पाण्डवास्तावकं सैन्यं व्यदमन्निशितैः शरै। तथैव तावका योधा जघ्नुः पाण्डवसैनिकान्॥ तस्मिंतथा वर्तमाने युद्धे भीरुभयावहे। पूर्वाह्ने चापि सम्प्राप्ते भास्करोदयनं प्रति॥ लब्धलक्षाः परे राजन् रक्षितास्तु महात्मना। अयोधयंस्तव बलं मृत्युं कृत्वा निवर्तनम्॥ बलिभिः पाण्डवैर्दृप्तैर्लब्धलक्षैः प्रहारिभिः। कौरव्यसीदत्पृतना मृगीवाग्निसमाकुला॥ तां दृष्ट्वा सीदती सेनां पङ्के गामिव दुर्बलाम्। उजिहीर्षुस्तदा शल्यः प्रायात् पाण्डुसुतान् प्रति॥ मद्रराजः सुसंक्रद्धो गृहीत्वा धनुरुत्तमम्। अभ्यद्रवत संग्रामे पाण्डवानाततायिनः॥ पाण्डवा अपि भूपाल समरे जितकाशिनः। मद्रराजं समासाद्य बिभिदुर्निशितैः शरैः॥ ततः शरशतैस्तीक्ष्णैर्मद्रराजो महारथः। अर्दयामास तां सेनां धर्मराजस्य पश्यतः॥ प्रादुरासन् निमित्तानि नानारूपाण्यनेकशः। चचाल शब्दं कुर्वाणा मही चापि सपर्वता।॥ सदण्डशूला दीप्तायाः शीर्यमाणाः समन्ततः। उल्का भूमिं दिवः पेतुराहत्य रविमण्डलम्॥ मृगाश्च महिषाश्चापि पक्षिणश्च विशाम्पते। अपसव्यं तदा चक्रुः सेनां ते बहुशो नृप॥ भृगुसूनुधरापुत्रौ शशिजेन समन्वितौ। चरमं पाण्डुपुत्राणां पुरस्तात् सर्वभूभुजाम्॥ शस्त्राग्रेष्वभवज्ज्वाला नेत्राण्याहत्य वर्षती। शिरःस्वलीयन्त भृशं काकोलूकाश्च केतुषु॥ ततस्तद्युद्धमत्युग्रमभवत् सहचारिणाम्। तथा सर्वाण्यनीकानि संनिपत्य जनाधिप॥ अभ्ययुः कौरवा राजन् पाण्डवानामनीकिनीम्। शल्यस्तु शरवर्षेण वर्षन्निव सहस्रदृक्॥ अभ्यवर्षत धर्मात्मा कुन्तीपुत्रं युधिष्ठिरम्। भीमसेनं शरैश्चापि रुक्मपुत्रैः शिलाशितैः॥ द्रौपदेयांस्तथा सर्वान् माद्रीपुत्रौ च पाण्डवौ। धृष्टद्युम्नं च शैनेयं शिखण्डिनमथापि च॥ एकैकं दशभिर्बाणैर्विव्याध स महाबलः। ततोऽसृजद् बाणवर्षं धर्मान्ते मघवानिव॥ ततः प्रभद्रका राजन् सोमकाश्च सहस्रशः। पतिताः पात्यमानाश्च दृश्यन्ते शल्यसायकैः॥ भ्रमराणामिव वाताः शलभानामिव व्रजाः। हादिन्य इव मेघेभ्यः शल्यस्य न्यपतशराः॥ द्विरदास्तुरगाश्चार्ताः पत्तयो रथिनस्तथा। शल्यस्य बाणैरपतन् बभ्रमुळनदंस्तथा॥ आविष्ट इव मद्रेशो मन्युना पौरुषेण च। प्राच्छादयदरीन् संख्ये कालसृष्ट इवान्तकः॥ विनर्दमानो मद्रेशो मेघह्रादो महाबलः। सा वध्यमाना शल्येन पाण्डवानामनीकिनी॥ अजातशत्रु कौन्तेयमभ्यधावद् युधिष्ठिरमा। तां सम्पर्य ततः संख्ये लघुहस्तः शितैः शरैः॥ बाणवर्षेण महता युधिष्ठिरमताडयत्। तमापतन्तं पत्त्यश्वैः क्रुद्धो राजा युधिष्ठिरः॥ अवारयच्छरैस्तीक्ष्णैर्महाद्विपमिवाङ्कुशैः। तस्य शल्यः शरं घोरं मुमोचासीविषोपमम्॥ स निर्भिद्य महात्मानं वेगेनाभ्यपतच गाम्। ततो वृकोदरः क्रुद्धः शल्यं विव्याध सप्तभिः॥ पञ्चभिः सहदेवस्तु नकुलो दशभिः शरैः। द्रौपदेयाश्च शत्रुघ्नं शूरमार्तायनिं शरैः॥ अभ्यवर्षन् महाराज मेघा इव महीधरम्। ततो दृष्ट्वा वार्यमाणं शल्यं पार्थैः समन्ततः॥ कृतवर्मा कृपश्चैव संक्रुद्धावभ्यधावताम्। उलूकश्च महावीर्यः शकुनिश्चापि सौबलः॥ समागम्याथ शनकैरश्वत्थामा महाबलः। तव पुत्राश्च कात्स्येन जुगुपुः शल्यमाहवे॥ भीमसेनं त्रिभिर्विद्ध्वा कृतवर्मा शिलीमुखैः। बाणवर्षेण महता क्रुद्धरूपमवारयत्॥ धृष्टद्युम्नं ततः क्रुद्धो बाणवधैरपीडयत्। द्रौपदेयांश्च शकुनिर्यमौ च द्रौणिरभ्ययात्॥ दुर्योधनो युधां श्रेष्ठ आहवे केशवार्जुनौ। समभ्ययादुग्रतेजाः शरैश्चाप्यहनद् बली॥ एवं द्वन्द्वशतान्यासंस्त्वदीयानां परैः सह। घोररूपाणि चित्राणि तत्र तत्र विशाम्पते॥ ऋक्षवर्णाञ्जघानाश्वान् भोजो भीमस्य संयुगे। सोऽवतीर्य रथोपस्थाद्धताश्वात् पाण्डुनन्दनः॥ कालो दण्डमिवोद्यम्य गदापाणिरयुध्यत। प्रमुखे सहदेवस्य जघानाश्वान् स मद्रराट्॥ ततः शल्यस्य तनयं सहदेवोऽसिनावधीत्। गौतमः पुनराचार्यो धृष्टद्युम्नमयोधयत्॥ असम्भ्रान्तमसम्भ्रान्तो यत्नवान् यत्नवत्तरम्। द्रौपदेयांस्तथा वीरानैकैकं दशभिः शरैः॥ अविद्ध्यदाचार्यसुतो नातिक्रुद्धो हसन्निव। पुनश्च भीमसेनस्य जघानाश्वांस्तथाऽऽहवे॥ सोऽवतीर्य रथातूर्णं हताश्वः पाण्डुनन्दनः।, कालो दण्डमिवोद्यम्य गदां क्रुद्धो महाबलः॥ पोथयामास तुरगान् रथं च कृतवर्मणः। कृतवर्मा त्ववप्लुत्य रथात् तस्मादपाक्रमात्॥ शल्योऽपि राजन् संक्रुद्धो निघ्नन् सोमकपाण्डवान्। पुनरेव शितैर्बाणैयुधिष्ठिरमपीडयत्॥ तस्य भीमो रणे क्रुद्धः संदश्य दशनच्छदम्। विनाशायाभिसंधाय गजामादाय वीर्यवान्॥ यमदण्डप्रतीकाशां कालरात्रिमिवोद्यताम्। गजवाजिमनुष्याणां देहान्तकरणीमपि॥ हेमपट्टपरिक्षिप्तामुल्कां प्रज्वलितामिव। शैक्यां व्यालीमिवात्युग्रां वज्रकल्पामयोमयीम्॥ चन्दनागुरुपङ्काक्तां प्रमदामीप्सितामिव। वसामेदोपदिग्धाङ्गी जिह्वां वैवस्वतीमिव॥ पटुघण्टाशतरवां वासवीमशनीमिव। निर्मुक्ताशीविषाकारां पृक्तां गजमदैरपि॥ त्रासनी सर्वभूतानां स्वसैन्यपरिहर्षिणीम्। मनष्यलोके विख्यातां गिरिशृङ्गविदारणीम्॥ यया कैलासभवने महेश्वरसखं वली। आह्वयामास युद्धाय भीमसेनो महाबलः॥ यया मायामयान् दृप्तान् सुबहून् धनदालये। जघान गुह्यकान् क्रुद्धो नदन् पार्थो महाबलः॥ निवार्यमाणो बहुभिद्रौपद्याः प्रियमास्थितः। तां वज्रमणिरत्नौघकल्मषां वज्रगौरवाम्॥ समुद्यम्य महाबाहुः शल्यमभ्यपतद् रणे। गदया युद्धकुशलस्तया दारुणनादया॥ पोथयामास शल्यस्य चतुरोऽश्वान् महाजवान्। ततः शल्यो रणे क्रुद्धः पीने वक्षसि तोमरम्॥ निचखान नदन वीरो वर्म भित्वा च सोऽभ्ययात्। वृकोदरस्त्वसम्भ्रान्तस्तमेवोद्धृत्य तोमरम्॥ यन्तारं मद्रराज्य निर्बिभेद ततो हृदि। स भिन्नमर्मा रुधिरं वमन् वित्रस्तमानसः॥ पपाताभिमुखो दीनो मद्रराजस्त्वपाक्रमत्। कृतप्रतिकृतं दृष्ट्वा शल्यो विस्मितमानसः॥ गदामाश्रित्य धर्मात्मा प्रत्यमित्रमवैक्षत। ततः सुमनसः पार्था भीमसेनमपूजयन्। ते दृष्टा कर्म संग्रामे घोरमकिष्टकर्मणः॥ संजय उवाच पतितं प्रेक्ष्य यन्तारं शल्य: सर्वायसी गदाम्। आदाय तरसा राजंस्तस्थौ गिरिरिवाचलः॥ तं दीप्तमिव कालाग्निं पाशहस्तमिवान्तकम्। सशृङ्गमिव कैलासं सवज्रमिव वासवम्॥ सशूलमिव हर्यक्षं वने मत्तमिव द्विपम्। जवेनाभ्यपतद् भीम: प्रगृह्य महतीं गदाम्॥ ततः शङ्खप्रणादश्च तूर्याणां च सहस्रशः। सिंहनादश्च संजज्ञे शूराणां हर्षवर्धनः॥ प्रेक्षन्तः सर्वतस्तौ हि योधा योधमहाद्विपौ। तावकाश्चापरे चैव साधु साध्वित्यपूजयन्॥ न हि मद्राधिपादन्यो रामाद् वा यदुनन्दनात्। सोढुमुत्सहते वेगं भीमसेनस्य संयुगे॥ तथा मद्राधिरपस्यापि गदावेगं महात्मनः। सोढुमुत्सहते नान्यो योधो युधि वृकोदरात्॥ तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः। आवर्तितौ गदाहस्तौ मद्रराजवृकोदरौ॥ मण्डलावर्तमार्गेषु गदाविहरणेषु च। निर्विशेषमभूद् युद्धं तयोः पुरुषिसंहयोः॥ तप्तहेममयैः शुभैर्बभूव भयवर्धिनी। अग्निज्वालैरिवाबद्धा पट्टैः शल्यस्य सा गदा॥ तथैव चरतो मार्गन् मण्डलेषु महात्मनः। विद्युदभ्रप्रतीकाशा भीमस्य शुशुभे गदा॥ ताडिता मद्रराजेन भीमस्य गदया गदा। दह्यमानेव खे राजन् साऽसृजत् पावकार्चिषः॥ तथा भीमेन शल्यस्य ताडिता गदया गदा। अङ्गारवर्षं मुमुचे तदद्भुतमिवाभवत्॥ दन्तैरिव महानागौ शृङ्गैरिव महर्षभौ। तौत्रैरिव तदान्योन्यं गदाग्राभ्यां निजघ्नतुः॥ तौ गदाभिहतैर्गात्रैः क्षणेन रुधिरोक्षितौ। प्रेक्षणीयतरावास्तां पुष्पिताविव किंशुकौ॥ गदया मद्रराजस्य सव्यदक्षिणमाहतः। भीमसेनो महाबाहुन् चचालाचलो तथा॥ तथा भीमगदावैगैस्ताड्यमानो मुहुर्मुहुः। शल्यो न विव्यथे राजन् दन्तिनेव महागिरिः॥ शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः। गदानिपातसंहादो वज्रयोरिव नि:स्वनः॥ निवृत्य तु महावीर्यो समुच्छ्रितमहागदौ। पुनरन्तरमार्गस्थौ मण्डलानि विचेरतुः॥ अथाभ्येत्य पदान्यष्टौ संनिपातोऽभवत् तयोः। उद्यम्य लोहदण्डाभ्यामतिमानुषकर्मणोः॥ पोथयन्तौ तदान्योन्यं मण्डलानि विचेरतुः। क्रियाविशेषं कृतिनौ दर्शयामासतुस्तदा॥ अथोद्यम्य गदे घोरे सशृङ्गाविव पर्वतौ। तावाजघ्नतुरन्योन्यं मण्डलानि विचेरतुः॥ क्रियाविशेषकृतिनौ रणभूमितलेऽचलौ। तौ परस्परसंरम्भाद् गदाभ्यां सुभृशसातौ॥ युगपत् पेततुर्वीरावुभाविन्द्राध्वजाविव। उभयोः सेनयोर्वीरास्तदा हाहाकृतोऽभवन्॥ भृशं मर्माण्यभिहताबुभावास्तां सुविह्वलौ। ततः स्वरथमारोप्य मद्राणामृषभं रणे॥ अपोवाह कृपः शल्यं तूर्णमायोधनादथ। क्षीणवद् विह्वलत्वात् तु निमेषात् पुनरुत्थितः॥ भीमसेनो गदापाणि: समाह्वयत मद्रपम्। ततस्तु तावकाः शूरा नानाशस्त्रसमायुताः॥ नानावादित्रशब्देन पाण्डुसेनामयोधयन्। भुजावुच्छ्रित्य शस्त्रं च शब्देन महता ततः॥ अभ्यद्रवन् महाराज दुर्योधनपुरोगमाः। तदनीकमभिप्रेक्ष्य ततस्ते पाण्डुनन्दनाः॥ प्रययुः सिंहनादेन दुर्योधनपुरोगमान्। तेषामापततां तूर्णं पुत्रस्ते भरतर्षभ॥ प्रासेन चेकितानं वै विव्याध हृदयं भृशम्। स पपात रथोपस्थे तव पुत्रेण ताडितः॥ रुधिरौघपरिस्किन्नः प्रविश्य विपुलं तमः। चेकितान् हतं दृष्ट्वा पाण्डवेया महारथाः॥ असक्तमभ्यवर्षन्त शरवर्षाणि भागशः। तावकानामनीकेषु पाण्डवा जितकाशिनः॥ व्यचरन्त महाराज प्रेक्षणीयाः समन्ततः। कृपश्च कृतवर्मा च सौबलश्च महारथः॥ अयोधयन् धर्मराजं मद्रराजपुरस्कृताः। भारद्वाजस्य हन्तारं भूरिवीर्यपराक्रमम्॥ दुर्योधनो महाराज धृष्टद्युम्नमयोधयत्। त्रिंसाहस्रास्तथा राजंस्तव पुत्रेण चोदिताः॥ अयोधयन्त विजयं द्रोणपुत्रपुरस्कृताः। विजये धृतसंकल्पाः समरे त्यक्तजीविताः॥ प्राविशंस्तावका राजन् हंसा इव महत् सरः। ततो युद्धमभूद् घोरं परस्परवधैषिणाम्॥ अन्योन्यवधसंयुक्तमन्योन्यप्रीतिवर्धनम्। तस्मिन् प्रवृत्ते संग्रामे राजन् वीरवरक्षये॥ अनिलेनेरितं घोरमुक्तस्थौ पार्थिवं रजः। श्रवणान्नामधेयानां पाण्डवानां च कीर्तनात्॥ परस्परं विजानीमो यदयुद्ध्यन्नभीतवत्। तद्रजः पुरुषव्याघ्र शोणितेन प्रशामितम्॥ दिशश्च विमला जातास्तस्मिंस्तमसि नाशिते। तथा प्रवृत्ते संग्रामे घोररूपे भयानके॥ तावकानां परेषां च नासीत् कश्चित् पराङ्मुखः। ब्रह्मलोकपरा भूत्वा प्रार्थयन्तो जयं युधि॥ सुयुद्धेन पराक्रान्ता नराः स्वर्गमभीप्स्वः। भर्तृपिण्डविमोक्षार्थं भर्तृकार्यविनिश्चिताः॥ स्वर्गसंसक्तमनसो योधा युयुधिरे तदा। नानारूपाणि शस्त्राणि विसृजन्तो महारथाः॥ अन्योन्यमभिगर्जन्तः प्रहरन्तः परस्परम्। हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत॥ इति स्म वाचः श्रूयन्ते तव तेषां च वै बले। ततः शल्यो महाराज धर्मपुत्रं युधिष्ठिरम्॥ विव्याध निशितैर्बाणैर्हन्तुकामो महारथम्। तस्य पार्थो महाराज नाराचान् वै चतुर्दश॥ मर्माण्युद्दिश्य मर्मज्ञो निचखान हसन्निव। आवार्य पाण्डवं बाणैर्हन्तुकामो महाबलः॥ विव्याध समरे क्रुद्धो बहुभिः कङ्कपत्रिभिः। अथ भूयो महाराज शरेणानतपर्वणा॥ युधिष्ठिरं समाजम्ने सर्वसैन्यस्य पश्यतः। विव्याध निशितैर्बाणैः कङ्कबर्हिणवाजितैः। धर्मराजोऽपि संक्रुद्धो मद्रराजं महायशाः॥ चन्द्रसेनं च सप्तात्या सूतं च नवभिः शरैः॥ द्रुमसेनं चतुःषष्ट्या निजघान महारथः। चक्ररथे हते शल्यः पाण्डवेन महात्मना॥ निजघान ततो राजश्चेदीन् वै पञ्चविंशतिम्। सात्यकिं पञ्चविशत्या भीमसेनं च पञ्चभिः॥ माद्रीपुत्रौ शतेनाजौ विव्याध निशितैः शरैः। एवं विचरतस्तस्य संग्रामे राजसत्तम॥ सम्प्रेषयच्छितान् पार्थः शरानाशीविषोपमान्। ध्वजाग्रं चास्य समरे कुन्तीपुत्रो युधिष्ठिरः॥ प्रमुखे वर्तमानस्य भल्लेनापाहरद् रथात्। पाण्डुपुत्रेण वै तस्य केतुं छिन्नं महात्मना॥ निपतन्तमपश्याम गिरिशृङ्गमिवाहतम्। ध्वजं निपतितं दृष्ट्वा पाण्डवं च व्यवस्थितम्॥ संक्रुद्धो मद्रराजोऽभूच्छरवर्षं मुमोच ह। शल्य: सायकवर्षेण पर्जन्य इव वृष्टिमान्॥ अभ्यवर्षदमेयात्मा क्षत्रियान् क्षत्रियर्षभः। सात्यकिं भीमसेनं च माद्रीपुत्रौ च पाण्डवौ॥ एकैकं पञ्चभिर्विध्वा युधिष्ठिरमपीडयत्। ततो बाणमयं जालं विततं पाण्डवोरसि॥ अपश्याम महाराज मेघजालमिवोद्गतम्। तस्य शल्यो रणे क्रुद्धः शरैः संनतपर्वभिः॥ दिशः संछादयामास प्रदिशश्च महारथः। ततो युधिष्ठिरो राजा बाणजालेन पीडितः। बभूवाद्भुतविक्रान्तो जम्भो वृत्रहणा यथा॥ संजय उवाच पीडिते धर्मराजे तु मद्रराजेन मारिष। सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ॥ परिवार्य रथैः शल्यं पीडयामासुराहवे। तमेकं बहुभिर्दृष्ट्वा पीड्यमानं महारथैः॥ साधुवादो महाञ्जज्ञे सिद्धाश्चासन् प्रहर्षिताः। आश्चर्यमित्यभाषन्त मुनयश्चापि सङ्गताः॥ भीमसेनो रणे शल्यं शल्यभूतं पराक्रमे। एकेन विद्ध्वा बाणेन पुनर्विव्याध सप्तभिः॥ सात्यकिश्च शतेनैनं धर्मपुत्रपरीप्सया। मद्रेश्वरमवाकीर्य सिंहनादमथानदत्॥ नकुलः पञ्चभिश्चैनं सहदेवश्च पञ्चभिः। विद्ध्वा तं तु पुनस्तूर्णं ततो विव्याध सप्तभिः॥ स तु शूरो रणे यत्तः पीडितस्तैर्महारथैः। विकृत्य कार्मुकं घोरं वेगनं भारसाधनम्॥ सात्यकिं पञ्चविंशत्या शल्यो विव्याध मारिष। भीमसेनं तु सप्तत्या नुकलं सप्तभिस्तथा॥ ततः सविशिखं चापं सहदेवस्य धन्विनः। छित्त्वा भल्लेन समरे विव्याधैनं त्रिसप्तभिः॥ सहदेवस्तु समरे मातुलं भूरिवर्चसम्। सज्यमन्यद् धनुः कृत्वाः पञ्चभिः समताडयत्॥ शरैराशीविषाकारैर्ध्वलज्वलनसंनिभैः। सारथिं चास्य समरे शरेणानतपर्वणा॥ विव्याध भृशसंक्रुद्धस्तं वै भूयस्त्रिभिः शरैः। भीमसेनस्तु सप्तत्या सात्यकिर्नवभिः शरैः॥ धर्मराजस्तथा षष्ट्या गात्रे शल्यं समार्पयत्। । ततः शल्यो महाराज निर्विद्धस्तैर्महारथैः॥ सुस्राव रुधिरं गात्रैगैरिकं पर्वतो यथा। तांश्च सर्वान् महेष्वासान् पञ्चभिः पञ्चभिः शरैः॥ विव्याध तरसा राजस्तदद्भुतमिवाभवत्। ततोऽपरेण भल्लेन धर्मपुत्रस्य मारिष॥ धनुश्चिच्छेद समरे सज्यं स सुमहारथः। अथान्यद् धनुरादाय धर्मपुत्रो युधिष्ठिरः॥ साश्वसूतध्वजरथं शल्यं प्राच्छादयच्छरैः। स च्छाद्यमानः समरे धर्मपुत्रस्य सायकैः॥ युधिष्ठिरमथाविध्यद् दशभिर्निशितैः शरैः। सात्यकिस्तु ततः क्रुद्धो दर्मपुत्रे शरार्दिते॥ मद्राणामधिपं शूरं शरैविव्याध पञ्चभिः। स सात्यके प्रचिच्छेद क्षुरप्रेण महद् धनुः॥ भीमसेनमुखांस्तांश्च त्रिभिस्त्रिभिरताडयत्। तस्य क्रुद्धो महाराज सात्यकिः सत्यविक्रमः॥ तोमरं प्रेषयामास स्वर्णदण्डं महाधनम्। भीमसेनोऽथ नाराचं ज्वलन्तमिव पन्नगम्॥ नकुलः समरे शक्तिं सहदेवो गदां शुभाम्। धर्मराजः शतघ्नीं च जिघासुः शल्यमाहवे॥ तानापतत एवाशु पञ्चानां वै भुजच्युतान्। वारयामास समरे शस्त्रसङ्घः स मद्रराट्॥ सात्यकिप्रहितं शल्यो भल्लैश्चिच्छेद तोमरम्। प्रहितं भीमसेनेन शरं टनकभूषणम्॥ द्विधा चिच्छेद समरे कृतहस्तः प्रतापवान्। नकुलप्रेषितां शक्तिं हेमदण्डां भयावहाम्॥ गदां च सहदेवेन शरौघैः समवारयत्। शराभ्यां च शतघ्नीं तां राज्ञश्चिच्छेद भारत॥ पश्यतां पाण्डुपुत्राणां सिंहनादं ननाद च। नामृष्यत्तत्र शैनेयः शत्रोविजयमाहवे॥ अथान्यद् धनुरादाय सात्यकिः क्रोधमूर्च्छितः। द्वाभ्यां मद्रेश्वरं विद्ध्वा सारथिं च त्रिभिः शरैः॥ ततः शल्यो रणे राजन् सर्वास्तान् दशभिः शरैः। विव्याध भृशसंक्रुद्धस्तोत्रैरिव महाद्विपान्॥ ते वार्यमाणाः समरे मद्रराज्ञा महारथाः। न शेकुः सम्मुखे स्थातुं तस्य शत्रुनिषूदनाः॥ ततो दुर्योधनो राजा दृष्ट्वा शल्यस्य विक्रमम्। निहतान् पाण्डवान् मेने पञ्चालानथ सृञ्जयान्॥ ततो राजन् महाबाहुर्भीमसेनः प्रतापवान्। संत्यज्य मनसा प्राणान् मद्राधिपमयोधयत्॥ नकुलः सहदेवश्च सात्यकिश्च महारथः। परिवार्य तदा शल्यं समन्ताद व्यकिरशरैः॥ स चतुर्भिर्महेष्वासैः पाण्डवानां महारथैः। वृतस्तान् योधयामास मद्राराजः प्रतापवान्॥ तस्य धर्मसुतो राजन् क्षुरप्रेण महाहवे। चक्ररक्षं जघानाशु मद्रराजस्य पार्थिवः॥ तस्मिंस्तु निहते शूरे चक्ररक्षे महारथे। मद्रराजोऽपि बलवान् सैनिकानावृणोच्छरैः॥ समावृतांस्ततस्तांस्तु राजन् वीक्ष्य स्वसैनिकान्। चिन्तयामास समरे धर्मपुत्रो युधिष्ठिरः॥ कथं नु समरे शक्यं तन्माधववचो महत्। न हि क्रुद्धो रणे राजा क्षपयेत बलं मम॥ ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज। मद्रराजं समासेदुः पीडयन्तः समन्ततः॥ नानाशस्त्रौघबहुलां शस्त्रावृष्टिं समुद्यताम्। व्यधमत् समरे राजा महाभ्राणीव मारुतः॥ ततः कनकपुङ्खां तां शल्यक्षिप्तां वियद्गताम्। शरवृष्टिमपश्याम शलभानामिवायतिम्॥ ते शरा मद्रराजेन प्रेषिता रणमूर्धनि। समपतन्तः स्म दृश्यन्ते शलभानां व्रजा इव॥ मद्रराजधनुर्मुक्तैः शरैः कनकभूषणैः। निरन्तरमिवाकाशं सम्बभूव जनाधिप॥ न पाण्डवानां नास्माकं तत्र किञ्चिद् व्यदृश्यत। बाणान्धकारे महति कृते तत्र महाहवे॥ मद्रराजेन बलिना लाघवाच्छरवृष्टिभिः। चाल्यमानं तु तं दृष्ट्वा पाण्डवानां बलार्णवम्॥ विस्मयं परमं जग्मुर्देवगन्धर्वदानवाः। स तु तान् सर्वतो यत्ताशरैः संछाद्य मारिप॥ धर्मराजमवच्छाद्य सिंहवद् व्यनदन्मुहुः। ते च्छन्नाः समरे तेन पाण्डवानां महारथाः॥ नाशक्नुवंस्तदा युद्धे प्रत्युद्यातुं महारथम्। धर्मराजपुरोगास्तु भीमसेनमुखा रथाः। न जहुः समरे शूरं शल्यमाहवशोभिनम्॥ संजय उवाच अर्जुनो द्रौणिना विद्धो युद्धे बहुभिरायसैः। तस्य चानुचरैः शूरैस्त्रिगर्तानां महारथैः॥ द्रौणिं विव्याध समरे त्रिभिरेव शिलीमुखैः। तथेतरान् महेष्वासान् द्वाभ्यां द्वाभ्यां धनंजयः॥ भूयश्चैव महाराज शरवर्षैरवाकिरत्। शरकण्टकितास्ते तु तावका भरतर्षभ॥ न जहुः पार्थमासाद्य ताड्यमानाः शितैः शरैः। अर्जुनं रथवंशेन द्रोणपुत्रपुरोगमाः॥ अयोधयन्त समरे परिवार्य महारथाः। तैस्तु क्षिप्ता: शरा राजन् कार्तस्वरविभूषिताः॥ अर्जुनस्य रथोपस्थं पूरयामासुरञ्जसा। तथा कृष्णौ महेष्वासौ वृषभौ सर्वधन्विनाम्॥ शरैर्वीक्ष्य विनुन्नाङ्गौ प्रहृष्टा युद्धदुर्मदाः। कूबरं रथचक्राणि ईषा योक्त्राणि वा विभो॥ युगं चैवानुकर्षं च शरभूतमभूत्तदा। नैतादृशं दृष्टपूर्वं राजन् नैव च नस श्रुतम्॥ यादृशं तत्र पार्थस्य तावकाः सम्प्रचक्रिरे। स रथः सर्वतो भाति चित्रपुङ्खैः शितैः शरैः॥ उल्काशतैः सम्प्रदीप्तं विमानमिव भूतले। ततोऽर्जुनो महाराज शरैः सन्नतपर्वभिः॥ अवाकिरत्तां पृतनां मघो वृष्ट्येव पर्वतम्। ते वध्यमानाः समरे पार्थनामाङ्कितैः शरैः॥ पार्थभूतममन्यन्त प्रेक्षमाणास्तथाविधम्। कोपोद्धृतशरज्वालो धनुःशब्दानिलो महान्॥ सैन्येन्धनं ददाहाशु तावकं पार्थपावकः। चक्राणां पततां चापि युगानां च धरातले॥ तूणीराणां पताकानां ध्वजानां च रथैः सह। ईषाणामनुकर्षाणां त्रिवेणूनां च भारत॥ अक्षाणमथ योक्त्राणां प्रतोदानां च सर्वशः। शिरसां पततां चापि कुण्डलोष्णीषधारिणाम्॥ भुजानां च महाभाग स्कन्धानां च समन्ततः। छत्राणां व्यजनैः सार्धं मुकुटानां च राशयः॥ समदृश्यन्त पार्थस्य रथमार्गेषु भारत। तत: क्रुद्धस्य पार्थस्य रथमार्गे विशाम्पते॥ अगम्यरूपा पृथिवी मांसशोणितकर्दमा। भीरूणां त्रासजननी शूराणां हर्षवर्धिनी॥ बभूव भरतश्रेष्ठ रुद्रस्याक्रीडनं यथा। हत्वा तु समरे पार्थः सहस्रे द्वे परंतपः॥ रथानां सवरूथानां विधूमोऽग्निरिव ज्वलन्। यथा हि भगवानग्निर्जगद् दग्ध्वा चराचरम्॥ विधूमो दृश्यते राजंस्तथा पार्थो धनंजयः। द्रौणिस्तु समरे दृष्ट्वा पाण्डवस्य पराक्रमम्॥ रथेनातिपताकेन पाण्डवं प्रत्यवारयत्। तावुभौ पुरुषव्याघ्रौ तावुभौ धन्विनां वरौ॥ समीयतुस्तदाऽन्योन्यं परस्परवधैषिणौ। तयोरासीन्महाराज बाणवर्षं सुदारुणम्॥ जीमूतयोर्यथा वृष्टिस्तपान्ते भरतर्षभ। अन्योन्यस्पर्धिनौ तौ तु शरैः सन्नतपर्वभि॥ ततक्षतुस्तदाऽन्योन्यं शृङ्गाभ्यां वृषभाविव। तयोर्युद्धं महाराज चिरं सममिवाभवत्॥ शस्त्राणां सङ्गमश्चैव घोरस्तत्राभवत् पुनः। ततोऽर्जुनं द्वादशभी रुक्मपुङ्खैः सुतेजनैः॥ वासुदेवं च दशभिद्रौणिर्विव्याध भारत। ततः प्रहर्षाद् बीभत्सुर्व्याक्षिपद् गाण्डिवं धनुः॥ मानयित्वा मुहुर्तं तु गुरुपुत्रं महाहवे। व्यश्वसूतरथं चक्रे सव्यसाची परन्तपः॥ मृदुपूर्वं ततश्चैनं पुनः पुनरताडयत्। हताश्वे तु रथे तिष्ठन् द्रोणपुत्रस्त्वयस्मयम्॥ मुसलं पाण्डुपुत्राय चिक्षेप परिघोपमम्। तमापतन्तं सहसा हेमपट्टविभूषितम्॥ चिच्छेद सप्तधा वीरः पार्थः शत्रुनिबर्हणः। स च्छिन्नं मुसलं दृष्ट्वा द्रौणिः परमकोपनः॥ आददे परिघं घोरं नगेन्द्रिशिखरोपमम्। चिक्षेप चैव पार्थाय द्रौणियुद्धविशारदः॥ तमन्तकमिव क्रुद्धं परिघं प्रेक्ष्य पाण्डवः। अर्जुनस्त्वरितो जघ्ने पञ्चभिः सायकोत्तमैः॥ स च्छिनः पतितो भूमौ पार्थबाणैर्महाहवे। दारयन् पृथिवीन्द्राणं मनांसीव च भारत॥ ततोऽपरैस्त्रिभिर्भल्लैद्रौणिं विव्याध पाण्डवः। सोऽतिविद्धो बलवता पार्थेन सुमहात्मना॥ नाकम्पत तदा द्रौणिः पौरुषे स्वे व्यवस्थितः। सुरथं च ततो राजन् भारद्वाजो महारथम्॥ अवाकिरच्छरवातैः सर्वक्षत्रस्य पश्यतः। ततस्तु सुरथोऽप्याजौ पञ्चालानां महारथः॥ रथेन मेघघोषेण द्रौणिमेवाभ्यधावता विकर्षन् वै धनुः श्रेष्ठं सर्वभारसहं दृढम्॥ ज्वलनाशीविषनिभैः शरैश्चैनमवाकिरत्। सुरथन्तं ततः क्रुद्धमापतन्तं महारथम्॥ चुकोप समरे द्रौणिर्दण्डाहत इवोरगः। त्रिशिखां भृकुटीं कृत्वा सृक्किणी परिसंलहन्॥ उद्वीक्ष्य सुरथं रोषाद् धनुर्ध्यामवमृज्य च। मुमोच तीक्ष्णं नाराचं यमदण्डोपमद्युतिम्॥ स तस्य ह्रदयं भित्त्वा प्रविवेशातिवेगितः। शक्राशनिरिवोत्सृष्टो विदार्य धरणीतलम्॥ ततः स पतितो भूमौ नाराचेन समाहतः। वज्रेण च यथा शृङ्ख पर्वतस्येव दीर्यतः॥ तस्मिन् विनिहते वीरे द्रोणपुत्रः प्रतापवान्। आरुरोह रथं तूर्णं तमेव रथिनां वरः॥ ततः सजो महाराज द्रौणिराहवदुर्मदः। अर्जुनं योधयामास संशप्तकवृतो रणे॥ तत्र युद्धं महचासीदर्जुनस्य परैः सह। मध्यंदिनगते सूर्ये यमराष्ट्रविवर्धनम्॥ तत्राश्चर्यमपश्याम दृष्ट्वा तेषां पराक्रमम्। यदेको युगपद् वीरान् समयोधयदर्जुनः॥ विमर्दः सुमहानासीदेकस्य बहुभिः सह। शतक्रतुर्यथा पूर्वं महत्या दैत्यसेनया॥ संजय उवाच दुर्योधनो महाराज धृष्टद्युम्नश्च पार्षतः। चक्रतुः सुमहद् युद्धं शरशक्तिसमाकुलम्॥ तयोरासन् महाराज शरधारा: सहस्रशः। अम्बुदानां यथा काले जलधाराः समन्ततः॥ राजा च पार्षतं विद्ध्वा शरैः पञ्चभिराशुगैः। द्रोणहन्तारमुरेषु पुनर्विव्याध सप्तभिः॥ धृष्टद्युम्नस्तु समरे बलवान् दृढविक्रमः। सप्तत्या विशिखानां वै दुर्योधनमपीडयत्॥ पीडितं वीक्ष्य राजानं सोदर्या भरतर्षभ। महत्या सेनया सार्धं परिवः स्म पार्षतम्॥ स तैः परिवृतः शूर सर्वतोऽतिस्थैर्भृशम्। व्यचरत् समरे राजन् दर्शयन्नस्त्रलाघवम्॥ शिखण्डी कृतवर्माणं गौतमं च महारथम्। प्रभद्रकैः समायुक्तो योधयामास धन्विनौ॥ तत्रापि सुमहद् युद्धं घोररूपं विशाम्पते। प्राणान् सन्त्यजतां युद्धे प्राणद्यूताभिदेवने॥ शल्यः सायकवर्षाणि विमुञ्चन् सर्वतोदिशम्। पाण्डवान् पीडयामास ससात्यकिवृकोदरान्॥ तथा तौ तु यमौ युद्धे यमतुल्यपराक्रमौ। योधयामास राजेन्द्र वीर्येणास्त्रबलेन च॥ शल्यसायकनुन्नानां पाण्डवानां महामृधे। त्रातारं नाभ्यगच्छन्त केचित्तत्र महारथः॥ ततस्तु नकुलः शूरो धर्मराजे प्रपीडते। अभिदुद्राव वेगेन मातुलं मातृनन्दनः॥ संछाद्य समरे शल्यं नकुलः परवीरहा। विव्याध चैनं दशभिः स्मयमानः स्तनान्तरे॥ सर्वपारसवैर्बाणैः कर्मारपरिमार्जितैः। स्वर्णपुङ्खः शिलाधौतैर्धनुर्यन्त्रप्रचोदितैः॥ शल्यस्तु पीडितस्तेन स्वस्रीयेण महात्मना। नकुलं पीडयामास पत्रिभिर्नतपर्वभिः॥ ततो युधिष्ठिरो राजा भीमसेनोऽथ सात्यकिः। सहदेवश्च माद्रेयो मद्रराजमुपाद्रवन्॥ तानापतत एवाशु पूरयाणान् रथस्वनैः। दिशश्च विदिशश्चैव कम्पयानांश्च मेदिनीम्॥ प्रतिजग्राह समरे सेनापतिरमित्रजित्। युधिष्ठिरं त्रिभिर्विद्ध्वा भीमसेनं च पञ्चभिः॥ सात्यकिं च शतेनाजौ सहदेवं त्रिभिः शरैः। ततस्तु शसरं चापं नुकलस्य महात्मनः॥ मद्रेश्वरः क्षुरप्रेण तदा मारिष चिच्छेिदे। तदशीर्यत विच्छिन्नं धनुः शल्यस्य सायकैः॥ अथान्यद् धनुरादाय माद्रीपुत्रो महारथः। मद्रराजरथं तूर्णं पूरयामास पत्रिभिः॥ युधिष्ठिरस्तु मद्रेशं सहदेवश्च मारिष। दशभिर्दशभिर्बाणैरुरस्येनमविध्यताम्॥ भीमेसेनस्तु तं षष्ट्या सात्यकिर्दशभिः शरैः। मद्रराजमभिद्रुत्य जघ्नतुः कङ्कपत्रिभिः॥ मद्रराजस्ततः क्रुद्धः सात्यकि नवभिः शरैः। विव्याध भूयः सप्तत्या शराणां नतपर्वणाम्॥ अथास्य सशरं चापं मुष्टौ चिच्छेद मारिष। हयांश्च चतुरः संख्ये प्रेषयामास मृत्यवे॥ विरथं सात्यकि कृत्वा मद्रराजो महारथः। विशिखानां शतैनैनमाजघान समन्ततः॥ माद्रीपुत्रौ च संरब्धौ भीमसेनं च पाण्डव। युधिष्ठिरं च कौरव्य विव्याध दशभिः शरैः॥ तत्राद्भुतमपश्याम मद्रराजस्य पौरुषम्। यदेनं सहिताः पार्था नाभ्यवर्तन्त संयुगे॥ अथान्यं रथमास्थाय सात्यकिः सत्यविक्रमः। पीडितान् पाण्डवान् दृष्ट्वा मद्रराजवशंगतान्॥ अभिदुद्राव वेगेन मद्राणामधिपं बलात्। आपतन्तं रथं तस्य शल्यः समितिशोभनः॥ प्रत्युद्ययौ रथेनैव मत्तो मत्तमिव द्विपम्। स संनिपातस्तुमुलो बभूवाद्भुतदर्शनः॥ सात्यकिश्चैव शूरस्य मद्राणामधिपस्य च। यादृशो वै पुरा वृत्तः शम्बरामरराजयोः॥ सात्यकिः प्रेक्ष्य समरे मद्रराजमवस्थितम्। विव्याध दशभिर्बाणैस्तिष्ठ तिष्ठेति चाब्रवीत्॥ मद्रराजस्तु सुभृशं विद्धस्तेन महात्मना। सात्यकिं प्रतिविव्याध चित्रपुङः शितैः शरै॥ ततः पार्था महेष्वासाः सात्वताभिसृतं नृपम्। अभ्यवर्तन रथैस्तूर्णं मातुलं वधकाझ्या॥ तत आसीत् परामर्दस्तुमुलः शोणितोदकः। शूराणां युध्यमानानां सिंहानामिव नर्दताम्॥ तेषामासीन्महाराज व्यतिक्षेपः परस्परम्। सिंहानामामिषेप्सूनां कूजतामिव संयुगे॥ तेषां बाणसहस्रौघैराकीर्णा वसुधाभवत्। अन्तरिक्षं च सहसा बाणभूतमभूत्तदा॥ शरान्धकारं सहसा कृतं तत्र समन्ततः। अभ्रच्छायेव संजज्ञे शरैर्मुक्तैर्महात्मभिः॥ तत्र राजशरैर्मुक्तैर्निर्मुक्तैरिव पन्नगैः। स्वर्णपुङ्खः प्रकाशद्भिर्व्यरोचन्त दिशस्तदा।॥ तत्राद्भुतं परं चक्रे शल्यः शत्रुनिबर्हणः। यदेकः समरे शूरो योधयामास वै बहून्॥ मद्रराजभुजोत्सष्टैः कङ्कबर्हिणवाजितैः। सम्पतद्भिः शरैोरैरवाकीर्यत मेदिनी॥ तत्र शल्यरथं राजन् विचरन्तं महाहवे। अपश्याम यथापूर्वं शक्रस्यासुरसंक्षये॥ संजय उवाच ततः सैन्यास्तव विभो मद्रराजपुरस्कृताः। पुनरभ्यद्रवन् पार्थान् वेगेन महता रणे॥ पीडितास्तावकाः सर्वे प्रधावन्तो रणोत्कटाः। क्षणेन चैव पार्थस्ते बहुत्वात् समलोडयन्॥ ते वध्यामानाः समरे पाण्डवा नावतस्थिरे। निवार्यमाणा भीमेन पश्यतोः कृष्णयोस्तदा॥ ततो धनंजयः क्रुद्धः कृपं सह पदानुगैः। अवाकिरच्छरौघेण कृतवर्माणमेव च॥ शकुनि सहदेवस्तु सहसैन्यमवाकिरत्। नकुल: पार्श्वत: स्थित्वा मद्राराजमवैक्षत॥ द्रौपदेया नरेन्द्रांश्च भूयिष्ठान् समवारयन्। द्रोणपुत्रं च पाञ्चाल्य: शिखण्डी समवारयत्॥ भीमसेनस्तु राजानं गदापाणिवारयत्। शल्यं तु सह सैन्येनं कुन्तीपुत्रो युधिष्ठिरः॥ ततः समभवत् सैन्यं संसक्तं तत्र तत्र हा तावकानां परेषां च संग्रामेष्वनिविर्तनाम्॥ तत्र पश्याम्यहं कर्म शल्यस्याति महद्रणे। यदेकः सर्वसैन्यानि पाण्डवानामयोधयत्॥ व्यदृश्यत तदा शल्यो युधिष्ठिरसमीपतः। रणे चन्द्रमसोऽभ्याशे शनैश्चर इव ग्रहः॥ पीडयित्वा तु राजानं शरैगशीविषोपमैः। अभ्यधावत् पुनर्भीमं शरवर्षैरवाकिरत्॥ तस्य तल्लाघवं दृष्ट्वा तथैव च कृतास्त्रताम्। अपूजयन्ननीकानि परेषां तावकानि च॥ पीड्यमानस्तु शल्येन पाण्डवा भृशविक्षताः। प्राद्रवन्त रणं हित्वा क्रोशमाने युधिष्टिरे॥ वध्यमानेष्वनीकेषु मद्रराजेन पाण्डवः। अमर्षवशमापन्नो धर्मराजो युधिष्ठिरः॥ ततः पौरुषामास्थाय मद्रराजमताडयत्। जयो वास्तु वधो वास्तु कृतबुद्धिर्महारथः॥ समाहूयाब्रवीत् सर्वान् भ्रातॄन् कृष्णं च माधवम्। भीष्मो द्रोणश्च कर्णश्च ये चान्ये पृथिवीक्षितः॥ कौरवार्थे पराक्रान्ताः संग्रामे निधनं गताः। यथाभागं यथोत्साहं भवन्तः कृतपौरुषाः॥ भागोऽविशिष्ट एकोऽयं मम शल्यो महारथः। सोऽहमद्य युधा जेतुमाशंसे मद्रकाधिपम्॥ तत्र यन्मानसं मह्यं तत् सर्वं निगदामि वः। चक्ररक्षाविमौ वीरौ मम माद्रवतीसुतौ॥ अजेयौ वासवेनापि समरे शूरसम्मतौ। साध्विमौ मातुलं युद्धे क्षत्रधर्मपुरस्कृतौ॥ मदर्थे प्रतियुद्ध्येतां मानाही सत्यसङ्गरौ! मां वा शल्यो रणे हन्तां तं वाहं भद्रमस्तु वः॥ इति सत्यामिमां वाणी लोकवीरा निबोधत। योत्स्येऽहं मातुलेनाद्य क्षात्रधर्मेण पार्थिवाः॥ स्वमंशमभिसंधाय विजयायेतराय च। तस्य मेऽप्यधिकं शस्त्रं सर्वोपकरणानि च॥ संसज्जन्तु रथे क्षिप्रं शास्त्रवद् रथयोजकाः शैनेयो दक्षिणं चक्रं धृष्टद्युम्नस्तथोत्तरम्॥ पृष्ठगोपो भवत्वद्य मम पार्थो धनंजयः। पुरःसरो ममाधास्तु भीमः शस्त्रभृतां वरः॥ एवमभ्यधिकः शल्याद् भविष्यामि महामृधे। एवमुक्तास्तथा चक्रुस्तदा राज्ञः प्रियैषिणः॥ ततः प्रहर्षः सैन्यानां पुनरासीत् तदा मृधे। पञ्चालानां सोमकानां मत्स्यानां च विशेषतः॥ प्रतिज्ञां तां तदा राजा कृत्वा मद्रेशमभ्ययात्। ततः शङ्खांश्च भेरीश्च शतशश्चैव पुष्कलान्।॥ अवादयन्त पञ्चालाः सिंहनादांश्च नेदिरे। तेऽभ्यधावन्त संरब्धा मद्रराजं तरस्विनम्॥ महता हर्षजेनाथ नादेन कुरुपुङ्गवाः। ह्रादेन गजघण्टानां शङ्खानां निनदेन च॥ तूर्यशब्देन महता नादयन्तश्च मेदिनीम्। तान् प्रत्यगृह्णात् पुत्रस्ते मद्रराजश्च वीर्यवान्॥ महामेघानिव बहूशैलावस्तोदयावुभौ। शल्यस्तु समरश्लाघी धर्मराजमरिंदमम्॥ ववर्ष शरवर्षेण शम्बरं मघवा इव। तथैव कुरुराजोऽपि प्रगृह्य रुचिरं धनुः॥ द्रोणोपदेशान् विविधान् दर्शयानो महामनाः। ववर्ष शरवर्षाणि चित्रं लघु च सुष्ठु च॥ न चास्य विवरं कश्चिद् ददर्श चरतो रणे। तावुभौ विविधैर्वाणैस्ततक्षाते परस्परम्॥ शार्दूलावामिषप्रेप्सू पराक्रान्ताविवाहवे। भीमस्तु तव पुत्रेण युद्धशौण्डेन संगतः॥ पाञ्चाल्यः सात्यकिश्चैव माद्रीपुत्रौ च पाण्डवौ। शकुनिप्रमुखान् वीरान् प्रत्यगृह्णन् समन्ततः॥ तदाऽऽसीत् तुमुलं युद्धं पुनरेव जयैषिणाम्। तावकानां परेषां च राजन् दुर्मन्त्रिते तव॥ दुर्योधनस्तु भीमस्य शरेणानतपर्वणा। चिच्छेदादिश्य संग्रामे ध्वजं हेमपरिष्कृतम्॥ स किङ्किणोकजालेन महता चारुदर्शन:। पपात रुचिरः संख्ये भीमसेनस्य पश्यतः॥ पुनश्चास्य धनुश्चित्रं गजराजकरोपमम्। क्षुरेण शितधारेण प्रचकर्त नराधिपः॥ स च्छिन्नधन्वा तेजस्वी रथशक्त्या सुतं तव। बिभेदोरसि विक्रम्य स रथोपस्थ आविशत्॥ तस्मिन् मोहमनुप्राप्ते पुनरेव वृकोदरः। यन्तुरेव शिरः कायात् क्षुरप्रेणाहरत् तदा॥ हतसूता हयास्तस्य रथमादाय भारत। व्यद्रवन्त दिशो राजन् हाहाकारस्तदाभवत्॥ तमभ्यधावत् त्राणार्थं द्रोणपुत्रो महारथः। कृपश्च कृतवर्मा च पुत्रं तेऽपि पीरप्सवः॥ तस्मिन् विलुलिते सैन्ये त्रस्तास्तस्य पदानुगाः। गाण्डीवधन्वा विस्फार्य धनुस्यानहनच्छरैः॥ युधिष्ठिरस्तु मद्रेशमभ्यधावदमर्षितः। स्वयं संनोयदन्नश्वान् दन्तवर्णान् मनोजवान्॥ तत्राश्चर्यमपश्याम कुन्तीपुत्रे युधिष्ठिरे। पुरा भूत्वा मृदुर्दान्तो यत् तदा दारुणोऽभवत्॥ विवृताक्षश्च कौन्तेयो वेपमानश्च मन्युना। चिच्छेद योधान् निशितैः शरैः शतसहस्रशः॥ यां यां प्रत्युद्ययौ सेनां तां तां ज्येष्ठः स पाण्डवः। शरैरपातयद् राजन् गिरीन् वज्रेरिवौत्तमैः॥ साश्वसूतध्वजरथान् रथिनः पातयन् बहून्। अक्रीडदेको बलवान् पवनस्तोयदानिव॥ साश्वारोहांश्च तुरगान् पत्तींश्चैव सहस्रधा। व्यपोथयत संग्रामे क्रुद्धो रुद्रः पशूनिव॥ शून्यमायोधनं कृत्वा शरवर्षेः समन्ततः। अभ्यद्रवत मद्रेशं तिष्ठ शल्येति चाब्रवीत्॥ तस्य तचरितं दृष्ट्वा संग्रामे भीमकर्मणः। वित्रेसुस्तावकाः सर्वे शल्यस्त्वेनं समभ्ययात्॥ ततस्तौ भृशसंक्रुद्धौ प्रध्माय सलिलौद्भवौ। समाहूय तदान्योन्यं भर्त्सयन्तौ समीयतुः॥ शल्यस्तु शरवर्षेण पीडयामास पाण्डवम्। मद्रराजं तु कौन्तेयः शरवर्षैरवाकिरत्॥ अदृश्येता तदा राजन् कङ्कपत्रिभिराचितौ। उद्भिनरुधिरौ शूरौ मद्रराजयुधिष्ठिरौ॥ पुष्पतौ शुशुभाते वै वसन्ते किंशिकौ यथा। दीप्यमानौ महात्मानौ प्राणद्यूतेन दुर्मदौ॥ दृष्ट्वा सर्वाणि सैन्यानि नाध्यवस्यंस्तयोर्जयम्। हत्वा मद्राधिपं पार्थो भोक्ष्यतेऽद्य वसुन्धराम्॥ शल्यो वा पाण्डवं हत्वा दद्याद् दुर्योधनाय गाम्। इतीव निश्चयो नाभूद् योधानां तत्र भारत॥ प्रदिक्षिणमभूत् सर्वं धर्मराजस्य युध्यतः। ततः शरशतं शल्यो मुमोचाथ युधिष्ठिरे॥ धनुश्चास्य शिताग्रेण बाणेन निरकृन्तत। सोऽन्यत् कार्मुकमादाय शल्यं शरशतैस्त्रिभिः॥ अविध्यत् कार्मुकं चास्य क्षुरेण निरकृन्तत। अथास्य निजघानाश्वांश्चतुरो नतपर्वभिः॥ द्वाभ्यामतिसिताग्राभ्यामुभौ तत् पार्ष्णिसारथी। ततोऽस्य दीप्यमानेन पीतेन निशितेन च॥ प्रमुखे वर्तमानस्य भल्लेनापाहरद् ध्वजम्। ततः प्रभग्नं तत् सैन्यं दौर्योधनमरिंदम॥ ततो मद्राधिपं द्रौणिरभ्यधावत् तथा कृतम्। आरोप्य चैनं स्वरथे त्वरमाणः प्रदुदुवे॥ मुहूर्तमिव तौ गत्वा नर्दमाने युधिष्ठिरे। स्मित्वा ततो मद्रपतिरन्यं स्यन्दनमास्थितः॥ विधिवत् कल्पितं शुभ्रं महाम्बुदनिनादिनम्। सज्जयत्रोपकरणं द्विषतां लोमहर्षणम्॥ संजय उवाच शल्येऽथ निहते राजन् मद्रराजपदानुगाः। रथाः सप्तशता वीरो निर्ययुर्महतो बलात्॥ दुर्योधनस्तु द्विरदमारुद्याचलसंनिभम्। छत्रेण ध्रियमाणेन वीज्यमानश्च चामरैः॥ ते न गन्तव्यं न गन्तव्यमिति मद्रानवारयत्। दुर्योधनेन ते वीरा वार्यमाणाः पुनः पुनः॥ युधिष्ठिरं जिघांसन्तः पाण्डूना प्राविशन् बलम्। तु शूरा महाराज कृतचित्ताश्च योधने।॥ धनुःशब्दं महत् कृत्वा सहायुध्यन्त पाण्डवैः। श्रुत्वा च निहतं शल्यं धर्मपुत्रं च पीडितम्॥ मद्रराजप्रिये युक्तैर्मद्रकाणां महारथैः। आजगाम ततः पार्थो गाण्डीवं विक्षिपन् धनुः॥ पूरयन् रथघोषेण दिश: सर्वा महारथः। ततोऽर्जुनश्च भीमश्च माद्रीपुत्रौ च पाण्डवौ॥ सात्यकिश्च नरव्याघ्रो द्रौपदेयाश्च सर्वशः। धृष्टद्युम्नः शिखण्डी च पञ्चाला: सह सोमकैः॥ युधिष्ठिरं परीप्सन्तः समन्तात् पर्यवारयन्। ते समन्तान् परिवृताः पाण्डवाः पुरुषर्षभाः॥ क्षोभयन्ति स्म तां सेनां मकरा: सागरं यथा। वृक्षानिव महावता: कम्पयन्ति स्म तावकान्॥ पुरोवातेन गड्डेव क्षोभ्यमाणाः महानदी। अक्षोभ्यत तदा राजन् पाण्डूनां ध्वजिनी ततः॥ प्रस्कन्ध सेना महतीं महात्मानो महारथाः। बहवशुक्रुशुस्तत्र क स राजा युधिष्ठिरः॥ भ्रातरो वास्य ते शूरा दृश्यन्ते नेह केन च। धृष्टद्युम्नोऽथ शैनेयो द्रौपदेयाश्च सर्वशः॥ पाञ्चालाश्च महावीर्याः शिखण्डी च महारथः। एवं तान् वादिनः शूरान् द्रौपदेया महारथाः॥ अभ्यघ्नन् युयुधानश्च मद्रराजपदानुगान्। चक्रैर्विमथितैः केचित् केचिच्छिन्नैर्महाध्वजैः॥ ते दृश्यन्तेऽपि समरे तावका निहताः परैः। आलोक्य पाण्डवान् युद्धे योधा राजन् समन्ततः॥ वार्यमाणा ययुर्वेगात् पुत्रेण तव भारत। दुर्योधनश्च तान् वीरान् वारयामास सान्त्वयन्॥ न चास्य शासनं केचित्तत्र चक्रुर्महारथाः। ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत्॥ दुर्योधनं महाराज वचनं वचनक्षमः। किं न सम्प्रेक्षमाणानां मद्राणां हन्यते बलम्। न युक्तमेतत् समरे त्वयि तिष्ठति भारत। सहितैश्चापि योद्धव्यमित्येष समयः कृतः॥ अथ कस्मात् परानेव नतो मर्षयसे नृप। दुर्योधन उवाच वार्यमाणा मया पूर्वं नैते चक्रुर्वचो मम॥ एते विनिहताः सर्वे प्रस्कन्नाः पाण्डुवाहिनीम्। शकुनिरुवाच न भर्तुः शासनं वीरा रणे कुर्वन्त्यमर्षिताः॥ अलं क्रोधुमथैतेषां नायं काल उपेक्षितम्। यामः सर्वे च सम्भूय सवाजिरथकुञ्जराः॥ परित्रातुं महेष्वासान् मद्रराजपदानुगान्। संजय उवाच अन्योयं परिरक्षामो यत्नेन महता नृप।॥ एवं सर्वेऽनुसंचिन्त्य प्रययुर्यत्र सैनिकाः। एवमुक्तस्तदा राजा बलेन महता वृतः॥ प्रययौ सिंहनादेन कम्पयन्निव मेदिनीम्। हत विद्ध्यत गृह्णीत प्रहरध्वं निकृन्तत॥ इत्यासीत् तुमुल: शब्दस्तव सैन्यस्य भारत। पाण्डवास्तु रणे दृष्ट्वा मद्रराजपदानुगान्॥ सहितानभ्यवर्तन्त गुल्ममास्थाय मध्यमम्। ते मुहूर्ताद् रणे वीरा हस्ताहस्ति विशाम्पते॥ निहताः प्रत्यदृश्यन्त मद्रराजपदानुगाः। ततो नः सम्प्रयातानां हता मद्रास्तरस्विनः॥ हृष्टाः किलकिलाशब्दमकुर्वन् सहिताः परे। उत्थितानि कबन्धानि समदृश्यन्त सर्वशः॥ पपात महती चोल्का मध्येनादित्यमण्डलम्। रथैर्भग्नैर्युगाक्षैश्च निहतैश्च महारथैः॥ अश्चैनिपतितैश्चैव संछन्नाभूद् वसुन्धरा। वातायमानैस्तुरगैर्युगासक्तैस्ततस्ततः॥ अदृश्यन्त महाराज योधास्तत्र रणाजिरे। भग्नचक्रान् रथान् केचिदहरंस्तुरगा रणे॥ रथाधु केचिदादाय दिशो दश विबभ्रमुः। तत्र तत्र व्यदृश्यन्त यौकत्रैः श्लिष्टाः स्म वाजिनः॥३४ रथिनः पतमानाश्च दृश्यन्ते स्म नरोत्तमाः। गगनात् प्रच्युता सिद्धाः पुण्यानामिव संक्षये॥ निहतेषु च शूरेषु मद्रराजानुगेषु वै। अस्मानापततश्चापि दृष्ट्वा पार्था महारथाः॥ अभ्यवर्तन्त वेगेन जयगृद्धाः प्रहारिणः। बाणशब्दरवान् कृत्वा विमिश्राशङ्खनिःस्वनैः॥ अस्मांस्तु पुनरासाद्य लब्धलक्ष्यप्रहारिणः। शरासनानि धुन्वानाः सिंहनादान् प्रचुक्रुशुः॥ ततो हतमभिप्रेक्ष्य मद्रराजबलं महत्। मद्रराजं च समरे दृष्ट्वा शूरं निपातितम्॥ दुर्योधनबलं सर्वं पुनरासीत् पराङ्मुखम्। वध्यमानं महाराज पाण्डवैर्जितकाशिभिः। दिशो भेजेऽथसम्भ्रान्तं भ्रामितं दृढधन्विभिः॥ वध्यमानं महाराज पाण्डवैर्जितकाशिभिः। दिशो भेजेऽथसम्भ्रान्तं भ्रामितं दृढधन्विभिः॥ संजय उवाच पातिते युधि दुर्धर्षे मद्रराजे महारथे। तावकास्तव पुत्राश्च प्रायशो विमुखाऽभवन्॥ वणिजो नावि भिन्नाया यथागाधेऽप्लवेऽर्णवे। अपारे पारमिच्छन्तो हते शूरे महात्मना॥ मद्रराजे महाराज वित्रस्ताः शरविक्षताः। अनाथा नाथमिच्छन्तो मृगाः सिंहार्दिता इव॥ वृषा यथा भग्नशृङ्गाः शीर्णदन्ता यथा गजाः। मध्याह्ने प्रत्यपायाम निर्जिताऽजातशत्रुणा॥ न संधातुमनीकानि न च राजन् पराक्रमे। आसीद् बुद्धिर्हते शल्ये भूयो योधस्य कस्यचित्॥ भीष्मे द्रोणे च निहते सूतपुत्रे च भारत। यद् दुखं तव योधानां भयं चासीद् विशाम्पते॥ तद् भयं स च नः शोको भूय एवाभ्यवर्तत। निराशाच जये तस्मिन्हते शल्ये महारथे॥ हतप्रवीरा विध्वस्ता निकृत्ताश्च शितैः शरैः। मद्रराजे हते राजन् योधास्ते प्राद्रवन् भयात्॥ अश्वानन्ये गजानन्ये रथानन्ये महारथाः। आरुह्य जवसम्पन्नाः पादाताः प्राद्रवंस्तथा॥ द्विसाहस्राश्च मातङ्गा गिरिरूपाः प्रहारिणः। सम्प्राद्रवन् हते शल्ये अङ्कुशाङ्गुष्ठनोदिताः॥ रणाद् भरतश्रेष्ठ तावकाः प्राद्रवन् दिशः। धावतश्चाप्यपश्याम श्वसमानाशराहतान्॥ तान् प्रभग्नान् दुतान् दृष्ट्वा हतोत्साहान् पराजितान्। अभ्यवर्तन्त पञ्चालाः पाण्डवाश्च जयैषिणः॥ बाणशब्दरवाश्चापि सिंहनादाश्च पुष्कलाः। शङ्खशब्दाश्च शूराणां दारुणः समपद्यत॥ दृष्ट्वा तु कौरवं सैन्यं भयत्रस्तं प्रविद्रुतम्। अन्योन्यं समभाषन्त पञ्चाला: पाण्डवैः सह॥ ते अद्य राजा सत्यधृतिर्हतामित्रो युधिष्ठिरः। अद्य दुर्योधनो हीनो दीप्ताया नृपतिश्रियः॥ अद्य श्रुत्वा हतं पुत्रं धृतराष्ट्रो जनेश्वरः। विह्वलः पतितो भूमौ किल्विषं प्रतिपद्यताम्॥ अद्य जानातु कौन्तेयं समर्थं सर्वधन्विनाम्। अद्यात्मानं च दुर्मेधा गर्हयिष्यति पापकृत्॥ अद्य क्षत्तुर्वचः सत्यं स्मरतां ब्रुवतो हितम्। अद्यप्रभृति पार्थं च प्रेष्यभूत इवाचरन्॥ विजानातु नृपो दुःखं यत् प्राप्तं पाण्डुनन्दनैः। अद्य कृष्णस्य माहात्म्यं विजानातु महीपतिः॥ अद्यार्जुनधनुर्घोषं घोरं जानातु संयुगे। अस्त्राणां च बलं सर्वं बाह्वोश्च बलमाहवे॥ अद्य ज्ञास्यति भीमस्य बलं घोरं महात्मनः। हते दुर्योधने युद्धे शक्रेणेवासुरे बले॥ पार्षतः॥ यत् कृतं भीमसेनेन दुःशासनवधे तदा। नान्यः कर्तास्ति लोकेऽस्मिनृते भीमान्महाबलात्॥ अद्य श्रेष्ठस्य जानीतां पाण्डवस्य पराक्रमम्। मद्रराजं हतं श्रुत्वा देवैरपि सुदुःसहम्॥ अद्य ज्ञास्यति संग्रामे माद्रीपुत्रौ सुदुःसहौ। निहते सौबले वीरे प्रवीरेषु च सर्वशः॥ कथं जयो न तेषां स्याद् येषां योद्धा धनंजयः। सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च द्रौपद्यास्तनयाः पञ्च माद्रीपुत्रौ च पाण्डवौ। शिखण्डी च महेष्वासो राजा चैव युधिष्ठिरः॥ येषां च जगतीनाथो नाथः कृष्णो जनार्दनः। कथं तेषाहं जयो न स्याद् येषां धर्मो व्यपाश्रयः॥ भीष्मं द्रोणं च कर्णं च मद्रराजानमेव च। तथान्यान् नृपतीन् वीराशतशोऽथ सहस्रशः॥ कोऽन्यः शक्तो रणे जेतुमृते पार्थाद् युधिष्ठिरात्। यस्य नाथो हृषीकेशः सदा सत्ययशोनिधिः॥ इत्येवं वदमानास्ते हर्षेण महता युता। प्रभग्नांस्तावकान्योधान् संहृष्टा पृष्ठतोऽन्वयुः॥ धनंजयो रथानीकमभ्यवर्तत वीर्यवान्। माद्रीपुत्रौ च शकुनिं सात्यक्श्चि महारथः॥ तान् प्रेक्ष्य द्रवतः सर्वान् भीमसेनभयार्दितान्। दुर्योधनस्तदा सूतमब्रवीद् विजयाय च॥ मामतिक्रमते पार्थो धनुष्याणिमवस्थितम्। जघने सर्वसैन्यानां ममाश्वान् प्रतिपादय॥ जघने युध्यमानं हि कौन्तेयो मां समन्ततः। नोत्सहेदभ्यतिक्रान्तुं वेलामिव महोदधिः॥ पश्य सैन्यं महत् सूत पाण्डवैः समभिद्रुतम्। सैन्यरेणुं समुद्भूतं पश्यस्वैनं समन्ततः॥ सिंहनादांश्च बहुशः शृणु घोरान् भयावहान्। तस्माद् याहि शनैः सूत जघनं परिपालय॥ मयि स्थिते च समरे निरुद्धेषु च पाण्डुषु। पुनरावर्तते तूर्णं मामकं बलमोजसा॥ तच्छ्रुत्वा तव पुत्रस्य शूरार्यसदृशं वचः। सारथिहेमसंछन्नाशनैरश्वानचोदयत्॥ गजाश्वरथिभित्नास्त्यक्तात्मानः पदातयः। एकविंशतिसाहस्राः संयुगायावतस्थिरे॥ नानादेशसमुद्भूता नानानगरवासिनः। अवस्थितास्तदा योधाः प्रार्थयन्तो महद् यशः॥ तेषामापततां तत्र संहृष्टानां परस्परम्। सम्पर्दः सुमहाञ्जज्ञे घोररूपो भयानकः ॥ भीमसेनस्तदा राजन् धृष्टद्युम्नश्च पार्षतः। बलेन चतुरङ्गेण नानादेश्यानवारयत्॥ भीममेवाभ्यवर्तन्त रणेऽन्ये तु पदातयः। प्रक्ष्वेड्यास्फोट्य संहृष्टा वीरलोकं यियासवः॥ आसाद्य भीमसेनं संरब्धा युद्धदुर्मदाः। धार्तराष्ट्रा विनेदुर्हि नान्यामकथयन् कथाम्॥ परिवार्य रणे भीमं निजघ्नुस्ते समन्ततः। स वध्यमानः समरे पदातिगणसंवृतः॥ न चचाल ततः स्थानान्मैनाक इव पर्वतः। तु ते तु क्रुद्धा महाराज पाण्डवस्य महारथम्॥ निग्रहीतुं प्रवृत्ता हि योधांश्चान्यानवारयन्। अक्रुध्यत रणे भीमस्तैस्तदा पर्यवस्थितैः॥ सोऽवतीर्य रथात् तूर्णं पदातिः समवस्थितः। जातरूपप्रतिच्छन्नां प्रगृह्य महतीं गदाम्॥ अवधीत् तावकान् योधान् दण्डपाणिरिवान्तकः। विप्रहीणरथाश्वांस्तानवधीत् पुरुषर्षभः॥ एकविंशतिसाहस्रान् पदातीन् समपोथयत्। हत्वा तत् पुरुषानीकं भीमः सत्यपराक्रमः॥ धृष्टद्युम्नं पुरस्कृत्य नचिरात् प्रत्यदृश्यत। पादाता निहता भूमौ शिश्यिरे रुधिरोक्षिताः॥ सम्भग्ना इव वातेन कर्णिकाराः सुपुष्पिताः। नानाशस्त्रसमायुक्ता नानाकुण्डलधारिणः॥ नानाजात्या हतास्तत्र नानादेशसमागताः। पताकाध्वजसंछन्नं पदातीनां महद् बलम्॥ निकृत्तं विबभौ रौद्रं घोररूपं भयावहम्। युधिष्ठिरपुरोगाश्च सहसैन्या महारथाः॥ अभ्यधावन् महात्मानं पुत्रं दुर्योधन तव। ते सर्वे तावकान् दृष्ट्वा महेष्वासा: पराङ्मुखान्। नात्यवर्तन्त ते पुत्रं वेलेव मकरालयम्। तदद्भुतमपश्याम तव पुत्रस्य पौरुषम्॥ यदेकं सहिताः पार्था न शेकुरतिवर्तितुम्। नातिदूरापयातं तु कृतबुद्धिं पलायने॥ दुर्योधनः स्वकं सैन्यमब्रवीद् भृशविक्षतम्। न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु च॥ यत्र यातान्न वा हन्युः पाण्डवाः किं सृतेन वः। अल्पं च बलमेतेषां कृष्णौ च भृशविक्षतौ॥ यदि सर्वेऽत्र तिष्ठामो ध्रुवं नो विजयो भवेत्। विप्रयातास्तु वो भिन्नान् पाण्डवाः कृतविप्रियाः॥ अनुसृत्य हनिष्यन्ति श्रेयानः समरे वधः। शृण्वन्तु क्षत्रियाः सर्वे यावन्तोऽत्र समागताः॥ यदा शूरं च भीरुं च मारयत्यन्तकः सदा। को नु मूढो न युध्येत पुरुषः क्षत्रियो ध्रुवम्॥ श्रेयो नो भीमसेनस्य क्रुद्धस्याभिमुखे स्थितम्। सुखः सांग्रामिको मृत्युः क्षत्रधर्मेण युध्यताम्॥ म]नावश्यमर्तव्यं गृहेष्वपि कदाचन। युध्यत: क्षत्रधर्मेण मृत्युरेष सनातनः॥ हत्वेह सुखमाप्नोति हतः प्रेत्य महत् फलम्। न युद्धधर्माच्छ्रेयान् वै पन्थाः स्वर्गस्य कौरवाः॥ अचिरेणैव ताँल्लोकान् हतो युद्धे समश्नुते। श्रुत्वा तद् वचनं तस्य पूजयित्वा च पार्थिवाः॥ पुनरेवाभ्यवर्तन्त पाण्डवानाततायिनः। तानापतत एवाशु व्यूढानीकाः प्रहारिणः॥ प्रत्युद्ययुस्तदा पार्था जयगृद्धाः प्रमन्यवः। धनंजयो रथेनाजावभ्यवर्तत वीर्यवान्॥ विश्रुतं त्रिषु लोकेषु व्याक्षिपन् गाण्डिवं धनुः। माद्रीपुत्रौ च शकुनि सात्यकिश्च महाबलः॥ जवेनाभ्यपतन् हृष्टा यत्ता वै तावकं बलम्॥ संजय उवाच पुत्रस्तु ते महाराज रथस्थो रथिनां वरः। दुरुत्सहो बभौ युद्धे यथा रुद्रः प्रतापवान्॥ तस्य बाणसहस्रैस्तु प्रच्छन्ना ह्यभवन्मही। परांश्च सिषिचे बाणैर्धाराभिरिव पर्वतान्॥ न च सोऽति पुमान् कश्चित् पाण्डवानां बलार्णवे। यो गजो रथो वापि यः स्याद् बाणैरविक्षतः॥ यं यं हि समरे योधं प्रपश्यामि विशाम्पते। स स बाणैश्चितोऽभूद्वै पुत्रेण तव भारत॥ यथा सैन्येन रजसा समुद्भूतेन वाहिनी। प्रत्यदृश्यत संछन्ना तथा बाणैर्महात्मनः॥ बाणभूतामपश्याम पृथिवीं पृथिवीपते। दुर्योधनेन प्रकृतां क्षिप्रहस्तेन धन्विना॥ तेषु योधसहस्रेषु तावकेषु परेषु च। एको दुर्योधनो ह्यासीत् पुमानिति मतिर्मम॥ तत्राद्भुतमपश्याम तव पुत्रस्य विक्रमम्। यदेकं सहिताः पार्था नाभ्यवर्तन्त भारत।॥ युधिष्ठिरं शतेनाजी विव्याध भरतर्षभ। भीमसेनं च सप्तत्या सहदेवं च पञ्चभिः॥ नकुलं त चतुःषष्ट्या धृष्टद्युम्नं च पञ्चभिः। सप्तभिद्रौपदेयांश्च त्रिभिर्विव्याध सात्यकिम्॥ धनुश्चिच्छेद भल्लेन सहदेवस्य मारिष। तदपास्य धनुश्छिन्नं माद्रीपुत्रः प्रतापवान्॥ अभ्यद्रवत राजानं प्रगृह्यान्यन्महद् धनुः। ततो दुर्योधनं संख्ये विव्याध दशभिः शरैः॥ नकुलस्तु ततो वीरो राजानं नवभिः शरै। घोररूपैर्महेष्वासो विव्याध च ननाद च॥ सात्यकिश्चैव राजानं शरेणानतपर्वणा। द्रौपदेयास्त्रिसप्तत्या धर्मराजश्च पञ्चभिः॥ अशीत्या भीमसेनश्च शरै राजानमार्पयन्। समन्तात् कीर्यमाणस्तु बाणसंधैर्महात्मभिः॥ न चचाल महाराज सर्वसैन्यस्य पश्यतः। लाघवं सौष्ठवं चापि वीर्यं चापि पहात्मनः॥ अति सर्वाणि भूतानि ददृशुः सर्वमानवाः। धार्तराष्ट्रा हि राजेन्द्र योधास्तु स्वल्पमन्तरम्॥ अपश्यमाना राजानं पर्यवर्तन्त दंशिताः। तेषामापततां घोरस्तुमुलः समपद्यत॥ क्षुब्धस्य हि समुद्रस्य प्रावृट्काले यथा स्वनः। समासाद्य रणे ते तु राजानमपराजितम्॥ प्रत्युद्ययुर्महेष्वासाः पाण्डवानाततायिनः। भीमसेनं रणे क्रुद्धो द्रोणपुत्रो न्यवारयत्॥ नानाबाणैर्महाराज प्रमुक्तैः सर्वतोदिशम्। नाज्ञायन्त रणे वीरा न दिशः प्रदिशः कुतः॥ तावुभौ क्रूरकर्माणावुभौ भारत दुःसहौ। घोररूपमयुध्येतां कृतप्रतिकृतैषिणौ॥ त्रासयन्तौ दिशः सर्वा ज्याक्षेपकठिनत्वचौ। शकुनिस्तु रणे वीरो युधिष्ठिरमपीडयत्॥ तस्याश्वांश्चतुरो हत्वा सुबलस्य सुतो विभो। नादं चकार बलवत् सर्वसैन्यानि कोपयन्॥ एतस्मिन्नन्तरे वीरं राजानमपराजितम्। अपोवाह रथेनाजौ सहदेवः प्रतापवान्॥ अथान्यं रथमास्थाय धर्मपुत्रो युधिष्ठिरः। शकुनि नरभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः॥ ननाद च महानादं प्रवरः सर्वधन्विनाम्। तद् युद्धमभवचित्रं घोररूपं च मारिष॥ प्रेक्षतां प्रीतिजननं सिद्धचारणसेवितम्। उलूकस्तु महेष्वासं नकुलं युद्धदुर्मदम्॥ अभ्यद्रवदमेयात्मा शरवर्षेः समन्ततः। तथैव नकुलः शूरः सौबलस्य सुतं रणे॥ शरवर्षेण महता समन्तात् पर्यवारयत्। तौ तत्र समरे वीरो कुलपुत्रौ महारथौ॥ योध्यन्तावपश्येतां कृतप्रतिकृतैषिणौ। तथैव कृतवर्माणं शैनेयः शत्रुतापनः॥ योधयशुशुभे राजन् बलिं शक्र इवाहवे। दुर्योधनो धनुश्छित्त्वा धृष्टद्युम्नस्य संयुगे॥ अथैनं छिन्नधन्वानं विव्याध निशितैः शरैः। धृष्टद्युम्नोऽपि समरे प्रगृह्य परमायुधम्॥ राजानं योधयामास पश्यतां सर्वधन्विनाम्। तयोर्युद्धं महचासीत् संग्रामे भरतर्षभ।॥ प्रभिन्नयोर्यथा सक्तं मत्तयोर्वरहस्तिनोः। गौतमस्तु रणे क्रुद्धो द्रौपदेयान् महाबलान्॥ विव्याध बहुभिः शूरः शरैः सन्नतपर्वभिः। तस्य तैरभवद् युद्धमिन्द्रियैरिव देहिनः॥ घोररूपमसंवार्य निर्मर्यादमवर्तत। ते च सम्पीडयामासुरिन्द्रियाणीव बालिशम्॥ स च तान् प्रति संरब्धः प्रत्ययोधयदाहवे। एवं चित्रमभूद् युद्धं तस्य तैः सह भारत॥ उत्थायोत्थाय हि यथा देहिनामिन्द्रयैर्विभो। नराश्चैव नरैः सार्धं दन्तिनो द तभिस्तथा॥ हया हयैः समासक्ता रथिनो राथभिः सह। संकुलं चाभवद् भूयो घोररूपं विशाम्पते॥ इदं चित्रमिदं घोरमिदं रौद्रमिति प्रभो। युद्धान्यासन् महाराज घोराणि च बहूनि च॥ ते समासाद्य समरे परस्परमरिंदमाः। व्यनदंश्चैव जघ्नुश्च समासाद्य महाहवे।॥ तेषां पत्रसमुद्भूतं रजस्तीव्रमदृश्यत। वातेन चोद्धतं राजन् धावद्भिश्चाश्वसादिभिः॥ रथनेमिसमुद्भूतं निःश्वासैश्चापि दन्तिनाम्। रजः संध्याभ्रकलिलं दिवाकरपथं ययौ॥ रजसा तेन सम्पृक्तो भास्करो निष्प्रभः कृतः। संछादिताऽभवद् भूमिस्ते च शूरा महारथाः॥ मुहूर्तादिव संवृत्तं नीरजस्कं समन्ततः। वीरशोणितसिक्तायां भूमौ भरतसत्तम॥ उपाशाम्यत् ततस्तीवं तद् रजो घोरदर्शनम्। ततोऽपश्यमहं भूयो द्वन्द्वयुद्धानि भारत॥ यथाप्राणं यथाश्रेष्ठं मध्याह्ने वै सुदारुणे। वर्मणां तत्र राजेन्द्र व्यदृश्यन्तोज्ज्वला: प्रभाः॥ शब्दश्च तुमुल: संख्ये शराणां पततामभूत्। महावेणुवनस्येव दह्यमानस्य पर्वते॥ शब्दश्च तुमुल: संख्ये शराणां पततामभूत्। महावेणुवनस्येव दह्यमानस्य पर्वते॥ संजय उवाच वर्तमाने तदा युद्धे घोररूपे भयानके। अभज्यत बलं तत्र तव पुत्रस्य पाण्डवैः॥ तास्तुं यत्नेन महता संनिवार्य महारथान्। पुत्रस्ते योधयामास पाण्डवानामनीकिनीम्॥ निवृत्ताः सहसा योधास्तव पुत्रजयैषिणः। सन्निवृत्तेषु तेष्वेवं युद्धमासीत् सुदारुणम्॥ तावकानां परेषां च देवासुररणोपमम्। परेषां तव सैन्ये वा नासीत् कश्चित् पराङ्मुखः॥ अनुमानेन युध्यन्ते संज्ञाभिश्च परस्परम्। तेषां क्षयो महानासीद् युध्यतामितरेतरम्॥ ततो युधिष्ठिरो राजा क्रोधेन महता युतः। जिगीषमाणः संग्रामे धार्तराष्ट्रान् सराजकान्॥ त्रिभिः शारद्वतं विद्ध्वा रुक्मपुङ्खः शिलाशितैः। चतुर्भिनिजघानाश्वान् नाराचैः कृतवर्मणः॥ अश्वत्थामा तु हार्दिक्यमपोवाह यशस्विनम्। अत शारद्वतोऽष्टाभिः प्रत्यविद्ध्यद् युधिष्ठिरम्॥ ततो दुर्योधनो राजा रथान् सप्तशतान् रणे। प्रेषयद् यत्र राजासौ धर्मपुत्रो युधिष्ठिरः॥ ते रथा रथिभिर्युक्ता मनोमारुतरंहसः। अभ्यद्रवन्त संग्रामे कौन्तेयस्य रथं प्रति॥ ते समन्तान्महाराज परिवार्य युधिष्ठिरम्। अदृश्य सायकैश्चक्रुर्मेघा इव दिवाकरम्॥ दृष्ट्वा धर्मराजानं कौरवेयैस्तथा कृतम्। नामृष्यन्त सुसंरब्धाः शिखण्डिप्रमुखा रथाः॥ रथैरश्ववरैर्युक्तैः किङ्किणीजालसंवृतः। आजग्मुरथ रक्षन्तः कुन्तीपुत्रं युधिष्ठिरम्॥ ततः प्रववृते रौद्रः संग्रामः शोणितोदकः। पाण्डवानां कुरूणां च यमराष्ट्रविवर्धनः॥ ते दृष्ट्वा रथान् सप्तशतान् हत्वा कुरूणामाततायिनाम्। याण्डवाः सह पञ्चालैः पुनरेवाभ्यवारयन्॥ तत्र युद्धं महचासीत् तव पुत्रस्य पाण्डवैः। न च तत् तादृशं दृष्टं नैव चापि परिश्रुतम्॥ वर्तमाने तदा युद्धे निर्मर्यादे समन्ततः। वध्यमानेषु योधेषु तावकेष्वितरेषु च॥ विनदत्सु च योधेषु शङ्खवर्यैश्च पूरितैः। उत्क्रुष्टैः सिंहनादैश्च गर्जितैश्चैव धन्विनाम्॥ अतिप्रवृत्ते युद्धे च छिद्यमानेषु मर्मसु। धावमानेषु योधेषु जयगृद्धिषु मारिष॥ संहारे सर्वतो जाते पृथिव्यां शोकसम्भवे। बह्वीनामुत्तमस्त्रीणां सीमन्तोद्धरणे तथा॥ निर्मर्यादे महायुद्धे वर्तमाने सुदारुणे। प्रादुरासन् विनाशाय तदोत्पाताः सुदारुणाः॥ चचाल शब्दं कुर्वाणा सपर्वतवना मही। सदण्डा: सोल्मका राजन् कीर्यमाणाः समन्ततः॥ उल्का पेतुर्दिवो भूमावाहत्य रविमण्डलम्। विष्वग्वाताः प्रादुरासन् नीचैः शर्करवर्षिणः॥ अश्रूणि मुमुचुर्नागा वेपथु चास्पृशन् भृशम्। एतान् घोराननादृत्य समुत्पातान् सुदारुणान्॥ पुनर्युद्धाय संयत्ताः क्षत्रियास्तस्थुरव्यथाः। रमणीये कुरुक्षेत्रे पुण्ये स्वर्ग यियासवः॥ ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत्। युद्ध्यध्वमग्रतो यावत् पृष्ठतो हन्मि पाण्डवान्॥ ततो नः सम्प्रयातानां मद्रयोधास्तरस्विनः। हृष्टाः किलकिलाशब्दमकुर्वन्ता परे तथा॥ अस्मांस्तु पुनरासाद्य लब्धलक्षा दुरासदाः। शरासनानि धुन्वन्तः शरवर्षैरवाकिरन्॥ ततो हतं परैस्तत्र मद्रराजबलं तदा। दुर्योधनबलं दृष्ट्वा पुनरासीत् पराङ्मुखम्॥ गान्धारराजस्तु पुनर्वाक्यमाह ततो बली। निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः॥ अनीकं दशसाहस्रमश्वानां भरतर्षभ। आसीद् गान्धारराजस्य विशालप्रासयोधिनाम्॥ बलेन तेन विक्रम्य वर्तमाने जनक्षये। पृष्ठतः पाण्डवानीकमभ्यघ्ननिशितैः शरैः॥ तदभ्रमिव वातेन क्षिप्यमाणं समन्ततः। अभज्यत महाराज पाण्डूनां सुमहद् बलम्॥ ततो युधिष्ठिर: प्रेक्ष्य भग्नं स्वबलमन्तिकात्। अभ्यनादयदव्यग्रः सहदेवं महाबलम्॥ असौ सुबलपुत्रो नो जघनं पीड्य दंशितः। सैन्यानि सूदयत्येष पश्य पाण्डव दुर्मतिम्॥ गच्छ त्वं द्रौपदेयैश्च शकुनि सौबलं जहि। रथनीकमहं धक्ष्ये पञ्चालसहितोऽनघ॥ गच्छन्तु कुञ्जरा: सर्वे वाजिनश्च सह त्वया। पादाताश्च त्रिसाहस्राः शकुनि तैर्वृतो जहि॥ ततो गजाः सप्तशताश्चापपाणिभिरास्थिताः। पञ्च चाश्वसहस्राणि सहदेवश्च वीर्यवान्॥ पादाताश्च त्रिसाहस्रा द्रौपदेयाश्च सर्वशः। रणे ह्यभ्येद्रवंस्ते तु शकुनि युद्धदुर्मदम्॥ ततस्तु सौबलो राजन्नभ्यतिक्रम्य पाण्डवान्। जघान पृष्ठतः सेनां जयगृद्धः प्रतापवान्॥ अश्वरोहास्तु संरब्धाः पाण्डवानां तरस्विनाम्। प्राविशन् सौबलानीकमभ्यतिक्रम्य तान् रथान्॥ ते तत्र सादिनाः शूराः सौबलस्य महद् बलम्। रणमध्ये व्यतिष्ठन्त शरवर्षैरवाकिरन्॥ तदुद्यतगदाप्रासमाकपुरुषसेवितम्। प्रावर्तत महद् युद्धं राजन् दुर्मन्त्रिते तव॥ उपारमन्त ज्याशब्दाः प्रेक्षका रथिनोऽभवन्। न हि स्वेषां परेषां वा विशेषः प्रत्यदृश्यत॥ शूरबाहुविसृष्टानां शक्तीनां भरतर्षभ। ज्योतिषामिव सम्पातमपश्यन् कुरुपाण्डवाः॥ ऋष्टिभिर्विमलाभिश्च तत्र तत्र विशाम्पते। सम्पतन्तीभिराकाशमावृतं बह्वशोभत॥ प्रासानां पततां राजन् रूपमासीत् समन्ततः। शलभानामिवाकाशे तदा भरतसत्तम॥ रुधिरोक्षितसर्वाङ्गा विप्रविद्धैर्नियन्तृभिः। हयाः परिपतन्ति स्म शतशोऽथ सहस्रशः॥ अन्योयं परिपिष्टाश्च समासाद्य परस्परम्। आविक्षताः स्म दृश्यन्ते वमन्तो रुधिरं मुखैः॥ ततोऽभवत्तमो घोरं सैन्येन रजसा वृते। तानपाक्रमतोऽद्राक्षं तस्माद् देशादरिंदम॥ अश्वान् राजन् मनुष्यांश्च रजसा संवृते सति। भूमौ निपतिताश्चान्ये वमन्तो रुधिरं बहु॥ केशाकेशि समालग्ना न शेकुश्चेष्टितुं नराः। अन्योन्यमश्वपृष्ठेभ्यो विकर्षन्तो महाबलाः॥ मल्ला इव समासाद्य निजघ्नुरितरेतरम्। अश्वैश्च व्यपकृष्यन्त बहवोऽत्र गतासवः॥ रक्तोक्षितैश्छिन्नभूजैरवकृष्टशिरोरुहैः। व्यदृश्यत मही कीर्णा शतशोऽथ सहस्रशः॥ दूरं न शक्यं तत्रासीद् गन्तुमश्वेन केनचित्। साश्वारोहैर्हतैरश्वैरावृते वसुधातले॥ रुधिरोक्षितसन्नाहैरात्तशस्त्रैरुदायुधैः। नानाप्रहरणै?रैः परस्परवधैषिभिः॥ सुसंनिकृष्टैः संग्रामे हतभूयिष्ठसैनिकैः। स मुहूर्तं ततो युद्ध्वा सौबलोऽथ विशाम्पते॥ षट्साहस्रर्हयैः शिष्टैरपायाच्छकुनिस्ततः। तथैव पाण्डवानीकं रुधिरेण समुक्षितम्॥ षट्साहौर्हयैः शिष्टैरपायाच्छान्तवाहनम्। अश्वारोहाच पाण्डूनामब्रुवन् रुधिरोक्षिताः॥ भूमौ निपतिताश्चान्ये बहवो विजयैषिणः। तत्र तत्र व्यदृश्यन्त पुरुषाः शूरमानिनः॥ सुसंनिकृष्टे संग्रामे भूयिष्ठे त्यक्तजीविताः। न हि शक्यं स्थैर्योधं कुत एव महागजैः॥ रथानेव रथा यान्तु कुञ्जराः कुञ्जरानपि। प्रतियातो हि शकुनिः स्वमनीकमवस्थितः॥ न पुनः सौबलो राजा युद्धमभ्यागमिष्यति। ततस्तु द्रौपदेयाश्च ते च मत्ता महाद्विपाः॥ प्रययुर्यत्र पाञ्चाल्यो धृष्टद्युम्नो महारथः। सहदेवोऽपि कौरव्य रजोमेघे समुत्थिते॥ एकाकी प्रययौ तत्र यत्र राजा युधिष्ठिरः। ततस्तेषु प्रयातेषु शकुनिः सौबलः पुनः॥ पार्श्वतोऽभ्यहनत् क्रुद्धो धृष्टद्युम्नस्य वाहिनीम्। तत् पुनस्तुमुलं युद्धं प्राणांस्त्यक्त्वाभ्यवर्तत॥ तावकानां परेषां च परस्परवधैषिणाम्। ते चान्योन्यमवैक्षन्त तस्मिन् वीरसमागमे॥ योधा:पर्यपतन् राजन् शतशोऽथ सहस्रशः। असिभिश्छिद्यमानानां शिरसां लोकसंक्षये॥ प्रादुरासीन्महाशब्दस्तालानां पततामिव। विमुक्तानां शरीराणां छिन्नानां पततां भुवि॥ सायुधानां च बाहूनामुरूणां च विशाम्पते। आसीत् कटकटाशब्दः सुमहाँल्लोमहर्षणः॥ निघ्नन्तो निशितैःशस्त्रैर्धातॄन् पुत्रान् सखीनपि। योधाः परिपतन्ति स्म यथामिषकृते खगाः॥ अन्योन्यं प्रतिसंरब्धा समासाद्य परस्परम्। अहं पूर्वमहं पूर्वमिति न्यघ्नन् सहस्रशः॥ संघातेनासनभ्रष्टैरश्वारोहैर्गतासुभिः। हयाः परिपतन्ति स्म शतशोऽथ सहस्रशः॥ स्फुरतां प्रतिविष्टानामश्वानां शीघ्रगामिनाम्। स्तनतां च मनुष्याणां सन्नद्धानां विशाम्पते॥ शक्त्वृष्टिप्रासशब्दश्च तुमुल: समपद्यत। भिन्दतां परमर्माणि राजन् दुर्मत्रिते तव॥ श्रमाभिभूताः सरंब्धाः श्रान्तवाहाः पिपासवः। विक्षताश्च शितैः शस्त्रैरभ्यवर्तन्त तावकाः॥ मत्ता रुधिरगन्धेन बहवोऽत्र विचेतसः। जघ्नुः परान् स्वसांश्चैव प्राप्तान प्राप्ताननन्तरान्॥ बहवश्च गतप्राणाः क्षत्रिया जयगृद्धिनः। भूमावभ्यपतन् राजन् शरवृष्टिभिरावृताः॥ वृकगृध्रशृगालानां तुमुले मोदनेऽहनि। आसीद् बलक्षयो घोरस्तव पुत्रस्य पश्यतः॥ नराश्वकायैः संछन्ना भूमिरासीद् विशाम्पते। रुधिरोदकचित्रा च भीरूणां भयवर्धिनी॥ असिभिः पट्टिशैः शूलैस्तक्षमाणाः पुनः पुनः। तावकाः पाण्डवेयाश्च न न्यवर्तन्त भारत॥ प्रहरन्तो यथाशक्ति यावत् प्राणस्य धारणम्। योधाः परिपतन्ति स्म वमन्तो रुधिरं व्रणैः॥ शिरो गृहीत्वा केशेषु कबन्धः स्म प्रदृश्यते। उद्यम्य च शितं खड्ग रुधिरेण परिप्लुतम्॥ तथोत्थितेषु बहुषु कबधेषु नराधिप। तथा रुधिरगन्धेन योधाः कश्मलमाविशन्॥ मन्दीभूते ततः शब्दे पाण्डवानां महद् बलम्। अल्पावशिष्टैस्तुरगैरभ्यवर्तत सौबलः॥ ततोऽभ्यधावंस्त्वरिताः पाण्डवा जयगृद्धिनः। पदातयश्च नागाश्च सादिनश्चोधतायुधाः॥ कोष्ठकीकृत्य चाप्येनं परिक्षिप्य च सर्वशः। शस्त्रैर्नानाविधैर्जघ्नुर्युद्धपारं तितीर्षवः॥ त्वदीयास्तांस्तु सम्प्रेक्ष्य सर्वतः समभिद्रुतान्। रथाश्वपत्तिद्विरदाः पाण्डवनभिदुद्रुवुः॥ केचित् पदातयः पद्भिर्मुष्टिभिश्च परस्परम्। निजघ्नुः समरे शूराः क्षीणशस्त्रास्ततोऽपतन्॥ रथेभ्यो रथिन: पेतुर्द्विपेभ्यो हस्तिसादिनः। विमानेभ्यो सिद्धाः पुण्यक्षयादिव॥ एवमन्योन्यमायत्ता योधा जघ्नुर्महाहवे। पितृन भ्रातृन् वयस्यांश्च पुत्रानापि तथा परे॥ एवमासीदमर्यादं युद्धं भरतसत्तम। प्रासासिबाणकलिलं वर्तमाने सुदारुणे॥ दिवो भ्रष्ट्राः संजय उवाच तस्मिशब्दे मृदौ जाते पाण्डवैनिहते बले। अश्वैः सप्तशतैः शिष्टहरुपावर्तत सौबलः॥ स यात्वा वाहिनीं तूर्णमब्रवीत् त्वरयन् युधि। युद्ध्यध्वमिति संहृष्टाः पुनः पुनररिंदमाः॥ अपृच्छत् क्षत्रियांस्तत्र क्व नु राजा महाबलः। शकुनेस्तद् वचः श्रुत्वा तमूचुर्भरतर्षभ।।३। असौ तिष्ठति कौरव्यो रणमध्ये महाबलः। यत्रैतत् सुमहच्छत्रं पूर्णचन्द्रसमप्रभम्॥ यत्र ते सतनुत्राणा रथास्तिष्ठन्ति दंशिताः। यत्रैष तुमुलः शब्दः पर्जन्यनिनदोपमः॥ तत्र गच्छ द्रुतं राजंस्ततो द्रक्ष्यसि कौरवम्। एवमुक्तस्तु तैर्योधैः शकुनिः सौबलस्तदा॥ प्रययौ तत्र यत्रासौ पुत्रस्तव नराधिप। सर्वतः संवृत्तो वीरैः समरे चित्रयोधिभिः॥ ततो दुर्योधनं दृष्ट्वा रथीनीके व्यवस्थितम्। स रथांस्तावकान् सर्वान् हर्षयशकुनिस्ततः॥ दुर्योधनमिदं वाक्यं हृष्टरूपो विशाम्पते। कृतकार्यमिवात्मानं मन्यमानोऽब्रवीनृपम्॥ जहि राजन् रथानीकमश्वाः सर्वे जिता मया। नात्यक्त्वा जीवितं संख्ये शक्यो जेतुं युधिष्ठिरः॥ हते तस्मिन् रथानीके पाण्डवेनाभिपालिते। गजानेतान् हनिष्यामः पदातींश्चेतरांस्तथा॥ श्रुत्वा तु वचनं तस्य तावका जयगृद्धिनः। जवेनाभ्यपतन् हृष्टाः पाण्डवानामनीकिनाम्॥ सर्वे विवृततूणीरा: प्रगृहीतशरासनाः। शरासनानि धुन्वानाः सिंहनादान्प्रणेदिरे॥१३॥ ततो ज्यातलनिर्घोषः पुनरासीद् विशाम्पते। प्रादुरासीच्छाराणां च सुमुक्तानां सुदारुणः॥ चोदयाश्वानसम्भ्रान्तः प्रविशैतद् बलार्णवम्। अन्तमद्य गमिष्यामि शत्रूणां निशितैः शरैः॥ तान् समीपगतान् दृष्ट्वा जवेनोद्यतकार्मुकान्। उवाच देवकीपुत्रं कुन्तीपुत्रो धनंजयः॥ अष्टादश दिनान्यद्य युद्धस्यास्य जनार्दन। वर्तमानस्य महतःसमासाद्य परस्परम्॥ अनन्तकल्पा ध्वजिनी भूत्वा ह्येषां महात्मनाम्। क्षयमद्य गता युद्ध पश्य दैवं यथाविधम्॥ समुद्रकल्पं च बलं धार्तराष्ट्रस्य माधव। अस्मानासाद्य संजातं गोष्पदोपममच्युत॥ हते भीष्मे तु संदध्याच्छिवं स्यादिह माधव। न च तत् कृतवान् मूढो धार्तराष्ट्रः सुबालिशः॥ उक्तं भीष्मेण यद वाक्यं हितं तथ्यं च माधव। तचापि नासौ कृतवान् वीतबुद्धिः सुयोधनः॥ तस्मिंस्तु तुमुले भीष्मे प्रच्युते धरणीतले। न जाने कारणं किं तु येन युद्धमवर्तत॥ मूढांस्तु सर्वथा मन्ये धार्तराष्ट्रान् सुबाललिशान्। पतिते शान्तनोः पुत्रे येऽकार्षुः संयुगं पुनः॥ अनन्तरं च निहते द्रोणे ब्रह्मविदां वरे। राधेये च विकर्णे त नैवाशाम्यत वैशसम्॥ अल्पावशिष्टे सैन्येऽस्मिन् सूतपुत्रे च पातिते। सपुत्रे वै नरव्याघ्र नैवाशाम्यत वैशसम्॥ श्रुतायुषि हते वीरे जलसन्धे च पौरवे। श्रुतायुधे च नृपतौ नैवाशाम्यत वैशसम्॥ भूरिश्रवसि शल्ये च शाल्वे चैव जनार्दन। आवन्त्येषु च वीरेषु नैवाशाम्यत वैशसम्॥ जयद्रथे च निहते राक्षसे चाप्यलायुधे। बाह्निके सोमदत्ते च नैवाशाम्यत वैशसम्॥ भगदत्ते हते शूरे काम्बोजे च सुदारुणे। दुःशासने च निहते नैवाशाम्यत वैशसम्॥ दृष्ट्वा विनिहताशूरान् पृथड्याण्डलिकान् नृपान्। बलिनश्च रणे कृष्ण नैवाशाम्यत वैशसम्॥ अक्षौहिणीपतीन् दृष्ट्वा भीमसेननिपातितान्। मोहाद् वा यदि वा लोभान्नैवाशाम्यत वैशसम्॥ को नु राजकुले जातः कौरवेयो विशेषतः। निरर्थकं महद् वैरं कुर्यादन्यः सुयोधनात्॥ गुणतोऽभ्यधिकाज्ञात्वा वलतः शौर्यतोऽपि वा। अमूढः को नु युद्ध्येत जानन् प्राज्ञो हिताहितम्॥ यन्न तस्य मनो ह्यासीत् त्वयोक्तस्य हितं वचः। प्रशमे पाण्डवैः सार्ध सोऽन्यस्य शृणुयात् कथम्॥३४ येन शान्तनवो वीरो द्रोणो विदुर एव च। प्रत्याख्याताः शमस्यार्थे किं नु तस्याद्य भेषजम्॥ मौाद येन पिता वृद्धः प्रत्याख्यातो जनार्दन। तथा माता हितं वाक्यं भाषमाणा हितैषिणी॥ प्रत्याख्याता ह्यसत्कृत्य स कस्मै रोचयेद् वचः। कुलान्तकरणो व्यक्तं जात एष जनार्दन॥ तथास्य दृश्यते चेष्टा नीतिश्चैव विशाम्पते। नैष दास्यति नो राज्यमिति मे मतिरच्युत॥ उक्तोऽहं बहुशस्तात विदुरेण महात्मना। न जीवन् दास्यते भागं धार्तराष्ट्रस्तु मानद॥ यावत् प्राणा धरिष्यन्ति धार्तराष्ट्रस्य दुर्मतेः। तावद् युष्मास्वपायेषु प्रचरिष्यति पापकम्॥ न च युक्तोऽन्यथा जेतुमृते युद्धेन माधव। इत्यब्रवीत् सदा मां हि विदुरः सत्यदर्शनः॥ तत् सर्वमद्य जानामि व्यवसायं दुरात्मनः। यदुक्तं वचनं तेन विदुरेण महात्मना॥ यो हि श्रुत्वा वचःपथ्यं जामदग्न्याद् यथातथम्। अवामन्यत दुर्बुद्धिर्बुवं नाशमुखे स्थितः॥ उक्तं हि बहुशः सिद्धैर्जातमात्रे सुयोधने। एनं प्राप्य दुरात्मानं क्षयं क्षत्रं गमिष्यति॥ तदिदं वचनं तेषां निरुक्तं वै जनार्दन। क्षयं याता हि राजानो दुर्योधनकृते भृशम्॥ सोऽद्य सर्वान् रणे योधान् निहनिष्यामि माधव। क्षत्रियेषु हतेष्वाशु शून्ये च शिबिरे कृते॥ वधाय चात्मनोऽस्माभिः संयुगं रोचयिष्यति। तदन्तं हि भवेद् वैरमनुमानेन माधव॥ एवं पश्यामि वार्ष्णेय चिन्तयन् प्रज्ञया स्वया। विदुरस्य च वाक्येन चेष्टया च दुरात्मनः॥ तस्माद् याहि चमू वीर यावद्धन्मि शितैः शरैः। दुर्योधनं महाबाहो वाहिनीं चास्य संयुगे॥ क्षेममद्य करिष्यामि धर्मराजस्य माधव। हत्वैतद् दुर्बलं सैन्यं धार्तरष्ट्रस्य पश्यतः॥ संजय उवाच अभीषुहस्तो दाशार्हस्तथोक्तः सव्यसाचिना। तद् बलौघममित्राणामभीतः प्राविशद् बलात्॥ कुन्तखड्गशरै।रं शक्तिकण्टकसंकुलम्। गदापरिघपन्थानं रथनागमहाद्रुमम्॥ हयपत्तिलताकीर्णं गाहमानो महायशाः। व्यचरत्तत्र गोविन्दो रथेनातिपताकिना॥ ते हयाः पाण्डुरा राजन् वहन्तोऽर्जुनमाहवे। दिक्षु सर्वास्वदृश्यन्त दाशार्हेण प्रचोदिताः॥ ततः प्रायाद् रथेनाजौ सव्यसाची परंतपः। किरशरशतांस्तीक्ष्णान् वारिधारा घनो यथा॥ प्रादुरासीन्महाशब्दः शराणां नतपर्वणाम्। इषुभिश्छाद्यमानानां समरे सव्यसाचिना॥ असज्जन्तस्तनुत्रेषु शरौघा: प्रापतन् भुवि। इन्द्राशनिसमस्पर्शा गाण्डीवप्रेषिताः शराः॥ नरान् नागन् समाहृत्य हयांश्चापि विशाम्पते। अपतन्त रणे वाणाः पतङ्गा इव घोषिणः॥ आसीत् सर्वमवच्छन्नं गाण्डीवप्रेषितैः शरैः। न प्राज्ञायन्त समरे दिशो वा प्रदिशोऽपि वा॥ सर्वमासीजगत् पूर्णं पार्थनामाङ्कितैः शरैः। रुक्मपुङस्तैलधौतैः कर्मारपरिमार्जितैः॥ ते दह्यमानाः पार्थेन पावकेनेव कुञ्जराः। पार्थ न प्रजहुर्घोरा वध्यमानाः शितैः शरैः॥ शरचापधरः पार्थ: प्रज्वलन्निवः भास्करः। ददाह समरे योधान् कक्षमग्निरिव ज्वलन्॥ यथा वनान्ते वनपैर्विसृष्टः कक्षं दहेत् कृष्णगतिः सुघोषः। भूरिदुमं शुष्कलतावितानं भृशं समृद्धो ज्वलन: प्रतापी॥ एवं स नाराचगणप्रतापी शरार्चिरुचावचतिग्मतेजाः। ददाह सर्वां तव पुत्रसेना ममृष्यमाणस्तरसा तरस्वी॥ तस्येषवः प्राणहराः सुमुक्ता नासज्जन् वै वर्मसु रुक्मपुङ्खाः। न च द्वितीयं प्रमुमोच बाणं नरे हये वा परमद्विपे वा॥ अनेकरूपाकृतिभिर्हि बाणै महारथानीकमानुप्रविश्य। स एव एवैकस्तव पुत्रस्य सेनां जघान दैत्यानिव वज्रपाणिः॥ संजय उवाच पश्यतां यतमानानां शूराणामनिवर्तिनाम्। संकल्पमकरोन्मोघं गाण्डीवेन धनंजयः॥ इन्द्राशनिसमस्र्शानविषह्यान् महौजसः। विसृजन् दृश्यते बाणान् धारा मुञ्चनिवाम्बुदः॥ तत् सैन्यं भरतश्रेष्ठ वध्यमानं किरीटिना। सम्प्रदुद्राव संग्रामात् तव पुत्रस्य पश्यतः॥ पितॄन् भ्रातृन् परित्यज्य वयस्यानपि चापरे। हतधुर्या रथाः केचिद्धतसूतास्तथा परे॥ भग्नाक्षयुगचक्रेषाः केचिदासन्विशांपते। अन्येषां सायकाः क्षीणास्तथान्ये बाणपीडिताः॥ अक्षता युगपत् केचित् प्राद्रवन् भयपीडितः। केचित् पुत्रानुपादाय हतभूयिष्ठबान्धवः॥ विचुक्रुशुः पितुंस्त्वन्ये सहायानपरे पुनः। बान्धवांश्च नरव्याघ्र भ्रातॄन् सम्बन्धिनस्तथा॥ दुद्रुवः केचिदुत्सृज्य तत्र तत्र विशाम्पते। बहवोऽत्र भृशं विद्धा मुह्यमाना महारथाः॥ निश्वसन्ति स्म दृश्यन्ते पार्थबाणहता: नराः। तानन्ये रथमारोप्य ह्याश्वास्य च मुहूर्तकम्॥ विश्रान्ताश्च वितृष्णाश्च पुनर्युद्धाय जग्मिरे। तानपास्य गताः केचित् पुनरेव युयुत्सवः॥ कुर्वन्तस्तव पुत्रस्य शासनं युद्धदुर्मदाः। पानीयमपरे पीत्वा पर्याश्वास्य च वाहनम्॥ वर्माणि च समारोप्य केचिद् भरतसत्तम। समाश्वास्यापरे भ्रातॄन् निक्षिप्य शिबिरेऽपि च॥ पुत्रानन्ये पितॄनन्ये पुनयुद्धमरोचयन्। सजयित्वा रथान् किचिद् यथा मुख्यं विशाम्पते॥ आप्लुत्य पाण्डवानीकं पुनयुद्धमरोचयन्। शूराः किङ्किणीजालैः समाच्छन्ना बभासिरे॥ त्रैलोक्यविजये युक्ता यथा दैतेयदानवाः। ते आगम्य सहसा केचिद् रथैः स्वर्णविभूषितैः॥ पाण्डवानामनीकेषु धृष्टद्युम्नमयोधयन्। धृष्टद्युम्नोऽपि पाञ्चाल्यः शिखण्डी च महारथः॥ नाकुलिस्तु शतानीको रथानीकमयोधयन्। पाञ्चाल्यस्तु ततः क्रुद्धः सैन्येन पहाताऽऽवृतः॥ अभ्यद्रवत् सुसंक्रुद्धस्तावकान् हन्तुमुद्यतः। ततस्त्वापततस्तस्य तव पुत्रो जनाधिप॥ बाणसंघाननेकान् वै प्रेषयामास भारता धृष्टद्युम्नस्ततो राजंस्तव पुत्रेण धन्विना॥ नाराचैरर्धनाराचैर्बहुभिः क्षिप्रकारिभिः। वत्सदन्तैश्च बाणैश्च कर्मारपरिमार्जितैः॥ अश्वांश्च चतुरो हत्वा बाह्वोरुरसि चार्पयत्। सोऽतिविद्धो महेष्वासस्तोत्रादित इव द्विपः॥ तस्याश्वांश्चतुरो बाणैः प्रेषयामास मृत्यवे। सारथेश्चास्य भल्लेन शिरः कायादपाहरत्॥ ततो दुर्योधनो राजा पृष्ठमारुह्य वाजिनः। अपाक्रामद्धतरथो नातिदूरमरिंदमः॥ ते दृष्ट्वा तु हतविक्रान्तं स्वमनीकं महाबलः। तव पुत्रो महाराज प्रययौ यत्र सौबलः॥ ततो रथेषु भग्नेषु त्रिसाहस्रा महाद्विपाः। पाण्डवान् रथिनः सर्वान् समन्तात् पर्यवारयन्॥ वृताः समरे पञ्च गजानीकेन भारत) अशोभन्त महाराज ग्रहा व्याप्ता घनैरिव॥ ततोऽर्जुनो महाराज लब्धलक्षो महा पुजः। विनिर्ययो रथेनैव श्वेताश्वः कृष्णसारथिः॥ तैः समन्तात् परिवृतः कुञ्जरैः पर्वतोपमैः। नाराचैर्विमलैस्तीक्ष्णैर्गजानीकमयोधयत्॥ तत्रैकबाणनिहतानपश्याम महागजान्। पतितान् पात्यमानांश्च निर्भिन्नान् सव्यसाचिना॥ भीमसेनस्तु तान् दृष्ट्वा नागान् मत्तगजोपमः। करेणादाय महतीं गदामभ्यपतद् बली॥ अथाप्लुत्य रथात् तूर्णं दण्डपाणिरिवान्तकः। तमुद्यतगदं दृष्ट्वा पाण्डवानां महारथम्॥ वित्रेसुस्तावका: सैन्याः शकृन्मूत्रे च सुस्रवुः। आविग्नं च बलं सर्वं गदाहस्ते वृकोदरे॥ गदया भीमसेनेव भिन्नकुम्भान् रजस्वलान्। धावमानानपश्याम कुञ्जरान् पर्वतोपमान्॥ प्राद्रवन् कुञ्जरास्ते तु भीमेसेनगदाहताः। पेतुरार्तस्वरं कृत्वा छिन्नपक्षा इवाद्रयः॥ प्रभिन्नकुम्भास्तु बहून् द्रवमाणानितस्ततः। पतमानांश्च सम्प्रेक्ष्य वित्रेसुस्तव सैनिकाः॥ युधिष्ठिरोऽपि संक्रुद्धो माद्रीपुत्रौ च पाण्डवौ। गार्धपत्रै:शितैर्बाणैर्निन्युर्वै यमसादनम्॥ धृष्टद्युम्नस्तु समरे पराजित्य नराधिपम्। अपक्रान्ते तव सुते हयपृष्ठं समाश्रिते॥ दृष्ट्वा च पाण्डवान् सर्वान् कुञ्जरैः परिवारितान्। धृष्टद्युम्नो महाराज सहसा समुपाद्रवत्॥ पुत्रः पञ्चालराजस्य जिघांसुः कुञ्जरान् ययौ। अदृष्ट्वा तु स्थानीके दुर्योधनमरिंदमम्॥ अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः। अपृच्छन् क्षत्रियांस्तत्र क्व नु दुर्योधनो गतः॥ ते पश्यमाना राजानं वर्तमाने जनक्षये। मन्वाना निहतं तत्र तव पुत्रं महारथाः॥ विवर्णवदना भूत्वा पर्यपृच्छन्त ते सुतम्। आहुः केचिद्धते सूते प्रयातो यत्र सौबलः॥ हित्वा पञ्चालराजस्य तदनीकं दुरुत्सहम्। अपरे त्वब्रुवंस्तत्र क्षत्रिया भृशविक्षताः॥ दुर्योधनेन किं कार्य द्रक्ष्यध्वं यदि जीवति। युद्ध्यध्वं सहिताः सर्वे किं वो राजा करिष्यति॥४४ ते क्षत्रियाः क्षतैर्गात्रैर्हतभूयिष्ठवाहनाः। शरैःसम्पीड्यमानास्तु नातिव्यक्तमथाब्रुवन्॥ इदं सर्व बलं हन्मो येन स्म परिवारिताः। एते सर्वे गजान हत्वा उपयान्ति स्म पाण्डवाः॥ श्रुत्वा तु वचनं तेषामश्वत्थामा महाबलः। भित्वा पाञ्चालराजस्य तदनीकं दुरुत्सहम्॥ कृपश्च कृतवर्मा च प्रययौ यत्र सौबलः। रथानीकं परित्यज्य शूराः सुदृढधन्विनः॥ ततस्तेषु प्रयातेषु धृष्टद्युम्नपुरस्कृताः। आययुः पाण्डवा राजन् विनिघ्नन्तः स्म तावकम्॥४९ दृष्ट्वा तु तानापततः सम्प्रहृष्टान् महारथान्। पराक्रान्तास्ततो वीरा निराशा जीविते तदा॥ विवर्णमुखभूयिष्ठमभवत् तावकं बलम्। परिक्षीणायुधान् दृष्ट्वा तानहं परिवारितान्॥ राजन् बलेन व्यतेन त्यक्त्वा जीवितमात्मनः। आत्मना पञ्चमोऽयुद्ध्यं पाञ्चालस्य बलेन ह॥ तस्मिन् देशे व्यवस्थाय यत्र शारद्वतः स्थितः। सम्प्रदुता वयं पञ्च किरीटिशरपीडिताः॥ धृष्टद्युम्नं महारौद्रं तत्र नोऽभूद् रणो महान्। जितास्तेन वयं सर्वे व्यपयाम रणात् ततः॥ अथापश्यं सात्यकि तमुपायान्तं महारथम्। रथैश्चतु:शतैर्वीरो मामभ्यद्रवदाहवे॥ धृष्टद्युम्नादहं मुक्तः कथंचिच्छ्रान्तवाहनात्। पतिता माधवानीकं दुष्कृती नरकं यथा॥ तत्र युद्धमभूद् घोरं मुहूर्तमतिदारुणम्। सात्यकिस्तु महाबाहुर्मम हत्वा परिच्छदम्॥ जीवग्राहमगृह्णान्मां मूर्छितं पतितं भुवि। ततो मुहूर्तादिव तद् गजानीकमविध्यत॥ गदया भीमसेनेन नाराचैरर्जुनेन च। अभिपिष्टैर्महानागैः समन्तात् पर्वतोपमैः॥ नातिप्रसिद्धैव गतिः पाण्डवानामजायत। रथमार्ग ततश्चक्रे भीमसेनो पहाबलः॥ पाण्डवानां महाराज व्यपाकर्षन्महागजान्। अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः॥ अपश्यन्तो स्थानीके दुर्योधनमरिंदमम्। राजानं मृगयामासुस्तव पुत्रं महारथम्॥ परित्यज्य च पाञ्चाल्यं प्रयाता यत्र सौबलः। राज्ञोऽदर्शनसंविग्ना वर्तमाने जनक्षये॥ संजय उवाच गजानीके हते तस्मिन् पाण्डुपुत्रेण भारत। वध्यमाने बले चैव भीमसेनेन संयुगे॥ चरन्तं च तथा दृष्ट्वा भीमसेनमरिंदमम्। दण्डहस्तं यथा क्रुद्धमन्तकं प्राणहारिणम्॥ समेत्य समरे राजन् हतशेषाः सुतास्तव। अदृश्यमाने कौरव्ये पुत्रे दुर्योधने तव॥ सोदर्याः सहिता भूत्वा भीमसेनमुपाद्रवन्। दुर्मर्षणः श्रुतान्तश्च जैत्रौ भूरिबलो रविः॥ जयत्सेनः सुजातश्च तथा दुर्विषहोऽरिहा। दुर्विमोचननामा च दुष्प्रधर्षस्तथैव च॥ श्रुतर्वा च महाबाहुः सर्वे युद्धविशारदाः। इत्येते सहिता भूत्वा तव पुत्राः समन्ततः॥ भीमसेनमभिद्रुत्य रुरुधुः सर्वतोदिशम्। ततो भीमो महाराज स्वरथं पुनरास्थितः॥ मुमोच निशितान् बाणान् पुत्राणां तव मर्मसु। ते कीर्यमाणा भीमेन पुत्रास्तव महारणे॥ भीमसेनमुपासेदुः प्रवणादिव कुञ्जरम्। ततः क्रुद्धो रणे भीमः शिरो दुर्मर्षणस्य ह॥ क्षुरप्रेण प्रमथ्याशु पातयामास भूतले। ततोऽपरेण भल्लेन सर्वावरणभेदिना॥ श्रुतान्तमवधीद् भीमस्तव पुत्रं महारथः। जयत्सेनं ततो विद्ध्वा नाराचेन हसन्निव॥ पातायामास कौरव्यं रथोपस्थादरिंदमः। स पपात स्थाद् राजन् भूमौ तूर्णं ममार च॥ श्रुतर्वा तु ततो भीमं क्रुद्धो विव्याध मारिष। शतेन गृध्रवाजानां शराणां नतपर्वणाम्॥ ततः क्रुद्धो रणे भीमो जैत्रं भूरिबलं रविम्। त्रीनेतांस्त्रिभिरानईद द्विषाग्निप्रतिमैः शरैः॥ ते हता न्यपतन् भूमौ स्यन्दनेभ्यो महारथाः। वसन्ते पुष्पशबला निकृत्ता इव किंशुकाः॥ ततोऽपरेण भल्लेन तीक्ष्णेन च परंतपः। दुर्विमोचनमाहत्य प्रेषयामास मृत्यवे॥ स हतः प्रापतद् भूमौ स्वरथाद् रथिनां वरः। गिरेस्तु कूटजो भग्नो मारुतेनेव पादपः॥ दुष्प्रधर्षं ततश्चैव सुजातं च सुतं तव। एकैकं न्यहनत् संख्ये द्वाभ्यां द्वाभ्यां चमूमुखे॥ तौ शिलीमुखविद्धाङ्गौ पेततू रथसत्तमौ। ततः पतन्तं समरे अभिवीक्ष्य सुतं तव॥ भल्लेन पातयामास भीमो दुर्विषहं रणे। स पपात हतो वाहात् पश्यतां सर्वधन्विनाम्॥ दृष्ट्वा तु निहतान् भ्रातॄन् बहूनेकेन संयुगे। अमर्षवशमापन्नः श्रुतर्वा भीममभ्ययात्॥ विक्षिपन् सुमहसचापं कार्तस्वरविभूषितम्। विसृजन सायकांश्चैव विषाग्निप्रतिमान् बहून॥ स तु राजन् धनुश्छित्त्वा पाण्डवस्य महामृधे। अथैन छिन्नधन्वानं विंशत्या समवाकिरत्॥ ततोऽन्यद् धनुरादाय भीमसेनो महाबलः। अवाकिरत् तव सुतं तिष्ठ तिष्ठेति चाब्रवीत्॥ महदासीत् तयोर्युद्धं चित्ररूपं भयानकम्। यादृशं समरे पूर्वं जम्भवासवयोर्युधि॥ तयोस्तत्र शितैर्मुक्तैर्यमदण्डनिभैः शरैः। समाच्छन्ना धरा सर्वा खं दिशो विदिशस्तथा॥ ततः श्रुतर्वा संक्रुद्धो धनुरादाय सायकैः। भीमसेन रणे राजन् बाह्वोरुरसि चार्पयत्॥ सोऽतिविद्धो महाराज तव पुत्रेण धन्विना। भीमः संचुक्षुभे क्रुद्धः पर्वणीव महोदधिः॥ ततो भीमो रुषाविष्ट पुत्रस्य तव मारिष। सारथि चतुरश्वाश्वाशरैर्निन्ये यमक्षयम्॥ विरथं तं समालक्ष्य विशिखैोमवाहिभिः। अवाकिरदमेयात्मा दर्शयन् पाणिलाघवम्॥ श्रुतर्वा विरथो राजन्नाददे खड्गचर्मणी। अथास्याददतः खङ्गं शतचन्द्रं च भानुमत्॥ क्षुरप्रेण शिरः कायात् पातायामास पाण्डवः। छिन्नोत्तमाङ्गस्य ततः क्षुरप्रेण महात्मना॥ पपात कायः स रथाद् वसुधामनुनादयन्। तस्मिन् निपतिते वीरे तावका भयमोहिताः॥ अभ्यद्रवन्त संग्रामे भीमसेनं युयुत्सवः। तानापतत एवाशु हतशेषाद् बलार्णवात्॥ दंशितान्प्रतिजग्राह भीमसेनः प्रतापवान्। ते तु तं वै समासाद्य परिववः समन्ततः॥ ततस्तु संवृतो भीमस्तावकान् निशितैः शरैः। पीडयामास तान् सर्वान् सहस्राक्ष इवासुरान्॥ ततः पञ्चशतान् हत्वा सवरूथान् महारथान्। जघान कुञ्जरानीकं पुनः सप्तशतं युधि॥ हत्वा शतसहस्राणि पत्तीनां परमेषुभिः। वाजिनां च शतान्यष्टौ पाण्डवः स्म विराजते॥ भीमसेनस्तु कौन्तेयो हत्वा युद्धे सुतांस्तव। मेने कृतार्थमात्मानं सफलं जन्म च प्रभो॥ तं तथा युद्ध्यमानं च विनिघ्नन्तं च तावकान्। ईक्षितुं नोत्सहन्ते स्म तव सैन्या नराधिप॥ विद्राव्य च कुरुन् सर्वांस्तांश्च हत्वा पदानुगान्। दोर्ध्या शब्दं ततश्चक्रे त्रासयानो महाद्विपान्॥ हतभूयिष्ठयोधा तु तव सेना विशाम्पते। किंचिच्छेषा महाराज कृपणं समपद्यत॥ भीमसेनस्तु कौन्तेयो हत्वा युद्धे सुतांस्तव। मेने कृतार्थमात्मानं सफलं जन्म च प्रभो॥ तं तथा युद्ध्यमानं च विनिघ्नन्तं च तावकान्। ईक्षितुं नोत्सहन्ते स्म तव सैन्या नराधिप॥ विद्राव्य च कुरुन् सर्वांस्तांश्च हत्वा पदानुगान्। दोर्ध्या शब्दं ततश्चक्रे त्रासयानो महाद्विपान्॥ हतभूयिष्ठयोधा तु तव सेना विशाम्पते। किंचिच्छेषा महाराज कृपणं समपद्यत॥ संजय उवाच दुर्योधनो महाराज सुदर्शश्चापि ते सुतः। हतशेषौ तदा संख्ये वाजिमध्ये व्यवस्थितौ॥ ततो दुर्योधनं दृष्ट्वा वाजिमध्ये व्यवस्थितम्। उवाच देवकीपुत्रः कुन्तीपुत्रं धनंजयम्॥ शत्रवो हतभूयिष्ठा ज्ञातयः परिपालिताः। गृहीत्वा संजयं चासौ निवृत्तः शिनिपुङ्गवः॥ परिश्रान्तश्च नकुलः सहदेवश्च भारत। योधयित्वा रणे पापान् धार्तराष्ट्रान् सहानुगान्॥ दुर्योधनमभित्यज्य त्रय एते व्यवस्थिताः। कृपश्च कृतवर्मा च द्रौणिश्चैव महारथः॥ असौ तिष्ठति पाञ्चाल्यः श्रिया परमया युतः। दुर्योधनबलं हत्वा सह सर्वैः प्रभद्रकैः॥ असौ दुर्योधनः पार्थ वाजिमध्ये व्यवस्थितः। छत्रेण ध्रियमाणेन प्रेक्षमाणो मुहुर्मुहुः॥ प्रतिव्यूह्य बलं सर्वं रणमध्ये व्यवस्थितः। एनं हत्वा शितैर्बाणैः कृतकृत्यो भविष्यसि॥ गजानीकं हतं दृष्ट्वा त्वां च प्राप्तमरिंदम। यावन्न विद्रवन्त्यते तावञ्जहि सुयोधनम्॥ यातु कश्चित्तु पाञ्चाल्यं क्षिप्रमागम्यतामिति। परिश्रान्तबलस्तात नैष मुच्येत किल्विषी॥ हत्वा तव बलं सर्वं संग्रामे धृतराष्ट्रजः। जितान् पाण्डुसुतान् मत्वा रूपं धारयते महत्॥ निहतं स्वबलं दृष्ट्वा पीडितं चापि पाण्डवैः। ध्रुवमेष्यति संग्रामे वधायैवात्मनो नृपः॥ एवमुक्तः फल्गुनस्तु कृष्णं वचनमब्रवीत। धृतराष्ट्रसुताः सर्वे हता भीमेन माधव॥ यावेतावास्थितौ कृष्ण तावद्य न भविष्यतः। हतो भीष्मो हतो द्रोणः कर्णो वैकर्तनो हतः॥ मद्रराजो हत: शल्यो हतः कृष्ण जयद्रथः। हयाः पञ्चशताः शिष्टाः शकुनेः सौबलस्य च॥ रथानां तु जनार्दन। दन्तिनां च शतं साग्रं त्रिसाहस्राः पदातयः॥ अश्वत्थामा कृपश्चैव त्रिगर्ताधिपतिस्तथा। उलूकः शकुनिश्चैव कृतवर्मा च सात्वतः॥ एतद् बलमभूच्छेष धार्तराष्ट्रस्य माधव। मोक्षो न नूनं कालात् तु विद्युते भुवि कस्यचित्। शते शिष्टे द्वे एव तु अद्याह्ना हि महाराजो हतामित्रो भविष्यति॥ न हि मे मोक्ष्यते कश्चित् परेषामिह चिन्तये। त्वद्य समरं कृष्ण न हास्यन्ति मदोत्कटाः॥ तान् वै सर्वान् हनिष्यामि यद्यपि स्युर्न मानुषाः। अद्य युद्धे सुसंक्रुद्धो दीर्घं राज्ञा प्रमागरम्॥ अपनेष्यामि गान्धारं घातयित्वा शितैः शरैः। निकृत्या वै दुराचारो यानि रत्नानि सौबलः॥ सभायामहरद् द्यूते पुनस्तान्याहराम्यहम्। अद्य ता अपि रोत्स्यन्ति सर्वा नागपुरे स्त्रियः॥ श्रुत्वा पतींश्च पुत्रांश्च पाण्डवैर्निहतान् युधि। समाप्तमद्य वै कर्म सर्वं कृष्ण भविष्यति॥ अद्य दुर्योधनो दीप्ता श्रियं प्राणांश्च मोक्ष्यति नापयाति भयात् कृष्णं संग्रामाद् यदि चेन्मम॥ निहतं विद्धि वार्ष्णेय धार्तराष्ट्रं सुबालिशम्। मम ह्येतदशक्तं वै वाजिवृन्दमरिन्दम॥ सोढुं ज्यातलनिर्घोषं याहि यावनिहन्म्यहम्। एवमुक्तस्तु दाशार्हः पाण्डवेन यशस्विना॥ अचोदयद्धयान् राजन् दुर्योधनबलं प्रति। तदनीकमभिप्रेक्ष्य त्रयः सज्जा महारथाः॥ भीमसेनोऽर्जुनश्चैव सहदेवश्च मारिष। प्रययुः सिंहनादेन दुर्योधनजिघांसया॥ तान् प्रेक्ष्य सहितान् सर्वाञ्जवेनोद्यतकार्मुकान्। सौबलोऽभ्यद्रवद् युद्धे पाण्डवानाततायिनः॥ सुदर्शनस्तव सुतो भीमसेनं समभ्ययात्। सुशर्मा शकुनिश्चैव युयुधाते किरीटिना॥ सहदेवं तव सुतो हयपृष्ठगतोऽभ्ययात्। ततो हि यत्नतः क्षिप्रं तव पुत्रो जनाधिप॥ प्रासेन सहदेवस्य शिरसि प्राहरद् भृशम्। सोपाविशद् रथोपस्थे तव पुत्रेण ताडितः॥ रुधिराप्लुतसर्वाङ्ग आशीविष इव श्वसन्। प्रतिलभ्य ततः संज्ञा सहदेवो विशाम्पते॥ दुर्योधनं शरैस्तीक्ष्णैः संक्रुद्धः समवाकिरत्। पार्थोऽपि युधि विक्रम्य कुन्तीपुत्रो धनंजयः॥ शूराणामश्वपृष्ठेभ्यः शिरांसि निचकर्त ह। तदनीकं तदा पार्थो व्यधमद् बहुभिः शरैः॥ पातयित्वा हयान् सर्वास्त्रिगर्तानां रथान् ययौ। ततस्ते सहिता भूत्वा त्रिगर्तानां महारथाः॥ अर्जुनं वासुदेवं च शरवर्षैरवाकिरन्। सत्यकर्माणमाक्षिप्य क्षुरप्रेण महायशाः॥ ततोऽस्य स्यन्दनस्येषां चिच्छिदे पाण्डुनन्दनः। शिलाशितेन च विभो क्षुरप्रेण महायशाः॥ शिरश्चिच्छेद सहसा तप्तकुण्डलभूषणम्। सत्येषुमध चादत्त योधानां मिषतां ततः॥ यथा सिंहो वने राजन् मृगं परिबुभुक्षितः। तं निहत्य ततः पार्थः सुशर्माण: त्रिभिः शरैः॥ विद्ध्वा तानहनत् सर्वान् रथान् रुक्मविभूषितान्। ततः प्रायात् त्वरन् पार्थो दीर्घकालं सुसंवृतम्॥ मुञ्चन् क्रोधविषं तीक्ष्णं प्रस्थलाधिपतिं प्रति। तमर्जुनः पृषत्कानां शतेन भरतर्षभ॥ पूरयित्वा ततो वाहान् प्राहरत् तस्य धन्विनः। ततः शरं समादाय यमदण्डोपमं तदा॥ सुशर्माणं समुद्दिश्य चिक्षेपाशु हसन्निव। स शरः प्रेषितस्तेन क्रोधदीप्तेन धन्विना॥ सुशर्माण समासाद्य बिभेद हृदयं रणे। स गतासुमहाराज पपात धरणीतले॥ नन्दयन् पाण्डवान् सर्वान् व्यथयंश्चापि तावकान्। शुशर्माणं रणे हत्वा पुत्रानस्य महारथान्॥ सप्त चाष्टौ च त्रिंशच्च सायकैरनयत् क्षमम्। ततोऽस्य निशितैर्बाणैः सर्वान् हत्वा पदानुगान्॥ अभ्यगाद् भारती सेनां हतशेषां महारथः। भीमस्तु समरे क्रुद्धः पुत्रं तव जनाधिप॥ सुदर्शनमदृश्यं तं शरैश्चक्रे हसन्निव। ततोऽस्य प्रहसन् क्रुद्धः शिरः कायादपाहरत्॥ क्षुरप्रेण सुतीक्ष्णेन स हतः प्रापतद् भुवि। तस्मिंस्तु निहते वीर ततस्तस्य पदानुगाः॥ परिववू रणे भीमं किरन्तो विविधाशरान्। ततस्तु निशितैर्बाणैस्तवानीकं वृकोदरः॥ इन्द्राशनिसमस्पर्शः : समन्तात् पर्यवाकिरत्। ततः क्षणेन तद् भीमो न्यहनद् भरतर्षभ॥ तेषु तूत्साद्यमानेषु सेनाध्यक्षा महारथाः। भीमसेनं समासाद्य ततोऽयुद्ध्यन्त भारत॥ स तान् सर्वाशरैघोरैरवाकिरत पाण्डवः। तथैव तावका राजन् पाण्डवेयान् महारथान्॥ शरवर्षेण महता समन्तात् पर्यवारयन्। व्याकुलं तदभूत् सर्वं पाण्डवानां परैः सह॥ तावकानां च समरे पाण्डवेयैर्युयुत्सताम्। तत्र योधास्तदा पेतुः परस्परसमाहताः। उभयोः सेनयो राजन् संशोचन्तः स्म बान्धवान्॥ संजय उवाच ततः क्रुद्धा महाराज सौवलस्य पदानुगाः। त्यक्त्वा जीवितमाक्रन्दे पाण्डवान् पर्यवारयन्॥ तानर्जुनः प्रत्यगृह्णात् सहदेवजये धृतः। भीमसेनश्च तेजस्वी क्रुद्धाशीविषदर्शनः॥ शक्त्यृष्टिप्रासहस्तानां सहदेवं जिघांसताम्। संकल्पमकरोन्मोघं गाण्डीवेन धनंजयः॥ ते संगृहीतायुधान् वाहून् योधानामभिधावताम्। भल्लैश्चिच्छेद बीभत्सुः शिरांस्यपि हयानपि॥ हयाः प्रत्यपद्यन्त वसुधां विगतासवः। चरता लोकवीरेण प्रहताः सव्यसाचिना॥ ततो दुर्योधनो राजा दृष्ट्वा स्वबलसंक्षयम्। हतशेषान् समानीय क्रुद्धो रथगणान् बहून्॥ कुञ्जरांश्च हयांश्चैव पादातांश्च समन्ततः। उवाच सहितान् सर्वान् धार्तराष्ट्र इदं वचः॥ समासाद्य रणे सर्वान् पाण्डवान् ससुहृद्गणान्। पाञ्चाल्यं चापि सबलं हत्वा शघ्रं न्यवर्तत॥ तस्य ते शिरसा गृह्य वचनं युद्धदुर्मदाः। अभ्युद्ययू रणे पार्थांस्तव पुत्रस्य शासनात्॥ तानभ्यापततः शीघ्रं हतशेषान् महारणे। शरैराशीविषाकारैः पाण्डवाः समवाकिरन्॥ तत् सैन्यं भरतश्रेष्ठ मुहूर्तेन महात्मभिः। अवध्यत रणं प्राप्य त्रातारं नाभ्यविन्दत॥ प्रतिष्ठमानं तु भयान्नावतिष्ठति दंशितम्। अश्वैर्विपरिधावद्भिः सैन्येन रजसा वृते॥ न प्राज्ञायन्त समरे दिश: सप्रदिशस्तथा। ततस्तु पाण्डवानीकान्निःसृत्य बहवो जनाः॥ अभ्यघ्नंस्तावकान् युद्धे मुहूदिव भारत। ततो नि:शेषमभवत् तत् सैन्यं तव भारत॥ अक्षौहिण्यः समेतास्तु तव पुत्रस्य भारत। एकादश हता युद्धे ताः प्रभो पाण्डुसृञ्जयैः॥ तेषु राजसहस्रेषु तावकेषु महात्मसु। एको दुर्योधनो राजन्नदृश्यत भृशं क्षतः॥ ततो वीक्ष्य दिशः सर्वा दृष्ट्वा शून्यां च मेदिनीम्। विहीनः सर्वयोधैश्च पाण्डवान् वीक्ष्य संयुगे॥ मुदितान् सर्वतः सिद्धान् नर्दमानान् समन्ततः। बाणशब्दरवांश्चैव श्रुत्वा तेषां महात्मनाम्॥ दुर्योधनो महाराज कश्मलेनाभिसंवृतः। अपयाने मनश्चक्रे विहीनबलवाहनः॥ धृतराष्ट्र उवाच निहते मामके सैन्ये निःशेषे शिबिरे कृते। पाण्डवानां बले सूतं किं नु शेषमभूत् तदा।॥ एतन्मे पृच्छतो ब्रूहि कुशलो ह्यसि संजय। यच दुर्योधनो मन्दः कृतवांस्तनयो मम॥ बलक्षयं तथा दृष्ट्वा स एकः पृथिवीपतिः। संजय उवाच स्थानां द्वे सहस्रे तु सप्त नागशतानि च॥ पञ्च चाश्वसहस्राणि पत्तीनां च शतं शताः। एतच्छेषमभूद् राजन् पाण्डवानां महद् बलम्॥ परिगृह्य हि यद् युद्धे धृष्टद्युम्नो व्यवस्थितः। एकाकी भरतश्रेष्ठ ततो दुर्योधनो नृपः॥ नापश्यत् समरे कंचित् सहायं रथिनां वरः। नर्दमानान् परान् दृष्ट्वा स्वबलस्य संक्षयम्॥ तथा दृष्ट्वा महाराज एकः स पृथिवीपतिः। हतं स्वहयमुत्सृज्य प्राङ्मुखः प्राद्रवद् भयात्॥ एकादशचमूभर्ता पुत्रो दुर्योधनस्तव। गदामादाय तेजस्वी पदातिः प्रस्थितो हृदम्॥ नातिदूरं ततो गत्वा पद्भ्यामेव नराधिपः। सस्मार वचनं क्षत्तुर्धर्मशीलस्य धीमतः॥ इदं नूनं महाप्राज्ञो विदुरो दृष्ट्वान् पुरा। महद् वैशसमस्माकं क्षत्रियाणां च संयुगे॥ एवं विचिन्तयानस्तु प्रविविक्षुर्हदं नृपः। दुःखसंतप्तहृदयो दृष्ट्वा राजन् बलक्षयम्॥ पाण्डवास्तु महाराज धृष्टद्युम्नपुरोगमाः। अभ्यद्रवन्त संक्रुद्धास्तव राजन् बलं प्रति॥ शक्त्वृष्टिप्रासहन्तानां बलनामभिगर्जताम्। शंकल्पमकरोन्मोघं गाण्डीवेन धनंजयः॥ तान् हत्वा निशितैर्वाणैः सामात्यान् सह बन्धुभिः। रथे श्वेतहये तिष्ठन्नर्जुनो बह्वशोभत॥ सुबलस्य हते पुत्रे सवाजिरथकुञ्जरे। महावनमिव च्छिन्नमभवत् तावकं बलम्॥ अनेकशतसाहस्र बले दुर्योधनस्य ह। नान्यो महारथो राजन् जीवमानो व्यदृश्यत॥ द्रोणपुत्रादृते वीरात् तथैव कृतवर्मणः। कृपाच गौतमाद् राजन् पार्थिवाच तवात्मजात्॥ धृष्टद्युम्नस्तु मां दृष्ट्वा हसन् सात्यकिमब्रवीत्। किमनेन गृहीतेन नानेनार्थोऽस्ति जीवता॥ धृष्टद्युम्नवचः श्रुत्वा शिनेर्नप्ता महारथः। उद्यम्य निशितं खड्गं हन्तुं मामुद्यतस्तदा॥ तमागम्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत्। मुच्यता संजयो जीवन्न हन्तव्यः कथंचन॥ द्वैपायनवचः श्रुत्वा शिनेर्नप्ता कृताञ्जलिः। ततो मामब्रवीन्मुक्त्वा स्वस्ति संजय साधय॥ अनुज्ञातस्त्वहं तेन न्यस्तवर्मा निरायुधः। प्रातिष्ठं येन नगरं सायढे रुधिरोक्षितः॥ क्रोशमात्रमपक्रान्तं गदापाणिमवस्थितम्। एकं दुर्योधनं राजन्नपश्यं भृशविक्षतम्॥ स तु मामश्रुपूर्णाक्षो नाशक्नोदभिवीक्षितुम्। उपप्रैक्षत मां दृष्ट्वा तथा दीनमवस्थितम्॥ तं चाहमपि शोचन्तं दृष्ट्वैकाकिनमाहवे। मुहूर्तं नाशकं वक्तुमतिदुःखपरिप्लुतः॥ ततोऽस्मै तदहं सर्वमुक्तवान् ग्रहणं तदा। द्वैपायनप्रसादाच जीवतो मोक्षमाहवे॥ स मुहूर्तमिव ध्यात्वा प्रतिलभ्य च चेतनाम्। भ्रातूंश्च सर्वसैन्यानि पर्यपृच्छत मां ततः॥ तस्मै तदहमाचक्षे सर्वं प्रत्यक्षदर्शिवान्। भ्रातंश्च निहतान् सर्वान् सैन्यं च विनिपातितम्॥ त्रयः किल रथाः शिष्टास्तावकानां नराधिप। इति प्रस्थानकाले मां कृष्णद्वैपायनोऽब्रवीत्॥ स दीर्घमिव निःश्वस्य प्रत्यवेक्ष्य पुनः पुनः। असौ मां पाणिना स्पृष्ट्वा पुत्रस्ते पर्यभाषत॥ त्वदन्यो नेह संग्रामे कश्चिज्जीवति संजय। द्वितीयं नेह पश्यामि ससहायाश्च पाण्डवाः॥ ब्रूयाः संजय राजानं प्रज्ञाचक्षुषमीश्वरम्। दुर्योधनस्तव सुतः प्रविष्टो हृदमित्युत॥ सुहृद्धिस्तादृशै_नः पुत्रैर्धातृभिरेव च। पाण्डवैश्च हृते राज्ये को नु जीवेत मादृशः॥ आचक्षीथाः सर्वमिदं मां च मुक्तं महाहवात्।, अस्मिंस्तोयह्रदे गुप्तं जीवन्तं भृशविक्षतम्॥ एवमुक्त्वा महाराज प्राविशत् तं महाह्रदम्। अस्तम्भयत तोयं च मायया मनुजाधिपः॥ तस्मिन् ह्रदं प्रविष्टे तु त्रीन् रथान् श्रान्तवाहनान्। अपश्यं सहितानेकस्तं देशं समुपेयुधः॥ कृपं शारद्वतं वीरं द्रौणिं च रथिनां वरम्। भोजं च कृतवर्माणं सहिताशरविक्षतान्॥ ते सर्वे मामभिप्रेक्ष्य तूर्णमश्वाननोदयन्। उपायाय तु मामूचुर्दिष्ट्या जीवसि संजय॥ अपृच्छंश्चैव मां सर्वे पुत्रं तव जनाधिपम्। कच्चिद् दुर्योधनो राजा स नो जीवति संजय॥ आख्यातवानहं तेभ्यस्तदा कुशलिनं नृपम्। तचैव सर्वमाचक्षं यन्मां दुर्योधनोऽब्रवीत्॥ ह्रदं चैवाहमाचक्षं यं प्रविष्टो नराधिपः। अश्वत्थामा तु तद् राजन् निशम्य वचनं मम॥ तं ह्रदं विपुलं प्रेक्ष्य करुणं पर्यदेवयत्। अहो धिक् स न जानाति जीवतोऽस्मान् नराधिपः॥६१ पर्याप्ता हि वयं तेन सहं योधयितुं परान्। ते त तत्र चिरं कालं विलय न महारथाः॥ प्राद्रवन् रथिनां श्रेष्ठा दृष्ट्वा पाण्डुसुतान् रणे। ते तु मां रथमारोप्य कृपस्य सुपरिष्कृतम्॥ सेनानिवेशमाजग्मुर्हतशेषास्त्रयो स्थाः। तत्र गुल्मा: परित्रस्ताः सूर्ये चास्तमिते सति॥ सर्वे विचुक्रुशुः श्रुत्वा पुत्राणां तव संक्षयम्। ततो वृद्धा महाराज योषितां रक्षिणो नराः॥ राजदारानुपादाय प्रययुनगरं प्रति। तत्र विक्रोशमानानां रुदतीनां च सर्वशः॥ प्रादुरासीन्महाशब्दः श्रुत्वा तद् बलसंक्षयम्। ततस्ता योषितो राजन् क्रन्दन्त्यो वै मुहुर्मुहुः॥ कुरर्य इव शब्देन नादयन्त्यो महीतलम्। आजघ्नुः करजैश्चापि पाणिभिश्च शिरांस्युत॥ लुलुचुश्च तदा केशान् क्रोशत्यस्तत्र तत्र ह। हाहाकारविनादिन्यो विनिघ्नन्त्य उरांसि च॥ शोचन्त्यस्तत्र रुरुदुः क्रन्दमाना विशाम्पते। ततो दुर्योधनामात्याः साश्रुकण्ठा भृशातुराः॥ राजदारानुपादाय प्रययुर्नगरं प्रति। वेत्रव्यासक्तहस्ताश्च द्वाराध्यक्षा विशाम्पते॥ शयनीयानि शुभ्राणि स्पास्तरणवन्ति च। समादाय ययुस्तूर्णं नगरं दाररक्षिणः॥ आस्थायाश्वतरीयुक्तान् स्यन्दनानपरे पुनः। स्वान् स्वान् दारानुपादाय प्रययुनगरं प्रति॥ अदृष्टपूर्वा या नार्यो भास्करेणापि वेश्मसु। ददृशुस्ता महाराज जना याताः पुरं प्रति॥ ताः स्त्रियो भरतश्रेष्ठ सौकुमार्यसमन्विताः। प्रययुर्नगरं तूर्णं हतस्वजनबान्धवाः॥ आलोपालाविपालेभ्यो द्रवन्तो नगरं प्रति। ययुर्मनुष्याः सम्भ्रान्ता भीमसेनभयार्दिताः॥ अपि चैषां भयं तीव्र पार्थेभ्योऽभूत् सुदारुणम्। प्रेक्षमाणास्तदान्योन्यमाधावनगरं प्रति॥ तस्मिंस्तथा वर्तमाने विद्रवे भृशदारुणे। युयुत्सुः शोकसम्मूढः प्राप्तकालमचिन्तयत्॥ जितो दुर्योधनः संख्ये पाण्डवैर्भीमविक्रमैः। एकादशचमूभर्ता भ्रातरश्चास्य सूदिताः॥ हताश्च कुरवः सर्वे भीष्मद्रोणपुरःसराः। अहमेको विमुक्तस्तु भाग्ययोगाद् यदृच्छया॥ विदूतानि च सर्वाणि शिविराणि समन्ततः। इतस्तत: पलायन्ते हतनाथा हतौजसः॥ अदृष्टपूर्वा दुःखार्ता भयव्याकुललोचनाः। हरिणा इव वित्रस्ता वीक्षमाणा दिशो दशः॥ दुर्योधनस्य सचिवा ये केचिदवशेषिताः। राजदारानुपादाय प्रययुनगरं प्रति॥ प्राप्तकालमहं मन्ये प्रवेश तैः सह प्रभुम्। युधिष्ठिरमनुज्ञाय वासुदेवं तथैव च॥ एतम) महाबाहुरुभयो:स न्यवेदयत्। तस्य प्रीतोऽभवद् राजा नित्यं करुणवेदिता॥ परिष्वज्य महाबाहुर्वैश्यापुत्रं व्यसर्जयत्। ततः स रथमास्थाय दुतमश्वानचोदयत्॥ संवाहयितवांश्चापि राजदारान् पुरं प्रति। तैश्चैव सहित: क्षिप्रमस्तं गच्छति भास्करे॥ प्रविष्टो हास्तिनपुरं बाष्पकण्ठोऽश्रुलोचनः। अपश्यत महाप्राज्ञं विदुरं साश्रुलोचनम्॥ राज्ञः समीयान्निष्क्रान्तं शोकोपहतचेतसम्। तमब्रवीत् सत्यधृतिः प्रणतं त्वग्रतः स्थितम्॥ दिष्ट्या कुरुक्षये वृत्ते अस्मिस्त्वं पुत्र जीवसि। युयुत्सुरुवाच विना राज्ञः प्रेवशाद् वै किमसि त्वमिहागतः॥ एतद् वै कारणं सर्वं विस्तरेण निवेदय। निहते शकुनौ तत्र सज्ञातिसुतबान्धवे॥ हतशेषपरीवारो राजा दुर्योधनस्ततः। स्वकं स हयमुत्सृज्य प्राङ्मुखः प्राद्रवद् भयात्॥ अपक्रान्ते तु नृपतौ स्कन्धावारनिवेशनात्। भयव्याकुलितं सर्वं प्राद्रवन्नगरं प्रति॥ ततो राज्ञः कलत्राणि भ्रातृणां चास्य सर्वतः। वाहनेषु समारोप्य अध्यक्षाः प्राद्रवन् भयात्॥ ततोऽहं समनुज्ञाप्य राजानं सहकेशवम्। प्रविष्टो हास्तिनपुरं रक्षन्ल्लोकान् प्रधावितान्॥ एतच्छ्रुत्वा तु वचनं वैश्यापुत्रेण भाषितम्। प्राप्तकालमिति श्रुत्वा विदुरः सर्वधर्मवित्॥ अपूजयदमेयात्मा युयुत्सुं वाक्यमब्रवीत्। प्राप्तकालमिदं सर्वं ब्रुवता भरतक्षये॥ रक्षितः कुलधर्मश्च सानुक्रोशतया त्वया। दिष्ट्या त्वामिह संग्रामादस्माद् वीरक्षयात् पुरम्॥ समागतमपश्याम ांशुमन्तमिव प्रजाः। अन्धस्य नृपतेर्यष्टिर्लुब्धस्य दीर्घदर्शिनः॥ बहुशो याच्यमानस्य दैवोपहतचेतसः। त्वमेको व्यसानर्तस्य ध्रियसे पुत्र सर्वथा॥ अद्य त्वमिह विश्रान्तः श्वोऽभिगन्ता युधिष्ठिरम्। एतावदुक्त्वा वचनं विदुरः साश्रुलोचनः॥ पौरजानपदैर्दुःखाद्धाहेति भृशनादितम्॥ निरानन्दं गतश्रीकं हृताराममिवाशयम्। शून्यरूपमपध्वस्तं दुःखाद् दुःखतरोऽभवत्॥ विदुरः सर्वधर्मज्ञो विकुवेनान्तरात्मना। विवेश नगरे राजन् निःशश्वास शनैः शनैः॥ युयुत्सुरपि तां सात्रिं स्वगृहे न्यवसत् तदा। वन्द्यमानः स्वकैश्चापि नाभ्यनन्दत् सुदुःखितः। चिन्तयानः क्षयं तीव्र भरतानां परस्परम्॥ धृतराष्ट्र उवाच हतेषु सर्वसैन्येषु पाण्डुपुत्रै रणाजिरे। मम सैन्यावशिष्टास्ते किमकुर्वत संजय॥ कृतवर्मा कृपश्चैव द्रोणपुत्रश्च वीर्यवान्। दुर्योधनश्च मन्दात्मा राजा किमकरोत् तदा॥ संजय उवाच सम्प्राद्रवत्सु दारेषु क्षत्रियाणां महात्मनाम्। विदुते शिबिरे शून्ये भृशोद्विग्नास्त्रयो रथाः॥ निशम्य पाण्डुपुत्राणां तदा वै जयिनां स्वनम्। विद्रुतं शिबिरं दृष्ट्वा सायाह्ने राजगृद्धिनः॥ स्थानं नारोचयंस्तत्र ततस्ते ह्रदमभ्ययुः। युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितो रणे॥ हृष्टः पर्यचरद् राजन् दुर्योधनवधेप्सया। मार्गमाणास्तु संक्रुद्धास्तव पुत्रं जयैषिणः॥ यत्नतोऽन्वेषमाणास्ते नैवापश्यञ्जनाधिपम्। स हि तीव्रण वेगेन गदापाणिरपाक्रमत्॥ तं ह्रदं प्राविशचापि विष्टभ्यापः स्वमायया। यदा तु पाण्डवाः सर्वे सुपरिश्रान्तवाहनाः॥ ततः स्वशिबिरं प्राप्य व्यतिष्ठन्त ससैनिकाः। ततः कृपश्च द्रौणिश्च कृतवर्मा च सात्वतः॥ संनिविष्टेषु पार्थेषु प्रयातास्तं ह्रदं शनैः। ते तं ह्रदं समासाद्य यत्र शेते जनाधिपः॥ अभ्यभाषन्त दुर्धर्षं राजानं सुप्तमम्भसि। राजन्नुत्तिष्ठ युद्ध्यस्व सहास्माभिर्युधिष्ठिरम्॥ जित्वा वा पृथिवीं भुड्क्ष्व हतो वा स्वर्गमाप्नुहि। तेषामपि बलं सर्वं हतं दुर्योधन त्वया॥ प्रतिविद्धाश्च भूयिष्ठं ये शिष्टास्तत्र सैनिकाः। न ते वेगं विषहितुं शक्तास्तव विशांपते॥ अस्माभिरपि गुप्तस्य तस्मादुत्तिष्ठ भारत। दुर्योधन उवाच दिष्ट्या पश्यामि वो मुक्तानीदृशात् पुरुषक्षयात्॥ पाण्डुकौरवसम्मर्दान्जीवमानान् नरर्षभान्। विजेष्यामो वयं सर्वे विश्रान्ता विगतकुमाः॥ भवन्तश्च परिश्रान्तां वयं च भृशविक्षताः। उदीर्णं च बलं तेषां तेन युद्धं न रोचये॥ न त्वेदतद्भुतं वीरा यद् वो महदिदं मनः। अस्मासु च परा भक्तिर्न तु कालः पराक्रमे॥ विश्रम्यैकां निशामद्य भवद्भिः सहितो रणे। प्रतियोत्स्याम्यहं शत्रूञ्चो न मेऽस्त्यत्र संशयः॥ संजय उवाच एवमुक्तोऽब्रवीद् द्रौणी राजानं युद्धदुर्मदम्। उत्तिष्ठ राजन् भद्रं ते विजेष्यामो वयं परान्॥ इष्टापूर्तेन दानेन सत्येन च जयेन च। शपे राजन् यथा ह्यद्य निहनिष्यामि सोमकान्॥ मा स्म यज्ञकृतां प्रातिमाप्नुयां सज्जनोचिताम्। यदीमां रजनी व्युष्टां न हि हन्मि परान् रणे॥ नाहत्वा सर्वपञ्चालान् विमोक्ष्ये कवचं विभो। इति सत्यं ब्रवीम्येतत्तन्मे शृणु जनाधिप॥ तेषु सम्भाषमाणेषु व्याधास्तं देशमाययुः। मांसभारपरिश्रान्ताः पानीयार्थं यद्दच्छया॥ ते हि नित्यं महाराज भीमसेनस्य लुब्धकाः। मांसभारानुपाजहुर्भक्त्या परमया विभो॥ ते तत्र धिष्ठितास्तेषां सर्वं तद् वचनं रहः। दुर्योधनवचश्चैव शुश्रुवुः संगता मिथः॥ तेऽपि सर्वे महेष्वासा अयुद्धार्थिनि कौरवे। निर्बन्धं परमं चक्रुस्तदा वै युद्धकाङ्क्षिणः॥ तांस्तथा समुदीक्ष्याथ कौरवाणां महारथान्। अयुद्धमनसं चैव राजानं स्थितमम्भसि॥ तेषां श्रुत्वा च संवादं राजश्च सलिले सतः। व्याधाभ्यजानन् राजेन्द्र सलिलस्थं सुयोधनम्॥ ते पूर्वं पाण्डुपुत्रेण पृष्टा ह्यासन् सुतं तव। यदृच्छोपगतास्तत्र राजान् परिमार्गता॥ ततस्ते पाण्डुपुत्रस्य स्मृत्वा तद् भाषितं तदा। अन्योन्यमब्रुवन् राजन् मृगव्याधाः शनैरिव॥ दुर्योधनं ख्यापयामो धनं दास्यति पाण्डवः। अव्यक्तमिह नः ख्यातो ह्रदे दुर्योधनो नृपः॥ तस्माद् गच्छामहे सर्वे यत्र राजा युधिष्ठिरः। आख्यातुं सलिले सुप्तं दुर्योधनममर्षणम्॥ धृतराष्ट्रात्मजं तस्मै भीमसेनाय धीमते। शयानं सलिले सर्वे कथयामो धनु ते॥ स नो दास्यति सुप्रीतो धनानि बहुलान्युत। किं नो मांसेन शुष्केण परिक्लिष्टेन शोषिणा॥ एवमुक्त्वा तु ते व्याधाः सम्प्रहृष्टा धनार्थिनः। मांसभारानुपादाय प्रययुः शिबिरं प्रति॥ पाण्डवापि महाराज लब्धलक्ष्याः प्रहारिणः। अपश्यमानाः समरे दुर्योधनमवस्थितम्॥ निकृतेस्तस्य पापस्य ते पारं गमनेप्सवः। चारान् सम्प्रेषयामासुः समन्तात् तद्रणाजिरे॥ आगम्य तु ततः सर्वे नष्टं दुर्योधनं नृपम्। न्यवेदयन्त सहिता धर्मराजस्य सैनिकाः॥ तेषां तद् वचनं श्रुत्वा चाराणां भरतर्षभ। चिन्तामभ्यगमत् तीव्र निःशश्वास च पार्थिवः॥ अत स्थितानां पाण्डूनां दीनानां भरतर्षभ। तस्माद् देशादपक्रम्य त्वरिता लुब्धका विभो॥ आजग्मुः शिबिरं हृष्टा दृष्ट्वा दुर्योधनं नृपम्। वार्यमाणाः प्रविष्टाश्च भीमसेनस्य पश्यतः॥ ते तु पाण्डवमासाद्य भीमसेनं महाबलम्। तस्मै तत् सर्वमाचख्युर्यद् वृत्तं यच वै श्रुतम्॥ श्रुत्वा विशाम्पते। ततो वृकोदरो राजन् दत्त्वा तेषां धनं बहु। धर्मराजाय तत् सर्वमाचचक्षे परंतपः॥ असौ दुर्योधनो राजन् विज्ञातो मम लुब्धकैः। संस्तभ्य सलिलं शेते यस्यार्थे परितप्यसे॥ तद् वचो भीमसेनस्य प्रियं अज्ञातशत्रुः कौन्तेयो हृष्टोऽभूत् सह सोदरैः॥ तं च श्रुत्वा महेष्वासं प्रविष्टं सलिलह्रदे। क्षिप्रमेव ततोऽगच्छन् पुरस्कृत्य जनार्दनम्॥ ततः किलकिलाशब्दः प्रादुरासीद् विशाम्पते। पाण्डवानां प्रहृष्टानां पञ्चालानां च सर्वशः॥ सिंहनादांस्ततश्चकुः श्वेडाश्च भरतर्षभ। त्वरिता क्षत्रिया राजञ्जग्मुद्वैपायनं ह्रदम्॥ ज्ञातः पापो धार्तराष्ट्रो दृष्टश्चेत्यसकृद्रणे। प्राक्रोशन् सोमकास्तत्र हृष्टरूपाः समन्ततः॥ तेषामाशु प्रयातानां स्थानां तत्र वेगिनाम्। बभूव तुमुलः शब्दो दिवस्पृक् पृथिवीपते॥ दुर्योधनं परीप्सन्तस्तत्र तत्र युधिष्ठिरम्। अन्वयुस्त्वरितास्ते वै राजानं श्रान्तवाहनाः॥ अर्जुनो भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ। धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी चापराजितः॥ उत्तमौजा युधामन्युः सात्यकिश्च महारथः। पञ्चालानां च ये शिष्टा द्रौपदेयाश्च भारत॥ हयाश्च सर्वे नागाश्च शतशश्च पदातयः। ततः प्राप्तो महाराज धर्मराजः प्रतापवान्॥ द्वैपायनं ह्रदं घोरं यत्र दुर्योधनोऽभवत्। शीतामलजलं हृद्यं द्वितीयमिव सागरम्॥ मायया सलिलं स्तभ्य यत्राभूत् ते स्थितः सुतः। अत्यद्भुतेन विधिना दैवयोगेन भारत॥ सलिलान्तर्गतः शेते दुर्दर्शः कस्यचित् प्रभो। मानुष्यस्य मनुष्येन्द्र गदाहस्तो जनाधिपः॥ ततो दुर्योधनो राजा सलिलान्तर्गतो वसन्। शुश्रुवे तुमुलं शब्दं जलदोपमनिःस्वनम्॥ युधिष्ठिरश्च राजेन्द्रं तं ह्रदं सह सोदरैः। आजगाम महाराज तव पुत्रवधाय वै॥ महता शङ्खनादेन रथनेमिस्वनेन च। ऊर्ध्वं धुन्वन् महारेणुं कम्पयंश्चापि मेदिनीम्॥ यौधिष्ठिरस्य सैन्यस्य श्रुत्वा शब्दं महारथाः। कृतवर्मा कृपो द्रौणी राजानमिदमब्रुवन्॥ इमे ह्यायान्ति संहृष्टाः पाण्डवा जितकाशिनः। अपयास्यामहे तावदनुजानातु नो भवान्॥ दुर्योधनस्तु तच्छुत्वा तेषां तत्र तरस्विनाम्। तथेत्युक्त्वा ह्रदं तं वै माययास्तम्भयत् प्रभो॥ त्वनुज्ञाप्य राजानं भृशं शोकपरायणाः। जग्मुर्दूरे महाराज कृपप्रभृतयो रथाः॥ ते गत्वा दूरमध्वानं न्यग्रोधं प्रेक्ष्य मारिष। न्यविशन्त भृशं श्रान्ताश्चिन्तयन्तो नृपं प्रति॥ ते विष्टभ्य सलिलं सुतो धार्तराष्ट्रो महाबलः। पाण्डवाश्चापि सम्प्राप्तास्तं देशं युद्धमीप्सवः॥ कथं नु युद्धं भविता कथं राजा भविष्यति। कथं नु पाण्डवा राजन् प्रतिपत्स्यन्ति कौरवम्॥ इत्येवं चिन्तयानास्तु रथेभ्योऽश्वान् विमुच्यते। तत्रासांचक्रिरे राजन् कृपप्रभृतयो रथाः॥ संजय उवाच ततस्तेष्वपयातेषु रथेषु त्रिषु पाण्डवाः। ते ह्रदं प्रत्यपद्यन्त यत्र दुर्योधनोऽभवत्॥ आसाद्य च कुरुश्रेष्ठ तदा द्वैपायनं ह्रदम्। स्तम्भितं धार्तराष्ट्रेण दृष्ट्वा तं सलिलाशयम्॥ वासुदेवमिदं वाक्यमब्रवीत् कुरुनन्दनः। पश्येमा धार्तराष्ट्रेण मायामप्सु प्रयोजिताम्॥ विष्टभ्य सलिलं शेते नास्य मानुषतो भयम्। दैवी मायामिमां कृत्वा सलिलान्तर्गतो ह्ययम्॥ निकृत्या निकृतिप्रज्ञो न मे जीवन् विमोक्ष्यते। यद्यस्य समरे साह्यं कुरुते वज्रभृत् स्वयम्॥ तथाप्येनं हयं युद्धे लोका द्रक्ष्यन्ति माधव। वासुदेव उवाच मायाविन इमां मायां मायया जहि भारत॥ मायावी मायया वध्यः सत्यमेतद् युधिष्ठिर। क्रियाभ्युपायैर्बहुभिर्मायामप्सु प्रयोज्य च॥ जहि त्वं भरतश्रेष्ठ मायात्मानं सुयोधनम्। क्रियाभ्युपायैरिन्द्रेण निहता दैत्यदानवाः॥ क्रियाभ्युपायैर्बहुभिर्बलिर्बद्धो महात्मना। क्रियाभ्युपायैर्बहुभिर्हिरण्याक्षो महासुरः॥ हिरण्यकशिपुश्चैव क्रिययैव निषूदितौ। वृत्रश्च निहतो राजन् क्रिययैव न संशयः॥ तथा पौलस्त्यतनयो रावणो नाम राक्षसः। रामेण निहतो राजन् सानुबन्धः सहानुगः॥ क्रियया योगमास्थाय तथा त्वमपि विक्रम। क्रियाभ्युपायैर्निहतौ मया राजन् पुरातनौ॥ तारकाश्च महादैत्यो विप्रचित्तिश्च वीर्यवान्। वातापिरिल्वलश्चैव त्रिशिराश्च तथा विभो॥ सुन्दोपसुन्दावसुरौ क्रिययैव निषूदितौ। क्रियाभ्युपायैरिन्द्रेण त्रिदिव भुज्यते विभो॥ क्रिया बलवती राजन् नान्यत् किंचिद् युधिष्ठिर। दैत्याश्च दानवाश्चैव राक्षसाः पार्थिवास्तथा॥ क्रियाभ्युपायैर्निहताः क्रियां तस्मात् समाचर। संजय उवाच इत्युक्तो वासुदेवेन पाण्डवः संशितव्रतः॥ जलस्थं तं महाराज तव पुत्रं महाबलम्। अभ्यभाषत कौन्तेयः प्रहसन्निव भारत॥ सुयोधन किमर्थोऽयमारम्भोऽप्सु कृतस्त्वया। सर्वं क्षत्रं घातयित्वा स्वकुलं च विशाम्पते॥ जलाशयं प्रविष्टोऽद्य वाञ्छञ्जीवितमात्मनः। उत्तिष्ठ राजन् युध्यस्व सहास्माभिः सुयोधन॥ स ते दो नरश्रेष्ठ स च मानः क्व ते गतः। यस्त्वं संस्तभ्य सलिलं भीतो राजन् व्यवस्थितः।।२० सर्वे त्वां शूरं इत्येवं जना जल्पन्ति संसदि। व्यर्थं तद् भवतो मन्ये शौर्य सलिलशायिनः॥ उत्तिष्ठ राजन् युध्यस्व क्षत्रियोऽसि कुलोद्भवः। कौरवेयो विशेषेण कुलं जन्मं च संस्मर॥ स कथं कौरवे वंशे प्रशंसञ्जन्म चात्मनः। युद्धाद् भीतस्ततस्तोयं प्रविश्य प्रतितिष्ठसि॥ अयुद्धमव्यस्थानं नैष धर्मः सनातनः। अनार्यजुष्टमस्वयँ रणे राजन् पलायनम्॥ कथं पारमगत्वा हि युद्धे त्वं वै जिजीवीषुः। इमान् निपतितान् दृष्ट्वा पुत्रान् भ्रातॄन् पितूंस्तथा।॥ सम्बन्धिनो वयस्यांश्च मातुलान् बान्धवांस्तथा। घातयित्वा कथं तात इदे तिष्ठसि साम्प्रतम्॥ शूरमानी न शूरस्त्वं मृषां वदसि भारत। शूरोऽहमिति दुर्बुद्धे सर्वलोकस्य शृण्वतः॥ न हि शूराः पलायन्ते शत्रून् दृष्ट्वा कथञ्चन। ब्रूहि वा त्वं यया वृत्त्या शूर त्यजसि संगरम्॥ स त्वमुत्तिष्ठ युध्यस्व विनीय भयमात्मनः। घातयित्वा सर्वसैन्यं भ्रातूंश्चैव सुयोधन॥ नेदानी जीविते बुद्धिः कार्या धर्मचिकीर्षया। क्षत्रधर्ममुपाश्रित्य त्वद्विधेन सुयोधन॥ यत् तु कर्णमुपाश्रित्य शकुनिं चापि सौबलम्। अमर्त्य इव सम्मोहात् त्वमात्मानं न बुद्धवान्॥ तत् पापं सुमहत् कृत्वा प्रतियुद्ध्यस्व भारत। कथं हि त्वद्विधो मोहाद् रोचयेत पलायनम्॥ क्व ते तत् पौरुषं यातं क्व च मानः सुयोधन। क्व च विक्रान्तता याता क्व च विस्फूर्जितं महत्।।३३ क्व ते कृतास्त्रता याता किञ्च शेषे जलाशये। स त्वमुत्तिष्ठ युध्यस्व क्षत्रधर्मेण भारत॥ अस्मांस्तु वा पराजित्य प्रशाधि पृथिवीमिमाम्। अथवा निहतोऽस्माभिर्भूमौ स्वप्स्यसि भारत॥ एष ते परमो धर्मः सृष्टो धात्रा महात्मना। तं कुरुष्व यथातथ्यं राजा भव महारथ॥ संजय उवाच एवमुक्तो महाराज धर्मपुत्रेण धीमता। सलिलस्थस्तव सुत इदं वचनमब्रवीत्॥ दुर्योधन उवाच नैतचित्रं महाराज यद्भीः प्राणिनमाविशेत्। न च प्राणभयाद् भीतो व्यपयातोऽस्मि भारत॥ अरथश्चानिषङ्गी च निहत:पार्णिसारथिः। एकश्चाप्यगणः संख्ये प्रत्याश्वासमरोचयम्॥ न प्राणहेतोर्न भयान्न विषादाद् विशाम्पते। इदमम्भः प्रविष्टोऽस्मि श्रमात् त्विदमनुष्ठितम्॥ त्वं चाश्वसिहि कौन्तेय ये चाप्यनुगतास्तव। अहमुत्थाय वः सर्वान् प्रतियोत्स्यामि संयुगे॥ युधिष्ठिर उवाच आश्वस्ता एव सर्वे स्म चिरं त्वां मृगयामहे। तदिदानी समुत्तिष्ठ युध्यस्वेह सुयोधन॥ हत्वा वा समरे पार्थान् स्फीतं राज्यमवाप्नुहि। निहतो वा रणेऽस्माभिर्वीरलोकमवाप्स्यसि॥ दुर्योधन उवाच यदर्थं राज्यमिच्छामि कुरूणां कुरुनन्दन। त इमे निहताः सर्वे भ्रातरो मे जनेश्वर॥ क्षीणरत्नां च पृथिवी हतक्षत्रियपुङ्गवाम्। न ह्युत्सहाम्यहं भोक्तुं विधवामिव योषितम्॥ अद्यापि त्वहमाशंसे त्वां विजेतुं युधिष्ठिर। भक्त्वा पाञ्चालपाण्डूनामुत्साहं भरतर्षभ॥ न त्विदानीमाहं मन्ये कार्यं युद्धेन कर्हिचित्। द्रोणे कर्णे च संशान्ते निहते च पितामहे॥ अस्त्विदानीमियं राजन् केवला पृथिवी तव। असहायो हि को राजा राज्यमिच्छेत प्रशासितुम्।।४८ सुहृदस्तादृशान् हित्वा पुत्रान् भ्रातॄन् पितॄनपि। भवद्भिश्च हृते राज्ये को नु जीवेत मादृशः॥ अहं वनं गमिष्यामि ह्यजिनैः प्रतिवासितः। रतिर्हि नास्ति मे राज्ये हतपक्षस्य भारत॥ हतबान्धवभूयिष्ठा हताश्वा हतकुञ्जरा। एषा ते पृथिवी राजन् भुवनां विगतज्वरः॥ वनमेव गमिष्यामि वसानो मृगचर्मणी। न हि मे निर्जनस्यास्ति जीवितेऽद्य स्पृहा विभो॥ गच्छ त्वं भुक्ष्व राजेन्द्र पृथिवीं निहतेश्वराम्। हतयोधां नष्टरत्ना क्षीणवृत्तिर्यथासुखम्॥ संजय उवाच दुर्योधनं तव सुतं सलिलस्थं महायशाः। श्रुत्वा तु करुणं वाक्यमभाषत युधिष्ठिरः॥ युधिष्ठिर उवाच आर्तप्रलापान्मा तात सलिलस्थः प्रभाषिथा:। नैतन्मनसि मे राजन् वाशितं शकुनेरिव॥ यदि वापि समर्थः स्यास्त्वं दानाय सुयोधन। नाहमिच्छेयमवनिं त्वया दत्तां प्रशासितुम्॥ अधर्मेण न गृह्णीयां त्वया दत्तां महीमिमाम्। न हि धर्मः स्मृतो राजन् क्षत्रियस्य प्रतिग्रहः॥ त्वया दत्तां न चेच्छेयं पृथिवीमखिलामहम्। त्वां तु युद्धे विनिर्जित्य भोक्तास्मि वसुधामिमाम्।। ५८ अनीश्वरश्च पृथिवी कथं त्वं दातुमिच्छसि। त्वयेयं पृथिवी राजन् किन्न दत्ता तदैव हि॥ धर्मतो याचमानानां प्रशमार्थं कुलस्य नः। वार्ष्णेयं प्रथमं राजन् प्रत्याख्याय महाबलम्॥ किमिदानीं ददासि त्वं को हि के चित्तविभ्रमः। अभियुक्तस्तु को राजा दातुमिच्छेद्धि मेदिनीम्॥ न त्वमद्य महीं दातुमीशः कौरवनन्दन। आच्छेत्तुं वा बलाद् राजन् स कथं दातुमिच्छसि॥ मां तु निर्जित्य संग्रामे पालयेमां वसुन्धराम्। सूच्यमात्रेणापि यद् भूमेरपि भिद्येत भारत॥ तन्मात्रमपि तन्मह्यं न ददाति पुरा भवान्। स कथं पृथिवीमेतां प्रददासि विशाम्पते॥ सूच्यग्रं नात्यजः पूर्वं स कथं त्यजसि क्षितिम्। एवमैश्वर्यमासाद्य प्रशास्य पृथिवीमिमाम्॥ को हि मूढो व्यवस्येत शत्रोर्दातुं वसुन्धराम्। त्वं तु केवलमौर्येण विमूढो नावबुद्ध्यसे॥ पृथिवीं दातुकामोऽपि जीवितेन विमोक्ष्यसे। अस्मान् वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम्॥६७ अथवा निहतोऽस्माभिर्ब्रज लोकाननुत्तमान्। आवयोर्जीवतो राजन् मयि च त्वयि च ध्रुवम्॥ संशय:सर्वभूतानां विजये नौ भविष्यति। जीवितं तव दुष्प्रज्ञं मयि सम्प्रति वर्तते॥ जीवयेयमहं कामं न तु त्वं जीवितुं क्षमः। दहने हि कृतो यत्नस्त्वयास्मासु विशेषतः॥ आशीविषैर्विषैश्चापि जले चापि प्रवेशनैः। त्वया विनिकृता राजन् राज्यस्य हरणेन च॥ अप्रियाणां च वचनैद्रौपद्याः कर्षणेन च। एतस्मात् कारणात् पाप जीवितं ते न विद्यते॥ उत्तिष्ठोत्तिष्ठ युध्यस्व युद्धे श्रेयो भविष्यति। एवं तु विविधा वाचो जययुक्ताः पुनः पुनः। कीर्तयन्ति स्म ते वीरास्तत्र तत्र जनाधिप॥ धृतराष्ट्र उवाच एवं संतज़मानस्तु मम पुत्रो महीपतिः। प्रकृत्या मन्युमान् वीरः कथमासीत् परंतपः॥ न हि संतर्जना तेन श्रुतपूर्वा कथञ्चन। राजभावेन मान्यश्च सर्वलोकस्य सोऽभवत्॥ यस्यातपत्रच्छायापि स्वका भानोस्तथा प्रभा। खेदायैवाभिमानित्वात् सहेत् सैवं कथं गिरः॥ इयं च पृथिवी सर्वा सम्लेच्छाटविका भृशम्। प्रसादाद् भियते यस्य प्रत्यक्षं तव संजय॥ स तथा तय॑मानस्तु पाण्डुपुत्रैर्विशेषतः। विहीनश्च स्वकै त्यैर्निर्जने चावृतो भृशम्॥ संजय उवाच तय॑मानस्तदा राजन्नुदकस्थस्तवात्मजः। युधिष्ठिरेण राजेन्द्र भ्रातृभिः सहितेन ह॥ श्रुत्वा स कटुका वाचो विषमस्थो नराधिपः। दीर्घमुष्णं च निःश्वस्य सलिलस्थः पुनः पुनः॥ सलिलान्तर्गतो राजा धुन्वन् हस्तौ पुनः पुनः। मनश्चकार युद्धाय राजानं चाभ्यभाषत॥ यूयं ससुहृदः पार्थाः सर्वे सरथवाहनाः। अहमेकः परियूनो विस्थो हतवाहनः॥ आत्तशस्त्रै रथोपेतैर्बहुभिः परिवारितः। कथमेकः पदातिः सन्नशस्त्रो योद्धमुत्सहे॥ एकैकेन तु मां यूयं योधयध्वं युधिष्ठिर। न ह्येको बहुभिवीरैाय्यो योधयितुं युधि॥ विशेषतो विकवचः श्रान्तश्चापत्समाश्रितः। भृशं विक्षतगात्रश्च श्रान्तवाहनसैनिकः॥ न मे त्वत्तो भयं राजन् न च पार्थाद् वृकोदरात्। फाल्गुनाद् वासुदेवाद् वा पञ्चालेभ्योऽथवा पुनः।।१४ यमाभ्यां युयुधानाद् वा ये चान्ये तव सैनिकाः। एकः सर्वानहं क्रुद्धो वारयिष्ये युधि स्थितः॥ धर्ममूला सतां कीर्तिर्मनुष्याणां जनाधिप। धर्मं चैवेह कीर्ति च पालयन् प्रब्रवीम्यहम्॥ अहमुत्थाय सर्वान् वै प्रतियोत्स्यामि संयुगे। अनुगम्यागतान् सर्वानृतून् संवत्सरो यथा॥ अद्यः वः सरथान् साश्वानशस्त्रो विरथोऽपि सन्। नक्षत्राणीव सर्वाणि सविता रात्रिसंक्षये॥ तेजसा नाशयिष्यामि स्थिरीभवत पाण्डवाः। अद्यानृण्यं गमिष्यामि क्षत्रियाणां यशस्विनाम्॥ बाह्रीकद्रोणभीष्माणां कर्णस्य च महात्मनः। जयद्रथस्य शूरस्य भगदत्तस्य चोभयोः॥ मद्रराजस्य शल्यस्य भूरिश्रवस एव च। पुत्राणां भरतश्रेष्ठ शकुनेः सौबलस्य च॥ मित्राणां सुहृदां चैव बान्धवानां तथैव च। आनृण्यमद्य गच्छामि हत्वा त्वां भ्रातृभिः सह॥ एतावदुक्त्वा वचनं विरराम जनाधिपः। युधिष्ठिर उवाच दिष्ट्या त्वमपि जानीषे क्षत्रधर्मं सुयोधन॥ दिष्ट्या ते वर्तते बुद्धिर्युद्धायैव महाभुज। दिष्ट्या शूरोऽसि कौरव्य दिष्ट्या जानासि संगरम्।। २४ यस्त्वमेको हि नः सर्वान् संगरे योद्भुमिच्छसि। एक एकेन संगम्य यत् ते सम्मतमायुधम्॥ तत् त्वमादाय युध्वस्व प्रेक्षकास्ते वयं स्थिताः। स्वयमिष्टं च ते कामं वीर भूयो ददाम्यहम्॥ हत्वैकं भवतो राज्यं हतो वा स्वर्गमाप्नुहि। दुर्योधन उवाच एकश्चैद् योद्धमाक्रन्दे शूरोऽद्य मम दीयताम्॥ आयुधानामियं चापि वृता त्वत्सम्मते गदा। हन्तैकं भवतामेकः शक्यं मां योऽभिमन्यते॥ पदातिर्गदया संख्ये स युध्यतु मया सह। वृत्तानि रथयुद्धानि विचित्राणि पदे पदे॥ इदमेकं गदायुद्धं भवत्वद्याद्भुतं महत्। अस्त्राणामपि पर्यायं कर्तुमिच्छन्ति मानवाः॥ युद्धानामपि पर्यायो भवत्वनुमते तव। गदया त्वां महाबाहो विजेष्यामि सहानुजम्॥ पञ्चालान् संजयांश्चैव ये चान्ये तव सैनिकाः। न हि मे सम्भ्रमो जातु शक्रादपि युधिष्ठिर॥ युधिष्ठिर उवाच उत्तिष्ठोत्तिष्ठ गान्धारे मां योधय सुयोधन। एक एकेन संगम्य संयुगे गदया बली।॥ पुरुषो भव गान्धारे युध्यस्व सुसमाहितः। अद्य ते जीवितं नास्ति यदीन्द्रोऽपि तवाश्रयः॥ संजय उवाच एतत् स नरशार्दूलो नामृष्यत तवात्मजः। सलिलान्तर्गतः श्वभ्रे महानाग इव श्वसन्॥ तथासौ वाक्प्रतोदेन तुद्यमानः पुनः पुनः। वचो न ममृषे राजन्नुत्तमाश्वः कशामिव॥ संक्षोभ्य सलिलं वेगाद् गदामादाय वीर्यवान्। अद्रिसारमयीं गुर्वी काञ्चनाङ्गदभूषणाम्॥ अन्तर्जलात् समुत्तस्थौ नागेन्द्र इव नि:श्वसन्। स भित्त्वा स्तम्भितं तोयं स्कन्धे कृत्वाऽऽयसीं गदाम्॥ उदतिष्ठत पुत्रस्ते प्रतपन् रश्मिवानिव। ततः शैक्यायसीं गुर्वी जातरूपपरिष्कृताम्॥ गदां परामृशद् धीमान् धार्तराष्ट्रो महाबलः। गदाहस्तं तु तं दृष्ट्वा सशृङ्गमिव पर्वतम्॥ प्रजानामिव संक्रुद्धं शूलपाणिमिव स्थितम्। सगदो भारतो भाति प्रतपन् भास्करो यथा॥ तमुत्तीर्णं महाबाहुं गदाहस्तमरिंदमम्। मेनिरे सर्वभूतानि दण्डपाणिमिवान्तकम्॥ वज्रहस्तं यथा शक्रः शूलहस्तं यथा हरम्। ददृशुः सर्वपञ्चालाः पुत्रं तव जनाधिप॥ तमुत्तीर्णं तु सम्प्रेक्ष्य समहष्यन्त सर्वशः। पञ्चाला: पाण्डवेयाश्च तेऽन्योन्यस्य तलान् ददुः॥ अवहासं तु तं मत्वा पुत्रो दुर्योधनस्तव। उद्धृत्य नयने क्रुद्धो दिधक्षुरिव पाण्डवान्॥ त्रिशिखां भृकुटीं कृत्वा संदष्टदशनच्छदः। प्रत्युवाच ततस्तान् वै पाण्डवान् सहकेशवान्॥ दुर्योधन उवाच अस्यावहासस्य फलं प्रतिभोक्ष्यथ पाण्डवाः। गमिष्यथ हताः सद्यः सपञ्चाला यमक्षयम्॥ संजय उवाच उत्थितश्च जलात् तस्मात् पुत्रो दुर्योधनस्तव। अतिष्ठत गदापाणी रुधिरेण समुक्षितः॥ तस्य शोणितदिग्धस्य सलिलेन समुक्षितम्। शरीरं स्म तदा भाति स्रवत्रिव महीधरः॥ तमुद्यतगदं वीरं मेनिरे तत्र पाण्डवाः। वैवस्वतमिव क्रुद्धं शूलपाणिमिव स्थितम्॥ स मेघनिनदो हर्षनर्दन्निव न गोवृषः। आजुहाव ततः पार्थान् गदया युधि वीर्यवान्॥ दुर्योधन उवाच एकैकेन च मां यूयमासीद् युधिष्ठिर। न ह्येको बहुभिाय्यो वीरो योधयितुं युधि॥ न्यस्तवर्मा विशेषेण श्रान्तश्चाप्सु परिप्लुतः। भृशं विक्षतगात्रश्च हतवाहनसैनिकः॥ अवश्यमेव योद्धव्यं सर्वेरेव मया सह। युक्तं त्वयुक्तमित्येतद् वेत्सि त्वं चैव सर्वदा॥ युधिष्ठिर उवाच मा भूदियं तव प्रज्ञा कथमेवं सुयोधन। यदाभिमन्युं बहवो जघ्नुर्युधि महारथाः॥ क्षत्रधर्मं भृशं क्रूरं निरपेक्षं सुनिघृणम्। अन्यथा तु कथं हन्युरभिमन्यु तथागतम्॥ सर्वे भवन्तो धर्मज्ञाः सर्वे शूरास्तनुत्यजः। न्यायेन युध्यतां प्रोक्ता शक्रलोकगतिः परा॥ यद्येकस्तु न हन्तव्यो बहुभिर्धर्म एव तु। तदाभिमन्युं बहवो निजघ्नुस्त्वन्मते कथम्॥ सर्वो विमृशते जन्तुः कृच्छुस्थो धर्मदर्शनम्। पदस्थः पिहितं द्वारं परलोकस्य पश्यति॥ आमुञ्च कवचं वीर मूर्धजान् यमयस्व च। यचान्यदपि ते नास्ति तदष्यादत्स्व भारत॥ इममेकं च ते कामं वीर भूयो ददाम्यहम्। पञ्चानां पाण्डवेयानां येनं त्वं योद्धुमिच्छसि॥ तं हत्वा वै भवान् राजा हतो वा स्वर्गमाप्नुहि। ऋते च जीविताद् वीर युद्धे किं कर्म ते प्रियम्॥ संजय उवाच ततस्तव सुतो राजन् वर्म जग्राह काञ्चनम्। विचित्रं च शिरस्त्राणं जाम्बूनदपरिष्कृतम्॥ सोऽवबद्धशिरस्त्राणः शुभकाञ्चनवर्मभृत्। रराज राजन् पुत्रस्ते काञ्चनः शैलराडिव॥ संनद्धः सगदो राजन् सज्जः संग्राममूर्धनि। अब्रवीत् पाण्डवान् सर्वान् पुत्रो दुर्योधनस्तव॥ भ्रातृणां भवतामेको युध्यतां गदया मया। सहदेवेन वा योत्स्ये भीमेन नकुलेन वा॥ अथवा फाल्गुनेनाद्य त्वया वा भरतर्षभ। योत्स्येऽहं संगरं प्राप्य विजेष्ये च रणाजिरे॥ अहमद्य गमिष्यामि वैरस्यान्तं सुदुर्गमम्। गदया पुरुषव्याघ्र हेमपट्टनिबद्धया॥ गदायुद्धे न मे कश्चित् सदृशोऽस्तीति चिन्तये। गदया वो हनिष्यामि सर्वानेव समागतान्॥ न मे समर्थाः सर्वे वै योद्धं न्यायेन केचना न युक्तमात्मना वक्तुमेवं गर्वोद्धतं वचः। अथवा सफलं ह्येतत् करिष्ये भवतां पुरः॥ अस्मिन् मुहूर्ते सत्यं वा मिथ्या वैतद् भविष्यति। गृह्णातु च गदां यो वै योत्स्यतेऽद्य मया सह॥ अस्मिन् मुहूर्ते सत्यं वा मिथ्या वैतद् भविष्यति। गृह्णातु च गदां यो वै योत्स्यतेऽद्य मया सह॥ संजय उवाच तस्मिन् युद्धे महाराज सुसंवृत्ते सुदारुणे। उपविष्टेषु सर्वेषु पाण्डवेषु महात्मसु॥ ततस्तालध्वजो रामस्तयोर्युद्ध उपस्थिते। श्रुत्वा तच्छिष्ययो राजन्नाजगाम हलायुधः॥ तं दृष्ट्वा परमप्रीताः पाण्डवाः सहकेशवाः। उपगम्योपसंगृह्य विधिवत् प्रत्यपूजयन्॥ पूजयित्वा ततः पश्चादिदं वचनमब्रुवन्। शिष्ययोः कौशलं युद्धे पश्य रामेति पार्थिव॥ अब्रवीच तदा रामो दृष्ट्वा कृष्णं सपाण्डवम्। दुर्योधनं च कौरव्यं गदापाणिमवस्थितम्॥ चत्वारिंशदहान्यद्य द्वे च मे निःसृतस्य वै। पुष्येण सम्प्रयातोऽस्मि श्रवणे पुनरागतः॥ शिष्ययोर्वै गदायुद्ध द्रष्टकामोऽस्मि माधव। ततस्तदा गदाहस्तौ दुर्योधनवृकोदरौ॥ युद्धभूमिं गतौ वीरावुभावेव रराजतुः। ततो युधिष्ठिरो राजा परिष्वज्य हलायुधम्॥ स्वागतं कुशलं चास्मै पर्यपृच्छद यथातथम्। कृष्णौ चापि महेष्वासावभिवाद्य हलायुधम्॥ सस्वजाते परिप्रीतौ प्रीयमाणौ यशस्विनौ। माद्रीपुत्रो तथा शूरौ द्रौपद्याः पञ्च चात्मजाः॥ अभिवाद्य स्थिता राजन् रौहिणेयं महाबलम्। भीमसेनोऽथ बलवान् पुत्रस्तव जनाधिप।॥ तथैव चोद्यतगदौ पूजयामासर्तुबलम्। स्वागतेन च ते तत्र प्रतिपूज्य समन्ततः॥ पश्य युद्धं महाबाहो इति ते राममब्रुवन्। एवमूचुर्महात्मानं रौहिणेयं नराधिपाः॥ परिष्वज्य तदा रामः पाण्डवान् सहसृञ्जयान्। अपृच्छत् कुशलं पार्थिवांश्चामितौजसः॥ तथैव ते समासाद्य पप्रच्छुस्तमनामयम्। प्रत्यभ्यर्च्य हली सर्वान् क्षत्रियांश्च महात्मनः॥ कृत्वा कुशलसंयुक्तां संविदं च यथावयः। जनार्दनं सात्यकिं च प्रेम्णा स परिषस्वजे॥ मूर्ध्नि चैतावुपानाया कुशलं पर्यपृच्छत। तौ च तं विधिवद् राजन् पूज्यामासतुर्गुरुम्॥ ब्रह्मामिव देवेशमिन्द्रोपेन्द्रौ मुदान्वितौ। ततोऽब्रवीद् धर्मसुतो रौहिणेयमरिंदमम्॥ इदं भ्रात्रोर्महायुद्धं पश्य रामेति भारत। तेषां मध्ये महाबाहुः श्रीमान् केशवपूर्वजः॥ व्यविशत् परमप्रीतः पूज्यमानो महारथैः। स बभौ राजमध्यस्थो नीलवासाः सितप्रभः॥ दिवीव नक्षत्रगणैः परिकीर्णो निशाकरः। ततस्तयोः संनिपातस्तुमुलो लोमहर्षणः॥ आसीदन्तकारो राजन् वैरस्य तव पुत्रयोः॥ वैशम्पायन उवाच तस्मान्नदीगतां चापि ह्युदपानं यशस्विनः। त्रितस्य च महाराज जगामाथ हलायुधः॥ तत्र दत्त्वा बहु द्रव्यं पूजयित्वा तथा द्विजान्। उपस्पृश्य च तत्रैव प्रहृष्टो मुसलायुधः॥ तत्र धर्मपरो भूत्वा त्रितः स सुमहातपाः । कूपे च वसता तेन सोमः पीतो महात्मना॥ तत्र चैनं समुत्सृज्य भ्रातरौ जग्मतुर्ग्रहान्। ततस्तौ वै शशापाथ त्रितो ब्राह्मणसत्तमः॥ जनमेजय उवाच उदपानं कथं ब्रह्मन् कथं च सुमहातपाः। पतितः किं च संत्यक्तो भ्रातृभ्यां द्विजसत्तम॥ कूपे कथं च हित्वैनं भ्रातुरौ जग्मुतुहान्। कथं च याजयामास पपौ सोमं त वै कथम्॥ एतदाचक्ष्व मे ब्रह्मश्रोतव्यं यदि मन्यसे। वैशम्पायन उवाच आसन् पूर्वयुगे राजन् मुनयो भ्रातरस्त्रयः॥ एकतश्च द्वितश्चैव त्रितश्चादित्य संनिभाः। सर्वे प्रजापतिसमाः प्रजावन्तस्तथैव च॥ ब्रह्मलोकजिताः सर्वे तपसा ब्रह्मवादिनः। तेषां त तपसा प्रीतो नियमेन दमेन च॥ अभवद् गौतमो नित्यं पिता धर्मरतः सदा। स तु दीर्घेण कालेन तेषां प्रीतिमवाप्य च॥ जगाम् भगवान् स्थानमनुरूपमिवात्मनः। राजानस्तस्य ये ह्यासान् याज्या राजन् महात्मनः॥ ते सर्वे स्वर्गते तस्मिंस्तस्य पुत्रानपूजयन्। तेषां तु कर्मणा राजंस्तथा चाध्ययनेन च॥ त्रितः स श्रेष्ठतां प्राप यथैवास्य पिता तथा। तथा सर्वे महाभाग मुनयः पुण्यलक्षणा॥ अपूजयन् महाभागं यथास्य पितरं तथा। कदाचिद्धि ततो राजन् भ्रातरवेकतद्वितौ॥ यज्ञार्थं चक्रतुश्चिन्तां तथा वित्तार्थमेव च। तयोर्बुद्धिः समभवत् त्रितं गृह्य परंतप॥ याज्यान् सर्वानुपादाय प्रतिगृह्य पशूस्ततः। सोमं पास्यामहे हृष्टाः प्राप्य यज्ञं महाफलम्॥ चक्रुश्चैवं तथा राजन् भ्रातरस्त्रय एव च। तथा ते तु परिक्रम्य याज्यान् सर्वान् पशून् प्रति॥ याजयित्वा ततो याज्याँल्लब्ध्वा तु सुबहून पशून्। याज्येन कर्मणा तेन प्रतिगृह्य विधानतः॥ प्राची दिशं महात्मान आज्गमुस्ते महर्षयः। समुपलप्स्यते। त्रितस्तेषां महाराज पुरस्ताद् याति हृष्टवत्॥ एकतश्च द्वितश्चैव पृष्टतः कालयन् पशून्। तयोश्चिन्ता समभवद् दृष्ट्वा पशुगणं महत्॥ कथं च स्युरिमा गाव आवाभ्यां हि विना त्रितम्। तावन्योन्यं समाभाष्य एकतश्च द्वितश्च ह॥ यदूचतुर्मिथः पापौ तन्निबोध जनेश्वर। त्रितो यज्ञेषु कुशलस्त्रितो वेदेषु निष्ठितः॥ अन्यास्तु बहुला गावस्त्रितः तदावां सहितौ भूत्वा गाः प्रकाल्य व्रजावहे॥ त्रितोऽपि गच्छतां काममावभ्यां वै विना कृतः। तेषामागच्छतां रात्रौ पथिस्थानां वृकोऽभवत्।॥ तत्र कूपोऽविदूरेऽभूत् सरस्वत्यास्तटे महान्। अद्य त्रितो वृकं दृष्ट्वा पथि तिष्ठन्तमग्रतः॥ तद्भयादपसर्पन वै तस्मिन् कूपे पपात ह। अगाधे सुमहाघोरे सर्वभूतभयंकरे॥ त्रितस्ततो महाराज कूपस्थो मुनिसत्तमः। आर्तनाद ततश्चक्रे तौ तु शुश्रुवतुर्मुनी॥ तं ज्ञात्वा पतितं कूपे भ्रातरावेकतद्वितौ। वृकत्रासाच लोभाच्च समुत्सृज्य प्रजग्मतुः॥ भ्रातृभ्यां पशुलुब्धाभ्यामुत्सृष्टः स महातपाः। उदपाने तदा राजन् निर्जले पांसुसंवृते॥ त्रित आत्मानमालक्ष्य कूपे वीरुत्तृणावृते। निमग्नं भरतश्रेष्ट नरके दुष्कृती यथा॥ स बुद्ध्यागणयत् प्राज्ञो मृत्योर्भीतो ह्यसोमपः। सोमः कथं तु पातव्य इहस्थेन मया भवेत्॥ स एवमभिनिश्चित्य तस्मिन् कूपे महातपाः। ददर्श वीरुधं तत्र लम्बमानां यदृच्छया।॥ पांसुग्रस्ते ततः कूपे विचन्त्य सलिलं मुनिः। अग्नीन् संकल्पयामास होतॄनात्मानमेव च॥ ततस्तां वीरुधं सोमं संकल्प्य सुमहातपाः। ऋचो यजूषिं सामानि मनसा चिन्तयन् मुनिः॥ ग्रावाण: शर्कराः कृत्वा प्रचक्रेऽभिषवं नृप। आज्यं च सलिलं चक्रे भागाश्च त्रिदिवौकसाम्॥ ससोमस्याभिषवं कृत्वा चकार विपुल ध्वनिम्। चाविशद् दिवं राजन् पुनः शब्दस्त्रितस्य वैः॥ समवाप्य च तं यज्ञ यथोक्तं ब्रह्मावादिभिः। वर्तमाने महायज्ञे त्रितस्य सुमहात्मनः॥ आविग्नं त्रिदिवं सर्वं कारणं च न बुद्ध्यते। ततः सुतुमुलं शब्दं शुश्रावाथ बृहस्पतिः॥ श्रुया चैवाब्रवीत सर्वान् देवान् देवपुरोहितः। त्रितस्य वर्तते यज्ञस्तत्र गच्छामहे सुराः॥ स हि क्रुद्धः सृजेदन्यान् देवानपि महातपाः। तच्छुत्वा वचनं तस्य सहिताः सर्वदेवताः॥ प्रययुस्तत्र यत्रासौ त्रितयज्ञः प्रवर्तते। ते तत्र गत्वा विबुधास्तं कूपं यत्र स त्रितः॥ ददृशुस्तं महात्मानं दीक्षितं यज्ञकर्मसु। दृष्टा चैनं महात्मानं श्रिया परमया युतम्॥ ऊचुश्चैनं महाभागं प्राप्ता भागार्थिनो वयम्। अथाब्रवीदृषिर्देवान् पश्यध्वं मां दिवौकसः॥ अस्मिन् प्रतिभये कूपे निमग्नं नष्टचेतसम्। ततस्त्रितो महाराज भागांस्तेषां यथाविधि॥ मन्त्रयुक्तान् समददत् ते च प्रीतास्तदाभवन्। ततो यथाविधि प्राप्तान् भागान् प्राप्य दिवौकसः॥ प्रीतात्मानो ददुस्तस्मै वरान् यान् मनसेच्छति। स तु वने वरं देवांस्त्रातुमर्हथ मामितः॥ यश्चेहोपस्पृशेत् कूपे स सोमपगतिं लभेत्। तत्र चोर्मिमती राजन्नुत्पपात सरस्वती॥ तयोत्क्षिप्तः समुत्तस्थौ पूजयंस्त्रिदिवौकसः। तथेति चोक्त्वा विबुधा जग्मू राजन् यथागताः॥ त्रितश्चाभ्यागमत् प्रीतः स्वमेव निलयं तदा। क्रुद्धस्तु स समासाद्य तावृषी भ्रातरौ तदा॥ उवाच परुषं वाक्यं शशाप च महातपाः। पशुलुब्धौ युवां यस्मान्मामुत्सृज्य प्रधावितौ॥ तस्माद् वृकाकृती रौद्रौ दंष्ट्रिणावभितश्चरौ। भवितारौ मया शप्तौ पापेनानेन कर्मणा॥ प्रसवश्चैव युवयोर्गोलाङ्गलक्षवानराः। इत्युक्तेन तदा तेन क्षणादेव विशाम्पते॥ तथाभूतावदृश्येतां वचनात् सत्यवादिनः। तत्राप्यमितविक्रान्तः स्पृष्ट्वा तोयं हलायुधः॥ दत्त्वा च विविधान् दायान् पूजयित्वा च वै द्विजान्। उदपानं च तं वीक्ष्य प्रशस्य च पुनः पुनः॥ नदीगतमदीनात्मा प्राप्तो विनशनं तदा॥ जनमेजय उवाच सप्तसारस्वतं कस्मात् कश्च मङ्कणको मुनिः। कथं सिद्धः स भगवान् कश्चास्य नियमोऽभवत्॥ कस्य वंशे समुत्पन्नः किं चाधीतं द्विजोत्तम। एतदिच्छाम्यहं श्रोतुं विधिवद् द्विजसत्तम।॥ वैशम्पायन उवाच राजन् सप्त सरस्वत्यो याभिर्व्याप्तमिदं जगत्। आहूता बलवदभिर्हि तत्र तत्र सरस्वती॥ सुप्रभा काञ्चनाक्षी त विशाला च मनोरमा। सरस्वती चौघवती सुरेणुर्विमलोदका॥ पितामहस्य महतो वर्तमाने महामखे। वितते यज्ञवाटे च संसिद्धेषु द्विजातिषु॥ पुण्याहघोषैर्विमलैवैदानां निनदैस्तथा। देवेषु चैव व्यग्रेषु तस्मिन् यज्ञविधौ तदा॥ तत्र चैव महाराज दीक्षिते प्रपितामहे। यजतस्तस्य सत्रेण सर्वकामसमृद्धिना॥ मनसा चिन्तिता ह्या धर्मार्थकुशलैस्तदा। उपतिष्ठन्ति राजेन्द्र द्विजातींस्तत्र तत्र ह॥ जगुश्च तत्र गन्धर्वा ननृतुश्चाप्सरोगणाः। वादित्राणि च दिव्यानि वादयामासुरञ्जसा॥ तस्य यज्ञस्य सम्पत्या तुतुषुर्देवता अपि। विस्मयं परमं जग्मुः किमु मानुषयोनयः॥ वर्तमाने तथा यज्ञे पुष्करस्थे पितामहे। अब्रुवन्नृषयो राजन्नायं यज्ञो महागुणः॥ न दृश्यते सरिच्छेष्टा यस्मादिह सरस्वती। तच्छुत्वा भगवान् प्रीतः सस्माराथ सरस्वतीम्॥ पितामहेन यजता आहूता पुष्करेषु वै। सुप्रभा नाम राजेन्द्र नाम्ना तत्र सरस्वती॥ तां दृष्ट्वा मुनयस्तुष्टास्तवरायुक्तां सरस्वतीम्। पितामहं मानयन्तीं क्रतुं ते बहु मेनिरे॥ एवमेषा सरिच्छेष्टा पुष्करेषु सरस्वती। पितामहार्थ सम्भूता तुष्ट्यर्थं च मनीषिणाम्॥ नैमिषे मुनयो राजन् समागम्य समासते। तत्र चित्राः कथा ह्यासन् वेदं प्रति जनेश्वर॥ यत्र ते मुनयो ह्यासन् नानास्वाध्यायवेदिनः। ते समागम्य मुनयः सस्मरुवै सरस्वतीम्॥ सा तु ध्याता महाराज ऋषिभिः सत्रयाजिभिः। समागतानां राजेन्द्र साहाय्यार्थं महात्मनाम्॥ आजगाम महाभाग तत्र पुण्या सरस्वती। नैमिषे काञ्चनाक्षी तु मुनीनां सत्रयाजिनाम्॥ आगता सरितां श्रेष्ठा तत्र भारत पूजिता। गयस्य यजमानस्य गयेष्वेव महाक्रतुम्॥ आहूता सरितां श्रेष्ठा गययज्ञे सरस्वती। विशालां तु गयस्यहुर्ऋषयः संशितव्रताः॥ सरित् सा हिमावत्पाझंडत् प्रस्रुता शीघ्रगामिनी। औद्दालकेस्तथा यज्ञे यजतस्तस्य भारत।॥ समेते सर्वतः स्फीते मुनीनां मण्डले तदा। उत्तरे कोसलाभागे पुण्ये राजन् महात्मनः॥ उद्दालकेन यजता पूर्वं ध्यात्वा सरस्वती। आजगाम सरिच्छेष्ठा तं देशं मुनिकारणात्॥ पूज्यमाना मुनिगणैर्वल्कलाजिसंवृत्तैः। मनोरमेति विख्याता सा हि तैर्मनसा कृता॥ सुरेणर्ऋषभे द्वीपे पुण्ये राजर्षिसेविते। कुरोश्च यजमानस्य कुरुक्षेत्रे महात्मनः॥ आजगाम महाभाग सरिच्छेष्ठा सरस्वती। ओघवत्यपि राजेन्द्र वसिष्ठेन महात्मना॥ समाहूता कुरुक्षेत्रे दिव्यातोया सरस्वती। दक्षेण यजता चापि गङ्गाद्वारे सरस्वती॥ सुरेणुरिति विख्याता प्रस्रुता शीघ्रगामिनी। विमलोदा भगवती ब्रह्मणा यजता पुनः॥ समाहूता ययौ तत्र पुण्ये हैमवते गिरौ। एकीभूतास्ततस्तास्तु तस्मिंस्तीर्थे समागताः॥ सप्तसारस्वतं तीर्थ ततस्तु इति सप्तसरस्वत्यो नामतः परिकीर्तिताः॥ सप्ता सारस्वतं चैव तीर्थ पुण्य तथा स्मृतम्। प्रथितं भुवि। शृणु मङ्कणकस्यापि कौमारब्रह्मचारिणः॥ आपगामवगाढस्य राजन् प्रक्रीडितं महत्। दृष्ट्वा यदृच्छया यत्र स्त्रियमम्भसि भारत॥ जायन्तीं रुचिरापाङ्गी दिग्वाससमनिन्दिताम्। सरस्वत्यां महाराज चस्कन्दे वीर्यमम्भसि॥ तद् रेत: स तु जग्राह कलशे वै महातपाः। सप्तधा प्रविभागं तु कलशस्थं जगाम ह॥ तत्रर्षयः सप्त जाता जज्ञिरे मरुतां गणाः। वायुवेगो वायुबलो वायुहा वायुमण्डलः॥ वायुज्वालो वायुरेता वायुचक्राश्च वीर्यवान्। एवमेते समुत्पन्ना मरुतां जनयिष्णवः॥ इदमत्यद्भुतं राजन्शृण्वाश्चर्यतरं भुवि। महर्षेश्चरितं यादृकं त्रिपुं लोकेषु विश्रुतम्॥ पुरा मङ्कणकः सिद्धः कुशाग्रेणेति नः श्रुतम्। क्षतः किल करे राजस्तस्य शाकरसोऽस्रवत॥ स वै शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान्। ततस्तस्मिन् प्रनृत्ते वै स्थावरं जङ्गमं च यत्॥ प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम्। ब्रह्मादिभिः सुरै राजऋषिभिश्च तपोधनैः॥ विज्ञप्तो वै महादेव ऋषेरर्थे नराधिप। नायं नृत्येद् यथा देव तथा त्वं कर्तुमर्हसि॥ ततो देवो मुनिं दृष्ट्वा हर्षाविष्टमतीव ह। सुराणां हितकामार्थं महादेवोऽभ्यभाषत॥ भो भो ब्राह्मण धर्मज्ञ किमर्थं नृत्यते भवान्। हर्षस्थानं किमर्थं च तवेदमधिकं मुने॥ तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम। ऋषिरुवाच किं न पश्यसि मे ब्रह्मन् कराच्छाकरसं स्रुतम्॥ यं दृष्ट्वा सम्प्रनृत्तो वै हर्षेण महता विभो। तं प्रहस्याब्रवीद् देवो मुनि रागेण मोहितम्॥ अहं न विस्मयं विप्र गच्छामीति प्रपश्य माम्। एवमुक्त्वा मुनिश्रेष्ठं महादेवेन धीमता॥ अमुल्यग्रेण राजेन्द्र स्वङ्गुष्ठस्ताडितोऽभवत्। ततो भस्म क्षताद् राजन् निर्गतं हिमसन्निभम्॥ तद् दृष्ट्वा वीडितो राजन् स मुनिः पादयोर्गतः। मेने देवं महादेवमिदं चोवाच विस्मितः॥ नान्यं देवादहं मन्ये रुद्रात परतरं महत्। सुरासुरस्य जगतो गति स्त्वमसि शूलधृत्॥ त्वया सृष्टमिदं विश्वं वदन्तीह मनीषिणः। त्वामेव सर्वं व्रजति पुनरेव युगक्षये॥ देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया। त्वयि सर्वेस्म दृश्यन्ते भावा ये जगति स्थिताः॥ त्वामुपासन्त वरदं देवा ब्रह्मादयोऽनघ। सर्वस्त्वमसि देवानां कर्ता कारयिता च ह॥ त्वत्प्रसादात् सुराः सर्वे मोदन्तीहाकुतोभयाः। एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽभवत्॥ यदिदं चापलं देव कृतमेतत् स्मयदिकम्। ततः प्रसादयामि त्वां तपो मे न क्षरेदिति॥ ततो देवः प्रीतमनास्तमृषि पुनरब्रवीत्। तपस्ते वर्धतां विप्र मत्प्रसादात् सहस्रधा॥ आश्रमे चेह वत्स्यामि त्वया सार्धमहं सदा। सप्तासारस्वते चास्मिन यो मामर्चिष्यते नरः॥ न तस्य दुर्लभं किञ्चिद् भवितेह परत्र वा। सारस्वतं च ते लोकं गमिष्यन्ति न संशयः॥ एतन्मङ्कणकस्यापि चरितं भूरितेजसः। स हि पुत्र सुकन्यायामुत्पन्नो मातरिश्वना॥ वैशम्पायन उवाच उषित्वा तत्र रामस्तु सम्पूज्याश्रमवासिनः। तथा मङ्कणके प्रीतिं शुभां चक्रे हलायुधः॥ दत्त्वा दानं द्विजातिभ्यो रजनी तामुपोष्य च। पूजितो मुनिसद्धैश्च प्रातरुत्थाय लागली॥ अनुज्ञाप्य मुनीन् सर्वान् स्पृष्ट्वा तोयं च भारत। प्रययौ त्वरितो रामस्तीर्थहेतोर्महावलः॥ ततस्त्वौशनसं तीर्थमाजगाम हलायुधः कपालमोचनं नाम यत्र मुक्तो महामुनिः॥ महता शिरसा राजन् ग्रस्तजङ्घो महोदरः। राक्षसस्य महाराज रामक्षिप्तस्य वै पुरा॥ तत्र पूर्वं तपस्तप्तं काव्येन सुमहात्मना। यत्रास्य नीतिरखिला प्रादुर्भूता महात्मनः॥ यत्रस्थाश्चिन्तयामास दैत्यदानवविग्रहम्। तत् प्राप्य च बलो राजंस्तीर्थप्रवरमुत्तमम्॥ विधिवद् वै ददौ वित्तं ब्राह्मणानां महात्मनाम्। जनमेजय उवाच कपालमोचनं ब्रह्मन्कथं यत्र महामुनिः॥ मुक्तः कथं चास्य शिरो लग्नं केन च हेतुना। वैशम्पायन उवाच पुरा वै दण्डकारण्ये राघवेण महात्मना॥ वसता राजशार्दूल राक्षसान् शमयिष्यता। जनस्थाने शिरश्छिन्नं राक्षसस्य दुरात्मनः॥ क्षुरेण शितधारेण उत्पपात महावने। महोदरस्य तल्लग्नं जंघाया वै यदृच्छया॥ वने विचरतो राजन्नस्थि भित्वाऽस्फुरत् तदा। स तेन लग्नेन तदा द्विजातिर्न शशाक ह॥ अभिगन्तुं महाप्राज्ञस्तीर्थान्यायतनानि च। स पूतिना विस्रवता वेदना” महामुनिः॥ जगाम सर्वतीर्थानि पृथिव्यां चेति नः श्रुतम्। स गत्वा सरितः सर्वाः समुद्रांश्च महातपाः॥ कथयामास तत् सर्वमृषीणां भावितात्मनाम्। आप्लुत्य सर्वतीर्थेषु न च मोक्षमवाप्तवान्॥ स तु शुश्राव विप्रेन्द्र मुनीनां वचनं महत्। सरस्वत्यास्तीर्थवरं ख्यातमौशनसं तदा॥ सर्वपापप्रशमनं सिद्धिक्षेत्रमनुत्तमम्। स तु गत्वा ततस्तत्र तीर्थमौशनसं द्विजः॥ तत औशनसे तीर्थे तस्योपस्पृशतस्तदा। तच्छिरश्चरणं मुक्त्वा पपातान्तर्जले तदा॥ विमुक्तस्तेन शिरसा परं सुखमवाप हा स चाप्यन्तर्जले मूर्धा जगामादर्शनं विभो॥ ततः स विशिरा राजन् पूतात्मा वीतकल्मषः। आजगामाश्रमं प्रीतः कृतकृत्यो महोदरः॥ सोऽथ गत्वाऽऽश्रमं पुण्यं विप्रमुक्तो महातपाः। कथयामास तत् सर्वमृषीणां भावितात्मनाम्॥ ते श्रुत्वा वचनं तस्य ततस्तीर्थस्य मानद। कपालमोचनमिति नाम चक्रुः समागताः॥ स चापि तीर्थप्रवरं पुनर्गत्वा महानृषिः। पीत्वा पयः सुविपुलं सिद्धिमायात् तदा मुनिः॥ तत्र दत्त्वा बहून दायान् विप्रान् सम्पूज्य माधवः। जगाम वृष्णिप्रवरो रुषङ्गोराश्रमं तदा॥ यत्र तप्तं तपो घोरमार्टिषेणेन भारत। ब्राह्मण्यं लब्धवांस्तत्र विश्वामित्रो महामुनिः॥ सर्वकामसमृद्धं च तदाश्रमपदं महत्। मुनिभिर्ब्राह्मणैश्चैव सेवितं सर्वदा विभो॥ ततो हलधरः श्रीमान् ब्राह्मणैः परिवारितः। जगाम् तत्र राजेन्द्र रुषमुस्तनुमत्यजत्॥ रुषगाह्मणो वृद्धस्तपोनित्यश्च भारत। देहन्यासे कृतमना विचिन्त्य बहुधा तदा॥ ततः सर्वानुपादाय तनयान् वै महातपाः। रुषङ्गुरब्रवीत् तत्र नयध्वं मां पृथूदकम्॥ विज्ञायातीतवयसं रुषहुं ते तपोधनाः तं च तीर्थमुपानिन्युः सरस्वत्यास्तपोधनम्॥ स तैः पुत्रैस्तदा धीमानानीतो वै सरस्वतीम्। पुण्यां तीर्थशतोपेतां विप्रसङ्घनिषेविताम्॥ स तत्र विधिना राजन्नाप्लुत्य सुमहातपाः। सुप्रीतः पुरुषव्याघ्र सर्वान् पुत्रानुपासतः। सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुम्॥ पृथूदके जप्यपरो नैनं श्वोमरणं तपेत्। तत्राप्लुत्य स धर्मात्मा उपस्पृश्य हलायुधः॥ दत्त्वा चैव बहून् दायान् विप्राणां विप्रवत्सलः। ससर्ज यत्र भगवाँल्लोकाँल्लोकपितामहः॥ यत्रार्टिषेणः कौरव्या ब्राह्मण्यं संशितव्रतः। तपसा महता राजन् प्राप्तवानृषिसत्तमः॥ सिन्धुद्वीपश्च राजर्षिर्देवापिश्च महातपाः। ब्राह्मण्यं लब्धवान् यत्र विश्वामित्रस्तथा मुनिः॥ महातपस्वी भगवानुग्रतेजा महायशाः। तत्राजगाम बलवान् बलभद्रः प्रतापवान्॥ वैशम्पायन उवाच ब्रह्मयोनेरवाकीर्णं जगाम यदुनन्दनः। यत्र दाल्भ्यो बको राजन्नाश्रमस्थो महातपाः॥ जुहाव धृतराष्ट्रस्य राष्टं वैचित्रवीर्यणः। तपसा घोररूपेण कर्षयन् देहमात्मनः॥ क्रोधेन महताऽऽविष्टो धर्मात्मा वै प्रतापवान्। पुरा हि नैमिषीयाणां सत्रे द्वादशवार्षिके॥ वृत्ते विश्वाजितोऽन्ते वै पञ्चालानृषयोऽगमन्। तत्रेश्वरमयाचन्त दक्षिणार्थं मनस्वनः॥ तानब्रवीद बको दाल्भयो विभजघ्व पशूनिति॥ पशूनेतानहं त्यक्त्वा भिक्षिष्ये राजसत्तमम्। एवमुक्त्वा ततो राजऋषीन् सवान् प्रतापवान्॥ जगाम धृतराष्ट्रस्य भवनं ब्राह्मणोत्तमः। स समीपगतो भूत्वा धृतराष्ट्र जनेश्वरम्॥ अयाचत पशून् दाल्भ्यः स चैनं रुषितोऽब्रवीत्। यदृच्छया मृता दृष्ट्वा गास्तदा नृपसत्तमः॥ एतान् पशून् नय क्षिप्रं ब्रह्मबन्धो यदीच्छसि। ऋषिस्तथा वचः श्रुत्वा चिन्तयामास धर्मवित्॥ अहो बत नृशसं वै वाक्यमुक्तोऽस्मि संसदि। नरपतेः पुराः। चिन्तयित्वा मुहूर्तेन रोषाविष्टो द्विजोत्तमः॥ मतिं चक्रे विनाशय धृतराष्ट्रस्य भूपतेः। स तूत्कृत्य मृतानां वै मांसानि मुनिसत्तमः॥ जुहाव धृतराष्ट्रस्य राष्ट्र अवाकीर्णे सरस्वत्यास्तीर्थे प्रज्वाल्य पावकम्॥ बको दाल्भ्यो महाराज नियम परमं स्थितः। स तैरेव जुहावास्य राष्ट्रं मांसैर्महातपाः॥ तस्मिंस्तु विधिवत् सत्रे सम्प्रवृत्ते सुदारुणे। अक्षीयत ततो राष्ट्रं धृतराष्ट्रस्य पार्थिव॥ ततः प्रक्षीयमाणं तद् राज्यं तस्य महीपतेः। छिद्यमानं यथानन्तं वनं परशुना विभो॥ बभूवापद्गतं तच व्यवकीर्णमचेतनम्। दृष्ट्वा तथावकीर्णं तु राष्ट्रं स मनुजाधिपः॥ बभूव दुर्मना राजंश्चिन्तयामास च प्रभुः। मोक्षार्थमकरोद् यत्नं ब्राह्मणैः सहितः पुरा॥ न च श्रेयोऽध्यगच्छत्तु क्षीयते राष्ट्रमेव च। यदा स पार्थिवः खिन्नस्ते च विप्रास्तदानघ॥ यदा चापि न शक्नोति राष्ट्रं मोक्षयितुं नृप। अथ वै प्राश्निकांस्तत्र पप्रच्छ जनमेजय॥ ततो वै प्राश्निकाः प्राहुः पशोर्विप्रकृतस्त्वया। मासैरभिजुहोतीदं तव राष्ट्र मुनिर्बकः॥ तेन ते हूयमानस्य राष्ट्रस्यास्य क्षयो महान्। तस्यैतत् तपसः कर्म येन तेऽद्य लयो महान्॥ अपां कुर्छ सरस्वत्यास्तं प्रसादय पार्थिव। सरस्वतीं ततो गत्वा स राजा बकमब्रवीत्॥ निपत्य शिरसा भूमौ प्राञ्जलिर्भरतर्षभ। प्रसादये त्वां भगवन्नपराधं क्षमस्व मे॥ मम दीनस्य लुब्धस्य मौर्येण हतचेतसः। त्वं गतिस्त्वं च मे नाथः प्रसादं कर्तुमर्हसि॥ तं तथा विलपन्तं तु शोकोपहतचेतसम्। दृष्ट्वा तस्य कृपा जज्ञे राष्ट्रं तस्य व्यमोचयत्॥ ऋषिः प्रसन्नस्तस्याभूत् संरम्भं च विहाय सः। मोक्षार्थं तस्य राज्यस्य जुहाव पुनराहुतिम्॥ मोक्षयित्वा ततो राष्ट्र प्रतिगृह्य पशून् बहून्। हृष्टात्मा नैमिषारण्यं जगाम पुनरेव सः॥ धृतराष्ट्रोऽपि धर्मात्मा स्वस्थचेता महामनाः। स्वमेव नगरं राजन् प्रतिपेदे महर्द्धिमत्॥ तत्र तीर्थे महाराज बृहस्पतिरुदारधीः। असुराणामभावाय भवाय त दिवौकसाम्॥ मांसैरभिजुहावेष्टिमक्षीयन्त ततोऽसुराः। दैवतैरपि सम्भग्ना जितकाशिभिराहवे॥ तत्रापि विधिवद् दत्त्वा ब्राह्मणेभ्यो महायशाः। वाजिनः कुञ्जरांश्चैव रथांश्चाश्वतरीयुतान्॥ रत्नानि च महार्हाणि धनं धान्यं च पुष्कलम्। ययौ तीर्थं महाबाहुर्यायातं पृथिवीपते॥ तत्र यज्ञे ययातेश्च महाराज सरस्वती। सर्पिः पयश्च सुस्राव नाहुषस्य महात्मनः॥ तत्रेष्ट्वा पुरुषव्याघ्रो ययातिः पृथिवीपतिः। अक्रामदूर्ध्वं मुदितो लेभे लोकांश्च पुष्कलान्॥ पुनस्तत्र च राज्ञस्तु ययातेर्यजतः प्रभोः। औदार्यं परमं कृत्वा भक्तिं चात्मनि शाश्वतीम्॥ ददौ कामान् ब्राह्मणेभ्यो यान् यान् यो मनसेच्छति। यो यत्र स्थित एवेह आहूतो यज्ञसंस्तरे॥ तस्य तस्य सरिच्छेष्टा गृहादिशयनादिकम्। षड्रसं भोजनं चैव दानं नानाविधं तथा॥ ते मन्यमाना राज्ञस्तु सम्प्रदानमनुत्तमम्। राजानं तुष्टुवुः प्रीता दत्त्वा चैवाशिषः शुभाः॥ तत्र देवाः सगन्धर्वाः प्रीता यज्ञस्य सम्पदा। विस्मिता मानुषाश्चासन् दृष्ट्वा तां यज्ञसम्पदम्॥ ततस्तालकेतुर्महाधर्मकेतुर्महात्मा कृतात्मा महादाननित्यः। वसिष्ठापवाहं महाभीमवेगं धृतात्मा जितात्मा समभ्याजगाम॥ वैशम्पायन उवाच सा शप्ता तेन क्रुद्धेन विश्वामित्रेण धीमता। तस्मिंस्तीर्थवरे शुभ्रे शोणितं समुपावहत्॥ अथाजग्मुस्ततो राजन् राक्षसास्तत्र भारत। तत्र ते शोणितं सर्वे पिबन्तः सुखमासते॥ तृप्ताश्च सुभृशं तेन सुखिता विगतज्वराः। नृत्यन्तश्च हसन्तश्च यथा स्वर्गजितस्तथा॥ कस्यचित् त्वथ कालस्य ऋषयः सुतपोधनाः। तीर्थयात्रां समाजग्मुः सरस्वत्यां महीपते॥ तेषु सर्वेषु तीर्थेषु स्वाप्लुत्य मुनिपुङ्गवाः। प्राप्य प्रीतिं परां चापि तपोलुब्धा विशारदाः॥ प्रययुर्हि ततो राजन् तेन तीर्थमसृग्वहम्। अथागम्य महाभागास्ततं तीर्थं दारुणं तदा।॥ दृष्ट्वा तोयं सरस्वत्याः शोणितेन परिप्लुतम्। पीतमानं च रक्षोभिर्बहुभिर्नृपसत्तम॥ तान् दृष्ट्वा राक्षसान् राजन् मुनयः संशितव्रताः। परित्राणे सरस्वत्याः परं यत्नं प्रचक्रिरे॥ ते तु सर्वे महाभागाः समागम्य महाव्रताः। आहूय सरितां श्रेष्ठामिदं वचनमब्रुवन्॥ कारणं ब्रूहि कल्याणि किमर्थं ते हृदो ह्ययम्। एवमाकुलतां यातः श्रुत्वा ध्यास्यामहे वयम्॥ ततः सा सर्वमाचष्ट यथावृत्तं प्रवेपती। दुःखितामथ तां दृष्ट्वा ऊचुस्ते वै तपोधनाः॥ कारणं श्रुतमस्माभिः शापश्चैव श्रुतोऽनघे। करिष्यन्ति तु यत् प्राप्तं सर्वं एव तपोधनाः॥ एवंमुक्त्वा सरिच्छ्रेष्टामूचुस्तेऽथ परस्परम्। विमोचयामहे सर्वे शापादेतां सरस्वतीम्॥ ते सर्वे ब्राह्मणा राजस्तपोभिर्नियमैस्तथा। उपवासैश्च विविधैर्यमैः कष्टव्रतैस्तथा॥ आराध्य पशुभर्तारं महादेवं जगत्पतिम्। तां देवीं मोक्षयामासुः सरिच्छ्रेष्ठां सरस्वतीम्॥ तेषां तु सा प्रभावेण प्रकृतिस्था सरस्वती। प्रसन्नसलिला जज्ञे यथापूर्वं तथैव हि॥ निर्मुक्ता च सरिच्छ्रेष्ठा विबभौ सा यथा पुरा। दृष्ट्वा तोयं सरस्वत्या मुनिभिस्तैस्तथा कृतम्॥ तानेव शरणं जम्मू राक्षसाः क्षुधितास्तथा। कृत्वाञ्जलिं ततो राजन् राक्षसाः क्षुधयाऽर्दिताः॥ ऊचुस्तान् वै मुनीन् सर्वान् कृपायुक्तान् पुनः पुनः। वयं च क्षुधिताश्चैव धर्माद्धीनाश्च शाश्वतात्॥ न च नः कामकारोऽयं यद् वयं पापकारिणः। युष्माकं चाप्रसादेन दुष्कृतेन च कर्मणा॥ यत् पापं वर्धतेऽस्माकं ततः स्मो ब्रह्मराक्षसाः। योषितां चैव पापेन योनिदोषकृतेन च॥ एवं हि वैश्यशूद्राणां क्षत्रियाणां तथैव च। ये ब्राह्मणान् प्रद्विषन्ति ते भवन्तीह राक्षसाः॥ आचार्यमृत्विजं चैव गुरुं वृद्धजनं तथा। प्राणिनो येऽवमन्यन्ते ते भवन्तीह राक्षसाः॥ तत् कुरुध्वमिहास्माकं तारणं द्विजसत्तमाः। शक्ता भवन्तः सर्वेषां लोकानामपि तारणे॥ तेषां वचनं श्रुत्वा तुष्टुवुस्तां महानदीम्। मोक्षार्थं रक्षसां तेषामूचुः प्रयतमानसाः॥ क्षुतं कीटावपन्नं च यचोच्छिष्टाचितं भवेत्। सुकेशमवधूतं च रुदितोपहतं च यत्॥ एभिः संसृष्टमन्नं च भागोऽसौ रक्षसामिह। तस्माज्ज्ञात्वा सदा विद्वानेतान् यत्नाद् विवर्जयेत्॥ राक्षसान्नमसौ भुङ्क्ते यो भुङ्क्ते ह्यन्नमीदृशम्। तु शोधयित्वा ततस्तीर्थमृषयस्ते तपोधनाः॥ मोक्षार्थं राक्षसानां च नदीं तां प्रत्यचोदयन्। महर्षीणां मतं ज्ञात्वा ततः सा सरितां वरा॥ अरुणामानयामास स्वां तनूं पुरुषर्षभ। तस्यां ते राक्षसाः स्नात्वा तनूस्त्यक्त्वा दिवं गताः।। अरुणायां महाराज ब्रह्मवध्यापहा हि सा। एतमर्थमभिज्ञाय देवराजः शतक्रतुः,॥ तस्मिंस्तीर्थे वीरे स्नात्वा विमुक्तः पाप्मना किल। जनमेजय उवाच किमर्थं भगवान् शक्रो ब्रह्मवध्यामवाप्तवान्॥ कथमस्मिंश्च तीर्थे वै आप्लुत्याकल्मषोऽभवत्। वैश्मपायन उवाच शृणुष्वैतदुपाख्यानं यथावृत्तं जनेश्वर॥ यथा बिभेद समयं नमुचेर्वासवः पुरा। नमुचिर्वासवाद् भीत: सूर्यरश्मि समाविशत्॥ तेनेन्द्रः सख्यमकरोत् समयं चेदमब्रवीत्। न चाद्रेण न शुष्केण न रात्रौ नापि चाहनि॥ वधिष्याप्यसुरश्रेष्ठ सखे सत्येन ते शपे। एवं स कृत्वा समयं दृष्ट्वा नीहारमीश्वरः॥ चिच्छेदास्य शिरो राजन्नपां फेनेन वासवः। तच्छिरो नमुचेश्छिन्नं पृष्ठतः शक्रमन्वियात्॥ भो भो मित्रघ्न पापेति ब्रुवाणां शक्रमन्तिकात्। एवं स शिरसा तेन चोद्यमानः पुनः पुनः॥ पितामहाय संतप्त एतमर्थं न्यवेदयत्। तमब्रवील्लोकगुरुररुणायां यथाविधि॥ इष्ट्वोपस्पृश देवेन्द्र तीर्थे पापभयापहे। एषा पुण्यजला शक्र कृता मुनिभिरेव तु॥ निगूढमस्यागमनमिहासीत् पूर्वमेव तु। ततोऽभ्येत्यारुणां देवीं प्लावयामास वारिणा॥ सरस्वत्यारुणायाश्च पुण्योऽयं संगमो महान्। इह त्वं यज देवेन्द्र दद दानान्यनेकशः॥ अत्राप्लुत्य सुघोरात् त्वं पातकाद् विप्रमोक्ष्यसे। इत्युक्तः स सरस्वत्याः कुञ्जे वै जनमेजय॥ इष्ट्वा यथावद् बलभिदरुणायामुपस्पृशत्। स मुक्तः पाप्मना तेन ब्रह्मवध्याकृतेन च॥ जगाम संहृष्टमनास्त्रिदिवं त्रिदशेश्वरः। शिरस्तचापि नमुचेस्तत्रैवाप्लुत्य भारत। लोकान् कामदुघान् प्राप्तमक्षयान् राजसत्तम॥ वैशम्पायन उवाच तत्राप्युपस्पृश्य बलो महात्मा दत्त्वा च दानानि पृथग्विधानि। अवाप्य धर्मं परमार्थकर्मा जगाम सोमस्य महत् सुतीर्थम्॥ यत्रायजद् राजसूयेन सोमः साक्षात् पुरा विधिवत् पार्थिवेन्द्रः। अत्रिीमान् विप्रमुख्यो बभूव होता यस्मिन् ऋतुमुख्ये महात्मा॥ यस्यान्तेऽभूत् सुमहद् दानवानां दैतेयानां राक्षसानां च देवैः। यस्मिन् युद्धं तारकाख्यं सुतीव्र यत्र स्कन्दस्तारकाख्यं जघान॥ सैनापत्यं लब्धवान् देवतानां महासेनो यत्र दैत्यान्तकर्ता। साक्षाचैव न्यवसत् कार्तिकेयः सदा कुमारो यत्र स प्लक्षराजः॥ जनमेजय उवाच सरस्वत्याः प्रभावोऽयमुक्तस्ते द्विजसत्तम। कुमारस्याभिषेकं तु ब्रह्मन् व्याख्यातुमर्हसि॥ यस्मिन् देशे च काले च यथा च वदतां वर। यैश्चाभिषिक्तो भगवान् विधिना येन च प्रभुः॥ स्कन्दो यथा च दैत्यानामकरोत् कदनं महत्। तथा मे सर्वामाचक्ष्व परं कौतूहलं हि मे॥ वैशम्पायन उवाच कुरुवंशस्य सदृशं कौतूहलमिदं तव। हर्षमुत्पादयत्येव वचो मे जनमेजय॥ हन्त ते कथयिष्यामि शृण्वानस्य नराधिप। अभिषेकं कुमारस्य प्रभावं च महात्मनः॥ तेजो माहेश्वरं स्कनमग्नौ प्रपतितं पुरा। तत् सर्वभक्षो भगवान् नाशकद् दग्धुमक्षयम्॥ तेनासीदतितेजस्वी दीप्तिमान् हव्यवाहनः। न चैव धारयामास गर्भ तेजोमयं तदा॥ स गङ्गामभिसंगम्य नियोगाद् ब्रह्मणः प्रभुः। गर्भमाहितवान् दिव्यं भास्करोपमतेजसम्॥ अथ गङ्गापि तं गर्भमसहन्ती विधारणे। उत्ससर्ज गिरौ रम्ये हिमवत्मरार्चिते॥ स तत्र ववृधे लोकानावृत्य ज्वलनात्मजः। ददृशुर्चलनाकारं तं गर्भमथ कृत्तिकाः॥ शरस्तम्बे महात्मानमनलात्मजमीश्वरम्। ममायमिति ताः सर्वाः पुत्रार्थिन्योऽभिचुक्रुशुः॥ तासां विदित्वा भावं तं मातृणां भगवान् प्रभुः। प्रस्तुतानां पय: षड्भिर्वदनैरपिबत् तदा॥ तं प्रभावं समालक्ष्य तस्य बालस्य कृत्तिकाः। परं विस्मयमापन्ना देव्यो दिव्यवपुर्धराः॥ यत्रोत्सृष्टः स भगवान् गङ्गया गिरिमूर्धनि। स शैलः काञ्चनः सर्वः सम्बभौ कुरुसत्तम॥ वर्धता चैव गर्भेण पृथिवी तेन रञ्जिता। अतश्च सर्वे संवृत्ता गिरयः काञ्चनाकराः॥ कुमारः सुमहावीर्यः कीर्तिकेय इति स्मृतः। गाङ्गेयः पूर्वमभवन्महायोगबलान्वितः॥ शमेन तपसा चैव वीर्येण च समन्वितः। ववृधेऽतीव राजेन्द्र चन्द्रवत् प्रियदर्शनः॥ स तस्मिन् काञ्चने दिव्ये शरस्तम्भे श्रिया वृतः। स्तूयमानः सदा शेते गन्धर्वैर्मुनिभिस्तथा॥ तथैतमन्वनृत्यन्तः देवकन्या सहस्रशः। दिव्यवादित्रनृत्यज्ञाः स्तुवन्त्यश्चारुदर्शनाः॥ अन्वास्ते च नदी देवं गङ्गा वै सरितां वरा। दधार पृथिवी चैनं बिभ्रती रूपमुत्तमम्॥ जातकर्मादिकास्तत्र क्रियाश्चक्रे बृहस्पतिः। वेदश्चैनं चतुर्मूर्तिरुपतस्थे कृताञ्जलिः॥ धनुर्वेदश्चतुष्पादः शस्त्रग्रामः ससंग्रहः। तत्रैनं समुपातिष्ठत् साक्षाद् वाणी च केवला॥ स ददर्श महावीर्यं देवदेवमुमापतिम्। शैलपुत्र्या समासीनं भूतसंघशतैर्वृतम्॥ निकाया भूतसंघानां परमाद्भुतदर्शनाः। विकृता विकृताकारा बिकृताभरणध्वजाः॥ व्याघ्रसिंहर्क्षवदना विडालमकराननाः। वृषदंशमुखाश्चान्ये गजोष्ट्रवदनास्तथा॥ उलूकवदनाः केचिद् गृध्रगोमायुदर्शनाः। क्रौञ्चपारावतनिभैर्वदनै राङ्कवैरपि।॥ श्वाविच्छल्यकगोधानामजैडकगवां तथा। सदृशानि वपूंष्यन्ये तत्र यत्र व्यधारयन्॥ केचिच्छैलाम्बुदप्रख्याश्चक्रोद्यतगदायुधाः। केचिदञ्जनपुञ्जाभाः केचिच्छ्वेताचलप्रभाः॥ सप्त मातृगणाश्चैव समाजग्मुर्विशाम्पते। साध्या विश्वेऽथ मरुतो वसवः पितरस्तथा॥ रुद्रादित्यास्तथा सिद्धा भुजगाः दानवाः खगाः। ब्रह्मा स्वयम्भूभगवान् सपुत्रः सह विष्णुना॥ शक्रस्तथाभ्ययाद् द्रष्टुं कुमारवरमच्युतम्। नारदप्रमुखाश्चापि देवगन्धर्वसत्तमाः॥ देवर्षयश्च सिद्धाश्च बृहस्पतिपुरोगमाः। पितरो जगतः श्रेष्ठा देवानामपि देवताः॥ तेऽपि तत्र समाजग्मुर्यामा धामाश्च सर्वशः। स तु बालोऽपि बलवान महायोगबलान्वितः॥ अभ्याजगाम देवेशं शूलहस्तं पिनाकिनम्। तमाव्रजन्तमालक्ष्य शिवस्यासीन्मनोगतम्॥ युगपच्छैलपुत्र्याश्च गङ्गायाः पावकस्य च। कं नु पूर्वमयं बालो गौरवादभ्युपैष्यति॥ अपि मामिति सर्वेषां तेषामासीन्मनोगतम्। तेषामेतमभिप्रायं चतुर्णामुपलक्ष्य सः॥ युगपद् योगमास्थाय ससर्ज विविधास्तनूः। ततोऽभवचतुर्मूतिः क्षणेन भगवान् प्रभुः॥ तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठतः। एवं स कृत्वा ह्यात्मानं चतुर्धा भगवान् प्रभुः॥ यतो रुद्रस्ततः स्कन्दो गजामाद्भुतदर्शनः। विशाखस्तु ययौ येन देवी गिरीवरात्मजा॥ शाखो ययौ स भगवान् वायुमूर्तिर्विभावसुं। नैगमेयोऽगमद् गङ्गां कुमारः पावकप्रभः॥ सर्वे भासुरदेहास्ते चत्वारः समरूपिणः। तान् समभ्ययुरव्यग्रास्तदद्भुतमिवाभवत्॥ हाहाकारो महानासीद् देवदानवरक्षसाम्। तद् दृष्ट्वा महदाश्चर्यमद्भूतं लोमहर्षणम्॥ ततो रुद्रश्च देवीं च पावकश्च पितामहम्। गड्या सहिताः सर्वे प्रणिपेतुर्जगत्पतिम्॥ प्रणिपत्य ततस्ते तु विधिवद् राजपुङ्गवा उदमूचुर्वचो राजन् कार्तिकेयप्रियेप्सया॥ अस्य बालस्य भगवन्नाधिपत्यं यथेप्सितम्। अस्मात्प्रियार्थं देवेश सदृशं दातुमर्हसि॥ ततः स भगवान् धीमान् सर्वलोकपितामहः। मनसा चिन्तयामास किमयं लभतामिति॥ ऐश्वर्याणि च सर्वाणि देवगन्धर्वरक्षसाम्। भूतयक्षविहङ्गानां पन्नगानां च सर्वशः॥ पूर्वमेवादिदेशासौ निकायेषु महात्मनाम्। समर्थं च तमैश्वर्ये महामतिरमन्यत॥ ततो मुहूर्तं स ध्यात्वा देवानां श्रेयसि स्थितः। सैनापत्यं ददौ तस्मै सर्वभूतेषु भारत॥ सर्वदेवनिकायानां ये राजानः परिश्रुताः। तान् सर्वान् व्यादिदेशास्मै सर्वभूतपितामहः॥ ततः कुमारमादाय देवा ब्रह्मपुरोगमाः। अभिषेकार्थमाजग्मुः शैलेन्द्र सहितास्ततः॥ पुण्यां हैमवती देवी सरिच्छेष्ठां सरस्वतीम्। समन्तपञ्चके या वै त्रिषु लोकेषु विश्रुता॥ तत्र तीरे सरस्वत्याः पुण्ये सर्वगुणान्विते। निषेदुर्देवगन्धर्वाः सर्वे सम्पूर्णमानसाः॥ वैशम्पायन उवाच ततोऽभिषेकसम्भारान् सर्वान् सम्भृत्य शास्त्रतः। बृहस्पतिः समिद्धेऽग्नौ जुहावाग्निं यथाविधि॥ ततो हिमवता दत्ते मणिप्रवरशोभिते। दिव्यारत्नाचिते पुण्ये निषण्णं परमासने॥ सर्वमङ्गलसम्भारैर्विधिमन्त्रपुरस्कृतम्। आभिषेचनिक द्रव्यं गृहीत्वा देवातगणाः॥ इन्द्राविष्णू महावी? सूर्याचन्द्रमसौ तथा। धाता चैव विधाता च तथा चैवानिलानलौ॥ पूष्णा भगेनार्यम्णा च अंशेन च विवस्वता। रुद्रश्च सहितो धीमान् मित्रेण वरुणेन च॥ रुद्रैर्वसुभिरादित्यैरश्विभ्यां च वृतः प्रभुः। विश्वेदेवैर्मरुद्भिश्च साध्यैश्च पितृभिः सह॥ गन्धवैरप्सरोभिश्च यक्षराक्षसपन्नगैः। देवर्षिभिरसंख्यातैस्तथा ब्रह्मर्षिभिस्तथा।॥ वैखानसैर्वालखिल्यैर्वाय्वारैर्मरीचिपैः। भृगुभिश्चाङ्गिरोभिश्च यतिभिश्च महात्मभिः॥ सपैर्विद्याधरैः पुण्यैर्योगसिद्धस्तथा वृतः। पितामहः पुलस्त्यश्च पुलहश्च महातपाः॥ अङ्गिराः कश्यपोऽपिश्च मरीचि गुरेव च। ऋतुर्हरः प्रचेताश्च मनुर्दक्षस्तथैव च॥ ऋतवश्च ग्रहाश्चैव ज्योतिषिं च विशाम्पते। मूर्तिमत्यश्च सरितो वेदाश्चैव सनातनाः॥ समुद्राश्च ह्रदाश्चैव तीर्थानि विविधानि च। पृथिवी द्यौर्दिशश्चैव पादपाश्च जनाधिप॥ अदितिर्देवमाता च ह्रीः श्रीः स्वाहा सरस्वती। उमा शची सिनीवाली तथा चानुमतिः कुहूः॥ राका च धिषणा चैव पन्यश्चान्या दिवौकसाम्। हिमवांश्चैव विन्ध्यश्च मेस्श्चानेकशृङ्गवान्॥ ऐरावतः सानुचरः कलाः काष्ठास्तथैव च। मासार्धमासा ऋतवस्तथा रात्र्यहनी नृप।॥ उच्चैःश्रवा हयश्रेष्ठो नागराजश्च वासुकिः। अरुणो गरुडश्चैव वृक्षाश्चौषधिभिः सह॥ धर्मश्च भगवान् देवः समाजग्मुर्हि सङ्गताः। कालो यमश्च मृत्युश्च यमस्यानुचराश्च ये॥ बहुलत्वाश्च नोक्ता ये विविधा देवतागणाः। ते कुमाराभिषेकार्थं समाजग्मुस्ततस्ततः॥ जगृहुस्ते तदा राजन् सर्व एव दिवौकसः। आभिषेचनिकं भाण्डं मङ्गलानि च सर्वशः॥ दिव्यसम्भारसंयुक्तैः कलशैः काञ्चनैर्नृप। सरस्वतीभिः पुण्याभिर्दिव्यतोयाभिरेव तु॥ अभ्यषिञ्चन् कुमारं वै सम्प्रहृष्टा दिवौकसः। सेनापति महात्मानमसुराणां भयंकरम्॥ पुरा यथा महाराज वरुणं वै जलेश्वरम्। तथाभ्यषिञ्चद् भगवान् सर्वलोकपितामहः॥ कश्यपश्च महातेजा ये चान्ये लोककीर्तिताः। तस्मै ब्रह्मा ददौ प्रीतो बलिनो वातरंहसः॥ कामवीर्यधरान् सिद्धान् महापरिषदान् प्रभुः। नन्दिसेनं लोहिताक्षं घण्टाकर्णं च सम्मतम्॥ चतुर्थमस्यानुचरं ख्यातं कुमुदमालिनम्। तत्र स्थाणुर्महातेजा महापारिषदं प्रभुः॥ मायाशतधरं कामं कामवीर्यं बलान्वितम्। ददौ स्कन्दाय राजेन्द्र सुरारिविनिबर्हणम्॥ स हि देवासुरे युद्धे दैत्यानां भीमकर्मणाम्। जघान दोभ्या॑ संक्रुद्धः प्रयुतानि चतुर्दश॥ तथा देवा ददुस्तस्मै सेनां नैर्ऋतसंकुलाम्। देवशत्रुक्षयकरीमजय्यां विष्णुरूपिणीम्॥ जयशब्दं तथा चक्रुर्देवा: सर्वे सवासवाः। गन्धर्वा यक्षरक्षांसि मनुयः पितरस्तथा॥ ततः प्रादादनुचरौ यमः कालोपमावुभौ। उन्माथश्च प्रमाथश्च महावी? महाद्युती॥ सुभ्राजो भास्वरश्चैव यौ तौ सूर्यानुयायिनौ। तौ सूर्यः कार्तिकेयाय ददौ प्रीतः प्रतापवान्॥ कैलासशृङ्गसंकाशो श्वेतमाल्यानुलेपनौ। सोमोऽप्यनुचरौ प्रादान्मणि सुमणिमेव च॥ ज्वालाजिर्जा तथा ज्योतिरात्मजाय हुताशनः। ददावनुचरौ शूरौ परसैन्यप्रमाथिनौ॥ परिघं च वटं चैव भीमं च सुमहाबलम्। दहति दहनं चैव प्रचण्डौ वीर्यसम्मतौ॥ अंशोऽप्यनुचरान् पञ्च ददौ स्कन्दाय धीमते। उत्क्रोशं पञ्चकं चैव वज्रदण्जधरावुभौ॥ तौ हि शत्रून् महेन्द्रस्य ददावनलपुत्राय वासवः परवीरहा। जनतुः समरे बहून्॥ चक्रं विक्रमकं चैव संक्रमं च महाबलम्। स्कन्दाय त्रीननुचरान् ददौ विष्णुर्महायशाः॥ वर्धनं नन्दनं चैव सर्वविद्याविशारदौ। स्कन्दाय ददतुः प्रीतावश्विनौ भिषजां वरौ॥ कुन्दं च कुसुमं चैव कुमुदं च महायशाः। डम्बराडम्बरौ चैव ददौ धाता महात्मने॥ चक्रानुचक्रौ बलिनौ मेघचक्रौ बलोत्कटौ। ददौ त्वष्टा महामायौ स्कन्दायानुतरावुभौ॥ सुव्रतं सत्यसंघं च ददौ मित्रौ महात्मने। कुमाराय महात्मानौ तपोविद्याधरौ प्रभुः॥ सुदर्शनीयौ वरदौ त्रिषु लोकेषु विश्रुतौ। सुव्रतं च महात्मानं शुभकर्माणमेव च।॥ कार्तिकेयाय सम्प्रादाद् विधाता लोकविश्रुतौ। पाणीतकं कालिकं च महामायाविनावुभौ॥ पूषा च पार्षदौ प्रादात् कार्तिकेयाय भारत। बलं चातिबलं चैव महावक्त्रौ महाबलौ॥ प्रददौ कार्तिकेयाय वायुर्भरतसत्तम। यमं चातियमं चैव तिमिवक्त्रौ महाबलौ॥ प्रददौ कार्तिकेयाय वरुणः सत्यसङ्गरः। सुवर्चसं महात्मानं तथैवाप्यतिवर्चसम्॥ हिमवान् प्रददौ राजन् हुताशनसुताय वै। काञ्चनं च महात्मानं मेघमालिनमेव च॥ ददावनुचरो मेरुरग्निपुत्राय भारत। स्थिरं चातिस्थिरं चैव मेरुरेवापरौ ददौ॥ महात्मा त्वग्निपुत्राय महाबलपराक्रमौ। उच्छृतं चाग्निशृङ्गं च महापाषाणयोधिनौ॥ प्रददावग्निपुत्राय विध्यः पारिषदावुभौ। संग्रहं विग्रहं चैव समुद्रोऽपि गदाधरौ॥ प्रददावग्निपुत्राय महापारिषदावुभौ। उन्मादं शङ्कुकर्णं च पुष्पदन्तं तथैव च॥ प्रददाबग्निपुत्राय पार्वती शुभदर्शना। जयं महाजयं चैव नागौ ज्वलनसूनवे॥ प्रददौ पुरुषव्याघ्र वासुकिः पन्नगेश्वरः। एवं साध्याश्च रुद्राश्च वसवः पितरस्तथा।॥ सागरा: सरितश्चैव गिरयश्च महाबलाः। ददुः सेनागणाध्यक्षान् शूलपट्टिशधारिणः॥ दिव्यप्रहरणोपेतान् नानावेपविभूषितान्। शृणु नामानि चाप्येषां येऽन्ये स्कन्दस्य सैनिकाः।।५५ विविधायुधसम्पन्नाश्चित्राभरणभूषिताः। शङ्कुकर्णो निकुम्भश्च पद्मः कुमुद एव च॥ अनन्तो द्वादशभुजस्तथा कृष्णोपकृष्णको। घ्राणश्रवाः कपिस्कन्धः काञ्चनाक्षो जलन्धमः॥ अक्षः संतर्जनो राजन् कुनदीकस्तमोऽन्तकृत्। एकाक्षो द्वादशाक्षश्च तथैवैकजटः प्रभुः॥ सहस्रबाहुर्विकटो व्याघ्राक्षः क्षितिकम्पनः। पुण्यमाना सुनामा च सुचक्रः प्रियदर्शनः॥ परिश्रुतः कोकनदः प्रियामाल्यानुलेपनः। अजोदरो गजशिराः स्कन्धाक्षः शतलोचनः॥ ज्वालाजिह्वः करालाक्षः शितिकेशो जटी हरिः। परिश्रुतः कोकनदः कृष्णकेशो जटाधरः॥ चतुर्दष्ट्रोऽष्टजिह्वश्च मेघनादः पृथुश्रवाः। विद्युताक्षो धनुर्वक्त्रो जाठरो मारुताशनः॥ उदारक्षो रथाक्षश्च वज्रनाभो वसुप्रभः। समुद्रवेगो राजेन्द्र शैलकम्पी तथैव च॥ वृषो मेष: प्रवाहश्च तथा नन्दोपनन्दकौ। धूम्रः श्वेतः कलिङ्गश्च सिद्धार्थो वरदस्था॥ प्रियकश्चैव नन्दश्च गोनन्दश्च प्रतापवान्। आनन्दश्च प्रमोदश्च स्वस्तिको ध्रुवकस्तथा॥ क्षेमवाहः सुवाहश्च सिद्धपात्रश्च भारत। गोव्रजः कनकापीडो महापारिषदेश्वरः॥ गायनो हसनश्चैव वाणः खड्गश्च वीर्यवान्। वैताली गतिताली च तथा कथकवातिकौ॥ हंसजः पङ्कदिग्धाङ्गः समुद्रोन्मादनश्च ह। रणोत्कटः प्रहासश्च श्वेतसिद्धश्च नन्दनः॥ कालकण्ठः प्रभासश्च तथा कुम्भाण्डकोदरः। कालकक्ष: सितश्चैव भूतानां मथनस्तथा॥ यज्ञवाहः सुवाहश्च देवयाजी च सोमपः। मजनश्च महातेजाः ऋथनाथौ च भारत॥ तुहरश्च तुहारश्च चित्रदेवश्च वीर्यवान्। मधुरः सुप्रसादश्च किरीटी च महाबलः॥ वत्सलो मधुवर्णश्च कलशोदर एव च। धर्मदो मन्मथकरः सूचीवक्त्रश्च वीर्यवान्॥ श्वेतवक्त्रः सुवक्त्रश्च चारुवक्त्रश्च पाण्डुरः। दण्डबाहुः सुबाहुश्च रजः कोकिलकस्तथा॥ अचल: कनकाक्षश्च बालानामपि यः प्रभुः। संचारकः कोकनदो गृघ्रपत्रश्च जम्बुकः॥ लोहाजवक्त्रो जवनः कुम्भवक्त्रश्च कुम्भकः। स्वर्णग्रीवश्च कृष्णौजाः हंसवक्त्रश्च चन्द्रभः॥ पाणिकूर्चाश्च शम्बूकः पञ्चवक्त्रश्च शिक्षकः। चाषवक्त्रश्च जम्बूकः शाकवक्त्रश्च कुञ्जलः॥ योगयुक्ता महात्मानः सततं ब्राह्मणप्रियाः। पैतामहा महात्मानो महापारिषदाश्च ये॥ यौवनस्थाश्च वालाश्च वृद्धाश्च जनमेजय। सहस्रशः पारिषदाः कुमारमवतस्थिरे॥ वक्त्रैर्नानाविधैर्ये कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा॥ खरोष्ट्रवदनाश्चान्ये वराहवदनास्तथा। मार्जारशशवक्त्राश्च दीर्घवक्त्राश्च भारत॥ मत्स्यमेषाननाश्चान्ये अजाविमहिषाननाः। ऋक्षशार्दूलवक्त्राश्च द्वीपिसिंहाननास्तथा॥ भीमा गजाननाश्चैव तथा नक्रमुखाश्च ये। तु शृणु ताञ्जनमेजय। गरुडाननाः कङ्कमुखा वृककाकमुखास्तथा॥ गोखरोष्ट्रमुखाश्चान्ये वृषदंशमुखास्तथा। महाजठरपादाङ्गास्तारकाक्षाश्च भारत॥ पारावतमुखाश्चान्ये तथा वृषमुखाः परे। कोकिलाभाननाश्चान्ये श्येनतित्तिरिकाननाः॥८५ कृकलासमुखाश्चैव विरजोऽम्बरधारिणः। व्यालवक्त्राः शूलमुखाश्चण्डवक्त्राः शुभाननाः॥ आशीविषाचीरधरा गोनासावदनास्तथा। स्थूलोदरा: कृशाङ्गाश्च स्थूलाङ्गाश्च कृशोदराः॥ ह्रस्वग्रीवा महाकर्णा नानाव्यालविभूषणाः। नकुलोलूकवकनाश्च काकवक्त्रास्तथा परे। आखुबभ्रुकवकनाश्च मयूरवदनास्तथा॥ गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः॥ स्कन्धेमुखा महाराज तथाप्युदरतोमुखाः। पृष्ठेमुखा हनुमुखास्तथा जङ्घामुखा अपि॥ पार्थाननाश्च बहवो नानादेशमुखास्तथा। तथा कीटपतङ्गानां सदृशास्या गणेश्वराः॥ नानाव्यालमुखाश्चान्ये बहुबाहुशिरोधराः। नानावृक्षभुजाः केचित् कटिशीर्षास्तथा परे॥ भुजङ्गभोगवदना नानागुल्मनिवासिनः। चीरसंवृतगात्राश्च नानाकनकवाससः॥ नानावेषधराश्चैव नानामाल्यानुलेपनाः। नानावस्त्रधराश्चैव चर्मवासस एव च॥ उष्णीषिणो मुकुटिनं सुग्रीवाश्च सुवर्चसः। किरीटिनः पञ्चशिखास्तथा काञ्चनमूर्धजाः॥ त्रिशिखा द्विशिखाश्चैव तथा सप्तशिखाः परे। शिखण्डीनो मुकुटिनो मुण्डाश्च जटिलास्तथा॥ चित्रमालाधराः केचित् केचिद् रोमाननास्तथा। विग्रहैकरसा नित्यमजेयाः सुरसत्तमैः॥ कृष्णा निर्मांसवक्त्राश्च दीर्घपृष्ठास्तनूदराः। स्थूलपृष्ठा ह्रस्वपृष्ठाः प्रलम्बोदरमेहनाः॥ महाभुजा ह्रस्वभुजा ह्रस्वगात्राश्च वामनाः। कुब्जाश्च ह्रस्वजङ्घाश्च हस्तिकर्णशिरोधराः॥ हस्तिनासाः कूर्मनासा वृकनासास्तथा परे। दीर्घोच्छ्वासा दीर्घजङ्घा विकराला ह्यधोमुखाः॥ महादंष्ट्रा ह्रस्वदंष्ट्राश्चतुर्दष्ट्रास्तथा परे। वारणेन्द्रनिभाश्चान्ये भीमा राजन् सहस्रशः॥ सुविभक्तशरीराश्च दीप्तिमन्तः स्वलंकृताः। पिङ्गाक्षाः शकुकर्णाश्च रक्तनासाश्च भारत॥ पृथुदंष्ट्रा महादष्ट्राः स्थूलौष्ठा हरिमूर्धजाः। नानापादौष्ठदंष्ट्राश्च नानाहस्तशिरोधराः॥ नानाचर्मभिराच्छन्ना नानाभाषाश्च भारत। कुशला देशभाषसु जल्पन्तोऽन्योन्यमीश्वराः॥ हृष्टाः परिपतन्ति स्म महापारिषदास्तथा। दीर्घग्रीवा दीर्घनखा दीर्घपादशिरोभुजाः॥ पिङ्गाक्षा नीलकण्ठाश्च लम्बकर्णाश्च भारत। वृकोदरनिभाश्चैव केचिदञ्जनसंनिभाः॥ श्वेताक्षा लोहितग्रीवाः पिङ्गाक्षाश्च तथा परे। कल्माषा बहवो राजश्चित्रवर्णाश्च भारत॥ चामरापीडकनिभाः श्वेतलोहितराजयः। नानावर्णाः सवर्णाश्च मयूरसदृशप्रभाः॥ पुनः प्रहरणान्येषां कीर्त्यमानानि मे शृणु। शेषैः कृतः पारिषदैपरायुधानां परिग्रहः॥ पाशोद्यतकराः केचिद् व्यादितास्याः खराननाः। पृष्ठाक्षा नीलकण्ठाश्च तथा परिघबाहवः॥ शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः। असिमुद्गरहस्ताश्च दण्डहस्ताश्च भारत॥ गदाभुशुण्डिहस्ताश्च तथा तोमरपाणयः। आयुधैविविधैोरैर्महात्मानो महाजवाः॥ महाबलाः महावेगा महापारिषदास्तथा। अभिषेकं कुमारस्य दृष्ट्वा हृष्टा रणप्रियाः॥ घण्टाजालपिनद्धाङ्गा ननृतुस्ते महौजसः। एते चान्ये च बहवो महापारिषदा नृप॥ उपतस्थुमहात्मानं कार्तिकेयं यशस्विनम्। दिव्याशाप्यान्तरिक्षाश्च पार्थिवाश्चानिलोपमाः॥ व्यादिष्टा दैवतैः शूराः स्कन्दस्यानुचरा भवन्। तादृशानां सहस्राणि प्रयुतान्यर्बुदानि च। अभिषिक्तं महात्मानं परिवार्योपतस्थिरे॥ वैशम्पायन उवाच शृणु मातृगणान् राजन् कुमारानुचरानिमान्। कीर्त्यमानान् मया वीरं सपत्नगणसूदनान्॥ यशस्विनीनां मातृणां शृणु नामानि भारत। याभिाप्तास्त्रयो लोकाः कल्याणीभिश्च भागशः॥ प्रभावती विशालाक्षी पालिता गोस्तनी तथा। श्रीमती बहुला चैव तथैव बहुपुत्रिका॥ अप्सु जाता च गोपाली बृहदम्बालिका तथा। जयावती मालतिका ध्रुवरत्ना भयंकरी॥ वसुदामा च दामा च विशोका नन्दिनी तथा। एकचूडा महाचूडा चक्रनेमिश्च भारत॥ उत्तेजनी जयत्सेना कमलाक्ष्यश्च शोभना। शत्रुञ्जया तथा चैव क्रोधना शलभी खरी॥ माधवी शुभवक्त्रा च तीर्थनेमिश्च भारत। गीतप्रिया च कल्याणी रुद्ररोमामिताशना॥ मेघस्वना भोगवती सुभ्रुश्च कनकावती। अलाताक्षी वीर्यवती विद्युजिह्वा च भारत॥ पद्मावती सुनक्षत्रा कन्दरा बहुयोजना। संतानिका च कौरव्य कमला च महाबला॥ सुदामा बहुदामा च सुप्रभा च यशस्विनी। नृत्यप्रिया च राजेन्द्र शतोलूखलमेखला॥ शतघण्टा शतानन्दा भगनन्दा च भाविनी। वपुष्मती चन्द्रशीता भद्रकाली च भारत॥ ऋक्षाम्बिका निष्कुटिका वामा चत्वरवासिनी। सुमङ्गला स्वस्तिमती बुद्धिकामा जयाप्रिया॥ धनदा सुप्रसादा च भवदा च जलेश्वरी। एडी भेडी समेडी च वेतालजननी तथा॥ कण्डूतिः कालिका चैव देवमित्रा च भारत। वसुश्री: कोटरा चैव चित्रसेनां तथाचला॥ कुक्कुटिका शङ्खलिका तथा शकुनिका नृप। कुण्डारिका कौकुलिका कुम्भिकाथ शतोदरी॥ उत्क्राथिनी जलेला च महावेगा च कङ्कणा। मनोजवा कण्टकिनी प्रघसा पूतना तथा॥ केशयन्त्री त्रुटिर्वामा क्रोशनाथ तडित्प्रभा। मन्दोदरी च मुण्डी च कोटरा मेघवाहिनी॥ सुभगा लम्बनी लम्बा ताम्रचूडा विकाशिनी। ऊर्ध्ववेणीधरा चैव पिङ्गाक्षी लोहमेखला॥ पृथुवस्त्रा मधुलिका मधुकुम्भा तथैव च। पक्षालिका मत्कुलिका जरायुर्जर्जरानना॥ ख्याता दहदहा चैव तथा धमधमा नृप। खण्डखण्डा च राजेन्द्रः पूषणा मणिकुट्टिका॥ अमोघा चैव कौरव्य तथा लम्बपयोधरा। वेणुवीणाधरा चैव पिङ्गाक्षी लोहमेखला॥ शशोलूकमुखी कृष्णा खरजङ्घा महाजवा। शिशुमारमुखी श्वेता लोहिताक्षी विभीषणा॥ जटालिका कामचरी दीर्घजिह्वा बलोत्कटा। कालेहिका वामनिका मुकुटा चैव भारत॥ लोहिताक्षी महाकाया हरिपिण्डा च भूमिप। एकत्वचा सुकुसुमा कृष्णकर्णी च भारत॥ क्षुरकी चतुष्कर्णी कर्णप्रावरणा तथा। चतुष्पथनिकेता च गोकर्णी महिषानना॥ खरकर्णी महाकर्णी भेरीस्वनमहास्वना। शङ्खकुम्भश्रवाश्चैव भगदा च महाबला॥ गणा च सुगणा चैव तथाऽभीत्यथ कामदा। चतुष्पथरता चैव भूतितीर्थान्यगोचरी॥ पशुदा वित्तदा चैव सुखदा च महायशाः। पयोदा गोमहिषदा सुविशाला च भारत॥ प्रतिष्ठा सुप्रतिष्ठा च रोचमाना सुरोचना। नौकर्णी मुखकर्णी च विशिरा मन्थिनी तथा॥ एकचन्द्रा मेघकर्णा मेघमाला विरोचना। एताश्चान्याश्च बहवो मातरो भतरर्षभ॥ कार्तिकेयानुयायिन्यो नानारूपा सहस्रशः। दीर्घनख्यो दीर्घदन्त्यो दीर्घतुण्ड्यश्च भारत॥ सबला मधुराश्चैव यौवनस्थाः स्वलंकृता। माहात्म्येन च संयुक्ताः कामरूपधरास्तथा॥ निर्मांसगात्र्यः श्वेताश्च तथा काञ्चनसंनिभाः। कृष्णमेघनिभाश्चान्या धूम्राश्च भरतर्षभ॥ अरुणाभा महाभोगा दीर्घकेश्यः सिताम्बराः। ऊर्ध्ववेणीधराश्चैव पिङ्गाक्ष्यो लम्बमेखलाः॥ लम्बोदो लम्बकर्णास्तथा लम्बपयोधराः। ताम्राक्ष्यस्ताम्रवर्णाश्च हर्यक्ष्यश्च तथा पराः॥ वरदाः कामचारिण्यो नित्यं प्रमुदितास्तथा। याम्या रौद्रास्तथा सौम्याः कौवेर्योऽथ महाबलाः॥३६ वारुण्योऽथ च माहेन्द्रयऽस्तथाऽऽग्नेय्यः परंतप। वायव्यश्चाथ कौमार्यो ब्राह्मयश्च भरतर्षभ॥ वैष्णव्यश्च तथा सौर्यो वाराह्यश्च महाबलाः। रूपेणाप्सरसां तुल्या मनोहार्यो मनोरमाः॥ परपुष्टोपमा वाक्ये तथा धनदोपमाः। शक्रवीर्योपमा युद्धे दीप्तया वह्निस नास्तथा॥ शत्रूणां विग्रहे नित्यं भयदास्ता भवन्त्युत। कामरूपधराश्चैव जवे वायुसम. या॥ अचिन्तबलवीर्याश्च तथाचिन्त्यपराक्रमाः। वृक्षचत्वरवासिन्यश्चतुष्पथनिकेतनाः॥ गुहाश्मशानवासिन्यः शैलप्रस्त्रवणालयाः। नानाभरणधारिण्यो नानामाल्याम्बरास्तथा॥ नानाविचित्रवेषाच नानाभाषास्तथैव च। एते चान्ये च बहवो गणाः शत्रुभयंकराः॥ अनुजग्मुर्महात्मानं त्रिदशेन्द्रस्य सम्मते। ततः शक्त्यस्त्रमददद् भगवान् पाकशासनः॥ गुहाय राजशार्दूल विनाशाय सुरद्विषाम्। महास्वनां महाघण्टां द्योतमानां सितप्रभाम्॥ अरुणादित्यवर्णां च पताकां भतरर्षभ। ददौ पशुपतिस्तस्मै सर्वभूतमहाचमूम्॥ उग्रां नानाप्रहरणां तपोवीर्यबलान्विताम्। अजेयां स्वगणैर्युक्तां नाम्ना सेनां धनंजयाम्॥ रुद्रतुल्यबलैर्युक्तां योधानामयुतैस्त्रिभिः। न सा विजानाति रणात् कदाचिद् विनिवर्तितुम्॥ विष्णुर्ददौ वैजयन्ती मालां बलविवर्धिनीम्। उमा ददौ विरजसी वाससी रविसप्रभे॥ गङ्गा कमण्डलुं दिव्यममृतोद्भवमुत्तमम्। ददौ प्रीत्या कुमाराय दण्डं चैव बृहस्पतिः॥ गरुडो दयितं पुत्रं मयूरं चित्रबर्हिणम्। अरुणस्ताम्रचूडं च प्रददौ चरणायुधम्॥ नागं तु वरुणो राजा बलवीर्यसमन्वितम्। कृष्णाजिनं ततो ब्रह्मा ब्रह्मण्याय ददौ प्रभुः॥ समरेषु जयं चैव प्रददौ लोकभावनः। सैनापत्यमनुप्राप्य स्कन्दो देवगणस्य ह॥ शुशुभे ज्वलितोऽर्चिष्मान् द्वितीय इव पावकः। तत: पारिषदैश्चैव मातृभिश्च समन्वितः॥ ययौ दैत्यविनाशाय ह्लादयन् सुरपुङ्गवान्। सा सेना नैर्ऋती भीमा सघण्टोच्छ्रितकेतना॥ सभेरीशङ्खमुरजा सायुधा सपताकिनी। शारदी द्यौरिवाभाति ज्योतिर्भिरिव शोभिता॥ ततो देवनिकायास्ते नानाभूतगणास्तथा। वादयामासुरव्यग्रा भेरीः शङ्खांश्च पुष्कलान्॥ पटहाञ्झर्झरांश्चैव क्रकचान् गोविषाणकान्। आडम्बरान् गोमुखांश्च डिण्डिमांश्च महास्वनान्॥ तुष्टुवुस्ते कुमारं तु सर्वे देवाः सवासवाः। जगुश्च देवगन्धर्वा ननृतुश्चाप्सरोगणाः॥ ततः प्रीतो महासेनस्त्रिदशेभ्यो वरं ददौ। रिपून् हन्तास्मि समरे ये वो वधचिकीर्घवः॥ प्रतिगृह्य वरं देवास्तस्माद् विबुधसत्तमात्। प्रीतात्मानो महात्मानो मेनिरे निहतान् रिपुन॥ सर्वेषां भूतसंघानां हर्षान्नादः समुत्थितः। अपूरयत लोकांस्त्रीन् वरे दत्ते महात्मना॥ स निर्ययौ महासेनो महत्या सेनया वृतः। वधाय युधि दैत्यानां रक्षार्थं च दिवौकसाम्॥ व्यवसायो जयो धर्मः सिद्धिलक्ष्मीधृतिः स्मृतिः। महासेनस्य सैन्यानामग्रे जग्मुर्नराधिप॥ स तया भीमया देवः शूलमुद्गरहस्तया। ज्वलितालातधारिण्या चित्राभरणवर्मया॥ गदामुसलनाराचशक्तितोमरहस्तया। दृप्तसिंहनिनादिन्या विनद्य प्रययौ गुहः॥ तं सर्वदैतेया राक्षसाः दानवास्तथा। व्यद्रवन्त दिशः सर्वा भयोद्विग्नाः समन्ततः॥ अभ्यद्रवन्त देवास्तान् विविधायुधपाणयः। दृष्ट्वा च स ततः क्रुद्धः स्कन्दस्तेजोबलान्वितः॥ शक्त्यस्त्रं भगवान् भीमं पुनः पुनरवाकिरत्। आदधचात्मनस्तेजो हविषेद्ध इवानलः॥ अभ्यस्यमाने शक्त्यस्त्रे स्कन्देनामिततेजसा। उल्काज्वाला महाराज पपात वसुधातले॥ संहादयन्तश्च तथा निर्घाताश्चापतन् क्षितौ। यथान्तकालसमये सुघोराः स्युस्तथा नृप॥ क्षिप्ता ह्येका यदा शक्तिः सुघोराऽनलसूनुना। तत: कट्यो विनिष्पेतुः शक्तीनां भरतर्षभ॥ ततः प्रीतो महासेनो जधान भगवान् प्रभुः। दैत्येन्द्रं तारकं नाम महाबलपराक्रमम्॥ वृतं दैत्यायुतैवीरैर्बलिभिर्दशभिर्नृप। महिषं चाप्टभिः पौर्वृतं संख्ये निजनिवान्॥ त्रिपादं चायुतशतैर्जघान दशभिर्वृतम्। ह्रदोदरं निखर्वैश्च वृतं दशभिरीश्वरः॥ जघानानुचरैः सार्धं विविधायुधपाणिभिः। तथाकुर्वन्त विपुलं नादं वध्यत्सु शत्रुषु॥ कुमारानुचरा राजन् पूरयन्तो दिशो दश। ननृतुश्च ववल्गुश्च जहसुश्च मुदान्विताः॥ शक्त्यस्त्रस्य तु राजेन्द्र ततोऽर्चिभिः समन्ततः। त्रैलोक्यं त्रासितं सर्वं जृम्भमाणाभिरेव च॥ दग्धाः सहस्रशो दैत्या नादैः स्कन्दस्य चापरे। पताकयाऽवधूताश्च हताः केचित् सुरद्विषः॥ केचिद् घण्टारवत्रस्ता निषेदुर्वसुधातले। केचित् प्रहरणैश्छिन्ना विनिष्येतुर्गतायुषः॥ एवं सुरद्विषोऽनेकान् बलवानाततायिनः। जघान समरे वीरः कार्तिकेयो महाबलः॥ बाणो नामाथ दैतेयो बलेः पुत्रो महाबलः। क्रौञ्चं पर्वतमाश्रित्य देवसंघानबाधत॥ तमभ्ययान्महासेनः सुरशत्रुमुदारधीः। स कार्तिकेयस्य भयात् क्रौञ्चं शरणमीयिवान्॥ ततः क्रौझं महामन्युः क्रौञ्चनादनिनादितम्। शक्त्या विभेद भगवान् कार्तिकेयोऽग्निदत्तया॥ स शालस्कसन्धशबलं त्रस्तवानरवारणम्। प्रोड्डीनोद्धान्तविहगं विनिष्पतितपन्नगम्॥ गोलाङ्गुलर्क्षसंघेश्च द्रवद्भिरनुनादितम्। कुरङ्गमविनिर्घोषनिनादितवनान्तरम्॥ विनिष्पतद्भिः शरभैः सिंहैश्च सहसा द्रुतैः। शोच्यामी दशां प्राप्तो रराजेव स पर्वतः॥ विद्याधराः समुत्पेतुस्तस्य शृङ्गनिवासिनः। किन्नराश्च समुद्विग्नाः शक्तिपातरवोद्धताः॥ ततो दैत्या विनिष्पेतुः शतशोऽथ सहस्रशः। प्रदीप्तात् पर्वतश्रेष्ठाद् विचित्राभरणस्रजः॥ तान् निजघ्नुरतिक्रम्य कुमारानुचरा मृघे। स चैव भगवान् क्रुद्धो दैत्येन्द्रस्य सुतं तदा॥ सहानुजं जघानाशु वृत्रं देवपतिर्यथा। बिभेद क्रौञ्चं शक्त्या च पावकिः परवीरहा॥ बहुधा चैकधा चैव कृत्वाऽऽत्मानं महाबलः। शक्तिः क्षिप्ता रणे तस्य पाणिमेति पुनः पुनः॥ एवंप्रभावो भगवांस्ततो भूयश्च पावकिः। शौर्यादिगुणयोगेन तेजसा यशसा श्रिया॥ क्रौञ्चस्तेन विनिर्भियो दैत्याश्च शतशो हताः। ततः स भगवान् देवो निहत्य विबुधद्विषः॥ सभाज्यमानो विबुधैः परं हर्षमवाप ह। ततो दुन्दुभयो राजन् नेदुः शङ्खाश्च भारत॥ मुमुचुर्देवयोषाश्च पुष्पवर्षमनुत्तमम्। योगिनामीश्वरं देवं शतशोऽथ सहस्रशः॥ दिव्यगन्धमुपादाय ववौ पुण्यश्च मारुतः। गन्धर्वास्तुष्टुवुश्चैनं यज्वानश्च महर्षयः॥ केचिदेनं व्यवस्यन्ति पितामहसुतं प्रभुम्। सनत्कुमारं सर्वेषां ब्रह्मयोनि तमग्रजम्॥ केचिन्महेश्वरसुतं केचित् पुत्रं विभावसोः। उमायाः कृत्तिकानां च गङ्गायाश्च वदन्त्युत॥ एकधा च द्विधा चैव चतुर्धा च महाबलम्। योगिनामीश्वरं देवं शतशोऽथ सहस्रशः॥ एतत् ते कथितं राजन् कार्तिकेयाभिषेचनम्। शृणु चैव सरस्वत्यास्तीर्थवर्यस्य पुण्यताम्॥ बभूव तीर्थप्रवरं हतेषु सुरशत्रुषु। कुमारेण महाराज त्रिविष्टपमिवापरम्॥ ऐश्वर्याणि च तत्रस्थो ददावीशः पृथक् पृथक्। ददौ नैर्ऋतमुख्येभ्यस्त्रैलोक्यं पावकात्मजः॥ एवं स भगवांस्तस्मिंतीर्थे दैत्यकुलान्तकः अभिषिक्तो महाराज देवसेनापतिः सुरैः॥ तीर्थं यत्र पूर्वमपां पतिः। अभिषिक्तः सुरगणैर्वरुणो भरतर्षभ॥ अस्मिंस्तीर्थवरे स्नात्वा स्कन्दं चाभ्यर्च्य लागली। ब्राह्मणेभ्यो ददौ रुक्मं वासांस्याभरणानि च॥ उषित्वा रजनीं तत्र माधवः परवीरहा। पूज्य तोयं च लागली॥ हृष्टः प्रीतमनाश्चैव ह्यभवन्माधवोत्तमः। एतत् ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि। यथाभिषिक्तो भगवान् स्कन्दो देवैः समागतैः॥ तैजसं नाम तत् तीर्थवरं तच्च स्पृष्ट्वा वैशम्पायन उवाच ततस्तीर्थवरं रामो ययौ बदरपाचनम्। तपस्विसिद्धचरितं यत्र कन्या धृतव्रता॥ भरद्वाजस्य दुहिता रूपेणाप्रतिमा भुवि। श्रुतावती नाम विभो कुमारी ब्रह्मचारिणी॥ तपश्चचार साऽत्युग्रं नियमैर्बहुभिर्वृता। भर्ता मे देवराजः स्यादिति निश्चित्य भामिनी॥ समास्तस्या व्यतिक्रान्ता बह्वयः कुरुकुलोद्वह। चरन्त्या नियमांस्तांस्तां स्त्रीभिस्तीवान् सुदुश्चरान्॥४ तस्यास्तु तेन वृत्तेन तपसा च विशाम्पते। भक्त्या च भगवान् प्रीतः परया पाकशासनः॥ आजगामाश्रमं तस्यास्त्रिदशाधिपतिः प्रभुः। आस्थाय रूपं विप्रर्वसिष्ठस्य महात्मनः॥ सा तं दृष्ट्वोग्रतपसं वसिष्ठं तपतां वरम्। आचारैर्मुनिभिर्दृष्टैः पूजयामास भारत।॥ उवाच नियमज्ञा च कल्याणी सा प्रियंवदा। भगवन् मुनिशार्दूल किमाज्ञापयसि प्रभो॥ सर्वमद्य यथाशक्ति तव दास्यामि सुव्रता शक्रभक्त्या च ते पाणिं न दास्यामि कथंचन॥ व्रतैश्च नियमैश्चैव तपसा च तपोधन। शक्रस्तोषयितव्यो वै मया त्रिभुवनेश्वरः॥ इत्युक्तो भगवान् देवः स्मयन्निव निरीक्ष्य ताम्। उवाच नियमं ज्ञात्वा सांत्वयन्निव भारत॥ उग्रं तपश्चरसि वै विदिता मेऽसि सुव्रते। यदर्थमयमारम्भस्तव कल्याणि हृद्गतः॥ तच सर्वं यथाभूतं भविष्यति वरानने। तपसा लभ्यते सर्वं यथाभूतं भविष्यति॥ यथा स्थानानि दिव्यानि विबुधानां शुभानने। तपसा तानि प्राप्याणि तपोमूलं महत् सुखम्॥ इति कृत्वा तपो घोरं देहं संन्यस्य मानवाः। देवत्वं यान्ति कल्याणि शृणुष्वैकं वचो मम॥ पञ्च चैतानि सुभगे बदराणि शुभव्रते। पचेत्युक्त्वा तु भगवाञ्जगाम बलसूदनः॥ आमन्त्रय तां तु कल्याणी ततो जप्यं जजाप सः। अविदूरे ततस्तस्मादाश्रमात् तीर्थमुत्तमम्॥ इन्द्रतीर्थेति विख्यातं त्रिषु लोकेषु मानद। तस्या जिज्ञासनार्थं स भगवान् पाकशासनः॥ बरदाणामपचनं चकार विबुधाधिपः। ततः प्रतप्ता सा राजन् वाग्यता विगतकमा॥ तत्परा शुचिसंवीता पावके समधिश्रयत्। अपचद् राजशार्दूल बदराणि महाव्रता॥ तस्याः पतन्त्याः सुमहान् कालोऽगात् पुरुषर्षभ। न च स्म तान्यपच्यन्त दिनं च क्षयमभ्यगात्॥ हुताशनेन दग्धश्च यस्तस्याः काष्ठसंचयः। अकाष्ठमग्निं सा दृष्ट्वा स्वशरीरमथादहत्॥ पादौ प्रक्षिष्य सा पूर्वं पावके चारुदर्शना। दग्धौ दग्धौ पुनः पादावुपावर्तयतानघ॥ चरणौ दह्यमानौ च नाचिन्तयदनिन्दिता। कुर्वाणा दुष्करं कर्म महर्षिप्रियकाम्यया॥ न वैमनस्यं तस्यास्तु मुखभेदोऽथवाभवत्। शरीरमग्निनादीप्य जलमध्येऽव वहर्पिता॥ तथास्या वचनं नित्यमवर्तद्धृदि भारता सर्वथा बदराण्येव पक्तव्यानीति कन्यका॥ सा तन्मनसि कृत्वैव महर्षेर्वचनं शुभा। अपचद् बदराण्येव न चापच्यन्त भारत॥ तस्यास्तु चरणौ वह्निर्ददाह भगवान् स्वयम्। न च तस्या मनो दुःखं स्वल्पमप्यभवत् तदा॥ अथ तत् कर्म दृष्ट्वास्याः प्रीतिस्त्रिभुवनेश्वरः। ततः संदर्शयामास कन्यायै रूपमात्मनः॥ उवाच च सुरश्रेष्ठस्तां कन्यां सुदृढव्रताम्। प्रीतोऽस्मि ते शुभे भक्त्या तपसा नियमेन च॥ तस्माद् योऽभिमतः कामः स ते सम्पत्स्यते शुभे। देहं त्यक्त्वा महाभागे त्रिदिवे मयि वत्स्यसि॥ इदं च ते तीर्थवरं स्थिरं लोके भविष्यति। सर्वपापापहं सुभ्र नाम्ना बदरपाचनम्॥ विख्यातं त्रिषु लोकेषु ब्रह्मर्षिभिरभिप्लुतम्। अस्मिन् खलु महाभागे शुभे तीर्थवरेऽनघे॥ त्यक्त्वा सप्तर्षयो जग्मुहिमवन्तमरुन्धतीम्। ततस्ते वै महाभागा गत्वा तत्र सुसंशिताः॥ वृत्त्यर्थं फलमूलानि समाहर्तुं ययुः किल तेषां वृत्यर्थिना तत्र वसतां हिमवद्वने॥ अनावृष्टिरनुप्राप्ता तदा द्वादशवार्षिकी। ते कृत्वा चाश्रमं तत्र न्यवसन्त तपस्विनः॥ अरुन्धत्यपि कल्याणी तपोनित्याभवत् तदा। अरुन्धतीं ततो दृष्ट्वा तीव्र नियममास्थिताम्॥ अथागमत् त्रिनयन: सुप्रीतो वरदस्तदा। ब्रामं रूपं ततः कृत्वा महादेवो महायशाः॥ तामभ्येत्याब्रवीद् देवो भिक्षामिच्छाम्यहं शुभे। रत्युवाच ततः सा तं ब्राह्मणं चारुदर्शना॥ क्षीणाऽन्नसंचयो विप्र बदराणीह भक्षय। ततोऽब्रवीन्महादेवः पचस्वैतानि सुव्रते॥ इत्युक्ता साऽपचत् तानि ब्राह्मणप्रियकाम्यया। ा अधिश्रित्य समिद्धेऽग्नौ बदराणि यशस्विनी॥ दिव्या मनोरमाः पुण्याः कथाः शुश्राव सा तदा। अतीता सा त्वनावृष्टि?रा द्वादशवार्षिकी।॥ अनश्नन्त्याः पचन्त्याश्च शृण्वन्त्याश्च कथाः शुभाः। दिनोपमः स तस्याथ कालोऽतीतः सुदारुणः॥ ततस्तु मुनयः प्राप्ताः फलान्यादाय पर्वतात्। ततः स भगवान् प्रीतः प्रोवाचारुन्धतीं ततः॥ उपसर्गस्व धर्मज्ञे यथापूर्वमिमानृषीन्। प्रीतोऽस्मि तव धर्मज्ञे तपसा नियमेन त॥ ततः संदर्शयामास स्वरूपं भगवान् हरः। ततोऽब्रवीत् तदा तेभ्यस्तस्याश्च चरितं महत्॥ भवद्भिर्हिमवत्पृष्ठे यत् तपः समुपार्जितम्। अस्याश्च यत् तपो विप्रा न समं तन्मतं मम॥ अनया हि तपस्विन्या तपस्तप्तं सुदुश्चरम्। अनश्नन्या पचन्त्या च समा द्वादश पारिताः॥ ततः प्रोवाच भगवांस्तामेवारुन्धती पुनः। वरं वृणीष्व कल्याणि यत् तेऽभिलषितं हृदि॥ साऽब्रवीत् पृथुताम्राक्षी देवं सप्तर्षिसंसदि। भगवान् यदि मे प्रीतस्तीर्थं स्यादिदमद्भुतम्॥ सिद्धदेवर्षिदयितं नाम्ना बरदपाचनम्। तथास्मिन् देवदेवेश त्रिरात्रमुषितः शुचिः॥ प्राप्नुयादुपवासेन फलं द्वादशवार्षिकम्। एवमस्त्विति तां देवः प्रत्युवाच तपस्विनीम्॥ सप्तर्षिभिः स्तुतो देवस्ततो लोकं ययौ तदा। ऋषयो विस्मयं जग्मुस्तां दृष्ट्वा चाप्यरुन्धतीम्॥ अश्रान्तां चाविवर्णां च क्षुत्पिपासासमायुताम्। एवं सिद्धिः परा प्राप्ता अरुन्धत्या विशुद्धया॥ यथा त्वया महाभागे मदर्थं संशितव्रते। विशेषो हि त्वया भद्रे व्रते ह्यस्मिन् समर्पितः॥ तथा चेदं ददाम्यद्य नियमेन सुतोषितः। विशेषं तव कल्याणि प्रयच्छामि वरं वरे॥ अरुन्धत्या वरस्तस्या यो दत्तो वै महात्मना। तस्य चाहं प्रभावेण तव कल्याणि तेजसा॥ प्रवक्ष्यामि परं भूयो वरमत्र यथाविधि। यस्त्वेका रजनी तीर्थे वत्स्यते सुसमाहितः॥ स स्नात्वा प्राप्स्यते लोकान् देहन्यासात् सुदुर्लभान्। इत्युक्त्वा भगवान् देवः सहस्राक्षः प्रतापवान्॥ श्रुतावतीं तत: पुण्यां जगाम त्रिदिवं पुनः। गते वज्रधरे राजंस्तत्र वर्षं पपात ह।६०॥ पुष्पाणां भरतश्रेष्ठ दिव्यानां पुण्यगन्धिनाम्। देवदुन्दुभयश्चापि नेदुस्तत्र महास्वनाः॥ मारुतश्च ववौ पुण्यः पुण्यगन्धो विशाम्पते। उत्सृज्य तु शुभा देहं जगामास्य च भार्यताम्॥ तपसोग्रेण तं लब्ध्वा तेन रेमे सहाच्युत। जनमेजय उवाच का तस्या भगवन् माता क्व संवृद्धा च शोभना। श्रोतुमिच्छाम्यहं विप्र परं कौतूहलं हि मे॥ वैशम्पायन उवाच भरद्वाजस्य विप्रर्षेः स्कन्नं रेतो महात्मनः॥ दृष्ट्वाऽप्सरसभायान्तीं घृताचीं पृथुलोचनाम्। स तु जग्राह तद्रेत: करेण जपतां वरः॥ तदाऽपतत् पर्णपुटे तत्र सा समभवत् सुता। तस्यास्तु जातकर्मादि कृत्वा सर्वं तपोधनः॥ नाम चास्याः स कृतवान् भरद्वाजो महामुनिः। श्रुतावतीति धर्मात्मा देवर्षिगणसंसदि। स्वे च तामाश्रमे न्यस्य जगाम हिमवद्वनम्॥ तत्राप्युपस्पृश्य महानुभावो वसूनि दत्त्वा च महाद्विजेभ्यः। जगाम तीर्थं सुसमाहितात्मा शक्रस्य वृष्णिप्रवरस्तदानीम्॥ वैशम्पायन उवाच तस्मिन्नेव त धर्मात्मा वसति स्म तपोधनः। गार्हस्थ्यं धर्ममास्थाय ह्यसितो देवलः पुरा॥ धर्मनित्यः शुचिर्दान्तो न्यस्तदण्डो महातपाः। कर्मणा मनसा वाचा समः सर्वेषु जन्तुषु॥ अक्रोधनो महाराज तुल्यनिन्दात्मसंस्तुतिः । प्रियाप्रिये तुल्यवृत्तिर्यमवत् समदर्शन:॥ काञ्चने लोष्ठभावे च समदर्शी महातपाः। देवानपूजयन्नित्यमतिथींश्च द्विजैः सह॥ ब्रह्मचर्यरतो नित्यं सदा धर्मपरायणः। ततोऽभ्येत्य महाभाग योगमास्थाय भिक्षुकः॥ जैगीषव्यो मुनिर्धीमास्तस्मिंस्तीर्थं समाहितः। देवलस्याश्रमे राजन्न्यवसत् स महाद्युतिः॥ योगनित्यो महाराज सिद्धि प्राप्तो महातपाः। तं तत्र वसमानं तु जैगीषव्यं महामुनिम्॥ देवलो दर्शयन्नेव नैवायुञ्जत धर्मतः। एवं तयोर्महाराज दीर्घकालो व्यतिक्रमत्॥ जैगीषव्यं मुनिवरं व ददर्शाथ देवलः। आहारकाले मतिमान् परिवाड् जनमेजय॥ उपातिष्ठत धर्मज्ञो भैक्षकाले स देवलम्। स दृष्ट्वा भिक्षुरूपेण प्राप्तं तत्र महामुनिम्॥ गौरवं परमं चक्रे प्रीति च विपुला तथा। देवलस्तु यथाशक्ति पूजयामास भारत॥ ऋषिदृष्टेन विधिना समा बह्वीः समाहितः। कदाचित् तस्य नृपते देवलस्य महात्मनः॥ चिन्ता सुमहती जाता मुनिं दृष्ट्वा महाद्युतिम्। समास्तु समतिक्रान्ता बह्वयः पूजयतो मम॥ न चायमलसो भिक्षुरभ्यभाषत किंचन। एवं विगणयन्नेव स जगाम महोदधिम्॥ अन्तरिक्षचरः श्रीमान् कलशं गृह्य देवलः। गच्छन्नेव स धर्मात्मा समुद्रं सरितां पतिम्॥ जैगीषव्यं ततोऽपश्यद् गतं प्रागेव भारत। तत: सविस्मयश्चिन्तां जगामाथामितप्रभः॥ कथं भिक्षुरयं प्राप्तः समुद्रेः स्नात एव च। इत्येव चिन्तयामास महर्षिरसितस्तदा॥ स्नात्वा समुद्रे विधिवच्छुचिर्जप्यं जजाप सः। कृतजप्याह्निकः श्रीमानाश्रमं च जगाम ह॥ कलशं जलपूर्णं वै गृहीत्वा जनमेजया ततः स प्रविशन्नेव स्वमाश्रमपदं मुनिः॥ आसीनमाश्रमे तत्र जैगीषव्यमपश्यत। न व्याहरति चैवेनं जैगीषव्यः कथंचन॥ काष्ठभूतोऽऽश्रमपदे वसति स्म महातपाः। तं दृष्ट्वा चाप्लुतं तोये सागरे सागरोपमम्॥ प्रविष्टमाश्रमं चापि पूर्वमेव ददर्श सः। असितो देवलो राजंश्चिन्तयामास बुद्धिमान्॥ दृष्ट्वा प्रभावं तपसो जैगीषव्यस्य योगजम्। चिन्तयामास राजेन्द्र तदा स मुनिसत्तमः॥ मया दृष्टः समुद्रे च आश्रमे च कथं त्वयम्। एवं विगणयन्नेव स मुनिमन्त्रपारगः॥ उत्पपाताश्रमात् तस्मादन्तरिक्षं विशाम्पते। जिज्ञासार्थं तदा भिक्षोर्जेगीषव्यस्य देवलः॥ सोऽन्तरिक्षचरान् सिद्धान् समपश्यत् समाहितान्। जैगीषव्यं च तैः सिद्धैः पूज्यमानमपश्यत॥ ततोऽसितः सुसंरब्धो व्यवसायी दृढव्रतः। अपश्यद् वै दिवं यान्तं जैगीषव्यं स देवलः॥ तस्मात् तु पितृलोकं तं व्रजन्तं सोऽन्वपश्यत। पितृलोकाच तं यान्तं याम्यं लोकमपश्यत॥ तस्मादपि समुत्पत्य सोमलोकमभिप्लुतम्। व्रजन्तमन्वपश्यत् स जैगीषव्यं महामुनिम्॥ लोकान् समुत्पतन्तं तु शुभानेकान्तयाजिनाम्। ततोऽग्निहोत्रिणां लोकांस्ततश्चाप्युत्पपात ह॥ दर्श च पौर्णमासं च ये यजन्ति तपोधनाः। तेभ्यः स दृदशे धीमाँल्लोकेभ्यः पशुयाजिनाम्॥ व्रजन्तं लोकममलमपश्यद् देवपूजितम्। चातुर्मास्यैर्बहुविधैर्यजन्ते ये तपोधनाः॥ तेषां स्थानं ततो यातं तथाग्निष्टोमयाजिनाम्। अग्निष्टुतेन च तथा ये यजन्ति तपोधनाः॥ तत् स्थानमनुसम्प्राप्तमन्वपश्यत देवलः। वाजपेयं ऋतुवरं तथा बहुसुवर्णकम्॥ आहरन्ति महाप्राज्ञास्तेषां लोकेष्वपश्यत। यजन्ते राजसूयेन पुण्डरीकेण चैव ये॥ तेषां लोकेष्वपश्यच जैगीषव्यं स देवलः। अश्वमेधं क्रतुवरं नरमेधं तथैव च॥ आहरन्ति नरश्रेष्ठास्तेषां लोकेष्वपश्यत। सर्वमेधं त दुष्प्रापं तथा सौत्रामणिं च ये॥ तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः। द्वादशाहैश्च सत्रैश्च यजन्ते विविधैर्नृप॥ तेषां लोकेष्वपश्यच जैगीषव्यं स देवलः। मैत्रावरुणयोर्लोकानादित्य । तथैव च॥ सलोकतामनुप्राप्तमपश्यत ततोऽसितः। रुद्राणां च वसूनां च स्थानं यच्च बृहस्पतेः॥ तानि सर्वाण्यतीतानि समपश्यत् ततोऽसितः। आरुह्य च गवां लोके प्रयातो ब्रह्मसत्रिणाम्॥ लोकानपश्यद् गच्छन्तं जैगीषव्यं ततोऽसितः। त्रील्लोकानपरान् विप्रमुत्पतन्तं स्वतेजसा॥ पतिव्रतानां लोकांश्च व्रजन्तं सोऽन्वपश्यत। ततो मुनिवरं भूयो जैगीषव्यमथासितः॥ नान्वपश्यत लोकस्थमन्तर्हितमरिंदम। सोऽचिन्तयन्महाभागो जैगीषव्यस्य देवलः॥ प्रभावं सुव्रतत्वं च सिद्धि योगस्य चातुलाम्। असितोऽपृच्छत सदा सिद्धाँल्लोकेषु सत्तमान्॥ प्रयतः प्राञ्जलिर्भूत्वा धीरस्तान् ब्रह्मसत्रिणः। जैगीषव्यं न पश्यामि तं शंसध्वं महौजसम्॥ एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे। सिद्धा उचुः शृणु देवल भूतार्थं शंसता नो दृढव्रत॥ जैगीषव्यं स वै लोकं शाश्वतं ब्रह्मणो गतः। वैशम्पायन उवाच स श्रुत्वा वचनं तेषां सिद्धानां ब्रह्मसत्रिणाम्॥ असितो देवलस्तूर्णमुत्पपात पपात च। ततः सिद्धास्त ऊचुर्हि देवलं पुनरेव ह॥ न देवलगतिस्तत्र तव गन्तुं तपोधन। ब्रह्मणः सदने विप्र जैगीषव्यो यदाप्तवान्।॥ तद् वचनं वैशम्पायन उवाच तेषां श्रुत्वा सिद्धानां देवलः : पुन:। अनुपूर्वेण लोकांस्तान् सर्वानवततार ह॥ स्वमाश्रमपद् पुण्यमाजगाम पतत्रिवत्। प्रविशन्नेव चापश्यजैगीषव्यं स देवलः॥ ततो बुद्ध्या व्यगणयद् देवलो धर्मयुक्त्या। दृष्ट्वा प्रभावं तपसो जैगीषव्यस्य योगजम्॥ ततोऽब्रवीन्महात्मानं जैगीषव्यं स देवलः। विनयावनतो राजन्नुपसर्प्य महामुनिम्॥ मोक्षधर्मं समास्थातुमिच्छेयं भगवन्नहम्। तस्य तद् वचनं श्रुत्वां उपदेशं चकार सः॥ विधिं च योगस्य परं कार्याकार्यस्य शास्त्रतः। संन्यासकृतबुद्धि तं ततो दृष्ट्वा महातपाः॥ सर्वाश्चास्य क्रियाश्चक्रे विधिदृष्टेन कर्मणा। संन्यासकृतबुद्धिः तं भूतानि पितृभिः सह॥ ततो दृष्ट्वा प्ररुरुदुः कोऽस्मान् संविभजिष्यति। देवलस्तु वचः श्रुत्वा भूतानां करुणं तथा॥ दिशो दश व्याहरतां मोक्षं त्यक्तुं मनो दधे। ततस्तु फलमूलानि पवित्राणि च भारत॥ पुष्पाण्योषधयश्श्चैव रोरूयन्ति सहस्रशः। पुनर्नो देवलः क्षुद्रो नूनं छेत्स्यति दुर्मतिः॥ अभयं सर्वभूतेभ्यो यो दत्त्वा नावबुध्यते। ततो भूयो व्यगणयत् स्वबुद्ध्या मुनिसत्तमः॥ मोक्षे गार्हस्थ्यधर्मे वा किं नु श्रेयस्करं भवेत्। इति निश्चित्य मनसा देवलो राजसत्तम॥ त्यक्त्वा गार्हस्थ्यधर्मं स मोक्षधर्ममरोचयत्। एवमादीनि संचिन्त्य देवलो निश्चयात् ततः॥ प्राप्तवान् परमां सिद्धिं परं योगं च भारत। ततो देवा: समागम्य बृहस्पतिपुरोगमा:॥ जैगीषव्ये तपश्चास्य प्रशंसन्ति तपस्विनः। अथाब्रवीदृषिवरो देवान् वै नारदस्तथा॥ जैगीषव्ये तपो नास्ति विस्मापयति योऽसितम्। तमेवंवादिनं धीरं प्रत्यूचुस्ते दिवौकसः॥ नैवमित्येव शंसन्तो जैगीषव्यं महामुनिम्। नातः परतरं किंचित् तुल्यमस्ति प्रभावतः॥ तेजसस्तपसञ्चास्य योगस्य च महात्मनः. एवं प्रभावो धर्मात्मा जैगीषव्यस्तथासितः। तयोरिदं स्थानवरं तीर्थं चैव महात्मनोः॥ तत्राप्युपस्पृश्य ततो महात्मा दत्त्वा च वित्तं हलभृद् द्विजेभ्यः। अवाप्य धर्मं परमार्थकर्मा जगाम सोमस्य महत् सुतीर्थम्॥ वैशम्पायन उवाच यत्रेजिवानुडुपती राजसूयेन भारत। तस्मिरतीर्थे महानासीत् संग्रामस्तारकामयः॥ तत्राप्युपस्पृश्य बले दत्त्वा दानानि चात्मवान्। सारस्वतस्य धर्मात्मा मुनेस्तीर्थं जगाम ह॥ तत्र द्वादशवार्षिक्यामनावृशष्टया द्विजोत्तमान्। वेदानध्यापयामास पुरा सारस्वतो मुनिः॥ जनमेजय उवाच कथं द्वादशवार्पिक्यामनावृष्ट्यां द्विजोत्तमान्। ऋषीनध्यापयामास पुरा सारस्वतो मुनिः॥ वैशम्पायन उवाच आसीत् पूर्वं महाराज मुनिर्धीमान् महातपाः। दधीच इति विख्यातो ब्रह्मचारी जितेन्द्रियः॥ तस्यातितपसः शक्रो विभेति सततं विभो। न स लोभयितुं शक्यः फलैर्बहुविधैरपि।॥ प्रलोभनार्थं तस्याथ प्राहिणोत् पाकशासनः। दिव्यामप्सरसं पुण्यां दर्शनीयामलम्बुषाम्॥ तस्य तर्पयतो देवान् सरस्वत्यां महात्मनः। समीपतो महाराज सोऽपातिष्ठत भाविनी॥ तां दिव्यवपुषं दृष्ट्वा तस्य वितात्मनः। रेतः स्कन्नं सरस्वत्यां तत् सा जग्राह निम्नगा॥ कुक्षौ चाप्यदधद्धृष्टा तद् रेत: पुरुषर्षभ। सा दधार च तं गर्भ पुत्रहेतोर्महानदी॥ सुषुवे चापि समये पुत्रं सा सरितां वरा। जगाम पुत्रमादाय तमृर्षि प्रति च प्रभो॥ ऋषिसंसदि तं दृष्ट्वा सा नदी मुनिसत्तमम्। ततः प्रोवाच राजेन्द्र ददती पुत्रमस्य तम्॥ ब्रह्मर्षे तव पुत्रोऽयं त्वद्भक्त्या धारितो मया। दृष्ट्वा तेऽप्सरसं रेतो यत् स्कन्नं प्रागलम्बुपाम्॥ तत् कुक्षिणा वै ब्रह्मर्षे त्वद्भक्त्या धृतवत्यहम्। न विनाशमिदं गच्छेत् त्वत्तेज इति निश्चयात्॥ प्रतिगृह्णीष्व पुत्रं स्वं मया दत्तमनिन्दितम्। इत्युक्तः प्रतिजग्राह प्रीति चावाप पुष्कलाम्॥ स्वसुतं चाप्यजिघ्रत् तं मूर्ध्नि प्रेम्णा द्विजोत्तमः। परिष्वज्यं चिरं कालं तदा भरतसत्तम॥ सरस्वत्यै वरं प्रादात् प्रीयमाणो महामुनिः। विश्वेदेवा सपितरो गन्धर्वाप्सरसां गणाः॥ तृप्तिं यास्यन्ति सुभगे तयॆमाणास्तवाम्भसा। इत्युक्त्वा स तु तुष्टाव वचोभिर्वै महानदीम्॥ प्रीतः परमहृष्टात्मा यथावच्छृणु पार्थिव। प्रन्नुतासि महाभागे सरसो ब्रह्मणः पुरा॥ जानान्ति त्वां सरिच्छेष्ठे मनुयः संशितव्रताः। मम प्रियकरी चापि सततं प्रियदर्शने॥ तस्मात् सारस्वतः पुत्रो महांस्ते वरवर्णिनि। तवैव नाम्ना प्रथितः पुत्रस्ते लोकभावनः॥ सारस्वत इति ख्यातो भविष्यति महातपाः। एष द्वादशवार्षिक्यामनावृष्ट्यां द्विजर्षभान्॥ सारस्वतो महाभागे वेदानध्यापयिष्यति। पुण्याभ्यश्च सरिद्रयस्त्वं सदा पुण्यतमा शुभे॥ भविष्यसि महाभागे मत्प्रसादात् सरस्वति। एवं सा संस्तुताऽनेन वरं लब्ध्वा महानदी॥ पुत्रमादाय मुदिता जगाम भरतर्षभ। एतस्मिन्नेव काले तु विरोधे देवदानवैः॥ शक्रः प्रहरणान्वेषी लोकांस्त्रीन् विचचार ह। न चोपलेभे भगवाञ्छकः प्रहरणं तदा॥ यद्वैतेषां भवेद् योग्यं वधाय विबुधद्विषाम्। ततोऽब्रवीत् सुराज्शको न मे शक्या महासुराः॥ ऋतेऽस्थिभिर्दधीचस्य निहन्तुं त्रिदशद्विषः। तस्माद् गत्वा ऋषिश्रेष्ठो याच्यतां सुरसत्तमाः॥ दधीचास्थीनि देहीति तैर्वधिष्यामहे रिपून्। स च तैर्याचितोऽस्थीनि यत्नादृषिवरस्तदा॥ प्राणत्यागं कुरुश्रेष्ठ चकारैवाविचारयन्। स लोकानक्षयान् प्राप्तो देवप्रियकरस्तदा॥ तस्यास्थिभिरथो शक्रः समप्रहृष्टमनास्तदा। कारयामास दिव्यानि नानाप्रहरणानि च॥ गदावज्राणि चक्राणि गुरून् दण्डांश्च पुष्कलान्। स हि तीव्रण तपसा सम्भृतः परमर्षिणा॥ प्रजापतिसुतेनाथ भृगुणा लोकभावनः। अतिकायः स तेजस्वी लोकसारो विनिर्मितः.॥ जज्ञे शैलगुरुः प्रांशुर्महिम्ना प्रथितः प्रभुः। नित्यमुद्विजते चास्य तेजसः पाकशासनः॥ तेन वज्रेण भगवान् मन्त्रयुक्तेन भारत। भृशं क्रोधविसृष्टेन ब्रह्मतेजोद्भवेन च॥ दैत्यदानववीराणां जघान नवतीनव। अथ काले व्यतिक्रान्ते महत्यतिभयंकारे॥ अनावृष्टिरनुप्राप्ता राजन् द्वादशवार्षिकी। तस्यां द्वादशवार्षिक्यामनावृष्ट्यां महर्षयः॥ वृत्यर्थं प्राद्रवन् राजन् क्षुधार्ताः सर्वतोदिशम्। दिग्भ्यस्तान् प्रद्रुतान् दृष्ट्वा मुनिः सारस्वतस्तदा॥ गमनाय मतिं चक्रे तं प्रोवाच सरस्वती। न गन्तव्यमितः पुत्र तवाहारमहं सदा॥ दास्यामि मत्स्यप्रवरानुष्यतागिह भारत। इत्युक्तस्तर्पयामास स पितॄन् देवतास्तथा॥ आहारमकरोन्नित्यं प्राणान् वेदांश्च धारयन्। अथ तस्यामनावृष्ट्यामतीतायां महर्षयः॥ अन्योन्यं परिपप्रच्छुः पुनः स्वाध्यायकारणात्। तेषां क्षुधापरीतानां नष्टा वेदाऽभिधावताम्॥ सर्वेषामेव राजेन्द्र न कश्चित् प्रतिभानवान्। अथ कश्चिदृषिस्तेषां सारस्वतमुपेयिवान्॥ कुर्वाणं संशितात्मानं स्वाध्यायमृषिसत्तमम्। स गत्वाऽऽचष्ट तेभ्यश्च सारस्वतमतिप्रभम्॥ स्वाध्यायममरप्रख्यं कुर्वाणं विजने वने। ततः सर्वे समाजग्मुस्तत्र राजन् महर्षयः॥ सारस्वतं मुनिश्रेष्ठमिदमूचुः समागताः। अस्मानध्यापयस्वेति तानुवाच ततो मुनिः॥ शिष्यत्वमुपगच्छध्वं विधिवद्धि ममेत्युत। तत्राब्रुवन् मुनिगणा बालस्त्वमसि पुत्रक॥ स तानाह न मे धर्मो नश्येदिति पुनर्मुनीन्। यो ह्यधर्मेण वै ब्रूयाद् गृह्णीयाद् योऽप्यधर्मतः॥ हीयेतां तावुभौ क्षिप्तं स्यातां वा वैरिणावुभौ। न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः॥ ऋषयश्चक्रिरे धर्म योऽनूचानः स नो महान्। एतच्छ्रुत्वा वचस्तस्य मुनयस्ते विधानतः॥ तस्माद् वेदाननुप्राप्य पुनधर्मं प्रचक्रिरे। षष्टिर्मुनिसहस्राणि शिष्यत्वं प्रतिपेदिरे॥ सारस्वतस्य विप्रर्वेदस्वाध्यायकारणात्। मुष्टिं मुष्टिं ततः सर्वे दर्भाणां ते छुपाहरन्। तस्यासनार्थं विप्र लस्यापि वशे स्थिताः॥ तत्रापि दत्त्वा वसु रौहिणेयो महाबल: केशवपूर्वजोऽथ। जगाम तीर्थं मुदितः क्रमेण ख्यातं महद् वृद्धकन्या स्म यत्र॥ जनमेजय उवाच कथं कुमारी भगवंस्तपोयुक्ता ह्यभूत् पुरा। किमर्थं च तपस्तेपे को वास्या नियमोऽभवत्॥ सुदुष्करमिदं ब्रह्मंस्त्वत्त: श्रुतमनुत्तमम्। आख्याहि तत्त्वमखिलं यथा तपसि सा स्थिता॥ वैशम्पायन उवाच ऋषिरासीन्महावीर्यः कुणिर्गो महायशाः। स तप्त्वा विपुलं राजस्तपो वै तपतां वरः॥ मनसाऽथ सुतां सुभुं समुत्पादितवान् विभुः। तां च दृष्ट्वा मुनिः प्रीतः कुणिर्गों महायशाः॥ जगाम त्रिदिवं राजन् संत्यज्येह कलेवरम्। सुभूः सा ह्यथ कल्याणी पुण्डीरीकनिभेक्षणा॥ महता तपसोग्रेण कृत्वाऽऽश्रममनिन्दिता। उपवासैः पूजयन्ती पितॄन् देवांश्च सा पुरा॥ तस्यास्तु तपसोग्रेण महान् कालोऽत्यगानृप। सा पित्रा दीयमानापि तत्र नैच्छदनिन्दिता॥ आत्मनः सदृशं सा तु भर्तारं नान्वपश्यत। ततः सा तपसोगेण पीडयित्वाऽऽत्मनस्तनुम्॥ पितृदेवार्चनरता बभूव विजने वने। साऽऽत्मानं मन्यमानापि कृतकृत्यं श्रमान्विता॥ वार्धकेन च राजेन्द्र तपसा चैव कर्शिता। सा नाशकद् यदा गन्तुं पदात् पदमपि स्वयम्॥ मोक्तुकामां तु तां दृष्ट्वा शरीरं नारदोऽब्रवीत्॥ असंस्कृतायाः कन्यायाः कुतो लोकास्तवानघे। एवं तु श्रुतमस्माभिर्देवलोके महाव्रते॥ तपः परमकं प्राप्तं न तु लोकास्त्वया जिताः। तन्नारदवचः श्रुत्वा साब्रवीदृषिसंसदि॥ तपसोऽर्धं प्रयच्छामि पाणिग्राहस्य सत्तम। इत्युक्ते चास्या जग्राह पाणिं गालवसम्भवः॥ ऋषिः प्राक् शृङ्गवान्नाम समयं चेममब्रवीत्। समयेन तवाद्याहं पाणिं स्प्रक्ष्यामि शोभने॥ योकगनं वस्त्वयं त्वया सह मयेति ह। तथेति सा प्रतिश्रुत्य तस्मै पाणिं ददौ तदा॥ यथादृष्टेन विधिना हुत्वा चाग्निं विधानतः। चक्रे च पाणिग्रहणं तस्योद्वाहं च गालविः॥ सा रात्रावभवद् राजंस्तरुणी वरवर्णिनी। दिव्याभरणवस्त्रा च दिव्यगन्धानुलेपना॥ तां दृष्ट्वा गालविः प्रीतो दीपयन्तीमिव श्रिया। उवास च क्षपामेकां प्रभाते साऽब्रवीच तम्॥ यस्त्वया समया विप्र कृतो मे तपतां वर। तेनोषितास्मि भद्रं ते स्वस्ति तेऽस्तु व्रजाम्यहम्॥ सा निर्गताऽब्रवीद् भूयो योऽस्मिंस्तीर्थे समाहितः। वसन्ते रजनीमेकां तर्पयित्वा दिवौकसः॥ चत्वारिंशतमष्टौ च द्वौ चाष्टौ सम्यगाचरेत्। यो ब्रह्मचर्य वर्षाणि फलं तस्य. लभेत सः॥ एवमुक्त्वा तत: साध्वी देहं त्यक्त्वा दिवं गता। ऋषिरप्यभवद् दीनस्तस्या रूपं विचिन्तयन्॥ समयेन तपोऽर्धं त कृच्छ्रात् प्रतिगृहीतवान्। साधयित्वा तदाऽऽत्मानं तस्याः स गतिमन्वियात्।। २४ दुःखितो भरतश्रेष्ठ तस्या रूपबलात्कृतः। एतत्ते वृद्धकन्याया व्याख्यातं चरितं महत्॥ तथैव ब्रह्मचर्यं च स्वर्गस्य च गतिः शुभा। तत्रस्थश्चापि शुश्राव हतं शल्यं हलायुधः॥ तत्रापि दत्त्वा दानानि द्विजातिभ्यः परंतपः। शुश्राव शल्यं संग्रामे निहतं पाण्डवैस्तदा॥ समन्तपञ्चकद्वारात् ततो निष्क्रम्य माधवः। पप्रच्छर्षिगणान् रामः कुरुक्षेत्रस्य यत् फलम्॥ ते पृष्टा यदुसिंहेन कुरुक्षेत्रफलं विभो। समाचख्युर्महात्मानस्तस्मै सर्वं यथातथम्॥ वैशम्पायन उवाच कुरुक्षेत्रं ततो दृष्ट्वा दत्त्वा दायांश्च सात्वतः। आश्रमं सुमहद् दिव्यमगमजनमेजय॥ मधूराम्रवणोपेतं प्लक्षन्यग्रोधसंकुलम्। चिरबिल्वयुतं पुण्यं पनसार्जुनसंकुलम्॥ तं दृष्ट्वा यादवश्रेष्ठः प्रवरं पुण्यलक्षणम्। पप्रच्छ तानृषीन् सर्वान् कस्याश्रमवरस्त्वयम्॥ ते तु सर्वे महात्मानमूचु राजन् हालयुधम्। शृणु विस्तरशो राम यस्यायं पूर्वमाश्रमः॥ अत्र विष्णुः पुरा देवस्तप्तवांस्तप उत्तमम्। अत्रास्य विधिवद् यज्ञाः सर्वे वृत्ताः सनातनाः॥ अत्रैव ब्राह्मणी सिद्धा कौमारब्रह्मचारिणी। योगयुक्ता दिवं याता तप:सिद्धा तपस्विनी॥ बभूव श्रीमती राजशाण्डिल्यस्य महात्मनः। सुता धृतव्रता साध्वी नियता ब्रह्मचारिणी॥ सा तु तत्त्वा तपो घोरं दुश्चरं स्त्रीजनेन ह। गता स्वर्ग महाभागा देवब्राह्मणपूजिता॥ श्रुत्वा ऋषीणां वचनमाश्रमं तं जगाम ह। ऋषींस्तानभिवाद्याथ पार्श्वे हिमवतोऽच्युतः॥ संध्याकार्याणि सर्वाणि निर्वारुरुहेऽचलम्। नातिदूरं ततो गत्वा नगं तालध्वजो बली॥ पुण्यं तीर्थवरं दृष्ट्वा विस्मयं परमं गतः। प्रभावं च सरस्वत्याः प्लक्षप्रस्रवणं बलः॥ सम्प्राप्तः कारपवनं प्रवरं तीर्थमुत्तमम्। हलायुधस्तत्र चापि दत्त्वा दानं महाबलः॥ आप्लुतः सलिले पुण्ये सुशीते विमले शुचौ। संतर्पयामास पितॄन् देवांश्च रणदुर्मदः॥ तत्रोष्यैकां त रजनी यतिभिर्ब्राह्मणैः सह। मित्रावरुणयोः पुण्यं जगामाश्रममच्युतः॥ इन्द्रोऽग्निरर्यमा चैव यत्र प्राक् प्रीतिमाप्नुवन्। तं देशं कारपवनाद् यमुनायां जगाम ह॥ स्नात्वा तत्र च धर्मात्मा परां प्रीतिमवाप्य च। ऋषिभिश्चैव सिद्धैश्च सहितो वै महाबलः॥ उपविष्टः कथाः शुभ्राः शुश्राव यदुपुङ्गवः। तथा तु तिष्ठतां तेषां नारदो भगवानृषिः॥ आजगामाथ तं देशं यत्र रामो व्यवस्थितः। जटामण्डलसंवीत: स्वर्णचीरो महातपाः॥ हेमदण्डधरो राजन् कमण्डलुधरस्तथा। कच्छपी सुखशब्दां तां गृह्य वीणां मनोरमाम्॥ नृत्ये गीते च कुशलो देवब्राह्मणपूजितः। प्रकर्ता कलहानां च नित्यं च कलहप्रियः॥ तं देशमदमद् यत्र श्रीमान् रामो व्यवस्थितः। प्रत्युत्थाय च तं सम्यक् पूजयित्वा यतव्रतम्॥ देवर्षि पर्यपृच्छत् स यथा वृत्तं कुरून् प्रति। ततोऽस्याकथयद् राजन् नारदः सर्वधर्मवित्॥ सर्वमेतद् यथावृत्तमतीव कुरुसंक्षयम्। ततोऽब्रवीद् रौहिणेयो नारदं दीनया गिरा॥ किमवस्थं तु तत् क्षत्रं ये तु तत्राभवन् नृपाः। श्रुतमेतन्मया पूर्वं सर्वमेव तपोधन॥ विस्तरश्रवणे जातं कौतूहलमतीव मे। नारद उवाच पूर्वमेव हतो भीष्मो द्रोणः सिन्धुपतिस्तथा॥ हतो वैकर्तनः कर्णः पुत्राश्चास्य महारथाः। भूरिश्रवा रौहिणेय मद्रराजश्च वीर्यवान्॥ एते चान्ये च बहवस्तत्र तत्र महाबलाः। प्रियान् प्राणान् परित्यज्य जयार्थं कौरवस्य वै॥ राजानो राजपुत्राश्च समरेष्वनिवर्तिनः। अहतांस्तु महाबाहो शृणु मे तत्र माधव॥ धार्तराष्ट्रबले शेषास्त्रयः समितिमर्दनाः। कृपश्च कृतवर्मा च द्रोणपुत्रश्च वीर्यवान्॥ तेऽपि वै विद्रुता राम दिशो दश भयात् तदा। दुर्योधने हते शल्ये विदुतेषु कृपादिषु॥ ह्रदं द्वैपायनं नाम विवेश भृशदुःखितः। शयानं धार्तराष्ट्रं तु सलिले स्तम्भिते तदा॥ पाण्डवाः सह कृष्णेन वाग्भिरुयाभिरादयन्। उत्थितः स ह्रदाद् स तुद्यमानो बलवान् वाग्मी रामसमन्ततः॥ वीरः प्रगृह्य महतीं गदाम्। स चाप्युपगतो योद्धं भीमेन सह साम्प्रतम्॥ भविष्यति तयोरा युद्धं राम सुदारुणम्। यदि कौतूहलं तेऽस्ति व्रज माधव मा चिरम्। पश्य युद्धं महाघोरं शिष्ययोर्यदि मन्यसे॥ वैशम्पायन उवाच नारदस्य वचः श्रुत्वा तानभ्यर्च्य द्विजर्षभान्। सर्वान् विसर्जयामास ये तेनाभ्यागताः सह॥ गम्यतां द्वारकां चेति सोऽन्वशादनुयायिनः। सोऽवतीर्याचलश्रेष्ठात् प्लक्षप्रस्रवणाच्छुभात्॥ ततः प्रीतमना रामः श्रुत्वा तीर्थफलं महत्। विप्राणां संनिधौ श्लोकमगायदिममच्युतः॥ सरस्वतीवाससमा कुतो रतिः सरस्वतीवाससमाः कुतो गुणाः। सरस्वतीं प्राप्य दिवं गता जनाः सदा स्मरिष्यन्ति नदीं सरस्वतीम्॥ सरस्वती सर्वनदीषु पुण्या सरस्वती लोकशुभावहा सदा। सरस्वतीं प्राप्य जनाः सुदुष्कृतं सदा न शोचन्ति परत्र चेह च॥ ततो मुहुर्मुहुः प्रीत्या प्रेक्षमाण: सरस्वतीम्। हयैर्युक्तं रथं शुभ्रमातिष्ठत परंतपः॥ स शीघ्रगामिना तेन रथेन यदुपुङ्गवः। दिदृक्षुरभिसम्प्राप्तः शिष्ययुद्धमुपस्थितम्॥ वैशम्पायन उवाच ततो वाग्युद्धमभवत् तुमुलं जनमेजय। यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम्॥ एकादशचमूभर्ता यज्ञ पुत्रो ममानघ॥ आज्ञाप्य सर्वान् नृपतीन् भुक्त्वा चेमां वसुंधराम्। गदामादाय वेगेन पदातिः प्रस्थितो रणे॥ भूत्वा हि जगतो नाथो ह्यनाथ इव मे सुतः। गदामुद्यम्य यो याति किमन्यद् भागधेयतः॥ अहो दुःखं महत् प्राप्तं पुत्रेण मम संजय। एवमुक्त्वा स दुःखार्तो विरराम जनाधिपः॥ संजय उवाच स मेधनिनदो हर्षानिनदनिव गोवृषः। आजुहाव तदा पार्थं युद्धाय युधि वीर्यवान्॥ भीममाह्वायाने तु कुरुराजे महात्मानि। प्रादुरासन् सुघोराणि रूपाणि विविधान्युत॥ ववुर्वाताः सनिर्घाताः पांशुवर्षं पपात च। बभूवुश्च दिशः सर्वास्तिमिरेण समावृताः॥ महास्वनाः सुनिर्वातास्तुमुला लोमहर्षणा। पेतुस्तथोल्काः शतशः स्फोटयन्त्यो नभस्तलात्॥ राहुश्चाग्रसदादित्यमपर्वणि विशाम्पते। चकम्पे च महाकम्पं पृथिवी सवनदुमा॥ दीप्ताश्च वातः प्रवर्नीचैः शर्करकर्षिणः। गिरीणां शिखराण्येव न्यपतन्त महीतले॥ मृगा बहुविधाकाराः सम्पतन्ति दिशो दश। दीप्ताः शिवाश्चाप्यनदन् घोररूपाः सुदारुणाः॥ निर्घाताश्च महाघोरा बभूवुर्लोमहर्षणाः। दीप्तायां दिशि राजेन्द्र मृगाश्चाशुभवेदिनः॥ उदपानगताश्चापो व्यवर्धन्त समन्ततः। अशरीरा महानादाः श्रूयन्ते स्म तदा नृप॥ एवमादीनि दृष्ट्वाऽऽथ निमित्तानि वृकोदरः। उवाच भ्रातरः ज्येष्ठं धर्मराज युधिष्ठिरम्॥ नैष शक्तो रणे जेतुं मन्दात्मा मां सुयोधनः। अद्य क्रोधं विमोक्ष्यामि निगूढं हृदये चिरम्॥ सुयोधने कौरवेन्द्रे खाण्डवेऽग्निमिवार्जुनः। शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम्॥ निहत्य गदया पापमिमं कुरुकुलाधमम्। अद्य कीर्तिमयीं मालां प्रतिमोक्ष्याम्यहं त्वयि॥ हत्वेमं पापकर्माणं गदया रणमूर्धनि। अद्यास्य शतधा देहं भिनद्मि गदयाऽनया॥ नायं प्रवेष्टा नगरं पुनर्वारणसाह्वयम्। सर्पोत्सर्गस्य शयने विषदानस्य भोजने।॥ प्रमाणकोट्यां पातस्य दाहस्य जतुवेश्मनि। सभायामवहासस्य सर्वस्वहरणस्य च॥ वर्षमज्ञातवासस्य वनवासस्य चानघ। अद्यान्तमेषां दुःखानां गन्ताहं भरतर्षभ।॥ एकाह्रा विनिहत्येमं भविष्याम्यात्मनोऽनृणः। अद्यायुर्धार्तराष्ट्रस्य दुर्मतेरकृतात्मनः॥ समाप्तं भरतश्रेष्ठ मातापित्रोश्च दर्शनम्। अद्य सौख्यं तु राजेन्द्र कुरुराजस्य दुर्मतेः॥ समाप्तं च महाराज नारीणां दर्शनं पुनः । अद्यायं कुरुराजस्य शान्तनोः कुलपांसनः॥ प्राणान् श्रियं च राज्यं च त्यक्त्वा शेष्यति भूतले। राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं निपातितम्॥ स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम्। इत्युक्त्वा राजशार्दूल गदामादाय वीर्यवान्।॥ अभ्यतिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन्। कुरुराजस्य शान्तनोः तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम्॥ भीमसेनः पुनः क्रुद्धो दुर्योधनमुवाच ह। राज्ञश्च धृतराष्ट्रस्य तथा त्वमपि चात्मनः॥ स्पर तद् दुष्कृतं कर्म यद् वृत्तं वारणावते। द्रौपदी च परिविष्टा सभामध्ये रजस्वला॥ द्यूते न वञ्चितो राजा यत् त्वया सौबलेन च। वने दुःखं च यत् प्राप्तमस्माभिस्त्वत्कृतं महत्॥ विराटनगरे चैव योन्यन्तरगतैरिव। तत् सर्वं पातयाम्यद्य दिष्ट्या दृष्टोऽसि दुर्मति॥ त्वकृतेऽसौ हतः शेते शरतल्पे प्रतापवान्। गाङ्गेयो रथिनां श्रेष्ठो निहतो याज्ञसेनिना॥ हतो द्रोणश्च कर्णश्च तथा शल्यः प्रतापवान्। वैराग्नेरादिकर्तासौ शकुनिः सौबलो हतः॥ प्रातिकामी तथा पापो द्रौपद्याः कुशकृद्धतः। भ्रातरस्ते हताः सर्वे शूरा विक्रान्तयोधिनः॥ एते चान्ये च बहवो निहतास्त्वत्कृते नृपाः। त्वामद्य निहनिष्यामि गदया नात्र संशयः॥ इत्येवमुचै राजेन्द्र भाषमाणं वृकोदरम्। उवाच गतभी राजन् पुत्रस्ते सत्यविक्रमः॥ किं कत्थनेन बहुना युध्यस्व त्वं वृकोदर। अद्य तेऽहं विनेष्यामि युद्धश्रद्धां कुलाधम॥ न हि दुर्योधनः क्षुद्र केनचित् त्वद्विधेन वै। शक्यस्त्रासयितुं वाचां यथाऽन्यः प्राकृतो नरः॥ चिरकालेप्सितं दिष्ट्या हृदयस्थमिदं मम। त्वया सह गदायुद्धं त्रिदशैरुपपादितम्॥ किं वाचा बहुनोक्तेन कत्थितेन च दुर्मते। वाणी सम्पद्यतामेषा कर्मणा मा चिरं कृथाः॥ तस्य तद् वचनं श्रुत्वा सर्व एवाभ्यपूजयन्। राजानः सोमकाश्चैव ये तत्रासन् समागताः॥ ततः सम्पूजितः सर्वैः सम्प्रहृष्टतनूरुहः. भूयो धीरां मतिं चक्रे युद्धाय कुरुनन्दनः॥ उन्मत्तमिव मातङ्गं तलशब्दैर्नराधिपाः। भूयः संहर्षयाचक्रुर्दुर्योधनममर्षणम्॥ तं महात्मा महात्मानं गदामुद्यम्य पाण्डवः। अभिदुद्राव वेगेन धार्तराष्ट्र वृकोदरः॥ बृहन्ति कुञ्जरास्तत्र हया द्वेषन्ति चासकृत्। शस्त्राणि चाप्यदीप्यन्त पाण्डवानां जयैषिणाम्॥ संजय उवाच समुदीर्णं ततो दृष्ट्वा संग्रामें कुरुमुख्ययोः। अथाब्रवीदर्जुनस्तु वासुदेवं यशस्विनम्॥ अनयोरियोयुद्धे को ज्यायान् भवतो मतः। कस्य वा को गुणो भूयानेतद् वद जनार्दन॥ वासुदेव उवाच उपदेशोऽनयोस्तुल्यो भीमस्तु बलवत्तरः। कृती यत्नपरस्त्वेष धार्तराष्ट्रो वृकोदरात्॥ भीमसेनस्तु धर्मेण युद्ध्यमानो न जेष्यति। अन्यायेन तु युध्यन् वै हन्यादेव सुयोधनम्॥ मायया निर्जिता देवैरसुरा इति नः श्रुतम्। विरोचनस्तु शक्रेण मायया निर्जितः स वै॥ मायया चाक्षिपत् तेजो वृत्रस्य बलसूदनः। तस्मान्मायामयं भीम आतिष्ठतु पराक्रमम्॥ प्रतिज्ञातं च भीमेन द्यूतकाले धनंजय। ऊरू भेत्स्यामि ते संख्ये गदयेति सुयोधनम्॥ सोऽयं प्रतिज्ञां तां चापि पालयत्वरिकर्षणः। मायाविनं तु राजानं माययैव निकृन्ततु॥ यद्येष बलमास्थाय न्यायेन प्रहरिष्यति। विषमस्थस्ततो राजा भविष्यति युधिष्ठिरः॥ पुनरेव तु वक्ष्यामि पाण्डवेय निबोध मे। धर्मराजापराधेन भयं नः पुनरागतम्॥ कृत्वा हि सुमहत् कर्म हत्वा भीष्ममुखान् कुरून्। जयः प्राप्तो यशः प्राग्र्यं वैरं च प्रतियातितम्॥ तदेवं विजयः प्राप्तः पुनः संशयितः कृतः। अबुद्धिरेषा महती धर्मराजस्य पाण्डव॥ यदेकविजये युद्धं पाणितं घोरमीद्दशम्। सुयोधनः कृती वीर एकायनगतस्तथा॥ अपि चोशनसा गीतः श्रूयतेऽयं पुरातनः। श्लोकस्तत्त्वार्थसहितस्तन्मे निगदतः शृणु॥ पुनरावर्तमानानां भग्नानां जीवितैषिणाम्। भेतव्यमरिशेषाणामेकायनगता हि ते॥ साहसोत्पतितानां च निराशानां च जीविते। न शक्यमग्रतः स्थातुं शक्रेणापि धनंजय॥ सुयोधनमिमं भग्नं हतसैन्यं ह्रदं गतम्। पराजितं वनप्रेप्सुं निराशं राज्यलम्भने॥ को न्वेष संयुगे प्राज्ञः पुनर्द्वन्द्वे समाह्वयेत्। अपि नो निर्जितं राज्यं न हरेत सुयोधनः॥ यस्त्रयोदशवर्षाणि गदया कृतनिश्रमः। चरत्यूर्ध्वं च तिर्यक् च भीमसेनजिघांसया॥ एनं चेन्न महाबाहुरन्यायेन हनिष्यति। एष वः कौरवो राजा धार्तराष्ट्रो भविष्यति॥ धनंजयस्तु श्रुत्वैतत् केशवस्य महात्मनः। प्रेक्षतो भीमसेनस्य सव्यमूरुमताडयत्॥ गृह्य संज्ञां ततो भीमो गदया व्यचरद् रणे। मण्डलानि विचित्राणि यमकानीतराणि च॥ दक्षिणं मण्डलं सव्यं गोमूत्रकमथापि च। व्यचरत् पाण्डवो राजन्नरिं सम्मोहयन्निव॥ तथैव तव पुत्रोऽपि गदामार्गविशारदः। व्यचरल्लघु चित्रं च भीमसेनजिघांसया॥ आधुन्वन्तो गदे घोरे चन्दनागरुरूषिते। वैरस्यान्तं परीप्सन्तौ रणे क्रुद्धाविवान्तकौ॥ अन्योन्यं तौ जिघांसन्तौ प्रवीरौ पुरुषर्षभौ। युयुधाते गरुत्मन्तौ तथा नागामिषैषिणौ॥ मण्डलानि विचित्राणि चरतोपभीमयोः। गदासम्पातजास्तत्र प्रजजुः पावकार्चिषः॥ समं प्रहरतोस्तत्र शूरयोर्बलिनोर्मधे। क्षुब्धयोर्वायुना राजन् द्वयोरिव समुद्रयोः॥ तयोः प्रहरतोस्तुल्यं मत्तकुञ्जरयोरिव। गदानिर्घातसंहादः प्रहाराणामजायत॥ तस्मिंस्तदा सम्प्रहारे दारुणे संकुले भृशम्। उभावपि परिश्रान्तौ युध्यमानावरिंदमौ॥ तौ मुहूर्तं समाश्वस्य पुनरेव परंतप। अभ्यहारयतां क्रुद्धो प्रगृह्य महती गदे॥ तयोः समभवद् युद्धं घोररूपमसंवृतम्। गदानिपातै राजेन्द्र तक्षतोः परस्परम्॥ समरे प्रद्रुतौ तौ तु वृषभाक्षौ तरस्विनौ। अन्योन्यं जनतुर्वीरौ पङ्कस्थौ महिषाविव॥ जर्जरीकृतसर्वाङ्गौ रुधिरेणाभिसप्लुतौ। दद्दशाते हिमवति पुष्पिताविव किंशुकौ॥ दुर्योधनस्तु पार्थेन विवरे सम्प्रदर्शिते। ईषदुन्मिषमाणस्तु सहसा प्रससार ह॥ तमभ्याशगतं प्राज्ञो रणे प्रेक्ष्य वृकोदरः। अवाक्षिपद् गदां तस्मिन् वेगेन महता बली॥ आक्षिपन्तं तु तं दृष्ट्वा पुत्रस्तव विशाम्पते। अवासर्पत्ततः स्थानात् सा मोघा न्यपतद् भुवि॥ मोक्षयित्वा प्रहारं तं सुतस्तव सुसम्भ्रमात्। भीमसेनं त गदया प्राहरत् कुरुसत्तम॥ तस्य विस्यन्दमानेन रुधिरेणामितौजसः। प्रहारगुरुपाताच मूर्छव समजायत॥ दुर्योधनो न तं वेद पीडितं पाण्डवं रणे। धारयामास भीमोऽपि शरीरमतिपीडितम्॥ अमन्यत स्थितं ह्येनं प्रहरिष्यन्तमाहवे। अतो न प्राहरत् तस्मै पुनरेव तवात्मजः॥ ततो मुहूर्तमाश्वस्य दुर्योधनमुपस्थितम्। वेगेनाभ्यपद् राजन् भीमसेनः प्रतापवान्॥ तमापतन्तं सम्प्रेक्ष्य संरब्धममितौजसम्। मोघमस्य प्रहारं तं चिकीर्षुर्भरतर्षभ॥ अवस्थाने मतिं कृत्वा पुत्रस्तव महामनाः। इयेषोत्पतितुं राजञ्छलयिष्यन् वृकोदरम्॥ अबुद्ध्यद् भीमसेनस्तु राज्ञस्तस्य चिकीर्षितम्। अथास्य समभिद्रुत्य समुत्क्रुश्य च सिंहवत्॥ सृत्या वञ्चयतो राजन् पुनरेवोत्पतिष्यतः। ऊरुभ्यां प्राहिणोद् राजन् गदां वेगेन पाण्डवः॥ सा वज्रनिष्पेषसमा प्रहिता भीमकर्मणा। ऊरू दुर्योधनस्याथ बभञ्ज प्रियदर्शनौ॥ स पपात नरव्याघ्रो वसुधामनुनादयन्। भग्नोरुर्भीमसेनेन पुत्रस्तव महीपते॥ ववुर्वाताः सनिर्धाताः पांशुवर्षं पपात च। चचाल पृथिवी चापि सवृक्षापपर्वता॥ तस्मिन् निपतिते वीरे पत्यौ सर्वमहीक्षिताम्। महास्वना पुनर्दीप्ता सनिर्घाता भयंकरी॥ पपात चोल्का महती पतिते पृथिवीपतौ। तथा शोणितवर्षं च पांशुवर्षं च भारत॥ ववर्ष मघवांस्तत्र तव पुत्रे निपातिते। यक्षाणां राक्षसानां च पिशाचानां तथैव च॥ अन्तरिक्षे महानादः श्रूयते भतरर्षभ। तेन शब्देन घोरेण मृगाणामथ पक्षिणाम्॥ जज्ञे घोरतरः शब्दो बहूनां सर्वतोदिशम्। ये तत्र वाजिनः शेषा गजाश्च मनुजैः सह॥ मुमुचुस्ते महानादं तव पुत्रे निपातिते। भेरीशङ्खमृदङ्गानामभवच स्वनो महान्॥ अन्तर्भूमिगतश्चैव तव पुत्रे निपातिते। बहुपादैर्बहुभुजैः कबन्धै?रदर्शनैः॥ नृत्यद्भिर्भयदैाप्ता दिशस्तत्राभवन् नृप। ध्वजवन्तोऽस्त्रवन्तश्च शस्त्रवन्तस्तथैव च॥ प्राकम्पन्त ततो राजंस्तव पुत्रे निपातिते। ह्रदाः कूपाश्च रुधिरमुढेमुपसत्तम॥ नद्यश्च सुमहावेगाः प्रतिस्रोतोवहाऽभवन्। पुंल्लिङ्गा इव नार्यस्तु स्त्रीलिङ्गाः पुरुषाभवन्॥ दुर्योधने तदा राजन् पतिते तनये तव। दृष्ट्वा तानद्भुतोत्पातान् पञ्चालाः पाण्डवैः सह॥ आविग्नमनसः सर्वे बभूवुर्भरतर्षभ। ययुर्देवा यथाकामं गन्धर्वाप्सरसस्तथा॥ कथयन्तोऽद्भुतं युद्धं सुतयोस्तव भारत। तथैव सिद्धा राजेन्द्र तथा वातिकचारणाः। नरसिंहौ प्रशंसन्तौ विप्रजग्मुर्यथागतम्॥ संजय उवाच तं पातितं ततो दृष्ट्वा महाशालमिवोद्गतम्। प्रहृष्टमनसः सर्वे दद्दशुस्तत्र पाण्डवाः॥ उन्मत्तमिव मातङ्ग सिंहेन विनिपातितम्। दद्दशुर्हष्टरोमाण: सर्वे ते चापि सोमकाः॥ ततो दुर्योधनं हत्वा भीमसेनः प्रतापवान्। पातितं कौरवेन्द्र तमुपगम्येदमब्रवीत्॥ गौगौरिति पुरा मन्द द्रौपदीमेकवाससम्। यत् सभायां हसन्नस्मांस्तदा वदसि दुर्मते॥ तस्यावहासस्य फलमद्य त्वं समवाप्नुहि। एवमुक्त्वा स वामेन पदा मौलिमुपास्पृशत्॥ शिरश्च राजसिंहस्य पादेन समलोडयत्। तथैवः क्रोधसंरक्तो भीमः परबलार्दनः॥ पुनरेवाब्रवीद् वाक्यं यत् तच्छृणु नराधिप येऽस्मान् पुरोपनृत्यन्त मूढा गौरिति गौरिति॥ तान् वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति। नास्माकं निकृतिर्वह्नि क्षयूतं न वञ्चना। स्वबाहुबलमाश्रित्य प्रबाधामो वयं रिपून्॥ सोऽवाप्य वैरस्य परस्य पारं वृकोदरः प्राह शनैः प्रहस्या युधिष्ठिरं केशवसंजयांश्च धनंजयं माद्रवतीसुतौ च॥ रजस्वला द्रौपदीमानयन् ये ये चाप्यकुर्वन्त सदस्यवस्त्राम्। तान् पश्यध्वं पाण्डवैर्धार्तराष्ट्रान् रणे हतांस्तपसा याज्ञसेन्याः॥ ये नः पुरा षण्ढतिलानवोचन् क्रूरा राज्ञो धृतराष्ट्रस्य पुत्राः। ते नो हताः सगणाः सानुबन्धाः कामं स्वर्ग नरकं वा पतामः॥ पुनश्च राज्ञः पतितस्य भूमौ स तां गदां स्कन्धगतां प्रगृह्या वामेन पादेन शिरः प्रमृद्य दुर्योधनं नैकृतिकं न्यवोचत्॥ हृष्टेन राजन् कुरुसत्तमस्य क्षुद्रात्मना भीमसेनेन पादम्। दृष्ट्वा कृतं मूर्धनि नाभ्यनन्दन् धर्मात्मानः सोमकानां प्रबर्हाः॥ तव पुत्रं तथा हत्वा कत्थमानं वृकोदरम्। नृत्यमानं च बहुशो धर्मराजोऽब्रवीदिदम्॥ गतोऽसि वैरस्यानृण्यं प्रतिज्ञा पूरिता त्वया। शुभेनाथाशुभेनैव कर्मणा विरमाधुना॥ मा शिरोऽस्य पदा मार्दीर्मा धर्मस्तेऽतिगो भवेत्। राजा ज्ञातिर्हतश्चायं नैतन्त्र्याय्यं तवानघ॥ एकादशचमूनाथं कुरूणामधिपं तथा। मा स्पाक्षी म पादेन राजानं ज्ञातिमेव च॥ हतबन्धुर्हतामात्यो भ्रष्टसैन्यो हतो मृधे। सर्वाकारेण शोच्योऽयं नावहास्योऽयमीश्वरः॥ विध्वस्तोऽयं हतामात्यो हतभ्राता हतप्रजः। उत्सन्नपिण्डो भ्राता च नैतन्याय्यं कृतं त्वया।॥ धार्मिको भीमसेनोऽसावित्याहुस्त्वां पुरा जनाः। स कस्माद् भीमसेन त्वं राजानमधितिष्ठसि॥ इत्युक्त्वा भीमसेनं तु साश्रुकण्ठो युधिष्ठिरः। उपसृत्याब्रवीद् दीनो दुर्योधनमरिंदमम्॥ तात मन्युन ते कार्यो नात्मा शोच्यस्त्वया तथा। नूनं पूर्वकृतं कर्म सुघोरमनुभूयते॥ धात्रोपदिष्टं विषमं नूनं फलमसंस्कृतम्। यद् वयं त्वां जिघांसामस्त्वं चास्मान् कुरुसत्तम॥ आत्मनो ह्यपराधेन महद् व्यसनमीदृशम्। प्राप्तवानसि यल्लोभान्मदाद् बाल्याच भारत॥ घातयित्वा वयस्यांश्च भ्रातूनथ पितूंस्तथा। पुत्रान् पौत्रांस्तथा चान्यांस्ततोऽसि निधनं गतः॥ तवापराधदस्माभिर्धातरस्ते निपातिताः। निहता ज्ञातयश्चापि दिष्टं मन्ये दुरत्ययम्॥ आत्मा न शोचनीयस्ते श्लाघ्यो मृत्युस्तवानघ। वयमेवाधुना शोच्याः सर्वावस्थासु कौरव॥ । कृपणं वर्तयिष्यामस्तैींना बन्धुभिः प्रियैः। भ्रातृणां चैव पुत्राणां तथा वै शोकविह्वला:॥ कथं द्रक्ष्यामि विधवा वधूः शोकपरिप्लुताः। त्वमेकः सुस्थितो राजन् स्वर्गे ते निलयो ध्रुवः॥ वयं नरकसंज्ञं वै दुःखं प्राप्स्याम दारुणम्। स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य विह्वलाः। गर्हयिष्यन्ति नो नूनं विधवाः शोककर्शिताः॥ संजय उवाच एवमुक्त्वा सुदुःखार्तो निशश्वास स पार्थिवः। विललाप चिरं चापि धर्मपुत्रो युधिष्ठिरः॥ धृतराष्ट्र उवाच अधर्मेण हतं दृष्ट्वा राजानं माधवोत्तमः। किमब्रवीत् तदा सूत बलदेवो महाबलः॥ गदायुद्धविशेषज्ञो गदायुद्धविशारदः। कृतवान् रौहिणेयो यत् तन्ममाचक्ष्व संजय॥ संजय उवाच शिरस्यभिहतं दृष्ट्वा भीमसेनेन ते सुतम्। रामः प्रहरतां श्रेष्ठश्चक्रोध बलवद्वली॥ ततो मध्ये नरेन्द्राणामूर्ध्वबाहुर्हलायुधः। कुर्वन्नार्तस्वरं घोरं धिग् भीमेत्युवाच ह॥ अहो धिग् यदधो नाभेः प्रहृतं धर्मविग्रहे। नैतद् दृष्टं गदायुद्धे कृतवान् यद् वृकोदरः॥ अधो नाभ्यां न हन्तव्यमिति शास्त्रस्य निश्चयः। अयं त्वशास्त्रविन्मूढः स्वच्छन्दात् सम्प्रवर्तते॥ तस्य तत्तद् ब्रुवाणस्य रोषः समभवन्महान्। ततो राजानमालोक्य रोषसंरक्तलोचनः॥ बलदेवो महाराज ततो वचनमब्रवीत्। न चैष पतितः कृष्ण केवलं मत्समोऽसमः॥ आश्रित्य तु दौर्बल्यादाश्रयः परिभर्यते। ततो लागलमुद्यम्य भीममभ्यद्रवद् बली॥ तमुत्पतन्तं जग्राह केशवो विनयान्वितः। बाहुभ्यां पीनवृत्ताभ्यां प्रयत्नाद् बलवद्वली॥ सितासितौ यदुवरौ शुशुभातेऽधिकं तदा। नभोगतौ यथा राजश्चन्द्रसूर्यो दिनक्षये॥ तस्योर्ध्वबाहोः सदृशं रूपमासीन्महात्मनः। बहुधातुविचित्रस्य श्वेतस्येव महागिरेः॥ उवाच चैनं संरब्धं शमयन्निव केशवः। आत्मवृद्धिर्मित्रवृद्धिर्मित्रमित्रोदयस्तथा॥ विपरीतं द्विषत्स्वेतत् षड्विधा वृद्धिरात्मनः। आत्मन्यपि च मित्रे च विपरीतं यदा भवेत्॥ तदा विद्यान्मनोग्लानिमाशु शान्तिकरो भवेत्। अस्माकं सहजं मित्रं पाण्डवाः शुद्धपौरुषाः॥ स्वकाः पितृष्वसुः पुत्रास्ते परैनिकृता भृशम्। प्रतिज्ञापालनं धर्मः क्षत्रियस्येह वेम्यहम्॥ सुयोधनस्य गदया भक्ताम्यूरू महाहवे। इति पूर्वं प्रतिज्ञातं भीमेन हि सभातले॥ मैत्रैयेणाभिशप्तश्च पूर्वमेव महर्षिणा। ऊरू ते भेत्स्यते भीमो गदयेति परंतप॥ अतो दोषं न पश्यामि मा क्रुद्ध्यस्व प्रलम्बहन्। यौनः स्वैः सुखहादैच सम्बन्धः सह पाण्डवैः॥ तेषां वृद्ध्यां हि वृद्धिों मा क्रुधः पुरुषर्षभ। वासुदेववचः श्रुत्वा सीरभृत् प्राह धर्मवित्॥ धर्मः सुचरितः सद्भिः स च द्वाभ्यां नियच्छति। अर्थश्चात्यर्थलुब्धस्य कामश्चातिप्रसङ्गिणः॥ धर्मार्थो धर्मकामौ च कामार्थो चाप्यपीडयन्। धर्मार्थकामान् योऽभ्येति सोऽत्यन्तं सुखमश्नुते॥ तदिदं व्याकुलं सर्वं कृतं धर्मस्य पीडनात्। भीमसेने न गोविन्द कामं तु यथाऽऽत्य माम्॥ श्रीकृष्ण उवाच अरोषणो हि धर्मात्मा सततं धर्मवत्सलः। भवान् प्रख्यायते लोके तस्मात् संशाम्य मा क्रुधः॥२४ प्राप्तं कलियुगं विद्धि प्रतिज्ञां पाण्डवस्य च। आनृण्यं यातु वैरस्य प्रतिज्ञायाश्च पाण्डवः॥ संजय उवाच धर्मच्छलमपि श्रुत्वा केशवात् स विशाम्पते। नैव प्रीतमना रामो वचनं प्राह संसदि॥ हत्वाऽधर्मेण राजानं धर्मात्मानं सुयोधनम्। जिह्मयोधीते लोकेऽस्मिन् ख्याति यास्यति पाण्डवः॥ दुर्योधनोऽपि धर्मात्मा गतिं यास्यति शाश्वतीम्। ऋजुयोधी हतो राजा धार्तराष्ट्रो नराधिपः॥ युद्धदीक्षां प्रविश्याजौ रणयज्ञं वितत्य च। हुत्वाऽऽत्मानममित्राग्नौ प्राप चावभृथं यशः॥ इत्युक्त्वा रथमास्थाय रौहिणेयः प्रतापवान्। श्वेताभ्रशिखराकारः प्रययौ द्वारकां प्रति॥ पञ्चालाश्च सवार्ष्णेयाः पाण्डवाश्च विशाम्पते। रामे द्वारावतीं याते नातिप्रमनसोऽभवन्॥ ततो युधिष्ठिरं दीनं चिन्तापरमधोमुखम्। शोकोपहतसंकल्पं वासुदेवोऽब्रवीदिदम्॥ वासुदेव उवाच धर्मराज किमर्थं त्वमधर्ममनुमन्यसे। हतबन्धोर्यदेतस्य पतितस्य विचेतसः॥ दुर्योधनस्य भीमेन मृद्यमानं शिरः पदा। उपप्रेक्षसि कस्मात् त्वं धर्मज्ञः सन्नराधिप।॥ युधिष्ठिर उवाच न ममैतत् प्रियं कृष्ण यद् राजानं वृकोदरः। पदा मूर्ध्यस्पृशत् क्रोधान्न हृष्ये कुलक्षये॥ निकृत्या निकृता नित्यं धृतराष्ट्रसुतैर्वयम्। बहूनि परुषाण्युक्त्वा वनं प्रस्थापिताः स्म ह॥ भीमसेनस्य तद् दुःखमतीव हदि वर्तते। इति संचिन्त्य वार्ष्णेय मयैतत् समुपेक्षितम्॥ तस्माद्धत्वाऽकृतप्रज्ञं लुब्धं कामवशानुगम्। लभतां पाण्डवः कामं धर्मेऽधर्मे च वा कृते॥ संजय उवाच इत्युक्ते धर्मराजेन वासुदेवोऽब्रवीदिदम्। काममस्त्वेतदिति वै कृच्छ्राद् यदुकुलोद्वहः॥ इत्युक्तो वासुदेवेन भीमप्रियहितैषिणा। अन्वमोदत तत् सर्वं यद् भीमेन कृतं युधि॥ भीमसेनोऽपि हत्वाऽऽजौ तव पुत्रममर्षणः। अभिवाद्याग्रतः स्थित्वा सम्प्रहृष्टः कृताञ्जलिः॥ प्रोवाच सुमहातेजा धर्मराज युधिष्ठिरम्। हर्षादुत्फुल्लनयनो जितकाशी विशाम्पते॥ तवाद्य पृथिवी सर्वा क्षेमा निहतकण्टका। तां प्रशाधि महाराज स्वधर्ममनुपालय॥ यस्तु कर्ताऽस्य वैरस्य निकृत्या निकृतिप्रियः। सोऽयं विनिहतः शेते पृथिव्यां पृथिवीपते॥ दुःशासनप्रभृतयः सर्वे ते चोग्रवादिनः। राधेयः शकुनिश्चैव हताश्च तव शत्रवः॥ सेयं रत्नसमाकीर्णा मही सवनपर्वता। उपावृत्ता महाराज त्वामद्य निहतद्विषम्॥ युधिष्ठिर उवाच गतो वैरस्य निधनं हतो राजा सुयोधनः। कृष्णस्य मतमास्थाय विजितेयं वसुन्धरा॥ दिष्ट्या गतस्त्वमानृण्यं मातु: कोपस्य चोभयोः। दिष्ट्या जयति दुर्धर्ष दिष्ट्या शत्रुर्निपातितः॥ संजय उवाच ततस्ते प्रययुः सर्वे निवासाय महीक्षितः। शङ्खान् प्रध्मापयन्तो वै हृष्टाः परिघबाहवः॥ पाण्डवान् गच्छतश्चापि शिबिरं नो विशाम्पते। महेष्वासोऽन्वगात् पश्चाद् युयुत्सुः सात्यकिस्तथा॥ धृष्टद्युम्न: शिखण्डी च द्रौपदेयाश्च सर्वशः। सर्वे चान्ये महेष्वासाः प्रययुः शिबिराण्युत॥ ततस्ते प्राविशन् पार्था हतत्विट्कं हतेश्वरम्। दुर्योधनस्य शिबिरं रङ्गवद्विसृते जने॥ गतोत्सवं पुरमिव हृतनागमिव ह्रदम्। स्त्रीवर्षवरभूयिष्ठं वृद्धामात्यैरधिष्ठितम्॥ तत्रैतान् पर्युपातिष्ठन् दुर्योधनपुरःसराः। कृताञ्जलिपुटा राजन् काषायमलिनाम्बराः।॥ शिबिरं समनुप्राप्य कुरुराजस्य पाण्डवाः। अवरुर्महाराज रथेभ्यो रथसत्तमाः॥ ततो गाण्डीवधन्वानमभ्यभाषत केशवः। स्थितः प्रियहिते नित्यमतीव भरतर्षभ।॥ अवरोपय गाण्डीवमक्षयौ च महेषुधी। अथाहमवरोक्ष्यामि पश्चाद् भरतसत्तम।॥ स्वयं चैवावरोह त्वमेतच्छ्रेयस्तवानघ। तचाकरोत् तथा वीरः पाण्डुपुत्रो धनंजयः॥ अथ पश्चात् ततः कृष्णो रश्मीनुत्सृज्य वाजिनाम्। अवारोहत मेधावी रथाद् गाण्डीवधन्वनः॥ अथातवतीर्णे भूतानामीश्वरे सुमहात्मनि। कपिरन्तर्दधे दिव्यो ध्वजो गाण्डीवधन्वनः॥ स दग्धो द्रोणकर्णाभ्यां दिव्यैरस्त्रैर्महारथः। अथादीप्तोऽग्निना ह्याशु प्रजज्वाल महीपते॥ सोपासङ्गः सरश्मिश्च साश्वः सयुगबन्धुरः। भस्मीभूतोऽपतद् भूमौ रथो गाण्डीवधन्वनः॥ तं तथा भस्मभूतं तु दृष्ट्वा पाण्डुसुताः प्रभो। अभवन् विस्मिता राजन्नर्जुनश्चेदमब्रवीत्॥ कृताञ्जलिः सप्रणयं प्रणिपत्याभिवाद्य ह। गोविन्द कस्माद् भगवन् रथोदग्धोऽयमग्निना॥ किमेतन्महदाश्चर्यमभवद् यदुनन्दन। तन्मे ब्रूहि महाबाहो श्रोतव्यं यदि मन्यसे॥ वासुदेव उवाच अस्त्रैर्बहुविधैर्दग्धः पूर्वमेवायमर्जुन। मदधिष्ठित्तत्वात् समरे न विशीर्णः परंतप॥ इदानीं तु विशीर्णोऽयं दग्धो ब्रह्मास्त्रतेजा। भया विमुक्तः कौन्तेय त्वय्यद्य कृतकर्मणि।॥ ईपदुत्स्मयमास्तु भगवान् केशवोऽरिहा। परिष्वज्य च राजानं युधिष्ठिरमभाषत॥ दिष्ट्या जयसि कौन्तेय दिष्ट्याते शत्रवो जिताः। दिष्टया गाण्डीवधन्वा च भीमसेनश्च पाण्डवः॥ त्वं चापि कुशली राजन् माद्रीपुत्रो च पाण्डवौ। मुक्ता वीरक्षयादस्मात् संग्रामानिहतद्विषः॥ क्षिप्रमुक्तरकालानि कुरु कार्याणि भारत। उपायतमुपप्लव्यं सह गाण्डीवधन्वना॥ आनीय मधुपर्कं मां यत् पुरा त्वमवोचथाः। एष भ्राता सखा चैव तव कृष्ण धनंजयः॥ रक्षितव्यो महाबाहो सर्वास्वापत्स्विति प्रभो। तव चैव ब्रुवाणस्य तथेत्येवाहमब्रुवम्॥ स सव्यसाची गुप्तस्ते विजयी च जनेश्वर। भ्रातृभिः सह राजेन्द्र शूरः सत्यपराक्रमः॥ मुक्तो वीरक्षयादस्मात् संग्रामाल्लोमहर्षणात्। एवमुक्तस्तु कृष्णेन धर्मराजो युधिष्ठिरः॥ हृष्टरोमा महाराज प्रत्युवाच जनार्दनम्। युधिष्ठिर उवाच प्रमुक्तं द्रोणकर्णाभ्यां ब्रह्मास्त्रमरिमर्दन॥ कस्त्वदन्यः सहेत् साक्षादपि वज्री पुरंदरः। भवतस्तु प्रसादेन संशप्तकगणा जिताः॥ महारणगतः पार्थो यच नासीत् पराङ्मुखः। तथैव च महाबाहो पर्यायैर्बहुभिर्मया॥ कर्मणामनुसंतानं तेजसश्च गती: शुभाः। उपप्लव्ये महषिर्मे कृष्णद्वैपायनोऽब्रवीत्॥ यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः। इत्येवमुक्ते ते वीराः शिबिरं तव भारत॥ प्रविश्य प्रत्यपद्यन्त कोशरत्नर्धिसंचयान्। रजतं जातरूपं च मणीनथ च मौक्तिकान्॥ भूषणान्यथ मुख्यानि कम्बलान्यजिनानि च। दासीदासमसंख्येयं राज्योपकरणानि च॥ प्राप्य धनमक्षय्यं त्वदीयं भरतर्षभ। उदक्रोशन्महाभागा नरेन्द्र विजितारयः॥ ते तु वीराः समाश्वस्य वाहनान्यवमुच्य च। अतिष्ठन्त मुहुः सर्वे पाण्डवाः सात्यकिस्तथा।॥ अथाब्रवीन्महाराज वासुदेवो महायशाः। अस्माभिर्मङ्गलार्थाय वस्तव्यं शिबिराद् बहिः॥ तथेत्युक्त्वा हि ते सर्वे पाण्डवाः सात्यकिस्तथा। वासुदेवेन सहिता मङ्गलार्थं बहिर्ययुः॥ ते समासाद्य सरितं पुण्यामोघवतीं नृप। न्यवसन्नथ तां रात्रि पाण्डवा हतशत्रवः॥ युधिष्ठिरस्ततो राजा प्राप्तकालमचिन्तयत्। तत्र ते गमनं प्राप्तं रोचते तव माधव॥ गान्धार्याः क्रोधदीप्तायाः प्रशमार्थमरिंदम। हेतुकारणयुक्तैश्च वाक्यैः कालसमीरितैः॥ क्षिप्रमेव महाभाग गान्धारी प्रशमिष्यसि। पितामहश्च भगवान् व्यासस्तत्र भविष्यति॥ वैशम्पायन उवाच ततः सम्प्रेषयामासुर्यादवं नागसाह्वयम्। स च प्रायाजवेनाशुः वासुदेवः प्रतापवान्॥ दारुकं रथमारोप्य येन राजाम्बिकासुतः। तमूचुः सम्प्रयास्यन्तं शैव्यसुग्रीववाहनम्॥ प्रत्याश्वासय गान्धारी हतपुत्रां यशस्विनीम्। स प्रायात् पाण्डवैरुक्तस्तत् पुरं सात्वतां वरः॥ आससाद ततः क्षिप्रं गान्धारीं निहतात्मजाम्॥ जनमेजय उवाच किमर्थं द्विजशार्दूलं धर्मराजो युधिष्ठिरः। गान्धार्याः प्रेषयामास वासुदेवं परंतपम्॥ यदा पूर्वं गतः कृष्णः शमार्थं कौरवान् प्रति। न च तं लब्धवान् कामं ततो युद्धमभूदिदम्॥ निहतेषु तु योधेषु हते दुर्योधने तदा। पृथिव्यां पाण्डवेयस्य नि:सपत्ने कृते युधि॥ विद्रुते शिबिरे शून्ये प्राप्ते यशसि चोत्तमे। किं न तत् कारणं ब्रह्मन् येन कृष्णो गतः पुनः॥ न चैतत् कारपां ब्रह्मनल्पं विप्रतिभाति मे। यत्रागमदमेयात्मा स्वयमेव जनार्दनः॥ तत्त्वतो वै समाचक्ष्व सर्वमध्वर्युसत्तम। यचात्र कारणं ब्रह्मन् कार्यस्यास्य विनिश्चये॥ वैशम्पायन उवाच त्वयुक्तोऽयमनुप्रश्नो यन्मां पृच्छसि पार्थिव। तत्तेऽहं सम्प्रवक्ष्यामि यथावद् भरतर्षभ।॥ हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे। व्युत्क्रम्य समयं राजन् धार्तराष्ट्र महाबलम्॥ अन्यायेन हतं दृष्ट्वा गदायुद्धेन भारत। युधिष्ठिरं महाराज महद् भयमथाविशत्॥ चिन्तयानो महाभागं गान्धारी तपसान्विताम्। घोरेण तपसा युक्तां त्रैलोक्यमपि सा दहेत्॥ तस्य चिन्तयमानस्य बुद्धिः समभवत् तदा। गान्धार्याः क्रोधदीसाया पूर्वं प्रशमनं भवेत्॥ सा हि पुत्रवधं श्रुत्वा कृतमस्माभिरीदृशम्। मानसेनाग्निना क्रुद्धा भस्मसान्न: करिष्यति॥ कथं दुःखमिदं तीव्र गान्धारी सा सहिष्यति। श्रुत्वा विनिहतं पुत्रं छलेनाजिह्मयोधिनम्॥ एवं विचिन्त्य बहुधा भयशोकसमन्वितः। वासुदेवमिदं वाक्यं धर्मराजोऽभ्यभाषत॥ तव प्रसादाद् गोविन्द राज्यं निहतकण्टकम्। अप्राप्यं मनसापीदं प्राप्तमस्माभिरच्युत॥ प्रत्यक्षं मे महाबाहो संग्रामे लोमहर्षणे। विमर्दः सुमहान् प्राप्तस्त्वया यादवनन्दन॥ त्वया देवासुरे युद्धे वधार्थममरद्विषाम्। यथा साह्यं पुरा दत्तं हताश्च विबुधद्विषः॥ साह्यं तथा महाबाहो दत्तमस्माकमच्युत। सारथ्येन च वार्ष्णेय भवता हि धृता वयम्॥ यदि न त्वं भवेर्नाथ: फाल्गुनस्य महारणे। कथं शक्यो रणे जेतुं भवेदेष बलार्णवः॥ गदाप्रहारा विपुलाः परिधैश्चापि ताडनम्। शक्तिभिर्भिन्दिपालैश्च तोमरैः सपरश्वधैः॥ अस्मत्कृते त्वया कृष्ण वाचः सुपरुषाः श्रुताः। शस्त्राणां च निपाता वै वस्पर्शोपमा रणे॥ ते च ते सफला जाता हते दुर्योधनेऽच्युत। तत्सर्वं न यथा नश्येत् क्रोधं बुद्ध्यस्व माधव॥ सा हि नित्यं महाभाग तपसोग्रेण कर्शिता। पुत्रपौत्रवधं श्रुत्वा ध्रुवं नः सम्प्रधक्ष्यति॥ तस्याः प्रसादनं वीर प्राप्तकालं मतं मम। कश्च तां क्रोधताम्राक्षी पुत्रव्यसनकर्शिताम्॥ वीक्षितुं पुरुषः शक्तस्त्वामृते पुरुषोत्तम। तत्र मे गमनं प्राप्तं रोचते तव माधव॥ गान्धार्याः क्रोधदीप्तायाः प्रशमार्थमरिंदम। त्वं हि कर्ता विकर्ता च लोकानां प्रभवाव्ययः॥ हेतुकारणसंयुक्तैर्वाक्यैः कालसमीरितैः। क्षिप्रमेव महाबाहो गान्धारी शमयिष्यसि॥ पितामहश्च भगवान् कृष्णस्तत्र भविष्यति। सर्वथा ते महाबाहो गान्धार्याः क्रोधनाशनम्॥ कर्तव्यं सात्वतां श्रेष्ठ पाण्डवानां हितार्थिना। धर्मराजस्य वचनं श्रुत्वा यदुकुलोद्वहः॥ आमन्त्र्य दारुकं प्राह रथः सजो विधीयताम्। केशवस्य वचः श्रुत्वा त्वरमाणोऽथ दारुकः॥ न्यवेदयद् रथं सज्जे केशवाय महात्मने। तं रथं यादवश्रेष्ठः समारुह्य परंतपः॥ जगाम हास्तिनपुरं त्वरितः केशवो विभुः। ततः प्रायान्महाराज माधवो भगवान् रथी॥ नागसाह्वयमासाद्य प्रविवेश न वीर्यवान्। प्रविश्य नगरं वीरो रथघोषेण नादयन्॥ विदितो धृतराष्ट्रस्य सोऽवतीर्य रथोत्तमात्। अभ्यगच्छददीनात्मा धृतराष्ट्रनिवेशनम्॥ पूर्वं चाभिगतं तत्र सोऽपश्यदृषिसत्तमम्। पादौ प्रपीड्य कृष्णस्य राज्ञश्चापि जनार्दनः॥ अभ्यवादयदव्यग्रो गान्धारीं चापि केशवः। ततस्तु यादवश्रेष्ठो धृतराष्ट्रमधोक्षजः॥ पाणिमालम्ब्य राजेन्द्र सुस्वरं प्ररुरोद ह। स मुहूर्तादिवोत्सृज्य बाष्पं शोकसमुद्भवम्॥ प्रक्षाल्य वारिणा नेत्रे ह्याचम्य च यथाविधि। उवाच प्रस्तुतं वाक्यं धृतराष्ट्रमरिंदमः॥ न तेऽस्त्यविदितं किंचिद् वृद्धस्य तव भारत। कालस्य च यथावृत्तं तत् ते सुविदितं प्रभो॥ यदिदं पाण्डवैः सर्वैस्तव चित्तानुरोधिभिः। कथं कुलक्षयो न स्यात्तथा क्षत्रस्य भारत॥ भ्रातृभिः समयं कृत्वा क्षान्तवान् धर्मवत्सलः। द्यूतच्छलजितैः शुद्धर्वनवासो ह्युपागतः॥ अज्ञातवासचर्या च नानावेषसमावृतैः। अन्ये च बहवः केशात् त्वशक्तैरिव सर्वदा॥ मया च स्वयमागम्य युद्धकाल उपस्थिते। सर्वलोकस्य सांनिध्ये ग्रामांस्त्वं पञ्च याचितः॥ त्वया कालोपसृष्टेन लोभतो नापवर्जिताः। तवापराधान्नृपते सर्वं क्षत्रं क्षयं गतम्॥ भीष्मेण सोमदत्तेन बाह्लीकेन कृपेण च। द्रोणेन च सपुत्रेण विदुरेण च धीमता॥ याचितस्त्वं शमं नित्यं न च तत्कृतवानसि। कालोपहतचित्ता हि सर्वे मुह्यन्ति भारत॥ यथा मूढो भवान् पूर्वमस्मिन्नर्थे समुद्यते। किमन्यत् कालयोगाद्धि दिष्टमेव परायणम्॥ मा च दोषान् महाप्राज्ञ पाण्डवेषु निवेशय। अल्पोऽप्यतिक्रमो नास्ति पाण्डवानां महात्मनाम्॥ धर्मतो न्यायतश्चैव स्नेहतश्च परंतप। एतत् सर्वं तु विज्ञाय ह्यात्मदोषकृतं फलम्॥ असूयां पाण्डुपुत्रेषु न भवान् कर्तुमर्हति। कुलं वंशश्च पिण्डाश्च यच्च पुत्रकृतं फलम्॥ गान्धार्यास्तव वै नाथ पाण्डवेषु प्रतिष्ठितम्। त्वं चैव कुरुशार्दूल गान्धारी च यशस्विनी॥ मा शुचो नरशार्दूल पाण्डवान् प्रति किल्बिषम्। एतत्सर्वमनुध्याय आत्मनश्च व्यतिक्रमम्॥ शिवेन पाण्डवान् पाहि नमस्ते भरतर्षभ। जानासि च महाबाहो धर्मराजस्य या त्वयि॥ भक्तिर्भरतशार्दूल स्नेहश्चापि स्वभावतः। एतच कदनं कृत्वा शत्रूणामपकारिणाम्॥ दह्यते स दिवा रात्रौ न च शर्माधिगच्छति। त्वां चैव नरशार्दूल गान्धारीं च यशस्विनीम्॥ स शोचन् नरशार्दूल: शान्तिं नैवाधिगच्छति। हिया च परयाऽऽविष्टो भवन्तं नाधिगच्छति॥ पुत्रशोकाभिसंतप्तं बुद्धिव्याकुलतेन्द्रियम्। एवमुक्त्वा महाराज धृतराष्ट्र यदूत्तमः॥ उवाच परमं वाक्यं गान्धारी शोककर्शिताम्। सौबलेयि निबोध त्वं यत् त्वां वक्ष्यामि तच्छृणु॥ त्वत्समा नास्ति लोकेऽस्मिन्नद्य सीमन्तिनी शुभे। जानासि च यथा राज्ञि सभायां मम संनिधौ॥ धर्मार्थसहितं वाक्यमुभयोः एक्षयोर्हितम्। उक्तवत्यसि कल्याणि न च ते तनयः कृतम्॥ दुर्योधनस्त्वया चोक्तो जयार्थी परुषं वचः। शृणु मूढ वचो मह्यं यतो धर्मस्ततो जयः॥ तदिदं समनुप्राप्तं तव वाक्यं नृपात्मजे। एवं विदित्वा कल्याणि मा स्म शोके मनः कृथाः॥ पाण्डवानां विनाशाय मा ते बुद्धिः कदाचन। शक्ता चासि महाभागे पृथिवीं सचराचराम्॥ चक्षुषा क्रोधदीप्तेन निर्दग्धुं तपसो बलात्। वासुदेववचः श्रुत्वा गान्धारी वाक्यमब्रवीत्॥ एवमेतन्महाबाहो यथा वदसि केशव। आधिभिर्दह्यमानाया मति: संचलिता मम॥ सा मे व्यवस्थिता श्रुत्वा तव वाक्यं जनार्दन। राज्ञस्त्वन्धस्य वृद्धस्य हतपुत्रस्य केशव॥ त्वं गतिः सहितैर्वीरैः पाण्डवैर्द्विपदां वर। एतावदुक्त्वा वचनं मुखं प्रच्छाद्य वाससा॥ पुत्रशोकाभिसंतप्ता गान्धारी प्ररुरोद ह। तत एनां महाबाहुः केशवः शोककर्शिताम्॥ हेतुकारणसंयुक्तैर्वाक्यैराश्वासयत् प्रभुः। समाश्वास्य च गान्धारी धृतराष्ट्रं च माधवः॥ द्रौणिसंकल्पितं भावमवबुद्ध्यत् केशवः। ततस्त्वरित उत्थाय पादौ मूर्धा प्रणम्य च॥ द्वैपायनस्य राजेन्द्र ततः कौरवमब्रवीत्। आपृच्छे त्वां कुरुश्रेष्ठ मा च शोके मनः कृथाः॥ द्रौणेः पापोऽस्त्यभिप्रायस्तेनास्मि सहसोत्थितः पाण्डवानां वधे रात्रौ बुद्धिस्तेन प्रदर्शिता॥ एतच्छुत्वा तु वचनं गान्धार्या सहितोऽब्रवीत्। धृतराष्ट्रो महाबाहुः केशवं केशिसूदनम्॥ शीघ्रं गच्छ महाबाहो पाण्डवान् परिपालय। भूयस्त्वया समेष्यामि क्षिप्रमेव जनार्दन॥ प्रायात् ततस्तु त्वरितो दारुकेण सहाच्युतः। वासुदेवे गते राजन् धृतराष्ट्र जनेश्वरम्॥ आश्वासयदमेयात्मा व्यासो लोकनमस्कृतः। वासुदेवोऽपि धर्मात्मा कृतकृत्यो जगाम ह॥ शिबिर हास्तिनपुराद् दिदृक्षुः पाण्डवान् नृप। आगम्य शिबिरं सोऽभ्यगच्छत पाण्डवान्। तच तेभ्यः समाख्याय सहितस्तैः समाहितः॥ संजय उवाच वार्तिकाणां सकाशात् तु श्रुत्वा दुर्योधनं हतम्। हतशिष्टास्ततो राजन् कौरवाणां महारथाः॥ विनिर्भिन्नाः शितैर्बाणैर्गदातोमरशक्तिभिः। अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः॥ त्वरिता जवनैरश्वैरायोधनमुपागमन्। तत्रापश्यन् महात्मानं धार्तराष्ट्र निपातितम्॥ प्रभग्नं वायुवेगेन महाशालं यथा वने। भूमौ विचेष्टमानं तं रुधिरेण समुक्षितम्॥ महागजमिवारण्ये व्याधेन विनिपातितम्। विवर्तमानं वहुशो रुधिरौधपरिप्लुतम्॥ यदृच्छया निपतितं चक्रमादित्यगोचरम्। महावातसमुत्थेन संशुष्कमिव सागरम्॥ पूर्णचन्द्रमिव व्योम्नि तुषारावृतमण्डलम्। रेणु ध्वस्तं दीर्घभुजं मातङ्गमिव विक्रमे॥ वृतं भूतगणैोरैः क्रव्यादैश्च समन्ततः। यथा धनं लिप्समानैर्भूत्यैर्नृपतिसत्तमम्॥ भृकुटीकृतवक्त्रान्तं क्रोधादुवृत्तचक्षुषम्। सामर्षं तं नरव्याघ्रं व्याघ्रं निपतितं यथा।॥ ते तं दृष्ट्वा महेष्वासं भूतले पतितं नृपम्। मोहमभ्यागमन् सर्वे कृपप्रभृतयो रथाः।। १० । अवतीर्य रथेभ्यश्च प्राद्रवन् राजसंनिधौ। दुर्योधनं च सम्प्रेक्ष्य सर्वे भीमावुपाविशन्॥ ततो द्रौणिर्महाराज बाष्पपूर्णेक्षणः श्वसन्। उवाच भरतश्रेष्ठं सर्वलोकेश्वरेश्वरम्॥ न नूनं विद्यते सत्यं मानुषे किंचिदेव हि। यत्र त्वं पुरुषव्याघ्र शेषे पांसुषु रूषितः॥ भूत्वा हि नृपतिः पूर्वं समाज्ञाप्य च मेदिनीम्। कथमेकोऽद्य राजेन्द्र तिष्ठसे निर्जने वने।॥ दुःशासनं न पश्यामि नापि कर्णं महारथम्। नापि तान् सुहृदः सर्वान् किमिदं भरतर्षभ॥ दुःखं नूनं कृतान्तस्य गतिं ज्ञातुं कथंचन। लोकानां च भवान् यत्र शेषे पांसुषु रूषितः॥ एष मूर्धाभिषिक्तानामग्रे गत्वा परंतपः। सतृणं ग्रसते पांसुं पश्य कालस्य पर्ययम्॥ क्व ते तदमलं छत्रं व्यजनं क्व च पार्थिव। सा च ते महतीं सेनां क्व गता पार्थिवोत्तमा॥ दुर्विज्ञेया गतिर्नूनं कार्याणां कारणान्तरे। यद् वै लोकगुरुर्भूत्वा भवानेतां दशां गतः॥ अध्रुवा सर्वमत्र्येषु श्रीरूपालक्ष्यते भृशम्। भवतो व्यसनं दृष्ट्वा शक्रविस्पर्धिनो भृशम्॥ तस्य तद् वचनं श्रुत्वा दुःखितस्य विशेषतः। उवाच राजन् पुत्रस्ते प्राप्तकालमिदं वचः॥ विमृज्य नेत्रे पाणिभ्यां शोकजं वाष्पमुत्सृजन्। कृपादीन् स तदा वीरान् सर्वानेव नराधिपः॥ ईदृशो लोकधर्मोऽयं धात्रा निर्दिष्ट उच्यते। विनाशः सर्वभूतानां कालपर्यायमागतः॥ सोऽयं मां समनुप्राप्तः प्रत्यक्षं भवतां हि यः। पृथिवीं पालयित्वाऽहमेतां निष्ठामुपागतः॥ दिष्ट्या नाहं परावृत्तो युद्धे कस्यांचिदापदि। दिष्ट्याहं निहतः पापैश्छलनैव विशेषतः॥ उत्साहश्च कृतो नित्यं मया दिष्ट्या युयुत्सता। दिष्ट्या चास्मिन् हतो युद्धे निहतज्ञातिबान्धवः॥ दिष्ट्या च वोऽहं पश्यामि मुक्तानस्माजनक्षयात्। स्वस्तियुक्तांश्च कल्यांश्च तन्मे प्रियमनुत्तमम्॥ मा भवन्तो तप्यन्तां सौहृदानिधनेन मे। यदि वेदाः प्रमाणं वो जिता लोका मयाक्षयाः॥ मन्यमानः प्रभावं च कृष्णस्यामिततेजसः। तेन न च्यावितश्चाहं क्षत्रधर्मात् स्वनुष्ठितात्॥ स मया समनुप्राप्तो नास्मि शोच्यः कथंचन। कृतं भवद्भिः सदृशमनुरूपमिवात्मनः॥ यतितं विजये नित्यं दैवं तु दुरतिक्रमम्। एतावदुक्त्वा वचनं वाष्पव्याकुललोचनः॥ तूष्णीं बभूव राजेन्द्र रुजासौ विह्वलो भृशम्। तथा दृष्ट्वा तु राजानं बाष्पशोकसमन्वितम्॥ द्रौणिः क्रोधेन जज्वाल यथा वह्निर्जगत्क्षये। सच क्रोधसमाविष्टः पाणौ पाणिं निपीड्य च॥ बाष्पविह्वलया वाचा राजानमिदमब्रवीत्। पिता मे निहतः क्षुद्रैः सुनृशंसेन कर्मणा॥ न तथा तेन तप्यामि यथा राजंस्त्वयाऽद्य वै। शृणु चेदं वचो मह्यं सत्येन वदतः प्रभो॥ इष्टापूर्तेन दानेन धर्मेण सुकृतेन च। अद्याहं सर्वपञ्चालान् वासुदेवस्य. पश्यतः॥ सर्वोपायैर्हि नेष्यामि प्रेतराजनिवेशनम्। अनुज्ञां तु महाराज भवान् मे दातुमर्हति॥ इति श्रुत्वा तु वचनं द्रोणपुत्रस्य कौरवः। मनसः प्रीतिजननं कृपं वचनमब्रवीत्॥ आचार्य शीघ्रं कलशं जलपूर्ण समानय। स तद् वचनमाज्ञाय राज्ञो ब्राह्मणसत्तमः॥ कलशं पूर्णमादाय राज्ञोऽन्तिकमुपागमत्। तमब्रवीन्महाराज पुत्रस्तव विशाम्पते॥ ममाज्ञया द्विजश्रेष्ठ द्रोणपुत्रोऽभिषिच्यताम्। सैनापत्येन भद्रं ते मम चेदिच्छसि प्रियम्॥ राज्ञो नियोगाद् योद्धव्यं ब्राह्मणेन विशेषतः। वर्तता क्षत्रधर्मेण ह्येवं धर्मविदो विदुः॥ राज्ञस्तु वचनं श्रुत्वा कृपः शारद्वतस्तथा। द्रौणि राज्ञो नियोगेन सैनापत्येऽभ्यषेचयत्॥ सोऽभिषिक्तो महाराज परिष्वज्य नृपोत्तमम्। प्रययौ सिंहनादेन दिशः सर्वा विनादयन्॥ दुर्योधनोऽपि राजेन्द्र शोणितेन परिप्लुतः। तां निशां प्रतिपेदेऽथ सर्वभूतभयावहाम्॥ अपक्रम्य तु ते तूर्णं तस्मादायोधनानृप। शोकसंविग्नमनसश्चिन्ताध्यानपराऽभवन्॥ कृप उवाच श्रुतं ते वचनं सर्वं यद् यदुक्तं त्वया विभो। ममापि तु वचः किंचिच्छृणुष्वाद्य महाभुजा. १॥ आबद्धा मानुषाः सर्वे निबद्धाः कर्मणोर्द्वयोः। दैवे पुरुषकारे च परं ताभ्यां न विद्यते॥ न हि दैवेन सिध्यन्ति कार्याण्येकेन सत्तम। न चापि कर्मणैकेन द्वाभ्यां सिद्धस्तु योगतः॥ ताभ्यामुभाभ्यां सर्वार्था निबद्धा अधमोत्तमाः। प्रवृत्ताश्चैव दृश्यन्ते निवृत्ताश्चैव सर्वशः॥ पर्जन्यः पर्वते वर्षन् किन्नु साधयते फलम्। कृष्ट क्षेत्रे तथा वर्षन् किन्न साधयते फलम्॥ उत्थानं चाप्यदैवस्य ह्यनुत्थानं च दैवतम्। ब्र्यं भवति सर्वत्र पूर्वस्तत्र विनिश्चयः॥ सुवृष्टे च यथा देवे सम्यक् क्षेत्रे च कर्षिते। बीजं महागुणं भूयात् तथा सिद्धिर्हि मानुषी॥ तयोर्दैवं विनिश्चित्य स्वयं चैव प्रवर्तते। प्राज्ञाः पुरुषकारेषु वर्तन्ते दाक्ष्यमाश्रिताः॥ ताभ्यां सर्वे हि कार्यार्था मनुष्याणां नरर्षभ। विचेष्टन्तः स्म दृश्यन्ते निवृत्तास्तु तथैव च।॥ कृतः पुरुषकारश्च सोऽपि दैवेन सिध्यति। तथास्य कर्मणः कर्तुरभिनिवर्तते फलम्॥ उत्थानं च मनुष्याणां दक्षाणां दैववर्जितम्। अफलं दृश्यते लोके सम्यगप्युपपादितम्॥ तत्रालसा मनुष्याणां ये भवन्त्यमनस्विनः। उत्थानं ते विगर्हन्ति प्राज्ञानां तन्न रोचते॥ प्रायशो हि कृतं कर्म नाफलं दृश्यते भुवि। अकृत्वा च पुनर्दुःखं कर्म पश्येन्महाफलम्॥ चेष्टामकुर्वल्लभते यदि किंचिद् यदृच्छया। यो वा न लभते कृत्वा दुर्दर्शी तावुभावपि॥ शक्नोति जीवितुं दक्षो नालसः सुखमेधते। दृश्यन्ते जीवलोकेऽस्मिन् दक्षाः प्रायो हितैषिणः॥ १५ यदि दक्षः समारम्भात् कर्मणो नाश्नुते फलम्। नास्य वाच्यं भवेत् किंचिल्लब्धव्यं वाधिगच्छति॥ अकृत्वा कर्म यो लोके फलं विन्दति धिष्ठितः। स तु वक्तव्यतां याति द्वेष्यो भवति भूयशः॥ एवमेतदनादृत्य वर्तते यस्त्वतोऽन्यथा। स करोत्यात्मनोऽनर्थानेष बुद्धिमतां नयः॥ हीनं पुरुषकारेण यदि दैवेन वा पुनः। कारणाभ्यामथैताभ्यामुत्थानमफलं भवेत्॥ हीनं पुरुषकारेण कर्म त्विह न सिद्ध्यति। दैवतेभ्यो नमस्कृत्य यस्त्वर्थान् सम्यगीहते॥ दक्षो दाक्षिण्यसम्पन्नो न स मोधैर्विहन्यते। सम्यगीहा पुनरियं यो वृद्धानुपसेवते॥ आपृच्छति च यच्छ्रेयः करोति च हितं वचः। उत्थायोत्थाय हि सदा प्रष्टव्या वृद्धसम्मताः॥ ते स्म योगे परं मूलं तन्मूला सिद्धिरुच्यते। वृद्धानां वचनं श्रुत्वा योऽभ्युत्थानं प्रयोजयेत्॥ उत्थानस्य फलं सम्यक् तदा स लभतेऽचिरात्। रागात् क्रोधाद् भयाल्लोभाद् योऽर्थानीहति मानवः॥ अनीशचावमानी च स शीघ्रं भ्रश्यते श्रियः। सोऽयं दुर्योधनेनार्थो लुब्धेनादीर्घदर्शिना॥ असमर्थ्य समारब्धो मूढत्वादविचिन्ततः। हितबुद्धीननादृत्य सम्मन्त्रसाधुभिः सह॥ वार्यमाणोऽकरोद् वैरं पाण्डवैर्गुणवत्तरैः। पूर्वमप्यतिदुःशीलो न धैर्यं कर्तुमर्हति॥ तपत्यर्थे विपन्ने हि मित्राणां न कृतं वचः। अनुवर्तामहे यत्तु तं वयं पापपूरुषम्॥ अस्मानप्यनयस्तस्मात् प्राप्तोऽयं दारुणो महान्। अनेन तु ममाद्यापि व्यसनेनोपतापिता॥ बुद्धिश्चिन्तयते किंचित् स्वं श्रेयो नावबुद्ध्यते। मुह्यता तु मनुष्येण प्रष्टव्याः सुहृदो जनाः॥ तत्रास्य बुद्धिर्विनयस्तत्र श्रेयश्च पश्यति। ततोऽस्य मूलं कार्याणां बुद्ध्या निश्चित्य वै बुधाः॥३१ तेऽत्र पृष्टा यथा ब्रूयुस्तत् कर्तव्यं तथा भवेत्। ते वयं धृतराष्ट्रं च गान्धारी च समेत्य ह॥ उपपृच्छामहे गत्वा विदुरं च महामतिम्। ते पृष्टास्तु वदेयुर्यच्छ्रेयो नः समनन्तरम्॥ तदस्माभिः पुनः कार्यमिति मे नैष्ठिकी मतिः। अनारम्भात् तु कार्याणां नार्थः सम्पद्यते क्वचित्॥ कृते पुरुषकारे तु येषां कार्यं न सिद्ध्यति। दैवेनोपहतास्ते तु नात्र कार्या विचारणा॥ संजय उवाच कृपस्य वचनं श्रुत्वा धर्मार्थसहितं शुभम्। अश्वत्थामा महाराज दुःखशोकसमन्वितः॥ दह्यमानस्तु शोकेन प्रदीप्तेनाग्निना यथा। क्रूरं मनस्ततः कृत्वा तावुभौ प्रत्यभाषत॥ पुरुषे पुरुषे बुद्धिर्या या भवति शोभना। तुष्यन्ति च पृथक् सर्वे प्रज्ञया स्वया स्वया।॥ सर्वो हि मन्यते लोक आत्मानं बुद्धिमत्तरम्। सर्वस्यात्मा बहुमतः सर्वात्मानं प्रशंसति॥ ते सर्वस्य हि स्वका प्रज्ञा साधुवादे प्रतिष्ठिता। परबुद्धिं च निन्दन्ति स्वां प्रशंसन्ति चासकृत्॥ कारणान्तरयोगेन योगे येषां समागतिः। अन्योन्येन च तुष्यन्ति बहु मन्यन्ति चासकृत्॥ तस्यैव तु मनुष्यस्य सा सा बुद्धिस्तदा तदा। कालयोगे विपर्यासं प्राप्यान्योन्यं विपद्यते॥ विचित्रत्वात् तु चित्तानां मनुष्याणां विशेषतः। चित्तवैक्लव्यमासाद्य सा सा बुद्धिः प्रजायते॥ यथा हि वैद्यः कुशलो ज्ञात्वा व्याधि यथाविधि। भैषज्यं कुरुते योगात् प्रशमार्थमिति प्रभो॥ एवं कार्यस्य योगार्थं बुद्धिं कुर्वन्ति मानवाः। प्रज्ञया हि स्वया युक्तास्तां च निन्दन्ति मानवाः॥ अन्यया यौवने मयों बुद्ध्या भवति मोहितः। मध्येऽन्यया जरायां तु सोऽन्यां रोचयते मतिम्॥ व्यसनं वा महाघोरं समृद्धिं चापि तादृशीम्। अवाप्य पुरुषो भोज कुरुते बुद्धिवैकृतम्॥ एकस्मिन्नेव पुरुषे सा सा बुद्धिस्तदा तदा। भवत्यकृतधर्मत्वात् सा तस्यैव न रोचते॥ निश्चित्य तु यथाप्रज्ञं या मतिं साधु पश्यति। तया प्रकुरुते भवं सा तस्योद्योगकारिका॥ सर्वो हि पुरुषो भोज साध्वेतदिति निश्चितः। कर्तुमारभते प्रीतो मारणादिषु कर्मसु॥ सर्वे हि बुद्धिमाज्ञाय प्रज्ञां वापि स्वकां नराः। चेष्टन्ते विविधां चेष्टां हितमित्येव जानते॥ उपजाता व्यसनजा येयमद्य मतिर्ममा युवयोस्तां प्रवक्ष्यामि मम शोकविनाशिनीम्॥ प्रजापतिः प्रजाः सृष्ट्वा कर्म तासु विधाय च। वर्णे वर्णे समाधत्ते ह्येकैकं गुणभाग गुणम्॥ ब्राह्मणे वेदमग्रयं तु क्षत्रिये तेज उत्तमम्। दाक्ष्य वैश्ये च शूद्रे च सर्ववर्णानुकूलताम्॥ अदान्तो ब्राह्मणोऽसाधुनिस्तेजाः क्षत्रियोऽधमः। अदक्षो निन्द्यते वैश्यः शूद्रश्च प्रतिकूलवान्॥ सोऽस्मि जात: कुले श्रेष्ठे ब्राह्मणानां सुपूजिते। मन्दभाग्यतयास्म्येतं क्षत्रधर्ममनुष्ठितः॥ क्षत्रधर्मं विदित्वाहं यदि ब्राह्मण्यमाश्रितः। प्रकुर्यां सुमहत् कर्म न मे तत् साधुसम्मतम्॥ धारयंश्च धनुर्दिव्यं दिव्यान्यस्त्राणि चाहवे। पितरं निहतं दृष्ट्वा किं नु वक्ष्यामि संसदि॥ सोऽहमद्य यथाकामं क्षत्रधर्ममुपास्य तम्। गन्तास्मि पदवीं राज्ञः पितुश्चापि महात्मनः॥ अद्य स्वप्स्यन्ति पञ्चाला विश्वस्ता जितकाशिनः। विमुक्तयुग्यकवचा हर्षेण च समन्विताः॥ जयं मत्वाऽऽत्मनश्चैत श्रान्ता व्यायामकर्शिताः। तेषां निशि प्रसुप्तानां सुस्थानां शिविरे स्वके॥ अवस्कन्दं करिष्यामि शिविरस्याद्य दुष्करम्। तानवस्कन्द्य शिविरे प्रेतभूतविचेतसः॥ सूदयिष्यामि विक्रम्य मघवानिव दानवान्। अद्य तान् सहितान् सर्वान् धृष्टद्युम्नपुरोगमान्॥ सूदयिष्यामि विक्रम्य कक्षं दीप्त इवानलः। निहत्य चैव पञ्चालान् शन्तिं लब्धास्मि सत्तम॥ पञ्चालेषु भविष्यामि सूदयन्नद्य संयुगे। पिनाकपाणिः संक्रुद्धः स्वयं रुद्रः पशुष्विव॥ अद्याहं सर्वपञ्चालान् निहत्य च निकृत्य च। अर्दयिष्यामि संहृष्टो रणे पाण्डुसुतांस्तथा॥ अद्याहं सर्वपञ्चालैः कृत्वा भूमिं शरीरिणीम्। प्रहत्यैकैकशस्तेषु भविष्याम्यनृणः पितुः॥ दुर्योधनस्य कर्णस्य भीष्मसैन्धवयोरपि। गमयिष्यामि पञ्चालान् पदवीमद्य दुर्गमाम्॥ अद्य पाञ्चालराजस्य धृष्टद्युम्नस्य वै निशि। नचिरात् प्रमथिष्यामि पशोरिव शिरो बलात्॥ अद्य पाञ्चालपाण्डूनां शयितानात्मजान् निशि। खड्डेन निशितेनाजौ प्रमथिष्यामि गौतम अद्य पाञ्चालसेनां तां निहत्य निशि सौप्तिके। कृतकृत्यः सुखी चैव भविष्यामि महामते॥ कृप उवाच दिष्ट्या ते प्रतिकर्तव्य मतिर्जातेयमच्युत। न त्वं वारयितुं शक्तो वज्रपाणिरपि स्वयम्॥ अनुयास्यावहे त्वां तु प्रभाते सहितावुभौ। अद्य रात्रौ विश्रमस्व विमुक्तकवचध्वजः॥ अहं त्वामनुयास्यामि कृतवर्मा च सात्वतः। परानभिमुखं यान्तं रथावास्थाय दंशितौ॥ आवाभ्यां सहितः शत्रूश्वो निहन्ता समागमे। विक्रम्य रथिनां श्रेष्ठ पञ्चालान् सपदानुगान्॥ शक्तस्त्वमसि विक्रम्य विश्रमस्व निशामिमाम्। चिरं ते जाग्रत स्तात स्वप तावन्निशामिमाम्॥ विश्रान्तश्च विनिद्रश्च स्वस्थचित्तश्च मानद। समेत्य समरे शत्रून् वधिष्यसि न संशयः॥ न हि त्वं रथिनां श्रेष्ठं प्रगृहीतवरायुधम्। जेतुमुत्सहते शश्वदपि देवेषु वासवः॥ कृपेण सहितं यान्तं गुप्तं च कृतवर्मणा। को द्रौणिं युधि संरब्धं योधयेदपि देवराट्॥ ते वयं निशि विश्रान्ता विनिद्रा विगतज्वराः। प्रभातायां रजन्यां वै निहनिष्याम शात्रवान्॥ तव शस्त्राणि दिव्यानि मम चैव न संशयः। सात्वतोऽपि महेष्वासो नित्यं युद्धेषु कोविदः॥ ते वयं सहितास्तात सर्वाशत्रून् समागतान्। प्रसह्य समरे हत्वा प्रीतिं प्राप्स्याम पुष्कलाम्॥ विश्रमस्व त्वमव्यग्रः स्वप चेमां निशां सुखम्। अहं च कृतवर्मा च त्वां प्रयान्तं नरोत्तमम्॥ अनुयास्याव सहितौ धन्विनौ परतापनौ। रथिनं त्वरया यान्तं रथमास्थाय दंशितौ॥ स गत्वा शिविरं तेषां नाम विश्राव्य चाहवे। ततः कर्तासि शत्रूणां युध्यतां कदनं महत्॥ कृत्वा च कदनं तेषां प्रभाते विमलेऽहनि। विहरस्व यथा शक्रः सूदयित्वा महासुरान्॥ त्वं हि शक्तो रणे जेतुं पञ्चालान् वरूथिनीम्। दैत्यसेनामिव क्रुद्धः सर्वदानवसूदनः॥ मया त्वां सहितं संख्ये गुप्तं च कृतवर्मणा। न सहेत विभुः साक्षाद् वज्रपाणिरपि स्वयम्॥ न चाहं समरे तात कृतवर्मा न चैव हि। अनिर्जित्य रणे पाण्डून् न च यास्यामि कर्हिचित्।। १८ हत्वा च समरे क्रुद्धान् पञ्चालान् पाण्डुभिः सह। निवर्तिध्यामहे सर्वे हता वा स्वर्गगा वयम्॥ सर्वोपायैः सहायास्ते प्रभाते वयमाहवे। सत्यमेतन्महाबाहो प्रब्रवीमि तनावघ॥ एवमुक्तस्ततो द्रौणिर्मातुलेन हितं वचः। अब्रवीन्मातुलं राजन् क्रोधसंरक्तलोचनः॥ आतुरस्य कुतो निद्रा नरस्यामर्षितस्य च। अर्थाश्चिन्तयतश्चापि कामयानस्य वा पुनः। तदिदं समनुप्राप्तं पश्य मेऽद्य चतुष्टयम्॥ यस्य भागश्चतुर्थो मे स्वप्नमह्नाय नाशयेत्। किं नाम दुःखं लोकेऽस्मिन् पितुर्वधमनुस्मरन्॥ हृदयं निर्दहन्मेऽद्य रात्र्यहानि न शाम्यति। यथा च निहतः पापैः पिता मम विशेषतः॥ प्रत्यक्षमपि ते सर्वं तन्मे मर्माणि कृन्तति। कथं हि मादृशो लोके मुहूर्तमपि जीवति॥ द्रोणो हतेति यद्वाचः पञ्चालानां शृणोम्यहम्। धृष्टद्युम्नमहत्वा तु नाहं जीवितुमुत्सहे॥ स मे पितुर्वधाद् वध्यः पञ्चाला ये च संगताः। विलापो भग्नसक्थस्य यस्तु राज्ञो मया श्रुतः॥ स पुनर्हदयं कस्य क्रूरस्यापि न निर्दहेत्। कस्य ह्यकरुणस्यापि नेत्राभ्यामश्रु नाव्रजेत्॥ नृपतेर्भग्नसक्थस्य श्रुत्वा तादृग् वचः पुनः। यश्चायं मित्रपक्षो मे मयि जीवति निर्जितः॥ शोकं मे वर्धयत्येष वारिवेग इवार्णवम्। एकाग्रमनसो मेऽद्य कुतो निद्रा कुतः सुखम्॥ वासुदेवार्जुनाभ्यां च तानहं परिरक्षितान्। अविषह्यतमान् मन्ये महेन्द्रेणापि सत्तम॥ न चापि शक्तः संयन्तुं कोपमेतं समुत्थितम्। तं न पश्यामि लोकेऽस्मिन् यो मां कोपान्निवर्तयेत्।। तथैव निश्चिता बुद्धिरेषा साधु मता मम। वार्तिकैः कथ्यमानस्तु मित्राणां मे पराभवः॥ पाण्डवानां च विजयो हृदयं दहतीव मे। अहं तु कदनं कृत्वा शत्रूणामद्य सौप्तिके। ततो विश्रमिता चैव स्वप्ता च विगतज्वरः॥ कृप उवाच शुश्रूषुरपि दुर्मेधाः पुरुषोऽनियतेन्द्रियः। नालं वेदयितुं कृत्स्नौ धर्मार्थाविति मे मतिः॥ तथैव तावन्मेधावी विनयं यो न शिक्षते। न च किंचन जानाति सोऽपि धर्मार्थनिश्चयम्॥ चिरं ह्यपि जडः शूरः पण्डितं पर्युपास्य हि। न स धर्मान् विजानाति दर्वी सूपरसानिव॥ मुहूर्तमपि तं प्राज्ञः पण्डितं पर्युपास्य हि। क्षिप्रं धर्मान् विजानाति जिह्वा सूपरसानिव॥ शुश्रूषुस्त्वेव मेधावी पुरुषो नियतेन्द्रियः। जानीयादागमान् सर्वान् ग्राह्यं च न विरोधयेत्॥ अनेयस्त्ववमानी यो दुरात्मा पापपूरुषः। दिष्टमुत्सृज्य कल्याणं करोति बहुपापकम्॥ नाथवन्तं तु सुहृदः प्रतिषेधन्ति पातकात्। निवर्तते तु लक्ष्मीवान् नालक्ष्मीवान् निवर्तते॥ यथा ह्युचावचैर्वाक्यैः क्षिप्तचित्तो नियम्यते। तथैव सुहृदा शक्यो न शक्यस्त्ववसीदति॥ तथैव सुहृदं प्राज्ञं कुर्वाणं कर्म पापकम्। प्राज्ञाः सम्प्रतिषेधन्ति यथाशक्ति पुनः पुनः॥ स कल्याणे मनः कृत्वा नियम्यात्मानमात्मना। कुरु मे वचनं तात येन पश्चान्न तप्यसे॥ न वधः पूज्यते लोके सुप्तानामिह धर्मतः। तथैवापास्तशस्त्राणां विमुक्तरथवाजिनाम्॥ ये च ब्रूयुस्तवास्मीति ये च स्युः शरणागताः। विमुक्तमूर्धजा ये च ये चापि हतवाहनाः॥ अद्य स्वप्स्यन्ति पञ्चाला विमुक्तकवचा विभो। विश्वस्ता रजनी सर्वे प्रेता इव विचेतसः॥ यस्तेषां तदवस्थानां दुह्येत पुरुषोऽनृजुः। व्यक्तं स नरके मज्जेदगाधे विपुलेऽप्लवे॥ सर्वास्त्रविदुषां लोके श्रेष्ठस्त्वमसि विश्रुतः। न च ते जातु लोकेऽस्मिन् सुसूक्ष्ममपि किल्बिषम्।। १५ त्वं पुन: सूर्यसंकाशः श्वोभूत उदिते रवौ। प्रकाशे सर्वभूतानां विजेता युधि शात्रवान्॥ असम्भावितरूपं हि त्वयि कर्म विगर्हितम्। शुक्ले रक्तमिव न्यस्तं भवेदिति मतिर्मम॥ एवमेव यथाऽऽत्थ त्वं मातुलेह न संशयः। तैस्तु पूर्वमयं सेतुः शतधा विदलीकृतः॥ प्रत्यक्षं भूमिपाला भवतां चापि संनिधौ। न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः॥ कर्णश्च पतिते चक्रे रथस्य रथिनां वरः। उत्तम व्यसने मग्नो हतो गाण्डीवधन्वना॥ तथा शान्तनवो भीष्मो न्यस्तशस्त्रो निरायुधः। शिखण्डिनं पुरस्कृत्य हतो गाण्डीवधन्वना॥ भूरिश्रवा महेष्वासस्तथा प्रायगतो रणे। क्रोशतां भूमिपालानां युयुधानेन पातितः॥ दुर्योधनश्च भीमेन समेत्य गदया रणे। पश्यतां भूमिपालानामधर्मेण निपातितः॥ एकाकी बहुभिस्तत्र परिवार्य महारथैः। अधर्मेण नरव्याघ्रो भीमसेनेन पातितः॥ विलापो भग्नसक्थस्य यो मे राज्ञः परिश्रुतः। वार्तिकाणां कथयतां स मे मर्माणि कृन्तति॥ एवं चाधार्मिकाः पापाः पञ्चाला भिन्नसेतवः। तानेवं भिन्नमर्यादान् किं भवान् न निगर्हति॥ पितृहन्तनहं हत्वा पञ्चालान् निशि सौप्तिके। कामं कीटः पतङ्गो वा जन्म प्राप्य भवामि वै॥ त्वरे चाहमनेनाद्य यदिदं मे चिकीर्षितम्। तस्य मे त्वरमाणस्य कुतो निद्रा कुतः सुखम्॥ न स जातः पुमाँल्लोके कश्चिन्न स भविष्यति। यो मे व्यावर्तयेदेतां वधे तेषां कृतां मतिम्॥ एवमुक्त्वा महाराज द्रोणपुत्रः प्रतापवान्। एकान्ते योजयित्वाश्वान् प्रायादभिमुखः परान्॥ तमबूतां महात्मनौ भोजशारद्वतावुभौ। किमर्थंस्यन्दनो युक्तः किञ्च कार्यं चिकीर्षितम्॥ एकसार्थप्रयातौ स्वस्त्वया सह नरर्षभ। समदुःखसुखौ चापि नावां शङ्कितुमर्हसि॥ अश्वत्थामा तु संक्रुद्धः पितर्वधमनुस्मरन्। ताभ्यां तथ्यंऽऽचख्यौ यदस्यात्मचिकीर्षितम्॥ हत्वा शतसहस्राणि निशितैः शरैः। न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः॥ तं तथैव हरिष्यामि न्यस्तधर्माणमद्य वै। पुत्रं पाञ्चालराजस्य पापं पापेन कर्मणा॥ कथं च निहतः पापः पाञ्चाल्यः पशुवन्मया। शस्त्रेण विजिताँल्लोकान् नाप्नुयादिति मे मति॥ क्षिप्रं संनद्धकवचौ सखड्गावात्तकार्मुकौ। मामास्थाय प्रतीक्षेतां रथवौ परंतपौ॥ इत्युक्त्वा रथमास्थाय प्रायदभिमुखः परान्। तपन्वगात् कृपो राजन् कृतवर्मा च सात्वतः॥ ते प्रयाता व्यरोचन्त परानभिमुखास्त्रयः। हूयमाना यथा यज्ञे समिद्धा हव्यवाहनाः॥ ययुश्च शिविरं तेषां सम्प्रसुप्तजनं विभो। द्वारदेशं तु सम्प्राप्य द्रौणिस्तस्थौ महारथः॥ धृतराष्ट्र उवाच द्वारदेशे ततो द्रौणिमवस्थितमवेक्ष्य तौ। अकुर्वातां भोजकृपौ किं संजय वदस्व मे॥ संजय उवाच कृतवर्माणमामन्त्र्य कृपं च स महारथः। द्रौणिर्मन्युपरीतात्मा शिविरद्वारमागमत्॥ तत्र भूतं महाकायं चन्द्रार्कसदृशद्युतिम्। सोऽपश्यद् द्वारमाश्रित्य तिष्ठन्तं लोमहर्षणम्॥ वसानं चर्म वैयाघ्रं महारुधिरविस्रवम्। कृष्णाजिनोत्तरासङ्गं नागयज्ञोपवीतिनम्॥ बाहुभिः स्वायतैः पीनैर्नानाप्रहरणोद्यतैः। बद्धाङ्गदमाहासर्प ज्वालामालाकुलाननम्॥ दंष्ट्राकरलवदनं व्यादितास्यं भयानकम्। नयनानां सहस्त्रैश्च विचित्रैरभिभूषितम्॥ नैव तस्य वपुः शक्यं प्रवक्तुं वेष एव च। सर्वथा तु तदालक्ष्य स्फुटेयुरपि पर्वताः॥ तस्यास्यान्नासिकाभ्यां च श्रवणाभ्यां च. सर्वशः। तेभ्यश्चाक्षिसहस्रेभ्यः प्रादुरासन महार्चिषः॥ तथा तेजोमरीचिभ्यः शङ्खचक्रगदाधराः। प्रादुरासन हषीकेशा: शतशोऽथ सहस्रशः॥ तदत्यद्भुतमालोक्य भूतं लोकभयंकरम्। द्रौणिरव्यथितो दिव्यैरस्त्रवर्षेरवाकिरत्॥ द्रौणिमुक्ताञ्छरांस्तांस्तु तद् भूतं महदग्रसत्। उदधेरिव वार्यघान् पावको वडवामुखः॥ अग्रसत् तांस्तथाभूतं द्रौणिना प्रहिताशरान्। अश्वत्थामा तु सम्प्रेक्ष्य शरौघांस्तान् निरर्थकान्॥ रथशक्तिं मुमोचासौ दीप्तामग्निशिखामिव। सा तमाहत्य दीप्ताग्रा रथशक्तिदीर्यत॥ युगान्ते सूर्याहत्य महोल्केव दिवश्च्युता। अथ हेमत्सरं दिव्यं खड्गमाकाशवर्चसम्॥ कोशात् समुद्बबर्दाशु बिलाद् दीप्तमिबोरगम्। ततः खड्गवरं धीमान् भूताय प्राहिणोत् तदा॥ स तदासाद्य भूतं वै बिलं नुकलवद् ययौ। ततः स कुपितो द्रौणिरिन्द्रकेतुनिभां गदाम्॥ ज्वलन्तीं प्राहिणोत् तस्मै भूतं तामपि चाग्रसत्। ततः सर्वायुधाभावे वीक्षमाणस्ततस्ततः॥ अपश्यत् कृतमाकाशमनाकाशं जनार्दनैः। तदद्भुततमं दृष्ट्वा द्रोणपुत्रो निरायुधः॥ अब्रवीदतिसंतप्तः कृपवाक्यमनुस्मरन्। ब्रुवतामप्रियं पथ्यं सुहृदां न शृणोति यः॥ स शोचत्पादं प्राप्य यथाहमतिवर्त्य तौ। शास्त्रदृष्टानविद्वान् यः समतीत्य जिघांसति॥ स पथः प्रच्युतो धर्मात् कुपथे प्रतिहन्यते। गोब्राह्मणनृपस्त्रीषु सख्युर्मातुर्गुरोस्तथा॥ हीनप्राणजडान्धेषु सुप्तभीतोस्थितेषु च। मत्तोन्मत्तप्रमत्तेषु न शस्त्राणि च पातयेत्॥ इत्येवं गुरुभिः पूर्वमुपदिष्टं नृणां सदा। सोऽहमुत्क्रम्य पन्थानं शास्त्रदिष्टं सनातनम्॥ अमार्गेणैवमारभ्य घोरामापदमागतः। तां चापदं घोरतरां प्रवदन्ति मनीषिणः॥ यदुद्यम्य महत् कृत्यं भयादपि निवर्तते। अशक्तश्चैव तत् कर्तु कर्म शक्तिबलादिह॥ न हि दैवाद् गरीयो वै मानुषं कर्म कथ्यते। मानुष्यं कुर्वतः कर्म यदि दैवान्न सिध्यति॥ स पथः प्रच्युतो धर्माद् विपदं प्रतिपद्यते। प्रतिज्ञानं ह्यविज्ञानं प्रवदन्ति मनीषिणः॥ यदारभ्य क्रियां काञ्चिद् भयादिह निवर्तते। तदिदं दुष्प्रणीतेन भयं मां समुपस्थितम्॥ न हि द्रोणसुतः संख्ये निवर्तेत कथंचन। इदं स समुहद् भूतं दैवदण्डमिवोद्यतम्॥ न चैतदभिजानामि चिन्तयन्नपि सर्वथा। ध्रुवं येयमधर्मे में प्रवृत्ता कलुषा मतिः॥ तस्याः फलमिदं घोरं प्रतिघाताय कल्पते। तदिदं दैवविहितं मम संख्ये निवर्तनम्॥ नान्यत्र दैवादुद्यन्तुमिह शक्यं कथंचना सोऽहमद्य महादेवं प्रपद्ये शरणं विभुम्॥ दैवदण्डमिमं घोरं स हि मे नाशयिष्यति। कपर्दिनं देवदेवमुमापतिमनामयम्॥ कपालमालिनं रुद्रं भगनेत्रहरं हरम्। स हि देवोऽत्यगाद् देवांस्तपसा विक्रमेण चा तस्माच्छरणमभ्येमि गिरिशं शूलपाणिनम्॥ संजय उवाच एवं संचिन्तयित्वा तु द्रोणपुत्रो विशाम्पते। अवतीर्य रथोपस्थाद् देवेशं प्रणतः स्थितः॥ उग्रं स्थाणुं शिवं रुद्रं शर्वमीशानमीश्वरम्। गिरिशं वरदं देवं भवभावनमीश्वरम्॥ शितिकण्ठमजं शुक्रं दक्षक्रतुहरं हरम्। विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम्॥ श्मशानवासिनं दृप्तं महागणपतिं विभुम्। खट्वाङ्गधारिणं रुद्रं जटिलं ब्रह्मचारिणम्॥ मनसा सुविशुद्धेन दुष्करेणाल्पचेतसा। सोऽहमात्मोपहारेण यक्ष्ये त्रिपुरघातिनम्॥ स्तुतं स्तुत्यं स्तूयमानममोघं कृत्तिवाससम्। विलोहितं नीलकण्ठमसह्यं दुर्निवारणम्॥ शुक्रं ब्रह्मसृजं ब्रह्म ब्रह्मचारिणमेव च। व्रतवन्तं तपोनिष्ठमनन्तं तपतां गतिम्॥ बहुरूपं गणाध्यक्षं त्र्यक्षं पारिषदप्रियम्। धनाध्यक्षेक्षितमुखं गौरीहृदयवल्लभम्॥ कुमारपितरं पिङ्गं गोवृषोत्तमवाहनम्। तनुवाससमत्युग्रहमुमाभूषणतत्परम्॥ परं परेभ्यः परमं परं यस्मान्न विद्यते। इष्वस्त्रोत्तमभर्तारं दिगन्तं देशरक्षिणम्॥ हिरण्यकवचं देवं चन्द्रमौलिविभूषणम्। प्रपद्ये शरणं देवं परमेण समाधिना॥ इमां चेदापादं घोरं तराम्यद्य सुदुष्कराम्। सर्वभूतोपहारेण यक्ष्येऽहं शुचिना शुचिम्॥ इति तस्य व्यवसितं ज्ञात्वा योगात् सुकर्मणः। पुरस्तात् काञ्चनी वेदी प्रादुरासीन्महात्मनः॥ तस्यां वेद्यां तदा राजंश्चित्रभानुरजायत। स दिशो विदिशः खं च ज्वालाभिरिव पूरयन्॥ दीप्तास्यनयनाश्चात्र नैकपादशिरोभुजाः रत्नचित्राङ्गदधराः समुद्यतकरास्तथा॥ द्वीपशैलप्रतीकाशाः प्रादुरासन् महागणाः। श्ववराहोष्ट्ररूपाश्च हयगोमायुगोमुखाः॥ ऋक्षमार्जारवदना व्याघ्रद्वीपिमुखास्तथा। काकवक्त्राः प्लवमुखाः शुकवक्त्रास्तथैव च॥ महाजगरवक्त्राश्च हंसवक्त्राः सितप्रभाः। दार्वाघाटमुखाश्चापि चाषवत्राश्च भारत॥ कूर्मनक्रमुखाश्चैव शिशुमारमुखास्तथा। महामकरवक्त्राश्च तिमिवक्त्रास्तथैव च॥ हरिवक्त्रा: क्रौञ्चमुखाः कपोतेमुखास्तथा। पारावतमुखाश्चैव मद्गुवक्त्रास्तथैव च।॥ पाणिकर्णाः सहस्राक्षास्तथैव च महोदरा:। निर्मांसा काकवत्राश्च श्येनवक्त्राश्च भारत॥ तथैवाशिरसो राजन्नृक्षवक्त्राश्च भारत। प्रदीप्तनेत्रजिह्वाश्च ज्वालावर्णास्तथैव च।॥ ज्वालाकेशाश्च राजेन्द्र ज्वलद्रोमचतुर्भुजाः। मेषवक्त्रास्तथैवान्ये तथा छागमुखा नृप॥ शङ्खाभाः शङ्खवक्त्राश्च शङ्खवर्णास्तथैव च। शङ्खमालापरिकराः शङ्खध्वनिसमस्वनाः॥ जटाधराः पञ्चशिखास्था मुण्डाः कृशोदराः। चतुर्दंष्ट्राश्चतुर्जिह्वाः शङ्ककर्णाः किरीटिन:॥ मौञ्जीधराश्च राजेन्द्र तथा कुञ्चितमूर्धजाः। उष्णीषिणो मुकुटिनश्चारुवक्त्राः स्वरङ्कता॥ पद्मोत्पलापीडधरास्तथा मुकुटधारिणः। माहात्म्येन च संयुक्ताः शतशोऽथ सहस्रशः॥ शतघ्नीवज्रहस्ताश्च तथा मुसलपाणयः। भुशुण्डीपाशहस्ताश्च दण्डस्ताश्च भारत॥ पृष्ठेषु वद्धेषुधयश्चित्रबाणोत्कटास्तथा। सध्वजाः सपताकाश्च सघण्टाः सपरश्वधाः॥ महापाशोद्यतकरातस्तथा लगुडपाणयः। स्थूणाहस्ताः खड्गहस्ता सोच्छ्रितकिरीटिनः ॥ महासर्पाङ्गदधराश्चित्राभरणधारिणः। रजोध्वस्ताः पङ्कदिग्धाः सर्वे शुक्लाम्बरस्रजः॥ नीलाङ्गा पिङ्गलाङ्गाश्च मुण्डवक्त्रास्तथैव च। भेरीशङ्खमृदङ्गांश्च झर्झरानकगोमुखान्॥ अवादयन् पारिषदाः प्रहृष्टाः कनकप्रभाः। गायमानास्तथैवान्ये नृत्यमानास्तथा परे॥ लवयन्तः प्लवन्तश्च वल्लान्तश्च महारथाः। धावन्तो जवना मुण्डाः पवनोद्धृतमूर्धजाः॥ मत्ता इव महानागा विनदन्तो मुहुर्मुहुः। सुभीमा घोररूपाश्च शूलपटिशपाणयः॥ नानाविरागवसनाचित्रमाल्यानुलेपनाः। रत्नचित्राङ्गदधराः समुद्यतकरास्तथा॥ हन्तारो द्विषतां शूराः प्रसह्यासह्यविक्रमाः। पातारोऽसूग्वसौघानां मांसान्त्रकृतभोजनाः॥ चूडालाः कर्णिकाराश्च प्रहृष्टाः पिठरोदराः। अतिह्रस्वातिदीर्घाश्च प्रलम्बाश्चातिभैरवाः॥ विकटाः काललम्बोष्ठा बृहच्छेफाण्डपिण्डिकाः। महार्हनानामुकटा मुण्डाश्च जटिलाः परे॥ सार्केन्दुग्रहनक्षत्रां द्यां कुर्यस्ते महीतले। उत्सहेरंच ये हन्तुं भूतग्रामं चतुर्विधम्॥ ये च वीतभया नित्यं हरस्य भृकुटीसहाः। कामकारकरा नित्यं त्रैलोक्यस्येश्वरेश्वराः॥ नित्यानन्दप्रमुदिता वागीशा वीतमत्सराः। प्राप्याष्टगुणमैश्वर्यं ये न यास्यन्ति वै स्मयम्॥ येषां विस्मयते नित्यं भगवान् कर्मभिर्हरः। मनोवाक्कर्मभिर्युक्तैर्नित्यमाराधितश्च यैः॥ मनोवाक्कभिर्भक्तान् पाति पुत्रानिवौरसान्। पिबन्तोऽसृग्वसाश्चान्ये क्रुद्धा ब्रह्मद्विषां सदा॥ चतुर्विधात्मकं सोमं ये पिबन्ति च सर्वदा। श्रुतेन ब्रह्मचर्येण तपसा च दमेन च॥ ये समार.ध्य शूलाङ्कं भवसायुज्यमागताः। यैरात्मभूतैर्भगवान् पार्वत्य च महेश्वरः॥ महाभूतगणैभुते भूतभव्यभवत्प्रभुः। नानावादित्रहसितक्ष्वेडितोत्क्रुष्टगर्जितै॥ संत्रासयन्तस्ते विश्वमश्वत्थामानमभ्ययुः। संस्तुवन्तो महादेवं भाः कुर्वाणा: सुवर्चसः॥ विवर्धयिषवो द्रौणेमहिमानं महात्मनः। जिज्ञासमानास्तत्तेजः सौप्तिकं च दिदृक्षवः॥ भीमोग्नपरिघालातशूलपटिशपाणयः। घोररूपा: समाजग्मुर्भूतसङ्घाः समन्ततः॥ जनयेयुर्भयं ये स्म त्रैलोक्यस्यापि दर्शनात्। तान् प्रेक्षमाणोऽपि व्यथां न चकार महाबलः॥ अथ द्रौणिर्धनुष्पाणिर्बद्धगोधाङ्कुलित्रवान्। स्वयमेवात्मनात्मानमुपहारमुपाहरत्॥ धनूंषि समिधस्तत्र पवित्राणि शिताः शराः। हविरात्मवतश्चात्मा तस्मिन् भारत कर्मणि॥ ततः सौम्येन मन्त्रेण द्रोणपुत्रः प्रतापवान्। उपहारं महामन्युरथात्मानमुपाहरत्॥ तं रुद्रं रौद्रकर्माणं रौद्रैः कर्मभिरच्युतम्। अभिष्टुत्य महात्मानमित्युवाच कृताञ्जलिः॥ द्रौणिरुवाच इममात्मानमद्याहं जातमाङ्गिरसे कुले। स्वग्नौ जुहोमि भगवन् प्रतिगृह्णीष्व मां बलिम्॥ भवद्भक्त्या महादेव परमेण समाधिना। अस्यामापदि विश्वात्मन्नुपाकुर्मि तवाग्रतः॥ त्वयि सर्वाणि भूतानि सर्वभूतेषु चासि वै। गुणनां हि प्रधानानामेकत्वं त्वयि तिष्ठति॥ सर्वभूताश्रय विभो हविर्भूतमवस्थितम्। प्रतिगृहाण मां देव यद्यशक्याः परे मया॥ इत्युक्त्वा द्रौणिरास्थाय तां वेदी दीप्तपावकाम्। संत्यज्यात्मानमारुद्य कृष्णवर्त्मन्युपाविशात्॥ तमूर्ध्वबाहुं निश्चेष्टं दृष्ट्वा हविरुपस्थितम्। अब्रवीद् भगवान् साक्षान्महादेवो हसन्निव॥ सत्यशौचार्जवत्यागैस्तपसा नियमेन च। क्षान्त्या भक्त्या च बुद्ध्या च वचसा तथा॥ यथावदहमाराद्धः कृष्णेनाक्लिकर्मणा। तस्मादिष्टतमः कृष्णादन्यो मम न विद्यते॥ कुर्वता तात सम्मानं त्वां च जिज्ञासता मया। पञ्चालाः सहसा गुप्ता मायाश्च बहुशः कृताः॥ कृतस्यस्यैव सम्मानः पञ्चालन् रक्षता मया। अभिभूतास्तु कालेन नैषामद्यास्ति जीवितम्॥ एवमुक्तवा महात्मानं भगवानात्मनस्तनुम्। आविवेश ददौ चास्मै विमलं खड्गमुत्तमम्॥ अथाविष्टो भगवता भूयो जज्वाल तेजसा। वेगवांश्चाभवद् युद्धे देवसृष्टेन तेजसा॥ तमदृश्यानि भूतानि रक्षांसि च समाद्रवन्। अभितः शत्रुशिविरं यान्तं साक्षादिवेश्वरम्॥ संजय उवाच ते हत्वा सर्वपञ्चालान् द्रौपदेयांश्च सर्वशः। आगच्छन् सहितास्तत्र यत्र दुर्योधनो हतः॥ गत्वा चैनमपश्यन्त किञ्चित्प्राणं जनाधिपम्। ततो रथेभ्यः प्रस्कन्द्य परिवस्तवात्मजम्॥ तं भग्नसक्थं राजेन्द्र कृच्छ्रप्राणमचेतसम्। वमन्तं रुधिरं वक्त्रादपश्यन् वसुधातले।॥ वृतं समन्ताद् बहुभिः श्वापदै?रदर्शनैः। निवारयन्तं कृच्छ्रात्ताश्वापदांश्च चिखादिषून्। विचेष्टमानं मह्यां च सुभृशं गाढवेदनम्॥ तं शयानं तथा दृष्ट्वा भूमौ सुरुधिरोक्षितम्। हतशिष्टास्त्रयो वीराः शोकार्ताः पर्यवारयन्॥ अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः। तैस्त्रिभिः शोणितादिग्धैर्निः श्वसद्भिर्महारथैः॥ शुशुभे स वृतो राजा वेदी त्रिभिरिवाग्निभिः। ते तं शयानं सम्प्रेक्ष्य राजानमतथोचितम्॥ अविषह्येन दुःखेन ततस्ते रुरदुस्त्रयः। ततस्तु रुधिरं हस्तैर्मुखान्निर्मृज्य तस्य हि। रणे राज्ञः शयानस्य कृपणं पर्यदेवयन्॥ कृप उवाच न दैवस्यातिभारोऽस्ति यदयं रुधिरोक्षितः। एकादशचमूभर्ता शेते दुर्योधनो हतः॥ पश्य चामीकराभस्य चामीकरविभूषिताम्। गदां गदाप्रियस्येमां समीपे पतितां भुवि॥ इयमेनं गदा शूरं न जहाति रणे रणे। स्वर्गायाति व्रजन्तं हि न जहाति यशस्विनम्॥ पश्येमां सह वीरेण जाम्बूनदविभूषिताम्। शयानां शयने हर्म्य भार्यां प्रीतिमतीमिव॥ योऽयं मूर्धाभिषिक्तानामग्रे यातः परंतपः। स हतो ग्रसते पांसून् पश्य कालस्य पर्ययम्॥ येनाजौ निहता भूमावशेरत पुरा द्विषः। स भूमौ निहतः शेते कुरुराजः परैरयम्॥ भयानमन्ति राजानो यस्य स्म शतसंघशः। स वीरशयने शेते क्रव्याद्भिः परिवारितः॥ उपासत द्विजाः पूर्वमर्थहेतोर्यमीश्वरम्। उपासते च तं ह्यद्य क्रव्यादा मांसहेतवः॥ संजय उवाच तं शयानं कुरुश्रेष्ठं ततो भरतसत्तम। अश्वत्थामा समालोक्य करुणं पर्यदेवयत्॥ आहुस्त्वां राजशार्दूल मुख्यं सर्वधनुष्यताम्। धनाध्यक्षोपमं युद्धे शिष्यं संकर्षणस्य च॥ कथं विवरमद्राक्षीद् भीमसेनस्तवानघ। बलिनं कृतिनं नित्यं स च पापात्मवान् नृप॥ कालो नूनं महाराज लोकेऽस्मिन् बलवत्तरः। पश्यामो निहतं त्वां च भीमसेनेन संयुगे॥ कथं त्वां सर्वधर्मज्ञं क्षुद्रः पापो वृकोदरः। निकृत्या हतवान् मन्दो नूनं कालो दुरत्ययः॥ धर्मयुद्धे ह्यधर्मेण समाहूयौजसा मृधे। गदया भीमसेनेन निर्भग्ने सक्थिनी तव॥ अधर्मेण हतस्याजौ मृद्यमानं पदा शिरः। य उपेक्षितवान् क्षुद्रं धिक् कृष्णं धिग्युधिष्ठिरम्॥ युद्धेष्वपवदिष्यन्ति योधा नूनं वृकोदरम्। यावत् स्थास्यन्ति भूतानि निकृत्या ह्यसि पातितः॥२५ ननु रामोऽब्रवीद् राजंस्त्वां सदा यदुनन्दनः। दुर्योधनसमो नास्ति गदया इति वीर्यवान्॥ श्लाघते त्वां हि वार्ष्णेयो राजसंसत्सु भारत। स शिष्यो मम कौरव्यो गदायुद्ध इति प्रभो॥ यां गतिं क्षत्रियस्याहुः प्रशस्तां परमर्षयः। हतस्याभिमुखस्याजौ प्राप्तस्त्वमसि तां गतिम्॥ दुर्योधन न शोचामि त्वामहं पुरुषर्षभ। हतपुत्रौ तु शोचामि गान्धारी पितरं च ते॥ भिक्षुको विचरिष्येते शोचन्तौ पृथिवीमिमाम्। धिगस्तु कृष्णं वार्ष्णेयमर्जुनं चापि दुर्मतिम्॥ धर्मज्ञमानिनौ यौ त्वां वध्यमानमुपैक्षताम्। पाण्डवाश्चापि ते सर्वे किं वक्ष्यन्ति नराधिप॥ कथं दुर्योधनोऽस्माभिर्हत इत्यनपत्रपाः। धन्यस्त्वमसि गान्धारे यस्त्वमायोधने हतः॥ प्रायशोऽभिमुखः शत्रून् धर्मेण पुरुषर्षभ। हतपुत्रा हि गान्धारी निहतज्ञातिबान्धवा॥ प्रज्ञाचक्षुश्च दुर्धर्षः कां गति प्रतिपत्स्यते। धिगस्तु कृतवर्माणं मां कृपं च महारथम्॥ ये वयं न गताः स्वर्गं त्वां पुरस्कृत्य पार्थिवम्। दातारं सर्वकामानां रक्षितारं प्रजाहितम्॥ यद् वयं नानुगच्छाम त्वांधिगस्मान् नराधमान्। कृपस्य तव वीर्येण मम चैव पितुश्च मे॥ सभृत्यानां नरव्याघ्र रत्ववन्ति गृहाणि च। तव प्रसादादस्माभिः समित्रैः सह बान्धवैः॥ अवाप्ताः क्रतवो मुख्या बहवो भूरिदक्षिणाः। कुतश्चापीदृशं पापाः प्रवर्तिष्यामहे वयम्॥ यादृशेन पुरस्कृत्य त्वं गतः सर्वपार्थिवान्। वयमेव त्रयो राजन् गच्छन्तं परमां गतिम्॥ यद् वै त्वां नानुगच्छामस्तेन धक्ष्यामहे वयम्। तत् स्वर्गहीना हीनार्थाः स्मरन्तः सुकृतस्य ते॥ किं नाम तद् भवेत् कर्म येन त्वां न व्रजाम वै। दुःखं नूनं कुरुश्रेष्ठ चरिष्याम महीमिमाम्॥ हीनानां नस्त्वया राजन् कुतः शान्तिः कुतः सुखम्। गत्वैव तु महाराज समेत्य च महारथान्॥ यथाज्येष्ठं यथाश्रेष्ठं पूजयेर्वचनान्मम। आचार्यं पूजयित्वा च केतुं सर्वधनुष्मताम्॥ हतं मयाद्य शंसेथा धृष्टद्युम्नं नराधिप। परिष्वजेथा राजानं बाह्निकं सुमहारथम् सैन्धवं सोमदत्तं च भूरिश्रवसमेव च। तथा पूर्वगतानन्यान् स्वर्गे पार्थिवसत्तमान्॥ अस्मद्वाक्यात् सम्पृच्छेस्त्वमनामयम्॥ संजय उवाच इत्येवमुक्तवा राजानं भग्नसक्थमचेतनम्। अश्वत्थामा समुद्रीक्ष्य पुनर्वचनमब्रवीत्॥ दुर्योधन जीवसि त्वं वाक्यं क्षोत्रमुखं शृणु। सप्त पाण्डवतः शेषा धार्तराष्ट्रास्त्रयो वयम्॥ ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः। अहं च कृतवर्मा च कृपः शारद्वतस्तथा॥ द्रौपदेया हताः सर्वे धृष्टद्युम्नस्य चात्मजाः। पञ्चाला निहताः सर्वे मत्स्यशेषं च भारत॥ कृते प्रतिकृतं पश्य हतपुत्रा हि पाण्डवाः। सौप्तिके शिविरं तेषां हतं सनरवाहनम्॥ मया च पापकर्मासौ धृष्टद्युम्नो महीपते। प्रविश्य शिविरं रात्रौ पशुमारेण मारितः॥ दुर्योधनस्तु तां वाचं निशम्य मनसः प्रियाम्। प्रतिलभ्य पुनश्चेत इदं वचनमब्रवीत्॥ न मेऽकरोत् तद् गाङ्गेयो न कर्णो न च ते पिता। यत् त्वया कृपभोजाभ्यां सहितेनाद्य मे कृतम्॥ स च सेनापतिः क्षुद्रो हतः सार्धं शिखण्डिना। तेन मन्ये मघवता सममात्मानमद्य वै॥ स्वस्ति प्राप्नुत भद्रं वः स्वर्गे न: संगमः पुनः। इत्येवमुक्त्वा तूष्णीं च कुरुराजो महामनाः॥ प्राणानुपासृजद् वीरः सुहृदां दुःखमुत्सृजन्। अपाक्रामद् दिवं पुण्यां शरीरं क्षितिमाविशत्॥ एवं ते निधनं यातः पुत्रो दुर्योधनो नृप। अग्रे यात्वा रणे शूरः पश्चाद् विनिहतः परैः॥ तथैव ते परिष्वक्ताः परिष्वज्य च ते नृपम्। पुनः पुनः प्रेक्षमाणाः स्वकानारुरुहू रथान्॥ इत्येवं द्रोणपुत्रस्य निशम्य करुणां गिरम्। प्रत्यूषकाले शोकार्तः प्राद्रवन्ननगरं प्रति॥ एवमेष क्षयोः वृत्तः कुरुपाण्डवसेनयोः। घोरो विशसनो रौद्रो राजन् दुर्मन्त्रिते तव॥ तव पुत्रे गते स्वर्गं शोकार्तस्य ममानघ। ऋषिदत्तं प्रणष्टं तद् दिव्यदर्शित्वमद्य वै॥ वैशम्पायन उवाच इति श्रुत्वा स नृपतिः पुत्रस्य निधनं तदा। निःश्वस्य दीर्घमुष्णं च ततश्चिन्तापरोऽभवत्॥ वैशम्पायन उवाच तस्यां रात्र्यां व्यतीतायां धृष्टद्युम्नस्य सारथिः। शशंस धर्मराजाय सौप्तिके कदनं कृतम्॥ सूत उवाच द्रौपदेया हता राजन् दुपदस्यात्मजैः सह। प्रमत्ता निशि विश्वस्ताः स्वपन्तः शिविरे स्वके॥ कृतवर्मणा नृशंसेन गौतमेन कृपेण च। अश्वत्थाम्ना च पापे हतं वः शिविरं निशि॥ एतैर्नरगजाश्वानां प्रासशक्तिपरश्वधैः। सहस्राणि निकृन्तद्भिनि:शेषं ते बलं कृतम्॥ छिद्यमानस्य महतो वनस्येव परश्वधैः। शुश्रुषे सुमहाशब्दो बलस्य तव भारत॥ अहमेकोऽवशिष्टस्तु तस्मात् सैन्यान्महामते। मुक्तः कथंचिद् धर्मात्मन् व्यग्राच कृतवर्मणः॥ तच्छुत्वा वाक्यमशिवं कुन्तीपुत्रो युधिष्ठिरः। पपात मह्यां दुर्धर्षः पुत्रशोकसमन्वितः॥ पतन्तं तमतिक्रम्य परिजग्राह सात्यकिः। भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ।॥ लब्धचेतास्तु कौन्तेयः शोकविह्वलया गिरा। जित्वा शत्रूञ्जितः पश्चात् पर्यदेवयदार्तवत्॥ दुर्विदा गतिरर्थानामपि ये दिव्यचक्षुषः। जीयमाना जयन्त्यन्ये जयमाना वयं जिताः॥ हत्वा भ्रातॄन् वयस्यांश्च पितॄन् पुत्रान् सुहृद्गणान्। बन्धूनमात्यान् पौत्रांश्च जित्वा सर्वाञ्जिता वयम्॥ अनर्थो ह्यर्थसंकाशसतथानर्थोऽर्थदर्शनः। जयोऽयमजयाकारो जयस्तस्मात् पराजयः॥ यजित्वा तप्यते पश्चादापन्न इव दुर्मतिः। कथं मन्येत विजयं ततो जिततरः परैः॥ येषामर्थाय पापं स्याद् विजयस्य सुहृद्वधैः। निर्जितैरप्रमत्तैर्हि विजिता जितकाशिनः॥ कर्णिनालीकदंष्ट्रस्य खड्गजिह्वस्य संयुगे। चापव्यात्तस्य रौद्रस्य ज्यातलस्वननादिनः॥ क्रुद्धस्य नरसिंहस्य संग्रामेष्वपलायिनः। ये व्यमुञ्चन्त कर्णस्य प्रमादात् त इमे हताः॥ रथहृदं शरवर्षोर्मिमन्तं रत्नाचितं वाहनवाजियुक्तम्। शक्त्वृष्टिमीनध्वजनागनकं शरासनावर्तमहेषुफेनम्॥ संग्रामचन्द्रोदयवेगवेलं द्रोणार्णवं ज्यातलनेमिघोषम्। स्ते राजपुत्रा निहताः प्रमादात्॥ न हि प्रमादात् परमस्ति कश्चिद् वधो नराणामिह जीवलोके। ते प्रमत्तमर्था हि नरं समन्तात् त्यजन्त्यनाश्च समाविशन्ति॥ ध्वजोत्तमायोच्छ्रितधूमकेतुं शराचिष कोपमहासमीरम्। महाधनुातल नेमिघोषं तनुत्रनानाविधशस्त्रहोमम्॥ महाचमूकक्षदवाभिपन्नं महाहवे भीष्ममयाग्निदाहम्। ये सेहुरात्तायुधतीक्ष्णवेगं राजपुत्रा निहताः प्रमादात्॥ न हि प्रमत्तेन नरेण शक्यं विद्या तपः श्रीर्विपुलं यशो वा। पश्याप्रमादेन निहत्य शत्रून् सर्वान् महेन्द्रं सुखमेधमानम्॥ इन्द्रोपमान पार्थिवपुत्रपौत्रान् पश्याविशेषेण हतान् प्रमादात्। तीर्खा समुद्रं वणिज: समृद्धा मग्नाः कुनद्यामिव हेलमानाः॥ अमर्षितैर्ये निहताः शयाना नि:संशयं ते त्रिदिवं प्रपन्नाः। कृष्णां तु शोचामि कथं नु साध्वी शोकार्णवे साद्य विनश्यतीति॥ भ्रातूंश्च पुत्रांश्च हतान् निशम्य पाञ्चालराजं पितरं च वृद्धम्। ध्रुवं विसंज्ञा पतिता पृथिव्यां सा शोष्यते शोककृशाङ्गयष्टिः॥ तच्छोकजं कथं भविष्यत्युचिता सुखानाम्। पुत्रक्षयभ्रातृवधप्रणुन्ना प्रदह्यमानेन हुताशनेन॥ इत्येवमातः परिदेवयन् स राजा कुरूणां नकुलं बभाषे। गच्छानयनामिह मन्दभाग्यां समातृपक्षामिति राजपुत्रीम्॥ दुःखमषारयन्ती माद्रीसुतस्तत् परिगृह्य वाक्यं धर्मेण धर्मप्रतिमस्य राज्ञः। ययौ रथेनालयमाशु देव्याः पाञ्चालराजस्य च यत्र दाराः॥ प्रस्थाप्य माद्रीसुतमाजमीढः शोकार्दितस्तैः सहितः सुहृद्धिः। रोरूयमाणः प्रययौ सुतानामायोधनं भूतगणानुकीर्णम्॥ स तत् प्रविश्याशिवमुग्ररूपं ददर्श पुत्रान् सुहृदः सखींश्च। भूमौ शयानान् रुधिरागात्रान् विभिन्नदेहान् प्रहृतोत्तमाङ्गान्॥ स तांस्तु दृष्ट्वा भृशमार्तरूपो युधिष्ठिरो धर्मभृतां वरिष्ठः। उच्चैः प्रचुक्रोश च कौरवाश्य: पपात चोर्ध्या सगणो विसंज्ञः॥ वैशम्पायन उवाच स दृष्ट्वा निहतान् संख्ये पुत्रान् पौत्रान् सखींस्तथा। महादुःखपरीतात्मा बभूव जनमेजय॥ ततस्तस्य महाशोकः प्रादुरासीन्महात्मनः। स्मरत: पुत्रपौत्राणां भ्रातृणां स्वजनस्य ह॥ तमश्रुपरिपूर्णाक्षं वेपमानमचेतसम्। सुहृदो भृशसंविग्नाः सान्त्वयाशकिरे तदा॥ ततस्तस्मिन् क्षणे कल्पो रथेनादित्यवर्चसा। नकुलः कृष्णया सार्धमुपायात् परमार्तया॥ उपप्लव्यं गता सा तु श्रुत्वा सुमहदप्रियम्। तदा विनाशं सर्वेषां पुत्राणां व्यथिताभवत्॥ कम्पमानेव कदली वातेनाभिसमीरिता। कृष्णा राजानमासाद्य शोकार्ता न्यपतद् भुवि॥ बभूव वदनं तस्याः सहसा शोककर्षितम्। फुल्लपद्मपलाशाक्ष्यास्तमोग्रस्त इवांशुमान्॥ ततस्तां पतितां दृष्ट्वा संरम्भी सत्यविक्रमः। बाहुभ्यां परिजग्राह समुत्पत्य वृकोदरः॥ सा समाश्वासिता तेन भीमसेनेन भामिनी। रुदती पाण्डवं कृष्णा सा हि भारतमब्रवीत्॥ दिष्ट्या राजन्नवाप्येमामखिला भोक्ष्यसे महीम्। आत्मजान् क्षत्रधर्मेण सम्प्रदाय यमाय वै॥ दिष्ट्या त्वं कुशली पार्थ मत्तमातङ्गगामिनीम्। अवाप्य पृथिवीं कृत्स्ना सौभद्रं न स्मरिष्यसि॥ आत्मजान् क्षत्रधर्मेण श्रुत्वा शूरान् निपातितान्। उपप्लव्ये मया सार्धं दिष्ट्या त्वं न स्मरिष्यसि॥ प्रसुप्तानां वधं श्रुत्वा द्रौणिना पापकर्मणा। शोकस्तपति मां पार्थ हुताशन इवाश्रयम्॥ तस्य पापकृतो द्रौणेर्न चेदद्य त्वया रणे। ह्रियते सानुबन्धस्य युधि विक्रम्य जीवितम्॥ इहैव प्रायमासिष्ये तन्निबोधत पाण्डवाः। न चेत् फलमवाप्नोति द्रौणिः पापस्य कर्मणः॥ एवमुक्त्वा ततः कृष्णा पाण्डवं प्रत्युपाविशत्। युधिष्ठिरं याज्ञसेनी धर्मराजं यशस्विनी॥ दृष्ट्वोपविष्टां राजर्षिः पाण्डवो महिषीं प्रियाम्। प्रत्युवाच स धर्मात्मा द्रौपदी चारुदर्शनाम्॥ धर्म्य धर्मेण धर्मज्ञे प्राप्तास्ते निधनं शुभे। पुत्रास्ते भ्रातरश्चैव तान्न शोचितुमर्हसि॥ स कल्याणि वनं दुर्गं दूरं द्रौणिरितो गतः। तस्य त्वं पातनं संख्ये कथं ज्ञास्यसि शोभने॥ द्रौपद्युवाच द्रोणपुत्रस्य सहजो मणिः शिरसि मे श्रुतः। निहत्य संख्ये तं पापं पश्येयं मणिमाहृतम्॥ राजशिरसि ते कृत्वा जीवेयमिति मे मतिः। इत्युक्त्वा पाण्डवं कृष्णा राजानं चारुदर्शना॥ भीमसेनमथागत्य परमं वाक्यमब्रवीत्। त्रातुमर्हसि मां भीम क्षत्रधर्ममनुस्मरन्॥ जहि तं पापकर्माणं शम्बरं मघवानिव। न हि ते विक्रमे तुल्यः पुमानस्तीह कश्चन॥ श्रुतं तत् सर्वलोकेषु परमव्यसने यथा। द्वीपोऽभूस्त्वं हि पार्थानां नगरे वारणावते॥ हिडिम्बदर्शने चैव तथा त्वमभवो गतिः। तथा विराटनगरे कीचकेन भृशार्दिताम्॥ मामप्युद्धृतवान् कृच्छ्रात् पौलोमी मघवानिव। यथैतान्यकृथाः पार्थ महाकर्माणि वै पुरा॥ तथा द्रौणिममित्रघ्न विनिहत्य सुखी भव। तस्या बहुविधं दुःखान्निशम्य परिदेवितम्॥ नामर्षयत कौन्तेयो भीमसेनो महाबलः। स काञ्चनविचित्राङ्गमारुरोह महारथम्॥ आदाय रुचिरं चित्रं समार्गणगुणं धनुः। नकुलं सारथिं कृत्वा द्रोणपुत्रवधे धृतः॥ विस्फार्य सशरं चापं तूर्णमश्वानचोदयत्। ते हयाः पुरुषव्याघ्र चोदिता वातरंहसः॥ वेगेन त्वरिता जग्मुर्हरयः शीघ्रगामिनः। शिविरात् स्वाद् गृहीत्वा स रथस्य पदमच्युतः॥ वैशम्पायन उवाच तस्मिन् प्रयाते दुधेर्षे यदूनामृषभस्ततः अब्रवीत् पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम्॥ एष पाण्डव ते भ्राता पुत्रशोकपरायणः। जिघांसुद्रौणिमाक्रन्दे एक एवाभिधावति॥ भीमः प्रियस्ते सर्वेभ्यो भ्रातृभ्यो भरतर्षभ। तं कृच्छ्रगतमद्य त्वं कस्मान्नाभ्युपपद्यसे॥ यत् तदाचष्ट पुत्राय द्रोणः परपुरञ्जयः। अस्त्रं ब्रह्मशिरो नाम दहेत पृथिवीमपि॥ तन्महात्मा महाभागः केतुः सर्वधनुष्मताम्। प्रत्यपादयदाचार्यः प्रीयमाणो धनंजयम्॥ तं पुत्रोऽप्येक एवैनमन्वयाचदमर्पणः। ततः प्रोवाच पुत्राय नातिहष्टमना इव॥ विदितं चापलं ह्यासीदात्मजस्य दुरात्मनः। सर्वधर्मविदाचार्यः सोऽन्वशात् स्वसुतं ततः॥ परमापद्रतेनापि न स्म तात त्वया रणे। इदमस्त्रं प्रयोक्तव्यं मानुषेषु विशेषतः॥ इत्युक्तवान् गुरुः पुत्रं द्रोणः पश्चादयोक्तवान्। न त्वं जातु सतां मार्गे स्थातेति पुरुषर्षभ॥ स तदाज्ञाय दुष्टात्मा पितुर्वचनमप्रियम्। निराश: सर्वकल्याणैः शोकात् पर्यचरन्महीम्॥ ततस्तदा कुरुश्रेष्ठ वनस्थे त्वयि भारत। अवसद् द्वारकामेत्य वृष्णिभिः परमार्चितः॥ स कदाचित् समुद्रान्ते वसन् द्वारवतीमनु। एक एकं समागम्य मामुवाच हसन्निव॥ यत् तदुग्रं तपः कृष्ण चरन् सत्यपराक्रमः। अगस्त्याद् भारतचार्यः प्रत्यपद्यत मे पिता॥ अस्त्रं ब्रह्मशिरो नाम देवगन्धर्वपूजितम्। तदद्य मयि दाशार्ह यथा पितरि मे तथा॥ अस्मत्तस्तदुपादाय दिव्यमस्त्रं यदूत्तम। ममात्यस्त्रं प्रयच्छ त्वं चक्रं रिपुहणं रणे॥ स राजन् प्रीयमाणेन मयाप्युक्तः कृताञ्जलिः। याचमानः प्रयत्नेन मत्तोऽस्त्रं भरतर्षभ।१६।। देवदानवगन्धर्वमनुष्यपतगोरगाः। न समा मम वीर्यस्य शतांशेनापि पिण्डिताः॥ इदं धनुरियं शक्तिरिदं चक्रमियं गदा। यद्यदिच्छसि चेदस्त्रं मत्तस्तत् तद् ददामि ते॥ यच्छक्नोषि समुद्यन्तुं प्रयोक्तुमपि वा रणे। तद् गृहाण विनास्त्रेण यन्मे दातुमभीप्सति॥ स सुनाभं सहस्रारं वज्रनाभमयस्मयम्। ववे चक्रं महाभागो मत्तः स्पर्धन्मया सह॥ गृहाण चक्रमित्युक्तो मया तु तदनन्तरम्। जग्राहोत्पत्य सहसा चक्र सव्येन पाणिना॥ न चैनमशकत् स्थानात् संचालयितुमप्युत। अथैनं दक्षिणेनापि गृहीतुमुपचक्रमे॥ सर्वयत्नबलेनापि गृह्णन्नेवमिदं ततः। ततः सर्वबलेनापि यदैनं न शशाक ह॥ उद्यन्तुं वा चालयितुं द्रौणिः परमदुर्मनाः। कृत्वा यत्नं परिश्रान्तः स न्यवर्तत भारत॥ निवृत्तमनसं तस्मादभिप्रायाद् विचेतसम्। अहमामन्त्र्य संविग्नमश्वत्थामानमब्रुवम्॥ यः सदैव मनुष्येषु प्रमाणं परमं गतः। गाण्डीवधन्वा श्वेताश्वः कपिप्रवरकेतनः॥ यः साक्षाद् देवदेवेशं शितिकण्ठमुमापतिम्। द्वन्द्वयुद्धे पराजिष्णुस्तोषयामास शङ्करम्॥ यस्मात् प्रियतरो नास्ति ममान्यः पुरुषो भुवि। नादेयं यस्य मे किञ्चिदपि दारा: सुतास्तथा।॥ तेनापि सुहृदा ब्रह्मन् पार्थेनाक्लिष्टकर्मणा। नोक्तपूर्वमिदं वाक्यं यत् त्वं मामभिभाषसे॥ ब्रह्मचर्यं महद् घोरं तीर्खा द्वादशवार्षिकम्। हिमवत्पार्श्वमास्थाय यो मया तपसार्जितः॥ समानव्रतचारिण्यां रुक्मिण्यां योऽन्वजायत। सनत्कुमारस्तेजस्वी प्रद्युम्नो नाम मे सुतः॥ तेनाप्येतन्महद् दिव्यं चक्रमप्रतिमं रणे। न प्रार्थितमभून्मूढ यदिदं प्रार्थितं त्वया॥ रामेणातिबलेनैतन्त्रोक्तपूर्वं कदाचन। न गदेन न साम्बेन यदिदं प्रार्थितं त्वया॥ द्वारकावासिभिश्चान्यैर्वृष्ण्यन्धकमहारथैः। नोक्तपूर्वमिदं जातु यदिदं प्रार्थितं त्वया॥ भारताचार्यपुत्रस्त्वं मानित: सर्वयादवैः। चक्रेण रथिनां श्रेष्ठ कं नु तात युयुत्ससे॥ एवमुक्तो मया द्रौणिर्मामिदं प्रत्युवाच ह। प्रयुज्य भवते पूजां योत्सये कृष्ण त्वया सह॥ प्रार्थितं ते मया चक्रं देवदानवपूजितम्। अजेयः स्यामिति विभो सत्यमेतद् ब्रवीमि ते॥ त्वत्तोऽहं दुर्लभं काममनवाप्यैव केशव। प्रतियास्यामि गोविन्द शिवेनाभिवदस्व माम्॥ एतत् सुभीमं भीमानामृषभेण त्वया धृतम्। चक्रममतिचक्रेण भुवि नान्योऽभिपद्यते॥ एतावदुक्त्वा द्रौणिर्मी युग्यानश्वान् धनानि च। आदायोपययौ काले रत्नानि विविधानि च॥ स संरम्भी दुरात्मा च चपलः क्रूर एव च। वेद चास्त्रं ब्रह्मशिरस्तस्माद् रक्ष्यो वृकोदरः॥ वैशम्पायन उवाच इङ्गितेनैव दाशार्हस्तमभिप्रायमादितः। द्रौणेर्बुद्ध्वा महाबाहुरर्जुनं प्रत्यभाषत॥ अर्जुनार्जुन यदिव्यमस्त्रं ते हृदि वर्तते। द्रोणोपदिष्टं तस्यायं काल: सम्प्रति पाण्डव॥ भ्रातृणामात्मनश्चैव परित्राणाय भारत। विसृजैतत् त्वमप्याजावस्त्रमस्त्रनिवारणम्॥ केशवेनैवमुक्तोऽथ पाण्डवः परवीरहा। अवातरद् रथात् तूर्णं प्रगृह्य सशरं धनुः॥ पूर्वमाचार्यपुत्राय ततोऽनन्तरमात्मने। भ्रातृभ्यश्चैव सर्वेभ्य स्वस्तीत्युक्त्वा परंतपः॥ देवताभ्यो नमस्कृत्य गुरुभ्यश्चैव सर्वशः। उत्ससर्ज शिवं ध्यायन्नस्त्रमस्त्रेण शाम्यताम्॥ ततस्तदस्त्रं सहसा सृष्टं गाण्डीवधन्वना। प्रजज्वाल महार्चिष्मद् युगान्तानलसंनिभम्॥ तथैव द्रोणपुत्रस्य तदस्त्रं तिग्मतेजसः। प्रजज्वाल महाज्वालं तेजोमण्डलसंवृतम्॥ निर्घाता बहवश्चासन् पेतुरुल्काः सहस्रशः। महद् भयं च भूतानां सर्वेषां समजायत॥ सशब्दमभवद् व्योम ज्वालामालाकुलं भृशम्। चचाल च मही कृत्स्ना सपर्वतवनदुमा॥ स त्वस्त्रतेजसी लोकांस्तापयन्ती व्यवस्थिते। महर्षी सहितौ तत्र दर्शयामासतुस्तदा॥ नारदः सर्वभूतात्मा भरतानां पितामहः। उभौ शमयितुं वीरौ भारद्वाजधनंजयौ॥ तौ मुनी सर्वधर्मज्ञौ सर्वभूतहितैषिणौ। दीप्तयोरस्त्रयोर्मध्ये स्थितौ परमतेजसौ। १३॥ तदन्तरमथाधृष्यावुपगम्य यशस्विनौ। आस्तामृषिवरौ तत्र ज्वलिताविव पावकौ॥ प्राणभृद्भिरनाधृष्यौ देवदानवसम्मतौः अस्त्रतेजः शमयितुं लोकानां हितकाम्यया॥ ऋषी ऊचतुः नानाशस्त्रविदः पूर्वे येऽप्यतीता महारथाः। नैतदस्त्रं मनुष्येषु तैः प्रयुक्तं कथंचन। किमिदं साहसं वीरौ कृतवन्तौ महात्ययम्॥ वैशम्पायन उवाच दृष्टैव नरशार्दूल तावग्निसमतेजसौ। गाण्डीवधन्वा संचिन्त्य प्राप्तकालं महारथः। संजहार शरं दिव्यं त्वरमाणो धनंजयः॥ उवाच भरतश्रेष्ठ तावृषी प्राञ्जलिस्तदा। प्रमुक्तमस्त्रमस्त्रेण शाम्यतामिति वै मया॥ संहते परमास्त्रेऽस्मिन् सर्वानस्मानशेषतः। पापकर्मा ध्रुवं द्रौणिः प्रधक्ष्यत्यस्त्रतेजसा॥ यदत्र हितस्माकं लोकानां चैव सर्वथा। भवन्तौ देवसंकाशौ तथा सम्मन्तुमर्हतः॥ इत्युक्त्वा संजहारास्त्रं पुनरेवं धनंजयः। संहारो दुष्करस्तस्य देवैरपि हि संयुगे॥ विसृष्टस्य रणे तस्य परमास्त्रस्य संग्रह। अशक्तः पाण्डवादन्यः साक्षादपि शतक्रतुः॥ ब्रह्मतेजोद्भवं तद्भि विसृष्टमकृतात्मना। न शक्यमावर्तयितुं ब्रह्मचारिव्रतादृते॥ अचीर्णब्रह्मचर्यो यः सृष्ट्वा वर्तयते पुनः। तदस्त्रं सानुबन्धस्य मूर्धानं तस्य कृन्तति॥ ब्रह्मचारी व्रती चापि दुरवापमवाप्य तत्। परमव्यसनार्तोऽपि नार्जुनोऽस्त्रं व्यमुञ्चत॥ सत्यव्रतधरः शूरो ब्रह्मचारी च पाण्डवः। गुरुवर्ती च तेनास्त्रं संजहारार्जुनः पुनः॥ द्रौणिरप्यथ सम्प्रेक्ष्य तावृषी पुरतः स्थितौ। न शशाक पुनर्घोरमस्त्रं संहर्तुमोजसा॥ अशक्तः प्रतिसंहारे परमास्त्रस्य संयुगे। द्रौणिर्दीनमना राजन् द्वैपायनमभाषत॥ उत्तमव्यसनातन प्राणत्राणमभीप्सुना। मयैतदस्त्रमुत्सृष्टं भीमसेनभयान्मुने॥ अधर्मश्च कृतोऽनेन धार्तराष्ट्र जिघांसता। मिथ्याचारेण भगवन् भीमसेनेन संयुगे।॥ अतः सृष्टमिदं ब्रह्मन् मयास्त्रमकृतात्मना। तस्य भूयोऽद्य संहारं कर्तुं नाहमिहोत्सहे॥ विसृष्टं हि मया दिव्यमेतदस्त्रं दुरासदम्। अपाण्डवायेति मुने वह्नितेजोऽनुमन्त्र्य वै॥ तदिदं पाण्डवेयानामन्तकायाभिसंहितम्। अद्य पाण्डुसुतान् सर्वान् जीविताद् भ्रंशयिष्यति॥ कृतं पापमिदं ब्रह्मन् रोषाविष्टेन चेतसा। वधमाशास्य पार्थानां मयास्त्रं सृजता रणे॥ व्यास उवाच अस्त्रं ब्रह्मशिरस्तात विद्वान् पार्थो धनंजयः। उत्सृष्टवान्न रोषेण न नाशाय तवाहवे॥ अस्त्रमस्त्रेण तु रणे तव संशमयिष्यता। विसृष्टमर्जुनेनेदं पुनश्च प्रतिसंहृतम्॥ ब्रह्मास्त्रमण्यवाप्यैतदुपदेशात् पितुस्तव। क्षत्रधर्मान्महाबाहुर्नाकम्पत धनंजयः॥ एवं धृतिमतः साधोः सर्वास्त्रविदुषः सतः। सभ्रातृबन्धोः कस्मात् त्वं वधमस्य चिकीर्षसि॥ अस्त्रं ब्रह्मशिरो यत्र परमास्त्रेण वध्यते। समा द्वादश पर्जन्यस्तद्राष्ट्र नाभिवर्षति॥ एतदर्थं महाबाहुः शक्तिमानपि पाण्डवः। न विहन्त्येतदस्त्रं तु प्रजाहितचिकीर्षया।॥ पाण्डवास्त्वं च राष्ट्रं च सदा संरक्ष्यमेव हि। तस्मात् संहर दिव्यं त्वमस्त्रमेतन्महाभुज॥ अरोषस्तव चैवास्तु पार्थाः सन्तु निरामयाः। न ह्यधर्मेण राजर्षिः पाण्डवो जेतुमिच्छति॥ मणिं चैव प्रयच्छाद्य यस्ते शिरसि तिष्ठति। एतदादाय ते प्राणान् प्रतिदास्यन्ति पाण्डवाः॥ द्रौणिरुवाच पाण्डवैर्यानि रत्नानि यच्चान्यत् कौरवैर्धनम्। अवाप्तमिह तेभ्योऽयं मणिर्मम विशिष्यते॥ यमाबध्य भयं नास्ति शस्त्रव्याधिक्षुधाश्रयम्। देवेभ्यो दानवेभ्यो वा नागेभ्यो वा कथंचन॥ न च रक्षोगणभयं न तस्करभयं तथा। एवंवीर्यो मणिरयं न मे त्याज्यः कथंचन॥ यत्तु मे भगवानाह तन्मे कार्यमनन्तरम्। अयं मणिरयं चाहमीषिका तु पतिष्यति॥ गर्भेषु पाण्डवेयानाममोघं चैतदुत्तमम्। न च शक्तोऽस्मि भगवन् संहर्तुं पुनरुद्यतम्॥ एतदस्त्रमतश्चैव गर्भेषु विसृजाम्यहम्। न च वाक्यं भगवतो न करिष्ये महामुने॥ व्यास उवाच एवं कुरु न चान्या तु बुद्धिः कार्या त्वयानघ। गर्भेषु पाण्डवेयानां विसृज्यैतदुपारम॥ वैशम्पायन उवाच ततः परममस्त्रं तु द्रौणिरुद्यतमाहवे। द्वैपायनवच : श्रुत्वा गर्भेषु प्रमुमोच ह॥ वैशम्पायन उवाच ततः परममस्त्रं तु द्रौणिरुद्यतमाहवे। द्वैपायनवच : श्रुत्वा गर्भेषु प्रमुमोच ह॥ वैशम्पायन उवाच तदाज्ञाय हृषीकेशो विसृष्टं पापकर्मणा। हृष्यमाण इदं वाक्यं द्रौणिं प्रत्यब्रवीत्तदा॥ विराटस्य सुतां पूर्वं स्नुषां गाण्डीवधन्वनः उपप्लव्यगतां दृष्ट्वा व्रतवान् ब्राह्मणोऽब्रवीत्॥ परिक्षीणेषु कुरुषु पुत्रस्तव भविष्यति। एतदस्य परिक्षित्त्वं गर्भस्थस्य भविष्यति॥ तस्य तद् वचनं साधोः सत्यमेतद् भविष्यति। परिक्षिद् भविता ह्येषां पुनर्वंशकरः सुतः॥ एवं ब्रुवाणं गोविन्दं सात्वतां प्रवरं तदा। द्रौणिः परमसंरब्धः प्रत्युवाचेदमुत्तरम्॥ नैतदेवं यथाऽऽत्य त्वं पक्षपातेन केशव। वचनं पुण्डरीकाक्ष न च मद्वाक्यमन्यथा॥ पतिष्यति तदस्त्रं हि गर्भे तस्या मयोद्यतम्। विराटदुहितुः कृष्ण यं त्वं रक्षितुमिच्छसि॥ श्रीभगवानुवाच अमोघः परमास्त्रस्य पातस्तस्य भविष्यति। स तु गर्भो मृतो जातो दीर्घमायुरवाप्स्यति॥ त्वां तु कापुरुषं पापं विदुः सर्वे मनीषिणः। असकृत्पापकर्माणं बालजीवितघातकम्॥ तस्मात्त्वमस्य पापस्य कर्मणः फलमा जुहि। त्रीणि वर्षसहस्त्राणि चरिष्यसि महीमिमाम्॥ अप्राप्नुवन् क्वचित् काञ्चित् संविदं जातु केनचित्। निर्जनानसहायस्त्वं देशान् प्रविचरिष्यसि॥ भवित्री न हि ते क्षुद्र जनमध्येषु संस्थितिः। पूयशोणितगन्धी च दुर्गकान्तारसंश्रयः॥ विचरिष्ससि पापात्मन् सर्वव्याधिसमन्वितः। वयः प्राप्य परिक्षित् तु वेदव्रतमवाप्य च॥ कृपाच्छारद्वताच्छूरः सर्वास्त्राण्युपपत्स्यते। विदित्वा परमास्त्राणि क्षत्रधर्मव्रते स्थितः॥ षष्टिं वर्षाणि धर्मात्मा वसुधां पालयिष्यति। इतश्चोर्ध्वं महाबाहुः कुरुराजो भविष्यति॥ परिक्षिन्नाम नृपतिर्मिषतस्ते सुदुर्मते। अहं तं जीवयिष्यामि दग्धं शस्त्राग्नितेजसा। पश्य मे तपसो वीर्यं सत्यस्य च नराधम॥ व्यास उवाच यस्मादनादृत्य कृतं त्वयास्मान् कर्म दारुणम् ब्राह्मणस्य सतश्चैव यस्मात् ते वृत्तमीदृशम्॥ तस्माद् यद् देवकीपुत्र उक्तवानुत्तमं वचः असंशयं ते तद् भावि क्षत्रधर्मस्त्वयाऽऽश्रितः॥ अश्वत्थामोवाच सहैव भवता ब्रह्मन् स्थास्यामि पुरुषेष्विह। सत्यवागस्तु भगवानयं च पुरुषोत्तमः॥ वैशम्पायन उवाच प्रदायाथ मणिं द्रौणिः पाण्डवानां महात्मनाम्। जगाम विमनास्तेषां सर्वेषां पश्यतां वनम्॥ पाण्डवाश्चापि गोविन्दं पुरस्कृत्य हतद्विषः। कृष्णद्वैपायनं चैव नारदं च महामुनिम्॥ द्रोणपुत्रस्य सहजं मणिमादाय सत्वराः। द्रौपदीमभ्यधावन्त प्रायोपेतां मनस्विनीम्॥ वैशम्पायन उवाच ततस्ते पुरुषव्याघ्राः सदश्वरनिलोपमैः। अभ्ययुः सहदाशार्हाः शिविरं पुनरेव हि॥ अवतीर्य रथेभ्यस्तु त्वरमाणा महारथाः। ददृशुद्रौपदी कृष्णामार्तामार्ततराः स्वयम्॥ तामुपेत्य निरानन्दा दुःखशोकसमन्विताम्। परिवार्य व्यतिष्ठन्त पाण्डवाः सहकेशवाः॥ ततो राज्ञाभ्यनुज्ञातो भीमसेनो महाबलः। प्रददौ तं मणि दिव्यं वचनं चेदमब्रवीत्॥ अयं भद्रे तव मणिः पुत्रहन्तुर्जितः स ते। उत्तिष्ठ शोकमुत्सृज्य क्षात्रधर्ममनुस्मर॥ प्रयाणे वासुदेवस्य शमार्थमसितेक्षणे। यान्युक्तानि त्वया भीरु वाक्यानि मधुघातिनि॥ नैव मे पतयः सन्ति न पुत्रा भ्रातरो न च। न वै त्वमिति गोविन्द शममिच्छन्ति राजनि॥ उक्तवत्यसि तीव्राणि वाक्यानि पुरुषोत्तमम्। क्षत्रधर्मानुरूपाणि तानि संस्मर्तुमर्हसि॥ हतो दुर्योधन: पापो राज्यस्य परिपन्थिकः। दुःशासनस्य रुधिरं पीतं विस्फुरतो मया॥ वैरस्य गतमानृण्यं न स्म वाच्या विवक्षताम्। जित्वा मुक्तो द्रोणपुत्रो ब्राह्मण्याद् गौरवेण च॥ यशोऽस्य पतितं देवि शरीरं त्ववशेषितम्। वियोजितश्च मणिना भ्रंशितश्चायुधं भुवि॥ द्रौपद्युवाच केवलानृण्यमाप्तास्मि गुरुपुत्रो गुरुर्मम। शिरस्येतं मणिं राजा प्रतिबध्नातु भारत॥ तं गृहीत्वा ततो राजा शिरस्येवाकरोत् तदा। गुरोरुच्छिष्टमित्येव द्रौपद्या वचनादपि॥ ततो दिव्यं मणिवरं शिरसा धारयन् प्रभुः। शुशुभे स तदा राजा सचन्द्र इव पर्वतः॥ उत्तस्थौ पुत्रशोकार्ता ततः कृष्णा मनस्विनी। कृष्णं चापि महाबाहुः परिपप्रच्छ धर्मराट्॥ वैशम्पायन उवाच हतेषु सर्वसैन्येषु सौप्तिके तै स्थैस्त्रिभिः। शोचन् युधिष्ठिरो राजा दाशार्हमिदब्रवीत्॥ कथं नु कृष्ण पापेन क्षुद्रेणाकृतकर्मणा। द्रौणिना निहताः सर्वे मम पुत्रा महारथाः॥ तथा कृतास्त्रविक्रान्तः सहस्त्रशतयोधिनः। द्रुपदस्यात्मजाश्चैव द्रोणपुत्रेण पातिताः॥ यस्य द्रोणो महेष्वासो न प्रादादाहवे मुखम्। निजघ्ने रथिनां श्रेष्ठं धृष्टद्युम्नं कथं नु सः॥ किं नु तेन कृतं कर्म तथायुक्तं नरर्षभ। यदेकः समरे सर्वानवधीनो गुरोः सुतः॥ श्रीभगवानुवाच नूनं स देवदेवानामीश्वरेश्वरमव्ययम्। जगाम शरणं द्रौणिरेकस्तेनावधीद् बहून्॥ प्रसन्नो हि महादेवो दद्यादमरतामपि। वीर्यं च गिरिशो दद्याद् येनेन्द्रमपि शातयेत्॥ वेदाहं हि महादेवं तत्त्वेन भरतर्षभ। यानि चास्य पुराणानि कर्माणि विविधानि च॥ आदिरेष हि भूतानां मध्यमन्तश्च भारत। विचेष्टते जगच्चेदं सर्वमस्यैव कर्मणा॥ एवं सिसृक्षुर्भूतानि ददर्श प्रथमं विभुः। पितामहोऽब्रवीच्चैनं भूतानि सृज मा चिरम्॥ हरिकेशस्तथेत्युक्त्वा भूतानां दोषदर्शिवान्। दीर्घकालं तपस्तेपे मग्नोऽम्भसि महातपाः॥ सुमहान्तं ततः कालं प्रतीक्ष्यैनं पितामहः। स्रष्टारं सर्वभूतानां ससर्ज मनसा परम्॥ सोऽब्रवीत् पितरं दृष्ट्वा गिरिशं सुप्तमम्भसि। यदि मे नाग्रजोऽस्त्यन्यस्तत: स्रक्ष्याम्यहं प्रजाः॥ तमब्रवीत् पिता नास्ति त्वदन्यः पुरुषोऽग्रजः। स्थाणुरेष जले मग्नो विस्रब्धः कुरु वैकृतम्॥ भूतान्यन्वसृजत् सप्त दक्षादींस्तु प्रजापतीन्। यैरिमं व्यकरोत् सर्वं भूतग्रामं चतुर्विधम्॥ ताः सृष्टमात्राः क्षुधिताः प्रजाः सर्वाः प्रजापतिम्। बिभक्षयिषवो राजन् सहसा प्राद्रवंस्तदा॥ स भक्ष्यमाणस्त्राणार्थी पितामहमुपाद्रवत्। आभ्यो मां भगवांस्त्रातु वृत्तिरासां विधीयताम्॥ ततस्ताभ्यो ददावन्नमोषधी: स्थावराणि च। जङ्गमानि च भूतानि दुर्बलानि बलीयसाम्॥ विहितान्नाः प्रजास्तास्तु जग्मुः सृष्टा यथागतम्। ततो ववृधिरे राजन् प्रीतिमत्यः स्वयोनिषु॥ भूतग्रामे विवृद्धे तु तुष्टे लोकगुरावपि। उदतिष्ठज्जलाज्ज्येष्ठः प्रजाश्चेमा ददर्श सः॥ बहुरूपाः प्रजाः सृष्टा विवृद्धाश्च स्वतेजसा। चुक्रोध भगवान् रुद्रो लिङ्गं स्वं चाप्यविध्यत॥ तत् प्रविद्धं तथा भूमौ तथैव प्रत्यतिष्ठत। तमुवाचाव्ययो ब्रह्मा वचोभिः शमयन्निव॥ किं कृतं सलिले शर्व चिरकालस्थितेन ते। किमर्थं चेदमुत्पाद्य लिङ्गं भूमौ प्रवेशितम्॥ सोऽब्रवीजाजसंरम्भस्तथा लोकगुरुर्गुरुम्। प्रजाः सृष्टाः परेणेमाः किं करिष्याम्यनेन वै॥ तपसाधिगतं चान्नं प्रजार्थं मे पितामह। ओषध्यः परिवर्तेरन् यथैवं सततं प्रजाः॥ एवमुक्त्वा स सक्रोधो जगाम विमना भवः। गिरेर्मुञ्जवतः पादं तपस्तप्तुं महातपाः॥ श्रीभगवानुवाच ततो देवयुगेऽतीते देवा वै समकल्पयन्। यज्ञं वेदप्रमाणेन विधिवद् यष्टुमीप्सवः॥ कल्पयामासुरथ ते साधनानि हवींषि च। भागार्हा देवताश्चैव यज्ञियं द्रव्यमेव च॥ ता वै रुद्रमजानन्त्यो याथातथ्येन देवताः। नाकल्पयन्त देवस्य स्थाणोर्भागं नराधिप॥ सोऽकल्प्यमाने भागे तु कृत्तिवासा मखेऽमरैः। ततः साधनमन्विच्छन् धनुरादौ ससर्ज ह॥ लोकयज्ञः क्रियायज्ञे गृहयज्ञः सनातनः। पञ्चभूमनृयज्ञश्च जज्ञे सर्वमिदं जगत्॥ लोकयज्ञैर्नृयज्ञैश्च कपर्दी विदधे धनुः। धनुः सृष्टमभूत् तस्य पञ्चकिष्कुप्रमाणतः॥ वषट्कारोऽभवज्या तु धनुषस्तस्य भारत। यज्ञाङ्गानि च चत्वारि तस्य संनहनेऽभवन्॥ ततः क्रुद्धो महादेवस्तदुपादाय कार्मुकम्। आजगामाथा तत्रैव यत्र देवाः समीजिरे॥ तमात्तकार्मुकं दृष्ट्वा ब्रह्मचारिणमव्ययम्। विव्यथे पृथिवी देवी पर्वताश्च चकम्पिरे॥ न ववौ पवनश्चैव नाग्निर्जज्वाल वैधितः। व्यभ्रमचापि संविग्नं दिवि नक्षत्रमण्डलम्॥ न बभौ भास्करचापि सोमः श्रीमुक्तमण्डलः। तिमिरेणाकुलं सर्वमाकाशं चाभवद् वृतम्॥ अभिभूतास्ततो देवा विषयान्न प्रजज्ञिरे। न प्रत्यभाच्च यज्ञः स देवतास्त्रेसिरे तथा॥ ततः स यज्ञं विव्याध रौद्रेण हृदि पत्रिणा। अपक्रान्तस्ततो यज्ञो मृगा भूत्वा सपावकः॥ स तु तेनैव रूपेण दिवं प्राप्य व्यराजत। अन्वीयमानो रुद्रेण युधिष्ठिर नभस्तले॥ अपक्रान्ते ततो यज्ञे सज्ञां न प्रत्यभात् सुरान्। नष्टसंज्ञेषु देवेषु न प्राज्ञायत किंचन॥ त्र्यम्बक सवितुर्बाहू भगस्य नयने तथा। पूष्णश्च दशनान् क्रुद्धो धनुष्कोट्या व्यशातयत्॥ प्राद्रवन्त ततो देवा यज्ञाङ्गानि च सर्वशः। केचित् तत्रैव पूर्णन्तो गतासव इवाभवन्॥ स तु विद्राव्य तत् सर्वं शितिकण्ठोऽवहस्य च। अवष्टभ्य धनुष्कोटि रुरोध विबुधांस्ततः॥ ततो वागमरैरुक्ता ज्यां तस्य धनुषोऽच्छिनत्। आ तत् सहसा राजंश्छिन्नज्यं व्यस्फुरद् धनुः॥ ततो विधनुषं देवा देवश्रेष्ठमुपागमन्। शरणं सह यज्ञेन प्रसादं चाकरोत् प्रभुः॥ ततः प्रसन्नो भगवान् स्थाष्य कोपं जलाशये। स जलं पावको भूत्वा शोषयत्यनिशं प्रभो॥ भगस्य नयने चैव बाहू च सवितुस्तथा। प्रादात् पूष्णश्च दशनान् पुनर्यज्ञांश्च पाण्डव॥ ततः सुस्थमिदं सर्वं बभूव पुनरेव हि। सर्वाणि च हवींष्यस्य देवा भागमकल्पयन्॥ तस्मिन् क्रुद्धेऽभवत् सर्वमसुस्थं भुवनं प्रभो। प्रसन्ने च पुनः सुस्थं प्रसन्नोऽस्य च वीर्यवान्॥ ततस्ते निहताः सर्वे तव पुत्रा महारथाः। अन्ये च बहवः शूराः पाञ्चालस्य पदानुगाः॥ न तन्मनसि कर्तव्यं न च तद् द्रौणिना कृतम्। महादेवप्रसादेन कुरु कार्यमनन्तरम्॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवी सरस्वतीं व्यासं ततो जयमुदीरयेत्। जनमेजय उवाच हते दुर्योधने चैव हते सैन्ये च सर्वशः। धृतराष्ट्रो महाराज श्रुत्वा किमकरोन्मुने॥ तथैव कौरवो राजा धर्मपुत्रो महामनाः। कृपप्रभृतयश्चैव किमकुर्वत ते त्रयः॥ अश्वत्थाम्नः श्रुतं कर्म शापादन्योन्यकारितात्। वृत्तान्तमुत्तरं ब्रूहि यदभाषत संजयः॥ वैशम्पायन उवाच हते पुत्रशते दीनं छिन्नशाखमिव दुमम्। पुत्रशोकाभिसंतप्तं धृतराष्ट्रं महीपतिम्॥ ध्यानमूकत्वमापन्नं चिन्तया सपभिप्लुतम्। अभिगम्य महाराज संजयो वाक्यमब्रवीत्॥ किं शोचसि महाराज नास्ति शोके सहायता। अक्षौहिण्यो हताश्चाष्टौ दश चैव विशाम्पते॥ निर्जनेयं वसुमती शून्या सम्प्रति केवला। नानादिग्भ्यः समागम्य नानादेश्या नराधिपाः॥ सहैव तव पुत्रेण सर्वे वै निधनं गताः। पितृणां पुत्रपौत्राणां ज्ञातीनां सुहृदां तथा। गुरूणां चानुपूर्येण प्रेतकार्याणि कारय॥ वैशम्पायन उवाच तच्छ्रुत्वा करुणं वाक्यं पुत्रपौत्रवधार्दितः। पपात भुवि दुर्धर्षो वाताहत इव दुमः॥ धृतराष्ट्र उवाच हतपुत्रो हतामात्यो हतसर्वसुहज्जनः। दुःखं नूनं भविष्यामि विचरन् पृथिवीमिमाम्॥ किं नु बन्धुविहीनस्य जीवितेन ममाद्य वै। लूनपक्षस्य इव मे जराजीर्णस्य पक्षिणः॥ हृतराज्यो हतबन्धुर्हतचक्षुश्च वै तथा। न भ्राजिष्ये महाप्राज्ञ क्षीणरश्मिरिवांशुमान्॥ न कृतं सुहृदां वाक्यं जामदग्न्यस्य जल्पतः। नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च॥ सभामध्ये तु कृष्णेन यच्छ्रेयोऽभिहितं मम। अलं वैरेण ते राजन् पुत्रः संगृह्यतामिति॥ तच वाक्यमकृत्वाहं भृशं तप्यामि दुर्मतिः। न हि श्रोतास्मि भीष्मस्य धर्मयुक्तं प्रभाषितम्॥ दुर्योधनस्य च तथा वृषभस्येव नर्दतः। श्रुत्वा कर्णस्य च विपर्ययम्॥ द्रोणसूर्योपरागं च हृदयं मे विदीर्यते। न स्मराभ्यात्मनः किंचित् पुरा संजय दुष्कृतम्॥ यस्येदं फलमोह मया मूढेन भुज्यते। दुःशासनवधं नूनं व्यपकृतं किंचिन्मया पूर्वेषु जन्मसु॥ येन मां दुःखभागेषु धाता कर्मसु युक्तवान्। परिणामश्च वयसः सर्वबन्धुक्षयश्च मे॥ सुहृन्मित्रविनाशश्च दैवयोगादुपागतः। कोऽन्योऽस्ति दुःखिततरो मत्तोऽन्यो हि पुमान् भुवि॥ तन्मामद्यैव पश्यन्तु पाण्डवाः संशितव्रताः। विवृतं ब्रह्मलोकस्य दीर्घमध्वानमास्थितम्॥ वैशम्पायन उवाच तस्य लालप्यमानस्य बहुशोकं वितन्वतः। शोकापहं नरेन्द्रस्य संजयो वाक्यमब्रवीत्॥ शोकं राजन् व्यपनुद श्रुतास्ते वेदनिश्चयाः। शास्त्रागमाश्च विविधा वृद्धेभ्यो नृपसत्तम।॥ संजये पुत्रशोकार्ते यदूचुर्मुनयः पुरा। यथा यौवनजं दर्पमास्थिते तं सुते नृप॥ न त्वया सुहृदां वाक्यं ब्रुवतामवधारितम्। स्वार्थश्च न कृतः कश्चिल्लुब्धेन फलगृद्धिना॥ असिनैवैकधारेण स्वबुद्ध्या तु विचेष्टितम्। प्रायशोऽवृत्तसम्पन्नाः सततं पर्युपासिताः॥ यस्य दुःशासनो मन्त्री राधेयश्च दुरात्मवान्। शकुनिश्चैव दुष्टात्मा चित्रसेनश्च दुर्मतिः॥ शल्यश्च येन वै सर्वं शल्यभूतं कृतं जगत्। कुरुवृद्धस्य भीष्मस्य गान्धार्या विदुरस्य च॥ द्रोणस्य च महाराज कृपस्य च शरद्वतः। कृष्णस्य च महाबाहो नारदस्य च धीमतः॥ ऋषीणां च तथान्येषां व्यासस्यामिततेजसः। न कृतं तेन वचनं तव पुत्रेण भारत॥ धर्म: सत्कृतः कश्चिन्नित्यं युद्धमभीप्सता। अल्पबुद्धिरहंकारी नित्यं युद्धमिति ब्रुवन्। क्रूरो दुर्मर्षणो नित्यमसंतुष्टश्च वीर्यवान्॥ श्रुतवानसि मेधावी सत्यवांश्चैव नित्यदा। न मुह्यन्तीदृशाः सन्तो बुद्धिमन्तो भवादृशाः॥ न धर्मः सत्कृतः कश्चित् तव पुत्रेण मारिष। क्षपिताः क्षत्रियाः सर्वे शत्रूणां वर्धितं यशः॥ न मध्यस्थो हि त्वमप्यासीन क्षमकिञ्चिदुक्तवान्। दुधरेण त्वया भारस्तुलया न समं धृतः॥ आदावेव मनुष्येण वर्तितव्यं यथाक्षमम्। यथा नातीतमर्थं वै पश्चात्तापेन युज्यते॥ पुत्रगृद्ध्या त्वया राजन् प्रियं तस्य चिकीर्षितम्। पश्चात्तापमिमं प्राप्तो न त्वं शोचितुमर्हसि॥ केवलं दृष्ट्वा प्रपातं नानुपश्यति। स भ्रष्टो मधुलोभेन शोचत्येवं यथा भवान्॥ अर्थान्न शोचन् प्राप्नोति न शोचन् विन्दते फलम्। न शोचश्रियमाप्नोति न शोचन् विन्दते परम्॥ स्वयमुत्पादयित्वागिनं वस्त्रेण परिवेष्टयन्। दह्यमानो मनस्तापं भजते न स पण्डितः॥ त्वयैव ससुतेनायं वाक्यवायुसमीरितः। लोभाज्येन स संसिक्तो ज्वलितः पार्थपावकः॥ मधु यः तस्मिन् समिद्धे पतिताः शलभा इव ते सुताः। तान् वै शराग्निनिर्दग्धान्न त्वं शोचितुमर्हसि॥ यच्चाश्रुपातात् कलिलं वदनं वहसे नृप। अशास्त्रदृष्टमेतद्धि न प्रशंसन्ति पण्डिताः॥ विस्फुलिङ्गा इव ह्येतान् दहन्ति किल मानवान्। जहीहि मन्यु बुद्ध्या वै धारयात्मानमात्मान॥ वैशम्पायन उवाच एवमाश्वासितस्तेन संजयेन महात्मना। विदुरो भूय एवाह बुद्धिपूर्वं परंतप॥ वैशम्पायन उवाच ततोऽमृतसमैर्वाक्यै दयन् पुरुषर्षभम्। वैचित्रवीर्यं विदुरो यदुवाच निबोध तत्॥ विदुर उवाच उत्तिष्ठ राजन् किं शेषे धारयात्मानमात्मना। एषा वै सर्वसत्त्वानां लोकेश्वर परा गतिः॥ सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः। संयोगा विप्रयोगान्ता मरणान्तं च जीवितम्॥ यदा शूरं च भीरुं च यमः कर्षति भारत। तत् किं न योत्स्यन्ति हि ते क्षत्रियाः क्षत्रियर्षभ॥ अयुध्यमानो म्रियते युध्यमानश्च जीवति। कालं प्राप्य महाराज न कश्चिदतिवर्तते॥ अभावादीनि भूतानि भावमध्यानि भारत। अभावनिधनान्येव तत्र का परिदेवना॥ न शोचन् मृतमन्वेति न शोचन् म्रियते नरः। एवं सांसिद्धिके लोके किमर्थमनुशोचसि।।७ कालः कर्षति भूतानि सर्वाणि विविधान्युत। न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम॥ यथा वायुस्तृणाग्राणि संवर्तयति सर्वशः। तथा कालवशं यान्ति भूतानि भरतर्षभ॥ एकसार्थप्रयातानां सर्वेषां तत्र गामिनाम्। यस्य कालः प्रयात्यग्रे तत्र का परिदेवना॥ न चाप्येतान् हतान् युद्धे राजशोचितुमर्हसि। प्रमाणं यदि शास्त्राणि गतास्ते परमां गतिम्॥ सर्वे स्वाध्यायवन्तो हि सर्वे च चरितव्रताः। सर्वे चाभिमुखाः क्षीणास्तत्र का परिदेवना॥ अदर्शनादापतिताः पुनश्चादर्शनं गताः। नैते तव न तेषां त्वं तत्र का परिदेवना॥ हतोऽपि लभते स्वर्ग हत्वा च लभते यशः। उभयं नो बहुगुणं नास्ति निष्फलता रणे॥ तेषां कामदुधालँ लोकानिन्द्रः संकल्पयिष्यति। इन्द्रस्यातिथयो ोते भवन्ति भरतर्षभ।१५।। न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया। स्वर्ग यान्ति तथा मा यथा शूरा रणे हताः॥ शरीरग्निषु शूराणां जुहुवुस्ते शराहुतीः। हूयमानाशरांश्चैव सेहुस्तेजस्विनो मिथः॥ एवं राजंस्तवाचक्षे स्वयं पन्थानमुत्तमम्। न युद्धादधिकं किंचित् क्षत्रियस्येह विद्यते॥ क्षत्रियास्ते महात्मानः शूराः समितिशोभनाः। आशिषः परमाः प्राप्त न शोर्ध्या सर्व एव हि॥ आत्मानमात्मनाऽऽश्वास्य मा शुचः पुरुषर्षभ। नाद्य शोकाभिभूतस्त्वं कायमुत्स्रष्टुमर्हसि॥ मातापितृसहस्राणि पुत्रदारशतानि च। संसारेष्वनुभूतानि कस्य ते कस्य वा वयम्॥ शोकस्थानसहस्राणि भयस्थानशतानि च। दिवसे दिवसे मूढमाविशन्ति च पण्डितम्॥ न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम। न मध्यस्थः क्वचित्कालः सर्वं कालः प्रकर्षति॥ काल: पचति भूतानि कालः संहरते प्रजाः। कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः॥ अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः। आरोग्यं प्रियसंवासो गृद्ध्येदेषु न पण्डितः॥ न जानपदिकं दुःखमेकः शोचितुमर्हसि। अप्यभावेन युज्यते तचास्य न निवर्तते॥ अशोचन् प्रतिकुर्वीत यदि पश्येत् पराक्रमम्। भैषज्यमेतद् दुःखस्य यदेतन्नानुचिन्तयेत्॥ चिन्त्यमानं हि न व्येति भूयश्चापि प्रवर्धते। अनिष्टसम्प्रयोगाच विप्रयोगात् प्रियस्य च॥ मानुषा मानसैर्दुःखैर्दह्यन्ते चाल्पबुद्धयः। नार्थो न धर्मो न सुखं यदेतदनुशोचसि॥ न च नापैति कार्यार्थात्रिवर्गाचैव हीयते। अन्यामन्यां धनावस्थां प्राप्य वैशेषिकी नराः॥ असंतुष्टाः प्रमुह्यनित संतोष यान्ति पण्डिताः। प्रज्ञया मानसं दुःखं हन्याच्छरीरमौषधैः। एतद् विज्ञानसामर्थ्यं न बालैः समतामियात्॥ शयानं चानुशेते हि तिष्ठन्तं चानुतिष्ठति। अनुधावति धावन्तं कर्म पूर्वकृतं नरम्॥ यस्यां यस्यामवस्थायां यत् करोति शुभाशुभम्। तस्यां तस्यामवस्थायां तत्फलं समुपाश्नुते॥ येन येन शरीरेण यद्यत् कर्म करोति यः। तेन तेन शरीरेण तत्फलं समुपाश्नुते॥ आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः। आत्मैव ह्यात्मनः साक्षी कृतस्यापकृतस्य च॥ शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा। कृतं भवति सर्वत्र नाकृतं विद्यते क्वचित्॥ न हि ज्ञानविरुद्धेषु बह्वपायेषु कर्मसु। मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः॥ धृतराष्ट्र उवाच सुभाषितैर्महाप्राज्ञ शोकोऽयं विगतो मम। भूय एव तु वाक्यानि श्रोतुमिच्छामि तत्त्वतः॥ अनिष्टानां च संसर्गादिष्टानां च विसर्जनात्। कथं हि मानसैर्दुःखै प्रमुच्यन्ते तु पण्डिताः॥ विदुर उवाच यतो यतो मनो दुःखात् सुखाद् वा विप्रमुच्यते। ततस्ततो नियम्यैतच्छान्तिं विन्देत वै बुधः॥ अशाश्वतमिदं सर्वं चिन्त्यमानं नरर्षभ। कदलीसंनिभो लोकः सारो ह्यस्य न विद्यते॥ यदा प्राज्ञाश्चे मूढाश्च धनवन्तोऽथ निर्धनाः। सर्वे पितृवनं प्राप्य स्वपन्ति विगतज्वराः॥ निर्मासैरस्थिभूयिष्ठैर्गात्रैःस्नायुनिबन्धनैः। किं विशेष प्रपश्यन्ति तत्र तेषां परे जनाः॥ येन प्रत्यवगच्छेयुः कुलरूपविशेषणम्। कस्मादन्योन्यमिच्छन्ति विप्रलब्धधियो नराः॥ गृहाणीव हि मानामाहुर्देहानि पण्डिताः। कालेन विनियुज्यन्ते सत्त्वमेकं तु शाश्वतम्॥ यथा जीर्णमजीर्णं वा वस्त्रं त्यक्त्वा तु पूरुषः। अन्यद् रोचयते वस्त्रमेवं देहाः शरीरिणाम्॥ वैचित्रवीर्य प्राप्यं हि दुःखं वा यदि वा सुखम्। प्राप्नुवन्तीह भूतानि स्वकृतेनैव कर्मणा॥ कर्मणा प्राप्यते स्वर्गः सुखं दुःखं च भारत। ततो वहति तं भारमवशः स्ववशोऽपि वा॥ यथा च मृन्मयं भाण्डं चक्रारूढं विपद्यते। किंचित् प्रक्रियमाणं वा कृतमात्रमथापि वा॥ छिन्नं वाप्यवरोप्यन्तमवतीर्णमथापि वा। आर्द्र वाप्यथवा शुष्कं पच्यमानमथापि वा॥ उत्तार्यमाणमापाकादुद्धृतं चापि भारत। अथवा परिभुज्यन्तमेवं देहाः शरीरिणाम्॥ गर्भस्थो वा प्रसूतो वाप्यथ वा दिवसान्तरः। अर्धमासगतो वापि मासमात्रगतोऽपि वा॥ संवत्सरगतो वापि द्विसंवत्सर एव वा। यौवनस्थोऽथ मध्यस्थो वृद्धो वापि विपद्यते॥ प्राक्कर्मभिस्तु भूतानि भवन्ति न भवन्ति च। एवं सांसिद्धिके लोके किमर्थमनुतप्यसे॥ यथा तु सलिलं राजन् क्रीडार्थमनुसंतरत्। उन्मजेच निमज्जेच किंचित् सत्त्वं नराधिप॥ एवं संसारगहने उन्मजननिमजने। कर्मभोगेन बध्यन्ते किश्यन्ते चाल्पबुद्धयः॥ ये तु प्राज्ञाः स्थिताः सत्त्वे संसारेऽस्मिन् हितैषिणः। समागमज्ञा भूतानां ते यान्ति परमां गतिम्॥ धृतराष्ट्र उवाच कथं संसारगहनं विज्ञेयं वदतां वर एतदिच्छाम्यहं श्रोतुं तत्त्वमाख्याहि पृच्छतः॥ विदुर उवाच जन्मप्रभृति भूतानां क्रिया सर्वोपलक्ष्यते। पूर्वमेवेह कलिले वसते किंचिदन्तरम्॥ ततः स पञ्चमेऽतीते मासे वासमकल्पयत्। ततः सर्वाङ्गसम्पूर्णो गर्भो वै स तु जायते॥ अमेध्यमध्ये वसति मांसशोणितलेपने। ततस्तु वायुवेगेन अर्ध्वपादो ह्यधःशिराः॥ योनिद्वारमुपागम्य बहून् क्लेशान् समृच्छति। योनिसम्पीडनाच्चैव पूर्वकर्मभिरन्वितः॥ तस्मान्मुक्तः स संसारादन्यान् पश्यत्युपद्रवान्। ग्रहास्तमनुगच्छन्ति सारमेया इवामिषम्॥ ततः प्राप्तोत्तरे काले व्याधयश्चापि तं तथा। उपसर्पन्ति जीवन्तं बध्यमानं स्वकर्मभिः॥ तं बद्धमिन्द्रियैः पाशैः संगस्वादुभिरावृतम्। व्यसनान्यपि वर्तन्ते विविधानि नराधिप।॥ बध्यमानश्च तैर्भूयो नैव तृप्तिमुपैति सः। तदा नावैति चैवायं प्रकुर्वन् साध्वसाधु वा॥ तथैव परिरक्षिन्त ये ध्यानपरिनिष्ठितः। अयं न बुध्यते तावद् यमलोकमथागतम्॥ यमदूतैर्विकृष्यंश्च मृत्यु कालेन गच्छति। वाग्धीनस्य च यन्मात्रमिष्टानिष्टं कृतं मुखे। भूय एवात्मनाऽऽत्मानं बध्यमानमुपेक्षते॥ अहो विनिकृतो लोको लोभेन च वशीकृतः। लोभक्रोधभयोन्मत्तो नात्मानमवबुध्यते॥ कुलीनत्वे च रमे दुष्कुलीनान् विकुत्सयन्। धनदर्पण दृप्तश्च दरिद्रान् परिकुत्सयन्॥ मूर्खानिति परानाहं नात्मानं समवेक्षते। दोषान् क्षिपति चान्येषां नात्मानं शास्तुमिच्छति॥ यदा प्राज्ञाश्च मूर्खाश्च धनवन्तश्च निर्धनाः। कुलीनाश्चाकुलीनाश्च मानिनोऽथाप्यमानिनः॥ सर्वे पितृवनं प्राप्ताः स्वपन्ति विगतत्वचः। निर्मासैरस्थिभूयिष्ठैर्गात्रैः स्नायुनिबन्धनैः॥ विशेष न प्रपश्यन्ति तत्र तेषां परे जनाः। येन प्रत्यवगच्छेयुः कुलरूपविशेषणम्॥ यदा सर्वे समं न्यस्ता: स्वपन्ति धरणीतले। कस्मादन्योन्यमिच्छन्ति प्रलब्धुमिह दुर्बुधाः॥ प्रत्यक्षं च परोक्षं च यो निशम्य श्रुतिं त्विमाम्। अधुवे जीवलोकेऽस्मिन् यो धर्ममनुपालयन्। जन्मप्रभृति वर्तेत प्राप्नुयात् परमां गतिम्॥ एवं सर्वं विदित्वा वै यस्तत्त्वमनुवर्तते। स प्रमोक्षाय लभते पन्थानं मनुजेश्वर॥ धृतराष्ट्र उवाच अहोऽभिहितमाख्यानं भवता तत्त्वदर्शिना। भूय एव तु मे हर्षः श्रुत्वा वागमृतं तव॥ विदुर उवाच शृणु भूयः प्रवक्ष्यामि मार्गस्यैतस्य विस्तरम्। यच्छ्रुत्वा विप्रमुच्यन्ते संसारेभ्यो विचक्षणाः॥ यथा तु पुरुषो राजन् दीर्घमध्वानमास्थितः। क्वचित् क्वचिच्छ्रमाच्छ्रान्तः कुरुते वासमेव वा॥ एवं संसारपर्याये गर्भवासेषु भारत। कुर्वन्ति दुर्बुधा वासं मुच्यन्ते तत्र पण्डिताः॥ तस्मादध्वानमेवैतमाहुः शास्त्रविदो जनाः। यत्तु संसारगहनं वनमाहुर्मनीषिणः॥ सोऽयं लोकसमावर्तो मानां भरतर्षभ। चराणां स्थावराणां च न गृध्येत् तत्र पण्डितः॥ शारीरा मानसाश्चैव मानां ये तु व्याधयः। प्रत्यक्षाश्च परोक्षाश्च ते व्यालाः कथिता बुधैः॥ क्लिश्यमानाश्च तैर्नित्यं वार्यमाणाश्च भारत। स्वकर्मभिर्महाव्यालै!द्विजन्त्यल्पबुद्धयः॥ अथापि तैर्विमुच्येत व्याधिभिः पुरुषो नृप। आवृणोत्येव तं पश्चाजरा रूपविनाशिनी॥ शब्दरूपरसस्पर्शेर्गन्धैश्च विविधैरपि। मज्जमांसमहापङ्के निरालम्बे समन्ततः॥ संवत्सराश्च मासाश्च पक्षाहोरात्रसंधयः। क्रमेणास्योपयुञ्जन्ति रूपमायुस्तथैव च॥ एते कालस्य निधयो नैताञ्जानन्ति दुर्बुधाः। धात्राभिलिखितान्याहुः सर्वभूतानि कर्मणा॥ रथः शरीरं भूतानां सत्त्वमाहुस्तु सारथिम्। इन्द्रियाणि हयानाहुः कर्मबुद्धिस्तु रश्मयः॥ तेषां हयानां यो वेगं धावतामनुधावति। स तु संसारचक्रेऽस्मिश्चक्रवत् परिवर्तते॥ यस्तान् संयमते बुद्ध्या संयतो न निवर्तते। ये तु संसारचक्रेऽस्मिंश्चक्रवत् परिवर्तिते॥ भ्रममाणा न मुह्यन्ति संसारे न भ्रमन्ति ते। संसारे भ्रमतां राजन् दुःखमेतद्धि जायते॥ तस्मादस्य निवृत्त्यर्थं यत्नमेवाचरेद् बुधः। उपेक्षा नात्र कर्तव्या शतशाखः प्रवर्धते॥ यतेन्द्रियो नरो राजन् क्रोधलोभनिराकृतः। संतुष्टः सत्यवादी यः स शान्तिमधिगच्छति॥ याम्यमाहू रथं ह्येनं मुह्यन्ते येन दुर्बुधाः। स चैतत् प्राप्नुयाद् राजन् यत् त्वां प्राप्तो नराधिप।।१९ अनुतर्षुलमेवैतद् दुःखं भवति मारिष। राज्यनाशं सुहन्नाशं सुतनाशं च भारत॥ साधुः परमदुःखानां दुःखभैषज्यमाचरेत्। ज्ञानौषधमवाप्येह दूरपारं महौषधम्। छिन्द्याद् दुःखमहाव्याधि नरः संयतमानसः॥ न विक्रमो न चाप्यर्थो न मित्रं न सुहृज्जनः। तथोन्मोचयते दुःखाद् यथाऽऽत्मा स्थिरसंयमः॥ तस्मान्मैत्रं समास्थाय शीलमापद्य भारत। दमस्त्यागोऽप्रमादश्च ते त्रयो ब्रह्मणो हयाः॥ शीलरश्मिसमायुक्तः स्थितो यो मानसे रथे। त्यक्त्वा मृत्युभयं राजन् ब्रह्मलोकं स गच्छति॥ अभयं सर्वभूतेभ्यो यो ददाति महीपते। स गच्छति परं स्थानं विष्णोः पदमनामयम्॥ न तत् ऋतुसहस्रेण नोपवासैश्च नित्यशः। अभयस्य च दानेन यत् फलं प्राप्नुयान्नरः॥ न ह्यात्मनः प्रियतरं किंचिद् भूतेषु निश्चितम्। अनिष्टं सर्वभूतानां मरणं नाम भारत॥ तस्मात् सर्वेषु भूतेषु दया कार्या विपश्चिता। नानामोहसमायुक्ता बुद्धिजालेन संवृताः॥ असूक्ष्मदृष्ट्यो मन्दा भ्राम्यन्ते तत्र तत्र ह। सुसूक्ष्मदृष्ट्यो राजन् व्रजन्ति ब्रह्म शाश्वतम्॥ वैशम्पायन उवाच विदुरस्य तु तद् वाक्यं निशम्य कुरुसत्तमः। पुत्रशोकाभिसंतप्तः पपात भुवि मूर्छितः॥ तं तथा पतितं भूमौ नि:संज्ञं प्रेक्ष्य बान्धवाः। कृष्णद्वैपायनश्चैव क्षत्ता व विदुरस्तथा॥ संजयः सुहृदश्चान्ये द्वा:स्था ये चास्य सम्मताः। जलेन सुखशीतेन तालवृन्तैश्च भारत॥ पस्पृशुश्च करैर्गानं वीजमानाश्च यत्नतः। अन्वासन् सुचिरं कालं धृतराष्ट्र तथागतम्॥ अथ दीर्घस्य कालस्य लब्धसंज्ञो महीपतिः। विललाप चिरं कालं पुत्राधिभिरभिप्लुतः॥ धिगस्तु खलु मानुष्यं मानुषेषु परिग्रहे। यतो मूलानि दुःखानि सम्भवन्ति मुहुर्मुहुः॥ पुत्रनाशेऽर्थनाशे च ज्ञातिसम्बन्धिनामथ। प्राप्यते सुमहद् दुःखं विषाग्निप्रतिमं विभो॥ येन दह्यन्ति गात्राणि येन प्रज्ञा विनश्यति। येनाभिभूतः पुरुषो मरणं बहु मन्यते॥ तदिदं व्यसनं प्राप्तं मया भाग्यविपर्ययात्। तस्यान्तं नाधिगच्छामि ऋते प्राणविमोक्षणात्॥ तथैवाहं करिष्यामि अद्यैव द्विजसत्तम। इत्युक्त्वा तु महात्मानं पितरं ब्रह्मवित्तमम्॥ धृतराष्ट्रोऽभवन्मूढः स शोकं परमं गतः। अभूच तूष्णीं राजासौ ध्यायमानो महीपते॥ तस्य तद् वचनं श्रुत्वा कृष्णद्वैपायनः प्रभुः। पुत्रशोकाभिसंतप्तं पुत्रं वचनमब्रवीत्॥ व्यास उवाच धृतराष्ट्रो महाबाहो यत् त्वां वक्ष्यामि तच्छृणु। श्रुतवानसि मेधावी धर्मार्थकुशलः प्रभो॥ न तेऽस्त्यविदितं किंचिद् वेदितव्यं परंतप। अनित्यतां हि मानां विजानासि न संशयः॥ अध्रुवे जीवलोके च स्थाने वा शाश्वते सति। जीविते मरणान्ते च कस्माच्छोचसि भारत॥ प्रत्यक्षं तव राजेन्द्र वैरस्यास्य समुद्भवः। पुत्रं ते कारणं कृत्वा कालयोगेन कारितः॥ अवश्यं भवितव्ये च कुरूणां वैशसे नृप। कस्माच्छोचसि ताशूरान् गतान् परमिकां गतिम्।। जानता च महाबाहो विदुरेण महात्मना। यतितं सर्वयत्नेन शमं प्रति जनेश्वर॥ न च दैवकृतो मार्गः शक्यो भूतेन केनचित्। घटतापि चिरं कालं नियन्तुमिति मे मतिः॥ देवतानां हि यत् कार्यं मया प्रत्यक्षतः श्रुतम्। तत् देऽहं सम्प्रवक्ष्यामि यथा स्थैर्यं भवेत् तव॥ पुराहं त्वरितो यातः सभामैन्द्री जितकमः। अपश्यं तत्र च तदा समवेतान् दिवौकसः॥ नारदप्रमुखाश्चापि सर्वे देवर्षयोऽनघ तत्र चापि मया हृष्टा पृथिवी पृथिवीपते॥ कार्यार्थमुपसम्प्राप्ता देवतानां समीपतः। उपगम्य तदा धात्री देवानाह समागतान्॥ यत् कार्यं मम युष्माभिर्ब्रह्मणः सदने तदा। प्रतिज्ञातं महाभागास्तच्छीघ्रं संविधीयताम्॥ तस्यास्तद् वचनं श्रुत्वा विष्णुर्लोकनमस्कृतः। उवाच वाक्यं प्रहसन् पृथिवी देवसंसदि॥ धृतराष्ट्रस्य पुत्राणां यस्तु ज्येष्ठः शतस्य वै। दुर्योधन इति ख्यातः स ते कार्यं करिष्यति॥ तं च प्राप्य महीपालं कृतकृत्या भविष्यसि। तस्यार्थे पृथिवीपाला: कुरुक्षेत्रं समागताः॥ अन्योन्यं घातयिष्यन्ति दृढैः शस्त्रैः प्रहारिणः। ततस्ते भविता देवि भारस्य युधि नाशनम्॥ गच्छ शीघ्रं स्वकं स्थानं लोकान् धारय शोभने। य एष ते सुतो राजन् लोकसंहारकारणात्॥ कलेरंशः समुत्पन्नो गान्धार्या जठरे नृप। अमर्षी चपलश्चापि क्रोधनो दुष्प्रसाधनः॥ दैवयोगात् समुत्पन्ना भ्रातरश्चास्य तादृशाः। शकुनिर्मातुलश्चैव कर्णश्च परमः सखा॥ समुत्पन्ना विनाशार्थं पृथिव्यां सहिता नृपाः। यादृशो जायते राजा तादृशोऽस्य जनो भवेत्॥ अधर्मो धर्मतां याति स्वामी चेद् धार्मिको भवेत्। स्वामिनो गुणदोषाभ्यां भृत्याः स्युर्नात्र संशयः॥ दुष्टं राजानमासाद्य गतास्ते तनया नृप। एतमर्थं महाबाहो नारदो वेद तत्त्ववित्॥ आत्मापराधात् पुत्रास्ते विनष्टाः पृथिवीपते। मा ताशोचस्व राजेन्द्र न हि शोकेऽस्ति कारणम्।।३५ न हि ते पाण्डवाः स्वल्पमपराध्यन्ति भारत। पुत्रास्तव दुरात्मानो यैरियं घातिता मही॥ नारदेन च भद्रं ते पूर्वमेव न संशयः। युधिष्ठिरस्य समितौ राजसूये निवेदितम्॥ पाण्डवाः कौरवाः सर्वे समासाद्य परस्परम्। न भविष्यन्ति कौन्तेय यत् ते कृत्यं तदाचर॥ नारदस्य वचः श्रुत्वा तदाशोचन्त पाण्डवाः। एवं ते सर्वमाख्यातं देवगुह्यं सनातनम्॥ कथं ते शोकनाश: स्यात् प्राणेषु च दया प्रभो। स्नेहश्च पाण्डुपुत्रेषु ज्ञात्वा दैवकृतं विधिम्॥ एष चार्थो महाबाहो पूर्वमेव मया श्रुतः। कथितो धर्मराजस्य राजसूये ऋतूत्तमे॥ यतितं धर्मपुत्रेण मया गुह्ये निवेदिते। अविग्रहे कौरवाणां दैवं तु बलवत्तरम्॥ अनतिक्रमणीयो हि विधि राजन् कथंचन। कृतान्तस्य तु भूतेन स्थावरेण चरेण च॥ भवान् धर्मपरो यत्र बुद्धिश्रेष्ठश्च भारत। मुह्यते प्राणिनां ज्ञात्वा गतिं चागतिमेव च॥ त्वां तु शोकेन संतप्तं मुह्यमानं मुहुर्मुहुः। ज्ञात्वा युधिष्ठिरो राजा प्राणानपि परित्यजेत्॥ कृपालुनित्यशो वीरस्तिर्यग्योनिगतेष्वपि। स कथं त्वयि राजेन्द्र कृपां नैव करिष्यति॥ मम चैव नियोगेन विधेश्चाप्यनिवर्तनात्। पाण्डवानां च कारुण्यात् प्राणान् धारय भारत।॥ एवं ते वर्तमानस्य लोके कीर्तिर्भविष्यति। धर्मार्थः सुमहांस्तात तप्तं स्याच तपश्चिरात्॥ पुत्रशोकं समुत्पन्नं हुताशं ज्वलितं यथा। प्रज्ञाम्भसा महाभाग निर्वापय सदा सदा॥ वैशम्पायन उवाच तच्छ्रुत्वा तस्य वचनं व्यासस्यामिततेजसः। मुहूर्तं समनुध्यायन् धृतराष्ट्रोऽभ्यभाषत।॥ महता शोकजालेन प्रणुन्नोऽस्मि द्विजोत्तम। नात्मानमवबुध्यामि मुह्यमानो मुहुर्मुहुः॥ इदं तु वचनं श्रुत्वा तव देवनियोगजम्। धारयिष्याम्यहं प्राणान् घटिष्ये न तु शोचितुम्॥ एतच्छ्रुत्वा तु वचनं व्यासः सत्यवतीसुतः। धृतराष्ट्रस्य राजेन्द्र तत्रैवान्तरधीयत॥ जनमेजय उवाच गते भगवति व्यासे धृतराष्ट्रो महीपतिः। किमचेष्टत विप्रर्षे तन्मे व्याख्यातुमर्हसि॥ तथैव कौरवो राजा धर्मपुत्रो महामनाः। कृपप्रभृतयश्चैव किमकुर्वत ते त्रयः॥ अश्वत्थाम्नः श्रुतं कर्म शापश्चान्योन्यकारितः। वृत्तान्तमुत्तरं ब्रूहि यदभाषत संजयः॥ वैशम्पायन उवाच हते दुर्योधने चैव हते सैन्ये च सर्वशः। संजयो विगतप्रज्ञो धृतराष्ट्रमुपस्थितः॥ संजय उवाच आगम्य नानादेशेभ्यो नानाजनपदेश्वराः। पितृलोकं गता राजन् सर्वे तव सुतैः सह॥ याच्यमानेन सततं तव पुत्रेण भारत। घातिता पृथिवी सर्वा वैरस्यान्तं विधित्सता॥ पुत्राणामथ पौत्राणां पितॄणां च महीपते। आनुपूर्येण सर्वेषां प्रेतकार्याणि कारय॥ वैशम्पायन उवाच तच्छ्रुत्वा वचनं घोरं संजयस्य महीपतिः। गतासुरिव निश्चेष्टो न्यपतत् पृथिवीतले॥ तं शयानमुपागम्य पृथिव्यां पृथिवीपतिम्। विदुरः सर्वधर्मज्ञ इदं वचनमब्रवीत्॥ उत्तिष्ठ राजन् किं शेषे मा शुचो भरतर्षभ। एषा वै सर्वसत्त्वानां लोकेश्वर परा गतिः॥ अभावादीनि भूतानि भावमध्यानि भारत। अभावनिधनान्येव तत्र का परिदेवना॥ न शोचन् मृतमन्वेति न शोचन म्रियते नरः। एवं सांसिद्धिके लोके किमर्थमनुशोचसि॥ अयुध्यमानो म्रियते युद्धयमानस्तु जीवति। कालं प्राप्य महाराज न कश्चिदतिवर्तते॥ कालः कर्षति भूतानि सर्वाणि विविधानि च। न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम॥ यथा वायुस्तृणाग्राणि संवर्तयति सर्वतः। तथा कालवशं यान्ति भूतानि भरतर्षभ॥ एकसार्थप्रयातानां सर्वेषां तत्र गामिनाम्। यस्य कालः प्रयात्यग्रे तत्र का परिदेवना॥ यांश्चापि निहतान् युद्धे राजंस्त्वमनुशोचसि। न शोच्या हि महात्मानः सर्वे ते त्रिदिवं गताः॥ न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया। तथा स्वर्गमुपायान्ति यथा शूरास्तनुत्यजः॥ सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः। सर्वे चाभिमुखाः क्षीणास्तत्र का परिदेवना॥ शरीराग्निषु शूराणां जुहुवुस्ते शराहुतीः। हूयमानाशरांश्चैव सेहुरुत्तमपूरुषाः॥ एवं राजंस्तवाचक्षे स्वयं पन्थानमुत्तमम्। न युद्धादधिकं किंचित् क्षत्रियस्येह विद्यते॥ क्षत्रियास्ते महात्मानः शूराः समितिशोभनाः। आशिषं परमां प्राप्ता न शोच्याः सर्व एव हि॥ आत्मनाऽऽत्मानमाश्वास्य मा शुचः पुरुषर्षभ। नाद्य शोकाभिभूतस्त्वं कार्यमुत्स्रष्टुमर्हसि।॥ वैशम्पायन उवाच विदुरस्य तु तद् वाक्यं श्रुत्वा तु पुरुषर्षभः। युज्यतां यानमित्युक्त्वा पुनर्वचनमब्रवीत्॥ शीघ्रमानय गान्धारीं सर्वाश्च भरतस्त्रियः। वधूं कुन्तीमुपादाय याश्चान्यास्तत्र योषितः॥ एवमुक्त्वा स धर्मात्मा विदुरं धर्मवित्तमम्। शोकविप्रहतज्ञानो यानमेवान्वपद्यत॥ गान्धारी पुत्रशोकार्ता भर्तुर्वचननोदिता। सह कुन्त्या यतो राजा सह स्त्रीभिरुपाद्रवत्॥ ताः समासाद्य राजानं भृशं शोकसमन्विताः। आमन्त्र्यान्योन्यमीयुः स्म भृशमुच्चुक्रुशुस्ततः॥ ताः समाश्वासयत् क्षत्ता ताभ्यश्चार्ततरः स्वयम्। अश्रुकण्ठी: समारोप्य ततोऽसौ निर्ययौ पुरात्॥ ततः प्रणादः संजज्ञे सर्वेषु कुरुवेश्मसु। आकुमारं पुरं सर्वमभवच्छोककर्षितम्॥ अदृष्टपूर्वा या नार्यः पुरा देवगणैरपि। पृथग्जनेन दृश्यन्ते तास्तदा निहतेश्वराः॥ प्रकीर्य केशान् सुशुभान् भूषणान्यवमुच्य च। एकवस्त्रधरा नार्यः परिपेतुरनाथवत्॥ श्वेतपर्वतरूपेभ्यो गृहेभ्यस्तास्त्वपाक्रमन्। गुहाभ्य इव शैलानां पृषत्यो हतयूथपाः॥ तान्युदीर्णानि नारीणां तदा वृन्दान्यनेकशः। शोकार्तान्यद्रवन् राजन् किशोरीणामिवाङ्गने॥ प्रगृह्य बाहून् क्रोशन्त्यः पुत्रान् भ्रातॄन् पितॄनपि। दर्शयन्तीव ता ह स्म युगान्ते लोकसंक्षयम्॥ विलपन्त्यो रुदत्यश्च धावमानास्ततस्ततः। शोकेनोपहतज्ञानाः कर्तव्यं न प्रजज्ञिरे॥ व्रीडां जग्मुः पुरा याः स्म सखीनामपि योषितः। ता एकवस्त्रा निर्लज्जाः श्वश्रूणां पुरतोऽभवन्॥ परस्परं सुसूक्ष्मेषु शोकेष्वाश्वासयंस्तदा। ताः शोकविह्वला राजन्नवैक्षन्त परस्परम्॥ ताभिः परिवृतो राजा रुदतीभिः सहस्रशः। निर्ययौ नगराद् दीनस्तूर्णमायोधनं प्रति॥ शिल्पिनो वणिजो वैश्याः सर्वकर्मोपजीविनः। ते पार्थिवं पुरस्कृत्य निर्ययुर्नगराद् बहिः॥ तासां विक्रोशमानानामार्तानां कुरुसंक्षये। प्रादुरासीन्महाशब्दो व्यथयन् भुवनान्युत॥ युगान्तकाले सम्प्राप्ते भूतानां दह्यतामिव। अभावः स्यादयं प्राप्त इति भूतानि मेनिरे॥ भृशमुद्विग्नमनसस्ते पौराः कुरुसंक्षये। प्राक्रोशन्त महाराज स्वनुरक्तास्तदा भृशम्॥ वैशम्पायन उवाच क्रोशमात्रं ततो गत्वा ददृशुस्तान् महारथान्। शारद्वतं कृपं द्रौणिं कृतवर्माणमेव च॥ ते तु दृष्ट्वैव राजानं प्रज्ञाचक्षुषमीश्वरम्। अश्रुकण्ठा विनिःश्वस्य रुदन्तमिदमब्रुवन्॥ पुत्रस्तव महाराज कृत्वा कर्म सुदुष्करम्। गतः सानुचरो राजशक्रलोकं महीपते॥ दुर्योधनबलान्मुक्ता वयमेव त्रयो रथाः। सर्वमन्यत् परिक्षीणं सैन्यं ते भरतर्षभ॥ इत्येवमुक्तवा राजानं कृपः शारद्वतस्ततः। गान्धारी पुत्रशोकार्तमिदं वचनमब्रवीत्॥ अभीता युद्ध्यमानास्ते जन्तः शत्रुगणान् बहून्। वीरकर्माणि कुर्वाणाः पुत्रास्ते निधनं गताः॥ ध्रुवं सम्प्राप्य लोकांस्ते निर्मलाशस्त्रनिर्जितान्। भास्वरं देहमास्थाय विहरन्त्यमरा इव॥ न हि कश्चिद्वि शूराणां युद्ध्यमानः पराङ्मुखः। शस्त्रेण निधनं प्राप्तो न च कश्चित् कृताञ्जलिः॥ एवं तां क्षत्रियस्याहुः पुराणाः परमां गतिम्। शस्त्रेण निधनं संख्ये तत्र शोचितुमर्हसि॥ न चापि शत्रवस्तेषामृद्ध्यन्ते राज्ञि पाण्डवाः। शृणु यत् कृतमस्माभिरश्वत्थामपुरोगमैः॥ अधर्मेण हतं श्रुत्वा भीमसेनेन ते सुतम्। सुप्तं शिविरमासाद्य पाण्डूनां कदनं कृतम्॥ ते पञ्चाला निहताः सर्वे धृष्टद्युम्नपुरोगमाः। द्रुपदस्यात्मजाश्चैव द्रौपदेयाश्च पातिताः॥ तथा विशसनं कृत्वा पुत्रशत्रुगणस्य ते। प्राद्रवाम रणे स्थातुं न हि शक्यामहे त्रयः॥ ते हि शूरा महेष्वासाः क्षिप्रमेष्यन्ति पाण्डवाः। अमर्षवशमापन्ना वैरं प्रतिजिहीर्षवः॥ हतानात्मजाञ्श्रुत्वाप्रमत्ताः पुरुषर्षभाः। निरीक्षन्तः पदं शूराः क्षिप्रमेव यशस्विनि॥ तेषां तु कदनं कदनं कृत्वा संस्थातुं नोत्सहामहे। अनुजानीहि नो राज्ञि मा च शोके मनः कृथाः॥ राजंस्त्वमनुजानीहि धैर्यमातिष्ठ चोत्तमम्। दिष्टान्तं पश्य चापि त्वं क्षात्रं धर्मं च केवलम्॥ इत्येवमुक्त्वा राजानं कृत्वा चाभिप्रदक्षिणम्। कृपश्च कृतवर्मा च द्रोणपुत्रश्च भारत॥ अवेक्षमाणा राजानं धृतराष्ट्रं मनीषिणम्। गङ्गामनु महाराज तूर्णमश्वानचोदयन्॥ अपक्रम्य तु ते राजन् सर्व एव महारथाः। आमन्त्र्यान्योन्यमुद्विग्नास्त्रिधा ते प्रययुस्तदा॥ जगाम हास्तिनपुरं कृपः शारद्वतस्तदा। स्वमेव राष्ट्रं हार्दिक्यो द्रौणिर्व्यासाश्रमं ययौ॥ एवं ते प्रययुर्वीरा वीक्षमाणाः परस्परम्। भयार्ताः पाण्डुपुत्राणामागस्कृत्वा महात्मनाम्॥ समेत्य वीरा राजानं तदा त्वनुदिते रवौ। विप्रजग्मुर्महात्माो यथेच्छकमरिदमाः॥ समासाद्याथ वै द्रौणिं पाण्डुपुत्रा महारथाः। व्यजयंस्ते रणे राजन् विक्रम्य तदनन्तरम्॥ वैशम्पायन उवाच हतेषु सर्वसैन्येषु धर्मराजो युधिष्ठिरः। शुश्रुवे पितरं वृद्धं निर्यान्तं गजसाह्वयात्॥ सोऽभ्ययात् पुत्रशोकार्तः पुत्रशोकपरिप्लुतम्। शोचमानं महाराज भ्रातृभिः सहितस्तदा॥ अन्वीयमानो वीरेण दाशार्हेण महात्मना। युयुधानेन च तथा तथैव च युयुत्सुना॥ तमन्वगात् सुदुःखार्ता द्रौपदी शोककर्शिता। सह पाञ्चालयोषिद्भिर्यास्तत्रासन् समागताः॥ स गङ्गामनु वृन्दानि स्त्रीणां भरतसत्तम। कुररीणामिवार्तानां क्रोशन्तीनां ददर्श ह॥ ताभिः परिवृतो राजा क्रोशन्तीभिः सहस्रशः। ऊर्ध्वबाहुभिरार्ताभी रुदतीभिः प्रियाप्रियैः॥ व नु धर्मज्ञता राज्ञः क्व नु साद्यानृशंसता। यचावधीत् पितॄन् भ्रातॄन् गुरुपुत्रान् सखीनपि।॥ घातयित्वा कथं द्रोणं भीष्मं चापि पितामहम्। मनस्तेऽभून्महाबाहो हत्वा चापि जयद्रथम्॥ किं नु राज्येन ते कार्यं पितॄन् भ्रातृनपश्यतः। अभिमन्युं च दुर्धर्षं द्रौपदेयांश्च भारत॥ अतीत्य ता महाबाहुः क्रोशन्तीः कुररीरिव। ववन्दे पितरं ज्येष्ठं धर्मराजो युधिष्ठिरः॥ ततोऽभिवाद्य पितरं धर्मेणामित्रकर्षणाः। न्यवेदयन्त नामानि पाण्डवास्तेऽपि सर्वशः॥ तमात्मजान्तकरणं पिता पुत्रवधार्दितः। अप्रीयमाणाः शोकातः पाण्डवं परिषस्वजे॥ धर्मराजं परिष्वज्य सान्त्वयित्वा च भारत। दुष्टात्मा भीममन्वैच्छद् दिधक्षुरिव पावकः॥ स कोपपावकस्तस्य शोकवायुसमीरितः। भीमसेनमयं दावं दिधक्षुरिव दृश्यते॥ तस्य संकल्पमाज्ञाय भीमं प्रत्यशुभं हरिः। भीममाक्षिप्य पाणिभ्यां प्रददौ भीममायसम्॥ प्रागेव तु महाबुद्धिर्बुद्ध्वा तस्येङ्गितं हरिः। संविधानं महाप्राज्ञस्तत्र चक्रे जनार्दनः॥ तं गृहीत्वैव पाणिभ्यां भीमसेनमयस्मयम्। बभञ्ज बलवान् राजा मन्यमानो वृकोदरम्॥ नागायुतबलप्राणः स राजा भीममायसम्। भक्त्वा विमथितोरस्कः सुनाव रुधिरं मुखात्॥ ततः पपात मेदिन्यां तथैव रुधिरोक्षितः। प्रपुष्पिताग्रशिखरः पारिजात इव दुमः॥ प्रत्यगृह्णाच तं विद्वान् सूतो गावल्गणिस्तदा। मैवमित्यब्रवीच्चैनं शमयन् सान्त्वयन्निव॥ स तु कोपं समुत्सृज्य गतमन्युर्महामनाः। हा हा भीमेति चुक्रोश नृपः शोकसमन्वितः॥ तं विदित्वा गतक्रोधं भीमसेनवधार्दितम्। वासुदेवो वरः पुंसामिदं वचनमब्रवीत्॥ मा शुचो धृतराष्ट्रं त्वं नैष भीमस्त्वया हतः। आयसी प्रतिमा ह्येषा त्वया निष्पातिता विभो॥ त्वां क्रोधवशमापन्नं विदित्वा भरतर्षभ। मयापकृष्टः कौन्तेयो मृत्योर्दष्ट्रान्तरं गतः॥ न हि ते राजशार्दूल बले तुल्योऽस्ति कश्चन। कः सहेत महाबाहो बाह्वेर्विग्रहणं नरः॥ यथान्तकमनुप्राप्य जीवन् कश्चिन्न मुच्यते। एवं बाह्वन्तरं प्राप्य तव जीवेन कश्चन॥ तस्मात्पुत्रेण या तेऽसौ प्रतिमा कारिताऽऽयसी। भीमस्य सेयं कौरव्य तवैवोपहता मया।॥ पुत्रशोकाभिसंतप्तं धर्मादपकृतं मनः। तव राजेन्द्र तेव त्वं भीमसेनं जिघांससि॥ न त्वेतत् ते क्षमं राजन् हन्यास्त्वं यद् वृकोदरम्। न हि पुत्रा महाराज जीवेयुस्ते कथंचन॥ तस्माद् यत् कृतमस्माभिर्मन्यमानैः शमं प्रति। अनुमन्यस्व तत् सर्वं मा च शोके मनः कृथाः॥ वैशम्पायन उवाच तत एनमुपातिष्ठशाचार्थं परिचारकाः। कृतशौचं पुनश्चैनं प्रोवाच मधुसूदनः॥ राजन्नधीता वेदास्ते शास्त्राणि विविधानि च। श्रुतानि च पुराणानि राजधर्माश्च केवला:॥ एवं विद्वान् महाप्राज्ञः समर्थः सन् बलाबले। आत्मापराधात् कस्मात् त्वं कुरुषे कोपमीदृशम्॥ उक्तवांस्त्वां तदैवाहं भीष्मद्रोणौ च भारत। विदुरः संजयश्चैव वाक्यं राजन् न तत् कृथाः॥ स वार्यमाणो नास्माकमकार्षीर्वचनं तदा। पाण्डवानधिकाञ्जानन् बले शौर्ये च कौरव॥ राजा हि यः स्थिरप्रज्ञः स्वयं दोषानवेक्षते। देशकालविभागं च परं श्रेयः स विन्दति॥ उच्यमानस्तु यः श्रेयो गृहीते नो हिताहिते। आपदः समनुप्राप्य स शोचत्यनये स्थितः॥ ततोऽन्यवृत्तमात्मानं समवेक्षस्व भारत। राजंस्त्वं ह्यविधेपात्मा दुर्योधनवशे स्थितः॥ आत्मापराधादापन्नस्तत् किं भीमं जिघांससि। तस्मात् संयच्छ कोपं त्वं स्वमनुस्मर दुष्कृतम्॥ यस्तु तां स्पर्धया क्षुद्रः पाञ्चालीमानयत् सभाम्। स हतो भीमसेनेन वैरं प्रतिजिहीर्षता॥ आत्मनोऽतिक्रमं पश्य पुत्रस्य च दुरात्मनः। यदनागसि पाण्डूनां परित्यागस्त्वया कृतः॥ वैशम्पायन उवाच एवमुक्तः स कृष्णेन सर्वं नित्यं जनाधिप। उवाच देवकीपुत्रं धृतराष्ट्रो महीपतिः॥ एवमेतन्महाबाहो यथा वदसि माधव। पुत्रस्नेहस्तु बलवान् धैर्यान्मां समचालयत्॥ दिष्ट्या तु पुरुषव्याघ्रो बलवान् सत्यविक्रमः। त्वद्गुप्तो नागमत् कृष्ण भीमो बाह्वन्तरं मम॥ इदानीं त्वहमव्यग्रो गतमन्युर्गतज्वरः। मध्यमं पाण्डवं वीरं द्रष्टुमिच्छामि माधव॥ हतेषु पार्थिवेन्द्रेषु पुत्रेषु निहतेषु च। पाण्डुपुत्रेषु वै शर्म प्रीतिश्चाप्यवतिष्ठते॥ ततः स भीमं च धनंजयं च मायाश्च पुत्रौ पुरुषप्रवीरौ। पस्पर्श गात्रैः प्ररुदन् सुगात्रानाश्वास्य कल्याणमुवाच चैतान्॥ वैशम्पायन उवाच तच्छ्रुत्वा वचनं तस्या भीमसेनोऽथ भीतवत्। गान्धारी प्रत्युवाचेदं वचः सानुनयं तदा॥ अधर्मो यदि वा धर्मस्त्रासात् तत्र मया कृतः। आत्मानं त्रातुकामेन तन्मे त्वं क्षन्तुमर्हसि॥ न हि युद्धेन पुत्रस्ते धर्येण स महाबलः। शक्यः केनचिदुद्यन्तुमतो विषममाचरम्॥ अधर्मेण जितः पूर्वं तेन चापि युधिष्ठिरः। निकृताश्च सदैव स्म ततो विषममाचरम्॥ सैन्यस्यैकोऽवशिष्टोऽयं गदायुद्धेन वीर्यवान्। मां हत्वा न हरेद् राज्यमिति वै तत् कृतं मया॥ राजपुत्री च पाञ्चालीमेकवस्त्रां रजस्वलाम्। भवत्या विदितं सर्वमुक्तवान् यत् सुतस्तव॥ सुयोधनमसंगृह्य न शक्या भूः ससागरा। केवला भोक्तुमस्माभिरतश्चैतत् कृतं मया॥ तथाप्यप्रियमस्माकं पुत्रस्ते समुपाचरत्। द्रौपद्या यत् सभामध्ये सव्यमूरुमदर्शयत्॥ तदैव वध्यः सोऽस्माकं दुराचारश्च ते सुतः। धर्मराजाज्ञया चैव स्थिताः स्म समये तदा।॥ वैरमुद्दीपितं राज्ञि पुत्रेण तव तन्महत्। क्लेशिताश्च वने नित्यं तत एतत् कृतं मया।।१०। वैरस्यास्य गताः पारं हत्वा दुर्योधनं रणे। राज्यं युधिष्ठिरः प्राप्तो वयं च गतमन्यवः॥ गान्धार्युवाच न तस्यैष वधस्तात यत् प्रशंससि मे सुतम्। कृतवांश्चापि तत् सर्वं यदिदं भाषसे मयि॥ हताश्वे नकुले यत्तु वृषसेनेन भारत। अपिबः शोणितं संख्ये दुःशासनशरीरजम्॥ सद्भिर्विगर्हितं घोरमनार्यजनसेवितम्। क्रूरं कर्माकृथास्तस्मात्तदयुक्तं वृकोदर॥ भीमसेन उवाच अन्यस्यापि न पातव्यं रुधिरं किं पुनः स्वकम्। यथैवात्मा तथा भ्राता विशेषो नास्ति कश्चन॥ रुधिरं न व्यतिक्रामद् दन्तोष्ठं मेऽम्ब मा शुचः। वैवस्वतस्तु तद् वेद हस्तौ मे रुधिरोक्षितौ॥ हताश्वं नकुलं दृष्ट्वा वृषसेनेन संयुगे। भ्रातृणां सम्प्रहृष्टानां त्रासः संजानितो मया॥ केशपक्षपरामर्श द्रौपद्या द्यूतकारिते। क्रोधाद् यदब्रवं चाहं तच्च मे हृदि वर्तते॥ क्षत्रधर्माच्च्युतो राज्ञि भवेयं शाश्वतीः समाः। प्रतिज्ञां तामनिस्तीर्य ततस्तत् कृतवानहम्॥ न मामर्हसि गान्धारि दोषेण परिशङ्कितुम्। अनिगृह्य पुरा पुत्रानस्मास्वनपकारिषु। अधुना किं नु दोषेण परिशङ्कितुमर्हसि॥ वृद्धस्यास्य पुत्रान् निघ्नंस्त्वमपराजितः। कस्मानाशेषयः कंचिद् येनाल्पमपराधितम्॥ संतानमावयोस्तात वृद्धयोर्हतराज्ययोः। कथमन्धद्वयस्यास्य यष्टिरेका न वर्जिता॥ शेषे ह्यवस्थिते तात पुत्राणामन्तके त्वयि। न मे दुःखं भवेदेतद् यदि त्वं धर्ममाचरेः॥ वैशम्पायन उवाच एवमुक्त्वा तु गान्धारी युधिष्ठिरमपृच्छत। व स राजेति सक्रोधा पुत्रपौत्रवधार्दिता॥ तमभ्यगच्छद् राजेन्द्रो वेपमानः कृताञ्जलिः। युधिष्ठिरस्त्विदं तत्र मधुरं वाक्यमब्रवीत्॥ पुत्रहन्ता नृशंसोऽहं तव देवि युधिष्ठिरः। शापार्हः पृथिवीनाशे हेतुभूतः शपस्व माम्॥ न हि मे जीवितेनार्थो न राज्येन धनेन वा। तादृशान् सुहृदो हत्वा मूढस्यास्य सुहृद्रुहः॥ तमेवंवादिनं भीतं संनिकर्षगतं तदा। नोवाच किंचिद् गान्धारी निःश्वासपरमा भृशम्॥ तस्यावनतदेहस्य पादयोर्निपतिष्यतः। युधिष्ठिरस्य नृपतेधर्मज्ञा दीर्घदर्शिनी॥ अंगुल्यग्राणि ददृशे देवी पट्टान्तरेण सा! ततः स कुनखीभूतो दर्शनीयनखो नृपः॥ तं दृष्ट्वा चार्जुनोऽगच्छद् वासुदेवस्य पृष्ठतः। एवं संचेष्टमानांस्तानितश्चेतश्च भारत॥ गान्धारी विगतक्रोधा सान्त्वयामास मातृवत्। तया ते समनुज्ञाता मातरं वीरमातरम्॥ अभ्यगच्छन्त सहिताः पृथां पृथुलवक्षसः। चिरस्य दृष्ट्वा पुत्रान् सा पुत्राधिभिरभिप्लुता॥ बाप्पमाहारयद् देवी वस्त्रेणावृत्य वै मुखम्। ततो बाष्पं समुत्सृज्य सह पुत्रैस्तदा पृथा॥ अपश्यदेताशस्त्रौधैर्बहुधा क्षतविक्षतान्। सा तानेकैकशः पुत्रान् संस्पृशन्तीं पुनः पुनः॥ अन्वशोचत दुःखार्ता द्रौपदी च हृतात्मजाम्। रुदतीमथ पाञ्चालीं ददर्श पतितां भुवि॥ द्रौपद्युवाच आर्येः पौत्राः क ते सर्वे सौभद्रसहिता गताः। न त्वां तेऽद्याभिगच्छन्ति चिरं दृष्ट्वा तपस्विनीम्॥ किं नु राज्येन वै कार्यं विहीनायाः सुतैर्ममा तां समाश्वासयामास पृथा पृथुललोचना॥ उत्थाप्य याज्ञसेनी तु रुदतीं शोककर्शिताम्। तयैव सहिता चापि पुत्रैरनुगता नृप॥ अभ्यगच्छत गान्धारीमार्तामार्ततरा स्वयम्। वैशम्पायन उवाच तामुवाचाथ गान्धारी सह बध्वा यशस्विनीम्॥ मैवं पुत्रीति शोकार्ता पश्य मामपि दुःखिताम्। पन्ये लोकविनाशोऽयं कालपर्यायनोदितः॥ अवश्यभावी सम्प्राप्तः स्वभावाल्लोमहर्षणः। इदं तत् समनुप्राप्तं विदुरस्य वचो महत्॥ असिद्धानुनये कृष्णे यदुवाच महामतिः। तस्मिन्नपरिहार्येऽर्थे व्यतीते च विशेषतः॥ माशुचो न हि शोच्यास्ते संग्रामे निधनं गताः। यथैवाहं तथैव त्वं को नावाश्वासयिष्यति। ममैव ह्यपराधेन कुलमयं विनाशितम्॥ वैशम्पायन उवाच एवमुक्त्वा तु गान्धारी कुरूणामवकर्तनम्। अपश्यत्तत्र तिष्ठन्ती सर्वं दिव्येन चक्षुषा॥ पतिव्रता भागा समानव्रतचारिणी। उग्रेण तपसा युक्ता सततं सत्यवादिनी॥ वरदानेन कृष्णस्य महर्षेः पुण्यकर्मणः। दिव्यज्ञानबलोपेता विविधं पर्यदेवयत्॥ ददर्श सा बुद्धिमती दूरादपि यथान्तिके। रणाजिरं नृवीराणामद्भुतं लोमहर्षणम्॥ अस्थिकेशवसाकीर्णं शोणितौघपरिप्लुतम्। शरीरैर्बहुसाहौर्विनिकीर्णं समन्ततः॥ गजाश्वरथयोधानामावृतं रुधिराबिलैः। शरीरैरशिरस्कैश्च विदेहैश्च शिरोगणैः॥ गजाश्वनरनारीणां नि:स्वरैरभिसंवृतम्। शृगालबककाकोलकङ्ककाकनिवेधितम्॥ रक्षसां पुरुषादानं मोदनं कुरराकुलम्। अशिवाभिः शिवाभिश्च नादितं गृध्रसेवितम्॥ ततो व्यासाभ्यनुज्ञातो धृतराष्ट्रो महीपतिः। पाण्डुपुत्राश्च ते सर्वे युधिष्ठिरपुरोगमाः॥ वासुदेवं पुरस्कृत्य हतबन्धुं च पार्थिवम्। कुरुस्त्रियः समासाद्य जग्मुरायोधनं प्रति॥ समासाद्य कुरुक्षेत्रं ताः स्त्रियो निहतेश्वराः। अपश्यन्त हतांस्तत्र पुत्रान् भ्रातृन् पितॄन् पतीन्॥ क्रव्यादैर्भक्ष्यमाणान् वै गोमायुबलवायसैः। भूतैः पिशाचै रक्षोभिर्विविधैश्च निशाचरैः॥ रुद्राक्रीडनिभं दृष्ट्वा तदा विशसनं स्त्रियः। महाहेभ्योऽथ यानेभ्यो विक्रोशन्त्यो निपेतिरे॥ अदृष्टपूर्वं पश्यन्त्यो दुःखार्ता भरतस्त्रियः। शरीरेष्वस्खलनन्याः पतन्त्यश्चापरा भुवि॥ श्रान्तानां चाप्यनाथानां नासीत् काचन चेतना। पाञ्चालकुरुयोषाणां कृपणं तदभून्महत्॥ दुःखोपहतचित्ताभिः समन्तादनुनादितम्। दृष्ट्वाऽऽयोधनमत्युग्रं धर्मज्ञा सुबलात्मजा॥ ततः सा पुण्डरीकाक्षमामन्व्य पुरुषोत्तमम्। कुरूणां वैशसं दृष्ट्वा इदं वचनमब्रवीत्॥ पश्यैताः पुण्डरीकाक्ष स्नुषा मे निहतेश्वराः। प्रकीर्णकेशा: क्रोशन्ती: कुररीरिव माधव॥ अमूस्त्वभिसमागम्य स्मरन्त्यो भर्तृजान् गुणान्। पृथगेवाभ्यधावन्त्यः पुत्रान् भ्रातॄन् पितॄन् पतीन्॥ वीरसूभिर्महाराज हतपुत्राभिरावृतम्। वचिच्च वीरपत्नीमिर्हतवीराभिरावृतम्॥ शोभितं पुरुषव्याप्रैः कर्णभीष्माभिमन्युभिः। द्रोणद्रुपदशल्यैश्च ज्वलद्भिरिव पावकैः॥ काञ्चनैः कवचैर्निष्कर्मणिभिश्च महात्मनाम्। अङ्गदैर्हस्तकेयूरैःस्रग्भिश्च समलङ्कृतम्॥ वीरबाहुविसृष्टाभिः शक्तिभिः परिधैरपि। खङ्गैश्च विविधैस्तीक्ष्णैः सशरैश्च शरासनैः॥ क्रव्यादसंधैर्मुदितैस्तिष्ठद्भिः सहितैः क्वचित्। वचिदाक्रीडमानैश्च शयानैश्चापरैः क्वचित्॥ एतदेवंविधं वीर सम्पश्यायोधनं विभो। पश्यमाना हि दह्यामि शोकेनाहं जनार्दन॥ पञ्चालानां कुरूणां च विनाशे मधुसूदन। पञ्चानामपि भूतानामहं वधमचिन्तयम्॥ तान् सुपर्णाश्च गृध्राश्च कर्षयन्त्यसृगुक्षिताः। विगृह्य चरणैर्गध्रा भक्षयन्ति सहस्रशः॥ जयद्रथस्य कर्णस्य तथैव द्रोणभीष्मयोः। अभिमन्योर्विनाशं च कश्चिन्तयितुमर्हति॥ अवध्यकल्पान् निहतान् गतसत्त्वानचेतसः। गृध्रकङ्कवटश्येनश्वशृगालादनीकृतान्॥ अमर्षवशमापन्नान् दुर्योधनवशे स्थितान्। पश्येमान् पुरुषव्याघ्रान् संशान्तान् पावकानिव॥ शयाना ये परा सर्वे मृदूनि शयनानि च। विपन्नास्तेऽद्यं वसुधां विवृतामधिशेरते॥ बन्दिभिः सततं काले स्तुवद्भिरभिनन्दिताः। शिवानामशिवा घोराः शृण्वन्ति विविधा गिरः॥ ये पुरा शेरते वीराः शयनेषु यशस्विनः। चन्दनागुरुदिग्धाङ्गास्तेऽद्य पांसुषु शेरते॥ तेषामाभरणान्येते गृध्रगोमायुवायसाः। आक्षिपन्ति शिवा घोरा विनदन्त्यः पुनः पुनः॥ बाणान् विनिशितान् पीतान् निस्त्रिंशान् विमला गदाः। युद्धाभिमानिनः सर्वे जीवन्त इव बिभ्रति॥ सुरूपवर्णा बहवः क्रव्यादैरवघट्टिताः। ऋषभप्रतिरूपाश्च शेरते हरितस्रजः॥ अपरे पुनरालिङ्गय गदाः परिघबाहवः। शेरतेऽभिमुखाः शूरा दयिता इव योषितः॥ बिभ्रतः कवचान्यन्ये विमलान्यायुधानि च। न धर्षयन्ति क्रव्यादा जीवन्तीति जनार्दन॥ क्रव्यादैः कृष्यमाणानामपरेषां महात्मनाम्। शातकौम्भ्यः सजश्चित्रा विप्रकीर्णाः समन्ततः॥ एते गोमायवो भीमा निहतानां यशस्विनाम्। कण्ठान्तरगतान् हारानाक्षिपन्ति सहस्रशः॥ सर्वेष्वपररात्रेषु याननदन्त बन्दिनः। स्तुतिभिश्च पराया॑भिरुपचारैश्च शिक्षिताः॥ तानिमाः परिदेवन्ति दुःखार्ताः परमाङ्गनाः। कृपणं वृष्णिशार्दूल दुःखशोकार्दिता भृशम्॥ रक्तोत्पलवनानीव विभान्ति रुचिराणि च। मुखानि परमस्त्रीणां परिशुष्काणि केशव॥ रुदिताद् विरता ह्येता ध्यायन्त्यः सपरिच्छदाः। कुरुस्त्रियोऽभिगच्छन्ति तेन तेनैव दुःखिताः॥ एतान्यादित्यवर्णानि तपनीयनिभानि च। रोषरोदनताम्राणि वक्त्राणि कुरुयोषिताम्॥ श्यामानां वरवर्णानां गौरीणामेकवाससाम्। दुर्योधनवरस्त्रीणां पश्य वृन्दानि केशव॥ आसामपरिपूर्णार्थं निशम्य परिदेवितम्। इतरेतरसंक्रन्दान्न विजानन्ति योषितः॥ एता दीर्घमिवोच्छ्वस्य विक्रुश्य च विलष्य च। विस्पन्दमाना दुःखेन वीरा जहति जीवितम्॥ बढ्यो दृष्ट्वा शरीराणि क्रोशन्ति विलपन्ति च। पाणिभिश्चापरा घ्नन्ति शिरांसि मृदुपाणयः॥ शिरोभिः पतितैर्हस्तैः सर्वाङ्गै!थशः कृतैः। इतरेतरसम्पृक्तैराकीर्णा भाति मेदिनी॥ विशिरस्कानथो कायान् दृष्ट्वा ह्येताननिन्दितान्। मुह्यन्त्यनुगता नार्यो विदेहानि शिरांसि च॥ शिरः कायेन संधाय प्रेक्षमाणा विचेतसः। अपश्यन्त्योऽपरं तत्र नेदमस्येति दुःखिताः॥ बाहूरुचरणानन्यान् विशिखोन्मथितान् पृथक्। संदधत्योऽसुखाविष्टा मूर्च्छन्त्येताः पुनः पुनः॥ उत्कृत्तशिरसश्चान्यान् विजग्धान् मृगपक्षिभिः। दृष्ट्वा काश्चिन्न जानन्ति भर्तृन् भरतयोषितः॥ पाणिभिश्चापरा जन्ति शिरांसि मधुसूदन। प्रेक्ष्य भ्रातॄन् पितॄन् पुत्रान् पतींश्च निहतान् परैः॥ बाहुभिश्च सखङ्गैश्च शिरोभिश्च सकुण्डलैः। अगम्यकल्पा पृथिवी मांसशोणितकर्दमा॥ न दुःखेषूचिताः पूर्वं दुखं गाहन्त्यनिन्दिताः। भ्रातृभिः पतिभिः पुत्रैरुपाकीर्णा वसुंधरा॥ यूथानीव किशोरीणां सुकेशीनां जनार्दन। स्नुषाणां धृतराष्ट्रस्य पश्य वृन्दान्यनेकशः॥ इतो दुःखतरं किं नु केशव प्रतिभाति मे। यदिमाः कुर्वते सर्वा रवमुच्चावचं स्त्रियः॥ नूनमाचरितं पापं मया पूर्वेषु जन्मसु। या पश्यामि हतान् पुत्रान् पौत्रान् भ्रातृ॑श्च माधव॥ एवमार्ता विलपती समाभाष्य जनार्दनम्। गान्धारी पुत्रशोकार्ता ददर्श निहतं सुतम्॥ नूनमाचरितं पापं मया पूर्वेषु जन्मसु। या पश्यामि हतान् पुत्रान् पौत्रान् भ्रातृ॑श्च माधव॥ एवमार्ता विलपती समाभाष्य जनार्दनम्। गान्धारी पुत्रशोकार्ता ददर्श निहतं सुतम्॥ वैशम्पायन उवाच दुर्योधनं हतं दृष्ट्वा गान्धारी शोककर्शिता। सहसा न्यपतद् भूमौ छिन्नेव कदली वने॥ सा तु लब्ध्वा पुनः संज्ञां विक्रुश्य च विलप्य च। दुर्योधनमभिप्रेक्ष्य शयानं रुधिरोक्षितम्॥ परिष्वज्य च गान्धारी कृपणं पर्यदेवयत्। हा हा पुत्रेति शोकार्ता विललापाकुलेन्द्रिया॥ सुगूढजत्रुविपुलं हारनिष्कविभूषितम्। वारिणा नेत्रजेनोरः सिंचन्ती शोकतापिता॥ समीपस्थं हृषीकेशमिदं वचनमब्रवीत्। उपस्थितेऽस्मिन् संग्रामे ज्ञातीनां संक्षये विभो॥ मामयं प्राह वार्ष्णेय प्राञ्जलिर्नृपसत्तमः। अस्मिन् ज्ञातिसमुद्धर्ष जयमम्बा ब्रवीतु मे॥ इत्युक्ते जानती सर्वमहं स्वव्यसनागमम्। अब्रवं पुरुषव्याघ्र यतो धर्मस्ततो जयः॥ यथा च युध्यमानस्त्वं न वै मुह्यासि पुत्रक। ध्रुवं शस्त्रजिताल्लोकान् प्राप्स्यस्यमरवत् प्रभो॥ इत्येवमब्रवं पूर्वं नैनं शोचामि वै प्रभो। धृतराष्ट्रं तु शोचामि कृपणं हतबान्धवम्॥ अमर्षणं युधां श्रेष्ठं कृतास्त्रं युद्धदुर्मदम्। शयानं वीरशयने पश्य माधव मे सुतम्॥ योऽयं मूर्धाभिषिक्तानामग्रे याति परंतपः। सोऽयं पांसुषु शेतेऽद्य पश्य कालस्य पर्ययम्॥ ध्रुवं दुर्योधनो वीरो गतिं न सुलभां गतः। तथा ह्यभिमुखः शेते शयने वीरसेविते॥ यं पुरा पर्युपासीना रमयन्ति वरस्त्रियः। तं वीरशयने सुप्तं रमयन्त्यशिवाः शिवाः॥ यं पुरा पर्युपासीना रमयन्ति महीक्षितः। महीतलस्थं निहतं गृध्रास्तं पर्युपासते॥ यं पुरा व्यजनै रम्यैरुपवीजन्ति योषितः। तमद्य पक्षव्यजनैरुपवीजन्ति पक्षिणः॥ एष शेते महाबाहुर्बलवान् सत्यविक्रमः। तमद्य द्विपः संख्ये भीमसेनेन पातितः॥ पश्य दुर्योधनं कृष्ण शयानं रुधिरोक्षितम्। निहतं भीमसेनेन गदा सम्मृज्य भारतम्॥ अक्षौहिणीर्महाबाहुर्दश चैकां च केशव। आनयद् यः पुरा संख्ये सोऽनयान्निधनं गतः॥ एष दुर्योधनः शेते महेष्वासो महाबलः। शार्दूल इव सिंहेन भीमसेनेन पातितः॥ विदुरं ह्यवमत्यैषं पितरं चैन मन्दभाक्। बालो वृद्धावमानेन मन्दो मृत्युवंश गतः॥ निःसपत्ना मही यस्य त्रयोदश समाः स्थिता। स शेते निहतो भूमौ पुत्रो मे पृथिवीपतिः॥ अपश्यं कृष्ण पृथिवीं धार्तराष्ट्रानुशासिताम्। पूर्णां हस्तिगवाश्वैश्च वार्ष्णेय न तु तचिरम्॥ तामेवाद्य महाबाहो पश्याम्यन्यानुशासिताम्। हीनां हस्तिगवाशेन किं नु जीवामि माधव॥ इदं कष्टतरं पश्य पुत्रस्यापि वधान्मम। यदिमाः पर्युपासन्ते हताशूरान् रणे स्त्रियः॥ प्रकीर्णकेशां सुश्रोणी दुर्योधनशुभाङ्कगाम्। रुक्मवेदीनिभां पश्य कृष्ण लक्ष्मणमातरम्॥ नूनमेषा पुरा बाला जीवमाने महीभुजे। भुजावाश्रित्य रमते सुभुजस्य मनस्विनी॥ कथं तु शतधा नेदं हृदयं मम दीर्यते। पश्यन्त्या निहतं पुत्रं पुत्रेण सहितं रणे॥ पुत्रं रुधिरसंसिक्तमुपजिघ्रत्यनिन्दिता। दुर्योधनं तु वामोरू: पाणिना परिमार्जती॥ किं नु शोचति भर्तारं पुत्रं चैषा मनस्विनी। तथा ह्यवस्थिता भाति पुत्रं चाप्यभिवीक्ष्य सा॥ स्वशिरः पञ्चशाखाभ्यामभिहत्यायतेक्षणा। पतत्युरसि वीरस्य कुरुराजस्य माधव॥ पुण्डरीकनिभा भाति पुण्डरीकान्तरप्रभा। मुखं विमृज्य पुत्रस्य भर्तुश्चैव तपस्विनी।॥ यदि सत्यगमाः सन्ति यदि वै श्रुतयस्तथा। ध्रुवं लोकानवाप्तोऽयं नृपो बाहुबलार्जितान्॥ गान्धार्युवाच पश्य माधव पुत्रान्मे शतसंख्याञ्जितक्कमान्। गदया भीमसेनेन भूयिष्ठं निहतान् रणे॥ इदं दुःखतरं मेऽद्य यदिमा मुक्तमूर्धजाः। हतपुत्रा रणे बालाः परिधावन्ति मे स्नुषाः॥ प्रासादतलचारिण्यश्चरणैर्भूषणान्वितैः। आपना यत् स्पृशन्तीमां रुधिरार्दी वसुन्धराम्॥ कृच्छ्रादुत्सारयन्ति स्म गृध्रगोमायुवायसान्। दुःखेनार्ता विघूर्णन्त्यो मत्ता इव चरन्त्युत॥ एषान्या त्वनद्यागी करसम्मितमध्यमा। घोरमायोधनं दृष्ट्वा निपतत्यतिदुःखिता॥ मे पार्थिवसुतामेतां लक्ष्मणमातरम्। राजपुत्रीं महाबाहो मनो न ह्युपशाम्यति॥ भ्रातूंश्चान्याः पितॄश्चान्याः पुत्रांश्च निहतान् भुवि। दृष्ट्वा परिपतन्त्येताः प्रगृह्य सुमहाभुजान्॥ मध्यमानां तु नारीणां वृद्धानां चापराजित। आक्रन्दं हतबन्धूनां दारुणे वैशसे शृणु॥ रथनीडानि देहांश्च हतानां गजवाजिनाम्। आश्रित्य श्रममोहार्ताः स्थिताः पश्य महाभुज॥ अन्यां चापहृतं कायाचारुकुण्डलमुन्नसम्। स्वस्य बन्धोः शिरः कृष्ण गृहीत्वा पश्य तिष्ठतीम्॥१० पूर्वजातिकृतं पापं मन्ये नाल्पमिवानघ। एताभिर्निरवद्याभिर्मया चैवाल्पमेधया॥ यदिदं धर्मराजेन पातितं नो जनार्दन। न हि नाशोऽस्ति वार्ष्णेय कर्मणोः शुभपापयोः॥ प्रत्यग्रवयसः पश्य दर्शनीयकुचाननाः। कुलेषु जाता ह्रीमत्यः कृष्णपक्ष्माक्षिमूर्धजाः॥ हंसगद्गदभाषिण्यो दुःखशोकप्रमोहिताः। सारस्य इव वाशन्त्यः पतिताः पश्य माधव॥ फुल्लपद्यप्रकाशानि पुण्डरीकाक्ष योषिताम्। अनवद्यानि वक्त्राणि तापयत्येष रश्मिवान्॥ ईर्पूणां मम पुत्राणां वासुदेवावरोधनम्। मत्तमातङ्गदर्याणां पश्यन्त्यद्य पृथग्जनाः॥ शतचन्द्राणि चर्माणि ध्वजांचादित्यवर्चसः। रौक्माणि चैव वर्माणि निष्कानापि च काञ्चनान्॥ शीर्षत्राणानि चैतानि पुत्राणां मे महीतले। पश्य दीप्तानि गोविन्द पावकान् सुहुतानिव॥ एष दुःशासनः शेते शूरेणामित्रघातिना। पीतशोणितसर्वाङ्गो युधि भीमेन पातितः॥ गदया भीमसेनेन पश्य माधव मे सुतम्। द्यूतक्केशाननुस्मृत्य द्रौपदीनोदितेन च॥ उक्ता ह्यनेन पाञ्चाली सभायां द्यूतनिर्जिता। प्रियं चिकीर्षता भ्रातुः कर्णस्य च जनार्दन॥ सहैव सहदेवेन नकुलेनार्जुनेन च। दासीभूतासि पाञ्चालि क्षिप्रं प्रविश नो गृहान्॥ ततोऽहमब्रवं कृष्ण तदा दुर्योधनं नृपम्। मृत्युपाशपरिक्षिप्तं शकुनि पुत्र वर्जय॥ निबोधैनं सुदुर्बुद्धिं मातुलं कलहप्रियम्। क्षिप्रमेनं परित्यज्य पुत्र शाम्यस्व पाण्डवैः॥ न बुद्ध्यसे त्वं दुर्बुद्धे भीमसेनममर्षणम्। वाड्नाराचैस्तुदंस्तीक्ष्णैरुल्काभिरिव कुञ्जरम्॥ तानेवं रहसि क्रुद्धो वाक्शल्यानवधारयन्। उत्ससर्ज विषं तेषु सर्पो गोवृषभेष्विव॥ एष दुःशासनः शेते विक्षिप्य विपुलौ भुजौ। निहतो भीमसेनेन सिंहेनेव महागजः॥ अत्यर्थमकरोद् रौद्रं भीमसेनोऽत्यमर्षणः। दुःशासनस्य यत् क्रुद्धोऽपिबच्छोणितमाहवे॥ गांधार्युवाच एष माधव पुत्रो मे विकर्णः प्राज्ञसम्मतः। भूमौ विनिहतः शेते भीमेन शतधा कृतः॥ गजमध्ये हतः शेते विकर्णो मधुसूदन। नीलमेघपरिक्षिप्तः शरदीव निशाकरः॥ अस्य चापग्रहेणैव पाणिः कृतकिणो महान्। कथञ्चिच्छिद्यते गृधेरत्तुकामैस्तलत्रवान्॥ अस्य भार्याऽऽमिषप्रेप्सून् गृध्रकाकांस्तपस्विनी। वारयत्यनिशं बाला न च शक्नोति माधव॥ युवा वृन्दारकः शूरो विकर्णः पुरुषर्षभ। सुखोषितः सुखार्हश्च शेते पांसुषु माधव॥ कर्णिनालीकनाराचैर्भिन्नमर्माणमाहवे। अद्यापि न जहात्येनं लक्ष्मीर्भरतसत्तमम्॥ एष संग्रामशूरेण प्रतिज्ञा पालयिष्यता। दुर्मुखोऽभिमुखः शेते हतोऽरिगणहा रणे॥ तस्यैतद् वदनं कृष्ण श्वापदैरर्धभक्षितम्। विभात्यभ्यधिकं तात सप्तम्यामिव चन्द्रमाः॥ शूरस्य हि रणे कृष्ण पश्याननमथेदृशम्। स कथं निहतोऽमित्रैः पांसून् असति मे सुतः॥ यस्याहमुखे सौम्य स्थिता नैवोपपद्यते। स कथं दुर्मुखोऽमित्रैर्हतो विबुधलोकजित्॥ चित्रसेनं हतं भूमौ शयानं मधुसूदन। धार्तराष्ट्रमिमं पश्य प्रतिमानं धनुष्मताम्॥ तं चित्रमाल्याभरणं युवत्यः शोककर्शिताः। क्रव्यादसंघैः सहिता रुदत्यः पर्युपासते॥ स्त्रीणां रुदितनिर्घोषः श्वापदानां च गर्जितम्। चित्ररूपमिदं कृष्णं विचित्रं प्रतिभाति मे॥ युवा वृन्दारको नित्यं प्रवरस्त्रीनिषेवितः। विर्विशतिरसौ शेते ध्वस्तः पांसुषु माधव॥ शरसंकृत्तवर्माणं वीरं विशसने हतम्। परिवार्यासते गृध्राः पश्य कृष्ण विविंशतिम्॥ प्रविश्य समरे शूरः पाण्डवानामनीकिनीम्। स वीरशयने शेते परः सत्पुरुषोचिते॥ स्मितोपपन्नं सुनसं सुभ्रु ताराधिपोपमम्। अतीव शुभ्रं वदनं कृष्ण पश्य विविंशतः॥ एनं हि पर्युपासन्ते बहुधा वरयोषितः। क्रीडन्तमिव गन्धर्वं देवकन्याः सहस्रशः॥ हन्तारं परसैन्यानां शूरं समितिशोभनम्। निबर्हणममित्राणां दुःसहं विषहेत कः॥ दुःसहस्यैतदाभाति शरीरं संवृतं शरैः। गिरिरात्मगतैः कुल्लैः कर्णिकारिवाचितः॥ शातकौम्या स्रजा भाति कवचेन च भास्वता। अग्निवेव गिरिः श्वेतो गतासुरपि दुःसहः॥ गान्धार्युवाच अध्यर्धगुणमाहुर्यं बले शौर्ये च केशव। पित्रा त्वया च दाशार्ह दृप्तं सिंहमिवोत्कटम्। यो बिभेद चमूमेको मम पुत्रस्य दुर्भिदाम्। स भूत्वा मृत्युरन्येषां मम पुत्रस्य मृत्युवशं गतः॥ तस्योपलक्षये कृष्ण काऎरमिततेजसः। अभिमन्योर्हतस्यापि प्रभा नैवोपशाम्यति॥ एषा विराट दुहिता स्नुषा गाण्डीवधन्वनः। आर्ता बालं पति वीरं दृष्ट्या शोचत्यनिन्दिता॥ तमेषा हि समागम्य भार्या भर्तारमन्तिके। विराटदुहिता कृष्ण पाणिना परिमार्जति॥ तस्य वक्त्रमुपाघ्राय सौभद्रस्य मनस्विनी। विबुद्धकमलाकारं कम्बुवृत्तशिरोधरम्॥ काम्यरूपवती चैषा परिष्वजति भामिनी। लजमाना पुरा चैनं माध्वीकमदमूच्छिता॥ तस्य क्षतजसंदिग्धं जातरूपपरिष्कृतम्। विमुच्य कवचं कृष्ण शरीरमभिवीक्षते॥ अवेक्षमाणा तं बाला कृष्ण त्वामभिभाषते। अयं ते पुण्डरीकाक्ष सदृशाक्षो निपातितः॥ बले वीर्यं च सदृशस्तेजसा चैव तेऽनघ। रूपेण च तथाप्यर्थं शेते भुवि निपातितः॥ अत्यन्तं सुकुमारस्य राङ्कवाजिनशायिनः। कचिदद्य शरीरं ते भूमौ न परितप्यते॥ मातङ्गभुजवर्माणौ ज्याक्षेपकठिनत्वचौ। काञ्चनाङ्गदिनौ शेते निक्षिप्य विपुलौ भुजौ॥ व्यायम्य बहुधा नूनं सुखसुप्तः श्रमादिव। एवं विलपतीमा न हि मामभिभाषसे॥ न स्मराम्यपराधं ते किं मां न प्रतिभाषसे। ननु मां त्वं पुरा दूरादभिवीक्ष्याभिभाषसे॥ आर्यामार्य सुभद्रां त्वमिमांश्च त्रिदशोपमान्। पितॄन् मां चैव दुःखार्ता विहाय क्व गमिष्यसि॥ तस्य शोणितदिग्धान् वै केशानुद्यम्य पाणिना। उत्सङ्गे वक्त्रमाधाय जीवन्तमिव पृच्छति॥ स्वतीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः। कथं त्वां रणमध्यस्थं जनुरेते महारथाः॥ धिगस्तु क्रूरकृत्स्वान् कृपकर्णजयद्रथान्। द्रोणद्रौणायनी चोभौ यैरहं विधवा कृता॥ रथर्षभाणां सर्वेषां कथमासीत् तदा मनः। बालं त्वां परिवार्येकं मम दुःखाय जनुषाम्॥ कथं नु पाण्डवानां च पञ्चालानां तु पश्यताम्। त्वं वीर निधनं प्राप्तो नाथवान् सन्ननाथवत्॥ दृष्ट्वा बहुभिराक्रन्दे निहतं त्वां पिता तवा वीरः पुरुषशार्दूलः कथं जीवति पाण्डवः॥ न राज्यलाभो विपुलः शत्रूणां च पराभवः। प्रीतिं धास्यति पार्थानां त्वामृते पुष्करेक्षण॥ तव शस्त्रजिताँल्लोकान् धर्मेण च दमेन च। क्षिप्रमन्वागमिष्यामि तत्र मां प्रतिपालय॥ दुर्मरं पुनरप्राप्ते काले भवति केनचित्। यदहं त्वां रणे दृष्ट्वा हतं जीवामि दुर्भगा॥ कामिदानीं नरव्याघ्र श्लक्ष्णया स्मितया गिरा। पितृलोके समेत्यान्यां मामिवामन्त्रयिष्यसि॥ नूनमप्सरसां स्वर्गे मनांसि प्रमथिष्यसि। परमेण च रूपेण गिरा च स्मितपूर्वया।॥ प्राप्य पुण्यकृताँल्लोकानप्सरोभिः समेयिवान्। सौभद्र विहरन् काले स्मेरथाः सुकृतानि मे॥ एतावानिह संवासो विहितस्ते मया सह। षण्मासान् सप्तमे मासि त्वं वीर निधनं गतः॥ इत्युक्तवचनामेतामपकर्षन्ति दुःखिताम्। उत्तरां मोघसंकल्पां मत्स्यराजकुलस्त्रियः॥ उत्तरामपकृष्यैनामार्तामार्ततराः स्वयम्। विराटं निहतं दृष्ट्वा क्रोशन्ति विलपन्ति च॥ द्रोणास्त्रशरसंकृत्तं शयानं रुधिरोक्षितम्। विराटं वितुदन्त्येते गृध्रगोमायुवायसाः॥ वितुद्यमानं विहगैर्विराटमसितेक्षणाः। न शक्नुवन्ति विहगान् निवारयितुमातुराः॥ आसामातपतप्तानामायासेन च योषिताम्। श्रमेण च विवर्णानां वक्त्राणां विप्लुतं वपुः॥ उत्तरं चाभिमन्युं च काम्बोजं च सुदक्षिणम्। शिशूनेतान् हतान् पश्य लक्ष्मणं च सुदर्शनम्॥ आयोधनशिरोमध्ये शयानं पश्य माधव॥ उत्तरं चाभिमन्युं च काम्बोजं च सुदक्षिणम्। शिशूनेतान् हतान् पश्य लक्ष्मणं च सुदर्शनम्॥ आयोधनशिरोमध्ये शयानं पश्य माधव॥ गान्धार्युवाच एष वैकर्तनः शेते महेष्वासो महारथः। ज्वलितानलवत् संख्ये संशान्तः पार्थतेजसा॥ पश्य वैकर्तनं कर्णं निहत्यातिरथान् बहून्। शोणितौघपरीताङ्गं शयानं पतितं भुवि॥ अमर्षी दीर्घरोषश्च महेष्वासो महाबलः। रणे विनिहतः शेते शूरो गाण्डीवधन्वना॥ यं स्म पाण्डवसंत्रासान्मम पुत्रा महारथाः। प्रायुध्यन्त पुरस्कृत्य मातङ्गा इव यूथपम्॥ शार्दूलमिव सिंहेन समरे सव्यसाचिना। मातङ्गमिव मत्तेन मातङ्गेन निपातितम्॥ समेताः पुरुषव्याघ्र निहतं शूरमाहवे। प्रकीर्णमूर्धजाः पत्न्यो रुदत्यः पर्युपासते॥ उद्विग्नः सततं यस्माद् धर्मराजो युधिष्ठिरः। त्रयोदश समा निद्रां चिन्तयन् नाध्यगच्छत॥ अनाधृष्यः परैयुद्धे शत्रुभिर्मघवानिव। युगान्ताग्निरिवार्चिष्मान् हिमवानिव निश्चलः॥ स भूत्वा शरणं वीरो धार्तराष्ट्रस्य माधव! भूमौ विनिहतः शेते वातभग्न इव द्रुमः॥ पश्य कर्णस्य पत्नीं त्वं वृषसेनस्य मातरम्। लालप्यमानां करुणं रुदतीं पतितां भुवि।॥ आचार्यशापोऽनुगतो ध्रुवं त्वां यदग्रसच्चक्रमिदं धरित्री। ततः शरेणापहृतं शिरस्ते धनंजयेनाहवशोभिना युधि॥ हाहा धिगेषा पतिता विसंज्ञा समीक्ष्य जाम्बूनदबद्धकक्षम्। कर्णं महाबाहुमदीनसत्त्वं सुषेणमाता रुदती भृशार्ता॥ अल्पावशेषोऽपि कृतो महात्मा शरीरभक्षैः परिभक्षयद्भिः। द्रष्टुं न नः प्रीतिकरः शशीव कृष्णस्य पक्षस्य चतुर्दशाहे॥ मुत्थाय दीना पुनरेव चैषा। कर्णस्य वक्त्रं परिजिघ्रमाणा रोरूयते पुत्रवधाभितप्ता॥ गान्धार्युवाच आवन्त्यं भीमसेनेन भक्षयन्ति निपातितम्। गृघ्रगोमायवः शूरं बहुबन्धुमबन्धुवत्॥ तं पश्य कदनं कृत्वा शूराणां मधुसूदन। शयानं वीरशयने रुधिरेण समुक्षितम्॥ तं शृगालाश्च कङ्काश्च क्रव्यादाश्च पृथग्विधाः। तेन तेन विकर्षन्ति पश्य कालस्य पर्ययम्॥ शयानं वीरशयने शूरमाक्रन्दकारिणम्। आवन्त्यमभितो नार्यो रुदत्यः पर्युपासते॥ प्रातिपेयं महेष्वासं हतं भल्लेन बाह्निकम्। प्रसुप्तमिव शार्दूलं पश्य कृष्ण मनस्विनम्॥ अतीव मुखवर्णोऽस्य निहतस्यापि शोभते। सोमस्येवाभिपूर्णस्य पौर्णमास्यां समुद्यतः॥ पुत्रशोकाभितप्तेन प्रतिज्ञां चाभिरक्षता। पाकशासनिना संख्ये वार्धक्षत्रिनिपातितः॥ एकादश चमूर्भित्त्वा रक्ष्यमाणं महात्मना। सत्यं चिकीर्षता पश्य हतमेनं जयद्रथम्॥ सिन्धुसौवीरभर्तारं दर्पपूर्णं मनस्विनम्। भक्षयन्ति शिवा गृध्रा जनार्दन जयद्रथम्॥ संरक्ष्यमाणं भार्याभिरनुरक्ताभिरच्युत। भीषयन्त्यो विकर्षन्ति गहनं निम्नमन्तिकात्॥ तमेताः पर्युपासन्ते रक्ष्यमाणं महाभुजम्। सिन्धुसौवीरभर्तारं काम्बो जयवनस्त्रियः॥ यदा कृष्णामुपादाय प्राद्रवत् केकयैः सह। तदैव वध्यः पाण्डूनां जनार्दन जयद्रथः॥ दुःशलां मानयद्भिस्तु तदा मुक्तो जयद्रथः। कथमद्य न तां कृष्ण मानयन्ति स्म ते पुनः॥ सैषा मम सुता बाला विलपन्ती च दुःखिता। आत्मना हन्ति चात्मानमाक्रोशन्ती च पाण्डवान्॥ किं नु दुःखतरं कृष्णं परं मम भविष्यति। यत् सुता विधवा बाला स्नुषाश्च निहतेश्वराः॥ हा हा धिग् दुःशलां पश्य वीतशोकभयामिव। शिरो भर्तुरनासाद्य धावमानामितस्ततः॥ वारयामास यः सर्वान् पाण्डवान् पुत्रगृद्धिनः। स हत्वा विपुला: सेनाः स्वयं मृत्युवंश गतः॥ तं मत्तमिव मातङ्गं वीरं परमदुर्जयम्। परिवार्य रुदन्त्येताः स्त्रियश्चन्द्रोपमाननाः॥ गान्धार्युवाच एष शल्यो हतः शेते साक्षान्नकुलमातुल: धर्मज्ञेन हतस्तात धर्मराजेन संयुगे॥ यस्त्वया स्पर्धते नित्यं सर्वत्र पुरुषर्षभ। स एष निहतः शेते मद्रराजो महाबलः॥ येन संगृह्णता तात रथमाधिरथेर्युधि। जयार्थं पाण्डुपुत्राणां तथा तेजोवधः कृतः॥ अहो धिक्पश्य शल्यस्य पूर्णचन्द्रसुदर्शनम्। मुखं पद्मपलाशाक्षं काकैरादष्टमव्रणम्॥ अस्य चामीकराभस्य तप्तकाञ्चनसप्रभा। आस्याद् विनिः सृता जिह्वा भक्ष्यते कृष्ण पक्षिभिः॥५ युधिष्ठिरेण निहतं शल्यं समितिशोभनम्। रुदत्यः पर्युपासन्ते मद्रराजं कुलाङ्गनाः॥ एताः सुसूक्ष्मवसना मद्रराजं नरर्षभम्। क्रोशन्त्योऽथ समासाद्य क्षत्रियाः क्षत्रियर्षभम्॥ शल्यं निपतितं नार्यः परिवार्याभितः स्थिताः। वासिता गृष्टयः पङ्के परिमग्नमिव द्विपम्॥ शल्यं शरणदं शूरं पश्येमं वृष्णिनन्दन। शयानं वीरशयने शरैर्विशकलीकृतम्॥ एष शैलालयो राजा भगदत्तः प्रतापवान्। गजाङ्कुशधरः श्रीमाशेते भुवि निपातितः॥ यस्य रुक्ममयी माला शिरस्येषा विराजते। श्वापदैर्भक्ष्यमाणस्य शोभयन्तीव मूर्धजान्॥ एतेन किल पार्थस्य युद्धमासीत् सुदारुणम्। रोमहर्षणमत्युग्रं शक्रस्य त्वहिना यथा॥ योधयित्वा महाबाहुरेष पार्थं धनंजयम्। संशयं गमयित्वा च कुन्तीपुत्रेण पातितः॥ यस्य नास्ति समो लोके शौर्ये वीर्ये च कश्चन। स एष निहतः शेते भीष्मो भीष्मकृताहवे॥ पश्य शान्तनवं कृष्ण शयानं सूर्यवर्चसम्। युगान्त इव कालेन पतितं सूर्यमम्बरात्॥ एष तप्त्वा रणे शत्रूशस्त्रतापेन वीर्यवान्। नरसूर्योऽस्तमभ्येति सूर्योऽस्तमिव केशव॥ शरतल्पगतं भीष्ममूर्ध्वरेतसमच्युतम्। शयानं वीरशयने पश्य शूरनिषेविते॥ कर्णिनालीकनाराचैरास्तीर्य शयनोत्तमम्। आविश्य शेते भगवान् स्कन्दः शरवणं यथा॥ अतूलपूर्ण गाङ्गेयस्त्रिभिर्बाणैः समन्वितम्। उपधायोपधानाग्रयं दत्तं गाण्डीवधन्वना॥ पालयानः पितुः शास्त्रमूर्ध्वरेता महायशाः। एष शान्तनवः शेते माधवप्रतिमो युधि॥ धर्मात्मा तात सर्वज्ञः पारावर्येण निर्णये। अमर्त्य इव मर्त्यः सन्नेष प्राणानधारयत्॥ नास्ति युद्धे कृती कश्चिन्न विद्वान् न पराक्रमी। यत्र शान्तनवो भीष्मः शेतेऽद्य निहतः शरैः॥ स्वयमेते शूरेण पृच्छ्यमानेन पाण्डवैः। धर्मज्ञेनाहवे मृत्युरादिष्टःसत्यवादिना॥ प्रणष्टः कुरुवंशश्च पुनर्येन समुद्धृतः। स गतः कुरुभिः सार्धं महाबुद्धिः पराभवम्॥ कं नु परिप्रक्ष्यन्ति माधव। गते देवव्रते स्वर्ग देवकल्पे नरर्षभे॥ अर्जुनस्य विनेतारमाचार्यं सात्यकेस्तथा। तं पश्य पतितं द्रोणं कुरूणां गुरुमुत्तमम्॥ अस्त्रं चतुर्विधं वेद यथैव त्रिदशेश्वरः। भार्गवो वा महावीर्यस्तथा द्रोणोऽपि माधव॥ यस्य प्रसादाद् बीभत्सुः पाण्डव: कर्म दुष्करम्। चकार स हतः शेते नैनमस्त्राण्यपालयन्॥ धर्मेषु कुरवः यं पुरोधाय कुरव आह्वयन्ति स्म पाण्डवान्। सोऽयं शस्त्रभृतां श्रेष्ठो द्रोणः शस्त्रैः परिक्षतः॥ यस्य निर्दहतः सेनां गतिरग्नेरिवाभवत्। स भूमौ निहतः शेते शान्तार्चिरिव पावकः॥ धनुर्मुष्टिरशीर्णश्च हस्तावापश्च माधव। द्रोणस्य निहतस्याजौ दृश्यते जीवतो यथा॥ वेदा यस्माच चत्वारः सर्वाण्यस्त्राणि केशव। अनपेतानि वै शूराद् यथैवादौ प्रजापतैः॥ वन्दनार्हविमौ तस्य बन्दिभिर्वन्दितौ शुभौ। गोमायवो विकर्षन्ति पादौ शिष्यशतार्चितौ॥ द्रोणं दुपदपुत्रेण निहतं मधुसूदन। कृपी कृपणमन्वास्ते दुःखोपहतचेतना॥ तां पश्य रुदतीमार्ता मुक्तकेशीमधोमुखीम्। हतं पतिमुपासन्ती द्रोणं शस्त्रभृतां वरम्॥ बाणैर्भिन्नतनुत्राणं धृष्टद्युम्नेन केशव। उपास्ते वै मृधे द्रोणं जटिला ब्रह्मचारिणी॥ प्रेतकृत्यं च यतते कृपी कृपणमातुरा। हतस्य समरे भर्तुः सुकुमारी यशस्विनी॥ अग्नीनाधाय विधिवञ्चितां प्रज्वाल्य सर्वतः। द्रोणमाधाय गायन्ति त्रीणि सामानि सामगाः॥ कुर्वन्ति च चितामेते जटिला ब्रह्मचारिणः। धनुभिः शक्तिभिश्चैव रथनीडैश्च माधव॥ शरैश्च विविधैरन्यैर्धक्ष्यते भूरितेजसम्। इति द्रोणं समाधाय शंसन्ति च रुदन्ति च॥ सामभिस्त्रिभिरन्तस्थैरनुशंसन्ति चापरे। अग्नावग्निं समाधाय द्रोणं हुत्वा हुताशने॥ गच्छन्त्यभिमुखा गङ्गां द्रोणशिष्या द्विजातयः। अपसव्यां चितिं कृत्वा पुरस्कृत्य कृपी च ते॥ गान्धार्युवाच सोमदत्तसुतं पश्य युयुधानेन पातितम्। विद्युतमानं विहगैर्बहुभिर्माधवान्तिके॥ पुत्रशोकाभिसंतप्तः सोमदत्तो जनार्दन। युयुधानं महेष्वासं गर्हयन्निव दृश्यते॥ असौ हि भूरिश्रवसो माता शोकपरिप्लुता। आश्वासयति भर्तारं सोमदत्तमनिन्दिता॥ दिष्ट्या नैनं महाराज दारुणं भरतक्षयम्। कुरुसंक्रन्दनं घोरं युगान्तमनुपश्यसि॥ दिष्ट्या यूपध्वजं पुत्रं वीरं भूरिसहस्रदम्। अनेकक्रतुयज्वानं निहतं नानुपश्यसि॥ दिष्ट्या स्नुषाणामाक्रन्दे घोरं विलपितं बहु। न शृणोषि महाराज सारसीनामिवार्णवे॥ एकवस्त्रार्धसंवीताः प्रकीर्णासितमूर्धजाः। स्नुषास्ते परिधावन्ति हतापत्या हतेश्वराः।। :॥ श्वापदैर्भक्ष्यमाणं त्वमहो दिष्ट्या न पश्यसि। छिन्नबाहुं नरव्याघ्रमर्जुनेन निपातितम्॥ शलं विनिहतं संख्ये भूरिश्रवसमेव च। स्नुषाश्च विविधाः सर्वा दिष्ट्या नाद्येह पश्यसि॥ दिष्ट्या तत् काञ्चनं छत्रं यूपकेतोर्महात्मनः। विनिकीर्णं रथोपस्थे सौमदत्तेर्न पश्यसि॥ अमूस्तु भूरिश्रवसो भार्याः सात्यकिना हतम्। परिवार्यानुशोचन्ति भर्तारमसितेक्षणाः॥ एता विलय करुणं भर्तृशोकेन कर्शिताः। पतन्त्यभिमुखा भूमौ कृपणं वत केशव॥ बीभत्सुरतिबीभत्सं कर्मेदमकरोत् कथम्। प्रमत्तस्य यदच्छत्सीद् बाहुं शूरस्य यज्वनः॥ ततः पापतरं कर्म कृतवानपि सात्यकिः। यस्मात् प्रायोविष्टस्य प्राहार्षीत् संशितात्मनः॥ एको द्वाभ्यां हतः शेषे त्वमधर्मेण धार्मिक। किं नु वक्ष्यति वै सत्सु गोष्ठीषु च सभासु च॥ अपुण्यमयशस्यं च कर्मेदं सात्यकिः स्वयम्। इति यूपध्वजस्यैताः स्त्रियः क्रोशन्ति माधव॥ भार्या यूपध्वजस्यैषा करसम्मितमध्यमा। कृत्वोत्सङ्गे भुजं भर्तुः कृपणं परिदेवति॥ अयं स हन्ता शूराणां मित्राणाप्रभयप्रदः। प्रदाता गोसहस्राणां क्षत्रियान्तकरः करः॥ वासुदेवस्य सांनिध्ये पार्थेनालिष्टकर्मणा। युध्यतः समरेऽन्येन प्रमत्तस्य निपातितः॥ किं नु वक्ष्यासि संसत्सु कथासु च जनार्दन। अर्जुनस्य महत् कर्म स्वयं वा स किरीटभृत्॥ इत्येवं गर्हयित्वैषा तूष्णीमास्ते वराङ्गना तामेतामनुशोचन्ति सपत्न्यः स्वामिव स्नुषाम्॥ गान्धारराजः शकुनिर्बलवान् सत्यविक्रमः। निहतः सहदेवेन भागिनेयेन मातुलः॥ यः पुरा हेमदण्डाभ्यां व्यजनाभ्यां स्म वीज्यते। स एष पक्षिभिः पक्षैः शयान उपवीज्यते॥ यः स्वरूपाणि कुरुते शतशोऽथ सहस्रशः। तस्य मायाविनो माया दग्धाः पाण्डवतेजसा॥ मायया निकृतिप्रज्ञो जितवान् यो युधिष्ठिरम्। सभायां विपुलं राज्य स पुनजीवितं जितः॥ शकुन्ताः शकुनि कृष्ण समन्तात् पर्युपासते। कैतवं मम पुत्राणां विनाशायोपशिक्षितम्॥ एतेनैतन्महद् वैरं प्रसक्तं पाण्डवैः सह। वधाय मम पुत्राणामात्मनः सगणस्य च॥ यथैव ममत्राणां लोका: शस्त्रजिताः प्रभो। एवमस्यापि दुर्बुद्धेर्लोकाः शस्त्रेण वै जिताः॥ कथं च नायं तत्रापि पुत्रान्मे भ्रातृभिः सह। विरोधयेदृजुप्रज्ञाननृजुर्मधुसूदन॥ श्रीभगवानुवाच उत्तिष्ठोत्तिष्ठ गान्धारि मा च शोके मनः कृथाः। तवैव ह्यपराधेन कुरवो निधनं गताः॥ यत् त्वं पुत्रं दुरात्मानमीघुमत्यन्तमानिनम्। दुर्योधनं पुरस्कृत्य दुष्कृतं साधु मन्यसे॥ निष्ठुरं वैरपुरुषं वृद्धानां शासनातिगम्। कथमात्मकृतं दोषं मय्याधातुमिहेच्छसि॥ मृतं वा यदि वा नष्टं योऽतीतमनुशोचति। दुःखेन लभते दुःखं द्वावनौँ प्रपद्यते॥ तपोर्थीयं ब्राह्मणी धत्त गर्भ गौर्वोढारं धावितारं तुरङ्गी। शूद्रा दासं पशुपालं च वैश्या वधार्थीयं त्वद्विधा राजपुत्री॥ वैशम्पायन उवाच तच्छ्रुत्वा वासुदेवस्य पुनरुक्तं वचोऽप्रियम्। तूष्णीं बभूव गान्धारी शोकव्याकुललोचना॥ धृतराष्ट्रस्तु राजर्षिर्निगृह्याबुद्धिजं तमः। पर्यपृच्छत धर्मज्ञो धर्मराज युधिष्ठिरम्॥ जीवतां परिमाणज्ञः सैन्यानामसि पाण्डव। हतानां यदि जानीषे परिमाणं वदस्व मे॥ युधिष्ठिर उवाच दशायुतानामयुतं सहस्राणि च विंशतिः। कोट्यः षष्टिश्च षट् चैव ह्यस्मिन् राजन् मृधे हताः॥९ अलक्षितानां वीराणां सहस्राणि चतुर्दशा दश चान्यानि राजेन्द्र शतं षष्टिश्च पञ्च च॥ धृतराष्ट्र उवाच युधिष्ठिर गतिं कां ते गताः पुरुषसत्तम। आचक्ष्व मे महाबाहो सर्वज्ञो ह्यसि मे मतः॥ युधिष्ठिर उवाच यैर्हतानि शरीराणि हृष्टैः परमसंयुगे। देवराजसमाल्लोकान् गतास्ते सत्यविक्रमः॥ ये त्वहृष्टेन मनसा मर्तव्यमिति भारत। युध्यमाना हता: संख्ये गन्धर्वैः सह संगताः॥ ये च संग्रामभूमिष्ठा याचमानाः पराङ्मुखाः। शस्त्रेण निधनं प्राप्ता गतास्ते गुह्यकान् प्रति॥ पात्यमानाः परैर्ये तु हीयमाना निरायुधाः। ह्रीनिषेवा महात्मानः परानभिमुखा रणे॥ छिद्यमानाः शितैः शस्त्रैः क्षत्रधर्मपरायणाः। गतास्ते ब्रह्मसदनं न मेऽत्रास्ति विचारणा॥ ये त्वत्र निहता राजन्नन्तरायोधनं प्रति। यथाकथंचित् पुरुषास्ते गतास्तूत्तरान् कुरून्॥ धृतराष्ट्र उवाच केन ज्ञानबलेनैवं पुत्र पश्यसि सिद्धवत्। तन्मे वद महाबाहो श्रोतव्यं यदि वै मया॥ युधिष्ठिर उवाच निदेशाद् भवतः पूर्वं वने विचरता मया। तीर्थयात्राप्रसङ्गेन सम्प्राप्तोऽयमनुग्रहः॥ देवर्षिर्लोमशो दृष्टस्ततः प्राप्तोऽस्म्यनुस्मृतिम्। दिव्यं चक्षुरपि प्राप्तं ज्ञानयोगेन वै पुरा॥ धृतराष्ट्र उवाच अनाथानां जनानां च सनाथानां च भारत। कचित् तेषां शरीराणि धक्ष्यसे विधिपूर्वकम्॥ न येषामस्ति संस्कर्ता न च येऽत्राहिताग्नयः। वयं च कस्य कुर्याम बहुत्वात् तात कर्मणाम्॥ यान् सुपर्णाश्च गृध्राश्च विकर्षन्ति यतस्ततः। तेषां तु कर्मणा लोका भविष्यन्ति युधिष्ठिर॥ वैशम्पायन उवाच एवमुक्तो महाराज कुन्तीपुत्रो युधिष्ठिरः। आदिदेश सुधर्माणं धौम्यं सूतं च संजयम्॥ विदुरं च महाबुद्धिं युयुत्सुं चैव कौरवम्। इन्द्रसेनमुखांश्चैव भृत्यान् सूतांश्च सर्वशः॥ भवन्तः कारयन्त्वेषां प्रेतकार्याण्यशेषतः। यथा चानाथवत् किंचिच्छरीरं न विनश्यति॥ शासनाद् धर्मराजस्य क्षत्ता सूतश्च संजयः। सुधर्मा धौम्यसहित इन्द्रसेनादयस्तथा॥ चन्दनागुरुकाष्ठानि तथा कालीयकान्युत। घृतं तैलं च गन्धांश्च क्षौमाणि वसनानि च॥ समाहृत्य महार्हाणि दारूणां चैव संजयान्। रथांश्च मृदितांस्तत्र नानाप्रहरणानि च॥ चिताः कृत्वा प्रयत्नेन यथामुख्यान् नराधिपान्। दाहयामासुरव्यग्राः शास्त्रदृष्टेन कर्मणा॥ दुर्योधनं च राजानं भ्रातृ॑श्चास्य महारथान्। शल्यं शलं च राजानं भूरिश्रवसमेव च॥ जयद्रथं च राजानमभिमन्युं च भारत। दौःशासनि लक्ष्मणं च धृष्टकेतुं च पार्थिवम्॥ बृहन्तं सोमदत्तं च संजयांश्च शताधिकान्। राजानं क्षेमधन्वानं विराटद्रुपदौ तथा॥ शिखण्डिनं च पाञ्चाल्यं धृष्टद्युम्नं च पार्षतम्। युधामन्युं च विक्रान्तमुत्तमौजसमेव च॥ कौसल्यं द्रौपदेयांश्च शकुनि चापि सौबलम्। अचलं वृषकं चैव भगदत्तं च पार्थिवम्॥ कर्णं वैकर्तनं चैव सहपुत्रममर्षणम्। केकयांश्च महेष्वासांस्त्रिगर्ताश्च महारथान्॥ घटोत्कचं राक्षसेन्द्रं बकभ्रातरमेव च। अलम्बुषं राक्षसेन्द्रं जलसन्धं च पार्थिवम्॥ एतांश्चान्यांश्च सुबहून् पार्थिवांश्च सहस्रशः। धृतधाराहुतैर्दीप्तैः पावकैः समदाहयन्॥ पितृमेधाश्च केषांचित् प्रावर्तन्त महात्मनाम्। सामभिश्चाप्यगायन्त तेऽन्वशोचन्त चापरैः॥ साम्नामृचां च नादेन स्त्रीणां च रुदितस्वनैः। कश्मलं सर्वभूतानां निशायां समपद्यत॥ ते विधूमाः प्रदीप्ताश्च दीप्यमानाश्च पावकाः। नभसीवान्वदृश्यन्त ग्रहास्तन्वभ्रसंवृताः॥ ये चाप्यनाथास्तत्रासन् नानादेशसमागताः। तांश्च सर्वान् समानाय्य राशीन् कृत्वा सहस्रशः॥४२ चित्वा दारुभिरव्यप्रैः प्रभूतैः स्नेहपाचितैः। दाहयामास तान् सर्वान् विदुरो राजशासनात्॥ कारयित्वा ऋियास्तेषां कुरुराजो युधिष्ठिरः। धृतराष्ट्र पुरस्कृत्य गङ्गामभिमुखोऽगमत्॥ वैशम्पायन उवाच ते समासाद्य गङ्गां तु शिवां पुण्यजलोचिताम्। ह्रदिनीं च प्रसन्नां च महारूपां महावनाम्॥ भूषणान्युत्तरीयाणि वेष्टनान्यवमुच्य च। ततः पितॄणां भ्रातॄणां पौत्राणां स्वजनस्य च॥ पुत्राणामार्यकाणां च पतीनां च कुरुस्त्रियः। उदकं चक्रिरे सर्वा रुदत्यो भृशदुःखिताः॥ सुहृदां चापि धर्मज्ञाः प्रचक्रुः सलिलक्रियाः। उदके क्रियमाणे तु वीराणां वीरपत्निभिः॥ सूपतीर्था भवद्गङ्गा भूयो विप्रससार च। तन्महोदधिसंकाशं निरानन्दमनुत्सवम्॥ वीरपत्नीभिराकीर्णं गङ्गातीरमशोभत। ततः कुन्ती महाराज सहसा शोककर्शिता॥ रुदती मन्दया वाचा पुत्रान् वंचनमब्रवीत्। यः स वीरो महेष्वासो रथयूथपयूथपः॥ अर्जुनेनं जित: संख्ये वीरलक्षणलक्षितः। यं सूतपुत्रं मन्यध्वं राधेयमिति पाण्डवाः॥ यो व्यराजच भूमध्ये दिवाकर इव प्रभुः। प्रत्ययुध्यत वः सर्वान् पुरा यः सपदानुगान्॥ दुर्योधनबलं सर्वं यः प्रकर्षन् व्यरोचत। यस्य नास्ति समो वीर्ये पृथिव्यामपि पार्थिवः॥ योऽवृणीत यशः शूरः प्राणैरपि सदा भुवि। कर्णस्य सत्यसंधस्य संग्रामेष्वपलायिनः॥ कुरुध्वमुदकं तस्य भ्रातुरकिष्टकर्मणः। स हि वः पूर्वजो भ्राता भास्करान्मय्यजायत॥ कुण्डली कवची शूरो दिवाकरसमप्रभः। श्रुत्वा तु पाण्डवाः सर्वे मातुर्वचनमप्रियम्॥ कर्णमेवानुशोचन्तो भूयः क्लान्ततराभवन्। ततः स पुरुषव्याघ्रः कुलीपुत्रो युधिष्ठिरः॥ उवाच मातरं वीरो निःश्वसन्निव पन्नगः। यः शरोमिर्ध्वजावर्तो महाभुजमहाग्रहः॥ तलशब्दानुनदितो महारथमहाह्रदः। यस्येषुपातमासाद्य नान्यस्तिष्ठेद् धनंजयात्॥ कथं पुत्रो भवत्याः स देवगर्भः पुराभवत्। यस्य बाहुप्रतापेन तापिताः सर्वतो वयम्॥ तमग्निमिव वस्त्रेण कथं छादितवत्यसि। यस्य बाहुबलं नित्यं धार्तराष्ट्ररुपासितम्॥ उपासितं यथास्माभिर्बलं गाण्डीवधन्वनः। भूमिपानां च सर्वेषां बलं बलवतां वरः॥ नान्यः कुन्तीसुतात् कर्णादगृह्णाद् रथिनां रथी। स नः प्रथमजो भ्राता सर्वशस्त्रभृतां वरः॥ असूत तं भवत्यग्रे कथमद्भुतविक्रमम्। अहो भवत्या मन्त्रस्य गृहनेन वयं हताः॥ निधनेन हि कर्णस्य पीडितास्तु सबान्धवाः। अभिमन्योर्विनाशेन द्रौपदेयवधेन च॥ पञ्चालानां विनाशेन कुरूणां पतनेन च। ततः शतगुणं दुःखमिदं मामस्पृशद् मशम्॥ कर्णमेवानुशोचामि दह्याम्यग्नाविवाहितः। नेह स्म किंचिदप्राप्यं भवेदपि दिवि स्थितम्॥ न चेदं वैशसं घोरं कौरवान्तकरं भवेत्। एवं विलप्य बहुलं धर्मराजो युधिष्ठिरः॥ व्यरुदच्छनकै राजंश्चकारास्योदकं प्रभुः। ततो विनेदुः सहसा स्त्रियस्ताः खलु सर्वशः॥ अभितो याः स्थितास्तत्र तस्मिन्नुदककर्मणि। तत आनाययामास कर्णस्य सपरिच्छदाः॥ स्त्रियः कुरुपति/मान् भ्रातुः प्रेम्णा युधिष्ठिरः। स ताभिः सह धर्मात्मा प्रेतकृत्यमनन्तरम्॥ चकार विधिवद् धीमान् धर्मराजो युधिष्ठिरः। पापेनासौ मया श्रेष्ठो भ्राता ज्ञातिनिपातितः। अतो मनसि यद् गुह्यं स्त्रीणां तन्न भविष्यति॥ इत्युक्त्वा स तु गङ्गाया उत्तताराकुलेन्द्रियः। भ्रातृभिः सहितः सर्वैर्गङ्गातीरमुपेयिवान्॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवी सरस्वतीं चैव ततो जयमदीरयेत्।। वैशम्पायन उवाच कृतोदकास्ते सुहृदां सर्वेषां पाण्डुनन्दनाः। विदुरो धृतराष्ट्रश्च सर्वाश्च भरतस्त्रियः॥ तत्र ते सुमहात्मानो न्यवसन् पाण्डुनन्दनाः। शौचं निवर्तयिष्यन्तो मासमानं बहिः पुरात्॥ कृतोदकं तु राजानं धर्मपुत्रं युधिष्ठिरम्। अभिजग्मुर्महात्मानः सिद्धा ब्रह्मर्षिसत्तमाः॥ द्वैपायनो नारदश्च देवलश्च महानृषिः। देवस्थानश्च कण्वश्च तेषां शिष्याश्च सत्तमाः॥ अन्ये च वेदविद्वांसः कृतप्रज्ञा द्विजातयः। गृहस्थाः स्नातकाः सन्तो ददृशुः कुरुसत्तमम्॥ तेऽभिगम्य महात्मानः पूजिताश्च यथाविधि। आसनेषु महार्हेषु विविशुस्ते महर्षयः॥ प्रतिगृह्य ततः पूजां तत्कालसदृशीं तदा। पर्युपासन् यथान्यायं परिवार्य युधिष्ठिरम्॥ पुण्ये भागीरथीतीरे शोकव्याकुलचेतसम्। आश्वासयन्तो राजानं विप्राः शतसहस्रशः॥ नारदस्त्वब्रवीत् काले धर्मपुत्रं युधिष्ठिरम्। सम्भाष्य मुनिभिः सार्धं कृष्णद्वैपायनादिभिः॥ भवता बाहुवीर्येण प्रसादान्माधवस्य च। जितेयमवनिः कृत्स्ना धर्मेण च युधिष्ठि॥ दिष्ट्या मुक्तस्तु संग्रामादस्माल्लोकभयंकरात्। क्षत्रधर्मरतश्चापि कच्चिन्मोदसि पाण्डव॥ कच्चिच्च निहतामित्रः प्रीणासि सुहृदो नृप। कच्चिच्छ्रियमिमां प्राप्य न त्वां शोकः प्रबाधते॥ युधिष्ठिर उवाच विजितेयं मही कृत्स्ना कृष्णबाहुबलाश्रयात्। ब्राह्मणानां प्रसादेन भीमार्जुनबलेन च॥ इदं मम महद् दुःखं वर्तते हृदि नित्यदा। कृत्वा ज्ञातिक्षयमिमं महान्तं लोभकारितम्॥ सौभद्रं द्रौपदेयांश्च घातयित्वा सुतान् प्रियान्। जयोऽयमजयाकारो भगवन् प्रतिभाति मे॥ किं नु वक्ष्यति वार्ष्णेयी वधूर्मे मधुसूदनम्। द्वारकावासिनी कृष्णमितः प्रतिगतं हरिम्॥ द्रौपदी हतपुत्रेयं कृपणा हतबान्धवा। अस्मत्प्रियहिते युक्ता भूयः पीडयतीव माम्॥ इदमन्यत् तु भगवन् यत् त्वां वक्ष्यामि नारद। मन्त्रसंवरणेनास्मि कुन्त्या दुःखेन योजितः॥ यः स नागायुतबलो लोकेऽप्रतिरथो रणे। सिंहखेलगतिर्धीमान् घृणी दाता यतव्रतः॥ आश्रयो धार्तराष्ट्राणां मानी तीक्ष्णपराक्रमः। अमर्षी नित्यसंरम्भी क्षेप्तास्माकं रणे रणे।॥ शीघ्रास्त्रश्चित्रयोधी च कृती चाद्भुतविक्रमः। गूढोत्पन्नः सुतः कुन्त्या भ्रातास्माकमसौ किल॥ तोयकर्मणि तं कुन्ती कथयामास सूर्यजम्। पुत्रं सर्वगुणोपेतमवकीर्णं जले पुरा॥ मञ्जूषायां समाधाय गङ्गास्रोतस्यमज्जयत्। यं सूतपुत्रं लोकोऽयं राधेयं चाभ्यमन्यत॥ स ज्येष्ठपुत्रः कुन्त्या वै भ्रातास्माकं च मातृजः। अजानता मया भ्रात्रा राज्यलुब्धेन घातितः॥ तन्मे दहति गात्राणि तूलराशिमिवानलः। न हि तं वेद पार्थोऽपि भ्रातरं श्वेतवाहनः॥ नाहं न भीमो न यमौ स त्वस्मान् वेद सुव्रतः। गता किल पृथा तस्य सकाशमिति नः श्रुतम्॥ अस्माकं शमकामा वै त्वं च पुत्रो ममेत्यथ। पृथाया न कृतः कामस्तेन चापि महात्मना॥ अपि पश्चादिदं मातर्यवोचदिति नः श्रुतम्। अनार्यत्वं नृशंसत्वं कृतघ्नत्वं च मे भवेत्। युधिष्ठिरेण संधिं हि यदि कुर्या मते तव॥ भीतो रणे श्वेतवाहादिति मां मंस्यते जनः। सोऽहं निर्जित्य समरे विजयं सहकेशवम्॥ संधास्ये धर्मपुत्रेण पश्चादिति च सोऽब्रवीत्। तमुवाच किल पृथा पुनः पृथुलवक्षसम्॥ चतुर्णामभयं देहि कामं युध्यस्व फाल्गुनम्। सोऽब्रवीन्मातरं धीमान् वेपमानां कृताञ्जलिः॥ प्राप्तान् विषह्यांश्चतुरो न हनिष्यामि ते सुतान्। पञ्चैव हि सुता देवि भविष्यन्ति तव ध्रुवाः॥ सार्जुना वा हते कर्णे सकर्णा वा हतेऽर्जुने। तं पुत्रगृद्धिनी भूयो माता पुत्रमथाब्रवीत्॥ भ्रातृणां स्वस्ति कुर्वीथा येषां स्वस्ति चिकीर्षसि। एवमुक्त्वा किल पृथा विसृज्योपययौ गृहान्॥ सोऽर्जुनेन हतो वीरो भ्रात्रा भ्राता सहोदरः। न चैव विवृतो मन्त्रः पृथायास्तस्य वा विभो॥ अथ शूरो महेष्वासः पार्थेनाजौ निपातितः। अहं त्वज्ञासिषं पश्चात् स्वसोदर्यं द्विजोत्तम॥ पूर्वजं भ्रातरं कर्णं पृथाया वचनात् प्रभो। तेन मे दूयते तीव्र हृदयं भ्रातृघातिनः॥ कर्णार्जुनसहायोऽहं जयेयमपि वासवम्। सभायां क्लिश्यमानस्य धार्तराष्ट्रैर्दुरात्मभिः॥ सहसोत्पतितः क्रोधः कर्णं दृष्ट्वा प्रशाम्यति। यदा ह्यस्य गिरो रूक्षाः शृणोमि कटुकोदयाः॥ सभायां गदतो द्यूते दुर्योधनहितैषिणः। तदा नश्यति मे रोषः पादौ तस्य निरीक्ष्य ह॥ कुन्त्या हि सदृशौ पादौ कर्णस्येति मतिर्ममा सादृश्यहेतुमन्विच्छन् पृथायास्तस्य चैव ह॥ कारणं नाधिगच्छामि कथंचिदपि चिन्तयन्। कथं नु तस्य संग्रामे पृथिवी चक्रमग्रसत्॥ कथं नु शप्तो भ्राता मे तत्त्वं वक्तुमिहार्हसि। श्रोतुमिच्छामि भगवंस्त्वत्तः सर्वं यथातथम्। भवान् हि सर्वविद् विद्वान् लोके वेद कृताकृतम्।।४४। वैशम्पायन उवाच स एवमुक्तस्तु मुनि रदो वदतां वरः। कथयामास तत् सर्वं यथा शप्तः स सूतजः॥ नारद उवाच एवमेतन्महाबाहो यथा वदसि भारत। न कर्णार्जुनयोः किंचिदविषह्यं भवेद् रणे॥ गुह्यमेतत् तु देवानां कथयिष्यामि तेऽनघ। तन्निबोध महाबाहो यथा वृत्तमिदं पुरा॥ क्षत्रं स्वर्ग कथं गच्छेच्छस्त्रपूतमिति प्रभो। संघर्षजननस्तस्मात् कन्यागर्भो विनिर्मितः॥ स बालस्तेजसा युक्तः सूतपुत्रत्वमागतः। चकाराङ्गिरसां श्रेष्ठाद् धनुर्वेदं गुरोस्तदा॥ स बलं भीमसेनस्य फाल्गुनस्य च लाघवम्। बुद्धिं च तव राजेन्द्र यमयोर्विनयं तदा॥ सख्यं च वासुदेवेन बाल्ये गाण्डीवधन्वनः। प्रजानामनुरागं च चिन्तयानो व्यदह्यत॥ स सख्यमकरोद् बाल्ये राज्ञा दुर्योधनेन च। युष्माभिनित्यसंद्विष्टो दैवाच्चापि स्वभावतः॥ वीर्याधिकमथालक्ष्य धनुर्वेदे धनंजयम्। द्रोणं रहस्युपागम्य कर्णो वचनमब्रवीत्॥ ब्रह्मास्त्रं वेत्तुमिच्छामि सरहस्यनिवर्तनम्। अर्जुनेन समं चाहं युध्येयमिति मे मतिः॥ समः शिष्येषु वः स्नेहः पुत्रे चैव तथा ध्रुवम्। त्वत्प्रसादान्न मां ब्रूयुरकृतास्त्रं विचक्षणाः॥ द्रोणस्तथोक्तः कर्णेन सापेक्षः फाल्गुनं प्रति। दौरात्म्यं चैव कर्णस्य विदित्वा तमुवाच ह॥ ब्रह्मास्त्रं ब्राह्मणो विद्याद् यथावच्चरितव्रतः। क्षत्रियो वा तपस्वी यो नान्यो विद्यात् कथंचन।॥ इत्युक्तोऽङ्गिरसां श्रेष्ठमामन्त्र्य प्रतिपूज्य च। जगाम सहसा रामं महेन्द्रं पर्वतं प्रति॥ स तु राममुपागम्य शिरसाऽभिप्रणम्य च। ब्राह्मणो भार्गवोऽस्मीति गौरवेणाभ्यगच्छत॥ समस्तं प्रतिजग्राह पृष्ट्वा गोत्रादि सर्वशः। उष्यतां स्वागतं चेति प्रीतिमांश्चाभवद् भृशम्॥ तत्र कर्णस्य वसतो महेन्द्रे स्वर्गसंनिभे। गन्धर्व राक्षसैर्यक्षैर्देवैश्चासीत् समागमः॥ स तत्रेष्वस्त्रमकरोद् भृगुश्रेष्ठाद् यथाविधि। प्रियश्चाभवदत्यर्थं देवदानवरक्षसाम्॥ स कदाचित् समुद्रान्ते विचरन्नाश्रमान्तिके। एकः खड्गधनुष्पाणिः परिचक्राम सूर्यजः॥ सोऽग्निहोत्रप्रसक्तस्य कस्यचिद् ब्रह्मवादिनः। जघानाज्ञानतः पार्थ होमधेनुं यदृच्छया।॥ तदज्ञानकृतं मत्वा ब्राह्मणाय न्यवेदयत्। कर्णः प्रसादयंश्चैनमिदमित्यब्रवीद् वचः॥ अबुद्धिपूर्वं भगवन् धेनुरेषा हता तव। मया तत्र प्रसादं च कुरुष्वेति पुनः पुनः॥ तं स विप्रोऽब्रवीत्क्रुद्धो वाचा निर्भर्त्सयन्निव। दुराचार वधार्हस्त्वं फलं प्रात्नुहि दुर्मते॥ येन विस्पर्धसे नित्यं यदर्थं घटसेऽनिशम्। युध्यतस्तेन ते पाप भूमिश्चक्रं गृसिष्यति॥ ततश्चक्रे महीग्रस्ते मूर्धानं ते विचेतसः। पातयिष्यति विक्रम्य शत्रुर्गच्छ नराधम॥ यथेयं गौर्हता मूढ प्रमत्तेन त्वया मम। प्रमत्तस्य तथारातिः शिरस्ते पातयिष्यति॥ शप्तः प्रसादयामास कर्णस्तं द्विजसत्तमम्। गोभिर्घनैश्च रत्नैश्च स चैनं पुनरब्रवीत्॥ न हि मेऽव्याहृतं कुर्यात् सर्वलोकोऽपि केवलम्। गच्छ वा तिष्ठ वा यद् वा कार्यं ते तत् समाच।।२८। इत्युक्तो ब्राह्मणेनाथ कर्णो दैन्यादधोमुखः। राममभ्यगमद् भीतस्तदेव मनसा स्मरन्।॥ नारद उवाच कर्णस्य बाहुवीर्येण प्रणयेन दमेन च। तुतोष भृगुशार्दूलो गुरुशुश्रूषया तथा॥ तस्मै स विधिवत् कृत्स्नं ब्रह्मास्त्रं सनिवर्तनम्। प्रोवाचाखिलमव्यग्रं तपस्वी तत् तपस्विने॥ विदितास्त्रस्ततः कर्णो रममाणोऽऽश्रमे भृगोः। चकार वै धनुर्वेदे यत्नमद्भुतविक्रमः॥ ततः कदाचिद् रामस्तु चरन्नाश्रममन्तिकात्। कर्णेन सहितो धीमानुपवासेन कर्शितः॥ सुष्वाय जामदग्न्यस्तु विश्रम्भोत्पन्नसौहृदः। कर्णस्योत्सङ्ग आधाय शिरः क्लान्तमना गुरुः॥ अथ कृमिः श्लेष्ममेदोमांसशोणितभोजनः। दारुणो दारुणस्पर्शः कर्णस्याभ्याशमागतः॥ स तस्योरुमथासाद्य बिभेद रुधिराशनः। न चैनमशकत् क्षेप्तुं हन्तुं वापि गुरोर्भयात्॥ संदश्यमानस्तु तथा कृमिणा तेन भारत। गुरोः प्रबोधनाशङ्की तमुपैक्षत सूर्यजः॥ कणस्तु वेदनां धैर्यादसह्यां विनिगृह्य ताम्। अकम्पयन्नव्यथयन् धारयामास भार्गवम्॥ यदास्य रुधिरेणाङ्ग परिस्पृष्टं भृगूद्वहः। तदाबुद्ध्यत तेजस्वी संत्रस्तश्चेदमब्रवीत्॥ अहोऽस्म्यशुचितां प्राप्तः किमिदं क्रियते त्वया। कथयस्व भयं त्यक्त्वा याथातथ्यमिदं मम॥ तस्य कर्णस्तदाऽऽचष्ट कृमिणा परिभक्षणम्। ददर्श रामस्तं चापि कृमि सूकरसंनिभम्॥ अष्टपादं तीक्ष्णदंष्ट्र सूचीभिरिव संवृतम्। रोमभिः संनिरुद्धाङ्गमलर्कं नाम नामतः॥ स दृष्टमात्रो रामेण कृमि: प्राणानवासृजत्। तस्मिन्नेवासृजि क्लिन्नस्तदद्भुतमिवाभवत्॥ ततोऽन्तरिक्षे ददृशे विश्वरूपः करालवान्। राक्षसो लोहितग्रीवः कृष्णाङ्गो मेघवाहनः॥ स रामं प्राञ्जलिर्भूत्वा बभाषे पूर्णमानसः। स्वस्ति ते भृगुशार्दूल गमिष्येऽहं यथागतम्॥ मोक्षितो नरकादस्माद् भवता मुनिसत्तम। भद्रं तवास्तु वन्दे त्वां प्रियं मे भवता कृतम्॥ तमुवाच महाबाहुर्जामदग्न्यः प्रतापवान्। कस्त्वं कस्माच्च नरकं प्रतिपन्नो ब्रवीहि तत्॥ सोऽब्रवीदहमासं प्राग्दंशो नाम महासुरः। पुरा देवयुगे तात भृगोस्तुल्यवया इव॥ सोऽहं भृगोः सुदयितां भार्यामपहरं बलात्। महर्षेरभिशापेन कृमिभूतोऽपतं भुवि।॥ अब्रवीद्धि स मां क्रुद्धस्तव पूर्वपितामहः। मूत्रश्लेष्माशनः पाप निरयं प्रतिपत्स्यसे॥ शापस्यान्तो भवेद् ब्रह्मन्नित्येवं तमथाब्रवम्। भविता भार्गवाद् रामादिति मामब्रवीद् भृगुः॥ सोऽहमेनां गतिं प्राप्तो यथा न कुशलं तथा त्वया साधो समागम्य विमुक्तः पापयोनितः॥ एवमुक्त्वा नमस्कृत्य ययौ रामं महासुरः। रामः कर्णं च सक्रोधमिदं वचनमब्रवीत्॥ अतिदुःखमिदं मूढ न जातु ब्राह्मणः सहेत्। क्षत्रियस्येव ते धैर्यं कामया सत्यमुच्यताम्॥ कर्णः शापाद् ब्रह्मक्षत्रान्तरे जातं सूतं मां विद्धि भार्गव॥ तमुवाच ततः भीतः प्रसादयन्। राधेयः कर्ण इति मां प्रवदन्ति जना भुवि। प्रसादं कुरु मे ब्रह्मन्नस्त्रलुब्धस्य भार्गव॥ पिता गुरुर्न संदेहो वेदविद्याप्रदः प्रभुः। अतो भार्गव इत्युक्तं मया गोत्रं तवान्तिक॥ तमुवाच भृगुश्रेष्ठः सरोषः प्रदहन्निवा भूमौ निपतितं दीनं वेपमानं कृताञ्जलिम्॥ यस्मान्मिथ्योपचरितो ह्यस्त्रलोभादिह त्वया। तस्मादेतन ते मूढ ब्रह्मास्त्रं प्रतिभास्यति॥ अन्यत्र वधकालात् ते सदृशेन समीयुषः। अब्राह्मणे न हि ब्रह्म ध्रुवं तिष्ठेत् कदाचन॥ गच्छेदानीं न ते स्थानमनृतस्येह विद्यते। न त्वया सदृशो युद्धे भविता क्षत्रियो भुवि॥ एवमुक्तः स रामेण न्यायेनोपजगाम हा दुर्योधनमुपागम्य कृतोस्त्रोऽस्मीति चाब्रवीत्॥ एवमुक्तः स रामेण न्यायेनोपजगाम हा दुर्योधनमुपागम्य कृतोस्त्रोऽस्मीति चाब्रवीत्॥ नारद उवाच कर्णस्तु समवाप्यैवमस्त्रं भार्गवनन्दनात्। दुर्योधनेन सहितो मुमुदे भरतर्षभ।॥ ततः कदाचिद् राजानः समाजग्मुः स्वयंवरे। कलिङ्गविषये राजन् राज्ञश्चित्राङ्गदस्य च॥ श्रीमद्राजपुरं नाम नगरं तत्र भारत। राजानः शतशस्तत्र कन्यार्थे समुपागमन्॥ श्रुत्वा दुर्योधनस्तत्र समेतान् सर्वपार्थिवान्। रथेन काञ्चनाङ्गेन कर्णेन सहितो ययौ॥ ततः स्वयंवरे तस्मिन् सम्प्रवृत्ते महोत्सवे। समाजग्मुर्नृपतयः कन्यार्थे नृपसत्तम॥ शिशुपालो जरासंधो भीष्मको वक्र एव च। कपोतरोमा नीलश्च रुक्मी च दृढविक्रमः॥ शृगालश्च महाराजः स्त्रीराज्याधिपतिश्च यः। अशोकः शतधन्वा च भोजो वीरश्च नामतः॥ एते चान्ये च बहवो दक्षिणां दिशमाश्रिताः। म्लेच्छाचार्याश्च राजानः प्राच्योदीच्यास्तथैव च॥ काञ्चनाङ्गदिनः सर्वे शुद्धजाम्बूनदप्रभाः। सर्वे भास्वरदेहाश्च व्याघ्रा इव वलोत्कटाः॥ ततः समुपविष्टेषु तेषु राजसु भारत। विवेश रङ्गं सा कन्या धात्रीवर्षवरान्विता॥ ततः संश्राव्यमाणेषु राज्ञां नामसु भारत। अत्यकामद् धार्तराष्ट्र सा कन्या वरवर्णिनी॥ दुर्योधनस्तु कौरव्यो नामर्षयत लङ्घनम्। प्रत्यषेधच्च तां कन्यामसत्कृत्य नराधिपान्॥ स वीर्यमदमत्तत्वाद् भीष्मद्रोणावुपाश्रितः। रथमारोप्य तां कन्यामाजहार नराधिपः॥ तमन्वगाद् रथी खड्गी बद्धगोधाङ्गद्धलित्रवान्। कर्णः शस्त्रभृतां श्रेष्ठः पृष्ठतः पुरुषर्षभ॥ ततो विमर्दः सुमहान् राज्ञामासीद् युयुत्सताम्। संनह्यतां तनुत्राणि रथान् योजयतामपि॥ तेऽभ्यधावन्त संक्रुद्धाः कर्णदुर्योधनावुभौ। शरवर्षाणि मुञ्चन्तो मेघाः पर्वतयोरिव॥ कर्णस्तेषामापततामेकैकेन शरेण ह धषि च शरवातान् पातयामास भूतले॥ ततो विधनुष: कांश्चित् कांश्चिदुद्यतकार्मुकान्। कांश्चिच्चोद्वहतो बाणान् रथशक्तिगदास्तथा॥ लाघवाद् व्याकुलीकृत्य कर्णः प्रहरतां वरः। हतसूतांश्च भूयिष्ठानवजिग्ये नराधिपान्॥ ते स्वयं वाहयन्तोऽश्वान् पाहि पाहीति वादिनः। व्यपेयुस्ते रणं हित्वा राजानो भग्नमानसाः॥ दुर्योधनस्तु कर्णेन पाल्यमानोऽभ्ययात् तदा। हृष्टः कन्यामुपादाय नगरं नागसाह्वयम्॥ नारद उवाच आविष्कृतबलं कर्णं श्रुत्वा राजा स मागधः। आह्वयद् द्वैरथेनाजी जरासंधो महीपतिः॥ तयोः समभवद् युद्धं दिव्यास्त्रविदुषोईयोः। युधि नानाप्रहरणैरन्योन्यमभिवर्षतोः॥ क्षीणबाणौ विधनुषौ भग्नखड्गौ महीं गतौ। बाहुभिः समसज्जेतामुभावपि बलान्वितौ॥ बाहुकण्टकयुद्धेन तस्य कर्णोऽथ युध्यतः। बिभेद सन्धिं देहस्य जरया श्लेषितस्य हि॥ स विकारं शरीरस्य दृष्ट्वा नृपतिरात्मनः। प्रीतोऽस्मीत्यब्रवीत् कर्णं वैरमुत्सृज्य दूरतः॥ प्रीत्या ददौ स कर्णाय मालिनी नगरीमथ। अड्रेषु नरशार्दूल स राजाऽऽसीत् सपत्नजित्॥ पालयामास चम्पां च कर्णः परबलार्दनः। दुर्योधनस्यानुमते तवापि विदितं तथा॥ एवं शस्त्रप्रतापेन प्रथितः सोऽभवत् क्षितौ। त्वद्धितार्थं सुरेन्द्रेण भिक्षितो वर्मकुण्डले॥ स दिव्ये सहजे प्रादात् कुण्डले परमार्जिते। सहजं कवचं चापि मोहितो देवमायया।॥ विमुक्तः कुण्डलाभ्यां च सहजेन च वर्मणा। निहतो विजयेनाजौ वासुदेवस्य पश्यतः॥ ब्राह्मणस्याभिशापेन रामस्य च महात्मनः। कुन्त्याच वरदानेन मायया च शतक्रतोः॥ भीष्मावमानात् संख्यायां रथस्यार्धानुकीर्तनात्। शल्यात् तेजोवधाच्चापि वासुदेवनयेन च॥॥ रुद्रस्य देवराजस्य यमस्य वरुणस्य च। कुबेरद्रोणयोश्चैव कृपस्य च पहात्मनः॥ अस्त्राणि दिव्यान्यादाय युधि गाण्डीवधन्वना। हतो वैकर्तनः कर्णो दिवाकरसमद्युतिः॥ एवं शप्तस्तव भ्राता बहुभिश्चापि वञ्चितः। न शोच्यः पुरुषव्याघ्र युद्धेन निधनं गतः॥ वैशम्पायन उवाच एतावदुक्त्वा देवर्षिविरराम स नारदः। युधिष्ठिरस्तु राजर्षिर्दथ्यौ शोकपरिप्लुतः॥ तं दीनमनसं वीरं शोकोपहतमातुरम्। निःश्वसन्तं यथा नागं पर्यश्रुनयनं तथा॥ कुन्ती शोकपरीताङ्गी दुःखोपहतचेतना। अब्रवीन्मधुराभाषा काले वचनमर्थवत्॥ युधिष्ठिर महाबाहो नैनं शोचितुमर्हसि। जहि शोकं महाप्राज्ञ शृणु चेदं वचो मम॥ यातितः स मया पूर्वं भ्राज्यं ज्ञापयितुं तव। भास्करेण च देवेन पित्रा धर्मभृतां वर॥ यद्वाच्यं हितकामेन सुहृदा हितमिच्छता। तथा दिवाकरेणोक्तः स्वप्नान्ते मम चाग्रतः॥ न चैनमशकद् भानुरहं वा स्नेहकारणैः। पुरा प्रत्यनुनेतुं वा नेतुं वाप्येकतां त्वया॥ ततः कालपरीतः स वैरस्योद्धरणे रतः। प्रतीपकारी युष्माकमिति चोपेक्षितो मया॥ इत्युक्तो धर्मराजस्तु मात्रा बाष्पाकुलेक्षणः। उवाच वाक्यं धर्मात्मा शोकव्याकुलितेन्द्रियः॥ भवत्या गूढमन्त्रत्वात् पीडितोऽस्मीत्युवाच ताम्॥ शशाप च महातेजाः सर्वलोकेषु योषितः। न गुह्यं धारयिष्यन्तीत्येवं दुःखसमन्वितः॥ स राजा पुत्रपौत्राणां सम्बन्धिसुहृदां तदा। स्मरन्नुद्विग्नहृदयो बभूवोद्विग्नचेतनः॥ ततः शोकपरीतात्मा सधूम इव पावकः। निर्वेदमगमद् धीमान् राजा संतापपीडितः॥ वैशम्पायन उवाच युधिष्ठिरस्तु धर्मात्मा शोकव्याकुलचेतनः। शुशोच दुःखसंतप्तः स्मृत्वा कर्णं महारथम्॥ आविष्टो दुःखशोकाभ्यां निःश्वसंश्च पुनः पुनः। दृष्ट्वाऽर्जुनमुवाचेदं वचनं शोककर्शितः॥ युधिष्ठिर उवाच यफ्रेक्ष्यमाचरिष्याम वृष्णयन्धकपुरे वयम्। ज्ञातीन् निष्पुरुषान् कृत्वा नेमां प्राप्स्याम दुर्गतिम्॥ अमित्रा नः समृद्धार्था वृत्तार्थाः कुरवः किलः। आत्मानमात्मना हत्वा किं धर्मफलमाप्नुमः॥ धिगस्तु क्षात्रमाचारं धिगस्तु बलपौरुषम्। धिगस्त्वमर्षं येनेमामापदं गमिता वयम्॥ साधु क्षमा दमः शौचं वैराग्यं चाप्यमत्सरः। अहिंसा सत्यवचनं नित्यानि वनचारिणाम्॥ वयं तु लोभान्मोहाच्च दम्भं मानं च संश्रिताः। इमामवस्थां सम्प्राप्ता राज्यलाभबुभुत्सया॥ त्रैलोक्यस्यापि राज्येन नास्मान् कश्चित् प्रहर्षयेत्। बान्धवान् निहतान् दृष्ट्वा पृथिव्यां विजयैषिणः॥ ते वयं पृथिवीहेतोरवध्यान् पृथिवीश्वरान्। सम्परित्यज्य जीवामो हीनार्था हतबान्धवाः॥ आमिषे गृध्यमानानामशुभं वै शुनामिव। आमिषं चैव नो हीष्टमामिषस्य विवर्जनम्॥ न पृथिव्या सकलया न सुवर्णस्य राशिभिः। न गवाश्वेन सर्वेण ते त्याज्या य इमे हताः॥ काममन्युपरीतास्ते क्रोधहर्षसमन्विताः। मृत्युयानं समारुह्य गता वैवस्वतक्षयम्॥ बहुकल्याणसंयुक्तानिच्छन्ति पितरः सुतान्। तपसा ब्रह्मचर्येण सत्येन च तितिक्षया॥ उपवासैस्तथेज्याभिव्रतकौतुकमङ्गलैः। लभन्ते मातरो गर्भान्मासान् दश च बिभ्रति॥ यदि स्वस्ति प्रजायन्ते जाता जीवन्ति वा यदि। सम्भाविता जातबलास्ते दधुर्यदि नः सुखम्॥ इह चामुत्र चैवेति कृपणाः फलहेतवः। तासामयं समुद्योगो निर्वृत्तः केवलोऽफलः।१६।। यदासां निहताः पुत्रा युवानो मृष्टकुण्डलाः। अभुक्त्वा पार्थिवान् भोगानृणान्यनपहाय च॥ पितृभ्यो देवताभ्यश्च गता वैवस्वतक्षयम्॥ यदैषामम्ब पितरौ जातकामावुभावपि। संजातधनरत्नेषु तदैव निहता नृपाः॥ संयुक्ताः काममन्युभ्यां क्रोधहर्षासमञ्जसाः। न ते जयफलं किंचिद् भोक्तारो जातु कर्हिचित्॥ पञ्चालानां कुरूणां च हता एव हि ये हताः। न चेत् सर्वानयं लोकः पश्येत् स्वेनैव कर्मणा॥ वयमेवास्य लोकस्य विनाशे कारणं स्मृताः। धृतराष्ट्रस्य पुत्रेषु तत् सर्वं प्रतिपत्स्यति॥ सदैव निकृतिप्रज्ञो द्वेष्टा मायोपजीवनः। मिथ्याविनीतः सततमस्मास्वनपकारिषु॥ न सकामा वयं ते च न चास्माभिर्न तैर्जितम्। न तैर्भुक्तेयमवनिर्न नार्यो गीतवादितम्॥ नामात्यसुहृदां वाक्यं न च श्रुतवतां श्रुतम्। न रत्नानि पराानि न भून द्रविणागमः॥ अस्मद्वेषेण संतप्तः सुखं न स्मेह विन्दति। ऋद्धिमस्मासु तां दृष्ट्वा विवर्णो हरिणः कृशः॥ धृतराष्ट्रश्च नृपतिः सौबलेन निवेदितः। तं पिता पुत्रगृद्धित्वादनुमेनेऽनये स्थितः॥ अनपेक्ष्यैव पितरं गाङ्गेयं विदुरं तथा। असंशयं क्षयं राजा यथैवाहं तथा गतः॥ अनियम्याशुचिं लुब्धं पुत्रं कामवशानुगम्। यशसः पतितो दीप्ताद् घातयित्वा सहोदरान्॥ इमौ हि वृद्धौ शोकाग्नौ प्रक्षिप्य स सुयोधनः। अस्मत्प्रद्वेषसंयुक्तः पापबुद्धिः सदैव ह॥ को हि बन्धुः कुलीनः संस्तथा ब्रूयात् सुहृज्जने। यथासाववदद् वाक्यं युयुत्सुः कृष्णसंनिधौ॥ आत्मनो हि वयं दोषाद् विनष्टाः शाश्वतीः समाः। प्रदहन्तो दिशः सर्वा भास्वरा इव तेजसा॥ सोऽस्माकं वैरपुरुषो दुर्मतिः प्रग्रहं गतः। दुर्योधनकृते ह्येतत् कुलं नो विनिपातितम्॥ अवध्यानां वधं कृत्वा लोके प्राप्ताः स्म वाच्यताम्। कुलस्यास्यान्तकरणं दुर्मतिं पापपूरुषम्॥ राजा राष्ट्रेश्वरं कृत्वा धृतराष्ट्रोऽद्य शोचति। हताः शूराः कृतं पापं विषयः स्वो विनाशितः॥ हत्वा नो विगतो मन्युः शोको मां रुन्धयत्ययम्। धनंजय कृतं पापं कल्याणेनोपहन्यते॥ ख्यापनेनानुतापेन दानेन तपसापि वा। निवृत्त्या तीर्थगमनाच्छुतिस्मृतिजपेन वा॥ त्यागवांश्च पुनः पापं नालंकर्तुमिति श्रुतिः। त्यागवाजन्ममरणे नाप्नोतीति श्रुतिर्यदा॥ प्राप्तवा कृतमतिर्ब्रह्म सम्पद्यते तदा। स धनंजय निर्द्वन्द्वो मुनिर्ज्ञानसमन्वितः॥ वनमामन्त्र्य वः सर्वान् गमिष्यामि परंतप। न हि कृत्स्नतमो धर्मः शक्यः प्राप्तुमिति श्रुतिः॥ परिग्रहवता तन्मे प्रत्यक्षमरिसूदन। मया निसृष्टं पापं हि परिग्रहमभीप्सता॥ जन्मक्षयनिमित्तं च प्राप्तुं शक्यमिति श्रुतिः। स परिग्रहमुत्सृज्य कृत्स्नं राज्यं सुखानि च॥ गमिष्यामि विनिर्मुक्तो विशोको निर्ममः क्वचित्। प्रशाधि त्वमिमामुर्वी क्षेमां निहतकण्टकाम्॥ न ममार्थोऽस्ति राज्येन भोगैर्वा कुरुनन्दन। एतावदुक्त्वा वचनं कुरुराजो युधिष्ठिरः। उपारमत् ततः पार्थः कनीयानभ्यभाषत॥ प्रशाधि त्वमिमामुर्वी क्षेमां निहतकण्टकाम्॥ न ममार्थोऽस्ति राज्येन भोगैर्वा कुरुनन्दन। एतावदुक्त्वा वचनं कुरुराजो युधिष्ठिरः। उपारमत् ततः पार्थः कनीयानभ्यभाषत॥ युधिष्ठिर उवाच मुहूर्तं तावदेकाग्रो मनःश्रोत्रेऽन्तरात्मनि। धारयन्नपि तच्छुत्वा रोचेत वचनं मम॥ साधुगम्यमहं मार्गं न जातु त्वत्कृते पुनः। गच्छेयं तद् गमिष्यामि हित्वा ग्राम्यसुखान्युत॥ क्षेम्यश्चैकाकिना गम्यः पन्थाः कोऽस्तीति पृच्छ माम्। अथवा नेच्छसि प्रष्टुमपृच्छन्नपि मे शृणु॥ हित्वा ग्राम्यसुखाचारं तप्यमानो महत् तपः। अरण्ये फलमूलाशी चरिष्यामि मृगैः सह॥ जुह्वानोऽग्निं यथाकालमुभौ कालावुपस्पृशन्। कृशः परिमिताहारश्चर्मचीरजटाधरः॥ शीतवातातपसहः क्षुत्पिपासाश्रमक्षमः। तपसा विधिदृष्टेन शरीरमुपशोषयन्॥ मनःकर्णसुखा नित्यं शृण्वन्नुच्चावचा गिरः। मुदितानामरण्येषु वसतां मृगपक्षिणाम्॥ आजिघ्रन पेशलान् गन्धान फुल्लानां वृक्षवीरुधाम्। नानारूपान् वने पश्यन् रमणीयान् वनौकसः॥ वानप्रस्थजनस्यापि दर्शनं कुलवासिनाम्। नाप्रियाण्याचरिष्यामि किंपुनर्ग्रामवासिनाम्॥ एकान्तशीली विमृशन् पक्वापक्वेन वर्तयन्। पितृन् देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन्॥ एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम्। सेवमानः प्रतीक्षिष्ये देहस्यास्य समापनम्॥ अथवैकोऽहमेकाहमेकैकस्मिन् वनस्पतौ। चरन् भैक्ष्यं मुनिर्मुण्डः क्षपयिष्ये कलेवरम्॥ पांसुभिः समभिच्छन्नः शून्यागारप्रतिश्रयः। वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः॥ न शोचन्न पहष्यंश्च तुल्यनिन्दात्मसंस्तुतिः। निराशीर्निर्ममो भूत्वा निर्द्वन्द्वो निष्परिग्रहः॥ आत्मारामः प्रसन्नात्मा जडान्धवधिराकृतिः। अकुर्वाणः परैः काञ्चित् संविदं जातु कैरपि॥ जङ्गमाजङ्गमान् सर्वानविहिसंश्चतुर्विधान्। प्रजाः सर्वाः स्वधर्मस्थाः समः प्राणभृतः प्रति॥ न चाप्यवहसन् कञ्चिन्न कुर्वन् भृकुटी: क्वचित्। प्रसन्नवदनो नित्यं सर्वेन्द्रियसुसंयतः॥ अपृच्छन् कस्यचिन्मार्ग प्रव्रजन्नेव केनचित्। न देशं न दिशं काञ्चिद् गन्तुमिच्छन् विशेषतः॥ गमने निरपेक्षश्च पश्चादनवलोकयन्। ऋजुः प्रणिहितो गच्छंस्त्रसस्थावरवर्जकः॥ स्वभावस्तु प्रयात्यग्रे प्रभवन्त्यशनान्यपि। द्वन्द्वानि च विरुद्धानि तानि सर्वाण्यचिन्तयन्॥ अल्पं वास्वादु वा भोज्यं पूर्वालाभेन जातुचित्। अन्येष्वपि चरँल्लाभमलाभे सप्त पूरयन्॥ विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने। अतीतपात्रसंचारे काले विगतभिक्षुके॥ एककालं चरन् भक्ष्यं त्रीनथ द्वे च पञ्च वा। स्नेहपाशं विमुच्याहं चरिष्यामि महीमिमाम्॥ अलाभे सति वा लाभे समदर्शी महातपाः। न जिजीविषुवत् किंचिन्न मुमूर्षुवदाचरन्।॥ जीवितं मरणं चैव नाभिनन्दन्न च द्विषन्। वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः॥ नाकल्याणं न कल्याणं चिन्तयन्नुभयोस्तयोः। याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः। सर्वास्ताः समभित्यज्य निमेषादिव्यवस्थितः॥ तेषु नित्यमसक्तश्च त्यक्तसर्वेन्द्रियक्रियः। सुपरित्यक्तसंकल्प: सुनिर्णिक्तात्मकल्मषः॥ विमुक्तः सर्वसंगेभ्यो व्यतीतः सर्ववागुराः। न वशे कस्यचित्तिष्ठन् सधर्मा मातरिश्वनः॥ वीतरागश्चरन्नेवं तुष्टिी प्राप्स्यामि शाश्वतीम्। तृष्णया हि महत् पापमज्ञानादस्मि कारितः॥ कुशलाकुशलान्येके कृत्वा कर्माणि मानवाः। कार्यकारणसंश्लिष्टं स्वजनं नाम बिभ्रति॥ आयुषोऽन्ते प्रहायेदं क्षीणप्राणं कलेवरम्। प्रतिगृह्णाति तत् पापं कर्तुः कर्मफलं हि तत्॥ एवं संसारचक्रेऽस्मिन् व्याविद्धे रथचक्रवत्। समेति भूतग्रामोऽयं भूतग्रामेण कार्यवान्॥ जन्ममृत्युजराव्याधिवेदनाभिरभिद्रुतम्। अपारमिव चास्वस्थं संसारं त्यजतः सुखम्॥ दिवः पतत्सु देवेषु स्थानेभ्यश्च महर्षिषु। को हि नाम भवेनार्थी भवेत् कारणतत्त्ववित्॥ कृत्वा हि विविधं कर्म तत्तद् विविधलक्षणम्। पार्थिवैर्नृपतिः स्वल्पैः कारणैरेव बध्यते॥ तस्मात् प्रज्ञामृतमिदं चिरान्मां प्रत्युपस्थितम्। तत् प्राप्य प्रार्थये स्थानमव्ययं शाश्वतं ध्रुवम्॥ एतया संततं धृत्या चरन्नेवंप्रकारया। जन्ममृत्युजराव्याधिवेदनाभिरभिद्रुतम्। देहं संस्थापयिष्यामि निर्भयं मार्गमास्थितः॥ भीम उवाच श्रोत्रियस्येव ते राजन् मन्दकस्याविपश्चितः। अनुवाकहता बुद्धि:षा तत्त्वार्थदर्शिनी॥ आलस्ये कृतचित्तस्य राजधर्मानसूयतः। विनाशे धार्तराष्ट्राणां किं फलं भरतर्षभ॥ क्षमानुकम्पा कारुण्यमानृशंस्यं न विद्यते। क्षात्रमाचरतो मार्गमपि बन्धोस्त्वदन्तरे॥ यदीमां भवतो बुद्धिं विद्याम वयमीदृशीम्। शस्त्रं नैव ग्रहीष्यामो न वधिष्याम कंचन॥ भैक्ष्यमेवाचरिष्याम शरीरस्याविमोक्षणात्। न चेदं दारुणं युद्धमभविष्यन्महीक्षिताम्॥ प्राणस्यान्नमिदं सर्वमिति वै कवयो विदुः। स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम्॥ आददानस्य चेद् राज्यं ये केचित् परिपन्थिनः। हन्तव्यास्त इति प्राज्ञाः क्षत्रधर्मविदो विदुः॥ ते सदोषा हतास्माभी राज्यस्य परिपन्थिनः। तान् हत्वा भुड्क्ष्वधर्मेण युधिष्ठिर महीमिमाम्॥ यथा हि पुरुषः खात्वा कूपमप्राप्य चोदकम्। पङ्कदिग्धो निवर्तेत कर्मेदं नस्तथोपमम्॥ यथाऽऽरुह्य महावृक्षमपहृत्य ततो मधु। अप्राश्य निधनं गच्छेत् कर्मेदं नस्तथोपमम्॥ यथा महान्तमध्वानमाशया पुरुषः पतन्। स निराशो निवर्तेत कर्मतन्नस्तथोपमम्॥ यथा शत्रून् घातयित्वा पुरुषः कुरुनन्दन। आत्मानं घातयेत् पश्चात् कर्मेदं नस्तथोपमम्॥ यथान्नं क्षुधितो लब्ध्वा न भुञ्जीयाद् यदृच्छया। कामीव कामिनी लब्ध्वा कर्मेदं नस्तथोपमम्॥ वयमेवात्र गर्वा हि यद् वयं मन्दचेतसम्। त्वां राजन्ननुगच्छामो ज्येष्ठोऽयमिति भारत॥ वयं हि बाहुबलिनः कृतविद्या मनस्विनः। क्लीबस्य वाक्ये तिष्ठामो यथैवाशक्तयस्तथा॥ अगतीकगतीनस्मान् नष्टार्थानर्थसिद्धये। कथं वै नानुपश्येयुर्जना: पश्यत यादृशम्॥ आपत्काले हि संन्यासः कर्तव्य इति शिष्यते। जरयाभिपरीतेन शत्रुभियंसितेन वा॥ तस्मादिह कृतप्रज्ञास्त्यागं न परिचक्षते। धर्मव्यतिक्रमं चैव मन्यन्ते सूक्ष्मदर्शिनः॥ कथं तस्मात् समुत्पन्नास्तनिष्ठास्तदुपाश्रयाः। तदेव निन्दा भाषेयुर्धाता तत्र न गर्यते॥ श्रिया विहीनैरधनैर्नास्तिकैः सम्प्रवर्तितम्। वेदवादस्य विज्ञानं सत्याभासमिवानृतम्॥ शक्यं तु मौनमास्थाय बिभ्रताऽऽत्मानमात्मना। धर्मच्छद्म समास्थाय च्यवितुं न तु जीवितुम्॥ शक्यं पुनररण्येषु सुखमेकेन जीवितुम्। अबिभ्रता पुत्रपौत्रान् देवर्षीनतिथीन् पितॄन्।॥ नेमे मृगाः स्वर्गजितो न वराहा न पक्षिणः। अथान्येन प्रकारेण पुण्यमाहुर्न तं जनाः॥ यदि संन्यासत: सिद्धिं राजा कश्चिदवाप्नुयात्। पर्वताश्च दुमाश्चैव क्षिप्रं सिद्धिमवाप्नुयुः॥ एते हि नित्यसंन्यासा दृश्यन्ते निरुपद्रवाः। अपरिग्रहवन्तश्च सततं ब्रह्मचारिणः॥ अथ चेदात्मभाग्येषु नान्येषां सिद्धिमश्नुते। तस्मात् कर्मैव कर्तव्यं नास्ति सिद्धिरकर्मणः॥ औदकाः सृष्टयश्चैव जन्तवः सिद्धिमाप्नुयुः। तेषामात्मैव भर्तव्यो नान्यः कश्चन विद्यते॥ अवेक्षस्व यथा स्वैः स्वैः कर्मभिर्व्यापृतं जगत्। तस्मात् कर्मव कर्तव्यं नास्ति सिद्धिरकर्मणः॥ औदकाः सृष्टयश्चैव जन्तवः सिद्धिमाप्नुयुः। तेषामात्मैव भर्तव्यो नान्यः कश्चन विद्यते॥ अवेक्षस्व यथा स्वैः स्वैः कर्मभिर्व्यापृतं जगत्। तस्मात् कर्मव कर्तव्यं नास्ति सिद्धिरकर्मणः॥ अर्जुन उवाच अत्रैवोदाहरन्तीममितिहासं पुरातनम्। तापसैः सह संवादं शक्रस्य भरतर्षभ॥ केचिद् गृहान् परित्यज्य वनमभ्यागमन् द्विजाः। अजातश्मश्रवो मन्दाः कुले जाताः प्रवव्रजुः॥ धर्मोऽयमिति मन्वानाः समृद्धा ब्रह्मचारिणः। त्यक्त्वा भ्रातृन् पिढेश्चैव तानिन्द्रोऽन्वकृपायत॥ तानाबभाषे भगवान् पक्षी भूत्वा हिरण्मयः। सुदुष्करं मनुष्यैश्च यत् कृतं विघसाशिभिः॥ पुण्यं भवति कर्मेदं प्रशस्तं चैव जीवितम्। सिद्धार्थास्ते गतिं मुख्यां प्राप्ता धर्मपरायणाः॥ ऋषय ऊचुः अहो बतायं शकुनिर्विघसाशान् प्रशंसति। अस्मान् नूनमयं शास्ति वयं च विघसाशिनः॥ शकुनिरुवाच नाहं युष्मान् प्रशंसामि पङ्कदिग्धान् रजस्वलान्। उच्छिष्टभोजिनो मन्दानन्ये वै विघसाशिनः॥ ऋषय ऊचुः इदं श्रेयः परमिति वयमेवाभ्युपास्महे। शकुने ब्रूहि यच्छेरूयो भृशं ते श्रद्धामहे॥ शकुनिरुवाच यदि मां नाभिशङ्कध्वं विभज्यात्मानमात्मना। ततोऽहं वः प्रवक्ष्यामि याथातथ्यं हितं वचः॥ ऋषय ऊचुः शृणुमस्ते वचस्तात पन्थानो विदितास्तव। नियोगे चैव धर्मात्मन् स्थातुमिच्छाम शाधि नः॥ शकुनिरुवाच चतुष्पदां गौः प्रवरा लोहानां काञ्चनं वरम्। शब्दानां प्रवरो मन्त्रो ब्राह्मणो द्विपदां वरः॥ मन्त्रोऽयं जातकर्मादिाह्मणस्य विधीयते। जीवतोऽपि यथाकालं श्मशाननिधनादिभिः॥ कर्माणि वैदिकान्यस्य स्वर्यः पन्थास्त्वनुत्तमः। अथ सर्वाणि कर्माणि मन्त्रसिद्धानि चक्षते॥ आत्मानं दृढवादीति तथा सिद्धिरिहेष्यते। मासार्धमासा ऋतव आदित्यशशितारकम्॥ ईहन्ते सर्वभूतानि तदिदं कर्मसंज्ञितम्। सिद्धिक्षेत्रमिदं पुण्यमयमेवाश्रमो महान्॥ अथ ये कर्म निन्दन्तो मनुष्याः कापथं गताः। मूढानामर्थहीनानां तेषामेनस्तु विद्यते॥ देववंशान् पितृवंशान् ब्रह्मवंशांश्च शाश्वतान्। संत्यज्य मूढा वर्तन्ते ततो यान्त्यश्रुतीपथम्॥ एतद्वोऽस्तु तपोयुक्तं ददामीत्वृषिचोदितम्। तस्मात् तत्तद् व्यवस्थानं तपस्वि तप उच्यते॥ देववंशान् ब्रह्मवंशान् पितृवंशांश्च शाश्वतान्। संविभज्य गुरोश्चर्यां तद् वै दुष्करमुच्यते॥ देवा वै दुष्करं कृत्वा विभूतिं परमां गताः। तस्माद् गार्हस्थ्यमुद्वोढुं दुष्करं प्रब्रवीमि वः॥ तपः श्रेष्ठं प्रजानां हि मूलमेतन्न संशयः। कुटुम्बविधिनानेन यस्मिन् सर्वं प्रतिष्ठितम्॥ एतद् विदुस्तपो विप्रा द्वन्द्वातीता विमत्सराः। तस्माद् व्रतं मध्यमं तु लोकेषु तप उच्यते॥ दुराधर्षं पदं चैव गच्छन्ति विघसाशिनः। सायंप्रातर्विभज्यानं स्वकुटुम्बे यथाविधि॥ दत्त्वाऽतिथिभ्यो देवेभ्यः पितृभ्यः स्वजनाय च। अवशिष्टानि येऽश्नन्ति तानाहुर्विघसाशिनः॥ तस्मात् स्वधर्ममास्थाय सुव्रताः सत्यवादिनः। लोकस्य गुरवो भूत्वा ते भवन्त्यनुपस्कृताः॥ त्रिदिवं प्राप्य शक्रस्य स्वर्गलोके विमत्सराः। वसन्ति शाश्वतान् वर्षाञ्जना दुष्करकारिणः॥ अर्जुन उवाच ततस्ते तद् वचः श्रुत्वा धर्मार्थसहितं हितम्। उत्सृज्य नास्तीति गता गार्हस्थ्यं समुपाश्रिताः॥ तस्मात् त्वमपि सर्वज्ञ धैर्यमालम्ब्य शाश्वतम्। प्रशाधि पृथिवीं कृत्स्ना हतामित्रां नरोत्तम॥ सहदेव उवाच न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत। शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा॥ बाह्यद्रव्यविमुक्तस्य शारीरेष्वनुगृध्यतः। यो धर्मो यत् सुखं वा स्याद् द्विषतां तत् तथास्तु नः॥२ शारीरं द्रव्यमुत्सृज्य पृथिवीमनुशासतः। यो धर्मो यत् सुखं वा स्यात् सुहृदां तत् तथास्तु नः।।३ व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम्। ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम्॥ ब्रह्ममृत्यू ततो राजन्नात्मन्येव समाश्रितौ। अदृश्यमानौ भूतानि योधयेतामसंशयम्॥ अविनाशोऽस्य सत्त्वस्य नियतो यदि भारत। हत्वा शरीरं भूतानां न हिंसा प्रतिपत्स्यते॥ अथापि च सहोत्पत्तिः सत्त्वस्य प्रलयस्तथा। नष्टे शरीरे नष्टः स्याद् वृथा च स्यात् क्रियापथः॥ तस्मादेकान्तमुत्सृज्य पूर्वैः पूर्वतरैश्च यः। पन्था निषेवित: सद्भिः स निषेव्यो विजानता॥ लध्वापि पृथिवीं कृत्स्नां सहस्थावरजङ्गमाम्। न भुक्के यो नृपः सम्यङ् निष्फलं तस्य जीवितम्॥ राजन् वने वन्येन जीवतः। द्रव्येषु यस्य ममता मृत्योरास्ये स वर्तते॥ अथवा वसतो बाह्यान्तरं च भूतानां स्वभावं पश्य भारत। ये तु पश्यन्ति तद् भूतं मुच्यन्ते ते महाभयात्॥ भवान् पिता भवान् माता भवान् भ्राता भवान् गुरुः। दुःखप्रलापानार्तस्य तन्मे त्वं क्षन्तुमर्हसि॥ तथ्यं वा यदि वातथ्यं यन्मयैतत् प्रभाषितम्। तद् विद्धि पृथिवीपाल भक्त्या भरतसत्तम॥ वैशम्पायन उवाच अव्याहरति कौन्तेये धर्मराजे युधिष्ठिरे। भ्रातॄणां ब्रुवतां तास्तान् विविधान् वेदनिश्चयान्॥ महाभिजनसम्पन्ना श्रीमत्यायतलोचना। अभ्यभाषत राजेन्द्र द्रौपदी योषितां वरा॥ आसीनमृषभं राज्ञां भ्रातृभिः परिवारितम्। सिंहशार्दूलसदृशैर्वारणैरिव यूथपम्॥ अभिमानवती नित्यं विशेषेण युधिष्ठिरे। लालिता सततं राज्ञा धर्मज्ञा धर्मदर्शिनी॥ आमन्त्र्य विपुलश्रोणी साम्ना परमवल्गुना। भर्तारपभिसम्प्रेक्ष्य ततो वचनमब्रवीत्॥ द्रौपद्युवाच इमे ते भ्रातरः पार्थ शुष्यन्ते स्तोकका इव। वावाश्यमानास्तिष्ठन्ति न चैनानभिनन्दसे॥ नन्दयैतान् महाराज मत्तानिव महाद्विपान्। उपपन्नेन वाक्येन सततं दुःखभागिनः॥ कथं द्वैतवने राजन् पूर्वमुक्त्वा तथा वचः। भ्रातृनेतान् स्म सहिताशीतवातातपार्दितान्॥ वयं दुर्योधनं हत्वा मृधे भोक्ष्याम मेदिनीम्। सम्पूर्णां सर्वकामानामाहवे विजयैषिणः॥ विस्थांश्च रथान् कृत्वा निहत्य च महागजान्। संस्तीर्य च रथैर्भूमि ससादिभिररिन्दमाः॥ यजतां विविधैर्यज्ञैः समृद्धैराप्तदक्षिणैः। वनवासकृतं दुःखं भविष्यति सुखाय वः॥ इत्येतानेवमुक्त्वा त्वं स्वयं धर्मभृतां वर। कथमद्य पुनर्वीर विनिहंसि मनांसि नः॥ न क्लीबो वसुधां भुक्के न क्लीबो धनमश्नुते। न क्लीबस्य गृहे पुत्रा मत्स्याः पङ्क इवासते॥ नादण्डः क्षत्रियो भाति नादण्डो भूमिमश्नुते। नादण्डस्य प्रजा राज्ञः सुखं विन्दन्ति भारत॥ मित्रता सर्वभूतेषु दानमध्ययनं तपः। ब्राह्मणस्यैव धर्म: स्यान्न राज्ञो राजसत्तम॥ असतां प्रतिषेधश्च सतां च परिपालनम्। एष राज्ञां परो धर्मः समरे चापलायनम्॥ यस्मिन् क्षमा च क्रोधश्च दानादाने भयाभये। निग्रहानुग्रहौ चोभौ स वै धर्मविदुच्यते॥ न श्रुतेन न दानेन न सान्त्वेन न चेज्यया। त्वयेयं पृथिवी लब्धा न संकोचेन चाप्युत॥ यत् तद् बलममित्राणां तथा वीर्यसमुद्यतम्। हस्त्यश्वरथसम्पनं त्रिभिरङ्गैरनुत्तमम्॥ रक्षित द्रोणकर्णाभ्यामश्वत्थाम्ना कृपेण च। तत त्वया निहतं वीर तस्माद् भुक्ष्व वसुन्धराम्॥ जम्बूद्वीपो महाराज नानाजनपदैर्युतः। त्वया पुरुषशार्दूल दण्डेन मृदितः प्रभो॥ जम्बूद्वीपेन सदृशः क्रौञ्चद्वीपो नराधिप। अधरेण महामेरोर्दण्डेन मृदितस्त्वया॥ क्रौञ्चद्वीपेन सदृशः शाकद्वीपो नराधिप। पूर्वेण तु महामेरोर्दण्डेन मृदितस्त्वया॥ उत्तरेण महामेरोः शाकद्वीपेन सम्मितः। भद्राश्वः पुरुषव्याघ्र दण्डेन मृदितस्त्वया॥ द्वीपाश्च सान्तरद्वीया नानाजनपदाश्रयाः। विगाह्य सागरं वीर दण्डेन मृदितास्त्वया॥ एतान्यप्रतिमेयानि कृत्वा कर्माणि भारत। न प्रीयसे महाराज पूज्यमानो द्विजातिभिः॥ स त्वं भ्रातृनिमान् दृष्ट्वा प्रतिनन्दस्व भारत। ऋषभानिव सम्मत्तान् गजेन्द्रानूर्जितानिव॥ अमरप्रतिमाः सर्वे शत्रुसाहाः परंतपाः। एकोऽपि हि सुखायैषां मम स्यादिति मे मतिः।।२८। किं पुनः पुरुषव्याघ्र पतयो मे नरर्षभाः। समस्तानीन्द्रियाणीव शरीरस्य विचेष्टने॥ अनृतं नाब्रवीच्छ्वश्रूः सर्वज्ञा सर्वदर्शिनी। युधिष्ठिरस्त्वां पाञ्चालि सुखे धास्यत्यनुत्तमे॥ हत्वा राजसहस्राणि बहून्याशुपराक्रमः। तद् व्यर्थं सम्प्रपश्यामि मोहात् तव जनाधिप॥ येषामुन्मत्तको ज्येष्ठः सर्वे तेऽप्यनुसारिणः। तवोन्मादान्महाराज सोन्मादाः सर्वपाण्डवाः॥ यदि हि स्युरनुन्मत्ता भ्रातरस्ते नराधिप। बद्ध्वा त्वां नास्तिकैः सार्धं प्रशासेयुर्वसुन्धराम्।।३३ कुरुते मूढ एवं हि यः श्रेयो नाधिगच्छति। धूपैरञ्जनयोगैश्च नस्यकर्मभिरेव च॥ भेषजैः स चिकित्स्यः स्याद् य उन्मार्गेण गच्छति। साहं सर्वाधमा लोके स्त्रीणां भरतसत्तम॥ तथा विनिकृता पुत्रैर्याहमिच्छामि जीवितुम्। एतेषां यतमानानां न मेऽद्य वचनं मृषा॥ त्वं तु सर्वां महीं त्यक्त्वा कुरुषे स्वयमापदम्। यथाऽऽस्तां सम्मतौ राज्ञां पृथिव्यां राजसत्तम॥ मान्धाता चाम्बरीषश्च तथा राजन् विराजसे। प्रशाधि पृथिवीं देवीं प्रजा धर्मेण पालयन्॥ सपर्वतवनद्वीपां मा राजन् विमना भव। यजस्व विविधैर्यज्ञैर्युध्यस्वारीन् प्रयच्छ च। धनानि भोगान् वासांसि द्विजातिभ्यो नृपोत्तम॥ वैशम्पायन उवाच याज्ञसेन्या वचः श्रुत्वा पुनरेवार्जुनोऽब्रवीत्। अनुमान्य महाबाहुं ज्येष्ठं भ्रातरमच्युतम्॥ अर्जुन उवाच दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति। दण्डः सुप्तेषु जागर्ति दण्डं धर्म विदुर्बुधाः॥ दण्डः संरक्षते धर्मं तथैवार्थ जनाधिप। कामं संरक्षते दण्डस्त्रिवर्गो दण्ड उच्यते॥ दण्डेन रक्ष्यते धान्यं धनं दण्डेन रक्ष्यते। एवं विद्वानुपाधत्स्व भावं पश्यस्व लौकिकम्॥ राजदण्डभयादेके पापाः पापं न कुर्वते। यमदण्डभयादेके परलोकभयादपि॥ परस्परभयादेके पापाः पापं न कुर्वते। एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम्॥ दण्डस्यैव भयादेके न खादन्ति परस्परम्। अन्धे तमसि मज्जेयुर्यदि दण्डो न पालयेत्॥ यस्माददान्तान् दमयत्यशिष्टान् दण्डयत्यपि। दमनाद् दण्डनाच्चैव तस्माद् दण्डं विदुर्बुधाः॥ वाचा दण्डो ब्राह्मणानां क्षत्रियाणां भुजार्पणम्। दानदण्डाः स्मृता वैश्या निर्दण्डः शूद्र उच्यते॥ असम्मोहाय मर्त्यानामर्थसंरक्षणाय च। मर्यादा स्थापिता लोके दण्डसंज्ञा विशाम्पते।॥ यत्र श्यामो लोहिताक्षो दण्डश्चरति सूद्यतः। प्रजास्तत्र न मुह्यन्ते नेता चेत् साधु पश्यति॥ ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः। दण्डस्यैव भयादेते मनुष्या वर्त्मनि स्थिताः॥ नाभीतो यजते राजन् नाभीतो दातुमिच्छति। नाभीतः पुरुषः कश्चित् समये स्थातुमिच्छति॥ नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दुष्करम्। नाहत्वा मत्स्यघातीव प्राणोति महतीं श्रियम्॥ नाघ्नतः कीर्तिरस्तीह न वित्तं न पुनः प्रजाः। इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत॥ य एव देवा हन्तारस्ताँल्लोकोऽर्चयते भृशम्। हन्ता रुद्रस्तथा स्कन्दः शक्रोऽग्निवरुणो यमः॥ हन्ता कालस्तथा वायुर्मुत्युर्वैश्रवणो रविः। वसवो मरुतः साध्या विश्वेदेवाश्च भारत॥ एतान् देवान् नमस्यन्ति प्रतापप्रणता जनाः। न ब्रह्माणं न धातारं न पूषाणं कथंचना॥ मध्यस्थान् सर्वभूतेषु दान्ताशमपरायणान्। यजन्ते मानवाः केचित् प्रशान्ताः सर्वकर्मसु॥ न हि पश्यामि जीवन्तं लोके कञ्चिदहिंसया। सत्त्वैः सत्त्वा हि जीवन्ति दुर्बलैर्बलवत्तराः॥ नकुलो मूषिकानत्ति बिडालो नकुलं तथा। विडालमत्तिश्वा राजश्वानं व्यालमृगस्तथा॥ तानत्तिं पुरुषः सर्वान् पश्य कालो यथागतः। प्राणस्यान्नमिदं सर्वं जङ्गमं स्थावरं च यत्॥ विधानं दैवविहितं तत्र विद्वान् न मुह्यति। यथा सृष्टोऽसि राजेन्द्र तथा भवितुमर्हसि॥ विनीतक्रोधहर्षा हि मन्दा वनमुपाश्रिताः। विना वधं न कुर्वन्ति तापसा: प्राणयापनम्॥ उदके बहवः प्राणाः पृथिव्यां च फलेषु च। न च कश्चिन्न तान् हन्ति किमन्यत् प्राणयापनात्॥ सूक्ष्मयोनीनि भूतानि तर्कगम्यानि कानिचित्। पक्ष्मणोऽपि निपातेन येषां स्यात् स्कन्धपर्ययः॥ ग्रामान् निष्क्रम्य मुनयो विगतक्रोधमत्सराः। वने कुटुम्बधर्माणो दृश्यन्ते परिमोहिताः॥ भूमि भित्त्वौषधीश्छित्त्वा वृक्षादीनण्डजान् पशून्। मनुष्यास्तन्वते यज्ञास्ते स्वर्ग प्राप्नुवन्ति च॥ दण्डनीत्यां प्रणीतायां सर्वे सिद्ध्यन्त्युपक्रमाः। कौन्तेय सर्वभूतानां तत्र मे नास्ति संशयः॥ दण्डचेन्न भवेल्लोके विनश्येयुरिमाः प्रजाः। जले मत्स्यानिवाभक्ष्यन् दुर्बलान् बलवत्तराः॥ सत्यं चेदं ब्रह्मणा पूर्वमुक्तं दण्डः प्रजा रक्षति साधु नीतः। पश्याग्नयश्च प्रतिशाम्य भीताः संतर्जिता दण्डभयाज्ज्वलन्ति॥ अन्धं तम इवेदं स्यान्न प्राज्ञायत किंचना दण्डश्चेन्न भवेल्लोके विभजन साध्वसाधुनी॥ येऽपि सम्भिन्नमर्यादा नास्तिका वेदनिन्दकाः। तेऽपि भोगाय कल्पन्ते दण्डेनाशु निपीडिताः॥ सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्जनः। दण्डस्य हि भयाद् भीतो भोगायैव प्रवर्तते॥ चातुर्वर्ण्यप्रमोदाय सुनीतिनयनाय च। दण्डो विधात्रा विहितो धर्मार्थी भुवि रक्षितुम्॥ यदि दण्डान्न बिभ्येयुर्वयांसि श्वापदानि च। अधुः पशून् मनुष्यांश्च यज्ञार्थानि हवींषि च॥ न ब्रह्मचार्यधीयीत कल्याणी गौर्न दुह्यते। न कन्योद्वहनं गच्छेद् यदि दण्डो न पालयेत्॥ विष्वग्लोपः प्रवर्तेत भिधेरन् सर्वसेतवः। ममत्वं न प्रजानीयुर्यदि दण्डो न पालयेत्॥ न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः। विधिवद् दक्षिणावन्ति यदि दण्डो न पालयेत्॥ चरेयुर्नाश्रमे धर्म यथोक्तं विधिमाश्रिताः। न विद्यां प्राप्नुयात् कश्चिद् यदि दण्डो न पालयेत्।।४० न चोष्टा न बलीव नाश्वाश्वतरगर्दभाः। युक्ता वहेयुर्यानानि यदि दण्डो न पालयेत्॥ न प्रेष्या वचनं कुर्युर्न बाला जातु कर्हिचित्। न तिष्ठेद् युवती धर्मे यदि दण्डो न पालयेत्॥ दण्डे स्थिताः प्रजाः सर्वा भयं दण्डे विदुर्बुधाः। दण्डे स्वर्गो मनुष्याणां लोकोऽयं सुप्रतिष्ठितः॥ न तत्र कूटं पापं वा वञ्चना वापि दृश्यते। यत्र दण्डः सुविहितश्चरत्यरिविनाशनः॥ हविःश्वा प्रलिहेद् दृष्ट्वा दण्डश्चेन्नोद्यतो भवेत्। हरेत् काकः पुरोडाशं यदि दण्डो न पालयेत्॥ यदीदं धर्मतो राज्यं विहितं यद्यधर्मतः। कार्यस्तत्र शोको वै भुक्ष्व भोगान् यजस्व च॥ सुखेन धर्मं श्रीमन्तश्चरन्ति शुचिवाससः। संवर्षन्तः फलैर्दानैर्भुजानाश्चान्नमुत्तमम्॥ अर्थे सर्वे समारम्भाः समायत्ता न संशयः। स च दण्डे समायत्तः पश्य दण्डस्य गौरवम्॥ लोकयात्रार्थमेवेह धर्मप्रवचनं कृतम्। अहिंसासाधुहिंसेति श्रेयान् धर्मपरिग्रहः॥ नात्यन्तं गुणवत् किंचिन्न चाप्यत्यन्तनिर्गुणम्। उभयं सर्वकार्येषु दृश्यते साध्वसाधु वा॥ पशूनां वृषणं छित्त्वा ततो भिन्दन्ति मस्तकम्। वहन्ति बहवो भारान् बध्नन्ति दमयन्ति च॥ एवं पर्याकुले लोके वितथैर्जर्जरीकृते। तैस्तैायैर्महाराज पुराणं धर्ममाचर॥ यज्ञ देहि प्रजां रक्ष धर्म समनुपालय। अमित्राञ्जहि कौन्तेय मित्राणि परिपालय॥ मा च ते निघ्नतः शत्रून् मन्युर्भवतु पार्थिव। न तत्र किल्बिषं किंचित् कर्तुर्भवति भारत।॥ आततायी हि यो हन्यादाततायिनमागतम्। न तेन भ्रूणहा स स्यान्मन्युस्तं मन्युमार्छति॥ अवध्यः सर्वभूतानामन्तरात्मा न संशयः। अवध्ये चात्मनि कथं वध्योभवति कस्यचित्॥ यथा हि पुरुषः शालां पुनः सम्प्रविशेन्नवाम्। एवं जीवः शरीराणि तानि तानि प्रपद्यते॥ देहान् पुराणानुत्सृज्य नवान् सम्प्रतिपद्यते। एवं मृत्युमुखं प्राहुर्जना ये तत्त्वदर्शिनः॥ वैशम्पायन उवाच अर्जुनस्य वचः श्रुत्वा भीमसेनोऽत्यमर्षणः। धैर्यमास्थाय तेजस्वी ज्येष्ठं भ्रातरमब्रवीत्॥ उपशिक्षाम ते वृत्तं सदैव न च शक्नुमः॥ न वक्ष्यामि न वक्ष्यामीत्येवं मे मनसि स्थितम्। अतिदुःखात्तु वक्ष्यामि तन्निबोध जनाधिप॥ भवतः सम्प्रमोहेन सर्वं संशयितं कृतम्। विक्लवत्वं च नः प्राप्तमवलत्वं तथैव च॥ कथं हि राजा लोकस्य सर्वशास्त्रविशारदः। मोहमापद्यसे दैन्याद् यथा कापुरुषस्तथा॥ अगतिश्च गतिश्चैव लोकस्य विदिता तव। आयत्यां च तदात्वे च न तेऽस्त्यविदितंप्रभो॥ एवं गते महाराज राज्यं प्रति जनाधिप। हेतुमत्र प्रवक्ष्यामि तमिहैकमनाः शृणु॥ द्विविधो जायते व्याधिः शारीरो मानसस्तथा। परस्परं तयोर्जन्म निर्द्वन्द्वं नोपलभ्यते॥ शारीराज्जायते व्याधिर्मानसो नात्र संशयः। मानसाज्जायते वापि शारीर इति निश्चयः॥ शारीरं मानसं दुःखं योऽतीतमनुशोचति। दुःखेन लभते दुःखं द्वावनौँ च विन्दति॥ शीतोष्णे चैव वायुश्च त्रयः शारीरजा गुणाः। तेषां गुणानां साम्यं यत्तदाहुः स्वस्थलक्षणम्॥ तेषामन्यतमोद्रेके विधानमुपदिश्यते। उष्णेन बाध्यते शीतं शीतेनोष्णं प्रबाध्यते॥ सत्त्वं रजस्तम इति मानसाः स्युस्त्रयो गुणाः। तेषां गुणानां साम्यं यत्तदाहुः स्वस्थलक्षणम्॥ तेषामन्यतमोत्सेके विधानमुपदिश्यते। हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते॥ कश्चित् सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति। कश्चिद् दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति॥ स त्वं न दुःखी दुःखस्य न सुखी च सुखस्य वा। न दुःखी सुखजातस्य न सुखी दुःखजस्य वा॥ स्मर्तुमिच्छसि कौरव्य दिष्टं हि बलवत्तरम्। अथवा ते स्वभावोऽयं येन पार्थिव क्लिश्यसे॥ दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम्। मिषतां पाण्डुपुत्राणां न तस्य स्मर्तुमर्हसि॥ द्रौपद्या राजपुत्र्याश्च प्रव्राजनं च नगरादजिनैश्च विवासनम्। महारण्यनिवासश्च न तस्य स्मर्तुमर्हसि॥ जटासुरात् परिक्लेशं चित्रसेनेन चाहवम्। सैन्धवाच्च परिक्लेशं कथं विस्मृतवानसि॥ पुनरज्ञातचर्यायां कीचकेन पदा वधम्। कथं विस्मृतवानसि॥ यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिन्दम। मनसैकेन योद्धव्यं तत्ते युद्धमुपस्थितम्॥ यत्र नास्ति शरैः कार्यं न मित्रैर्न च बन्धुभिः । आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम्॥ तस्मिन्ननिर्जिते युद्धे प्राणान् यदि विमोक्ष्यसे। अन्यं देहं समास्थाय ततस्तैरपि योत्स्यसे॥ तस्मादद्यैव गन्तव्यं युद्ध्यस्व भरतर्षभ। परमव्यक्तरूपस्य व्यक्तं त्यक्त्वा स्वकर्मभिः॥ तस्मिन्ननिर्जिते युद्धे कामवस्थां गमिष्यसि। एतजित्वा महाराज कृतकृत्यो भविष्यसि॥ एतां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम्। पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम्॥ दिष्ट्या दुर्योधनः पापो निहतः सानुगो युधि। द्रौपद्याः केशपाशस्य दिष्ट्या त्वं पदवीं गतः॥ यजस्व वाजिमेधेन विधिवद् दक्षिणावता। वयं ते किंकराः पार्थ वासुदेवश्च वीर्यवान्॥ वैशम्पायन उवाच तूष्णीम्भूतं तु राजानं पुनरेवार्जुनोऽब्रवीत्। संतप्तः शोकदुःखाभ्यां राजवाक्छल्यपीडितः॥ अर्जुन उवाच कथयन्ति पुरावृत्तमितिहासमिमं जनाः। विदेहराज्ञः संवादं भार्यया सह भारत॥ उत्सृज्य राज्यं भिक्षार्थं कृतबुद्धिं नरेश्वरम्। विदेहराजमहिषी दुःखिता यदभाषत॥ धनान्यपत्यं दाराश्च रत्नानि विविधानि च। पन्थानं पावकं हित्वा जनको मौढ्यमास्थितः॥ तं ददर्श प्रिया भार्या भक्ष्यवृत्तिमकिंचनम्। धानामुष्टिमुपासीनं निरीहं गतमत्सरम्॥ तमुवाच समागत्य भर्तारमकुतोभयम्। क्रुद्धा मनस्विनी भार्या विविक्ते हेतुमद् वचः॥ कथमुत्सृज्य राज्यं स्वं धनधान्यसमन्वितम्। कापाली वृत्तिमास्थाय धानामुष्टिर्न ते वरः॥ प्रतिज्ञा तेऽन्यथा राजन् विचेष्टा चान्यथा तव। यद् राज्यं महदुत्सृज्य स्वल्पे तुष्यसि पार्थिव॥ नैतेनातिथयो राजन् देवर्षिपितरस्तथा। अद्य शक्यास्त्वया भर्तुं मोघस्तेऽयं परिश्रमः॥ देवतातिथिभिश्चैव पितृभिश्चैव पार्थिव। सर्वरेतैः परित्यक्तः परिव्रजसि निष्क्रियः॥ यस्त्वं त्रैविद्यवृद्धानां ब्राह्मणानां सहस्रशः। भर्ता भूत्वा च लोकस्य सोऽद्य तै तिमिच्छसि॥ श्रियं हित्वा प्रदीप्तां त्वं श्ववत् सम्प्रति वीक्ष्यसे। अपुत्रा जननी तेऽद्य कौसल्या चापतिस्त्वया॥ अमी च धर्मकामास्त्वां क्षत्रियाः पर्युपासते। त्वदाशामभिकाङ्क्षन्तः कृपणाः फलहेतुका॥ तांश्च त्वं विफलान् कुर्वन् कं नु लोकं गमिष्यसि। राजन् संशयिते मोक्षे परतन्त्रेषु देहिषु॥ नैव तेऽस्ति परो लोको नापरः पापकर्मणः! धान् दारान् परित्यज्य यस्त्वमिच्छसि जीवितुम्॥ स्त्रजो गन्धानलंकारान् वासांसि विविधानि च। किमर्थमभिसंत्यज्य परिव्रजसि निष्क्रियः॥ निपानं सर्वभूतानां भूत्वा त्वं पावनं महत्। आढ्यो वनस्पतिर्भूत्वा सोऽन्यांस्त्वं पर्युपाससे॥ खादन्ति हस्तिनं न्यासैः क्रव्यादा बहवोऽप्युत। बहवः कृमयश्चैव किं पुनस्त्वामनर्थकम्॥ य इमां कुण्डिका भिन्द्यात् त्रिविष्टब्धं च यो हरेत्। वासश्चापि हरेत् तस्मिन् कथं ते मानसं भवेत्॥ यस्त्वयं सर्वमुत्सृज्य धानामुष्टेरनुग्रहः। यदानेन समं सर्वं किमिदं ह्यवसीयसे॥ धानामुष्टेरिहार्थश्चेत् प्रतिज्ञा ते विनश्यति। का वाहं तव को मे त्वं कश्च तेमय्यनुग्रहः॥ प्रशाधि पृथिवीं राजन् यदि तेऽनुग्रहो भवेत्। प्रासादं शयनं यानं वासांस्याभरणानि च॥ श्रिया विहीनैरधनैस्त्यक्तमित्रैरकिंचनैः। सौखिकैः सम्भृतानर्थान् यः संत्यजति किं नु तत्॥ योऽत्यन्तं प्रतिगृह्णीयाद् यश्च दद्यात् सदैव हि। तयोस्त्वमन्तरं विद्धि श्रेयांस्ताभ्यां क उच्यते॥ सदैव याचमानेषु तथा दम्भान्वितेषु च। एतेषु दक्षिणा दत्ता दावाग्नाविव दुर्हतम्॥ जातवेदा यथा राजन् नादग्ध्वैवोपशाम्यति। सदैव याचमानो हि तथा शाम्यति न द्विजः॥ सतां वै ददतोऽन्नं च लोकेऽस्मिन् प्रकृतिर्बुवा। न चेद् राजा भवेद् दाता कुतः स्युर्मोक्षकाक्षिणः।।२७ अन्नाद् गृहस्था लोकेऽस्मिन् भिक्षवस्तत एव च। अन्नात् प्राणः प्रभवति अन्नदः प्राणदो भवेत्॥ गृहस्थेभ्योऽपि निर्मुक्ता गृहस्थानेव संश्रिताः। प्रभवं च प्रतिष्ठां च दान्ता विन्दन्त आसते॥ त्यागान भिक्षुकं विद्यान्न मौढ्यान्न च याचनात्। ऋजुस्तु योऽर्थं त्यजति नसुखं विद्धि भिक्षुकम्॥ असक्तः सक्तवद् गच्छन् निःसङ्गो मुक्तवन्धनः। समः शत्रौ च मित्रे च स वै मुक्तो महीपते॥ परिव्रजन्ति दानार्थं मुण्डाः काषायवाससः। सिता बहुविधै पाशैः संचिन्वन्तो वृथामिषम्॥ त्रयीं च नाम वार्ता च त्यक्त्वा पुत्रान् व्रजन्ति ये। त्रिविष्टब्धं च वासश्च प्रतिगृह्णन्त्यबुद्धयः॥ अनिष्कषाये काषायमीहार्थमिति विद्धि तम्। धर्मध्वजानां मुण्डानां वृत्त्यर्थमिति मे मितिः॥ काषायैरजिनैश्चीरैर्नग्नान् मुण्डान् जटाधरान्। बिभ्रत् साधून महाराज जय लोकान् जितेन्द्रियः॥ अग्न्याधेयानि गुर्वर्थं क्रतूनपि सुदक्षिणान्। ददात्यहरहः पूर्वं को नु धर्मरतस्ततः॥ अर्जुन उवाच तत्त्वज्ञो जनको राजा लोकेऽस्मिन्निति गीयते। सोऽप्यासीन्मोहसम्पन्नो मा मोहवशमन्वगाः॥ एवं धर्ममनुक्रान्ताः सदा दानतपःपरा। आनृशंस्यगुणोपेताः कामक्रोधविवर्जिताः॥ प्रजानां पालने युक्ता दानमुत्तममास्थिताः। इष्टॉल्लोकानवाप्स्यामो गुरुवृद्धोपचायिनः॥ देवतातिथिभूतानां निर्वपन्तो यथाविधि। स्थानमिष्टमवाप्स्यामो ब्रह्मण्याः सत्यवादिनः॥ युधिष्ठिर उवाच वेदाहं तात शास्त्राणि अपराणि पराणि च। उभयं वेदवचनं कुरु कर्म त्यजेति च॥ आकुलानि च शास्त्राणि हेतुभिश्चिन्तितानि च। निश्चयश्चैव यो मन्त्रे वेदाहं तं यथाविधि॥ त्वं तु केवलमस्त्रज्ञो वीरव्रतसमन्वितः। शास्त्रार्थं तत्त्वतो गन्तुं न समर्थः कथंचन॥ शास्त्रार्थसूक्ष्मदर्शी यो धर्मनिश्चयकोविदः। तेनाप्येवं न वाच्योऽहं यदि धर्मं प्रपश्यसि॥ भ्रातृसौहृदमास्थाय यदुक्तं वचनं त्वया। न्याय्यं युक्तं च कौन्तेय प्रीतोऽहं तेन तेऽर्जुन॥ युद्धधर्मेषु सर्वेषु क्रियाणां नैपुणेषु च। न त्वया सदृशः कश्चित् त्रिषु लोकेषु विद्यते॥ धर्मं सूक्ष्मतरं वाच्यं तत्र दुष्प्रतरं त्वया। धनंजय न मे बुद्धिमभिशङ्कितुमर्हसि।॥ युद्धशास्त्रविदेव त्वं न वृद्धाः सेवितास्त्वया। संक्षिप्तविस्तरविदां न तेषां वेत्सि निश्चयम्॥ तपस्त्यागोऽविधिरिति निश्चयस्त्वेष धीमताम्। परं परं ज्याय एषां येषां नैश्रेयसी मतिः॥ यस्त्वेतन्मन्यसे पार्थन ज्यायोऽस्ति धनादिति। तत्र ते वर्तयिष्यामि यथा नैतत् प्रधानतः॥ तप:स्वाध्यायशीला हि दृश्यन्ते धार्मिका जनाः। ऋषयस्तपसा युक्ता येषां लोकाः सनातनाः॥ अजातशत्रवो धीरास्तथान्ये वनवासिनः। अरण्ये बहवश्चैव स्वाध्यायेन दिवं गताः॥ उत्तरेण तु पन्थानमार्या विषयनिग्रहात्। अबुद्धिजं तमस्त्यक्त्वा लोकांस्त्यागवतां गताः॥ दक्षिणेन तु पन्थानं यं भास्वन्तं प्रचक्षते। एते क्रियावतां लोका ये श्मशानानि जिरे॥ अनिर्देश्चा गतिः सा तु यां प्रपश्यन्ति मोक्षिणः। तस्माद् योगः प्रधानेष्टः स तु दुःखं प्रवेदितुम्॥ अनुस्मृत्य तु शास्त्राणि कवयः समवस्थिताः। अपीह स्यादपीह स्यात् सारासारदिदृक्षया॥ वेदवादानतिक्रम्य शास्त्राण्यारण्यकानि च। विपाट्य कदलीस्तम्भं सारं ददृशिरे न ते॥ अथैकान्तव्युदासेन शरीरे पाञ्चभौतिके। इच्छाद्वेषसमासक्तमात्मानं प्राहुरिङ्गित्तैः॥ अग्राह्यं चक्षुषा सूक्ष्ममनिर्देश्यं च तद्गिरा। कर्महेतुपुरस्कारं भूतेषु परिवर्तते।१९।। कल्याणगोचरं कृत्वा मनस्तृष्णां निगृह्य च। कर्मसंततिमुत्सृज्य स्थानिरालम्बनः सुखी।॥ अस्मिन्नेवं सूक्ष्मगम्ये मार्गे सद्भिर्निषेविते। कथमर्थमनाढ्यमर्जुन त्वं प्रशंससि॥ पूर्वशास्त्रविदोऽप्येवं जनाः पश्यन्ति भारत। क्रियासु निरता नित्यं दाने यज्ञे च कर्मणि॥ भवन्ति सुदुरावर्ता हेतुमन्तोऽपि पण्डिताः। दृढपूर्वे स्मृता मूढा नैतदस्तीतिवादिनः॥ अनृतस्यावमन्तारो वक्तारो जनसंसदि। चरन्ति वसुधां कृत्स्नां वावदूका बहुश्रुताः॥ पार्थ यान्न विजानीमः कस्ताज्ञातुमिहार्हति। एवं प्राज्ञाः श्रुताश्चापि महान्तः शास्त्रवित्तमाः॥ तपसा महदाप्नोति बुद्ध्या वै विन्दते महत्। त्यागेन सुखम् प्राप्नोति सदा कौन्तेय तत्त्ववित्॥ वैशम्पायन उवाच अस्मिन् वाक्यान्तरे वक्ता देवस्थानो महातपाः। अभिनीततरं वाक्यमित्युवाच युधिष्ठिरम्॥ देवस्थान उवाच यद् वचः फाल्गुनेनोक्तं न ज्यायोऽस्ति धनादिति। अत्र ते वर्तयिष्यामि तदेकान्तमनाः शृणु॥ अजातशत्रो धर्मेण कृत्स्ना ते वसुधा जिता। तां जित्वा च वृथा राजन् न परित्यक्तुनर्हसि॥ चतुष्पदी हि नि:श्रेणी ब्रह्मण्येव प्रतिष्ठिता। तां क्रमेण महाबाहो यथावज्जय पार्थिव॥ तस्मात् पार्थ महायज्ञैर्यजस्व बहुदक्षिणैः। स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास्तथापरे॥ कर्मनिष्ठांश्च बुद्ध्येथास्तपोनिष्ठांश्च पार्थिव। वैखानसानां कौन्तेय वचनं श्रूयते यथा॥ ईहेत धनहेतोर्यस्तस्यानीहा गरीयसी। भूयान् दोषो हि वर्धेत् यस्तं धनमुपाश्रयेत्॥ कृच्छ्राच्च द्रव्यसंहारं कुर्वन्ति धनकारणात्। धनेन तृषितोऽबुद्ध्या भ्रूणहत्यां न बुद्ध्यते॥ अनर्हते यद् ददाति न ददाति यदर्हते। अनिर्हापरिज्ञानाद् दानधर्मोऽपि दुष्करः॥ यज्ञाय सृष्टानि धनानि धात्रा यज्ञोद्दिष्टः पुरुषो रक्षिता च। तस्मात् सर्वं यज्ञ एवोपयोज्यं धनं ततोऽनन्तर एव कामः॥ यज्ञैरिन्द्रो विविधै रत्नवर्द्धि र्देवान्सर्वानभ्ययाद् भूरितेजाः। तेनेन्द्रत्वं प्राप्य विभ्राजतेऽसौ तस्माद्यज्ञे सर्वमेवोपयोज्यम्॥ महादेवः सर्वयज्ञे महात्मा हुत्वाऽऽत्मानं देवदेवो बभूव। विश्वाल्लोकान् व्याप्य विष्टभ्य कीर्त्या विराजते द्युतिमान् कृत्तिवासाः॥ आविक्षितः पार्थिवोऽसौ मरुत्तो वृद्ध्या शक्रं योऽजयद् देवराजम्। यज्ञे यस्य श्रीः स्वयं संनिविश यस्मिन् भाण्डं काञ्चनं सर्वमासीत्॥ हरिश्चन्द्रः पार्थिवेन्द्रः श्रुतस्ते यज्ञैरिष्ट्वा पुण्यभाग् वीतशोकः। ऋद्ध्या शक्रं योऽजयन्मानुषः सं स्तस्माद् यज्ञे सर्वमेवोपयोज्यम्॥ वैशम्पायन उवाच अत्रैवोदाहरन्तीममितिहासं पुरातनम्। इन्द्रेण समये पृष्टो यदुवाच बृहस्पतिः॥ बृहस्पति उवाच संतोषो वै स्वर्गतमः संतोषः परमं सुखम्। तुष्टेन किंचित् परतः सा सम्यक् प्रतितिष्ठति॥ यदा संहरते कामान् कूर्मोऽङ्गानीव सर्वशः। तदऽऽत्मज्योतिरचिरात् स्वात्मन्येव प्रसीदति॥ न बिभेति यदा चायं यदा चास्मान्न बिभ्यति। कामद्वेषौ च जयति तदाऽऽत्मानं च पश्यति॥ यदासौ सर्वभूतानां न दुह्यति न काङ्क्षति। कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा॥ एवं कौन्तेय भूतानि तं तं धर्मं तथा तथा। तदाऽऽत्मना प्रपश्यन्ति तस्माद् बुद्ध्यस्व भारत॥ अन्ये साम प्रशंसन्ति व्यायामभपरे जनाः। नैकं न चापरं केचिदुभयं च तथापरे॥ यज्ञमेव प्रशंसन्ति संन्यासमपरे जनाः। दानमेके प्रशंसन्ति केचिच्चैव प्रतिग्रहम्॥ केचित् सर्वं परित्यज्य तूष्णीं ध्यायन्त आसते। राज्यमेके प्रशंसन्ति प्रजानां परिपालनम्॥ हत्वा छित्त्वा च भित्त्वा च केचिदेकान्तशीलिनः। एतत् सर्वं समालोक्य बुधानामेष निश्चयः॥ अद्रोहेणैव भूतानां यो धर्मः स सतां मतः। अद्रोहः सत्यवचनं संविभागो दया दमः॥ प्रजनं स्वेषु दारेषु मार्दवं ह्रीरचापलम्। एवं धर्मं प्रधानेष्टं मनः स्वाम्यभुवोऽब्रवीत्॥ तस्मादेतत् प्रयत्नेन कौन्तेय प्रतिपालय। यो हि राज्ये स्थितः शश्वद् वशी तुल्यप्रियाप्रियः॥ क्षत्रियो यज्ञशिष्टाशी राजा शास्त्रार्थतत्त्ववित्। असाधुनिग्रहरतः साधूनां प्रग्रहे रतः॥ धर्मवर्त्मनि संस्थाप्य प्रजा वर्तेत धर्मतः। पुत्रसंक्रामितश्रीश्च वने वन्येन वर्तयन्॥ विधिना श्रावणेनैव कुर्यात् कर्माण्यतन्द्रितः। य एवं वर्तते राजन् स राजा धर्मनिश्चितः॥ तस्यायं च परश्चैव लोकः स्यात् सफलोदयः। निर्वाणं हि सुदुष्प्राप्यं बहुविघ्नं च मे मतम्॥ एवं धर्ममनुक्रान्ताः सत्यदानतपःपराः। आनृशंस्यगुणैर्युक्ताः कामक्रोधविवर्जिताः॥ प्रजानां पालने युक्ता धर्ममुत्तममास्थिताः। गोब्राह्मणार्थे युध्यन्त प्राप्ता गतिमनुत्तमाम्॥ एवं रुद्राः सवसवस्तथाऽऽदित्याः परंतप। साध्या राजर्षिसंघाश्च धर्ममेतं समाश्रिताः। अप्रमत्तास्ततः स्वर्गं प्राप्ताः पुण्यैः स्वकर्मभिः॥ वैशम्पायन उवाच अस्मिन्नेवान्तरे वाक्ये पुनरेवार्जुनोऽब्रवीत्। निविण्णमनसं ज्येष्ठमिदं भ्रातरमच्युतम्॥ क्षत्रधर्मेण धर्मज्ञ प्राप्य राज्यं सुदुर्लभम्। जित्वा चारीन् नरश्रेष्ठ तप्यते किं भृशं भवान्॥ क्षत्रियाणां महाराज संग्रामे निधनं मतम्। विशिष्टं बहुभिर्यज्ञैः क्षत्रधर्ममंनुस्मर॥ ब्राह्मणानां तपस्त्यागः प्रेत्य धर्मविधिः स्मृतः। क्षत्रियाणां च निधनं संग्रामे विहितं प्रभो॥ क्षात्रधर्मो महारौद्रःशस्त्रनित्य इति स्मृतः। वधश्च भरतश्रेष्ठ काले शस्त्रेण संयुगे॥ ब्राह्मणस्यापि चेद् राजन् क्षत्रधर्मेण वर्ततः। प्रशस्तं जीवितं लोके क्षत्रं हि ब्रह्मसम्भवम्॥ न त्यागो न पुनर्यज्ञो न तपो मनुजेश्वर। क्षत्रियस्य विधीयन्ते न परस्वोपजीवनम्॥ स भवान् सर्वधर्मज्ञो धर्मात्मा भरतर्षभ। राजा मनीषी निपुणो लोके दृष्टपरावरः॥ त्यक्त्वा संतापजं शोकं दंशितो भव कर्मणि। क्षत्रियस्य विशेषेण हृदयं वज्रसंनिभम्॥ जित्वारीन् क्षत्रधर्मेण प्राप्य राज्यमकण्टकम्। विजितात्मा मनुष्येन्द्र यज्ञदानपरो भव॥ इन्द्रो वै ब्रह्मणः पुत्रः क्षत्रियः कर्मणाभवत्। ज्ञातीनां पापवृत्तीनां जघान नवतीनव॥ तच्चास्य कर्म पूज्यं च प्रशस्यं च विशाम्पते। तेनेन्द्रत्वं समापेदे देवानामिति नः श्रुतम्॥ स त्वं यज्ञैर्महाराज यजस्व बहुदक्षिणैः। यथैवेन्द्रो मनुष्येन्द्र चिराय विगतज्वरः॥ मम त्वमेवं गते किंचिच्छोचेथाः क्षत्रियर्षभ। गतास्ते क्षत्रधर्मेण शस्त्रपूताः परां गतिम्॥ भवितव्यं तथा तच्च यद् वृत्तं भरतर्षभ। दिष्टं हि राजशार्दूल न शक्यमतिवर्तितुम्॥ वैशम्पायन उवाच पुनरेव महर्षिस्तं कृष्णद्वैपायनो मुनिः। अजातशत्रु कौन्तेयमिदं वचनमब्रवीत्॥ अरण्ये वसतां तात भ्रातृणां ते मनस्विनाम्। मनोरथा महाराज ये तत्रासन् युधिष्ठिर॥ तानिमे भरतश्रेष्ठ प्राप्नुवन्तु महारथाः। प्रशाधि पृथिवीं पार्थ ययातिरिव नाहुषः॥ अरण्ये दुःखवसतिरनुभूता तपस्विभिः। दुःखस्यान्ते नरव्याघ्र सुखान्यनुभवन्तु वै॥ धर्ममर्थं च कामं च भ्रातृभिः सह भारत। अनुभूय ततः पश्चात् प्रस्थातासि विशाम्पते॥ अर्थनां च पितृणां च देवतानां च भारत। आनृण्यं गच्छ कौन्तेय तत् सर्वं च करिष्यसि॥ सर्वमेधाश्वमेधाभ्यां यजस्व कुरुनन्दन। ततः पश्चान्महाराज गमिष्यसि परां गतिम्॥ भ्रातृ॑श्च सर्वान् ऋतुभिः संयोज्य बहुदक्षिणैः। सम्प्राप्तः कीतिमतुलां पाण्डवेय भविष्यसि॥ विद्यस्ते पुरुषव्याघ्र वचनं कुरुसत्तम। शृणुष्वैवं यथा कुर्वन् न धर्माच्च्यवसे नृप॥ आददानस्य विजयं विग्रहं च युधिष्ठिर। समानधर्मकुशलाः स्थापयन्ति नरेश्वर॥ देशकालप्रतीक्षी यो दस्यून् मर्षयते नृपः। शास्त्रजां बुद्धिमास्थाय युज्यत्ते नैनसा हि सः॥ आदाय बलिषड्भागं यो राष्ट्र नाभिरक्षति। प्रतिगृह्णाति तत् पापं चतुथाङ्खशेन भूमिपः॥ निबोध च यथाऽऽतिष्ठन् धर्मान्न च्यवते नृपः। निग्रहाद् धर्मशास्त्राणामनुरुद्ध्यन्नपेतभीः॥ कामक्रोधावनादृत्य पितेव समदर्शनः। शास्त्रजां बुद्धिमास्थाय युज्यते नैनसा हि सः॥ दैवेनाभ्याहतो राजा कर्मकाले महाद्युते। न साधयति यत् कर्म न तत्राहुरतिक्रमम्॥ तरसा बुद्धिपूर्वं वा निग्राह्या एव शत्रवः। पापैः सह न संदध्याद् राज्यं पण्यं न कारयेत्॥ शूराश्चार्याश्च सत्कार्या विद्वांसश्च युधिष्ठिर। गोमिनो धनिनश्चैव परिपाल्या विशेषतः॥ व्यवहारेषु धर्मेषु योक्तव्याश्च बहुश्रुताः। गुणयुक्तेऽपि नैकस्मिन् विश्वसेत विचक्षणः॥ अरक्षिता दुविनीतो मानी स्तब्धोऽभ्यसूयकः। एनसा युज्यते राजा दुर्दान्त इति चोच्यते॥ येऽरक्ष्यमाणा हीयन्ते दैवेनाभ्याहता नृप। तस्करैश्चापि हीयन्ते सर्वं तद् राजकिल्बिषम्॥ सुमन्त्रिते सुनीते च सर्वतश्चोपपादिते। पौरुषे कर्मणि कृते नास्त्यधर्मो युधिष्ठिर॥ विच्छिद्यन्ते समारब्धाः सिद्ध्यन्ते चापि दैवतः। कृते पुरुषकारे तु नैनः स्पृशति पार्थिवम्॥ अत्र ते राजशार्दूल वर्तयिष्ये कथामिमाम्। यद् वृत्तं पूर्वराजर्षेर्हयग्रीवस्य पाण्डव॥ शत्रू न हत्वा हतस्याजौ शूरस्याक्लिश्कर्मणः। असहायस्य संग्रामे निर्जितस्य युधिष्ठिर॥ यत् कर्म वै निग्रहे शात्रवाणां योगश्चाम्यः पालने मानवानाम्। कृत्वा कर्म प्राप्य कीर्तिं स युद्धाद् वाजिग्रीवो मोदते स्वर्गलोके॥ संयुक्तात्मा समरेष्वाततायी शस्त्रैश्छिन्नो दस्युभिर्वध्यमानः। अश्वग्रीवः कर्मशीलो महात्मा संसिद्धार्थो मोदते स्वर्गलोके॥ धनुषूपो रशना ज्या शरः सुक् नुवः खङ्गो रुधिरं यत्र चाज्यम्। रथो वेदी कामगो श्चातुर्होत्रं चतुरो वाजिमुख्याः॥ हुत्वा तस्मिन् यज्ञवह्नावथारीन् पापान्मुक्तो राजसिंहस्तरस्वी। प्राणान् हुत्वा चावभृथे रणे स। वाजिग्रीवो मोदते देवलोके॥ राष्ट्र रक्षन् बुद्धिपूर्वं नयेन संत्यक्तात्मा यज्ञशीलो महात्मा। सर्वांल्लोकान् व्याप्य कीर्त्या मनस्वी वाजिग्रीवो मोदते देवलोके॥ दैवीं सिद्धिं मानुषीं दण्डनीति योगन्यासैः पालयित्वा महीं च। तस्माद् राजा धर्मशीलो महात्मा वाजिग्रीवो मोदते देवलोके।॥ विद्वांस्त्यागी श्रद्दधानः कृतर्ज स्त्यक्त्वा लोकं मानुषं कर्म कृत्वा। मेधाविनां विदुषां सम्मतानां तनुत्यजां लोकमाक्रम्य राजा॥ सम्यग् वेदान् प्राप्य शास्त्राण्यधीत्य सम्यग् राज्यं पालयित्वा महात्मा। चातुर्वर्ण्य स्थापयित्वा स्वधर्म वाजिग्रीवो मोदते देवलोके॥ जित्वा संग्रामान् पालयित्वा प्रजाश्च सोमं पीत्वा तर्पयित्वा द्विजाम्यान्। युक्त्या दण्डं धारयित्वा प्रजानां युद्धे क्षीणो मोदते देवलोके।॥ वृत्तं यस्य श्लाघनीयं मनुष्याः सन्तो विद्वांसोऽर्हयन्त्यर्हणीयम्। स्वर्गं जित्वा वीरलोकानवाप्य सिद्धिं प्राप्तः पुण्यकीर्तिर्महात्मा॥ वैशम्पायन उवाच द्वैपायनवचः श्रुत्वा कुपिते च धनंजये। व्यासमामन्त्र्य कौन्तेयः प्रत्युवाच युधिष्ठिरः॥ युधिष्ठिर उवाच न पार्थिवमिदं राज्यं न भोगाश्च पृथग्विधाः। प्रीणयन्ति मनो मेऽद्य शोको मां रुन्धयत्ययम्॥ श्रुत्वा वीरविहीनानामपुत्राणां च योषिताम्। परिदेवपमानानां शान्तिं नोपलभे मुने।॥ वैशम्पायन उवाच इत्युक्तः प्रत्युवाचेदं व्यासो योगविदां वरः। युधिष्ठिरं महाप्राज्ञो धर्मज्ञो वेदपारगः॥ व्यास उवाच न कर्मणा लभ्यते चिन्तया वा नाप्यस्ति दाता पुरुषस्य कश्चित्। पर्याययोगाद् विहितं विधात्रा कालेन सर्वं लभते मनुष्यः॥ न बुद्धिशास्त्राध्ययनेन शक्यं प्राप्तुं विशेषं मनुजैरकाले। मूर्योऽपि चाप्नोति कदाचिदर्थान् कालो हि कार्य प्रति निर्विशेषः॥ नाभूतिकालेषु फलं ददन्ति शिल्पानि मन्त्राश्च तथौषधानि। तान्येव कालेन समाहितानि सिद्ध्यन्ति वर्धन्ति च भूतिकाले॥ कालेन शीघ्राः प्रवहन्ति वाता: कालेन वृष्टिर्जलदानुपति। कालेन पद्मोत्पलवज्जलं च कालेन पुष्यन्ति वनेषु वृक्षाः॥ कालेन कृष्णाश्च सिताश्च रात्र्यः कालेन चन्द्रः परिपूर्णबिम्बः। नाकालतः पुष्पफलं दुमाणां नाकालवेगाः सरितो वहन्ति॥ नाकालमत्ताः खगपन्नगाश्च मृगद्विपाः शैलमृगाच लोके। नाकालतः स्त्रीषु भवन्ति गर्भा नायान्त्यकाले शिशिरोष्णवर्षाः॥ नाकालतो म्रियते जायते वा नाकालतो व्याहरते च बालः। नाकालतो यौवनमभ्युपैति नाकालतो रोहति बीजमुप्तम्॥ नाकालतो भानुरुपैति योगं नाकालतोऽङ्गिरिमभ्युपैति। नाकालतो वर्धते ही चन्द्रः समुद्रोऽपि महोर्मिमाली।॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। गीतं राज्ञा सेनजिता दुःखार्तेन युधिष्ठिर॥ सर्वानेवैष पर्यायो मान् स्पृशति दुःसहः। कालेन परिपक्वा हि म्रियन्ते सर्वपार्थिवाः॥ घ्नन्ति चान्यान् नरा राजस्तानप्यन्ये तथा नराः। संज्ञैषा लौकिकी राजन् न हिनस्ति न हन्यते॥ हन्तीति मन्यते कश्चिन्न हन्तीत्यपि चापरः। स्वभावतस्तु नियतौ भूतानां प्रभवाप्ययौ॥ नष्टे धने वा दारे वा पुत्रे पितरि वा मृते। अहो दुःखमिति ध्यायन् दुःखस्यापचितिं चरेत्॥ स किं शोचसि मूढः सञ्शोच्यान् किमनुशोचसि। पश्य दुःखेषु दुःखानि भयेषु च भयान्यपि॥ आत्मापि चायं न मम सर्वापि पृथिवी मम। यथा मम तथान्येषामिति पश्यन् न मुह्यति॥ शोकस्थानसहस्राणि हर्षस्थानशतानि च। दिवसे दिवसे मूढमाविशन्ति न पण्डितम्॥ एवमेतानि कालेन प्रियद्वेष्याणि भागशः। जीवेषु परिवर्तन्ते दुःखानि च सुखानि च॥ दुःखमेवास्ति न सुखं तस्मात् तदुपलभ्यते। तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम्॥ सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्। न नित्यं लभते दुःखं न नित्यं लभते सुखम्॥ सुखमेवहि दुःखान्तं कदाचिद् दुःखतः सुखम्। तस्मादेतद् द्वयं जह्याद् य इच्छेच्छाश्वतं सुखम्॥ सुखान्तप्रभवं दुःखं दुःखान्तप्रभवं सुखम्। यन्निमित्तो भवेच्छोकस्तापो वा भृशदारुणः॥ आयासो वापि यन्मूलस्तदेकाङ्गमपि त्यजेत्। सुखं वा यदि वा दुःखं प्रियं वा यदि वाप्रियम्। प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः॥ ईषदप्यङ्ग दाराणां पुत्राणां वा चराप्रियम्। ततो ज्ञास्यसि कः कस्य केन वा कथमेव च।॥ ये च मूढतमा लोके ये च बुद्धेः परं गताः। त एव सुखमेधन्ते मध्यमः क्लिश्यते जनः॥ इत्यब्रवीन्महाप्राज्ञो युधिष्ठिर स सेनजित्। परावरज्ञो लोकस्य धर्मवित् सुखदुःखवित्॥ येन दुःखेन यो दुःखी न स जातु सुखी भवेत्। दुःखानां हि क्षयो नास्ति जायते ह्यपरात् परम्॥ सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च। पर्यायतः सर्वमवाप्नुवन्ति तस्माद्धीरो नैव हृष्येन शोचेत्॥ दीक्षां राज्ञः संयुगे युद्धमाई र्योगं राज्ये दण्डनीत्यां च सम्यक्। वित्तत्यागो दक्षिणानां च यज्ञे सम्यग् दानं पावनानीति विद्यात्॥ रक्षन् राज्यं बुद्धिपूर्वं नयेन संत्यक्तात्मा यज्ञशीलो महात्मा। प्यूर्ध्वं देहान्मोदते देवलोके॥ जित्वा संग्रामान्पालयित्वा च राष्ट्र सोमं पीत्वा वर्धयित्वा प्रजाश्च। युक्त्या दण्डं धारयित्वा प्रजानांयुद्धे क्षीणो मोदते देवलोके॥ सम्यग् वेदान् प्राप्य शास्त्राण्यधीत्य सम्यग् राज्यं पालयित्वा च राजा। चातुर्वर्ण्य स्थापयित्वा स्वधर्म पूतात्मा वै मोदते देवलोके॥ यस्य वृत्तं नमस्यन्ति स्वर्गस्थस्यापि मानवाः। पौरजानपदामात्याः स राजा राजसत्तमः॥ वैशम्पायन उवाच अस्मिन्नेव प्रकरणे धनंजयमुदारधीः। अभिनीततरं वाक्यमित्युवाच युधिष्ठिरः॥ यदेतन्मन्यसे पार्थ न ज्यायोऽस्ति धनादिति। न स्वर्गो न सुखं नार्थो निर्धनस्येति तन्मृषा॥ स्वाध्याययज्ञसंसिद्धा दृश्यन्ते बहवो जनाः। तपोरताश्च मुनयो येषां लोकाः सनातनाः॥ ऋषीणां समयं शश्वद् ये रक्षन्ति धनंजय। आश्रिताः सर्वधर्मज्ञा देवास्तान् ब्राह्मणान् विदुः॥ स्वाध्यायनिष्ठान् हि ऋषीन् ज्ञाननिष्ठांस्तथापरान्। बुद्ध्येथाः संततं चापि धर्मनिष्ठान् धनंजय॥ ज्ञाननिष्ठेषु कार्याणि प्रतिष्ठाप्यानि पाण्डव। वैखानसानां वचनं यथा नो विदितं प्रभो॥ अजाश्च पृश्नयश्चैव सिकताश्चैव भारत। अरुणाः केतवश्चैव स्वाध्यायेन दिवं गताः॥ अवाप्यैतानि कर्माणि वेदोक्तानि धनंजय। दानमध्ययनं यज्ञो निग्रहश्चैव दुर्ग्रहः॥ दक्षिणेन च पन्थानमर्यम्णो ये दिवं गताः। एतान् क्रियावतां लोकानुक्तवान् पूर्वमप्यहम्॥ उत्तरेण तु पन्थानं नियमाद् यं प्रपश्यसि। एते यागवतां लोका भान्ति पार्थ सनातनाः॥ तत्रोत्तरां गतिं पार्थ प्रशंसन्ति पुराविदः। संतोषो वै स्वर्गतमः संतोषः परमं सुखम्॥ तुष्टेर्न किञ्चित् परमं सा सम्यक् प्रतितिष्ठति। विनीतक्रोधहर्षस्य सततं सिद्धिरुत्तमा॥ अत्राप्युदाहरन्तीमा गाथा गीता ययातिना। याभिः प्रत्याहरेत् कामान् कूर्मोऽङ्गानीव सर्वशः॥ यदा चायं न बिभेति यदा चास्मात बिभ्यति। यदा नेच्छति न देशि ब्रह्म सम्पद्यते तदा॥ यदा न भावं कुरुते सर्वभूतेषु पापकम्। कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा॥ विनीतमानमोहश्च बहुसङ्गविवर्जितः। तदाऽऽत्मज्योतिषः साधोर्निर्वाणमुपपद्यते॥ इदं तु शृणु मे पार्थ ब्रुवतः संयतेन्द्रियः। धर्ममन्ये वृत्तमन्ये धनमीहन्ति चापरे॥ धनहेतोर्य ईहेत तस्यानीहा गरीयसी। भूयान् दोषो हि वित्तस्य यश्च धर्मस्तदाश्रयः॥ प्रत्यक्षमनुपश्यामि त्वमपि द्रष्टुमर्हसि। वर्जनं वर्जनीयानामीहमानेन दुष्करम्॥ ये वित्तमभिपद्यन्ते सम्यक्त्वं तेषु दुर्लभम्। दुह्यतः प्रैति तत् प्राहुः प्रतिकूलं यथातथम्॥ यस्तु सम्भिन्नवृत्तः स्याद् वीतशोकभयो नरः। अल्पेन तृषितो दुह्यन् भ्रूणहत्यां न बुध्यते॥ दुष्यन्त्याददतो भृत्या नित्यं दस्युभयादिव। दुर्लभं च धनं प्राप्य भृशं दत्त्वानुतप्यते॥ अधनः कस्य किं वाच्यो विमुक्तः सर्वशः सुखी। देवस्वमुपगृव धनेन न सुखी भवेत्॥ अत्र गाथां यज्ञगीतां कीर्तयन्ति पुराविदः। त्रयीमुपाश्रितां लोके यज्ञ संस्तरकारिकाम्॥ यज्ञाय सृष्टानि धनानि धात्रा यज्ञाय सृष्टः पुरुषो रक्षिता च। तस्मात् सर्वं यज्ञ एवोपयोज्यं धनं न कामाय हितं प्रशस्तम्॥ एतत् स्वार्थे च कौन्तेय धनं धनवतां वर। धाता ददाति मर्येभ्यो यज्ञार्थमिति विद्धि तत्॥ तस्माद् बुद्ध्यन्ति पुरुषा न हि तत् कस्यचिद्धवम्। श्रद्धानस्ततो लोको दद्याच्चैव यजेत च॥ लब्धस्य त्यागमित्याहुन भोगं न च संचयम्। तस्य किं संचयेनार्थः कार्ये ज्यायसि तिष्ठति॥ ये स्वधर्मादपेतेभ्यः प्रयच्छन्त्यल्पबुद्धयः। शतं वर्षाणि ते प्रेत्य पुरीषं भुञ्जते जनाः॥ अनर्हते यद् ददाति न ददाति यदर्हते। अनिर्हापरिज्ञानाद् दानधर्मोऽपि दुष्करः॥ लब्धानामपि वित्तानां बोद्धव्यौ द्वावतिक्रमौ। अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम्॥ युधिष्ठिर उवाच अभिमन्यौ हते बाले द्रौपद्यास्तनयेषु च। धृष्टद्युम्ने विराटे च दुपदे च महीपतौ॥ वृषसेने च धर्मज्ञे धृष्टकेतौ तु पार्थिवे। तथान्येषु नरेन्द्रेषु नानादेश्येषु संयुगे॥ न च मुञ्चति मां शोको ज्ञातिघातिनमातुरम्। राज्यकामुकमत्युग्रं स्ववंशोच्छेदकारिणम्॥ यस्माङ्के क्रीडमानेन मया वै परिवर्तितम्। स मया राज्यलुब्धेन गाङ्गेयो युधि पातितः॥ यदा ह्येनं विघूर्णन्तमपश्यं पार्थसायकैः। कम्पमानं यथा वड्रैः प्रेक्ष्यमाणं शिखण्डिना॥ जीर्णसिंहमिव प्रांशुं नरसिंह पितामहम्। कीर्यमाणं शरैर्दृष्ट्वा भृशं मे व्यथितं मनः॥ प्राङ्मुखं सीदमानं च रथे पररथारुजम्। घूर्णमानं यथा शैलं तदा मे कश्मलोऽभवत्॥ यः स बाणधनुष्पाणिर्योधयामास भार्गवम्। बहून्यहानि कौरव्यः कुरुक्षेत्रे महामृधे॥ समेतं पाथिवं क्षत्रं वाराणस्यां नदीसुतः। कन्यार्थमाह्वयद् वीरो रथेनैकेन संयुगे॥ येन चोग्रायुधो राजा चक्रवर्ती दुरासदः। दग्धश्चास्त्रप्रतापेन स मया युधि घातितः॥ स्वयं मृत्यु रक्षमाणः पाञ्चाल्यं यः शिखण्डिनम्। न बाणैः पातयामास सोऽर्जुनेन निपातितः॥ यदैनं पतितं भूमावपश्यं रुधिरोक्षितम्। तदैवाविशदत्युग्रो ज्वरो मां मुनिसत्तम॥ येन संवर्धिता बाला येन स्म परिरक्षिताः। स मया राज्यलुब्धेन पापेन गुरुघातिना॥ अल्पकालस्य राज्यस्य कृते मूढेन घातितः। आचार्यश्च महेष्वासः सर्वपार्थिवपूजितः॥ अभिगम्य रणे मिथ्या पापेनोक्तः सुतं प्रति। तन्मे दहति गात्राणि यन्मां गुरुरभाषत॥ सत्यमाख्याहि राजंस्त्वं यदि जीवति मे सत्यमामर्षयन् विप्रो मयि तत् परिपृष्टवान्॥ सुतः। कुञ्जरं चान्तरं कृत्वा मिथ्योपचरितं मया। सुभृशं राज्यलुब्धेन पापेन गुरुघातिना॥ सत्यकञ्चकमुन्मुच्य मया स गुरुराहवे। अश्वत्थामा हत इति निरुक्तः कुञ्जरे हते॥ काँल्लोकांस्तु गमिष्यामि कृत्वा कर्म सुदुष्करम्। अघातयं च यत् कर्णं समरेष्वपलायिनम्॥ ज्येष्ठभ्रातरमत्युग्रं को मत्तः पापकृत्तमः। अभिमन्युं च यद् बालं जातं सिंहमिवाद्रिषु॥ प्रावेशयमहं लुब्धो वाहिनीं द्रोणपालिताम्। तदाप्रभृति बीभत्सुं न शक्नोमि निरीक्षितुम्॥ कृष्णं च पुण्डरीकाक्षं किल्बिषी भ्रूणहा यथा। द्रौपदीं चापि दुःखार्ती पञ्चपुत्रैर्विनाकृताम्॥ शोचामि पृथिवीं हीनां पञ्चभिः पर्वतैरिव। सोऽहमागस्करः पापः पृथिवीनाशकारकः॥ आसीन एवमेवेदं शोषयिष्ये कलेवरम्। प्रायोपविष्टं जानीध्वमथ मां गुरुघातिनम्॥ जातिष्वन्यास्वपि यथा न भवेयं कुलान्तकृत्। न भोक्ष्ये न च पानीयमुपभोक्ष्ये कथञ्चन॥ शोषयिष्ये प्रियान् प्राणनिहस्थोऽहं तपोधनाः। यथेष्टं गम्यतां काममनुजाने प्रसाद्य वः॥ सर्वे मामनुजानीत तयक्ष्यामीदं कलेवरम्। वैशम्पायन उवाच तमेवंवादिनं पार्थं बन्धुशोकेन विह्वलम्॥ मैवमित्यब्रवीद् व्यासो निगृह्य मुनिसत्तमः। व्यास उवाच अतिवेलं महाराज न शोकं कर्तुमर्हसि॥ पुनरुक्तं तु वक्ष्यामि दिष्टमेतदिति प्रभो। संयोगा विप्रयोगान्ता जातानां प्राणिनां ध्रुवम्॥ बुबुदा इव तोयेषु भवन्ति न भवन्ति च। सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः॥ संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्। सुखं दुःखान्तमालस्यं दाक्ष्यं दुःखं सुखोदयम्। भूतिः श्रीह्रीं धृतिः कीर्तिर्दक्षे वसति नालसे॥ नालं सुखाय सुहृदो नालं दुःखाय शत्रवः। न च प्रजालमर्थेभ्यो न सुखेभ्योऽप्यलं धनम्॥ यथा सृष्टोऽसि कौन्तेय धात्रा कर्मसु तत् कुरु। अत एव हि सिद्धिस्ते नेशस्त्वं कर्मणां नृप॥ वैशम्पायन उवाच ज्ञातिशोकाभितप्तस्य प्राणानभ्युत्सिसृक्षतः । ज्येष्ठस्य पाण्डुपुत्रस्य व्यासः शोकमपानुदत्॥ व्यास उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। अश्मगीतं नरव्याघ्र तन्निबोध युधिष्ठिर॥ अश्मानं ब्राह्मणं प्राज्ञं वैदेहो जनको नृपः। संशयं परिपप्रच्छ दुःखशोकसमन्वितः॥ जनक उवाच आगमे यदि वापाये ज्ञातीनां द्रविणस्य च। नरेण प्रतिपत्तव्यं कल्याणं कथमिच्छता॥ अश्मोवाच उत्पन्नमिममात्मानं नरस्यानन्तरं ततः। तानि तान्यनुवर्तन्ते दुःखानि च सुखानि च॥ तेषामन्यतरापत्तौ यद् यदेवोपपद्यते। तदस्य चेतनामाशु हरत्यभ्रमिवानिलः॥ अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः। इत्येभिर्हेतुभिस्तस्य त्रिभिश्चित्तं प्रसिच्यते॥ सम्प्रसक्तमना भोगान् विसृज्य पितृसंचितान्। परिक्षीणः परस्वानामादानं साधु मन्यते॥ तमतिक्रान्तमर्यादमाददानमसाम्प्रतम्। प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः॥ ये च विंशतिवषर्ज वा त्रिंशद्वर्षाश्च मानवाः। परेण ते वर्षशतान्न भविष्यन्ति पार्थिव॥ तेषां परमदुः :खानां बुद्ध्या भैषज्यमाचरेत्। सर्वप्राणभृतां वृत्तं प्रेक्षमाणस्ततस्ततः॥ मानसानां पुनर्योनिर्दुःखानां चित्तविभ्रमः। अनिष्टोपनिपातो वा तृतीयं नोपपद्यते॥ एवमेतानि दुःखानि तानि तानीह मानवम्। विविधान्युपवर्तन्ते तथा संस्पर्शजान्यपि॥ जरामृत्यू हि भूतानां खादितारौ वृकाविव। बलिनां दुर्बलानां च ह्रस्वानां महतामपि॥ न कश्चिज्जात्वतिक्रामेज्जरामृत्यू हि मानवः। अपि सागरपर्यन्तां विजित्येमां वसुन्धराम्॥ सुखं वा यदि वा दुःखं भूतानां पर्युपस्थितम्। प्राप्तव्यमवशैः सर्वं परिहारो न विद्यते॥ पूर्वे वयसि मध्ये वाप्युत्तरे वा नराधिप। अवर्जनीयास्तेऽर्था वै कांक्षिता ये ततोऽन्यथा॥ अप्रियैः सह संयोगो विप्रयोगश्च सुप्रियैः। अर्थानों सुखं दुःखं विधानमनुवर्तते॥ प्रादुर्भावश्च भूतानां देहत्यागस्तथैव च। प्राप्तिायामयोगश्च सर्वमेतत् प्रतिष्ठितम्॥ गन्धवर्णरसस्पर्शा निवर्तन्ते स्वभावतः। तथैव सुखदुःखानि विधानमनुवर्तते॥ आसनं शयनं यानमुत्थानं पानभोजनम्। नियतं सर्वभूतानां कालेनैव भवत्युत॥ वैद्याश्चाप्यातुराः सन्ति बलवन्तश्च दुर्बलाः। श्रीमन्तचापरे षण्ढा विचित्रः कालपर्ययः॥ कुले जन्म तथा वीर्यमारोग्यं रूपमेव च। सौभाग्यमुपभोगश्च भवितव्येन लभ्यते॥ सन्ति पुत्राः सुबहवो दरिद्राणामनिच्छताम्। नास्तिः पुत्रः समृद्धानां विचित्रं विधिचेश्तिम्॥ व्याधिरग्निर्जलं शस्त्रं बुभुक्षाश्चापदो विषम्। ज्वरच मरणं जन्तोरुच्चाच्च पतनं तथा॥ निर्माणे यस्य यद् दिष्टं तेन गच्छति सेतुना। दृश्यते नाप्यतिक्रामन्न निष्क्रान्तोऽथवा पुनः॥ दृश्यते चाप्यतिक्रामन्ननिग्राह्योऽथवा पुनः। दृश्यते हि युवैवेह विनश्यन्वसुमानरः। दरिद्रश्च परिक्लिष्टः शतवर्षो जरान्वितः॥ अकिञ्चनाश्च दृश्यन्ते पुरुषाश्चिरजीविनः। समृद्धे च कुले जाता विनश्यन्ति पतङ्गवत्॥ प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते। काष्ठान्यपि हि जीर्यन्ते दरिद्राणां च सर्वशः॥ अहमेतत् करोमीति मन्यते कालनोदितः। यद् यदिष्टमसंतोषाद् दुरात्मा पापमाचरेत्॥ मृगयाऽक्षाः स्त्रियः पानं प्रसङ्गा निन्दिता बुधैः। दृश्यन्ते पुरुषाश्चात्र सम्प्रयुक्ता बहुश्रुताः॥ इति कालेन सर्वार्थानीप्सितानीप्सितानिह। स्पृशन्ति सर्वभूतानि निमित्तं नोपलभ्यते॥ वायुमाकाशमग्निं च चन्द्रादित्यावहःक्षपे। ज्योतींषि सरितः शैलान् कः करोति बिभर्ति च॥ शीतमुष्णं तथा वर्ष कालेन परिवर्तते। एवमेव मनुष्याणां सुखदुः :खे नरर्षभ॥ नौषधानि न मन्त्राश्च न होमा न पुनर्जपाः। त्रायन्ते मृत्युनोपेतं जरया चापि मानवम्॥ यथा काष्ठं च काष्ठं च समेयातां महोदधौ। समेत्य च व्यपेयातां तद्वद् भूतसमागमः॥ ये चैव पुरुषाः स्त्रीभिर्गीतवाद्यैरुपस्थिताः। य चानाथाः परान्नादा: कालस्तेषु समक्रियः॥ मातापितृसहस्राणि पुत्रदारशतानि च। संसारेष्वनुभूतानि कस्य ते कस्य वा वयम्॥ नैवास्य कश्चिद् भविता नायं भवति कस्यचित्। पथि सङ्गतमेवेदं दारबन्धुसुहृज्जनैः॥ क्वासे क्व च गमिष्यामि को न्वहं किमिहास्थितः। कस्मात् किमनुशोचेयमित्येवं स्थापयेन्मनः॥ अनित्ये प्रियसंवासे संसारे चक्रवद्गतौ। पथि सङ्गतमेवैतद् भ्राता माता पिता सखा॥ न दृष्टपूर्वं प्रत्यक्षं परलोकं विदुर्बुधाः। आगमांस्त्वनतिक्रम्य श्रद्धातव्यं बुभूषता॥ कुर्वीत पितृदैवत्यं धर्माणि च समाचरेत्। यजेच्च विद्वान् विधिवत् त्रिवर्गं चाप्युपाचरेत्॥ संनिमज्जेज्जगदिदं गम्भीरे कालसागरे। जरामृत्युमहाग्राहे न कश्चिदवबुध्यते॥ आयुर्वेदमधीयानाः केवलं सपरिग्रहाः। दृश्यन्ते बहवो वैद्या व्याधिभिः समभिप्लुताः॥ ते पिबन्तः कषायांश्च सीषि विविधानि च। न मृत्युमतिवर्तन्ते वेलामिव महोदधिः॥ रसायनविदश्चैव सुप्रयुक्तरसायनाः। दृश्यन्ते जरया भग्ना नगा नागैरिवोत्तमैः॥ तथैव तपसोपेताः स्वाध्यायाभ्यसने रताः। दातारो यज्ञशीलाश्च न तरन्ति जरान्तकौ॥ न शहानि निवर्तन्ते न मासा न पुनः समाः। जातानां सर्वभूतानां न पक्षा न पुनः क्षपाः॥ केनचित्। सोऽयं विपुलमध्वानं कालेन ध्रुवमध्रुवः। नरोऽवशः समभ्येति सर्वभूतनिषेवितम्॥ देहो वा जीवतोऽभ्येति जीवो वाभ्येति देहतः। पथि सङ्गममभ्येति दारैरन्यैश्च बन्धुभिः॥ नायमत्यन्तसंवासो लभ्यते जातु अपि स्वेन शरीरेण किमुतान्येन केनचित्॥ क्व नु तेऽद्य पिता राजन् क्व नु तेऽद्य पितामहाः। न त्वं पश्यसि तानद्य न त्वां पश्यन्ति तेऽनघ॥ न चैव पुरुषो द्रष्टा स्वर्गस्य नरकस्य च। आगमस्तु सतां चक्षुर्नृपते तमिहाचर॥ चरितब्रह्मचर्यो हि प्रजायेत यजेत च। पितृदेवमनुष्याणामानृण्यादनसूयकः॥ स यज्ञशीलः प्रजने निविष्टः प्रारब्रह्मचारी प्रविविक्तचक्षुः। आराधयेत् स्वर्गमिमं च लोकं परं च मुक्त्वा हृदयव्यलीकम्॥ समं हि धर्मं चरतो नृपस्य द्रव्याणि चाभ्याहरतो यथावत्। प्रवृत्तधर्मस्य यशोऽभिवर्धते सर्वेषु लोकेषु चराचरेषु॥ इत्येवमाज्ञाय विदेहराजो वाक्यं समग्रं परिपूर्णहेतुः। र्ययौ गृहं स्वं प्रति शान्तशोकः॥ तथा त्वमप्यच्युत मुञ्च शोर्क मुत्तिष्ठ शक्रोपम हर्षमेहि। क्षात्रेण धर्मेण मही जिता ते तां भुक्ष्व कुन्तीसुत मावमंस्था॥ वैशम्पायन उवाच अव्याहरति राजेन्द्रे धर्मपुत्रे युधिष्ठिरे। गुडाकेशो हृषीकेशमभ्यभाषत पाण्डवः॥ अर्जुन उवाच ज्ञातिशोकाभिसंतप्तो धर्मपुत्रः परंतपः। एष शोकार्णवे मग्नस्तमाश्वासय माधव॥ सर्वे स्म ते संशयिताः पुनरेव जनार्दन। अस्य शोकं महाबाहो प्रणाशयितुमर्हसि॥ वैशम्पायन उवाच एवमुक्तस्तु गोविन्दो विजयेन महात्मना। पर्यवर्तत राजानं पुण्डरीकेक्षणोऽच्युतः॥ अनतिक्रमणीयो हि धर्मराजस्य केशवः। बाल्यात् प्रभृति गोविन्दः प्रीत्या चाभ्यधिकोऽर्जुनात्॥ सम्प्रगृह्य महाबाहुर्भुजं चन्दनभूषितम्। शैलस्तम्भोपमं शौरिरुवाचाभिविनोदयन्॥ शुशुभे वदनं तस्य सुदंष्ट्र चारुलोचनम्। व्याकोशमिव विस्पष्टं पद्मं सूर्य इवोदिते॥ वासुदेव उवाच मा कृथाः पुरुषव्याघ्र शोकं त्वं गात्रशोषप न हि ते सुलभा भूयो ये हतास्मिन् रणाजिरे॥ स्वपलब्धा यथा लाभा वितथाः प्रतिबोधने। एवं ते क्षत्रिया राजन् ये व्यतीता महारणे॥ सर्वेऽप्यभिमुखाः शूरा विजिता रणशोभिन:। नैषां कश्चित् पृष्ठतो वा पलायन् वापि पातितः॥ सर्वेत्यक्त्वाऽऽत्मनः प्राणान् युद्ध्वा वीरा महामृधे। शस्त्रपूता दिवं प्राप्ता न ताञ्छोचितुमर्हसि॥ क्षत्रधर्मरताः शूरा वेदवेदाङ्गपारगाः। प्राप्ता वीरगतिं पुण्यां तान् न शोचितुमर्हसि॥ मृतान् महानुभावांस्त्वं श्रुत्वैव पृथिवीपतीन्। अत्रैवोदाहरन्तीममितिहासं पुरातनम्॥ संजयं पुत्रशोकार्तं यथायं नारदोऽब्रवीत्। नारद उवाच सुखदुःखैरहं त्वं च प्रजाः सर्वाश्च संजय॥ अविमुक्ता मरिष्यामस्तत्र का परिदेवना। महाभाग्यं पुरा राज्ञां कीर्त्यमानं मया शृणु॥ गच्छावधानं नृपते ततो दुःखं प्रहास्यसि। मृतान् महानुभावांस्त्वं श्रुत्वैव पृथिवीपतीन्॥ शममानय संतापं शृणु विस्तरशश्च मे। क्रूरग्रहाभिशमनमायुर्वर्धनमुत्तमम्॥ अग्रिमाणां क्षितिभुजामुपादानं मनोहरम्। आविक्षितं मरुत्तं च मृतं सृञ्जय शुश्रुम॥ यस्य सेन्द्राः सवरुणा बृहस्पतिपुरोगमाः। देवा विश्वसृजो राज्ञो यज्ञमीयुर्महात्मनः॥ यः स्पर्धयायजच्छकं देवराजं पुरंदरम्। शक्रप्रियैषी यं विद्वान् प्रत्याचष्ट बृहस्पतिः॥ संवर्तो याजयामास यवीयान् स बृहस्पतेः। यस्मिन् प्रशासति महीं नृपतौ राजसत्तम। अकृष्टपच्या पृथिवी विबभौ चैत्यमालिनी॥ आविक्षितस्य वै सत्रे विश्वेदेवाः सभासदः। मरुतः परिवेशरः साध्याश्चासन् महात्मनः॥ मरुद्गणा मरुत्तस्य यत् सोममपिबंस्ततः। देवान् मनुष्यान् गन्धर्वानत्यरिच्यन्त दक्षिणाः॥ स चन्ममार संजय चतुर्भद्रतरस्त्वया। पुत्रात् पुण्यतरश्चैव मा पुत्रमनुतप्यथाः॥ सुहोत्रं चैवातिथिनं मृतं संजय शुश्रुम। यस्मिन् हिरण्यं ववृषे मघवा परिवत्सरम्॥ सत्यनामा वसुमती यं प्राप्यासीज्जनाधिपम्। हिरण्यमवहन् नद्यस्तस्मिञ्जनपदेश्वरे॥ कूर्मान् कर्कटकान् नक्रान् मकराञ्छिशुकानपि। नदीष्वपातयद् राजन् मघवा लोकपूजितः॥ हिरण्यान् पातितान् दृष्ट्वा मत्स्यान् मकरकच्छपान्। सहस्रशोऽथ शतशस्ततोऽस्मयदथोऽतिथिः॥ तद्धिरण्यमपर्यन्तमावृतं कुरुजाङ्गले। ईजानो वितते यज्ञे ब्राह्मणेभ्य: समार्पयत्॥ स चेन्ममार संजय चतुर्भद्रतरस्त्वया। पुत्रात् पुण्यतरश्चैव मा पुत्रमनुतप्यथाः॥ अदक्षिणमयज्वानं श्वैत्य संशाम्य मा शुचः। अङ्गं बृहद्रथं चैव मृतं संजय शुश्रुम॥ यः सहस्रं सहस्राणां श्वेतानश्वानवासृजत्। सहस्रं च सहस्राणां कन्या हेमपरिष्कृतः॥ ईजानो वितते यज्ञे दक्षिणामत्यकालयत्। यः सहस्रं सहस्राणां गजानां पद्ममालिनाम्॥ ईजानो वितते यज्ञे दक्षिणामत्यकालयत्। शतं शतसहस्राणि वृषाणां हेममालिनाम्॥ गवां सहस्रानुचरं दक्षिणामत्यकालयत्। अङ्गस्य यजमानस्य तदा विष्णुपदे गिरौ॥ अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः। यस्य चक्षेषु राजेन्द्र शतसंख्येषु वै पुरा॥ देवान् मनुष्यान् गन्धर्वानत्यरिच्यन्त दक्षिणाः। न जातो जनिता नान्यः पुमान् यः सम्प्रदास्यति॥ यदङ्गः प्रददौ वित्तं सोमसंस्थासु सप्तसु। स चेन्ममार संजय चतुर्भद्रतरस्त्वया॥ पुत्रात् पुण्यतरश्चैव मा पुत्रमनुतप्यथाः। शिबिमौशीनरं चैव मृतं सुंजय शुश्रुम॥ य इमां पृथिवीं सर्वां चर्मवत्समवेश्यत्। महता रथघोषेण पृथिवीमनुनादयन्॥ एकच्छत्रां महीं चक्रे जैत्रेणैकरथेन यः। यावदस्य गवाश्वं स्यादारण्यैः पशुभिः सह॥ तावतीः प्रददौ गाः स शिबिरौशीनरोऽध्वरे। न वोढारं धुरं तस्य कश्चिन्मेने प्रजापतिः॥ न भूतं न भविष्यं च सर्वराजसु संजय। अन्यत्रौशीनराच्छैब्याद् राजर्षेरिन्द्रविक्रमात्॥ अदक्षिणमयज्वानं मा पुत्रमनुतप्यथाः। स चेन्ममार संजय, चतुर्भद्रतरस्त्वया। पुत्रात् पुण्यतरश्चैव मा पुत्रमनुतप्यथाः॥ भरतं चैव दौष्यन्तिं मृतं संजय शुश्रुमा शाकुन्तलं महात्मानं भूरिद्रविणसंचयम्॥ यो बद्ध्वा त्रिशतं चाश्वान् देवेभ्यो यमुनामनु। सरस्वती विंशतिं च गङ्गामनु चतुर्दश॥ अश्वमेधसहस्रेण राजसूयशतेन च। इष्टवान् स महातेजा दौष्यन्तिर्भरतः पुरा॥ भरतस्य महत् कर्म सर्वराजसु पार्थिवाः। स्वं मर्त्या इव बाहुभ्यां नानुगन्तुमशक्नुवन्॥ परं सहस्राद् यो बद्धान् हयान् वेदीवितत्य च। सहस्रं यत्र पद्यानां कण्वाय भरतो ददौ॥ स चेन्ममार संजय चतुर्भद्रतरस्त्वया। पुत्रात् पुण्यतरश्चैव मा पुत्रमनुतप्यथाः॥ रामं दाशरथिं चैव मृतं संजय शुश्रुम। योऽन्वकम्पत वै नित्यं प्रजाः पुत्रानिवौरसान्॥ विधवा यस्य विषये नानाथा: काश्चनाभवन्। सदैवासीत् पितृसमो रामो राज्यं यदन्वशात्॥ कालवर्षी च पर्जन्यः सस्यानि समपादयत्। नित्यं सुभिक्षमेवासीद् रामे राज्यं प्रशासति॥ प्राणिनो नाप्सु मज्जन्ति नान्यथा पावकोऽदहत्। रुजाभयं न तत्रासीद् रामे राज्यं प्रशासति॥ आसन् वर्षसहस्त्रिण्यस्तथा वर्षसहस्रकाः। अरोगा: सर्वसिद्धार्था रामे राज्यं प्रशासति॥ नान्योऽन्येन विवादोऽभूत् स्त्रीणामपि कुतो नृणाम्। धर्मनित्याः प्रजाश्चासन् रामे राज्यं प्रशासति॥ संतुष्टाः सर्वसिद्धार्था निर्भयाः स्वैरचारिणः। नराः सत्यव्रताश्चासन् रामे राज्यं प्रशासति॥ नित्यपुष्पफलाश्चैव पादपा निरुपद्रवाः। सर्वा द्रोणदुघा गावो रामे राज्यं प्रशासति॥ स चतुर्दशवर्षाणि वने प्रोष्य महातपाः। दशाश्वमेधान् जारूथ्यानाजहार निरर्गलान्॥ युवा श्यामो लोहिताक्षो मातङ्ग इव यूथपः। आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः॥ दशवर्षसहस्राणि दशवर्षशतानि च। अयोध्याधिपतिर्भूत्वा रामो राज्यमकारयत्॥ स चेन्ममार संजय चतुर्भद्रतरस्त्वया। पुत्रात् पुण्यतरश्चैव मा पुत्रमनुतप्यथाः॥ भगीरथं च राजानं मृतं संजय शुश्रुम। यस्येन्द्रो वितते यज्ञे सोमं पीत्वा मदोत्कटः॥ असुराणां सहस्राणि बहूनि सुरसत्तमः। अजयद् बाहुवीर्येण भगवान् पाकशासनः॥ यः सहस्रं सहस्राणां कन्या हेमविभूषिताः। ईजानो वितते यज्ञे दक्षिणामत्यकालयत्॥ सर्वा रथगताः कन्या रथाः सर्वे चतुर्युजः। शतं शतं रथे नागाः पद्मिनो हेममालिनः॥ सहस्रमश्वा एकैकं हस्तिनं पृष्ठतोऽन्वयुः। गवां सहस्रमश्वेऽश्वे सहस्रं गव्यजाविकम्॥ उपह्वरे निवसतो यस्याङ्के निषसाद ह। गङ्गा भागीरथी तस्मादुर्वशी चाभवत् पुरा॥ भूरिदक्षिणमिक्ष्वाकुं यजमानं भगीरथम्। त्रिलोकपथगा गङ्गा दुहितृत्वमुपेयुषी॥ स चेन्ममार संजय चतुर्भद्रतरस्त्वया। पुत्रात् पुण्यतरश्चैव मा पुत्रमनुतप्यथाः॥ दिलीपं च महात्मानं मृतं संजय शुश्रुम। यस्य कर्माणि भूरीणि कथयन्ति द्विजातयः॥ य इमां वसुसम्पूर्णां वसुधां वसुधाधिपः। ददौ तस्मिन् महायज्ञे ब्राह्मणेभ्यः समाहितः॥ यस्येह यजमानस्य यज्ञे यज्ञे पुरोहितः। सहस्रं वारणान् हैमान् दक्षिणामत्यकालयत्॥ यस्य यज्ञे महानासीद् यूपः श्रीमान् हिरण्मयः। तं देवाः कर्म कुर्वाणाः शक्रज्येष्ठा उपाश्रयन्॥ चषाले यस्य सौवर्णे तस्मिन् यूपे हिरण्मये। ननृतुर्देवगन्धर्वाः षट् सहस्राणि सप्तधा॥ अवादयत् तत्र वीणां मध्ये विश्वावसुः स्वयम्। सर्वभूतान्यमन्यन्त मम वादयतीत्ययम्॥ एतद् राज्ञो दिलीपस्य राजानो नानुचक्रिरे। यस्येभा हेमसंछन्नाः पथि मत्ताः स्म शेरते॥ राजानं शतधन्वानं दिलीपं सत्यवादिनम्। येऽपश्यन् सुमहात्मानं तेऽपि स्वर्गजितो नराः॥ त्रयः शब्दा न जीर्यन्ते दिलीपस्य निवेशने। स्वाध्यायघोषो ज्याघोषो दीयतामिति वै त्रयः॥ स चेन्ममार संजय चतुर्भद्रतरस्त्वया। पुत्रात् पुण्यतरश्चैव मा पुत्रमनुतप्यथाः॥ मान्धातारं यौवनाश्वं मृतं संजय शुश्रुम। यं देवा मरुतो गर्भ पितुः पार्थादपाहरन्॥ समृद्धो युवनाश्वस्य जठरे यो महात्मनः। पृषदाज्योद्भवः श्रीमास्त्रिलोकविजयी नृपः॥ यं दृष्ट्वा पितुरुत्सङ्गे शयानं देवरूपिणम्। अन्योन्यमब्रुवन् देवाः कमयं धास्यतीति वै॥ मामेव धास्यतीत्येवमिन्द्रोऽथाभ्युपपद्यत। मान्धातेति ततस्तस्य नाम तस्य नाम चक्रे शतक्रतुः॥ ततस्तु पयसो धारां पुष्टिहेतोर्महात्मनः। तस्यास्ये यौवनाश्वस्य पाणिरिन्द्रस्य चास्रवत्॥ तं पिबन् पाणिमिन्द्रस्य शतमह्ना व्यवर्धत। स आसीद् द्वादशसमो द्वादशाहेन पार्थिवः॥ तमिमं पृथिवी सर्वा एकाह्ना समपद्यता धर्मात्मानं महात्मानं शूरमिन्द्रसमं युधि॥ यश्चाङ्गारं तु नृपतिं मरुत्तमसितं गयम्। अङ्ग बृहद्रथं चैव मान्धाता समरेऽजयत्॥ यौवनाश्वो यदाङ्गारं समरे प्रत्ययुध्यत। विस्फारैर्धनुषो देवा द्यौरभेदीति मेनिरे॥ यत्र सूर्य उदेति स्म यत्र च प्रतितिष्ठति। सर्वं तद् यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते॥ अश्वमेधशतेनेष्ट्वा राजसूयशतेन च। अददाद् रोहितान् मत्स्यान् ब्राह्मणेभ्यो विशाम्पते॥ हैरण्यान् योजनोत्सेधानायतान् दशयोजनम्। अतिरिक्तान् द्विजातिभ्यो व्यभजस्त्वितरे जनाः॥ स चेन्ममार संजय चतुर्भद्रतरस्त्वया। पुत्रात् पुण्यतरश्चैव मा पुत्रमनुतप्यथाः॥ ययातिं नाहुषं चैव मृतं संजय शुश्रुम। य इमां पृथिवीं कृत्स्नां विजित्य सहसागराम्॥ शम्यापातेनाभ्यतीयाद् वेदीभिश्चित्रयन् महीम्। ईजानः क्रतुभिर्मुख्यैः पर्यगच्छद् वसुन्धराम्॥ दृष्ट्वा ऋतुसहस्रेण वाजपेयशतेन च। तर्पयामास विप्रेन्द्रांस्त्रिभिः काञ्चनपर्वतैः॥ व्यूढेनासुरयुद्धेन हत्वा दैतेयदानवान्। व्यभजत् पृथिवीं कृत्स्नां ययातिनहुषात्मजः॥ अन्त्येषु पुत्रान् निक्षिप्य यदुद्रुह्युपुरोगमान्। पूरुं राज्येऽभिषिच्याथ सदारः प्राविशद् वनम्॥ स चेन्ममार संजय चतुर्भद्रतरस्त्वया। पुत्रात् पुण्यतरश्चैव मा पुत्रमनुतप्यथाः॥ अम्बरीषं च नाभागं मृतं संजय शुश्रुम। य प्रजा वव्रिरे पुण्यं गोप्तारं नृपसत्तमम्॥ यः सहस्रं सहस्राणां राज्ञामयुतयाजिनाम्। ईजानो वितते यज्ञे ब्राह्मणेभ्यः सुसंहितः॥ नैतत् पूर्वे जनाचक्रुर्न करिष्यन्ति चापरे। इत्यम्बरीषं नाभागिमन्वमोदन्त दक्षिणाः॥ शतं राजसहस्राणि शतं राजशतानि च। सर्वेऽश्वमेधैरोजानास्तेऽन्वयुदक्षिणायनम्॥ स चेन्ममार संजय चतुर्भद्रतरस्त्वया। पुत्रात् पुण्यतरश्चैव मा पुत्रमनुतप्यथाः॥ शशबिन्दुं चैत्ररथं मृतं शुश्रुम सुंजय। यस्य भार्यासहस्राणां शतमासीन्महात्मनः॥ सहस्रं तु सहस्राणां यस्यासशाशबिन्दवाः। हिरण्यकवचाः सर्वे सर्वे चोत्तमधन्विनः॥ शतं कन्या राजपुत्रमेकैकं पृथगन्वयुः। कन्यां कन्यां शतं नागा नागं नागं शतं रथाः॥ रथे रथे शतं चाश्वा देशजा हेममालिनः। अश्वे अश्वे शतं गावो गवां तद्वदजाविकम्॥ एतद् धनमपर्यन्तमश्वमेधे महामखे। शशबिन्दुर्महाराज ब्राह्मणेभ्यः समार्पयत्॥ स चेन्मार संजय चतुर्भद्रतरस्त्वया। पुत्रात् पुण्यतरश्चैव मा पुत्रमनुतप्यथाः॥ गयं चामूर्तरयसं मृतं शुश्रुम संजय। यः स वर्षशतं राजा हुतशिष्टाशनोऽभवत्॥ यस्मै वह्निर्वरं प्रादात् ततो ववे वरान् गयः। ददतो योऽक्षयं वित्तं धर्मे श्रद्धा च वर्धताम्॥ मनो मे रमतां सत्ये त्वत्प्रसादाद्भुताशन। लेभे च कामांस्तान् सर्वान् पावकादिति नः श्रुतम्॥११३ दशैश्च पूर्णमासैश्च चातुर्मास्यैः पुनः पुनः। अयजद्धयमेधेन सहस्रं परिवत्सरान्॥ शतं गवां सहस्राणि शतमश्वतराणि च। उत्थायोत्थाय वै प्रादात् सहस्रं परिवत्सरान्॥ तर्पयामास सोमेन देवान् वित्तैर्द्विजानपि। पितृन् स्वधाभिः कामैश्च स्त्रियः स पुरुषर्षभ॥ सौवर्णी पृथिवीं कृत्वा दशव्यामां द्विरायताम्। 'दक्षिणामददद् राजा वाजिमेधे महाक्रतौ॥ यावत्यः सिकता राजन् गङ्गायां पुरुषर्षभ। तावतीरेव गाः प्रादादामूर्तरयसो गयः॥ स चेन्ममार संजय चतुर्भद्रतरस्त्वया। पुत्रात् पुण्यतश्चैव मा पुत्रमनुतप्यथाः॥ रन्तिदेवं च सांकृत्यं मृतं संजय शुश्रुम। सम्यगाराध्य यः शक्राद् वरं लेभे महातपाः॥ अन्नं च नो बहु भवेदतिथींच लभेमहि। श्रद्धा च नो मा व्यगमन्मा च याचिष्म कंचन॥ उपातिष्ठन्त पशवः स्वयं तं संशितव्रतम्। ग्राम्यारण्या महात्मानं रन्तिदेवं यशस्विनम्॥ महानदी चर्मराशेरुत्क्लेदात् ससृजे यतः। ततश्चर्मण्वतीत्येवं विख्याता सा महानदी॥ ब्राह्मणेभ्यो ददौ निष्कान् सदसि प्रतते नृपः। तुभ्यं निष्कं तुभ्यं निष्कमिति क्रोशन्ति वै द्विजाः।।१२४ सहस्रं तुभ्यमित्युक्त्वा ब्राह्मणान् सम्प्रपद्यते। अन्वाहार्योपकरणं द्रव्योपकरणं च यत्॥ घटाः पात्र्यः कटाहानि स्थाल्यश्च पिठराणि च। नासीत् किंचिदसौवर्णं रन्तिदेवस्य धीमतः॥ सांकृते रन्तिदेवस्य यां रात्रिमवसन् गृहे। आलभ्यन्त शतं गावः सहस्राणि च विंशतिः॥ तत्र स्म सूदाः क्रोशन्ति सुमृण्मणिकुण्डलाः। सूपं भूयिष्ठमश्नीध्वं नाद्य भोज्यं यथा पुरा॥ स चेन्ममार संजय चतुर्भद्रतरस्त्वया। पुत्रात् पुण्यतरश्चैव मा पुत्रमनुतप्यथाः॥ सगरं च महात्मानं मृतं शुश्रुम सुंजय। ऐक्ष्वाकं पुरुषव्याघ्रमतिमानुषविक्रमम्॥ षष्टिः पुत्रसहस्राणि यं यान्तमनुजग्मिरे। नक्षत्रराजं वर्षान्ते व्यभ्रे ज्योतिर्गणा इव॥ एकच्छत्रा मही यस्य प्रतापादभवत् पुरा। योऽश्वमेधसहस्रेण तर्पयामास देवताः॥ यः प्रादात् कनकस्तम्भं प्रासादं सर्वकाञ्चनम्। पूर्णं पद्मदलाक्षीणां स्त्रीणां शयनसंकुलम्॥ द्विजातिभ्योऽनुरूपेभ्य: कामांश्च विविधान् बहून्। यस्यादेशेन तद् वित्तं व्यभजन्त द्विजातयः॥ खानयामास यः कोपात् पृथिवीं सागराङ्किताम्। यस्य नाम्ना समुद्रश्च सागरत्वमुपागतः॥ स चेन्ममार संजय चतुर्भद्रतरस्त्वया। पुत्रात् पुण्यतरश्चैव मा पुत्रमनुतप्यथाः॥ राजानं च पृथु वैन्यं मृतं शुश्रुम संजय। यमभ्यषिञ्चन् सम्भूय महारण्ये महर्षयः॥ प्रथयिष्यति वै लोकान् पृथुरित्येव शब्दितः। क्षताद्यो वै त्रायतीति स तस्मात्क्षत्रियः स्मृतः।।१३८ पृथु वैन्यं प्रजा दृष्ट्वा रक्ताः स्मेति यदब्रुवन्। ततो राजेति नामास्य अनुरागादजायत॥ अकृष्टपच्या पृथिवी पुटके पुटके मधु। सर्वा द्रोणदुधा गावो वैन्यस्यासन् प्रशासतः॥ अरोगाः सर्वसिद्धार्था मनुष्या अकुतोभयाः। यथाभिकाममवसन् क्षेत्रेषु च गृहेषु च॥ आपस्तस्तम्भिरे चास्य समुद्रमभियास्यतः। सरितश्चानुदीर्यन्त ध्वजभङ्गश्च नाभवत्॥ हैरण्यांस्त्रिनलोत्सेधान् पर्वतानेकविंशतिम्। ब्राह्मणेभ्यो ददौ राजा योऽश्वमेधे महामखे॥ स चेन्ममार संजय चतुर्भद्रतरस्त्वया। पुत्रात् पुण्यतरश्चैव मा पुत्रमनुतप्यथाः॥ किं वा तूष्णीं ध्यायसे संजयत्वं न मे राजन् वाचमिमां शृणोषि। न चेन्मोघं विप्रलप्तं ममेदं पथ्यं मुमूर्षोरिव सुप्रयुक्तम्॥ संजय उवाच शृणोमि ते नारद वाचमेनां विचित्रार्थी स्त्रजमिव पुण्यगन्धाम्। राजर्षीणां पुण्यकृतां महात्मनां कीर्त्या युक्तानां शोकनिर्णाशनार्थाम्॥ न ते मोघं विप्रलप्तं महर्षे दृष्ट्वैवाहं नारद त्वां विशोकः। शुश्रूषे ते वचनं ब्रह्मवादिन् न ते तृप्याम्यमृतस्येव पानात्॥ अमोघदर्शिन् मम चेत् प्रसाद संतापदग्धस्य विभो प्रकुर्याः। सुतस्य सञ्जीवनमद्य मे स्यात् तव प्रसादात् सुतसङ्गमश्च॥ नारद उवाच यस्ते पुत्रो गमितोऽयं विजातः स्वर्णष्ठीवी यमदात् पर्वतस्ते। पुनस्तु ते पुत्रमहं ददामि हिरण्यनाभं वर्षसहस्त्रिणं च॥ युधिष्ठिर उवाच स कथं काञ्चनष्ठीवी संजयस्य सुतोऽभवत्। पर्वतेन किमर्थं वा दत्तस्तेन ममार च॥ यदा वर्षसहस्रायुस्तदा भवति मानवः। कथमप्राप्तकौमार: संजयस्य सुतो मृतः॥ उताहो नाममात्रं वै सुवर्णष्ठीविनोऽभवत्। कथं वा काञ्चनष्ठीवीत्येतदिच्छामि वेदितुम्॥ श्रीकृष्ण उवाच अत्र ते वर्णयिष्यामि यथावृत्तं जनेश्वर। नारदः पर्वतश्चैव द्वावृषी लोकसत्तमौ॥ मातुलो भागिनेयश्च देवलोकादिहागतौ। विहर्तुकामौ सम्प्रीत्या मानुषेषु पुरा विभो॥ हवि:पवित्रभोज्येन देवभोज्येन चैव हि। नारदो मातुलश्चैव भागिनेयश्च पर्वतः॥ तावुभौ तपसोपेताववनीतलचारिणौ। भुञ्जानौमानुषान् भोगान् यथावत् पर्यधावताम्॥ प्रीतिमन्तौ मुदा युक्तौ समयं चैव चक्रतुः। यो भवेद्धदि संकल्पः शुभो वा यदि वाशुभः॥ अन्योन्यस्य स आख्येयो मृषा शापोऽन्यथा भवेत्। तौ तथेति प्रतिज्ञाय महर्षी लोकपूजितौ॥ संजयं श्वैत्यमभ्येत्य राजानमिदमूचतुः। आवां भवति वत्स्यावः कञ्चित् कालं हिताय ते॥ यथावत् पृथिवीपाल आवयोः प्रगुणीभव। तथेति कृत्वा राजा तौ सत्कृत्योपचचार ह॥ ततः कदाचित्तौ राजा महात्मानौ तपोधनौ। अब्रवीत् परमप्रीतः सुतेयं वरवर्णिनी॥ एकैव मम कन्यैषा युवां परिचरिष्यसि। दर्शनीयानवद्याङ्गी शीलवृत्तसमाहिता॥ सुकुमारी कुमारी च पद्मकिञ्जल्कसुप्रभा। परमं सौम्य मित्युक्तं ताभ्यां राजा शशास ताम्॥ कन्ये विप्रावुपचर देववत् पितृवच्च ह। सा तु कन्या तथेत्युक्त्वा पितरं धर्मचारिणी॥ यथानिदेशं राज्ञस्तौ सत्कृत्योपचचार ह। तस्यास्तेनोपचारेण रूपेणाप्रतिमेन च।॥ नारदं हृच्छयस्तूर्णं सहसैवाभ्यपद्यत। ववृधे हि ततस्तस्य हृदि कामो महात्मनः॥ यथा शुक्लस्य पक्षस्य प्रवृत्तौ चन्द्रमाः शनैः। न च तं भागिनेयाय पर्वताय महात्मने॥ शशंस हृच्छयं तीव्र व्रीडमानः स धर्मवित्। तपसा चेगित्तैश्चैव पर्वतोऽथ बुबोध तम्॥ कामार्तं नारदं क्रुद्धः शशापैनं ततो भृशम्। कृत्वा समयमव्यग्रो भवान् वै सहितो मया॥ यो भवेद्धदि संकल्पः शुभो वा यदि वाशुभः। अन्योन्यस्य स आख्येय इति तद् वै मृषा कृतम्॥ भवता वचनं ब्रह्मस्तस्मादेष शपाम्यहम्। न हि कामं प्रवर्तन्तं भवानाचष्ट मे पुरा॥ सुकुमार्यां कुमार्यां ते तस्मादेष शपाम्यहम्। ब्रह्मचारी गुरुर्यस्मात् तपस्वी ब्राह्मणश्च सन्॥ अकार्षीः समयभ्रंशमावाभ्यां यः कृतो मिथः। शप्स्ये तस्मात् सुसंक्रुद्धो भवन्तं तं निबोध मे॥ सुकुमारी च ते भार्या भविष्यति न संशयः। वानरं चैव ते रूपं विवाहात् प्रभृति प्रभो॥ संद्रक्ष्यन्ति नराश्चान्ये स्वरूपेण विनाकृतम्। स तद् वाक्यं तु विज्ञाय नारदः पर्वतं तथा॥ अशपत्तमपि क्रोधाद् भागिनेयं स मातुलः। तपसा ब्रह्मचर्येण सत्येन च दमेन च।॥ युक्तोऽपि नित्यधर्मश्च न वै स्वर्गमवाप्स्यसि। तौ तु शप्त्वा भृशं क्रुद्धौ परस्परममर्षणौ॥ पतिजग्मतुरन्योन्यं क्रुद्धाविव गजोत्तमौ। पर्वतः पृथिवीं कृत्स्ना विचचार महामतिः॥ पूज्यमानो यथान्यायं तेजसा स्वेन भारत। अथ तामलभत् कन्यां नारदः सुंजयात्मजाम्॥ धर्मेण विप्रप्रवरः सुकुमारीमनिन्दिताम्। सा तु कन्या यथाशापं नारदं तं ददर्श ह॥ पाणिग्रहणमन्त्राणां नियोगादेव नारदम्। सुकुमारी च देवर्षि वानरप्रतिमाननम्॥ नैवावामन्यत तदा प्रीतिमत्येव चाभवत्। उपतस्थे च भर्तारं न चान्यं मनसाप्यगात्॥ देवं मुनि वा यक्षं वा पतित्वे पतिवत्सला। ततः कदाचिद् भगवान् पर्वतोऽनुचचार ह॥ वनं विरहितं किंचित् तत्रापश्यत् स नारदम्। ततोऽभिवाद्य प्रोवाच नारदं पर्वतस्तदा॥ भवान् प्रसादं कुरुतात् स्वर्गादेशाय मे प्रभो। तमुवाचा ततो दृष्ट्वा पर्वतं नारदस्तथा॥ कृताञ्जलिमुपासीनं दीनं दीनतरः स्वयम्। त्वयाहं प्रथमं शप्तो वानरस्त्वं भविष्यसि॥ इत्युक्तेन मया पश्चाच्छप्तस्त्वमपि मत्सरात्। अधप्रभृति वै वासं स्वर्गे नावाप्स्यसीति ह॥ तव नैतद्धि विसदृशं पुत्रस्थाने हि मे भवान्। न्यवर्तयेतां तौ शापावन्योन्येन तदा मुनी॥ श्रीसमृद्धं तदा दृष्ट्वा नारदं देवरूपिणम्। सुकुमारी प्रदुद्राव परपत्यभिशङ्कया।॥ तां पर्वतस्ततो दृष्ट्वा प्रद्रवन्तीमनिन्दिताम्। अब्रवीत् तव भर्तेष नात्र कार्या विचारणा॥ ऋषिः परमधर्मात्मा नारदो भगवान् प्रभुः। तवैवाभेद्यहृदयो मा तेऽभूदत्र संशयः॥ सानुनीता बहुविधं पर्वतेन महात्मना। शापदोषं च तं भर्तुः श्रुत्वा प्रकृतिमागता॥ पर्वतोऽथ ययौ स्वर्ग नारदोऽभ्यगमद् गृहान्। वासुदेव उवाच प्रत्यक्षकर्ता सर्वस्य नारदो भगवानृषिः। एष वक्ष्यति ते पृष्टो यथावृत्तं नरोत्तम॥ वैशम्पायन उवाच ततो राजा पाण्डुसुतो नारदं प्रत्यभाषत। भगवञ्छ्रोतुमिच्छामि सुवर्णष्ठीविसम्भवम्॥ एवमुक्तस्तु स मुनिर्धर्मराजेन नारदः। आचचक्षे यथावृत्तं सुवर्णष्ठीविनं प्रति॥ नारद उवाच एवमेतन्महाबाहो यथायं केशवोऽब्रवीत्। कार्यस्यास्य तु यच्छेषं तत् ते वक्ष्यामि पृच्छतः॥ अहं च पर्वतश्चैव स्वस्त्रीयो मे महामुनिः। वस्तुकामावभिगतौ संजयं जयतां वरम्॥ तत्रावां पूजितौ तेन विधिदृष्टेन कर्मणा। सर्वकामैः सुविहितौ निवसावोऽस्य वेश्मनि॥ व्यतिक्रान्तासु वर्षासु समये गमनस्य च। पर्वतो मामुवाचेदं काले वचनमर्थवत्॥ आवामस्य नरेन्द्रस्य गृहे परमपूजितौ। उषितौ समये ब्रह्मस्तद् विचिन्तय साम्प्रतम्॥ ततोऽहमब्रवं राजन् पर्वतं शुभदर्शनम्। सर्वमेतत् त्वयि विभो भागिनेयोपपद्यते॥ वरेण च्छन्द्यतां राजा लभतां यद् यदिच्छति। आवयोस्तपसा सिद्धि प्राप्नोतु यदि मन्यसे॥ तत आहूय राजानं संजयं जयतां वरम्। पर्वतोऽनुमतो वाक्यमुवाच कुरुपुङ्गव॥ आवाभ्यामभ्यनुज्ञातो वरं नृवर चिन्तय॥ देवानामविहिंसायां न भवेन्मानुषक्षयम्। तद् गृहाण महाराज पूजार्हो नौ मतो भवान्॥ संजय उवाच प्रीतौ भवन्तौ यदि मे कृतमेतावता मम। एष एव परो लाभो निर्वृत्तो मे महाफलः॥ तमेवंवादिनं भूयः पर्वतः प्रत्यभाषत। वृणीष्व राजन् संकल्पं यत् ते हृदि चिरं स्थितम्॥ संजय उवाच अभीप्सामि सुतं वीरं वीरवन्तं दृढव्रतम्) आयुष्मन्तं महाभागं देवराजसमद्युतिम्॥ पर्वत उवाच भविष्यत्येष ते कामो न त्वायुष्मान् भविष्यति। देवराजाभिभूत्यर्थं संकल्पो ह्येष ते हृदि॥ ख्यातः सुवर्णष्ठीवीति पुत्रस्तव भविष्यति। रक्ष्यश्च देवराजात् स देवराजसमद्युतिः॥ तच्छुत्वा सुंजयो वाक्यं पर्वतस्य महात्मनः। प्रसादयामास तदा नैतदेवं भवेदिति॥ आयुष्मान् मे भवेत् पुत्रो भवतस्तपसा मुने। न च तं पर्वत: किंचिदुवाचेन्द्रव्यपेक्षया॥ तमहं नृपतिं दीनमब्रवं पुनरेव च। स्मर्तव्योऽस्मि महाराज दर्शयिष्यामि ते सुतम्॥ अहं ते दयितं पुत्रं प्रेतराजवशं गतम्। पुनर्दास्यामि तद्रूपं मा शुचः पृथिवीपते॥ एवमुक्त्वा तु नृपतिं प्रयातौ स्वो यथेप्सितम्। संजयश्च यथाकामं प्रविवेश स्वमन्दिरम्॥ संजयस्याथ राजर्षेः कस्मिंश्चित् कालपर्यये। जज्ञे पुत्रो महावीर्यस्तेजसा प्रज्वलन्निव॥ ववृधे स यथाकालं सरसीव महोत्पलम्। बभूव काञ्चनष्ठीवी यथार्थं नाम तस्य तत्॥ तदद्भुततमं लोके पप्रथे कुरुसत्तम। बुबुधे तच्च देवेन्द्रो वरदानं महर्षितः॥ ततः स्वाभिभवाद् भीतो बृहस्पतिमते स्थितः। कुमारस्यान्तरप्रेक्षी बभूव बलवृत्रहा॥ चोदयामास तद् वज्रं दिव्यास्त्रं मूर्तिमत् स्थितम्। व्याघ्रो भूत्वा जहीमं त्वं राजपुत्रमिति प्रभो॥ प्रवृद्धः किल वीर्येण मामेषोऽभिभविष्यति। संजयस्य सुतो वज्र यथैनं पर्वतोऽब्रवीत्॥ एवमुक्तस्तु शक्रेण वज्रः परपुरज्जयः। कुमारमन्तरप्रेक्षी नित्यमेवान्वपद्यत॥ संजयोऽपि सुतं प्राप्य देवराजसमद्युतिम्। हृष्टः सान्तःपुरो राजा वननित्यो बभूव ह॥ ततो भागीरथीतीरे कदाचिनिर्जने वने। धात्रीद्वितीयो बालः स क्रीडार्थं पर्यधावत॥ पञ्चवर्षकदेशीयो बालो नागेन्द्रविक्रमः। सहसोत्पतितं व्याघ्रमाससाद महाबलम्॥ स बालस्तेन निष्पिष्टो वेपमानो नृपात्मजः। व्यसुः पपात मेदिन्यां ततो धात्री विचुक्रुशे॥ हत्वा तु राजपुत्रं स तत्रैवान्तरधीयत। शार्दूलो देवराजस्य माययान्तर्हितस्तदा॥ धात्र्यास्तु निनदं श्रुत्वा रुदत्याः परमार्तवत्। अभ्यधावत तं देशं स्वयमेव महीपतिः॥ स ददर्श शयानं तं गतासुं पीतशोणितम्। कुमारं विगतानन्दं निशाकरमिव च्युतम्॥ स तमुत्सङ्गमारोप्य परिपीडितमानसः। पुत्रं रुधिरसंसिक्तं पर्यदेवयदातुरः॥ ततस्ता मातरस्तस्य रुदत्यः शोककर्शिताः। अभ्यधावन्त तं देशं यत्र राजा स संजयः॥ ततः स राजा सस्मार मामेव गतमानसः। तदाहं चिन्तनं ज्ञात्वा गतवांस्तस्य दर्शनम्॥ मयैतानि च वाक्यानि श्रावितः शोकलालसः। यानि ते यदुवीरेण कथितानि महीपते॥ संजीवितश्चापि पुनर्वासवानुमते तदा। भवितव्यं तथा तच्च न तच्छक्यमतोऽन्यथा॥ तत ऊर्ध्वं कुमारस्तु स्वर्णष्ठीवी महायशाः। चित्तं प्रसादयामास पितुर्मातुश्च वीर्यवान्॥ कारयामास राज्यं च पितरि स्वर्गते नृपा वर्षाणां शतमेकं च सहस्रं भीमविक्रमः॥ तत ईजे महायज्ञैर्बहुभिर्भूरिदक्षिणैः। तर्पयामास देवांश्च पितश्चैव महाद्युतिः॥ उत्पाद्य च बहून् पुत्रान् कुलसंतानकारिणः। कालेन महता राजन् कालधर्ममुपेयिवान्॥ स त्वं राजेन्द्र संजातं शोकमेनं निवर्तय। यथा त्वां केशवः प्राह व्यासश्च सुमहातपाः॥ पितृपैतामहं राज्यमास्थाय धुरमुद्वह। इष्ट्वा पुण्यैर्महायज्ञैरिष्टं लोकमवाप्स्यसि॥ वैशम्पायन उवाच तूष्णीभूतं तु राजानं शोचमानं युधिष्ठिरम्। तपस्वी धर्मतत्त्वज्ञः कृष्णद्वैपायनोऽब्रवीत्॥ व्यास उवाच प्रजानां पालनं धर्मो राज्ञां राजीवलोचन। धर्मः प्रमाणं लोकस्य नित्यं धर्मानुवर्तिनः॥ अनुतिष्ठस्व तद् राजन् पितृपैतामहं पदम्। ब्राह्मणेषु तपो धर्मः स नित्यो वेदनिश्चितः॥ तत् प्रमाणं ब्राह्मणानां शाश्वतं भरतर्षभ। तस्य धर्मस्य कृत्स्नस्य क्षत्रियः परिरक्षिता॥ यः स्वयं प्रतिहन्ति स्म शासनं विषये रतः। स बाहुभ्यां विनिग्राह्यों लोकयात्राविघातकः॥ प्रमाणमप्रमाणं यः कुर्यान्मोहवशं गतः। भृत्यो वा यदि वा पुत्रस्तपस्वी वाथ कश्चन॥ पापान् सर्वैरुपायैस्तान् नियच्छेच्छातयीत वा। अतोऽन्यथा वर्तमानो राजा प्राप्नोति किल्बिषम्॥ धर्म विनश्यमानं हि यो न रक्षेत् स धर्महा। ते त्वया धर्महन्तारो निहताः सपदानुगाः॥ स्वधर्मे वर्तमानस्त्वं किं नु शोचसि पाण्डव। राजा हि हन्याद् दद्याच्च प्रजा रक्षेच्च धर्मतः॥ युधिष्ठिर उवाच न तेऽभिशंके वचनं यद् ब्रवीषि तपोधन। अपरोक्षो हि ते धर्मः सर्वधर्मविदां वर॥ मया त्ववध्या बहवो घातिता राज्यकारणात्। तानि कर्माणि मे ब्रह्मन् दहन्ति च पचन्ति च॥ व्यास उवाच कुरुते पुरुषः ईश्वरो वा भवेत् कर्ता पुरुषो वापि भारत। हठो वा वर्तते लोके कर्मजं वा फलं स्मृतम्॥ ईश्वरेण नियुक्तो हि साध्वसाधु च भारत। कर्म फलमीश्वरगामि तत्॥ यथा हि पुरुषश्छिद्याद् वृक्षं परशुना वने। छेत्तुरेव भवेत् पाएं परशोर्न कथञ्चन॥ अथवा तदुपादानात् प्राप्नुयात् कर्मणः फलम्। दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते॥ न चैतदिष्टं कौन्तेय यदन्येन कृतं फलम्। प्राप्नुयादिति यस्माच्च ईश्वरे तन्निवेशय॥ अथापि पुरुषः कर्ता कर्मणोः शुभपापयोः। न परो विद्यते तस्मादेवमेतच्छुभं कृतम्॥ न हि कश्चित् क्वचिद् राजन् दिष्टं प्रतिनिवर्तते। दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते॥ यदि वा मन्यसे राजन् हतमेकं प्रतिष्ठितम्। एवमप्यशुभं कर्म न भूतं न भविष्यति॥ अथाभिपत्तिर्लोकस्य कर्तव्या पुण्यपापयोः। अभिपन्नमिदं लोके राज्ञामुद्यतदण्डनम्॥ तथापि लोके कर्माणि समावर्तन्ति भारत। शुभाशुभफलं चैते प्राप्नुवन्तीति मे मतिः॥ एवमप्यशुभं कर्म कर्मणस्तत्फलात्मकम्। त्यज त्वं राजशार्दूल मैवं शोके मनः कृथाः॥ स्वधर्मे वर्तमानस्य सापवादेऽपि भारत। एवमात्मपरित्यागस्तव राजन् न शोभनः॥ विहितानि हि कौन्तेय प्रायश्चित्तानि कर्मणाम्। शरीरवांस्तानि कुर्यादशरीरः पराभवेत्॥ तद् राजन् जीवनमानस्त्वं प्रायश्चित्तं करिष्यसि। प्रायश्चित्तमकृत्वा तु प्रेत्य तप्तासि भारत॥ विहितानि हि कौन्तेय प्रायश्चित्तानि कर्मणाम्। शरीरवांस्तानि कुर्यादशरीरः पराभवेत्॥ तद् राजन् जीवनमानस्त्वं प्रायश्चित्तं करिष्यसि। प्रायश्चित्तमकृत्वा तु प्रेत्य तप्तासि भारत॥ युधिष्ठिर उवाच हताः पुत्राश्च पौत्राश्च भ्रातरः पितरस्तथा। श्वशुरा गुरवश्चैव मातुलाश्च पितामहाः॥ क्षत्रियाश्च महात्मानः सम्बन्धिसुहृदस्तथा। वयस्या भागिनेयाश्च ज्ञातयश्च पितामह॥ बहवश्च मनुष्येन्द्रा नानादेशसमागताः। घातिता राज्यलुब्धेन मयैकेन पितामह॥ तांस्तादृशानहं हत्वा धर्मनित्यान् महीक्षितः। असकृत् सोमपान् वीरान् किं प्राप्स्यामि तपोधन॥ दह्याम्यनिशमद्यापि चिन्तयानः पुनः पुनः। हीनां पार्थिवसिंहैस्तैः श्रीमद्भिः पृथिवीमिमाम्॥ दृष्ट्वा ज्ञातिवधं घोरं हतांश्च शतशः परान्। कोटिशश्च नरानन्यान् परितप्ये पितामह॥ का न तासां वरस्त्रीणामवस्थाद्य भविष्यति। विहीनानां तु तनयैः पतिभिर्धातृभिस्तथा॥ अस्मानन्तकरान् घोरान् पाण्डवान् वृष्णिसंहतान्। आक्रोशन्त्यः कृशा दीनाः प्रपतिष्यन्ति भूतले॥ अपश्यन्त्यः पितॄन् भ्रातृन् पतीन् पुत्रांश्च योषितः। त्यक्त्वा प्राणान् स्त्रियः सर्वा गमिष्यन्ति यमक्षयम्॥ वत्सलत्वाद् द्विजश्रेष्ठ तत्र मे नास्ति संशयः। व्यक्तं सौक्ष्याच्च धर्मस्य प्राप्स्यामः स्त्रीवधंवयम्॥ यद् वयं सुहृदो हत्वा कृत्वा पापमनन्तकम्। नरके निपतिष्यामो ह्यधःशिरस एव ह॥ शरीराणि विमोक्ष्यामस्तपसोग्रेण सत्तम। आश्रमाणां विशेषं त्वमथाचक्ष्व पितामह॥ वैशम्पायन उवाच युधिष्ठिरस्य तद् वाक्यं श्रुत्वा द्वैपायनस्तदा। निरीक्ष्य निपुणं बुद्ध्या ऋषिः प्रोवाच पाण्डवम्॥ व्यास उवाच मा विषादं कृथा राजन् क्षत्रधर्ममनुस्मरन्। स्वधर्मेण हता ह्येते क्षत्रियाः क्षत्रियर्षभ॥ काक्षमाणाः श्रियं कृत्स्नां पृथिव्यां च महद् यशः। कृतान्तविधिसंयुक्ताः कालेन निधनं गताः॥ न त्वं हन्ता च भीमोऽयं नार्जुनो न यमावपि। कालः पर्यायधर्मेण प्राणानादत्त देहिनाम्॥ न तस्य मातापितरौ नानुग्राह्यो हि कश्चन। कर्मसाक्षी प्रजानां यस्तेन कालेन संहृताः॥ हेतुमात्रमिदं तस्य विहितं भरतर्षभ। यद्धन्ति भूतैर्भूतानि तदस्मै रूपमैश्वरम्॥ कर्मसूत्रात्मकं विद्धि साक्षिणं शुभपापयोः। सुखदुःखगुणोदक कालं कालफलप्रदम्॥ तेषामपि महाबाहो कर्माणि परिचिन्तय। विनाशहेतुकानि त्वं यैस्ते कालवशं गताः॥ आत्मनश्च विजानीहि नियतव्रतशासनम्। यदा त्वमीदृशं कर्म विधिनाऽऽक्रम्य कारितः॥ त्वष्ट्रेव विहितं यन्त्रं यथा चेष्टयितुर्वशे। कर्मणा कालयुक्तेन तथेदं चेष्टते जगत्॥ पुरुषस्य हि दृष्ट्वेमामुत्पत्तिमनिमित्ततः। यदृच्छया विनाशं च शोकहर्षावनर्थकौ॥ व्यलीकमपि यत् त्वत्र चित्तवैतंसिकं तव। तदर्थमिष्यते राजन् प्रायश्चित्तं तदाचर॥ इदं तु श्रूयते पार्थ युद्धे देवासुरे पुरा। असुरा भ्रातरो ज्येष्ठा देवाश्चापि यवीयसः॥ तेषामपि श्रीनिमित्तं महानासीत् समुच्छ्रयः। युद्धं वर्षसहस्राणि द्वात्रिंशदभवत् किल॥ एकार्णवां महीं कृत्वा रुधिरेण परिप्लुताम्। जघ्नुर्दैत्यांस्तथा देवास्त्रिदिवं चाभिलेभिरे॥ तथैव पृथिवीं लब्ध्वा ब्राह्मणा वेदपारगाः। संश्रिता दानवानां वै साह्यार्थं दर्पमोहिताः॥ शालावृका इति ख्यातास्त्रिषु लोकेषु भारत। अष्टाशीतिसहस्राणि ते चापि विबुधैर्हताः॥ धर्मव्युच्छित्तिमिच्छन्तो येऽधर्मस्य प्रवर्तकाः। हन्तव्यास्ते दुरात्मानो देवैर्दैत्या इवोल्बणाः॥ एकं हत्वा यदि कुले शिष्टानां स्यादनामयम्। कुलं हत्वा च राष्ट्रं च न तद् वृत्तोपघातकम्॥ अधर्मरूपो धर्मो हि कश्चिदस्ति नराधिप। धर्मश्चाधर्मरूपोऽस्ति तच्च ज्ञेयं विपश्चिता॥ तस्मात् संस्तम्भयात्मानं श्रुतवानसि पाण्डव। देवैः पूर्वगतं मार्गमनुयातोऽसि भारत॥ न हीदृशा गमिष्यन्ति नरकं पाण्डवर्षभ। भ्रातृनाश्वासयैतांस्त्वं सुहृदश्च परंतप॥ यो हि पापसमारम्भे कार्ये तद्भावभावितः। कुर्वन्नपि तथैव स्यात् कृत्वा च निरपत्रपः॥ तस्मिंस्तत् कलुषं सर्वं समाप्तमिति शब्दितम्। प्रायश्चित्तं न तस्यास्ति ह्रासो वा पापकर्मणः॥ त्वं तु शुक्लाभिजातीयः परदोषेण कारितः। अनिच्छमानः कर्मेदं कृत्वा च परितप्यसे॥ अश्वमेधो महायज्ञः प्रायश्चित्तमुदाहृतम्। तमाहर महाराज विपाष्मैवं भविष्यसि॥ मरुद्भिः सह जित्वारीन् भगवान् पाकशासनः। एकैकं क्रतुमाहृत्य शतकृत्व: शतक्रतुः॥ धूतपामाजितस्वर्गो लोकान् प्राप्य सुखोदयान्। मरुद्गणैर्वृतः शक्रः शुशुभे भासयन् दिशः॥ स्वर्गे लोके महीयन्तमप्सरोभिः शचीपतिम्। ऋषयः पर्युपासन्ते देवाश्च विबुधेश्वरम्॥ सेयं त्वामनुसम्प्राप्ता विक्रमेण वसुन्धरा। निर्जिताच महीपाला विक्रमेण त्वयानध॥ तेषां पुराणि राष्ट्राणि गत्वा राजन् सुहृवृतः। भ्रातॄन् पुत्रांश्चपौत्रांश्च स्वे स्वे राज्येऽभिषेचय॥ बालानपि च गर्भस्थान् सान्त्वेन समुदाचरन्। रञ्जयन् प्रकृती: सर्वाः परिपाहि वसुन्धराम्॥ कुमारो नास्ति येषां च कन्यास्तत्राभिषेचय। कामाशयो हि स्त्रीवर्गः शोकमेवं प्रहास्यसि॥ एवमाश्वासनं कृत्वा सर्वराष्ट्रेषु भारत। यजस्व वाजिमेधेन यथेन्द्रो विजयी पुरा॥ अशोच्यास्ते महात्मानः क्षत्रियाः क्षत्रियर्षभा स्वकर्मभिर्गता नाशं कृतान्तबलमोहिताः॥ अवाप्तः क्षत्रधर्मस्ते राज्यं प्राप्तमकण्टकम्। रक्षस्व धर्म कौन्तेय श्रेयान् यः प्रेत्य भारत॥ युधिष्ठिर उवाच कानि कृत्वेह कर्माणि प्रायश्चित्तीयते नरः। किं कृत्वा मुच्यते तत्र तन्मे ब्रूहि पितामह॥ व्यास उवाच अकुर्वन् विहितं कर्म प्रतिषिद्धानि चाचरन्। प्रायश्चित्तीयते ह्येवं नरो मिथ्यानुवर्तयन्॥ सूर्येणाभ्युदितो यश्च ब्रह्मचारी भवत्युत। तथा सूर्याभिनिर्मुक्तः कुनखी श्यावदन्नपि॥ परिवित्तिः परिवेत्ता ब्रह्मघ्नो यश्च कुत्सकः। दिधिषूपपतिर्यः स्यादग्रेदिधिषुरेव च॥ अवकीर्णी भवेद् यश्च द्विजातिवधकस्तथा। अतीर्थे ब्राह्मणस्त्यागी तीर्थे चाप्रतिपादकः॥ ग्रामघाती च कौन्तेय मांसस्य परिविक्रयी। यश्चाग्नीनपविध्येत तथैव ब्रह्मविक्रयी॥ स्त्रीशूद्रवधको यश्च पूर्वः पूर्वस्तु गर्हितः। यथा पशुसमालम्भी गृहदाहस्य कारकः॥ अनृतेनोपवर्ती च प्रतिरोद्धा गुरोस्तथा। एतान्येनांसि सर्वाणि व्युत्क्रान्तसमयश्च यः॥ अकार्याणि तु वक्ष्यामि यानि तानि निबोध मे। लोकवेदविरुद्धानि तान्येकाग्रमनाः शृणु॥ स्वधर्मस्य परित्यागः परधर्मस्य च क्रिया। अयाज्ययाजनं चैव तथाभक्ष्यस्य भक्षणम्॥ शरणागतसंत्यागो भृत्यस्याभरणं तथा। रसानां विक्रयश्चापि तिर्यग्योनिवधस्तथा॥ आधानादीनि कर्माणि शक्तिमान करोति यः। अप्रयच्छंश्च सर्वाणि नित्यदेयानि भारत॥ दक्षिणानामदानं च ब्राह्मणस्वाभिमर्शनम्। सर्वाण्येतान्यकार्याणि प्राहुर्धर्मविदो जनाः॥ पित्रा विवदते पुत्रो यश्च स्याद् गुरुतल्पगः। अप्रजायन् नरव्याघ्र भवत्यधार्मिको नरः॥ उक्तान्येतानि कर्माणि विस्तरेणेतरेण च। यानि कुर्वन्नकुर्वच प्रायश्चित्तीयते नरः॥ एतान्येव तु कर्माणि क्रियमाणानि मानवाः। येषु येषु निमित्तेषु न लिप्यन्तेऽथ ताशृणु॥ प्रगृह्य शस्त्रमायान्तमपि वेदान्तगं रणे। जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत्॥ इति चाप्यत्र कौन्तेय मन्त्रो वेदेषु पठ्यते। वेदप्रमाणविहितं धर्मं च प्रब्रवीमि ते॥ अपेतं ब्राह्मणं वृत्ताद् यो हन्यादाततायिनम्। न तेन ब्रह्महा स स्यान्मन्युस्तन्मन्युमृच्छति॥ प्राणात्यये तथाज्ञानादाचरन्मदिरामपि। आदेशितो धर्मपरैः पुनः संस्कारमर्हति॥ एतत् ते सर्वमाख्यातं कौन्तेयाभक्ष्यभक्षणम्। प्रायश्चित्तविधानेन सर्वमेतेन शुद्ध्यति॥ गुरुतल्पं हि गुर्वर्थं न दूषयति मानवम्। उद्दालक: श्वेतकेतुं जनयामास शिष्यतः॥ स्तेयं कुर्वंच गुर्वर्थमापत्सु न निषिध्यते। बहुशः कामकारेण न चेद् यः सम्प्रवर्तते॥ अन्यत्र ब्राह्मणस्वेभ्य आददानो न दुष्यति। स्वयमप्राशिता यश्च न स पापेन लिप्यते॥ प्राणत्राणेऽनृतं वाच्यमात्मनो वा परस्य च। गुर्वर्थे स्त्रीषु चैव स्याद् विवाहकरणेषु च॥ नावर्तते व्रतं स्वप्ने शुक्रमोक्षे कथंचन। आज्यहोमः समिद्धेऽग्नौ प्रायश्चित्तं विधीयते॥ पारिवित्त्यं त पतिते नास्ति प्रव्रजिते तथा। भिक्षिते पारदार्यं च तद् धर्मस्य न दूषकम्॥ वृथा पशुसमालम्भं नैव कुर्यान्न कारयेत्। अनुग्रहः पशूनां हि संस्कारो विधिनोदितः॥ अनर्हे ब्राह्मणे दत्तमज्ञानात् तन्न दूषकम्। सत्काराणां तथा तीर्थे नित्यं वाप्रतिपादनम्॥ स्त्रियास्तथापचारिण्या निष्कृतिः स्याददूषिका। अपि सा पूयते तेन न तु भर्ता प्रदुष्यति॥ तत्त्वं ज्ञात्वा नु सोमस्य विक्रयः स्याददोषवान्। असमर्थस्य भृत्यस्य विसर्गः स्याददोषवान्। वनदाहो गवामर्थे क्रियमाणो न दूषकः॥ उक्तान्येतानि कर्माणि यानि कुर्वन्न दुष्यति। प्रायश्चित्तानि वक्ष्यामि विस्तरेमैव भारत॥ व्यास उवाच तपसा कर्मणा चैव प्रदानेन च भारत। पुनाति पापं पुरुषः पुनश्चेन्न प्रवर्तते॥ एककालं तु भुञ्जीत चरन् भैक्ष्यं स्वकर्मकृत्। कपालपाणिः खट्वाङ्गी ब्रह्मचारी सदोत्थितः॥ अनसूयुरधःशायी कर्म लोके प्रकाशयन्। पूर्णीदशाभिर्वषैर्ब्रह्महा विप्रमुच्यते॥ लक्ष्यः शस्त्रभृतां वा स्याद् विदुषामिच्छयाऽऽत्मनः। प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्छिराः॥ जपन् वान्यतमं वेदं योजनानां शतं व्रजेत्। सर्वस्वं वा वेदविदे ब्राह्मणायोपपादयेत्॥ धनं वा जीवनायालं गृहं वा सपरिच्छदम्। मुच्यते ब्रह्महत्याया गोप्ता गोब्राह्मणस्य च॥ षड्भिर्वर्षेः कृच्छ्रभोजी ब्रह्महा पूयते नरः। मासे मासे समश्नंस्तु त्रिभिर्वर्षेः प्रमुच्यते॥ संवत्सरेण मासाशी पूयते नात्र संशयः। तथैवोपवसन् राजन् स्वल्पेनापि प्रपूयते॥ क्रतुना चाश्वमेधेन पूयते नात्र संशयः। ये चाप्यवभृथस्नाताः केचिदेवंविधा नराः॥ ते सर्वे धूतपाप्मानो भवन्तीति परा श्रुतिः। ब्राह्मणार्थे हतो युद्धे मुच्यते ब्रह्महत्यया॥ गवां शतसहस्रं तु पात्रेभ्यः प्रतिपादयेत्। ब्रह्महा विप्रमुच्येत सर्वपापेभ्य एव च।॥ कपिलानां सहस्राणि यो दद्यात् पञ्चविंशतिम्। दोग्ध्रीणां स च पापेभ्यः सर्वेभ्यो विप्रमुच्यते॥ गोसहस्रं सवत्सानां दोग्ध्रीणां प्राणसंशये। साधुभ्यो वै दरिद्रेभ्यो दत्त्वा मुच्येत किल्बिषात्॥ शतं वै यस्तु काम्बोजान् ब्राह्मणेभ्यः प्रयच्छति। नियतेभ्यो महीपाल स च पापात् प्रमुच्यते॥ मनोरथं तु यो दद्यादेकस्मा अपि भारत। न कीर्तयेत दत्त्वा यः स च पापात् प्रमुच्यते॥ सुरापानं सकृत् कृत्वा योऽग्निवर्णां सुरां पिबेत्। स पावयत्यथात्मानमिह लोके परत्र च॥ मरुप्रपातं प्रपतन् ज्वलनं वा समाविशन्। महाप्रस्थानमातिष्ठन् मुच्यते सर्वकिल्विषैः॥ बृहस्पतिसवेनेष्ट्वा सुरापो ब्राह्मणः पुनः। समितिं ब्राह्मणो गच्छेदिति वै ब्रह्मणः श्रुतिः॥ भूमिप्रदानं कुर्याद् यः सुरां पीत्वा विमत्सरः। पुनर्नच पिबेद् राजन् संस्कृतः स च शुद्ध्यति॥ गुरुतल्पी शिलां तप्तामायसीमभिसंविशेत्। अवकृत्यात्मनः शेर्फ प्रव्रजेदूर्ध्वदर्शनः॥ शरीरस्य विमोक्षेण मुच्यते कर्मणोऽशुभात्। कर्मभ्यो विप्रमुच्यन्ते यत्ताः संवत्सरं स्त्रियः॥ महाव्रतं चरेद् यस्तु दद्यात् सर्वस्वमेव तु। गुर्वर्थे वा हतो युद्धे स मुच्येत् कर्मणोऽशुभात्॥ अनृतेनोपवर्ती चेत् प्रतिरोद्धा गुरोस्तथा। उपाहृत्य प्रियं तस्मै तस्मात् पापात् प्रमुच्यते॥ अवकीर्णिनिमित्तं तु ब्रह्महत्याव्रतं चरेत्। गोचर्मवासाः षण्मासांस्तथा मुच्येत किल्बिषात्॥ परदारापहारी तु परस्यापहरन् वसु। संवत्सरं व्रती भूत्वा तथा मुच्येत किल्बिषात्॥ धनं तु यस्यापहरेत् तस्मै दद्यात् समं वसु। विविधेनाभ्युपायेन तदा मुच्येत किल्बिषात्॥ कृच्छ्राद् द्वादशरात्रेण संयतात्मा व्रते स्थितः। परिवेत्ता भवेत् पूतः परिवित्तिस्तथैव च॥ निवेश्यं तु पुनस्तेन सदा तारयता पितॄन्। न तु स्त्रिया भवेद् दोषो न तु सा तेन लिप्यते॥ भोजनं ह्यन्तराशुद्धं चातुर्मास्ये विधीयते। स्त्रियस्तेन प्रशुध्यन्ति इति धर्मविदो विदुः॥ स्त्रियस्त्वाशङ्किताः पापा नोपगम्या विजानता। रजसा ता विशुध्यन्ते भस्मना भाजनं यथा॥ पादजोच्छिष्टकांस्यं यद् गवा ध्रातमथापि वा। गण्डूषोच्छिष्टमपि वा विशुध्येद् दशभिस्तु तत्॥ चतुष्पात् सकलो धर्मो ब्राह्मणस्य विधीयते। पादावकृष्टो राजन्ये तथा धर्मो विधीयते॥ तथा वैश्ये च शूद्रे च पादः पादो विधीयते। विद्यादेवंविधेनैषां गुरुलाघवनिश्चयम्॥ तिर्यग्योनिवधं कृत्वा दुमाश्छित्त्वेतरान् बहून्। त्रिरात्रं वायुभक्षः स्यात् कर्म च प्रथयन्नरः॥ अगम्यागमने राजन् प्रायश्चित्तं विधीयते। । आर्द्रवस्त्रेण षण्मासान् विहार्य भस्मशायिना॥ एष एव तु सर्वेषामकार्याणां विधिर्भवेत्। ब्राह्मणोक्तेन विधिना दृष्टान्तागमहेतुभिः॥ सावित्रीमप्यधीयीत शुचौ देशे मिताशनः। अहिंसो मन्दकोऽजल्यो मुच्यते सर्वकिल्बिषैः॥ अहःसु सततं तिष्ठेदभ्याकाशं निशां स्वपन्। त्रिरह्नि त्रिर्निशायां च सवासा जलमाविशेत्॥ स्त्रीशूद्रं पतितं चापि नाभिभाषेद् व्रतान्वितः पापान्यज्ञानतः कृत्वा मुच्येदेवंव्रतो द्विजः॥ शुभाशुभफलं प्रेत्य लभते भूतसाक्षिकम्। अतिरिच्येत यो यत्र तत्कर्ता लभते फलम्॥ तस्माद् दानेन तपसा कर्मणा च फलं शुभम्। वर्धयेदशुभं कृत्वा यथा स्यादतिरेकवान्॥ कुर्याच्छुभानि कर्माणि निवर्तेत् पापकर्मणः। दद्यान्नित्यं च वित्तानि तथा मुच्येत किल्बिषात्॥ अनुरूपं हि पापस्य प्रायश्चित्तमुदाहृतम्। महापातकवर्जं तु प्रायश्चित्तं विधीयते॥ भक्ष्याभक्ष्येषु चान्येषु वाच्यावाच्ये तथैव च। अज्ञानज्ञानयो राजन् विहितान्यनुजानतः॥ जानता तु कृतं पापं गुरु सर्वं भवत्युत। अज्ञानात् स्वल्पको दोषः प्रायश्चित्तं विधीयते॥ शक्यते विधिनां पापं यथोक्तेन व्यपोहितुम्। आस्तिके श्रद्दधाने च विधिरेष विधीयते॥ नास्तिकाश्रद्दधानेषु पुरुषेषु कदाचन। दम्भद्वेषप्रधानेषु विधिरेष न दृश्यते॥ शिष्टाचारश्च शिष्टश्च धर्मो धर्मभृतां वर। सेवितव्यो नरव्याघ्र प्रेत्येह च सुखेप्सुना॥ स राजन् मोक्ष्यसे पापात् तेन पूर्णेन हेतुना। प्राणार्थं वा धनेनैषामथवा नृपकर्मणा॥ अथवा ते घृणा काचित् प्रायश्चित्तं चरिष्यसि। मा त्वेवानार्यजुष्टेन मन्युना निधनं गमः॥ वैशम्पायन उवाच एवमुक्तो भगवता धर्मराजो युधिष्ठिरः। चिन्तयित्वा मुहूर्तेन प्रत्युवाच तपोधनम्॥ युधिष्ठिर उवाच किं भक्ष्यं चाप्यभक्ष्यं च किं च देयं प्रशस्यते। किं च पात्रमपात्रं वा तन्मे ब्रूहि पितामह॥ व्यास उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। सिद्धानां चैव संवादं मनोश्चैव प्रजापतेः॥ ऋषयस्तु व्रतपरा: समागम्य पुरा विभुम्। धर्मं पप्रच्छुरासीनमादिकाले प्रजापतिम्॥ कथमन्नं कथं पात्रं दानमध्ययनं तपः। कार्याकार्यं च यत् सर्वं शसं वै त्वं प्रजायते॥ तैरेवमुक्तो भगवान् मनुः स्वायम्भुवोऽब्रवीत्। शुश्रूषध्वं यथावृत्तं धर्मं व्याससमासतः॥ अनादेशे जपो होम उपवासस्तथैव च। आत्मज्ञानं पुण्यनद्यो यत्र प्रायश्च तत्पराः॥ अनादिष्टं तथैतानि पुण्यानि धरणीभृतः। सुवर्णप्राशनमपि रत्नादिस्नानमेव च॥ देवस्थानाभिगमनमाज्यप्राशनमेव च। एतानि मेध्यं पुरुषं कुर्वन्त्याशु न संशयः॥ न गर्वेण भवेत् प्राज्ञः कदाचिदपि मानवः। दीर्घमायुरथेच्छन् हि त्रिरात्रं चोष्णपो भवेत्॥ अदत्तस्यानुपादानं दानमध्ययनं तपः। अहिंसा सत्यमक्रोध इज्या धर्मस्य लक्षणम्॥ स एव धर्मः सोऽधर्मो देशकाले प्रतिष्ठितः। आदानमनृतं हिंसा धर्मो ह्यावस्थिकः स्मृतः॥ द्विविधौ चाप्युभावेतौ धर्माधर्मी विजानताम्। अप्रवृत्तिः प्रवृत्तिश्च द्वैविध्यं लोकवेदयोः॥ अप्रवृत्तेरमर्त्यत्वं मर्त्यत्वं कर्मणः फलम्। अशुभस्याशुभं विद्याच्छुभस्य शुभमेव च। एतयोश्चोभयोः स्यातां शुभाशुभतया तथा॥ दैवं च दैवसंयुक्तं प्राणश्च प्राणदश्च ह। अपेक्षापूर्वकरणादशुभानां शुभं फलम्॥ ऊर्ध्वं भवति संदेहादिह दृष्टार्थमेव च। अपेक्षापूर्वकरणात् प्रायश्चित्तं विधीयते॥ क्रोधमोहकृते चैव दृष्टान्तागमहेतुभिः। शरीराणामुपक्लेशो मनसश्च प्रियाप्रिये। तदौषधैश्च मन्त्रैश्च प्रायश्चित्तैश्च शाम्यति॥ उपवासमेकरात्रं दण्डोत्सर्गे नराधिपः। विशुद्ध्यदात्मशुद्ध्यर्थं त्रिरात्रं तु पुरोहितः॥ क्षयं शोकं प्रकुर्वाणो न म्रियेत यदा नरः। शस्त्रादिभिरुपाविस्त्रिरात्रं तत्र निर्दिशेत्॥ जातिश्रेण्यधिवासानां कुलधर्मांश्च सर्वतः। वर्जयन्ति च ये धर्मं तेषां धर्मो न विद्यते॥ दश वा वेदशास्त्रज्ञास्त्रयो वा धर्मपाठकाः। यद् ब्रू युः कार्य उत्पन्ने स धर्मो धर्मसंशये॥ अनड्वान् मृत्तिका चैव तथा क्षुद्रपिपीलिकाः। श्लेष्मातकस्तथा विप्रैरभक्ष्यं विषमेव च॥ अभक्ष्या ब्राह्मणैर्मत्स्याः शल्कैर्ये वै विवर्जिताः। चतुष्यात् कच्छपादन्यो मण्डूका जलजाश्च ये॥ भासा हंसाः सुपर्णाश्च चक्रवाका: प्लवा बकाः। काको मद्गुश्च गृधश्च श्येनोलूकस्तथैव च॥ क्रव्यादा दंष्ट्रिणः सर्वे चतुष्पात् पक्षिणश्च ये। येषां चोभयतो दन्ताश्चतुर्दंष्ट्राश्च सर्वशः॥ एडकाश्वखरोष्ट्रीणां सूतिकानां गवामपि। मानुषीणां मृगीणां च न पिबेद् ब्राह्मणः पयः॥ प्रेतान्नं सूतिकानं च यच्च किंचिदनिर्दशम्। अभोज्यं चाप्यपेयं च धेनोर्दुग्धमनिर्दशम्॥ राजान्नं तेज आदत्ते शूद्रानं ब्रह्मवर्चसम्। आयुः सुवर्णकारान्नमवीरायाश्च योषितः॥ विष्ठा वाधुषिकस्यान्नं गणिकान्नमथेन्द्रियम्। मृष्यन्ति ये चोपपतिं स्त्रीजितान्नं च सर्वशः॥ दीक्षितस्य कदर्यस्य ऋतुविक्रयिकस्य च। तक्ष्णश्चर्मावकर्तुश्च पुंश्चल्या रजकस्य च॥ चिकित्सकस्य यच्चान्नमभोज्यं रक्षिणस्तथा। गणग्रामाभिशस्तानां रङ्गस्त्रीजीविनां तथा॥ परिवित्तीनां पुंसां च बन्दिद्युतविदां यथा। वामहस्ताहृतं चान्नं भक्तं पर्युषितं च यत्॥ सुरानुगतमुच्छिष्टमभोज्यं शेषितं च यत्। पिष्टस्य चेक्षुशाकाना विकाराः पयसस्तथा॥ सक्तधानाकरम्भाणां नोपभोग्याश्चिरस्थिताः। पायसं कृसरं मांसमपूपाश्च वृथाकृताः॥ अपेयाश्चाप्यभक्ष्याश्च ब्राह्मणैर्गृहमेधिभिः। देवानृषीन् मनुष्यांश्च पितॄन् गृह्याश्च देवताः॥ पूजयित्वा ततः पश्चाद् गृहस्थो भोक्तुमर्हति। यथा प्रव्रजितो भिक्षुस्तथैव स्वे गृहे वसेत्॥ एवंवृत्तः प्रियैर्दारैः संवसन् धर्ममाप्नुयात्। न दद्याद् यशसे दानं न भयान्नोपकारिणे॥ न नृत्यगीतशीलेषु हासकेषु च धार्मिकः। न मत्ते चैव नोन्मत्ते न स्तेने न च कुत्सके॥ न वाग्धीने विवणे वा नाङ्गहीने न वामने। न दुर्जने दौष्कुले वा व्रतैर्यो वा न संस्कृतः। न श्रोत्रियमृते दानं ब्राह्मणे ब्रह्मवर्जिते॥ असम्यक् चैव यद् दत्तमसम्यक् च प्रतिग्रहः। उभयं स्यादनाय दातुरादातुरेव च॥ यथा खदिरमालम्ब्य शिलां वाप्यर्णवं तरन्। मज्जेत मज्जतस्तद्वद् दाता यश्च प्रतिग्रही।॥ काष्ठेरादैर्यथा वह्निरुपस्तीर्णो न दीप्यते। तपःस्वाध्यायचारित्रैरेवं हीनः प्रतिग्रही॥ कपाले यद्वदापः स्युः श्वदृतौ च यथा पयः। आश्रयस्थानदोषेण वृत्तहीने तथा श्रुतम्॥ निर्मन्त्रो निर्वृतो यः स्यादशास्त्रज्ञोऽनसूयकः। अनुक्रोशात् प्रदातव्यं हीनेष्वव्रतिकेषु च॥ न वै देयमनुक्रोशाद् दीनायाप्यपकारिणे। आप्ताचरित इत्येव धर्म इत्येव वा पुनः॥ निष्कारणं स्मृतं दत्तं ब्राह्मणे ब्रह्मवर्जिते। भवेदपात्रदोषेण न चात्रास्ति विचारणा॥ यथा दारुमयो हस्ती यथा चर्ममयो मृगः। ब्राह्मणश्चानधीयानस्त्रयस्ते नाम बिभ्रति॥ यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला। शकुनिर्वाप्यपक्षः स्यान्निर्मन्त्रो ब्राह्मणस्तथा॥ ग्रामो धान्यैर्यथा शून्यो यथा कूपश्च निर्जलः। यथा हुतमनग्नौ च तथैव स्यान्निराकृतौ॥ देवतानां पितृणां च हव्यकव्यविनाशकः। शत्रुरर्थहरो मूर्यो न लोकान् प्राप्तुमर्हति॥ एतत् ते कथितं सर्वं यथावृत्तं युधिष्ठिर। समासेन महङ्ख्येतच्छ्रोतव्यं भरतर्षभ॥ युधिष्ठिर उवाच श्रोतुमिच्छामि भगवन् विस्तरेण महामुने। राजधर्मान् द्विजश्रेष्ठ चातुर्वर्ण्यस्य चाखिलान्॥ आपत्सु च यथा नीतिः प्रणेतव्या द्विजोत्तम। धर्म्यमालक्ष्य पन्थानं विजयेयं कथं महीम्॥ प्रायश्चित्तकथा ह्येषा भक्ष्याभक्ष्यविवर्जिता। कौतूहलानुप्रवणा हर्ष जनयतीव मे॥ धर्मचर्या च राज्यं च नित्यमेव विरुध्यते। एवं मुह्याति मे चेतश्चिन्तयानस्य नित्यशः॥ वैशम्पायन उवाच तमुवाच महाराज व्यासो वेदविदां वरः। नारदं समभिप्रेक्ष्य सर्वज्ञानां पुरातनम्॥ श्रोतुमिच्छसि चेद् धर्मं निखिलेन नराधिप। प्रैहि भीष्मं महाबाहो वृद्धं कुरुपितामहम्॥ स ते धर्मरहस्येषु संशयान् मनसि स्थितान्। छेत्ता भागीरथीपुत्रः सर्वज्ञः सर्वधर्मवित्॥ जनयामास यं देवी दिव्या त्रिपथगा नदी। साक्षाद् ददर्श यो देवान् सर्वानिन्द्रपुरोगमान्॥ बृहस्पतिपुरोगांस्तु देवर्षीनसकृत् प्रभुः। तोषयित्वोपचारेण राजनीतिमधीतवान्॥ उशना वेद यच्छास्त्रं यच्च देवगुरुर्द्विजः। तच्च सर्वं सवैयाख्यं प्राप्तवान् कुरुसत्तमः॥ भार्गवाच्च्यवनाच्चापि वेदानगोपबंहितान्। प्रतिपेदे महाबाहुर्वसिष्ठाच्चरितव्रतः॥ पितामहसुतं ज्येष्ठं कुमारं दीप्ततेजसम्। अध्यात्मगतितत्त्वज्ञमुपाशिक्षत यः पुरा॥ मार्कण्डेयमुखात् कृत्स्नं यतिधर्ममवाप्तवान्। रामादस्त्राणि शक्राच्च प्राप्तवान् पुरुषर्षभः॥ मृत्युरात्मेच्छया यस्य जातस्य मनुजेष्वपि! तथानपत्यस्य सतः पुण्यलोका दिवि श्रुताः॥ यस्य ब्रह्मर्षयः पुण्या नित्यमासन सभासदः। यस्य नाविदितं किंचिज्ज्ञानयज्ञेषु विद्यते॥ स ते वक्ष्यति धर्मज्ञः सूक्ष्मधर्मार्थतत्त्ववित्। तमभ्येहि पुरा प्राणान् स विमुञ्चति धर्मवित्॥ एवमुक्तस्तु कौन्तेयो दीर्घप्रज्ञो महामतिः उवाच वदतां श्रेष्ठं व्यासं सत्यवतीसुतम्॥ युधिष्ठिर उवाच वैशसं सुमहत् कृत्वा ज्ञातीनां रोमहर्षणम्। आगस्कृत् सर्वलोकस्य पृथिवीनाशकारकः॥ घातयित्वा तमेवाजौ छलेनाजिह्मयोधिनम्। उपसम्प्रष्टुमर्हामि तमहं केन हेतुना॥ वैशम्पायन उवाच ततस्तं नृपतिश्रेष्ठं चातुर्वर्ण्यहितेप्सया। पुनराह महाबाहुर्यदुश्रेष्ठो महामतिः॥ वासुदेव उवाच नेदानीमतिनिर्बन्धं शोके त्वं कर्तुमर्हसि। यदाह भगवान् व्यासस्तत् कुरुष्व नृपोत्तम॥ ब्राह्मणास्त्वां महाबाहो भ्रातरच महौजसः। पर्जन्यमिव घर्मान्ते नाथमाना उपासते॥ हतशिष्टाश्च राजानः कृत्स्नं चैव समागतम्। चातुर्वण्र्यं महाराज राष्ट्रं ते कुरुजाङ्गलम्॥ प्रियार्थमपि चैतेषां ब्राह्मणानां महात्मनाम्। नियोगादस्य च गुरोर्व्यासस्यामिततेजसः॥ सुहृदामस्मदादीनां द्रौपद्याश्च परंतप। कुरु प्रियममित्रन लोकस्य च हितं कुरु॥ वैशम्पायन उवाच एवमुक्तः स कृष्णेन राजा राजीवलोचनः हितार्थं सर्वलोकस्य समुत्तस्थौ महात्मनाः॥ सोऽनुनीतो नरव्याघ्र विष्टरश्रवसा स्वयम्। द्वैपायनेन च तथा देवस्थानेन जिष्णुना॥ एतैश्चान्यैश्च बहुभिरनुनीतो युधिष्ठिरः। व्यजहान्मानसं दुःखं संतापं च महायशाः॥ श्रुतवाक्यः श्रुतनिधिः श्रुतश्रव्यविशारदः। व्यवस्य मनसः शान्तिमगच्छत् पाण्डुनन्दनः॥ स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः। धृतराष्ट्र पुरस्कृत्य स्वपुरं प्रविवेश ह॥ प्रविविक्षुः स धर्मज्ञः कुन्तीपुत्रो युधिष्ठिरः। अर्चयामास देवांश्च ब्राह्मणांश्च सहस्रशः॥ ततो नवं रथं शुभं कम्बलाजिनसंवृतम्। युक्तं षोडशभिर्गोभिः पाण्डुरैः शुभलक्षणैः॥ मन्त्रैरभ्यर्चितं पुण्यैः स्तूयमानश्च बन्दिभिः। आरुरोह यथा देवः सोमोऽमृतमयं रथम्॥ जग्राह रश्मीन् कौन्तेयो भीमो भीमपराक्रमः। अर्जुनः पाण्डुरं छत्रं धारयामास भानुमत्॥ ध्रियमाणं तच्छत्रं पाण्डुरं रथमूर्धनि। शुशुभे तारकाकीर्णं सितमभ्रमिवाम्बरे॥ चामरव्यजने त्वस्य वीरौ जगृहतुस्तदा। चन्द्ररश्मिप्रभे शुभ्रे माद्रीपुत्रावलंकृते॥ ते पञ्च रथमास्थाय भ्रातरः समलंकृताः। भूतानीव समस्तानि राजन् ददृशिरे तदा।॥ आस्थाय तु रथं शुभ्रं युक्तमश्वैर्मनोजवैः। अन्वयात् पृष्ठतो राजन् युयुत्सुः पाण्डवाग्रजम्॥ रथं हेममयं शुभं शैव्यसुग्रीवयोजितम्। सह सात्यकिना कृष्णः समास्थायान्वयात् कुरून्॥३९। नरयानेन तु ज्येष्ठः पिता पार्थस्य भारत। अग्रतो धर्मराजस्य गान्धारीसहितो ययौ॥ कुरुस्त्रियश्च ताः सर्वाः कुन्ती कृष्णा तथैव च। यानरुच्चावचैर्जग्मुर्विदुरेण पुरस्कृताः॥ ततो रथाश्च बहुला नागाश्वसमलंकृताः। पादाताश्च हयाश्चैव पृष्ठतः समनुव्रजन्॥ ततो वैतालिकैः सूतैर्मागधैश्च सुभाषितैः। स्तूयमानो ययौ राजा नगरं नागसाह्वयम्॥ तत् प्रयाणं महाबाहोर्बभूवाप्रतिमं भुवि। आकुलाकुलमुत्क्रुष्टं हृष्टपुष्टजनाकुलम्॥ अभियाने तु पार्थस्य नरैर्नगरवासिभिः। नगरं राजमार्गाश्च यथावत्समलकृताः॥ पाण्डुरेण च माल्येन पताकाभिश्च मेदिनी। संस्कृतो राजमार्गोऽभूद्धूपनैश्च प्रधूपितः॥ अथ चूर्णैश्च गन्धानां नानापुष्पप्रियङ्गद्धभिः। माल्यदामभिरासक्तै राजवेश्माभिसंवृतम्॥ कुम्भाश्च नगरद्वारि वारिपूर्णा नवा दृढाः। सिताः सुमनसो गौरा: स्थापितास्तत्र तत्र ह॥ तथा स्वलंकृतद्वारं नगरं पाण्डुनन्दनः। स्तूयमानः शुभैर्वाक्यैः प्रविवेश सुहृवृतः॥ वैशम्पायन उवाच ततस्तत्र तु राजानं तिष्ठन्तं भ्रातृभिः सह। उवाच देवकीपुत्रः सर्वदर्शी जनार्दनः॥ वासुदेव उवाच ब्राह्मणास्तात लोकेऽस्मिन्नर्चनीयाः सदा मम। एते भूमिचरा देवा वाग्विषाः सुप्रसादकाः॥ पुरा कृतयुगे राजंश्चार्वाको नाम राक्षसः। तपस्तेपे महाबाहो बदाँ बहुवार्षिकम्॥ वरेण च्छन्द्यमानश्च ब्रह्मणा च पुनः पुनः। अभयं सर्वभूतेभ्यो वरयामास भारत॥ द्विजावमानादन्यत्र प्रादाद् वरमनुत्तमम्। अभयं सर्वभूतेभ्यो ददौ तस्मै जगत्पतिः॥ स तु लब्धवरः पापो देवानमितविक्रमः। राक्षसस्तापयामास तीव्रकर्मा महाबलः॥ ततो देवाः समेताश्च ब्रह्माणामिदमब्रुवन्। वधाय रक्षसस्तस्य बलविप्रकृतास्तदा॥ तानुवाच ततो देवो विहितस्तत्र वै मया। यथास्य भविता मृत्युरचिरेणेति भारत॥ राजा दुर्योधनो नाम सखास्य भविता नृषु। तस्य स्नेहावबद्धोऽसौ ब्राह्मणानवमंस्यते॥ तत्रै रुषिता विप्रा विप्रकारप्रधर्षिताः। धक्ष्यन्ति वाग्बला: पापं ततो नाशं गमिष्यति॥ स एष निहतः शेते ब्रह्मदण्डेन राक्षसः। चार्वाको नृपतिश्रेष्ठ मा शुचो भरतर्षभ॥ हतास्ते क्षत्रधर्मेण ज्ञातयस्तव पार्थिव। स्वर्गताश्च महात्मानो वीराः क्षत्रियपुङ्गवाः॥ स त्वमातिष्ठ कार्याणि मा तेऽभूद् ग्लानिरच्युत। शत्रून् जहि प्रजा रक्ष द्विजांश्च परिपूजय॥ वैशम्पायन उवाच तत: कुन्तीसुतो राजा गतमन्युर्गतज्वरः। काञ्चने प्राङ्मुखो हृष्टो न्यषीदत् परमासने॥ तमेवाभिमुखो पीठे प्रदीप्ते काञ्चने शुभे। सात्यकिर्वासुदेवश्च निषीदतुररिन्दमौ॥ मध्ये कृत्वा तु राजानं भीमसेनार्जुनावुभौ। निषीदतुर्महात्मानौ श्लक्ष्णयोर्मणिपीठयोः॥ दान्ते सिंहासने शुभ्रे जाम्बूनदविभूषिते। पृथापि सहदेवेन सहास्ते नकुलेन च॥ कौरवः। सुधर्मा विदुरो धौम्यो धृतराष्ट्रश्च निषेदुर्व्वलनाकारेष्वासनेषु पृथक् पृथक्॥ युयुत्सुः संजयश्चैव गान्धारी च यशस्विनी। धृतराष्ट्रो यतो राजा ततः सर्वे समाविशन्॥ तत्रोपविष्टो धर्मात्मा श्वेताः सुमनसोऽस्पृशत्। स्वस्तिकानक्षतान् भूमि सुवर्ण रजतं मणिम्॥ ततः प्रकृतयः सर्वाः पुरस्कृत्य पुरोहितम्। ददृशुर्धर्मराजानमादाय बहुमङ्गलम्॥ पृथिवीं च सुवर्णं च रत्नानि विविधानि च। आभिषेचनिकं भाण्डं सर्वसम्भारसम्भृतम्॥ काञ्चनोदुम्बरास्तत्र राजताः पृथिवीमयाः। पूर्णकुम्भाः सुमनसो लाजा बहीषि गोरसम्॥ शमीपिप्पलपालाशसमिधो मधुसर्पिषी। स्रुव औदुम्बरः शङ्खस्तथा हेमविभूषितः॥ दाशार्हेणाभ्यनुज्ञातस्तत्र धौम्यः पुरोहितः। प्रागुदवप्रवणां वेदी लक्षणेनोपलिख्य च॥ व्याघ्रचर्मोत्तरे शुक्ले सर्वतोभद्र आसने। दृढपादप्रतिष्ठाने हुताशनसमत्विषि॥ उपवेश्य महात्मानं कृष्णां च दुपदात्मजाम्। जुहाव पावकं धीमान् विधिमन्त्रपुरस्कृतम्॥ तत उत्थाय दाशार्हः शङ्खमादाय पूजितम्। अभ्यषिञ्चत् पतिं पृथ्व्याः कुन्तीपुत्रं युधिष्ठिरम्॥ धृतराष्ट्रश्च राजर्षिः सर्वाः प्रकृतयस्तथा। अनुज्ञातोऽथ कृष्णेन भ्रातृभिः सह पाण्डवः॥ पाञ्चजन्याभिषिक्तश्च राजामृतमुखोऽभवत्। ततोऽनुवादयामासुः पणवानकदुन्दुभीन्॥ धर्मराजोऽपि तत् सर्वं प्रतिजग्राह धर्मतः। पूजयामास तांश्चापि विधिवद् भूरिदक्षिणः॥ ततो निष्कसहस्रेण ब्राह्मणान्स्वस्ति वाचयन्। वेदाध्ययनसम्पन्नान् धृतिशीलसमन्वितान्॥ ते प्रीता ब्राह्मणा राजन् स्वस्त्यूचुर्जयमेव च। हंसा इव च नर्दन्तः प्रशशंसुर्युधिष्ठिरम्॥ युधिष्ठिर महाबाहो दिष्ट्या जयसि पाण्डव। दिष्ट्या स्वधर्मं प्राप्तोऽसि विक्रमेण महाद्युते॥ दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवः। त्वं चापि कुशली राजन् माद्रीपुत्रौ च पाण्डवौ॥ मुक्ता वीरक्षयात् तस्मात् संग्रामाद् विजितद्विषः। क्षिप्रमुत्तरकार्याणि कुरु सर्वाणि भारत॥ ततः प्रत्यर्चितः सद्भिर्धर्मराजो युधिष्ठिरः। प्रतिपेदे महद् राज्यं सुहृद्भिः सह भारत॥ वैशम्पायन उवाच ततो युधिष्ठिरो राजा ज्ञातीनां ये हता युधि। श्राद्धानि कारयामास तेषां पृथगुदारधीः॥ धृतराष्ट्रो ददौ राजा पुत्राणामौर्ध्वदेहिकम्। सर्वकामगुणोपेतमन्नं गाश्च धनानि च॥ रत्नानि च विचित्राणि महार्हाणि महायशाः। युधिष्ठिरस्तु द्रोणस्य कर्णस्य च महात्मनः॥ धृष्टद्युम्नाभिमन्युभ्यां हैडिम्बस्य च रक्षसः। विराटप्रभृतीनां च सुहृदामुपकारिणाम्॥ द्रुपदद्रौपदेयानां द्रौपद्या सहितो ददौ। ब्राह्मणानां सहस्राणि पृथगेकैकमुद्दिशन्॥ धनै रत्नैश्च गोभिश्च वस्त्रैश्च समतर्पयत्। ये चान्ये पृथिवीपाला येषां नास्ति सुहृज्जनः॥ उद्दिश्योद्दिश्य तेषां च चक्रे राजौर्ध्वदेहिकम्। सभाः प्रपाश्च विविधास्तटाकानि च पाण्डवः॥ सुहृदां कारयामास सर्वेषामौर्ध्वदेहिकम्। स तेषामनृणो भूत्वा गत्वा लोकेष्ववाच्यताम्॥ कृतकृत्योऽभवद् राजा प्रजा धर्मेण पालयन्। धृतराष्ट्रं यथापूर्वं गान्धारी विदुरं तथा॥ सर्वांश्च कौरवान् मान्यान् भृत्यांश्च समपूजयत्। याच तत्र स्त्रियः काश्चिद्धतवीरा हतात्मजाः॥ सर्वास्ताः कौरवो राजा सम्पूज्यापालयद् घृणी। दीनान्धकृपणानां च गृहाच्छादनभोजनैः॥ आनृशंस्यपरो राजा चकारानुग्रहं प्रभुः। स विजित्य महीं कृत्स्नामानृण्यं प्राप्य वैरिषु। निःसपत्नः सुखी राजा विजहार युधिष्ठिरः॥ वैशम्पायन उवाच ततो विसर्जयामास सर्वाः प्रकृतयो नृपः। विविशुश्चाभ्यनुज्ञाता यथास्वानि गृहाणि ते॥ ततो युधिष्ठिरो राजा भीमं भीमपराक्रमम्। सान्त्वयन्नब्रवीच्छीमानर्जुनं यमजौ तथा॥ शत्रुभिर्विविधैः शस्त्रैः क्षतदेहा महारणे। श्रान्ता भवन्तः सुभृशं तापिताः शोकमन्युभिः॥ अरण्ये दुःखवसतीमत्कृते भरतर्षभाः। भवद्भिरनुभूता हि यथा कुपुरुषैस्तथा॥ यथासुखं यथाजोषं जयोऽयमनुभूयताम्। विश्रान्ताल्लंब्यविज्ञानाश्वः समेतास्मि वः पुनः॥ ततो दुर्योधनगृहं प्रासादैरुपशोभितम्। बहुरत्नसमाकीर्णं दासीदाससमाकुलम्॥ धृतराष्ट्राभ्यनुज्ञातं भ्रात्रा दत्तं वृकोदरः। प्रतिपेदे महाबाहुर्मन्दिरं मघवानिव॥ यथा दुर्योधनगृहं तथा दुःशासनस्य तु। प्रासादमाला संयुक्तं हेमतोरणभूषितम्॥ दासीदाससुसम्पूर्ण प्रभूतधनधान्यवत्। प्रतिपेदे महाबाहुरर्जुनो राजशासनात्॥ दुर्मर्षणस्य भवनं दुःशासनगृहाद् वरम्। कुबेरभवनप्रख्यं मणिहेमविभूषितम्॥ नकुलाय वराहय कर्शिताय महावने। ददौ प्रीतो महाराज धर्मपुत्रो युधिष्ठिरः॥ दुर्मुखस्य च वेश्माग्र्यं श्रीमत् कनकभूषणम्। पूर्णपद्मदलाक्षीणां स्त्रीणां शयनसंकुलम्॥ प्रददौ सहदेवाय सततं प्रियकारिणे। मुमुदे तच्च लघ्वासौ कैलासं धनदो यथा।॥ युयुत्सुर्विदुरश्चैव संजयश्च विशाम्पते। सुधर्मा चैव धौम्यश्च यथास्वान् जग्मुरालयान्॥ सह सात्यकिना शौरिरर्जुनस्य निवेशनम्। विवेश पुरुषव्याघ्रो व्याघ्रो गिरिगुहामिव॥ तत्र भक्ष्यान्नपानैस्ते मुदिताः सुसुखोषिताः। सुखप्रबुद्धा राजानमुपतस्थुर्युधिष्ठिरम्॥ जनमेजय उवाच शरतल्पे शयानस्तु भरतानां पितामहः। कथमुत्सृष्टवान् देहं कं च योगमधारयत्॥ वैशम्पायन उवाच शृणुष्वावहितो राजशुचिर्भूत्वा समाहितः। भीष्मस्य कुरुशार्दूल देहोत्सर्ग महात्मनः॥ निवृत्तमात्रे त्वयन उत्तरे वै दिवाकरे। समावेशयदात्मानमात्मन्येव समाहितः॥ विकीर्णारिवादित्यो भीष्मः शरशतैश्चितः। शुशुभे परया लक्ष्या वृतो ब्राह्मणसत्तमैः॥ व्यासेन वेदविदुषा नारदेन सुरर्षिणा। देवस्थानेन वात्स्येन तथाश्मकसुमन्तुना॥ तथा जैमिनिना चैव पैलेन च महात्मना। शाण्डिल्यदेवलाभ्यां च मैत्रेयेण च धीमता॥ असितेन वसिष्ठेन कौशिकेन महात्मना। हारीतलोमशाभ्यां च तथाऽऽत्रेयेण धीमता॥ बृहस्पतिश्च शुक्रश्च च्यवनश्च महामुनिः। सनत्कुमारः कपिलो वाल्मीकिस्तुम्बुरुः कुरुः॥ मौद्गल्यो भार्गवो रामस्तृणबिन्दुमहामुनिः। पिप्पलादोऽथ वायुश्च संवर्तः पुलहः कचः॥ काश्यपश्च पुलस्त्यश्च ऋतुर्दक्षः पराशरः। मरीचिरङ्गिराः काश्यो गौतमो गालवो मुनिः॥ धौम्यो विभाण्डो माण्डव्यो धौनः कृष्णानुभौतिकः। उलूकः परमो विप्रो मार्कण्डेयो महामुनिः॥ भास्करिः पूरणः कृष्णः सूतः परमधार्मिकः। एतैश्चान्यैर्मुनिगणैर्महाभागैर्महात्मभिः॥ श्रद्धादमशमोपेतैर्वृतश्चन्द्र इव ग्रहैः। भीष्मस्तु पुरुषव्याघ्रः कर्मणा मनसा गिरा॥ शरतल्पगतः कृष्णं प्रदध्यौ प्राञ्जलिः शुचिः। स्वरेण हृष्टपुष्टेन तुष्टाव मधुसूदनम्॥ योगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम्। कृताञ्जलिपुटो भूत्वा वाग्विदां प्रवरः प्रभुः॥ भीष्मः परमधर्मात्मा वासुदेवमथास्तुवत्। भीष्म उवाच आरिराधयिषुः कृष्णं वाचं जिगदिधामि याम्॥ तया व्याससमासिन्या प्रीयतां पुरुषोत्तमः। शुचिं शुचिपदं हंसं तत्पदं परमेष्ठिनम्॥ युक्त्वा सर्वात्मनाऽऽत्मानं तं प्रपद्ये प्रजापतिम्। अनाद्यन्तं परं ब्रह्म न देवा नर्षयो विदुः॥ एको यं वेद भगवान् धाता नारायणो हरिः। नारायणादृषिगणास्तथा सिद्धमहोरगाः॥ देवा देवर्षयश्चैव यं विदुः परमव्ययम्। देवदानवगन्धर्वा यक्षराक्षसपन्नगाः॥ यं न जानन्ति को ह्येष कुतो वा भगवानिति। यस्मिन् विश्वानि भूतानि तिष्ठन्ति च विशन्ति च॥ गुणभूतानि भूतेशे सूत्रे मणिगणा इव। यस्मिन् नित्ये तते तन्तौ दृढे स्रगिव तिष्ठति॥ सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि। हरिं सहस्रशिरसं सहस्रचरणेक्षणम्॥ सहस्रबाहुमुकुटं सहस्रवदनोज्ज्वलम्। प्राहुर्नारायणं देवं यं विश्वस्य परायणम्॥ अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम्। गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि॥ यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च। गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु॥ चतुर्भिश्चतुरात्मानं सत्त्वस्थं सात्वतां पतिम्। यं दिव्यैर्देवमर्चन्ति गुरैः परमनामभिः॥ यस्मिन् नित्यं तपस्तप्तं यदङ्गेष्वनुतिष्ठति। सर्वात्मा सर्ववित् सर्वः सर्वज्ञः सर्वभावनः॥ यं देवं देवकी देवी वसुदेवादजीजनत्। भौमस्य ब्रह्मणो गुप्त्यै दीप्तमग्निमिवारणिः॥ यमनन्यो व्यपेताशीरात्मानं वीतकल्मषम्। दृष्ट्यानन्त्याय गोविन्दं पश्यत्यात्मानमात्मनि॥ अतिवाविन्द्रकर्माणमतिसूर्यातितेजसम्। अतिबुद्धीन्द्रियात्मानं तं प्रपद्ये प्रजापतिम्॥ पुराणे पुरुषं प्रोक्तं ब्रह्म प्रोक्तं युगादिषु। क्षये संकर्षणं प्रोक्तं तमुपास्यमुपास्महे॥ यमेकं बहुधाऽऽत्मानं प्रादुर्भूतमधोक्षजम्। नान्यभक्ताः क्रियावन्तो यजन्ते सर्वकामदम्॥ यमाहुर्जगतः कोशं यस्मिन् संनिहिताः प्रजाः। यस्मिल्लोकाः स्फुरन्तीमे जले शकुनयो यथा॥ ऋतमेकाक्षरं ब्रह्म यत् तत् सदसतोः परम्। अनादिमध्यपर्यन्तं न देवा नर्षयो विदुः॥ यं सुरासुरगन्धर्वाः सिद्धा ऋषिमहोरगाः। प्रयता नित्यमर्चन्ति परमं दुःखभेषजम्॥ अनादिनिधनं देवमात्मयोनि सनातनम्। अप्रेक्ष्यमनभिज्ञेयं हरि नारायणं प्रभुम्॥ यं वै विश्वस्य कर्तारं जगतस्तस्थुषां पतिम्। वदन्ति जगतोऽध्यक्षमक्षरं परमं पदम्॥ हिरण्यवर्णं यं गर्भमदितेर्दैत्यनाशनम्। एकं द्वादशधा जज्ञे तस्मै सूर्यात्मने नमः॥ शुक्ले देवान् पितृन् कृष्णे तर्पयत्यमृतेन यः यश्च राजा द्विजातीनां तस्मै सोमात्मने नमः॥ महतस्तमसः पारे पुरुषं ह्यतितेजसम्। यं ज्ञात्वा मृत्युमत्येति तस्मै ज्ञेयात्मने नमः॥ यं वृहन्तं बृहत्युक्थे यमग्नौ यं महाध्वरे। यं विप्रसंघा गायन्ति तस्मै वेदात्मने नमः॥ ऋग्यजुःसामधामानं दशाहविरात्मकम्। यं सप्ततन्तुं तन्वन्ति तस्मै यज्ञात्मने नमः॥ चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च। हूयते च पुनर्वाभ्यां तस्मै होमात्मने नमः॥ यः सुपर्णा यजुर्नाम च्छन्दोगात्रस्त्रिवृच्छिराः। रथन्तरं वृहत् साम तस्मै स्तोत्रात्मने नमः॥ यः सहस्रसमे सत्रे जज्ञे विश्वसृजामृषिः। हिरण्यपक्षः शकुनिस्तस्मै हंसात्मने नमः॥ पादाङ्गं संधिपर्वाणं स्वरव्यञ्जनभूषणम्। यमाहुरक्षरं दिव्यं तस्मै वागात्मने नमः॥ यज्ञाङ्गो यो वराहो वै भूत्वा गामुज्जहार हा लोकत्रयहितार्थाय तस्मै वीर्यात्मने नमः॥ यः शेते योगमास्थाय पर्यङ्के नागभूषिते। फणासहस्ररचिते तस्मै निद्रात्मने नमः॥ यस्तनोति सतां सेतुमृतेनामृतयोनिना। धर्मार्थव्यवहाराङ्गैस्तस्मै सत्यात्मने नमः॥ यं पृथग्धर्मचरणाः पृथग्धर्मफलैषिणः। पृथग्धः समर्चन्ति तस्मै धर्मात्मने नमः॥ यतः सर्वं प्रसूयन्ते ह्यनङ्गात्माङ्गदेहिनः। उन्मादः सर्वभूतानां तस्मै कामात्मने नमः॥ यं च व्यक्तस्थमव्यक्तं विचिन्वन्ति महर्षयः। क्षेत्रे क्षेत्रज्ञमासीनं तस्मै क्षेत्रात्मने नमः॥ यं त्रिधाऽऽत्मानमात्मस्थं वृतं षोडशभिर्गुणैः। प्राहुः सप्तदशं सांख्या स्तस्मै सांख्यात्मने नमः॥ यं विनिद्रा जितश्वासाः सत्त्वस्थाः संयतेन्द्रियाः। ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः॥ अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः। शान्ताः संन्यासिनो यान्ति तस्मै मोक्षात्मने नमः॥ योऽसौ युगसहस्रान्ते प्रदीप्तार्चिविभावसुः। सम्भक्षयति भूतानि तस्मै घोरात्मने नमः॥ सम्भक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत्। बालः स्वपिति यश्चैकस्तस्मै मायात्मने नमः॥ तद् यस्य नाभ्यां सम्भूतं यस्मिन् विश्वं प्रतिष्ठितम्। पुष्करे पुष्कराक्षस्य तस्मै पद्मात्मने नमः॥ सहस्रशिरसे चैव पुरुषायामितात्मने। चतुःसमुद्रपर्याययोगनिद्रात्मने नमः॥ यस्य केशेषु जीमूता नद्यः सर्वाङ्गसंधिषु। कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः॥ यस्मात् सर्वाः प्रसूयन्ते सर्गप्रलयविक्रियाः। यस्मिंश्चैव प्रलीयन्ते तस्मै हेत्वात्मने नमः॥ निषण्णो भवेद् रात्रौ दिवा भवति विष्ठितः। इष्टानिष्टस्य च द्रष्टा तस्मै द्रष्ट्रात्मने नमः॥ अकुण्ठं सर्वकार्येषु धर्मकार्यार्थमुद्यतम्। वैकुण्ठस्य च तद् रूपं तस्मै कार्यात्मने नमः॥ त्रि:सप्तकृत्वो यः क्षत्रं धर्मव्युत्क्रान्तगौरवम्। क्रुद्धो निजघ्ने समरे तस्मै क्रौर्यात्मने नमः॥ विभज्य पञ्चधाऽऽत्मानं वायुर्भूत्वा शरीरगः। यश्चेष्टयति भूतानि तस्मै वाय्वात्मने नमः॥ युगेष्वावर्तते योगैर्मासर्वयनहायनैः। सर्गप्रलययोः कर्ता तस्मै कालात्मने नमः॥ ब्रह्म वक्त्रं भुजौ क्षत्रं कृत्स्नमूरूदरं विशः। पादौ यस्याश्रिताः शूद्रास्तस्मै वर्णात्मने नमः॥ यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः। सूर्यश्चक्षुर्दिशः श्रोत्रे तस्मै लोकात्मने नमः॥ परः कालात् परो यज्ञात् परात् परतरश्च यः। अनादिरादिविश्वस्य तस्मै विश्वात्मने नमः॥ विषये वर्तमानानां यं ते वैशेषिकैर्गुणैः। प्राहुर्विषयगोप्तारं तस्मै गोप्वात्मने नमः॥ अन्नपानेन्धनमयो रसप्राणविवर्धनः। यो धारयति भूतानि तस्मै प्राणात्मने नमः॥ प्राणानां धारणार्थाय योऽनं भुक्के चतुर्विधम्। अन्तर्भूतः पचत्यग्निस्तस्मै पाकात्मने नमः॥ पिङ्गेक्षणसटं यस्य रूपं दंष्ट्रनखायुधम्। दानवेन्द्रान्तकरणं तस्मै दृप्तात्मने नमः॥ यं न देवा न गन्धर्वा न दैत्या न च दानवाः। तत्त्वतो हि विजानन्ति तस्मै सूक्ष्मात्मने नमः॥ रसातलगतः श्रीमाननन्तो भगवान् विभुः। जगद् धारयते कृत्स्नं तस्मै वीर्यात्मने नमः।७६॥ यो मोहयति भूतानि स्नेहपाशानुबन्धनैः। सर्गस्य रक्षणार्थाय तस्मै मोहात्मने नमः॥ आत्मज्ञानमिदं ज्ञानं ज्ञात्वा पञ्चस्ववस्थितम्। यं ज्ञानेनाभिगच्छन्ति तस्मै ज्ञानात्मने नमः॥ अप्रमेयशरीराय सर्वतोबुद्धिचक्षुषे। अनन्तपरिमेयाय तस्मै दिव्यात्मने नमः॥ जटिने दण्डिने नित्यं लम्बोदरशरीरिणे। कमण्डलुनिषङ्गाय तस्मै ब्रह्मात्मने नमः॥ शूलिने त्रिदशेशाय त्र्यम्बकाय महात्मने। भस्मदिग्धाङ्गलिङ्गाय तस्मै रुद्रात्मने नमः॥ चन्द्रार्धकृतशीर्षाय व्यालयज्ञोपवीतिने। पिनाकशूलहस्ताय तस्मा उग्रात्मने नमः॥ सर्वभूतात्मभूताय भूतादिनिधनाय च। अक्रोधद्रोहमोहाय तस्मै शान्तात्मने नमः॥ यस्मिन् सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः। यश्च सर्वमयो नित्यं तस्मै सर्वात्मने नमः॥ विश्वकर्मन् नमस्तेऽस्तु विश्वात्मन् विश्वसम्भव। अपवर्गोऽसि भूतानां पञ्चानां परतः स्थितः॥ नमस्ते त्रिषु लोकेषु नमस्ते परतस्त्रिषु। नमस्ते दिक्षु सर्वासु त्वं हि सर्वमयो निधिः॥ नमस्ते भगवन् विष्णो लोकानां प्रभवाप्यया त्वं हि कर्ता हृषीकेश संहर्ता चापराजितः॥ न हि पश्यामि ते भावं दिव्यं हि त्रिषु वर्त्मसु। त्वां तु पश्यामि तत्त्वेन यत् ते रूपं सनातनम्॥ दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुन्धरा। विक्रमेण त्रयो लोकाः पुरुषोऽसि सनातनः॥ दिशो भुजा रविश्चक्षुर्वीर्ये शुक्रः प्रतिष्ठितः। सप्त मार्गा निरुद्धास्ते वायोरमिततेजसः॥ अतसीपुष्पसंकाशं पीतवाससमच्युतम्। ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम्॥ एकोऽपि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः। कृष्णप्रणामी न पुनर्भवाय॥ कृष्णव्रताः कृष्णमनुस्मरन्तो रात्रौ च कृष्णं पुनरुत्थिता ये। माज्यं यथा मन्त्रहुतं हुताशे॥ नमो नरकसंत्रासरक्षामण्डलकारिणे। संसारनिम्नगावर्ततरिकाष्ठाय विष्णवे॥ नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च। जगद्धिताय कृष्णाय गोविन्दाय नमो नमः॥ प्राणकान्तारपाथेयं संसारोच्छेदभेषजम्। दुःखशोकपरित्राणं हरिरित्यक्षरद्वयम्॥ यथा विष्णुमयं सत्यं यथा विष्णुमयं जगत्। यथा विष्णुमयं सर्वं पाप्मा मे नश्यतां तथा॥ त्वां प्रपन्नाय भक्ताय गतिमिशं जिगीषवे। यच्छ्रेयः पुण्डरीकाक्ष तद् ध्यायस्व सुरोत्तम॥ इति विद्यातपोयोनिरयोनिर्विष्णुरीडितः। वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः॥ नारायणः परं ब्रह्म नारायणपरं तपः। नारायणः परो देवः सर्वं नारायणः सदा।।१००। वैशम्पायन उवाच एतावदुक्त्वा वचनं भीष्मस्तद्गतमानसः। नम इत्येव कृष्णाय प्रणाममकरोत् तदा॥ अभिगम्य तु योगेन भक्ति भीष्मस्य माधवः। त्रैलोक्यदर्शनं ज्ञानं दिव्यं दत्त्वा ययौ हरिः॥ तस्मिन्नुपरते शब्दे ततस्ते ब्रह्मवादिनः। भीष्मं वाग्भिर्बाष्पकण्ठास्तमानचुमहामतिम्॥ ते स्तुवन्तश्च विप्रागया: केशवं पुरुषोत्तमम्। भीष्मं च शनकैः सर्वे प्रशशंसुः पुनः पुनः॥ विदित्वा भक्तियोगं तु भीष्मस्य पुरुषोत्त्मः। सहसोत्थाय संहृष्टो यानमेवान्वपद्यत॥ केशवः सात्यकिश्चापि रथेनैकेन जग्मतुः। अपरेण महात्मानौ युधिष्ठिरधंजयौ॥ भीमसेन यमौ चोभौ रथमेकं समाश्रिताः। कृपो युयुत्सुः सूतश्च संजयश्च परंतपः॥ ते स्थैर्नगराकारैः प्रयाताः पुरुषर्षभाः। नेमिघोषेण महता कम्पयन्तो वसुन्धराम्॥ ततो गिरः पुरुषवरस्तवान्विता द्विजेरिता: पथि सुमनाः स शुश्रुवे। कृताञ्जलिं प्रणतमथापरं जनं स केशिहा मुदितमनाभ्यनन्दत॥ वैशम्पायन उवाच ततः स च हृषीकेशः स च राजा युधिष्ठिरः। कृपादयश्च ते सर्वे चत्वारः पाण्डवाश्च ते॥ रथैस्तैर्नगरप्रख्यैः : पताकाध्वजशोभितैः। ययुराशु कुरुक्षेत्रं वाजिभिः शीघ्रगामिभिः॥ तेऽवतीर्य कुरुक्षेत्र केशमज्जास्थिसंकुलम्। देहन्यासः कृतो यत्र क्षत्रियैस्तैर्महात्मभिः॥ गजाश्वदेहास्थिचयैः पर्वतैरिव संचितम्। नरशीर्षकपालैश्च शङ्कुरिव च सर्वशः॥ चितासहस्रप्रचितं वर्मशस्त्रसमाकुलम्। आपानभूमिं कालस्य तथा भुक्तोज्झितामिव॥ भूतसंघानुचरितं रक्षोगणनिषेवितम्। पश्यन्तस्ते कुरुक्षेत्रं ययुराशु महारथाः।॥ गच्छन्नेव महाबाहुः स वै यादवनन्दनः। युधिष्ठिराय प्रोवाच जामदग्न्यस्य विक्रमम्॥ अमी रामहृदाः पञ्च दृश्यन्ते पार्थ दूरतः। तेषु संतर्पयामास पितॄन् क्षत्रियशोणितैः॥ त्रिःसप्तकृत्वो वसुधां कृत्वा निःक्षत्रियां प्रभुः। इहेदानीं ततो रामः कर्मणो विरराम ह॥ युधिष्ठिर उवाच त्रि:सप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा। रामेणेति तथाऽऽत्थ त्वमत्र मे संशयो महान्॥ क्षत्रबीजं यथा दग्धं रामेण यदुपुङ्गव। कथं भूयः समुत्पत्तिः क्षत्रस्यामितविक्रम॥ महात्मना भगवता रामेण यदुपुङ्गव। कथमुत्सादितं क्षत्रं कथं वृद्धिमुपागतम्॥ महता रथयुद्धेन कोटिशः क्षत्रिया हताः। तथाभूच्च मही कीर्णा क्षत्रियैर्वदतां वर॥ किमर्थं भार्गवेणेदं क्षत्रमुत्सादितं पुरा। रामेण यदुशार्दूल कुरुक्षेत्रे महात्मना॥ एतन्मे छिन्धि वार्ष्णेय संशयं तार्क्ष्यकेतन। आगमो हि परः कृष्ण त्वत्तो नो वासवानुज॥ वैशम्पायन उवाच ततो यथावत् स गदाग्रजः प्रभुः शशंस तस्मै निखिलेन तत्त्वतः। युधिष्ठिरायाप्रतिमौजसे तदा यथाभवत् क्षत्रियसंकुला मही॥ वैशम्पायन उवाच ततो यथावत् स गदाग्रजः प्रभुः शशंस तस्मै निखिलेन तत्त्वतः। युधिष्ठिरायाप्रतिमौजसे तदा यथाभवत् क्षत्रियसंकुला मही॥ वासुदेव उवाच शृणु कौन्तेय रामस्य प्रभावो यो मया श्रुतः। महर्षीणां कथयतां विक्रमं तस्य जन्म च।।।। यथा च जामदग्न्येन कोटिशः क्षत्रिया हताः। उद्भूता राजवंशेषु ये भूयो भारते हताः॥ जह्रोरजस्तु तनयो बलाकाश्वस्तु तत्सुतः। कुशिको नाम धर्मज्ञस्तस्य पुत्रो महीपते।॥ अग्र्यं तपः समातिष्ठत् सहस्राक्षसमो भुवि। पुत्रं लभेयमजितं त्रिलोकेश्वरमित्युत॥ तमुग्रतपसं दृष्ट्वा सहस्राक्षः पुरंदरः। समर्थं पुत्रजनने स्वयमेवान्वपद्यत॥ पुत्रत्वमगमद् राजस्तस्य लोकेश्वरेश्वरः। गाधिर्नामाभवत् पुत्रः कौशिकः पाकशासनः॥ तस्य कन्याभवद् राजन् नाम्ना सत्यवतीप्रभो। तां गाधिर्भुगुपुत्राय सर्चीकाय ददौ प्रभुः॥ तस्याः प्रीतः स शौचेन भार्गवः कुरुनन्दन! पुत्रार्थं अपयामास चरुं गाधेस्तथैव च॥ आहूयोवाच तां भार्यां सर्चीको भार्गवस्तदा। उपभोज्यश्चरुरयं त्वया मात्राप्ययं तव॥ तस्या जनिष्यते पुत्रो दीप्तिमान् क्षत्रियर्षभः। अजय्यः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः॥ तवापि पुत्रं कल्याणि धृतिमन्तं शमात्मकम्। तपोऽन्वितं द्विजश्रेष्ठं चरुरेष विधास्यति॥ इत्येवमुक्त्वा तां भार्यां सर्चीको भृगुनन्दनः। तपस्यभिरतः श्रीमाजगामारण्यमेव हि॥ एतस्मिन्नेव काले तु तीर्थयात्रापरो नृपः। गाधिः सदारः सम्प्राप्तः सर्चीकस्याश्रमं प्रति॥ चरुद्वयं गृहीत्वा च राजन् सत्यवती तदा। भर्तुर्वाक्यं तदाव्यग्रा मात्रे हृष्टा न्यवेदयत्॥ माता तु तस्याः कौन्तेय दुहिने स्वं चकं ददौ। तस्याश्चरुमथाज्ञानादात्मसंस्थं चकार ह॥ अथ सत्यवती गर्भ क्षत्रियान्तकरं तदा। धारयामास दीप्तेन वपुषा घोरदर्शनम्॥ तामृचीकस्तदा दृष्ट्वा तस्या गर्भगतं द्विजम्। अब्रवीद् भृगुशार्दूलः स्वां भार्यां देवरूपिणीम्॥ भविष्यति हि ते पुत्रः क्रूरकर्मात्यमर्षणः॥ उत्पत्स्यति च ते भ्राता ब्रह्मभूतस्तपोरतः। विश्वं हि ब्रह्म सुमहच्चरौ तव समाहितम्॥ क्षत्रवीर्यं च सकलं तव मात्रे समर्पितम्। विपर्ययेण ते भद्रे नैतदेवं भविष्यति॥ मातुस्ते ब्राह्मणो भूयात् तव च क्षत्रियः सुतः। सैवमुक्ता महाभागा भ; सत्यवती तदा॥ पपात शिरसा तस्मै वेपन्ती चाब्रवीदिदम्। नार्होऽसि भगवन्नद्य वक्तुमेवंविधं वचः। ब्राह्मणापसदं पुत्रं प्राप्स्यसीति हि मां प्रभो॥ ऋचीक उवाच नैष संकल्पितः कामो मया भद्रे तथा त्वयि। उग्रकर्मा समुत्पन्नश्चरुव्यत्यासहेतुना॥ सत्यवत्युवाच इच्छल्लोकानपि मुने सृजेथाः किं पुनः सुतम्। शामात्मकमजुं पुत्रं दातुमर्हसि मे प्रभो॥ ऋचीक उवाच नोक्तपूर्वानृतं भद्रे स्वैरेष्वपि कदाचन। किमुताग्निं समाधाय मन्त्रवच्चरुसाधने॥ दृष्टमेतत् पुरा भद्रे ज्ञातं च तपसा मया। ब्रह्मभूतं हि सकलं पितुस्तव कुलं भवेत्॥ सत्यवत्युवाच काममेवं भवेत् पौत्रो ममेह तव च प्रभो। शमात्मकमहं पुत्रं लभेयं जपतां वर॥ ऋचीक उवाच पुत्रे नास्ति विशेषो मे पौत्रे च वरवर्णिनि। यथा त्वयोक्तं वचनं तथा भद्रे भविष्यति॥ वासुदेव उवाच ततः सत्यवती पुत्रं जनयामास भार्गवम्। तपस्यभिरतं शान्तं जमदग्निं यतव्रतम्॥ विश्वामित्रं च दायादं गाधिः कुशिकनन्दनः। यः प्राप ब्रह्मसमितं विश्वैर्ब्रह्मगुणैर्युतम्॥ ऋचीको जनयामास जमदग्निं तपोनिधिम्। सोऽपि पुत्रं ह्यजनयज्जमदग्निः सुदारुणम्॥ सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम्। रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम्॥ तोषयित्वा महादेवं पर्वते गन्धमादने। अस्त्राणि वरयामास परशुं चातितेजसम्॥ स तेनाकुण्ठधारेण ज्वलितानलवर्चसा। कुठारेणाप्रमेयेण लोकेष्वप्रतिमोऽभवत्॥ एतस्मिन्नेव काले तु कृतवीर्यात्मजो बली। अर्जुनो नाम तेजस्वी क्षत्रियो हैहयाधिपः॥ दत्तात्रेयप्रसादेन राजा बाहुसहस्रवान्। चक्रवर्ती महातेजा विप्राणामाश्वमेधिके॥ ददौ स पृथिवीं सर्वां सप्तद्वीपां सपर्वताम्। स्वबाह्वस्त्रबलेनाजौ जित्वा परमधर्मवित्॥ तृषितेन च कौन्तेय भिक्षितश्चित्रभानुना। सहस्रबाहुर्विक्रान्तः प्रादाद् भिक्षामथाग्नये॥ ग्रामान् पुराणि राष्ट्राणि घोषांश्चैव तु वीर्यवान्। जज्वाल तस्य बाणाग्राच्चित्रभानुर्दिधक्षया।॥ स तस्य पुरुषेन्द्रस्य प्रभावेण महौजसः। ददाह कार्तवीर्यस्य शैलानथ वनस्पतीन्॥ स शून्यमाश्रमं रम्यमापवस्य महात्मनः। ददाह पवनेनेद्धश्चित्रभानुः सहैहयः॥ आपवस्तु ततो रोषाच्छशापार्जुनमच्युत। दग्धेऽऽश्रमे महाबाहो कार्तवीर्येण वीर्यवान्॥ त्वया न वर्जितं यस्मान्नमेदं हि महद् वनम्। दग्धं तस्माद् रणे रामो बाहूंस्ते छेत्स्यतेऽर्जुन॥ अर्जुनस्तु महातेजा बली नित्यं शमात्मकः। ब्रह्मण्यश्च शरण्यश्च दाता शूरश्च भारत॥ नाचिन्तयत् तदा शापं तेन दत्तं महात्मना। तस्य पुत्रास्तु बलिनः शापेनासन् पितुर्वर्धे॥ निमित्तादवलिप्ता वै नृशंसाश्चैव सर्वदा। जमदग्निधेन्वास्ते वत्समानिन्युर्भरतर्षभ॥ अज्ञातं कार्तवीर्येण हैहेयेन्द्रेण धीमता। तनिमित्तमभूद् युद्धं जामदग्नेर्महात्मनः॥ ततोऽर्जुनस्य बाहूंस्तांश्छित्त्वा रामो रुषान्वितः। तं भ्रमन्तं ततो वत्सं जामदग्न्यः स्वमाश्रमम्॥ प्रत्यानयत राजेन्द्र तेषामन्तःपुरात् प्रभुः। अर्जुनस्य सुतास्ते तु सम्भूयाबुद्धयस्तदा॥ गत्वाऽऽश्रममसम्बुद्धा जमदग्नेर्महात्मनः। अपातयन्त भल्लाप्रैः शिरः कायान्नराधिप।॥ समित्कुशार्थं रामस्य निर्यातस्य यशस्विनः। ततः पितृवधामर्षाद् रामः परममन्युमान्॥ निःक्षत्रियां प्रतिश्रुत्य महीं शस्त्रमगृह्वत। ततः स भृगुशार्दूलः कार्तवीर्यस्य वीर्यवान्॥ विक्रम्य निजघानाशु पुत्रान् पौत्रांश्च सर्वशः। स हैहयसहस्राणि हत्वा परममन्युमान्॥ चकार भार्गवो राजन् महीं शोणितकर्दमाम्। स तथाऽऽशु महातेजाः कृत्वा निःक्षत्रियां महीम्।।५४। कृपया परयाऽऽविष्टो वनमेव जगाम ह। ततो वर्षसहस्रेषु समतीतेषु केषुचित्॥ क्षेपं सम्प्राप्तवांस्तत्र प्रकृत्या कोपन: प्रभुः। विश्वामित्रस्य पौत्रस्तु रैभ्यपुत्रो महातपाः।। परावसुर्महाराज क्षिप्त्वाऽऽह जनसंसदि। ये ते ययातिपतने यज्ञे सन्तः समागताः॥ प्रतर्दनप्रभृतयो राम किं क्षत्रिया न ते। मिथ्याप्रतिज्ञो राम त्वं कत्थसे जनसंसदि॥ भयात् क्षत्रियवीराणां पर्वतं समुपाश्रितः। सा पुनः क्षत्रियशतैः पृथिवी सर्वतः स्तृता॥ परावसोर्वचः श्रुत्वा शस्त्रं जग्राह भार्गवः। ततो ये क्षत्रिया राजन् शतशस्तेन वर्जिताः॥ ते विवृद्धा महावीर्याः पृथिवीपतयोऽभवन्। स पुनस्ताञ्जघानाशु बालानपि नराधिप॥ गर्भस्थैस्तु मही व्याप्ता पुनरेवाभवत् तदा। जातं जातं स गर्भं तु पुनरेव जघान ह॥ अरक्षंश्च सुतान् कांश्चित् तदा क्षत्रिययोषितः। त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः॥ दक्षिणामश्वमेधान्ते कश्यपायाददत् ततः। स क्षत्रियाणां शेषार्थं करेणोद्दिश्य कश्यपः॥ स्रुक्प्रग्रहवता राजंस्ततो वाक्यमथाब्रवीत्। गच्छ तीरं समुद्रस्य दक्षिणस्य महामुने॥ न ते मद् विषये राम वस्तव्यमिह कर्हिचित्। ततः शूर्पारकं देशं सागरस्तस्य निर्ममे॥ सहसा जामदग्न्यस्य सोऽपरान्तमहीतलम्। कश्यपस्तां महाराज प्रतिगृह्य वसुन्धराम्॥ कृत्वा ब्राह्मणसंस्थां वै प्रविष्टः सुमहद् वनम्। ततः शूद्राश्च वैश्याश्च यथा स्वैरप्रचारिणः॥ अवर्तन्त द्विजाग्र्याणां दारेषु भरतर्षभ। अराजके जीवलोके दुर्बला बलवत्तरैः॥ पीड्यन्ते न हि विप्रेषु प्रभुत्वं कस्यचित् तदा। ततः कालेन पृथिवी पीड्यमाना दुरात्मभिः॥ विपर्ययेण तेनाशु प्रविवेश रसातलम्। अरक्ष्यमाणा विधिवत् क्षत्रियैर्धर्मरक्षिभिः॥ तां दृष्ट्वा द्रवतीं तत्र संत्रासात् स महामनाः। ऊरुणा धारयामास कश्यपः पृथिवीं ततः॥ धृता तेनोरुणा येन तेनोर्वाति मही स्मृता। रक्षणार्थं समुद्दिश्य ययाचे पृथिवी तदा॥ प्रसाद्य कश्यपं देवी वरयामास भूमिपम्। पृथिव्युवाच सन्ति ब्रह्मन् मया गुप्ताः स्त्रीषु क्षत्रियपुङ्गवाः॥ हैहयानां कुले जातास्ते संरक्षन्तु मां मुने। अस्ति पौरवदायादो विदूरथसुतः प्रभो॥ ऋक्षैः संवर्धितो विप्र ऋक्षवत्यथ पर्वते। तथानुकम्पमानेन यज्वनाथामितौजसा॥ पराशरेण दायादः सौदासस्याभिरक्षितः। सर्वकर्माणि कुरुते शूद्रवत् तस्य स द्विजः॥ सर्वकर्मेत्यभिख्यातः स मां रक्षतु पार्थिवः। शिबिपुत्रो महातेजा गोपतिर्नाम नामतः॥ वने संवर्धितो गोभिः सोऽभिरक्षतु मां मुने। प्रतर्दनस्य पुत्रस्तु वत्सो नाम महाबलः॥ वत्सैः संवर्धितो गोष्ठे स मां रक्षतु पार्थिवः। दधिवाहनपौत्रस्तु पुत्रो दिविरथस्य च॥ गुप्तः स गौतमेनासीद् गङ्गाकूलेऽभिरक्षितः। बृहद्रथो महातेजा भूरिभूतिपरिष्कृतः॥ गोलाङ्गलैर्महाभागो गृध्रकूटेऽभिरक्षितः। मरुत्तस्यान्ववाये च रक्षिता: क्षत्रियात्मजाः॥ मरुत्पतिसमा वीर्ये समुद्रेणाभिरक्षिताः। एते क्षत्रियदायादास्तत्र तत्र परिश्रुताः॥ धोकारहेमकारादिजातिं नित्यं समाश्रिताः। यदि मामभिरक्षन्ति ततः स्थास्यामि निश्चला॥ एतेषां पितरश्चैव तथैव च पितामहाः। मदर्थं निहता युद्धे रामेणाक्लिश्कर्मणा॥ तेषामपचितिश्चैव मया कार्या महामुने। न ह्यहं कामये नित्यमतिक्रान्तेन रक्षणम्। वर्तमानेन वर्तेयं तत् क्षिप्रं संविधीयताम्॥ वासुदेव उवाच ततः पृथिव्या निर्दिशंस्तान् समानीय कश्यपः। अभ्यषिञ्चन्महीपालान् क्षत्रियान् वीर्यसम्मतान्॥ तेषां पुत्राश्च पौत्राश्च येषां वंशाः प्रतिष्ठिताः। एवमेतत् पुरावृत्तं यन्मां पृच्छसि पाण्डव॥ वैशम्पायन उवाच एवं ब्रुवंस्तं च यदुप्रवीरो युधिष्ठिरं धर्मभृतां वरिष्ठम्। रथेन तेनाशु ययौ महात्मा दिशः प्रकाशम्भगवानिवार्कः॥ वैशम्पायन उवाच ततो रामस्य तत् कर्म श्रुत्वा राजा युधिष्ठिरः। विस्मयं परमं गत्वा प्रत्युवाच जनार्दनम्॥ अहो रामस्य वार्ष्णेय शक्रस्येव महात्मनः। विक्रमो वसुधा येन क्रोधान्निःक्षत्रिया कृता॥ गोभिः समुद्रेण तथा गोलाकुलर्भवानरैः। गुप्ता रामभयोद्विग्नाः क्षत्रियाणां कुलोद्वहाः॥ अहो धन्यो नृलोकोऽयं सभाग्याश्च नरा भुवि। यत्र कर्मेदृशं धर्म्यं द्विजेन कृतमित्युत॥ तथावृत्तौ कथां तात तावच्युतयुधिष्ठिरौ। जग्मतुर्यत्र गाङ्गेयः शरतल्पगतः प्रभुः॥ ततस्ते ददृशुर्भीष्मं शरप्रस्तरशायिनम्। स्वरश्मिजालसंवीतं सायंसूर्यसमप्रभम्॥ उपास्यमानं मुनिभिर्देवैरिव शतक्रतुम्। देशे परमधर्मिष्ठे नदीमोघवतीमनु॥७ दूरादेव तमालोक्य कृष्णो राजा च धर्मजः। चत्वारः पाण्डवाश्चैव ते च शारद्वतादयः॥ अवस्कन्द्याथ वाहेभ्यः संयम्य प्रचलं मनः। एकीकृत्येन्द्रियग्राममुपतस्थुर्महामुनीनन॥ अभिवाद्य तु गोविन्दः सात्यकिस्ते च पार्थिवाः। व्यासादीनृषिमुख्यांश्च गाङ्गेयमुपतस्थिरे॥ ततो वृद्धं तथा दृष्ट्वा गाङ्गेयं यदुकौरवाः। परिवार्य ततः सर्वे निषेदुः पुरुषर्षभाः॥ ततो निशाम्य गाङ्गेय शाम्यमानमिवानलम्। किंचिद् दीनमना भीष्ममिति होवाच केशवः॥ केशव उवाच कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि यथा पुरा। कच्चिन्न व्याकुला चैव बुद्धिस्ते वदतां वर॥ शराभिघातदुःखात् ते कच्चिद् गात्रं न दूयते। मानसादपि दुःखाद्धि शारीरं बलवत्तरम्॥ वरदानात् पितुः कामं छन्दमृत्युरसि प्रभो। शान्तनोधर्मनित्यस्य न त्वेतन्मम कारणम्॥ सुसूक्ष्मोऽपि तु देहे वै शल्यो जनयते रुजम्। किं पुनः शरसंघातैश्चित्तस्य तव पार्थिव॥ काम नैतत् तवाख्येयं प्राणिनां प्रभवाप्ययौ। उपदेष्टुं भवाशक्तो देवानामपि भारत॥ यच्च भूतं भविष्यं च भवच्च पुरुषर्षभ। सर्वं तज्ज्ञानवृद्धस्य तव भीष्म प्रतिष्ठितम्॥ संहारश्चैव भूतानां धर्मस्य च फलोदयः। विदितस्ते महाप्राज्ञ त्वं हि धर्ममयो निधिः॥ त्वां हि राज्ये स्थितं स्फीते समग्राङ्गमरोगिणम्। स्त्रीसहस्रैः परिवृतं पश्यामीवोर्ध्वरेतसम्॥ ऋते शान्तनवाद् भीष्मात् त्रिषु लोकेषु पार्थिव। सत्यधर्मान्महावीर्याच्छूराद् धर्मेकतत्परात्॥ मृत्युमावार्य तपसा शरसंस्तरशायिनः। निसर्गप्रभवं किंचिन्न च तातानुशुश्रुम॥ सत्ये तपसि दाने च यज्ञाधिकरणे तथा। धनुर्वेदे च वेदे च नीत्यां चैवानुरक्षणे॥ अनृशंस शुचिं दान्तं सर्वभूतहिते रतम्। महारथं त्वत्सदृशं न कंचिदनुशुश्रुम॥ त्वं हि देवान् सगन्धर्वानसुरान् यक्षराक्षसान्। शक्तस्त्वेकरथेनैव विजेतुं नात्र संशयः॥ स त्वं भीष्म महाबाहो वसूनां वासवोपमः। नित्यं विप्रैः समाख्यातो नवमोऽनवमो गुणैः॥ अहं च त्वाभिजानामि यस्त्वं पुरुषसत्तम। त्रिदशेष्वपि विख्यातस्त्वं शक्त्या पुरुषोत्तमः॥ मनुष्येषु मनुष्येन्द्र न दृष्टो न च मे श्रुतः। भवतो वा गुणैर्युक्तः पृथिव्यां पुरुष: क्वचित्॥ त्वं हि सर्वगुणै राजन् देवानप्यतिरिच्यसे। तपसा हि भवाशक्तः स्रष्टुं लोकांश्चराचरान्॥ किं पुनश्चात्मनो लोकानुत्तमानुत्तमैर्गुणैः। तदस्य तप्यमानस्य ज्ञातीनां संक्षयेन वैः॥ ज्येष्ठस्य पाण्डुपुत्रस्य शोकं भीष्म व्यपानुद। ये हि धर्माः समाख्याताश्चातुर्वर्ण्यस्य भारत॥ चातुराश्रभ्यसंयुक्ताः सर्वे ते विदितास्तव। चातुर्विद्ये च ये प्रोक्ताश्चातुर्होत्रे च भारत॥ योगे सांख्ये च नियता ये च धर्माः सनातनाः। चातुर्वर्ण्यस्य यश्चोक्तो धर्मो न स्म विरुध्यते॥ सेव्यमानः सवैयाख्यो गाङ्गेय विदितस्तव। प्रतिलोमप्रसूतानां वर्णानां चैव यः स्मृतः॥ देशजातिकुलानां न जानीषे धर्मलक्षणम्। वेदोक्तो यश्च शिष्टोक्तः सदैव विदितस्तव॥ इतिहासपुराणार्थाः कार्येन विदितास्तवा धर्मशास्त्रं च सकलं नित्यं मनसि ते स्थितम्॥ ये च केचन लोकेऽस्मिन्नर्थाः संशयकारकाः। तेषां छेत्ता नास्ति लोके त्वदन्यः पुरुषर्षभ।॥ स पाण्डवेयस्य मनः समुत्थितं नरेन्द्र शोकं व्यपकर्ष मेधया। भवद्विधा ह्युत्तमबुद्धिविस्तरा विमुह्यमानस्य नरस्य शान्तये॥ वैशम्पायन उवाच श्रुत्वा तु वचनं भीष्मो वासुदेवस्य धीमतः। किंचिदुन्नाम्य वदनं प्राञ्जलिर्वाक्यमब्रवीत्॥ भीष्म उवाच नमस्ते भगवन् कृष्ण लोकानां प्रभवाप्यय। त्वं हि कर्ता हृषीकेश संहर्ता चापराजितः॥ विश्वकर्मन् नमस्तेऽस्तु विश्वात्मन् विश्वसम्भव। अपवर्गोऽसि भूतानां पञ्चानां परतः स्थितः॥ नमस्ते त्रिषु लोकेषु नमस्ते परतस्त्रिषु। योगेश्वर नमस्तेऽस्तु त्वं हि सर्वपरायणः॥ मत्संश्रितं यदाऽऽत्थ त्वं वचः पुरुषसत्तम। तेन पश्यामि ते दिव्या भावान् हि त्रिषु वर्त्मसु॥ तच्च पश्यामि गोविन्द यत् ते रूपं सनातनम्। सप्त मार्गा निरुद्धास्ते वायोरमिततेजसः॥ दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुन्धरा। दिशो भुजा रविश्चक्षुर्वीर्ये शुक्रः प्रतिष्ठितः॥ अतसीपुष्पसंकाशं पीतवाससमच्युतम्। वपुर्खनुमिमीमस्ते मेघस्येव सविद्युतः॥ त्वत्प्रपन्नाय भक्ताय गतिमिशं जिगीषवे। यच्छ्रेयः पुण्डरीकाक्ष तद् ध्यायस्व सुरोत्तम॥ वासुदेव उवाच यतः खलु पुरा भक्तिर्मयि ते पुरुषर्षभ। ततो मया वपुर्दिव्यं त्वयि राजन् प्रदर्शितम्॥ न ह्यभक्ताय राजेन्द्र भक्तायानृजवे न च। दर्शयाम्यहमात्मानं च चाशान्ताय भारत॥ भवांस्तु मम भक्तश्च नित्यं चार्जवमास्थितः। दमे तपसि सत्ये च दाने च निरतः शुचिः॥ अर्हस्त्वं भीष्म मां द्रष्टुं तपसा स्वेन पार्थिव। तव ह्युपस्थिता लोका येभ्यो नावर्तते पुनः॥ पञ्चाशतं षट् च कुरुप्रवीर शेष दिनानां तव जीवितस्या ततः शुभैः कर्मफलोदयैस्त्वं समेष्यसे भीष्म विमुच्य देहम्॥ एते हि देवा वसवो विमार्ना न्यास्थाय सर्वे ज्वलिताग्निकल्पा:। अन्तर्हितास्त्वां प्रतिपालयन्ति काष्ठां प्रपद्यन्तमुदक्पतङ्गम्॥ व्यावर्तमाने भगवत्युदीची सूर्ये दिशं कालवशात् प्रपन्ने। गन्तासि लोकान् पुरुषप्रवीर नावर्तते यानुपलभ्य विद्वान्॥ अमुं च लोकं त्वयि भीष्म याते ज्ञानानि नंक्ष्यन्त्यखिलेन वीर। अतस्तु सर्वे त्वयि संन्निकर्ष समागता धर्मविवेचनाय॥ तज्ज्ञातिशोकोपहतश्रुताय सत्याभिसंधाय युधिष्ठिराय। प्रब्रूहि धर्मार्थसमाधियुक्तं सत्यं वचोऽस्यापनुदाशु शोकम्॥ वैशम्पायन उवाच ततः कृष्णस्य तद् वाक्यं धर्मार्थसहितं हितम्। श्रुत्वा शान्तनवो भीष्मः प्रत्युवाच कृताञ्जलिः॥ लोकनाथ महाबाहो शिव नारायणाच्युत। तव वाक्यमुपश्रुत्य हर्षेणास्मि परिप्लुतः॥ किं चाहमभिधास्यामि वाक्यं ते तव संनिधौ। यदा वाचोगतं सर्वं तव वाचि समाहितम्॥ यच्च किंचित् क्व चिल्लोके कर्तव्यं क्रियते च यत्। त्वत्तस्तन्निःसृतं देव लोके बुद्धिमतो हि ते॥ कथयेद् देवलोकं यो देवराजसमीपतः। धर्मकामार्थमोक्षाणां सोऽर्थं ब्रूयात् तवाग्रतः॥ शराभितापाद् व्यथितं मनो मे मधुसूदन। गात्राणि चावसीदन्ति न च बुद्धिः प्रसीदति॥ न च मे प्रतिभा काचिदस्ति किंचित् प्रभाषितुम्। पीड्यमानस्य गोविन्द विषानलसमैः शरैः॥ बलं मे प्रजहातीव प्राणाः संत्वरयन्ति च। मर्माणि परितप्यन्ति भ्रान्तचित्तस्तथा ह्यहम्॥ दौर्बल्यात् सज्जते वाङ्मे स कथं वक्तुमुत्सहे। साधु मे त्वं प्रसीदस्व दाशार्हकुलवर्धन॥ तत् क्षमस्व महाबाहो न बयां किंचिदच्युत। त्वत्संनिधौ च सीदेद्धि वाचस्पतिरपि ब्रुवन्॥ न दिशः सम्प्रजानामि नाकाशं न च मेदिनीम्। केवलं तव वीर्येण तिष्ठामि मधुसूदन॥ स्वयमेव भवांस्तस्माद् धर्मराजस्य यद्धितम्। तद् ब्रवीत्वाशु सर्वेषामागमानां त्वमागमः॥ कथं त्वयि स्थिते कृष्णे शाश्वते लोककर्तरि। प्रब्रूयान्मद्विधः कश्चिद् गुरौ शिष्य इव स्थिते॥ वासुदेव उवाच उपपन्नमिदं वाक्यं कौरवाणां धुरन्धरे। महावीर्ये महासत्त्वे स्थिरे सर्वार्थदर्शिनि॥ यच्च मामात्थ गाड्नेय बाणघातरूज प्रति। गृहाणात्र वरं भीष्म मत्प्रसादकृतं प्रभो॥ न ते ग्लानिन ते मूर्छा न दाहो न च ते रुजा। प्रभविष्यन्ति गाङ्गेय क्षुत्पिपासे न चाप्युत॥ ज्ञानानि च समग्राणि प्रतिभास्यन्ति तेऽनघ। न च ते क्व चिदासक्तिर्बुद्धेः प्रादुर्भविष्यति॥ सत्त्वस्थं च मनो नित्यं तव भीष्म भविष्यति। रजस्तमोभ्यां रहितं घनैर्मुक्त इवोडुराट्॥ यद् यच्च धर्मसंयुक्तमर्थयुक्तमथापि च। चिन्तयिष्यसि तत्राग्र्या बुद्धिस्तव भविष्यति॥ इमं च राजशार्दूल भूतग्रामं चतुर्विधम्। चक्षुर्दिव्यं समाश्रित्य द्रक्ष्यस्यमितविक्रम॥ संसरन्तं प्रजाजालं संयुक्तो ज्ञानचक्षुषा। भीष्म द्रक्ष्यसि तत्त्वेन जले मीन इवामले॥ वैशम्पायन उवाच ततस्ते व्याससहिताः सर्व ऋग्यजुःसामसहितैर्वचोभिः कृष्णमार्चयन्॥ ततः सर्वार्तवं दिव्य पुष्पवर्ष नभस्तलात्। पपात यत्र वार्ष्णेयः सगाङ्गेय सपाण्डवः॥ वादित्राणि च सर्वाणि जगुश्चाप्सरसां गणाः। न चाहितमनिष्टं च किञ्चित्तत्र प्रदृश्यते॥ एव महर्षयः। भीष्ममामन्त्रयाञ्चक्रू ववौ शिवः सुखो वायुः सर्वगन्धवहः शुचिः। शान्तायां दिशि शान्ताश्च प्रावदन् मृगपक्षिणः॥ ताते मुहूर्ताद् भगवान् सहस्रांशुर्दिवाकरः। दहन वैनमिवैकान्ते प्रतीच्या प्रत्यदृश्यत॥ ततो महर्षयः सर्वे समुत्थाय जनार्दनम्। राजानं च युधिष्ठिरम्॥ ततः प्रणाममकरोत् केशवः सहपाण्डवः। सात्यकिः संजयश्चैव स च शारद्वत: कृपः॥ ततस्ते धर्मनिरताः सम्यक् तैरभिपूजिताः। श्वः समेष्याम इत्युक्त्वा यथेष्टं त्वरिता ययुः॥ तथैवामन्त्र्य गाङ्गेयं केशवः पाण्डवास्तथा। प्रदक्षिणमुपावृत्य रथानारुरुहुः शुभान्॥ ततो रथैः काञ्चनचित्रकूबरै महीधराभैः समदैश्च दन्तिभिः। हयैः सुपर्णैरिव चाशुगामिभिः पदातिभिश्चात्तशरासनादिभिः॥ ययौ स्थानां पुरतो हि सा चर्मू स्तथैव पश्चादतिमात्रसारिणी। पुरश्च पश्चाच्च यथा महानदी तमृक्षवन्तं गिरिमेत्य नर्मदा॥ ततः पुरस्ताद्भगवान्निशाकरः समुत्थितस्तामभिहर्षयंश्चमूम्। दिवाकरापीतरसा महौषधी: पुनः स्वकेनैव गुणेन योजयन्॥ ततः पुरं सुरपुरसम्मितद्युति प्रविश्य ते यदुवृषपाण्डवास्तदा। यथोचितान् भवनवरान् समाविशञ् श्रमान्विता मृगपतयो गुहा इव॥ वैशम्पायन उवाच ततः शयनमाविश्य प्रसुप्तो मधुसूदनः। याममात्रार्धशेषायां यामिन्यां प्रत्यबुद्ध्यत॥ स ध्यानपथमाविश्य सर्वज्ञानानि माधवः। अवलोक्य ततः पश्चाद् दध्यौ ब्रह्म सनातनम्॥ ततः स्तुतिपुराणज्ञा रक्तकण्ठाः सुशिक्षिताः। अस्तुवन् विश्वकर्माणं वासुदेवं प्रजापतिम्॥ पठन्ति पाणिस्वनिकास्तथा गायन्ति गायनाः। शङ्खानथ मृदङ्गांश्च प्रवाद्यन्ति सहस्रशः॥ वीणापणववेणूनां स्वनश्चातिमनोरमः। सहास इव विस्तीर्णः शुश्रुवे तस्य वेश्मनः॥ ततो युधिष्ठिरस्यापि राज्ञो मङ्गलसंहिताः। उच्चेरुर्मधुरा वाचो गीतवादिनि:स्वनाः॥ तत उत्थाय दाशार्हः स्नातः प्राञ्जलिरच्युतः। जप्त्वा गुह्यं महाबाहुरग्नीनाश्रित्य तस्थिवान्॥ ततः सहस्रं विप्राणां चतुर्वेदविदां तथा। गवां सहस्रेणैकैकं वाचयामास माधवः॥ मङ्गलालम्भनं कृत्वा आत्मानमवलोक्य च। आदर्श विमले कृष्णस्ततः सात्यकिमब्रवीत्॥ गच्छ शैनेय जानीहि गत्वा राजनिवेशनम्। अपि सज्जो महातेजा भीष्मं द्रष्टुं युधिष्ठिरः॥ ततः कृष्णस्य वचनात् सात्यकिस्त्वरितो ययौ। उपगम्य च राजानं युधिष्ठिरमभाषत॥ युक्तो रथवरो राजन् वासुदेवस्य धीमतः। समीपमापगेयस्य प्रयास्यति जनार्दनः॥ भवत्प्रतीक्षः कृष्णोऽसौ धर्मराज महाद्युते। यदत्रानन्तरं कृत्यं तद् भवान् कर्तुमर्हति॥ एवमुक्तः प्रत्युवाच धर्मपुत्रो युधिष्ठिरः। युधिष्ठिर उवाच युज्यतां मे रथवरः फाल्गुनाप्रतिमद्युते॥ न सैनिकैश्च यातव्यं यास्यामो वयमेव हि। न च पीडयितव्यो मे भीष्मो धर्मभृतां वरः॥ अतः पुरःसराश्चापि निवर्तन्तु धनंजय। अद्यप्रभृति गाङ्गेयः परं गुह्यं प्रवक्ष्यति॥ अतो नेच्छामि कौन्तेय पृथग्जनसमागमम्। वैशम्पायन उवाच स तद्वाक्यमथाज्ञाय कुन्तीपुत्रो धनंजयः॥ युक्तं रथवरं तस्मा आचचक्षे नरर्षभः। ततो युधिष्ठिरो राजा यमौ भीमार्जुनावपि॥ भूतानीव समस्तानि ययुः कृष्णनिवेशनम्। आगच्छत्स्वथ कृष्णोऽपि पाण्डवेषु महात्मसु॥ शैनेयसहितो धीमान् रथमेवान्वपद्यत। रथस्थाः संविदं कृत्वा सुखां पृष्ट्वा च शर्वरीम्॥ मेघघोषै रथवरैः प्रययुस्ते नरर्षभाः। बलाहकं मेघपुष्पं शैब्यं सुग्रीवमेव च॥ दारुकश्चोदयामास वासुदेवस्य वाजिनः। ते हया वासुदेवस्य दारुकेण प्रचोदिताः।२२॥ गां खुरागैस्तथा राजंल्लिखन्तः प्रययुस्तदा। ते ग्रसन्त इवाकाशं वेगवन्तो महाबलाः॥ क्षेत्रं धर्मस्य कृत्स्नस्य कुरुक्षेत्रमवातरन्। ततो ययुर्यत्र भीष्मः शरतल्पगतः प्रभुः॥ आस्ते महर्षिभिः सार्धं ब्रह्मा देवगणैर्यथा। ततोऽवतीर्य गोविन्दो रथात् स च युधिष्ठिरः॥ भीमो गाण्डीवधन्वा च यमौ सात्यकिरेव च। ऋषीनभ्यर्चयामासुः करानुद्यम्य दक्षिणान्॥ स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः। अभ्याजगाम गाङ्गेयं ब्रह्माणमिव वासवः॥ शरतल्पे शयानं तमादित्यं पतितं यथा। स ददर्श महाबाहुं भयाच्चागतसाध्वसः।२८॥ जनमेजय उवाच धर्मात्मनि महावीर्ये सत्यसंधे जितात्मनि। देवव्रते महाभागे शरतल्पगतेऽच्युते॥ शयाने वीरशयने भीष्मे शान्तनुनन्दने। गाङ्गेये पुरुषव्याघ्र पाण्डवैः पर्युपासिते॥ काः कथाः समवर्तन्त तस्मिन् वीरसमागमे। हतेषु सर्वसैन्येषु तन्मे शंस महामुने॥ वैशम्पायन उवाच शरतल्पगते भीष्मे कौरवाणां धुरन्धरे। आजग्मुर्ऋषयः सिद्धा नारदप्रमुखा नृप॥ हतशिष्टाश्च राजानो युधिष्ठिरपुरोगमाः। धृतराष्ट्रश्च कृष्णश्च भीमार्जुनयमास्तथा॥ तेऽभिगम्य महात्मानो भरतानां पितामहम्। अन्वशोचन्त गाङ्गेयमादित्यं पतितं यथा॥ मुहूर्तमिव च ध्यात्वा नारदो देवदर्शनः। उवाच पाण्डवान् सर्वान् हतशिष्टांश्च पार्थिवान्॥ प्राप्तकालं समाचक्षे भीष्मोऽयमनुयुज्यताम्। अस्तमेति हि गाङ्गेयो भानुमानिव भारत॥ अयं प्राणानुत्सिसृक्षुस्तं सर्वेऽभ्यनुपृच्छत। कृत्स्नात् विविधान् धर्मांश्चातुर्वर्ण्यस्य वेत्त्ययम्॥ एष वृद्धः पराँल्लोकान् सम्प्राप्नोति तनुं त्यजन्। तं शीघ्रमनुयुजीध्वं संशयान् मनसि स्थितान्॥ वैशम्पायन उवाच एवमुक्ते नारदेन भीष्ममीयुर्नराधिपः। प्रष्टुं चाशक्नुवन्तस्ते वीक्षां चक्रुः परस्परम्॥ अथोवाच हृषीकेशं पाण्डुपुत्रो युधिष्ठिरः। नान्यस्तु देवकीपुत्राच्छक्तः प्रष्टुं पितामहम्॥ प्रव्याहर यदुश्रेष्ठ त्वमग्रे मधुसूदन। त्वं हि नस्तात सर्वेषां सर्वधर्मविदुत्तमः॥ एवमुक्तः पाण्डवेन भगवान् केशवस्तदा। अभिगम्य दुराधर्षं प्रव्याहारयदच्युतः॥ वासुदेव उवाच कच्चित् सुखेन रजनी व्युष्टा ते राजसत्तम। विस्पष्टलक्षणा बुद्धिः कच्चिच्चोपस्थिता तव॥ कच्चिज्ज्ञानानि सर्वाणि प्रतिभान्ति च तेऽनघ। न ग्लायते च हृदयं न च ते व्याकुलं मनः॥ भीष्म उवाच दाहो मोहः श्रमश्चैव क्लमो ग्लानिस्तथा रुजा। तव प्रसादाद् वार्ष्णेय सद्यः प्रतिगतानि मे॥ यच्च भूतं भविष्यच्च भवच्च परमाते। तत् सर्वमनुपश्यामि पाणौ फलमिवार्पितम्॥ वेदोक्ताश्चैव ये धर्मा वेदान्ताधिगताच ये। तान् सर्वान् सम्प्रपश्यामि वरदानात् तवाच्युत॥ शिष्टैश्च धर्मो यः प्रोक्तः स च मे हृदि वर्तते। देशजातिकुलानां च धर्मज्ञोऽस्मि जनार्दन।॥ चतुर्वाश्रमधर्मेषु योऽर्थः स च हृदि स्थितः। राजधर्मांश्च सकलानवगच्छामि केशव॥ यच्च यत्र च वक्तव्यं तद् वक्ष्यामि जनार्दन। तव प्रसादाद्धि शुभा मनो मे बुद्धिराविशत्॥ युवेवास्मि समावृत्तस्त्वदनुधयनबंहितः। वक्तुं श्रेयः समर्थोऽस्मि त्वत्प्रसादाज्जनार्दन॥ स्वयं किमर्थं तु भवाश्रेयो न प्राह पाण्डवम्। किं ते विवक्षितं चात्र तदाशु वद माधव॥ वासुदेव उवाच यशसः श्रेयसंश्चैव मूलं मां विद्धि कौरव। मत्तः सर्वेऽभिनिर्वृत्ता भावाः सदसदात्मकाः॥ शीतांशुश्चन्द्र इत्युक्ते लोके को विस्पयिष्यति। तथैव यशसा पूर्णे मयि को विस्मयिष्यति॥ आधेयं तु मया भूयो यशस्तव महाद्युते। ततो मे विपुला बुद्धिस्त्वयि भीष्म समर्पिता॥ याबद्धि पृथिवीपाल पृथ्वीयं स्थास्यति ध्रुवा। तावत् तत्तवाक्षया कीर्तिर्लोकाननुचरिष्यति॥ यच्च त्वं वक्ष्यसे भीष्म पाण्डवायानुपृच्छते। वेदप्रवाद इव ते स्थास्यते वसुधातले॥ यश्चैतेन प्रमाणेन योक्ष्यत्यात्मानमात्मना। स फलं सर्वपुण्यानां प्रेत्य चानुभविष्यति।॥ एतस्मात् कारणाद् भीष्म मतिर्दिव्या मया हि ते। दत्ता यशो विप्रथयेत् कथं भूयस्तवेति ह॥ यावद्धि प्रथते लोके पुरुषस्य यशो भुवि। तावत् तस्याक्षयं स्थानं भवतीति विनिश्चिता॥ राजानो हतशिष्टास्त्वां राजन्नभित आसते। धर्माननुयुयुक्षन्तस्तेभ्यः प्रब्रूहि भारत॥ भवान् हि वयसा वृद्धः श्रुताचारसमन्वितः। कुशलो राजधर्माणां सर्वेषामपराश्च ये॥ जन्मप्रभृति ते कश्चिद् वृजिनं न ददर्श ह। ज्ञातारं सर्वधर्माणां त्वां विदुः सर्वपार्थिवाः॥ तेभ्यः पितेव पुत्रेभ्यो राजन् ब्रूहि परं नयम्। ऋषयश्चैव देवाश्च त्वया नित्यमुपासिताः॥ तस्माद् वक्तव्यमेवेदं त्वयावश्यमशेषतः! धर्मं शुश्रूषमाणेभ्यः पृष्टेन च सता पुनः॥ वक्तव्यं विदुषा चेति धर्ममाहुर्मनीषिणाः। अप्रतिब्रुवत: कष्टो दोषो हि भविता प्रभो॥ तस्मात् पुत्रैश्च पौत्रेश्च धर्मान् पृष्टान् सनातनान्। विद्वाजिज्ञासमानस्त्वं प्रब्रूहि भरतर्षभ॥ वैशम्पायन उवाच अथाब्रवीन्महातेजा वाक्यं कौरवनन्दनः। हन्त धर्मान् प्रवक्ष्यामि दृढे वाङ्मनसी मम॥ तव प्रसादाद् गोविन्द भूतात्मा ह्यासि शाश्वतः। युधिष्ठिरस्तु धर्मात्मा मां धर्माननुपृच्छतु। एवं प्रीतो भविष्यामि धर्मान् वक्ष्यामि चाखिलान्॥ यस्मिन् राजर्षभे जाते धर्मात्मनि महात्मनि। अहृष्यन्नृषयः सर्वे स मां पृच्छतु पाण्डव॥ सर्वेषां दीप्तयशसां कुरूणां धर्मचारिणाम्। यस्य नास्ति समः कश्चित् स मां पृच्छतुं पाण्डवः॥४ धृतिर्दमो ब्रह्मचर्यं क्षमा धर्मश्च नित्यदा। यस्मिन्नोजश्च स मां पृच्छतु पाण्डवः॥ सम्बन्धिनोऽतिथीन् भृत्यान् संश्रितांश्चैव यो भृशम्। सम्मानयति सत्कृत्य स मा पृच्छतु पाण्डवः॥ सत्यं दानं तपः शौर्य शान्तिर्दाक्ष्यमसम्भ्रमः। यस्मिन्नेतानि सर्वाणि स मां पृच्छतु पाण्डवः॥ यो न कामान्न संरम्भान्न भयानार्थकारणात्। कुर्यादधर्मं धर्मात्मा स मां पृच्छतु पाण्डवः॥ सत्यनित्यः क्षमानित्यो ज्ञाननित्योऽतिथिप्रियः। यो ददाति सतां नित्यं स मां पृच्छतु पाण्डवः॥ इज्याध्ययननित्यस्य धर्मे च निरतः सदा। क्षान्तः श्रुतरहस्यश्च स मां पृच्छतु पाण्डवः॥ वासुदेव उवाच लज्जया परयोपेतो धर्मराजो युधिष्ठिरः। अभिशापभयाद् भीतो भवन्तं नोपसर्पति॥ लोकस्य कदनं कृत्वा लोकनाथो विशाम्पते। अभिशापभयाद् भीतो भवन्तं नोपसर्पति॥ पूज्यान् मान्यांश्च भक्तांश्च गुरून् सम्बन्धिबान्धवान्। अर्घार्हानिषुभिर्भित्त्वा भवन्तं नोपसर्पति॥ भीष्म उवाच ब्राह्मणानां यथा धर्मो दानमध्ययनं तपः। क्षत्रियाणां तथा कृष्ण समरे देहपातनम्॥ पितॄन् पितामहान् भ्रातृन् गुरून् सम्बन्धिबान्धवान्। मिथ्याप्रवृत्तान् यः संख्ये निहन्याद् धर्म एव सः॥ समयत्यागिनो लुब्धान् गुरूनपि च केशव। निहन्ति समरे पापान् क्षत्रियो यः स धर्मवित्॥ यो लोभान समीक्षेत धर्मसेतुं सनातनम्। निहन्ति यस्तं समरे क्षत्रियो वै स धर्मवित्॥ लोहितोदां केशतृणां गजशैलां ध्वजगुमाम्। महीं करोति युद्धेषु क्षत्रियो यः स धर्मवित्॥ आहूतेन रणे नित्यं योद्धव्यं क्षत्रबन्धुना। धर्म्यं स्वर्यं च लोक्यं च युद्धं हि मनुरब्रवीत्॥ वैशम्पायन उवाच एवमुक्तस्तु भीष्मेण धर्मपुत्रो युधिष्ठिरः। विनीतवदुपागम्य तस्थौ संदर्शनेऽग्रतः॥ अथास्य पादौ जग्राह भीष्मश्चापि ननन्द तम्। मूर्ध्नि चैनमुपाघ्राय निषीदेत्यब्रवीत् तदा॥ तमुवाचाथ गाङ्गेयो वृषभः सर्वधन्विनाम्। मां पृच्छ तात विश्रब्धं मा भैस्त्वं कुरुसत्तम॥ वैशम्पायन उवाच प्रणिपत्य हृषीकेशमभिवाद्य पितामहम्। अनुमान्य गुरून् सर्वान् पर्यपृच्छद् युधिष्ठिरः॥ युधिष्ठिर उवाच राज्ञां वै परमो धर्म इति धर्मविदो विदुः। महान्तमेतं भारं च मन्ये तद् ब्रूहि पार्थिव॥ राजधर्मान् विशेषेण कथयस्व पितामह। सर्वस्य जीवलोकस्य राजधर्मः परायणम्॥ त्रिवर्गो हि समासक्तो राजधर्मेषु कारैव। मोक्षधर्मश्च विस्पष्टः सकलोऽत्र समाहितः॥ यथा हि रश्मयोऽश्वस्य द्विरदस्याङ्कद्धशो यथा। नरेन्द्रधर्मो लोकस्य तथा प्रग्रहणं स्मृतम्॥ तत्र चेत् सम्प्रमुोत धर्मे राजर्षिसेविते। लोकस्य संस्था न भवेत् सर्वं च व्याकुलीभवेत्॥ उदयन् हि यथा सूर्यो नाशयत्यशुभं तमः। राजधर्मास्तथालोक्यां निक्षिपन्त्यशुभां गतिम्॥ तदने राजधर्मान् हि मदर्थे त्वं पितामह। प्रब्रूहि भरतश्रेष्ठ त्वं हि धर्मभृतां वरः॥ आगमश्च परस्त्वत्तः परंतप। भवन्तं हि परं बुद्धौ वासुदेवोऽभिमन्यते॥ भीष्म उवाच नमो धर्माय महते नमः कृष्णाय वेधसे। ब्राह्मणेभ्यो नमस्कृत्य धर्मान् वक्ष्यामि शाश्वतान्।।१० सर्वेषां नः शृणु कात्स्येन मत्तस्त्वं राजधर्मान् युधिष्ठिर। निरुच्यमानान् नियतो यच्चान्यदपि वाञ्छसि॥ आदावेव कुरुश्रेष्ठ राज्ञा रञ्जनकाम्यया। देवतानां द्विजानां च वर्तितव्यं यथाविधि॥ उत्थानेन सदा पुत्र दैवतान्यर्चयित्वा हि ब्राह्मणांश्च कुरूद्वह। आनृण्यं याति धर्मस्य लोकेन च समर्च्यते॥ प्रयतेथा युधिष्ठिर। न ह्युस्थानमृते दैवं राज्ञामर्थं प्रसादयेत्॥ साधारणं द्वयं ह्येतद् दैवमुत्थानमेव च। पौरुषं हि परं मन्ये दैवं निश्चितमुच्यते॥ विपन्ने च समारम्भे संतापं मा स्म वै कृथाः। घटस्वैव सदाऽऽत्मानं राज्ञामेष परो नयः॥ न हि सत्यादृते किंचिद् राज्ञां वै सिद्धिकारकम्। सत्ये हि राजा निरतः प्रेत्य चेह न नन्दति॥ ऋषीणामपि राजेन्द्र सत्यमेव परं धनम्। तथा राज्ञां परं सत्यान्नान्यद् विश्वासकारणम्॥ गुणवाशीलवान् दान्तो मृदुर्धर्यो जितेन्द्रियः। सुदर्शः स्थूललक्ष्यश्च न भ्रश्येत सदा श्रियः॥ आर्जवं सर्वकार्येषु श्रयेथाः कुरुनन्दन। पुनर्नयविचारेण त्रयीसंवरणेन च॥ मृदुर्हि राजा सततं लङ्घयो भवति सर्वशः। तीक्ष्णाच्चोद्विजते लोकस्तस्मादुभयमाश्रय॥ अदण्ड्याश्चैव ते पुत्र विप्राश्च ददतां वर। भूतमेतत् परं लोके ब्राह्मणो नाम पाण्डव॥ मनुना चैव राजेन्द्र गीतौ श्लोकौ महात्मना। धर्मेषु स्वेषु कौरव्य हृदि तौ कर्तुमर्हसि॥ अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्। तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति॥ अयो हन्ति यदाश्मानमग्निना वारि हन्यते। ब्रह्म च क्षत्रियो देशि तदा सीदन्ति ते त्रयः॥ एवं कृत्वा महाराज नमस्या एव ते द्विजाः। भौमं ब्रह्म द्विजश्रेष्ठा धारयन्ति समर्चिताः॥ पुरा तात महर्षिणा। एवं चैव नरव्याघ्र लोकत्रयविधातकाः। निग्राह्या एव सततं बाहुभ्यां ये स्युरीदृशाः॥ श्लोकौ चोशनसा गीतौ तौ निबोध महाराज त्वमेकाग्रमना नृप॥ उद्यम्य शस्त्रमायान्तमपि वेदान्तगं रणे। निगृह्णीयात् स्वधर्मेण धर्मापेक्षी नराधिपः॥ विनश्यमानं धर्मं हि योऽभिरक्षेत् स धर्मवित्। न तेन धर्महा स स्यान्मन्युस्तन्मन्युमृच्छति।॥ एवं चैव नरश्रेष्ठ रक्ष्या एव द्विजातयः। सापराधानपि हि तान् विषयान्ते समुत्सृजेत्॥ अभिशस्तमपि ह्येषां कृपायीत विशाम्पते। ब्रह्मने गुरुतल्पे च भ्रूणहत्ये तथैव च।॥ राजद्विष्टे च विप्रस्य विषयान्ते विसर्जनम्। विधीयते न शारीरं दण्डमेषां कदाचन॥ दयिताश्च नरास्ते स्युभक्तिमन्तो द्विजेषु ये। न कोशः परमोऽन्योऽस्ति राज्ञां पुरुषसंचयात्॥ दुर्गेषु च महाराज षट्स ये शास्त्रनिश्चिताः। सर्वदुर्गेषु मन्यन्ते नरदुर्गं सुदुस्तरम्॥ तस्मान्नित्यं दया कार्या चातुर्वर्ये विपश्चिता। धर्मात्मा सत्यवाक् चैव राजा रञ्जयति प्रजाः॥ न च क्षान्तेन ते नित्यं भाव्यं पुत्र समन्ततः। अधर्मो हि मृदू राजा क्षमावानिव कुञ्जरः॥ बार्हस्पत्ये च शास्त्रे च श्लोको निगदितः पुरा। अस्मिन्नर्थे महाराज तन्मे निगदतः शृणु॥ क्षममाणं नृपं नित्यं नीचः परिभवेज्जनः। हस्तियन्ता गजस्यैव शिर एवारुरुक्षति॥ तस्मान्नैव मृदुर्नित्यं तीक्ष्णो नैव भवेन्नृपः। वासन्तार्क इव श्रीमान् न शीतो न च धर्मदः॥ प्रत्यक्षेणानुमानेन तथौपम्यागमैरपि। परीक्ष्यास्ते महाराज स्वे परे चैव नित्यशः॥ व्यसनानि च सर्वाणि त्यजेथा भूरिदक्षिण। न चैव न प्रयुञ्जीत सङ्गं तु परिवर्जयेत्॥ लोकस्य व्यसनी नित्यं परिभूतो भवत्युत। उद्वेजयति लोकं च योऽतिद्वेषी महीपतिः॥ भवितव्यं सदा राज्ञा गर्भिणीसहधर्मिणा। कारणं च महाराज शृणु येनेदमिष्यते॥ यथा हि गर्भिणी हित्वा स्वं प्रियं मनसोऽनुगम्। गर्भस्य हितमाधत्ते तथा राज्ञाप्यसंशयम्॥ वर्तितव्यं कुरुश्रेष्ठ सदा धर्मानुवर्तिना। स्वं प्रियं तु परित्यज्य यद् यल्लोकहितं भवेत्॥ न संत्याज्यं च ते धैर्य कदाचिदपि पाण्डव। धीरस्य स्पश्दण्डस्य न भयं विद्यते क्वचित्॥ परिहासश्च भृत्यैस्ते नात्यर्थं वदतां वर। कर्तव्यो राजशार्दूल दोषमत्र हि मे शृणु॥ अवमन्यन्ति भर्तारं संघर्षादुपजीविनः। स्वे स्थाने न च तिष्ठन्ति लङ्घयन्ति च तद्वचः॥ प्रेष्यमाणा विकल्पन्ते गुह्यं चाप्यनुयुञ्जते। अयाच्यं चैव याचन्ते भोज्यान्याहारयन्ति च॥ क्रुश्यन्ति परिदीप्यन्ति भूमिपायाधितिष्ठते। उत्कोचैर्वञ्चनाभिश्च कार्याण्यनुविहन्ति च॥ जर्जरं चास्य विषयं कुर्वन्ति प्रतिरूपकैः। स्त्रीरक्षिभिश्च सज्जन्ते तुल्यवेषा भवन्ति च॥ वान्तं निष्ठीवनं चैव कुर्वते चास्य संनिधौ। निर्लज्जा राजशार्दूल व्याहरन्ति च तद्वचः॥ हयं वा दन्तिनं वापि रथं वा नृपसत्तम। अभिरोहन्त्यनादृत्य हर्षुले पार्थिवे मृदौ॥ इदं ते दुष्करं राजन्निदं ते दुष्टचेष्टितम्। इत्येवं सुहृदो वाचं वदन्ते परिषद्गताः॥ क्रुद्धे चास्मिन् हसन्त्येव न च हृष्यन्ति पूजिताः। संघर्षशीलाश्च तदा भवन्त्यन्योन्यकारणात्॥ विस्त्रंसयन्ति मन्त्रं च विवृण्वन्ति च दुष्कृतम्। लीलया चैव कुर्वन्ति सावज्ञास्तस्य शासनम्॥ अलंकारे च भोज्ये च तथा स्नानानुलेपने। हेलनानि नरव्याघ्र स्वस्थास्तस्योप शृण्वतः॥ निन्दन्ते स्वानधीकारान् संत्यजन्ते च भारत। न वृत्त्या परितुष्यन्ति राजदेयं हरन्ति च॥ क्रीडितुं तेन चेच्छन्ति ससूत्रेणेव पक्षिणा। अस्मत्प्रणेयो राजेति लोकांश्चैव वदन्त्युत॥ एते चैवापरे चैव दोषाः प्रादुर्भवन्त्युत। नृपतौ मार्दवोपेत हर्षुले च युधिष्ठिर॥ एते चैवापरे चैव दोषाः प्रादुर्भवन्त्युत। नृपतौ मार्दवोपेत हर्षुले च युधिष्ठिर॥ भीष्म उवाच नित्योद्युक्तेन वै राज्ञा भवितव्यं युधिष्ठिर। प्रशस्यते न राजा हि नारीवोद्यमवर्जितः॥ भगवानुशना चाह श्लोकमत्र विशाम्पते। तदिहैकमना राजन् गदतस्तं निबोध मे॥ द्वाविमौ ग्रसते भूमिः सर्पो बिलशयानिव। राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्॥ तदेतत्ररशार्दूल हृदि त्वं कर्तुमर्हसि। संधेयानभिसंधत्स्व विरोध्यांश्च विरोधया।४।। सप्ताङ्गस्य च राज्यस्य विपरीतं य आचरेत्। गुरुर्वा यदि वा मित्रं प्रतिहन्तव्य एव सः॥ मरुत्तेन हि राज्ञा वै गीत: श्लोकः पुरातनः। राजाधिकारे राजेन्द्र बृहस्पतिमते पुरा॥ गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः। उत्पथप्रतिपन्नस्य दण्डो भवित शाश्वत:॥ बाहोः पुत्रेण राज्ञा च सगरेण च धीमता। असमञ्जाः सुतो ज्येष्ठस्त्यक्तः पौरहितैषिणा॥ असमंजाः सरय्वां स पौराणां बालकान् नृप। न्यमज्जयदत: पित्रा निर्भर्त्य स विवासितः॥ ऋषिणोद्दालकेनापि श्वेतकेतुर्महातपाः। मिथ्या विप्रानुपचरन् संत्यक्तो दयितः सुतः॥ लोकरञ्जनमेवात्र राज्ञां धर्मः सनातनः। सत्यस्य रक्षणं चैव व्यवहारस्य चार्जवम्॥ न हिंस्यात् परवित्तानि देयं काले च दापयेत्। विक्रान्तः सत्यवाक क्षान्तो नृपो न चलते पथः॥ आत्मवांश्च जितक्रोधः शास्त्रार्थकृतनिश्चयः। धर्मे चार्थे च कामे च मोक्षे च सततं रतः॥ त्रय्यां संवृतमन्त्रश्च राजा भवितुमर्हति। वृजिनं न नरेन्द्राणां नान्यच्चारक्षणात् परम्॥ चातुर्वर्ण्यस्य धर्माश्च रक्षितव्या महीक्षिता। धर्मसंकररक्षा च राज्ञां धर्मः सनातनः॥ न विश्वसेच्च नृपतिर्न चात्यर्थं च विश्वसेत्। पाड्गुण्यगुणदोषांश्च नित्यं बुद्ध्यावलोकयेत्॥ द्विछिद्रदर्शी नृपतिर्नित्यमेव प्रशस्यते। त्रिवर्ग विदितार्थश्च युक्तचारोपधिसश्च यः॥ कोशस्योपार्जनरतिर्यमवैश्रवणोपमः। वेत्ता च दशवर्गस्य स्थानवृद्धिक्षयात्मनः॥ अभृतानां भवेद् भर्ता भृतानामन्ववेक्षकः। नृपतिः सुमुखश्च स्यात् स्मितपूर्वाभिभापिता॥ उपासिता च वृद्धानां जिततन्द्रिरलोलुपः। सतां वृत्ते स्थितमति: संतोष्यश्चारुदर्शन: :॥ न चाददीत वित्तानि सतां हस्तात् कदाचन। असभ्यश्च समादद्यात् सद्भ्यस्तु प्रतिपादयेत्॥ स्वयं प्रहर्ता दाता च वश्यात्मा रम्यसाधनः। काले दाता च भोक्ता च शुद्धाचारस्तथैव च॥ शूरान् भक्तानसंहार्यान् कुले जातानरोगिणः। शिष्टाशिष्टाभिसम्बन्धान्मानिनोऽनवमानिनः॥ विद्याविदो लोकविदः परलोकान्ववेक्षकान्। धर्मे च निरतान् साधूनचलानचलानिव॥ सहायान् सततं कुर्याद् राजा भूतिपुरष्कृतः। तैश्च तुल्यो भवेद् भोगैश्छत्रमात्राज्ञयाधिकः॥ प्रत्यक्षा च परोक्षा च वृत्तिश्चास्य भवेत् समा। एवं कुर्वन् नरेन्द्रोऽपि न खेदमिह विन्दति॥ सर्वाभिशङ्की नृपतिर्यश्च सर्वहरो भवेत्। स क्षिप्रमनृजुर्लुब्धः स्वजनेनैव बध्यते॥ शुचिस्तु पृथिवीपालो लोकचित्तग्रहे रतः। न पतत्यरिभिर्ग्रस्तः पतितश्चावतिष्ठते॥ अक्रोधनो ह्यव्यसनी मृदुदण्डो जितेन्द्रियः। राजा भवति भूतानां विश्वास्यो हिमवानिव॥ प्राज्ञस्त्यागगुणोपेतः पररन्ध्रेषु तत्परः। सुदर्शः सर्ववर्णानां नयापनयवित् तथा॥ क्षिप्रकारी जितक्रोधः सुप्रसादो महामनाः। अरोषप्रकृतिर्युक्तः क्रियावानविकत्थनः॥ आरब्धान्येव कार्याणि सुपर्यवसितानि च। यस्य राज्ञः प्रदृश्यन्ति स राजा राजसत्तमः॥ पुत्रा इव पितुर्गेहे विषये यस्य मानवाः। निर्भया विचरिष्यन्ति स राजा राजसत्तमः॥ अगूढविभवा यस्य पौरा राष्ट्रनिवासिनः। नयापनयवेत्तारः स राजा राजसत्तमः॥ स्वकर्मनिरता यस्य जना विषयवासिनः। असंघातरता दान्ताः पाल्यमाना यथाविधि॥ वष्टा नेया विधेयाश्च न च संघर्षशालिनः। विषये दानरुचयो नरा यस्य स पार्थिवः॥ न यस्य कूटं कपटं न माया न च मत्सरः। विषये भूमिपालस्य तस्य धर्मः सनातनः॥ यः सत्करोति ज्ञानानि ज्ञेये परहिते रतः। सतां वानुगस्त्यागी स राजा राज्यमर्हति॥ यस्य चाराश्च मन्त्राश्च नित्यं चैव कृताकृताः। न ज्ञायन्ते हि रिपुभिः स राजा राज्यमर्हति॥ श्लोकश्चायं पुरा गीतो भार्गवेण महात्मना। आख्याते राजचरिते नृपति प्रति भारत॥ राजानं प्रथम विन्देत् ततो भार्यां ततो धनम्। राजन्यसति लोकस्य कुतो भार्या कुतो धनम्॥ तद्राज्ये राज्यकामानां नान्यो धर्मः सनातनः। ऋते रक्षां तु विस्पशं रक्षा लोकस्य धारिणी॥ प्राचेतसेन मनुना श्लोकौ चेमावुदाहृतौ। राजधर्मेषु राजेन्द्र ताविहैकमनाः शृणु।॥ षडेतान् पुरुषो जह्याद् भिन्नां नावमिवार्णवे। अप्रवक्तारमाचार्यमनधीयानमृत्विजम्॥ अरक्षितारं राजानं भार्यां चाप्रियवादिनीम्। ग्रामकामं च गोपालं वनकामं च नापितम्॥ वैशम्पायन उवाच ततः कल्यं समुत्थाय कृतपूर्वाह्निकक्रियाः। ययुस्ते नगराकारै रथैः पाण्डवयादवाः॥ प्रतिपद्य कुरुक्षेत्रं भीष्ममासाद्य चानघ। सुखां न रजनी पृष्ट्वा गाङ्गेयं रथिनां वरम्॥ व्यासदीनभिवाद्यर्षीन् सर्वैस्तैश्चाभिनन्दिताः। निषेदुरभितो भीष्मं परिवार्यं समन्ततः॥ ततो राजा महातेजा धर्मराजो युधिष्ठिरः। अब्रवीत् प्राञ्जलिर्भीष्मं प्रतिपूज्य यथाविधि॥ युधिष्ठिर उवाच य एष राजन् राजेति शब्दश्चरति भारत। कथमेष समुत्पन्नस्तन्मे ब्रूहि परंतप॥ तुल्यपाणिभुजग्रीवस्तुल्यबुद्धीन्द्रियात्मकः। तुल्यदुःखसुखात्मा च तुल्यपृष्ठमुखोदरः॥ तुल्यशुक्रास्थिमज्जा च तुल्यमांसासृगेव च। निःश्वासोच्छ्वासतुल्यश्च तुल्यप्राणशरीरवान्॥ समानजन्ममरणः समः सर्वैर्गुणैर्नृणाम्। विशिष्टबुद्धीन् शूरांश्च कथमेकोऽधितिष्ठति॥ कथमेको महीं कृत्स्ना शूरवीरार्यसंकुलाम्। रक्षत्यपि च लोकस्य प्रसादमभिवाञ्छति॥ एकस्य तु प्रसादेन कृत्स्नो लोकः प्रसीदति। व्याकुले चाकुलः सर्वो भवतीति विनिश्चयः॥ एतदिच्छाम्यहं श्रोतुं तत्त्वेन भरतर्षभ। कृत्स्नं तन्मे यथातत्त्वं प्रब्रूहि वदतां वर॥ नैतत् कारणमल्पं हि भविष्यति विशाम्पते। यदेकस्मिन् जगत् सर्वं देववद् याति संनतिम्॥ भीष्म उवाच नियतस्त्वं नरव्याघ्र शृणु सर्वमशेषतः। यथा राज्यं समुत्पन्नमादौ कृतयुगेऽभवत्॥ न वै राज्यं न राजाऽऽसीन्न च दण्डो न दाण्डिकः। धर्मेणैव प्रजाः सर्वा रक्षन्ति स्म परस्परम्॥ पाल्यमानास्तथान्योन्यं नरा धर्मेण भारत। खेदं परमुपाजग्मुस्ततस्तान् मोह आविशत्॥ ते मोहवशमापन्ना मनुजा मनुजर्षभ। प्रतिपत्तिविमोहाच्च धर्मस्तेषामनीनशत्॥ नष्टायां प्रतिपत्तौ च मोहवश्या नरास्तदा। लोभस्य वशमापन्नाः सर्वे भरतसत्तम॥ अप्राप्तस्याभिमर्श तु कुर्वन्तो मनुजास्ततः। कामो नामापरस्तत्र प्रत्यपद्यत वै प्रभो॥ तांस्तु कामवशं प्राप्तान् रागो नाम समस्पृशत्। रक्ताश्च नाभ्यजानन्त कार्याकार्ये युधिष्ठिर॥ अगम्यागमनं चैव वाच्यावाच्यं तथैव च। भक्ष्याभक्ष्यं च राजेन्द्र दोषादोषं च नात्यजन्॥ विप्लुते नरलोके वै ब्रह्म चैव ननाश ह। नाशाच्च ब्रह्मणो राजन् धर्मो नाशमथागमत्॥ नष्टे ब्रह्मणि धर्मे च देवांस्त्रासः समाविशत्। ते त्रस्ता नरशार्दूल ब्रह्माणं शरणं ययुः॥ प्रसाद्य भगवन्तं ते देवं लोकपितामहम्। ऊचुः प्राञ्जलयः सर्वे दुःखवेगसमाहताः॥ भगवन् नरलोकस्थं ग्रस्तं ब्रह्म सनातनम्। लोभमोहादिभिर्भावस्ततो नो भयमाविशत्॥ ब्रह्मणश्च प्रणाशेन धर्मो व्यनशदीश्वर। ततः स्म समतां याता मत्यस्त्रिभुवनेश्व॥ अधो हि वर्षमस्माकं नरास्तूर्ध्वप्रवर्षिणः। क्रियाव्युपरमात् तेषां ततो गच्छाम संशयम्॥ अत्र निःश्रेयसं यन्नस्तद् ध्यायस्व पितामह। त्वत्प्रभावसमुत्थोऽसौ स्वभावो नो विनश्यति॥ तानुवाच सुरान् सर्वान् स्वयम्भूर्भगवांस्ततः। श्रेयोऽहं चिन्तयिष्यामि व्येतु वो भीः सुरर्षभाः॥ ततोऽध्यायसहस्राणां शतं चक्रे स्वबुद्धिजम्। यत्र धर्मस्तथैवार्थः कामश्चैवाभिवर्णितः॥ त्रिवर्ग इति विख्यातो गण एष स्वयम्भुवा। चतुर्थो मोक्ष इत्येव पृथगर्थः पृथग्गुणः॥ मोक्षस्यास्ति त्रिवर्गोऽन्यः प्रोक्तः सत्त्वं रजस्तमः। स्थानं वृद्धिः क्षयश्चैव त्रिवर्गश्चैव दण्डजः॥ आत्मा देशश्च कालश्चाप्युपायाः कृत्यमेव च। सहायाः कारणं चैव षड्वर्गो नीतिजः स्मृतः॥ त्रयी चान्वीक्षिकी चैव वार्ता च भरतर्षभ। दण्डनीतिश्च विपुला विद्यास्तत्र निदर्शिताः॥ अमात्यरक्षा प्रणिधी राजपुत्रस्य लक्षणम्। चारश्च विविधोपायः प्रणिधेयः पृथग्विधः॥ साम भेदः प्रदानं च ततो दण्डच पार्थिव। उपेक्षा पञ्चमी चात्र कात्स्न्येन समुदाहृता॥ मन्त्रश्च वर्णितः कृत्स्नस्तथा भेदार्थ एव च। विभ्रमश्चैव मन्त्रस्य सिद्ध्यसिद्ध्योश्च यत् फलम्॥ संधिश्च त्रिविधाभिख्यो हीनो मध्यस्तथोत्तमः। भयसत्कारवित्ताख्यं कात्स्येन परिवर्णितम्॥ यात्राकालाश्च चत्वारस्त्रिवर्गस्य च विस्तरः। विजयो धर्मयुक्तश्च तथार्थविजयश्च ह॥ आसुरश्चैव विजयस्तथा कार्येन वर्णितः। लक्षणं पञ्चवर्गस्य त्रिविधं चात्र वर्णितम्॥ प्रकाशश्चाप्रकाशश्च दण्डोऽथ परिशब्दितः। प्रकाशोऽविधस्तत्र गुह्यश्च बहुविस्तरः॥ रथा नागा हयाश्चैव पादाताश्चैव पाण्डव। विष्टिर्नावश्चराश्चैव देशिका इति चाष्टमम्॥ अङ्गान्येतानि कौरव्य प्रकाशानि बलस्य तु। जङ्गमाजङ्गमाश्चोक्ताश्चूर्णयोगा विषादयः॥ स्पर्श चाभ्यवहार्ये चाप्युपांशुर्विविधः स्मृतः। अरिर्मित्र उदासीन इत्येतेऽप्यनुवर्णिताः॥ कृत्स्ना मार्गगुणाश्चैव तथा भूमिगुणाश्च हा आत्मरक्षणमाश्वासः सर्गाणां चान्ववेक्षणम्॥ कल्पना विविधाश्चापि नृनागरथवाजिनाम्। व्यूहाश्च विविधाभिख्या विचित्रं युद्धकौशलम्॥ उत्पाताश्च निपाताश्च सुयुद्धं सुपलायितम्। शस्त्राणां पालनं ज्ञानं तथैव भरतर्षभ॥ बलव्यसनमुक्तं च तथैव बलहर्षणम्। पीडा चापदकालश्च पत्तिज्ञानं च पाण्डव॥ तथा खातविधानं च योगः संचार एव च। चोरैराटविकैश्चोग्रैः परराष्ट्रस्य पीडनम्॥ अग्निर्दैगरदैश्चैव प्रतिरूपककारकैः। श्रेणिमुख्योपजापेन वीरधश्छेदनेन च॥ दूषणेन च नागानामातङ्कजननेन च। आराधनेन भक्तस्य प्रत्ययोपार्जनेन च॥ सप्ताङ्गस्य च राज्यस्य ह्रासवृद्धिसमञ्जसम्। दूतसामर्थ्यसंयोगात् सराष्ट्रस्य विवर्धनम्॥ अरिमध्यस्थमित्राणां सम्यक् चोक्तं प्रपञ्चनम्। अवमर्दः प्रतीघातस्तथैव च बलीयसाम्॥ व्यवहारः सुसूक्ष्मश्च तथा कण्टकशोधनम्। श्रमो व्यायामयोगश्च त्यागो द्रव्यस्य संग्रहः॥ अभृतानां च भरणं भृतानां चान्ववेक्षणम्। अर्थस्य काले दानं च व्यसने चाप्रसङ्गिता॥ तथा राजगुणाश्चैव सेनापतिगुणाश्च ह। कारणं च त्रिवर्गस्य गुणदोषास्तथैव च॥ दुश्चेष्टितं च विविधं वृत्तिश्चैवानुवर्तिनाम्। शङ्कितत्वं च सर्वस्य प्रमादस्य च वर्जनम्॥ अलब्धलाभो लब्धस्य तथैव च विवर्धनम्। प्रदानं च विवृद्धस्य पात्रेभ्यो विधिवत्ततः॥ विसर्गोऽर्थस्य धर्मार्थं कामहैतुकमुच्यते। चतुर्थं व्यसनाघाते तथैवात्रानुवर्णितम्॥ क्रोधजानि तथोग्राणि कामजानि तथैव च। दशोक्तानि कुरुश्रेष्ठ व्यसनान्यत्र चैव ह॥ मृगयाक्षास्तथा पानं स्त्रियश्च भरतर्षभ। कामजान्याहुराचार्याः प्रोक्तानीह स्वयम्भुवा॥ वाक्पारुष्यं तथोग्रत्वं दण्डपारुष्यमेव च। आत्मनो निग्रहस्त्यागो ह्यर्थदूषणमेव च॥ यन्त्राणि विविधान्येव क्रियास्तेषां च वर्णिताः। अवमर्दः प्रतीघात: केतनानां च भञ्जनम्॥ चैत्यगुमावमर्दश्च रोधः कर्मानुशासनम्। अपस्करोऽथ वसनं तथोपायाश्च वर्णिताः॥ पणवानकशङ्खानां भेरीणां च युधिष्ठिर। उपार्जनं च द्रव्याणां परिमर्दश्च तानि षट्॥ लब्धस्य च प्रशमनं सतां चैवाभिपूजनम्। विद्वद्भिरेकीभावश्च दानहोमविधिज्ञता।॥ मङ्गलालम्भनं चैव शरीरस्य प्रतिक्रिया। आहारयोजनं चैव नित्यमास्तिक्यमेव च॥ एकेन च यथोत्थेयं सत्यत्वं मधुरा गिरः। उत्सवानां समाजानां क्रियाः केतनजास्तथा॥ प्रत्यक्षाश्च परोक्षाश्च सर्वाधिकरणेष्वथा वृत्तेर्भरतशार्दूल नित्यं चैवान्ववेक्षणम्॥ अदण्ड्यत्वं च विप्राणां युक्त्या दण्डनिपातनम्। अनुजीविस्वजातिभ्यो गुणेभ्यश्च समुद्भवः॥ रक्षणं चैव पौराणां राष्ट्रस्य च विवर्धनम्। मण्डलस्था च या चिन्ता राजन् द्वादशराजिका॥ द्वासप्ततिविधा चैव शरीरस्य प्रतिक्रिया। देशजातिकुलानां च धर्माः समनुवर्णिताः॥ धर्मश्चार्थश्च कामश्च मोक्षश्चात्रानुवर्णिताः। उपायाश्चार्थलिप्सा च विविधा भूरिदक्षिण॥ मूलकर्मक्रिया चात्र मायायोगश्च वर्णितः। दूषणं स्त्रोतसां चैव वर्णितं चास्थिराम्भसाम्॥ यैर्यैरुपायैर्लोकस्तु न चलेदार्यवर्त्मनः। तत् सर्वं राजशार्दूल नीतिशाकेऽभिवर्णितम्॥ एतत् कृत्वा शुभं शास्त्रं ततः स भगवान् प्रभुः। देवानुवाच संहृष्टः सर्वाञ्छक्रपुरोगमान्॥ उपकाराय लोकस्य त्रिवर्गस्थापनाय च। नवनीतं सरस्वत्या बुद्धिरेषा प्रभाविता॥ दण्डेन सहिता ह्येषा लोकरक्षणकारिका। निग्रहानुग्रहरता लोकाननुचरिष्यति॥ दण्डेन नीयते चेदं दण्डं नयति वा पुनः। दण्डनीतिरिति ख्याता त्रील्लोकानभिवर्तते॥ पाड्गुण्यगुणसारैषा स्थास्यत्यग्रे महात्मसु। धर्मार्थकाममोक्षाश्च सकला ह्यत्र शब्दिताः॥ ततस्तां भगवान् नीति पूर्वं जग्राह शङ्करः। बहुरूपो विशालाक्षः शिवः स्थाणुरुमापतिः॥ प्रजानामायुषो ह्रासं विज्ञाय भगवाच्छिवः। संचिक्षेप ततः शास्त्रं महास्त्रं ब्रह्मणा कृतम्॥ वैशालाक्षमिति प्रोक्तं तदिन्द्रः प्रत्यपद्यप्त। दशाध्यायसहस्राणि सुब्रह्मण्यो महातपाः॥ भगवानपि तच्छास्त्रं संचिक्षेप पुरंदरः। सहस्रैः पञ्चभिस्तात यदुक्तं बाहुदन्तकम्॥ अध्यायानां सहस्रस्तु त्रिभिरेव बृहस्पतिः। संचिक्षेपेश्वरो बुद्ध्या बार्हस्पत्यं तदुच्यते॥ अध्यायानां सहस्रेण काव्यः संक्षेपमब्रवीत्। तच्छास्त्रममितप्रज्ञो योगाचार्यो महायशाः॥ एवं लोकानुरोधेन शास्त्रमेतन्महर्षिभिः। संक्षिप्तमायुर्विज्ञाय मानां ह्रासमेव च॥ अथ देवाः समागम्य विष्णुमूचुः प्रजापतिम्। एको योऽर्हति मत्र्येभ्यः श्रेष्ठ्यं वै तं समादिश॥ ततः संचिन्त्य भगवान् देवो नारायणः प्रभुः। तैजसं वै विरजसं सोऽसृजन्मानसं सुतम्॥ विरजास्तु महाभागः प्रभुत्वं भुवि नैच्छत। न्यासायैवाभवद् बुद्धिः प्रणीता तस्य पाण्डव॥ कीर्तिमांस्तस्य पुत्रोऽभत् सोऽपि पञ्चातिगोऽभवत्। कर्दमस्तस्य तु सुतः सोऽप्यतप्यन्महत् तपः॥ प्रजापतेः कर्दमस्य त्वनङ्गो नाम वै सुतः। प्रजा रक्षयिता साधुर्दण्डनीतिविशारदः॥ अनङ्गपुत्रोऽतिबलो नीतिमानभिगम्य वै। प्रतिपेदे महाराज्यमथेन्द्रियवशोऽभवत्॥ मृत्योस्तु दुहिता राजन् सुनीथा नाम मानसी। प्रख्याता त्रिषु लोकेषु यासौ वेनमजीजनत्॥ तं प्रजासु विधर्माणं रागद्वेषवशानुगम्। मन्त्रपूतैः कुशैर्जघ्नुर्ऋषयो ब्रह्मवादिनः॥ ममन्थुर्दक्षिणं चोरुमृषयस्तस्य मन्त्रतः। ततोऽस्य विकृतो जज्ञे ह्रस्वाङ्गः पुरुषो भुवि॥ दग्धस्थूणाप्रतीकाशो रक्ताक्षः कृष्णमूर्धजः। निषीदेत्येवमूचुस्तमृषयो ब्रह्मवादिनः॥ तस्मान्निषादाः सम्भूताः क्रूराः शैलवनाश्रयाः। ये चान्ये विन्ध्यनिलया म्लेच्छाः शतसहस्रशः॥ भूयोऽस्य दक्षिणं पाणिं ममन्थुस्ते महर्षयः। ततः पुरुष उत्पन्नो रूपेणेन्द्र इवापरः॥ कवची बद्धनिस्त्रिंशः सशरः सशरासनः। वेदवेदाङ्गविच्चैव धनुर्वेदे च पारगः॥ तं दण्डनीतिः सकला श्रिता राजन् नरोत्तमम्। ततस्तु प्राञ्जलिर्वैन्यो महर्षीस्तानुवाच ह॥ सुसूक्ष्मा मे समुत्पन्ना बुद्धिर्धर्मार्थदर्शिनी। अनया किं मया कार्यं तन्मे तत्त्वेन शंसत॥ यन्मां भवन्तो वक्ष्यन्ति कार्यमर्थसमन्वितम्। तदहं वै करिष्यामि नात्र कार्या विचारणा॥ तमूचुस्तत्र देवास्ते ते चैव परमर्षयः। नियतो यत्र धर्मो वै तमशङ्कः समाचर॥ प्रियाप्रिये परित्यज्य समः सर्वेषु जन्तुषु। कामं क्रोधं च लोभं च मानं चोत्सृज्य दूरतः॥ यश्च धर्मात् प्रविचलेल्लोके कश्चन मानवः। निग्राह्यस्ते स्वबाहुभ्यां शश्वद् धर्ममवेक्षता॥ प्रतिज्ञा चाधिरोहस्व मनसा कर्मणा गिरा। पालयिष्याम्यहं भौमं ब्रह्म इत्येव चासकृत॥ यश्चात्र धर्मो नित्योक्तो दण्डनीतिव्यपाश्रयः तमशङ्कः करिष्यामि स्ववशो न कदाचन॥ अदण्ड्या मे द्विजाश्चेति प्रतिजानीहि हे विभो। लोकं च संकरात्कृत्स्नं त्रासास्मीति परंतप॥ वैन्यस्ततस्तानुवाच देवानृषिपुरोगमान्। ब्राह्मणा महाभागा नमस्याः पुरुषर्षभः॥ एवमस्त्विति वैन्यस्तु तैरुक्तो ब्रह्मवादिभिः। पुरोधाश्चाभवत् तस्य शुक्रो ब्रह्ममयो निधिः॥ मन्त्रिणो वालखिल्याश्च सारस्वत्यो गणस्तथा। महर्षिर्भगवान् गर्गस्तस्य सांवत्सरोऽभवत्॥ मे आत्मनाश्म इत्येव श्रुतिरेषा परा नृषु। उत्पन्नौ बन्दिनौ चास्य तत्पूर्वी सूतमागधौ॥ तयोः प्रीतो ददौ राजा पृथुर्वैन्यः प्रतापवान्। अनूपदेशं सूताय मगधं मागधाय च॥ समतां वसुधायाश्च स सम्यगुदपादयत्। वैषम्यं हि परं भूमेरासीदिति च नः श्रुतम्॥ मन्वन्तरेषु सर्वेषु विषमा जायते मही। उज्जहार ततो वैन्यः शिलाजालान् समन्ततः॥ धनुष्कोट्या महाराज तेन शैला विवर्धिताः। स विष्णुना च देवेन शक्रेण विबुधैः सह॥ ऋषिभिश्च प्रजापालैब्राह्मणैश्चाभिषेचितः। तं साक्षात् पृथिवी भेजे रत्नान्यादाय पाण्डव॥ सागरः सरितां भर्ता हिमवांश्चाचलोत्तमः। शक्रश्च धनमक्षय्यं प्रादात् तस्मै युधिष्ठिर॥ रुक्मं चापि महामेरुः स्वयं कनकपर्वतः। यक्षराक्षसभर्ता च भगवान् नरवाहनः॥ धर्मे चार्थे च कामे च समर्थं प्रददौ धनम्। हया रथाश्च नागाश्च कोटिशः पुरुषास्तथा॥ प्रादुर्बभूवर्वैन्यस्य चिन्तनादेव पाण्डव। न जरा न च दुर्भिक्षं नाधयो व्याधयस्तथा॥ सरीसृपेभ्य: स्तेनेभ्यो न चान्योन्यात् कदाचन। भयमुत्पद्यते तत्र तस्य राज्ञोऽभिरक्षणात्॥ आपस्तस्तम्भिरे चास्य समुद्रमभियास्यतः। पर्वताश्च ददुर्मार्ग ध्वजभङ्गश्च नाभवत्॥ तेनेयं पृथिवी दुग्धा सस्यानि दश सप्त च। यक्षराक्षसनागैश्चापीप्सितं यस्य यस्य यत्॥ तेन धर्मोत्तस्थायं कृतो लोको महात्मना। रंजिताश्च प्रजाः सर्वास्तेन राजेति शब्द्यते॥ ब्राह्मणानां क्षतत्राणात् ततः क्षत्रिय उच्यते। प्रथिता धर्मतश्चेयं पृथिवी बहुभिः स्मृता॥ स्थापनं चाकरोद् विष्णुः स्वयमेव सनातनः। नातिवर्तिष्यते कश्चिद् राजंस्त्वामिति भारत॥ तपसा भगवान् विष्णुराविवेश च भूमिपम्। देववन्नरदेवानां नमते यं जगन्नृपम्॥ दण्डनीत्या च सततं रक्षितव्यं नरेश्वर। नाधर्षयेत् तथा कश्चिच्चारनिष्पन्ददर्शनात्॥ शुभं हि कर्म राजेन्द्र शुभत्वायोपकल्पते। आत्मना कारणैश्चैव समस्येह महीक्षितः॥ को हेतुर्यद् वशे तिष्ठेल्लोको दैवादृते गुणात्। विष्णोर्ललाटात् कमलं सौवर्णमभवत् तदा॥ सम्भूता यतो देवी पत्नी धर्मस्य धीमतः। श्रियः सकाशादर्थश्च जातो धर्मेण पाण्डव॥ श्री: अथ धर्मस्तथैवार्थः श्रीश्च राज्ये प्रतिष्ठिता। सुकृतस्य क्षयाच्चैव स्वर्लोकादेत्य मेदिनीम्॥ पार्थिवो जायते तात दण्डनीतिविशारदः। महत्त्वेन च संयुक्तो वैष्णवेन नरो भुवि॥ बुद्ध्या भवति संयुक्तो माहात्म्यं चाधिगच्छति। स्थापितं च ततो देवैर्न कश्चिदतिवर्तते। तिष्ठत्येकस्य च वशे तं चेदं न विधीयते॥ शुभं हि कर्म राजेन्द्र शुभत्वायोपकल्पते। तुल्यस्यैकस्य यस्यायं लोको वचसि तिष्ठते॥ योऽस्य वै मुखमद्राक्षीत् सौम्यं सोऽस्य वशानुगः। सुभगं चार्थवन्तं च रूपवन्तं च पश्यति॥ महत्त्वात् तस्य दण्डस्य नीतिर्विस्पश्लक्षणा। नयचारश्च विपुलो येन सर्वमिदं ततम्॥ आगमश्च पुराणानां महर्षीणां च सम्भवः। तीर्थवंशश्च वंशश्च नक्षत्राणां युधिष्ठिर॥ सकलं चातुराश्रम्यं चातुर्होत्रं तथैव च। चातुर्वण्र्यं तथैवात्र चातुर्विद्यं च कीर्तितम्॥ इतिहासाश्च वेदाश्च न्यायः कृत्स्नश्च वर्णितः। तपो ज्ञानमहिंसा च सत्यासत्येन यः परः॥ वृद्धोपसेवा दानं च शौचमुत्थानमेव च। सर्वभूतानुकम्पा च सर्वमत्रोपवर्णितम्॥ भुवि चाधोगतं यच्च तच्च सर्वं समर्पितम्। तस्मिन् पैतामहे शास्त्रे पाण्डवैतन संशयः॥ ततो जगति राजेन्द्र सततं शब्दितं बुधैः। देवाश्च नरदेवाश्च तुल्या इति विशाम्पते॥ एतत् ते सर्वमाख्यातं महत्त्वं प्रति राजसु। कात्स्येन भरतश्रेष्ठ किमन्यदिह वर्तते॥ वैशम्पायन उवाच ततः पुनः स गाङ्गेयमभिवाद्य पितामहम्। प्राञ्जलिर्नियतो भूत्वा पर्यपृच्छयुधिष्ठिरः॥ के धर्माः सर्ववर्णान्नां चातुर्वर्ण्यस्य के पृथक्। चातुर्वाश्रमाणां च राजधर्माश्च के मताः॥ केन वै वर्धते राष्ट्र राजा केन विवर्धते। केन पौराश्च भृत्याश्च वर्धन्ते भरतर्षभ॥ कोशं दण्डं च दुर्गं च सहायान मन्त्रिणस्तथा। ऋत्विक्पुरोहिताचार्यान् कीदृशान् वर्जयेन्नृपः॥ केषु विश्वसितव्यं स्याद् राज्ञा कस्याञ्चिदापदि। कुतो वाऽऽत्मा दृढं रक्ष्यस्तन्मे ब्रूहि पितामह॥ भीष्म उवाच नमो धर्माय महते नमः कृष्णाय वेधसे। ब्राह्मणेभ्यो नमस्कृत्य धर्मान् वक्ष्यामि शाश्वतान्॥ अक्रोधः सत्यवचनं संविभागः क्षमा तथा। प्रजनः स्वेषु दारेषु शौचमद्रोह एव च॥ आर्जवं भृत्यभरणं नवैते सार्ववर्णिकाः। ब्राह्मणस्य तु यो धर्मस्तं ते वक्ष्यामि केवलम्॥ दममेव महाराज धर्मबाहुः पुरातनम्। स्वाध्यायाभ्यसनं चैव तत्र कर्म समाप्यते॥ तं चेद् द्विजमुपागच्छेद् वर्तमानं स्वकर्मणि। अकुर्वाणं विक्रर्माणि शान्तं प्रज्ञानतर्पितम्॥ कुर्वीतापत्यसंतानमथो दद्याद् यजेत च। संविभज्य च भोक्तव्यं धनं सद्भिरितीर्यते॥ परिनिष्ठितकार्यस्तु स्वाध्यायेनैव ब्राह्मणः। कुर्यादन्यन्न वा कुर्या-मैत्रो ब्राह्मण उच्यते॥ क्षत्रियस्यापि यो धर्मस्तं ते वक्ष्यामि भारत। दद्याद् राजन् न याचेत यजेत न च याजयेत्॥ नाध्यापयेदधीयीत प्रजाश्च परिपालयेत्। नित्योद्युक्तो दस्युवधे रणे कुर्यात् पराक्रमम्॥ ये तु ऋतुभिरीजानाः श्रुतवन्तश्च भूमिपाः। य एवाहवजेतारस्त एषां लोकजित्तमाः॥ अविक्षतेन देहेन सपराद् यो निवर्तते। क्षत्रियो नास्य तत् कर्म प्रशंसन्ति पुराविदः॥ एवं हि क्षत्रबन्धूनां मार्गमाहुः प्रधानतः। नास्य कृत्यतमं किंचिदन्यद् दस्युनिबर्हणात्॥ एवं हि क्षत्रबन्धूनां मार्गमाहुः प्रधानतः। तस्माद् राज्ञा विशेषेण योद्धव्यं धर्ममीप्सता।।१८ स्वेषु धर्मेष्ववस्थाप्य प्रजाः सर्वा महीपतिः। धर्मेण सर्वकृत्यानि शमनिष्ठानि कारयेत्॥ दानमध्ययनं यज्ञो राज्ञां क्षेमो विधीयते। कुर्यादन्यन्न वा कुर्यादैन्द्रो राजन्य उच्यते॥ वैश्यस्यापि हि यो धर्मस्तं ते वक्ष्यामि शाश्वतम्। दानमध्ययनं यज्ञः शौचेन धनसंचयः॥ तद् भवेदन्यत् कर्म पितृवत् पालयेद् वैश्यो युक्तः सर्वान् पशूनिह। विकर्म यत् स समाचरेत्॥ रक्षया स हि तेषां वै महत् सुखमवाप्नुयात्। प्रजापतिर्हि वैश्याय सृष्ट्वा परिददौ पशून्॥ ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः। तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम्॥ षण्णामेकां पिबेद् धेनुं शताच्च मिथुनं हरेत्। लब्धाच्च सप्तमं भागं तथा शृङ्गे कलां खुरे।।२५। सस्यानां सर्वबीजानामेषा सांवत्सरी भृतिः। न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति॥ वैश्ये चेच्छति नान्येन रक्षितव्याः कथंचन। शूद्रस्यापि हि यो धर्मस्तं ते वक्ष्यामि भारत॥ प्रजापतिर्हि वर्णानां दासं शूद्रमकल्पयत्। तस्माच्छूद्रस्य वर्णानां परिचर्या विधीयते॥ तेषां शुश्रूषणाच्चैव महत् सुखमवाप्नुयात्। शूद्र एतान् परिचरेत् त्रीन् वर्णाननुपूर्वशः॥ संचयांश्च न कुर्वीत जातु शूद्रः कथंचन। पापीयान् हि धनं लब्ध्वा वशे कुर्याद् गरीयसः॥ राज्ञा वा समनुज्ञातः कामं कुर्वीत धार्मिकः। तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम्॥ अवश्यं भरणीयो हि वर्णानां शूद्र उच्यते। छत्रं वेष्टनमौशीरमुपानद् व्यजनानि च॥ यातयामानि देयानि शूद्राय परिचारिणे। अधार्याणि विशीर्णानि वसनानि द्विजातिभिः॥ शूद्रायैव प्रदेयानि तस्य धर्मधनं हि तत्। यं च कञ्चिद् द्विजातीनां शूद्रः शुश्रूषुराव्रजेत्॥ कल्प्यां तेन तु ते प्राहुर्वृत्तिं धर्मविदो जनाः। देयः पिण्डोऽनपत्याय भर्तव्यौ वृद्धदुर्बलौ॥ शूद्रेण तु न हातव्यो भर्ता कस्याञ्चिदापदि। अतिरेकेण भर्तव्यो भर्ता द्रव्यपरिक्षये॥ न हि स्वमस्ति शूद्रस्य भर्तृहार्येधनो हि सः। उक्तस्त्रयाणां वर्णानां यज्ञस्तस्य च भारत। स्वाहाकारवषट्कारौ मन्त्रः शूद्रे न विद्यते॥ तस्माच्छूद्रः पाकयज्ञैर्यजेताव्रतवान् स्वयम्। पूर्णपात्रमयीमाहुः पाकयज्ञस्य दक्षिणाम्॥ शूद्रः पैजवनो नाम सहस्राणां शतं ददौ। ऐन्द्राग्नेन विधानेन दक्षिणामितिः नः श्रुतम्॥ यतो हि सर्ववर्णानां यज्ञस्तस्यैव भारत। अग्रे सर्वेषु यज्ञेषु श्रद्धायज्ञो विधीयते॥ दैवतं हि महच्छ्रद्धा पवित्रं यजतां च यत्। दैवतं हि परं विप्राः स्वेन स्वेन परस्परम्॥ अयजनिह सत्रैस्ते तैस्तैः कामैः समाहिताः। संसृष्टा ब्राह्मणैरेव त्रिषु वर्णेषु सृष्टयः॥ देवानामपि ये देवा यद् ब्रूयस्ते परं हितम्। तस्माद् वर्णैः सर्वयज्ञाः संसृज्यन्ते न काम्यया॥ ऋग्जयुः सामवित् पूज्यो नित्यं स्याद् देववद् द्विजः। अनृग्यजुरसामा च प्राजापत्य उपद्रवः। यज्ञो मनीषया तात सर्ववर्णेषु भारत॥ नास्य यज्ञकृतो देवा ईहन्ते नेतरे जनाः। ततः सर्वेषु वर्णेषु श्रद्धायज्ञो विधीयते॥ स्वं दैवतं ब्राह्मणः स्वेन नित्यं परान्वर्णानयजन्नैवमासीत्। अधरो वितान: संसृष्टो वैश्यो ब्राह्मणस्त्रिषु वर्णेषु यज्ञसृष्टः॥ तस्माद्वर्णा ऋजवो ज्ञातिवर्णाः संसृज्यन्ते तस्य विकार एव। एकं साम यजुरेकमृगेका विप्रश्चैको निश्चये तेषु सृष्टः॥ अत्र गाथा यज्ञगीताः कीर्तयन्ति पुराविदः। वैखानसानां राजेन्द्र मुनीनां यशुमिच्छताम्॥ उदितेऽनुदिते वापि श्रद्दधानो जितेन्द्रियः। वहिं जुहोति धर्मेण श्रद्धा वै कारणं महत्॥ यत् स्कन्नमस्य तत् पूर्वं यदस्कन्नं तदुत्तरम्। बहूनि यज्ञरूपाणि नानाकर्मफलानि च॥ तानि यः सम्प्रजानाति ज्ञाननिश्चयनिश्चितः। द्विजातिः श्रद्धयोपेतः स यशुं पुरुषोऽर्हति॥ स्तेनो वा यदि वा पापो यदि वा पापकृत्तमः। यशुमिच्छति यज्ञं यः साधुमेव वदन्ति तम्॥ ऋषयस्तं प्रशंसन्ति साधु चैतदसंशयम्। सर्वथा सर्वदा वर्णैर्यष्टव्यमिति निर्णयः॥ न हि यज्ञसमं किञ्चित् त्रिषु लोकेषु विद्यते। तस्माद् यष्टव्यमित्याहुः पुरुषेणानसूयता। श्रद्धापवित्रमाश्रित्य यथाशक्ति यथेच्छया।॥ न हि यज्ञसमं किञ्चित् त्रिषु लोकेषु विद्यते। तस्माद् यष्टव्यमित्याहुः पुरुषेणानसूयता। श्रद्धापवित्रमाश्रित्य यथाशक्ति यथेच्छया।॥ भीष्म उवाच आश्रमाणां महाबाहो शृणु सत्यपराक्रम। चतुर्णामपि नामानि कर्माणि च युधिष्ठिर॥ वानप्रस्थं भक्ष्यचर्यं गार्हस्थ्यं च महाश्रमम्। ब्रह्मचर्याश्रमं प्राहुश्चतुर्थं ब्राह्मणैर्वृतम्॥ जटाधारणसंस्कारं द्विजातित्वमवाप्य च। आधानादिनि कर्माणि प्राप्य वेदमधीत्य च॥ सदारो वाप्यदारो वा आत्मवान् संयतेन्द्रियः। वानप्रस्थाश्रमं गच्छेत् कृतकृत्यो गृहाश्रमात्॥ तत्रारण्यकशास्त्राणि समधीत्य स धर्मवित्। अवरताः प्रव्रजित्वा गच्छत्यक्षरसात्मताम्॥ एतान्येव निमित्तानि मुनीनामूर्ध्वरेतसाम्। कर्तव्यानीह विप्रेण राजन्नादौ विपश्चिता॥ चरितब्रह्मचर्यस्य ब्राह्मणस्य विशाम्पते। भैक्षचर्यास्वधीकारः प्रशस्त इह मोक्षिणः॥ यत्रास्तमितशायी स्यान्निराशीरनिकेतनः। यथोपलब्धजीवी स्यान्मुनिर्दान्तो जितेन्द्रियः॥ निराशी:स्यात् सर्वसमो निर्भोगो निर्विकारवान्। विप्रः क्षेमाश्रमं प्राप्तो गच्छत्यक्षरसात्मताम्॥ अधीत्य वेदान्कृतसर्वकृत्यः संतानमुत्पाद्य सुखानि भुक्त्वा। समाहितः प्रचरेदुश्चरं यो गार्हस्थ्यधर्मं मुनिधर्मजुष्टम्॥ स्वदारतष्टस्त्वृतुकालगामी नियोगसेवी न शठो न जिह्मः। मिताशनो देवरतः कृतज्ञः सत्यो मृदुश्चानृशंसः क्षमावान्॥ दान्तो विधेयो हव्यकव्येऽप्रमत्तौ ह्यन्नस्य दाता सततं द्विजेभ्यः। अमत्सरी सर्वलिङ्गप्रदाता वैताननित्यश्च गृहाश्रमी स्यात्॥ अथात्र नारायणगीतमार्छ महर्षयस्तात महानुभावाः। महार्थमत्यन्ततपःप्रयुक्तं तदुच्यमानं हि मया निबोध॥ सत्यार्जवं चातिथिपूजनं च धर्मस्तथार्थश्च रतिः स्वदारैः। निषेवितव्यानि सुखानि लोके ह्यस्मिन् परे चैव मतं ममैतत्॥ भरणं पुत्रदाराणां वेदानां धारणं तथा। वसतामाश्रमं श्रेष्ठं वदन्ति परमर्षयः॥ एवं हि यो ब्राह्मणो यज्ञशीलो गार्हस्थ्यमध्यावसते यथावत्। गृहस्थवृत्तिं प्रविशोध्य सम्यक् स्वर्गे विशुद्धं फलमाप्नुते सः॥ तस्य देहपरित्यागादिशः कामाक्षया मताः। आनन्त्यायोपतिष्ठन्ति सर्वतोऽक्षिशिरोमुखाः॥ स्मरन्नेको जपन्नेकः सर्वानेको युधिष्ठिर। एकस्मिन्नेव चाचार्ये शुश्रूषुर्मलपङ्कवान्॥ ब्रह्मचारी व्रती नित्यं नित्यं दीक्षापरो वशी। परिचार्य तथा वेदं कृत्यं कुर्वन् वसेत् सदा॥ शुश्रूषां सततं कुर्वन् गुरोः सम्प्रणमेत च। षट्कर्मसु निवृत्तश्च न प्रवृत्तश्च सर्वशः॥ न चरत्यधिकारेण सेवेत द्विषतो न च। एषोऽऽश्रमपदस्तात ब्रह्मचारिण इष्यते॥ युधिष्ठिर उवाच शिवान् सुखान् महोदर्कानहिंस्त्राल्लोकसम्मतान्। ब्रूहि धर्मान् सुखोपायान् मद्विधानां सुखावहान्॥ भीष्म उवाच ब्राह्मणस्य तु चत्वारस्त्वाश्रमा विहिताः प्रभो। वर्णास्तान् नानुवर्तन्ते त्रयो भारतसत्तम॥ उक्तानि कर्माणि बहूनि राजन् स्वाणि राजन्यपरायणानि। नेमानि दृष्टान्तविधौ स्मृतानि क्षाने हि सर्वं विहितं यथावत्॥ क्षात्राणि वैश्यानि च सेवमानः शौद्राणि कर्माणि च ब्राह्मणः सन्। अस्मिल्लोके निन्दितो मन्दचेताः परे च लोके निरयं प्रयाति॥ या संज्ञा विहिता लोके दासे शुनि वृके पशौ। विकर्मणि स्थिते विप्रे सैव संज्ञा च पाण्डव॥ षट्कर्मसम्प्रवृत्तस्य आश्रमेषु चतुर्ध्वपि। सर्वधर्मोपपन्नस्य संवृतस्य कृतात्मनः॥ ब्राह्मणस्य विशुद्धस्य तपस्यभिरतस्य च। निराशिषो वदान्यस्य लोका ह्यक्षरसम्मिताः॥ यो यस्मिन् कुरुते कर्म यादृशं येन यत्र च। तादृशं तादृशेनैव स गुणं प्रतिपद्यते॥ वृद्ध्या कृषिवणिक्त्वेन जीवसंजीवनेन च। वेत्तुमर्हसि राजेन्द्र स्वाध्यायगणितं महत्॥ कालसंचोदितो लोकः कालपर्यायनिश्चितः। उत्तमाधममध्यानि कर्माणि कुरुतेऽवशः॥ अन्तवन्ति प्रधानानि पुरा श्रेयस्कराणि च। स्वकर्मनिरतो लोके ह्यक्षरः सर्वतोमुखः॥ युधिष्ठिर उवाच श्रुता मे कथताः पूर्वे चत्वारो मानवाश्रमाः। व्याख्यानयित्वा व्याख्यानमेषामाचक्ष्व पृच्छतः॥शा भीष्म उवाच विदिताः सर्व एवेह धर्मास्तव युधिष्ठिर। यथा मम महाबाहो विदिताः साधुसम्मताः॥ यत्तु लिङ्गान्तरगतं पृच्छसे मां युधिष्ठिर। धर्मं धर्मभृतां श्रेष्ठ तन्निबोध नराधिप॥ सर्वाण्येतानि कौन्तेय विद्यन्ते मनुजर्षभ। साध्वाचारप्रवृत्तानां चातुराश्रम्यकारिणाम्॥ अकामद्वेषयुक्तस्य दण्डनीत्या युधिष्ठिर। समदर्शिनश्च भूतेषु भैक्ष्याश्रमपदं भवेत्॥ वेत्ति ज्ञानविसर्ग च निग्रहानुग्रहं तथा। यथोक्तवृत्तेधीरस्य क्षेमाश्रमपदं भवेत्॥ अर्हान् पूजयतो नित्यं संविभागेन पाण्डव। सर्वतस्तस्य कौन्तेय भैक्ष्याश्रमपदं भवेत्॥ ज्ञातिसम्बन्धिमित्राणि व्यापन्नानि युधिष्ठिर। समभ्युद्धरमाणस्य दीक्षाश्रमपदं भवेत्॥ लोकमुख्येषु सत्कारं लिङ्गिमुख्येषु चासकृत्। कुर्वतस्तस्य कौन्तेय वन्याश्रमपदं भवेत्॥ आह्निकं पितृयज्ञांश्च भृतयज्ञान् समानुषान्। कुर्वतः पार्थ विपुलान् वन्याश्रमपदं भवेत्॥ संविभागेन भूतानामतिथीनां तथार्चनात्। देवयज्ञैश्च राजेन्द्र वन्याश्रमपदं भवेत्॥ मर्दनं परराष्ट्राणां शिष्टार्थं सत्यविक्रम। कुर्वतः पुरुषव्याघ्र वन्याश्रमपदं भवेत्॥ पालनात् सर्वभूतानां स्वराष्ट्रपरिपालनात्। दीक्षा बहुविधा राजन् सत्याश्रमपदं भवेत्॥ वेदाध्ययननित्यत्वं क्षमाथाचार्यपूजनम्। अथोपाध्यायशुश्रूषा ब्रह्माश्रमपदं भवेत्॥ आह्निकं जपमानस्य देवान् पूजयतः सदा। धर्मेण पुरुषव्याघ्र धर्माश्रमपदं भवेत्॥ मृत्युर्वा रक्षणं वेति यस्य राज्ञो विनिश्चयः। प्राणद्यूते ततस्तस्य ब्रह्माश्रमपदं भवेत्॥ अजिह्ममशठं मार्ग वर्तमानस्य भारत। सर्वदा सर्वभूतेषु ब्रह्माश्रमपदं भवेत्॥ वानप्रस्थेषु विप्रेषु त्रैविद्येषु च भारत। प्रयच्छतोऽर्थान् विपुलान् वन्याश्रमपदं भवेत्॥ सर्वभूतेष्वनुक्रोशं कुर्वतस्तस्य भारत। आनृशंस्यप्रवृत्तस्य सर्वावस्थं पदं भवेत्॥ बालवृद्धेषु कौन्तेय सर्वावस्थं युधिष्ठिर। अनुक्रोशक्रिया पार्थ सर्वावस्थं पदं भवेत्॥ बलात्कृतेषु भूतेषु परित्राणं कुरूद्वह। शरणागतेषु कौरव्य कुर्वन् गार्हस्थ्यमावसेत्॥ चराचराणां भूतानां रक्षणं चापि सर्वशः। यथार्हपूजां च तथा कुर्वन् गाहस्थ्यमावसेत्॥ ज्येष्ठानुज्येष्ठपत्नीनां भ्रातृणां पुत्रनप्तृणाम्। निग्रहानुग्रहौ पार्थ गार्हस्थ्यमिति तत् तपः॥ साधूनामर्चनीयानां पूजा सुविदितात्मनाम्। पालनं पुरुषव्याघ्र गृहाश्रमपदं भवेत्॥ आश्रमस्थानि भूतानि यस्तु वेश्मनि भारत। आददीतेह भोज्येन तद् गार्हस्थ्यं युधिष्ठिर॥ यः स्थितः पुरुषो धर्मे धात्रा सृष्टे यथार्थवत्। आश्रमाणां हि सर्वेषां फलं प्राप्नोत्यनामयम्॥ यस्मिन्न नश्यन्ति गुणाः कौन्तेय पुरुषे सदा। आश्रमस्थं तमप्याहुनरश्रेष्ठं युधिष्ठिर॥ स्थानमानं कुले मानं वयोमानं तथैव च। कुर्वन् वसति सर्वेषु ह्याश्रमेषु युधिष्ठिर॥ देशधर्मांच कौन्तेय कुलधर्मांस्तथैव च। पालयन् पुरुषव्याघ्र राजा सर्वाश्रमी भवेत्॥ काले विभूतिं भूतानामुपहारांस्तथैव च। अर्हयन् पुरुषव्याघ्र साधूनामाश्रमे वसेत्॥ दशधर्मगतश्चापि यो धर्मं प्रत्यवेक्षते। सर्वलोकस्य कौन्तेय राजा भवति सोऽऽश्रमी॥ ये धर्मकुशला लोके धर्मं कुर्वन्ति भारत। पालिता यस्य विषये धर्मांशस्तस्य भूपते॥ धर्मारामान् धर्मपरान् ये न रक्षन्ति मानवाान्। पार्थिवाः पुरुषव्याघ्र तेषां पापं हरन्ति ते॥ ये चाप्यत्र सहायाः स्युः पार्थिवानां युधिष्ठिर। ते चैवांशहराः सर्वे धर्मे परकृतेऽनघ॥ सर्वाश्रमपदेऽप्याहुर्गार्हस्थ्यं दीप्तनिर्णयम्। पावनं पुरुषव्याघ्र यं धर्मं पर्युपास्महे॥ आत्मोपमस्तु भूतेषु यो वै भवति मानवः। न्यस्तदण्डो जितक्रोधः प्रेत्येह लभते सुखम्॥ धर्मे स्थिता सत्त्ववीर्या धर्मसेतुवटारका। त्यागवाताध्वगा शीघ्रा नौस्तं संतारयिष्यति॥ यदा निवृत्तः सर्वस्मात् कामो योऽस्य हृदि स्थितः। तदा भवति सत्त्वस्थस्ततो ब्रह्म समश्नुते॥ सुप्रसन्नस्तु भावेन योगेन च नराधिप। धर्मं पुरुषशार्दूल प्राप्स्यते पालने रतः॥ वेदाध्ययनशीलानां विप्राणां साधुकर्मणाम्। पालने यत्नमातिष्ठ सर्वलोकस्य चैव ह॥ वने चरन्ति ये धर्ममाश्रमेषु च भारत। रक्षणात् तच्छतगुणं धर्मं प्राप्नोति पार्थिवः॥ एष ते विविधो धर्मः पाण्डवश्रेष्ठ कीर्तितः। अनुतिष्ठ त्वमेनं वै पूर्वदृष्टं सनातनम्॥ चातुराश्रम्यमैकाग्रयं चातुर्वर्यं च पाण्डव। धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः॥ युधिष्ठिर उवाच चातुराश्रम्यमुक्तं ते चातुर्वर्यं तथैव च। राष्ट्रस्य यत् कृत्यतमं ततो ब्रूहि पितामह॥ भीष्म उवाच राष्ट्रस्यैतत् कृत्यतमं राज्ञ एवाभिषेचनम्। अनिन्द्रमबलं राष्ट्रं दस्यवोऽभिभवन्त्युत॥ अराजकेषु राष्ट्रेषु धर्मो न व्यवतिष्ठते। परस्परं च खादन्ति सर्वथा धिगराजकम्॥ इन्द्रमेव प्रवृणुते यद्राजानमिति श्रुतिः। यथैवेन्द्रस्तथा राजा सम्पूज्यो भूतिमिच्छता॥ नाराजकेषु राष्ट्रेषु वस्तव्यमिति रोचये। नाराजकेषु राष्ट्रेषु हव्यमग्निर्वहत्युत॥ अथ चेदाभिवर्तेत राज्यार्थी बलवत्तरः। अराजकाणि राष्ट्राणि हतवीर्याणि वा पुनः॥ प्रत्युद्गम्याभिपूज्यः स्यादेतदत्र सुमन्त्रितम्। न हि पापात् परतरमस्ति किञ्चिदराजकात्॥ स चेत् समनुपश्येत समग्रं कुशलं भवेत्। बलवान् हि प्रकुपितः कुर्यान्निःशेषतामपि॥ भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा। अथ या सुदुहा राजन् नैव तां वितुदन्त्यपि॥ यदतप्तं प्रणमते नैतत् संतापमर्हति। यत् स्वयं नमते दारु न तत् संनामयन्त्यपि॥ एतयोपमया वीर संनमेत बलीयसे। इन्द्राय स प्रणमते नमते यो बलीयसे॥ तस्माद् राजैव कर्तव्यः सततं भूतिमिच्छता। न धनार्थो न दारार्थस्तेषां येषामराजकम्॥ प्रीयते हि हरन् पापः परवित्तमराजके। यदास्य उद्धरन्त्यन्ये तदा राजानमिच्छति॥ पापा ह्यपि तदा क्षेमं न लभन्ते कदाचन। एकस्य हि द्वौ हरतो द्वयोश्च बहवोऽपरे॥ अदासः क्रियते दासो ह्रियन्ते च बलात् स्त्रियः। एतस्मात् कारणाद् देवाः प्रजापालान् प्रचक्रिरे॥ राजा चेन्न भवेल्लोके पृथिव्यां दण्डधारकः। जले मत्स्यानिवाभक्ष्यन् दुर्बलं बलवत्तराः॥ अराजका: प्रजाः पूर्वं विनेशुरिति नः श्रुतम्। परस्परं भक्षयन्तो मत्स्या इव जले कृशान्॥ समेत्य तास्ततश्चक्रुः समयानिति नः श्रुतम्। वाक्शूरो दण्डपरुषो यश्च स्यात् पारजायिकः॥ यः परस्वमथादद्यात् त्याज्या नस्तादृशा इति। विश्वासार्थं च सर्वेषां वर्णानामविशेषतः। तास्तथा समयं कृत्वा समयेनावतस्थिरे॥ सहितास्तास्तदा जग्मुरसुखार्ताः पितामहम्। अनीश्वरा विनश्यामो भगवनीश्वरं दिश॥ यं पूजयेम सम्भूय यश्च नः प्रतिपालयेत्। ततो मनुं व्यादिदेश मनुर्नाभिननन्द ताः॥ मनुरुवाच बिभेमि कर्मणः पापाद् राज्यं हि भृशदुस्तरम्। विशेषतो मनुष्येषु मिथ्यावृत्तेषु नित्यदा॥ भीष्म उवाच तमब्रुवन् प्रजा मा भैः कर्तृनेनो गमिष्यति। पशूनामधिपञ्चाशद्धिरण्यस्य तथैव च।॥ धान्यस्य दशमं भागं दास्यामः कोशवर्धनम्। कन्यां शुल्के चारुरूपां विवाहेषूद्यतासु च॥ मुखेन शस्त्रपत्रेण ये मनुष्या: प्रधानतः। भवन्तं तेऽनुयास्यन्ति महेन्द्रमिव देवताः॥ स त्वं जातबलो राजा दुष्प्रधर्षः प्रतापवान्। सुखे धास्यसि नः सर्वान् कुबेर इव नैर्ऋतान्॥ यं च धर्मं चरिष्यन्ति प्रजा राज्ञा सुरक्षिताः। चतुर्थं तस्य धर्मस्य त्वत्संस्थं वै भविष्यति॥ तेन धर्मेण महता सुखं लब्धेन भावितः। पाह्यस्मान् सर्वतो राजन् देवानिव शतक्रतुः॥ विजयाय हि निर्याहि प्रतपन् रश्मिवानिव। मानं विधम शत्रूणां जयोऽस्तु तव सर्वदा॥ स निर्ययौ महातेजा बलेन महता वृतः। महाभिजनसम्पन्नस्तेजसा प्रज्वलनिव॥ तस्य दृष्ट्वा महत्त्वं ते महेन्द्रस्येव देवताः। अपतत्रसिरे सर्वे स्वधर्मे च ददुर्मनः॥ ततो महीं परिययौ पर्जन्य इव वृष्टिमान्। शमयन् सर्वतः पापान् स्वकर्मसु च योजयन्॥ एवं ये भूतिमिच्छेयुः पृथिव्यां मानवाः क्वचित्। कुर्दू राजानमेवाग्रे प्रजानुग्रहकारणात्॥ नमस्येरंश्च तं भक्त्या शिष्या इव गुरुं सदा। देवा इव च देवेन्द्रं तत्र राजानमन्तिके॥ सत्कृतं स्वजनेनेह परोऽपि बहु मन्यते। स्वजनेन त्ववज्ञातं परे परिभवन्त्युत॥ राज्ञः परैः परिभवः सर्वेषामसुखावहः। तस्माच्छत्रं च पत्रं च वासांस्याभरणानि च॥ भोजनान्यथ पानानि राज्ञे दधुर्गृहाणि च। आसनानि च शय्याश्च सर्वोपकरणानि च॥ गोप्ता तस्माद् दुराधर्षः स्मितपूर्वाभिभाषिता। आभाषितश्च मधुरं प्रत्याभाषेत मानवान्॥ कृतज्ञो दृढभक्तिः स्यात् संविभागी जितेन्द्रियः। ईक्षितः प्रतिवीक्षेत मृदु वल्गु च सुष्ठु च॥ युधिष्ठिर उवाच पार्थिवेन विशेषेण किं कार्यमवशिष्यते। कथं रक्ष्यो जनपदः कथं जेयाश्च शत्रवः॥ कथं चारं प्रयुञ्जीत वर्णान् विश्वासयेत् कथम्। कथं भृत्यान् कथं दारान् कथं पुत्रांश्च भारत॥ भीष्म उवाच राजवृत्तं महाराज शृणुष्वावहितोऽखिलम्। यत् कार्यं पार्थिवेनादौ पार्थिवप्रकृतेन वा॥ आत्मा जेयः सदा राज्ञा ततो जेयाश्च शत्रवः। अजितात्मा नरपतिविजयेत कथं रिपून्॥ एतावानात्मविजयः पञ्चवर्गविनिग्रहः। जितेन्द्रियो नरपतिर्बाधितुं शक्नुयादरी॥ न्यसेत गुल्मान् दुर्गेषु सन्धौ च कुरुनन्दन। नगरोपवने चैव पुरोद्यानेषु चैव ह॥ संस्थानेषु च सर्वेषु पुरेषु नगरेषु च। मध्ये च नरशार्दूल तथा राजनिवेशने॥ प्रणिधींश्च ततः कुर्याज्जडान्धबधिराकृतीन्। पुंसः परीक्षितान् प्राज्ञान् क्षुत्पिपासाश्रमक्षयान्॥ अमात्येषु च सर्वेषु मित्रेषु विविधेषु च। पुत्रेषु च महाराज प्रणिदध्यात् समाहितः॥ पुरे जनपदे चैव तथा सामन्तराजसु। यथा न विद्युरन्योन्यं प्रणिधेयास्तथा हि ते॥ चारांश्च विद्यात् प्रहितान् पुरेण भरतर्षभ। आपणेषु विहारेषु समाजेषु च भिक्षुषु॥ आरामेषु तथोद्याने पण्डितानां समागमे। देशेषु चत्वरे चैव सभास्वावसथेषु च॥ एवं विचिनुयाद् राजा परचारं विचक्षणः। चारे हि विदिते पूर्वं हितं भवति पाण्डव॥ यदा तु हीनं नृपतिर्विद्यादात्मानमात्मना। अमात्यैः सह सम्मन्त्र्य कुर्यात् संधि बलीयसा॥ अज्ञायमाने हीनत्वे संधिं कुर्यात् परेण वै। लिप्सुर्वा कंचिदेवार्थं त्वरमाणो विचक्षणः॥ गुणवन्तो महोत्साहा धर्मज्ञाः साधवश्च ये। संदधीत नृपस्तैश्च राष्ट्र धर्मेण पालयन्॥ उच्छिद्यमानमात्मानं ज्ञात्वा राजा महामतिः। पूर्वापकारिणो हन्याल्लोकद्विशंश्च सर्वशः॥ यो नोपकर्तुं शक्नोति नोपकर्तुं महीपतिः। न शक्यरूपश्चोद्धर्तुमुपेक्ष्यस्तादृशो भवेत्॥ यात्रायां यदि विज्ञातमनाक्रन्दमनन्तरम्। व्यासक्तं च प्रमत्तं च दुर्बलं च विचक्षणः॥ यात्रामाज्ञापयेद् वीरः कल्यः पुष्टबलः सुखी। पूर्वं कृत्वा विधानं च यात्रायां नगरे तथा॥ न च वश्यो भवेदस्य नृपो यश्चातिवीर्यवान्। हीनश्च बलवीर्याभ्यां कर्षयंस्तत्परो वसेत्॥ राष्ट्रं च पीडयेत् तस्य शस्त्राग्निविषमूर्च्छनैः। अमात्यवल्लभानां च विवादास्तस्य कारयेत्॥ वर्जनीयं सदा युद्धं राज्यकामेन धीमता। उपायैस्त्रिभिरादानमर्थस्याह बृहस्पतिः॥ सान्त्वेन तु प्रदानेन भेदेन च नराधिप। यदर्थं शक्नुयात् प्राप्तुं तेन तुष्येत पण्डितः॥ आददीत बलिं चापि प्रजाभ्यः कुरुनन्दन। स षड्भागमपि प्राज्ञस्तासामेवाभिगुप्तये॥ दशधर्मतेभ्यो यद् वसु बह्वल्पमेव च। तदाददीत सहसा पौराणां रक्षणाय वै॥ यथा पुत्रास्तथा पौत्रा द्रष्टव्यास्ते न संशयः। भक्तिश्चैषां न कर्तव्या व्यवहारे प्रदर्शिते॥ श्रोतुं चैव न्यसेद् राजा प्राज्ञान् सर्वार्थदर्शिनः। व्यवहारेषु सततं तत्र राज्यं प्रतिष्ठितम्॥ आकरे लवणे शुल्के तरे नागबले तथा। न्यसेदमात्यान् नृपतिः स्वाप्तान् वा पुरुषान् हितान्।।२९ सम्यग्दण्डधरो नित्यं राजा धर्ममवाप्नुयात्। नृपस्य सततं दण्डः सम्यग् धर्मः प्रशस्यते॥ वेदवेदाङ्गवित् प्राज्ञः सुतपस्वी नृपो भवेत्। दानशीलश्च सततं यज्ञशीलश्च भारत॥ एते गुणाः समस्ताः स्युपस्य सततं स्थिराः। व्यवहारलोपे नृपतेः कुतः स्वर्गः कुतो यशः॥ यदा तु पीडितो राजा भवेद् राजा बलीयसा। तदाभिसंश्रयेद् दुर्गं बुद्धिमान् पृथिवीपतिः॥ विधावाक्रम्य मित्राणि विधानमुपकल्पयेत्। सामभेदान् विरोधार्थं विधानमुपकल्पयेत्॥ घोषान् न्यसेत मार्गेषु ग्रामानुत्थापयेदपि। प्रवेशयेच्च तान् सर्वान् शाखानगरकेष्वपि॥ ये गुप्ताश्चैव दुर्गाश्च देशास्तेषु प्रवेशयेत्। धनिनो बलमुख्यांश्च सान्त्वयित्वा पुनः पुनः॥ शस्याभिहारं कुर्याच्च स्वयमेव नराधिपः। असम्भवे प्रवेशस्य दहेद् दावाग्निना भृशम्॥ क्षेत्रस्थेषु च सस्येषु शत्रोरुपजयेन्नरान्। विनाशयेद् वा तत् सर्वं बलेनाथ स्वकेन वा॥ नदीमार्गेषु च तथा संक्रमानवसादयेत्। जलं विस्त्रावयेत् सर्वमविस्त्राव्यं च दूषयेत्॥ तदात्वेनायतीभिश्च निवसेद् भूम्यनन्तरम्। प्रतीघातं परस्याजौ मित्रकार्येऽप्युपस्थिते।॥ दुर्गाणां चाभितो राजा मूलच्छेदं प्रकारयेत्। सर्वेषां क्षुद्रवृक्षाणां चैत्यवृक्षान् विवर्जयेत्॥ प्रवृद्धानां च वृक्षाणां शाखां प्रच्छेदयेत् तथा। चैत्यानां सर्वथा त्याज्यमपि पत्रस्य पातनम्॥ प्रगण्डीः कारयेत् सम्यगाकाशजननीस्तदा। आपूरयेच्च परिखां स्थाणुनक्रझषाकुलाम्॥ संकटद्वारकाणि स्युरुच्छ्वासार्थं पुरस्य च। तेषां च द्वारवद् गुप्तिः कार्या सर्वात्मना भवेत्॥ द्वारेषु च गुरूण्येव यन्त्राणि स्थापयेत् सदा। आरोपयेच्छतघ्नीश्च स्वाधीनानि च कारयेत्॥ काष्ठानि चाभिहार्याणि तथा कूपांश्च खानयेत्। संशोधयेत् तथा कूपान् कृतपूर्वान् पयोऽर्थिभिः॥ तृणच्छन्नानि वेश्मानि पङ्केनाथ प्रलेपयेत्। निहरेच्च तृणं मासि चैत्रे वह्निभयात् तथा॥ नक्तमेव च भक्तानि पाचयेत नराधिपः। न दिवा ज्वालयेदग्निं वर्जयित्वाऽऽग्निहोत्रिकम्॥ कर्मारारिश्शालासु ज्वलेदग्निः सुरक्षितः। गृहाणि च प्रवेश्यान्तर्विधेयः स्याद्भुताशनः॥ महादण्डश्च तस्य स्याद् यस्याग्निवै दिवा भवेत्। प्रघोषयेदथैवं च रक्षणार्थं पुरस्य च॥ भिक्षुकांश्चाक्रिकांश्चैव क्लीवोन्मत्तान् कुशीलवान्। बाह्यान् कुर्यान्नरश्रेष्ठ दोषाय स्युर्हि तेऽन्यथा॥ चत्वरेष्वथ तीर्थेषु सभास्वावसथेषु च। यथार्थवर्णं प्रणिधिं कुर्यात् सर्वस्य पार्थिवः॥ विशालान् राजमार्गाश्च कारयीत नराधिपः। प्रपाश्च विपणांश्चैव यथोद्देशं समाविशेत्॥ भाण्डागारायुधागारान् योधागारांश्च सर्वशः। अश्वागारान् गजागारान् बलाधिकरणानि च॥ परिखाश्चैव कौरव्य प्रतोलीनिष्कुटानि च। न जात्वन्यः प्रपश्येत मुह्यमेतद् युधिष्ठिर॥ अर्थसंनिचयं कुर्याद् राजा परबलार्दितः। तैलं वसा मधु घृतमौषधानि च सर्वशः॥ अङ्गारकुशमुजानां पलाशशरवर्णिनाम्। यवसेन्धनादिग्धानां कारयीत च संचयान्॥ आयुधानां च सर्वेषां शक्त्य॒श्विासवर्मणाम्। संचयानेवमादीनां कारयीत नराधिपः॥ औषधानि च सर्वाणि मूलानि च फलानि च। चतुर्विधांश्च वैद्यान् वै संगृह्णीयाद् विशेषतः॥ नटांश्च नर्तकांश्चैव मल्लान् मायाविनस्तथा। शोभयेयुः पुरवरं मोदयेयुश्च सर्वशः॥ यतः शङ्का भवेच्चापि भृत्यतोऽथापि मन्त्रितः। पौरेभ्यो नृपतेर्वापि स्वाधीनान् कारयीत तान्॥ कृते कर्मणि राजेन्द्र पूजयेद् धनसंचयैः। दानेन च यथार्हेण सान्त्वेन विविधेन च॥ निर्वेदयित्वा तु परं हत्वा वा कुरुनन्दन। ततोऽनृणो भवेद् राजा यथा शास्त्रे निदर्शितम्॥ राज्ञा सप्तैव रक्ष्याणि तानि चैव निबोध मे। आत्मामात्याश्च कोशाश्च दण्डो मित्राणि चैव हि॥ तथा जनपदाश्चैव पुरं च कुरुनन्दन। एतत् सप्तात्मकं राज्यं परिपाल्यं प्रयत्नतः॥ पाङ्गद्धण्यं त्रिवर्गं च त्रिवर्गपरमं तथा। यो वेत्ति पुरुषव्याघ्र स भुक्कते पृथिवीमिमाम्॥ पाड्गुण्यमिति यत् प्रोक्तं तन्निबोध युधिष्ठिर। संधानासनमित्येव यात्रासंधानमेव च॥ विगृह्यासनमित्येव यात्रां सम्परिगृह्य च। द्वैधीभावस्तथान्येषां संश्रयोऽथ परस्य च॥ त्रिवर्गश्चापि यः प्रोक्तस्तमिहैकमनाः शृणु। क्षयः स्थानं च वृद्धिश्च त्रिवर्गः परमस्तथा॥ धर्मश्चार्थश्च कामश्च सेवितव्योऽथ कालतः। धर्मेण च महीपालश्चिरं पालयते महीम्॥ अस्मिन्नर्थे च श्लोकौ द्वौ गीतावङ्गिरसा स्वयम्। यादवीपुत्र भद्रं ते तावपि श्रोतुमर्हसि॥ कृत्वा सर्वाणि कार्याणि सम्यक् सम्पाल्य मेदिनीम्। पालयित्वा तथा पौरान् परत्र सुखमेधते॥ किं तस्य तपसा राज्ञः किं च तस्याध्वरैरपि। सुपालितप्रजो यः स्यात् सर्वधर्मविदेव सः॥ युधिष्ठिर उवाच दण्डनीतिश्च राजा च समस्तौ तावुभावपि। कस्य किं कुर्वतः सिद्ध्येत् तन्मे ब्रूहि पितामह॥ भीष्म उवाच महाभाग्यं दण्डनीत्याः सिद्धः शब्दैः सहेतुकैः। शृणु मे शंसतो राजन् यथावदिह भारत॥ दण्डनीतिः स्वधर्मेभ्यश्चातुर्वण्र्यं नियच्छति। प्रयुक्ता स्वामिना सम्यगधर्मेभ्यो नियच्छति॥ चातुर्वर्ण्य स्वकर्मस्थे मर्यादानामसंकरे। दण्डनीतिकृते क्षेमे प्रजानामकुतोभये॥ स्वाम्ये प्रयत्नं कुर्वन्ति त्रयो वर्णा यथाविधि। तस्मादेव मनुष्याणां सुखं विद्धि समाहितम्॥ कालो वा कारणं राज्ञो राजा वा कालकारणम्। इति ते संशयो मा भूद् राजा कालस्य कारणम्।।७९। दण्डनीत्यां यदा राजा सम्यक् कात्स्न्येन वर्तते। तदा कृतयुगं नाम कालसृष्टं प्रवर्तते॥ ततः कृतयुगे धर्मो नाधर्मो विद्यते क्वचित्। सर्वेषामेव वर्णानां नाधर्मे रमते मनः॥ योगक्षेमाः प्रवर्तन्ते प्रजानां नात्र संशयः। वैदिकानि च सर्वाणि भवन्त्यपि गुणान्युत॥ ऋतवश्च सुखाः सर्वे भवन्त्युत निरामयाः। प्रसीदन्ति नराणां च स्वरवर्णमनांसि च॥ व्याधयो न भवन्त्यत्र नाल्पायुर्दृश्यते नरः। विधवा न भवन्त्यत्र कृपणो न तु जायते॥ अकृष्टपच्या पृथिवी भवन्त्योषधयस्तथा। त्वक्पत्रफलमूलानि वीर्यवन्ति भवन्ति च॥ नाधर्मो विद्यते तत्र धर्म एव तु केवलम्। इति कार्तयुगानेतान् धर्मान् विद्धि युधिष्ठिर।॥ दण्डनीत्यां यदा राजा त्रीनंशाननुवर्तते। चतुर्थमंशमुत्सृज्य तदा त्रेता प्रवर्तते॥ अशुभस्य चतुर्थांशस्त्रीनंशाननुवर्तते। कृष्टपच्यैव पृथिवी भवन्त्योषधयस्तथा॥ अर्धं त्यक्त्वा यदा राजा नीत्यर्धमनुवर्तते। ततस्तु द्वापरं नाम स कालः सम्प्रवर्तते॥ अशुभस्य यदा त्वधं द्वावंशावनुवर्तते। कृष्टपच्यैव पृथिवी भवत्यर्धफला तथा॥ दण्डनीतिं परित्यज्य यदा कात्स्येन भूमिपः। प्रजाः क्लिश्नात्ययोगेन प्रवर्तेत तदा कलिः॥ कलावधर्मो भूयिष्ठं धर्मो भवति न क्वचित्। सर्वेषामेव वर्णानां स्वधर्माच्च्यवते मनः॥ शूद्रा भैक्षेण जीवन्ति ब्राह्मणाः परिचर्यया। योगक्षेमस्य नाशश्च वर्तते वर्णसंकरः॥ वैदिकानि च कर्माणि भवन्ति विगुणान्युत। ऋतवो न सुखाः सर्वे भवन्त्यामयिनस्तथा॥ ह्रसन्ति च मनुष्याणां स्वरवर्णमनांस्युत। व्याधयश्च भवन्त्यत्र म्रियन्ते च गतायुषः॥ विधवाश्च भवन्त्यत्र नृशंसा जायते प्रजा। क्व चिद् वर्षति पर्जन्यः क्वचित् सस्यं प्ररोहति॥ रसाः सर्वे क्षयं यान्ति यदा नेच्छति भूमियः। प्रजाः संरक्षितुं सम्यग् दण्डनीतिसमाहितः॥ राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च। युगस्य च चतुर्थस्य राजा भवति कारणम्॥ कृतस्य करणाद् राजा स्वर्गमत्यन्तमश्नुते। त्रेतायाः करणाद् राजा स्वर्गं नात्यन्तमश्नुते॥ प्रवर्तनाद् द्वापरस्य यथाभागमुपाश्नुते। कलेः प्रवर्तनाद् राजा पापमत्यन्तमश्नुते॥ ततो वसति दुष्कर्मा नरके शाश्वतीः समाः। प्रजानां कल्मषे मग्नोऽकीर्तिं पापं च विन्दति॥ दण्डनीतिं पुरस्कृत्य विजानन् क्षत्रियः सदा। अनवाप्तं च लिप्सेत लब्धं च परिपालयेत्॥ लोकस्य सीमन्तकरी मर्यादा लोकभाविनी। सम्यड्नीता दण्डनीतिर्यथा माता यथा पिता॥ यस्यां भवन्ति भूतानि तद् विद्धि मनुजर्षभ। एष एव परो धर्मो यद् राजा दण्डनीतिमान्॥ तस्मात् कौरव्य धर्मेण प्रजा: पालय नीतिमान्। एवंवृत्तः प्रजा रक्षन् स्वर्ग जेतासि दुर्जयम्॥ युधिष्ठिर उवाच केन वृत्तेन वृत्तज्ञ वर्तमानो महीपतिः। सुखेनार्थान् सुखोदर्कानिह च प्रेत्य चाप्नुयात्॥ भीष्म उवाच अयं गुणानां षट्त्रिंशत्पट्त्रिंशद्गुणसंयुतः। यान् गुणांस्तु गुणोपेतः कुर्वन् गुणमवाप्नुयात्॥ रेद् धर्मानकटुको मुञ्चेत् स्नेहं न चास्तिकः। अनृशंसश्चरेदर्थं चरेत् काममनुद्धतः॥ प्रियं ब्रूयादकृपणः शूरः स्यादविकत्थनः। दाता नापात्रवर्षी स्यात् प्रगल्भः स्यादनिष्ठुरः॥ संदधीत न चानायैर्विगृह्णीयान्न बन्धुभिः। नाभक्तं चारयेच्चारं कुर्यात् कार्यमपीडया॥ अर्थं ब्रूयान्न चासत्सु गुणान् ब्रूयान्न चात्मनः। आदद्यान्न च साधुभ्यो नासत्पुरुषमाश्रयेत्॥ नापरीक्ष्य नयेद् दण्डं न च मन्त्रं प्रकाशयेत्। विसृजेन्न च लुब्धेभ्यो विश्वसेन्नापकारिषु॥ अनीर्षुर्गुप्तदारः स्याच्चोक्षः स्यादघृणी नृपः। स्त्रियः सेवेत नात्यर्थं मृष्टं भुञ्जीत नाहितम्॥ अस्तब्धः पूजयेन्मान्यान् गुरून् सेवेदमायया। अर्चेद् देवानदम्भेन श्रियमिच्छेदकुत्सिताम्॥ सेवेत प्रणयं हित्वा दक्षः स्यान्न त्वकालवित्। सान्त्वयेन च मोक्षाय अनुगृह्णन्न चाक्षिपेत्॥ प्रहरेन्न त्वविज्ञाय हत्वा शत्रून् न शोचयेत्। क्रोधं कुर्यान्न चाकस्मान्मृदुः स्यान्नापकारिषु॥ एवं चरस्व राज्यस्थो यदि श्रेय इहेच्छसि। अतोऽन्यथा नरपतिर्भयमृच्छत्यनुत्तमम्॥ इति सर्वान् गुणानेतान् यथोक्तान् योऽनुवर्तते। अनुभूयेह भद्राणि प्रेत्य स्वर्गे महीयते॥ वैशम्पायन उवाच इदं वचः शान्तनवस्य शुश्रुवान् युधिष्ठिरः पाण्डवमुख्यसंवृतः। तदा ववन्दे च पितामहं नृपो यथोक्तमेतच्च चकार बुद्धिमान्॥ युधिष्ठिर उवाच कथं राजा प्रजा रक्षन्नाधिबन्धेन युज्यते। धर्मेण नापराध्नोति तन्मे ब्रूहि पितामह॥ भीष्म उवाच समासेनैव ते राजन् धर्मान् वक्ष्यामि शाश्वतान्। विस्तरेणैव धर्माणां न जात्वन्तमवाप्नुयात्॥ धर्मनिष्ठाश्रुतवतो वेदव्रतसमाहितान्। अर्चयित्वा यजेथास्त्वं गृहे गुणवतो द्विजान्॥ प्रत्युत्थायोपसंगृह्य चरणावभिवाद्य च। अथ सर्वाणि कुर्वीथाः कार्याणि सपुरोहितः॥ धर्मकार्याणि निर्वर्त्य मङ्गलानि प्रयुज्य च। ब्राह्मणान् वाचयेथास्त्वमर्थसिद्धिजयाशिषः॥ आर्जवेन च सम्पन्नो धृत्या बुद्ध्या च भारत। यथार्थं प्रतिगृह्णीयात् कामक्रोधौ च वर्जयेत्॥ कामक्रोधौ पुरस्कृत्य योऽर्थं रजानुतिष्ठति। न स धर्मं न चाप्यर्थं प्रतिगृह्णाति बालिशः॥ मा स्म लुब्धांश्च मूल्श्च च प्रयूयुजः। अलुब्धान् बुद्धिसम्पन्नान् सर्वकर्मसु योजयेत्॥ मूर्यो ह्यधिकृतोऽर्थेषु कार्याणामविशारदः। प्रजाः क्लिश्नात्ययोगेन कामक्रोधसमन्वितः॥ बलिषष्ठेन शुल्केन दण्डेनाथापराधिनाम्। शास्त्रानीतेन लिप्सेथा वेतनेन धनागमम्॥ दापयित्वा कर धऱ्या राष्ट्र नीत्या यथाविधि। तथैतं कल्पयेद् राजा योगक्षेममतन्द्रितः॥ गोपायितारं दातारं धर्मनित्यमतन्द्रितम्। अकामद्वेषसंयुक्तमनुरज्यन्ति मानवाः॥ मा स्माधर्मेण लोभेन लिप्सेथास्त्वं धनागमम्। धर्मार्थावध्रुवौ तस्य यो न शास्त्रपरो भवेत्॥ अपशास्त्रपरो राजा धर्मार्थान्नाधिगच्छति। अस्थाने चास्य तद् वित्तं सर्वमेव विनश्यति॥ अर्थमूलोऽपि हिंसां च कुरुते स्वयमात्मनः। करैरशास्त्रदृष्टैर्हि मोहात् सम्पीडयन् प्रजाः॥ ऊपश्छिन्द्यात् तु यो धेन्वाः क्षीरार्थी न लभेत् पयः। एवं राष्ट्रमयोगेन पीडितं न विवर्धते॥ यो हि दोग्ध्रीमुपास्ते च स नित्यं विन्दते पयः। एव राष्ट्रमुपायेन भुञ्जानो लभते फलम्॥ अथ राष्ट्रमुपायेन भुज्यमानं सुरक्षितम्। जनयत्यतुलां नित्यं कोशवृद्धिं युधिष्ठिर॥ दोग्ध्री धान्यं हिरण्यं च मही राज्ञा सुरक्षिता। नित्यं स्वेभ्यः परेभ्यश्च तृप्ता माता यथा पयः॥ मालाकारोपमो राजन् भव माऽऽङ्गारिकोपमः। तथायुक्तश्चिरं राज्यं भोक्तं शक्ष्यसि पालयन्॥ परचक्राभियानेन यदि ते स्याद् धनक्षयः। अथ साम्नैव लिप्सेथा धनमब्राह्मणेषु यत्॥ मा स्म ते ब्राह्मणं दृष्ट्वा धनस्थं प्रचलेन्मनः। अन्त्यायामप्यवस्थायां किमु स्फीतस्य भारत।॥ धनानि तेभ्यो दद्यास्त्वं यथाशक्ति यथार्हतः। सान्त्वयन् परिरक्षश्च स्वर्गमाप्स्यसि दुर्जयम्॥ एवं धर्मेण वृत्तेन प्रजास्त्वं परिपालय। स्वन्तं पुण्यं यशो नित्यं प्राप्स्यसे कुरुनन्दन॥ धर्मेण व्यवहारेण प्रजाः पालय पाण्डव। युधिष्ठिर यथा युक्तो नाधिबन्धेन योक्ष्यसे।॥ एष एव परो धर्मो यद् राजा रक्षति प्रजाः। भूतानां हि यथा धर्मो रक्षणं परमा दया॥ तस्मादेवं परं धर्मं मन्यन्ते धर्मकोविदाः। यो राजा रक्षणे युक्तो भूतेषु कुरुते दयाम्॥ यदह्ना कुरुते पापमरक्षन् भयतः प्रजाः। राजा वर्षसहस्रेण तस्यान्तमधिगच्छति॥ यदह्ना कुरुते धर्मं प्रजा धर्मेण पालयन्। दशवर्षसहस्राणि तस्य भुक्ते फलं दिवि॥ स्विष्टिः स्वधीतिः सुतपा लोकाञ्जयति यावतः। क्षणेन तानवाप्नोति प्रजा धर्मेण पालयन्॥ एवं धर्मं प्रयत्नेन कौन्तेय परिपालय। ततः पुण्यफलं लब्ध्वा नाधिबधेन योक्ष्यसे॥ स्वर्गलोके सुमहतीं श्रियं प्राप्स्यसि पाण्डव। असम्भवश्च धर्माणामीदृशानामराजसु॥ तस्माद् राजैव नान्योऽस्ति यो धर्मफलमाप्नुयात्। स राज्यं धृतिमान् प्राप्य धर्मेण परिपालय। इन्द्रं तर्पय सोमेन कामैश्च सुहृदो जनान्॥ स राज्यं धृतिमान् प्राप्य धर्मेण परिपालय। इन्द्रं तर्पय सोमेन कामैश्च सुहृदो जनान्॥ भीष्म उवाच य एव तु सतो रक्षेदसतश्च निवर्तयेत्। स एव राज्ञः कर्तव्यो राजन् राजपुरोहितः॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। पुरूरवस ऐलस्य संवादं मातरिश्वनः॥ पुरूरवा उवाच कुत:स्विद् ब्राह्मणो जातो वर्णाश्चापि कुतस्त्रयः। कस्माच्च भवति श्रेष्ठस्तन्मे व्याख्यातुमर्हसि॥ मातरिश्वोवाच ब्राह्मणो मुखतः सृष्टो ब्रह्मणो राजसत्तम। बाहुभ्यां क्षत्रियः सृष्ट ऊरुभ्यां वैश्य एव च।॥ वर्णानां परिचर्यार्थं त्रयाणां भरतर्षभ। वर्णश्चतुर्थः पश्चात् तु पद्भ्यां शूद्रो विनिर्मितः॥ ब्राह्मणो जायमानो हि पृथिव्यामनुजायते। ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये॥ अतः पृथिव्या यन्तारं क्षत्रियं दण्डधारिणम्। द्वितीयं वर्णमकरोत् प्रजानामनुगुप्तये॥ वैश्यस्तु धनधान्येन त्रीन् वर्णान् विध्यादिमान्। शूद्रो ह्येतान् परिचरेदिति ब्रह्मानुशासनम्॥ ऐल उवाच द्विजस्य क्षत्रबन्धोर्वा कस्येयं पृथिवी भवेत्। : सह वित्तेन सम्यग् वायो प्रचक्ष्व मे॥ वायुरुवाच विप्रस्य सर्वमेवैतद् यत् किञ्चिज्जगतीगतम्। ज्येष्ठेनाभिजनेनेह तद्धर्मकुशला विदुः॥ धर्मतः सह स्वमेव ब्राह्मणो भुक्ते स्वं वस्ते स्वं ददाति च। गुरुर्हि सर्ववर्णानां ज्येष्ठः श्रेष्ठश्च वै द्विजः॥ पत्यभावे यथैव स्त्री देवरं कुरुते पतिम्। एष ते प्रथमः कल्प आपद्यन्यो भवेत् ततः॥ यदि स्वर्ग परं स्थानं स्वधर्मं परिमार्गसि। यत् किञ्चिज्जयसे भूमिं ब्राह्मणाय निवेदया॥ श्रुतवृत्तोपपन्नाय धर्मज्ञाय तपस्विने। स्वधर्मपरितृप्ताय यो न वित्तपरो भवेत्॥ यो राजानं नयेद् बुद्ध्या सर्वतः परिपूर्णया। ब्राह्मणो हि कुले जातः कृतप्रज्ञो विनीतवान्॥ श्रेयो नयति राजानं ब्रुवंश्चित्रां सरस्वतीम्। राजा चरति यद् धर्मं ब्राह्मणेन निदर्शितम्॥ शुश्रूषुरनहंवादी क्षत्रधर्मव्रते स्थितः। तावता सत्कृतः प्राज्ञश्चिरं यशसि तिष्ठति॥ तस्य धर्मस्य सर्वस्य भागी राजपुरोहितः। एवमेव प्रजाः सर्वा राजानमभिसंश्रिताः॥ सम्यग्वृत्ताः स्वधर्मस्था न कुतश्चिद् भयान्विताः। राष्ट्रे चरन्ति यं धर्म राज्ञा साध्वभिरक्षिताः॥ चतुर्थं तस्य धर्मस्य राजा भागं तु विन्दति। देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः॥ यज्ञमेवोपजीवन्ति नास्ति चेष्टमराजके। इतो दत्तेन जीवन्ति देवताः पितरस्तथा॥ राजन्येवास्य धर्मस्य योगक्षेमः प्रतिष्ठितः। छायायामप्सु वायौ च सुखमुष्णेऽधिगच्छति॥ अग्नौ वाससि सूर्ये च सुखं शीतेऽधिगच्छति। शब्दे स्पर्शे रसे रूपे गन्धे च रमते मनः॥ तेषु भोगेषु सर्वेषु न भीतो लभते सुखम्। अभयस्य हि यो दाता तस्यैव सुमहत् फलम्। न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते॥ इन्द्रो राजा यमो राजा धर्मो राजा तथैव च। राजा बिभर्ति रूपाणि राज्ञा सर्वमिदं धृतम्॥ अभयस्य हि यो दाता तस्यैव सुमहत् फलम्। न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते॥ इन्द्रो राजा यमो राजा धर्मो राजा तथैव च। राजा बिभर्ति रूपाणि राज्ञा सर्वमिदं धृतम्॥ भीष्म उवाच राज्ञा पुरोहितः कार्यो भवेद् विद्वान् बहुश्रुतः। उभौ समीक्ष्य धर्मार्थावप्रमेयावनन्तरम्॥ धर्मात्मा मन्त्रविद् येषां राज्ञां राजन् पुरोहितः। राजा चैवंगुणो येषां कुशलं तेषु सर्वशः॥ उभौ प्रजा वर्धयतो देवान् सर्वान् सुतान् पितृन्। भवेयातां स्थितौ धर्मे श्रद्धेयौ सुतपस्विनौ॥ परस्परस्य सुहृदौ विहितौ समचेतसौ। ब्रह्मक्षत्रस्य सम्मानात् प्रजा सुखमवाप्नुयात्॥ विमाननात् तयोरेव प्रजा नश्येयुरेव हि। ब्रह्मक्षत्रं हि सर्वेषां वर्णानां मूलमुच्यते॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। ऐलकश्यपसंवादं तन्निबोध युधिष्ठिर॥ ऐल उवाच यदा हि ब्रह्म प्रजहाति क्षत्रं क्षत्रं यदा वा प्रजहाति ब्रह्मा अन्वरबलं कतमेऽस्मिन्भजन्ते तथा वर्णाः कतमेऽस्मिन् ध्रियन्ते॥ कश्यप उवाच विद्धं राष्ट्र क्षत्रियस्य भवति। ब्रह्मक्षत्रं यत्र विरुद्ध्यतीह। अन्वग्बलं दस्यवस्तद्भजन्ते तथा वर्णं तत्र विदन्ति सन्तः॥ नैषां ब्रह्म च वर्धते नोत पुत्रा न गर्गरो मथ्यते नो यजन्ते। नैषां पुत्रा वेदमधीयते च यदा ब्रह्म क्षत्रियाः संत्यजन्ति॥ नैषामर्थो वर्धते जातु गेहे नाधीयते सुप्रजा नो यजन्ते। अपध्वस्ता दस्यु ताः भवन्ति ये ब्राह्मणान् क्षत्रियाः संत्यजन्ति॥ एतौ हि नित्यं संयुक्तावितरेतरधारणे। क्षत्रं वै ब्रह्मणो योनिोनिः क्षत्रस्य वै द्विजाः॥ उभावेतौ नित्यमभिप्रपन्नौ सम्प्रापतुर्महतीं सम्प्रतिष्ठाम्! तयोः संधिर्भिद्यते चेत् पुराण स्ततः सर्वं भवति हि सम्प्रमूढम्॥ नात्र पारं लभते पारगामी महागाधे गौरिव सम्प्रपन्ना। चातुर्वण्र्यं भवति हि सम्प्रमूढं प्रजास्ततः क्षयसंस्था भवन्ति॥ ब्रह्मवृक्षो रक्ष्यमाणो मधु हेम च वर्षति। अरक्ष्यमाण: सततमश्रु पापं च वर्षति॥ न ब्रह्मचारी चरणादयेतो यदा ब्रह्म ब्रह्मणि त्राणमिच्छेत्। आश्चर्यतो वर्षति तत्र देव स्तत्राभीक्ष्णं दुःसहाश्चाविशन्ति॥ स्त्रियं हत्वा ब्राह्मणं वापि पाप: सभायां यत्र लभतेऽनुवादम्। राज्ञः सकाशे न बिभेति चापि ततो भयं विद्यते क्षत्रियस्या॥ पापैः पापे क्रियमाणे हि चैल ततो रुद्रो जायते देव एषः। पापैः पापा: संजनयन्ति रुद्र ततः सर्वान् साध्वसाधून् हिनस्ति॥ ऐल एवाच कुतो रुद्रः कीदृशो वापि रुद्रः सत्त्वैः सत्त्वं दृश्यते वध्यमानम्। एतत् सर्वं कश्यप मे प्रचक्ष्व कुतो रुद्रो जायते देव एषः॥ कश्यप उवाच आत्मा रुद्रो हृदयो मानवानां स्वं स्वं देहं परदेहं न हन्ति। वातोत्पातैः सदृशं रुद्रमार्ह र्देवैर्जीमूतैः सदृशं रूपमस्य॥ ऐल उवाच वातः परिवृणोति कर्थि न जीमूतो वर्षति नापि देवः। तथायुक्तो दृश्यते मानुषेषु कामद्वेषाद् बध्यते मुह्यते च॥ न वै कश्यप उवाच यथैकगेहे जातवेदाः प्रदीप्तः कृत्स्नं ग्रामं दहते चत्वरं वा। विमोहनं कुरुते देव एष ततः सर्वं स्पृश्यते पुण्यपापैः॥ ऐल उवाच यदि दण्डः स्पृशतेऽपुण्यपापं पापैः पापे क्रियमाणे विशेषात्। सुकृतं नाम कुर्याद् दुष्कृतं वा कस्य हेतोर्न कुर्यात्॥ कस्य हेतोः कश्यप उवाच असंत्यागात् पापकृतामपा स्तुल्यो दण्डः स्पृशते मिश्रभावात्। शुष्णा दह्यते मिश्रभार्वा न मिश्रः स्यात् पापकृद्भिः कथंचित्॥ ऐल उवाच साध्वसाधून् धारयतीह भूमिः साध्वसाधूंस्तापयतीह सूर्यः। साध्वसाधूंश्चापि वातीह वायु रापस्तथा साध्वसाधून् पुनन्ति॥ कश्यप उवाच एवमस्मिन्वर्तते लोक एव नामुत्रं वर्तते राजपुत्र। प्रेत्यैतयोरन्तरावान्विशेषो यो वै पुण्यं चरते यश्च पापम्॥ पुण्यस्य लोको मधुमान् घृतार्चि हिरण्यज्योतिरमृतस्य नाभिः। तत्र प्रेत्य मोदते ब्रह्मचारी न तत्र मृत्युर्न जरा नोत दुःखम्॥ पापस्य लोको निरयोऽप्रकाशो नित्यं दुःखं शोकभूयिष्ठमेवा तत्रात्मानं शोचति पापकर्मा बह्वीः समाः प्रतपन्नपतिष्ठः॥ मिथो भेदाब्राह्मणक्षत्रियाणां प्रजा दुःखं दुःसहं चाविशन्ति। एवं ज्ञात्वा कार्य एवेह नित्यं पुरोहितो नैकविद्यो नृपेणा॥ तं चैवान्वभिषिच्येत तथा धर्मो विधीयते। अग्रयो हि ब्राह्मणः प्रोक्तः सर्वस्यैवेह धर्मतः॥ पूर्वं हि ब्राह्मणः सृष्टिरिति ब्रह्मविदो विदुः। ज्येष्ठेनाभिजनेनास्य प्राप्तं पूर्वं यदुत्तरम्॥ तस्मान्यान्यश्च पूज्यश्च ब्राह्मणः प्रसृतागभुक्। सर्वं श्रेष्ठं विशिष्टं च निवेद्यं तस्य धर्मतः॥ अवश्यमेव कर्तव्यं राज्ञा बलवतापि हि। ब्रह्म वर्धयति क्षत्रं क्षत्रतो ब्रह्म वर्धते। एवं राज्ञा विशेषेण पूज्या ब्राह्मणाः सदा॥ भीष्म उवाच योगक्षेमो हि राष्ट्रस्य राजन्यायत्त उच्यते। योगक्षेमो हि राज्ञो हि समायत्त पुरोहिते॥ यत्रादृष्टं भयं ब्रह्म प्रजानां शमयत्युत। दृष्टं च राजा बाहुभ्यां तद् राज्यं सुखमेधते॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। मुचुकुन्दस्य संवादं राज्ञो वैश्रवणस्य च॥ मुचुकुन्दो विजित्येमां पृथिवीं पृथिवीपतिः। जिज्ञासमानः स्वबलमभ्ययादलकाधिपम्॥ ततो वैश्रवणो राजा राक्षसानसृजत् तदा। ते बलान्यवमृद्गन्त मुचुकुन्दस्य नैर्ऋताः॥ स हन्यमाने सैन्ये स्वे मुचुकुन्दो नराधिपः। गर्हयामास विद्वांसं पुरोहितमरिंदमः॥ तत उग्रं तपस्तप्त्वा वसिष्ठो धर्मवित्तमः। रक्षांस्युपावधीत् तस्य पन्थानं चाप्यविन्दत॥ ततो वैश्रवणो राजा मुचुकुन्दमदर्शयत्। वध्यमानेषु सैन्येषु वचनं चेदमब्रवीत्॥ धनद उवाच बलवन्तस्त्वया पूर्वे राजानः सपुरोहिताः। न चैवं समवर्तन्त यथा त्वमिह वर्तसे॥ ते खल्वपि कृतास्त्राश्च बलवन्तश्च भूमिपाः। आगम्य पर्युपासन्ते मामीशं सुखदुःखयोः॥ यद्यस्ति बाहुवीर्यं ते तद् दर्शयितुमर्हसि। किं ब्राह्मणबलेन त्वमतिमात्र प्रवर्तसे॥ मुचुकुन्दस्ततः क्रुद्धः प्रत्युवाच धनेश्वरम्। न्यायपूर्वमसंरब्धमसम्भ्रान्तमिदं वचः॥ ब्रह्मक्षत्रमिदं सृष्टमेकयोनि स्वयम्भुवा। पृथग्बलविधानं तन्न लोकं परिपालयेत्॥ तपो मन्त्रबलं नित्यं ब्राह्मणेषु प्रतिष्ठितम्। अस्त्रबाहुबलं नित्यं क्षत्रियेषु प्रतिष्ठितम्॥ ताभ्यां सम्भूय कर्तव्यं प्रजानां परिपालनम्। तथा च मां प्रवर्तन्तं किं गर्हस्यलकाधिप।॥ ततोऽब्रवीद् वैश्रवणो राजानं सपुरोहितम्। नाहं राज्यमनिर्दिा कस्मैचिद् विदधाम्युत॥ नाच्छिन्दे चाप्यनिादमिति जानीहि पार्थिव। प्रशाधि पृथिवीं कृत्स्ना मद्दत्तामखिलामिमाम्। एवमुक्तः प्रत्युवाच मुचुकुन्दो महीपतिः॥ मुचुकुन्द उवाच नाहं राज्यं भवद्दत्तं भोक्तुमिच्छामि पार्थिव। बाहुवीर्यार्जितं राज्यम श्नीयामिति कामये॥ भीष्म उवाच ततो वैश्रवणो राजा विस्मयं परमं ययौ। क्षत्रधर्मे स्थितं दृष्ट्वा मुचुकुन्दमसम्भ्रमम्॥ ततो राजा मुचुकुन्दः सोऽन्वशासद् वसुन्धराम्। बाहुवीर्यार्जितां सम्यक्षत्रधर्ममनुव्रतः॥ एवं यो धर्मविद् राजा ब्रह्मपूर्वं प्रवर्तते। जयत्यविजितामुर्वी यशश्च महदश्नुते॥ नित्योदकी ब्राह्मणः स्यान्नित्यशस्त्रश्च क्षत्रियः। तयोहि सर्वमायत्तं यत् किञ्चिज्जगतीगतम्॥ युधिष्ठिर उवाच यथा वृत्त्या महीपालो विवर्धयति मानवान्। पुण्यांश्च लोकान् जयति तन्मे ब्रूहि पितामह॥ भीष्म उवाच दानशीलो भवेद् राजा यज्ञशीलश्च भारत। उपवासतप:शीलः प्रजानां पालने रतः॥ सर्वाश्चैव प्रजा नित्यं राजा धर्पण पालयन्। उत्थानेन प्रदानेन पूजयेच्चापि धार्मिकान्॥ राज्ञा हि पूजितो धर्मस्ततः सर्वत्र पूज्यते। यद् यदाचरते राजा तत् प्रजानां स्म रोचते॥ नित्यमुद्यतदण्डश्च भवेन्मृत्युरिवारिषु। निहन्यात् सर्वतो दस्यून न कामात् कस्यचित् क्षमेत्॥५ यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः। चतुर्थं तस्य धर्मस्य राजा भारत विन्दति॥ यदधीते यद् ददाति यज्जुहोति यदर्चति। राजा चतुर्थभाक् तस्य प्रजा धर्मेण पालयन्॥ यद् राष्ट्रेऽकुशलं किञ्चिद् राज्ञोऽरक्षयतः प्रजाः। चतुर्थं तस्य पापस्य राजा भारत विन्दति॥ अप्याहुः सर्वमेवेति भूयोऽर्धमिति निश्चयः। कर्मणः पृथिवीपाल नृशंसोऽनृतवागपि॥ तादृशात् किल्बिषाद् राजा शृणु येन प्रमुच्यते। प्रत्याहर्तुमशक्यं स्याद् धनं चोरैर्हतं यदि। तत् स्वकोशात् प्रदेयं स्यादशक्तेनोपजीवतः॥ सर्ववर्णः सदा रक्ष्यं ब्रह्मस्वं ब्राह्मणा यथा। न स्थेयं विषये तेन योऽपकुर्याद् द्विजातिषु॥ ब्रह्मस्वे रक्ष्यमाणे तु सर्वं भवति रक्षितम्। तस्मात् तेषां प्रसादेन कृतकृत्यो भवेन्नृपः॥ पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः। नरास्तमुपजीवन्ति नृपं सर्वार्थसाधकम्॥ न हि कामात्मना राज्ञा सततं कामबुद्धिना। नृशंसेनातिलुब्धेन शक्यं पालयितुं प्रजाः॥ युधिष्ठिर उवाच नाहं राज्यसुखान्वेषी राज्यमिच्छाम्यपि क्षणम्। धर्मार्थं रोचये राज्यं धर्मश्चात्र न विद्यते॥ तदलं मम राज्येन यत्र धर्मो न विद्यते। वनमेव गमिष्यामि तस्माद् धर्मचिकीर्षया॥ तत्र मेध्येष्वरण्येषु न्यस्तदण्डो जितेन्द्रियः। धर्ममाराधयिष्यामि मुनिर्मूलफलाशनः॥ भीष्म उवाच वेदाहं तव या बुद्धिरानृशंस्यगुणैव सा। न च शुद्धनृशंस्येन शक्यं राज्यमुपासितम्॥ अपि तु त्वां मृदुप्रज्ञमत्यार्यमतिधार्मिकम्। क्लीबं धर्मघृणायुक्तं न लोको बहु मन्यते॥ वृत्तं तु स्वमपेक्षस्व पितृपैतामहोचितम्। नैव राज्ञां तथा वृत्तं यथा त्वं स्थातुमिच्छसि॥ न हि वैक्लव्यसंसृष्टमानृशंस्यमिहास्थितः। प्रजापालनसम्भूतमाप्ता धर्मफलं ह्यसि॥ न ह्येतामाशिषं पाण्डुर्न च कुन्ती त्वयाचता तथैतत् प्रज्ञया तात यथाऽऽचरसि मेधया॥ शौर्य बलं च सत्यं च पिता तव सदाब्रवीत्। माहात्म्यं च महौदार्यं भवतः कुन्त्ययाचत॥ नित्यं स्वाहा स्वधा नित्यं चोभे मानुषदैवते। पुढेष्वाशासते नित्यं पितरो दैवतानि च।॥ दानमध्ययनं यज्ञं प्रजानां परिपालनम्। धर्ममेतदधर्मं वा जन्मनैवाभ्यजायथाः॥ काले धुरि च युक्तानां वहतां भारमाहितम्। सीदतामपि कौन्तेय न कीर्तिरवसीदति॥ समन्ततो विनियतो वहत्यस्खलितो हि यः। निर्दोषः कर्मवचनात् सिद्धिः कर्मण एव सा॥ नैकान्तविनिपातेन विचचारेह कश्चन। धर्मी गृही वा राजा वा ब्रह्मचारी यथा पुनः॥ अल्पं हि सारभूयिष्ठं यत् कर्मोदारमेव तत्। कृतमेवाकृताच्छ्रेयो न पापीयोऽस्त्यकर्मणः॥ यदा कुलीनो धर्मज्ञः प्राणोत्यैश्वर्यमुत्तमम्। योगक्षेमस्तदा राज्ञः कुशलायैव कल्प्यते॥ दानेनान्यं बलेनान्यमन्यं सूनृतया गिरा। सर्वतः प्रतिगृह्णीयाद् राज्यं प्राप्येह धार्मिकः॥ यं हि वैद्याः कुले जाता ह्यवृत्तिभयपीडिताः। प्राप्य तृप्ताः प्रतिष्ठन्ति धर्मः कोऽभ्यधिकस्ततः॥ युधिष्ठिर उवाच किं तात परमं स्वयँ का ततः प्रीतिरुत्तमा। किं ततः परमैश्वर्यं ब्रूहि मे यदि पश्यसि॥ भीष्म उवाच यस्मिन् भयादितः सम्यक् क्षेमं विन्दत्यपि क्षणम्। स स्वर्गजित्तमोऽस्माकं सत्यमेतद् ब्रवीमि ते॥ त्वमेव प्रीतिमांस्तस्मात् कुरूणां कुरुसत्तम। भव राजा जय स्वर्ग सतो रक्षासतो जहि॥ अनु त्वां तात जीवन्तु सुहृदः साधुभिः सह। पर्यन्यमिव भूतानि स्वादुद्रुममिव द्विजाः॥ धृष्टं शूरं प्रहर्तारमनृशसं जितेन्द्रियम्। वत्सलं संविभक्तारमुपजीवन्ति तं नराः॥ युधिष्ठिर उवाच स्वकर्मण्यपरे युक्तास्तथैवान्ये विकर्मणि। तेषां विशेषमाचक्ष्व ब्राह्मणानां पितामह॥ भीष्म उवाच विद्यालक्षणसम्पन्नाः सर्वत्र समदर्शिनः। एते ब्रह्मसमा राजन् ब्राह्मणाः परिकीर्तिताः॥ ऋग्जयुःसामसम्पन्ना सर्वेषु कर्मस्ववस्थिताः। एते देवसमा राजन् ब्राह्मणानां भवन्त्युत॥ जन्मकर्मविहीना ये कदर्या ब्रह्मबन्धवः। एते शूद्रसमा राजन् ब्राह्मणानां भवन्त्युत॥ अश्रोत्रियाः सर्व एव सर्वे चानाहिताग्नयः। तान् सर्वान् धार्मिको राजा बलिं विष्टिं च कारयेत्॥ आह्वायका देवलका नाक्षत्रा ग्रामयाजकाः। एते ब्राह्मणचाण्डाला महापथिकपञ्चमाः॥ ऋत्विक् पुरोहितो मन्त्री दूतो वार्तानुकर्षकः। एते क्षत्रसमा राजन् ब्राह्मणानां भवन्त्युत॥ अश्वारोहा गजारोहा रथिनोऽथ पदातयः। एते वैश्यसमा राजन् ब्राह्मणानां भवन्त्युत॥ एतेभ्यो बलिमादद्याद्धीनकोशो महीपतिः। ऋते ब्रह्मसमेभ्यश्च देवकल्पेभ्य एव च॥ अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम्। ब्राह्मणानां च ये केचिद् विकर्मस्था भवन्त्युत॥ विकर्मस्थाश्च नोपेक्ष्या विप्रा राज्ञा कथंचन। नियम्याः संविभज्याश्च धर्मानुग्रहकारणात्॥ यस्य स्म विषये राजन् स्तेनो भवति वै द्विजः। राज्ञ एवापराधं तं मन्यन्ते तद्विदो जनाः॥ अवृत्त्या यो भवेत् स्तेनो वेदवित् स्नातकस्तथा। राजन् स राज्ञा भर्तव्य इति वेदविदो विदुः॥ स चेन्नो परिवर्तेत कृतवृत्तिः परंतप। ततो निर्वासनीयः स्यात् तस्माद् देशात् सबान्धवः। युधिष्ठिर उवाच क्व समुत्थाः कथंशीला ऋत्विजः स्युः पितामह। कथंविधाश्च राजेन्द्र तद् ब्रूहि वदतां वर॥ भीष्म उवाच प्रतिकर्म पराचार ऋत्विजां स्म विधीयते। छन्दः सामादि विज्ञाय द्विजानां श्रुतमेव च॥ ये त्वेकरतयो नित्यं धीराश्च प्रियवादिनः। परस्परस्य सुहृदः समन्तात् समदर्शिनः॥ अनृशंसाः सत्यवाक्या अकुसीदा अथर्जवः। अद्रोहोऽनभिमानश्च हीस्तितिक्षा दमः शमः॥ यस्मिन्नेतानि दृश्यन्ते स पुरोहित उच्यते। धीमान् सत्यधृतिर्दान्तो भूतानामविहिंसकः। अकामद्वेषसंयुक्तस्त्रिभिः शुक्लैः समन्वितः॥ अहिंसको ज्ञानतृप्तः स ब्रह्मासनमर्हति। एते महत्विजस्तात सर्वे मान्या यथार्हतः॥ युधिष्ठिर उवाच यदिदं वेदवचनं दक्षिणासु विधीयते। इदं देयमिदं देयं न क्व चिद् व्यवतिष्ठते॥ नेदं प्रतिधनं शास्त्रमापद्धर्मानुशास्त्रतः। आज्ञा शास्त्रस्य घोरेयं न शक्तिं समवेक्षते॥ श्रद्धावता च यष्टव्यमित्येषा वैदिकी श्रुतिः। मिथ्योपेतस्य यज्ञस्य किमु श्रद्धा करिष्यति॥ भीष्म उवाच न वेदानां परिभवान्न शान्येन न मायया। कश्चिन्महदवाप्नोति मा तेऽभूद् बुद्धिरीदृशी॥ यज्ञाझं दक्षिणा तात वेदानां परिबृंहणम्। न यज्ञा दक्षिणाहीनास्तारयन्ति कथंचन॥ शक्तिस्तु पूर्णपात्रेण सम्मिता न समाभवत्। अवश्यं तात यष्टव्यं त्रिभिर्वर्णर्यथाविधि॥ सोमो राजा ब्राह्मणानामित्येषा वैदिकी स्थितिः। तं च विक्रेतुमिच्छन्ति न वृथा वृत्तिरिष्यते॥ तेन क्रीतेन यज्ञेन ततो यज्ञः प्रतायते। इत्येवं धर्मतो ध्यातमृषिभिर्धर्मचारिभिः॥ पुमान् यज्ञश्च सोमश्च न्यायवृत्तो यदा भवेत्। अन्यायवृत्तः पुरुषो न परस्य न चात्मनः॥ शरीरवृत्तमास्थाय इत्येषा श्रूयते श्रुतिः। नातिसम्यक् प्रणीतानि ब्राह्मणानां महात्मनाम्॥ तपो यज्ञादपि श्रेष्ठमित्येषा परमा श्रुतिः। तत् ते वपः प्रवक्ष्यामि विद्वंस्तदपि मे शृणु॥ अहिंसा सत्यवचनमानृशंस्यं दमो घृणा एतत् तपो विदुर्धारा न शरीरस्य शोषणम्॥ अप्रामाण्यं च वेदानां शास्त्राणां चाभिलङ्घनम्। अव्यवस्था च सर्वत्र तद् वै नाशनमात्मनः।१९।। निबोध देवहोतृणां विधानं पार्थ यादृशम्। चित्तिः स्त्रुक् चित्तमाज्यं च पवित्रं ज्ञानमुत्तमम्॥ सर्वं जिह्यं मृत्युपदमार्जवं ब्रह्मणः पदम्। एतावाज्ञानविषयः किं प्रलापः करिष्यति॥ भीष्म उवाच एषा प्रथमतो वृत्तिद्वितीयां शृणु भारत। यः कश्चिज्जनयेदर्थं राज्ञा रक्ष्यः सदा नरः॥ ह्रियमाणममात्येन भृत्यो वा यदि वा भृतः। यो राजकोशं नश्यन्तमाचक्षीत युधिष्ठिर॥ श्रोतव्यमस्य च रहो रक्ष्यश्चामात्यतो भवेत्। अमात्या ह्यपहर्तारो भूयिष्ठं मन्ति भारत॥ राजकोशस्य गोप्तारं राजकोशविलोपकाः। समेत्य सर्वे बाधन्ते स विनश्यत्यरक्षितः॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। मुनिः कालकवृक्षीयः कौसल्यं यदुवाच ह॥ कोसलानामाधिपत्यं सम्प्राप्तं क्षेमदशि मुनिः कालकवृक्षीय आजगामेति नः श्रुतम्॥ स काकं पञ्जरे बद्ध्वा विषयं क्षेमदर्शिनः। सर्वं पर्यचरद् युक्तः प्रवृत्त्यर्थी पुनः पुनः॥ अधीध्वं वायसी विद्यां शंसन्ति मम वायसाः। अनागतमतीतं च यच्च सम्प्रति वर्तते॥ इति राष्ट्रे परिपतन् बहुभिः पुरुषैः सह। सर्वेषां राजयुक्तानां दुष्करं परिदृष्टवान्॥ स बुद्ध्वा तस्य राष्ट्रस्य व्यवसायं हि सर्वशः। राजयुक्तापहारांश्च सर्वान् बुद्ध्वा ततस्ततः॥ ततः स काकमादाय राजानं द्रष्टुमागमत्। सर्वज्ञोऽस्मीति वचनं ब्रुवाणः संशितव्रतः॥ स स्म कौसल्यमागम्य राजामात्यमलंकृतम्। प्राह काकस्य वचनादमुत्रेदं त्वया कृतम्॥ असौ चासौ च जानीते राजकोशस्त्वया हतः। एवमाख्याति काकोऽयं तच्छीघ्रमनुगम्यताम्॥ तथान्यानपि स प्राह राजकोशहरांस्तदा। न चास्य वचनं किंचिदनृतं श्रूयते क्वचित्॥ तेन विप्रकृताः सर्वे राजयुक्ताः कुरूद्वह। तमस्यभिप्रसुप्तस्य निशि काकमवेधयन्॥ वायसं तु विनिर्भिन्नं दृष्ट्वा बाणेन पञ्जरे। पूर्वाह्ने ब्राह्मणो वाक्यं क्षेमदर्शिनमब्रवीत्॥ राजंस्त्वामभयं याचे प्रभुं प्राणधनेश्वरम्। अनुज्ञातस्त्वया ब्रूयां वचनं भवतो हितम्॥ मित्रार्थमभिसंतप्तो भक्त्या सर्वात्मनाऽऽगतः। अयं तवार्थो ह्रियते यो ब्रूयादक्षमान्वितः॥ सम्बुबोधयिषुर्मित्रं सदश्वमिव सारथिः। अतिमन्युप्रसक्तो हि प्रसह्य हितकारणात्॥ तथाविधस्य सुहृदा क्षन्तव्यं स्वं विजानता। ऐश्वर्यमिच्छता नित्यं पुरुषेण बुभूषता॥ तं राजा प्रत्युवाचेदं यत् किंचिन्मां भवान् वदेत्। कस्मादहं न क्षमेयमाकाङ्क्षन्नात्मनो हितम्॥ ब्राह्मण प्रतिजाने ते प्रब्रूहि यदिहेच्छसि। करिष्यामि हि ते वाक्यं यदस्मान्विप्र वक्ष्यसि॥ प्रागेवोक्तस्तु दोषोऽयमाचार्यैर्नृपसेविनाम्। अगतीकगतिझैषा पापा राजोपसेविनाम्॥ आशीविषैश्च तस्याहुः संगतं यस्य राजभिः। बहुमित्राश्च राजानो बह्वमित्रास्तथैव च॥ तेभ्यः सर्वेभ्य एवाहुर्भयं राजोपजीविनाम्। तथैषां राजतो राजन् मुहूर्तादेव भीर्भवेत्॥ नैकान्तेन प्रमादो हि शक्यः कर्तुं महीपतौ। न तु प्रमादः कर्तव्यः कथंचिद् भूतिमिच्छता॥ मुनिरुवाच ज्ञात्वा पापानपापांश्च भृत्यतस्ते भयानि च। भक्त्या वृत्तिं समाख्यातुं भवतोऽन्तिकमागमम्॥ आशीविषमिव क्रुद्धं प्रभुं प्राणधनेश्वरम्। यत्नेनोपचरेन्नित्यं नाहमस्मीति मानवः॥ प्रमादाद्धि स्खलेद् राजा स्वलिते नास्ति जीवितम्। अग्नि दीप्तमिवासीदेद् राजानमुपशिक्षितः॥ दुर्व्याहताच्छङ्कमानो दुष्कृताद् दुरधिष्ठितात्। दुरासिताद् दुव्रजितादिङ्गित्तादङ्गचेश्तिात्॥ देवतेव हि सर्वार्थान् कुर्याद् राजा प्रसादितः। वैश्वानर इव क्रुद्धः समूलमपि निर्दहेत्॥ इति राजन् यमः प्राह वर्तते च तथैव तत्। अथ भूयांसमेवार्थं करिष्यामि पुनः पुनः॥ ददात्यस्मद्विधोऽमात्यो बुद्धिसाहाय्यमापदि। वायसस्त्वेष मे राजन् ननु कार्याभिसंहितः॥ न च मेऽत्र भवान् गर्यो न च येषां भवान् हिताहितांस्तु बुद्ध्येथा मा परोक्षमतिर्भवे: :॥ ये त्वादानपरा एव वसन्ति भवतो गृहे। अभूतिकामा भूतानां तादृशैर्मेऽभिसंहितम्॥ यो वा भवद्विनाशेन राज्यमिच्छत्यनन्तरम्। आन्तरैरभिसंधाय राजन् सिद्ध्यति नान्यथा॥ तेषामहं भयाद् राजन् गमिष्याम्यन्यमाश्रमम्। तैर्हि मे संधितो बाणः काके निपतितः प्रभो॥ छाकामैरकामस्य गमितो यमसादनम्। दृष्टं ह्येतन्मया राजंस्तपोदीर्धेन चक्षुषा॥ बहुनक्रझषग्राहां तिमिङ्गिलगणैर्युताम्। काकेन बालिशेनेमां यामतार्षमहं नदीम्॥ स्थाण्वश्मकण्टकवर्ती सिंहव्याघ्रसमाकुलाम्। दुरासदां दुष्प्रसहां गुहां हैमवतीमिव॥ अग्निना तामसं दुर्गं नौभिराप्यं च गम्यते। राजदुर्गावतरणे नोपायं पण्डिता तिदुः॥ गहनं भवतो राज्यमन्धकारं तमोऽन्वितम्। नेह विश्वसितुं शक्यं भवतापि कुतो मया॥ अतो नायं शुभो वासस्तुल्ये सदसती इह। बधो ह्येवात्र सुकृते दुष्कृते न च संशयः॥ न्यायतो दुष्कृते घात: सुकृते न कथंचन। नेह युक्तं स्थिरं स्थातुं जवेनैवाव्रजेद् बुधः॥ सीता नाम नदी राजन् प्लवो यस्यां निमज्जति। तथोपमामिमां मन्ये वागुरां सर्वघातिनीम्॥ मधुप्रपातो हि भवान् भोजनं विषसंयुतम्। असतामिव ते भावो वर्तते न सतामिव॥ आशीविषैः परिवृत: कूपस्त्वमसि पार्थिव। दुर्गतीर्था बृहत्कूला कारीरा वेत्रसंयुता॥ नदी मधुरपानीया यथा राजंस्तथा भवान्। श्वगृध्रगोमायुयुतो राजहंससमो ह्यसि॥ यथाऽऽश्रित्य महावृक्षं कक्षः संवर्धते महान्। ततस्तं संवृणोत्येव तमतीत्य च वर्धते॥ तेनैयोगेन्धनेनैनं दावो दहति दारुणः। तथोपमा ह्यमात्यास्ते राजस्तान् परिशोधय॥ त्वया चैव कृता राजन् भवता परिपालिताः। भवन्तमभिसंधाय जिघांसन्ति भवत्प्रियम्॥ उषितं शङ्कमानेन प्रमादं परिरक्षता। अन्तःसर्प इवागारे वीरपत्न्या इवालये॥ शीलं जिज्ञासमानेन राज्ञश्च सहजीविनः। कच्चिज्जितेन्द्रियो राजा कच्चिदस्यान्तरा जिताः॥ कच्चिदेषां प्रियो राजा कच्चिद् राज्ञः प्रियाः प्रजाः। विजिज्ञासुरिह प्राप्तस्तवाहं राजसत्तम॥ तस्य मे रोचते राजन् क्षुधितस्येव भोजनम्। अमात्या मे न रोचन्ते वितृष्णस्य यथोदकम्॥ भवतोऽर्थकृदित्येवं मयि दोषो हि तैः कृतः। विद्यते कारणं नान्यदिति मे नात्र संशयः॥ न हि तेषामहं दुग्धस्तत्तेषां दोषदर्शनम्। अरेर्हि दुहृदाद् भेयं भग्नपुच्छादिवोरगात्॥ राजोवाच भूयसा परिहारेण सत्कारेण च भूयसा। पूजितो ब्राह्मणश्रेष्ठ भूयो वस गृहे मम॥ ये त्वां ब्राह्मण नेच्छन्ति ते न वत्स्यन्ति मे गृहे। भवतैव हि तज्ज्ञेयं यत्तदेषामनन्तरम्॥ यथा स्यात् सुधृतो दण्डो यथा च सुकृतं कृतम्। तथा समीक्ष्य भगवश्रेयसे विनियुझव माम्॥ अदर्शयनिमं दोषमेकैकं दुर्बलीकुरु। ततः कारणमाज्ञाय पुरुषं पुरुषं जहि॥ एकदोषा हि बहवो मृद्नीयुरपि कण्टकान्। मन्त्रभेदभयाद् राजस्तस्मादेतद् ब्रवीमि ते॥ मुनिरुवाच वयं तु ब्राह्मणा नाम मृदुदण्डाः कृपालवः। स्वस्ति चेच्छाम भवतः परेषां च यथाऽऽत्मनः॥ राजन्नात्मानमाचक्षे सम्बन्धी भवतो ह्यहम्। मुनिः कालकवृक्षीय इत्येवमभिसंज्ञितः॥ पितुः सखा च भवतः सम्मतः सत्यसङ्गरः। सर्वकामान् परित्यज्य तपस्तप्तं तदा मया। स्नेहात् त्वां तु ब्रवीम्येतन्मा भूयो विभ्रमेदिति॥ व्यापन्ने भवतो राज्ये राजन् पितरि संस्थिते॥ उभे दृष्ट्वा दुःखसुखे राज्यं प्राप्य यदृच्छया। राज्येनामात्यसंस्थेन कथं राजन् प्रमाद्यसि॥ ततो राजकुले नान्दी संजज्ञे भूयसा पुनः। पुरोहितकुले चैव सम्प्राप्ते ब्राह्मणर्षभे॥ एकच्छत्रां महीं कृत्वा कौसल्याय यशस्विने। मुनिः कालकवृक्षीय ईजे क्रतुभिरुत्तमैः॥ हितं तद्वचनं श्रुत्वा कौसल्योऽप्यजयन्महीम्। तथा च कृतवान् राजा यथोक्तं तेन भारत॥ युधिष्ठिर उवाच सभासदः सहायाश्च सुहृदश्च विशाम्पते। परिच्छदास्तथामात्याः कीदृशाः स्युः पितामह॥ भीष्म उवाच ह्रीनिषेवास्तथा दान्ताः सत्यार्जवसमन्विताः। शक्ताः कथयितुं सम्यक् ते तव स्युः सभासदः॥ अमात्यांश्चातिशूरांश्च ब्राह्मणांश्च परिश्रुतान्। सुसंतुष्टांश्च कौन्तेय महोत्साहांश्च कर्मसु॥ एतान् सहायाँल्लिप्सेथाः सर्वास्वापत्सु भारत। कुलीनः पूजितो नित्यं न हि शक्तिं निगृहति॥ प्रसन्नमप्रसन्नं वा पीडितं हतमेव वा। आवर्तयति भूयिष्ठं तदेव ह्यनुपालितम्॥ कुलीना देशजाः प्राज्ञा रूपवन्तो बहुश्रुताः। प्रगल्भाश्चानुरक्ताश्च ते तव स्युः परिच्छदाः॥ दौष्कुलेयाश्च लुब्धाश्च नृशंसा निरपत्रपाः। ते त्वां तात निषेवेयुर्याबदाईकपाणयः॥ कुलीनाशीलसम्पन्नानिङ्गितज्ञाननिष्ठुरान्। देशकालविधानज्ञान् भर्तृकार्यहितैषिणः॥ नित्यमर्थेषु सर्वेषु राजा कुर्वीत मन्त्रिणः। अर्थमानार्घ्यसत्कारैर्भोगैरुच्चावचैः प्रियान्॥ यानर्थभाजो मनयेथास्ते ते स्युः सुखभागिनः। अभिन्नवृत्ता विद्वांसः सद्वृत्ताश्चरितव्रताः। न त्वां नित्यार्थिनो जझुरक्षुद्राः सत्यवादिनः॥ अनार्या ये न जानन्ति समयं मन्दचेतसः। तेभ्यः परिजुगुप्सेथा ये चापि समयच्युताः॥ नैकमिच्छेद् गणं हित्वा स्याच्चेदन्यतरग्रहः। यस्त्वेको बहुभिः श्रेयान् कामं तेन गणं त्यजेत्॥ श्रेयसो लक्षणं चैतद् विक्रमो यस्य दृश्यते। कीर्तिप्रधानो यश्च स्यात् समये यश्च तिष्ठति॥ ते समर्थान् पूजयेद् यश्च नास्पर्धेः स्पर्धते च यः। न च कामाद् भयात् क्रोधाल्लोभाद् वा धर्ममुत्सृजेत्।। अमानी सत्यवान् क्षान्तो जितात्मा मानसंयुतः। स मन्त्रसहायः स्यात् सर्वावस्थापरीक्षितः॥ कुलीनः कुलसम्पन्नस्तितिक्षुर्दक्ष आत्मवान्। शूरः कृतज्ञः सत्यश्च श्रेयसः पार्थ लक्षणम्॥ तस्यैवं वर्तमानस्य पुरुषस्य विजानतः। अमित्राः सम्प्रसीदन्ति तथा मित्रीभवन्त्यपि॥ अत ऊर्ध्वममात्यानां परीक्षेत गुणागुणम्। संयतात्मा कृतप्रज्ञो भूतिकामश्च भूमिपः॥ सम्बन्धिपुरुषैराप्तैरभिजातैः स्वदेशजैः। अहायैरव्यभीचारैः सर्वशः सुपरीक्षितैः॥ यौनाः श्रौतास्तथा मौलास्तथैवाप्यनहंकृताः। कर्तव्या भूतिकामेन पुरुषेण बुभृषता॥ येषां वैनयिकी बुद्धिः प्रकृतिश्चैव शोभना। तेजो धैर्य क्षमा शौचमनुरागः स्थिति तिः॥ परीक्ष्य च गुणान् नित्यं प्रौढभावान् धुरंधरान्। पञ्चोपधाव्यतीतांश्च कुर्याद् राजार्थकारिणः॥ पर्याप्तवचनान् वीरान् प्रतिपत्तिविशारदान्। कुलीनान् सत्त्वसम्पन्नानिङ्गित्तज्ञाननिष्ठुरान्॥ देशकालविधानज्ञान् भर्तृकार्यहितैषिणः। नित्यमर्थेषु सर्वेषु राजन् कुर्वीत मन्त्रिणः॥ हीनतेजोऽभिसंसृष्टो नैव जातु व्यवस्यति। अवश्यं जनयत्येव सर्वकर्मसु संशयम्॥ एवमल्पश्रुतो मन्त्री कल्याणाभिजनोऽप्युत। धर्मार्थकामसंयुक्तो नालं मन्त्रं परीक्षितुम्॥ तथैवानभिजातोऽपि काममस्तु बहुश्रुतः। अनायक इवाचक्षुर्मुह्यत्यणुषु कर्मसु॥ यो वाप्यस्थिरसंकल्पो बुद्धिमानागतागमः। उपायज्ञोऽपि नालं स कर्म प्रापयितुं चिरम्॥ केवलात् पुनरादानात् कर्मणो नोपपद्यते। परामर्शो विशेषाणामश्रुतस्येह दुर्मतेः॥ मन्त्रिण्यननुरक्ते तु विश्वासो नोपपद्यते। तस्मादननुरक्ताय नैव मन्त्रं प्रकाशयेत्॥ व्यथयेद्धि स राजानं मन्त्रिभिः सहितोऽनृजुः। मारुतोपहितच्छिद्रैः प्रविश्याग्निरिव दुमम्॥ संक्रुद्धश्चैकदा स्वामी स्थानाच्चैवापकर्षति। वाचाक्षिपति संरब्धः पुनः पश्चात् प्रसीदति॥ तानि तान्यनुरक्तेन शक्यानि हि तितिक्षितुम्। मन्त्रिणां च भवेत् क्रोधो विस्फूर्जितमिवाशनेः॥ यस्तु संसहते तानि भर्तुः प्रियचिकीर्षया। समानसुखदुःखं तं पृच्छेदर्थेषु मानवम्॥ अनृजुस्त्वनुरक्तोऽपि सम्पन्नश्चेतरैर्गुणैः। राज्ञः प्रज्ञानयुक्तोऽपि न मन्त्रं श्रोतुमर्हति॥ योऽमित्रैः सह सम्बद्धो न पौरान् बहु मन्यते। असुहृत् तादृशो ज्ञेयो न मन्त्रं श्रोतुमर्हति॥ अविद्वानशुचिः स्तब्धः शत्रुसेवी विकत्थनः। असुहृत् क्रोधनो लुब्धो न मन्त्रं श्रोतुमर्हति॥ आगन्तुश्चानुरक्तोऽपि काममस्तु बहुश्रुतः। सत्कृतः संविभक्तो वा न मन्त्रं श्रोतुमर्हति॥ विधर्मतो विप्रकृतः पिता यस्याभवत् पुरा। सत्कृतः स्थापितः सोऽपि न मन्त्रं श्रोतुमर्हति॥ यः स्वल्पेनापि कार्येण सुहृदाक्षारितो भवेत्। पुनरन्यैर्गुणैर्युक्तो न मन्त्रं श्रोतुमर्हति॥ कृतप्रज्ञश्च मेधावी बुधो जानपदः शुचिः। सर्वकर्मसु यः शुद्धः स मन्त्रं श्रोतुमर्हति॥ ज्ञानविज्ञानसम्पन्नः प्रकृतिज्ञः परात्मनोः। सुहृदात्मसमो राज्ञः स मन्त्रं श्रोतुमर्हति॥ सत्यवाक् शीलसम्पन्नो गम्भीरः सत्रपो मृदुः। पितृपैतामहो यः स्यात् स मन्त्रं श्रोतुमर्हति॥ संतुष्टः सम्मतः सत्यः शौटीरो द्वेष्यपापकः। मन्त्रवित् कालविच्छूरः स मन्त्रं श्रोतुमर्हति॥ सर्वलोकमिमं शक्तः सान्त्वेन कुरुते वशे। तस्मै मन्त्रः प्रयोक्तव्यो दण्डमाधित्सता नृप।॥ पौरजानपदा यस्मिन् विश्वासं धर्मतो गताः। योद्धा नयविपश्चिच्च स मन्त्रं श्रोतुमर्हति॥ तस्मात् सर्वैर्गुणैरेतैरुपपन्नाः सुपूजिताः। मन्त्रिणः प्रकृतिज्ञाः स्युस्त्र्यवरा महदीप्सवः॥ स्वासु प्रकृतिषुच्छिद्रं लक्षयेरन् परस्य च। मन्त्रिणां मन्त्रमूलं हि राज्ञो राष्ट्रं विवर्धते॥ नास्य च्छिद्रं परः पश्येच्छिद्रेषु परमन्वियात्। गृहेत् कूर्म इवाङ्गानि रक्षेद् विवरमात्मनः॥ मन्त्रगूढा हि राज्यस्य मन्त्रिणो ये मनीषिणः। मन्त्रसंहननो राजा मन्त्राङ्गानीतरे जनाः॥ राज्यं प्रणिधिमूलं हि मन्त्रसारं प्रचक्षते। स्वामिनं त्वनुवर्तन्ते वृत्त्यर्थमिह मन्त्रिणः॥ संविनीय मदक्रोधौ मानमर्त्यां च निवृताः। नित्यं पञ्चोपधातीतैर्मन्त्रयेत् सह मन्त्रिभिः॥ तेषां त्रयाणां विविधं विमर्श विबुद्ध्य चित्तं विनिवेश्य तत्र। स्वनिश्चयं तं परनिश्चयं च निवेदयेदुत्तरमन्त्रकाले।॥ धर्मार्थकामज्ञमुपेत्य पृच्छेद् युक्तो गुरुं ब्राह्मणमुत्तरार्थम्। निष्ठा कृता तेन यदा सहः स्यात् तं मन्त्रमार्ग प्रणयेदसक्तः॥ एवं सदा मन्त्रयितव्यमाई ये मन्त्रतत्त्वार्थविनिश्चयज्ञाः। तस्मात् तमेवं प्रणयेत् सदैव मन्त्रं प्रजासंग्रहणे समर्थम्॥ न वामनाः कुब्जकृशा न खजा नान्धो जडः स्त्री च नपुंसकं च। न चात्र तिर्यक् च पुरों न पर्था नोर्ध्वं न चाधः प्रचरेत् कथंचित्।॥ आरुह्य वा वेश्म तथैव शून्य स्थलं प्रकाशं कुशकाशहीनम्। वागणदोषान्परिहत्य सर्वान् सम्मन्त्रयेत्कार्यमहीनकालम्॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। बृहस्पतेश्च संवादं शक्रस्य च युधिष्ठिर॥ शक्र उवाच किं स्विदेकपदं ब्रह्मन् पुरुषः सम्यगाचरन्। प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत्॥ बृहस्पतिरुवाच । सान्त्वमेकपदं शक्र पुरुषः सम्यगाचरन्। प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत्॥ एतदेकपदं शक्र सर्वलोकसुखावहम्। आचरन् सर्वभूतेषु प्रियो भवति सर्वदा॥ यो हि नाभाषते किंचित् सर्वदा भृकुटीमुखः। द्वेष्यो भवति भूतानां स सान्त्वमिह नाचरन्॥ यस्तु सर्वमभिप्रेक्ष्य पूर्वमेवाभिभाषते। स्मितपूर्वाभिभाषी च तस्य लोकः प्रसीदति॥ दानमेव हि सर्वत्र सान्त्वेनानभिजल्पितम्। न प्रीणयति भूतानि निर्व्यञ्जनमिवाशनम्॥ आदानादपि भूतानां मधुरामीरयन् गिरम्। सर्वलोकमिमं शक्र सान्त्वेन कुरुते वशे॥ तस्मात् सान्त्वं प्रयोक्तव्यं दण्डमाधिसतोऽपि हि। फलं च जनयत्येवं न चास्योद्विजते जनः॥ सुकृतस्य हि सान्त्वस्य श्लक्ष्णस्य मधुरस्य च। सम्यगासेव्यमानस्य तुल्यं जातु न विद्यते॥ भीष्म उवाच इत्युक्तः कृतवान् सर्व यथा शक्रः पुरोधसा। तथा त्वमपि कौन्तेय सम्यगेतत् समाचर॥ युधिष्ठिर उवाच कथं स्विदिह राजेन्द्र पालयन् पार्थिवः प्रजाः। प्रीतिं धर्मविशेषेण कीर्तिमानोति शाश्वतीम्॥ भीष्म उवाच व्यवहारेण शुद्धेन प्रजापालनतत्परः। प्राप्य धर्मं च कीर्तिं च लोकानाप्नोत्युभौ शुचिः॥ युधिष्ठिर उवाच कीदृशैर्व्यवहारैस्तु कैश्च व्यवहरेन्नृपः। एतत्पृष्टो महाप्राज्ञ यथावद् वक्तुमर्हसि॥ ये चैव पूर्वं कथिता गुणास्ते पुरुषं प्रति। नैकस्मिन् पुरुषे ह्येते विद्यन्त इति मे मतिः॥ भीष्म उवाच एवमेतन्महाप्राज्ञ यथा वदसि बुद्धिमन्। दुर्लभः पुरुषः कश्चिदेभिर्युक्तो गुणैः शुभैः॥ किंतु संक्षेपत: शीलं प्रयत्नेनेह दुर्लभम्। वक्ष्यामि तु यथामात्यान् यादृशांश्च करिष्यसि॥ चतुरो ब्राह्मणान् वैद्यान् प्रगल्भान् स्नातकाशुचीन्। क्षत्रियांश्च तथा चाष्टौ बलिनः शस्त्रपाणिनः॥ वैश्यान् वित्तेन सम्पन्नानेकविंशतिसंख्यया। त्रींश्च शूद्रान् विनीतांश्च शुचीन् कर्मणि पूर्वके॥ अष्टाभिश्च गुणैर्युक्तं सूतं पौराणिकं तथा। पञ्चाशद्वर्षवयसं प्रगल्भमनसूयकम्॥ श्रुतिस्मृतिसमायुक्तं विनीतं समदर्शिनम्। कार्ये विवदमानानां शक्तमर्थेष्वलोलुपम्॥ वर्जितं चैव व्यसनैः सुघोरैः सप्तभि शम्। अशनां मन्त्रिणां मध्ये मन्त्रं राजोपधारयेत्॥ ततः सम्प्रेषयेद्राष्टे राष्ट्रीयाय च दर्शयेत्। अनेन व्यवहारेण द्रष्टव्यास्ते प्रजा: सदा॥ न चापि गूढं द्रव्यं ते ग्राह्यं कार्योपघातकम्। कार्ये खलु विपन्ने त्वां सोधर्मस्तांश्च पॆदयेत्॥ विद्रवेच्चैव राष्ट्रं ते श्येनात् पक्षिगणा इव। परिस्नवेच्च सततं नौर्विशीर्णेव सागरे॥ प्रजाः पालयतोऽसभ्यगधर्मेणेह भूपतेः। हार्द भयं सम्भवति स्वर्गश्चास्य विरुद्ध्यते॥ अथयोऽधर्मतः पाति राजामात्योऽथ वाऽऽत्मजः। धर्मासने संनियुक्तो धर्ममूले नरर्षभ॥ कार्येष्वधिकृताः सम्यगकुर्वन्तो नृपानुगाः। आत्मानं पुरतः कृत्वा यान्त्यधः सहपार्थिवाः॥ बलात्कृतानां बलिभिः कृपणं बहु जल्पताम्। नाथो वै भूमिपो नित्यमनाथानां नृणां भवेत्॥ ततः साक्षिबलं साधु द्वैधवादकृतं भवेत्। असाक्षिकमनाथं वा परीक्ष्यं तद् विशेषतः॥ अपराधानुरूपं च दण्डं पापेषु धारयेत्। वियोजयेद् धनैर्ऋदानधनानथ बन्धनैः॥ विनयेच्चापि दुर्वृत्तान् प्रहारैरपि पार्थिवः। सान्त्वेनोपप्रदानेन शिष्टांश्च परिपालयेत्॥ राज्ञो वधं चिकीर्षेद् यस्तस्य चित्रो वधो भवेत्। आदीपकस्य स्तेनस्य वर्णसंकरिकस्य च॥ सम्यक् प्रणयतो दण्डं भूमिपस्य विशाम्पते। युक्तस्य वा नास्त्यधर्मो धर्म एव हि शाश्वतः॥ कामकारेण दण्डं तु यः कुर्यादविचक्षणः। स इहाकीर्तिसंयुक्तो मृतो नरकमृच्छति॥ न परस्य प्रवादेन परेषां दण्डमर्पयेत्। आगमानुगमं कृत्वा बघ्नीयान्मोक्षयीत वा॥ न तु हन्यान्नृपो जातु दूतं कस्याञ्चिदापदि। दूतस्य हन्ता निरयमाविशेत् सचिवैः सह।॥ यथोक्तवादिनं दूतं क्षत्रधर्मरतो नृपः। यो हन्यात् पितरस्तस्य भ्रूणहत्यामवाप्नुयुः॥ कुलीन: शीलसम्पन्नो वाग्मी दक्षः प्रियंवदः। यथोक्तवादी स्मृतिमान् दूतः स्यात् सप्तभिर्गुणैः॥ एतैरेव गुणैर्युक्तः प्रतिहारोऽस्य रक्षिता। शिरोरक्षश्च भवति गुणैरेतैः समन्वितः॥ धर्मशास्त्रार्थतत्त्वज्ञः सांधिविग्रहिको भवेत्। मतिमान् धृतिमान् ह्रीमान् रहस्यविनिगूहिता॥ कुलीनः सत्त्वसम्पन्नः शुक्लोऽमात्यः प्रशस्यते। एतैरेव गुणैर्युक्तस्तथा सेनापतिर्भवेत्॥ व्यूहयन्त्रायुधानां च तत्त्वज्ञो विक्रमान्वितः वर्षशीतोष्णवातानां सहिष्णुः पररन्ध्रवित्॥ विश्वासयेत् परांश्चैव विश्वसेच्च न कस्यचित्। पुत्रेष्वपि हि राजेन्द्र विश्वासो न प्रशस्यते॥ एतच्छास्त्रार्थतत्त्वं तु मयाऽऽख्यातं तवानघ। अविश्वासो नरेन्द्राणां गुह्यं परममुच्यते॥ युधिष्ठिर उवाच कथंविधं पुरं राजा स्वयमावस्तुमर्हति। कृतं वा कारयित्वा वा तन्मे ब्रूहि पितामह॥ भीष्म उवाच वस्तव्यं यत्र कौन्तेय सपुत्रज्ञातिबन्धुना। न्याय्यं तत्र परिप्रष्टुं वृत्तिं गुप्तिं च भारत॥ तस्मात् ते वर्तयिष्यामि दुर्गकर्म विशेषतः। श्रुत्वा तथा विधातव्यमनुष्ठेयं च यत्नतः॥ षड्विधं दुर्गमास्थाय पुराण्यथ निवेशयेत्। सर्वसम्पत्प्रधानं यद् बाहुल्यं चापि सम्भवेत्॥ धन्वदुर्गं महीदुर्गं गिरिदुर्गं तथैव च। मनुष्यदुर्ग अब्दुर्गं वनदुर्गं च तानि षट्॥ यत्पुरं दुर्गसम्पन्नं धान्यायुधसमन्वितम्। दृढप्राकारपरिखं हस्त्यश्वरथसंकुलम्॥ विद्वांसः शिल्पिनो यत्र निचयाश्च सुसंचिताः। धार्मिकश्च जनो यत्र दाक्ष्यमुत्तममास्थितः॥ ऊर्जस्विनरनागाश्वं चत्वरापणशोभितम्। प्रसिद्धव्यवहारं च प्रशान्तमकुतोभयम्॥ सुप्रभं सानुनादं च सुप्रशस्तनिवेशनम्। शूराढ्यजनसम्पन्नं ब्रह्मघोषानुनादितम्॥ समाजोत्सवसम्पन्नं सदा पूजितदैवतम्। वश्यामात्यबलो राजा तत्पुरं स्वयमाविशेत्॥ तत्र कोशं बलं मित्रं व्यवहारं च वर्धयेत्। पुरे जनपदे चैव सर्वदोषान् निवर्तयेत्॥ भाण्डागारायुधागारं प्रयत्नेनाभिवर्धयेत्। निचयान् वर्धयेत् सर्वांस्तथा यन्त्रायुधालयान्॥ काष्ठलोहतुषाङ्गारदारू शृङ्गास्थिवैणवान्। मज्जा स्नेहवसा क्षौद्रमौषधग्राममेव च॥ शणं सर्जरसं धान्यमायुधानि शरांस्तथा। चर्म स्नायुं तथा वेत्रं मुञ्जबल्वजबन्धनान्॥ आशयाचोदपानाश्च प्रभूतसलिलाकराः। निरोद्धव्याः सदा राज्ञा क्षीरिणश्च महीरुहाः॥ सत्कृताश्च प्रयत्नेन आचार्यद्विकपुरोहिताः। महेष्वासाः स्थपतयः सांवत्सरचिकित्सकाः॥ प्राज्ञा मेधाविनो दान्ता दक्षाः शूरा बहुश्रुताः। कुलीनाः सत्त्वसम्पन्ना युक्ताः सर्वेषु कर्मसु॥ पूजयेद् धार्मिकान् राजा निगृह्णीयादधार्मिकान्। नियुज्याच्च प्रयत्नेन सर्ववर्णान् स्वकर्मसु॥ बाह्ममाभ्यन्तरं चैव पौरजानपदं तथा। चारैः सुविदितं कृत्वा ततः कर्म प्रयोजयेत्॥ चरान्मन्त्रं च कोशं च दण्डं चैव विशेषतः। अनुतिष्ठेत् स्वयं राजा सर्वं ह्यत्र प्रतिष्ठितम्॥ उदासीनारिमित्राणां सर्वमेव चिकीर्षितम्। पुरे जनपदे चैव ज्ञातव्यं चारचक्षुषा॥ ततस्तेषां विधातव्यं सर्वमेवाप्रमादतः। भक्तान् पूजयता नित्यं द्विषतश्च निगृह्णता॥ यष्टव्यं क्रतुभिर्नित्यं दातव्यं चाप्यपीडया। प्रजानां रक्षणं कार्यं न कार्यं धर्मबाधकम्॥ कृपणानाथवृद्धानां विधवानां च योषिताम्। योगक्षेमं च वृत्तिं च नित्यमेव प्रकल्पयेत्॥ आश्रमेषु यथाकालं चैलभाजनभोजनम्। सदैवोपहरेद् राजा सत्कृत्याभ्यर्च्य मान्य च॥ आत्मानं सर्वकार्याणि तापसे राष्ट्रमेव च। निवेदयेत् प्रयत्नेन तिष्ठेत् प्रहश्च सर्वदा॥ सर्वार्थत्यागिनं राजा कुले जातं बहुश्रुतम्। पूजयेत् तादृशं दृष्ट्वा शयनासनभोजनैः॥ तस्मिन् कुर्वीत विश्वासं राजा कस्याञ्चिदापदि। तापसेषु हि विश्वासमपि कुर्वन्ति दस्यवः॥ तस्मिन् निधीनादधीत प्रज्ञां पर्याददीत च। न चाप्यभीक्ष्णं सेवेत भृशं वा प्रतिपूजयेत्॥ अन्यः कार्यः स्वराष्ट्रेषु परराष्ट्रेषु चापरः। अटवीषु परः कार्यः सामन्तनगरेष्वपि॥ तेषु सत्कारमानाभ्यां संविभागांश्च कारयेत्। परराष्ट्राटवीस्थेषु यथा स्वविषये तथा॥ ते कस्याञ्चिदवस्थायां शरणं शरणार्थिने। राज्ञे दधुर्यथाकामं तापसाः संशितव्रताः॥ एष ते लक्षणोद्देशः संक्षेपेण प्रकीर्तितः। यादृशे नगरे राजा स्वयमावस्तुमर्हति॥ युधिष्ठिर उवाच राष्ट्रगुप्तिं च मे राजन् राष्ट्रस्यैव तु संग्रहम्। सम्यग्जिज्ञासमानाय प्रब्रूहि भरतर्षभ॥ भीष्म उवाच राष्ट्रगुप्तिं च सम्यग् राष्ट्रस्यैव तु संग्रहम्। हन्त सर्वं प्रवक्ष्यामि तत्त्वमेकमनाः शृणु॥ ते ग्रामस्याधिपतिः कार्यो दशग्राम्यास्तथा परः। द्विगुणायाः शतस्यैवं सहस्रस्य च कारयेत्॥ ग्रामीयान् ग्रामदोषांश्च ग्रामिकः प्रतिभावयेत्। तान् ब्रूयाद् दशपायासौ स तु विंशतिपाय वै॥ सोऽपि विंशत्यधिपतिर्वृत्तं जानपदे जने। ग्रामाणां शतपालाय सर्वमेव निवेदयेत्॥ यानि ग्राम्याणि भोज्यानि ग्रामिकस्तान्युपाश्रियात्। दशपस्तेन भर्तव्यस्तेनापि द्विगुणाधिपः॥ ग्रामं ग्रामशताध्यक्षो भोक्तुमर्हति सत्कृतः। महान्तं भरतश्रेष्ठ सुस्फीतं जनसंकुलम्॥ तत्र होनकपायत्तं राज्ञो भवति भारत। शाखानगरमर्हस्तु सहस्रपतिरुत्तमः॥ धान्यहैरण्यभोगेन भोक्तुं राष्ट्रियसङ्गतः। तेषां संग्रामकृत्यं स्याद् ग्रामकृत्यं च तेषु यत्॥ धर्मज्ञः सचिवः कश्चित् तत् तत्पश्येदतन्द्रितः। नगरे नगरे वा स्यादेकः सर्वार्थचिन्तकः॥ उच्चैः स्थाने घोररूपो नक्षत्राणामिव ग्रहः। भवेत् स तान् परिक्रामेत् सर्वानेव सभासदः॥ तेषां वृत्तिं परिणयेत् कश्चिद् राष्ट्रेषु तच्चरः। जिघांसवः पापकामाः परस्वादायिनः शठाः॥ रक्षाभ्यधिकृता नाम तेभ्यो रक्षेदिमाः प्रजाः। विक्रयं क्रयमध्वानं भक्तं च सपरिच्छदम्॥ योगक्षेमं च सम्प्रेक्ष्य वणिजां कारयेत् करान्। उत्पत्तिं दानवृत्तिं च शिल्पं सम्प्रेक्ष्य चासकृत्॥ शिल्पं प्रति करानेवं शिल्पिनः प्रति कारयेत्। उच्चावचकरा दाप्या महाराज्ञा युधिष्ठिर॥ यथा यथा न सीदेरंस्तथा कुर्यान्महीपतिः। फलं कर्म च सम्प्रेक्ष्य ततः सर्वं प्रकल्पयेत्॥ फलं कर्म च निर्हेतु न कश्चित् सम्प्रवर्तते। यथा राजा च कर्ता च स्यातां कर्मणि भागिनौ॥ संवेक्ष्य तु तथा राज्ञा प्रणेयाः सततं कराः। नोच्छिन्द्यादात्मानो मूलं परेषां चापि तृष्णया॥ ईहाद्वाराणि संस्थ्य राजा सम्प्रीतदर्शनः। प्रद्विषन्ति परिख्यातं राजानमतिखादिनम्॥ प्रद्विष्टस्य कुतः श्रेयो नाप्रियो लभते फलम्। वत्सौपम्येन दोग्धव्यं राष्ट्रमक्षीणबुद्धिना॥ भृतो वत्सो जातबल: पीडां सहति भारत। न कर्म कुरुते वत्सो भृशं दुग्धो युधिष्ठिर॥ राष्ट्रमप्यतिदुग्धं हि न कर्म कुरुते महत्। यो राष्ट्रमनुगृह्णाति परिरक्षन् स्वयं नृपः॥ संजातमुपजीवन् स लभते सुमहत् फलम्। आपदर्थं च निर्यातं धनं त्विह विवर्धयेत्॥ राष्ट्रं च कोशभूतं स्यात् कोशो वेश्मगतस्तथा। पौरजानपदान् सर्वान् संश्रितोपाश्रितांस्तथा। यथाशक्त्यनुकम्पेत सर्वान् स्वल्पधनानपि॥ बाह्यं जनं भेदयित्वा भोक्तव्यो मध्यमः सुखम्। एवं नास्य प्रकुप्यन्ति जनाः सुखितदुःखिताः॥ प्रागेव तु धनादानमनुभाष्य ततः पुनः। संनिपत्य स्वविषये भयं राष्ट्र प्रदर्शयेत्॥ इयमापत्समुत्पन्ना परचक्रभयं महत्। अपि चान्ताय कल्पन्ते वेणोरिव फलागमाः॥ अरयो मे समुत्थाय बहुभिर्दस्युभिः सह। इदमात्मवधायैव राष्ट्रमिच्छन्ति बाधितुम्॥ अस्यामापदि घोरायां सम्प्राप्ते दारुणे भये। परित्राणाय भवतः प्रार्थयिष्ये धनानि वः॥ प्रतिदास्ये च भवतां सर्वं चाहं भयक्षये। नारयः प्रतिदास्यन्ति यद्धरेयुर्बलादितः॥ कलत्रमादितः कृत्वा सर्वं वो विनशेदिति। अपि चेत् पुत्रदारार्थमर्थसंचय इष्यते॥ नन्दामि वः प्रभावेण पुत्राणामिव चोदये। यथाशक्त्युपगृह्णामि राष्ट्रस्यापीडया च वः॥ आपत्स्वेव च वोढव्यं भवद्भिः पुणवैरिव। न च प्रियतरं कार्यं धनं कस्याञ्चिदापदि॥ इति वाचा मधुरया श्लक्ष्णया सोपचारया। स्वरश्मीनभ्यवसृजेद् योगमाधाय कालवित्॥ प्राकारं भृत्यभरणं व्ययं संग्रामतो भयम्। योगक्षेमं च सम्प्रेक्ष्य गोंमिनः कारयेत् करम्॥ उपेक्षिता हि नश्येयुर्गोमिनोऽरण्यवासिनः। तस्मात् तेषु विशेषेण मृदुपूर्वं समाचरेत्॥ सान्त्वनं रक्षणं दानमवस्था चाप्यभीक्ष्णशः। गोमिनां पार्थ कर्तव्यः संविभागः प्रियाणि च॥ अजस्त्रमुपयोक्तव्यं फलं गोमिषु भारत। प्रभावयन्ति राष्ट्रं च व्यवहारं कृषि तथा॥ तस्माद् गोमिषु यत्नेन प्रीतिं कुर्याद् विचक्षणः। दयावानप्रमत्तश्च करान् सम्प्रणयन् मृदून्॥ सर्वत्र क्षेमचरणं सुलभं नाम गोमिषु। न ह्यतः सदृशं किंचिद् वरमस्ति युधिष्ठिर।॥ युधिष्ठिर उवाच यदा राजा समर्थोऽपि कोशार्थी स्यान्महामते। कथं प्रवर्तेत तदा तन्मे ब्रूहि पितामह॥ भीष्म उवाच यथादेशं यथाकालं यथाबुद्धि यथाबलम्। अनुशिष्यात् प्रजा राजा धर्मार्थी तद्धिते रतः॥ यथा तासां च मन्येत श्रेय आत्मन एव च। तथा कर्माणि सर्वाणि राजा राष्ट्रेषु वर्तयेत्॥ मधुदोहं दुहेद् राष्ट्र भ्रमरा इव पादपम्। वत्सापेक्षी दुहेच्चैव स्तनांश्च न विकुट्टयेत्॥ जलौकावत् पिबेद् राष्ट्र मृदुनैव नराधिपः। व्याघ्रीव च हरेत् पुत्रान् संदशेन्न च पीडयेत्॥ यथा शल्यकवानाखुः पदं धूनयते सदा। अतीक्ष्णेनाभ्युपायेन तथा राष्ट्र समापिबेत्॥ अल्पेनाल्पेन देयेन वर्धमानं प्रदापयेत्। ततो भूयस्ततो भूयः क्रमवृद्धिं समाचरेत्॥ दमयत्रिव दम्यानि शश्वद् भारं विवर्धयेत्। मृदुपूर्व प्रयत्नेन पाशानभ्यवहारयेत्॥ सकृत्पाशावकीर्णास्ते न भविष्यन्ति दुर्दमाः। उचितेनैव भोक्तव्यास्ते भविष्यन्ति यत्नतः॥ तस्मात् सर्वसमारम्भो दुर्लभः पुरुषं प्रति। यथामुख्यान सान्त्वयित्वा भोक्तव्य इतरो जनः॥ ततस्तान् भेदयित्वा तु परस्परविवक्षितान्। भुजीत सान्त्वयंश्चैव यथासुखमयत्नतः॥ न चास्था ने न चाकाले करांस्तेभ्यो निपातयेत्। आनुपूर्वेण सान्त्वेन यथाकालं यथाविधि॥ उपायान् प्रब्रवीम्येतान् न मे माया विवक्षिता। अनुपायेन दमयन् प्रकोपयति वाजिनः॥ पानागारनिवेशाच वेश्याः प्रापणिकास्तथा। कुशीलवाः सकितवा ये चान्ये केचिदीदृशाः॥ नियम्याः सर्व एवैते ये राष्ट्रस्योपघातकाः। एते राष्ट्रेऽभितिष्ठन्तो बाधन्ते भद्रिकाः प्रजाः॥ न केनचिद् याचितव्यः कश्चित्किञ्चिदनापदि। इति व्यवस्था भूतानां पुरस्तान्मनुना कृता॥ सर्वे तथानुजीवेयुर्न कुर्युः कर्म चेदिह। सर्व एव इमे लोका न भवेयुरसंशयम्॥ प्रभुर्नियमने राजा य एतान् न नियच्छति। भुक्कते स तस्य पापस्य चतुर्भागपिति श्रुतिः॥ भोक्ता तस्य तु पापस्य सुकृतस्य यथा तथा। नियन्तव्याः सदा राज्ञा पापा ये स्युनराधिप॥ कृतपापस्त्वसौ राजा य एतान् न नियच्छति। तथा कृतस्य धर्मस्र चतुर्भागमुपारनुते॥ स्थानान्येतानि संयम्य प्रसंगो भूतिनाशनः। कामे प्रसक्तः पुरुषः किमकार्यं विवर्जयेत्॥ मद्यमांसपरस्वानि तथा दारा धनानि च। आहरेद् रागवशगस्तथा शास्त्रं प्रदर्शयेत्॥ आपद्येव त याचन्ते येषां नास्ति परिग्रहः। दातव्यं धर्मतस्तेभ्यस्त्वनुक्रोशाद् भयान तु॥ मा ते राष्ट्रे याचनका भूवनमा चापि दस्यवः। एषां दातार एवैते नैते भूतस्य भावकाः॥ ये भूतान्यनुगृह्णन्ति वर्धयन्ति च ये प्रजाः। ते ते राष्ट्रेषु वर्तन्त मा भूतानामभावकाः॥ दण्ड्यास्ते च महाराज धनादानप्रयोजकाः। प्रयोगं कारयेयुस्तान् यथाबलिकरांस्तथा॥ कृषिगोरक्ष्यवाणिज्यं यच्चान्यत् किंचिदीदृशम्। पुरुषैः कारयेत् कर्म बहुभिः कर्मभेदतः॥ नरश्चेत्कृषिगोरक्ष्यवाणिज्यं चाप्यनुष्ठितः। संशयं लभते किंचित् तेन राजा विगीते॥ धनिनः पूजयेन्नित्यं पानाच्छादनभोजनैः। वक्तव्य.शानुगृह्णीध्वं प्रजाः सह मयेति वै॥ अङ्गमेतन्महद् राज्ये धनिनो नाम भारत। ककुदं सर्वभूतानां धनस्थो नात्र संशयः॥ प्राज्ञः शूरो धनस्थश्च स्वामी धार्मिक एव च। तपस्वी सत्यवादी च बुद्धिमांश्चापि रक्षति॥ तस्मात् सर्वेषु भूतेषु प्रीतिमान् भव पार्थिव सत्यमार्जवमक्रोधमानृशस्यं च पालय॥ एवं दण्डं च कोशं च मित्रं भूमि च लप्स्यसि। सत्यार्जवपरो राजन् मित्रकोशबलान्वितः॥ भीष्म उवाच वनस्पतीन् भक्ष्यफलान्न च्छिन्द्युर्विषये तव। ब्राह्मणानां मूलफलं धर्म्यमाहुर्मनीषिणः॥ ब्राह्मणेभ्योऽतिरिक्तं च भुञ्जीरनितरे जनाः। न ब्राह्मणापराधेन हरेदन्यः कथंचन॥ विप्रश्चेत् त्यागमातिष्ठेदात्मार्थे वृत्तिकर्शितः। परिकल्प्यास्य वृत्तिः स्यात् सदारस्य नराधिप॥ स चेन्नोपनिवर्तेत वाच्यो ब्राह्मणसंसदि। कस्मिन्निदानी मर्यादामयं लोकः करिष्यति॥ असंशयं निवर्तेत न चेद् वक्ष्यत्यतः परम्। पूर्वं परोक्षं कर्तव्यमेतत् कौन्तेय शाश्वतम्॥ आहुरेतज्जना नित्यं न चैतच्छ्रद्दधाम्यहम्। निमन्त्र्यश्च भवेद् भोगैरवृत्त्या च तदाचरेत्॥ कृषिगोरक्ष्यवाणिज्यं लोकानामिह जीवनम्। ऊर्ध्वं चैव त्रयी विद्या सा भूतान् भावयत्युत।॥ तस्यां प्रवर्तमानायां ये स्युस्तत्परिपन्थिनः। दस्यवस्तद्वधायेह ब्रह्मा क्षत्रमथावृजत्॥ शत्रून् जय प्रजा रक्ष यजस्व ऋतुधिर्नृप। युध्यस्व समरे वीरो भूत्वा कौरवनन्दन॥ संरक्ष्यान् पालयेद् राजा स राजा राजसत्तमः। ये केचित् तान् न रक्षन्ति तैरर्थो नास्ति कश्चन॥ सदैव राज्ञा योद्धव्यं सर्वलोकाद् युधिष्ठिर। तस्माद्धेतोर्हि युञ्जीत मनुष्यानेव मानवः॥ आन्तरेभ्यः परान् रक्षन् परेभ्यः पुनरान्तरान्। परान् परेभ्यः स्वान् स्वेभ्यः सर्वान् पालय नित्यदा॥१२ आत्मानं सर्वतो रक्षन् राजन् रक्षस्व मेदिनीम्। आत्ममूलमिदं सर्वमाहुवै विदुषो जनाः॥ किं छिद्रं को नु सङ्गो मे किं वास्त्यविनिपातितम्। कुतो मामाश्रयेद् दोष इंति नित्यं विचिन्तयेत्॥ अतीतदिवसे वृत्तं प्रशंसन्ति न वा पुनः। गुप्तैश्चारैरनुमतैः पृथिवीमनुसारयेत्॥ जानीयुर्यदि ते वृत्तं प्रशंसन्ति न वा पुनः। कच्चिद् रोचेज्जनपदे कच्चिद् राष्ट्रे च मे यशः॥ धर्मज्ञानां धृतिमतां संग्रामेष्वपलायिनाम्। राष्ट्रे तु येऽनुजीवन्ति ये तु राज्ञोऽनुजीविनः॥ अमात्यानां च सर्वेषां मध्यस्थानां च सर्वशः। ये च त्वाभिप्रशंसेयुर्निन्देयुरथवा पुनः॥ सर्वान् सुपरिणीतांस्तान् कारयेथा युधिष्ठिर। एकान्तेन हि सर्वेषां न शक्यं तात रोचितुम्। मित्रामित्रमथो मध्यं सर्वभूतेषु भारत॥ युधिष्ठिर उवाच तुल्यबाहुबलानां च तुल्यानां च गुणैरपि। कथं स्यादधिकः कश्चित् स च भुजीत मानवान्॥ भीष्म उवाच यच्चरा ह्यचरानधुरंदष्ट्रान् दंष्ट्रिणस्तथा। आशीविषा इव क्रुद्धा भुजङ्गान् भुजगा इव॥ एतेभ्यश्चाप्रमत्तः स्यात् सदा शत्रोर्युधिष्ठिर। भारुण्डसदृशा ह्येते निपतन्ति प्रमादतः॥ कच्चित् ते वणिजो राष्ट्रे नोद्विजन्ति करार्दिताः। क्रीणन्तो बहुनाल्पेन कान्तारकृतविश्रमाः॥ कच्चित् कृषिकरा राष्ट्रं न जहेत्यतिपीडिताः। ये वहन्ति धुरं राज्ञां ते भरन्तीतरानपि॥ इतो दत्तेन जीवन्ति देवाः पितृगणास्तथा। मानुषोरगरक्षांसि वयांसि पशवस्तथा॥ एषा ते राष्ट्रवृत्तिश्च राज्ञां गुप्तिश्च भारत। एतमेवार्थमाश्रित्य भूयो वक्ष्यामि पाण्डव॥ वामदेव उवाच यत्राधर्मं प्रणयते दुर्बले बलवत्तरः। तां वृत्तिमुपजीवन्ति ये भवन्ति तदन्वयाः॥ राजानमनुवर्तन्ते तं पापाभिप्रवर्तकम्। अविनीतमनुष्यं तत् क्षिप्रं राष्ट्र विनश्यति॥ यद् वृत्तमुपजीवन्ति प्रकृतिस्थस्य मानवाः। तदेव विषमस्थस्य स्वजनोऽपि न मृष्यते॥ साहसप्रकृतिर्यत्र किंचिदुल्बणमाचरेत्। अशास्त्रलक्षणो राजा क्षिप्रमेव विनश्यति॥ योऽत्यन्ताचरितां वृत्तिं क्षत्रियो नानुवर्तते। जितानामजितानां च क्षत्रधर्मादपैति सः॥ द्विषन्त कृतकल्याणं गृहीत्वा नृपतिं रणे। यो न मानयते द्वेषात् क्षत्रधर्मादपैति सः॥ शक्तः स्यात् सुसुखो राजा कुर्यात् करणमापदि। प्रियो भवति भूतानां न च विभ्रश्यते श्रियः॥ अप्रियं यस्य कुर्वीत भूयस्तस्य प्रियं चरेत्। नचिरेण प्रियः स स्याद् योऽप्रियः प्रियमाचरेत्॥ मृषावादं परिहरेत् कुर्यात् प्रियमयाचितः। न कामान च संरम्भान्न द्वेषाद् धर्ममुत्सृजेत्॥ नापत्रपेत प्रश्नेषु नाविभाव्यां गिरं सृजेत्। न त्वरेत न चासूयेत् तथा संगृह्यते परः॥ प्रिये नातिभृशं हृष्येदप्रिये न च संज्वरेत्। न तप्येदर्थकृच्छ्रेषु प्रजाहितमनुस्मरन्॥ यः प्रियं कुरुते नित्यं गुणतो वसुधाधिपः। तस्य कर्माणि सिद्ध्यन्ति न च संत्यज्यते श्रिया॥ निवृत्तं प्रतिकूलेषु वर्तमानमनुप्रिये। भक्तं भजेत नृपतिः सदैव सुसमाहितः॥ अप्रकीर्णेन्द्रियग्राममत्यन्तानुगतं शुचिम्। शक्तं चैवानुरक्तं च युज्यान्महति कर्मणि॥ एवमेतैर्गुणैर्युक्तो योऽनुरज्यति भूमिपम्। भर्तुरर्थेष्वप्रमत्तं नियुज्यादर्थकर्मणि॥ मूढमैन्द्रियकं लुब्धमनार्यचरितं शठम्। अनतीतोपधं हिस्त्रं दुर्बुद्धिमबहुश्रुतम्॥ त्यक्तोदात्तं माद्यरतं यतस्त्रीमृगयापरम्। कार्ये महति युञ्जानो हीयते नृपतिः श्रिया॥ रक्षितात्मा च यो राजा रक्ष्यान् यश्चानुरक्षति। प्रजाश्च तस्य वर्धन्ते ध्रुवं च महदश्नुते॥ ये केचिद् भूमिपतयः सर्वांस्तानन्ववेक्षयेत्। सुहृद्भिरनभिख्यातैस्तेन राजातिरिच्यते॥ अपकृत्य बलस्थस्य दूरस्थोऽस्मीति नाश्वसेत्। श्येनाभिपतनैरेते निपतन्ति प्रमाद्यतः॥ दृढमूलस्त्वदुष्टात्मा विदित्वा बलमात्मनः। अबलानभियुञ्जीत न तु ये बलवत्तराः॥ विक्रमेण महीं लब्ध्वा प्रजा धर्मेण पालयेत्। आहवे निधनं कुर्याद् राजा धर्मपरायणः॥ मरणान्तमिदं सर्वं नेह किञ्चिदनामयम्। तस्माद् धर्मे स्थितो राजा प्रजा धर्मेण पालयेत्॥ रक्षाधिकरणं युद्धं तथा धर्मानुशासनम्। मन्त्रचिन्ता सुखं काले पञ्चभिर्वर्धते मही॥ एतानि यस्य गुप्तानि स राजा राजसत्तमः। सततं वर्तमानोऽत्र राजा धत्ते महीमिमाम्॥ नैतान्येकेन शक्यानि सातत्येनानुवीक्षितुम्। तेषु सर्वं प्रतिष्ठाप्य राजा भुक्के चिरं महीम्॥ दातारं संविभक्तारं मार्दवोपगतं शुचिम्। असंत्यक्तमनुष्यं च तं जनाः कुर्वते नृपम्॥ यस्तु निःश्रेयसं श्रुत्वा ज्ञानं तत् प्रतिपद्यते। आत्मनो मतमुत्सृज्य तं लोकोऽनुविधीयते॥ योऽर्थकामस्य वचनं प्रातिकूल्यान मृष्यते। शृणोति प्रतिकूलानि सर्वदा विमना इव॥ अग्राम्यचरितां वृत्तिं यो न सेवेत नित्यदा। जितानामजितानां च क्षत्रधर्मादपैति सः॥ निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः। पर्वताद् विषमाद् दुर्गाद्धस्तिनोऽश्वात् सरीसृपात्। एतेभ्यो नित्ययुक्तः सन् रक्षेदात्मानमेव तु॥ मुख्यानमात्यान् यो हित्वा निहीनान् कुरुते प्रियान्। स वै व्यसनमासाद्य गाधमार्तो न विन्दति॥ यः कल्याणगुणाज्ञातीन् प्रद्वेषान्नो बुभूषति। अदृढात्मा दृढक्रोधः स मृत्योर्वसतेऽन्तिके॥ अथ यो गुणसम्पन्नान् हृदयस्याप्रियानपि। प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति॥ नाकाले प्रणयेदर्थान्नाप्रिये जातु संज्वरेत्। प्रिये नातिभृशं तुष्येद् युज्येतारोग्यकर्मणि।॥ के वानुरक्ताः राजानः के भयात् समुपाश्रिताः। मध्यस्थदोषाः के चैषामिति नित्यं विचिन्तयेत्॥ न जातु बलवान् भूत्वा दुर्बले विश्वसेत् क्वचित्। भारुण्डसदृशा ह्येते निपतन्ति प्रमाद्यतः॥ अपि सर्वगुणैर्युक्तं भर्तारं प्रियवादिनम्। अभिद्रुह्यति पापात्मा न तस्माद् विश्वसेज्जनात्॥ एवं राजोपनिषदं ययातिः स्माह नाहुषः। मनुष्यविषये युक्तो हन्ति शत्रूननुत्तमान्॥ युधिष्ठिर उवाच अयुद्धेनैव विजयं वर्धयेद् वसुधाधिपः। जघन्यमाहुर्विजयं युद्धेन च नराधिप॥ न चाप्यलब्धं लिप्सेत मूले नातिदृढे सति। न हि दुर्बलमूलस्य राज्ञो लाभो विधीयते॥ यस्य स्फीतो जनपदः सम्पन्नः प्रियराजकः। संतुष्टपुष्टसचिवो दृढमूलः स पार्थिवः॥ यस्य योधाः सुसंतुष्टाः सान्त्विताः सूपधास्थिताः। अल्पेनापि स दण्डेन महीं जयति पार्थिवः॥ पौरजानपदा यस्य भूतेषु च दयालवः। सधना धान्यवन्तश्च दृढमूलः स पार्थिवः॥ प्रतापकालमधिकं यदा मन्येत चात्मनः। तदा लिप्सेत मेधावी परभूमिधनान्युत॥ भोगेषूदयमानस्य भूतेषु च दयावतः। वर्धते त्वरमाणस्य विषयो रक्षितात्मनः॥ तक्षेदात्मानमेवं स वनं परशुना यथा। यः सम्यग् वर्तमानेषु स्वेषु मिथ्या प्रवर्तते॥ नैव द्विषन्तो हीयन्ते राज्ञो नित्यमनिघ्नतः। क्रोधं निहन्तुं यो वेद तस्य द्वेष्टा न विद्यते॥ यदार्यजनविद्विष्टं कर्म तन्नाचरेद् बुधः। यत् कल्याणमभिध्यायेत् तत्रात्मानं नियोजयेत्॥ नैनमन्येऽवजानन्ति नात्मना परितप्यते। कृत्यशेषेण यो राजा सुखान्यनुबुभूषति॥ इदं वृत्तं मनुष्येषु वर्तते यो महीपतिः। उभौ लोकौ विनिर्जित्य विजये सम्प्रतिष्ठते॥ भीष्म उवाच इत्युक्तो वामदेवेन सर्वं तत् कृतवान् नृपः। तथा कुर्वंस्त्वमप्येतौ लोको जेता न संशयः॥ भीष्म उवाच इत्युक्तो वामदेवेन सर्वं तत् कृतवान् नृपः। तथा कुर्वंस्त्वमप्येतौ लोको जेता न संशयः॥ युधिष्ठिर उवाच अथ यो विजिगीषेत क्षत्रियः क्षत्रियं युधि। कस्तस्य विजये धर्मो ह्येतं पृष्टो वदस्व मे॥ भीष्म उवाच ससहायोऽसहायो वा राष्ट्रमागम्य भूमिपः। ब्रूयादहं वो राजेति रक्षिष्यामि च वः सदा॥ मम धर्मबलिं दत्त किं वा मां प्रतिपत्स्यथ। ते चेत् तमागतं तत्र वृणुयुः कुशलं भवेत्॥ ते चेदक्षत्रियाः सन्तो विरुध्येरन् कथंचन। सर्वोपायैर्नियन्तव्या विकर्मस्था नराधिप॥ अशस्त्रं क्षत्रियं मत्वा शस्त्रं गृह्णाद् यथापरः। त्राणायाप्यसमर्थं तं मन्यमानमतीव च॥ युधिष्ठिर उवाच अथ यः क्षत्रियो राजा क्षत्रियं प्रत्युपाव्रजेत्। कथं सम्प्रति योद्धव्यस्तन्मे ब्रूहि पितामह॥ भीष्म उवाच नैवासन्नद्धकवचो योद्धव्यः क्षत्रियो रणे। एक एकेन वाच्यश्च विसृजेति क्षिपामि च॥ स चेत् सन्नद्ध आगच्छेत् सन्नद्धव्यं ततो भवेत्। स चेत् ससैन्य आगच्छेत् ससैन्यस्तमथाह्वयेत्॥ स चेन्निकृत्या युद्ध्येत निकृत्या प्रतियोधयेत्। अथ चेद् धर्मतो युद्ध्येद् धर्मेणैव निवारयेत्॥ नाश्वेन रथिनं यायादुदियाद् रथिनं रथी। व्यसने न प्रहर्तव्यं न भीताय जिताय च॥ इषुर्लिप्तो न कर्णी स्यादसतामेतदायुधम्। यथार्थमेव योद्धव्यं न क्रुद्ध्येत जिघांसतः॥ साधूनां तु मिथो भेदात् साधुश्चेद व्यसनी भवेत्। निष्प्राणो नाभिहन्तव्यो नानपत्यः कथंचन॥ भग्नशस्त्रो विपन्नश्च कृत्तज्यो हतवाहनः। चिकित्स्यः स्यात् स्वविषये प्राप्यो वा स्वगृहे भवेत्।। निव्रणश्च स मोक्तव्य एष धर्मः सनातनः। तस्माद् धर्मेण योद्धव्यमिति स्वायम्भुवोऽब्रवीत्॥ सत्सु नित्यः सतां धर्मस्तमास्थाय न नाशयेत्। यो वै जयत्यधर्मेण क्षत्रियो धर्मसंगरः॥ आत्मानमात्मना हन्ति पापो निकृतिजीवनः। कर्म चैतदसाधूनापसाधून् साधुना जयेत्॥ धर्मेण निधनं श्रेयो न जयः पापकर्मणा। नाधर्मश्चरितो राजन् सद्यः फलति गौरिव॥ मूलानि च प्रशाखाश्च दहन् समधिगच्छति। पापेन कर्मणा वित्तं लब्वा पापः प्रहृष्यति॥ स वर्धमानः स्तेयेन पापः पापे प्रसज्जति। न धर्मोऽस्तीति मन्वानः शुचीनवहसन्निव॥ अश्रद्दधानश्च भवेद् विनाशमुपगच्छति। सम्बद्धो वारुणैः पाशैरमर्त्य इव मन्यते॥ महादृतिरिवाध्मातः सुकृते नैव वर्तते। ततः समूलो ह्रियते नदी कूलादिव द्रुमः॥ अथैनमभिनिन्दन्ति भिन्नं कुम्भमिवाश्मनि। तस्माद् धर्मेण विजयं कोशं लिप्सेत भूमिपः॥ भीष्म उवाच नाधर्मेण महीं जेतुं लिप्सत जगतीपतिः। अधर्मविजयं लब्ध्वा को नु मन्येत भूमिप:॥ अधर्मयुक्तो विजयो ह्यध्रुवोऽस्व→ एव च। सादयत्येष राजानं महीं च भरतर्षभ॥ विशीर्णकवचं चैव तवास्मीति च वादिनम्। कृताञ्जलिं न्यस्तशस्त्रं गृहीत्वा न हि हिंसयेत्॥ बलेन विजितो यश्च न तं युध्येत भूमिपः। संवत्सरं विप्रणयेत् तस्माज्जातः पुनर्भवेत्॥ नार्वाक्संवत्सरात् कन्या प्रष्टव्या विक्रमाता। एवमेव धनं सर्वं यच्चान्यत्सहसाऽऽहृतम्॥ न तु वध्यधनं तिष्ठेत् पिबेयुर्ब्राह्मणाः पयः। युजीरन्नप्यनडुहः क्षन्तव्यं वा तदा भवेत्॥ राज्ञा राजैव योद्धव्यस्तथा धर्मो विधीयते। नान्यो राजानमभ्यस्येदराजन्यः कथञ्चन॥ अनीकयोः संहतयोर्यदीयाद् ब्राह्मणोऽन्तरा। शान्तिमिच्छन्नुभयतो न योद्धव्यं तदा भवेत्॥ मर्यादां शाश्वती भिन्द्याद् ब्राह्मणं योऽभिलङ्घयेत्। अथ चेल्लङ्घयेदेव मर्यादां क्षत्रियब्रुवः॥ असंख्येयस्तदूर्ध्वं स्यादनादेयश्च संसदि। यस्तु धर्मविलोपेन मर्यादाभेदनेन च॥ तां वृत्तिं नानुवर्तेत विजीगीषुर्महीपतिः। धर्मलब्धाद्धि विजयाल्लाभः कोऽभ्यधिको भवेत्॥ सहसानार्यभूतानि क्षिप्रमेव प्रसादयेत्। सान्त्वेन भोगदानेन स राज्ञां परमो नयः॥ भुज्यमाना ह्ययोगेन स्वराष्ट्रादभितापिताः। अमित्रास्तमुपासीरन् व्यसनौघप्रतीक्षिणः॥ अमित्रोपग्रहं चास्य ते कुर्यः क्षिप्रमापदि। संतुष्टाः सर्वतो राजन् राजव्यसनकाक्षिणः॥ नामित्रो विनिकर्तव्यो नातिच्छेद्यः कथञ्चन। जीवितं ह्यष्यतिच्छिन्नः संत्यजेच्च कदाचन॥ अल्पेनापि च संयुक्तस्युष्यत्येव नराधिपः। शुद्धं जीवितमेवापि तादृशो बहु मन्यते॥ यस्य स्फीतो जनपदः सम्पन्नः प्रियराजकः। संतुष्टभृत्यसचिवो दृढमूलः स पार्थिवः॥ ऋत्विक्पुरोहिताचार्या ये चान्ये श्रुतसत्तमाः। पूजार्हाः पूजिता यस्य स वै लोकविदुच्यते॥ एतेनैव च वृत्तेन महीं प्राप सुरोत्तमः। अनेन चेन्द्रविषयं विजिगीषन्ति पार्थिवाः॥ भूमिवर्जं धनं राजा जित्वा राजन् महाहवे। अपि चान्नौषधीः शश्वदाजहार प्रतर्दनः॥ अग्निहोत्राग्निशेषं च हविर्भोजनमेव च। आजहार दिवोदासस्ततो विप्रकृतोऽभवत्॥ सराजकानि राष्ट्राणि नाभागो दक्षिणां ददौ। अन्यत्र श्रोत्रियस्वाच्च तापसार्थाच्च भारत॥ उच्चावचानि वित्तानि धर्मज्ञानां युधिष्ठिर। आसन् राज्ञां पुराणानां सर्वं तन्मम रोचते॥ सर्वविद्यातिरेकेण जयमिच्छेन्महीपतिः। न मायया न दम्भेन य इच्छेद् भूतिमात्मनः॥ युधिष्ठिर उवाच क्षत्रधर्माद्धि पापीयान्न धर्मोऽस्ति नराधिप। अपयानेन युद्धेन राजा हन्ति महाजनम्॥ अथ स्म कर्मणा केन लोकान् जयति पार्थिवः। विद्वन् जिज्ञासमानाय प्रबूहि भरतर्षभ॥ भीष्म उवाच निग्रहेण च पापानां साधूनां संग्रहेण च। यज्ञैर्दानैश्च राजानो भवन्ति शुचयोऽमलाः॥ उपरुन्धन्ति राजानो भूतानि विजयार्थिनः। त एव विजयं प्राप्य वर्धयन्ति पुनः प्रजाः॥ अपविध्यन्ति पापानि दानयज्ञतपोबलैः। अनुग्रहाय भूतानां पुण्यमेषां विवर्धते॥ यथैव क्षेत्रनिर्याता निर्यातं क्षेत्रमेव च। हिनस्ति धान्यं कक्षं च न च धान्यं विनश्यति॥ एवं शस्त्राणि मुञ्चन्तो प्रन्ति वध्याननेकथा। तस्यैषां निष्कृतिः कृत्स्ना भूतानां भावनं पुनः॥ यो भूतानि धनाक्रान्त्या वधात् क्लेशाच्च रक्षति। दस्युभ्यः प्राणदानात् स धनदः सुखदो विराट्॥ स सर्वयज्ञैरीजानो राजाथाभयदक्षिणैः। अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम्॥ ब्राह्मणार्थे समुत्पन्ने योऽरिभिः सृत्य युध्यति। आत्मानं यूपमुत्सृज्य स यज्ञोऽनन्तदक्षिणः॥ अभीतो विकिरशत्रून् प्रतिगृह्य शरांस्तथा। न तस्मात्रिदशा:श्रेयो भुवि पश्यन्ति किञ्चन॥ तस्य शस्त्राणि यावन्ति त्वचं भिन्दन्ति संयुगे। तावतः सोऽश्नुते लोकान् सर्वकामदुहोऽक्षयान्॥ यदस्य रुधिरं गात्रादाहये सम्प्रवर्तते। सह तेनैव रक्तेन सर्वपापैः प्रमुच्यते॥ यानि दुःखानि सहते क्षत्रियो युधि तापितः। तेन तेन तपो भूय इति धर्मविदो विदुः॥ पृष्ठतो भीरवः संख्ये वर्तन्तेऽधर्मपूरुषाः। शूराच्छरणमिच्छन्तः पर्जन्यादिव जीवनम्॥ यदि शूरस्तथा क्षेमं प्रतिरक्षेद् यथाभये। प्रतिरूपं जनं कुर्यान्न चेत् तद्वर्तते तथा॥ यदि ते कृतमाज्ञाय नमस्कुर्युः सदैवतम्। युक्तं न्याय्यं च कुर्युस्ते न च तद् वर्तते तथा॥ पुरुषाणां समानानां दृश्यते महदन्तरम्। संग्रामेऽनीकवेलायामुत्क्रुष्टेऽभिपतन्त्युत॥ पतत्यभिमुखः शूरः परान् भीरुः पलायते। आस्थाय स्वय॑मध्वानं सहायान् विषमे त्यजेत्॥ मा स्म तांस्तादृशांस्तात जनिष्ठाः पुरुषाधमान्। ये सहायान् रणे हित्वा स्वस्तिमन्तो गृहान् ययुः॥ अस्वस्ति तेभ्यः कुर्वन्ति देवा इन्द्रपुरोगमाः। त्यागेन यः सहायानां स्वान् प्राणांस्त्रातुमिच्छति।॥ तं हन्युः काष्ठलोष्ठैर्वा दहेयुर्वा कटाग्निना। पशुवन्मारयेयुर्वा क्षत्रिया ये स्युरीदृशाः॥ अधर्मः क्षत्रियस्यैष यच्छय्यामरणं भवेत्। विसृजश्लेष्ममूत्राणि कृपणं परिदेवयन्॥ अविक्षतेन देहेन प्रलयं योऽधिगच्छति। क्षत्रियो नास्य तत् कर्म प्रशंसन्ति पुराविदः॥ न गृहे मरणं तात क्षत्रियाणां प्रशस्यते। शौटीराणामशौटीर्यमधर्म कृपणं च तत्॥ इदं दुःखं महत् कष्टं पापीय इति नष्टनन्। प्रतिध्वस्तमुखः पूतिरमात्याननुशोचयन्॥ अरोगाणां स्पृहयते मुहुर्मृत्युमपीच्छति। वीरो दृप्तोऽभिमानी च नेदृशं मृत्युमर्हति॥ रणेषु कदनं कृत्वा ज्ञातिभिः परिवारितः। तीक्ष्णैः शस्त्रैरभिक्लिष्टः क्षत्रियो मृत्युमर्हति॥ शूरो हि काममन्युभ्यामाविष्टो युद्ध्यते भृशम्। हन्यमानानि गात्राणि परैर्नैवावबुध्यते॥ स संख्ये निधनं प्राप्य प्रशस्तं लोकपूजितम्। स्वधर्मं विपुलं प्राप्य शक्रस्येति सलोकताम्॥ सर्वोपायै रणमुखमातिष्ठंस्त्यक्तजीवितः। प्राप्नोतीन्द्रस्य सालोक्यं शूरः पृष्ठमदर्शयन्॥ यत्र यत्र हतः शूरः शत्रुभिः परिवारितः। अक्षयाँल्लभते लोकान् यदि दैन्यं न सेवते॥ युधिष्ठिर उवाच के लोका युध्यमानानां शूराणामनिवर्तिनाम्। भवन्ति निधनं प्राप्य तन्मे ब्रूहि पितामह॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। अम्बरीषस्य संवादमिन्द्रस्य च युधिष्ठिर॥ अम्बरीषो हि नाभागिः स्वर्गं गत्वा सुदुर्लभम्। ददर्श सुरलोकस्थं शक्रेण सचिवं सह॥ सर्वतेजोमयं दिव्यं विमानवरमास्थितम्। उपर्युपरि गच्छन्तं स्वं वै सेनापतिं प्रभुम्॥ स दृष्ट्वोपरि गच्छन्तं सेनापतिमुदारधीः। ऋद्धिं दृष्ट्वा सुदेवस्य विस्मितः प्राह वासवम्॥ अम्बरीष उवाच सागरान्तां महीं कृत्स्नामनुशास्य यथाविधि। चातुर्वण्र्ये यथाशास्त्रं प्रवृत्तौ धर्मकाम्यया॥ ब्रह्मचर्येण घोरेण गुर्वाचारेण सेवया। वेदानधीत्य धर्मेण राजशास्त्रं च केवलम्॥ अतिथीनन्नपानेन पितृ॑श्च स्वधया तथा। ऋषीन् स्वाध्यायदीक्षाभिर्देवान् यज्ञैरनुत्तमैः॥ क्षत्रधर्मे स्थितो भूत्वा यथाशास्त्रं यथाविधि। उदीक्षमाणः पृतनां जयामि युधि वासव॥ देवराज सुदेवोऽयं मम सेनापतिः पुरा। आसीद् योधः प्रशान्तात्मा सोऽयं कस्मादतीव माम्।।१० अनेन क्रतुभिर्मुख्यैर्नेष्टं नापि द्विजातयः। तर्पिता विधिवच्छक सोऽयं कस्मादतीव माम्॥ इन्द्र उवाच एतस्य विततस्तात सुदेवस्य बभूव ह। संग्रामयज्ञः सुमहान् यश्चान्यो युद्ध्यते नरः॥ संनद्धो दीक्षितः सर्वो योधः प्राप्त चमूमुखम्। युद्धयज्ञाधिकारस्थो भवतीति विनिश्चयः॥ अम्बरीष उवाच कानि यज्ञे हवींष्यस्मिन् किमाज्यं का च दक्षिणा। ऋत्विजश्चात्र के प्रोक्तास्तन्मे ब्रूहि शतक्रतो॥ इन्द्र उवाच इत्विजः कुञ्जरास्तत्र वाजिनोऽध्वर्यवस्तथा! हवींषि परमांसानि रुधिरं त्वाज्यमुच्यते॥ शृगालगृध्रकाकोला: सदस्यास्तत्र पत्रिणः। आज्यशेषं पिबन्त्येते हविः प्रा श्नन्ति चाध्वरे॥ प्रासतोमरसंघाताः खड्गशक्तिपरश्वधाः। ज्वलन्तो निशिताः पीताः स्त्रुचस्तस्याथ सत्रिणः॥ चापवेगायतस्तीक्ष्णः परकायावभेदनः। ऋजुः सुनिशितः पीतः सायकश्च स्रुवो महान्॥ द्वीपीचर्मावनद्धश्च नागदन्तकृतत्सरुः। हस्तिहस्तहरः खड्गः सूयो भवेत् तस्य संयुगे॥ ज्वलितैर्निशितैः प्रासशक्त्यृष्टिसपरश्वधैः। शैक्यायसमयैस्तीक्ष्णैरभिघातो भवेद् वसु॥ संख्यासमयविस्तीर्णमभिजातोद्भवं बहु। आवेगाद् यच्च रुधिरं संग्रामे स्रवते भुवि॥ सास्य पूर्णाहुति)मे समृद्धा सर्वकामधुक्। छिन्धि भिन्धीति यः शब्दः श्रुयते वाहिनीमुखे॥ सामानि सामगास्तस्य गायन्ति यमसादने। परेषां वाहिनीमुखम्॥ कुञ्जराणां हयानां च वर्मिणां च समुच्चयः। हविर्धानं तु तस्याहुः अग्निः श्येनचितो नाम स च यज्ञे विधीयते॥ उत्तिष्ठते कबन्धोऽत्र सहस्र निहते तु यः। स यूपस्तस्य शूरस्य खादिरोऽशस्त्रिरुच्यते॥ इडोपहूताः क्रोशन्ति कुञ्जरास्त्वंकुशेरिताः। व्याघुश्तलनादेव वषट्कारेण पार्थिव॥ उद्गाता तत्र सग्रामे त्रिसामा दुन्दुभिर्नृप। ब्रह्मस्व ह्रियमाणे तु त्यक्त्वा युद्धे प्रियां तनुम्॥ आत्मानं यूपमुत्सृज्य स यज्ञोऽनन्तदक्षिणः। भर्तुरर्थे च यः शूरो विक्रमेद् वाहिनीमुखे॥ न भयाद् विनिवर्तेत तस्य लोका यथा मम। नीलचर्मावृतैः खड्नैर्बाहुभिः परिघोपमैः॥ यस्य वेदिरुपस्तीर्णा तस्य लोका यथा मम। यस्तु नापेक्षते कंचित् सहायं विजये स्थितः॥ विगाह्य वाहिनीमध्यं तस्य लोका यथा मम। यस्य शोणितसंघाता भेरीमण्डूककच्छपा।॥ वीरास्थिशर्करा दुर्गा मांसशोणितकर्दमा। असिचर्मप्लवा घोरा केशशैवलशाद्वला॥ अश्वनागरथैश्चैव संच्छिन्नैः कृतसंक्रमा। पताकाध्वजवानीरा हतवारणवाहिनी॥ शोणितोदा सुसम्पूर्णा दुस्तरा पारगैर्नरैः। हतनागमहानका परलोकवहाशिवा॥ ऋश्खिड्गमहानौका गृध्रकङ्कबलप्लवा। पुरुषादानुचरिता भीरूणां कश्मलावहा॥ नदी योधस्य संग्रामे तदस्यावभृथं स्मृतम्। वेदिर्यस्य त्वमित्राणां शिरोभ्यश्च प्रकीर्यते॥ अश्वस्कन्धैर्गजस्कन्धेस्तस्य लोका यथा मम। पत्नीशाला कृता यस्य परेषां वाहिनीमुखम्॥ हविर्धानं स्ववाहिन्यास्तदस्याहुर्मनीषिणः। सदस्या दक्षिणा योधा आग्नीध्रश्चोत्तरां दिशम्॥ शत्रुसेनाकलत्रस्य सर्वलोका न दूरतः। यदा तूभयतो व्यूहे भवत्याकाशमग्रतः॥ सास्य वेदिस्तदा यज्ञैर्नित्यं वेदास्त्रयोऽग्नयः। यस्तु योधः परावृत्तः संत्रस्तो हन्यते परैः॥ अप्रतिष्ठः स नरकं याति नास्त्यत्र संशयः। यस्य शोणितवेगेन वेदिः स्यात् सम्परिप्लुता॥ केशमांसास्थिसम्पूर्णा स गच्छेत् परमां गतिम्। यस्तु सेनापतिं हत्वा तद्यानमधिरोहति॥ स विष्णुविक्रमकामी बृहस्पतिसमः प्रभुः। नायकं तत्कुमारं वा यो वा स्याद् यत्र पूजितः॥ जीवग्राहं प्रगृह्णाति तस्य लोका यथा मम। आहवे तु हतं शूरं न शोचेत कथंचन॥ अशोच्यो हि हतः शूरः स्वर्गलोके महीयते। न ह्यनं नोदकं तस्य न स्नानं नाप्यशौचकम्॥ हतस्य कर्तुमिच्छन्ति तस्य लोकाशृणुष्व मे। वराप्सरः सहस्राणि शूरमायोधने हतम्॥ त्वरमाणाभिधावन्ति मम भर्ता भवेदिति। एतत् तपश्च पुण्यं च धर्मश्चैव सनातनः॥ चत्वारश्चाश्रमास्तस्य यो युद्धमनुपालयेत्। वृद्धबालौ न हन्तव्यौ न च स्त्री नैव पृष्ठतः॥ तृणपूर्णमुखश्चैव तवास्मीति च यो वदेत्। जम्भं वृत्रं बलं पाकं शतमायं विरोचनम्॥ दुर्वार्यं चैव नमुचिं नैकमायं च शम्बरम्। विप्रचित्तिं च दैतेयं दनोः पुत्रांश्च सर्वशः। प्रह्लादं च निहत्याजौ ततो देवाधिपोऽभवम्॥ भीष्म उवाच इत्येतच्छक्रवचनं निशम्य प्रतिगृह्य च। योधानामात्मनः सिद्धिमम्बरीषोऽभिपन्नवान्॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। प्रतर्दनो मैथिलश्च संग्रामं यत्र चक्रतुः॥ यज्ञोपवीती संग्रामे जनको मैथिलो यथा। योधानुद्धर्षयामास तन्निबोध युधिष्ठिर॥ जनको मैथिलो राजा महात्मा सर्वतत्त्ववित्। योधान् स्वान् दर्शयामास स्वर्ग नरकमेव च॥ अभीरूणामिमे लोका भास्वन्तो हन्त पश्यत। पूर्णा गन्धर्वकन्याभिः सर्वकामदुहोऽक्षयाः॥ इमे पलायमानानां नरकाः प्रत्युपस्थिताः। अकीर्तिः शाश्वती चैव यतितव्यमनन्तरम्॥ तान् दृष्ट्वारीन् विजयत भूत्वा संत्यागबुद्धयः। नरकस्याप्रतिष्ठस्य मा भूत वशवर्तिनः॥ त्यागमूलं हि शूराणां स्वर्गद्वारमनुत्तमम्। अजयन्त रणे शत्रून् हर्षयन्तो नरेश्वरम्। तस्मादात्मवता नित्यं स्थातव्यं रणमूर्धनि॥ इत्युक्तास्ते नृपतिना योधाः परपुरंजय॥ गजानां रथिनो मध्ये रथानामनु सादिनः। सादिनामन्तरे स्थाप्यं पादातमपि दंशितम्॥ य एवं व्यूहते राजा स नित्यं जयति द्विषः। तस्मादेवं विधातव्यं नित्यमेव युधिष्ठिर॥ सर्वे स्वर्गतिमिच्छन्ति सुयुद्धेनातिमन्यवः। क्षोभयेयुरनीकानि सागरं मकरा यथा।॥ हर्षयेयुर्विषण्णांश्च व्यवस्थाप्य परस्परम्। जितां च भूमि रक्षेत भग्नान् नात्यनुसारयेत्॥ पुनरावर्तमानानां निराशानां च जीविते। वेगः सुदुःसहो राजस्तस्मान्नात्यनुसारयेत्॥ न हि प्रहर्तुमिच्छन्ति शूराः प्रद्रवतो भृशम्। तस्मात् पलायमानानां कुर्यान्नात्यनुसारणम्॥ चराणामचरा ह्यन्नमदंष्ट्रा दंष्ट्रिणामपि। आपः पिपासतामन्नमन्नं शूरस्य कातराः॥ समानपृष्ठोदरपाणिपादाः पराभवं भीरवो वै व्रजन्ति। अतो भयार्ताः प्रणिपत्य भूयः कृत्वाञ्जलीनुपतिष्ठन्ति शूरान्॥ शूरवाहुषु लोकोऽयं लम्बते पुत्रवत् सदा। तस्मात् सर्वास्ववस्थासु शूरः सम्मानमर्हति॥ न हि शौर्यात् परं किंचित् त्रिषु लोकेषु विद्यते। शूरः सर्वं पालयति सर्वं शूरे प्रतिष्ठितम्॥ न हि शौर्यात् परं किंचित् त्रिषु लोकेषु विद्यते। शूरः सर्वं पालयति सर्वं शूरे प्रतिष्ठितम्॥ युधिष्ठिर उवाच यथा जयार्थिनः सेनां नयन्ति भरतर्षभ। ईषद्धर्मं प्रपीड्यापि तन्मे ब्रूहि पितामह॥ भीष्म उवाच सतयेन हि स्थितो धर्म उपपत्त्या तथा परे। साध्वाचारतया केचित् तथैवौपयिकादपि॥ उपायधर्मान् वक्ष्यामि सिद्धार्थानर्थधर्मयोः। निर्मर्यादा दस्यवस्तु भवन्ति परिपन्थिनः॥ तेषां प्रतिविघातार्थं प्रवक्ष्याम्यथ नैगमम्। कार्याणां सर्वसिद्ध्यर्थं तानुपायान् निबोध मे॥ उभे प्रज्ञे वेदितव्ये ऋज्वी वक्रा च भारत। जानन् वक्रां न सेवेत प्रतिबाधेत चागताम्॥ अमित्रा एव राजानं भेदेनोपचरन्त्युत। तां राजा निकृति जानन् यथामित्रान् प्रबाधते॥ गजानां पार्थ वर्माणि गोवृषाजगराणि च। शल्यकण्टकलोहानि तनुत्रचमराणि च॥ सितपीतानि शस्त्राणि संनाहाः पीतलोहिताः। नानारञ्जनरक्ताः स्युः पताका: केतवश्च ह॥ ऋश्यस्तोमराः खड्गा निशिताश्च परश्वधाः। फलकान्यथ चर्माणि प्रतिकल्प्यान्यनेकशः॥ अभिनीतानि शस्त्राणि योधाश्च कृतनिश्चयाः। चैत्र्यां वा मार्गशीर्थ्यां वा सेनायोगः प्रशस्यते॥ पक्वसस्या हि पृथिवी भवत्यम्बुमती तदा। नैवातिशीतो नात्युष्ण: कालो भवति भारत॥ तस्मात् तदा योजयेत परेषां व्यसनेऽथवा। एते हि योगाः सेनायाः प्रशस्ताः परवाधने॥ जलवांस्तृणवान् मार्गः समो गम्यः प्रशस्यते। चारैः सुविदिताभ्यासः कुशलैर्वनगोचरैः॥ न हरण्येन शक्येत गन्तुं मृगगणैरिव। तस्मात् सेनासु तानेव योजयन्ति जयार्थिनः॥ अग्रतः पुरुषानीकं शक्तं चापि कुलोद्भवम्। आवासस्तोयवान् दुर्ग: पर्याकाशः प्रशस्यते॥ परेषामुपसर्पाणां प्रतिषेधस्तथा भवेत्। आकाशात् तु वनाभ्याशं मन्यन्ते गुणवत्तरम्॥ बहुभिर्गुणजातैश्च ये युद्धकुशला जनाः। उपन्यासो भवेत् तत्र बलानां नातिदूरतः॥ उपन्यासावतरणं पदातीनां च गृहनम्। अथ शत्रुप्रतीघातमापदर्थं परायणम्॥ सप्तर्षीन् पृष्ठतः कृत्वा युध्येयुरचला इव। अनेन विधिना शत्रून् जिगीषेतापि दुर्जयान्॥ यतो वायुर्यतः सूर्यो यतः शुक्रस्ततो जयः। पूर्वं पूर्वं ज्याय एषां संनिपाते युधिष्ठिर॥ अकर्दमामनुदकाममर्यादामलोष्टकाम्। अश्वभूमि प्रशंसन्ति ये युद्धकुशला जनाः॥ अपङ्का गर्तरहिता रथभूमिः प्रशस्यते। नीचगुमा महाकक्षा सोदका हस्तियोधिनाम्॥ बहुदुर्गा महाकक्षा वेणुवेत्रसमाकुला। पदातीनां क्षमा भूमिः पर्वतोपवनानि च॥ पदातिबहुला सेना दृढा भवति भारत। रथाश्वबहुला सेना सुदिनेषु प्रशस्यते॥ पदातिनागबहुला प्रावृट्काले प्रशस्यते। गुणानेतान् प्रसंख्याय देशकालौ प्रयोजयेत्॥ एवं संचिन्त्य यो याति तिथिनक्षत्रपूजितः। विजयं लभते नित्यं सेना सम्यक् प्रयोजयन्। प्रसुप्तांस्तृषिताश्रान्तान् प्रकीर्णान् नाभिघातयेत्॥ मोक्षे प्रयाणे चलने पानभोजनकालयोः। अतिक्षिप्तान् व्यतिक्षिप्तान् निहतान् प्रतनूकृतान्॥ सुविश्रब्धान् कृतारम्भानुपन्यासान् प्रतापितान्। बहिश्चरानुपन्यासान् कृतवेश्मानुसारिणः॥ पारम्पर्यागते द्वारे ये केचिदनुवर्तिनः। परिचर्यावतो द्वारे ये च केचन वर्गिणः॥ अनीकं ये विभिन्दन्ति भिन्न संस्थापयन्ति च। समानाशनपानास्ते कार्याः द्विगुणवेतनाः॥ दशाधिपतयः कार्याः शताधिपतयस्तथा। ततः सहस्राधिपतिं कुर्याच्छूरमतन्द्रितम्॥ यथामुख्यान् संनिपात्य वक्तव्याः संशपामहे। विजयार्थं हि संग्रामे न त्यक्ष्यामः परस्परम्॥ इहैव ते निवर्तन्तां ये च केचन भीरवः। ये घातयेयुः प्रवरं कुर्वाणास्तुमुलं प्रति॥ न संनिपाते प्रदरं वधं वा कुर्युरीदृशाः। आत्मानं च स्वपक्षं च पालयन् हन्ति संयुगे॥ अर्थनाशो वधोऽकीर्तिरयशच पलायने। अमनोज्ञासुखा वाचः पुरुषस्य पलायने॥ प्रतिध्वस्तोष्ठदन्तस्य न्यस्तसर्वायुधस्य च। अमित्रैरवरुद्धस्य द्विषतामस्तु नः सदा॥ मनुष्यापसदा ह्येते ये भवन्ति पराङ्मुखा। राशिवर्धनमात्रास्ते नैव ते प्रेत्य नो इह॥ अमित्रा हृष्टमनसः प्रत्युद्यान्ति पलायिनम्। जयिनस्तु नरास्तात चन्दनैर्मण्डनेन च॥ यस्य स्म संग्रामगता यशो वै मन्ति शत्रवः। तदसह्यतरं दुःखमहं मन्ये वधादपि॥ जयं जानीत धर्मस्य मूलं सर्वसुखस्य च। या भीरूणां परा ग्लानिः शूरस्तामधिगच्छति॥ ते वयं स्वर्गमिच्छन्तः संग्रामे त्यक्तजीविताः। जयन्तो वध्यमाना वा प्राप्नुयाम च सद्गतिम्॥ एवं संशप्तशपथाः समभित्यक्तजीविताः। अमित्रवाहिनीं वीराः प्रतिगाहन्त्यभीरवः॥ अग्रतः पुरुषानीकमसिचर्मवतां भवेत्। पृष्ठतः शकटानीकं कलत्रं मध्यतस्तथा॥ परेषां प्रतिघातार्थं पदातीनां च बृंहणम्। अपि तस्मिन् पुरे वृद्धा भवेयुर्ये पुरोगमाः॥ ये पुरस्तादभिमताः सत्त्ववन्तो मनस्विनः। ते पूर्वमभिवर्तेरंश्चैतानेवेतरे जनाः॥ अपि चोद्धर्षणं कार्य भीरूणामपि यलतः। स्कन्धदर्शनमात्रात्तु तिष्ठेयुर्वा समीपतः॥ संहतान् योधयेदल्पान् कामं विस्तारयेद् बहून्। सूचीमुखमनीकं स्यादल्पानां बहुभिः सह॥ सम्प्रयुक्ते निकृष्टे वा सत्यं वा यदि वानृतम्। प्रगृह्य बाहून् क्रोशते भग्ना भग्नाः परे इति॥ आगतं मे मित्रबलं प्रहरध्वमभीतवत्। सत्त्ववन्तोऽभिधावेयुः कुर्वन्तो भैरवान् रवान्॥ क्ष्वेडा: किलकिलाशब्दाः क्रकचा गोविषाणिकाः। भेरीमृदङ्गपणवान नादयेयुः पुरश्चरान्॥ युधिष्ठिर उवाच जयित्र्याः कानि रूपाणि भवन्ति भरतर्षभ। पृतनायाः प्रशस्तानि तानि चेच्छामि वेदितुम्॥ भीष्म उवाच जयित्र्या यानि रूपाणि भवन्ति भरतर्षभ। पृतनाया:प्रशस्तानि तानि वक्ष्यामि सर्वशः॥ दैवे पूर्वं प्रकुपिते मानुषे कालचोदिते। तद्विद्वांसोऽनुपश्यन्ति ज्ञानदिव्येन चक्षुषा॥ प्रायश्चित्तविधिं चात्र जपहोमांश्च तद्विदः। मङ्गलानि च कुर्वन्ति शमयन्त्यहितानि च॥ उदीर्णमनसो योधा वाहनानि च भारत। यस्यां भवन्ति सेनायां ध्रुवं तस्यां परो जयः॥ अन्वेतान् वायवो यान्ति तथैवेन्द्रधनूंषि च। अनुप्लवन्तो मेघाश्च तथाऽऽदित्यस्य रश्मयः॥ गोमायवश्चानुकूला बलगृध्राश्च सर्वशः। अर्हयेयुर्यदा सेनां तदा सिद्धिरनुत्तमा।।७। प्रसन्नभाः पावकचोर्ध्वरश्मिः प्रदक्षिणावर्तशिखो विधूमः। पुण्या गन्धाश्चाहुतीनां भवन्ति जयस्यैतद् भाविनो रूपमाहुः॥ गम्भीरशब्दाश्च महास्वनाश्च शङ्खाश्च भेर्यश्च नदन्ति यत्र। युयुत्सवश्चाप्रतीपा भवन्ति जयस्यैतद् भाविनो रूपमाहुः॥ इष्टा मृगाः पृष्ठतो वामतश्च सम्प्रस्थितानां च गमिष्यतां चा जिघांसतां दक्षिणाः सिद्धिमार्छ ये त्वग्रतस्ते प्रतिषेधन्ति॥ माङ्गल्यशब्दाशकुना वदन्ति हंसाः क्रौञ्चा: शतपत्राश्च चाषा:। हृष्टा योधाः सत्त्ववन्तो भवन्ति जयस्यैतद् भाविनो रूपमाहुः॥ शस्त्रैर्यन्त्रैः कवचैः केतुभिश्च सुभानुभिर्मुखवणैश्च यूनाम्। भ्राजिष्मती दुष्प्रतिवीक्षणीया येषां चमूस्तेऽभिभवन्ति शत्रून्॥ शुश्रूषवश्चानभिमानिनश्च परस्परं सौहृदमास्थिताश्च। येषां योधाः शौचमनुष्ठिताश्च जयस्यैतद् भाविनो रूपमाहुः॥ शब्दाः स्पर्शास्तथा गन्धा विचरन्ति मनः प्रियाः। धैर्यं चाविशते योधान् विजयस्य मुखं च तत्॥ इष्टो वामः प्रविष्टस्य दक्षिणः प्रविविक्षतः। पश्चात्संसाधयत्यर्थं पुरस्ताच्च निषेधति॥ सम्भृत्य महतीं सेनां चतुरङ्गां युधिष्ठिर। साम्नैव वर्तयेः पूर्वं प्रयतेथास्ततो युधि॥ जघन्य एष विजयो यद् युद्धं नाम भारत। यादृच्छिकोयुधि जयो दैवो वेति विचारणम्॥ अपामिव महावेगस्त्रस्ता इव महामृगाः। दुनिवार्यतमा चैव प्रभग्ना महती चमूः॥ भग्ना इत्येव भज्यन्ते विद्वांसोऽपि न कारणम्। उदारसारा महती रुरुसंघोपमा चमूः॥ परस्परज्ञाः संहृष्टास्त्यक्तप्राणाः सुनिश्चिताः। अपि पञ्चाशतं शूरा निघ्नन्ति परवाहिनीम्॥ अपि वा पञ्च षट् सप्त संहताः कृतनिश्चयाः। कुलीनाः पूजिताः सम्यग् विजयन्तीह शात्रवान्॥ संनियातो न मन्तव्यः शक्ये सति कथंचन। सान्त्वभेदप्रदानानां युद्धमुत्तरमुच्यते॥ संदर्शेनैव सेनाया भयं भीरून् प्रबाधते। वज्रादिव प्रज्वलितादियं क्व नु पतिष्यति॥ अभिप्रयातां समितिं ज्ञात्वा ये प्रतियान्त्यथ। तेषां स्यन्दन्ति गात्राणि योधानां विजयस्य च।॥ विषयो व्यथते राजन् सर्वः सस्थाणुजङ्गमः। अस्य प्रतापतप्तानां मज्जा सीदति देहिनाम्॥ तेषां सान्त्वं क्रूरमिश्रं प्रणेतव्यं पुनः पुनः। सम्पीड्यमाना हि पर्योगमायान्ति सर्वतः॥ आन्तराणां च भेदार्थं चरानभ्यवचारयेत्। यश्च तस्मात् परो राजा तेन सन्धिः प्रशस्यते॥ न हि तस्यान्यथा पीडा शक्या कर्तुं तथाविधा। यथा सार्धममित्रेण सर्वतः प्रतिबाधनम्॥ क्षमा वै साधुमायाति न ह्यसाधूक्षमा सदा। क्षमायाश्चाक्षमायाश्च पार्थ विद्धि प्रयोजनम्॥ विजित्य क्षममाणस्य यशो राज्ञो विवर्धते। महापराधे हाप्यस्मिन् विश्वसन्त्यपि शत्रवः॥ मन्यते कर्षयित्वा तु क्षमा साध्वीति शम्बरः। असंतप्तं तु यद् दारु प्रत्येति प्रकृति पुनः॥ नैतत् प्रशंसन्त्याचार्या न च साधुनिदर्शनम्। अक्रोधेनाविनाशेन नियन्तव्याः स्वपुत्रवत्॥ द्वेष्यो भवति भूतानामुग्रो राजा युधिष्ठिर। मृदुमप्यवमन्यन्ते तस्मादुभयमाचरेत्॥ प्रहरिष्यन् ब्रूयात् प्रहरन्नापि भारत। प्रहत्य च कृपायीत शोचन्निव रुदनिवा॥ न मे प्रियं यनिहताः संग्रामे मामकैनरैः। न च कुर्वन्ति मे वाक्यमुच्यमानाः पुनः पुनः॥ अहो जीवितमाकाक्षेन्नेदृशो वधमर्हति! सुदुर्लभाः सुपुरुषाः संग्रामेष्वपलायिनः॥ कृतं ममाप्रियं तेन येनायं निहतो मधे। इति वाचा वदन् हन्तुन् पूजयेत रहोगतः॥ हन्तृणामाहतानां च यत् कुर्युरपराधिनः। क्रोशेद् बाहुं प्रगृह्यापि चिकीर्षन् जनसंग्रहम्॥ एवं सर्वास्ववस्थासु सान्त्वपूर्वं समाचरेत्। प्रियो भवति भूतानां धर्मज्ञो वीतभीनृपः॥ विश्वासं चात्र गच्छन्ति सर्वभूतानि भारत। विश्वस्तः शक्यते भोक्तुं यथाकाममुपस्थितः॥ तस्माद् विश्वासयेद् राजा सर्वभूतान्यमायया। सर्वतः परिरक्षेच्च यो महीं भोक्तुमिच्छति॥ युधिष्ठिर उवाच धार्मिकोऽर्थानसम्प्राप्य राजामात्यैः प्रबाधितः। च्युतः कोशाच्च दण्डाच्च सुखमिच्छन् कथं चरेत्॥ भीष्म उवाच अत्रायं क्षेमदर्शीय इतिहासोऽनुगीयते। तत् तेऽहं सम्प्रवक्ष्यामि तन्निबोध युधिष्ठिर।॥ क्षेमदर्शी नृपसुतो यत्र क्षीणबलः पुरा। मुनि कालकवृक्षीयमाजगामेति नः श्रुतम्। तं पप्रच्छानुसंगृह्य कृच्छ्रामापदमास्थितः॥ राजोवाच अर्थेषु भागी पुरुष ईहमानः पुनः पुनः। अलब्ध्वा मद्विधो राज्यं ब्रह्मन् किं कर्तुमर्हति॥ अन्यत्र मरणाद् दैन्यादन्यत्र परसंश्रयात्। क्षुद्रादन्यत्र चाचारात् तन्ममाचक्ष्व सत्तम॥ व्याधिना चाभिपन्नस्य मानसेनेतरेण वा। धर्मज्ञश्च कृतज्ञश्च त्वद्विधः शरणं भवेत्॥ निर्विद्यति नरः कामानिर्विद्य सुखमेधते। त्यक्त्वा प्रीतिं च शोकं च लब्ध्वा बुद्धिमयं वसु॥ सुखपाश्रयं येषामनुशोचामि तानहम्। मम ह्यर्थाः सुबहवो नष्टाः स्वप्न इवागताः॥ दुष्करं बत कुर्वन्ति महतोऽस्त्यिजन्ति ये। वयं त्वेतान् परित्यक्तुमसतोऽपि न शक्नुमः॥ इमामवस्थां सम्प्राप्तं दीनमार्तं श्रिया च्युतम्। यदन्यत् सुखमस्तीह तद् ब्रह्मन्ननुशाधि माम्॥ कौसल्येनैवमुक्तस्तु राजपुत्रेण धीमता। मुनिः कालकवृक्षीयः प्रत्युवाच महाद्युतिः॥ मुनिरुवाच पुरस्तादेव ते बुद्धिरियं कार्या विजानता। अनित्यं सर्वमेवैतदहं च मम चास्ति यत्॥ यत् किंचिन्मन्यसेऽस्तीति सर्वं नास्तीति विद्धि तत्। एवं न व्यथते प्राज्ञः कृच्छ्रामप्यापदं गतः॥ यद्धि भूतं भविष्यं च सर्वं तन्न भविष्यति। एवं विदितवेद्यस्त्वमधर्मेभ्यः प्रमोक्ष्यसे॥ यच्च पूर्वं समाहारे यच्च पूर्वं परे परे। सर्वं तन्नास्ति ते चैव तज्ज्ञात्वा कोऽनुसंज्वरेत्॥ भूत्वा च न भवत्येतदभूत्वा च भविष्यति। शोके न ह्यस्ति सामर्थ्यं शोकं कुर्यात् कथंचन॥ क्व नु तेऽद्य पिता राजन् क्व नु तेऽद्य पितामहः। न त्वं पश्यसि तानद्य न त्वां पश्यन्ति तेऽपि च॥ आत्मनोऽध्रुवतां पश्यंस्तांस्त्वं किमनुशोचसि। बुद्ध्या चैवानुबुद्ध्यस्व ध्रुवं हि न भविष्यसि॥ अहं च त्वं च नृपते सुहृदः शत्रवश्च ते। अवश्यं न भविष्यामः सर्वं च न भविष्यति॥ ये तु विंशतिवर्षा वै त्रिंशद्वर्षाश्च मानवाः। अर्वागेव हि ते सर्वे मरिष्यन्ति शरच्छतात्॥ अपि चेन्महतो वित्तान्न प्रमुच्येत पूरुषः। नैतन्ममेति तन्मत्वा कुर्वीत प्रियमात्मनः॥ अनागतं यन्न ममेति विद्यादतिक्रान्तं यन्न ममेति विद्यात्। दिष्टं बलीय इति मन्यमार्ना स्ते पण्डितास्तत्सतां स्थानमाहुः॥ अनाढ्याश्चापि जीवन्ति राज्यं चाप्यनुशासति। बुद्धिपौरुषसम्पन्नास्त्वया तुल्याधिका जनाः॥ न च त्वमिव शोचन्ति तस्मात् त्वमपि मा शुचः। किं न त्वं तैनरैः श्रेयांस्तुल्यो वा बुद्धिपौरुषैः॥ राजोवाच यादृच्छिकं सर्वमासीत् तद् राज्यमिति चिन्तये। ह्रियते सर्वमेवेदं कालेन महता द्विज॥ तस्यैव ह्रियमाणस्य स्त्रोतसेव तपोधन। फलमेतत् प्रपश्यामि यथालब्धेन वर्तयन्॥ मुनिरुवाच अनागतमतीतं च याथातथ्यविनिश्चयात्। नानुशोचेत कौसल्य सर्वार्थेषु तथा भव॥ अवाप्यान् कामयन्नर्थान् नानवाप्यान् कदाचन प्रत्युत्पन्नाननुभवनं मा शुचस्त्वमनागतान्॥ यथालब्धोपपन्नाथस्तथा कौसल्य रंस्यसे। कच्चिच्छुद्धस्वभावेन श्रिया हीनो न शोचसि॥ पुरस्ताद् भूतपूर्वत्वाद्धीनभाग्यो हि दुर्मतिः। धातारं गर्हते नित्यं लब्धार्थश्च न मृष्यते॥ अनर्हानपि चैवान्यान्मन्यते श्रीमतो जनान्। एतस्मात् कारणादेतद् दुःखं भूयोऽनुवर्तते॥ ईर्ष्याभिमानसम्पत्रा राजन् पुरुषमानिनः। कच्चित् त्वं न तथा राजन् मत्सरी कोसलाधिप।॥ सहस्व श्रियमन्येषां यद्यपि त्वयि नास्ति सा। अन्यत्रापि सती लक्ष्मी कुशला भुञ्जते सदा॥ श्रियं च पुत्रपौत्रं च मनुष्या धर्मचारिणः। योगधर्मविदो धीराः स्वयमेव त्यजन्त्युत॥ बहुसंकुसुकं दृष्ट्वा विधित्सासाधनेन च। तथान्ये संत्यजन्त्येव मत्वा परमदुर्लभम्॥ त्त्वं पुनः प्राज्ञरूप: सन् कृपणं परितप्यसे। अकाम्यान् कामयानोऽर्थान् पराधीनानुपद्रवान्॥ तां बुद्धिमुपजिज्ञासुस्त्क्मेवैतान् परित्यज। अनर्थाश्चार्थरूपेण ह्यश्चानर्थरूपिणः॥ अर्थायैव हि केषांचिद् धननाशो भवत्युत। आनन्त्यं तत्सुखं मत्वा श्रियमन्यः परीप्सति॥ रममाणः श्रिया कश्चिन्नान्यच्छ्रेयोऽभिमन्यते। तथा तस्येहमानस्य समारम्भो विनश्यति॥ कृच्छाल्लब्धमभिप्रेतं यदि कौसल्य नश्यति। तदा निर्विद्यते सोऽर्थात् परिभग्नक्रमो नरः॥ धर्ममेकेऽभिपद्यन्ते कल्याणाभिजना नराः। परत्र सुखमिच्छन्तो निर्विद्येयुश्च लौकिकात्॥ जीवितं संत्यजन्त्येके धनलोभपरा जनाः। न जीवितार्थं मन्यन्ते पुरुषा हि धनादृते॥ पश्य तेषां कृपणतां पश्य तेषामबुद्धिताम्। अध्रुवे जीविते मोहादर्थदृष्टिमुपाश्रिताः॥ संचये च विनाशान्ते मरणान्ते च जीवित। संयोगे च वियोगान्ते को नु विप्रणयेन्मनः॥ धनं वा पुरुषो राजन् पुरुषं वा पुनर्धनम्। अवश्यं प्रजहात्येव तद् विद्वान् कोऽनुसंज्वरेत्॥ अन्येषामपि नश्यन्ति सुहृदश्च धनानि च। पश्य वुद्ध्या मनुष्याणां राजन्नापदमात्मनः॥ नियच्छ यच्छ संयच्छ इन्द्रियाणि मनो गिरम्। प्रतिषेद्धा न चाप्येषु दुर्बलेष्वहितेष्वपि॥ प्राप्तिसृष्टेषु भावेषु व्यपकृष्टेष्वसम्भवे। प्रज्ञानतृप्तो विक्रान्तस्त्वद्विधो नानुशोचति॥ अल्पमिच्छन्नचपलो मृदुर्दान्तः सुनिश्चितः। ब्रह्मचर्योपपन्नश्च त्वद्विधो नैव शोचति॥ न त्वेव जाल्मी कापाली वृत्तिमेषितुमर्हसि। नृशंसवृत्तिं पापिष्ठां दुष्टां कापुरुषोचिताम्॥ अपि मूलफलाजीवो रमस्वैको महावने। वाग्यतः संगृहीतात्मा सर्वभूतदयान्वितः॥ सदृशं पण्डितस्यैतदीषादन्तेन दन्तिना। यदेको रमतेऽरण्येष्वारण्ये नैव तुष्यति॥ महाह्रदः संक्षुभित आत्मनैव प्रसीदति। एतदेवंगतस्याहं सुखं पश्यामि जीवितुम्॥ असम्भवे श्रियो राजन् हीनस्य सचिवादिभिः। दैवे प्रतिनिविष्टे च किं श्रेयो मन्यते भवान्॥ मुनिरुवाच अथ चेत् पौरुषं किंचित् क्षत्रियात्मनि पश्यसि। ब्रवीमि तां तु ते नीति राज्यस्य प्रतिपत्तये।।।। तां चेच्छक्नोषि निर्मातुं कर्म चैव करिष्यसि। शृणु सर्वमशेषेण यत् त्वां वक्ष्यामि तत्त्वतः॥ आचरिष्यसि चेत् कर्म महतोऽर्थानवाप्स्यसि। राज्यं राज्यस्य मन्त्रं वा महतीं वा पुनः श्रियम्॥ अथैतद् रोचते राजन् पुनर्वृहि ब्रवीमि ते। राजोवाच ब्रवीतु भगवान्नीतिमुपपन्नोऽस्म्यहं प्रभो॥ अमोघोऽयं भवत्वद्य त्वया सह समागमः। मुनिरुवाच हित्वा दम्भं च कामं च क्रोधं हर्ष भयं तथा॥ अप्यमित्राणि सेवस्व प्रणिपत्य कृताञ्जलिः। तमुत्तमेन शौचेन कर्मणा चाभिधारय॥ दातुमर्हति ते वित्तं वैदेहः सत्यसंगरः। प्रमाणं सर्वभूतेषु प्रग्रहं च भविष्यसि॥ ततः सहायान् सोत्साहान् ल्लप्स्यसेऽव्यसनाशुचीन्। वर्तमानः स्वशास्त्रेण संयतात्मा जितेन्द्रियः॥ अभ्युद्धरति चात्मानं प्रसादयति च प्रजाः। तेनैवत्व धृतिमता श्रीमता चाभिसत्कृतः॥ प्रमाणं सर्वभूतेषु गत्वा च ग्रहणं महत्। ततः सुहृद्बलं लब्ध्वा मन्त्रयित्वा सुमन्त्रिभिः॥ आन्तरैर्भेदयित्वारीन् बिल्वं बिल्वेन भेदय। परैर्वा संविदं कृत्वा बलमप्यस्य घातय॥ अलभ्या ये शुभा भावाः स्त्रियश्चाच्छादनानि च। शय्यासनानि यानानि महार्हाणि गृहाणि च॥ पक्षिणो मृगजातानि रसगन्धः फलानि च। तेष्वेव सज्जयेथास्त्वं यथा नश्यत्वयं परः॥ यद्येवं प्रतिषेद्धव्यो यापेक्षणमर्हति। न जातु विवृतः कार्यः शत्रुः सुनयमिच्छता॥ रमस्व परमामित्रे विषये प्राज्ञसम्मतः। भजस्व श्वेतकाकीयैर्मित्रधर्ममनर्थकैः॥ आरम्भांश्चास्य महतो दुश्चरांश्च प्रयोजय। नदीवच्च विरोधांश्च बलवद्भिर्विरुध्यताम्॥ उद्यानानि महार्हाणि शयनान्यासनानि च। प्रतिभोगसुखेनैव कोशमस्य विरेचय॥ यज्ञदाने प्रशाध्यस्मै ब्राह्मणाननुवर्ण्य तान्। ते त्वां प्रतिकरिष्यन्ति तं भोक्ष्यन्ति वृका इव॥ असंशयं पुण्यशीलः प्राप्नोति परमां गतिम्। त्रिविष्टपे पुण्यतमं स्थानं प्राप्नोति मानवः॥ कोशक्षये त्वमित्राणां वशं कौसल्य गच्छति। उभयत्र प्रयुक्तस्य धर्मेणाधर्म एव च।॥ फलार्थमूलं व्युच्छिद्येत् तेन नन्दन्ति शत्रवः। न चास्मै मानुषं कर्म दैवमस्योपवर्णय॥ असंशयं दैवपरः क्षिप्रमेव विनश्यति। याजयैनं विश्वजिता सर्वस्वेन वियुज्य तम्॥ ततो गच्छसि सिद्धार्थः पीड्यमानं महाजनम्। योगधर्ममिदं पुण्यं कंचिदस्योपवर्णयेत्॥ अपि त्यागं बुभूषेत कच्चिद् गच्छेदनामयम्। सिद्धेनौषधियोगेन सर्वशत्रुविनाशिना। नागानश्वान् मनुष्यांश्च कृतकैरुपघातयेत्॥ एते चान्ये च बहवो दम्भयोगाः सुचिन्तिताः। शक्या विषहता कर्तुं पुरुषेण कृतात्मना॥ युधिष्ठिर उवाच ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप। धर्मवृत्तं च वित्तं च वृत्त्युपायाः फलानि च॥ राज्ञां वित्तं च कोशं च कोशसंचयनं जयः। अमात्यगुणवृत्तिश्च प्रकृतीनां च वर्धनम्॥ पाड्गुण्यगुणकल्पश्च सेनावृत्तिस्तथैव च। परिज्ञानं च दुष्टस्य लक्षणं च सतामपि॥ समहीनाधिकानां च यथावल्लक्षणं च यत्। मध्यमस्य च तुष्ट्यर्थं यथा स्थेयं विवर्धता॥ क्षीणग्रहणवृत्तिश्च यथाधर्मं प्रकीर्तितम्। लघुना देशरूपेण ग्रन्थयोगेन भारत॥ विजिगीषोस्तथा वृत्तमुक्तं चैव तथैव ते। गणानां वृत्तिमिच्छामि श्रोतुं मतिमतां वर॥ यथा गणाः प्रवर्धन्ते न भिद्यन्ते च भारत। अरींश्च विजिगीषन्ते सुहृदः प्राप्नुवन्ति च।॥ भेदमूलो विनाशो हि गणानामुपलक्षये। मन्त्रसंवरणं दुःखं बहूनामिति मे मतिः॥ एतदिच्छाम्यहं श्रोतुं निखिलेन परंतप। यथा च ते न भिद्येरंस्तच्च मे वद पार्थिव॥ भीष्म उवाच गणानां च कुलानां च राज्ञां भरतसत्तम। वैरसंदीपनावेतौ लोभामर्षी नराधिप।॥ लोभमेको हि वृणुते ततोऽमर्षमनन्तरम्। तौ क्षयव्ययसंयुक्तावन्योन्यं च विनाशिनौ॥ चारमन्त्रबलादानैः सामदानविभेदनैः। क्षयव्ययभयोपायैः प्रकर्षन्तीतरेतरम्॥ तत्रादानेन भिद्यन्ते गणाः संघातवृत्तयः। भिन्ना विमनसः सर्वे गच्छन्त्यरिवशं भयात्॥ भेदे गणा विनेशुर्हि भिन्नास्तु सुजयाः परैः। तस्मात् संघातयोगेन प्रयतेरन् गणा: सदा॥ अर्थाश्चैवाधिगम्यन्ते संघातबलपौरुषैः। बाह्याश्च मैत्री कुर्वन्ति तेषु संघातवृत्तिषु॥ ज्ञानवृद्धाः प्रशंसन्ति शुश्रूषन्तः परस्परम्। विनिवृत्ताभि संधानाः संखमेधन्ति सर्वशः॥ धर्मिष्ठान् व्यवहारांश्च स्थापयन्तश्च शास्त्रतः। यथावत् प्रतिपश्यन्तो विवर्धन्ते गणोत्तमाः॥ पुत्रान् भ्रातृन् निगृह्णन्तो विनयन्तश्च तान् सदा। विनीतांश्च प्रगृह्णन्तो विवर्धन्ते गणोत्तमाः॥ चारमन्त्रविधानेषु कोशसंनिचयेषु च। नित्ययुक्ता महाबाहो वर्धन्ते सर्वतो गणाः॥ प्राज्ञाशूरान् महोत्साहान् कर्मसु स्थिरपौरुषान्। मानयन्तः सदा युक्ता विवर्धन्ते गणा नृप॥ द्रव्यवन्तश्च शूराश्च शस्त्रज्ञाः शास्त्रपारगाः। कृच्छ्रास्वापत्सु सम्मूढान् गणाः संतारयन्ति ते॥ क्रोधो भेदो भयं दण्डः कर्षणं निग्रहो वधः। नयत्यरिवशं सद्यो गणान् भरतसत्तम॥ तस्मान्मानयितव्यास्ते गणमुख्याः प्रधानतः । लोकयात्रा समायत्ता भूयसी तेषु पार्थिव॥ मन्त्रगुप्तिः प्रधानेषु चारश्चामित्रकर्षण। न गणाः कृत्स्नशो मन्त्रं श्रोतुमर्हन्ति भारत॥ गणमुख्यैस्तु सम्भूय कार्यं गणहितं मिथः! पृथग्गणस्य भिन्नस्य विततस्य ततोऽन्यथा॥ अर्थाः प्रत्यवसीदन्ति तथाना भवन्ति च। तेषामन्योन्यभिन्नानां स्वशक्तिमनुतिष्ठताम्॥ निग्रहः पण्डितैः कार्यः क्षिप्रमेव प्रधानतः। कुलेषु कलहा जाताः कुलवृद्धैरुपेक्षिताः॥ गोत्रस्य नाशं कुर्वन्ति गणभेदस्य कारकम्। आभ्यन्तरं भयं रक्ष्यमसारं बाह्यतो भयम्॥ आभ्यन्तरं भयं राजन् सद्यो मूलानि कृन्तति। अकस्मात् क्रोधमोहाभ्यां लोभाद् वापि स्वभावजात्।। अन्योन्यं नाभिभाषन्ते तत्पराभवलक्षणम्। जात्या च सदृशाः सर्वे कुलेन सदृशास्तथा॥ न चोद्योगेन बुद्ध्या वा रूपद्रव्येण वा पुनः। तस्मात् संघातमेबाहुर्गणानां शरणं महत्॥ युधिष्ठिर उवाच महानयं धर्मपथो बहुशाखश्च भारत। किंस्विदेवेह धर्माणामनुष्ठेयतमं मतम्॥ किं कार्यं सर्वधर्माणां गरीयो भवतो मतम्। यथाहं परमं धर्ममिह च प्रेत्य चाप्नुयाम्॥ भीष्म उवाच मातापित्रोर्गुरूणां च पूजा बहुमता मम। इह युक्तो नरो लोकान् यशश्च महदश्नुते॥ यच्च तेऽभ्यनुजानीयुः कर्म तात सुपूजिताः। धर्माधर्मविरुद्धं वा तत् कर्तव्यं युधिष्ठिर॥ न च तैरभ्यनुज्ञातो धर्ममन्यं समाचरेत्। यं च तेऽभ्यनुजानीयुः स धर्म इति निश्चयः॥ एत एव त्रयो लोका एत एवाश्रमास्त्रयः। एत एव त्रयो वेदा एत एव त्रयोऽग्नयः॥ पिता वै गार्हपत्योऽग्निर्दक्षिणः स्मृतः। गुरुराहवनीयस्तु साग्नित्रेता गरीयसी॥ त्रिष्वप्रमाद्यन्नेतेषु त्रील्लोकांश्च विजेष्यसि। पितृवृत्त्या त्विमं लोकं मातृवृत्त्या तथा परम्॥ ब्रह्मलोकं गुरोर्वृत्त्या नियमेन तरिष्यसि। सम्यगेतेषु वर्तस्व त्रिषु लोकेषु भारत॥ यशः प्राप्स्यसि भद्रं ते धर्मं च सुमहत्फलम्। नैतानतिशयेज्जातु नात्यश्नीयान्न दूषयेत्॥ नित्यं परिचरेच्चैव तद् वै सुकृतमुत्तमम्। कीर्तिं पुण्यं यशो लोकान् प्राप्स्यसे राजसत्तम॥ सर्वे तस्यादृता लोका यस्यैते त्रय आदृताः। अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः॥ न चायं न परो लोकस्तस्य चैव परंतप। अमानिता नित्यमेव यस्यैते गुरवस्त्रयः॥ न चास्मिन्नपरे लोके यशस्तस्य प्रकाशते। न चान्यदपि कल्याणं परत्र समुदाहृतम्॥ तेभ्य एव हि यत् सर्वं कृत्वा च विसृजाम्यहम्। तदासीन्मे शतगुणं सहस्रगुणमेव च॥ तस्मान्मे सम्प्रकाशन्ते त्रयो लोका युधिष्ठिर। दशैव तु सदाऽऽचार्यः श्रोत्रियानतिरिच्यते॥ दशाचार्यानुपाध्याय उपाध्यायान् पिता दश। पितॄन् दश तु मातैका सर्वा वा पृथिवीमपि॥ गुरुत्वेनाभिभवति नास्ति मातृसमो गुरुः। गुरुर्गरीयान् पितृतो मातृतश्चेति मे मतिः॥ उभौ हि मातापितरौ जन्मन्येवोपयुज्यतः। शरीरमेव सृजतः पिता माता च भारत॥ आचार्यशिष्टा या जातिः सा दिव्या साजरामरा। अवध्या हि सदा माता पिता चाप्यपकारिणौ॥ न संदुष्यति तत् कृत्वा न च ते दूषयन्ति तम्। धर्माय यतमानानां विदुर्देवा महर्षिभिः॥ यश्चावृणोत्यवितथेन कर्मणा ऋतं ब्रुवन्ननृतं सम्प्रयच्छन्। तं वै मन्येत पितरं मातरं च तस्मै न दुह्येत् कृतमस्य जानन्।॥ विद्यां श्रुत्वा ये गुरुं नाद्रियन्ते प्रत्यासन्ना मनसा कर्मणा वा। तेषां पापं भ्रूणहत्याविशिष्टं नान्यस्तेभ्यः पापकृदस्ति लोके। यथैव ते गुरुभिर्भावनीर्या स्तथा तेषां गुरवोऽभ्यर्चनीयाः॥ तस्मात् पूजयतिव्याश्च संविभज्याश्च यत्नतः। गुरवोऽर्चयितव्याश्च पुराणं धर्मभिच्छता॥ येन प्रीणाति पितरं तेन प्रीतः प्रजापतिः। प्रीणाति मातरं येन पृथिवी तेन पूजिता॥ येन प्रीणात्युपाध्यायं तेन स्याद् ब्रह्म पूजितम्॥ मातृतः पितृतश्चैव तस्मात् पूज्यतमो गुरुः॥ ऋषयश्च हि देवाश्च प्रीयन्ते पितृभिः सह। पूज्यमानेषु गुरुषु तस्मात् पूज्यतमो गुरुः॥ केनचिन्न च वृत्तेन ह्यववज्ञेयो गुरुर्भवेत्। न च माता न च पिता मन्यते यादृशो गुरुः॥ न तेऽवमानमर्हन्ति न तेषां दूषयेत् कृतम्। गुरूणामेव सत्कारं विदुर्देवा महर्षिभिः॥ उपाध्यायं पितरं मातरं च येऽभिद्रुह्यन्ते मनसा कर्मणा वा। तेषां पापं भ्रूणहत्याविशिष्टं तस्मान्नान्यः पापकृदस्ति लोके॥ भृतो वृद्धो यो न बिभर्ति पुत्रः स्वयोनिजः पितरं मातरं च। तद् वै पापं भ्रूणहत्याविशिष्टं तस्मान्नान्य पापकृदस्ति लोके।॥ मित्रद्रुहः कृतघ्नस्य स्त्रीघ्नस्य गुरुघातिनः। चतुर्णां वयमेतेषां निष्कृतिं नानुशुश्रुम॥ एतत्सर्वमनिर्देशेनैवमुक्तं यत्कर्तव्यं पुरुषेणेह लोके। एतच्छ्रेयो नान्यदस्माद्विशिष्टं सर्वान् धर्माननुसृत्यैतदुक्तम्॥ युधिष्ठिर उवाच कथं धर्मे स्थातुमिच्छन् नरो वर्तेत भारत। विद्वन् जिज्ञासमानाय प्रब्रूहि भरतर्षभ॥ सत्यं चेवानृतं चोभे लोकानावृत्य तिष्ठतः। दयोः किमाचरेद् राजन् पुरुषो धर्मनिश्चितः॥ किंस्वित् सत्यं किमनृतं किंस्विद् धर्म्य सनातनम्। कस्मिन्काले वदेत्सत्यं कस्मिन्कालेऽनृतं वदेत्॥ भीष्म उवाच सत्यस्य वचनं साधु न सत्याद् विद्यते परम्। तु लोकेषु दुर्ज्ञानं तत् प्रवक्ष्यामि भारत॥ भवेत् सत्यं न वक्तव्यं वक्तव्यमनृतं भवेत्। यत्रानृतं भवेत् सत्यं सत्यं वाप्यनृतं भवेत्॥ तादृशो बध्यते बालो यत्र सत्यमनिष्ठितम्। सत्यानृते विनिश्चित्य ततो भवति धर्मवित्॥ अप्यनार्योऽकृतप्रज्ञः पुरुषोऽप्यतिदारुणः। सुमहत् प्राप्नुयात् पुण्यं बलाकोऽन्धवधादिव॥ किमाश्चर्यं च यन्मूढो धर्मकामोऽप्यधर्मवित्। सुमहत् प्राप्नुयात् पुण्यं गङ्गायामिव कौशिकः॥ तादृशोऽयमनुप्रश्नो यत्र धर्मः सुदुर्लभः। दुष्करः प्रतिसंख्यातुं तत् केनात्र व्यवस्यति॥ प्रभवार्थाय भूतानां धर्मप्रवचनं कृतम्। यः स्यात् प्रभवसंयुक्तः स धर्म इति निश्चयः॥ धारणाद् धर्ममित्याहुर्धर्मेण विधृताः प्रजाः। यः स्याद् धारणसंयुक्तः स धर्म इति निश्चयः॥ अहिंसाय भूतानां धर्मप्रवचनं कृतम्। यः स्यादहिंसासम्पृक्तः स धर्म इति निश्चयः॥ श्रुतिधर्म इति ह्येके नेत्याहुरपरे जनाः। न च तत्प्रत्यसूयामो न हि सर्वं विधीयते॥ येऽन्यायेन जिहीर्षन्तो धनमिच्छन्ति कस्यचित्। तेभ्यस्तु न तदाख्येयं स धर्म इति निश्चयः॥ अकूजनेन चेन्मोक्षो नावकूजेत् कथंचन। अवश्यं कूजितव्ये वा शङ्करन् वाप्यकूजनात्॥ श्रेयस्तत्रानृतं वक्तुं सत्यादिति विचारितम्। यः पापैः सह सम्बन्धान्मुच्यते शपथादपि॥ न तेभ्योऽपि धनं देयं शक्ये सति कथंचन। पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत्॥ स्वशरीरोपरोधेन धनमादातुमिच्छतः। सत्यसम्प्रतिपत्त्यर्थं यद् ब्रूयुः साक्षिणः क्वचित्॥ अनुक्त्वा तत्र तद्वाच्यं सर्वे तेऽनृतवादिनः। प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत्॥ अर्थस्य रक्षणार्थाय परेषां धर्मकारणात्। परेषां सिद्धिमाकाङ्क्षन् नीचः स्याद् धर्मभिक्षुकः॥ प्रतिश्रुत्य प्रदातव्यः स्वकार्यस्तु बलात्कृतः। यः कश्चिद् धर्मसमयात् प्रच्युतो धर्मसाधनः॥ दण्डनैव स हन्तव्यस्तं पन्थानं समाश्रितः। च्युतः सदैव धर्मेभ्योऽमानवं धर्ममास्थितः॥ शठः स्वधर्ममुत्सृज्य तमिच्छेदुपजीवितुम्। सर्वोपायैर्निहन्तव्यः पापो निकृतिजीवनः॥ धनमित्येव पापानां सर्वेषामिह निश्चयः। अविषह्या ह्यसम्भोज्या निकृत्या पतनं गताः॥ च्युता देवमनुष्येभ्यो यथा प्रेतास्तथैव ते। निर्यज्ञास्तपसा हीना मा स्म तैः सह सङ्गमः॥ धननाशाद् दुःखतरं जीविताद् विप्रयोजनम्। अयं ते रोचतां धर्म इति वाच्यः प्रयत्नतः॥ न कश्चिदस्ति पापानां धर्म इत्येष निश्चयः। तथागतं च यो हन्यान्नासौ पापेन लिप्यते॥ स्वकर्मणा हतं हन्ति हत एव स हन्यते। तेषु यः समयं कश्चित् कुर्वीत हतबुद्धिषु॥ यथा काकाश्च गृध्राश्च तथैवोपधिजीविनः। अर्ध्वं देहविमोक्षात् ते भवन्त्येतासु योनिषु॥ यस्मिन् यथा वर्तते यो मनुर्घ्य स्तस्मिंस्तथा वर्तितव्यं स धर्मः। मायाचारो मायया बाधितव्यः साध्वाचारः साधुना प्रत्युपेयः॥ युधिष्ठिर उवाच क्लिश्यमानेषु भूतेषु तैस्तै वैस्ततस्ततः। दुर्गाण्यतितरेद् येन तन्मे ब्रूहि पितामह॥ आश्रमेषु यथोक्तेषु यथोक्तं ये द्विजातयः। वर्तन्ते संयतात्मानो दुर्गाण्यतितरन्ति ते॥ ये दम्भात्राचरन्ति स्म येषां वृत्तिश्च संयता। विषयांश्च निगृह्णन्ति दुर्गाव्यतितरन्ति ते॥ प्रत्याहु!च्यमाना ये न हिंसन्ति च हिंसिताः। प्रयच्छन्ति न याचन्ते दुर्गाण्यतितरन्ति ते॥ वासयन्त्यतिथीन् नित्यं नित्यं ये चानसूयकाः। नित्यं स्वाध्यायशीलाश्च दुर्गाण्यतितरन्ति ते॥ मात्रापित्रोश्च ये वृत्तिं वर्तन्ते धर्मकोविदाः। वर्जयन्ति दिवा स्वजं दुर्गाण्यतितरन्ति ते॥ ये वा पापं न कुर्वन्ति कर्मणा मनसा गिरा। निक्षिप्तदण्डा भूतेषु दुर्गाण्यतितरन्ति ते॥ ये नलोभानयन्त्यर्थान् राजानो रजसान्विताः। विषयान् परिरक्षन्ति दुर्गाण्यतितरन्ति ते॥ स्वेषु दारेषु वर्तन्ते न्यायवृत्तिमृतावृतौ। अग्निहोत्रपराः सन्तो दुर्गाण्यतितरन्ति ते॥ आहवेषु च ये शूरास्त्यक्त्वा मरणजं भयम्। धर्मेण जयमिच्छन्ति दुर्गाण्यतितरन्ति ते॥ ये वदन्तीह सत्यानि प्राणत्यागेऽप्युपस्थिते। प्रमाणभूता भूतानां दुर्गाण्यतितरन्ति ते॥ कर्माण्यकुहकार्थानि येषां वाचश्च सूनृताः। येषामाश्च सम्बद्धा दुर्गाण्यतितरन्ति॥ अनध्यायेषु ये विप्राः स्वाध्यायं नेह कुर्वते। तपोनिष्ठाः सुतपसो दुर्गाण्यतितरन्ति ते॥ ये तपश्च तपस्यन्ति कौमारब्रह्मचारिणः। विद्यावेदव्रतस्नाता दुर्गाण्यतितरन्ति ते॥ ये च संशान्तरजसः संशान्ततमसच ये। सत्त्वे स्थिता महात्मानो दुर्गाण्यतितरन्ति ते॥ येषां न कश्चित् त्रसति न त्रसन्ति हि कस्यचित्। येषामात्मसमो लोको दुर्गाण्यतितरन्ति ते॥ परश्रिया न तप्यन्ति ये सन्तः पुरुषर्षभाः। ग्राम्यादर्थानिवृत्ताश्च दुर्गाण्यतितरन्ति ते॥ सर्वान् देवान् नमस्यन्ति सर्वधर्मांश्च शृण्वते। ये श्रद्दधानाः शान्ताश्च दुर्गाण्यतितरन्ति ते॥ ये न मानित्वमिच्छन्ति मानयन्ति च ये परान्। मान्यमानान् नमस्यन्ति दुर्गाण्यतितरन्ति ते॥ ये च श्राद्धानि कुर्वन्ति तिथ्यां तिथ्यां प्रजार्थिनः। सुविशुद्धेन मनसा दुर्गाण्यतितरन्ति ते॥ ये क्रोधं संनियच्छन्ति क्रुद्धान् संशमयन्ति च। न च कुप्यन्ति भूतानां दुर्गाण्यतितरन्ति ते॥ मधु मांसं च ये नित्यं वर्जयन्तीह मानवाः। जन्मप्रभृति मद्यं च दुर्गाण्यतितरन्ति ते॥ यात्रार्थं भोजनं येषां संतानार्थं च मैथुनम्। वाक् सत्यवचनार्थाय दुर्गाण्यतितरन्ति ते॥ ईश्वर सर्वभूतानां जगतः प्रभवाप्ययम्। भक्ता नारायणं देवं दुर्गाण्यतितरन्ति ते॥ य एष पद्मरक्ताक्षः पीतवासा महाभुजः। सुहृद् भ्राता च मित्रं च सम्बन्धी च तथाच्युतः॥ य इमान् सकलॉल्लोकांश्चर्मवत् परिवेश्येत्। इच्छन् प्रभुर चिन्त्यात्मा गोविन्दः पुरुषोत्तमः॥ स्थितः प्रियहिते जिष्णोः स एष पुरुषोत्तमः। राजंस्तव च दुर्धर्षो वैकुण्ठः पुरुषर्षभ॥ य एनं संश्रयन्तीह भक्ता नारायणं हरिम्। ते तरन्तीह दुर्गाणि न चात्रास्ति विचारणा॥ दुर्गातितरणं ये च पठन्ति श्रावयन्ति च। कथयन्ति च विप्रेभ्यो दुर्गाण्यतितरन्ति ते॥ इति कृत्यसमुद्देशः कीर्तितस्ते मयानघ। तरन्ते येन दुर्गाणि परत्रेह च मानवाः॥ युधिष्ठिर उवाच किं पार्थिवेन कर्तव्यं किं च कृत्वा सुखी भवेत्। एतदाचक्ष्व तत्त्वेन सर्वधर्मभृतां वर॥ भीष्म उवाच हन्त तेऽहं प्रवक्ष्यामि शृणु कार्यकनिश्चयम्। यथा राज्ञेह कर्तव्यं यच्च कृत्वा सुखी भवेत्॥ न चैवं वर्तितव्यं स्म यथेदमनुशुश्रुमा उष्ट्रस्य तु महद् वृत्तं तन्निबोध युधिष्ठिर॥ जातिस्मरो महानुष्ट्रः प्राजापत्ये युगेऽभवत्। तपः सुमहदातिष्ठदरण्ये संशितव्रतः॥ तपसस्तस्य चान्तेऽथ प्रीतिमानभवद् विभुः। वरेण च्छन्दयामास ततश्चैनं पितामहः॥ उष्ट्र उवाच भगवंस्त्वत्प्रसादान्मे दीर्घा ग्रीवा भवेदियम्। योजनानां शतं साग्रं गच्छामि चरितुं विभो॥ एवमस्त्विति चोक्तः स वरदेन महात्मना। प्रतिलभ्य वरं श्रेष्ठं ययावुष्टः स्वकं वनम्॥ स चकार तदाऽऽलस्यं वरदानात् सुदुर्मतिः। न चैच्छच्चरितुं गन्तुं दुरात्मा कालमोहितः॥ स कदाचित् प्रसायैव तां ग्रीवां शतयोजनाम्। चचाराश्रान्तहृदयो वातश्चागात् ततो महान्॥ स गुहायां शिरो ग्रीवां निधाय पशुरात्मनः। आस्ते तु वर्षमभ्यागात् सुमहत् प्लावयज्जगत्॥ अथ शीतपरीताङ्गो जम्बुकः क्षुच्छ्रमान्वितः। सदारस्तां गुहामाशु प्रविवेश जलार्दितः॥ स दृष्ट्वा मांसजीवी तु सुभृशं क्षुच्छ्रमान्वितः। तु अभक्षयत् ततो ग्रीवामुष्ट्रस्य भरतर्षभ॥ यदा त्वबुध्यतात्मानं भक्ष्यमाणं स वै पशुः। तदा संकोचने यत्नमकरोद् भृशदुःखितः॥ यावदूर्ध्वमधश्चैव ग्रीवां संक्षिपते पशुः। तावत् तेन सदारेण जम्बुकेन स भक्षितः॥ स हत्वा भक्षयित्वा च तमुष्ट्र जम्बुकस्तदा। विगते वातवर्षे निश्चक्राम गुहामुखात्॥ एवं दुर्बुद्धिना प्राप्तमुष्ट्रेण निधनं तदा। आलस्यस्य क्रमात् पश्य महान्तं दोषमागतम्॥ त्वमप्येवंविधं हित्वा योगेन नियतेन्द्रियः। वर्तस्व बुद्धिमूलं तु विजयं मनुरब्रवीत्॥ बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत। तानि जवाजघन्यानि भारप्रत्यवराणि च॥ राज्यं तिष्ठति दक्षस्य संगृहीतेन्द्रियस्य च। आर्तस्य बुद्धिमूलं हि विजयं मनुरब्रवीत्॥ गुह्यं मन्त्रं श्रुतवतः सुसहायस्य चानघ। परीक्ष्यकारिणो ह्यास्तिष्ठन्तीह युधिष्ठिर। सहाययुक्तेन मही कृत्स्ना शक्या प्रशासितुम्॥ इदं हि सद्भिः कथितं विधिज्ञैः पुरा महेन्द्रप्रतिमप्रभाव। मयापि चोक्तं तव शास्त्रदृष्ट्या यथैव बुद्ध्वा प्रचरस्व राजन्॥ युधिष्ठिर उवाच राजा राज्यमनुप्राप्य दुर्लभं भरतर्षभ। अमित्रस्यातिवृद्धस्य कथं तिष्ठेदसाधनः॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। सरितां चैव संवादं सागरस्य च भारत॥ सुरारिनिलयः शश्वत्सागरः सरिताम्पतिः। पप्रच्छ सरितः सर्वाः संशयं जातमात्मनः॥ सागर उवाच समूलशाखान् पश्यामि निहतान् कायिनो दुमान्। युष्माभिरिह पूर्णाभिर्नास्तत्र न वेतसम्॥ अकायश्चाल्पसारश्च वेतसः कूलजश्च वः। अवज्ञया वा नानीतः किं च वा तेन वः कृतम्॥ तदहं श्रोतुमिच्छामि सर्वासामेव वो मतम्। यथा चेमानि कूलानि हित्वा नायाति वेतसः॥ तत्र प्राह नदी गङ्गा वाक्यमुत्तममर्थवत्। हेतुमद् ग्राहकं चैव सागरं सरिताम्पतिम्॥ गङ्गोवाच तिष्ठन्त्येते यथास्थान नगा टेकनिकेतनाः। ते त्यजन्ति ततः स्थान प्रातिलोम्यान्न वेतसः॥ वेतसो वेगमायातं दृष्ट्वा नमति नापरे। सरिद्वेगेऽव्यतिक्रान्ते स्थानमासाद्य तिष्ठति॥ कालज्ञः समयज्ञश्च सदा वश्यश्च नोद्धतः। अनुलोमस्तथास्तब्धस्तेन नाभ्येति वेतसः॥ मारुतोदकवेगेन ये नमन्त्युन्नमन्ति च। ओषध्यः पापदा गुल्मा न ते यान्ति पराभवम्॥ भीष्म उवाच यो हि शत्रोविवृद्धस्य प्रभोर्बन्धविनाशने। पूर्वं न सहते वेगं क्षिप्रमेव विनश्यति॥ सारासारं बलं वीर्यमात्मनो द्विषतश्च यः। जानन् विचरति प्राज्ञो न स याति पराभवम्॥ एवमेव यदा विद्वान् मन्यतेऽतिबलं रिपुम्। संश्रयेद् वैतसी वृत्तिमेतत् प्रज्ञानलक्षणम्॥ युधिष्ठिर उवाच विद्वान् मूर्खप्रगल्भेन मृदुतीक्ष्णेन भारत। आक्रुश्यमानः सदसि कथं कुर्यादरिंदम्॥ भीष्म उवाच श्रूयतां पृथिवीपाल यथैषोऽर्थोऽनुगीयते। सदा सुचेताः सहते नरस्येहाल्पमेधसः।। :॥ अरुष्यन् क्रुश्यमानस्य सुकृतं नाम विन्दति। दुष्कृतं चात्मनो मर्षी रुष्यत्येवापमाश् िवै॥ टिट्टिभं तमुपेक्षेत वाशमानमिवातुरम्। लोकविद्वेषमापन्नो निष्फलं प्रतिपद्यते॥ इति संश्लाघते नित्यं तेन पापेन कर्मणा। इदमुक्तो मया कश्चित् सम्मतो जनसंसदि॥ स तत्र वीडितः शुष्को मृतकल्पोऽवतिष्ठते। श्लाघन श्लाघनीयेन कर्मणा निरपत्रपः॥ उपेक्षितव्यो यत्नेन तादृशः पुरुषाधमः। यद् यद् ब्रूयादल्पमतिस्तत्तदस्य सहेद्बुधः॥ प्राकृतो हि प्रशंसन् वा निन्दन वा किं करिष्यति। वने काक इवाबुद्धिर्वाशमानो निरर्थकम्॥ यदि वाग्भिः प्रयोगः स्यात् प्रयोगे पापकर्मणः। वागेवार्थो भवेत् तस्य न ह्येवार्थो जिघांसत्तः॥ निषेकं विपरीतं स आचष्टे वृत्तचेष्टया। मयूर इव कौपीनं नृत्यं संदर्शयन्निव॥ यस्यावाच्यं न लोकेऽस्ति नाकार्यं चापि किंचन। वाचं तेन न संदध्याच्छुचिः संश्लिश्कर्मणा॥ प्रत्यक्षं गुणवादी यः परोक्षे चापि निन्दकः। स मानवः श्ववल्लोके नष्टलोकपरावरः॥ तादृग्जनशतस्यापि यद्ददाति जुहोति च। परोक्षेणापवादी यस्तं नाशयति तत्क्षणात्॥ तस्मात् प्राज्ञो नरः सद्यस्तादृशं पापचेतसम्। वर्जयेत् साधुभिर्वयं सारमेयामिषं यथा।॥ परिवादं ब्रुवाणो हि दुरात्मा वै महाजने। प्रकाशयति दोषांस्तु सर्पः फणमिवोच्छ्रितम्॥ तं स्वकर्माणि कुर्वाणं प्रतिकर्तुं य इच्छति। भस्मकूट इवाबुद्धिः खरो रजसि सज्जति॥ मनुष्यशालावृकमप्रशान्तं जनापवादे सततं निविष्टम्। मातङ्गमुन्मत्तमिवोन्नदन्तं त्यजेत तं श्वानमिवातिरौद्रम्॥ अधीरजुष्टे पथि वर्तमान दमादपेतं विनयाच्च पापम्। अरिव्रतं नित्यमभूतिकामं धिगस्तु तं पापमति मनुष्यम्॥ प्रत्युच्यमानस्त्वभिभूय एर्भि र्निशाम्य मा भूस्त्वमथार्तरूपः। उच्चस्य नीचेन हि सम्प्रयोगं विगर्हयन्ति स्थिरबुद्धयो ये॥ क्रुद्धो दशार्धेन हि ताडयेद् वा स पांसुभिर्वा विकिरेत् तुषैर्वा। विवृत्य दन्तांश्च विभीषयेद् वा सद्ध हि मूढे कुपिते नृशंसे॥ विगर्हणां परमदुरात्मना कृतां सहेत यः संसदि दुर्जनान्नरः। पठेदिदं चापि निदर्शनं सदा न वाड्मयं स लभति किंचिदप्रियम्॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। निदर्शनं परं लोके सज्जनाचरिते सदा॥ अस्यैवार्थस्य सदृशं यच्छ्रुतं मे तपोवने। जामदग्न्यस्य रामस्य यदुक्तमृषिसत्तमैः॥ वने महति कस्मिंश्चिदमनुष्यनिषेविते। ऋषिर्मूलफलाहारो नियतो नियतेन्द्रियः॥ दीक्षादमपरः शान्तः स्वाध्यायपरमः शुचिः। उपवासविशुद्धात्मा सततं सत्त्वमास्थितः॥ तस्य संदृश्य सद्भावमुपविश्स्य धीमतः। सर्वे सत्त्वाः समीपस्था भवन्ति वनचारिणः॥ सिंहव्याघ्रगणाः क्रूरा मत्ताश्चैव महागजाः। द्वीपिनः खङ्गभल्लूका ये चान्ये भीमदर्शनाः॥ ते सुखप्रश्नदाः सर्वे भवन्ति क्षतजाशनाः। तस्यर्षे: शिष्यवच्चैव न्यग्भूताः प्रियकारिणः॥ दत्त्वा च ते सुखप्रश्नं सर्वे यान्ति यथागतम्। ग्राम्यस्त्वेकः पशुस्तत्रनाजहात् स महामुनिम्॥ भक्तोऽनुरक्तः सततमुपवासकृशोऽबलः। फलमूलोदकाहारः शान्तः शिष्टाकृतिर्यथा॥ तस्यर्षेरुपविश्स्य पादमूले महामते। मनुष्यवद्गतो भावो स्नेहबद्धोऽभवद् भृशम्॥ ततोऽभ्ययान्महावीर्यो द्वीपी क्षतजभोजनः। स्वार्थमत्यन्तसंतुष्टः क्रूरकाल इवान्तकः॥ लेलिह्यमानस्तृषितः पुच्छास्फोटनतत्परः। व्यादितास्यः क्षुधाभुग्नः प्रार्थयानस्तदामिषम्॥ दृष्ट्वा तं क्रूरमायान्तं जीवितार्थी नराधिप। प्रोवाच श्वा मुनिं तत्र तच्छृणुष्व विशाम्पते॥ श्वशत्रुर्भगवन्नेष द्वीपी मां हन्तुमिच्छति। त्वत्प्रसादाद् भयं न स्यादस्मान्मम महामुने॥ तथा कुरु महाबाहो सर्वज्ञस्त्वं न संशयः। स मुनिस्तस्य विज्ञाय भावज्ञो भयकारणम्। रुतज्ञः सर्वसत्त्वानां तमैश्वर्यसमन्वितः॥ मुनिरुवाच न भयं द्वीपीनः कार्यं मृत्युतस्ते कथंचन। एष श्वरूपरहितो द्वीपी भवसि पुत्रक॥ ततः श्वा द्वीपितां नीतो जाम्बूनदनिभाकृतिः। चित्राङ्गो विस्फुरदंष्ट्रो वने वसति निर्भयः॥ तं दृष्ट्वा सम्मुखे द्वीपी आत्मनः सदृशं पशुम्। अविरुद्धस्ततस्तस्य क्षणेन समपद्यत॥ ततोऽभ्ययान्महारौद्रो व्यादितास्यः क्षुधान्वितः। द्वीपीनं लेलिहद्वको व्याघ्रो रुधिरलालसः॥ व्याघ्रं दृष्ट्वा क्षुधाभुग्नं दंष्ट्रिणं वनगोचरम्। द्वीपी जीवितरक्षार्थमृषिं शरणमेयिवान्॥ संवासजं परं स्नेहमृषिणा कुर्वता तदा। स द्वीपी व्याघ्रतां नीतो रिपूणां बलवत्तरः॥ ततो दृष्ट्वा स शार्दूलो नाहनत् तं विशाम्पते। स तु श्वा व्याघ्रतां प्राप्य बलवान् पिशिताशनः॥ न मूलफलभोगेषु स्पृहामप्यकरोत् तदा। यथा मृगपतिर्नित्यं प्रकाइक्षति वनौकसः। तथैव स महाराज व्याघ्रः समभवत् तदा॥ भीष्म उवाच व्याघ्रश्चोटजमूलस्थस्तृप्तः सुप्तो हतैर्मृगैः। नागश्चागात् तमुद् देशं मत्तो मेघ इवोद्धतः॥ प्रभिन्नकरटः प्रांशुः पद्मी विततकुम्भकः। सुविषाणो महाकायो मेघगम्भीरनिःस्वनः॥ तं दृष्ट्वा कुञ्जरं मत्तमायान्तं बलगर्वितम्। व्याघ्रो हस्तिभयात् त्रस्तस्तमृषि शरणं ययौ।॥ ततोऽनयत् कुञ्जरत्वं व्यानं तमृषिसत्तमः। महामेघनिभं दृष्ट्वा स भीतो ह्यभवद् गजः॥ ततः कमलपण्डानि शल्लकीगहनानि च। व्यचरत् स मुदायुक्तः पद्मरेणुविभूषितः॥ कदाचिद् भ्रममाणस्य हस्तिनः सम्मुखं तदा। ऋषे स्तस्योटजस्थस्य कालोऽगच्छन्निशानिशम्॥ अथाजगाम तं देशं केसरी केसरारुणः। गिरिकन्दरजो भीमः सिंहो नागकुलान्तकः॥ तं दृष्ट्वा सिंहमायान्तं नागः सिंहभयार्दितः। ऋषि शरणमापेदे वेपमानो भयातुरः॥ स ततः सिंहतां नीतो नागेन्द्रो मुनिना तदा। वन्यं नागणयत् सिंहं तुल्यजातिसमन्वयात्॥ दृष्ट्वा च सोऽभवत् सिंहो वन्यो भयसमन्वितः। स चाश्रमेऽवसत् सिंहस्तस्मिन्नेव महावने।॥ तद्भयात् पशवो नान्ये तपोवनसमीपतः। व्यदृश्यन्त तदा त्रस्ता जीविताकाक्षिणस्तथा॥ कदाचित् कालयोगेन सर्वप्राणिविहिंसकः। बलवान् क्षतजाहारो नानासत्त्वभयंकरः॥ अष्टपादूर्ध्वनयनः शरभो वनगोचरः। तं सिहं हन्तुमागच्छन्मुनेस्तस्य निवेशनम्॥ तं मुनिः शरभं चक्र बलोत्कटमरिंदम। ततः स शरभो वन्यो मुनेः शरभमग्रतः॥ दृष्ट्वा बलिनमत्युग्रं दुतं सम्प्राद्रवद् वनात्। स एवं शरभस्थाने संन्यस्तो मुनिना तदा॥ मुनेः पार्श्वगतो नित्यं शरभः सुखमाप्तवान्। ततः शरभसंत्रस्ताः सर्वे मृगगणास्तदा।॥ दिशः सम्प्राद्रवन् राजन् भयाज्जीवितकाक्षिणः। शरभोऽन्प्यतिसंहष्टो नित्यं प्राणिवधे रतः॥ फलमूलाशनं कर्तुं नैच्छत् स पिशिताशनः। ततो रुधिरतर्षेण बलिना शरभोऽन्वितः॥ इयेष तं मुनि हन्तुमकृतज्ञःश्वयोनिजः। ततस्तेन तपःशक्त्या विदितो ज्ञानचक्षुषा॥ विज्ञाय स महाप्राज्ञो मुनिः श्वानं तमुक्तवान्। श्वा त्वं द्वीपित्वमापन्नो द्वीपी व्याघ्रत्वमागतः॥ व्याघ्रान्नागो मदपटुर्नागः सिंहत्वमागतः। सिंहस्त्वं बलमापन्नो भूयः शरभतां गतः॥ मया स्नेहपरीतेन विसृष्टो न कुलान्वयः। यस्मादेवमपापं मां पाप हिंसितुमिच्छसि। तस्मात् स्वयोनिमापन्नः श्वैव त्वं हि भविष्यसि॥ ततो मुनिजनद्वेष्टा दुष्टात्मा प्राकृतोऽबुधः। ऋषिणा शरभः शप्तस्तद्रूपं पुनराप्तवान्॥ भीष्म उवाच स श्वाप्रकृतिमापन्नः परं दैन्यमुपागतः। ऋषिणा हुकृतः पापस्तपोवनबहिष्कृतः॥ एवं राज्ञा मतिमता विदित्वा सत्यशौचताम्। आर्जवं प्रकृतिं सत्यं श्रुतं वृत्तं कुलं दमम्॥ अनुक्रोशं बलं वीर्यं प्रभावं प्रश्रयं क्षमाम्। भृत्याये यत्र योग्याः स्युस्तत्र स्थाप्या: सुरक्षिताः॥ नापरीक्ष्य महीपाल: सचिवं कर्तुमर्हति। अकुलीननराकीर्णो न राजा सुखमेधते॥ कुलजः प्राकृतो राज्ञा स्वकुलीनतया सदा। न पापे कुरुते बुद्धि भिद्यमानोऽप्यनागसि॥ अकुलीनस्तु पुरुषः प्राकृतः साधुसंश्रयात्। दुर्लभैश्वर्यतां प्राप्तो निन्दितः शत्रुतां व्रजेत्॥ कुलीनं शिक्षितं प्राज्ञं ज्ञानविज्ञानपारगम्। सर्वशास्त्रार्थतत्त्वज्ञं सहिष्णुं देशजं तथा॥ कृतज्ञं बलवन्तं च क्षान्तं दान्तं जितेन्द्रियम्। अलुब्धं लब्धसंतुष्टं स्वामिमित्रवुभूषकम्॥ सचिवं देशकालज्ञं सत्त्वसंग्रहणे रतम्। सततं युक्तमनसं हितैषिणमदन्द्रितम्॥ युक्तचारं स्वविषये संधिविग्रहकोविदम्। राज्ञस्त्रिवर्गवेत्तारं पौरजानपदप्रियम्॥ खातकव्यूहतत्त्वज्ञं बलहर्षणकोविदम्। इङ्गित्ताकारतत्त्वज्ञं यात्राज्ञानविशारदम्॥ हस्तिशिक्षासु तत्त्वज्ञमहंकारविवर्जितम्। प्रगल्भं दक्षिणं दान्तं बलिनं युक्तकारिणम्॥ चौक्षं चौक्षजनाकीर्णं सुमुखं सुखदर्शनम्। नायकं नीतिकुशलं गुणचेशसमन्वितम्॥ अस्तब्धं प्रश्रितं श्लक्ष्णं मृदुवादिनमेव च। धीरं शूरं महर्द्धिं च देशकालोपपादकम्॥ सचिवं यः प्रकुरुते न चैनमवमन्यते। तस्य विस्तीर्यते राज्यं ज्योत्स्ना ग्रहपतेरिव॥ एतैरेव गुणैर्युक्तो राजा शास्त्रविशारदः। एष्टव्यो धर्मपरमः प्रजापालनतत्परः॥ शुश्रूषुः श्रुतवाश्रोता ऊहापोहविशारदः॥ मेधावी धारणायुक्तो यथान्यायोपपादकः। दान्तः सदा प्रियाभाषी क्षमावांश्च विपर्यये॥ दानाच्छेदे स्वयंकारी श्रद्धालुः सुखदर्शनः। आर्तहस्तप्रदो नित्यमाप्तामात्यो नये रतः॥ नाहंवादी न निर्द्वन्द्वो न यत्किचनकारकः। कृते कर्मण्यमात्यानां कर्ता भृत्यजनप्रियः॥ संगृहीतजनोऽस्तब्धः प्रसन्नवदनः सदा। सदा भृत्यजनापेक्षी न क्रोधी सुमहामनाः॥ युक्तदण्डो न निर्दण्डो धर्मकार्यानुशासनः। चारनेत्रः प्रजावेक्षी धर्मार्थकुशलः सदा॥ राजा गुणशताकीर्ण एष्टव्यस्तादृशो भवेत्। योधाश्चैव मनुष्येन्द्र सर्वे गुणगणैर्वृताः॥ अन्वेष्टव्याः सुपुरुषाः सहाया राज्यधारणे। न विमानयितव्यास्ते राज्ञा वृद्धिमभीप्सता॥ योधाः समरशौटीराः कृतज्ञाः शस्त्रकोविदाः। धर्मशास्त्रसमायुक्ताः पदातिजनसंवृताः॥ अभया गजपृष्ठस्था रथचर्याविशारदाः। इष्वस्त्रकुशला यस्य तस्येयं नृपतेमही॥ सर्वसंग्रहणे युक्तो नृपो भवति यः सदा। उत्थानशीलो मित्राढ्यः स राजा राजसत्तमः॥ शक्या चाश्वसहस्रेण वीरारोहेण भारत। संगृहीतमनुष्येण कृत्स्ना जेतुं वसुन्धरा॥ भीष्म उवाच एवं गुणयुतान् भृत्यान् स्वे स्वे स्थाने नराधिपः। नियोजयति कृत्येषु स राज्यफलमश्नुते॥ न श्वा स्वं स्थानमुत्क्रम्य प्रमाणमभिसत्कृतः। आरोष्यः श्वा स्वकात्स्थानादुत्क्रम्यान्यत् प्रमाद्यति॥ स्वजातिगुणसम्पन्नाः स्वेषु कर्मसु संस्थिताः। प्रकर्तव्या ह्यमात्यास्तु नास्थाने प्रक्रिया क्षमा।॥ अनुरूपाणि कर्माणि भृत्येभ्यो यः प्रयच्छति। स भृत्यगुणसम्पन्नो राजा फलमुपाश्नुते॥ शरभः शरभस्थाने सिंहः सिंह इवोर्जितः। व्याघ्रो व्याघ्र इव स्थाप्यो द्वीपी द्वीपी यथा तथा॥ कर्मस्विहानुरूपेषु न्यस्या भृत्या यथाविधि। प्रतिलोमं न भृत्यास्ते स्थाप्याः कर्मफलैषिणा॥ यः प्रमाणमतिक्रम्य प्रतिलोमं नराधिपः। भृत्यान् स्थापयतेऽबुद्धिर्न स रञ्जयते प्रजाः॥ न बालिशा न च क्षुद्रा नाप्राज्ञा नाजितेन्द्रियाः। नाकुलीना नराः सर्वे स्थाप्या गुणगणैषिणा॥ साधवः कुलजाः शूरा ज्ञानवन्तोऽनसूयकाः। अक्षुद्राः शुचयो दक्षाः स्युनरा: पारिपार्श्वकाः॥ न्यग्भूतास्तत्पराः शान्ताश्चौक्षाः प्रकृतिजैः शुभाः। स्वस्थानानपक्रुष्टा ये ते स्यू राज्ञा बहिश्चराः॥ सिंहस्य सततं पार्वे सिंह एवानुगो भवेत्। असिंहः सिंहसहितः सिंहवल्लभते फलम्॥ यस्य सिंहः श्रुभिः कीर्णः सिंहकर्मफले रतः। न स सिंहफलं भोक्तुं शक्तः श्वभिरुपासितः॥ एवमेतन्मनुष्येन्द्र शूरैः प्राज्ञैर्बहुश्रुतैः। कुलीनैः सह शक्येत कृत्स्ना जेतुं वसुन्धरा॥ नाविद्यो नानृजुः पार्श्वे नाप्राज्ञो नामहाधनः। संग्राह्यो वसुधापालै त्यो भृत्यवतां वर॥ बाणवद्विसृता यान्ति स्वामिकार्यपरा नराः। ये भृत्याः पार्थिवहितास्तेषां सान्त्वं प्रयोजयेत्॥ कोशश्च सततं रक्ष्यो यत्नमास्थाय राजभिः। कोशमूला हि राजानः कोशो वृद्धिकरो भवेत्॥ कोष्ठागारं च ते नित्यं ज्ञफीतैर्धान्यैःसुसंवृतम्। सदास्तु सत्सु संन्यस्तं धनधान्यपरो भव॥ नित्ययुक्ताश्च ते भृत्या भवन्तु रणकोविदाः। वाजिनां च प्रयोगेषु वैशारद्यमिहेष्यते॥ ज्ञातिबन्धुजनावेक्षी मित्रसम्बन्धिसंवृतः। पौरकार्यहितान्वेषी भव कौरवनन्दन॥ एषा ते नैष्ठिकी बुद्धिः प्रजास्वभिहिता मया। शुनो निदर्शनं तात किं भूयः श्रोतुमिच्छसि।॥ एषा ते नैष्ठिकी बुद्धिः प्रजास्वभिहिता मया। शुनो निदर्शनं तात किं भूयः श्रोतुमिच्छसि।॥ युधिष्ठिर उवाच राजवृत्तान्यनेकानि त्वया प्रोक्तानि भारत। पूर्वैः पूर्वनियुक्तानि राजधर्मार्थवेदिभिः॥१॥ तदेव विस्तरेणोक्तः पूर्वदृष्टं सतां मतम्। प्रणेयं राजधर्माणां प्रब्रूहि भरतर्षभ॥ भीष्म उवाच रक्षणं सर्वभूतानामिति क्षात्रं परं मतम्। तद् यथा रक्षणं कुर्यात् तथा शृणु महीपते॥ यथा बर्हाणि चित्राणि बिभर्ति भुजगाशनः। तथा बहुविधं राजा रूपं कुर्वीत धर्मवित्॥ तैक्ष्ण्यं जिह्मत्वमादाल्भ्यं सत्यमार्जवमेव च। मध्यस्थः सत्त्वमातिष्ठंस्तथा वै सुखमृच्छति॥ यस्मिन्नर्थे हितं यत् स्यात् तद्वर्ण रूपमादिशेत्। बहुरूपस्य राज्ञो हि सूक्ष्मोऽप्यर्थो न सीदति॥ नित्यं रक्षितमन्त्रः स्याद् यथा मूकः शरच्छिखी। श्लक्ष्णाक्षरतनुः श्रीमान् भवेच्छास्त्रविशारदः॥ आपद्वारेषु युक्तः स्याज्जलप्रस्त्रवणेष्विव। शैलवर्षोदकानीव द्विजान् सिद्धान् समाश्रयेत्। अर्थकामः शिखां राजा कुर्याद्धर्मध्वजोपमाम्॥ नित्यमुद्यतदण्डः स्यादाचरेदप्रमादतः। लोके चायव्ययौ दृष्ट्वा बृहवृक्षमिवास्त्रवत्॥ जावान् स्यात् स्वयूथ्येषु भौमानि चरणैः क्षिपेत्। जातपक्षः परिस्पन्देत् प्रेक्षेद् वैकल्यमात्मनः॥ दोषान् विवृणुयाच्छत्रोः परपक्षान् विधूनयेत्। काननेष्विव पुष्पाणि बहिरर्थान् समाचरन्॥ उच्छ्रितान् नाशयेत् स्फीतान् नरेन्द्रानचलोपमान्। श्रयेच्छायामविज्ञातां गुप्तं रणमुपाश्रयेत्॥ प्रावृषीवासितग्रीवो मज्जेत निशि निर्जने। मायूरेण गुणेनैव स्त्रीभिश्चालक्षितश्चरेत्॥ न जह्याच्च तनुत्राणं रक्षेदात्मानमात्मना। चारभूमिष्वभिगतान् पाशांश्च परिवर्जयेत्॥ प्रणयेद् वापि तां भूमि प्रणश्येद् गहने पुनः। हन्यात्क्रुद्धानतिविषांस्तान् जिह्मगतयोऽहितान्॥ नाशयेद् बलबर्हाणि संनिवासान् निवासयेत्। सदा बर्हिनिभः कामं प्रशस्तं कृतमाचरेत्। सर्वतश्चाददेत् प्रज्ञा पतङ्गं गहनेष्विव॥ एवं मयूरवद् राजा स्वराज्यं परिपालयेत्। आत्मवृद्धिकरी नीतिं विदधीत विचक्षणः॥ आत्मसंयमनं बुद्ध्या परबुद्ध्यावधारणम्। बुद्ध्या चात्मगुणप्राप्तिरेतच्छास्त्रनिदर्शनम्॥ परं विश्वासयेत् साम्ना स्वशक्तिं चोपलक्षयेत्। आत्मनः परिमर्शेन बुद्धि बुद्ध्या विचारयेत्॥ सान्त्वयोगमतिः प्राज्ञः कार्याकार्यप्रयोजकः। निगूढबुद्धेर्धारस्य वक्तव्ये वा कृतं तथा॥ स निकृष्टां कथां प्राज्ञो यदि बुद्ध्या बृहस्पतिः। स्वभावमेष्यते तप्तं कृष्णायसमिवोदके॥ अनुयुञ्जीत कृत्यानि सर्वाण्येव महीपतिः। आगमैरुपदिशनि स्वस्य चैव परस्य च॥ मृदुशीलं तथा प्राज्ञं शूरं चार्थविधानवित्। स्वकर्मणि नियुञ्जीत ये चान्ये च बलाधिकाः॥ अथ दृष्ट्वा नियुक्तानि स्वानुरूपेषु कर्मसु। सर्वांस्ताननुवर्तेत स्वरांस्तन्त्रीरिवायता॥ धर्माणामविरोधेन सर्वेषां प्रियमाचरेत्। ममायमिति राजा यः स पर्वत इवाचलः॥ व्यवसायं समाधाय सूर्यो रश्मीनिवायतान्। धर्ममेवाभिरक्षेत कृत्वा तुल्ये प्रियाप्रिये॥ कुलप्रकृतिदेशानां धर्मज्ञान् मृदुभाषिणः। मध्ये वयसि निर्दोषान् हिते युक्तानविक्लवान्॥ अलुब्धाशिक्षितान् दान्तान् धर्मेषु परिनिष्ठितान्। स्थापयेत् सर्वकार्येषु राजा धर्मार्थरक्षिणः॥ एतेन च प्रकारेण कृत्यानामागतिं गतिम्। युक्तः समनुतिष्ठेत तुष्टश्चारैरुपस्कृतः॥ अमोघक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षितुः । आत्मप्रत्ययकोशस्य वसुधैव वसुन्धरा॥ व्यक्तश्चानुग्रहो यस्य यथार्थश्चापि निग्रहः। गुप्तात्मा गुप्तराष्ट्रश्च स राजा राजधर्मवित्॥ नित्यं राष्ट्रमवेक्षेत गोभिः सूर्य इवोदितः। चरान् स्वनुचरान् विद्यात् तथा बुद्ध्या स्वयं चरेत्।। कालं प्राप्तमुपादद्यान्नार्थं राजा प्रसूचयेत्। अहन्यहनि संदुह्यान्महीं गामिव बुद्धिमान्॥ यथा क्रमेण पुष्पेभ्यश्चिनोति मधु षट्पदः। तथा द्रव्यमुपादाय राजा कुर्वीत संचयम्॥ यद्धि गुप्तावशिष्टं स्यात् तद्वित्तं धर्मकामयोः। संचयान्न विसर्गी स्याद् राजा शास्त्रविदात्मवान्॥ नार्थमल्पं परिभवेन्नावमन्येत शात्रवान्। बुद्ध्या तु बुद्ध्येदात्मानं न चाबुद्धिषु विश्वसेत्॥ धृतिर्दाक्ष्यं संयमो बुद्धिरात्मा धैर्य शौर्य देशकालाप्रमादः। अल्पस्य वा बहुनो वा विवृद्धौ धनस्यैतान्यष्ट समिन्धनानि॥ अग्निः स्तोको वर्धतेऽप्याज्यसिक्तो बीजं चैकं रोहसहस्रमेति। आयव्ययौ विपुलौ संनिशाम्य तस्मादल्पं नावमन्येत वित्तम॥ बालोऽप्यबालः स्थविरो रिपुर्यः सदा प्रमत्तं पुरुषं निहन्यात्। कालेनान्यस्तस्य मूलं हरेत कालज्ञाता पार्थिवानां वरिष्ठः॥ हरेत् कीर्ति धर्ममस्योपरुर्ध्या दर्थे दीर्घ वीर्यमस्योपहन्यात्। रिपुढेष्टा दुर्बलो वा बली वा तस्माच्छनोनॆव हीयेद् यतात्मा॥ क्षयं वृद्धिं पालनं संचयं वा बुद्ध्वाप्युभौ संहतौ सर्वकामौ। ततश्चान्यन्मतिमान्संदधीत तस्माद् राजा बुद्धिमत्तां श्रयेत॥ बुद्धिर्दीप्ता बलवन्तं हिनस्ति बलं बुद्ध्या पाल्यते वर्धमानम्। शत्रुर्बुद्ध्या सीदते वर्धमानो बुद्धेः पश्चात् कर्म यत्तत् प्रशस्तम्॥ सर्वान् कामान् कामयानो हि धीरः सत्त्वेनाल्पेनाप्नुते हीनदोषः। यश्चात्मानं प्रार्थयतेऽर्थ्यमानैः श्रेयःपात्रं पूरयते च नाल्यम्॥ तस्माद् राजा प्रगृहीतः प्रजासु मूलं लक्ष्म्याः सर्वशो ह्याददीत। दीर्घ कालं ह्यपि सम्पीड्यमानो विद्युत्सम्पातमपि वा नोजितः स्यात्॥ विद्या तपो वा विपुलं धनं वा सर्वं ह्येतद् व्यवसायेन शक्यम्। बुद्ध्यायत्तं तन्निवसेद् देहवत्सु तस्माद् विद्याद् व्यवसायं प्रभूतम्॥ यत्रासते मतिमन्तो मनस्विनः शको विष्णुर्यत्र सरस्वती च। वसन्ति भूतानि च यत्र नित्यं तस्माद् विद्वान् नावमन्येत देहम्॥ लुब्धं हन्यात् सम्प्रदानेन नित्यं लुब्धस्तृप्तिं परवित्तस्य नैति। सर्वो लुब्धः कर्मगुणोपभोगे योऽर्थींनो धर्मकामौ जहाति।॥ धनं भोगं पुत्रदारं समृद्धिं सर्वं लुब्धः प्रार्थयते परेषाम्। लुब्धे दोषाः सम्भवन्तीह सर्वे तस्माद् राजा न प्रगृह्णीत लुब्धम्॥ संदर्शनेन पुरुषं जघन्यमपि चोदयेत्। आरम्भान् द्विषतां प्राज्ञः सर्वार्थाश्च प्रसूदयेत्॥ धर्मान्वितेषु विज्ञाता मन्त्री गुप्तश्च पाण्डव। आप्तो राजा कुलीनश्च पर्याप्तो राजसंग्रह॥ विधिप्रयुक्तान् नरदेवधर्मा नुक्तान् समासेन निबोध बुद्ध्या। इमान् विदध्याद् व्यतिसृत्य यो वै राजा महीं पालयितुं स शक्तः॥ अनीतिजं यस्य विधानजं सुखं हठप्रणीतं विधिवत्प्रदृश्यते। न विद्यते तस्य गतिर्महीपर्ते न विद्यते राज्यसुखं ह्यनुत्तमम्॥ धनैर्विशिष्टान् मतिशीलपूजितान् गुणोपपन्नान् युधि दृष्टविक्रमान्। गुणेषु दृष्ट्वा न चिरादिवात्मवान् यतोऽभिसंधाय निहन्ति शात्रवान्॥ पश्येदुपायान् विविधैः क्रियापर्थे र्न चानुपायेन मतिं निवेशयेत्। श्रियं विशिष्टां विपुलं यशो धनं न दोषदर्शी पुरुषः समश्नुते॥ प्रीतिप्रवृत्तौ विनिवर्तितौ यथा सुहृत्सु विज्ञाय निवृत्य चोभयोः। यदेव मित्रं गुरुभारमावहेत् तदेव सुस्निग्धमुदाहरेद् बुधः॥ एतान् मयोक्तांश्चर राजधर्मान् नृणां च गुप्तौ मतिमादधत्स्व। अवाप्स्यसे पुण्यफलं सुखेन सर्वो हि लोको नृप धर्ममूलः॥ युधिष्ठिर उवाच अयं पितामहेनोक्तो राजधर्मः सनातनः। ईश्वरश्च महादण्डो दण्डे सर्वं प्रतिष्ठितम्॥ देवतानामृषीणां च पितृणां च महात्मनाम्। यक्षरक्ष:पिशाचानां साध्यानां च विशेषतः॥ सर्वेषां प्राणिनां लोके तिर्यग्योनिनिवासिनाम्। सर्वव्यापी महातेजा दण्डः श्रेयानिति प्रभो॥ इत्येवमुक्तं भवता दण्डे वै सचराचरम्। पश्यता लोकमासक्तं ससुरासुरमानुषम्। एतदिच्छाम्यहं ज्ञातुं तत्त्वेन भरतर्षभ॥ को दण्डः कीदृशो द डः किंरूपः किंपरायणः। किमात्मकः कथंभूतः कथंमूर्तिः कथं प्रभो॥ जागर्ति च कथं दण्डः प्रजास्ववहितात्मकः। कश्च पूर्वापरमिदं जागर्ति प्रतिपालयन्॥ कश्च विज्ञायते पूर्व को वरो दण्डसंज्ञितः। किंसंस्थश्च भवेद् दण्डः का वास्य गतिरुच्यते॥ भीष्म उवाच शृणु कौरव्य यो दण्डो व्यवहारो यथा च सः। यस्मिन् हि सर्वमायत्तं स दण्ड इह केवलः॥ धर्मस्याख्या महाराज व्यवहार इतीष्यते। तस्य लोपः कथं न स्याल्लोकेष्ववहितात्मनः॥ इत्येवं व्यवहारस्य व्यवहारत्वमिष्यते। अपि चैतत् पुरा राजन् मनुना प्रोक्तमादितः॥ सुप्रणीतेन दण्डेन प्रियाप्रियसमात्मना। प्रजा रक्षति यः सम्यग्धर्म एव स केवलः॥ यथोक्तमेतद् सचनं प्रागेव मनुना पुरा। यन्मयोक्तं मनुष्येन्द्र ब्रह्मणो वचनं महत्॥ प्रागिदं वचनं प्रोक्तमतः प्राग्वचनं विदुः। व्यवहारस्य चाख्यानद् व्यवहार इहोच्यते॥ दण्डे त्रिवर्गः सततं सुप्रणीते प्रवर्तते। दैवं हि परमो दण्डो रूपतोऽग्निरिवोत्थितः॥ नीलोत्पलदलश्यामश्चतुर्दष्ट्रश्चतुर्भुजः। अष्टपान्नैकनयनः शंकुकर्णोर्ध्वरोमवान्॥ जटी द्विजिह्वस्ताम्रास्यो मृगराजतनुच्छदः। एतद् रूपं बिभर्युग्रं दण्डो नित्यं दुराधरः॥ असिर्धनुर्गदा शक्तिस्त्रिशूलं मुद्गरः शरः। मुसलं परशुश्चक्रं पाशो दण्डष्टितोमराः॥ सर्वप्रहरणीयानि सन्ति यानीह कानिचित्। दण्ड एव स सर्वात्मा लोके चरति मूर्तिमान्॥ भिन्दंश्छिन्दन् रुजन् कृन्तन् दारयन् पाटयंस्तथा। घातयन्नभिधावंश्च दण्ड एव चरत्युत॥ असिर्विशसनो धर्मस्तीक्ष्णवर्मा दुराधरः। श्रीगर्भो विजयः शास्ता व्यवहारः सनातनः॥ शास्त्रं ब्राह्मणमन्त्राश्च शास्ता प्राग्वदतां वरः। धर्मपालोऽक्षरो देवः सत्यगो नित्यगोऽग्रजः॥ असंगो रुद्रतनयो मनुर्येष्ठः शिवंकरः। नामान्येतानि दण्डस्य कीर्तितानि युधिष्ठिर॥ दण्डो हि भगवान् विष्णुर्दण्डो नारायणः प्रभुः। शश्वद् रूपं महद् बिभ्रन्महान् पुरुष उच्यते॥ तथोक्ता ब्रह्मकन्येति लक्ष्मीर्वृत्तिः सरस्वती। दण्डनीतिर्जगद्धात्री दण्डो हि बहुविग्रहः॥ अर्थानौँ सुखं दुःखं धर्माधर्मों बलाबले। दौर्भाग्यं भागधेयं च पुण्यापुण्ये गुणागुणौ॥ कामाकामावृतुर्मासः शर्वरी दिवसः क्षणः। अप्रमादः प्रमादश्च हर्षक्रोधौ शमो दमः॥ दैवं पुरुषकारच मोक्षामोक्षौ भयाभये। हिंसाहिसे तपो यज्ञः संयमोऽथ विषाविषम्॥ अन्तश्चादिश्च मध्यं च कृत्यानां च प्रपञ्चनम्। मदः प्रमादो दर्पश्च दम्भो धैर्यं नयानयौ॥ अशक्तिः शक्तिरित्येवं मानस्तम्भौ व्ययाव्ययौ। विनयश्च विसर्गश्च कालाकालौ च भारत॥ अनृतं ज्ञानिता सत्यं श्रद्धाश्रद्धे तथैव च। क्लीबता व्यवसायश्च लाभालाभौ जयाजयौ॥ तीक्ष्णता मृदुता मृत्युरागमानागमौ तथा। विरोधशाविरोधश्च कार्याकार्य बलाबले॥ असूया चानसूया च धर्माधर्मों तथैव च। अपत्रपानपत्रपे ह्रीश्च सम्पद्विपत्पदम्॥ तेजः कर्माणि पाण्डित्यं वाक्शक्तिस्तत्त्वबुद्धिता। एवं दण्डस्य कौरव्य लोकेऽस्मिन् बहुरूपता॥ न स्याद् यदीह दण्डो वै प्रमथेयुः परस्परम्। भयाद् दण्डस्य नान्योन्यं मन्ति चैव युधिष्ठिर॥ दण्डेन रक्ष्यमाणा हि राजनहरहः प्रजाः। राजानं वर्धयन्तीह तस्माद् दण्डः परायणम्॥ व्यवस्थापयति क्षिप्रमिमं लोकं नरेश्वर। सत्ये व्यवस्थितो धर्मो ब्राह्मणेष्ववतिष्ठते॥ धर्मयुक्ता द्विजश्रेष्ठा वेदयुक्ता भवन्ति च। बभूव यज्ञो वेदेभ्यो यज्ञः प्रीणाति देवताः॥ प्रीताश्च देवता नित्यमिन्द्रे परिवदन्त्यपि। अन्नं ददाति शऋचाप्यनुगृह्णन्निमाः प्रजाः॥ प्राणाश्च सर्वभूतानां नित्यमन्ने प्रतिष्ठिताः। तस्मात् प्रजाः प्रतिष्ठन्ते दण्डो जागर्ति तासु च॥ एवं प्रयोजनश्चैव दण्डः क्षत्रियतां गतः। रक्षन् प्रजाः स जागर्ति नित्यं स्ववहितोऽक्षरः॥ ईश्वरः पुरुषः प्राणः सत्त्वं चित्तं प्रजापतिः। भूतात्मा जीव इत्येवं नामभिः प्रोच्यतेऽष्टभिः॥ धृतमैश्वर्यमेव च। बलेन यश्च संयुक्तः सदा पञ्चविधात्मकः॥ कुलं बहुधनामात्याः प्रज्ञा प्रोक्ता बलानि तु। आहार्यमष्टकैर्द्रव्यैर्बलमन्यद् युधिष्ठिर॥ हस्तिनोऽश्वा रथाः पत्ति वो विष्टिस्तथैव च। दैशिकाश्चाविकाश्चैव तदष्टाङ्गं बलं स्मृतम्॥ अददद् दण्डमेवास्मै अथवाङ्गस्य युक्तस्य रथिनो हस्तियायिनः। अश्वारोहा: पदाताश्च मन्त्रिणो रसदाश्च ये॥ भिक्षुकाः प्राड्विवाकाश्च मौहूर्ता दैवचिन्तकाः। कोशो मित्राणि धान्यं च सर्वोपकरणानि च॥ सप्तप्रकृति चाष्टाङ्गं शरीरमिह यद् विदुः। राज्यस्य दण्डमेवाङ्गं दण्डः प्रभव एव च।॥ ईश्वरेण प्रयत्नेन कारणात् क्षत्रियस्य च। दण्डो दत्तः समानात्मा दण्डो हीदं सनातनम्॥ राज्ञां पूज्यतमो नान्यो यथा धर्मः प्रदर्शितः। ब्रह्मणा लोकरक्षार्थं स्वधर्मस्थापनाय च॥ भर्तृप्रत्यय उत्पन्नो व्यवहारस्तथापरः। तस्माद् यः स हितो दृष्टो भर्तुप्रत्ययलक्षणः॥ व्यवहारस्तु वेदात्मा वेदप्रत्यय उच्यते। मौलश्च नरशार्दूल शास्त्रोक्तश्च तथा परः॥ उक्तो यश्चापि दण्डोऽसौ भर्तृप्रत्ययलक्षणः। ज्ञेयो नः स नरेन्द्रस्थौ दण्डः प्रत्यय एव च॥ दण्डः प्रत्ययदृष्टोऽपि व्यवहारात्मकः स्मृतः। व्यवहारः स्मृतो यश्च स वेदविषयात्मकः॥ यश्च वेदप्रसूतात्मा स धर्मो गुणदर्शनः। धर्मप्रत्यय उद्दिष्टो यथाधर्मं कृतात्मभिः॥ व्यवहारः प्रजागोप्ता ब्रह्मदिष्टो युधिष्ठिर। त्रीन् धारयति लोकान् वै सत्यात्मा भूतिवर्धनः॥ यश्च दण्डः स दृष्टो नो व्यवहारः सनातनः। व्यवहारश्च दृष्टो यः स वेद इति निश्चितम्॥ यश्च वेदः स वै धर्मो यश्च धर्मः स सत्पथः। ब्रह्मा पितामहः पूर्वं बभूवाथ प्रजापतिः॥ लोकानां स हि सर्वेषां ससुरासुररक्षसाम्। समनुष्योरगवतां कर्ता चैव स भूतकृत्॥ ततोऽन्यो व्यवहारोऽयं भर्तृप्रत्ययलक्षणः। तस्मादिदमथोवाच व्यवहारनिदर्शनम्॥ माता पिता च भ्राता च भार्या चैव पुरोहिताः। नादण्ड्यो विद्यते राज्ञो यः स्वधर्मे न तिष्ठति॥ भीष्म उवाच अत्राप्युदाहरन्तीपमितिहासं पुरातनम्। अङ्गेषु राजा द्युतिमान् वसुहोम इति श्रुतः॥ स राजा धर्मविन्नित्यं सह पत्न्या महातपाः। मुञ्जपृष्ठं जगामाथ पितृदेवर्षिपूजितम्॥ तत्र शृङ्गे हिमवतो मेरौ कनकपर्वते। यत्र मुजावटे रामो जटाहरणमादिशत्॥ तदाप्रभृति राजेन्द्र ऋषिभिः संशितव्रतैः। मुजपृष्ठ इति प्रोक्तः स देशो रुद्रसेवितः॥ स तत्र बहुभुिर्यक्तस्तदा श्रुतिमयैर्गुणैः। ब्राह्मणानामनुमतो देवर्षिसदृशोऽभवत्॥ तं कदाचिददीनात्मा सखा शक्रस्य मानितः। अभ्यगच्छन्महीपालो मान्धाता शत्रुकर्शनः॥ सोपसृत्य तु मान्धाता वसुहोमं नराधिपम्। दृष्ट्वा प्रकृष्टतयसं विनेतोऽग्रेऽभ्यतिष्ठत॥ वसुहोमोऽपि राज्ञो वै पाद्यमयँ न्यवेदयत्। सप्ताङ्गस्य तु राज्यस्य पप्रच्छ कुशलाव्यये॥ सद्भिराचरितं पूर्वं यथावदनुयायिनम्। अपृच्छद् वसुहोमस्तं राजन् किं करवाणि ते॥ सोऽब्रवीत्परमप्रीतो मान्धाता राजसत्तमम्। वसुहोमं महाप्राज्ञमासीनं कुरुनन्दन॥ मान्धातोवाच बृहस्पतेर्मतं राजन्नधीतं सकलं त्वया। तथैवोशनसं शास्त्रं विज्ञातं ते नरोत्तम॥ तदहं ज्ञातुमिच्छामि दण्ड उत्पद्यते कथम्। किं चास्य पूर्वं जागर्ति किं वा परममुच्यते॥ कथं क्षत्रियसंस्थश्च दण्डः सम्प्रत्यवस्थितः। ब्रूहि मे समुहाप्राज्ञ ददाम्याचार्यवेतनम्॥ वसुहोम उवाच शृणु राजन् यथा दण्डः सम्भूतो लोकसंग्रहः। प्रजाविनयरक्षार्थं धर्मस्यात्मा सनातनः॥ ब्रह्मा यियक्षुर्भगवान् सर्वलोकपितामहः। ऋत्विजं नात्मनस्तुल्यं ददर्शेति हि नः श्रुतम्॥ स गर्भ शिरसा देवो बहुवर्षाण्यधारयत्। पूर्णे वर्षसहस्रे तु स गर्भः क्षुवतोऽपतत्॥ स क्षुपो नाम सम्भूतः प्रजापतिररिंदम्। ऋत्विगासीन्महाराज यज्ञे तस्य महात्मनः॥ तस्मिन् प्रवृत्ते सत्रे तु ब्रह्मणः पार्थिवर्षभ। दृष्ट्रपप्रधानत्वाद् दण्डः सोऽन्तर्हितोऽभवत्॥ तस्मिन्नन्तर्हिते चापि प्रजानां संकरोऽभवत्। नैव कार्यं न वाकार्यं भोज्याभोज्यं न विद्यते॥ पेयापेये कुतः सिद्धिर्हिसन्ति च परस्परम्। गम्यागम्यं तदा नासीत् स्वं परस्वं च वै समम्॥ परस्परं विलुम्पन्ति सारमेया यथामिषम्। अबलान् बलिनो मन्ति निर्मर्यादमवर्तत॥ ततः पितामहो विष्णुं भगवन्तं सनातनम्। सम्पूज्य वरदं देवं महादेवमथाब्रवीत्॥ अत्र त्वमनुकम्पां वै कर्तुमर्हसि शंकर। संकरो न भवेदत्र यथा तद् वै विधीयताम्॥ ततः स भगवान् ध्यात्वा चिरं शूलवरायुधः। आत्मानमात्मना दण्डं ससृजे देवसत्तमः॥ तस्माच्च धर्मचरणानीतिर्देवी सरस्वती। ससृजे दण्डनीतिं सा त्रिषु लोकेषु विश्रुता॥ भूयः स भगवान् ध्यात्वा चिरं शूलवरायुधः। तस्य तस्य निकायस्य चकारैकैकमीश्वरम्॥ देवानामीश्वरं चक्रे देवं दशशतेक्षणम्। यमं वैवस्वतं चापि पितृणामकरोत् प्रभुम्॥ धनानां राक्षसानां च कुबेरमपि चेश्वरम्। पर्वतानां पति मेरुं सरितां च महोदधिम्॥ अर्पा राज्येऽसुराणां च विदधे वरुणं प्रभुम्। मृत्युं प्राणेश्वरमथो तेजसां च हुताशनम्॥ रुद्राणामपि चेशानं गोप्तारं विदधे प्रभुम्। महात्मानं महादेवं विशलाक्षं सनातनम्॥ वसिष्ठमीशं विप्राणां वसूनां जातवेदसम्। तेजसा भास्करं चक्रे नक्षत्राणां निशाकरम्॥ वीरुधामंशुमन्तं च भूतानां च प्रभुं वरम्। कुमारं द्वादशभुजं स्कन्दं राजानमादिशत्॥ कालं सर्वेशमकरोत् संहारविनयात्मकम्। मृत्योश्चतुर्विभागस्य दुःखस्य च सुखस्य च॥ ईश्वरः सर्वदेवस्तु राजराजो नराधिपः। सर्वेषामेव रुद्राणां शूलपाणिरिति श्रुतिः॥ तमेनं ब्रह्मणः पुत्रमनुजातं क्षुपं ददौ। प्रजानामधिपं श्रेष्ठं सर्वधर्मभृतामपि॥ महादेवस्ततस्तस्मिन् वृत्ते यज्ञे यथाविधि। दण्डं धर्मस्य गोप्तारं विष्णवे सत्कृतं ददौ॥ विष्णुरङ्गिरसे प्रादादङ्गिरा मुनिसत्तमः। प्रादादिन्द्रमरीचिभ्यां मरीचि गवे ददौ॥ भृगुर्ददावृषिभ्यस्तु दण्डं धर्मसमाहितम्। ऋषयो लोकपालेभ्यो लोकपालाः क्षुपाय च॥ क्षुपस्तु मनवे प्रादादादित्यतनयायं च। पुत्रेभ्यः श्राद्धदेवस्तु सूक्ष्मधर्मार्थकारणात्॥ विभज्य दण्डः कर्तव्यो धर्मेण न यदृच्छया। दुष्टानां निग्रहो दण्डो हिरण्यं बाह्यतः क्रिया॥ व्यङ्गत्वं च शरीरस्य वधो नाल्पस्य कारणात्। शरीरपीडास्तास्ताश्च देहत्यागो विवासनम्॥ तं ददौ सूर्यपुत्रस्तु मनुर्वे रक्षणार्थकम्। आनुपूर्व्याच्च दण्डोऽयं प्रजा जागर्ति पालयन्॥ इन्द्रो जागर्ति भगवानिन्द्रादग्निर्विभावसुः। अग्नेर्जागर्ति वरुणो वरुणाच्च प्रजापतिः॥ प्रजापतेस्ततो धर्मो जागर्ति विनयात्मकः। धर्माच्च ब्रह्मणः पुत्रो व्यवसायः सनातनः॥ व्यवसायात् ततस्तेजो जागर्ति परिपालयत्। ओषध्यस्तेजसस्तस्मादोषधीभ्यश्च पर्वताः॥ पर्वतेभ्यश्च जागर्ति रसो रसगुणात् तथा। जाति निर्ऋतिर्देवी ज्योतींषि निर्ऋतेरपि॥ वेदाः प्रतिष्ठाः ज्योतिर्यस्ततो हयशिराः प्रभुः। ब्रह्मा पितामहस्तस्माज्जागर्ति प्रभुरव्ययः॥ पितामहान्महादेवो जागर्ति भगवाशिवः। विश्वेदेवाः शिवाच्चापि विश्वेभ्यश्च तथर्षयः॥ ऋषिभ्यो भगवान् सोमः सोमाद् देवाः सनातनाः। देवेभ्यो ब्राह्मणा लोके जाग्रतीत्युपधारय॥ ब्राह्मणेभ्यश्च राजन्या लोकान् रक्षन्ति धर्मतः। स्थावरं जगमं चैव क्षत्रियेभ्यः सनातनम्॥ प्रजा जागर्ति लोकेऽस्मिन् दण्डो जागर्ति तासु च। सर्वं संक्षिपते दण्डः पितामहसमप्रभः॥ जागर्ति कालः पूर्वं च मध्ये चान्ते च भारत। ईश्वरः सर्वलोकस्य महादेवः प्रजापतिः॥ देवदेवः शिवः सर्वो जागर्ति सततं प्रभुः। कपर्दी शङ्गो रुद्रः शिवः स्थाणुरुमापतिः॥ इत्येष दण्डो विख्यात आदौ मध्ये तथावरे। भूमिपालो यथान्यायं वर्तेतानेन धर्मवित्॥ भीष्म उवाच इतीदं वसुहोमस्य शृणुयाद् यो मतं नरः। श्रुत्वा सम्यक् प्रवर्तेत सर्वान् कामानवाप्नुयात्॥ इति ते सर्वमाख्यातं यो दण्डो मनुजर्षभ। नियन्ता सर्वलोकस्य धर्माकान्तस्य भारत॥ युधिष्ठिर उवाच तात धर्मार्थकामानां श्रोतुमिच्छामि निश्चयम्। लोकयात्रा हि कार्येन तिष्ठेत् केषु प्रतिष्ठिता॥ धर्मार्थकामाः किंमूलास्त्रयाणां प्रभवश्च कः। अन्योन्यं चानुषज्जन्ते वर्तन्ते च पृथक् पृथक्॥ भीष्म उवाच यदा ते स्युः सुमनसो लोके धर्मार्थनिश्चये। कालप्रभवसंस्थासु सज्जन्ते च त्रयस्तदा॥ धर्ममूलः सदैवार्थः कामोऽर्थफलमुच्यते। संकल्पमूलास्ते सर्वे संकल्पो विषयात्मकः॥ विषयाचैव कात्स्न्येन सर्व आहारसिद्धये। मूलमेतत् त्रिवर्गस्य निवृत्तिर्मोक्ष उच्यते॥ धर्माच्छरीरसंगुप्तिधर्मार्थं चार्थ उच्यते। कामो रतिफलश्चात्र सर्वे ते च रजस्वला:॥ संनिकृष्टांश्चरेदेतान् न चैतान् मनसा त्यजेत्। विमुक्तस्तपसा सर्वान् धर्मादीन् कामनैष्ठिकान्॥ श्रेष्ठे बुद्धिस्त्रिवर्गस्य यदयं प्राप्नुयान्नरः। कर्मणा बुद्धिपूर्वेण भवत्यर्थो न वा पुनः॥ अर्थार्थमन्यद् भवति विपरीतमथापरम्। अनर्थार्थमवाप्यार्थमन्यत्राद्योपकारकम्। बुद्ध्याबुद्धिरिहार्थे न तदज्ञाननिकृष्टया।॥ अपध्यानमलो धर्मो मलोऽर्थस्य निगूहनम्। सम्प्रमोदमल: कामो भूयः स्वगुणवर्जितः॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। कामन्दकस्य संवादमाङ्गरिष्ठस्य चोभयोः॥ कामन्दमृषिमासीनमभिवाद्य नराधिपः। आङ्गरिष्ठोऽथ पप्रच्छ कृत्वा समयपर्ययम्॥ यः पापं कुरुते राजा काममोहबलात्कृतः। प्रत्यासन्नस्य तस्यर्षे किं स्यात् पापप्रणाशनम्॥ अधर्मं धर्म इति च योऽज्ञानादाचरेन्नरः। तं चापि प्रथितं लोके कथं राजा निवर्तयेत्॥ कामन्दक उवाच यो धर्मार्थी परित्यज्य काममेवानुवर्तते। स धर्मार्थपरित्यागात् प्रज्ञानाशमिहार्छति॥ प्रज्ञानाशात्मको मोहस्तथा धर्मार्थनाशकः। तस्मान्नस्तिकता चैव दुराचारश्च जायते॥ दुराचारान् यदा राजा प्रदुष्टान् न नियच्छति। तस्मादुद्विजते लोकः सर्पाद् वेश्मगतादिव॥ तं प्रजा नानुवर्तन्ते ब्राह्मणा न च साधवः। ततः संशयमाप्नोति तथा वध्यत्वमेति च॥ अपध्वस्तस्त्ववमतो दुःखं जीवितमृच्छति। जीवेच्च यदपध्वस्तस्तच्छुद्धं मरणं भवेत्॥ अत्रैतदाहुराचार्याः पापस्य परिगहणम्। सेवितव्या त्रयी विद्या सत्कारो ब्राह्मणेषु च॥ महामना भवेद् धर्मे विवहेच्च महाकुले। ब्राह्मणांश्चापि सेवेत क्षमायुक्तान् मनस्विनः॥ जपेदुदकशीलः स्यात् सततं सुखमास्थितः। धर्मान्वितान् सम्प्रविशेद् बहिः कृत्वेह दुष्कृती॥ प्रसादयेन्मधुरया वाचा वाप्यथ कर्मणा। तवास्मीति वदेन्नित्यं परेषां कीर्तयन् गुणान्॥ अपापो ह्येवमाचारः क्षिप्रं बहुमतो भवेत्। पापान्यपि हि कृच्छ्राणि शमयेन्नात्र संशयः॥ गुरवो हि परं धर्मं यं ब्रूयुस्तं तथा कुरु। गुरूणां हि प्रसादाद् वै श्रेयः परमवाप्स्यसि॥ युधिष्ठिर उवाच इमे जना नरश्रेष्ठ प्रशंसन्ति सदा भुवि। धर्मस्य शीलमेवादी ततो मे संशयो महान्॥शा यदि तच्छक्यमस्माभिर्जातुं धर्मभृतां वर। श्रोतुमिच्छामि तत् सर्वं यथैतदुपलभ्यते॥ कथं तत् प्राप्यते शीलं श्रोतुमिच्छामि भारत। किंलक्षणं च तत् प्रोक्तं ब्रूहि मे वदतां वरः॥ भीष्म उवाच पुरा दुर्योधनेनेह धृतराष्ट्राय मानद। आख्यातं तप्यमानेन श्रियं दृष्ट्वा तथागताम्॥ इन्द्रप्रस्थे महाराज तव सभ्रातृकस्य ह। सभायां चाह वचनं तत् सर्वं शृणु भारत॥ भवतस्तां सभां दृष्ट्वा समृद्धिं चाप्यनुत्तमाम्। दुर्योधनस्तदाऽऽसीनः सर्वं पित्रे न्यवेदयत्॥ श्रुत्वा हि धृतराष्ट्रश्च दुर्योधनवचस्तदा। अब्रवीत् कर्णसहितं दुर्योधनमिदं वचः॥ धृतराष्ट्र उवाच किमर्थं तप्यसे पुत्र श्रोतुमिच्छामि तत्त्वतः। श्रुत्वा त्वामनुनेष्यामि यदि सम्यग् भविष्यति॥ त्वया च महदैश्वर्यं प्राप्तं परपुञ्जय। किंकरा भ्रातरः सर्वे मित्रसम्बन्धिनः सदा॥ आच्छादयसि प्रावारान नासि पिशितौदनम्। आजानेया वहन्त्यश्वाः केनासि हरिणः कृशः॥ दुर्योधन उवाच दश तानि सहस्राणि स्नातकानां महात्मनाम्। भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने॥ दृष्ट्वा च तां सभां दिव्यां दिव्यपुष्पफलान्विताम्। अश्वांस्तित्तिरकल्माषान् वस्त्राणि विविधानि च॥ दृष्ट्वा तां पाण्डवेयानामृद्धिं वैश्रवणीं शुभाम्। अमित्राणां सुमहतीमनुशोचामि भारत॥ धृतराष्ट्र उवाच यदीच्छसि श्रियं तात तादृशी सा युधिष्ठिरे। विशिष्टां वा नरव्याघ्र शीलवान् भव पुत्रक॥ शीलेन हि त्रयो लोकाः शक्या जेतुं न संशयः। न हि किंचिदसाध्यं वै लोके शीलवतां भवेत्॥ एकरात्रेण मान्धाता त्र्यहेण जनमेजयः। सप्तरात्रेण नाभागः पृथिवीं प्रतिपेदिरे॥ एते हि पार्थिवाः सर्वे शीलवन्तो दयान्विताः। अतस्तेषां गुणक्रीता वसुधा स्वयमागता॥ दुर्योधन उवाच कथं तत् प्राप्यते शीलं श्रोतुमिच्छामि भारत। येन शीलेन तैः प्राप्ता क्षिप्रमेव वसुन्धरा॥ धृतराष्ट्र उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। नारदेन पुरा प्रोक्तं शीलमाश्रित्य भारत॥ प्रहादेन हृतं राज्यं महेन्द्रस्य महात्मनः। शीलमाश्रित्या दैत्येन त्रैलोक्यं च वशे कृतम्॥ ततो बृहस्पति शक्रः प्राञ्जलिः समुपस्थितः। तमुवाच महाप्राज्ञः श्रेय इच्छामि वेदितुम्॥ ततो बृहस्पतिस्तस्मै ज्ञानं नैःश्रेयसं परम्। कथयामास भगवान् देवेन्द्राय कुरूद्वह॥ एतावच्छ्रेय इत्येव बृहस्पतिरभाषत। इन्द्रस्तु भूयः पप्रच्छ को विशेषो भवेदिति॥ बृहस्पतिरुवाच विशेषोऽस्ति महांस्तात भार्गवस्य महात्मनः। अत्रागमय भद्रं ते भूय एवं सुरर्षभ॥ आत्मनस्तु ततः श्रेयो भार्गवात् सुमहातपाः। ज्ञानमागमयत् प्रीत्या पुनः स परमद्युतिः।।२५] तेनापि समनुज्ञातो भार्गवेण महात्मना। श्रेयोऽस्तीति पुनर्भूयः शुक्रमाह शतक्रतुः॥ भार्गवस्त्वाह सर्वज्ञः प्रहादस्य महात्मनः। ज्ञानमस्मि विशेषेणेत्युक्तो हृष्टश्च सोऽभवत्॥ स ततो ब्राह्मणो भूत्वा प्रहादं पाकशासनः। गत्वा प्रोवाच मेधावी श्रेय इच्छामि वेदितुम्॥ प्रहादस्त्वब्रवीद् विप्रं क्षणो नास्ति द्विजर्षभ। त्रैलोक्यराज्यसक्तस्य ततो नोपदिशामि ते॥ ब्राह्मणस्त्वब्रवीद् राजन् यस्मिन् काले क्षणो भवेत्। तदोपादेष्टुमिच्छामि यदाचयमनुत्तमम्॥ ततः प्रीतोऽभवद् राजा प्रह्लादो ब्रह्मवादिनः। तथेत्युक्त्वा शुभे काले ज्ञानतत्त्वं ददौ तदा॥ ब्राह्मणोऽपि यथान्यायं गुरुवृत्तिमनुत्तमाम्। चकार सर्वभावेन यदस्य मनसेप्सितम्॥ पृष्टश्च तेन बहुशः प्राप्तं कथमनुत्तमम्। त्रैलोक्यराज्यं धर्मज्ञ कारणं तद् ब्रवीहि मे। प्रह्लादोऽपि महाराज ब्राह्मणं वाक्यमब्रवीत्॥ प्रह्लाद उवाच नासूयामि द्विजान् विप्र राजास्मीति कदाचन। काव्यानि वदतां तेषां संयच्छामि वहामि च॥ ते विश्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा। ते मां काव्यपथे युक्तं शुश्रूषुमनसूयकम्॥ धर्मात्मानं जितक्रोधं नियतं संयतेन्द्रियम्। समासिञ्चन्ति शास्तारः क्षौद्रं मध्विव मक्षिकाः॥ सोऽहं वागाविद्यानां रसानामवलेहिता। स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः॥ एतत् पृथिव्याममृतमेतच्चक्षुरनुत्तमम्। यद् ब्राह्मणमुखे काव्यमेतच्छुत्वा प्रवर्तते॥ एतावच्छ्रेय इत्याह प्रह्लादो ब्रह्मवादिनम्। शुश्रूषितस्तेन तदा दैत्येन्द्रो वाक्यमब्रवीत्॥ यथावद् गुरुवृत्त्या ते प्रीतोऽस्मि द्विजसत्तमा वरं वृणीष्व भद्रं ते प्रदातास्मि न संशयः॥ कृतमित्येव दैत्येन्द्रमुवाच स च वै द्विजः। प्रह्लादस्त्वब्रवीत् प्रीतो गृह्यतां वर इत्युत॥ ब्राह्मण उवाच यदि राजन् प्रसन्नस्त्वं मम चेदिच्छसि प्रियम्। भवतः शीलमिच्छामि प्राप्तुमेष वरो मम॥ ततः प्रीतस्तु दैत्येन्द्रो भयमस्याभवन्महत्। वरे प्रदिष्टे विप्रेण नाल्पतेजायमित्युत॥ एवमस्त्विति स प्राह प्रह्लादो विस्मितस्तदा। उपाकृत्य तु विप्राय वरं दुःखान्वितोऽभवत्॥ दत्ते वरे गते विप्रे चिन्ताऽऽसीन्महती तदा। प्रह्लादस्य महाराज निश्चयं न च जग्मिवान्॥ तस्य चिन्तयतस्तावच्छायाभूतं महाद्युति। तेजो विग्रहवत् तात शरीरमजहात् तदा॥ तमपृच्छन्महाकायं प्रह्लादः को भवानिति। प्रत्याहतं तु शीलोऽस्मि त्यक्तो गच्छाम्यहं त्वया।॥ तस्मिन् द्विजोत्तमे राजन् वत्स्याम्यहमनिन्दिते। योऽसौ शिष्यत्वमागम्य त्वयि नित्यं समाहितः॥ तस्मिंस्तेजसि याते तु तादृगरूपस्ततोऽपरः॥ शरीरानिःसृतस्तस्य को भवानिति चाब्रवीत्। इत्युक्त्वान्तर्हितं तद् वै शक्रं चान्वाविशत् प्रभो। धर्म प्रह्लाद मां विद्धि यत्रासौ द्विजसत्तमः॥ तत्र यास्यामि दैत्येन्द्र यतः शीलं ततो ह्यहम्। ततोऽपरो महाराज प्रज्वलन्निव तेजसा॥ शरीरानिःसृतस्तस्य प्रह्लादस्य महात्मनः। को भवानिति पृष्टश्च तमाह स महाद्युतिः॥ सत्यं विद्ध्यसुरेन्द्राद्य प्रयास्ये धर्ममन्वहम्। तस्मिन्ननुगते सत्ये महान् वै पुरुषोऽपरः॥ निश्चक्राम ततस्तस्मात् पृष्टश्चाह महाबलः। वृत्तं प्रह्लाद मां विद्धि यतः सत्यं ततो ह्यहम्॥ तस्मिन् गते महाशब्दः शरीरात् तस्य निर्ययौ। पृष्टश्चाह बलं विद्धि यतो वृत्तमहं ततः॥ इत्युक्त्वा प्रययौ तत्र यतो वृत्तं नराधिप। ततः प्रभामयी देवी शरीरात् तस्य निर्ययौ॥ तामपृच्छत् दैत्येन्द्रः सा श्रीरित्येनमब्रवीत्। उषितास्मि स्वयं वीर त्वयि सत्यपराक्रम॥ त्वया त्यक्ता गमिष्यामि बलं ह्यनुगता ह्यहम्। ततो भयं प्रादुरासीत् प्रह्लादस्य महात्मनः॥ अपृच्छत् स ततो भूयः क्व यासि कमलालये। त्वं हि सत्यव्रता देवी लोकस्य परमेश्वरी। कश्चासौ ब्राह्मणश्रेष्ठस्तत्त्वमिच्छामि वेदितुम्॥ श्रीरुवाच स शक्रो ब्रह्मचारी यस्त्वत्तश्चैवोपशिक्षितः। त्रैलोक्ये ते यदैश्वर्यं तत् तेनापहृतं प्रभो॥ शीलेन हि त्रयो लोकास्त्वया धर्मज्ञ निर्जिताः। तद्विज्ञाय सुरेन्द्रेण तव शीलं हृतं प्रभो॥ धर्मः सत्यं तथा वृत्तं बलं चैव तथाप्यहम्। शीलमूला महाप्राज्ञ सदा नास्त्यत्र संशयः॥ भीष्म उवाच एवमुक्त्वा गता श्रीस्तु ते च सर्वे युधिष्ठिर। दुर्योधनस्तु पितरं भूय एवाब्रवीद् वचः॥ शीलस्य तत्त्वमिच्छामि वेत्तुं कौरवनन्दन। प्राप्यते च यथा शीलं तं चोपायं वदस्व मे॥ धृतराष्ट्र उवाच सोपायं पूर्वमुद्दिष्टं प्रह्लादेन महात्मना। संक्षेपेण तु शीलस्य शृणु प्राप्तिं नरेश्वर॥ अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा। अनुग्रहश्च दानं च शीलमेतत् प्रशस्यते॥ यदन्येषां हितं न स्यादात्मनः कर्म पौरुषम्। अपत्रपेत वा येन न तत् कुर्यात् कथंचन॥ तत्तु कर्म तथा कुर्याद् येन श्लाध्येत संसदि। शीलं समासेनैतत् ते कथितं कुरुसत्तम॥ यद्यप्यशीला नृपते प्राप्नुवन्ति श्रियं क्वचित्। न भुञ्जते चिरं तात समूलाश्च न सन्ति ते॥ एतद् विदित्वा तत्त्वेन शीलवान् भव पुत्रका यदीच्छसि श्रियं तात सुविशिष्टां युधिष्ठिरात्॥ भीष्म उवाच एतत् कथितवान् पुत्रे धृतराष्ट्रो नराधिपः। एतत् कुरुष्व कौन्तेय ततः प्राप्स्यसि तत्फलम्॥ युधिष्ठिर उवाच शीलं प्रधानं पुरुषे कथितं ते पितामह। कथं त्वाशा समुत्पन्ना या चाशा तद् वदस्व मे॥ संशयो मे महानेष समुत्पन्नः पितामह। छेत्ता च तस्य नान्योऽस्ति त्वत्तः परपुरजय॥ पितामहाशा महती ममासीद्धि सुयोधने। प्राप्ते युद्धे तु तद् युक्तं तत् कर्तायमिति प्रभो॥ सर्वस्याशा सुमहती पुरुषस्योपजायते। तस्यां विहन्यमानायां दुःखो मृत्युर्न संशयः॥ सोऽहं हताशो दुर्बुद्धिः कृतस्तेन दुरात्मना। धार्तराष्ट्रेण राजेन्द्र पश्य मन्दात्मतां मम॥ आशां महत्तरां मन्ये पर्वतादपि सदुमात्। आकाशादपि वा राजनप्रमेयैव वा पुनः॥ एषा चैव कुरुश्रेष्ठ दुर्विचिन्त्या सुदुर्लभा। दुर्लभत्वाच्च पश्यामि किमन्यद् दुर्लभं ततः॥ भीष्म उवाच अत्र ते वर्तयिष्यामि युधिष्ठिर निबोध तत्। इतिहासं सुमित्रस्य निर्वृत्तमृषभस्य च॥ सुमित्रो नाम राजर्षिर्हहयो मृगयां गतः। ससार स मृगं विद्ध्वा बाणेनानतपर्वणा॥ स मृगो बाणमादाय यथामितविक्रमः। स च राजा बलात् तूर्णं ससार मृगयूथपम्॥ ततो निम्न स्थलं चैव स मृगोऽद्रवदाशुगः। मुहूर्तमिव राजेन्द्र समेन स पथागमत्॥ ततः स राजा तारुण्यादौरसेन बलेन च। ससार बाणासनभृत् सखगोऽसौ तनुत्रवान्॥ ततो नदान नदीश्चैव पल्वलानि बनानि च। अतिक्रम्याभ्यतिक्रम्य ससारैको वनेचरः॥ स तु कामान्मृगो राजन्नासाद्यासाद्य तं नृपम्। पुनरभ्येति जवनो जवेन महता ततः॥ स तस्य बाणैर्बहुभिः समभ्यस्तो वनेचरः। प्रक्रीडन्निव राजेन्द्र पुनरभ्येति चान्तिकम्॥ पुनश्च जवमास्थाय जवनो मृगयूथपः। अतीत्यातीत्य राजेन्द्र पुनरभ्येति चान्तिकम्॥ तस्य मर्मच्छिदं घोरं तीक्ष्णं चामित्रकदर्शनः। समादाय शरं श्रेष्ठं कार्मुके तु तथासृजत्॥ ततो गव्यूतिमात्रेण मृगयूथपयूथपः। तस्य बाणपथं मुक्त्वा तस्थिवान् प्रहसन्निव॥ तस्मिन् निपतिते बाणे भूमौ ज्वलिततेजसि। प्रविवेश महारण्यं मृगो राजाप्यथाद्रवत्॥ भीष्म उवाच प्रविश्य स महारण्यं तापसानामथाश्रमम्। आससाद ततो राजा श्रान्तचोपाविशत् तदा।॥ तं कार्मुकधरं दृष्ट्वा श्रमार्तं क्षुधितं तदा। समेत्य ऋषयस्तस्मिन् पूजां चक्रुर्यथाविधि॥ स पूजामृषिभिर्दत्तां सम्प्रगृह्य नराधिपः। अपृच्छत् तापसान् सर्वांस्तपसो वृद्धिमुत्तमाम्॥ ते तस्य राज्ञो वचनं सम्प्रगृह्य तपोधनाः। ऋषयो राजशार्दूलं तमपृच्छन् प्रयोजनम्॥ केन भद्र सुखार्थेन सम्प्राप्तोऽसि तपोवनम्। पदातिर्बद्धनिस्त्रिंशो धन्वी बाणी नरेश्वर॥ एतदिच्छामहे श्रोतुं कुतः प्राप्तोऽसि मानद। कस्मिन् कुले तु जातस्त्वं किंनामा चासि ब्रूहि नः॥ ततः स राजा सर्वेभ्यो द्विजेभ्यः पुरुषर्षभ। आचचक्षे यथान्यायं परिचर्यां च भारत॥ हैहयानां, कुले जातः सुमित्रो मित्रनन्दनः। चरामि मृगयूथानि निनन् बाणैः सहस्रशः॥ बलेन महता गुप्तः सामात्यः सावरोधनः। मृगस्तु विद्धो बाणेन मया सरति शल्यवान्॥ तं द्रवन्तमनुप्राप्तो वनमेतद् यदृच्छया। भवत्सकाशं नष्टश्रीर्हताशः श्रमकर्शितः॥ किं नु दुःखमतोऽन्यद् वै यदहं श्रमकर्शितः। भवतामाश्रमं प्राप्तो हताशो भ्रष्टलक्षणः॥ न राजलक्षणत्यागो न पुरस्य तपोधनाः। दुःखं करोति तत् तीनं यथाऽऽशा विहता मम॥ हिमवान् वा महाशैलः समुद्रो वा महोदधिः। महत्त्वान्नान्वपद्येतां नभसो वान्तरं तथा॥ आशायास्तपसि श्रेष्ठास्तथा नान्तमहं गतः। भवतां विदितं सर्वं सर्वज्ञा हि तपोधनाः॥ भवन्तः सुमहाभागास्तस्मात् पृच्छामि संशयम्। आशावान् पुरुषो यः स्यादन्तरिक्षमथापि वा॥ किं नु ज्यायस्तरं लोके महत्त्वात् प्रतिभाति वः। एतदिच्छामि तत्त्वेन श्रोतुं किमिह दुर्लभम्॥ यदि गुह्यं न वो नित्यं तदा प्रब्रूत मा चिरम्। न गुह्यं श्रोतुमिच्छामि युष्मद्भयो द्विजसत्तमाः॥ भवत् तपोविघातो वा यदि स्याद् विरमे ततः। यदि वास्ति कथायोगो योऽयं प्रश्नो मयेरितः॥ एतत् कारणसामर्थ्यं श्रोतुमिच्छामि तत्त्वतः। भवन्तोऽपि तपोनित्या ब्रूयुरेतत् समन्विताः॥ भीष्म उवाच ततस्तेषां समस्तानामृषीणामृषिसत्तमः। ऋषभो नाम विप्रर्षिविस्मयन्निदमब्रवीत्॥ पुराहं राजशार्दूल तीर्थान्यनुचरन् प्रभो। समासादितवान् दिव्यं नरनारायणाश्रमम्॥ यत्र सा बदरी रम्या ह्रदो वैहायसस्तथा। यत्र चाश्वशिरा राजन् वेदान् पठति शाश्वतान्॥ तस्मिन् सरसि कृत्वाहं विधिवत् तर्पणं पुरा। पितृणां देवतानां च ततोऽऽश्रममियां तदा॥ रेमाते यत्र तौ नित्यं नरनारायणावृषी। अदूरादाश्रमं कञ्चिद् वासार्थमगमं तदा॥ तत्र चीराजिनधरं कृशमुच्चमतीव च। अद्राक्षमृषिमायान्तं तनुं नाम तपोधनम्॥ अन्यैर्नरैर्महाबाहो वपुषाष्टगुणान्वितम्। कृशता चापि राजर्षे न दृष्टा तादृशी क्वचित्॥ शरीरमपि राजेन्द्र तस्य कानिष्ठिकासमम्। ग्रीवा बाहू तथा पादौ केशाश्चाद्भुतदर्शनाः॥ शिरः कायानुरूपं न कर्णी नेत्रे तथैव च। तस्य वाक्चैव चेष्टा च सामान्ये राजसत्तम॥ दृष्ट्वाहं तं कृशं विप्रं भीतः परमदुर्मनाः। पादौ तस्याभिवाद्याथ स्थितः प्राञ्जलिरग्रतः॥ निवेद्य नामगोत्रे च पितरं च नरर्षभ। प्रदिष्टे चासने तेन शनैरहमुपाविशम्॥ ततः स कथयामास कथां धर्मार्थसंहिताम्। ऋषिमध्ये महाराज तनुर्धर्मभृतां वरः॥ तस्मिंस्तु कथयत्येव राजा राजीवलोचनः। उपायाज्जवनैरश्वैः सबल: सावरोधनः॥ स्मरन् पुत्रमरण्ये वै नष्टं परमदुर्मनाः। भूरिद्युम्नपिता श्रीमान् वीरद्युम्नो महायशाः॥ इह द्रक्ष्यामि तं पुत्रं द्रक्ष्यामीहेति पार्थिवः। एवमाशाहतो राजा चरन् वनमिदं पुरा॥ दुर्लभः स मया द्रष्टुं नूनं परमधार्मिकः। एकः पुत्रो महारण्ये नष्ट इत्यसकृत् तदा॥ दुर्लभः स मया द्रष्टुमाशा च महती मम। तया परीतगात्रोऽहं मुमूर्षुर्नात्र संशयः॥ एतच्छ्रुत्वा तु भगवांस्तनुर्मुनिवरोत्तमः। अवाक्शिरा ध्यानपरो मुहूर्तमिव तस्थिवान्।१८।। तमनुध्यान्तमालक्ष्य राजा परमदुर्मनाः। उवाच वाक्यं दीनात्मा मन्दं मन्दमिवासकृत्॥ दुर्लभं किं नु देवर्षे आशायाश्चैव कि महत्। ब्रवीतु भगवानेतद् यदि गुह्यं न ते मयि॥ मुनिरुवाच महर्षिभगवांस्तेन पूर्वमासीद् विमानितः। बालिशां बुद्धिमास्थाय मन्दभाग्यतयाऽऽत्मनः॥ अर्थयन् कलशं राजन् काञ्चनं वल्कलानि च। अवज्ञापूर्वकेनापि न सम्पादितवांस्ततः। निविण्णः स तु विप्रर्षिनिराशः समपद्यत॥ एवमुक्तोऽभिवाद्याथ तमृषि लोकपूजितम्। श्रान्तोऽवसीदद् धर्मात्मा यथा त्वं नरसत्तम॥ अर्घ्यं ततः समानीय पाद्यं चैव महानृषिः। आरण्येनैव विधिना राज्ञे सर्वं न्यवेदयत्।॥ ततस्ते मुनयः सर्वे परिवार्य नरर्षभम्। उपाविशन् नरव्याघ्र सप्तर्षय इव ध्रुवम्॥ अपृच्छंश्चैव तं तत्र राजानमपराजितम्। प्रयोजनमिदं सर्वमाश्रमस्य निवेशने॥ राजोवाच वीरद्युम्न इति ख्यातो राजाहं दिक्षु विश्रुतः। भूरिद्युम्नं सुतं नष्टमन्वेष्टुं वनमागतः॥ एकः पुत्रः स विप्राय बाल एव च मेऽनघ। न दृश्यते वने चास्मिंस्तमन्वेष्टुं चराम्यहम्॥ ऋषभ उवाच इत्येवमुक्ते वचने राज्ञा मुनिरधोमुखः। तूष्णीमेवाभवत् तत्र न च प्रत्युक्तवान् नृपम्॥ स हि तेन पुरा विप्रो राज्ञा नात्यर्थमानितः। आशाकृतश्च राजेन्द्र तपो दीर्घं समाश्रितः॥ प्रतिग्रहमहं राज्ञां न करिष्ये कथञ्चन। अन्येषां चैव वर्णानामिति कृत्वा धियं तदा॥ आशा हि पुरुषं बालमुत्थापयति तस्थुषी। तामहं व्यपनेष्यामि इति कृत्वा व्यवस्थितः। वीरद्युम्नस्तु तं भूयः पप्रच्छ मुनिसत्तमम्॥ राजोवाच आशायाः किं कृशत्वं च किं चेह भुवि दुर्लभम्। ब्रवीतु भगवानेतत् त्वं हि धर्मार्थदर्शिवान्॥ तत: संस्मृत्य तत् सर्वं स्मारयिष्यन्निवाब्रवीत्। राजानं भगवान् विप्रस्ततः कृशतनुस्तदा॥ ऋषिरुवाच कृशत्वेन समं राजन्नाशामा विद्यते नृप। तस्या वै दुर्लभत्वाच्च प्रार्थिताः पार्थिवा मया॥ राजोवाच कृशाकृशे मया ब्रह्मन् गृहीते वचनात् तव। दुर्लभत्वं च तस्यैव वेदवाक्यमिव द्विज॥ संशयस्तु महाप्राज्ञ संजातो हृदये मम तन्मुने मम तत्त्वेन वक्तुमर्हसि पृच्छतः॥ त्वत्तः कृशतरं किं नु ब्रवीतु भगवानिदम्। यदि गुह्यं न ते किञ्चिद् विद्यते मुनिसत्तम॥ कृश उवाच दुर्लभोऽप्यथवा नास्ति योऽर्थी धृतिमवाप्नुयात्। स दुर्लभतरस्तात योऽर्थिनं नावमन्यते॥ सत्कृत्य नोपकुरुते परं शक्त्या यथार्हतः। या सक्ता सर्वभूतेषु साऽऽशा कृशतरी मया॥ कृतघ्नेषु च या सक्ता नृशंसेष्वलसेषु च। अपकारिषु चासत्ता साऽऽशा कृशतरीमया॥ एकपुत्रः पिता पुत्रे नष्टे वा प्रोषितेऽपि वा। प्रवृत्तिं यो न जानाति साऽऽशा कृशतरी मया॥ प्रसवे चैव नारीणां वृद्धानां पुत्रकारिता। तथा नरेन्द्र धनिनां साऽऽशा कृशतरी मया।॥ प्रदानकाक्षिणीनां च कन्यानां वयसि स्थिते। श्रुत्वा कथास्तथायुक्ताः साऽऽशा कृशतरी मया॥ एतच्छ्रुत्वा ततो राजन् स राजा सावरोधनः। संस्पृश्य पादौ शिरसा निपपात द्विजर्षभम्॥ राजोवाच प्रसादये त्वां भगवन् पुत्रेणेच्छामि संगमम्। यदेतदुक्तं भवता सम्प्रति द्विजसत्तम॥ ऋषभ उवाच सत्यमेतन्न संदेहो यदेतद् व्याहृतं त्वया। ततः प्रहस्य भगवांस्तनुर्धर्मभृतां वरः॥ पुत्रमस्यानयत् क्षिप्रं तपसा च श्रुतेन च। स समानीय तत्पुत्रं तमुपालभ्य पार्थिवम्॥ आत्मानं दर्शयामास धर्म धर्मभृतां वरः। स दर्शयित्वा चात्मानं दिव्यमद्भुतदर्शनम्। विपाष्मा विगतक्रोधश्चचार वनमन्तिकात्॥ एतद् दृष्टं मया राजंस्तथा च वचनं श्रुतम्। आशामपनयस्वाशु ततः कृशतरीमिमाम्॥ भीष्म उवाच स तथोक्तस्तदा राजन् ऋषभेण महात्मना। सुमित्रोऽपनयत् क्षिप्रमाशां कृशतरी ततः॥ एवं त्वमपि कौन्तेय श्रुत्वा वाणीमिमां मम। स्थिरो भव महाराज हिमवानिव पर्वतः॥ त्वं हि प्रष्टा च श्रोता च कृच्छ्रेष्वनुगतेष्विह। श्रुत्वा मम महाराज न संतप्तुमिहार्हसि॥ युधिष्ठिर उवाच नामृतस्येव पर्याप्तिर्ममास्ति ब्रुवति त्वयि। यथा हि स्वात्मवृत्तिस्थस्तथा तृप्तोऽस्मि भारत॥ तस्मात् कथय भूयस्त्वं धर्ममेव पितामह। न हि तृप्तिमहं यामि पिबन् धर्मामृतं हि ते॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। गौतमस्य च संवादं यमस्य च महात्मनः॥ पारियानं गिरिं प्राप्य गौतमस्याश्रमो महान्। उवास गौतमो यं च कालं तमपि मे शृणु॥ षष्टिं वर्षसहस्राणि सोऽतप्यद् गौतमस्तपः। तमुग्रतपसा युक्तं भावितं सुमहामुनिम्॥ उपयातो नरव्याघ्र लोकपालो यमस्तदा। तमपश्यत् सुतपस पृषि वै गौतमं तदा॥ स तं विदित्वा ब्रह्मर्षिर्यममागतमोजसा। प्राञ्जलिः प्रयतो भूत्वा उपविष्टस्तपोधनः॥ तं धर्मराजो दृष्दैव सत्कृत्यैव द्विजर्षभम्। न्यमन्त्रयत धर्मेण क्रियतां किमिति ब्रुवन्॥ गौतम उवाच मातापितृभ्यामानृण्यं किं कृत्वा समवाप्नुयात्। कथं च लोकानाप्नोति पुरुषो दुर्लभाशुचीन्॥ यम उवाच तप:शौचवता नित्यं सत्यधर्मरतेन च। मातापित्रोरहरहः पूजनं कार्यमञ्जसा॥ अश्वमेधैश्च यष्टव्यं बहुभिः स्वाप्तदक्षिणैः। तेन लोकानवाप्नोति पुरुषोऽद्भुतदर्शनान्॥ युधिष्ठिर उवाच मित्रैः प्रहीयमाणस्य बह्वमित्रस्य का गतिः। राज्ञः संक्षीणकोशस्य बलहीनस्य भारत॥ दुष्टामात्यसहायस्य च्युतमन्त्रस्य सर्वतः। राज्यात् प्रच्यवमानस्य गतिमभ्यामपश्यतः॥ परचक्राभियातस्य परराष्ट्राणि मृद्गतः। विग्रहे वर्तमानस्य दुर्बलस्य वलीयसा॥ असंविहितराष्ट्रस्य देशकालावजानतः। अप्राप्यं च भवेत् सान्त्वंभेदो वाप्यतिपीडनात्। जीवितं त्वर्थहेतुर्वा तत्र किं सुकृतं भवेत्॥ भीष्म उवाच गुह्यं धर्मज मा प्राक्षीरतीव भरतर्षभ। अपृष्ठो नोत्सहे वक्तुं धर्ममेतं युधिष्ठिर॥ धर्मो ह्यणीयान् वचनाद् बुद्धिश्च भरतर्षभ। श्रुत्वोपास्य सदाचारैः साधुर्भवति स क्वचित्॥ कर्मणा बुद्धिपूर्वेण भवत्याढ्यो न वा पुनः। तादृशोऽयमनुप्रश्नः संव्यवस्यः स्वया धिया॥ उपायं धर्मबहुलं यात्रार्थं शृणु भारत। नाहमेतादृशं धर्मं बुभूषे धर्मकारणात्॥ दुःखादान इह ह्येष स्यात् तु पश्चात् क्षयोपमः। अभिगम्यमतीनां हि सर्वासामेव निश्चयः॥ यथा यथा हि पुरुषो नित्यं शास्त्रमवेक्षते। तथा तथा विजानाति विज्ञानमथ रोचते।॥ अविज्ञानादयोगो हि पुरुषस्योपजायते। विज्ञानादपि योगश्च योगो भूतिकरः परः॥ अशङ्कमानो वचनमनसूयुरिदं शृणु। राज्ञः कोशक्षयादेव जायते बलसंक्षयः॥ कोशं च जनयेद् राजा निर्जलेभ्यो यथा जलम्। कालं प्राप्यानुगृह्णीयादेष धर्मः सनातनः। उपायधर्म प्राप्येमं पूर्वैराचरितं जनैः॥ अन्यो धर्मः समर्थानामापत्स्वन्यश्च भारत। प्राक्कोशात् प्राप्यतें धर्मो वृत्तिधर्माद् गरीयसी॥ धर्मं प्राप्य न्यायवृत्तिं न बलीयान् न विन्दति। यस्माद् बलस्योपपत्तिरेकान्तेन न विद्यते॥ तस्मादापत्स्वधर्मोऽपि श्रूयते धर्मलक्षणः। अधर्मो जायते तस्मिन्निति वै कवयो विदुः॥ अनन्तरं क्षत्रियस्य तत्र किं विचिकित्स्यते। यथास्य धर्मो न ग्लायेन्नेयाच्छत्रुवशं यथा। तत् कर्तव्यमिहेत्याहुर्नात्मानमवसादयेत्॥ सर्वात्मनैव धर्मस्य न परस्य न चात्मनः। सर्वोपायैरुज्जिहीर्षेदात्मानमिति निश्चयः॥ तत्र धर्मविदां तात निश्चयो धर्मनैपुणम्। उद्यमो नैपुणं क्षात्रे बाहुवीर्यादिति श्रुतिः॥ क्षत्रियो वृत्तिसंरोधे कस्य नादातुमर्हति। अन्यत्र तापसस्वाच्च ब्राह्मणस्वाच्च भारत॥ यथा वै ब्राह्मणः सीदन्नयाज्यमपि याजयेत्। अभोज्यानानि चाश्नीयात् तथेदं नात्र संशयः॥ पीडितस्य किमद्वारमुत्पथो विधृतस्य च। अद्वारतः प्रद्रवति यदा भवति पीडितः॥ यस्य कोशबलग्लान्या सर्वलोकपराभवः। भैक्ष्यचर्या न विहिता न च विट् शूद्रजीविका॥ स्वधर्मानन्तरा वृत्तिर्जात्याननुपजीवतः। जहतः प्रथमं कल्पमनुकल्पेन जीवनम्॥ आपद्गतेन धर्माणामन्यायेनोपजीवनम्। अपि ह्येतद् ब्राह्मणेषु दृष्टं वृत्तिपरिक्षये॥ क्षत्रिये संशयः कस्मादित्येवं निश्चितं सदा। आददीत विशिष्टेभ्यो नावसीदेत् कथंचन॥ हन्तारं रक्षितारं च प्रजानां क्षत्रियं विदुः। तस्मात् संरक्षता कार्यमादानं क्षत्रबन्धुना॥ अन्यत्र राजन् हिंसाया वृत्तिर्नेहास्ति कस्यचित्। अप्यरण्यसमुत्थस्य एकस्य चरतो मुनेः॥ न शङ्खलिखितां वृत्तिं शक्यमास्थाय जीवितुम्। विशेषतः कुरुश्रेष्ठ प्रजापालनमीप्सया॥ परस्परं हि संरक्षा राज्ञा राष्ट्रेण चापदि। नित्यमेव हि कर्तव्या एष धर्मः सनातनः॥ राजा राष्ट्रं यथाऽऽपत्सु द्रव्यौघैरपि रक्षति। राष्ट्रेण राजा व्यसने रक्षितव्यस्तथा भवेत्॥ कोशं दण्डं बलं मित्रं यदन्यदपि संचितम्। न कुर्वीतान्तरं राष्ट्र राजा परिगतः क्षुधा।॥ बीजं भक्तेन सम्पाद्यमिति धर्मविदो विदुः। अत्रैतच्छम्बरस्याहुमहामायस्य दर्शनम्॥ धिक् तस्य जीवितं राज्ञो राष्ट्रं यस्यावसीदति। अवृत्त्यान्यमनुष्योऽपि यो वैदेशिक इत्यपि॥ राज्ञः कोशबलं मूलं कोशमूलं पुनर्बलम्। तन्मूलं सर्वधर्माणां धर्ममूलाः पुनः प्रजा:॥ नान्यानपीडयित्वेह कोशः शक्यः कुतो बलम्। तदर्थं पीडयित्वा च दोषं प्राप्तुं न सोऽर्हति॥ अकार्यमपि यज्ञार्थं क्रियते यज्ञकर्मसु। एतस्मात् कारणाद् राजा न दोषं प्राप्तुमर्हति॥ अर्थार्थमन्यद् भवति विपरीतमथापरम्। अनर्थार्थमथाप्यन्यत् तत् सर्वं ह्यर्थकारणम्। एवं बुद्ध्या सम्प्रपश्येनमेधावी कार्यनिश्चयम्॥ यज्ञार्थमन्यद् भवति यज्ञोऽन्यार्थस्तथा परः। यज्ञस्यार्थार्थमेवान्यत् तत् सर्वं यज्ञसाधनम्॥ उपमामत्र वक्ष्यामि धर्मतत्त्वप्रकाशिनीम्। यूपं छिन्दन्ति यज्ञार्थं तत्र ये परिपन्थिनः॥ दुमाः केचन सामन्ता ध्रुवं छिन्दन्ति तानपि। ते चापि निपतन्तोऽन्यान् निघ्नन्त्येव वनस्पतीन्॥ एवं कोशस्य महतो ये नराः परिपन्थिनः। तानहत्वा न पश्यामि सिद्धिमत्र परंतप॥ धनेन जयते लोकावुभौ परमिमं तथा। सत्यं च धर्मवचनं यथा नास्त्यधनस्तथा॥ सर्वोपायैराददीत धनं यज्ञप्रयोजनम्। न तुल्यदोषः स्यादेवं कार्याकार्येषु भारत॥ नैतौ सम्भवतो राजन् कथंचिदपि पार्थिवा न हरण्येषु पश्यामि धनवृद्धानहं क्वचित्॥ यदिदं दृश्यते वित्तं पृथिव्यामिह किंचन। ममेदं स्यान्ममेदं स्यादित्येवं काक्षते जनः॥ न च राज्यसमो धर्मः कश्चिदस्ति परंतप। धर्मः संशब्दितो राज्ञामापदर्थमतोऽन्यथा।॥ दानेन कर्मणा चान्ये तपसान्ये तपस्विनः। बुद्ध्या दाक्ष्येण चैवान्ये विन्दन्ति धनसंचयान्॥ अधनं दुर्बलं प्राहुर्धनेन बलवान् भवेत्। सर्वं धनवता प्राप्यं सर्वं तरति कोशवान्॥ कोशेन धर्मः कामश्च परलोकस्तथा ह्ययम्। तं च धर्मेण लिप्सेत नाधर्मेण कदाचन॥ युधिष्ठिर उवाच क्षीणस्य दीर्घसूत्रस्य सानुक्रोशस्य बन्धुषु। परिशङ्कितवृत्तस्य श्रुतमन्त्रस्य भारत॥ विभक्तपुरराष्ट्रस्य निर्द्रव्यनिचयस्य च। असम्भावितमित्रस्य भिन्नामात्यस्य सर्वशः॥ परचक्राभियातस्य दुर्बलस्य बलीयसा। आपन्नचेतसो ब्रूहि किं कार्यमवशिष्यते॥ भीष्म उवाच बाह्यश्चेद् विजिगीषुः स्याद् धर्मार्थकुशलः शुचिः। जवेन संधिं कुर्वीत पुर्वभुक्तान् विमोचयेत्॥ योऽधर्मविजिगीषुः स्याद् बलवान् पापनिश्चयः। आत्मनः संनिरोधेन संधिं तेनापि रोचयेत्॥ अपास्य राजधानी वा तरेद् द्रव्येण चापदम्। तद्भावयुक्तो द्रव्याणि जीवन् पुनरुपार्जयेत्॥ यास्तु कोशबलत्यागाच्छक्यास्तरितुमापदः। कस्तत्राधिकमात्मानं संत्यजेदर्थधर्मवित्॥ अवरोधान् जुगुप्सेत का सपत्नधने दया। न त्वेवात्मा प्रदातव्यः शक्ये सति कथंचन॥ युधिष्ठिर उवाच आभ्यन्तरे प्रकुपिते बाह्ये चोपनिपीडिते। क्षीणे कोशे श्रुते मन्त्रे किं कार्यमवशिष्यते॥ भीष्म उवाच क्षिप्रं वा संधिकाम: स्यात् क्षिप्रं वा ताणविक्रमः। तदापनयनं क्षिप्रमेतावत् साम्परायिकम्॥ अनुरक्तेन चेष्टेन हृष्टेन जगतीपतिः। अल्पेनापि हि सैन्येन महीं जयति भूमिपः॥ हतो वा दिवमारोहेद्धत्वा वा क्षितिमावसेत्। युद्धे हि संत्यजन् प्राणान् शक्रस्यैति सलोकताम्॥ सर्वलोकागमं कृत्वा मृदुत्वं गन्तुमेव च। विश्वासाद् विनयं कुर्याद् विश्वसेच्चाप्युपायतः॥ अपचिक्रमिषुः क्षिप्रं साम्ना वा परिसान्त्वयन्। विलवयित्वा मन्त्रेण ततः स्वयमुपक्रमेत्॥ युधिष्ठिर उवाच हीने परमके धर्म सर्वलोकाभिसंहिते। सर्वस्मिन् दस्युसाद्भूते पृथिव्यामुपजीवने॥ केन स्विद् ब्राह्मणो जीवेज्जघन्ये काल आगते। असंत्यजन् पुत्रपौत्राननुक्रोशात् पितामह॥ भीष्म उवाच विज्ञानबलमास्थाय जीवितव्यं तथागते। सर्वं साध्वर्थमेवेदमसाध्वर्थं न किंचन॥ असाधुभ्योऽर्थमादाय साधुभ्यो यः प्रयच्छति। आत्मानं संक्रमं कृत्वा कृच्छ्रधर्मविदेव सः॥ आकाङ्क्षन्नात्मनो राज्यं राज्ये स्थितिमकोपयन्। अदत्तमेवाददीत दातुर्वित्तं ममेति च॥ विज्ञानबलपूतो यो वर्तते निन्दितेष्वपि। वृत्तिविज्ञानवान् धीरः कस्तं वा वक्तुमर्हति॥ येषां बलकृता वृत्तिस्तेषामन्या न रोचते। तेजभासिप्रवर्तन्ते बलवन्तो युधिष्ठिर।॥ यदैव प्राकृतं शास्त्रमविशेषेण वर्तते। तदैवमभ्यसेदेवं मेधावी वाप्यथोत्तरम्॥ ऋत्विकपुरोहिताचार्यान् सत्कृतानभिसत्कृतान्। न ब्राह्मणान् घातयीत दोषान् प्राप्नोति घातयन्॥ एतत् प्रमाणं लोकस्य चक्षुरेतत् सनातनम्। तत् प्रमाणोऽवगाहेत तेन तत् साध्वसाधु वा॥ बहवो ग्रामवास्तव्या रोषाद् ब्रूयुः परस्परम्। न तेषां वचनाद् राजा सत्कुर्याद् घातयीत वा॥ न वाच्यः परिवादोऽयं न श्रोतव्यः कथञ्चन। कर्णावथ पिधातव्यौ प्रस्थेयं चान्यतो भवेत्॥ असतां शीलमेतद् वै परिवादोऽथ पैशुनम्। गुणानामेव वक्तारः सन्तः सत्सु नराधिप॥ यथा सुमधुरौ दम्यौ सुदान्तौ साधुवाहिनौ। धुरमुद्यम्य वहतस्तथा वर्ते: वै नृपः॥ यथा यथास्य बहवः सहायाः स्युस्तथा परे। आचारमेव मन्यन्ते गरीयो धर्मलक्षणम्॥ अपरे नैवमिच्छन्ति ये शङ्खलिखितप्रियाः। मात्सर्यादथवा लोभान ब्रूयुर्वाक्यमीदृशम्॥ आर्षमप्यत्र पश्यन्ति विकर्मस्थस्य पातनम्। न तादृक्सदृशं किञ्चित् प्रमाणं दृश्यते क्वचित्॥ देवताश्च विकर्मस्थं पातयन्ति नराधमम्। व्याजेन विन्दन् वित्तं हि धर्मात् स परिहीयते॥ सर्वतः सत्कृतः सद्भिर्भूतिप्रवरकारणैः। हृदयेनाभ्यनुज्ञातो यो धर्मस्तं व्यवस्यति॥ यश्चतुर्गुणसम्पन्नं धर्मं ब्रूयात् स धर्मवित्। अहेरिव हि धर्मस्व पदं दुःखं गवेषितुम्॥ यथा मृगस्य विद्धस्य पदमेकं पदं नयेत्। स्रक्षेद् रुधिरलेपेन तथा धर्मपदं नयेत्॥ एवं सद्धिविनीतेन पथा गन्तव्यमित्युत। राजर्षीणां वृत्तमेतदवगच्छ युधिष्ठिर।॥ भीष्म उवाच स्वराष्ट्रात् परराष्ट्राच्च कोशं संजनयेन्नृपः। कोशाद्धि धर्मः कौन्तेय राज्यमूलं च वर्धते॥ तस्मात् संजनयेत् कोशं सत्कृत्य परिपालयेत्। परिपाल्यानुतनुयादेष धर्मः सनातनः॥ न कोशः शुद्धशौचेन न नृशंसेन जातुचित्। मध्यमं पदमास्थाय कोशसंग्रहणं चरेत्॥ अबलस्य कुत: कोशो ह्यकोशस्य कुतो बलम्। अबलस्य कुतो राज्यमराज्ञः श्रीर्भवेत् कुतः॥ उच्चैर्वृत्तेः श्रियो हानिर्यथैव मरणं तथा। तस्मात् कोशं बलं मित्रमथ राजा विवर्धयेत्॥ हीनकोशं हि राजानमवजानन्ति मानवाः। न चास्याल्पेन तुष्यन्ति कार्यमप्युत्सहन्ति च॥ श्रियो हि कारणाद् राजा सक्रियां लभते पराम्। सास्य गृहति पापानि वासो गुह्यमिव स्त्रियाः॥ ऋद्धिमस्यानु तप्यन्ते पुरा विप्रकृता नराः। शालावृका इवाजस्त्रं जिघांसुमेव विन्दति॥ ईदृशस्य कुतो राज्ञः सुखं भवति भारत। उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम्॥ अप्यपर्वणि भज्येत न नमतेह कस्यचित्। अप्यरण्यं समाश्रित्य चरेन्मृगगणैः सह॥ न त्वेवोज्झितमर्यादैर्दस्युभिः सहितश्चरेत्। दस्यूनां सुलभा सेना रौद्रकर्मसु भारत॥ एकान्ततो ह्यमर्यादात् सर्वोऽप्युद्विजते जनः। दस्यवोऽप्यभिशङ्कन्ते निरनुक्रोशकारिणः॥ स्थापयेदेव मर्यादां जनचित्तप्रसादिनीम्। अल्पेऽप्यर्थे च मर्यादा लोके भवति पूजिता॥ नायं लोकोऽस्ति न पर इति व्यवसितो जनः। नालं गन्तुं हि विश्वासं नास्तिके भयशङ्किते॥ यथा सद्भिः परादानमहिंसा दस्युभिः कृता। अनुरज्यन्ति भूतानि समर्यादेषु दस्युषु॥ अयुद्ध्यमानस्य वधो दारामर्षः कृतघ्नता। ब्रह्मवित्तस्य चादानं निःशेषकरणं तथा॥ स्त्रिया मोषः पतिस्थानं दस्युष्वेतद् विगर्हितम्। संश्लेषं च परस्त्रीमिर्दस्युरेतानि वजयेत्॥ अभिसंदधते ये च विश्वासायास्य मानवाः। अशेषमेवोपलभ्य कुर्वन्तीति विनिश्चयः॥ तस्मात् सशेषं कर्तव्यं स्वाधीनमपि दस्युभिः। न बलस्थोऽहमस्मीति नृशंसानि समाचरेत्॥ स शेषकारिणस्तत्र शेषं पश्यन्ति सर्वशः। निःशेषकारिणो नित्यं निःशेषकरणाद् भयम्॥ भीष्म उवाच अत्र धर्मानुवचनं कीर्तयन्ति पुराविदः। प्रत्यक्षावेव धर्मार्थो क्षत्रियस्य विजानतः॥ तत्र न व्यवधातव्यं परोक्षा धर्मयापना। अधर्मो धर्म इत्येतद् यथा वृकपदं तथा॥ धर्माधर्मफले जातु ददर्शेह न कश्चन। बुभूषेद् बलमेवैतत् सर्वं बलवतो वशे॥ श्रियो बलममात्यांश्च बलवानिह विन्दति। यो ह्यनाढ्यः स पतितस्तदुच्छिष्टं यदल्पकम्॥ बह्वपथ्यं बलवति न किंचित् क्रियते भयात्। उभौ सत्यधिकारस्थौ त्रायते महतो भयात्॥ अतिधर्माद् बलं मन्ये बलाद् धर्मः प्रवर्तते। बले प्रतिष्ठितो धर्मो धरण्यामिव जङ्गमम्॥ धूमो वायोरिव वशे बलं धर्मोऽनुवर्तते। अनीश्वरो बले धर्मो दुमे वल्लीव संश्रिता॥ वशे बलवतां धर्मः सुखं भोगवतामिव। नास्त्यसाध्यं बलवतां सर्वं बलवतां शुचि॥ दुराचारः क्षीणबलः परित्राणं न गच्छति। अथ तस्मादुद्विजते सर्वो लोको वृकादिव॥ अपध्वस्तो ह्यवमतो दुःखं जीवति जीवितम्। जीवितं यदपक्रुष्टं यथैव मरणं तथा॥ यदेवमाहुः पापेन चारित्रेण विवर्जितः। सुभृशं तप्यते तेन वाक्शल्येन परिक्षतः॥ अत्रैतदाहुराचार्याः पापस्य परिमोक्षणे। त्रयीं विद्यामवेक्षेत तथोपासीत वै द्विजान्॥ प्रसादयेच्चक्षुषा वाचा चाप्यथ कर्मणा। महामनाश्चापि भवेद् विवहेच्च महाकुले॥ इत्यस्मीति वदेदेवं परेषां कीर्तयेद् गुणान्। जपेदुदकशीलः स्यात् पेशलो नातिजल्पकः॥ ब्रह्मक्षत्रं सम्प्रविशेद् बहु कृत्वा सुदुष्करम्। उच्यमानो हि लोकेन बहुकृत् तदचिन्तयन्॥ अपापो ह्येवमाचारः क्षिप्रं बहुमतो भवेत्। सुखं च चित्रं भुञ्जीत कृतेनैकेन गोपयेत्॥ लोके च लभते पूजां परत्रेह महत् फलम्॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। यथा दस्युः समर्यादः प्रेत्यभावे न नश्यति॥ प्रहर्ता मतिमाशूरः श्रुतवाननृशंसवान्। रक्षन्नाश्रमिणां धर्मं ब्रह्मण्यो गुरुपूजकः॥ निषाद्यां क्षत्रियाज्जातः क्षत्रधर्मानुपालकः। कायव्यो नाम नैषादिर्दस्यत्वात् सिद्धिमाप्तवान्।॥ अरण्ये सायं पूर्वाह्ने मृगयूथप्रकोपिता। विधिज्ञो मृगजातीनां नैषादानां च कोविदः॥ सर्वकालप्रदेशज्ञः पारियात्रचरः सदा। धर्मज्ञः सर्वभूतानाममोघेषुटुंढायुधः॥ अप्यनेकशता सेनामेक एव जिगाय सः। स वृद्धावन्धवधिरौ महारण्येऽभ्यपूजयत्॥ मधुमांसैर्मूलफलैरन्नरुच्चावचैरपि। सत्कृत्य भोजयामास मान्यान् परिचचार च॥ आरण्यकान् प्रव्रजितान् ब्राह्मणान् परिपूजयन्। अपि तेभ्यो गृहान् गत्वा निनाय सततं वने।॥ येऽस्मान्न प्रतिगृह्णन्ति दस्युभोजनशङ्कया। तेषामासज्य गेहेषु कल्य एव स गच्छति॥ बहूनि च सहस्राणि ग्रामणित्वेऽभिवतिरे। निर्मर्यादानि दस्यूनां निरनुक्रोशवर्तिनाम्॥ दस्यव ऊचुः मुहूर्तदेशकालज्ञः प्राज्ञः शूरो दृढव्रतः। ग्रामणीर्भव नो सर्वेषामेव सम्मतः॥ मुख्यः यथा यथा वक्ष्यसि नः करिष्यामस्तथा तथा पालयास्मान् यथान्यायं यथा माता यथा पिता।॥ कायव्य उवाच मा वधीस्त्वं स्त्रियं भीरूं मा शिष्टुं मा तपस्विनम्। नायुद्ध्यमानो हन्तव्यो न च ग्राह्या बलात् स्त्रियः॥ सर्वथा स्त्री न हन्तव्या सर्वसत्त्वेषु केनचित्। नित्यं तु ब्राह्मणे स्वस्ति योद्धव्यं च तदर्थतः॥ सत्यं च नापि हर्तव्यं सारविघ्नं च मा कृथाः। पूज्यन्ते यत्र देवाश्च पितरोऽतिथयस्तथा॥ सर्वभूतेष्वपि च वै ब्राह्मणो मोक्षमर्हति। कार्या चोपचितिस्तेषां सर्वस्वेनापि या भवेत्॥ यस्य ह्येते सम्प्ररुष्टा मन्त्रयन्ति पराभवम्। न तस्य त्रिषु लोकेषु त्राता भवति कश्चन॥ यो ब्राह्मणान् परिवदेद् विनाशं चापि रोचयेत्। सूर्योदय इव ध्वान्ते ध्रुवं तस्य पराभवः॥ इहैव फलमासीनः प्रत्याकाङ्क्षेत सर्वशः। ये ये नो न प्रदास्यन्ति तांस्तांस्तेनाभियास्यसि॥ शिष्ट्यर्थं विहितो दण्डो न वृद्ध्यर्थं विनिश्चयः। ये च शिष्टान् प्रबाधन्ते दण्डस्तेषां वधः स्मृतः॥ ये च राष्ट्रोपरोधेन वृद्धिं कुर्वन्ति केचन। तदैव तेऽनुमार्यन्ते कुणपे कृमयो यथा॥ ये पुनर्धर्मशास्त्रेण वर्तेरनिह दस्यवः। अपि ते दस्यवो भूत्वा क्षिप्रं सिद्धिमवाप्नुयुः॥ भीष्म उवाच ते सर्वमेवानुचुः कायव्यस्यानुशासनम्। वृद्धिं च लेभिरे सर्वे पापेभ्यश्चाप्युपारमन्॥ कायव्यः कर्मणा तेन महतीं सिद्धिमाप्तवान्। साधूनामाचरन् क्षेमं दस्यून् पापान्निवर्तयन्॥ इदं कायव्यचरितं यो नित्यमनुचिन्तयेत्। नारण्येभ्यो हि भूतेभ्यो भयं प्राप्नोति किंचन॥ न भयं तस्य भूतेभ्यः सर्वेभ्यश्चैव भारत। नासतो विद्यते राजन् स शरण्येषु गोपतिः॥ भीष्म उवाच अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः। येन मार्गेण राजा वै कोशं संजनयत्युत॥ न धनं यज्ञशीलानां हार्यं देवस्वमेव च। दस्यूनां निष्क्रियाणां च क्षत्रियो हर्तुमर्हति॥ इमाः प्रजाः क्षत्रियाणां राज्यभोगाश्च भारत। धनं हि क्षत्रियस्यैव द्वितीयस्य न विद्यते॥ तदस्य स्याद् बलार्थ वा धनं यज्ञार्थमेव च। अभोग्याश्चौषधीश्छित्त्वा भोग्या एव पचन्त्युत॥ यो वै न देवान् न पितृन् न मान् हविषार्चति। अनर्थकं धनं तः प्राहुर्धर्मविदो जनाः॥ हरेत् तद् द्रविणं राजन् धार्मिकः पृथिवीपतिः। ततः प्रीणयते लोकं न कोशं तद्विधं नृपः॥ असाधुभ्योऽर्थमादाय साधुभ्यो यः प्रयच्छति। आत्मानं संक्रमं कृत्वा कृत्स्नधर्मविदेव सः॥ तथा तथा जयेल्लोकाशक्त्या चैव यथा यथा। उद्भिज्जा जन्तवो यद्वच्छुक्लजीवा यथा यथा॥ अनिमित्तात् सम्भवन्ति तथाऽयज्ञः प्रजायते॥ यथैव दंशमशकं यथा चाण्डपिपीलिकम्। सैव वृत्तिरयज्ञेषु यथा धर्मो विधीयते॥ यथा ह्यकस्माद् भवति भूमौ पांसुर्विलोलितः। तथैवेह भवेद् धर्मः सूक्ष्मः सूक्ष्मतरस्तथा॥ भीष्म उवाच अनागतविधाता च प्रत्युत्पन्नमतिश्च यः। द्वावेव सुखमेधेते दीर्घसूत्री विनश्यति॥ अत्रैव चेदमव्यग्रं शृणुष्वाख्यानमुत्तमम्। दीर्घसूत्रमुपाश्रित्य कार्याकार्यविनिश्चये॥ नातिगाधे जलाधारे सुहृदः कुशलास्त्रयः। प्रभूतमत्स्ये कौन्तेय बभूवुः सहचारिणः॥ तत्रैको दीर्घकालज्ञ उत्पन्नप्रतिभोऽपरः। दीर्घसूत्रश्च तत्रैकस्त्रयाणां सहचारिणाम्॥ कदाचित् तं जलस्थायं मत्स्यबन्धाः समन्ततः। निस्त्रावयामासुरथो निम्नेषु विविधैर्मुखैः॥ प्रक्षीयमाणं तं दृष्ट्वा जलस्थायं भयागमे। अब्रवीद् दीर्घदर्शी तु तावुभौ सुहृदौ तदा॥ इयमापत् समुत्पन्ना सर्वेषां सलिलौकसाम्। शीघ्रमन्यत्र गच्छामः पन्था यावन्न दुष्यति॥ अनागतमनर्थं हि सुनयैर्यः प्रबाधयेत्। स न संशयमाप्नोति रोचतां भो व्रजामहे॥ दीर्घसूत्रस्तु यस्तत्र सोऽब्रवीत् सम्यगुच्यते। न त कार्या त्वरा तावदिति मे निश्चिता मतिः॥ अथ सम्प्रतिपत्तिज्ञः प्राब्रवीद् दीर्घदर्शिनम्। प्राप्ते काले न मे किंचिन्यायतः परिहास्यते॥ एवं श्रुत्वा निराक्रम्य दीर्घदर्शी महामतिः। जगाम स्रोतसा तेन गम्भीरं सलिलाशयम्॥ ततः प्रसृततोयं तं प्रसमीक्ष्य जलाशयम्। बबन्धुर्विविधैर्योगैर्मत्स्यान् मत्स्योपजीविनः॥ विलोड्यमाने तस्मिंस्तु स्रुततोये जलाशये। अगच्छद् बन्धनं तत्र दीर्घसूत्रः सहापरैः॥ उद्याने क्रियमाणे तु मत्स्यानां तत्र रज्जुभिः। प्रविश्यान्तरमेतेषां स्थितः सम्प्रतिपत्तिमान्॥ गृह्यमेव तदुद्यानं गृहीत्वा तं तथैव सः। सर्वानेव च तांस्तत्र ते विदुर्ग्रथितानिति॥ ततः प्रक्षाल्यमानेषु मत्स्येषु विपुले जले। मुक्त्वा रज्जु प्रमुक्तोऽसौ शीघ्रं सम्प्रतिपत्तिमान्॥ दीर्घसूत्रस्तु मन्दात्मा हीनबुद्धिरचेतनः। मरणं प्राप्तवान् मूढो यथैवोपहतेन्द्रियः॥ एवं प्राप्ततमं कालं यो मोहान्नावबुद्ध्यते। स विनश्यति वै क्षिप्रं दीर्घसूत्रो यथा झषः॥ आदौ न कुरुते श्रेयः कुशलोऽस्मीति यः पुमान्। स संशयमवाप्नोति यथा सम्प्रतिपत्तिमान्॥ अनागतविधाता च प्रत्युत्पन्नमतिश्च यः। द्वावेव सुखमेधेते दीर्घसूत्रो विनश्यति॥ काष्ठाः कला मुहूर्ताश्च दिवा रात्रिस्तथा लवाः। मासाः पक्षाः षड् ऋतवः कल्प: संवत्सरास्तथा॥ पृथिवी देश इत्युक्तः कालः स च न दृश्यते। अभिप्रेतार्थसिद्ध्यर्थं ध्यायते यच्च तत्तथा॥ एतौ धर्मार्थशास्त्रेषु मोक्षशास्त्रेषु चर्षिभिः। प्रधानाविति निर्दिशै कामे चाभिमतौ नृणाम्॥ परीक्ष्यकारी युक्तश्च स सम्यगुपपादयेत्। देशकालावभिप्रेतौ ताभ्यां फलमवाप्नुयात्॥ युधिष्ठिर उवाच सर्वत्र बुद्धिः कथिता श्रेष्ठा ते भरतर्षभ। अनागता तथोत्पन्ना दीर्घसूत्रा विनाशिनी॥ तदिच्छामि परां श्रोतुं बुद्धिं ते भरतर्षभ। यथा राजा न मुह्येत शत्रुभिः परिवारितः॥ धर्मार्थकुशलो राजा धर्मशास्त्रविशारदः। पृच्छामि त्वां कुरुश्रेष्ठ तन्मे व्याख्यातुमर्हसि॥ शत्रुभिर्बहुभिर्गस्तो यथा वर्तेत पार्थिवः। एतदिच्छाम्यहं श्रोतुं सर्वमेव यथाविधि।॥ विषमस्थं हि राजानं शत्रवः परिपन्थिनः। बहवोऽप्येकमुद्धर्तुं यतन्ते पूर्वतापिताः॥ सर्वत्र प्रार्थ्यमानेन दुर्बलेन महाबलैः। एकेनैवासहायेन शक्यं स्थातुं भवेत् कथम्॥ कथं मित्रमरिं चापि विन्दते भरतर्षभ। चेष्टितव्यं कथं चात्र शत्रोमित्रस्य चान्तरे॥ प्रज्ञातलक्षणे मित्रे तथैवामित्रतां गते। कथं तु पुरुषः कुर्यात् कृत्वा किं वा सुखी भवेत्॥ विग्रहं केन वा कुर्यात् संधिं वा केन योजयेत्। कथं वा शत्रुमध्यस्थो वर्तेत बलवानपि॥ एतद् वै सर्वकृत्यानां परं कृत्यं परंतप। नैतस्य कश्चिद् वक्तास्ति श्रोता वापि सुदुर्लभः॥ ऋते शान्तनवाद् भीष्मात् सत्यसंधाज्जितेन्द्रियात्। तदन्विष्य महाभाग सर्वमेतद् वदस्व मे।" ।। भीष्म उवाच त्वयुक्तोऽयमनुप्रश्नो युधिष्ठिर सुखोदयः। शृणु मे पुत्र कात्स्र्थेन गुह्यमापत्सु भारत॥ अमित्रो मित्रतां याति मित्रं चापि प्रदुष्यति। सामर्थ्ययोगात् कार्याणामनित्या वै सदा गतिः॥ तस्माद् विश्वसितव्यं च विग्रहं च समाचरेत्। देशं कालं च विज्ञाय कार्याकार्यविनिश्चये॥ संधातव्यं बुधैर्नित्यं व्यवस्य च हितार्थिभिः। अमित्रैरपि संधेयं प्राणा रक्ष्या हि भारत॥ यो ह्यमित्रैर्नरो नित्यं न संदध्यादपण्डितः। न सोऽर्थं प्राप्नुयात् किंचित् फलान्यपि च भारत॥ यस्त्वमित्रेण संदध्यान्मित्रेण च विरुद्ध्यते। अर्थयुक्तिं समालोक्य सुमहद् विन्दते फलम्॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। मार्जारस्य च संवादं न्यग्रोधे मूषिकस्य च॥ वनो महति कस्मिंश्चिन्यग्रोधः सुमहानभूत्। लताजालपरिच्छिन्नो नानाद्विजगणान्वितः॥ स्कन्धवान् मेघसङ्काशः शीतच्छायो मनोरमः। अरण्यमभितो जातः स तु व्यालमृगाकुलः॥ तस्य मूलं समाश्रित्य कृत्वा शतमुखं बिलम्। वसति स्म महाप्राज्ञः पलितो नाम मूषिकः॥ शाखां तस्य समाश्रित्य वसति स्म सुखं पुरा। लोमशो नाम मार्जारः पक्षिसंघातखादकः॥ तत्र चागत्य चाण्डालो शरण्ये कृतकेतनः प्रयोजयति चोन्माथं नित्यमस्तंगते रवौ॥ तत्र स्नायुमयान् पाशान् यथावत् संविधाय सः। गृहं गत्वा सुखं शेते प्रभातामेति शर्वरीम्॥ तत्र स्म नित्यं बध्यन्ते नक्तं बहुविधा मृगाः। कदाचिदत्र मार्जारस्त्वप्रमत्तो व्यबध्यत॥ तस्मिन् बधे महाप्राणे शत्रौ नित्याततायिनि। तं कालं पलितो ज्ञात्वा प्रचचार सुनिर्भयः॥ तेनानुचरता तस्मिन् वने विश्वस्तचारिणा। भक्ष्यं मृगयमाणेन चिराद् दृष्टं तदामिषम्॥ स तमुन्माथमारुह्य तदामिषमभक्षयत्॥ तस्योपरि सपत्नस्य बद्धस्य मनसा हसन्। आमिषे तु प्रसक्तः स कदाचिदवलोकयन्॥ अपश्यदपरं घोरमात्मनः शत्रुमागतम्। शरप्रसूनसङ्काशं महीविवरशायिनम्॥ नकुलं हरिणं नाम चपलं ताम्रलोचनम्। तेन मूषिकगन्धेन त्वरमाणमुपागतम्॥ भक्ष्यार्थं संलिहानं तं भूमावूर्ध्वमुखं स्थितम्। शाखागतमरिं चान्यमपश्यत् कोटरालयम्॥ उलूकं चन्द्रकं नाम तीक्ष्णतुण्डं क्षपाचरम्। गतस्य विषयं तत्र नकुलोलूकयोस्तथा॥ अथास्यासीदियं चिन्ता तत् प्राप्य सुमहद्भयम्। आपद्यस्यां सुकशयां मरणे प्रत्युपस्थिते॥ समन्ताद् भय उत्पन्ने कथं कार्यं हितैषिणा। स तथा सर्वतो रुद्धः सर्वत्र भयदर्शनः॥ अभवद् भयसंतप्तश्चक्रे च परमां मतिम्। आपद्विनाशभूयिष्ठं गतैः कार्यं हि जीवितम्॥ समन्तात् संशयात् सैषा तस्मादापदुपस्थिता। गतं मा सहसा भूमिं नकुलो भक्षयिष्यति॥ उलूकश्छेह तिष्ठन्तं मार्जार: पाशसंक्षयात्। न त्वेवास्मद्विधः प्राज्ञः सम्मोहं गन्तुमर्हति॥ करिष्ये जीविते यत्नं यावद् युक्त्या प्रतिग्रहात्। न हि बुद्ध्यान्वितः प्राज्ञो नीतिशास्त्रविशारदः॥ निमज्जत्यापदं प्राप्य महतीं दारुणामपि॥ न त्वन्यामिह मार्जाराद् गतिं पश्यामि साम्प्रतम्। विषमस्थो ह्ययं शत्रुः कृत्यं चास्य महन्मया॥ जीवितार्थी कथं त्वद्य शत्रुभिः प्रार्थितस्त्रिभिः। तस्मादेनमहं शत्रु मार्जारं संश्रयामि वै॥ नीतिशास्त्रं समाश्रित्य हितमस्योपवर्णये। येनेमं शत्रुसंघातं मतिपूर्वेण वञ्चये॥ अयमत्यन्तशत्रुर्मे वैषम्यं परमं गतः। मूढो ग्राहयितुं स्वार्थं सङ्गत्या यदि शक्यते॥ कदाचिद् व्यसनं प्राप्य संधि कुर्यान्मया सह! बलिना संनिकृष्टस्य शत्रोरपि परिग्रहः॥ कार्य इत्याहुराचार्या विषमे जीवितार्थिना। श्रेष्ठो हि पण्डितः शत्रुर्न च मित्रमपण्डितः॥ मम त्वमित्रे माजरि जीवितं सम्प्रतिष्ठितम्। हन्तास्मै सम्प्रवक्ष्यामि हेतुमात्माभिरक्षणे॥ अपीदानीमयं शत्रुः सङ्गत्या पण्डितो भवेत्। एवं विचिन्तयामास मूषिकः शत्रुचेष्टितम्॥ ततोऽर्थगतितत्त्वज्ञः संधिविग्रहकालवित्। सान्त्वपूर्वमिदं वाक्यं मार्जारं मूषिकोऽब्रवीत्॥ सौहृदेनाभिभाषे त्वां कच्चिन्मार्जार जीवसि। जीवितं हि तवेच्छामि श्रेयः साधारणं हि नौ॥ न ते सौम्य भयं कार्यं जीविष्यसि यथासुखम्। अहं त्वामुद्धरिष्यामि यदि मां न जिघांससि॥ अस्मि कश्चिदुपायोऽत्र दुष्करः प्रतिभाति मे। येन शक्यस्त्वया मोक्षः प्राप्तुं श्रेयस्तथा मया॥ मयाप्युपायो दृष्टोऽयं विचार्य मतिमात्मनः। आत्मार्थं च त्वदर्थं च श्रेय: साधारणं हि नौ॥ इदं हि नकुलोलूकं पापबुद्ध्याभिसंस्थितम्। न धर्षयति मार्जार तेन मे स्वस्ति साम्प्रतम्॥ कूजंश्चपलनेत्रोऽयं कौशिको मां निरीक्षते। नगशाखाग्रगः पापस्तस्याहं भृशमुद्विजे॥ सतां साप्तपदं मैत्रं स सखा मेऽसि पण्डितः। सांवास्यकं करिष्यामि नास्ति ते भयमद्य वै॥ न हि शक्तोऽसि मार्जार पाशं छेत्तुं मया विना। अहं छेत्स्यामि पाशांस्ते यदि मां त्वं न हिंससि॥ त्वमाश्रितो दुमस्याग्रं मूलं त्वहमुपाश्रितः। चिरोषितावुभावावां वृक्षेऽस्मिन् विदितं च ते॥ यस्मिन्नाश्वासते कश्चिद् यश्च नाश्वसिति क्वचित्। न तो धीराः प्रशंसन्ति नित्यमुद्विग्नमानसौ॥ तस्माद् विवर्धतां प्रीतिर्नित्यं संगतमस्तु कालातीतमिहार्थं तु न प्रशंसन्ति पण्डिताः॥ अर्थयुक्तिमिमां तत्र यथाभूतां निशामय। तव जीवितमिच्छामि त्वं ममेच्छसि जीवितम्॥ नौ। कश्चित् तरति काष्ठेन सुगम्भीरां महानदीम्। स तारयति तत् काष्ठं स च काष्ठेन तार्यते॥ ईदृशो नौ समायोगो भविष्यति सुविस्तरः। अहं त्वां तारयिष्यामि मां च त्वं तारयिष्यसि॥ एवमुक्त्वा तु पलितस्तमर्थमुभयोर्हितम्। हेतुमद् ग्रहणीयं च कालापेक्षी न्यवेक्ष्य च॥ अथ सुव्याहृतं श्रुत्वा तस्य शत्रोविचक्षणः। हेतुमद् ग्रहणीयार्थं मार्जारो वाक्यमब्रवीत्॥ बुद्धिमान् वाक्यसम्पन्नस्तद्वाक्यमनुवर्णयन्। स्वामवस्थां समीक्ष्याथ साम्नैव प्रत्यपूजयत्॥ ततस्तीक्ष्णाग्रदशनो मणिवैदूर्यलोचनः। मूषिकं मन्दमुवीक्ष्य मार्जारो लोमशोऽब्रवीत्॥ श्रेयश्च यदि जानीषे क्रियतां मा विचारय॥ अहं हि भृशमापन्नस्त्वमापनतरो मम। द्वयोरापन्नयोः संधिः क्रियतां मा चिराय च॥ विधास्ये प्राप्तकालं यत् कार्य सिद्धिकरं विभो। मयि कृच्छ्राद् विनिर्मुक्ते न विनक्ष्यति ते कृतम्।।७०। न्यस्तमानोऽस्मि भक्तोऽस्मि शिष्यस्त्वद्धितकृत्तथा। निदेशवशवर्ती च भवन्तं शरणं गतः॥ इत्येवमुक्तः पलितो मार्जारं वशमागतम्। वाक्यं हितमुवाचेदमभिनीतार्थमर्थवित्॥ उदारं यद् भवानाह नैतच्चित्रं भवद्विधे। विहितो यस्तु मार्गो मे हितार्थं शृणु तं मम॥ अहं त्वानुप्रवेक्ष्यामि नकुलान्मे महद् भयम्। त्रायस्व भो मा वधीस्त्वं शक्तोऽस्मि तव रक्षणे॥ उलूकाच्चैव मां रक्ष क्षुद्रः अहं छेत्स्यामि ते पाशान् सखे सत्येन ते शपे॥ प्रार्थयते हि माम्। तद्वचः संगतं श्रुत्वा लोमशो युक्तमर्थवत्। हर्षादुद्वीक्ष्य पलितं स्वागतेनाभ्यपूजयत्॥ तं सम्पूज्याथ पलितं मार्जारः सौहृदे स्थितः। स विचिन्त्याब्रवीद् धीरः प्रीतस्त्वरित एव च॥ शीघ्रमागच्छ भद्रं ते त्वं मे प्राणसमः सखा। तव प्राज्ञ प्रसादाद्धि प्रायः प्राप्स्यामि जीवितम्॥ यद् यदेवंगतेनाद्य शक्यं कर्तुं मया तव। तदाज्ञापय कर्तास्मि संधिरेवास्तु नौ सखे।॥ अस्मात् तु संकटान्मुक्तः समित्रगणबान्धवः। सर्वकार्याणि कर्ताऽहं प्रियाणि च हितानि च॥ मुक्तश्च व्यसनादस्मात् सौम्याहमपि नाम ते। प्रीतिमुत्पादयेयं च प्रीतिकर्तुश्च सक्रियाम्॥ प्रत्युपकुर्वन् बह्वपि न भाति पूर्वोपकारिणा तुल्यः। एकः करोति हि कृते निष्कारणमेव कुरुतेऽन्यः॥ भीष्म उवाच ग्राहयित्वा तु तं स्वार्थं मार्जारं मूषिकस्तथा। प्रविवेश तु विश्रभ्य क्रोडमस्य कृतागसः॥ एवमाश्वासितो विद्वान् मारिण स मूषिकः। मार्जारोरसि विस्त्रब्धः सुष्वाप पितृमातृवत्॥ लीनं तु तस्य गात्रेषु मार्जारस्य च मूषिकम्। दृष्ट्वा तौ नकुलोलूको निराशौ प्रत्यपद्यताम्॥ तथैव तौ सुसंत्रस्तौ दृढमागततन्द्रितौ। दृष्ट्वा तयोः परां प्रीति विस्मयं परमं गतौ॥ बलिनौ मतिमन्तौ च सुवृत्तौ चाप्युपासितौ। अशक्तौ तु नयात् तस्मात् सम्प्रधर्षयितुं बलात्॥ कार्यार्थं कृतसंधी तौ दृष्ट्वा मार्जारमूषिको। उलूकनकुलौ तूर्णं जग्मतुस्तौ स्वमालयम्॥ लीनः स तस्य गात्रेषु पलितो देशकालवित्। चिच्छेद पाशान् नृपते कालापेक्षी शनैः शनैः॥ अथ बन्धपरिक्लिष्टो मार्जारो वीक्ष्य मूषिकम्। छिन्दन्तं वै तदा पाशानत्वरन्तं त्वरान्वितः॥ तमत्वरन्तं पलितं पाशानां छेदने तथा। संचोदयितुमारेभे मार्जारो मूषिकं तदा॥ किं सौम्य नातित्वरसे किं कृतार्थोऽवमन्यसे। छिन्धि पाशानमित्रघ्न पुरा श्वपच एति च॥ मार्जारमकृतप्रज्ञं पथ्यमात्महितं वचः॥ तूष्णीं भव न ते सौम्य त्वरा कार्या न सम्भ्रमः। वयमेवात्र कालज्ञा न कालः परिहास्यते॥ अकाले कृत्यमारब्धं कर्तुर्नार्थाय कल्पते। तदेव काल आरब्धं महतेऽर्थाय कल्पते॥ अकाले विप्रमुक्तान्मे त्वत्त एव भयं भवेत्। तस्मात् कालं प्रतीक्षस्व किमिति त्वरसे सखे॥ यदा पश्यामि चाण्डालमायान्तं शस्त्रपाणिनम्। ततश्छेत्स्यामि ते पाशान् प्राप्ते साधारणे भये॥ तस्मिन् काले प्रमुक्तस्त्वं तरुमेवाधिरोक्ष्यसे। न हि ते जीवितादन्यत् किंचित् कृत्यं भविष्यति॥ ततो भवत्यपक्रान्ते त्रस्त भीते च लोमश। अहं बिलं प्रवेक्ष्यामि भवान् शाखां भजिष्यति॥ एवमुक्तस्तु मार्जारो मूषिकेणात्मनो हितम्। वचनं वाक्यतत्त्वज्ञो जीवितार्थी महामतिः॥ अथात्मकृत्ये त्वरितः सम्यक् प्रश्रितमाचरन्। उवाच लोमशो वाक्यं मूषिकं चिरकारिणम्॥ न ह्येवं मित्रकार्याणि प्रीत्या कुर्वन्ति साधवः। यथा त्वं मोक्षितः कृच्छ्रात् त्वरमाणेन वै मया॥ तथा हि त्वरमाणेन त्वया कार्यं हितं मम्। यत्नं कुरु महाप्राज्ञ यथा रक्षाऽऽवयोर्भवेत्॥ अथवा पूर्ववैरं त्वं स्मरन् कालं जिहीर्षसि। पश्य दुष्कृतकर्मंस्त्वं व्यक्तमायुःक्षयं तव॥ यदि किंचिन्मयाज्ञानात् पुरस्ताद् दुष्कृतं कृतम्। न तन्मनसि कर्तव्यं क्षामये त्वां प्रसीद मे॥ तमेवंवादिनः प्राज्ञः शास्त्रबुद्धिसमन्वितः। उवाचेदं वचः श्रेष्ठं मार्जार मूषिकस्तदा॥ श्रुतं मे तव मार्जार स्वमर्थं परिगृह्णतः। ममापि त्वं विजानासि स्वमर्थं परिगृह्णतः॥ यन्मित्रं भीतवत्साध्यं यन्मित्रं भयसंहितम्। सुरक्षितव्यं तत् कार्यं पाणिः सर्पमुखादिव॥ कृत्वा बलवता संधिमात्मनं यो न रक्षति। अपथ्यमिव तद् भुक्तं तस्य नार्थाय कल्पते॥ न कश्चित् कस्यचिन्मित्रं न कश्चित् कस्यचिद् रिपुः। अर्थतस्तु निबद्ध्यन्ते मित्राणि रिपवस्तथा॥ अथैरा निबद्ध्यन्ते गजैर्वनगजा इव। न च कश्चित् कृते कार्ये कर्तारं समवेक्षते॥ तस्मात् सर्वाणि कार्याणि सावशेषाणि कारयेत्। तस्मिन् कालेऽपि च भवान् दिवाकीर्तिभयादितः॥११२। मम न ग्रहणे शक्तः पलायनपरायणः। छिन्नं तु तन्तुबाहुल्यं तन्तुरेकोऽवशेषितः॥ छेत्स्याम्यहं तमप्याशु निर्वृतो भव लोमश। तयोः संवदतोरेवं तथैवापन्नयोर्द्वयोः॥ क्षयं जगाम सा रात्रिर्लोमशं त्वाविशद् भयम्। ततः प्रभातसमये विकृतः कृष्णपिङ्गलः॥ स्थूलस्फिग् विकृतो रूक्षः श्वयूथपरिवारितः। शंकुकर्णो महावक्त्रो मलिनो घोरदर्शनः॥ परिघो नाम चाण्डाल: शस्त्रपाणिरदृश्यत। तं दृष्ट्वा यमदूताभं मार्जारस्त्रस्तचेतनः॥ उवाच वचनं भीतः किमिदानीं करिष्यसि। अथ तावपि संत्रस्तौ तं दृष्ट्वा घोरसंकुलम्॥ क्षणेन नकुलोलूको नैराश्यमुपजग्मतुः। बलिनौ मतिमन्तौ च संघाते चाप्युपागतौ॥ अशक्तौ सुनयात् तस्मात् सम्प्रधर्षयितुं बलात्। कार्यार्थे कृतसंधानौ दृष्ट्वा मार्जारमूषिकौ॥ उलूकनकुलौ तत्र जग्मतुः स्वं स्वमालयम्। ततश्चिच्छेद तं पाशं मार्जारस्य च मूषिकः॥ विप्रमुक्तोऽथ मार्जारस्तमेवाभ्यपतद् दुमम्। स तस्मात् सम्भ्रमावर्तान्मुक्तो घोरेण शत्रुणा॥ बिलं विवेश पलितः शाखां लेभे स लोमशः। उन्माथमप्यथादाय चाण्डालो वीक्ष्य सर्वशः॥ विहताशः क्षणेनास्ते तस्माद् देशादपाक्रमत्। जगाम स स्वभवनं चाण्डालो भरतर्षभ॥ ततस्तस्माद् भयान्मुक्तो दुर्लभं प्राप्य जीवितम्। बिलस्थं पादपाग्रस्थः पलितं लोमशोऽब्रवीत्॥ अकृत्वा संविदं काञ्चित् सहसा समवप्लुतः। कृतज्ञं कृतकर्माणं कच्चिन्मां नाभिशंकसे॥ गत्वा च मम विश्वासं दत्त्वा च मम जीवितम्। मित्रोपभोगसमये किं मां त्वं नोपसर्पसि॥ कृत्वा हि पूर्वं मित्राणि यः पश्चान्नानुतिष्ठति। न स मित्राणि लभते कृच्छ्रास्वापत्सु दुर्मतिः॥ सत्कृतोऽहं त्वया मित्र सामर्थ्यादात्मनः सखे। स मां मित्रत्वमापन्नमुपभोक्तुं त्वमर्हसि॥ यानि मे सन्ति मित्राणि ये च सम्बन्धिबान्धवाः। सर्वे त्वां पूजयिष्यन्ति शिष्या गुरुमिव प्रियम्॥ अहं च पूजयिष्ये त्वां समित्रगणबान्धवम्। जीवितस्य प्रदातारं कृतज्ञः को न पूजयेत्॥ ईश्वरो मे भवानस्तु स्वशरीरगृहस्य च। अर्थानां चैव सर्वेषामनुशास्ता च मे भव॥ अमात्यो मे भव प्राज्ञ पितेवेह प्रशाधि माम्। न तेऽस्ति भयमस्मत्तो जीवितेनात्मनः शपे॥ बुद्ध्यात्वमुशना साक्षाद् बलेनाधिकृता वयम्। त्वं मन्त्रबलयुक्तो हि दत्त्वा जीवितमद्य मे॥ एवमुक्तः परां शान्ति मारिण स मूषिकः। उवाच परमन्त्रज्ञः श्लक्ष्णमात्महितं वचः॥ यद् भवानाह तत् सर्वं मया ते लोमश श्रुतम्। ममापि तावद् ब्रुवतः शृणु यत् प्रतिभाति मे॥ वेदितव्यानि मित्राणि विज्ञेयाश्चापि शत्रवः। एतत् सुसूक्ष्मं लोकेऽस्मिन् दृश्यते प्राज्ञसम्मतम्॥ शत्रुरूपा हि सुहृदो मित्ररूपाश्च शत्रवः। संधितास्ते न बुद्ध्यन्ते कामक्रोधवशं गताः॥ नास्ति जातु रिपुर्नाम मित्रं नाम न विद्यते। सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा॥ यो यस्मिन् जीवति स्वार्थं पश्येत् पीडां न जीवति। स तस्य मित्रं तावत्स्याद् यावन्न स्याद् विपर्ययः॥१४० स्ति मैत्री स्थिरा नाम न च ध्रुवमसौहृदम्। अर्थयुक्त्यानुजायन्ते मित्राणि रिपवस्तथा॥ मित्रं च शत्रुतामेति कस्मिंश्चित् कालपर्यये। शत्रुश्च मित्रतामेति स्वार्थो हि बलवत्तरः॥ यो विश्वसिति मित्रेषु न विश्वसिति शत्रुषु। अर्थयुक्तिमविज्ञाय यः प्रीतौ कुरुते मनः॥ मित्रे वा यदि वा शत्रौ तस्यापि चलिता मतिः। न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्॥ विश्वासाद् भयमुत्पन्नमपि मूलानि कृन्तति। अर्थयुक्त्या हि जायन्ते पिता माता सुतस्तथा॥ मातुला भागिनेयाश्च तथा सम्बन्धिबान्धवाः। पुत्रं हि मातापितरौ त्यजतः पतितं प्रियम्॥ लोको रक्षति चात्मानं पश्य स्वार्थस्य सारताम्। सामान्या निष्कृतिः प्राज्ञ यो मोक्षात् प्रत्यनन्तरम्॥१४७। कृतं मृगयसे शत्रु सुखोपायमसंशयम्। अस्मिन् निलय एव त्वं न्यग्रोधादवतारितः॥ पूर्वं निविष्टमुन्मार्थ चपलत्वान्न बुद्धवान्। आत्मनश्चपलो नास्ति कुतोऽन्येषां भविष्यति॥ तस्मात् सर्वाणि कार्याणि चपलो हन्त्यसंशयम्। ब्रवीषि मधुरं यच्च प्रियो मेऽद्य भवानिति॥ तन्मित्र कारणं सर्वं विस्तरेणापि मे शृणु। कारणात् प्रियतामेति द्वेष्यो भवति कारणात्॥ अर्थार्थी जीवलोकोऽयं न कश्चित् कस्यचित् प्रियः। सख्यं सोदर्ययोर्धात्रोर्दम्पत्योर्वा परस्परम्॥ कस्यचिन्नाभिजानामि प्रीति निष्कारणामिह। यद्यपि भ्रातरः क्रुद्धा भार्या वा कारणान्तरे॥ स्वभावतस्ते प्रीयन्ते नेतरः प्रीयते जनः। प्रियो भवति दानेन प्रियवादेन चापरः॥ मन्त्रहोमजपैरन्यः कार्यार्थं प्रीयते जनः। उत्पन्ना कारणे प्रीतिरासीनौ कारणान्तरे॥ प्रध्वस्ते कारणस्थाने सा प्रीतिर्विनिवर्तते। किं नु तत् कारणं मन्ये येनाहं भवतः प्रियः॥ अन्यत्राभ्यवहारार्थं तत्रापि च बुधा वयम्। कालो हेतुं विकुरुते स्वार्थस्तमनुवर्तते॥ स्वार्थं प्राज्ञोऽभिजानाति प्राज्ञं लोकोऽनुवर्तते। न त्वीदृशं त्वया वाच्यं विदुषि स्वार्थपण्डिते॥ अकाले हि समर्थस्य स्नेहहेतुरयं तव। तस्मान्नाहं चले स्वार्थात् सुस्थिरः संधिविग्रहे॥ अभ्राणामिव रूपाणि विकुर्वन्ति क्षणे क्षणे। अद्यैव हि रिपुर्भूत्वा पुनरद्यैव मे सुहृत्॥ पुनश्च रिपुरद्यैव युक्तीनां पश्य चापलम्। आसी-मैत्री तु तावन्नौ यावद्धतुरभूत् पुरा॥ सा गता सह तेनैव कालयुक्तेन हेतुना। त्वं हि मे जातितः शत्रुः सामर्थ्यान्मित्रतां गतः॥ तत् कृत्यमभिनिवर्त्य प्रकृतिः शत्रुतां गता। सोऽहमेवं प्रणीतानि ज्ञात्वा शास्त्राणि तत्त्वतः॥ प्रविशेयं कथं पाशं त्वत्कृते तद् वदस्व मे। त्ववीर्येण प्रमुक्ताऽहं मदूवीर्येण तथा भवान्॥ अन्योन्यानुग्रहे वृत्ते नास्ति भूयः समागमः। त्वं हि सौम्य कृतार्थोऽद्य निर्वृत्तार्थास्तथा वयम्॥ न तेऽस्त्यद्य मया कृत्यं किंचिदन्यत्र भक्षणात्। अहमन्नं भवान् भोक्ता दुर्बलोऽहं भवान् बली॥ नावयोर्विद्यते संधिर्वियुक्ते विषमे बले। स मन्येऽहं तव प्रज्ञां यन्मोक्षात् प्रत्यनन्तरम्॥ भक्ष्यं मृगयसे नूनं सुखोपायेन कर्मणा। भक्ष्यार्थं ह्यवबद्धस्त्वं स मुक्तः पीडितः क्षुधा॥ शास्त्रजां मतिमास्थाय नूनं भक्षयिताध माम्। जानामि क्षुधितं दु त्वामाहारसमयश्च ते॥ स त्वं मानभिसंधाय भक्ष्यं मृगयसे पुनः। त्वं चापि पुत्रदारस्थो यत् संधि सृजसे मयि॥ शुश्रूषां यतसे कर्तुं सखे मम न तत् क्षमम्। त्वया मां सहितं दृष्ट्वा प्रिया भार्या सुताश्च ते॥ कस्मात् ते मां न खादेयुर्हशः प्रणयिनस्त्वयि। नाहं त्वया समेष्यापि वृत्तो हेतुः समागमे॥ शिवं ध्यायस्व मे स्वस्थः सुकृतं स्मरसे यदि। शत्रोरनार्यभूतस्य क्लिष्टस्य क्षुधितस्य च॥ भक्ष्यं मृगयमाणस्य कः प्राज्ञो विषयं व्रजेत्। स्वस्ति तेऽस्तु गमिष्यामि दूरादपि तवोद्विजे॥ विश्वस्तं वा प्रमत्तं वा एतदेव कृतं भवेत्। बलवत्संनिकर्षो हि न कदाचित् प्रशस्यते॥ नाहं त्वया समेष्यामि निवृत्तो भव लोमश। यदि त्वं सुकृतं वेत्सि तत् सख्यमनुसारय॥ प्रशान्तादपि मे पापाद् भेतव्यं बलिन: सदा। यदि स्वार्थं न ते कार्यं ब्रूहि किं करवाणि ते॥ कामं सर्वं प्रदास्यामि न त्वाऽऽत्मानं कदाचन। आत्मार्थे संततिस्त्याज्या राज्यं रत्नं धनानि च॥ अपि सर्वस्वमुत्सृज्य रक्षेदात्मानमात्मना। ऐश्वर्यधनरत्नानां प्रत्यमित्रे निवर्तताम्॥ दृष्ट्वा हि पुनरावृत्ति वतामिति नः श्रुतम्। न त्वात्मनः सम्प्रदानं धनरलवदिष्यते॥ आत्मा हि सर्वदा रक्ष्यो दारैरपि धनैरपि। आत्मरक्षणतन्त्राणां सुपरीक्षितकारिणाम्॥ आपदो नोपपद्यन्ते पुरुषाणां स्वदोषजाः। शत्रून् सम्यग् विजानन्ति दुर्बला ये बलीयसः॥ न तेषां चाल्यते बुद्धिः शास्त्रार्थकृतनिश्चया। इत्यभिव्यक्तमेवं स पलितेनाभिभर्त्तितः॥ मार्जारो वीडितो भूत्वा मूषिकं वाक्यमब्रवीत्॥ लोमश उवाच सत्यं शपे त्वयाहं वै मित्रद्रोहो विगर्हितः। तन्मन्येऽहं तव प्रज्ञा यस्त्वं मम हिते रतः॥ उक्तवानर्थतत्त्वेन मयासम्भिन्नदर्शनः। न तु मामन्यथा साधो त्वं ग्रहीतुमिहार्हसि॥ प्राणप्रदानजं त्वत्तां मयि सौहृदमागतम्। धर्मज्ञोऽस्मि गुणज्ञोऽस्मि कृतज्ञोऽस्मि विशेषतः॥ मित्रेषु वत्सलश्चास्मि त्वद्भक्तश्च विशेषतः। तस्मादेवं पुन: साधो मय्याचरितुमर्हसि॥ त्वया हि वाच्यमानोऽहं जह्यां प्राणान् सबान्धवः। विश्रम्भो हि बुधैर्दृष्टो मद्विधेषु मनस्विषु॥ तदेतद् धर्मतत्त्वज्ञ न त्वं शङ्कितुमर्हसि। इति संस्तूयमानोऽपि मारिण स मूषिकः॥ मनसा भावगम्भीरो मार्जारं वाक्यमब्रवीत्। साधुर्भवाश्रुतार्थोऽस्मि प्रीये च न च विश्वसे॥ संस्तवैर्वा धनौधैर्वा नाहं शक्यः पुनस्त्वया। न ह्यमित्रे वशं यान्ति प्राज्ञा निष्कारणं सखे॥ अस्मिन्नर्थे च गाथे द्वे निबोधोशनसा कृते। शत्रुसाधारणे कृत्ये कृत्वा संधि बलीयसा॥ समाहितश्चरेद् युक्त्या कृतार्थश्च न विश्वसेत्। न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्॥ नित्यं विश्वासयेदन्यान् परेषां तु न विश्वसेत्। तस्मात् सर्वास्ववस्थासु रक्षेज्जीवितमात्मनः॥ द्रव्याणि संततिश्चैव सर्वं भवति जीवितः। संक्षेपो नीतिशास्त्राणामविश्वासः परो मतः॥ नृषु तस्मादविश्वास: पुष्कलं हितमात्मनः। वध्यन्ते न ह्यविश्वस्ताः शत्रुभिर्दुर्बला अपि॥ वि तास्तेषु वध्यन्ते बलवन्तोऽपि दुर्बलैः। त्वद्विधेभ्यो मया ह्यात्मा रक्ष्यो मार्जार सर्वदा॥ रक्ष त्वमपि चात्मानं चाण्डालाज्जातिकिल्बिषात्। स तस्य ढवतस्त्वेवं संत्रासाज्जातसाध्वसः॥ शाखां हित्वा जवेनाशु मारिः प्रययौ ततः। ततः शास्त्रार्थतत्त्वज्ञो बुद्धिसामर्थ्यमात्मनः।।२००। विश्राव्य पलितः प्राज्ञो बिलमन्यज्जगाम ह। एवं प्रज्ञावता बुद्ध्या दुर्बलेन महाबलाः॥ एकेन बहवोऽमित्राः पलितेनाभिसंधिताः। अरिणापि मर्थेन संधि कुर्वीत पण्डितः॥ मूषिकश्च बिडालश्च मुक्तावन्योन्यसंश्रयात्। इत्येवं क्षात्रधर्मस्य मया मार्गो निदर्शितः॥ विस्तरेण महाराज संक्षेपमपि मे शृणु। अन्योन्यकृतवैरी तु चक्रतुः प्रीतिमुत्तमाम्॥ अन्योन्यमभिसंधातुं सम्बभूव तयोर्मतिः। तत्र प्राज्ञोऽभिसंधत्ते सम्यग् बुद्धिसमाश्रयात्॥ अभिसंधीयते प्राज्ञः प्रमादादपि वा बुधैः। तस्मादभीतवद् भीगो विश्वस्त्वदविश्वसन्॥ न ह्यप्रमत्तश्चलति चलितो वा तिनश्यति। कालन रिपुणा संधिः काले मित्रेण विग्रहः॥ कार्य इत्ये व संधिज्ञाः प्राहुर्नित्यं नराधिप। एतज्ज्ञात्वा महाराज शास्त्रार्थमभिगम्य च।२०८॥ अभियुक्तोऽप्रमत्तश्च प्राग्भयाद् भीतवच्चरेत्। भीतवत् संनिधिः कार्यः प्रतिसंधिस्तथैव च॥ भयादुत्पद्यते बुद्धिरप्रमत्ताभियोगजा। न भयं विद्यते राजन् भीतस्यानागते भये॥ अभीतस्य च विश्रम्भात् सुमहज्जायते भवम्। अभीश्चरति यो नित्यं मन्त्रोऽदेयः कथंचन॥ अविज्ञानाद्धि विज्ञातो गच्छेदास्पददर्शिषु। तस्मादभीतवद् भीतो विश्वस्तवदविश्वसन्॥ कार्याणां गुरुतां प्राप्य नानृतं किंचिदाचरेत्। एवमेतन्मया प्रोक्तमितिहासं युधिष्ठिर॥ श्रुत्वा त्वं सुहृदां मध्ये यथावत् समुपाचर। उपलभ्य मतिं चाय्यामरिमित्रान्तरं तथा॥ संधिविग्रहकालौ च मोक्षोपायस्तथैव च। शत्रुसाधारणे कृत्ये कृत्वा संधि बलीवसा॥ समागतश्चरेद् युक्त्या कृतार्थो न च विश्वसेत्। अविरुद्धां त्रिवर्गेण नीतिमेतां महीपते॥ अभ्युत्तिष्ठ श्रुतादस्माद् भूयः संरक्षयन् प्रजाः। ब्राह्मणैश्चापि ते सार्धं यात्रा भवतु पाण्डव॥ ब्राह्मणा वै परं श्रेयो दिवि चेह च भारत। एते धर्मस्य वेत्तारः कृतज्ञा. सततं प्रभो॥ पृजिताः शुभकर्तारः पूजयेत् तान् नराधिप। राज्यं श्रेयः परं राजन् यशः कीर्ति च लप्स्यसे॥ कुलस्य संततिं चैव यथान्यायं यथाक्रमम्॥ द्वयोरिमं भारत संगिविग्रहं सुभाषितं बुद्धिविशेष कारकम्। यथा त्ववेक्ष्य क्षितिपेन सर्वदा निगेवितव्यं नृप शत्रुमण्डले॥ युधिष्ठिर उवाच उक्तो मन्त्रो महाबाहो विश्वासो नास्ति शत्रुषु। कथं हि राजा वर्तेत यदि सर्वत्र नाथसेत्॥ विश्वासाद्धिं पर राजन् राज्ञामुत्पद्यते भयम्। कथं हि नाश्वसन् राजा शत्रून् जयति पार्थिवः॥ एतन्मे संशयं छिन्धि मतिर्मे सम्प्रमुह्यति। अविश्वासकथामेतामुपश्रुत्य पितामह॥ भीष्म उवाच शृणुष्व राजन् यद् वृत्तं ब्रह्मदत्तनिवेशने। पूजन्या सह संवादं ब्रह्मदत्तस्य भूपतेः॥ काम्पिल्ये ब्रह्मदत्तस्य त्वन्तःपुरनिवासिनी। पूजनी नाम शकुनिर्दीर्घकालं सहोषिता॥ रुतज्ञा सर्वभूतानां यथा वै जीवजीवकः। सर्वज्ञा सर्वतत्त्वज्ञा तिर्यग्योनिं गतापि सा॥ अभिप्रजाता सा तत्र पुत्रमेकं सुवर्चसम्। समकालं च राज्ञोऽपि देव्यां पुत्रो व्यजायत॥ तयोरर्थे कृतज्ञा सा खेचरी पूजनी सदा। समुद्रतीरं सा गत्वा आजहार फलद्वयम्॥ पुष्ट्यर्थं च स्वपुत्रस्य राजपुत्रस्य चैव हा फलमेकं सुतायादाद् राजपुत्राय चापरम्॥ अमृतास्वादसदृशं बलतेजोऽभिवर्धनम्। आदायादाय सैवाशु तयोः प्रादात् पुनः पुनः॥ ततोऽगच्छत् परां वृद्धिं राजपुत्रः फलाशनात्। ततः स धाच्या कक्षेण उह्यमानो नृपात्मजः॥ ददर्श तं पक्षिसुतं बाल्यादागत्य बालकः। ततो बाल्याच्च यत्नेन तेनाक्रीडत पक्षिणा॥ शून्ये च तमुपादाय पक्षिणं समजातकम्। हत्वा ततः स राजेन्द्र धात्र्या हस्तमुपागतः॥ अथ सा पूजनी राजन्नागमत् फलहारिणी। अपश्यन्निहतं पुत्रं तेन बालेन भूतले॥ वाष्पपूर्णमुखी दीना दृष्ट्वा तं रुदती सुतम्। पूजनी दुःखसंतप्ता रुदती वाक्यमब्रवीत्॥ क्षत्रिये सगतं नास्ति न प्रीतिर्न च सौहृदम्। कारणात् सान्त्वयन्त्येते कृतार्थाः संत्यजन्ति च॥ क्षत्रियेषु न विश्वासः कार्यः सर्वापकारिषु। अपकृत्यापि सततं सान्त्वयन्ति निरर्थकम्॥ अहमस्य करोम्यद्य सदृशीं वैरयातनाम्। कृतघ्नस्य नृशंसस्य भृशं विश्वासघातिनः॥ सहसंजातवृद्धस्य तथैव सहभोजिनः। शरणागतस्य च वधस्त्रिविधं ह्येव पातकम्॥ इत्युक्त्वा चरणाभ्यां नेत्रे नृपसुतस्य सा। भित्त्वा स्वस्था तत इदं पूजनी वाक्यमब्रवीत्॥ इच्छयेह कृतं पापं सद्यस्तं चोपसर्पति। कृतं प्रतिकृतं येषां न नश्यति शुभाशुभम्॥ पापं कर्म कृतं किंचिद् यदि तस्मिन् न दृश्यते। नृपते तस्य पुत्रेषु पौत्रेष्वपि च नतृषु॥ तु ब्रह्मदत्तः सुतं दृष्ट्वा पूजन्याहृतलोचनम्। कृते प्रतिकृतं मत्वा पूजनीमिदमब्रवीत्॥ ब्रह्मदत्त उवाच अस्ति वै कृतमस्माभिरस्ति प्रतिकृतं त्वया। उभयं तत् समीभूतं वस पूजनि मा गमः॥ पूजन्युवाच सकृत् कृतापराधस्य तत्रैव परिलम्बतः। न तद् बुधाः प्रशंसन्ति श्रेयस्तत्रापसर्पणम्॥ सान्त्वे प्रयुक्ते सततं कृतवैरे न विश्वसेत्। क्षिप्रं स बध्यते मूढो न हि वैरं प्रशाम्यति॥ अन्योन्यकृतवैराणां पुत्रपौत्रं नियच्छति। पुत्रपौत्रविनाशे च परलोकं नियच्छति॥ सर्वेषां कृतवैराणामविश्वासः सुखोदयः। एकान्ततो न विश्वासः कार्यो विश्वासघातकैः॥ न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्। विश्वासाद् भयमुत्पन्नमपि मूलं निकृन्तति। कामं विश्वासयेदन्यान् परेषां च न विश्वसेत्॥ माता पिता बान्धवानां वरिष्ठौ भार्या जरा बीजमात्रं तु पुत्रः। भ्राता शत्रुः क्लित्रपाणिर्वयस्य आत्मा ह्येकः सुखदुःखस्य भोक्ता॥ अन्योन्यकृतवैराणां न संधिरुपपद्यते। स च हेतुरतिक्रान्तो यदर्थमहमावसम्॥ पूजितस्यार्थमानाभ्यां जन्तोः पूर्वापकारिणः। मनो भवत्यविश्वस्तं कर्म त्रासयतेऽबलान्॥ पूर्वं सम्मानन, यत्र पश्चाच्चैव विमानना। जह्यात् तत् सत्त्ववान् स्थानं शत्रो:सम्मानितोऽपिसन्।। उषितास्मि तवागारे दीर्घकालं समर्चिता। तदिदं वैरमुत्पन्नं सुखमाशु व्रजाम्यहम्॥ ब्रह्मदत्त उवाच यः कृते प्रतिकुर्याद् वै न स तत्रापरानुयात्। अनृणस्तेन भवति वस पूजनि मा गमः॥ पूजन्युवाच न कृतस्य तु कर्तुश्च सख्यं संधीयते पुनः हृदयं तत्र जानाति कर्तुश्चैव कृतस्य च॥ ब्रह्मदत उवाच कृतस्य चैव कर्तुश्च सख्यं संधीयते पुनः। वैरस्योपशमो दृष्टः पापं नोपाप्नुते पुनः॥ पूजन्युवाच नास्ति वैरमतिक्रान्तं सान्त्वितोऽस्मीति नाश्वसेत्। विश्वासाद् वसते लोके तस्माच्छ्रेयोऽप्यदर्शनम्॥ तरसा ये न शक्यन्ते शस्त्रैः गुनिशितैरपि। साम्ना तेऽपि निगृह्यन्ते गजा इव करेणुभिः॥ ब्रह्मदत्त उवाच संवासाज्जायते स्नेहो जीवितान्तकरेष्वपि। अन्योन्यस्य च विधास: श्वपधेन शुनो पथा॥ अन्योन्कृतवैराणां संवासान्मृदुतां गतम्। नैव तिष्ठति तद् वैरं पुष्करस्थमिवोदकम्॥ पूजन्युवाच वैरं पञ्चसमुत्थानं तच्च बुध्यन्ति पण्डिताः। स्त्रीकृतं वास्तुजं वाजं ससापत्नापराधजम्॥ तत्र दाता न हन्तव्यः क्षत्रियेणशेषतः। प्रकाशं वाप्रकाशं वा बुद्दा दोषबलाबलम्॥ कृतवैरे न विश्वासः कार्यस्विह सुहृद्यपि। छन्नं संतिष्ठते वैरं गूढोऽग्निरिव दारुषु।:४४॥ न वित्तेन न पारुष्यैर्न सान्त्वेन न च श्रुतैः। कोपाग्निः शाम्यते राजस्तोयाग्निरिव सागरे॥ न हि पैधानिसस्त: कर्न चाप्यपराधजम्। शाम्यत्यदग्ध्वा नृपते विना टेकतर६. पात्॥ सत्कृतस्यार्थमानाभ्यां तत्र पूर्वापकारिणः। नादेयोऽमित्रविश्वास: कर्म त्रासयतेऽबलान्॥ नैवापकारे कस्मिंश्चिदहं त्वयि तथा भवान्। उषितास्मि गृहेऽहं ते नेदानी विश्वसाम्यहम्॥ ब्रह्मदत्त उवाच कालेन क्रियते कार्य तथैव विविधाः क्रियाः। कालेनैते प्रवर्तन्ते कः कस्येहापराध्यति॥ तुल्यं चोभे प्रवर्तेते मरणं जन्म चैव ह। कार्यते चैव कालेन तन्निमित्तं न जीवति॥ वध्यन्ते युगपत् केचिदेकैकस्य न चापरे। कालो दहति भूतानि सम्प्राप्याग्निरिवेन्धनम्॥ नाहं प्रमाणं नैव त्वमन्योन्यं कारणं शुभे। कालो नित्यमुपादत्ते सुखं दुःखं च देहिनाम्॥ एवं वसेह सस्नेहा यथाकाममर्हिसिता। यत् कृतं तत् तु मे क्षान्तं त्वंच वै क्षम पूजनि॥ पूजन्युवाच यदि कालः प्रमाणं ते न वैरं कस्यचिद् भवेत्। कस्मात् त्वपचितिं यान्ति बान्धवा बान्धवैहतैः॥ कस्माद् देवासुराः पूर्वमन्योन्यमभिजन्निरे। यदि कालेन निर्याणं सुखं दुःखं भवाभवौ॥ भिषजो भैषजं कर्तुं कस्मादिच्छन्ति रोगिणः। यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम्॥ प्रलापः सुमहान् कस्मात् क्रियते शोकमूच्छितैः। यदि कालः प्रमाणं ते कस्माद् धर्मोऽस्ति कर्तुषु॥ तव पुत्रो ममापत्यं हतवान् स हतो मया। अनन्तरं त्वयाहं च हन्तव्या हि नराधिप॥ अहं हि पुत्रशोकेन कृतपापा तवात्मजे। यथा त्वया प्रहर्तव्यं तथा तत्त्वं च मे शृणु॥ भक्ष्यार्थं क्रीडनार्थं च नरा वाञ्छन्ति पक्षिणः। तृतीयो नास्ति संयोगो वधबन्धादृते क्षमः॥ वधबन्धभयादेते मोक्षतन्त्रमुपाश्रिताः। जनीमरणजं दुःखं प्राहुर्वेदविदो जनाः॥ सर्वस्य दयिताः प्राणाः सर्वस्य दक्षिाः सुता। दुःखादुद्विजते सर्वः सर्वस्य सुखमीप्सितम्।।६२। दुःखं जरा ब्रह्मदत्त दुःखमर्थविपर्ययः। दुःखं चानिष्टसंवासो दुःखमिवियोजनम्॥ वधबन्धकृतं दुःखं स्त्रीकृतं सहजं तथा। दुःख सुतेन सततं जनान् विपरिवर्तते॥ न दुःखं परदुःखे वै केचिदाहुरबुद्धयः। यो दुःखं नाभिजानाति स जल्पति महाजने॥ यस्तु शोचति दुःखार्तः स कथं वक्तुमुत्सहेत्। रसज्ञः सर्वदुःखस्य यथाऽऽत्मनि तथा परे॥ यत् कृतं ते मया राजंस्त्वया च मम यत् कृतम्। न तद् वर्षशतैः शक्यं व्यपोहितुमरिंदम्॥ आवयोः कृतमन्योन्यं पुनः संधिर्न विद्यते। स्मृत्वा स्मृत्वा हि ते पुत्रं नवं वैरं भविष्यति।६८॥ वैरपन्तिकमासाद्य यः प्रीति कर्तुमिच्छति। मृन्मयस्येव भग्नस्य यथा संधिर्न विद्यते॥ निश्चयः स्वार्थशास्त्रेषु विश्वासश्चासुखोदयः। उशना चैव गाथे द्वे प्रह्लादायाब्रवीत् पुरा॥ ये वैरिणः श्रद्दधते सत्ये सत्येतरेऽपि वा। वध्यन्ते श्रद्दधानास्तु मधु शुष्कतृणैर्यथा॥ न हि वैराणि शाम्यन्ति कुले दुःखगतानि च। आख्यातारश्च विद्यन्ते कुले वै ध्रिप्ते पुमान्॥ उपगृह्य तु वैराणि सान्त्वयन्ति नराधिप। अथैनं प्रतिपिंषन्ति पूर्णं घटमिवाश्मनि॥ सदा न विश्वसेद् राजन् पापं कृत्वेह कस्यचित्। अपकृत्य परेषां हि विश्वासाद् दुःखमश्नुते॥ ब्रह्मदत्त उवाच नाविश्वासाद् विन्दतेऽर्थानीहते चापि किंचन। भयात् त्वेकतरान्नित्यं मृतकल्पा भवन्ति च॥ पूजन्नुवाच यस्येह व्रणिनी पादौ पद्भ्यां च परिसर्पति। खन्येते तस्य तौ पादौ सुगुप्तमिह धावत:॥ नेत्राभ्यां सरुजाभ्यां यः प्रतिवातमुदीक्षते। तस्य वायुरुन्दात्यर्थं नेत्रयोर्भवति ध्रुवम्॥ दुष्टं पन्थानमासाद्य यो मोहादुपपद्यते। आत्मनो बलभज्ञाय तदन्तं तस्य जीवितम्॥ यस्तु वर्षमविज्ञाय क्षेत्रं कर्षति कर्षकः। हीन: पुरुषकारेण सस्यं नैवाश्नुते ततः॥ यस्तु तिक्तं कषायं वा स्वादु वा मधुरं हितम्। आहारं कुरुते नित्यं सोऽमृतत्वाय कल्पते।॥ पथ्यं मुक्त्वा तु यो मोहाद् दुष्टमश्नाति भोजनम्। परिणाममविज्ञाय तदन्तं तस्य जीवितम्॥ दैवं पुरुषकारश्च स्थितावन्योन्यसंश्रयात्। उदाराणां तु सत्कर्म दैवं क्लीबा उपासते॥ कर्म चात्महितं कार्य तीक्ष्णं वा यदि वा मृदु। ग्रस्यतेऽकर्मशीलस्तु सदान\ रकिञ्चनः॥ तस्मात् सर्वं व्यपोह्यार्थं कार्य एव पराक्रमः। सर्वस्वमपि संत्यज्य कार्यमात्महितं नरैः॥ विद्या शौर्यं च दाक्ष्यं च बलं धैर्यं च पञ्चमम्। मित्राणि सहजान्याहुर्वर्तयन्तीह तैर्बुधाः॥ निवेशनं च कुप्यं व क्षेत्रं भार्या सुहज्जनः। एतान्युपहितान्याहुः सर्वत्र लभते पुमान्॥ सर्वत्र रमते प्राज्ञः सर्वत्र च विराजते। न विभीपयते कश्चिद् भीषितो न बिभेति च॥ नित्यं बुद्धिमतोऽप्यर्थः स्वल्पकोऽपि विवर्धते। दाक्ष्ये' कुर्वतः कर्म मंयपात् प्रतितिष्ठति॥ गृहस्नेहावबद्धानां नराणामल्पमेधसाम्। कुस्त्री खादति मांसानि माघमां सेगवा इव॥ गृहं क्षेत्राणि मित्राणि स्वदेश इति चापरे। इत्येवमवसीदन्ति नरा बुद्धिविपर्यये॥ उत्पतेत् सहजाद् देशाद् व्याधिदुर्भिक्षपीडितात्। अन्यत्र वस्तुं गच्छेद् वा वसेद् वा नित्यमानितः॥ तस्मादन्यत्र यास्यामि वस्तुं नाहमिहोत्सहे। दृतमेतदनार्यं मे तव पुत्रे च पार्थिव॥ कुभार्यां च कुपुत्रं च कुराजानं कुसौहृदम्। कुसम्बन्धं कुदेशं च दूरतः परिवर्जयेत्॥ कुपुत्रे नास्ति विश्वासः कुभार्यायां कुतो रतिः। कुराज्ये निर्वृतिर्नास्ति कुदेशे नास्ति जीविका॥ कुमित्रे संगतिर्नास्ति नित्यमस्थिरसौहदे। अवमानः कुसम्बन्धे भवत्यर्थविपर्यये॥ सा भार्या प्रियं ब्रूते स पुत्रो यत्र निर्वृतिः। तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते॥ यत्र नास्ति बलात्कारः स राजा तीव्रशासनः। भीरेव नास्ति सम्बन्धो दरिद्रं यो बुभूषते॥ भार्या देशोऽथ मित्राणि पुत्रसम्बन्धिबान्धवाः। एते सर्वे गुणवति धर्मनेत्रे महीपतौ॥ अधर्मज्ञस्य विलयं प्रजा गच्छन्ति निग्रहात्। राजा मूलं त्रिवर्गस्य स्वप्रमत्तोऽनुपालयेत्॥ बलिषड्भागमुद्धृत्य बलिं समुपयोजयेत्। न रक्षति प्रजाः सम्यग् यः स पार्थिवतस्करः॥ दत्त्वाभयं यः स्वयमेव राजा न तत् प्रमाणं कुरुतेऽर्थलोभात्। स सर्वलोकादुपलभ्य पापं सोऽधर्मबुद्धिर्निरयं प्रयाति॥ दत्त्वाभयं स्वयं राजा प्रमाणं कुरुते यदि। स सर्वसुखकृज्ज्ञेयः प्रजा धर्मेण पालयन्॥ माता पिता गुरुर्गोप्ता वह्निर्वैश्रवणो यमः। सप्त राज्ञो गुणानेतान् मनुराह प्रजापतिः॥ पिता हि राजा राष्ट्रस्य प्रजाना योऽनुकम्पनः। तस्मिन् मिथ्याविनीतो हि तिर्यग् गच्छति मानवः।।१०४ सम्भावयति मातेव दीनमप्युपपद्यते। दहत्यग्निरिवानष्टान् यमयन्नसतो यमः॥ इष्टेषु विसृजन्नर्थान् कुबेर इव कामदः। गुरुर्धर्मोपदेशेन गोप्ता च परिपालयन्॥ यस्तु रञ्जयते राजा पौरजानपदान् गुणैः। न तस्य भ्रमते राज्यं स्वयं धर्मानुपालनात्॥ स्वयं समुपजानन् हि पौरजानपदार्चनम्। स सुखं प्रेक्षते राजा इह लोके परत्र च॥ नित्योद्विग्नाः प्रजा यस्य करभारप्रपीडिताः। अनथैविप्रलुप्यन्ते स गच्छति पराभवम्॥ प्रजा यस्य विवर्धन्ते सरसीव महोत्पलम्। स सर्वफलभाग् राजा स्वर्गलोके महीयते॥ बलिना विग्रहो राजन् न कदाचित् प्रशस्यते। बलिना विग्रहो यस्य कुतो राज्यं कुतः सुखम्॥१११। भीष्म उवाच सैवमुक्त्वा शकुनिका ब्रह्मदत्तं नराधिप। राजानं समनुज्ञाप्य जगामाभीप्सितां दिशम्॥ एतत् ते ब्रह्मदत्तस्य पूजन्या सह भाषितम्। मयोक्तं नृपतिश्रेष्ठ किमन्यच्छ्रोतुमिच्छसि॥ युधिष्ठिर उवाच युगक्षयात् परिक्षीणे धर्मे लोके च भारत। दस्युभिः पीड्यमाने च कथं स्थेयं पितामह॥ भीष्म उवाच अत्र ते वर्तयिष्यामि नीतिमापत्सु भारत। उत्सृज्यापि घृणां काले यथा वर्तेत भूमिपः॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। भारद्वाजस्य संवादं राज्ञः शत्रुजयस्य च॥ राजा शत्रुजयो नाम सौवीरेषु महारथः । भारद्वाजमुपागम्य पप्रच्छार्थविनिश्चयम्॥ अलब्धस्य कथं लिप्सा लब्धं केन विवर्धते। वर्धितं पाल्यते केन पालितं प्रणयेत् कथम्॥ तस्मै विनिश्चितार्थाय परिपृष्टोऽर्थनिश्चयम्! उवाच ब्राह्मणो वाक्यमिदं हेतुमदुत्तमम्॥ ऋषि उवाच नित्यमुद्यतदण्डः स्यानित्यं विवृतपौरुषः। अच्छिद्रश्छिद्रदर्शी च परेषां विवरानुगः॥ नित्यमुद्यतदण्डस्य भृशमुद्विजते नरः। तस्मात् सर्वाणि भूतानि दण्डेनैव प्रसाधयेत्॥ एवं दण्डं प्रशंसन्ति पण्डितास्तत्त्वदर्शिनः। तस्माच्चतुष्टये तस्मिन् प्रधानो दण्ड उच्यते॥ छिन्नमूले त्वधिष्ठाने सर्वेषां जीवनं हतम्। कथ हि शाखास्तिष्ठेयुश्छिन्नमूले वनस्पतौ॥ मूलमेवादितश्छिन्द्यात् परपक्षस्य पण्डितः। ततः सहायान् पक्षं च मूलमेवानुसाधयेत्॥ सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम्। आपदास्पदकाले तु कुर्वीत न विचारयेत्॥ वाङ्मात्रेण विनीतः स्याद्धृदयेन यथा क्षुरः। श्लक्ष्णपूर्वाभिभाषी च कामक्रोधौ विवर्जयेत्॥ सपत्नसहिते कार्ये कृत्वा सन्धि न विश्वसेत्। अपक्रामेत् ततः शीघं कृतकार्यो विचक्षणः॥ शत्रु च मित्ररूपेण सान्त्वेनैवाभिसान्त्वयेत्। नित्यशश्नोद्विजेत् तस्माद् गृहात् सर्पयुतादिव॥ यस्य बुद्धिः परिभवेत् तमतीतेन सान्त्वयेत्। अनागतेन दुष्प्रज्ञं प्रत्युत्पन्नेन पण्डितम्॥ अञ्जलिं शपथं सान्त्वं प्रणम्य शिरसा वदेत्। अश्रुप्रमार्जनं चैव कर्तव्यं भूतिमिच्छता॥ वहेदमित्रं स्कन्धेन यावत्कालस्य पर्ययः। प्राप्तकालं तु विज्ञाय भिन्द्याद् घटमिवाश्मनि॥ मुहूर्तमपि राजेन्द्र तिन्दुकालातवज्ज्वलेत्। न तुषाग्निरिवानर्चिधूमायेत चिरं नरः॥ नानार्थिकोऽर्थसम्बन्धं कृतघ्नेन समाचरेत्। अर्थी तु शक्यते भोक्तुं कृतकार्योऽवमन्यते। तस्मात् सर्वाणि कार्याणि सावशेषाणि कारयेत्॥ कोकिलस्य वराहस्य मेरो: शून्यस्य वेश्मनः। नटस्य भक्तिमित्रस्य यच्छ्रेचस्तत् समाचरेत्॥ उत्थायोत्याय गच्छेत नित्ययुक्तो रिपोर्गृहान्। कुशलं चास्य पृच्छेत यद्यप्यकुशलं भवेत्॥ नालसाः प्राप्नुवन्त्यर्थान् न क्लीबा नाभिमानिनः। न च लोकरवाद् भीता न वै शश्वत् प्रतीक्षिणः।।२३। नात्मच्छिद्रं रिपुर्विद्याद् विहाच्छिद्रं परस्य तु। गृहेत् कूर्म इवाङ्गानि रक्षेद् विवरमात्मनः॥ बकवच्चिन्तयेदर्थान् सिंहतच्च पराक्रमेत्। वृकवच्चावलुम्पेत शरवच्च विनिष्पतेत्॥ पानमक्षास्तथा नार्यो मृगया गीतवादितम्। एतानि युक्त्या सेवेत प्रसंगो ह्यत्र दोषवान्॥ कुर्यात् तृणमयं चापं शयीत मृगशायिकाम्। अन्धः स्यादन्धवेलायां बाधिर्यमपि संश्रयेत्॥ देशकालौ समासाद्य विक्रमेत विचक्षणः। देशकालव्यतीतो हि विक्रमो निष्फलो भवेत्॥ कालाकालौ सम्प्रधार्य बलाबलमथात्मनः। परस्य च बलं ज्ञात्वा तत्रात्मानं नियोजयेत्॥ दण्डेनोपनतं शत्रु यो राजा न नियच्छति। स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा॥ सुपुष्पितः स्यादफलः फलवान् स्याद् दुरारुहः। आमः स्यात् पक्वसंकाशो न च शीर्येत कस्यचित्॥ आशां कालवर्ती कुर्यात् तां च विघ्न योजयेत्। विघ्नं निमित्ततो ब्रूयानिमित्तं चापि हेतुतः॥ भीतवत् संविधातव्यं यावद् भयमनागतम्। आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत्॥ न संशयमनारुह्य नरो भद्राणि पश्यति। संशयं पुनरारुह्य यदि जीवति पश्यति॥ अनागतं विजानीयाद् यच्छेद् भयमुपस्थितम्। पुनर्वृद्धिभयात् किंचिदनिवृत्तं निशामयेत्॥ प्रत्युपस्थितकालस्य सुखस्य परिवर्जनम्। अनागतसुखाशा च नैव बुद्धिमतां नयः॥ योऽरिणा सह संधाय सुखं स्वपिति विश्वसन्। स वृक्षाग्रे प्रसुप्तो वा पतितः प्रतिबुद्ध्यते॥ कर्मणा येन तेनैव मृदुना दारुणेन च। उद्धरेद् दीनमात्मानं समर्थो धर्ममाचरेत्॥ ये सपत्नाः सपत्नानां सर्वोस्तानुपसेवयेत्। आत्मनश्चापि बोद्धव्याचारा विनिहताः परैः॥ चारस्त्वविदितः कार्य आत्मनोऽथ परस्य च। पाषण्डांस्तापसादींश्च परराष्ट्र प्रवेशयेत्॥ उद्यानेषु विहारेषु प्रपास्वावसथेषु च। पानागारे प्रवेशेषु तीर्थेषु च सभासु च॥ धर्माभिचारिणः पापाश्चौरा लोकस्य कण्टकाः। समागच्छन्ति तान् बुद्धवा नियच्छेच्छमयीत च॥ न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्। विश्वासाद् भयमभ्येति नापरीक्ष्य च विश्वसेद्॥ विश्वासयित्वा तु परं तत्त्वभूतेन हेतुना। अथास्य प्रहरेत् काले किंचिद् विचलिते पदे॥ अशङ्कयमपि शङ्केत नित्यं शङ्केत शङ्कितात्। भयं ह्यशङ्कितात्जातं समूलमपि कृन्तति॥ अवधानेन मौनेन काषायेण जटाजिनैः। विश्वासयित्वा द्वेशरमवलुम्पेद् यथा वृकः॥ पुत्रो वा यदि वा भ्राता पिता वा यदि वा सुहृत्। अर्थस्य विनं कुर्वाणा हन्तव्या भूतिमिच्छता॥ गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः। उत्पथं प्रतिपन्नस्य दण्डो भवति शासनम्॥ अभ्युत्थानाभिवादाभ्यां सम्प्रदानेन केनचित्। प्रतिपुष्पकलाघाती तीक्ष्णतुण्ड इव द्विजः॥ नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम्। नाहत्वा मत्स्यधातीव प्राप्नोति महतीं श्रियम्॥ नास्ति जात्या रिपु म मित्रं वापि न विद्यते। सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा॥ अमित्रं नैव मुञ्चेत वदन्तं करुणान्यपि। दुःखं तत्र न कर्तव्यं हन्यात् पूर्वापकारिणम्॥ संग्रहानुग्रहे यत्नः सदा कार्योऽनसूयता। निग्रहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता॥ प्रहरिष्यन् प्रियं ब्रूयात् प्रहृत्यैव प्रियोत्तरम्। असिनापि शिरश्छित्त्वा शोचेत च रुदेत च॥ निमन्त्रयीत सान्त्वेन सम्मानेन तितिक्षया। लोकाराधनमित्येतत् कर्तव्यं भूतिमिच्छता॥ न शुष्कवैरं कुर्वीत बाहुभ्यां न नदी तरेत्। अनर्थकमनायुष्यं गोविषाणस्य भक्षणम्। दन्ताश्च परिमृज्यन्ते रसश्चापि न लभ्यते॥ त्रिवर्गे त्रिविधा पीडानुबन्धास्त्रय एव च। अनुबन्धाः शुभा ज्ञेया: पीडाश्च परिवर्जयेत्॥ ऋणशेषमाग्निशेषं शत्रुशेषं तथैव च। पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न धारयेत्॥ वर्धमानमृणं तिष्ठेत् परिभूताश्च शत्रवः। जनयन्ति भयं तीव्र व्याधयश्चाप्युपेक्षिताः॥ नासम्यक्कृतकारी स्यादप्रमत्तः सदा भवेत्। कण्टकोऽपि हि दुश्छिन्नो विकारं कुरुते चिरम्॥ वधेन च मनुष्याणां मार्गाणां दूषणेन च। अगाराणां विनाशैश्च परराष्ट्रं विनाशयेत्॥ गृध्रदृष्टिर्बकालीनः श्वचेष्टः सिंहविक्रमः। अनुद्विग्नः काकशङ्की भुजङ्गचरितं चरेत्॥ शूरमञ्जलिपातेन भीरुं भेदेन भेदयेत्। लुब्धमर्थप्रदानेन समं तुल्येन विग्रहः॥ श्रेणीमुख्योपजायेषु वल्लभानुनयेषु च। अमात्यान् परिरक्षेत भेदसंघातयोरपि॥ मृदुरित्यवजानन्ति जीक्ष्ण इत्युद्विजन्ति च। तीक्ष्णकाले भवेत् तीक्ष्णो मृदुकाले मृदुर्भवेत्॥ मृदुनैव मृदुं हन्ति मृदुना हन्ति दारुणम्। नासाध्यं मृदुना किंचित् तस्मात् तीक्ष्णतरो मृदुः॥ काले मृदुर्यो भवति काले भवति दारुणः। प्रसाधयति कृत्यानि शत्रु चाप्यधितिष्ठति॥ पण्डितेन विरुद्धः सन् दूरस्थोऽस्मीति नाश्वसेत्। दी? बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः॥ न तद्धरेद् यत् पुनराहरेत् परः। न तं हन्याद् यस्य शिरो न पातयेत्॥ इतीदमुक्तं वृजिनाभिसंहितं न चैतदेवं पुरुषः समाचरेत्। परप्रयुक्ते न कथं विभावर्ये दतो मयोक्तं भवतो हितार्थिना॥ यथावदुक्तं वचनं हितार्थिना निशम्य विप्रेण सुवीरराष्ट्रपः। तथाकरोद् वाक्यमदीनचेतनः श्रियं च दीप्तां बुभुजे सबान्धवः॥ युधिष्ठिर उवाच हीने परमके धर्मे सर्वलोकाभिलचिते। अधर्मे धर्मतां नीते धर्मे चाधर्मतां गते॥ मर्यादासु विनष्टासु क्षुभिते धर्मनिश्चये। राजभिः पीडिते लोके परैर्वापि विशाम्पते॥ सर्वाश्रमेषु मूढेषु कर्मसूपहतेषु च। कामाल्लोभाच्च मोहाच्च भयं पश्यत्सु भारत॥ अविश्वस्तेषु सर्वेषु नित्यं भीतेषु पार्थिव। निकृत्या हन्यमानेषु वञ्चयत्सु परस्परम्॥ सम्प्रदीप्तेषु देशेषु ब्राह्मणे चातिपीडिते। अवर्षति च पर्जन्ये मिथो भेदे समुत्थिते॥ सर्वस्मिन् दस्युसाद् भूते पृथिव्यामुपजीवने। केनस्विद् ब्राह्मणो जीवेज्जघन्ये काल आगते॥ अतितिक्षुः पुत्रपौत्राननुक्रोशान्नराधिप। कथमापत्सु वर्तेत तन्मे ब्रूहि पितामह।॥ कथं च राजा वर्तेत लोके कलुषतां गते। कथमर्थाच्च धर्माच्च न हीयेत परंतप।॥ भीष्म उवाच राजमूला महाबाहो योगक्षेमसुवृष्टयः। प्रजासु व्याधयश्चैव मरणं च भयानि च॥ कृतं त्रेतां द्वापरं च कलिश्च भरतर्षभ। राजमूला इति मतिर्मम नास्त्यत्र संशयः॥ तस्मिंस्त्वभ्यागते काले प्रजानां दोषकारके। विज्ञानबलमास्थाय जीवितव्यं भवेत् तदा॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। विश्वामित्रस्य संवादं चाण्डालस्य च पक्कणे॥ त्रेताद्वापरयोः संधौ तदा दैवविधिक्रमात्। अनावृष्टिरभूद् घोरा लोके द्वादशवार्षिकी।॥ प्रजानामतिवृद्धानां युगान्ते समुपस्थिते। त्रेताविमोक्षसमये द्वापरप्रतिपादने॥ ववर्ष सहस्त्राक्षः प्रतिलोमोऽभवद् गुरुः। जगाम दक्षिणं मार्गं सोमो व्यावृत्तलक्षणः॥ न नावश्यायोऽपि तत्राभूत् कुत एवाभ्रजातयः। नद्यः संक्षिप्ततोयौघाः किंचिदन्तर्गतास्ततः॥ सरांसि सरितश्चैव कूपाः प्रस्रवणानि च। हतत्विषो न लक्ष्यन्ते निसर्गाद् दैवकारितात्॥ उपशुष्कजलस्थाया विनिवृत्तसभाप्रपा। निवृत्तयज्ञस्वाध्याया निर्वषट्कारमङ्गला॥ उच्छिन्नकृषिगोरक्षा निवृत्तविपणापणा! निवृत्तयूपसम्भारा विप्रणष्टमहोत्सवा॥ अस्थिसंचयसंकीर्णा महाभूतरवाकुला। शून्यभूयिष्ठनगरा दग्धग्रामनिवेशना॥ क्व चिच्चोरैः क्व चिच्छस्त्रैः क्व चिद् राजभिरातुरैः। परस्परभयाच्चैव शून्यभूयिष्ठनिर्जना॥ गतदैवतसंस्थाना वृद्धबालविनाकृता। गोजाविमहिषीहीना परस्परपराहता।॥ हतविप्रा हतारक्षा प्रणशैषधिसंचया। सर्वभूतरुतप्राया बभूव वसुधा तदा॥ तस्मिन् प्रतिभये काले क्षते धर्मे युधिष्ठिर। बभूवुः क्षुधिता माः खादमानाः परस्परम्॥ ऋषयो नियमांस्त्यक्त्वा परित्यज्याग्निदेवताः। आश्रमान् सम्परित्यज्य पर्यधावन्नितस्ततः॥ विश्वामित्रोऽथ भगवान् महर्षिरनिकेतनः। क्षुधापरिगतो धीमान् समन्तात् पर्यधावत॥ त्यक्त्वा दारांश्च पुत्रांश्च कस्मिंश्च जनसंसदि। भक्ष्याभक्ष्यसमो भूत्वा निरग्निरनिकेतनः॥ स कदाचित् परिपतश्वपचानां निवेशनम्। हिंस्त्राणां प्राणिघातानामाससाद वने क्वचित्॥ विभिन्नकलशाकीर्णं श्वचर्मच्छेदनायुतम्। वराहखरभग्नास्थिकपालघटसंकुलम्॥ मृतचैलपरिस्तीर्णं निर्माल्यकृतभूषणम्। सर्पनिर्मोकमालाभिः कृतचिह्नकुटीमठम्॥ कुक्कुटारावबहुलं गर्दभध्वनिनादितम्। उद्घोषद्भिः खरैर्वाक्यैः कलहद्भिः परस्परम्॥ उलूकपक्षिध्वनिभिर्देवतायतनैर्वृतम्। लोहघण्टापरिष्कारं श्वयूथपरिवारितम्॥ तत् प्रविश्य क्षुधाविष्टो विश्वामित्रो महानृषिः। आहारान्वेषणे युक्तः परं यत्नं समास्थितः॥ न च क्व चिदविन्दत् स भिक्षमाणोऽपि कौशिकः। मांसमन्नं फलं मूलमन्यद् वा तत्र किञ्चन॥ अहो कृच्छं मया प्राप्तमिति निश्चित्य कौशिकः। पपात भूमौ दौर्बल्यात् तस्मिंश्चाण्डालपक्कणे॥ स चिन्तयामास मुनिः किं नु मे सुकृतं भवेत्। कथं वृथा न मृत्युः स्यादिति पार्थिवसत्तम॥ स ददर्श श्वमांसस्य कुतन्त्री विवतां मुनिः। चाण्डालस्य गृहे राजन् सद्यः शस्त्रहतस्य वै॥ स चिन्तयामास तदा स्तैन्यं कार्यमितो मया। न हीदानीमुपायो मे विद्यते प्राणधारणे॥ आपत्सु विहितं स्तैन्यं विशिष्टसमहीनताः। विप्रेण प्राणरक्षार्थ कर्तव्यमिति निश्चयः॥ हीनादादेयमादौ स्यात् समानात् तदनन्तरम्। असम्भवे वाऽऽदीत विशिष्टादपि धार्मिकात्॥ सोऽहमन्त्यावसायानां हराम्येनां प्रतिग्रहात्। न स्तैन्यदोषं पश्यामि हरिष्यामि श्वजाघनीम्॥ एतां बुद्धिं समास्थाय विश्वामित्रो महामुनिः। तस्मिन् देशे स सुष्वाप श्वपचो यत्र भारत॥ स विगाढां निशां दृष्ट्वा सुप्ते चाण्डालपक्कणे। शनैरुत्थाय भगवान् प्रविवेश कुटीमठम्॥ स सुप्त इव चाण्डालः श्लेष्मापिहितलोचनः। परिभिन्नस्वरो रूक्षः प्रोवाचाप्रियदर्शनः॥ श्वपच उवाच कः कुतन्त्री घटयति सुप्ते चाण्डालपक्कणे। जागर्मि नात्र सुप्तोऽस्मि हतोऽसीति च दारुणः॥ विश्वामित्रस्ततो भीतः सहसा तमुवाच ह। तत्र व्रीडाकुलमुखः सोद्वेगस्तेन कर्मणा॥ विश्वामित्रोऽहमायुष्मन्नागतोऽहं बुभुक्षितः। मा वधीर्मम सबुद्धे यदि सम्यक् प्रपश्यसि॥ चाण्डालस्तद् वचः श्रुत्वा महर्षे वितात्मनः। शयनादुपसम्भ्रान्त उद्ययौ प्रति तं ततः॥ स विसृज्याश्रु नेत्राभ्यां बहुमानात् कृताञ्जलिः। उवाच कौशिकं रात्रौ ब्रह्मन् किं ते चिकीर्षितम्॥ विश्वामित्रस्तु मातङ्गमुवाच परिसान्त्वयन्। क्षुधितोऽहं गतप्राणो हरिष्यामि श्वजाघनीम्॥ क्षुधित: कलुषं यातो नास्ति हीरशनार्थिनः। क्षुच्च मां दूषयत्यत्र हरिष्यामि श्वजाघनीम्॥ अवसीदन्ति मे प्राणाः श्रुतिर्मे नश्यति क्षुधा। दुर्बलो नष्टसंज्ञश्च भक्ष्याभक्ष्यविवर्जितः॥ सोऽधर्मं बुद्ध्यमानोऽपि हरिष्यामि श्वजाघनीम्। अटन् भैक्ष्यं न विन्दामि यदा युष्माकमालये॥ तदा बुद्धिः कृता पापे हरिष्यामि श्वजाघनीम्। अग्निर्मुखं पुरोधाश्च देवानां शुचिषाड् विभुः॥ यथावत् सर्वभुम् ब्रह्मा तथा मां विद्धि धर्मतः। तमुवाच स चाण्डालो महर्षे शृणु मे वचः॥ श्रुत्वा तत् त्वं तथाऽऽतिष्ठ यथा धर्मो न हीयते। धर्म वापि विप्रर्षे शृणु यत् ते ब्रवीम्यहम्॥ शृगालादधमं श्वानं प्रवदन्ति मनीषिणः। तस्याप्यधम उद्देशः शरीरस्य श्वजाघनी॥ नेदं सम्यग् व्यवसितं महर्षे धर्मगर्हितम्। चाण्डालस्वस्य हरणमभक्ष्यस्य विशेषतः॥ साध्वन्यमनुपश्य त्वमुपायं प्राणधारणे। न मांसलोभात् तपसो नाशस्ते स्यान्महामुने॥ जानता विहितं धर्मं न कार्यो धर्मसंकरः। मा स्म धर्म परित्याक्षीस्त्वं हि धर्मभृतां वरः॥ विश्वामित्रस्ततो राजनित्युक्तो भरतर्षभ। क्षुधातः प्रत्युवाचेदं पुनरेव महामुनिः॥ निराहारस्य सुमहान् मम कालोऽभिधावतः। न विद्यतेऽप्युपायश्च कश्चिन्मे प्राणधारणे॥ येन येन विशेषेण कर्मणा येन केनचित्। अभ्युज्जीवेत् साद्यमानः समर्थो धर्ममाचरेत्॥ ऐन्द्रो धर्मः क्षत्रियाणां ब्राह्मणानामथाग्निकः। ब्रह्मवह्निर्मम बलं भक्ष्यामि शमयन् क्षुधाम्॥ यथा यथैव जीवेद्धि तत् कर्तव्यमहेलया। जीवितं मरणाच्छ्यो जीवन् धर्ममवाप्नुयात्॥ सोऽहं जीवितमाकाङ्क्षन्नभक्ष्यस्यापि भक्षणम्। व्यवस्ये बुद्धिपूर्वं वै तद् भवाननुमन्यताम्॥ बलवन्तं करिष्यामि प्रणोत्स्याम्यशुभानि तु। तपोभिर्विद्यया चैव ज्योतीषीव महत्तमः॥ श्वपच उवाच नैतत्खादन्प्राप्नुते दीर्घमायु नैव प्राणान्नामृतस्येव तृप्तिः। भिक्षामन्यां भिक्ष मा ते मनोऽस्तु श्वभक्षणेश्वा ह्यभक्ष्यो द्विजानाम्॥ विश्वामित्र उवाच न दुर्भिक्षे सुलभं मांसम च्छ्वपाक मन्ये न च मेऽस्ति वित्तम्। क्षुधार्तश्चाहमगतिर्निराशः श्वमांसे चास्मिन् षडरूसान् साधु मन्ये॥ श्वपच उवाच पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रस्य वै विशः। यथा शास्त्रं प्रमाणं ते माभक्ष्ये मानसं कृथाः॥ विश्वामित्र उवाच अगस्त्येनासुरो जग्धो वातापिः क्षुधितेन वै। अहमापद्गतः क्षुत्तो भक्षयिष्ये श्वजाघनीम्॥ श्वपच उवाच भिक्षामन्यामाहरेति न च कर्तुमिहार्हसि। न नूनं कार्यमेतद् वै हर कामं श्वजाघनीम्॥ विश्वामित्र उवाच शिष्टा वै कारणं धर्मे तवृत्तमनुवर्तये। परां मेध्याशनामेनां भक्ष्यां मन्ये श्वजाघनीम्॥ श्वपच उवाच असता यत् समाचीर्णं न च धर्मः सनातनः। नाकार्यमिह कार्यं वै मा छलेनाशुभं कृथाः॥ विश्वामित्र उवाच न पातकं नावमतमृषिः सन् कर्तुमर्हति। समौ च श्वमृगौ मन्ये तस्माद् भोक्ष्ये श्वजाघनीम्।।७५। श्वपच उवाच यद्ब्राह्मणार्थे कृतमर्थितेन तेनर्षिणा तदवस्थाधिकारे। स वै धर्मो यत्र न पापमस्ति सर्वैरुपायैर्गुरवो हि न रक्ष्याः॥ विश्वामित्र उवाच मित्रं च मे ब्राह्मणस्यायमात्मा प्रियश्च मे पूज्यतमश्च तं धर्तुकामोऽहमिमां जिहीषे। नृशंसानामीदृशानां न बिभ्ये॥ लोके। श्वपच उवाच कामं नरा जीवितं संत्यजन्ति न चाभक्ष्ये क्वचित् कुर्वन्ति बुद्धिम्। सर्वान् कामान् प्राप्नुवन्तीह विद्वन् प्रियस्व कामं सहितः क्षुधैव॥ विश्वामित्र उवाच स्थाने भवेत् संशयः प्रेत्यभावे निःसंशयः कर्मणां वै विनाशः। अहं पुनव्रतनित्यः शमात्मा मूलं रक्ष्यं भक्षयिष्याम्यभक्ष्यम्॥ बुद्ध्यात्मके व्यक्तमस्तीति पुण्यं मोहात्मके यत्र यथा श्वभक्ष्ये। यद्यप्येतत् संशयात्मा चरामि नाहं भविष्यामि यथा त्वमेव॥ श्वपच उवाच गोपनीयमिदं दुःखमिति मे निश्चिता मतिः। दुष्कृतोऽब्राह्मणः सत्रं यस्त्वामहमुपालभे॥ विश्वामित्र उवाच पिबन्त्येवोदकं गावो मण्डूकेषु रुवत्स्वपि। न तेऽधिकारो धर्मेऽस्ति मा भूरात्मप्रशंसकः॥ श्वपच उवाच सुहृद् भूत्वानुशासे त्वां कृपा हि त्वयि मे द्विजा यदिदं श्रेय आधत्स्व मा लोभात् पातकं कृथाः॥ विश्वामित्र उवाच सुहृन्मे त्वं सुखेप्सुश्चेदापदो मां समुद्धर। जानेऽहं धर्मतोऽऽत्मानं शौनीमुत्सृज जाघनीम्॥ श्वपच उवाच नैवात्सहे भवतो दातुमेतां नोपेक्षितुं ह्रियमाणं स्वमन्नम्। उभौ स्यावः पापलोकावलिप्तौ दाता चाहं ब्राह्मणस्त्वं प्रतीच्छन्॥ विश्वामित्र उवाच अद्याहमेतद् वृजिनं कर्म कृत्वा जीवंश्चरिष्यामि महापवित्रम्। स पूतात्मा धर्ममेवाभिपत्स्य। यदेतयोर्गुरु तद् वै ब्रवीहि॥ श्वपच उवाच आत्मैव साक्षी कुलधर्मकृत्ये त्वमेव जानासि यदत्र दुष्कृतम्। यो ह्याद्रियाद्भक्ष्यमितिश्चमांसं मन्ये न तस्यास्ति विवर्जनीयम्॥ विश्वामित्र उवाच उपादने खादने चास्ति दोषः कार्यात्यये नित्यमत्रापवादः। यस्मिन् हिंसा नानृतं वाच्यलेझे ऽभक्ष्यक्रिया यत्र न तद्गरीयः॥ श्वपच उवाच यद्येष हेतुस्तव खादने स्यान्न ते वेदः कारणं नार्यधर्मः। तस्माद्भक्ष्येऽभक्षणे वा द्विजेन्द्र दोषं न पश्यामि यथेदमत्र॥ विश्वामित्र उवाच नैवातिपापं भक्ष्यमाणस्य दृष्टं सुरां तु पीत्वा पततीति शब्दः। अन्योन्यकार्याणि यथा तथैव न पापमात्रेण कृतं हिनस्ति॥ श्वपच उवाच अस्थानतो हीनतः कुत्सिताद् वा तद् विद्वांसं बाधते साधुवृत्तम्। श्वानं पुनर्यो लभतेऽभिषङ्गात् तेनापि दण्डः सहितव्य एव॥ भीष्म उवाच एवमुक्त्वा निववृत्ते मातङ्गः कौशिकं तदा। विश्वामित्रो जाहरैव कृतबुद्धिः श्वजाघनीम्॥ ततो जग्राह स श्वाङ्गं जीवितार्थी महामुनिः। सदारस्तामुपाहृत्य वने भोक्तुमियेष सः॥ अथास्य बुद्धिरभवद् विधिनाहं वजाघनीम्। भक्षयामि यथाकामं पूर्वं संतर्घ्य देवताः॥ ततोऽग्निमुपसंहृत्य ब्राह्मण विधिना मुनिः। ऐन्द्राग्नेयेन विधिना चळं श्रपयत स्वयम्॥ ततः समारभत् कर्म दैवं पित्र्यं च भारत। आहूय देवानिन्द्रादीन् भागं भागं विधिक्रमात्॥ एतस्मिन्नेव काले तु प्रववर्ष स वासवः। संजीवयन् प्रजाः सर्वा जनयामास चौषधीः॥ विश्वामित्रोऽपि भगवांस्तपसा दग्धकिल्बिषः। कालेन महता सिद्धिमवाप परमाद्भुताम्॥ स संहत्य च तत् कर्म अनास्वाद्य च तद्धविः। तोषयामास देवांश्च पितुंश्च द्विजसत्तमः॥ एवं विद्वानदीनात्मा व्यसनस्थो जिजीविषुः। सर्वोपायैरुपायज्ञो दीनमात्मानमुद्धरेत्॥ एतां बुद्धिं समास्थाय जीवितव्यं सदा भवेत्। जीवन् पुण्यमवाप्नोति पुरुषो भद्रमश्नुते॥ तस्मात् कौन्तेय विदुषा धर्माधर्मविनिश्चये। बुद्धिमास्थाय लोकेऽस्मिन् वर्तितव्यं कृतात्मना॥ तस्मात् कौन्तेय विदुषा धर्माधर्मविनिश्चये। बुद्धिमास्थाय लोकेऽस्मिन् वर्तितव्यं कृतात्मना॥ युधिष्ठिर उवाच यदि घोरं समुद्दिष्टमश्रद्धयमिवानृतम्। अस्मि स्विद् दस्युमर्यादा यामहं परिवर्जये॥ सम्मुह्यामि विषीदामि धर्मो मे शिथिलीकृतः। उद्यम नाधिगच्छामि कदाचित् परिसान्त्वयन्॥ भीष्म उवाच नैतच्छ्रुत्वाऽऽगमादेव तव धर्मानुशासनम्। प्रजासमवहारोऽयं कविभिः सम्भृतं मधु॥ बयः प्रतिविधातव्याः प्रज्ञा राज्ञा ततस्ततः! नैकशाखेन धर्मेण यत्रैषा सम्प्रवर्तते॥ बुद्धिसंजननो धर्म आचारश्च सतां सदा। ज्ञेयो भवति कौरव्य सदा तद् विद्धि मे वचः॥ वुद्धिश्रेष्ठा हि राजानश्चरन्ति विजयैषिणः। धर्मः प्रतिविधातव्यो बुद्ध्या राज्ञा ततस्ततः॥ नैकशाखेन धर्मेण राज्ञो धर्मो विधीयते। दुर्बलस्य कुतः प्रज्ञा पुरस्तादनुपाहृता॥ अद्वैधज्ञः पथि द्वैधे संशयं प्राप्तुमर्हति। बुद्धिद्वैधं वेदितव्यं पुरस्तादेव भारत॥ पार्श्वतः करणं प्राज्ञो विम्भित्वा प्रकारयेत्। जनस्तच्चरितं धर्मं विजानात्यन्यथान्यथा॥ अमिथ्याज्ञानिनः केचिन्मिथ्याविज्ञानिनः परे। तद्वै यथायथं बुद्ध्वा ज्ञानमाददते सताम्॥ परिमुष्णन्ति शास्त्राणि धर्मस्य परिपन्थिनः। वैषम्यमर्थविद्यानां निरर्थाः ख्यापयन्ति ते॥ आजिजीविषवो विद्यां यशःकामौ समन्ततः। ते सर्वे नृप पापिष्ठा धर्मस्य परिपन्थिनः॥ अपक्वमतयो मन्दा न जानन्ति यथातथम्। यथा ह्यशास्त्रकुशलाः सर्वत्रायुक्तिनिष्ठिताः॥ परिमुष्णन्ति शास्त्राणि शास्त्रदोषानुदर्शिनः। विज्ञानमर्थविद्यानां न सम्यगिति वर्तते।॥ निन्दया परविद्यानां स्वविद्यां ख्यापयन्ति च। वागस्त्रा वाक्छरीभूता दुग्धविद्याफला इव॥ तान् विद्यावणिजो विद्धि राक्षसानिव भारत। व्याजेन सद्भिर्विहितो धर्मस्ते परिहास्यति॥ न धर्मवचनं वाचा नैव बुद्ध्येति नः श्रुतम्। इति बार्हस्पतं ज्ञानं प्रोवाच मघवा स्वयम्॥ न त्वेव वचनं किंचिदनिमित्तादिहोच्यते। सुविनीतेन शास्त्रेण न व्यवस्यन्त्यथापरे॥ लोकयात्रामिहैके तु धर्मं प्राहुर्मनीषिणः। समुद्दिष्टं सतां धर्मं स्वयमूहेत पण्डितः॥ अमर्षाच्छास्त्रसम्मोहादविज्ञानाच्च भारत। शास्त्रं प्राज्ञस्य वदतः समूहे यात्यदर्शनम्॥ आगतागमया बुद्ध्या वचनेन प्रशस्यते। अज्ञानाज्ज्ञानहेतुत्वाद् वचनं साधु मन्यते॥ अनया हतमेवेदमिति शास्त्रमपार्थकम्। दैतेयानुशना प्राह संशयच्छेदनं पुरा॥ ज्ञानमप्यपदिश्यं हि यथा नास्ति तथैव तत्। तं तथा छिन्नमूलेन सन्नोदयितुमर्हसि॥ अनव्यवहितं यो वा नेदं वाक्यमुपाश्नुते। उग्रायैव हि सृष्टोऽसि कर्मणे न त्वमीक्षसे॥ अङ्ग मामन्ववेक्षस्व राजन्याय बुभूषते। यथा प्रमुच्यते त्वन्यो यदर्थं न प्रमोदते।॥ अजोऽश्वः क्षत्रमित्येतत् सदृशं ब्रह्मणा कृतम्। तस्मादभीक्ष्णं भूतानां यात्रा काचित् प्रसिद्ध्यति॥ यस्त्ववध्यवधे दोषः स वध्यस्यावधे स्मृतः। या चैव खलु मर्यादा यामयं परिवर्जयेत्॥ तस्मात् तीक्ष्णः प्रजा राजा स्वधर्मे स्थापयेत् ततः। अन्योन्यं भक्षयन्तो हि प्रचरेयुर्वृका इव॥ यस्य दस्युगणा राष्ट्र ध्वांक्षा मत्स्यान् जलादिव। विहरन्ति परस्वानि स वै क्षत्रियपासनः॥ कुलीनान् सचिवान् कृत्वा वेदविद्यासमन्वितान्। प्रशाधि पृथिवीं राजन् प्रजा धर्मेण पालयन्॥ विहीनं कर्मणान्यायं यः प्रगृह्णाति भूमिपः। उपायस्याविशेषज्ञं तद् वै क्षत्रं नपुंसकम्॥ नैवोग्रं नैव चानुग्रं धर्मेणेह प्रशस्यते। उभयं न व्यतिक्रामेदुग्रो भूत्वा मृदुर्भव॥ कष्टः क्षत्रियधर्मोऽयं सौहृदं त्वयि मे स्थितम्। उग्रकर्मणि सृष्टोऽसि तस्माद् राज्यं प्रशाधि वै॥ अशिष्टनिग्रहो नित्यं शिष्टस्य परिपालनम्। एवं शुक्रोऽब्रवीद् धीमानापत्सु भरतर्षभ।॥ युधिष्ठिर उवाच अस्ति चेदिह मर्यादा यामन्यो नाभिलवयेत्। पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह॥ भीष्म उवाच ब्राह्मणानेव सेवेत विद्यावृद्धास्तपस्विनः। श्रुतचारित्रवृत्ताढ्यान् पवित्रं ह्येतदुत्तमम्॥ या देवतासु वृत्तिस्ते सास्तु विप्रेषु नित्यदा। क्रुद्धैर्हि विप्रैः कर्माणि कृतानि बहुधा नृप॥ प्रीत्या यशो भवेन्मुख्यमप्रीत्या परमं भयम्। प्रीत्या ह्यमृतवद् विप्राः क्रुद्धाश्चैव विषं यथा।॥ युधिष्ठिर उवाच पितामह महाप्राज्ञ सर्वषास्त्रविशारद। शरणं पालयानस्य यो धर्मस्तं वदस्व मे।।। भीष्म उवाच महान् धर्मो महाराज शरणागतपालने। अर्हः प्रष्टुं भवांश्चैव प्रश्नं भरतसत्तम॥ शिबिप्रभृतयो राजन् राजानः शरणागतान्। परिपाल्य महात्मानः संसिद्धिं परमां गताः॥ श्रूयते च कपोतेन शत्रुः शरणमागतः। पूजितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः॥ युधिष्ठिर उवाच कथं कपोतेन पुरा शत्रुः शरणमागतः। स्वमांसं भोजितः कां च गति लेभे स भारत॥ भीष्म उवाच शृणु राजन् कथां दिव्यां सर्वपापप्रणाशिनीम्। नृपतेर्मुचुकुन्दस्य कथितां भार्गवेण वै॥ पार्थ मुचुकुन्दो नराधिपः। भार्गवं परिपप्रच्छ प्रणतः पुरुषर्षभ॥ इममर्थं पुरा तस्मै शुश्रूषमाणाय भार्गवोऽकथयत् कथाम्। इमां यथा कपोतेन सिद्धिः प्राप्ता नराधिप॥ मुनिरुवाच धर्मनिश्चयसंयुक्तां कामार्थसहितां कथाम्। शृणुष्वावहितो राजन् गदतो मे महाभुज॥ कश्चित् क्षुद्रसमाचारः पृथिव्यां कालसम्मितः। विचचार महारण्ये घोरः शकुनिलुब्धकः॥ काकोल इव कृष्णाङ्गो रक्ताक्षः कालसम्मितः। दीर्घजको ह्रस्वपादो महावक्त्रो महाहनुः॥ नैव तस्य सुहृत् कश्चिन्न सम्बन्धी न बान्धवाः। स हि तैः सम्परित्यक्तस्तेन रौद्रेण कर्मणा॥ नरः पापसमाचारस्त्यक्तव्यो दूरतो बुधैः। आत्मानं योऽभिसंधत्ते सोऽन्यस्य स्यात् कथं हितः।।१३। ये नृशंसा दुरात्मानः प्राणिप्राणहरा नराः। उद्वेजनीया भूतानां व्याला इव भवन्ति ते॥ वै क्षारकमादाय द्विजान् हत्वा वने सदा। चकार विक्रयं तेषां पतङ्गानां जनाधिप॥ एवं तु वर्तमानस्य तस्य वृत्तिं दुरात्मनः। अगमत् सुमहान् कालो न चाधर्ममबुध्यत॥ तस्य भार्यासहायस्य रममाणस्य शाश्वतम्। दैवयोगविमूढस्य नान्या वृत्तिररोचत॥ ततः कदाचित् तस्थाय वनस्थस्य समन्ततः। पातयन्निव वृक्षांस्तान् सुमहान् वातसम्भ्रमः॥ मेघसंकुलमाकाशं विद्युन्मण्डलमण्डितम्। संछन्नस्तु मुहूर्तेन नौसाथैरिव सागरः॥ वारिधारासमूहेन सम्प्रविष्टः शतक्रतुः। क्षणेन पूरयामास सलिलेन वसुन्धराम्॥ ततो धाराकुले काले सम्भ्रमन् नष्टचेतनः। शीतार्तस्तद् वनं सर्वमाकुलेनान्तरात्मना॥ नैव निम्न स्थलं वापि सोऽविन्दत विहङ्गहा। पूरितो हि जलौघेन तस्य मार्गो वनस्य च॥ पक्षिणो वर्षवेगेन हता लीनास्तदाभवन्। मृगसिंहवराहाच स्थलमाश्रित्य शेरते॥ महता वातवर्षेण त्रासितास्ते वनौकसः। भयार्ताश्च क्षुधार्ताश्च बभ्रमुः सहिता वने॥ स तु शीतहतैर्गात्रैर्न जगाम न तस्थिवान्। ददर्श पतितां भूमौ कपोती शीतविह्वलाम्॥ दृष्ट्वाऽऽर्तोऽपि हि पापात्मा स तां पञ्जरकेऽक्षिपत्। स्वयं दुःखाभिभूतोऽपि दुःखमेवाकरोत् परे॥ पापात्मा पापकारित्वात् पापमेव चकार सः। सोऽपश्यत् तरुखण्डेषु मेघनीलवनस्पतिम्॥ सेव्यमानं विहङ्गौघैश्छायावासफलार्थिभिः। धात्रा परोपकाराय स साधुरिव निर्मितः॥ अथाभवत् क्षणेनैव वियद् विमलतारकम्। महत्सर इवोत्फुल्लं कुमुदच्छरितोदकम्॥ ताराढ्यं कुमुदाकारमाकाशं निर्मलं बहु। घनैर्मुक्तं नभो दृष्ट्वा लुब्धकः शीतविह्वलः॥ दिशो विलोकयामास विगाढां प्रेक्ष्य शर्वरीम्। दूरतो मे निवेशश्च अस्माद् देशादिति प्रभो॥ कृतबुद्धिर्द्धमे तस्मिन् वस्तुं तां रजनी ततः। साञ्जलिः प्रणतिं कृत्वा वाक्यमाह वनस्पतिम्॥ शरणं यामि यान्यस्मिन् दैवतानि वनस्पतौ। स शिलायां शिरः कृत्वा पर्णान्यास्तीर्य भूतले। दुःखेन महताऽऽविश्स्ततः सुष्वाप पक्षिहा॥ भीष्म उवाच अथ वृक्षस्य शाखायां विहङ्गः ससुहज्जनः। दीर्घकालोषितो राजंस्तत्र चित्रतनूरुहः॥ तस्य कल्पगता भार्या चरितुं नाभ्यवर्तत। प्राप्तां च रजनीं दृष्ट्वा स पक्षी पर्यतप्यत॥ वातवर्ष महच्चासीन्न चागच्छति मे प्रिया। किं नु तत् कारणं येन साद्यापि न निवर्तते॥ अपि स्वस्ति भवेत् तस्याः प्रियाया मम कानने। तया विरहितं हीदं शून्यमद्य गृहं मम॥ पुत्रपौत्रवधूभृत्यैराकीर्णमपि सर्वतः। भार्याहीनं गृहस्थस्य शून्यमेव गृहं भवेत्॥ न गृहं गृहमित्याहुहिणी गृहमुच्यते। गृहं तु गृहिणीहीनमरण्यसदृशं मतम्॥ यदि सा रक्तनेत्रान्ता चित्राङ्गी मधुरस्वरा। अद्य नायाति मे कान्ता न कार्यं जीवितेन मे॥ न भुक्के मय्यभुक्ते या नास्नाते स्नाति सुव्रता। नातिष्ठत्युपतिष्ठेत शेते च शयिते मयि॥ हृष्टे भवति सा हृष्टा दुःखिते मयि दुःखिता। प्रोषिते दीनवदना क्रुद्धे च प्रियवादिनी॥ पतिव्रता पतिगतिः पतिप्रियहिते रता। यस्य स्यात् तादृशी भार्या धन्यः स पुरुषो भुवि।।१०। सा हि श्रान्तं क्षुधार्तं च जानीते मां तपस्विनी। अनुरक्ता स्थिरा चैव भक्ता स्निग्धा यशस्विनी॥ वृक्षमूलेऽपि दयिता यस्य तिष्ठति तद् गृहम्। प्रासादोऽपि तया हीनः कान्तार इति निश्चितम्॥ धर्मार्थकामकालेषु भार्या पुंसः सहायिनी। विदेशगमने चास्य सैव विश्वासकारिका॥ भार्या हि परमो ह्यर्थः पुरुषस्येह पठ्यते। असहायस्य लोकेऽस्मिल्लोकयात्रासहायिनी॥ तथा रोगाभिभूतस्य नित्यं कृच्छ्रगतस्य च। नास्ति भार्यासमं किंचिन्नरस्यार्तस्य भेषजम्॥ नास्ति भार्यासमो बन्धुर्नास्ति भार्यासमा गतिः। नास्ति भार्यासमो लोके सहायो धर्मसंग्रह॥ यस्य भार्या गृहे नास्ति साध्वी च प्रियवादिनी। अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम्॥ भीष्म उवाच एवं विलपतस्तस्य श्रुत्वा तु करुणं वचः। गृहीता शकुनिभेन कपोती वाक्यमब्रवीत्॥ अहोऽतीव सुभाग्याहं यस्या मे दयितः पतिः। असतो वा सतो वापि गुणानेवं प्रभाषते॥ न सा स्त्री ह्यभिमन्तव्या यस्यां भर्ता न तुष्यति। तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्वदेवताः॥ अग्निसाक्षिकमित्येव भर्ता वै दैवतं परम्। दावाग्निनेव निर्दग्धा सपुष्पस्तवका लता॥ भस्मीभवति सा नारी यस्या भर्ता न तुष्यति। इति संचिन्त्य दुःखार्ता भर्तारं दुःखितं तदा॥ कपोती लुब्धकेनापि गृहीता वाक्यमब्रवीत्। हन्त वक्ष्यामि ते श्रेयः श्रुत्वा तु कुरु तत् तथा॥ शरणागतसंत्राता भव कान्त विशेषतः। एष शाकुनिकः शेते तव वासं समाश्रितः॥ शीतार्तश्च क्षुधार्तश्च पूजामस्मै समाचर। ये हि कश्चिद् द्विजं हन्याद् गां च लोकस्य मातरम्।।८ शरणागतं च यो हन्यात् तुल्यं तेषां च पातकम्। अस्माकं विहिता वृत्तिः कापोती जातिधर्मतः॥ सान्याय्याऽत्मवता नित्यं त्वद्विधेनानुवर्तितुम्। यस्तु धर्मं यथाशक्ति गृहस्थो ह्यनुवर्तते॥ स प्रेत्य लभते लोकानक्षयानिति शुश्रुम। स त्वं संतानवानद्य पुत्रवानसि च द्विज॥ तत् स्वदेहे दयां त्यक्त्वा धर्मार्थी परिगृह्य च। पूजामस्मै प्रयुक्ष्व त्वं प्रीयेतास्य मनो यथा।॥ मत्कृते मा च संतापं कुर्वीथास्त्वं विहङ्गम। शरीरयात्राकृत्यर्थमन्यान् दारानुपैष्यसि॥ इति सा शकुनी वाक्यं पञ्जरस्था तपस्विनी। अतिदुःखान्विता प्रोक्त्वा भर्तारं समुदैक्षत॥ भीष्म उवाच स पल्या वचनं श्रुत्वा धर्मयुक्तिसमन्वितम्। हर्षेण महता युक्तो वाक्यं व्याकुललोचनः॥ तं वै शाकुनिकं दृष्ट्वा विधिदृष्टेन कर्मणा। स पक्षी पूजयामास यत्नात् तं पक्षिजीविनम्॥ उवाच स्वागतं तेऽद्य ब्रूहि किं करवाणि ते। संतापश्च न कर्तव्यः स्वगृहे वर्तते भवान्॥ तद् ब्रवीतु भवान् क्षिप्रं किं करोमि किमिच्छसि। प्रणयेन ब्रवीमि त्वां त्वं हि नः शरणागतः॥ अरावप्युचितं कार्यमातिथ्यं गृहमागते। छेत्तुमप्यागते छायां नोपसंहरते दुमः॥ शरणागतस्य कर्तव्यमातिथ्यं हि प्रयत्नतः। पञ्चयज्ञप्रवृत्तेन गृहस्थेन विशेषतः॥ पञ्चयज्ञांस्तु यो मोहान्न करोति गृहाश्रमे। तस्य नायं न च परो लोको भवति धर्मतः॥ तद् ब्रूहि मां सुविश्रब्धो यत् त्वं वाचा वदिष्यसि! तत् करिष्याम्यहं सर्वं मा त्वं शोके मनः कृथाः॥ तस्य तद् वचनं श्रुत्वा शकुनेर्लुब्धकोऽब्रवीत्। वाधते खलु मे शीतं संत्राणं हि विधीयताम्॥ एवमुक्तस्तत: पक्षी पर्णान्यास्तीर्य भूतले। यथाशक्त्या हि पर्णेन ज्वलनार्थं दुतं ययौ॥ स गत्वाङ्गारकर्मान्तं गृहीत्वाग्निमथागतम्। स संदीप्तं महत् कृत्वा तमाह शरणागतम्। प्रतापय सुविश्रब्धः स्वगात्राण्यकुतोभयः॥ ततः शुष्केषु पर्णेषु पावकं सोऽप्यदीपयत्॥ स तथोक्त स्तथेत्युक्त्वा लुब्धो गात्राण्यतापयत्। अग्निं प्रत्यागतप्राणस्ततः प्राह विहङ्गमम्॥ हर्षेण महताऽऽविष्टो वाक्यं व्याकुललोचनः। तथेमं शकुनिं दृष्ट्वा विधिदृष्टेन कर्मणा॥ दत्तमाहारमिच्छामि त्वया क्षुद् बाधते हि माम्। स तद्वचः प्रतिश्रुत्य वाक्यमाह विहङ्गमः॥ न मेऽस्ति विभवो येन नाशयेयं क्षुधां तव। उत्पन्नेन हि जीवामो वयं नित्यं वनौकसः॥ संचयो नास्ति चास्माकं मुनीनामिव भोजने। इत्युक्त्वा तं तदा तत्र विवर्णवदनोऽभवत्॥ कथं न खलु कर्तव्यमिति चिन्तापरस्तदा। बभूव भरतश्रेष्ठ गर्हयन् वृत्तिमात्मनः॥ मुहूर्ताल्लब्धसंज्ञस्तु स पक्षी पक्षिघातिनम्। उवाच तर्पयिष्ये त्वां मुहूर्त प्रतिपालय॥ इत्युक्त्वा शुष्कपर्णस्तु समुज्ज्वाल्य हुताशनम्। हर्षेण महताऽऽविष्टः स पक्षी वाक्यमब्रवीत्॥ ऋषीणां देवतानां च पितृणां च महात्मनाम्। श्रुतः पूर्वं मया धर्मो महानतिथिपूजने॥ कुरुष्वानुग्रहं सौम्य सत्यमेतद् ब्रवीमि ते। निश्चिता खलु मे बुद्धिरतिथिप्रतिपूजने॥ ततः कृतप्रतिज्ञो वै स पक्षी प्रहसनिव) तमग्निं त्रि:परिक्रम्य प्रविवेश महामतिः॥ अग्निमध्ये प्रविष्टं तु लुब्धो दृष्ट्वा तु पक्षिणम्। चिन्तयामास मनसा किमिदं वे मया कृतम्॥ अहो मम नृशंसस्य गर्हितस्य स्वकर्मणा। अधर्मः सुमहान् घोरो भविष्यति न संशयः॥ एवं बहुविधं भूरि विललाप स लुब्धकः। गार्हयन् स्वानि कर्माणि द्विजं दृष्ट्वा तथागतम्॥ एवं बहुविधं भूरि विललाप स लुब्धकः। गार्हयन् स्वानि कर्माणि द्विजं दृष्ट्वा तथागतम्॥ भीष्म उवाच ततः स लुब्धकः पश्यन् क्षुधयापि परिप्लुतः। कपोतमग्निपतितं वाक्यं पुनरुवाच ह॥ किमीदृशं नृशंसेन मया कृतमबुद्धिना। भविष्यति हि मे नित्यं पातकं कृतजीविनः॥ स विनिन्दंस्तथाऽऽत्मानं पुनः पुनरुवाच ह। अविश्वास्यः सुदुर्बुद्धिः सदा निकृतिनिश्चयः॥ शुभं कर्म परित्यज्य सोऽहं शकुनिलुब्धकः। नृशंसस्य ममाद्यायं प्रत्यादेशो न संशयः॥ दत्तः स्वमांसं दहता कपोतेन महात्मना। सोऽहं त्यक्ष्ये प्रियान् प्राणान् पुत्रान् दारांस्तथैव च।।५। उपदिष्टे हि मे धर्मः कपोतेन महात्मना। अद्यप्रभृति देहं स्वं सर्वभोगैर्विवर्जितम्॥ यथा स्वल्पं सरो ग्रीष्मे शोषयिष्याम्यहं तथा। क्षुत्पिपासातपसहः कृशो धमनिसंततः॥ उपवासैर्बहुविधैश्चरिष्ये पारलौकिकम्। अहो देहप्रदानेन दर्शितातिथिपूजना॥ तस्माद् धर्मं चरिष्यामि धर्मो हि परमा गतिः। दृष्टो धर्मो हि धर्मिष्ठे यादृशो विहगोत्तमे॥ एवमुक्त्वा विनिश्चित्य रौद्रकर्मा स लुब्धकः। महाप्रस्थानमाश्रित्य प्रययौ संशितव्रतः॥ ततो यष्टिं शलाकां च क्षारकं पञ्जरं तथा। तां च बद्धा कपोती स प्रमुच्य विससर्ज ह॥ भीष्म उवाच ततो गते शाकुनिके कपोती प्राह दुःखिता। संस्मृत्य सा च भर्तारं रुदतो शोककर्शिता।।।। सर्वापि विधवा नारी बहुपुत्रापि शोचते॥ शोच्या भवति बन्धूनां पतिहीना तपस्विनी। लालिताहं त्वया नित्यं बहुमानाच्च पूजिता॥ वचनैर्मधुरैः स्निग्धैरसंक्लिष्टमनोहरैः। कन्दरेषु च शैलानां नदीनां निझरेषु च॥ दुमागेषु च रम्येषु रमिताहं त्वया सह। आकाशगमने चैव विहृताहं त्वया सुखम्॥ रमामि स्म पुरा कान्त तन्मे नास्त्यद्य किञ्चन। मितं ददाति हि पिता मितं भ्राता मितं सुतः॥ अमितस्य हि दातारं भर्तारं का न पूजयेत्। नास्ति भर्तृसमो नाथो नास्ति भर्तृसमं सुखम्॥ विसृज्य धनसर्वस्वं भर्ता वै शरणं स्त्रियाः। न कार्यमिह मे नाथ जीवितेन त्वया विना॥ पतिहीना तु का नारी सती जीवितुमुत्सहेत्। एवं विलप्य बहुधा करुणं सा सुदुःखिता॥ पतिव्रता सम्प्रदीप्तं प्रविवेश हुताशनम्। ततश्चित्राङ्गदधरं भर्तारं सान्वपश्यत॥ विमानस्थं सुकृतिभिः पूज्यमानं महात्मभिः। चित्रमाल्याम्बरधरं सर्वाभरणभूषितम्॥ विमानशतकोटीभिरावृतं पुण्यकर्मभिः। ततः स्वर्गं गतः पक्षी विमानवरमास्थितः। कर्मणा पूजितस्तत्र रेमे स सह भार्यया॥ भीष्म उवाच विमानस्थौ तु तौ राजंल्लुब्धकः खे ददर्श ह। दृष्ट्वा तौ दम्पती राजन् व्यचिन्तयत तां गतिम्॥ ईदृशेनैव तपसा गच्छेयं परमां गतिम्। इति बुद्ध्या विनिश्चित्य गमनायोपचक्रमे।॥ महाप्रस्थानमाश्रित्य लुब्धकः पक्षिजीवकः। निश्चेष्टो मरुदाहारो निर्ममः स्वर्गकाझया॥ ततोऽपश्यत् सुविस्तीर्णं हृद्यं पद्माभिभूषितम्। नानापक्षिगणाकीर्णं सरः शीतजलं शिवम्॥ पिपासार्तोऽपि तद् दृष्ट्वा तृप्त: स्यान्नात्र संशयः। उपवासकृशोऽत्यर्थं स तु पार्थिव लुब्धकः॥ अनवेक्ष्यैव संहृष्टः श्वापदाध्युषितं वनम्। महान्तं निश्चयं कृत्वा लुब्धकः प्रविवेश ह॥ प्रविशन्नेव स वनं निगृहीतः सकण्टकैः। स कण्टकैर्विभिन्नाङ्गो लोहितार्दीकृतच्छविः॥ बभ्राम तस्मिन् विजने नानामृगसमाकुले। ततो दुमाणां महता पवनेन वने तदा॥ उदतिष्ठत संघर्षात् सुमहान् हव्यवाहनः। तद् वनं वृक्षसम्पूर्ण लताविटपसंकुलम्॥ ददाह पावकः क्रुद्धो युगान्ताग्निसमप्रभः। स ज्वालैः पवनोदतैर्विस्फुलिङ्गैःसमन्ततः॥ ददाह तद् वनं घोरं मृगपक्षिसमाकुलम्। ततः स देहमोक्षार्थं सम्प्रहृष्टेन चेतसा॥ अभ्यधावत वर्धन्तं पावकं लुब्धकस्तदा। ततस्तेनाग्निना दग्धो लुब्धको नष्टकल्मषः। जगाम परमां सिद्धिं ततो भरतसत्तम॥ ततः स्वर्गस्थमात्मानमपश्यद् विगतज्वरः। यक्षगन्धर्वसिद्धानां मध्ये भ्राजन्तमिन्द्रवत्॥ एवं खलु कपोतश्च कपोती च पतिव्रता। लुब्धकेन सह स्वर्गं गताः पुण्येन कर्मणा॥ यापि चैवंविधा नारी भर्तारमनुवर्तते। विराजते हि सा क्षिप्रं कपोतीव दिवि स्थिता॥ एवमेतत् पुरावृत्तं लुब्धकस्य महात्मनः। कपोतस्य च धर्मिष्ठा गतिः पुण्येन कर्मणा॥ यश्चेदं शृणुयान्नित्यं यश्चेदं परिकीर्तयेत्। नाशुभं विद्यते तस्य मनसापि प्रमादतः॥ युधिष्ठिर महानेष धर्मो धर्मभृतां वर। गोनेष्वपि भवेदस्मिनिष्कृतिः पापकर्मणः॥ न निष्कृतिर्भवेत् तस्य यो हन्याच्छरणागतम्। इतिहासमिमं श्रुत्वा पुण्यं पापप्रणाशनम्। न दुर्गतिमवाप्नोति स्वर्गलोकं च गच्छति॥ युधिष्ठिर उवाच अबुद्धिपूर्वं यत् पापं कुर्याद् भरतसत्तम। मुच्यते स कथं तस्मादेतत् सर्वं वदस्व मे॥ भीष्म उवाच अत्र ते वर्तयिष्यामि पुराणमृषिसंस्तुतम्। इन्द्रोत: शौनको विप्रो यदाह जनमेजयम्॥ आसीद् राजा महावीर्यः परिक्षिज्जनमेजयः। अबुद्धिपूर्वामागच्छद् ब्रह्महत्यां महीपतिः॥ ब्राह्मणाः सर्व एवैते तत्यजुः सपुरोहिताः। स जगाम वनं राजा दह्यमानो दिवानिशम्॥ प्रजाभिः स परित्यक्तश्चकार कुशलं महत्। अतिवेलं तपस्तेपे दह्यमानः स मन्युना॥ ब्रह्महत्यापनोदार्थमपृच्छद् ब्राह्मणान् बहून्। पर्यटन् पृथिवीं कृत्स्ना देशे देशे नराधिपः॥ तत्रेतिहासं वक्ष्यामि धर्मस्यास्योपबृंहणम्। दह्यमानः पापकृत्या जगाम जनमेजयः॥ चरिष्यमाण इन्द्रोतं शौनकं संशितव्रतम्। समासाद्योपजग्राह पादयोः परिपीडयन्॥ ऋषिर्दृष्ट्वा नृपं तत्र जगहें सुभृशं तदा। कर्ता पापस्य महतो भ्रूणहा किमिहागतः॥ किं त्वयास्मासु कर्तामा मां स्प्राक्षीः कथंचन। गच्छ गच्छ न ते स्थानं प्रीणात्यस्मानिति ब्रुवन्॥ रुधिरस्येव ते गन्धः शवस्येव च दर्शनम्। अशिवः शिवसंकाशो मृतो जीवन्निवाटसि॥ ब्रह्ममृत्युरशुद्धात्मा पापमेवानुचिन्तयन्। प्रबुद्ध्यसे प्रस्वपिषि वर्तसे परमे सुखे॥ मोघं ते जीवितं राजन् परिक्लिष्टं च जीवसि। पापायैव हि सृष्टोऽसि कर्मणे हि यवीयसे॥ बहुकल्याणमिच्छन्ति ईहन्ते पितरः सुतान्। तपसा दैवतेज्याभिर्वन्दनेन तितिक्षया॥ पितृवंशमिमं पश्य त्वत्कृते नरकं गतम्। निरर्थाः सर्व एवैषामाशाबन्धास्त्वदाश्रयाः॥ यान् पूजयन्तो विन्दन्ति स्वर्गमायुर्यशः प्रजाः। तेषु त्वं सततं द्वेष्टा ब्राह्मणेषु निरर्थकः॥ इमं लोकं विमुच्य त्वमवाङ्मूर्द्धा पतिष्यसि। अशाश्वतीः शाश्वतीश्च समाः पापेन कर्मणा॥ अर्धमानो यत्र गृधैः शितिकण्ठैरयोमुखैः। ततश्च पुनरावृत्तः पापयोनि गमिष्यसि॥ यदिदं मन्यसे राजन् नायमस्ति कुतः परः। प्रतिस्मारयितारस्त्वां यमदूता यमक्षये॥ शौनक उवाच तस्मात् तेऽहं प्रवक्ष्यामि धर्ममावृतचेतसे। श्रीमान् महाबलस्तुष्टः स्वयं धर्ममवेक्षसे॥ पुरस्ताद् दारुणो भूत्वा सुचित्रतरमेव तत्। अनुगृह्णाति भूतानि स्वेन वृत्तेन पार्थिवः॥ कृत्स्नं नूनं स दहति इति लोको व्यवस्यति। यत्र त्वं तादृशो भूत्वा धर्ममेवानुपश्यसि॥ हित्वा तु सुचिरं भक्ष्यं भोज्यांश्च तप आस्थितः। इत्येतदभिभूतानामद्भुतं जनमेजय॥ योऽदुर्लभो भवेद् दाता कृपणो वा तपोधनः। अनाश्चर्यं तदित्याहु तिदूरेण वर्तते॥ एतदेव हि कार्पण्यं समग्रमसमीक्षितम्। यचेत्सममीक्षयैव स्याद्भवेत्तस्मिस्ततो गुणः॥ यज्ञो दानं दया वेदाः सत्यं च पृथिवीपते। पञ्चैतानि पवित्राणि षष्ठं सुचरितं तपः॥ तदेव राज्ञां परमं पवित्रं जनमेजया तेन सम्यग्गृहीतेन श्रेयांसं धर्ममाप्स्यसि॥ पुण्यदेशाभिगमन पवित्रं परमं स्मृतम्। अत्राप्युदाहरन्तीमां गाथां गीतां ययातिना॥ यो मर्त्यः प्रतिपद्येत आयुर्जीवितमात्मनः। यज्ञमेकान्ततः कृत्वा तत् संन्यस्य तपश्चरेत्॥ पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात् सरस्वतीम्। सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम्॥ यत्रावगाह्य पीत्वा च नैनं श्वोमरणं तपेत्। महासरः पुष्कराणि प्रभासोत्तरमानसे॥ कालोदकं च गन्तासि लब्धायुर्जीविते पुनः। सरस्वतीदृषद्वत्योः संगमो मानसः सरः॥ स्वाध्यायशीलः स्थानेषु सर्वेषु समुपस्पृशेत्। त्यागधर्मः पवित्राणां संन्यासं मनुरब्रवीत्॥ अत्राप्युदाहरन्तीमा गाथाः सत्यवता कृताः। यथा कुमारः सत्यो वै नैव पुण्यो न पापकृत्॥ न ह्यस्ति सर्वभूतेषु दुःखमस्मिन् कुतः सुखम्। एवं प्रकृतिभूतानां सर्वसंसर्गयायिनाम्॥ त्यजतां जीवितं श्रेयो निवृत्ते पुण्यपापके। यत्त्वेव राज्ञो ज्यायिष्ठं कार्याणां तद् ब्रवीमि ते ॥ बलेन संविभागैश्च जय स्वर्ग जनेश्वर। यस्यैव बलमोजश्च स धर्मस्य प्रभुर्नरः॥ ब्राह्मणानां सुखार्थं हि त्वं पाहि वसुधां नृप। यथैवैतान् पुराऽऽक्षेप्सीस्तथैवैतान् प्रसादय॥ अपि धिक्रियमाणोऽपि त्यज्यमानोऽप्यनेकधा। आत्मनो दर्शनाद् विप्रान्न हन्तास्मीति मार्गया घटमानः स्वकार्येषु कुरु निःश्रेयसं परम्॥ हिमाग्निघोरसदृशो राजा भवति कश्चन। लांगलाशनिकल्पो वा भवेदन्यः परंतप॥ न विशेषेण गन्तव्यमविच्छिन्नेन वा पुनः। न जातु नाहमस्मीति सुप्रसक्तमसाधुषु।॥ विकर्मणा तप्यमानः पापाद् विपरिमुच्यते। नैतत् कार्यं पुनरिति द्वितीयात् परिमुच्यते॥ करिष्ये धर्ममेवेति तृतीयात् परिमुच्यते। शुचिस्तीर्थान्यनुचरन् बहुत्वात्परिमुच्यते॥ कल्याणमनुकर्तव्यं पुरुषेण बुभूषता। ये सुगन्धीनि सेवन्ते तथागन्धा भवन्ति ते॥ ये दुर्गन्धीनि सेवन्ते तथागन्धा भवन्ति ते! तपश्चर्यापरः सद्यः पापाद् विपरिमुच्यते॥ संवत्सरमुपास्याग्निमभिशस्तः प्रमुच्यते। त्रीणि वर्षाण्युपास्याग्निं भ्रूणहा विप्रमुच्यते।।२७ महासरः पुष्कराणि प्रभासोत्तरमानसे। अभ्येत्य योजनशतं भ्रूणहा विप्रमुच्यते॥ यावतः प्राणिनो हन्यात् तज्जातीयांस्तु तावतः प्रमीयमानानुन्मोच्य प्राणिहा विप्रमुच्यते॥ अपि चाप्सु निमज्जेत जपंस्त्रिरघमर्षणम्। यथाश्वमेधावभृथस्तथा तन्मनुरब्रवीत्॥ तत्क्षिप्रं नुदते पापं सत्कारं लभते यथा। अपि चैनं प्रसीदन्ति भूतानि जडमूकवत्॥ बृहस्पति देवगुरुं सुरासुराः सर्वे समेत्याभ्यनुयुज्य राजन्। धर्म्यं फलं वेत्थ फलं महर्षे तथैव तस्मिन्नरके पारलोक्ये॥ उभे तु यस्य सदृशे भवेतां किंस्वित्तयोस्तत्र जयोथ न स्यात्। आचक्ष्व नः पुण्यपैलं महर्षे कथं पापं नुदते धर्मशीलः।।३३। बृहस्पतिरुवाच कृत्वा पापं पूर्वमबुद्धिपूर्व पुण्यानि चेत्कुरुते बुद्धिपूर्वम्। स तत्पापं नुदते कर्मशीलो वासो यथा मलिनं क्षारयुक्तम्॥ पापं कृत्वाभिमन्येत नाहमस्मीति पूरुषः। तच्चिकीर्षति कल्याणं श्रद्दधानोऽनसूयकः॥ छिद्राणि विवृतान्येव साधूनां चावृणोति यः। यः पापं पुरुषः कृत्वा कल्याणमभिपद्यते॥ यथाऽऽदित्यः प्रातरुद्यंस्तमः सर्वं व्यपोहति। कल्याणमाचरन्नेवं सर्वपापं व्यपोहति॥ भीष्म उवाच एवमुक्त्वा तु राजानमिन्द्रोतो जनमेजयम्। याजयामास विधिवद् वाजिमेधेन शौनकः॥ ततः स राजा व्यपनीतकल्मष: श्रेयोवृतः प्रज्वलिताग्निरूपवान्। विवेश राज्यं स्वममित्रकर्षणो यथा दिवं पूर्णवपुर्निशाकरः॥ युधिष्ठिर उवाच कच्चित् पितामहेनासीच्छुतं वा दृष्टमेव च। कच्चिन्मो मृतो राजन् पुनरुज्जीवितोऽभवत्॥ भीष्म उवाच शृणु पार्थ यथावृत्तमितिहासं पुरातनम्। गृध्रजम्बुकसंवादं यो वृत्तो नैमिषे पुरा॥ कस्यचिद् ब्राह्मणस्यासीद् दुःखलब्धः सुतो मृतः। बाल एव विशालाक्षो बालग्रहनिपीडितः॥ दुःखिताः केचिदादाय बालमप्राप्तयौवनम्। कुलसर्वस्वभूतं वै रुदन्तः शोकविह्वला:॥ बालं मृतं गृहीत्वाथ श्मशानाभिमुखाः स्थिताः। अङ्केनैव च संक्रम्य रुरुदुर्भृशदुःखिताः॥ शोचन्तस्तस्य पूर्वोक्तान् भाषितांश्चासकृत् पुनः। तं बालं भूतले क्षिप्य प्रतिगन्तुं न शक्नुयुः॥ तेषां रुदितशब्देन गृध्रोऽभ्येत्य वचोऽब्रवीत्। एकात्मजमिमं लोके त्यक्त्वा गच्छत मा चिरम्॥ इह पुंसां सहस्राणि स्त्रीसहस्राणि चैव ह। समानीतानि कालेन हित्वा वै यान्ति बान्धवाः॥ सम्पश्यत जगत् सर्वं सुखदुःखैरधिष्ठितम्। संयोगो विप्रयोगश्च पर्यायेणोपलभ्यते॥ गृहीत्वा ये च गच्छन्ति ये न यान्ति च तान् मृतान्। तेऽप्यायुषः प्रमाणेन स्वेन गच्छन्ति जन्तवः॥ अलं स्थित्वा श्मशानेऽस्मिन् गृध्रगोमायुसंकुले। कङ्कालबहुले रौद्रे सर्वप्राणिभयङ्करे॥ न पुनर्जीवितः कश्चित् कालधर्ममुपागतः। प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी॥ सर्वेण खलु मर्तव्यं मर्त्यलोके प्रसूयता। कृतान्तविहिते मार्ग मृतं को जीवयिष्यति॥ कर्मान्तविरते लोके अस्तं गच्छति भास्करे। गम्यतां स्वमधिष्ठानं सुतस्नेहं विसृज्य वै॥ ततो गृध्रवचः श्रुत्वा प्राक्रोशन्तस्तदा नृप। बान्धवास्तेऽभ्यगच्छन्त पुत्रमुत्सृज्य भूतले॥ विनिश्चित्याथ च तदा विक्रोशन्तस्ततस्ततः। मृतमित्येव गच्छन्तो निराशास्तस्य दर्शने॥ निश्चितार्थाश्च ते सर्वे संत्यजन्तः स्वमात्मजम्। निराशा जीविते तस्य मार्गमावृत्य धिष्ठिताः॥ ध्वांक्षपक्षसवर्णस्तु विलानिःसृत्य जम्बुकः। गच्छमानान् स्म तानाह निघृणाः खलु मानुषाः॥ आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत मा भयम्। बहुरूपो मुहूर्तश्च जीवेदपि कदाचन॥ यूयं भूमौ विनिक्षिप्य पुत्रस्नेहविनाकृताः। श्मशाने सुतमुत्सृज्य कस्माद् गच्छत निघृणाः॥ न वोऽस्त्यस्मिन् सुते स्नेहो बाले मधुरभाषिणि। यस्य भाषितमात्रेण प्रसादमधिगच्छत॥ ते पश्यत सुतस्नेहो यादृशः पशुपक्षिणाम्। न तेषां धारयित्वा तान् कश्चिदस्ति फलागमः॥ चतुष्पात्पक्षिकीटानां प्राणिनां स्नेहसङ्गिनाम्। परलोकगतिस्थानां मुनियज्ञक्रिया इव॥ तेषां पुत्राभिरामाणामिहलोके परत्र च। न गुणो दृश्यते कश्चित् प्रजाः संधारयन्ति च॥ अपश्यतां प्रियान् पुत्रांस्तेषां शोको न तिष्ठति। न च पुष्णन्ति संवृद्धास्ते मातापितरौ क्वचित्॥ मानुषाणां कुतः स्नेहो येषां शोको भविष्यति। इमं कुलकरं पुत्रं त्यक्त्वा क्व न गमिष्यथ॥ चिरं मञ्चत बाष्पं च चिरं स्नेहेन पश्यत। एवंविधानि हीष्टानि दुस्त्यजानि विशेषतः॥ क्षीणस्याभियुक्तस्य श्मशानाभिमुखस्य च। बान्धवा यत्र तिष्ठन्ति तत्रान्यो नाधितिष्ठति॥ सर्वस्य दयिताः प्राणाः सर्वः स्नेहं च विन्दति। तिर्यग्योनिष्वपि सतां स्नेहं पश्यत यादृशम्॥ त्यक्त्वा कथं गच्छथेमं पद्मलोलायताक्षिकम्। यथा नवोद्वाहकृतं स्नानमाल्यविभूषितम्॥ जम्बुकस्य वचः श्रुत्वा कृपणं परिदेवतः। न्यवर्तन्त तदा सर्वे शवार्थं ते स्म मानुषाः॥ गृध्र उवाच अहो वत नृशंसेन जम्बुकेनाल्पमेधसा। क्षुद्रेणोक्ता हीनसत्त्वा मानुषाः किं निवर्तथ॥ पञ्चेन्द्रियपरित्यक्तं शुष्कं काष्ठत्वमागतम्। कस्माच्छोवथ तिष्ठन्तमात्मानं किं न शोचथ॥ तपः कुरुत वै तीव्र मुच्यध्वं येन किल्बिषात्। तपसा लभ्यते सर्वं विलापः किं करिष्यति॥ अनिष्टानि च भाग्यानि जातानि सह मूर्तिना। येन गच्छति बालोऽयं दत्त्वा शोकमनन्तकम्॥ धनं गावः सुवर्णं च मणिरत्नमथापि च। अपत्यं च तपोमूलं तपोयोगाच्च लभ्यते॥ यथाकृता च भूतेषु प्राप्यते सुखदुःखिता। गृहीत्वा जायते जन्तुर्दुःखानि च सुखानि च॥ न कर्मणा पितुः पुत्रः पिता वा पुत्रकर्मणा। मार्गेणान्येन गच्छन्ति वद्धाः सुकृतदुष्कृतैः॥ धर्मं चरत यत्नेन न चाधर्मे मनः कृथाः। वर्तध्वं च यथाकालं दैवतेषु द्विजेषु च॥ शोकं त्यजत दैन्यं च सुतस्नेहान्निवर्तत। त्यज्यतामयमाकाशे ततः शीघ्रं निवर्तत॥ यत् करोति शुभं कर्म तथा कर्म सुदारुणम्। तत् कतैव समश्नाति बान्धवानां किमत्र ह॥ इह त्यक्त्वा न तिष्ठन्ति बान्धवा बान्धवं प्रियम्। स्नेहमुत्सृज्य गच्छन्ति बाष्पपूर्णाविलेक्षणाः॥ प्राज्ञो वा यदि वा मूर्खः सधनो निर्धनोऽपि वा। सर्वः कालवशं याति शुभाशुभसमन्वितः॥ किं करिष्यथ शोचित्वा मृतं किमनुशोचथ। सर्वस्य हि प्रभुः कालो धर्मतः समदर्शनः॥ यौवनस्थांश्च बालांश्च वृद्धान् गर्भगतानपि। सर्वानाविशते मृत्युरेवंभूतमिदं जगत्॥ जम्बुक उवाच अहो मन्दीकृतः स्नेहो गृध्रेणेहाल्पबुद्धिना। पुत्रस्नेहाभिभूतानां युष्माकं शोचतां भृशम्॥ समैः सम्यक्प्रयुक्तैश्च वचनैः प्रत्ययोत्तरैः। यद्गच्छति जनश्चायं स्नेहमुत्सृज्य दुस्त्यजम्॥ अहो पुत्रवियोगेन मृतशून्योपसेवनात्। क्रोशतां सुभृशं दुःखं विवत्सानां गवामिव॥ अद्य शोकं विजानामि मानुषाणां महीतले। स्नेहं हि कारणं कृत्वा ममाप्यश्रूण्यथापतन्॥ यत्लो हि सततं कार्यस्ततो दैवेन सिद्ध्यति। दैवं पुरुषकारश्च कृतान्तेनोपपद्यते॥ अनिर्वेदः सदा कार्यो निर्वेदाद्धि कुतः सुखम्। प्रयत्नात् प्राप्यते ह्यर्थः कस्माद् गच्छथ निर्दयम्॥ आत्ममांसोपवृत्तं च शरीरार्धमयीं तनुम्। पितृणां वंशकर्तारं वने त्यक्त्वा क्व यास्यथ॥ अथवास्तंगते सूर्ये संध्याकाल उपस्थिते। ततो नेष्यथ वा पुत्रमिहस्था वा भविष्यथ॥ गृध्र उवाच अद्य वर्षसहस्रं मे साग्रं जातस्य मानुषाः। न च पश्यमि जीवन्तं मृतं स्त्रीपुंनपुंसकम्॥ मृता गर्भेषु जायन्ते जातमात्रा म्रियन्ति च। चङ्क्रमन्तो म्रियन्ते च यौवनस्थास्तथा परे॥ अनित्यानीह भाग्यानि चतुष्पात्यक्षिणामपि। जङ्गमानां नगानां वाप्यायुरग्रेऽवतिष्ठते॥ इष्टदारवियुक्ताश्च पुत्रशोकान्वितास्तथा। दह्यमानाः स्म शोकेन गृहं गच्छन्ति नित्यशः॥ अनिष्टानां सहस्राणि तथेष्टानां शतानि च। उत्सृज्येह प्रयाता वै बान्धवा भृशदुःखिताः॥ त्यज्यतामेष निस्तेजाः शून्यः काष्ठत्वमागतः। अन्यदेहविषक्तं हि शावं काष्ठत्वमागतम्॥ त्यक्तजीवस्य चैवास्य कस्माद्धित्वा न गच्छत। निरर्थको ह्ययं स्नेहो निष्फलश्च परिश्रमः॥ चक्षुर्त्यां न च कर्णाभ्यां सं शृणोति समीक्षते। कस्मादेनं समुत्सृज्य न गृहान् गच्छताशु वै॥ मोक्षधर्माश्रितैर्वाक्यैर्हेतुमद्भिः सुनिष्ठुरैः। मयोक्ता गच्छत क्षिप्रं स्वं स्वमेव निवेशनम्॥ प्रज्ञाविज्ञानयुक्तेन बुद्धिसंज्ञाप्रदायिना। वचनं श्राविता नूनं मानुषाः संनिवर्तत। शोको द्विगुणतां याति दृष्ट्वा स्मृत्वा च चेष्टितम्॥ इत्येतद् वचनं श्रुत्वा संनिवृत्तास्तु मानुषाः। अपश्यत् तं तदा सुप्तं द्रुतमागत्य जम्बुकः॥ जम्बुक उवाच इमं कनकवर्णाभं भूषणैः समलंकृतम्। गृध्रवाक्यात् कथं पुत्रं त्यजध्वं पितृपिण्डदम्॥ न स्नेहस्य च विच्छेदो विलापरुदितस्य च। मृतस्यास्य परित्यागात् तापो वै भविता ध्रुवम्॥ श्रूयते शम्बुके शूद्रे हते ब्राह्मणदारकः। जीवितो धर्ममासाद्य रामात् सत्यपराक्रमात्॥ तथा श्वेतस्य राजर्षेर्बालो दृष्टान्तमागतः। श्वेतेन धर्मनिष्ठेन मृतः संजीवितः पुनः॥ तथा कश्चिल्लभेत् सिद्धो मुनिर्वा देवतापि वा। कृपणानामनुक्रोशं कुर्याद् वो रुदतामिह॥ इत्युक्तास्ते न्यवर्तन्त शोकार्ताः पुत्रवत्सलाः। अङ्के शिरः समाधाय रुरुदुर्बहुविस्तरम्। तेषां रुदितशब्देन गृध्रोऽभ्येत्य वचोऽब्रवीत्॥ गृध्र उवाच अश्रुपातपरिक्लिन्नः पाणिस्पर्शप्रपीडितः। धर्मराजप्रयोगाच्च दीर्घनिद्रां प्रवेशितः॥ तपसापि हि संयुक्ता धनवन्तो महाधियः। सर्वे मृत्युवशं यान्ति तदिदं प्रेतपत्तनम्॥ बालवृद्धसहस्राणि सदा संत्यज्य बान्धवाः। दिनानि चैव रात्रीश्च दुःखं तिष्ठन्ति भूतले॥ अलं निर्बन्धमागत्य शोकस्य परिधारणे। अप्रत्ययं कुतो ह्यस्य पुनरोह जीवितम्॥ मृतस्योत्सृष्टदेहस्य पुनर्देहो न विद्यते। नैव मूर्तिप्रदानेन जम्बुकस्य शतैरपि॥ शक्यं जीवयितुं ह्येष बालो वर्षशतैरपि। अथ रुद्रः कुमारो वा ब्रह्मा वा विष्णुरेव च॥ वरमस्मै प्रयच्छेयुस्ततो जीवेदयं शिशुः। नैव बाष्पविमोक्षेण न वा श्वासकृते न च॥ न दीर्घरुदितेनायं पुनर्जीवं गमिष्यति। अहं च क्रोष्टकश्चैव यूयं ये चास्य बान्धवाः॥ धर्माधर्मो गृहीत्वेह सर्वे वर्तामहेऽध्वनि। अप्रियं परुषं चापि परद्रोहं परस्त्रियम्॥ अधर्ममनृतं चैव दूरात् प्राज्ञो विवर्जयेत्। धर्मं सत्यं श्रुतं न्याय्यं महतीं प्राणिनां दयाम्॥ अजिह्मत्वमशाठ्यं च यत्नतः परिमार्गत। मातरं पितरं वापि बान्धवान् सुहृदस्तथा॥ जीवतो ये न पश्यन्ति तेषां धर्मविपर्ययः। यो न पश्यति चक्षुर्त्यां नेङ्गते च कथञ्चन॥ तस्य निष्ठावसानान्ते रुदन्तः किं करिष्यथ। इत्युक्तास्ते सुतं त्यक्त्वा भूमौ शोकपरिप्लुताः। दह्यमानाः सुतस्नेहात् प्रययुर्बान्धवा गृहम्॥ जम्बुक उवाच दारुणो मर्त्यलोकोऽयं सर्वप्राणिविनाशनः। इष्टबन्धुवियोगश्च तथेहाल्पं च जीवितम्॥ बह्वलीकमसत्यं चाप्यतिवादाप्रियंवदम्। इमं प्रेक्ष्य पुनर्भावं दुःखशोकविवर्धनम्॥ न मे मानुषलोकोऽयं मुहूर्तमपि रोचते। अहो धिग् गृध्रवाक्येन यथैवाबुद्धयस्तथा॥ कथं गच्छत निःस्नेहाः सुतस्नेहं विसृज्य च। प्रदीप्ताः पुत्रशोकेन संनिवर्तत मानुषाः॥ श्रुत्वा गृध्रस्य वचनं पापस्येहाकृतात्मनः। सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्॥ सुखदुःखावृते लोके नेहास्त्येकमनन्तरम्। इमं क्षितितले त्यक्त्वा बालं रूपसमन्वितम्॥ कुलशोभाकरं मूढाः पुत्रं त्यक्त्वा क्व यास्यथा रूपयौवनसम्पन्नं द्योतमानमिव श्रिया॥ जीवन्तमेव पश्यामि मनसा नात्र संशयः। विनाशो नास्य न हि वै सुखं प्राप्स्यथ मानुषाः॥ पुत्रशोकाभितप्तानां मृतानामद्य वः क्षमम्। सुखसम्भावनं कृत्वा धारयित्वा सुखं स्वयम्। त्यक्त्वा गमिष्यथ क्वाद्य समुत्सृज्याल्पबुद्धिवत्॥ भीष्म उवाच तथा धर्मविरोधेन प्रियमिथ्याभिधायिना। श्मशानवासिना नित्यं रात्रिं मृगयता नृप॥ ततो मध्यस्थतां नीता वचनैरमृतोपमैः। जम्बुकेन स्वकार्यार्थं बान्धवास्तस्य धिष्ठिताः॥ गृध्र उवाच अयं प्रेतसमाकीर्णो यक्षराक्षससेवितः। दारुणः काननोद्देशः कौशिकैरभिनादितः॥ भीमः सुघोरश्च तथा नीलमेघसमप्रभः। अस्मिञ्छवं परित्यज्य प्रेतकार्याण्युपासत॥ भानुवत् प्रयात्यस्तं यावच्च विमला दिशः। तावदेनं परित्यज्य प्रेतकार्याण्युपासत॥ नदन्ति परुषं श्येना: शिवाः क्रोशन्ति दारुणम्। मृगेन्द्राः प्रतिनन्दन्ति रविरस्तं च गच्छति॥ चिताधूमेन नीलेन संरज्यन्ते च पादपाः। श्मशाने च निराहारा: प्रतिनर्दन्ति देहिनः॥ सर्वे विकृतदेहाश्चाप्यस्मिन् देशे सुदारुणे। युष्मान् प्रधर्षयिष्यन्ति विकृता मांसभोजिनः॥१००। क्रूरश्चायं वनोद्देशो भयमद्य भविष्यति। त्यज्यतां काष्ठभूतोऽयं मृष्यतां जाम्बुकं वचः॥ यदि जम्बुकवाक्यानि निष्फलान्यनृतानि च। श्रोष्यथ भ्रष्टविज्ञानास्ततः सर्वे विनइक्ष्यथ॥ जम्बुक उवाच स्थीयतां नेह भेतव्यं यावत् तपति भास्करः। तावदस्मिन् सुते स्नेहादनिर्वेदेन वर्तत॥ स्वैरं रुदन्तो विश्रब्धाश्चिरं स्नेहेन पश्यत। (दारुणेऽस्मिन् वनोद्देशे भयं वो न भरिष्यति। अयं सौम्यो वनोद्देशः पितॄणां निधनाकरः।) स्थीयतां यावदादित्यः किं च क्रव्यादभाषितैः॥ यदि गृध्रस्य वाक्यानि तीव्राणि रभसानि च। गृह्णीत मोहितात्मानः सुतो वो न भविष्यति॥ भीष्म उवाच गृध्रोऽस्तमित्याह गतो गतो नेति च जम्बुकः। मृतस्य तं परिजनमूचतुस्तौ क्षुधान्वितौ॥ स्वकार्यबद्धकक्षौ तौ राजन् गृध्रोऽथ जम्बुकः। क्षुत्पिपासापरिश्रान्तौ शास्त्रमालम्ब्य जल्पतः॥ तयोविज्ञानविदुषोईयोर्मुगपतत्रिणोः। वाक्यैरमृतकल्पैस्तैः प्रतिष्ठन्ति व्रजन्ति च॥ शोकदैन्यसमाविष्टा रुदन्तस्तस्थिरे तदा। स्वकार्यकुशलाभ्यां ते सम्भ्राम्यन्ते ह नैपुणात्॥ तथा तयोर्विवदतोर्विज्ञानविदुषोईयोः। बान्धवानां स्थितानां चाप्युपातिष्ठत शङ्करः॥ देव्या प्रणोदितो देवः कारुण्यार्दीकृतेक्षणः। ततस्तानाह मनुजान वरदोऽस्मीति शङ्करः॥ ते प्रत्यूचुरिदं वाक्यं दुःखिताः प्रणताः स्थिताः। एकपुत्रविहीनानां सर्वेषां जीवितार्थिनाम्॥ पुत्रस्य नो जीवदानाज्जीवितं दातुमर्हसि। एवमुक्तः स भगवान् वारिपूर्णेन चक्षुषा॥ जीवितं स्म कुमाराय प्रादाद् वर्षशतानि वै। तथा गोमायुगृध्राभ्यां प्राददत् क्षुद्विनाशनम्॥ वरं पिनाकी भगवान् सर्वभूतहिते रतः। कृतकृत्याः सुखं हृष्टाः प्रातिष्ठन्त तदा विभो। अनिर्वेदेन दीर्पण निश्चयेन ध्रुवेण च॥ देवदेवप्रसादाच्च क्षिप्रं फलमवाप्यते। ततः प्रणम्य ते देवं प्रायो हर्षसमन्विताः॥ पश्य दैवस्य संयोगं बान्धवानां च निश्चयम्॥ कृपणानां तु रुदतां कृतमश्रुप्रमार्जनम्। पश्य चाल्पेन कालेन निश्चयान्वेषणेन च॥ प्रसादं शङ्करात् प्राप्य दुःखिताः सुखमाप्नुवन्। ते विस्मिताः प्रहृष्टाश्च पुत्रसंजीवनात् पुनः॥ बभूवुर्भरतश्रेष्ठ प्रसादाच्छङ्करस्य वै। ततस्ते त्वरिता राजंस्त्यक्त्वा शोकं शिशूद्भवम्॥ विविशुः पुत्रमादाय नगरं हृष्टमानसाः। एषा बुद्धिः समस्तानां चातुर्वण्र्ये निदर्शिता॥ धर्मार्थमोक्षसंयुक्तमितिहासमिमं शुभम्। श्रुत्वा मनुष्यः सततमिहामुत्र च मोदते॥ युधिष्ठिर उवाच बलिनः पत्यमित्रस्य नित्यमासन्नवर्तिनः। उपकारापकाराभ्यां समर्थस्योद्यतस्य च॥ मोहाद् विकत्थनामात्रैरसारोऽल्पबलो लघुः। वाग्भिरप्रतिरूपाभिरभिद्रुह्य पितामह॥ आत्मनो बलमास्थाय कथं वर्तेत मानवः। आगच्छतोऽतिक्रुद्धस्य तस्योद्धरणरकाम्यया॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। संवादं भरतश्रेष्ठ शाल्मले: पवनस्य च॥ हिमवन्तं समासाद्य महानासीद् वनस्पतिः। वर्षपूगाभिसंवृद्धः शाखी स्कन्धी पलाशवान्॥ तत्र स्म मत्तमातङ्गा धर्मार्ताः श्रमकर्शिताः। विश्राम्यन्ति महाबाहो तथान्या मृगजातयः॥ नल्वमात्रपरीणाहो घनच्छायो वनस्पतिः। सारिकाशुकसंजुष्टः पुष्पवान् फलवानपि॥ सार्थिका वणिजश्चापि तापसाश्च वनौकसः। वसन्ति तत्र मार्गस्थाः सुरम्ये नगसत्तमे॥ तस्य ता विपुला: शाखा दृष्ट्वा स्कन्धं च सर्वशः। अभिगम्याब्रवीदेनं नारदो भरतर्षभ॥ अहो नु रमणीयस्त्वमहो चासि मनोहरः। प्रीयामहे त्वया नित्यं तरुप्रवर शाल्मले॥ सदैव शकुनास्तात मृगाश्चाथ तथा गजाः। वसन्ति तव संहृष्टा मनोहर मनोहराः॥ तव शाखा महाशाख स्कन्धांश्च विपुलांस्तथा। न वै प्रभग्नान् पश्यामि मारुतेन कथंचन॥ किं नु ते पवनस्तात प्रीतिमानथवा सुहृत्। त्वां रक्षति सदा येन वनेऽत्र पवनो ध्रुवम्॥ भगवान् पवन: स्थानाद् वृक्षानुच्चावचानपि। पर्वतानां च शिखराण्याचालयति वेगवान्॥ शोषयत्येव पातालं वहन् गन्धवहः शुचिः। सरांसि सरितश्चैव सागरांश्च तथैव च।॥ संरक्षति त्वां पवनः सखित्वेन न संशयः। तस्मात् त्वं बहुशाखोऽपि पर्णवान् पुष्पवानपि॥ इदं च रमणीयं ते प्रतिभाति वनस्पते। यदिमे विहगास्तात रमन्ते मुदितास्त्वयि॥ एषा पृथक् समस्तानां श्रूयते मधुरस्वरः। पुष्पसम्मोदने काले वाशतां सुमनोहरम्॥ तथेमे गर्जिता नागा: स्वयूथकुलशोभिताः। धर्मास्त्विां समासाद्य सुखं विन्दन्ति शाल्मले॥ तथैव मृगजातीभिरन्याभिरभिशोभसे। तथा सर्वाधिवासैश्च शोभसे मेरुवद्रुम्॥ ब्राह्मणैश्च तपःसिद्धेस्तापसैः श्रमणैस्तथा। त्रिविष्टपसमं मन्ये तवायतनमेव हि॥ भीष्म उवाच एवमुक्त्वा तु राजेन्द्र शाल्मलिं ब्रह्मवित्तमः। नारदः पवने सर्वं शाल्मलेर्वाक्यमब्रवीत्॥ नारद उवाच हिमवत्पृष्ठजः कश्चिच्छाल्मलिः परिवारवान्। बृहन्मूलो बृहच्छायः स त्वां वायोऽवमन्यते॥ बहुव्याक्षेपयुक्तानि त्वामाह वचनानि सः। न युक्तानि मया वायो तानि वक्तुं तवाग्रतः॥ जानामि त्वामहं वायो सर्वप्राणभृतां वरम्। वरिष्ठं च गरिष्ठं च क्रोधे वैवस्वतं यथा॥ भीष्म उवाच एतत् तु वचनं श्रुत्वा नारदस्य समीरणः। शाल्मलिं तमुपागम्य क्रुद्धो वचनमब्रवीत्॥ वायुरुवाच शाल्मले नारदो गच्छंस्त्वयोक्तो मद्विगर्हणम्। अहं वायुः प्रभावं ते दर्शयाम्यात्मनो बलम्॥ अहं त्वामभिजानामि विदितश्चासि मे दुम। पितामहः प्रजासर्गे त्वयि विश्रान्तवान् प्रभुः॥ तस्य विश्रमणादेष प्रसादो मत्कृतस्तव। रक्ष्यसे तेन दुर्बुद्धे नात्मवीर्याद् दुमाधम॥ यन्मां त्वमवजानीषे यथान्यं प्राकृतं तथा। दर्शयाम्येष चात्मानं यथा मां नावमन्यसे॥ भीष्म उवाच एवमुक्तस्ततः प्राह शाल्मलिः प्रहसन्निव। पवन त्वं च मे क्रुद्धो दर्शयात्मानमात्मना॥ मयि वै त्यज्यतां क्रोधः किं मे क्रुद्धः करिष्यसि। न ते बिभेमि पवन यद्यपि त्वं स्वयं प्रभुः॥ बलाधिकोऽहं त्वत्तश्च न भी: कार्या मया तव। ये तु बुद्ध्या हि बलिनस्ते भवन्ति बलीयसः॥ प्राणमात्रबला ये वै नैव ते बलिनो मताः। इत्येवमुक्तः पवनः श्व इत्येवाब्रवीद् वचः॥ दर्शयिष्यामि ते तेजस्ततो रात्रिरुपागमत्। अथ निश्चित्य मनसा शाल्मलिर्वातकारितम्॥ पश्यमानस्तदाऽऽत्मानमसमं मातरिश्वना। नारदे यन्मया प्रोक्तं वचनं प्रति तन्मृषा॥ असमर्थो ह्यहं वायोर्बलेन बलवान् हि सः। मारुतो बलवान् नित्यं यथा वै नारदोऽब्रवीत्॥ अहं तु दुर्बलोऽन्येभ्यो वृक्षेभ्यो नात्र संशयः। किं तु बुद्ध्या समो नास्ति मया कश्चिद् वनस्पतिः।।१७। तदहं बुद्धिमास्थाय भयं मोक्ष्ये समीरणात्। यदि तां बुद्धिमास्थाय तिष्ठेयुः पर्णिनो वने॥ अरिष्टाः स्युः सदा क्रुद्धात् पवनान्नात्र संशयः। ते तु बाला न जानन्ति यथा वै तान् समीरणः। समीरयति संक्रुद्धो यथा जानाम्यहं तथा॥ भीष्म उवाच ततो निश्चित्य मनसा शाल्मलिः क्षुभितस्तदा। शाखा: स्कन्धान प्रशाखाश्च स्वयमेव व्यशातयत्॥ स परित्यज्य शाखाश्च पत्राणि कुसुमानि च। प्रभाते वायुमायान्तं प्रत्यक्षत वनस्पतिः॥ ततः क्रुद्धः श्वसन् वायुः पातयन् व महादुमान्। आजगामाथ तं देशमास्ते यत्र स शाल्मलिः॥ तं हीनपर्णं पतिताग्रशाखं निशीर्णपुष्पं प्रसमीक्ष्य वायुः। उवाच वाक्यं स्मयमान एवं मुदा युतः शाल्मलिमुग्रशाखम्॥ वायुरुवाच अहमप्येवमेव त्वां कुर्वाण: शाल्मले रुषा। आत्मना यत्कृतं कृच्छ्रे शाखानामपकर्षणम्॥ हीनपुष्पाग्रशाखस्त्वं शीर्णाकुरपलाशकः। आत्मदुर्मन्त्रितेनेह मद्वीर्यवशगः कृतः॥ भीष्म उवाच एतच्छ्रुत्वा वचो वायोः शाल्मलिीडितस्तदा। अतप्यत वचः स्मृत्वा नारदो यत् तदाब्रवीत्॥ एवं हि राजशार्दूल दुर्बलः सन् बलीयसा। वैरमारभते बालस्तप्यते शाल्मलिर्यथा॥ तस्माद् वैरं न कुर्वीत दुर्बलो बलवत्तरैः। शोचेद्धि वैरं कुर्वाणो यथा वै शाल्मलिस्तथा॥ न हि वैरं महात्मानो विवृण्वन्त्यपकारिषु। शनैः शनैर्महाराज दर्शयन्ति स्म ते बलम्॥ वैरं न कुर्वीत नरो दुर्बुद्धिर्बुद्धिजीविना। बुद्धिर्बुद्धिमतो याति तृणेष्विव हुताशनः॥ न हि बुद्ध्या समं किंचिद् विद्यते पुरुषे नृप। तथा बलेन राजेन्द्र न समोऽस्तीह कश्चन॥ तस्मात् क्षमेत बालाय जडान्धबधिराय च। बलाधिकाय राजेन्द्र तद् दृष्टं त्वयि शत्रुहन्॥ अक्षौहिण्यो दशैका च सप्त चैव महाद्युते। बलेन न समा राजन्नर्जुनस्य महात्मनः॥ निहताश्चैव भग्नाश्च पाण्डवेन यशस्विना। चरत बलमास्थाय पाकशासनिना मृधे॥ उक्ताश्च ते राजधर्मा आपद्धर्माश्च भारत। विस्तरेण महाराज किं भूयः श्रोतुमिच्छसि॥ निहताश्चैव भग्नाश्च पाण्डवेन यशस्विना। चरत बलमास्थाय पाकशासनिना मृधे॥ उक्ताश्च ते राजधर्मा आपद्धर्माश्च भारत। विस्तरेण महाराज किं भूयः श्रोतुमिच्छसि॥ युधिष्ठिर उवाच पापस्य यदधिष्ठानं यतः पापं प्रवर्तते। एतदिच्छाम्यहं श्रोतुं तत्त्वेन भरतर्षभ॥ भीष्म उवाच पापस्य यदधिष्ठानं तच्छृणुष्व नराधिप। एको लोभो महाग्राहो लोभात् पापं प्रवर्तते॥ अतः पापमधर्मश्च तथा दुःखमनुत्तमम्। निकृत्या मूलमेतद्धि येन पापकृतो जनाः॥ लोभात् क्रोधः प्रभवति लोभात् कामः प्रवर्तते। लोभान्मोहच माया च मानः स्तम्भः परासुता॥ अक्षमा ह्रीपरित्यागः श्रीनाशो धर्मसंक्षयः। अभिध्याप्रख्यता चैव सर्वं लोभात् प्रवर्तते॥ अत्यागश्चातितर्षश्च विकर्मसु च याः क्रियाः। कुलविद्यामदश्चैव रूपैश्वर्यमदस्तथा॥ सर्वभूतेष्वभिद्रोहः सर्वभूतेष्वसत्कृतिः। सर्वभूतेष्वविश्वासः सर्वभूतेष्वनार्जवम्॥ हरणं परवित्तानां परदाराभिमर्शनम्। वाग्वेगो मनसो वेगो निन्दावेगस्तथैव च॥ उपस्थोदरयोर्वेगो मृत्युवेगश्च दारुणः। ईर्ष्यावेगश्च बलवान् मिथ्यावेगश्च दुर्जयः॥ रसवेगश्च दुर्वार्यः श्रोत्रवेगश्च दुःसहः। कुत्सा विकत्था मात्सर्यं पापं दुष्करकारिता॥ साहसानां च सर्वेषामकार्याणां क्रियास्तथा। जातौ बाल्ये च कौमारे यौवने चापि मानवाः॥ न संत्यजन्त्यात्मकर्म यो न जीर्यति जीर्यतः। यो न पूरयितुं शक्यो लोभः प्राप्त्या कुरूद्वह॥ नित्यं गम्भीरतोयाभिरापगाभिरिवोदधिः। न प्रहृष्यति यो लाभैः कामैर्यश्च न तृष्यति॥ यों न देवैर्न गन्धर्नासुरैर्न महोरगैः। ज्ञायते नृप तत्त्वेन सर्वैर्भूतगणैस्तथा॥ स लोभः सह मोहेन विजेतव्यो जितात्मना। दम्भो द्रोहश्च निन्दा च पैशुन्यं मत्सरस्तथा॥ भवन्त्येतानि कौरव्य लुब्धानामकृतात्मनाम्। सुमहान्त्यपि शास्त्राणि धारयन्ति बहुश्रुताः॥ छेत्तारः संशयानां च क्लिश्यन्तीहाल्पबुद्धयः। द्वेषक्रोधप्रसक्ताश्च शिष्टाचारबहिष्कृताः॥ अन्तःक्रूरा वाङ्मधुराः कूपाश्छन्नास्तृणैरिवा धर्मवैतं सिकाः क्षुद्रा मुष्णन्ति ध्वजिनो जगत्॥ कुर्वते च बहून् मार्गांस्तान् हेतुबलमाश्रिताः। सतां मार्गान् विलुम्पन्ति लोभाज्ञानेषु निष्ठिताः॥ धर्मस्य ह्रियमाणस्य लोभग्रस्तैर्दुरात्मभिः। या या विक्रियते संस्था ततः सापि प्रपद्यते॥ दर्पः क्रोधो मदः स्वप्नो हर्षः शोकोऽतिमानिता। एव एव हि कौरव्य दृश्यन्ते लुब्धबुद्धिषु॥ एतानशिष्टान् बुध्यस्व नित्यं लोभसमन्वितान्। शिष्टांस्तु परिपृच्छेथा यान् वक्ष्यामि शुचिव्रतान्॥ येष्वावृत्तिभयं नास्ति परलोकभयं न च। नामिषेषु प्रसंगोऽस्ति न प्रियेष्वप्रियेषु च॥ शिष्टाचारः प्रियो येषु दमो येषु प्रतिष्ठितः। सुखं दुःखं समं येषां सत्यं येषां परायणम्॥ दातारो न ग्रहीतारो दयावन्तस्तथैव च। पितृदेवातिथेयाश्च नित्योधुक्तास्तथैव च॥ सर्वोपकारिणो वीराः सर्वधर्मानुपालकाः। सर्वभूतहिताश्चैव सर्वदेयाश्च भारत॥ न ते चालयितुं शक्या धर्मव्यापारकारिणः। न तेषां भिद्यते वृत्तं यत्पुरा साधुभिः कृतम्॥ न त्रासिनो न चपला न रौद्राः सत्पथे स्थिताः। ते सेव्याः साधुभिर्नित्यं येष्वहिंसा प्रतिष्ठिता॥ कामक्रोधव्यपेता ये निर्ममा निरहंकृताः। सुव्रताः स्थिरमर्यादास्तानुपास्व च पृच्छ च॥ न धनार्थं यशोऽर्थं वा धर्मस्तेषां युधिष्ठिर। अवश्यं कार्य इत्येव शरीरस्य क्रियास्तथा।॥ न भयं क्रोधचापल्ये न शोकस्तेषु विद्यते। न धर्मध्वजिनश्चैव न गुह्यं कञ्चिदास्थिताः॥ येष्वलोभस्तथामोहो ये च सत्यार्जवे स्थिताः। तेषु कौन्तेय रज्येथा येषां न भ्रश्यते पुनः॥ ये न हृष्यन्ति लाभेषु नालाभेषु व्यथन्ति च। निर्ममा निरहंकाराः सत्त्वस्थाः समदर्शिनः॥ लाभालाभौ सुखदुःखे च तात प्रियाप्रिये मरणं जीवितं च। समानि येषां स्थिरविक्रमाणां बुभुत्सतां सत्त्वपथे स्थितानाम्॥ धर्मप्रियांस्तान्सुमहानुभावान् दान्तोऽप्रमत्तश्च समर्चयेथाः। दैवान्सर्वे गुणवन्तो भवन्ति शुभाशुभे वाक्प्रलापास्तथान्ये॥ युधिष्ठिर उवाच अनर्थानामधिष्ठानमुक्तो लोभः पितामह। अज्ञानमपि वै तात श्रोतुमिच्छामि तत्त्वतः॥ भीष्म उवाच करोति पापं योऽज्ञानानात्मनो वेत्ति च क्षयम्। प्रद्वेष्टि साधुवृत्तांश्च स लोकस्यैति वाच्यताम्॥ अज्ञानान्निरयं याति तथाज्ञानेन दुर्गतिम्। अज्ञानात् क्लेशमाप्नोति तथापत्सु निमज्जति॥ युधिष्ठिर उवाच अज्ञानस्य प्रवृत्तिं च स्थानं वृद्धिक्षयोदयौ। मूलं योगं गतिं कालं कारणं हेतुमेव च॥ श्रोतुमिच्छामि तत्त्वेन यथावदिह पार्थिव। अज्ञानप्रसवं हीदं यद् दुःखमुपलभ्यते॥ रागो द्वेषस्तथा मोहो हर्षः शोकोऽभिमानिता। कामः क्रोधश्च दर्पश्च तन्द्री चालस्यमेव च॥ इच्छा द्वेषस्तथा तापः परवृद्ध्युपतापिता। अज्ञानमेतन्निर्दिष्टं पापानां चैव याः क्रियाः॥ एतस्य वा प्रवृत्तेश्च वृद्ध्यादीन्यांश्च पृच्छसि। विस्तरेण महाराज शृणु तच्च विशेषतः॥ उभावेतौ समफलौ समदोषौ च भारत। अज्ञानं चातिलोभश्चाप्येकं जानीहि पार्थिव॥ लोभप्रभवमज्ञानं वृद्धं भूयः प्रवर्धते। स्थाने स्थानं क्षये क्षैण्यमुपैति विविधां गतिम्॥ मूलं लोभस्य मोहो वै कालात्मगतिरेव च। छिन्ने भिन्ने तथा लोभे कारणं काल एव च॥ तस्याज्ञानाद्धि लोभो हि लोभादज्ञानमेव च। सर्वदोषास्तथा लोभात् तस्माल्लोभंविवर्जयेत्॥ जनको युवनाश्वच वृषादर्भिः प्रसेनजित्। लोभक्षयाद् दिवं प्राप्तास्तथैवान्ये नराधिपाः॥ प्रत्यक्षं तु कुरुश्रेष्ठ त्यज लोभमिहात्मना। त्यक्त्वा लोभं सुखं लोके प्रेत्य चानुचरिष्यसि॥ युधिष्ठिर उवाच स्वाध्याये कृतयत्नस्य नरस्य च पितामह। धर्मकामस्य धर्मात्मन् किं नु श्रेय इहोच्यते॥ बहुधा दर्शने लोके श्रेयो यदिह मन्यसे। अस्मिल्लोके परे चैव तन्मे ब्रूहि पितामह॥ महानयं धर्मपथो बहुशाखश्च भारत। किंस्विदेवेह धर्माणामनुष्ठेयतमं मतम्॥ धर्मस्यो महतो राजन् बहुशाखस्य तत्त्वतः। यन्मूलं परमं तात तत् सर्वं ब्रूह्यशेषतः॥ भीष्म उवाच हन्त ते कथयिष्यामि येन श्रेयो ह्यवाप्स्यसि। पीत्वामृतमिव प्राज्ञो ज्ञानतृप्तो भविष्यसि॥ धर्मस्य विधयो नैके ये वै प्रोक्ता महर्षिभिः। स्वं स्वं विज्ञानमाश्रित्य दमस्तेषां परायणम्॥ दमं निःश्रेयसं प्राहुर्वृद्धा निश्चितदर्शिनः। ब्राह्मणस्य विशेषेण दमो धर्मः सनातनः॥ दमात् तस्य क्रियासिद्धिर्यथावदुपलभ्यते। दमो दानं तथा यज्ञानधीतं चातिवर्तते॥ दमस्तेजो वर्धयति पवित्रं च दम: परम्। विपाप्मा तेजसा युक्तः पुरुषो विन्दते महत्॥ दमेन सदृशं धर्मं नान्यं लोकेषु शुश्रुम। दमो हि परमो लोके प्रशस्तः सर्वधर्मिणाम्॥ प्रेत्य चात्र मनुष्येन्द्र परमं विन्दते सुखम्। दमेन हि समायुक्तो महान्तं धर्ममश्नुते॥ सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते। सुखं पर्येति लोकांश्च मनश्चास्य प्रसीदति॥ अदान्तः पुरुषः क्लेशमभीक्ष्णं प्रतिपद्यते। अनर्थांश्च बहूनन्यान् प्रसृजत्यात्मदोषजान्॥ आश्रमेषु चतुर्बाहुर्दममेवोत्तमं व्रतम्। तस्य लिङ्गानि वक्ष्यामि येषां समुदयो दमः॥ क्षमा धृतिरहिंसा च समता सत्यमार्जवम्। इन्द्रियाभिजयो दाक्ष्यं मार्दवं ह्रीरचापलम्॥ अकार्पण्यमसंरम्भः संतोषः प्रियवादिता। अविहिंसानसूया चाप्येषां समुदयो दमः॥ गुरुपूजा च कौरव्य दया भूतेष्वपैशुनम्। जनवादं मृषावादं स्तुतिनिन्दाविसर्जनम्॥ कामं क्रोधं च लोभं च दर्प स्तम्भं विकत्थनम्। रोषमीया॑वमानं च नैव दान्तो निषेवते॥ अनिन्दितो ह्यकामात्मा नाल्पेष्वर्थ्यनसूयकः। समुद्रकल्पः स नरो न कथंचन पूर्यते॥ अहं त्वयि मयि त्वं च मयि ते तेषु चाप्यहम्। पूर्वसम्बन्धिसंयोग नैतद् दान्तो निषेवते॥ सर्वा ग्राम्यास्तथाऽऽरण्या याश्च लोके प्रवृत्तयः। निन्दां चैव प्रशंसां च यो नाश्रयति मुच्यते॥ मैत्रोऽथ शीलसम्पन्नः प्रसन्नात्माऽऽत्मविच्च यः। मुक्तस्य विविधैः सङ्गैस्तस्य प्रेत्य फलं महत्॥ सुवृत्तः शीलसम्पन्नः प्रसन्नात्माऽऽत्मविद् बुधः। प्राप्येह लोके सत्कारं सुगति प्रतिपद्यते॥ कर्म यच्छुभमेवेह सद्भिराचरितं च यत्। तदेव ज्ञानयुक्तस्य मुनेवर्त्म न हीयते॥ निष्क्रम्य वनमास्थाय ज्ञानयुक्तो जितेन्द्रियः। कालाकाङ्क्षी चरत्येवं ब्रह्मभूयाय कल्पते॥ अभयं यस्य भूतेभ्यो भूतानामभयं यतः। तस्य देहाद् विमुक्तस्य भयं नास्ति कुतश्चन॥ अवाचिनोति कर्माणि न च सम्प्रचिनोति ह। समः सर्वेषु भूतेषु मैत्रायणगतिश्चरेत्॥ शकुनीनामिवाकाशे जले वारिचरस्य च। यथा गतिर्न दृश्येत तथा तस्य न संशयः॥ गृहानुत्सृज्य यो राजन् मोक्षमेवाभिपद्यते। लोकास्तेजोमयास्तस्य कल्पन्ते शाश्वतीः समाः॥ संन्यस्य सर्वकर्माणि संन्यस्य विधिवत्तपः। संन्यस्य विविधा विद्याः सर्वं संन्यस्य चैव ह॥ कामे शुचिरनावृत्तः प्रसन्नात्माऽऽत्मविच्छुचिः। प्राप्येह लोके सत्कारं स्वर्ग समभिपद्यते॥ यच्च पैतामहं स्थानं ब्रह्मराशिसमुद्भवम्। गुहायां पिहितं नित्यं तद् दमेनाभिगम्यते॥ ज्ञानारामस्य बुद्धस्य सर्वभूताविरोधिनः। नावृत्तिभयमस्तीह परलोकभयं कुतः॥ एक दव दमे दोषो द्वितीयो नोपपद्यते। यदेनं क्षमया युक्तमशक्तं मन्यते जनः॥ एकोऽस्य सुमहाप्राज्ञः दोषः स्यात् सुमहान् गुणः। क्षमया विपुला लोकाः सुलभा हि सहिष्णुता।॥ दान्तस्य किमरण्येन तथाऽदान्तस्य भारत। यत्रैव निवसेद् दान्तस्तदरण्यं स चाश्रमः॥ वैशम्पायन उवाच एतद् भीष्मस्य वचनं श्रुत्वा राजा युधिष्ठिरः। अमृतेनेव संतृप्तः प्रहृष्टः समपद्यत॥ पुनश्च परिपप्रच्छ भीष्मं धर्मभृतां वरम्। तपः प्रति स चोवाच तस्मै सर्वं कुरूद्वह॥ भीष्म उवाच सर्वमेतत् तपोमूलं कवयः परिचक्षते। न ह्यतप्ततपा मूढः क्रियाफलमवाप्नुते॥ प्रजापतिरिदं सर्वं तपसैवासृजत् प्रभुः। तथैव वेदानृषयस्तपसा प्रतिपेदिरे॥ तपसैव ससर्जानं फलमूलानि यानि च। त्रील्लोकांस्तपसा सिद्धाः पश्यन्ति सुसमाहिताः॥ औषधान्यगदादीनि क्रियाश्च विविधास्तथा। तपसैव हि सिद्ध्यन्ति तपोमूलं हि साधनम्॥ यद् दुरापं भवेत् किंचित् तत्सर्वं तपसो भवेत्। ऐश्वर्यमृषयः प्राप्तास्तपसैव न संशयः॥ सुरापोऽसम्मतादायी भ्रूणहा गुरुतल्पगः। तपसैव सुतप्तेन नरः पापात् प्रमुच्यते॥ तपसो बहुरूपस्य तैस्तैारैः प्रवर्ततः। निवृत्या वर्तमानस्य तपो नानशनात् परम्॥ अहिंसा सत्यवचनं दानमिन्द्रियनिग्रहः। एतेभ्यो हि महाराज तपो नानशनात् परम्॥ न दुष्करतरं दानान्नातिमातरमाश्रयः। विद्यभ्यः परं नास्ति संन्यासः परमं तपः॥ इन्द्रियाणीह रक्षन्ति स्वर्गधर्माभिगुप्तये। तस्मादर्थे च धर्मे च तपो नानशनात् परम्॥ ऋषयः पितरो देवा मनुष्या मृगपक्षिणः। यानि चान्यानि भूतानि स्थावराणि चराणि च॥ तपः परायणाः सर्वे सिद्ध्यन्ति तपसा च ते। इत्येवं तपसा देवा महत्त्वं प्रतिपेदिरे॥ इमानीष्टविभागानि फलानि तपसः सदा। तपसा शक्यते प्राप्तुं देवत्वमपि निश्चयात्॥ युधिष्ठिर उवाच सत्यं धर्मं प्रशंसन्ति विप्रर्षिपितृदेवताः। सत्यमिच्छाम्यहं श्रोतुं तन्मे ब्रूहि पितामह॥ सत्यं किंलक्षणं राजन् कथं वा तदवाप्यते। सत्यं प्राप्य भवेत् किं च कथं चैव तदुच्यताम्॥ भीष्म उवाच चातुर्वर्ण्यस्य धर्माणां संकरो न प्रशस्यते। अविकारितमं सत्यं सर्ववर्णेषु भारत॥ सत्यं सत्सु सदा धर्मः सत्यं धर्मः सनातनः। सत्यमेव नमस्येत सत्यं हि परमा गतिः॥ सत्यं धर्मस्तपो योगः सत्यं ब्रह्म सनातनम्। सत्यं यज्ञः परः प्रोक्तः सर्वं सत्ये प्रतिष्ठितम्॥ आचारानिह सत्यस्य यथावदनुपूर्वशः। लक्षणं च प्रवक्ष्यामि सत्यस्येह यथाक्रमम्॥ प्राप्यते च यथा सत्यं तच्च श्रोतुमिहार्हसि। सत्यं त्रयोदशविधं सर्वलोकेषु भारत॥ सत्यं च समता चैव दमश्चैव न संशयः। अमात्सर्यं क्षमा चैव ह्रीस्तितिक्षानसूयता॥ त्यागो ध्यानमथार्यत्वं धृतिश्च सततं स्थिरा। अहिंसा चैव राजेन्द्र सत्याकारास्त्रयोदश॥ सत्यं नामाव्ययं नित्यमविकारि तथैव च। सर्वधर्माविरुद्धेन योगेनैतदवाप्यते॥ आत्मनीष्टे तथानिष्टे रिपौ च समता तथा। इच्छाद्वेषक्षयं प्राप्य कामक्रोधक्षयं तथा॥ दमो नान्यस्पृहा नित्यं गाम्भीर्यं धैर्यमेव च। अभयं रोगशमनं ज्ञानेनैतदवाप्यते॥ अमात्सर्यं बुधाः प्राहुर्दाने धर्मे च संयमः। अवस्थितेन नित्यं च सत्येनामत्सरी भवेत्॥ अक्षमायाः क्षमायाश्च प्रियाणीहाप्रियाणि च। क्षमते सम्मतः साधुः साध्वाप्नोति च सत्यवाक्॥ कल्याणं कुरुते बाढं धीमान् न ग्लायते क्वचित्। प्रशान्तवाङ्मना नित्यं ह्रीस्तु धर्मादवाप्यते॥ धर्मार्थहेतोः क्षमते तितिक्षा क्षान्तिरुच्यते। लोकसंग्रहणार्थं वै सा तु धैर्येण लभ्यते॥ त्यागः स्नेहस्य यत् त्यागो विषयाणां तथैव च। रागद्वेषप्रहीणस्य त्यागो भवति नान्यथा॥ आर्यता नाम भूतानां यः करोति प्रयत्नतः। शुभं कर्म निराकारो वीतरागस्तथैव च॥ धृतिर्नाम सुखे दुःखे यथा नाप्नोति विक्रियाम्। तां भजेत सदा प्राज्ञो य इच्छेद् भूतिमात्मनः॥ सर्वथा क्षमिणा भाव्यं तथा सत्यपरेण च। वीतहर्षभयक्रोधो धृतिमाप्नोति पण्डितः॥ अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा। अनुग्रहश्च दानं च सतां धर्मः सनातनः॥ एते त्रयोदशाकाराः पृथक् सत्यैकलक्षणाः। भजन्ते सत्यमेवेह बृंहयन्ते च भारत॥ नान्तः शक्यो गुणानां च वक्तुं सत्यस्य पार्थिव। अतः सत्यं प्रशंसन्ति विप्राः सपितृदेवताः॥ नास्ति सत्यात् परो धर्मो नानृतात् पातकं परम्। स्थितिर्हि सत्यं धर्मस्य तस्मात्सत्यं न लोपयेत्॥ उपैति सत्याद् दानं हि तथा यज्ञाः सदक्षिणाः। त्रेताग्निहोत्रं वेदाश्च ये चान्ये धर्मनिश्चयाः॥ अश्वमेधसहस्रं च सत्यं च तुलया धृतम्। अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते॥ युधिष्ठिर उवाच यतः प्रभवति क्रोधः कामो वा भरतर्षभ। शोकमोहौ विधित्सा च परासुत्वं तथा मदः॥ लोभो मात्सयमीp च कुत्सासूया कृपा तथा। एतत् सर्वं महाप्राज्ञ याथातथ्येन मे वद॥ भीष्म उवाच त्रयोदशैतेऽतिबलाः शत्रवः प्राणिनां स्मृताः। उपासन्ते महाराज समन्तात् पुरुषानिह॥ एते प्रमत्तं पुरुषमप्रमत्तास्तुदन्ति च। वृका इव विलुम्पन्ति दृष्ट्वैव पुरुषं बलात्॥ एभ्यः प्रवर्तते दुःखमेभ्यः पापं प्रवर्तते। इति मयो विजानीयात् सततं पुरुषर्षभ॥ एतेषामुदयं स्थानं क्षयं च पृथिवीपते। हन्त ते कथयिष्यामि क्रोधस्योत्पत्तिमादितः॥ यथातत्त्वं क्षितिपते तदिहैकमनाः शृणु। लोभात् क्रोधः प्रभवति परदोषैरुदीर्यते॥ क्षमया तिष्ठते राजन् क्षमया विनिवर्तते। संकल्पाज्जायते कामः सेव्यमानो विवर्धते॥ यदा प्राज्ञो विरमते तदा सद्यः प्रणश्यति। परासुता क्रोधलोभादभ्यासाच्च प्रवर्तते॥ दयया सर्वभूतानां निर्वेदात् सा निवर्तते। अवद्यदर्शनादेति तत्त्वज्ञानाच्च धीमताम्॥ अज्ञानप्रभवो मोहः पापाभ्यासात् प्रवर्तते। यदा प्राज्ञेषु रमते तदा सद्यः प्रणश्यति॥ विरुद्धानीह शास्त्राणि ये पश्यन्ति कुरूद्वह। विधित्सा जायते तेषां तत्त्वज्ञानान्निवर्तते॥ प्रीत्या शोकः प्रभवति वियोगात् तस्य देहिनः। यदा निरर्थकं वेत्ति तदा सद्यः प्रणश्यति॥ परासुता क्रोधलोभादभ्यासाच्च प्रवर्तते। दयया सर्वभूतानां निर्वेदात् सा निवर्तते।॥ सत्यत्यागात् तु मात्सर्यमहितानां च सेवया। एतत् तु क्षीयते तात साधूनामुपसेवनात्॥ कुलाज्ज्ञानात् तथैश्वर्यान्मदो भवति देहिनाम्। एभिरेव तु विज्ञातैः स च सद्यः प्रणश्यति॥ ईर्ष्या कामात् प्रभवति संहर्षाच्चैव जायते। इतरेषां तु सत्त्वानां प्रज्ञया सा प्रणश्यति॥ विभ्रमाल्लोकबाह्यानां द्वेष्यैर्वाक्यैरसम्मतैः। कुत्सा संजायते राजंल्लोकान् प्रेक्ष्याभिशाम्यति॥ प्रतिकर्तुं न शक्ता ये बलस्थायापकारिणे। असूया जायते तीव्रा कारुण्याद् विनिवर्तते॥ कृपणान् सततं दृष्ट्वा ततः संजायते कृपा। धर्मनिष्ठां यदा वेत्ति तदा शाम्यति सा कृपा॥ अज्ञानप्रभवो लोभो भूतानां दृश्यते सदा। अस्थिरत्वं च भोगानां दृष्ट्वा ज्ञात्वा निवर्तते॥ एतान्येव जितान्याहुः प्रशमाच्च त्रयोदश। एते हि धार्तराष्ट्राणां सर्वे दोषास्त्रयोदश॥ त्वया सत्यार्थिना नित्यं विजिता ज्येष्ठसेवनात्॥ युधिष्ठिर उवाच आनृशंस्यं विजानामि दर्शनेन सतां सदा। नृशंसान्न विजानामि तेषां कर्म च भारत॥ कण्टकान् कूपमग्निं च वर्जयन्ति यथा नराः। तथा नृशंसकर्माणं वर्जयन्ति नरा नरम्॥ नृशंसो दह्यते नित्यं प्रेत्य चेह च भारत। तस्मात् त्वं ब्रूहि कौरव्य तस्य धर्मविनिश्चयम्॥ भीष्म उवाच स्पृहा स्याद् गर्हिता चैव विधित्सा चैव कर्मणाम्। आक्रोष्टा क्रुश्यते चैव वञ्चितो बुद्ध्यते स च॥ दत्तानुकीर्तिर्विषमः क्षुद्रो नैकृतिकः शठः। असंविभागी मानी च तथा सङ्गी विकत्थनः॥ सर्वातिशङ्की पुरुषो बलीशः कृपणोऽथवा। वर्गप्रशंसी सततमाश्रमद्वेषसंकरी॥ हिंसाविहारः सततमविशेषगुणागुणः। बबलीकोऽमनस्वी च लुब्धोऽत्यर्थं नृशंसकृत्॥ धर्मशीलं गुणोपेतं पापमित्यवगच्छति। आत्मशीलप्रमाणेन न विश्वसिति कस्यचित्॥ परेषां यत्र दोषः स्यात् तद् गुह्यं सम्प्रकाशयेत्। समानेष्वेव दोषेषु वृत्त्यर्थमुपघातयेत्॥ तथोपकारिणं चैव मन्यते वञ्चितं परम्। दत्त्वापि च धनं काले संतपत्युपकारिणे॥ भक्ष्यं पेयमथालेह्यं यच्चान्यत् साधु भोजनम्। प्रेक्षमाणेषु योऽश्नीयान्नृशंसमिति तं वदेत्॥ ब्राह्मणेभ्यः प्रदायाग्रं यः सुहृद्भिः सहाश्नुते। स प्रेत्य लभते स्वर्गमिह चानन्त्यमश्नुते॥ एष ते भरतश्रेष्ठ नृशंसः परिकीर्तितः। सदा विवर्जनीयो हि पुरुषेण विजानता।॥ भीष्म उवाच हृतार्थो यक्ष्यमाणश्व सर्ववेदान्तगश्च यः। आचार्यपितृकार्यार्थं स्वाध्यायार्थमथापि च॥ एते वै दृष्टा ब्राह्मणा धर्मभिक्षवः। निःस्वेभ्यो देयमेतेभ्यो दानं विद्या च भारत॥ साधवो अन्यत्र दक्षिणादानं देयं भरतसत्तम। अन्येभ्योऽपि बहिर्वेदि चाकृतान्नं विधीयते॥ सर्वरत्नानि राजा हि यथार्ह प्रतिपादयेत्। ब्राह्मणा एव वेदाश्च यज्ञाश्च बहुदक्षिणाः। अन्योन्यं विभवाचारा यजन्ते गुणतः सदा॥ यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये। अधिकं चापि विद्येत स सोमं पातुमर्हति॥ यज्ञश्चेत् प्रतिरुद्धः स्यादंशेनैकेन यज्वनः। ब्राह्मणस्य विशेषेण धार्मिके सति राजनि॥ यो वैश्यः स्याद् बहुपशु-नक्रतुरसोमपः। कुटुम्बात् तस्य तद् वित्तं यज्ञार्थं पार्थिवो हरेत्॥ आहरेदथ नो किञ्चत् कामं शूद्रस्य वेश्मनः। न हि यज्ञेषु शूद्रस्य किञ्चिदस्ति परिग्रहः॥ योऽनाहिताग्निः शतगुरयज्वा च सहस्रगुः। तयोरपि कुटुम्बाभ्यामाहरेदविचारयन्॥ अदातृभ्यो हरेद् वित्तं विख्याप्य नृपतिः सदा। तथैवाचरतो धर्मो नृपते: स्यादथाखिलः॥ तथैव शृणु मे भक्तं भक्तानि षडनश्नतः। अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः॥ खलात् क्षेत्रात् तथा रामाद् यतो वाप्युपपद्यते। आख्यातव्यं नृपस्यैतत् पृच्छतेऽपृच्छतेऽपि वा॥ न तस्मै धारयेद् दण्डं राजा धर्मेण धर्मवित्। क्षत्रियस्य तु बालिश्या ब्राह्मणः क्लिश्यते क्षुधा॥ श्रुतशीले समाज्ञाय वृत्तिमस्य प्रकल्पयेत्। अथैनं परिरक्षेत पिता पुत्रमिवौरसम्॥ इष्टिं वैश्वानरों नित्यं निर्वयेदब्दपर्यये। अनुकल्पः परो परो धर्मो धर्मवादैस्तु केवलम्॥ विश्वैर्देवैश्च साध्यैश्च ब्राह्मणैश्च महर्षिभिः। आपत्सु मरणाद् भीतैर्विधिः प्रतिनिधीकृतः॥ प्रभुः प्रथमकल्पस्य योऽनुकल्पे न वर्तते। न साम्परायिकं तस्य दुर्मतेर्विद्यते फलम्॥ न ब्राह्मणो निवेदेत किंचिद् राजनि वेदवित्। स्ववीर्याद् राजवीर्याच्च स्ववीर्यं बलवत्तरम्॥ तस्माद् राज्ञः सदा तेजो दुःसहं ब्रह्मवादिनाम्। कर्ता शास्ता विधाता च ब्राह्मणो देव उच्यते॥ तस्मिन्नाकुशलं ब्रूयान्न शुष्कामीरयेद् गिरम्। क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः॥ धनैवैश्यश्च शूद्रश्च मन्त्रैर्हो मैश्च वै द्विजः। नैव कन्या न युवति मन्त्रज्ञो न बालिशः॥ परिवेष्टाग्निहोत्रस्य भवेन्नासंस्कृतस्तथा। नरकं निपतन्त्येते जुह्वानाः स च यस्य तत्। तस्माद् वैतानकुशलो होता स्याद् वेदपारगः॥ प्राजापत्यमदत्त्वाश्वमग्न्याधेयस्य दक्षिणाम्। अनाहिताग्निरिति स प्रोच्यते धर्मदर्शिभिः॥ पुण्यानि यानि कुर्वीत श्रद्दधानो जितेन्द्रियः। अनाप्तदक्षिणैर्यज्ञैर्न यजेत कथञ्चन॥ प्रजाः पशृंश्च स्वर्गे च हन्ति यज्ञो ह्यदक्षिणः। इन्द्रियाणि यशः कीर्तिमायुश्चाप्यवकृन्तति॥ उदक्यामासते ये च द्विजाः केचिदनग्नयः। होमं चाश्रोत्रियं येषां ते सर्वे पापकर्मिणः॥ उदपानोदके ग्रामे ब्राह्मणो वृषलीपतिः। उषित्वा द्वादश समाः शूद्रकर्मैव गच्छति॥ अभार्यां शयने बिभ्रच्छूद्रं वृद्ध च वै द्विजः। अब्राह्मणं मन्यमानस्तुणेष्वासीत पृष्ठतः। तथा संशुध्यते राजशृणु चात्र वचो मम॥ यदेकरात्रेण करोति पापं निकृष्टवर्णं ब्राह्मणः सेवमान:। स्थानासनाभ्यां विहरन् व्रती स त्रिभिर्वर्षेः शमयेदात्मपापम्॥ न नर्मयुक्तमनृतं हिनस्ति न स्त्रीषु राजन्न विवाहकाले। न गुर्वर्थं नात्मनो जीवितार्थे पञ्चानृतान्याहुरपातकानि॥ श्रद्दधानः शुभां विद्यां हीनादपि समाप्नुयात्। सुवर्णमपि चामेध्यादाददीताविचारयन्।॥ स्त्रीरत्नं दुष्कुलाच्चापि विषादप्यमृतं पिबेत्। अदृष्या हि स्त्रियो रत्नमाप इत्येव धर्मतः॥ गोब्राह्मणहितार्थं च वर्णानां संकरेषु च। वैश्यो गृह्णीत शस्त्राणि परित्राणार्थमात्मनः॥ सुरापानं ब्रह्महत्या गुरुतल्पमथापि वा। अनिर्देश्यानि मन्यन्ते प्राणान्तमिति धारणा॥ सुवर्णहरणं स्तैन्यं विप्रस्वं चेति पातकम्। विहरन् मद्यपानाच्च अगम्यागमनादपि॥ पतितैः सम्प्रयोगाच्च ब्राह्मणीयोनितस्तथा। अचिरेण महाराज पतितो वै भवत्युत॥ संवत्सरेण पतति पतितेन सहाचरन्। याजनाध्यापनाद् यौनान्न तु यानासनाशनात्॥ एतानि हित्वातोऽन्यानि निर्देश्यानीति भारत। निर्देश्यानेन विधिना कालेनाव्यसनी भवेत्॥ अन्नं वीर्यं ग्रहीतव्यं प्रेतकर्मण्यपातिते। त्रिषु त्वेतेषु पूर्वेषु न कुर्वीत विचारणाम्॥ अमात्यान् वा गुरून् वापि जह्याद् धर्मेण धार्मिकः। प्रायश्चित्तमकुर्वाणै तैरर्हति संविदम्॥ अधर्मकारी धर्मेण तपसा हन्ति किल्विषम्। ब्रुवन् स्तेन इति स्तेनं तावत् प्राप्नोति किल्बिषम्॥ अस्तेनं स्तेन इत्युक्त्वा द्विगुणं पापमाप्नुयात्। त्रिभागं ब्रह्महत्यायाः कन्या प्राप्नोति दुष्यती॥ यस्तु दूषयिता तस्याः शेषं प्राप्नोति पाप्मनः। ब्राह्मणानवगर्नेह स्पृष्ट्वा गुरुतरं भवेत्॥ वर्षाणां हि शतं तावत् प्रतिष्ठां नाधिगच्छति। सहस्रं चैव वर्षाणां निपत्य नरकं वसेत्॥ तस्मान्नैवावगर्खेत नैव जातु निपातयेत्। शोणितं यावत: पांसून् संगृह्णीयाद् द्विजक्षतात्॥ तावती: स समा राजन् नरके प्रतिपद्यते। भ्रूणहाऽऽहवमध्ये तु शुद्ध्यते शस्त्रपाततः॥ आत्मानं जुहुयादग्नौ समिद्धे तेन शुद्ध्यते। सुरापो वारुणीमुष्णां पीत्वा पापाद् विमुच्यते॥ तया स काये निर्दग्धे मृत्युं वा प्राप्य शुद्ध्यति। लोकांश्च लभते विप्रो नान्यथा लभते हि सः॥ गुरुतल्पमधिष्ठाय दुरात्मा पापचेतनः। स्त्र्याकारां प्रतिमां लिंग्य मृत्युना सोऽभिशुद्ध्यति॥ अथवा शिश्नवृषणावादायाञ्जलिना स्वयम्॥ नैर्ऋती दिशमास्थाय निपतेत् स त्वजिह्मगः। ब्राह्मणार्थेऽपि वा प्राणान् संत्यजेत् तेन शुद्ध्यति॥ अश्वमेधेन वापीष्ट्वा अथवा गोसवेन वा। अग्निष्टोमेन वा सम्यगिह प्रेत्य च पूज्यते॥ तथैव द्वादशसमाः कपाली ब्रह्महा भवेत्। ब्रह्मचारी भवेन्नित्यं स्वकर्म ख्यापयन् मुनिः॥ एवं वा तपसा युक्तो ब्रह्महा सवनी भवेत्। एवं तु समभिज्ञातामात्रेयीं वा निपातयेत्॥ द्विगुणा ब्रह्महत्या वै आत्रेयीनिधने भवेत्। सुरापो नियताहारो ब्रह्मचारी क्षितीशयः॥ ऊर्ध्वं त्रिभ्योऽपि वर्षेभ्यो यजेताग्निष्टुता परम्। ऋषभैकसहस्रं वा गा दत्त्वा शौचमाप्नुयात्॥ वैश्यं हत्वा तु वर्षे द्वे ऋषभैकशतं च गाः। शूद्रं हत्वाब्दमेवैकमृषभं च शतं च गाः॥ श्ववराहखरान् हत्वा शौद्रमेव व्रतं चरेत्। मार्जारचाषमण्डूकान् काकं व्यालं च मूषिकम्॥ उक्तः पशुसमो दोषो राजन् प्राणिनिपातनात्। प्रायश्चित्तान्यथान्यानि प्रवक्ष्याम्यनुपूर्वशः॥ अल्पे वाप्यथ शोचेत पृथक् संवत्सरं चरेत्। त्रीणि श्रोत्रियभार्यायां परदारे च द्वे स्मृते॥ काले चतुर्थे भुञ्जानो ब्रह्मचारी व्रती भवेत्। स्थानासनाभ्यां विहरेत् त्रिरह्नाभ्युपयन्नपः। एवमेव निराकर्ता यश्चाग्नीनपविध्यति॥ त्यजत्यकारणे यश्च पितरं मातरं गुरुम्। पतितः स्यात्स कौरव्य यथा धर्मेषु निश्चयः॥ ग्रासाच्छादनमात्रं तु दद्यादिति निदर्शनम्। (ब्रह्मचारी द्विजेभ्यश्च दत्त्वा पापात् प्रपुच्यते।) भार्यायां व्यभिचारिण्यां निरुद्धायां विशेषतः। यत् पुंसः परदारेषु तदेनां चारयेद् व्रतम्॥ श्रेयांसं शयनं हित्वा यान्यं पापं निगच्छति। श्वभिस्तामर्दयेद् राजा संस्थाने बहुविस्तरे॥ पुमांसमुन्नयेत् प्राज्ञः शयने तप्त आयसे। अप्यादधीत दारूणि तत्र दह्येत पापकृत्॥ एष दण्डो महाराज स्त्रीणां भर्तृष्वतिक्रमात्। संवत्सरोऽभिशस्तस्य दुष्टस्य द्विगुणो भवेत्॥ द्वे तस्य त्रीणि वर्षाणि चत्वारि सहसेविनि। कुचरः पञ्चवर्षाणि चरेद् भैक्ष्यं मुनिव्रतः॥ परिवित्तिः परिवेत्ता या चैव परिविद्यते। पाणिग्रहास्त्वधर्मेण सर्वे ते पतिताः स्मृताः॥ चरेयुः सर्व एवैते वीरहा यद् व्रतं चरेत्। चान्द्रायणं चरेन्मासं कृच्छ्रे वा पापशुद्धये॥ परिवेत्ता प्रयच्छेत तां स्नुषां परिवित्तये। ज्येष्ठेन त्वभ्यनुज्ञातो यवीयानप्यनन्तरम्। एवं च मोक्षमाप्नोति तौ च सा चैव धर्मतः॥ अमानुषीषु गोवामनावृष्टिर्न दुष्यति। अधिष्ठात्रवमन्तारं पशूनां पुरुषं विदुः॥ परिधायोर्ध्ववालं तु पात्रमादाय मृन्मयम्। चरेत् सप्तगृहान्नित्यं स्वकर्म परिकीर्तयन्।॥ तत्रैव लब्धभोजी स्याद् द्वादशाहात्स शुद्ध्यति। चरेत् संवत्सरं चापि तद् व्रतं येन कृन्तति॥ भवेत्तु मानुषेष्वेवं प्रायश्चित्तमनुत्तमम्। दानं वा दानशक्तेषु सर्वमेतत् प्रकल्पयेत्॥ अनास्तिकेषु गोमात्रं दानमेकं प्रचक्षते। ववराहमनुष्याणां कुक्कुटस्य खरस्य च॥ मांसं मूत्रं पुरीषं च प्राश्य संस्कारमर्हति। ब्राह्मणास्तु सुरापस्य गन्धमादाय सोमपः॥ अपस्त्र्यहं पिबेदुष्णं त्र्यहमुष्णं पयः पिबेत्। त्र्यहमुष्णं पयः पीत्वा वायुभक्षो भवेत् त्र्यहम्॥ एवमेतत् समुद्दिष्टं प्रायश्चित्तं सनातनम्। ब्राह्मणस्य विशेषेण यदज्ञानेन सम्भवेत्॥ वैशम्पायन उवाच कथान्तरमथासाद्य खड्गयुद्धविशारदः। नकुलः शरतल्पस्थमिदमाह पितामहम्॥ नकुल उवाच धनुः प्रहरणं श्रेष्ठमतीवात्र पितामह। मतस्तु मम धर्मज्ञ खड्ग एव सुसंशितः॥ विशीर्णे कार्मुके राजन् प्रक्षीणेषु च वाजिषु। खड्ड्रेन शक्यते युद्धे साध्वात्मा परिरक्षितुम्॥ शरासनधरांश्चैव गदाशक्तिधरांस्तथा। एकः खड्गधरो वीरः समर्थः प्रतिबाधितुम्॥ अत्र मे संशयश्चैव कौतूहलमतीव च। किंस्वित् प्रहरणं श्रेष्ठं सर्वयुद्धषु पार्थिव॥ कथं चोत्पादितः खड्गः कस्मै चाय केन च। पूर्वाचार्यं च खड्गस्य प्रब्रूहि प्रपितामह॥ वैशम्पायन उवाच तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः। स तु कौशल संयुक्तं सूक्ष्मचित्रार्थसम्मतम्॥ ततस्तस्योत्तरं वाक्यं स्वरवर्णोपपादितम्। शिक्षया चोपपन्नाय द्रोणशिष्याय भारत॥ उवाच स तु धर्मज्ञो धनुर्वेदस्य पारगः। शरतल्पगतो भीष्मो नकुलाय महात्मने॥ भीष्म उवाच तत्त्वं शृणुष्व माद्रेय यदेतत् परिपृच्छसि। प्रबोधितोऽस्मि भवता धातुमानिव पर्वतः॥ सलिलैकार्णवं तात पुरा सर्वमभूदिदम्। निष्पकम्पमनाकाशमनिर्देश्यमहीतलम्॥ तमसाऽऽवृतमस्पर्शमतिगम्भीरदर्शनम्। निःशब्दं चाप्रमेयं च तत्र जज्ञे पितामहः॥ सोऽसृजद् वातमग्निं च भास्करं चापि वीर्यवान्। आकाशमसृजच्चोर्ध्वमधो भूमिं च नैर्ऋतीम्॥ नभः सचन्द्रतारं च नक्षत्राणि ग्रहांस्तथा। संवत्सरानृतून् मासान् पक्षानथ लवान् क्षणान्॥ ततः शरीरं लोकस्थं स्थापयित्वा पितामहः। जनयामास भगवान् पुत्रानुत्तमतेजसः॥ मरीचिमृषिमत्रिं च पुलस्त्यं पुलहं ऋतुम्। वसिष्ठाङ्गिरसौ चोभौ रुद्रं च प्रभुमीश्वरम्॥ प्राचेतसस्तथा दक्षः कन्याषष्टिमजीजनत्। ता वै ब्रह्मर्षयः सर्वाः प्रजार्थं प्रतिपेदिरे॥ ताभ्यो विश्वानि भूतानि देवाः पितृगणास्तथा। गन्धर्वाप्सरसश्चैव रक्षांसि विविधानि च॥ पतत्रिमृगमीनाश्च प्लवङ्गाश्च महोरगाः। तथा पक्षिगणाः सर्वे जलस्थलविचारिणः॥ उद्भिदः स्वेदजाश्चैव साण्डजाश्च जरायुजाः। जज्ञे तात जगत्सर्वं तथा स्थावरजङ्गमम्॥ भूतसर्गमिमं कृत्वा सर्वलोकपितामहः। शाश्वतं वेदपठितं धर्म प्रयुयुजे ततः॥ तस्मिन् धर्मे स्थिता देवा: सहाचार्यपुरोहिताः। आदित्या वसवो रुद्राः ससाध्या मरुदतश्विनः॥ भृग्वत्र्यङ्गिरसः सिद्धाः काश्यपाश्च तपोधनाः। वसिष्ठगौतमागस्त्यास्तथा नारदपर्वतौ॥ ऋषयो वालखिल्याश्च प्रभासा: सिकतास्तथा। घृतपा: सोमवायव्या वैश्वानरमरीचिपाः॥ अकृष्टाश्चैव हंसाश्च ऋषयो वाग्नियोनयः। वानप्रस्थाः पृश्नयश्च स्थिता ब्रह्मानुशासने॥ दानवेन्द्रास्त्वतिक्रम्य तत् पितामहशासनम्। धर्मस्यापचयं चक्रुः क्रोधलोभसमन्विताः॥ हिरण्यकशिपुश्चैव हिरण्याक्षो विरोचनः। शम्बरो विप्रचित्तिश्च विराधो नमुचिर्बलिः :॥ एते चान्ये च बहवः सगणा दैत्यदानवाः। धर्मसेतुमतिक्रम्य रेमिरेऽधर्मनिश्चयाः॥ सर्वे तुल्याभिजातीया यथा देवास्तथा वयम्। इत्येवं धर्ममास्थाय स्पर्धमानाः सुरर्षिभिः॥ न प्रियं नाप्यनुक्रोशं चक्रुर्भूतेषु भारत। त्रीनुपायानतिक्रम्य दण्डेन रुरुधुः प्रजाः॥ न जग्मुः संविदं तैश्च दर्पादसुरसत्तमाः॥ तदा हिमवतः शृङ्गे सुरम्ये पद्मतारके। शतयोजनविस्तारे मणिरत्नचयाचिते॥ तस्मिन् गिरिवरे पुत्र पुष्पितद्रुमकानने। तस्थौ स विबुधश्रेष्ठो ब्रह्मा लोकार्थसिद्धये॥ ततो वर्षसहस्रान्ते वितानमकरोत् प्रभुः। विधिना कल्पदृष्टेन यथावच्चोपपादितम्॥ ऋषिभिर्यज्ञपटुभिर्यथावत् कर्मकर्तृभिः। समिद्भिः परिसंकीर्णं दीप्यमानैश्च पावकैः॥ काञ्चनैर्यज्ञभाण्डैश्च भ्राजिष्णुभिरलंकृतम्। वृतं देवगणैश्चैव प्रवरैर्यज्ञमण्डलम्॥ तथा ब्रह्मर्षिभिश्चैव सदस्यैरुपशोभितम्। तत्र घोरतमं वृत्तमृषीणां मे परिश्रुतम्॥ चन्द्रमा विमलं व्योम यथाभ्युदिततारकम्। विकीर्याग्निं तथा भूतमुत्थितं श्रूयते तदा॥ नीलोत्पलसवर्णाभं तीक्ष्णदंष्ट्र कृशोदरम्। प्रांशुं सुदुर्धर्षतरं तथैव ह्यमितौजसम्॥ तस्मिन्नुतपतमाने च प्रचचाल वसुन्धरा। महोर्मिकलितावर्तश्चुक्षुभे स महोदधिः॥ पेतुरुल्का महोत्पाताः शाखाश्च मुमुचुर्दुमाः। अप्रशान्ता दिशः सर्वाः पवनश्चाशिवो ववौ॥ मुहुर्मुहुश्च भूतानि प्राव्यथन्त भयात् तथा। तत: स तुमुलं दृष्ट्वा तं च भूतमुपस्थितम्॥ महर्षिसुरगन्धर्वानुवाचेदं पितामहः। मयैवं चिन्तितं भूतमसि मैष वीर्यवान्।॥ रक्षणार्थाय लोकस्य वधाय च सुरद्विषाम्। ततस्तद्रूपमुत्सृज्य बभौ निस्त्रिंश एव सः॥ विमलस्तीक्ष्णधारश्च कालान्तक इवोद्यतः। ततः स शितिकण्ठाय रुद्रायाभिकेतवे॥ ब्रह्मा ददावसिं तीक्ष्णमधर्मप्रतिवारणम्। ततः स भगवान् रुद्रो महर्षिजनसंस्तुतः॥ प्रगृह्यासिममेयात्मा रूपमन्यच्चकार ह। चतुर्बाहुः स्पृशन् मूर्खा भूस्थितोऽपि दिवाकरम्॥ उर्ध्वदृष्टिर्महालिङ्गो मुखाज्ज्वालाः समुत्सृजन्। विकुर्वन् बहुधा वर्णान् नीलपाण्डुरलोहितान्॥ बिभ्रत्कृष्णाजिनं वासो हेमप्रवरतारकम्। नेत्रं चैकं ललाटेन भास्करप्रतिमं वहन्॥ शुशुभातेऽतिविमले द्वे नेत्रे कृष्णपिङ्गले। ततो देवो महादेवः शूलपाणिर्भगाक्षिहा॥ सम्प्रगृह्य तु निस्त्रिंशं कालाग्निसमवर्चसम्। त्रिकूटं चर्म चोद्यम्य सविद्युतमिवाम्बुदम्। चचार विविधान् मार्गान् महाबलपराक्रमः॥ विधुन्वन्नसिमाकाशे तथा युद्धचिकीर्षया। तस्य नादं विनदतो महाहासं च मुञ्चतः॥ बभौ प्रतिभयं रूपं तदा रुद्रस्य भारत। तद्रूपधारिणं रुद्रं रौद्रकर्मचिकीर्षया।॥ निशम्य दानवाः सर्वे हृष्टाः समभिदुद्रुवुः। अश्मभिश्चाभ्यवर्षन्त प्रदीप्तैश्च तथोल्मुकैः॥ घोरैः प्रहरणैश्चान्यैः क्षुरधारैरयोमयैः। ततस्तु दानवानीकं सम्प्रणेतारमुच्यतम्॥ रुद्रं दृष्ट्वा बलोद्भूतं प्रमुमोह चचाल च। चित्रं शीघ्रपदत्वाच्च चरन्तमसिपाणिनम्॥ तमेकमसुराः सर्वे सहस्रमिति मेनिरे। छिन्दन भिन्दन् रुजन् कृन्तन् दारयन् पोथयन्नपि॥ अचरद् वैरिसङ्केषु दावाग्निरिव कक्षगः। असिवेगप्रभग्नास्ते छिन्नबाहूरुवक्षसः॥ सम्प्रकीर्णान्त्रगात्राश्च पेतुरुआं महाबलाः। अपरे दानवा भग्नाः खड्गपातावपीडिताः॥ अन्योन्यमभिनर्दन्तो दिशः सम्प्रतिपेदिरे। भूमि केचित् प्रविविशुः पर्वतानपरे तथा॥ अपरे जग्मुराकाशमपरेऽम्भः समाविशन्। तस्मिन् महति संवृत्ते समरे भृशदारुणे॥ बभूव भूः प्रतिभया मांसशोणितकर्दमा। दानवानां शरीरैश्च पतितैः शोणितोक्षितैः॥ समाकीर्णा महाबाहो शैलैरिव सकिंशुकैः। स रुद्रो दानवान् हत्वा कृत्वा धर्मोत्तरं जगत्॥ रौद्र रूपमथोत्क्षिप्य चक्रे रूपं शिवं शिवः। ततो महर्षयः सर्वे सर्वे देवगणास्तथा॥ जयेनाद्भुतकल्पेन देवदेवं तथार्चयन्। ततः स भगवान् रुद्रो दानवक्षतजोक्षितम्॥ असिं धर्मस्य गोप्तारं ददौ सत्कृत्य विष्णवे। विष्णुर्मरीचये प्रादान्मरीचिर्भगवानपि॥ महर्षिभ्यो ददौ खड्गमृषयो वासवाय च। महेन्द्रो लोकपालेभ्यो लोकपालास्तु पुत्रका।६७।। मनवे सूर्यपुत्राय ददुः खड्गं सुविस्तरम्। उचुश्चैनं तथा वाक्यं मानुषाणां त्वमीश्वरः॥ असिना धर्मगर्भेण पालयस्व प्रजा इति। धर्मसेतुमतिक्रान्ताः स्थूलसूक्ष्मात्मकारणात्॥ विभज्य दण्डं रक्ष्यास्तु धर्मतो न यदृच्छया। दुर्वाचा निग्रहो दण्डो हिरण्यबहुलस्तथा॥ व्यङ्गता च शरीरस्य वधो वानल्पकारणात्। असेरेतानि रूपाणि दुरादीनि निर्दिशेत्॥ असेरेवं प्रमाणानि परिपाल्य व्यतिक्रमात्। स विसृज्याथ पुत्रं स्वं प्रजानामधिपं ततः॥ मनुः प्रजानां रक्षार्थं क्षुपाय प्रददावसिम्। क्षुपाज्जग्राह चेक्ष्वाकुरिक्ष्वाकोश्च पुरूरवाः॥ आयुश्च तस्माल्लेभे तं नहुषश्च ततो भुवि। ययातिनहुषाच्चापि पूरुस्तस्माच्च लब्धवान्॥ अमूर्तरयसस्तस्मात्ततो भूमिशयो नृपः। भरतश्चापि दौष्यन्तिर्लेभे भूमिशयादसिम्॥ तस्माल्लेभे च धर्मज्ञो राजन्नैलविलस्तथा। ततस्त्वैलविलाल्लेभे धुन्धुमारो नरेश्वरः॥ धुन्धुमाराच्च काम्बोजो मुचुकुन्दस्ततोऽलभत्। मुचुकुन्दान्मरुत्तश्च मरुत्तादपि रैवतः॥ रैवताद् युवनाश्वश्च युवनाश्वात्ततो रघुः। इक्ष्वाकुवंशजस्तस्माद्धरिणाश्वः प्रतापवान्॥ हरिणावादसि लेभे शुनकः शुनकादपि। उशीनरो वै धर्मात्मा तस्माद् भोजः स यादवः॥ यदुभ्यश्च शिबिर्लेभे शिबेश्चापि प्रतर्दनः। प्रतर्दनादष्टकश्च पृषदश्वोऽष्टकादपि॥ पृषदश्वाद् भरद्वाजो द्रोणस्तस्मात् कृपस्ततः। ततस्त्वं भ्रातृभिः सार्धं परमासिमवाप्तवान्॥ कृत्तिकास्तस्य नक्षत्रमसेरग्निश्च दैवतम्। रोहिणी गोत्रमस्याथ रुद्रश्च गुरुरुत्तमः॥ असेरष्टौ हि नामानि रहस्यानि निबोध मे। पाण्डवेय सदा यानि कीर्तयन् लभते जयम्॥ असिर्विशसनः खड्गस्तीक्ष्णधारो दुरासदः। श्रीगर्भो विजयश्चैव धर्मपालस्तथैव च॥ अग्रयः प्रहरणानां च खड्गो माद्रवतीसुत। महेश्वरप्रणीतश्च पुराणे निश्चयं गतः॥ पृथुस्तूत्पादयामास धनुराधमरिंदमः। तेनेयं पृथिवी दुग्धा सस्यानि सुबहून्यपि। धर्मेण च यथापूर्वं वैन्येन परिरक्षिता॥ तदेतदाएं माद्रेय प्रमाणं कर्तुमर्हसि। असेच पूजा कर्तव्या सदा युद्धविशारदैः॥ इत्येष प्रथमः कल्पो व्याख्यातस्ते सुविस्तरात्। असेरुत्पत्तिसंसर्गो यथावद् भरतर्षभ॥ सर्वथैतदिदं श्रुत्वा खड्गसाधनमुत्तमम्। लभते पुरुषः कीर्ति प्रेत्य चानन्त्यमश्नुते॥ वैशम्पायन उवाच इत्युक्तवति भीष्मे तु तूष्णीभूत युधिष्ठिरः। पप्रच्छावसथं गत्वा भ्रातृन् विदुरपञ्चमान्॥ धर्मे चार्थे च कामे च लोकवृत्तिः समाहिता। तेषां गरीयान् कतमो मध्यमः को लघुश्च कः॥ कस्मिंश्चात्मा निधातव्यस्त्रिवर्गविजयाय वै। संहष्टा नैष्ठिकं वाक्यं यथावद् वक्तुमर्हथ॥ ततोऽर्थगतितत्त्वज्ञः प्रथमं प्रतिमानवान्। जगाद विदुरो वाक्यं धर्मशास्त्रमनुस्मरन्॥ विदुर उवाच बाहुश्रुत्यं तपस्त्यागः श्रद्धा यज्ञक्रिया क्षमा। भावशुद्धिर्दया सत्यं संयमश्चात्मसम्पदः॥ एतदेवाभिपद्यस्व मा तेऽभूच्चलितं मनः। एतन्मूलौ हि धर्मार्थावेतदेकपदं हि मे॥ धर्मेणैवर्षयस्तीर्णा धर्मे लोकाः प्रतिष्ठिताः। धर्मेण देवा ववृधुर्धर्मे चार्थः समाहितः॥ धर्मो राजन् गुणः श्रेष्ठो मध्यमो ह्यर्थ उच्यते। कामो यवीयानिति च प्रवदन्ति मनीषिणः॥ तस्माद् धर्मप्रधानेन भवितव्य यतात्मना। तथा च सर्वभूतेषु वर्तितव्यं यथात्मनि॥ वैशम्पायन उवाच समाप्तवचने तस्मिन्नर्थशास्त्रविशारदः। पार्थो धर्मार्थतत्त्वज्ञो जगौ वाक्यं प्रचोदितः॥ अर्जुन उवाच कर्मभूमिरियं राजनिह वार्ता प्रशस्यते। कृषिर्वाणिज्यगोरक्षं शिल्पानि विविधानि च॥ अर्थ इत्येव सर्वेषां कर्मणामव्यतिक्रमः। न ह्यतेऽर्थेन वर्तेत धर्मकामाविति श्रुतिः॥ विषयैरर्थवान् धर्ममाराधयितुमुत्तमम्। कामं च चरितुं शक्तो दुष्प्रापमकृतात्मभिः॥ अर्थस्यावयवावेतौ धर्मकामाविति श्रुतिः। अर्थसिद्ध्या विनिर्वृत्तावुभावेतौ भविष्यतः॥ तद्गतार्थं हि पुरुषं विशिष्टतरयोनयः। ब्रह्माणमिव भूतानि सततं पर्युपासते॥ जटाजिनधरा दान्ताः पङ्कदिग्धा जितेन्द्रियाः। मुण्डा निस्तन्तवश्चापि वसन्त्यार्थिनः पृथक्॥ काषायवसनाश्चान्ये श्मश्रुला हीनिषेविणः। विद्वांसश्चैव शान्ताश्च मुक्ताः सर्वपरिग्रहैः॥ अार्थिनः सन्ति केचिदपरे स्वर्गकाङ्क्षिणः। कुलप्रत्यागमाश्चैके स्वं स्वं धर्ममनुष्ठिताः॥ आस्तिका नास्तिकाश्चैव नियताः संयमे परे। अप्रज्ञानं तमोभूतं प्रज्ञानं तु प्रकाशिता॥ भृत्यान् भोगैर्द्विषो दण्डैर्यो योजयति सोऽर्थवान्। एतन्मतिमतां श्रेष्ठ मतं मम यथातथम्। अनयोस्तु निबोध त्वं वचनं वाक्यकण्ठयोः॥ वैशम्पायन उवाच ततो धर्मार्थकुशलौ माद्रीपुत्रावनन्तरम्। नकुलः सहदेवश्च वाक्यं जगदतुः परम्॥ नकुलसहदेवावूचतुः आसीनश्च शयानश्च विचरन्नपि वा स्थितः। अर्थयोगं दृढं कुर्याद् योगैरुच्चावचैरपि॥ अस्मिंस्तु वै विनिर्वृत्ते दुर्लभे परमप्रिये। इह कामानवाप्नोति प्रत्यक्षं नात्र संशयः॥ योऽर्थो धर्मेण संयुक्तो धर्मो यश्चार्थसंयुतः। तद्धि त्वामृतसंवादं तस्मादेतौ मताविह॥ अनर्थस्य न कामोऽस्ति तथार्थोऽधर्मिणः कुतः। तस्मादुद्विजते लोको धर्मार्थाद् यो बहिष्कृतः॥ तस्माद् धर्मप्रधानेन साध्योऽर्थः संयतात्मना। विश्वस्तेषु हि भूतेषु कल्पते सर्वमेव हि॥ धर्मं समाचरेत् पूर्वं ततोऽर्थं धर्मसंयुतम्। ततः कामं चरेत् पश्चात् सिद्धार्थः स हि तत्परम्॥ वैशम्पायन उवाच विरेमतुस्तु तद् वाक्यमुक्त्वा तावश्विनोः सुतौ। भीमसेनस्तदा वाक्यमिदं वक्तुं प्रचक्रमे॥ भीमसेन उवाच नाकामः कामयत्यर्थं नाकामो धर्ममिच्छति। नाकामः कामयानोऽस्ति तस्मात् कामो विशिष्यते॥ कामेन युक्ता ऋषयस्तपस्येव समाहिताः। पलाशफलमूलादा वायुभक्षाः सुसंयताः॥ वेदोपवेदेष्वपरे युक्ताः स्वाध्यायपारगाः। श्राद्धयज्ञक्रियायां च तथा दानप्रतिग्रहे॥ वणिजः कर्षका गोपाः कारवः शिल्पिनस्तथा। देवकर्मकृतश्चैव युक्ताः कामेन कर्मसु॥ समुद्रं वा विशन्त्यन्ये नराः कामेन संयुताः। कामो हि विविधाकारः सर्वं कामेन संततम्॥ नास्ति नासीन्नाभविष्यद् भूतं कामात्मकात् परम्। एतत् सारं महाराज धर्मार्थावत्र संस्थितौ॥ नवनीतं यथा दध्नस्तथा कामोऽर्थधर्मतः। श्रेयस्तैलं हि पिण्याकाद् घृतं श्रेय उदश्वितः। श्रेयः पुष्पफलं काष्ठात् कामो धर्मार्थयोर्वरः॥ पुष्पतो मध्विव रसः काम आभ्यां तथा स्मृतः। कामो धर्मार्थयोर्योनिः कामश्चाथ तदात्मकः॥ नाकामतो नाकामतो ददति ब्राह्मणेभ्यः। नाकामतो विविधा लोकचेष्टा तस्मात्कामः प्राक् त्रिवर्गस्य दृष्टः॥ र्मदोत्कटाभिः प्रियदर्शनाभिः। रमस्व योषाभिरुपेत्य कामं कामो हि राजन्परमो भवेन्नः॥ बुद्धिर्ममैषा परिखास्थितस्य माभृद्विचारस्तव धर्मपुत्र। स्यात् संहितं सद्भिरफल्गुसारं ममेति वाक्यं परमानृशंसम्॥ धर्मार्थकामाः सममेव सेव्या यो होकभक्तः स नरो जघन्यः। तयोस्तु दाक्ष्यं प्रवदन्ति मध्यं स उत्तमो योऽभिरतस्त्रिवर्गे॥ प्राज्ञः सुहृच्चन्दनसारलिप्तो विचित्रमाल्याभरणैरुपेतः। ततो वचः संग्रहविस्तरेण प्रोक्त्वाथ वीरान् विरराम भीमः॥ ततो मुहूर्तादथ धर्मराजो वाक्यानि तेषामनुचिन्त्य सम्यक्। उवाचवाचावितथं स्मयन् वै लब्धश्रुतां धर्मभृतां वरिष्ठः॥ युधिष्ठिर उवाच निःसंशयं निश्चितधर्मशास्त्राः सर्वे भवन्तो विदितप्रमाणाः। विज्ञातुकामस्य ममेह वाक्यमुक्तं यद्वै नैष्ठिकं तच्छ्रुतं मे। इदं त्ववश्यं गदतो ममापि वाक्य निबोधध्वमनन्यभावाः॥ यो वै न पापे निरतो न पुण्ये नार्थे न धर्मे मनुजो न कामे। विमुक्तदोषः समलोष्टकाञ्चनो विमुच्यते दुःखसुखार्थसिद्धेः॥ भूतानि जातिस्मरणात्मकानि जराविकारैश्च समन्वितानि। भूयश्च तैस्तैः प्रतिबोधितानि। मोक्ष प्रशंसन्ति न तं च विद्मः॥ स्नेहेन युक्तस्य न चास्ति मुक्तिरिति स्वयम्भूर्भगवानुवाच। बुधाश्च निर्वाणपरा भवन्ति तस्मान्न कुर्यात् प्रियमप्रियं च॥ एतत् प्रधानं च न कामकारो यथा नियुक्तोऽस्मि तथा करोमि। भूतानि सर्वाणि विधिनियुङ्क्ते विधिर्वलीयानिति वित्त सर्वे॥ न कर्मणाऽऽप्नोत्यनवाष्यमर्थे यद्भावि तद्वै भवतीति वित्त। त्रिवर्गहीनोऽपि हि विन्दतेऽर्थं तस्मादहो लोकहिताय गुह्यम्॥ वैशम्पायन उवाच ततस्तदग्रयं वचनं मनोमुगं समस्तमाज्ञाय ततो हि हेतुमत्। तदा प्रणेदुश्च जहर्षिरे च ते कुरुप्रवीराय च चक्रिरेऽञ्जलिम्॥ सुचारुवर्णाक्षरचारुभूषितां मनोनुगां निधुतवाक्यकण्टकाम्। निशम्य तां पार्थिव पार्थभाषितां गिरं नरेन्द्राः प्रशशंसुरेव ते॥ स्तदा प्रतीतान् प्रशशंस वीर्यवान्। पुनश्च पप्रच्छ सरिद्वरासुतं ततः परं धर्ममहीनचेतसम्॥ युधिष्ठिर उवाच पितामह महाप्राज्ञ कुरूणां प्रीतिवर्धन। प्रश्नं कञ्चितप्रवक्ष्यामि तन्मे व्याख्यातुमर्हसि॥ कीदृशा मानवाः सौम्याः कैः प्रीतिः परमा भवेत्। आयत्यां च तदात्वे च के क्षमास्तान् वदस्व मे॥ न हि तत्र धनं स्फीतं न च सम्बन्धिबान्धवाः। तिष्ठन्ति यत्र सुहृदस्तिष्ठन्तीति मतिर्मम॥ दुर्लभो हि सुहच्छ्रोता दुर्लभश्च हितः सुहृत्। एतद् धर्मभृतां श्रेष्ठ सर्वं व्याख्यातुमर्हसि॥ भीष्म उवाच संधेयान् पुरुषान् राजन्नसंधेयांश्च तत्त्वतः। वदतो मे निबोध त्वं निखिलेन युधिष्ठिर॥ लुब्धः क्रूरस्त्यक्तधर्मा निकृतिः शठ एव च। क्षुद्रः पापसमाचारः सर्वशङ्की तथालसः॥ दीर्घसूत्रोऽनृजुः क्रुष्टो गुरुदारप्रधर्षकः। व्यसने यः परित्यागी दुरात्मा निरपत्रपः॥ सर्वतः पापदर्शी च नास्तिको वेदनिन्दकः। सम्प्रकीर्णेन्द्रियो लोके यः कामं निरतश्चरेत्॥ असत्यो लोकविद्विष्टः समये चानवस्थितः। पिशुनोऽथाकृतप्रज्ञो मत्सरी पापनिश्चयः॥ दुःशीलोऽथाकृतात्मा च नृशंसः कितवस्तथा। मित्रैरपकृतिनित्यमिच्छतेऽर्थं परस्य यः॥ ददतश्च यथाशक्ति यो न तुष्यति मन्दधीः। अधैर्यमपि यो युङ्क्ते सदा मित्रं नरर्षभ॥ अस्थानक्रोधनोऽयुक्तो यश्चाकस्माद् विरुध्यते। सुहृदश्चैव कल्याणानाशु त्यजति किल्बिषी॥ अल्पेऽप्यपकृते मूढस्तथाज्ञानात् कृतेऽपि च। कार्यसेवी च मित्रेषु मित्रद्वेषी नराधिप॥ शत्रुमित्रमुखो यश्च जिह्यप्रेक्षी विलोचनः। न विरज्यति कल्याणे यस्त्यजेत् तादृशं नरम्॥ पानपो द्वेषणः क्रोधी निघृणः परुषस्तथा। परोपतापी मित्रध्रुक् तथा प्राणिवधे रतः॥ कृतघ्नश्चाधमो लोके न संधेयः कदाचन। छिद्रान्वेषी ह्यसंधेयः संधेयानपि मे शृणु॥ कुलीना वाक्यसम्पन्ना ज्ञानविज्ञानकोविदाः। रूपवन्तो गुणोपेतास्तथाऽलुब्धा जितश्रमाः॥ सन्मित्राश्च कृतज्ञाश्च सर्वज्ञा लोभवर्जिताः। माधुर्यगुणसम्पन्नाः सत्यसंधा जितेन्द्रियाः॥ व्यायामशीलाः सततं कुलपुत्राः कुलोद्वहाः। दोषैः प्रमुक्ताः प्रथितास्ते ग्राह्या: पार्थिवैर्नराः॥ यथाशक्ति समाचाराः सम्प्रतुष्यन्ति हि प्रभो। नास्थाने क्रोधवन्तश्च न चाकस्माद् विरागिणः। विरक्तश्च न दुष्यन्ति मनसाप्यर्थकोविदाः॥ आत्मानं पीडयित्वापि सुहृत्कार्यपरायणाः। विरज्यन्ति न मित्रेभ्यो वासो रक्तमिवाविकम्॥ क्रोधाच्च लोभमोहाभ्यां नानर्थे युवतीषु च। न दर्शयन्ति सुहृदो विश्वस्ता धर्मवत्सलाः॥ लोष्टकाञ्चनतुल्यार्थाः सुहृत्सु दृढबुद्धयः। ये.चरन्त्यभिमानानि सृष्टार्थमनुषङ्गिणः॥ संगृह्णन्तः परिजनं स्वाम्यर्थपरमाः सदा। ईदृशैः पुरुषश्रेष्ठैर्यः संधिं कुरुते नृपः॥ तस्य विस्तीर्यते राज्यं ज्योत्स्ना ग्रहपतेरिव। शास्त्रनित्या जितक्रोधा बलवन्तो रणे सदा॥ जन्मशीलगुणोपेताः संधेयाः पुरुषोत्तमाः। ये च दोषसमायुक्ता नराः प्रोक्ता मयानघ।॥ तेशामप्यधमा राजन् कृतघ्ना मित्रघातकाः। त्यक्तव्यास्तु दुराचाराः सर्वेषामिति निश्चयः॥ युधिष्ठिर उवाच विस्तरेणाथ सम्बन्धं श्रोतुमिच्छामि तत्त्वतः। मित्रद्रोही कृतघ्नश्च यः प्रोक्तस्तद् वदस्व मे।।२८। भीष्म उवाच हन्त ते वर्तयिष्येऽहमितिहासं पुरातनम्। उदीच्यां दिशि यद् वृत्तं म्लेच्छेषु मनुजाधिप॥ ब्राह्मणो मध्यदेशीयः कश्चिद् वै ब्रह्मवर्जितः। ग्रामं वृद्धियुतं वीक्ष्य प्राविशद भैक्ष्यकासया॥ तत्र दस्युर्धनयुतः सर्ववर्णविशेषवित्। ब्रह्मण्यः सत्यसंधश्च दाने च निरतोऽभवत्।॥ तस्य क्षयमुपागम्य ततो भिक्षामयाचत। प्रतिश्रयं च वासार्थं भिक्षां चैवाथ वार्षिकीम्॥ प्रादात् तस्मै स विप्राय वस्त्रं च सदृशं नवम्। नारी चापि वयोपेतां भ; विरहितां तथा॥ एतत् सम्प्राप्य हृष्टात्मा दस्योः सर्वं द्विजस्तथा। तस्मिन् गृहवरे राजंस्तया रेमे स गौतमः॥ कुटुम्बार्थं च दास्याश्च साहाय्यं चाप्यथाकरोत्। तत्रावसत् स वर्षांश्च समृद्धे शबरालये॥ बाणवेधे परं यत्नमकरोच्चैव गौतमः। चक्राङ्गान् स च नित्यं वै सर्वतो वनगोचरान्॥ जघान गौतमो राजन् यथा दस्युगणास्तथा। हिंसापटुघृणाहीन: सदा प्राणिवधे रतः॥ गौतमः संनिकर्षेण दस्युभिः समतामियात्। तथा तु वसतस्तस्य दस्युग्रामे सुखं तदा॥ अगमन् बहवो मासा निघ्नतः पक्षिणो बहून्। ततः कदाचिदपरो द्विजस्तं देशमागतः॥ जटाचीराजिनधरः स्वाध्यायपरमः शुचिः। विनीतो नियताहारो ब्रह्मण्यो वेदपारगः॥ स ब्रह्मचारी तद्देश्यः सखा तस्यैव सुप्रियः। तं दस्युग्राममगमद् यत्रासौ गौतमोऽवसत्॥ स तु विप्रगृहान्वेषी शूद्रानपरिवर्जकः। ग्रामे दस्युसमाकीर्णे व्यचरत् सर्वतोदिशम्॥ ततः स गौतमगृहं प्रविवेश द्विजोत्तमः। गौतमश्चापि सम्प्राप्तस्तावन्योन्येन संगतौ॥ चक्राङ्गभारस्कन्धं तं धनुष्पाणिं धृतायुधम्। रुधिरेणावसिक्ताङ्गं गृहद्वारमुपागतम्॥ तं दृष्ट्वा पुरुषादाभमपध्वस्तं क्षयागतम्। अभिज्ञाय द्विजो व्रीडत्रिदं वाक्यमथाब्रवीत्॥ किमिदं कुरुषे मोहाद् विप्रस्त्वं हि कुलोद्वहः। मध्यदेशपरिज्ञातो दस्युभावं गतः कथम्॥ पूर्वान् स्मर द्विज ज्ञातीन् प्रख्यातान् वेदपारगान्। तेषां वंशेऽभिजातस्त्वमीदृशः कुलपांसनः॥ अवबुध्यात्मनाऽऽत्मानं सत्त्वं शील श्रुतं दमम्। अनुक्रोशं च संस्मृत्य त्यज वासमिमं द्विज॥ स एवमुक्तः सुहृदा तेन तत्र हितैषिणा। प्रत्युवाच ततो राजन् विनिश्चित्य तदार्तवत्॥ निर्धनोऽस्मि द्विजश्रेष्ठ नापि वेदविदप्यहम्। वित्तार्थमिह सम्प्राप्तं विद्धि मां द्विजसत्तम॥ त्वदर्शनात् तु विप्रेन्द्र कृतार्थोऽस्म्यद्य वै द्विज। आवां हि सह यास्यावः श्वो वसस्वाद्य शर्वरीम्॥ स तत्र न्यवसद् विप्रो घृणी किञ्चिदसंस्पृशन्। क्षुधितश्छन्द्यमानोऽपि भोजनं नाभ्यनन्दत॥ भीष्म उवाच गिरं तां मधुरां श्रुत्वा गौतमो विस्मितस्तदा। कौतूहलान्वितो राजन् राजधर्माणमैक्षत॥ राजधर्मोवाच भोः कश्यपस्य पुत्रोऽहं माता दाक्षायणी च मे। अतिथिस्त्वं गुणोपेतः स्वागतं ते द्विजोत्तम॥ भीष्म उवाच तस्मै दत्त्वा स सत्कारं विधिदृष्टेन कर्मणा। शालपुष्मयीं दिव्यां बृसीं वै समकल्पयत्।॥ भगीरथरथाक्रान्तदेशान् गङ्गानिषेवितान्। ये चरन्ति महामीनास्तांश्च तस्यान्वकल्पयत्॥ वह्निं चापि सुसंदीप्तं मीनांश्चापि सुपीवरान्। स गौतमायातिथये न्यवेदयत काश्यपिः॥ भुक्तवन्तं च तं विप्रं प्रीतात्मानं महातपाः। क्लमापनयनार्थं स पक्षाभ्यामभ्यवीजयत्॥ ततो विश्रान्तमासीनं गोत्रप्रश्नमपृच्छत। सोऽब्रवीद् गौतमोऽस्मीति ब्रह्म नान्यदुदाहरत्॥ तस्मै पर्णमयं दिव्यं दिव्यपुष्पाधिवासितम्। गन्धाढ्यं शयनं प्रादात् स शिश्ये तत्र वै सुखम्॥ अथोपविष्टं शयने गौतमं धर्मराट् तदा। पप्रच्छ काश्यपो वाग्मी किमागमनकारणम्॥ तोऽब्रवीद् गौतमस्तं दरिद्रोऽहं महामते। समुद्रगमनाकाङ्क्षी द्रव्यार्थमिति भारत॥ तं काश्यपोऽबवीत् प्रीतो नोत्कण्ठां कर्तुमर्हसि। कृतकार्यो द्विजश्रेष्ठ सद्रव्यो यास्यसे गृहान्॥ चतुर्विधा ह्यर्थसिद्धिवृहस्पतिमतं यथा। पारम्पर्य तथा दैवं काम्यं मैत्रमिति प्रभो॥ प्रादुर्भूतोऽस्मि ते मित्रं सुहत्त्वं च मम त्वयि। सोऽहं तथा यतिष्यामि भविष्यसि यथार्थवान्॥ ततः प्रभातसमये सुखं दृष्ट्वाब्रवीदिदम्। गच्छ सौम्य पथानेन कृतकृत्यो भविष्यसि॥ इतस्त्रियोजनं गत्वा राक्षसाधिपतिर्महान्। विरूपाक्ष इति ख्यातः सखा मम महाबलः॥ तं गच्छ द्विजमुख्यं त्वं स मद्वाक्यप्रचोदितः। कामानभीप्सितांस्तुभ्यं दाता नास्त्यत्र संशयः॥ इत्युक्तः प्रययौ राजन् गौतमो विगतक्लमः। फलान्यमृतकल्पानि भक्षयन् स यथेतः॥ चन्दनागुरुमुख्यानि त्वक्पत्राणां वनानि च। तस्मिन् पथि महाराज सेवमानो द्रुतं ययौ॥ ततो मेरुव्रजं नाम नगरं शैलतोरणम्। शैलप्राकारवप्रं च शैलयन्त्राकुलं तथा॥ विदितश्चाभवत् तस्य राक्षसेन्द्रस्य धीमतः। प्रहितः सुहृदा राजन् प्रीयमाण: प्रियातिथिः॥ ततः स राक्षसेन्द्रः स्वान् प्रेष्यानाह युधिष्ठिर। गौतमो नगरद्वाराच्छीघ्रमानीयतामिति॥ ततः पुरवरात् तस्मात् पुकषा: श्येनचेष्टनाः। गौतमेत्यभिभाषन्तः पुरद्वारमुपागमन्॥ ते तमूचुर्महाराज राजप्रेष्यास्तदा द्विजम्। त्वरस्व तूर्णमागच्छ राजा त्वां द्रष्टुमिच्छति॥ राक्षसाधिपतिर्वीरो विरूपाक्ष इति श्रुतः। स त्वां त्वरति वै द्रष्टुं तत् क्षिप्रं संविधीयताम्॥ ततः स प्राद्रवद् विप्रो विस्मयाद् विगलक्लमः। गौतमः परमधिं तां पश्यन् परमविस्मितः॥ तैरेव सहितो राज्ञो वेश्म तूर्णमुपाद्रवत्। दर्शनं राक्षसेन्द्रस्य काङ्खमाणो द्विजस्तदा।॥ भीष्म उवाच ततः स विदितो राज्ञः प्रविश्य गृहमुत्तमम्। पूजितो राक्षसेन्द्रेण निषसादासनोत्तमे॥ पृष्टश्च गोत्रचरणं स्वाध्यायं ब्रह्मचारिकम्। न तत्र व्याजहारान्यद् गोत्रमात्रादृते द्विजः॥ ब्रह्मवर्चसहीनस्य स्वाध्यायोपरतस्य च। गोत्रमात्रविदो राजा निवासं समपृच्छत॥ राक्षस उवाच क्वते निवासः कल्याण किंगोत्रा ब्राह्मणी च ते। तत्त्वं ब्रूहि न भी: कार्या विश्वसस्व यथासुखम्॥ गौतम उवाच मध्यदेशप्रसूतोऽहं वासो मे शबरालये। शूद्रा पुनर्भूर्भार्या मे सत्यमेतद् ब्रवीमि ते॥ भीष्म उवाच ततो राजा विममृशे कथं कार्यमिदं भवेत्। कथं वा सुकृतं मे स्यादिति बुद्ध्यान्वचिन्तयत्॥ अयं वै जन्मना विप्रः सुहृत् तस्य महात्मनः। सम्प्रेषितश्च तेनायं काश्यपेन ममान्तिकम्॥ तस्य प्रियं करिष्यामि स हि मामाश्रितः सदा। भ्राता मे बान्धवश्चासौ सखा च हृदयङ्गमः॥ कातिक्यामद्य भोक्तारः सहस्रं मे द्विजोत्तमाः। तत्रायमपि भोक्ता च देयमस्मे च मे धनम्॥ स चाद्य दिवस: पुण्यो ह्यतिथिश्चायमागतः। संकल्पितं चैव धनं किं विचार्यमतः परम्॥ ततः सहस्रं विप्राणां विदुषां समलंकृतम्। स्नातानामनुसम्प्राप्तं सुमहत् क्षौमवाससाम्॥ तानागतान् द्विजश्रेष्ठान् विरूपाक्षो विशाम्पते। यथार्ह प्रतिजग्राह विधिदृष्टेन कर्मणा॥ बृस्यस्तेषां तु संन्यस्ता राक्षसेन्द्रस्य शासनात्। भूमौ वरकुशा: स्तीर्णाः प्रेष्यैर्भरतसत्तम्॥ तासु ते पूजिता राज्ञा निषण्णा द्विजसत्तमाः। तिलदर्भोदकेनाथ अर्चिता विधिवद् द्विजाः॥ विश्वेदेवाः सपितरः साग्नयचोपकल्पिता:। विलिप्ताः पुष्पवन्तश्च सुप्रचाराः सुपूजिताः। व्यराजन्त महाराज नक्षत्रपतयो यथा।॥ ततो जाम्बूनदीः पात्रीर्वज्राङ्का विमलाः शुभाः। वरान्नपूर्णा विप्रेभ्यः प्रादान्मधुघृतप्लुताः॥ तस्य नित्यं सदाऽऽषाढ्यां माध्यां च बहवो द्विजाः। ईप्सितं भोजनवरं लभन्ते सत्कृतं सदा॥ विशेषतस्तु कार्तिक्यां द्विजेभ्यः सम्प्रयच्छति। शरट्यपाये रत्नानि पौर्णमास्यामिति श्रुतिः॥ सुवर्णं रजतं चैव मणीनथ च मौक्तिकान्॥ वज्रान महाधनांश्चैव वैदूर्याजिनराङ्कवान्। रत्नराशीन् विनिक्षिप्य दक्षिणार्थे स भारत॥ ततः प्राह द्विजश्रेष्ठान् विरूपाक्षो महाबलः। गृह्णीत रत्नान्येतानि यथोत्साहं यथेष्टतः॥ येषु येषु च भाण्डेषु भुक्तं वो द्विजसत्तमाः। तान्येवादाय गच्छध्वं स्ववेश्मानीति भारत॥ इत्युक्तवचने तस्मिन् राक्षसेन्द्रे महात्मनि। यथेष्टं तानि रत्नानि जगृहुर्ब्राह्मणर्षभाः॥ ततो महाहैस्ते सर्वे रत्नैरभ्यर्चिताः शुभैः। ब्राह्मणा मृष्टवसनाः सुप्रीता: स्म ततोऽभवन्॥ ततस्तान् राक्षसेन्द्रश्च द्विजानाह पुनर्वचः। नानादेशगतान् राजन् राक्षसान् प्रतिषिध्य वै॥ अद्यैकं दिवसं विप्रा न वोऽस्तीह भयं क्वचित्। राक्षसेभ्यः प्रमोदध्वमिष्टतो यात माचिरम्॥ ततः प्रदुद्रुवुः सर्वे विप्रसंघाः समन्ततः। गौतमोऽपि सुवर्णस्य भारमादाय सत्वरः॥ कृच्छ्रात् समुद्धरन् भारं न्यग्रोधं समुपागमत्। न्यषीदच्च परिश्रान्तः क्लान्तश्च क्षुधितश्च सः॥ ततस्तमभ्यगाद् राजन् राजधर्मा खगोत्तमः। स्वागतेनाभिनन्दंश्च गौतमं मित्रवत्सलः॥ तस्य पक्षाग्रविक्षेपैः क्लमं व्यपनयत् खगः। पूजां चाप्यकरोद् धीमान् भोजनं चाप्यकल्पयत्।॥ स भुक्तवान् सुविश्रान्तो गौतमोऽचिन्तयत् तदा। हाटकस्याभिरूपस्य भारोऽयं सुमहान् मया॥ गृहीतो लोभमोहाभ्यां दूरं च गमनं मम। न चास्ति पथि भोक्तव्यं प्राणसंधारणं मम॥ किं कृत्वा धारयेयं वै प्राणानित्यभ्यचिन्तयत्। ततः स पथि भोक्तव्यं प्रक्षमाणो न किंचन॥ कृतघ्नः पुरुषव्याघ्र मनसेदमचिन्तयत्। अयं बकपतिः पार्श्वे मांसराशिः स्थितो महान्॥ इमं हत्वा गृहीत्वा च यास्येऽहं समाभिद्रुतम्॥ भीष्म उवाच अथ तत्र महार्चिष्माननलो वातसारथिः। तस्याविदूरे रक्षार्थ खगेन्द्रेण कृतोऽभवत्॥ स चापि पार्श्वे सुष्वाप विश्वस्तो बकराट् तदा। कृतघ्नस्तु स दुष्टात्मा तं जिघांसुरथाग्रतः॥ ततोऽलातेन दीप्तेन विश्वस्तं निजघान तम्। निहत्य च मुदा युक्तः सोऽनुबन्धनं दृष्टवान्॥ स तं विपक्षरोमाणं कृत्वाग्नावपचत् तदा। तं गृहीत्वा सुवर्णं व ययौ द्रुततरं द्विजः॥ (ततो दाक्षायणीपुत्रं नागतं तं तु भारत। विरूपाक्षश्चिन्तयन् वै हृदयेन विदूयता)। ततोऽन्यस्मिन् गते चाह्नि विरुपाक्षोऽब्रवीत् सुतम्। न प्रेक्षे राजधर्माणमद्य पुत्र खगोत्तमम्॥ स पूर्वसंध्यां ब्रह्माणं वन्दितुं याति सर्वदा। मां वा दृष्ट्वा कदाचित् स न गच्छति गृहं खगः॥ उभे द्विरात्रिसंध्ये वै नाभ्यगात् स ममालयम्। तस्मान्न शुद्ध्यते भावो मम स ज्ञायतां सुहृत्॥ स्वाध्यायेन वियुक्तो हि ब्रह्मवर्चसवर्जितः। तव्रतस्तत्र मे शंका हन्यात तं स द्विजाधमः॥ दुराचारस्तु दुर्बुद्धिरिङ्गित्तैर्लक्षितो मया। निष्कृतो दारुणाकारो दुष्टो दस्युरिवाधमः॥ गौतमः स गतस्तत्र तेनोद्विग्नं मनो मम। पुत्र शीघ्रमितो गत्वा राजधर्मनिवेशनम्॥ ज्ञायतां स विशुद्धात्मा यदि जीवति मा चिरम्। स एवमुक्तस्त्वरितो रक्षोभिः सहितो ययौ॥ न्यग्रोधं तत्र चापश्यत् कङ्कालं राजधर्मणः। स रुदन्नगमत् पुत्रो राक्षसेन्द्रस्य धीमतः॥ त्वरमाणः परं शक्त्या गौतमग्रहणाय वै। ततोऽविदूरे जगृहुर्गौतमं राक्षसास्तदा।॥ राजधर्मशरीरं च पक्षास्थिचरणोज्झितम्। तमादायाथ रक्षांसि द्रुतं मेरुव्रजं ययुः॥ राज्ञश्च दर्शयामासुः शरीरं राजधर्मणः। कृतघ्नं परुषं तं च गौतमं पापकारिणम्॥ रुरोद राजा तं दृष्ट्वा सामात्यः सपुरोहितः। आर्तनादश्च सुमहानभूत् तस्य निवेशने॥ सस्त्रीकुमारं च पुरं बभूवास्वस्थमानसम्। अथाब्रवीन्नृपः पुत्रं पापोऽयं वध्यतामिति॥ अस्य मांसैरिमे सर्वे विहरन्तु यथेष्टतः। पापाचार: पापकर्मा पापात्मा पापसाधनः॥ हन्तव्योऽयं मम मतिर्भवद्भिरिति राक्षसाः। इत्युक्ता राक्षसेन्द्रेण राक्षसा घोरविक्रमा:।१९॥ नैच्छन्त तं भक्षयितुं पापकर्माणमित्युत। दस्यूनां दीयतामेष साध्वद्य पुरुषाधमः॥ इत्यूचुस्ते महाराज राक्षसेन्द्रं निशाचराः। शिरोभिः प्रणताः सर्वे व्याहरन् राक्षसाधिपम्॥ न दातुमर्हसि त्वं नो भक्षणायास्य किल्बिषम्। एवमस्त्विति तानाह राक्षसेन्द्रो निशाचरान्॥ दस्यूनां दीयतामेष कृतघ्नोऽद्यैव राक्षसाः। इत्युक्ता राक्षसास्तेन शूलपट्टिशपाणयः॥ कृत्वा तं खण्डशः पापं दस्युभ्यः प्रददुस्तदा। दस्यवश्चापि नैच्छन्त तमत्तुं पापकारिणम्। क्रव्यादा अपि राजेन्द्र कृतघ्नं नोपभुञ्जते॥ ब्रह्मने च सुरापे च चौरे भग्नव्रते तथा। निष्कृतिर्विहिता राजन् कृतघ्ने नास्ति निष्कृतिः॥ मित्रद्रोही नृशंसश्च कृतघ्नश्च नराधमः। क्रव्यादैः कृमिभिश्चैव न भुज्यन्ते हि तादृशाः॥ भीष्म उवाच ततश्चितां बकपते: कारयामास राक्षसः। रत्नैर्गन्धैश्च बहुभिर्वस्त्रैश्च समलंकृताम्॥ ततः प्रज्वाल्य नृपतिर्बकराज प्रतापवान्। प्रेतकार्याणि विधिवद् राक्षसेन्द्रश्चकार ह॥ तस्मिन् काले च सुरभिर्देवी दाक्षायणी शुभा। उपरिष्टात् ततस्तस्य सा बभूव पयस्विनी॥ तस्या वक्त्राच्च्युतः फेनः क्षीरमिश्रस्तदानघ। सोऽपतद् वै ततस्तस्यां चितायां राजधर्मणः॥ ततः संजीवितस्तेन बकराजस्तदानघ। उत्पत्य च समीयाय विरूपाक्षं बकाधिपः॥ ततोऽभ्यगाद् देवराजो विरूपाक्षपुरं तदा। प्राह चेदं विरूपाक्षं दिष्ट्या संजीवितस्त्वया॥ श्रावयामास चन्द्रस्तं विरूपाक्षं पुरातनम्। यथा शापः पुरा दत्तो ब्रह्मणा राजधर्मणः॥ यदा बकपती राजन् ब्रह्माणं नोपसर्पति। ततो रोषादिदं प्राह खगेन्द्राय पितामहः॥ यस्मान्मूढो मम सभां नागतोऽसौ बकाधमः। तस्माद् वधं स दुष्टात्मा नचिरात् समवाप्स्यति॥ तदयं तस्य वचनानिहतो गौतमेन वै। तेनैवामृतसिक्तश्च पुन: संजीवितो बकः॥ राजधर्मा बकः प्राह प्रणिपत्य पुरन्दरम्। यदि तेऽनुग्रहकृता मयि बुद्धि सुरेश्वर॥ सखायं मे सुदयितं गौतमं जीवयेत्युत। तस्य वाक्यं समादाय वासवः पुरुषर्षभ॥ सिक्त्वामृतेन तं विप्रं गौतमं जीवयत् तदा। सभाण्डोपस्करं राजंस्तमासाद्य बकाधिपः॥ सम्परिष्वज्य सुहृदं प्रीत्या परमया युतः। अथ तं पापकर्माणं राजधर्मा बकाधिपः॥ विसर्जयित्वा सधनं प्रविवेश स्वमालयम्। यथोचितं च स बको ययौ ब्रह्मसदस्तथा॥ ब्रह्मा चैनं महात्मानमातिथ्येनाभ्यपूजयत्। गौतमश्चापि सम्प्राप्य पुनस्तं शबरालयम्। शूद्रायां जनयामास पुत्रान् दुष्कृतकारिणः॥ शापश्च सुमहांस्तस्य दत्तः सुरगणैस्तदा। कुक्षौ पुनर्वाः पापोऽयं जनयित्वाचिरात् सुतान्॥ निरयं प्राप्स्यति महत् कृतघ्नोऽयमिति प्रभो। एतत् प्राह पुरा सर्वं नारदो मम भारत॥ संस्मृत्य चापि सुमहदाख्यानं भरतर्षभ। मयापि भवते सर्वं यथावदनुवर्णितम्॥ कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम्। अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः॥ मित्रद्रोहो न कर्तव्यः पुरुषेण विशेषतः। मित्रधुड्नरकं घोरमनन्तं प्रतिपद्यते॥ कृतज्ञेन सदा भाव्यं मित्रकामेन चैव ह। मित्राच्च लभते सर्वं मित्रात् पूजां लभेत च॥ मित्राद् भोगांश्च भुञ्जीत मित्रेणापत्सु मुच्यते। सत्कारैरुत्तमैमित्रं पूजयेत विचक्षणः॥ परित्याज्यो बुधैः पापः कृतघ्नो निरपत्रपः। मित्रद्रोही कुलाङ्गारः पापकर्मा नराधमः॥ एष धर्मभृतां श्रेष्ठ प्रोक्तः पापो मया तव। मित्रद्रोही कृतघ्नो वै किं भूयः श्रोतुमिच्छसि॥ वैशम्पायन उवाच एतच्छ्रुत्वा तदा वाक्यं भीष्मेणोक्तं महात्मना। युधिष्ठिरः प्रीतमना बभूव जनमेजय॥ युधिष्ठिर उवाच अतिक्रामति कालेऽस्मिन् सर्वभूतक्षयावहे। किं श्रेयः प्रतिपद्येत तन्मे ब्रूहि पितामह॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। पितुः पुत्रेण संवादं तं निबोध युधिष्ठिर॥ द्विजाते: कस्यचित् पार्थ स्वाध्यायनिरतस्य वै। बभूव पुत्रो मेधावी मेधावी नाम नामतः॥ सोऽब्रवीत् पितरं पुत्रः स्वाध्यायकरणे रतम्। मोक्षधर्मार्थकुशलो लोकतत्त्वविचक्षणः॥ पुत्र उवाच धीरः किंस्वित्तात कुर्यात्प्रजानन् क्षिप्रं ह्यायुर्धश्यते मानवानाम्। पितस्तदाचक्ष्व यथार्थयोगं मामनुपूव्यां येन धर्मं चरेयम्॥ पितोवाच वेदानधीत्य ब्रह्मचर्येण पुत्र पुत्रानिच्छेत् पावनार्थं पितृणाम्। अग्नीनाधाय विविवच्चेश्यज्ञो वनं प्रविश्याथ मुनिळूभूषेत्॥ पुत्र उवाच एवमभ्याहते लोके समन्तात् परिवारिते। अमोघासु पतन्तीषु किं धीर इव भाषसे॥ पितोवाच कथमभ्याहतो लोकः केन वा परिवारितः। अमोघा: काः पतन्तीह किं नु भीषयसीव माम्॥ पुत्र उवाच मृत्युनाभ्याहतो लोको जरया परिवारितः। अहोरात्राः पतन्त्येते ननु कस्मान्न बुध्यसे॥ अमोघा रात्रयश्चापि नित्यमायान्ति यान्ति च। यदाहमेतज्जानामि न मृत्युस्तिष्ठतीति ह। सोऽहं कथं प्रतीक्षिष्ये जालेनापिहितश्चरन्॥ राज्यां रात्र्यां व्यतीतायामायुरल्पतरं यदा। गाधोदके मत्स्य इव सुखं विन्देत कस्तदा॥ तदैव वन्ध्यं दिवसमिति विद्याद् विचक्षणः। अनवाप्तेषु कामेषु मृत्युरभ्येति मानवम्॥ शष्पाणीव विचिन्वन्तमन्यत्रगतमानसम्। वृकीवोरणमासाद्य मृत्युरादाय गच्छति॥ अद्यैव कुरु यच्छ्रेयो मा त्वां कालोऽत्यगादयम्। अकृतेष्वेव कार्येषु मृत्युबै सम्प्रकर्षति॥ श्वः कार्यमद्य कुर्वीत पूर्वाह्ने चापराह्निकम्। न हि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम्॥ को हि नाजाति कस्याद्य मृत्युकालो भविष्यति। युवैव धर्मशीलः स्यादनित्यं खलु जीवितम्। कृते धर्मे भवेत् कीर्तिरिह प्रेत्य च वै सुखम्॥ मोहेन हि समाविष्टः पुत्रदारार्थमुद्यतः। कृत्वा कार्यमकार्यं वा पुष्टिमेषां प्रयच्छति॥ तं पुत्रपशुसम्पन्नं व्यासक्तमनसं नरम्। सुप्तं व्याघ्रो मृगमिव मृत्युरादाय गच्छति॥ संचिन्वानकमेवैनं कामानामवितृप्तकम्। व्याघ्रः पशुमिवादाय मृत्युरादाय गच्छति॥ इदं कृतमिदं कार्यमिदमन्यत् कृताकृतम्। एवमीहासुखासक्तं कृतान्तः कुरुते वशे॥ कृतानां फलमप्राप्तं कर्मणां कर्मसंज्ञितम्। क्षेत्रापणगृहासक्तं मृत्युरादाय गच्छति॥ दुर्बलं बलवन्तं च शूरं भीरूं जडं कविम्। अप्राप्तं सर्वकामार्थान् मृत्युरादाय गच्छति॥ मृत्युर्जरा च व्याधिश्च दुःखं चानेककारणम्। अनुषक्तं यदा देहे किं स्वस्थ इव तिष्ठसि॥ जातमेवान्तकोऽन्ताय जरा चान्वेति देहिनम्। अनुषक्ता द्वयेनैते भावाः स्थावरजङ्गमाः॥ मृत्योर्वा मुखमेतद् वै या ग्रामे वसतो रतिः। देवानामेष वै गोठो यदरण्यमिति श्रुतिः॥ निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः। छित्त्वैतां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः॥ न हिंसयति यो जन्तून् मनोवाक्कायहेतुभिः। जीवितार्थापनयनैः प्राणिभिर्न स हिंस्यते॥ न मृत्युसेनामायान्तीं जातु कश्चित् प्रबाधते। ऋते सत्यमसत् त्याज्यं सत्ये ह्यमृतमाश्रितम्॥ तस्मात् सत्यव्रताचारः सत्ययोगपरायणः। सत्यागमः सदा दान्तः सत्येनैवान्तकं जयेत्॥ अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम्। मृत्युमापद्यते मोहात् सत्येनापद्यतेऽमृतम्॥ सोऽहं ह्यहिस्रः सत्यार्थी कामक्रोधबहिष्कृतः। समदुःखसुखः क्षेमी मृत्यु हास्याम्यमर्त्यवत्॥ शान्तियज्ञरतो दान्तो ब्रह्मयज्ञे स्थितो मुनिः। वामनः कर्मयज्ञश्च भविष्याम्युदगायने॥ पशुयज्ञैः कथं हिंस्रैर्मादृशो यष्टुमर्हति। अन्तवद्भिरिव प्राज्ञः क्षेत्रयज्ञैः पिशाचवत्॥ यस्य वाङ्मनसी स्यातां सम्यक् प्रणिहिते सदा। तपस्त्यागश्च सत्यं च स वै सर्वमवाप्नुयात्॥ नास्ति विद्यासमं चक्षुर्नास्ति सत्यसमं तपः। नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम्॥ आत्मन्येवात्मना जात आत्मनिष्ठोऽप्रजोऽपि वा। आत्मन्येव भविष्यामि न मां तारयति प्रजा॥ नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च। शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः॥ किं ते धनैर्बान्धवैर्वापि किं ते किं ते दारैर्ब्राह्मण यो मरिष्यसि। आत्मानमन्विच्छ गुहां प्रविष्टं पितामहास्ते क्व गताः पिता च॥ भीष्म उवाच पुत्रस्यैतद् वचः श्रुत्वा यथाकार्षीत् पिता नृप। तथा त्वमपि वर्तस्व सत्यधर्मपरायणः॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। गीतं विदेहराजेन जनकेन प्रशाम्यता॥ अनन्तमिव मे वित्तं यस्य मे नास्ति किञ्चन। मिथिलायां प्रदीप्तायां न मे दह्यति किञ्चन॥ अत्रैवोदाहरन्तीमं बोध्यस्य पदसंचयम्। निर्वेदं प्रति विन्यस्तं तं निबोध युधिष्ठिर॥ बोध्यं शान्तमृषि राजा नाहुषः पर्यपृच्छत। निर्वेदाच्छान्तिमापन्नं शास्त्रप्रज्ञानतर्पितम्॥ उपदेशं महाप्राज्ञ शमस्योपदिशस्व मे। का बुद्धिं समनुध्याय शान्तश्चरसि निर्वृतः॥ बोध्य उवाच उपदेशेन वर्तामि नानुशास्मीह कंचन। लक्षणं तस्य वक्ष्येऽहं तत् स्वयं परिमृश्यताम्॥ पिङ्गलाककुररः सर्पः सारङ्गान्वेषणं वने। इषुकारः कुमारी च षडेते गुरवो मम॥ भीष्म उवाच आशा बलवती राजन् नैराश्यं परमं सुखम्। आशां निराशां कृत्वा तु सुखं स्वपिति पिङ्गला॥ सामिषं कुररं दृष्ट्वा वध्यमानं निरामिषैः। आमिषस्य परित्यागात् कुररः सुखमेधते॥ गृहारम्भो हि दुःखाय न सुखाय कदाचन। सर्पः परकृतं वेश्म प्रविश्य सुखमेधते॥ सुखं जीवन्ति मुनयो भैक्ष्यवृत्तिं समाश्रिताः। अद्रोहेणैव भूतानां सारङ्गा इव पक्षिणः॥ इषुकारो नरः कश्चिदिषावासक्तमानसः। समीपेनापि गच्छन्तं राजानं नावबुद्धवान्॥ बहूनां कलहो नित्यं द्वयोः संकथनं ध्रुवम्। एकाकी विचरिष्यामि कुमारीशंखको यथा॥ युधिष्ठिर उवाच बान्धवाः कर्म वित्तं वा प्रज्ञा वेह पितामह। नरस्य का प्रतिष्ठा स्यादेतत् पृष्टो वदस्व मे॥ भीष्म उवाच प्रज्ञा प्रतिष्ठा भूतानां प्रज्ञा लाभः परो मतः। प्रज्ञा निःश्रेयसी लोके प्रज्ञा स्वर्गो मतः सताम्॥ प्रज्ञया प्रापितार्थो हि बलिरैश्वर्यसंक्षये। प्रह्लादो नमुचिर्मङ्किस्तस्याः किं विद्यते परम्॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। इन्द्रकाश्यपसंवादं तन्निबोध युधिष्ठिर॥ वैश्यः कश्चिदृषिसुतं काश्यपं संशितव्रतम्। रथेन पातयामास श्रीमान् दृप्तस्तपस्विनम्॥ आर्तः स पतितः क्रुद्धस्त्यक्त्वाऽऽत्मानमथाब्रवीत्। मरिष्याम्यधनस्येह जीवितार्थो न विद्यते॥ तथा मुमूर्षुमासीनमकूजन्तमचेतसम्। इन्द्रः शृगालरूपेण बभाषे लुब्धमानसम्॥ मनुष्ययोनिमिच्छन्ति सर्वभूतानि सर्वशः। मनुष्यत्वे च विप्रत्वं सर्व एवाभिनन्दति॥ मनुष्यो ब्राह्मणश्चासि श्रोत्रियश्चासि काश्यप। सुदुर्लभमवाप्यैतन्न दोषान्मर्तुमर्हसि॥ सर्वे लाभाः साभिमाना इति सत्यवती श्रुतिः। संतोषणीयरूपोऽसि लोभाद् यदभिमन्यसे॥ अहो सिद्धार्थता तेषां येषां सन्तीह पाणयः। अतीव स्पृहये तेषां येषां सन्तीह पाणयः॥ पाणिमद्भ्यः स्पृहास्माकं यथा तव धनस्य वै। न पाणिलाभादधिको लाभः कश्चन विद्यते॥ अपाणित्वाद् वयं ब्रह्मन् कण्टकं नोद्धरामहे। जन्तूनुच्चावचानङ्गे दशतो न कषाम वा॥ अथ येषां पुनः पाणी देवदत्तौ दशाङ्गुली। उद्धरन्ति कृमीनङ्गाद् दशतो निकषन्ति च॥ वर्षाहिमातपानां च परित्राणानि कुर्वते। चैलमन्नं सुखं शय्यां निवातं चोपभुञ्जते॥ अधिष्ठाय च गां लोके भुञ्जते वाहयन्ति च। उपायैर्बहुभिश्चैव वश्यानात्मनि कुर्वते॥ ये खल्वजिह्वाः कृपणा अल्पप्राणा अपाणयः। सहन्ते तानि दुःखानि दिष्ट्या त्वं न तथा. मुने॥ दिष्ट्या त्वं न शृगालो वै न कृमिर्न च मूषकः। न सर्पो न च मण्डूको न चान्यः पापयोनिजः॥ एतावतापि लाभेन तोष्टुमर्हसि काश्यप। किं पुनर्योऽसि सत्त्वानां सर्वेषां ब्राह्मणोत्तमः॥ इमे मां कृमयोऽदन्ति येषामुद्धरणाय वै। नास्ति शक्तिरपाणित्वात् पश्यावस्थामिमां मम॥ अकार्यमिति चैवेमं नात्मानं संत्यजाम्यहम्। नातः पापीयसी योनि पतेयमपरामिति॥ मध्ये वै पापयोनीनां शार्गाली यामहं गतः। पापीयस्यो बहुतरा इतोऽन्याः पापयोनयः॥ जात्यैवैके सुखितराः सन्त्यन्ये भृशदुःखिताः। नैकान्तं सुखमेवेह क्वचित्पश्यामि कस्यचित्॥ मनुष्या ह्याढ्यतां प्राप्य राज्यमिच्छन्त्यनन्तरम्। राज्याद् देवत्वमिच्छन्ति देवत्वादिन्द्रतामपि॥ भवेस्त्वं यद्यपि त्वाट्यो न राजा न च दैवतम्। देवत्वं प्राप्य चेन्द्रत्वं नैव तुष्येस्तथा सति॥ न तृप्ति: प्रियलाभेऽस्ति तृष्णा नाद्भिः प्रशाम्यति। सम्प्रज्वलति सा भूयः समिद्भिग्वि पावकः॥ अस्त्येव त्वयि शोकोऽपि हर्षश्चापि तथा त्वयि। सुखदुःखे तथा चोभे तत्र का परिवेदना॥ परिच्छिद्यैव कामानां सर्वेषां चैव कर्मणाम्। मूलं बुद्धीन्द्रियग्रामं शकुन्तानिव पञ्जरे॥ न द्वितीयस्य शिरसश्छेदनं विद्यते क्वचित्। न च पाणेस्तृतीयस्य यन्नास्ति न ततो भयम्॥ न खल्वप्यरसज्ञस्य कामः क्वचन जायते। संस्पर्शाद् दर्शनाद् वापि श्रवणाद् वापि जायते।॥ न त्वं स्मरसि वारुण्या लट्वाकानां च पक्षिणाम्। ताभ्यां चाभ्यधिको भक्ष्यो न कश्चिद् विद्यते क्वचित्।। यानि चान्यानि भूतेषु भक्ष्यजातानि कस्यचित्। येषामभुक्तपूर्वाणि तेषामस्मृतिरेव ते॥ अप्राशनमसंस्पर्शमसंदर्शनमेव च। पुरुषस्यैष नियमो मन्ये श्रेयो न संशयः॥ पाणिमन्तो बलवन्तो धनवन्तो न संशयः। मनुष्या मानुषैरेव दासत्वमुपपादिताः॥ वधबन्धपरिक्लेशैः क्लिश्यन्ते च पुनः पुनः। ते खल्वपि रमन्ते च मोदन्ते च हसन्ति च॥ अपरे बाहुबलिनः कृतविद्या मनस्विनः। जुगुप्सितां च कृपणां पापवृत्तिमुपासते॥ उत्सहन्ते च ते वृत्तिमन्यामप्युपसेवितुम्। स्वकर्मणा तु नियतं भवितव्यं तु तत् तथा॥ न पुल्कसो न चाण्डाल आत्मानं त्यक्तुमिच्छति तया तुष्टः स्वया योन्या मायां पश्यस्व यादृशीम्॥ दृष्ट्वा कुणीन् पक्षहतान् मनुष्यानामयाविनः। सुसम्पूर्णः स्वया योन्या लब्धलाभोऽसि काश्यप॥ यदि ब्राह्मण देहस्ते निरातङ्कोनिरामयः। अङ्गानि च समग्राणि न च लोकेषु धिक्कृतः॥ न केनचित् प्रवादेन सत्येनैवापहारिणा। धर्मायोत्तिष्ठ विप्रर्षे नात्मानं त्यक्तुमर्हसि॥ यदि ब्रह्मशृणोष्येतच्छ्रद्दधासि च मे वचः। वेदोक्तस्यैव धर्मस्य फलं मुख्यमवाप्स्यसि॥ स्वाध्यायमग्निसंस्कारमप्रमत्तोऽनुपा सत्यं दमं च दानं च स्पर्धिष्ठा मा च केनचित्॥ ये केचन स्वध्ययनाः प्राप्ता यजनयाज । कथं ते चानुशोचेयुायेयुर्वाप्यशोभनम्। इच्छन्तस्ते विहाराय सुखं महदवाप्नुयुः॥ उत जाताः सुनक्षत्रे सुतिथौ सुमुहूर्तजाः। यज्ञदानप्रजेहायां यतन्ते शक्तिपूर्वकम्॥ नक्षत्रेष्वासुरेष्वन्ये दुस्तिथौ दुर्मुहूर्तजाः। सम्पतन्त्यासुरी योनि यज्ञप्रसववर्जिताः॥ अहमासं पण्डितको हैतुको वेदनिन्दकः। आन्वीक्षिकी तर्कविद्यामनुरक्तो निरर्थिकाम्॥ हेतुवादान् प्रवदिता वक्ता संसत्सु हेतुमत्। आक्रोष्टा चाभिवक्ता च ब्रह्मवाक्येषु च द्विजान्॥ नास्तिकः सर्वशङ्की च मूर्खः पण्डितमानिकः। तस्येयं फलनिर्वृत्तिः शृगालत्वं मम द्विज॥ अपि जातु तथा तस्मादहोरात्रशतैरपि। यदहं मानुषी योनि शृगालः प्राप्नुयां पुनः॥ संतुष्टश्चाप्रमत्तश्च यज्ञदानतपोरतिः। ज्ञेयज्ञाता भवेयं वै वर्ण्यवर्जयिता तथा॥ ततः स मुनिरुत्थाय काश्यपस्तमुवाच ह। अहो बतासि कुशलो बुद्धिमांश्चेति विस्मित:॥ समवैक्षत तं विप्रो ज्ञानदीभ्रुण चक्षुषा। ददर्श चैनं देवानां देवमिन्द्रं शचीपतिम्॥ ततः सम्पूजयामास काश्यपो हरिवाहनम्। अनुज्ञातस्तु तेनाथ प्रविवेश स्वमालयम्॥ युधिष्ठिर उवाच यद्यस्ति दत्तमिष्टं वा तपस्तप्तं तथैव च। गुरूणां वापि शुश्रूषा तन्मे ब्रूहि पितामह॥ भीष्म उवाच आत्मनानर्थयुक्तेन पापे निविशते मनः। स्वकर्मकलुषं कृत्वा कृच्छ्रे लोके विधीयते॥ दुर्भिक्षादेव दुर्भिक्षं क्लेशात् क्लेशं भयाद् भयम्। मृतेभ्यः प्रमृतं यान्ति दरिद्राः पापकारिणः॥ उत्सवादुत्सवं यान्ति स्वर्गात् स्वर्ग सुखात् सुखम्। श्रद्दधानाश्च दान्ताश्च धनाढ्याः शुभकारिणः॥ व्यालकुञ्जरदुर्गेषु सर्पचोरभयेषु च। हस्तावापेन गच्छन्ति नास्तिकाः किमतः परम्॥ प्रियदेवातिथेयाश्च वदान्याः प्रियसाधवः। क्षेम्यमात्मवतां मार्गमास्थिता हस्तदक्षिणम्॥ पुलाका इव धान्येषु पुत्तिका इव पक्षिषु। तद्विधास्ते मनुष्याणां येषां धर्मो न कारणम्॥ सुशीघ्रमपि धावन्तं विधानमनुधावति। शेते सह शयानेन येन येन यथा कृतम्॥ उपतिष्ठति तिष्ठन्तं गच्छन्तमनुगच्छति। करोति कुर्वतः कर्म च्छायेवानुविधीयते॥ येन येन यथा यद् यत् पुरा कर्म समीहितम्। तत्तदेकतरो भुङ्क्ते नित्यं विहितमात्मना॥ स्वकर्मफलनिक्षेपं विधानपरिरक्षितम्। भूतग्राममिमं कालः समन्तात् परिकर्षति॥ अचोद्यमानानि यथा पुष्पाणि च फलानि च। स्वं कालं नातिवर्तन्ते तथा कर्म पुरा कृतम्॥ सम्मानश्चावमानश्च लाभालाभौ क्षयोदयौ। प्रवृत्ता विनिवर्तन्ते विधानान्ते पुनः पुनः॥ आत्मना विहितं दुःखामात्मना विहितं सुखम्। गर्भशय्यामुपादाय भुज्यते पौर्वदेहिकम्॥ बालो युवा च वृद्धश्च यत् करोति शुभाशुभम्। तस्यां तस्यावस्थायां तत्फलं प्रतिपद्यते॥ यथा धेनुसहस्रेषु वत्सो विन्दति मातरम्। तथा पूर्वकृतं कर्म कर्तारमनुगच्छति॥ समुन्नमग्रतो वस्त्रं पश्चाच्छुध्यति कर्मणा। उपवासैः प्रतप्तानां दीर्घं सुखमनन्तकम्॥ दीर्घकालेन तपसा सेवितेन तपोवने। धर्मनिर्धूतपापानां सम्पद्यन्ते मनोरथाः॥ शकुनानामिवाकाशे मत्स्यानामिव चोदके। पदं यथा न दृश्येत तथा ज्ञानविदां गतिः॥ अलमन्यैरुपालम्भैः कीर्तितैश्च व्यतिक्रमैः। पेशलं चानुरूपं च कर्तव्यं हितमात्मनः॥ अलमन्यैरुपालम्भैः कीर्तितैश्च व्यतिक्रमैः। पेशलं चानुरूपं च कर्तव्यं हितमात्मनः॥ भरद्वाज उवाच प्रजाविसर्ग विविध कथं स सृजते प्रभुः। मेरुमध्ये स्थितो ब्रह्मा तद् ब्रूहि द्विजसत्तम॥ भृगुरुवाच प्रजाविसर्ग विविधं मानसो मानसासृजत्। संरक्षणार्थं भूतानां सृष्टं प्रथमतो जलम्॥ यत् प्राणः सर्वभूतानां वर्धन्ते येन च प्रजाः। परित्यक्ताश्च नश्यन्ति तेनेदं सर्वमावृतम्॥ पृथिवी पर्वता मेघा मूर्तिमन्तश्च ये परे। सर्वं तद् वारुणं ज्ञेयमापस्तस्तम्भिरे यतः॥ भरद्वाज उवाच कथं सलिलमुत्पन्नं कथं चैवाग्निमारुतौ। कथं वा मेदिनी सृष्टेत्यत्र मे संशयो महान्॥ भृगुरुवाच ब्रह्मकल्पे पुरा ब्रह्मन् ब्रह्मर्षीणां समागमे। लोकसम्भवसंदेहः समुत्पन्नो महात्मनाम्॥ तेऽतिष्ठन् ध्यानमालम्ब्य मौनमास्थाय निश्चलाः। त्यक्तहाराः पवनपा दिव्यं वर्षशतं द्विजाः॥ तेषां ब्रह्ममयी वाणी सर्वेषां श्रोत्रमागमत्। दिव्या सरस्वती तत्र सम्बभूव नभस्तलात्॥ पुरा स्तिमितमाकाशमनन्तमचलोपमम्। नष्टचन्द्रार्कपवनं प्रसुप्तमिव सम्बभौ॥ ततः सलिलमुत्पन्नं तमसीवापरं तमः। तस्माच्च सलिलोत्पीडादुदतिष्ठत मारुतः॥ यथा भाजनमच्छिद्रं निःशब्दमिव लक्ष्यते। तच्चाम्भसा पूर्यमाणं सशब्दं कुरुतेऽनिलः॥ तथा सलिलसंरुद्धे नभसोऽन्ते निरन्तरे। भित्त्वार्णवतलं वायुः समुत्पतति घोषवान्॥ स एष चरते वायुरर्णवोत्पीडसम्भवः। आकाशस्थानमासाद्य प्रशान्ति नाधिगच्छति॥ तस्मिन् वाय्वम्बुसंघर्षे दीप्ततेजा महाबलः। प्रादुरभूदूर्ध्वशिखः कृत्वा निस्तिमिरं नमः॥ अग्निः पवनसंयुक्तः खं समाक्षिपते जलम्। सोऽग्निमारुतसंयोगाद्घनत्वमुपपद्यते॥ तस्याकाशे निपतितः स्नेहस्तिष्ठति योऽपरः। स संघातत्वमापन्नो भूमित्वमनुगच्छति॥ रसानां सर्वगन्धानां स्नेहानां प्राणिनां तथा। भूमिर्यानिरिह ज्ञेया यस्यां सर्वं प्रसूयते॥ भरद्वाज उवाच पार्थिवं धातुमासाद्य शारीरोऽग्निः कथं प्रभो। अवकाशविशेषेण कथं वर्तयतेऽनिलः॥ भृगुरुवाच वायोर्गतिमहं ब्रह्मन् कथयिष्यामि तेऽनघ। प्राणिनामनिलो देहान् यथा चेश्यते बली॥ श्रितो मूर्धानमात्मा तु शरीरं परिपालयन्। प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते॥ स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः। मनो बुद्धिरहङ्कारो भूतानि विषयश्च सः॥ एवं त्विह स सर्वत्र प्राणेन परिचाल्यते। पृष्ठतस्तु समानेन स्वां स्वां गतिमुपाश्रितः॥ बस्तिमूलं गुदं चैव पावकं समुपाश्रितः। वहन्मूत्रं पुरीषं चाप्यपान: परिवर्तते॥ प्रयत्ने कर्मणि बले य एकस्त्रिषु वर्तते। उदान इति तं प्राहुरध्यात्मविदुषो जनाः॥ संधिष्वपि च सर्वेषु संनिविष्टस्तथानिलः। शरीरेषु मनुष्याणां व्यान इत्युपदिश्यते॥ धातुष्वग्निस्तु विततः समानेन समीरितः। रसान् धातूंश्च दोषांश्च वर्तयन्नवतिष्ठते॥ अपानप्राणयोर्मध्ये प्राणापानसमाहितः। समन्वितस्त्वधिष्ठानं सम्यक्पचति पावकः॥ आस्यं हि पायुपर्यन्तमन्ते स्याद् गुदसंज्ञितम्। स्रोतस्तस्मात् प्रजायन्ते सर्वस्रोतांसि देहिनाम्॥ प्राणानां संनिपाताच्च संनिपातः प्रजायते। उष्मा चाग्निरिति ज्ञेयो योऽनं पचति देहिनाम्॥ अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते। स उर्ध्वमागम्य पुनः समुत्क्षिपति पावकम्॥ पक्वाशयस्त्वधो नाभ्यामूर्ध्वमामाशय: स्थितः। नाभिमध्ये शरीरस्य सर्वे प्राणाश्च संस्थिताः॥ प्रस्थिता हृदयात् सर्वे तिर्यगूर्ध्वमधस्तथा। वहन्त्यन्नरसान् नाड्यो दश प्राणप्रचोदिताः॥ एप मार्गोऽथ योगानां येन गच्छन्ति तत्पदम्। जितक्लमा: समा धीरा मूर्धन्यात्मानमादधन्॥ एवं सर्वेषु विहितः प्राणापानेषु देहिनाम्। तस्मिन् समिध्यते नित्यमग्निः स्थाल्यामिवाहितः॥ भरद्वाज उवाच यदि प्राणयते वायुर्वायुरेव विचेष्टते। श्वसित्याभाषते चैव तस्माज्जीवो निरर्थकः॥ यष्मभाव आग्नेयो वह्निना पच्यते यदि। अग्निर्जरयते चैतत् तस्माज्जीवो निरर्थकः॥ जन्तोः प्रमीयमाणस्य जीवो नैवोपलभ्यते। वायुरेव जहात्येनमूष्मभावश्च नश्यति॥ यदि वायुमयो जीव: संश्लेषो यदि वायुना। वायुमण्डलवद् दृश्यो गच्छेत् सह मरुद्गणैः॥ संश्लेषो यदि वातेन यदि तस्मात् प्रणश्यति। महार्णवविमुक्तत्वादन्यत् सलिलभाजनम्॥ कूपे वा सलिलं दद्यात् प्रदीपं वा हुताशने। क्षिप्रं प्रविश्य नश्येत यथा नश्यत्यसौ तथा॥ पञ्चधारणके ह्यस्मिन् शरीरे जीवितं कुतः। तेषामन्यतराभावाच्चतुर्णां नास्ति संशयः॥ नश्यन्त्यापो ह्यनाहाराद् वायुरुच्छ्वासनिग्रहात्। नश्यते कोष्ठभेदात् खमग्निर्नश्यत्यभोजनात्॥ व्याघ्रिवणपरिक्लेशैर्मेदिनी चैव शीर्यते। पीडितेऽन्यतरे ह्येषां सघातो याति पञ्चधा॥ तस्मिन् पञ्चत्वमापन्ने जीवः किमनुधावति। किं वेदयति वा जीवः किं शृणोति ब्रवीति च॥ एषा गौः परलोकस्थं तारयिष्यति मामिति। यो दत्त्वा म्रियते जन्तुः सा गौः कं तारयिष्यति॥ गौश्च प्रतिग्रहीता च दाता चैव समं यदा। इहैव विलयं यान्ति कुतस्तेषां समागमः॥ विहगैरुपभुक्तस्य शैलाग्रात् पतितस्य च। अग्निना चोपयुक्तस्य कुतः संजीवनं पुनः॥ छिन्नस्य यदि वृक्षस्य न मूलं प्रतिरोहति। बीजान्यस्य प्रवर्तन्ते मृतः क्व पुनरेष्यति॥ बीजमात्रं पुरा सृष्टं यदेतत् परिवर्तते। मृतामृताः प्रणश्यन्ति बीजाद् बीजं प्रवर्तते॥ भृगुरुवाच न प्रणाशोऽस्ति जीवस्य दत्तस्य च कृतस्य च। याति देहान्तरं प्राणी शरीरं तु विशीर्यते॥ न शरीराश्रितो जीवस्तस्मिन् नष्टे प्रणश्यति। समिधामिव दग्धानां यथाग्निर्दृश्यते तथा॥ भरद्वाज उवाच अग्नेर्यथा तथा तस्य यदि नाशो न विद्यते। इन्धनस्योपयोगान्ते स चाग्निर्नोपलभ्यते॥ नश्यतीत्येव जानामि शान्तमग्निमनिन्धनम्। गतिर्यस्य प्रमाणं वा संस्थानं वा न विद्यते॥ भृगुरुवाच समिधामुपयोगान्ते यथाग्निर्नोपलभ्यते। आकाशानुगतत्वाद्धि दुर्ग्राह्यो हि निराश्रयः॥ तथा शरीरसंत्यागे जीवो ह्याकाशवत् स्थितः। न गृह्यते तु सूक्ष्मत्वाद् यथा ज्योतिर्न संशयः॥ प्राणान् धारयते ह्यग्निः स जीव उपधार्यताम्। वायुसंधारणो ह्यग्निर्नश्यत्युच्छ्वासनिग्रहात्॥ तस्मिन् नष्टे शरीराग्नौ ततो देहमचेतनम्। पतितं याति भूमित्वमयनं तस्य हि क्षितिः॥ जङ्गमानां हि सर्वेषां स्थावराणां तथैव च। आकाशं पवनोऽन्वेति ज्योतिस्तमनुगच्छति। तेषां त्रयाणामेकत्वाद् द्वयं भूमौ प्रतिष्ठितम्॥ यत्र खं तत्र पवनस्तत्राग्निर्यत्र मारुतः। अमूर्तयस्ते विज्ञेया मूर्तिमन्तः शरीरिणाम्॥ भरद्वाज उवाच यद्याग्निमारुतौ भूमिः खमापश्च शरीरिषु। जीव: किंलक्षणस्तत्रेत्येतदाचक्ष्व मेऽनघ॥ पञ्चात्मके पञ्चरतौ पञ्चविज्ञानचेतने। शरीरे प्राणिनां जीवं वेत्तुमिच्छामि यादृशम्॥ मांसशोणितसंघाते मेदःस्नाय्वस्थिसंचये। भिद्यमाने शरीरे त जीवो नैवोपलभ्यते॥ यद्यजीवं शरीरं तु पञ्चभूतसमन्वितम्। शरीरे मानसे दुःखे कस्तां वेदयते रुजम्॥ शृणोति कथितं जीवः कर्णाभ्यां न शृणोति तत्। महर्षे मनसि व्यग्रे तस्माज्जीवो निरर्थकः॥ सर्वं पश्यति यद् दृश्यं मनोयुक्तेन चक्षुषा। मनसि व्याकुले चक्षुः पश्यन्नपि न पश्यति॥ न पश्यति न चाघ्राति न शृणोति न भाषते। न च स्पर्शरसौ वेत्ति निद्रावशगतः पुनः॥ हष्यति क्रुद्ध्यते कोऽत्र शोचत्युद्विजते चकः। इच्छति ध्यायति द्वेष्टि वाचमीरयते च कः॥ भृगुरुवाच च्छरीरमेको बहतेऽन्तरात्मा। स वेत्ति गन्धांश्च रसाश्रुतीश्च स्पर्श च रूपं च गुणाश्च येऽन्ये॥ पञ्चात्मके पञ्चगुणप्रदर्शी स सर्वगात्रानुगतोऽन्तरात्मा। स वेत्ति दुःखानि सुखानि चात्र तद्विप्रयोगात् तु न वेत्ति देहः॥ यदा न रूपं न स्पर्शो नोष्मभावश्च पञ्चके। तदा शान्ते शरीराग्नौ देहत्यागे न नश्यति॥ आपोमयमिदं सर्वमापो मूर्तिः शरीरिणाम्। तत्रात्मा मानसो ब्रह्मा सर्वभूतेषु लोककृत्॥ आत्मा क्षेत्रज्ञ इत्युक्तः संयुक्तः प्राकृतैर्गुणैः। तैरेव तु विनिर्मुक्तः परमात्मेत्युदाहृतः॥ आत्मानं तं विजानीहि सर्वलोकहितात्मकम्। तस्मिन् यः संश्रितो देहे ह्यब्विन्दुरिव पुष्करें।२४॥ क्षेत्रज्ञं तं विजानीहि नित्यं लोकहितात्मकम्। तमो रजश्च सत्त्वं च विद्धि जीवगुणानिमान्॥ सचेतनं जीवगुणं वदन्ति स चेष्टते चेश्यते च सर्वम्। अतः परं क्षेत्रविदो वदन्ति। प्रावर्तयद् यो भुवनानि सप्त॥ न जीवनाशोऽस्ति हि देहभेदे मिथ्यैतदाहुर्मत इत्यबुद्धाः। जीवस्तु देहान्तरितः प्रयाति दशार्धतैवास्य शरीरभेदः॥ एवं सर्वेषु भूतेषु गूढचरति संवृतः। दृश्यते त्वग्रयया बुद्ध्या सूक्ष्मया तत्त्वदर्शिभिः॥ तं पूर्वापररात्रेषु युञ्जानः सततं बुधः। लब्धाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि॥ चित्तस्य हि प्रसादेन हित्वा कर्म शुभाशुभम्। प्रसन्नात्माऽऽत्मनि स्थित्वा सुखमानन्त्यमश्नुते॥ मानसोऽग्निः शरीरेषु जीव इत्यभिधीयते। सृष्टिः प्रजापतेरेषा भूताध्यात्मविनिश्चये॥ भृगुरुवाच असृजद् ब्राह्मणानेव पूर्वं ब्रह्मा प्रजापतीन्। आत्मतेजोभिनिर्वृत्तान् भास्कराग्निसमप्रभान्॥ ततः सत्यं च धर्मं च तपो ब्रह्म च शाश्वतम्। आचारं चैव शौचं च स्वर्गाय विदधे प्रभुः॥ देवदानवगन्धर्वा दैत्यासुरमहोरगाः। यक्षराक्षसनागाश्च पिशाचा मनुजास्तथा॥ ब्राह्मणाः क्षत्रिया वैष्याः शूद्राश्च द्विजसत्तम। ये चान्ये भूतसङ्घानां सङ्घांस्तांश्चापि निर्ममे॥ ब्राह्मणानां सितो वण: क्षत्रियाणां तु लोहितः। वैश्यानां पीतको वर्णः शूद्राणामसितस्तथा॥ भरद्वाज उवाच चातुर्वर्ण्यस्य वर्णेन यदि वर्णो विभिद्यते। सर्वेषां खलु वर्णानां दृश्यते वर्णसंकरः॥ कामः क्रोधो भयं लोभः शोकश्चिन्ता क्षुधा श्रमः। सर्वेषां नः प्रभवति कस्माद् वर्णो विभिद्यते॥ स्वेदमूत्रपुरीषाणि श्लेष्मा पित्तं सशोणितम्। तनुः क्षरति सर्वेषां कस्माद् वर्णो विभज्यते॥ जङ्गमानामसंख्येयाः स्थावराणां च जातयः। तेषां विविधवर्णानां कुतो वर्णविनिश्चयः॥ भृगुरुवाच न विशेषोऽस्ति वर्णानां सर्वं ब्राह्ममिदं जगत्। ब्रह्मणा पूर्वसृष्टं हि कर्मभिर्वर्णतां गतम्॥ कामभोगप्रियास्तीक्ष्णा: क्रोधनाः प्रियसाहसाः। त्यक्तस्वधर्मा रक्ताङ्गास्ते द्विजाः क्षत्रतां गताः॥ गोभ्यो वृत्तिं समास्थाय पीताः कृष्युपजीविनः। स्वधर्मान् नानुतिष्ठन्ति ते द्विजा वैश्यतां गताः॥ हिंसानृतप्रिया लुब्धाः सर्वकर्मोपजीविनः। कृष्णाः शौचपरिभ्रष्टास्ते द्विजाः शूद्रतां गताः॥ इत्येतैः कर्मभिर्व्यस्ता द्विजा वर्णान्तरं गताः। धर्मो यज्ञक्रिया तेषां नित्यं न प्रतिषिध्यते॥ इत्येते चतुरो वर्णा येषां ब्राह्मी सरस्वती। विहिता ब्रह्मणा पूर्वं लोभात् त्वज्ञानतां गताः॥ ब्राह्मणा ब्रह्मतन्त्रस्थास्तपस्तेषां न नश्यति। ब्रह्म धारयतां नित्यं व्रतानि नियमांस्तथा॥ ब्रह्म चैव परं सृष्टं ये न जानन्ति तेऽद्विजाः। तेषां बहुविधास्त्वन्यास्तत्र तत्र हि जातयः॥ पिशाचा राक्षसाः प्रेता विविधा म्लेच्छजातयः। प्रणष्टज्ञानविज्ञाना: स्वच्छन्दाचारचेष्टिताः॥ प्रजा ब्राह्मणपसंस्काराः स्वकर्मकृतनिश्चयाः। ऋषिभिः स्वेन तपसा सृज्यन्ते चापरे परैः॥ आदिदेवसमुद्भूता ब्रह्ममूलाक्षयाव्यया। सा सृष्टिर्मानसी नाम धर्मतन्त्रपरायणा॥ भरद्वाज उवाच ब्राह्मणः केन भवति क्षत्रियो वा द्विजोत्तम। वैश्यः शूद्रश्च विप्रर्षे तद् ब्रूहि वदतां वर॥ भृगुरुवाच जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शुचिः। वेदाध्ययनसम्पन्नः घट्सु : घट्सु कर्मस्ववस्थितः॥ शौचाचारस्थितः सम्यग्विघसाशी गुरुप्रियः। नित्यव्रती सत्यपरः स वै ब्राह्मण उच्यते॥ सत्यं दानमथाद्रोहं आनृशंस्यं त्रपा घृणा। तपश्च दृश्यते यत्र स ब्राह्मण इति स्मृतः॥ क्षत्र सेवते कर्म वेदाध्ययनसंगतः। दानादानरतिर्यस्तु स वै क्षत्रिय उच्यते॥ वणिज्या पशुरक्षा च कृष्यादानरतिः शुचिः। वेदाध्ययनसम्पन्न: स वैश्य इति संज्ञितः॥ सर्वभक्षरतिनित्यं सर्वकर्मकरोऽशुचिः। त्यक्तवेदस्त्वनाचारः स वै शूद्र इति स्मृतः॥ शूद्रे चैतद्भवेल्लक्ष्यं द्विजे तच्च न विद्यते। न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः॥ सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः। एतत् पवित्रं ज्ञानानां तथा चैवात्मसंयमः॥ वार्यौ सर्वात्मना तौ हि श्रेयोघातार्थमुच्छ्रितौ। नित्यं क्रोधाच्छ्रियं रक्षेत् तपो रक्षेच्च मत्सरात्॥ विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः। यस्य सर्वे समारम्भा निराशीर्बन्धना द्विज॥ त्यागे यस्य हुतं सर्वं स त्यागी च स बुद्धिमान्। अहिंस्त्रः सर्वभूतानां मैत्रायणगतश्चरेत्॥ परिग्रहान् परित्यज्य भवेद् बुद्ध्या जितेन्द्रियः। अशोकं स्थानमातिष्ठेदिह चामुत्र चाभयम्॥ तपोनित्येन दान्तेन मुनिना संयतात्मना। अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना॥ इन्द्रियैर्गृह्यते यद् यत् तत्तद् व्यक्तमिति स्थितिः। अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम्॥ अविस्रम्भे न गन्तव्यं विस्रम्भे धारयेन्मनः। मनः प्राणे निगृह्णीयात् प्राणं ब्रह्मणि धारयेत्॥ निर्वेदादेव निर्वाणं न च किञ्चिद् विचिन्तयेत्। सुखं वै ब्राह्मणो ब्रह्म निर्वेदेनाधिगच्छति॥ शौचेन सततं युक्तः सदाचारसमन्वितः। सानुक्रोशश्च भूतेषु तद् द्विजातिषु लक्षणम्॥ भृगुरुवाच सत्यं ब्रह्म तपः सत्यं सत्यं विसृजते प्रजाः। सत्येन धार्यते लोकः स्वर्गं सत्येन गच्छति॥ अनृतं तमसो रूपं तमसा नीयते ह्यधः। तमोग्रस्ता न पश्यन्ति प्रकाशं तमसाऽऽवृताः॥ स्वर्गः प्रकाश इत्याहुनरकं तम एव च। सत्यानृतं तदुभयं प्राप्यते जगतीचरैः॥ तत्राप्येवंविधा लोके वृत्तिः सत्यानृते भवेत्। धर्माधर्मी प्रकाशश्च तमो दुःखं सुखं तथा॥ तत्र यत् सत्यं स धर्मो यो धर्म: स प्रकाशो यः प्रकाशस्तत् सुखमिति। तत्र यदनृतं सोऽधर्मो योऽधर्मस्तत् तमोयत् तमस्तद् दुःखमिति॥ अत्रोच्यते-शारीरैर्मानसैर्दुःखैः सुखैश्चाप्यसुखोदयैः। लोकसृष्टिं प्रपश्यन्तो न मुह्यन्ति विचक्षणाः॥ तत्र दुःखविमोक्षार्थं प्रयतेत विचक्षणः। सुखं ह्यनित्यं भूतानामिहलोके परत्र च।॥ राहुग्रस्तस्य सोमस्य यथा ज्योत्स्ना न भासते। तथा तमोऽभिभूतानां भूतानां नश्यते सुखम्॥ तत् खलु द्विविधं सुखमुच्यते शारीरं मानसं च। इह खल्वमुष्मिश्च लोके वस्तुप्रवृत्तयः सुखार्थमभिधीयन्ते। न ह्यतः परं त्रिवर्गफलं विशिष्टतरमस्ति स एव काम्यो गुणविशेषो धर्मार्थगुणारम्भस्तद्धेतुरस्योत्पत्ति: सुखप्रयोजनार्थ आरम्भः॥ भरद्वाज उवाच यदेतद् भवताभिहितं सुखानां परमा स्थितिरिति न तदुपगृहीमो न ह्येषामृषीणां महति स्थितानामप्राप्य एष काम्यो गुणविशेषो न चैनमभिलषन्ति च तपसि श्रूयते त्रिलोककृद् ब्रह्मा प्रभुरेकाकी तिष्ठति। ब्रह्मचारी न कामसुखेष्वात्मानमवदधाति। अपि च भगवान् विश्वेश्वर उमापतिः काममभिवर्तमानमनङ्गत्वेन शममनयत्। तस्माद् ब्रूमो न तु महात्मभिरयं प्रतिगृहीतो न त्वेषां तावद्विशिष्टो गुणविशेष इति। नैतद् भगवतः प्रत्येमि भगवता तूक्तं सुखान्न परमस्तीति लोकप्रवादो हि द्विविधः फलोदयः सुकृतात् सुखमवाप्यते दुष्कृताद् दुःखमिति॥ भृगुरुवाच अत्रोच्यते-अनृतात् खलु तमः प्रादुर्भूतं ततस्तमो ग्रस्ता अधर्ममेवानुवर्तन्ते न धर्मं क्रोधलोभहिंसानृतादिभिरवच्छन्ना न खल्वस्मिँल्लोके नामुत्र सुखमाजवन्ति। विविधव्याधिरुजोपतापैरवकीर्यन्ते। वधबन्धनपरिक्लेशादिभिश्च क्षुत्पिपासाश्रमकृतैरुपतापैरुपतप्यन्ते। वर्षवातात्युष्णातिशीतकृतैश्च प्रतिभयैः शारीरैर्दुःखैरुपतप्यन्ते। बन्धुधनविनाशविप्रयोगकृतैश्च मानसैः शोकैरभिभूयन्ते जरामृत्युकृतैश्चान्यैरिति॥ यस्त्वेतैः शारीरमानसैर्दुःखैन संस्पृश्यते स सुखं वेद। न चैते दोषाः स्वर्गे प्रादुर्भवन्ति। तत्र खलु भवन्ति॥ सुसुखः पवनः स्वर्गे गन्धश्च सुरभिस्तथा। क्षुत्पिपासा श्रमो नास्ति न जरा न च पापकम्॥ नित्यमेव सुखं स्वर्गे सुखं दुःखमिहोभयम्। नरके दुःखमेवाहुः सुखं तत्परमं पदम्॥ पृथिवी सर्वभूताना जनित्री तद्विधाः स्त्रियः! पुमान् प्रजापतिस्तत्र शुक्रं तेजोमयं विदुः॥ इत्येतल्लोकनिर्माणं ब्रह्मणा विहितं पुरा। प्रजाः समनुवर्तन्ते स्वैः स्वैः कर्मभिरावृताः॥ भरद्वाज उवाच दानस्य किं फलं प्राहुर्धर्मस्य चरितस्य च। तपसश्च सुतप्तस्य स्वाध्यायस्य हुतस्य वा॥ भृगुरुवाच हुतेन शाम्यते पापं स्वाध्यायैः शान्तिरुत्तमा। दानेन भोगानित्याहुस्तपसा स्वर्गमाप्नुयात्॥ दानं तु द्विविधं प्राहुः परत्रार्थमिहैव च। सद्भ्यो यद् दीयते किंचित् तत्परत्रोपतिष्ठते॥ असद्भ्यो दीयते यत्तु तद् दानमिह भुज्यते। यादृशं दीयते दानं तादृशं फलमश्नुते॥ भरद्वाज उवाच किं कस्य धर्माचरणं किंवा धर्मस्य लक्षणम्। धर्मः कतिविधो वापि तद् भवान् वक्तुमर्हति॥ भृगुरुवाच स्वधर्माचरणे युक्ता ये भवन्ति मनीषिणः। तेषां स्वर्गफलावाप्तिर्योऽन्यथा स विमुह्यते॥ भरद्वाज उवाच यदेतच्चातुराश्रम्यं ब्रह्मर्षिविहितं पुरा। तेषां स्वे स्वे समाचारास्तान् मे वक्तुमिहाहसि॥ भृगुरुवाच पूर्वमेव भगवता ब्रह्मणा लोकहितमनुतिष्ठता धर्मसंरक्षणार्थमाश्रमाश्चत्वारोऽभिनिर्दिष्टाः। तत्र गुरुकुलवासमेव प्रथममाश्रममुदाहरन्ति। सम्यग् यत्र शौचसंस्कारनियमव्रतविनियतात्मा उभे संध्ये भास्कराग्निदैवतान्युपस्थाय विहाय तन्त्र्यालस्ये गुरोरभिवादनवेदाभ्यासश्रवणपवित्रीकृतान्तरात्मा त्रिषवणमुपस्पृश्य ब्रह्मचर्याग्निपरिचरणगुरुशुश्रूषानित्यभिक्षाभक्ष्यादि सर्वनिवेदितान्तरात्मा गुरुवचननिर्देशानुष्ठानाप्रतिकूलो गुरुप्रसादलब्धस्वाध्यायतत्परः स्यात्॥ भवति चात्र श्लोकः-गुरुं यस्तु समाराध्य द्विजो वेदमवाप्नुयात्। तस्य स्वर्गफलावाप्तिः सिध्यते चास्य मानसमिति॥ गार्हस्थ्यं खलु द्वितीयमाश्रमं वदन्ति। तस्य समुदाचारलक्षणं सर्वमनुव्याख्यास्यामः। समावृत्तानां सदाचाराणां सहधर्मचर्यफलार्थिना गृहाश्रमो विधीयते। धर्मार्थकामावाप्तिहत्र त्रिवर्गसाधनमपेक्ष्यागहितेन कर्मणा धनान्यादाय स्वाध्यायोपलब्धप्रकर्षेण वा ब्रह्मर्षिनिमितेन वा अद्रिसारगतेन वा। हव्यकव्यनियमाभ्यासदैवतप्रसादोपलब्धेन वा धनेन गृहस्थो गार्हस्थ्यं वर्तयेत्। तद्धि सर्वाश्रमाणां मूलमुदाहरन्ति। गुरुकुलनिवासिनः परिव्राजका ये चान्ये संकल्पितव्रतनि यम धर्मानुष्ठायिनस्तेषामप्यत एव भिक्षाबलिसंविभागाः प्रवर्तन्ते॥ वानप्रस्थानां च द्रव्योपस्कार इति प्रायशाः खल्वेते साधवः साधुपथ्यौदनाः स्वाध्यायप्रसङ्गिनस्तीर्थाभिगमनदेशदशनार्थं पृथिवीं पर्यटन्ति, तेषां प्रत्युस्थानाभिगमनाभिवादनानसूय वाक्प्रदानसुखशक्त्यासनसुखशयनाभ्यवहरिसक्रिया चेति॥ भवन्ति चात्र श्लोकाः-अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते। स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति॥ अपि चात्र यज्ञक्रियाभिर्देवताः प्रीयन्ते। निवापेन पितरो विद्याभ्यासश्रवणधारणेन ऋषयः। अपत्योत्पादनेन प्रजापतिरिति॥ श्लोकौ चात्र भवतः-वात्सल्यात्सर्वभूतेभ्यो वाच्याः श्रोत्रसुखा गिरः। परितापोपघातश्च पारुष्यं चात्र गर्हितम्॥ अवज्ञानमहंकारो दम्भश्चैव विगर्हितः। अहिंसा सत्यमक्रोधः सर्वाश्रमगतं तपः॥ अपि चात्र माल्याभरणवस्त्राभ्यङ्गनित्योपभोगनृत्यगीतवादित्रश्रुतिसुखनयना-भिरामदशनानां प्राप्तिर्भक्ष्यभोज्यलेह्यपेयचोष्याणामभ्यवहार्याणां विविधानामुपभोगः। स्वविहारसंतोष: कामसुखावाप्तिरिति॥ त्रिवर्गगुणनिर्वृत्तिर्यस्य नित्यं गृहाश्रमे। स सुखान्यनुभूयेह शिष्टानां गतिमाप्नुयात्॥ उञ्छवृत्तिर्गृहस्थो यः स्वधर्माचरणे रतः। त्यक्तकामसुखारम्भः स्वर्गस्तस्य न दुर्लभः॥ भृगुरुवाच वानप्रस्थाः खल्वषि धर्ममनुसरन्तः पुण्यानि तीर्थानि नदीप्रस्र वणानि सुविविक्तेष्वरण्येषु मृगमहिषवराहशार्दूल वनगजाकार्णेषु तपस्यन्तोऽनुसंचरन्ति त्यक्तग्राम्यवस्त्राभ्यवहारोपभोगा वन्यौषधि-फलमूलपर्णपरिमितविचित्रनियताहाराः स्थानासनिनो भूमिपाषाणसिकताशर्करावालुकाभस्मशायिनः काशकुशचर्मवल्कलसंवृताङ्गाः केशश्मश्रुनखरोमधारिणो नियतकालोपस्पर्शना अस्कन्दितकालबलिहोमानुष्ठायिनः समित्कुशकुसुमापहारसम्मार्जनलब्धविश्रामाः शीतोष्णवर्षपवनविष्टम्भविभिन्नसर्वत्वचो विविधनियमोपयोगचर्यानुष्ठानविहितपरिशुष्कमांसशोणितत्वस्थिभूता धृतिपराः सत्त्वयोगाच्छरीराण्युद्वहन्ते।॥ यस्त्वेतां नियतश्चर्यां ब्रह्मर्षिविहितां चरेत्। स देहदग्निवद्दोषान् जयेल्लोकांश्च दुर्जयान्॥ परिव्राजकानां पुनराचार:-तद् यथा विमुच्याग्निधनकलत्रपरिबर्हणं संगेष्वात्मनः स्नेहपाशानवधूय परिव्रजन्ति। समलोष्टाश्मकाञ्चनास्त्रिवर्गप्रवृत्तेष्वसक्तबुद्धयो ऽरिमित्रोदासीनानां तुल्यदर्शनाः स्थावरजरायुजाण्डजस्वेदजोद्भिज्जानां भूतानां वाङ्मनः कर्मभिरनभिद्रोहिणो ऽनिकेताः पर्वतपुलिनवृक्षमूल देवतायतनान्यनुचरन्तो वासार्थमुपेयुर्नगरं ग्रामं वा नगरे पञ्चरात्रिका ग्रामे चैकरात्रिकाः प्रविश्य च प्राणधारणार्थं द्विजातीनां भवनान्यसंकीर्णकर्मणामुपतिष्ठेयुः पात्रपतितायाचितभैक्ष्याः काम क्रोधदर्पलोभमोहकार्पण्यदम्भपरिवादाभिमानहिंसानिवृत्ता इति॥ भवति चात्र श्लोकः-अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः। न तस्य सर्वभूतेभ्यो भयमुत्पद्यते क्वचित्॥ कृत्वाग्निहोत्रं स्वशरीरसंस्थं शारीरमग्निं स्वमुखे जुहोति। श्चिताग्निनां स व्रजते हि लोकम्॥ मोक्षाश्रमं यश्चरते यथोक्तं शुचिः सुसंकल्पितमुक्तबुद्धिः। अनिन्धनं ज्योतिरिव प्रशान्तं स ब्रह्मलोकं श्रयते मनुष्यः॥ भरद्वाज उवाच अस्माल्लोकात् परो लोकः श्रूयते नोपलभ्यते। तमहं ज्ञातुमिच्छामि तद् भवान् वक्तुमर्हति॥ भृगुरुवाच उत्तरे हिमवत्पार्वे पुण्ये सर्वगुणान्विते। पुण्यः क्षेभ्यश्च काम्यश्च स परो लोक उच्यते॥ तत्र ह्यपापकर्माणः शुचयोऽत्यन्तनिर्मला:। लोभमोहपरित्यक्ता मानवा निरुपद्रवाः॥ स स्वर्गसदृशो देशस्तत्र ह्युक्ताः शुभा गुणाः। काले मृत्युः प्रभवति स्पृशन्ति व्याधयो न च॥ न लोभः परदारेषु स्वदारनिरतो जनः। नान्योन्यं बध्यते तत्र द्रव्येषु च न विस्मयः। परो ह्यधर्मो नैवास्ति संदेहो नापि जायते॥ कृतस्य तु फलं तत्र प्रत्यक्षमुपलभ्यते। पानासनाशनोपेताः प्रासादभवनाश्रयाः॥ सर्वकामैर्वृताः केचिद्धेमाभरणभूषिताः। प्राणधारणमात्रं तु केषांचिदुपपद्यते। श्रमेण महता केचित् कुर्वन्ति प्राणधारणम्॥ इह धर्मपराः केचित् केचिन्नैकृतिका नराः। सुखिता दुःखितः केचिन्निर्धना धनिनोऽपरे॥ इह श्रमो भयं मोहः क्षुधा तीव्रा च जायते। लोभश्चार्थकृतो नृणां येन मुह्यन्त्यपण्डिताः॥ इह वार्ता बहुविधा धर्माधर्मस्य कारिणः। यस्तद्वेदोभयं प्राज्ञः पाप्मना न स लिप्यते॥ सोपधं निकृतिः स्तेयं परीवादो ह्यसूयिता। परोपघातो हिंसा च पैशुन्यमनृतं तथा॥ एतानासेवते यस्तु तपस्तस्य प्रहीयते। यस्त्वेतान् नाचरेद् विद्वांस्तपस्तस्य प्रवर्धते॥ इह चिन्ता बहुविधा धर्माधर्मस्य कर्मणः। कर्मभूमिरियं लोके इह कृत्वा शुभाशुभम्। शुभैः शुभमवाप्नोति तथाशुभमथान्यथा॥ इह प्रजापतिः पूर्वं देवाः सर्षिगणास्तथा। इष्टदेवतपसः पूता ब्रह्मलोकमुपाश्रिताः॥ उत्तरः पृथिवीभाग: सर्वपुण्यतमः शुभः। इहस्थास्तत्र जायन्ते ये वै पुण्यकृतो जनाः॥ असत्कर्माणि कुर्वन्तस्तिर्यग्योनिषु चापरे। क्षीणायुषस्तथा चान्ये नश्यन्ति पृथिवीतले॥ अन्योन्यभक्षणासक्ता लोभमोहसमन्विताः। इहैव परिवर्तन्ते न ते यान्त्युत्तरां दिशम्॥ ये गुरून् पर्युपासन्ते नियता ब्रह्मचारिणः। पन्थानं सर्वलोकानां विजानन्ति मनीषिणः॥ इत्युक्तोऽयं मया धर्मः संक्षिप्तो ब्रह्मनिर्मितः। धर्माधर्मो हि लोकस्य यो वै वेत्ति स बुद्धिमान्॥ भीष्म उवाच इत्युक्तो भृगुणा राजन् भरद्वाजः प्रतापवान्। भृगुं परमधर्मात्मा विस्मितः प्रत्यपूजयत्॥ एष ते प्रसवो राजन् जगतः सम्प्रकीर्तितः। निखिलेन महाप्राज्ञ किं भूयः श्रोतुमिच्छसि॥ युधिष्ठिर उवाच आचारस्य विधिं तात प्रोच्यमानं त्वयानघ। श्रोतुमिच्छामि धर्मज्ञ सर्वज्ञो ह्यसि मे मतः॥ भीष्म उवाच दुराचारा दुर्विचेष्टा दुष्प्रज्ञाः प्रियसाहसाः। असंतस्विति विख्याताः संतश्चाचारलक्षणा:॥ पुरीषं यदि वा मूत्रं ये न कुर्वन्ति मानवाः। राजमार्गे गवां मध्ये धान्यमध्ये च ते शुभाः॥ शौचमावश्यकं कृत्वा देवतानां च तर्पणम्। धर्ममाहुर्मनुष्याणामुपस्पृश्य नदी तरेत्॥ सूर्यं सदोपतिष्ठेत न च सूर्योदये स्वपेत्। सायं प्रातर्जपेत् संध्यां तिष्ठन् पूर्वां तथेतराम्॥ पञ्चाो भोजनं भुज्यात् प्राङ्मुखो मौनमास्थितः। न निन्द्यादन्नभक्ष्यांश्च स्वाद्वस्वादु च भक्षयेत्॥ आर्द्रपाणिः समुत्तिष्ठेन्नार्द्रपादः स्वपेन्निशि। देवर्षिर्नारदः प्राह एतदाचारलक्षणम्॥ शुचिं देशमनड्वाहं देवगोष्ठं चतुष्पथम्। ब्राह्मणं धार्मिकं चैन्य नित्यं कुर्यात् प्रदाक्षणम्॥ अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च। सामान्यं भोजनं भृत्यैः पुरुषस्य प्रशस्यते॥ सायं प्रातर्मनुष्याणामशनं वेदनिर्मितम्। नान्तरा भोजनं दृष्टमुपवासी तथा भवेत्॥ होमकाले तथा जुह्वनृतकाले तथा व्रजन्। अनन्यस्त्रीजनः प्राज्ञो ब्रह्मचारी तथा भवेत्॥ अमृतं ब्राह्मणोच्छिष्टं जनन्या हृदयं कृतम्। तज्जनाः पर्युपासन्ते सत्यं सन्तः समासते॥ लोष्टमदा तृणच्छेदो नखवादी तु यो नरः। नित्योच्छिष्टः शंकुशुको नेहायुर्विन्दते महत्॥ यजुषा संस्कृतं मांसं निवृत्ता मांसभक्षणात्। न भक्षयेद् वृथामांसं पृष्ठमांस च वर्जयेत्॥ स्वदेशे परदेशे वा अतिथि नोपवासयेत्। काम्यकर्मफलं लब्ध्वा गुरूणामुपपादयेत्॥ गुरुभ्य आसनं देयं कर्तव्यं चाभिवादनम्। गुरूनभ्यर्च्य युज्यन्ते आयुषा यशसा श्रिया॥ नेक्षेतादित्यमुद्यन्तं न च नग्नां परस्त्रियम्। मैथुनं सततं धर्म्यं गुह्ये चैव समाचरेत्॥ तीर्थानां हृदयं तीर्थं शुचानां हृदयं शुचिः। सर्वमार्यकृतं चौक्ष्यं वालसंस्पर्शनानि च।॥ दर्शने दर्शने नित्यं सुखप्रश्नमुदाहरेत्। सायं प्रातश्च विप्राणां प्रदिष्टमभिवादनम्॥ देवागारे गवां मध्ये ब्राह्मणानां क्रियापथे। स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत्॥ सु शृतं पायसे सायं प्रातश्च विप्राणां पूजनं च यथाविधि। पण्यानां शोभते पण्यं कृषीणां बाद्यते कृषिः॥ बहुकारं च सस्यानां बाह्ये वाहो गवां तथा। सम्पन्न भोजने नित्यं पानीये तर्पणं तथा॥ ब्रूयाद् यवाग्वां कृसरे तथा। श्मश्रुकर्मणि सम्प्राप्ते क्षुते स्नानेऽथ भोजने। व्याधितानां च सर्वेषामायुष्यमभिनन्दनम्॥ प्रत्यादित्यं न मेहेत न पश्येदात्मनः शकृत्। सह स्त्रियाथ शयनं सह भोज्यं च वर्जयेत्॥ त्वंकारं नामधेयं च ज्येष्ठानां परिवर्जयेत्। अवराणां समानानामुभयेषां न दुष्यति॥ हृदयं पापवृत्तानां पापमाख्याति वैकृतम्। ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने॥ ज्ञानपूर्वकृतं पापं छादयत्यबहुश्रुतः। नैनं मनुष्याः पश्यन्ति पश्यन्त्येव दिवौकसः॥ पापेनापिहितं पापं पापमेवानुवर्तते। धर्मेणापिहितो धर्मो धर्ममेवानुवर्तते। धार्मिकेण कृतो धर्मो धर्ममेवानुवर्तते॥ पापं कृतं न स्मरतीह मूढो विवर्तमानस्य तदेति कर्तुः। राहुयथा चन्द्रमुपैति चापि तथाबुधं पापमुपैति कर्म॥ आशया संचितं द्रव्यं दुःखेनैवोपभुज्यते। तद् बुधा न प्रशंसन्ति मरणं न प्रतीक्षते।॥ मानसं सर्वभूतानां धर्ममाहुर्मनीषिणः। तस्मात् सर्वेषु भूतेषु मनसा शिवमाचरेत्॥ एक एव चरेद् धर्मं नास्ति धर्मे सहायता। केवलं विधिमासाद्य सहायः किं करिष्यति॥ धर्मो योनिर्मनुष्याणां देवानाममृतं दिवि। प्रेत्यभावे सुखं धर्माच्छश्चत्तैरुपभुज्यते॥ युधिष्ठिर उवाच अध्यात्मं नाम यदिदं पुरुषस्येह चिन्त्यते। यदध्यात्मं यथा चैतत् तन्मे ब्रूहि पितामह॥ कुतः सृष्टमिदं विश्वं ब्रह्मन् स्थावरजङ्गमम्। प्रलये कथमभ्येति तन्मे वक्तुमिहार्हसि॥ भीष्म उवाच अध्यात्ममिति मां पार्थ यदेतदनुपृच्छसि। तद् व्याख्यास्यामि ते तात श्रेयस्कर तमं सुखम्॥ सृष्टिप्रलयसंयुक्तमाचायैः परिदर्शितम्। यज्ज्ञात्वा पुरुषो लोके प्रीतिं सौख्यं च विन्दति। फललाभश्च तस्य स्यात् सर्वभूतहितं च तत्॥ पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्। महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ॥ यतः सृष्टानि तत्रैव तानि यान्ति पुनः पुनः। महाभूतानि भूतेभ्यः सागरस्योर्मयो यथा।॥ प्रसार्य च यथाङ्गानि कूर्मः संहरते पुनः। तद्वद् भूतानि भूतात्मा सृष्टानि हरते पुनः॥ महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत्। अकरोत् तेषु वैषम्यं तत्तु जीवो न पश्यति॥ शब्दः श्रोत्रं तथा स्वानि त्रयमाकाशयोनिजम्। वायोः स्पर्शस्तथा चेष्टा त्वक् चैव त्रितयं स्मृतम्॥ रूपं चक्षुस्तथा पाकस्त्रिविधं तेज उच्यते। रस: क्लेदश्च जिह्वा च त्रयो जलगुणाः स्मृताः॥ नेयं घ्राणं शरीरं च एते भूमिगुणास्त्रयः। महाभूतानि पञ्चैव षष्ठं च मन उच्यते॥ इन्द्रियाणि मनश्चैव विज्ञानान्यस्य भारत। सप्तमी बुद्धिरित्याहुः क्षेत्रज्ञः पुनरष्टमः॥ चक्षुरालोचनायैव संशयं कुरुते मनः। बुद्धिरध्यवसानाय क्षेत्रज्ञः : साक्षिवत् स्थितः॥ उर्ध्वं पादतलाभ्यां यदक्चिोर्ध्वं च पश्यति। एतेन सर्वमेवेदं विद्ध्यभिव्याप्तमन्तरम्॥ पुरुषैरिन्द्रियाणीह वेदितव्यानि कृत्स्नशः। तमो रजश्च सत्त्वं च तेऽपि भावास्तदाश्रिताः॥ एतां बुद्ध्वा नरोबुद्ध्या भूतानामागतिं गतिम्। समवेक्ष्य शनैश्चैव लभते शममुत्तमम्॥ गुणैर्नेनीयते बुद्धिर्बुद्धेरेवन्द्रियाण्यपि। मनःषष्ठानि सर्वाणि तदभावे कुतो गुणाः॥ इति तन्मयमेवैतत् सर्वं स्थावरजङ्गमम्। प्रलीयते चोद्भवति तस्मान्निर्दिष्यते तथा॥ येन पश्यति तच्चक्षुः शृणोति श्रोत्रमुच्यते। जिघ्रति घ्राणमित्याहू रसं जानाति जिह्वया॥ त्वचा स्पर्शयते स्पर्श बुद्धिर्विक्रियतेऽसकृत्। येन प्रार्थयते किञ्चित् तदा भवति तन्मनः॥ अधिष्ठानानि वुद्धेर्हि पृथगानि पञ्चधा। इन्द्रियाणीति यान्याहुस्तान्यदृश्योऽधितिष्ठति॥ पुरुष तिष्ठती बुद्धिस्त्रिषु भावेषु वर्तते। कदाचिल्लभते प्रीतिं कदाचिदनुशोचति॥ न सुखेन न दुःखेन कदाचिदपि वर्तते। एवं नराणां मनसि त्रिषु भावेष्ववस्थिता॥ सेयं भावात्मिका भावांस्त्रीनेतानतिवर्तते। सरितां सागरो भर्ता महावेलामिवोर्मिमान्॥ अतिभावगता बुद्धिर्भावे मनसि वर्तते। प्रवर्तमानं तु रजस्तद्भावमनुवर्तते॥ इन्द्रियाणि हि सर्वाणि प्रवर्तयति सा तदा। ततः सत्त्वं तमोभावः प्रीतियोगात् प्रवर्तते॥ प्रीतिः सत्त्वं रजः शोकस्तमो मोहस्तु ते त्रयः। ये ये च भावा लोकेऽस्मिन् सर्वेष्वेतेषु वै त्रिषु॥ इति बुद्धिगतिः सर्वा व्याख्याता तव भारत। इन्द्रियाणि च सर्वाणि विजेतव्यानि धीमता॥ सत्त्वं रजस्तमश्चैव प्राणिनां संश्रिताः सदा। त्रिविधा वेदना चैव सर्वसत्त्वेषु दृश्यते॥ सात्त्विकी राजसी चैव तामसी चेति भारत। सुखस्पर्शः सत्त्वगुणो दुःखस्पर्शो रजोगुणः। तमोगुणेन संयुक्तौ भवतोऽव्यावहारिकौ॥ तत्र यत् प्रीतिसंयुक्ते काये मनसि वा भवेत्। वर्तते सात्त्विको भाव इत्याचक्षीत तत् तथा॥ अथ यद् दुःखसंयुक्तमप्रीतिकरमात्मनः। प्रवृत्तं रज इत्येव तन्न संरभ्य चिन्तयेत्॥ अथ यन्मोहसंयुक्तमव्यक्तविषयं भवेत्। अप्रतय॑मविज्ञेयं तमस्तदुपधारयेत्॥ प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता। कथंचिदभिवर्तन्त इत्येते सात्त्विका गुणाः॥ अतुष्टिः परितापश्च शोको लोभस्तथाक्षमा। लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुभिः॥ अवमानस्तथा मोहः प्रमादः स्वप्नतन्द्रिता। कथंचिदभिवर्तन्ते विविधास्तामसा गुणाः॥ दूरगं बहुधागामि प्रार्थनासंशयात्मकम्। मनः सुनियतं यस्य स सुखी प्रेत्य चेह च॥ सत्त्वक्षेत्रज्ञयोरेतदन्तरं पश्य सूक्ष्मयोः। सृजते तु गुणानेक एको न सृजते गुणान्॥ मशकोदुम्बरौ वापि सम्प्रयुक्तौ यथा सदा। अन्योन्यमेतौ स्यातां च सम्प्रयोगस्तथा तयोः॥ पृथग्भूतौ प्रकृत्या तौ सम्प्रयुक्तौ च सर्वदा। यथा मत्स्यो जलं चैव सम्प्रयुक्तौ तथैव तौ॥ न गुणा विदुरात्मानं स गुणान् वेत्ति सर्वशः। परिद्रष्टा गुणानां तु संसृष्टान्मन्यते तथा॥ इन्द्रियैस्तु प्रदीपार्थं कुरुते बुद्धिसप्तमैः। निर्विचेष्टैरजानद्भिः परमात्मा प्रदीपवत्॥ सृजते हि गुणान् सत्त्वं क्षेत्रज्ञः परिपश्यति। सम्प्रयोगस्तयोरेष सत्त्वक्षेत्रज्ञयोधुवः॥ आश्रयो नास्ति सत्त्वस्य क्षेत्रज्ञस्य च कश्चन। सत्त्वं मन: संसृजते न गुणान् वै कदाचन॥ रश्मीस्तेषां स मनसा यदा सम्यनियच्छति। तदा प्रकाशतेऽस्यात्मा घटे दीपो ज्वलन्निव॥ त्यक्त्वा यः प्राकृतं कर्म नित्यमात्मरतिर्मुनिः। सर्वभूतात्मभूस्तस्मात् स गच्छेदुत्तमां गतिम्॥ यथा वारिचर: पक्षी सलिलेन न लिप्यते। एवमेव कृतप्रज्ञो भूतेषु परिवर्तते॥ एवं स्वभावमेवैतत् स्वबुद्ध्या विहरेन्नरः। अशोचन्नप्रहृष्यंश्च समो विगतमत्सरः॥ स्वभावयुक्त्या युक्तस्तु स नित्यं सृजते गुणान्। उर्णनाभिर्यथा सूत्रं विज्ञेयास्तन्तुवद् गुणाः।४९।। प्रध्वस्ता न निवर्तन्ते निवृत्तिर्नोपलभ्यते। प्रत्यक्षेण परोक्षं तदनुमानेन सिध्यति॥ एवमेकेऽध्यवस्यन्ति निवृत्तिरिति चापरे। उभयं सम्प्रधायैतद् व्यवस्येत यथामति॥ इतीमं हृदयग्रन्थिं बुद्धिभेदमयं दृढम्। विमुच्य सुखमासीत न शोचेच्छिन्नसंशयः॥ मलिनाः प्राप्नुयुः शुद्धिं यथा पूर्णा नदी नराः। अवगाह्य सुविद्वांसो विद्धि ज्ञानमिदं तथा॥ महानद्या हि पारशस्तप्यते न तदन्यथा। न तु तुष्यति तत्त्वज्ञः फले ज्ञाते तरत्युत॥ एनं ये विदुराध्यात्म केवलं ज्ञानमुत्तमम्॥ एतां बुद्ध्वा नरः सर्वां भूतानामागतिं गतिम्। अवेक्ष्य च शनैर्बुद्ध्या लभते शमनं ततः॥ त्रिवर्गो यस्य विदितः प्रेक्ष्य यश्च विमुञ्चति। अन्विष्य मनसा युक्तस्तत्त्वदर्शी निरुत्सुकः॥ न चात्मा शक्यते द्रष्टुमिन्द्रियैश्च विभागशः। तत्र तत्र विसृष्टैश्च दुर्वायैश्चाकृतात्मभिः॥ एतद् बुद्ध्वा भवेद् बुद्धः किमन्यद् बुद्धलक्षणम्। विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः॥ न भवति विदुषां ततो भयं यदविदुषां सुमहद्भयं भवेत्। न हि गतिरधिकास्ति कस्यचित् सति हि गुणे प्रवदन्त्यतुल्यताम्॥ यः करोत्यनभिसंधिपूर्वकं तच्च निर्गुदति यत्पुराकृतम्। नाप्रियं तदुभयं कुतः प्रियं तस्य तज्जनयतीह सर्वतः॥ स्तस्य तज्जनयतीह सर्वतः॥ लोक आतुरजनान्निरावशं स्तत्तदेव बहु पश्य शोचतः। तत्र पश्य कुशलानशोचतो ये विदुस्तदुभयं पदं सताम्॥ भीष्म उवाच हन्त वक्ष्यामि ते पार्थ ध्यानयोगं चतुर्विधम्। यं ज्ञात्वा शाश्वती सिद्धिं गच्छन्तीह महर्षयः॥ यथा स्वनुष्ठितं ध्यानं तथा कुर्वन्ति योगिनः। महर्षयो ज्ञानतृप्ता निर्वाणगतमानसाः॥ नावर्तन्ते पुनः पार्थ मुक्ताः संसारदोषतः। जन्मदोषपरिक्षीणा: स्वभावे पर्यवस्थिताः॥ निर्द्वन्द्वा नित्यसत्त्वस्था विमुक्ता नियमस्थिताः। असङ्गान्यविवादीनि मनःशान्तिकराणि च॥ तत्र ध्यानेन संश्लिष्टमेकाग्रं धारयेन्मनः। पिण्डीकृत्येन्द्रियग्राममासीन: काष्ठवन्मुनिः॥ शब्दं न विन्देच्छ्रोत्रेण स्पर्श त्वचा न वेदयेत्। रूपं न चक्षुषा विद्याज्जिह्वया न रसांस्तथा॥ प्रेयाण्यपि च सर्वाणि जह्याद् ध्यानेन योगवित्। पञ्चवर्गप्रमाथीनि नेच्छेच्चैतानि वीर्यवान्॥ ततो मनसि संगृह्य पञ्चवर्ग विचक्षणः। समादध्यान्मनो भ्रान्तमिन्द्रियैः सह पञ्चभिः॥ विसंचारि निरालम्बं पञ्चद्वारं चलाचलम्। पूर्वं ध्यानपथे धीरः समादध्यान्मोऽन्तरा॥ इन्द्रियाणि मनश्चैव यदा पिण्डीकरोत्ययम्। एष ध्यानपथः पूर्वो मया समनुवर्णितः॥ तस्य तत् पूर्वसंरुद्धमात्मनः षष्ठमान्तरम्। स्फुरिष्यति समुद्घान्ता विद्युदम्बुधरे यथा॥ जलविन्दुर्यथा लोल: पर्णस्थः सर्वतश्चलः। एवमेवास्य चित्तं च भवति ध्यानवर्त्मनि॥ समाहितं क्षणं किञ्चिद् ध्यानवर्त्मनि तिष्ठति। पुनर्वायुपथं भ्रान्तं मनो भवति वायुवत्॥ अनिर्वेदो गतक्लेशो गततन्द्रिरमत्सरी। समादध्यात् पुनश्चेतो ध्यानेन ध्यानयोगवित्॥ विचारश्च विवेकश्च वितर्कश्चपजायते। मुनेः समादधानस्य प्रथमं ध्यानमादितः॥ मनसा क्लिश्यमानस्तु समाधानं च कारयेत्। न निर्वेदं मुनिर्गच्छेत् कुर्यादेवात्मनो हितम्॥ पांसुभस्मकरीषाणां यथा वै राशयश्चिताः। सहसा वारिणा सिक्ता न यान्ति परिभावनम्॥ किञ्चित् स्निग्धं यथा च स्याच्छुष्कचूर्णमभावितम्। क्रमशस्तु शनैर्गच्छेत् सर्वं तत्परिभावनम्॥ एवमेवेन्द्रियग्रामं शनैः सम्परिभावयेत्। संहरेत् क्रमशश्चैव स सम्यक् प्रशमिष्यति॥ स्वयमेव मनश्चैवं पञ्चवर्गं च भारत। पूर्वं ध्यानपथे स्थाप्य नित्ययोगेन शाम्यति॥ न तत्पुरुषकारेण न च दैवेन केनचित्। सुखमेष्यति तत् तस्य यदेवं संयतात्मनः॥ सुखे तेन संयुक्तो रंस्यते ध्यानकर्मणि। गच्छन्ति योगिनो ह्येवं निर्वाणां तन्निरामयम्॥ युधिष्ठिर उवाच चातुराश्रम्यमुक्तं ते राजधर्मास्तथैव च। नानाश्रयाश्च बहव इतिहासाः पृथग्विधाः॥ श्रुतास्त्वत्तः कथाश्चैव धर्मयुक्ता महामते। संदेहोऽस्ति तु कश्चिन्मे तद् भवान् वक्तुमर्हति॥ जापकानां फलावाप्तिं श्रोतुमिच्छामि भारत। कं फलं जपतामुक्तं क्व वा तिष्ठन्ति जापकाः॥ जप्यस्य च विधिं कृत्स्नं वक्तुमर्हसि मेऽनघ। जापका इति किञ्चैतत् सांख्ययोगक्रियाविधिः॥ किं यज्ञविधिरेवैष किमेतज्जप्यमुच्यते। एतन्मे सर्वमाचक्ष्व सर्वज्ञो ह्यसि मे मतः॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। यमस्य यत् पुरावृत्तं कालस्य ब्राह्मणस्य च॥ सांख्ययोगौ तु यावुक्तौ मुनिभिर्मोक्षदर्शिभिः। संन्यास एव वेदान्ते वर्तते जपनं प्रति॥ वेदवादाश्च निर्वृत्ताः शान्ता ब्रह्मण्यवस्थिताः। सांख्ययोगौ तु यावुक्तौ मुनिभिः समदर्शिभिः॥ मार्गी तावप्युभावेतौ संश्रितौ न च संश्रितौ। यथा संश्रूयते राजन् कारणं चात्र वक्ष्यते॥ मन:समाधिरत्रापि तथेन्द्रियजयः स्मृतः। सत्यमग्निपरीचारो विविक्तानां च सेवनम्॥ ध्यानं तपो दमः क्षान्तिरनसूया मिताशनम्। विषयप्रतिसंहारो मितजल्पस्तथा शमः॥ एष प्रवर्तको यज्ञो निवर्तकमथो शृणु। यथा निवर्तते कर्म जपतो ब्रह्मचारिणः॥ एतत् सर्वमशेषेण यथोक्तं परिवर्तयेत्। निवृत्तं मार्गमासाद्य व्यक्ताव्यक्तमनाश्रयम्॥ कुशोच्चयनिषण्णः सन् कुशहस्तः कुशैः शिखी। कुशैः परिवृतस्तस्मिन् मध्ये छन्नः कुशैस्तथा॥ विषयेभ्यो नमस्कुर्याद् विषयान्न च भावयेत्। साम्यमुत्पाद्य मनसा मनस्येव मनो दधत्॥ तद् धिया ध्यायति ब्रह्म जपन् वै संहिताम् हिताम्। संन्यस्यत्यथवा तां वै समाधौ पर्यवस्थितः।१६॥ ध्यानमुत्पादयत्यत्र संहिताबलसंश्रयात्। शुद्धात्मा तपसा दान्तो निवृत्तद्वेषकामवान्॥ अरागमोहो निर्द्वन्द्वो न शोचति न सज्जते। न कर्ता कारणानां च न कार्याणामिति स्थितिः॥ न चाहङ्कारयोगेन मनः प्रस्थापयेत् क्व चित्। न चार्थग्रहणे युक्तो नावमानी न चाक्रियः॥ ध्यानक्रियापरो युक्तो ध्यानवान् ध्याननिश्चयः। ध्याने समाधिमुत्पाद्य तदपि त्यजति क्रमात्॥ स वै तस्मावस्थायां सर्वत्यागकृतः सुखम्। निरिच्छस्त्यजति प्राणान् ब्राह्मीं संविशते तनुम्॥ अथवा नेच्छते तत्र ब्रह्मकायनिषेवणम्। उत्क्रामति च मार्गस्थो नैव क्वचन जायते॥ आत्मबुद्ध्या समास्थाय शान्तीभूतो निरामयः। अमृतं विरजः शुद्धमात्मानं प्रतिपद्यते॥ युधिष्ठिर उवाच गतीनामुत्तमा प्राप्तिः कथितां जापकेष्विह। एकैवैषा गतिस्तेषामुत यान्त्यपरामपि।॥ भीष्म उवाच शृणुष्वावहितो राजन् जापकानां गतिं विभो। यथा गच्छन्ति निरयाननेकान् पुरुषर्षभ॥ यथोक्तपूर्वं पूर्वं यो नानुतिष्ठति जापकः। एकदेशक्रियश्चात्र निरयं स च गच्छति॥ अवमानेन कुरुते न प्रीयति न हृष्यति। ईदृशो जापको याति निरयं नात्र संशयः॥ अहङ्कारकृतश्चैव सर्वे निरयगामिनः। परावमानी पुरुषो भविता निरयोपगः॥ अभिध्यापूर्वकं जप्यं कुरुते यश्च मोहितः। यत्राभिध्यां स कुरुते तं वै निरयमृच्छति॥ अथैश्वर्यप्रवृत्तेषु जापकस्तत्र रज्यते। स एव निरयस्तस्य नासौ तस्मात् प्रमुच्यते॥ रागेण जापको जष्यं कुरुते तत्र मोहितः। यत्रास्य रागः पतति तत्र तत्रोपपद्यते॥ दुर्बुद्धिरकृतप्रज्ञश्चले मनसि तिष्ठति। चलामेव गतिं याति निरयं वा नियच्छति॥ अकृतप्रज्ञको बालो मोहं गच्छति जापकः। स मोहान्निरयं याति तत्र गत्वानुशोचति॥ दृढग्राही करोमीति जाप्यं जति जापकः। न सम्पूर्णो न संयुक्तो निरयं सोऽनुगच्छति॥ युधिष्ठिर उवाच अनिवृत्तं परं यत्तदव्यक्तं ब्रह्मणि स्थितम्। तद्भूतो जापकः कस्मात् स शरीरमिहाविशेत्॥ भीष्म उवाच दुष्प्रज्ञानेन निरया बहवः समुदाहृताः। प्रशस्तं जापकत्वं च दोषाश्चैते तदात्मकाः॥ युधिष्ठिर उवाच कीदृशं निरयं याति जापको वर्णयस्व मे। कौतूहलं हि राजन् मे तद् भवान् वक्तुमर्हति॥ भीष्म उवाच धर्मस्यांशप्रसूतोऽसि धर्मिष्ठोऽसि स्वभावतः। धर्ममूलाश्रयं वाक्यं शृणुष्वावहितोऽनध॥ अमूनि यानि स्थानानि देवानां परमात्मनाम्। नानासंस्थानवर्णानि नानारूपफलानि च।॥ दिव्यानि कामचारीणि विमानानि सभास्तथा। आक्रीडा विविधा राजन् पद्मिन्यश्चैव काञ्चनाः॥ चतुर्णा लोकपालानां शुक्रस्याथ बृहस्पतेः। मरुतां विश्वदेवानां साध्यानामश्विनोरपि॥ रुद्रादित्यवसूनां च तथान्येषां दिवौकसाम्। एते वै निरयास्तात स्थानस्य परमात्मनः॥ अभयं चानिमित्तं च न तत् क्लेशसमावृतम्। द्वाभ्यां मुक्तं त्रिभिर्मुक्तमष्टाभिस्त्रिभिरेव च॥ चतुर्लक्षणवर्जं तु चतुष्कारणवर्जितम्। अप्रहर्षमनानन्दमशोकं विगतक्लमम्॥ कालः सम्पद्यते तत्र कालस्तत्र न वै प्रभुः। स कालस्य प्रभू राजन् स्वर्गस्यापि तथेश्वरः॥ आत्मकेवलतां प्राप्तस्तत्र गत्वा न शोचति। ईदृशं परमं स्थानं निरयास्ते च तादृशाः॥ एते ते निरयाः प्रोक्ताः सर्व एव यथातथम्। तस्य स्थानवरस्येह सर्वे निरयसंज्ञिता:॥ युधिष्ठिर उवाच कालमृत्युयमानां ते इक्ष्वाकोर्ब्राह्मणस्य च। विवादो व्याहतः पूर्वं तद् भवान् वक्तुमर्हति॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। इक्ष्वाकोः सूर्यपुत्रस्य तद् वृत्तं ब्राह्मणस्य च॥ कालस्य मृत्योश्च तथा यद् वृत्तं तन्निबोध मे। यथा स तेषां संवादो यस्मिन् स्थानेऽपि चाभवत्॥ ब्राह्मणो जापकः कश्चिद् धर्मवृत्तो महायशाः। षडङ्गविन्महाप्राज्ञः पैप्पलादिः स कौशिकः॥ तस्यापरोक्षं विज्ञानं षडङ्गेषु बभूव ह। वेदेषु चैव निष्णातो हिमवत्पादसंश्रयः॥ सोद्यं ब्राह्म तपस्तेपे संहितां संयतो जपन्। तस्य वर्षसहस्रं तु नियमेन तथा गतम्॥ स देव्या दर्शितः साक्षात् प्रीतास्मीति तदा किल। जष्यमावर्तयंस्तूष्णीं न स तां किञ्चिदब्रवीत्॥ तस्यानुकम्पया देवी प्रीता समभवत् तदा। वेदमाता ततस्तस्य तज्जप्यं समपूजयत्॥ समाप्तजप्यस्तूत्थाय शिरसा पादयोस्तदा। पपात देव्या धर्मात्मा वचनं चेदमब्रवीत्॥ दिष्ट्या देवि प्रसन्ना त्वं दर्शनं चागता मम। यदि चापि प्रसन्नासि जप्ये मे रमतां मनः॥ सावित्र्युवाच किं प्रार्थयसि विप्रर्षे किं चेष्टं करवाणि ते। प्रब्रूहि जपतां श्रेष्ठ सर्वं तत् ते भविष्यति॥ इत्युक्तः स तदा देव्या विप्रः प्रोवाच धर्मवित्। जप्यं प्रति ममेच्छेयं वर्धत्विति पुनः पुनः॥ मनसश्च समाधिर्मे वर्धेताहरहः शुभे। तत् तथेति ततो देवी मधुरं प्रत्यभाषत॥ इदं चैवापरं प्राह देवी तत्प्रियकाम्यया। निरयं नैव याता त्वं यत्र याता द्विजर्षभाः॥ यास्यसि ब्रह्मणः स्थानमनिमित्तमनिन्दितम्। साधये भविता चैतद् यत्त्वयाहमिहार्थिता॥ नियतो जप चैकाग्रो धर्मस्त्वां समुपैष्यति। कालो मृत्युर्यमश्चैव समायास्यन्ति तेऽन्तिकम्॥ भविता च विवादोऽत्र तव तेषां च धर्मतः। भीष्म उवाच एवमुक्त्वा भगवती जगाम भवन स्वकम्॥ ब्राह्मणोऽपि जपन्नास्ते दिव्यं वर्षशतं तथा। सदा दान्तो जितक्रोधः सत्यसंधोऽनसूयकः॥ समाप्ते नियमे तस्मिन्नथ विप्रस्य धीमतः। साक्षात् प्रीतस्तदा धर्मो दर्शयामास तं द्विजम्॥ धर्म उवाच द्विजाते पश्य मां धर्ममहं त्वां द्रष्टुमागतः। जप्यस्यास्य फलं यत्तत् सम्प्राप्तं तच्च मे शृणु॥ जिता लोकास्त्वया सर्वे ये दिव्या ये च मानुषाः। देवानां निलयान् साधो सर्वानुत्क्रम्य यास्यसि॥ प्राणत्यागं कुरु मुने गच्छ लोकान् यथेप्सितान्। त्यक्त्वाऽऽत्मनः शरीरं च ततो लोकानवाप्स्यसि॥ ब्राह्मण उवाच किं नु लोकैर्हि मे धर्म गच्छ त्वं च यथासुखम्। बहुदुःखसुखं देहं नोत्सृजेयमहं विभो॥ धर्म उवाच अवश्यं भोः शरीरं ते त्यक्तव्यं मुनिपुङ्गव। स्वर्गमारोह भो विप्र किं वा वै रोचतेऽनघ॥ ब्राह्मण उवाच न रोचये स्वर्गवासं विना देहमहं विभो। गच्छ धर्म न मे श्रद्धा स्वर्गं गन्तुं विनाऽऽत्मना॥ धर्म उवाच अलं देहे मनः कृत्वा त्यक्त्वा देहं सुखी भव। गच्छ लोकानरजसो यत्र गत्वा न शोचसि॥ ब्राह्मण उवाच रमे जपन् महाभाग किं लोकैः सनातनैः। सशरीरेण गन्तव्यं मया स्वर्गं न वा विभो॥ नु धर्म उवाच यदि त्वं नेच्छसे त्यक्तुं शरीरं पश्य वै द्विजा एष कालस्तथा मृत्युर्यमश्च त्वामुपागताः॥ भीष्म उवाच अथ वैवस्वत: कालो मृत्युश्च त्रितयं विभो। ब्राह्मणं तं महाभागमुपगम्येदमब्रुवन्॥ यम उवाच तपसोऽस्य सुतप्तस्य तथा सुचरितस्य च। फलप्राप्तिस्तव श्रेष्ठा यमोऽहं त्वामुपब्रुवे।॥ काल उवाच यथावदस्य जप्यस्य फलं प्राप्तमनुत्तमम्। कालस्ते स्वर्गमारोढुं कालोऽहं त्वामुपागतः॥ मृत्युरुवाच मृत्यु मां विद्धि धर्मज्ञ रूपिणं स्वयमागतम्। कालेन चोदितो विप्र त्वामितो नेतुमद्य वै॥ ब्राह्मण उवाच स्वागतं सूर्यपुत्राय कालाय च महात्मने। मृत्यवे चाथ धर्माय किं कार्यं करवाणि वः॥ भीष्म उवाच अयं पाद्यं च दत्त्वा स तेभ्यस्तत्र समागमे। अब्रवीत् परमप्रीतः स्वशक्त्या किं करोमि वः॥ तस्मिन्नेवाथ काले तु तीर्थयात्रामुपागतः। इक्ष्वाकुरगमत् तत्र समेता यत्र ते विभो॥ सर्वानेव तु राजर्षिः सम्पूज्याथ प्रणम्य च। कुशलप्रशनमकरोत् सर्वेषां राजसत्तमः॥ तस्मै सोऽथासनं दत्त्वा पाद्यमर्थ्य तथैव च। अब्रवीद् ब्राह्मणो वाक्यं कृत्वा कुशलसंविदम्॥ स्वागतं ते महाराज ब्रूहि यद् यदिहेच्छसि। स्वशक्त्या किं करोमीह तद् भवान् प्रब्रवीतु माम्।।३८। राजोवाच राजाहं ब्राह्मणश्च त्वं यदा षट्कर्मसंस्थितः। ददानि वसु किंचित्ते प्रथितं तद् वदस्व मे॥ ब्राह्मण उवाच द्विविधा ब्राह्मणा राजन् धर्मश्च द्विविधः स्मृतः। प्रवृत्ताश्च निवृत्ताश्च निवृत्तोऽहं प्रतिग्रहात्॥ तेभ्यः प्रयच्छ दानानि ये प्रवृत्ता नराधिप। अहं न प्रतिगृह्णामि किमिष्टं किं ददामि ते। ब्रूहि त्वं नृपतिश्रेष्ठ तपसा साधयामि किम्॥ राजोवाच क्षत्रियोऽहं न जानामि देहीति वचनं क्वचित्। प्रयच्छ युद्धमित्येवंवादिनः स्मो द्विजोत्तम॥ ब्राह्मण उवाच तुष्यसि त्वं स्वधर्मेण तथा तुष्टा वयं नृप। अन्योन्यस्यान्तरं नास्ति यदिष्टं तत् समाचर॥ राजोवाच स्वशक्त्याहं ददानीति त्वया पूर्वमुदाहृतम्। याचे त्वां दीयतां मह्यं जप्यस्यास्य फलं द्विज॥ ब्राह्मण उवाच युद्धं मम सदा वाणी याचतीति विकत्थसे। न च युद्धं मया साधु किमर्थं याचसे पुनः॥ राजोवाच वाग्वज्रा ब्राह्मणाः प्रोक्ताः क्षत्रिया बाहुजीविनः। वाग्युद्धं तदिदं तीवं मम विप्र त्वया सह॥ ब्राह्मण उवाच सैवाद्यापि प्रतिज्ञा मे स्वशक्त्या किं प्रदीयताम्। ब्रूहि दास्यामि राजेन्द्र विभवे सति मा चिरम्॥ राजोवाच यत्तद् वर्षशतं पूर्ण जप्यं वै जपता त्वया। फलं प्राप्तं तत् प्रयच्छ मम दित्सुर्भवान् यदि॥ ब्राह्मण उवाच परमं गृह्यतां तस्य फलं यज्जपितं मया। अर्धं त्वमविचारेण फलं तस्य ह्यवाप्नुहि॥ अथवा सर्वमेवेह मामकं जापकं फलम्। राजन् प्राप्नुहि कामं त्वं यदि सर्वमिहेच्छसि॥ राजोवाच कृतं सर्वेण भद्रं ते जप्यं यद् याचितं मया। स्वस्ति तेऽस्तु गमिष्यामि किञ्च तस्य फलं वद॥ ब्राह्मण उवाच फलप्राप्तिं न जानामि दत्तं यज्जपितं मया। अयं धर्मश्च कालश्च यमो मृत्युश्च साक्षिणः॥ राजोवाच अज्ञातमस्य धर्मस्य फलं किं मे करिष्यति। फलं ब्रवीषि धर्मस्य न चेज्जप्यकृतस्य माम्। प्राप्नोतु तत् फलं विप्रो नाहमिच्छे ससंशयम्॥ ब्राह्मण उवाच नाददेऽपरवक्तव्यं दत्तं चास्य फलं मया। वाक्यं प्रमाणं राजर्षे ममाद्य तव चैव हि॥ नाभिसंधिर्मया जप्ये कृतपूर्वः कदाचन। जष्यस्य राजशार्दूल कथं वेत्स्याम्यहं फलम्॥ ददस्वेति त्वया चोक्तं ददानीति मया तथा। न वाचं दूषयिष्यामि सत्यं रक्ष स्थिरो भव॥ अथैवं वदतो मेऽद्य वचनं न करिष्यसि। महानधर्मो भविता तव राजन् मृषा कृतः॥ न युक्तं तु मृषा वाणी त्वया वक्तुमरिंदम्। तथा मयाप्यभिहितं मिथ्या कर्तुं न शक्यते॥ संश्रुतं च मया पूर्वं ददानीत्यविचारितम्। तद् गृह्णीप्वाविचारेण यदि सत्ये स्थितो भवान्॥ इहागम्य हि मां राजन् जाप्यं फलमयाचथाः। तन्मे निसृष्टं गृह्णीष्व भव सत्ये स्थिरोऽपि च॥ नायं लोकोऽस्ति न परो न च पूर्वान् स तारयेत्। कुत एव जनिष्यांस्तु मृषावादपरायणः॥ न यज्ञाध्ययने दानं नियमास्तारयन्ति हि। यथा सत्यं परे लोके तथेह पुरुषर्षभ॥ तपांसि यानि चीर्णानि चरिष्यन्ति च यत् तपः। शतैः शतसहस्रैश्च तैः सत्यान्न विशिष्यते॥ सत्यमेकाक्षरं ब्रह्म सत्यमेकाक्षरं तपः। सत्यमेकाक्षरो यज्ञः सत्यमेकाक्षरं श्रुतम्॥ सत्यं वेदेषु जागर्ति फलं सत्ये परं स्मृतम्। सत्याद् धर्मो दमश्चैव सर्वं सत्ये प्रतिष्ठितम्॥ सत्यं वेदास्तथाङ्गानि सत्यं विद्यास्तथा विधिः। व्रतचर्या तथा सत्यमोङ्कारः सत्यमेव च॥ प्राणिनां जननं सत्यं सत्यं संततिरेव च। सत्येन वायुरभ्येति सत्येन तपते रविः॥ सत्येन चाग्निर्दहति स्वर्गः सत्ये प्रतिष्ठितः। सत्यं यज्ञस्तपो वेदाः स्तोभा मन्त्राः सरस्वती॥ तुलामारोपिता धर्मः सत्यं चैवेति नः श्रुतम्। समकक्षा तुलयतो यतः सत्यं ततोऽधिकम्॥ यतो धर्मस्ततः सत्यं सर्वं सत्येन वर्धते। किमर्थमनृतं कर्म कर्तुं राजंस्त्वमिच्छसि॥ सत्ये कुरु स्थिरं भावं मा राजन्ननृतं कृथाः। कस्मात्त्वमनृतं वाक्यं देहीति कुरुषेऽशुभम्॥ यदि जप्यफलं दत्तं मया नैषिष्यसे नृप। धर्मेभ्यः सम्परिभ्रष्टो लोकाननुचरिष्यसि॥ संश्रुत्य यो न दित्सेत याचित्वा यश्च नेच्छति। उभावानृतिकावेतौ न मृषा कर्तुमर्हसि॥ राजोवाच योद्धव्यं रक्षितव्यं च क्षत्रधर्मः किल द्विज। दातारः क्षत्रियाः प्रोक्ता गृह्णीयां भवतः कथम्॥ ब्राह्मण उवाच न च्छन्दयामि ते राजन्नापि ते गृहमाव्रजम्। इहागम्य तु याचित्वा न गृह्णीषे पुनः कथम्॥ धर्म उवाच अविवादोऽस्तु युवयोर्वित्त मां धर्ममागतम्। द्विजो दानफलैर्युक्तो राजा सत्यफलेन च॥ स्वर्ग उवाच स्वर्ग मां विद्धि राजेन्द्र रूपिणं स्वयमागतम्। अविवादोऽस्तु युवयोरुभौ तुल्यफलौ युवाम्॥ राजोवाच कृतं स्वर्गेण मे कार्यं गच्छ स्वर्ग यथागतम्। विप्रो यदीच्छते गन्तुं चीर्णं गृह्णातु मे फलम्॥ ब्राह्मण उवाच बाल्ये यदि स्यादज्ञानान्मया हस्तः प्रसारितः। निवृत्तलक्षणं धर्ममुपासे संहितां जपन्॥ निवृत्तं मां चिराद्राजन् विप्रलोभयसे कथम्। स्वेन कार्यं करिष्यामि त्वत्तो नेच्छे फलं नृप। तप:स्वाध्यायशीलोऽहं निवृत्तश्च प्रतिग्रहात्॥ राजोवाच यदि विप्र विसृष्टं ते जप्यस्य फलमुत्तमम्। आवयोर्यत् फलं किञ्चित् सहितं नौ तदस्त्विह॥ द्विजाः प्रतिग्रहे युक्ता दातारो राजवंशजाः। यदि धर्मः श्रुतो विप्र सहैव फलमस्तु नौ॥ मा वा भूत् सहभोज्यं नौ मदीयं फलमाप्नुहि। प्रतीच्छ मत्कृतं धर्मं यदि ते मय्यनुग्रहः॥ भीष्म उवाच ततो विकृतवेषौ द्वौ पुरुषौ समुपस्थितौ। गृहीत्वान्योन्यमावेष्ट्य कुचैलावूचतुर्वचः॥ न मे धारयसीत्येको धारयामीति चापरः। इहास्ति नौ विवादोऽयमयं राजानुशासकः॥ सत्यं ब्रवीम्यहमिदं न मे धारयते भवान्। अनृतं वदसीह त्वमृणं ते धारयाम्यहम्॥ तावुभौ सुभृशं तप्तौ राजानमिदमूचतुः। परीक्ष्य त्वं यथा स्याबो नावामिह विगर्हितौ॥ विरूप उवाच धारयामि नरव्याघ्र विकृतस्येह गोः फलम्। ददतश्च न गृह्णाति विकृतो मे महीपते॥ विकृत उवाच न मे धारयते किञ्चिद् विरूपोऽयं नराधिप। मिथ्या ब्रवीत्ययं हि त्वां सत्याभासं नराधिप॥ राजोवाच विरूप किं धारयते भवानस्य ब्रवीतु मे। श्रुत्वा तथा करिष्येऽहमिति मे धीयते मनः॥ विरूप उवाच शृणुष्वावहितो राजन् यथैतद् धारयाम्यहम्। विकृतस्यास्य राजर्षे निखिलेन नराधिप॥ अनेन धर्मप्राप्त्यर्थं शुभा दत्ता पुरानघ। धेनुर्विप्राय राजर्षे तप:स्वाध्यायशीलिने॥ तस्याश्चायं मया राजन् फलमभ्येत्य याचितः। विकृतेन च मे दत्तं विशुद्धनान्तरात्मना॥ ततो मे सुकृतं कर्म कृतमात्मविशुद्धये। गावौ च कपिले क्रीत्वा वत्सले बहुदोहने॥ ते चोच्छवृत्तये राजन् मया समपवर्जिते। यथाविधि यथाश्रद्धं तदस्याहं पुनः प्रभो॥ इहाद्यैव गृहीत्वा तु प्रयच्छे द्विगुणं फलम्। एवं स्यात् पुरुषव्याघ्र कः शुद्धः कोऽत्र दोषवान्।।९६। एवं विवदमानौ स्वस्त्वामिहाभ्यागतौ नृप। कुरु धर्ममधर्म वा विनये नौ समादध॥ यदि नेच्छति मे दानं यथा दत्तमनेन वै। भवानत्र स्थिरो भूत्वा मार्गे स्थापयिताद्य नौ॥ राजोवाच दीयमानं न गृह्णासि ऋणं कस्मात् त्वमद्य वै। यथैव तेऽभ्यनुज्ञातं तथा गृह्णीष्व मा चिरम्॥ विकृत उवाच धारयामीत्यनेनोक्तं ददानीति तथा मया। नायं मे धारयत्यद्य गच्छतां यन वाञ्छति॥ राजोवाच ददतोऽस्य न गृह्णासि विषमं प्रतिभाति मे। दण्ड्यो हि त्वं मम मतो नास्त्यत्र खलु संशयः॥ विकृत उवाच मयास्य दत्तं राजर्षे गृह्णीयां तत् कथं पुनः। काममत्रापराधो मे दण्डमाज्ञापय प्रभो॥ विरूप उवाच दीयमानं यदि मया नेषिष्यसि कथञ्चन। नियंस्यति त्वां नृपतिरयं धर्मानुशासकः॥ विकृत उवाच स्वं मया याचितेनेह दत्तं कथमिहाद्य तत्। गृह्णीयां गच्छतु भवानभ्यनुज्ञां ददानि ते॥ ब्राह्मण उवाच श्रुतमेतत्त्वया राजन्नन्योः कथितं द्वयोः। प्रतिज्ञातं मया यत्ते तद् गृहाणाविचारितम्॥ राजोवाच प्रस्तुतं सुमहत् कार्यमनयोर्गह्वरं यथा। जापकस्य दृढीकारः कथमेतद् भविष्यति॥ यदि तावन्न गृह्णामि ब्राह्मणेनापवर्जितम्। कथं न लिप्येयमहं पापेन महताद्य वै॥ तौ चोवाच स राजर्षिः कृतकार्यो गमिष्यथः। नेदानी मामिहासाद्य राजधर्मो भवेन्मृषा॥ स्वधर्मः परिपाल्यस्तु राज्ञामिति विनिश्चयः। विप्रधर्मश्च गहनो मामनात्मानमाविशत्॥ ब्राह्मण उवाच गृहाण धारयेऽहं च याचितं संश्रुतं मया। न चेद् ग्रहीष्यसे राजशपिष्ये त्वां न संशयः॥ राजोवाच धिग्राजधर्मं यस्यायं कार्यस्येह विनिश्चयः। इत्यर्थं मे ग्रहीतव्यं कथं तुल्यं भवेदिति॥ एष पाणिरपूर्वं मे निक्षेपार्थं प्रसारितः। यन्मे धारयसे विप्र तदिदानी प्रदीयताम्॥ ब्राह्मण उवाच संहितां जपता यावान् गुणः कश्चित् कृतो मया। तत् सर्वं प्रतिगृह्णीष्व यदि किञ्चिदिहास्ति मे॥ राजोवाच जलमेतन्निपतितं मम पाणौ द्विजोत्तम। सममस्तु सहैवास्तु प्रतिगृह्णातु वै भवान्॥ विरूप उवाच कामक्रोधौबिद्धिनौ त्वमावाभ्यां कारितो भवान्। सहेति च यदुक्तं ते समा लोकास्तवास्य च॥ नायं धारयते किञ्चिज्जिज्ञासा त्वत्कृते कृता। कालो धर्मस्तथा मृत्युः कामक्रोधौ तथा युवाम्॥ सर्वमन्योन्यनिष्कर्ष निघृष्टं पश्यतस्तव। गच्छ लोकान् जितान् स्वेन कर्मणा यत्रवाञ्छसि॥११७। जापकानां फलावाप्तिर्मया ते सम्प्रदर्शिता। गतिः स्थानं च लोकाच जापकेन यथा जिताः॥ प्रयाति संहिताध्यायी ब्रह्माणं परमेष्ठिनम्। अथबाग्नि समायाति सूर्यमाविशतेऽपि वा॥ स तैजसेन भावेन यदि तत्र रमत्युत। गुणास्तेषां समाधत्ते रागेण प्रतिमोहितः॥ एवं सोमे तथा वायौ भूम्याकाशशरीरगः। सरागस्तत्र वसति गुणांस्तेषां समाचरन्॥ अथ तत्र विरागी स गच्छति त्वथ संशयम्। परमव्ययमिच्छन् स तमेवाविशते पुनः॥ अमृताच्चामृतं प्राप्तः शान्तीभूतो निरात्मवान्। ब्रह्मभूतः स निर्द्वन्द्वः सुखी शान्तो निरामयः॥ ब्रह्मस्थानमनावर्तमेकमक्षरसंज्ञकम्। अदुःखमजरं शान्तं स्थानं तत् प्रतिपद्यते॥ चतुर्भिर्लक्षणीनं तथा षड्भिः सषोडशैः। पुरुषं तमतिक्रम्य आकाशं प्रतिपद्यते॥ अथ नेच्छति रागात्मा सर्वं तदधितिष्ठति। यच्च प्रार्थयते तच्च मनसा प्रतिपद्यते॥ अथवा चेक्षते लोकान् सर्वान् निरयसंज्ञितान्। निस्पृहः सर्वतो मुक्तस्तत्र वै रमते सुखम्॥ एवमेषा महाराज जापकस्य गतिर्यथा। एतत् ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि॥ युधिष्ठिर उवाच किं फलं ज्ञानयोगस्य वेदानां नियमस्य च। भूतात्मा च कथं ज्ञेयस्तन्मे ब्रूहि पितामह॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। मनोः पजापतेर्वादं महर्षेश्च बृहस्पतेः॥ प्रजापतिं श्रेष्ठतमं प्रजानां देवर्षिसंघप्रवरो महर्षिः। बृहस्पतिः प्रश्नमिमं पुराणं पप्रच्छ शिष्योऽथ गुरुं प्रणम्य॥ यत्कारणं यत्र विधिः प्रवृत्तो ज्ञाने फल यत्प्रवदन्ति विप्राः। यन्मन्त्रशब्दैरकृतप्रकाशं तदुच्यतां मे भगवन्यथावत्॥ र्यज्ञैरनेकैरथ गोप्रदानैः। फलं महद्भिर्यदुपास्यते च किं तत्कथं वा भविता क्व वा तत्॥ मही महीजाः पवनोऽन्तरिक्षं जलौकसश्चैव जलं दिवं च। स्तदुच्यतां मे भगवन् पुराणम्॥ ज्ञानं यतः प्रार्थयते नरो वै ततस्तदर्था भवति प्रवृत्तिः। न चाप्यहं वेद परं पुराणं मिथ्याप्रवृत्तिं च कथं नु कुर्याम्। ऋक्सामसंघांश्च यजूंषि चापि च्छन्दांसि नक्षत्रगति निरुक्तम्। अधीत्य च व्याकरणं सकल्पं शिक्षां च भूतप्रकृतिं न वेदि॥ स मे भवान् शंसतु सर्वमेतत् सामान्यशब्दैश्च विशेषणैश्च। ज्ज्ञाने फलं कर्मणि वा यदस्ति॥ यथा च देहाच्च्यवते शरीरी पुनः शरीरं च यथाभ्युपैति। मनुरुवाच स्तदेव दुःखं प्रवदन्त्यनिष्टम्। देतत्कृते कर्मविधिः प्रवृत्तः। त्येतत्कृते ज्ञानविधिः प्रवृत्तः॥ कामात्मकाश्छन्दसि कर्मयोगा एभिर्विमुक्तः परमश्नुवीत। नानाविधे कर्मपथे सुखार्थी नरः प्रवृत्तो न परं प्रयाति॥ बृहस्पतिरुवाच इष्टं त्वनिष्टं च सुखासुखे च साशीस्त्वबच्छन्दति कर्मभिश्च। मनुरुवाच एभिर्विमुक्तः परमाविवेश एतत् कृते कर्मविधिः प्रवृत्तः। कामात्मकांश्छन्दति कर्मयोग एभिर्विमुक्तः परमाददीत॥ आत्मादिभिः कर्मभिरिन्ध्यमानो धर्मे प्रवृत्तो द्युतिमान् सुखार्थी। परं हि तत् कर्मपथादपेतं निराशिषं ब्रह्मपरं ह्यवैति॥ प्रजाः सृष्टा मनसा कर्मणा च द्वावेवैतौ सत्पथौ लोकजुष्टौ। दृष्टं कर्म शाश्वतं चान्तवच्च मनस्त्यागः कारणं नान्यदस्ति॥ स्वेनात्मना चक्षुरिव प्रणेता निशात्यये तमसा संवृतात्मा। ज्ञानं तु विज्ञानगुणेन युक्तं कर्माशुभं पश्यति वर्जनीयम्॥ सर्पान्कुशाग्राणि तथोदपानं ज्ञात्वा मनुष्याः परिवर्जयन्ति। ज्ज्ञाने फलं पश्य यथा विशिष्टम्॥ कृत्स्नस्तु मन्त्रो विधिवत् प्रयुक्तो यथा यथोक्तास्त्विह दक्षिणाश्च। अन्नप्रदानं मनसः समाधिः पञ्चात्मकं कर्मफलं वदन्ति॥ स्तस्मान्मन्त्रो मन्त्रपूर्वं हि कर्म। विधिविधेयं मनसोपपत्तिः फलस्य भोक्ता तु तथा शरीरी॥ शब्दाश्च रूपाणि रसाश्च पुण्या: स्पर्शाश्च गन्धाश्च शुभास्तथैव। देतत् पुलं सिद्ध्यति कर्मलोके।॥ यद् यच्छरीरेण करोति कर्म शरीरयुक्तः समुपाश्नुते तत्। शरीरमेवायतनं सुखस्य दुःखस्य चाप्यायतनं शरीरम्॥ वाचा तु यत्कर्म करोति किंचिद् वाचैव सर्वं समुपाश्नुते तत्। न्मन:स्थ एवायमुपाश्नुते तत्॥ यथा यथा कर्मगुणं फलार्थी करोत्ययं कर्मफले निविष्टः। तथा तथायं गुणसम्प्रयुक्तः शुभाशुभं कर्मफलं भुनक्ति॥ मत्स्यो यथा स्रोत इवाभिपाती तथा कृतं पूर्वमुपैति कर्म। शुभे त्वसौ तुष्यति दुष्कृते तु न तुष्यते वै परमः शरीरी॥ यतो जगत् सर्वमिदं प्रसूतं ज्ञात्वाऽऽत्मवन्तो व्यतियान्ति यत् तत्। यन्मन्त्रशब्दैरकृतप्रकाशं तदुच्यमानं शृणु मे परं यत्॥ रसैविमुक्तं विविधैश्च गन्धै रशब्दमस्पर्शमरूपवच्चा अग्राह्यमव्यक्तमवर्णमेकं पञ्चप्रकारान् ससृजे प्रजानाम्॥ न स्त्री पुमान् नापि नपुंसकं च न सन्न चासत् सदसच्च तन्न। स्तदक्षरं न क्षरतीति विद्धि॥ मनुरुवाच यदिन्द्रियैस्तूपहितं पुरस्तात् प्राप्तान् गुणान् सस्मरते चिराय। तेष्विन्द्रियेषूपहतेषु पश्चात् स बुद्धिरूप: परमः स्वभावः॥ नोपेक्षते कृत्स्नमतुल्यकालम्। स्तस्मात् स एकः परमः शरीरी॥ रजस्तमः सत्त्वमथो तृतीयं गच्छत्यसौ स्थानगुणान् विरूपान्। तथेन्द्रियाण्याविशते शरीरी हुताशनं वायुरिवेन्धनस्थम्॥ न चक्षुषा पश्यति रूपमात्मनो न पश्यति स्पर्शनमिन्द्रियेन्द्रियम्। न श्रोत्रलिङ्गं श्रवणेन दर्शनं तथा कृतं पश्यति तद् विनश्यति॥ श्रोत्रादीनि च पश्यन्ति स्वं स्वमात्मानमात्मना। सर्वज्ञः सर्वदर्शी च सर्वज्ञस्तानि पश्यति॥ यथा हिमवतः पाक् पृष्ठं चन्द्रमसो यथा। न दृष्टपूर्वं मनुजैन च तन्नास्ति तावता॥ तद्वद् भूतेषु भूतात्मा सूक्ष्मो ज्ञानात्मवानसौ। अदृष्टपूर्वश्चक्षुर्त्यां न चासौ नास्ति तावता॥ पश्यन्नपि यथा लक्ष्म जगत् सोमे न विन्दति। एवमस्ति न चोत्पन्नं न च तन्न परायणम्॥ रूपवन्तमरूपत्वादुदयास्तमने बुधाः। धिया समनुपश्यन्ति तद्गताः सवितुर्गतिम्॥ तथा बुद्धिप्रदीपेन दूरस्थं सुविपश्चितः। प्रत्यासन्नं निनीषन्ति ज्ञेयं ज्ञानाभिसंहितम्॥ न हि खल्वनुपायेन कश्चिदर्थोऽभिसिद्ध्यति। सूत्रजालैर्यथा मत्स्यान् बनन्ति जलजीविनः॥ मृगैर्मुगाणां ग्रहणं पक्षिणां पक्षिभिर्यथा। गजानां च गजैरेव ज्ञेयं ज्ञानेन गृह्यते॥ अहिरेव ाहेः पादान् पश्यतीति हि नः श्रुतम्। तद्वन्मूर्तिषु मूर्तिस्थं ज्ञेयं ज्ञानेन पश्यति॥ नोत्सहन्ते यथा वेत्तुमिन्द्रियैरिन्द्रियाण्यपि। तथैवेह परा बुद्धिः परं बोध्यं न पश्यति।१४॥ यथा चन्द्रो ह्यमावास्यामलिङ्गत्वान्न दृश्यते। न च नाशोऽस्य भवति तथा विद्धि शरीरिणम्॥ क्षीणकोशो ह्यमावास्यां चन्द्रमा न प्रकाशते। तद्वन्मूर्तिविमुक्तोऽसौ शरीरी नोपलभ्यते॥ यथाऽऽकाशान्तरं प्राप्य चन्द्रमा भ्राजते पुनः। तद्वल्लिङ्गान्तरं प्राप्य शरीरी भ्राजते पुनः॥ जन्म वृद्धिः क्षयश्चास्य प्रत्यक्षेणोपलभ्यते। सा तु चान्द्रमसी वृत्तिर्न तु तस्य शरीरिणः॥ उत्पत्तिवृद्धिवयसा यथा स इति गृह्यते। चन्द्र एव त्वमावास्यां तथा भवति मूर्तिमान्॥ नोपसर्पद् विमुञ्चद् वा शशिनं दृश्यते तमः। विसृजंश्योपसर्पश्च तद्वत् पश्य शरीरिणम्॥ यथा चन्द्रार्कसंयुक्तं तमस्तदुपलभ्यते। तद्वच्छरीरसंयुक्तः शरीरीत्युपलभ्यते॥ यथा चन्द्रार्कनिर्मुक्तः स राहु!पलभ्यते। तद्वच्छरीरनिर्मुक्तः शरीरी नोपलभ्यते॥ यथा चन्द्रो ह्यमावास्यां नक्षत्रैर्युज्यते गतः। तद्वच्छरीरनिर्मुक्तः फलैर्युज्यति कर्मणः॥ मनुरुवाच यथा व्यक्तमिदं शेते स्वप्ने चरति चेतनम्। ज्ञानमिन्द्रियसंयुक्तं तद्वत् प्रेत्य भवाभवौ॥ यथाम्भसि प्रसन्ने तु रूपं पश्यति चक्षुषा। तद्वत्प्रसन्नेन्द्रियत्वाज्ज्ञेयं ज्ञानेन पश्यति॥ स एव लुलिते तस्मिन् यथा रूपं न पश्यति। तथेन्द्रियाकुलीभावे ज्ञेयं ज्ञाने न पश्यति॥ अबुद्धिरज्ञानकृता अबुद्ध्या कृष्यते मनः। दुष्टस्य मनसः पञ्च सम्प्रदुष्यन्ति मानसाः॥ अज्ञानतृप्तो विषयेष्ववगाढो न तृप्यते। अदृष्टवच्च भूतात्मा विषयेभ्यो निवर्तते॥ तर्षच्छेदो न भवति पुरुषस्येह कल्मषात्। निवर्तते तदा तर्षः पापमन्तगतं यदा॥ विषयेषु तु संसर्गाच्छाश्वतस्य तु संश्रयात्। मनसा चान्यथा काङ्क्षन् परं 7 प्रतिपद्यते॥ ज्ञानमुत्पद्यते पुंसां क्षयात् पापस्य कर्मणः। यथाऽऽदर्शतले प्रख्ये पश्यत्यात्मानमात्मनि॥ प्रसृतैरिन्द्रियैर्दुःखी तैरेव नियतैः सुखी। तस्मादिन्द्रियरूपेभ्यो यच्छेदात्मानमात्मना॥ इन्द्रियेभ्यो मनः पूर्वं बुद्धिः परतरा ततः। बुद्धेः परतरं ज्ञानं ज्ञानात् परतरं महत्॥ अव्यक्तात् प्रसृतं ज्ञानं ततो बुद्धिस्ततो मनः। मनः श्रोत्रादिभिर्युक्तं शब्दादीन् साधु पश्यति॥ यस्तांस्त्यजति शब्दादीन् सर्वाश्च व्यक्तस्तथा। विमुञ्चत् प्राकृतान्ग्रामांस्तान् मुक्त्वामृतमश्नुते॥ उद्यन् हि सविता यद्वत्सृजते रश्मिमण्डलम्। स एवास्तमपागच्छंस्तदेवात्मनि यच्छति॥ अन्तरात्मा तथा देहमाविश्येन्द्रियरश्मिभिः। प्राप्येन्द्रियगुणान् पञ्च सोऽस्तमावृत्य गच्छति॥ प्रणीतं कर्मणा मार्ग नीयमानः पुनः पुनः। प्राप्नोत्ययं कर्मफलं प्रवृत्तं धर्ममाप्तवान्॥ विषया विनिवर्तन्ते निराहारस्य देहिनः। रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते॥ बुद्धिः कर्मगुणैींना यदा मनसि वर्तते। तदा सम्पद्यते ब्रह्म तत्रैव प्रलयं गतम्॥ अस्पर्शनम शृण्वानमनास्वादमदर्शनम्। अघ्राणमवितर्कं च सत्त्वं प्रविशते परम्॥ मनस्याकृतयो मग्ना मनस्त्वभिगतं मतिम्। मतिस्त्वभिगता ज्ञानं ज्ञानं चाभिगतं परम्॥ नेन्द्रियैर्मनसः सिद्धिर्न बुद्धिं बुद्ध्यते मनः। न बुद्धिर्बुद्ध्यतेऽव्यक्तं सूक्ष्मं त्वेतानि पश्यति॥ मनुरुवाच दुःखोपघाते शारीरे मानसे चाप्युपस्थिते। यस्मिन् न शक्यते कर्तुं यत्नस्तं नानुचिन्तयेत्॥ भैषज्यमेतद् दुःखस्य यदेतन्नानुचिन्तयेत्। चिन्त्यमानं हि चाभ्येति भूयश्चापि प्रवर्तते॥ प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः। एतद् विज्ञानसामर्थ्यं न बालैः समतामियात्॥ अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः। आरोग्यं प्रियसंवासो गृध्येत् तत्र न पण्डितः॥ न जानपदिकं दुःखमेकः शोचितुमर्हति। अशोचन् प्रतिकुर्वीत यदि पश्येदुपक्रमम्॥ सुखाद् बहुतरं दुःखं जीविते नास्ति संशयः। स्निग्धस्य चेन्द्रियार्थेषु मोहान्मरणमप्रियम्।।६ परित्यजति यो दुःखं सुखं वाप्युभयं नरः। अभ्येति ब्रह्म सोऽत्यन्तं न ते शोचन्ति पण्डिताः॥ दुःखमर्था हि युज्यन्ते पालनेन च ते सुखम्। दुःखेन चाधिगम्यन्ते नाशमेषां न चिन्तयेत्॥ ज्ञानं ज्ञेयाभिनिवृत्तं विद्धि ज्ञानगुणं मनः। प्रज्ञाकरणसंयुक्तं ततो बुद्धिः प्रवर्तते॥ यदा कर्मगुणैर्हीना बुद्धिर्मनसि वर्तते। तदा प्रज्ञायते ब्रह्म ध्यानयोगसमाधिना॥ सेयं गुणवती बुद्धिर्गुणेष्वेवाभिवर्तते। अपरादभिनिःसृत्य गिरेः शृङ्गादिवोदकम्॥ यदा निर्गुणमानोति ध्यानं मनसि पूर्वजम्। तदा प्रज्ञायते ब्रह्म निकषं निकषे यथा॥ मनस्त्वपहृतं पूर्वमिन्द्रियार्थनिदर्शकम्। न समक्षगुणापेक्षि निर्गुणस्य निदर्शकम्॥ सर्वाण्येतानि संवार्य द्वाराणि मनसि स्थितः। मनस्येकाग्रतां कृत्वा तत्परं प्रतिपद्यते॥ यथा महान्ति भूतानि निवर्तन्ते गुणक्षये। तथेन्द्रियाण्युपादाय बुद्धिर्मनसि वर्तते॥ यदा मनसि सा बुद्धिवर्ततेऽन्तरचारिणी। व्यवसायगुणोपेता तदा सम्पद्यते मनः॥ गुणवद्भिर्गुणोपेतं यदा ध्यानगुणं मनः। सदा सर्वान् गुणान् हित्वा निर्गुणं प्रतिपद्यते॥ अव्यक्तस्येह विज्ञाने नास्ति तुल्यं निदर्शनम्। यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात्॥ तपसा चानुमानेन गुणैर्जात्या श्रुतेन च। निनीषेत् परमं ब्रह्म विशुद्धनान्तरात्मना॥ गुणहीनो हि तं माग बहिः समनुवर्तते। गुणाभावात् प्रकृत्या वा निस्तयं ज्ञेयसम्मितम्॥ नैर्गुण्याद् ब्रह्म चाप्नोति सगुणत्वानिवर्तते। गुणप्रचारिणी बुद्धि ताशन इवेन्धने॥ यथा पञ्च विमुक्तानि इन्द्रियाणि स्वकर्मभिः। तथा हि परमं ब्रह्म विमुक्तं प्रकृतेः परम्॥ एवं प्रकृतितः सर्वे प्रवर्तन्ते शरीरिणः। निवर्तन्ते निवृत्तौ च स्वर्गं चैवोपयान्ति च॥ पुरुषः प्रकृतिर्बुद्धिविषयाश्चेन्द्रियाणि च। अहंकारोऽभिमानश्च समूहो भूतसंज्ञकः॥ एतस्याद्या प्रवृत्तिस्तु प्रधानात् सम्प्रवर्तते। द्वितीया मिथुनव्यक्तिमविशेषान्नियच्छति॥ धर्मादुत्कृष्यते श्रेयस्तथाश्रेयोऽप्यधर्मतः। रागवान् प्रकृति ह्येति विरक्तो ज्ञानवान् भवेत्॥ युधिष्ठिर उवाच पितामह महाप्राज्ञ पुण्डरीकाक्षमच्युतम्। कर्तारमकृतं विष्णुं भूतानां प्रभवाप्ययम्॥ नारायणं हृषीकेशं गोविन्दमपराजितम्। तत्त्वेन भरतश्रेष्ठ श्रोतुमिच्छामि केशवम्॥ भीष्म उवाच श्रुतोऽयमर्थो रामस्य जामदग्न्यस्य जल्पतः। नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च॥ असितो देवलस्तात वाल्मीकिश्च महातपाः। मार्कण्डेयश्च गोविन्दे कथयन्त्यद्भुतं महत्॥ केशवो भरतश्रेष्ठ भगवानीश्वरः प्रभुः। पुरुषः सर्वमित्येव श्रूयते बहुधा विभुः॥ किं तु यानि विदुर्लोके ब्राह्मणा: शार्ङ्गधन्वनि। माहात्म्यानि महाबाहो शृणु तानि युधिष्ठिर॥ यानि चाहुर्मनुष्येन्द्र ये पुराणविदो जनाः। कर्माणि त्विह गोविन्दे कीर्तयिष्यामि तान्यहम्॥ महाभूतानि भूतात्मा महात्मा पुरुषोत्तमः। वायुयॊतिस्तथा चापः खं च गां चान्वकल्पयत्॥ स सृष्ट्वा पृथिवीं चैव सर्वभूतेश्वरः प्रभुः। अप्स्वेव भवनं चक्रे महात्मा पुरुषोत्तमः॥ सर्वतेजोमयस्तस्मिशयानः पुरुषोत्तमः। सोऽग्रजं सर्वभूतानां संकर्षणमकल्पयत्॥ आश्रयं सर्वभूतानां मनसेतीह शुश्रुम। स धारयति भूतानि उभे भूतभविष्यती॥ ततस्तस्मिन् महाबाहौ प्रादुर्भूते महात्मनि। भास्करप्रतिमं दिव्यं नाभ्यां पद्ममजायत॥ स तत्र भगवान देवः पुष्करे भ्राजयन् दिशः। ब्रह्मा समभवत् तात् सर्वभूतपितामहः॥ तस्मिन्नपि महाबाहौ प्रादुर्भूते महात्मनि। तमसा पूर्वजो जज्ञे मधुर्नाम महासुरः॥ तमुग्रमुग्रकर्माणमुग्रं कर्म समास्थितम्। ब्रह्मणोपचितिं कुर्वन् जघान पुरुषोत्तमः॥ तस्य तात वधात् सर्वे देवदानवमानवाः। मधुसूदनमित्याहुर्ऋषभं सर्वसात्वताम्॥ ब्रह्मानुससृजे पुत्रान् मानसान् दक्षसप्तमान्। मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम्॥ मरीचिः कश्यपं तात पुत्रमग्रजमग्रजः। मानसं जनयामास तैजसं ब्रह्मवित्तमम्॥ अङ्गुष्ठात् ससृजे ब्रह्मा मरीचेरपि पूर्वजम्। सोऽभवद् भरतश्रेष्ठ दक्षो नाम प्रजापतिः॥ तस्य पूर्वमजायन्त दश तिस्रश्च भारत। प्रजापतेर्दुहितरस्तासां ज्येष्ठाभवद् दितिः॥ सर्वधर्मविशेषज्ञः पुण्यकीर्तिर्महायशाः। मारीचः कश्यपस्तात सर्वासामभवत् पतिः॥ उत्पाद्य तु महाभागस्तासामवरजा दश। ददौ धर्माय धर्मज्ञो दक्ष एव प्रजापतिः॥ धर्मस्य वसवः पुत्रा रुद्राश्चामिततेजसः। विश्वेदेवाश्च साध्याश्च मरुत्वन्तश्च भारत॥ अपराश्च यवीयस्यस्ताभ्योऽन्याः सप्तविंशतिः। सोमस्तासां महाभागः सर्वासामभवत् पतिः॥ इतरास्तु व्यजायन्त गन्धर्वांस्तुरगान् द्विजान्। गाश्च किंपुरुषान्मत्स्यानुद्भिज्जांश्च वनस्पतीन्॥ आदित्यानदितिर्जज्ञे देवश्रेष्ठान् महाबलान्। तेषा विष्णुर्वामनोऽभूद् गोविन्दश्चाभवत् प्रभुः॥ तस्य विक्रमणाच्चापि देवानां श्रीळवर्धत। दानवाश्च पराभूता दैतेयी चासुरी प्रजा॥ विप्रचित्तिप्रधानांश्च दानवानसृजद् दनुः। दितिस्तु सर्वानसुरान् महासत्त्वानजीजनत्॥ अहोरात्रं च कालं च यथर्तु मधुसूदनः। पूर्वाह्न चापराह्नं च सर्वमेवानुकल्पयत्॥ प्रध्याय सोऽसृजन्मेघांस्तथा स्थावरजङ्गमान्। पृथिवीं सोऽसृजद् विश्वां सहितां भूरितेजसा॥ ततः कृष्णो महाभागः पुनरेव युधिष्ठिर। ब्राह्मणानां शतं श्रेष्ठं मुखादेवासृजत् प्रभुः॥ बाहुभ्यां क्षत्रियशतं वैश्यामानामूरुतः शतम्। पद्भ्यां शूद्रशतं चैव केशवो भरतर्षभ॥ स एवं चतुरो वर्णान् समुत्पाद्य महातपाः। अध्यक्षं सर्वभूतानां धातारमकरोत् स्वयम्॥ वेदविद्याविधातारं ब्रह्माणममितद्युतिम्। भूतमातृगणाध्यक्षं विरूपाक्षं च सोऽसृजत्॥ शासितारं च पापानां पितृणां समवर्तिनम्। असृजत् सर्वभूतात्मा निधिपं च धनेश्वरम्॥ यादसामसृजन्नाथं वरुणं च जलेश्वरम्। वासवं सर्वदेवानामध्यक्षमकरोत् प्रभुः॥ यावद्यावदभूच्छ्रद्धा देहं धारयितुं नृणाम्। तावत् तावदजीवंस्ते नासीद् यमकृतं भयम्॥ न चैषां मैथुनो धर्मो बभूव भरतर्षभ। संकल्पादेव चैतेषामपत्यमुपपद्यते॥ ततस्त्रेतायुगे काले संस्पर्शाज्जायते प्रजा। न ह्यभून्मैथुनो धर्मस्तेषामपि जनाधिप॥ द्वापरे मैथुनो धर्मः प्रजानामभवन्नृप। तथा कलियुगे राजन् द्वन्द्वमापेदिरे जनाः॥ एष भूतपतिस्तात स्वध्यक्षश्च तथोच्यते। निरपेक्षांश्च कौन्तेय कीर्तयिष्यामि तच्छृणु॥ दक्षिणापथजन्मानः सर्वे नरवरान्ध्रकाः। गुहाः पुलिन्दाः शबराश्चूचुका मद्रकैः सह॥ उत्तरापथजन्मानः कीर्तयिष्यामि तानपि। यौनकाम्बोजगान्धारा: किराता बर्बरैः सह॥ एते पापकृतस्तात चरन्ति पृथिवीमिमाम्। श्वापाकबलगृध्राणां सधर्माणो नराधिप॥ नैते कृतयुगे तात चरन्ति पृथिवीमिमाम्। त्रेताप्रभृति वर्धन्ते ते जना भरतर्षभ॥ ततस्तस्मिन् महाघोरे संध्याकाल उपस्थिते। राजानः समसज्जन्त समासाद्येतरेतरम्॥ एवमेष कुरुश्रेष्ठ प्रादुर्भूतो महात्मना। एकः कर्ता स कृष्णश्च ज्ञानिनां परमा गतिः। इदमाश्रित्य देवेन्द्रो देवा रुद्रास्तथाश्विनौ।। देवं देवर्षिराचष्ट नारदः सर्वलोकदृक्॥ नारदोऽप्यथ कृष्णस्य परं मेने नराधिप। शाश्वतत्वं महाबाहो यथावद् भरतर्षभ॥ एवमेष महाबाहुः केशवः सत्यविक्रमः। अचिन्त्यः पुण्डरीकाक्षो नैष केवलमानुषः॥ युधिष्ठिर उवाच के पूर्वमासन् पतयः प्रजानां भरतर्षभ। के चर्षयो महाभागा दिक्षु प्रत्येकशः स्मृताः॥ भीष्म उवाच श्रूयतां भरतश्रेष्ठ यन्मां त्वं परिपृच्छसि। प्रजानां पतयो येऽस्मिन् दिक्षु ये चर्षयः स्मृताः॥ एकः स्वयम्भूर्भगवानाद्यो ब्रह्मा सनातनः। ब्रह्मणः सप्त व पुत्रा महात्मानः स्वयम्भुवः॥ मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः। वसिष्ठश्च महाभागः सदृशो वै स्वयम्भुवा॥ सप्तब्रह्माण इत्येते पुराणे निश्चयं गताः। अत उर्ध्वं प्रवक्ष्यामि सर्वानेव प्रजापतीन्॥ अत्रिवंशसमुत्पन्नो ब्रह्मयोनिः सनातनः। प्राचीनबहिर्भगवांस्तस्मात् प्राचेतसो दश॥ दशानां तनयस्त्वेको दक्षो नाम प्रजापतिः। तस्य द्वे नामनी लोके दक्षः क इति चोच्यते॥ मरीचेः कश्यपः पुत्रस्तस्य द्वे नामनी स्मृते। अरिष्टनेमिरित्येके कश्यपेत्यपरे विदुः॥ अत्रेश्चैवौरसः श्रीमान् राजा सोमश्च वीर्यवान्। सहस्रं यश्च दिव्यानां युगानां पर्युपासिता॥ अर्यमा चैव भगवान् ये चास्य तनया विभो। एते प्रदेशाः कथिता भुवनानां प्रभावनाः॥ शशबिन्दोश्च भार्याणां सहस्राणि दशाच्युत। एकैकस्यां सहस्रं तु तनयानामभूत् तदा॥ एवं शतसहस्राणां शतं कस्य महात्मनः। पुत्राणां च न ते कंचिदिच्छन्त्यन्यं प्रजापतिम्॥ प्रजामाचक्षते विप्राः पुराणाः शाशबिन्दवीम्। स वृष्णिवंशप्रभवो महावंशः प्रजापतेः॥ एते प्रजानां पतयः समुद्दिष्टा यशस्विनः। अतः परं प्रवक्ष्यामि देवांस्त्रिभुवनेश्वरान्॥ भर्गोऽशश्चार्यमा चैव मित्रोऽथ वरुणस्तथा। सविता चैव धाता च विवस्वांश्च महाबलः॥ त्वष्टा पूषा तथैवेन्द्रो द्वादशो विष्णुरुच्यते। इत्येते द्वादशादित्याः कश्यपस्यात्मसम्भवाः॥ नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनावपि। मार्तण्डस्यात्मजावेतावष्टमस्य महात्मनः॥ ते च पूर्वं सुराश्चेति द्विविधाः पितरः स्मृताः। त्वष्टश्चैवात्मजः श्रीमान् विश्वरूपो महायशाः॥ अजैकपादहिर्बुध्न्यो विरूपाक्षोऽथ रैवतः। हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः॥ सावित्रश्च जयन्तश्च पिनाकी चापराजितः। पूर्वमेव महाभागा वसवोऽष्टौ प्रकीर्तिताः॥ एत एवंविधा देवा मनोरेव प्रजापतेः। ते च पूर्वं सुराश्चेति द्विविधाः पितरः स्मृताः॥ शीलयौवनतस्त्वन्यस्तथान्यः सिद्धसाध्ययोः। ऋभवो मरुतश्चैव देवानां चोदितो गणः॥ एवमेते समाम्नाता विश्वेदेवास्तथाश्विनौ। आदित्याः क्षत्रियास्तेषां विशश्च मरुतस्तथा॥ अश्विनौ तु स्मृतौ शूद्रौ तपस्युगे समास्थितौ। स्मृतास्त्वङ्गिरसो देवा ब्राह्मणा इति निश्चयः॥ इत्येतत् सर्वदेवानां चातुर्वर्ण्य प्रकीर्तितम्। एतान् वै प्रातरुत्थाय देवान् यस्तु प्रकीर्तयेत्॥ स्वजादन्यकृताच्चैव सर्वपापात् प्रमुच्यते। यवक्रीतोऽथ रैभ्यश्च अर्वावसुपरावसू॥ औशिजश्चैव कक्षीवान् बलश्चाङ्गिरसः सुताः। ऋषिर्मेधातिथेः पुत्रः कण्वो बर्हिषदस्तथा॥ त्रैलोक्यभावनास्तात प्राच्यां सप्तपर्यस्तथा। उन्मुचो विमुचश्चैव स्वस्त्यात्रेयश्च वीर्यवान्॥ प्रमुचश्चेध्यवाहश्च भगवांश्च दृढव्रतः। मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान्॥ एते ब्रह्मर्षयो नित्यमास्थिता दक्षिणां दिशम्। कवषो धौम्यः परिव्याधश्च वीर्यवान्।॥ एकतश्च द्वितश्चैव त्रिश्तचैव महर्षयः। अत्रेः पुत्रश्च भवांस्तथा सारस्वतः प्रभुः॥ एते चैव महात्मनः पश्चिमामाश्रिता दिशम्। आत्रेयश्च वसिष्ठच कश्यपश्च महानृषिः॥ गौतमोऽथ भरद्वाजो विश्वामित्रोऽथ कौशिकः। तथैव पुत्रो भगवानृचीकस्य महात्मनः॥ जमदग्निश्च सप्तैते उदीचीमाश्रिता दिशम्। एते प्रतिदिशं सर्वे कीर्तितास्तिग्मतेजसः॥ साक्षिभूता महात्मानो भुवनानां प्रभावनाः। एवमेते महात्मानः स्थिताः प्रत्येकशो दिशम्॥ यस्यां यस्यां दिशि ोते तां दिशं शरणं गतः। मुच्यते सर्वपापेभ्यः स्वस्तिमांश्च गृहान् व्रजेत्॥ युधिष्ठिर उवाच पितामह महाप्राज्ञ युधि सत्यपराक्रम। श्रोतुमिच्छामि कात्स्येन कृष्णमव्ययमीश्वरम्॥ यच्चास्य तेजः सुमहद् यच्च कर्म पुरा कृतम्। तन्मे सर्वं यथातत्त्वं ब्रूहि त्वं पुरुषर्षभ॥ तिर्यग्योनिगतं रूपं कथं धारितवान् प्रभुः। केन कार्यनिसर्गेण तमाख्याहि महाबल॥ भीष्म उवाच पुराहं मृगयां यातो मार्कण्डेयाश्रमे स्थितः। तत्रापश्यं मुनिगणान् समासीनान् सहस्रशः॥ ततस्ते मधुपर्केण पूजां चक्रुरथो मयि। प्रतिगृह्य च पूजां प्रत्यनन्दमृषीनहम्॥ कथैषा कथिता तत्र कश्यपेन महर्षिणा। मनःप्रह्लादिनी दिव्यां तामिहैकमनाः शृणु॥ पुरा दानवमुख्या हि क्रोधलोभसमन्विताः। बलेन मत्ता शतशो नरकाद्या महासुराः॥ तथैव चान्ये बहवो दानवा युद्धदुर्मदाः। न सहन्ते स्म देवानां समृद्धिं तामनुत्तमाम्॥ दानवैरर्चमानास्तु देवा देवर्षयस्तथा। न शर्म लेभिरे राजन् विशमानास्ततस्ततः॥ पृथिवीमार्तरूपां ते समपश्यन् दिवौकसः। दानवैरभिसंस्तीर्णां घोररूपैर्महाबलैः॥ भारार्तामप्रहृष्टां च दुःखितां संनिमज्जतीम्। अथादितेयाः संत्रस्ता ब्रह्माणमिदमब्रुवन्॥ कथं शक्ष्यामहे ब्रह्मन् दानवैरभिमर्दनम्। स्वयम्भूस्तानुवाचेदं निसृष्टोऽत्र विधिर्मया॥ ते वरेणाभिसम्पन्ना बलेन च मदेन च। नावबुध्यन्ति सम्मूढा विष्णुमव्यक्तदर्शनम्॥ वराहरूपिणं देवमधृष्यममरैरपि। एष वेगेन गत्वा हि यत्र ते दानवाधमाः॥ अन्तर्भूमिगता घोरा निवसन्ति सहस्रशः। शमयिष्यति तच्छ्रुत्वा जहषुः सुरसत्तमाः॥ ततो विष्णुर्महातेजा वाराहं रूपमास्थितः। अन्तर्भूमि सम्प्रविश्य जगाम दितिजान् प्रति॥ दृष्ट्वा च सहिताः सर्वे दैत्याः सत्त्वममानुषम्। प्रसह्य तरसा सर्वे संतस्थुः कालमोहिताः॥ ततस्ते समभिदुत्य वराहं जगृहुः समम्। संक्रुद्धाश्च वराहं तं व्यकर्षन्त समन्ततः॥ दानवेन्द्रा महाकाया महावीर्यबलोच्छ्रिताः। नाशक्नुवंश्च किंचित् ते तस्य कर्तुं तदा विभो॥ ततोऽगच्छत् विस्मयं ते दानवेन्द्रा भयं तथा। संशयं गतमात्मानं मेनिरे च सहस्रशः॥ ततो देवाधिदेवः स योगात्मा योगसारिथः। योगमास्थाय भगवांस्तदा भरतसत्तम॥ विननाद महानादं क्षोभयन् दैत्यदानवान्। संनादिता येन लोकाः सर्वाश्चैव दिशो दश॥ तेन संनादशब्देन लोकानां क्षोभ आगमत्। संत्रस्ताश्च भृशं लोके देवाः शक्रपुरोगमा:॥ निर्विचेष्टं जगच्चापि बभूवातिभृशं तदा। स्थावरं जङ्गमं चैव तेन नादेन मोहितम्॥ ततस्ते दानवाः सर्वे तेन नादेन भीषिताः। पेतुर्गतासवश्चैव विष्णुतेज:प्रमोहिताः॥ रसातलगतश्चापि वराहस्त्रिदशद्विषाम्। खुरैर्विदारयामास मांसमेदोऽस्थिसंचयान्॥ नादेन तेन महता सनातन इति स्मृतः। पद्मनाभो महायोगी भूताचार्यः स भूतराट्॥ ततो देवगणाः सर्वे पितामहमुपाद्रवन्। तत्र गत्वा महात्मानमूचुश्चैव जगत्पतिम्॥ नादोऽयं कीदृशो देव नैतं विद्म वयं प्रभो। कोऽसौ हि कस्य वा नादो येन विह्वलितं जगत्॥ देवाश्च दानवाश्चैव मोहितास्तस्य तेजसा। एतस्मिन्नन्तरे विष्णुराहं रूपमास्थितः। उदतिष्ठन्महाबाहो स्तूयमानो महर्षिभिः॥ पितामह उवाच निहत्य दानवपतीन् महावा महाबलः। एष देवो महायोगी भूतात्मा भूतभावनः॥ सर्वभूतेश्वरो योगी मुनिरात्मा तथाऽऽत्मनः। स्थिरीभवत कृष्णोऽयं सर्वविघ्नविनाशनः॥ कृत्वा कर्मातिसाध्वेतदशक्यममितप्रभः। समायातः स्वमात्मानं महाभागो महाद्युति॥ पद्मनाभो महायोगी महात्मा भूतभावनः। न संतापो न भी: कार्या शोको वा सुरसत्तमाः॥ विधिरेष प्रभावश्च काल: संक्षयकारकः। लोकान् धारयता तेन नादो मुक्तो महात्मना॥ स एष हि महाबाहुः सर्वलोकनमस्कृतः। अच्युतः पुण्डरीकाक्षः सर्वभूतादिरीश्वरः॥ स एष हि महाबाहुः सर्वलोकनमस्कृतः। अच्युतः पुण्डरीकाक्षः सर्वभूतादिरीश्वरः॥ भीष्म उवाच प्रवृत्तिलक्षणो धर्मो यथा समुपलभ्यते। तेषां विज्ञाननिष्ठानामन्यत्तत्वं न रोचते॥ दुर्लभा वेदविद्वांसो वेदोक्तेषु व्यवस्थिताः। प्रयोजनं महत्त्वात्तु मार्गमिच्छन्ति संस्तुतम्॥ सद्भिराचरितत्वात्तु वृत्तमेतदगर्हितम्। इयं सा बुद्धिरभ्येत्य यया याति परां गतिम्॥ शरीरवानुपादत्ते मोहात् सर्वान् परिग्रहान्। क्रोधलोभादिभिर्भावैर्युक्तो राजसतामसैः॥ नाशुद्धमाचरेत् तस्मादभीप्सन् देहयापनम्। कर्मणा विवरं कुर्वन्न लोकानाप्नुयाच्छुभान्॥ लोहयुक्तं यथा हेम विपक्वं न विराजते। तथापक्वकषायाख्यं विज्ञानं न प्रकाशते॥ यश्चाधर्मं चरेल्लोभात् कामक्रोधावनुप्लवन्। धर्म्य पन्थानमाक्रम्य सानुबन्धो विनश्यति॥ शब्दादीन् विषयांस्तस्मान्न संरागादयं व्रजेत्। क्रोधो हर्षो विषादश्च जायन्तेह परस्परात्॥ पञ्चभूतात्मके देहे सत्त्वे राजसतामसे। कमभिष्टुवते चायं कं वाऽऽक्रोशति किं वदन्॥ स्पर्शरूपरसाद्येषु सङ्गं गच्छन्ति बालिशाः। नावगच्छन्त्यविज्ञानादात्मानं पार्थिवं गुणम्॥ मृन्मयं शरणं यद्वन्मृदैव परिलिप्यते। पार्थिवोऽयं तथा देहो मृद्विकारान्न नश्यति॥ मधु तैलं पयः सर्पिर्मांसानि लवणं गुडः। धान्यानि फलमूलानि मृविकाराः सहाम्भसा॥ यद्वत् कान्तारमातिष्ठन्नौत्सुक्यं समनुव्रजेत्। ग्राम्यमाहारमादद्यादस्वाद्वपि हि यापनम्॥ तद्वत् ससारकान्तारमातिष्ठश्रमतत्परः। यात्रार्थमद्यादाहारं व्याधितो भेषजं यथा॥ सत्यशौचार्जवत्यागैर्वर्चसा विक्रमेण च। क्षान्त्या धृत्या च बुद्ध्या च मनसा तपसैव च॥ भावान् सर्वानुपावृत्तान् समीक्ष्य विषयात्मकान्। शान्तिमिच्छन्नदीनात्मा संयच्छेदिन्द्रियाणि च॥ सत्त्वेन रजसा चैव तमसा चैव मोहिताः। चक्रवत् परिवर्तन्ते ह्यज्ञानाज्जन्तवो भृशम्॥ तस्मात् सम्यक् परीक्षेत दोषानज्ञानसम्भवान्। अज्ञानप्रभवं दुःखमहंकारं परित्यजेत्॥ महाभूतानीन्द्रियाणि गुणाः सत्त्वं रजस्तमः। त्रेलोक्यं सेश्वरं सर्वमहंकारे प्रतिष्ठितम्॥ यथेह नियतः कालो दर्शयत्यार्तवान् गुणान्। तद्वद्भूतेष्वहंकारं विद्यात् कर्मप्रवर्तकम्॥ सम्मोहकं तमो विद्यात् कृष्णमज्ञानसम्भवम्। प्रीतिदुःखनिबद्धांश्च समस्तांस्त्रीनथो गुणान्॥ सत्त्वस्य रजसश्चैव तमसश्च निबोध तान्। प्रसादो हर्षजा प्रीतिरसंदहो धृतिः स्मृतिः। एतान् सत्त्वगुणान् विद्यादिमान् राजसतामसान्॥ कामक्रोधौ प्रमादश्च लोभमोहौ भयं क्लमः। विषादशोकावरतिर्मानदर्पावनार्यता।॥ दोषाणामेवमादीनां परोक्ष्य गुरुलाघवम्। विमृशेदात्मसंस्थानमेकैकमनुसंततम्॥ युधिष्ठिर उवाच के दोषा मनसा त्यक्ताः के बुद्ध्या शिथिलीकृताः। के पुनः पुनरायान्ति के मोहादफला इव॥ केषां बलाबलं बुद्ध्या हेतुभिर्विमशेद् बुधः। एष मे संशयस्तात तन्मे ब्रूहि पितामह॥ भीष्म उवाच दोषैर्मूलादवच्छिन्नविशुद्धात्मा विमुच्यते। विनाशयति सम्भूतमयस्मयमयो यथा। तथा कृतात्मा सहजैर्दोषैर्नश्यति तामसैः॥ राजसं तामसं चैव शुद्धात्मकमकल्मषम्। तत् सर्वं देहिनां बीजं सत्त्वमात्मवतः समम्॥ तस्मादात्मवता वर्षं रजश्च तम एव च। रजस्तमोभ्यां निर्मुक्तं सत्त्वं निर्मलतामियात्॥ अथवा मन्त्रवढ्युरात्मादानाय दुष्कृतम्। स वै हेतुरनादाने शुद्धधर्मानुपालने॥ रजसाधर्मयुक्तानि कार्याण्यपि समाप्नुते। अर्थयुक्तानि चात्यर्थं कामान् सर्वांश्च सेवते॥ तमसा लोभयुक्तानि क्रोधजानि च सेवते। हिंसाविहाराभिरतस्तन्द्रीनिद्रासमन्वितः॥ सत्त्वस्थः सात्त्विकान् भावाशुद्धान् पश्यति संश्रितः। स देही विमलः श्रीमाश्रद्धाविद्यासमन्वितः॥ भीष्म उवाच रजसा साध्यते मोहस्तमसा भरतर्षभ। क्रोधलोभौ भयं दर्प एतेषां सादनाच्छुचिः॥ परमं परमात्मानं देवमक्षयमव्ययम्। विष्णुमव्यक्तसंस्थानं विदुस्तं देवसत्तमम्॥ तस्य मायापिनद्धाङ्गा नष्टज्ञाना विचेतसः। मानवा ज्ञानसम्मोहात् ततः क्रोधं प्रयान्ति वै॥ क्रोधात् काममवाप्याथ लोभमोहौ च मानवाः। मानदर्पावहङ्कारमहङ्कारात् ततः क्रियाः॥ क्रियाभिः स्नेहसम्बन्धात्स्नेहाच्छोकमनन्तरम्। सुखदुःखक्रियारम्भाज्जन्माजन्मकृतक्षणाः॥ जन्मतो गर्भवासं तु शुक्रशोणितसम्भवम्। पुरीषमूत्रविक्लेदं शोणितप्रभवाविलम्॥ तृष्णाभिभूतस्तैर्बद्धस्तानेवाभिपरिप्लवन्। संसारतन्त्रवाहिन्यस्तत्र बुद्ध्येत योषितः॥ प्रकृत्या क्षेत्रभूतास्ता नराः क्षेत्रज्ञलक्षणाः। तस्मादेवाविशेषेण नरोऽतीयाद् विशेषतः॥ कृत्या ह्येता घोररूपा मोहयन्त्यविचक्षणान्। रजस्यन्तर्हिता मूर्तिरिन्द्रियाणां सनातनी॥ तस्मात् तदात्मकाद् रागाद् बीजाज्जायन्ति जन्तवः। स्वदेहजानस्वसंज्ञान् यद्वदङ्गात् कृमीस्त्यजेत्। स्व संज्ञानस्वकांस्तद्वत् सुतसंज्ञान् कृमींस्त्यजेत्॥ शुक्रतो रसतश्चैव देहाज्जायन्ति जन्तवः। स्वभावात् कर्मयोगाद् वा तानुपेक्षेत बुद्धिमान्॥ रजस्तमसि पर्यस्तं सत्त्वं च रजसि स्थितम्। ज्ञानाधिष्ठानमव्यक्तं बुद्ध्यहङ्कारलक्षणम्॥ तद् बीजं देहिनामाहुस्तद् बीजं जीवसंज्ञितम्। कर्मणा कालयुक्तेन संसारपरिवर्तनम्॥ रमत्ययं यथा स्वप्ने मनसा देहवानिव। कर्मग:गुणैर्देही गर्भे तदुपलभ्यते॥ कर्मणा बीजभूतेन चोद्यते यद् यदिन्द्रियम्। जायते तदहङ्काराद् रागयुक्तेन चेतसा॥ शब्दरागाच्छ्रात्रमस्य जायते भावितात्मनः। रूपरागात् तथा चक्षुघ्रीणं गन्धचिकीर्षया॥ स्पर्शने त्वक् तथा वायुः प्राणापानव्यपाश्रयः। व्यानोदानौ समानश्च पञ्चधा देहयापनम्॥ संजातैर्जायते गात्रैः कर्मजैर्वम॑णा वृतः। दुःखाद्यन्तैर्दुःखमध्यैर्नरः शारीरमानसैः॥ दुःखं विद्यादुपादानादभिमानाच्च वर्धते। त्यागात् तेभ्यो निरोधः स्यान्निरोधज्ञो विमुच्यते॥ इन्द्रियाणां रजस्येव प्रलयप्रभवावुभौ। परीक्ष्य संचरेद् विद्वान् यथावच्छास्त्रचक्षुषा॥ ज्ञानेन्द्रियाणीन्द्रियार्थान्नोपसर्पन्त्यतर्षुलम्। हीनैश्च करणैर्देही न देहं पुनरर्हति॥ भीष्म उवाच दुरन्तेष्विन्द्रियार्थेषु सक्ताः सीदन्ति जन्तवः। ये त्वसक्ता महात्मानस्ते यान्ति परमां गतिम्॥ जन्ममृत्युजरादुःखैर्व्याधिभिर्मानसक्लमैः। दृष्ट्वैव संततं लोकं घटेन्मोक्षाय बुद्धिमान्॥ वाड्मनोभ्यां शरीरेण शुचिः स्यादनहंकृतः। प्रशान्तो ज्ञानवान् भिक्षुनिरपेक्षश्चरेत् सुखम्॥ अथवा मनसः सङ्गं पश्येद् भूतानुकम्पया। तत्राप्युपेक्षां कुर्वीत ज्ञात्वा कर्मफलं जगत्॥ यत् कृतं स्याच्छुभं कर्म पापं वा यदि वाश्नुते। तस्माच्छुभानि कर्माणि कुर्याद् वा बुद्धिकर्मभिः॥ अहिंसा सत्यवचनं सर्वभूतेषु चार्जयम्। क्षमा चैवाप्रमादश्च यस्यैते स सुखी भवेत्॥ यश्चैनं परमं धर्मं सर्वभूतसुखावहम्। दुःखान्निःसरणं वेद सर्वज्ञः स सुखी भवेत्॥ तस्मात् समाहितं बुद्ध्या मनो भूतेषु धारयेत्। नापध्यायेन स्पृहयेन्नाबद्धं चिन्तयेदसत्॥ अथामोधप्रयत्नेन मनो ज्ञाने निवेशयत्। वाचामोघप्रयासेन मनोज्ञं तत् प्रवर्तते॥ विवक्षता च सद्वाक्यं धर्मं सूक्ष्ममवेक्षता। सत्यां वाचमहिंस्रां च वदेदनपवादिनीम्॥ कल्कापेतामपरुषामनृशंसामपैशुनाम्। ईदृगल्पं च वक्तव्यमविक्षिप्तेन चेतसा॥ वाक्प्रबद्धो हि संसारो विरागाद् व्याहरेद् यदि। बुद्ध्याप्यनुगृहीतेन मनसा कर्म तामसम्॥ रजोभूतैर्हि करणैः कर्मणि प्रतिपद्यते। स दुःखं प्राप्य लोकेऽस्मिन् नरकायोपपद्यते। तस्मान्मनोवाक्शरीरै राचरेद् धैर्यमात्मनः॥ प्रकीर्णमेषभारं हि यद्वद् धार्येत दस्युभिः। प्रतिलोमां दिशं बुद्ध्वा संसारमबुधास्तथा॥ तमेव च यथा दस्युः क्षिप्त्वा गच्छेच्छिवां दिशम्। तथा रजस्तमःकर्माण्युत्सृज्य प्राप्नुयाच्छुभम्॥ नि:संदिग्धमनीहो वै मुक्तः सर्वपरिग्रहैः। विविक्तचारी लघ्वाशी तपस्वी नियतेन्द्रियः॥ ज्ञानदग्धपरिक्लेशः प्रयोगरतिरात्मवान्। निष्प्रचारेण मनसा परं तदधिगच्छति॥ धृतिमानात्मवान् बुद्धिं निगृह्णीयादसंशयम्। मनो बुद्ध्या निगृह्णीयाद् विषयान्मनसाऽऽत्मनः॥ निगृहीतेन्द्रियस्यास्य कुर्वाणस्य मनो वशे। देवतास्तत् प्रकाशन्ते हृष्टा यान्ति तमीश्वरम्॥ ताभिः संयुक्तमनसो ब्रह्म तत् सम्प्रकाशते। शनैश्चोपगते सत्त्वे ब्रह्मभूयाय कल्पते॥ अथवा न प्रवर्तेत योगतन्त्रैरुपक्रमेत्। येन तन्त्रयतस्तन्त्रं वृत्तिः स्यात् तत् तदाचरेत्॥ कणकुल्माषपिण्याकशाकयावकसक्तवः। तथा मूलफलं भक्ष्यं पर्यायेणोपयोजयेत्॥ आहारनियमं चैव देशे काले च सात्त्विकम्। तत् परीक्ष्यानुवर्तेत तत्प्रवृत्त्यनुपूर्वकम्॥ प्रवृत्तं नोपरुन्धेत शनैरग्निमिवेन्धयेत्। ज्ञानान्वितं तथा ज्ञानमर्कवत् सम्प्रकाशते।॥ ज्ञानाधिष्ठानमज्ञानं त्रौंल्लोकानधितिष्ठति। विज्ञानानुगतं ज्ञानमज्ञानेनापकृष्यते॥ पृथक्त्वात् सम्प्रयोगाच्च नासूयुर्वेद शाश्वतम्। स तयोरपवर्गज्ञो वीतरागो विमुच्यते॥ ततो वीतजरामृत्युर्ज्ञात्वा ब्रह्म सनातनम्। अमृतं तदवाप्नोति यत् तदक्षरमव्ययम्॥ भीष्म उवाच निष्कल्मषं ब्रह्मचर्यमिच्छता चरितुं सदा। निद्रा सर्वात्मना त्याज्या स्वप्नदोषानवेक्षता॥ स्वप्ने हि रजसा देही तमसा चाभिभूयते। देहान्तरमिवापन्नश्चरत्युपगतस्पृहः॥ ज्ञानाभ्यासाज्जागरणं जिज्ञासार्थमनन्तरम्। विज्ञानाभिनिवेशात्तु स जागर्त्यनिशं सदा॥ अत्राह को न्वयं भावः स्वप्ने विषयवानिव। प्रलीनैरिन्द्रियैर्देही वर्तते देहवानिव॥ अत्रोच्यते तथा ह्येतद् वेद योगेश्वरो हरिः। तथैतदुपपन्नार्थं वर्णयन्ति महर्षयः॥ इन्द्रियाणां श्रमात् स्वप्नमाहुः सर्वगतं बुधाः। मनसस्त्वप्रलीनत्वात् तत् तदाहुर्निदर्शनम्॥ कार्ये व्यासक्तमनसः संकल्पो जाग्रतो ह्यपि। यद्वन्मनोरथैश्वर्यं स्वप्ने तद्वन्मनोगतम्॥ संस्काराणामसंख्यानां कामात्मा तदवाप्नुयात्। मनस्यन्तर्हितं सर्वं स वेदोत्तमपूरुषः॥ गुणानामपि यद्येतत् कर्मणा चाप्युपस्थितम्। तत् तच्छंसन्ति भूतानि मनो यद्भावितं यथा।॥ ततस्तमुपसर्पन्ति गुणा राजसतामसाः। सात्त्विका वा यथायोगमानन्तर्यफलोदयम्॥ ततः पश्यन्त्यसम्बुद्ध्या वातपित्तकफोत्तरान्। रजस्तमोगतै वैस्तदण्याहु१रत्ययम्॥ प्रसन्नैरिन्द्रियैर्यद् यत् संकल्पयति मानसम्। तत् तत् स्वप्नेऽप्युगते मनो हृष्यन्निरीक्षते॥ व्यापकं सर्वभूतेषु वर्ततेऽप्रतिघं मनः। आत्मप्रभावात् विद्यात् सर्वा ह्यात्मनि देवताः॥ मनस्यन्तर्हितं द्वारं देहमास्थाय मानुषम्। यद् यत् सदसदव्यक्तं स्वपित्यस्मिन्निदर्शनम्। सर्वभूतात्मभूतस्थं तमध्यात्मगुणं विदुः॥ लिप्सेत मनसा यश्च संकल्पादैश्वरं गुणम्। आत्मप्रसादं तं विद्यात् सर्वा ह्यात्मनि देवताः॥ एवं हि तरसा युक्तमर्कवत् तमसः परम्। त्रैलोक्यप्रकृतिदेही तमसोऽन्ते महेश्वरः॥ तपो ह्यधिष्ठितं देवैस्तयोघ्नमसुरैस्तमः। एतद् देवासुरैर्गुप्तं तदाहुनिलक्षणम्॥ सत्त्वं रजस्तमश्चेति देवासुरगुणान् विदुः। सत्त्वं देवगुणं विद्यादितरावासुरौ गुणौ॥ ब्रह्म तत् परम् ज्ञानममृतं ज्योतिरक्षरम्। विदुर्भावितात्मानस्ते यान्ति परमां गतिम्॥ हेतुमच्छक्यमाख्यातुमेतावज्ज्ञानचक्षुषा। प्रत्याहारेण वा शक्यमक्षरं ब्रह्म वेदितुम्॥ भीष्म उवाच न स वेद परं ब्रह्म यो न वेद चतुष्टयम्। व्यक्ताव्यक्तं च यत् तत्त्वं सम्प्रोक्तं परमर्षिणा॥ व्यक्तं मृत्युमुखं विद्यादव्यक्तमृतं पदम्। प्रवृत्तिलक्षणं धर्ममृषिर्नारायणोऽब्रवीत्॥ तत्रैवावस्थितं सर्वं त्रैलोक्यं सचराचरम्। निवृत्तिलक्षणं धर्ममव्यक्तं ब्रह्म शाश्वतम्॥ प्रवृत्तिलक्षणं धर्मं प्रजापतिरथाब्रवीत्। प्रवृत्तिः पुनरावृत्तिनिवृत्तिः परमा गतिः॥ तां गतिं परमामेति निवृत्तिपरमो मुनिः। ज्ञानतत्त्वपरो नित्यं शुभाशुभनिदर्शकः॥ तदेवमेतौ विज्ञेयावव्यक्तपुरुषावुभौ। अव्यक्तपुरुषाभ्यां तु यत् स्यादन्यन्महत्तरम्॥ तं विशेषमवेक्षेत विशेषेण विचक्षणः। अनाद्यन्तावुभावेतावलिङ्गौ चाप्युभावपि॥ उभौ नित्यावविचलौ महद्भ्यश्च महत्तरौ। सामान्यमेतदुभयोरेवं ह्यन्यद्विशेषणम्॥ प्रकृत्या सर्गधर्मिण्या तथा त्रिगुणधर्मया। विपरीतमतो विद्यात् क्षेत्रज्ञस्य स्वलक्षणम्॥ प्रकृतेश्च विकाराणां द्रष्टारमगुणान्वितम्। अग्राह्यौ पुरुषावेतावलिङ्गत्वादसंहतौ॥ संयोगलक्षणोत्पत्तिः कर्मणा गृह्यते यथा। करणैः कर्मनिवृत्तिः कर्ता यद् यद् विचेष्टते। कीर्त्यते शब्दसंज्ञाभिः कोऽहमेषोऽप्यसाविति॥ उष्णीषवान् यथा वस्त्रैस्त्रिभिर्भवति संवृतः। संवृतोऽयं तथा देही सत्त्वराजसतामसैः॥ तस्माच्चतुष्टयं वेद्यमेतैर्हेतुभिरावृतम्। यथासंज्ञो ह्ययं सम्यगन्तकाले न मुह्यति॥ श्रियं दिव्यामभिप्रेप्सुर्वम॑वान् मनसा शुचिः। शारीरैर्नियमैरुग्रैश्चरेन्निष्कल्मषं तपः॥ त्रैलोक्यं तपसा व्याप्तमन्तर्भूतेन भास्वता। सूर्यश्च चन्द्रमाश्चैव भासतस्तपसा दिवि॥ प्रकाशस्तपसो ज्ञानं लोके संशब्दितं तपः। रजस्तमोघ्नं यत् कर्म तपसस्तत् स्वलक्षणम्॥ ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते। वाङ्मनोनियमः सम्यमानसं तप उच्यते॥ विधिज्ञेभ्यो द्विजातिभ्यो ग्राह्यमन्नं विशिष्यते। आहारनियमेनास्य पाप्मा शाम्यति राजसः॥ वैमनस्यं च विषये यान्त्यस्य करणानि च। तस्मात् तन्मात्रमादद्याद् यावदत्र प्रयोजनम्॥ अन्तकाले बलोत्कर्षाच्छनैः कुर्यादनातुरः। एवं युक्तेन मनसा ज्ञानं यदुपपद्यते॥ रजोवर्धोऽप्ययं देही देहवाञ्छब्दवच्चरेत्। कार्यैरव्याहतमतिर्वैराग्यात् प्रकृतौ स्थितः॥ आ देहादप्रमादाच्च देहान्ताद् विप्रमुच्यते। हेतुयुक्तः सदा सर्गो भूतानां प्रलयस्तथा॥ परप्रत्ययसर्गे तु नियति नुवर्तते। भावान्तप्रभवप्रज्ञा आसते ये विपर्ययम्॥ धृत्या देहान् धारयन्तो बुद्धिसंक्षिप्तचेतसः। स्थानेभ्यो ध्वंसमानाश्च सूक्ष्मत्वात् तदुपासते॥ यथागमं च गत्वा वै बुद्ध्या तत्रैव बुद्ध्यते। देहान्तं कश्चिदन्वास्ते भावितात्मा निराश्रयम्॥ युक्तं धारणया सम्यक् सतः केचिदुपासते। अभ्यस्यन्ति परं देवं विद्युत्संशब्दिताक्षरम्॥ अन्तकाले [पासन्ते तपसा दग्धकिल्बिषाः। सर्व एते महात्मानो गच्छन्ति परमां गतिम्॥ सूक्ष्मं विशेषणं तेषामवेक्षेच्छास्त्रचक्षुषा। देहान्तं परमं विद्याद् विमुक्तमपरिग्रहम्। अन्तरिक्षादन्यतरं धारणासक्तमानसम्॥ मर्त्यलोकान् विमुच्यन्ते विद्यासंसक्तचेतसः। ब्रह्मभूता विरजसस्ततो यान्ति परां गतिम्॥ एवमेकायनं धर्ममाहुर्वेदविदो जनाः। यथाज्ञानमुपासन्तः सर्वे यान्ति परां गतिम्॥ कपायवर्जितं ज्ञानं येषामुत्पद्यते चलम् यान्ति तेऽपि पराँल्लोकान् विमुच्यन्ते यथाबलम्॥ भगवन्तमजं दिव्यं विष्णुमव्यक्तसंज्ञितम्। भावेन यान्ति शुद्धा ये ज्ञानतृप्ता निराशिषः॥ ज्ञात्वाऽऽत्मस्थं हरि चैव न निवर्तन्ति तेऽव्ययाः। प्राप्य तत् परमं स्थानं मोदन्तेऽक्षरमव्ययम्॥ एतावदेतद् विज्ञानमेतदस्ति च नास्ति च। तृष्णाबद्धं जगत् सर्वं चक्रवत् परिवर्तते।॥ बिसतन्तुर्यथैवायमन्तःस्थः सर्वतो बिसे। तृष्णातन्तुरनाद्यन्तस्तथा देहगतः सदा॥ सूच्या सूत्रं यथा वस्त्रे संसारयति वायकः। तद्वत् संसारसूत्रं हि तृष्णासूच्या निबद्ध्यते॥ विकारं प्रकृतिं चैव पुरुषं च सनातनम्। यो यथावद् विजानाति स वितृष्णो विमुच्यते॥ प्रकाशं भगवानेतदृषिर्नारायणोऽमृतम्। भूतानामनुकम्पार्थं जगाद जगतो गतिः॥ युधिष्ठिर उवाच केन वृत्तेन वृत्तज्ञ जनको मिथिलाधिपः। जगाम मोक्षं मोक्षज्ञो भोगानुत्सृज्य मानुषान्॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। येन वृत्तेन धर्मज्ञः स जगाम महत्सुखम्॥ जनको जनदेवस्तु मिथिलायां जनाधिपः। और्ध्वदेहिकधर्माणामासीद् युक्तो विचिन्तने॥ तस्य स्म शतमाचार्या वसन्ति सततं गृहे। दर्शयन्तः पृथग्धर्मान् नानाश्रमनिवासिनः॥ स तेषां प्रेत्यभावे च प्रेत्यजातौ विनिश्चये। आगमस्थः स भूयिष्ठमात्मतत्त्वे न तुष्यति॥ तत्र पञ्चशिखो नाम कापिलेयो महामुनिः। परिधावन महीं कृत्स्नां जगाम मिथिलामथ॥ सर्वसंन्यासधर्माणां तत्त्वज्ञानविनिश्चये। सुपर्यवसितार्थश्च निर्द्वन्द्वो नष्टसंशयः॥ ऋषीणामाहुरेकं तं यं कामानावृतं नृषु। शाश्वतं सुखमत्यन्तमन्विच्छन्तं सुदुर्लभम्॥ यमाहुः कपिलं सांख्याः परमर्षि प्रजापतिम्। स मन्ये तेन रूपेण विस्मापयति हि स्वयम्॥ आसुरेः प्रथमं शिष्यं यमाहुश्चिरजीविनम्। पञ्चस्रोतसि यः सत्रमास्ते वर्षसहस्रिकम्॥ तं समासीनमागम्य कापिलं मण्डलं महत्। पञ्चस्रोतसि निष्णातः पञ्चरात्रि विशारदः॥ पञ्चज्ञः पञ्चकृत्पञ्चगुणः पञ्चशिखः स्मृतः। पुरुषावस्थमव्यक्तं परमार्थं न्यवेदयत्॥ इष्टसत्रेण संसिद्धो भूयश्च तपसाऽऽसुरिः। क्षेत्रक्षेत्रज्ञयोर्व्यक्तिं बुबुधे देवदर्शनः॥ यत् तदेकाक्षरं ब्रह्म नानारूपं प्रदृश्यते। आसुरिर्मण्डले तस्मिन् प्रतिपेदे तदव्ययम्॥ तस्य पञ्चशिखः शिष्यो मानुष्या पयसा भृतः। ब्राह्मणी कपिला नाम काचिदासीत् कुटुम्बिनी॥ तस्याः पुत्रत्वमागम्य स्त्रियाः स पिबति स्तनौ। ततः स कापिलेयत्वं लेभे बुद्धिं च नैष्ठिकीम्॥ एतन्मे भगवानाह कापिलेयस्य सम्भवम्। तस्य तत् कापिलेयत्वं सर्ववित्त्वमनुत्तमम्॥ सामान्यं जनकं ज्ञात्वा धर्मज्ञो ज्ञानमुत्तमम्। उपेत्य शतमाचार्यान् मोहयामास हेतुभिः॥ जनकस्त्वभिसंरक्तः कापिलेयानुदर्शनात्। उत्सृज्य शतमाचार्यान् पृष्ठतोऽनुजगाम तम्॥ तस्मै परमकल्याय प्रणताय च धर्मतः। अब्रवीत् परमं मोक्षं यत् तत् सांख्येऽभिधीयते॥ जातिनिर्वेदमुक्त्वा स कर्मनिर्वेदमब्रवीत्। कर्मनिर्वेदमुक्त्वा च सर्वनिर्वेदमब्रवीत्॥ यदर्थं धर्मसंसर्गः कर्मणां च फलोदयः। तमनाश्वासिकं मोहं विनाशि चलमध्रुवम्॥ दृश्यमाने विनाशे च प्रत्यक्षे लोकसाक्षिके। आगमात् परमस्तीति ब्रुवन्नपि पराजितः॥ अनात्मा ह्यात्मनो मृत्युः क्लेशो मृत्युर्जरामयः। आत्मानं मन्यते मोहात् तदसम्यक् परं मतम्॥ अथ चेदेवमप्यस्ति यल्लोके नोपपद्यते। अजरोऽयममृत्युश्च राजासौ मन्यते यथा।॥ अस्ति नास्तीति चाप्येतत् तस्मिन्नसति लक्षणे। किमधिष्ठाय तद् ब्रूयाल्लोकयात्राविनिश्चयम्॥ प्रत्यक्षं ह्येतयोर्मूलं कृतान्तैतिह्ययोरपि। प्रत्यक्षेणागमो भिन्नः कृतान्तो वा न किञ्चन॥ यत्र यत्रानुमानेऽस्मिन् कृतं भावयतोऽपि च। नान्यो जीवः शरीरस्य नास्तिकानां मते स्थितः॥ रेतो वटकणीकायां घृतपाकाधिवासनम्। जातिः स्मृतिरयस्कान्तः सूर्यकान्तोऽम्बुभक्षणम्॥ प्रेतीभूतेऽत्ययश्चैव देवताधुपयाचनम्। मृते कर्मनिवृत्तिश्च प्रमाणमिति निश्चयः॥ नन्वेते हेतवः सन्ति ये केचिन्मूर्तिसंस्थिताः। अमूर्तस्य हि मूर्तेन सामान्यं नोपपद्यते॥ अविद्या कर्म तृष्णा च केचिदाहुः पुनर्भवे। कारणं लोभमोहौ तु दोषाणां तु निषेवणम्॥ अविद्यां क्षेत्रमाहुर्हि कर्म बीजं तथा कृतम्। तृष्णा संजननं स्नेह एष तेषां पुनर्भवः॥ तस्मिन् गूढे च दग्धे च भिन्ने मरणधर्मिणि। अन्योऽस्माज्जायते देहस्तमाहुः सत्त्वसंक्षयम्॥ यदा स्वरूपतश्चान्यो जातितः शुभतोऽर्थतः। कथमस्मिन् स इत्येवं सर्वं वा स्यादसंहितम्॥ एवं सति च का प्रीतिर्दानविद्यातपोबलैः। यदस्याचरितं कर्म सर्वमन्यत् प्रपद्यते॥ अपि ायमिहैवान्यैः प्राक्कृतैर्दुःखितो भवेत्। सुखितो दुःखितो वापि दृश्यादृश्यविनिर्णयः॥ तथा हि मुसलैर्हन्युः शरीरं तत् पुनर्भवेत्। पृथग्ज्ञानं यदन्यच्च येनैतन्त्रोपपद्यते॥ ऋतुसंवत्सरौ तिष्यः शीतोष्णेऽथ प्रियाप्रिये। यथातीतानि पश्यन्ति तादृशः सत्त्वसंक्षयः॥ जरयाभिपरीतस्य मृत्युना च विनाशिना। दुर्बलं दुर्बलं पूर्व गृहस्येव विनश्यति॥ इन्द्रियाणि मनो वायुः शोणितं मांसमस्थि च। आनुपूर्व्या विनश्यन्ति स्वं धातुमुपयान्ति च॥ लोकयात्राविघातश्च दानधर्मफलागमे। तदर्थं वेदशब्दाश्च व्यवहाराश्च लौकिकाः॥ इति सम्यङ्मनस्यते बहवः सन्ति हेतवः। एतदस्तीदमस्तीति न किञ्चित्प्रतिदृश्यते॥ तेषां विमृशतामेव तत् तत्समभिधावताम्। क्वचिन्निविशते बुद्धिस्तत्र जीर्यति वृक्षवत्॥ एवमथैरनथैश्च दुःखिताः सर्वजन्तवः। आगमैरपकृष्यन्ते हस्तिपैर्हस्तिनो यथा॥ अर्थांस्तथात्यन्तसुखावहांश्च लिप्सन्त एते बहवो विशुष्काः। महत्तरं दुःखमनुप्रपन्ना हित्वाऽऽमिषं मृत्युवशं प्रयान्ति॥ विनाशिनो ह्यध्रुवजीवितस्य किं बन्धभिभिन्नपरिग्रहैश्चा विहाय यो गच्छति सर्वमेव क्षणेन गत्वा न निवर्तते च॥ भूव्योमतोयानलवायवोऽपि सदा शरीरं प्रतिपालयन्ति। इतीदमालक्ष्य रतिः कुतो भवेद् विनाशिनोऽप्यस्य न शर्म विद्यते॥ इदमनुपधिवाक्यमच्छल परमनिरामयमात्मसाक्षिकम्। नरपतिरभिवीक्ष्य विस्मित: पुनरनुयोक्तुमिदं प्रचक्रमे॥ भीष्म उवाच जनको जनदेवस्तु ज्ञापितः परमर्षिणा। पुनरेवानुपप्रच्छ साम्पराये भवाभुवौ॥ जनक उवाच भगवन् यदि न प्रेत्य संज्ञा भवति कस्यचित्। एवं सति किमज्ञानं ज्ञानं वा किं करिष्यति॥ सर्वमुच्छेदनिष्ठं स्यात् पश्य चैतद् द्विजोत्तम! अप्रमत्तः प्रमत्तो वा किं विशेषं करिष्यति॥ असंसर्गो हि भूतेषु संसर्गो वा विनाशिषु। कस्मै क्रियेत कल्प्येत निश्चयः कोऽत्र तत्त्वतः॥ भीष्म उवाच तमसा हि प्रतिच्छन्नं विभ्रान्तमिव चातुरम्। पुनः प्रशमयन् वाक्यैः कविः पञ्चशिखोऽब्रवीत्॥ उच्छेदनिष्ठा नेहास्ति भावनिष्ठा न विद्यते। अयं ह्यपि समाहारः शरीरेन्द्रियचेतसाम्। वर्तते पृथगन्योन्यमप्यपाश्रित्य कर्मसु॥ धातवः पञ्च भूतेषु खं वायुर्योतिषो धरा। ते स्वभावेन तिष्ठन्ति वियुज्यन्ते स्वभावतः॥ आकाशोवायुरूष्मा च स्नेहो यश्चापि पार्थिवः! एष पञ्चसमाहारः शरीरमपि नैकवाटा ज्ञानमूष्मा च वायुश्च त्रिविधः कार्यसंग्रह। इन्द्रियाणीन्द्रियाथाश्च स्वभावश्चेतना मनः। प्राणापानौ विकारश्च धातवश्चात्र नि:सृताः॥ श्रवणं स्पर्शनं जिह्वा दृष्टि सा तथैव च। इन्द्रियाणीति पञ्चैते चित्तपूर्वं गता गुणाः॥ तत्र विज्ञानसंयुक्ता त्रिविधा चेतना ध्रुवा। सुखदुःखेति यामाहुरदुःखामसुखेति च॥ शब्द: स्पर्श च रूपं च रसो गन्धश्च मूर्तयः। एते ह्यामरणात् पञ्च षड्गुणा ज्ञानसिद्धये॥ तेषु कर्मविसर्गश्च सर्वतत्त्वार्थनिश्चयः। तमाहुः परमं शुक्र बुद्धिरित्यव्ययं महत्॥ इमं गुणसमाहारमात्मभावेन पश्यतः। असम्यग्दर्शनैर्दुःखमनन्तं नोपशाम्यति॥ अनात्मेति च यद् दृष्टं तेनाह न ममेत्यपि। वर्तते किमधिष्ठानात् प्रसक्तादुःखपमृतिः॥ अत्र सम्यग्वधो नाम त्यागशास्त्रमनुत्तमम्। शृणु यत् तव मोक्षाय भाष्यमाणं भविष्यति॥ त्याग एव हि सर्वेषां युक्तानामपि कर्मणाम्। नित्यं मिथ्याविनीतानां क्लेशो दुःखवहो मतः॥ द्रव्यत्यागे तु कर्माणि भोगत्यागे व्रतान्यपि। सुखत्यागे तपो योगं सर्वत्यागे समापना॥ तस्य मार्गोऽयमद्वैधः सर्वत्यागस्य दर्शितः विप्रहाणाय दुःखस्य दुर्गतिस्त्वन्यथा भवेत्॥ पञ्चज्ञानेन्द्रियाण्युक्त्वा मनःषष्ठानि चेतसि। बलषष्ठानि वक्ष्यामि पञ्चकर्मेन्द्रियाणि तु!॥ हस्तौ कर्मेन्द्रियं ज्ञेयमथ पादौ गतीन्द्रियम्। प्रजनानन्दयोः शेफो निसर्गे पायुरिन्द्रियम्।।२११ एवमेकादशैतानि बुद्ध्याऽऽशु विसृजेन्मनः॥ कर्णी शब्दश चित्तं च त्रयः श्रवणसंग्रहे। तथा स्पर्श तथा रूपे तथैव रसगन्धयोः॥ एवं पञ्चत्रिका ह्येते गुणास्तदुपलब्धये। येनायं त्रिविधो भावः पर्यायात् समुपस्थितः॥ सात्त्विको राजसश्चापि तामसश्चापि ते त्रयः। त्रिविधा वेदना येषु प्रसूताः सर्वसाधनाः॥ प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता। अकुतश्चित् कुतश्चिद्वा चिन्तितः सात्त्विको गुणः॥ अतुष्टिः परितापश्च शोको लोभस्तथाक्षमा। लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुतः॥ अविवेकस्तथा मोहः प्रमोदः स्वप्नतन्द्रिता। कथंचिदपि वर्तन्ते विविधास्तामसा गुणाः॥ अत्र यत् प्रीतिसंयुक्तं काये मनसि वा भवेत्। वर्तते सात्त्विको भाव इत्यपेक्षेत तत् तथा॥ यत् त्वसंतोषसंयुक्तमप्रीतिकरमात्मनः। प्रवृत्तं रज इत्येवं ततस्तदपि चिन्तयेत्॥ अथ यन्मोहसंयुक्तं काये मनसि वा भवेत्। अप्रत_मविज्ञेयं तमस्तदुपधारयेत्॥ श्रोतं व्योमाश्रितं भूतं शब्दः श्रोतं समाश्रितः। नोभयं शब्दविज्ञाने विानस्येतरस्य वा॥ एवं त्वक्चक्षुषी जिह्वा नासिका चेति पञ्चमी। स्पर्श रूपे रसे गन्धे तानि चेतो मनश्च तत्॥ स्वकर्मयुगपद्भावो दशस्वेतेषु तिष्ठति। चित्तमेकादशं विद्धि बुद्धिादशमी भवेत्॥ तेषामयुगपद्भाव उच्छेदो नास्ति तामसे। आस्थितो युगपद्भावो व्यवहारः स लौकिकः॥ इन्द्रियाण्यपि सूक्ष्माणि दृष्ट्वा पूर्वश्रुतागमात्। चिन्तयन्नानुपर्येति निभिरेवान्वितो गुणैः॥ यत् तमोपहतं चित्तमाशु संहारमध्रुवम्। करोत्युपरमं काये तदाहुस्तामसं बुधाः॥ यद् यदागमसंयुक्तं न कृच्छ्रमनुपश्यति। अथ तत्राप्युपादत्ते तमोऽव्यक्तमिवानृतम्॥ एवमेष प्रसंख्यातः स्वकर्मप्रत्ययो गुणः। कथञ्चिद् वर्तते सम्यक् केषांचिद् वा निवर्तते।॥ एतदाहुः समाहारं क्षेत्रमध्यात्मचिन्तकाः। स्थितो मनसि यो भावः स वै क्षेत्रज्ञ उच्यते॥ एवं सति क उच्छेदः शाश्वतो वा कथं भवेत्। स्वभावाद् वर्तमानेषु सर्वभूतेषु हेतुतः॥ यथार्णवगता नद्यो व्यक्तीर्जहति नाम च। नदाश्च ता नियच्छन्ति तादृशः सत्त्वसंक्षयः॥ एवं सति कुत: संज्ञा प्रेत्यभावे पुनर्भवेत्। प्रतिसम्मिश्रिते जीवेऽगृह्यमाणे च सर्वतः॥ मात्मानमन्विच्छति चाप्रमत्तः। न लिप्यते कर्मफलैरनिष्टः पत्रं विसस्येव जलेन सिक्तम्॥ दृढ़र्हि पाशैर्बहुभिर्विमुक्तः प्रजानिमित्तैरपि दैवतैश्च। यदा ह्यसौ सुखदुःखे जहाति मुक्तस्तदग्यां गतिमेत्यलिङ्गः॥ श्रुतिप्रमाणागममङ्गलैच शेते जरामृत्युभयादभीतः। क्षीणे च पुण्ये विगते च पापे ततो निमित्ते च फले विनष्टे। मास्थाय पश्यन्ति महत्यसक्ताः॥ स्तन्तुक्षय तिष्ठति पात्यमानः। तथा विमुक्तः प्रजहाति दुःखं विध्वंसते लोष्ट इवाद्रिमृच्छन्॥ यथा रुरुः शृङ्गमथो पुराणं हित्वा त्वचं वाप्युरगो यथा च। स्तथा विमुक्तो विजहाति दुःखम्॥ मुत्सृज्य पक्षी निपतत्यसक्तः। तथा ह्यसौ सुखदुःखे विहाय मुक्तः पराक्र्धा गतिमेत्यलिङ्गः॥ भीष्म उवाच अपि च भवति मैथिलेन गीतं नगरमुपाहितमग्निनाभिवीक्ष्य। न खलु मम हि दह्यतेऽत्र किंचित् स्वयमिदमाह किल स्म भूमिपालः॥ इदममृतपदं निशम्य राजा स्वयमिह पञ्चशिखेन भाष्यमाणम्। निखिलमभिसमीक्ष्य निश्चितार्थः परमसुखी विजहार वीतशोकः॥ इमं हि यः पठति विमोक्षनिश्चयं महीपते सततमवेक्षते तथा। उपद्रवान् नानुभवत्यदुःखितः प्रमुच्यते कपिलमिवैत्य मैथिलः॥ युधिष्ठिर उवाच किं कुर्वन् सुखमाप्नोति किं कुर्वन् दुःखमाप्नुयात्। किं कुर्वनिर्भयो लोके सिद्धश्चरति भारत॥ भीष्म उवाच दममेव प्रशंसन्ति वृद्धाः श्रुतिसमाधयः। सर्वेषामेव वर्णानां ब्राह्मणस्य विशेषतः॥ नादान्तस्य क्रियासिद्धिर्यथावदुपपद्यते। क्रिया तपश्च सत्यं च दमे सर्वं प्रतिष्ठितम्॥ दमस्तेजो वर्धयति पवित्रं दम उच्यते। विपाप्मा निर्भयो दान्तः पुरुषो विन्दन्ते महत्॥ सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुद्ध्यते। सुखं लोके विपर्येति मनश्चास्य प्रसीदति॥ तेजो दमेन ध्रियते तन्न तीक्ष्णोऽधिगच्छति। अमित्रांश्च बहून् नित्यं पृथगात्मनि पश्यति॥ क्रव्याट्य इव भूतानमदान्तेभ्यः सदाभयम्। तेषां विप्रतिषेधार्थं राजा सृष्टः स्वयम्भुवा॥ आश्रमेषु च सर्वेषु दम एव विशिष्यते। यच्च तेषु फलं धर्मे भूयो दान्ते तदुच्यते॥ तेषां लिङ्गानि वक्ष्यामि येषां समुदयो दमः। अकार्पण्यमसंरम्भः संतोष: श्रद्दधानता॥ अक्रोध आर्जवं नित्यं नातिवादोऽभिमानिता। गुरुपूजानसूया च दया भूतेष्वपैशुनम्॥ जनवादमृषावादस्तुतिनिन्दाविवर्जनम्। साधुकामश्च स्पृहयेन्नायति प्रत्ययेषु च॥ अवैरकृत् सूपचारः समो निन्दाप्रशंसयोः। सुवृत्तः शीलसम्पन्नः प्रसन्नात्मऽऽत्मवान् प्रभुः॥ प्राप्य लोके च सत्कारं स्वर्ग वै प्रेत्य गच्छति। दुर्गमं सर्वभूतानां प्रापयन् मोदते सुखी॥ सर्वभूतहिते युक्तो न स्म यो द्विषते जनम्। महाह्रद इवाक्षोभ्यः प्रज्ञातृप्तः प्रसीदति॥ अभयं यस्य भूतेभ्यः सर्वेषामभयं यतः। नमस्यः सर्वभूतानां दान्तो भवति बुद्धिमान्॥ न हृष्यति महत्यर्थे व्यसने च न शोचति। स वै परिमितप्रज्ञः स दान्तो द्विज उच्यते॥ कर्मभिः श्रुतिसम्पन्नः सद्भिराचरितैः शुचिः। सदैव दमसंयुक्तस्तस्य भुङ्क्ते महाफलम्।।१७ अनसूया क्षमा शान्तिः संतोषः प्रियवादिता। सत्यं दानमनायासो नैष मार्गो दुरात्मनाम्॥ कामक्रोधौ च लोभश्च परस्येाविकत्थना। कामक्रोधौ वशे कृत्वा ब्रह्मचारी जितेन्द्रियः ॥ विक्रम्य घोरे तपसि ब्राह्मणः संशितव्रतः। कालाकाङ्क्षी चरेल्लोकान् निरपाय इवात्मवान्॥ युधिष्ठिर उवाच द्विजातयो व्रतोपेता यदिदं भुञ्जते हविः। अन्नं ब्राह्मणकामाय कथमेतत् पितामह॥ भीष्म उवाच अवेदोक्तव्रतोपेता भुञ्जाना: कार्यकारिणः। वेदोक्तेषु च भुञ्जाना व्रतलुब्धा युधिष्ठिर॥ युधिष्ठिर उवाच यदिदं तप इत्याहुरुपवासं पृथग्जनाः। एतत् तपो महाराज उताहो किं तपो भवेत्॥ भीष्म उवाच मासपक्षोपवासेन मन्यन्ते यत् तपो जनाः। आत्मतन्त्रोपघातस्तु न तपस्तत्सतां मतम्॥ त्यागश्च संनतिश्चैव शिष्यते तप उत्तमम्। सदोपवासी च भवेद् ब्रह्मचारी सदा भवेत्॥ मुनिश्च स्यात् सदा विप्रो दैवतं च सदा भवेत्। कुटुम्बिको धर्मकामः सदास्वप्नश्च भारत॥ मांसादी सदा च स्यात् पवित्रश्च सदा भवेत्। अमृताशी सदा च स्याद् देवतातिथिपूजकः॥ विघसाशी सदा च स्यात् सदा चैवातिथिव्रतः। श्रद्दधानः सदा च स्याद् देवताद्विजपूजकः॥ युधिष्ठिर उवाच कधं सदोपवासी स्याद् ब्रह्मचारी कथं भवेत्। विघसाशी कथं च स्यात् सदा चैवातिथिव्रतः॥ भीष्म उवाच अन्तरा प्रातराशं च सायमाशं तथैव च। सदोपवासी स भवेद् योन भुङ्क्तेऽन्तरा पुनः॥ भार्यां गच्छन् ब्रह्मचारी ऋतौ भवति वै द्विजः। ऋतुवादी भवेन्नित्यं ज्ञाननित्यश्च यो नरः॥ अभक्षयेत् तथा मांसमपांसाशी भवत्यपि। दाननिता; पवित्रश्च अस्वप्नश्च दिवास्वपन्॥ भृत्यातिथिषु यो शुढे भुक्तवत्सु सदा सदा। अमृतं केवलं भुते इति विद्धि युधिष्ठिर॥ (अदत्त्वा योऽतिथिभ्योऽन्नं न भुङ्क्ते सोऽतिथिप्रियः। अदत्त्वान्नं दैवतेभ्यो यो न भुङ्क्ते स दैवतम्।।) अभुक्तवत्सु नाश्नानः सततं यस्तु वै द्विजः। अभोजनेन तेनास्य जित: स्वर्गो भवत्युत॥ देवताभ्यः पितृभ्यश्च भृत्येभ्योऽतिथिभिः सह। अवशिष्टं तु योऽश्नाति तमाहुर्विघसाशिनम्॥ तेषां लोका ह्यपर्यन्ता: सदने ब्रह्मणा सह। उपस्थिताश्चाप्सरोभिः परियान्ति दिवौकसः॥ देवताभिश्च ये सार्धं पितृभिश्चोपभुञ्जते। रमन्ते पुत्रपौत्रैश्च तेषां गतिरनुत्तमा॥ युधिष्ठिर उवाच यदिदं कर्म लोकेऽस्मिन् शुभं वा यदि वाशुभम्। पुरुषं योजयत्येव फलयोगेन भारता॥१ कर्तास्ति तस्य पुरुष उताहो नेति संशयः। एतदिच्छामि तत्त्वेन त्वत्तः श्रोतुं पितामह॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। प्रह्लादस्य च संवादमिन्द्रस्य च युधिष्ठिर॥ असक्तं धूतपाप्मानं कुले जातं बहुश्रुतम्। अस्तब्धमनहङ्कारं सत्त्वस्थं समये रतम्॥ तुल्यनिन्दास्तुति दान्तं शून्यागारनिवासिनम्। चराचराणां भूतानां विदितप्रभवाप्ययम्॥ अक्रुध्यन्तमहष्यन्तमप्रियेषु प्रियेषु च। काञ्चने वाथ लोष्टे वा उभयोः समदर्शनम्॥ आत्मनि श्रेयसि ज्ञाने धीरं निश्चितनिश्चितम्। परावरज्ञं भूतानां सर्वज्ञं समदर्शनम्॥ शक्रः प्रह्लादमासीनमेकान्ते संयतेन्द्रियम्। बुभुत्समानस्तत्प्रज्ञामभिगम्येदमब्रवीत्॥ यैः कश्चित् सम्मतो लोके गुणैः स्यात् पुरुषो नृषु। भवत्यनपगान् सर्वांस्तान् गुणाल्लँक्षयामहे॥ अथ ते लक्ष्यते बुद्धिः समा बालजनैरिह। आत्मानं मन्यमानः सन् श्रेयेः किमिह मन्यसे॥ बद्धः पाशैश्च्युतः स्थानाद् द्विषतां वशमागतः। श्रिया विहीनः प्रह्लाद शोचितव्ये न शोचसि॥ प्रज्ञालाभात् तु दैतेय उताहो धृतिमत्तया। प्रह्लाद सुस्थरूपोऽसि पश्यन् व्यसनमात्मनः॥ इति संचोदितस्तेन धीरो निश्चितनिश्चयः। उवाच श्लक्ष्णया वाचा स्वां प्रज्ञामनुवर्णयन्॥ प्रह्लाद उवाच प्रवृत्तिं च निवृत्तिं च भूतानां यो न बुद्ध्यते। तस्य स्तम्भो भवेद् बाल्यानास्ति स्तम्भोऽनुपश्यतः।।१४। स्वभावात् सम्प्रवर्तन्ते निवर्तन्ते तथैव च। सर्वे भावास्तथाभावाः पुरुषार्थो न विद्यते॥ पुरुषार्थस्य चाभावे नास्ति कश्चिच्च कारकः। स्वयं न कुर्वतस्तस्य जातु मानो भवेदिह॥ यस्तु कर्तारमात्मानं मन्यते साध्वसाधु वा। तस्य दोषवती प्रज्ञा अतत्त्वज्ञेति मे मतिः॥ यदि स्यात् पुरुषः कर्ता शक्रात्मश्रेयसे ध्रुवम्। आरम्भास्तस्य सिद्ध्येयुर्न तु जातु परा भवेत्॥ अनिष्टस्य हि निर्वृत्तिरनिर्वृत्तिः प्रियस्य च। लक्ष्यते यतमानानां पुरुषार्थस्ततः कुतः॥ अनिष्टस्याभिनिर्वृत्तिमिष्टसंवृत्तिमेव च। अप्रयत्नेन पश्यामः केषाञ्चित् तत्स्वभावतः॥ प्रतिरूपतराः केचिद् दृश्यन्ते बुद्धिमत्तराः। विरूपेभ्योऽल्पबुद्धिभ्यो लिप्समाना धनागमम्॥ स्वभावप्रेरिताः सर्वे निविशन्ते गुणा यदा। शुभाशुभास्तदा तत्र कस्य किं मानकारणम्॥ स्वभावादेव तत्सर्वमिति मे निश्चिता मतिः। आत्मप्रतिष्ठा प्रज्ञा वा मम नास्ति ततोऽन्यथा॥ कर्मजं त्विह मन्यन्ते फलयोगं शुभाशुभम्। कर्मणां विषयं कृत्स्नमहं वक्ष्यामि तच्छृणु॥ यथा वेदयते कश्चिदोदनं वायसो ह्यदन्। एवं सर्वाणि कर्माणि स्वभावस्यैव लक्षणम्॥ विकारानेव यो वेद न वेद प्रकृतिं पराम्। तस्य स्तम्भौ भवेद् बाल्यान्नास्ति स्तम्भोऽनुपश्यतः॥२६ स्वभावभाविनो भावान् सर्वानेवेह निश्चयात्। बुद्ध्यमानस्य दर्पो वा मानो वा किं करिष्यति॥ वेद धर्मविधि कृत्स्नं भूतानां चाप्यनित्यताम्। तस्माच्छक न शोचामि सर्वं ह्येवेदमन्तवत्॥ निर्ममो निरहंकारो निराशीर्मुक्तबन्धनः। स्वस्थो व्यपेतः पश्यामि भूतानां प्रभवाप्ययौ॥ कृतप्रज्ञस्य दान्तस्य वितृष्णस्य निराशिषः। नायासो विद्यते शक्र पश्यतो लोकमव्ययम्॥ प्रकृतौ च विकारे च न मे प्रीतिर्न च द्विषे। द्वेष्टारं च न पश्यामि यो मामद्य ममायते॥ नोर्ध्वं नावाङ् न तिर्यक् च न क्वचिच्छक कामये। न हि ज्ञेये न विज्ञाने न ज्ञाने कर्म विद्यते॥ शक्र उवाच येनैषा लभ्यते प्रज्ञा येनु शान्तिरवाप्यते। प्रब्रूहि तमुपायं मे सम्यक् प्रह्लाद पृच्छतः॥ प्रह्लाद उवाच आर्जवेनाप्रमादेन प्रसादेनात्मवत्तया। वृद्धशुश्रषया शक्र पुरुषो लभते महत्॥ स्वभावाल्लभते प्रज्ञां शान्तिमेति स्वभावतः। स्वभावादेव तत्सर्वं यत्किचिदनुपश्यसि॥ इत्युक्तो दैत्यपतिना शक्रो विस्मयमागमत्। प्रीतिमांश्च तदा राजस्तद्वाक्यं प्रत्यपूजयत्॥ स तदाभ्यर्च्य दैत्येन्द्रं त्रैलोक्यपतिरीश्वरः। असुरेन्द्रमुपामन्त्र्य जगाम स्वं निवेशनम्॥ भीष्म उवाच शतक्रतुरथापश्यद् बलेर्दीप्तां महात्मनः। स्वरूपिणी शरीराद्धि निष्कामन्तीं तदा श्रियम्॥ तां दृष्ट्वा प्रभया दीप्तां भगवान् पाकशासनः। विस्मयोत्फुल्लनयनो बलिं पप्रच्छ वासवः॥ शक्र उवाच बले केयमपक्रान्ता रोचमाना शिखण्डिनी। त्वत्त: स्थिता सकेयूरा दीप्यमाना स्वतेजसा।॥ बलिरुवाच न हीमामासुरी वेदि न दैवीं च न मानुषीम्। त्वमेनां पृच्छ वा मा वा यथेष्टं कुरु वासव॥ शक्र उवाच का त्वं बलेरपक्रान्ता रोचमाना शिखण्डिनी। अजानतो ममाचक्ष्व नामधेयं शुचिस्मिते॥ का त्वं तिष्ठसि मामेवं दीप्यमाना स्वतेजसा। हित्वा दैत्यवरं सुभ्र तन्ममाचक्ष्व पृच्छतः॥ श्रीरुवाच न मां विरोचनो वेद नायं वैरोचनो बलिः। आहुर्मी दुःसहेत्येवं विधिति च मां विदुः॥ भूतिर्लक्ष्मीति मामाहुः श्रीरित्येवं च वासव। त्वं मां शक न जानीषे सर्वे देवा न मां विदुः॥ शक्र उवाच किमिदं त्वं मम कृते उताहो बलिनः कृते। दुःसहे विजहास्येनं चिरसंवासिनी सती॥ श्रीरुवाच नो धाता न विधाता मां विदधाति कथंचन। कालस्तु शक्र पर्यागा-मैनं शक्रावमन्यथाः॥ शक्र उवाच कथं त्वया बलिस्त्यक्तः किमर्थं वा शिखण्डिनि। कथं च मां न जह्यास्त्वं तन्मे ब्रूहि शुचिस्मिते॥ श्रीरुवाच सत्ये स्थितास्मि दाने च व्रते तपसि चैव हि। पराक्रमे च धर्मे च पराचीनस्ततो बलिः॥ ब्रह्मण्योऽयं पुरा भूत्वा सत्यवादी जितेन्द्रियः। अभ्यसूयद् ब्राह्मणानामुच्छिष्टश्चास्पृशद् घृतम्॥ यज्ञशीलः सदा भूत्वा मामेव यजत स्वयम्। प्रोवाच लोकान् मूढात्मा कालेनोपनिपीडितः॥ अपाकृता ततः शक्र त्वयि वत्स्यामि वासवा अप्रमत्तेन धार्यास्मि तपसा विक्रमेण च॥ शक्र उवाच नास्ति देवमनुष्येषु सर्वभूतेषु वा पुमान्। यस्त्वामेको विषहितुं शक्नुयात् कमलालये॥ श्रीरुवाच नैव देवो न गन्धर्वो नासुरो न च राक्षसः। यो मामेको विषहितुं शक्तः कश्चित् पुरंदर॥ शक्र उवाच तिष्ठेथा मयि नित्यं त्वं यथा तद् ब्रूहि मे शुभे। तत् करिष्यामि ते वाक्यमृतं तद् वक्तुमर्हसि॥ श्रीरुवाच स्थास्यामि नित्यं देवेन्द्र यथा त्वयि निबोध तत्। विधिना वेददृष्टेन चतुर्धा विभजस्व माम्॥ शक्र उवाच अहं वै त्वां निधास्यामि यथाशक्ति यथाबलम्। न त मेऽतिक्रमः स्याद् स्याद् वै सदा लक्ष्मि तवान्तिके॥ भूमिरेव मनुष्येषु धारिणी भूतभाविनी। सा ते पादं तितिक्षेत समर्था हीति मे मतिः॥ श्रीरुवाच एष मे निहितः पादो योऽयं भूमौ प्रतिष्ठितः। द्वितीयं शक्र पादं मे तस्मात् सुनिहितं कुरु॥ शक्र उवाच आप एव मनुष्येषु द्रवन्त्यः परिचारिणीः। तास्ते पादं तितिक्षन्तामलमापस्तितिक्षितुम्॥ श्रीरुवाच एष मे निहितः पादो योऽयमप्सु प्रतिष्ठितः। तृतीयं शक्र पादं मे तस्मात् सुनिहितं कुरु॥ शक्र उवाच यस्मिन् वेदाश्च यज्ञाश्च यस्मिन् देवा: प्रतिष्ठिताः। तृतीयं पादमग्निस्ते सुधृतं धारयिष्यति॥ श्रीरुवाच एष मे निहितः पादो योऽयमग्नौ प्रतिष्ठितः। चतुर्थं शक्र पादं मे तस्मात् सुनिहितं कुरु॥ शक्र उवाच ये वै सन्तो मनुष्येषु ब्रह्मण्याः सत्यवादिनः। ते ते पादं तितिक्षन्तामलं सन्तस्तितिक्षितुम्॥ श्रीरुवाच एष मे निहितः पादो योऽयं सत्सु प्रतिष्ठितः। एवं हि निहिता शक्र भूतेषु परिधत्स्व माम्॥ शक्र उवाच भूतानामिह यो वै त्वां मया विनिहितां सतीम्। उपहन्यात् स मे धृष्यस्तथा शृण्वन्तु मे वचः॥ ततस्त्यक्तः श्रिया राजा दैत्यानां बलिरब्रवीत्। यावत् पुरस्तात् प्रतपेत् तावद् वै दक्षिणां दिशम्। पश्चिमां तावदेवापि तथोदीची दिवाकरः॥ तथा मध्यंदिने सूर्यो नास्तमेति यदा तदा। पुनर्देवासुरं युद्धं भावि जेतास्मि वस्तदा॥ सर्वलोकान् यदाऽऽदित्य एकस्थस्तापयिष्यति। तदा देवासुरे युद्धे जेताहं त्वां शतक्रतो॥ शक्र उवाच ब्रह्मणोऽस्मि समादिष्टो न हन्तव्यो भवानिति। तने तेऽहं बले वज्रं न विमुञ्चामि मूर्धनि॥ यथेष्टं गच्छ दैत्येन्द्र स्वस्ति तेऽसतु महासुर। आदित्यो नैव तपिता कदाचिन्मध्यत: स्थितः॥ स्थापितो ह्यस्य समयः पूर्वमेव स्वयम्भुवा। अजस्रं परियात्येष सत्येनावतपन् प्रजाः॥ अयनं तस्य षण्मासानुत्तरं दक्षिणं तथा। येन संयाति लोकेषु शीतोष्णे विसृजन् रविः॥ भीष्म उवाच एवमुक्तस्तु दैत्येन्द्रो बलिरिन्द्रेण भारत। जगाम दक्षिणामाशामुदीची तु पुरंदरः॥ इत्येतद् बलिना गीतमनहंकारसंज्ञितम्। वाक्यं श्रुत्वा सहस्राक्षः खमेवारुरुहे तदा॥ युधिष्ठिर उवाच मग्नस्य व्यसने कृच्छ्रे किं श्रेयः पुरुषस्य हि। बन्धुनाशे महीपाल राज्यनाशेऽथवा पुनः॥ त्वं हि नः परमो वक्ता लोकेऽस्मिन् भरतर्षभ। एतद् भवन्तं पृच्छामि तन्मे तवं वक्तुमर्हसि॥ भीष्म उवाच पुत्रदारैः सुखैश्चैव वियुक्तस्य धनेन वा। मग्नस्य व्यसने कृच्छ्रे धृतिः श्रेयस्करी नृप॥ धैर्येण युक्तस्य सत: शरीरं न विशीर्यते। विशोकता सुखं धत्ते धत्ते चारोग्यमुत्तमम्॥ आरोग्याच्च शरीरस्य स पुनर्विन्दते श्रियम्। यच्च प्राज्ञो नरस्तात सात्त्विकी वृत्तिमास्थितः॥ तस्यैश्वर्यं च धैर्यं च व्यवसायश्च कर्मसु। अत्रैवोदाहरन्तीममितिहासं पुरातनम्॥ बलिवासवसंवादं पुनरेव युधिष्ठिर। वृत्ते देवासुरे युद्धे दैत्यदानवसंक्षये॥ विष्णुक्रान्तेषु लोकेषु देवराजे शतक्रतो। इज्यमानेषु देवेषु चातुर्वर्ण्य व्यवस्थिते॥ समृद्धमात्रे त्रैलोक्ये प्रीतियुक्ते स्वयम्भुवि। रुद्रैर्वसुभिरादित्यैरश्विभ्यामपि चर्षिभिः॥ गन्धर्वैर्भुजगेन्दैश्च सिद्धैश्चान्यैर्वृतः प्रभुः। चतुर्दन्तं सुदान्तं च वारणेन्द्रं श्रिया वृतम्। आरुरािवतं शक्रस्त्रैलोक्यमनुसंययौ॥ स कदाचित् समुद्रान्ते कस्मिश्चिद् गिरिगह्वरे। बलिं वैरोचनि वज्री ददर्शोपससर्य च॥ तमैरावतमूर्धस्थं प्रेक्ष्य देवगणैर्वृतम्। सुरेन्द्रमिन्द्रं दैत्येन्द्रो न शुशोच न विव्यथे॥ दृष्ट्वा तमविकारस्थं तिष्ठन्तं निर्भयं बलिम्। अधिरूढो द्विपश्रेष्ठमित्युवाच शतक्रतुः॥ दैत्य न व्यथसे शौर्यादथवा वृद्धसेवया। तपसा भावितत्वाद् वा सर्वथैतत् सुदुष्करम्॥ शत्रुभिर्वशमानीतो हीनः स्थानादनुत्तमात्। वैरोचने किमाश्रित्य शोचितव्ये न शोचसि॥ श्रैष्ठ्यं प्राप्य स्वजातीनां महाभोगाननुत्तमान्। हतस्वरत्नराज्यस्त्वं ब्रूहि कस्मान्न शोचसि॥ ईश्वरो हि पुरा भूत्वा पितृपैतामहे पदे। तत्त्वमद्य हृतं दृष्ट्वा सपत्नैः किं न शोचसि॥ बद्धश्च वारुणैः पाशैर्वज्रेण च समाहतः। हतदारो हृतधनो ब्रूहि कस्मान्न शोचसि॥ नष्टश्रीविभवभ्रष्टो यन्न शोचसि दुष्करम्। त्रैलोक्यराज्यनाशे हि कोऽन्यो जीवितुमुत्सहेत्॥ एतच्चान्यच्च परुषं ब्रुवन्तं परिभूय तम्। श्रुत्वा सुखमसम्भ्रान्तो बलिवैरोचनोऽब्रवीत्॥ बलिरुवाच निगृहीते मयि भृशं शक्र किं कत्थितेन ते। वज्रमुद्यम्य तिष्ठन्तं पश्यामि त्वां पुरंदर॥ अशक्तः पूर्वमासीस्त्वं कथञ्चिच्छक्ततां गतः। कस्त्वदन्य इमां वाचं सुत्रां वक्तुमर्हति॥ यस्तु शत्रोर्वशस्थस्य शक्तोऽपि कुरुते दयाम्। हस्तप्राप्तस्य वीरस्य तं चैव पुरुषं विदुः॥ अनिश्चयो हि युद्धेषु द्वयोर्विवदमानयोः। एकः प्राप्नोति विजयमेकश्चैव पराजयम्॥ मा च तेऽभूत् स्वभावोऽयमिति ते देवपुङ्गवा ईश्वरः सर्वभूतानां विक्रमेण जितो बलात्॥ नैतदस्मत्कृतं शक्र नैतच्छक कृतं त्वया। यत् त्वमेवंगतो वज्रिन् यद्वाप्येवंगता वयम्॥ अहमासं यथाद्य त्वं भविता त्वं यथा वयम्। मावमंस्था मया कर्म दुष्कृतं कृतमित्युत।॥ सुखदुःखे हि पुरुषः पर्यायेणाधिगच्छति। पर्यायेणासि शक्रत्वं प्राप्तः शक्र न कर्मणा॥ काल: काले नयति मां त्वां च कालोनयत्ययम्। तेनाहं त्वं यथा नाद्यं त्वं चापि न यथा वयम्॥ न मातृपितृशुश्रूषा न च दैवतपूजनम्। नान्यो गुणसमाचारः पुरुषस्य सुखावहः॥ न विद्या न तपो दानं न मित्राणि न बान्धवाः। शक्नुवन्ति परित्रातुं नरं कालेन पीडितम्॥ नागामिनमनर्थं हि प्रतिघातशतैरपि। शक्नुवन्ति प्रतिव्योढुमृते बुद्धिबलान्नराः॥ पर्यायैर्हन्यमानानां परित्राता न विद्यते। इदं तु दुःखं यच्छक कर्ताहमिति मन्यसे॥ यदि कर्ता भवेत् कर्ता न क्रियेत कदाचन। यस्मात्तु क्रियते कर्ता तस्मात् कर्ताप्यनीश्वरः॥ कालेनाहं त्वामजयं कालेनाहं जितस्त्वया। गन्ता गतिमतां काल: कालः कलयति प्रजाः॥ इन्द्र प्राकृतया बुद्ध्या प्रजलयं नावबुद्ध्यसे। केचित् त्वां बहु मन्यन्ते श्रेष्ठ्यं प्राप्तं स्वकर्मणा।॥ कथमस्मद्विधो नाम जानल्लोकप्रवृत्तयः। कालेनाभ्याहतः शोचेन्मुह्येद् वाप्यथ विभ्रमेत्॥ नित्यं कालपरीतस्य मम वा मद्विधस्य वा। बुद्धिर्व्यसनमासाद्य भिन्ना नौरिव सीदति॥ अहं च त्वं च ये चान्ये भविष्यन्ति सुराधिपाः। ते सर्वे शक यास्यन्ति मार्गमिन्द्रशतैर्गतम्॥ त्वामप्येवं सुदुर्धर्षं ज्वलन्तं परया श्रिया। काले परिणते कालः कालयिष्यति मामिव॥ बहूनीन्द्रसहस्राणि दैवतानां युगे युगे। अभ्यतीतानि कालेन कालो हि दुरतिक्रमः॥ इदं तु लब्ध्वा संस्थानमात्मानं बहु मन्यसे। सर्वभूतभवं देवं ब्रह्माणमिव शाश्वतम्॥ न चेदमचलं स्थानमनन्तं वापि कस्यचित्। त्वं तु बालिशया बुद्ध्या ममेदमिति मन्यसे॥ अविश्वस्ते विश्वसिषि मन्यसे वाध्रुवे ध्रुवम्। नित्यं कालपरीतात्मा भवत्येवं सुरेश्वर॥ ममेयमिति मोहात् त्वं राजश्रियमभीप्ससि। नेयं तव न चास्माकं न चान्येषां स्थिरा सदा॥ अतिक्रम्य बहूनन्यांस्त्वयि तावदियं गता। कंचित् कालमियं स्थित्वा त्वयि वासव चञ्चला॥ गौर्निपानमिवोत्सृज्य पुनरन्यं गमिष्यति। राजलोका ह्यतिक्रान्ता यान्न संख्यातुमुत्सहे॥ त्वत्तो बहुतराश्चान्ये भविष्यन्ति पुरंदर। सवृक्षौषधिरत्नेयं सहसत्त्ववनाकरा॥ तानिदानीं च पश्यामि यैर्भुक्तेयं पुरा मही। पृथुरैलो मयो भीमो नरकः शम्बरस्तथा॥ अश्वग्रीवः पुलोमा च स्वर्भानुरमितध्वजः। प्रह्लादो नमुचिर्दक्षो विप्रचित्तिर्विरोचनः॥ ह्रीनिषेवः सुहोत्रश्च भूरिहा पुष्पवान वृषः। सत्येषुर्ऋषभो बाहुः कपिलाश्वो विरूपकः॥ बाणः कार्तस्वरो वह्निविश्वदंष्ट्रोऽथ नैऋतिः। संकोचोऽथ वरीताक्षो वराहाश्वो रुचिप्रभः॥ विश्वजित् प्रतिरूपश्च वृषाण्डो विष्करो मधुः। हिरण्यकशिपुश्चैव कैटभश्चैव दानवः॥ दैतेया दानवाश्चैव सर्वे ते नैर्ऋतैः सह। एते चान्ये च बहव पूर्वे पूर्वतराश्च ये॥ दैत्येन्द्रा दानवेन्द्राश्च यांश्चान्याननुशुश्रुम। बहवः पूर्वदैत्येन्द्राः संत्यज्य पृथिवीं गताः॥ कालेनाभ्याहताः सर्वे कालो हि बलवत्तरः। सर्वैः ऋतुशतैरिष्टं न त्वमेकः शतक्रतुः॥ सर्वे धर्मपराश्चासन् सर्वे सततसत्रिणः। अन्तरिक्षचराः सर्वे सर्वेऽभिमुखयोधिनः॥ सर्वे संहननोपेताः सर्वे परिघबाहवः। सर्वे मायाशतधराः सर्वे ते कामरूपिणः॥ सर्वे समरमासाद्य न श्रूयन्ते पराजिताः। सर्वे सत्यव्रतपराः सर्वे कामविहारिणः॥ सर्वे वेदव्रतपराः सर्वे चैव बहुश्रुताः। सर्वे सम्मतमैश्वर्यमीश्वराः प्रतिपेदिरे॥ न चैश्वर्यमदस्तेषां भूतपूर्वो महात्मनाम्। सर्वे यथार्हदातारः सर्वे विगतमत्सराः॥ सर्वे सर्वेषु भूतेषु यथावत् प्रतिपेदिरे। सर्वे दाक्षायणीपुत्राः प्राजापत्या महाबलाः॥ ज्वलन्तः प्रतपन्तश्च कालेन प्रतिसंहृताः। त्वं चैवेमां यदा भुक्त्वा पृथिवीं त्यक्षसे पुनः॥ न शक्ष्यसि तदा शक्र नियन्तुं शोकमात्मनः। मुञ्चेञ्छां कामभोगेषु मुञ्चेमं श्रीभवं मदम्॥६४! एवं स्वराज्यनाशे त्वं शोकं सम्प्रसहिष्यसि। शोककाले शुचो मा त्वं हर्षकाले च मा हृषः॥ अतीतानागतं हित्वा प्रत्युत्पन्नेन वर्तय। मां चेदभ्यागतः कालः सदा युक्तमतन्द्रितः॥ क्षमस्व नचिरादिन्द्र त्वामप्युपगमिष्यति। त्रासयन्निव देवेन्द्र वाग्भिस्तक्षसि मामिह॥ संयते मयि नूनं त्वमात्मानं बहू मन्यसे। कालः प्रथममायान्मां पश्चात् त्वामनुधावति॥ तेन गर्जसि देवेन्द्र पूर्वं कालहते मयि। को हि स्थातुमलं लोके मम क्रुद्धस्य संयुगे॥ कालस्तु बलवान् प्राप्तस्तेन तिष्ठसि वासव। यत् तद् वर्षसम्रान्तं पूर्णं भवितुमर्हति॥ यथा मे सर्वगात्राणि न सुस्थानि महौजसः। अहमैन्द्राच्च्युतः स्थानात् त्वमिन्द्रः प्रकृतोदिवि॥ सुचित्रे जीवलोकेऽस्मिन्नुपास्यः कालपर्ययात्। किं हि कृत्वा त्वमिन्द्रोऽद्य किं वा कृत्वा वयं च्युताः। त्वमेव हि पुरा काल: कर्ता विकर्ता च सर्वमन्यदकारणम्। नाशं विनाशमैश्वर्यं सुखं दुःखं भवाभवौ॥ विद्वान् प्राप्यैवमत्यर्थं न प्रहृष्येन्न च व्यथेत्। त्वमेव हीन्द्र वेत्थास्मान् वेदाहं त्वां च वासव॥ किं कत्थसे मां किं च त्वं कालेन निरपत्रपः। वेत्थ यत् तदा पौरुषं मम॥ समरेषु च विक्रान्तं पर्याप्तं तन्निदर्शनम्। आदित्याश्चैव रुद्राश्च साध्याश्च वसुभिः सह॥ मया विनिर्जिताः पूर्वं मरुतश्च शचीपते। त्वमेव शक्र जानासि देवासुरसमागमे॥ नियतं कालपाशेन बद्धं शक्र विकस्थसे। समेता विबुधा भग्नास्तरसा समरे मया। पर्वताश्चासकृत् क्षिप्ताः सवनाः सवनौकसः॥ सटङ्कशिखरा भग्नाः समरे मूलि ते मया। किं नु शक्यं मया कर्तुं कालो हि दुरतिक्रमः॥ न हि त्वां नोत्सहे हन्तुं सवज्रमपि मुष्टिना। न त विक्रमकालोऽयं क्षमाकालोऽयमागतः॥ तेन त्वां मर्षये शक्र दुर्मर्षणतरस्त्वया। तं मां परिणते काले परीतं कालवह्निना॥ अयं स पुरुषः श्यामो लोकस्य दुरतिक्रमः॥ बद्ध्वा तिष्ठति मां रौद्रः पशुं रशनया यथा। लाभालाभौ सुखं दुःखं कामक्रोधौ भवाभवौ॥ वधबन्धप्रमोक्षं च सर्वं कालेन लभ्यते। नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः॥ सोऽयं पचति कालो मां वृक्षे फलमिवागतम्। यान्येव पुरुषः कुर्वन् सुखैः कालेन युज्यते॥ पुनस्तान्येव कुर्वाणो दुःखै कालेन युज्यते। न च कालेन कालज्ञः स्पृष्टः शोचितुमर्हति॥ तेन शक्र न शोचामि नास्ति शोके सहायता। यदा हि शोचत: शोको व्यसनं नापकर्षति॥ सामर्थ्य शोचतो नास्तीत्यतोऽहं नाद्य शोचिमि। एवमुक्तः सहस्राक्षो भगवान् पाकशासनः॥ प्रतिसंहृत्य संरम्भमित्युवाच शतक्रतुः। सवज्रमुद्यतं बाहुं दृष्ट्वा पाशांश्च वारुणान्॥ कस्येह न व्यथेद् बुद्धिर्मृत्योरपि जिघांसतः। सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी॥ ध्रुवं न व्यथसेऽद्य त्वं धैर्यात् सत्यपराक्रम। को हि विश्वासमर्थेषु शरीरे वा शरीरभृत्॥ कर्तुमुत्सहते लोके दृष्ट्वा सम्प्रस्थितं जगत्। अहमप्येवमेवैनं लोकं जानाम्यशाश्वतम्॥ कालाग्नावाहितं घोरे गुह्ये सततगेऽक्षरे। न चात्र परिहारोऽस्ति कालस्पृष्टस्य कस्यचित्॥ सूक्ष्माणां महतां चैव भूतानां परिपच्यताम्। अनीशस्याप्रमत्तस्य भूतानि पचत: सदा॥ अनिवृत्तस्य कालस्य क्षयं प्राप्तो न मुच्यते। अप्रमत्तः प्रमत्तेषु कालो जागर्ति देहिषु॥ प्रयत्नेनाप्यपक्रान्तो दृष्टपूर्वो न केनचित्। पुराण: शाश्वतो धर्मः सर्वप्राणभृतां समः॥ कालो न परिहार्यश्च न चास्यास्ति व्यतिक्रमः। अहोरात्रांश्च मासांश्च क्षणान् काष्ठा लवान् कलाः॥ सम्पीडयति यः कालो वृद्धिं वाधुषिको यथा। इदमद्य करिष्यामिश्वः कर्तास्मीति वादिनम्॥ कालो हरति सम्प्राप्तो नदीवेग इव दुमम्। इदानीं तावदेवासौ मया दृष्टः कथं मृतः॥ इति कालेन ह्रियतां प्रलापः श्रूयते नृणाम्। नश्यन्त्यर्थास्तथा भोगा: स्थानमैश्वर्यमेव च॥ जीवितं जीवलोकस्य कालेनागम्य नीयते। उच्छ्राया विनिपातान्ता भावोऽभावः स एव च॥ अनित्यमध्रुवं सर्वं व्यवसायो हि दुष्करः। सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी॥ अहमासं पुरा चेति मनसापि न बुद्ध्यते। कालेनाक्रम्य लोकेऽस्मिन् पच्यमाने बलीयसा॥ अज्येष्ठमकनिष्ठं च क्षिप्यमाणो न बुद्ध्यते। ईर्ष्याभिमानलोभेषु कामक्रोधभयेषु च॥ स्पृहामोहाभिमानेषु लोकः सक्तो विमुह्यति। भवांस्तु भावतत्त्वज्ञो विद्वान् ज्ञानतपोऽन्वितः॥ कालं पश्यति सुव्यक्तं पाणावामलकं यथा। कालचारित्रतत्त्वज्ञः सर्वशास्त्रविशारदः॥ विवेचने कृतात्मासि स्पृहणीयो विजानताम्। सर्वलोको ह्ययं मन्ये बुद्ध्या परिगतस्त्वया॥ विहरन् सर्वतो मुक्तो न क्वचित् परिषज्जते। रजश्च हि तमश्च त्वां स्पृशते न जितेन्द्रियम्॥ निष्प्रीतिं नष्टसंतापमात्मानं त्वमुपाससे। सुहृदं सर्वभूतानां निर्वैरं शान्तमानसम्॥ दृष्ट्वा त्वां मम संजाता त्वय्यनुक्रोशिनी मतिः। नाहमेतादृशं बुद्धं हन्तुमिच्छामि बन्धने॥ आनृशंस्यं परो धर्मो ह्यनुक्रोशश्च मे त्वयि। मोक्ष्यन्ते वारुणाः पाशास्तवेमे कालपर्ययात्॥ प्रजानामपचारेण स्वस्ति तेऽस्तु महासुर। यदाश्वयूं स्नुषा वृद्धां परिचारेण योक्ष्यते।११२।। पुत्रश्च पितरं मोहात् प्रेषयिष्यति कर्मसु। ब्राह्मणैः कारयिष्यन्ति वृषला: पादधावनम्॥ शूद्राश्च ब्राह्मणी भार्यामुपयास्यन्ति निर्भया:। वियोनिषु विमोक्ष्यन्ति बीजानि पुरुषा तदा॥ संकरं कांस्यभाण्डैश्च बलिं चैव कुपात्रकैः। चातुर्वण्र्यं यदा कृत्स्नममर्यादं भविष्यति॥ एकैकस्ते तदा पाशः क्रमशः परिमोक्ष्यते। अस्मत्तस्ते भयं नास्ति समयं प्रतिपालय। सुखी भव निराबाधः स्वस्थचेता निरामयः॥ तमेवमुक्त्वा भगवाञ्छतक्रतुः प्रतिप्रयातो गजराजवाहनः। विजित्य सर्वानसुरान् सुराधिपो ननन्द हर्षेण बभूव चैकराट॥ महर्षयस्तुष्टुवुरजसा च तं वृषाकपि सर्वचराचरेश्वरम्। हिमापहो हव्यमुवाह चाध्वरे तथामृतं चार्पितमीश्वरोऽपि हि॥ द्विजोत्तमैः सर्वगतैरभिष्टुतो विदीप्ततेजा गतमन्युरीश्वरः। प्रशान्तचेता मुदितः स्वमालयं त्रिविष्टपं प्राप्य मुमोद वासवः॥ युधिष्ठिर उवाच पूर्वरूपाणि मे राजन् पुरुषस्य भविष्यतः। पराभविष्यतश्चैव तन्मे ब्रूहि पितामह॥ भीष्म उवाच मन एव मनुष्यस्य पूर्वरूपाणि शंसति। भविष्यतश्च भद्रं ते तथैव न भविष्यतः॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। श्रिया शक्रस्य संवादं तं निबोध युधिष्ठिर॥ महतस्तपसो व्युष्ट्या पश्यँल्लोको परावरौ। सामान्यमृषिभिर्गत्वा ब्रह्मलोकनिवासिभिः॥ ब्रह्मेवामितदीप्तौजाः शान्तपाप्मा महातपाः। विचचार यथाकामं त्रिषु लोकेषु नारदः॥ कदाचित् प्रातरुत्थाय पिस्पृक्षुः सलिलं शुचि। ध्रुवद्वारभवां गङ्गां जगामावततार च॥ सहस्रनयनश्चापि वज्री शम्बरपाकहा। तस्या देवर्षिजुष्टायास्तीरमभ्याजगाम ह॥ तावाप्लुत्य यतात्मानौ कृतजप्यौ समासतः। नद्याः पुलिनमासाद्य सूक्ष्मकाञ्चनवालुकम्॥ पुण्यकर्मभिराख्याता देवर्षिकथिताः कथाः। चक्रतुस्तौ तथाऽऽसीनौ महर्षिकथितास्तथा॥ पूर्ववृत्तव्यपेतानि कथयन्तौ समाहितौ। अथ भास्करमुद्यन्तं रश्मिजालपुरस्कृतम्॥ पूर्णमण्डलमालोक्य तावुत्थायोपतस्थतुः। अभितस्तूदयन्तं तमर्कमर्कमिवापरम्॥ आकाशे ददृशे ज्योतिरुद्यतार्चिःसमप्रभम्। तयोः समीयं तं प्राप्तं प्रत्यदृश्यत भारत॥ तत् सुपर्णार्कचरितमास्थितं वैष्णवं पदम्। भाभिरप्रतिमं भाति त्रैलोक्यमवभासयत्॥ तत्राभिरूपशोभाभिरप्सरोभिः पुरस्कृताम्। बृहतीमंशुमत्प्रख्यां बृहद्भानोरिवार्चिषम्॥ नक्षत्रकल्पाभरणां तां मौक्तिकसमस्रजम्। श्रियं ददृशतुः पद्मां साक्षात् पद्मदलस्थिताम्॥ सावरुद्य विमानाग्रादङ्गनानामनुत्तमा। अभ्यागच्छत् त्रिलोकेशं देवर्षि चापि नारदम्॥ नारदानुगतः साक्षान्मघवांस्तामुपागमत्। कृताञ्जलिपुटो देवी निवेद्यात्मानमात्मना॥ चक्रे चानुपमां पूजां तस्याश्चापि स सर्ववित्। देवराजः श्रियं राजन् वाक्यं चेदमुवाच ह॥ शक्र उवाच का त्वं केन च कार्येण सम्प्राप्ता चारुहासिनि। कुतश्चागम्यते सुभ्र गन्तव्यं क्व च ते शुभे॥ श्रीरुवाच पुण्येषु त्रिषु लोकेषु सर्वे स्थावरजङ्गमाः। ममात्मभावमिच्छन्तो यतन्ते परमात्मना॥ साहं वै पङ्कजे जाता सूर्यरश्मिविबोधिते! भूत्यर्थं सर्वभूतानां पद्मा श्री: पद्ममालिनी॥ अहं लक्ष्मीरहं भूति: श्रीश्चाहं बलसूदन। अहं श्रद्धा च मेधा च संनतिर्विजितिः स्थितिः॥ अहं धृतिरहं सिद्धिरहं त्विड् भूतिरेव च। अहं स्वाहा स्वधा चैव संस्तुतिर्नियतिः स्मृतिः॥ राज्ञां विजयमानानां सेनाग्रेषु ध्वजेषु च। निवासे धर्मशीलानां विषयेषु पुरेषु। च॥ जितकाशिनि शूरे च संग्रामेष्वनिवर्तिनि। निवसामि मनुष्येन्द्रे सदैव बलसूदन।॥ धर्मनित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि। प्रश्रिते दानशीले च सदैव निवसाम्यहम्॥ असुरेष्ववसं पूर्वं सत्यधर्मनिबन्धना विपरीतांस्तु तान् बुद्ध्वा त्वयि वासमरोचयम्॥ शक्र उवाच कथंवृत्तेषु दैत्येषु त्वमवात्सीर्वरानने। दृष्ट्वा च किमिहागास्त्वं हित्वा दैतेयदानवान्॥ श्रीरुवाच स्वधर्ममनुतिष्ठत्सु धैर्यादचलितेषु च। स्वर्गमार्गाभिरामेषु सत्त्वेषु निरता ह्यहम्॥ दानाध्ययनयज्ञेज्यापितृदैवतपूजनम्। गुरूणामतिथीनां च तेषां सत्यमवर्तत॥ सुसम्मृष्टगुहाश्चासन् जितस्त्रीका हुताग्नयः। गुरुशुश्रूषका दान्ता ब्रह्मण्याः सत्यवादिनः॥ श्रद्दधाना जितक्रोधा दानशीलानसूयवः। भृतपुत्रा भृतामात्या भृतदारा ह्यनीर्षवः॥ अमर्षेण न चान्योन्यं स्पृहयन्ते कदाचन। न च जातूपतप्यन्ति धीराः परसमृद्धिभिः॥ दातारः संगृहीता आर्याः करुणवेदिनः। महाप्रसादा ऋजवो दृढभक्ता जितेन्द्रिया:॥ संतुष्टभृत्यसचिवाः कृतज्ञाः प्रियवादिनः। यथार्हमानार्थकरा ह्रीनिषेवा यतव्रताः॥ नित्यं पर्वसु सुस्नाताः स्वनुलिप्ताः स्वलंकृताः। उपवासतप:शीलाः प्रतीता ब्रह्मवादिनः॥ नैनानभ्युदियात् सूर्यो न चाप्यासन् प्रगेशयाः। रात्रौ दधि च सक्तूंश्च नित्यमेव व्यवर्जयन्॥ कल्यं घृतं चान्ववेक्षन् प्रयता ब्रह्मवादिनः। मङ्गल्यान्यपि चापश्यन् ब्राह्मणांश्चाप्यपूजयन्॥ सदा हि वदतां धर्मं सदा चाप्रतिगृह्णताम्। क्षधं च रात्र्याः स्वपतां दिवा चास्वपतां तथा॥ कृपणानाथवृद्धानां दुर्बलातुरयोषिताम्। दयां च संविभागं च नित्यमेवान्वमोदताम्॥ त्रस्तं विपण्णमुद्विग्नं भयार्तं व्याधितं कृशम्। हतस्वं व्यसनार्तं च नित्यमाश्वासयन्ति ते॥ धर्ममेवान्ववर्तन्त न हिंसन्ति परस्परम्। अनुकूलाश्च कार्येषु गुरुवृद्धोपसेविनः॥ पितॄन् देवातिथींश्चैव यथावत् तेऽभ्यपूजयन्। अवशेषाणि चाश्नन्ति नित्यं सत्यतपोधृताः॥ नैकेऽश्नन्ति सुसम्पन्नं न गच्छन्ति परस्त्रियम्। सर्वभूतेष्ववर्तन्त यथाऽऽत्मनि दयां प्रति॥ नैवाकाशे न पशुषु वियोनौ च न पर्वसु। इन्द्रियस्य विसर्ग ते रोचयन्ति कदाचन॥ नित्यं दानं तथा दाक्ष्यमार्जवं चैव नित्यदा। उत्साहोऽथानहंकारः परमं सौहृदं क्षमा॥ सत्यं दानं तपः शौचं कारुण्यं वागनिष्ठुरा। मित्रेषु चानभिद्रोहः सर्वं तेष्वभवत् प्रभो॥ निद्रा तन्द्रीरसम्प्रीतिरसूयाथानवेक्षिता। अरतिश्च विषादश्च स्पृहा चाप्यविशन्न तान्॥ साहमेवंगुणेष्वेव दानवेष्ववसं पुरा। प्रजासर्गमुपादाय नैकं युगविपर्ययम्॥ तत: कालविपर्यासे तेषां गुणविपर्ययात्। अपश्यं निर्गतं धर्मं कामक्रोधवशात्मनाम्॥ सभासदां च वृद्धानां सतां कथयतां कथाः। प्राहसन्नभ्यसूयंश्च सर्ववृद्धान् गुणावराः॥ युवानश्च समासीना वृद्धानपि गतान् सतः। नाभ्युत्थानाभिवादाभ्यां यथापूर्वमपूजयन्॥ वर्तयत्येव पितरि पुत्रः प्रभवते तथा। अमित्रभृत्यतां प्राप्य ख्यापयन्त्यनपत्रपाः॥ तथा धर्मादपेतेन कर्मणा गर्हितेन ये। महतः प्राप्नुवन्त्यर्थांस्तेषां तत्राभवत् स्पृहा॥ उच्चैश्चाभ्यवदन् रात्रौ नीचैस्तत्राग्निरज्वलत्। पुत्राः पितृनत्यचरन् नार्यश्चात्यचरन् पतीन्॥ मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम्। गुरुत्वान्नाभ्यनन्दन्त कुमारान् नान्वपालयन्॥ भिक्षां बलिमदत्त्वा च स्वयमन्नानि भुञ्जते। अनिष्ट्वासंविभज्याथ पितृदेवातिथीन् गुरून्॥ न शौचमनुरुद्ध्यन्त तेषां सूदजनास्तथा। मनसा कर्मणा वाचा भक्ष्यमासीदनावृतम्॥ विप्रकीर्णानि धान्यानि काकमूषिकभोजनम्। अपावृतं पयोऽतिष्ठदुच्छिष्टाश्चास्पृशन् घृतम्॥ कुद्दालं दात्रपिटकं प्रकीर्णं कांस्यभाजनम्। द्रव्योपकरणं सर्वं नान्ववैक्षत् कुटुम्बिनी॥ प्राकारागारविध्वंसान्न स्म ते प्रतिकुर्वते। नाद्रियन्ते पशून् बद्ध्वा यवसेनोदकेन च॥ बालानां प्रेक्षमाणानां स्वयं भक्ष्यमभक्षयन्। तथा भृत्यजनं सर्वमसंतर्प्य च दानवाः॥ पायसं कृसरं मांसमपूपानथ शष्कुलीः। अपाचयनात्मनोऽर्थे वृथा मांसान्यभक्षयन्॥ उत्सूर्यशायिनश्चासन् सर्वे चासन् प्रगेनिशाः। अवर्तन् कलहाश्चात्र दिवारानं गृहे गृहे॥ अनार्याश्चार्यमासीनं पर्युपासन्न तत्र ही आश्रमस्थान् विधर्मस्थाः प्राद्विषन्त परस्परम्॥ संकराश्चाभ्यवर्तन्त न च शौचमवर्तत। ये च वेदविदो विप्रा विस्पष्टमनृचश्च ये॥ निरन्तरविशेषास्ते बहुमानावमानयोः। हारमाभरणं वेषं गतः स्थितमवेक्षितम्॥ असेवन्त भुजिष्या वै दुर्जनाचरितं विधिम्। स्त्रियः पुरुषवेषेण पुंसः स्त्रीवेषधारिणः॥ क्रीडारतिविहारेषु परां मुदमवाप्नुवन्। प्रभवद्भि: पुरा दायानहेभ्यः प्रतियादितान्॥ नाभ्यवर्तन्त नास्तिक्या वर्तन्तः सम्भवेष्वपि। मित्रेणाभ्यर्थितं मित्रमर्थसंशयिते क्वचित्॥ बालकोट्यग्रमात्रेण स्वार्थेनाघ्नत तद वसु। परस्वादानरुचयो विपणव्यवहारिणः॥ अदृश्यन्तार्यवर्णेषु शूद्राश्चापि तपोधनाः। अधीयते केचिद् वृथा व्रतमथापरे॥ अशुश्रूषुर्गुरोः शिष्यः कश्चिच्छिष्यसखोगुरुः। पिता चैव जनित्री च श्रान्तौ वृत्तसोत्सवाविव॥ अप्रभुत्वे स्थितौ वृद्धावन्नं प्रार्थयतः सुतान्। तत्र वेदविदः प्राज्ञा गाम्भीर्ये सागरोपमाः७४।। कृप्यादिष्वभवन् सक्ता मूर्खाः श्राद्धान्यभुञ्जत। प्राः प्रातश्च सुप्रश्नं कल्पनं प्रेषणक्रियाः॥ शिष्यानप्रहितास्तेषामकुर्वन् गुरवः स्वयम्। श्वश्रूश्वशुरयोरने वधूः प्रेष्यानशासत॥ अन्वशासच्च भर्तारं समाहूयाभिजल्पति। प्रयलेनापि चारक्षच्चितं पुत्रस्य वै पिता॥ व्यभजच्चापि संरम्भाद् दुःखवासं तथावसत्। अग्निदाहेन चोरैर्वा राजभिर्वा हृतं धनम्॥ दृष्ट्वा द्वेषात् प्राहसन्त सुहृत्सम्भाविता ह्यपि। कृतघ्ना नास्तिकाः पापा गुरुदाराभिमर्शिनः॥ अभक्ष्यभक्षणरता निर्मर्यादा हतत्विषः। तेष्वेवमादीनाचारानाचरत्सु विपर्यये॥ नाहं देवेन्द्र वत्स्यामि दानवेष्विति मे मतिः। तन्मां स्वयमनुप्राप्तामभिनन्द शचीपते॥ त्वयार्चितां मां देवेश पुरो धास्यन्ति देवताः। यत्राहं तत्र मत्कान्ता मद्विशिष्टा मदर्पणाः॥ सप्त देव्यो जयाष्टम्यो वासमेष्यन्ति तेऽष्टधा। आशा श्रद्धा धृतिः शान्तिर्विजितिः संनतिः क्षमा॥ अष्टमी वृत्तिरेतासां पुरोगा पाकशासन। ताश्चाहं चासुरांस्त्यक्त्वा युष्मद्विषयमागता:।1८४॥ त्रिदशेषु निवत्स्यामो धर्मनिष्ठान्तरात्मसु। इत्युक्तवचनां देवीं प्रीत्यर्थं च ननन्दतुः॥ नारदश्चात्र देवर्षिवृत्रहन्ता च वासवः। ततोऽनलसखो वायुः प्रववौ देववर्त्मसु॥ इष्टगन्धः सुखस्पर्शः सर्वेन्द्रियसुखावहः। शुचौ वाभ्यर्थिते देशे त्रिदशाः प्रायशः स्थिताः॥ लक्ष्मीसहितमासीनं मघवन्तं दिदृक्षवः॥ ततो दिवं प्राप्य सहस्रलोचनः श्रियोपपन्नः सुहृदा महर्षिणा। रथेन हर्यश्वयुजा सुरर्षभः सदः सुराणामभिसत्कृतो ययौ॥ अथेगितं वज्रधरस्य नारदः श्रियश्च देव्या मनसा विचारयन्। श्रियै शशंसामरदृष्टपौरुषः शिवेन तत्रागमनं महर्षिभिः॥ ततोऽमृतं द्यौः प्रववर्ष भास्वती पितामहस्यायतने स्वयम्भुवः। अनाहता दुन्दुभयोऽथ नेदिरे तथा प्रसन्नाव दिशश्चकाशिरे॥ यथर्तु सस्येषु ववर्ष वासवो न धर्ममार्गाद् विचचाल कश्चन। अनेकरलाकरभूषणा च भूः सुघोषघोषा भुवनौकसां जये॥ क्रियाभिरामा मनुजा मनस्विनो बभुः शुभे पुण्यकृतां पथि स्थिताः। नरामराः किन्नरयक्षराक्षसाः समृद्धिमन्तः सुमनस्विनोऽभवन्॥ न जात्वकाले कुसुमं कुतः फलं पपात वृक्षात् पवनरितादपि। रसप्रदा: कामदुघाश्च धेवनो न दारुणा वाग् विचचार कस्यचित्॥ इमां सपर्यां सह सर्वकामदैः श्रियश्च शक्रप्रमुखैश्च दैवतैः। पठन्ति ये विप्रसदःसमागताः समृद्धकामाः श्रियमाप्नुवन्ति ते॥ त्वया कुरूणां वर यत् प्रचोदितं भवाभवस्येह परं निदर्शनम्। तदद्य सर्वं परिकीर्तितं मया परीक्ष्य तत्त्वं परिगन्तुमर्हसि॥ त्वया कुरूणां वर यत् प्रचोदितं भवाभवस्येह परं निदर्शनम्। तदद्य सर्वं परिकीर्तितं मया परीक्ष्य तत्त्वं परिगन्तुमर्हसि॥ युधिष्ठिर उवाच किंशील: किंसमाचार: किंविद्यः किंपराक्रमः। प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्बुवम्॥ भीष्म उवाच मोक्षधर्मेषु नियतो लध्वाहारो जितेन्द्रियः। प्राप्नोति ब्रह्मणः स्थानं तत्परं प्रकृतेर्बुवम्॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। जैगीषव्यस्य संवादमसितस्य च भारत॥ जैगीषव्यं महाप्रज्ञं धर्माणामागतागमम्। अक्रुध्यन्तमहष्यन्तमसितो देवलोऽब्रवीत्॥ देवल उवाच न प्रीयसे वन्धमानो निन्द्यमानो न कुप्यसे। का ते प्रज्ञा कुतश्चैषा किं ते तस्याः परायणम्॥ भीष्म उवाच इति तनानुयुक्तः स तमुवाच महातपाः। महद्वाक्यमसंदिग्धं पुष्कलार्थपदं शुचि॥ जैगीषव्य उवाच या गतिर्या परा काष्ठा या शान्तिः पुण्यकर्मणाम्। तां तेऽहं सम्प्रवक्ष्यामि महतीमृषिसत्तम॥ निन्दत्सु च समा नित्यं प्रशंसत्सु च देवल। निहुवन्ति च ये तेषां समयं सुकृतं च यत्॥ उक्ताश्च न वदिष्यन्ति वक्तारमहिते हितम्। प्रतिहन्तुं न चेच्छन्ति हन्तारं वै मनीषिणः॥ नाप्राप्तमनुशोचन्ति प्राप्तकालानि कुर्वते। न चातीतानि शोचन्ति न चैव प्रतिजानते॥ सम्प्राप्तानां च पूज्यानां कामादर्थेषु देवला यथोपपत्तिं कुर्वन्ति शक्तिमन्तः कृतव्रताः॥ पक्वविद्या महाप्राज्ञा जितक्रोधा जितेन्द्रियाः। मनसा कर्मणा वाचा नापराध्यन्ति कर्हिचित्॥ अनीर्षवो न चान्योन्यं विहिंसन्ति कदाचन। न च जातूपतप्यन्ते धीराः परसमृद्धिभिः॥ निन्दाप्रशंसे चात्यर्थं न वदन्ति परस्य ये। न च निन्दाप्रशंसाभ्यां विक्रियन्ते कदाचन॥ सर्वतश्च प्रशान्ता ये सर्वभूतहिते रताः। न क्रुद्ध्यन्ति न हृष्यन्ति नापराध्यन्ति कर्हिचित्॥ विमुच्य हृदयग्रन्थिं चक्रमन्ति यथासुखम्। न येषां बान्धवाः सन्ति ये चान्येषां न बान्धवाः॥ अमित्राश्च न सन्त्येषां ये चामित्रा न कस्यचित्। य एवं कुर्वते माः सुखं जीवन्ति सर्वदा॥ ये धर्म चानुरुद्ध्यन्ते धर्मज्ञा द्विजसत्तम। ये ह्यतो विच्युता मार्गात् ते हृष्यन्त्युद्विजन्ति च॥ आस्थितस्तमहं मार्गमसूयिष्यामि कं कथम्। निन्द्यमानः प्रशस्तो वा हृष्येऽहं केन हेतुना॥ यद् यदिच्छन्ति तत् तस्मादपि गच्छन्तु मानवाः। न मे निन्दाप्रशंसाभ्यां ह्रासवृद्धी भविष्यतः॥ अमृतस्येव संतृप्येदवमानस्य तत्त्ववित्। विषस्येवोद्विजेन्नित्यं सम्मानस्य विचक्षणः॥ अवज्ञातः सुखं शेते इह चामुत्र चाभयम्। विमुक्तः सर्वदोषेभ्यो योऽवमन्ता स बध्यते॥ परां गतिं च ये केचित् प्रार्थयन्ति मनीषिणः। एतद् व्रतं समाश्रित्य सुखमेधन्ति ते जनाः॥ सर्वतश्च समाहृत्य ऋतून् सर्वान् जितेन्द्रियः। प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्बुवम्॥ नास्य देवा न गन्धर्वा न पिशाचा न राक्षसाः। पदमन्ववरोहन्ति प्राप्तस्य परमां गतिम्॥ युधिष्ठिर उवाच प्रियः सर्वस्य लोकस्य सर्वसत्त्वाभिनन्दिता। गुणैः सर्वैरुपेतश्च को न्वस्ति भुवि मानवः॥ भीष्म उवाच अत्र ते वर्तयिष्यामि पृच्छतो भरतर्षभ। उग्रसेनस्य संवादं नारदे केशवस्य च॥ उग्रसेन उवाच यस्य संकल्पते लोको नारदस्य प्रकीर्तने। मन्ये स गुणसम्पन्नो ब्रूहि तन्मम पृच्छतः॥ वासुदेव उवाच कुकुराधिप यान् मन्ये शृणु तान् मे विवक्षतः। नारदस्य गुणान् साधून् संक्षेपेण नराधिप॥ न चारित्रनिमित्तोऽस्याहंकारो देहतापनः। अभिन्नश्रुतचारित्रस्तस्मात् सर्वत्र पूजितः॥ अरतिः क्रोधचापल्ये भयं नैतानि नारदे। अदीर्घसूत्रः शूरश्च तस्मात् सर्वत्र पूजितः॥ उपास्यो नारदो बाढं वाचि नास्य व्यतिक्रमः कामतो यदि वा लोभात् तस्मात् सर्वत्र पूजितः॥ अध्यात्मविधितत्त्वज्ञः क्षान्तः शक्तोजितेन्द्रियः। ऋजुश्च सत्यवादी च तस्मात् सर्वत्र पूजितः॥ तेजसा यशसा बुद्ध्या ज्ञानेन विनयेन च। जन्मना तपसा वृद्धस्तस्मात् सर्वत्र पूजितः॥ सुशीलः सुखसंवेशः सुभोजः स्वादरः शुचिः। सुवाक्यश्चाप्यनीर्घ्यश्च तस्मात् सर्वत्र पूजितः॥ कल्याणं कुरुते बाढं पापमस्मिन्न विद्यते। न प्रीयते परानर्थस्तस्मात् सर्वत्र पूजितः॥ वेदश्रुतिभिराख्यानैरानभिजिगीषति। तितिक्षुरनवज्ञाता तस्मात् सर्वत्र पूजितः॥ समत्वाच्च प्रियो नास्ति नाप्रियश्च कथंचन। मनोऽनुकूलवादी च तस्मात् सर्वत्र पूजितः॥ बहुश्रुतश्चित्रकथः पण्डितोऽलालसोऽशठः। अदीनोऽक्रोधनोऽलुब्धस्तस्मात् सर्वत्र पूजितः॥ नार्थे धने वा कामे वा भूतपूर्वोऽस्य विग्रहः। दोषाश्चास्य समुच्छिन्नास्तस्मात् सर्वत्र पूजितः॥ दृढभक्तिरनिन्दात्मा श्रुतवाननृशंसवान्। वीतसम्मोहदोषश्च तस्मात् सर्वत्र पूजितः॥ असक्तः सर्वभूतेषु सक्तात्मेव च लक्ष्यते। अदी संशयो वाग्मी तस्मात् सर्वत्र पूजितः॥ समाधिर्नास्य कामार्थे नात्मानं स्तौति कर्हिचित्। अनीर्घHदुसंवादस्तस्मात् सर्वत्र पूजितः॥ लोकस्य विविधं चित्तं प्रेक्षते चाप्यकुत्सयन्। संसर्गविद्याकुशलस्तस्मात् सर्वत्र पूजितः॥ नासूयत्यागमं कंचित् स्वनयेनोपजीवति। अवन्ध्यकालो वश्यात्मा तस्मात् सर्वत्र पूजितः॥ कृतश्रमः कृतप्रज्ञो न च तृप्तः समाधितः। नित्ययुक्तोऽप्रमत्तश्च तस्मात् सर्वत्र पूजितः॥ नापत्रपश्च युक्तश्च नियुक्तः श्रेयसे परैः। अभेत्ता परगुह्यानां तस्मात् सर्वत्र पूजितः॥ न हृष्यत्यर्थलाभेषु नालाभे तु व्यथत्यपि। स्थिरबुद्धिरसक्तात्मा तस्मात् सर्वत्र पूजितः॥ तं सर्वगुणसम्पन्नं दक्षं शुचिमनामयम्। कालज्ञं च प्रियज्ञं च कः प्रियं न करिष्यति॥ युधिष्ठिर उवाच आद्यन्तं सर्वभूतानां ज्ञातुमिच्छामि कौरव। ध्यानं कर्म च कालं च तथैवायुर्युगे युगे॥ लोकतत्त्वं च कात्स्येंन भूतानामागतिं गतिम्। सर्गश्च निधनं चैव कुत एतत् प्रवर्तते॥ यदि तेऽनुग्रहे बुद्धिरस्मास्विह सतां वर। एतद्भवन्तं पृच्छामि तद् भवान् प्रब्रवीतु मे॥ पूर्वं हि कथितं श्रुत्वा भृगुभाषितमुत्तमम्। भरद्वाजस्य विप्रर्षस्ततो मे बुद्धिरुत्तमा॥ जाता परमधर्मिष्ठा दिव्यसंस्थानसंस्थिता। ततो भूयस्तु पृच्छामि तद् भवान् वक्तुमर्हति॥ भीष्म उवाच अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम्। जगौ यद् भगवान् व्यासः पुत्राय परिपृच्छते॥ अधीत्य वेदानखिलान् साङ्गोपनिषदस्तथा। अन्विच्छन्नैष्ठिकं कर्म धर्मनैपुणदर्शनात्॥ कृष्णद्वैपायनं व्यासं पुत्रो वैयासकिः शुकः। पप्रच्छ संदेहमिमं छिन्नधर्मार्थसंशयम्॥ श्रीशुक उवाच भूतग्रामस्य कर्तारं कालज्ञाने च निश्चयम्। ब्राह्मणस्य च यत् कृत्यं तद् भवान् वक्तुमर्हति॥ भीष्म उवाच तस्मै प्रोवाच तत् सर्वं पिता पुत्राय पृच्छते। अतीतानागते विद्वान् सर्वज्ञः सर्वधर्मवित्॥ व्यास उवाच अनाद्यन्तमजं दिव्यमजरं ध्रुवमव्ययम्। अप्रतर्व्यमविज्ञेयं ब्रह्माने सम्प्रवर्तते॥ काष्ठा निमेषा दश पञ्च चैव त्रिंशत्तु काष्ठा गणयेत् कलां ताम्। त्रिंशत्कलश्चापि भवेन्मुहूर्ता भागः कलाया दशमश्च यः स्यात्॥ त्रिंशन्मुहूर्तं तु भवेदहश्च रात्रिश्च संख्या मुनिभिः प्रणीता। मासः स्मृतो रात्र्यहनी च त्रिंशत् संवत्सरो द्वादशमास उक्तः॥ संवत्सरं द्वे त्वयने वदन्ति संख्याविदो दक्षिणमुत्तरं च॥ अहोरात्रे विभजते सूर्यो मानुषलौकिके। रात्रिः स्वमाय भूतानां चेष्टायै कर्मणामहः॥ पित्र्ये रात्र्यहनी मास: प्रविभागस्तयोः पुनः। शुक्लोऽहं कर्मचेष्टायां कृष्णः स्वप्नाय शर्वरी॥ दैवे रात्र्यहनी वर्ष प्रविभागस्तयोः पुनः। अहस्तत्रोदगयनं रात्रिः स्याद् दक्षिणायनम्॥ ये ते रात्र्यहनी पूर्व कीर्तिते जीवलौकिके। तयोः संख्याय वर्षाग्रं ब्राह्मे वक्ष्याम्यहःक्षपे॥ पृथक् संवत्सराग्राणि प्रवक्ष्याम्यनुपूर्वशः। कृते त्रेतायुगे चैव द्वापरे च कलौ तथा॥ चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम्। तस्य तावच्छती संध्या संध्यांशश्च तथाविधः॥ इतरेषु ससंध्येषु संध्यांशेषु ततस्त्रिषु। एकपादेन हीयन्ते सहस्राणि शतानि च॥ एतानि शाश्वताल्लोकान् धारयन्ति सनातनान्। एतद् ब्रह्मविदां तात विदितं ब्रह्म शाश्वतम्॥ चतुष्पात् सकलो धर्मः सत्यं चैव कृते युगे। नाधर्मेणागमः कश्चित् परस्तस्य प्रवर्तते॥ इतरेष्वागपाद् धर्मः पादशस्त्ववरोप्यते। चौर्यकानृतमायाभिरधर्मश्चोपचीयते॥ अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः। कृते त्रेतायुगे त्वेषां पादशो ह्रसते वयः॥ वेदवादाश्चानुयुगं ह्रसन्तीतीह नः श्रुतम्। आयूंषि चाशिषश्चैव वेदस्यैव च यत्फलम्॥ अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे। अन्ये कलियुगे नृणां युगह्रासानुरूपतः॥ तपः परं कृतयुगे त्रेतायां ज्ञानमुत्तमम्। द्वापरे यज्ञमेवाहुर्दानमेकं कलौ युगे।॥ एता द्वादशसाहस्री युगाख्यां कवयो विदुः। सहस्रपरिवर्तं तद् ब्राह्यं दिवसमुच्यते॥ रात्रिमेतावतीं चैव तदादौ विश्वमीश्वरः। प्रलये ध्यानमाविश्य सुप्त्वा सोऽन्ते विबुद्ध्यते॥ सहस्रयुगपर्यन्तमहर्यब्रह्मणो विदुः। रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः॥ प्रतिबुद्धो विकुरुते ब्रह्माक्षय्यं क्षपाक्षये। सृजते च महद्भूतं तस्माद् व्यक्तात्मकं मनः॥ व्यास उवाच प्रत्याहारं तु वक्ष्यामि शर्वर्यादौ गतेऽहनि। यथेदं कुरुतेऽध्यात्म सुसूक्ष्मं विश्वमीश्वरः॥ दिवि सूर्यस्तथा सप्त दहन्ति शिखिनोऽर्चिषः। सर्वमेतत् तदार्चिभिः पूर्ण जाज्वल्यते जगत्॥ पृथिव्यां यानि भूतानि जङ्गमानि ध्रुवाणि च। तान्येवाने प्रलीयन्ते भूमित्वमुपयान्ति च॥ ततः प्रलीने सर्वस्मिन् स्थावरे जङ्गमे तथा। निर्वृक्षा निस्तृणा भूमिदृश्यते कूर्मपृष्ठवत्॥ भूमेरपि गुणं गन्धमाप आददते यदा। आत्तगन्धा तदा भूमिः प्रलयत्वाय कल्पते॥ आपस्तत्र प्रतिष्ठन्ति उर्मिमत्यो महास्वनाः। सर्वमेवेदमापूर्य तिष्ठन्ति च चरन्ति च॥ अपामपि गुणं तात ज्योतिराददते यदा। आपस्तदा त्वात्तगुणा ज्योतिःषूपरमन्ति वै॥ यदाऽऽदित्यं स्थितं मध्ये गृहन्ति शिखिनोऽर्चिषः। सर्वमेवेदमर्चिभिः पूर्ण जाज्वल्यते नभः॥ ज्योतिषोऽपि गुणं रूपं वायुराददते यदा। प्रशाम्यति ततो ज्योतिर्वायुर्दोधूयते महान्॥ ततस्तु स्वनमासाद्य वायुः सम्भवमात्मनः। अधश्चोर्ध्वं च तिर्यक् च दोधवीति दिशो दश॥ वायोरपि गुणं स्पर्शमाकाशं ग्रसते यदा। प्रशाम्यति तदा वायुः खं तु तिष्ठति नादवत्॥ अरूपमरसस्पर्शमगन्धं न च मूर्तिमत्। सर्वलोकप्रणदितं खं तु तिष्ठति नादवत्॥ आकाशस्य गुणं शब्दमभिव्यक्तात्मकं मनः। मनसो व्यक्तमव्यक्तं ब्राह्मः सम्प्रतिसंचरः॥ तदात्मगुणमाविश्य मनो ग्रसति चन्द्रमाः। मनस्युपरते चापि चन्द्रमस्युपतिष्ठते॥ तं तु कालेन महता संकल्पः कुरुते वशे। चित्तं ग्रसति संकल्पं तच्च ज्ञानमनुत्तमम्॥ कालो गिरति विज्ञानं कालं बलमिति श्रुतिः। बलं कालो ग्रसति तु तं विद्वान् कुरुते वशे॥ आकाशस्य यथा घोषं तं विद्वान् कुरुतेऽऽत्मनि। तदव्यक्तं परं ब्रह्म तच्छाश्वतमनुत्तमम्। एवं सर्वाणि भूतानि ब्रह्मैव प्रतिसंचरः॥ यथावत् कीर्तितं सम्यगेवमेतदसंशयम्। बोध्यं विद्यामयं दृष्ट्वा योगिभिः परमात्मभिः॥ एवं विस्तारसंक्षेपौ ब्रह्माव्यक्ते पुनः पुनः। युगसाहस्रयोरादावहोरात्रस्तथैव च॥ व्यास उवाच भूतग्रामे नियुक्तं यत् तदेतत् कीर्तितं मया। ब्राह्मणस्य तु यत् कृत्यं तत् ते वक्ष्यामि तच्छृणु॥ जातकर्मप्रभृत्यस्य कर्मणां दक्षिणावताम्। क्रिया स्यादासमावृत्तेराचार्ये वेदपारगे॥ अधीत्य वेदानखिलान् गुरुशुश्रूषणे रतः। गुरूणामनृणो भूत्वा समावर्तेत यज्ञवित्॥ आचार्येणाभ्यनुज्ञातश्चतुर्णामेकमाश्रमम्। आविमोक्षाच्छरीरस्य सोऽवतिष्ठेद् यथाविधि॥ प्रजासर्गेण दारैश्च ब्रह्मचर्येण वा पुनः! वने गुरुसकाशे वा यतिधर्मेण वा पुनः॥ गृहस्थस्त्वेष धर्माणां सर्वेषां मूलमुच्यते। यत्र पक्वकषायो हि दान्तः सर्वत्र सिध्यति॥ प्रजावाश्रोत्रियो यज्वा मुक्त एव ऋणैस्त्रिभिः। अथान्यानाश्रमान् पश्चात् पूतो गच्छेत कर्मभिः॥ यत् पृथिव्यां पुण्यतमं विद्यात् स्थानं तदावसेत्। यतेत तस्मिन् प्रामाण्यं गन्तुं यशसि चोत्तमे॥ तपसा वा सुमहता विद्यानां पारणेन वा। इज्यया वा प्रदानैर्वा विप्राणां वर्धते यशः॥ यावदस्य भवत्यस्मिन् कीर्तिर्लोके यशस्करी! तावत् पुण्यकृता लोकाननन्तान् पुरुषोऽश्नुते॥ अध्यापयेदधीयीत याजयेत यजेत वा। न वृथा प्रतिगृह्णीयान च दद्यात् कथंचना॥ याज्यतः शिष्यतो वापि कन्याया वा धनं महत्। यदाऽऽगच्छेद् यजेद् दद्यान्नकोऽश्नीयात् कथंचन॥ गृहमावसतो ह्यस्य नान्यत तीर्थं प्रतिग्रहात्। देवर्षिपितृगुर्वर्थं वृद्धातुरबुभुक्षताम्॥ अन्तर्हिताधितप्तानां यथाशक्ति बुभूषताम्। देवानामतिशक्त्यापि देयमेषा कृतादपि॥ अर्हतामनुरूपाणां नादेय ह्यस्ति किंचन। उचैःश्रवसमप्यश्चं प्रापणीयं सतां विदुः॥ अनुनीय यथाकामं सत्यसंधो महाव्रतः। स्वैः प्राणैाह्मणप्राणान् परित्राय दिवं गतः॥ रन्तिदेवश्च सांकृत्यो वसिष्ठाय महात्मने। अप: प्रदाय शीतोष्णा नाकपृष्ठे महीयते॥ आत्रेयश्चेन्द्रदमनो ह्यहते विविधं धनम्। दत्त्वा लोकान् ययौ धीमाननन्तान् स महीपतिः॥ शिबिरौशीनरोऽङ्गानि सुतं च प्रियमौरसम्। ब्राह्मणार्थमुपाहृत्य नाकपृष्ठमितो गतः॥ प्रतर्दनः काशिपतिः प्रदाय नयने स्वके। ब्राह्मणायातुलां कीर्तिमिह चामुत्र चाश्नुते॥ दिव्यमष्टशलाकं तु सौवर्णं परमर्द्धिमत्। छत्रं देवावृधो दत्त्वा सराष्ट्रोऽभ्यपतद् दिवम्॥ सांकृतिश्च तथाऽऽत्रेय: शिष्येभ्यो ब्रह्म निर्गुणम्। उपदिश्य महातेजा गतो लोकाननुत्तमान्॥ अम्बरीषो गवां दत्त्वा ब्राह्मणेभ्यः प्रतापवान्। अर्बुदानि दशैकं च सराष्ट्रोऽभ्यपतद् दिवम्॥ सावित्री कुण्डले दिव्ये शरीरं जनमेजयः। ब्राह्मणार्थं परित्यज्य जग्मतुलॊज्ञकमुत्तमम्॥ सर्वरत्नं वृषादर्भिर्युवनाश्वः प्रियाः स्त्रियः। रम्यमावसथं चैव दत्वा स्वर्लोकमास्थितः॥ निमी राष्ट्रं च वैदेहो जामदग्न्यो वसुन्धराम्। ब्राह्मणेभ्यो ददौ चापि गयश्चार्वी सपत्तनाम्॥ अवर्षति च पर्जन्ये सर्वभूतानि भूतकृत्। वसिष्ठो जीवयामास प्रजापतिरिव प्रजाः॥ करन्धमस्य पुत्रस्तु कृतात्मा मरुतस्तथा। कन्यामङ्गिरसे दत्त्वा दिवमाशु जगाम ह॥ ब्रह्मदत्तश्च पाञ्चाल्यो राजा बुद्धिमतां वरः। निधि शङ्ख द्विजाग्रेभ्यो दत्त्वा लोकानवाप्तवान्॥ राजा मित्रसहश्चापि वसिष्ठाय महात्मने। मदयन्तीं प्रियां दत्त्वा तया सह दिवं गतः॥ सहस्रजिच्च राजर्षिः प्राणानिष्टान् महायशाः। ब्राह्मणार्थं परित्यज्य गतो लोकाननुत्तमान्॥ सर्वकामैश्च सम्पूर्णं दत्त्वा वेश्म हिरण्मयम्। मुद्गलाय गतः स्वर्गं शतद्युम्नो महीपतिः॥ नाम्ना च द्युतिमान् नाम शाल्वराजः प्रतापवान्। दत्त्वा राज्यमृचीकाय गतो लोकाननुत्तमान्॥ लोमपादश्च राजर्षिः शान्तां दत्त्वा सुतां प्रभुः। ऋष्य शृङ्गाय विपुलैः सर्वकामैरयुज्यत॥ मदिराश्वश्च राजर्षिर्दत्त्वा कन्यां सुमध्यमाम्। हिरण्यहस्ताय गतो लोकान् देवैरभिष्टुतान्॥ दत्त्वा शतसहस्रं तु गवां राजा प्रसेनजित्। सवत्सानां महातेजा गतो लोकाननुत्तमान्॥ एते चान्ये च बहवो दानेन तपसैव च। महात्मानो गताः स्वर्ग शिष्टात्मानो जितेन्द्रियाः॥ तेषां प्रतिष्ठिता कीर्तिर्यावत् स्थाम्यति मेदिनी। दानयज्ञप्रजासगैरेते हि दिवमाप्नुवन्॥ व्यास उवाच त्रयीं विद्यामवेक्षेत वेदेषूक्तामथाङ्गतः। ऋक्सामवर्णाक्षरतो यजुषोऽथर्वणस्तथा॥ तिष्ठत्येतेषु भगवान् षट्सु कर्मसु संस्थितः। वेदवादेषु कुशला ह्यध्यात्मकुशलाश्च ये॥ सत्त्ववन्तो महाभागाः पश्यन्ति प्रभवाप्ययौ। एवं धर्मेण वर्तेत क्रियां शिष्टवदाचरेत्॥ असंरोधेन भूतानां वृत्तिं लिप्सेत वै द्विजः। सद्भय आगतविज्ञान: शिष्टः शास्त्रविचक्षणः॥ स्वधर्मेण क्रिया लोके कुर्वाणः सत्यसंगरः। तिष्ठते तेषु गृहवान् घट्सु कर्मसु स द्विजः॥ पञ्चभि सततं यज्ञैः श्रद्दधानो यजेत च। धृतिमानप्रमत्तश्च दान्तो धर्मविदात्मवान्॥ वीतहर्षमदक्रोधो ब्राह्मणो नावसीदति। दानमध्ययनं यज्ञस्तपो हीरार्जवं दमः॥ एतैर्वर्धयते तेजः पाप्मानं चापकर्षति। धूतपाप्मा च मेधावी लघ्वाहारो जितेन्द्रियः॥ कामक्रोधौ वशे कृत्वा निनीषेद् ब्रह्मण: पदम्। अग्नींश्च ब्राह्मणांश्चार्चेद् देवताः प्रणमेत च॥ वर्जयेदुशती वाचं हिंसां चाधर्मसंहिताम्। एषा पूर्वगता वृत्तिाह्मणस्य विधीयते॥ ज्ञानागमेन कर्माणि कुर्वन् कर्मसु सिध्यति। पञ्चेन्द्रियजलां घोरां लोभकूला सुदुस्तराम्॥ मन्युपङ्कामनाधृष्यां नदी तरति बुद्धिमान्। कालमभ्युद्यतं पश्येन्नित्यमत्यन्तमोहनम्॥ महता विधिदृष्टेन बलेनाप्रतिघातिना। स्वभावस्रोतसा वृत्तमुह्यते सततं जगत्॥ कालोदके महता वर्षावर्तेन संततम्। मासोमिंणर्तुवगेन पक्षोलपतृणेन च॥ निमेषोन्मेषफेनेन अहोरात्रजलेन च। कामग्राहेण घोरेण वेदयज्ञप्लवेन च॥ धर्मद्वीपेन भूतानां चार्थकामजलेन च। ऋतवाङ्मोक्षतीरेण विहिसातरुवाहिना॥ युगह्रदौघमध्येन ब्रह्मप्रायभवेन च। धात्रा सृष्टानि भूतानि कृष्यन्ते यमसादनम्॥ एतत् प्रज्ञामयैर्धीरा निस्तरन्ति मनीषिणः। प्लवैरप्लववन्तो हि किं करिष्यन्त्यचेतसः॥ उपपन्नं हि यत् प्राज्ञो निस्तरेन्नेतरो जनः। दूरतो गुणदोषौ हि प्राज्ञः सर्वत्र पश्यति॥ संशयं स तु कामात्मा चलचित्तोऽल्पचेतनः। अप्राज्ञो न तरत्येनं यो ह्यास्ते न स गच्छति॥ अप्लवो हि महादोषं मुह्यमानो नियच्छति। कामग्राहगृहीतस्य ज्ञानमप्यस्य न प्लवः॥ तस्मादुन्मज्जनस्यार्थे प्रयतेत विचक्षणः। एतदुन्मज्जनं तस्य यदयं ब्राह्मणो भवेत्॥ अवदातेषु संजातस्त्रिसंदेहस्त्रिकर्मकृत्। तस्मादुन्पज्जने तिष्ठेत् प्रज्ञया निस्तरेद् यथा।॥ संस्कृतस्य हि दान्तस्य नियतस्य यतात्मनः। प्राज्ञस्यानन्तरा सिद्धिरिहलोके परत्र च॥ वर्तेत तेषु गृहवानक्रुद्ध्यननसूयकः। पजभिः सततं यज्ञैर्विघसाशी यजेत च॥ सतां धर्मेण वर्तेत क्रियां शिष्टवदाचरेत्। असंरोधेन लोकस्य वृत्तिं लिप्सेदगर्हिताम्॥ श्रुतिविज्ञानतत्त्वज्ञः शिष्टाचारो विचक्षणः। स्वधर्मेण क्रियावांश्च कर्मणा सोऽप्यसंकरः॥ क्रियावाश्रद्दधानो हि दान्तः प्राज्ञोऽनसूयकः। धर्माधर्मविशेषज्ञः सर्वं तरन्ति दुस्तरम्॥ धृतिमानप्रमत्तश्च दान्तो धर्मविदात्मवान्। वीतहर्षमदक्रोधो ब्राह्मणो नावसीदति॥ एषा पुरातनी वृत्तिर्ब्राह्मणस्य विधीयते। ज्ञानवत्त्वेन कर्माणि कुर्वन् सर्वत्र सिध्यति॥ अधर्मं धर्मकामो हि करोति ह्यविचक्षणः। धर्मं वाधर्मसंकाशं शोचत्रिव करोति सः॥ मधर्मकामश्च करोति धर्मम्। उभे बाल: कर्मणी न प्रजानन् स जायते म्रियते चापि देही॥ व्यास उवाच अथ चेद् रोचयेदेतदुह्येत स्रोतसा यथा। उन्मज्जंश्च निमज्जंश्च ज्ञानवान् प्लववान् भवेत्॥ प्रज्ञया निश्चिता धीरास्तारयन्त्यबुधान् प्लवैः। नाबुधास्तारयन्त्यन्यानात्मानं वा कथंचन॥ छिन्नदोषो मुनिर्योगान् युक्तो युजीत द्वादश। देशकर्मानुरागार्थानुपायापायनिश्चयैः॥ चक्षुराहारसंहारैर्मनसा दर्शनेन च। यच्छेद् वाङ्मानसी बुद्ध्या इच्छेज्ज्ञानमुत्तमम्॥ ज्ञानेन यच्छेदात्मानं य इच्छेच्छान्तितात्मनः। एतेषां चेदनुद्रष्टा पुरुषोऽपि सुदारुणः॥ यदि वा सर्ववेदज्ञो यदि वाप्यनृचो द्विजः। यदि वा धार्मिको यज्वा यदि वा पापकृत्तमः॥ यदि वा पुरुषव्याघ्रो यदि वा क्लेशधारितः। तरत्येवं महादुर्गं जरामरणसागरम्॥ एवं ह्येतेन योगेन युञ्जानो ह्येवमन्ततः। अपि जिज्ञासमानोऽपि शब्दब्रह्मातिवर्तते॥ धर्मोपस्थो हीवरूथ उपायापायकूबरः। अपानाक्षः प्राणयुगः प्रज्ञायुर्जीवबन्धनः॥ चेतनाबन्धुरचास्याचारग्रहनेमिनान्। दर्शनस्पर्शनवहो घ्राणश्रवणवाहनः॥ प्रज्ञानाभिः सर्वतन्त्रप्रदोतो ज्ञानसारथिः। क्षेत्रज्ञाधिष्ठितो धीरः श्रद्धादमपुरःसरः॥ त्यागसूक्ष्मानुगः क्षेम्यः शौचगो ध्यानगोचरः। जीवयुक्तो रथो दिव्यो ब्रह्मलोके विराजते॥ अथ संत्वरमाणस्य रथमेवं युयुक्षतः अक्षरं गन्तुमनसो विधिं वक्ष्यामि शीघ्रगम्॥ सप्त या धारणाः कृत्स्ना वाग्यतः प्रतिपद्यते। पृष्ठतः पार्वतश्चान्यास्तावत्यस्ताः प्रधारणाः॥ क्रमशः पार्थिवं यच्च वायव्यं खं तथा पयः। ज्योतिषो यत् तदैश्वर्यमहङ्कारस्य बुद्धितः। अव्यक्तस्य तथैश्वर्यं क्रमशः प्रतिपद्यते॥ विक्रमाश्चापि यस्यैते तथा युक्तेषु योगतः। तथा योगस्य युक्तस्य सिद्धिमात्मनि पश्यतः॥ निर्मुच्यमानः सूक्ष्मत्वाद् रूपाणीमानि पश्यतः। शैशिरस्तु यथा धूमः सूक्ष्मः संश्रयते नभः॥ तथा देहाद् विमुक्तस्य पूर्वं रूपं भवत्युत। अथ धूमस्य विरमे द्वितीयं रूपदर्शनम्॥ जलरूपमिवाकाशे तथैवात्मनि पश्यति। अपां व्यतिक्रमे चास्य वह्निरूपं प्रकाशते ।१९।। तस्मिन्नुपरतेऽजोऽस्य पीतशस्त्रः प्रकाशते। उर्णारूपसवर्णस्य तस्य रूपं प्रकाशते॥ अथ श्वेतां गतिं गत्वा वायव्यं सूक्ष्ममप्युत। अशुक्लं चेतसः सौक्ष्यमप्युक्तं ब्राह्मणस्य वै॥ एतेष्वपि हि जातेषु फलजातानि मे शृणु। जातस्य पार्थिवैश्वर्यैः सृष्टिरत्र विधीयते॥ प्रजापतिरिवाक्षोभ्यः शरीरात् सृजते प्रजाः। अङ्गुल्यङ्गुष्ठमात्रेण हस्तपादेन वा तथा॥ पृथिवीं कम्पयत्येको गुणो वायोरिति श्रुतिः। आकाशभूतश्चाकाशे सवर्णत्वात् प्रकाशते॥ वर्णतो गुह्यते चापि कामात् पिबति चाशयान्। न चास्य तेजसा रूपं दृश्यते शाम्यते तथा। अहङ्कारेऽस्य विजिते पञ्चैते स्युर्वशानुगाः॥ षण्णामात्मनि बुद्धौ च जितायां प्रभवत्यथ। निर्दोषप्रतिभा ह्येनं कृत्स्ना समभिवर्तते॥ तथैव व्यक्तमात्मानमव्यक्तं प्रतिपद्यते। यतो नि:सरते लोको भवति व्यक्तसंज्ञकः॥ तत्राव्यक्तमयी विद्यां शृणु त्वं विस्तरेण मे। तथा व्यक्तमयं चैव सांख्ये पूर्वं निबोध मे॥ पञ्चविंशति तत्त्वानि तुल्यान्युभयतः समम्। योगे सांख्येऽपि च तथा विशेषं तत्र मे शृणु।॥ प्रोक्तं तद् व्यक्तमित्येव जायते वर्धते च यत्। जीर्यते म्रियते चैव चतुर्भिर्लक्षणैर्युतम्॥३० विपरीतमतो यत् तु तदव्यक्तमुदाहृतम्। द्वावात्मानौ च वेदेषु सिद्धान्तेष्वप्युदाहृतौ॥ चतुर्लक्षण त्वाद्यं चतुर्वर्गं प्रचक्षते। व्यक्तमव्यक्तजं चैव तथा बुद्धमथेतरत्। सत्त्वं क्षेत्रज्ञ इत्येतद् द्वयमप्यनुदर्शितम्॥ द्वावात्मानौ च वेदेषु विषयेष्वनुरज्यतः। विषयात् प्रतिसंहारः सांख्यानां सिद्धिलक्षणम्॥ निर्ममश्चानहङ्कारो निर्द्वन्द्वश्छिन्नसंशयः। नैव क्रुद्ध्यति न द्वेष्टि नानृता भाषते गिरः॥ आक्रुष्टस्ताडितश्चैव मैत्रेण ध्याति नाशुभम्। वाग्दण्डकर्ममनसां त्रयाणां च निवर्तकः॥ समः सर्वेषु भूतेषु ब्रह्माणमभिवर्तते। नैवेच्छति न चानिच्छो यात्रामात्रव्यवस्थितः॥ अलोलुपोऽव्यथा दान्तो न कृती न निराकृतीः। नास्ये न्द्रियमनेकाग्रं न विक्षिप्तमनोरथः॥ सर्वभूतसदृड्मैत्रः समलोष्टाश्मकाञ्चनः। तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः॥ अस्पृहः सर्वकामेभ्यो ब्रह्मचर्यदृढव्रतः। अहिंस्रः सर्वभूतानामीदृक् सांख्यो विमुच्यते।३९।। योगैश्वर्यमतिक्रान्तो यो निष्कामति मुच्यते॥ इत्येषा भावजा बुद्धिः कथिता ते न संशयः। एवं भवति निर्द्वन्द्वो ब्रह्माणं चाधिगच्छति॥ व्यास उवाच अथ ज्ञानप्लवं धीरो गृहीत्वा शान्तिमात्मनः! उन्मजंश्च निमश्च ज्ञानमेवाभिसंश्रयेत्॥ शुक उवाच किं तज्ज्ञानमयो विद्या यथा निस्तरते द्वयम्। प्रवृत्तिलक्षणो धर्मो निवृत्तिरिति वा वद॥ व्यास उवाच यस्तु पश्यन् स्वभावेन विनाभावमचेतनः। पुष्यते च पुनः सर्वान् प्रज्ञया मुक्तहेतुकान्॥ येषां चैकान्तभावेन स्वभावात् कारणं मतम्। पूत्वा तृणमिषीकां वा ते लभन्ते न किंचन॥ ये चैनं पक्षमाश्रित्य निवर्तन्त्यल्पमेधसः। स्वभावं कारणं ज्ञात्वा न श्रेयः प्राप्नुवन्ति ते॥ स्वभावो हि विनाशाय मोहकर्म मनोभवः। निरुतमेतयोरेतत् स्वभावपरिभावयोः॥ कृष्यादीनीह कर्माणि सस्यसंहरणानि च। प्रज्ञावद्भिः प्रक्लृप्तानि यानासनगृहाणि च॥ आक्रीडानां गृहाणां च गदानामगदस्य च। प्रज्ञावन्तः प्रयोक्तारो ज्ञानवद्भिरनुष्ठिताः॥ प्रज्ञा संयोजयत्यथैः : प्रजा श्रेयोऽधिगच्छति। राजानो भुञ्जते राज्यं प्रज्ञया तुल्यलक्षणाः॥ परावरं तु भूतानां ज्ञानेनैवोपलभ्यते। विद्यया तात सृष्टानां विद्यैवेह परा गतिः॥ भूतानां जन्म सर्वेषां विविधानां चतुर्विधम्। जरायुजाण्डजोद्भिज्जस्वेदजं चोपलक्षयेत्॥ स्थावरेभ्यो विशिष्टानि जङ्गमान्युपधारयेत्। उपपन्नं हि यच्चेष्टा विशिष्येत विशेष्यया॥ आहुः बहुपादानि जङ्गमानि द्वयानि तु। बहुपाट्यो विशिष्टानि द्विपदानि बहून्यपि॥ द्विपदानि द्वयान्याहुः पार्थिवानीतराणि च। पार्थिवानि विशिष्टानि तानि ह्यन्नानि भुञ्जते॥ पार्थिवानि द्वयान्याहुर्मध्यमान्यधमानि तु। मध्यमानि विशिष्टानि जातिधर्मोपधारणात्॥ मध्यमानि द्वयान्याहुर्धर्मज्ञानीतराणि च। धर्मज्ञानि विशिष्टानि कार्याकार्योपधारणात्॥ धर्मज्ञानि द्वयान्याहुर्वेदज्ञानीतराणि च। वेदज्ञानि विशिष्टानि वेदो ह्येषु प्रतिष्ठितः॥ वेदज्ञानि द्वयान्याहुः प्रवक्तृणीतराणि च। प्रवक्तणि विशिष्टानि सर्वधर्मोपधारणात्॥ विज्ञायन्ते हि यैर्वेदाः सधर्माः सक्रियाफला:। सधर्मा निखिला वेदाः प्रवक्तृभ्यो विनिःसृताः॥ प्रवक्तृणि द्वयान्याहुरात्मज्ञानीतराणि च। आत्मज्ञानि विशिष्टानि जन्माजन्मोपधारणात्॥ धर्मद्वयं हि यो वेद स सर्वज्ञः स सर्ववित्। स त्यागी सत्यसंकल्पः सत्यः शुचिरथेश्वरः॥ ब्रह्मज्ञानप्रतिष्ठं हि तं देवा ब्राह्मणं विदुः। शब्दब्रह्मणि निष्णातं परे च कृतनिश्चयम्॥ अन्तःस्थं च बहिष्ठं च साधियज्ञाधिदैवतम्। ज्ञानान्विता हि पश्यन्ति ते देवास्तात ते द्विजाः॥ तेषु विश्वमिदं भूतं सर्वं च जगदाहितम्। तेषां माहात्म्यभावस्य सदृशं नास्ति किंचन।॥ आद्यन्ते निधनं चैव कर्म चातीत्य सर्वशः। चतुर्विधस्य भूतस्य सर्वस्येशाः स्वयम्भुवः॥ व्यास उवाच एषा पूर्वतरा वृत्तिाह्मणस्य विधीयते। ज्ञानवानेव कर्माणि कुर्वन् सर्वत्र सिध्यति॥ तत्र चेन्न भवेदेवं संशयः कर्मसिद्धये। कि तु कर्म स्वभावोऽयं ज्ञानं कर्मेति वा पुनः॥ तत्र वेदविधिः स स्याज्ञानं चेत् पुरुषं प्रति। उपपत्त्युपलब्धिभ्यां वर्णयिष्यामि तच्छृणु॥ पौरुषं कारणं केचिदाहुः कर्मसु मानवाः। दैवमेके प्रशंसन्ति स्वभावमपरे जनाः॥ पौरुषं कर्म दैवं च कालवृत्तिस्वभावतः। त्रयमेतत् पृथग्भूतमविवेकं तु केचन॥ एतदेवं च नैवं च न चोभे नानुभे तथा। कर्मस्था विषयं ब्रूयुः सत्त्वस्थाः समदर्शिनः॥ त्रेतायां द्वापरे चैव कलिजाश्च ससंशया:। तपस्विनः प्रशान्ताश्च सत्त्वस्थाश्च कृते युगे॥ अपृथग्दर्शनाः सर्वे ऋक्सामसु यजुःषु च। कामद्वेषौ पृथक् कृत्वा तपः कृत उपासते॥ तपोधर्मेण संयुक्तस्तपोनित्यः सुसंशितः। तेन सर्वानवाप्नोति कामान् यान् मनसेच्छति॥ तपसा तदवाप्नोति यद् भूत्वा सृजते जगत्। तद् भूतश्च ततः सर्वभूतानां भवति प्रभुः॥ तदुक्तं वेदवादेषु गहनं वेददर्शिभिः। वेदान्तेषु पुनर्व्यक्तं कर्मयोगेन लक्ष्यते॥ आलम्भयज्ञाः क्षत्राश्च हविर्यज्ञा विशः स्मृताः। परिचारयज्ञाः शूद्राश्च जपयज्ञा द्विजातयः॥ परिनिष्ठितकार्यो हि स्वाध्यायेन द्विजो भवेत्। कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते॥ त्रेतादौ केवला वेदा यज्ञा वर्णाश्रमास्तथा। संरोधादायुषस्त्वेते व्यस्यन्ते द्वापरे युगे॥ द्वापरे विप्लवं यान्ति वेदाः कलियुगे तथा। दृश्यन्ते नापि दृश्यन्ते कलेरन्ते पुन: किल॥ उत्सीदन्ति स्वधर्माश्च तत्राधर्मेण पीडिताः। गवां भूमेश्च ये चापामोषधीनां च ये रसाः॥ अधर्मान्तर्हिता वेदा वेदधर्मास्तथाऽऽश्रमाः। विक्रियन्ते स्वधर्मस्थाः स्थावराणि चराणि च॥ यथा सर्वाणि भूतानि वृष्टि मानि वर्षति। सृजते सर्वतोऽङ्गानि तथा वेदा युगे युगे॥ निश्चितं कालनानात्वमनादिनिधनं च यत्। कीर्तितं यत् पुरस्तान्मे सूते यच्चात्ति च प्रजाः॥ यच्चेदं प्रभवः स्थानं भूतानां संयमो. यमः। ' स्वभावेनैव वर्तन्ते द्वन्द्वसृष्टानि भूरिश:॥ सर्गः कालो धृतिर्वेदाः कर्ता कार्य क्रियाफलम्। एतत् ते कथितं तात यन्मां त्वं परिपृच्छसि॥ व्यास उवाच पृच्छतस्तव सत्पुत्र यथावदिह तत्त्वतः। सांख्यज्ञानेन संयुक्तं यदेतत् कीर्तितं मया॥ योगकृत्ये तु ते कृत्स्नं वर्तयिष्यामि तच्छृणु। एकत्वं बुद्धिमनसारिन्द्रियाणां च सर्वशः॥ आत्मनो व्यापिनस्तात ज्ञानमेतदनुत्तमम्। तदेतदुपशान्तेन दान्तेनाध्यात्मशीलिना॥ आत्मारामेण बुद्धेन बोद्धव्यं शुचिकर्मणा। योगदोषान् समुच्छिद्य पञ्च यान् कवयो विदुः॥ कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम्। क्रोधं शमेन जयति कामं संकल्पवर्जनात्॥ सत्त्वसंसेवनाद् धीरो निद्रामुच्छेत्तुमर्हति। धृत्या शिश्नोदरं रक्षेत् पाणिपादं च चक्षुषा॥ चक्षुःश्रोत्रे च मनसा मनोवाचं च कर्मणा। अप्रमादाद् भयं जह्याद् दम्भं प्राज्ञोपसेवनात्॥ एवमेतान् योगदोषान् जयेन्नित्यमतन्द्रितः। अग्नीश्च ब्राह्मणांश्चार्चेद् देवताः प्रणमेत च॥ वर्जयेदुशती वाचं हिंसायुक्तां मनोनुदाम्। ब्रह्म तेजोमयं शुक्रं यस्य सर्वमिदं रसः॥ एतस्य भूतं भव्यस्य दृष्टं स्थावरजङ्गमम्। ध्यानमध्ययनं दानं सत्यं हीरार्जवं क्षमा॥ शौचमाचारसंशुद्धिरिन्द्रियाणां च निग्रहः। एतैर्विवर्धते तेजः पाप्मानं चापकर्षति॥ सिध्यन्ति चास्य सर्वार्था विज्ञानं च प्रवर्तते। समः सर्वेषु भूतेषु लब्धालब्धेन वर्तयन्॥ धूतपाप्मा तु तेजस्वी लध्वाहारो जितेन्द्रियः। कामक्रोधौ वशे कृत्वा निनीषेद् ब्रह्मणः पदम्॥ मनसश्चेन्द्रियाणां च कृत्वैकाम्यं समाहितः। पूर्वरात्रापरार्धं च धारयेन्मन आत्मनि॥ जन्तोः पञ्चेन्द्रियस्यास्य यदेकं छिद्रमिन्द्रियम्। ततोऽस्य स्रवते प्रज्ञा दृतेः पादादिवोदकम्।१५।। मनस्तु पूर्वमादद्यात् कुमीनमिव मत्स्यहा! ततः श्रोत्रं ततश्चक्षुर्जिह्वां घ्राणं च योगवित्॥ तत एतानि संयम्य मनसि स्थापयेद् यतिः। तथैवापोह्य संकल्पान्मनो ह्यात्मनि धारयेत्॥ पञ्चेन्द्रियाणि संधाय मनसि स्थापयेद् यतिः। यदैतान्यवतिष्ठन्ति मनःषष्ठान्यथात्मनि॥ प्रसीदन्ति च संस्थाय तदा ब्रह्म प्रकाशते। विधूम इव दीप्तार्चिरादित्य इव दीप्तिमान्॥ वैद्युतोऽग्निरिवाकाशे दृश्यतेऽऽत्मा तथाऽऽत्मनि। सर्वस्तत्र स सर्वत्र व्यापकत्वाच्च दृश्यते॥ तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः। धृतिमन्तो महाप्राज्ञाः सर्वभूतहिते रताः॥ एवं परिमितं कालमाचरन् संशितव्रतः। आसीनो हि रहस्येको गच्छेदक्षरसात्मताम्॥ प्रमोहो भ्रम आवर्तो प्राणं श्रवणदर्शने। अद्भुतानि रसस्पर्शे शीतोष्णे मारुताकृतिः॥ प्रतिभामुपसर्गाश्चाप्युपसंगृह्य योगतः। तांस्तत्त्वविदनादृत्य आत्मन्येव निवर्तयेत्॥ कुर्यात् परिचयं योगे त्रैकाल्ये नियतो मुनिः। गिरि शृङ्गे तथा चैत्ये वृक्षाग्रेषु च योजयेत्॥ संनियम्येन्द्रियग्राम कोष्ठे भाण्डमना इव! एकाग्रं चिन्तयेन्नित्यं योगानोद्वेजयेन्मनः॥ येनोपायेन शक्येत संनियन्तुं चलं मनः। तं च युक्तो निषेवेत न चैव विचलेत् ततः॥ शून्या गिरिगुहाश्चैव देवतायतनानि च। शून्यागाराणि चैकाग्रो निवासार्थमुपक्रमेत्॥ नाभिष्वजेत् परं वाचा कर्मणा मनसापि वा। उपेक्षको यताहारो लब्धालब्धे समो भवेत्॥ यश्चैनमभिनन्देत यश्चैनमपवादयेत्। समस्तयोश्चाप्युभयो भिध्यायेच्छुभाशुभम्॥ न प्रहृष्येत लाभेषु नालाभेषु च चिन्तयेत्। समः सर्वेषु भूतेषु सधर्मा मातरिश्वनः॥ एवं स्वस्थात्मनः साधोः सर्वत्र समदर्शिनः। षण्मासान्नित्ययुक्तस्य शब्दब्रह्मातिवर्तते॥ वेदनार्ताः प्रज्ञा दृष्ट्वा समलोष्ठाश्मकाञ्चनः। एतस्मिन्विरतो मार्गे विरमेन च मोहितः॥ अपि वर्णावकृष्टस्तु नारी वा धर्मकाङ्क्षिणी। तावण्येतेन मार्गेण गच्छेतां परमां गतिम्॥ अजं पुराणमजरं सनातनं यदिन्द्रियैरुपलभेत निश्चलैः। अणोरणीयो महतो महत्तरं तदात्मना पश्यति मुक्तमात्मवान्।॥ इदं महर्षेर्वचनं महात्मनो यथावदुक्तं मनसानुदृश्य च। अवेक्ष्य चेमां परमेष्ठिसाम्यतां प्रयान्ति चाभूतगतिं मनीषिणः॥ शुक उवाच यदिदं वेदवचनं कुरु कर्म त्यजेति च। कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणाशा ॥ एतद् वै श्रोतुमिच्छामि तद् भवान् प्रब्रवीतु मे। एतच्चान्योन्यवरूप्ये वर्तेते प्रतिकूलतः॥ भीष्म उवाच इत्युक्तः प्रत्युवाचेदं पराशरसुतः सुतम्। कर्मविद्यामयावेतौ व्याख्यास्यामि क्षराक्षरौ॥ यां दिशं विद्यया यान्ति यां च गच्छन्ति कर्मणा। शृणुष्वैकमना वत्स गह्वरं ह्येतदन्तरम्॥ अस्ति धर्म इति प्रोक्तं नास्तीत्यत्रैव यो वदेत्। तस्य पक्षस्य सदृशमिदं मम भवेद् व्यथा।॥ द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः। प्रवृत्तिलक्षणो धर्मो निवृत्तौ च सुभाषितः॥ कर्मणा बध्यते जन्तुर्विद्यया तु प्रमुच्यते। तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः॥ कर्मणा जायते प्रेत्य मूर्तिमान् षोडशात्मकः। विद्यया जायते नित्यमव्यक्तं ह्यव्ययात्मकम्॥ कर्म त्वेके प्रशंसन्ति स्वल्पबुद्धिरता नराः। तेन ते देहजालानि रमयन्त उपासते॥ ये स्म बुद्धिं परां प्राप्ता धर्मनैपुण्यदर्शिनः। न ते कर्म प्रशंसन्ति कूपं नद्यां पिबन्निव॥ कर्मणः फलमाप्नोति सुखदुःखे भवाभवौ। विद्यया तदवाप्नोति यत्र गत्वा न शोचति॥ यत्र गत्वा न म्रियते यत्र गत्वा न जायते। न पुनर्जायते यत्र यत्र गत्वा न वर्तते॥ यत्र तद् ब्रह्म परममव्यक्तमचलं ध्रुवम्। अव्याकृतमनायासमव्यक्तं चावियोगि च॥ द्वन्द्वैर्न यत्र बाध्यन्ते मानसेन च कर्मणा। समाः सर्वत्र मैत्राश्च सर्वभूतहिते रताः॥ विद्यामयोऽन्यः पुरुषस्तात कर्ममयोऽपरः। विद्धि चन्द्रमसं दर्शे सूक्ष्मया कलया स्थितम्॥ तदेतदृषिणा प्रोक्तं विस्तरेणानुमीयते। नवजं शशिनं दृष्ट्वा वक्रतन्तुमिवाम्बरे॥ एकादशविकारात्मा कलासम्भारसम्भृतः। मूर्तिमानिति तं विद्धि तात कर्मगुणात्मकम्॥ देवो यः संश्रितस्तस्मिन्नब्बिन्दुरिव पुष्करे। क्षेत्रमं तं विजानीयान्नित्यं योगजितात्मकम्॥ तमो रजश्च सत्त्वं च विद्धि जीवगुणात्मकम्। जीवमात्मगुणं विद्यादात्मानं परमात्मनः॥ सचेतनं जीवगुणं वदन्ति स चेष्टते जीवयते च सर्वम्। ततः परं क्षेत्रविदो वदन्ति प्राकल्पयद् यो भुवनानि सप्त॥ शुक उवाच क्षरात्प्रभृति यः सर्गः सगुणानीन्द्रियाणि च। बुद्ध्यैश्वर्यातिसर्गोऽयं प्रधानश्चात्मनः श्रुतम्॥ भूय एव तु लोकेऽस्मिन् सवृत्तिं कालहैतुकीम्। यया सन्तः प्रवर्तन्ते तदिच्छाम्यनुवर्तितुम्॥ वेदे वचनमुक्तं तु कुरु कर्म त्यजेति च। कथमेतद् विजानीयां तच्च व्याख्यातुमर्हसि॥ लोकवृत्तान्ततत्त्वज्ञः पूतोऽहं गुरुशासनात्। कृत्वा बुद्धिं विमुक्तात्मा द्रक्ष्याम्यात्मानमव्ययम्॥ व्यास उवाच यथा वै विहिता वृत्तिः पुर ताद् ब्रह्मणा स्वयम्। एषा पूर्वतरैः सद्भिराचीर्णा परमर्षिभिः॥ ब्रह्मचर्येण वै लोकान् जयन्ति परमर्षयः। आत्मनश्च ततः श्रेयांस्यन्विच्छन् मनसाऽऽत्मनि॥ वने मूलफलाशी च तप्यन् सुविपुलं तपः। पुण्यायतनचारी च भूतानामविहिंसकः॥ विधूमे सन्नमुसले वानप्रस्थप्रतिश्रये। काले प्राप्ते चरन् भैक्ष्यं कल्पते ब्रह्मभूयसे॥ नि:स्तुतिनिर्ममस्कारः परित्यज्य शुभाशुभे। अरण्ये विचरैकाकी येन केनचिदाशितः॥ शुक उवाच यदिदं वेदवचनं लोकवादे विरुध्यते। प्रमाणे वाप्रमाणे च विरुद्ध शास्त्रता कुतः॥ इत्येतच्छ्रोतुमिच्छामि प्रमाणं तूभयं कथम्। कर्मणामविरोधेन कथं मोक्षः प्रवर्तते॥ भीष्म उवाच इत्युक्तः प्रत्युवाचेदं गन्धवत्याः सुतः सुतम्। ऋषिस्तत्पूजयन् वाक्यं पुत्रस्यामिततेजसः॥ व्यास उवाच ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः। यथोक्तचारिणः सर्वे गच्छन्ति परमां गतिम्॥ एको वाप्याश्रमानेतान् योऽनुतिष्ठेद् यथाविधि। अकामद्वेषसंयुक्तः स परत्र विधीयते॥ चतुष्पदी हि निःश्रेणी ब्रह्मण्येषा प्रतिष्ठिता। एतामारुह्य निःश्रेणी ब्रह्मलोके महीयते॥ आयुषस्तु चतुर्भागं ब्रह्मचार्यनसूयकः। गुरौ वा गुरुपुत्रे वा वसेद् धर्मार्थकोविदः॥ जघन्यशायी पूर्वं स्यादुत्थाय गुरुवेश्मनि। यच्च शिष्येण कर्तव्यं कार्यं दासेन वा पुनः॥ कृतमित्येव तत्सर्वं कृत्वा तिष्ठेत पार्श्वतः। किंकरः सर्वकारी स्यात् सर्वकर्मसु कोविदः॥ कर्मातिशेषेण गुरावध्येतव्यं बुभूषता। दक्षिणोऽनपवादी स्यादाहूतो गुरुमाश्रयेत्॥ शुचिर्दक्षो गुणोपेतो ब्रूयादिष्टमिवान्तरा। चक्षुषा गुरुमव्यग्रो निरीक्षेत जितेन्द्रियः॥ नाभुक्तवति चाश्नीयादपीतवति नो पिबेत्। नातिष्ठति तथाऽऽसीत नासुप्ते प्रस्वपेत च॥ उत्तानाभ्यां च पाणिभ्यां पादावस्य मृदु स्पृशेत्। दक्षिणं दक्षिणेनैव सव्यं सव्येन पीडयेत्॥ अभिवाद्य गुरुं ब्रूयादधीष्व भगवन्निति। करिष्ये भगवन्निदं चापि कृतं मया।॥ ब्रह्मस्तदपि कर्तास्मि यद् भवान् वक्ष्यतेपुनः। इति सर्वमनुज्ञाप्य निवेद्य च यथाविधि॥ कुर्यात कृत्वा च तत्सर्वमाख्येयं गुरवे पुनः। यांस्तु गन्धान् रसान् वापि ब्रह्मचारी न सेवते॥ सेवेत तान् समावृत्य इति धर्मेषु निश्चयः। ये केचिद् विस्तरेणोक्ता नियमा ब्रह्मचारिणः॥ तान् सर्वानाचरेन्नित्यं भवेच्चानपगो गुरोः। स एवं गुरवे प्रीतिमुपहत्य यथाबलम्॥ आश्रमादाश्रमेष्वेव शिष्यो वर्तेत कर्मणा। वेदव्रतोपवासेन चतुर्थे चायुषो गते॥ गुरवे दक्षिणां दत्त्वा समावर्तेद्यथाविधि॥ धर्मलब्धैर्युतो दारैरग्नीनुत्पाद्य यत्नतः। द्वितीयमायुषो भागं गहमेधी भवेद् व्रती॥ धर्मलब्धैर्युतो दारैरग्नीनुत्पाद्य यत्नतः। द्वितीयमायुषो भागं गहमेधी भवेद् व्रती॥ व्यास उवाच द्वितीयमायुषो भागं गृहमेधी गृहे वसेत्। धर्मलब्धैर्युतो दारैरग्नीनाहृत्य सुव्रतः॥ गृहस्थवृत्तयश्चैव चतस्रः कविभि: स्मृताः। कुसूलधान्यः प्रथमः कुम्भधान्यस्त्वनन्तरम्॥ अश्वस्तनोऽथ कापोतीमाश्रितो वृत्तिमाहरेत्। तेषां पर: परो ज्यायान् धर्मतो धर्मजित्तमः॥ षट्कर्मा वर्तयत्येकस्त्रिभिरन्यः प्रवर्तते। द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रे व्यवस्थितः॥ गृहमेधिव्रतान्यत्र महान्तीह प्रचक्षते। नात्मार्थे पाचयेदनं न वृथा घातयेत् पशून्॥ प्राणी वा यदि वाप्राणी संस्कारं यजुषार्हति। न दिवा प्रस्वपेज्जातु न पूर्वापररात्रिषु॥ न भुञ्जीतान्तरा काले नानृतावाह्वयेत् स्त्रियम्। नास्यानश्नन् गृह विप्रे वसेत् कश्चिदपूजितः॥ तथास्यातिथयः पूज्या हव्यकव्यवहाः सदा। वेदविद्याव्रतस्नाताः श्रोत्रिया वेदपारगाः॥ स्वधर्मजीविनो दान्ताः क्रियावन्तस्तपस्विनः। तेषां हव्यं च कव्यं चाप्यहणार्थं विधीयते॥ नखरैः सम्प्रयातस्य स्वधर्मज्ञापकस्य च। अपविद्धाग्निहोत्रस्य गुरोर्वालीककारिणः॥ संविभागोऽत्र भूतानां सर्वेषामेव शिष्यते। तथैवापचमानेभ्यः प्रदेयं गृहमेधिना॥ विघसाशी भवेन्नित्यं नित्यं चामृतभोजनः। अमृतं यज्ञशेषं स्याद् भोजनं हविषा समम्॥ भृत्यशेषं तु योऽश्नाति तमाहुर्विघसाशिनम्। विघसं भृत्यशेषं तु यज्ञशेषमथामृतम्॥ स्वदारनिरतो दान्तो ह्यनसूयुर्जितेन्द्रियः। ऋत्विक पुरोहिताचार्यैर्मातुलातिथिसंश्रितैः॥ वृद्धवालातुरैर्वेद्यैातिसम्बन्धिबान्धवैः मातापितृभ्यां जामीभिर्धात्रा पुत्रेण भार्यया॥ दुहित्रा दासवर्गेण विवादं न समाचरेत्। एतान् विमुच्य संवादान् सर्वपापैर्विमुच्यते॥ एतैर्जितस्तु जयति सर्वाल्लोकान् न संशयः। आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः॥ अतिथिस्त्विन्द्रलोकस्य देवलोकस्य चर्विजः। जामयोऽप्सरसां लोके वैश्वदेवे तु ज्ञातयः॥ सम्बन्धिबान्धवा दिक्षु पृथिव्यां मातृमातुलौ। वृद्धवालातुरकृशास्त्वाकाशे प्रभविष्णवः॥ भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः। छाया स्वा दासवर्गश्च दुहिता कृपणं परम्॥ तस्मादेतैरधिक्षिप्तः सहेन्नित्यमसंज्वरः। गृहधर्मपरो विद्वान् धर्मशीलो जितक्लमः॥ न चार्थबद्धः कर्माणि धर्मवान् कश्चिदाचरेत्। गृहस्थवृत्तयस्तिस्रस्तासां निःश्रेयसं परम्॥ परं परं तथैवाहुश्चातुराश्रम्यमेव तत्। यथोक्ता नियमास्तेषां सर्वं कार्यं बुभूषता॥ कुम्भधान्यैरुञ्छशिलैः कापोतीं चास्थितास्तथा। यस्मिश्चैते वसन्त्यहीस्तद् राष्ट्रमभिवर्धते॥ पूर्वान् दश दश परान् पुनाति च पितामहान्। गृहस्थवृत्तीश्चाप्येता वर्तयेद् यो गतव्यथः॥ स चक्रधरलोकानां सदृशीमाप्नुयाद् गतिम्। जितेन्द्रियाणामथवा गतिरेषा विधीयते॥ स्वर्गलोको गृहस्थानामुदारमनसां हितः। स्वर्गो विमानसंयुक्तो वेददृष्टः सुपुष्पितः॥ स्वर्गलोको गृहस्थानां प्रतिष्ठा नियतात्मनाम्। ब्रह्मणा विहिता योनिरेषा यस्माद् विधीयते। द्वितीयं क्रमशः प्राप्य स्वर्गलोके महीयते॥ अतः परं परममुदारमाश्रम तृतीयमाहुस्त्यजतां कलेवरम्। वनौकसां गृहपतिनामनुत्तमं शृणुष्व संश्लिष्टशरीरकारिणाम्॥ व्यास उवाच प्रकृत्यास्तु विकारा ये क्षेत्रज्ञस्तैरधिष्ठितः। न चैनं ते प्रजानन्ति स त जानाति तानपि॥ तैश्चैवं कुरुते कार्यं मनःषष्ठैरिहेन्द्रियैः। सुदान्तैरिव संयन्ता दृढैः परमवाजिभिः॥ इन्द्रियेभ्यः परे ह्या अर्थेभ्यः परमं मनः। मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः॥ महतः परमव्यक्तमव्यक्तात् परतोऽमृतम्। अमृतान्न परं किंचित् सा काष्ठा सा परा गतिः॥ एवं सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते। दृश्यते त्वम्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः॥ अन्तरात्मनि संलीय मनःषष्ठानि मेधया। इन्द्रियाणीन्द्रियार्थांश्च बहुचिन्त्यमचिन्तयन्॥ ध्यानेनोपरमं कृत्वा विद्यासम्पादितं मनः। अनीश्वरः प्रशान्तात्मा ततोऽर्छत्यमृतं पदम्॥ इन्द्रियाणां तु सर्वेषां वश्यात्मा चलितस्मृतिः। आत्मनः सम्प्रदानेन मर्यो मृत्युमुपाश्नुते॥ आहत्य सर्वसंकल्पान् सत्त्वे चित्तं निवेशयेत्। सत्त्वे चित्तं समावेश्य ततः कालंजरो भवेत्॥ चित्तप्रसादेन यति हातीह शुभाशुभम्। प्रसन्नात्माऽऽत्मनि स्थित्वा सुखमत्यन्तमश्नुते॥ लक्षणं तु प्रसादस्य यथा स्वप्ने सुखं स्वपेत्। युञ्जनात्मानमात्मनि। निवाते वा यथा दीपो दीप्यमानो न कम्पते॥ एवं पूर्वापरे काले लध्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि॥ रहस्यं सर्ववेदानामनैतिह्यमनागमम्। आत्मप्रत्ययिकं शास्त्रमिदं पुत्रानुशासनम्॥ धर्माख्यानेषु सर्वेषु सत्याख्याने च यद् वसु। दशेदमृक्सहस्राणि निर्मथ्यामृतमुद्धतम्॥ नवनीतं यथा दनः काष्ठादग्निर्यथैव च। तथैव विदुषां ज्ञानं पुत्र हेतोः समुद्धृतम्॥ स्नातकानामिदं शास्त्रं वाच्यं पुत्रानुशासनम्। तदिदं नाप्रशान्ताय नादान्तायातपस्वि ने॥ नोदविदुषे वाच्यं तथा नानुगताय च। नासूयकाजानृजवे न चानिर्दिष्टकारिणे॥ न तर्कशास्त्रदग्धाय तथैव पिशुनाय च। श्लाघिने श्लाघनीयाय प्रशान्ताय तपस्विने॥ इदं प्रियाय पुत्राय शिष्यायानुगताय च। रहस्यधर्मं वक्तव्यं नान्यस्मै तु कथंचन॥ यद्यप्यस्य महीं दद्याद् रत्नपूर्णामिमां नरः। इदमेव ततः श्रेय इति मन्येत तत्त्ववित्॥ अतो गुह्यतरार्थं तदध्यात्ममतिमानुषम्। यत् तन्महर्षिभिर्दृष्टं वेदान्तेषु च गीयते॥ तत् तेऽहं सम्प्रवक्ष्यामि यामि यन्मां त्वं परिपृच्छसि।।२ यच्च ते मनसि वर्तते परं यत्र चासित तव संशयः क्वचित्। श्रूयतामयमहं तवाग्रतः पुत्र किं हि कथयामि ते पुनः॥ शुक उवाच अध्यात्म विस्तरेणेह पुनरेव वदस्व मे। यदध्यात्म यथा वेद भगवनृषिसत्तम्॥ व्यास उवाच अध्यात्मं यदिदं तात पुरुषस्येह पठ्यते। तत् तेऽहं वर्तयिष्यामि तस्य व्याख्यामिमां शृणु॥ भूमिरापस्तथा ज्योतिर्वायुराकाश एव चा महाभूतानि भूतानां सागरस्योर्मयो यथा।॥ प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः। तद्वन्महान्ति भूतानि यवीयःसु विकुर्वते॥ इति तन्मयमेवेदं सर्वं स्थावरजङ्गमम्। सर्गे च प्रलये चैव तस्मिन् निर्दिश्यते तथा॥ महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत्। अकरोत् तात वैषम्यं यस्मिन् यदनुपश्यति॥ शुक उवाच अकरोद् यच्छरीरेषु कथं तदुपलक्षयेत्। इन्द्रियाणि गुणाः केचित् कथं तानुपलक्षयेत्॥ व्यास उवाच एत् ते वर्तयिष्यामि यथावदनुपूर्वशः। शृणु तत् त्वमिहैकाग्रो यथातत्त्वं यथा च तत्॥ शब्दः श्रोतं तथा स्वानि त्रयमाकाशसम्भवम्। प्राणश्चेष्टा तथा स्पर्श एते वायुगुणास्त्रयः॥ रूपं चक्षुर्विपाकश्च त्रिधा ज्योतिर्विधीयते। रसोऽथ रसनं स्नेहो गुणास्त्वेते त्रयोऽम्भसः॥ प्रेयं घ्राणं शरीरं च भूमेरेते गुणास्त्रयः। एतावानिन्द्रियग्रामैर्व्याख्यातः पाञ्चभौतिकः॥ वायोः स्पर्शो रसोऽङ्ग्यश्च ज्योतिषो रूपमुच्यते। आकाशप्रभवः शब्दो गन्धो भूमिगुणः स्मृतः॥ मनो बुद्धिः स्वभावश्च त्रय एते स्वयोनिजाः। न गुणानतिवर्तन्ते गुणेभ्यः परमागताः॥ यथा कूर्म इहाङ्गानि प्रसार्य विनियच्छति। एवमेवेन्द्रियग्रामं बुद्धिः सृष्ट्वा नियच्छति॥ एतस्मिन्नेव कृत्ये तु वर्तते बुद्धिरुत्तमा॥ गुणान् नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि। मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः॥ इन्द्रियाणि नरे पञ्च षष्ठं तु मन उच्यते। सप्तमी बुद्धिमेवाहुः क्षेत्रज्ञं पुनरष्टमम्॥ चक्षुरालोचनायैव संशयं कुरुते मनः। बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते॥ रजस्तमश्च सत्त्वं च यत्र एते स्वयोनिजाः। समाः सर्वेषु भूतेषु तान् गुणानुपलक्षयेत्॥ तत्र यत् प्रीतिसंयुक्तं किंचिदात्मनि लक्षयेत्। प्रशान्तमिव संशुद्धं सत्त्वं तदुपधारयेत्॥ यत् तु संतापसंयुक्तं काये मनसि वा भवेत्। प्रवृत्तं रज इत्येवं तत्र चाप्युपलक्षयेत्॥ यदूर्ध्वं पादतलयोरवाङ्मूर्ध्नश्च पश्यति। यत् तु सम्मोहसंयुक्तमव्यक्तविषयं भवेत्। अप्रतय॑मविज्ञेयं तमस्तदुपधार्यताम्॥ प्रहर्षः प्रीतिरानन्दः साम्यं स्वस्थात्मचित्तता। अकस्माद् यदि वा कस्माद् वर्तन्ते सात्त्विका गुणाः।।२ अभिमानो मृघावादो लोभो मोहस्तथाक्षमा। लिङ्गानि रजसस्तानि वर्तन्ते हेत्वहेतुतः॥ तथा मोहः प्रमादश्च निद्रा तन्द्राप्रबोधिता। कथंचिदभिवर्तन्ते विज्ञेयास्तामसा गुणाः॥ व्यास उवाच मनो विसृजते भावं बुद्धिरध्यवसायिनी। हृदयं प्रियाप्रिये वेद त्रिविधा कर्मचोदना॥ इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यः परमं मनः। मनसस्तु परा बुद्धिर्बुद्धेरात्मा परो मतः॥ बुद्धिरात्मा मनुष्यस्य बुद्धिरेवात्मनाऽऽत्मनि। यदा विकुरुते भावं तदा भवति सा मनः॥ इन्द्रियाणां पृथग्भावाद् बुद्धिविक्रियते ह्यतः। शृण्वती भवति श्रोत्रं स्पृशती स्पर्श उच्यते॥ पश्यती भवते दृष्टी रसती रसनं भवेत्। जिघ्रती भवति घ्राणं बुद्धिर्विक्रियते पृथक्॥ इन्द्रियाणि तु तान्याहुस्तेष्वदृश्योऽधितिष्ठति। तिष्ठती पुरुषे बुद्धिस्त्रिषु भावेषु वर्तते॥ कदाचिल्लभते प्रीतिं कदाचिदपि शोचति। न सुखेन न दुःखेन कदाचिदिह युज्यते॥ सेयं भावात्मिका भावांस्त्रीनेतानतिवर्तते। सरितां सागरो भर्ता महावेलामिवोर्मिमान्॥ यदा प्रार्थयते किंचित् तदा भवति सा मनः। अधिष्ठानानि वै बुद्ध्यां पृथगेतानि संस्मरेत्। इन्द्रियाण्येव मेध्यानि विजेतव्यानि कृत्स्नशः॥ सर्वाण्येवानुपूर्वेण यद् यदानुविधीयते। अविभागगता बुद्धिर्भावे मनसि वर्तते॥ ये चैव भावा वर्तन्ते सर्व एष्वेव ते त्रिषु। अन्वर्थाः सम्प्रवर्तन्ते रथनेमिमरा इव॥ प्रदीपार्थं मनः कुर्यादिन्द्रियैर्बुद्धिसत्तमैः। निश्चरद्भिर्यथायोगमुदासीनैर्यदृच्छया॥ एवं स्वभावमेवेदमिति विद्वान् न मुह्यति। अशोचन्नप्रहृष्यन् हि नित्यं विगतमत्सरः॥ न चात्मा शक्यते द्रष्टुमिन्द्रियैः कामगोचरैः। प्रवर्तमानैरनये दुष्करैरकृतात्मभिः॥ तेषां तु मनसा रश्मीन् यदा सम्यनियच्छति। तदा प्रकाशतेऽस्यात्मा दीपदीप्ता यथाऽऽकृतिः॥ सर्वेषामेव भूतानां तमस्यपगते यथा। प्रकाशं भवते सर्वं तथेदमुपधार्यताम्॥ यथा वारिचर: पक्षी न लिप्यति जले चरन्। विमुक्तात्मा तथा योगी गुणदोषैर्न लिप्यते॥ एवमेव कृतप्रज्ञो न दोषैविषयांश्चरन्। असज्जमान: सर्वेषु कथंचन न लिप्यते॥ त्यक्त्वा पूर्वकृतं कर्म रतिर्यस्य सदाऽऽत्मनि। सर्वभूतात्मभूतस्य गुणवर्गेष्वसज्जतः॥ सत्त्वमात्मा प्रसरति गुणान् वापि कदाचन। न गुणा विदुरात्मानं गुणान् वेद स सर्वदा॥ परिद्रष्टा गुणानां च परिस्रष्टा यथातथम्। सत्त्वक्षेत्रज्ञयोरेतदन्तरं विद्धि सूक्ष्मयोः॥ सृजतेऽत्र गुणानेक एको न सृजते गुणान्। पृथग्भूतौ प्रकृत्या तौ सम्प्रयुक्तौ च सर्वदा॥ यथा मत्स्योऽद्भिरन्यः स्यात् सम्प्रयुक्तोतथैव तौ। मशकोदुम्बरौ वापि सम्प्रयुक्तौ यथा सह॥ इषीका वा यथा मुजे पृथक् च सह चैव च। तथैव सहितोवेतावन्योन्यस्मिन् प्रतिष्ठितौ॥ व्यास उवाच सृजते तु गुणान् सत्त्वं क्षेत्रज्ञस्त्वधितिष्ठति। गुणान् विक्रियत: सर्वानुदासीनवदीश्वरः॥ स्वभावयुक्तं सर्वं यदिमान् सृजते गुणान्। उर्णनाभिर्यथा सूत्रं सृजते तद्गुणांस्तथा॥ प्रध्वस्ता न निवर्तन्ते प्रवृत्तिर्नोपलभ्यते। एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे॥ उभयं सम्प्रधायैतदध्यवस्येद् यथामति। अनेनैव विधानेन भवेद् गर्भशयो महान्॥ अनादिनिधनो ह्यात्मा तं बुद्ध्वा विचरेन्नरः। अक्रुरध्यन्नप्रहृष्यंश्च नित्यं विगतमत्सरः॥ इत्येवं हृदयग्रन्थिं बुद्धिचिन्तामयं दृढम्। अनित्यं सुखमासीत अशोचंश्छिन्नसंशयः॥ ताम्येयुः प्रच्युताः पृथ्व्या यथा पूर्णा नदी नराः। अवगाढा ह्यविद्वांसो विद्धि लोकमिमं तथा॥ न तु ताम्यति वै विद्वान् स्थले चरति तत्त्ववित्। एवं यो विन्दतेऽऽत्मानं केवलं ज्ञानमात्मनः॥ एवं बुद्ध्वा नरः सर्वं भूतानामागतिं गतिम्। समवेक्ष्य च वैषम्यं लभते शममुत्तमम्॥ एतद् वै जन्मसामर्थ्य ब्राह्मणस्य विशेषतः। आत्मज्ञानं शमश्चैव पर्याप्तं तत्परायणम्॥ एतद् बुद्ध्वा भवेद् बुद्धः किमन्यद् बुद्धलक्षणम्। विज्ञायैतद् विमुच्यन्ते कृतकृत्या मनीषिणः॥ न भवति विदुषां महद्भयं यदविदुषा समुहद्भयं परत्र। न हि गतिरधिकास्ति कस्यचिद् भवति हि या विदुषः सनातनी॥ स्तत्तदेव च निरीक्ष्य शोचते। तत्र पश्य कुशलानशोचतो ये विदुस्तदुभयं कृताकृतम्॥ यत्करोत्यनभिसंधिपूर्वकं तच्च निर्गुदति तत् पुराकृतम्। न प्रियं तदुभयं न चाप्रियं तस्य तज्जनयतीह कुर्वतः॥ शुक उवाच यस्माद् धर्मात् परो धर्मो विद्यते नेह कश्चन। यो विशिष्टश्च धर्मेभ्यस्तं भवान् प्रब्रवीतु मे॥ व्यास उवाच धर्मं ते सम्प्रवक्ष्यामि पुराणमृषिभिः कृतम्। विशिष्टं सर्वधर्मभ्यस्तमिहैकमनाः शृणु॥ इन्द्रियाणि प्रमाथीनि बुद्ध्या संयम्य यत्नतः। सर्वतो निष्पतिष्णूनि पिता बालानिवात्मजान्॥ मनसश्चेन्द्रियाणां चाप्यैकाम्यं परमं तपः। तज्ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते॥ तानि सर्वाणि संधाय मनःषष्ठानि मेधया। आत्मतृप्त इवासीत बहुचिन्त्यमचिन्तयन्॥ गोचरेभ्यो निवृत्तानि यदा स्थास्यन्ति वेश्मनि। तदा त्वमात्मनाऽऽत्मानं परं द्रक्ष्यसि शाश्वतम्॥ सर्वात्मानं महात्मानं विधूममिव पावकम्। तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः॥ यथा पुष्पफलोपेतो बहुशाखो महाद्रुमः। आतमनो नाभिजानीते क्व मे पुष्पं क्व मे फलम्॥ एवमात्मा न जानीते क्व गमिष्ये कुतस्त्वहम्। अन्यो ह्यत्रान्तरात्मास्ति यः सर्वमनुपश्यति॥ ज्ञानदीपेन दीप्तेन पश्यत्यात्मानमात्मनि। दृष्ट्वा त्वमात्पनाऽऽत्मानं निरात्मा भव सर्ववित्॥ विमुक्तः सर्वपापेभ्यो मुक्तत्वच इवोरगः। परां बुद्धिमवाप्येह विपाप्मा विगतज्वरः॥ सर्वतः स्रोतसं घोरां नदी लोकप्रवाहिनीम्। पञ्चेन्द्रियग्राहवती मन:संकल्परोधसम्॥ लोभमोहतृणच्छन्नां कामक्रोधसरीसृपाम्। सत्यतीर्थानृतक्षोभां क्रोधपङ्का सरिद्वराम्॥ अव्यक्तप्रभवां शीघ्रां दुस्तरामकृतात्मभिः। प्रतरस्व नदी बुद्ध्या कामग्राहसमाकुलाम्॥ संसारसागरगमां योनिपातालदुस्तराम्। आत्मकर्मोद्भवां तात जिह्वावर्ती दुरासदाम्॥ यां तरन्ति कृतप्रज्ञा धृतिमन्तो मनीषिणः। तां तीर्णः सर्वतो मुक्तो विधृतात्माऽऽत्मविच्छुभिः॥ उत्तमां बुद्धिमास्थाय ब्रह्मभूयान् भविष्यसि। संतीर्णः सर्वसंसारात् प्रसन्नात्मा विकल्मषः॥ भूमिष्ठानीव भूतानि पर्वतस्थो निशामया अक्रुध्यन्नप्रहष्यंश्च न नृशंसमतिस्तथा॥ ततो द्रक्ष्यसि सर्वेषां भूतानां प्रभवाप्ययौ। एनं वै सर्वभूतेभ्यो विशिष्टं मेनिरे बुधाः। धर्मं धर्मभृतां श्रेष्ठा मुनयस्तत्त्वदर्शिनः॥ आत्मनो व्यापिनो ज्ञानमिदं पुत्रानुशासनम्। प्रयताय प्रवक्तव्यं हितायानुगताय च॥ आत्मज्ञानमिदं गुह्यं सर्वगुह्यतमं महत्। अब्रुवं यदहं तात आत्मसाक्षिकमञ्जसा॥ नैव स्त्री न पुमानेतन्नैव चेदं नपुंसकम्। अदुःखमसुखं ब्रह्म भूतभव्यभवात्मकम्॥ नैतज्ज्ञात्वा पुमान् स्त्री वा पुनर्भवमवाप्नुते। अभवप्रतिपत्त्यर्थमेतद् धर्मं विधीयते॥ यथा मतानि सर्वाणि तथैतानि यथा तथा। कथितानि मया पुत्र भवन्ति न भवन्ति च॥ तत्प्रीतियुक्तेन गुणान्वितेन पुत्रेण सत्पुत्र दमान्वितेना पृष्टो हि सम्प्रीतमना यथार्थ ब्रूयात्सुतस्येह यदुक्तमेतत्॥ व्यास उवाच गन्धान् रसान् नानुरुन्ध्यात्सुखं वा नालंकारांश्चाप्नुयात्तस्य तस्य। मानं च कीर्ति च यशश्च नेच्छेत्स वै प्रचारः पश्यतो ब्राह्मणस्य॥ सर्वान् वेदानधीयीत शुश्रूषुर्ब्रह्मचर्यवान्। ऋचो यजूंषि सामानि न तेन न स वै द्विजः॥ ज्ञातिवत् सर्वभूतानां सर्ववित् सर्ववेदवित्। नाकामो म्रियते जातु न तेन न च वै द्विजः॥ इष्टीश्च विविधाः प्राप्य ऋतूंश्चैवाप्तदक्षिणान्। प्राप्नोति नैव ब्राह्मण्यमविधानात् कथंचन॥ कल्पते॥ यदा चायं न बिभेति यदा चास्मान्न बिभ्यति। यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा॥ यदा न कुरुते भावं सर्वभूतेषु पापकम्। कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा॥ कामबन्धनमेवैकं नान्यदस्तीह बन्धनम्। कामबन्धनमुक्तो हि ब्रह्मभूयाय कामतो मुच्यमानस्तु धूम्राभ्रादिव चन्द्रमाः। विरजाः कालमाकाङ्क्षन् धीरो धैर्येण वर्तते।॥ आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत्। तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामः॥ स कामकान्तो न तु कामकाम: स वै कामात्स्वर्गमुपैति देही॥ वेदस्योपनिषत् सत्यं सत्यस्यापनिषद् दमः। दमस्योपनिषद् दानं दानस्योपनिषत् तपः॥ तपसोपनिषत् त्यागस्त्यागस्योपनिषत् सुखम्। सुखस्योपनिषत् स्वर्गः स्वर्गसयोपनिषच्छमः॥ क्लेदनं शोकमनसो संतापं तृष्णया सह। सत्त्वमिच्छसि संतोषाच्छान्तिलक्षणमुत्तमम्॥ विशोको निर्ममः शान्तः प्रसन्नात्मा विमत्सरः। षड्भिर्लक्षणवानेतैः समग्रः पुनरेष्यति॥ षभिः सत्त्वगुणोपेतैः प्राज्ञैरधिगतं त्रिंभिः। ये विदुः प्रेत्य चात्मानमिहस्थं तं गुणं विदुः॥ अकृत्रिममसंहार्यं प्राकृतं निरुपस्कृतम्। अध्यात्म सुकृतं प्राप्तः सुखमव्ययमश्नुते॥ निष्प्रचारं मनः कृत्वा प्रतिष्ठाप्य च सर्वशः। यामयं लभते तुष्टिं सा न शक्याऽऽत्मनोऽन्यथा॥ येन तृप्यत्यभुञ्जानो येन तृप्यत्यवित्तवान्। येनोस्नेहो बलं धत्ते यस्तं वेद स वेदवित्॥ संगुप्तान्यात्मनो द्वाराण्यपिधाय विचिन्तयन्। यो ह्यास्ते ब्राह्मणः शिष्टः स आत्मरतिरुच्यते॥ समाहितं परे तत्त्वे क्षीणकाममवस्थितम्। सर्वतः सुखमन्वेति वपुश्चान्द्रमसं यथा॥ अविशेषाणि भूतानि गुणांश्च जहतो मुनेः। सुखेनापोह्यते दुःखं भास्करेण तमो यथा॥ मुक्तः समः तमतिक्रान्तकर्माणमतिक्रान्तगुणक्षयम्। ब्राह्मणं विषयाश्लिष्टं जरामृत्यू न विन्दतः॥ स यदा सर्वतो पर्यवतिष्ठते। इन्द्रियाणीन्द्रियार्थाश्च शरीरस्थोऽतिवर्तते॥ कारणं परमं प्राप्य अतिक्रान्तस्य कार्यताम्। पुनरावर्तनं नास्ति सम्प्राप्तस्य परं पदम्॥ व्यास उवाच शरीराद् विप्रमुक्तं हि सूक्ष्मभूत शरीरिणम्। कर्मभिः परिपश्यन्ति शास्त्रोक्तैः शास्त्रवेदिनः॥ यथा मरीच्यः सहिताश्चरन्ति सर्वत्र तिष्ठन्ति च दृश्यमानाः। स्तथैव सत्त्वान्यतिमानुषाणि॥ प्रतिरूपं यथैवाप्सु तापः सूर्यस्य लक्ष्यते। सत्त्ववत्सु तथा सत्त्वं प्रतिरूपं स पश्यति॥ तानि सूक्ष्माणि सत्त्वानि विमुक्तानि शरीरतः। स्वेन सत्त्वेन सत्त्वज्ञाः पश्यन्ति नियतेन्द्रियः॥ स्वपतां जाग्रतां चैव सर्वेषामात्मचिन्तितम्। प्रधानाद्वैधमुक्तानां जहतां कर्मजं रजः॥ यथाहनि तथा रात्रौ यथा रात्रौ तथाहनि। वशे तिष्ठति सत्त्वात्मा सततं योगयोगिनाम्॥ तेषां नित्यं सदा नित्यो भूतात्मा सततं गुणैः। सप्तभिस्त्वन्वितः सूक्ष्मैश्चरिष्णुरजरामरः॥ मनोबुद्धिपराभूतः स्वदेहपरदेहवित्। स्वप्नेष्वपि भवत्येष विज्ञाता सुखदुःखयोः॥ तत्रापि लभते दुःखं तत्रापि लभते सुखम्। क्रोधलोभौ तु तत्रापि कृत्वा व्यसनमृच्छति॥ प्रीणितश्चापि भवति महतोऽर्थानवाप्य हि। करोति पुप्यं तत्रापि जीवन्निव च पश्यति॥ महोष्मान्तर्गतश्चापि गर्भत्वं समुपेयिवान्। दश मासान् वसन् कुक्षौ नैषोऽन्नमिव जीर्यते॥ तमेतमतितेजोऽशं भूतात्मानं हृदि स्थितम्। तमोरजोभ्यामाविष्टा नानुपश्यन्ति मूर्तिषु॥ योगशास्त्रपरा भूत्वा तमात्मानं परीप्सवः। अनुच्छ्वासान्यमूर्तानि यानि वज्रोपमान्यपि॥ पृथग्भूतेषु सृष्टेषु चतुर्थाश्रमकर्मसु। समाधौ योगमेवैतच्छाण्डिल्यः शममब्रवीत्॥ विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम्। प्रधानविनियोगज्ञः परं ब्रह्मानुपश्यति॥ व्यास उवाच हृदि कामद्रुमश्चित्रो मोहसंचयसम्भवः। क्रोधमानमहास्कन्धो विधित्सापरिषेचनः॥ तस्य चाज्ञानमाधारः प्रमादः परिषेचनम्। सोऽभ्यसूयापलाशो हि पुरा दुष्कृतसारवान्॥ सम्मोहचिन्ताविटपः शोकशाखो भयाङ्कुर। मोहनीभिः पिपासाभिलताभिरनुवेष्टितः॥ उपासते महावृक्षं सुलुब्धास्तत्फलेप्सवः। आयसैः संयुताः पाशैः फलदं परिवेष्ट्य तम्॥ यस्तान् पाशान् वशे कृत्वा तं वक्षमपकर्षति। गतः स दुःखयोरन्तं जरामरणयोर्द्वयोः। संरोहत्यकृतप्रज्ञः सदा येन हि पादपम्। स तमेव ततो हन्ति विषग्रन्थिरिवातुरम्॥ तस्यानुगतमूलस्य मूलमुध्रियते बलात्। योगप्रसादात् कृतिना साम्येन परमासिना॥ एवं यो वेद कामस्य केवलस्य निवर्तनम्। बन्धं वै कामशास्त्रस्य स दुःखान्यतिवर्तते॥ शरीरं पुरमित्याहुः स्वामिनी बुद्धिरिष्यते। तत्त्वबुद्धेः शरीरस्थं मनो नामाथचिन्तकम्॥ इन्द्रियाणि मन:पौरास्तदर्थं तु पराकृतिः। तत्र द्वौ दारुणौ दोषौ तमो नाम रजस्तथा। तदर्थमुपजीवन्ति पौराः सह पुरेश्वरैः॥ अद्वारेण तमेवार्थं द्वौ दोषावुपजीवतः। तत्र बुद्धिर्हि दुर्धर्षा मनः सामान्यमश्नुते॥ पौराश्चापि मनस्त्रस्तास्तेषामपि चला स्थितिः। तदर्थं बुद्धिरध्यास्ते सोऽनर्थः परिषीदति॥ यदर्थं पृथगध्यास्ते मनस्तत्परिषीदति। पृथग्भूतं मनो बुद्धया मनो भवति केवलम्॥ तत्रैनं विधृतं शून्यं रजः पर्यवतिष्ठते। तन्मनः कुरुते सख्यं रजसा सह सङ्गतम्। चादाय जनं पौरं रजसे सम्प्रयच्छति॥ भीष्म उवाच भूतानां परिसंख्यानं भूयः पुत्र निशामय। द्वैपायनमुखाद् भ्रष्टं श्लाघया परयानघ॥ दीप्तानलनिभः प्राह भगवान् धूमवर्चसे। ततोऽहमपि वक्ष्यामि भूयः पुत्र निदर्शनम्॥ भूमेः स्थैर्यं गुरुत्वं च काठिन्यं प्रसवार्थता। गन्धो गुरुत्वं शक्तिश्च संघातः स्थापना धृतिः॥ अपां शैत्यं रसः क्लेदो द्रवत्वं स्नेहसौम्यता। जिह्वा विस्यन्दनं चापि भौमानां श्रपणं तथा॥ अग्नेर्दुर्धर्षता ज्योतिस्ताप: पाकः प्रकाशनम्। शोको रागो लघुस्तैक्ष्ण्यं सततं चोर्ध्वभासिता॥ वायोरनियमस्पर्शी वादस्थानं स्वतन्त्रता। बलं शैघ्यं च मोक्षं च कर्म चेष्टाऽऽत्मता भवः॥ आकाशस्य गुणः शब्दो व्यापित्वं च्छिद्रतापि च। अनाश्रयमनालम्बमव्यक्तमविकारिता॥ अप्रतीघातिता चैव भूतत्वं विकृतानि च। गुणा: पञ्चाशतं प्रोक्ताः पञ्चभूतात्मभाविताः॥ धैर्योपपत्तिर्व्यक्तिश्च विसर्गः कल्पना क्षमा। सदसच्चाशुता चैव मनसो नव वै गुणाः॥ इष्टानिष्टविपत्तिश्च व्यवसाय: समाधिता। संशयः प्रतिपत्तिश्च बुद्धेः पञ्चगुणान् विदुः।१०।। युधिष्ठिर उवाच कथं पञ्चगुणा बुद्धिः कथं पञ्चेन्द्रिया गुणाः। एतन्मे सर्वमाचक्ष्व सूक्ष्मज्ञानं पितामह॥ भीष्म उवाच आहुः षष्टिं बुद्धिगुणान्वै भूतविशिष्टा नित्यविषक्ताः। भूतविभूतीश्चाक्षरसृष्टाः पुत्र न नित्यं तदिह वदन्ति॥ तत्पुत्र चिन्ताकलिलं तदुक्तमनागतं वै तव सम्प्रतीह। भूतार्थतत्त्वं तदवाप्य सर्वं भूतप्रभावाद् भव शान्तबुद्धिः।। युधिष्ठिर उवाच य इमे पृथिवीपाला: शेरते पृथिवीतले। पृतनामध्य एते हि गतसंज्ञा महाबलाः॥ एकैकशो भीमबला नागायुतबलास्तथा। एते हि निहताः संख्ये तुल्यतेजोबलैनरैः॥ नैषां पश्यामि हन्तारं प्राणिनां संयुगे परम्। विक्रमेणोपसम्पन्नास्तेजोबलसमन्विताः॥ अथ चेमे महाप्राज्ञाः शेरते हि गतासवः। मृता इति च शब्दोऽयं वर्तत्येषु गतासुषु॥ इमे मृता नृपतयः प्रायशो भीमविक्रमाः। तत्र मे संशयो जातः कुतः संज्ञा मृता इति॥ कस्य मृत्युः कुतो मृत्युः केन मृत्युरिह प्रजाः। हरत्यमरसंकाश तन्मे ब्रूहि पितामह॥ भीष्म उवाच पुरा कृतयुगे तात राजा ह्यासीदकम्पनः। स शत्रुवशमापन्नः संग्रामे क्षीणवाहनः॥ तस्य पुत्रो हरि म नारायणसमो बले। स शत्रुभिर्हतः संख्ये सबलः सपदानुगः॥ स राजा शत्रुवशगः पुत्रशोकसमन्वितः। यदृच्छया शान्तिपरो ददर्श भुवि नारदम्॥ तस्मै स सर्वमाचष्ट यथावृत्तं जनेश्वरः। शत्रुाभिर्ग्रहणं संख्ये पुत्रस्य मरणं तथा॥ तस्य तद् वचनं श्रुत्वा नारदोऽथ तपोधनः आख्यानमिदमाचष्ट पुत्रशोकापहं तदा॥ नारद उवाच राजशृणु समाख्यानमद्येदं बहुविस्तरम्। यथावृत्तं श्रुतं चैव मयेदं वसुधाधिप॥ प्रजाः सृष्टाः महातेजाः प्रसार्गे पितामहः। अतीव वृद्धा बहुला नामृष्यत पुनः प्रजाः॥ न ह्यन्तरमभूत् किञ्चित् क्वचिज्जन्तुभिरच्युत। निरुच्छ्वासमिवोन्नद्धं त्रैलोक्यमभवन्नृप॥ तस्य चिन्ता समुत्पन्ना संहारं प्रति भूपते। चिन्तयन् नाध्यगच्छच्च संहारे हेतुकारणम्॥ तस्य रोषान्महाराज खेभ्योऽग्निरुदतिष्ठत। तेन सर्वा दिशो राजन् ददाह स पितामहः॥ ततो दिवं भुवं खं च जगच्च सचराचरम्। ददाह पावको राजन् भगवत्कोपसम्भवः॥ तत्रादह्यन्त भूतानि जङ्गमानि ध्रुवाणि च। महता क्रोधवेगेन कुपिते प्रपितामहे॥ ततोऽध्वरजटः स्थाणुर्वेदाध्वरपतिः शिवः। जगाम शरणं देवो ब्रह्माणं परवीरहा।॥ तस्मिन्नभिगते स्थाणौ प्रजानां हितकाम्यया। अब्रवीत् परमो देवो ज्वलन्निव तदा शिवम्॥ करवाण्यद्य कं काम वरा.ऽसि मतो मम। कर्ता ह्यस्मि प्रियं शम्भो तव यद्धदि वर्तते॥ स्थाणुरुवाच पजासर्गनिमित्तं मे कार्यवत्तामिमां प्रभो। विद्धि सृष्टास्त्वया हीमा मा कुप्यासां पितामह॥ तव तेजोऽग्निना देव प्रजा दह्यन्ति सर्वशः। ता दृष्ट्वा मम कारुण्यं मा कुष्यासां जगत्प्रभो॥ प्रजापतिरुवाच न कुप्ये न च मे कामो न भवेयुः प्रजा इति। लाघवार्थं धरण्यास्तु ततः संहार इष्यते॥ इयं हि मां सदा देवी भारार्ता समचोदयत्। संहारार्थं महादेव भारेणाप्सु निमज्जति॥ यदाहं नाधिगच्छामि बुद्ध्या बहु विचारयन्। संहारमासां वृद्धानां ततो मां क्रोध आविशत्॥ स्थाणुरुवाच संहारार्थं प्रसीदस्व मा क्रुधो विबुधेश्वर। मा प्रजाः स्थावरं चैव जङ्गमं च व्यनीनशत्॥ पल्वलानि च सर्वाणि सर्वं चैव तृणोपलम्। स्थावरं जङ्गमं चैव भूतग्रामं चतुर्विधम्॥ तदेतद् भस्मसाद्भूतं जगत् सर्वमुपल्लुतम्। प्रसीद भगवन् साधो वर एष वृतो मया॥ नष्टा न पुनरेष्यन्ति प्रजा ह्येताः कथंचन। तस्मानिवर्ततामेतत् तेन स्वेनैव तेजसा॥ उपायमन्यं सम्पश्य भूतानां हितकाम्यया। यथामी जन्तवः सर्वे न दोरन् पितामह॥ अभावं हि न गच्छेयुरुच्छिन्नप्रजनाः प्रजाः। अधिदैवे नियुक्तोऽस्मि त्वया लोकेश्वरेश्वर॥ त्वद्भवं हि जगन्नाथ एतत् स्थावरजङ्गमम्। प्रसाद्य त्वां महादेव याचाम्यावृत्ति जाः प्रजाः॥ नारद उवाच श्रुत्वा तु वचनं देवः स्थाणोनियतवाङ्मनाः। तेजस्तत् संनिजग्राह पुनरेवान्तरात्मनि॥ ततोऽग्निमुपसंगृह्य भगवाँल्लोकपूजितः। प्रवृत्तिं च निवृत्तिं च कल्पयामास वै प्रभुः॥ उपसंहरतस्तस्य तमग्नि रोषजं तदा। प्रादुर्बभूव विश्वेभ्यः खेभ्यो नारी महात्मनः॥ कृष्णरक्ताम्बरधरा कृष्णनेत्रतलान्तरा। दिव्यकुण्डलसम्पन्ना दिव्याभरणभूषिता॥ सा विनिःसृत्य वै खेभ्यो दक्षिणामाश्रिता दिशम्। ददृशाते च तां कन्यां देवौ विश्वेश्वरावुभौ॥ तामाहूय तदा देवो लोकानामादिरीश्वरः। मृत्यो इति महीपाल जहि चेमाः प्रजा इति॥ त्वं हि संहारबुद्ध्या मे चिन्तिता रुषितेन च। तस्मात् संहर सर्वांस्त्वं प्रजाः सजडपण्डिताः॥ अविशेषेण चैव त्वं प्रजाः संहर कामिनि। मम त्वं हि नियोगेन श्रेयः परमवाप्स्यसि॥ एवमुक्ता तु सा देवी मृत्युः कमलमालिनी। प्रदध्यौ दुःखिता बाला साश्रुपातमतीव॥ पाणिभ्यां चैव जग्राह तान्यश्रूणि जनेश्वरः। मानवानां हितार्थाय ययाचे पुनरेव ह॥ नारद उवाच विनीय दुःखमबला साऽऽत्मनैवायतेक्षणा। उवाच प्राञ्जलिर्भूत्वा लतेवावर्जिता तदा॥ त्वया सृष्टा कथं नारी मादृशी वदतां वर। रौद्रकर्माभिजायेत सर्वप्राणिभयङ्करी॥ विभेम्यहमधर्मस्य धर्नामादिश कर्म मे। त्वं मां भीतामवेक्षस्व शिवेनेक्षस्व चक्षुषा॥ बालान् वृद्धान् वयस्थांश्च न हरेयमनागसः। प्राणिनः प्राणिनामीश नमस्तेऽस्तु प्रसीद मे॥ प्रियान् पुत्रान् वयस्यांश्च भ्रातृन् मातृः पितृनपि। अपध्यास्यन्ति यद्येवं मृतास्तेषां बिभेम्यहम्॥ कृपणाश्रुपरिक्लेदो देहन्मां शाश्वतीः समाः। तेभ्योऽहं बलवद् भीता शरणं त्वामुपागता॥ यमस्य भवने देव पात्यन्ते पापकर्मिणः। प्रसादये त्वां वरद प्रसादं कुरु मे प्रभो॥ एतदिच्छाम्यहं कामं त्वत्तो लोकपितामह। इच्छेयं त्वत्प्रसादार्थं तपस्तप्तुं महेश्वर॥ पितामह उवाच मृत्यो संकल्पिता मे त्वं प्रजासंहारहेतुना। गच्छ संहर सर्वास्त्वं प्रजा मा च विचारय॥ एतदेवमवश्यं हि भविता नैतदन्यथा। क्रियतामनवद्याङ्गि यथोक्तं मद्वचोऽनघे॥ एवमुक्ता महाबाहो मृत्युः परपुरंजय। न व्याजहार तस्थौ च प्रह्वा भगवदुन्मुखी॥ पुनः पुनरथोक्ता सा गतसत्त्वेव भामिनी। तूष्णीमासीत् ततो देवो देवानामीश्वरेश्वरः॥ प्रससाद किल ब्रह्मा स्वयमेवात्मनाऽऽत्मनि। स्मयमानश्च लोकेशो लोकान् सर्वानवैक्षत॥ निवृत्तरोषे तस्मिस्तु भगवत्यपराजिते। सा कन्याथ जगामास्य समीपादिति नः श्रुतम्॥ अपसृत्याप्रतिश्रुत्य प्रजासंहरणं तदा। त्वरमाणेव राजेन्द्र मृत्युर्धेनुकमभ्यगात्॥ सा तत्र परमं देवी तपोऽचरद् दुश्चरम्। समा होकपदे तस्थौ दश पद्मानि पञ्च च॥ तां तथा कुर्वतीं तत्र तपः परमदुश्चरम्। पुनरेव महातेजा ब्रह्मा वचनमब्रवीत्॥ कुरुष्व मे वचो मृत्यो तदनादृत्य सत्वरा। तथैवैकपदे तात पुनरन्यानि सप्त सा॥ तस्थौ पद्मानि षट् चैव पञ्च द्वे चैव मानद। भूयः पद्मायुतं तात मृगैः सह चचार सा॥ द्वे चायुते नरश्रेष्ठ वायवाहारा महामते। पुनरेव ततो राजन् मौनमातिष्ठदुत्तमम्॥ अप्सु वर्षसहस्राणि सप्त चैकं च पार्थिवा ततो जगाम सा कन्या कौशिकी नृपसत्तम॥ तत्र वायुजलाहारा चचार नियम पुनः। ततो ययौ महाभागा गङ्गां मेरुं च केवलम्॥ तस्थौ दार्विव निश्चेष्टा प्रजानां हितकाम्यया। ततो हिमवतो मूनि यत्र देवाः समीजिरे॥ तत्राङ्गुष्ठेन राजेन्द्र निखर्वमपरं ततः। तस्थौ पितामहं चैव तोषयामास यत्नतः॥ ततस्तामब्रवीत् तत्र लोकानां प्रभवाप्ययः। किमिदं वर्तते पुत्रि क्रियतां मम तद् वचः॥ ततोऽब्रवीत् पुनर्मृत्युर्भगवन्तं पितामहम्। न हरेयं प्रजा देव पुनश्चाहं प्रसादये॥ तामधर्मभयाद् भीतां पुनरेव प्रयाचतीम्। तदाब्रवीद् देवदेवो निगृह्येदं वचस्ततः॥ अधर्मो नास्ति ते मृत्यो संयच्छेमाः प्रजाः शुभे। मया हुक्तं मृषा भद्रे भविता नेह किंचन॥ धर्मः सनातनश्च त्वामिहैवानुप्रवेक्ष्यति। अहं च विबुधाश्चैव त्वद्धिते निरताः सदा॥ इममन्यं च ते कामं ददानि मनसेप्सितम्। न त्वां दोषेण यास्यन्ति व्याधिसम्पीडिताः प्रजाः॥ पुरुषेषु स्वरूपेण पुरुषस्त्वं भविष्यसि। स्त्रीषु स्त्रीरूपिणी चैव तृतीयेषु नपुंसकम्॥ सैवमुक्ता महाराज कृताञ्जलिरुवाच ह। पुनरवे महात्मानं नेति देवेशमव्ययम्॥ तामब्रवीत् तदा देवो मृत्यो संहर मानवान्। अधर्मस्ते न भविता तथा ध्यास्याम्यहं शुभे॥ यानश्रुबिन्दूम्पतितानपश्यं ये पाणिभ्यां धारितास्ते पुरस्तात्। ते व्याधयो मानवान् घोररूपाः। प्राप्ते काले कालयिष्यन्ति मृत्यो॥ सर्वेषा त्वं प्राणिनामन्तकाले कामक्रोधौ सहितौ योजयेथाः। एवं धर्मस्त्वामुपैष्यत्यमेयो न चाधर्मं लप्स्यसे तुल्यवृत्तिः॥ एवं धर्म पालयिष्यस्यथो त्वं न चात्मानं मज्जयिष्यस्यधर्मे। तस्मात् कामं रोचयाभ्यागतं त्वं संयोज्याथो संहरस्वेह जन्तून।३६॥ सा वै तदा मृत्युसंज्ञापदेशा गीता शापाद्बाढमित्यब्रवीत् तम्। अथो प्राणान्प्राणिनामन्तकाले कामक्रोधौ प्राप्य निर्मोह्य हन्ति॥ मृत्योर्ये ते व्याधयश्चाश्रुपाता मनुष्याणां रुज्यते यैः शरीरम्। सवेषां वै प्राणिनां प्राणनान्ते तस्माच्छोकं मा कृथा बुद्ध्य बुद्ध्या॥ सर्वे जीवाः प्राणिनां प्राणनान्ते गत्वा वृत्ताः संनिवृत्तास्तथैव। एवं सर्वे मानवाः प्राणनान्ते गत्वा वृत्ताः देववद्राजसिंह॥ वायुीमो भीमनादो महौजा: स सर्वेषां प्राणिनां प्राणभूतः। नानावृत्तिर्देहिनां देहभेदे तस्माद्वायुर्देवदेवो विशिष्टः॥ सर्वे देवा मर्त्यसंज्ञाविशिष्टाः सर्वे मर्त्या देवसंज्ञाविशिष्टाः। तस्मात् पुत्रं मा शुचो राजसिंह पुत्रः स्वर्ग प्राप्य ते मोदते ह॥ एवं मृत्युर्देवसृष्टा प्रजानां प्राप्ते काले संहरन्ती यथावत्। तस्याश्चैव व्याधयस्तेऽश्रुपाताः प्राप्ते काले संहरन्तीह जन्तून्॥ युधिष्ठिर उवाच इमे वै मानवाः सर्वे धर्म प्रति विशङ्किताः। कोऽयं धर्मः कुतो धर्मस्तन्मे ब्रूहि पितामह॥ धर्मस्त्वयमिहार्थः किमुत्रार्थोऽपि वा भवेत्। उभयार्थो हि वा धर्मस्तन्मे ब्रूहि पितामह॥ भीष्म उवाच सदाचारः स्मृतिर्वेदास्त्रिविधं धर्मलक्षणम्। चतुर्थमर्थमित्याहुः कवयो धर्मलक्षणम्॥ अपि झुक्तानि धाणि व्यवस्यन्त्युत्तरावरे। लोकयात्रार्थमेवेह धर्मस्य नियमः कृतः॥ उभयत्र सुखोदर्क इह चैव परत्र च । अलध्वा निपुणं धर्मं पाप: पापेन युज्यते॥ न च पापकृतः पापान्मुच्यन्ते केचिदापदि। अपापवादी भवति यथा भवति धर्मकृत्। धर्मस्य निष्ठा त्वाचारस्तमेवाश्रित्य भोत्स्यसे॥ यथा धर्मसमाविष्टो धानं गृह्णाति तस्करः। रमते निर्हरन् स्तेनः परवित्तमराजके॥ यदास्य तद्धरन्त्यन्ये तदा राजानमिच्छति। तदा तेषां स्पृहयते ये वै तुष्टाः स्वकैर्धनैः॥ अभीतः शुचिरभ्येति राजद्वारमशङ्कितः। न हि दुश्चरितं किंचिदन्तरात्मनि पश्यति॥ सत्यस्य वचनं साधु न सत्याद् विद्यते परम्। सत्येन विधृतं सर्वं सर्वं सत्ये प्रतिष्ठितम्॥ अपि पापकृतो रौद्राः कृत्वा पृथक् पृथक्। अद्रोहमविसंवादं प्रवर्तन्ते तदाश्रयाः॥ ते चेन्मिथोऽधृतिं कुर्युविनश्येयुरसंशयम्। न हर्तव्यं परधनमिति धर्मः सनातनः॥ मन्यन्ते बलवन्तस्तं दुर्बलैः सम्प्रवर्तितम्। यदा नियतिदौर्बल्यमथैषामेव रोचते॥ न ह्यत्यन्तं बलवन्तो भवन्ति सुखिनोऽपि वा। तस्मादनार्जवे बुद्धिर्न कार्या ते कदाचन॥ असाधुभ्योऽस्य न भयं न चौरेभ्यो न राजतः। अकिंचित् कस्यचित् कुर्वन् निर्भयः शुचिरावसेत्॥ सर्वतः शङ्कते स्तेनो मृगो ग्राममिवेयिवान्। बहुधाऽऽचरितं पापमन्यत्रैवानुपश्यति॥ मुदितः शुचिरभ्येति सर्वतो निर्भयः सदा। न हि दुश्चरितं किंचिदात्मनोऽन्येषु पश्यति॥ दातव्यमित्ययं धर्म उक्तो भूतहिते रतैः। तं मन्यन्ते धनयुताः कृपणैः सम्प्रवर्तितम्॥ यदा नियतिकार्पण्यमथैषामेव रोचते। न हत्यन्तं धन्वन्तो भवन्ति सुखिनोऽपि वा॥ यदन्यैर्विहितं नेच्छेदात्मनः कर्म न तत् परेषु कुर्वीत जानन्नप्रिययात्मनः॥ पूरुषः। योऽन्यस्य स्यादुपपतिः स कं किं वक्तुमर्हति। यदन्यस्य ततः कुर्यान्न मृष्येदिति मे मतिः॥ जीवितुं यः स्वयं चेच्छेत् कथं सोऽन्यं प्रघातयेत्। यद् यदात्मनि चेच्छेत तत् परस्यापि चिन्तयेत्॥ अतिरिक्तैः संविभजेद् भोगैरन्यानकिंचनान्। एतस्मात् कारणाद् धात्रा कुसीदं सम्प्रवर्तितम्॥ यस्मिस्तु देवाः समये संतिष्ठेरंस्तथा भवेत्। अथवा लाभसमये स्थितिधर्मेऽपि शोभना॥ सर्वं प्रियाभ्युपगतं धर्ममाहुर्मनीषिणः। पश्यैतं लक्षणोद्देशं धर्माधर्मे युधिष्ठिर॥ लोकसंग्रहसंयुक्तं विधात्रा विहितं पुरा। सूक्ष्मधर्मार्थनियतं सतां चरितमुत्तमम्॥ धर्मलक्षणमाख्यातमेतत् ते कुरुसत्तम। तस्मादनार्जवे बुद्धिर्न ते कार्या कथंचन॥ धर्मलक्षणमाख्यातमेतत् ते कुरुसत्तम। तस्मादनार्जवे बुद्धिर्न ते कार्या कथंचन॥ युधिष्ठिर उवाच सूक्ष्मं साधु समादिष्टं भवता धर्मलक्षणम्। प्रतिभा त्वस्ति मे काचित् तां ब्रूयामनुमानतः॥ भूयांसो हृदये ये मे प्रश्नास्ते व्याहृतास्त्वया। इदं त्वन्यत् प्रवक्ष्यामि न राजन् निग्रहादिव॥ इमानि हि प्राणयन्ति सृजन्त्युत्तारयन्ति च। न धर्मः परिपाठेन शक्यो भारत वेदितुम्॥ अन्यो धर्मः समस्थस्य विषमस्थस्य चापरः। आपदस्तु कथं शक्याः परिपाठेन वेदितुम्॥ सदाचारो मतो धर्मः सन्तस्त्वाचारलक्षणाः। साध्यासाध्यं कथं शक्यं सदाचारो ह्यलक्षणः॥ दृश्यते हि धर्मारूपेणाधर्मं प्राकृतश्चरन्। धर्मं चाधर्मरूपेण कश्चिदप्राकृतश्चरन्॥ पुनरस्य प्रमाणं हि निर्दिष्टं शास्त्रकोविदैः। वेदवादाश्चानुयुगं ह्रसन्तीतीह नः श्रुतम्॥ अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरे परे। अन्ये कलियुगे धर्मा यथाशक्ति कृता इव॥ आम्नायवचनं सत्यमित्ययं लोकसंग्रहः। आम्नायेभ्यः पुनर्वेदाः प्रसृताः सर्वतोमुखाः॥ ते चेत् सर्वप्रमाणं वै प्रमाणं ह्यत्र विद्यते। प्रमाणेऽप्यप्रमाणेन विरुद्ध शास्त्रता कुतः॥ धर्मस्य क्रियमाणस्य बलवद्भिर्दुरात्मभिः। या या विक्रियते संस्था ततः सापि प्रणश्यति॥ विद्म चैवं न वा विद्म शक्यं वा वेदितुं न वा। अणीयान् क्षुरधाराया गरीयानपि पर्वतात्॥ गन्धर्वनगराकारः प्रथमं सम्प्रदृश्यते। अन्वीक्ष्यमाणः कविभिः पुनर्गच्छत्यदर्शनम्॥ निपानानीव गोभ्योऽपि क्षेत्रे कुल्ये च भारत। स्मृतिर्हि शाश्वते धर्मो विप्रहीणो न दृश्यते॥ कामादन्येच्छया चान्ये कारणैरपरैस्तथा। असन्तोऽपि वृथाचारं भजन्ते बहवोऽपरे॥ धर्मो भवति स क्षिप्रं प्रलापस्त्वेव साधुषु। अथैतानाहुरुन्मत्तानपि चावहसन्त्युत॥ महाजना छुपावृत्ता राजधर्म समाश्रिताः। न हि सर्वहितः कश्चिदाचारः सम्प्रवर्तते॥ तेवैवान्यः प्रभवति सोऽपरं बाधते पुनः। दृश्यते चैव स पुनस्तुल्यरूपो यदृच्छया॥ येनैवान्यः प्रभवति सोऽपरानपि बाधते। आचाराणामनैकाम्यं सर्वेषामुपलक्षयेत्॥ चिराभिपन्नः कविभिः पूर्वं धर्म उदाहृतः। तेनाचारेण पूर्वेण संस्था भवति शाश्वती॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। तुलाधारस्य वाक्यानि धर्मे जाजलिना सह॥ वने वनचरः कश्चिज्जाजलि म वै द्विजः। सागरोद्देशमागम्य तपस्तेपे महातपाः॥ नियतो नियताहारथीराजिनजटाधरः। मलपङ्कधरो धीमान् बहून् वर्षगणान् मुनिः॥ स कदाचिन्महातेजा जलवासो महीपते। चचार लोकान् विप्रर्षिः प्रेक्षमाणो मनोजवः॥ स चिन्तयामास मुनिर्जलवासे कदाचन। विप्रेक्ष्य सागरान्तां वै महीं सवनकाननाम्॥ अप्सु वैहायसं गच्छेन्मया योऽन्यः सहेति वै॥ अदृश्यमानो रक्षोभिर्जलमध्ये वदंस्तथा। अब्रुवंश्च पिशाचास्तं नैवं त्वं वक्तुमर्हसि॥ तुलाधारो वणिग्धर्मा वाराणस्यां महायशाः। सोऽप्येवं नार्हते वक्तुं यथा त्वं द्विजसत्तम॥ इत्युक्तो जाजलिर्भूतैः प्रत्युवाच महातपाः। पश्येयं तमहं प्राज्ञं तुलाधारं यशस्विनम्॥ इति ब्रुवाणं तमृषि रक्षास्युद्धृत्य सागरात्। अब्रुवन् गच्छ पन्थानमास्थायेमं द्विजोत्तम्॥ इत्युक्तो जाजलिर्भूतैर्जगाम विमनास्तदा। वाराणस्यां तुलाधारं समासाद्याब्रवीदिदम्॥ युधिष्ठिर उवाच किं कृतं दुष्कर तात कर्म जाजलिना पुरा। येन सिद्धिं परा प्राप्तस्तन्मे व्याख्यातुमर्हसि॥ भीष्म उवाच अतीव तपसा युक्तो घोरेण स बभूव ह। तथोपस्पर्शनरतः सायं प्रातर्महातपाः॥ अग्नीन् परिचरन् सम्यक् स्वाध्यायपरमोद्विजः। वानप्रस्थविधानज्ञो जाजलिवलितः श्रिया॥ वने तपस्यतिष्ठत् स न च धर्ममवैक्षत। वर्षास्वाकाशशायी च हेमन्तं जलसंश्रयः॥ वातातपसहो ग्रीष्मे न च धर्ममविन्दत। दुःखशय्याश्च विविधा भूमौ च परिवर्तते॥ ततः कदाचित् स मुनिर्वर्षास्वाकाशमास्थितः। अन्तरिक्षाज्जलं मूर्धा प्रत्यगृह्णान्मुहुर्मुहुः॥ अथ तस्य जटाः क्लिना बभूवुर्ग्रथिताः प्रभो। अरण्यगमनान्नित्यं मलिनोऽमलसंयुतः॥ स कदाचिनिराहारो वायुभक्षो महातपाः। तस्थौ काष्ठवदव्यग्रो न चचाल च कर्हिचित्॥ तस्य स्म स्थाणुभूतस्य निर्विचेष्टस्य भारत। कुलिङ्गशकुनौ राजन् नीडं शिरसि चक्रतुः॥ स तौ दयावान् ब्रह्मर्षिरुपप्रेक्षत दम्पती। कुर्वाणौ नीडकं तत्र जटासु तृणतन्तुभिः॥ यदा न स चलत्येव स्थाणुभूतो महातपाः। ततस्तौ सुखविश्वस्तौ सुखं तत्रोषतुस्तदा॥ अतीतास्वथ वर्षासु शरत्काल उपस्थिते। प्राजापत्येन विधिना विश्वासात् काममोहितौ॥ तत्रापातयतां राजन् शिरस्यण्डानि खेचरौ। तान्यबुध्यत तेजस्वी स विप्रः संशितव्रतः॥ बुद्ध्वा च स महातेजा न चचाल च जाजलि। धर्मे कृतमना नित्यं नाधर्मं स त्वरोचयत्॥ अहन्यहनि चागत्य ततस्तौ तस्य मूर्धनि। आश्वासितौ निवसतः सम्प्रहृष्टौ तदा विभो॥ अण्डेभ्यस्त्वथ पुष्टेभ्यः प्राजायन्त शकुन्तकाः। व्यवर्धन्त च तत्रैव न चाकम्पत जाजलिः॥ स रक्षमाणस्त्वण्डानि कुलिङ्गानां धृतव्रतः। तथैव तस्थौ धर्मात्मा निर्विचेष्टः समाहितः॥ ततस्तु कालसमये बभूवुस्तेऽथ पक्षिणः। बुबुधे तांस्तु स मुनिर्जातपक्षान् कुलिङ्गकान्॥ ततः कदाचित् तांस्तत्र पश्यन् पक्षीन् यतव्रतः। बभूव परमप्रीतस्तदा मतिमतां वरः॥ तथा तानपि संवृद्धान् दृष्ट्वा चाप्नुवतां मुदम्। शकुनौ निर्भयौ तत्र उपतुश्चात्मजैः सह॥ जातपक्षांश्च सोऽपश्यदुड्डीनान् पुनरागतान्। सायं सायं द्विजान् विप्रो न चाकम्पत जाजलिः॥ कदाचित् पुनरभ्येत्य पुनर्गच्छन्ति संततम्। त्यक्ता मातापितृभ्यां ते न चाकम्पत जाजलिः॥ तथा वे दिवसं चापि गत्वा सायं पुनर्नृप। उपावर्तन्त तत्रैव निवासार्थं शकुन्तकाः॥ कदाचिद् दिवसान् पञ्च समुत्पत्य विहङ्गमाः। षष्ठेऽहनि समाजग्मुर्न चाकम्पत जाजलिः॥ क्रमेण च पुनः सर्वे दिवसान् सुबहूनथ। नोपावर्तन्त शकुना जातप्राणाः स्म ते यदा॥ कदाचिन्मासमात्रेण समुत्पत्य विहङ्गमाः। नैवागच्छंस्ततो राजन् प्रातिष्ठत स जाजलिः॥ ततस्तेषु प्रलीनेषु जाजलिर्जातविस्मयः। सिद्धोऽस्मीति मतिं चक्रे ततस्तं मान आविशत्॥ स तथा निर्गतान् दृष्ट्वा शकुन्तान् नियतव्रतः। सम्भावितात्मा सम्भाव्य भृशं प्रीतमनाऽभवत्॥ स नद्यां समुपस्पृश्य तर्पयित्वा हुताशनम्। उदयन्मथादित्यमुपातिष्ठन्महातपाः॥ सम्भाव्य चटकान् मूनि जाजलिर्जपतां वरः। आस्फोटयत् तथाऽऽकाशे धर्मः प्राप्तो मयेति वै॥ अथान्तरिक्षे वागासीत् तां च शुश्राव जाजलिः। धर्मेण न समस्त्वं वै तुलाधारस्य जाजले॥ वाराणस्यां महाप्राज्ञस्तुलाधारः प्रतिष्ठितः। सोऽप्येवं नार्हते वक्तुं यथा त्वं भाषसे द्विज॥ सोऽमर्षवशमापन्नस्तुलाधारदिदृक्षया। पृथिवीमचरद् राजन् यत्र सायंगृहो मुनिः॥ सोऽपि दृष्ट्वैव तं विप्रमायान्तं भाण्डजीवनः। समुत्थाय सुसंहृष्टः स्वागतेनाभ्यपूजयत्॥ कालेन महतागच्छत् स तु वाराणसी पुरीम्। विक्रीणन्तं च पण्यानि तुलाधारं ददर्श सः॥ तुलाधार उवाच आयानेवासि विदितो मम ब्रह्मन् न संशयः। ब्रवीमि यत् तु वचनं तच्छृणुष्व द्विजोत्तम॥ सागरानूपमाश्रित्य तपस्तप्तं त्वया महत्। न च धर्मस्य संज्ञां त्वं पुरा वेत्थ कथंचन॥ ततः सिद्धस्य तपसा तव विप्र शकुन्तकाः। क्षिप्रं शिरस्यजायन्त ते च सम्भावितास्त्वया॥ जातपक्षा यदा ते च गताचारीमितस्ततः। मन्यमानस्ततो धर्मं चटकप्रभवं द्विज॥ खे वाचं त्वमथाश्रौषीर्मा प्रति द्विजसत्तम। अमर्षवशमापन्नस्ततः प्राप्तो भवानिह। करवाणि प्रियं किं ते तद् ब्रूहि द्विजसत्तम॥ भीष्म उवाच इत्युक्तः स तदा तेन तुलाधारेण धीमता। प्रोवाच वचनं धीमाजाजलिर्जपतां वरः॥ जाजलिरुवाच विक्रीणत: सर्वरसान् सर्वगन्धांश्च वाणिज। वनस्पतीनोषधीश्च तेषां मूलफलानि च॥ अध्यगा नैष्ठिकी बुद्धिं कुतस्त्वामिदमागतम्। एतदाचक्ष्व मे सर्वं निखिलेन महामते॥ भीष्म उवाच एवमुक्तस्तुलाधारो ब्राह्मणेन यशस्विना। उवाच धर्मसूक्ष्माणि वैश्यो धर्मार्थतत्त्ववित्॥ तुलाधार उवाच वेदाहं जाजले धर्मं सरहस्यं सनातनम्। सर्वभूतहितं मैत्रं पुराणं यं जना विदुः॥ अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः। या वृत्तिः स परो धर्मस्तेन जीवामि जाजले॥ परच्छिन्नैः काष्ठतृणैर्मयेदं शरणं कृतम्। अलक्तं पद्मकं तुझं गन्धांश्चोच्चावचांस्तथा॥ रसांश्च तांस्तान् विप्रर्षे मद्यवान् बहूनहम्। क्रीत्वा वै प्रतिविक्रीणे परहस्तादमायया॥ सर्वेषां यः सुहृन्नित्यं सर्वेषां च हिते रतः। कर्मणा मनसा वाचा स धर्म वेद जाजले।॥ नानुरुद्ध्ये निरुध्ये वा न द्वेष्मि न च कामये। समोऽहं सर्वभूतेषु पश्य मे जाजले व्रतम्। तुला मे सर्वभूतेषु समा तिष्ठति जाजले।॥ नाहं परेषां कृत्यानि प्रशंसामि न गर्हये। आकाशस्येवविप्रेन्द्र पश्यल्लोकस्य चित्रताम्॥ इति मां त्वं विजानीहि सर्वलोकस्य जाजले। समं मतिमतां श्रेष्ठ समलोष्टाश्मकाञ्चनम्॥ यथान्धबधिरोन्मत्ता उच्छ्वासपरमाः सदा। देवैरपिहितद्वारा: सोपमा पश्यतो मम॥ यथा वृद्धातुरकृशा निःस्पृहा विषयान् प्रति। तथार्थकामभोगेषु ममापि विगता स्पृहा॥ यदा चायं न विभेति यदा चास्मान्न बिभ्यति। यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा॥ यदा न कुरुते भावं सर्वभूतेषु पापकम्। कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा॥ न भूतो न भविष्योऽस्ति न च धर्मोऽस्ति कश्चन। योऽभयः सर्वभूतानां स प्राप्नोत्यभयं पदम्॥ यस्मादुद्विजते लोकः सर्वो मृत्युमुखादिव। वाक्क्राद् दण्डपरुषात् स प्राप्नोति महद् भयम्॥ यथावद् वर्तमानानां वृद्धानां पुत्रपौत्रिणाम्। अनुवर्तामहे वृत्तमहिंस्राणां महात्मनाम्॥ प्रणष्टः शाश्वतो धर्मस्त्वनाचारेण मोहितः। तेन वैद्यस्तपस्वी वा बलवान् वा विमुह्यते॥ आचाराज्जाजले प्राज्ञः क्षिप्रं धर्मवाप्नुयात्। एवं यः साधुभिर्दान्तश्चरेदद्रोहचेतसा॥ नद्यां चेह यथा काष्ठमुह्यसानं यदृच्छया। यदृच्छयैव काष्ठेन सन्धिं गच्छेत केनचित्॥ तत्रापराणि दारूणि संसृज्यन्ते परस्परम्। तृणकाष्ठकरीषाणि कदाचिन्न समीक्षया।॥ यस्मान्नोद्विजते भूतं जातु किंचित् कथंचन। अभयं सर्वभूतेभ्यः स प्राप्नोति सदा मुने॥ यस्मादुद्विजते विद्वन् सर्वलोको वृकादिव। क्रोशतस्तीरमासाद्य यथा सर्वे जलेचराः॥ स भयं सर्वभूतेभ्यः सम्प्राप्नोति महामते। एवमेवायमाचारः प्रादुर्भूतो यतस्ततः। सहायवान् द्रव्यवान् यः सुभगोऽथ परस्तथा॥ ततस्तानेव कवयः शास्त्रेषु प्रवदन्त्युत। कीर्त्यर्थमल्पहल्लेखाः पटवः कृत्स्ननिर्णया:॥ तपोभिर्यज्ञदानैश्च वाक्यैः प्रज्ञाश्रितैस्तथा। प्राप्नोत्यभयदानस्य यद् यत् फलमिहाश्नुते॥ लोके यः सर्वभूतेभ्यो ददात्यभयदक्षिणाम्। स सर्वयज्ञैरीजानः प्राप्नोत्यभयदक्षिणाम्॥ न भूतानामहिंसाया ज्यायान् धर्मोऽस्ति कश्चन। यस्मानोद्विजते भूतं जातु किंचित् कथंचन। सोऽभयं सर्वभूतेभ्यः सम्प्राप्नोति महामुने॥ यस्मादुद्विजते लोकः सर्पाद् वेश्मगतादिव। न स धर्ममवाप्नोति इहलोके परत्र च॥ सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः। देवाऽपि मार्गे मह्यन्ति अपदस्य पदैषिणः॥ दानं भूताभयस्याहुः सर्वदानेभ्य उत्तमम्। ब्रवीमि ते सत्यमिदं श्रद्दधस्व च जाजले॥ स एव सुभगो भूत्वा पुनर्भवति दुर्भगः। व्यापत्तिं कर्मणां दृष्ट्वा जुगुप्सन्ति जनाः सदा॥ अकारणो हि नैवास्ति धर्मः सूक्ष्मो हि जाजले। भूतभव्यार्थमेवेह धर्मप्रवचनं कृतम्॥ सूक्ष्मत्वान्न स विज्ञातुं शक्यते बहुनिह्नवः। उपलभ्यान्तरा चान्यानाचारानवबुध्यते॥ ये च च्छिन्दन्ति वृषणान् ये च भिन्दन्ति नस्तकान्। वहन्ति महतो भारान् बधन्ति दमयन्ति च॥ हत्वा सत्त्वानि खादन्ति तान् कथं न विगर्हसे। मानुषा मानुषानेव दासभावेन भुञ्जते॥ वधबन्धनिरोधेन कारयन्ति दिवानिशम्। आत्मनश्चापि जानाति यद् दुःखं वधबन्धने॥ पञ्चेन्द्रियेषु भूतेषु सर्वं वसति दैवतम्। आदित्यश्चन्द्रमा वायुर्ब्रह्मा प्राणः क्रतुर्यमः॥ तानि जीवानि विक्रय का मृतेषु विचारणा। अजोऽग्निर्वरुणो मेषः सूर्योऽश्वः पृथिवी विराट्॥ धेनुर्वत्सश्च सोमो वै विक्रीचैतन्त्र सिध्यति। का तैले का घृते ब्रह्मन् मधुन्यप्यौषधेषु वा॥ अदंशमशके देशे सुखसंवर्धितान् यशून्। तांश्च मातुः प्रियाजानन्नाक्रम्य बहुधा नराः॥ बहुदंशाकुलान् देशान् नयन्ति बहुकर्दमान्। वाहसम्पीडिता धुर्याः सीदन्त्यविधिना परे॥ न मन्ये भ्रूणहत्यापि विशिष्टा तेन कर्मणा। कृषि साध्विति मन्यन्ते सा च वृत्तिः सुदारुणा॥ भूमिं भूमिशयांश्चैव हन्ति काष्ठमयोमुखम्। तथैवानडुहो युक्तान् समवेक्षस्व जाजले॥ अघ्या इति गवां नाम क एता हन्तुमर्हति। महच्चकाराकुशलं वृषं गां वाऽऽलभेत् तु यः॥ ऋषयो यतयो ह्येतन्नहुषे प्रत्यवेदयन्। गां मातरं चाप्यवधीवृषभं च प्रजापतिम्॥ अकार्यं नहुषाकार्षीर्लप्स्यामस्त्वत्कृते व्यथाम्। शतं चैकं च रोगाणां सर्वभूतेष्वपातयन्॥ ऋषयस्ते महाभागाः प्रजास्वेव हि जाजले। भ्रूणहं नहुषं त्वाहुन ते होध्यामहे हविः॥ इत्युक्त्वा ते महात्मानः सर्वे तत्त्वार्थदर्शिनः। ऋषयो यतयः शान्तास्तपसा प्रत्यवेदयन्॥ ईदृशानशिवान् घोरानाचारानिह जाजले। केवलाचरितत्वात् तु निपुणो नावबुद्ध्यसे॥ कारणाद् धर्ममन्विच्छन्न लोकचरितं चरेत्। यो हन्याद् यश्च मां स्तौति तत्रापि शृणु जाजले॥ समौ तावपि मे स्यातां न हि मेऽस्ति प्रियाप्रियम्। एतदीदृशकं धर्मं प्रशंसन्ति मनीषिणः॥ उपपत्त्या हि सम्पन्नो यतिभिश्चैव सेव्यते। सततं धर्मशीलैश्च निपुणेनोपलक्षितः॥ जाजलिरुवाच अयं प्रवर्तितो धर्मस्तुलां धारयता त्वया। स्वर्गद्वारं च वृत्ति च भूतानामवरोत्स्यते॥ कृष्या ह्यन्नं प्रभवति ततस्त्वमपि जीवसि। पशुभिश्चौषधीभिश्च मा जीवन्ति वाणिज॥ ततो यज्ञः प्रभवति नास्तिक्यमपि जल्पसि। न हि वर्तेदयं लोको वार्तामुत्सृज्य केवलाम्॥ तुलाधार उवाच वक्ष्यामि जाजले वृत्तिं नास्मि ब्राह्मण नास्तिकः। न यज्ञं च विनिन्दामि यज्ञवित् तु सुदुर्लभः॥४॥ नमो ब्राह्मणयज्ञाय ये च यज्ञविदो जनाः। स्वयज्ञं ब्राह्मणा हित्वा क्षत्रयज्ञमिहास्थिताः॥ लुब्धैर्वित्तपरैर्ब्रह्मन् नास्तिकैः सम्प्रवर्तितम्। वेदवादानविज्ञाय सत्याभासमिवानृतम्॥ इदं देयमिदं देयमिति चायं प्रशस्यते। अतः स्तैन्यं प्रभवति विकर्माणि च जाजले॥ यदेव सुकृतं हव्यं तेन तुष्यन्ति देवताः। नमस्कारेण हविषा स्वाध्यायैरौषधैस्तथा॥ पूजा स्याद् देवतानां हि यथा शास्त्रनिदर्शनम्। इष्टापूर्तादसाधूनां विगुणा जायते प्रजा॥ लुब्धेभ्यो जायते लुब्धः समेभ्यो जायते समः। यजमाना यथाऽऽत्मानमृत्विजश्च तथा प्रजाः॥ यज्ञात् प्रजा प्रभवति नभसोऽम्भ इवामलम्। अग्नौ प्रास्ताहुतिर्ब्रह्मचादित्यमुपगच्छति॥ आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः। तस्मात् सुनिष्ठिताः पूर्वे सर्वान् कामांश्च लेभिरे॥ अकृष्टपच्या पृथिवी आशीर्भिर्वीरुधोऽभवन्। न ते यज्ञेष्वात्मसु वा फलं पश्यन्ति किंचन॥ शङ्कमानाः फलं यज्ञे ये यजेरन् कथंचन। जायन्तेऽसाधवो धूर्ता लुब्धा वित्तप्रयोजनाः॥ स स्म पापकृतां लोकान् गच्छेदशुभकर्मणा। प्रमाणमप्रमाणेन यः कुर्यादशुभं नरः॥ पापात्मा सोऽकृतप्रज्ञः सदैवेह द्विजोत्तम। कर्तव्यमिति कर्तव्यं वेत्ति वै ब्राह्मणो भयम्॥ ब्रह्मैव वर्तते लोके नैव कर्तव्यतां पुनः। विगुणं च पुनः कर्म ज्याय इत्यनुशुश्रुम॥ सर्वभूतोपघातश्च फलभावे च संयमः। सत्ययज्ञा दमयज्ञा अर्थलुब्धार्थतृप्तयः॥ उत्पन्नत्यागिनः सर्वे जना आसन्नमत्सराः। क्षेत्रक्षेत्रज्ञतत्त्वज्ञाः स्वयज्ञपरिनिष्ठिताः॥ ब्राह्यं वेदमधीयन्तस्तोषयन्त्यपरानपि। अखिलं दैवतं सर्वं ब्रह्म ब्रह्मणि संश्रितम्॥ तुष्यन्ति तृप्यतो देवास्तृप्तास्तृप्तस्य जाजले। यथा सर्वरसैस्तृप्तो नाभिनन्दति किंचन॥ तथा प्रज्ञानतृप्तस्य नित्यतृप्तिः सुखोदया। धर्माधारा धर्मसुखाः कृत्स्नव्यवसितास्तथा।॥ आस्ति नस्तत्त्वतो भूय इति प्राज्ञस्त्ववेक्षते। ते ज्ञानविज्ञानिनः केचित् परं पारं तितीर्षवः॥ अतीव पुण्यदं पुण्यं पुण्याभिजनसंहितम्। यत्र गत्वा नशोचन्ति च च्यवन्ति व्यथन्ति च॥ तु तद् ब्रह्मणः स्थान प्राप्नुवन्तीह सात्त्विकाः। नैव ते स्वर्गमिच्छन्ति न यजन्ति यशोधनैः॥ सतां वानुवर्तन्ते यजन्ते चाविहिंसया। वनस्पतीनोषधीयश्च फलं मूलं च ते विदुः॥ न चैतानृत्विजो लुब्धा याजयन्ति फलार्थिनः। स्वमेव चार्थं कुर्वाणा यज्ञं चक्रुः पुनर्द्विजाः॥ परिनिष्ठतकर्माणः प्रजानुग्रहकाम्यया। तस्मात् तानृत्विजो लुब्धा याजयन्त्यशुभान् नरान्॥ प्रापयेयुः प्रजाः स्वर्गे स्वधर्माचरणेन वै। इति मे वर्तते बुद्धिः समा सर्वत्र जाजले॥ यानि यज्ञेष्विहेज्यन्ति सदा प्राज्ञा द्विजर्षभा। तेन ते देवयानेन पथा यान्ति महामुने।।३० आवृत्तिस्तस्य चैकस्य नास्त्यावृत्तिर्मनीषिणः। उभौ तौ देवयानेन गच्छतो जाजले यथा॥ सव्यं चैषामनडुहो युज्यन्ति च वहन्ति च। स्वयमुस्राश्च दुह्यन्ते मन:संकल्पसिद्धिभिः॥ स्वयं यूपानुपादाय यजन्ते स्वाप्तदक्षिणैः। यस्तथा भावितात्मा स्यात् स गामालब्धुमर्हति॥ ओषधीभिस्तथा ब्रह्मन् यजेरंस्ते न तादृशाः। इति त्यागं पुरस्कृत्य तादृशं प्रब्रवीमि ते॥ निराशिषमनारम्भं निर्नपस्कारमस्तुतिम्। अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः॥ न श्रावयन् न च यजन् न ददद् ब्राह्मणेषु च। काम्यां वृत्तिं लिप्समानः किंगतिं याति जाजले। इदं तु दैवतं कृत्वा यथा यज्ञमवाप्नुयात्॥ जाजलिरुवाच न वै मुनीनां शृणुमः स्म तत्त्वं पृच्छामि ते वाणिज कष्टमेतत्। पूर्वे पूर्वे चास्य नावेक्षमाणा नातः परं तमृषयः स्थापयन्ति॥ यस्मिन्नेवात्मतीर्थे न पशवः प्राप्नुयुर्मखम्। अथ स्म कर्मणा केन वाणि प्राप्नुयात् सुखम्॥ शंस ते तन्महाप्राज्ञ भृशं वै श्रद्दधामि ते। तुलाधार उवाच उत यज्ञा उतायज्ञा मखं नार्हन्ति ते क्वचित्॥ आज्येन पयसा दना पूर्णाहुत्या विशेषतः। बालैः शृङ्गेण पादेन सम्भरत्येव गौर्मखम्॥ पत्नी चानेन विधिना प्रकरोति नियोजयन्। इष्टं तु दैवतं कृत्वा यथा यज्ञमवाप्नुयात्॥ पुरोडाशो हि सर्वेषां पशूनां मध्य उच्यते। सर्वा नद्यः सरस्वत्यः सर्वे पुण्या: शिलोच्चयाः॥ जाजले तीर्थमात्मैव मा स्म देशातिथिर्भव। एतानीदृशकान् धर्मानाचरनिह जाजले।॥ कारणैर्धर्मन्विच्छन् स लोकानाप्नुते शुभान्। भीष्म उवाच एतानीदृशकान् धर्मांस्तुलाधारः प्रशंसति॥ उपपत्त्याभिसम्पन्नान् नित्यं सद्भिर्निषेवितान्॥ तुलाधार उवाच सद्भिर्वा यदि वासद्भिः पन्थानमिमतास्थितम्। प्रत्यक्षं क्रियतां साधु ततो ज्ञास्यसि तद् यथा॥ एते शकुन्ता बहवः समन्ताद् विचरन्ति ह। तवोत्तमाङ्गे सम्भूताः श्येनाश्चान्याश्च जायतः॥ आहूयैनान् महाब्रह्मन् विशमानांस्ततस्ततः। पश्येमान् हस्तपादैश्च श्लिष्टान् देहेषु सर्वशः॥ सम्भावयन्ति पितरं त्वया सम्भाविताः खगाः। असंशयं पिता वै त्वं पुत्रानाहूय जाजले॥ भीष्म उवाच ततो जाजलिना तेन समाहूताः पतत्रिणः। वाचमुच्चारयन्ति स्म धर्मस्य वचनात् किल॥ अहिंसादिकृतं कर्म इह चैव परत्र च। श्रद्धां निहन्ति वै ब्रह्मन् सा हता हन्ति तं नरम्॥ समानां श्रद्दधानानां संयतानां सुचेतसाम्। कुर्वतां यज्ञ इत्येव न यज्ञो जातु नेष्यते॥ श्रद्धा वैवस्वती सेयं सूर्यस्य दुहिता द्विज। सावित्री प्रसवित्री च बहिर्वाङ्मनसी ततः॥ वाग्वृद्धं त्रायते श्रद्धा मनोवृद्धं च भारत। श्रद्धावृद्धं वाङ्मनसी न कर्म त्रातुमर्हति॥ अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः। शुचेरश्रद्दधानस्य श्रद्दधानस्य चाशुचेः॥ देवा वित्तममन्यन्त सदृशं यज्ञकर्मणि। श्रोत्रियस्य कदर्यस्य वदान्यस्य च वाधुषेः॥ मीमांसित्वोभयं देवाः सममन्नमकल्पयन्। प्रजापतिस्तानुवाच विषमं कृतमित्युत॥ श्रद्धापूतं वदान्यस्य हतमश्रद्धयेतरत्। भोज्यमन्नं वदान्यस्य कदर्यस्य न वाधुषेः॥ अश्रद्दधान एवैको देवानां नाहते हविः। तस्यैवान्नं न भोक्तव्यमिति धर्मविदो विदुः॥ अश्रद्धा परमं पापं श्रद्धा पापप्रमोचिनी। जहाति पापं श्रद्धावान् सर्पो जीर्णामिव त्वचम्॥ ज्यायसी या पवित्राणां निवृत्तिः श्रद्धया सह। निवृत्तशीलदोषो य: श्रद्धावान् पूत एव सः॥ किं तस्य तपसा कार्यं किं वृत्तेन किमात्मना। श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः॥ इति धर्मः समाख्यातः सद्भिर्धर्मार्थदर्शिभिः। वयं जिज्ञासमानास्तु सम्प्राप्ता धर्मदर्शनात्॥ श्रद्धां कुरु महाप्राज्ञ ततः प्राप्स्यसि यत् परम्। श्रद्धावाश्रद्दधानश्च धर्मश्चैव हि जाजले। स्ववर्त्मनि स्थितश्चैव गरीयानेव जाजले॥ भीष्म उवाच ततोऽचिरेण कालेन तुलाधारः स एव च। दिवं गत्वा महाप्राज्ञौ विहरेतां यथासुखम्॥ स्वं स्वं स्थानमुपागम्य स्वकर्मफलनिर्जितम्। एवं बहुविधार्थं च तुलाधारेण भाषितम्॥ सम्यक् चेदमुपालब्धो धर्मश्चोक्तः सनातनः। तस्य विख्यातवीर्यस्य श्रुत्वा वाक्यानि स द्विजः॥ तुलाधारस्य कौन्तेय शान्तिमेवान्वपद्यत। एवं बहुमतार्थं च तुलाधारेण भाषितम्। यथौपम्योपदेशेन किं भूयः श्रोतुमिच्छसि।॥ भीष्म उवाच भीष्म अत्राप्युदाहरन्तीममितिहासं पुरातनम्। प्रजारनामनुकम्पार्थं गीतं राज्ञा विचख्नुना॥ छिन्नस्थूणं वृषं दृष्ट्वा विलापं च गवां भृशम्। गोग्रहे यज्ञवाटस्य प्रेक्षमाणः स पार्थिवः॥ स्वस्ति गोभ्योऽस्तु लोकेषु ततो निर्वचनं कृतम्। हिंसायां हि प्रवृत्तायामाशीरेषा तु कल्पिता॥ अव्यवस्थितमर्यादैविमूढ स्तिकैनरैः। संशयात्मभिरव्यक्तैर्हिसा समनुवर्णिता॥ सर्वकर्मस्वहिंसा हि धर्मात्मा मनुरब्रवीत्। कामकाराद् विहिंसन्ति बहिर्वेद्यां पशून् नराः॥ तस्मात् प्रमाणत: कार्यो धर्मः सूक्ष्मो विजानता। अहिंसा सर्वभूतेभ्यो धर्मेभ्यो ज्यायसी मता॥ उपोष्य संशितो भूत्वा हित्वा वेदकृताः श्रुतीः। आचार इत्यनाचारः कृपणा: फलहेतवः॥ यदि यज्ञांश्च वृक्षांश्च यूपांश्चोद्दिश्य मानवाः। वृथा मांसं न खादन्ति नैष धर्मः प्रशस्यते॥ सुरा मत्स्या मधु मासंमासवं कृसरौदनम्। धूर्तेः प्रवर्तितं ह्येतन्नैतद् वेदेषु कल्पितम्॥ मानान्मोहाच्च लोभाच्च लौल्यमेतत्प्रकल्पितम्। विष्णुमेवाभिजानन्ति सर्वयज्ञेषु ब्राह्मणाः॥ पायसैः सुमनोभिश्च तस्यापि यजनं स्मृतम्। यज्ञियाश्चैव ये वृक्षा वेदेषु परिकल्पिता:॥ यच्चापि किंचित् कर्तव्यमन्यच्चोक्षैः सुसंस्कृतम्। महासत्त्वैः शुद्धभावैः सर्वं देवार्हमेव तत्॥ युधिष्ठिर उवाच शरीरमापदश्चापि विवदन्त्यविहिंसतः। कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यते॥ भीष्म उवाच यथा शरीरं न ग्लायेन्येयान्मृत्युवशं यथा। तथा कर्मसु वर्तेत समर्थो धर्ममाचरेत्॥ युधिष्ठिर उवाच कथं कार्यं परीक्षेत शीघ्रं वाथ चिरेण वा। सर्वथा कार्यदुर्गेऽस्मिन् भवान् नः परमो गुरुः॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। चिरकारेस्तु यत् पूर्वं वृत्तमाङ्गिरसे कुले॥ चिरकारिक भद्रं ते भद्रं ते चिरकारिक। चिरकारी हि मेधावी नापराध्यति कर्मसु॥ चिरकारी महाप्राज्ञो गौतमस्याभवत् सुतः। चिरेण सर्वकार्याणि विमृश्यार्थान् प्रपद्यते॥ चिरं स चिन्तयत्यर्थांश्चिरं जाग्रच्चिरं स्वपन्। चिरं कार्याभिपत्तिं च चिरकारी तथोच्यते॥ अलसग्रहणं प्राप्तो दुर्मेधावी तथोच्यते। बुद्धिलाघवयुक्तेन जनेनादीर्घदर्शिना॥ व्यभिचारे तु कस्मिश्चिद् व्यतिक्रम्यापरान् सुतान्। पित्रोक्तः कुपितेनाथ जहीमां जननीमिति॥ इत्युक्त्वा स तदा विप्रो गौतमो जपतां वरः। अविमृश्य महाभागो वनमेव जगाम सः॥ स तथेति चिरेणोक्त्वा स्वभावाच्चिरकारिकः। विमृश्य चिरकारित्वाच्चिन्तयामास वैचिरम्॥ कथं धर्मच्छलेनास्मिन् निमज्जेयमसाधुवत्।१०॥ पितुराज्ञा परो धर्मः स्वधर्मो मातृरक्षणम्। अस्वतन्त्रं च पुत्रत्वं किं तु मां नानुपीडयेत॥ स्त्रियं हत्वा मातरं च को हि जातु सुखी भवेत्। पितरं चाप्यवज्ञाय कः प्रतिष्ठामवाप्नुयात्॥ अनवज्ञा पितुर्युक्ता धारणं मातृरक्षणम्। युक्तक्षमावुभावेतौ नातिवर्तेत मां कथम्॥ पिता ह्यात्मानमाधत्ते जायायां जज्ञिवानिति। शीलचारित्रगोत्रस्य धारणार्थं कुलस्य च॥ सोऽहं मात्रा स्वयं पित्रा पुत्रत्वे प्रकृतः पुनः विज्ञानं मे कथं न स्याद् द्वौ बुद्ध्ये चात्मसम्भवम्॥ जातकर्मणि यत् प्राह पिता यच्चोपकर्मणि। पर्याप्तः स दृढीकारः पितुर्गौरवनिश्चये।१६।। गुरुरम्यः परो धर्मः पोषणाध्यापनान्वितः। पिता यदाह धर्मः स वेदेष्वपि सुनिश्चितः॥ प्रीतिमात्रं पितुः पुत्रः सर्वं पुत्रस्य वै पिता। शरीरादीनि देयानि पिता त्वेकः प्रयच्छति॥ तस्मात् पितुर्वचः कार्यं न विचार्यं कदाचन। पातकान्यपि पूयन्ते पितुः शासनकारिणः॥ भोग्ये भोज्ये प्रवचने सर्वलोकनिदर्शने। भर्चा चैव समायोगे सीमन्तोन्नयने तथा॥ पिता धर्म: पिता स्वर्गः पिता हि परमं तपः। पितरि प्रीतिमापन्ने सर्वाः प्रीयन्ति देवताः॥ आशिषस्ता भजन्त्येनं परुषं प्राह यत् पिता। निष्कृतिः सर्वपापानां पिता यच्चाभिनन्दति॥ मुच्यते बन्धनात् पुष्पं फलं वृक्षात् प्रमुच्यते। क्लिश्यन्नपि सुतं स्नेहैः पिता पुत्रं न मुञ्चति॥ एतद् विचिन्तितं तावत् पुत्रस्य पितृगौरवम्। पिता नाल्पतरं स्थानं चिन्तयिष्यामि मातरम्॥ यो ह्ययं मयि संघातो मयत्वे पाञ्चभौतिकः। यस्य मे जननी हेतुः पावकस्य यथारणिः॥ माता देहारणिः पुंसां सर्वस्यार्तस्य निर्वृतिः। मातृलोभे सनाथत्वमनाथत्वं विपर्यये॥ न च शोचति नाप्येनं स्थाविर्यमपकर्षति। श्रिया हीनोऽपि यो गेहमम्बेति प्रतिपद्यते॥ पुत्रपौत्रोपपन्नोऽपि जननीं यः समाश्रितः। अपि वर्षशतस्यान्ते स द्विहायनवच्चरेत्॥ समर्थं वासमर्थं वा कृशं वाप्यकृशं तथा। रक्षत्येव सुतं माता नान्यः पोष्टा विधानतः॥ तदा स वृद्धो भवति तदा भवति दुःखितः। तदा शून्यं जगत् तस्य यदा मात्रा वियुज्यते॥ नास्ति मातृसमा छाया नास्ति मातृसमा गतिः। नास्ति मातृसमं त्राणं नास्ति मातृसमा प्रिया॥ कुक्षिसंधारणाद् धात्री जननाज्जननी स्मृता। अङ्गानां वर्धनादम्बा वीरसूत्वेन वीरसूः॥ शिशोः शुश्रूषणाच्छुश्रूर्माता देहमनन्तरम्। चेतनावान् नरो हन्याद् यस्य नासुषिरं शिरः॥ दम्पत्योः प्राणसंश्लेषे योऽभिसंधिः कृतः किल। तं माता च पिता चेति भूतार्थो मातरि स्थितः॥ माता जानाति यद्गोत्रं माता जानाति यस्य सः। मातुर्भरणमात्रेण प्रीतिः स्नेहः पितुः प्रजाः॥ पाणिबन्धं स्वयं कृत्वा सह धर्ममुपेत्य च। यदा यास्यन्ति पुरुषाः स्त्रियो नार्हन्ति वाच्यताम्॥ भरणाद्धि स्त्रियो भर्ता पालनाद्धि पतिस्तथा। गुणस्यास्य निवृत्तौ तु न भर्ता न पुनः पतिः॥ एवं स्त्री नापरानोति नर एवापराध्यति। व्युच्चरंश्च महादोषं नर एवापराध्यति॥ स्त्रिया हि परमो भर्ता दैवतं परमं स्मृतम्। तस्यात्मना तु सदृशमात्मानं परमं ददौ॥ नापराधोऽस्ति नारीणां नर एवापराध्यति। सर्वकार्यापराध्यत्वान्नापराध्यन्ति चाङ्गनाः॥ यश्च नोक्तोऽथ निर्देशः स्त्रिया मैथुनतृप्तये। तस्य स्मारयतो व्यक्तमधर्मो नास्ति संशयः॥ एवं नारी मातरं च गौरवे चाधिके स्थिताम्। अवध्यां तु विजानीयुः पशवोऽप्यविचक्षणाः॥ देवतानां समावायमेकस्थं पितरं विदुः। मानां देवातनां च स्नेहादभ्येति मातरम्॥ एवं विमृशतस्तस्य चिरकारितया बहु। दीर्घ कालो व्यतिक्रान्तस्ततोऽस्याभ्यागमत् पिता॥ मेधातिथिर्महाप्राज्ञो गौतमस्तपसि स्थितः। विमृश्य तेन कालेन पन्याः संस्थाव्यतिक्रमम्॥ सोऽब्रवीद् भृशंसंतप्तो दुःखेनाश्रूणि वर्तयन्। श्रुतधैर्यप्रसादेन पश्चात्तापमुपागतः॥ आश्रमं मम सम्प्राप्तस्त्रिलोकेशः पुरंदरः। अतिथिव्रतमास्थाय ब्राह्मणं रूपमास्थितः॥ स मया सान्त्वितो वाग्भिः स्वागतेनाभिपूजितः। अर्घ्यं पाद्यं यथान्यायं मया च प्रतिपादितः॥ परवानस्मि चेत्युक्तः प्रणयिष्यति तेन च। अत्र चाकुशले जाते स्त्रिया नास्ति व्यतिक्रमः॥ एवं न स्त्री न चैवाहं नाध्वगस्त्रिदशेश्वरः। अपराध्यति धर्मस्य प्रमादस्त्वपराध्यति॥ ईर्ष्याजं व्यसनं प्राहुस्तेन चैवोर्ध्व रेतसः। ईर्ष्णया त्वहमाक्षिप्तो मग्नो दुष्कृतसागरे॥ हत्वा साध्वी च नारी च व्यसनित्वाच्च वासिताम्। भर्तव्यत्वेन भार्यां च को न मां तारयिष्यति॥ अन्तरेण मयाऽऽज्ञप्तश्चिरकारीत्युदारधीः। यद्यद्य चिरकारी स्यात् स मां त्रायेत पातकात्॥ चिरकारिक भद्रं ते भद्रं ते चिरकारिक। यद्यद्य चिरकारी त्वं ततोऽसि चिरकारिकः॥ त्राहि मां मातरं चैव तपो यच्चार्जितं मया। आत्मानं पातकेभ्यश्च भवाद्य चिरकारिकः॥ सहजं चिरकारित्वमतिप्रज्ञतया तव। सफलं तत् तथा तेऽस्तु भवाद्य चिरकारिकः॥ चिरमाशंसितो मात्रा चिरं गर्भेण धारितः। सफलं चिरकारित्वं कुरु त्वं चिरकारिक॥ चिरायते च संतापाच्चिरं स्वपिति वारितः। तु :खितः। आवयोश्चिरसंतापादवेक्ष्य चिरकारिकः॥ एवं स दुःखितो राजन् महर्षिगौतमस्तदा। चिरकारि ददर्शाथ पुत्रं स्थितमथान्तिके॥ चिरकारी पितरं दृष्ट्वा परमदुः शस्त्रं त्यक्त्वा ततो मूर्धा प्रसादायोपचक्रमे॥ गौतमस्तं ततो दृष्ट्वा शिरसा पतितं भुवि। पत्नीं चैव निराकारां परामभ्यागमन्मुदम्॥ न हि सा तेन सम्भेदं पत्नी नीता महात्मना। विजने चाश्रमस्थेन पुत्रश्चापि समाहितः॥ हन्या इति समादेशः शस्त्रपाणै सुते स्थिते। विनीते प्रसवत्यर्थे विवासे चात्मकर्मसु॥ बुद्धिशासीत् सुतं दृष्ट्वा पितुरचरणयोर्नतम्। शस्त्रग्रहणचापल्यं संवृणोति भयादिति॥ ततः पित्रा चिरं स्तुत्वा चिरं चाघ्राय मूर्धनि। चिरं दो• परिष्वज्य चिरं जीवेत्युदाहृतः॥ एवं स गौतमः पुत्रं प्रीतिहर्षगुणैर्युतः। अभिनन्द्य महाप्राज्ञ इदं वचनमब्रवीत्॥ चिरकारिक भद्रं ते चिरकारी चिरं भव। चिराय यदि ते सौम्य चिरमस्मि न दुःखितः॥ गाथाश्चाप्यब्रवीद् विद्वान् गौतमो मुनिसत्तमः। चिरकारिषु धीरेषु गुणोद्देशसमाश्रयाः॥ चिरेण मित्रं बघ्नीयाच्चिरेण च कृतं त्यजेत्। चिरेण हि कृतं मित्रं चिरं धारणमर्हति॥ रागे दर्पे च माने च द्रोहे पापे च कर्मणि। अप्रिये चैव कर्तव्ये चिरकारी प्रशस्यते॥ बन्धूनां सुहृदां चैव भृत्यानां स्त्रीजनस्य च। अव्यक्तेष्वपराधेषु चिरकारी प्रशस्यते॥ एवं स गौतमस्तत्र प्रीतः पुत्रस्य भारत। कर्मणा तेन कौरव्य चिरकारितया तथा॥ एवं सर्वेषु कार्येषु विमृश्य पुरुषस्ततः। चिरेण निश्चयं कृत्वा चिरं न परितप्यते॥ चिरं धारयते रोष चिरं कर्म नियच्छति। पश्चात्तापकरं कर्म न किंचिदुपपद्यते॥ चिरं वृद्धानुपासीत चिरमन्वास्य पूजयेत्। चिरं धर्मं निषेवेत कुर्याच्चान्वेषणं चिरम्॥ चिरमन्वास्य विदुषश्चिरं शिष्टान् निषेव्य च। चिरं विनीय चात्मानं चिरं यात्यनवज्ञताम्॥ ब्रुवतश्च परस्यापि वाक्यं धर्मोपसंहितम्। चिरं पृष्टोऽपि च ब्रूयाच्चिरं न परितप्यते॥ उपास्य बहुलास्तस्मिन्नाश्रमे सुमहातपाः। समाः स्वर्गं गतो विप्रः पुत्रेण सहितस्तदा॥ युधिष्ठिर उवाच कथं राजा प्रजा रक्षेन्न च किंचित् प्रघातयेत्। पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। धुमत्सेनस्य संवादं राज्ञा सत्यवता सह॥ अव्याहृतं व्याजहार सत्यवानिति नः श्रुतम्। वधायोनीयमानेषु पितुरेवानुशासनात्॥ अधर्मतां याति धर्मो यात्यधर्मश्च धर्मताम्। वधो नाम भवेद् धर्मो नैतद् भवितुमर्हति॥ धुमत्सेन उवाच अथ चेदवधो धर्मोऽधर्मः को जातु चिद् भवेत्। दस्यवश्चेन्न हन्येरन् सत्यवन् संकरो भवेत्॥ ममेदमिति नास्यैतत् प्रवर्तेत कलौ युगे। लोकयात्रा न चैव स्यादथ चेद् वेत्थ शंस नः॥ सत्यवानुवाच सर्व एते त्रयो वर्णाः कार्या ब्राह्मणबन्धनाः। धर्मपाशनिबद्धानामन्योऽप्येवं चरिष्यति॥ यो यस्तेषामपचरेत् तमाचक्षीत वै द्विजः। अयं मे न शृणोतीति तस्मिन् राजा प्रधारयेत्॥ तत्त्वाभेदेन यच्छास्त्रं तत् कार्यं नान्यथाविधम्। असमीक्ष्यैव कर्माणि नीतिशास्त्रं यथाविधि॥ दस्यून् निहन्ति वै राजा भूयसो वाप्यनागसः। भार्या माता पिता पुत्रो हन्यन्ते पुरुषेण ते। परेणापकृतो राजा तस्मात् सम्यक् प्रधारयेत्॥ असाधुश्चैव पुरुषो लभते शीलमेकदा। साधोश्चापि ह्यसाधुभ्यः शोभना जायते प्रजा॥ न मूलघातः कर्तव्यो नैष धर्मः सनातनः। अपि स्वल्पवधेनैव प्रायश्चित्तं विधीयते॥ उद्वेजनेन बन्धेन विरूपकरणेन च। वधदण्डेन ते क्लिश्या न पुरोहितसंसदि॥ यदा पुरोहितं वा ते पर्येयुः शरणैषिणः। करिष्यामः पुनर्ब्रह्मन् न पापमिति वादिनः॥ तदा विसर्गमर्हाः स्युरितीदं धातृशासनम्। बिभ्रद् दण्डाजिनं मुण्डो ब्राह्मणोऽर्हति शासनम्॥ गरीयांसो गरीयांसमपराधे पुनः पुनः। तदा विसर्गमर्हन्ति न यथा प्रथमे तथा॥ द्युमत्सेन उवाच यत्र यत्रैव शक्येरन् संयन्तुं समये प्रजाः। स तावान् प्रोच्यते धर्मो यावन्न प्रतिलझ्यते॥ अहन्यमानेषु पुनः सर्वमेव पराभवेत्। पूर्वे पूर्वतरे चैव सुशास्या ह्यभवन् जनाः॥ मृदवः सत्यभूयिष्ठा अल्पद्रोहाल्पमन्यवः। पुरा धिगदण्ड एवासीद् वाग्दण्डस्तदनन्तरम्॥ आसीदादानदण्डोऽपि वधदण्डोऽद्य वर्तते। वधेनापि न शक्यन्ते नियन्तुमपरे जनाः॥ नैव दस्युर्मनुष्याणां न देवानामिति श्रुतिः। न गन्धर्वपितृणां च कः कस्येह न कश्चन॥ पद्मं श्मशानादादत्ते पिशाचाच्चापि दैवतम्। तेषु यः समयं कश्चित् कुर्वीत हतबुद्धिषु॥ सत्यवानुवाच तान् न शक्नोषि चेत् साधून् परित्रातुमहिंसया। कस्यचिद् भूतभव्यस्य लाभेनान्तं तथा कुरु॥ राजानो लोकयात्रार्थं तप्यन्ते परमं तपः। तेऽपत्रपन्ति तादृग्भ्यस्तथावृत्ता भवन्ति च।॥ वित्रास्यमानाः सुकृतो न कामाद् जन्ति दुष्कृतीन्। सुकृतेनैव राजानो भूयिष्ठं शासते प्रजाः॥ श्रेयसः श्रेयसोऽप्येवं वृत्तं लोकोऽनुवर्तते। सदैव हि गुरोर्वृत्तमनुवर्तन्ति मानवाः॥ आत्मानमसमाधाय समाधित्सति यः परान्। विषयेष्विन्द्रियवशं मानवाः प्रहसन्ति तम्।॥ यो राज्ञो दम्भमोहेन किंचित् कुर्यादसाम्प्रतम्। सर्वोपयैर्नियम्यः स तथा पापान्निवर्तते॥ आत्मैवादौ नियन्तव्यो दुष्कृतं संनियच्छता। दण्डयेच्च महादण्डैरपि बन्धूननन्तरान्॥ यत्र वै पापकृन्नचो न महद् दुःखमर्च्छति। वर्धन्ते तत्र पापानि धर्मो हसति च ध्रुवम्॥ इति कारुण्यशीलस्तु विद्वान् वै ब्राह्मणोऽन्वशात्। इति चैवानुशिष्टोऽस्मि पूर्व स्तात पितामहैः॥ आश्वासयद्भिः सुभृशमनुक्रोशात् तथैव च। एतत् प्रथमकल्पेन राजा कृतयुगे जयेत्॥ पादोनेनापि धर्मेण गच्छेत् त्रेतायुगे तथा। द्वापरे तु द्विपादेन पादेन त्वधरे युगे॥ तथा कलियुगे प्राप्ते राज्ञो दुश्चरितेन ह। भवेत् कालविशेषण कला धर्मस्य षोडशी॥ अथ प्रथमकल्पेन सत्यवन् संकरो भवेत्। आयुः शक्तिं च कालं च निर्दिश्य तप आदिशेत्॥ सत्याय हि यथा नेह जह्याद् धर्मफलं महत्। भूतानामनुकम्पार्थं मनुः स्वायम्भुवोऽब्रवीत्॥ युधिष्ठिर उवाच अविरोधेन भूतानां योगः षाड्गुण्यकारकः। यः स्यादुभयभाग्धर्मस्तन्मे ब्रूहि पितामह॥ गार्हस्थ्यस्य च धर्मस्य योगधर्मस्य चोभयोः। अदूरसम्प्रस्थितयोः किंस्विच्छ्रेयः पितामह॥ भीष्म उवाच उभौ धर्मो महाभागावुभौ परमदुश्चरौ। उभौ महाफलौ तौ तु सद्भिराचरितावुभौ॥ अत्र ते वर्तयिष्यामि प्रामाण्यमुभयोस्तयोः। शृणुष्वैकमनाः पार्थ च्छिन्नधर्मार्थसंशयम्॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। कपिलस्य गोश्च संवादं तन्निबोध युधिष्ठिर॥ आम्नायमनुपश्यन् हि पुराणं शाश्वतं ध्रुवम्। नहुषः पूर्वमालेभे त्वष्टुर्गामिति नः श्रुतम्॥ तां नियुक्तामदीनात्मा सत्त्वस्थः संयमे रतः। ज्ञानवान् नियताहारो ददर्श कपिलस्तथा॥ स बुद्धिमुत्तमां प्राप्तो नैष्ठिकीमकुतोभयाम्। सतीमशिथिला सत्यां वेदा इत्यब्रवीत् सकृत्॥ तां गाषिः स्यूमरश्मिः प्रविश्य यतिमब्रवीत्। हंहो वेदा यदि मता धर्माः केनापरे मताः॥ तपस्विनो धृतिमन्तः श्रुतिविज्ञानचक्षुषः। सर्वमाष हि मन्यन्ते व्याहृतं विदितात्मनः॥ तस्यैवं गततृष्णस्य विज्वरस्य निराशिषः। का विवक्षास्ति वेदेषु निरारम्भस्य सर्वतः॥ कपिल उवाच नाहं वेदान् विनिन्दामि न विवक्ष्यामि कर्हिचित्। पृथगाश्रमिणां कर्माण्येकार्थानीति नः श्रुतम्॥ गच्छत्येव परित्यागी वानप्रस्थश्च गच्छति। गृहस्थो ब्रह्मचारी च उभौ तावपि गच्छतः॥ देवयाना हि पन्थानश्चत्वारः शाश्वता मता: एषां ज्याय: कनीयस्त्वं फलेषूक्तं बलाबलम्॥ एवं विदित्वा सर्वार्थानारभेतेति वैदिकम्। नारभेतेति चान्यत्र नैष्ठिकी श्रूयते श्रुतिः॥ अनालम्भे ह्यदोषः स्यादालम्भे दोष उत्तमः। एवं स्थितस्य शास्त्रस्य दुर्विज्ञेयं बलाबलम्॥ यद्यत्र किञ्चित् प्रत्यक्षमहिंसायाः परं मतम्। ऋते त्वागमशास्त्रेभ्यो ब्रूहि तद् यदि पश्यसि॥ स्यूमरश्मिरुवाच स्वर्गकामो यजेतेति सततं श्रूयते श्रुतिः। फलं प्रकल्प्य पूर्वं हि ततो यज्ञः प्रतायते॥ अजश्चाश्वश्च मेषश्च गौश्च पक्षिगणाश्च ये। ग्राम्यारण्याचौषधयः प्राणस्यानमिति श्रुतिः॥ तथैवान्नं ह्यहरहः सायंप्रातर्निरूप्यते। पशवश्चाथ धान्य च यज्ञस्याङ्गमिति श्रुतिः॥ एतानि सह यज्ञेन प्रजापतिकल्पयत्। तेन प्रजापतिर्देवान् यज्ञेनायजत प्रभुः॥ तदन्योन्यवराः सर्वे प्राणिनः सप्त सप्तधा। यज्ञेषूपाकृतं विश्वं प्राहुरुत्तमसंज्ञितम्॥ एतच्चैवाभ्यनुज्ञातं पूर्वैः पूर्वतरैस्तथा। को जातु न विचिन्वीत विद्वान् स्वां शक्तिमात्मनः।।२३। पशवश्च मनुष्याश्च दुमाश्चौषधिभिः सह। स्वर्गमेवाभिकाङ्क्षन्ते न च स्वर्गस्ततो मखात्॥ ओषध्यः पशवो वृक्षा वीरुदाज्यं पयो दधि। हविर्भूमिर्दिशः श्रद्धा कालश्चैतानि द्वादश॥ ऋचो यजूंषि सामानि यजमानश्च षोडश। अग्नि यो गृहपतिः स सप्तदश उच्यते॥ अङ्गान्येतानि यज्ञस्य यज्ञो मूलमिति श्रुतिः। आज्येन पयसा दधा शकृताऽऽमिक्षया त्वचा॥ वालैः शृङ्गेण पादेन सम्भवत्येव गौमखम्। एवं प्रत्येकशः सर्वं यद् यदस्य विधीयते॥ यज्ञं वहन्ति सम्भूय सहत्विग्भिः सदक्षिणैः। संहृत्यैतानि सर्वाणि यज्ञं निवर्तयन्त्युत॥ यज्ञार्थानि हि सृष्टानि यथार्था श्रूयते श्रुतिः। एवं पूर्वतरा: सर्वे प्रवृत्ताश्चैव मानवाः॥ न हिनस्ति नारभते नाभिद्रुह्यति किंचन। यज्ञो यष्टव्य इत्येव यो यजत्यफलेप्सया॥ यज्ञाङ्गान्यपि चैतानि यज्ञोक्तान्यनुपूर्वशः। विधिना विधियुक्तानि धारयन्ति परस्परम्॥ आम्नायमाएं पश्यामि यस्मिन् वेदाः प्रतिष्ठिताः। तं विद्वांसोऽनुपश्यन्ति ब्राह्मणस्यानुदर्शनात्॥ ब्राह्मणप्रभवो यज्ञो ब्राह्मणार्पण एव च। अनुयज्ञं जगत् सर्वं यज्ञश्चानुजगत् सदा॥ ओमिति ब्रह्मणो योनिनमः स्वाहा स्वधा वषट्। यस्यैतानि प्रयुज्यन्ते यथाशक्ति कृतान्यपि॥ न तस्य त्रिषु लोकेषु परलोकभयं विदुः। इति वेदा वदन्तीह सिद्धाश्च परमर्षयः॥ ऋचो यजूंषि सामानि स्तोभाश्च विधिचोदिताः। यस्मिन्नेतानि सर्वाणि भवन्तीह स वै द्विजः॥ अग्न्याधेये यद् भवति यच्च सोमे सुते द्विज यच्चेतरैर्महायज्ञैर्वेद तद् भगवान् पुनः॥ तस्माद् ब्रह्मन् यजेच्चैव याजयेच्चाविचारयन्। यजतः स्वर्गविधिना प्रेत्य स्वर्गफलं महत्॥ नायं लोकोऽस्त्ययज्ञानां परचेति विनिश्चयः। वेदवादविदश्चैव प्रमाणमुभयं तदा॥ कपिल उवाच एतावदनुपश्यन्ति यतयो यान्ति मार्गगाः। नैषां सर्वेषु लोकेषु कश्चिदस्ति व्यतिक्रम॥ निर्द्वन्द्वां निर्नमस्कारा निराशीर्बधना बुधाः। विमुक्ताः सर्वपापेभ्यश्चरन्ति शुचयोऽमला:॥ अपवर्गेऽथ संत्यागे बुद्धौ च कृतनिश्चयाः। ब्रह्मिष्ठा ब्रह्मभूताश्च ब्रह्मण्येव कृतालयाः॥ विशोका नष्टरजसस्तेषां लोकाः सनातनाः। तेषां गतिं परां प्राप्य गार्हस्थ्ये किं प्रयोजनम्॥ स्यूमरश्मिरुवाच योषा परमा काष्ठा योषा परमा गतिः। गृहस्थानव्यपाश्रित्य नाश्रमोऽन्यः प्रवर्तते॥ यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः। एवं गाहस्थ्यमाश्रित्य वर्तन्त इतराश्रमाः॥ गृहस्थ एव यजते गृहस्थस्तप्यते तपः। गार्हस्थ्यमस्य धर्मस्य मूलं यत्किचिदेजते॥ प्रजनाद्यभिनिर्वृत्ताः सर्वे प्राणभृतो जनाः। प्रजनं चाप्युतान्यत्र न कथंचन विद्यते॥ यास्तु स्युर्बर्हिरोषध्यो बहिरन्यास्तथाद्रिजाः। ओषधिभ्यो बहिर्यस्मात् प्राणात् कश्चिन्न दृश्यते॥ कस्यैषा वाग् भवेत् सत्या मोक्षो नास्ति गृहादिति। अश्रद्दधानप्राज्ञैः सूक्ष्मदर्शनवर्जितैः॥ निरासैरलसैः श्रान्तैस्तप्यमानैः स्वकर्मभिः। शमस्योपरमो दृष्टः प्रव्रज्यायामपण्डितैः॥ त्रैलोक्यस्यैव हेतुर्हि मर्यादा शाश्वती ध्रुवा। ब्राह्मणो नाम भगवान् जन्मप्रभृति पूज्यते॥ प्राग्गर्भाधानात्मन्त्रा हि प्रवर्तन्ते द्विजातिषु। अविश्रम्भेषु वर्तन्ते विश्रम्भेष्वष्यसंशयम्॥ दाहे पुनः संश्रयणे संश्रिते पात्रभोजने। दाने गवां पशूनां वा पिण्डानामप्सु मज्जने॥ अर्चिष्मन्तो बर्हिषदः कव्यादाः पितरस्तथा। मृतस्याप्यनुमन्यन्ते मन्त्रान् मन्त्राश्च कारणम्॥ एवं क्रोशत्सु वेदेषु कुतो मोक्षोऽस्ति कस्यचित्। ऋणवन्तो यदा मर्त्याः पितृदेवद्विजातिषु॥ श्रिया विहीनैरलसैः पण्डितैः सम्प्रवर्तितम्। वेदवादापरिज्ञानं सत्याभासमिवानृतम्॥ न वै पापैर्हियते कृष्यते वा यो ब्राह्मणो यजते वेदशास्त्रैः। उर्ध्वं यज्ञैः पशुभिः सार्धमेति संतर्पितस्तर्पयते च कामैः॥ न वेदानां परिभवान्न शाठ्येन न मायया। महत् प्राप्नोति पुरुषो ब्रह्माणि ब्रह्म विन्दति॥ कपिल उवाच दर्श च पौर्णमासं च अग्निहोत्रं च धीमतः। चातुर्मास्यानि चैवासंस्तेषु धर्मः सनातनः॥ अनारम्भाः सुधृतयः शुचयो ब्रह्मसंज्ञिताः। ब्रह्मणैव स्म ते देवांस्तर्पयन्त्यमृतैषिणः॥ सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः। देवाऽपि मार्गे मुह्यन्ति अपदस्य पदैषिणः॥ चतुरं पुरुषं चतुर्मुखं चतुर्धा चैनमुपयाति वाचा। बाहुभ्यां वाच उदरादुपस्थात्तेषां द्वारं द्वारपालो बुभूषेत।। नारैर्दीव्येन्नाददीतान्यवित्तं न वायोनीयस्य शृतं प्रगृह्णात्। सतथास्य तत्पाणिपादं सुगुप्तम्॥ नाक्रोशमृच्छेन्न वृथा वदेच्च न पैशुनं जनवादं च कुर्यात्। स्तथास्य वाग्द्वारमथो सुगुप्तम्॥ दलोलुपः साधुभिरागतः स्यात्। यात्रार्थमाहारमिहाददीत तथास्य स्याज्जाठरी द्वारगुप्तिः॥ न वीरपत्नी विहरेत नारी न चापि नारीमनृतावाह्वयीत। भार्याव्रतं ह्यात्मनि धारयीत तथास्योपस्थद्वारगुप्तिर्भवेत्॥ द्वाराणि यस्य सर्वाणि सुगुप्तानि मनीषिणः। उपस्थमुदं बाहू वाक् चतुर्थी स वै द्विजः॥ मोधान्यगुप्तद्वारस्य सर्वाण्येव भवन्त्युत। किं तस्य तपसा कार्य किं यज्ञेन किमात्मना॥ अनुत्तरीयवसनमनुपस्तीर्णशायिनम्। बाहूपधानं शाम्यन्तं तं देवा ब्राह्मणं विदुः॥ द्वन्द्वारामेषु सर्वेषु य एको रमते मुनिः। परेषामननुध्यायंस्तं देवा ब्राह्मणं विदुः॥ येन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या। गतिज्ञः सर्वभूतानां तं देवा ब्राह्मणं विदुः॥ सर्वभूतात्मभूतो यस्तं देवा ब्राह्मणं विदुः॥ अभयं सर्वभूतेभ्यः सर्वेषामभयं यतः। नान्तरेणानुजानन्ति दानयज्ञक्रियाफलम्। अविज्ञाय च तत् सर्वमन्यद् रोचयते फलम्॥ स्वकर्मभिः संश्रितानां तपो घोरत्वमागतम्। तं सदाचारमाश्रित्य पुराणं शाश्वतं ध्रुवम्॥ अशक्नुवन्तश्चरितुं किंचिद् धर्मेषु सूत्रितम्। निरापद्धर्म आचारो ह्यप्रमादोऽपराभवः॥ फलनवन्ति च कर्माणि व्युष्टिमन्ति ध्रुवाणि च। विगुणानि च पश्यन्ति तथानैकान्तिकानि च॥ गुणाश्चात्र सुदुर्जेया ज्ञाताश्चात्र सुदुष्कराः। अनुष्ठिताश्चान्तवन्त इति त्वमनुपश्यसि॥ स्यूमरश्मिरुवाच यथा च वेदप्रामाण्यं त्यागश्च सफलो यथा। तौ पन्थानावुभौ व्यक्तौ भगवंस्तद् वदस्व मे॥ कपिल उवाच प्रत्यक्षमिह पश्यन्ति भवन्तः सत्पथे स्थिताः। प्रत्यक्षं तु किमत्रास्ति यद् भवन्त उपासते॥ स्यूमरश्मिरुवाच स्यूमरश्मिरहं ब्रह्मन् जिज्ञासार्थमिहागतः। श्रेयस्कामः प्रत्यवोचमार्जवान्न विवक्षया॥ इमं च संशयं घोरं भगवान् प्रब्रवीतु मे। प्रत्यक्षमिह पश्यन्तो भवन्तः सत्पथे स्थिताः। किमत्र प्रत्यक्षतमं भवन्तो यदुपासते॥ अन्यत्र तर्कशास्त्रेभ्य आगमार्थं यथागमम्। आगमो वेदवादास्तु तर्कशास्त्राणि चागमः॥ यथाश्रममुपासीत आगमस्तत्र सिध्यति। सिद्धिः प्रत्यक्षरूपा च दृश्यत्यागमनिश्चयात्॥ नौ वीव निबद्धा हि स्रोतसा सनिबन्धना। ह्रियमाणा कथं विप्र कुबुद्धीस्तारयिष्यति। एतद् ब्रवीतु भगवानुपपन्नोऽस्म्यधीहि भोः॥ नैव त्यागी न संतुष्टो नाशोको न निरामयः। न निर्विधित्सो नावृत्तोनापवृत्तोऽस्ति कश्चन॥ भवन्तोऽपि च हृषयन्ति शोचन्ति च यथा वयम्। इन्द्रियार्थाश्च भवतां समानाः सर्वजन्तुषु॥ एवं चतुर्णां वर्णानमाश्रमाणां प्रवृत्तिषु। एकमालम्बमानानां निर्णये किं निरामयम्॥ कपिल उवाच यद् यदाचरते शास्त्रमर्थ्यं सर्वप्रवृत्तिषु। यस्य यत्र ह्यनुष्ठानं तत्र तत्र निरामयम्॥ ज्ञानं प्लावयते सर्वं यो ज्ञानं ह्यनुवर्तते। ज्ञानादपेत्य या वृत्तिः सा विनाशयति प्रजाः॥ भवन्तो ज्ञानिनो व्यक्तं सर्वतश्च निरामयाः। ऐकात्म्यं नाम कश्चिद्धि कदाचिदुपपद्यते॥ शास्त्रं ह्यबुद्ध्वा तत्त्वेन केचिद् वादबलाज्जनाः। कामद्वेषाभिभूतत्वादहङ्कारवशं गताः॥ याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः। ब्रह्मस्तेना निरारम्भा दम्भमोहवशानुगाः॥ नैर्गुण्यमेव पश्यन्ति न गुणाननुयुञ्जते। तेषां तमःशरीराणां तम एव परायणम्॥ यो यथाप्रकृतिर्जन्तुः प्रकृतेः स्याद् वशानुगः। तस्य द्वेषश्च कामश्च क्रोधो दम्भोऽनृतं मदः। नित्यमेवाभिवर्तन्ते गुणाः प्रकृतिसम्भवाः॥ एवं ध्यात्वानुपश्यन्तः संत्यजेयुः शुभाशुभम्। परां गतिमभीप्सन्तो यतयः संयमे रताः॥ स्यूमरश्मिरुवाच सर्वमेतन्मया ब्रह्मन् शास्त्रतः परिकीर्तितम्। न ह्यविज्ञाय शास्त्रार्थं प्रवर्तन्ते प्रवृत्तयः॥ यः कश्चिन्याय्य आचारः सर्वं शास्त्रमिति श्रुतिः। यदन्याय्यमशास्त्रं तदित्येषा श्रूयते श्रुतिः॥ न प्रवृत्ति ॠते शास्त्रात् काचिदस्तीति निश्चयः। यदन्यद् वेदवादेभ्यस्तदशास्त्रमिति॥ शास्त्रादपेतं पश्यन्ति बहवो व्यक्तमानिनः। शास्त्रदोषान् न पश्यन्ति शोचन्ति च यथा वयम्। इन्द्रियार्थाश्च भवतां समानाः सर्वजन्तुषु॥ एवं चतुर्णां वर्णानामाश्रमाणां प्रवृत्तिषु। एकमालम्बमानानां निर्णये सर्वतोदिशम्॥ आनन्त्यं वदमानेन शक्तेनावर्जितात्मना। अविज्ञानहतप्रज्ञा हीनप्रज्ञास्तमोवृताः॥ शक्यं त्वेकेन युक्तोन कृतकृत्येन सर्वशः। पिण्डमानं व्यपाश्रित्य चरितुं विजितात्मना॥ वेदवादं व्यपाश्रित्य मोक्षोऽस्तीति प्रभाषितुम्। अपेतन्यायशास्त्रेण सर्वलोकविगहिणा॥ इदं तु दुष्करं कर्म कुटुम्बमभिसंश्रितम्। दानमध्ययनं यज्ञः प्रजासंतानमार्जवम्॥ यद्येतदेवं कृत्वापि न विमोक्षोऽस्ति कस्यचित्। धिक् कर्तारं च कार्य च श्रमश्चायं निरर्थकः॥६६॥ नास्तिक्यमन्यथा च स्याद् वेदानां पृष्ठतः क्रिया। एतस्यानन्त्यमिच्छामि भगवश्रोतुमञ्जसा॥ तत्त्वं वदस्व मे ब्रह्मन्नुपसन्नोऽस्म्यधीहि भोः। यथा वे विदितो मोक्षस्तथेच्छाम्युपशिक्षितुम्॥ युधिष्ठिर उवाच धर्ममर्थं च कामं च वेदाः शंसन्ति भारत। कस्य लाभो विशिष्टोऽत्र तन्मे ब्रूहि पितामह॥ भीष्म उवाच अत्र ते वर्तयिष्यामि इतिहासं पुरातनम्। कुण्डधारेण यत् प्रीत्या भक्तायोपकृतं पुरा॥ अधनो ब्राह्मणः कश्चित् कामाद् धर्ममवैक्षत। यज्ञार्थं सततोऽर्थार्थी तपोऽतप्यत दारुणम्॥ स निश्चयमथो कृत्वा पूजयामास देवताः। भक्त्या न चैवाध्यगच्छद् धनं सम्पूज्य देवताः॥ ततश्चिन्तामनुप्राप्त: कतमदैवतं तु तत्। यन्मे दुतं प्रसीदेत मानुषैरजडीकृतम्॥ सोऽथ सौम्येन मनसा देवानुचरमन्तिके। प्रत्यपश्यज्जलधरं कुण्डधारमवस्थितम्॥ दृष्ट्वैव तं महाबाहुं तस्य भक्तिरजायत। अयं मे धास्यति श्रेयो वपुरेतद्धि तादृशम्॥ संनिकृष्टश्च देवस्य न चान्यैर्मानुषैर्वृतः। एष मे दास्यति धनं प्रभूतं शीघ्रमेव च।॥ ततो धूपैश्च गन्धैश्च माल्यैरुच्चावचैरपि। बलिभिर्विविधाभिश्च पूजयामास तं द्विजः॥ ततस्त्वल्पेन कालेन तुष्टो जलधरस्तदा। तस्योपकारनियतामिमां वाचमुवाच ह॥ ब्रह्मने च सुरापे च चौरे भग्नव्रते यथा। निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः॥ आशायास्तनयोऽधर्मः क्रोधोऽसूयासुतः स्मृतः। लोभः पुत्रो निकृत्यास्तु कृतम्रो नार्हति प्रजाम्॥ ततः स ब्राह्मणः स्वप्ने कुण्डधारस्य तेजसा। अपश्यत् सर्वभूतानि कुशेषु शयितस्तदा॥ शमेन तपसा चैव भक्त्या च निरुपस्कृतः। शुद्धात्मा ब्राह्मणो रात्रौ निदर्शनमपश्यत॥ मणिभद्रं स तत्रस्थं देवतानां महाद्युतिम्। अपश्यत महात्मानं व्यादिशन्तं युधिष्ठिर॥ तत्र देवाः प्रयच्छन्ति राज्यानि च धनानि च। शुभैः कर्मभिरारब्धाः प्रच्छिन्दन्त्यशुभेषु च॥ पश्यतामथ यक्षाणां कुण्डधारो महाद्युतिः। निपत्य पतितो भूमौ देवानां भरतर्षभ॥ ततस्य देववचनान्मणिभद्रो महामनाः। पतितं भूमौ कुण्डधार किमिष्यते॥ कुण्डधार उवाच यदि प्रसन्ना देवा मे भक्तोऽयं ब्राह्मणो मम। अस्यानुग्रहमिच्छामि कृतं किंचित् सुखोदयम्॥ ततस्तं मणिभद्रस्तु पुनर्वचनमब्रवीत्। देवानामेव वचनात् कुण्डधारं महाद्युतिम्॥ मणिभद्र उवाच उत्तिष्ठोत्तिष्ठ भद्रं ते कृतकृत्यः सुखी भव। धनार्थी यदि विप्रोऽयं धनमस्मै प्रदीयताम्॥ यावद् धनं प्रार्थयते ब्राह्मणोऽयं सखा तव। देवानां शासनात् तावदसंख्येयं ददाम्यहम्॥ विचार्य कुण्डधारस्तु मानुष्यं चलमध्रुवम्। तपसे मतिमाधत्त ब्राह्मणस्य युधिष्ठिर।॥ कुण्डधार उवाच नाहं धनानि याचामि ब्राह्मणाय धनप्रदा अन्यमेवाहमिच्छामि भक्तायानुग्रहं कृतम्॥ पृथिवीं रत्नपूर्णां वा महद् वा रत्नसंचयम। भक्ताय नाहमिच्छामि भवेदेष तु धार्मिकः॥ धर्मेऽस्य रमतां बुद्धिर्धर्मं चैवोपजीवतु। धर्मप्रधानो भवतु ममैषोऽनुग्रहो मतः॥ मणिभद्र उवाच सदा धर्मफलं राज्यं सुखानि विविधानि च। फलान्येवायमनातु कायक्लेशविवर्जितः॥ भीष्म उवाच ततस्तदेव बहुशः कुण्डधारो महायशाः। अभ्यासमकरोद् धर्मे ततस्तुष्टास्तु देवताः॥ मणिभद्र उवाच प्रीतास्ते देवताः सर्वा द्विजस्यास्य तथैव च। भविष्यत्येष धर्मात्मा धर्मे चाधास्यते मतिः॥ ततः प्रीतो जलधरः कृतकार्णे युधिष्ठिर। ईप्सितं मनसो लब्ध्वा वरमन्यैः सुदुर्लभम्॥ ततोऽपयत चीराणि सूक्ष्माणि द्विजसत्तमः। पार्श्वतोऽभ्याशतो न्यस्तान्यथ निर्वेदमागतः॥ ब्राह्मण उवाच अयं न सुकृतं वेत्ति को न्वन्यो वेत्स्यते कृतम्। गच्छामि वनमेवाहं वरं धर्मेण जीवितुम्।३२॥ भीष्म उवाच निर्वेदाद् देवतानां च प्रसादात् स द्विजोत्तमः। वनं प्रविश्य सुमहत् तप आरब्धवांस्तदा।॥ देवतातिथिशेषेण फलमूलाशनो द्विजः। धर्मे चास्य महाराज दृढा बुद्धिरजायत॥ त्यरत्वा मूलफलं सर्वं पर्णाहारोऽभवद् द्विजः। पर्णं त्यक्त्वा जलाहारः पुनरासीद् द्विजस्तदा।॥ वायुभक्षस्ततः पश्चाद् बहून वर्षगणानभूत्। न चास्य क्षीयते प्राणस्तदद्भुतमिवाभवत्॥ धर्मे च श्रद्दधानस्य तपस्युग्रे च वर्ततः। कालेन महता तस्य दिव्या दृष्टिरजायत॥ तस्य बुद्धिः प्रादुरासीद् यदि दद्यामहं धनम्। तुष्टः कस्यचिदेवेह मिथ्यावाङ् न भवेन्मम॥ ततः प्रहृष्टवदनो भूय आरब्धवांस्तपः। भूयश्चचिन्तयत् सिद्धो यत्परं सोऽभिमन्यते॥ यदि दद्यामहं राज्यं तुष्टो वै यस्य कस्यचित्। स भवेदचिराद् राजा न मिथ्या वाग् भवेन्मम॥ तस्य साक्षात् कुण्डधारो दर्शयामास भारत। ब्राह्मणस्य तपोयोगात् सौहृदेनाभिचोदितः॥ समागम्य स तेनाथ पूजांचक्रे यथाविधि। ब्राह्मणः कुण्डधारस्य विस्मितश्चाभवन्नृप॥ ततोऽब्रवीत् कुण्डधारो दिव्यं ते चक्षुरुत्तमम्। पश्य राज्ञां गतिं विप्र लोकांश्चैव तु चक्षुषा॥ ततो राजसहस्राणि मग्नानि निरये तदा। दूरादपश्यद् विप्रः स दिव्ययुक्तेन चक्षुषा॥ कुण्डधार उवाच मां पूजयित्वा भावेन यदि त्वं दुःखमाप्नुयाः। कृतं मया भवेत् किं ते कश्च तेऽनुग्रहो भेवत्॥ पश्य पश्य च भूयस्त्वं कामानिच्छेत् कथं नरः। स्वर्गद्वारं हि संरुद्धं मानुषेषु विशेषतः॥ भीष्म उवाच ततोऽपश्यत् स कामं च क्रोधं लोभं भयं मदम्। निद्रां तन्द्री तथाऽऽलस्यमावृत्य पुरुषान् स्थितान्॥ कुण्डधार उवाच एतैर्लोकाः संसुरुद्धा देवानां मानुषाद् भयम्। तथैव देववचनाद् विघ् कुर्वन्ति सर्वशः॥ न देवैरननुज्ञातः कश्चिद् भवति धार्मिकः। एष शक्तोऽसि तपसा दातुं राज्यं धनानि च॥ भीष्म उवाच ततः पपात शिरसा ब्राह्मणस्तोयधारिणे। उवाच चैनं धर्मात्मा महान् मेऽनुग्रहः कृतः॥ कामलोभानुबन्धेन पुरा ते यदसूयितम्। मया स्नेहमविज्ञाय तत्र मे क्षन्तुमर्हसि॥ क्षान्तमेव मयेत्युक्त्वा कुण्डधारो द्विजर्षभम्। सम्परिष्वज्य बाहुभ्यां तत्रैवान्तरधीयत॥ ततः सर्वांस्तदा लोकान् ब्राह्मणोऽनुचचार हा कुण्डधारप्रसादेन तपसा सिद्धिमागतः॥ विहायसा च गमनं तथा संकल्पितार्थता। धर्माच्छक्तया तथा योगाद् या चैव परमा गतिः॥ देवताः ब्राह्मणा: सन्तो यक्षा मानुषचारणाः। धार्मिकान् पूजयन्तीह न धनाढ्यान् न कामिनः॥ सुप्रसन्ना हि ते देवा यत्ते धर्मे रता मतिः। धने सुखकला काचिद् धर्मे तु परमं सुखम्॥ युधिष्ठिर उवाच बहूनां यज्ञतपसामेकार्थानां पितामह। धर्मार्थं न सुखार्थार्थं कथं यज्ञः समाहितः॥ भीष्म उवाच अत्र ते वर्तयिष्यामि नारदेनानुकीर्तितम्। उच्छवृत्तेः पुरावृत्तं यज्ञा ब्राह्मणस्य च॥ नारद उवाच राष्ट्रे धर्मोत्तरे श्रेष्ठे विदर्भेष्वभवद् द्विजः। उच्छवृत्तिर्ऋषिः कश्चिद् यज्ञं यष्टुं समादधे॥ श्यामाकमशनं तत्र सूर्यपर्णी सुवर्चला। तिक्तं च विरसं शाकं तपसा स्वादुतां गतम्॥ उपगम्य वने सिद्धिं सर्वभूताविहिंसया। अपि मूलफलैरिष्टो यज्ञः स्वर्यः परंतप॥ तस्य भार्या व्रतकृशा शुचिः पुष्करधारिणी। यज्ञपत्नी समानीता सत्येनानुविधीयते॥ सा तु शापपरित्रस्ता तत्स्वभावानुवर्तिनी। मायूरजीर्णपर्णानां वस्त्रं तस्याश्च वर्णितम्॥ अकामया कृतस्तत्र यज्ञो होत्रनुशासनात्। शुक्रस्य पुनराजातिः पर्णादो नाम धर्मवित्॥ तस्मिन् वने समीपस्थो मृगोऽभूत् सहवासिकः। वचोभिरब्रवीत् सत्यं त्वयेदं दुष्कृतं कृतम्॥ यदि मन्त्रागहीनोऽयं यज्ञो भवति वै कृतः। मां भोः प्रक्षिप होत्रे त्वं गच्छ स्वर्गमनिन्दितः॥ ततस्तु यज्ञे सावित्री साक्षात् तं संन्यमन्त्रयत्। निमन्त्रयन्ती प्रत्युक्ता न हन्यां सहवासिनम्॥ एवमुक्ता निवृत्ता सा प्रविष्टा यज्ञपावकम्। किं नु दुश्चरितं यज्ञे दिदृक्षुः सा रसातलम्॥ स तु बद्धाञ्जलिं सत्यमयाचद्धरिणः पुनः। सत्येन स परिष्वज्य संदिष्टो गम्यतामिति॥ ततः स हरिणो गत्वा पदान्यष्टौ न्यवर्तत। साधु हिंसय मां सत्य हतो यास्यामि सद्गतिम्॥ पश्य ह्यप्सरसो दिव्या मया दत्तेन चक्षुषा। विमानानि विचित्राणि गन्धर्वाणां महात्मनाम्॥ ततः स सुचिरं दृष्ट्वा स्पृहालग्नेन चक्षुषा। मृगमालोक्य हिंसायां स्वर्गवासं समर्थयत्॥ स तु धर्मो मृगो भूत्वा बहुवर्षोषितो वने। तस्य निष्कृतिमाधत्त न त्वसौ यज्ञसंविधिः॥ तस्य तेनानुभावेन मृगहिंसात्मनस्तदा। तपो महत्समुच्छिन्नं तसमाद्धिंसा न यज्ञिया।॥ ततस्तं भगवान् धर्मो यज्ञं याजयत स्वयम्। समाधानं च भार्याया लेभे स तपसा परम्॥ अहिंसा सकलो धर्मो हिंसाधर्मस्तथाहितः। सत्यं तेऽहं प्रवक्ष्यामि यो धर्मः सत्यवादिनाम्॥ युधिष्ठिर उवाच कथं भवति पापात्मा कथं धर्मं करोति वा। केन निर्वेदमादत्ते मोक्षं वा केन गच्छति॥ भीष्म उवाच विदिताः सर्वधर्मास्ते स्थित्यर्थं त्वं तु पृच्छसि। शृणु मोक्षं सनिर्वेदं पापं धर्मं च मूलतः॥ विज्ञानार्थं हि पञ्चानामिच्छा पूर्वं प्रवर्तते। प्राप्यैकं जायते कामो द्वेषो वा भरतर्षभ॥ ततस्तदर्थं यतते कर्म चारभते महत्। इष्टानां रूपगन्धानामभ्यासं स चिकीर्षति॥ ततो रागः प्रभवति द्वेषश्च तदनन्तरम्। ततो लोभः प्रभवति मोहश्च तदनन्तरम्॥ ततो रागः प्रभवति द्वेषश्च तदनन्तरम्। ततो लोभः प्रभवति मोहश्च तदनन्तरम्॥ व्याजेन चरते धर्ममर्थ व्याजेन रोचते। व्याजेन सिद्ध्यमानेषु धनेषु कुरुनन्दन॥ तत्रैव कुरुते बुद्धिं ततः पापं चिकीर्षति। सुहृद्भिर्वार्यमाणोऽपि पण्डितैश्चापि भारत॥ उत्तरं न्याससम्बद्धं ब्रवीति विधिचोदितम्। अधर्मस्त्रिविधस्तस्य वर्धते रागमोहजः॥ पापं चिन्तयते चैव प्रब्रवीति करोति च। तस्याधर्मप्रवृत्तस्य दोषान पश्यन्ति साधवः॥ एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः। स नेह सुखमाप्नोति कुत एव परत्र वै॥ एवं भवति पापात्मा धर्मात्मानं तु मे शृणु। यथा कुशलधर्मा स कुशलं प्रतिपद्यते॥ कुशलेनैव धर्मेण गतिमिष्टां प्रपद्यते। य एतान् प्रज्ञया दोषान् पूवमेवानुपश्यति॥ कुशलः सुखदुःखानां साधूंश्चाप्यथ सेवते। तस्य साधुसमाचारादभ्यासाच्चैव वर्धते॥ प्रज्ञा धर्मे च रमते धर्मं चैवोपजीवति। सोऽथ धर्मादवाप्तेषु धनेषु कुरुते मनः॥ तस्यैव सिञ्चते मूलं गुणान् पश्यति तत्र वै। धर्मात्मा भवति ह्येवं मित्रं च लभते शुभम्॥ स मित्रधनलाभात् तु प्रेत्य चेह च नन्दति। शब्दे स्पर्शे रसे रूपे तथा गन्धे च भारत॥ प्रभुत्व लभते जन्तुर्धर्मस्यैतत् फलं विदुः। स तु धर्मफलं लध्वा न हृष्यति युधिष्ठिर॥ अतृप्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा। प्रज्ञाचक्षुर्यदा कामे रसे गन्धे न रज्यते॥ शब्दे स्पर्श तथा रूपे न च भावयते मनः। विमुच्यते तदा कामान्न च धर्मं विमुञ्चति॥ सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम्। ततो मोक्षाय यतते नानुपायादुपायतः॥ शनैर्निर्वेदमादत्ते पापं कर्म जहाति च। धर्मात्मा चैव भवति मोक्षं च लभते परम्॥ एतत् ते कथितं तात यन्मां त्वं परिपृच्छसि। पापं धर्मस्तथा मोक्षो निर्वेदश्चैव भारत॥ तस्माद् धर्मे प्रवर्तेथाः सर्वावस्थं युधिष्ठिर। धर्मे स्थितानां कौन्तेय सिद्धिर्भवति शाश्वती॥ युधिष्ठिर उवाच मोक्षः पितामहेनोक्त उपायान्नानुपायतः। तमुपायं यथान्यायं श्रोतुमिच्छामि भारत॥ भीष्म उवाच त्वय्येवैतन्महाप्राज्ञ युक्तं निपुणदर्शनम्। येनोपायेन सर्वार्थं नित्यं मृगयसेऽनघ॥ करणे घटस्य या बुद्धिर्घटोत्पत्तौ न सा मता। एवं धर्माभ्युपायेषु नान्यधर्मेषु कारणम्॥ पूर्वे समुद्रे यः पन्थाः स न गच्छति पश्चिमम्। एकः पन्था हि मोक्षस्य तन्मे विस्तरतः शृणु॥ क्षमया क्रोधमुच्छिन्द्यात् कामं संकल्पवर्जनात्। सत्त्वससंसेवनाद् धीरो निद्रां च च्छेत्तुमर्हति॥ अप्रमादाद् भयं रक्षेच्छ्वासं क्षेत्रज्ञशीलनात्। इच्छां द्वेषं च कामं च धैर्येण विनिवर्तयेत्॥ भ्रमं सम्मोहमावर्तमभ्यासाद् विनिवर्तयेत्। निद्रां च प्रतिभां चैव ज्ञानाभ्यासेन तत्त्ववित्॥ उपद्रवांस्तथा रोगान् हितजीर्णमिताशनात्। लोभं मोहं च संतोषाद् विषयास्तत्त्वदर्शनात्॥ अनुक्रोशादधर्मं च जयेद् धर्ममवेक्षया। आयत्या च जयेदाशामर्थं संगविवर्जनात्॥ अनित्यत्वेन च स्नेहं क्षुधां योगेन पण्डितः। कारुण्येनात्मनो मानं तृष्णां च परितोषतः॥ उत्थानेन जयेत् तन्द्री वितर्कं निश्चयाज्जयेत्। मौनेन बहुभाष्यं च शौर्येण च भयं त्यजेत्॥ यच्छेद् वाङ्मनसी बुद्ध्या तां यच्छेज्ज्ञानचक्षुषा। ज्ञानमात्मावबोधेन यच्छेदात्मानमात्मना॥ तदेतदुपशान्तेन बोद्धव्यं शुचिकर्मणा। योगदोषान् समुच्छिद्य पञ्च यान् कवयो विदुः॥ कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम्। परित्यज्य निषेवेत यतवाग् योगसाधनान्॥ ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा। शौचमाहारतः शुद्धिरिन्द्रियाणां च संयमः॥ एतैर्विवधते तेजः पाप्मानमुपहन्ति च। सिध्यन्ति चास्य संकल्या विज्ञानं च प्रवर्तते॥ धूतपाप: स तेजस्वी लघ्वाहारो जितेन्द्रियः। कामक्रोधौ वशे कृत्वा निनीषेद् ब्रह्मणः पदम्॥ अमूढत्वमसंगित्वं कामक्रोधविवर्जनम्। अदैन्यमनुदीर्णत्वमनुद्वेगो व्यवस्थितिः॥ एष मार्गो हि मोक्षस्य प्रसन्नो विमलः शुचिः। तथा वाक्कायमनसां नियमः कामतोऽन्यथा॥ भीष्म उवाच अत्रैवोदाहरन्तीममितिहासं पुरातनम्। नारदस्य च संवादं देवलस्यासितस्य च॥ आसीनं देवलं वृद्धं बुद्ध्वा बुद्धिमतां वरम्। नारदः परिपप्रच्छ भूतानां प्रभवाप्ययम्॥ नारद उवाच कुत: सृष्टमिदं विश्वं ब्रह्मन् स्थावरजङ्गमम्। प्रलये च कमभ्येति तद् भवान् प्रब्रवीतु मे॥ असित उवाच येभ्यः सृजति भूतानि काले भावप्रचोदितः। महाभूतानि पञ्चेति तान्याहुर्भूतचिन्तकाः॥ तेभ्यः सृजति भूतानि काल आत्मप्रचोदितः। एतेभ्यो यः परं ब्रूयादसद् ब्रूयादसंशयम्॥ विद्धि नारद पञ्चैताशाश्वतानचलान् ध्रुवान्। महतस्तेजसो राशीन् कालषष्ठान् स्वभावतः॥ आपश्चैवान्तरिक्षं च पृथिवी वायुपावको। नासीद्धि परमं तेभ्यो भूतेभ्यो मुक्तसंशयम्॥ नोपपत्त्या न वा युक्त्या त्वसद् ब्रूयादसंशयम्। वेत्यैतानभिनिर्वृत्तान् घडेते यस्य राशयः॥ पञ्चैव तानि कालश्च भावाभावौ च केवलौ। अष्टौ भूतानि भूतानां शाश्वतानि भवात्ययौ॥ अभावं यान्ति तेष्वेव तेभ्यश्च प्रभवन्त्यपि। विनष्टोऽप्यनु तान्येव जन्तुर्भवति पञ्चधा॥ तस्य भूमिमयो देहः श्रोत्रमाकाशसम्भवम्। सूर्याच्चक्षुरसुयोरञ्ज्यस्तु खलु शोणितम्॥ चक्षुषी नासिकाकर्णी त्वक् जिह्वेति च पञ्चमी। इन्द्रियाणीन्द्रियार्थानां ज्ञानानि कवयो विदुः॥ दर्शनं श्रवणं घ्राणं स्पर्शनं रसनं तथा। उपपत्त्या गुणान् विद्धि पञ्च पञ्चसु पञ्चधा॥ रूपं गन्धो रसः स्पर्शः शब्दश्चैवाथ तद्गुणाः। इन्द्रियैरुपलभ्यन्ते पञ्चधा पञ्च पञ्चभिः॥ रूपं गन्धं रसं स्पर्श चैवाथ तद्गुणान्। इन्द्रियाणि न बुध्यन्ते क्षेत्रज्ञस्तैस्तु बुध्यते॥ चित्तमिन्द्रियसंघातात् परं तस्मात् परं मनः। मनसस्तु परा बुद्धिः क्षेत्रज्ञो बुद्धितः परः॥ पूर्वं चेतयते जन्तुरिन्द्रियैर्विषयान् पृथक्। विचार्य मनसा पश्चादथ बुद्ध्या व्यवस्यति। । इन्द्रियैरुपलब्धार्थान् बुद्धिमांस्तु व्यवस्यति॥ चित्तमिन्द्रियसंघातं मनो बुद्धिस्तथाष्टमी। अष्टौ ज्ञानेन्द्रियाण्याहुरेतान्यध्यात्मचिन्तकाः॥ पाणिपादं च पायुश्च मेहनं पञ्चमं मुखम्। इति संशब्द्यमानानि शृणु कर्मेन्द्रियाण्यपि॥ जल्पनाभ्यवहारार्थं मुखमिन्द्रियमुच्यते। गमनेन्द्रियं तथा पादौ कर्मणः करणे करौ॥ पायूपस्थं विसर्गार्थमिन्द्रिये तुल्यकर्मणी। विसर्गे च पुरीषस्य विसर्गे चापि कामिके॥ बलं षष्ठं षडेतानि वाचा सम्यग्यथा मम। ज्ञानचेष्टेन्द्रियगुणाः सर्वेषां शब्दिता मया॥ इन्द्रियाणां स्वकर्मेभ्यः श्रमादुपरमो यदा। भवतीन्द्रियसंत्यागादथ स्वपिति वै नरः॥ इन्द्रियाणां व्युपरमे मनोऽव्युपरतं यदि। सेवते विषयानेव तं विद्यात् स्वप्नदर्शनम्॥ सात्त्विकाश्चैव ये भावास्तथा तामसराजसाः। कर्मयुक्तान् प्रशंसन्ति सात्त्विकानितरांस्तथा॥ आनन्दः कर्मणां सिद्धिः प्रतिपत्तिः परा गतिः। सात्त्विकस्य निमित्तानि भावान् संश्रयते स्मृतिः॥ जन्तुष्वेकतमेष्वेवं भावा ये विधिमास्थिताः। भावयोरीप्सितं नित्यं प्रत्यक्षं गमनं तयोः॥ इन्द्रियाणि च भावाश्च गुणाः सप्तदश स्मृताः। तेषामष्टादशो देही यः शरीरे स शाश्वतः॥ अथवा सशरीरास्ते गुणाः सर्वे शरीरिणाम्। संश्रितास्तद् वियोगे हि सशरीरा न सन्ति ते॥ अथवा संनिपातोऽयं शरीरं पाञ्चभौतिकम्। एकश्च दश चाष्टौ च गुणाः सह शरीरिणा॥ उष्मणा सह विंशो वा संघातः पाञ्चभौतिकः। महान् संधारयत्येतच्छरीरं वायुना सह॥ तस्य प्रभावयुक्तस्य निमित्तं देहभेदने। यथैवोत्पद्यते किंचित् पञ्चत्वं गच्छते तथा॥ पुण्यपापविनाशान्ते पुण्यपापसमीरितः। देहं विशति कालेन ततोऽयं कर्मसम्भवम्॥ हित्वा हित्वा ह्ययं प्रैति देहाद् देहं कृताश्रयः। कालसंचोदितः क्षेत्री विशीर्णाद् वा गृहाद् गृहम्॥ तत्र नैवानुतप्यन्ते प्राज्ञा निश्चितनिश्चयाः। कृपणास्त्वनुतप्यन्ते जनाः सम्बन्धदर्शिनः॥ न ह्ययं कस्यचित् कश्चिन्नास्य कश्च न विद्यते। भवत्येको ह्ययं नित्यं शरीरे सुखदुःखभाक्॥ नैव संजायते जन्तुर्न च जातु विपद्यते। याति देहमयं मुक्त्वा कदाचित्परमां गतिम्॥ पुण्यपापमयं देहं क्षपयन् कर्मसंक्षयात्। क्षीणदेहः पुनर्देही ब्रह्मत्वमुपगच्छति॥ पुण्यपापक्षयार्थं हि सांख्यज्ञानं विधीयते। तत्क्षये ह्यस्य पश्यन्ति ब्रह्मभावे परां गतिम्॥ येयमर्थोद्भवा तृष्णा युधिष्ठिर उवाच भ्रातरः पितरः पौत्रा ज्ञातयः सुहृदः सुताः। अर्थहेतोर्हताः क्रूरैरस्माभिः पापकर्मभिः॥ कथमेतां पितामह। निवर्तयेयं पापानि तृष्णया कारिता वयम्॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। गीतं विदेहराजेन माण्डव्यायानुपृच्छते॥ सुसुखं बत जीवामि यस्य मे नास्ति किंचन। मिथिलायां प्रदीप्तायां न मे दह्यति किंचन॥ अर्थाः खलु समृद्धा हि बाढं दुःखं विजानताम्। असमृद्धास्त्वपि सदा मोहयन्त्यविचक्षणान्॥ यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्। तृष्णाक्षयसुखस्यैते नार्हतः षोडशी कलाम्॥ यथैव शृङ्गं गोः काले वर्धमानस्य वर्धते। तथैव तृष्णा वित्तेन वर्धमानेन वर्धते॥ किंचिदेव ममत्वेन यदा भवति कल्पितम्। तदेव परितापाय नाशे सम्पद्यते पुनः॥ न कामाननुरुद्धयेत दुःखं कामेषु वै रतिः। प्राप्यार्थमुपयुञ्जीत धर्मं कामान् विसर्जयेत्॥ विद्वान् सर्वेषु भूतेषु आत्मना सोपमो भवेत्। कृतकृत्यो विशुद्धात्मा सर्वं त्यजति चैव ह॥ उभे सत्यानृते त्यक्त्वा शोकानन्दौ प्रियाप्रिये। भयाभयं च संत्यज्य स प्रशान्तो निरामयः॥ या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः। योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्॥१२। चारित्रमात्मनः पश्यंश्चन्द्रशुद्धमनामयम्। धर्मात्मा लभते कीर्तिं प्रेत्य चेह यथासुखम्॥ राज्ञस्तद् वचनं श्रुत्वा प्रीतिमानभवद् द्विजः। पूजयित्वा च तद् वाक्यं माण्डव्यो मोक्षमाश्रितः॥ युधिष्ठिर उवाच अतिक्रामति कालेऽस्मिन् सर्वभूतभयावहे। किं श्रेयः प्रतिपद्येत तन्मे ब्रूहि पितामह।१।। भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। पितुः पुत्रेण संवादं तं निबोध युधिष्ठिर॥ द्विजातेः कस्यचित् पार्थ स्वाध्यायनिरतस्य वै। पुत्रो बभूव मेधावी मेधावी नाम नामतः॥ सोऽब्रवीत् पितरं पुत्रः स्वाध्यायकरणे रतम्। मोक्षधर्मेष्वकुशलं मोक्षधर्मविचक्षणः॥ पुत्र उवाच धीर: किंस्वित् तात कुर्यात् प्रजानन् क्षिप्रं ह्यायुर्धश्यते मानवानाम्। पितस्तथाऽऽख्याहि यथार्थयोगं ममानुपूर्व्या येन धर्मं चरेयम्॥ पितोवाच अधीत्य वेदान् ब्रह्मचर्येषु पुत्र पुत्रानिच्छेत्पावनाय पितृणाम्। अग्नीनाधाय विधिवच्चेश्यज्ञो वनं प्रविश्याथ मुनिळूभूषेत्॥ पुत्र उवाच एवमभ्याहते लोके सर्वतः परिवारिते। अमोघासु पतन्तीषु किं धीर इव भाषसे॥ पितोवाच कथमभ्याहतो लोकः केन वा परिवारितः। अमोघाः काः पतन्तीह किं नु भीषयसीवमाम्॥ पुत्र उवाच मृत्युनाभ्याहतो लोको जरया परिवारितः। अहोरात्राः पतन्तीमे तच्च कस्मान्न बुद्ध्यसे॥ यदाहमेव जानामि न मृत्युस्तिष्ठतीति ह। सोऽहं कथं प्रतीक्षिष्ये ज्ञानेनापिहितश्चरन्॥ रात्र्यां रात्र्यां व्यतीतायामायुरल्पतरं यदा। गाधोदके मत्स्य इव सुखं विन्त कस्तदा॥ पुष्पाणीव विचिन्वन्तमन्यत्र गतमानसम्। अनवाप्तेषु कामेषु मृत्युरभ्येति मानवम्॥ श्वः कार्यमद्य कुर्वीत पूर्वाह्ने चापराह्निकम्। न हि प्रतीक्षते मृत्युः कृतं वास्य न वा कृतम्॥ अद्यैव कुरु यच्छ्यो मा त्वां कालोऽत्यगान्महान्। को हि जानाति कस्याद्य मृत्युकालो भविष्यति॥ अकृतेष्वेव कार्येषु मृत्यु सम्प्रकर्षति। युवैव धर्मशीलः स्यादनिमित्तं हि जीवितम्॥ कृते धर्मे भवेत् प्रीतिरिह प्रेत्य च शाश्वती। मोहेन हि समाविष्टः पुत्रदारार्थमुद्यतः॥ कृत्वा कार्यमकार्यं वा तुष्टिमेषां प्रयच्छति। तं पुत्रपशुसम्पन्नं व्यासक्तमनसं नरम्॥ सुप्तं व्याघ्रं महौघो वा मृत्युरादाय गच्छति। संचिन्वानकमेवैनं कामानामवितृप्तकम्॥ वृकीवोरणमासाद्य मृत्युरादाय गच्छति। इदं कृतमिदं कार्यमिदमन्यत् कृताकृतम्॥ एवमीहासमायुक्तं मृत्युरादाय गच्छति। कृतानां फलमप्राप्तं कार्याणां कर्मसङ्गिनाम्॥ क्षेत्रापणगृहासक्तं मृत्युरादाय गच्छति। दुर्बलं बलवन्तं च प्राशं शूरं जडं कविम्॥ अप्राप्तसर्वकामार्थं मृत्युदाराय गच्छति। मृत्युर्जरा च व्याधिश्च दुःखं चानेककारणम्॥ असंत्याज्यं यदा मत्यैः किं स्वस्थ इव तिष्ठसि। जातमेवान्तकोऽन्ताय जरा चाभ्येति देहिनम्॥ अनुषत्तु द्वयेनैते भावाः स्थावरजङ्गमाः। न मृत्युसेनामायान्तीं जातु कश्चित् प्रबाधते॥ बलात् सत्यमृते त्वेकं सत्ये ह्यमृतमाश्रितम्। मृत्योर्वा गृहमेतद् वै या ग्रामे वसतो रतिः॥ देवानामेष वै गोष्ठो यदरण्यमिति श्रुतिः। निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः॥ छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः। यो न हिंसति सत्त्वानि मनोवाक्कर्महेतुभिः॥ जीवितार्थापनयनैः प्राणिभिर्न स बुद्ध्यते। तस्मात् सत्यव्रताचारः सत्यव्रतपरायणः॥ सत्यकाम: समो दान्तः सत्येनैवान्तकं जयेत्। अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम्॥ मृत्युरापद्यते मोहात् सत्येनापद्यतेऽमृतम्। सोऽहं सत्यमहिंसाथी कामक्रोधबहिष्कृतः॥ समाश्रित्य सुखं क्षेमी मृत्युं हास्याम्यमृत्युवत्। शान्तियज्ञरतो दान्तो ब्रह्मयज्ञे स्थितो मुनिः॥ वाङ्मनःकर्मयज्ञश्च भविष्याम्युदगायने। पशुयज्ञैः कथं हिंस्रैर्मादृशो यष्टुमर्हति॥ अन्तवद्भिरुत प्राज्ञः क्षत्रयज्ञैः पिशाचवत्। आत्मन्येवात्मना जात आत्मनिष्ठोऽप्रजः पितः॥ आत्मयज्ञो भविष्यामि न मां तारयति प्रजा। यस्य वाङ्मनसी स्यातां सम्यक् प्रणिहिते सदा॥ तपस्त्यागश्च योगश्च स तैः सर्वमवाप्नुयात्। नास्ति विद्यासमं चक्षुर्नास्ति विद्यासमं फलम्॥ नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम्॥ नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च। शीले स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः॥ किं ते धनैर्बान्धवैर्वापि किं ते कि ते दारैर्ब्राह्मण यो मरिष्यसि। आत्मानमन्विच्छ गुहां प्रविष्टं पितामहास्ते क्व गताः पिता च॥ भीष्म उवाच पुत्रस्यैतद् वचः श्रुत्वा तथाकाषीत् पिता नृप। तथा त्वमपि वर्तस्व सत्यधर्मपरायणः॥ भीष्म उवाच पुत्रस्यैतद् वचः श्रुत्वा तथाकाषीत् पिता नृप। तथा त्वमपि वर्तस्व सत्यधर्मपरायणः॥ युधिष्ठिर उवाच किंशीलः किंसमाचारः किंविद्यः किंपरायणः। प्राप्नोति ब्रह्मणं स्थानं यत् परं प्रकृतेर्बुवम्॥ भीष्म उवाच मोक्षधर्मेषु निरतो लघ्वाहारो जितेन्द्रियः। प्राप्नोति परमं स्थानं यत् परं प्रकृतेऽवम्॥ (अत्राप्युदाहरन्तीममितिहासं पुरातनम्। हारीतेन पुरा गीतं तं निबोध युधिष्ठिर।।) स्वगृहादभिनिस्सृत्य लाभेऽलाभे समो मुनिः। समुपोढेषु कामेषु निरपेक्षः परिव्रजेत्॥ । न चक्षुषा न मनसा न वाचा दूषयेदपि। न प्रत्यक्षं परोक्षं वां दूषणं व्याहरेत् क्वचित्॥ न हिंस्यात् सर्वभूतानि मैत्रायणगतश्चरेत्। नेदं जीवितमासाद्य वैरं कुर्वीत केनचित्॥ अतिवादांस्तितिक्षेत नाभिमन्येत कंचन। क्रोध्यमानः प्रियं ब्रूयादाक्रुष्टः कुशलं वदेत्॥ प्रदक्षिणं च सव्यं च ग्राममध्ये च नाचरेत्। भैक्षचर्यामनापन्नो न गच्छेत् पूर्वकेतितः॥ अवकीर्णः सुगुप्तश्च न वाचा ह्यप्रियं वदेत्। मृदुः स्यादप्रतिक्रूरो विस्रब्धः स्यादकत्थनः॥ विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने। अतीतपात्रसंचारे भिक्षां लिप्सेत वै मुनिः॥ प्राणयात्रिकमात्रः स्यान्मात्रालाभेष्वनादृतः। अलाभे न विहन्येत लाभश्चैनं न हर्षयेत्॥ लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः। अभिपूजितलाभं हि जुगुप्सेतैव तादृशः॥ न चान्नदोषान् निन्देत न गुणानभिपूजयेत्। शय्यासने विविक्ते च नित्यमेवाभिपूजयेत्॥ शून्यागारं वृक्षमूलमरण्यमथवा गुहाम्। अज्ञातचर्यां गत्वान्यां ततोऽन्यत्रैव संविशेत्॥ अनुरोधविरोधाभ्यां समः स्यादचलो ध्रुवः। सुकृतं दुष्कृतं चोभे नानुरुध्येत कर्मणा॥ नित्यतृप्तः सुसंतुष्टः प्रसन्नवदनेन्द्रियः। विभीर्जप्यपरो मौनी वैराग्यं समुपाश्रितः॥ अभ्यस्तं भौतिकं पश्यन् भूतानामागतिं गतिम्। नि:स्पृहः समदर्शी च पक्वापक्वेन वर्तयन्। आत्मना य: प्रशान्तात्मा लघ्वाहारो जितेन्द्रियः॥ वाचो वेगं मनसः क्रोधवेगं हिंसावेगमुदरोपस्थवेगम्। एतान् वेगान् विषहेद् वै तपस्वी निन्दा चास्य हृदयं नोपहन्यात्॥ मध्यस्थ एव तिष्ठेत प्रशंसानिन्दयोः समः। एतत् पवित्रं परमं परिव्राजक आश्रमे॥ महात्मा सर्वतो दान्तः सर्वत्रैवानपाश्रितः। अपूर्वचारकः सौम्यो अनिकेतः समाहितः॥ वानप्रस्थगृहस्थाभ्यां न संसृज्येत कर्हिचित्। अज्ञातलिप्सं लिप्सेत न चैनं हर्ष आविशेत्॥ विजानतां मोक्ष एष श्रमः स्यादविजानताम्। मोक्षयानमिदं कृत्स्नं विदुषां हारितोऽब्रवीत्॥ अभयं सर्वभूतेभ्यो दत्त्वा यः प्रव्रजेद् गृहात्। लोकास्तेजोमयास्तस्य तथाऽऽनन्त्याय कल्पते॥ उशनोवाच नमस्तस्मै भगवते देवाय प्रभविष्णवे। यस्य पृथ्वीतलं तात साकाशं बाहुग्रोचरः॥ मूर्धा यस्य त्वनन्तं च स्थानं दानवसत्तम। तस्याहं ते प्रवक्ष्यामि विष्णोर्माहात्म्यमुत्तमम्॥ तयोः संवदतोरेवमाजगाम महामुनिः। सनत्कुमारो धर्मात्मा संशयच्छेदनाय वै॥ स पूजितोऽसुरेन्द्रेण मुनिनोशनसा तथा। निषसादासने राजन् महार्हे मुनिपुङ्गवः॥ तमासीनं महाप्रज्ञमुशना वाक्यमब्रवीत्। ब्रूह्यस्मै दानवेन्द्राय विष्णोर्माहात्म्यमुत्तमम्॥ एष चाक्षिपते काले सनत्कुमारस्तु ततः श्रुत्वा प्राह वचोऽर्थवत्। विष्णोर्माहात्म्यसंयुक्तं दानवेन्द्राय धीमते॥ शृणु सर्वमिदं दैत्य विष्णोर्माहात्म्यमुत्तमम्। विष्णौ जगत् स्थितं सर्वमिति विद्धि परंतप॥ सृजत्येष महाबाहो भूतग्रामं चराचरम्। काले विसृजते पुनः॥ अस्मिन् गच्छन्ति विलयमस्माच्च प्रभवन्त्युत। नैष ज्ञानवता शक्यस्तपसा नैव चेज्यया। सम्प्राप्तुमिन्द्रियाणां तु संयमेनैव शक्यते॥ बाह्ये चाभ्यन्तरे चैव कर्मणोर्मनसि स्थितः। निर्मलीकुरुते बुद्ध्या सोऽमुत्रानन्त्यमश्नुते॥ यथा हिरण्यकर्ता वै रूप्यमग्नौ विशोधयेत्। बहुशोऽतिप्रयत्नेन महताऽऽत्मकृतेन ह॥ तद्वज्जातिशतैर्जीवः शुद्ध्यतेऽनेन कर्मणा। यत्नेन महता चैवाप्येकजातौ विशुद्ध्यते॥ लीलयाल्पं यथा गात्रात् प्रमृज्यादात्मनो रजः। बहुयत्नेन महता दोषनिर्हरणं तथा॥ यथा चाल्पेन माल्येन वासितं तिलसर्षपम्। न मुञ्चति स्वकं गन्धं तद्वत् सूक्ष्मस्य दर्शनम्॥ तदेव बहुभिर्माल्यैर्वास्यमानं पुनः पुनः। विमुञ्चति स्वकं गन्धं माल्यगन्धे च तिष्ठति॥ एवं जातिशतैर्युक्तो गुणैरेव प्रसङ्गियु। बुद्ध्या निवर्तते दोषो यत्नेनाभ्यासजेन ह॥ कर्मणा स्वनुरक्तानि विरक्तानि च दानव। यथा कर्मविशेषांश्च प्राप्नुवन्ति तथा शृणु।॥ यथावत् सम्प्रवर्तन्ते यस्मिस्तिष्ठन्ति वा विभो। तत् तेऽनुपूर्व्या व्याख्यास्ये तदिहैकमनाः शृणु॥ अनादिनिधनः श्रीमान् हरिर्नारायणः प्रभुः। देवः सृजति भूतानि स्थावराणि चराणि च॥ स वै सर्वेषु भूतेषु क्षरश्चाक्षर एव च। एकादशविकारात्मा जगत् पिबति रश्मिभिः॥ पादौ तस्य महीं विद्धि मूर्धानं दिवमित्युत। बाहवस्तु दिशो दैत्य श्रोत्रमाकाशमेव च॥ तस्य तेजोमयः सूर्यो मनश्चन्द्रमसि स्थितम्। बुद्धिर्ज्ञानगता नित्यं रसस्त्वप्सु प्रतिष्ठितः॥ भ्रुवोरन्तरास्तस्य ग्रहा दानवसत्तम। नक्षत्रचक्रं नेत्राभ्यां पादयोर्भूश्च दानव॥ रजस्तमश्च सत्त्वं च विद्धि नारायणात्मकम्। सोऽऽश्रमाणां फलं तात कर्मणस्तत् फलं विदुः॥ अकर्मणः फलं चैव स एव परमव्ययः। छन्दांसि यस्य रोमाणि ह्यक्षरं च सरस्वती॥ बह्वाश्रयो बहुमुखो धर्मो हृदि समाश्रितः। स ब्रह्म परमो धर्मस्तपश्च सदसच्च सः॥ श्रुतिशास्त्रग्रहोपेतः षोडशविक् क्रतुश्च सः। पितामहश्च विष्णुश्च सोऽश्विनौ स पुरंदरः। मित्रोऽथ वरुणश्चैव यमोऽथ धनदस्तथा॥ ते पृथग्दर्शनस्तस्य संविदन्ति तथैकताम्। एकस्य विद्धि देवस्य सर्वं जगदिदं वशे॥ नानाभूतस्य दैत्येन्द्र तस्यैकत्वं वदत्ययम्। जन्तुः पश्यति विज्ञानात् ततो ब्रह्म प्रकाशते॥ स्तिष्ठन्ति जीवाः प्रचरन्ति चान्ये। प्रजाविसर्गस्य पारिमाण्यं वापीसहस्राणि बहूनि दैत्य॥ वाप्यः पुनर्योजनविस्तृतास्ताः क्रोशं च गम्भीरतयावगाढाः। आयामतः पञ्चशताश्च सर्वाः प्रत्येकशो योजनतः प्रवृद्धाः॥ वाप्या जलं क्षिप्यति वालकोट्या त्वन्हा सकृच्चाप्यथ न द्वितीयम्। तासां क्षये विद्धि परं विसर्ग संहारमेकं च तथा प्रजानाम्॥ षड् जीववर्णाः परमं प्रमाणं कृष्णो धूम्रो नीलमथास्य मध्यम्। राक्तं पुन: सह्यतरं सुखं तु हारिद्रवर्णं सुसुखं च शुक्लम्॥ परं तु शुक्लं विमलं विशोकं गतक्लमं सिद्ध्यति दानवेन्द्र। गत्वा तु योनिप्रभवाणि दैत्य सहस्रशः सिद्धिमुपैति जीवः॥ गतिं च यां दर्शनमाह देवो गत्वा शुभं दर्शनमेव चापि। गतिः पुनर्वर्णकृता प्रजानां वर्णस्तथा कालकृतोऽसुरेन्द्र।। शतं सहस्राणि चतुर्दशेह परागतिर्जीवगणस्य दैत्य आरोहणं तत्कृतमेव विद्धि स्थानं तथा निःसरणं च तेषाम्॥ कृष्णस्य वर्णस्य गतिर्निकृष्टा स सज्जते नरके पच्यमानः। स्थानं तथा दुर्गतिभिस्तु तस्य प्रजाविसर्गान् सुबहून् वदन्ति॥ शतं सहस्राणि ततश्चरित्वा प्राप्नोति वर्णं हरितं तु पश्चात्। स चैव तस्मिन् निवसत्यनीशो युगक्षये तपसा संवृतात्मा॥ स्तमो व्यपोहन् घटते स्वबुद्ध्या। स लोहितं वर्णमुपैति नीलान् मनुष्यलोके परिवर्तते च॥ स तत्र संहारविसर्गमेकं स्वधर्मजैर्बन्धनैः क्लिश्यमानः। ततः स हारिद्रमुपैति वर्ण संहारविक्षेपशते व्यतीते॥ हारिद्रवर्णस्तु प्रजाविसर्गात् सहस्रशस्तिष्ठति संचरन् वै। अविप्रमुक्तो निरये च दैत्य ततः सहस्राणि दशापराणि॥ गतीः सहस्राणि च पञ्च तस्य चत्वारि संवर्तकृतानि चैवा विमुक्तमेनं निरयाच्च विद्धि सर्वेषु चान्येषु च सम्भवेषु॥ स देवलोके विहरत्यभीक्ष्णं ततश्च्युतो मानुषतामुपैति। संहारविक्षेपशतानि चाष्टौ मर्येषु तिष्ठत्यमृतत्वमेति।।४३। सोऽस्मादथ भ्रश्यति कालयोगात् कृष्णे तले तिष्ठति सर्वकृष्ट। स्तत्तेऽभिधास्याम्यसुरप्रवीर॥ दैवानि स व्यूहशतानि सप्त रक्तो हरिद्रोऽथ तथैव शुक्लः। मष्टावरानच॑तमान्स लोकान्॥ अष्टौ च षष्टिं च शतानि चैव मनोनिरुद्धानि महाद्युतीनाम्। शुक्लस्य वर्णस्य परा गतिर्या त्रीण्येव रुद्धानि महानुभाव॥ संहारविक्षेपमनिष्टमेकं चत्वारि चान्यानि वसत्यनीशः। षष्ठस्य वर्णस्य परा गतिर्या सिद्धावसिद्धस्य गतक्लमस्य॥ सप्तोत्तरं तत्र वसत्यनीशः संहारविक्षेपशतं सशेषम्। तस्मादुपावृत्य मनुष्यलोके ततो महान् मानुषतामुपैति॥ तस्मादुपावृत्य ततः क्रमेण सोऽग्रेण संतिष्ठति भूतसर्गम्। स सप्तकृत्वश्च परैति लोकान् संहारविक्षेपकृतप्रभावः॥ सप्तैव संहारमुपप्लवानि सम्भाव्य संतिष्ठति जीवलोके। ततोऽव्ययं स्थानमनन्तमेति देवस्य विष्णोरथ ब्रह्मणश्च। शेषस्य चैवाथ नरस्य चैव देवस्य विष्णोः परमस्य चैव॥ संहारकाले परिदग्धकाया ब्रह्माणमायान्ति सदा प्रजा हि। चेष्टात्मनो देवगणाश्च सर्वे ये ब्रह्मलोकेअपराः स्म तेऽपि॥ प्रजाविसर्गं तु सशेषकाले स्थानानि स्वान्येव सरन्ति जीवाः। निःशेषतस्तत्पदं यान्ति चान्ते सर्वे देवा ये सदृशा मनुष्याः॥ ये तु च्युताः सिद्धलोकात् क्रमेण तेषां गतिं यान्ति तथाऽऽनुपूर्व्या। जीवाः परे तद्बलतुल्यरूपाः स्वं स्वं विधिं यान्ति विपर्ययेण॥ स यावदेवास्ति सशेषभुक् ते प्रजाश्च देव्यौ च तथैव शुक्ले। तावत् तदङ्गेषु विशुद्धभावः संमम्य पञ्चेन्द्रियरूपमेतत्॥ शुद्धां गतिं तां परमां परैति शुद्धेन नित्यं मनसा विचिन्वन्। ततोऽव्ययं स्थानमुपैति ब्रह्म दुष्प्रापमभ्येति स शाश्वतं वै॥ इत्येतदाख्यातमहीनसत्त्व नारायणस्येह बलं मया ते॥ वृत्र उवाच एवं गते मे न विषादोऽस्ति कश्चित् सम्यक् च पश्यामि वच स्तथैतत्। श्रुत्वा तु ते वाचमदीनसत्त्व विकल्मषोऽस्म्यद्य तथा विपाप्मा॥ प्रवृत्तमेतद् भगवन् महर्षे महाद्युतेश्चक्रमनन्तवीर्यम्। विष्णोरनन्तस्य सनातनं तत् स्थानं सर्गा यत्र सर्वे प्रवृत्ताः। स वै महात्मा पुरुषोत्तमो वै तस्मिन् जगत् सर्वमिदं प्रतिष्ठितम्॥ भीष्म उवाच एवमुक्त्वा स कौन्तेय वृत्रः प्राणान वासृजत्। योजयित्वा तथाऽऽत्मानं परं स्थानमवाप्तवान्॥ युधिष्ठिर उवाच अयं स भगवान् देवः पितामह जनार्दनः। सनत्कुमारो वृत्राय यत्तदाख्यातवान् पुरा॥ भीष्म उवाच मूलस्थायी महादेवो भगवान् स्वेन तेजसा। तत्स्थः सृजति तान् भावान् नानारूपान् महामनाः॥ तुरीयांशेन तस्येमं विद्धि केशवमच्युतम्। तुरीयार्धेन लोकांस्त्रीन् भावयत्येव बुद्धिमान्॥ अर्वाक् स्थितस्तु यः स्थायी कल्पान्ते परिवर्तते। स शेते भगवानप्सु योऽसावतिबलः प्रभुः। तान् विधाता प्रसन्नात्मा लोकांश्चरति शाश्वतान्॥ सर्वाण्यशून्यानि करोत्यनन्तः सनातनः संचरते च लोकान्। स चानिरुद्धः सृजते महात्मा तत्स्थं जगत् सर्वमिदं विचित्रम्॥ युधिष्ठिर उवाच वृत्रेण परमार्थज्ञ दृष्टा मन्येऽऽत्मनो गतिः। शुभा तस्मात् स सुखितो न शोचति पितामह॥ शुक्ल: शुक्लाभिजातीय: साध्यो नावर्ततेऽनघ। तिर्यग्गतेश्च निर्मुक्तो निरयाच्च पितामह॥ हारिद्रवर्णे रक्ते वा वर्तमानस्तु पार्थिव। तिर्यगेवानुपश्येत कर्मभिस्तामसैर्वृतः॥ वयं तु भृशमापन्ना रक्ता दुःखसुखेऽसुखे। कां गतिं प्रतिपत्स्यामो नीलां कृष्णाधमामथ॥ भीष्म उवाच शुद्धाभिजनसम्पन्नाः पाण्डवाः संशितव्रताः। विहृत्य देवलोकेषु पुनर्मानुषमेष्यथ॥ प्रजाविसर्गं च सुखेन काले प्रत्येत्य देवेषु सुखानि भुक्त्वा। सुखेन संयास्यथ सिद्धसंख्यां मा वो भयं भूद् विमलाः स्थ सर्वे॥ भीष्म उवाच शरीरे तानि मे शृणु।॥ वृत्रस्य तु महाराज ज्वराविष्टस्य सर्वशः। अभवन् यानि लिङ्गानि ज्वलितास्योऽभवद् घोरो वैवयं चागमत् परम्। गात्रकम्पश्च सुमहाश्वासश्चाप्यभवन्महान्॥ रोमहर्षश्च तीव्रोऽभूनिःश्वासश्च महान् नृप। शिवा चाशिवसंकाशा तस्य वक्त्रात् सुदारुणा॥ निष्पपात महाघोरा स्मृतिः सा तस्य भारत। उल्काश्च ज्वलितास्तस्य दीप्ताः पार्श्वे प्रपेदिरे॥ गृध्राः कङ्का बलाकाश्च वाचोऽमुञ्चन् सुदारुणाः। वृत्रस्योपरि संसृष्टाश्चक्रवत् परिबभ्रमुः॥ ततस्तं रथमास्थाय देवाप्यायित आहवे। वज्रोद्यतकरः शक्रस्तं दैत्यं समवैक्षत॥ आमनुषमथो नादं स मुमोच महासुरः। व्यजृम्भच्चैव राजेन्द्र तीव्रज्वरसमन्वितः॥ अथास्य जम्भतः शक्रस्ततो वज्रमवासृजत्। स वज्रः सुमहातेजा: कालाग्निसदृशोपमः॥ क्षिप्रमेव महाकायं वृत्रं दैत्यमपातयत्। ततो नादः समभवत् पुनरेव समन्ततः॥ वृत्रं विनिहतं दृष्ट्वा देवानां भरतर्षभः। वृत्रं तु हत्वा मघवा दानवारिर्महायशाः॥ वज्रेण विष्णुयुक्तेन दिवमेव समाविशत्। अथ वृत्रस्य कौरव्य शरीरादभिनिःसृता॥ ब्रह्मवध्या महाघोरा रौद्रा लोकभयावहा। करालदशना भीमा विकृता कृष्णपिङ्गला॥ प्रकीर्णमूर्धजा चैव घोरनेत्रा च भारता कपालमालिनी चैव कृत्येव भरतर्षभ॥ रुधिरार्द्रा च धर्मज्ञ चीरवल्कलवासिनी। साभिनिष्क्रम्य राजेन्द्र तादृगूपा भयावहा॥ वज्रिणं मृगमायास तदा भरतसत्तम। कस्यचित् त्वथ कालस्य वृत्रहा कुरुनन्दन॥ स्वर्गायाभिमुखः प्रायाल्लोकानां हितकाम्यया। सा विनिः :सरमाणं तु दृष्ट्वा शक्रं महौजसम्॥ जग्राह वध्या देवेन्द्रं सुलग्ना चाभवत् तदा। स हि तस्मिन् समुत्पन्ने ब्रह्मवध्याकृते भय॥ नलिन्या बिसमध्यस्थ उवासाब्दगणान् बहून्। अनुसृत्य तु यत्नात् स तथा वै ब्रह्महत्यया॥ तदा गृहीतः कौरव्य निस्तेजाः समपद्यत। तस्या व्यपोहने शक्रः परं यत्नं चकार ह॥ न चाशकत् तां देवेन्द्रो ब्रह्मवध्यां व्यपोहितुम्। गृहीत एव तु तया देवेन्द्रो भरतर्षभ।॥ पितामहमुपागम्य शिरसा प्रत्यपूजयत्। ज्ञात्वा गृहीतं शक्रं स द्विजप्रवरवध्यया।॥ ब्रह्मा स चिन्तयामास तदा भरतसत्तम। तामुवाच महाबाहो ब्रह्मवध्यां पितामहः॥ स्वरेण मधुरेणाथ सान्त्वयन्निव भारत। मुच्यतां विदशेन्द्रोऽयं मत्प्रियं कुरु भाविनि॥ ब्रूहि किं ते करोम्यद्य कामं किं त्वमिहेच्छसि॥ ब्रह्मवध्योवाच त्रिलोकपूजिते देवे प्रीते त्रैलोक्यकर्तरि। कृतमेव हि मन्यामि निवासं तु विधत्स्व मे॥ त्वया कृतेयं मर्यादा लोकसंरक्षणार्थिना। स्थापना वै सुमहती त्वया देव प्रवर्तिता॥ प्रीते तु त्वयि धर्मज्ञ सर्वलेकेश्वर प्रभो। शक्रादपगमिष्यामि निवासं संविधत्स्व मे॥ भीष्म उवाच तथेति तां प्राह तदा ब्रह्मवध्यां पितामहः। उपायतः स शक्रस्य ब्रह्मवध्यां व्यपोहत॥ ततः स्वयम्भुवा ध्यातस्तत्र वह्निर्महात्मना। ब्रह्माणमुपसंगम्य ततो वचनमब्रवीत्॥ प्राप्तोऽस्मि भगवन् देव त्वत्सकाशमनिन्दित। ततः स्वयम्भुवा ध्यातस्तत्र वह्निर्महात्मना। यत् कर्तव्यं मया देव तद् भवान् वक्तुमर्हसि॥ ब्रह्मोवाच बहुधा विभजिष्यामि ब्रह्मवध्यामिमामहम्। शक्रस्याघविमोक्षार्थं चतुर्भागं प्रतीच्छ वै॥ अग्निरुवाच मम मोक्षस्य कोऽन्तो वै ब्रह्मन् ध्यायस्व वै प्रभो। एतदिच्छामि विज्ञातुं तत्त्वतो लोकपूजित॥ ब्रह्मोवाच यस्त्वांज्वलन्तमासाद्य स्वयं वै मानवः क्वचित्। बीजौषधिरसैर्वते न यक्ष्यति तमोवृतः॥ तमेषा यास्यति क्षिप्रं तत्रैव च निवत्स्यति। ब्रह्मवध्या हव्यवाह व्येतु ते मानसो ज्वरः॥ इत्युक्तः प्रतिजग्राह तद् वचो हव्यकव्यभुक्। पितामहस्य भगवांस्तथा च तदभूत् प्रभो॥ ततो वृक्षौषधितृणं समाहूय पितामहः। इममर्थं महाराज वक्तुं समुपचक्रमे॥ ततो वृक्षौषधितृणं तथैवोक्तं यथातथम्। व्यथितं वह्निवद् राजन् ब्रह्माणमिदमब्रवीत्॥ अस्माकं ब्रह्मवध्यायाः कोऽन्तो लोकपितामह। दैवेनाभिहतानस्मान् न पुनर्हन्तुमर्हसि॥ वयमग्नि तथा शीतं वर्षं च पवनेरितम्। सहामः सततं देव तथा च्छेदनभेदने।॥ ब्रह्मवध्यामिमामद्य भवतः शासनाद् वयम्। ग्रहीष्यामस्त्रिलोकेश मोक्षं चिन्तयतां भवान्॥ ब्रह्मोवाच पर्वकाले तु सम्प्राप्ते यो वै च्छेदनभेदनम्। करिष्यति नरो मोहात् तमेषानुगमिष्यति॥ भीष्म उवाच ततो वृक्षौषधितृणमेवमुक्तं महात्मना। ब्रह्माणमभिसम्पूज्य जगामाशु यथागतम्॥ आहूयाप्सरसो देवस्ततो लोकपितामहः। वाचा मधुरया प्राह सान्त्वयन्निव भारत॥ इयमिन्द्रादनुप्राप्ता ब्रह्मवध्या वराङ्गनाः। चतुर्थमस्या भागांशं मयोक्ताः सम्प्रतीच्छत॥ अप्सरस ऊचुः ग्रहणे कृतबुद्धीनां देवेश तव शासनात्। मोक्षं समयतोऽस्माकं चिन्तयस्व पितामह॥ ब्रह्मोवाच रजस्वलासु नारीषु यो वै मैथुनमाचरेत्। तमेषा यास्यति क्षिप्रं व्येतु वो मानसो ज्वरः॥ भीष्म उवाच तथेति हृष्टमनस इत्युक्त्वाप्सरसां गणाः। स्वानि स्थानानि सम्प्राप्य रेमिरे भरतर्षभ॥ ततस्त्रिलोककृद् देवः पुनरेव महातपाः। अप:संचिन्तयामास ध्यातास्ताश्चाप्यथागमन्॥ तास्तु सर्वाः समागम्य ब्रह्माणममितौजसम्। इदमूचुर्वचो राजन् प्रणिपत्य पितामहम्॥ इमाः स्म देव सम्प्राप्तास्त्वत्सकाशमरिंदम्। शासनात् तव लोकेश समाज्ञापय नः प्रभो॥ ब्रह्मोवाच इयं वृत्रादनुप्राप्ता पुरुहूतं महाभया। ब्रह्मवध्या चतुर्थांशमस्या यूयं प्रतीच्छत॥ आप ऊचुः एवं भवतु लोकेश यथा वदसि नः प्रभो। मोक्षं समयतोऽस्माकं संचिन्तयितुमर्हसि॥ त्वं हि देवेश सर्वस्य जगतः परमा गतिः। कोऽन्यः प्रसादो हि भवेद् यन्नः कृच्छ्रात् समुद्धरेत्।।५३ ब्रह्मोवाच अल्पा इति मतिं कृत्वा यो नरो बुद्धिमोहितः। श्लेष्ममूत्रपुरीषाणि युष्मासु प्रतिमोक्ष्यति।॥ तमियं यास्यति क्षिप्रं तत्रैव च निवत्स्यति। तथा वो भविता मोक्ष इति सत्यं ब्रवीमि वः॥ ततो विमुच्य देवेन्द्रं ब्रह्मवध्या युधिष्ठिर। यथा विसृष्टं तं वासमगमद्देवशासनात्॥ एवं शक्रेण संप्राप्ता ब्रह्मवध्या जनाधिप। पितामहमनुज्ञाप्य सोऽश्वमेधमकल्पयत्॥ श्रूयते च महाराज संप्राप्ता वासवेन वै। ब्रह्मवध्या ततः शुद्धिं हयमेधेन लब्धवान्॥ समवाप्य श्रियं देवो हत्वारीश्च सहस्रशः। प्रहर्षमतुलं लेभे वासवः पृथिवीपते॥ वृत्रस्य रुधिराच्चैव शिखण्डाः पार्थ जज्ञिरे। द्विजातिभिरभक्ष्यास्ते दीक्षितैश्च तपोधनैः॥ सर्वावस्थं त्वमप्येषां द्विजातीनां प्रियं कुरु। इमे हि भूतले देवाः प्रथिताः कुरुनन्दन॥ एवं शक्रेण कौरव्य बुद्धिसौक्ष्म्यान्महासुरः। उपायपूर्वं निहतो वृत्रो ह्यमिततेजसा॥ एवं त्वमपि कौन्तेय पृथिव्यामपराजितः। भविष्यसि यथा देवः शतक्रतुरमित्रहा॥ ये तु शक्रकथां दिव्यामिमां पर्वसु पर्वसु। विप्रमध्ये वदिष्यन्ति न ते प्राप्स्यन्ति किल्बिषम्॥ इत्येतद् वृत्रमाश्रित्य शक्रस्यात्यद्भुतं महत्। कथितं कर्म ते तात किं भूयः श्रोतुमिच्छसि॥ युधिष्ठिर उवाच पितामह महाप्राज्ञ सर्वशास्त्रविशारद। अस्मिन् वृत्रवधे देव विवक्षा मम जायते॥ ज्वरेण मोहितो वृत्रः कथितस्ते जनाधिप। निहतो वासवेनेह वज्रेणेति तदानघ।।२। कथमेष महाप्राज्ञ ज्वरः प्रादुर्बभौ कुतः। ज्वरोत्पत्तिं निपुणतः श्रोतुमिच्छाम्यहं प्रभो॥ भीष्म उवाच शृणु राजन् ज्वरस्येमं सम्भवं लोकविश्रुतम्। विस्तरं चास्य वक्ष्यामि यादृशश्चैव भारत॥ पुरा मेरोमहाराज शृङ्गं त्रैलोक्यपूजितम्। ज्योतिष्कं नाम सावित्रं सर्वरत्नविभूषितम्॥ अप्रमेयमनाधृष्यं सर्वलोकेषु भारत। तत्र देवो गिरितटे हेमधातुविभूषिते॥ पर्यङ्क इव विभ्राजन्नुपविष्टो बभूव ह। शैलराजसुता चास्य नित्यं पार्वे स्थिता बभौ॥ तथा देवा महात्मानो वसवश्वामितौजसः। तथैव च महात्मानावश्विनौ भिषजां वरौ। तथा वैश्रवणो राजा गुह्यकैरभिसंवृतः॥ यक्षाणामीश्वरः श्रीमान् कैलासनिलयः प्रभुः। उपासन्त महात्मानमुशना च महामुनिः॥ सनत्कुमारप्रमुखास्तथैव च महर्षयः। अङ्गिरःप्रमुखाश्चैव तथा देवर्षयोऽपरे॥ विश्वावसुश्च गन्धर्वस्तथा नारदपर्वतौ। अप्सरोगणसंघाश्च समाजग्मुरनेकशः॥ ववौ सुखः शिवो वायु नागन्धवहः शुचिः। सर्वर्तुकुसुमोपेताः पुष्पवन्तो द्रुमास्तथा॥ तथा विद्याधराश्चैव सिद्धाश्चैव तपोधनाः। महादेवं पशुपति पर्युपासन्त भारत॥ भूतानि च महाराज नानारूपधराण्यथ। राक्षसाश्च महारौद्राः पिशाचाश्च महाबलाः॥ बहुरूपधरा हृष्टा नानाप्रहरणोद्यताः। देवस्यानुचरास्तत्र तस्थिरे चानलोपमाः॥ नन्दी च भगवांस्तत्र देवस्यानुमते स्थितः। प्रगृह्य ज्वलितं शूलं दीप्यमानः स्वतेजसा॥ गङ्गा च सरितां श्रेष्ठा सर्वतीर्थजलोद्भवा। पर्युपासत तं देवं रूपिणी कुरुनन्दन॥ स एवं भगवांस्तत्र पूज्यमानः सुरर्षिभिः। देवैश्च सुमहातेजा महादेवो व्यतिष्ठत॥ कस्यचित् त्वथ कालस्य दक्षो नाम प्रजापतिः। पूर्वोक्तेन विधानेन यक्ष्यमाणोऽन्वपद्यत॥ ततस्तस्य मखं देवाः सर्वे शक्रपुरोगमाः। गमनाय समागम्य बुद्धिमापेदिरे तदा॥ ते विमानैर्महात्मानो ज्वलनार्कसमप्रभैः। देवस्यानुमतेऽगच्छन् गङ्गाद्वारमिति श्रुतिः॥ प्रस्थिता देवता दृष्ट्वा शैलराजसुता तदा। उवाच वचनं साध्वी देवं पशुपति पतिम्॥ भगवन् क्वनु यान्त्येते देवाः शक्रपुरोगमाः। ब्रूहि तत्त्वेन तत्त्वज्ञ संशयो मे महानयम्॥ महेश्वर उवाच दक्षो नाम महाभागे प्रजानां पतिरुत्तमः। हयमेधेन यजते तत्र यान्ति दिवौकसः॥ उमोवाच यज्ञमेतं महादेव किमर्थं नाधिगच्छसि। केन वा प्रतिषेधेन गमनं ते न विद्यते॥ महेश्वर उवाच सुरैरेव महाभागे पूर्वमेतदनुष्ठितम्। यज्ञेषु सर्वेषु मम न भाग उपकल्पितः॥ पूर्वोपायोपपन्नेन मार्गेण वरवर्णिनि। न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धर्मतः॥ उमोवाच भगवन् सर्वभूतेषु प्रभावाभ्यधिको गुणैः। अजय्यश्चाप्यधृष्यश्च तेजसा यशसा श्रिया॥ अनेन ते महाभाग प्रतिषेधेन भागतः। अतीव दुःखमुत्पन्नं वेपथुश्च ममानघ॥ भीष्म उवाच एवमुक्त्वा तु सा देवी तदा पशुपति पतिम्। तूष्णीभूताभवद् राजन् दह्यमानेन चेतसा॥ अथ देव्या मतं ज्ञात्वा हृद्गतं यच्चिकीर्षितम्। स समाज्ञापयामास तिष्ठ त्वमिति नन्दिनम्॥ ततो योगबलं कृत्वा सर्वयोगेश्वरेश्वरः। तं यज्ञं स महातेजा भीमैरनुचरैस्तदा।॥ सहसा घातयामास देवदेवः पिनाकधूक्। केचिन्नादानमुञ्चन्त केचिद्धासांश्च चक्रिरे॥ रुधिरेणापरे राजंस्तत्राग्नि समवाकिरन्। केचिद् यूपान् समुत्पाट्य बभ्रमुर्विकृताननाः॥ आस्यैरन्ये चाग्रसन्त तथैव परिचारकान्। ततः स यज्ञो नृपते वध्यमानः समन्ततः॥ आस्थाय मृगरूपं वै खमेवाभ्यगमत् तदा। तं तु यज्ञं तथारूपं गच्छन्तमुपलभ्य सः॥ धनुरादाय बाणेन तदान्वसरत प्रभुः। ततस्तस्य सुरेशस्य क्रोधादमिततेजसः॥ ललाटात् प्रसृतो घोरः स्वेदबिन्दुर्बभूव ह। तस्मिन् पतितमात्रे च स्वेदबिन्दौ तदा भुवि॥ प्रादुर्बभूव सुमहानग्निः कालानलोपमः। तत्र चाजायत तदा पुरुषः पुरुषर्षभ॥ ह्रस्वोऽतिमात्रं रक्ताक्षो हरिश्मश्रुर्विभीषणः। उर्ध्व केशोऽतिरोमाङ्ग श्येनोलूकस्तथैव च॥ करालकृष्णवर्णश्च रक्तवासास्तथैव च। तं यज्ञं सुमहासत्त्वोऽदहत् कक्षमिवानलः॥ व्यचरत् सर्वतो देवान् प्राद्रवत् स ऋषींस्तथा। देवाश्चाप्याद्रवन् सर्वे ततो भीता दिशो दश॥ तेन तस्मिन् विचरता पुरुषेण विशाम्पते। पृथिवी ह्यचलद् राजन्नतीव भरतर्षभ।॥ हाहाभूतं जगत् सर्वमुपलक्ष्य तदा प्रभुः। पितामहो महादेवं दर्शयन् प्रत्यभाषत॥ ब्रह्मोवाच भवतोऽपि सुराः सर्वे भागं दास्यन्ति वै प्रभो। क्रियतां प्रतिसंहारः सर्वदेवेश्वर त्वया॥ इमा हि देवताः सर्वा ऋषयश्च परंतप। तव क्रोधान्महादेव न शान्तिमुपलेभिरे॥ यश्चैष पुरुषो जात: स्वेदात् ते विबुधोत्तम। ज्वरो नामैष धर्मज्ञ लोकेषु प्रचरिष्यति॥ एकीभूतस्य न त्वस्य धारणे तेजसः प्रभो। समर्था सकला पृथ्वी बहुधा सृज्यतामयम्॥ इत्युक्तो ब्रह्मणा देवो भागे चापि प्रकल्पिते। भगवन्तं तथेत्याह ब्रह्माणममितौजसम्॥ परां च प्रीतिमगमदुत्स्मयंश्च पिनाकधृक्। अवाप च तदा भागं यथोक्तं ब्रह्मणा भवः॥ ज्वरं च सर्वधर्मज्ञो बहुधा व्यसृजत् तदा। शान्त्यर्थं सर्वभूतानां शृणु तच्चापि पुत्रक॥ शीर्षाभितापो नागानां पर्वतानां शिलाजतु। अपां तु नीलिका विद्यान्निर्मोकं भुजगेषु च॥ खोरकः सौरभेयाणामूषरं पृथिवीतले। पशूनामपि धर्मज्ञ दृष्टिप्रत्यवरोधनम्॥ रन्ध्रागतमथाश्वानां शिखो दश्च बर्हिणाम्। नेत्ररोगः कोकिलस्य ज्वरः प्रोक्तो महात्मना॥ अवीनां पित्तभेदश्च सर्वेषामिति नः श्रुतम्। शुकानामपि सर्वेषां हिक्किका प्रोच्यते ज्वरः॥ शार्दूलेष्वथ धर्मज्ञ श्रमो ज्वर इहोच्यते। मानुषेषु तु धर्मज्ञ ज्वरो नामैष भारत॥ मरणे जन्मनि तथा मध्ये चाविशते नरम्। एतन्माहेश्वरं तेजो ज्वरो नाम सुदारुणः॥ नमस्यश्चैव मान्यश्च सर्वप्राणिभिरीश्वरः। अनेन हि समाविष्टो वृत्रो धर्मभृतां वरः॥ व्यजृभत ततः शक्रस्तस्मै वज्रमवासृजत्। प्रविश्य वज्रं वृत्रं च दारयामास भारत॥ दारितश्च स वज्रेण महायोगी महासुरः। जगाम परमं स्थानं विष्णोरमिततेजसः॥ विष्णुभक्त्या हि तेनेदं जगद् व्याप्तमभूत् तदा। तस्माच्च निहतो युद्धे विष्णोः स्थानमवाप्तवान्॥ इत्येष वृत्रमाश्रित्य ज्वरस्य महतो मया। विस्तरः कथितः पुत्र किमन्यत् प्रब्रवीमि ते॥ इमां ज्वरोत्पत्तिमदीनमानसः पठेत् सदा यः सुसमाहितो नरः। विमुक्तरोगः स सुखी मुदा युतो लभेत कामान् स यथामनीषितान्॥ युधिष्ठिर उवाच अध्यात्मं नाम यदिदं पुरुषस्येह विद्यते। यदध्यात्मं यतश्चैव तन्मे ब्रूहि पितामह॥ भीष्म उवाच सर्वज्ञानं परं बुद्ध्या यन्मां त्वमनुपृच्छसि। तद् व्याख्यास्यामि ते तात तस्य व्याख्यामिमां शृणु।।२ पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्। महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ॥ स तेषां गुणसंघातः शरीरं भरतर्षभ। सततं हि प्रलीयन्ते गुणास्ते प्रभवन्ति च॥ ततः सृष्टानि भूतानि तानि यान्ति पुनः पुनः। महाभूतानि भूतेभ्य ऊर्मयः सागरे यथा॥ प्रसारयित्वेहाङ्गानि कूर्मः संहरते यथा। तद्वद् भूतानि भूतानामल्पीयांसि स्थवीयसाम्॥ आकाशात् खलु यो घोषः संघातस्तु महीगुणः। वायोः प्राणो रसस्त्वद्भ्यो रूपं तेजस उच्यते॥ इत्येतन्मयमेवैतत् सर्वं स्थावरजङ्गमम्। प्रलये च तमभ्येति तस्मादुद्दिश्यते पुनः॥ महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत्। विषयान् कल्पयामास यस्मिन् यदनुपश्यति॥ शब्दश्रोत्रे तथा खानि त्रयमाकाशयोनिजम्। रसः स्नेहश्च जिह्वा च अपामेते गुणाः स्मृताः॥ रूपं चक्षुर्विपाश्च त्रिविधं ज्योतिरुच्यते। प्रेयं घ्राणं शरीरं च एते भूमिगुणाः स्मृताः॥ प्राणः स्पर्शश्च चेष्टा च वायोरेते गुणाः स्मृताः। इति सर्वगुणा राजन् व्याख्याताः पाञ्चभौतिकाः॥ सत्त्वं रजस्तमः कालः कर्म बुद्धिश्च भारत। मनःषष्ठानि चैतेषु ईश्वरः समकल्पयत्॥ यदूर्ध्वं पादतलयोरवाङ् मूर्ध्नश्च पश्यसि। एतस्मिन्नेव कृत्स्नेयं वर्तते बुद्धिरन्तरे॥ इन्द्रियाणि नरे पञ्च षष्ठं तु मन उच्यते। सप्तमी बुद्धिमेवाहुः क्षेत्रज्ञः पुनरष्टमः॥ इन्द्रियाणि च कर्ता च विचेतव्यानि भागशः। तमः सत्त्वं रजश्चैव तेऽपि भावास्तदाश्रयाः॥ चक्षुरालोचनायैव संशयं कुरुते मनः। बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते। तमः सत्त्वं रजति काल: कर्म च भारत॥ गुणैर्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाणि च। मनः षष्ठानि सर्वाणि बुद्ध्यभावे कुतो गणाः॥ येन पश्यति तच्चक्षुः शृण्वती श्रोत्रमुच्यते। जिघ्रती भवति घ्राणं रसती रसना रसान्॥ स्पर्शनं स्पर्शती स्पर्शान् बुद्धिर्विक्रियतेऽसकृत्। यदा प्रार्थयते किंचित् तदा भवति सा मनः॥ अधिष्ठानानि बुद्ध्या हि पृथगेतानि पञ्चधा। इन्द्रियाणीति तान्याहुस्तेषु दुष्टेषु दुष्यति॥ पुरुष तिष्ठती बुद्धिस्त्रिषु भावेषु वर्तते। कदाचिल्लभते प्रीति कदाचिदपि शोचति॥ न सुखेन न दुःखेन कदाचिदपि वर्तते। सेयं भावात्मिका भावांस्त्रीनेतान् परिवर्तते॥ सरितां सागरो भर्ता यथा वेलामिवोर्मिवान्। इति भावगता बुद्धिर्भावे मनसि वर्तते॥ प्रवर्तमानं तु रजस्तद्भावेनानुवर्तते। प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता॥ कथंचिदुपपद्यन्ते पुरुषे सात्त्विका गुणाः। परिदाहस्तथा शोकः संतापोऽपूर्तिरक्षमा॥ लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुभिः। अविद्या रागमोहौ च प्रमादः स्तब्धता भयम्॥ असमृद्धिस्तथा दैन्यं प्रमोहः स्वप्नतन्द्रिता। कथंचिदुपवर्तन्ते विविधास्तामसा गुणाः॥ तत्र यत् प्रीतिसंयुक्तं काये मनसि वा भवेत्। वर्तते सात्त्विको भाव इत्युपेक्षेत तत् तथा॥ अथ यद् दुःखसंयुक्तमप्रीतिकरमात्मनः। प्रवृत्तं रज इत्येव तदसंरभ्य चिन्तयेत्॥ अथ यन्मोहसंयुक्तं काये मनसि वा भवेत्। अप्रतय॑मविज्ञेयं तमस्तदुपधारयेत्॥ इति बुद्धिगतीः सर्वा व्याख्याता यावतीरिह। एतद् बुद्ध्वा भवेद् बुद्धः किमन्यद् बुद्धलक्षणम्॥ सत्त्वक्षेत्रज्ञयोरेतदन्तरं विद्धि सूक्ष्मयोः। सृजतेऽत्र गुणानेक एको न सृजते गुणान्।॥ पृथग्भूतौ प्रकृत्या तु सम्प्रयुक्तौ च सर्वदा। यथा मत्स्योऽद्भिरन्यः स्यात् सम्प्रयुक्तो भवेत् तथा।।३४। न गुणा विदुरात्मानं स गुणान् वेद सर्वतः। परिद्रष्टा गुणानां तं संस्रष्टा मन्यते यथा।॥ आश्रयो नास्ति सत्त्वस्य गुणसर्गेण चेतना। सत्त्वमस्य सृजन्त्यन्ये गुणान् वेद कदाचन॥ सृजते हि गुणान् सत्त्वं क्षेत्रज्ञः परिपश्यति। सम्प्रयोगस्तयोरेष सत्त्वक्षेत्रज्ञयोर्भुवः॥ इन्द्रियैस्तु प्रदीपार्थं क्रियते बुद्धिरन्तरा। निश्चक्षुर्भिरजानाद्भिरिन्द्रियाणि प्रदीपवत्॥ एवंस्वभावमेवैतत् तद् बुद्ध्वा विहरेन्नरः। अशोचन्नप्रहष्यंश्च स वै विगतमत्सरः॥ स्वभावसिद्धमेवैतद् यदिमान् सृजते गुणान्। उर्णनाभिर्यथा सूत्रं विज्ञेयास्तन्तुवद् गुणाः॥ प्रध्वस्ता न निवर्तन्ते प्रवृत्तिर्नोपलभ्यते। एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे॥ इतीदं हृदयग्रन्थि बुद्धिचिन्तामयं दृढम्। विमुच्य सुखमासीत विशोकश्छिन्नसंशयः॥ ताम्येयुः प्रच्युताः पृथ्वीं मोहपूर्णा नदी नराः। यथा गाधमविद्वांसो बुद्धियोगमयं तथा॥ नैव ताम्यन्ति विद्वांसः प्लवन्तः पारमम्भसः। अध्यात्मविदुषो धीरा ज्ञानं तु परमं प्लवः॥ न भवति विदुषां महद्भयं यदविदुषां सुमहद्भयं भवेत्। न हि गतिरधिकास्ति कस्यचित् सकृदुपदर्शयतीह तुल्यताम्॥ स्तच्च दूषयति यत्पुरा कृतम्। नाप्रियं तदुभयं करोत्यसौ यच्च दूषयति यत् करोति च।।४६। युधिष्ठिर उवाच शोकाद् दुःखाच्च मृत्योश्च त्रसन्ते प्राणिनः सदा। उभयं नो यथा न स्यात् तन्मे ब्रूहि पितामह॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। नारदस्य च संवादं समङ्गस्य च भारत॥ नारद उवाच उरसेव प्रणमसे बाहुभ्यां तरसीव च। सम्प्रहृष्टमना नित्यं विशोक इव लक्ष्यसे॥ उद्वेगं न हि ते किंचित् सुसूक्ष्ममपि लक्षये। नित्यतृप्त इव स्वस्थो बालवच्च विचेष्टसे॥ समङ्ग उवाच भूतं भव्यं भविष्यं च सर्वमेतत् तु मानन्। तेषां तत्त्वानि जानामि ततो न विमना ह्यहम्॥ उपक्रमानहं वेद पुनरेव फलोदयान्। लोके फलानि चित्राणि ततो न विमना ह्यहम्॥ अगाधाचाप्रतिष्ठाश्च गतिमन्तश्च नारद। अन्धा जडाश्च जीवन्ति पश्यास्मानपि जीवतः॥ विहितेनैव जीवन्ति अरोगाङ्गा दिवौकसः। बलवन्तोऽबलाश्चैव तस्मादस्मान् सभाजय॥ सहस्रिणोऽपि जीवन्ति जीवन्ति शतिनस्तथा। शाकेन चान्ये जीवन्ति पश्यास्मानपि जीवतः॥ यदा न शोचेमहि किं नु नः स्याद् धर्मेण वा नारद कर्मणा वा। कृतान्तवश्यानि यदा सुखानि दुःखानि वा यन्न विधर्षयन्ति॥ यस्मै प्राज्ञाः कथयन्ते मनुष्याः प्रज्ञामूलं हीन्द्रियाणां प्रसादः। मुह्यन्ति शोचन्ति तथेन्द्रियाणि प्रज्ञालाभो नास्ति मूढेन्द्रियस्य॥ मूढस्य दर्पः स पुनर्मोह एव मूढस्य नायं न परोऽस्ति लोकः। न ह्येव दुःखानि सदा भवन्ति सुखस्य वा नित्यशो लाभ एव॥ भवात्मकं सम्परिवर्तमान न मादृशः संज्वरं जातु कुर्यात्। इष्टान् भोगान् नानुरुध्येत् सुखं वा न चिन्तयेहुःखमभ्यागतं वा॥ समाहितो न स्पृहयेत् परेषां नानागतं चाभिनन्देच्च लाभम्। न चापि हृष्येद् विपुलेऽर्थलाभे तथार्थनाशे च न वै विषीदेत्॥ न बान्धवा न च वित्तं न कौल्यं न च श्रुतं न च मन्त्रा न वीर्यम्। दुःखात् त्रातुं सर्व एवोत्सहन्ते परत्र शीलेन तु यान्ति शान्तिम्॥ नास्ति बुद्धिरयुक्तस्य नायोगाद् विन्दते सुखम्। धृतिश्च दुःखत्यागश्चेत्युभयं तु सुखं नृप॥ प्रियं हि हर्षजननं हर्ष उत्सेकवर्धनः। उत्सेको नरकायैव तस्मात् तान् संत्यजाम्यहम्॥ एताशोकभयोत्सेकान् मोहनान् सुखदुःखयोः। पश्यामि साक्षिवल्लोके देहस्यास्य विचेष्टनात्॥ अर्थकामौ परित्यज्य विशोको विगतज्वरः। तृष्णामोहौ तु संत्यज्य चरामि पृथिवीमिमाम्॥ न च मृत्योर्न चाधर्मान्न लोभान्न कुतश्चन) पीतामृतस्येवात्यन्तमिह वामुत्र च भयम्॥ एतद् ब्रह्मन् विजानामि महत् कृत्वा तपोऽव्ययम्। तेन नारद सम्प्राप्तो न मां शोकः प्रबाधते॥ युधिष्ठिर उवाच अतत्त्वज्ञस्य शास्त्राणां सततं संशयात्मनः। अकृतव्यवसायस्य श्रेयो ब्रूहि पितामह॥ भीष्म उवाच गुरुपूजा च सततं वृद्धानां पर्युपासनम्। श्रवणं चैव शास्त्राणां कूटस्थं श्रेय उच्यते॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। मालवस्य च संवादं देवर्षे रदस्य च॥ स्वाश्रमं समनुप्राप्तं नारदं देववर्चसम्। वीतमोहक्लमं विप्रं ज्ञानतृप्तं जितेन्द्रियः। श्रेयस्कामो यतात्मानं नारदं गालवोऽब्रवीत्॥ यैः कश्चित् सम्मतो लोके गुणैश्च पुरुषो मुने। भवत्यनपगान् सर्वांस्तान् गुणाल्लक्षयामहे॥ भवानेवंविधोऽस्माकं संशयं छेत्तुमर्हति। अमूढश्चिरमूढानां लोकतत्त्वमजानताम्॥ ज्ञाने ह्येवं प्रवृत्तिः स्यात् कार्याणामविशेषतः। यत् कार्यं न व्यवस्यामस्तद् भवान् वक्तुमर्हति॥ भगवन्नाश्रमाः सर्वे पृथगाचारदर्शिनः। इदं श्रेय इदं श्रेय इति सर्वे प्रबोधिताः॥ तांस्तु विप्रस्थितान् दृष्ट्वा शास्त्रैः शास्त्राभिनन्दिनः। स्वशास्त्रैः परितुष्टाश्च श्रेयो नोपलभामहे॥ शास्त्रं यदि भवेदेकं श्रेयो व्यक्तं भवेत् तदा। शास्त्रैश्च बहुभिर्भूयः श्रेयो गुह्यं प्रवेशितम्॥ एतस्मात् कारणाच्छ्रेयः कलिलं प्रतिभाति मे। ब्रवीतु भगवांस्तन्मे उपसन्नोऽस्म्यधीहि भोः॥ नारद उवाच आश्रमास्तात चत्वारो यथासंकल्पिताः पृथक्। तान् सर्वाननुपश्य त्वं समाश्रित्येति गालव॥ तेषां तेषां तथा हि त्वमाश्रमाणां ततस्ततः। नानारूपगुणोद्देशं पश्य विप्र स्थितं पृथक्॥ न यान्ति चैव ते सम्यगभिप्रेतमसंशयम्। अन्येऽपश्यंस्तथा सम्यगाश्रमाणां परां गतिम्॥ यत् तु निश्रेयसं सम्यक् तच्चैवासंशयात्मकम्॥ अनुग्रहं च मित्राणाममित्राणां च निग्रहम्। संग्रहं च त्रिवर्गस्य श्रेय आहुर्मनीषिणः॥ निवृत्तिः कर्मणः पापात् सततं पुण्यशीलता। सद्भिश्च समुदाचारः श्रेय एतदसंशयम्॥ मार्दवं सर्वभूतेषु व्यवहारेषु चार्जवम्। वाक् चैव मधुरा प्रोक्ता श्रेय एतदसंशयम्॥ दैवतेभ्यः पितृभ्यश्च संविभागोऽतिथिष्वपि। असंत्यागश्च भृत्यानां श्रेय एतदसंशयम्॥ सत्यस्य वचनं श्रेयः सत्यज्ञानं तु दुष्करम्। यद् भूतहितमत्यन्तमेतत् सत्यं ब्रवीम्यहम्॥ अहंकारस्य च त्यागः प्रमादस्य च निग्रहः। संतोषश्चैकचर्या च कूटस्थं श्रेय उच्यते॥ धर्मेण वेदाध्ययनं वेदान्तानां तथैव च। ज्ञानार्थानां च जिज्ञासा श्रेय एतदसंशयम्॥ शब्दरूपरसस्पर्शान् सह गन्धेन केवलान्। नात्यर्थमुपसेवेत श्रेयसोऽर्थी कथंचन॥ नक्तंचर्या दिवास्वप्नमालस्यं पैशुनं मदम्। अतियोगमयोगं च श्रेयसोऽर्थी परित्यजेत्॥ आत्मोत्कर्षं न मार्गेत परेषां परिनिन्दया। स्वगुणैरेव मार्गेत विप्रकर्षं पृथग्जनात्॥ निर्गुणास्त्वेव भूयिष्ठमात्मसम्भाविता नराः। दोषैरन्यान् गुणवतः क्षिपन्त्यात्मगुणक्षयात्॥ अनूच्यमानास्तु पुनस्ते मन्यन्तु महाजनात्। गुणवत्तरमात्मानं स्वेन मानेन दर्पिताः॥ अब्रुवन् कस्यचिनिन्दामात्मपूजामवर्णयन्। विपश्चिद् गुणसम्पन्नः प्राप्नोत्येव महद् यशः॥ अब्रुवन् वाति सुरभिर्गन्धः सुमनसां शुचिः। तथैवाव्याहरन् भाति विमलो भानुरम्बरे॥ एवमादीनि चान्यानि परित्यक्तानि मेधया। ज्वलन्ति यशसा लोके यानि न व्याहरन्ति च॥ न लोके दीप्यते मूर्खः केवलात्मप्रशंसया। अपि चापिहितः श्वभ्रे कृतविद्यः प्रकाशते॥ असदुच्चैरपि प्रोक्तः शब्दः समुपशाम्यति। दीप्यते त्वेव लोकेषु शनैरपि सुभाषितम्॥ मूढानामवलिप्तानामसारं भाषितं बहु। दर्शयत्यन्तरात्मानमग्निरूपमिवांशुमान्॥ एतस्मात् कारणात् प्रज्ञां मृगयन्ते पृथग्विधाम्। प्रज्ञालाभो हि भूतानामुत्तमः प्रतिभाति मे॥ नापृष्टः कस्यचिद् ब्रूयान्नाप्यन्यायेन पृच्छतः। ज्ञानवानपि मेधावी जडवत् समुपाविशेत्॥ ततो वासं परीक्षेत धर्मनित्येषु साधुषु। मनुष्येषु वदान्येषु स्वधर्मनिरतेषु च।॥ चतुर्णां यत्र वर्णानां धर्मव्यतिकरो भवेत्। न तत्र वासं कुर्वीत श्रेयोऽर्थी वै कथंचन॥ निरारम्भोऽप्ययमिह यथालब्धोपजीवनः। पुण्यं पुण्येषु विमलं पापं पापेषु चाप्नुयात्॥ अपामग्नेस्तथेन्दोश्च स्पर्श वेदयते यथा। तथा पश्यामहे स्पर्शमुभयोः पुण्यपापयोः॥ अपश्यन्तोऽनुविषयं भुञ्जते विघसाशिनः। भुजानाश्चात्मविषयान् विषयान् विद्धि कर्मणाम्॥ यत्रागमयमानानामसत्कारेण पृच्छताम्। प्रब्रूयाद् ब्रह्मणो धर्मं त्यजेत् तं देशमात्मवान्॥ शिष्योपाध्यायिकावृत्तिर्यत्र स्यात् सुसमाहिता। यथावच्छास्त्रसम्पन्ना कस्तं देशं परित्यजेत्॥ आकाशस्था ध्रुवं यत्र दोषं ब्रूयुर्विपश्चिताम्। आत्मपूजाभिकामो वै को वसेत् तत्र पण्डितः॥ यत्र संलोडिता लुब्धैः प्रायशो धर्मसेतवः। प्रदीप्तमिव चैलान्तं कस्तं देशं न संत्यजेत्॥ यत्र धर्ममनाशङ्काश्चरेयुर्वीतमत्सराः। भवेत् तत्र वसेच्चैव पुण्यशीलेषु साधुषु॥ धर्ममर्थनिमित्तं च चरेयुर्यत्र मानवाः। न ताननुवसेज्जातु ते हि पापकृतो जनाः॥ कर्मणा यत्र पापेन वर्तन्ते जीवितेप्सवः। व्यवधावेत् ततस्तूर्णं ससर्पाच्छरणादिव॥ येन खट्वां समारूढः कर्मणानुशयी भवेत्। आदितस्तन्न कर्तव्यमिच्छता भवमात्मनः॥ यत्र राजा च राज्ञश्च पुरुषाः प्रत्यनन्तराः। कुटुम्बिनामग्रभुजस्त्यजेत् तद् राष्ट्रमात्मवान्।॥ श्रोत्रियास्त्वग्रभोक्तारो धर्मनित्याः सनातनाः। याजनाध्यापने युक्ता यत्र तद् राष्ट्रमावसेत्॥ स्वाहास्वधावषट्कारा यत्र सम्यगनुष्ठिताः। अजस्रं चैव वर्तन्ते वसेत् तत्राविचारयन्॥ अशुचीन् यत्र पश्येत ब्राह्मणान् वृत्तिकर्शितान्। त्यजेत् तद् राष्ट्रमासन्नमुपसृष्टमिवामिषम्॥ प्रीयमाणा नरा यत्र प्रयच्छेयुरयाचिताः। स्वस्थचित्तो वसेत् तत्र कृतकृत्य इवात्मवान्॥ दण्डो यत्राविनीतेषु सत्कारश्च कृतात्मसु। चरेत् तत्र वसेच्चेव पुण्यशीलेषु साधुषु॥ उपसृष्टेषु दान्तेषु दुराचारेषु साधुषु। अविनीतेषु लुब्धेषु सुमहद् दण्डधारणम्॥ यत्र राजा धर्मनित्यो राज्यं धर्मेण पालयेत्। अपास्य कामान् कामेशो वसेत् तत्राविचारयन्॥ यथाशीला हि राजानः सर्वान् विषयवासिनः। श्रेयसा योजयत्याशु श्रेयसि प्रत्युपस्थिते॥ पृच्छतस्ते मया तात श्रेय एतदुदाहृतम्। न हि शक्यं प्रधानेन श्रेयः संख्यातुमात्मनः॥ एवं प्रवर्तमानस्य वृत्तिं प्राणिहितात्मनः। तपसैवेह बहुलं श्रेयो व्यक्तं भविष्यति॥ युधिष्ठिर उवाच कथं नु युक्तः पृथिवीं चरेदस्मद्विधो नृपः। नित्यं कैश्च गुणैर्युक्तः संगपाशाद् विमुच्यते॥ भीष्म उवाच अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम्। अरिष्टनेमिना प्रोक्तं सगरायानुपृच्छते॥ सगर उवाच किं श्रेयः परमं ब्रह्मन् कृत्वेह सुखमश्नुते। कथं न शोचेन्न क्षुभ्येदेतदिच्छामि वेदितुम्॥ भीष्म उवाच एवमुक्तस्तदा तार्क्ष्यः सर्वशास्त्रविदां वरः। विबुध्य सम्पदं चाग्र्यां सद्वाक्यमिदमब्रवीत्॥ प्रसक्तः पुत्रपशुषु धनधान्यसमाकुलः॥ सक्तबुद्धिरशान्तात्मा न शक्यं तच्चिकित्सितुम्। स्नेहपाशसितो मूढो न स मोक्षाय कल्पते॥ स्नेहजानिह ते पाशान् वक्ष्यामि शृणु तान् मम। सकर्णकेन शिरसा शक्याः श्रोतुं विजानता॥ सम्भाव्य पुत्रान् कालेन यौवनस्थान् विवेश्य च। समर्थान् जीवने ज्ञात्वा मुक्तश्चर यथासुखम्॥ भार्यां पुत्रवती वृद्धां लालितां पुत्रवत्सलाम्। ज्ञात्वा प्रजहि कालेन परार्थमनुदृश्य च॥ सापत्यो निरपत्यो वा मुक्तश्चर यथासुखम्। इन्द्रियैरिन्द्रियार्थांस्त्वमनुभूय यथाविधि॥ कृतकौतूहलस्तेषु मुक्तश्चर यथासुखम्। उपपत्त्योपलब्धेषु लोकेषु च समो भव॥ एष तावत् समासेन तव संकीर्तितो मया। मोक्षार्थो विस्तरेणाथ भूयो वक्ष्यामि तच्छृणु॥ मुक्ता वीतभया लोके चरन्ति सुखिनो नराः। सक्तभावा विनश्यन्ति नरास्तत्र न संशयः॥ आहारसंचयाश्चैव तथा कीटपिपीलिकाः। असक्ताः सुखिनो लोके सक्ताश्चैव विनाशिनः॥ स्वजने न च ते चिन्ता कर्तव्या मोक्षबुद्धिना। इमे मया विनाभूता भविष्यन्ति कथं त्विति॥ स्वयमुत्पद्यते जन्तुः स्वयमेव विवर्धते। सुखदुःखे तथा मृत्यु स्वयमेवाधिगच्छति॥ भोजनाच्छादने चैव मात्रा पित्रा च संग्रहम्। स्वकृतेनाधिगच्छन्ति लोके नास्त्यकृतं पुरा॥ धात्रा विहितभक्ष्याणि सर्वभूतानि मेदिनीम्। लोके विपरिधावन्ति रक्षितानि स्वकर्मभिः॥ स्वयं मृत्पिण्डभूतस्य परतन्त्रस्य सर्वदा। को हेतुः स्वजनं षोष्टुं रक्षितुं वादृढात्मनः॥ स्वजनं हि यदा मृत्युर्हन्त्येव तव पश्यतः। कृतेऽपि यत्ने महति तत्र बोद्धव्यमात्मना॥ जीवन्तमपि चैवैनं भरणे रक्षणे तथा। असमाप्ते परित्यज्य पश्चादपि मरिष्यसि॥ यदा मृतं च स्वजनं न ज्ञास्यसि कदाचन। सुखितं दुःखितं वापि ननु बोद्धव्यमात्मना॥ मृते वा त्वयि जीवे वा यदा भोक्ष्यति वै जनः। स्वकृतं ननु बुद्ध्वैवं कर्तव्यं हितमात्मनः॥ एवं विजानल्लोकेऽस्मिन् कः कस्येत्यभिनिश्चितः। मोक्षे निवेशय मनो भूयश्चाप्युपधारय॥ क्षुत्पिपासादयो भावा जिता यस्येह देहिनः। क्रोधोलोभस्तथा मोहः सत्त्वन् मुक्त एव सः॥ द्यूते पाने तथा स्त्रीषु मृगयायां च यो नरः। न प्रमाद्यति सम्मोहात् सततं मुक्त एव सः॥ दिवसे दिवसे नाम रात्रौ रात्रौ पुमान् सदा। भोक्तव्यमिति यः खिन्नो दोषबुद्धिः स उच्यते॥ आत्मभावं तथा स्त्रीषु मुक्तमेव पुनः पुनः। यः पश्यति सदा युक्तो यथावन्मुक्त एव सः॥ सम्भवं च विनाशं च भूताना चेष्टितं तथा। यस्तत्त्वतो विजानाति लोकेऽस्मिन् मुक्त एव सः॥ प्रस्थं वाहसहस्रेषु यात्रार्थं चैव कोटिषु। प्रासादे मञ्चकं स्थानं यः पश्यति स मुच्यते॥ मृत्युनाभ्याहतं लोकं व्याधिभिश्चोपपीडितम्। अवृत्तिकर्शितं चैव यः पश्यति स मुच्यते॥ यः पश्यति स संतुष्टो न पश्यंश्च विहन्यते। यश्चाप्यल्पेन संतुष्टो लोकेऽस्मिन् मुक्त एव सः॥ अग्नीषोमाविदं सर्वमिति यश्चानुपश्यति। न च संस्पृश्यते भावैरद्भुतैर्मुक्त एव सः॥ पर्यङ्कशय्या भूमिश्च समाने यस्य देहिनः। शालयश्च कदन्नं च यस्य स्यान्मुक्त एव सः॥ क्षौमं च कुशचीरं च कौशेयं वल्कलानि च। आविकं चर्म च समं यस्य स्यान्मुक्त एव सः॥ पञ्चभूतसमुद्भूतं लोकं यश्चानुपश्यति। तथा च वर्तते दृष्ट्वा लोकेऽस्मिन् मुक्त एव सः॥ सुखदुःखे समे यस्य लाभालाभौ जयाजयौ। इच्छाद्वेषौ भयोद्वेगौ सर्वथा मुक्त एव सः॥ रक्तमूत्रपुरीषाणां दोषाणां संचयांस्तथा। शरीरं दोषबहुलं दृष्ट्वा चैव विमुच्यते॥ वलीपलितसंयोगे कायँ वैवर्ण्यमेव च। कुब्जभावं च जरया यः पश्यति स मुच्यते॥ पुंस्त्वोपघातं कालेन दर्शनोपरमं तथा। बाधिर्यं प्राणमन्दत्वं यः पश्यति स मुच्यते॥ गतानृषींस्तथा देवानसुरांश्च तथा गतान्। लोकादस्मात् परं लोकं यः पश्यति स मुच्यते॥ प्रभावैरन्वितास्तैस्तैः पार्थिवेन्द्राः सहस्रशः। ये गताः पृथिवींत्यत्वा इति ज्ञात्वा विमुच्यते॥ अर्थांश्च दुर्लभाँल्लोके क्लेशांश्च सुलभांस्तथा। दुःखं चैव कुटुम्बार्थे यः पश्यति स मुच्यते॥ अपत्यानां च वैगुण्यं जनं विगुणमेव च। पश्यन् भूयिष्ठशो लोके को मोक्षं नाभिपूजयेत्॥ शास्त्राल्लोकाच्च यो बुद्धः सर्वं पश्यति मानवः। असारमिव मानुष्यं सर्वथा मुक्त एव सः॥ एतच्छ्रुत्वा मम वचो भवांश्चरतु मुक्तवत्। गार्हस्थ्ये यदि वा मोक्षे कृता बुद्धिरविक्लवा॥ तत् तस्य वचनं श्रुत्वा सम्यक् स पृथिवीपतिः। मोक्षजैश्च गुणैर्युक्तः पालयामास च प्रजाः॥ युधिष्ठिर उवाच तिष्ठते मे सदा तात कौतूहलमिदं हृदि। तदहं श्रोतुमिच्छामि त्वत्तः कुरुपितामह॥ कथं देवर्षिरुशना सदा काव्यो महामतिः। असुराणां प्रियकरः सुराणामप्रिये रतः॥ वर्धयामास तेजश्च किमर्थममितौजसाम्। नित्यं वैरनिबद्धाश्च दानवाः सुरसत्तमैः॥ कथं चाप्युशना प्राप शुक्रत्वममरद्युतिः। ऋद्धिं च स कथं प्राप्तः सर्वमेतद् वदस्व मे॥ न याति च स तेजस्वी मध्येन नभसः कथम्। एतदिच्छामि विज्ञातुं निखिलेन पितामह॥ भीष्म उवाच शृणु राजन्नवहितः सर्वमेतद् यथातथम्। यथामति यथा चैतच्छुतपूर्वं मयानघ॥ एष भार्गवदायादो मुनिर्मान्यो दृढव्रतः। सुराणां विप्रियकरो निमित्ते कारणात्मके॥ इन्द्रोऽथ धनदो राजा यक्षरक्षोऽधियः सदा। प्रभविष्णुश्च कोशस्य जगतश्च तथा प्रभुः॥ तस्यात्मानमथाविश्य योगसिद्धो महामुनिः। रुद्ध्वा धनपतिं देवं योगेन हतवान् वसु॥ हृते धने ततः शर्म न लेभे धनदस्तथा। आपन्नमन्युः संविग्नः सोऽभ्यगात् सुरसत्तमम्॥ निवेदयामास तदा शिवायामिततेजसे। देवश्रेष्ठाय रुद्राय सौम्याय बहुरूपिणे॥ योगात्मकेनोशनसा रुद्ध्वा मम हृतं वसु। योगेनात्मगतं कृत्वा निःसृतश्च महातपाः॥ एतच्छ्रुत्वा ततः क्रुद्धो महायोगी महेश्वरः। संरक्तनयनो राजशूलमादाय तस्थिवान्॥ क्वासौ क्वासाविति प्राह गृहीत्वा परमायुधम्। उशना दूरतस्तस्य बभौ ज्ञात्वा चिकीर्षितम्॥ स महायोगिनो बुद्ध्वा तं रोषं वै महात्मनः। गतिमागमनं वेत्ति स्थानं चैव ततः प्रभुः॥ संचिन्त्योग्रेण तपसा महात्मानं महेश्वरम्। उशना योगसिद्धात्मा शूलाग्रे प्रत्यदृश्यत्॥ विज्ञातरूपः स तदा तप:सिद्धोऽथ धन्विना। ज्ञात्वा शूलं च देवेशः पाणिना समनामयत्॥ आनतेनाथ शूलेन पाणिनामिततेजसा। पिनाकमिति चोवाच शूलमुग्रायुधः प्रभुः॥ पाणिमध्यगतं दृष्ट्वा भार्गवं तमुमापतिः। आस्यं विवृत्य ककुदी पाणिना प्राक्षिपच्छनैः॥ स तु प्रविष्ट उशना कोष्ठं माहेश्वरं प्रभुः। व्यचरच्चापि तत्रासौ महात्मा भृगुनन्दनः॥ युधिष्ठिर उवाच किमर्थं व्यचरद् राजनुशना तस्य धीमतः। जठरे देवदेवस्य किं चाकार्षीन्माहद्युतिः॥ भीष्म उवाच पुरा सोऽन्तर्जलगताः स्थाणुभूतो महाव्रतः। वर्षाणामभवद् राजन् प्रयुतान्यर्बुदानि च॥ उदतिष्ठत् तपस्तप्त्वा दुश्चरं च महाह्रदात्। ततो देवातिदेवस्तं ब्रह्मा वै समसर्पत॥ तपोवृद्धिमपृच्छच्च कुशलं चैवमव्ययः। तपः सुचीर्णमिति च प्रोवाच वृषभध्वजः॥ तत्संयोगेन वृद्धिं चाप्यपश्यत् स तु शंकरः। महामतिरचिन्त्यात्मा सत्यधर्मरतः सदा॥ स तेनाढ्यो महायोगी तपसा च धनेन च। व्यराजत महाराज त्रिषु लोकेषु वीर्यवान्॥ ततः पिनाकी योगात्मा ध्यानयोगं समाविशत्। उशना तु समद्विग्नो निलिल्ये जठरे ततः॥ तुष्टाव च महायोगी देवं तत्रस्थ एव च। नि:सारं काङ्क्षमाणः स तेन स्म प्रतिहन्यते॥ उशना तु तथोवाच जठरस्थो महामुनिः। प्रसादं मे कुरुष्वेति पुनः पुनररिंदम॥ तमुवाच महादेवो गच्छ शिश्नेन मोक्षणम्। इति सर्वाणि स्रोतांसि रुद्ध्वा त्रिदशपुङ्गवः॥ अपश्यमानस्तद् द्वारं सर्वतः पिहितो मुनिः। पर्यक्रामद् उह्यमान इतश्चेतश्च तेजसा॥ स वै निष्क्रम्य शिश्नेन शुक्रत्वमभिपेदिवान्। कार्येण तेन नभसो नाध्यगच्छत मध्यतः॥ विनिष्कान्तं तु तं तु तं दृष्ट्वा ज्वलन्तमिव तेजसा। भवो रोषसमाविष्टः शूलोद्यतकरः स्थितः॥ अवारयत तं देवी क्रुद्धं पशुपति पतिम्। पुत्रत्वमगमद् देव्या वारिते शंकरे च सः॥ देव्युवाच हिंसनीयस्त्वया नैव मम पुत्रत्वमागतः। न हि देवोदरात् कश्चिनिःसृतो नाशमृच्छति॥ भीष्म उवाच ततः प्रीतो भवो देव्याः प्रहसंश्चेदमब्रवीत्। गच्छत्वेष यथाकाममिति राजन् पुनः पुनः॥ ततः प्रणम्य वरदं देवं देवीमुमां तथा। उशना प्राप तद्धीमान् गतिमिष्टां महामुनिः॥ एतत् ते कथितं तात भार्गवस्य महात्मनः। चरितं भरतश्रेष्ठ यन्मां त्वं परिपृच्छसि॥ युधिष्ठिर उवाच अतः परं महाबाहो यच्छ्रेयस्तद् वदस्व मे। न तृप्याम्यमृतस्येव वचसस्ते पितामह॥ किं कर्म पुरुषः कृत्वा शुभं पुरुषसत्तम। श्रेयः परमवाप्नोति प्रेत्य चेह च तद् वद॥ भीष्म उवाच अत्र ते वर्तयिष्यामि यथापूर्वं महायशाः। पराशरं महात्मानं पप्रच्छ जनको नृपः॥ किं श्रेयः सर्वभूतानामस्मिल्लोके परत्र चा यद् भवेत् प्रतिपत्तव्यं तद् भवान् प्रब्रवीतु मे॥ ततः स तपसा युक्तः सर्वधर्मविधानवित्। नृपायानुग्रहमना मुनिर्वाक्यमथाब्रवीत्॥ पराशर उवाच धर्म एव कृतः श्रेयानिह लोके परत्र च। तस्माद्धि परमं नास्ति यथा प्राहुर्मनीषिणः॥ प्रतिपद्य नरो धर्म स्वर्गलोके महीयते। धर्मात्मकः कर्मविधिर्देहिनां नृपसत्तम॥ तस्मिन्नाश्रमिणः सन्तः स्वकर्माणीह कुर्वते॥ चतुर्विधा हि लोकेऽस्मिन् यात्रा तात विधीयते। मा यत्रावतिष्ठन्ते सा च कामात् प्रवर्तते॥ सुकृतासुकृतं कर्म निषेव्य विविधैः क्रमैः। दशार्धप्रविभक्तानां भूतानां बहुधा गतिः॥ सौवर्ण राजतं चाप यथा भाण्डं निषिच्यते। तथा निषिच्यते जन्तुः पूर्वकर्मवशानुगः॥ नाबीजाज्जायते किंचिन्नाकृत्वा सुखमेधते। सुकृतैर्विन्दते सौख्यं प्राप्य देहक्षयं नरः॥ दैवं तात न पश्यामि नास्ति दैवस्य साधनम्। स्वभावतो हि संसिद्धा देवगन्धर्वदानवाः॥ प्रेत्य जातिकृतं कर्म न स्मरन्ति सदा जनाः। ते वै तस्य फलप्राप्तौ कर्म चापि चतुर्विधम्॥ लोकयात्राश्रयश्चैव शब्दो वेदाश्रयः कृतः। शान्त्यर्थं मनसस्तात नैतद् वृद्धानुशासनम्॥ चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम्। कुरुते यादृशं कर्म तादृशं प्रतिपद्यते॥ निरन्तरं च मिश्रं च लभते कर्म पार्थिव। कल्याणं यदि वा पापं न तु नाशोऽस्य विद्यते॥ कदाचित् सुकृतं तात कूटस्थमिव तिष्ठति। मज्जमानस्य संसारे यावद् दुःखाद् विमुच्यते॥ ततो दुःखक्षयं कृत्वा सुकृतं कर्म सेवते। सुकृतक्षयाद् दुष्कृतं तद् विद्धि मनुजाधिप॥ दमः क्षमा धृतिस्तेजः संतोषः सत्यवादिता। ह्रीरहिंसाव्यसनिता दाक्ष्यं चेति सुखावहाः॥ दुष्कृते सुकृते चापि न जन्तुर्नियतो भवेत्। नित्यं मन:समाधाने प्रयतेत विचक्षणः॥ नायं परस्य सुकृतं दुष्कृतं चापि सेवते। करोति यादृशं कर्म तादृशं प्रतिपद्यते॥ सुखदुःखे समाधाय पुमानन्येन गच्छति। अन्येनैव जनः सर्वः संगतो यश्च पार्थिवः॥ परेषां यदसूयेत न तत् कुर्यात् स्वयं नरः। यो ह्यसू युस्तथायुक्तः सोऽवहासं नियच्छति॥ भीरू राजन्यो ब्राह्मणः सर्वभक्ष्यो वैश्योऽनीहावान् हीनवर्णोऽलसञ्च। विद्वांश्चाशीलो वृत्तहीनः कुलीन: सत्याद् विभ्रष्टो धार्मिकः स्त्री च दुष्टा॥ मूर्यो वक्ता नृपहीनं च राष्ट्रम्। एते सर्वे शोच्यतां यान्ति राजन् यश्चायुक्तः स्नेहहीनः प्रजासु॥ पराशर उवाच मनोरथरथं प्राप्य इन्द्रियाख्यहयं नरः। रश्मिभिर्ज्ञानसम्भूतैर्यो गच्छति स बुद्धिमान्॥ सेवाऽऽश्रितेन मनसा वृत्तिहीनस्य शस्यते। द्विजातिहस्तान्निर्वृत्ता न तु तुल्यात् परस्परात्॥ आयुर्न सुलभं लब्वा नावकर्षेद् विशाम्पते। उत्कर्षार्थं प्रयतेत नरः पुण्येन कर्मणा॥ वर्णेभ्यो हि परिभ्रष्टो न वै सम्मानमर्हति। न तु यः सक्रियां प्राप्य राजसं कर्म सेवते॥ वर्णोत्कर्षमवाप्नोति नरः पुण्येन कर्मणा। दुर्लभं तमलब्ध्वा हि हन्यात् पापेन कर्मणा॥ अज्ञानाद्धि कृतं पापं तपसैवाभिनिर्णदेत्। पापं हि कर्म फलति पापमेव स्वयं कृतम्। तस्मात् पापं न सेवेत कर्म दुःखफलोदयम्॥ पापानुबन्धं यत् कर्म यद्यपि स्यान्महाफलम्। तन्न सेवेत मेधावी शुचिः कुशलिनं यथा॥ किं कष्टमनुपश्यामि फलं पापस्य कर्मणः। प्रत्यापन्नस्य हि ततो नात्मा तावद् विरोचते॥ प्रत्यापत्तिश्च यस्येह बालिशस्य न जायते। तस्यापि सुमहांस्तापः प्रस्थितस्योपजायते॥ विरक्तं शोध्यते वस्त्रं न तु कृष्णोपसंहितम्। प्रयत्नेन मनुष्येन्द्र पापमेवं निबोध मे॥ स्वयं कृत्वा तु यः पापं शुभमेवानुतिष्ठति। प्रायश्चित्तं नरः कर्तुमुभयं सोऽश्नुते पृथक्॥ अज्ञानात् तु कृतां हिंसामहिंसा व्यपकर्षति। ब्राह्मणाः शास्त्रनिर्देशादित्याहुर्ब्रह्मवादिनः॥ तथा कामकृतं नास्य विहिंसैवानुकर्षति। इत्याहुर्ब्रह्मशास्त्रज्ञा ब्राह्मणा ब्रह्मवादिनः॥ अहं तु तावत् पश्यामि कर्म यद् वर्तते कृतम्। गुणयुक्तं प्रकाशं वा पापेनानुपसंहितम्॥ यथा सूक्ष्माणि कर्माणि फलन्तीह यथातथम्। बुद्धियुक्तानि तानीह कृतानि मनसा सह॥ भवत्यल्पफलं कर्म सेवितं नित्यमुल्बणम्। अबुद्धिपूर्वं धर्मज्ञ कृतमुग्रेण कर्मणा॥ कृतानि यानि कर्माणि दैवतैर्मुनिभिस्तथा। न चरेत् तानि धर्मात्मा श्रुत्वा चापि न कुत्सयेत्॥ संचिन्त्य मनसा राजन् विदित्वा शक्यमात्मनः। करोति यः शुभं कर्म स वै भद्राणि पश्यति॥ नवे कपाले सलिलं संन्यस्तं हीयते यथा। नवेतरे तथाभावं प्राप्नोति सुखभावितम्॥ सतोयेऽन्यत् तु यत् तोयं तस्मिन्नेव प्रसिच्यते। वृद्धे वृद्धिमवाप्नोति सलिले सलिलं यथा॥ एवं कर्माणि यानीह बुद्धियुक्तानि पार्थिव। समानि चैव यानीह तानि पुण्यतमान्यपि॥ राज्ञा जेतव्याः : शत्रवश्चोन्नताश्च सम्यक् कर्तव्यं पालनं च प्रजानाम्। रन्त्ये मध्ये वा वनमाश्रित्य स्थेयम्॥ दमान्वितः पुरुषो धर्मशीलो भूतानि चात्मानमिवानुपश्येत्। गरीयसः पूजयेदात्मशक्त्या सत्येन शीलेन सुखं नरेन्द्र॥ पराशर उवाच प्रतिग्रहागता विप्रे क्षत्रिये युधि निर्जिताः। वैश्य न्यायार्जिताश्चैव शूद्रे शुश्रूषयार्जिताः॥ स्वल्पाप्यर्थाः प्रशस्यन्ते धर्मस्यार्थे महाफलाः। नित्यं त्रयाणां वर्णानां शुश्रूषुः शूद्र उच्यते॥ क्षत्रधर्मा वैश्यधर्मा नावृत्तिः पतते द्विजः। शूद्रधर्मा यदा तु स्यात् तदा पतति वै द्विजः॥ वाणिज्यं पाशुपाल्यं च तथा शिल्पोपजीवनम्। शूद्रस्यापि विधीयन्ते यदा वृत्तिर्न जायते॥ रङ्गावतरणं चैव तथा रूपोपजीवनम्। मद्यमांसोपजीव्यं च विक्रयं लोहचर्मणोः॥ अपूर्विणा न कर्तव्यं कर्म लोके विगर्हितम्। त्यजतो धर्म इति श्रुतिः॥ संसिद्धः पुरुषो लोके यदाचरति पापकम्। मदेनाभिप्लुतमनास्तच्च न ग्राह्यमुच्यते॥ कृतपूर्वं तु महान् श्रूयन्ते हि पुराणेषु प्रजा धिग्दण्डशासनाः। दान्ता धर्मप्रधानाश्च न्यायधर्मानुवृत्तिकाः॥ धर्म एव सदा नृणामिह राजन् प्रशस्यते। धर्मवृद्धा गुणानेव सेवन्ते हि नरा भुवि॥ तं धर्ममसुरास्तात नामृष्यन्त जनाधिप। विवर्धमानाः क्रमशस्तत्र तेऽन्वाविशन् प्रजाः॥ तासां दर्पः समभवत् प्रजानां धर्मनाशनः। दर्पात्मनां ततः पश्चात् क्रोधस्तासामजायत।॥ ततः क्रोधाभिभूतानां वृत्तं लज्जासमन्वितम्। ह्रीश्चैवाप्यनशद् राजंस्ततो मोहो व्यजायत॥ ततो मोहपरीतास्ता नापश्यन्त यथा पुरा। परस्परावमर्दैन वर्धयन्त्यो यथासुखम्॥ ताः प्राप्य तु स धिग्दण्डो न कारणमतोऽभवत्। ततोऽभ्यगच्छन् देवांश्च ब्राह्मणांश्चावमन्य ह॥ एतस्मिन्नेव काले तु देवा देववरं शिवम्। अगच्छन् शरणं धीरं बहुरूपं गुणाधिकम्॥ तेन स्म ते गगनगाः सपुराः पातिताः क्षितौ। विधाप्येकेन बाणेन देवाप्यायिततेजसा॥ तेषामधिपतिस्त्वासीद् भीमो भीमपराक्रमः। देवतानां भयकरः स हतः शूलपाणिना॥ तस्मिन् हतेऽथ स्वं भावं प्रत्यपद्यन्त मानवाः। प्रापद्यन्त च वेदान् वै शास्त्राणि च यथा पुरा॥ ततोऽभिषिच्य राज्येन देवानां दिवि वासवम्। सप्तर्षयश्चान्वयुञ्जन् नराणां दण्डधारणे॥ सप्तर्षीणामथोर्ध्वं च विपृथु म पार्थिवः। राजानः क्षत्रियाश्चैव मण्डलेषु पृथक् पृथक्॥ महाकुलेषु ये जाता वृद्धाः पूर्वतराश्च ये। तेषामप्यासुरो भावो हृदयान्नापसर्पति॥ तस्मात् तेनैव भावेन सानुषङ्गेण पार्थिवाः। आसुराण्येव कर्माणि न्यसेवन भीमविक्रमाः॥ प्रत्यतिष्ठंश्च तेष्वेव तान्येव स्थापयन्त्यपि। भजन्ते तानि चाद्यापि ये बालिशतरा नराः॥ तस्मादहं ब्रवीमि त्वां राजन् संचिन्त्य शास्त्रतः। संसिद्धाधिगमं कुर्यात् कर्म हिंसात्मकं त्यजेत्॥ न संकरेण द्रविणं प्रचिन्वीयाद् विचक्षणः। धर्मार्थं न्यायमुत्सृज्य न तत् कल्याणमुच्यते॥ स त्वमेवंविधो दान्तः क्षत्रिय: प्रियबान्धवः। प्रजा भृत्यांश्च पुत्रांश्च स्वधर्मेणानुपालय॥ इष्टानिष्टसमायोगे वैरं सौहार्दमेव च। अथ जातिसहस्राणि बहूनि परिवर्तते॥ तस्माद् गुणेषु रज्येथा मा दोषेषु कथंचन। निर्गुणोऽपि हि दुर्बुद्धिरात्मन: सोऽतिरज्यते॥ मानुषेषु महाराज धर्माधर्मो प्रवर्ततः। न तथान्येषु भूतेषु मनुष्यरहितेष्विह॥ धर्मशीलो नरो विद्वानीहकोऽनीहकोऽपि वा। आत्मभूतः सदा लोके चरेद् भूतान्यहिंसया॥ यदा व्यपेतहल्लेखं मनो भवति तस्य वै। नानृतं चैव भवत तदा कल्याणपृच्छति॥ पराशर उवाच एष धर्मविधिस्तात गृहस्थस्य प्रकीर्तितः। तपोविधिं तु वक्ष्यामि तन्मे निगदतः शृणु॥ प्रायेण च गृहस्थस्य ममत्वं नाम जायते। सङ्गागतं नरश्रेष्ठ भावै राजसतामसैः॥ गृहाण्याश्रित्य गावश्च क्षेत्राणि च धनानि च। दाराः पुत्राश्च भृत्याश्च भवन्तीह नरस्य वै॥ एवं तस्य प्रवृत्तस्य नित्यमेवानुपश्यतः। रागद्वेषौ विवर्धेते ह्यनित्यत्वमपश्यतः॥ रागद्वेषाभिभूतं च नरं द्रव्यवशानुगम्। मोहजाता रतिर्नाम समुपैति नराधिप॥ कृतार्थं भोगिनं मत्वा सर्वो रतिपरायणः। लाभं ग्राम्यसुखादन्यं रतितो नानुपश्यति॥ ततो लोभाभिभूतात्मा संगाद् वर्धयते जनम्। पुष्ट्यर्थं चैव तस्येह जनस्यार्थं चिकीर्षति॥ स जानन्नपि चाकार्यमर्थार्यं सेवते नरः। बालस्नेहपरीतात्मा तत्क्षयाच्चानुतप्यते॥ ततो मानेन सम्पन्नो रक्षन्नात्मपराजयम्। करोति येन भोगी स्यामिति तस्माद् विनश्यति॥ तथा हि बुद्धियुक्तानां शाश्वतं ब्रह्मवादिनाम्। अन्विच्छतां शुभं कर्म नराणां त्यजतां सुखम्॥ स्नेहायतननाशाच्च धननाशाच्च पार्थिव। आधिव्याधिप्रतापाच्च निर्वेदमुपगच्छति॥ मिर्वेदादात्मसम्बोधः सम्बोधाच्छास्त्रदर्शनम्। शास्त्रार्थदर्शनाद् राजस्तप एवानुपश्यति॥ दुर्लभो हि मनुष्येन्द्र नरः प्रत्यवमर्शवान्। यो वै प्रियसुखे क्षीणे तपः कर्तुं व्यवस्यति॥ तपः सर्वगतं तात हीनस्यापि विधीयते। जितेन्द्रियस्य दान्तस्य स्वर्गमार्गप्रवर्तकम्॥ प्रजापतिः प्रजाः पूर्वमसृजत् तपसा विभुः। क्वचित् क्वचिद् ब्रह्मपरो व्रतान्यास्थाय पार्थिव॥ आदित्या वसवो रुद्रास्तथैवाग्न्यश्विमारुताः। विश्वेदेवास्तथा साध्याः पितरोऽथ मरुद्गणाः॥ यक्षराक्षसगन्धर्वाः सिद्धाश्चान्ये दिवौकसः। संसिद्धास्तपसा तात ये चान्ये स्वर्गवासिनः॥ ये चादौ ब्राह्मणाः सृष्टा ब्रह्मणा तपसा पुरा। ते भावयन्तः पृथिवीं विचरन्ति दिवं तथा॥ मर्त्यलोके च राजानो ये चान्ये गृहमेधिनः। महाकुलेषु दृश्यन्ते तत् सर्वं तपसः फलम्॥ कौशिकानि च वस्त्राणि शुभान्याभरणानि च। वाहनासनपानानि तत् सर्वं तपसः फलम्॥ मनोऽनुकूलाः प्रमदा रूपवत्यः सहस्रशः। वासः प्रासादपृष्ठे च तत् सर्वं तपसः फलम्॥ शयनानि च मुख्यानि भोज्यानि विविधानि च। अभिप्रेतानि सर्वाणि भवन्ति शुभकर्मिणाम्॥ नाप्राप्यं तपसः किंचित् त्रैलोक्येऽपि परंतप। उपभोगपरित्यागः फलान्यकृतकर्मणाम्॥ सुखितो दुःखितो वापि नरो लाभं परित्यजेत्। अवेक्ष्य मनसा शास्त्रं बुद्ध्या च नृपसत्तम॥ असंतोषोऽसुखायेति लोभादिन्द्रियसम्भ्रमः। ततोऽस्य नश्यति प्रज्ञा विद्येवाभ्यासवर्जिता।॥ नष्टप्रज्ञो यदा तु स्यात् तदा न्यायं न पश्यति। तस्मात् सुखक्षये प्राप्ते पुमानुग्रं तपश्चरेत्॥ यदिष्टं तत् सुखं प्राहुद्देष्यं दुःखमिहेष्यते। कृताकृतस्य तपस: फलं पश्यस्व यादृशम्॥ नित्यं भद्राणि पश्यन्ति विषयांश्चोपभुञ्जते।। प्राकाश्यं चैव गच्छन्ति कृत्वा निष्कल्मषं तपः॥ अप्रियाण्यवमानांश्च दुःखं बहुविधात्मकम्। फलार्थी तत्फलं त्यक्त्वा प्राप्नोति विषयात्मकम्॥ धर्मे तपसि दाने च विचिकित्सास्य जायते। स कृत्वा पापकान्येव निरयं प्रतिपद्यते॥ सुखे तु वर्तमानो वै दुःखे वापि नरोत्तमा सुवृत्ताद् यो न चलते शास्त्रचक्षुः स मानवः॥ इषुप्रपातमात्रं हि स्पर्शयोगे रतिः स्मृता। रसने दर्शने घ्राणे श्रवणे च विशाम्पते।॥ ततोऽस्य जायते तीव्रा वेदना तक्षयात् पुनः। अबुधा न प्रशंसन्ति मोक्षं सुखमनुत्तमम्॥ ततः फलार्थं सर्वस्य भवन्ति ज्यायसे गुणाः। धर्मवृत्त्या च सततं कामार्थाभ्यां न हीयते॥ अप्रयत्नागताः सेव्या गृहस्थैविषयाः सदा। प्रयत्नेनोपगम्यश्च स्वधर्म इति मे मतिः॥ मानिनां कुलजातानां नित्यं शास्त्रार्थचक्षुषाम्। क्रियाधर्मविमुक्तानामशक्त्या संवृतात्मनाम्॥ क्रियमाणं यदा कर्म नाशं गच्छति मानुषम्। तेषां नान्यदृते लोके तपसः कर्म विद्यते॥ सर्वात्मनानुकुर्वीत गृहस्थः कर्मनिश्चयम्। दाक्ष्येण हव्यकव्यार्थं स्वधर्मे विचरन् नृप।॥ यथा नदीनदाः सर्वे सागरे यान्ति संस्थितम्। एवमाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम्॥ जनक उवाच वर्णो विशेषवर्णानां महर्षे केन जायते। एतदिच्छाम्यहं ज्ञातुं तद् ब्रूहि वदतां वरा॥ यदेतज्जायतेऽपत्यं स एवायमिति श्रुतिः। कथं ब्राह्मणतो जातो विशेषग्रहणं गतः॥ पराशर उवाच एवमेतन्महाराज येन जातः स एव सः। तपसस्त्वपकर्षेण जातिग्रहणतां गतः॥ सुक्षेत्राच्च सुबीजाच्च पुण्यो भवति सम्भवः। अतोऽन्यतरतो हीनादवरो नाम जायते॥ वक्त्राद् भुजाभ्यामूरुभ्यां पद्भ्यां चैवाथ जज्ञिरे। सृजतः प्रजापतेर्लोकानिति धर्मविदो विदुः॥ मुखजा ब्राह्मणास्तात बाहुजाः क्षत्रियाः स्मृताः। उरुजा धनिनो राजन् पादजाः परिचारकाः॥ चतुर्णामेव वर्णानामागमः पुरुषर्षभ। अतोऽन्ये त्वतिरिक्ता ये ते वै संकरजाः स्मृताः॥ क्षत्रियातिरथाम्बष्ठा उग्रा वैदेहकास्तथा। श्वपाकाः पुल्कसाः स्तेना निषादाः सूतमागधाः॥ अयोगाः करणा व्रात्याश्चाण्डालाच नराधिप। एते चतुर्थ्यो वर्णेभ्यो जायन्ते वै परस्परात्॥ जनक उवाच ब्रह्मणैकेन जातानां नानात्वं गोत्रतः कथम्। बहूनीह हि लोके वै गोत्राणि मुनिसत्तम॥ यत्र तत्र कथं जाताः स्वयोनि मुनयो गताः। शुद्धयोनौ समुत्पन्ना वियोनौ च तथा परे॥ पराशर उवाच राजन्नेतद् भवेद् ग्राह्यमपकृष्टेन जन्मना। महात्मनां समुत्पत्तिस्तपसा भावितात्मनाम्॥ उत्पाद्य पुत्रान् मुनयो नृपते यत्र तत्र ह। स्वेनैव तपसा तेषामृषित्वं विदधुः पुनः॥ पितामहश्च मे पूर्वमृष्यशृङ्गश्च काश्यपः। वेदस्ताण्ड्यः कृपश्चैव कक्षीवान् कमठादयः॥ यवक्रीतश्च नृपते द्रोणच वदतां वरः। आयुर्मतङ्गो दत्तश्च दुपदो मत्स्य एव च॥ एते स्वां प्रकृति प्राप्ता वैदेह तपसोऽऽश्रयात्। प्रतिष्ठिता वेदविदो दमेन तपसैव हि॥ मूलगोत्राणि चत्वारि समुत्पन्नानि पार्थिव। अङ्गिराः कश्यपश्चैव वसिष्ठो भृगुरेव च॥ कर्मतोऽन्यानि गोत्राणि समुत्पन्नानि पार्थिव। नामधेयानि तपसा तानि च ग्रहणं सताम्॥ जनक उवाच विशेषधर्मान् वर्णानां प्रबूहि भगवन् मम। ततः सामान्यधर्माश्च सर्वत्र कुशलो ह्यसि॥ पराशर उवाच प्रतिग्रहो याजनं च तथैवाध्यापनं नृप। विशेषधर्मा विप्राणां रक्षा क्षत्रस्य शोभना॥ कृषिश्च पाशुपाल्यं च वाणिज्यं च विशामपि। द्विजानां परिचर्या च शूद्रकर्म नराधिप॥ विशेषधर्मा नृपते वर्णानां परिकीर्तिताः। धर्मान् साधारणांस्तात विस्तरेण शृणुष्व मे॥ आनृशंस्यमहिंसा चाप्रमादः संविभागिता। श्राद्धकर्मातिथेयं च सत्यमक्रोध एव च॥ स्वेषु दारेषु संतोषः शौचं नित्यानसूयता। आत्मज्ञानं तितिक्षा च धर्माः साधारणा नृप॥ ब्राह्मणा: क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः। अत्र तेषामधीकारो धर्मेषु द्विपदां वर॥ विकर्मावस्थिता वर्णाः पतन्ते नृपते त्रयः। उन्नमन्ति यथासन्तमाश्रित्येह स्वकर्मसु॥ न चापि शूद्रः पततीति निश्चयो न चापि संस्कारमिहार्हतीति वा। श्रुतिप्रवृत्तं न च धर्ममाप्नुते न चास्य धर्मे प्रतिषेधनं कृतम्॥ वैदेह कं शूद्रमुदाहरन्ति द्विजा महाराज श्रुतोपपन्नाः। अहं हि पश्यामि नरेन्द्र देवं विश्वस्य विष्णु जगतः प्रधानम्॥ सतां वृत्तमधिष्ठाय निहीना उद्दिधीर्षवः। मन्त्रवर्जं न दुष्यन्ति कुर्वाणाः पौष्टिकी: क्रियाः॥ यथा यथा हि सद्वृत्तमालम्बन्तीतरे जनाः। तथा तथा सुखं प्राप्य प्रेत्य चेह च मोदते।॥ जनक उवाच किं कर्म दूषयत्येनमथो जातिर्महामुने। संदेहो मे समुत्पन्नस्तन्मे व्याख्यातुमर्हसि॥ पराशर उवाच असंशयं महाराज उभयं दोषकारकम्। कर्म चैव हि जातिश्च विशेषं तु निशामय॥ जात्या च कर्मणा चैव दुष्टं कर्म न सेवते। जात्या दुष्टश्च य: पापं न करोति स पूरुषः॥ जात्या प्रधानं पुरुषं कुर्वाणं कर्म धिक्कृतम्। कर्म तद् दूषयत्येनं तस्मात् कर्म न शोभनम्॥ जनक उवाच कानि कर्माणि धाणि लोकेऽस्मिन् द्विजसत्तम। न हिंसन्तीह भूतानि क्रियमाणानि सर्वदा॥ पराशर उवाच शृणु मेऽत्र महाराज यन्मां त्वं परिपृच्छसि। यानि कर्माण्यहिंस्राणि नरं त्रायन्ति सर्वदा॥ संन्यस्याग्नीनुदासीनाः पश्यन्ति विगतज्वराः। नैःश्रेयसं कर्मपथं समारुह्य यथाक्रमम्॥ प्रश्रिता विनयोपेता दमनित्याः सुसंशिताः। प्रयान्ति स्थानमजरं सर्वकर्मविवर्जिताः॥ सर्वे वर्णा धर्मकार्याणि सम्यक् कृत्वा राजन् सत्यवाक्यानि चोक्त्वा। त्यक्तवाधर्म दारुणं जीवलोके यान्ति स्वर्ग नात्र कार्यो विचारः॥ पराशर उवाच पिता सखायो गुरवः स्त्रियश्च न निर्गुणानां हि भवन्ति लोके। अनन्यभक्ता: प्रियवादिनश्च हिताश्च वश्याश्च भवन्ति राजन्॥ पिता परं दैवतं मानवानां मातुर्विशिष्टं पितरं वदन्ति। ज्ञानस्य लाभं परमं वदन्ति जितेन्द्रियार्थाः परमाप्नुवन्ति॥ रणाजिरे यत्र शराग्निसंस्तरे नृपात्मजो घातमवाप्य दह्यते। प्रयाति लोकानमरैः सुदुर्लभान्। निषेवते स्वर्गफलं यथासुखम्॥ श्रान्तं भीतं भ्रष्टशस्त्रं रुदन्तं पराङ्मुखं पारिबहश्च हीनम्। अनुद्यन्तं रोगिणं याचमानं न वै हिंस्याद् बालवृद्धौ च राजन्॥ पारिबहः सुसंयुक्तमुद्यतं तुल्यतां गतम्। अतिक्रमेत् तं नृपतिः संग्रामे क्षत्रियात्मजम्॥ तुल्यादिह वधः श्रेयान् विशिष्टाच्चेति निश्चयः। निहीनात् कातराच्चैव कृपणाद् गर्हितो वधः॥ पापात् पापसमाचारनिहीनाच्च नराधिप। पाप एव वधः प्रोक्तो नरकायेति निश्चयः॥ न कश्चित् त्राति वै राजन् दिष्टान्तवशमागतम्। सावशेषायुषं चापि कश्चिन्नैवापकर्षति॥ स्निग्धैश्च क्रियमाणानि कर्माणीह निवर्तयेत्। हिंसात्मकानि सर्वाणि नायुरिच्छेत् परायुषा॥ गृहस्थानां तु सर्वेषां विनाशमभिकासताम्। निधनं शोभनं तात पुलिनेषु क्रियावताम्॥ आयुषि क्षयमापन्ने पञ्चत्वमुपगच्छति। तथा ह्यकारणाद् भवति कारणैरुपपादितम्॥ तथा शरीरं भवति देहाद् येनोपपादितम्। अध्वानं गतकशायं प्राप्तश्चायं गृहाद् गृहम्॥ द्वितीयं कारणं तत्र नान्यत् किंचन विद्यते। तद् देहं देहिनां युक्तं पञ्चभूतेषु वर्तते॥ शिरास्नायवस्थिसंघातं बीभत्सामेध्यसंकुलम्। भूतानामिन्द्रियाणां च गुणानां च समागमम्॥ त्वगन्तं देहमित्याहुर्विद्वांसोऽध्यात्मचिन्तकाः। गुणैरपि परिक्षीणं शरीरं मर्त्यतां गतम्॥ शरीरिणा परित्यक्तं निश्चेष्टं गतचेतनम्। भूतैः प्रकृतिमापन्नस्ततो भूमौ निमज्जति॥ भावितं कर्मयोगेन जायते तत्र तत्र ह। इदं शरीरं वैदेह म्रियते यत्र यत्र ह। तत्स्वभावोऽपरो दृष्टो विसर्गः कर्मणस्तथा॥ न जायते तु नृपते कंचित् कालमयं पुनः। परिभ्रमति भूतात्मा द्यामिवाम्बुधरो महान्॥ स पुनर्जायते राजन् प्राप्येहायतनं नृप। मनसः परमो ह्यात्मा इन्द्रियेभ्यः परं मनः॥ विविधानां च भूतानां जङ्गमाः परमा नृपा जङ्गमानामपि तथा द्विपदाः परमा गताः॥ द्विपदानामपि तथा द्विजा वै परमाः समृताः। द्विजानामपि राजेन्द्र प्रज्ञावन्तः परा मताः। प्राज्ञानामात्मसम्बुद्धाः सम्बुद्धानाममानिनः॥ जातमन्वेति मरणं नणामिति विनिश्चयः। अन्तवन्ति हि कर्माणि सेवन्ते गुणतः प्रजाः॥ आपन्ने तूत्तरां काष्ठां सूर्ये यो निधनं व्रजेत्। नक्षत्रे च मुहूर्ते च पुण्ये राजन् स पुण्यकृत्॥ अयोजयित्वा क्लेशेन जनं प्लाव्य च दुष्कृतम्। मृत्युनाऽऽत्मकृते नेह कर्म कृत्वाऽऽत्पशक्तिभिः॥ विषमुटबन्धनं दाहो दस्युहस्तात् तथा वधः। दंष्ट्रिभ्यश्च पशुभ्यश्च प्राकृतो वध उच्यते॥ न चैभिः पुण्यकर्माणो युज्यन्ते चाभिसंधिजैः। एवंविधैश्च बहुभिरपरैः प्राकृतैरपि॥ ऊर्ध्वं भित्त्वा प्रतिष्ठन्ते प्राणाः पुण्यवतां नृप। मध्यतो मध्यपुण्यानामधो दुष्कृतकर्मणाम्॥ रज्ञानतुल्यः पुरुषस्य राजन्। येनावृतः कुरुते सम्प्रयुक्तो घोराणि कर्माणि सुदारुणानि॥ प्रबाधनार्थं श्रुतिधर्मयुक्तान्। वृद्धानुपास्य प्रभवेत यस्य। प्रयत्नसाध्यो हि स राजपुत्र प्रज्ञाशरेणोन्मथितः परैति॥ अधीत्य वेदं तपसा ब्रह्मचारी यज्ञाज्यशक्त्या संनिगृह्येह पञ्च। वनं गच्छेत् पुरुषो धर्मकामः श्रेयः स्थित्वा स्थापयित्वा स्ववंशम्॥ उपभोगैरपि त्यक्तं नात्मानं सादयेन्नरः। चण्डालत्वेऽपि मानुष्यं सर्वथा तात शोभनम्॥ इयं हि योनिः प्रथमा यां प्राप्य जगतीपते। आत्मा वै शक्यते त्रातुं कर्मभिः शुभलक्षणैः॥ कथं न विप्रणश्येम योनितोऽस्या इति प्रभो। कुर्वन्ति धर्मं मनुजा: श्रुतिप्रामाण्यदर्शनात्॥ यो दुर्लभतरं प्राप्य मानुष्यं द्विषते नरः। धर्मावमन्ता कामात्मा भवेत्स खलु वञ्च्यते॥ यस्तु प्रीतिपुरोगेन चक्षुषा तात पश्यति। दीपोपमानि भूतानि यावदर्थान्न पश्यति॥ सान्त्वेनानप्रदानेन प्रियवादेन चाप्युत। समदुःखसुखो भूत्वा स परत्र महीयते॥ दानं त्यागः शोभना मूर्तिरद्भ्यो भूतप्लाव्यं तपसा वै शरीरम्। सरस्वतीनैमिषपुष्करेषु ये चाप्यन्ये पुण्यदेशाः पृथिव्याम्॥ गृहेषु येषामसवः पतन्ति तेषामथो निर्हरणं प्रशस्तम्। यानेन वै प्रापणं च श्मशाने शौचेन नूनं विधिना चैव दाहः॥ इष्टिः पुष्टिर्यजनं याजनं च दानं पुण्यानां कर्मणां च प्रयोगः। शक्त्या पित्र्यं यच्च किंचित् प्रशस्तं सर्वाण्यात्मार्थे मानवोऽयं करोति॥ धर्मशास्त्राणि वेदाश्च षडङ्गानि नराधिप। श्रेयसोऽर्थे विधीयन्ते नरस्याक्लिष्टकर्मणः॥ भीष्म उवाच एतद् वै सर्वमाख्यातं मुनिना सुमहात्मना। विदेहराजाय पुरा श्रेयसोऽर्थे नराधिप॥ भीम उवाच पुनरेव तु पप्रच्छ जनको मिथिलाधिपः। पराशरं महात्मानं धर्मे परमनिश्चयम्॥ जनक उवाच किं श्रेयः का गतिर्ब्रह्मन् किं कृतं न विनश्यति। क्व गतो न निवर्तेत तन्मे ब्रूहि महामते॥ पराशर उवाच असङ्ग श्रेयसो मूलं ज्ञानं चैव परा गतिः। चीर्णं तपो न प्रणश्येद्वापः क्षेत्रे न नश्यति॥ छित्त्वाधर्ममयं पाशं यदा धर्मेऽभिरज्यते। दत्त्वाभयकृतं दानं तदा सिद्धिमवाप्नुते॥ यो ददाति सहस्राणि गवामश्वशतानि च। अभयं सर्वभूतेभ्यः सदा तमभिवर्तते॥ वसन् विषयमध्येऽपि न वसत्येव बुद्धिमान्। संवसत्येव दुर्बुदिरसत्सु विषयेष्वपि॥ नाधर्मः श्लिष्यते प्राज्ञं पयः पुष्करपर्णवत्। अप्राज्ञमधिकं पापं श्लिष्यते जतुकाष्ठवत्॥ नाधर्मः कारणापेक्षी कर्तारमभिमुञ्चति। कर्ता खलु यथाकालं ततः समभिपद्यते॥ न भिद्यन्ते कृतात्मान आत्मप्रत्ययदर्शिनः। बुद्धिकर्मेन्द्रियाणां हि प्रमत्तो यो न बुद्ध्यते। शुभाशुभे प्रसक्तात्मा प्राप्नोति सुमहद् भयम्॥ वीतरागो जितक्रोधः सम्यग् भवति यः सदा। विषये वर्तमानोऽपि न स पापेन युज्यते॥ मर्यादायां धर्मसेतुर्निबद्धो नैव सीदति। पुष्टस्रोत इवासक्तः स्फीतो भवति संचयः॥ यथा भानुगतं तेजो मणिः शुद्धः समाधिना। आदत्ते राजशार्दूल तथा योगः प्रवर्तते।॥ यथा तिलानामिह पुष्पसंश्रयात् पृथक्पृथग्याति गुणोऽतिसौम्यताम्। तथा नराणां भुवि भावितात्मनां यथाऽऽश्रयं सत्त्वगुणः प्रवर्तते॥ जहाति दारांश्च जहाति सम्पदः पदं च यानं विविधाश्च याः क्रिया:। स्तदास्य बुद्धिर्विषयेषु भिद्यते॥ प्रसक्तबुद्धिर्विषयेषु यो नरो न बुध्यते ह्यात्महितं कथंचन। स सर्वभावानुगतेन चेतसा नृपाभिषेणेव झषो विकृष्यते॥ संघातवन्मर्त्यलोकः परस्परमपाश्रितः। कदलीगर्भनि:सारो नौरिवाप्सु निमज्जति॥ निश्चितो न चापि मृत्युः पुरुषं प्रतीक्षते। सदा हि धर्मस्य क्रियैव शोभना यदा नरो मृत्युमुखेऽभिवर्तते॥ यथान्धः स्वगृहे युक्तो ह्यभ्यासादेव गच्छति। तथा युक्तेन मनसा प्राज्ञो गच्छति तां गतिम्॥ मरणं जन्मनि प्रोक्तं जन्म वै मरणाश्रितम्। अविद्वान् मोक्षधर्मेषु बद्धो भ्रमति चक्रवत्। न धर्मकाल: पुरुषस्य बुद्धिमार्गप्रयातस्य सुखं त्विह परत्र च॥ विस्तराः क्लेशसंयुक्ताः संक्षेपास्तु सुखावहाः। परार्थं विस्तराः सर्वे त्यागमात्महितं विदुः॥ यथा मृणालानुगतमाशु मुञ्चति कर्दमम्। तथाऽऽत्मा पुरुषस्येह मनसा परिमुच्यते॥ मनः प्रणयतेऽऽत्मानं स एनमभियुञ्जति। युक्तो यदा स भवति तदा तं पश्यते परम्॥ परार्थे वर्तमानस्तु स्वं कार्यं योऽभिमन्यते। इन्द्रियार्थेषु संयुक्तः स्वकार्यात् परिमुच्यते॥ अधस्तिर्यग्गतिं चैव स्वर्गे चैव परां गतिम्। प्राप्नोति स्वकृतैरात्मा प्राज्ञस्येहेतरस्य च॥ मृण्मये भाजने पक्वे यथा वै नश्यति द्रवः। तथा शरीरं तपसा तप्तं विषयमश्नुते॥ विषयानुश्नुते यस्तु न स भोक्ष्यत्यसंशयम्। यस्तु भोगांस्त्यजेदात्मा स वै भोक्तुं व्यवस्यति॥ नीहारेण हि संवीतः शिश्नोदरपरायणः। जात्यन्ध इव पन्थानमावृतात्मा न बुद्ध्यते॥ वणिग् यथा समुद्राद् वै यथार्थं लभते धनम्। तथा मार्णवे जन्तोः कर्मविज्ञानतो गतिः॥ अहोरात्रमये लोके जरारूपेण संसरन्। मृत्युर॑सति भूतानि पवनं पन्नगो यथा॥ स्वयंकृतानि कर्माणि जातो जन्तुः प्रपद्यते। नाकृत्वा लभते कश्चित् किंचिदत्र प्रियाप्रियम्॥ शयानं यान्तमासीनं प्रवृत्तं विषयेषु च। शुभाशुभानि कर्माणि प्रपद्यन्ते नरं सदा॥ न ह्यन्यत् तीरमासाद्य पुन स्तर्तुं व्यवस्यति। दुर्लभो दृश्यते ह्यस्य विनिपातो महार्णवे॥ यथा भावावसन्ना हि नौमहाम्भसि तन्तुना। तथा मनोभियोगाद् वै शरीरं प्रचिकीर्षति॥ यथा समुद्रमभितः संश्रिताः सरितोऽपराः। तथाद्या प्रकृतिर्योगादभिसंश्रियते सदा॥ स्नेहपाशैर्बहुविधैरासक्तमनसो नराः। प्रकृतिस्था विषीदन्ति जले सैकतवेभवत्॥ शरीरगृहसंज्ञस्य शौचतीर्थस्य देहिनः। बुद्धिमार्गप्रयातस्य सुखं त्विह परत्र च॥ विस्तराः क्लेशसंयुक्ताः संक्षेपास्तु सुखावहाः। परार्थं विस्तराः सर्वे त्यागमात्महितं विदुः॥ संकल्पजो मित्रवर्गो ज्ञातयः कारणात्मकाः। भार्या पुत्रश्च दासश्च स्वमर्थमनुयुज्यते॥ न माता न पिता किंचित् कस्यचित् प्रतिपद्यते। दानपथ्यौदनो जन्तुः स्वकर्मफलमश्नुते॥ माता पुत्रः पिता भ्राता भार्या मित्रजनस्तथा। अष्टापदपदस्थाने लक्षमुद्रेव लक्ष्यते॥ सर्वाणि कर्माणि पुरा कृतानि शुभाशुभान्यात्मनो यान्ति जन्तोः। उपस्थितं कर्मफलं विदित्वा बुद्धिं तथा चोदयतेऽन्तरात्मा॥ व्यवसायं समाश्रित्य सहायान् योऽधिगच्छति। न तस्य कश्चिदारम्भः कदाचिदवसीदति॥ अद्वैधमनसं युक्तं शूरं धीरं विपश्चितम्। न श्रीः संत्यजते नित्यमादित्यमिव रश्मयः॥ आस्तिक्यव्यवसायाभ्यामुपायाद् विस्मयाद् धिया। समारभेदनिन्द्यात्मा न सोऽर्थः परिषीदति॥ सर्वः स्वानि शुभाशुभानि नियतं कर्माणि जन्तुः स्वयं गर्भात् सम्प्रतिपद्यते तदुभयं यत् तेन पूर्वं कृतम्। मृत्युश्चापरिहारवान् समगति: कालेन विच्छेदिना दारोश्शूर्णमिवाश्मसारविहितं कर्मान्तिकं प्रापयेत्॥ स्वरूपतामात्मकृतं च विस्तरं कुलान्वयं द्रव्यसमृद्धिसंचयम्। नरो हि सर्वो लभते यथाकृतं शुभाशुभेनात्मकृतेन कर्मणा॥ भीष्म उवाच इत्युक्तो जनको राजन् याथातथ्यं मनीषिणा। श्रुत्वा धर्मविदां श्रेष्ठः परां मुदमवाप ह॥ युधिष्ठिर उवाच सांख्ये योगे च मे तात विशेषं वक्तुमर्हसि। तव धर्मज्ञ सर्वं हि विदितं कुरुसत्तम॥ भीष्म उवाच सांख्याः सांख्यं प्रशंसन्ति योगा योगं द्विजातयः। वदन्ति कारणं श्रेष्ठं स्वपक्षोद्भावनाय व॥ अनीश्वरः कथं मुच्येदित्येवं शत्रुकर्शन। वदन्ति कारणैः श्रेष्ठ्यं योगाः सम्यङ्मनीषिणः॥ वदन्ति कारणं चेदं सांख्याः सम्यग् द्विजातयः। विज्ञायेह गती: सर्वा विरक्तो विषयेषु यः॥ उर्ध्वं स देहात् सुव्यक्तं विमुच्येदिति नान्यथा। एतदाहुमहाप्राज्ञाः सांख्ये वै मोक्षदर्शनम्॥ स्वपक्षे कारणं ग्राह्यं समये वचनं हितम्। शिष्टानां हि मतं ग्राह्यं त्वद्विधैः शिष्टसम्मतैः॥ प्रत्यक्षहेतवो योगा: सांख्या: शास्त्रविनिश्चयाः। उभे चैते मते तत्त्वे मम तात युधिष्ठिर॥ उभे चैते मते ज्ञाते नृपते शिष्टसम्मते। अनुष्ठिते यथाशास्त्रं नेयतां परमां गतिम्॥ तुल्यं शौचं तपोयुक्तं दया भूतेषु चानघ। व्रतानां धारणं तुल्यं दर्शनं न समं तयोः॥ युधिष्ठिर उवाच यदि तुल्यं व्रतं शौचं दया चात्र फलं तथा। न तुल्यं दर्शनं कस्मात् तन्मे ब्रूहि पितामह॥ भीष्म उवाच रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम्। योगाच्छित्त्वा ततो दोषान् पञ्चैतान् प्राप्नुवन्ति तत्॥ यथा चानिमिषाः स्थूला जालं छित्त्वा पुनर्जलम्। प्राप्नुवन्ति तथा योगास्तत् पदं वीतकल्मषाः॥ तथैव वागुरां छित्त्वा बलवन्तो यथा मृगाः। प्राप्नुयुर्विमलं मार्ग विमुक्ताः सर्वबन्धनैः॥ लोभजानि तथा राजन् बन्धनानि बलान्विताः। छित्त्वा योगाः परं मागं गच्छन्ति विमलं शिवम्॥ अबलाश्च मृगा राजन् वागुरासु तथा परे। विनश्यन्ति न संदेहस्तद्वद् योगबलादृते॥ बलहीनाश्च कौन्तेय यथा जालं गता झषाः। वधं गच्छन्ति राजेन्द्र योगास्तद्वत् सुदुर्बलाः॥ यथा च शकुनाः सूक्ष्मं प्राप्य जालमरिंदम। तत्र सक्ता विपद्यन्ते मुच्यन्ते च बलान्विताः॥ कर्मजैर्बन्धनैर्बद्धास्तद्वद् योगाः परंतप। अबला वै विनश्यन्ति मुच्यन्ते च बलान्विताः॥ अल्पकश्च यथा राजन् वह्निः शाम्यति दुर्बलः। आक्रान्त इन्धनैः स्थूलैस्तद्वद् योगोऽबलः प्रभो॥ स एव च यदा राजन् वह्निर्जातबलः पुनः। समीरणगतः क्षिप्रं दहेत् कृत्स्नां महीमपि॥ तद्वज्जातबलो योगी दीप्ततेजा महाबलः। अन्तकाल इवादित्यः कृत्स्नं संशोषयेज्जगत्॥ दुर्बलश्च यथा राजन् स्रोतसा ह्रियते नरः। बलहीनस्तथा योगो विषयैर्व्हियतेऽवशः॥ तदेव च महास्रोतो विष्टम्भयति वारणः। तद्वद् योगबलं लब्ध्वा व्यूहते विषयान् बहून्॥ विशन्ति चावशाः पार्थ योगाद् योगबलान्विताः। प्रजापतीनृषीन् देवान् महाभूतानि चेश्वराः॥ न यमो नान्तकः क्रुद्धो न मृत्युीमविक्रमः। ईशते नृपते सर्वे योगस्यामिततेजसः॥ आत्मनां च सहस्राणि बहूनि भरतर्षभ। योगः कुर्याद् बलं प्राप्य तैश्च सर्वैर्महीं चरेत्॥ प्राप्नुयाद् विषयांश्चैव पुनश्चोग्रं तपश्चरेत्। संक्षिपेच्च पुनस्तात सूर्यस्तेजोगुणानिव॥ बलस्थस्य हि योगस्य बन्धनेशस्य पार्थिव। विमोक्षप्रभविष्णुत्वमुपपन्नमसंशयम्॥ बलानि योगप्राप्तानि मयैतानि विशाम्पते। निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनस्तव॥ आत्मनश्च समाधाने धारणां प्रति वा विभो। निदर्शनानि सूक्ष्माणि शृणु मे भरतर्षभ।॥ अप्रमत्तो तथा धन्वी लक्ष्यं हन्ति समाहितः। युक्तः सम्यक् तथा योगी मोक्षं प्राप्नोत्यसंशयम्॥ स्नेहपूर्णे यथा पात्रे मन आधाय निश्चलम्। पुरुषो युक्त आरोहेत् सोपानं युक्तमानसः॥ युक्तस्तथायमात्मानं योगः पार्थिव निश्चलम्। करोत्यमलमात्मानं भास्करोपमदर्शनम्॥ यथा च नावं कौन्तेय कर्णधारः समाहितः। महार्णवगतां शीघ्रं नयेत् पार्थिवसत्तम॥ तद्वदात्मसमाधानं युक्त्वा योगेन तत्त्ववित्। दुर्गमं स्थानमाप्नोति हित्वा देहमिमं नृप॥ सारथिश्च यथा युक्त्वा सदश्वान् सुसमाहितः। देशमिष्टं नयत्याशु धन्विनं पुरुषर्षभ॥ तथैव नृपते योगी धारणासु समाहितः। प्राप्नोत्याशु परं स्थानं लक्षं मुक्त इवाशुगः॥ प्रवेश्यात्मनि चात्मानं योगी तिष्ठति योऽचलः। पापं हन्ति पुनीतानां पदमाप्नोति सोऽजरम्॥ नाभ्यां कण्ठे च शीर्षे च हृदि वक्षसि पार्श्वयोः। दर्शने श्रवणे चापि घ्राणे चामितविक्रम॥ स्थानेष्वेतेषु यो योगी महाव्रतसमाहितः। आत्मना सूक्ष्ममात्मानं युङ्क्ते सम्यग्विशाम्पते।॥ स शीघ्रमचलप्रख्यं कर्म दग्ध्वा शुभाशुभम्। उत्तमं योगमास्थाय यदीच्छति विमुच्यते॥ युधिष्ठिर उवाच आहारान् कीदृशान् कृत्वा कानि जित्वा च भारत। योगी बलमवाप्नोति तद् भवान् वक्तुमर्हसि॥ भीष्म उवाच कणानां भक्षणे युक्तः पिण्याकस्य च भारत। स्नेहानां वर्जने युक्तो योगी बलमवाप्नुयात्॥ भुजानो यावकं रूक्षं दीर्घकालमरिंदम्। एकाहारो विशुद्धात्मा योगी बलमवाप्नुयात्॥ पक्षान् मासानृतूंश्चैतान् संवत्सरानहस्तथा। अप:पीत्वा पयोमिश्रा योगी बलमवाप्नुयात्॥ अखण्डमपि वा मांसं सततं मनुजेश्वर। उपोष्य सम्यक् शुद्धात्मा योगी बलमवाप्नुयात्॥ कामं जित्वा तथा क्रोधं शीतोष्णे वर्षमेव च। भयं शोकं तथा श्वासं पौरुषान् विषयांस्तथा॥ अरतिं दुर्जयां चैव घोरां तृष्णां च पार्थिवा स्पर्श निद्रां तथा तन्द्री दुर्जयां नृपसत्तम॥ दीपयन्ति महात्मानः सूक्ष्ममात्मानमात्मना। वीतरागा महाप्राज्ञा ध्यानाध्ययनसम्पदा॥ दुर्गस्त्वेष मतः पन्था ब्राह्मणानां विपश्चिताम्। यः कश्चिद् व्रजति ह्यस्मिन् क्षेमेण भरतर्षभ॥ यथा कश्चिद् वनं घोरं बहुसर्पसरीसृपम्। श्वभ्रवत् तोयहीनं च दुर्गमं बहुकण्टकम्॥ अभक्तमटवीप्रायं दावदग्धमहीरुहम्। पन्थानं तस्कराकीण क्षेमेणाभिपतेद् युवा॥ योगमार्ग तथाऽऽसाद्य यः कश्चिद् व्रजते द्विजः। क्षेमेणोपरमेन्मार्गाद् बहुदोषो हि स स्मृतः॥ सुस्थेयं क्षुरधारासु निशितासु महीपते। धारणासु तु योगस्य दुःस्थेयमकृतात्मभिः॥ विपन्ना धारणास्तात नयन्ति न शुभां गतिम्। नेतृहीना यथा नावः पुरुषानर्णवे नृप॥ यस्तु तिष्ठति कौन्तेय धारणासु यथाविधि। मरणं जन्मदुःखं च सुखं च स विमुञ्चति॥ नानाशास्त्रेषु निष्पन्नं योगेष्विदमुदाहृतम्। परं योगस्य यत् कृत्यं निश्चितं तद् द्विजातिषु॥ परं हि तद् ब्रह्म महन्महात्मन् ब्रह्माणमीशं वरदं च विष्णुम्। भवं च धर्मं च षडाननं च यद् ब्रह्मपुत्रांश्च महानुभावान्॥ तमश्च कष्टं सुमहद् रजश्च सत्त्वं विशुद्धं प्रकृति परां च। सिद्धिं च देवीं वरुणस्य पत्नी तेजश्च कृत्स्नं सुमहच्च धैर्यम्॥ ताराधिपं खे विमलं सतारं विश्वांश्च देवानुरगान् पितॄश्च। शैलांश्च कृत्स्नानुदधींश्च घोरान् नदीश्च सर्वाः सवनान् घनांश्च॥ नागान् नगान् यक्षगणान् दिशश्च गन्धर्व संघान् पुरुषान् स्त्रियश्च। परस्परं प्राप्य महान्महात्मा विशेत योगी न चिराद् विमुक्तः॥ कथा च येयं नृपते प्रसक्ता देवे महावीर्यमतौ शुभेयम्। योगी स सर्वानभिभूय मान् नारायणात्मा कुरुते महात्मा॥ युधिष्ठिर उवाच सम्यक् त्वयायं नृपते वर्णित; शिष्टसम्मतः। योगमार्गो यथान्यायं शिष्यायेह हितैषिणा॥ सांख्ये त्विदानी कात्येन विधिं प्रब्रूहि पृच्छते। त्रिषु लोकेषु यज्ज्ञानं सर्वं तद् विदितं हि ते॥ भीष्म उवाच शृणु मे त्वमिदं सूक्ष्म सांख्यानां विदितात्मनाम्। विहितं यतिभिः सर्वैः कपिलादिभिरीश्वरैः॥ यस्मिन् न विभ्रमाः केचिद् दृश्यन्ते मनुजर्षभ। गुणाश्च यस्मिन् बहवो दोषहानिश्च केवला॥ ज्ञानेन परिसंख्याय सदोषान् विषयान् नृप। मानुषान् दुर्जयान् कृत्स्नान् पैशाचान् विषयांस्तथा॥ राक्षसान् विषयान् ज्ञात्वा यक्षाणां विषयांस्तथा। विषयानौरगान् ज्ञात्वा गान्धर्वविषयांस्तथा॥ पितॄणां विषयान् ज्ञात्वा तिर्यक्षु चरतां नृप। सुपर्णविषयान् ज्ञात्वा मरुतां विषयांस्तथा।॥ राजर्षिविषयान् ज्ञात्वा ब्रह्मर्षिविषयांस्तथा। आसुरान् विषयान् ज्ञात्वा वैश्वदेवांस्तथैव च॥ देवर्षिविषयान् ज्ञात्वा योगानामपि चेश्वरान्। प्रजापतीनां विषयान् ब्रह्मणो विषयांस्तथा॥ आयुषश्च परं कालं लोके विज्ञाय तत्त्वतः। सुखस्य च परं तत्त्वं विज्ञाय वदतां वर॥ प्राप्ते काले च यद् दुःखं सततं विषयैषिणाम्। तिर्यक्षु पततां दुःखं पततां नरके च यत्॥ स्वर्गस्य च गुणान् कृत्स्नान् दोषान् सर्वांश्च भारत। वेदवादेऽपि ये दोषा गुणा ये चापि वैदिकाः॥ ज्ञानयोगे च ये दोषा गुणा योगे च ये नृप। सांख्यज्ञाने च ये दोषास्तथैव च गुणा नृप॥ सत्त्वं दशगुणं ज्ञात्वा रजो नवगुणं तथा। तमश्चाष्टगुणं ज्ञात्वा बुद्धिं सप्तगुणां तथा॥ षड्गुणं च मनो ज्ञात्वा नभः पञ्चगुणं तथा। बुद्धिं चतुर्गुणां ज्ञात्वा तमश्च त्रिगुणं तथा॥ द्विगुणं च रजो ज्ञात्वा सत्त्वमेकगुणं पुनः। मार्ग विज्ञाय तत्त्वेन प्रलये प्रेक्षणे तथा॥ ज्ञानविज्ञानसंपन्नाः कारनैर्भाविताः शुभाः। प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इव नभः परम्॥ रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च। शब्दे सक्तं तथा श्रोत्रं जिह्वा रसगुणेषु च॥ तनुं स्पर्श तथा सक्तां वायु नभसि चाश्रितम्। मोहं तमसि संयुक्त लोभमर्थेषु संश्रितम्॥ विष्णुं क्रान्ते बले शर्क कोष्ठे सक्तं तथानलम्। अप्सु देवीं समासक्तामपस्तेजसि संश्रिताः॥ तेजो वायौ तु संसक्तं वायुं नभसि चाश्रितम्। नभो महति संयुक्तं महद् बुद्धौ च संश्रितम्॥ बुद्धिं तमसि सक्तां तमो रजसि संश्रितम्। रजः सत्त्वे तथा सक्तं सत्त्वं सक्तं तथाऽऽत्मनि॥ सक्तमात्मानमीशे च देवे नारायणे तथा। देवं मोक्षे च संसक्तं मोक्षं सक्तं तु न क्वचित्॥ ज्ञात्वा सत्त्वगुणं देहं वृतं षोडशभिर्गुणैः। स्वभावं चेतनां चैव ज्ञात्वा देहसमाश्रिते॥ मध्यस्थमेकमात्मानं पापं यस्मिन् न विद्यते। द्वितीयं कर्म विज्ञाय नृपते विषयैषिणाम्॥ इन्द्रियाणिन्द्रियार्थांश्च सर्वानात्मनि संश्रितान्। दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम्॥ प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः। अधश्चैवानिलं ज्ञात्वा प्रवहं चानिलं पुनः॥ सप्त वातांस्तथा ज्ञात्वा सप्तधा विहितान् पुनः। प्रजापतीनृषींश्चैव मार्गांश्चैव बहून् वरान्॥ सप्तर्षीश्च बहून् ज्ञात्वा राजर्षीश्च परंतप। सुरीन् महतश्चान्यान् ब्रह्मर्षीन् सूर्यसंनिभान्॥ ऐश्वर्याच्चयावितान् दृष्टा कालेन महता नृप। महतां भूतसंघानां श्रुत्वा नाशं च पार्थिव॥ गतिं चाप्यशुभां ज्ञात्वा नृपते पापकर्मिणाम्। वैतरण्यां च यद् दुःखं पतितानां यमक्षये॥ योनीषु च विचित्रासु संसारानशुभांस्तथा। जठरे चाशुभे वासं शोणितोदकभाजने॥ श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते। शुक्रशोणितसंघाते मज्जास्नायुपरिग्रहे।॥ शिराशतसमाकीर्णे नवद्वारे पुरेऽशुचौ। विज्ञाय हितमात्मानं योगांश्च विविधान् नृप॥ तामसानां च जन्तूनां रमणीयावृतात्मनाम्। सात्त्विकानां च जन्तूनां कुत्सितं भरतर्षभ॥ गर्हितं महतामर्थे सांख्यानां विदितात्मनाम्। उपप्लवांस्तथा घोराशशिनस्तेजसस्तथा॥ ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम्। द्वन्द्वानां विप्रयोगं च विज्ञाय कृपणं नृप।॥ अन्योन्यभक्षणं दृष्ट्वा भूतानामपि चाशुभम्। बाल्ये मोहं च विज्ञाय क्षयं देहस्य चाशुभम्॥ रागे मोहे च सम्प्राप्ते क्वचित् सत्त्वं समाश्रितम्। सहस्रेषु नरः कश्चिन्मोक्षबुद्धिं समाश्रितः॥ दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम्। बहुमानमलब्धेषु लब्धे मध्यस्थतां पुनः॥ विषयाणां च दौरात्म्यं विज्ञाय नृपते पुनः। गतासूनां च कौन्तेय देहान् दृष्ट्वा तथाशुभान्॥ वासं कुलेषु जन्तूनां दुःखं विज्ञाय भारत। ब्रह्मघ्नानां गति ज्ञात्वा पतितानां सुदारुणाम्॥ सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम्। गुरुदारप्रसक्तानां गतिं विज्ञाय चाशुभाम्॥ जननीषु च वर्तन्ते ये न सम्यग् युधिष्ठिर। सदेवकेषु लोकेषु ये न वर्तन्ति मानवाः॥ तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम्। तिर्यग्योनिगतानां च विज्ञाय गतयः पृथक्॥ वेदवादांस्तथा चित्रानृतूनां पर्ययांस्तथा। क्षयं संवत्सराणां च मासानां च क्षयं तथा॥ पक्षक्षयं तथा दृष्ट्वा दिवसानां च संक्षयम्। क्षयं वृद्धिं च चन्द्रस्य दृष्ट्वा प्रत्यक्षतस्तथा॥ वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः। क्षयं धनानां दृष्ट्वा च पुनर्वृद्धिं तथैव च॥ संयोगानां क्षयं दृष्ट्वा युगानां च विशेषतः। क्षयं च दृष्ट्वा शैलानां क्षयं च सरितां तथा॥ वर्णानां च क्षयं दृष्ट्वा क्षयान्तं च पुनः पुनः। जरामृत्युं तथा जन्म दृष्ट्वा दुःखानि चैव ह॥ देहदोषांस्तथा ज्ञात्वा तेषां दुःखं च तत्त्वतः। देहविक्लवतां चैव सम्यग् विज्ञाय तत्त्वतः॥ आत्मदोषांश्च विज्ञाय सर्वानात्मनि संश्रितान्। स्वदेहादुत्थितान् गन्धांस्तथा विज्ञाय चाशुभान्॥ युधिष्ठिर उवाच कान् स्वगात्रोद्भवान् दोषान् पश्यस्यमितविक्रम्। एतन्मे संशयं कृत्स्नं वक्तुमर्हसि तत्त्वतः॥ भीष्म उवाच पञ्च दोषान् प्रभो देहे प्रवदन्ति मनीषिणः। मार्गज्ञाः कापिलाः सांख्याः शृणु तानरिसूदन॥ कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते। एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम्॥ छिन्दन्ति क्षमया क्रोधं कामं संकल्पवर्जनात्। सत्त्वसंसेवनान्निद्रामप्रमादाद् भयं तथा। छिन्दन्ति पञ्चमं श्वासमल्पाहारतया नृप॥ गुणान् गुणशतैर्ज्ञात्वा दोषान् दोषशतैरपि। हेतून् हेतुशतैश्चित्रश्चित्रान् विज्ञाय तत्त्वतः॥ अपां फेनोपमं लोकं विष्णोर्मायाशतैर्वृतम्। चित्रभित्तिप्रतीकाशं नलसारमनर्थकम्॥ तमः श्रुभ्रनिभं दृष्ट्वा वर्षबुबुदसंनिभम्। नाशनायं सुखाद्धीनं नाशोत्तरमिहावशम्॥ रजस्तमसि सम्मग्नं पङ्के द्विपमिवावशम्। सांख्या राजन् महाप्राज्ञा स्त्यक्त्वा स्नेहं प्रजाकृतम्।।६१ ज्ञानयोगेन सांख्येन व्यापिना महता नृप। राजसानशुभान् गन्धांस्तामसांश्च तथाविधान्॥ पुण्यांश्च सात्त्विकान् मन्धान स्पर्शजान् देहसंश्रितान्। छित्त्वाऽऽशु ज्ञानशस्त्रेण तपोदण्डेन भारत॥ ततो दुःखोदकं घोरं चिन्ताशोकमहाह्रदम्। व्याधिमृत्युमहाग्राहं महाभयमहोरगम्॥ तमःकूर्म रजोमीनं प्रज्ञया संतरन्त्युत। स्नेहपy जरादुर्ग ज्ञानद्वीपमरिंदम॥ कर्मागाधं सत्यतीरं स्थितव्रतमरिंदम्। हिंसाशीघ्रमहावेगं नानारससमाकरम्॥ नानाप्रीतिमहारलं दुः खज्वरसमीरणम्। शोकतृष्णामहावर्त तीक्ष्णव्याधिमहागजम्॥ अस्थिसंघातसंघटं श्लेष्मफेनमरिंदम। दानमुक्ताकरं घोरं शोणितह्रदविद्रुमम्॥ हसितोत्क्रुष्टनिर्घोषं नानाज्ञानसुदुस्तरम्। रोदनाश्रुमलक्षारं संगत्यागपरायणम्॥ पुत्रदारजलौकौघं मित्रबान्धवपत्तनम्। अहिंसासत्यमर्यादं प्राणत्यागमहोर्मिणम्॥ वेदान्तगमनद्वीपं सर्वभूतदयोदधिम्। मोक्षदुर्लाभविषयं वडवामुखसागरम्॥ तरन्ति यतयः सिद्धा ज्ञानयानेन भारत। तीर्वातिदुस्तरं जन्म विशन्ति विमलं नभः॥ तत्र तान् सुकृतीन् सांख्यान् सूर्यो वहति रश्मिभिः। पद्मतन्तुवदाविश्य प्रवहन विषयान् नृप॥ तत्र तान् प्रवहो वायुः प्रतिगृह्णाति भारत। वीतरागान् यतीन् सिद्धान् वीर्ययुक्तांस्तपोधनान्॥ सूक्ष्मः शीतः सुगन्धी च सुखस्पर्शश्च भारत। सप्तानां मरुतां श्रेष्ठो लोकान् गच्छति यः शुभान्। स तान् वहति कौन्तेय नभसः परमां गतिम्॥ नभो वहति लोकेश रजसः परमां गतिम्। रजो वहति राजेन्द्र सत्त्वस्य परमां गतिम्॥ सत्त्वं वहति शुद्धात्मन् परं नारायण प्रभुम्। प्रभुर्वहति शुद्धात्मा परमात्मानमात्मना॥ परमात्मानमासाद्य तद्भूतायतनामलाः। अमृतत्वाय कल्पन्ते न निवर्तन्ति वा विभो॥ परमा सा गतिः पार्थ निर्द्वन्द्वानां महात्मनाम्। सत्यार्जवरतानां वै सर्वभूतदयावताम्॥ युधिष्ठिर उवाच स्थानमुत्तममासाद्य भगवन्तं स्थिरव्रताः। आजन्ममरणं वा ते स्मरन्त्युत न वानघ॥ यदत्र तथ्यं तन्मे त्वं यथावद् वक्तुमर्हसि। त्वदृते पुरुषं नान्यं प्रष्टुमर्हामि कौरव॥ मोक्षे दोषो महानेष प्राप्य सिद्धिं गतानृषीन्। यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे॥ प्रवृत्तिलक्षणं धर्मं पश्यामि परमं नृप। मग्नस्य हि परे ज्ञाने किं नु दुःखतरं भवेत्॥ भीष्म उवाच यथान्यायं त्वया तात प्रश्नः पृष्टः सुसंकटः। बुधानामपि सम्मोहः प्रश्नेऽस्मिन् भरतर्षभ॥ अत्रापि तत्त्वं परमं शृणु सम्यड्मयेरितम्। बुद्धिश्च परमा यत्र कापिलानां महात्मनाम्॥ इन्द्रियाण्येव बुध्यन्ते स्वदेहे देहिनां नृप। कारणान्यात्मनस्तानि सूक्ष्मः पश्यति तैस्तु सः॥ आत्मना विप्रहीणानि काष्ठकुड्यसमानि तु। विनश्यन्ति न संदेहः फेना इव महार्णवे॥ इन्द्रियैः सह सुप्तस्य देहिनः शत्रुतापन। सूक्ष्मश्चरति सर्वत्र नभसीव समीरणः॥ स पश्यति यथान्यायं स्पर्शान् स्पृशति वा विभो। बुध्यमानो यथापूर्वमखिलेनेह भारत॥ इन्द्रियाणीह सर्वाणि स्वे स्वे स्थाने यथाविधि। अनीशत्वात् प्रलीयन्ते सर्पा हतविषा इव॥ इन्द्रियाणां तु सर्वेषां स्वस्थानेष्वेव सर्वशः। आक्रम्य गतयः सूक्ष्माश्चरत्यात्मा न संशयः॥ सत्त्वस्य च गुणान् कृत्स्नान् रजसश्च गुणान् पुनः। गुणांश्च तमसः सर्वान् गुणान् बुद्धेश्च भारत॥ गुणांश्च मनसश्चापि नभसश्च गुणांश्च सः। गुणान् वायोश्च धर्मात्मंस्तेजसश्च गुणान् पुनः॥ अपां गुणांस्तथा पार्थ पार्थिवांश्च गुणानपि। सर्वाण्येव गुणैर्व्याप्य क्षेत्रज्ञषु युधिष्ठिर॥ मनोऽनु याति क्षेत्रज्ञं कर्मणी च शुभाशुभे। शिष्या इव महात्मानमिन्द्रियाणि च तं प्रभो॥ प्रकृतिं चाप्यतिक्रम्य गच्छत्यात्मानमव्ययम्। परं नारायणात्मानं निर्द्वन्द्वं प्रकृतेः परम्॥ विमुक्तः पुण्यपापेभ्यः प्रविष्टस्तमनामयम्। परमात्मानमगुणं न निवर्तति भारत॥ शिष्टं तत्र मनस्तात इन्द्रियाणि च भारत। आगच्छन्ति यथाकालं गुरोः संदेशकारिणः॥ शक्यं चाल्पेन कालेन शान्ति प्राप्तुं गुणार्थिना। एवमुक्तेन कौन्तेय युक्तज्ञानेन मोक्षिणा॥ सांख्या राजन् महाप्राज्ञा गच्छन्ति परमां गतिम्। ज्ञानेनानेन कौन्तेय तुल्यं ज्ञानं न विद्यते॥ अत्र ते संशयो मा भूज्ज्ञानं सांख्यं परं मतम्। अक्षरं ध्रुवमेवोक्तं पूर्ण ब्रह्म सनातनम्॥ अनादिमध्यनिधनं निर्द्वन्द्वं कर्तृ शाश्वतम्। कूटस्थं चैव नित्यं च यद् वदन्ति मनीषिणः॥ यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः। यच्च शंसन्ति शास्त्रेषु वदन्ति परमर्षयः॥ सर्वे विप्राश्च देवाश्च तथा शमविदो जनाः। ब्रह्मण्यं परमं देवमनन्तं परमच्युतम्॥ प्रार्थयन्तश्च तं विप्रा वदन्ति गुणबुद्धयः। सम्यग्युक्तास्तथा योगाः सांख्याश्चामितदर्शनाः॥ अमूर्तेस्तस्य कौन्तेय सांख्यं मूर्तिरिति श्रुतिः। अभिज्ञानानि तस्याहुर्मतं हि भरतर्षभ॥ द्विविधानीह भूतानि पृथिव्यां पृथिवीपते। जङ्गमागमसंज्ञानि जङ्गमं तु विशिष्यते॥ ज्ञानं महद् यद्धि महत्सु राजन् वेदेषु सांख्येषु तथैव योगे। यच्चापि दृष्टं विविधं पुराणे सांख्यागतं तन्निखिलं नरेन्द्र॥ यच्चेतिहासेषु महत्सु दृष्टं यच्चार्थशास्त्रे नृप शिष्टजुष्टे। ज्ञानं च लोके यदिहास्ति किंचित् सांख्यागतं तच्च महन्महात्मन्॥ शमश्च दृष्टः परमं बलं च ज्ञानं च सूक्ष्मं च यथावदुक्तम्। तपांसि सूक्ष्माणि सुखानि चैव सांख्ये यथावद् विहितानि राजन्॥ विपर्यये तस्य हि पार्थ देवान् गच्छन्ति सांख्याः सततं सुखेन। तांश्चानुसंचार्य ततः कृतार्थाः पतन्ति विप्रेषु यतेषु भूयः॥ हित्वा च देहं प्रविशन्ति देवं दिवौकसौ द्यामिव पार्थ सांख्या:। अतोऽधिकं तेऽभिरता महार्हे सांख्ये द्विजाः पार्थिव शिष्टजुष्टे॥ तेषां न तिर्यग्गमनं हि दृष्टं नार्वाग्गति पाप:कृताधिवासः। न वा प्रधाना अपि ते द्विजातयो ये ज्ञानमेतन्नृपतेऽनुरक्ताः॥ सांख्यं विशालं परमं पुराणं महार्णवं विमलमुदारकान्तम्। कृत्स्नं च सांख्यं नृपते महात्मा नारायणो धारयतेऽप्रमेयम्॥ एतन्मयोक्तं नरदेव तत्त्वं नारायणो विश्वमिदं पुराणम्। संसर्गकाले च करोति सर्ग संहारकाले च तदत्ति भूयः॥ संहृत्य सर्वं निजदेहसंस्थं कृत्वाप्सु शेते जगदन्तरात्मा॥ युधिष्ठिर उवाच किं तदक्षरमित्युक्तं यस्मानावर्तते पुनः। किं च तत्क्षरमित्युक्तं यस्मादावर्तते पुनः॥ अक्षरक्षरयोर्व्यक्तिं पृच्छाम्यरिनिषूदन्। उपलब्धं महाबाहो तत्त्वेन कुरुनन्दन।॥ त्वं हि ज्ञानानिधिविप्रेसच्यसे वेदपारगैः। ऋषिभिश्च महाभागैर्यतिभिश्च महात्मभिः॥ शेषमल्पं दिनानां ते दक्षिणायनभास्करे। आवृते भगवत्यर्के गन्तासि परमां गतिम्॥ त्वयि प्रतिगते श्रेयः : कुतः श्रोष्यामहे वयम्। कुरुवंशप्रदीपस्त्वं ज्ञानदीपेन दीप्यसे॥ तदेतच्छ्रोतुमिच्छामि त्वत्तः कुरुकुलोद्वह। न तृप्यामीह राजेन्द्र शृण्वन्नमृतमीदृशम्॥ भीष्म उवाच अत्र ते वर्तयिष्यामि इतिहासं पुरातनम्। वसिष्ठस्य च संवादं करालजनकस्य च॥ वसिष्ठं श्रेष्ठमासीनमृषीणां भास्करद्युतिम्। पप्रच्छ जनको राजा ज्ञानं नैःश्रेयसं परम्॥ परमध्यात्मकुशलमध्यात्मगतिनिश्चयम्। मैत्रावरुणिमासीनमभिवाद्य कृताञ्जलिः॥ स्वक्षरं प्रश्रितं वाक्यं मधुरं चाप्यनुल्बणम्। पप्रच्छर्षिवरं राजा करालजनकः पुरा॥ भगवश्रोतुमिच्छामि परं ब्रह्म सनातनम्। यस्मान्न पुनरावृत्तिमाप्नुवन्ति मनीषिणः॥ यच्च तत् क्षरमित्युक्तं यत्रेदं क्षरते जगत्। यच्चाक्षरमिति प्रोक्तं शिवं क्षेम्यमनामयम्॥ वसिष्ठ उवाच श्रूयतां पृथिवीपाल क्षरतीदं यथा जगत्। यन्न क्षरति पूर्वेण यावत्कालेन वाप्यथ॥ युगं द्वादशसाहस्रं कल्पं विद्धि चतुर्युगम्। दशकल्पशतावृत्तमहस्तद् ब्राह्ममुच्यते॥ रात्रिश्चैतावती राजन् यस्यान्ते प्रतिबुद्ध्यते। सृजत्यनन्तकर्माणं महान्तं भूतमग्रजम्॥ मूर्तिमन्तममूर्तात्मा विश्वं शम्भुः स्वयम्भुवः। अणिमा लघिमा प्राप्तिरीशानं ज्योतिरव्ययम्॥ सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम्। सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति॥ हिरण्यगर्भो भगवानेष बुद्धिरिति स्मृतः। महानिति च योगेषु विरिञ्चिरिति चाप्यजः॥ सांख्ये च पठ्यते शास्त्रे नामभिर्वहुधात्मकः। विचित्ररूपो विश्वात्मा एकाक्षर इति स्मृतः॥ वृतं नैकात्मकं येन कृतं त्रैलोक्यमात्मना। तथैव बहुरूपत्वाद् विश्वरूप इति स्मृतः॥ एष वै विक्रियापन्नः सृजत्यात्मानमात्मना। अहङ्कारं महातेजाः प्रजापतिमहंकृतम्॥ अव्यक्ताद् व्यक्तमापन्नं विद्यासगं वदन्ति तम्। महान्तं चाप्यहङ्कारमविद्यासर्गमेव च॥ अविधिश्च विधिश्चैव समुत्पन्नौ तथैकतः। विद्याविद्येति विख्याते श्रुतिशास्त्रार्थचिन्तकैः॥ भूतसर्गमहङ्कारात् तृतीयं विद्धि पार्थिवा अहङ्कारेषु सर्वेषु चतुर्थं विद्धि वैकृतम्॥ वायुयोतिरथाकाशमापोऽथ पृथिवी तथा। शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च॥ एवं युगपदुत्पन्नं दशवर्गमसंशयम्। पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गमर्थवत्॥ श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणमेव च पञ्चमम्। वाक् च हस्तौ च पादौ च पायुर्मेदूं तथैव च॥ बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च। सम्भूतानीह युगपन्मनसा सह पार्थिव॥ एषा तत्त्वचतुर्विंशा सर्वाकृतिषु वर्तते। यां ज्ञात्वा नाभिशोचन्ति ब्राह्मणास्तत्त्वदर्शिनः॥ एतद् देहं समाख्यातं त्रैलोक्ये सर्वदेहिषु। वेदितव्यं नरश्रेष्ठ सदेवनरदानवे॥ सयक्षभूतगन्धर्वे सकिन्नरमहोरगे। सचारणपिशाचे वै सदेवर्षिनिशाचरे॥ सदंशकीटमशके सपूतिकृमिमूषिके। शुनि श्वपाके चैणे ये सचाण्डाले सपुल्कसे॥ हस्त्यश्वखरशार्दूले सवृक्षे गवि चैव ह। यच्च मूर्तिमयं किंचित् सर्वत्रैतन्निदर्शनम्॥ जले भुवि तथाऽऽकाशे नान्यत्रेति विनिश्चयः। स्थानं देहवतामासीदित्येवमनुशुश्रुम॥ कृत्स्नमेतावतस्तात क्षरते व्यक्तसंज्ञितम्। अहन्यहनि भूतात्मा ततः क्षर इति स्मृतः॥ एतदक्षरमित्युक्तं क्षरतीदं यथा जगत्। जगन्मोहात्मकं प्राहुरव्यक्ताद् व्यक्तसंज्ञकम्॥ महांश्चैवाग्रजो नित्यमेतत् क्षरनिदर्शनम्। कथितं ते महाराज यन्मां त्वं परिपृच्छसि॥ पञ्चविंशतिमो विष्णुर्निस्तत्त्वस्तत्त्वसंज्ञितः। तत्त्वसंश्रयणादेतत् तत्त्वमाहुर्मनीषिणः॥ यन्मय॑मसृजद् व्यक्तं तत्तन्मूर्त्यधितिष्ठति। चतुर्विंशतिमोऽव्यक्तो ह्यमूर्तः पञ्चविंशकः॥ स एव हृदि सर्वासु मूर्तिष्वातिष्ठतेऽऽत्मवान्। केवलश्चेतनो नित्यः सर्वमूर्तिरमूर्तिमान्॥ सर्गप्रलयधर्मिण्या असर्गप्रलयात्मकः। गोचरे वर्तते नित्यं निर्गुणं गुणसंज्ञितम्॥ एवमेष महानात्मा सर्गप्रलयकोविदः। विकुर्वाणः प्रकृतिमानभिमन्यत्यबुद्धिमान्॥ तमःसत्त्वरजोयुक्तस्तासु तास्विह योनिषु। नियते प्रतिबुद्धित्वादबुद्धजनसेवनात्॥ सहवासविनाशित्वान्नान्योऽहमिति मन्यते। योऽहं सोऽहमिति ह्युक्त्वा गुणानेवानुवर्तते॥ तमसा तामसान् भावान् विविधान् प्रतिपद्यते। रजसा राजसांश्चैव सात्त्विकान् सत्त्वसंश्रयात्॥ शुक्ललोहितकृष्णानि रूपाण्येतानि त्रीणि तु। सर्वाण्येतानि रूपाणि यानीह प्राकृतानि वै॥ तामसा निरयं यान्ति राजसा मानुषानथ। सात्त्विका देवलोकाय गच्छन्ति सुखभागिनः॥ निष्कैवल्येन पापेन तिर्यग्योनिमवाप्नुयात्। पुण्यपापेन मानुष्यं पुण्येनैकेन देवताः॥ एवमव्यक्तविषयं क्षरमाहुर्मनीषिणः। पञ्चविंशतिमो योऽयं ज्ञानादेव प्रवर्तते॥ वसिष्ठ उवाच एवमप्रतिबुद्धत्वादवुद्धमनुवर्तते। देहाद् देहसहस्राणि तथा समभिपद्यते॥ तिर्यग्योनिसहस्रेषु कदाचिद् देवतास्वपि। उपपद्यति संयोगाद् गुणैः सह गुणक्षयात्॥ मानुषत्वाद् दिवं याति दिवो मानुष्यमेव च। मानुष्यान्निरयस्थानमानन्त्यं प्रतिपद्यते॥ कोशकारो यथाऽऽत्मानं कीट: समवरुन्धति। सूत्रतन्तुगुणैर्नित्यं तथायमगुणो गुणैः॥ द्वन्द्वमेति च निर्द्वन्द्वस्तासु तास्विह योनिषु। शीर्षरोगेऽक्षिरोगे च दन्तशूले गलग्रहे॥ जलोदरे तृषारोगे ज्वरगण्डे विषूचके। श्वित्रकुष्ठेऽग्निदग्धे च सिध्मापस्मारयोरपि॥ यानि चान्यानि द्वन्द्वानि प्राकृतानि शरीरिषु। उत्पद्यन्ते विचित्राणि तान्येषोऽप्यभिमन्यते॥ तिर्यग्योनिसहस्रेषु कदाचिद् देवतास्वपि। अभिमन्यत्यभीमानात् तथैव सुकृतान्यपि॥ शुक्लवासाश्च दुर्वासाः शायी नित्यमधस्तथा। मण्डूकशायी च तथा वीरासनगतस्तथा॥ चीरधारणमाकाशे शयनं स्थानमेव च। इष्टकाप्रस्तरे चैव कण्टकप्रस्तरे तथा॥ भस्मप्रस्तरशायी च भूमिशय्या तलेषु च। वीरस्थानाम्बुपके च शयनं फलकेषु च॥ विविधासु च शय्यासु फलगृङ्ख्यान्वितस्तथा। मुञ्जमेखलनग्नत्वं क्षौमकृष्णाजिनानि च॥ शाणीवालपरीधानो व्याघ्रचर्मपरिच्छदः। सिंहचर्मपरीधानः पट्टवासास्तथैव च॥ फलक परिधानश्च तथा कण्टकवस्त्रधृका कीटकावसनश्चैव चीरवासास्तथैव च॥ वस्त्राणि चान्यानि बहून्यभिमन्यत्यबुद्धिमान्। भोजनानि विचित्राणि रत्नानि विविधानि च॥ एकरात्रान्तराशित्वमेककालिकभोजनम्। चतुर्थाष्टमकालश्च षष्ठकालिक एव च॥ घड्रात्रभोजनश्चैव तथैवाष्टाहभोजनः। सप्तरात्रदशाहारो द्वादशाहिकभोजनः॥ मासोपवासी मूलाशी फलाहारस्तथैव च। वायुभक्षोऽम्बुपिण्याकदधिगोमयभोजनः॥ गोमूत्रभोजनश्चैव शाकपुष्पाद एव च। शैवालभोजनश्चैव तथाऽऽवामेन वर्तयन्॥ वर्तयन् शीर्णपणैश्च प्रकीर्णफलभोजनः। विविधानि च कृच्छ्राणि सेवते सिद्धिकासया॥ चान्द्रायणानि विधिवल्लिङ्गानि विविधानि च। चातुराश्रम्यपन्थानमाश्रयत्यपथानपि॥ उपाश्रमानण्यपरान् पाषण्डान् विविधानपि। विविक्ताच शिलाच्छायास्तथा प्रस्रवणानि च॥ पुलिनानि विविक्तानि विविक्तानि वनानि च। देवस्थानानि पुण्यानि विविक्तानि सरांसि च॥ विविक्ताश्चापि शैलानां गुहा गृहनिभोपमाः। विविक्तानि च जप्यानि व्रतानि विविधानि च॥ नियमान् विविधांश्चापि विविधानि तपांसि च। यज्ञांश्च विविधाकारान् विधींश्च विविधांस्तथा॥ वणिक्पथं द्विजं क्षत्रं वैश्यशूद्रांस्तथैव च। दानं च विविधाकारं दीनान्धकृपणादिषु॥ अभिमन्यत्यसम्बोधात् तथैव त्रिविधान् गुणान्। सत्त्वं रजस्तमश्चैव धर्मार्थो काम एव च॥ प्रकृत्याऽऽत्मानमेवात्मा एवं प्रविभजत्युतः। स्वधाकारवषट्कारौ स्वाहाकारनमस्क्रियाः॥ याजनाध्यापनं दानं तथैबाहुः प्रतिग्रहम्। यजनाध्ययने चैव यच्चान्यदपि किंचन॥ जन्ममृत्युविवादे च तथा विशसनेऽपि च। शुभाशुभमयं सर्वमेतदाहुः क्रियापथम्॥ प्रकृतिः कुरुते देवी भवं प्रलयमेव च। दिवसान्ते गुणानेतानभ्येत्यैकोऽवतिष्ठते॥ रश्मिजालमिवादित्यस्तत् तत्काले नियच्छति। एवमेषोऽसकृत्पूर्वं क्रीडार्थमभिमन्यते॥ आत्मरूपगुणानेतान् विविधान् हृदयप्रियान्। एवमेतां विकुर्वाणः सर्गप्रलयधर्मिणीम्॥ क्रियां क्रियापथे रक्तस्त्रिगुणां त्रिगुणाधिपः। क्रियां क्रियापथोपेतस्तथा तदिति मन्यते॥ प्रकृत्या सर्वमेवेदं जगदन्धीकृतं विभो। रजसा तमसा चैव व्याप्तं सर्वमनेकधा॥ एवं द्वन्द्वान्यथैतानि समावर्तन्ति नित्यशः। ममैवैतानि जायन्ते धावन्ते तानि मामिति॥ निस्तर्तव्यान्यथैतानि सर्वाणीति नराधिप। मन्यतेऽयं ह्यबुद्धत्वात् तथैव सुकृतान्यपि।॥ भोक्तव्यानि मयैतानि देवलोकगतेन वै। इहैव चैनं भोक्ष्यामि शुभाशुभफलोदयम्॥ सुखमेव तु कर्तव्यं सकृत् कृत्वा सुखं मम। यावदन्तं च मे सौख्यं जात्यां जात्यां भविष्यति॥ भविष्यति च मे दुःखं कृतेनेहाप्यनन्तकम्। महद् दुःखं हि मानुष्यं निरये चापि मज्जनम्॥ निरयाच्चापि मानुष्यं कालेनैष्याम्यहं पुनः मनुष्यत्वाच्च देवत्वं देवत्वात् पौरुषं पुनः॥ मनुष्यत्वाच्च निरयं पर्यायेणोपगच्छति। य एवं वेत्ति नित्यं वै निरात्माऽऽत्मगुणैर्वृतः॥ तेन देवमनुष्येषु निरये चोपपद्यते। ममत्वेनावृतो नित्यं तत्रैव परिवर्तते।॥ सर्गकोटिसहस्राणि मरणान्तासु मूर्तिषु। य एवं कुरुते कर्म शुभाशुभफलात्मकम्॥ स एव फलमाप्नोति त्रिषु लोकेषु मूर्तिमान्। प्रकृति कुरुते कर्म शुभाशुभफलात्मकम्। प्रकृतिश्च तद श्नाति त्रिषु लोकेषु कामगा॥ तिर्यग्योनिमनुष्यत्वं देवलोके तथैव च। त्रीणि स्थानानि चैतानि जानीयात् प्रकृतानि ह॥ अलिङ्गां प्रकृति त्वाहुर्लिङ्गैरनुमिमीमहे। तथैव पौरुषं लिङ्गमनुमानाद्धि मन्यते॥ स लिङ्गान्तरमासाद्य प्राकृतं लिङ्गमव्रणः। व्रणद्वाराण्यधिष्ठाय कर्मण्यात्मनि मन्यते॥ श्रोत्रादीनि तु सर्वाणि पञ्चकर्मेन्द्रियाण्यथ। वागादीनि प्रवर्तन्ते गुणेष्विह गुणैः सह॥ अहमेतानि वै सर्वं मय्यतानीन्द्रियाणि ह। निरिन्द्रियो हि मन्येत व्रणवानस्मि निर्बणः॥ अलिङ्गो लिङ्गमात्मानमकालः कालमात्मनः। असत्त्वं सत्त्वमात्मानमतत्त्वं तत्त्वमात्मनः॥ अमृत्युर्मृत्युमात्मानमचरश्चरमात्मनः। अक्षेत्रः क्षेत्रमात्मानमसर्गः सर्गमात्मनः॥ अतपास्तप आत्मानमगतिर्गतिमात्मनः। अभवो भवमात्मानमभयो भयमात्मनः॥ अक्षरः क्षरमात्मानमबुद्धिस्त्वभिमन्यते॥ जनक उवाच नानात्वैकत्वमित्युक्तं त्वयैतदृषिसत्तम। पश्याम्येतद्धि संदिग्धमेतयोर्वे निदर्शनम्॥ तथा बुद्धप्रबुद्धाभ्यां बुद्ध्यमानस्य चानघ। स्थूलबुद्ध्या न पश्यामि तत्त्वमेतन्न संशयः॥ अक्षरक्षरयोरुक्तं त्वया यदपि कारणम्। तदप्यस्थिरबुद्धित्वात् प्रणष्टमिव मेऽनघ॥ तदेतच्छ्रोतुमिच्छामि नानात्वैकत्वदर्शनम्। बुद्धं चाप्रतिबुद्धं च बुध्यमानं च तत्त्वतः॥ विद्याविद्ये च भगवान्नक्षरं क्षरमेव च। साङ्ख्यं योगं च कार्येन पृथक् चैवापृथक् च ह॥ वसिष्ठ उवाच हन्त ते सम्प्रवक्ष्यामि यदेतदनुपृच्छसि। योगकृत्यं महाराज पृथगेव शृणुष्व मे॥ योगकृत्यं तु योगानां ध्यानमेव परं बलम्। तच्चापि द्विविधं ध्यानमाहुर्विद्याविदो जनाः॥ एकाग्रता च मनसः प्राणायामस्तथैव च। प्राणायामस्तु सगुणो निर्गुणो मनसस्तथा॥ मूत्रोत्सर्गपुरीषे च भोजने च नराधिप। त्रिकालं नाभियुञ्जीत शेषं युञ्जीत तत्परः॥ इन्द्रियाणीन्द्रियार्थेभ्यो निवर्त्य मनसा शुचिः। दशद्वादशभिर्वापि चतुर्विंशात् परं ततः॥ संचोदनाभिर्मतिमानात्मानं चोदयेदथ। तिष्ठन्तमजरं तं तु यत् तदुक्तं मनीषिभिः॥ तैश्चात्मा सततं ज्ञेय इत्येवमनुशुश्रुम। व्रतं ह्यहीनमनसो नान्यथेति विनिश्चयः॥ विमुक्तः सर्वसङ्गेभ्यो लघ्वाहारो जितेन्द्रियः। पूर्वरात्रेऽपररात्रे धारयीत मनोऽऽत्मनि॥ स्थिरीकृत्येन्द्रियग्राम मनसा मिथिलेश्वर। मनो बुद्ध्या स्थिरं कृत्वा पाषाण इव निश्चलः॥ स्थाणुवच्चाप्यकम्पः स्याद् गिरिवच्चापि निश्चलः। बुद्ध्या विधिविधानज्ञास्तदा युक्तं प्रचक्षते॥ न शृणोति न चाघ्राति न रंस्यति न पश्यति। न च स्पर्श विजानाति न संकल्पयते मनः॥ न चाभिमन्यते किंचिन्न न बुध्यति काष्ठवत्। तदा प्रकृतिमापनं युक्तमाहुर्मनीषिणः॥ निर्वाते हि यथा दीप्यन् दीपस्तद्वत् प्रकाशते। निर्लिङ्गोऽविचलश्चोर्ध्वं न तिर्यग् गतिमाप्नुयात्॥ तदा तमनुपश्येत यस्मिन् दृष्टे न कथ्यते। हृदयस्थोऽन्तरात्मेति ज्ञेयो ज्ञस्तात मद्विधैः। ॥ विधूम इव सप्तार्चिरादित्य इव रश्मिमान्। वैद्युतोऽग्निरिवाकाशे दृश्यतेऽऽत्मा तथाऽऽत्मनि॥ ये पश्यन्ति महात्मानो धृतिमन्तो मनीषिणः। ब्राह्मणा ब्रह्मयोनिस्था ह्ययोनिममृतात्मकम्॥ तदेवाहुरणुभ्योऽणु तन्महद्भ्यो महत्तरम्। तत् तत्त्वं सर्वभूतेषु ध्रुवं तिष्ठन् न दृश्यते॥ बुद्धिद्रव्येण दृश्येत मनोदीपेन लोककृत्। महतस्तमसस्तात पारे तिष्ठन्नतामसः॥ स तमोनुद इत्युक्तः सर्वज्ञैर्वेदपारगैः। विमलो वितमस्कश्च निर्लिङ्गोऽलिङ्गसंज्ञितः॥ योग एष हि योगानां किमन्यद् योगलक्षणम्। एवं पश्यं प्रपश्यन्ति आत्मानमजरं परम्॥ योगदर्शनमेतावदुक्तं ते तत्त्वतो मया। सांख्यज्ञानं प्रवक्ष्यामि परिसंख्यानदर्शनम्॥ अव्यक्तमाहुः प्रकृतिं परां प्रकृतिवादिनः। तस्मान्महत् समुत्पन्नं द्वितीयं राजसत्तम॥ अहङ्कारस्तु महतस्तृतीयमिति नः श्रुतम्। पञ्चभूतान्यहङ्कारादाहुः सांख्यात्मदर्शिनः॥ एताः प्रकृतयश्चाष्टौ विकारावापि षोडश। पञ्च चैव विशेषा वै तथा पञ्चेन्द्रियाणि च॥ एतावदेव तत्त्वानां सांख्यमाहुर्मनीषिणः। सांख्ये विधिविधानज्ञा नित्यं सांख्यपथे रताः॥ यस्माद् यदभिजायेत तत् तत्रैव प्रलीयते। लीयन्ते प्रतिलोमानि सृज्यन्ते चान्तरात्मना॥ अनुलोमेन जायन्ते लीयन्ते प्रतिलोमतः। गुणा गुणेषु सततं सागरस्योर्मयो यथा।॥ सर्गप्रलय एतावान् प्रकृतेर्नृपसत्तम। एकत्वं प्रलये चास्य बहुत्वं च यदासृजत्॥ एवमेव च राजेन्द्र विज्ञेयं ज्ञानकोविदैः। अधिष्ठातारमव्यक्तमस्याप्येतत्रिदर्शनम्॥ एकत्वं च बहुत्वं च प्रकृतेरर्थतत्त्ववान्। एकत्वं प्रलये चास्य बहुत्वं च प्रवर्तनात्॥ बहुधाऽऽत्मा प्रकुर्वीत प्रकृति प्रसवात्मिकाम्। तच्च क्षेत्रं महानात्मा पञ्चविंशोऽधितिष्ठति।॥ अधिष्ठातेति राजेन्द्र प्रोच्यते यतिसत्तमैः। अधिष्ठानादधिष्ठाता क्षेत्राणामिति नः श्रुतम्॥ क्षेत्रं जानाति चाव्यक्त क्षेत्रज्ञ इति चोच्यते। आव्यक्तिके पुरे शेते पुरुषश्चेति कथ्यते॥ अन्यदेव च क्षेत्रं स्यादन्यः क्षेत्रज्ञ उच्यते। क्षेत्रमव्यक्तमित्युक्तं ज्ञाता वै पञ्चविंशकः॥ अन्यदेव च ज्ञानं स्यादन्यज्ज्ञेयं तदुच्यते। ज्ञानमव्यक्तमित्युक्तं ज्ञेयो वै पञ्चविंशकः॥ अव्यक्त क्षेत्रमित्युक्तं तथा सत्त्वं तथेश्वरः। अनीश्वरमतत्त्वं च तत्त्वं तत् पञ्चविंशकम्॥ सांख्यदर्शनमेतावत् परिसंख्यानुदर्शनम्। सांख्याः प्रकुर्वते चैव प्रकृतिं च प्रचक्षते॥ तत्त्वानि च चतुर्विंशत् परिसंख्याय तत्त्वतः। सांख्याः सह प्रकृत्या तु निस्तत्त्वः पञ्चविंशकः॥ पञ्चविंशोऽप्रकृत्यात्मा बुध्यमान इति स्मृतः। यदा तु बुध्यतेऽऽत्मानं तदा भवति केवलः॥ सम्यग्दर्शनमेतावद् भाषितं तव तत्त्वतः। एवमेतद् विजानन्तः साम्यतां प्रति यान्त्युत॥ सम्यनिदर्शनं नाम प्रत्यक्षं प्रकृतेस्तथा। गुणतत्त्वान्यथैतानि निर्गुणोऽन्यस्तथा भवेत्॥ न त्वेवं वर्तमानानामावृत्तिर्विद्यते पुनः। विद्यतेऽक्षरभावत्वादपरं परमव्ययम्॥ पश्येरन्नैकमतयो न सम्यक् तेषु दर्शनम्। ते व्यक्तं प्रतिपद्यन्ते पुनः पुनररिंदम्॥ सर्वमेतद् विजानन्तो नासर्वस्य प्रबोधनात्। व्यक्तीभूता भविष्यन्ति व्यक्तस्य वशवर्तिनः॥ सर्वमव्यक्तमित्युक्तमसर्वः पञ्चविंशकः। य एनमभिजानन्ति न भयं तेषु विद्यते॥ वसिष्ठ उवाच सांख्यदर्शनमेतावदुक्तं ते नृपसत्तम। विद्याविद्ये त्विदानी मे त्वं निबोधानुपूर्वशः॥ अविद्यामाहुरव्यक्तं सर्गप्रलयधर्मि वै। सर्गप्रलयनिर्मुक्तां विद्यां वै पञ्चविंशकः॥ परस्परस्य विद्यां वै त्वं नबोधानुपूर्वशः। यथोक्तमृषिभिस्तात सांख्यस्याभिनिदर्शनम्॥ कर्मेन्द्रियाणां सर्वेषां विद्यां बुद्धीन्द्रियं स्मृतम्। बुद्धीन्द्रियाणां च तथा विशेषा इति नः श्रुतम्॥ विशेषाणां मनस्तेषां विद्यामाहुर्मनीषिणः। मनसः पञ्च भूतानि विद्या इत्यभिचक्षते॥ अहङ्कारस्तु भूतानां पञ्चानां नात्र संशयः। अहङ्कारस्य च तथा बुद्धिर्विद्या नरेश्वरा६॥ विद्या प्रकृतिरव्यक्तं तत्त्वानां परमेश्वरी। विद्या ज्ञेया नरश्रेष्ठ विधिश्च परमः स्मृतः॥ अव्यक्तस्य परं प्राहुर्विद्यां वै पञ्चविंशकम्। सर्वस्य सर्वमित्युक्तं ज्ञेयं ज्ञानस्य पार्थिव॥ ज्ञानमव्यक्तमित्युक्तं ज्ञेयो वै पञ्चविंशकः। तथैव ज्ञानमव्यक्तं विज्ञाता पञ्चविंशकः॥ विद्याविद्यार्थतत्त्वेन मयोक्ता ते विशेषतः। अक्षरं च क्षरं चैव यदुक्तं तन्निबोध मे॥ उभावेवाक्षरावुक्तावुभावतानवनक्षरौ। कारणं तु प्रवक्ष्यामि याथातथ्यं तु ज्ञानतः॥ अनादिनिधनावेतावुभावेवेश्वरौ मतौ। तत्त्वसंज्ञावुभावेतौ प्रोच्येत ज्ञानचिन्तकैः॥ सर्गप्रलयधर्मत्वादव्यक्तं प्राहुरक्षरम्। तदेतद् गुणसर्गाय विकुर्वाणं पुनः पुनः॥ गुणानां महदादीनामुत्पत्तिश्च परस्परम्। अधिष्ठानात् क्षेत्रमाहुरेतत्तत् पञ्चविंशकम्॥ यदा तु गुणजालं तदव्यक्तात्मनि संक्षिपेत्। तदा सह गुणैस्तैस्तु पञ्चविंशो विलीयते॥ गुणा गुणेषु लीयन्ते तदैका प्रकृतिर्भवेत्। क्षेत्रज्ञोऽपि यदा तात तत्क्षेत्रे सम्प्रलीयते॥ तदा क्षरत्वं प्रकृतिर्गच्छते गुणसंश्रिता! निर्गुणत्वं च वैदेह गुणेष्वप्रतिवर्तनात्॥ एवमेव च क्षेत्रज्ञः क्षेत्रज्ञानपरिक्षये। प्रकृत्या निर्गुणस्त्वेष इत्येवमनुशुश्रुम॥ क्षरो भवत्येष यदा तदा गुणवतीमथ। प्रकृति त्वभिजानाति निर्गुणत्वं तथाऽऽत्मनः॥ तदा विशुद्धो भवति प्रकृतेः परिवर्जनात्। अन्योऽहमन्येयमिति यदा बुध्यति बुद्धिमान्॥ तदैष तत्त्वतामेति न चापि मिश्रतां व्रजेत्। प्रकृत्या चैव राजेन्द्र मिश्रो ह्यन्यश्च दृश्यते॥ यदा तु गुणजालं तत् प्राकृतं वै जुगुप्सते। पश्यते च परं पश्यं तदा पश्यन्न संत्यजेत्॥ किं मया कृतमेतावद् योऽहं कालमिमं जनम्। मत्स्यो जालं हविज्ञानादनुवर्तितवानिह॥ अहमेव हि सम्मोहादन्यमन्यं जनाज्जनम्। मत्स्यो यथोदकज्ञानादनुवर्तितवानहम्॥ मत्स्योऽन्यत्वं यथाज्ञानादुदकान्नाभिमन्यते। आत्मानं तद्वदज्ञानादन्यत्वं नैव वेदम्यहम्॥ ममास्तु धिगबुद्धस्य योऽहं मग्नमिमं पुनः। अनुवर्तितवान् मोहादन्यमन्यं जनाज्जनम्॥ अयमत्र भवेद् बन्धुरनेन सह मे क्षमम्। साम्यमेकत्वमायातो यादृशस्तादृशस्त्वहम्॥ तुल्यतामिह पश्यामि सदृशोऽहमनेन वै। अयं हि विमलो व्यक्तमहमीदृशकस्तथा॥ योऽहमज्ञानसम्मोहादज्ञया सम्प्रवृत्तवान्। ससङ्गयाहं नि:सङ्गः स्थितः कालमिमं त्वहम्॥ अनयाहं वशीभूतः कालमेतं न बुद्धवान्। उच्चमध्यमनीचानां तामहं कथमवासे॥ समानयानया चेह सह वासमहं कथम्। गच्छाम्यबुद्धभावत्वादेषेदानीं स्थिरो भवे॥ सहवासं न यास्यामि कालमेतद्धि वञ्चनात्। वञ्चितोऽस्म्यनया यद्धि निर्विकारो विकारया॥ न चायमपराधोऽस्या ह्यपराधो ह्ययं मम। योऽहमत्राभवं सक्तः पराङ्मुखमुपस्थितः॥ ततोऽस्मि बहुरूपासु स्थितो मूर्तिष्वमूर्तिमान्। अमूर्तश्चापि मूर्तात्मा ममत्वेन प्रधर्षितः॥ तासु तास्विह योनिषु। निर्ममस्य ममत्वेन किं कृतं तासु तासु च॥ प्राक् कृतेन ममत्वेन योनीषु वर्तमानेन नष्टसंज्ञेन चेतसा। न ममात्रानया कार्यमहंकारकृतात्मया॥ आत्मानं बहुधा कृत्वा येयं भूयो युनक्ति माम्। इदानीमेघ बुद्धोऽसि निर्ममो निरहंकृतः॥ ममत्वमनया नित्यमहंकारकृतात्मकम्। अपेत्याहमिमां हित्वा संश्रयिष्ये निरामयम्॥ अनेन साम्यं यास्यामि नानयाहमचेतया। क्षेमं मम सहानेन नैकत्वमनया सह॥ एवं परमसम्बोधात् पञ्चविंशोऽनुबुद्धवान्। अक्षरत्वं नियच्छेत त्यक्त्वा क्षरमनामयम्॥ अव्यक्तं व्यक्तधर्माणं सगुणं निर्गुणं तथा। निर्गुणं प्रथमं दृष्टवा तादृग् भवति मैथिल॥ अक्षरक्षरयोरेतदुक्तं तव निदर्शनम्। मयेह ज्ञानसम्पन्नं यथाश्रुतिनिदर्शनात्॥ निःसंदिग्धं च सूक्ष्मं च विबुद्ध विमलं यथा। प्रवक्ष्यामि तु ते भूयस्तन्निबोध यथाश्रुतम्॥ सांख्ययोगौ मया प्रोक्तौ शास्त्रद्वयनिदर्शनात्। यदेव शास्त्रं सांख्योक्तं योगदर्शनमेव तत्॥ प्रबोधनकरं ज्ञानं सांख्यानामवनीपते। विस्पष्टं प्रोच्यते तत्र शिष्याणां हितकाम्यया॥ बृहच्चैवमिदं शास्त्रमित्याहुर्विदुषो जनाः। अस्मिश्च शास्त्रे योगानां पुनर्वेदे पुरःसरः॥ पञ्चविंशात् परं तत्त्वं पठ्यते न नराधिप। सांख्यानां तु परं तत्त्वं यथावदनुवर्णितम्॥ बुद्धमप्रतिबुद्धत्वाद् बुध्यमानं च तत्त्वतः। बुध्यमानं च बुद्धं च प्राहुर्योगनिदर्शनम्॥ वसिष्ठ उवाच अथ बुद्धमथाबुद्धमिमं गुणविधिं शृणु। आत्मानं बहुधा कृत्वा तान्येव प्रविचक्षते॥ एतदेवं विकुर्वाणो बुध्यमानो न बुध्यते। गुणान् धारयते ह्येष सृजत्याक्षिपते तदा॥ अजस्रं त्विह क्रीडार्थं विकरोति जनाधिप। अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्यपि॥ न त्वेव बुध्यतेऽव्यक्तं सगुणं तात निर्गुणम्। कदाचित् त्वेव खल्वेतदाहुरप्रतिबुद्धकम्॥ बुध्यते यदि वाक्यक्तमेतद् वै पञ्चविंशकम्। बुध्यमानो भवत्येव सङ्गात्मक इति श्रुतिः। अनेनाप्रतिबुद्धेति वदन्त्यव्यक्तमच्युतम्॥ अव्यक्तबोधनाच्चापि बुध्यमानं वदन्त्युत। पञ्चविंशं महात्मानं न चासावपि बुध्यते॥ षड्विशं विमलं बुद्धमप्रमेयं सनातनम्। स तु तं पञ्चविंशं च चतुर्विंशं च बुध्यते॥ दृश्यादृश्ये ह्यनुगतं स्वभावे महाद्युते। अव्यक्तमत्र तद् ब्रह्म बुध्यते तात केवलम्॥ केवलं पञ्चविंशं च चतुर्विंशं न पश्यति। बुध्यमानो यदाऽऽत्मानमन्योऽहमिति मन्यते॥ तदा प्रकृतिमानेष भवत्यव्यक्तलोचनः। बुध्यते च परां बुद्धिं विशुद्धाममलां यदा॥ षड्विंशो राजशार्दूल तथा बुद्धत्वमाव्रजेत्। ततस्त्यजति सोऽव्यक्तं सर्गप्रलयधर्मि वै॥ निर्गुणः प्रकृति वेद गुणयुक्तामचेतनाम्। ततः केवलधर्माऽसौ भवत्यव्यक्तदर्शनात्॥ केवलेन समागम्य विमुक्तोऽऽत्मानमाप्नुयात्। एतत् तु तत्त्वमित्याहुर्निस्तत्त्वमजरामरम्॥ तत्त्वसंश्रयणादेतत् तत्त्ववन्न च मानद। पञ्चविंशति तत्त्वानि प्रवदन्ति मनीषिणः॥ न चैष तत्त्ववांस्तात निस्तत्त्वस्त्वेष बुद्धिमान्। एष मुञ्चति तत्त्वं हि क्षिप्रं बुद्धस्य लक्षणम्॥ षड्विंशोऽहमिति प्राज्ञो गृह्यमाणोऽजरामरः। केवलेन बलेनैव समतां यात्यसंशयम्॥ षड्विंशेन प्रबुद्धेन बुध्यमानोऽप्यबुद्धिमान्। एतन्नानात्वमित्युक्तं सांख्यश्रुतिनिदर्शनात्॥ चेतनेन समेतस्य पञ्चविंशतिकस्य ह। एकत्वं वै भवत्यस्य यदा बुद्ध्या न बुध्यते॥ बुध्यमानोऽप्रबुद्धेन समतां याति मैथिल। सङ्गधर्मा भवत्येष निःसङ्गात्मा नराधिप।॥ निःसङ्गात्मानमासाद्य षड्विंशकमजं विभुम्। विभुस्त्यजति चाव्यक्तं यदा त्वेतद् विबुद्ध्यते॥ चतुर्विंशमसारं च षड्विंशस्य प्रबोधनात्। एष ह्यप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ॥ प्रोक्तो बुद्धश्च तत्त्वेन यथाश्रुतिनिदर्शनात्। नानात्वैकत्वमेतावद् द्रष्टव्यं शास्त्रदर्शनात्॥ मशकोदुम्बरे यद्वदन्यत्वं तद्वदेतयोः। मत्स्योदके यथा तद्वदन्यत्वमुपलभ्यते॥ एवमेवावगन्तव्यं नानात्वैकत्वमेतयोः। एतद्धि मोक्ष इत्युक्तमव्यक्तज्ञानसंहितम्॥ पञ्चविंशतिकस्यास्य योऽयं देहेषु वर्तते। एष मोक्षयित्वयेति प्राहुरव्यक्तगोचरात्॥ सोऽयमेवं विमुच्येत नान्यथेति विनिश्चयः। परेण परधर्मा च भवत्येष समेत्य वै॥ विशुद्धधर्मा शुद्धेन बुद्धेन च स बुद्धिमान्। विमुक्तधर्मा मुक्तेन समेत्य पुरुषर्षभ॥ वियोगधर्मिणा चैव विमुक्तात्मा भवत्यथा विमोक्षिणा विमोक्षश्च समेत्येह तथा भवेत्॥ शुचिकर्मा शुचिश्चैव भवत्यमितदीप्तिमान्। विमलात्मा च भवति समेत्य विमलात्मना॥ केवलात्मा तथा चैव केवलेन समेत्य वै। स्वतन्त्रश्च स्वतन्त्रेण स्वतन्त्रत्वमवाप्नुते॥ एतावदेतत् कथितं मया ते तथ्यं महाराज यथार्थतत्त्वम्। अमत्सरत्वं परिगृह्य चार्थं सनातनं ब्रह्म विशुद्धमाद्यम्॥ नावेदनिष्ठस्य जनस्य राजन् प्रदेयमेतत् परमं त्वया भवेत्। विधिसमानाय विबोधकारणं प्रबोधहेतोः प्रणतस्य शासनम्॥ न देयमेतच्च तथानृतात्मने शठाय क्लीबाय न जिह्मबुद्धये। न पण्डितज्ञानपरोपतापिने देयं तु देयं च निबोध यादृशे॥ श्रद्धान्वितायाथ गुणान्विताय परापवादाद् विरताय नित्यम्। विशुद्धयोगाय बुधाय नित्यं क्रियावते च क्षमिणे हिताय॥ विविक्तशीलाय विधिप्रियाय विवादहीनाय बहुश्रुताय) विजानते चैव न चाहितक्षमे दमे च शक्ताय शमे च देयम्॥ मेतत् परं ब्रह्म विशुद्धमाहुः। न श्रेयसा योक्ष्यति तादृशे कृतं धर्मप्रवक्तारमपात्रदानात्॥ पृथ्वीमिमां यद्यपि रत्नपूर्णां दद्यान्न देयं त्विदमव्रताय। जितेन्द्रियायैतदसंशयं ते भवेत् प्रदेयं परमं नरेन्द्र॥ कराल मा ते भयमस्तु किञ्चिदेतच्छ्रुतं ब्रह्म परं त्वयाद्या यथावदुक्तं परमं पवित्रं विशोकमत्यन्तमनादिमध्यम्॥ अगाधजन्मामरणं च राजन् निरामयं वीतभयं शिवं च। ज्ञानस्य तत्त्वार्थमिदं विदित्वा॥ द्धिरण्यगर्भाद् गदतो नराधिप। प्रसाद्य यत्नेन तमुग्रचेतसं सनातनं ब्रह्म यथाद्य त्वया।॥ वै पृष्टस्त्वया चास्मि यथा नरेन्द्र यथा मयेदं त्वयि चोक्तमद्य। तथावाप्तं ब्रह्मणो मे नरेन्द्र महाज्ञानं मोक्षविदां परायणम्॥ भीष्म उवाच एतदुक्तं परं ब्रह्म यस्मान्नावर्तते पुनः। पञ्चविंशो महाराज परमर्षिनिदर्शनात्॥ पुनरावृत्तिमाप्नोति परं ज्ञानमवाप्य च। नावबुध्यति तत्त्वेन बुध्यमानोऽजरामरम्॥ एतन्निःश्रेयसकरं ज्ञानं ते परमं मया। कथितं तत्त्वतस्तात श्रुत्वा देवर्षितो नृप॥ हिरण्यगर्भादृषिणा वसिष्ठेन महात्मना। वसिष्ठादृषिशार्दूलान्नारदोऽवाप्तवानिदम्॥ नारदाद् विदितं मह्यमेतद् ब्रह्म सनातनम्। मा शुचः कौरवेन्द्र त्वं श्रुत्वैतत् परमं पदम्॥ येन क्षराक्षरे वित्ते भयं तस्य न विद्यते। विद्यते तु भयं तस्य यो नैतद् वेत्ति पार्थिव॥ अविज्ञानाच्च मूढात्मा पुनः पुनरुपाद्रवत्। प्रेत्य जातिसहस्राणि मरणान्तान्युपाश्नुते॥ देवलोकं तथा तिर्यड्मनुष्यमपि चाश्नुते। यदि शुध्यति कालेन तस्मादज्ञानसागरात्॥ (उत्तीर्णोऽस्मादगाधात् स परमाप्नोति शोभनम्।) अज्ञानसागरो घोरो ह्यव्यक्तोऽगाध उच्यते। अहन्यहनि मज्जन्ति यत्र भूतानि भारत॥ यस्मादगाधादव्यक्तादुत्तीर्णस्त्वं सनातनात्। तस्मात् त्वं विरजाश्चैव वितमस्कश्च पार्थिव॥ भीष्म उवाच मृगयां विचरन् कश्चिद् विजने जनकात्मजः। वने ददर्श विप्रेन्द्रमृषि वंशधरं भृगोः॥ उपासीनमुपासीनः प्रणम्य शिरसा मुनिम्। पश्चादनुमतस्तेन पप्रच्छ वसुमानिदम्॥ पुरुषस्याधुवे देहे कामस्य वशवर्तिनः॥ सत्कृत्य परिपृष्टः सन् सुमहात्मा महातपाः। निजगाद ततस्तस्मै श्रेयस्करमिदं वचः॥ ऋषिरुवाच मनसोऽप्रतिकूलानि प्रेत्य चेह च वाञ्छसि। भूतानां प्रतिकूलेभ्यो निवर्तस्व यतेन्द्रियः॥ धर्म सतां हितः पुंसां धर्मश्चैवाश्रयः सताम्। धर्माल्लोकास्त्रयस्तात प्रवृत्ता: सचराचराः॥ स्वादुकामुक कामानां वैतृष्ण्यं किं न गच्छसि। मधु पश्यसि दुर्बुद्धे प्रपातं नानुपश्यसि॥ यथा ज्ञाने परिचयः कर्तव्यस्तत्फलार्थिना। तथा धर्मे परिचयः कर्तव्यस्तत्फलार्थिना॥ असता धर्मकामेन विशुद्धं कर्म दुष्करम्। सता तु धर्मकामेन सुकरं कर्म दुष्करम्॥ वने ग्राभ्यसुखाचारो यथा ग्राम्यस्तथैव सः। ग्रामे वनसुखाचारो यथा वनचरस्तथा।॥ मनोवाक्कायिके धर्मे कुरु श्रद्धां समाहितः। निवृत्तौ वा प्रवृत्तौ वा सम्प्रधार्य गुणागुणान्॥ नित्यं च बहु दातव्यं साधुभ्यश्चानसूयता। प्रार्थितं व्रतशौचाभ्यां सत्कृतं देशकालयोः॥ शुभने विधिना लब्धमर्हाय प्रतिपादयेत्। क्रोधमुत्सृज्य दद्याच्च नानुतप्येन्न कीर्तयेत्॥ अनृशंसः शुचिर्दान्तः सत्यवागार्जवे स्थितः। योनिकर्मविशुद्धश्च पात्रं स्याद् वेदविद् द्विजः॥ सत्कृता चैकपत्नी च जात्या योनिरिहेष्यते। ऋग्यजुः सामगो विद्वान् षट्कर्मा पात्रमुच्यते॥ स एव धर्मः सोऽधर्मस्तं तं प्रति नरं भवेत्। पात्रकर्मविशेषेण देशकालाववेक्ष्य च॥ लीलयाल्पं यथा गात्रात् प्रमृज्यात् तु रजः पुमान्। बहुयत्नेन च महत् पापनिर्हरणं तथा॥ विरिक्तस्य यथा सम्यग् घृतं भवति भेषजम्। तथा निर्हतदोषस्य प्रेत्य धर्मः सुखावहः॥ मानसं सर्वभूतेषु वर्तते वै शुभाशुभम्। अशुभेभ्य: सदाऽऽक्षिप्य शुभेष्वेवावतारयेत्॥ सर्वं सर्वेण सर्वत्र क्रियमाणं च पूजय। स्वधर्मे यत्र रागस्ते कामं धर्मो विधीयताम्॥ अधृतात्मन् धृतौ तिष्ठ दुर्बुद्धे बुद्धिमान् भव। अप्रशान्तः प्रशाम्य त्वमप्राज्ञः प्राज्ञवच्चर॥ तेजसा शक्यते प्राप्तुमुपाय: सहचारिणा। इह च प्रेत्य च श्रेयस्तस्य मूलं धृतिः परा॥ राजर्षिरधृतिः स्वर्गात् पतितो हि महाभिषः। ययातिः क्षीणपुण्योऽपि धृत्या लोकानवाप्तवान्।॥ तपस्विनां धर्मवतां विदुषां चोपसेवनात्। प्राप्स्यसे विपुलां बुद्धि तथा श्रेयोऽभिपत्स्यसे॥ भीष्म उवाच स तु स्वभावसम्पन्नस्तच्छ्रुत्वा मुनिभाषितम्। विनिवर्त्य मनः कामाद् धर्मे बुद्धिं चकार ह॥ याज्ञवल्क्य उवाच अव्यक्तस्य नरश्रेष्ठ कालसंख्यां निबोध मे। पञ्चकल्पसहस्राणि द्विगुणान्यहरुच्यते॥ रात्रिरेतावती चास्य प्रतिबुद्धो नराधिप। सृजत्योषधिमेवाग्रे जीवनं सर्वदेहिनाम्॥ ततो ब्रह्माणमसृजद्धिरण्याण्डसमुद्भवम्। सा मूर्तिः सर्वभूतानामित्येवमनुशुश्रुम॥ संवत्सरमुषित्वाण्डे निष्क्रम्य च महामुनिः। संदधे स महीं कृत्स्नां दिवमूर्ध्वं प्रजापतिः॥ द्यावापृथिव्योरित्येष राजन् वेदेषु पठ्यते। तयोः शकलयोर्मध्यमाकाशमकरोत् प्रभुः॥ एतस्यापि च संख्यानं वेदवेदाङ्गपारगैः। दशकल्पसहस्राणि पादोनान्यहरुच्यते॥ रात्रिमेतावतीं चास्य प्राहुरध्यात्मचिन्तकाः। सृजत्यहङ्कारमृषिर्भूतं दिव्यात्मकं तथा॥ चतुरश्चापरान् पुत्रान् देहात् पूर्वं महानृषिः। ते वै पितॄणां पितरः श्रूयन्ते राजसत्तम॥ देवाः पितॄणां च सुता देवैर्लोकाः समावृताः। चराचरा नरश्रेष्ठ इत्येवमनुशुश्रुमा॥ परमेष्ठी त्वहङ्कारः सृजन् भूतानि पञ्चधा। पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्॥ एतस्यापि निशामाहुस्तृतीयमिह कुर्वतः। पञ्चकल्पसहस्राणि तावदेवाहरुच्यते॥ शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च। एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु॥ यैराविष्टानि भूतानि अहन्यहनि पार्थिव। अन्योन्यं स्पृहयन्त्येते अन्योन्यस्य हिते रताः॥ अन्योन्यमतिवर्तन्ते अन्योन्यस्पर्धिनस्तथा। ते वध्यमाना ह्यन्योन्यं गुणैर्हारिभरव्ययैः॥ इहैव परिवर्तन्ते तिर्यग्योनिप्रवेशिनः। त्रीणि कल्पसहस्राणि एतेषामहरुच्यते॥ रात्रिरेतावती चैव मनसश्च नराधिप। मनश्चरति राजेन्द्र चारितं सर्वमिन्द्रियैः :॥ न चेन्द्रियाणि पश्यन्ति मन एवानुपश्यति। चक्षुः पश्यति रूपाणि मनसा तु न चक्षुषा॥ मनसि व्याकुले चक्षुः पश्यन्नपि न पश्यति। तथेन्द्रियाणि सर्वाणि पश्यन्तीत्यभिचक्षते॥ न चेन्द्रियाणि पश्यन्ति मन एवात्र पश्यति। मनस्युपरते राजनिन्द्रियोपरमो भवेत्॥ न चेन्द्रियव्युपरमे मनस्युपरमो भवेत्। एवं: मनःप्रधानानि इन्द्रियाणि प्रभावयेत्॥ इन्द्रियाणां तु सर्वेषामीश्वरं मन उच्यते। एतद् विशन्ति भूतानि सर्वाणीह महायशः॥ याज्ञवल्क्य उवाच तत्त्वानां सर्वसंख्या च कालसंख्या तथैव च। मया प्रोक्ताऽऽनुपूर्वेण संहारमपि मे शृणु॥ यथा संहरते जन्तून् ससर्ज च पुनः पुनः। अनादिनिधनो ब्रह्मा नित्यश्चाक्षर एव च॥ अहःक्षयमथो बुद्ध्वा निशि स्वप्नमनास्तथा। चोदयामास भगवानव्यक्तोऽहंकृतं नरम्॥ ततः शतसहस्रांशुरव्यक्तेनाभिचोदितः। कृत्वा द्वादशधाऽऽत्मानमादित्यो ज्वलदग्निवत्॥ चतुर्विधं महीपाल निर्दहत्याशु तेजसा। जरायुजाण्डजस्वेदजोद्भिज्जं च नराधिप॥ एतदुन्मेषमात्रेण विनष्टं स्थाणु जङ्गमम्। कूर्मपृष्ठसमा भूमिर्भवत्यथ समन्ततः॥ जगद् दग्ध्वामितबलः केवलां जगतीं ततः। अम्भसा बलिना क्षिप्रमापूरयति सर्वशः॥ ततः कालाग्निमासाद्य तदम्भो याति संक्षयम्। विनष्टेऽम्भसि राजेन्द्र जाज्वलत्यनलो महान्॥ तमप्रमेयोऽतिबलं ज्वलमानं विभावसुम्। ऊष्माणं सर्वभूतानां सप्तार्चिषमथाञ्जसा॥ भक्षयामास भगवान् वायुरष्टात्मको बली। विचरन्नमितप्राणस्तिर्यगूर्ध्वमधस्तथा॥ तमप्रतिबलं भीममाकाशं ग्रसतेऽऽत्मना। आकाशमप्यभिनदन्मनो ग्रसति चाधिकम्॥ मनो ग्रसति भूतात्मा सोऽहंकारः प्रजापतिः। अहंकारं महानात्मा भूतभव्यभविष्यवित्॥ तमप्यनुपमात्मानं विश्वं शम्भुः प्रजापतिः। अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः॥ सर्वत:पाणिपादान्तः सर्वतोऽक्षिशिरोमुखः। सर्वतःश्रुतिमाँल्लोके सर्वमावृत्य तिष्ठति॥ हृदयं सर्वभूतानां पर्वणाङ्गुष्ठमात्रकः। अथ ग्रसत्यनन्तो हि महात्मा विश्वमीश्वरः॥ ततः समभवत् सर्वमक्षयाव्ययमव्रणम्। भूतभव्यभविष्याणां स्रष्टारमनघं तथा॥ एषोऽप्ययस्ते राजेन्द्र यथावत् समुदाहृतः। अध्यात्ममधिभूतं च अधिदैवं च श्रूयताम्॥ याज्ञवल्क्य उवाच पादावध्यात्ममित्याहुब्राह्मणास्तत्त्वदर्शिनः। गन्तव्यमधिभूतं च विष्णुस्तत्राधिदैवतम्॥ पायुरध्यात्ममित्याहुर्यथा तत्त्वार्थदर्शिनः। विसर्गमधिभूतं च मित्रस्तत्राधिदैवतम्॥ उपस्थोऽध्यात्ममित्याहुर्यथा योगप्रदर्शिनः। अधिभूतं तथाऽऽनन्दो दैवतं च प्रजापतिः॥ हस्तावध्यात्ममित्याहुर्यथा संख्यानदर्शिनः। कर्तव्यमधिभूतं तु इन्द्रस्तत्राधिदैवतम्॥ वागध्यात्ममिति प्राहुर्यथा श्रुतिनिदर्शिनः। वक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवतम्॥ चक्षुरध्यात्ममित्याहुर्यथा श्रुतिनिदर्शिनः। रूपमत्राधिभूतं तु सूर्यश्चाप्यधिदैवतम्॥ श्रोत्रमध्यात्ममित्याहुर्यथा श्रुतिनिदर्शिनः। शब्दस्तत्राधिभूतं तु दिशश्चात्रधिदैवतम्॥ जिह्वामध्यात्ममित्याहुर्यथा श्रुतिनिदर्शिनः। रस एवाधिभूतं तु आपस्तत्राधिदैवतम्॥ घ्राणमध्यात्ममित्याहुर्यथा श्रुतिनिदर्शिनः। गन्ध एवाधिभूतं तु पृथिवी चाधिदैवतम्॥ त्वगध्यात्ममिति प्राहुस्तत्त्वबुद्धिविशारदाः। स्पर्शमेवाधिभूतं तु पवनश्चाधिदैवतम्॥ मनोऽध्यात्ममिति प्राहुर्यथा शास्त्रविशारदाः। मन्तव्यमधिभूतं तु चन्द्रमाश्चाधिदैवतम्॥ अहंकारिकमध्यात्ममाहुस्तत्त्वनिदर्शिनः। अभिमानोऽधिभूतं तु रुद्रश्चात्राधिदैवतम्॥ बुद्धिरध्यात्ममित्याहुर्यथावदभिदर्शिनः। बोद्धव्यमधिभूतं तु क्षेत्रज्ञश्चाधिदैवतम्॥ एषा ते व्यक्तितो राजन् विभूतिरनुदर्शिता। आदौ मध्ये तथान्ते च यथातत्त्वेन तत्त्ववित्॥ प्रकृतिर्गुणान् विकुरुते स्वच्छन्देनात्मकाम्यया। क्रीडार्थे तु महाराज शतशोऽथ सहस्रशः॥ यथा दीपसहस्राणि दीपान्माः प्रकुर्वते। प्रकृतिस्तथा विकुरुते पुरुषस्य गुणान् बहून्॥ सत्त्वमानन्द उद्रेकः प्रीतिः प्राकाश्यमेव च। सुखं शुद्धित्वमारोग्यं संतोषः श्रद्दधानता॥ अकार्पण्यमसंरम्भः क्षमा धृतिरहिंसता। समता सत्यमानृण्यं मार्दवं ह्रीरचापलम्॥ शौचमार्जवमाचारमलौल्यं हृद्यसम्भ्रमः। इष्टानिष्टवियोगानां कृतानामविकत्थना॥ दानेन चात्मग्रहणमस्पृहत्वं परार्थता। सर्वभूतदया चैव सत्त्वस्यैते गुणाः स्मृताः॥ रजोगुणानां संघातो रूपमैश्चर्यविग्रहो। अत्यागित्वमकारुण्यं सुखदुःखोपसेवनम्॥ परापवादेषु रतिर्विवादानां च सेवनम्। अहंकारमसत्कारश्चिन्ता वैरोपसेवनम्॥ परितापोऽभिहरणं ह्रीनाशोऽनार्जवं तथा। भेदः परुषता चैव कामः क्रोधो मदस्तथा॥ दर्पो द्वेषोऽतिवादश्च ऐते प्रोक्ता रजोगुणाः। तामसानां तु संघातं प्रवक्ष्याम्युपधार्यताम्॥ मोहोऽप्रकाशस्तामिसमन्धतामिस्रसंज्ञितम्। मरणं चान्धतामिस्र तामिदं क्रोध उच्यते॥ तमसो लक्षणानीह भक्षणाद्यभिरोचनम्। भोजनानामपर्याप्तिस्तथा पेयेष्वतृप्तता॥ गन्धवासो विहारेषु शयनेष्वासनेषु च। दिवास्वप्नेऽतिवादे च प्रामदेषु च वै रतिः॥ नृत्यवादित्रगीतानामज्ञानाच्छ्रद्दधानता। द्वेषो धर्मविशेषाणामेते वै तामसा गुणाः॥ याज्ञवल्क्य उवाच एते प्रधानस्य गुणास्त्रयः पुरुषसत्तम। कृत्स्नस्य चैव जगतस्तिष्ठन्त्यनपगाः सदा॥ अव्यक्तरूपो भगवान् शतधा च सहस्रधा। शतधा सहस्रधा चैव तथा शतसहस्रधा॥ कोटिशश्च करोत्येष प्रत्यगात्मानमात्मना। सात्त्विकस्योत्तमं स्थानं राजसस्येह मध्यमम्॥ तामसस्याधमं स्थान प्राहुरध्यात्मचिन्तकाः। केवलेनेह पुण्येन गतिमूर्ध्वामवाप्नुयात्॥ पुण्यपापेन मानुष्यमधर्मेणाप्यधोगतिम्। द्वन्द्वमेषां त्रयाणां तु संनिपातं च तत्त्वतः॥ सत्त्वस्य रजसश्चैव तमसश्च शृणुष्व मे। सत्त्वस्य तु रजो दृष्टं रजसश्च तमस्तथा॥ तमसश्च तथा सत्त्वं सत्त्वस्याव्यक्तमेव च। अव्यक्तः सत्त्वसंयुक्तो देवलोकमवाप्नुयात्॥ रजःसत्त्वसमायुक्तो मानुषेषु प्रपद्यते। रजस्तमोभ्यां संयुक्तस्तिर्यग्योनिषु जायते॥ राजसैस्तामसैः सत्त्वैर्युक्तो मानुषमाप्नुयात्। पुण्यपापवियुक्तानां स्थानमाहुर्महात्मनाम्। शाश्वतं चाव्ययं चैवमक्षयं चामृतं च तत्॥ ज्ञानिनां सम्भवं श्रेष्ठं स्थानमव्रणमच्युतम्। अतीन्द्रियमबीजं च जन्ममृत्युतमोनुदम्॥ अव्यक्तस्थं परं यत् तत् पृष्टस्तेऽहं नराधिप। स एष प्रकृतिस्थो हि तत्स्थ इत्यभिधीयते॥ अचेतना चैव मता प्रकृतिश्चापि पार्थिव। एतेनाधिष्ठिता चैव सृजते संहरत्यपि॥ जनक उवाच अनादिनिधनावेतावुभावेव महामते। अमूर्तिमन्तावचलावप्रकम्प्यगुणागुणौ॥ अग्राह्यावृषिशार्दूल कथमेको ह्यचेतनः। चेतनावांस्तथा चैकः क्षेत्रज्ञ इति भाषितः॥ त्वं हि विप्रेन्द्र कात्स्येंन मोक्षधर्ममुपाससे। साकल्यं मोक्षधर्मस्य श्रोतुमिच्छामि तत्त्वतः॥ अस्तित्वं केवलत्वं च विनाभावं तथैव च। दैवतानि च मे ब्रूहि देहं यान्याश्रितानि वै॥ तथैवोत्क्रामिणः स्थानं देहिनो वै विपद्यतः। कालेन यद्धि प्राप्नोति स्थानं तत् प्रब्रवीहि मे॥ सांख्यज्ञानं च तत्त्वेन पृथग्योगं तथैव च। अरिष्टानि च तत्त्वानि वक्तुमर्हसि सत्तम। विदितं सर्वमेतत् ते पाणावामलकं यथा॥ याज्ञवक्ल्य उवाच सांख्यज्ञानं मया प्रोक्तं योगज्ञानं निबोध मे। यथाश्रुतं यथादृष्टं तत्त्वेन नृपसत्तम॥ नास्ति सांख्यसमं ज्ञानं नास्ति योगसमं बलम्। तावुभावेकचर्यो तावुभावनिधनौ स्मृतौ॥ पृथक् पृथक् प्रपश्यन्ति येऽप्यबुद्धिरता नराः। वयं तु राजन् पश्याम एकमेव तु निश्चयात्॥ यदेव योगाः पश्यन्ति तत् सांख्यैरपि दृश्यते। एकं सांख्यं च योगं च यः पश्यति स तत्त्ववित्॥ रुद्रप्रधानानपरान् विद्धि योगानरिंदम्। तेनैव चाथ देहेन विचरन्ति दिशो दश॥ यावद्धि प्रलयस्तात सूक्ष्मेणाष्टगुणेन ह। योगेन लोकान् विचरन् सुखं संन्यस्य चानघ।॥ वेदेषु चाष्टगुणिनं योगमाहुर्मनीषिणः। सूक्ष्ममष्टगुणं प्राहुर्नेतरं नृपसत्तम॥ द्विगुणं योगकृत्यं तु योगानां प्राहुरुत्तमम्। सगुणं निर्गुणं चैव यथा शास्त्रनिदर्शनम्॥ धारणं चैव मनसः प्राणायामश्च पार्थिव। एकाग्रता च मनसः प्राणायामस्तथैव च॥ प्राणायामो हि सगुणो निर्गुणं धारयेन्मनः। यद्यदृश्यति मुञ्चन् वै प्राणान् मैथिलसत्तम। वाताधिक्यं भवत्येव तस्मात् तं न समाचरेत्।।१० निशायाः प्रथमे यामे चोदना द्वादश स्मृताः। मध्ये स्वप्नात् परे यामे द्वादशैव तु चोदनाः॥ तदेवमुपशान्तेन दान्तेनैकान्तशीलिना। आत्मारामेण बुद्धेन योक्तव्योऽऽत्मा न संशयः॥ पञ्चानामिन्द्रियाणां तु दोषानाक्षिप्य पञ्चधा। शब्दं रूपं तथा स्पर्श रसं गन्धं तथैव च॥ प्रतिभामपवर्गं च प्रतिसंहृत्य मैथिल। इन्द्रियग्राममखिलं मनस्यभिनिवेश्य ह॥ मनस्तथैवाहंकारे प्रतिष्ठाप्य नराधिप। अहंकार तथा बुद्धौ बुद्धिं च प्रकृतावपि॥ एवं हि परिसंख्याय ततो ध्यायन्ति केवलम्। विरजस्कमलं नित्यमनन्तं शुद्धमव्रणम्॥ तस्थुषं पुरुषं नित्यमभेद्यमजरामरम्। शाश्वतं चाव्ययं चैव ईशानं ब्रह्म चाव्ययम्।॥ युक्तस्य तु महाराज लक्षणान्युपधारय। लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत्॥ निर्वाते तु यथा दीपो ज्वलेत् स्नेहसमन्वितः। निश्चलोखंशिखस्तद्वद् युक्तमाहुर्मनीषिणः॥ पाषाण इव मेघोत्थैर्यथा बिन्दुभिराहतः। नालं चालयितुं शक्यस्तथा युक्तस्य लक्षणम्॥ शङ्खदुन्दुभिनिर्घोषैर्विविधैर्गीतवादितैः। क्रियमाणैर्न कम्पेत युक्तस्यैतन्निदर्शनम्॥ तैलपात्रं यथा पूर्ण कराभ्यां गृह्य पुरुषः। सोपानमारुहेद् भीतस्तय॑मानोऽसिपाणिभिः॥ संयतात्मा भयात् तेषां न पात्राद् बिन्दुमुत्सृजेत्। तथैवोत्तरमागम्य एकाग्रमनसस्तथा॥ स्थिरत्वादिन्द्रियाणां तु निश्चलत्वात् तथैव च। एवं युक्तस्य तु मुनेर्लक्षणान्युपलक्षयेत्॥ स्वयुक्तः पश्यते ब्रह्म यत् तत्परममव्ययम्। महतस्तमसो मध्ये स्थितं ज्वलनसंनिभम्॥ एतेन केवलं याति त्यक्त्वा देहमसाक्षिकम्। कालेन महता राजश्रुतिरेषां सनातनी॥ एतद्धि योगं योगानां किमन्यद् योगलक्षणम्। विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः॥ याज्ञवल्क्य उवाच तथैवोत्क्रममाणं तु शृणुष्वावहितो नृप। पद्भ्यामुत्क्रममाणस्य वैष्णवं स्थानमुच्यते॥ जवाभ्यां तु वसून् देवानाप्नुयादिति न श्रुतम्। जानुभ्यां च महाभागान् साध्यान् देवानवाप्नुयात्॥ पायुनोत्क्रममाणस्तु मैत्रं स्थानमवाप्नुयात्। पृथिवीं जधनेनाथ उरुभ्यां च प्रजापतिम्॥ पार्श्वभ्यां मरुतो देवान् नाभ्यामिन्द्रत्वमेव च। बाहुभ्यामिन्द्रमेवाहुरुरसा रुद्रमेव च॥ ग्रीवया तु मुनिश्रेष्ठं नरमाप्नोत्यनुत्तमम्। विश्वेदेवान् मुखेनाथ दिशः श्रोत्रेण चाप्नुयात्॥ घ्राणेन गन्धवहनं नेत्राभ्यामग्निमेव च। भूभ्यां चैवाश्विनौ देवौ ललाटेन पितृनथ॥ ब्रह्माणमाप्नोति विभुं मूर्धा देवाग्रजं तथा। एतान्युत्क्रमणस्थानान्युक्तानि मिथिलेश्वर।॥ अरिष्टानि प्रवक्ष्यामि विहितानि मनीषिभिः। संवत्सरवियोगस्य सम्भवन्ति शरीरिणः॥ योऽरुन्धतीं न पश्येत दृष्टपूर्वां कदाचन। तथैव ध्रुवमित्याहुः पूर्णेन्दुं दीपमेव च॥ खण्डाभासं दक्षिणतस्तेऽपि संवत्सरायुषः। परचक्षुषि चात्मानं ये न पश्यन्ति पार्थिव॥ आत्मच्छायाकृतीभूतं तेऽपि संवत्सरायुषः। अतिद्युतिरतिप्रज्ञा अप्रज्ञा चाद्युतिस्तथा॥ प्रकृतेर्विक्रियापत्तिः पण्मासान्मृत्युलक्षणम्। दैवतान्यवजानाति ब्राह्मणैश्च विरुद्ध्यते॥ कृष्णश्यावच्छविच्छायः षण्मासान्मृत्युलक्षणम्। ऊर्णनाभेर्यथा चक्रं छिद्रं सोमं प्रपश्यति॥ तथैव च सहस्रांशुं सप्तरात्रेण मृत्युभाक्। शवगन्धमुपाघ्राति सुरभिं प्राप्य यो: नरः॥ देवतायतनस्थस्तु सप्तरात्रेण मृत्युभाक्। कर्णनासावनमनं दन्तदृष्टिविरागिता॥ संज्ञालोपो निरूष्मत्वं सद्योमृत्युनिदर्शनम्। अकस्माच्च स्रवेद् यस्य वाममक्षि नराधिप।॥ मूर्धतश्चोत्पतेद् धूमः सद्योमृत्युनिदर्शनम्। एतावन्ति त्वरिष्टानि विदित्वा मानवोऽऽत्मवान्॥ निशि चाहनि चात्मानं योजयेत् परमात्मनि। प्रतीक्षमाणस्तत्कालं यत्कालं प्रेतता भवेत्॥ अथास्य नेष्टं मरणं स्थातुमिच्छेदिमां क्रियाम्। सर्वगन्धान रसांश्चैव धारयीत नराधिप।१९।। ससांख्यधारणं चैव विदितात्मा नरर्षभ। यजेच्च मृत्यु योगेन तत्परेणान्तरात्मना॥ गच्छेत् प्राप्याक्षयं कृत्स्नमजन्म शिवमव्ययम्। शाश्वतं स्थानमचलं दुष्प्रापमकृतात्मभिः॥ युधिष्ठिर उवाच ऐश्वर्यं वा महत् प्राप्य धनं वा भरतर्षभ। दीर्घमायुरवाप्याथ कथं मृत्युमतिक्रमेत्॥ तपसा वा सुमहता कर्मणा वा श्रुतेन वा। रसायनप्रयोगैर्वा कैर्नाप्नोति जरान्तकौ॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। भिक्षोः पञ्चशिखस्येह संवादं जनकस्य च॥ वैदेहो जनको राजा महर्षि वेदवित्तमम्। पर्यपृच्छत् पञ्चशिखं छिन्नधर्मार्थसंशयम्॥ केन वृत्तेन भगवन्नतिकामेज्जरन्तकौ। तपसा वाथ बुद्ध्या वा कर्मणा वा श्रुतेन वा॥ एवमुक्तः स वैदेहं प्रत्युवाचापरोक्षवित्। निवृत्तिर्न तयोरस्ति नानिवृत्तिः कथञ्चन॥ न हहानि निवर्तन्ते न मासा न पुनः क्षपाः। सोऽहं प्रपद्यतेऽध्वानं चिराय ध्रुवमध्रुवः॥ सर्वभूतसमुच्छेदः स्रोतसेवोह्यते सदा। ऊह्यमानं निमज्जन्तमप्लवे कालसागरे॥ जरामृत्युमहाग्राहे न कश्चिदभिपद्यते। नैवास्य कश्चिद् भवति नासौ भवति कस्यचित्॥ पथि सङ्गतमेवेदं दारैरन्यैश्च बन्धुभिः। नायमत्यन्तसंवासो लब्धपूर्वो हि केनचित्॥ क्षिप्यन्ते तेन तेनैव निष्टनन्तः पुनः पुनः। कालेन जाता याता हि वायुनेवाभ्रसंचयाः॥ जरामृत्यू हि भूतानां खादितारौ वृकाविव। बलिनां दुर्बलानां च हस्वानां महतामपि॥ एवंभूतेषु भूतात्मा नित्यभूतोऽध्रुवेषु च। कथं हि हृष्येज्जातेषु मृतेषु च कथं ज्वरेत्॥ कुतोऽहमागतः कोऽस्मि क्व गमिष्यामि कस्य वा। कस्मिन् स्थितः क्व भविता कस्मात्किमनुशोचसि।।१४। द्रष्टा स्वर्गस्य कोऽन्योऽस्ति तथैव नरकस्य च। आगमांस्त्वनतिक्रम्य दद्याच्चैव यजेत च॥ युधिष्ठिर उवाच अपरित्यज्य गार्हस्थ्यं कुरुराजर्षिसत्तम। कः प्राप्तो विनयं बुद्ध्या मोक्षतत्त्वं वदस्व मे॥ संन्यस्यते यथाऽऽत्मायं व्यक्तस्यात्मा यथा च यत्। परं मोक्षस्य यच्चापि तन्मे ब्रूहि पितामह॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। जनकस्य च संवाद सुलभायाश्च भारत॥ संन्यासफलिकः कश्चिद् बभूव नृपतिः पुरा। मैथिलो जनको नाम धर्मध्वज इति श्रुतः॥ स वेदे मोक्षशास्त्रे च स्वे च शास्त्रे कृतश्रमः। इन्द्रियाणि समाधाय शशास वसुधामिमाम्॥ तस्य वेदविदः प्राज्ञाः श्रुत्वा तां साधुवृत्तताम्। लोकेषु स्पृहयन्त्यन्ये पुरुषाः पुरुषेश्वर॥ अथ धर्मयुगे तस्मिन् योगधर्ममनुष्ठिता। महीमनुचचारैका सुलभा नाम भिक्षुकी॥ तया जगदिदं कृत्स्नमटन्त्या मिथिलेश्वरः। तत्र तत्र श्रुतो मोक्षे कथ्यमानस्त्रिदण्डिभिः॥ सातिसूक्ष्मां कथा श्रुत्वा तथ्यं नेति ससंशया। दर्शने जातसंकल्पा जनकस्य बभूव ह॥ तत्र सा विप्रहायाथ पूर्वरूपं हि योगतः। अबिभ्रदनवद्याङ्गी रूपमन्यदनुत्तमम्॥ चक्षुर्निमेषमात्रेण लघ्वस्त्रगतिगामिनी। विदेहानां पुरी सुभूर्जगाम कमलेक्षणा॥ सा प्राप्य मिथिलां रम्यां प्रभूतजनसंकुलाम्। भैक्ष्यचर्यापदेशेन ददर्श मिथिलेश्वरम्॥ राजा तस्याः परं दृष्ट्वा सौकुमार्यं वपुस्तदा। केयं कस्य कुतो वेति बभूवागतविस्मयः॥ ततोऽस्याः स्वागतं कृत्वा व्यादिश्य च वरासनम्। पूजितां पादशौचेन वरान्नेनाप्यतर्पयत्॥ अथ भुक्तवती प्रीता राजानं मन्त्रिभिर्वृतम्। सर्वभाष्यविदां मध्ये चोदयामास भिक्षुकी॥ सुलभा त्वस्य धर्मेषु मुत्तो नेति ससंशया। सत्त्वं सत्त्वेन योगज्ञा प्रविवेश महीपतेः॥ नेत्राभ्यां नेत्रयोरस्य रश्मीन् संयम्य रश्मिभिः। सा स्म तं चोदयिष्यन्ती योगबन्धैर्बबन्ध ह॥ जनकोऽप्युत्स्मयन् राजा भावमस्या विशेषयन्। प्रतिजग्राह भावेन भावमस्या नृपोत्तम॥ तदेकस्मिन्नधिष्ठाने संवादः श्रूयतामयम्। छत्रादिषु विमुक्तस्य मुक्तायाश्च त्रिदण्डके॥ जनक उवाच भगवत्याः क्व चर्येयं कृता क्व च गमिष्यसि। कस्य च त्वं कुतो वेति पप्रच्छैनां महीपतिः॥ श्रुते वयसि जातौ च सद्भावो नाधिगम्यते। एष्वर्थेषूत्तरं तस्मात् प्रवेद्यं मत्समागमे॥ छत्रादिषु विशेषेषु मुक्तं मां विद्धि तत्त्वतः। स त्वां सम्मन्तुमिच्छामि मानार्हा हि मतासि मे॥ यस्माच्चैतन्मया प्राप्तं ज्ञानं वैशेषिकं पुरा। यस्य नान्यः प्रवक्तास्ति मोक्षं तमपि मे शृणु॥ पराशरसगोत्रस्य वृद्धस्य सुमहात्मनः। भिक्षोः पञ्चशिखंस्याहं शिष्यः परमसम्मतः॥ सांख्यज्ञाने च योगे च महीपालविधौ तथा। त्रिविधे मोक्षधर्मेऽस्मिन् गताध्वा छिन्नसंशयः॥ स यथाशास्त्रदृष्टेन मार्गेणेह परिभ्रमन्। वार्षिकांश्चतुरो मासान् पुरा मयि सुखोषितः॥ तेनाहं सांख्यमुख्येन सुदृष्टार्थेन तत्त्वतः। श्रावितस्त्रिविधं मोक्षं न च राज्याद्धि चालितः॥ सोऽहतामखिलां वृत्तिं त्रिविधां मोक्षसंहिताम्। मुक्तरागश्चराम्येकः पदे परमके स्थितः॥ वैश्राग्यं पुनरेतस्य मोक्षस्य परमो विधिः। ज्ञानादेव च वैराग्यं जायते येन मुच्यते॥ ज्ञानेन कुरुते यत्तं यत्नेन प्राप्यते महत्। महद् द्वन्द्वप्रमोक्षाय सा सिद्धिर्या वयोऽतिगा।॥ सेयं परमिका बुद्धेः प्राप्ता निर्द्वन्द्वता मया। इहैव गतमोहेन चरता मुक्तसङ्गिना।॥ यथा क्षेत्रं मृदूभूतमद्भिराप्लावितं तथा। जनयत्यङ्कुरं कर्म नृणां तद्वत् पुनर्भवम्॥ यथा चोत्तापितं बीजं कपाले यत्र तत्र वा। प्राप्याप्यकुरहेतुत्वमबीजत्वान्न जायते॥ तद्वद् भगवतानेन शिखा प्रोक्तेन भिक्षुणा। ज्ञानं कृतमबीजं मे विषयेषु न जायते॥ नाभिरज्यति कस्मिश्चिन्नानर्थे न परिग्रहे। नाभिरज्यति चैतेषु व्यर्थत्वाद् रागरोषयोः॥ यश्च मे दक्षिणं बाहुं चन्दनेन समुक्षयेत्। सव्यं वास्यापि यस्तक्षेत् समावेतावुभौ मम॥ सुखी सोऽहमवाप्तार्थः समलोष्टाश्मकाञ्चनः। मुक्तसङ्गः स्थितो राज्ये विशिष्टोऽन्यैस्त्रिदण्डिभिः॥ मोक्षे हि त्रिविधा निष्ठा दृष्टान्यैर्मोक्षवित्तमैः। ज्ञानं लोकोत्तरं यच्च सर्वत्यागश्च कर्मणाम्॥ ज्ञाननिष्ठां वदन्त्येके मोक्षशास्त्रविदो जनाः। कर्मनिष्ठां तथैवान्ये यतयः सूक्ष्मदर्शिनः॥ प्रहायोभयमप्येव ज्ञानं कर्म च केवलम्। तृतीयेयं समाख्याता निष्ठा तेन महात्मना॥ यमे च नियमे चैव कामे द्वेषे परिग्रहे। माने दम्भे तथा स्नेहे सदृशास्ते कुटुम्बिभिः॥ त्रिदण्डादिषु यद्यस्ति मोक्षो ज्ञानेन कस्यचित्। छत्रादिषु कथं न स्यात् तुल्यहेतौ परिग्रहे॥ येन येन हि यस्यार्थः कारणेनेह कर्मणि। तत्तदालम्बते सर्वः स्वे स्वे स्वार्थपरिग्रहे॥ दोषदर्शी तु गार्हस्थ्ये यो व्रजत्याश्रमान्तरे। उत्सृजन् परिगृहंश्च सोऽपि सङ्गान्न मुच्यते॥ आधिपत्ये तथा तुल्ये निग्रहानुग्रहात्मके। राजभिर्भिक्षुकास्तुल्या मुच्यन्ते केन हेतुना॥ अथ सत्याधिपत्येऽपि ज्ञानेनैवेह केवलम्। मुच्यन्ते सर्वपापेभ्यो देहे परमके स्थिताः॥ काषायधारणं मौण्ड्यं त्रिविष्टब्यं कमण्डलुम्। लिङ्गान्युत्पथभूतानि न मोक्षायेति मे मतिः॥ यदि सत्यपि लिङ्गेऽस्मिन् ज्ञानमेवात्र कारणम्। निर्मोक्षायेह दुःखस्य लिङ्गमानं निरर्थकम्॥ अथवा दुःखशैथिल्यं वीक्ष्य लिङ्गे कृता मतिः। किं तदेवार्थसामान्यं छत्रादिषु न लक्ष्यते॥ आकिंचन्ये न मोक्षोऽस्ति किंचन्ये नास्ति बन्धनम्। किंचन्ये चेतरे चैव जन्तुर्ज्ञानेन मुच्यते॥ तस्माद् धर्मार्थकामेषु तथा राज्यपरिग्रहे। बन्धनायतनेष्वेषु विद्ध्यबन्धे पदे स्थितम्॥ राज्यैश्वर्यमयः पाशः स्नेहायतनबन्धनः। मोक्षाश्मनिशिते नेह च्छिन्नस्त्यागासिना मया॥ सोऽहमेवंगतो मुक्तो जातास्थस्त्वयि भिक्षुकि। अयथार्थं हि ते वर्णं वक्ष्यामि शृणु तन्मम॥ सौकुमार्यं तथा रूपं वपुरग्र्यं तथा वयः। तवैतानि समस्तानि नियमश्चेति संशयः॥ यच्चाप्यननुरूपं ते लिङ्गस्यास्य विचेष्टितम्। मुक्तोऽयं स्यान्न वेति स्याद् धर्षितो मत्परिग्रहः॥ न च कामसमायुक्ते युक्तेऽप्यस्ति त्रिदण्डके। न रक्ष्यते त्वया चेदं न मुक्तस्यास्ति गोपना॥ मत्पक्षसंश्रयाच्चायं शृणु यस्ते व्यतिक्रमः। आश्रयन्त्याः स्वभावेन मम पूर्वपरिग्रहम्॥ प्रवेशस्ते कृतः केन मम राष्ट्रे पुरेऽपि वा। कस्य वा संनिकर्षात् त्वं प्रविष्टा हृदयं मम॥ वर्णप्रवरमुख्यासि ब्राह्मणी क्षत्रियस्त्वहम्। नावयोरेकयोगोऽस्मि मा कृथा वर्णसंकरम्॥ वर्तसे मोक्षधर्मेण त्वं गार्हस्थ्येऽहमाश्रमे। अयं चापि सुष्टस्ते द्वितीयोऽऽश्रमसंकरः॥ सगोत्रां वासगोत्रां वा न वेद त्वां न वेत्थ माम्। सगोत्रमाविशन्त्यास्ते तृतीयो गोत्रसंकरः॥ अथ जीवति ते भर्ता प्रोषितोऽप्यथवा क्वचित्। अगम्या परभार्येति चतुर्थो धर्मसंकरः॥ सा त्वमेतान्यकार्याणि कार्यापेक्षा व्यवस्यसि। अविज्ञानेन वा युक्ता मिथ्याज्ञानेन वा पुनः॥ अथवापि स्वतन्त्रासि स्वदोषेणेह कर्हिचित्। यदि किंचिच्छ्रुतं तेऽस्ति सर्वं कृतमनर्थकम्॥ इदमन्यच्चतुर्थं ते भावस्पर्शविघातकम्। दुष्टाया लक्ष्यते लिङ्गं विवृण्वत्याप्रकाशितम्॥ न मय्येवाभिसंधिस्ते जयैषिण्या जये कृतः। येयं मत्परिषत् कृत्स्ना जेतुमिच्छसि तामपि॥ तथाहतस्ततश्च त्वं दृष्टिं स्वां प्रतिमुञ्चसि। मत्पक्षप्रतिघाताय स्वपक्षोद्भावनाय च॥ साम स्वेनामर्षजेन त्वमृद्धिमोहेन मोहिता। भूयः सृजसि योगांस्त्वं विषामृतमिवैकताम्॥ इच्छतोरत्र यो लाभः स्त्रीसोरमृतोपमः। अलाभश्चापि रक्तस्य सोऽपि दोषो विषोपमः॥ मा स्पाक्षीः साधु जानीष्व स्वशास्त्रमनुपालय। कृतेयं हि विजिज्ञासा मुक्तो नेति त्वया मम। एतत सर्वं प्रतिच्छन्नं मयि नार्हसि गुहितुम्॥७० सा यदि त्वं स्वकार्येण यद्यन्यस्य महीपतेः। तत् त्वं सत्रप्रतिच्छन्ना मयि नार्हसि गुहितुम्॥ न राजानं मृषा गच्छेन्न द्विजातिं कथंचन। न स्त्रियं स्त्रीगुणोपेतां हन्युह्येते मृषा गताः॥ राज्ञां हि बलमैश्वर्यं ब्रह्म ब्रह्मविदां बलम्। रूपयौवनसौभाग्यं स्त्रीणां बलमनुत्तमम्॥ अत एतैर्बलैरेव बलिनः स्वार्थमिच्छता। आर्जवेनाभिगन्तव्या विनाशाय ह्यनार्जवम्॥ सा त्वं जातिं श्रुतं वृत्तं भावं प्रकृतिमात्मनः। कृत्यमागमने चैव वक्तुमर्हसि तत्त्वतः॥ भीष्म उवाच इत्येतैरसुखैर्वाक्यैरयुक्तैरसमञ्जसैः। प्रत्यादिष्टा नरेन्द्रेण सुलभा न व्यकम्पत॥ उक्तवाक्ये तु नृपतौ सुलभा चारुदर्शना। ततश्चारुतरं वाक्यं प्रचक्रामाथ भाषितुम्॥ सुलभोवाच नवभिनवभिश्चैव दोषैर्वाग्बुद्धिदूषणैः। अपेतमुपपन्नार्थमष्टादशगुणान्वितम्॥ सौक्षम्यं सांख्यक्रमौ चोभौ निर्णयः सप्रयोजनः। पञ्झैतान्यर्थजातानि वाक्यमित्युच्यते नृप।॥ एषामेकैकेशोऽर्थानां सौम्यादीनां स्वलक्षणम्। शृणु संसार्यमाणानां पदार्थपदवाक्यतः॥ ज्ञानं ज्ञेयेषु भिन्नेषु यदा भेदेन वर्तते। तत्रातिशायिनी बुद्धिस्तत् सौक्ष्म्यमिति वर्तते॥ दोषाणां च गुणानां च प्रमाणं प्रविभागतः। कंचिदर्थमभिप्रेत्य सा संख्येत्युपधार्यताम्॥ इदं पूर्वमिदं पश्चाद् वक्तव्यं यद् विवक्षितम्। क्रमयोगं तमप्याहुर्वाक्यं वाक्यविदो जनाः॥ धर्मकामार्थमोक्षेषु प्रतिज्ञाय विशेषतः। इदं तदिति वाक्यान्ते प्रोच्यते स विनिर्णयः॥ इच्छाद्वेषाभवैर्दुःखैः प्रकर्षो यत्र जायते। तत्र या नृपते वृत्तिस्तत् प्रयोजनमिष्यते॥ तान्येतानि यथोक्तानि सौक्ष्यादीनि जनाधिप। एकार्थसमवेतानि वाक्यं मम निशामय॥ उपेतार्थमभिन्नार्थं न्यायवृत्तं न चाधिकम्। नाश्लक्ष्णं न च संदिग्धं वक्ष्यामि परमं ततः॥ न गुर्वक्षरसंयुक्तं पराङ्मुखसुखं न च। नानृतं न त्रिवर्गेण विरुद्धं नाप्यसंस्कृतम्॥ न न्यूनं कष्टशब्दं वा विक्रमाभिहितं न च। न शेषमनु कल्पेन निष्कारणमहेतुकम्॥ कामात् क्रोधाद् भयाल्लोभाद् दैन्याच्यानार्यकात् तथा। ह्रीतोऽनुक्रोशतो मानान्न वक्ष्यामि कथंचन॥ वक्ता श्रोता च वाक्यं च सदा त्वविकलं नृप। सममेति विवक्षायां तदा सोऽर्थः प्रकाशते॥ वक्तव्ये तु यदा वक्ता श्रोतारमवमन्य वै। स्वार्थमाह परार्थं तत् तदा वाक्यं न रोहति॥ अथ यः स्वार्थमुत्सृज्य परार्थं प्राह मानवः। विशङ्का जायते तस्मिन् वाक्यं तदपि दोषवत्॥ यस्तु वक्ता द्वयोरर्थमविरुद्धं प्रभाषते। श्रोतुश्चैवात्मनश्चैव स वक्ता नेतरो नृप॥ तदर्थवदिदं वाक्यमुपेतं वाक्यसम्पदा। अविक्षिप्तमना राजन्नेकाग्रः श्रोतुमर्हसि॥ कासि कस्य कुतश्चेति त्वयाहमभिचोदिता। तत्रोत्तरमिदं वाक्यं राजन्नेकमनाः शृणु॥ यथा जतु च काष्ठं च पांसवश्चोदबिन्दवः। संश्लिष्टानि तथा राजन् प्राणिनामिह सम्भवः॥ शब्दः स्पर्शो रसो रूपं गन्थः पञ्चेन्द्रियाणि च। पृथगात्मान आत्मानं संश्लिष्टा जतुकाष्ठवत्॥ न चैषां चोदना काचिदस्तीत्येष विनिश्चयः। एकैकस्येह विज्ञानं नास्त्यात्मनि तथा परे॥ न वेद चक्षुश्चक्षुष्टुं श्रोत्रं नात्मनि वर्तते। तथैव व्यभिचारेण न वर्तन्ते परस्परम्॥ प्रश्लिष्टं च न जानन्ति यथाऽऽप इव पांसवः। बाह्यानन्यानपेक्षन्ते गुणांस्तानपि मे शृणु॥ रूपं चक्षुः प्रकाशश्च दर्शने हेतवस्त्रयः। यथैवात्र तथान्येषु ज्ञानज्ञेयेषु हेतवः॥ ज्ञानज्ञेयान्तरे तस्मिन् मनो नामापरो गुणः। विचारयति येनायं निश्चये साध्वसाधुनि॥ द्वादशस्त्वपरस्तत्र बुद्धिर्नाम गुणः स्मृतः। येन संशयपूर्वेषु बोद्धव्येषु व्यवस्यति॥ अथ द्वादशके तस्मिन् सत्त्वं नामापरो गुणः। महासत्त्वोऽल्पसत्त्वो वा जन्तुर्येनानुमीयते॥ अहं कर्तेति चाप्यन्यो गुणस्तत्र चतुर्दशः। ममायमिति येनायं मन्यते न ममेति च॥ अथ पञ्चदशो राजन् गुणस्तत्रापरः स्मृतः। पृथक्कलासमूहस्य सामग्र्यं तदिहोच्यते॥ गुणस्त्वेवापरस्तत्र संघात इव षोडशः। प्रकृतिर्व्यक्तिरित्येतौ गुणौ यस्मिन् समाश्रितौ॥ सुखासुखे जरामृत्यू लाभालाभौ प्रियाप्रिये। इति चैकोनविंशोऽयं द्वन्द्वयोग इति स्मृतः॥ ऊर्ध्वं चैकोनविंशत्या कालो नामापरो गुणः। इतीमं विद्धि विंशत्या भूतानां प्रभवाप्ययम्॥ विशश्वैष संघातो महाभूतानि पञ्च च। सदसद्भावयोगौ तु गुणावन्यौ प्रकाशकौ॥ इत्येवं विंशकश्चैव गुणाः सप्त च ये स्मृताः। विधिः शुक्रं बलं चेति त्रय एते गुणाः परे॥ विंशतिर्दश चैवं हि गुणाः संख्यानतः स्मृताः। समग्रा यत्र वर्तन्ते तच्छरीरमिति स्मृतम्॥ अव्यक्तं प्रकृतिं त्वासां कलानां कश्चिदिच्छति। व्यक्तं चासां तथा चान्यः स्थूलदर्शी प्रपश्यति॥ अव्यक्तं यदि वा व्यक्तं द्वयीमथ चतुष्टयीम्। प्रकृतिं सर्वभूतानां पश्यन्त्यध्यात्मचिन्तकाः॥ येयं प्रकृतिरव्यक्ता कलाभिर्व्यक्ततां गता। अहं च त्वं च राजेन्द्र ये चाप्यन्ये शरीरिणः॥ बिन्दुन्यासादयोऽवस्थाः शुक्रशोणितसम्भवाः। यासामेव निपातेन कललं नाम जायते॥ कललाद् बुद्बुदोत्पत्तिः पेशी च बुबुदात् स्मृता। पेश्यास्त्वङ्गाभिनिर्वृत्तिर्नखरोमाणि चाङ्गतः॥ सम्पूर्णे नवमे मासि जन्तोर्जातस्य मैथिल। जायते नामरूपत्वं स्त्री पुमान् वेति लिङ्गतः॥ जातमात्रं तु तद्रूपं दृष्ट्वा ताम्रनखाङ्गुलि। कौमारं रूपमापन्नं रूपतो नोपलभ्यते॥ कौमाराद् यौवनं चापि स्थावीर्यं चापि यौवनात्। अनेन क्रमयोगेन पूर्वं पूर्वं न लभ्यते॥ कलानां पृथगर्थानां प्रतिभेदः क्षणे क्षणे। वर्तते सर्वभूतेषु सौक्ष्म्यात् तु न विभाव्यते॥ न चैषामत्ययो राजल्लँक्ष्यते प्रभवो न च। अवस्थायामवस्थायां दीपस्येवार्चिषो गतिः॥ तस्याप्येवंप्रभावस्य सदश्वस्येव धावतः। अजस्रं सर्वलोकस्य कः कुतो वा न वा कुतः॥ कस्येदं कस्य वा नेदं कुतो वेदं न वा कुतः। सम्बन्धः कोऽस्ति भूतानां स्वैरप्यवयवैरिह॥ यथाऽऽदित्यान्मणेश्चापि वीरुद्भ्यश्चैव पावकः। जायन्त्येवं समुदयात् कलानामिव जन्तवः॥ आत्मन्येवात्मनाऽऽत्मानं यथा त्वमनुपश्यसि। एवमेवात्मनाऽऽत्मानमन्यस्मिन् किं न पश्यसि॥ यद्यात्मनि परस्मिश्च समतामध्यवस्यसि। अथ मां कासि कस्येति किमर्थमनुपृच्छसि॥ इदं मे स्यादिदं नेति द्वन्द्वैर्मुक्तस्य मैथिल। कासि कस्य कुतो वेति वचनैः किं प्रयोजनम्॥ रिपौ मित्रेऽथ मध्यस्थे विजये संधिविग्रहे। कृतवान् यो महीपालः किं तस्मिन् मुक्तलक्षणम्।।१३० त्रिवर्ग सप्तधा व्यक्तं यो न वेदेह कर्मसु। सङ्गवान् यस्त्रिवर्गेण किं तस्मिन् मुक्तलक्षणम्॥ प्रिये वाप्यप्रिये वापि दुर्बले बलवत्यपि। यस्य नास्ति समं चक्षुः किं तस्मिन् मुक्तलक्षणम्॥१३२ तदयुक्तस्य ते मोक्षे योऽभिमानो भवेन्नृप। सुहृद्धिः संनिवार्यस्तेऽविरक्तस्येव भेषजम्॥ तानि तानि तु संचिन्त्य सङ्गस्थानान्यरिंदम। आत्मनाऽऽत्मनि सम्पश्येत् किमन्यन्मुक्तलक्षणम्॥ इमान्यन्यानि सूक्ष्माणि मोक्षमाश्रित्य कानिचित्। चतुरङ्गप्रवृत्तानि सङ्गस्थानानि मे शृणु॥ य इमां पृथिवीं कृत्स्नामेकच्छत्रां प्रशास्ति ह। एक एव स वै राजा पुरमध्यावसत्युत॥ तत्पुरे चैकमेवास्य गृहं यदधितिष्ठति। गृहे शयनमप्येकं निशायां यत्र लीयते॥ शय्यार्धं तस्य चाप्यत्र स्त्रीपूर्वमधितिष्ठति। तदनेन प्रसङ्गेन फलेनैवेह युज्यते॥ एवमेवोपभोगेषु भोजनाच्छादनेषु च। गुणेषु परिमेयेषु निग्रहानुग्रहं प्रति॥ परतन्त्रः सदा राजा स्वल्पेष्वपि प्रसज्जते। संधिविग्रहयोगे च कुतो राज्ञः स्वतन्त्रता॥ स्त्रीषु क्रीडाविहारेषु नित्यमस्यास्वतन्त्रता। मन्त्रे चामात्यसमितौ कुतस्तस्य स्वतन्त्रता॥ यदा ह्याज्ञापयत्यन्यांस्तत्रास्योक्ता स्वतन्त्रता। अवशः कार्य ते तत्र तस्मिंस्तस्मिन् क्षणे स्थितः।।१४२ स्वप्नकामो न लभते स्वप्तुं कार्यार्थिभिर्जनैः। शयने चाप्यनुज्ञातः सुप्त उत्थाप्यतेऽवशः॥ स्नाह्यालभ पिब प्राश जुहुध्यग्नीन् यजेत्यपि। ब्रवीहि शृणु चापीति विवश: कार्यते परैः॥ अभिगम्याभिगम्यैवं याचन्ते सततं नराः। न चाप्युत्सहते दातुं वित्तरक्षी महाजनान्॥ दाने कोषक्षयोऽप्यस्य वैरं चास्याप्रयच्छतः। क्षणेनास्योपवर्तन्ते दोषा वैराग्यकारकाः॥ प्राज्ञाशूरांस्तथैवाढ्यानेकस्थानपि शङ्कते। भयमप्यभये राज्ञो यैश्च नित्यमुपास्यते॥ तथा चैते प्रदुष्यन्ति राजन् ये कीर्तिता मया। तथैवास्य भयं तेभ्यां जायते पश्य यादृशम्॥ सर्वः स्वे स्वे गृहे राजा सर्वः स्वे स्वे गृहे गृही। निग्रहानुग्रहान् कुर्वंस्तुल्यो जनक राजभिः॥ पुत्रा दारास्तथैवात्मा कोशो मित्राणि संचयाः। परैः साधारणा ह्येते तैस्तैरेवास्य हेतुभिः॥१५०॥ हतो देशः पुरं दग्धं प्रधानः कुञ्जरो मृतः। लोकसाधारणेष्वेषु मिथ्याज्ञानेन तप्यते॥ अमुक्तो मानसैर्दुःखैरिच्छाद्वेषभयोद्भवैः। शिरोरोगादिभी रोगैस्तथैवाभिनियन्तृभिः॥ द्वन्द्वैस्तैस्तैस्त्वपहतः सर्वतः परिशङ्कितः। बहुप्रत्यर्थिकं राज्यमुपास्ते गणयन्निशाः॥ तदल्पसुखमत्यर्थं बहुदुःखमसारवत्। तृणाग्निज्वलनप्रख्यं फेनबुबुदसंनिभम्॥ को राज्यमभिपद्येत प्राप्य चोपशमं लभेत्। ममेदमिति यच्चेदं पुरं राष्ट्रं च मन्यसे।१५५॥ बलं कोशममात्यांश्च कस्यैतानि न वा नृप। मित्रामात्यपुरं राष्ट्रं दण्डः कोशो महीपतिः॥ सप्ताङ्गस्यास्य राज्यस्य त्रिदण्ड्यस्येव तिष्ठतः। अन्योन्यगुणयुक्तस्य कः केन गुणतोऽधिकः॥ तेषु तेषु हि कालेषु तत्तदङ्गं विशिष्यते। येन यत् सिध्यते कार्यं तत् प्राधान्याय कल्पते॥ सप्ताङ्गश्चैव संघातस्त्रयश्चान्ये नृपोत्तम। सम्भूय दशवर्गोऽयं भुङ्क्ते राज्यं हि राजवत्॥ यश्च राजा महोत्साहः क्षत्रधर्मे रतो भवेत्। स तुष्येद् दशभागेन ततस्त्वन्यो दशावरैः॥ नास्त्यसाधारणो राजा नास्ति राज्यमराजकम्। राज्येऽसति कुतो धर्मो धर्मेऽसति कुतः परम्॥ योऽप्यत्र परमो धर्मः पवित्रं राजराज्ययोः। पृथिवी दक्षिणा यस्य सोऽश्वमेधेन युज्यते॥ साहमेतानि कर्माणि राजदुःखानि मैथिल। समर्था शतशो वक्तुमथवापि सहस्रशः॥ स्वदेहेनाभिषङ्गो मे कुतः परपरिग्रहे। न मामेवंविधां युक्तामीदृशं वक्तुमर्हसि॥ ननु नाम त्वया मोक्षः कृत्स्नः पञ्चशिखाच्छ्रुतः। सोपाय: सोपनिषदः सोपासङ्गः सनिश्चयः॥ तस्य ते मुक्तसङ्गस्य पाशानाक्रम्य तिष्ठतः। छत्रादिषु विशेषेषु पुनः सङ्गः कथं नृप॥ श्रुतं ते न श्रुत मन्ये मृषा वापि श्रुतं श्रुतम्। अथवा श्रुतसंकाशं श्रुतमन्यच्छ्रुतं त्वया॥ अथापीमासु संज्ञासु लौकिकीषु प्रतिष्ठसे। अभिषङ्गावरोधाभ्यां बद्धस्त्वं प्राकृतो यथा॥ सत्त्वेनानुप्रवेशो हि योऽयं त्वयि कृतो मया। किं तवापकृतं यत्र यदि मुक्तोऽसि सर्वशः॥ नियमो ह्येषु वर्णेषु यतीनां शून्यवासिता। शून्यमावेशयन्त्या च मया किं कस्य दूषितम्॥ न पाणिभ्यां न बाहुभ्यां पादोरुभ्यां च चानघ। न गात्रावयवैरन्यैः स्पृशामि त्वां नराधिप॥ कुले महति जातेन ह्रीमता दीर्घदर्शिना। नैतत्सदसि वक्तव्यं सद्वासद्वा मिथः कृतम्॥ ब्राह्मणा गुरवश्चेमे तथा मान्या गुरूत्तमाः। त्वं चाथ गुरुरप्येषामेवमन्योन्यगौरवम्॥ तदेवमनुसंदृश्य वाच्यावाच्यं परीक्षता। स्त्रीपुंसोः समवायोऽयं त्वया वाच्यो न संसदि॥ यथा पुष्करपर्णस्थं जलं तत्पर्णमस्पृशत्। तिष्ठत्यस्पृशती तद्वत् त्वयि वत्स्यामि मैथिल॥ यदि वाप्यस्पृशन्त्या मे स्पर्श जानासि कञ्चन। ज्ञानं कृतमबीजं ते कथं तेनेह भिक्षुणा॥ स गार्हस्थ्याच्च्युतश्च त्वं मोक्षं चानाप्य दुर्विदम्। उभयोरन्तराले वै वर्तसे मोक्षवार्तिकः॥ न हि मुक्तस्य मुक्तेन ज्ञस्यैकत्वपृथक्त्वयोः। भावाभावसमायोगे जायते वर्णसंकरः॥ वर्णाश्रमाः पृथक्त्वेन दृष्टार्थस्यापृथक्त्विनः। नान्यदन्यदिति ज्ञात्वा नान्यदन्यत्र वर्तते॥ पाणौ कुण्डं तथा कुण्डे पयः पयसि मक्षिका। आश्रिताश्रययोगेन पृथक्त्वेनाश्रिताः पुनः॥ न तु कुण्डे पयोभावः पयश्चापि न मक्षिका। स्वयमेवाप्नुवन्त्येते भावा ननु पराश्रयम्॥ पृथक्त्वादाश्रमाणां च वर्णान्यत्वे तथैव च। परस्परपृथक्त्वाच्च कथं ते वर्णसंकरः॥ नास्मि वर्णोत्तमा जात्या न वैश्या नावरा तथा। तव राजन् सवर्णास्मि शुद्धयोनिरविप्लुता॥ प्रधानो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः। कुले तस्य समुत्पन्नां सुलभा नाम विद्धि माम्॥ द्रोणश्च शत्शृङ्गश्च चक्रद्वारश्च पर्वतः। मम सत्रेषु पूर्वेषां चिता मघवता सह॥ साहं तस्मिन् कुले जाता भर्तर्यसति मविधे। विनीता मोक्षधर्मेषु चराम्येका मुनिव्रतम्।।१८६। नास्मि सत्रप्रतिच्छन्ना न परस्वापहारिणी। न धर्मसंकरकरी स्वधर्मेऽसि धृतव्रता॥ नास्थिरा स्वप्रतिज्ञायां नासमीक्ष्य प्रवादिनी। नासमीक्ष्यागता चेह त्वत्सकाशं जनाधिप॥ मोक्षे ते भावितां बुद्धिं श्रुत्वाहं कुशलैषिणी। तव मोक्षस्य चाप्यस्य जिज्ञासार्थमिहागता॥ न वर्गस्था ब्रवीम्येतत् स्वपक्षपरपक्षयोः। मुक्तो व्यायच्छते यश्च शान्तौ यश्च न शाम्यति॥ यथा शून्ये पुरागारे भिक्षुरेकां निशां वसेत्। तथाहं त्वच्छरीरेऽस्मिन्निमां वत्स्यामि शर्वरीम्॥ साहं मानप्रदानेन वागातिथ्येन चार्चिता। सुप्ता सुशरणं प्रीता श्वो गमिष्यामि मैथिल॥ भीष्म उवाच इत्येतानि स वाक्यानि हेतुमन्त्यर्थवन्ति च। श्रुत्वा नाधिजगौ राजा किञ्चिउदन्यदतः परम्॥ भीष्म उवाच इत्येतानि स वाक्यानि हेतुमन्त्यर्थवन्ति च। श्रुत्वा नाधिजगौ राजा किञ्चिउदन्यदतः परम्॥ युधिष्ठिर उवाच कथं निर्वेदमापन्नः शुको वैयासकिः पुरा। एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे॥ अव्यक्तव्यक्ततत्त्वानां निश्चयं बुद्धिनिश्चयम्। वक्तुमर्हसि कौरव्य देवस्याजस्य या कृतिः॥ भीष्म उवाच प्राकृतेन सुवृत्तेन चरन्तमकुतोभयम्। अध्याप्य कृस्त्नं स्वाध्यायमन्वशाद् वै पिता सुतम्॥ व्यास उवाच धर्मं पुत्र निषेवस्व सुतीक्ष्णौ च हिमातपौ। क्षुत्पिपासे च वायुंच जय नित्यं जितेन्द्रियः॥ सत्यमार्जवमक्रोधमनसूयां दमं तपः। अहिंसां चानृशंस्यं च विधिवत् परिपालय॥ सत्ये तिष्ठ रतो धर्मे हित्वा सर्वमनार्जवम्। देवतातिथिशेषेण मात्रां प्राणस्य संलिह॥ फेनमात्रोपमो देहे जीवे शकुनिवत् स्थिते। अनित्ये प्रियसंवासे कथं स्वपिषि पुत्रक॥ अप्रमत्तेषु जाग्रत्सु नित्ययुक्तेषु शत्रुषु। अन्तरं लिप्समानेषु बालस्त्वं नावबुध्यसे॥ अहःसु गण्यमानेषु क्षीयमाणे तथाऽऽयुषि। जीविते लिख्यमाने च किमुत्थाय न धावसि॥ ऐहलौकिकमीहन्ते मांसशोणितवर्धनम्। पारलौकिककार्येषु प्रसुप्ता भृशनास्तिकाः॥ धर्माय येऽभ्यसूयन्ति बुद्धिमोहान्विता नराः। अपथा गच्छतां तेषामनुयाताऽपि पीड्यते॥ ये तु तुष्टाः श्रुतिपरा महात्मानो महाबलाः। धर्म्य पन्थानमारूढास्तानुपास्स्व च पृच्छ च॥ उपधार्य मतं तेषां बुधानां धर्मदर्शिनाम्। नियच्छ परया बुद्ध्या चित्तमुत्पथगामि वै॥ आद्यकालिकया बुद्ध्या दूरे श्व इति निर्भयाः। सर्वभक्ष्या न पश्यन्ति कर्मभूमिमचेतसः॥ धर्मं निःश्रेणिमास्थाय किंचित् किंचित् समारुह। कोषकारवदात्मानं वेष्टयन्नानुबुध्यसे॥ नास्तिकं भिन्नमर्यादं कूलपातमिव स्थितम्। वामतः कुरु विस्रब्यो नरं वेणुमिवोद्धृतम्॥ कामं क्रोधं च मृत्युं च पञ्चेन्द्रियजला नदीम्। नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर॥ मृत्युनाभ्याहते लोके जरया परिपीडिते। अमोघासु पतन्तीषु धर्मपोतेन संतर॥ तिष्ठन्तं च शयानं च मृत्युरन्वेषते यदा। निर्वृत्तिं लभते कस्मादकस्मान्मृत्युनाशितः॥ संचिन्वानकमेवेनं कामानामवितृप्तकम्। वृकीवोरणमासाद्य मृत्युरादाय गच्छति॥ क्रमशः संचितशिखो धर्मबुद्धिमयो महान्। अन्धकारे प्रवेष्टव्यं दीपो यत्नेन धार्यताम्॥ सम्पतन् देहजालानि कदाचिदिह मानुषे। ब्राह्मण्यं लभते जन्तुस्तत् पुत्र परिपालय॥ ब्राह्मणस्य तु देहोऽयं न कामार्थाय जायते। इह क्लेशाय तपसे प्रेत्य त्वनुपमं सुखम्॥ स्तल्लब्ध्वा न रतिपरेण हेलितव्यम्। स्वाध्याये तपसि दमे च नित्ययुक्तः क्षेमाथीं कुशलपर: सदा यतस्व॥ अव्यक्तप्रकृतिरयं कलाशरीरः सूक्ष्मात्मा क्षणत्रुटिशो निमेषरोमा। ऋत्वास्यः समबलशुक्लकृष्णनेत्रो मासाङ्गो द्रवति वयोहयो नराणाम्॥ तं दृष्ट्वा प्रसृतमजस्रमुग्रवेगं गच्छन्तं सततमिहाव्यपेक्षमाणम्। चक्षुस्ते यदि न परप्रणेतृनेयं धर्मे ते भवतु मनः परं निशाम्य॥ ये चात्र प्रचलित धर्म कामवृत्ताः क्रोशन्तः सततमनिष्टसम्प्रयोगाः। क्लिश्यन्तः परिगतवेदनाशरीरा बह्वीभिः सुभृशमधर्मकारणाभिः॥ राजा सदा धर्मपर: शुभाशुभस्य गोप्ता समीक्ष्य सुकृतिनां दधाति लोकान्। बहुविधमपि चरति प्रविशति सुखमनुपगतं निखद्यम्॥ श्वानो भीषणकाया अयोमुखानि वयांसि बलगृध्रकुलपक्षिणां च संघाः। नुदमुपरतं विशसन्ति॥ मर्यादा नियताः स्वयम्भुवा य इहेमा: प्रभिनत्ति दशगुणा मनोऽनुगत्वात्। विपिनमवगाह्य स पापः॥ यो लुब्धः सुभृशं प्रियानृतश्च मनुष्य: सततनिकृतिवञ्चनाभिरति: स्यात्। उपनिधिभिरसुखकृत्स परमनिरयगो भृशमसुखमनुभवति दुष्कृतकर्मा॥ मवगाढोऽसिपत्रवनभिन्नगात्रः। परशुवनशयो निपतितो वसति च महानिरये भृशातः॥ महापदानि कत्थसे न चाप्यवेक्षसे परम्। चिरस्य मृत्युकारिकामनागतां न बुध्यसे॥ प्रयायतां किमास्यते समुत्थितं महद् भयम्। अतिप्रमाथि दारुणं सुखस्य संविधीयताम्॥ पुरा मृत: प्रणीयते यमस्य राजशासनात्। त्वमन्तकाय दारुणैः प्रयत्नमार्जवे कुरु॥ पुरा समूलबान्धवं प्रभुईरत्यदुःखवित्। तवेह जीवितं यमो न चास्ति तस्य वारकः॥ पुराभिवाति मारुतो यमस्य यः पुरःसरः। पुरैक एव नीयसे कुरुष्व साम्परायिकम्॥ पुरा स हि क्व एव ते प्रवाति मारुतोऽन्तकः। पुरा च विभ्रमन्ति ते दिशो महाभयागमे॥ श्रुतिश्च संनिरुध्यते पुरा त्वेह पुत्रका समाकुलस्य गच्छतः समाधिमुत्तमं कुरु॥ शुभाशुभे पुरा कृते प्रमादकर्मविप्लुते। स्मरन् पुरा न तप्यसे निधत्स्व केवलं निधिम्॥ पुरा जरा कलेवरं विजर्जरीकरोति ते। बलाङ्गरूपहारिणी निधत्स्व केवलं निधिम्॥ पुरा शरीरमन्तको भिनत्ति रोगसारथिः। प्रसह्य जीवितक्षये तपो महत् समाचर॥ पुरा वृका भयंकरा मनुष्यदेहगोचराः। अभिद्रवन्ति सर्वतो यतस्व पुण्यशीलने॥ पुरान्धकारमेककोऽनुपश्यसि त्वरस्व वै। पुरा हिरण्यमयान् नगान् निरीक्षसेऽद्रिमूर्धनि॥ पुरा कुसङ्गत्तानि ते सुहन्मुखाश्च शत्रवः। विचालयन्ति दर्शनाद् घटस्व पुत्र यत्परम्॥ धनस्य यस्य राजतो भयं न चास्ति चोरतः। मृतं च यन्न मुञ्चति समर्जयस्व तद् धनम्॥ न तत्र संवियुज्यते स्वकर्मभिः परस्परम्। यदेव यस्य यौतकं तदेव तत्र सोऽश्नुते॥ परत्र येन जीव्यते तदेव पुत्र दीयताम्। धनं यदक्षरं ध्रुवं समर्जयस्व तत् स्वयम्॥ न यावदेव पच्यते महाजनस्य यावकम्। अपक्व एव यावके पुरा प्रलीयसे त्वर॥ न मातृपुत्रबान्धवा न संस्तुतः प्रियो जनः। अनुव्रजन्ति संकटे व्रजन्तमेकपातिनम्॥ यदेव कर्म केवलं पुरा कृतं शुभाशुभम्। तदेव पुत्र सार्थिकं भवत्यमुत्र गच्छतः॥ हिरण्यरत्नसंचयाः शुभाशुभेन संचिताः। न तस्य देहसंक्षये भवन्ति कार्यसाधकाः॥ परत्रगामिकस्य ते कृताकृतस्य कर्मणः। न साक्षि आत्मना समो नृणामिहास्ति कश्चन॥ मनुष्यदेहशून्यकं भवत्यमुत्र गच्छतः। प्रविश्य बुद्धिचक्षुषा प्रदृश्यते हि सर्वशः॥ इहाग्निसूर्यवायवः शरीरमाश्रितास्त्रयः। त एव तस्य साक्षिणो भवन्ति धर्मदर्शिनः॥ अहर्निशेषु सर्वतः स्पृशत्सु सर्वचारिषु। प्रकाशगूढवृत्तिषु स्वधर्ममेव पालय॥ अनेकपारिपन्थिके विरूपरौद्रमक्षिके। स्वमेव कर्म रक्ष्यतां स्वकर्म तत्र गच्छति॥ न तत्र संविभज्यते स्वकर्मणा परस्परम्। तथा कृतं स्वकर्मजं तदेव भुज्यते फलम्॥ यथाप्सरोगणाः फलं सुखं महर्षिभिः सह। तथाऽऽनुवन्ति कर्मजं विमानकामगामिनः॥ यथेह यत् कृतं शुभं विपाप्मभिः कृतात्मभिः। तदाप्नुवन्ति मानवास्तथा विशुद्धयोनयः॥ प्रजापतेः सलोकतां बृहस्पतेः शतक्रतोः। व्रजन्ति ते परां गतिं गृहस्थधर्मसेतुभिः॥ सहस्रशोऽप्यनेकशः प्रवक्तुमुत्सहाम ते। अबुद्धिमोहनं पुनः प्रभुर्निनाय पावकः॥ गता त्रिरष्टवर्षता ध्रुवोऽसि पञ्चविंशकः। कुरुष्व धर्मसंचय वयो हि तेऽतिवर्तते॥ पुरा करोति सोऽन्तकः प्रमादगोमुखां चमूम्। यथागृहीतमुत्थितस्त्वरस्व धर्मपालन॥ यथा त्वमेव पृष्ठतस्त्वमग्रतो गमिष्यसि। तथा गतिं गमिष्यतः किमात्मना परेण वा॥ यदेकपातिनां सतां भवत्यमुत्र गच्छताम्। भयेषु साम्परायिकं निधत्स्व केवलं निधिम्॥ सकूलमूलबान्धवं प्रभुहरत्यसङ्गवान्। न सन्ति यस्य वारकाः कुरुष्व धर्मसंनिधिम्॥ इदं निदर्शनं मया तवेह पुत्र साम्प्रतम्। स्वदर्शनानुमानतः प्रवर्णितं कुरुष्व तत्॥ दधाति यः स्वकर्मणा ददाति यस्य कस्यचित्। अबुद्धिमोहजैर्गुणैः स एक एव युज्यते॥ श्रुतं समस्तमश्नुते प्रकुर्वतः शुभाः क्रियाः। तदेतदर्थदर्शनं कृतज्ञमर्थसंहितम्॥ निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः। छित्त्वैतां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः॥ किं ते धनेन किं बन्धुभिस्ते किं ते पुत्रैः पुत्रक यो मरिष्यसि। आत्मानमन्विच्छ गुहां प्रविष्टं पितामहास्ते क्व गताश्च सर्वे॥ श्वः कार्यमद्य कुर्वीत पूर्वाह्ने चापराह्निकम्। न हि प्रतीक्षते मृत्युः कृतं वास्य न वाकृतम्॥ अनुगम्य विनाशान्ते निवर्तन्ते ह बान्धवाः। अग्नौ प्रक्षिप्य पुरुषं ज्ञातयः सुहृदस्तथा॥ नास्तिकान् निरनुक्रोशान् नरान् पापमते स्थितान्। वामतः कुरु विस्रब्धं परं प्रेप्सुरतन्द्रितः॥ एवमभ्याहते लोके कालेनोपनिपीडिते। सुमहद् धैर्यमालम्ब्य धर्मं सर्वात्मना कुरु॥ अथेमं दर्शनोपायं सम्यग् यो वेत्ति मानवः। सम्यक् स्वधर्मं कृत्वेह परत्र सुखमश्नुते॥ न देहभेदे मरणं विजानता न च प्रणाशः स्वनुपालिते पथि। धर्मं हि यो वर्धयते स पण्डितो य एव धर्माच्च्यवते स मुह्यति॥ प्रयुक्तयोः कर्मपथि स्वकर्मणो: फलं प्रयोक्ता लभते यथाकृतम्। निहीनकर्मा निरयं प्रपद्यते त्रिविष्टपं गच्छति धर्मपारगः॥ सोपानभूतं स्वर्गस्य मानुष्यं प्राप्य दुर्लभम्। तथाऽऽत्मानं समादध्याद् भ्रश्यते न पुनर्यथा॥ यस्य नोक्रामति मति: स्वर्गमार्गानुसारिणी। तमाहुः पुण्यकर्माणमशोच्यं पुत्रबान्धवैः॥ यस्य नोपहता वुद्धिर्निश्चये ह्यवलम्बते। स्वर्गे कृतावकाशस्य नास्ति तस्य महद् भयम्॥ तपोवनेषु ये जातास्तत्रैव निधनं गताः। तेषामल्पतरो धर्मः कामभोगानजानताम्॥ यस्तु भोगान् परित्यज्य शरीरेण तपश्चरेत्। न तेन किंचिन्न प्राप्तं तन्मे बहु मतं फलम्॥ मातापितृसहस्राणि पुत्रदारशतानि च। अनागतान्यतीतानि कस्य ते कस्य वा वयम्॥ अहमेको न मे कश्चिन्नाहमन्यस्य कस्यचित्। न तं पश्यामि यस्याहं तन्न पश्यामि यो मम॥ न तेषां भवता कार्यं न कार्यं तव तैरपि। स्वकृतैस्तानि यातानि भवांश्चैव गमिष्यति॥ इह लोके हि धनिनां स्वजन: स्वजनायते। स्वजनस्तु दरिद्राणां जीवतामपि नश्यति॥ संचिनोत्यशुभं कर्म कलत्रापेक्षया नरः। तत: क्लेशमवाप्नोति परत्रेह तथैव च॥ पश्यति च्छिन्नभूतं हि जीवलोकं स्वकर्मणा। तत् कुरुष्व तथा पुत्र कृत्स्नं यत् समुदाहृतम्॥ तदेतत् सम्प्रदृश्यैव कर्मभूमिं प्रपश्यतः। शुभान्याचरितव्यानि परलोकमभीप्सता॥ मासर्तुसंज्ञापरिवर्तकेण सूर्याग्निना रात्रिदिवेन्धनेन। स्वकर्मनिष्ठाफलसाक्षिकेण भूतानि काल: पचति प्रसह्य॥ धनेन किं यन्न ददाति नाश्नुते। बलेन किं येन रिपुं न बाधते। श्रुतेन किं येन न धर्ममाचरेत् किमात्मना यो न जितेन्द्रियो वशी॥ भीष्म उवाच इदं द्वैपायनवचो हितमुक्तं निशम्य तु। शुको गतः परित्यज्य पितरं मोक्षदेशिकम्॥ युधिष्ठिर उवाच यद्यस्ति दत्तमिष्टं वा ततस्तप्तं तथैव च। गुरूणां वापि शुश्रूषा तन्मे ब्रूहि पितामह॥ भीष्म उवाच आत्मनानर्थयुक्तेन पापे निविशते मनः। स कर्म कलुषं कृत्वा क्लेशे महति धीयते॥ दुर्भिक्षादेव दुर्भिक्षं क्लेशात् क्लेशं भयाद् भयम्। मृतेभ्यः प्रमृता यान्ति दरिद्राः पापकर्मिणः॥ उत्सवादुत्सवं यान्ति स्वर्गात स्वर्ग सुखात् सुखम्। श्रद्दधानाश्च दान्ताश्च धनस्था: शुभकारिणः॥ व्यालकुञ्जरदुर्गेषु सर्पचौरभयेषु च। हस्तावापेन गच्छन्ति नास्तिकाः किमतः परम्॥ प्रियदेवातिथेयाश्च वदान्याः प्रियसाधवः। क्षेम्यमात्मवतां मार्गमास्थिता हस्तदक्षिणम्॥ पुलाका इव धान्येषु पूत्यण्डा इव पक्षिषु। तद्विधास्ते मनुष्येषु येषां धर्मो न कारणम्॥ सुशीघ्रमपि धावन्तं विधानमनुधावति। शेते सह शयानेन येन येन यथा कृतम्॥ उपतिष्ठति तिष्ठन्तं गच्छन्तमनुगच्छति। करोति कुर्वतः कर्म च्छायेवानुविधीयते॥ येन येन यथा यद् यत्पुरा कर्म सुनिश्चितम्। तत् तदेकतरो भुङ्क्ते नित्यं विहितमात्मना॥ स्वकर्मफलनिक्षेपं विधानपरिरक्षितम्। भूतग्राममिमं कालः समन्तादपकर्षति॥ अचोद्यमानानि यथा पुष्पाणि च फलानि च। स्वं कालं नातिवर्तन्ते तथा कर्म पुरा कृतम्॥ सम्मानश्चावमानश्च लाभालाभौ क्षयोदयौ। प्रवृत्ता विनिवर्तन्ते विधानान्ते पदे पदे॥ आत्मना विहितं दुःखमात्मना विहितं सुखम्। गर्भशय्यामुपादाय भुज्यते पौर्वदेहिकम्॥ बालो युवा वा वृद्धश्च यत् करोति शुभाशुभम्। तस्यां तस्यामवस्थायां भुङ्क्ते जन्मनि जन्मनि॥ यथा धेनुसहस्रेषु वत्सो विन्दति मातरम्। तथा पूर्वकृतं कर्म कर्तारमनुगच्छति॥ मलिनं हि यथा वस्त्रं पश्चाच्छुद्ध्यति वारिणा। उपवासैः प्रतप्तानां दीर्घं सुखमनन्तकम्॥ दीर्घकालेन तपसा सेवितेन महामते। धर्मनिर्धूतपापानां संसिध्यन्ते मनोरथाः॥ शकुनानामिवाकाशे मत्स्यानामिव चोदके। पदं यथा न दृश्येत तथा पुण्यकृतां गतिः॥ अलमन्यैरुपालब्धैः कीर्तितैश्च व्यतिक्रमैः। पेशलं चानुरूपं च कर्तव्यं हितमात्मनः॥ युधिष्ठिर उवाच कथं व्यासस्य धर्मात्मा शुको जज्ञे महातपाः। सिद्धिं च परमां प्राप्तस्तन्मे ब्रूहि पितामह॥ कस्यां चोत्पादयामास शुकं व्यासस्तपोधनः। न ह्यस्य जननी विद्मं जन्म चायं महात्मनः॥ कथं च बालस्य सत: सूक्ष्मजाने गता मतिः। यथा नान्यस्य लोकेऽस्मिन् द्वितीयस्येह कस्यचित्॥ एतदिच्छाम्यहं श्रोतुं विस्तरेण महामते। न हि मे तृप्तिरस्तीह शृण्वतोऽमृतमुत्तमम्॥ माहात्म्यमात्मयोगं च विज्ञानं च शुकस्य ह। यथावदानुपूर्येण तन्मे ब्रूहि पितामह॥ भीष्म उवाच न हायनैर्न पलितैर्न वित्तैर्न न बन्धुभिः। ऋषयश्चक्रिरे धर्म योऽनूचानः स नो महान्॥ तपोमूलमिदं सर्वं यन्मां पृच्छसि पाण्डवः तदिन्द्रियाणि संयम्य तपो भवति नान्यथा॥ इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम्। संनियम्य तु तान्येव सिद्धिमाप्नोति मानवः॥ अश्वमेधसहस्रस्य वाजपेयशतस्य च। योगस्य कलया तात न तुल्यं विद्यते फलम्॥ अत्र ते वर्तयिष्यामि जन्मयोगफलं तथा। शुकस्याश्यां गतिं चैव दुर्विदामकृतात्मभिः॥ मेरुशृङ्गे किल पुरा कर्णिकारवनायुते। विजहार महादेवो भीमैर्भूतगणैर्वृतः॥ शैलराजसुता चैव देवी तत्राभवत् पुरा। तत्र दिव्यं तपस्तेपे कृष्णद्वैपायनस्तदा॥ योगेनात्मानमाविश्य योगधर्मपरायणः। धारयन् स तपस्तेपे पुत्रार्थं कुरुसत्तम॥ अग्नेर्भूमेरपां वायोरन्तरिक्षस्य वा विभो। धैर्येण सम्मितः पुत्रो मम भूयादिति स्म ह॥ संकल्पेनाथ योगेन दुष्प्रापमकृतात्मभिः। वरयामास देवेशमास्थितस्तप उत्तमम्॥ अतिष्ठन्मारुताहारः शतं किल समाः प्रभुः। आराधयन्महादेवं बहुरूपमुमापतिम्॥ तत्र ब्रह्मर्षयश्चैव सर्वे राजर्षयस्तथा। लोकपालाश्च लोकेशं साध्याश्च बहुभिः सह।॥ आदित्याश्चैव रुद्राश्च दिवाकरनिशाकरौ। वसवो मरुतश्चैव सागरा: सरितस्तथा॥ अश्विनौ देवगन्धर्वास्तथा नारदपर्वतौ। विश्वावसुश्च गन्धर्वः सिद्धाश्चाप्सरसस्तथा॥ तत्र रुद्रो महादेवः कर्णिकारमयीं शुभाम्। धारयाणः स्रज भाति ज्योत्स्नामिव निशाकरः॥ तस्मिन् दिव्ये वने रम्ये देवदेवर्षिसंकुले। आस्थितः परमं योगमृषिः पुत्रार्थपच्युतः॥ न चास्य हीयते प्राणो न ग्लानिरुपजायते। त्रयाणामपि लोकानां तदद्भुतमिवाभवत्॥ जटाश्च तेजसा तस्य वैश्वानरशिखोपमाः। प्रज्वलन्त्यः स्म दृश्यन्ते युक्तस्यामिततेजसः॥ मार्कण्डेयो हि भगवानेतदाख्यातवान् मम! स देवचरितानीह कथयामास मे सदा॥ एता अद्यापि कृष्णस्य तपसा तेन दीपिताः। अग्निवर्णा जटास्तात प्रकाशन्ते महात्मनः॥ एवंविधेन तपसा तस्य भक्त्या च भारत। महेश्वरः प्रसन्नात्मा चकार मनसा मतिम्॥ उवाच चैवं भगवांस्त्र्यम्बकः प्रहसन्निव। एवंविधस्ते तनयो द्वैपायन भविष्यति॥ यथा ह्यग्निर्यथा वायुर्यथा भूमिर्यथा जलम्। यथा च खं तथा शुद्धो भविता ते सुतो महान्॥ तद्भावभावी तबुद्धिस्तदात्मा तदपाश्रयः। तेजसाऽऽवृत्य लोकांस्त्रीन् यशःप्राप्स्यति ते सुतः।।२९। भीष्म उवाच स लब्ध्वा परमं देवाद् वरं सत्यवतीसुतः। अरणी सहिते गृह्य ममन्थाग्निचिकीर्षया॥ अथ रूपं परं राजन् बिभ्रती स्वेन तेजसा। घृताची नामाप्सरसमपश्यद् भगवानृषिः॥ ऋषिरप्सरसं दृष्ट्वा सहसा काममोहितः। अभवद् भगवान् व्यासो वने तस्मिन् युधिष्ठिर॥ सा च दृष्ट्वा तदा व्यासं कामसंविग्नमानसम्। शुकी भूत्वा महाराज घृताची समुपागमत्॥ तामप्सरसं दृष्ट्वा रूपेणान्येन संवृताम्। शरीरजेनानुगदः सर्वगात्रातिगेन ह॥ स तु धैर्येण महता निगृह्णन् हृच्छयं मुनिः। न शशाक नियन्तुं तद् व्यास: प्रविसृतं मनः॥ भावित्वाच्चैव भावस्य घृताच्या वपुषा हृतः। यत्नान्नियच्छतस्तस्य मुनेरग्निचिकीर्षया॥ अरण्यामेव सहसा तस्य शुक्रमवापतत्। सोऽविशंकेन मनसा तथैव द्विजसत्तमः॥ अरणी ममन्थ ब्रह्मर्षिस्तस्यां जज्ञे शुको नृप। शुक्रे निर्मथ्यमाने स शुको जज्ञे महातपाः॥ परमर्षिर्महायोगी अरणीगर्भसम्भवः यथाध्वरे समिद्धोऽग्नि ति हव्यमुदावहम्॥ तथारूप: शुको जज्ञे प्रज्वलन्निव तेजसा। बिभ्रत् पितुश्च कौरव्य रूपवर्णमनुत्तमम्॥ बभौ तदा भावितात्मा विधूम इव पावकः। तं गङ्गा सरितां श्रेष्ठा मेरुपृष्ठे जनेश्वर॥ स्वरूपिणी तदाभ्येत्य तर्पयामास वारिणा। अन्तरिक्षाच्च कौरव्य दण्डः कृष्णाजिनं च ह॥ पपात भूमिं राजेन्द्र शुकस्यार्थे महात्मनः। जेगीयन्ते स्म गन्धर्वा ननृतुश्चाप्सरोगणाः॥ देवदुन्दुभयश्चैव प्रावाद्यन्त महास्वनाः। विश्वावसुश्च गन्धर्वस्तथा तुम्बुरुनारदौ॥ हाहा हूहूच गन्धर्वी तुष्टवुः शुकसम्भवम्। तत्र शक्रपुरोगाश्च लोकपालाः समागताः॥ देवा देवर्षयश्चैव तथा ब्रह्मर्षयोऽपि च। दिव्यानि सर्वपुष्पाणि प्रववर्ष च मारुतः॥ जङ्गमाजङ्गमं चैव प्रहृष्टमभवज्जगत्। तं महात्मा स्वयं प्रीत्या देव्या सह महाद्युतिः॥ जातमात्रं मुनेः पुत्र विधिनोपानयत् तदा। तस्य देवेश्वरः शक्रो दिव्यमद्भुतदर्शनम्॥ ददौ कमण्डलु प्रीत्या देववासांसि वा विभो। हंसाच शतपत्राश्च सारसाश्च सहस्रशः॥ प्रदक्षिणमवर्तन्त शुकाश्चाषाश्च भारत। आरणेयस्ततो दिव्यं प्राप्य जन्म महाद्युतिः॥ तत्रैवोवास मेधावी व्रतचारी समाहितः। उत्पन्नमात्रं तं वेदाः सरहस्या: ससंग्रहाः॥ उपतस्थुर्महाराज यथास्य पितरं तथा। बृहस्पतिं च वत्रे स वेदवेदाङ्गभाष्यवित्॥ उपाध्यायं महाराज धर्ममेवानुचिन्तयन्। सोऽधीत्य निखिलान् वेदान् सरहस्यान् ससंग्रहान्।।२४ इतिहासं च कात्स्र्येन राजशास्त्राणि वा विभो। गुरवे दक्षिणां दत्त्वा समावृत्तो महामुनिः।।२५। उग्रं तयः समारेभे ब्रह्मचारी समाहितः। देवतानामृषीणां च बाल्येऽपि स महातपाः। सम्मन्त्रणीयो मान्यश्च ज्ञानेन तपसा तथा॥ न त्वस्य रमते बुद्धिराश्रमेषु नराधिप। त्रिषु गार्हस्थ्यमूलेषु मोक्षधर्मानुदर्शिनः॥ भीष्म उवाच ततः स राजा जनको मन्त्रिभिः सह भारत। पुरः पुरोहितं कृत्वा सर्वाण्यन्तःपुराणि च॥ आसनं च पुरस्कृत्य रत्नानि विविधानि च। शिरसा चार्घ्यमादाय गुरुपुत्रं समभ्यगात्॥ स तदाऽऽसनमादाय बहुरत्नविभूषितम्। स्पर्धास्तरणसंस्तीर्णं सर्वतोभद्रमृद्धिमत्॥ पुरोधसा संगृहीतं हस्तेनालभ्य पार्थिवः। प्रददौ गुरुपुत्राय शुकाय परमार्चितम्॥ तत्रोपविष्टं तं कार्ष्णि शास्त्रतः प्रत्यपूजयत्। पाद्यं निवेद्य प्रथममर्थ्य गां च न्यवेदयत्॥ स च तां मन्त्रवत्पूजां प्रत्यगृह्णाद् यथाविधि। प्रतिगुह्य तु तां पूजां जनकाद् द्विजसत्तमः॥ गां चैव समनुज्ञाय राजानमनुमान्य च। पर्यपृच्छन्महातेजा राज्ञः कुशलमव्ययम्॥ अनामयं च राजेन्द्र शुकः सानुचरस्य ह। अनशिष्टस्तु तेनासौ निषसाद सहानुगः॥ उदारसत्त्वाभिजनो भूमौ राजा कृताञ्जलिः। कुशलं चाव्ययं चैव पृष्ट्वा वैयासकिं नृपः। किमागमनमित्येवं पर्यपृच्छत पार्थिवः॥ शुक उवाच पित्राहमुक्तो भद्रं ते मोक्षधर्मार्थकोविदः। विदेहराजो याज्यो मे जनको नाम विश्रुतः॥ तत्र गच्छस्व वै तूर्णं यदि ते हृदि संशयः। प्रवृत्तौ वा निवृत्तौ वा स ते च्छेत्स्यति संशयम्॥ सोऽहं पितुर्नियोगात् त्वामुपप्रष्टुमिहागतः। तन्मे धर्मभृतां श्रेष्ठ यथावद् वक्तुर्महसि॥ किं कार्यं ब्राह्मणेनेह मोक्षार्थश्च किमात्मकः। कथं च मोक्षः प्राप्तव्यो ज्ञानेन तपसाथवा॥ जनक उवाच यत् कार्यं ब्राह्मणेनेह जन्मप्रभृति तच्छृणु। कृतोपनयनस्तात भवेद् वेदपरायणः॥ तपसा गुरुवृत्त्या च ब्रह्मचर्येण वा विभो। देवतानां पितॄणां चाप्यनृणो ह्यनसूयकः॥ वेदानधीत्य नियतो दक्षिणामपवर्त्य च। अभ्यनुज्ञामथ प्राप्य समावर्तेत वै द्विजः॥ समावृत्तश्च गार्हस्थ्ये स्वदारनिरतो वसेत्। अनसूयुर्यथान्यायमाहिताग्निस्तथैव च॥ उत्पाद्य पुत्रपौत्रं तु वन्याश्रमपदे वसेत्। तानेवाग्नीन् यथाशास्त्रमर्चयन्नतिथिप्रियः॥ स वनेऽग्नीन् यथान्यायमात्मन्यारोप्य धर्मवित्। निर्द्वन्द्वो वीतरागात्मा ब्रह्माश्रमपदे वसेत्॥ शुक उवाच उत्पन्ने ज्ञानविज्ञाने निर्द्वन्द्वे हृदि शाश्वते। किमवश्यं निवस्तव्यमाश्रमेषु भवेत् त्रिषु॥ एतद् भवन्तं पृच्छामि तद् भवान् वक्तुमर्हति। यथा वेदार्थतत्त्वेन ब्रूहि मे त्वं जनाधिप॥ जनक उवाच न विना ज्ञानविज्ञाने मोक्षस्याधिगमो भवेत्। न विना गुरुसम्बन्धं ज्ञानस्याधिगमः स्मृतः॥ प्लावयिता तस्य ज्ञानं प्लव इहोच्यते। विज्ञाय कृतकृत्यस्तु तीर्णस्तदुभयं त्यजेत्॥ अनुच्छेदाय लोकानामनुच्छेदाय कर्मणाम्। पूर्वैराचरितो धर्मश्चातुराश्रम्यसंकटः॥ अनेन क्रमयोगेन बहुजातिषु कर्मणाम्। हित्वा शुभाशुभं कर्म मोक्षो नामेह लभ्यते॥ भावितैः करणैश्चायं बहुसंसारयोनिषु। आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे॥ तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः। त्रिष्वाश्रमेषु को न्वर्थो भवेत् परमभीप्सतः॥ राजसांस्तामसांश्चैव नित्यं दोषान् विवर्जयेत्। सात्त्विकं मार्गमास्थाय पश्येदात्मानमात्मना॥ सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि। सम्पश्यन्नोपलिप्येत जले वारिचरो यथा॥ पक्षिवत् प्रवणादूर्ध्वममुत्रानन्त्यमश्नुते। विहाय देहान्निर्मुक्तो निर्द्वन्द्वः प्रशमं गतः॥ अत्र गाथाः पुरा गीताः शृणु राज्ञा ययातिना। धार्यन्ते या द्विजैस्तात मोक्षशास्त्रविशारदैः॥ ज्योतिरात्मनि नान्यत्र सर्वजन्तुषु तत् समम्। स्वयं च शक्यते द्रष्टुं सुसमाहितचेतसा॥ न बिभेति परो यस्मान्न बिभेति पराच्च यः। यश्च नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा।॥ यदा भावं न कुरुते सर्वभूतेषु पापकम्। कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा॥ संयोज्य मनसाऽऽत्मानमीणूंमुत्सृज्य मोहनीम्। त्यक्त्वा कामं च मोहं च तदा ब्रह्मत्वमश्नुते॥ यदा श्राव्ये च दृश्ये च सर्वभूतेषु चाप्ययम्। समो भवति निर्द्वन्द्वो ब्रह्म सम्पद्यते तदा॥ यदा स्तुतिं च निन्दां च समत्वेनैव पश्यति। काञ्चनं चायसं चैव सुखं दुःखं तथैव च।॥ शीतमुष्णं तथैवार्थमनर्थं प्रियमप्रियम्। जीवितं मरणं चैव ब्रह्म सम्पद्यते तदा॥ प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः। तथेन्द्रियाणि मनसा संयन्तव्यानि भिक्षुणा॥ तमःपरिगतं वेश्म यथा दीपेन दृश्यते। तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम्॥ एतत् सर्वं च पश्यामि त्वयि बुद्धिमतां वर। यच्चान्यदपि वेत्तव्यं तत्त्वतो वेद तद् भवान्॥ ब्रह्मर्षे विदितश्चासि विषयान्तमुपागतः। गुरोस्तव प्रसादेन तव चैवोपशिक्षया॥ तस्यैव च प्रसादेन प्रादुर्भूतं महामुने। ज्ञानं दिव्यं ममापीदं तेनासि विदितो मम॥ अधिकं तव विज्ञानमधिका च गतिस्तव। अधिकं तव चैश्वर्यं तच्च त्वं नावबुध्यसे॥ बाल्याद् वा संशयाद् वापि भयाद् वाप्यविमोक्षजात्। उत्पन्ने चापि विज्ञाने नाधिगच्छति तां गतिम्॥ व्यवसायेन शुद्धेन मद्विधैश्छिन्नसंशयः। विमुच्य हृदयग्रन्थीनासादयति तां गतिम्॥ भवांश्चोत्पन्नविज्ञानः स्थिरबुद्धिरलोलुपः। व्यवसायादृते ब्रह्मनासादयति तत्परम्॥ नास्ति ते सुखदुःखेषु विशेषो नासि लोलुपः। नौत्सुक्यं नृत्यगीतेषु न राग उपजायते॥ न बन्धुष्वनुबन्धस्ते न भयेष्वस्ति ते भयम्। पश्यामि त्वां महाभाग तुल्यलोष्टाश्मकाञ्चनम्॥ अहं त्वामनुपश्यामि ये चाप्यन्ये मनीषिणः। आस्थितं परमं मार्गमक्षयं तमनामयम्॥ यत् फलं ब्राह्मणस्येह मोक्षार्थश्च यदात्मकः। तस्मिन् वै वर्तसे ब्रह्मन् किमन्यत् परिपृच्छसि॥ भीष्म उवाच एतच्छ्रुत्वा तु वचनं कृतात्मा कृतनिश्चयः। आत्मनाऽऽत्मानमास्थाय दृष्ट्वा चात्मानमात्मना।॥ कृतकार्यः सुखी शान्तस्तूष्णीं प्रायादुदङ्मुख। शैशिरं गिरिमुद्दिश्य सधर्मा मातरिश्वनः॥ एतस्मिन्नेव काले तु देवर्षि रदस्तथा। हिमवन्तमियाद् द्रष्टुं सिद्धचारणसेवितम्॥ तमप्सरोगणाकीर्णं शान्तस्वननिनादितम्। किन्नराणां सहस्रैश्च भृङ्गराजैस्तथैव च॥ मद्गुभिः खजरीटैच विचित्रैर्जीवजीवकैः॥ चित्रवर्णैर्मयूरैश्च केकाशतविराजितैः। राजहंससमूहैश्च कृष्णैः परभृतैस्तथा॥ पक्षिराजो गरुत्मांश्च यं नित्यमधितिष्ठति। चत्वारो लोकपालाश्च देवाः सर्षिगणास्तथा॥ तत्र नित्यं समायान्ति लोकस्य हितकाम्यया। विष्णुना यत्र पुत्रार्थे तपस्तप्तं महात्मना॥ तत्रैव च कुमारेण बाल्ये क्षिप्ता दिवौकसः। शक्तिय॑स्ता क्षितितले त्रैलोक्यमवमन्य वै॥ तत्रोवाच जगत् स्कन्दः क्षिपन् वाक्यमिदं तदा। योऽन्योऽस्ति मत्तोऽभ्यधिको विप्रा यस्याधिकं प्रियाः।। यो ब्रह्मण्यो द्वितीयोऽस्ति त्रिषु लोकेषु वीर्यवान्। साऽभ्युद्धरत् त्विमां शक्तिमथवा कम्पयत्विति॥ तच्छ्रुत्वा व्यथिता लोकाः क इमामुद्धरेदिति। अथ देवगणं सर्वं सम्भ्रान्तेन्द्रियमानसम्॥ अपश्यद् भगवान् विष्णुः क्षिप्तं सासुरराक्षसम्। किं त्वत्र सुकृतं कार्यं भवेदिति विचिन्तयन्॥ अनामृष्य ततः क्षेपमवैक्षत च पावकिम्। सम्प्रगृह्य विशुद्धात्मा शक्तिं प्रज्वलितां तदा॥ कम्पयामास सव्येन पाणिना पुरुषोत्तमः। शक्त्यां तु कम्प्यमानायां विष्णुना बलिना तदा॥ मेदिनी कम्पिता सर्वा सशैलवनकानना। शक्तेनापि समुद्धर्तुं कम्पिता साभवत् तदा॥ रक्षिता स्कन्दराजस्य धर्षणा प्रभविष्णुना। तां कम्पयित्वा भगवान् प्रह्लादमिदमब्रवीत्॥ पश्य वीर्यं कुमारस्य नैतदन्यः करिष्यति। सोऽमृष्यमाणस्तद्वाक्यं समुद्धरणनिश्चितः॥ जग्राह तां तदा शक्तिं न चैनां न व्यकम्पयत्। नादं महान्तं मुक्त्वा स मूछितो गिरिमूर्धनि॥ विह्वल: प्रापतद् भूमौ हिरण्यकशिपोः सुतः। तत्रोत्तरां दिशं गत्वा शैलराजस्य पार्श्वतः॥ तपोऽतप्यत दुर्धर्षं तात नित्यं वृषध्वजः। पावकेन परिक्षिप्तं दीप्यता यस्य चाश्रमम्॥ आदित्यपर्वतं नाम दुर्धर्षमकृतात्मभिः। न तत्र शक्यते गन्तुं यक्षराक्षसदानवैः॥ दशयोजनविस्तारमग्निज्वालासमावृतम्। भगवान् पावकस्तत्र स्वयं तिष्ठति वीर्यवान्॥ सर्वान् विघ्नान् प्रशमयन् महादेवस्य धीमतः। दिव्यं वर्षसहस्रं हि पादेनैकेन तिष्ठतः॥ देवान् संतापयंस्तत्र महादेवो महाव्रतः। ऐन्द्रीं तु दिशमास्थाय शैलराजस्य धीमतः॥ विविक्ते पर्वततटे पाराशर्यो महातपाः। वेदानध्यापयामास व्यास: शिष्यान् महामतिः॥ सुमन्तुं च महाभागं वैशम्पायनमेव च। जैमिनि च महाप्राज्ञं पैलं चापि तपस्विनम्॥ यत्र शिष्यैः परिवृतो व्यास आस्ते महातपाः। तत्राश्रमपदं रम्यं ददर्श पितुरुत्तमम्। आरणेयो विशुद्धात्मा नभसीव दिवाकरः। अथ व्यास: परिक्षिप्तं ज्वलन्तमिव पावकम्॥ ददृशे सुतमायान्तं दिवाकरसमप्रभम्। असज्जमा वृक्षेषु शैलेषु विषयेषु च। योगयुक्तं महात्मानं यथा बाणं गुणच्युतम्।॥ सोऽभिगम्य पितुः पादावगृह्णादरणीसुतः। यथोपजोषं तैश्चापि समागच्छन्महामुनिः॥ ततो निवेदयामास पित्रे सर्वमशेषतः। शुको जनकराजेन संवादं प्रीतमानसः॥ एवमध्यापयशिष्यान् व्यासः पुत्रं च वीर्यवान्। उवास हिमवत्पृष्ठे पाराशर्यो महामुनिः॥ ततः कदाचिच्छिष्यास्तं परिवार्यावतस्थिरे। वेदाध्ययनसम्पन्नाः शान्तात्मानो जितेन्द्रियाः॥ वेदेषु निष्ठां सम्प्राप्य साङ्गेष्वपि तपस्विनः। अथोचुस्ते तदा व्यासं शिष्याः प्राञ्जलयो गुरुम्॥ शिष्या ऊचुः महता तेजसा युक्ता यशसा चापि वर्धिताः। एकं त्विदानीमिच्छामो गुरुणानुग्रहं कृतम्॥ इति तेषां वचः श्रुत्वा ब्रह्मर्षिस्तानुवाच हा उच्यतामिति तद् वत्सा यद् वः कार्यं प्रियं मया॥ एतद् वाक्यं गुरोः श्रुत्वा शिष्यास्ते हष्टमानसाः। पुनः प्राञ्जलयो भूत्वा प्रणम्य शिरसा गुरुम्॥ ऊचुस्ते सहिता राजन्निदं वचनमुत्तमम्। यदि प्रीत उपाध्यायो धन्याः स्मो मुनिसत्तम॥ काङ्क्षामस्तु वयं सर्वे वरं दातुं महर्षिणा। षष्ठः शिष्यो न ते ख्यातिं गच्छेदत्र प्रसीद नः॥ चत्वारस्ते वयं शिष्या गुरुपुत्रश्च पञ्चमः। इह वेदाः प्रतिष्ठेरन्नेषः नः कासितो वरः॥ शिष्याणां वचनं श्रुत्वा व्यासो वेदार्थतत्त्ववित्। पराशरात्मजो धीमान् परलोकार्थचिन्तकः॥ उवाच शिष्यान् धर्मात्मा धन॑ नैःश्रेयसं वचः। ब्राह्मणाय सदा देयं ब्रह्म शुश्रूषवे तथा॥ ब्रह्मलोके निवासं यो ध्रुवं समभिकासते। भवन्तो बहुलाः सन्तु वेदो विस्तार्यतामयम्॥ नाशिष्ये सम्प्रदातव्यो नाव्रते नाकृतात्मनि। एते शिष्यगुणा: सर्वे विज्ञातव्या यथार्थतः॥ नापरीक्षितचारित्रे विद्या देया कथंचन। यथा हि कनकं शुद्धं तापच्छेदनिकर्षणैः॥ परीक्षेत तथा शिष्यानीक्षेत् कुलगुणादिभिः। न नियोज्याश्च वः शिष्या अनियोगे महाभये॥ यथामति यथापाठं तथा विद्या फलिष्यति। सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु॥ श्रावयेच्चतुरो वर्णान् कृत्वा ब्राह्मणमग्रतः। वेदस्याध्ययनं हीदं तच्च कार्यं महत् स्मृतम्॥ स्तुत्यर्थमिह देवानां वेदाः सृष्टाः स्वयम्भुवा। यो निर्वदेत सम्मोहाद् ब्राह्मणं वेदपारगम्॥ सोऽभिध्यानाद् ब्राह्मणस्य पराभूयाद संशयम्। यश्चाधर्मेण विब्रूयाद् यश्चाधर्मेण पृच्छति॥ तयोरन्यतरः प्रति विद्वेषं चाधिगच्छति। एतद् वः सर्वमाख्यातं स्वाध्यायस्य विधिं प्रति। उपकुर्याच्च शिष्याणामेतच्च हृदि वो भवेत्॥ भीष्म उवाच एतच्छ्रुत्वा गुरोर्वाक्यं व्यासशिष्या महौजसः। परिषस्वजिरे तदा॥ अन्योन्यं हृष्टमनसः उक्ताः स्मो यद् भगवता तदात्वायतिसंहितम्। तन्नो मनसि संरूढं करिष्यामस्तथा च तत्॥ अन्योन्यं संविभाष्यैवं सुप्रीतमनसः पुनः। विज्ञापयन्ति स्म गुरुं पुनर्वाक्यविशारदाः॥ शैलादस्मान्महीं गन्तुं कासितं नो महामुने। वेदान नेकथा कर्तुं यदि ते रुचितं प्रभो॥ शिष्याणां वचनं श्रुत्वा पराशरसुतः प्रभुः। प्रत्युवाच ततो वाक्यं धर्मार्थसहितं हितम्॥ क्षितिं वा देवलोकं वा गम्यतां यदि रोचते। अप्रमादश्च वः कार्यो ब्रह्म हि प्रचुरच्छलम्॥ तेऽनुज्ञातास्ततः सर्वे गुरुणा सत्यवादिना। जग्मुः प्रदक्षिणं कृत्वा व्यासं मूर्धाभिवाद्य च॥ अवतीर्य महीं तेऽथ चातुर्होत्रमकल्पयन्। संयाजयन्तो विप्रांश्च राजन्यांश्च विशस्तथा॥ पूज्यमाना द्विजैर्नित्यं मोदमाना गृहे रताः। याजनाध्यापनरताः श्रीमन्तो लोकविश्रुताः॥ अवतीर्णेषु शिष्येषु व्यासः पुत्रसहायवान्। तूष्णीं ध्यानपरो धीमानेकान्ते समुपाविशत्।१०।। तं ददर्शाश्रमपदे नारदः सुमहातपाः। अथैनमब्रवीत् काले मधुराक्षरया गिरा॥ भो भो ब्रह्मर्षिवासिष्ठ ब्रह्मघोषो न वर्तते। एको ध्यानपरस्तूष्णीं किमास्से चिन्तयन्निव।॥ ब्रह्मघोषैविरहितः पर्वतोऽयं न शोभते। रजसा तमसा चैव सोमः सोपप्लवो यथा॥ न भ्राजते यथापूर्वं निषादानामिवालयः। देवर्षिगणजुष्टोऽपि वेदध्वनिनिराकृतः॥ ऋषयश्च हि देवाश्च गन्धर्वाश्च महौजसः। वियुक्ता ब्रह्मघोषेण न भ्राजन्ते यथा पुरा॥ नारदस्य वचः श्रुत्वा कृष्णद्वैपायनोऽब्रवीत्। महर्षे यत् त्वया प्रोक्तं वेदवादविचक्षण॥ एतन्मनोऽनुकूलं मे भवानर्हति भाषितुम्। सर्वज्ञः सर्वदर्शी च सर्वत्र च कुतूहली॥ त्रिषु लोकेषु यद् भूतं सर्वं तव मते स्थितम्। तदाज्ञापय विप्रचे ब्रूहि किं करवाणि ते॥ यन्मया समनुष्ठेयं ब्रह्मर्षे तदुदाहर। विमुक्तस्येहं शिष्यैर्मे नातिहृष्टमिदं मनः॥ नारद उवाच अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम्। मलं पृथिव्या वाहीका: स्त्रीणां कौतूहलं मलम्॥ अधीयतां भवान् वेदान् सार्धं पुत्रेण धीमता। विधुन्वन् ब्रह्मघोषेण रक्षाभयकृतं तमः॥ भीष्म उवाच नारदस्य वचः श्रुत्वा व्यासः परमधर्मवित्। तथेत्युवाच संहृष्टो वेदाभ्यासदृढव्रतः॥ शुकेन सह पुत्रेण वेदाभ्यासमथाकरोत्। स्वरेणोच्चैः स शैक्ष्येण लोकानापूरयन्निव॥ तयोरभ्यसतोरेव नानाधर्मप्रवादिनोः। वातोऽतिमात्रं प्रववौ समुद्रानिलवेजितः॥ ततोऽनध्याय इति तं व्यासः पुत्रमवारयत्। शुको वारितमात्रस्तु कौतूहलसमन्वितः॥ अपृच्छत् पितरं ब्रह्मन् कुतो वायुरभूदयम्। आख्यातुमर्हति भवान् वायोः सर्वं विचेष्टितम्॥ शुकस्यैतद् वचः श्रुत्वा व्यासः परमविस्मितः। अनध्यायनिमित्तेऽस्मिन्निदं वचनमब्रवीत्॥ दिव्यं ते चक्षुरुत्पन्नं स्वयं ते निर्मलं मनः। तमसा रजसा चापि त्यक्तः सत्त्वे व्यवस्थितः॥ आदर्श स्वामिव च्छायां पश्यस्यात्मानमात्मना। व्यस्यात्मनि स्वयं वेदान् बुद्ध्या समनुचिन्तय॥ देवयानचरो विष्णोः पितृयाणश्च तामसः। द्वावेतौ प्रेत्य पन्थानौ दिवं चाधश्च गच्छतः॥ पृथिव्यामन्तरिक्षे च यत्र संवान्ति वायवः। सप्तैते वायुमार्गा वै तान् निबोधानुपूर्वशः।॥ तत्र देवगणाः साध्या महाभूता महाबलाः। तेषामप्यभवत् पुत्रः समानो नाम दुर्जयः॥ उदानस्तस्य पुत्रोऽभूद् व्यानस्तस्याभवत् सुतः। अपानश्च ततो ज्ञेयः प्राणश्चापि ततोऽपरः॥ अनपत्योऽभवत् प्राणो दुर्धर्षः शत्रुतापनः। पृथक् कर्माणि तेषां ते प्रवक्ष्यामि यथातथम्॥ प्राणिनां सर्वतो वायुश्चेष्टां वर्तयते पृथक्। प्राणनाच्चैव भूतानां प्राण इत्यभिधीयते॥ प्रेरयत्यभ्रसंघातान् धूमजांचोष्मजांश्च यः। प्रथमः प्रथमे मार्गे प्रवहो नाम योऽनिलः॥ अम्बरे स्नेहमभ्येत्य विद्युयश्च महाद्युतिः। आवहो नाम संवाति द्वितीयः श्वसनो नदन्॥ उदयं ज्योतिषां शश्वत् सोमादीनां करोति यः। अन्तर्देहेषु चोदानं यं वदन्ति मनीषिणः॥ यश्चतुर्थ्य: समुद्रेभ्यो वायर्धारयते जलम्। उद्धत्याददते चापो जीमूतेभ्योऽम्बरेऽनिलः॥ योऽद्भिः संयोज्य जीमूतान् पर्जन्याय प्रयच्छति। उद्वहो नाम बंहिष्ठस्तृतीयः स सदागतिः॥ समूह्यमाना बहुधा येन नीताः पृथग् घनाः। वर्षमोक्षकृतारम्भास्ते भवन्ति घनाघनाः॥ संहता येन चाविद्धा भवन्ति नदतां नदाः। रक्षणार्थाय सम्भूता मेघत्वमुपयान्ति च॥ योऽसौ वहति भूतानां विमानानि विहायसा। चतुर्थः संवहो नाम वायुः स गिरिमर्दनः॥ दारुणोत्पातसंचारो नभसः स्तनयित्नुमान्। पञ्चमः स महावेगो विवहो नाम मारुतः॥ येन वेगवता रुग्णा रूक्षेण रुवता नगान्। वायुना सहिता मेघास्ते भवन्ति बलाहकाः॥ यस्मिन् पारिप्लवा दिव्या वहन्त्यायो विहायसा। पुण्यं चाकाशगङ्गायास्तोयं विष्टभ्य तिष्ठति॥ दुरात् प्रतिहतो यस्मिन्नेकरश्मिर्दिवाकरः। योनिरंशुसहस्रस्य येन भाति वसुन्धरा॥ यस्मादाप्यायते सोमो निधिर्दिव्योऽमृतस्य च। षष्ठः परिवहो नाम स वायुर्जयतां वरः॥ सर्वप्राणभृतां प्राणान् योऽन्तकाले निरस्यति। यस्य वानुवर्तेते मृत्युवैवस्वतावुभौ॥ सम्यगन्वीक्षतां बुद्ध्या शान्तयाध्यात्मनित्यया। ध्यानाभ्यासाभिरामाणां योऽमृतत्वाय कल्पते॥ यं समासाद्य वेगेन दिशोऽन्तं प्रतिपेदिरे। दक्षस्य दशपुत्राणां सहस्राणि प्रजापतेः॥ येन स्पृष्टः पराभूतो यात्येव न निवर्तते। परावहो नाम परो वायुः स दुरतिक्रमः॥ एवमेते दितेः पुत्रा मारुताः परमाद्भुताः। अनारतं ते संवान्ति सर्वगाः सर्वधारिणः॥ एतत् तु महदाश्चर्यं यदयं पर्वतोत्तमः। कम्पितः सहसा तेन वायुनातिप्रवायता॥ विष्णोनि:श्वासवातोऽयं यदा वेगसमीरितः। सहसोदीर्यते तात जगत् प्रव्यथते तदा॥ तस्माद् ब्रह्मविदो वेदान् नाधीयन्तेऽतिवायति। वायोर्वायुभयं ह्युक्तं ब्रह्म तत्पीडितं भवेत्॥ एतावदुक्त्वा वचनं पराशरसुतः : प्रभुः। उक्त्वा पुत्रमधीष्वेति व्योमगङ्गामगात् तदा॥ एतावदुक्त्वा वचनं पराशरसुतः : प्रभुः। उक्त्वा पुत्रमधीष्वेति व्योमगङ्गामगात् तदा॥ भीष्म उवाच एतस्मिन्नन्तरे शून्ये नारदः समुपागमत्। शुकं स्वाध्यायनिरतं वेदार्थान् वक्तुमीप्सितान्॥ देवर्षि तु शुको दृष्ट्वा नारदं समुपस्थितम्। अर्थ्यपूर्वेण विधिना वेदोक्तेनाभ्यपूजयत्॥ नारदोऽथाब्रवीत् प्रीतो ब्रूहि धर्मभृतां वर। केन त्वां श्रेयसा वत्स योजयामीति हृष्टवत्॥ नारदस्य वचः श्रुत्वा शुकः प्रोवाच भारत। अस्मॅिल्लोके हितं यत् स्यात् तेन मां योक्तुमर्हसि॥ नारद उवाच तत्त्वं जिज्ञासतां पूर्वमृषीणां भावितात्मनाम्। सनत्कुमारो भगवानिदं वचनमब्रवीत्॥ नास्ति विद्यासमं चक्षुर्नास्ति सत्यसमं तपः। नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम्॥ निवृत्तिः कर्मणः पापात् सततं पुण्यशीलता। सवृत्तिः समुदाचारः श्रेय एतदनुत्तमम्॥ मानुष्यमसुखं प्राप्य यः सज्जति स मुह्यति। नालं स दुःखमोक्षाय संयोगो दुःखलक्षणम्॥ सक्तस्य बुद्धिश्चलति मोहजालविवर्धनी। मोहजालावृतो दुःखमिह चामुत्र सोऽश्नुते॥ सर्वोपायात् तु कामस्य क्रोधस्य च विनिग्रहः। कार्यः श्रेयोऽर्थिना तौ हि श्रेयोघातार्थमुद्यतौ॥ नित्यं क्रोधात् तपो रक्षेच्छ्रियं रक्षेच्च मत्सरात्। विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः॥ आनृशंस्यं परो धर्मः क्षमा च परमं बलम्। आत्मज्ञानं परं ज्ञानं न सत्याद् विद्यते परम्॥ सत्यस्य वचनं श्रेयः सत्यादपि हितं वदेत्। यद् भूतहितमत्यन्तमेतत् सत्यं मतं मम॥ सर्वारम्भपरित्यागी निराशीनिष्परिग्रहः। येन सर्वं परित्यक्तं स विद्वान् स च पण्डितः॥ इन्द्रियैरिन्द्रियार्थान् यश्चरत्यात्मवशैरिह। असज्जमानः शान्तात्मा निर्विकारः समाहितः॥ आत्मभूतैरतद्भूतः सह चैव विनैव च। स विमुक्तः परं श्रेयो नचिरेणाधितिष्ठति॥ अदर्शनमसंस्पर्शस्तथासम्भाषणं सदा। यस्य भूतैः सह मुने स श्रेयो विन्दते परम्॥ न हिंस्यात् सर्वभूतानि मैत्रायणगतश्चरेत्। नेदं जन्म समासाद्य वैरं कुर्वीत केनचित्॥ आकिञ्चन्यं सुसंतोषो निराशीस्त्वमचापलम्। एतदाहुः परं श्रेय आत्मज्ञस्य जितात्मनः॥ परिग्रहं परित्यज्य भव तात जितेन्द्रियः। अशोकं स्थानमातिष्ठ इह चामुत्र चाभयम्॥ निरामिषा न शोचन्ति त्यजेदामिषमात्मनः। परित्यज्यामिषं सौम्य दुःखतापाद् विमोक्ष्यसे॥ तपोनित्येन दान्तेन मुनिना संयतात्मना। अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना॥ गुणसङ्गेष्वनासक्त एकचर्यारतः सदा। ब्राह्मणो नचिरादेव सुखमायात्यनुत्तमम्॥ द्वन्द्वारामेषु भूतेषु य एको रमते मुनिः। विद्धि प्रज्ञानतृप्तं तं ज्ञानतृप्तो न शोचति॥ शुभैर्लभति देवत्वं व्यामिश्रैर्जन्म मानुषम्। अशुभैश्चाप्यधो जन्म कर्मभिर्लभतेऽवशः॥ तत्र मृत्युजरादुःखैः सततं समभिद्रुतः। संसारे पच्यते जन्तुस्तत्कथं नावबुद्ध्यसे॥ अहिते हितसंज्ञस्त्वमधुवे ध्रुवसंज्ञकः। अनर्थे चार्थसंज्ञस्त्वं किमर्थं नावबुद्ध्यसे॥ संवेष्ट्यमानं बहुभिर्मोहात् तन्तुभिरात्मजैः। कोषकार इवात्मानं वेश्यन् नावबुध्यसे॥ अलं परिग्रहेणेह दोषवान् हि परिग्रहः। कृमिर्हि कोषकारस्तु बध्यते स परिग्रहात्॥ पुत्रदारकुटुम्बेषु सक्ताः सीदन्ति जन्तवः। सर:पङ्कार्णवे मग्ना जीर्णा वनगजा इव॥ महाजालसमाकृष्टान् स्थले मत्स्यानिवोद्धृतान्। स्नेहजालसमाकृष्टान् पश्य जन्तून् सुदुःखितान्॥ कुटुम्बं पुत्रदारांश्च शरीरं संचयाश्च ये। पारक्यमधुवं सर्वं किं स्वं सुकृतदुष्कृतम्॥ यदा सर्वं परित्यज्य गन्तव्यमवशेन ते। अनर्थे किं प्रसक्तस्त्वं स्वमर्थं नानुतिष्ठसि॥ अविश्रान्तमनालम्बमपाथेयमदैशिकम्। तमःकान्तारमध्वानं कथमेको गमिष्यसि॥ न हि त्वां प्रस्थितं कश्चित् पृष्ठतोऽनुगमिष्यति। सुकृतं दुष्कृतं च त्वां यास्यन्तमनुयास्यति॥ विद्या कर्म च शौचं न ज्ञानं च बहुविस्तरम् अर्थार्थमनुसार्यन्ते सिद्धार्थश्च विमुच्यते॥ निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः। छित्त्वैतां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः॥ रूपकूलां मनःस्रोतां स्पर्शद्वीपां रसावहाम्। गन्धपङ्का शब्दजला स्वर्गमार्गदुरावहाम्॥ क्षमारित्रां सत्यमयीं धर्मस्थैर्यवटारकाम्। त्यागवाताध्वगां शीघ्रां नौतार्यां तां नदी तरेत्॥ त्यज धर्ममधर्म च तथा सत्यानृते त्यज। उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज।॥ त्यज धर्ममसंकल्पादधर्म चाप्यलिप्सया। उभे सत्यानृते बुद्ध्या बुद्धिं परमनिश्चयात्॥ अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम्। चर्मावनद्धं दुर्गन्धि पूर्ण मूत्रपुरीषयोः॥ जराशोकसमाविष्टं रोगायतनमातुरम्। रजस्वलमनित्यं च भूतावासमिमं त्यज॥ इदं विश्वं जगत् सर्वमजगच्चापि यद् भवेत्। महाभूतात्मकं सर्वं महद् यत् परमाश्रयात्॥ इन्द्रियाणि च पञ्चैव तमः सत्त्वं रजस्तथा। इत्येष सप्तदशको राशिरव्यक्तसंज्ञकः॥ सर्वैरिहेन्द्रियार्थश्च व्यक्ताव्यक्तैर्हि संहितः। चतुर्विंशक इत्येष व्यक्ताव्यक्तमयो गणः॥ एतैः सर्वैः समायुक्तः पुमानित्यभिधीयते। त्रिवर्गं तु सुखं दुःखं जीवितं मरणं तथा॥ य इदं वेद तत्त्वेन स वेद प्रभवाप्ययौ। पारम्पर्येण बोद्धव्यं ज्ञानानां यच्च किञ्चन॥ इन्द्रियैर्गृह्यते यद् यत् तत् तद् व्यक्तमिति स्थितिः। अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम्॥ इन्द्रियैर्नियतैर्देही धाराभिरिव तर्प्यते। लोके विततमात्मानं लोकांश्चात्मनि पश्यति॥ परावरदृशः शक्तिर्ज्ञानमूला न नश्यति। पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा॥ सर्वभूतस्य संयोगो नाशुभेनोपपद्यते। ज्ञानेन विविधान् क्लेशानतिवृत्तस्य मोहजान्॥ लोके बुद्धिप्रकाशेन लोकमार्गो न रिष्यते। अनादिनिधनं जन्तुमात्मनि स्थितमव्ययम्॥ अकर्तारममूर्तं च भगवानाह तीर्थवित्। यो जन्तुः स्वकृतैस्तैस्तैः कर्मभिनित्यदुःखितः॥ स दुःखप्रतिघातार्थं हन्ति जन्तूननेकधा। ततः कर्म समादत्ते पुनरन्यन्नवं बहु॥ तप्यतेऽथ पुनस्तेन भुक्त्वापथ्यमिवातुरः। अजस्रमेव मोहान्धो दुःखेषु सुखसंज्ञितः॥ बध्यते मथ्यते चैव कर्मभिर्मन्थवत् सदा। ततो निबद्धः स्वां योनि कर्मणामुदयादिह॥ परिभ्रमति संसारं चक्रवद् बहुवेदनः। स त्वं निवृत्तबन्धुस्तु निवृत्तश्चापि कर्मतः॥ सर्ववित् सर्वजित् सिद्धो भव भावविवर्जितः। संयमेन नवं बन्धं निवर्त्य तपसो बलात्। सम्प्राप्ता बहवः सिद्धिमप्यबाधां सुखोदयाम्॥ नारद उवाच सुखदुः दुःखविपर्यासो यदा समनुपद्यते। नैनं प्रज्ञा सुनीतं वा त्रायते नापि पौरुषम्॥ स्वभावाद् यलमातिष्ठेद् यत्नवान् नावसीदति। जरामरणरोगेभ्यः प्रियमात्मानमुद्धरेत्॥ रुजन्ति हि शरीराणि रोगाः शारीरमानसाः। सायका इव तीक्ष्णाग्राः प्रयुक्ता दृढधन्विभिः॥ व्यथितस्य विधित्साभिस्ताम्यतो जीवितैषिणः। अवशस्य विनाशाय शरीरमपकृष्यते॥ स्रवन्ति न निवर्तन्ते स्रोतांसि सरितामिव। आयुरादाय मर्त्यानां राज्यहानि पुनः पुनः॥ व्यत्ययो ह्ययमत्यन्तं पक्षयोः शुक्लकृष्णयोः। जातान् माजरयति निमेषान् नावतिष्ठते॥ सुखदुःखानि भूतानामजरो जरयत्यसौ। आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च॥ अदृष्टपूर्वानादाय भावानपरिशङ्कितान्। इष्टानिष्टान् मनुष्याणामस्तं गच्छन्ति रात्रयः॥ योऽयमिच्छेद् यथाकामं कामानां तदवाप्नुयात्। यदि स्यान्न पराधीनं पुरुषस्य क्रियाफलम्॥ संयताश्च हि दक्षाश्च मतिमन्तश्च मानवाः। दृश्यन्ते निष्फलाः संतः प्रहीणाः सर्वकर्मभिः॥ अपरे बालिशा: सन्तो निर्गुणाः पुरुषाधमाः। आशीभिरप्यसंयुक्ता दृश्यन्ते सर्वकामिनः॥ भूतानामपरः कश्चिद्धिंसायां सततोत्थितः। वञ्चनायां च लोकस्य स सुखेष्वेव जीर्यते॥ अचेष्टमानमासीनं श्री: कञ्चिदुपतिष्ठते। कश्चित् कर्मानुसृत्यान्यो न प्राप्यमधिगच्छति॥ अपराधं समाचक्ष्व पुरुषस्य स्वभावतः। शुक्रमन्यत्र सम्भूतं पुनरन्यत्र गच्छति॥ तस्य योनौ प्रयुक्तस्य गर्भो भवति वा न वा। आम्रपुष्पोपमा यस्य निवृत्तिरुपलभ्यते॥ केषाञ्चित् पुत्रकामानामनुसंतानमिच्छताम्। सिद्धौ प्रयतमानानां न चाण्डमुपजायते॥ गर्भाच्चोद्विजमानानां क्रुद्धादाशीविषादिव। आयुष्माजायते पुत्रः कथं प्रेत इवाभवत्॥ देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृद्धिभिः। दश मासान् परिधृता जायन्ते कुलपांसनाः॥ अपरे धनधान्यानि भोगांश्च पितृसंचितान्। विपुलानभिजायन्ते लब्धास्तैरेव मङ्गलैः॥ अन्योन्यं समभिप्रेत्य मैथुनस्य समागमे। उपद्रव इवाविष्टो योनि गर्भः प्रपद्यते॥ शीघ्रं परशरीराणि च्छिन्नबीजं शरीरिणम्। प्राणिनं प्राणसंरोधे मांस.श्लेष्मविवेष्टितम्॥ निर्दग्धं परदेहेऽपि परदेहं चलाचलम्। विनश्यन्तं विनाशान्ते नावि नावमिवाहितम्॥ सङ्गत्या जठरे न्यस्तं रेतोबिन्दुमचेतनम्। केन यत्नेन जीवन्तं गर्भ त्वमिह पश्यसि॥ अन्नपानानि जीर्यन्ते यत्र भक्षाश्च भक्षिताः। तस्मिन्नेवोदरे गर्भ: किं नान्नमिव जीर्यते॥ गर्भे मूत्रपुरीषाणां स्वभावनियता गतिः। धारणे वा विसर्गे वा न कर्ता विद्यते वशः॥ स्रवन्ति हुंदराद् गर्भा जायमानास्तथा परे। आगमेन तथान्येषां विनाश उपपद्यते॥ एतस्माद् योनिसम्बन्धाद् यो जीवन् परिमुच्यते। प्रजां च लभते काञ्चित् पुनर्द्वन्द्वेषु सज्जति॥ स तस्य सहजातस्य सप्तमी नवमीं दशाम्। प्राप्नुवन्ति ततः पञ्च न भवन्ति गतायुषः॥ नाभ्युत्थाने मनुष्याणां योगाः स्युर्नात्र संशयः। व्याधिभिश्च विमथ्यन्ते व्याधैः क्षुद्रमृगा इव॥ व्याधिभिर्मथ्यमानानां त्यजतां विपुलं धनम्। वेदनां नापकर्षन्ति यतमानाश्चिकित्सकाः॥ ते चातिनिपुणा वैद्याः कुशलाः सम्भृतौषधाः। व्याधिभिः परिकृष्यन्ते मृगा व्याधैरिवार्दिताः॥ ते पिबन्तः कषायांश्च सपौषि विविधानि च। दृश्यन्ते जरया भग्ना नगा नागैरिवोत्तमैः॥ के वा भुवि चिकित्सन्ते रोगार्तान् मृगपक्षिणः। श्वापदानि दरिद्रांश्च प्रायो नार्ता भवन्ति ते॥ घोरानपि दुराधर्षान् नृपतीनुग्रतेजसः। आक्रम्याददते रोगाः पशून् पशुगणा इव॥ इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम्। स्रोतसा सहसाऽऽक्षिप्तं ह्रियमाणं बलीयसा॥ न धनेन न राज्येन नोग्रेण तपसा तथा। स्वभावमतिवर्तन्ते ये नियुक्ताः शरीरिणः॥ न म्रियेरन् न जीर्येरन् सर्वे स्युः सर्वकामिनः। नाप्रियं प्रति पश्येयुरुत्थानस्य फले सति॥ उपर्युपरि लोकस्य सर्वो गन्तुं समीहते। यतते च यथाशक्ति न च तद् वर्तते तथा॥ ऐश्वर्यमदमत्तांश्च मत्तान् मद्यमदेन च। अप्रमत्ताः शठाञ्छूरा विक्रान्ताः पर्युपासते॥ क्लेशाः परिनिवर्तन्ते केषाञ्चिदसमीक्षिताः। स्वं स्वं च पुनरन्येषां न किंचिदधिगम्यते।॥ महच्च फलवैषम्यं दृश्यते कर्मसंधिषु। वहन्ति शिबिकामन्ये यान्त्यन्ये शिबिकागताः॥ सर्वेषामृद्धिकामानामन्ये रथपुरःसुराः। मनुष्याश्च गतस्त्रीकाः शतशो विविधस्त्रियः॥ द्वन्द्वारामेषु भूतेषु गच्छन्त्येकैकशो नराः। इदमन्यत् पदं पश्य मात्र मोहं करिष्यसि॥ त्यज धर्ममधर्मं च उभे सत्यानृते त्यज। उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज॥ एतत् ते परमं गुह्यमाख्यातमृषिसत्तम। येन देवाः परित्यज्य मर्त्यलोकं दिवं गताः॥ नारदस्य वचः श्रुत्वा शुकः परमबुद्धिमान्। संचिन्त्य मनसा धीरो निश्चयं नाध्यगच्छत॥ पुत्रदारैर्महान् क्लेशो विद्याम्नाये महाञ्च्छ्रमः। किं नु स्याच्छाश्वतं स्थानमल्पक्लेशं महोदयम्॥ ततो मुहूर्तं संचिन्त्य निश्चितां गतिमात्मनः। परावरज्ञो धर्मस्य परां नैःश्रेयसी गतिम्॥ कथं त्वहमसंश्लिष्टो गच्छेयं गतिमुत्तमाम्। नावर्तेयं यथा भूयो योनिसंकरसागरे॥ परं भावं हि काङ्क्षामि यत्र नावर्तते पुनः। सर्वसङ्गान् परित्यज्य निश्चितो मनसा गतिम्॥ तत्र यास्यामि यत्रात्मा शमं मेऽधिगमिष्यति। अक्षयश्चाव्ययश्चैव यत्र स्थास्यामि शाश्वतः॥ न तु योगमृते शक्या प्राप्तुं सा परमा गतिः। अवबन्धो हि बुद्धस्य कर्मभिर्नोपपद्यते॥ तस्माद् योगं समास्थाय त्यक्त्वा गृहकलेवरम्। वायुभूतः प्रवेक्ष्यामि तेजोराशिं दिवाकरम्॥ न ह्येष क्षयतां याति सोमः सुरगणैर्यथा। कम्पितः पतते भूमिं पुनश्चैवाधिरोहति॥ क्षीयते हि सदा सोमः पुनश्चैवाभिपूर्यते। नेच्छाम्येवं विदित्वैते ह्रासवृद्धी पुनः पुनः॥ रविस्तु संतापयते लोकान् रश्मिभिरुल्बणैः। सर्वतस्तेज आदत्ते नित्यमक्षयमण्डलः॥ अतो मे रोचते गन्तुमादित्यं दीप्ततेजसम्। अत्र वत्स्यामि दुर्धर्षो निःशङ्केनान्तरात्मना॥ सूर्यस्य सदने चाहं निक्षिप्येदं कलेवरम्। ऋषिभिः सह यास्यामि सौरं तेजोऽतिदुःसहम्॥ आपृच्छामि नगान् नागान् गिरिमुर्वी दिशो दिवम्। देवदानवगन्धर्वान् पिशाचोरगराक्षसान्॥। लोकेषु सर्वभूतानि प्रवेक्ष्यामि न संशयः। पश्यन्तु योगवीर्यं मे सर्वे देवाः सहर्षािभिः॥६ अथानुज्ञाप्य तमृर्षि नारदं लोकविश्रुतम्। तस्मादनुज्ञां सम्प्राप्य जगाम पितरं प्रति॥ सोऽभिवाद्य महात्मानं कृष्णद्वैपायनं मुनिम्। शुकः प्रदक्षिणं कृत्वा कृष्णमापृष्टवान् मुनिम्॥ श्रुत्वा चर्षिस्तद् वचनं शुकस्य प्रीतो महात्मा पुनराह चैनम्। भो भो पुत्र स्थीयतां तावदद्य यावच्चक्षुः प्रीणयामि त्वदर्थे॥ निरपेक्षः शुको भूत्वा नि:स्नेहो मुक्तसंशयः। मोक्षमेवानुसंचिन्त्य गमनाय मनो दधे॥ पितरं सम्परित्यज्य जगाम मुनिसत्तमः। कैलासपृष्ठं विपुलं सिद्धसंघनिषेवितम्॥ भीष्म उवाच गिरिशृङ्ग समारुह्य सुतो व्यासस्य भारत। समे देशे विविक्ते स निःशलाक उपाविशत्॥ धारयामास चात्मानं यथाशास्त्रं यथाविधि। पादप्रभृतिगात्रेषु क्रमेण क्रमयोगवित्॥ ततः स प्राङ्मुखो विद्वानादित्ये नचिरोदिते। पाणिपादं समादाय विनीतवदुपाविशत्॥ न तत्र पक्षिसंघातो न शब्दो नातिदर्शनम्। यत्र वैयासकिधीमान् योक्तुं समुपचक्रमे॥ स ददर्श तदाऽऽत्मानं सर्वसंगविनिःसृतम्। प्रजहास ततो हासं शुकः सम्प्रेक्ष्य तत्परम्॥ स पुनर्योगमास्थाय मोक्षमार्गोपलब्धये। महायोगेश्वरो भूत्वा सोऽत्यकामद् विहायसम्॥ ततः प्रदक्षिणं कृत्वा देवर्षि नारदं ततः। निवेदयामास च तं स्वं योगं परमर्षये।॥ शुक उवाच दृष्टो मार्गः प्रवृत्तोऽस्मि स्वस्ति तेऽस्तु तपोधन। त्वत्प्रसादाद् गमिष्यामि गतिमिष्टां महाद्युते॥ नारदेनाभ्यनुज्ञात: शुको द्वैपायनात्मजः। अभिवाद्य पुनर्योगमास्थायाकाशमाविशत्॥ कैलासपृष्ठादुत्पत्य स पपात दिवं तदा। अन्तरिक्षचरः श्रीमान् वायुभूतः सुनिश्चितः॥ तमुद्यन्तं द्विजश्रेष्ठं वैनतेयसमद्युतिम्। ददृशुः सर्वभूतानि मनोमारुतरंहसम्॥ व्यवसायेन लोकांस्त्रीन् सर्वान् सोऽथ विचिन्तयन्। आस्थितो दीर्घमध्वानं पावकार्कसमप्रभः॥ तमेकमनसं यान्तमव्यग्रमकुतोभयम्। ददृशुः सर्वभूतानि जङ्गमानि चराणि च॥ यथाशक्ति यथान्यायं पूजां वै चक्रिरे तदा। पुष्पवर्षेच दिव्यैस्तमवचक्रुर्दिवौकसः॥ तं दृष्ट्वा विस्मिताः सर्वे गन्धर्वाप्सरसां गणाः। ऋषयश्चैव संसिद्धाः परं विस्मयमागताः।१५॥ अन्तरिक्षगतः कोऽयं तपसा सिद्धिमागतः। अध:कायोर्ध्ववक्त्रश्च नेत्रैः समभिरज्यते॥ ततः परमधर्मात्मा त्रिषु लोकेषु विश्रुतः। भास्करं समुदीक्षन् स प्राङ्मुखो वाग्यतोऽगमत्॥ शब्देनाकाशमखिलं पूरयन्निव सर्वशः। तमापतन्तं सहसा दृष्ट्वा सर्वाप्सरोगणाः॥ सम्भ्रान्तमनसो राजन्नासन् परमविस्मिताः। दैवतं कतमं ह्येतदुत्तमां गतिमास्थितम्। सुनिश्चितमिहायाति विमुक्तमिव निःस्पृहम्॥ ततः समभिचक्राम मलयं नाम पर्वतम्। उर्वशी पूर्वचित्तिश्च यं नित्यमुपसेवतः॥ तस्य ब्रह्मर्षि पुत्रस्य विस्मयं ययतुः परम्। अहो बुद्धिसमाधानं वेदाभ्यासरते द्विजे॥ अचिरेणैव कालेन नभश्चरति चन्द्रवत्। पितृशुश्रूषया बुद्धिं सम्प्राप्तोऽयमनुत्तमाम्॥ पितृभक्तो दृढतपा: पितुः सुदयितः सुतः। अनन्यमनसा तेन कथं पित्रा विसर्जितः॥ उर्वश्या वचनं श्रुत्वा शुकः परमधर्मवित्। उदैक्षत दिशः सर्वा वचने गतमानसः॥ सोऽन्तरिक्षं महीं चैव सशैलवनकाननाम्। विलोकयामास तदा सरांसि सरितस्तथा।॥ ततो द्वैपायनसुतं बहुमानात् समन्ततः। कृताञ्जलिपुटाः सर्वा निरीक्षन्ते स्म देवताः॥ अब्रवीत् तास्तदा वाक्यं शुकः परमधर्मवित्। पिता यद्यनुगच्छेन्मां क्रोशमानः शुकेति वै॥ ततः प्रतिवचो देयं सवेरेव समाहितः। एतन्मे स्नेहतः सर्वे वचनं कर्तुमर्हथ॥ शुकस्य वचनं श्रुत्वा दिशः सर्वाः सकाननाः। समुद्राः सरितः शैलाः प्रत्यूचुस्तं समन्ततः॥ यथाऽऽज्ञापयसे विप्र बाढमेवं भविष्यति। ऋषेळहरतो वाक्यं प्रतिवक्ष्यामहे वयम्॥ भीष्म उवाच इत्येवमुक्त्वा वचनं ब्रह्मर्षिः सुमहातपाः। प्रातिष्ठत शुकः सिद्धिं हित्वा दोषांश्चतुर्विधान्॥ तमो हृष्टविधं हित्वा जहौ पञ्चविधं रजः। ततः सत्त्वं जहौ धीमांस्तदद्भुतमिवाभवत्॥ ततस्तस्मिन् पदे नित्ये निर्गुणे लिङ्गवर्जिते। ब्रह्मणि प्रत्यतिष्ठत् स विधूमोऽग्निरिव ज्वलन्॥ उल्कापाता दिशा दाहो भूमिकम्पस्तथैव च। प्रादुर्भूतः क्षणे तस्मिंस्तदद्भुतमिवाभवत्॥ दुमाः शाखाश्च मुमुचुः शिखराणि च पर्वताः। निर्घातशब्दैश्च गिरिहिमवान् दीर्यतीव ह॥ न बभासे सहस्रांशुर्न जज्वाल च पावकः। ह्रदाश्च सरितश्चैव चुक्षुभुः सागरास्तथा॥ ववर्ष वासवस्तोयं रसवच्च सुगन्धि च। ववौ समीरणश्चापि दिव्यगन्धवहः शुचिः॥ स शृङ्गे प्रथमे दिव्ये हिमवन्मेरुसम्भवे। संश्लिष्टे श्वेतपीते द्वे रुक्मरूप्यमये शुभे॥ शतयोजनविस्तारे तिर्यगूर्वं च भारत। उदीची दिशमास्थाय रुचिरे संददर्श ह॥ सोऽविशङ्केन मनसा तदैवाभ्यपतच्छुकः। ततः पर्वतशृङ्गे द्वे सहसैव द्विधाकृते॥ अदृश्येतां महाराज तदद्भुतमिवाभवत्। ततः पर्वत शृङ्गाभ्यां सहसैव विनिःसृतः॥ न च प्रतिजघानास्य स गति पर्वतोत्तमः। ततो महानभूच्छब्दो दिवि सर्वदिवौकसाम्॥ गन्धर्वाणामृषीणां च ये च शैलनिवासिनः। दृष्ट्वा शुकमतिक्रान्तं पर्वतं च द्विधाकृतम्॥ साधु साध्विति तत्रासीन्नादः सर्वत्र भारत। स पूज्यमानो देवैश्च गन्धर्वैर्ऋषिभिस्तथा।॥ यक्षराक्षससंघेश्च विद्याधरगणैस्तथा। दिव्यैः पुष्पैः समाकीर्णमन्तरिक्षं समन्ततः॥ आसीत् किल महाराज शुकाभितपने तदा। ततो मन्दाकिनी रम्यामुपरिष्टादभिव्रजन्॥ शुको ददर्श धर्मात्मा पुष्पितदुमकाननाम्। तस्यां क्रीडन्त्यभिरतास्ते चैवाप्सरसां गणाः॥ शून्याकारं निराकाराः शुकं दृष्ट्वा विवाससः। तं प्रक्रामन्तमाज्ञाय पिता स्नेहसमन्वितः॥ उत्तमा गतिमास्थाय पृष्ठतोऽनुससार ह। शुकस्तु मारुतादूर्ध्वं गति कृत्वान्तरिक्षगाम्॥ दर्शयित्वा प्रभावं स्वं ब्रह्मभूतोऽभवत् तदा। महायोगगतिं त्वन्यां व्यासोत्थाय महातपाः॥ निमेषान्तरमात्रेण शुकाभिपतनं ययौ। स ददर्श द्विधा कृत्वा पर्वताग्रं शुकं गतम्॥ शशंसुर्ऋषयस्तत्र कर्म पुत्रस्य तत् तदा। ततः शुकेति दीर्पण शब्देनाक्रन्दितस्तदा॥ स्वयं पित्रा स्वरेणोच्चैस्त्रील्लोकाननुनाद्य वै। शुकः सर्वगतो भूत्वा सर्वात्मा सर्वतोमुखः। :॥ प्रत्यभाषत धर्मात्मा भो शब्देनानुनादयन्। तत एकाक्षरं नादं भोरित्येव समीरयन्॥ प्रत्याहरज्जगत् सर्वमुच्चैः स्थावरजङ्गमम्। ततः प्रभृति चाद्यापि शब्दानुच्चारितान् पृथक्॥ गिरिगह्वरपृष्ठेषु व्याहरन्ति शुकं प्रति। अन्तर्हितः प्रभावं तु दर्शयित्वा शुकस्तदा॥ गुणान् संत्यज्य शब्दादीन् पदमभ्यगमत् परम्। महिमानं तु तं दृष्ट्वा पुत्रस्यामिततेजसः॥ निषसाद गिरिप्रस्थे पुत्रमेवानुचिन्तयन्। ततो मन्दाकिनीतीरे क्रीडन्तोऽप्सरसां गणाः॥ आसाद्य तमृषि सर्वाः सम्भ्रान्ता गतचेतसः। जले निलिल्यिरे काश्चित् काश्चिद् गुल्मान् प्रपेदिरे।।२९ वसनान्याददुः काश्चित् तं दृष्ट्वा मुनिसत्तमम्। तां मुक्ततां तु विज्ञाय मुनिः पुत्रस्य वै तदा।॥ सक्ततामात्मनश्चैव प्रीतोऽभूद् व्रीडितश्च ह॥ तं देवगन्धर्ववृतो महर्षिगणपूजितः। पिनाकहस्तो भगवानभ्यागच्छत शंकरः॥ तमुवाच महादेवः सान्त्वपूर्वमिदं वचः। पुत्रशोकाभिसंतप्तं कृष्णद्वैपायनं तदा॥ अग्नेर्भूमेरपां वायोरन्तरिक्षस्य चैव ह। वीर्येण सदृशः पुत्रः पुरा मत्तस्त्वया वृतः॥ स तथालक्षणो जातस्तपसा तव सम्भृतः। मम चैव प्रसादेन ब्रह्मतेजोमयः शुचिः॥ स गतिं परमां प्राप्तो दुष्प्रापामजितेन्द्रियैः। दैवतैरपि विप्रर्षे तं त्वं किमनुशोचसि॥ यावत् स्थास्यन्ति गिरयो यावत् स्थास्यन्ति सागराः। तावत् तवाक्षया कीर्तिः सपुत्रस्य भविष्यति॥ छायां स्वपुत्रसदृशी सर्वतोऽनपगां सदा। द्रक्ष्यसे त्वं च लोकेऽस्मन् मत्प्रसादान्महामुने॥ सोऽनुनीतो भगवता स्वयं रुद्रेण भारत। छायां पश्यन् समावृत्तः स मुनिः परया मुदा॥ इति जन्म गतिश्चैव शुकस्य भरतर्षभ। विस्तरेण समाख्याता यन्मां त्वं परिपृच्छसि॥ एतदाचष्ट मे राजन् देवर्षिर्नारदः पुरा। व्यासश्चैव महायोगी संजल्पेषु पदे पदे॥ इतिहासमिमं पुण्यं मोक्षधर्मोपसंहितम्। धारयेद् यः शमपरः स गच्छेत् परमां गतिम्॥ भीष्म उवाच स एवमुक्तो द्विपदां वरिष्ठो नारायणेनोत्तमपूरुषेण। जगाद वाक्यं द्विपदां वरिष्ठं नारायणं लोकहिताधिवासम्॥ नारद उवाच यदर्थमात्रप्रभवेण जन्म कृतं त्वया धर्मगृहे चतुर्धा! तत्साध्यतां लोकहितार्थमद्य गच्छामि द्रष्टुं प्रकृतिं तवाद्याम्॥ पूजां गुरूणां सततं करोमि परस्य गुह्यं न तु भिन्नपूर्वम्। वेदाः स्वधीता मम लोकनाथ तप्तं तपो नानृतमुक्तपूर्वम्॥ गुप्तानि चत्वारि यथागमं मे शत्रौ च मित्रे च समोऽस्मि नित्यम्। तं चादिदेवं सततं प्रपन्न एकान्तभावेन वृणोम्यजस्रम्॥ एभिर्विशेषैः परिशुद्धसत्त्व: कस्मान्न पश्येयमनन्तमीशम्। तत्पारमेष्ठ्यस्य वचो निशम्य नारायणः शाश्वतधर्मगोप्ता॥ गच्छेति तं नारदमुक्तवान् स सम्पूजयित्वाऽऽत्मविधिक्रियाभिः। ततो विसृष्टः परमेष्ठिपुत्रः सोऽभ्यर्चयित्वा तमृर्षि पुराणम्॥ स्ततोऽधिमेरौ सहसा निलिल्ये। मेकान्तमासाद्य गिरेः स शृङ्गे॥ आलोकयन्नुत्तरपश्चिमेन ददर्श चाप्यद्भुतमुक्तरूपम्। क्षीरोदधेर्योत्तरतो हि द्वीपः श्वेतः स नाम्ना प्रथितो विशालः॥ मेरोः सहस्रः स हि योजनानां द्वात्रिंशतोर्ध्वं कविभिनिरुक्तः। अनिन्द्रियाश्चानशनाश्च तत्र निष्पन्दहीनाः सुसुगन्धिनस्ते॥ श्चक्षुर्मुषः पापकृतां नराणाम्। वज्रास्थिकायाः सममानोन्माना दिव्यावयवरूपाः शुभसारोपेताः॥ छत्राकृतिशीर्षा मेघौघनिनादाः सममुष्कचतुष्का राजीवच्छतपादाः। षष्ट्या दन्तैर्युक्ताः शुक्लैरष्टाभिर्दष्ट्राभिर्ये जिह्वाभिर्ये विश्ववक्त्रं लेलिह्यन्ते सूर्यप्रख्यम्॥११ देवं भक्त्या विश्वोत्पन्न यस्मात् सर्वे लोकाः सम्प्रसूताः। वेदा धर्मा मुनयः शान्ता देवाः सर्वे तस्य निसर्गः॥ युधिष्ठिर उवाच अनिन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः। कथं ते पुरुषा जाताः का तेषां गतिरुत्तमा॥ ये च मुक्ता भवन्तीह नरा भरतसत्तम। तेषां लक्षणमेतद्धि तच्छ्वेतद्वीपवासिनाम्॥ तस्मान्मे संशयं छिन्धि परं कौतूहलं हि मे। त्वं हि सर्वकथारामस्त्वां चैवोपाश्रिता वयम्॥ भीष्म उवाच विस्तीर्णैषा कथा राजन् श्रुता मे पितृसंनिधौ। यैषा तव हि वक्तव्या कथासारो हि सा मता॥ राजोपरिचरो नाम बभूवाधिपतिर्भुवः। आखण्डलसखः ख्यातो भक्तो नारायणं हरिम्॥ धार्मिको नित्यभक्तश्च पितुर्नित्यमतन्द्रितः। साम्राज्यं तेन सम्प्राप्तं नारायणवरात् पुरा॥ सात्वतं विधिमास्थाय प्राक् सूर्यमुखनिःसृतम्। पूजयामास देवेशं तच्छेषेण पितामहान्॥ पितृशेषेण विप्रांश्च संविभज्याश्रितांश्च सः! शेषान्नभुक् सत्यपरः सर्वभूतेष्वहिंसकः॥ सर्वभावेन भक्तः स देवदेवं जनार्दनम्। अनादिमध्यनिधनं लोककर्तारमव्ययम्॥ तस्य नारायणे भक्तिं वहतोऽमित्रकर्षिणः। एकशय्यासनं देवो दत्तवान् देवराट् स्वयम्॥ आत्मराज्यं धनं चैव कलत्रं वाहनं तथा। यत्तद्भागवतं सर्वमिति तत् प्रोक्षितं सदा॥ काम्यनैमित्तिका राजन् यज्ञियाः परमक्रियाः। सर्वाः सात्वतमास्थाय विधि चक्रे समाहितः॥ पाञ्चरात्रविदो मुख्यास्तस्य गेहे महात्मनः। प्रायणं भगवत्प्रोक्तं भुञ्जते वाग्रभोजनम्॥ तस्य प्रशासतो राज्यं धर्मेणामित्रघातिनः। नानृता वाक् समभवन्मनो दुष्टं न चाभवत्॥ न च कायेन कृतवान् स पापं परमण्वपि। ये हि ते ऋषयः ख्याताः सप्त चित्रशिखण्डिनः॥ तैरेकमतिभिर्भूत्वा यत् प्रोक्तं शास्रमुत्तमम्। वेदैश्चतुर्भिः समितं कृतं मेरौ महागिरौ॥ आस्यैः सप्तभिरुद्गीण लोकधर्ममनुत्तमम्। मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः। वसिष्ठश्च महातेजास्ते हि चित्रशिखण्डिनः॥ सप्त प्रकृतयो ह्येतास्तथा स्वायम्भुवोऽष्टमः। एताभिर्धार्यते लोकस्ताभ्यः शास्त्रं विनिःसृतम्॥ एकाग्रमनसो दान्ता मुनयः संयमे रताः। भूतभव्यभविष्यज्ञाः सत्यधर्मपरायणाः॥ इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम्। लोकान् संचिन्त्य मनसा ततः शास्त्रं प्रचक्रिरे॥ तत्र धर्मार्थकामा हि मोक्षः पश्चाच्च कीर्तितः। मर्यादा विविधाश्चैव दिवि भूमौ च संस्थिताः॥ आराध्य तपसा देवं हरिं नारायणं प्रभुम्। दिव्यं वर्षसहस्रं वै सर्वे ते ऋषिभिः सह॥ नारायणानुशास्ता हि तदा देवी सरस्वती। विवेश तानृषीन् सर्वाल्लोकानां हितकाम्यया॥ ततः प्रवर्तिता सम्यक् तपोविद्भिर्द्विजातिभिः। शब्दे चार्थे च हेतो च एषा प्रथमसर्गजा॥ आदादेव हि तच्छास्त्रमोंकारस्वरपूजितम्। ऋषिभिः श्रावितं यत्र तत्र कारुणिको ह्यसौ॥ ततः प्रसन्नो भगवाननिर्दिष्टशरीरगः। ऋषीनुवाच तान् सर्वानदृश्यः पुरुषोत्तमः॥ कृतं शतसहस्रं हि श्लोकानादिमुत्तमम्। लोकतन्त्रस्य कृत्स्नस्य यस्माद् धर्मः प्रवर्तते।॥ प्रवृत्तौ च निवृत्तौ च यस्मादेतद् भविष्यति। यजुर्ऋक्सामभिर्जुष्टमथर्वांगिरसैस्तथा॥ यथा प्रमाणं हि मया कृतो ब्रह्मा प्रसादतः। रुद्रश्च क्रोधजो विप्रा यूयं प्रकृतयस्तथा॥ सूर्याचन्द्रमसौ वायुभूमिरापोऽग्निरेव च। सर्वे च नक्षत्रगणा यच्च भूताभिशब्दितम्॥ अधिकारेषु वर्तन्ते यथास्वं ब्रह्मवादिनः। सर्वे प्रमाणं हि यथा तथा तच्छास्त्रमुत्तमम्॥ भविष्यति प्रमाणं वै एतन्मदनुशासनम्। तस्मात् प्रवक्ष्यते धर्मान् मनुः स्वायम्भुवः स्वयम्॥ उशना बृहस्पतिश्चैव यदोत्पन्नौ भविष्यतः। तदा प्रवक्ष्यतः शास्त्रं युष्मन्मतिभिरुद्धृतम्॥ स्वायम्भुवेषु धर्मेषु शास्त्रे चौशनसे कृते। बृहस्पतिमते चैव लोकेषु प्रतिचारिते॥ युष्मत्कृतमिदं शास्त्रं प्रजापालो वसुस्ततः। बृहस्पतिसकाशाद् वै प्राप्स्यते द्विजसत्तमाः॥ स हि सद्भावितो राजा मद्भक्तश्च भविष्यति। तेन शास्त्रेण लोकेषु क्रियाः सर्वाः करिष्यति॥ एतद्धि युष्मच्छास्त्राणां शास्त्रमुत्तमसंज्ञितम्। एतदर्थ्यं च धर्म्यं च रहस्यं चैतदुत्तमम्॥ अस्य प्रवर्तनाच्चैव प्रजावन्तो भविष्यथ। स च राजश्रिया युक्तो भविष्यति महान् वसुः॥ संस्थिते तु नृपे तस्मिशास्त्रमेतत् सनातनम्। अन्तर्धास्यति तत् सर्वमेतद् वः कथितं मया॥ एतावदुक्त्वा वचनमदृश्यः पुरुषोत्तमः। विसृज्य तानृषीन् सर्वान् कामपि प्रसृतो दिशम्॥ ततस्ते लोकपितरः सर्वलोकार्थचिन्तकाः। प्रावर्तयन्त तच्छास्त्रं धर्मयोनि सनातनम्॥ उत्पन्नेऽङ्गिरसे चैव युगे प्रथमकल्पिते। साङ्गोपनिषदं शास्त्रं स्थापयित्वा बृहस्पतौ॥ जग्मुर्यथेप्सितं देशं तपसे कृतनिश्चयाः। धारणाः सर्वलोकानां सर्वधर्मप्रवर्तकाः॥ जग्मुर्यथेप्सितं देशं तपसे कृतनिश्चयाः। धारणाः सर्वलोकानां सर्वधर्मप्रवर्तकाः॥ भीष्म उवाच प्राप्य श्वेतं महाद्वीपं नारदो भगवानृषिः। ददर्श तानेव नराश्वेतांश्चन्द्रसमप्रभान्॥ पूजयामास शिरसा मनसा तैश्च पूजितः। दिदृक्षुर्जप्यपरमः सर्वकृच्छ्रगतः स्थितः॥ भूत्वैकाग्रमना विप्र उर्ध्वबाहुः समाहितः। स्तोत्रं जगौ स विश्वाय निर्गुणाय गुणात्मने॥ नारद उवाच नमस्ते देवदेवेश २ निष्क्रिय ३ निर्गुण ४ लोकसाक्षिन् ५ क्षेत्रज्ञ ६ पुरुषोत्तम ७ अनन्त ८ पुरुष ९ महापुरुष १० पुरुषोत्तम ११ त्रिगुण १२ प्रधान १३ अमृत १४ अमृताख्य १५ अनन्ताख्य १६ व्योम १७ सनातन १८ सदसव्यक्ताव्यक्त १९ ऋतधामन् २० आदिदेव २१ वसुप्रद २२ प्रजापते २३ सुप्रजापते २४ वनस्पते २५ महाप्रजापते २६ ऊर्जस्पते २७ वाचस्पते २८ जगत्पते २९ मनस्पते ३० दिवस्पते ३१ मरुत्पते ३२ सलिलपते ३३ पृथिवीपते ३४ दिक्पते ३५ पुर्वनिवास ३६ गुह्य ३७ ब्रह्मपुरोहित ३८ ब्रह्मकायिक ३९ महाराजिक ४० चातुर्महाराजिक ४१ भासुर ४२ महाभासुर ४३ सप्तमहाभाग ४४ याम्य ४५ महायाम्य ४६ संज्ञासंज्ञ ४७ तुषित ४८ महातुषित ४९ प्रमर्दन ५० परिनिर्मित ५१ अपरिनिर्मित ५२ वशवर्तिन् ५३ अपरिनिन्दित ५४ अपरिमित ५५ वशवर्तिन ५६ अवशवर्तिन् ५७ यज्ञ ५८ महायज्ञ ५९ यज्ञसम्भव ६० यज्ञयोने ६१ यज्ञगर्भ ६२ यज्ञहृदय ६३ यज्ञस्तुत ६४ यज्ञभागहर ६५ पञ्चयज्ञ ६६ पञ्चकालकर्तृपते ६७ पाञ्चरात्रिक ६८ वैकुण्ठ ६९ अपराजित ७० मानसिक ७१ नामनामिक ७२ परस्वामिन् ७३ सुस्नात ७४ हंस ७५ परमहंस ७६ महाहंस ७७ परमयाज्ञिक ७८ सांख्ययोग ७९ सांख्यमूर्ते ८० अमृतेशय ८१ हिरण्येशय ८२ देवेशय ८३ कुशेशय ८४ ब्रह्मेशय ८५ पद्मशय ८६ विश्वेश्वर ८७ विष्वक्सेन ८८ त्वं जगदन्वयः ८९ त्वं जगत्प्रकृतिः ९० तवाग्निरास्यम् ९१ वडवामुखोऽग्निः ९२ त्वमाहुतिः ९३ सारथिः ९४ त्वं वषट्कारः ९५ त्वमोङ्कारः ९६ त्वं तपः ९७ त्वं मनः ९८ त्वं चन्द्रमाः ९९ त्वं चक्षुरादित्यं १०० त्वं सूर्यः १०१ त्वं दिशां गजः १०२ त्वं दिग्भानो १०३ विदिग्भानो १०४ हयशिरः १०५ प्रथमत्रिसौपर्णः १०६ वर्णधरः १०७ पञ्चाग्ने १०८ त्रिणाचिकेत १०९ षडङ्गनिधान ११० प्राग्ज्योतिष १११ ज्येष्ठसामग ११२ सामिकव्रतधर ११३ अथर्वशिराः ११४ पञ्चमहाकल्प ११५ फेनपाचार्य ११६ वालखिल्य ११७ वैखानस ११८ अभग्नयोग ११९ अभग्नपरिसंख्यान १२० युगादे १२१ युगमध्य १२२ युगनिधन १२३ आखण्डल १२४ प्राचीनगर्भ १२५ कौशिक १२६ पुरुष्टुत १२७ पुरुहूत १२८ विश्वकृत् १२९ विश्वरूप १३० अनन्तगते १३१ अनन्तभोग १३२ अनन्त १३३ अनादे १३४ अमध्य १३५ अव्यक्तमध्य १३६ अव्यक्तनिधन १३७ व्रतावास १३८ समुद्राधिवास १३९ यशोवास १४० तपोवास १४१ दमावास १४२ लक्ष्म्यावास १४३ विद्यावास १४४ कीावास १४५ श्रीवास १४६ सर्वावास १४७ वासुदेव१४८ सर्वच्छन्दक १४९ हरिहय १५० हरिमेध १५१ महायज्ञभागहर १५२ वरप्रद १५३ सुखप्रद १५४ धनप्रद १५५ हरिमेध १५६ यम १५७ नियम १५८ महानियम १५९ कृच्छ् १६० अतिकृच्छू १६१ महाकृच्छू १६२ सर्वकृच्छू १६३ नियमधर १६४ निवृत्तभ्रम १६५ प्रवचनगत १६६ पृश्निगर्भप्रवृत्त १६७ प्रवृत्तवेदक्रिय १६८ अज १६९ सर्वगते १७० सर्वदर्शिन् १७१ अग्राह्य १७२ अचल १७३ महाविभूते १७४ माहात्म्यशरीर १७५ पवित्र १७६ महापवित्र १७७ हिरण्यमय १७८ बृहत् १७९ अप्रतळ १८० अविज्ञेय १८१ ब्रह्मण्य १८२ प्रजासर्गकर १८३ प्रजानिधनकर १८४ महामायाधर १८५ चित्रशिखण्डिन् १८६ वरप्रद १८७ पुरोडाशभागहर १८८ गताध्वर १८९ छिन्नतृष्ण १९० छिन्नसंशय १९१ सर्वतोवृत्त १९२ निवृत्तिरूप १९३ ब्राह्मणरूप १९४ ब्राह्मणप्रिय १९५ विश्वमूर्ते १९६ महामूर्ते १९७ बान्धव १९८ १९९ ब्रह्मण्यदेव भक्तोऽहं त्वां दिदृक्षुरेकान्तदर्शनाय २०० नमो भक्तवत्सल नमः॥ भीष्म उवाच एवं स्तुतः स भगवान् गुस्तिथ्यैश्च नामभिः। तं मुनि दर्शयामास नारदं विश्वरूपधृक्॥ किंचिच्चन्द्राद् विशुद्धात्मा किंचिच्चन्द्राद् विशेषवान्। कृशानुवर्णः किंचिच्च किंचिद्धिष्ण्याकृतिः प्रभुः॥ शुकपत्रनिभः किंचित् किंचित्स्फटिकसंनिभः। नीलाञ्जनचयप्रख्यो जातरूपप्रभः क्वचित्॥ प्रवालाङ्कुरवर्णश्च श्वेतवर्णस्तथा क्वचित्। क्वचित् सुवर्णवर्णाभो वैदूर्यसदृशः क्वचित्॥ नीलवैदूर्यसदृश इन्द्रनीलनिभः क्वचित्। मयूरग्रीववर्णाभो मुक्ताहारनिभः क्वचित्॥ एतान् बहुविधान् वर्णान् रूपैर्बिभ्रत्सनातनः। सहस्रनयनः श्रीमाञ्छतशीर्षः सहस्रपात्॥ सहस्रोदरबाहुश्च अव्यक्ता इति च क्वचित्। ओङ्कारमुद्गिरन् वक्त्रात् सावित्री च तदन्वयाम्॥ शेषेभ्यश्चैव वक्त्रेभ्यश्चतुर्वेदान् गिरन् बहून्। आरण्यकं जगौ देवो हरिर्नारायणो वशी॥ वेदि कमण्डलुं शुभ्रान् मणीनुपानहौ कुशान्। अजिनं दण्डकाष्ठं च ज्वलितं च हुताशनम्॥ धारयामास देवेशो हस्तैर्यज्ञपतिस्तदा। तं प्रसन्नं प्रसन्नात्मा नारदो द्विजसत्तमः॥ वाग्यतः प्रणतो भूत्वा ववन्दे परमेश्वरम्। तमुवाच नतं मूर्धा देवानामादिरव्ययः॥ श्रीभगवानुवाच एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः। इमं देशमनुप्राप्ता मम दर्शनलालसाः॥ न च मां ते ददृशिरे न च द्रक्ष्यति कथश्चन। ऋते ौकान्तिकश्रेष्ठात् त्वं चैवैकान्तिकोत्तमः॥ ममैतास्तनवः श्रेष्ठा जाता धर्मगृहे द्विज। तास्त्वं भजस्व सततं साधयस्व यथागतम्॥ वृणीष्व च वरं विप्र मत्तस्त्वं यदिहेच्छसि। प्रसन्नोऽहं तवायेह विश्वमूर्तिरिहाव्ययः॥ नारद उवाच अद्य मे तपसो देव यमस्य नियमस्य च। सद्यः फलमवाप्तं वै दृष्टो यद् भगवान् मया॥ वर एष ममात्यन्तं दृष्टस्त्वं यत् सनातनः। भगवन् विश्वदृक् सिंहः सर्वमूर्तिमहान् प्रभुः॥ भीष्म उवाच एवं संदर्शयित्वा तु नारदं परमेष्ठिनम्। उवाच वचनं भूयो गच्छ नारद मा चिरम्॥ इमे ह्यनिन्द्रियाहारा मद्भक्ताश्चन्द्रवर्चसः। एकाग्राश्चिन्तयेयुर्मी नैषां विघ्नो भवेदिति॥ सिद्धा ह्येते महाभागाः पुरा ह्येकान्तिनोऽभवन्। तमोरजोभिर्निर्मुक्ता मां प्रवेक्ष्यन्त्यसंशयम्॥ न दृश्यश्चक्षुषा योऽसौ न स्पृश्यः स्पर्शनेन च। न घेयश्चैव गन्धेन रसेन च विवर्जितः॥ सत्त्वं रजस्तमश्चैव न गुणास्तं भजन्ति वै। यश्च सर्वगतः साक्षी लोकस्यात्मेति कथ्यते॥ भूतग्रामशरीरेषु नश्यत्सु न विनश्यति। अजो नित्यः शाश्वतश्च निर्गुणो निष्कलस्तथा॥ द्विादशेभ्यस्तत्त्वेभ्यः ख्यातो यः पञ्चविंशकः। पुरुषो निष्क्रियश्चैव ज्ञानदृश्यश्च कथ्यते॥ यं प्रविश्य भवन्तीह मुक्ता वै द्विजसत्तमाः। स वासुदेवो विज्ञेयः परमात्मा सनातनः॥ पश्य देवस्य माहात्म्यं महिमानं च नारद। शुभाशुभैः कर्मभिर्यो न लिप्यति कदाचन॥ सत्त्वं रजस्तमश्चेति गुणानेतान् प्रचक्षते। यत्ते सर्वशरीरेषु तिष्ठन्ति विचरन्ति च॥ एतान् गुणांस्तु क्षेत्रज्ञो भुङ्क्ते नैभिः स भुज्यते। निर्गुणो गुणभुक् चैव गुणस्रष्टा गुणाधिकः॥ जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते। ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते॥ खे वायुः प्रलयं याति मनस्याकाशमेव च। मनो हि परमं भूतं तदव्यक्ते प्रलीयते॥ अव्यक्तं पुरुषे ब्रह्मन् निष्क्रिये सम्प्रलीयते। नास्ति तस्मात् परतरः पुरुषाद् वै सनातनात्॥ नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम्। ऋते तमेकं पुरुषं वासुदेवं सनातनम्॥ सर्वभूतात्मभूतो हि वासुदेवो महाबलः। पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्॥ ते समेता महात्मानः शरीरमिति संज्ञितम्। तदा विशति यो ब्रह्मन्नदृश्यो लघुविक्रमः॥ उत्पन्न एव भवति शरीरं चेष्टयन् प्रभुः। न विना धातुसंघातं शरीरं भवति क्वचित्॥ न च जीवं विना ब्रह्मन् वायवश्चेष्टयन्त्युत। स जीवः परिसंख्यातः शेषः संकर्षणः प्रभुः॥ तस्मात् सनत्कुमारत्वं योऽलभत् स्वेन कर्मणा। यस्मिश्च सर्वभूतानि प्रलयं यान्ति संक्षयम्॥ स मनः सर्वभूतानां प्रद्युम्न परिपठ्यते। तस्मात् प्रसूतो यः कर्ता कारणं कार्यमेव च।॥ न च जीवं विना ब्रह्मन् वायवश्वेश्यन्त्युत। तस्मात् सर्वं सम्भवति जगत् स्थावरजङ्गमम्। सोऽनिरुद्धः स ईशानो व्यक्तः स सर्वकर्मसु॥ यो वासुदेवो भगवान् क्षेत्रज्ञो निर्गुणात्मकः। ज्ञेयः स एव राजेन्द्र जीव: संकर्षणः प्रभुः॥ संकर्षणाच्च प्रद्युम्नो मनोभूतः स उच्यते। प्रद्युम्नाद् योऽनिरुद्धस्तु सोऽहंकारः स ईश्वरः॥ मत्तः सर्वं सम्भवति जगत् स्थावरजङ्गमम्। अक्षरं च क्षरं चैव सच्चासच्चैव नारद॥ गुरुः। मां प्रविश्य भवन्तीह मुक्ता भक्तास्तु ये मम्। अहं कि पुरुषो ज्ञेयो निष्क्रियः पञ्चविंशकः॥ निर्गुणो निष्कलश्चैव निर्द्वन्द्वो निष्परिग्रहः। एतत् त्वा न विज्ञेयं रूपवानिति दृश्यते॥ इच्छन् मुहूर्तान्नश्येयमीशोऽहं जगतो माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद॥ सर्वभूतगुणैर्युक्तं नैव त्वं ज्ञातुमर्हसि। मयैतत् कथितं सम्यक् तव मूर्तिचतुष्टयम्॥ अहं हि जीवसंज्ञातो मयि जीवः समाहितः। नैव ते बुद्धिरत्राभूद् दृष्टो जीवो मयेति वै॥ अहं सर्वत्रगो ब्रह्मन् भूतग्रामान्तरात्मकः। भूतग्रामशरीरेषु नश्यत्सु न नशाम्यहम्॥ सिद्धा हि ते महाभागा नरा ह्येकान्तिनोऽभवन्। तमोरजोभ्यां निर्मुक्ताः प्रवेक्ष्यन्ति च मां मुने॥ हिरण्यगर्भो लोकादिश्चतुर्वक्त्रोऽनिरुक्तगः। ब्रह्मा सनातनो देवो मम बह्वर्थचिन्तकः॥ ललाटाच्चैव मे रुद्रो देवः क्रोधाद् विनिःसृतः। पश्यैकादश मे रुद्रान् दक्षिणं पार्श्वमास्थितान्॥ द्वादशैव तथाऽऽदित्यान् वामपार्वे समास्थितान्। अग्रतश्चैव मे पश्य वसूनष्टौ सुरोत्तमान्॥ नासत्यं चैव दस्रं च भिषजौ पश्य पृष्ठतः। सर्वान् प्रजापतीन् पश्य पश्य सप्त ऋषींस्तथा॥ वेदान् यज्ञांश्च शतशः पश्यामृतमथौषधीः। तपांसि नियमांश्चैव यमानपि पृथग्विधान्॥ तथाष्टगुणमैश्वर्यमेकस्थं पश्य मूर्तिमत्। श्रियं लक्ष्मी च कीर्तिं च पृथिवीं च ककुदिनीम्॥ वेदानां मातरं पश्य मत्स्थां देवीं सरस्वतीम्। ध्रुवं च ज्योतिषां श्रेष्ठ पश्य नारद खेचरम्॥ अम्भोधरान् समुद्रांश्च सरांसि सरितस्तथा। मूर्तिमन्तः पितृगणांश्चतुरः पश्य सत्तम॥ त्रींश्चैवेमान् गुणान् पश्य मत्स्थान् मूर्तिविवर्जितान्। देवकार्यादपि मुने पितृकार्यं विशिष्यते॥ देवानां च पितॄणां च पिता ह्येकोऽहमादितः। अहं हयशिरा भूत्वा समुद्रे पश्चिमोत्तरे॥ पिबामि सुहुतं हव्यं कव्यं च श्रद्धयान्वितम्। मया सृष्टः पुरा ब्रह्मा मां यज्ञमयजत् स्वयम्॥ ततस्तस्मिन् वरान् प्रीतो दत्त्वानसम्यनुत्तमान्। मत्पुत्रत्वं च कल्पादौ लोकाध्यक्षत्वमेव च॥ अहंकारकृतं चैव नाम पर्यायवाचकम्। त्वया कृतां च मर्यादा नातिक्रस्यति कश्चन॥ त्वं चैव वरदो ब्रह्मन् वरेप्सूनां भविष्यसि। सुरासुरगणानां च ऋषीणां च तपोधन॥ पितॄणां च महाभाग सततं संशितव्रत। विविधानां च भूतानां त्वमुपास्यो भविष्यसि॥ प्रादुर्भावगतश्चाहं सुरकार्येषु नित्यदा। अनुशास्यस्त्वया ब्रह्मन् नियोज्यश्च सुतो यथा।॥ एतांश्चान्यांश्च रुचिरान् ब्रह्मणेऽमिततेजसे। अहं दत्त्वा वरान् प्रीतो निवृत्तिपरमोऽभवम्॥ निर्वाणं सर्वधर्माणां निवृत्तिः परमा स्मृता। तस्मान्निवृत्तिमापन्नश्चरेत् सर्वाङ्गनिर्वृतः॥ विद्यासहायवन्तं च आदित्यस्थं समाहितम्। कपिलं प्राहुराचार्याः सांख्यनिश्चितनिश्चयाः॥ हिरण्यगर्भो भगवानेष च्छन्दसि सुष्टुतः। सोऽहं योगरतिर्ब्रह्मन् योगशास्त्रेषु शब्दितः॥ एषोऽहं व्यक्तिमागत्य तिष्ठामि दिवि शाश्वतः। ततो युगसहस्रान्ते संहरिष्ये जगत् पुनः॥ कृत्वाऽऽत्मस्थानि भूतानि स्थावराणि चराणि च। एकाकी विद्यया सार्धं विहरिष्ये जगत् पुनः॥ तयो भूयो जगत् सर्वं करिष्यामीह विद्यया। अस्मिन् मूर्तिश्चतुर्थी या सासृजज्छेषमव्ययम्॥ स हि संकर्षणः प्रोक्तः प्रद्युम्नं सोऽप्यजीजनत्। प्रद्युम्नादनिरुद्धोऽहं सर्गो मम पुनः पुनः॥ अनिरुद्धात् तथा ब्रह्मा तन्नाभिकमलोद्भवः। ब्रह्मणः सर्वभूतानि चराणि स्थावराणि च॥ एतां सृष्टिं विजानीहि कल्पादिषु पुनः पुनः। यथा सूर्यस्य गगनादुदयास्तमने इह॥ नष्टे पुनर्बलात् काल आनयत्यमितद्युतिः। तथा बलादहं पृथ्वी सर्वभूतहिताय वै॥ सत्त्वैराक्रान्तसर्वाङ्गां नष्टां सागरमेखलाम्। आनयिष्यामि स्वस्थानं वाराहं रूपमास्थितः॥ हिरण्याक्षं वधिष्यामि दैतेयं बलगवितम्। नारसिंहं वपुः कृत्वा हिरण्यकशिपुं पुनः॥ सुरकार्ये हनिष्यामि यज्ञघ्नं दितिनन्दनम्। विरोचनस्य बलवान् बलिः पुत्रो महासुरः॥ अवध्यः सर्वलोकानां सदेवासुररक्षसाम्। भविष्यति स शक्रं वा स्वराज्याच्चयावयिष्यति॥ त्रैलोक्येऽपहते तेन विमुखे च शचीपतौ। अदित्यां द्वादशादित्यः सम्भविष्यामि कश्यपात्॥ (जटी गत्वा यज्ञसदः स्तूयमानो द्विजोत्तम। यज्ञस्तवं करिष्यामि श्रुत्वा प्रीतो भवेद् बलिः।। किमिच्छसि वटो बृहीत्युक्तो याचे महद् वरम्। दीयतां त्रिपदीमात्रमिति याचे महासुरम्।। स दद्यान्मयि सम्प्रीतः प्रतिषिद्धश्च मन्त्रिभिः। यावज्जलं हस्तगतं त्रिभिर्विक्रमणैर्वृतम्।।) ततो राज्यं प्रदास्यामि शक्रायामिततेजसे। देवताः स्थापयिष्यामि स्वस्वस्थानेषु नारद॥ बलिं चैव करिष्यामि पातालतलवासिनम्। दानवं च बलिं श्रेष्ठमवध्यं सर्वदैवतैः॥ त्रेतायुगे भविष्यामि रामो भृगुकुलोद्वहः। क्षत्रं चोत्सादयिष्यामि समृद्धबलवाहनम्॥ संध्यांशे समनुप्राप्ते त्रेताया द्वापरस्य च। अहं दाशरथी रामो भविष्यामि जगत्पतिः॥ त्रितोपघाताद् वैरूप्यमेकतोऽथ द्वितस्तथा। प्राप्स्येते वानरत्वं हि प्रजापति सुतावृषी॥ तयोर्ये त्वन्वये जाता भविष्यन्ति वनौकसः। महाबला महावीर्याः शक्रतुल्यपराक्रमाः॥ ते सहाया भविष्यन्ति सुरकार्ये मम द्विज। ततो रक्षः :पति घोरं पुलस्त्यकुलपांसनम्॥ हरिष्ये रावणं रौद्रं सगणं लोककण्टकम्। द्वापरस्य कलेश्चैव संधौ पार्यवसानिके॥ प्रादुर्भाव: कंसहेतोर्मथुरायां भविष्यति। तत्राहं दानवान् हत्वा सुबहून् देवकण्टकान्॥ कुशस्थली करिष्यामि निवेशं द्वारकां पुरीम्। वसानस्तत्र वै पुर्यामदितेर्विप्रियंकरम्॥ हनिष्ये नरकं भौमं मुरं पीठं च दानवम्। प्राग्ज्योतिषं पुरं रम्यं नानाधनसमन्वितम्॥ कुशस्थली नयिष्यामि हत्वा वै दानवोत्तमम्। महेश्वरमहासेनौ बाणप्रियहितैषिणौ॥ पराजेष्याम्यथायुक्तौ देवौ लोकनमस्कृतौ। ततः सुतं बलेर्जित्वा बाणं बाहुसहस्रिणम्॥ विनाशयिष्यामि ततः सर्वान् सौभनिवासिनः। यः कालयवनः ख्यातो गर्गतेजोऽभिसंवृतः॥ भविष्यति वधस्तस्य मत्त एव द्विजोत्तम। जरासंधश्च बलवान् सर्वराजविरोधनः॥ भविष्यत्यसुरः स्फीतो भूमिपालो गिरिव्रजे। मम बुद्धिपरिस्पन्दाद् वधस्तस्य भविष्यति॥ शिशुपालं वधिष्यामि यज्ञे धर्मसुतस्य वै। समागतेषु बलिषु पृथिव्यां सर्वराजसु॥ वासविः सुसहायो वै मम त्वेको भविष्यति। युधिष्ठिरं स्थापयिष्ये स्वराज्ये भ्रातृभिः सह॥ एवं लोका वदिष्यन्ति नरनारायणावृषी। उद्युक्तौ दहतः क्षत्रं लोककार्यार्थमीश्वरौ॥ कृत्वा भारावतरणं वसुधाया यथेप्सितम्। सर्वसात्वतमुख्यानां द्वारकायाश्च सत्तम॥ करिष्ये प्रलयं घोरमात्मज्ञातिविनाशनम्। कर्माण्यपरिमेयाणि चतुर्मूर्तिधरो ह्यहम्॥ कृत्वा लोकान् गमिष्यामि स्वानहं ब्रह्मसत्कृतान्। हंस: कूर्मश्च मत्स्यश्च प्रादुर्भावा द्विजोत्तम॥ वराहो नरसिंहश्च वामनो राम एव च। रामो दाशरथिश्चैव सात्वतः कल्किरेव च॥ यदा वेदश्रुतिर्नष्टा मया प्रत्याहृता पुनः। सवेदाः सश्रुतीकाश्च कृताः पूर्वं कृते युगे॥ अतिक्रान्ताः पुराणेषु श्रुतास्ते यदि वा क्वचित्। अतिक्रान्ताश्च बहवः प्रादुर्भावा ममोत्तमाः॥ लोककार्याणि कृत्वा च पुनः स्वां प्रकृतिं गताः। न ह्येतद् ब्रह्मणा प्राप्तमीदृशं मम दर्शनम्॥ यत् त्वया प्राप्तमद्येह एकान्तगतबुद्धिना। एतत् ते सर्वमाख्यातं ब्रह्मन् भक्तिमतो मया॥ पुराणं च भविष्यं च सरहस्यं च सत्तम। भीष्म उवाच एवं स भगवान् देवो विश्वमूर्तिधरोऽव्ययः॥ एतावदुक्त्वा वचनं तत्रैवान्तर्दधे पुनः। नारदोऽपि महातेजाः प्राप्यानुग्रहमीप्सितम्॥ सरनारायणौ द्रष्टुं बदर्याश्रममाद्रवत्। इदं महोपनिषदं चतुर्वेदसमन्वितम्॥ सांख्ययोगकृतं तेन पञ्चरात्रानुशब्दितम्। नारायणमुखोद्गीतं नारदोऽश्रावयत् पुनः॥ ब्रह्मणः सदने तात यथादृष्टं यथाश्रुतम्। युधिष्ठिर उवाच एतदाश्चर्यभूतं हि माहात्म्यं तस्य धीमतः॥ किं वै ब्रह्मा न जानीते यतः शुश्राव नारदात्। पितामहोऽपि भगवांस्तस्माद् देवादनन्तरः॥ कथं स न विजानीयात् प्रभावममितौजसः। भीष्म उवाच महाकल्पसहस्राणि महाकल्पशतानि च॥ समतीतानि राजेन्द्र सर्गाश्च प्रलयाश्च ह। सर्गस्यादौ स्मृतो ब्रह्मा प्रजासर्गकरः प्रभुः॥ जानाति देवप्रवरं भूयश्चातोऽधिकं नृप। परमात्मानमीशानमात्मनः प्रभवं तथा॥ ये त्वन्ये ब्रह्मसदने सिद्धसंघाः समागताः। तेभ्यस्तच्छावयामास पुराणं वेदसम्मितम्॥ तेषां सकाशात् सूर्यस्तु श्रुत्वा वै भावितात्मनाम्। आत्मानुगामिनां राजन् श्रावयामास वै ततः॥ षट् षष्टिर्हि सहस्राणि ऋषीणां भावितात्मनाम्। सूर्यस्य तपतो लोकान् निर्मिता ये पुरः सराः॥ तेषामकथयत् सूर्यः सर्वेषां भावितात्मनाम्। सूर्यानुगामिभिस्तात ऋषिभिस्तैर्महात्मभिः॥ मेरौ समागता देवाः श्राविताश्चेदमुत्तमम्। देवानां तु सकाशाद् वै ततः श्रुत्वासितो द्विजः॥ श्रावयामास राजेन्द्र पितॄणां मुनिसत्तमः। मम चापि पिता तात कथयामास शान्तनुः॥ ततो मयापि श्रुत्वा च कीर्तितं तव भारत। सुरैर्वा मुनिभिर्वापि पुराणं यैरिदं श्रुतम्॥ सर्वे ते परमात्मानं पूजयन्ते समन्ततः। इदमाख्यानमार्षेयं पारम्पर्यागतं नृप॥ नावासुदेवभक्ताय त्वया देयं कथंचन। मत्तोऽन्यानि च ते राजन्नुपाख्यानशतानि वै॥ यानि श्रुतानि सर्वाणि तेषां सारोऽयमुद्धृतः। सुरासुरैर्यथा राजन् निर्मथ्यामृतमुद्धतम्॥ एवमेतत् पुरा विप्रैः कथामृतमिहोद्धृतम्। यश्चेदं पठते नित्यं यश्चेदं शृणुयान्नरः॥ एकान्तभावोपगत एकान्तेषु समाहितः। प्राप्य श्वेतं महाद्वीपं भूत्वा चन्द्रप्रभो नरः॥ स सहस्रार्चिषं देवं प्रविशेन्नात्र संशयः। मुच्येदार्तस्तथा रोगाच्छ्रुत्वेमामादितः कथाम्॥ जिज्ञासुर्लभते कामान् भक्तो भक्तगतिं व्रजेत्। त्वयापि सततं राजन्नभ्यर्च्यः पुरुषोत्तमः॥ स हि माता पिता चैव कृत्स्नस्य जगतो गुरुः। ब्रह्मण्यदेवो भगवान् प्रीयतां ते सनातनः॥ युधिष्ठिर महाबाहो महाबुद्धिर्जनार्दनः। वैशम्पायन उवाच श्रुत्वैतदाख्यानवरं धर्मराड् जनमेजय॥ भ्रातरश्चास्य ते सर्वे नारायणपराऽभवन्। जितं भगवता तेन पुरुषेणेति भारत॥ नित्यं जप्यपरा भूत्वा सरस्वतीमुदीरयन्। यो ह्यस्माकं गुरुश्रेष्ठः कृष्णद्वैपायनो मुनिः॥ जगौ परमकं जप्यं नारायणमुदीरयन्। गत्वान्तरिक्षात् सततं क्षीरोदममृताशयम्॥ पूजयित्वा च देवेशं पुनरायात् स्वमाश्रमम्। भीष्म उवाच एतत् ते सर्वमाख्यातं नारदोक्तं मयेरितम्॥ पारम्पर्यागतं ह्येतत् पित्रा मे कथितं पुरा। सौतिरुवाच एतत् ते सर्वमाख्यातं वैशम्पायन कीर्तितम्॥ जनमेजयेन तच्छ्रुत्वा कृतं सम्यग् यथाविधि। यूयं हि तप्ततपसः सर्वे च चरितव्रताः॥ सर्वे वेदविदो मुख्या नैमिषारण्यवासिनः। शौनकस्य महासत्रं प्राप्ताः सर्वे द्विजोत्तमाः॥ यजध्वं सुहुतैर्यज्ञैः शाश्वतं परमेश्वरम्। पारम्पर्यागतं ह्येतत् पित्रा मे कथितं पुरा॥ शौनक उवाच कथं स भगवान् देवो यज्ञेष्वग्रहरः प्रभुः। यज्ञधारी च सततं वेदवेदाङ्गवित् तथा॥ निवृत्तं चास्थितो धर्मं क्षमी भागवतः प्रभुः। निवृत्तिधर्मान् विदधे स एव भगवान् प्रभुः॥ कथं प्रवृत्तिधर्मेषु भागार्हा देवताः कृताः। कथं निवृत्तिधर्माश्च कृता व्यावृत्तबुद्धयः॥ एतं नः संशयं सौते छिन्थि गुह्यं सनातनम्। त्वया नारायणकथाः श्रुता वै धर्मसंहिताः॥ सौतिरुवाच जनमेजयेन यत् पृष्टः शिष्यो व्यासस्य धीमतः। तत् तेऽहं कथयिष्यामि पौराणं शौनकोत्तम॥ श्रुत्वा माहात्म्यमेतस्य देहिनां परमात्मनः। जनमेजयो महाप्राज्ञो वैशम्पायनमब्रवीत्॥ जनमेजय उवाच इमे सब्रह्मका लोकाः ससुरासुरमानवाः। क्रियास्वभ्युदयोक्तासु सक्ता दृश्यन्ति सर्वशः॥ मोक्षश्चोक्तस्त्वया ब्रह्मन् निर्वाणं परमं सुखम्। ये तु मुक्ता भवन्तीह पुण्यपापविवर्जिताः॥ ते सहस्रर्चिषं देवं प्रविशन्तीह शुश्रुम्। अयं हि दुरनुष्ठेयो मोक्षधर्मः सनातनः॥ यं हित्वा देवताः सर्वा हव्यकव्यभुजोऽभवन्। किं च ब्रह्मा च रुद्रश्च शक्रश्च बलभित् प्रभुः॥ सूर्यस्ताराधिपो वायुरग्निर्वरुण एव च। आकाशं जगती चैव ये च शेषा दिवौकसः॥ प्रलयं न विजानन्ति आत्मनः परिनिर्मितम्। ततस्तेनास्थिता मार्ग ध्रुवमक्षरमव्ययम्॥ स्मृत्वा कालपरीमाणं प्रवृत्तिं ये समास्थिताः। दोषः कालपरीमाणे महानेष क्रियावताम्॥ एतन्मे संशयं विप्र हृदि शल्यमिवार्पितम्। छिन्धीतिहासकथनात् परं कौतूहलं हि मे॥ कथं भागहराः प्रोक्ता देवताः क्रतुषु द्विज। किमर्थं चाध्वरे ब्रह्मन्निज्यन्ते त्रिदिवौकसः॥ ये च भागं प्रगृह्णन्ति यज्ञेषु द्विजसत्तम। ये यजन्तो महायज्ञैः कस्य भागं ददन्ति वै॥ वैशम्पायन उवाच अहो गूढतमः प्रश्नस्त्वया पृष्टो जनेश्वर। नातप्ततपसा ह्येष नावेदविदुषा तथा॥ नापुराणविदा चैव शक्यो व्याहर्तुमञ्जसा। हन्त ते कथयिष्यामि यन्मे पृष्टः पुरा गुरुः॥ कृष्णद्वैपायनो व्यासो वेदव्यासो महानृषिः। सुमन्तुजैमिनिश्चैव पैलश्च सुदृढव्रतः॥ अहं चतुर्थः शिष्यो वै पञ्चमश्च शुकः स्मृतः। एतान् समागतान् सर्वान् पञ्च शिष्यान् दमान्वितान्॥२० शौचाचारसमायुक्ताञ्जिक्रोधाञ्जितेन्द्रियान्। वेदानध्यापयामास महाभारतपञ्चमान्॥ मेरौ गिरिवरे रम्ये सिद्धचारणसेविते। तेषामभ्यस्यतां वेदान् कदाचित् संशयोऽभवत्।॥ एष वै यस्त्वया पृष्टस्तेन तेषां प्रकीर्तितः। ततः श्रुतो मया चापि तवाख्येयोऽद्य भारत॥ शिष्याणां वचनं श्रुत्वा सर्वाज्ञानतमोनुदः। पराशरसुतः श्रीमान् व्यासो वाक्यमथाब्रवीत्॥ भूतं भव्यं भविष्यं च जानीयामिति सत्तमाः॥ तस्य मे तप्ततपसो निगृहीतेन्द्रियस्य च। नारायणप्रसादेन क्षीरोदस्यानुकूलतः॥ त्रैकालिकमिदं ज्ञानं प्रादुर्भूतं यथेप्सितम्। तच्छृणुध्वं यथान्यायं वक्ष्ये संशयमुत्तमम्॥ यथा वृत्तं हि कल्पादौ दृष्टं मे ज्ञानचक्षुषा। परमात्मेति यं प्राहुः सांख्ययोगविदो जनाः॥ महापुरुषसंज्ञां स लभते स्वेन कर्मणा। तस्मात् प्रसूतमव्यक्तं प्रधानं तं विदुर्बुधाः॥ अव्यक्ताद् व्यक्तमुत्पन्नं लोकसृष्ट्यर्थमीश्वरात्। अनिरुद्धो हि लोकेषु महानात्मेति कथ्यते॥ योऽसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम्। सोऽहंकार इति प्रोक्तः सर्वतेजोमयो हि सः॥ पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्। अहंकारप्रसूतानि महाभूतानि पञ्चधा॥ महाभूतानि सृष्ट्वैव तान् गुणान् निर्ममे पुनः। भूतेभ्यश्चैव निष्पन्ना मूर्तिमन्तश्च ताशृणु॥ मरीचिरङ्गिराचात्रिः पुलस्त्यः पुलहः क्रतुः। वसिष्ठश्च महात्मा वै मनुः स्वायम्भुवस्तथा॥ ज्ञेयाः प्रकृतयोऽष्टौ ता यासु लोकाः प्रतिष्ठिताः। वेदवेदाङ्गसंयुक्तान् यज्ञान् यज्ञाङ्गसंयुतान्॥ निर्ममे लोकसिद्ध्यर्थं ब्रह्मा लोकपितामहः। अष्टाभ्यः प्रकृतिभ्यश्च जातं विश्वमिदं जगत्।॥ रुद्रो रोषात्मको जातो दशान्यान् सोऽसृजत् स्वयम्। एकादशैते रुद्रास्तु विकारपुरुषाः स्मृताः॥ ते रुद्राः प्रकृतिश्चैव सर्वे चैव सुरर्षयः। उत्पन्ना लोकसिद्ध्यर्थं ब्रह्माणं समुपस्थिताः॥ वयं सृष्टा हि भगवंस्त्वया च प्रभविष्णुना। येन यस्मिन्नधीकारे वर्तितव्यं पितामह॥ योऽसौ त्वयाभिनिर्दिष्टो ह्यधिकारोऽर्थचिन्तकः। परिपाल्यः कथं तेन साहंकारेण कर्तृणा॥ प्रदिशस्व बलं तस्य योऽधिकारार्थचिन्तकः। एवमुक्तो महादेवो देवांस्तानिदमब्रवीत्॥ ब्रह्मोवाच साध्वहं ज्ञापितो देवा युष्माभिर्भद्रमस्तु वः। ममाप्येषा समुत्पन्ना चिन्ता या भवतां मता॥ लोकत्रयस्य कृत्स्नस्य कथं कार्यः परिग्रहः। कथं बलक्षयो न स्याद् युष्माकं ह्यात्मनश्च मे॥ इतः सर्वेऽपि गच्छामः शरणं लोकसाक्षिणम्। महापुरुषमव्यक्तं स नो वक्ष्यति यद्धितम्॥ ततस्ते ब्रह्मणा सार्धमृषयो विबुधास्तथा। क्षीरोदस्योत्तरं कूलं जग्मुर्लोकहितार्थिनः॥ ते तपः समुपातिष्ठन् ब्रह्मोक्तं वेदकल्पितम्। स महानियमो नाम तपश्चर्यासु दारुणः॥ ऊर्ध्वा दृष्टिर्बाहवश्च एकाग्रं च मनोऽभवत्। एकपादाः स्थिताः सर्वे काष्ठभूताः समाहिताः॥ दिव्यं वर्षसहस्रं ते तपस्तप्त्वा सुदारुणम्। शुश्रुवुर्मधुरां वाणी वेदवेदाङ्गभूषिताम्॥ श्रीभगवानुवाच भो भोः सब्रह्मका देवा ऋषयश्च तपोधनाः। स्वागतेनाय॑ वः सर्वाश्रावये वाक्यमुत्तमम्॥ विज्ञातं वो मया कार्यं तच्च लोकहितं महत्। प्रवृत्तियुक्तं कर्तव्यं युष्मत्प्राणोपबृंहणम्॥ सुतप्तं च तपो देवा ममाराधनकाम्यया। भोल्यथास्य महासत्त्वास्तपसः फलमुत्तमम्॥ एष ब्रह्मा लोकंगुरुर्महाललोकपितामहः। यूयं च विबुधश्रेष्ठा मां यजध्वं समाहिताः॥ ते सर्वे भागान् कल्पयध्वं यज्ञेषु मम नित्यशः। तथा श्रेयोऽभिधास्यामि यथाधीकारमीश्वराः॥ वैशम्पायन उवाच श्रुत्वैतद् देवदेवस्य वाक्यं हृष्टतनूरुहाः। ततस्ते विबुधाः सर्वे ब्रह्मा च महर्षयः॥ वेददृष्टेन विधिना वैष्णवं क्रतुमाहरन्। तस्मिन् सत्रे सदा ब्रह्मा स्वयं भागमकल्पयत्॥ देवा देवर्षयश्चैव स्वं स्वं भागमकल्पयन्। ते कार्तयुगधर्माणो भागाः परमसत्कृताः॥ प्राहुरादित्यवर्णं तं पुरुषं तमसः परम्। बृहन्तं सर्वगं देवमीशानं वरदं प्रभुम्॥ ततोऽथ वरदो देवस्तान् सर्वानमरान् स्थितान्। अशरीरो बभाषेदं वाक्यं खस्थो महेश्वरः॥ येन यः कल्पितो भागः स तथा मामुपागतः। प्रीतोऽहं प्रदिशाम्यद्य फलमावृत्तिलक्षणम्॥ एतद् वो लक्षणं देवा मत्प्रसादसमुद्भवम्। स्वयं यज्ञैर्यजमानाः समाप्तवरदक्षिणैः॥ युगे युगे भविष्यध्वं प्रवृत्तिफलभागिनः। यज्ञैर्ये चापि यक्ष्यन्ति सर्वलोकेषु वै सुराः॥ कल्पयिष्यन्ति वो भागांस्ते नरा वेदकल्पितान्। यो मे यथा कल्पितवान् भागमस्मिन् महाक्रतौ॥ स तथा यज्ञभागार्हो वेदसूत्रे मया कृतः। यूयं लोकान् भावयध्वं यज्ञभागफलोचिताः॥ सर्वार्थचिन्तका लोके यथाधीकारनिर्मिताः। याः क्रियाः प्रचरिष्यन्ति प्रवृत्तिफलसत्कृताः॥ आभिराप्यायितबला लोकान् वै धारयिष्यथा यूयं हि भाविता यज्ञैः सर्वयज्ञेषु मानवैः॥ मां ततो भावयिष्यध्वमेषा वो भावना मम। इत्यर्थं निर्मिता वेदा यज्ञाश्चौषधिभिः सह॥ एभिः सम्यक् प्रयुक्तैर्हि प्रीयन्ते देवताः क्षितौ। निर्माणमेतद् युष्माकं प्रवृत्तिगुणकल्पितम्॥ मया कृतं सुरश्रेष्ठा यावत्कल्पक्षयादिह। चिन्तयध्वं लोकहितं यथाधीकारमीश्वराः॥ मरीचिरनिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः। वसिष्ठ इति सप्तैते मानसा निर्मिता हि ते॥ एते वेदविदो मुख्या वेदाचार्याश्च कल्पिताः। प्रवृत्तिधर्मिणश्चैव प्राजापत्ये च कल्पिताः॥ अयं क्रियावतां पन्था व्यक्तीभूतः सनातनः। अनिरुद्ध इति प्रोक्तो लोकसर्गकरः प्रभुः॥ सनः सनत्सुजातश्च सनकः ससनन्दनः। सनत्कुमारः कपिल: सप्तमश्च सनातनः॥ सप्तैते मानसाः प्रोक्ता ऋषयो ब्रह्मणः सुताः। स्वयमागतविज्ञाना निवृत्ति धर्ममास्थिताः॥ एते योगविदो मुख्या: सांख्यज्ञानविशारदाः। आचार्या धर्मशास्त्रेषु मोक्षधर्मप्रवर्तकाः॥ यतोऽहं प्रसृतः पूर्वमव्यक्तात् त्रिगुणो महान्। तस्मात् परतरो योऽसौ क्षेत्रज्ञ इति कल्पितः॥ सोऽहं क्रियावतां पन्थाः पुनरावृत्तिदुर्लभः। यो यथा निर्मितो जन्तुर्यस्मिन् यस्मिश्च कर्मणि॥ प्रवृत्तौ वा निवृत्तौ वा तत्फलं सोऽश्नुते महत्। एष लोकगुरुर्ब्रह्मा जगदादिकरः प्रभुः॥ एष माता पिता चैव युष्माकं च पितामहः। मयानुशिष्टो भविता सर्वभूतवरप्रदः॥ अस्य चैवात्मजो रुद्रो ललाटाद् यः समुत्थितः। ब्रह्मानुशिष्टो भविता सर्वभूतधरः प्रभुः॥ गच्छध्वं स्वानधीकारांश्चिन्तयध्वं यथाविधि। प्रवर्तन्तां क्रियाः सर्वाः सर्वलोकेषु मा चिरम्॥ प्रदिश्यन्तां च कर्माणि प्राणिनां गतयस्तथा। परिनिष्ठितकालानि आयूषीह सुरोत्तमाः॥ इदं कृतयुगं नाम कालः श्रेष्ठः प्रवर्तितः। अहिंस्या यज्ञपशवो युगेऽस्मिन् न तदन्यथा॥ चतुष्पात् सकलो धर्मो भविष्यत्यत्र वै सुराः। ततस्त्रतायुगं नाम त्रयी यत्र भविष्यति॥ प्रोक्षिता यत्र पशवो वधं प्राप्स्यन्ति वै मखे। यत्र पादश्चतुर्थो वै धर्मस्य न भविष्यति॥ ततो वै द्वापरं नाम मिश्रः कालो भविष्यति। द्विपादहीनो धर्मश्च युगे तस्मिन् भविष्यति॥ ततस्तिष्येऽथ सम्प्राप्ते युगे कलिपुरस्कृते। एकपादस्थितो धर्मो यत्र तत्र भविष्यति॥ देवा देवर्षयश्चोचुस्तमेवंवादिनं गुरुम्। एकपादस्थिते धर्मे यत्र क्वचन गामिनि॥ कथं कर्तव्यमस्माभिर्भगवंस्तद् वदस्व नः। श्रीभगवानुवाच यत्र वेदाश्च यज्ञाश्च तपः सत्यं दमस्तथा॥ अहिंसाधर्मसंयुक्ताः प्रचरेयुः सुरोत्तमाः। स वो देशः सेवितव्यो मा वोऽधर्मः पदा स्पृशेत्।।८९ व्यास उवाच तेऽनुशिष्टा भगवता देवाः सर्षिगणास्तथा। नमस्कृत्वा भगवते जग्मुर्देशान् यथेप्सितान्॥ गतेषु त्रिदिवौकःसु ब्रह्मैकः पर्यवस्थितः। दिदृक्षुर्भगवन्तं तमनिरुद्धतनौ स्थितम्॥ तं देवो दर्शयामास कृत्वा हयशिरो महत्। साङ्गानावर्तयन् वेदान् कमण्डलुत्रिदण्डधृक्॥ ततोऽश्वशिरसं दृष्ट्वा तं देवममितौजसम्। लोककर्ता प्रभुर्ब्रह्मा लोकानां हितकाम्यया॥ मूर्ध्वा प्रणम्य वरदं तस्थौ प्राञ्जलिरग्रतः। स परिष्वज्य देवेन वचनं श्रावितस्तदा॥ श्रीभगवानुवाच लोककार्यगती: सर्वास्त्वं चिन्तय यथाविधि। धाता त्वं सर्वभूतानां त्वं प्रभुर्जगतो गुरुः॥ त्वय्यावेशितभारोऽहं धृति प्राप्स्याम्यथाजसा। यदा च सुरकार्यं ते अविषां भविष्यति॥ प्रादुर्भावं गमिष्यामि तदाऽऽत्मज्ञानदैशिकः। एवमुक्त्वा हयशिरास्तत्रैवान्तरधीयत॥ तेनानुशिष्टो ब्रह्मापि स्वलोकमचिराद् गतः। एवमेष महाभागः पद्मनाभः सनातनः॥ यज्ञेष्वग्रहरः प्रोक्तो यज्ञधारी च नित्यदा। निवृत्तिं चास्थितो धर्म गतिमक्षयधर्मिणाम्। प्रवृत्तिधर्मान् विदधे कृत्वा लोकस्य चित्रताम्॥ स आदिः स मध्यः स चान्तः प्रजानां स धाता स धेयं स कर्ता स कार्यम्। युगान्ते प्रसुप्तः सुसंक्षिप्य लोकान् युगादौ प्रबुद्धो जगद्व्युत्ससर्ज॥ तस्मै नमध्वं देवाय निर्गुणाय महात्मने। अजाय विश्वरूपाय धाम्ने सर्वदिवौकसाम्॥ महाभूताधिपतये रुद्राणां पतये तथा। आदित्यपतये चैव वसूनां पतये तथा॥ अश्विभ्यां पतये चैव मरुतां पतये तथा। वेदयज्ञाधिपतये वेदाङ्गपतयेऽपि च॥ समुद्रवासिने नित्यं हरये मुञ्जकेशिने। शान्ताय सर्वभूतानां मोक्षधर्मानुभाषिणे॥ तपसां तेजसां चैव पतये यशसामपि। वचसां पतये नित्यं सरितां पतये तथा॥ कपर्दिने वराहाय एक शृङ्गाय धीमते। विवस्वतेऽश्वशिरसे चतुर्मूर्तिधृते सदा॥ गुह्याय ज्ञानदृश्याय अक्षराय क्षराय च। एष देवः संचरति सर्वत्रगतिरव्ययः॥ एष चैतत् परं ब्रह्म ज्ञेयो विज्ञानचक्षुषा। एवमेतत् पुरा दृष्टं मया वै ज्ञानचक्षुषा॥ कथितं तच्च वै सर्वं मया पृष्टेन तत्त्वतः। क्रियतां मद्वचः शिष्याः सेव्यतां हरिरीश्वरः। गीयतां वेदशब्दैश्च पूज्यतां च यथाविधि॥ वैशम्पायन उवाच इत्युक्तास्तु वयं तेन वेदव्यासेन धीमता। सर्वे शिष्या: सुतश्चास्य शुकः परमधर्मवित्॥ स चास्माकमुपाध्यायः सहास्माभिर्विशाम्पते। चतुर्वेदोद्गताभिस्तमृग्भिः समभितुष्टुवे॥ एतत् ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि। एवं मेऽकथयद् राजन् पुरा द्वैपायनो गुरुः॥ यश्चेदं शृणुयान्नित्यं यश्चैनं परिकीर्तयेत्। नमो भगवते कृत्वा समाहितमतिर्नरः॥ भवत्यरोगो मतिमान् बलरूपसमन्वितः। आतुरो मुच्यते रोगाद् बद्धो मुच्येत बन्धनात्॥ कामान् कामी लभेत् कामं दीर्घ चायुरवाप्नुयात्। ब्राह्मणः सर्ववेदी स्यात् क्षत्रियो विजयी भवेत्॥ वैश्यासे विपुललाभः स्याच्छूद्रः सुखमवाप्नुयात्। अपुत्रो लभते पुत्रं कन्या चैवेप्सितं पतिम्॥ लग्नगर्भा विमुच्येत गर्भिणी जनयेत् सुतम्। बध्या प्रसवमाप्नोति पुत्रपौत्रसमृद्धिमत्॥ क्षेमेण गच्छेदध्वानमिदं यः पठते पथि। यो यं कामं कामयते स तमाप्नोति च ध्रुवम्॥ इदं महर्षेर्वचनं विनिश्चितं महात्मनः पुरुषवरस्य कीर्तितम्। समागमं चर्षिदिवौकसामिमं निशम्य भक्ताः सुसुखं लभन्ते॥ शौनक उवाच सौते सुमहदाख्यानं भवता परिकीर्तितम्। यच्छ्रुत्वा मुनयः सर्वे विस्मयं परमं गताः॥ सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम्। न तथा फलदं सौते नारायणकथा यथा।॥ पाविताङ्गाः स्म संवृत्ताः श्रुत्वेमामादितः कथाम्। नारायणाश्रयां पुण्यां सर्वपापप्रमोचनीम्॥ दुर्दर्शो भगवान् देवः सर्वलोकनमस्कृतः। सब्रह्मकैः सुरैः कृत्स्नैरन्यैश्चैव महर्षिभिः॥ दृष्टवान् नारदो यत्तु देवं नारायणं हरिम्। नूनमेतद्ध्यनुमतं तस्य देवस्य सूतज॥ यद् दृष्टवान् जगन्नाथमनिरुद्धतनौ स्थितम्। यत् प्राद्रवत् पुनर्भूयो नारदो देवसत्तमौ॥ नरनारायणौ द्रष्टुं कारणं तद् ब्रवीहि मे। सौतिरुवाच तस्मिन् यज्ञे वर्तमाने राज्ञः पारिक्षितस्य वै॥ कर्मान्तरेषु विधिवद् वर्तमानेषु शौनक। कृष्णद्वैपायनं व्यासमृर्षि वेदनिधिं प्रभुम्॥ परिपप्रच्छ राजेन्द्रः पितामहपितामहम्। जनमेजय उवाच श्वेतद्वीपान्निवृत्तेन नारदेन सुरर्षिणा॥ ध्यायता भगवद्वाक्यं चेष्टितं किमतः परम्। बदर्याश्रममागम्य समागम्य च तावृषी॥ कियन्तं कालमवसत् कां कथां पृष्टवांश्च सः। इदं शतसहस्राद्धि भारताख्यानविस्तरात्॥ आमन्थ्य मतिमन्थेन ज्ञानोदधिमनुत्तमम्। नवनीतं यथा दध्मो मलयाच्चन्दनं यथा॥ आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा। समुद्धृतमिदं ब्रह्मन् कथामृतमिदं तथा॥ तपोनिधे त्वयोक्तं हि नारायणकथाश्रयम्। स ईशो भगवान् देवः सर्वभूतात्मभावनः॥ अहो नारायणं तेजो दुर्दर्श द्विजसत्तम। यत्राविशन्ति कल्पान्ते सर्वे ब्रह्मादय: सुराः॥ ऋषयश्च सगन्धर्वा यच्च किंचिच्चराचरम्। न ततोऽस्ति परं मन्ये पावनं दिवि चेह च॥ सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम्। न तथा फलदं चापि नारायणकथा यथा॥ सर्वथा पाविताः स्मेह श्रुत्वेमामादितः कथाम्। हरेविश्वेश्वरस्येह सर्वपापप्रणाशनीम्॥ न चित्रं कृतवांस्तत्र यदार्यो मे धनंजयः। वासुदेवसहायो यः प्राप्तवाञ्जयमुत्तमम्॥ न चास्य किंचिदप्राप्यं मन्ये लोकेष्वपि त्रिषु। त्रैलोक्यनाथो विष्णुः स यथाऽऽसीत् साह्यकृत् स वै। धन्याश्च सर्व एवासन् ब्रह्मस्ते मम पूर्वजाः। हिताय श्रेयसे चैव येषामसीज्जनार्दनः॥ तपसाथ सुदृश्यो हि भगवाल्लोकपूजितः। यं दृष्टवन्तस्ते साक्षाच्छ्वत्साकविभूषणम्॥ तेभ्यो धन्यतरचैव नारदः परमेष्ठिजः। न चाल्पतेजसमृर्षि वेद्म नारदमव्ययम्॥ श्वेतद्वीपं समासाद्य येन दृष्टः स्वयं हरिः। देवप्रसादानुगतं व्यक्तं तत् तस्य दर्शनम्॥ तद् दृष्टवांस्तदा देवमनिरुद्धतनौ स्थितम्। नरनारायणौ द्रष्टुं किं तु तत् कारणं मुने। श्वेतद्वीपानिवृत्तश्च नारदः परमेष्ठिजः॥ बदरीमाश्रमं प्राप्य समागम्य च तावृषी। कियन्तं कालमवसत् प्रश्नान् कान् पृष्टवांश्च ह॥ श्वेतद्वीपादुपावृत्ते तस्मिन् वा सुमहात्मनि। किमब्रूतां महात्मानौ नरनारायणावृषी॥ तदेतन्मे यथातत्त्वं सर्वमाख्यातुमर्हसि। वैशम्पायन उवाच नमो भवगते तस्मै व्यासायामिततेजसे॥ यस्य प्रसादाद् वक्ष्यामि नारायणकथामिमाम्। प्राप्य श्वेतं महाद्वीपं दृष्ट्वा च हरिमव्ययम्॥ निवृत्तो नारदो राजंस्तरसा मेरुमागमत्। हृदयेनोद्वहन् भारं यदुक्तं परमात्मना॥ पश्चादस्याभवद् राजन्नात्मनः साध्वसं महत्। यद् गत्वा दूरमध्वानं क्षेमी पुनरिहागतः॥ मेरोः प्रचक्राम ततः पर्वतं गन्धमादनम्। निपपात च खात् तूर्णं विशाला बदरीमनु॥ ततः स ददृशे देवौ पुराणावृषिसत्तमौ। तपश्चरन्तौ सुमहदात्मनिष्ठौ महाव्रतौ॥ तेजसाभ्यधिको सूर्यात् सर्वलोकविरोचनात्। श्रीवत्सलक्षणौ पूज्यौ जटामण्डलधारिणौ॥ जालपादभुजौ तौ तु पादयोश्चक्रलक्षणौ। व्यूढोरस्कौ दीर्घभुजौ तथा मुष्कचतुष्किणौ॥ षष्टिदन्तावष्टदंष्ट्रौ मेघौघसदृशस्वनौ। स्वास्यौ पृथुललाटौ च सुभ्र सुहनुनासिकौ॥ आतपत्रेण सदृशे शिरसी देवयोस्तयोः। एवं लक्षणसम्पन्नौ महापुरुषसंज्ञितौ॥ तौ दृष्ट्वा नारदो हृष्टस्ताभ्यां च प्रतिपूजितः। स्वागतेनाभिभाष्याथ पृष्टश्चानामयं तथा॥ बभूवान्तर्गतमतिर्निरीक्ष्य पुरुषोत्तमौ। सदोगतास्तत्र ये वै सर्वभूतनमस्कृताः॥ श्वेतद्वीपे मया दृष्टास्तादृशावृषिसत्तमौ। इति संचिन्त्य मनसा कृत्वा चाभिप्रदक्षिणम्॥ स चोपविविशे तत्र पीठे कुशमये शुभे। ततस्तौ तपसां वासौ यशसां तेजसामपि॥ ऋषी शमदमोपेतौ कृत्वा पौर्वाह्निकं विधिम्। पश्चान्नारदमव्यग्रौ पाद्यार्थ्याभ्यामथार्चतः॥ पीठयोचोपविष्टौ तौ कृतातिथ्याह्निको नृप। तेषु तत्रोपविष्टेषु स देशोऽभिव्यराजत॥ आज्याहुतिमहाज्वालैर्यज्ञवाटो यथाग्निभिः। अथ नारायणस्तत्र नारदं वाक्यमब्रवीत्॥ सुखोपविष्टं विश्रान्तं कृतातिथ्यं सुखस्थितम्। नरनारायणावूचतुः। अपीदानी स भगवान् परमात्मा सनातनः॥ श्वेतद्वीपे त्वया दृष्ट आवयोः प्रकृतिः परा। नारद उवाच दृष्टो मे पुरुषः श्रीमान् विश्वरूपधरोऽव्ययः॥ सर्वे लोका हि तत्रस्थास्तथा देवाः सहर्षिभिः। अद्यापि चैनं पश्यामि युवां पश्यन् सनातनौ।॥ यैर्लक्षणैरुपेतः स हरिरव्यक्तरूपधृक्। तैर्लक्षणैरुपेतौ हि व्यक्तरूपधरौ युवाम्॥ दृष्टौ युवां मया तत्र तस्य देवस्य पार्श्वतः। इहैव चागतोऽस्म्पद्य विसृष्टः परमात्मना॥ को हि नाम भवेत् तस्य तेजसा यशसा श्रिया। सदृशस्त्रिषु लोकेषु ऋते धर्मात्मजौ युवाम्॥ तेन मे कथितः कृत्स्नो धर्मः क्षेत्रज्ञसंज्ञितः। प्रादुर्भावाश्च कथिता भविष्या इह ये यथा।॥ तत्र ये पुरुषाः श्वेताः पञ्चेन्द्रियविवर्जिताः। प्रतिबुद्धाश्च ते सर्वे भक्ताश्च पुरुषोत्तमम्॥ तेऽर्चयन्ति सदा देवं तैः सार्धं रमते च सः। प्रियभक्तो हि भगवान् परमात्मा द्विजप्रियः॥ रमते सोऽय॑मानो हि सदा भागवतप्रियः। विश्वभुक् सर्वगो देवो माधवो भक्तवत्सलः॥ स कर्ता कारणं चैव कार्यं चातिबलद्युतिः। हेतुश्चाज्ञा विधानं च तत्त्वं चैव महायशाः॥ तपसा योज्य सोऽऽत्मानं श्वेतद्वीपात् परं हि यत्। तेज इत्यभिविख्यातं स्वयंभासावभासितम्॥ शान्तिः सा त्रिषु लोकेषु विहिता भावितात्मना। एतया शुभया बुद्ध्या नैष्ठिकं व्रतमास्थितः॥ न तत्र सूर्यस्तपति न सोमोऽभिविराजते। न वायुर्वाति देवेशे तपश्चरति दुश्चरम्॥ वेदीमष्टनलोत्सेधां भूमावास्थाय विश्वकृत्। एकपादस्थितो देव उर्ध्वबाहुरुदङ्मुख॥ साङ्गानावर्तयन् वेदांस्तपस्तेपे सुदुश्चरम्। यद् ब्रह्मा ऋषयश्चैव स्वयं पशुपतिश्च यत्॥ शेषाश्च विबुधश्रेष्ठा दैत्यदानवराक्षसाः। नागाः सुपर्णा गन्धर्वाः सिद्धा राजर्षयश्च ये॥ हव्यं कव्यं च सततं विधियुक्तं प्रयुञ्जते। कृत्स्नं तु तस्य देवस्य चरणावुपतिष्ठति॥ याः क्रियाः सम्प्रयुक्ताश्च एकान्तगतबुद्धिभिः। ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम्॥ न तस्यान्यः प्रियतरः प्रतिबुद्धैर्महात्मभिः। विद्यते त्रिषु लोकेषु ततोऽस्यैकान्तिकं गतः॥ इह चैवागतस्तेन विसृष्टः परमात्मना। एवं मे भगवान् देवः स्वयमाख्यातवान् हरिः। आसिष्ये तत्परो भूत्वा युवाभ्यां सह नित्यशः॥ नरनारायणावूचतुः धन्योऽस्यनुगृहीतोऽसि यत् ते दृष्टः स्वयं प्रभुः। न हि तं दृष्टवान् कश्चित् पद्मयोनिरपि स्वयम्॥ अव्यक्तयोनिर्भगवान् दुर्दर्शः पुरुषोत्तमः। नारदैतद्धि नौ सत्यं वचनं समुदाहृतम्॥ नास्य भक्तात् प्रियतरो लोके कश्चन विद्यते। ततः स्वयं दर्शितवान् स्वमात्मानं द्विजोत्तम॥ तपो हि तप्यतस्तस्य यत् स्थान परमात्मनः। न तत् सम्प्राप्नुते कश्चिदृते ह्यावां द्विजोत्तम॥ या हि सूर्यसहस्रस्य समस्तस्य भवेद् द्युतिः। स्थानस्य सा भवेत् तस्य स्वयं तेन विराजता॥ तस्मादुत्तिष्ठते विप्र देवाद् विश्वभुवः पतेः। क्षमा क्षमावतां श्रेष्ठ यया भूमिस्तु युज्यते॥ तस्माच्चोत्तिष्ठते देवात् सर्वभूतहिताद् रसः। आपो हि तेन युज्यन्ते द्रवत्वं प्राप्नुवन्ति च॥ तस्मादेव समुद्भूतं तेजो रूपगुणात्मकम्। येन संयुज्यते सूर्यस्ततो लोके विराजते॥ तस्माद् देवात् समुद्भूतः स्पर्शस्तु पुरुषोत्तमात्। येन स्म युज्यते वायुस्ततो लोकान् विवात्यसौ॥ तस्माच्चोत्तिष्ठते शब्दः सर्वलोकेश्वरात् प्रभोः। आकाशं युज्यते येन ततस्तिष्ठत्यसंवृतम्॥ तस्माच्चोत्तिष्ठते देवात् सर्वभूतगतं मनः। चन्द्रमा येन संयुक्तः प्रकाशगुणधारणः॥ यद्धृतोत्पादकं नाम तत् स्थानं वेदसंज्ञितम्। विद्यासहायो यत्रास्ते भगवान् हव्यकव्यभुक्॥ ये हि निष्कलुषा लोके पुण्यपापविवर्जिताः। तेषां वै क्षेममध्वानं गच्छतां द्विजसत्तम॥ सर्वलोकतमोहन्ता आदित्यो द्वारमुच्यते। आदित्यदग्धसर्वाङ्गा अदृश्याः केनचित् क्वचित्॥ परमाणुभूता भूत्वा तु तं देवं प्रविशन्त्युत। तस्मादपि च निर्मुक्ता अनिरुद्धतनौ स्थिताः॥ मनोभूतास्ततो भूत्वा प्रद्युम्नं प्रविशन्त्युत। प्रद्युम्नाच्चापि निर्मुक्ता जीवं संकर्षणं ततः॥ विशन्ति विप्रप्रवरा: सांख्या भागवतैः सह। ततस्त्रैगुण्यहीनास्ते परमात्मानमञ्जसा॥ प्रविशन्ति द्विजश्रेष्ठाः क्षेत्रज्ञं निर्गुणात्मकम्। सर्वावासं वासुदेवं क्षेत्रज्ञं विद्धिं तत्त्वतः॥ समाहितमनस्काश्च नियताः संयतेन्द्रियाः। एकान्तभावोपगता वासुदेवं विशन्ति ते॥ आवामपि च धर्मस्य गृहे जातौ द्विजोत्तम। रम्यां विशालामाश्रित्य तप उग्रं समास्थितौ॥ ये तु तस्यैव देवस्य प्रादुर्भावाः सुरप्रियाः। भविष्यन्ति त्रिलोकस्थास्तेषां स्वतीत्यथो द्विज॥ विधिना स्वेन युक्ताभ्यां यथापूर्वं द्विजोत्तम। आस्थिताभ्यां सर्वकृच्छ्रे व्रतं सम्यगनुत्तमम्॥ आवाभ्यामपि दृष्टस्त्वं श्वेतद्वीपे तपोधन। समागतो भगवता संजल्पं कृतवांस्तथा॥ सर्वं हि नौ संविदितं त्रैलोक्ये सचराचरे। यद् भविष्यति वृत्तं वा वर्तते वा शुभाशुभम्। सर्वं स ते कथितवान् देवदेवो महामुने॥ वैशम्पायन उवाच एतच्छ्रुत्वा तयोर्वाक्यं तपस्युगे च वर्ततोः। नारदः प्राञ्जलिर्भूत्वा नारायणपरायणः॥ जजाप विधिवन्मन्त्रान् नारायणगतान् बहून्। दिव्यं वर्षसहस्रं हि नरनारायणाश्रमे॥ अवसत् स महातेजा नारदो भगवानृषिः। तमेवाभ्यर्चयन् देवं नरनारायणौ च तौ॥ वैशम्पायन उवाच कस्यचित् त्वथ कालस्य नारदः परमेष्ठिजः। दैवं कृत्वा यथान्यायं पित्र्यं चक्रे ततः परम्॥ ततस्तं वचनं प्राह ज्येष्ठो धर्मात्मजः प्रभुः। क इज्यते द्विजश्रेष्ठ दैवे पित्र्ये च कल्पिते॥ त्वया मतिमतां श्रेष्ठ तन्मे शंस यथागमम्। किमेतत् क्रियते कर्म फलं वास्य किमिष्यते॥ नारद उवाच त्वयैतत् कथितं पूर्वं दैवं कर्तव्यमित्यपि। दैवतं च परो यज्ञः परमात्मा सनातनः॥ ततस्तद्भावितो नित्यं यजे वैकुण्ठमव्ययम्। तस्माच्च प्रसृतः पूर्वं ब्रह्मा लोकपितामहः॥ मम वै पितरं प्रीतः परमेष्ठ्यप्यजीजनत्। अहं संकल्पजस्तस्य पुत्रः प्रथमकल्पितः॥ यजामि वै पितृन् साधो नारायणविधौ कृते। एवं स एव भगवान् पिता माता पितामहः॥ इज्यते पितृयज्ञेषु तथा नित्यं जगत्पतिः। श्रुतिश्चाप्यपरा देवी पुत्रान् हि पितरोऽयजन्॥ वेदश्रुतिः प्रणष्टा च पुनरध्यापिता सुतैः। ततस्ते मन्त्रदाः पुत्राः पितृत्वमुपपेदिरे॥ वै नूनं पुरैतद् विदितं युवयोर्भावितात्मनोः। पुत्राश्च पितरश्चैव परस्परमपूजयन्॥ त्रीन् पिण्डान् न्यस्य पृथव्यां पूर्वं दत्त्वा कुशानिति। कथं तु पिण्डसंज्ञां ते पितरो लेभिरे पुरा॥ नरनारायणावूचतुः इमां हि धरणी पूर्वं नष्टां सागरमेखलाम्। गोविन्द उज्जहाराशु वारां रूपमास्थितः।१२।। सापयित्वा तु धरणी स्वे स्थाने पुरुषोत्तमः। जलकर्दमलिप्ताङ्गो लोककार्यार्थमुद्यतः॥ प्राप्ते चाह्निककाले तु मध्यदेशगते रवौ। दंष्ट्राविलग्नांस्त्रीन् पिण्डान् विधाय सहसा प्रभुः।१४॥ स्थापयामास वै पृथ्वयां कुशानास्तीर्य नारद। स तेष्वात्मानमुद्दिश्य पित्र्यं चक्रे यथाविधि॥ संकल्पयित्वा त्रीन् पिण्डान् स्वेनैव विधिना प्रभुः। आत्मगात्रोष्मसम्भूतैः स्नेहगर्भस्तिलैरपि॥ प्रोक्ष्यापसव्यं देवेशः प्राङ्मुखः कृतवान् स्वयम्। मर्यादास्थापनार्थं च ततो वचनमुक्तवान्॥ वृषाकपिरुवाच अहं हि पितरः स्रष्टुमुद्यतो लोककृत् स्वयम्। यस्य चिन्तयतः सद्यः पितृकार्यविधीन् परान्॥ दंष्ट्राभ्यां प्रविनिर्धूता ममैते दक्षिणां दिशम्। आश्रिता धरणी पिण्डास्तस्मात् पितर एव ते॥ त्रयो मूर्तिविहीना वै पिण्डमूतिधरास्त्विमे। भवन्तु पितरो लोके मया सृष्टाः सनातनाः॥ पिता पितामहश्चैव तथैव प्रपितामहः। अहमेवात्र विज्ञेयस्त्रिषु पिण्डेषु संस्थितः॥ नास्ति मत्तोऽधिः कश्चित् को वान्योऽयॊ मया स्वयम् को वा मम पिता लोके अहमेव पितामहः॥ पितामहपिता चैव अहमेवात्र कारणम्। इत्येतदुक्त्वा वचनं देवदेवो वृषाकपिः॥ वराहपर्वते विप्र दत्त्वा पिण्डान् सविस्तरान्। आत्मानं पूजयित्वैव तत्रैवादर्शनं गतः॥ एषा तस्य स्थितिविप्र पितरः पिण्डसंज्ञिताः। लभन्ते सततं पूजां वृषाकपिवचो यथा॥ ये यजन्ति पितॄन् देवान् गुरूंश्चैवातिथींस्तथा। गाश्चैव द्विजमुख्यांश्च पृथिवीं मातरं यथा॥ कर्मणा मनसा वाचा विष्णुमेव यजन्ति ते! अन्तर्गतः स भगवान् सर्वसत्त्वशरीरगः॥ समः सर्वेषु भूतेषु ईश्वरः सुखदुःखयोः। महान् महात्मा सर्वात्मा नारायण इति श्रुतिः॥ वैशम्पायन उवाच श्रुत्वैतन्नारदो वाक्यं नरनारायणेरितम्। अत्यन्तं भक्तिमान् देवे एकान्तित्वमुपेयिवान्॥ प्रोष्य वर्षसहस्रं तु नरनारायणाश्रमे। श्रुत्वा भगवदाख्यानं दृष्ट्वा च हरिमव्ययम्॥ हिमवन्तं जगामाशु यत्रास्य स्वक आश्रमः। तावपि ख्याततपसौ नरनारायणावृषी॥ तस्मिन्नेवाश्रमे रम्ये तेपतुस्तप उत्तमम्। त्वमप्यमितविक्रान्तः पाण्डवानां कुलोद्वहः॥ पावितात्माद्य संवृत्तः श्रुत्वेमामादित: कथाम्। नैव तस्यापरो लोको नायं पार्थिवसत्तम॥ कर्मणा मनसा वाचा यो द्विष्याद् विष्णुमव्ययम्। मज्जन्ति पितरस्तस्य नरके शाश्वती: समा:॥ यो द्विष्याद् विबुधश्रेष्ठं देवं नारायणं हरिम्। कथं नाम भवेद् द्वेष्य आत्मा लोकस्य कस्यचित्॥ आत्मा हि पुरुषव्याघ्र ज्ञेयो विष्णुरिति स्थितिः। य एष गुरुरस्माकमृषिर्गन्धवतीसुतः॥ तस्माच्छ्रुतं मया चेदं कथितं च तवानघ॥ नारदेन तु सम्प्राप्तः सरहस्य: संसग्रहः। एष धर्मो जगन्नाथात् साक्षान्नारायणानृप॥ एवमेष महान् धर्मः स ते पूर्वं नृपोत्तम। कथितो हरिगीतासु समासविधिकल्पितः॥ कृष्णद्वैपायनं व्यासं विद्धि नारायणं भुवि। को ह्यन्यः पुरुषव्याघ्र महाभारतकृद् भवेत्॥ धर्मान्नानाविधांश्चैव को ब्रूयात्तमृते प्रभुम्॥ वर्ततां ते महायज्ञो यथा संकल्पितस्त्वया। संकल्पिताश्वमेधस्त्वं श्रुतधर्मश्च तत्त्वतः॥ सौतिरुवाच एतत् तु महदाख्यानं श्रुत्वा पार्थिवसत्तमः। ततो यज्ञसमाप्यर्थं क्रियाः सर्वाः समारभत्॥ नारायणीयमाख्यानमेतत् ते कथितं मया। पृष्टेन शौनकाद्येह नैमिषारण्यवासिषु॥ नारदेन पुरा राजन् गुरवे मे निवेदितम्। ऋषीणां पाण्डवानां च शृण्वतोः कृष्णभीष्मयो॥ स हि परमगुरुर्जनभुवनपतिः पृथुधरणिधरः श्रुतिविनयनिधिः। स्तव भवतु गतिर्हरिरमरहितः॥ असुरवधकरस्तपसां निधिः। सुमहतां यशसां च भाजनम्। ऽभयदो मखभागहरोऽस्तु शरणं स ते॥ त्रिगुणो विगुणश्चतुरात्मधरः पूर्तेश्योश्च फलभागहरः। विदधातु नित्यमजितोऽतिचलो गतिमात्मगां सुकृतिनामृषीणाम्।॥ तं लोकसाक्षिणमजं पुरुशं पुराणं रविवर्णमीश्वरं गतिं बहुशः। प्रणमध्वमेकमनसो यतः सलिलोद्भवोऽपि तमृषि प्रणतः॥ स हि लोकयोनिरमृतस्य पदं सूक्ष्म परायणमचलं हि पदम्। तत्सांख्योगिभिरुदार वृतं बुद्ध्या यतात्मभिरिदं सनातनम्॥ शौनक उवाच श्रुतं भगवतस्तस्य माहात्म्यं परमात्मनः। जन्म धर्मगृहे चैव नरनारायणात्मकम्॥ महावराहसृष्टा च पिण्डोत्पत्तिः पुरातनी। प्रवृत्तौ च निवृत्तौ च यो यथा परिकल्पितः॥ तथा च नः श्रुतो ब्रह्मन् कथ्यमानस्त्वयानघ। हव्यकव्यभुजो विष्णुरुदक्पूर्वे महोदधौ॥ यच्च तत् कथितं पूर्वं त्वया हयशिरो महत्। तच्च दृष्टं भगवता ब्रह्मणा परमेष्ठिना॥ किं तदुत्पादितं पूर्वं हरिणा लोकधारिणा। रूपं प्रभावं महतामपूर्वं धीमतां वर॥ दृष्ट्वा हि विबुधश्रेष्ठमपूर्वममितौजसम्। तदश्वशिरसं पुण्यं ब्रह्मा किमकरोन्मुने॥ एतन्नः संशयं ब्रह्मन् पुराणं ज्ञानसम्भवम्। कथयस्वोत्तममते महापुरुषनिर्मितम्॥ पाविताः स्म त्वया ब्रह्मन् पुण्यां कथयता कथाम्। सौतिरुवाच कथयिष्यामि ते सर्वं पुराणं वेदसम्मितम्॥ जगौ यद् भगवान् व्यासो राज्ञः पारिक्षितस्य वै। श्रुत्वाश्वशिरसो मूर्ति देवस्य हरिमेधसः॥ उत्पन्नसंशयो राजा एतदेवमचोदयत्। जनमेजय उवाच यत्तद् दर्शितवान् ब्रह्मा देवं हयशिरोधरम्॥ किमर्थं तत् समभवत् तन्ममाचक्ष्व सत्तम। वैशम्पायन उवाच यत् किंचिदिह लोके वै देहसत्त्वं विशाम्पते॥ सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिभिः। ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणो विराट्॥ भूतान्तरात्मा वरदः सगुणो निर्गुणोऽपि च। भूतप्रलयमत्यन्तं शृणुष्व नृपसत्तम॥ धरण्यामथ लीनायामप्सु चैकार्णवे पुरा। ज्योतिर्भूते जले चापि लीने ज्योतिषि चानिले॥ वायौ चाकाशसंलीने आकाशे च मनोऽनुगे। व्यक्ते मनसि संलीने व्यक्त चाव्यक्ततां गते।॥ अव्यक्ते पुरुषं याते पुंसि सर्वगतेऽपि च। तम एवाभवत् सर्वं न प्राज्ञायत किंचन॥ तमसो ब्रह्म सम्भूतं तमोमूलामृतात्मकम्। तद्विश्वभावसंज्ञान्तं पौरुषी तनुमाश्रितम्॥ सोऽनिरुद्ध इति प्रोक्तस्तत् प्रधानं प्रचक्षते। तदव्यक्तभिति ज्ञेयं त्रिगुणं नृपसत्तम॥ विद्यासहायवान्देवो विष्वक्सेनो हरिः प्रभुः। अप्स्वेव शयनं चक्रे निद्रायोगमुपागतः॥ जगतश्चिन्तयन् सृष्टिं चित्रां बहुगुणोद्भवाम्। तस्य चिन्तयतः सृष्टिं महानात्मगुणः स्मृतः॥ अहंकारस्ततो जातो ब्रह्मा स तु चतुर्मुखः। हिरण्यगर्भो भगवान् सर्वलोकपितामहः॥ पद्येऽनिरुद्धात् सम्भूतस्तदा पद्मनिभेक्षणः। सहस्रपत्रे द्युतिमानुपविष्टः सनातनः॥ ददृशेऽद्भुतसंकाशो लोकानापोमयान् प्रभुः। सत्त्वस्थः परमेष्ठी स ततो भूतगणान् सृजन्॥ पूर्वमेव च पद्मस्य पत्रे सूर्यांशुसप्रभे। नारायणकृतौ विन्दू अपामास्तां गुणोत्तरौ॥ तावपश्यत् स भगवाननादिनिधनोऽच्युतः। एकस्तत्राभवद् विन्दुर्मध्वाभो रुचिरप्रभः॥ स तामसो मधुर्जातस्तदा नारायणाज्ञया। कठिनस्त्वपरो विन्दुः कैटभो राजसस्तु स॥ तावभ्यधावतां श्रेष्ठौ तमसा रजसान्वितौ। बलवन्तौ गदाहस्तौ पद्मनालानुसारिणौ॥ ददृशातेऽरविन्दस्थं ब्रह्माणममितप्रभम्। सृजन्तं प्रथमं वेदांश्चतुरस्चारुविग्रहान्॥ ततो विग्रहवन्तौ तौ वेदान् दृष्ट्वासुरोत्तमौ। सहसा जगृहतुर्वेदान् ब्रह्मणः पश्यतस्तदा॥ अथ तौ दानवश्रेष्ठौ वेदान् गृह्य सनातनान्। रसां विविशतुस्तूर्णमुदक्पूर्वे महोदधौ॥ ततो हृतेषु वेदेषु ब्रह्मा कश्मलमाविशत्। ततो वचनमीशानं प्राह वेदैविनाकृतः॥ ब्रह्मोवाच वेदा मे परमं चक्षुर्वेदा मे परमं बलम्। वेदा मे परमं धाम वेदा मे ब्रह्म चोत्तरम्॥ मम वेदा हृताः सर्वे दानवाभ्यां बलादितः। अन्धकारा हि मे लोका जाता वेदैविनाकृताः॥ वेदानृते हि कुर्यां लोकानां सृष्टिमुत्तमाम्। अहो बत महद् दुःखं वेदनाशनजं मम॥ प्राप्तं दुनोति हृदयं तीव्र शोकपरायणम्। को हि शोकार्णवे मग्नं मामितोऽद्य समुद्धरेत्॥ वेदांस्तांश्चानयेन्नष्टान् कस्य चाहं प्रियो भवे। इत्येवं भाषमाणस्य ब्रह्मणो नृपसत्तम॥ हरेः स्तोत्रार्थमुद्भूता बुद्धिर्बुद्धिमतां वर। ततो जगौ परं जप्यं साञ्जलिप्रग्रहः प्रभुः॥ ब्रह्मोवाच ॐनमस्ते ब्रह्महृदय नमस्ते मम पूर्वज। लोकाद्य भुवनश्रेष्ठ सांख्ययोगनिधे प्रभो॥ व्यक्ताव्यक्तकराचिन्त्य क्षेमं पन्थानमास्थित। विश्वभुक् सर्वभूतानामन्तरात्मन्नयोनिज। अहं प्रसादजस्तुभ्यं लोकधाम स्वयम्भुवः॥ त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम्। चाक्षुषं वै द्वितीयं मे जन्म चासीत् पुरातनम्॥ त्वत्प्रसादात् तु मे जन्म तृतीयं वाचिकं महत्। त्वत्तः श्रवणनं चापि चतुर्थं जन्म मे विभो॥ नासिक्यं चापि मे जन्म त्वत्तः परममुच्यते। अण्डजं चापि मे जन्म त्वत्तः षष्ठं विनिर्मितम्॥ इदं च सप्तमं जन्म पद्मजन्मेति वै प्रभो। सर्गे सर्गे ह्यहं पुत्रस्तव त्रिगुणवर्जित॥ प्रथितः पुण्डरीकाक्ष प्रधानगुणकल्पितः। त्वमीश्वरः स्वभावश्च स्वयम्भूः पुरुषोत्तमः॥ त्वया विनिर्मितोऽहं वै वेदचक्षुर्वयोतिगः। ते मे वेदा हताश्चक्षुरन्धो जातोऽस्मि जागृहि॥ ददस्व चढूंषि मम प्रियोऽहं ते प्रियोऽसि मे। एवं स्तुतः स भगवान् पुरुषः सर्वतोमुखः॥ जहौ निद्रामथ तदा वेदकार्यार्थमुद्यतः। ऐश्वर्येण प्रयोगेण द्वितीयां तनुमास्थितः॥ सुनासिकेन कायेन भूत्वा चन्द्रप्रभस्तदा। कृत्वा हयशिरः शुभ्रं वेदानामालयं प्रभुः॥ तस्य मूर्धा समभवद् द्यौः सनक्षत्रतारका। केशाश्चास्याभवन् दीर्घा रवेरंशुसमप्रभाः॥ कर्णावाकाशपाताले ललाटं भूतधारिणी। गङ्गा सरस्वती श्रोण्यौ भ्रुवावास्तां महोदधी॥ चक्षुषी सोमसूर्यो ते नासा संध्या पुनः स्मृता। ॐकारस्त्वथ संस्कारो विद्युज्जिह्वा च निर्मिता॥ दन्ताश्च पितरो राजन् सोमपा इति विश्रुताः। गोलोको ब्रह्मलोकश्च ओष्ठावास्तां महात्मनः॥ ग्रीवा चास्याभवद् राजन् कालरात्रिर्गुणोत्तरा। एतद्धयशिरः कृत्वा नानामूर्तिभिरावृतम्॥ अन्तर्दधौ स विश्वेशो विवेश च रसां प्रभुः। रसां पुनः प्रविष्टश्च योगं परममास्थितः॥ शैक्ष्यं स्वरं समास्थाय उद्गीतं प्रासृजत् स्वरम्। स स्वरः सानुनादी च सर्वशः स्निग्ध एव च॥ बभूवान्तर्महीभूतः सर्वभूतगुणोदितः। ततस्तावसुरौ कृत्वा वेदान् समयबन्धनान्।५६॥ रसातले विनिक्षिप्य यतः शब्दस्ततो दुतौ। एतस्मिन्नन्तरे राजन् देवो हयशिरोधरः॥ जग्राह वेदानखिलान् रसातलगतान् हरिः। प्रादाच्च ब्रह्मणे भूयस्ततः स्वां प्रकृतिं गतः॥ स्थापयित्वा हयशिर उदक्पूर्वे महोदधौ। वेदानामालयं चापि बभूवाश्वशिरास्ततः॥ अथ किंचिदपश्यन्तौ दानवौ मधुकैटभौ। पुनराजग्मतुस्तत्र वेगितौ पश्यतां च तौ॥ यत्र वेदा विनिक्षिप्तास्तत् स्थानं शून्यमेव च। तत उत्तममास्थाय वेगं बलवतां वरौ॥ पुनरुत्तस्थतुः शीघ्रं रसानामालयात् तदा। ददृशाते च पुरुषं तमेवादिकरं प्रभुम्॥ श्वेतं चन्द्रविशुद्धाभमनिरुद्धतनौ स्थितम्। भूयोऽप्यमितविक्रान्तं निद्रायोगमुपागतम्॥ आत्मप्रमाणरचिते अपामुपरि कल्पिते। शयने नागभोगाढ्ये ज्वालामालासपावृते॥ निष्कल्मषेण सत्त्वेन सम्पन्नं रुचिरप्रभम्। तं दृष्ट्वा दानवेन्द्रौ तौ महाहासममुञ्चताम्॥ उचतुश्च समाविष्टौ रजसा तमसा च तौ। अयं स पुरुषः श्वेतः शेते निद्रामुपागतः॥ अनेन नूनं वेदानां कृतमाहरणं रसात्। कस्यैष को नु खल्वेष किं न स्वपिति भोगवान्॥ इत्युच्चारितवाक्यौ तौ बोधयामासतुर्हरिम्। युद्धार्थिनौ हि विज्ञाय विबुद्धः पुरुषोत्तमः॥ निरीक्ष्य चासुरेन्द्रौ तौ ततो युद्धे मनो दधे। अथ युद्धं समभवत् तयोर्नारायणस्य वै॥ रजस्तमोविष्टतनू तावुभौ मधुकैटभौ। ब्रह्मणोपचितिं कुर्वन् जघान मधुसूदनः॥ ततस्तयोर्वधेनाशु वेदापहरणेन च। शोकापनयनं चक्रे ब्रह्मणः पुरुषोत्तमः॥ ततः परिवृतो ब्रह्मा हरिणा वेदसत्कृतः। निर्ममे स तदा लोकान् कृत्स्नान् स्थावरजङ्गमान्॥ दत्त्वा पितामहाया यां मतिं लोकविसर्गिकीम्। तत्रैवान्तर्दधे देवो यत एवागतो हरिः॥ तौ दानवौ हरिहत्वा कृत्वा हयशिरस्तनुम्। पुनः प्रवृत्तिधर्मार्थं तामेव विदधे तनुम्॥ एवमेव महाभागो बभूवाश्वशिरा हरिः। पौराणमेतत् प्रख्यातं रूपं वरदमैश्वरम्॥ यो ह्येतद् ब्राह्मणो नित्यं शृणुयाद् धारयेत वा। न तस्याध्ययनं नाशमुपगच्छेत् कदाचन॥ आराध्य तपसोग्रेण देवं हयशिरोधरम्। पाञ्चालेन क्रमः प्राप्तो देवेन पथि देशिते॥ एतद्धयशिरो राजन्नाख्यानं तव कीर्तितम्। पुराणं वेदसमितं यन्मां त्वं परिपृच्छसि॥ यां यामिच्छेत् तनुं देवः कर्तुं कार्यविधौ क्वचित्। तां तां कुर्याद् विकुर्वाणः स्वयमात्मानमात्मना।॥ एष वेदनिधिः श्रीमानेष वै तपसो निधिः। एष योगश्च सांख्यं च ब्रह्म चाग्र्यं हविर्विभुः॥ नारायणपरा वेदा यज्ञा नारायणात्मकाः। तपो नारायणपरं नारायणपरा गतिः॥ नारायणपरं सत्यमृतं नारायणात्मकम्। नारायणपरो धर्मः पुनरावृत्तिदुर्लभः॥ प्रवृत्तिलक्षणश्चैव धर्मो नारायणात्मकः। नारायणात्मको गन्धो भूमौ श्रेष्ठतमः स्मृतः॥ अपां चापि गुणा राजन् रसा नारायणात्मकाः। ज्योतिषां च परं रूपं स्मृतं नारायणात्मकम्॥ नारायणात्मकश्चापि स्पर्शो वायुगुणः स्मृतः। नारायणात्मकश्चैव शब्द आकाशसम्भवः॥ मनश्चापि ततो भूतमव्यक्तगुणलक्षणम्। नारायणपरः कालो ज्योतिषामयनं च यत्॥ नारायणपरा कीर्तिः श्रीश्च लक्ष्मीश्च देवताः। नारायणपरं सांख्यं योगो नारायणात्मकः॥ कारणं पुरुषो ह्येषां प्रधानं चापि कारणम्। स्वभावश्चैव कर्माणि दैवं येषां च कारणम्॥ अधिष्ठानं तथा कर्ता करणं च पृथग्विधम्। विविधा च तथा चेष्टा दैवं चैवात्र पञ्चमम्॥ पञ्चकारणसंख्यातो निष्ठा सर्वत्र वै हरिः। तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतोमुखैः॥ तत्त्वमेको महायोगी हरिर्नारायणः प्रभुः। ब्रह्मादीनां स लोकानामृषीणां च महात्मनाम्॥ सांख्यानां योगिनां चापि यतीनामात्मवेदिनाम्। मनीषितं विजानाति केशवो न तु तस्य ते॥ ये केचित् सर्वलोकेषु दैवं पित्र्यं च कुर्वते। दानानि च प्रयच्छन्ति तप्यन्ते च तपो महत्॥ सर्वेषामाश्रयो विष्णुरैश्वरं विधिमास्थितः। सर्वभूतकृतावसो वासुदेवेति चोच्यते॥ महाविभूतिर्गुणवर्जिताख्यः। गुणैश्च संयोगमुपैति शीघ्र कालो यथर्तावृतुसम्प्रयुक्तः॥ नैवास्य विन्दन्ति गतिं महात्मनो न चागतिं कश्चिदिहानुपश्यति। ज्ञानात्मका: सन्ति हि ये महर्षयः पश्यन्ति नित्यं पुरुषं गुणाधिकम्॥ जनमेजय उवाच अहो होकन्तिनः सर्वान् प्रीणाति भगवान् हरिः। विधिप्रयुक्तां पूजां च गृह्णाति भगवान् स्वयम्।।।। ये तु दग्धेन्धना लोके पुण्यपापविवर्जिताः। तेषां त्वयाभिनिर्दिष्टा पारम्पर्यागता गतिः॥ चतुर्थ्यां चैव ते गत्यां गच्छन्ति पुरुषोत्तमम्। एकान्तिनस्तु पुरुषा गच्छन्ति परमं पदम्॥ नूनमेकान्तधर्मोऽयं श्रेष्ठो नारायणप्रियः। अगत्वा गतयस्तिस्रो यद् गच्छत्यव्ययं हरिम्॥ सहोपनिषदान् वेदान् ये विप्राः सम्यगास्थिताः। पठन्ति विधिमास्थाय ये चापि यतिधर्मिणः॥ तेभ्यो विशिष्टां जानामि गतिमेकान्तिनां नृणाम्। केनैष धर्मः कथितो देवेन ऋषिणापि वा॥ एकान्तिनां च का चर्या कदा चोत्पादिताविभो। एतन्मे संशयं छिन्धि परं कौतूहलं हि मे॥ वैशम्पायन उवाच समुपोढेष्वनीकेषु कुरुपाण्डवयोर्मधे। अर्जुने विमनस्के च गीता भगवता स्वयम्॥ अगतिश्च गतिश्चैव पूर्वं ते कथिता मया। गहनो ह्येष धर्मो वै दुर्विज्ञेयोऽकृतात्मभिः॥ सम्मितः समावेदेन पुरैवादियुगे कृतः। धार्यते स्वयमीशेन राजन् नारायणेन च॥ एतदर्थं महाराज पृष्टः पार्थेन नारदः। ऋषिमध्ये महाभागः शृण्वतोः कृष्णभीष्मयोः॥ गुरुणा च मयाप्येष कथितो नृपसत्तम। यथा तत् कथितं तत्र नारदेन तथा शृणु॥ यदासीन्मानसं जन्म नारायणमुखोद्गतम्। ब्रह्मणः पृथिवीपाल तदा नारायणः स्वयम्॥ तेन धर्मेण कृतवान् दैवं पित्र्यं च भारत। फेनपा ऋषयश्चैव तं धर्म प्रतिपेदिरे॥ वैखानसाः फेनपेभ्यो धर्मं तं प्रतिपेदिरे। वैखानसेभ्यः सोमस्तु ततः सोऽन्तर्दधे पुनः॥ यदासीच्चाक्षुषं जन्म द्वितीयं ब्रह्मणो नृप। तदा पितामहेनैव सोमाद् धर्मः परिश्रुतः॥ नारायणात्मको राजन् रुद्राय प्रददौ च तम्। ततो योगस्थितो रुद्रः पुरा कृतयुगे नृप।॥ बालखिल्यानृषीन् सर्वान् धर्ममेतदपाठयत्। अन्तर्दधे ततो भूयस्तस्य देवस्य मायया॥ तृतीयं ब्रह्मणो जन्म यदासीद् वाचिकं महत्। तत्रैष धर्मः सम्भूतः स्वयं नारायणानृप॥ सुपर्णो नाम तमृषिः प्राप्तवान् पुरुषोत्तमात्। तपसा वै सुतप्तेन दमेन नियमेन च।॥ त्रिः परिक्रान्तवानेतत् सुपर्णो धर्ममुत्तमम्। यस्मात् तस्माद् व्रतं ह्येतत् त्रिसौपर्णमिहोच्यते॥ ऋग्वेदपाठपठितं व्रतमेतद्धि दुश्चरम्। सुपर्णाच्चाप्यधिगतो धर्म एष सनातनः॥ वायुना द्विपदां श्रेष्ठ कथितो जगदायुषा। वायोः सकाशात् प्राप्तश्च ऋषिभिर्विघसाशिभिः॥ ततो महोदधिश्चैव प्राप्तवान् धर्ममुत्तमम्। अन्तर्दधे ततो भूयो नारायणसमाहितः॥ यदा भूयः श्रवणजा सृष्टिरासीन्महात्मनः। ब्रह्मणः पुरुषव्याघ्र तत्र कीर्तयतः शृणु॥ जगत्स्रष्टुमना देवो हरिनारायणः स्वयम्। चिन्तयामास पुरुषं जगत्सर्गकरं प्रभुम्॥ अथ चिन्तयतस्तस्य कर्णाभ्यां पुरुषः स्मृतः। प्रजासर्गकरो ब्रह्मा तमुवाच जगत्पतिः॥ सृज प्रजाः पुत्र सर्वा मुखतः पादतस्तथा। श्रेयस्तव विधास्यामि बलं तेजश्च सुव्रत॥ धर्मं च मत्तो गृह्णीष्व सात्वतं नाम नामतः। तेन सृष्टं कृतयुगं स्थापयस्व यथाविधि॥ ततो ब्रह्मा नमश्चक्रे देवाय हरिमेधसे। धर्मं चाम्यं स जग्राह सरहस्यं ससंग्रहम्॥ आरण्यकेन सहितं नारायणमुखोद्भवम्। उपदिश्य ततो धर्मं ब्रह्मणेऽमिततेजसे॥ त्वं कर्ता युगधर्माणां निराशी:कर्मसंज्ञितम्। जगाम तमसः पारं यत्राव्यक्तं व्यवस्थितम्॥ ततोऽथ वरदो देवो ब्रह्मा लोकपितामहः। असृजत् स ततो लोकान् कृत्स्नान् स्थावरजङ्गमान्॥ ततः प्रावर्तत तदा आदौ कृतयुगं शुभम्। ततो हि सात्वतो धर्मो व्याप्य लोकानवस्थितः॥ तेनैवाद्येन धर्मेण ब्रह्मा लोकविसर्गकृत्। पूजयामास देवेशं हरि नारायणं प्रभुम्॥ धर्मप्रतिष्ठाहेतोश्च मनुं स्वारोचिषं ततः। अध्यापयामास तदा लोकानां हितकाम्यया॥ ततः स्वरोचिवः पुत्रं स्वयं शङ्खपदं नृप। अध्यापगत् पुराव्यग्रः सर्वलोकपतिर्विभुः॥ ततः शङ्खपदश्चापि पुत्रमात्मजमौरसम्। दिशां पालं सुवर्णाभमध्यापयत भारत। सोऽन्तर्दधे ततो भूयः प्राप्ते त्रेतायुगे पुनः॥ नासिक्ये जन्मनि पुरा ब्रह्मणः पार्थिवोत्तम। धर्ममतं स्वयं देवो हरिर्नारायणः प्रभुः॥ तज्जगादारविन्दाक्षो ब्रह्मणः पश्यतस्तदा। सनत्कुमारो भगवांस्तत: प्राधीतवान् नृप॥ सनत्कुमारादपि च वीरणो वै प्रजापतिः। कृतादौ कुरुशार्दूल धर्ममेतदधीतवान्॥ वीरणचाप्यधीत्यैनं रैभ्याय मुनये ददौ। रैभ्यः पुत्राय शुद्धाय सुव्रताय सुमेधसे॥ कुक्षिनाम्ने स प्रददौ दिशां पालाय धर्मिणे। ततोऽप्यन्तर्दधे भूयो नारायणमुखोद्भवः॥ अण्डजे जन्मनि पुनर्ब्रह्मणे हरियोनये। एष धर्मः समुद्भूतो नारायणमुखात् पुनः॥ गृहीतो ब्रह्मणा राजन् प्रयुक्तश्च यथाविधि। अध्यापिताश्च मुनयो नाम्ना बर्हिषदो नृप॥ बर्हिषद्भ्यश्च सम्प्राप्तः सामवेदान्तगं द्विजम्। ज्येष्ठं नामाभिविख्यातं ज्येष्ठसामव्रतो हरिः॥ ज्येष्ठाच्चाप्यनुसंक्रान्तो राजानमविकम्पनम्। अन्तर्दधे ततो राजन्नेष धर्मः प्रभो हरेः॥ यदिदं सप्तमं जन्म पद्मजं ब्रह्मणो नृप। तत्रैव धर्मः कथितः स्वयं नारायणेन ह॥ पितामहाय शुद्धाय युगादौ लोकधारिणे। पितामहश्च दक्षाय धर्ममेतं पुरा ददौ॥ ततो ज्येष्ठे तु दौहित्रे प्रादाद् दक्षो नृपोत्तम। आदित्ये सवितुर्येष्ठे विवस्थाजगृहे ततः॥ त्रेतायुगादौ च ततो विवस्वान् मनवे ददौ। मनुश्च लोकभूत्यर्थं सुतायेक्ष्वाकवे ददौ॥ इक्ष्वाकुणा च कथितो व्याप्य लोकानवस्थितः। गमिष्यति क्षयान्त च पुनर्नारायणं नृप॥ यतीनां चापि यो धर्मः स ते पूर्वं नृपोत्तमा कथितो हरिगीतासु समासविधिकल्पितः॥ नारदेन सुसम्प्राप्तः सरहस्यः ससंग्रहः। एष धर्मो जगन्नाथात् साक्षान्नारायणान्नृप॥ एवमेष महान् धर्म आद्यो राजन् सनातनः। दुर्विज्ञेयो दुष्करश्च सात्वतैर्धार्यते सदा॥ धर्मज्ञानेन चैतेन सुप्रयुक्तेन कर्मणा। अहिंसाधर्मयुक्तेन प्रीयते हरिरीश्वरः॥ एकव्यूहविभागो वा क्वचिद् द्विर्गृहसंज्ञितः। त्रियूँहश्चापि संख्यातश्चतुर्दूहश्च दृश्यते॥ हरिरेव हि क्षेत्रज्ञो निर्ममो निष्कलस्तथा। जीवश्च सर्वभूतेषु पञ्चभूतगुणातिगः॥ मनश्च प्रथितं राजन् पञ्चेन्द्रियसमीरणम्। एष लोकविधिधीमानेष लोकविसर्गकृत्॥ अकर्ता चैव कर्ता च कार्य कारणमेव च। यथेच्छति तथा राजन् क्रीडते पुरुषोऽव्ययः॥ एष एकान्तधर्मस्ते कीर्तितो नृपसत्तम। मया गुरुप्रसादेन दुर्विज्ञेयोऽकृतात्मभिः॥ एकान्तिनो हि पुरुषा दुर्लभा बहवो नृप। यद्येकान्तिभिराकीर्णं जगत् स्यात् कुरुनन्दन॥ अहिंसकैरात्मविद्भिः सर्वभूतहिते रतैः। भवेत् कृतयुगप्राप्तिराशी: कर्मविवर्जिताः॥ एवं स भगवान् व्यासो गुरुर्मम विशाम्पते। कथयामास धर्मज्ञो धर्मराज्ञे द्विजोत्तमः॥ ऋषीणां संनिधौ राजशृण्वतोः कृष्णभीष्मयोः। तस्याप्यकथयत् पूर्वं नारदः सुमहातपाः॥ देवं परमकं ब्रह्म श्वेतं चन्द्राभमच्युतम्। यत्र चैकान्तिनो यान्ति नारायणपरायणाः॥ जनमेजय उवाच एवं बहुविधं धर्मं प्रतिबुद्धैर्निषेवितम्। न कुर्वन्ति कथं विप्रा अन्ये नानाव्रते स्थिताः॥ वैशम्पायन उवाच तिस्रः प्रकृतयो राजन् देहबन्धेषु निर्मिताः। सात्त्विकी राजसी चैव तामसी चैव भारत॥ देहबन्धेषु पुरुषः श्रेष्ठः कुरुकुलोद्वह। सात्त्विकः पुरुषव्याघ्र भवेन्मोक्षाय निश्चितः॥ अत्रापि स विजानाति पुरुषं ब्रह्मवित्तमम्। नारायणपरो मोक्षस्ततो वै सात्त्विकः स्मृतः॥ मनीषितं च प्राप्नोति चिन्तयन् पुरुषोत्तमम्। एकान्तभक्तिः सततं नारायणपरायणः॥ मनीषिणो हि ये केचिद् यतयो मोक्षधर्मिणः। तेषां विच्छिन्नतृष्णानां योगक्षेमवहो हरिः॥ जायमानं हि पुरुष यं पश्येन्मधुसूदनः। सात्त्विकस्तु स विज्ञेयो भवेन्मोक्षे च निश्चितः॥ सांख्ययोगेन तुल्यो हि धर्म एकान्तसेवितः। नारायणात्मके मोक्षे ततो यान्ति परां गतिम्॥ नारायणेन दृष्टस्तु प्रतिबुद्धो भवेत् पुमान्। एवमात्मेच्छया राजन् प्रतिबुद्धो न जायते॥ राजसी तामसी चैव व्यामिश्रे प्रकृती स्मृते। तदात्मकं हि पुरुषं जायमानं विशाम्पते॥ प्रवृत्तिलक्षणैर्युक्तं नावेक्षति हरिः स्वयम्। पश्यत्येनं जायमानं ब्रह्मा लोकपितामहः॥ रजसा तमसा चैव मानसं समभिप्लुतम्। कामं देवा ऋषयश्च सत्त्वस्था नृपसत्तम॥ हीनाः सत्त्वेन शुद्धेन ततो वैकारिकाः स्मृताः। जनमेजय उवाच कथं वैकारिको गच्छेत् पुरुषः पुरुषोत्तमम्॥ वद सर्वं यथादृष्टं प्रवृत्तिं च यथाक्रमम्। वैशम्पायन उवाच सुसूक्ष्मं सत्त्वसंयुक्तं संयुक्तं त्रिभिरक्षरैः॥ पुरुषः पुरुषं गच्छेनिष्क्रियः पञ्चविंशकः। एवमेकं सांख्ययोगं वेदारण्यकमेव च॥ परस्पराङ्गान्येतानि पाञ्चरात्रं च कथ्यते। एष एकान्तिनां धर्मो नारायणपरात्मकः॥ स्तमेव राजनपुनराविशन्ति। इमे तथा ज्ञानमहाजलौघा नारायणं वै पुनराविशन्ति॥ एष ते कथितो धर्मः सात्वतः कुरुनन्दन। कुरुरुष्वैनं यथान्यायं यदि शक्तोऽसि भारत्॥ एवं हि स महाभागो नारदो गुरवे मम। श्वेतानां यतिनां चाह एकान्तगतिमव्ययाम्॥ व्यासश्चकथयत् प्रीत्या धर्मपुत्राय धीमते। स एवायं मया तुभ्यमाख्यातः प्रसृतो गुरोः॥ इत्थं हि दुश्चरो धर्म एष पार्थिवसत्तम। यथैव त्वं तथैवान्ये भवन्तीह विमोहिताः॥ कृष्ण एव हि लोकानां भावनो मोहनस्तथा। संहारकारकश्चैव कारणं च विशांपते॥ जनमेजय उवाच सांख्यं योगः पाञ्चरात्रं वेदारण्यकमेव च। ज्ञानान्येतानि ब्रह्मर्षे लोकेषु प्रचरन्ति ह॥ किमेतान्येकनिष्ठानि पृथनिष्ठानि वा मुने। प्रब्रूहि वै मया पृष्टः प्रवृत्तिं च यथाक्रमम्॥ वैशम्पायन उवाच जज्ञे बहुशं परमत्युदारं यं द्वीपमध्ये सुतमात्मयोगात्। पराशरात् सत्यवती महर्षि तस्मै नमोऽज्ञानतमोनुदाय॥ पितामहाद् यं प्रवदन्ति षष्ठं महर्षिमायविभूतियुक्तम्। नारायणस्यांशजमेकपुत्रं द्वैपायनं वेद महानिधानम्॥ रायणो ब्रह्ममहानिधानम्। ससर्ज पुत्रार्थमुदारतेजा व्यासं महात्मानमजं पुराणम्॥ जनमेजय उवाच त्वयैव कथितं पूर्वं सम्भवे द्विजसत्तम। वसिष्ठस्य सुतः शक्तिः शक्तिपुत्रः पराशरः॥ पराशरस्य दायादः कृष्णद्वैपायनो मुनिः। भूयो नारायणसुतं त्वमेवैनं प्रभाषसे॥ किमतः पूर्वजं जन्म व्यासस्यामिततेजसः। कथयस्वोत्तममते जन्म नारायणोद्भवम्॥ वैशम्पायन उवाच वेदार्थान् वेत्तुकामस्य धर्मिष्ठस्य तपोनिधेः। गुरोर्मे ज्ञाननिष्ठस्य हिमवत्पाद आसतः॥ कृत्वा भारतमाख्यानं तप:श्रान्तस्य धीमतः। शुश्रूषां तत्परा राजन् कृतवन्तो वयं तदा॥ सुमन्तुजैमिनिश्चैव पैलश्च सुदृढव्रतः। अहं चतुर्थः शिष्यो वै शुकोव्यासात्मजस्तथा॥ एभिः परिवृतो व्यास: शिष्यैः पञ्चभिरुत्तमैः। शुशुभे हिमवत्पादे भूतैर्भूतपतिर्यथा॥ वेदानावर्तयन् साङ्गान् भारतार्थांश्च सर्वशः। तमेकमनसं दान्तं युक्ता वयमुपास्महे॥ कथान्तरेऽथ कस्मिंश्चित् पृष्टोऽस्माभिर्द्विजोत्तमः। वेदार्थान् भारतार्थांश्च जन्म नारायणात् तथा॥ स पूर्वमुक्त्वा वेदार्थान् भारतार्थांश्च तत्त्ववित्। नारायणादिदं जन्म व्याहर्तुमुपचक्रमे॥ शृणुध्वमाख्यानवरमिदमायमुत्तमम्। आदिकालोद्भवं विप्रास्तपसाधिगतं मया॥ प्राप्ते प्रजाविसर्गे वै सप्तमे पद्मसम्भवे। नारायणो महायोगी शुभाशुभविवर्जितः॥ ससृजे नाभितः पूर्वं ब्रह्माणममितप्रभः। ततः स प्रादुरभवदथैनं वाक्यमब्रवीत्॥ मम त्वं नाभितो जातः प्रजासर्गकरः प्रभुः। सृज प्रजास्त्वं विविधा ब्रह्मन् सजडपण्डिताः॥ स एवमुक्तो विमुखश्चिन्ताव्याकुलमानसः। प्रणम्य वरदं देवमुवाच हरिमीश्वरम्॥ का शक्तिर्मम देवेश प्रजाः स्रष्टुं नमोऽस्तु ते। अप्रज्ञावानहं देव विधत्स्व यदनन्तरम्॥ स एवमुक्तो भगवान् भूत्वाथान्तर्हितस्ततः। चिन्तयामास देवेशो बुद्धिं बुद्धिमतां वरः॥ स्वरूपिणी ततो बुद्धिरुपतस्थे हरि प्रभुम्। योगेन चैनां निर्योगः स्वयं नियुयुजे तदा॥ स तामैश्वर्ययोगस्थां बुद्धिं गतिमती सतीम्। उवाच वचनं देवो बुद्धिं वै प्रभुरव्ययः॥ ब्रह्माणं प्रविशस्वेति लोकसृष्ट्यर्थसिद्धये। ततस्तमीश्वरादिष्टा बुद्धिः क्षिप्रं विवेश सा॥ अथैनं बुद्धिसंयुक्तं पुनः स ददृशे हरिः। भूयश्चैव वचः प्राह सृजेमा विविधाः प्रजाः॥ बाढमित्येव कृत्वासौ यथाऽऽज्ञां शिरसा हरेः। एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत॥ प्राप चैनं मुहूर्तेन संस्थानं देवसंज्ञितम्। तां चैव प्रकृति प्राप्य एकीभावगतोऽभवत्॥ अथास्य बुद्धिरभवत् पुनरन्या तदा किला सृष्टाः प्रजा इमाः सर्वा ब्रह्मणा परमेष्ठिना॥ दैत्यदानवगन्धर्वरक्षोगणसमाकुला। जाता हीयं वसुमती भाराकान्ता तपस्विनी।॥ बहवो बलिनः पृथ्व्यां दैत्यदानवराक्षसाः। भविष्यन्ति तपोयुक्ता वरान् प्राप्स्यन्ति चोत्तमान्॥ अवश्यमेव तैः सर्वैर्वरदानेन दर्पितैः। बाधितव्याः सुरगणा ऋषयश्च तपोधनाः॥ तत्र न्याय्यमिदं कर्तुं भारावतरणं मया। अथ नानासमुद्भूतैर्वसुधायां यथाक्रमम्॥ निग्रहेण च पापानां साधूनां प्रग्रहेण च। इयं तपस्विनी सत्या धारयिष्यति मेदिनी॥ मया ह्येषा हि ध्रियते पातालस्थेन भोगिना। मया धृता धारयति जगद् विश्वं चराचरम्॥ तस्मात् पृथ्व्याः परित्राणं करिष्ये सम्भवं गतः। एवं स चिन्तयित्वा तु भगवान् मधुसूदनः॥ रूपाण्यनेकान्यसृजत् प्रादुर्भावे भवाय सः। वाराहं नारसिंह च वामनं मानुषं तथा॥ एभिर्मया निहन्तव्या दुर्विनीताः सुरारयः। अथ भूयो जगत्स्रष्टा भोःशब्देनानुनादयन्॥ सरस्वतीमुच्चचार तत्र सारस्वतोऽभवत्। अपान्तरतमा नाम सुतो वाक्सम्भवः प्रभुः॥ भूतभव्यभविष्यज्ञः सत्यवादी दृढव्रतः। तमुवाच नतं मूर्धा देवानामादिरव्ययः॥ वेदाख्याने श्रुतिः कार्या त्वया मतिमतां वर। तस्मात् कुरु यथाऽऽज्ञप्तं ममैतद् वचनं मुने॥ सेन भिन्नास्तदा वेदा मनोः स्वायम्भुवेऽन्तरे। ततस्तुतोष भगवान् हरिस्तेनास्य कर्मणा॥ तपसा च सुतप्तेन यमेन नियमेन च। मन्वन्तरेषु पुत्रत्वमेवमेव प्रवर्तकः॥ भविष्यस्यचलो ब्रह्मन्नप्रधृष्यश्च नित्यशः। पुनस्तिष्ये च सम्प्राप्ते कुरवो नाम भारताः॥ भविष्यन्ति महात्मानो राजानः प्रथिता भुवि। तेषां त्वत्तः प्रसूतानां कुलभेदो भविष्यति॥ परस्परविनाशार्थ त्वामृते द्विजसत्तम। तत्राप्यनेकधा वेदान् भेत्स्यते तपसान्वितः॥ कृष्णे युगे च सम्प्राप्ते कृष्णवर्णो भविष्यसि। धर्माणां विविधानां च कर्ता ज्ञानकरस्तथा। भविष्यसि तपोयुक्तो न च रागाद् विमोक्ष्यसे।॥ वीतरागश्च पुत्रस्ते परमात्मा भविष्यति। महेश्वरप्रसादेन नैतद् वचनमन्यथा॥ यं मानसं वै प्रवदन्ति विप्राः पितामहस्योत्तमबुद्धियुक्तमा वसिष्ठमयं च तपोनिधानं यस्यातिसूर्यं व्यतिरिच्यते भाः॥ तस्यान्वये चापि ततो महर्षिः पराशरो नाम महाप्रभावः। पिता स ते वेदनिधिर्वरिष्ठो महातपा वै तपसो निवासः॥ कानीनगर्भः पितृकन्यकायां तस्मादृषेस्त्वं भविता च पुत्रः॥ भूतभव्यभविष्याणां छिन्नसर्वार्थसंशयः। ये ह्यतिक्रान्तकाः पूर्वं सहस्रयुगपर्ययाः॥ तांश्च सर्वान् मयोद्दिष्टान् द्रक्ष्यसे तपसान्वितः। पुनर्द्रक्ष्यसि चानेकसहस्रयुगपर्ययान्॥ अनादिनिधनं लोके चक्रहस्तं च मां मुने। अनुध्यानान्मम मुने नैतद् वचनमन्यथा।॥ भविष्यति महासत्त्व ख्यातिश्चाप्यतुला तव। शनैश्चरः सूर्यपुत्रो भविष्यति मनुर्महान्॥ तस्मिन्मन्वन्तरे चैव मन्वादिगणपूर्वकः। त्वमेव भविता वत्स मत्प्रसादान्न संशयः॥ यत्किचिद् विद्यते लोके सर्वं तन्मद्विचेष्टितम्। अन्यो ह्यन्यं चिन्तयति स्वच्छन्दं विदधाम्यहम्॥ एवं सारस्वतमृषिमपान्तरतमं तथा। उक्त्वा वचनमीशानः साधयस्वेत्यथाब्रवीत्॥ सोऽहं तस्य प्रसादेन देवस्य हरिमेधसः। अपान्तरतमा नाम ततो जातोऽऽज्ञया हरेः। पुनश्च जातो विख्यातो वसिष्ठकुलनन्दनः॥ तदेतत् कथितं जन्म मा पूर्वकमात्मनः। नारायणप्रसादेन तथा नारायणांशजम्॥ मया हि सुमहत् तप्तं तपः परमदारुणम्। पुरा मतिमतां श्रेष्ठाः परमेण समाधिना॥ एतद् वः कथितं सर्वं यन्मां पृच्छत पुत्रकाः। पूर्वजन्म भविष्यं च भक्तानां स्नेहतो मया॥ वैशम्पायन उवाच एष ते कथितः पूर्वं सम्भवोऽस्मद्गुरोर्नृप। व्यासस्याक्लिष्टमनसो यथा पृष्टः पुनः शृणु॥ सांख्यं योगः पाञ्चरात्रं वेदाः पाशुपतं तथा। ज्ञानान्येतानि राजर्षे विद्धि नामामतानि वै॥ सांख्यस्य वक्ता कपिलः परमर्षिः स उच्यते। हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः॥ अपान्तरतमाश्चैव वेदाचार्यः स उच्यते। प्राचीनगर्भ तमृषि प्रवदन्तीह केचन॥ उमापतिर्भूतपति: श्रीकण्ठो ब्रह्मणः सुतः। उक्तवानिदमव्यग्रो ज्ञानं पाशुपतं शिवः॥ पाञ्चरात्रस्य कृत्स्नस्य वेत्ता तु भगवान् स्वयम्। सर्वेषु च नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते॥ यथागमं यथाज्ञानं निष्ठा नारायणः प्रभुः। न चैनमेवं जानन्ति तमोभूता विशाम्पते॥ तमेव शास्त्रकर्तारः प्रवदन्ति मनीषिणः। निष्ठां नारायणमृर्षि नान्योऽस्तीति वचो मम॥ नि:संशयेषु सर्वेषु नित्यं वसति वै हरिः। ससंशयान् हेतुबलान् नाध्यावसति माधवः॥ पाञ्चरात्रविदो ये तु यथाक्रमपरा नृप। एकान्तभावोपगतास्ते हरि प्रविशन्ति वै॥ सांख्यं च योगं च सनातने द्वे वेदाश्च सर्वे निखिलेन राजन्। सर्वैः समस्तैर्ऋषिभिर्निरुक्तो नारायणो विश्वमिदं पुराणम्॥ शुभाशुभं कर्म समीरितं यत् प्रवर्तते सर्वलोकेषु किञ्चित्। तस्मादृषेस्तद्भवतीति विद्याद् दिव्यन्तरिक्षे भुवि चाप्सु चेति॥ जनमेजय उवाच वहवः पुरुषा ब्रह्मन्नुताहो एक एव तु। को ह्यत्र पुरुषः श्रेष्ठः को वा योनिरिहोच्यते॥ वैशम्पायन उवाच वहवः पुरुषा लोके सांख्ययोगविचारणे। नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह॥ बहूनां पुरुषाणां च यथैका योनिरुच्यते। तथा तं पुरुषं विश्वव्याख्यास्यामि गुणाधिकम्॥ नमस्कृत्वा च गुरवे व्यासाय विदितात्मने। तपोयुक्ताय दान्ताय वन्द्याय परमर्षये॥ इदं पुरुषसूक्तं हि सर्ववेदेषु पार्थिव। ऋतं सत्यं च विख्यातमृषिसिंहेन चिन्तितम्॥ उत्सर्गेणापवादेन ऋषिभिः कपिलादिभिः। अध्यात्मचिन्तामाश्रित्य शास्त्रााण्युक्तानि भारत॥ समासतस्तु यद् व्यासः पुरुषैकत्वमुक्तवान्। तत् तेऽहं सम्प्रवक्ष्यामि प्रसादादमितौजसः॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। ब्रह्मणा सह संवादं त्र्यम्बकस्य विशाम्पते॥ क्षीरोदस्य समुद्रस्य मध्ये हाटकसप्रभः। वैजयन्त इति ख्यातः पर्वतप्रवरो नृप॥ तत्राध्यात्मगति देव एकाकी प्रविचिन्तयन्। वैराजसदनान्नित्यं वैजयन्तं निषेवते॥ अथ तत्रासतस्तस्य चतुर्वक्त्रस्य धीमत। ललाटप्रभवः पुत्रः शिव आगाद् यदृच्छया॥ आकाशेन महायोगी पुरा त्रिनयनः प्रभुः। ततः खानिपपाताशु धरणीधरमूर्धनि॥ अग्रतश्चाभवत् प्रीतो ववन्दे चापि पादयोः। तं पादयोर्निपतितं दृष्ट्वा सव्येन पाणिना॥ उत्थापयामास तदा प्रभुरेकः प्रजापतिः। उवाच चैनं भगवांश्चिरस्यागतमात्मजम्॥ पितामह उवाच स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मेऽन्तिकम्। कच्चित् ते कुशलं पुत्र स्वाध्यायतपसोः सदा॥ नित्यमुग्रतपास्त्वं हि ततः पृच्छामि ते पुनः॥ रुद्र उवाच त्वत्प्रसादेन भगवन् स्वाध्यायतपसोर्मम। कुशलं चाव्ययं चैव सर्वस्य जगतस्त्वथ॥ चिरदृष्टो हि भगवान् वैराजसदने मया। ततोऽहं पर्वतं प्राप्तस्त्विमं त्वत्पादसेवितम्॥ कौतूहलं चापि हि मे एकान्तगमनेन ते। नैतत् कारणमल्पं हि भविष्यति पितामह॥ किं नु तत्सदनं श्रेष्ठं क्षुत्पिपासाविवर्जितम्। सुरासुरैरध्युषितं ऋषिभिश्चरामितप्रभैः॥ गन्धर्वैरप्सरोभिश्च सततं संनिषेवितम्। उत्सृज्येम गिरिवरमेकाकी प्राप्तवानसि॥ ब्रह्मोवाच वैजयन्तो गिरिवरः सततं सेव्यते मया। अत्रैकाग्रेण मनसा पुरुषश्चिन्त्यते विराट्॥ रुद्र उवाच वहवः पुरुषा ब्रह्मंस्त्वया सृष्टाः स्वयम्भुवा। सृज्यन्ते चापरे ब्रह्मन् स चैकः पुरुषो विराट॥ को ह्यसौ चिन्त्यते ब्रह्मस्त्वयैकः पुरुषोत्तमः। एतन्मे संशयं ब्रूहि महत् कौतूहलं हि मे॥ ब्रह्मोवाच बहवः पुरुषाः पुत्र त्वया ये समुदाहृताः। एवमेतदतिक्रान्तं द्रष्टव्यं नैवमित्यपि॥ आधारं तु प्रवक्ष्यामि एकस्य पुरुषस्य ते। बहूनां पुरुषाणां स यथैका योनिरुच्यते॥ तथा तं पुरुषं विश्वं परमं सुमहत्तमम्। निर्गुणं निर्गुणा भूत्वा प्रविशन्ति सनातनम्॥ सुमहत्तमम्। निर्गुणं निर्गुणा भूत्वा प्रविशन्ति सनातनम्॥ ब्रह्मोवाच शृणु पुत्र यथा ह्येष पुरुषः शाश्वतोऽव्ययः। अक्षयश्चाप्रमेयश्च सर्वगश्च निरुच्यते॥ न स शक्यस्त्वया द्रष्टुं मयान्यैर्वापि सत्तम। सगुणो निर्गुणो विश्वोज्ञानदृश्योह्यसौ स्मृतः॥ अशरीरः शरीरेषु सर्वेषु निवसत्यसौ। वसन्नपि शरीरेषु न स लिप्यति कर्मभिः॥ ममान्तरात्मा तव च ये चान्ये देहिसंज्ञिताः। सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित् क्वचित्॥ विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः। एकश्चरति क्षेत्रेषु स्वैरचारी यथासुखम्॥ क्षेत्राणि हि शरीराणि बीजं चापि शुभाशुभम्। तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते॥ नागतिर्न गतिस्तस्य ज्ञेया भूतेषु केनचित्। सांख्येन विधिना चैव योगेन च यथाक्रमम्॥ चिन्तयामि गतिं चास्य न गतिं वेधि चोत्तराम्। यथाज्ञानं तु वक्ष्यामि पुरुषं तु सनातनम्॥ तस्यैकत्वं महत्त्वं च स चैकः पुरुषः स्मृतः। महापुरुषशब्दं स बिभत्र्येकः सनातनः॥ एको हुताशो बहुधा समिध्यते एकः सूर्यस्तपसो योनिरेका। एको वायुर्बहुधा वाति लोके महोदधिश्चाम्भसां योनिरेकः। स्तं निर्गुणं पुरुषं चाविशन्ति।॥ हित्वा गुणमयं सर्वं कर्म हित्वा शुभाशुभम्। उभे सत्यानृते त्यक्त्वा एवं भवति निर्गुणः॥ अचिन्त्यं चापि तं ज्ञात्वा भावसूक्ष्मं चतुश्यम्। विचरेद् योऽसमुन्नद्धः स गच्छेत् पुरुषं शुभम्॥ एवं हि परमात्मानं केचिदिच्छन्ति पण्डिताः। एकात्मानं तथाऽऽत्मानमपरे ज्ञानचिन्तकाः॥ तत्र य: परमात्मा हि स नित्यं निर्गुणः स्मृतः। स हि नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः॥ न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा। कर्मात्मा त्वपरो योऽसौ मोक्षबन्धैः स युज्यते॥ स सप्तदशकेनापि राशिना युज्यते च सः। एवं बहुविधः प्रोक्तः पुरुषस्ते यथाक्रमम्॥ यत् तत्कृत्स्नं लोकतन्त्रस्य धाम वेद्यं परं बोधनीयं स बोद्धा। मन्ता मन्तव्यं प्राशिता प्राशनीयं घ्राता प्रेयं स्पर्शिता स्पर्शनीयम्॥ द्रष्टा द्रष्टव्यं श्राविता श्रावणीयं ज्ञाता ज्ञेयं सगुणं निर्गुणं च। यद् वै प्रोक्तं तात सम्यक् प्रधानं नित्यं चैतच्छाश्वतं चाव्ययं च॥ यद् वै सूते धातुराद्यं विधानं तद् वै विप्राः प्रवदन्तेऽनिरुद्धम्। यद् वै लोके वैदिकं कर्म साधु आशीर्युक्तं तद्धि तस्यैव भाव्यम्॥ देवाः सर्वे मुनयः साधु शान्तास्तं प्राग्वंशे यज्ञभागैर्यजन्ते। अहं ब्रह्मा आद्य ईशः प्रजानां तस्माज्जातस्त्वं च मत्तः प्रसूतः॥ मत्तो जगज्जङ्गमं स्थावरं च सर्वे वेदाः सरहस्या हि पुत्र॥ चतुर्विभक्तः पुरुषः स क्रीडति यथेच्छति। एवं स भगवान् स्वेन ज्ञानेन प्रतिबोधितः॥ एतत् ते कथितं पुत्र यथावदनुपृच्छतः। सांख्यज्ञाने तथा योगे यथावदनुवर्णितम्॥ युधिष्ठिर उवाच धर्माः पितामहेनोक्ता मोक्षधर्माश्रिताः शुभाः। धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हति मे भवान्।॥ भीष्म उवाच सर्वत्र विहितो धर्मः स्वर्गः सत्यफलं महत्। बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया॥ यस्मिन् यस्मिनश्च विषये यो यो याति विनिश्चयम्। स तमेवाभिजानाति नान्यं भरतसत्तम॥ इमां च त्वं नरव्याघ्र श्रोतुमर्हसि मे कथाम्। पुरा शक्रस्य कथितां नारदेन महर्षिणा॥ महर्षिारदो राजन् सिद्धस्त्रैलोक्यसम्मतः। पर्येति क्रमशो लोकान् वायुरव्याहतो यथा॥ स कदाचिन्महेष्वास देवराजालयं गतः। सत्कृतश्च महेन्द्रेण प्रत्यासन्नगतोऽभवत्॥ तं कृतक्षणमासीनं पर्यपृच्छच्छचीपतिः। महर्षे किंचिदाश्चर्यमस्ति दृष्टं त्वयानघ॥ यदा त्वमपि विप्रर्षे त्रैलोक्यं सचराचरम्। जातकौतूहलो नित्यं सिद्धश्चरसि साक्षिवत्॥ न ह्यस्त्यविदितं लोके देवर्षे तव किंचन। श्रुतं वाप्यनुभूतं वा दृष्टं वा कथयस्व मे॥ तस्मै राजन् सुरेन्द्राय नारदो वदतां वरः। आसीनायोपपन्नाय प्रोक्तवान् विपुलां कथाम्॥ यथा येन च कल्पेन स तस्मै द्विजसत्तमः। कथां कथितवान् पृष्टस्तथा त्वमपि मे शृणु॥ भीष्म उवाच आसीत् किल नरश्रेष्ठ महापद्ये पुरोत्तमे। गङ्गाया दक्षिणे तीरे कश्चिद् विप्रः समाहितः। सौम्यः सोमान्वये वेदे गताध्वा छिन्नसंशयः। धर्मनित्यो जितक्रोधो नित्यतृप्तो जितेन्द्रियः॥ तपःस्वाध्यायनिरतः सत्यः सज्जनसम्मतः। न्यायप्राप्तेन वित्तेन स्वेन शीलेन चान्वितः॥ ज्ञातिसम्बन्धिविपुले सत्त्वाद्याश्रयसम्मिते। कुले महति विख्याते विशिष्टां वृत्तिमास्थितः॥ स पुत्रान् बहुलान् दृष्ट्वा विपुले कर्मणि स्थितः। कुलधर्माश्रितो राजन् धर्मचर्यास्थितोऽभवत्॥ ततः स धर्मं वेदोक्तं तथा शास्त्रोक्तमेव चा शिष्टाचीर्णं च धर्मं च त्रिविधं चिन्त्य चेतसा॥ किन्नु मे स्याच्छुभं कृत्वा किं कृतं किं परायणम्। इत्येवं खिद्यते नित्यं न च याति विनिश्चयम्॥ तस्यैवं खिद्यमानस्य धर्मं परममास्थितः। कदाचिदतिथिः प्राप्तो ब्राह्मणः सुसमाहितः॥ स तस्मै सक्रियां चक्रे क्रियायुक्तेन हेतुना। विश्रान्तं सुसमासीनमिदं वचनमब्रवीत्॥ ब्राह्मण उवाच समुत्पन्नाभिधानोऽस्मि वाङ्माधुर्येण तेऽनघ। मित्रत्वमभिपन्नस्त्वं किंचिद् वक्ष्याम तच्छृणु॥ गृहस्थधर्मं विप्रेन्द्र कृत्वा पुत्रगतं त्वहम्। धर्म परमकं कुर्यां को हि मार्गो भवेद् द्विज॥ अहमात्मानमास्थाय एक एवात्मनि स्थितिम्। कर्तुं काङ्क्षामि नेच्छामि बद्धः साधारणैर्गुणैः॥ यावदेतदतीतं मे वयः पुत्रफलाश्रितम्। तावदिच्छामि पाथेयमादातुं पारलौकिकम्॥ अस्मिन् हि लोकसम्भारे परं पारमभीप्सतः। उत्पन्ना मे मतिरियं कुतो धर्ममयः प्लवः॥ संयुज्यमानानि निशम्य लोके निर्यात्यमानानि च सात्त्विकानि। दृष्ट्वा तु धर्मध्वजकेतुमाला प्रकीर्यमाणामुपरि प्रजानाम्॥ न मे मनो रज्यति भोगकाले दृष्ट्वा यतीन्प्रार्थयतः परत्र। तेनातिथे बुद्धिबलाश्रयेण धर्मेण धर्मे विनियुक्ष्व मां त्वम्॥ सोऽतिथिर्वचनं तस्य श्रुत्वा धर्माभिभाषिणः। प्रोवाच वचनं श्लक्ष्णं प्राज्ञो मधुरया गिरा॥ अतिथिरुवाच अहमप्यत्र मुह्यामि ममाप्येष मनोरथः। न च संनिश्चयं यामि बहुद्वारे त्रिविष्टपे॥ केचिन्मोक्षं प्रशंसन्ति केचिद् यज्ञफलं द्विजाः। वानप्रस्थाश्रयाः केचिद् गार्हस्थ्यं केचिदास्थिताः॥ राजधर्माश्रयं केचित् केचिदात्मफलाश्रयम्। गुरुधर्माक्षयं केचित्केचिद् वाक्संयमाश्रयम्॥ मातरं पितरं केचिच्छुश्रूषन्तो दिवं गताः। अहिंसया परे स्वर्ग सत्येन च तथा परे॥ आहवेऽभिमुखाः केचिनिहतास्त्रिदिवं गताः। केचिदुव्रतैः सिद्धाः स्वर्गमार्ग समाश्रिताः॥ केचिदध्ययने युक्ता वेदव्रतपराः शुभाः। बुद्धिमन्तो गताः स्वर्गं तुष्टात्मानो जितेन्द्रियाः॥ आर्जवेनापरे युक्ता निहतानार्जवर्जनैः। ऋजवो नाकपृष्ठे वै शुद्धात्मानः प्रतिष्ठिताः॥ एवं बहुविधैर्लोकधर्मद्वारैरनावृतैः। ममापि मतिराविग्ना मेघलेखेव वायुना॥ अतिथिरुवाच उपदेशं तु ते विप्र करिष्येऽहं यथाक्रमम्। गुरुणा मे यथाख्यातमर्थतत्त्वं तु मे शृणु॥ यत्र पूर्वाभिसर्गे वै धर्मचक्र प्रवर्तितम्। नैमिषे गोमतीतीरे तत्र नागाह्वयं पुरम्॥ समग्रैस्त्रिदशैस्तत्र इष्टमासीद् द्विजर्षभ। योन्द्रातिक्रमं चक्रे मान्धाता राजसत्तमः॥ कृताधिवासो धर्मात्मा तत्र चक्षुःश्रवा महान्। पद्मनाभो महानागः पद्म इत्येव विश्रुतः॥ स वाचा कर्मणा चैव मनसा च द्विजर्षभ। प्रसादयति भूतानि त्रिविधे वर्त्मनि स्थितः॥ साम्ना भेदेन दानेन दण्डेनेति चतुर्विधम्। विषमस्थं समस्थं च चक्षुर्ध्यानेन रक्षति॥ तमतिक्रम्य विधिना प्रष्टुमर्हसि कासितम्। स ते परमकं धर्मं न मिथ्या दर्शयिष्यति॥ स हि सर्वातिथि गो बुद्धिशास्त्रविशारदः। गुणैरनुपमैर्युक्तः समस्तैराभिकामिकैः॥ प्रकृत्या नित्यसलिलो नित्यमध्ययने रतः। तपोदमाभ्यां संयुक्तो वृत्तेनानवरेण च॥ यज्वा दानपतिः क्षान्तो वृत्ते च परमे स्थितः। सत्यवागनसूयुश्च शीलवानियतेन्द्रियः।१०॥ शेषान्नभोक्ता वचनानुकूलो हितार्जवोत्कृष्टकृताकृतज्ञः। अवैरकृद् भूतहिते नियुक्तो गङ्गाह्रदाम्भोऽभिजनोपपन्नः॥ ब्राह्मण उवाच अतिभारोऽथ तस्यैव भारावतरणं महत्। पराश्वासकरं वाक्यमिदं मे भवतः श्रुतम्॥ अध्वक्लान्तस्य शयनं स्थानक्लान्तस्य चासनम्। तृषितस्य च पानीयं क्षुधार्तस्य च भोजनम्॥ ईप्सितस्येव सम्प्राप्तिरन्नस्य समयेऽतिथेः। एषितस्यात्मनः काले वृद्धस्यैव सुतो यथा॥ मनसा चिन्तितस्येव प्रीतिस्निग्धस्य दर्शनम्। प्रह्लादयति मां वाक्यं भवता यदुदीरितम्॥ दत्तचक्षुरिवाकाशे पश्यामि विमृशामि च। प्रज्ञानवचनाद्योऽयमुपदेशो हि मे कृतः॥ बाढमेवं करिष्यामि यथा मे भाषते भवान्। इमां हि रजनीं साधो निवसस्व मया सह॥ प्रभाते यास्यति भवान् पर्याश्वस्तः सुखोषितः। असौ हि भगवान् सूर्यो मन्दरश्मिरवाङ्मुखः॥ भीष्म उवाच ततस्तेन कृतातिथ्यः सोऽतिथिः शत्रुसूदन। उवास किल तां रात्रिं सह तेन द्विजेन वै॥ चतुर्थधर्मसंयुक्तं तयोः कथयतोस्तदा। व्यतीता सा निशा कृत्स्ना सुखेन दिवसोपमा॥ ततः प्रभातसमये सोऽतिथिस्तेन पूजितः। ब्राह्मणेन यथाशक्त्य स्वकार्यमभिकाङ्क्षता॥ ततः स विप्रः कृतकर्मनिश्चयः कृताभ्यनुज्ञः स्वजनेन धर्मकृत्। यथोपदिष्टं भुजगेन्द्रसंश्रयं जगाम काले सुकृतैकनिश्चयः॥ भीष्म उवाच अथ तेन नरश्रेष्ठ ब्राह्मणेन तपस्विना। निराहारेण वसता दुःखितास्ते भुजङ्गमाः॥ सर्वे सम्भूय सहिता ह्यस्य नागस्य बान्धवाः। भ्रातरस्तनया भार्या ययुस्तं ब्राह्मणं प्रति॥ तेऽपश्यन् पुलिने तं वै विविक्ते नियतव्रतम्। समासीनं निराहारं द्विजं जप्यपरायणम्॥ ते सर्वे समतिक्रम्य विप्रमभ्यर्च्य चासकृत्। ऊचुर्वाक्यमसंदिग्धमातिथेयस्य बान्धवाः॥ षष्ठो हि दिवसस्तेऽद्य प्राप्तस्येह तपोधन। न चाभिभाषसे किंचिदाहारं धर्मवत्सल॥ अस्मानभिगतश्चासि वयं च त्वामुपस्थिताः। कार्यं चातिथ्यमस्माभिर्वयं सर्वे कुटुम्बिनः॥ मूलं फलं वा पर्ण वा पयो वा द्विजसत्तम्। आहारहेतोरन्नं वा भोक्तुमर्हसि ब्राह्मण॥ त्यक्ताहारेण भवता वने निवसता त्वया। बालवृद्धमिदं सर्वं पीड्यते धर्मसंकटात्॥ न हि नो भ्रूणहा कश्चिज्जातापद्यनृतोऽपि वा। पूर्वाशी वा कुले ह्यस्मिन् देवतातिथिबन्धुषु॥ ब्राह्मण उवाच उपदेशेन युष्माकमाहारोऽयं कृतो मया। द्विरूनं दशरात्रं वै नागस्यागमनं प्रति॥ यद्यष्टरात्रेऽतिक्रान्ते नागमिष्यति पन्नगः। तदाहारं करिष्यामि तन्निमित्तमिदं व्रतम्॥ कर्तव्यो न च संतापो गम्यतां च यथागतम्। तन्निमित्तमिदं सर्वं नैतद् भेत्तसुमिहार्हथ॥ ते तेन समनुज्ञाता ब्राह्मणेन भुजङ्गमाः। स्वमेव भवनं जग्मुरकृतार्था नरर्षभ॥ भीष्म उवाच अथ काले बहुतिथे पूर्णे प्राप्तो भुजङ्गमः। दत्ताभ्यनुज्ञः स्वं वेश्म कृतकर्मा विवस्वता॥ तं भार्याप्युपचक्राम पादशौचादिभिर्गुणैः। उपपन्नां च तां साध्वीं पन्नगः पर्यपृच्छत॥ अथ त्वमसि कल्याणि देवतातिथिपूजने। पूर्वमुक्तेन विधिना युक्ता युक्तेन मत्समम्॥ न खल्वस्यकृतार्थेन स्त्रीबुद्ध्या मार्दवीकृता। मद्वियोगेन सुश्रोणि विमुक्ता धर्मसेतुना॥ नागभार्योवाच शिष्याणां गुरुशुश्रूषा विप्राणां वेदधारणम्। भृत्यानां स्वामिवचनं राज्ञो लोकानुपालनम्॥ सर्वभूतपरित्राणं क्षत्रधर्म इहोच्यते। वैश्यानां यज्ञसंवृत्तिरातिथेयसमन्विता॥ विप्रक्षत्रियवैश्यानां शुश्रूषा शूद्रकर्म तत्। गृहस्थधर्मो नागेन्द्र सर्वभूतहितैषिता॥ नियताहारता नित्यं व्रतचर्या यथाक्रमम्। धर्मो हि धर्मसम्बन्धादिन्द्रियाणां विशेषतः॥ अहं कस्य कुतो वापि कः को मे ह भवेदिति। प्रयोजनमतिनित्यमेवं मोक्षाश्रमे वसेत्॥ पतिव्रतात्वं भार्यायाः परमो धर्म उच्यते। तवोपदेशान्नागेन्द्र तच्च तत्त्वेन वेद्मि वै॥ साहं धर्मं विजानन्ती धर्मनित्ये त्वयि स्थिते। सत्पथं कथमुत्सृज्य यास्यामि विपथं पथः॥ देवतानां महाभाग धर्मचर्या न हीयते। अतिथीनां च सत्कारे नित्युक्तास्म्यतन्द्रिता।॥ सप्ताष्टदिवसास्त्वद्य विप्रस्येहागतस्य वै। तच्च कार्यं न मे ख्याति दर्शनं तव काङ्क्षति॥ गोमत्यास्त्वेष पुलिने त्वदर्शनसमुत्सुकः। आसीनो वर्तयन् ब्रह्म ब्राह्मणः संशितव्रतः॥ अहं त्वनेन नागेन्द्र सत्यपूर्वं समाहिता। प्रस्थाप्यो मत्सकाशं स सम्प्राप्तो भुजगोत्तमः॥ एतच्छ्रुत्वा महाप्राज्ञ तत्र गन्तुं त्वमर्हसि। दातुमर्हसि वा तस्य दर्शनं दर्शनश्रवः॥ नाग उवाच अथ ब्राह्मणरूपेण कं तं समनुपश्यसि। मानुषं केवलं विप्रं देवं वाथ शुचिस्मिते॥ को हि मां मानुषः शक्तो द्रष्टकामो यशस्विनि। संदर्शनरुचिर्वाक्यमाज्ञापूर्वं वदिष्यति॥ सुरासुरगणानां च देवर्षीणां च भाविनि। ननु नागा महावीर्याः सौरसेयास्तरस्विनः॥ वन्दनीयाश्च वरदा वयमप्यनुयायिनः। मनुष्याणां विशेषेण नावेक्ष्या इति मे मतिः॥ नागभार्योवाच आर्जवेन विजानामि नासौ देवोऽनिलाशन। एकं तस्मिन् विजानामि भक्तिमानतिरोषण॥ स हि कार्यान्तराकाङ्क्षी जलेप्सुः स्तोकको यथा। वर्ष वर्षप्रियः पक्षी दर्शनं तव कासति॥ हित्वा त्वद्दर्शनं किंचिद् विनं न प्रतिपालयेत्। तुल्यऽप्याभिजने जातो न कश्चित् पर्युपासते॥ तद्रोषं सहजं त्यक्त्वा त्वमेनं द्रष्टुमर्हसि। आशाच्छेदेन तस्याद्य नात्मानं दग्धुमर्हसि॥ आशया ह्यभिपन्नानामकृत्वाचप्रमार्जनम्। राजा वा राजपुत्रो वा भ्रूणहत्यैव युज्यते॥ मौने ज्ञानफलावाप्तिर्दानेन च यशो महत्। वाग्मित्वं सत्यवाक्येन परत्र च महीयते॥ भूप्रदानेन च गतिं लभत्याश्रमसम्मिताम्। न्याय्यस्यार्थस्य सम्प्राप्तिं कृत्वा फलमुपाश्नुते॥ अभिप्रेतामसंश्लिष्टां कृत्वा चात्महितां क्रियाम्। न याति निरयं कश्चिदिति धर्मविदो विदुः॥ नाग उवाच अभिमानैर्न मानो मे जातिदोषेण वै महान्। रोषः संकल्पजः साध्वि दग्धो वागग्निना त्वया॥ न च रोषादहं साध्वि पश्येयमधिकं तमः। तस्य वक्तव्यतां यान्ति विशेषेण भुजङ्गमाः॥ रोषस्य हि वशं गत्वा दशग्रीवः प्रतापवान्। तथा शक्रप्रतिस्पर्धी हतो रामेण संयुगे॥ अन्तःपुरगतं वत्सं श्रुत्वा रामेण निर्हतम्। धर्षणारोषसंविग्नाः कार्तवीर्यसुता हताः॥ जामदग्न्येन रामेण सहस्रनयनोपमः। संयुगे निहतो रोषात् कार्तवीर्यो महाबलः॥ तदेष तपसां शत्रुः श्रेयसां विनिपातकः। निगृहीतो मया रोषः श्रुत्वैवं वचनं तव॥ आत्मानं च विशेषेण प्रशंसाम्यनपायिनी। यस्य मे त्वं विशालाक्षि भार्या गुणसमन्विता॥ एष तत्रैव गच्छामि यत्र तिष्ठत्यसौ द्विजः। सर्वथा चोक्तवान् वाक्यं स कृतार्थः प्रयास्यति॥ भीष्म उवाच स पन्नगपतिस्तत्र प्रययौ ब्राह्मणं प्रति। तमेव मनसा ध्यायन् कार्यवत्तां विचारयन्॥ तमतिक्रम्य नागेन्द्रो मतिमान् स नरेश्वर। प्रोवाच मधुरं वाक्यं प्रकृत्या धर्मवत्सलः॥ भो भो क्षाम्याभिभाषे त्वां न रोषं कर्तुमर्हसि। इह त्वमभिसम्प्राप्तः कस्यार्थे किं प्रयोजनम्॥ आभिमुख्यादभिक्रम्य स्नेहात् पृच्छामि ते द्विजा विविक्ते गोमतीतीरे कं वा त्वं पर्युपाससे॥ ब्राह्मण उवाच धर्मारण्यं हि मां विद्धि नागं द्रष्टुमिहागतम्। पद्मनाभं द्विजश्रेष्ठ तत्र मे कार्यमाहितम्॥ तस्य चाहमसांनिध्ये श्रुतवानस्मि तं गतम्। स्वजनात् तं प्रतीक्षामि पर्जन्यमिव कर्षकः॥ तस्य चाक्लेशकरणं स्वस्तिकारसमाहितम्। आवर्तयामि तद् ब्रह्म योगयुक्तो निरामयः॥ नाग उवाच अहो कल्याणवृत्तस्त्वं साधुः सज्जनवत्सलः। अवाच्यस्त्वं महाभाग परं स्नेहेन पश्यसि॥ अहं स नागो विप्रर्षे यथा मां विन्दते भवान्। आज्ञापय यथा स्वैरं किं करोमि प्रियं तव॥ भवन्तं स्वजनादस्मि सम्प्राप्तं श्रुतवानहम्। अतस्त्वां स्वयमेवाहं द्रष्टुमभ्यागतो द्विज॥ सम्प्राप्तश्च भवानद्य कृतार्थः प्रतियास्यति। विस्रब्यो मां द्विजश्रेष्ठ विषये योक्तुमर्हसि॥ वयं हि भवता सर्वे गुणक्रीता विशेषतः। यस्त्वमात्महितं त्यक्त्वा मामेवेहानुरुध्यसे॥ ब्राह्मण उवाच आगतोऽहं महाभाग तव दर्शनलालसः। कंचिदर्थमनर्थज्ञः प्रष्टुकामो भुजङ्गम्॥ अहमात्मानमात्मस्थो मार्गमाणोऽऽत्मनो गतिम्। वासार्थिनं महाप्रज्ञं चलच्चित्तमुपास्मि ह॥ प्रकाशितस्त्वं स्वगुणैर्यशोगर्भगभस्तिभिः। शशाङ्ककरसंस्पर्श«द्यैरात्मप्रकाशितैः॥ तस्य मे प्रश्नमुत्पन्नं छिन्धि त्वमनिलाशन। पश्चात् कार्यं वदिष्यामि श्रोतुमर्हति तद् भवान्॥ ब्राह्मण उवाच आश्चर्यं नात्र संदेहः सुप्रीतोऽस्मि भुजङ्गमा अन्वर्थोपगतैर्वाक्यैः पन्थानं चास्मि दर्शितः॥ स्वस्ति तेऽस्तु गमिष्यामि साधो भुजगसत्तम। स्मरणीयोऽस्मि भवता सम्प्रेषणनियोजनैः॥ नाग उवाच अनुक्त्वा हृद्गतं कार्यं क्वेदानीं प्रस्थितौ भवान्। उच्यदां द्विज यत् कार्यं यदर्थं त्वमिहागतः॥ उक्तानुक्ते कृते कार्ये मामामन्त्र्य द्विजर्षभ। मया प्रत्यभ्यनुज्ञातस्ततो यास्यसि सुव्रत॥ न हि मां केवलं दृष्ट्वा त्यक्त्वा प्रणयवानिह। गन्तुमर्हसि विप्रर्षे वृक्षमूलगतो यथा॥ त्वयि चाहं द्विजश्रेष्ठ भवान् मयि न संशयः। लोकोऽयं भवतः सर्वः का चिन्ता मयि तेऽनघ॥ ब्राह्मण उवाच एवमेतन्महाप्राज्ञ विदितात्मन् भुजङ्गम। नातिक्रान्तास्त्वया देवाः सर्वथै व यथातथम्॥ स एव त्वं स एवाहं योऽहं स तु भवानपि। अहं भवांश्च भूतानि सर्वे यत्र गताः सदा॥ आसीत् तु मे भोगपते संशयः पुण्यसंचये। सोऽहमुच्छव्रतं साधो चरिष्याम्यर्थसाधनम्॥ एष मे निश्चयः साधो कृतं कारणमुत्तमम्। आमन्त्रयामि भद्रं ते कृतार्थोऽस्मि भुजङ्गम॥ भीष्म उवाच स चामव्योरगश्रेष्ठं ब्राह्मणः कृतनिश्चयः। दीक्षाकाङ्क्षी तदा राजश्च्यवनं भार्गवं श्रितः।१॥ स तेन कृतसंस्कारो धर्ममेवाधितस्थिवान्। तथैव च कथामेतां राजन् कथितवांस्तदा॥ भार्गवेणापि राजेन्द्र जनकस्य निवेशने। कथैषा कथिता पुण्या नारदाय महात्मने॥ नारदेनापि राजेन्द्र देवेन्द्रस्य निवेशने। कथिता भरतश्रेष्ठ पृष्टेनाक्लिष्टकर्मणा॥ देवराजेन च पुरा कथितैषा कथा शुभा। समस्तेभ्यः प्रशस्तेभ्यो विप्रेभ्यो वसुधाधिप।॥ यदा च मम रामेण युद्धमासीत् सुदारुणम्। वसुभिश्च तदा राजन् कथेयं कथिता मम॥ पृच्छमानाय तत्त्वेन मया चैवोत्तमा तव। कथेयं कथिता पुण्या धा धर्मभृतां वर॥ यदयं परमो धर्मो यन्मां पृच्छसि भारत। आसीद् धीरो ह्यनाकासी धर्मार्थकरणे नृप॥ स च किल कृतनिश्चयो द्विजो भुजगपतिप्रतिदेशितात्मकृत्यः यमनियमसहो वनान्तरं परिगणितोञ्छशिलाशनः प्रविष्टः॥ युधिष्ठिर उवाच पितामह महाप्राज्ञ सर्वशास्त्रविशारद। श्रुतं मे महदाख्यानमिदं मतिमतां वर॥ भूयस्तु श्रोतुमिच्छामि धर्मार्थसहितं नृप। कथ्यमानं त्वया किञ्चित् तन्मे व्याख्यातुमर्हसि॥ केन मृत्युर्गृहस्थेन धर्ममाश्रित्य निजितः। इत्येतत् सर्वमाचक्ष्व तत्त्वेनापि च पार्थिव॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। यथा मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः॥ मनोः प्रजापते राजनिक्ष्वाकुरभवत् सुतः। तस्य पुत्रशतं जज्ञे नृपतेः सूर्यवर्चसः॥ दशमस्तस्य पुत्रस्तु दशाश्वो नाम भारत। माहिष्मत्यामभूद् राजा धर्मात्मा सत्यविक्रमः॥ दशाश्वस्य सुतस्त्वासीद् राजा परमधार्मिकः। सत्ये तपसि दाने च यस्य नित्यं रतं मनः॥ मदिराश्व इति ख्यातः पृथिव्यां पृथिवीपतिः। धनुर्वेदे च वेदे च निरतो योऽभवत् सदा॥ मदिराश्वस्य पुत्रस्तु द्युतिमान् नाम पार्थिवः। महाभागो महातेजा महासत्त्वो महाबलः॥ पुत्रो द्युतिमतस्त्वासीद् राजा परमधार्मिकः। सर्वलोकेषु विख्यातः सुवीरो नाम नामतः॥ धर्मात्मा कोषवांश्चापि देवराज इवापरः। सुवीरस्य तु पुत्रोऽभूत् सर्वसंग्रामदुर्जयः॥ स दुर्जय इति ख्यातः सर्वशस्त्रभृतां वरः। दुर्जयस्येन्द्रवपुषः पुत्रोऽश्विसदृशद्युतिः॥ दुर्योधनो नाम महान् राजा राजर्षिस्तमः। तस्येन्द्रसमवीर्यस्य संग्रामेष्वनिवर्तिनः॥ विषये वासवस्तस्य सम्यगेव प्रवर्षति। रत्नैर्धनैश्च पशुभिः सस्येश्चापि पृथग्विधैः॥ नगरं विषयश्चास्य प्रतिपूर्णस्तदाभवत्। न तस्य विषये चाभूत् कृपणो नापि दुर्गतः॥ व्याधितो वा कृशो वाऽपि तस्मिन् नाभृन्नरः क्वचित्। सुदक्षिणो मधुरवागनसूयुर्जितेन्द्रियः। धर्मात्मा चानृशंसश्च विक्रान्तोऽथाविकस्थनः॥ यज्वा च दान्तो मेधावी ब्रह्मण्यः सत्यसङ्गरः। न चावमन्ता दाता च वेदवेदाङ्गपारगः॥ तं नर्मदा देवनदी पुण्या शीतजला शिवा। चकमे पुरुषव्याघ्रं स्वेन भावेन भारत।॥ तस्यां जज्ञे तदा नद्यां कन्या राजीवलोचना। नाम्ना सुदर्शना राजन् रूपेण च सुदर्शना॥ तादृग्रूपा न नारीषु भूतपूर्वा युधिष्ठिर। दुर्योधनसुता यादृगभवद् वरवर्णिनी॥ तामग्निश्चकमे साक्षाद् राजकन्यां सुदर्शनाम्। भूत्वा च ब्राह्मणो राजन् वरयामास तं नृपम्॥ दरिद्रश्चासवर्णश्च ममायमिति पार्थिवः। न दित्सति सुतां तस्मै तां विप्राय सुदर्शनाम्॥ ततोऽस्य वितते यज्ञे नष्टोऽभूद्धव्यवाहनः। ततःसुदुःखितो राजा वाक्यमाह द्विजांस्तदा॥ दुष्कृतं मम किं नु स्याद् भवतां वा द्विजर्षभाः। येन नाशं जगामाग्निः कृतं कुपुरुषेष्विव॥ न ह्यल्पं दुष्कृतं नोऽस्ति येनाग्नि शमागतः। भवतां चाथवा मह्यं तत्त्वेनैतद् विमृश्यताम्॥ तत्र राज्ञो वचः श्रुत्वा विप्रास्ते भरतर्षभ। नियता वाग्यताश्चैव पावकं शरणं ययुः॥ तान् दर्शयामास तदा भगवान् हव्यवाहनः। स्वं रूपं दीप्तिमत् कृत्वा शरदर्कसमद्युतिः॥ ततो महात्मा तानाह दहनो ब्राह्मणर्षभान्। वरयाम्यात्मनोऽर्थाय दुर्योधनसुतामिति॥ ततस्ते कल्पमुत्थाय तस्मै राज्ञे न्यवेदयन्। ब्राह्मणा विस्मिताः सर्वे यदुक्तं चित्रभानुना॥ ततः स राजा तच्छुत्वा वचनं ब्रह्मवादिनाम्। अवाप्य परमं हर्षं तथेति प्राह बुद्धिमान्॥ अयाचत च तं शुल्कं भगवन्तं विभावसुम्। नित्यं सांनिध्यमिह ते चित्रभानो भवेदिति॥ तमाह भगवानग्निरेवमस्त्विति पार्थिवम्। ततः सांनिध्यमद्यापि माहिष्मत्यां विभावसोः॥ दृष्टं हि सहदेवेन दिशं विजयता तदा। ततस्तां समलंकृत्य कन्यामाहृतवाससम्॥ ददौ दुर्योधनो राजा पावकाय महात्मने। प्रतिजग्राह चाग्निस्तु राजकन्यां सुदर्शनाम्॥ विधिना वेददृष्टेन वसोर्धारामिवाध्वरे। तस्या रूपेण शीलेन कुलेन वपुषा श्रिया॥ अभवत् प्रीतिमानग्निर्गर्भे चास्या मनो दधे। तस्याः समभवत्पुत्रो नाम्नाऽऽग्नेयः सुदर्शनः॥ सुदर्शनस्तु रूपेण पूर्णेन्दुसदृशोपमः। शिशुरेवाध्यगात् सर्वं परं ब्रह्म सनातनम्॥ अथौघवान् नाम नृपो नृगस्यासीत् पितामहः। तस्याथौघवती कन्या पुत्रश्चौवरथोऽभवत्॥ तामोघवान् ददौ तस्मै स्वयमोघवतीं सुताम्। सुदर्शनाय विदुषे भार्यार्थं देवरूपिणीम्॥ स गृहस्थाश्रमरतस्तया सह सुदर्शनः। कुरुक्षेत्रेऽवसद् राजन्नोघवत्या समन्वितः॥ गृहस्थश्चावजेष्यामि मृत्युमित्येव स प्रभो। प्रतिज्ञामकरोद् धीमान् दीप्ततेजा विशाम्पते।॥ तामथौघवतीं राजन् स पावकसुतोऽब्रवीत्। अतिथेः प्रतिकूलं ते न कर्तव्यं कथंचन॥ येन येन च तुष्येत नित्यमेव त्वयाऽतिथिः। अप्यात्मनः प्रदानेन न ते कार्या विचारणा॥ एतद् व्रतं मम सदा हृदि सम्परिवर्तते। गृहस्थानां च सुश्रोणि नातिथेर्विद्यते परम्॥ प्रमाणं यदि वामोरु वचस्ते मम शोभने। इदं वचनमव्यग्रा हृदि त्वं धारयेः सदा॥ निष्क्रान्ते मयि कल्याणि तथा संनिहितेऽनघे। नातिथिस्तेऽवमन्तव्यः प्रमाणं यद्यहं तव॥ तमब्रवीदोघवती तथा मूर्ध्नि कृताञ्जलिः। न मे त्वद्वचनात् किंचिन्न कर्तव्यं कथंचन॥ जिगीषमाणस्तु गृहे तदा मृत्युः सुदर्शनम्। पृष्ठतोऽन्वगमद् राजन् रन्ध्रान्वेषी तदा सदा॥ इध्मार्थं तु गते तस्मिन्नग्निपुत्रे सुदर्शने। अतिथिळह्मणः श्रीमांस्तामाहौघवतीं तदा॥ आतिथ्यं कृतमिच्छामि त्वयाऽद्य वरवर्णिनि। प्रमाणं यदि धर्मस्ते गृहस्थाश्रमसम्मतः॥ इत्युक्ता तेन विप्रेण राजपुत्री यशस्विनी। विधिना प्रतिजग्राह वेदोक्तेन विशाम्पते॥ आसनं चैव पाद्यं च तस्मै दत्त्वा द्विजातये। प्रोवाचौघवती विप्रं केनार्थः किं ददामि ते॥ तामब्रवीत् ततो विप्रो राजपुत्री सुदर्शनाम्। त्वया ममार्थः कल्याणि निर्विशङ्कतदाचर॥ यदि प्रमाणं धर्मस्ते गृहस्थाश्रमसम्मतः। प्रदानेनात्मनो राज्ञि कर्तुमर्हसि मे प्रियम्॥ स तया छन्द्यमानोऽन्यैरीप्सितैर्नृपकन्यया। नान्यमात्मप्रदानात् स तस्या ववे वरं द्विजः॥ सा तु राजसुता स्मृत्वा भर्तुर्वचनमादितः। तथेति लज्जमाना सा तमुवाच द्विजर्षभम्॥ ततो विहस्य विप्रर्षिः सा चैवाथ विवेश ह। संस्मृत्य भर्तुर्वचनं गृहस्थाश्रमकाङ्क्षिणः॥ अथेध्मानमुपादाय स पावकिरुपागमत्। मृत्युना रौद्रभावेन नित्यं बन्धुरिवान्वितः॥ ततस्त्वाश्रममागम्य स पावकसुतस्तदा। तां व्याजहारौघवतीं क्वासि यातेति चासकृत्॥ तस्मै प्रतिवचः सा तु भर्त्रे न प्रददौ तदा। कराभ्यां तेन विप्रेण स्पृष्टा भर्तृव्रता सती॥ उच्छिष्टाऽस्मीति मन्वाना लज्जिता भर्तुरेव च। तूष्णीं भूताऽभवत् साध्वी चोवाचाथ किंचन॥ अथ तां पुनरेवेदं प्रोवाच स सुदर्शनः। क्व सा साध्वी क्व सा याता गरीयः किमतो मम।। पतिव्रता सत्यशीला नित्यं चैवार्जवे रता। कथं न प्रत्युदेत्यद्य स्मयमाना यथा पुरा॥ उटजस्थस्तु तं विप्रः प्रत्युवाच सुदर्शनम्। अतिथिं विद्धि सम्प्राप्तं ब्राह्मणं पावके च माम्।।६४। अनया छन्द्यमानोऽहं भार्यया तव सत्तम। तैस्तैरतिथिसत्कारैर्ब्रह्मन्नेषाा वृता मया॥ अनेन विधिना सेयं मामर्छति शुभानना। अनुरूपं यदनान्यत् तद् भवान् कर्तुमर्हति॥ कूटमुद्ररहस्तस्तु मृत्युस्तं वै समन्वगात्। हीनप्रतिज्ञमत्रैनं वधिष्यामीति चिन्तयन्॥ सुदर्शनस्तु मनसा कर्मणा चक्षुषा गिरा। त्यक्तेति॒स्त्यक्तमन्युश्च स्मयमानोऽब्रवीदिदम्॥ सुरतं तेऽस्तु विप्राय्य प्रीतिर्हि परमा मम। गृहस्थस्य हि धर्मोऽत्र्यः सम्प्राप्तातिथिपूजनम्॥ अतिथिः पूजितो यस्य गृहस्थस्य तु गच्छति। नान्यस्तस्मात् परो धर्म इति प्राहुर्मनीषिणः॥ प्राणा हि मम दाराश्च यच्चानद् विद्यते वसु। अतिथिभ्यो मया देयमिति मे व्रतमाहितम्॥ नि:संदिग्धं यथा वाक्यमेतन्मे समुदाहृतम्। तेनाहं विप्र सत्येन स्वयमात्मानमालभे॥ पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्। बुद्धिरात्मा मनः कालो दिशश्चैव गुणा दश॥ नित्यमेव हि पश्यन्ति देहिनां देहसंश्रिताः। सुकृतं दुष्कृतं चापि कर्म धर्मभृतां वर॥ यथैषा नानृता वाणी मयाऽद्य समुदीरिता। तेन सत्येन मां देवाः पालयन्तु दहन्तु वा॥ ततो नादः समभवद् दिक्षु सर्वासु भारत। असकृत् सत्यमित्येवं नैतन्मिथ्येति सर्वतः॥ उटजात् तु ततस्तस्मान्निश्रकाम स वै द्विजः। वपुषा द्यां च भूमिं च व्याप्य वायुरिवोद्यतः॥ स्वरेण विप्रः शैक्षेण त्रीन्लोकाननुनादयन्। उवाच चैनं धर्मज्ञं पूर्वमामन्त्र्य नामतः॥ ते धर्मोऽहमस्मि भद्रं ते जिज्ञासार्थं तवानघ। प्राप्तः सत्यं च ज्ञात्वा प्रीतिर्मे परमा त्वयि॥ विजितश्च त्वया मृत्युर्योऽयं त्वामनुगच्छति। रन्ध्रान्वेषी तव सदा त्वया धृत्या वशी कृतः॥ न चास्ति शक्तिस्त्रैलोक्ये कस्यचित् पुरुषोत्तम। पतिव्रतामिमां साध्वीं तवोद्वीक्षितुमप्युत॥ रक्षिता त्वद्गुणैरेषा पतिव्रतगुणैस्तथा। अधृष्या यदियं ब्रूयात् तथा तन्नान्यथा भवेत्॥ एषा हि तपसा स्वेन संयुक्ता ब्रह्मवादिनी। पावनार्थं च लोकस्य सरिच्छ्रेष्ठा भविष्यति॥ अर्धेनौघवती नाम त्वामधेनानुयास्यति। शरीरेण महाभाग योगो ह्यस्या वशे स्थितः॥ अनया सह लोकांश्च गन्ताऽसि तपसार्जितान्। यत्र नावृत्तिमभ्येति शाश्वतांस्तान् सनातनान्॥ अनेन चैव देहेन लोकांस्त्वमभिपत्स्यसे। निर्जितश्च त्वया मृत्युरैश्वर्ये च तवोत्तमम्॥ पञ्चभूतान्यतिक्रान्तः स्ववीर्याञ्च मनोजवः गृहस्थधर्मेणानेन कामक्रोधौ च ते जितौ॥ स्नेहो राश्च तन्द्री च मोहो द्रोहश्च केवलः। तव शुश्रूषया राजन् राजपुत्र्या विनिर्जिताः॥ भीष्म उवाच शुल्कानां तु सहस्त्रेण वाजिनां रथमुत्तमम्। युक्तं प्रगृह्य भगवान् वासवोऽप्याजगाम तम्॥ मृत्युरात्मा च लोकाश्च जिता भूतानि पञ्च च। बुद्धिः कालो मनो व्योम कामक्रोधौ तथैव च॥ तस्माद् गृहाश्रमस्थस्य नान्यद् दैवतमस्ति वै। ऋतेऽतिथिं नरव्याघ्र मनसैतद् विचारय॥ अतिथिः पूजितो यद्धि ध्यायते मनसा शुभम्। न तत् क्रतुशतेनापि तुल्यमाहुर्मनीषिणः॥ पात्रं त्वतिथिमासाद्य शीलाढ्यं यो न पूजयेत्। स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति॥ एतत् ते कथितं पुत्र मयाऽऽख्यानमनुत्तमम्। यथा हि विजितो मृत्युर्गृहस्थेन पुराभवत्॥ धन्यं यशस्यमायुष्यमिदमाख्यानमुत्तमम्। बुभूषताभिमन्तव्यं सर्वदुश्चरितापहम्॥ इदं यः कथयेद् विद्वानहन्यहनि भारत। सुदर्शनस्य चरितं पुण्याँल्लोकानवाप्नुयात्॥ युधिष्ठिर उवाच ब्राह्मण्यं यदि दुष्प्राप्यं त्रिभिर्वर्णैर्नराधिप। कथं प्राप्तं महाराज क्षत्रियेण महात्मना॥ विश्वामित्रेण धर्मात्पन् ब्राह्मणत्वं नरर्षभ। श्रोतुमिच्छामि तत्त्वेन तन्मे ब्रूहि पितामह॥ तेन ह्यमितवीर्येण वसिष्ठस्य महात्मनः। हतं पुत्रशतं सद्यस्तपसाऽपि पितामह॥ यातुधानाश्च बहवो राक्षसास्तिग्मतेजसः। मन्युनाऽऽविष्टदेहेन सृष्टाः कालान्तकोपमाः॥ महान् कुशिकवंशश्च ब्रह्मर्षिशतसंकुलः। स्थापितो नरलोकेऽस्मिन् विद्वद्ब्राह्मणसंस्तुतः॥ ऋचीकस्यात्मजश्चैव शुनःशेपो महातपाः। विमोक्षितो महासत्रात् पशुतामप्युपागतः॥ हरिश्चन्द्रक्रतौ देवांस्तोषयित्वाऽऽत्मतेजसा। पुत्रतामनु सम्प्राप्तो विश्वामित्रस्य धीमतः॥ नाभिवादयते ज्येष्ठं देवरातं नराधिप। पुत्राः पञ्चाशदेवापि शप्ताः श्वपचतां गताः॥ त्रिशङ्कुर्वन्धुभिर्मुक्त ऐक्ष्वाकः प्रीतिपूर्वकम्। अवाशिरा दिवं नीतो दक्षिणामाश्रितो दिशम्॥ विश्वामित्रस्य विपुला नदी देवर्षिसेविता। कौशिकी च शिवा पुण्या ब्रह्मर्षिसुरसेविता॥ तपोविनकरी चैव पञ्चचूडा सुसम्मता। रम्भा नामाप्सराः शापाद् यस्य शैलत्वमागता॥ तथैवास्य भयाद् बद्ध्वा वसिष्ठः सलिले पुरा। आत्मानं मज्जयन् श्रीमान् विपाशः पुनरुत्थितः॥ तदाप्रभृति पुण्या हि विपाशाऽभून्महानदी। विख्याता कर्मणा तेन वसिष्ठस्य महात्मनः॥ वाग्भिश्च भगवान् येन देवसेनाग्रगः प्रभुः। स्तुतः प्रीतमनाश्चासीच्छापाञ्चैनममुञ्चत॥ ध्रुवस्यौत्तानपादस्य ब्रह्मर्षीणां तथैव च। मध्यं ज्वलति यो नित्यमुदीचीमाश्रितो दिशम्॥ तस्यैतानि च कर्माणि तथान्यानि च कौरव। क्षत्रियस्येत्यतो जातमिदं कौतूहलं मम॥ किमेतदिति तत्त्वेन प्रब्रूहि भरतर्षभ। देहान्तरमनासाद्य कथं स ब्राह्मणोऽभवत्॥ एतत् तत्त्वेन मे तात सर्वमाख्यातुमर्हसि। मतङ्गस्य यथातत्त्वं तथैवैतद् वदस्व मे॥ स्थाने मतङ्गा ब्राह्मण्यं नालभद् भरतर्षभ। चण्डालयोनौ जातो हि कथं ब्राह्मण्यमाप्तवान्॥ किमेतदिति तत्त्वेन प्रब्रूहि भरतर्षभ। देहान्तरमनासाद्य कथं स ब्राह्मणोऽभवत्॥ एतत् तत्त्वेन मे तात सर्वमाख्यातुमर्हसि। मतङ्गस्य यथातत्त्वं तथैवैतद् वदस्व मे॥ स्थाने मतङ्गा ब्राह्मण्यं नालभद् भरतर्षभ। चण्डालयोनौ जातो हि कथं ब्राह्मण्यमाप्तवान्॥ भीष्म उवाच श्रूयतां पार्थ तत्त्वेन विश्वामित्रो यथा पुरा। ब्राह्मणत्वं गतस्तात ब्रह्मर्षित्वं तथैव च॥ भरतस्यान्वये चैवाजमीढो नाम पार्थिवः। बभूव भरतश्रेष्ठ यज्वा धर्मभृतां वरः॥ तस्य पुत्रो महानासीज्जह्वर्नाम नरेश्वरः। दुहितृत्वमनुप्राप्ता गङ्गा यस्य महात्मनः॥ तस्यात्मजस्तुल्यगुणः सिधुद्वीपो महायशाः। सिन्धुद्वीपाच्च राजर्षिर्बलाकाश्वो महाबलः॥ वल्लभस्तस्य तनयः साक्षाद्धर्म इवापरः। कुशिकस्तस्य तनयः सहस्त्राक्षसमद्युतिः॥ कुशिकस्यात्मजः श्रीमान् गाधिर्नाम जनेश्वरः। अपुत्रः प्रसवेनार्थी वनवासमुपावसत्॥ कन्या जज्ञे सुतात् तस्य वने निवसतः सतः। नाम्ना सत्यवती नाम रूपेणाप्रतिभा भुवि॥ तां वज्र भार्गवः श्रीमांश्च्यवनस्यात्मसम्भवः। ऋचीक इति विख्यातो विपुले तपसि स्थितः॥ स तां न प्रददौ तस्मै ऋचीकाय महात्मने। दरिद्र इति मत्वा वै गाधिः शत्रुनिबर्हणः॥ प्रत्याख्याय पुनर्यातमब्रवीद् राजसत्तमः। शुल्कं प्रदीयतां मह्यं ततो वत्स्यसि मे सुताम्॥ ऋचीक उवाच किं प्रयच्छामि राजेन्द्र तुभ्यं शुल्कमहं नृप। दुहितुर्ब्रह्यसंसक्तो माऽभूत् तत्र विचारणा॥ चन्द्ररश्मिप्रकाशानां हयानां वातरंहसाम्। एकतः श्यामकर्णानां सहस्रं देहि भार्गव॥ भीष्म उवाच ततः स भृगुशार्दूलश्च्यवनस्यात्मजः प्रभुः। अब्रवीद् वरुणं देवमादित्यं पतिमम्भसाम्॥ एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम्। सहस्रं वातवेगानां भिक्षे त्वां देवसत्तम॥ तथेति वरुणो देव आदित्यो भृगुसत्तमम्। उवाच यत्र ते च्छन्दस्तत्रोत्थास्यन्ति वाजिनः॥ ध्यातमात्र ऋचीकेन हयानां चन्द्रवर्चसाम्। गङ्गाजलात् समुत्तस्थौ सहस्रं विपुलौजसाम्॥ अदूरे कान्यकुब्जस्य गङ्गायास्तीरमुत्तमम्। अश्वतीर्थे तदद्यापि मानवैः परिचक्ष्यते॥ ततो वै माधये तात सहस्रं वाजिनां शुभम्। ऋचीकः प्रददौ प्रीतः शुल्कार्थं तपतां वरः॥ ततः स विस्मितो राजा गाधिः शापभयेन च। ददौ तां समलंकृत्य कन्यां भृगुसुताय वै॥ जग्राह विधिवत् पाणिं तस्या ब्रह्मर्षिसत्तमः। सा च तं पतिमासाद्य परं हर्षमवाप ह॥ स तुतोष च ब्रह्मर्षिस्तस्या वृत्तेन भारत। छन्दयामास चैवैनां वरेण वरवर्णिनीम्॥ मात्रे तत् सर्वमाचख्यौ सा कन्या राजसत्तम। अथ तामब्रवीन्माता सुतां किंचिदवाङ्मुखी॥ ममापि पुत्रि भर्ता ते प्रसादं कर्तुमर्हति। अपत्यस्य प्रदानेन समर्थश्च महातपाः॥ ततः सा त्वरितं गत्वा तत् सर्वं प्रत्यवेदयत्। मातुश्चिकीर्षितं राजन् ऋचीकस्तामथाब्रवीत्॥ गुणवन्तमपत्यं सा अचिराज्जनयिष्यति। मम प्रसादात् कल्याणि माऽभूत् ते प्रणयोऽन्यथा॥२५ तव चैव गुणश्लाघी पुत्र उत्पत्स्यते महान्। अस्मद्वंशकरः श्रीमान् सत्यमेतद् ब्रवीमि ते॥ ऋतुस्नाता च साऽश्वत्थं त्वं च वृक्षमुदुम्बरम्। परिष्वजेथाः कल्याणि तत एवमवाप्स्यथः॥ चरुद्वयमिदं चैव मन्त्रपूतं शुचिस्मिते। त्वं च सा चोपभुञ्जीतं ततः पुत्राववाप्स्यथः॥ ततः सत्यवती हृष्टा मातरं प्रत्यभाषत। यदृचीकेन कथितं तच्चाचख्यौ चरुद्वयम्॥ तामुवाच ततो माता सुतां सत्यवती तदा। पुत्रि पूर्वोपपन्नायाः कुरुष्व वचनं मम॥ भळ य एष दत्तस्ते चर्मन्त्रपुरस्कृतः। एनं प्रयच्छ मह्यं त्वं मदीयं त्वं गृहाण च॥ व्यत्यासं वृक्षयोश्चापि करवाव शुचिस्मिते। यदि प्रमाणं वचनं मम मातुरनिन्दिते॥ स्वमपत्यं विशिष्टं हि सर्व इच्छत्यनाविलम्। व्यक्तं भगवता चात्र कृतमेवं भविष्यति॥ ततो मे त्वच्चरौ भावः पादपे च सुमध्यमे। कथं विशिष्टो भ्राता मे भवेदित्येव चिन्तय॥ तथा च कृतवत्यौ ते माता सत्यवती च सा। अथ गर्भावनप्राप्ते उभे ते वै युधिष्ठिर॥ दृष्ट्वा गर्भमनुप्राप्तां भार्यो स च महानृषिः। उवाच तां सत्यवती दुर्मना भृगुसत्तमः॥ व्यत्यासेनोपयुक्तस्ते चरुर्व्यक्तं भविष्यति। व्यत्यास: पादपे चापि सुव्यक्तं कृतः शुभे॥ मया हि विश्वं यद्ब्रह्म त्वच्चरौ संनिवेशितम्। क्षत्रवीर्यं च सकलं चरौ तस्या निवेशितम्॥ त्रैलोक्यविख्यातगुणं त्वं विप्रं जनयिष्यसि। सा च क्षत्रं विशिष्टं वै तत एतत् कृतं मया॥ व्यत्यासस्तु कृतो यस्मात् त्वया मात्रा च ते शुभे। तस्मात् ब्राह्मणं श्रेष्ठं माता ते जनयिष्यति॥ क्षत्रियं तूप्रकर्माणं त्वं भद्रे जनयिष्यसि। न हि ते तत् कृतं साधु मातृस्नेहेन भाविनि॥ ते सा श्रुत्वा शोकसंतप्ता पपात वरवर्णिनी। भूमौ सत्यवती राजन् छिन्नेव रुचिरा लता॥ प्रतिलभ्य च सा संज्ञां शिरसा प्रणिपत्य च। उवाच भार्या भर्तारं गाधेयी भार्गवर्षभम्॥ प्रसादयन्त्यां भार्यायां मयि ब्रह्मविदां वर। प्रसादं कुरु विप्रर्षे न मे स्यात् क्षत्रियः सुतः॥ कामं ममोग्रकर्मा वै पौत्रो भवितुमर्हति। स्यात् सुतो ब्रह्मन्नेष मे दायतां वरः॥ एवमस्त्विति होवाच स्वां भार्यो सुमहातपाः। ततः सा जनयामास जमदग्निं सुतं शुभम्॥ विश्वामित्रं चाजनयद् गाधिभार्या यशस्विनी। ऋषेः प्रसादाद् राजेन्द्र ब्रह्मर्षेब्रह्मवादिनम्॥ ततो ब्राह्मणतां यातो विश्वामित्रो महातपाः। न तु मे तथर्षिः सैन्धवायनः॥ क्षत्रियः सोऽप्यथ तथा ब्रह्मवंशस्य कारकः॥ तस्य पुत्रा महात्मानो ब्रह्मवंशविवर्धनाः। तपस्विनो ब्रह्मविदो गोत्रकार एव च॥ मधुच्छन्दश्च भगवान् देवरातश्च वीर्यवान्। अक्षीणश्च शकुन्तश्च भ्रुः कालपथस्तथा॥ याज्ञवल्क्यश्च विख्यातस्तथा स्थूणो महाव्रतः। उलूको यमदूतश्च वल्गुजङ्घश्च भगवान् गालवश्च महानृषिः। ऋषिर्वज्रस्तथा ख्यातः सालंकायन एव च॥ लीलाढ्यो नारदश्चैव तथा कूर्चामुखः स्मृतः। वादुलिर्मुसलश्चैव वक्षोग्रीवस्तथैव च॥ आंघ्रिको नैकदृक् चैव शिलायूपः शितः शुचिः। चक्रको मारुतन्तव्यो वातमोऽथाश्वलायनः॥ श्यामायनोऽश्च गार्यश्च जाबालिः सुश्रुतस्तथा। कारीषिरथ संश्रुत्यः परपौरवतन्तवः॥ महानृषिश्च कपिलस्तथर्षिस्ताडकायनः। तथैव चोपगहनस्तथर्षिश्चासुरायणः॥ मार्दमर्षिर्हिरण्याक्षो जङ्गारिर्बाभ्रवायणिः। भूतिर्विभूतिः सूतश्च सुरकृत् तु तथैव च॥ अरालि चिकाचैव चाम्पेयोज्जयनौ तथा। नवतन्तुर्बकनखः सेयनो यतिरेव च॥ अम्भोरुहश्चास्मत्स्यः शिरीषी चाथ गार्दभिः। उर्जयोनिरुदापेक्षी नारदी च महानृषिः॥ विश्वामित्रात्मजाः सर्वे मुनयो ब्रह्मवादिनः। तथैव क्षत्रियो राजन् विश्वामित्रो महातपाः॥ ऋचीकेनाहितं ब्रह्म परमेतद् युधिष्ठिर। एतत् ते सर्वमाख्यातं तत्त्वेन भरतर्षभ॥ विश्वामित्रस्य वै जन्म सोमसूर्याग्नितेजसः। यत्र यत्र च संदेहो भूयस्ते राजसत्तम। तत्र तत्र च मां ब्रूहि च्छेत्तास्मि तव संशयम्॥ युधिष्ठिर उवाच पितामह महाप्राज्ञ सर्वशास्त्रविशारद। दैवे पुरुषकारे च किंस्विच्छ्रेष्ठतरं भवेत्॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। वसिष्ठस्य च संवादं ब्रह्मणश्च युधिष्ठिर॥ दैवमानुषयोः किंस्वित् कर्मणोः श्रेष्ठमित्युत। पुरा वसिष्ठो भगवान् पितामहमपृच्छत॥ ततः पद्मोद्भवो राजन् देवदेवः पितामहः। उवाच मधुरं वाक्यमर्थवद्धेतुभूषितम्॥ ब्रह्मोवाच नाबीजं जायते किंचिन्न बीजेन विना फलम्। बीजाद् बीजं प्रभवति बीजादेव फलं स्मृतम्॥ यादृशं वपते बीजं क्षेत्रमासाद्य कर्षकः। सुकृते दुष्कृते वापि तादृशं लभते फलम्॥ यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम्। तथा पुरुषकारेण विना दैवं न सिध्यति॥ क्षेत्रं पुरुषकारस्तु दैवं बीजमुदाहृतम्। क्षेत्रबीजसमायोगात् ततः सस्यं समृद्ध्यते॥ कर्मणः फलनिर्वृत्तिं स्वयमश्नाति कारकः। प्रत्यक्षं दृश्यते लोके कृतस्यापकृतस्य च॥ शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा। कृतं फलति सर्वत्र नाकृतं भुज्यते क्वचित्॥ कृती सर्वत्र लभते प्रतिष्ठां भाग्यसंयुताम्। अकृती लभते भ्रष्टः क्षते क्षारावसेचनम्॥ तपसा रूपसौभाग्यं रत्नानि विविधानि च। प्राप्यते कर्मणा सर्वे न दैवादकृतात्मना॥ तथा स्वर्गश्च भोगश्च निष्ठा या च मनीषिता। सर्वं पुरुषकारेण कृतेनेहोपलभ्यते॥ ज्योतींषि त्रिदशा नागा यक्षाश्चन्द्राकमारुताः। सर्वे पुरुषकारेण मानुष्याद् देवतां गताः॥ अर्थो वा मित्रवर्गा वा ऐश्वर्यं वा कुलान्वितम्। श्रीश्चापि दुर्लभा भोक्तुं तथैवाकृतकर्मभिः॥ शौचेन लभते विप्रः क्षत्रियो विक्रमेण तु। वैश्यः पुरुषकारेण शूद्रः शुश्रूषया श्रियम्॥ नादातारं भजन्त्यर्था न क्लीबं नापि निष्क्रियम्। नाकर्मशीलं नाशूरं तथा नैवातपस्विनम्॥ येन लोकास्त्रयः सृष्टा दैत्याः सर्वाश्च देवताः। स एष भगवान् विष्णुः समुद्रे तप्यते तपः॥ स्वं चेत् कर्मफलं न स्यात् सर्वमेवाफलं भवेत्। लोको दैवं समालक्ष्य उदासीनो भवेन्ननु॥ अकृत्वा मानुषं कर्म यो दैवमनुवर्तते। वृथा श्राम्यति सम्प्राप्य पतिं क्लीबमिवाङ्गना॥ न तथा मानुषे लोके भयमस्ति शुभाशुभे। तथा त्रिदशलोके हि भयमन्येन जायते॥ कृतः पुरुषकारस्तु दैवमेवानुवर्तते। न दैवमकृते किंचित् कस्यचिद् दातुमर्हति॥ यथा स्थानान्यनित्यानि दृश्यन्ते दैवतेष्वपि। कथं कर्म विना दैवं स्थास्यति स्थापयिष्यतः॥ न दैवतानि लोकेऽस्मिन् व्यापार यान्ति कस्यचित्। व्यासङ्गं जनयन्त्युग्रमात्माभिभवशङ्कया।॥ ऋषीणां देवतानां च सदा भवति विग्रहः। कस्य वाचा ह्यदैवं स्याद्यतो दैवं प्रवर्तते॥ कथं तस्य समुत्पत्तिर्यतो दैवं प्रवर्तते। एवं त्रिदशलोकेऽपि प्राप्यन्ते बहवो गुणाः॥ आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः। आत्मैव ह्यात्मन: साक्षी कृतस्याप्यकृतस्य च।॥ कृतं चाप्यकृतं किंचित् कृते कर्मणि सिद्ध्यति। सुकृतं दुष्कृतं कर्म न यथार्थे प्रपद्यते॥ देवानां शरणं पुण्यं सर्वं पुण्यैरवाप्यते। पुण्यशीलं नरं प्राप्य किं दैवं प्रकरिष्यति॥ पुरा ययातिर्विभ्रष्टश्च्यावितः पतितः क्षितौ। पुनरारोपितः स्वर्गं दौहित्रैः पुण्यकर्मभिः॥ पुरूरवाश्च राजर्षिर्द्विजैरभिहितः पुरा। ऐल इत्यभिविख्यातः स्वर्गं प्राप्तो महीपतिः॥ अश्वमेधादिभिर्यज्ञैः सत्कृत: कोसलाधिपः। महर्षिशापात् सौदासः पुरुषादत्वमागतः॥ अश्वत्थामा च रामश्च मुनिपुत्रौ धनुर्धरौ। न गच्छतः स्वर्गलोकं सुकृतेनेह कर्मणा॥ वसुर्यज्ञशतैरिष्ट्वा द्वितीय इव वासवः। मिथ्याभिधानेनैकेन रसातलतलं गतः॥ बलिवैरोचनिर्बद्धो धर्मपाशेन दैवतैः। विष्णोः पुरुषकारेण पातालसदनः कृतः॥ शक्रस्योद्रम्य चरणं प्रस्थितो जनमेजयः। द्विजस्त्रीणां वधं कृत्वा किं दैवेन न वारितः॥ अज्ञानाद् ब्राह्यणं हत्वा स्पृष्टो बालवधेन च। वैशम्पायनविप्रर्षिः किं दैवेन न वारितः॥ गोप्रदानेन मिथ्या च ब्राह्मणेभ्यो महामखे। पुरा नृगश्च राजर्षिः कृकलासत्वमागतः॥ धुन्धुमारश्च राजर्षिः सत्रेष्वेव जरां गतः। प्रीतिदायं परित्यज्य सुष्वाप स गिरिव्रजे॥ पाण्डवानां हृतं राज्यं धार्तराष्ट्रैर्महाबलैः। पुनः प्रत्याहृतं चैव न दैवाद् भुजसंश्रयात्॥ तपोनियमसंयुक्ता मुनयः संशितव्रताः। किं त दैवबलाच्छापमुत्सृजन्ते न कर्मणा॥ पापमुत्सृजते लोके सर्वं प्राप्य सुदुर्लभम्। लोभमोहसमापन्नं न दैवं चायते नरम्॥ यथाग्निः पवनोद्भूतः सुसूक्ष्मोऽपि महान् भवेत्। तथा कर्मसमायुक्तं दैवं साधु विवर्धते॥ यथा तैलक्षयाद् दीपः प्रह्रासमुपगच्छति। तथा कर्मक्षयाद् दैवं प्रहासमुपगच्छति॥ विपुलमपि धनौघं प्राप्य भोगान् स्त्रियो वा पुरुष इह न शक्तः कर्महीनो हि भोक्तम्। सुनिहितमपि चार्थं दैवतै रक्ष्यमाणं पुरुष इह महात्मा प्राप्नुते नित्ययुक्तः॥ व्ययगुणमपि साधुं कर्मणा संश्रयन्ते भवति मनुजलोकाद् देवलोको विशिष्टः। बहुतरसुसमृद्ध्या मानुषाणां गृहाणि। पितृवनभवनाभं दृश्यते चामराणाम्॥ न च फलति विकर्मा जीवलोक न दैवं व्यपनयति विमार्गं नास्ति दैवे प्रभुत्वम्। गुरुमिव कृतमय्यं कर्म संयाति दैवं नयति पुरुषकारः संचितस्तत्र तत्र॥ एतत् ते सर्वमाख्यातं मया वै मुनिसत्तम। फलं पुरुषकारस्य सदा संदृश्य तत्त्वतः॥ अभ्युत्थानेन दैवस्य समारब्धेन कर्मणा। विधिना कर्मणा चैव स्वर्गमार्गमवाप्नुयात्॥ युधिष्ठिर उवाच के पूज्या: के नमस्कार्याः कान् नमस्यसि भारत। एतन्मे सर्वमाचक्ष्व येभ्यः स्पृहयसे नृप॥ उत्तमापद्रतस्यापि यत्र ते वर्तते मनः। मनुष्यलोके सर्वस्मिन् यदमुत्रेह चाप्युत॥ भीष्म उवाच स्पृहयामि द्विजातिभ्यो येषां ब्रह्म परं धनम्। येषां स्वप्रत्ययः स्वर्गस्तपः स्वाध्यायसाधनम्॥ येषां बालाश्च वृद्धाश्च पितृपैतामहीं धुरम्। उद्वहन्ति न सीदन्ति तेभ्यो वै स्पृहयाम्यहम्॥ विद्यास्वभिविनीतानां दान्तानां मृदुभाषिणाम्। श्रुतवृत्तोपपन्नानां सदाक्षरविदां सताम्॥ संसत्सु वदतां तात हंसानामिव संघशः। मङ्गल्यरूपा रुचिरा दिव्यजीमूतनिःस्वनाः॥ सम्यगुच्चरिता वाचः श्रूयन्ते हि युधिष्ठिर। शुश्रूषमाणे नृपतौ प्रेत्य चेह सुखावहाः॥ ये चापि तेषां श्रोतारः सदा सदसि सम्मताः। विज्ञानगुणसम्पन्नास्तेभ्यश्च स्पृहयाम्यहम्॥ सुसंस्कृतानि प्रयताः शुचीनि गुणवन्ति च। ददत्यन्नानि तृप्त्यर्थं ब्राह्मणेभ्यो युधिष्ठिर॥ ये चापि सततं राजंस्तेभ्यश्च स्पृहयाम्यहम्। शक्यं ह्येवाहवे योद्धं न दातुमनसूयितम्॥ शूरा वीराच शतशः सन्ति लोके युधिष्ठिर। येषां संख्यायमानानां दानशूरो विशिष्यते॥ धन्यःस्यां यद्धहं भूयः सौम्य ब्राह्मणकोऽपि वा। कुले जातो धर्मगतिस्तपोविद्यापरायणः॥ मे त्वत्तः प्रियतरो लोकेऽस्मिन् पाण्डुनन्दन। त्वत्तश्चापि प्रियतरा ब्राह्मणा भरतर्षभ॥ यथा मम प्रियतमास्त्वत्तो प्रियाः कुरूत्तम। तेन सत्येन गच्छेयं लोकान् यत्र स शान्तनुः॥ न मे पिता प्रियतरो ब्राह्मणेभ्यस्तथाभवत्। न मे पितुः पिता वापि ये चान्येऽपि सुहृज्जनाः।।१५ न हि मे वृजिनं किंचिद् विद्यते ब्राह्मणेष्विह। अणु वा यदि वा स्थूलं विद्यते साधुकर्मसु॥ कर्मणा मनसा वापि वाचा वापि परंतप। यन्मे कृतं ब्राह्मणेभ्यस्तेनाद्य न तपाम्यहम्॥ ब्रह्मण्य इति मामाहस्तया वाचाऽस्मि तोषितः। एतदेव पवित्रेभ्यः सर्वेभ्यः परमं स्मृतम्॥ पश्यामि लोकानमलाञ्छुचीन् ब्राह्मणयायिनः। तेषु मे तात गन्तव्यमह्नाय च चिराय च॥ यथा भर्नाश्रयो धर्मः स्त्रीणां लोके युधिष्ठिर। स देवः सा गतिर्नान्या क्षत्रियस्य तथा द्विजाः॥ क्षत्रियः शतवर्षी च दशवर्षी द्विजोत्तमः। पितापुत्रौ च विज्ञेयौ तयोर्हि ब्राह्मणो गुरुः॥ नारी तु पत्यभावे वै देवरं कुरुते पतिम्। पृथिवी ब्राह्मणालाभे क्षत्रियं कुरुते पतिम्॥ पुत्रवच्च ततो रक्ष्या उपास्या गुरुवच्च ते। अग्निवच्चोपचर्या वै ब्राह्मणाः कुरुसत्तम॥ ऋजून् सतः सत्यशीलान् सर्वभूतहिते रतान्। आशीविषानिव क्रूद्धान् द्विजान् परिचरेत् सदा॥ तेजसस्तपसश्चैव नित्यं बिभ्येद् युधिष्ठि। उभे चैते परित्याज्ये तेजश्चैव तपस्तथा॥ व्यवसायस्तयोः शीघ्रमुभयोरेव विद्यते। हन्युः क्रुद्धा महाराज ब्राह्मणा ये तपस्विनः॥ भूयः स्यादुभयं दत्तं ब्राह्मणाद् यदकोपनात्। कुर्यादुभयतः शेषं दत्तशेषं न शेषयेत्॥ दण्डपाणिर्यथा गोषु पालो नित्यं हि रक्षयेत्। ब्राह्मणा ब्रह्म च तथा क्षत्रियः परिपालयेत्॥ पितेव पुत्रान् रक्षेथा ब्राह्मणान् धर्मचेतसः। गृहे चैषामवेक्षेथाः किंस्विदस्तीति जीवनम्॥ युधिष्ठिर उवाच ब्राह्मणानां तु ये लोकाः प्रतिश्रुत्य पितामह। न प्रयच्छन्ति मोहात् ते के भवन्ति महाद्युते॥ एतन्मे तत्त्वतो ब्रूहि धर्मे धर्मभृतां वर। प्रतिश्रुत्य दुरात्मानो न प्रयच्छन्ति ये नराः॥ भीष्म उवाच यो न दद्यात् प्रतिश्रुत्य स्वल्पं वा यदि वा बहु। आशास्तस्य हताः सर्वाः क्लीबस्येव प्रजाफलम्॥ यां रात्रिं जायते जीवां यां रात्रिं च विनश्यति। एतस्मिन्नन्तरे यद् यत् सुकृतं तस्य भारत।॥ यच्च तस्य हतं किंचिद् दत्तं वा भरतर्षभ। तपस्तप्तमथो वापि सर्वं तस्योपहन्यते॥ अथैतद् वचनं प्राहुर्धर्मशास्त्रविदो जनाः। निशम्य भरतश्रेष्ठ बुद्धया परमयुक्तया।॥ अपि चोदाहरन्तीमं धर्मशास्त्रविदो जनाः। अश्वानां श्यामकर्णानां सहस्त्रेण स मुच्यते।।७। अत्रैवोदाहरन्तीममितिहासं पुरातनम्। शृगालस्य च संवादं वानरस्य च भारत॥ तौ सखायौ पुरा ह्यास्तां मानुषत्वे परंतप। अन्यां योनि समापन्नौ शार्गाली वानरी तथा॥ ततः परासून् खादन्तं शृगालं वानरोऽब्रवीत्। श्मशानमध्ये सम्प्रेक्ष्य पूर्वजातिमनुस्मरन्॥ किं त्वया पापकं पूर्वं कृतं कर्म सुदारुणम्। यस्त्वं श्मशाने मृतकान् पूतिकानत्सि कुत्सितान्॥ एवमुक्तः प्रत्युवाच शृगालो वानरं तदा। ब्राह्मणस्य प्रतिश्रुत्य न मया तदुपाहतम्॥ तत्कृते पापकी योनिमापन्नोऽस्मि प्लवङ्गम। तस्मादेवंविधं भक्ष्यं भक्षयामि बुभुक्षितः॥ भीष्म उवाच शृगालो वानरं प्राह पुनरेव नरोत्तम। किं त्वया पातकं कर्म कृतं येनासि वानरः॥ वानर उवाच सदा चाहं फलाहारो ब्राह्मणानां प्लवङ्गमः। तस्मान्न ब्राह्मणस्वं तु हर्तव्यं विदुषा सदा। समं विवादो मोक्तव्यो दातव्यं स प्रतिश्रुतम्॥ भीष्म उवाच इत्येतद् ब्रुवतो राजन् ब्राह्मणस्य मया श्रुतम्। कथां कथयतः पुण्यां धर्मज्ञस्य पुरातनीम्॥ श्रुतश्चापि मया भूयः कृष्णस्यापि विशाम्पते। कथां कथयतः पूर्वं ब्राह्मणं प्रति पाण्डव॥ न हर्तव्यं विप्रधनं क्षन्तव्यं तेषु नित्यशः। बालाश्च नावमन्तव्या दरिद्राः कृपणा अपि॥ एवमेव च मां नित्यं ब्राह्मणाः संदिशन्ति वै। प्रतिश्रुत्य भवेद् देयं नाशा कार्या द्विजोत्तमे॥ ब्राह्मणो ह्याशया पूर्वं कृतया पृथिवीपते। सुसमिद्धो यथा दीप्तः पावकस्तद्विधः स्मृतः॥ यं निरीक्षेत संक्रुद्ध आशया पूर्वजातया। प्रदहेच्च हि तं राजन् कक्षमक्षय्यभुग यथा॥ स एव हि यदा तुष्टो वचसा प्रतिनन्दति। भवत्यगदसंकाशो विषये तस्य भारत॥ पुत्रान् पौत्रान् पशुंश्चैव बान्धवान् सचिवांस्तथा। पुरं जनपदं चैव शान्तिरिष्टेन पोषयेत्॥ एतद्धि परमं तेजो ब्राह्मणस्येह दृश्यते। सहस्त्रकिरणस्येव सवितुर्धरणीतले॥ तस्माद् दातव्यमेवेह प्रतिश्रुत्य युधिष्ठिर। यदीच्छेच्छोभनां जाति प्राप्तुं भरतसत्तम॥ ब्राह्मणस्य हि दत्तेन ध्रुवं स्वर्गो ह्यनुत्तमः। शक्यः प्राप्तुं विशेषेण दानं हि महती क्रिया॥ इतो दत्तेन जीवन्ति देवताः पितरस्तथा। तस्माद् दानानि देयानि ब्राह्मणेभ्यो विजानता॥ महद्धि भरतश्रेष्ठ ब्राह्मणस्तीर्थमुच्यते। वेलायां न तु कस्यांचिद् गच्छेद् विप्रो ह्यपूजितः।।२८ युधिष्ठिर उवाच मित्रसौहार्दयोगेन उपदेशं करोति यः। जात्याऽधरस्य राजर्षेर्दोषस्तस्य भवेन्न वा॥ एतदिच्छामि तत्त्वेन व्याख्यातुं वै पितामह। सूक्ष्मा गतिर्हि धर्मस्य यत्र मुह्यन्ति मानवाः॥ भीष्म उवाच अत्र ते वर्तयिष्यामि शृणु राजन् यथाक्रमम्। ऋषीणां वदतां पूर्वं श्रुतमासीत् यथा पुरा॥ उपदेशो न कर्तव्यो जातिहीनस्य कस्यचित्। उपदेशे महान् दोष उपाध्यायस्य भाष्यते॥ निदर्शनमिदं राजन् शृणु मे भरतर्षभ। दुरुक्तवचने राजन् यथापूर्वं युधिष्ठिर॥ ब्रह्माश्रमपदे वृत्तं पाश्र्वं हिमवतः शुभे। तत्राश्रमपदं पुण्यं नानावृक्षगणायुतम्॥ नानागुल्मलताकीर्णं मृगद्विजनिषेवितम्। सिद्धचारणसंयुक्तं रम्यं पुष्पितकाननम्॥ व्रतिभिर्बहुभिः कीर्णं तापसैरुपसेवितम्। ब्राह्मणैश्च महाभागैः सूर्यज्वलनसंनिभैः॥ नियमव्रतसम्पन्नैः समाकीर्णं तपस्विभिः। दीक्षितैर्भरतश्रेष्ठ यताहारैः कृतात्मभिः॥ तपोध्ययनघोषैश्च नादितं भरतर्षभ। वालखिल्यैश्च बहुभिर्यतिभिश्च निषेवितम्॥ तत्र कश्चित् समुत्साहं कृत्वा शूद्रो दयान्वितः। आगतो ह्याश्रमपदं पूजितश्च तपस्विभिः॥ तांस्तु दृष्ट्वा मुनिगणान् देवकल्पान् महौजसः। विविधां वहतो दीक्षां सम्प्राहष्यत भारत॥ अथास्य बुद्धिरभवत् तपस्ये भरतर्षभ। ततोऽब्रवीत् कुलपतिं पादौ संगृह्य भारत॥ भवत्प्रसादादिच्छामि धर्म वक्तुं द्विजर्षभ। तन्मां त्वं भगवन् वक्तुं प्रव्राजयितुमर्हसि॥ वर्णावरोऽहं भगवन् शूद्रो जात्यास्मि सत्तम। शुश्रूषां कर्तुमिच्छामि प्रपन्नाय प्रसीद मे॥ कुलपतिरुवाच न शक्यमिह शूद्रेण लिङ्गमाश्रित्य वर्तितुम्। आस्यतां यदि ते बुद्धिः शुश्रूषानिरतो भव॥ शुश्रूषया पराँल्लोकानवाप्स्यसि न संशयः॥ भीष्म उवाच एवमुक्तस्तु मुनिना स शूद्रोऽचिन्तयन्नृप। कथमत्र मया कार्यं श्रद्धा धर्मपरा च मे॥ विज्ञातमेवं भवतु करिष्ये प्रियमात्मनः। गत्वाऽऽश्रमपदाद् दूरमुटजं कृतवास्तु सः॥ तत्र वेदी च भूमिं च देवतायतनानि च। निवेश्य भरतश्रेष्ठ नियमस्थोऽभवन्मुनिः॥ अभिषेकांश्च नियमान् देवतायतनेषु च। बलिं च कृत्वा हत्वा च देवतां चाप्यपूजयत्॥ संकल्पनियमोपेतः फलाहारो जितेन्द्रियः। नित्यं संनिहिताभिस्तु ओषधीभिः फलैस्तथा॥ अतिथीन् पूजयामास यथावत् समुपागतान्। एवं हि सुमहान् कालो व्यत्यकामत तस्य वै॥ अथास्य मुनिरागच्छत् संगत्या वै तमाश्रमम्। सम्पूज्य स्वागतेनर्षि विधिवत् समतोषयत्॥ अनुकूला: कथाः कृत्वा यथागतमपृच्छता ऋषिः परमतेजस्वी धर्मात्मा संशितव्रतः॥ एवं सुबहुशस्तस्य शूद्रस्य भरतर्षभ। सोऽगच्छदाश्रममृषिः शूद्रं द्रष्टुं नरर्षभ॥ अथ तं तापसं शूद्रः सोऽब्रवीद् भरतर्षभ। पितृकार्यं करिष्यामि तत्र मेऽनुग्रहं कुरु॥ बाढमित्येव तं विप्र उवाच भरतर्षभ। शुचिर्भूत्वा स शूद्रस्तु तस्यर्षेः पाद्यमानयत्॥ अथ दर्भाश्च वन्यांश्च ओषधीर्भरतर्षभ। पवित्रमासनं चैव वृषी च समुपानयत्॥ अथ दक्षिणमावृत्य वृषी चरमशैर्षिकीम्। कृतामन्यायतो दृष्ट्वा तं शूद्रमृषिरब्रवीत्॥ कुरुष्वैतां पूर्वशीर्षां भवांश्चोदङ्मुखः शुचिः। स च तत् कृतवान् शूद्रः सर्वं यदृषिरब्रवीत्॥ यथोपदिष्टं मेधावी दर्भा_दि यथातथम्। हव्यकव्यविधिं कृत्स्नमुक्तं तेन तपस्विना॥ ऋषिणा पितृकार्यं च स च धर्मपथे स्थितः। पितृकार्यं कृते चापि विसृष्टः स जगाम ह॥ अथ दीर्घस्य कालस्य स तप्यन् शूद्रतापसः। वने पञ्चत्वमगमत् सुकृतेन च तेन वै॥ अजायत महाराजवंशे स च महाद्युतिः। तथैव स ऋषिस्तात कालधर्ममवाप ह॥ पुरोहितकुले विप्र आजातो भरतर्षभ। एवं तौ तत्र सम्भूतावुभौ शूद्रमुनी तदा॥ क्रमेण वर्धितौ चापि विद्यासु कुशलावुभौ॥ अथर्ववेदे वेदे च बभूवर्षिः सुनिष्ठितः। कल्पप्रयोगे चोत्पन्ने ज्योतिषे च परं गतः॥ सांख्ये चैव परा प्रीतिस्तस्य चैवं व्यवर्धत। पितर्युपरते चापि कृतशौचस्तु पार्थिव॥ अभिषिक्तः प्रकृतिभी राजपुत्रः स पार्थिवः। अभिषिक्तेन स ऋषिरभिषिक्तः पुरोहितः॥ स तं पुरोधाय सुखमवसद् भरतर्षभ। राज्यं शशास धर्मेण प्रजाश्च परिपालयन्॥ पुण्याहवाचने नित्यं धर्मकार्येषु चासकृत्। उत्स्मयन् प्राहसच्चापि दृष्ट्वा राजा पुरोहितम्॥ एवं स बहुशो राजन् पुरोधसमुपाहसत्। लक्षयित्वा पुरोधास्तु बहुशस्तं नराधिपम्॥ उत्स्मयन्तं च सततं दृष्ट्वासौ मन्युमाविशत्। अथ शून्ये पुरोधास्तु सह राज्ञा समागतः॥ कथाभिरनुकूलाभी राजानं चाभ्यरोचयत्। ततोऽब्रवीन्नरेन्द्रं स पुरोधा भरतर्षभ॥ वरमिच्छाम्यहं त्वेकं दत्तं महाद्युते॥ राजोवाच वराणां ते शतं दद्यां किं बतैकं द्विजोत्तम। स्नेहाच्च बहुमानाच्च नास्त्यदेयं हि मे तव॥ पुरोहित उवाच एकं वै वरमिच्छामि यदि तुष्टोऽसि पार्थिव। प्रतिजानीहि तावत् त्वं सत्यं यद् वद नानृतम्॥ भीष्म उवाच बाढमित्येव तं राजा प्रत्युवाच युधिष्ठिर। यदि ज्ञास्यामि वक्ष्यामि अजानन् न तु संवदे॥ पुरोहित उवाच पुण्याहवाचने नित्यं धर्मकृत्येषु चासकृत्। शान्तिहोमेषु च सदा किं त्वं हससि वीक्ष्य माम्॥५० सव्रीडं वै भवति हि मनो मे हसता त्वया। कामया शापितो राजन् नान्यथा वक्तुमर्हसि॥ सुव्यक्तं कारणं ह्यत्र न ते हास्यमकारणम्। कौतूहलं मे सुभृशं तत्त्वेन कथयस्व मे॥ राजोवाच एवमुक्ते त्वया विप्र यदवाच्यं भवेदपि। अवश्यमेव वक्तव्यं शृणुष्वैकमना द्विज॥ पूर्वदेहे यथा वृत्तं तन्निबोध द्विजोत्तमा जाति स्मराम्यहं ब्रह्मन्नवधानेन मे शृणु॥ शूद्रोऽहमभवं पूर्वं तापसो भृशसंयुतः। ऋषिरुग्रतपास्त्वं च तदाभूद् द्विजसत्तम॥ प्रीयता हि तदा ब्रह्मन् ममानुग्रहबुद्धिना। पितृकार्यं त्वया पूर्वमुपदेशः कृतोऽनघ॥ बृस्यां दर्भेषु हव्ये च कव्ये च मुनिसत्तम। एतेन कर्मदोषेण पुरोधास्त्वमजायथाः॥ अहं राजा च विप्रेन्द्र पश्य कालस्य पर्ययम्। मत्कृतस्योपदेशस्य त्वयावाऽऽप्तमिदं फलम्॥ एतस्मात् कारणाद् ब्रह्मन् प्रहसे त्वां द्विजोत्तम। न त्वां परिभवन् ब्रह्मन् प्रहसामि गुरुभवान्॥ विपर्ययेण मे मन्युस्तेन संतप्यते मनः। जातिं स्मराम्यहं तुभ्यमतस्त्वां प्रहसामि वै॥ एवं तवोग्रं हि तप उपदेशेन नाशितम्। पुरोहितत्वमुत्सृज्य यतस्व त्वं पुनर्भवे॥ इतस्त्वमधमामन्यां मा योनि प्राप्स्यसे द्विजा गृह्यतां द्रविणं विप्र पूतात्मा भव सत्तम॥ भीष्म उवाच ततो विसृष्टो राज्ञा तु विग्रो दानान्यनेकशः। ब्राह्मणेभ्यो ददौ वित्तं भूमि ग्रामांश्च सर्वशः॥ कृच्छ्राणि चीर्वा च ततो यथोक्तानि द्विजोत्तमैः। तीर्थानि चापि गत्वा वै दानानि विविधानि च॥ दत्वा गाश्चैव विप्रेभ्यः पूतात्माऽभवदात्मवान्। तमेव चाश्रमं गत्वा चचार विपुलं तपः॥ ततः सिद्धिं परां प्राप्तो ब्राह्मणो राजसत्तम। सम्मतश्चाभवत् तेषामाश्रमे तन्निवासिनाम्॥ एवं प्राप्तो महत्कृच्छ्रमृषिः सन्नृपसत्तम। ब्राह्मणेन न वक्तव्यं तस्माद् वर्णावरे जने॥ (वर्जयेददुपदेशं च सदैव ब्राह्मणो नृप। उपदेशं हि कुर्वाणो द्विजः कृच्छ्रमवाप्नुयात्।। नेषितव्यं सदा वाचा द्विजेन नृपसत्तम। न च प्रव्यक्तव्यमिह किञ्चिद् वर्णावरे जने॥) ब्राह्मणा: क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः। एतेषु कथयन् राजन् ब्राह्मणो न प्रदुष्यति॥ तस्मात् सद्भिर्न वक्तव्यं कस्यचित् किंचिदग्रतः। सूक्ष्मा गतिर्हि धर्मस्य दुर्जेया ह्यकृतात्मभिः॥ तस्मान्मौनेन मुनयो दीक्षां कुर्वन्ति चादृताः। दुरुक्तस्य भयाद् नाभाषन्ते च किंचन॥ धार्मिका गुणसम्पन्नाः सत्यार्जवसमन्विताः। दुरुक्तवाचाभिहितैः प्राप्नुवन्तीह दुष्कृतम्॥ उपदेशो न कर्तव्यः कदाचिदपि कस्यचित्। उपदेशाद्धि तत् पापं ब्राह्मण: समवाप्नुयात्॥ विमृश्य तस्मात् प्राज्ञेन वक्तव्यं धर्ममिच्छता। सत्यानृतेन हि कृत उपदेशो हिनस्ति हि॥ वक्तव्यमिह पृष्टेन विनिश्चित्य विनिश्चयम्। स चोपदेशः कर्तव्यो येन धर्ममवाप्नुयात्॥ एतत् ते सर्वमाख्यातमुपदेशकृते मया। महान् केशो हि भवति तस्मान्नोपदिशेदिह॥ युधिष्ठिर उवाच स्त्रीपुंसयोः सम्प्रयोगे स्पर्शः कस्याधिको भवेत्। एतस्मिन् संशये राजन् यथावद् वक्तुमर्हसि॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। भंगास्वनेन शक्रस्य तथा वैरमभूत् पुरा॥ पुरा भंगास्वनो नाम राजर्षिरतिधार्मिकः। अपुत्रः पुरुषव्याघ्र पुत्रार्थं यज्ञमाहरत्॥ अग्निष्टुतं स राजर्षिरिन्द्रद्विष्टं महाबलः। प्रायश्चित्तेषु मर्त्यानां पुत्रकामेषु चेष्यते॥ इन्द्रो ज्ञात्वा तु तं यज्ञं महाभागः सुरेश्वरः। अन्तरं तस्य राजर्षेरन्विच्छनियतात्मनः॥ न चैवास्यान्तरं राजन् स ददर्श महात्मनः। कस्यचित्त्वथ कालस्य मृगयां गतवान् नृपः॥ इदमन्तरमित्येव शक्रो नृपममोहयत्। एकाश्वेन च राजर्षिर्धान्त इन्द्रेण मोहितः॥ न दिशाऽविन्दत नृपः क्षुत्पिपासादितस्तदा। इतश्चेतश्च वै राजन् श्रमतृष्णान्वितो नृप॥ सरोऽपश्यत् सुरुचिरं पूर्णं परमवारिणा। सोऽवगाह सरस्तात पाययामास वाजिनम्॥ अथ पीतोदकं सोऽश्वं वृक्षे बद्ध्वा नृपोत्तमः। अवगाह्य ततः स्नातस्तत्र स्त्रीत्वमवाप्तवान्॥ आत्मानं स्त्रीकृतं दृष्ट्वा वीडितो नृपसत्तमः। चिन्तानुगतसर्वात्मा वयाकुलेन्द्रियचेतनः॥ आरोहिष्ये कथं त्वश्वं कथं यास्यामि वै पुरम्। इष्टेनाग्निष्टुता चापि पुत्राणां शतमौरसम्॥ जातं महाबलानां मे तान् प्रवक्ष्यामि किं त्वहम्। दारेषु चात्मकीयषु पौरजानपदेषु च॥ मृदुत्वं च तनुत्वं च विक्लवत्वं तथैव च। स्त्रीगुणा ऋषिभिः प्रोक्ता धर्मतत्त्वार्थदर्शिभिः॥ व्यायामे कर्कशत्वं च वीर्यं च पुरुषे गुणाः। पौरुषं विप्रनष्टं वै स्त्रीत्वं कनापि मेऽभवत्॥ स्त्रीभावात् पुनरश्वं तं कथमारोढुमुत्सहे। महता त्वथ यत्नेन आरुह्याश्वं नराधिपः॥ पुनरायात् पुरं तात स्त्रीकृतो नृपसत्तमः। पुत्रा दाराश्च भृत्याश्च पौरजानपदाश्च ते॥ किंत्विदं विति विज्ञाय विस्मयं परमं गताः। अथोवाच स राजर्षिः स्त्रीभूतो वदतां वरः॥ मृगयामस्मि निर्याता बलैः परिवृतो दृढम्। उद्भ्रान्तः प्राविशं घोरामटवीं दैवचोदितः।॥ अटव्यां च सुघोरायां तृष्णा” नष्टचेतनः। सरः सुरुचिरप्रख्यमपश्यं पक्षिभिर्वृतम्॥ तत्रावगाढः स्त्रीभूतो दैवेनाहं कृतः पुराः। नामगोत्राणि चाभाष्य दाराणां मन्त्रिणां तथा॥ आह पुत्रांस्ततः सोऽथ स्त्रीभूतः पार्थिवोत्तमः। सम्प्रीत्या भुज्यतां राज्यं वनं यास्यामि पुत्रकाः॥ एवमुक्त्वा पुत्रशतं वनमेव जगाम ह। गत्वा चैवाश्रमं सा तु तापसं प्रत्यपद्यत॥ तापसेनास्य पुत्राणामाश्रमेष्वभवच्छतम्। अथ साऽऽदाय तान् सर्वान् पूर्वपुत्रानभाषत।॥ पुरुषत्वे सुता यूयं स्त्रीत्वे चेमे शतं सुताः। एकत्र भुज्यतां राज्यं भ्रातृभावेन पुत्रकाः॥ सहिता भ्रातरस्तेऽथ राज्यं बुभुजिरे तदा। तान् दृष्ट्वा भ्रातृभावेन भुञ्जानान् राज्यमुत्तमम्॥ चिन्तयामास देवेन्द्रो मन्युनाऽथ परिप्लुतः। उपकारोऽस्य राजर्षेः कृतो नापकृतं मया।॥ ततो ब्राह्मणरूपेण देवराजः शतक्रतुः। भेदयामास तान् गत्वा नगरं वै नृपात्मजान्॥ भ्रातृणां नास्ति सौभ्रात्रं येष्वेकस्य पितुः सुताः। राज्यहेतोर्विवदिताः कश्यपस्य सुरासुराः॥ यूयं भङ्गास्वनापत्यास्तापसस्येत्तरे सुताः। कश्यपस्य सुराश्चैव असुराश्च सुतास्तथा॥ युष्माकं पैतृकं राज्यं भुज्यते तापसात्मजैः। इन्द्रेण भेदितास्ते तु युद्धेऽन्योन्यमपातयन्।॥ तच्छुत्वा तापसी चापि संतप्ता प्ररुरोद ह। ब्राह्मणच्छद्मनाभ्येत्य तामिन्द्रोऽथान्वच्छत॥ केन दुःखेन संतप्ता रोदिषि त्वं वरानने। ब्राह्मणं तं ततो दृष्ट्वा सा स्त्री करुणमब्रवीत्॥ पुत्राणां वे शते ब्रह्मन् कालेन विनिपातिते। अहं राजाभवं विप्र तत्र पूर्वं शतं मम॥ समुत्पन्नं स्वरूपाणां पुत्राणां ब्राह्मणोत्तम। कदाचिन्मृगयां यात उद्भान्तो गहने वने॥ अवगाढश्च सरसि स्त्रीभूतो ब्राह्मणोत्तम। पुत्रान् राज्ये प्रतिष्ठाप्य वनमस्मि ततो गतः॥ स्त्रियाश्च मे पुत्रशतं तापसेन महात्मना। आश्रमे जनितं ब्रह्मन् नीतं तन्नगरं मया॥ तेषां च वैरमुत्पन्नं कालयोगेन वै द्विजा एतच्छोचाम्यहं ब्रह्मन् दैवेन समभिप्लुता॥ इन्द्रस्तां दुःखितां दृष्ट्वा अब्रवीत् परुषं वचः। पुरा सुदुःसहं भद्रे मम दुःखं त्वया कृतम्॥ इन्द्रद्विष्टेन यजता मामनाहूय धिष्ठितम्। इन्द्रोऽहमस्मि दुर्बुद्धे वैरं ते पातितं मया॥ इन्द्रं दृष्ट्वा तु राजर्षिः पादयोः शिरसा गतः। प्रसीद त्रिदशश्रेष्ठ पुत्रकामेन स क्रतुः॥ इष्टस्त्रिदशशार्दूल तत्र मे क्षन्तुमर्हसि। प्रणिपातेन तस्येन्द्रः परितुष्टो वरं ददौ॥ पुत्रास्ते कतमे राजन् जीवन्त्वेतत् प्रचक्ष्व मे। स्त्रीभूतस्य हि ये जाताः पुरुषस्याथ येऽभवन्॥ तापसी तु ततः शक्रमुवाच प्रयताञ्जलिः। स्त्रीभूतस्य हि ये पुत्रास्ते मे जीवन्तु वासव।॥ इन्द्रस्तु विस्मितो दृष्ट्वा स्त्रियं पप्रच्छ तां पुनः। पुरुषोत्पादिता ये ते कथं द्वेष्याः सुतास्तव॥ स्त्र्युवाच स्त्रीभूतस्य हि ये जाताः स्नेहस्तेभ्योऽधिकः कथम्। कारणं श्रोतुमिच्छामि तन्मे वक्तुमिहार्हसि॥ भीष्म उवाच स्त्रियास्त्वभ्यधिकः स्नेहो न तथा पुरुषस्य वै। तस्मात् ते शक्र जीवन्तु ये जाताः स्त्रीकृतस्य वै।४७ एवमुक्तस्ततस्त्विन्द्रः प्रीतो वाक्यमुवाच ह। सर्व एवेह जीवन्तु पुत्रास्ते सत्यवादिनि॥ स्त्युवाच वरं च वृणु राजेन्द्र यं त्वमिच्छसि सुव्रत। पुरुषत्वमथ स्त्रीत्वं मत्तो यदभिकांक्षते॥ स्त्रीत्वमेव वृणे शक्र पुंस्त्वं नेच्छामि वासव। एवमुक्तस्तु देवेन्द्रस्तां स्त्रियं प्रत्युवाच ह॥ पुरुषत्वं कथं त्यक्त्वा स्त्रीत्वं चोदयसे विभो। एवमुक्तः प्रत्युवाच स्त्रीभूतो राजसत्तमः॥ स्त्रियाः पुरुषसंयोगे प्रीतिरभ्यधिका सदा। एतस्मात् कारणाच्छक स्त्रीत्वमेव वृणोम्यहम्॥ रमिताऽभ्यधिकं स्त्रीत्वे सत्यं वै देवसत्तम। स्त्रीभावेन हि तुष्यामि गम्यतां त्रिदशाधिप॥ एवमस्त्विति चोक्त्वा तामापृच्छच्य त्रिदिवं गतः। एवं स्त्रिया महाराज अधिका प्रतिरुच्यते॥ युधिष्ठिर उवाच किं कर्तव्यं मनुष्येण लोकयात्राहितार्थिना। कथं वै लोकयात्रां तु किंशीलश्च समाचरेत्॥ भीष्म उवाच कार्येन त्रिविधं कर्म वाचर चापि चतुर्विधम्। मनसा त्रिविधं चैव दशकर्मपथांस्त्यजेत्॥ प्राणातिपात: स्तैन्यं च परदारानथापि च। त्रीणि पापानि कायेन सर्वतः परिवर्जयेत्॥ असत्प्रलाप पारुष्यं पैशुन्यमनृतं तथा। चत्वारि वाचा राजेन्द्र न जल्पेन्नानुचिन्तयेत्॥ अनभिघ्या परस्वेषु सर्वसत्त्वेषु सौहृदम्। कर्मणां फलमस्तीति त्रिविधं मनसा चरेत्॥ तस्माद् वाक्कायमनसा नाचरेदशुभं नरः। शुभाशुभान्याचरन् हि तस्य तस्याश्नुते फलम्॥ युधिष्ठिर उवाच त्वयाऽऽपगेय नामानि श्रुतानीह जगत्पतेः। पितामहेशाय विभो नामान्याचक्ष्व शम्भवे॥ बभ्रवे विश्वरूपाय महाभाग्यं च तत्त्वतः। सुरासुरगुरौ देवे शंकरेऽव्यक्तयोनये॥ भीष्म उवाच अशक्तोऽहं गुणान् वक्तुं महादेवस्य धीमतः। यो हि सर्वगतो देवो न च सर्वत्र दृश्यते॥ ब्रह्मविष्णुसुरेशानां स्रष्टा च प्रभुरेव च। ब्रह्मादयः पिशाचान्ता यं हि देवा उपासते॥ प्रकृतीनां परत्वेन पुरुषस्य च यः परः। चिन्त्यते यो योगविद्भिर्ऋषिभिस्तत्त्वदर्शिभिः। अक्षरं परमं ब्रह्म असच्च सदसच्च यः॥ प्रकृति पुरुषं चैव क्षोभयित्वा स्वतेजसा। ब्रह्माणमसृजत् तस्माद् देवदेवः प्रजापतिः॥ को हि शक्तो गुणान् वक्तुं देवदेवस्य धीमतः। गर्भजन्मजरायुक्तो मर्यो मृत्युसमन्वितः॥ को हि शक्तो भवं ज्ञातुं मद्विधः परमेश्वरम्। ऋते नारायणात् पुत्र शङ्खचक्रगदाधरात्॥ एष विद्वान् गुणश्रेष्ठो विष्णुः परमदुर्जयः। दिव्यचक्षुर्महातजा वीक्षते योगचक्षुषा॥ रुद्रभक्त्या तु कृष्णेन जगद् व्याप्तं महात्मना। तं प्रसाद्य तदा देवं बदाँ किल भारत॥ अर्थात् प्रियतरत्वं च सर्वलोकेषु वै तदा। प्राप्तवानेव राजेन्द्र सुवर्णाक्षान्महेश्वरात्॥ पूर्णं वर्षसहस्रं तु तप्तवानेष माधवः। प्रसाद्य वरदं देवं चराचरगुरुं शिवम्॥ युगे युगे तु कृष्णेन तोषितो वै महेश्वरः। भक्त्या परमया चैव प्रीतश्चैव महात्मनः॥ ऐश्वर्यं यादृशं तस्य जगधोनेर्महात्मनः। तदयं दृष्टवान् साक्षात् पुत्रार्थे हरिरच्युतः॥ यस्मात् परतरं चैव नान्यं पश्यामि भारत। व्याख्यातुं देवदेवस्य शक्तो नामान्यशेषतः॥ एष शक्तो महाबाहुर्वक्तुं भगवतो गुणान्। विभूतिं चैव कात्स्न्र्थेन सत्यां माहेश्वरी नृप॥ वैशम्पायन उवाच एवमुक्त्वा तदा भीष्मो वासुदेवं महायशाः। भवमाहात्म्यसंयुक्तमिदमाह पितामहः॥ भीष्म उवाच सुरासुरगुरो देव विष्णो त्वं वक्तुमर्हसि। शिवाय विष्णुरूपाय यन्मां पृच्छद् युधिष्ठिरः॥ नाम्नां सहस्रं देवस्य तण्डिना ब्रह्मयोनिना। निवेदितं ब्रह्मलोके ब्रह्मणो यत् पुराभवत्॥ द्वैपायनप्रभृतयस्तथा चेमे तपोधनाः। ऋषयः सुव्रता दान्ताः शृण्वन्तु गदतस्तव॥ ध्रुवाय नन्दिने होः गोप्ने विश्वसृजेऽग्नये। महाभाग्यं विभो—हि मुण्डिनेऽथ कपर्दिने॥ वासुदेव उवाच न गतिः कर्मणां शक्या वेत्तुमीशस्य तत्त्वतः। हिरण्यगर्भप्रमुखा देवाः सेन्द्रा महर्षयः॥ न विदुर्यस्य भवनमादित्याः सूक्ष्मदर्शिनः। स कथं नरमात्रेण शक्यो ज्ञातुं सतां गतिः॥ तस्याहमसुरघ्नस्य कांश्चिद् भगवतो गुणान्। भवतां कीर्तयिष्यामि व्रतेशाय यथातथम्॥ वैशम्पायन उवाच एवमुक्त्वा तु भगवान् गुणांस्तस्य महात्मनः। उपस्पृश्य शुचिर्भूत्वा कथयामास धीमतः॥ वासुदेव उवाच शुश्रूषध्वं ब्राह्मणेन्द्रास्त्वं च तात युधिष्ठिर। त्वं चापगेय नामानि शृणुष्वेह कपर्दिने॥ यदवाप्तं च मे पूर्वं साम्बहेतोः सुदुष्करम्। यथावद् भगवान् दृष्टो मया पूर्वं समाधिना॥ शम्बरे निहते पूर्वं रौक्मिणेयेन धीमता। अतीते द्वादशे वर्षे जाम्बवत्यब्रवीद्धि माम्॥ प्रद्युम्नचारुदेष्णादीन् रुक्मिण्या वीक्ष्य पुत्रकान्। पुत्रार्थिनी मामुपेत्य वाक्यमाह युधिष्ठिर॥ शूरं बलवतां श्रेष्ठं कान्तरूपमकल्मषम्। आत्मतुल्यं मम सुतं प्रयच्छाच्युत माचिरम्॥ न हि तेऽप्राप्यमस्तीह त्रिषु लोकेषु किंचन। लोकान् सृजेस्त्वमपरानिच्छन् यदुकुलोद्वह॥ त्वया द्वादशवर्षाणि व्रतीभूतेन शुष्यता। आराध्य पशुभर्तारं रुक्मिण्यां जनिताः सुताः॥ चारुदेष्णः सुचारश्च चारुवेशो यशोधरः। चारुश्रवाश्चारुयशाः प्रद्युम्नः शुम्भुरेव च॥ यथा ते जनिताः पुत्रा रुक्मिण्यां चारुविक्रमाः। तथा ममापि तनयं प्रयच्छ मधुसूदन।॥ इत्येवं चोदितो देव्या तामवोचं सुमध्यमाम्। अनुजानीहि मां राज्ञि करिष्ये वचनं तव॥ सा च मामब्रवीद् गच्छ शिवाय विजयाय च। ब्रह्मा शिवः काश्यपश्च नद्यो देवा मनोनुगाः॥ क्षेत्रौषध्यो यज्ञवाहाश्छन्दांस्य॒षिगणाध्वराः। समुद्रा दक्षिणास्तोभा ऋक्षाणि पितरो ग्रहाः॥ देवपल्यो देवकन्या देवमातर एव च। मन्वन्तराणि गावश्च चन्द्रमाः सविता हरिः॥ सावित्री ब्रह्मविद्या च ऋतवो वत्सरास्तथा। क्षणा लवा मुहूर्ताश्च निमेषा युगपर्ययाः॥ रक्षन्तु सर्वत्र गतं त्वां यादव सुखाय च। अरिष्टं गच्छ पन्थानमप्रमत्तो भवानघ॥ एवं कृतस्वस्त्ययनस्तयाऽहं ततोऽभ्यनुज्ञाय नरेन्द्रपुत्रीम्। पितुः समीपं नरसत्तमस्य मातुश्च राज्ञश्च तथाऽऽहकस्य॥ गत्वा समावेद्य यदब्रवीन्मां विद्याधरेन्द्रस्य सुता भृशार्ता। तानभ्यनुज्ञाय तदातिदुःखाद् गदं तथैवातिबलं च रामम्। अथोचतुः प्रीतियुतौ तदानीं तप:समृद्धिर्भवतोऽस्त्वविघ्नम्॥ प्राप्यानुज्ञां गुरुजनादहं तार्क्ष्यमचिन्तयम्। सोऽवहद्धिमवन्तं मां प्राप्य चैनं व्यसर्जयम्॥ तत्राहमद्भुतान् भावानपश्यं गिरिसत्तमे। क्षेत्रं च तपसां श्रेष्ठं पश्याम्यद्भुतमुत्तमम्॥ दिव्यं वैयाघ्रपद्यस्य उपमन्योर्महात्मनः। पूजितं देवगन्धर्वैाझ्या लक्ष्या समावृतम्॥ धव-ककुभ-कदम्ब-नारिकेलैः कुरबक-केतक जम्बु-पाटलाभिः। वट-वरुणक-वत्सनाभ-बिल्वैः सरल-कपित्थ-प्रियाल-साल तालैः॥ बदरी-कुन्द-पुन्नागैरशोकाम्रातिमुक्तकैः। मधूकैः कोविदारैश्च चम्पकैः पनसैस्तथा॥ वन्यैर्बहुविधैर्वक्षैः फलपुष्यप्रदैर्युतम्। पुष्पगुल्मलताकीर्णं कदलीषण्डशोभितम्॥ नानाशकुनिसम्भोज्यैः फलैर्वृक्षरलंकृतम्। यथास्थानविनिक्षिप्तैर्भूषितं भस्मराशिभिः॥ रुरु-वानर-शार्दूल-सिंह-द्वीपि-समाकुलम्। कुरङ्ग-बर्हिणाकीर्णं मार्जार-भुजगावृतम्। पूगैश्च मृगजातीनां महिष‘निषेवितम्॥ सकृत्प्रभिन्नैश्च गजैर्विभूषितं प्रहष्टनानाविधपक्षिसेवितम्। महीरुहाणां च वनैर्विचित्रैः॥ नानापुष्परजोमिश्रो गजदानाधिवासितः। दिव्यस्रीगीतबहुलो मारुतोऽभिमुखो ववौ॥ धारानिनादैविहगप्रणादैः शुभैस्तथा बृंहितैः कुञ्जराणाम्। गीतैस्तथा किन्नराणामुदारैः शुभैः स्वनैः सामगानां च वीर॥ अचिन्त्यं मनसाऽप्यन्यैः सरोभिः समलंकृतम्। विशालैश्चाग्निशरणैर्भूषितं कुसुमावृतैः॥ विभूषितं पुण्यपवित्रतोयया सदा च जुष्टं नृप जलकन्यया। महात्मभिर्वन्हिासमानकल्पैः॥ वाय्वाहारैरम्बुपैर्जप्यनित्यैः सम्प्रक्षालैर्योगिभिर्ध्याननित्यैः। धूमप्राशैरूष्मपैः क्षीरपैश्च संजुष्टं च ब्राह्मणेन्द्रैः समन्तात्॥ गोचारिणोऽथाश्मकुट्टा दन्तोलूखलिकास्तथा। मरीचिपाः फेनपाश्च तथैव मृगचारिणः॥ अश्वत्थफलभक्षाश्च तथा छुदकशायिनः। चीरचर्माम्बरधरास्तथा वल्कलधारिणः॥ सुदुःखान् नियमांस्तांस्तान् वहतः सुतपोधनान्। पश्यन् मुनीन् बहुविधान् प्रवेष्टुमुपचक्रमे॥ सुपूजितं देवगणैर्महात्मभिः शिवादिभिर्भारत पुण्यकर्मभिः। रराज तच्चाश्रममण्डलं सदा दिवीव राजन् शशिमण्डलं यथा॥ क्रीडन्ति सर्नकुला मृगैर्व्याघ्राच मित्रवत्। प्रभावाद् दीप्ततपसां संनिकर्षान्महात्मनाम्॥ तत्राश्रमपदे श्रेष्ठे सर्वभूतमनोरमे। सेविते द्विजशार्दूलैर्वेदवेदाङ्गपारगैः॥ नानानियमविख्यातैर्ऋषिभिः सुमहात्मभिः। प्रविशन्नेव चापश्यं जटाचीरधरं प्रभुम्॥ तेजसा तपसा चैव दीप्यमानं यथाऽनलम्। शिष्यैरनुगतं शान्तं युवानं ब्राह्मणर्षभम्॥ शिरसा वन्दमानं मामुपमन्युरभाषत॥ स्वागतं पुण्डरीकाक्ष सफलानि तपांसि नः। यः पूज्यः पूजयसि मां द्रष्टव्यो द्रष्टुमिच्छसि॥ तमहं प्राञ्जलिर्भूत्वा मृगपक्षिष्वथाग्निषु। धर्मं च शिष्यवर्गं च समपृच्छमनामयम्॥ ततो मां भगवानाह साम्ना परमवल्गुना। लप्स्यसे तनयं कृष्ण आत्मतुल्यमसंशयम्॥ तपः सुमहदास्थाय तोषयेशानमीश्वरम्। इह देवः सपत्नीकः समाक्रीडत्यधोक्षज॥ इहैनं दैवतश्रेष्ठं देवाः सर्षिगणाः पुरा। तपसा ब्रह्मचर्येण सत्येन च दमेन च॥ तोषयित्वा शुभान कामान् प्राप्तवन्तो जनार्दन। तेजसां तपसां चैव निधिः स भगवानिह॥ शुभाशुभान्वितान् भगवान् विसृजन संक्षिपन्नापि। आस्ते देव्या सदाचिन्त्यो यं प्रार्थयसि शत्रुहन्॥ हिरण्यकशिपुर्योऽभूद् दानवो मेरुकम्पनः। तेन सर्वामरैश्वर्यं शर्वात् प्राप्तं समार्बुदम्॥ तस्यैव पुत्रप्रवरो मन्दारो नाम विश्रुतः। महादेववराच्छकं वर्षार्बुदमयोधयत्॥ विष्णोश्चक्रं च तद् घोरं वज्रमाखण्डलस्य च। शीर्णं पुराऽभवत् तात ग्रहस्याङ्गेषु केशव॥ यत् तद् भगवता पूर्वं दत्तं चक्रं तवानघ। जलान्तरचरं हत्वा दैत्यं च बलगार्वितम्॥ उत्पादितं वृषाङ्केन दीप्तज्वलनसंनिभम्। दत्तं भगवता तुभ्यं दुर्धर्षं तेजसाद्भुतम्॥ न शक्यं द्रष्टुमन्येन वर्जयित्वा पिनाकिनम्। सुदर्शनं भवत्येवं भवेनोक्तं तदा तु तत्॥ सुदर्शनं तदा तस्य लोके नाम प्रतिष्ठितम्। तज्जीर्णमभवत् तात ग्रहस्यालेषु केशव॥ ग्रहस्यातिबलस्याङ्गे वरदत्तस्य धीमतः। न शस्राणि वहन्त्यङ्गे चक्रवज्रशतान्यपि॥ अर्धमानाश्च विबुधा ग्रहेण सुबलीयसा। शिवदत्तवरान् जघ्नुरसुरेन्द्रान् सुरा भृशम्॥ तुष्टो विद्युत्प्रभस्यापि त्रिलोकेश्वरतां ददौ। शतं वर्षसहस्राणां सर्वलोकेश्वरोऽभवत्॥ मनसैवानुचरो नित्यं भवितासीति चाब्रवीत्। तथा पुत्रसहस्राणामयुतं च ददौ प्रभुः॥ कुशद्वीपं च स ददौ राज्येन भगवानजः। तथा शतमुखो नाम धात्रा सृष्टो महासुरः॥ येन वर्षशतं साग्रमात्ममांसैर्हतोऽनलः। तं प्राह भगवांस्तुष्टः किं करोमीति शंकरः॥ तं वै शतमुखः प्राह योगो भवतु मेऽद्भुतः। बलं च दैवतश्रेष्ठ शाश्वतं सम्प्रयच्छ मे॥ तथेति भगवानाह तस्य तद् वचनं प्रभुः। स्वायम्भुवः क्रतुश्चापि पुत्रार्थमभवत् पुरा॥ आविश्य योगेनात्मानं त्रीणि वर्षशतान्यपि। योगेश्वरं देवगीतं वेस्थ कृष्ण न संशयः। तस्य चौपददौ पुत्रान् सहस्रं क्रतुसम्मितान्॥ आराध्य स महादेवं प्राप्तवानतुलं यशः। याज्ञवल्क्य इति ख्यात ऋषिः परमधार्मिकः॥ सोऽपि शङ्करमाराध्य प्राप्तवानतुलं यशः। वेदव्यासश्च योगात्मा पराशरसुतो मुनिः॥ तैः क्रुद्धैर्भगवान् रुद्रस्तपसा तोषितो ह्यभूत्। बालखिल्या मघवता ह्यवज्ञाताः पुरा किल॥ सुपर्णं सोमहर्तारं तपसोत्पादयिष्यथा तांश्चापि दैवतश्रेष्ठः प्राह प्रीतो जगत्पतिः॥ महादेवस्य रोषाच्च आपो नष्टाः पुराभवन्॥ ताश्च सप्तकपालेन देवैरन्याः प्रवर्तिताः। तत: पानीयमभवत् प्रसन्ने व्यम्बके भुवि॥ अनेर्भार्याऽपि भर्तारं संत्यज्य ब्रह्मवादिनी। नाहं तस्य मुनेर्भूयो वशगा स्यां कथंचन॥ इत्युक्त्वा सा महादेवमगच्छच्छरणं किला निराहारा भयादत्रेस्रीणि वर्षशतान्यपि॥ अशेत मुसलेष्वेव प्रसादार्थे भवस्य सा। तामब्रवीद्धसन् देवो भविता वै सुतस्तव॥ विना भर्चा च रुद्रेण भविष्यति न संशयः। वंशे तथैव नाम्ना तु ख्याति यास्यति चेप्सिताम्॥ विकर्णश्च महादेवं तथा भक्तसुखावहम्। प्रसाद्य भगवान् सिद्धि प्राप्तवान् मधुसूदन॥ शाकल्यः संशितात्मा वै नववर्षशतान्यपि। आराधयामास भवं मनोयज्ञेन केशव॥ तं चाह भगवांस्तुष्टो ग्रन्थकारो भविष्यसि। वत्साक्षया च ते कीर्तिपैलोक्ये वै भविष्यति॥ रुद्र उवाच अक्षयं च कुलं तेऽस्तु महर्षिभिरलंकृतम्। भविष्यति द्विजश्रेष्ठः सूत्रकर्ता सुतस्तव॥ सावर्णिश्चापि विख्यात ऋषिरासीत् कृते युगे। इह तेन तपस्तप्तं षष्टिवर्षशतान्यथ॥ तस्य तुष्टो महादेवो जगौ देवगुरुर्गुरुः । तमाह भगवान् रुद्रः साक्षात् तुष्टोऽस्मि तेऽनघ। ग्रन्थकृल्लोकविख्यातो भविताऽस्यजरामरः॥ गीतेन वादितव्येन नित्यं मामनुयास्यसि। शक्रेण तु पुरा देवो वाराणस्यां जनार्दन। आराधितोऽभूद् भक्तेन दिग्वासा भस्मगुण्ठितः॥१०५ आराध्य स महादेवं देवराजमवाप्तवान्। नारदेन तु भक्त्याऽसौ भव आराधित: पुरा॥ प्रबोधितो महातेजास्तं चापि शृणु विस्तरम्। तेजसा तपसा कीर्त्या त्वत्समो न भविष्यति॥ साक्षात् पशुपतिस्तात तच्चापि शृणु माधव। तत्सर्वं निखिलेनाद्य कथयिष्यामि तेऽनघ। मयाऽपि च यथा दृष्टो देवदेवः पुरा विभो॥ व्याघ्रपाद इति ख्यातो वेदवेदाङ्गपारगः। यदर्थं च मया देवः प्रयतेन तथा विभो॥ प्रबोधितो महातेजास्तं चापि शृणु विस्तरम्। यदवाप्तं च मे पूर्वं देवदेवान्महेश्वरात्॥ तस्याहमभवं पुत्रो धौम्यश्चापि ममानुजः॥ कस्यचित् त्वथ कालस्य धौम्येन सह माधव। आगच्छमाश्रमं क्रीडन् मुनीनां भावितात्मनाम्॥ तत्रापि च मया दृष्टा दुह्यमाना पयस्विनी। लक्षितं च मया क्षीरं स्वादुतो ह्यमृतोपमम्॥ ततोऽहमब्रुवं बाल्याज्जननीमात्मनस्तथा। क्षीरोदनसमायुक्तं भोजनं हि प्रयच्छ मे॥ नेदं क्षीरोदनं मातर्यत् त्वं मे दत्तवत्यसि। अभावाच्चैव दुग्धस्य दुःखिता जननी तदा। ततः पिष्टं समालोड्य तोयेन सह माधव॥ आवयोः क्षीरमित्येव पानार्थं समुपानयत्। अथ गव्यं पयस्तात कदाचित् प्राशितं मया॥ पित्राहं यज्ञकाले हि नीतो ज्ञातिकुलं महत्। तत्र साक्षरते देवी दिव्या गौः सुरनन्दिनी॥ तस्याहं तत् पयः पीत्वा रसेन ह्यमृतोपमम्। ज्ञात्वा क्षीरगुणांश्चैव उपलभ्य हि सम्भवम्॥ स च पिष्टरसस्तात न मे प्रीतिमुपावहत्। ततोऽहमब्रुवं बाल्याज्जननीमात्मनस्तथा। नेदं क्षीरोदनं मातर्यत् त्वं मे दत्तवत्यसि। ततो मामब्रवीन्माता दुःखशोकसमन्विता॥ पुत्रस्नेहात् परिष्वज्य मूर्ध्नि चाघ्राय माधव। कुतः क्षीरोदनं वत्स मुनीनां भावितात्मनाम्॥ वने निवसतां नित्यं कन्दमूलफलाशिनाम्। कुतः क्षीरं वनस्थानां मुनीनां गिरिवासिनाम्। आस्थितानां नदीं दिव्यां वालखिल्यैर्निषेविताम्॥१२३ पावनानां वनाशानां वनाश्रमनिवासिनाम्॥ ग्राम्याहारनिवृत्तानामारण्यफलभोजिनाम्। नास्ति पुत्र पयोऽरण्ये सुरभीगोत्रवर्जिते॥ नदीगह्वरशैलेषु तीर्थेषु विविधेषु च। तपसा जप्यनित्यानां शिवो नः परमा गतिः॥ अप्रसाद्य विरूपाक्षं वरदं स्थाणुमव्ययम्। कुतः क्षीरोदनं वत्स सुखानि वसनानि च॥ तं प्रपद्य सदा वत्स सर्वभावेन शङ्करम्। तत्प्रसादाच्च कामेभ्यः फलं प्राप्स्यसि पुत्रक॥ जनन्यास्तद् वचः श्रुत्वा तदाप्रभृति शत्रुहन्। प्राञ्जलिः प्रणतो भूत्वा इदमम्बामचोदयम्॥ कोऽयमम्ब महादेवः स कथं च प्रसीदति। कुत्र वा वसते देवो द्रष्टव्यो वा कथंचन॥ तुष्यते वा कथं शो रूपं तस्य च कीदृशम्। कथं ज्ञेयः प्रसन्नो वा दर्शयेज्जननि मम॥ एवमुक्ता तदा कृष्ण माता मे सुतवत्सला। मूर्धन्याघ्राय गोविन्द सबाष्पाकुललोचना॥ प्रमार्जन्ती च गात्राणि मम वै मधुसूदन। दैन्यमालम्ब्य जननी इदमाह सुरोत्तम॥ अम्बोवाच दुर्विज्ञेयो महादेवो दुराधारो दुरन्तकः। दुराबाधश्च दुर्ब्रह्यो दुर्दश्यो ह्यकृतात्मभिः॥ यस्य रूपाण्यनेकानि प्रवदन्ति मनीषिणः। स्थानानि च विचित्राणि प्रसादाश्चाप्यनेकशः॥ को हि तत्त्वेन तद् वेद ईशस्य चरितं शुभम्। कृतवान् यानि रूपाणि देवदेवः पुरा किल। क्रीडते च तथा शर्वः प्रसीदति यथा च वै॥ हृदिस्थः सर्वभूतानां विश्वरूपो महेश्वरः। भक्तानामनुकम्पार्थं दर्शनं च यथाश्रुतम्॥ मुनीनां ब्रुवतां दिव्यमीशानचरितं शुभम्। कृतवान् यानि रूपाणि कथितानि दिवौकसैः॥ अनुग्रहार्थं विप्राणां शृणु वत्स समासतः। तानि ते कीर्तयिष्यामि यन्मां त्वं परिपृच्छसि॥ अम्बोवाच ब्रह्मविष्णुसुरेन्द्राणां रुद्रादित्याश्विनामपि। विश्वेषामपि देवानां वपुर्धारयते भवः॥ नराणां देवनारीणां तथा प्रेतपिशाचयोः। किरातशबराणां च जलजानामनेकश:॥ करोति भगवान् रूपमाटव्यशबराण्यपि। कूर्मो मत्स्यस्तथा शङ्खः प्रवालाकुरभूषणः॥ यक्षराक्षससाणां दैत्यदानवयोरपि। वपुर्धारयते देवो भूयश्च विलवासिनाम्॥ व्याघ्रसिंहमृगाणां च तरक्ष्वृक्षपतत्रिणाम्। उलूकश्वशृगालानां रूपाणि कुरुतेऽपि च॥ हंसकाकमयूराणां कृकलासकसारसाम्। रूपाणि च बलाकानां गृध्रचक्राङ्गयोरपि॥ करोति वा स रूपाणि धारयत्यपि पर्वतम्। गोरूपं च महादेवो हस्त्यश्वोष्ट्रखराकृतिः॥ छागशार्दूलरूपश्च अनेकमृगरूपधृक्। अण्डजानां च दिव्यानां वपुर्धारयते भवः॥ दण्डी छत्री च कुण्डी च द्विजानां धारणस्तथा। पण्मुखो वै बहुमुखस्त्रिनेत्रो बहुशीर्षकः॥ अनेककटिपादश्च अनेकोदरवक्त्रधृक्। अनेकपाणिपार्श्वश्च अनेकगणसंवृतः॥ ऋपिगन्धर्वरूपश्च सिद्धचारणरूपधृक्। भस्मपाण्डुरगात्रश्च चन्द्रार्धकृतभूषणः॥ अनेकरावसंघुष्टश्चानेकस्तुतिसंस्कृतः। सर्वभूतान्तक: सर्वः सर्वलोकप्रतिष्ठितः॥ सर्वलोकान्तरात्मा च सर्वगः सर्ववाद्यपि। सर्वत्र भगवान् ज्ञेयो हृदिस्थः सर्वदेहिनाम्॥ यो हि यं कामयंत् कामं यस्मिन्नर्थेऽळते पुनः। तत् सर्वं वेत्ति देवेशस्तं प्रपद्य यदीच्छसि॥ नन्दते कुप्यते चापि तथा हुंकारयत्यपि। चक्री शूली गदापाणिर्मुसली खङ्गपट्टिशी॥ भूधरो नागमौजी च नागकुण्डलकुण्डली। नागयज्ञोपवीती च नागचर्मोत्तरच्छदः॥ हसते गायते चैव नृत्यते च मनोहरम्। वादयत्यपि वाद्यानि विचित्राणि गणैर्युतः॥ वल्गते जृम्भते चैव रुदते रोदयत्यपि। उन्मत्तमत्तरूपं च भाषते चापि सुस्वरः॥ अतीत हसते रौद्रस्रासयन् नयनैर्जनम्। जागर्ति चैव स्वपिति जृम्भते च यथासुखम्॥ जपते जप्यते चैव तपते तप्यते पुनः। ददाति प्रतिगृह्णाति युञ्जते ध्यायतेऽपि च॥ वेदीमध्ये तथा यूपे गोष्ठमध्ये हुताशने। दृश्यते दृश्यते चापि बालो वृद्धो युवा तथा॥ क्रीडते ऋषिकन्याभिर्ऋषिपत्नीभिरेव च। ऊर्ध्वकेशो महाशेफो नग्ना विकृतलोचनः॥ गौरः श्यामस्तथा कृष्णः पाण्डुरो धूमलोहितः। विकृताक्षो विशालाक्षो दिग्वासाः सर्ववासकः॥१६२ अरूपस्याद्यरूपस्य अतिरूपाद्यरूपिणः। अनाद्यन्तमजस्यान्तं वेत्स्यते कोऽस्य तत्त्वतः॥ हृदि प्राणो जनो जीवो योगात्मा योगसंज्ञितः। ध्यानं तत्परमात्मा च भावग्राह्यो महेश्वरः॥ वादको गायनश्चैव सहस्रशतलोचनः। एकवक्त्रो द्विवक्त्रश्च त्रिवक्त्रोऽनेकवक्त्रकः॥ तद्भक्तस्तद्गतो नित्यं तन्निष्ठस्तत्परायणः। भज पुत्र महादेवं ततः प्राप्स्यसि चेप्सितम्॥ जनन्यास्तद् वचः श्रुत्वा तदाप्रभृति शत्रुहन्। मम भक्तिर्महादेवे नैष्ठिकी समपद्यत॥ ततोऽहं तप आस्थाय तोषयामास शङ्करम्। एकं वर्षसहस्रं तु वामाङ्गुष्ठाग्रविष्ठितः॥ एकं वर्षशतं चैव फलाहारस्ततोऽभवम्। द्वितीयं शीर्णपर्णाशी तृतीयं चाम्बुभोजनः॥ शतानि सप्त चैवाहं वायुभक्षस्तदाभवम्। एक वर्षसहस्रं तु दिव्यमाराधितो मया॥ ततस्तुष्टो महादेवः सर्वलोकेश्वरः प्रभुः। एकभक्त इति ज्ञात्वा जिज्ञासां कुरुते तदा॥ शक्ररूपं स कृत्वा तु सर्वैर्देवगणैर्वृतः। सहस्राक्षस्तदा भूत्वा वज्रपाणिर्महायशाः॥ सुधावदातं रक्ताक्षं स्तब्धकर्ण मदोत्कटम्। आवेष्टितकरं घोरं चतुर्दष्ट्रं महागजम्॥ समास्थितः स भगवान् दीप्यमानः स्वतेजसा। आजगाम किरीटी तु हारकेयूरभूषितः॥ पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि। सेव्यमानोऽप्सरोभिश्च दिव्यगन्धर्वनादितैः॥ ततो मामाह देवेन्द्रस्तुष्टस्तेऽहं द्विजोत्तम। वरं वृणीष्व मत्तस्त्वं यत् ते मनसि वर्तते॥ शक्रस्य तु वचः श्रुत्वा नाहं प्रीतमनाऽभवम्। अब्रुवंश्च तदा हृष्टो देवराजमिदं वचः॥ नाहं त्वत्तो वरं काक्षे नान्यस्मादपि दैवतात्। महादेवादृते सौम्य सत्यमेतद् ब्रवीमि ते॥ सत्यं सत्यं हि नः शक्र वाक्यमेतत् सुनिश्चितम्। न यन्महेश्वरं मुक्त्वा कथाऽन्या मम रोचते॥ पशुपतिवचनाद् भवामि सद्यः कृमिरथवा तरुरप्यनेकशाखः। अपशुपतिवरप्रसादजा मे त्रिभुवनराज्यविभूतिरप्यनिष्टा॥ जन्म श्वपाकमध्येऽपि मेऽस्तु हरचरणवन्दनरतस्य। मा वानीश्वरभक्तो भवानि भवनेऽपि शक्रस्य॥ वाय्वम्बुभुजोऽपि सतो नरस्य दुःखक्षयः कुतस्तस्य। भवति हि सुरासुरगुरौ यस्य न विश्वेश्वरे भक्तिः॥ अलमन्याभिस्तेषां कथाभिरप्यन्यधर्मयुक्ताभिः। येषां न क्षणमपि रुचितो हरचरणस्मरणविच्छेदः। हरचरणनिरतमतिना भवितव्यमनार्जवं युगं प्राप्य। संसारभयं न भवति हरभक्तिरसायनं पीत्वा॥ दिवसं दिवसाधु वा मुहूर्तं वा क्षणं लवम्। न ह्यलब्धप्रसादस्य भक्तिर्भवति शङ्करे॥ अपि कीट: पतङ्गो वा भवेयं शङ्कराज्ञया। न तु शक्र त्वया दत्तं त्रैलोक्यमपि कामये॥ श्वापि महेश्वरवचनाद् भवामि स हि नः परः कामः। त्रिदशगणराज्यमपि खलु नेच्छाभ्यमहेश्वराज्ञप्तम्।। इन्द्र उवाच न नाकपृष्ठं न च देवराज्यं न ब्रह्मलोकं न च निष्फलत्वम्। न सर्वकामानखिलान् वृणोमि हरस्य दासत्वमहं वृणोमि॥ उपमन्युरुवाच न प्रीयते पशुपतिर्भगवान् ममेशः। १ःखानि देहविहितानि समुद्वहामि।।१८९ दिवसकरशशाङ्कराह्रिदीप्तं त्रिभुवनसारमसारमाद्यमेकम्। अजरममरमप्रसाद्य रुद्रं जगति पुमानिह को लभेत शान्तिम्॥ यदि नाम जन्म भूयो अवति मदीयैः पुनर्दोषैः। तस्मिंस्तस्मिञ्जन्मनि भवे भवेन्मेऽक्षया भक्तिः॥ शक्र उवाच कः पुनर्भवने हेतुरीशे कारणकारणे। येन शर्वादृतेऽन्यस्मात् प्रसादं नाभिकाक्षसि॥ उपमन्युरुवाच सदसद् व्यक्तमव्यक्तं यमाहुर्ब्रह्मवादिनः। नित्यकमनेकं च वरं तस्माद् वृणीमहे॥ अनादिमध्यपर्यन्तं ज्ञानैश्चर्यमचिन्तितम्। आत्मानं परमं यस्माद् वरं तस्माद् वृणीमहे॥ ऐश्वर्यं सकलं यस्मादनुत्पादितमव्ययम्। अबीजाद् बीजसम्भूतं वरं तस्माद् वृणीमहे॥ तमसः परमं ज्योतिस्तपस्तवृत्तिनां परम्। यं ज्ञात्वा नानुशोचन्ति वरं तस्माद् वृणीमहे ॥ भूतभावनभावज्ञं सर्वभूताभिभावनम्। सर्वगं सर्वदं देवं पूजयामि पुरन्दर॥ हेतुवादैर्विनिमुक्तं सांख्ययोगार्थदं परम्। यमुपासन्ति तत्त्वज्ञा वरं तस्माद् वृणीमहे॥ मघवन् मघवात्मानं यं वदन्ति सुरेश्वरम्। सर्वभूतगुरुं देवं वरं तस्माद् वृणीमहे॥ यतः पूर्वमसृजद् देवं ब्रह्माणं लोकभावनम्। अण्डमाकाशमापूर्य वरं तस्माद् वृणीमहे॥ अग्निरापोऽनिल: पृथ्वी खं बुद्धिश्च मनो महान्। स्रष्टा चैषां भवेद् योऽन्यो ब्रूहि कः परमेश्वरात्।। मनो मतिरहंकारस्तन्मात्राणीन्द्रियाणि च। ब्रूहि चैषां भवेच्छक कोऽन्योऽस्ति परमं शिवात्।। स्रष्टारं भुवनस्येह वदन्तीह पितामहम्। आराध्य स तु देवेशमश्नुते महतीं श्रियम्॥ भगवत्युत्तमैश्वर्यं ब्रह्मविष्णुपुरोगमम्। विद्यते वै महादेवाद् ब्रूहि कः परमेश्वरात्॥ दैत्यदानवमुख्यानामाधिपत्यारिमर्दनात्। कोऽन्यः शक्नोति देवेशाद् दितेः सम्पादितुं सुतान्।। दिक्कालसूर्यतेजांसि ग्रहवाग्विन्दुतारकाः। विद्धि त्वेते महादेवाद् ब्रूहि कः परमेश्वरात्॥ अथोत्पत्तिविनाशे वा यज्ञस्य त्रिपुरस्य वा। दैत्यदानवमुख्यानामाधिपत्यारिमर्दनः॥ किं चात्र बहुभिः सूक्तैर्हेतुवादैः पुरंदर सहस्त्रनयनं दृष्ट्वा त्वामेव सुरसत्तम॥ पूजितं सिद्धगन्धर्वैर्देवैश्च ऋषिभिस्तथा। देवदेवप्रसादेन तत् सर्वं कुशिकोत्तम॥ अव्यक्तमुक्तकेशाय सर्वगस्येदमात्मकम्। चेतनाचेतनाद्येषु शक्र विद्धि महेश्वरात्॥ भुवाद्येषु महान्तेषु लोकालोकान्तरेषु च। द्वीपस्थानेषु मेरोश्च विभवेष्वन्तरेषु च॥ भगवन् मघवन् देवं वदन्ते तत्त्वदर्शिनः। यदि देवाः सुराः शक्र पश्यन्त्यन्यां भवाद् गतिम्।। किं न गच्छन्ति शरणं मर्दिताश्चासुरैः सुराः। अभिघातेषु देवानां सयक्षोरगरक्षसाम्॥ परस्परविनाशेषु स्वस्थानैश्वर्यदो भवः। अन्धकस्याथ शुक्रस्य दुन्दुभेर्महिषस्य च॥ यक्षेन्द्रबलरक्षःसु निवातकवचेषु च। वरदानवघाताय ब्रूहि कोऽन्यो महेश्वरात्॥ सुरासुरगुरोर्वक्त्रे कस्य रेत: पुरा हतम्। कस्य वाऽन्यस्य रेतस्तद् येन हैमो गिरिः कृतः।।२१६ दिग्वासः कीर्त्यते कोऽन्यो लोके कश्चोर्ध्वरेतसः। कस्य चार्धे स्थिता कान्ता अनङ्ग केन निर्जितः।।२१७। ब्रूहीन्द्र परमं स्थानं कस्य देवैः प्रशस्यते। श्मशाने कस्य क्रीडाथ नृत्ते वा कोऽभिभाष्यते।।२१८। कस्यैश्वर्यं समानं च भूतैः को वापि क्रीडते। कस्य तुल्यबला देव गणाश्चैश्वर्यदर्पिताः॥ घुष्यते ह्यचलं स्थानं कस्य त्रैलोक्यपूजितम्। वर्षते तपते कोऽन्यो ज्वलते तेजसा च कः॥ कस्मादोषधिसम्पत्तिः को वा धारयते वसु। प्रकामं क्रीडते को वा त्रैलोक्ये सचराचरे॥ ज्ञानसिद्धिक्रियायोगैः सेव्यमानश्च योगिभिः। ऋषिगन्धर्वसिद्धैश्च विहितं कारणं परम्॥ कर्मयज्ञक्रियायोगैः सेव्यमानः सुरासुरैः। नित्यं कर्मफलैहीनं तमहं कारणं वदे॥ स्थूलं सूक्ष्ममनौपम्यमग्राह्यं गुणगोचरम्। गुणहीनं गुणाध्यक्षं परं माहेश्वरं पदम्॥ विश्वेशं कारणगुरुं लोकालोकान्तकारणम्। भूताभूतभविष्यच्च जनकं सर्वकारणम्॥ अक्षराक्षरमव्यक्तं विद्याविद्ये कृताकृते। धर्माधर्मी यतः शक्र तमहं कारणं ब्रुवे॥ प्रत्यक्षमिह देवेन्द्र पश्य लिङ्गं भगाङ्कितम्। देवदेवेन रुद्रेण सृष्टिसंहारहेतुना॥ मात्रा पूर्वं ममाख्यातं कारणं लोकलक्षणम्। नास्ति चेशात् परं शक तं प्रपद्य यदीच्छसि॥ प्रत्यक्षं ननु ते सुरेश विदितं संयोगलिङ्गोद्धम्। त्रैलोक्यं सविकारनिर्गुणगणं ब्रह्मादिरेतोद्भवम्। यद्ब्रह्मेन्द्रहुताशविष्णुसहिता देवाश्च दैत्येश्वरा। नान्यत् कामसहस्रकल्पितधियः शंसन्ति ईशात् परम्।। तं देवं सचराचरस्य जगतो व्याख्यातवेद्योत्तम। कामार्थीवरयामि संयतमना मोक्षाय सद्यः शिवम्।। हेतुभिर्वा किमन्यैस्तैरीश: कारणकारणम्। न शुश्रुम यदन्यस्य लिङ्गमभ्यर्चितं सुरैः॥ कस्यान्यस्य सुरैः सर्वैर्लिङ्गं मुक्त्वा महेश्वरम्। अर्च्यतेऽर्चितपूर्व वा ब्रूहि यद्यस्ति ते श्रुतिः॥ यस्य ब्रह्मा च विष्णुश्च त्वं चापि सह दैवतैः। अर्चयध्वं सदा लिङ्गं तस्माच्छ्रेष्ठतमो हि सः॥ न पद्माङ्का न चक्राङ्का न वज्राङ्का यतः प्रजाः। लिङ्गाङ्का च भगाङ्का च तस्मान्माहेश्वरी प्रजा॥२३३ देव्याः कारणरूपभावजनिता: सर्वा भगाङ्का स्रियो। लिंगनापि हरस्य सर्वपुरुषाः प्रत्यक्षचिह्नीकृताः। योऽन्यत्कारणमीश्वरात् प्रवदते देव्या च यन्नाङ्कितं। त्रैलोक्ये सचराचरे स तु पुमान् बाह्यो भवेद् दुर्मतिः।। पुंलिङ्गं सर्वमीशानं स्रीलिङ्गं विद्धि चाप्युमाम्। द्वाभ्यां तनुभ्यां व्याप्तं हि चराचरमिदं जगत्॥ तस्माद् वरमहं काइक्षे निधनं वाऽपि कौशिक। गच्छ वा तिष्ठ वा शक्र यथेष्टं बलसूदन॥ काममेष वरो मेऽस्तु शापो वाथ महेश्वरात्। न चान्यां देवता काइक्षे सर्वकामफलामपि॥ एवमुक्त्वा तु देवेन्द्रं दुःखादाकुलितेन्द्रियः। न प्रसीदति मे देवः किमेतदिति चिन्तयन्॥ अथापश्यं क्षणेनैव तमेवैरावतं पुन:। हंसकुन्देन्दुसदृशं मृणालरजतप्रभम्॥ वृषरूपधरं साक्षात् क्षीरोदमिव सागरम्। कृष्णपुच्छं महाकायं मधुपिङ्गललोचनम्॥ वज्रसारमयैः शृङ्गैर्निष्टप्तकनकप्रभैः। सुतीक्ष्णैर्मृदुरक्तात्रैरुत्किरन्तमिवावनिम्॥ जाम्बूनदेन दाम्ना च सर्वतः समलंकृतम्। सुवक्त्रखुरनासं च सुकर्णं सुकटीतटम्॥ सुपार्वं विपुलस्कन्धं सुरूपं चारुदर्शनम्। ककुदं तस्य चाभाति स्कन्धमापूर्य धिष्ठितम्॥ तुषारगिरिकूटाभं सिताभ्रशिखरोपमम्। तमास्थितश्च भगवान् देवदेवः सहोमया)।२४४।। अशोभत महादेवः पौर्णमास्यामिवोडुराट्। तस्य तेजोभवो वह्निः समेघः सन्तयित्नुमान्।।२४५ सहस्रमिव सूर्याणां सर्वमापूर्य धिष्ठितः। ईश्वरः सुमहातेजाः संवर्तक इवानलः॥ युगान्ते सर्वभूतानां दिधक्षुरिव चोद्यतः। तेजसा तु सदा व्याप्तं दुर्निरीक्ष्यं समन्ततः॥ पुनरुद्विग्नहृदयः किमेतदिति चिन्तयन्। मुहूर्तमिव तत् तेजो व्याप्य सर्वा दिशो दश॥ प्रशान्तं दिक्षु सर्वासु देवदेवस्य मायया। अथापश्यं स्थितं स्थाणुं भगवन्तं महेश्वरम्॥ नीलकण्ठं महात्मानमसक्तं तेजसां निधिम्। अष्टादशभुजं स्थाणुं सर्वाभरणभूषितम्॥ शुक्लाम्बरधरं देवं शुक्लमाल्यानुलेपनम्। शुक्लध्वजमनाधृष्यं शुक्लयज्ञोपवीतिनम्॥ गायद्भिर्नृत्यमानैश्च वादयद्भिश्च सर्वशः। वृतं पार्श्वचरैर्दिव्यैरात्मतुल्यपराक्रमैः॥ बालेन्दुमुकुटं पाण्डु शरच्चन्द्रमिवोदितम्। त्रिभिर्नेत्रैः कृतोद्योतं त्रिभिः सूर्यरिवोदितैः॥ अशोभतास्य देवस्य माला गात्रे सितप्रभे। जातरूपमयैः पौग्रथिता रत्नभूषिता॥ मूर्तिमन्ति तथाऽस्त्राणि सर्वतेजोमयानि च। मया दृष्टानि गोविन्द भवस्यामिततेजसः॥ इन्द्रायुधसवर्णाभं धनुस्तस्य महात्मनः। पिनाकमिति विख्यातमभवत् पन्नगो महान्॥ सप्तशीर्षो महाकायस्तीक्ष्णदंष्ट्रो विघोल्बणः। ज्यावेष्टितमहाग्रीवः स्थितः पुरुषविग्रहः॥ शरश्च सूर्यसंकाशः कालानलसमद्युतिः। एतदस्त्रं महाघोरं दिव्यं पाशुपतं महत्॥ अद्वितीयमनिर्देश्यं सर्वभूतभयावहम्। सस्फुलिङ्गं महाकायं विसृजन्तमिवानलम्॥ एकपादं महादंष्ट्रं सहस्रशिरसोदरम्। सहस्रभुजजिह्वाक्षमुद्गिरन्तमिवानलम्॥ ब्राह्यान्नारायणाच्चैन्द्रादाग्नेयादपि वारुणात्। यद् विशिष्टं महाबाहो सर्वशस्त्रविघातनम्॥ येन तत् त्रिपुरं दग्ध्वा क्षणाद् भस्मीकृतं पुरा। शरेणैकेन गोविन्द महादेवेन लीलया॥ निर्दहेत च यत् कृत्स्नं त्रैलोक्यं सचराचरम्। महेश्वरभुजोत्सृष्टं निमेषार्धान्न संशयः॥ नावध्यो यस्य लोकेऽस्मिन् ब्रह्मविष्णुसुरेष्वपि। तदहं दृष्टवांस्तत्र आश्चर्यमिदमुत्तमम्॥ गुह्यमस्त्रवरं नान्यत् तत्तुल्यमधिकं हि वा। यत् तच्छूलमिति ख्यातं सर्वलोकेषु शूलिनः॥ दाहयेद् यां महीं कृत्स्नां शोषयेद् वा महोदधिम्। संहरेद् वा जगत् कृत्स्नं विसृष्टं शूलपाणिना।।२६६। यौवनाश्वो हतो येन मान्धाता सवल: पुरा। चक्रवर्ती महातेजास्त्रिलोकविजयी नृपः॥ महाबलो महावीर्यः शक्रतुल्यपराक्रमः। करस्थेनैव गोविन्द लवणस्येह रक्षसः॥ तच्छूलमतितीक्ष्णाग्रं सुभीमं लोमहर्षणम्। त्रिशिखां भृकुटि कृत्वा तर्जमानमिव स्थितम्॥ विधूमं सार्चिषं कृष्णं कालसूर्यमिवोदितम्। सर्पहस्तमनिर्देश्यं पाशहस्तमिवान्तकम्॥ दृष्टवानस्मि गोविन्द तदस्त्रं रुद्रसंनिधौ। परशुस्तीक्ष्णधारश्च दत्तो रामस्य यः पुरा॥ महादेवेन तुष्टेन क्षत्रियाणां क्षयंकरः। कार्तवीर्यो हतो येन चक्रवर्ती महामृधे॥ त्रिःसप्तकृत्वः पृथिवी येन निःक्षत्रिया कृता। जामदग्न्येन गोविन्द रामेणाक्लिष्टकर्मणा॥ दीप्तधारः सुरौद्रास्यः सर्पकण्ठाग्रधिष्ठितः। अभवच्छूलिनोऽभ्याशे दीप्तवह्निशतोपमः॥ असंख्येयानि चास्त्राणि तस्य दिव्यानि धीमतः। प्राधान्यतो मयैतानि कीर्तितानि तवानघ॥ सव्यदेशे लोकपितामहः। दिव्यं विमानमास्थाय हंसयुक्तं मनोजवम्॥ वामपार्श्वगतश्चापि तथा नारायणः स्थितः। वैनतेयं समारुह्य शङ्खचक्रगदाधरः॥ तु देवस्य ब्रह्मा स्कन्दो मयूरमास्थाय स्थितो देव्याः समीपतः। शक्तिघण्टे समादाय द्वितीय इव पावकः॥ पुरस्ताच्चैव देवस्य नन्दि पश्याम्यवस्थितम्। शूलं विष्टभ्य तिष्ठन्तं द्वितीयमिव शङ्करम्॥ स्वायम्भुवाद्या मनवो भृग्वाद्या ऋषयस्तथा। शक्राद्या देवताश्चैव सर्व एव समभ्ययुः॥ सर्वभूतगणाश्चैव मातरो विविधाः स्थिताः। तेऽभिवाद्य महात्मानं परिवार्य समन्ततः॥ अस्तुवन् विविधैः स्तोत्रैर्महादेवं सुरास्तदा। ब्रह्मा भवं तदाऽस्तौषीद् रथन्तरमुदीरयन्॥ ज्येष्ठसाम्ना च देवेशं जगौ नारायणस्तदा॥ गृणन् ब्रह्म परं शक्रः शतरुद्रियमुत्तमम्। ब्रह्मा नारायणश्चैव देवराजश्च कौशिकः॥ अशोभन्त महात्मानस्त्रयस्त्रय इवाग्नयः। तेषां मध्यगतो देवो रराज भगवाञ्छिवः॥ शरदभ्रविनिर्मुक्तः परिधिस्थ इवांशुमान्। अयुतानि च चन्द्रार्कानपश्यं दिवि केशव॥ ततोऽहमस्तुवं देवं विश्वस्य जगतः पतिम्। उपमन्युरुवाच नमो देवाधिदेवाय महादेवाय ते नमः॥ शक्ररूपाय शक्राय शक्रवेषधराय च। नमस्ते वज्रहस्ताय पिङ्गलायारुणाय च॥ पिनाकपाणये नित्यं शङ्खशूलधराय च। नमस्ते कृष्णवासाय कृष्णकुञ्चितमूर्धजे॥ कृष्णाजिनोत्तरीयाय कृष्णाष्टमिरताय च। शुक्लवर्णाय शुक्लाय शुक्लाम्बरधराय च॥ शुक्लभस्मावलिप्ताय शुक्लकर्मरताय च। नमोऽस्तु रक्तवर्णाय रक्ताम्बरधराय च॥ रक्तध्वजपताकाय रक्तस्रगनुलेपिने। नमोऽस्तु पीतवर्णाय पीताम्बरधराय च॥ नमोऽस्तूच्छ्रितच्छत्राय किरीटवरधारिणे। अर्धहारार्धकेयूर अर्धकुण्डलकर्णिने॥ नमः पवनवेगाय नमो देवाय वै नमः। सुरेन्द्राय मुनीन्द्राय महेन्द्राय नमोऽस्तु ते॥ नमः पद्मार्धमालाय उत्पलैर्मिश्रिताय च। अर्धचन्दनलिप्ताय अर्धस्रगनुलेपिने॥ नम आदित्यवक्त्राय आदित्यनयनाय च। नम आदित्यवर्णाय आदित्यप्रतिमाय च॥ नमः सोमाय सौम्याय सौम्यवक्त्रधराय च। सौम्यरूपाय मुख्याय सौम्यदंष्ट्राविभूषिणे॥ नमः श्यामाय गौराय अर्धपीतार्धपाण्डवे। नारीनरशरीराय स्त्रीपुंसाय नमोऽस्तु ते॥ नमो वृषभवाहाय गजेन्द्रगमनाय च। दुर्गमाय नमस्तुभ्यमगम्यगमनाय च॥ नमोऽस्तु गणगीताय गणवृन्दरताय च। गणानुयातमार्गाय गणनित्यव्रताय च॥ नमः श्वेताभ्रवर्णाय संध्यारागप्रभाय च। अनुद्दिष्टाभिधानाय स्वरूपाय नमोऽस्तु ते॥ नमो रक्ताग्रवासाय रक्तसूत्रधराय च। रक्तमालाविचित्राय रक्ताम्बरधराय च॥ मणिभूषितमूर्धाय नमश्चन्द्रार्धभूषिणे। विचित्रमणिमूर्धाय कुसुमाष्टधराय च॥ नमोऽग्निमुखनेत्राय सहस्रशशिलोचने। अग्निरूपाय कान्ताय नमोऽस्तु गहनाय च॥ खचराय नमस्तुभ्यं गोचराभिरताय च। भूचराय भुवनाय अनन्ताय शिवाय च॥ नमो दिग्वाससे नित्यमधिवाससुवाससे। नमो जगन्निवासाय प्रतिपत्तिसुखाय च॥ नित्यमुद्वद्धमुकुटे महाकेयूरधारिणे। सर्पकण्ठोपहाराय विचित्राभरणाय च॥ नमस्त्रिनेत्रनेत्राय सहस्रशतलोचने। स्त्रीपुंसाय नपुंसाय नमः सांख्याय योगिने॥ शंयोरभिस्रवन्ताय अथर्वाय नमो नमः। नमः सर्वार्तिनाशाय नमः शोकहराय च॥ नमो मेघनिनादाय बहुमायाधराय च। बीजक्षेत्राभिपालाय स्रष्ट्राराय नमो नमः॥ नमः सुरासुरेशाय विश्वेशाय नमो नमः। नमः पवनवेगाय नमः पवनरूपिणे॥ नमः काञ्चनमालाय गिरिमालाय वै नमः। नमः सुरारिमालाय चण्डवेगाय वै नमः॥ ब्रह्मशिरोपहर्ताय महिषघ्नाय वै नमः। नमः स्त्रीरूपधाराय यज्ञविध्वंसनाय च॥ नमस्त्रिपुरहर्ताय यज्ञविध्वंसनाय च। नमः कामाङ्गनाशाय कालदण्डधराय च॥ नमः स्कन्दविशाखाय ब्रह्मदण्डाय वै नमः। नमो भवाय शर्वाय विश्वरूपाय वै नमः॥ ईशानाय भवघ्नाय नमोऽस्त्वनघकघातिने। नमो विश्वाय मायाय चिन्त्याचिन्त्याय वैनमः॥३१६ त्वं नो गतिश्च श्रेष्ठश्च त्वमेव हृदयं तथा। त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः॥ आत्मा च सर्वभूतानां सांख्ये पुरुष उच्यते। ऋषभस्त्वं पवित्राणां योगिनां निष्कलः शिवः।।३१८। गृहस्थस्त्वमाश्रमिणामीश्वराणां महेश्वरः। कुबेरः सर्वयक्षाणां क्रतूनां विष्णुरुच्यते॥ पर्वतानां भवान् मेरुर्नक्षत्राणां च चन्द्रमाः। वसिष्ठस्त्वमृषीणां च ग्रहाणां सूर्य उच्यते॥ अरण्यानां पशूनां च सिंहस्त्वं परमेश्वरः। ग्राम्याणां गोवृषश्चासि भवाँल्लोकप्रपूजितः॥ आदित्यानां भवान् विष्णुर्वसूनां चैव पावकः। पक्षिणां वैनतेयस्त्वमनन्तो भुजगेषु च॥ सामवेदश्च वेदानां यजुषां शतरुद्रियम्। सनत्कुमारो योगानां सांख्यानां कपिलो ह्यसि।।३२३। शक्रोऽसि मरुतां देव पितॄणां हव्यवाडसि। ब्रह्मलोकश्च लोकानां गतीनां मोक्ष उच्यसे॥ क्षीरोदः सागराणां च शैलानां हिमवान् गिरिः। वर्णानां ब्राह्मणशासि विप्राणां दीक्षितो द्विजः॥३२५। आदिस्त्वमसि लोकानां संहर्ता काल एव च। यच्चान्यदपि लोके वै सर्वं तेजोधिकं स्मृतम्।।३२६ तत् सर्वं भगवानेव इति मे निश्चिता मतिः। नमस्ते भगवन् देव नमस्ते भक्तवत्सल॥ योगेश्वर नमस्तेऽस्तु नमस्ते विश्वसम्भव। प्रसीद मम भक्तस्य दीनस्य कृपणस्य च॥ अनैश्वर्येण युक्तस्य गतिर्भव सनातन। यच्चापराधं कृतवानज्ञात्वा परमेश्वर॥ मद्भक्त इति देवेश तत्सर्वं क्षन्तुमर्हसि। मोहितश्चास्मि देवेश त्वया रूपविपर्ययात्॥ नाय॑ ते न मया दत्तं पाद्यं चापि महेश्वर। एवं स्तुत्वाऽहमीशानं पाद्यमय॑ च भक्तितः॥ कृताञ्जलिपुटो भूत्वा सर्वं तस्मै न्यवेदयम्। ततः शीताम्बुसंयुक्ता दिव्यगन्धसमन्विता॥ पुष्पवृष्टिः शुभा तात पपात मम मूर्धनि। दुन्दुभिश्च तदा दिव्यस्ताडितो देवकिङ्करैः। ववौ च मारुतः पुष्पः शुचिगन्धः सुखावहः॥ तत: प्रीतो महादेवः सपत्नीको वृषध्वजः। अब्रवीत् त्रिदशांस्तत्र हर्षयन्निव मां तदा॥ पश्यध्वं त्रिदशाः सर्वे उपमन्योर्महात्मनः। मयि भक्तिं परां नित्यमेकभावादवस्थिताम्॥ एवमुक्तास्तदा कृष्ण सुरास्ते शूलपाणिना। ऊचुः प्राञ्जल: सर्वे नमस्कृत्वा वृषध्वजम्॥ भगवन् देवदेवेश लोकनाथ जगत्पते। लभतां सर्वकामेभ्यः फलं त्वत्तो द्विजोत्तमः॥ एवमुक्तस्ततः शर्वः सुरैर्ब्रह्मादिभिस्तथा। आह मां भगवानीशः प्रहसन्निव शंकरः॥ शंङ्कर उवाच वत्सोपमन्यो तुष्टोऽस्मि पश्य मां मुनिपुङ्गव। दृढभक्तोऽसि विप्रर्षे मया जिज्ञासितो ह्यसि॥ अनया चैव भक्त्या ते अत्यर्थे प्रीतिमानहम्। तस्मात्सर्वान्ददाम्यद्य कामांस्तव यथेप्सितान्॥ एवमुक्तस्य चैवाथ महादेवेन धीमता। हर्षादश्रूण्यवर्तन्त रोमहर्षस्त्वजायत॥ अब्रुवं च तदा देवं हर्षगद्गदया गिरा। जानुभ्यामवनीं गत्वा प्रणम्य च पुनः पुनः॥ अद्य जातो ह्यहं देव सफलं जन्म चाद्य मे। सुरासुरगुरुर्देवो यत् तिष्ठति ममाग्रतः॥ यं न पश्यन्ति चैवाद्धा देवा ह्यमितविक्रमम्। तमहं दृष्टवान् देवं कोऽन्यो धन्यतरो मया॥ एवं ध्यायन्ति विद्वांसः परं तत्त्वं सनातनम्। तद् विशेषमिति ख्यातं यदजं ज्ञानमक्षरम्॥ स एष भगवान् देवः सर्वसत्त्वादिरव्ययः। सर्वतत्त्वविधानज्ञः प्रधानपुरुषः परः॥ योऽसृजद् दक्षिणादङ्गाद् ब्रह्माणं लोकसम्भवम्। वामपार्थात् तथा विष्णुं लोकरक्षार्थमीश्वरः॥ युगान्ते चैव सम्प्राप्ते रुद्रमीशोऽसृजत् प्रभुः। रुद्रः संहरन् कृत्स्नं जगत् स्थावरजङ्गमम्॥ कालो भूत्वा महातेजाः संवर्तक इवानलः। युगान्ते सर्वभूतानि ग्रसन्निव व्यवस्थितः॥ एष देवो महादेवो जगत् सृष्ट्वा चराचरम्। कल्पान्ते चैव सर्वेषां स्मृतिमाक्षिप्य तिष्ठति॥ सर्वगः सर्वभूतात्मा सर्वभूतभवोद्भवः। आस्ते सर्वगतो नित्यमदृश्यः सर्वदैवतैः॥ यदि देयो वरो मह्यं यदि तुष्टोऽसि मे प्रभो। भक्तिर्भवतु मे नित्यं त्वयि देव सुरेश्वर॥ अतीतानागतं चैव वर्तमानं च यद् विभो। जानीयामिति मे बुद्धिः प्रसादात् सुरसत्तम॥ क्षीरोदनं च भुञ्जीयामक्षयं सह बान्धवैः। आश्रमे च सदास्माकं सांनिध्यं परमस्तु ते॥ एवमुक्तः स मां प्राह भगवाँल्लोकपूजितः। महेश्वरो महातेजाश्चराचरगुरुः शिवः॥ भगवानुवाच अजरचामरश्चैव भव त्वं दुःखवर्जितः। यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः॥ ऋषीणामभिगम्यश्च मत्प्रसादाद् भविष्यसि। शीलवान् गुणसम्पन्नः सर्वज्ञः प्रियदर्शनः॥ अक्षयं यौवनं तेऽस्तु तेजश्चैवानलोपमम्। क्षीरोदः सागरश्चैव यत्र यत्रेच्छसि प्रियम्॥ तत्र ते भविता कामं सांनिध्यं पयसो निधेः। क्षीरोदनं च भुड्क्ष्व त्वममृतेन समन्वितम्॥ बन्धुभिः सहितः कल्पं ततो मामुपयास्यसि। अक्षया बान्धवाश्चैव कुलं गोत्रं च ते सदा॥ भविष्यति द्विजश्रेष्ठ मयि भक्तिश्च शाश्वती। सांनिध्यं चाश्रमे नित्यं करिष्यामि द्विजोत्तम॥ तिष्ठ वत्स यथाकामं नोत्कण्ठां च करिष्यसि। स्मृतस्त्वया पुनर्विप्र करिष्यामि च दर्शनम्॥ एवमुक्त्वा स भगवान् सूर्यकोटिसमप्रभः। ईशानः स वरान् दत्त्वा तत्रैवान्तरधीयत॥ एवं दृष्टो मया कृष्ण देवदेवः समाधिना। तदवाप्तं च मे सर्वं यदुक्तं तेन धीमता॥ प्रत्यक्षं चैव ते कृष्ण पश्य सिद्धान् व्यवस्थितान्। ऋषीन् विद्याधरान् यक्षान् गन्धर्वाप्सरसस्तथा॥ पश्य वृक्षलतागुल्मान् सर्वपुष्पफलप्रदान्। सर्वर्तुकुसुमैर्युक्तान् सुखपत्रान् सुगन्धितः॥ सर्वमेतन्महाबाहो दिव्यभावसमन्वितम्। प्रसादाद् देवदेवस्य ईश्वरस्य महात्मनः॥ वासुदेव उवाच एतच्छ्रुत्वा वचस्तस्य प्रत्यक्षमिव दर्शनम्। विस्मयं परमं गत्वा अध्रुवं तं महामुनिम्॥ धन्यस्त्वमसि विप्रेन्द्र कस्त्वदन्योऽसि पुण्यकृत्। यस्य देवाधिदेवस्ते सांनिध्यं कुरुतेऽऽश्रमे॥ अपि तावन्ममाप्येवं दद्यात् स भगवाञ्छिवः। दर्शनं मुनिशार्दूल प्रसादं चापि शंकरः॥ उपमन्यु उवाच द्रक्ष्यसे पुण्डरीकाक्ष महादेवं न संशयः। अचिरेणैव कालेन यथा दृष्टो मयानघ॥ चक्षुषा चैव दिव्येन पश्याम्यमितविक्रमम्। षष्ठे मासि महादेवं द्रक्ष्यसे पुरुषोत्तम॥ षोडशाष्टौ वरांश्चापि प्राप्स्यसि त्वं महेश्वरात्। सपत्नीकाद् यदुश्रेष्ठ सत्यमेतद् ब्रवीमि ते॥ अतीतानागतं चैव वर्तमानं च नित्यशः। विदितं मे महाबाहो प्रसादात् तस्य धीमतः॥ एतान् सहस्रशश्चान्यान् समनुध्यातवान् हरः। कस्मात् प्रसादं भगवान् न कुर्यात् तव माधव।।३७५। त्वादृशेन हिं देवानां श्लाघनीयः समागमः। ब्रह्मण्येनानृशंसेन श्रद्दधानेन चाप्युत॥ जप्यं तु ते प्रदास्यामि येन द्रक्ष्यसि शंकरम्। विष्णु उवाच अब्रुवं तमहं ब्रह्मंस्त्वत्प्रसादान्महामुने॥ द्रक्ष्ये क्षितिजसंघानां मर्दनं त्रिदशेश्वरम्। एवं कथयतस्तस्य महादेवाश्रितां कथाम्॥ दिनान्यष्टौ ततो जग्मुर्मुहूर्तमिव भारत। दिनेऽष्टमे तु विप्रेण दीक्षितोऽहं यथाविधि॥ दण्डी मुण्डी कुशी चीरी घृताक्तो मेखली कृतः। मासमेकं फलाहारो द्वितीयं सलिलाशनः॥ तृतीयं च चतुर्थं च पञ्चमं चानिलाशनः। एकपादेन तिष्ठंश्च ऊर्ध्वबाहुरतन्द्रितः॥ तेजः सूर्यसहस्रस्य अपश्यं दिवि भारत। तस्य मध्यगतं चापि तेजसः पाण्डुनन्दन॥ इन्द्रायुधपिनद्धाङ्गं विद्युन्मालागवाक्षकम्। नीलशैलचयप्रख्यं वलाकाभूषिताम्बरम्॥ तत्र स्थितश्च भगवान् देव्या सह महाद्युतिः। तपसा तेजसा कान्त्या दीप्तया सह भार्यया।॥ रराज भगवांस्तत्र देव्या सह महेश्वरः। सोमेन सहितः सूर्यो यथा मेघस्थितस्तथा॥ संहृष्टरोमा कौन्तेय विस्मयोत्फुल्ललोचनः। अपश्यं देवसंघानां गतिमार्तिहरं हरम्॥ किरीटिनं गदिनं शूलपाणिं व्याघ्राजिनं जटिलं दण्डपाणिम्। पिनाकिन वज्रिणं तीक्ष्णदंष्ट्र शुभाङ्गदं व्यालयज्ञोपवीतम्॥ दिव्यां मालामुरसानेकवर्णां समुद्वहन्तं गुल्फदेशावलम्बाम्। चन्द्रं यथा परिविष्टं ससंध्यं वर्षात्यये तद्वदपश्यमेनम्॥ प्रमथानां गणैश्चैव समन्तात् परिवारितम्। शरदीव सुदुष्प्रेक्ष्यं परिविष्टं दिवाकरम्॥ एकादशशतान्येवं रुद्राणां वृषवाहनम्। अस्तुवं नियतात्मानं कर्मभिः शुभकर्मिणम्॥ आदित्या वसवः साध्या विश्वेदेवास्तथाश्विनौ। विश्वाभिःस्तुतिभिर्देवं विश्वदेवं समस्तुवम्॥ शतक्रतुश्च भगवान् विष्णुश्चादितिनन्दनौ। ब्रह्मा रथन्तरं साम ईरयन्ति भवान्तिके॥ योगीश्वराः सुबहवो योगदं पितरं गुरुम्। ब्रह्मर्षयश्च ससुतास्तथा देवर्षयश्च वै॥ पृथिवी चान्तरिक्षं च नक्षत्राणि ग्रहास्तथा। मासार्धमासा ऋतवो रात्रिः संवत्सराः क्षणाः।।३९४ मुहूर्ताश्च निमेषाश्च तथैव युगपर्ययाः। दिव्या राजन् नमस्यन्ति विद्याः सत्त्वविदस्तथा।।३९५ सनत्कुमारो देवाश्च इतिहासास्तथैव च। मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः॥ मनवः सप्त सोमश्च अथर्वा सबृहस्पतिः। भृगुर्दक्षः कश्यपश्च वसिष्ठः काश्य एव च॥ छन्दांसि दीक्षा यज्ञाश्च दक्षिणाः पावको हविः। यज्ञोपगानि द्रव्याणि मूर्तिमन्ति युधिष्ठिर॥ प्रजानां पालकाः सर्वे सरितः पन्नगा नगाः। देवानां मातरः सर्वा देवपल्यः सकन्यकाः॥ सहस्राणि मुनीनां च अयुतान्यर्बुदानि च। नमस्यन्ति प्रभुं शान्तं पर्वताः सागरा दिशः॥ गन्धर्वाप्सरसश्चैव गीतवादित्रकोविदाः। दिव्यतालेषु गायन्तः स्तुवन्ति भवमद्भुतम्॥ विद्याधरा दानवाश्च गुह्यका राक्षसास्तथा। सर्वाणि चैव भूतानि स्थावराणि चराणि च। नमस्यन्ति महाराज वाङ्मनःकर्मभिर्विभुम्॥ पुरस्ताद् धिष्ठितः शर्वो ममासीत् त्रिदशेश्वरः। पुरस्ताद् धिष्ठितं दृष्ट्वा ममेशानं च भारत॥ सप्रजापतिशक्रान्तं जगन्मामभ्युदैक्षत। ईक्षितुं च महादेवं न मे शक्तिरभूत् तदा॥ ततो मामब्रवीद् देवः पश्य कृष्ण वदस्व च। त्वया ह्याराधितश्चाहं शतशोऽथ सहस्रशः॥ त्वत्समो नास्ति मे कश्चित् त्रिषु लाकेषु वै प्रियः। शिरसा वन्दिते देवे देवी प्रीता झुमा तदा। ततोऽहमब्रुवं स्थाणुं स्तुतं ब्रह्मादिभिः सुरैः॥ नमोऽस्तु ते शाश्वत सर्वयोने ब्रह्माधिपं त्वामृषयो वदन्ति। तपश्च सत्त्वं च रजस्तमश्च त्वामेव सत्यं च वदन्ति सन्तः॥ त्वं वै ब्रह्मा च रुद्रश्च वरुणोऽग्निर्मनुर्भवः। धाता त्वष्टा विधाता च त्वं प्रभुः सर्वतोमुखः॥४०८। त्वत्तो जातानि भूतानि स्थावराणि चराणि च। त्वया सृष्टमिदं कृत्स्नं त्रैलोक्यं सचराचरम्॥ यानीन्द्रियाणीह मनश्च कृत्स्रं ये वायवः सप्त तथैव चाग्नयः। ये देवसंस्थास्तवदेवताश्च तस्मात् परं त्वामृषयो वदन्ति॥ वेदाश्च यज्ञाः सोमश्च दक्षिणा पावको हविः। यज्ञोपगं च यत् किंचिद् भगवांस्तदसंशयम्॥ इष्टं दत्तमधीतं च व्रतानि नियमाश्च ये। ह्वीः कीर्तिः श्रीर्युतिस्तुष्टिः सिद्धिश्चैव तदर्पणी।।४१२ काम: क्रोधो भयं लोभो मदः स्तम्भोऽथ मत्सरः। आधयो व्याधयश्चैव भगवंस्तनवस्तव॥ कृतिर्विकारः प्रणयः प्रधानं बीजमव्ययम्। मनसः परमा योनिः प्रभावश्चापि शाश्वतः॥ अव्यक्तः पावनोऽचिन्त्यः सहस्रांशुर्हिरण्मयः। आदिर्गणानां सर्वेषां भवान् वै जीविताश्चयः॥ महानात्मा मतिर्ब्रह्मा विश्वः शम्भु स्वयम्भुवः। बुद्धिः प्रज्ञोपलब्धिश्च संविख्यातिधृतिःस्मृतिः।।४१६ पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यते। त्वां बुद्ध्वा ब्राह्मणो वेदात् प्रमोहं विनियच्छति॥४१७ हृदयं सर्वभूतानां क्षेत्रज्ञस्त्वमृषिस्तुतः। सर्वत:पाणिपादस्त्वं सर्वतोऽक्षिशिरोमुखः॥ सर्वतःश्रुतिमाल्लोके सर्वमावृत्य तिष्ठसि। फलं त्वमसि तिग्मांशोर्निमेषादिषु कर्मसु॥ त्वं वै प्रभार्चिः पुरुषः सर्वस्य हृदि संश्रितः। अणिमा महिमा प्राप्तिरीशानो ज्योतिरव्ययः॥ त्वयि बुद्धिर्मतिर्लोकाः प्रपन्नाः संश्रिताश्च ये। ध्यानिनो नित्ययोगाश्च सत्यसत्त्वा जितेन्द्रियाः॥ यस्त्वां ध्रुवं वेदयते गुहाशयं प्रभुं पुराणं पुरुषं च विग्रहम्। हिरण्मयं बुद्धिमतां परां गतिं स बुद्धिमान् बुद्धिमतीत्य तिष्ठति॥ विदित्वा सप्त सूक्ष्माणि षडङ्गं त्वां च मूर्तितः। प्रधानविधियोगस्थस्त्वामेव विशते बुधः॥ एवमुक्ते मया पार्थ भवे चार्तिविनाशने। चराचरं जगत् सर्वं सिंहनादं तदाकरोत्॥ तं विप्रसंघाश्च सुरासुराश्च नागाः पिशाचाः पितरो वयांसि। रक्षोगणा भूतगणाश्च सर्वे महर्षयश्चैव तदा प्रणेमुः॥ मम मूर्ध्नि च दिव्यानां कुसुमानां सुगन्धिनाम्। राशयो निपतन्ति स्प वायुश्च सुसुखो ववौ॥ निरीक्ष्य भगवान् देवी ह्युमां मां च जगद्धितः। शतक्रतुं चाभिवीक्ष्य स्वयं मामाह शङ्करः॥ विदुः कृष्ण परां भक्तिमस्मासु तव शत्रुहान्। क्रियतामात्मनः श्रेयः प्रीतिर्हि त्वयि मे परा॥ वृणीष्वाष्टौ वरान् कृष्ण दातास्मि तव सत्तम। ब्रूहि यादवशार्दूल यानिच्छसि सुदुर्लभान्॥ वृणीष्वाष्टौ वरान् कृष्ण दातास्मि तव सत्तम। ब्रूहि यादवशार्दूल यानिच्छसि सुदुर्लभान्॥ उपमन्युरुवाच ऋषिरासीत् कृते तात तण्डिरित्येव विश्रुतः। दशवर्षसहस्राणि तेन देव: समाधिना॥ आराधितोऽभूद् भक्तेन तस्योदकं निशामय। स दृष्टवान् महादेवमस्तौषीच्च स्तवैर्विभुम्॥ इति तण्डिस्तपोयोगात् परमात्मानमव्ययम्। चिन्तयित्वा महात्मानमिदमाह सुविस्मितः॥ यं पठन्ति सदा सांख्याश्चिन्तयन्ति च योगिनः। परं प्रधानं पुरुषमधिष्ठातारमीश्वरम्॥ उत्पत्तौ च विनाशे च कारणं यं विदुर्बुधाः। देवासुरमुनीनां च परं यस्मान्न विद्यते॥ अजं तमहमीशानमनादिनिधनं प्रभुम्। अत्यन्तसुखिनं देवमनघं शरणं व्रजे॥ एवं ब्रुवन्नेव तदा ददर्श तपसां निधिम्। तमव्ययमनौपम्यमचिन्त्यं शाश्वतं ध्रुवम्॥ निष्कलं सकलं ब्रह्म निर्गुणं गुणगोचरम्। योगिनां परमानन्दमक्षरं मोक्षसंज्ञितम्॥ मनोरिन्द्राग्निमरुतां विश्वस्य ब्रह्मणो गतिम्। अग्राह्यमचलं शुद्धं बुद्धिग्राह्यं मनोमयम्॥ दुर्विज्ञेयमसंख्येयं दुष्प्रापमकृतात्मभिः। योनि विश्वस्य जगतस्तमसः परतः परम्॥ यः प्राणवन्तमात्मानं ज्योतिर्जीवस्थितं मनः। तं देवं दर्शनाकाङ्क्षी बहून् वर्षगणानृषिः॥ तण्डि उवाच तपस्युग्रे स्थितो भूत्वा दृष्ट्वा तुष्टाव चेश्वरम्।। पवित्राणां पवित्रस्त्वं गतिर्गतिमतां वर॥ अत्युग्रं तेजसां तेजस्तपां परमं तपः। विश्वावसुहिरण्याक्षपुरुहूतनमस्कृत॥ भूरिकल्याणद विभो परं सत्यं नमोऽस्तु ते। जातीमरणभीरूणां यतीनां यततां विभो॥ निर्वाणद सहस्रांशो नमस्तेऽस्तु सुखाश्रय। ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः॥ न विदुस्त्वां तु तत्त्वेन कुतो वेत्स्यामहे वयम् त्वत्तः प्रवर्तते सर्वं त्वयि सर्वं प्रतिष्ठितम्॥ कालाख्यः पुरुषाख्यश्च ब्रह्माख्यश्च त्वमेव हि। तनवस्ते स्मृतास्तिस्रः पुराणज्ञैः सुरर्षिभिः॥ अधिपौरुषमध्यात्ममधिभूताधिदैवतम्। अधिलोकाधिविज्ञानमधियज्ञस्त्वमेव हि॥ त्वां विदित्वात्मदेहस्थं दुर्विदं दैवतैरपि। विद्वांसो यान्ति निर्मुक्ताः परं भावमनामयम्॥ अनिच्छतस्तव विभो जन्ममृत्युरनेकतः। द्वारं तु स्वर्गमोक्षाणामाक्षेप्ता त्वं ददासि च॥ त्वं वै स्वर्गच कामः क्रोधस्त्वमेव च। सत्त्वं रजस्तमश्चैव अधश्चोर्ध्वं त्वमेव हि॥ ब्रह्मा भवश्च विष्णुश्च स्कन्देन्द्रौ सविता यमः। वरुणेन्दू मनुर्धाता विधाता त्वं धनेश्वरः॥ भूर्वायुः सलिलाग्निश्च खं वाग्बुद्धिः स्थितिर्मतिः। कर्म सत्यानृते चोभे त्वमेवास्ति च नास्ति च॥ इन्द्रियाणीन्द्रियार्थाश्च प्रकृतिभ्यः परं ध्रुवम्। विश्वाविश्वपरोभावश्चिन्त्याचिन्त्यस्त्वमेव हि॥ यच्चैतत् परमं ब्रह्म यच्च तत् परमं पदम्। या गतिः सांख्ययोगानां स भवान् नात्र संशयः॥ नूनमद्य कृतार्थाः स्म नूनं प्राप्ताः सतां गतिम्। यां गतिं प्रार्थयन्तीह ज्ञाननिर्मलबुद्धयः॥ अहो मूढाः स्म सुचिरमिमं कालमचेतसा। यन्न विद्यः परं देवं शाश्वतं यं विदुर्बुधाः॥ सेयमासादिता साक्षात् त्वद्भक्तिर्जनमभिर्मया। भक्तानुग्रहकृद् देवो यं ज्ञात्वामृतमश्नुते॥ देवासुरमुनीनां तु यच्च गुह्यं सनातनम्। गुहायां निहितं ब्रह्म दुर्विज्ञेयं मुनेरपि॥ स एष भगवान् देवः सर्वकृत् सर्वतोमुखः। सर्वात्मा सर्वदर्शी च सर्वगः सर्ववेदिता।॥ देहकृद् देहभृद् देही देहभुगदेहिनां गतिः। प्राणकृत् प्राणभृत् प्राणी प्राणदः प्राणिनां गतिः॥३१ अध्यात्मगतिरिष्टानां ध्यायिनामात्मवेदिनाम्। अपुनर्भवकामानां या गतिः सोऽयमीश्वरः॥ अयं च सर्वभूतानां शुभाशुभगतिप्रदः। अयं च जन्ममरणे विदध्यात् सर्वजन्तुषु॥ अयं संसिद्धिकामानां या गतिः सोऽयमीश्वरः। भूराद्यान् सर्वभुवनानुत्पाद्य सदिवौकसः। दधाति देवस्तनुभिरष्टाभिर्यो बिभर्ति च॥ अतः प्रवर्तते सर्वमस्मिन् सर्वं प्रतिष्ठितम्। अस्मिंश्च प्रलयं याति अयमेकः सनातनः॥ अयं स सत्यकामानां सत्यलोकः परं सताम्। अपवर्गश्च मुक्तानां कैवल्यं चात्मवेदिनाम्॥ अयं ब्रह्मादिभिः सिद्धैर्गुहायां गोपितः प्रभुः। देवासुरमनुष्याणामप्रकाशो भवेदिति॥ तं त्वां देवासुरनरास्तत्त्वेन न विदुर्भवम्। मोहिताः खल्वनेनैव हृदिस्थेनाप्रकाशिना॥ ये चैनं प्रतिपद्यन्ते भक्तियोगेन भाविताः। तेषामेवात्मनाऽऽत्मानं दर्शयत्येष हृच्छयः॥ यं ज्ञात्वा न पुनर्जन्म मरणं चापि विद्यते। यं विदित्वा परं वेद्यं वेदितव्यं न विद्यते॥ यं लब्वा परमं लाभं नाधिकं मन्यते बुधः। यां सूक्ष्मां परमां प्राप्तिं गच्छन्नव्ययमक्षयम्॥ यं सांख्या गुणतत्त्वज्ञाः सांख्यशास्त्रविशारदाः। सूक्ष्मज्ञानतराः सूक्ष्म ज्ञात्वा मुच्यन्ति बन्धनैः॥ यं च वेदविदो वेद्यं वेदान्ते च प्रतिष्ठितम्। प्राणायामपरा नित्यं यं विशन्ति जपन्ति च॥ ओंकाररथमारुह्य ते विशन्ति महेश्वरम्। अयं स देवयानानामादिते द्वारमुच्यते॥ अयं च पितृयानानां चन्द्रमा द्वारमुच्यते। एष काष्ठा दिशश्चैव संवत्सरयुगादि च॥ दिव्यादिव्यः परो लाभ अयने दक्षिणोत्तरे। एनं प्रजापतिः पूर्वमाराध्य बहुभिः स्तवैः॥ प्रजार्थं वरयामास नीललोहितसंज्ञितम्। ऋग्भिर्यमनुशासन्ति तत्त्वे कर्मणि बढचाः॥ यजुर्भिर्यन्त्रिधा वेद्यं जुह्वत्यध्वर्यवोऽध्वरे। सामभिर्ये च गायन्ति सामगा: शुद्धबुद्धयः॥ ऋतं सत्यं परं ब्रह्म स्तुवन्त्याथर्वणा द्विजाः। यज्ञस्य परमा योनिः पतिश्चायं परः स्मृतः॥ रात्र्यहःश्रोत्रनयन: पक्षमासशिरोभुजः। ऋतुवीर्यस्तपोधैर्यो ह्यब्दगुह्योरुपादवान्॥ मृत्युर्यमो हताशश्च कालः संहारवेगवान्। कालस्य परमा योनिः कालश्चायं सनातनः॥ चन्द्रादित्यौ सनक्षत्रौ ग्रहाश्च सह वायुना। ध्रुव: सप्तर्षयश्चैव भुवनाः सप्त एव च॥ प्रधानं महदव्यक्तं विशेषान्तं सवैकृतम्। ब्रह्मादिस्तम्बपर्यन्तं भूतादि सदसच्च यत्॥ अष्टौ प्रकृतयश्चैव प्रकृतिभ्यश्च यः परः। अस्य देवस्य यद् भागं कृत्स्नं सम्परिवर्तते॥ एतत् परममानन्दं यत् तच्छाश्वतमेव च। एषा गतिर्विरक्तानामेष भावः परः सताम्॥ एतत् पदमनुद्विग्नमेतद् ब्रह्म सनातनम्। शास्त्रवेदाङ्गविदुषामेतद् ध्यानं परं पदम्॥ इयं सा परमा काष्ठा इयं सा परमा कला। इयं सा परमा सिद्धिरियं सा परमा गतिः॥ इयं सा परमा शान्तिरियं सा निर्वृति: परा। यं प्राप्य कृतकृत्याः स्म इत्यमन्यन्त योगिनः॥ इयं तुष्टिरियं सिद्धिरियं श्रुतिरियं स्मृतिः। अध्यात्मगतिरिष्टानां विदुषां प्राप्तिरव्यया॥ यजतां कामयानानां मखैर्विपुलदक्षिणैः। या गतिर्यज्ञशीलानां सा गतिस्त्वं न संशयः॥ सम्यग् योगजपैः शान्तिर्नियमैर्देहतापनैः। तप्यतां या गतिर्देव परमा सा गतिर्भवान्॥ कर्मन्यासकृतानां च विरक्तानां ततस्ततः। या गतिर्ब्रह्मसदने सा गतिस्त्वं सनातन॥ उपमन्युरुवाच अपुनर्भवकामानां वैराग्ये वर्ततां च या। प्रकृतीनां लयानां च सा गतिस्त्वं सनातन॥ ज्ञानविज्ञानयुक्तानां निरुपाख्या निरञ्जना। कैवल्या या गतिर्देव परमा सा गतिर्भवान्॥ वेदशास्त्रपुराणोक्ताः पञ्चैता गतयः स्मृताः। त्वत्प्रसादिद्धि लभ्यन्ते न लभ्यन्तेऽन्यथा विभो॥ इति तण्डिस्तपोराशिस्तुष्टावेशानमात्मना। जगौ च परमं ब्रह्म यत् पुरा लोककृज्जगौ॥ एवं स्तुतो महादेवस्तण्डिना ब्रह्मवादिना। उवाच भगवान् देव उमया सहितः प्रभुः॥ तण्डि उवाच ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः न विदुस्त्वामिति ततस्तुष्टः प्रोवाच तं शिवः॥ अक्षयश्चाव्ययश्चैव भविता दुःखवर्जितः। यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः॥ ऋषीणामभिगम्यश्च सूत्रकर्ता सुतस्तव। मत्प्रसादाद् द्विजश्रेष्ठ भविष्यति न संशयः॥ कं वा कामं ददाम्यद्य ब्रूहि यद् वत्स काङ्क्षसे। प्राञ्जलिः स उवाचेदं त्वयि भक्तिर्दृढास्तु मे॥ उपमन्युरुवाच एतान् दत्त्वा वरान् देवो वन्द्यमानः सुरर्षिभिः। स्तूयमानश्च विबुधैस्तत्रैवान्तरधीयत॥ अन्तर्हिते भगवति सानुगे यादवेश्वर। ऋषिराश्रममागम्य ममैतत् प्रोक्तवानिह॥ यानि च प्रथितान्यादौ तण्डिराख्यातवान् मम। नामानि मानवश्रेष्ठ तानि त्वं शृणु सिद्धये॥ दशनामसहस्राणि देवेष्वाह पितामहः। शर्वस्य शास्त्रेषु तथा दशनामशतानि च॥ गुह्यानीमानि नामानि तण्डिर्मवतोऽच्युत। देवप्रसादाद् देवेशः पुरा प्राह महात्मने॥ वासुदेव उवाच ततः स प्रयतो भूत्वा मम तात युधिष्ठिर। प्राञ्जलिः प्राह विप्रर्षिर्नामसंग्रहमादितः॥ उपमन्युरुवाच ब्रह्मप्रोक्तैर्ऋषिप्रोक्तैर्वेदवेदाङ्गसम्भवैः। सर्वलोकेषु विख्यातं स्तुत्यं स्तोष्यामि नामभिः॥ महद्भिर्विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः। ऋषिणा तण्डिना भक्त्या कृतैर्वेदकृतात्मना॥ यथोक्तैः साधुभिः ख्यातैर्मुनिभिस्तत्त्वदशिभिः। प्रवरं प्रथमं स्वर्ये सर्वभूतहितं शुभम्॥ श्रुतैः सर्वत्र जगति ब्रह्मलोकावतारितैः। सत्यैस्तत् परमं ब्रह्म ब्रह्मप्रोक्तं सनातनम्॥ वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितो मम। वरयैनं भवं देवं भक्तस्त्वं परमेश्वरम्॥ तेन ते श्रावयिष्यामि यत् तद् ब्रह्म सनातनम्। न शक्यं विस्तरात् कृत्स्नं वक्तुं सर्वस्य केनचित्॥ युक्तेनापि विभूतीनामपि वर्षशतैरपि। यस्यादिमध्यमन्तं च सुरैरपि च गम्यते॥ कस्तस्य शक्नुयाद् वक्तुं गुणान् कात्स्र्येन माधवा किं तु देवस्य महत: संक्षिप्तार्थपदाक्षरम्॥ शक्तितश्चरितं वक्ष्ये प्रसादात् तस्य धीमतः। अप्राप्य तु ततोऽनुज्ञां न शक्यः स्तोतुमीश्वरः॥ यदा तेनाभ्यनुज्ञातः स्तुतो वै स तदा मया। अनादिनिधनस्याहं जगद्योनेर्महात्मनः॥ नाम्नां कंचित् समुद्देशं वक्ष्याम्यव्यक्तयोनिनः। वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः॥ शृणु नाम्नां चयं कृष्ण यदुक्तं पद्मयोनिना। दशनामसहस्राणि यान्याह प्रपितामहः॥ तानि निर्मथ्य मनसा दध्मो घृतमिवोद्धृतम्। गिरेः सारं यथा हेम पुष्पसारं यथा मधु॥ घृतात् सारं यथा मण्डस्तथैतत् सारमुद्धृतम्। सर्वपापापहमिदं चतुर्वेदसमन्वितम॥ प्रयत्नेनाधिगन्तव्यं धार्ये च प्रयताम्ना। माङ्गल्यं पौष्टिकं चैव रक्षोभं पावनं महत्॥ इदं भक्ताय दातव्यं श्रद्दधानास्तिकाय च। नाश्रद्दधानरूपाय नास्तिकायाजितात्मने॥ यश्चाभ्यसूयते देवं कारणात्मानमीश्वरम्। स कृष्ण नरकं याति सह पूर्वैः सहात्मजैः॥ इदं ध्यानमिदं योगमिदं ध्येयमनुत्तमम्। इदं जप्यमिदं ज्ञानं रहस्यमिदमुत्तमम्॥ यं ज्ञात्वा अन्तकालेऽपि गच्छेत परमां गतिम्। पवित्रं मङ्गलं मेध्यं कल्याणमिदमुत्तमम्॥ इदं ब्रह्मा पुरा कृत्वा सर्वलोकपितामहः। सर्वस्तवानां राजत्वे दिव्यानां समकल्पयत्॥ तदाप्रभृति चैवायमीश्वरस्य महात्मनः। स्तवराज इति ख्यातो जगत्यमरपूजितः॥ पुरा प्राप ब्रह्मलोकादयं स्वर्गे स्तवराजोऽवतारितः। यतस्तण्डि: तेन तण्डिकृतोऽभवत्॥ स्वर्गाच्चैवात्र भूर्लोकं तण्डिना ह्यवतारितः। सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम्॥ निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम्। ब्रह्मणामपि यद् ब्रह्म पराणामपि यत् परम्॥ तेजसामपि यत् तेजस्तपसामपि यत् तपः। शान्तानामपि यः शान्तो द्युतीनामपि या द्युतिः॥ दान्तानामपि यो दान्तो धीमतामपि या च धीः। देवानामपि यो देव ऋषीणामपि यस्त्वृषिः॥ यज्ञानामपि यो यज्ञः शिवानामपि यः शिवः। रुद्राणामपि यो रुद्रः प्रभा प्रभवतामपि॥ योगिनामपि यो रोगी कारणानां च कारणम्। यतो लोकाः सम्भवन्ति न भवन्ति यतः पुनः॥ सर्वभूतात्मभूतस्य हरस्यामिततेजसः। अष्टोत्तरसहस्रं तु नाम्नां शर्वस्य मे शृणु। यच्छ्रुत्वा मनुजव्याघ्र सर्वान् कामानवाप्स्यसि॥ स्थिरः स्थाणुः प्रभुर्भीमः प्रवरो वरदो वरः। सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः॥ जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः। हव्यश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः॥ प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः। श्मशानवासी भगवान् खचरो गोचरोऽर्दनः॥ अभिवाद्यो महाकर्मा तपस्वी भूतभावनः। उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः॥ महारूपो महाकायो वृषरूपो महायशाः। महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः॥ लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः। पवित्रं च महांश्चैव नियमो नियमाश्रितः॥ सर्वकर्मा स्वयम्भूत आदिरादिकरो निधिः। सहस्राक्षो विशालाक्ष: सोमो नक्षत्रसाधकः॥ चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः। अत्रिरत्र्या नमस्कर्ता मृगबाणार्पणोऽनघः॥ महातपा घोरतपा अदीनो दीनसाधकः। संवत्सरकरो मन्त्रः प्रमाणं परमं तपः॥ योगी योज्यो महाबीजो महारेता महाबलः। सुवर्ण रेताः सर्वज्ञः सुबीजो बीजवाहनः॥ दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः। विश्वरूपः स्वयं श्रेष्ठो बलबीरोऽवलो गणः॥ गणकर्ता गणपतिदिग्वासाः काम एव च। मन्त्रवित् परमो मन्त्रः सर्वभावकरो हरः॥ कमण्डलुधरो धन्वी बाणहस्तः कपालवान्। अशनी शतघ्री खड्डी पट्टिशी चायुधी महान्॥ स्रवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः। उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा॥ दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च। शृगालरूपः सिद्धार्थो मुण्डः सर्वशुभङ्करः॥ अजश्च बहुरूपश्च गन्धधारी कपद्यपि। ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभःस्थल॥ त्रिजटी चीरवासाश्च रुद्रः सेनापतिर्विभुः। अहश्चरो नक्तंचरस्तिग्ममन्युः सुवर्चसः॥ सिंहशार्दूलरूपश्च आर्द्रचर्माबरावृतः॥ कालयोगी महानादः सर्वकामश्चतुष्पथः। निशाचर: प्रेतचारी भूतचारी महेश्वरः॥ बहुभूतो बहुधरः स्वर्भानुरमितो गतिः। नृत्यप्रियो नित्यन” नर्तकः सर्वलालसः॥ घोरो महातपाः पाशो नित्यो गिरिरुहो नभः। सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः॥ अधर्षणो धर्षणात्मा यज्ञहा कामनाशकः। दक्षयागापहारी च सुसहो मध्यमस्तथा॥ तेजोऽपहारी बलहा मुदितोऽर्थोऽजितोऽवरः। गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः॥ न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः। सुतीक्ष्णदशनश्चैव महाकायो महाननः॥ विष्वक्सेनो हरियज्ञः संयुगापीडवाहनः। तीक्ष्णतापश्च हर्यश्व: सहाय: chchlufaa114411 विष्णुप्रसादितो यज्ञः समुद्रो वडवामुखः। हुताशनसहायश्च प्रशान्तात्मा हुताशनः॥ उग्रतेजा महातेजा जन्यो विजयकालवित्। ज्योतिषामयनं सिद्धिः सर्वविग्रह एव च॥ शिखी मुण्डी जटी ज्वाली मूर्तिजो मूर्द्धगो बली। वेणवी पणवी ताली खली कालकटंकटः॥ नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयोऽगमः। प्रजापतिर्विश्वबाहुर्विभागः सर्वगोऽमुखः॥ विमोचनः सुसरणो हिरण्यकवचोद्भवः। मेदजो बलचारी च महीचारी स्रुतस्तथा॥ सर्वतूर्यनिनादी च सर्वातोद्यपरिग्रहः। व्यालरूपो गुहावासी गुहो माली तरङ्गवित्॥ त्रिदशस्त्रिकालधृक् कर्मसर्वबन्धविमोचनः। बन्धनस्त्वसुरेन्द्राणां युधि शत्रुविनाशनः॥ सांख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः। प्रस्कन्दनो विभागज्ञोऽतुल्यो यज्ञविभागवित्॥ हैमो हेमकरोऽयज्ञः सर्वधारी धरोत्तमः॥ लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः। संग्रहो निग्रहः कर्ता सर्पचीरनिवासनः॥ मुख्योऽमुख्यश्च देहश्च काहलिः सर्वकामदः। सर्वकालप्रसादश्च सुबलो बलरूपधृक्॥ सर्वकामवरश्चैव सर्वदः सर्वतोमुखः। आकाशनिर्विरूपश्च निपाती ह्यवशः खगः॥ वसुवेगो महावेगो मनोवेगो निशाचरः॥ सर्ववासी श्रियावासी उपदेशकरोऽकरः। मुनिरात्मनिरालोकः सम्भग्नश्च सहस्रदः॥ पक्षी च पक्षरूपश्च अतिदीप्तो विशाम्पतिः। उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो यशः॥ वामदेवश्च वामश्च प्राग् दक्षिणश्च वामनः। सिद्धयोगी महर्षिश्च सिद्धार्थ: सिद्धसाधकः॥ महासेनो विशाखश्च षष्टिभागो गवां पतिः॥ वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च। वृत्तावृत्तकरस्तालो मधुर्मधुकलोचनः॥ वाचस्पत्यो वाजसनो नित्यमाश्रमपूजितः। ब्रह्मचारी लोकचारी सर्वचारी विचारवित्॥ ईशान ईश्वरः कालो निशाचारी पिनाकवान्। निमित्तस्थो निमित्तं च नन्दिनन्दिकरो हरिः॥ नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्द्धनः। भगहारी निहन्ता च कालो ब्रह्मा पितामहः॥ चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च। लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः॥ बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः इतिहास: सकल्पश्च गौतमोऽथ निशाकरः॥ दम्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः। लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः॥ अक्षरं परमं ब्रह्म बलवच्छक एव च। नीतिमुनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः॥ बहुप्रसादः सुस्वप्नो दर्पणोऽथ त्वमित्रजित्। वेदकारो मन्त्रकारो विद्वान् समरमर्दनः॥ महामेघनिवासी च महाघोरो वशी करः। अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः॥ वषणः शङ्करो नित्यं वर्चस्वी धूमकेतनः। नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः॥ स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः। उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः॥ कृष्णवर्णः सुवर्णश्च इन्द्रियं सर्वदेहिनाम्। महापादो महाहस्तो महाकायो महायशाः॥ महामूर्धा महामात्रो महानेत्रो निशालयः। महान्तको महाकर्णो महोष्ठश्च महाहनुः॥ महानासो महाकम्बुर्महाग्रीवः श्मशानभाक्। महावक्षा महोरस्को ह्यन्तरात्मा मृगालयः॥ लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः। महादन्तो महादंष्ट्रो महाजिह्वो महामुखः॥ महानखो महारोमा महाकेशो महाजटः। प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः॥ स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः। वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः॥ गण्डली मेस्थामा च देवाधिपतिरेव च। अथर्वशीर्ष: सामास्य ऋक्सहस्रामितेक्षणः॥ यजुःपादभुजो गुह्यः प्रकाशो जङ्गमस्तथा। अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः॥ उपकारः प्रियः सर्वः कनकः काञ्चनन्छविः। नाभिनन्दिकरो भावः पुष्करस्थपतिः स्थिरः॥ द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः। नक्तं कलिश्च कालश्च मकरः कालपूजितः॥ सगणो गणकारश्च भूतवाहनसारथिः। भस्मशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः॥ लोकपालस्तथालोको महात्मा सर्वपूजितः। शुक्लस्त्रिशुक्लः सम्पन्नः शुचिर्भूतनिषेवितः॥ आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः। विशालशाखस्ताम्रोष्ठो ह्यम्बुजाल: सुनिश्चलः॥ कपिलः 1997: शुक्ल आयुश्चैव परोऽपरः। गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः॥ परश्वधायुधो देवो अनुकारी सुबान्धवः। तुम्बवीणो महाक्रोध ऊर्ध्वरेता जलेशयः॥ उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः। सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः।।१००। बन्धनो बन्धकर्ता च सुबन्धनविमोचनः। सयज्ञारिः सकामारिर्महादंष्ट्रो महायुधः॥ बहुधा निन्दितः शर्वः शङ्करः शङ्करोऽधनः। अमरेशो महादेवो विश्वदेवः सुरारिहा॥ अहिर्बुध्योऽनिलाभश्च चेकितानो हविस्तथा। अजैकपाच्च कापाली त्रिशंकुरजितः शिवः॥ धन्वन्तरिधूमकेतुः स्कन्दो वैश्रवणस्तथा। धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः॥ प्रभावः सर्वगो वायुरर्यमा सविता रविः। विधाता च मान्धाता भूतभावनः॥ विभुर्वर्णविभावी च सर्वकामगुणावहः। पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः॥ बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी। कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः॥ सर्वाशयो दर्भचारी सर्वेषां प्राणिनां पतिः। देवदेवः सुखासक्तः सदसत्सर्वरलवित्॥ कैलासगिरिवासी च हिमवद्रिरिसंश्रयः। कूलहारी कुलकर्ता बहुविद्यो बहुप्रदः॥ वणिजो वर्धकी वृक्षो बकुलश्चन्दनश्छदः। सारग्रीवो महात्रुरलोलश्च महौषधः॥ सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः। सिंहनादः सिंहदंष्टः सिंहगः सिंहवाहनः॥ प्रभावात्मा जगत्कालस्थालो लोकहितस्ततः। सारङ्गो नवचक्राङ्गः केतुमाली सभावनः॥ भूतालयो भूतपतिरहोरात्रमनिन्दितः॥ वाहिता सर्वभूतानां निलयश्च विभुर्भवः। अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः॥ धृतिमान् मतिमान् दक्षः सत्कृतश्च युगाधिपः। गोपालिर्गोपतिमो गोचर्मवसनो हरिः॥ हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम्। प्रकृष्टारिर्महाहर्षो जितकामो जितेन्द्रियः॥ गान्धारश्च सुवासश्च तप:सक्तो रतिर्नरः। महागीतो महानृत्यो ह्यप्सरोगणसेवितः॥ महाकेतुर्महाधातु३कसानुचरालः। आवेदनीय आदेश: सर्वगन्धसुखावहः॥ तोरणस्तारणो वातः परिधी पतिखेचरः। संयोगो वर्धनो वृद्धो अतिवृद्धो गुणाधिकः॥ नित्य आत्मसहायश्च देवासुरपतिः पतिः। युक्तश्च युक्तबाहुश्च देवो दिविसुपर्वणः।।१२०। आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः। वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः॥ शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः। अक्षश्च रथयोगी च सर्वयोगी महाबलः॥ समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः। निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः॥ रत्नप्रभूतो रत्नाङ्गो महार्णवनिपानवित्। मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः॥ आरोहणोऽधिरोहश्च शीलधारी महायशाः। सेनाकल्पो महाकल्पो योगो युगकरो हरिः॥ युगरूपो महारूपो महानागहनोऽवधः। न्यायनिर्वपणः पादः पण्डितो ह्यचलोपमः॥ बहुमालो महामालः शशी हरसुलोचनः। विस्तारो लवण: कूपस्त्रियुगः सफलोदयः॥ त्रिलोचनो विषष्णाङ्गो मणिविद्धो जटाधरः। बिन्दुर्विसर्गः सुमुखः शरः सर्वायुधः सहः॥ निवेदनः सुखाजातः सुगन्धारो महाधनुः। गन्धपाली च भगवानुत्थानः सर्वकर्मणाम्॥ मन्थानो बहुलो वायुः सकलः सर्वलोचनः। तलस्ताल: करस्थाली ऊर्ध्वसंहननो महान्॥ छत्रं सुच्छत्रो विख्यातो लोकः सर्वाश्रयः क्रमः। मुण्डो विरूपोविकृतो दण्डी कुण्डी विकुवर्णः॥ हर्यक्षः ककुभो वज्री शतजिह्वः सहस्रपात्। सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः॥ सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत्। पवित्रं त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः। ब्रह्मदण्डविनिर्माता शतघ्नीपाशशक्तिमान्। पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः॥ गभस्तिर्ब्रह्मकृद् ब्रह्मी ब्रह्मविद् ब्राह्मणो गतिः। अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयम्भुवः॥ ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः। चन्दनी पद्मनालाग्रः सुरभ्युत्तरणो नरः॥ कर्णिकारमहास्त्रग्वी नीलमौलि: पिनाकधृत्। उमापतिरुमाकान्तो जाह्नवीधृदुमाधवः॥ वरो वराहो वरदो वरेण्यः सुमाहास्वनः। महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः॥ पीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत्। सर्वपार्श्वमुखस्त्र्यक्षो धर्मसाधारणो वरः॥ चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः। साध्यर्षिर्वसुरादित्यो विवस्वान् सवितामृतः॥ व्यासः सर्गः सुसंक्षेपो विस्तरः पर्ययो नरः। ऋतुः संवत्सरो मास: पक्षः संख्यासमापनः॥ कलाः काष्ठा लवा मात्रा मुहूर्ताहःक्षपाः क्षणाः। विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्तु निर्गमः॥ सदसद् व्यक्तमव्यक्तं पिता माता पितामहः। स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम्॥ निर्वाणं ह्लादनश्चैव ब्रह्मलोकः परा गतिः। देवासुरविनिर्माता देवासुरपरायणः॥ देवासुरगुरुर्देवो देवासुरनमस्कृतः। देवासुरमहामात्रो देवासुरगणाश्रयः॥ देवासुरगणाध्यक्षो देवासुरगणाग्रणीः। देवातिदेवो देवर्षिर्देवासुरवरप्रदः॥ देवासुरेश्वरो विश्वो देवासुरमहेश्वरः। सर्वदेवमयोऽचिन्त्यो देवतात्माऽऽत्मसम्भवः॥ उद्भित् त्रिविकमो वैद्यो विरजो नीरजोऽमरः। ईड्यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभः॥ विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः। सुयुक्तः शोभनो वज्री प्रासानां प्रभवोऽव्ययः॥ गुहः कान्तो निजः सर्गः पवित्रं सर्वपावनः। शृङ्गी शृङ्गप्रियो बभू राजराजो निरामयः॥ अभिरामः सुरगणो विरामः सर्वसाधनः। ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः॥ स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः। सिद्धार्थ :सिद्धभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः॥१५२ व्रताधिपः परं ब्रह्म भक्तानां परमा गतिः। विमुक्तो मुक्ततेजाच श्रीमाश्रीवर्धनो जगत्॥ यथाप्रधानं भगवानिति भक्त्या स्तुतो मया। यन्न ब्रह्मादयो देवा विदुस्तत्त्वेन नर्षयः॥ स्तोतव्यमर्थ्य वन्द्यं च कः स्तोष्यति जगत्पतिम्। भक्त्या त्वेवं पुरस्कृत्य मया यज्ञपतिर्विभुः॥ ततोऽभ्यनुज्ञां सम्प्राप्य स्तुतो मतिमतां वरः। शिवमेभिः स्तुवन् देवं नामभिः पुष्टिवर्धनैः॥ नित्ययुक्तः शुचिर्भक्तः प्राप्नोत्यात्मानमात्मना॥ एतद्धि परमं ब्रह्म परं ब्रह्माधिगच्छति। ऋषयश्चैव देवाश्च स्तुवन्त्येतेन तत्परम्॥ स्तूयमानो महादेवस्तुष्यते नियतात्मभिः। भक्तानुकम्पी भगवानात्मसंस्थाकरो विभुः॥ तथैव च मनुष्येषु ये मनुष्याः प्रधानतः। आस्तिकाः श्रद्दधानाश्च बहुभिर्जन्मभिः स्तवैः॥ भक्त्या ह्यनन्यमीशानं परं देवं सनातनम्। कर्मणा मनसा वाचा भावेनामिततेजसः॥ शयाना जाग्रमाणाश्च व्रजन्नुपविशंस्तथा। उन्मिषन् निमिषंश्चैव चिन्तयन्तः पुनः पुनः॥ शृण्वन्तः श्रावयन्तश्च कथयन्तश्च ते भवम्। स्तुवन्तः स्तूयमानाश्च तुष्यन्ति च रमन्ति च॥ जन्मकोटिसहस्रेषु नानासंसारयोनिषु। जन्तोर्विगतपापस्य भवे भक्तिः प्रजायते॥ उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः। भाविनः कारणे चास्य सर्वयुक्तस्य सर्वथा॥ एतद् देवेषु दुष्प्रापं मनुष्येषु न लभ्यते। निर्विघ्ना निश्चला रुद्रे भक्तिरव्यभिचारिणी॥ तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणाम्। येन यान्ति परां सिद्धिं तद्भागवतचेतसः॥ ये सर्वभावानुगताः प्रपद्यन्ते महेश्वरम्। प्रपन्नवत्सलो देवः संसारात् तान् समुद्धरेत्॥ एवमन्ये विकुर्वन्ति देवाः संसारमोचनम्। मनुष्याणामृते देवं नान्या शक्तिस्तपोबलम्॥ इति तेनेन्द्रकल्पेन भगवान् सदसत्पतिः। कृत्तिवासाः स्तुतः कृष्ण तण्डिना शुभबुद्धिना॥१७० स्तवमेतं भगवतो ब्रह्मा स्वयमधारयत्। गीयते च स बुद्ध्येत ब्रह्मा शंकरसंनिधौ॥ इदं पुण्यं पवित्रं च सर्वदा पापनाशनम्। योगदं मोक्षदं चैव स्वर्गदं तोषदं तथा॥ एवमेतत् पठन्ते य एकभक्त्या तु शङ्करम्। या गतिः सांख्ययोगानां व्रजन्त्येतां गतिं तदा॥ स्तवमेतं प्रयलेन सदा रुद्रस्य संनिधौ। अब्दमेकं चरेद्भक्तः प्राप्नुयादीप्सितं फलम्॥ एतद् रहस्यं परमं ब्रह्मणो हृदि संस्थितम्। ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे॥ मृत्युः प्रोवाच रुद्रेभ्यो रुद्रेभ्यस्तण्डिमागमत्। महता तपसा प्राप्तस्तण्डिना ब्रह्मसद्मनि॥ तण्डिः प्रोवाच शुक्राय गौतमाय च भार्गवः। वैवस्वताय मनवे गौतमः प्राह माधव॥ नारायणाय साध्याय समाधिष्ठाय धीमते। यमाय प्राह भगवान् साध्यो नारायणोऽच्युतः॥ नाचिकेताय भगवानाह वैवस्वतो यमः। मार्कण्डेयाय वार्ष्णेय नाचिकेतोऽभ्यभाषत॥ मार्कण्डेयान्मया प्राप्तो नियमेन जनार्दन। तवाप्यहममित्रघ्न स्तवं दद्यां ह्याविश्रुतम्॥ स्वर्ण्यमारोग्यमायुष्यं धन्यं वेदेन सम्मितम्। नास्य विनं विकुर्वन्ति दानवा यक्षराक्षसाः। पिशाचा यातुधाना वा गुह्यका भुजगा अपि॥ यः पठेत शुचिः पार्थ ब्रह्मचारी जितेन्द्रियः। अभग्नयोगो वर्षं तु सोऽश्वमेधफलं लभेत्॥ वैशम्पायन उवाच महायोगी ततः प्राह कृष्णद्वैपायनो मुनिः। पठस्व पुत्र भद्रं ते प्रीयतां ते महेश्वरः।।शा पुरा पुत्र मया मेरौ तप्यता परमं तपः। पुत्रहेतोर्महाराजस्तव एषोऽनुकीर्तितः॥ लब्धवानीप्सिता कामानहं वै पाण्डुनन्दन। तथात्वमपि शद्धि सर्वान् कामानवाप्स्यसि॥ कपिलश्च ततः प्राह सांख्यर्षिर्देवसम्मतः। मया जन्मान्यनेकानि भक्त्या चाराधितो भवः॥ प्रीतश्च भगवान् ज्ञानं ददौ मम भवान्तकम्। चारुशीर्षस्ततः प्राह शक्रस्य दयितः सखा। आलम्बायन इत्येवं विश्रुतः करुणात्मकः॥ मया गोकर्णमासाद्य तपस्तत्वा शतं समाः। अयोनिजानां दान्तानां धर्मज्ञानां सुवर्चसाम्॥ अजराणामदुःखानां शतवर्षसहस्रिणाम्। लब्धं पुत्रशतं शर्वात् पुरा पाण्डुनृपात्मज॥ वाल्मीकिश्चाह भगवान् युधिष्ठिरमिदं वचः। विवादे साग्निमुनिभिर्ब्रह्मनो वै भवानिति॥ उक्तं क्षणेन चाविष्टस्तेनाधर्मेण भारत। सोऽहमीशानमनघममोघं शरणं गतः॥ मुक्तश्चास्मि ततः पापैस्ततो दुःखविनाशनः। आह मां त्रिपुरघ्नो वै यशस्तेऽयं भविष्यति॥ जामदग्न्यश्च कौन्तेयमिदं धर्मभृतां वरः। ऋषिमध्ये स्थितः प्राह ज्वलन्निव दिवाकरः॥ पितृविप्रवधेनाहमार्तो वै पाण्डवाग्रज। शुचिर्भूत्वा महादेवं गतोऽस्मि शरणं नृप॥ नामभिश्चास्तुवं देवं ततस्तुष्टोऽभवद् भवः। परशुं च ततो देवो दिव्यान्यस्त्राणि चैव मे॥ पापं च ते न भविता अजेयश्च भविष्यसि। न ते प्रभविता मृत्युरजरश्च भविष्यसि॥ आह मां भगवानेवं शिखण्डी शिवविग्रहः। तदवाप्तं च मे सर्वं प्रसादात् तस्य धीमतः॥ विश्वामित्रस्तदोवाच क्षत्रियोऽहं तदाभवम्। ब्राह्मणोऽहं भवानीति मया चाराधितो भवः॥ तत्प्रसादान्मया प्राप्तं ब्राह्मण्यं दुर्लभं महत्। असितो देवलश्चैव प्राह पाण्डुसुतं नृपम्॥ शापाच्छक्रस्य कौन्तेय विभो धर्मोऽनशत् तदा। तन्मे धर्मे यशश्चाग्र्यमायुश्चैवाददत् प्रभुः॥ ऋषिर्गृत्समदो नाम शक्रस्य दयितः सखा। प्राहाजमीढं भगवान् बृहस्पतिसमद्युतिः॥ वरिष्ठो नाम भगवांश्चाक्षुषस्य मनोः सुतः। शतक्रतोरचिन्त्यस्य सत्रे वर्षसहस्रिके॥ वर्तमानेऽब्रवीद् वाक्यं साम्नि छुच्चारिते मया। रथन्तरे द्विजश्रेष्ठ न सम्यगिति वर्तते॥ समीक्षस्व पुनर्बुद्ध्या पापं त्यक्त्वा द्विजोत्तम। अयज्ञवाहिनं पापमकार्षीस्त्वं सुदुर्मते॥ एवमुक्त्वा महाक्रोधः प्राह शम्भुं पुनर्वचः। प्रज्ञया रहितो दुःखी नित्यभीतो वनेचरः॥ दशवर्षसहस्राणि दशाष्टौ च शतानि च। नष्टपानीयपवने मृगैरन्यैश्च वर्जिते॥ अयज्ञीयदुमे देशे रुरुसिंहनिषेविते। भविता त्वं मृगः क्रूरो महादुःखसमन्वितः॥ तस्य वाक्यस्य निधने पार्थ जातो हं मृगः। ततो मां शरणं प्राप्तं प्राह योगी महेश्वरः॥ अजरचामरश्चैव भविता दुःखवर्जितः। साम्यं ममास्तु ते सौख्यं युवयोर्वर्धतां क्रतुः॥ अनुग्रहानेवमेष करोति भगवान् विभुः। परं धाता विधाता च सुखदुःखे च सर्वदा॥ अचिन्त्य एष भगवान् कर्मणा मनसा गिरा। न मे तात युधिश्रेष्ठ विद्यया पण्डितः समः॥ वासुदेवस्तदोवाच पुनर्मतिमतां वरः। सुवर्णाक्षो महादेवस्तपसा तोषितो मया॥ ततोऽथ भगवानाह प्रीतो मां वै युधिष्ठिर। अर्थात् प्रियतरः कृष्ण मत्प्रसादाद् भविष्यसि॥ अपराजितश्च युद्धेषु तेजश्चैवानलोपमम्। एवं सहस्रशश्चान्यान् महादेवो वरं ददौ॥ मणिमन्थेऽथ शैले वै पुरा सम्पूजितो मया। वर्षायुतसहस्राणां सहस्रं शतमेव च॥ ततो मां भगवान् प्रीत इदं वचनमब्रवीत्। वरं वृणीष्व भद्रं ते यस्ते मनसि वर्तते॥ ततः प्रणम्य शिरसा इदं वचनमब्रुवम्। यदि प्रीतो महादेवो भक्त्या परमया प्रभुः॥ नित्यकालं तवेशान भक्तिर्भवतु मे स्थिरा। एवमस्त्विति भगवांस्तत्रोक्त्वान्तरधीयत॥ जैगीषव्य उवाच ममाष्टगुणमैश्वर्यं दत्तं भगवता पुरा। यत्नेनान्येन बलिना वाराणस्यां युधिष्ठिर॥ गर्ग उवाच चतुःषष्ट्यङ्गमददत् कलाज्ञानं ममाद्भुतम्। सरस्वत्यास्तटे तुष्टो मनोयज्ञेन पाण्डव॥ तुल्यं मम सहस्रं तु सुतानां ब्रह्मवादिनाम्। आयुश्चैव सपुत्रस्य संवत्सरशतायुतम्॥ पराशर उवाच प्रसाद्येह पुरा शर्वं मनसाचिन्तयं नृप। महातपा महातेजा महायोगी महायशाः॥ वेदव्यास: श्रियावासो ब्राह्मणः करुणान्वितः। अप्यसावीप्सितः पुत्रो मम स्याद् वै महेश्वरात्॥ इति मत्वा हृदि मतं प्राह मां सुरसत्तमः। मयि सम्भावना यास्याः फलात्कृष्णोभविष्यति॥४२ सावर्णस्य मनोः सर्गे सप्तर्षिश्च भविष्यति। वेदानां च स वै वक्ता कुरुवंशकरस्तथा॥ इतिहासस्य कर्ता च पुत्रस्ते जगतो हितः। भविष्यति महेन्द्रस्य दयितः स महामुनिः॥ अजरचामरश्चैव पराशर सुतस्तव। एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत॥ युधिष्ठिर महायोगी वीर्यवानक्षयोऽव्ययः। मन्डव्य उवाच अचौरश्चौरशङ्कायां शूले भिन्नो ह्यहं तदा॥ तत्रस्थेन स्तुतो देवः प्राह मां वै नरेश्वर। मोक्षं प्राप्स्यसि शूलाच्च जीविष्यसि समार्बुदम्॥ रुजा शूलकृता चैव न ते विप्र भविष्यति। आधिभिर्व्याधिभिश्चैव वर्जितस्त्वं भविष्धसि॥ पादाच्चतुर्थात् सम्भूत आत्मा यस्मान्मुने तव। त्वं भविष्यस्यनुपमो जन्म वै सफलं कुरु॥ तीर्थाभिषेकं सकलं त्वमविघ्नेन चाप्स्यसि। स्वर्गे चैवाक्षयं विप्र विदधामि तवोर्जितम्॥ एवमुक्त्वा भगवान् वरेण्यो वृषवाहनः। महेश्वरो महाराज कृत्तिवासा महाद्युतिः॥ गालव उवाच सगणो दैवतश्रेष्ठस्तत्रैवान्तरधीयत। विश्वामित्राभ्यनुज्ञातो ह्यहं पितरमागतः॥ अब्रवीन्मां ततो माता दुःखिता रुदती भृशम्। कौशिकेनाभ्यनुज्ञातं पुत्रं वेदविभूषितम्॥ न तात तरुणं दान्तं पिता त्वां पश्यतेऽनघ। श्रुत्वा जनन्या वचनं निराशो गुरुदर्शने॥ नियतात्मा महादेवमपश्यं सोऽब्रवीच्च माम्। पिता माता च ते त्वं च पुत्र मृत्युविवर्जिताः॥ भविष्यथ विश क्षिप्रं द्रष्टासि पितरं क्षये। अनुज्ञातो भगवता गृहं गत्वा युधिष्ठिर।॥ अपश्यं पितरं तात इष्टिं कृत्वा विनिःसृतम्। उपस्पृश्य गृहीत्वेध्मं कुशांश्च शरणाकुरून्॥ तान् विसृज्य च मां प्राह पिता सास्राविलेक्षणः। प्रणमन्तं परिष्वज्य मूर्युपाघ्राय पाण्डव॥ वैशम्पायन उवाच दिष्ट्या दृष्टोऽसि मे पुत्र कृतविद्य इहागतः। एतान्यत्यद्भुतान्येव कर्माण्यथ महात्मनः॥ प्रोक्तानि मुनिभिः श्रुत्वा विस्मयामास पाण्डवः। ततः कृष्णोऽब्रवीद् वाक्यं पुनर्मतिमतां वरः॥ वासुदेव उवाच युधिष्ठिरं धर्मनिधि पुरुहूतपिवेश्वरः। उपमन्युर्मयि प्राह तपन्निव दिवाकरः॥ अशुभैः पापकर्माणो ये नराः कलुषीकृतः। ईशानं न प्रपद्यन्ते तमोराजसवृत्तयः॥ ईश्वरं सम्प्रपद्यन्ते द्विजा भवितभावनाः। सर्वथा वर्तमानोऽपि यो भक्तः परमेश्वरे॥ सदृशोऽरण्यवासीनां मुनीनां भावितात्मनाम्। ब्रह्मत्वं केशवत्वं वा शक्रत्वं वा सुरैः सह॥ त्रैलोक्यस्याधिपत्यं वा तुष्टो रुद्रः प्रयच्छति। मनसापि शिवं तात ये प्रपद्यन्ति मानवाः॥ विधूय सर्वपापानि देवैः सह वसन्ति ते। भित्त्वा भित्त्वा च कूलानि हत्वा सर्वमिदं जगत्॥ यजेद् देवं विरूपाक्षं न स पापेन लिप्यते। सर्वलक्षणहीनोऽपि युक्तो वा सर्वपातकैः॥ सर्वं तुदति तत्पापं भवयञ्छिवमात्मना। कीटपक्षिपतङ्गानां तिरश्चामपि केशव॥६८। महादेवप्रपन्नानां न भयं विद्यते क्वचित्। एवमेव महादेवं भक्ता ये मानवा भुवि॥ न ते संसारवशगा इति मे निश्चिता मतिः। ततः कृष्णोऽब्रवीद् वाक्यं धर्मपुत्रं युधिष्ठिरम्॥ विष्णु उवाच आदित्यचन्द्रावनिलानलौ च द्यौर्भूमिरापो वसवोऽथ विश्वे। धतार्यमा शुक्रबृहस्पती च रुद्राः ससाध्या वरुणोऽथ गोपः॥ ब्रह्मा शक्रो मारुतो ब्रह्म सत्यं वेदा यज्ञा दक्षिणा वेदवाहाः। सोमो यष्टा यच्च हव्यं हविश्व रक्षा दीक्षा संयमा ये च केचित्॥ स्वाहा वौषट् ब्राह्मणाः सौरभेयी धर्मे चायं कालचक्रं बलं च। यशो दमो बुद्धिमतां स्थितिश्च शुभाशुभं ये मुनयश्च सप्त॥ अग्र्या बुद्धिर्मनसा दर्शने च स्पर्शश्चाग्र्यः कर्मणां या च सिद्धिः। गणा देवानामूष्मपाः सोमपाच लेखाः सुयामास्तुषिता ब्रह्मकायाः॥ आभासुरा गन्धपा धूमपाश्च वाचा विरुद्धाश्च मनोविरुद्धाः। शुद्धाश्च निर्माणरताश्च देवाः स्पर्शाशना दर्शषा आज्यपाश्च॥ चिन्त्यद्योता ये च देवेषु मुख्या ये चाप्यन्ये देवताश्चाजमीढ। सुपर्णगन्धर्वपिशाचदानवा यक्षास्तथा चारणपन्नगाश्च ७६॥ स्थूलं सूक्ष्मं मृदु चाप्यसूक्ष्म दुःखं सुखं दुःखमनन्तरं च। सांख्यं योगं तत्पराणां परं च शर्वाज्जातं विद्धि यत् कीर्तितं मे॥ तत्सम्भूता भूतकृतो वरेण्या: सर्वे देवा भुवनस्यास्य गोपाः। आविश्यमां धरणीं येऽभ्यरक्षन् पुरातनी तस्य देवस्य सृष्टिम्॥ विचिन्वन्तस्तपसा तन्स्थवीयः किंचित् तत्त्वं प्राणहेतोर्नतोऽस्मि। नाभिष्टुतो नः प्रभुरव्ययः सदा॥ इमं स्तवं संनियतेन्द्रियश्च भूत्वा शुचिर्यः पुरुषः पठेत। अभग्नयोगो नियतो मासमेकं सम्प्राप्नुयादश्ोधे फलं यत्॥ वेदान् कृत्स्नान् ब्राह्मणः प्राप्नुयात् तु जयेन्नृपः पार्थ महीं च कृत्स्नाम्। वैश्यो लाभं प्राप्नुयान्नैपुणं च शूद्रो गति प्रेत्य तथा सुखं च॥ स्तवराजमिमं कृत्वा रुद्राय दधिरे मनः। सर्वदोषापहं पुण्यं पवित्रं च यशस्विनः॥ यावन्त्यस्य शरीरेषु रोमकूपाणि भारत तावन्त्यब्दससहस्राणि स्वर्गे वसति मानवः॥ युधिष्ठिर उवाच यदिदं सहधर्मेति प्रोच्यते भरतर्षभ। पाणिग्रहणकाले तु स्त्रीणामेतत् कथं स्मृतम्॥ आर्ष एष भवेद् धर्मः प्राजापत्योऽथवाऽऽसुरः। यदेतत् सहधर्मेति पूर्वमुक्तं महर्षिभिः॥ संदेहः सुमहानेष विरुद्ध इति मे मतिः। इह यः सहधर्मो वै प्रेत्यायं विहितः क्व नु॥ स्वर्गो मृतानां भवति सहधर्मः पितामह। पूर्वमेकस्तु म्रियते क्व चैकस्तिष्ठते वद।॥ नानाधर्मफलोपेता नानाकर्मनिवासिताः। नानानिरयनिष्ठान्ता मानुषा बहवो यदा॥ अनृताः स्त्रिय इत्येवं सूत्रकारो व्यवस्यति। यदानृताः स्त्रियस्तात सहधर्मः कुतः स्मृतः॥ अनृताः स्त्रिय इत्येवं वेदेष्वपि हि पठ्यते। धर्मोऽयं पूर्विका संज्ञा उपचारःक्रियाविधिः॥ गह्वरं प्रतिभात्येतन्मम चिन्तयतोऽनिशम्। नि:संदेहमिदं सर्वं पितामह यथाश्रुति॥ यदैतद् यादृशं चैतद् यथा चैतत् प्रवर्तितम्। निखिलेन महाप्राज्ञ भवानेतद् ब्रवीतु मे॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। अष्टावक्रस्य संवादं दिशया सह भारत॥ निर्वेष्टुकामस्तु पुरा अष्टावक्रो महातपाः। ऋषेरथ वदान्यस्य ववे कन्यां महात्मनः॥ सुप्रभां नाम वै नाम्ना रूपेणाप्रतिमां भुवि। गुणप्रभावशीलेन चारित्रेण च शोभनाम्॥ सा तस्य दृष्वैव मनो जहार शुभलोचना। वनराजी यथा चित्रा वसन्ते कुसुमाचिता॥ ऋषिस्तमाह देया मे सुता तुभ्यं हि तच्छृणु। गच्छ तावद् दिशं पुण्यामुत्तरां द्रक्ष्यसे ततः॥ अष्टवक्र उवाच किं द्रष्टव्यं मया तत्र वक्तुमर्हति मे भवान्। तथेदानी मया कार्यं यथा वक्ष्यति मां भवान्॥ धनदं समतिक्रम्य हिमवन्तं च पर्वतम्। रुद्रस्यायतनं दृष्ट्वा सिद्धचारणसेवितम्॥ संहृष्टैः पार्षदैर्जुष्टं नृत्यद्भिर्विविधाननैः। दिव्याङ्गरागैः पैशाचैरन्यैर्नानाविधैः प्रभोः॥ पाणितालसुतालैश्च शम्पातालैः समैस्तथा। सम्प्रहृष्टैः प्रनृत्यद्भिः शर्वस्तत्र निषेव्यते॥ इष्टं किल गिरौ स्थानं तद्दिव्यमिति शुश्रुम। नित्यं संनिहितो देवस्तथा ते पार्षदाः स्मृताः॥ तत्र देव्या तपस्तप्तं शङ्करार्थं सुदुश्चरम्। अतस्तदिष्टं देवस्य तथोमाया इति श्रुतिः॥ पूर्वं तत्र महापार्श्वे देवस्योत्तरतस्तथा। ऋतवः कालरात्रिश्च ये दिव्या ये च मानुषाः॥ देवं चोपासते सर्वे रूपिणः किल तत्र ह। तदतिक्रम्य भवनं त्वया यात्वयमेव हि॥ ततो नीलं वनोद्देशं द्रक्ष्यसे मेघसंनिभम्। रमणीयं मनोग्राहि तत्र वै द्रक्ष्यसे स्त्रियम्॥ तपस्विनी महाभागां वृद्धां दीक्षामनुष्ठिताम्। द्रष्टव्या सा त्वया तत्र सम्पूज्या चैव यत्नतः॥ तां दृष्ट्वा विनिवृत्तस्त्वं ततः पाणिं ग्रहीष्यसि। यद्येष समयः सर्वः साध्यतां तत्र गम्यताम्॥ अष्टवक्र उवाच तथास्तु साधयिष्यामि तत्र यास्याम्यसंशयम्। यत्र त्वं तदसे साधो भवान् भवतु सत्यवाक्॥ भीष्म उवाच ततोऽगच्छत् स भगवानुत्तरामुत्तरां दिशग्। हिमवन्तं गिरिश्रेष्ठं सिद्धचारणसेवितम्॥ स गत्वा द्विजशार्दूलो हिमवन्तं महागिरिम्। अभ्यगच्छन्नदी पुण्यां बाहुदां धर्मशालिनीम्॥ अशोके विमले तीर्थं स्नात्वा वै तर्प्य देवताः। तत्र वासाय शयने कौशे सुखमुवास ह॥ ततो रात्र्यां व्यतीतायां प्रातरुत्थाय च द्विजः। स्नात्वा प्रादुश्चकाराग्निं स्तुत्वा चैनं प्रधानतः॥ रुद्राणी रुद्रमासाद्य ह्रदे तत्र समाश्वसत्। विश्रान्तश्च समुत्थाय कैलासमभितो ययौ॥ सोऽपश्यत् काञ्चनद्वारं दीप्यमानमिव श्रिया। मन्दाकिनी च नलिनी धनदस्य महात्मनः॥ अथ राक्षसाः सर्वं येऽभिरक्षन्ति पद्मिनीम्। प्रत्युत्थिता भगवन्तं मणिभद्रपुरोगमाः॥ स तान् प्रत्यर्चयामास राक्षसान् भीमविक्रमान्। निवेदयत मां क्षिप्रं धनदायेति चाब्रवीत्॥ ते ते राक्षसास्तथा राजन् भगवन्तमथाब्रुवन्। असौ वैश्रवणो राजा स्वयमायाति तेऽन्तिकम्॥ विदितो भगवानस्य कार्यमागमनस्य यत्। पश्यैनं त्वं महाभागं ज्वलन्तमिव तेजसा॥ ततो वैश्रवणोऽभ्येत्य अष्टावक्रमनिन्दितम्। विधिवत्कुशलं पृष्ट्वा ततो ब्रह्मार्षब्रवीत्॥ सुखं प्राप्तो भवान् कच्चित् किं वा मत्तश्चिकीर्षति। ब्रूहि सर्वे करिष्यामि यन्मा वक्ष्यसि वै द्विज॥ भवनं प्रविश त्वं मे यथाकामं द्विजोत्तम। सत्कृतः कृतकार्यश्च भवान् यास्यत्यविघ्नतः॥ प्राविशद् भवनं स्वं वै गृहीत्वा तं द्विजोत्तमम्। आसनं स्वं ददौ चैव पाद्यमर्थ्य तथैव च॥ अथोपविष्टयोस्तत्र मणिभद्रपुरोगमाः। निषेदुस्तत्र कौबेरा यक्षगन्धर्वकिन्नराः॥ ततस्तेषां निषण्णानां धनदो वाक्यमब्रवीत्। भवच्छन्दं समाज्ञाय नृत्येरन्नप्सरोगणाः॥ आतिथ्यं परमं कार्य शुश्रूषा भवस्तथा। संवर्ततामित्युवाच मुनिर्मधुरया गिरा॥ अथोर्वरा मिश्रकेशी रम्भा चैवोर्वशी तथा। अलम्बुषा घृताची च चित्रा चित्राङ्गदा रुचिः॥ मनोहरा सुकेशी च सुमुखी हासिनी प्रभा। विद्युता प्रशमी दान्ता विद्योता रतिरेव च॥ वै एताश्चान्याश्च बयः प्रनृत्ताप्सरसः शुभाः। अवादयंश्च गन्धर्वा वाद्यानि विविधानि च॥ अथ प्रवृत्ते गान्धर्वे दिव्ये ऋषिरुपाविशत्। दिव्यं संवत्सरं तत्रारमतैष महातपाः॥ ततो वैश्रवणो राजा भगवन्तमुवाच ह। साग्रः संवत्सरो जातो विप्रेह तव पश्यतः॥ हार्योऽयं विषयो ब्रह्मन् गान्धर्वो नाम नामतः। छन्दतो वर्ततां विप्र यथा वदति वा भवान्॥ अतिथिः पूजनीयस्त्वमिदं च भवतो गृहम्। सर्वमाज्ञाप्यतामाशु परवन्तो वयं त्वयि॥ अथ वैश्रवणं प्रीतो भगवान् प्रत्यभाषत। अर्चितोऽस्मि यथान्यायं गमिष्यामि धनेश्वर।॥ प्रीतोऽस्मि सदृशं चैव तव सर्वं धनाधिप। तव प्रसादाद् भगवन् महर्षेश्च महात्मनः॥ नियोगादद्य यास्यामि वृद्धिमानृद्धिमान् भव। अथ निष्क्रम्य भगवान् प्रययावुत्तरामुखः॥ कैलासं मन्दरं हैमं सर्वाननुचचार ह। तानतीत्य महाशैलान् कैरातं स्थानमुत्तमम्॥ प्रदक्षिणं तथा चक्रे प्रयतः शिरसा नतः। धरणीमवतीर्याथ पूतात्मासौ तदाभवत्॥ स तं प्रदक्षिणं कृत्वा त्रिः शैलं चोत्तरामुखः। समेन भूमिभागेन ययौ प्रीतिपुरस्कृतः॥ ततोऽपरं वनोद्देशं रमणीयमपश्यत। सर्वर्तुभिर्मूलफलैः पक्षिभिश्च समन्वितैः॥ रमणीयैर्वनोद्देशैस्तत्र तत्र विभूषितम्। तत्राश्रमपदं दिव्यं ददर्श भगवानथ॥ शैलांश्च विविधाकारान् काञ्चनान् रत्नभूषितान्। मणिभूमौ निविष्टाश्च पुष्करिण्यस्तथैव च॥ अन्यान्यपि सुरम्याणि पश्यतः सुबहून्यथ। भृशं तस्य मनो रेमे महर्षे वितात्मनः॥ स तत्र काञ्चनं दिव्यं सर्वरत्नमयं गृहम्। ददर्शाद्भुतसंकाशं धनदस्य गृहाद् वरम्॥ महान्तो यत्र विविधा मणिकाञ्चपर्वताः। विमानानि च रम्याणि रत्नानि विविधानि च॥ मन्दारपुष्पैः संकीर्णो तथा मन्दाकिनी नदीम्। स्वयंप्रभाश्च मणयो वढभूमिश्च भूषिता॥ नानाविधैश्च भवनैर्विचित्रमणितोरणैः। मुक्ताजालविनिक्षिप्तैर्मणिरत्नविभूषितैः॥ मनोदृष्टिहरै रम्यैः सर्वतः संवृतं शुभैः। ऋषिभिश्चावृतं तत्र आश्रमं तं मनोहरम्॥ ततस्तस्याभवच्चिन्ता कुत्र वासो भवेदिति। अथ द्वारं समभितो गत्वा स्थित्वा ततोऽब्रवीत्॥ अतिथिं समनुप्राप्तमभिजानन्तु येऽत्र वै। अथ कन्याः परिवृता गृहात् तस्माद् विनिर्गताः॥ नानारूपाः सप्त विभो कन्याः सर्वा मनोहराः। यां यामपश्यत् कन्यां वै सा सा तस्य मनोऽहरत्॥६८ न च शक्तो वारयितुं मनोऽस्याथावसीदति। ततो धृतिः समुत्पन्ना तस्य विप्रस्य धीमतः॥ अथ तं प्रमदाः प्राहुर्भगवान् प्रविशत्विति। स च तासां सुरूपाणां तस्यैव भवनस्य हि॥ कौतूहलं समाविष्टः प्रविवेश गृहं द्विजः। तत्रापश्यज्जरायुक्तामरजोऽम्बरधारिणीम्॥ वृद्धां पर्यङ्कमासीनां सर्वाभरणभूषिताम्। स्वस्तीति तेन चैवोक्ता सा स्त्री प्रत्यवदत् तदा॥ प्रत्युत्थाय च तं विप्रमास्यतामित्युवाच ह। सर्वाः स्वानालयान् यान्तु एका मामुपतिष्ठतु॥ प्रज्ञाता या प्रशान्ता या शेषा गच्छन्तु च्छन्दतः। ततः प्रदक्षिणीकृत्य कन्यास्तास्तमृषि तदा॥ निश्चक्रमुर्गृहात् तस्मात् सा वृद्धार्थं व्यतिष्ठत। अथ तां संविशन् प्राह शयने भास्वरे तदा॥ त्वयापि सुप्यतां भद्रे रजनी ह्यतिवर्तते। संलापात् तेन विप्रेण तथा सा तत्र भाषिता॥ द्वितीये शयने दिव्ये संविवेश महाप्रभे। अथ सा वेपमानाङ्गी निमित्तं शीतजं तदा॥ व्यपदिश्य महर्षेः शयनं व्यवरोहत। स्वागतेनागतां तां तु भगवानभ्यभाषत॥ सोपागूहद् भुजाभ्यां तु ऋषि प्रीत्या नरर्षभ। निर्विकारमृर्षि चापि काष्ठकुड्योपमं तदा॥ दुःखिता प्रेक्ष्य संजल्पमकार्षीदृषिणा सह। ब्रह्मन्नकामतोऽन्यास्ति स्त्रीणां पुरुषतो धृतिः॥ कामेन मोहिता चाहं त्वां भजन्तीं भजस्व माम्। प्रहृष्टो भव विप्रर्षे समागच्छ मया सह॥ उपगूह च मां विप्र कामार्ताहं भृशं त्वयि। एतद्धि तव धर्मात्मंस्तपसः पूज्यते फलम्॥ प्रार्थितं दर्शनादेव भजमानां भजस्व माम्। मम चेदं धनं सर्वे यच्चान्यदपि पश्यसि॥ प्रभुस्त्वं भव सर्वत्र मयि चैव न संशयः। सर्वान् कामान् विधास्यामि रमस्व सहितो मया।।८४ रमणीये वने विप्र सर्वकामफलप्रदे। त्वद्वशाहं भविष्यामि रंस्यसे च मया सह॥ सर्वान् कामानुपाश्नीमो ये दिव्या ये च मानुषाः। नातः परं हि नारीणां विद्यते च कदाचन॥ यथा पुरुषसंसर्गः परमेतद्धि नः फलम्। आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः॥ न च दह्यन्ति गच्छन्त्यः सुतप्तैरपि पांसुभिः। अष्टावक्र उवाच परदारनहं भद्रे न गच्छेयं कथंचन॥ दूषितं धर्मशास्त्रज्ञैः परदाराभिमर्शनम्। भद्रे निवेष्टुकामं मां विद्धि सत्येन वै शपे॥ विषयेष्वनभिज्ञोऽहं धर्मार्थं किल संततिः। एवं लोकान् गमिष्यामि पुत्रैरिति न संशयः॥ भद्रे धर्मे विजानीहि ज्ञात्वा चोपरमस्व ह। स्व्युवाच नानिलोऽग्निर्न वरुणो न चान्ये त्रिदशा द्विज॥ प्रियाः स्त्रीणां यथा कामोरतिशीला हि योषितः। सहस्रे किल नारीणां प्राप्येतैका कदाचन॥ तथा शतसहस्रेषु यदि काचित् पतिव्रता। नैता जानन्ति पितरं न कुलं न च मातरम्॥ न भ्रातॄन् न च भर्तारं न च पुत्रान् न देवरान्। लीलायन्त्यः कुलं घ्नन्ति कूलानीव सरिद्वराः। दोषान् सर्वांश्च मत्वाऽऽशु प्रजापतिरभाषत॥ भीष्म उवाच ततः स ऋषिरेकाग्रस्तां स्त्रियं प्रत्यभाषत। आस्यतां रुचितश्छन्दः किं च कार्यं ब्रवीहि मे॥ सा स्त्री प्रोवाच भगवन् द्रक्ष्यसे देशकालतः। वस तावन्महाभाग कृतकृत्यो भविष्यसि॥ ब्रह्मर्पिस्तामथोवाच स तथेति युधिष्ठिर। वत्स्येऽहं यावदुत्साहो भवत्या नात्र संशयः॥ अथर्षिरभिसम्प्रेक्ष्य स्त्रियं तां जरयार्दिताम्। चिन्तां परमिकां भेजे संतप्त इव चाभवत्॥ यद् यदकं हि सोऽपश्यत् तस्या विप्रर्षभस्तदा। नारमत् तत्र तत्रास्य दृष्टी रूपविरागिता॥ देवतेयं गृहस्यास्य शापात् किं नु विरूपिता। अस्याश्च कारणं वेत्तुं न युक्तं सहसा मया॥ इति चिन्ताविविक्तस्य तमर्थे ज्ञातुमिच्छतः। व्यगच्छत् तदहःशेषं मनसा व्याकुलेन तु॥ अथ सा स्त्री तथोवाच भगवन् पश्य वै रवेः। रूपं संध्याभ्रसंरक्तं किमुपस्थाष्यतां तव॥ स उवाच ततस्तां स्त्री स्नानोदकमिहानय। उपासिष्ये ततः सन्ध्यां वाग्यतो नियतेन्द्रिय॥ भीष्म उवाच अथ सा स्त्री तमुवाच बाढमेवं भवत्विति। तैलं दिव्यमुपादाय स्नानशाटीमुपानयत्॥ अनुज्ञाता च मुनिना सा स्त्री तेन महात्मना। अथास्य तैलेनाङ्गानि सर्वाण्येवाभ्यमृक्षत॥ शनैश्चोत्सादितस्तत्र स्नानशालामुपागमत्। भद्रासन ततश्चित्रमृषिरन्वगमन्नवम्॥ अथोपविष्टश्च यदा तस्मिन् भद्रासने तदा। स्नापयामास शनकैस्तमृषि सुखहस्तवत्॥ दिव्यं च विधिवच्चक्रे सोपचारं मुनेस्तदा। स तेन सुसुखोष्णेन तस्या हस्तसुखेन च॥ व्यतीतां रजनी कृत्स्ना नाजानात् स महाव्रतः। तत उत्थाय स मुनिस्तदा परमविस्मितः॥ पूर्वस्यां दिशि सूर्ये च सोऽपश्यदुदितं दिवि। तस्य बुद्धिरयं किं नु मोहस्तत्त्वमिदं भवेत्॥ अथोपास्य सहस्रांशुं किं करोमीत्युवाच ताम्। सा चामृतरसप्रख्यं ऋषेरन्नमुपाहरत्॥ तस्य स्वादुतयानस्य न प्रभूतं चकार सः। व्यगमच्चाप्यहःशेषं ततः संध्यागमत् पुनः॥ अथ सा स्त्री भगवन्तं सुप्यतामित्यचोदयत्। तत्र वै शयने दिव्ये तस्य तस्याश्च कल्पिते॥ पृथक् चैव तथा सुप्तौ सा स्त्री स च मुनिस्तदा। तथार्धरात्रे सा स्त्री तु शयनं तदुपागमत्॥ अष्टवक्र उवाच न भद्रे परदारेषु मनो मे सम्प्रसज्जति। उत्तिष्ठ भद्रे भद्रं ते स्वयं वै विरमस्व च॥ भीष्म उवाच सा तदा तेन विप्रेण तथा तेन निवर्तिता। स्वतन्त्रास्मीत्युवाचर्षिः न धर्मच्छलमस्ति ते॥ अष्टवक्र उवाच नास्ति स्वतन्त्रता स्त्रीणामस्वतन्त्रा हि योषितः। प्रजापतिमतं ह्येतन्न स्त्री स्वातन्त्र्यमर्हति॥ स्त्र्युरुवाच बाधते मैथुनं विप्र मम भक्तिं च पश्य वै। अधर्मे प्राप्स्यसे विप्र यन्मां त्वं नाभिनन्दसि॥ अष्टवक्र उवाच हरन्ति दोषजातानि नरं जातं यथेच्छकम्। प्रभवामि सदा धृत्या भद्रे स्वशयनं व्रज॥ स्व्युरुवाच शिरसा प्रणमे विप्र प्रसादं कर्तुमर्हसि। भूमौ निपतमानायाः शरणं भव मेऽनघ॥ यदि वा दोषजातं त्वं परदारेषु पश्यसि। आत्मानं स्पर्शयाम्यद्य पाणिं गृह्णीष्व मे द्विज॥ न दोषो भविता चैव सत्येनैतद् ब्रवीम्यहम्। स्वतन्त्रां मां विजानीहि योऽधर्मः सोऽस्तु वै मयि। त्वय्यावेशितचित्ता च स्वतन्त्रास्मि भजस्व माम्॥ अष्टवक्र उवाच स्वतन्त्रा त्वं कथं भद्रे बूहि कारणमत्र वै। नास्ति त्रिलोके स्त्री काचिद् या वै स्वातन्त्र्यमर्हति॥ पिता रक्षति कौमारे भर्ता रक्षति यौवने। पुत्राश्च स्थविरे काले नास्ति स्त्रीणां स्वतन्त्रता॥ स्व्युरुवाच कौमारं ब्रह्मचर्ये मे कन्यैवास्मि न संशयः। पत्नी कुरुष्व मां विप्र श्रद्धां विजहि मा मम॥ अष्टवक्र उवाच यथा मम तथा तुभ्यं यथा तुभ्यं तथा मम। जिज्ञासेयमषेस्तस्य विघ्नः सत्यं न किं भवेत्॥ आश्चर्ये परमं हीदं किं नु श्रेयो हि मे भवेत्। दिव्याभरणवस्त्रा हि कन्येयं मामुपस्थिता॥ किं त्वस्याः परमं रूपं जीर्णमासीत् कथं पुनः। कन्यारूपमिहाद्यैवं किमिवात्रोत्तरं भवेत्॥ यथा परं शक्तिधृतेर्न व्युत्थास्ये कथंचन। न रोचते हि व्युत्थानं सत्येनासादयाम्यहम्॥ युधिष्ठिर उवाच न बिभेति कथं सा स्त्री शापाच्च परमद्युतेः। कथं निवृत्तो भगवांस्तद् भवान् प्रब्रवीतु मे॥ भीष्म उवाच अष्टावक्रोऽन्वपृच्छत् तां रूपं विकुरुषे कथम्। न चानृतं ते वक्तव्यं ब्रूहि ब्राह्मणकाम्यया।॥ स्व्युरुवाच द्यावापृथिव्योर्यत्रैषा काम्या ब्राह्मणसत्तम। शृणुष्वावहितः सर्वे यदिदं सत्यविक्रम॥ जिज्ञासेयं प्रयुक्ता मे स्थिरीकर्तुं तवानघ। अव्युत्थानेन ते लोका जिताः सत्यपराक्रम॥ उत्तरां मां दिशं विद्धि दृष्टं स्त्रीचापलं च ते। स्थविराणामपि स्त्रीणां बाधते मैथुनज्वरः॥ तुष्टः पितामहस्तेऽद्य तथा देवाः सवासवाः। स त्वं येन च कार्येण सम्प्राप्तो भगवानिह॥ प्रेषितस्तेन विप्रेण कन्यापित्रा द्विजर्षभ। तवोपदेशं कर्तुं वै तच्च सर्वे कृतं मया॥ क्षेमैर्गमिष्यसि गृहं श्रमश्च न भविष्यति। कन्यां प्राप्स्यसि तां विप्र पुत्रिणी च भविष्यति॥ काम्यया पृष्टवांस्त्वं मां ततो व्याहृतमुत्तमम्। अनतिक्रमणीया सा कृत्स्नैर्लोकैस्त्रिभिः सदा॥ गच्छस्व सुकृतं कृत्सा किं चान्यच्छ्रोतुमिच्छसि। यावद् ब्रवीमि विप्रर्षे अष्टावक्र यथातथम्॥ ऋषिणा प्रसादिता चास्मि तव हेतोर्द्विजर्षभ। तस्य सम्माननार्थे मे त्वयि वाक्यं प्रभाषितम्॥ भीष्म उवाच श्रुत्वा तु वचनं तस्याः स विप्रः प्राञ्जलिः स्थितः। अनुज्ञातस्तया चापि स्वगृहं पुनराव्रजत्॥ गृहमागत्य विश्रान्तः स्वजनं परिपृच्छय च। अभ्यगच्छच्च तं विप्रं न्यायत: कुरुनन्दन॥ पृष्टश्च तेन विप्रेण दृष्टं त्वेतन्निदर्शनम्। प्राह विप्रं तदा विप्रः सुप्रीतेनान्तरात्मना॥ भवता समनुज्ञातः प्रास्थितो गन्धमादनम्। तस्य चोत्तरतो देशे दृष्टं मे दैवतं महत्॥ तया चाहमनुज्ञातो भवांश्चापि प्रकीर्तितः। श्रावितश्चापि तद्वाक्यं गृहं चाभ्यागतः प्रभो॥ तमुवाच तदा विप्रः सुतां प्रतिगृहाण मे। नक्षत्रविधियोगेन पात्रं हि परमं भवान्॥ भीष्म उवाच अष्टावक्रस्तथेत्युक्त्वा प्रतिगृह्य च तां प्रभो। कन्यां परमधर्मात्मा प्रीतिमांश्चाभवत् तदा॥ कन्यां तां प्रतिगृह्मैव भार्यां परमशोभनाम्। उवास मुदितस्तत्र स्वाश्रमे विगतज्वरः॥ युधिष्ठिर उवाच किमाहुर्भरतश्रेष्ठ पात्रं विप्राः सनातनाः। ब्राह्मणं लिङ्गिनं चैव ब्राह्मणं वाप्यलिङ्गिनम्॥ भीष्म उवाच स्ववृत्तिमभिपन्नाथ लिङ्गिने चेतराय च। देयमाहुर्महाराज उभावेतौ तपस्विनौ॥ युधिष्ठिर उवाच श्रद्धया परया पूतो यः प्रयच्छेद् द्विजातये। हव्यं कव्यं तथा दानं को दोषः स्यात् पितामह॥ भीष्म उवाच श्रद्धापूतो नरस्तात दुर्दान्तोऽपि न संशयः। पूतो भवति सर्वत्र किमुत त्वं महाद्युते॥ युधिष्ठिर उवाच न ब्राह्मणं परीक्षेत दैवेषु सततं नरः। कव्यप्रदाने तु बुधाः परीक्ष्यं ब्राह्मणं विदुः॥ भीष्म उवाच न ब्राह्मणं साध्यते हव्यं दैवात् प्रसिद्ध्यति। देवप्रसादादिज्यन्ते यजमानैर्न संशयः॥ ब्राह्मणान् भरतश्रेष्ठ सततं ब्रह्मवादिनः। मार्कण्डेयः पुरा प्राह इति लोकेषु बुद्धिमान्॥ युधिष्ठिर उवाच अपूर्वोऽप्यथवा विद्वान् सम्बन्धी वा यथा भवेत्। तपस्वी यज्ञशीलो वा कथं पात्र भवेत् तु सः॥ भीष्म उवाच कुलीनः कर्मकृद् वैद्यस्तथैवाप्यानृशंस्यवान्। ह्रीमानृजुः सत्यवादी पात्रं पूर्वं च ये त्रयः॥ तत्रेमं शृणु मे पार्थ चतुर्णां तेजसां मतम्। पृथिव्याः काश्यपस्याग्नेर्मार्कण्डेयस्य चैव हि॥ पृथ्वी उवाच यथा महार्णवे क्षिप्तः क्षिप्रं लेष्टुर्विनश्यति। तथा दुश्चरितं सर्वे त्रिवृत्यां च निमज्जति॥ कश्यप उवाच सर्वे च वेदाः सह षड्भिरङ्गैः सांख्यं पुराणं च कुले च जन्मा नैतानि सर्वाणि गतिर्भवन्ति शीलव्यपेतस्य नृप द्विजस्य॥ अग्निरुवाच अधीयानः पण्डितं मन्यमानो यो विद्यया हन्ति यशः परेषाम्। प्रभ्रश्यतेऽसौ चरते न सत्यं लोकास्तस्य ह्यन्तवन्तो भवन्ति॥ मार्कण्डेय उवाच अश्वमेधसहस्रं च सत्यं च तुलया धृतम्। नाभिजानामि यद्यस्य सत्यस्यार्धमवाप्नुयात्॥ भीष्म उवाच इत्युक्त्वा ते जग्मुराशु चत्वारोऽमिततेजसः। पृथिवी काश्यपोऽग्निश्च प्रकृष्टायुश्च भार्गवः॥ युधिष्ठिर उवाच यदि ते ब्राह्मणा लोके वतिनो भुञ्जते हविः। दत्तं ब्राह्मणकामाय कथं तत् सुकृतं भवेत्॥१६ भीष्म उवाच आदिष्टिनो ये राजेन्द्र ब्राह्मणा वेदपारगाः। भुञ्जते ब्रह्मकामाय व्रतलुप्ता भवन्ति ते॥ युधिष्ठिर उवाच अनेकान्तं बहुद्वारं धर्ममाहुर्मनीषिणः। किंनिमित्तं भवेदत्र तन्मे बूहि पितामह॥ भीष्म उवाच अहिंसा सत्यमक्रोध आनृशंस्यं दमस्तथा। आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम्॥ ये तु धर्मे प्रशंसन्तश्चरन्ति पृथिवीमिमाम्। अनाचरन्तस्तद् धर्मे संकरेऽभिरताः प्रभो॥ तेभ्यो हिरण्यं रत्नं वा गामश्वं वा ददाति यः। दश वर्षाणि विष्ठां स भुङ्क्ते निरयमास्थितः॥ मेदानां पुल्कसानां च तथैवान्तेवसायिनाम्। कृतं कर्माकृतं वापि रागमोहेन जल्पताम्॥ वैश्वदेवं च ये मूढा विप्राय ब्रह्मचारिणे। ददते नेह राजेन्द्र ते लोकान् भुञ्जतेऽशुभान्॥ युधिष्ठिर उवाच किं परं ब्रह्मचर्ये च किं परं धर्मलक्षणम्। किं च श्रेष्ठतमं शौचं तन्मे ब्रूहि पितामह॥ भीष्म उवाच ब्रह्मचर्यात् परं तात मधुमांसस्य वर्जनम्। मर्यादायां स्थितो धर्मः शमश्चैवास्य लक्षणम्॥ युधिष्ठिर उवाच कस्मिन् काले चरेद् धर्मे कस्मिन् कालेऽर्थमाचरेत्। कस्मिन् काले सुखी च स्यात् तन्मे ब्रूहि पितामह।। भीष्म उवाच कल्यमर्थं निषेवेत ततो धर्ममनन्तरम्। पश्चात् कामं निषेवेत न च गच्छेत् प्रसङ्गिताम्॥ ब्राह्मणांश्चैव मन्येत गुरूंश्चाप्यभिपूजयेत्। सर्वभूतानुलोमश्च मृदुशील: प्रियंवदः॥ अधिकारे यदनृतं यच्च राजसु पैशुनम्। गुरोचालीककरणं तुल्यं तद् ब्रह्महत्यया॥ प्रहरेन्न नरेन्द्रेषु न हन्याद् गां तथैव च। भ्रूणहत्यासमं चैव उभयं यो निषेवते॥ नाग्निं परित्यजेज्जातु न च वेदान् परित्यजेत्। न च ब्राह्मणमाक्रोशेत् समं तद् ब्रह्महत्यया॥ युधिष्ठिर उवाच कीदृशाः साधवो विप्राः केभ्यो दत्तं महाफलम्। कीदृशानां च भोक्तव्यं तन्मे ब्रूहि पितामह॥ भीष्म उवाच अक्रोधना धर्मपरा: सत्यनित्या दमे रताः। तादृशा: साधवो विप्रास्तेभ्यो दत्तं महाफलम्॥ अमानिनः सर्वसहा दृढार्थी विजितेन्द्रियाः। सर्वभूतहिता मैत्रास्तेभ्यो दत्तं महाफलम्॥ अलुब्धाः शुचयो वैद्या ह्रीमन्तः सत्यवादिनः। स्वकर्मनिरता ये च तेभ्यो दत्तं महाफलम्॥ साङ्गाश्च चतुरो वेदानधीते यो द्विजर्षभः। षड्भ्यः प्रवृत्तः कर्मभ्यस्तं पात्रमृषयो विदुः॥ ये त्वेवगुणजातीयास्तेभ्यो दत्तं महाफलम्। सहस्रगुणमाप्नोति गुणार्हाय प्रदायकः॥ प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः। तारयेत कुलं सर्वमेकोऽपीह द्विजर्षभः॥ गामश्वं वित्तमन्नं व तद्विधे प्रतिपादयेत्। द्रव्याणि चान्यानि तथा प्रेत्यभावे न शोचति॥ तारयेत कुलं सर्वमेकोऽयीह द्विजोत्तमः। किमङ्ग पुनरेवैते तस्मात् पात्रं समाचरेत्॥ निशम्य च गुणोपेतं ब्राह्मणं साधुसम्मतम्। दूरादानाय्य सत्कृत्य सर्वतश्चापि पूजयेत्॥ निशम्य च गुणोपेतं ब्राह्मणं साधुसम्मतम्। दूरादानाय्य सत्कृत्य सर्वतश्चापि पूजयेत्॥ युधिष्ठिर उवाच श्राद्धकाले च दैवे च पित्र्येऽपि च पितामह। इच्छामीह त्वयाऽऽख्यातं विहितं यत् सुरर्षिभिः॥ भीष्म उवाच दैवं पौर्वाह्निकं कुर्यादपराह्वे तु पैतृकम्। मङ्गलाचारसम्पन्नः कृतशौचः प्रयत्नवान्॥ मनुष्याणां तु मध्याह्ने प्रदद्यादुपपत्तिभिः। कालहीनं तु यद् दानं तं भागं रक्षसां विदुः॥ लचितं चावलीढं च कलिपूर्वं च यत् कृतम्। रजस्वलाभिदृष्टं च तं भागं रक्षसां विदुः॥ अवघुष्टं च यद् भुक्तमव्रतेन च भारत। परामृष्टं शुना चैव तं भागं रक्षसां विदुः॥ केशकीटावपतितं क्षुतं श्वभिरवेक्षितम्। रुदितं चावधूतं च तं भागं रक्षसां विदुः॥ निरोङ्कारेण यद् भुक्तं सशस्त्रेण च भारत। दुरात्मना च यद् भुक्तं तं भागं रक्षसां विदुः॥ परोच्छिष्टं च यद् भुक्तं परिभुक्तं च यद् भवेत्। दैवे पित्र्ये च सततं तं भागं रक्षसां विदुः॥ मन्त्रहीनं क्रियाहीनं यच्छ्राद्धं परिविष्यते। त्रिभिर्वर्णर्नरश्रेष्ठ तं भागं रक्षसां विदुः॥ आज्याहुतिं विना चैव यत्किञ्चित् परिविष्यते। दुराचारैश्च यद् भुक्तं तं भागं रक्षसां विदुः॥ ये भागा रक्षसां प्राप्तास्त उक्ता भरतर्षभ। अत ऊर्ध्वं विसर्गस्य परीक्षां ब्राह्मणे शृणु॥ यावन्तः पतिता विप्रा जडोन्मत्तास्तथैव च। दैवे वाप्यथ पित्र्ये वा राजन् नार्हन्ति केतनम्॥ श्वित्री क्लीबश्च कुष्ठी च तथा यक्ष्महतश्च यः। अपस्मारी च यश्चान्धो राजन् नार्हन्ति केतनम्॥ चिकित्सका देवलका वृथा नियमधारिणः। सोमविक्रयिणश्चैव राजन् नार्हन्ति केतनम्॥ गायना नर्तकाश्चैव प्लवका वादकास्तथा। कथका योधकाश्चैव राजन् नार्हन्ति केतनम्॥ होतारो वृषलानां च वृषलाध्यापकास्तथा। तथा वृषलशिष्याश्च राजन् नार्हन्ति केतनम्॥ अनुयोक्ता च यो विप्रो अनुयुक्तश्च भारत। नाहतस्तावपि श्राद्धं ब्रह्मविक्रयिणौ हि तौ॥ अग्रणीर्यः कृतः पूर्वं वर्णावरपरिग्रहः। ब्राह्मणः सर्वविद्योऽपि राजन् नार्हति केतनम्॥ अनग्नयश्च ये विप्रा मृतनिर्यातकाश्च ये। स्तेनाश्च पतिताश्चैव राजन् नार्हन्ति केतनम्॥ अपरिज्ञातपूर्वाश्च गणपूर्वाश्च भारत। पुत्रिकापूर्वपुत्राश्च श्राद्धे नार्हन्ति केतनम्॥ ऋणकर्ता च यो राजन् यश्च वाधुषिको नरः। प्राणिविक्रयवृत्तिश्च राजन् नार्हन्ति केतनम्॥ स्त्रीपूर्वाः काण्डपृष्ठाश्च यावन्तो भरतर्षभ। अजपा ब्राह्मणाश्चैव श्राद्धे नाहन्ति केतनम्॥ श्राद्धे दैवे च निर्दिष्टो ब्राह्मणो भरतर्षभ। दातुः प्रतिग्रहीतुश्च शृणुष्वानुग्रहं पुनः॥ चीर्णव्रता गुणैर्युक्ता भवेयुर्येऽपि कर्षकाः। सावित्रीज्ञाः क्रियावन्तस्ते राजन् केतनक्षमाः॥ क्षात्रधर्मिणमण्याजौ केतयेत् कुलजं द्विजम्। न त्वेव वणिजं तात श्राद्धे च परिकल्पयेत्॥ अग्निहोत्री च यो विप्रो ग्रामवासी च यो भवेत्। अस्तेनश्चातिथिज्ञश्च स राजन् केतनक्षमः॥ सावित्री जपते यस्तु त्रिकालं भरतर्षभ। भिक्षावृत्तिः क्रियावांश्च स राजन् केतनक्षमः॥ उदितास्तमितो यश्च तथैवास्तमितोदितः। अहिंस्रश्चाल्पदोषश्च स राजन् केतनक्षमः॥ अकल्कको ह्यतर्कश्च ब्राह्मणो भरतर्षभ। संसर्गे भैक्ष्यवृत्तिश्च स राजन् केतनक्षमः॥ अव्रती कितवः स्तेन: प्राणिविक्रयिको वणिक्। पश्चाच्च पीतवान् सोमं स राजन् केतनक्षमः॥ अर्जयित्वा धनं पूर्वं दारुणैरपि कर्मभिः। भवेत् सर्वातिथिः पश्चात् स राजन् केतनक्षः॥ ब्रह्मविक्रयनिर्दिष्टं स्त्रिया यच्चार्जितं धनम्। अदेयं पितृविप्रेभ्यो यच्च क्लैब्यादुपार्जितम्॥ क्रियमाणेऽपवर्गे च यो द्विजो भरतर्षभ। न व्याहरति यद्युक्तं तस्याधर्मो गवानृतम्॥ श्राद्धस्य ब्राह्मणः कालः प्राप्तं दधि घृतं तथा। सोमक्षयश्च मांसं च यदारण्यं युधिष्ठिर॥ श्राद्धापवर्गे विप्रस्य स्वधा वै मुदिता भवेत्। क्षत्रियस्यापि यो ब्रूयात् प्रीयन्तां पितरस्त्विति॥ अपवर्गे त वैश्यस्य श्राद्धकर्मणि भारत। अक्षय्यमभिधातव्यं स्वस्ति शूद्रस्य भारत॥ पुण्याहवाचनं दैवं ब्राह्मणस्य विधीयते। एतदेव निरोङ्कारं क्षत्रियस्य विधीयते॥ वैश्यस्य दैवे वक्तव्यं प्रीयन्तां देवता इति। कर्मणामानुपूर्वेण विधिपूर्वं कृतं शृणु॥ जातकर्मादिकाः सर्वास्त्रिषु वर्णेषु भारत। ब्रह्माक्षत्रे हि मन्त्रोक्ता वैश्यस्य च युधिष्ठिर॥ विप्रस्य रशना मौजी मौर्वी राजन्यगामिनी। बाल्वजी ह्येव वैश्यस्य धर्म एष युधिष्ठिर।॥ दातुः प्रतिग्रहीतुश्च धर्माधर्माविमौ शृणु। ब्राह्मणस्यानृतेऽधर्मः प्रोक्तः पातकसंज्ञितः। चतुर्गुणः क्षत्रियस्य वैश्यस्याष्टगुणः स्मृतः॥ नान्यत्र ब्राह्मणोऽश्नीयात् पूर्वं विप्रेण केतितः। यवीयान् पशुहिंसायां तुल्यधर्मो भवेत् स हि॥ तथा राजन्यवैश्याभ्यां यद्यश्नीयात्तु केतितः। यवीयान् पशुहिंसायां भागार्धं समवाप्नुयात्॥ दैवं वाप्यथवा पिव्यं योऽश्नीयाद् ब्राह्मणादिषु। अस्नातो ब्राह्मणो राजस्तस्याधर्मो गवानृतम्॥ आशौचो ब्राह्मणो राजन् योऽश्नीयाद् ब्राह्मणादिषु। ज्ञानपूर्वमथो लोभात् तस्याधर्मो गवानृतम्॥ अर्थेनान्येन यो लिप्सेत् कर्मार्थं चैव भारत। आमन्त्रयति राजेन्द्र तस्याधर्मोऽनृतं स्मृतम्॥ अवेदव्रतचारित्रास्त्रिभिर्वर्णयुधिष्ठिर। मन्त्रवत्परिविष्यन्ते तस्याधर्मो गवानृतम्॥ युधिष्ठिर उवाच पित्र्यं वाप्यथवा दैवं दीयते यत् पितामह। एतदिच्छाम्यहं ज्ञातुं दत्तं केषु महाफलम्॥ भीष्म उवाच येषां दाराः प्रतीक्षन्ते सुवृष्टिमिव कर्षकाः। उच्छेषपरिशेषं हि तान् भोजय युधिष्ठिर॥ चारित्रनिरता राजन् ये कृशाः कृशवृत्तयः। अर्थिनश्चोपगच्छन्ति तेषु दत्तं महाफलम्॥ तद्भक्तास्तद्गृहा राजस्तद्वलास्तदपाश्रयाः। अर्थिनश्च भवन्त्यर्थे तेषु दत्तं महाफलम्॥ तस्करेभ्यः परेभ्यो वा ये भयार्ता युधिष्ठिर। अर्थिनो भोक्तुमिच्छन्ति तेषु दत्तं महाफलम्॥ अकल्ककस्य विप्रस्य रौक्ष्यात् करकृतात्मनः। वटवो यस्य भिक्षन्ति तेभ्यो दत्तं महाफलम्॥ हृतस्वा हृतदाराश्च ये विप्रा देशसम्लवे। अर्थार्थमभिगच्छन्ति तेभ्यो दत्तं महाफलम्॥ व्रतिनो नियमस्थाश्च ये विप्राः श्रुतसम्मताः। तत्समाप्त्यर्थमिच्छन्ति तेभ्यो दत्तं महाफलम्॥ अत्युत्क्रान्ताश्च धर्मेषु पाषण्डसमयेषु च। कृशप्राणाः कृशधनास्तेभ्यो दत्तं महाफलम्॥ कृतसर्वस्वहरणा निर्दोषाः प्रभविष्णुभिः। स्पृहयन्ति च भुक्त्वान्नं तेषु दत्तं महाफलम्॥ तपस्विनस्तपोनिष्ठास्तेषां भैक्षचराश्च ये। अर्थिनः किञ्चिदिच्छन्ति तेषु दत्तं महाफलम्॥ महाफलविधिने श्रुतस्ते भरतर्षभ। निरयं येन गच्छन्ति स्वर्गे चैव हि तच्छृणु॥ गुर्वर्थमभयार्थे वा वर्जयित्वा युधिष्ठिर। येऽनृतं कथयन्ति स्म ते वै निरयगामिनः॥ परदाराभिहर्तारः परदाराभिमर्शिनः। परदारप्रयोक्तारस्ते वै निरयगामिनः॥ ये परस्वापहर्तारः परस्वानां च नाशकाः। सूचकाश्च परेषां ये ते वै निरयगामिनः॥ प्रपाणां च सभानां च संक्रमाणां च भारत। अगाराणां च भेत्तारो नरा निरयगामिनः॥ अनाथां प्रमदां बालां वृद्धां भीता तपस्विनीम्। वञ्चन्ति नरा ये च ते वै निरयगामिनः॥ वृत्तिच्छेदं गृहच्छेदं दारच्छेदं च भारत। मित्रच्छेदं तथाऽऽशायास्ते वै निरयगामिनः॥ सूचकाः सेतुभेत्तारः परवृत्त्युपजीवकाः। अकृतज्ञाश्च मित्राणां ते वै निरयगामिनः॥ पाषण्डा दूषकाश्चैव समयानां च दूषकाः। ये प्रत्यवसिताश्चैव ते वै निरयगामिनः॥ विषमव्यवहाराश्च विषमाश्चैव वृद्धिषु। लाभेषु विषमाश्चैव ते वै निरयगामिनः॥ दूतसंव्यवहाराश्च निष्परीक्षाश्च मानवाः। प्राणिहिंसाप्रवृत्ताश्च ते वै निरयगामिनः॥ कृताशं कृतनिर्देशं कृतभक्तं कृतश्रमम्। भेदैर्ये व्यपकर्षन्ति ते वै निरयगामिनः॥ पर्यश्नन्ति च ये दारानग्निभृत्यातिथींस्तथा। उत्सन्नपितृदेवेज्यास्ते वै निरयगामिनः॥ वेदविक्रयिणश्चैव वेदानां चैव दूषकाः। वेदानां लेखकाश्चैव ते वै निरयगामिनः॥ चातुराश्रम्यबाह्याश्च क्षुतिबाह्याश्च ये नराः। विकर्मभिश्च जीवन्ति ते वै निरयगामिनः॥ केशविक्रयिका राजन् विषविक्रयिकाश्च ये। क्षीरविक्रयिकाश्चैव ते वै निरयगामिनः॥ ब्राह्मणानां गवां चैव कन्यानां च युधिष्ठिर। येऽन्तरं यान्ति कार्येषु ते वै निरयगामिनः॥ शस्त्रविक्रयिकाश्चैव कर्तारश्च युधिष्ठिर। शल्यानां धनुषां चैव ते वै निरयगामिनः॥ शिलाभिः शङ्कभिर्वापि शुभैर्वा भरतर्षभ। ये मार्गमनुरुन्धन्ति ते वै निरयगामिनः॥ उपाध्यायांश्च भृत्यांश्च भक्तांश्च भरतर्षभ। ये त्यजन्त्यविकारांस्त्रीस्ते वै निरयगामिनः॥ अप्राप्तदमकाश्चैव नासानां वेधकाश्च ये। बन्धकाश्च पशूनां ये ते वै निरयगामिनः॥ अगोप्तारश्च राजानो बलिषड्भागतस्कराः। समर्थाश्चाप्यदातारस्ते वै निरयगामिनः॥ क्षान्तान् दान्तांस्तथा प्राज्ञान् दीर्घकालं सहोषितान्। त्यजन्ति कृतकृत्या ये ते वै निरयगामिनः॥ बालानामथ वृद्धानां दासानां चैव ये नराः। अदत्त्वा भक्षयन्त्यग्रे ते वै निरयगामिनः॥ एते पूर्वं विनिर्दिष्टाः प्रोक्ता निरयगामिनः। भागिनः स्वर्गलोकस्य वक्ष्यामि भरतर्षभ॥ सर्वेष्वेव तु कार्येषु दैवपूर्वेषु भारत। हन्ति पुत्रान् पशून् कृत्स्नान् ब्राह्मणातिक्रमः कृतः।।८४ दानेन तपसा चैव सत्येन च युधिष्ठि। ये धर्ममनुवर्तन्ते ते नराः स्वर्गगामिनः॥ शुश्रूषाभिस्तपोभिश्च विद्यामादाय भारत। ये प्रतिग्रहनि:स्नेहास्ते नराः स्वर्गगामिनः॥ भयात्पापात्तथा बाधाद् दारियाद् व्याधिधर्षणात्। यत्कृते प्रतिमुच्यन्ते ते नराः स्वर्गगामिनः॥ क्षमावन्तश्च धीराश्च धर्मकार्येषु चोत्थिताः। मङ्गलाचारसम्पन्नाः पुरुषाः स्वर्गगामिनः॥ निवृत्ता मधुमांसेभ्यः परदारेभ्य एव च। निवृत्ताश्चैव मद्येभ्यस्ते नराः स्वर्गगामिनः॥ आश्रमाणां च कर्तारः कुलानां चैव भारत। देशानां नगराणां च ते नराः स्वर्गगामिनः॥ वस्त्राभरणदातारो भक्तपानान्नदास्तथा। कुटुम्बानां च दातारः पुरुषाः स्वर्गगामिनः॥ सर्वहिंसानिवृत्ताश्च नराः सर्वसहाश्च ये। सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः॥ मातरं पितरं चैव शुश्रूषन्ति जितेन्द्रियाः। भ्रातृणां चैव सस्नेहास्ते नराः स्वर्गगामिनः॥ आढ्याश्च बलवन्तश्च यौवनस्थाश्च भारत। ये वै जितेन्द्रिया धीरास्ते नराः स्वर्गगामिनः॥ अपराधिषु सस्नेहा मृदवो मृदुवत्सलाः। आराधनसुखाश्चापि पुरुषाः स्वर्गगामिनः॥ सहस्रपरिवेष्टारस्तथैव च सहस्रदाः। त्रातारश्च सहस्राणां ते नराः स्वर्गगामिनः॥ सुवर्णस्य च दातारो गवां च भरतर्षभ। यानानां वाहनानां च नराः स्वर्गगामिनः॥ ते वैवाहिकानां द्रव्याणां प्रेष्याणां च युधिष्ठिर। दातारो वाससां चैव ते नराः स्वर्गगामिनः॥ विहारावसथोद्यानकूपारामसभाप्रपाः। वप्राणां चैव कर्तारस्ते नराः स्वर्गगामिनः॥ निवेशनानां क्षेत्राणां वसतीनां च भारत। दातारः प्रार्थितानां च ते नराः स्वर्गगामिनः।।१००। रसानां चाथ बीजानां धान्यानां च युधिष्ठिर। स्वयमुत्पाद्य दातारः पुरुषाः स्वर्गगामिनः॥ यस्मिंस्तस्मिन् कुले जाता बहुपुत्राः शतायुषः। सानुक्रोशा जितक्रोधाः पुरुषाः स्वर्गगामिनः॥ एतदुक्तममुत्रार्थं दैवं पित्र्यं च भारत। दानधर्मं च दानस्य यत् पूर्वमृषिभिः कृतम्॥ युधिष्ठिर उवाच इदं मे तत्त्वतो राजन् वक्तुमर्हसि भारत। अहिंसयित्वापि कथं ब्रह्महत्या विधीयते॥ भीष्म उवाच व्यासमामन्त्र्य राजेन्द्र पुरा यत् पृष्टवानहम्। तत्तेऽहं सम्प्रवक्ष्यामि तदिहैकमनाः शृणु॥ चतुर्थस्त्वं वसिष्ठस्य तत्त्वमाख्याहि मे मुने। अहिंसयित्वा केनेह ब्रह्महत्या विधीयते॥ इति पृष्टो मया राजन् पराशरशरीरजः। अब्रवीन्निपुणो धर्मे नि:संशयमनुत्तमम्॥ ब्राह्मणं स्वयमाहूय भिक्षार्थे कृशवृत्तिनम्। बयानास्तीति यः पश्चात्तं विद्याद् ब्रह्मघातिनम्॥ मध्यस्थस्येह विप्रस्य योऽनूचानस्य भारत। वृत्तिं हरति दुर्बुद्धिस्तं विद्याद् ब्रह्मघातिनम्॥ गोकुलस्य तृषार्तस्य जलार्थे वसुधाधिप। उत्पादयति यो विघ्नं तं विद्याद् ब्रह्मघातिनम्॥ यः प्रवृत्तां श्रुति सम्यक् शास्त्रं वा मुनिभिः कृतम्। दूषयत्यनभिज्ञाय तं विद्याद् ब्रह्मघातिनम्॥ आत्मजां रूपसम्पन्नां महतीं सदृशे वरे। न प्रयच्छति यः कन्यां तं विद्याद् ब्रह्मघातिनम्॥ अधर्मनिरतो मूढो मिथ्या यो वै द्विजातिषु। दद्यान्मर्मातिगं शोकं तं विद्याद् ब्रह्मघातिनम्॥ चक्षुषा विप्रहीणस्य पंगुलस्य जडस्य वा। हरेत यो वै सर्वस्वं तं विद्याद् ब्रह्मघातिनम्॥ आश्रमे वा वने वापि ग्रामे वा यदि वा पुरे। अग्निं समुत्सृजेन्मोहात्तं विद्याद् ब्रह्मघातिनम्॥ आश्रमे वा वने वापि ग्रामे वा यदि वा पुरे। अग्निं समुत्सृजेन्मोहात्तं विद्याद् ब्रह्मघातिनम्॥ युधिष्ठिर उवाच तीर्थाना दर्शनं श्रेयः स्नानं च भरतर्षभ। श्रवणं च महाप्राज्ञ श्रोतुमिच्छामि तत्त्वतः॥ पृथिव्यां यानि तीर्थानि पुण्यानि भरतर्षभ। वक्तुमर्हसि मे तानि श्रोतास्मि नियतं प्रभो॥ भीष्म उवाच इममङ्गिरसा प्रोक्तं तीर्थवंशं महाद्युते। श्रोतुमर्हसि भद्रं ते प्राप्स्यसे धर्ममुत्तमम्॥ तपोवनगतं विप्रमभिगम्य महामुनिम्। पप्रच्छाङ्गिरसं धीरं गौतमः संशितव्रतः॥ अस्ति मे भगवन् कश्चित्तीर्थेभ्यो धर्मसंशयः। तत् सर्वे श्रोतुमिच्छामि तन्मे शंस महामुने॥ उपस्पृश्य फलं किं स्योत्तेषु तीर्थेषु वै मुने। प्रेत्यभावे महाप्राज्ञ तद् यथास्ति तथा वद॥ अंगीरस उवाच सप्ताहं चन्द्रभागां वै वितस्तामूर्मिमालिनीम्। विगाह्य वै निराहारो निर्मलो मुनिवद् भवेत्॥ काश्मीरमण्डले नद्यो याः पतन्ति महानदम्। ता नदीः सिन्धुमासाद्य शीलवान् स्वर्गमाप्नुयात्॥ पुष्करं च प्रभासं च नैमिषं सागरोदकम्। देविकामिन्द्रमार्गं च स्वर्णबिन्दुं विगाह्य च॥ विबोध्यते विमानस्थः सोऽप्सरोभिरभिष्टुतः। हिरण्यबिन्दुं विक्षोभ्य प्रयतश्चाभिवाद्य च॥ कुशेशयं च देव तं धूयते तस्य किल्बिषम्। इन्द्रतोयां समासाद्य गन्धमादनसंनिधौ॥ करतोयां कुरङ्गे च त्रिरात्रोपोषितो नरः। अश्वमेधमवाप्नोति विगाह्य प्रयतः शुचिः॥ गङ्गाद्वारे कुशावर्ते बिल्वके नीलपर्वते। तथा कनखले स्नात्वा धूतपाप्मा दिवं व्रजेत्॥ अपां ह्रद उपस्पृश्य वाजिमेधफलं लभेत्। ब्रह्मचारी जितक्रोधः सत्यसंधस्त्वहिंसकः॥ यत्र भागीरथी गङ्गा पतते दिशमुत्तराम्। महेश्वरस्य त्रिस्थाने यो नरस्त्वभिषिच्यते॥ एकमासं निराहारः स पश्यति हि देवताः। सप्तगङ्गे त्रिगङ्गे च इन्द्रमार्गे च तर्पयन्॥ सुधां वै लभते भोक्तुं यो नरो जायते पुनः। महाश्रम उपस्पृश्य योऽग्निहोत्रपरः शुचिः॥ एकमासं निराहारः सिद्धिं मासेन स व्रजेत्। महाह्रद उपस्पृश्य भृगुतुङ्गे त्वलोलुपः॥ त्रिरात्रोपोषितो भूत्वा मुच्यते ब्रह्महत्यया। कन्याकूप उपस्पृश्य बलाकायां कृतोदकः॥ देवेषु लभते कीर्ति यशसा च विराजते॥ देविकायामुपस्पृश्य तथा सुन्दरिकाह्रदे। अश्विन्यां रूपवर्चस्कं प्रेत्य वै लभते नरः॥ महागङ्गामुपस्पृश्य कृत्तिकाङ्गारके तथा। पक्षमेकं निराहारः स्वर्गमाप्नोति निर्मलः॥ वैमानिक उपस्पृश्य किङ्किणीकाश्रमे तथा। निवासेऽप्सरसां दिव्ये कामचारी महीयते॥ कालिकाश्रममासाद्य विपाशायां कृतोदकः। ब्रह्मचारी जितक्रोधस्त्रिरात्रं मुच्यते भवात्॥ आश्रमे कृत्तिकानां तु स्नात्वा यस्तर्पयेत् पितॄन्। तोषयित्वा महादेवं निर्मला: स्वर्गमाप्नुयात्॥ महापुर उपस्पृश्य त्रिरात्रोपोषितः शुचिः। त्रसानां स्थावराणां च द्विपदानां भयं त्यजेत्॥ देवदारुवने स्नात्वा धूतपाप्मा कृतोदकः। देवलोकमवाप्नोति सप्तरात्रोषितः शुचिः॥ शरस्तम्बे कुशस्तम्बे द्रोणशर्मपदे तथा। अपां प्रपतनासेवी सेव्यते सोऽप्सरोगणैः॥ चित्रकूटे जनस्थाने तथा मन्दाकिनीजले। विगाह्य वै निराहारो राजलक्ष्म्या निषेव्यते॥ श्यामायास्त्वाश्रमं गत्वा उषित्वा चाभिषिच्य च। एकपक्षं निराहारस्त्वन्तर्धानफलं लभेत्॥ कौशिकी तु समासाद्य वायुभक्षस्त्वलोलुपः। एकविंशतिरात्रेण स्वर्गमारोहते नरः॥ मतङ्गवाप्यां यः स्नायादेकरात्रेण सिद्ध्यति। विगाहति ह्यनालम्बमन्धकं वै सनातनम्॥ नैमिषे स्वर्गतीर्थे च उपस्पृश्य जितेन्द्रियः। फलं पुरुषमेधस्य लभेन्मासं कृतोदकः॥ गङ्गाह्रद उपस्पृश्य तथा चैवोत्पलावने। अश्वमेधमवाप्नोति तत्र मासं कृतोदकः॥ गङ्गायमुनयोस्तीर्थे तथा कालञ्जरे गिरौ। दशाश्वमेधानाप्नोति तत्र मासं कृतोदकः॥ षष्टिह्रद उपस्पृश्य चान्नदानाद् विशिष्यते। दशतीर्थसहस्राणि तिस्रः कोट्यस्तथा पराः॥ समागच्छन्ति माध्यां तु प्रयागे भरतर्षभ। माघमासं प्रयागे तु नियतः संशितव्रतः॥ स्नात्वा तु भरतश्रेष्ठ निर्मलः स्वर्गमाप्नुयात्। मरुद्गण उपस्पृश्य पितॄणामाश्रमे शुचिः॥ वैवस्वतस्य तीर्थे च तीर्थभूतो भवेन्नरः। तथा ब्रह्मसरो गत्वा भागीरथ्यां कृतोदकः॥ एकमासं निराहारः सोमलोकमवाप्नुयात्॥ उत्पातके नरः स्नात्वा अष्टावक्रे कृतोदकः। द्वादशाहं निराहारो नरमेधफलं लभेत्॥ अश्मपृष्ठे गयायां च निरविन्दे च पर्वते। तृतीयां क्रौञ्चपद्यां च ब्रह्महत्यां विशुध्यते॥ कलविङ्क उपस्पृश्य विद्याच्च बहुशो जलम्। अग्नेः पुरे नरः स्नात्वा अग्निकन्यापुरे वसेत्॥ करवीरपुरे स्नात्वा विशालायां कृतोदकः। देवह्रद उपस्पृश्य ब्रह्मभूतो विराजते॥ पुनरावर्तनन्दां च महानन्दां च सेव्य वै। नन्दने सेव्यते दान्तस्त्वप्सरोभिरहिंसकः॥ उर्वशी कृत्तिकायोगे गत्वा चैव समाहितः। लौहित्ये विधिवत् स्नात्वा पुण्डरीकफलं लभेत्॥ रामह्रद उपस्पृश्य विपाशायां कृतोदकः। द्वादशाहं निराहारः कल्मषाद् विप्रमुच्यते॥ महाह्रद उपस्पृश्य शुद्धेन मनसा नरः। एकमासं निराहारो जमदग्निगतिं लभेत्॥ विन्ध्ये संताप्य चात्मानं सत्यसंधसत्वहिंसकः। विनयात्तप आस्थाय मासेनैकेन सिध्यति॥ नर्मदायामुपस्पृश्य तथा शूर्पारकोदके। एकपक्षं निराहारो राजपुत्रो विधीयते॥ जम्बूमार्गे त्रिभिर्मासैः संयतः सुसमाहितः। अहोरात्रेण चैकेन सिद्धिं समधिगच्छति॥ कोकामुखे विगाह्याथा गत्वा चाञ्जलिकाश्रमम्। शाकभक्षश्चीरवासाः कुमारीविन्दते दश॥ वैवस्वतस्य सदनं न स गच्छेत् कदाचन। यस्य कन्याहूदे वासो देवलोकं स गच्छति॥ प्रभासे त्वेकरात्रेण अमावास्यां समाहितः। विध्यते तु महाबाहो यो नरो जायतेऽमरः॥ उज्जानक उपस्पृश्य आष्टिषेणस्य चाश्रमे। पिङ्गायाश्चाश्रमे स्नात्वा सर्वपापैः प्रमुच्यते॥ कुल्यायां समुपस्पृश्य जप्त्वा चैवाघमर्षणम्। अश्वमेधमवाप्नोति त्रिरात्रोपोषितो नरः॥ पिण्डारक उपस्पृश्य एकरात्रोषितो नरः। अग्निष्टोममवाप्नोति प्रभातां शर्वरी शुचिः॥ तथा ब्रह्मसरो गत्वा धर्मारण्योपशोभितम्। पुण्डरीकमवाप्नोति उपस्पृश्य नरः शुचिः॥ मैनाके पर्वते स्नात्वा तथा संध्यामुपास्य च। कामं जित्वा च वै मासं सर्वयज्ञफलं लभेत्॥ कालोदकं नन्दिकुण्डं तथा चोत्तरमानसम्। अभ्येत्य योजनशताद् भ्रूणहा विप्रमुच्यते॥ नन्दीश्वरस्य मूर्ति तु दृष्ट्वा मुच्येत किल्बिषैः। स्वर्गमार्गे नरः स्नात्वा ब्रह्मलोकं स गच्छति॥ विख्यातो हिमवान् पुण्यः शङ्करश्वशुरो गिरिः। आकर: सर्वरत्नानां सिद्धचारणसेवितः॥ शरीरमुत्सृजेत् तत्र विधिपूर्वमनाशके। अध्रुवं जीवितं ज्ञात्वा यो वै वेदान्तगो द्विजः॥ अभ्यर्च्य देवतास्तत्र नमस्कृत्य मुनींस्तथा। ततः सिद्धो दिवं गच्छेद् ब्रह्मलोकं सनातनम्॥ कामं क्रोधं च लोभं च यो जित्वा तीर्थमावसेत्। न तेन किञ्चिन्न प्राप्तं तीर्थाभिगमनाद् भवेत्॥ यान्यगम्यानि तीर्थाणि दुर्गाणि विषमाणि चा मनसा तानि गम्यानि सर्वतीर्थसमीक्षया॥ इदं मेध्यमिदं पुण्यमिदं स्वय॑मनुत्तमम्। इदं रहस्यं वेदानामाप्लाव्यं पावनं तथा॥ इदं दद्याद् द्विजातीनां साधोरात्महितस्य च। सुहृदां च जपेत् कर्णे शिष्यस्यानुगतस्य च॥ दत्तवान् गौतमस्यैतदङ्गिरा वै पहातपाः। अङ्गिरा: समनुज्ञातः काश्यपेन च धीमता॥ महर्षीणामिदं जप्यं पावनानां तथोत्तमम्। जपंश्चाभ्युत्थितः शश्वन्निर्मलः स्वर्गमाप्नुयात्॥ इदं यश्चापि शृणुयाद् रहस्यं त्वङ्गिोमतम्। उत्तमे च कुले जन्म लभेज्जातीश्च संस्मरेत्॥ वैशम्पायन उवाच बृहस्पतिसमं बुद्ध्या क्षमया ब्रह्मणः समम्। पराक्रमे शक्रसममादित्यसमतेजसम्॥ गाङ्गेयमर्जुनेनाजौ निहतं भूरितेजसम्। भ्रातृभिः सहितोऽन्यैश्च पर्यपृच्छद् युधिष्ठिरः॥ शयानं वीरशयने कालाकाटिणमच्युतम्। आजग्मुर्भरतश्रेष्ठं द्रष्टुकामा महर्षयः॥ अत्रिर्वसिष्ठोऽथ भृगुः पुलस्त्यः पुलहः क्रतुः। अङ्गिरागौतमोऽगस्त्यः सुमतिः सुयतात्मवान्॥ विश्वामित्र: स्थूलशिरा: संवर्तः प्रमतिर्दमः। बृहस्पत्युशनोव्यासाच्यवनः काश्यपो ध्रुवः॥ दुर्वासा जमदग्निश्च मार्कण्डेयोऽथ गालवः। भरद्वाजोऽथ रैभ्यश्च यवक्रोतस्त्रितस्तथा॥ स्थूलाक्षः शवलाक्षश्च कण्वो मेधातिथिः कृशः। नारदः पर्वतश्चैव सुधन्वाथैकतो द्विजः॥ नितम्भूर्भुवनो धौम्यः शतानन्दोऽकृतव्रणः। जामदग्न्यस्तथा रामः कचश्चेत्येवमादयः॥ समागता महात्मानो भीष्मं द्रष्टुं महर्षयः। तेषां महात्मनां पूजामागतानां युधिष्ठिरः॥ भ्रातृभिः सहितश्चकै यथावदनुपूर्वशः। ते पूजिताः सुखासीनाः कथाश्चक्रुर्महर्षयः॥ भीष्माश्रिताः सुमधुराः सर्वेन्द्रियमनोहराः। भीष्मस्तेषां कथाः श्रुत्वा ऋषीणां भावितात्मनाम्॥ मेने दिविष्ठमात्मानं तुष्ट्या परमया युतः। ततस्ते भीष्ममामन्त्र्य पाण्डवांश्च महर्षयः॥ अन्तर्धानं गताः सर्वे सर्वेषामेव पश्यताम्। तानृषीन् सुमहाभागानन्तर्धानगतानपि॥ पाण्डवास्तुष्टुवुः सर्वे प्रणेमुश्च मुहुर्मुहुः। प्रसन्नमनसः सर्वे गाङ्गेयं कुरुसत्तमम्॥ उपतस्थुर्यथोद्यन्तमादित्यं मन्त्रकोविदाः। प्रभावात् तपसस्तेषामृषीणां वीक्ष्य पाण्डवाः॥ प्रकाशन्तो दिशः सर्वा विस्मयं परमं ययुः। महाभाग्यं परं तेषामृषीणामनुचिन्त्य ते। पाण्डवाः सह भीष्मेण कथाश्चक्रुस्तदाश्रयाः॥ वैशम्पायन उवाच कथान्ते शिरसा पादौ स्पृष्ट्वा भीष्मस्य पाण्डवः। धर्म्य धर्मसुतः प्रश्नं पर्यपृच्छद् युधिष्ठिरः॥ युधिष्ठिर उवाच के देशाः के जनपदा आश्रमाः के च पर्वताः। प्रकृष्टाः पुण्यतः काच ज्ञेया नद्यः पितामह॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। शिलोच्छवृत्तेः संवादं सिद्धस्य च युधिष्ठिर॥ इमां कश्चित् परिक्रम्य पृथिवीं शैलभूषणाम्। असकृद् द्विपदां श्रेष्ठः श्रेष्ठस्य गृहमेधिनः॥ शिलवृत्तेहं प्राप्तः स तेन विधिनार्चितः। उवास रजनीं तत्र सुमुखः सुखभागृषिः॥ शिलवृत्तिस्तु यत् कृत्यं प्रातस्तत् कृतवाञ्छुचिः। कृतकृत्यमुपातिष्ठत् सिद्धं तमतिथिं तदा।॥ तौ समेत्य महात्मानौ सुखासीनौ कथाः शुभाः। चक्रतुर्वेदसम्बद्धास्तच्छेषकृतलक्षणाः॥ शिलवृत्तिः कथान्तेतु सिद्धमामन्त्र्य यत्नतः। प्रश्नं पप्रच्छ मेधावी यन्मां त्वं परिपृच्छसि॥ शिलवृत्तिरुवाच के देशाः के जनपदाः केऽऽश्रमाः के च पर्वताः। प्रकृष्टाः पुण्यतः काश्च ज्ञेया नद्यस्तुदुच्यत्ताम्॥ ऋषिरुवाच ते देशास्ते जनपदास्तेऽऽश्रमास्ते च पर्वताः। येषां भागीरथी गङ्गा मध्येनैति सरिद्वरा॥ तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः। गतिं तां न लभेज्जन्तुर्गङ्गां संसेव्य यां लभेत्॥ स्पृष्टानि येषां गाङ्गेयैस्तोयैर्गात्राणि देहिनाम्। न्यस्तानि न पुरस्तेषां त्याग स्वर्गाद् विधीयते॥ सर्वाणि येषां गाङ्गेयैस्तोयैः कार्याणि देहिनाम्। गां त्यक्त्वा मानवा विप्र दिवि तिष्ठन्ति ते जनाः।। पूर्वं वयसि कर्माणि कृत्वा पापानि ये नराः। पश्चाद् गङ्गां निषेवन्ते तेऽपि यान्त्युत्तमां गतिम्॥ स्नातानां शुचिभिस्तोयैर्गाङ्गेयैः प्रयतात्मनाम्। व्युष्टिर्भवति या पुंसां न सा क्रतुशतैरपि॥ यावदस्थि मनुष्यस्य गङ्गातोयेषु तिष्ठति। तावद्वर्षसहस्राणि स्वर्गलोके महीयते॥ अपहत्य तमस्तीवं यथा भात्युदये रविः। तथापहत्य पाप्मानं भाति गङ्गाजलोक्षितः॥ विसोमा इव शर्वर्यो विपुष्पास्तरवो यथा। तद्वद् देशा दिशश्चैव हीना गङ्गाजलैः शिवैः॥ वर्णाश्रमा यथा सर्वे धर्मज्ञानविवर्जिताः। क्रतवश्च यथासोमास्तथा गङ्गां विना जगत्॥ यथा हीनं नभोऽर्केण भूःशैलैः खं च वायुना। तथा देशा दिशश्चैव गङ्गाहीना च संशयः॥ त्रिषु लोकेषु ये केचित् प्राणिनः सर्व एव ते। तर्प्यमाणाः परां तृप्तिं यान्ति गङ्गाजलैः शुभैः॥ यस्तु सूर्येण निष्टतं गाङ्गेयं पिबते जलम्। गवां निरिनिर्मुक्ताद् यावकात् तद् विशिष्यते॥ इन्द्रव्रतसहस्रं तु यश्चरेत् कायशोधनम्। पिबेद् यश्चापि गङ्गाम्भः समौ स्यातां न वा समौ॥३९ तिष्ठेद् युगसहस्रं तु पदेनैकेन यः पुमान्। मासमेकं तु गङ्गाया समौ स्यातां न वा समौ॥ लंबतेऽवाशिरा यस्तु युगानामयुतं पुमान्। तिष्ठेद् यथेष्टं यश्चापि गङ्गायां स विशिष्यते॥ अग्नौ प्रास्तं प्रधूयेत यथा तूलं द्विजोत्तम। तथा गङ्गावगाढस्य सर्वपापं प्रधूयते॥ भूतानामिह सर्वेषां दुःखोपहतचेतसाम्। गतिमन्वेषमाणानां न गङ्गासदृशी गतिः॥ भवन्ति निर्विषाः सर्प यथा तार्क्ष्यस्य दर्शनात्। गङ्गाया दर्शनात् तद्वत् सर्वपापैः प्रमुच्यते॥ अप्रतिष्ठाश्च ये केचिदधर्मशरणाश्च ये। तेषां प्रतिष्ठा गङ्गेह शरणं शर्म वर्म च॥ प्रकृष्टैरशुभैर्ग्रस्ताननेकैः पुरुषाधमान्। पततो नरके गङ्गा संश्रितान् प्रेत्य तारयेत्॥ ते संविभक्ता मुनिभिर्नूनं देवैः सवासवैः। येऽभिगच्छन्ति सततं गङ्गां मतिमतां वर॥ विनयाचारहीनाश्च अशिवाश्च नराधमाः। ते भवन्ति शिवा विप्र ये वै गङ्गामुपाश्रिताः॥ यथा सुराणाममृतं पितॄणां च यथा स्वधा। सुधा यथा च नागानां तथा गङ्गाजलं नृणाम्॥ उपासते यथा बाला मातरं क्षुधयार्दिताः। श्रेयस्कामास्तथा गङ्गामुपासन्तीह देहिनः॥ स्वायम्भुवं यथा स्थानं सर्वेषां श्रेष्ठमुच्यते। सातानां सरितां श्रेष्ठा गङ्गा तद्वदिहोच्यते॥ यथोपजीविनां धेनुर्देवादीनां धरा स्मृता। तथोपजीविनां गङ्गा सर्वप्राणभृतामिह॥ देवाः सोमार्कसंस्थानि यथा सत्रादिभिर्मखैः। अमृतान्युपजीवन्ति तथा गङ्गाजलं नराः॥ जाह्नवीपुलिनोत्थाभिः सिकताभिः समुक्षितम्। आत्मानं मन्यते लोको दिविष्ठमिव शोभितम्॥ जाह्नवीतीरसम्भूतां मृदं मूर्धा बिभर्ति यः। बिभर्ति रूपं सोऽर्कस्य तमोनाशाय निर्मलम्॥ गङ्गोर्मिभिरथो दिग्धः पुरुषं पवनो यदा। स्पृशते सोऽस्य पाप्मानं सद्य एवापकर्षति॥ व्यसनैरभितप्तस्य नरस्य विनशिष्यतः। गङ्गादर्शनजा प्रीतिर्व्यसनान्यपकर्षति॥ हंसारावैः कोकरवै रवैरन्यैश्च पक्षिणाम्। पस्पर्ध गङ्गा गन्धर्वान् पुलिनैश्च शिलोच्चयान्॥ हंसादिभिः सुबहुभिर्विविधैः पक्षिभिर्वृताम्। गङ्गां गोकुलसम्बाधां दृष्ट्वा स्वर्गोऽपि विस्मृतः॥ न सा प्रीतिर्दिविष्ठस्य सर्वकामानुपाश्नतः। सम्भवेद् या परा प्रीतिर्गङ्गायाः पुलिने नृणाम्॥ वाङ्मनःकर्मजैर्ग्रस्तः पापैरपि पुमानिह। वीक्ष्य गङ्गां भवेत् पूतो अत्र मे नास्ति संशयः॥ सप्तावरान् सप्त परान् पितूंस्तेभ्यश्च ये परे। पुमांस्तारयते गङ्गां वीक्ष्य स्पृष्ट्वावगाह्य च॥ श्रुताभिलषिता पीता स्पृष्टा दृष्टावगाहिता। गङ्गा तारयते नृणामुभौ वंशो विशेषतः॥ दर्शनात् स्पर्शनात् पानात् तथा गङ्गेति कीर्तनात्। पुनात्यपुण्याम् पुरुषाच्छतशोऽथ सहस्रशः॥ य इच्छेत् सफलं जन्म जीवितं श्रुतमेव च। स पितृस्तर्पयेद् गङ्गामभिगम्य सुरांस्तथा॥ न सुतैर्न च वित्तेन कर्मणा न च तत्फलम्। प्राप्नुयात् पुरुषोऽत्यन्तं गङ्गां प्राप्य यदाप्नुयात्॥ जात्यन्धैरिह तुल्यास्ते मृतैः पङ्गुभिरेव च। समर्था ये न पश्यन्ति गङ्गां पुण्यजलां शिवाम्॥ भूतभव्यभविष्यज्ञैर्महर्षिभिरुपास्थिताम्। देवैः सेन्ट्रैश्च को गङ्गां नोपसेवेत मानवः॥ वानप्रस्थैर्गृहस्थैश्च यतिभिर्ब्रह्मचारिभिः। विद्यावद्भिः श्रितां गङ्गां पुमान् को नाम नाश्रयेत्॥६९ उत्क्रामद्धिश्च यः प्राणः प्रयतः शिष्टसम्मतः। चिन्तयेन्मनसा गङ्गां स गतिं परमां लभेत्॥ न भयेश्यो भयं तस्य न पापेभ्यो न राजतः। आ देहपतनाद् गङ्गामुपास्ते यः पुमानिह॥ महापुण्यां च गगनात् पतन्तीं वै महेश्वरः। दधार शिरसा गङ्गां तामेव दिवि सेवते॥ अलंकृतास्त्रयो लोकाः पथिभिर्विमलैस्त्रिभिः। यस्तु तस्या जलं सेवेत् कृतकृत्यः पुमान् भवेत्॥७३ दिवि ज्योतिर्यथाऽऽदित्यः पितॄणां चैव चन्द्रमाः। देवेशश्च तथा नृणां गङ्गा च सरितां तथा॥ मात्रा पित्रा सुतैारैर्विमुक्तस्य धनेन वा। न भवेद्धि तथा दुःखं यथा गङ्गावियोगजम्॥ नारण्यैर्नेष्टविषयैर्न सुतैर्न धनागमैः। तथा प्रसादो भवति गङ्गां वीक्ष्य यथा भवेत्॥ पूर्णमिन्दुं यथा दृष्ट्वा नृणां दृष्टिः प्रसीदति। तथा त्रिपथगां दृष्ट्वा नृणां दृष्टिः प्रसीदति॥ तद्भावस्तद्गतमनास्तन्निष्टस्तत्परायणः! गङ्गां योऽनुगतो भक्त्या स तस्याः प्रियतां व्रजेत्॥७८ भूस्थैः स्वःस्थैर्दिविष्ठैश्च भूतैरुच्चावचैरपि। गङ्गा विगाह्या सततमेतत् कार्यतमं सताम्॥ विश्वलोकेषु पुण्यत्वाद् गङ्गायाः प्रथितं यशः। यत्पुत्रान्सगरस्येतो भस्माख्याननयद् दिवम्॥ १ताभिरत्यर्थसमुत्थिताभिः। गङ्गोर्मिभिर्भानुमतीभिरिद्धाः सहस्ररश्मिप्रतिमा भवन्ति॥ पथस्विनी घृतिनीमत्युदारां समृद्धिनी वेगिनीं दुर्विगाह्याम्। गङ्गां गत्वा यैः शरीरं विसृष्टं गता धीरास्ते विबुधैः समत्वम्॥ अन्धान् जडान् द्रव्यहीनांश्च गङ्गा यशस्विनी बृहती विश्वरूपा। देवैः सेन्ट्रैर्मुनिभिर्मानवैश्च निषेविता सर्वकामैथुनक्ति ॥ ऊर्जावती महापुण्यां मधुमती त्रिवम॑गाम्। त्रिलोकगोत्रीं ये गङ्गां संश्रितास्ते दिवं गताः॥ स्तस्मै प्रयच्छन्ति सुखानि देवाः। तद्भाविता: स्पर्शनदर्शनेन इष्टां गतिं तस्य सुरा दिशन्ति॥ दक्षां पृश्निं बृहती विप्रकृष्टां शिवामृद्धां भागिनी सुप्रसन्नाम्। विभावरी सर्वभूतप्रतिष्ठा गङ्गां गता ये त्रिदिवं गतास्ते॥ ख्यातिर्यस्याः खं दिवंगां च नित्यं पुरा दिशो विदिशश्चावतस्थे। तस्या जलं सेव्य सरिद्वराया माः सर्वे कृतकृत्या भवन्ति॥ इयं गङ्गेति नियतं प्रतिष्ठा गुहस्य रुक्मस्य च गर्भयोषा। प्रातस्त्रिवर्गा घृतवहा विपाप्मा गङ्गावतीर्णा वियतो विश्वतोया॥ सुतावनीध्रस्य हरस्य भार्या दिवो भुवश्चापि कृतानुरूपा। भव्या पृथिव्यां भागिनी चापि राजन् गङ्गा लोकानां पुण्यदा वै त्रयाणाम्॥ महोर्मिभिः शोभिता ब्राह्मणैश्च। दिवश्च्युता शिरसाऽऽप्ता शिवेन गङ्गावनीध्रात त्रिदिवस्य माता॥ योनिर्वरिष्ठा विरजा वितन्वी शय्याचिरा वारिवहा यशोदा। विश्वावती चाकृतिरिष्टसिद्धा गङ्गोक्षितानां भुवनस्य पन्थाः॥ क्षान्त्या मह्या गोपने धारणेच दीप्त्या कृशानोस्तपनस्य चैव। तुल्या गङ्गा सम्मता ब्राह्मणानां गुहस्य ब्रह्मण्यतया च नित्यम्॥ ऋषिष्टुतां विष्णुपदी पुराणां सुपुण्यतोयां मनसापि लोके। स्ते ब्रह्मणः सदनं सम्प्रयाताः॥ लोकानवेक्ष्य जननीव पुत्रान् सर्वात्मना सर्वगुणोपपन्नान्। गङ्गा सदैवात्मवशरूपास्या॥ मिरावतीं धारिणी भूधराणाम्। शिष्टाश्रयाममृतां ब्रह्मकान्तां गङ्गां श्रयेदात्मवान् सिद्धिकामः॥ प्रसाद्य देवान् सविभून् समस्तान् भगीरथस्तपसोग्रेण गङ्गाम्। गामानयत् तामभिगम्य शश्वत् पुंसां भयं नेह चामुत्र विद्यात्॥ उदाहतः सर्वथा ते गुणानां मयैकदेशः प्रसमीक्ष्य बुद्ध्या। शक्तिर्न मे काचिदिहास्ति वक्तुं गुणान् सर्वान् परिमातुं तथैव॥ मेरो: समुद्रस्य च सर्वयत्नैः संख्योपलानामुदकस्य वापि। शक्यं वक्तुं नेह गङ्गाजलानां गुणाख्यानं परिमातुं तथैव॥ तस्मादेतान् परया श्रद्धयोक्तान् गुणान् सर्वान् जाह्नवीयान् सदैव। भवेद् वाचा मनसा कर्मणा च भक्त्या युक्तः श्रद्धया श्रद्दधानः॥ लोकानिमांस्त्रीन् यशसा वितत्य सिद्धिं प्राप्य महतीं तां दुरापाम्। गङ्गाकृतानचिरेणैव लोकान् यथेष्टमिष्टान् विहरिष्यसि त्वम्॥ तव मम च गुणैर्महानुभावा जुषतु मतिं सततं स्वधर्मयुक्तः। अभिमतजनवत्सला हि गङ्गा जगति युनक्ति सुखैश्च भक्तिमन्तम्॥ भीष्म उवाच शिलरतये त्रिपथानुयोगरूपान्। बहुविधमनुशास्य तथ्यरूपान् गगनतलं द्युतिमान् विवेश सिद्धः॥ शिलवृत्तिस्तु सिद्धस्य वाक्यैः सम्बोधितस्तदा। गङ्गामुपास्य विधिवत् सिद्धिं प्राप सुदुर्लभाम्॥ तथा त्वमपि कौन्तेय भक्त्या परमया युतः। गङ्गामभ्येहि सततं प्राप्स्यसे सिद्धिमुत्तमाम्॥ वैशम्पायन उवाच श्रुत्वेतिहासं भीष्मोक्तं गङ्गायाः स्तवसंयुतम्। युधिष्ठिरः परां प्रीतिमगच्छद् भ्रातृभिः सह॥ इतिहासमिमं पुण्यं शृणुयाद् यः पठेत वा। गङ्गायाः स्तवसंयुक्तं स मुच्येत् सर्वकिल्बिषैः।।१०६। युधिष्ठिर उवाच प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च यथा भवान्। गुणैश्च विविधैः सर्वैर्वयसा च समन्वितः॥ भवान् विशिष्टो बुद्ध्या च प्रज्ञया तपसा तथा। तस्माद् भवन्तं पृच्छामि धर्मे धर्मभृतां वर। नान्यस्तवदन्यो लोकेषु प्रष्टव्योऽस्ति नराधिप॥ क्षत्रियो यदि वा वैश्यः शूद्रो वा राजसत्तम। ब्राह्मण्यं प्राप्नुयाद् येन तन्मे व्याख्यातुमर्हसि॥ तपसा वा सुमहता कर्मणा वा श्रुतेन वा। ब्राह्मण्यमथ चेदिच्छेत् तन्मे ब्रूहि पितामह॥ भीष्म उवाच ब्राह्मण्यं तात दुष्प्राप्यं वर्णैः क्षत्रादिभिस्त्रिभिः। परं हि सर्वभूतानां स्थानमेतद् युधिष्ठिर॥ बह्वीस्तु संसरन् योनीर्जायमानः पुनः पुनः। पर्याये तात कस्मिंश्चिद् ब्राह्मणो नाम जायते॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। मतङ्गस्य व संवादं गर्दभ्याश्च युधिष्ठिर॥ द्विजातेः कस्यचित् तात तुल्यवर्णः सुतस्त्वभूत्। मतङ्गो नाम नाम्ना वै सर्वैः समुदितो गुणैः॥ स यज्ञकारः कौन्तेय पित्रोत्सृष्टः परंतप। प्रायाद् गर्दभयुक्तेन रथेनाप्याशुगामिना॥ स बालं गर्दभं राजन् वहन्तं मातुरन्तिके। निरविध्यत् प्रतोदेन नासिकायां पुन: पुनः॥ तत्र तीव्र व्रणं दृष्ट्वा गर्दभी पुत्रगृद्धिनी। उवाच मा शुचः पुत्र चाण्डालस्त्वधितिष्ठति॥ ब्राह्मणे दारुणं नास्ति मैत्रो ब्राह्मण उच्यते। आचार्यः सर्वभूतानां शास्ता किं प्रहरिष्यति॥ अयं तु पापप्रकृतिर्बाले न कुरुते दयाम्। स्वयोनि मानयत्येष भवो भावं नियच्छति॥ एतच्छ्रुत्वा मतङ्गस्तु दारुणं रासभीवचः। अवतीर्य रथात् तूर्ण रासभी प्रत्यभाषत॥ ब्रूहि रासभि कल्याणि माता मे येन दूषिता। कथं मां वेत्सि चण्डालं क्षिप्रं रासभि शंस मे॥ कथं मां वेत्सि चण्डालं ब्राह्मण्यं येन नश्यते। तत्त्वेनैतन्महाप्रज्ञे ब्रूहि सर्वमशेषतः॥ गर्दभ्युवाच ब्राह्मण्यां वृषलेन त्वं मत्तायां नापितेन ह। जातस्त्वमसि चाण्डालो ब्राह्मण्यं तेन तेऽनशत्॥ भीष्म उवाच एवमुक्तो मतङ्गस्तु प्रतिप्रायाद् गृहं प्रति। तमागतपभिप्रेक्ष्य पिता वाक्यमथाब्रवीत्॥ मया त्वं यज्ञसंसिद्धौ नियुक्तो गुरुकर्मणि। कस्मात् प्रतिनिवृत्तोऽसि कच्चिन्न कुशलं तव॥ मतङ्ग उवाच अन्त्ययोनिरयोनिर्वा कथं स कुशली भवेत्। कुशलं तु कुतस्तस्य यस्येयं जननी पितः॥ ब्राह्मण्यां वृषलाज्जातं पितर्वेदयतीव माम्। अमानुषी गर्दभीयं तस्मात् तप्स्ये तपो महत्॥ एवमुक्त्वा स पितरं प्रतस्थे कृतनिश्चयः। ततो गत्वा महारण्यमतपत् सुमहत् तपः॥ ततः स तापयामास विबुधास्तपसान्वितः। मतङ्गः सुखसम्प्रेप्सुः स्थानं सुचरितादपि॥ तं तथा तपसा युक्तमुवाच हरिवाहनः। मतङ्ग तप्स्यसे किं त्वं भोगानुत्सृज्य मानुषान्॥ वरं ददामि ते हन्त वृणीष्व त्वं यदिच्छसि। यच्चाप्यवाप्यं हृदि ते सर्वं तद् ब्रूहि माचिरम्॥ मतङ्ग उवाच ब्राह्मण्यं कामयानोऽहमिदमारब्धवांस्तपः। गच्छेयं तदवाप्येह वर एष वृतो मया॥ भीष्म उवाच एतच्छ्रुत्वा तु वचनं तमुवाच पुरंदरः। मतङ्ग दुर्लभमिदं विप्रत्वं प्रार्थ्यते त्वया॥ ब्राह्मण्यं प्रार्थयानस्त्वमप्राप्यमकृतात्मभिः। विनशिष्यसि दुर्बुद्धे तदुपारम माचिरम्॥ श्रेष्ठतां सर्वभूतेषु तपोऽर्थे नातिवर्तते। तदग्र्यं प्रार्थयानस्त्वमचिराद् विनशिष्यसि॥ देवतासुरमर्येषु यत् पवित्रं परं स्मृतम्। चण्डालयोनौ जातेन न तत् प्राप्यं कथंचन॥ भीष्म उवाच एवमुक्तो मतङ्गस्तु संशितात्मा यतव्रतः। अतिष्ठदेकपादेन वर्षाणां शतमच्युतः॥ तमुवाच ततः शक्रः पुनरेव महायशाः। ब्राह्मण्यं दुर्लभं तात प्रार्थयानो न लप्स्यसे॥ मतङ्ग परमं स्थानं प्रार्थयन् विनशिष्यसि। मा कृथाः साहसं पुत्र नैष धर्मपथस्तव॥ न हि शक्यं त्वया प्राप्तुं ब्राह्मण्यमिह दुर्मते। अप्राप्यं प्रार्थयानो हि नचिराद् विनशिष्यसि॥ मतङ्ग परमं स्थानं वार्यमाणोऽसकृन्मया। चिकीर्षस्येव तपसा सर्वथा न भविष्यसि॥ तिर्यग्योनिगतः सर्वो मानुष्यं यदि गच्छति। स जायते पुल्कसो वा चण्डालो वाप्यसंशयः॥ पुल्कसः पापयोनिर्वा यः कश्चिदिह लक्ष्यते। स तस्यामेव सुचिरं मतङ्ग परिवर्तते॥ ततो दशशते काले लभते शूद्रतामपि। शूद्रयोनावपि ततो बहुशः परिवर्तते॥ ततस्त्रिंशद्गुणे काले लभते वैश्यतामपि। वैश्यतायां चिरं कालं तत्रैव परिवर्तते॥ ततः षष्टिगुणे काले राजन्यो नाम जायते। ततः षष्टिगुणे काले लभते ब्रह्मबन्धुताम्॥ ब्रह्मबन्धुश्चिरं कालं ततस्तु परिवर्तते। ततस्तु द्विशते काले लभते काण्ड पृष्ठताम्॥ काण्डपृष्ठिश्चिरं कालं तत्रैव परिवर्तते। ततस्तु त्रिंशते काले लभते जपतामपि॥ तं च प्राप्य चिरं कालं तत्रैव परिवर्तते। ततश्चतुःशते काले श्रोत्रियो नाम जायते। श्रोत्रियत्वे चिरं कालं तत्रैव परिवर्तते॥ तदेवं शोकहर्षी तु कामद्वेषौ च पुत्रका अतिमानातिवादौ च प्रविशेते द्विजाधमम्॥ तांश्चज्जयति शत्रून् स तदा प्राप्नोति सद्गतिम्। अथ ते वै जयन्त्येनं तालाग्रादिव पात्यते॥ मतङ्ग सम्प्रधायँवं यदहं त्वामचूचुदम्। वृणीष्व काममन्यं त्वं ब्राह्मण्यं हि सुदुर्लभम्॥ युधिष्ठिर उवाच के पूज्या वै त्रिलोकेऽस्मिन् मानवा भरतर्षभ। विस्तरेण तदाचक्ष्व न हि तृप्यामि कथ्यतः॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। नारदस्य च संवादं वासुदेवस्य चोभयोः॥ नारदं प्राञ्जलिं दृष्ट्वा पूजयानं द्विजर्षभान्। केशवः परिपप्रच्छ भगवन् कान् नमस्यसि॥ बहुमानपरस्तेषु भगवन् यान् नमस्यसि। शक्यं चेच्छ्रोतुमस्माभिर्बुह्येतद् धर्मवित्तम॥ नारद उवाच शृणु गोविन्द यानेतान् पूजयाम्यरिमर्दन। त्वत्तोऽन्यः कः पुमाल्लोके श्रोतुमेतदिहार्हति॥ वरुणं वायुमादित्यं पर्जन्यं जातवेदसम्। स्थाणुं स्कन्दं तथा लक्ष्मी विष्णुं ब्रह्माणमेव च॥ वाचस्पतिं चन्द्रमसमपः पृथ्वी सरस्वतीम्। सततं ये नमस्यन्ति तान् नमस्याम्यहं विभो॥ तपोधनान् वेदविदो नित्यं वेदपरायणान्। महार्हान् वृष्णिशार्दूल सदा सम्पूजयाम्यहम्।।८ अभुक्त्वा देवकार्याणि कुर्वते येऽविकत्थनाः। संतुष्टाश्च क्षमायुक्तास्तान् नमस्याम्यहं विभो॥ सम्यग् यजन्ति ये चेष्टीः क्षान्ता दान्ता जितेन्द्रियाः। सत्यं धर्मे क्षितिं गाश्च तान् नमस्यामि यादव।॥ ये वै तपसि वर्तन्ते वने मूलफलाशनाः। असंचयाः क्रियावन्तस्तान् नमस्यामि यादव॥ ये भृत्यभरणे शक्ताः सततं चातिथिव्रताः। भुञ्जते देवशेषाणि तान् नमस्यामि यादव।॥ ये वेदं प्राप्य दुर्धर्षा वाग्मिनो ब्रह्मचारिणः। याजनाध्यापने युक्ता नित्यं तान् पूजयाम्यहम्॥ प्रसन्नहृदयाश्चैव सर्वसत्त्वेषु नित्याः। आपृष्ठतापात् स्वाध्याये युक्तास्तान् पूजयाम्यहम्।।१४ गुरुप्रसादे स्वाध्याये यतन्तो ये स्थिरव्रताः। शुश्रूषवोऽनसूयन्तस्तान् नमस्यामि यादव॥ सुव्रता मुनयो ये च ब्राह्मणाः सत्यसंगराः। वोढारो हव्यकव्यानां तान् नमस्यामि यादव॥ भैक्ष्यवर्यासु निरताः कृशा गुरुकुलाश्रयाः। निर्धना ये तु तान् नमस्यामि यादव।॥ निर्ममा निष्प्रतिद्वन्द्वा निहीका निष्प्रयोजनाः। ये वेदं प्राप्य दुर्धर्षा वाग्मिनो ब्रह्मवादिनः॥ अहिंसानिरता ये च ये च सत्यव्रता नराः। दान्ताः शमपराश्चैव तान् नमस्यामि केशव॥ निःसुखा देवतातिथिपूजायां युक्ता ये गृहमेधिनः। कपोतवृत्तयो नित्यं तान् नमस्यामि यादव॥ येषां त्रिवर्गः कृत्येषु वर्तते नोपहीयते। शिष्टाचारप्रवृत्ताश्च तान् नमस्याम्यहं सदा॥ ब्राह्मणाः श्रुतसम्पन्ना ये त्रिवर्गमनुष्ठिताः। अलोलुपाः पुण्यशीलास्तान् नमस्यामि केशव॥ अब्भक्षा वायुभक्षाश्च सुधाभक्षश्च ये सदा। व्रतैश्च विविधैर्युक्तास्तान् नमस्यामि माधव॥ अयोनीनग्नियोनींश्च ब्रह्मयोनींस्तथैव च। सर्वभूतात्मयोनींश्च तान् नमस्याम्यहं सदा॥ नित्यमेतान् नमस्यामि कृष्ण लोककरानृषीन्। लोकज्येष्ठान् कुलज्येष्ठांस्तमोघ्नॉल्लोकभास्करान्॥ तस्मात् त्वमपि वार्ष्णेय द्विजान् पूजय नित्यदा। पूजिताः पूजनार्हा हि सुखं दास्यन्ति तेऽनघ।॥ अस्मिल्लोके सदा ह्येते परत्र च सुखप्रदाः। चरन्ते मान्यमाना वै प्रदास्यन्ति सुखं तव।॥ ये सर्वातिथयो नित्यं गोषु च ब्राह्मणेषु च। नित्यं सत्ये चाभिरता दुर्गाण्यतितरन्ति ते॥ नित्यं शमपरा ये च तथा ये चानसूयकाः। नित्यस्वाध्यायिनो ये च दुर्गाण्यतितरन्ति ते॥ सर्वान् देवान् नमस्यन्ति ये चैकं वेदमाश्रिताः। श्रद्दधानाश्च दान्ताश्च दुर्गाण्यतितरन्ति ते॥ तथैव विप्रप्रवरान् नमस्कृत्य यतव्रताः। भवन्ति ये दानरता दुर्गाण्यतितरन्ति ते॥ तपस्विनश्च ये नित्यं कौमारब्रह्मचारिणः। तपसा भावितात्मानो दुर्गाण्यतितरन्ति ते॥ देवतातिथिभृत्यानां पितॄणां चार्चने रताः। शिष्टान्नभोजिनो ये च दुर्गाण्यतितरन्ति ते॥ अग्निमाधाय विधिवत् प्रणता धारयन्ति ये। प्राप्ताः सोमाहुतिं चैव दुर्गाण्यतितरन्ति ते॥ मातापित्रोणुरुषु च सम्यग् वर्तन्ति ये सदा। यथा त्वं वृष्णिशार्दूलेत्युक्त्वैवं विरराम सः॥ भीष्म उवाच तस्मात् त्वमपि कौन्तेय पितृदेवद्विजातिथीन्। सम्यक् पूजयसे नित्यं गतिमिष्टामवाप्स्यसि॥ युधिष्ठिर उवाच पितामह महाप्राज्ञ सर्वशास्त्रविशारद। त्वत्तोऽहं श्रोतुमिच्छामि धर्मे भरतसत्तम॥ शरणागतं ये रक्षन्ति भूतग्रामं चतुर्विधम्। किं तस्य भरतश्रेष्ठ फलं भवति तत्त्वतः॥ इदं शृणु महाप्राज्ञ धर्मपुत्र महायशः। इतिहासं पुरावृत्तं शरणार्थे महाफलम्॥ प्रपात्यमान: श्येनेन कपोतः प्रियदर्शनः। वृषदर्भ महाभागं नरेन्द्रं शरणं गतः॥ स तं दृष्ट्वा विशुद्धात्मा त्रासादङ्कमुपागतम्। आश्वास्याश्वसिहीत्याह न तेऽस्ति भयमण्डज॥ भयं ते सुमहत् कस्मात् कुत्र किं वा कृतं त्वया। येन त्वमिह सम्प्राप्तो विसंज्ञो भ्रान्तचेतनः॥ नवनीलोत्पलापीडचारुवर्ण सुदर्शन। दाडिमाशोकपुष्पाक्ष मा त्रसस्वाभयं तव॥ मत्सकाशमनुप्राप्तं न त्वां कश्चित् समुत्सहेत्। मनसा ग्रहणं कर्तुं रक्षाध्यक्षपुरस्कृतम्॥ काशिराज्यं तदद्यैव त्वदर्थं जीवितं तथा। त्यजेयं भव विश्रब्धः कपोत न भयं तव॥ श्येन उवाच ममैतद् विहितं भक्ष्यं च राजंस्त्रातुमर्हसि। अतिक्रान्तं च प्राप्तं च प्रयत्नाच्चोपपादितम्॥ मासं च रुधिरं चास्य मज्जा मेदश्च मे हितम्। परितोषकरो ह्येष मम मास्याग्रतो भव॥ तृष्णा मे बाधतेऽत्युग्रा क्षुधा निर्दहतीव माम्। मुञ्चैनं न हि शक्ष्यामि राजन् मन्दयितुं क्षुधाम्॥ मया ह्यनुसृतो ह्येष मत्पक्षनखविक्षतः। किंचिदुच्छ्वासनिःश्वासं न राजन् गोप्तुमर्हसि॥ यदि स्वविषये राजन् प्रभुस्त्वं रक्षणे नृणाम्। खेचरस्य तृषार्तस्य न त्वं प्रभुरथोत्तम॥ यदि वैरिषु भृत्येषु स्वजनव्यवहारयोः। विषयेष्विन्द्रयाणां च आकाशे मा पराक्रम॥ प्रभुत्वं हि पराक्रम्य सम्यक् पक्षहरेषु ते। यदि त्वमिह धर्मार्थी मामपि द्रष्टुमर्हसि॥ भीष्म उवाच श्रुत्वा श्येनस्य तद् वाक्यं राजर्षिविस्मयं गतः। सम्भाव्य चैनं तद्वाक्यं तदर्थी प्रत्यभाषत॥ राजोवाच गोवृषो वा वराहो वा मृगो वा महिषोऽपि वा। त्वदर्थमद्य क्रियतां क्षुधाप्रशमनाय ते॥ शरणागतं न त्यजेयमिति मे व्रतमाहितम्। न मुञ्चति ममाङ्गानि द्विजोऽयं पश्य वै द्विज॥ श्येन उवाच न वराहं न चोक्षाणं न चान्यान् विविधान् द्विजान्। भक्षयामि महाराज किमन्यायेन तेन मे॥ यस्तु मे विहितो भक्ष्यः स्वयं देवैः सनातनः। श्येनाः कपोतान् खादन्ति स्थितिरेषा सनातनी॥ उशीनर कपोते तु यदि स्नेहस्तवानघ। ततस्त्वं मे प्रयच्छाद्य स्वमांसं तुलया धृतम्॥ राजोवाच महाननुग्रहो मेऽघ यस्त्वमेवमिहात्थ माम्। बाढमेव करिष्यामीत्युक्त्वासौ राजसत्तमः॥ उत्कृत्योत्कृत्य मांसानि तुलया समतोलयत्। अन्तःपुरे ततस्तस्य स्त्रियो रत्नविभूषिताः॥ हाहाभूता विनिष्क्रान्ताः श्रुत्वा परमदुःखिताः। तासां रुदितशब्देन मन्त्रिभृत्यजनस्य च॥ बभूव सुमहान् नादो मेघगम्भीरनि:स्वनः। निरुद्धं गगनं सर्वं शुभं मेघैः समन्ततः॥ मही प्रचलिता चासीत् तस्य सत्येन कर्मणा। स राजा पार्श्वतश्चैव बाहुभ्यामूरुतश्च यत्॥ तानि मांसानि संच्छिद्य तुलां पूरयतेऽशनैः। तथापि च समस्तेन कपोतेन बभूव ह॥ अस्थिभूतो यदा राजा निर्मासो रुधिरस्रवः। तुलां ततः समारूढः स्वं मांसक्षयमुत्सृजन्॥ ततः सेन्द्रास्त्रयो लोकास्तं नरेन्द्रमुपस्थिताः। भेर्यश्चाकाशगैस्तत्र वादिता देवदुन्दुभिः॥ अमृतेनावसिक्तश्च वृषदर्भो नरेश्वरः। दिव्यैश्च सुसुखैर्माल्यैरभिवृष्टः पुनः पुनः॥ देवगन्धर्वसंघातैरप्सरोभिश्च सर्वतः। नृत्तश्चैवोपगीतश्च पितामह इव प्रभुः॥ हेमप्रसादसम्बाधं मणिकाञ्चनतोरणम्। स वैदूर्यमणिस्तम्भं विमानं समधिष्ठितः॥ स राजर्षिर्गत: स्वर्ग कर्मणा तेन शाश्वतम्। शरणागतेषु चैवं त्वं कुरु सर्वं युधिष्ठिर॥ भक्तानामनुरक्तानामाश्रितानां च रक्षिता। दयावान् सर्वभूतेषु परत्र सुखमेधते॥ साधुवृत्तो हि यो राजा सवृत्तमनुतिष्ठति। किं न प्राप्तं भवेत् तेन सव्याजेनेह कर्मणा॥ स राजर्षेर्विशुद्धात्मा धीरः सत्यपराक्रमः। काशीनामीश्वरः ख्यातस्त्रिषु लोकेषु कर्मणा॥ योऽप्यन्यः कारयेदेवं शरणागतरक्षणम्। सोऽपि गच्छेत तामेव गतिं भरतसत्तमा॥ इदं वृत्तं हि राजर्षेवृषदर्भस्य कीर्तयन्। पूतात्मा वै भवेल्लोके शृणुयाद् यश्च नित्यशः॥ युधिष्ठिर उवाच किं राज्ञः सर्वकृत्यानां गरीयः स्यात् पितामह। कुर्वन् किं कर्म नृपतिरुभौ लोकौ समश्नुते॥ भीष्म उवाच एतद् राज्ञः कृत्यतममभिषिक्तस्य भारत। ब्राह्मणानामनुष्ठानमत्यन्तं सुखमिच्छता॥ कर्तव्यं पार्थिवेन्द्रेण तथैव भरतर्षभ। श्रोत्रियान् ब्राह्मणान् वृद्धान् नित्यमेवाभिपूजयेत्॥ पौरजानपदांश्चापि ब्राह्मणांश्च बहुश्रुतान्। सान्त्वेन भोगदानेन नमस्कारैस्तथार्चयेत्॥ एतत् कृत्यतमं राज्ञो नित्यमेवोपलक्षयेत्। यथाऽऽत्मानं यथा पुत्रांस्तथैतान् प्रतिपालयेत्॥ ये चाप्येषां पूज्यतमास्तान् दृढं प्रतिपूजयेत्। तेषु शान्तेषु तद् राष्ट्र सर्वमेव विराजते॥ ते पूज्यास्ते नमस्कार्या भान्यास्ते पितरो यथा। तेष्वेव यात्रा लोकानां भूतानामिव वासवे॥ अभिचारैरुपायैश्च दहेयुरपि चेतसा। निःशेषं कुपिताः कुर्युरुयाः सत्यपराक्रमाः॥ नान्तमेषां प्रपश्यामि न दिशश्चाप्यपावृताः। कुपिताः समुदीक्षन्ते दावेष्वग्निशिखा इव ॥ बिभ्यत्येषां साहसिका गुणास्तेषामतीव हि। कूपा इव तृणच्छन्ना विशुद्धा द्यौरिवापरे॥ प्रसह्यकारिणः केचित् कार्पासमृदवो परे। सन्ति चैषामतिशठास्तथैवान्ये तपस्विनः॥ कृषिगोरक्ष्यमप्येके भैक्ष्यमन्येऽप्यनुष्ठिताः। चौराश्चान्येऽनृताश्चान्ये तथान्ये नटनर्तकाः॥ सर्वकर्मसहाश्चान्ये पार्थिवेष्वितरेषु च। विविधाकारयुक्ताश्च ब्राह्मणा भरतर्षभ॥ नानाकर्मसु रक्तानां बहुकर्मोपजीविनाम्। धर्मज्ञानां सतां तेषां नित्यमेवानुकीर्तयेत्॥ पितॄणां देवतानां च मनुष्योरगरक्षसाम्। पुराप्येते महाभागा ब्राह्मणा वै जनाधिप॥ नैते देवैर्न पितृभिर्न गन्धर्वैर्न राक्षसैः। नासुरैर्न पिशाचैश्च शक्या जेतुं द्विजातयः॥ अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम्। यमिच्छेयुः स राजा स्याद् यो नेष्टः स पराभवेत्।।१७ परिवादं च ये कुयुर्ब्राह्मणानामचेतसः। सत्यं ब्रवीमि ते राजन् विनश्येयुर्न संशयः॥ निन्दाप्रशंसाकुशलाः कीर्त्यकीर्तिपरायणाः। परिकुप्यति ते राजन् सततं द्विषतां द्विजाः॥ ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते। ब्राह्मणैर्यः पराकृष्टः पराभूयात् क्षणाद्धि सः॥ शका यवनकाम्बोजास्तास्ताः क्षत्रियजातयः। वृषलत्वं परिगता ब्राह्मणानामदर्शनात्॥ द्राविडाश्च कलिङ्गाश्च पुलिन्दाश्चाप्युशीनराः। कोलिसर्पा माहिषकास्तास्ताः क्षत्रियजातयः॥ वृषलत्वं परिगता ब्राह्मणानामदर्शनात्। श्रेयान् पराजयस्तेभ्यो न जयो जयतां वर॥ यस्तु सर्वमिदं हन्याद् ब्राह्मणं च न तत्समम्। ब्रह्मवध्या महान् दोष इत्याहुः परमर्षयः॥ परिवादो द्विजातीनां न श्रोतव्यः कथंचन। आसीताधोमुखस्तूष्णीं समुत्थाय व्रजेच्च वा॥ न स जातोऽजनिष्यद् वा पृथिव्यामिह कश्चन। यो ब्राह्मणविरोधेन सुखं जीवितुमुत्सहेत्॥ दुर्ग्राह्यो मुष्टिना वायुर्दुःस्पर्शः पाणिना शशी। दुर्धरा पृथिवी राजन् दुर्जया ब्राह्मणा भुवि॥ भीष्म उवाच ब्राह्मणानेव सततं भृशं सम्परिपूजयेत्। एते हि सोमराजान ईश्वराः सुखदुःखयोः॥ एते भौगैरलङ्कारैरन्यैश्चैव किमिच्छकैः। सदा पूज्या नमस्कारै रक्ष्याश्च पितृवन्नृपैः॥ ततो राष्ट्रस्य शान्तिर्हि भूतानामिव वासवात्। जायतां ब्रह्मवर्चस्वी राष्ट्रे वै ब्राह्मणः शुचिः॥ महारथश्च राजन्य एष्टव्यः शत्रुतापनः। ब्राह्मणं जातिसम्पन्नं धर्मज्ञं संशितव्रतम्॥ वासयेत गृहे राजन् न तस्मात् परमस्ति वै। ब्राह्मणेभ्यो हविर्दत्तं प्रतिगृह्णन्ति देवताः॥ पितरः सर्वभूतानां नैतेभ्यो विद्यते परम्। आदित्यश्चन्द्रमा वायुरापो भूरम्बरं दिशः॥ सर्वे ब्राह्मणमाविश्य सदानमुपभुञ्जते। न तस्याश्नन्ति पितरो यस्य विप्रा न भुञ्जते॥ देवाश्चाप्यस्य नाश्नन्ति पापस्य ब्राह्मणद्विषः। ब्राह्मणेषु तु तुष्टेषु प्रीयन्ते पितरः सदा॥ तथैव देवता राजन् नात्र कार्या विचारणा। तथैव तेऽपि प्रीयन्ते येषां भवति तद्धविः॥ न च प्रेत्य विनश्यन्ति गच्छन्ति च परां गतिम्। येन येनैव हविषा ब्राह्मणांस्तर्पयेन्नरः॥ तेन तेनैव प्रीयन्ते पितरो देवतास्तथा। ब्राह्मणादेव तद् भूतं प्रभवन्ति यतः प्रजाः॥ यतश्चायं प्रभवति प्रेत्य यत्र च गच्छति। वेदेष मार्ग स्वर्गस्य तथैव नरकस्य च॥ आगतानागते चोभे ब्राह्मणो द्विपदां वरः। ब्राह्मणो भरतश्रेष्ठ स्वधर्मं चैव वेद यः॥ ये चैनमनुवर्तन्ते ते न यान्ति पराभवम्। न ते प्रेत्य विनश्यन्ति गच्छन्ति न पराभवम्॥ यद् ब्राह्मणमुखात् प्राप्तं प्रतिगृह्णन्ति वै वचः। भूतात्मानो महात्मानस्ते न यान्ति पराभवम्॥ क्षत्रियाणां प्रतपतां तेजसा च बलेन च। ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च बलानि च।॥ भृगवस्तालजंघाश्च नीपानाङ्गिरसोऽजयन्। भरद्वाजो वैहतव्यानैलांश्च भरतर्षभ॥ चित्रा युधांश्चाप्यजयन्नेते कृष्णाजिनध्वजाः। प्रक्षिप्याथ च कुम्भान् वै पारगामिनमारभेत्॥ यत् किंचित् कथ्यते लोकेश्रूयते पठ्यतेऽपि वा। सर्वं तद् ब्राह्मणेष्वेव गूढोऽग्निरिव दारुषु॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। संवादं वासुदेवस्य पृथिव्याश्च भरतर्षभ॥ वासुदेव उवाच मातरं सर्वभूतानां पृच्छे त्वां संशयं शुभे। केनस्वित् कर्मणा पापं व्यपोहति नरो गृही॥ पृथ्वी उवाच ब्राह्मणानेव सेवेत पवित्रं ह्येतदुत्तमम्। ब्राह्मणान् सेवमानस्य रजः सर्वं प्रणश्यति। अतो भूतिरतः कीर्तिरतो बुद्धिः प्रजायते॥ महारथश्च राजन्य एष्टव्यः शत्रुतापनः। इति मां नारदः प्राह सततं सर्वभूतये॥ ब्राह्मणं जातिसम्पन्नं धर्मज्ञं संशितं शुचिम्। अपरेषां परेषां च परेभ्यश्चैव येऽपरे॥ ब्राह्मणा यं प्रशंसन्ति स मनुष्यः प्रवर्धते। अथ यो ब्राह्मणान् क्रुष्टः पराभवति सोऽचिरात्॥२५ यथा महार्णवे क्षिप्त आमलोष्टो विनश्यति। तथा दुश्चरितं सर्वं पराभावाय कल्पते॥ पश्य चन्द्रे कृतं लक्ष्म समुद्रो लवणोदकः। तथा भगसहस्रेण महेन्द्रः परिचिह्नितः॥ तेषामेव प्रभावेण सहस्रनयनो ह्यसौ। शतक्रतुः समभवत् पश्य माधव यादृशम्॥ इच्छन् कीर्तिं च भूतिं च लोकांश्च मधुसूदन। ब्राह्मणानुमते तिष्ठेत् पुरुषः शुचिरात्मवान्॥ भीष्म उवाच इत्येतद् वचनं श्रुत्वा मेदिन्या मधुसूदनः। साधु साध्विति कौरव्य मेदिनीं प्रत्यपूजयत्॥ एतां श्रुत्वोपमां पार्थ प्रयतो ब्राह्मणर्षभान्। सततं पूजयेथास्त्वं ततः श्रेयोऽभिपत्स्यसे॥ भीष्म उवाच जन्मनैव महाभागो ब्राह्मणो नाम जायते। नमस्यः सर्वभूतानामतिथिः प्रसृत्ताग्रभुक्॥ सर्वार्थाः सुहृदस्तात ब्राह्मणाः सुमनोमुखाः। गीर्भिर्मङ्गलयुक्ताभिरनुध्यायन्ति पूजिताः॥ सर्वान्नो द्विषतस्तात ब्राह्मणा जातमन्यवः। गीर्भिर्दारुणयुक्ताभिरभिध्यासुरपूजिताः॥ अत्र गाथाः पुरागीताः कीर्तयन्ति पुराविदः। सृष्ट्वा द्विजातीन् धाता हि यथापूर्वं समादधत्॥ न चान्यदिह कर्तव्यं किञ्चिदूर्ध्वं यथाविधि। गुप्तो गोपायते ब्रह्मा श्रेयो वस्तेन शोभनम्॥ स्वमेव कुर्वतां कर्म श्रीर्वा ब्राह्मी भविष्यति। प्रमाणं सर्वभूतानां प्रग्रहाश्च भविष्यथ॥ न शौद्रं कर्म कर्तव्यं ब्राह्मणेन विपश्चिता। शौद्रं हि कुर्वतः कर्म धर्मः समुपस्थ्यते॥ श्रीश्च बुद्धिश्च तेजश्च विभूतिश्च प्रतापिनी। स्वाध्याये चैव माहात्म्यं विपुलं प्रतिपत्स्यते॥ हुत्वा चाहवनीयस्थं महाभाग्ये प्रतिष्ठिताः। अग्रभोज्याः प्रसूतीनां श्रिया ब्राह्मयानुकल्पिताः॥ श्रद्धया परया युक्ता ह्यनभिद्रोहलब्धया। दमस्वाध्यायनिरताः सर्वान् कामानवाप्स्यथ॥ यच्चैव मानुषे लोके यच्च देवेषु किञ्चन। सर्वे तु तपसा साध्यं ज्ञानेन नियमेन च॥ इत्येवं ब्रह्मगीतास्ते समाख्याता मयानघ। विप्राणामनुकम्पार्थं तेन प्रोक्तं हि धीमता॥ भूयस्तेषां बलं मन्ये यथा राज्ञस्तपस्विनः। दुरासदाश्च चण्डाश्च रभसाः क्षिप्रकारिणः॥ सन्त्येषां सिंहसत्त्वाश्च व्याघ्रसत्त्वास्तथापरे। वराहमृगसत्त्वाश्च जलसत्त्वास्तथापरे॥ सर्पस्पर्शसमाः केचित् तथान्ये मकरस्पृशः। विभाष्यघातिनः केचित् तथा चक्षुर्हणोऽपरे॥ सन्ति चाशीविषसमाः सन्ति मन्दास्तथापरे। विविधानीह वृत्तानि ब्राह्मणानां युधिष्ठिर॥ मेकला द्राविडा लाटाः पौण्ड्राः कान्वशिरास्तथा। शौण्डिका दरदा दार्वाश्चौराः शबरबर्बराः॥ किराता यवनाश्चैव तास्ताः क्षत्रियजातयः। वृषलत्वमनुप्राप्ता ब्राह्मणानाममर्षणात्॥ ब्राह्मणानां परिभवादसुराः सलिलेशयाः। ब्राह्मणानां प्रसादाच्च देवाः स्वर्गनिवासिनः॥ अशक्यं स्प्रष्टुमाकाशमचाल्यो हिमवान् गिरिः। अधार्या सेतुना गङ्गा दुर्जया ब्राह्मणा भुवि॥ न ब्राह्मणविरोधेन शक्या शास्तुं वसुन्धरा। ब्राह्मणा हि महात्मानो देवानामपि देवताः॥ तान् पूजयस्व सततं दानेन परिचर्यया। यदीच्छसि महीं भोक्तुमिमां सागरमेखलाम्॥ प्रतिग्रहेण तेजो हि विप्राणां शाम्यतेऽनघ। प्रतिग्रहं ये नेच्छेयुस्तेभ्यो रक्ष्यं त्वया नृप॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। शक्रशम्बरसंवाद तन्निबोध युधिष्ठिर।।।। शको ह्यज्ञातरूपेण जटी भूत्वा रजोगुणः। विरूपं रथमास्थाय प्रश्न पप्रच्छ शम्बरम्॥ शक्र उवाच केन शम्बर वृत्तेन स्वजात्यानधितिष्ठसि। श्रेष्ठं त्वां केन मन्यन्ते तद् वै प्रब्रूहि तत्त्वतः॥ शम्बर उवाच नासूयामि यदा विप्रान् ब्राह्ममेव च मे मतम्। शास्त्राणि वदतो विप्रान् सम्मन्यामि यथासुखम्॥ श्रुत्वा च नावजानामि नापराध्यामि कर्हिचित्। अभ्याभ्यनुपृच्छामि पादौ गृह्णामि धीमताम्॥ ते विश्रब्धाः प्रभाषन्ते सम्पृच्छन्ते च मां सदा। प्रमत्तेष्वप्रमत्तोऽस्मि सदा सुप्तेषु जागृमि॥ ते मां शास्त्रपथे युक्तं ब्रह्मण्यमनसूयकम्। समासिञ्चन्ति शास्तारः क्षौद्रं मध्विव मक्षिकाः॥ यच्च भाषन्ति संतुष्टास्तच्च गृह्णामि मेधया। समाधिमात्मनो नित्यमनुलोममचिन्तयम्॥ सोऽहं वागग्रमृष्टानां रसानामवलेहकः। स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमा:॥ एतत् पृथिव्याममृतमेतच्चक्षुरनुत्तमम्। यद् ब्राह्मणमुखाच्छास्त्रमिह श्रुत्वा प्रवर्तते॥ एतत् कारणमाज्ञाय दृष्ट्वा देवासुरं पुरा। युद्धं पिता मे हृष्टात्मा विस्मितः समपद्यत॥ दृष्ट्वा च ब्राह्मणानां तु महिमानं महात्मनाम्। पर्यपृच्छत् कथममी सिद्धा इति निशाकरम्॥ सोम उवाच ब्राह्मणास्तपसा सर्वे सिध्यन्ते वाग्बलाः सदा। भुजबीर्याश्च राजानो वागस्त्राश्च द्विजातयः॥ प्रणवं चाप्यधीयीत ब्राह्मीर्दुर्वसतीर्वसन्। निर्मन्युरपि निर्वाणो यदि स्यात् समदर्शनः॥ अपि च ज्ञानसम्पन्नः सर्वान् वेदान् पितुर्गुहे। श्लाघमान इवाधीयाद् ग्राम्य इत्येव तं विदुः॥ भूमिरेतौ निगिरति सर्पो बिलशयानिव। राजानं चाप्ययोद्धारं ब्राह्मणं चाप्रवासिनम्॥ अभिमानः श्रियं हन्ति पुरुषस्याल्पमेधसः। गर्भेण दुष्यते कन्या गृहवासेन च द्विजः॥ इत्येतन्मे पिता श्रुत्वा सोमादद्भुतदर्शनात्। ब्राह्मणान् पूजयामास तथैवाहं महाव्रतान॥ भीष्म उवाच श्रुत्वैतद् वचनं शक्रो दाग्वेन्द्रमुखाच्च्युतम्। द्विजान् सम्पूजयामास महेन्द्रत्वमवाप च ॥ युधिष्ठिर उवाच अपूर्वश्च भवेत् पात्रमथवापि चिरोषितः। दूरादभ्यागतं चापि किं पात्रं स्यात् पितामह॥ भीष्म उवाच क्रिया भवति केषांचिदुपांशुव्रतमुत्तमम्। यो यो याचेत यत् किञ्चित् सर्वं दद्याम इत्यपि॥ अपीडयन् भृत्यवर्गमित्येवमनुशुश्रुम। पीडयन् भृत्यवर्गं हि आत्मानमपकर्षति॥ अपूर्वं भावयेत् पात्रं यच्चापि स्याच्चिरोषितम्। दूरादभ्यागतं चापि तत्पात्रं च विदुर्बुधाः॥ युधिष्ठिर उवाच अपीडया च भूतानां धर्मस्याहिंसया तथा। पात्रं विद्यात् तु तत्त्वेन यस्मै दत्तं न संतपेत्॥ भीष्म उवाच ऋत्विक् पुरोहिताचार्याः शिष्यसम्बन्धिबान्धवाः। सर्वे पूज्याश्च मान्याश्च श्रुतवन्तोऽनसूयकाः॥ अतोऽन्यथा वर्तमानाः सर्वे नार्हन्ति सत्क्रियाम्। तस्मान्नित्यं परीक्षेत पुरुषान् प्रणिधाय वै॥ अक्रोधः सत्यवचनमहिंसा दम आर्जवम्। अद्रोहोऽनभिमानश्च ह्रीस्तितिक्षा दमः शमः॥ यस्मिन्नेतानि दृश्यन्ते न चाकार्याणि भारत। स्वभावतो निविष्टानि तत्पात्रं मानमर्हति॥ तथा चिरोषितं चापि सम्प्रत्यागतमेव च। अपूर्वं चैव पूर्वं च तत्पात्रं मानमर्हति॥ अव्यवस्था च वेदानां शास्त्राणां चाभिलङ्घनम्। अव्यवस्था च सर्वत्र एतान्नाशनमात्मनः॥ भवेत् पण्डितमानी यो ब्राह्मणो वेदनिन्दकः। आन्वीक्षिकी तर्कविद्यामनुरक्तो निरर्थिकाम्॥ हेतुवादान् ब्रुवन् सत्सु विजेताहेतुवादिकः। आक्रोष्टा चातिवक्ता च ब्राह्मणानां सदैव हि॥ सर्वाभिशङ्की मूढच बालः कटुकवागपि। बोद्धव्यस्तादृशस्तात नरं श्वानं हि तं विदुः॥ यथा श्वा भषितुं चैव हन्तुं चैवावसज्जते। एवं सम्भाषणार्थाय सर्वशास्त्रवधाय च॥ लोकयात्रा च द्रष्टव्या धर्मश्चात्महितानि च। एवं नरो वर्तमानः शाश्वतीर्घते समाः॥ ऋणमुन्मुच्य देवानामृषीणां च तथैव च। पितॄणामथ विप्राणामतिथीनां च पञ्चमम्॥ पर्यायेण विशुद्धेन सुविनीतेन कर्मणा। एवं गृहस्थ: कर्माणि कुर्वन् धर्मान्न हीयते॥ युधिष्ठिर उवाच स्त्रीणां स्वभावमिच्छामि श्रोतुं भरतसत्तम। स्त्रियो हि मूलं दोषाणां लघुचित्ता हि ताः स्मृताः॥१ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। नारदस्य च संवादं पुंश्चल्या पञ्चचूडया॥ लोकाननुचरन् सर्वान् देवर्षिर्नारदः पुरा। ददर्शाप्सरसं ब्राह्मीं पञ्चचूडामनिन्दिताम्॥ तां दृष्ट्वा चारुसर्वाङ्गी पप्रच्छाप्सरसं मुनिः। संशयो हृदि कश्चिन्मे ब्रूहि तन्मे सुनध्यमे॥ भीष्म उवाच एवमुक्ताथ सा विप्रं प्रत्युवाचाथ नारदम्। विषये सति वक्ष्यामि समर्थे मन्यसे च माम्॥ नारद उवाच न त्वामविषये भद्रे नियोक्ष्यामि कथंचन। स्त्रीणां स्वभावमिच्छामि त्वत्तः श्रोतुं वरानने॥ भीष्म उवाच एतच्छ्रुत्वा वचस्तस्य देवर्षेरप्सरोत्तमा। प्रत्युवाच न शक्ष्यामि स्त्री सती निन्दितुं स्त्रियः॥ विदितास्ते स्त्रियो याश्च यादृशाश्च स्वभावतः। न मामर्हसि देवर्षे नियोक्तुं कार्य ईदृशे॥ तामुवाच स देवर्षिः सत्यं वद सुमध्यमे। मृषावादे भवेद् दोषः सत्ये दोषो न विद्यते॥ इत्युक्ता सा कृतमतिरभवच्चारुहासिनी। स्त्रीदोषाञ्छाश्वतान् सत्यान् भाषितुं सम्प्रचक्रमे॥ पञ्चचूड़ उवाच कुलीना रूपवत्यश्च नाथवत्यश्च योषितः। मर्यादासु न तिष्ठन्ति स दोषः स्त्रीषु नारद॥ न स्त्रीभ्यः किञ्चिदन्यद् वै पापीयस्तरमस्ति वै। स्त्रियो हि मूलं दोषाणां तथा त्वमपि वेत्थ ह॥ समाज्ञातानृद्धिमतः प्रतिरूपान् वशे स्थितान्। पतीनन्तरमासाद्य नालं नार्यः प्रतीक्षितुम्॥ असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो। पापीयसो नरान् यद् वै लज्जां त्यक्त्वा भजामहे॥१४ स्त्रियं हि यः प्रार्थयते संनिकर्ष च गच्छति। ईषच्च कुरुते सेवां तमेवेच्छन्ति योषितः॥ अनर्थित्वान्मनुष्याणां भयात् परिजनस्य च। मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु॥ नासां कश्चिदगम्योऽस्ति नासां वयसि निश्चयः। विरूपं रूपवन्तं वा पुमानित्येव भुजते॥ न भयान्नाप्यनुक्रोशान्नार्थहेतोः कथंचन। न ज्ञातिकुलसम्बन्धात् स्त्रियस्तिष्ठन्ति भर्तृषु॥ यौवने वर्तमानानां मृष्टाभरणवाससाम्। नारीणां स्वैरवृत्तीनां स्पृहयन्ति कुलस्त्रियः॥ याश्च शश्वद् बहुमता रक्ष्यन्ते दयिताः स्त्रियः। अपि ताः सम्प्रसज्जन्ते कुब्जान्धजडवामनैः॥ पङ्गुष्वथ च देवर्षे ये चान्ये कुत्सिता नराः। स्त्रीणामगम्यो लोकेऽस्मिन् नास्ति कश्चिन्महामुने।।२१ यदि पुंसां गतिर्ब्रह्मन् कथंचित्रोपपद्यते। अप्यन्योन्यं प्रवर्तन्ते न हि तिष्ठन्ति भर्तृषु॥ अलाभात् पुरुषाणां हि भयात् परिजनस्य च। वधबन्धभयाच्चापि स्वयं गुप्ता भवन्ति ताः॥ चलस्वभावा दुःसेव्या दुर्गाह्या भावतस्तथा। प्राज्ञस्य पुरुषस्येह यथा वाचस्तथा स्त्रियः॥ नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः। नान्तकः सर्वभूतानां न पुंसां वामलोचनाः॥ इदमन्यच्च देवर्षे रहस्यं सर्वयोषिताम्। दृष्ट्वैव पुरुषं हृद्यं योनिः प्रक्लिद्यते स्त्रियाः॥ कामानामपि दातारं कर्तारं मनसां प्रियम्। रक्षितारं न मृष्यन्ति स्वभतार्रमलं स्त्रियः॥ न कामभोगान् विपुलान् नालंकारान् न संश्रयान्। तथैव बहु मन्यन्ते यथा रत्यामनुग्रहम्॥ अन्तकः पवनो मृत्युः पातालं वडवामुखम्। क्षुरधारा विषं सर्पो वह्निरित्येकत: स्त्रियः॥ यतश्च भूतानि महान्ति पञ्च यतश्च लोका विहिता विधात्रा। स्तदैव दोषाः प्रमदासु नारद॥ युधिष्ठिर उवाच इमे वै मानवा लोके स्त्रीषु सज्जन्त्यभीक्ष्णशः। मोहेन परमाविष्टा देवसृष्टेन पार्थिव॥ स्त्रियश्च पुरुषेष्वेव प्रत्यक्षं लोकसाक्षिकम्। अत्र मे संशयस्तीवो हृदि सम्परिवर्तते।॥ कथमासां नराः सङ्गं कुर्वते कुरुनन्दन। स्त्रियो वा केषु रज्यन्ते विरज्यन्ते च ताः पुनः॥ इति ताः पुरुषव्याघ्र कथं शक्यास्तु रक्षितुम्। प्रमदाः पुरुषेणेह तन्मे व्याख्यातुमर्हसि॥ एता हि रममाणास्तु वञ्चयन्तीह मानवान्। न चासां मुच्यते कश्चित् पुरुषो हस्तमागतः॥ गावो नवतृणानीव गृह्णन्त्येता नवं नवम्। शम्बरस्य च या माया माया या नमुचेरपि॥ बलेः कुम्भीनसेश्चैव सर्वास्ता योषितो विदुः। हसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्ति च॥ अप्रियं प्रियवाक्यैश्च गृह्णते कालयोगतः। उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः॥ स्त्रीबुद्ध्या न विशिष्येत नास्तु रक्ष्याः कथं नरैः। अनृतं सत्यमित्याहुः सत्यं चापि तथानृतम्॥ इति यास्ताः कथं वीर संरक्ष्याः पुरुषैरिह। स्त्रीणां बुद्ध्यर्थनिष्कर्षादर्थशास्त्राणि शत्रुहन्॥ बृहस्पतिप्रभृतिभिर्मन्ये सद्भिः कृतानि वै। सम्पूज्यमानाः पुरुषैर्विकुर्वन्ति मनो नृप॥ अपास्ताश्च तथा राजन् विकुर्वन्ति मनः स्त्रियः। इमाः प्रजा महाबाहो धार्मिक्य इति नः श्रुतम्॥ सत्कृतासत्कृताश्चापि विकुर्वन्ति मनः सदा। कस्ताः शक्तो रक्षितुं स्यादिति मे संशयो महान्।।१३ तथा ब्रूहि महाभाग कुरूणां वंशवर्धन। यदि शक्या कुरुश्रेष्ठ रक्षा तासां कदाचन। कर्तुं वा कृतपूर्वं वा तन्मे व्याख्यातुमर्हसि॥ भीष्म उवाच एवमेव महाबाहो नात्र मिथ्यास्ति किंचन। यथा ब्रवीषि कौरव्य नारी प्रति जनाधिप॥ अत्र ते वर्तयिष्यामि इतिहासं पुरातनम्। यथा रक्षा कृता पूर्वं विपुलेन महात्मना॥ प्रमदाश्च यथा सृष्टा ब्रह्मणा भरतर्षभ। यदर्थं तच्च ते तात प्रवक्ष्यामि नराधिप।॥ न हि स्त्रीभ्यः परं पुत्र पापीयः किंचिदस्ति वै। अग्निर्हि प्रमदा दीप्तो मायाश्च मयजा विभो॥ क्षुरधारा विषं सर्पो वह्रिरित्येकतः स्त्रियः। प्रजा इमा महाबाहो धार्मिक्य इति नः श्रुतम्॥ स्वयं गच्छन्ति देवत्वं ततो देवानियाद् भयम्। अथाभ्यगच्छन् देवास्ते पितामहमरिंदम॥ निवेद्य मानसं चापि तूष्णीमासन्नधोमुखाः। तेषामन्तर्गतं ज्ञात्वा देवानां स पितामहः॥ मानवानां प्रमोहार्थे कृत्या नार्योऽसृजत् प्रभुः। पूर्वसर्गे तु कौन्तेय साध्व्यो नार्य इहाभवन्॥ असाध्व्यस्तु समुत्पन्नाः कृत्याः सर्गात् प्रजापतेः। ताभ्यः कामान् यथाकामं प्रादाद्धि स पितामहः॥ ताः कामलुब्धाः प्रमदाः प्रबाधन्ते नरान् सदा। क्रोधं कामस्य देवेशः सहायं चासृजत् प्रभुः॥ असज्जन्त प्रजाः सर्वाः कामक्रोधवशं गताः। न च स्त्रीणां क्रियाः काश्चिदिति धर्मो व्यवस्थितः।।११ निरिन्द्रिया ह्यशास्त्राश्च स्त्रियोऽनृतमिति श्रुतिः। शय्यासनमलंकारमन्नपानमनार्यताम्॥ दुर्वाग्भावं रतिं चैव ददौ स्त्रीभ्यः प्रजापतिः। न तासां रक्षणं शक्यं कर्तुं पुंसा कथंचन॥ अपि विश्वकृता तात कुतस्तु पुरुषैरिह। वाचा च वधबन्धैर्वा क्लेशैर्वा विविधैस्तथा॥ न शक्या रक्षितुं नार्यस्ता हि नित्यमसंयताः। इदं तु पुरुषव्याघ्र पुरस्ताच्छुतवानहम्॥ यथा रक्षा कृता पूर्वं विपुलेन गुरुस्त्रियाः। ऋषिरासीन्महाभागो देवशर्मेति विश्रुतः॥ तस्य भार्या रुचिर्नाम रूपेणासदृशी भुवि। तस्या रूपेण सम्मत्ता देवगन्धर्वदानवाः॥ विशेषेण तु राजेन्द्र वृत्रहा पाकशासनः। नारीणां चरितज्ञश्च देवशर्मा महामुनिः॥ यथाशक्ति यथोत्साहं भार्यां तामभ्यरक्षत। पुरन्दरं च जानीते परस्त्रीकामचारिणम्॥ तस्माद् बलेन भार्याया रक्षणं स चकार ह। स कदाचिदृषिस्तात यज्ञं कर्तुमनास्तदा॥ भार्यासंरक्षणं कार्यं कथं स्यादित्यचिन्तयत्। रक्षाविधानं मनसा स संचिन्त्य महातपाः॥ आहूय दयितं शिष्यं विपुलं प्राह भार्गवम्। देवशर्मन् उवाच यज्ञकारो गमिष्यामि रुचिं चेमां सुरेश्वरः॥ यतः प्रार्थयते नित्यं तां रक्षस्व यथाबलम्। अप्रमत्तेन ते भाव्यं सदा प्रति पुरन्दरम॥ स हि रूपाणि कुरुते विविधानि भृगूत्तम। भीष्म उवाच इत्युक्तो विपुलस्तेन तपस्वी नियतेन्द्रियः॥ सदैवोग्रतपा राजन्नग्न्यर्कसदृशद्युतिः। धर्मज्ञः सत्यवादी च तथेति प्रत्यभाषत। पुनश्चेदं महाराज पप्रच्छ प्रस्थितं गुरुम्॥ विपुल उवाच कानि रूपाणि शक्रस्य भवन्त्यागच्छतो मुने। वपुस्तेजश्च कीदृग्वै तन्मे व्याख्यातुमर्हसि॥ भीष्म उवाच ततः स भगवांस्तस्मै विपुलाय महात्मने। आचचक्षे यथातत्त्वं मायां शक्रस्य भारत।॥ देवशर्मन् उवाच बहुमायः स विप्रर्षे भगवान् पाकशासनः। तांस्तान् विकुरुते भावान् बहूनथ मुहुर्मुहुः॥ किरीटी वज्रधृग् धन्वी मुकुटी बद्धकुण्डलः॥ भवत्यथ मुहूर्तेन चण्डालसमदर्शनः। शिखी जटी चीरवासाः पुनर्भवति पुत्रक॥ बृहच्छरीश्च पुनश्चीरवासाः पुनः कृशः। गौरं श्यामं च कृष्णं च वर्णं विकुरुते पुनः॥ विरूपो रूपवांश्चैव युवा वृद्धस्तथैव च। ब्राह्मणः क्षत्रियश्चैव वैश्यः शूद्रस्तथैव च॥ प्रतिलोमोऽनुलोमश्च भवत्यथ शतक्रतुः। शुकवायसरूपी च हंसकोकिलरूपवान्॥ सिंहव्याघ्रगजानां च रूपं धारयते पुनः। दैवं दैत्यमथो राज्ञां वपुर्धारयतेऽपि च॥ अकृशो वायुभग्नाङ्गः शकुनिर्विकृतस्ताया। चतुष्पाद् बहुरूपश्च पुनर्भवति बालिशः॥ मक्षिकामशकादीनां वपुर्धारयतेऽपि च। न शक्यमस्य ग्रहणं कर्तुं विपुल केनचित्॥ अपि विश्वकृता तात येन सृष्टमिदं जगत्। पुनरन्तर्हितः शक्रो दृश्यते ज्ञानचक्षुषा॥ वायुभूतश्च स पुनर्देवराजो भवत्युत। एवं रूपाणि सततं कुरुते पाकशासनः॥ तस्माद् विपुल यत्नेन रक्षेमां तनुमध्यमाम्। यथा रुचिं नावलिहेद् देवेन्द्रो भृगुसत्तम॥ क्रतावुपहिते न्यस्तं हविः श्वेव दुरात्मवान्। एवमाख्याय च मुनिर्यज्ञकारोऽगमत् तदा॥ देवशर्मा महाभागस्ततो भरतसत्तम। विपुलस्तु वचः श्रुत्वा गुरोश्चिन्तामुपेयिवान्॥ रक्षां च परमां चक्रे देवराजान्महाबलात्। किं नु शक्यं मया कुर्ते गुरुदाराभिरक्षणे॥ मायावा हि सुरेन्द्रोऽसौ दुर्धर्षश्चापि वीर्यवान्। नापिधायाश्रमं शक्यो रक्षितुं पाकशासनः॥ उटजं वा तथा ह्यस्य नानाविधसरूपता। वायुरूपेण वा शक्रो गुरुपत्नी प्रधर्षयेत्॥ तस्मादिमां सम्प्रविश्य रुचिं स्थास्येऽहमद्य वै। अथवा पौरुषेणेयं न शक्या रक्षितुं मया॥ बहुरूपो हि भगवाञ्छूयते पाकशासनः। सोऽहं योगबलादेनां रक्षिष्ये पाकशासनात्॥ गात्राणि गात्रैरस्याहं सम्प्रवेक्ष्ये हि रक्षितुम्। यधुच्छिष्टामिमां पत्नीमद्य पश्यति मे गुरुः॥ शप्स्यत्यसंशयं कोपाद् दिव्यज्ञानो महातपाः। न चेयं रक्षितुं शक्या यथान्या प्रमदा नृभिः॥ मायावी हि सुरेन्द्रोऽसावहो प्राप्तोऽस्मि संशयम्। अवश्यं करणीयं हि गुरोरिह हि शासनम्॥ यदि त्वेतदहं कुर्यामाश्चर्ये स्यात् कृतं मया। योगेनाथ प्रवेशो हि गुरुपल्याः कलेवरे॥५ एवमेव शरीरेऽस्या निवत्स्यामि समाहितः। असक्तः पद्मपत्रस्थो जलबिन्दुर्यथाचलः॥ निर्मुक्तस्य रजोरूपान्नापराधो भवेन्मम। यथा हि शून्यां पथिकः सभामध्यावसेत् पथि॥ तथाद्यावासयिष्यामि गुरुपत्न्याः कलेवरम् एवमेव शरीरेऽस्या निवत्स्यामि समाहितः॥ इत्येवं धर्ममालोक्य वेदवेदांश्च सर्वशः। तपश्च विपुलं दृष्ट्वा गुरोरात्मन एव च।॥ इति निश्चित्य मनसा रक्षां प्रति स भार्गवः। अन्वतिष्ठत् परं यत्नं यथा तच्छृणु पार्थिव॥ गुरुपत्नीं समासीनो विपुलः स महातपाः। उपासीनामनिन्द्यागी कथाभिः समलोभयत्॥ नेत्राभ्यां नेत्रयोरस्या रशिंम संयोज्य रश्मिभिः। विवेश विपुलः कायमाकाशं पवनो यथा॥ लक्षणं लक्षणेनैव वदनं वदनेन च। अविचेष्टन्नतिष्ठद् वै छायेवान्तहितो मुनिः॥ ततो विष्टभ्य विपुलो गुरुपल्याः कलेवरम्। उवास रक्षणे युक्तो न च सा तमबुद्ध्यता॥ यं कालं नागतो राजन् गुरुस्तस्य महात्मनः। क्रतुं समाप्य स्वगृहं तं कालं सोऽभ्यरक्षत॥ भीष्म उवाच ततः कदाचिद् देवेन्द्रो दिव्यरूपवपुर्धरः। इदमन्तरमित्येवमभ्यगात् तमथाश्रमम्॥ रूपमप्रतिमं कृत्वा लोभनीयं जनाधिप। दर्शनीयतमो भूत्वा प्रविवेश तमाश्रमम्॥ स ददर्श तमासीनं विपुलस्य कलेवरम्। निश्चेष्टं स्तब्धनयनं यथा लेख्यगतं तथा॥ रुचिं च रुचिरापाङ्गी पीनश्रोणिपयोधराम्। पद्मपत्रविशालाक्षीं सम्पूर्णेन्दुनिभाननाम्॥ सा तमालोक्य सहसा प्रत्युत्थातुमियेष ह। रूपेण विस्मिता कोऽसीत्यथ वक्तुमिवेच्छती॥ उत्थातुकामा तु सती विष्टब्धा विपुलेन सा। निगृहीता मनुष्येन्द्र न शशाक विचेष्टितुम्॥ तामाबभाषे देवेन्द्रः साम्ना परमवल्गुना। त्वदर्थमागतं विद्धि देवेन्द्रं मां शुचिस्मिते॥ क्लिश् मानमनङ्गेन त्वत्संकल्पभवेन ह। तत् सम्प्राप्तं हि मां सुभु पुरा कालोऽतिवर्तते॥ तमेवंवादिनं शक्रं शुश्राव विपुलो मुनिः। गुरुपल्ल्याः शरीरस्थो ददर्श त्रिदशाधिपम्॥ न शशाक च सा राजन् प्रत्युत्थातुमनिन्दिता। वक्तुं च नाशकद् राजन् विष्टब्धा विपुलेन सा॥ आकारं गुरुपत्यास्तु स विज्ञाय भृगूद्वहः। निजग्राह महातेजा योगेन बलबत् प्रभो॥ बबन्ध योगबन्धैश्च तस्याः सर्वेन्द्रियाणि सः। तां निर्विकारां दृष्ट्वा तु पुनरेव शचीपतिः॥ उवाच वीडितो राजस्तां योगबलमोहिताम्। एह्येहीति ततः सा तु प्रतिवक्तुमियेष तम्॥ स तां वाचं गुरोः पत्न्या विपुलः पर्यवर्तयत्। भो: किमागमने कृत्यमिति तस्यास्तु निःसृता॥ वक्त्राच्छशाङ्कसदृशाद् वाणी संस्कारभूषणा। वीडिता सा तु तद्वाक्यमुक्त्वा परवशा तदा॥ पुरन्दरश्च तत्रस्थो बभूव विमना भृशम्। स तद्वैकृतमालक्ष्य देवराजो विशाम्पते॥ अवैक्षत सहस्राक्षस्तदा दिव्येन चक्षुषा। स ददर्श मुनिं तस्याः शरीरान्तरगोचरम्॥ प्रतिबिम्बमिवादशे गुरुपल्याः शरीरगम्। स तं घोरेण तपसा युक्तं दृष्ट्वा पुरन्दरः॥ प्रावेपत सुसंत्रस्तः शापभीतस्तदा विभो। विमुच्य गुरुपत्नीं तु विपुलः सुमहातपाः। स्वकलेवरमाविश्य शक्रं भीतमथाब्रवीत्॥ विपुल उवाच अजितेन्द्रिय दुर्बुद्धे पापात्मक पुरन्दर। न चिरं पूजयिष्यन्ति देवास्त्वां मानुषास्तथा॥ किं तु तद्विस्मृतं शक न तन्मनसि ते स्थितम्। गौतमेनासि यन्मुक्तो भगाङ्कपरिचिह्नितः॥ जाने त्वां बालिशमतिमकृतात्मानमस्थिरम्। मयेयं रक्ष्यते मूढ गच्छ पाप यथागतम्॥ नाहं त्वामद्य मूढात्मन् दहेयं हि स्वतेजसा। कृपायमानस्तु न ते दग्धुमिच्छामि वासव॥ स च घोरतमो धीमान् गुरुस्त्वं पापचेतसम्। दृष्ट्वा त्वां निर्दहेदद्य क्रोधदीप्तेन चक्षुषा॥ नैवं तु शक्र कर्तव्यं पुनर्मान्याच ते द्विजाः। मा गम: ससुतामात्यः क्षयं ब्रह्मबलार्दितः॥ अमरोऽस्मीति यबुद्धि समास्थाय प्रवर्तसे। मावमंस्था न तपसा नसाध्यं नाम किंचन॥ भीष्म उवाच तच्छुत्वा वचनं शक्रो विपुलस्य महात्मनः। अकिंचिदुक्त्वा व्रीडार्तस्तत्रैवान्तरधीयत॥ मुहूर्तयाते तस्मिंस्तु देवशर्मा महातपाः। कृत्वा यज्ञं यथाकाममाजगाम स्वमाश्रमम्॥ आगतेऽथ गुरौ राजन् विपुल: प्रियकर्मकृत्। रक्षितां गुरवे भार्यां न्यवेदयदनिन्दिताम्॥ अभिवाद्य च शान्तात्मा स गुरुं गुरुवत्सलः। विपुलः पर्युपातिष्ठद् यथापूर्वमशङ्कितः॥ विश्रान्ताय ततस्तस्मै सहासीनाय भार्यया। निवेदयामास तदा विपुलः शक्रकर्म तत्॥ तच्छुत्वा स मुनिस्तुष्टो विपुलस्य प्रतापवान्। बभूव शीलवृत्ताभ्यां तपसा नियमेन च॥ वियुलस्य गुरौ वृत्तिं भक्तिमात्मनि तत्प्रभुः। धर्म च स्थिरतां दृष्ट्वा साधु साध्वित्यभाषत।॥ प्रतिलभ्य च धर्मात्मा शिष्यं धर्मपरायणम्। वरेणच्छन्दयामास देवशर्मा महामतिः॥ स्थितिं च धर्मे जग्राह स तस्माद् गुरुवत्सलः। अनुज्ञातश्च गुरुणा चचारानुत्तमं तपः॥ तथैव देवशर्मापि सभार्यः स महातपाः। निर्भयो बलवृत्रमाच्चचार विजने वने।॥ भीष्म उवाच विपुलस्त्वकरोत् तीव्र तपः कृत्वा गुरोर्वचः। तपोयुक्तमथात्मानममन्यत स वीर्यवान्॥ स तेन कर्मणा स्पर्धन् पृथिवीं पृथिवीपते। चचार गतभीः प्रीतो लब्धकीतिवरो नृप॥ उभौ लोकौ जितौ चापि तथैवामन्यत प्रभुः। कर्मणा तेन कौरव्य तपसा विपुलेन च॥ अथ काले व्यतिक्रान्ते कस्मिंश्चित् कुरुनन्दन। रुच्या भगिन्या आदान प्रभूतधनधान्यवत्॥ एतस्मिन्नेव काले तु दिव्या काचिद् वराङ्गना। बिभ्रती परमं रूपं जगामाथ विहायसा॥ तस्याः शरीरात् पुष्पाणि पतितानि महीतले। तस्याश्रमस्याविदूरे दिव्यगन्धानि भारत॥ तान्यगृह्णात् ततो राजन् रुचिर्ललितलोचना। तदा निमन्त्रकस्तस्या अङ्गेभ्यः क्षिप्रमागमत्॥ तस्या हि भगिनी तात ज्येष्ठा नाम्ना प्रभावती। भार्या चित्ररथस्याथ बभूवाङ्गेश्वरस्य वै॥ पिनह्य तानि पुष्पाणि केशेषु वरर्णिनी। आमन्त्रिता ततोऽगच्छद् रुचिरङ्गपतेर्गृहम्॥ पुष्पाणि तानि दृष्ट्वा तु तदाङ्गेन्द्रवराङ्गना। भगिनी चोदयामास पुष्पार्थे चारुलोचना॥ सा भत्रे सर्वमाचष्ट रुचिः सुरुचिरानना। भगिन्या भाषितं सर्वमृषिस्तच्चाभ्यनन्दत॥ ततो विपुलमानाय्य देवशर्मा महातपाः। पुष्पार्थे चोदयामास गच्छ गच्छेति भारत॥ विपुलस्तु गुरोर्वाक्यमविचार्य महातपाः। स तथेत्यब्रवीद् राजंस्तं च देशं जगाम ह॥ यस्मिन् देशे तु तान्यासन् पतितानि नभस्तलात्। अम्लानान्यपि तत्रासन् कुसुमान्यपराण्यपि॥ स ततस्तानि जग्राह दिव्यानि रुचिराणि च। प्राप्तानि स्वेन तापसा दिव्यगन्धानि भारत॥ सम्प्राप्य तानि प्रीतात्मा गुरोर्वचनकारकः। तदा जगाम तूर्णं च चम्पां चम्पकमालिनीम्॥ स वने निर्जने तात ददर्श मिथुनं नृणाम्। चक्रवत् परिवर्तन्तं गृहीत्वा पाणिना करम्॥ तत्रैकस्तूर्णमगमत् तत्पदे च विवर्तयन्। एकस्तु न तदा राजश्चक्रतुः कलहं ततः॥ त्वं शीघ्रं गच्छसीत्येकोऽब्रवीन्नेति तथा परः। नेति नेति च तौ राजन् परस्परमथोचतुः॥ तयोर्विस्पर्धतोरेवं शपथोऽयमभूत् तदा। सहसोद्दिश्य विपलुं ततो वाक्यमथोचतुः॥ आवयोरनृतं प्राह यस्तस्याभूद् द्विजस्य वै। विपुलस्य परे लोके या गतिः सा भवेदिति॥ एतच्छ्रुत्वा तु विपुलो विषण्णवदनोऽभवत्। एवं तीव्रतापाश्चाहं कष्टश्चायं परिश्रमः॥ मिथुनस्यास्य किं मे स्यात् कृतं पापं यथा गतिः। अनिष्टा सर्वभूतानां कीर्तितानेन मेऽद्य वै॥ एवं संचिन्तयन्नेव विपुलो राजसत्तम। अवाङ्मुखो दीनमना दध्यौ दुष्कृतमात्मनः॥ ततः षडन्यान् पुरुषानक्षैः काञ्चनराजतैः। अपश्यद् दीव्यमानान् वै लोभहर्षान्वितांस्तथा॥ कुर्वतः शपथं तेन यः कृतो मिथुनेन तु। विपुलं वै समुद्दिश्य तेऽपि वाक्यमथाब्रुवन्॥ लोभमास्थाय योऽस्माकं विषमं कर्तुमुत्सहेत्। विपुलस्य परे लोके या गतिस्तामवाप्नुयात्॥ एतच्छुत्वा तु विपुलो नापश्यद् धर्मसंकरम्। जन्मप्रभृति कौरव्य कृतपूर्वमथात्मनः॥ सम्प्रदध्यौ तथा राजन्नग्नावग्निरिवाहितः। दह्यमानेन मनसा शापं श्रुत्वा तथाविधम्॥ तस्य चिन्तयतस्तात बढ्यो दिननिशा ययुः। इदमासीन्मनसि स रुच्या रक्षणकारितम्॥ लक्षणं लक्षणेनैव वदनं वदनेन च। विधाय न मया चोक्तं सत्यमेतद् गुरोस्तथा॥ एतदात्मनि कौरव्य दुष्कृतं विपुलस्तदा। अमन्यत महाभाग तथा तच्च न संशयः॥ स चम्पां नगरीमेत्य पुष्पाणि गुरवे ददौ। पूजयामास च गुरुं विधिवत् स गुरुप्रियः॥ भीष्म उवाच तमागतमभिप्रेक्ष्य शिष्यं वाक्यमथाब्रवीत्। देवशर्मा महातेजा यत् तच्छृणु जनाधिप॥ देवशर्मन् उवाच किं ते विपुल दृष्टं वै तस्मिन् शिष्य महावने। ते त्वां जानन्ति विपुल आत्मा च रुचिरेव च॥ विपुल उवाच ब्रह्मर्षे मिथुनं किं तत् के च ते पुरुषा विभो। ये मां जानन्ति तत्त्वेन यन्मां त्वं परिपृच्छसि।॥ देवशर्मन् उवाच यद् वै तन्मिथुनं ब्रह्मन्नहोरात्रं हि विद्धि तत्। चक्रवत् परिवर्तेत तत् ते जानाति दुष्कृतम्॥ ये च ते पुरुषा विप्र अक्षैर्दीव्यन्ति हृष्टवत्। ऋतूंस्तानभिजानीहि ते ते जानन्ति दुष्कृतम्॥ न मां कश्चिद् विजानीत इति कृत्वा न विश्वसेत्। नरो रहसि पापात्मा पापकं कर्म वै द्विज॥ कुर्वाणं हि नरं कर्म पापं रहसि सर्वदा। पश्यन्ति ऋतवश्चापि तथा दिननिशेऽप्युत॥ तथैव हि भवेयुस्ते लोकाः पापकृतो यथा। कृत्वा नाचक्षतः कर्म मम तच्च यथाकृतम्॥ ते त्वां हर्षस्मितं दृष्ट्वा गुरोः कर्मानिवेदकम्। स्मारयन्तस्तथा प्राहुस्ते यथा श्रुतवान् भवान्॥ अहोरात्रं विजानाति ऋतवश्चापि नित्यशः। पुरुषे पापकं कर्म शुभं वा शुभकर्मिणः॥ तत् त्वया मम यत् कर्म व्यभिचाराद् भयात्मकम्। नाख्यातमिति जानन्तस्ते त्वामाहुस्तथा द्विज॥ तेनैव हि भवेयुस्ते लोकाः पापकृतो यथा। कृत्वा नाचक्षत: कर्म मम यच्च त्वया कृतम्॥ त्वयाशक्या च दुर्वृत्त्या रक्षितुं प्रमदा द्विजा न च त्वं कृतवान् किंचिदतः प्रीतोऽस्मि तेन ते॥ यदि त्वहं त्वां दुर्वृत्तमद्राक्षं द्विजसत्तम। शपेयं त्वामहं क्रोधान्न मेऽत्रास्ति विचारणा॥ सज्जन्ति पुरुषे नार्य:पुंसां सोऽर्थश्च पुष्कलः। अन्यथारक्षतः शापोऽभविष्यत् ते मतिश्च मे॥ रक्षिता च त्वया पुत्र मम चापि निवेदिता। अहं ते प्रीतिमांस्तात स्वस्थः स्वर्गं गमिष्यसि॥ इत्युक्त्वा विपुलं प्रीतो देवशर्मा महानृषिः। मुमोद स्वर्गमास्थाय सहभार्यः सशिष्यकः॥ इदमाख्यातवांश्चापि ममाख्यानं महामुनिः। मार्कण्डेयः पुरा राजन् गङ्गाकूले कथान्तरे॥ तस्माद् ब्रवीमि पार्थ त्वां स्त्रियो रक्ष्याः सदैव च। उभयं दृश्यते तासु सततं साध्वसाधु च॥ स्त्रियः साध्व्यो महाभागाः सम्मता लोकमातरः। धारयन्ति महीं राजन्निमां सवनकाननाम्॥ असाध्व्यश्चापि दुर्वृत्ताः कुलनाः पापनिश्चयाः। विज्ञेया लक्षणैर्दुष्टैः स्वगात्रसहजैर्नृप॥ एवमेतासु रक्षा वै शक्या कर्तुं महात्मभिः। अन्यथा राजशार्दूल न शक्या रक्षितुं स्त्रियः॥ एता हि मनुजव्याघ्र तीक्ष्णास्तीक्ष्णपराक्रमाः। नासामस्ति प्रियो नाम मैथुने सङ्गमेति यः॥ एताः कृत्याश्च कार्याश्च कृताश्च भरतर्षभ। न चैकस्मिन् रमन्त्येताः पुरुषे पाण्डुनन्दन॥ नासां स्नेहो नरैः कार्यस्तथैवेर्ध्या जनेश्वर। खेदमास्थाय भुञ्जीत धर्ममास्थाय चैव ह॥ निहन्यादन्यथाकुर्वन् नरः कौरवनन्दन। सर्वथा राजशार्दूल मुक्तिः सर्वत्र पूज्यते॥ तेनैकने तु रक्षा वै विपुलेन कृता स्त्रियाः। नान्यः शक्तस्त्रिलोकेऽस्मिन् रक्षितुं नृप योषितम्।।२७ युधिष्ठिर उवाच यन्मूलं सर्वधर्माणां स्वजनस्य गृहस्य च। पितृदेवातिथीनां च तन्मे ब्रूहि पितामह॥ अयं हि सर्वधर्माणां धर्मश्चिन्त्यतमो मतः। कीदृशस्य प्रदेया स्यात् कन्येति वसुधाधिप।॥ शीलवृत्ते समाज्ञाय विद्यां योनिं च कर्म च। सद्भिरेवं प्रदातव्या कन्या गुणयुते वरे॥ ब्राह्मणानां सतामेष ब्राह्मो धर्मो युधिष्ठिर। आवाह्यमावहेदेवं यो दद्यादनुकूलतः॥ शिष्टानां क्षत्रियाणां च धर्म एष सनातनः। आत्माभिप्रेतमुत्सृज्य कन्याभिप्रेत एव यः॥ अभिप्रेता च या यस्य तस्मै देया युधिष्ठिर। गान्धर्वमिति तं धर्मं प्राहुर्वेदविदो जनाः॥ धनेन बहुधा क्रीत्वा सम्प्रलोभ्य च बान्धवान्। असुराणां नृपैतं वै धर्ममाहुर्मनीषिणः॥ हत्वा छित्त्वा च शीर्षाणि रुदतां रुदतीं गृहात्। प्रसह्य हरणं तात राक्षसो विधिरुच्यते॥ पञ्चानां तु त्रयो धा द्वावधम्यौ युधिष्ठिर। पैशाचश्चासुरचैव न कर्तव्यो कथंचन॥ ब्राह्मः क्षात्रेऽथ गान्धर्व एते धा नरर्षभ। पृथग् वा यदि वा मिश्राः कर्तव्या नात्र संशयः॥ तिस्रो भार्या ब्राह्मणस्य द्वे भार्ये क्षत्रियस्य तु। वैश्यः स्वजात्यां विन्देत तास्वपत्यं समं भवेत्॥ ब्राह्मणी तु भवेज्ज्येष्ठा क्षत्रिया क्षत्रियस्य तु। रत्यर्थमपि शूद्रा स्यान्नेत्याहरपरे जनाः॥ अपत्यजन्म शूद्रायां न प्रशंसन्ति साधवः। शूद्रायां जनयन् विप्रः प्रायश्चित्ती विधीयते॥ त्रिंशद्वर्षो दशवर्षां भार्यां विन्देत नग्निकाम्। एकविंशतिवर्षों वा सप्तवर्षामवाप्नुयात्॥ यस्यास्तु न भवेद् भ्राता पिता वा भरतर्षभ। नोपयच्छेत तां जातु पुत्रिकाधर्मिणी हि सा॥ त्रीणि वर्षाण्युदीक्षेत कन्या ऋतुमती सती। चतुर्थे त्वथ सम्प्राप्ते स्वयं भर्तारमर्जयेत्॥ प्रजा न हीयते तस्या रतिश्च भरतर्षभ। अतोऽन्यथा वर्तमाना भवेद् वाच्या प्रजापतेः॥ असपिण्डा च या मातुरसगोत्रा च या पितुः। इत्येतामनुगच्छेत तं धर्मं मनुरब्रवीत्॥ युधिष्ठिर उवाच शुल्कमन्येन दत्तं स्याद् ददानीत्याह चापरः। बलादन्यः प्रभाषेत धनमन्यः प्रदर्शयेत्॥ पाणिग्रहीता चान्य: स्यात् कस्य भार्या पितामह। तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान्।॥ भीष्म उवाच यत् किंचित् कर्म मानुष्यं संस्थानाय प्रदृश्यते। मन्त्रवन्मन्त्रितं तस्य मृषावादस्तु पातकः॥ भार्यापत्यत्विगाचार्याः शिष्योपाध्याय एव च। मृषोक्ते दण्डमर्हन्ति नेत्याहुरपरे जनाः॥ न ह्यकामेन संवासं मनुरेवं प्रशंसति। अयशस्यमधर्म्यं च यन्मृषा धर्मकोपनम्॥ नैकान्तो दोष एकस्मिंस्तदा केनोपपद्यते। धर्मतो यां प्रयच्छन्ति यां च क्रीणन्ति भारत॥ बन्धुभिः समनुज्ञाते मन्त्रहोमो प्रयोजयेत्। तथा सिद्ध्यन्ति ते मन्त्रा नादत्तायाः कथंचन॥ यस्त्वत्र मन्त्रसमयो भार्यापत्योर्मिथः कृतः। तमेवाहुर्गरीयांसं यश्चासौ ज्ञातिभिः कृतः॥ देवदत्तां पतिर्भार्यां वेत्ति धर्मस्य शासनात्। स दैवीं मानुषीं वाचमनृतां पर्युदस्यति॥ युधिष्ठिर उवाच कन्यायां प्राप्तशुल्कायां ज्यायांश्चेदाव्रजेद् वरः। धर्मकामार्थसम्पन्नो वाच्यमत्रानृतं न वा॥ तस्मिन्नुभयतो दोषे कुर्वच्छ्रेयः समाचरेत्। अयं नः सर्वधर्माणां धर्मश्चिन्त्यतमो मतः॥ तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान्। तदेतत् सर्वमाचक्ष्व न हि तृप्यामि कथ्यताम्॥ भीष्म उवाच नैव निष्ठाकरं शुल्कं ज्ञात्वाऽऽसीत् तेन नाहृतम्। न हि शुल्कपराः सन्तः कन्यां ददति कर्हिचित्॥ अन्यैर्गुणैरुपेतं तु शुल्कं याचन्ति बान्धवाः। अलंकृत्वा वहस्वेति यो दद्यादनुकूलतः॥ यच्च तां च ददत्येवं न शुल्कं विक्रयो न सः। प्रतिगृह्य भवेद् देयमेष धर्मः सनातनः॥ दास्यामि भवते कन्यामिति पूर्वं न भाषितम्। ये चाहर्ये च नाहर्ये ये चावश्यं वदन्त्युत॥ तस्मादा ग्रहणात् पाणेर्याचयन्ति परस्परम्। कन्यावरः पुरा दत्तो मरुद्भिरिति नः श्रुतम्॥ नानिष्टाय प्रदातव्या कन्या इत्यृषिचोदितम्। तन्मूलं काममूलस्य प्रजनस्येति मे मतिः॥ समीक्ष्य च बहून् दोषान् संवासाद् विद्धि पाणयोः। यथा निष्ठाकरं शुल्कं न जात्वासीत् तथा शृणु॥ अहं विचित्रवीर्यस्य द्वे कन्ये समुदावहम्। जित्वा च मागधान्सर्वान् काशीनाथं च कोसलान्।।३८ गृहीतपाणिरेकाऽऽसीत् प्राप्तशुल्का पराभवत्। कन्या गृहीता तत्रैव विसा इति मे पिता।॥ अब्रवीदितरां कन्यामावहेति स कौरवः। अप्यन्याननुपप्रच्छ शङ्कमानः पितुर्वचः॥ अतीव ह्यस्य धर्मेच्छा पितुर्मेऽभ्यधिकाभवत्। ततोऽहमब्रुवं राजन्नाचारेप्सुरिदं वचः। आचारं तत्त्वतो वेत्तुमिच्छामि च पुनः पुनः॥ ततो मयैवमुक्ते तु वाक्ये धर्मभृतां वरः। पिता मम महाराज बाह्रीको वाक्यमब्रवीत्॥ यदि वः शुल्कतो निष्ठा न पाणिग्रहणात् तथा। लाभान्तरमुपासीत प्राप्तशुल्क इति स्मृतिः॥ न हि धर्मविदः प्राहुः प्रमाणं वाक्यतः स्मृतम्। येषां वै शुल्कतो निष्ठा न पाणिग्रहणात् तथा॥ प्रसिद्ध भाषितं दाने नैषां प्रत्यायकं पुनः। ये मन्यन्ते क्रयं शुल्कं न ते धर्मविदो नराः॥ न चैतेभ्यः प्रदातव्या न वोढव्या तथाविधा। न ह्येव भार्या क्रेतव्या न विक्रय्या कथंचन॥ ये च क्रीणन्ति दासी च विक्रीणन्ति तथैव च। भवेत् तेषां तथा निष्ठा लुब्धानां पापचेतसाम्॥ अस्मिन्नर्थे सत्यवन्तं पर्यपृच्छन्त वै जनाः। कन्यायाः प्राप्तशुल्कायाः शुल्कदः प्रशमं गतः॥४८ पाणिग्रहीता वान्यः स्यादत्र नो धर्मसंशयः। तन्नश्छिन्धि महाप्राज्ञ त्वं हि वै प्राज्ञसम्मतः॥ तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान्। तानेवं ब्रुवतः सर्वान् सत्यवान् वाक्यमब्रवीत्॥ यत्रेष्टं तत्र देया स्यान्नात्र कार्या विचारणा। देवरं प्रविशेत् कन्या तप्येद् वापि तपः पुनः। तमेवानुगता भूत्वा पाणिग्रहस्य काम्यया।॥ लिखन्त्येव तु केषांचिदपरेषां शनैरपि। इति ये संवदन्त्यत्र त एतं निश्चयं विदुः॥ पाणिग्रहस्य तत्पाणिग्रहणात् पूर्वमन्तरं यत्र वर्तते। सर्वमङ्गलमन्त्रं वै मृषावादस्तु पातकः॥ पाणिग्रहणमन्त्राणां निष्ठा स्यात् सप्तमे पदे। भार्या स्याद् यस्य चाद्भिः प्रदीयते। इति देय वदन्त्यत्र त एनं निश्चयं विदुः॥ अनुकूलामनुवंशां भ्रात्रा दत्तामुपाग्निकाम्। परिक्रम्य यथान्यायं भार्यां विन्देद् द्विजोत्तमः॥ भीष्म उवाच प्राचेतसस्य वचनं कीर्तयन्ति पुराविदः। यस्याः किंचित्राददते ज्ञातयो न स विक्रयः॥ अर्हणं तत्कुमारीणामानृशंस्यतमं च तत्। सर्वं च प्रतिदेयं स्यात् कन्यायै तदशेषतः॥ पितृभिर्धातृभिश्चापि श्वशुरैरथ देवरैः। पूज्या भूषयितव्याश्च बहुकल्याणमीप्सुभिः॥ यदि वै स्त्री न रोचेत पुमांसं न प्रमोदयेत्। अप्रमोदात् पुनः पुंसः प्रजनो न प्रवर्धते॥ पूज्या लालयितव्याश्च स्त्रियो नित्यं जनाधिप। स्त्रियो यत्र च पूज्यन्ते रमन्ते तत्र देवताः॥ अपूजिताश्च यत्रैताः सर्वास्तत्राफला: क्रियाः। तदा चैतत् कुलं नास्ति यदा शोचन्ति जामयः॥ जामीशप्तानि गेहानि निकृत्तानीव कृत्यया। नैव भान्ति न वर्धन्ते श्रिया हीनानि पार्थिवा॥ स्त्रियः पुंसां परिददे मनुर्जिगमिषुर्दिवम्। अबलाः स्वल्पकौपीनाः सुहृदः सत्यजिष्णवः॥ ईर्षवो मानकामाश्च चण्डाश्च सुहृदोऽबुधाः। स्त्रियस्तु मानमर्हन्ति ता मानयत मानवाः॥ स्त्रीप्रत्ययो हि वै धर्मो रतिभोगाश्च केवला:। परिचर्या नमस्कारास्तदायत्ता भवन्तु वः॥ उत्पादनमपत्यस्य जातस्य परिपालनम्। प्रीत्यर्थं लोकयात्रायाः पश्यत स्त्रीनिबन्धनम्॥ सम्मान्यमानाचैता हि सर्वकार्याण्यवाप्स्यथा विदेहराजदुहिता धात्र श्लोकमगायत॥ नास्ति यज्ञक्रिया काचित्र श्राद्धं नोपवासकम्। धर्मः स्वभर्तृशुश्रूषा तया स्वर्ग जयन्त्युत॥ पिता रक्षति कौमारे भर्ता रक्षति यौवने। पुत्राश्च स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति॥ श्रिय एताः स्त्रियो नाम सत्कार्या भूतिमिच्छता। पालिता निगृहीता च श्रीः स्त्री भवति भारत॥ युधिष्ठिर उवाच सर्वशास्त्रविधानज्ञ राजधर्मविदुत्तमा अतीव संशयच्छेत्ता भवान् वै प्रथितः क्षितौ॥ कश्चित्तु संशयो मेऽस्ति तन्मे ब्रूहि पितामह। जातेऽस्मिन् संशये राजन् नान्यं पृच्छेम कंचन॥ यथा नरेण कर्तव्यं धर्ममार्गनुवर्तिना। एतत् सर्वं महाबाहो भवान् व्याख्यातुमर्हति॥ चतस्रो विहिता भार्या ब्राह्मणस्य पितामह। ब्राह्मणी क्षत्रिया वैश्या शूद्रा च रतिमिच्छतः॥ तत्र जातेषु पुत्रेषु सर्वासां कुरुसत्तम। आनुपूर्येण कस्तेषां पित्र्यं दायादमर्हति॥ केन वा किं ततो हार्यं पितृवित्तात् पितामह। एतदिच्छामि कथितं विभागस्तेषु यः स्मृतः॥ भीष्म उवाच ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः। एतेषु विहितो धर्मो ब्राह्मणस्य युधिष्ठिर॥ वैषम्यादथवा लोभात् कामाद् वापि परतंप। ब्राह्मणस्य भवेच्छूद्रा न तु दृष्टान्ततः स्मृता॥ शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम्। प्रायश्चित्तीयते चापि विधिदृष्टेन कर्मणा॥ तत्र जातेष्वपत्येषु द्विगुणं स्याद् युधिष्ठिर। आपद्यमानमृक्थं तु सम्प्रवक्ष्यामि भारत॥ लक्षण्यं गोवृषो यानं यत् प्रधानतमं भवेत्। ब्राह्मण्यास्तद्धरेत् पुत्र एकांशं वै पितुर्धनात्॥ शेषं तु दशधा कार्य ब्राह्मणस्वं युधिष्ठिर। तत्र तेनैव हर्तव्याश्चत्वारोऽशाः पितुर्धनात्॥ क्षत्रियायास्तु यः पुत्रो ब्राह्मणः सोऽप्यसंशयः। स तु मातुर्विशेषेण त्रीनंशान् हर्तुमर्हति॥ वर्णे तृतीये जातस्तु वैश्यायां ब्राह्मणादपि। द्विरंशस्तेन हर्तव्यो ब्राह्मणस्वाद् युधिष्ठिर॥ शूद्रायां ब्राह्मणाज्जातो नित्यादेयधनः स्मृतः। अल्पं चापि प्रदातव्यं शूद्रापुत्राय भारत॥ दशधा प्रविभक्तस्य धनस्यैष भवेत् क्रमः। सवर्णासु तु जातानां समान् भागान् प्रकल्पयेत्॥ अब्राह्मणं तु मन्यन्ते शूद्रापुत्रमनैपुणात्। त्रिषु वर्णेषु जातो हि ब्राह्मणाद् ब्राह्मणो भवेत्॥ स्मृताश्च वर्णाश्चत्वारः पञ्चमो नाधिगम्यते। हरेच्च दशमं भागं शूद्रापुत्रः पितुर्धनात्॥ सपुत्रः स्यादपुत्रो तत्तु दत्तं हरेत् पित्रा नादत्तं हर्तुमर्हति। अवश्यं हि धनं देयं शूद्रापुत्राय भारत॥ आनृशंस्यं परो धर्म इति तस्मै प्रदीयते। यत्र तत्र समुत्पन्नं गुणायैवोपपद्यते॥ यद्यप्येष यदि वा भवेत्। नाधिकं दशमाद् दद्याच्छूद्रापुत्राय भारत॥ त्रैवार्षिकाद् यदा भक्तादधिकं स्याद् द्विजस्य तु। यजेत तेन द्रव्येण न वृथा साधयेद् धनम्॥ त्रिसहस्रपरो दायः स्त्रियै देयो धनस्य वै। भळ तच्च धनं दत्तं यथार्हे भोक्तुमर्हति॥ स्त्रीणां तु पतिदायाद्यमुपभोगफलं स्मृतम्। नापहारं स्त्रियः कुर्युः पतिवित्तात् कथंचन॥ स्त्रियास्तु यद् भवेद् वित्तं पित्रा दत्तं युधिष्ठिर। ब्राह्मण्यास्तेद्धरेत् कन्या यथा पुत्रस्तथा हि सा॥ सा हि पुत्रसमा राजन् विहिता कुरुनन्दन। एवमेव समुद्दिष्टो धर्मो वै भरतर्षभ। एवं धर्ममनुस्मृत्य न वृथा साधयेद् धनम्॥ युधिष्ठिर उवाच शूद्रायां ब्राह्मणाज्जातो यद्यदेयधनः स्मृतः। केन प्रतिविशेषेण दश्मोऽप्यस्य दीयते॥ ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मण: स्यान्न संशयः। क्षत्रियायां तथैव स्याद् वैश्यायामपि चैव हि॥ कस्मात् तु विषमं भागं भजेरन् नृपसत्तम। यदा सर्वे त्रयो वर्णास्त्वयोक्ता ब्राह्मणा इति॥ भीष्म उवाच दारा इत्युच्यते लोके नाम्नैकेन परतंपा प्रोक्तेन चैव नाम्नायं विशेषः सुमहान् भवेत्॥ तिस्रः कृत्वा पुरो भार्याः पश्चाद् विन्देत ब्राह्मणीम्। सा ज्येष्ठा सा च पूज्या स्यात् सा च भार्या गरीयसी। स्नानं प्रसाधनं भर्तुर्दन्तधावनमञ्जनम्। हव्यं कव्यं च यच्चान्यद् धर्मयुक्तं गृहे भवेत्॥ न तस्यां जातु तिष्ठन्त्यामन्या तत् कर्तुमर्हति। ब्राह्मणी त्वेव कुर्याद् वा ब्राह्मणस्य युधिष्ठिर॥ अन्नं पानं च माल्यं च वासांस्याभरणानि च। ब्राह्मण्यैतानि देयानि भर्तुः सा हि गरीयसी॥ मनुनाभिहितं शास्त्रं यच्चापि कुरुनन्दन। तत्राप्येष महाराज दृष्टो धर्मः सनातनः॥ अथ चेदन्यथा कुर्याद् यदि कामाद् युधिष्ठिर। यथा ब्राह्मणचाण्डालः पूर्वदृष्टस्तथैव सः॥ ब्राह्मण्याः सदृशः पुत्रः क्षत्रियायाश्च यो भवेत्। राजन् विशेषो यस्त्वत्र वर्णयोरुभयोरपि॥ न तु जात्या समा लोके ब्राह्मण्याः क्षत्रिया भवेत्। ब्राह्मण्याः प्रथमः पुत्रो भूयान् स्याद् राजसत्तम॥ भूयो भूयोऽपि संहार्यः पितृवित्ताद् युधिष्ठिर। यथा न सदृशी जातु ब्राह्मण्याः क्षत्रिया भवेत्॥ क्षत्रियायास्तथा वैश्या न जातु सदृशी भवेत्। श्रीश्च राज्यं च कोशश्च क्षत्रियाणां युधिष्ठिर।॥ विहितं दृश्यते राजन् सागरान्तां च मेदिनीम्। क्षत्रियो हि स्वधर्मेण श्रियं प्राप्नोति भूयसीम्। राजा दण्डधरो राजन् रक्षा नान्यत्र क्षत्रियात्॥ ब्राह्मणा हि महाभागा देवानामपि देवताः। तेषु राजन् प्रवर्तेत पूजया विधिपूर्वकम्॥ प्रणीतमृषिभिर्ज्ञात्वा धर्मं शाश्वतमव्ययम्। लुप्यमानं स्वधर्मेण क्षत्रियो ह्येष रक्षिति॥ दस्युभिर्रियमाणं च धनं दारांश्च सर्वशः। सर्वेषामेव वर्णानां त्राता भवति पार्थिवः॥ भूयान् स्यात् क्षत्रियापुत्रो वैश्यापुत्रान्न संशयः। भूयस्तेनापि हर्तव्यं पितृवित्ताद् युधिष्ठिर।॥ युधिष्ठिर उवाच उक्तं ते विधिवद् राजन् ब्राह्मणस्य पितामह। इतरेषां तु वर्णानां कथं वै नियमो भवेत्॥ भीष्म उवाच क्षत्रियस्यापि भर्ये द्वे विहिते कुरुनन्दन। तृतीया च भवेच्छूद्रा न तु दृष्टान्ततः स्मृता।॥ एष एव क्रमो हि स्यात् क्षत्रियाणां युधिष्ठिर। अष्टधा तु भवेत् कार्य क्षत्रियस्वं जनाधिप।॥ क्षत्रियाया हरेत् पुत्रश्चतुरोंऽशान् पितुर्धनात्। युद्धावहारिकं यच्च पितुः स्यात्स हरेत् तु तत्॥ वैश्यापुत्रस्तु भागांस्त्रीशूद्रापुत्रस्तथाष्टमम्। सोऽपि दत्तं हरेत् पित्रा नादत्तं हर्तुमर्हति॥ एकैव हि भवेद् भार्या वैश्यस्य कुरुनन्दन। द्वितीया तु भवेच्छूद्रा न तु दृष्टान्ततः स्मृता॥ वैश्यस्य वर्तमानस्य वैश्यायां भरतर्वभ। शूद्रायां चापि कौन्तेय तयोर्विनियमः स्मृतः॥ पञ्चधा तु भवेत् कार्य वैश्यस्वं भरतर्षभ। तयोरपत्ये वक्ष्यामि विभागं च जनाधिप॥ वैश्यापुत्रेण हर्तव्याश्चत्वारोंऽशाः पितुर्धनात्। पञ्चमस्तु स्मृतो भागः शूद्रापुत्राय भारत॥ सोऽपि दत्तं हरेत् पित्रा नादत्तं हर्तुमर्हति। त्रिभिर्वर्णैः सदा जातः शूद्रोऽदेयधनो भवेत्॥ शूद्रस्य स्यात् सवर्णैव भार्या नान्या कथंचन। समभागाश्च पुत्राः स्युर्यदि पुत्रशतं भवेत्॥ जातानां समवर्णायाः पुत्राणामविशेषतः। सर्वेषामेव वर्णानां समभागो धनात् स्मृतः॥ ज्येष्ठस्य भागो ज्येष्ठः स्यादेकांशो यः प्रधानतः। एष दायविधिः पार्थ पूर्वमुक्तः स्वयम्भुवा॥ समवर्णासु जातानां विशेषोऽस्त्यपरो नृप। विवाहवैशिष्ट्यकृतः पूर्वपूर्वो विशिष्यते॥ हरेज्ज्येष्ठः प्रधानांशमेकं तुल्यासु तेष्वपि। मध्यमो मध्यमं चैव कनीयांस्तु कनीयसम्॥ एवं जातिषु सर्वासु सवर्ण: श्रेष्ठतां गतः। महर्षिरपि चैतद् वै मारीचः काश्यपोऽब्रवीत्॥ युधिष्ठिर उवाच अर्थाल्लोभाद् वा कामाद् वा वर्णानां चाप्यनिश्चयात्। अज्ञानाद् वापि वर्णानां जायते वर्णसंकरः॥ तेषामेतेन विधिना जातानां वर्णसंकरे। को धर्मः कानि कर्माणि तन्मे ब्रूहि पितामह॥ भीष्म उवाच चातुर्वर्ण्यस्य कर्माणि चातुर्वण्र्यं च केवलम्। असृजत् स हि यज्ञार्थे पूर्वमेव प्रजापतिः॥ भार्याश्चतस्रो विप्रस्य द्वयोरात्मा प्रजायते। आनुपूर्व्याद् द्वयो_नौ मातृजात्यौ प्रसूयतः॥ परं शवाद् ब्राह्मणस्यैव पुत्रः शूद्रापुत्रं पारशवं तमाहुः। शुश्रूषकः स्वस्य कुलस्य स स्यात् स्वचारित्रं नित्यमथो न जह्यात्॥ सर्वानुपायानथ सम्प्रधार्य समुद्धरेत् स्वस्य कुलस्य तन्त्रम्। ज्येष्ठो यवीयानपि यो द्विजस्य शुश्रूषया दानपरायणः स्यात्॥ तिस्रः क्षत्रियसम्बन्धाद् द्वयोरात्मास्य जायते। हीनवर्णास्तृतीयायां शूद्रा उग्रा इति स्मृतिः॥ द्वो चापि भार्ये द्वयोरात्मास्य जायते। शूद्रा शूद्रस्य यचाप्येका शूद्रमेव प्रजायते॥ अतोऽविशिष्टस्त्वधमो गुरुदारप्रधर्षकः। बाह्यं वर्णं जनयति चातुर्वर्ण्यविगर्हितम्॥ विप्रायां क्षत्रियो बाह्यं सूतं स्तोमक्रियापरम्। वैश्यो वैदेहकं चापि मौद्गल्यमपवर्जितम्॥ शूद्रश्चाण्डालमत्युग्रं वध्यघ्नं बाह्यवासिनम्। ब्राह्मण्यां सम्प्रजायन्त इत्येते कुलपांसनाः। एते मतिमतां श्रेष्ठ वर्णसंकरजाः प्रभो॥ बन्दी तु जायते वैश्यान्मागधो वाक्यजीवनः। शूद्रान्निषादो मत्स्यनः क्षत्रियायां व्यतिक्रमात्॥ शूद्रादायोगवश्चापि वैश्यायां ग्राभ्यधर्मिणः। ब्राह्मणैरप्रतिग्राह्यस्तक्षा स्वधनजीवनः॥ एतेऽपि सदृशान् वर्णान् जनयन्ति स्वयोनिषु। मातृजात्याः प्रसूयन्ते ह्यवरा हीनयोनिषु॥ यथा चतुर्पु वर्णेषु द्वयोरात्मास्य जायते। आनन्तर्यात् प्रजायन्ते तथा बाह्यः प्रधानतः॥ ते चापि सदृशं वर्णं जनयन्ति स्वयोनिषु। परस्परस्य दारेषु जनयन्ति विगर्हितान्॥ तु यथा शूद्रोऽपि ब्राह्मण्यां जन्तुं बाह्यं प्रसूयते। एवं बाह्यतराद् बाह्यश्चातुर्वर्णात् प्रजायते॥ प्रतिलोमं वर्धन्ते बाह्याद् बाह्यतरात् पुनः। हीनाद्धीनाः प्रसूयन्ते वर्णाः पञ्चदशैव तु॥ अगम्यागमनाच्चैव जायते वर्णसंकरः। बाह्यानामनुजायन्ते सैरन्ध्रयां मागधेषु च। प्रसाधनोपचारज्ञमदासं दासजीवनम्॥ अतश्चायोगवं सूते वागुराबन्धजीवनम्। मैरेयकं च वैदेहः सम्प्रसूतेऽथ माधुकम्॥ निषादो मद्गुरं सूते दासं नावोपजीविनम्। मृतपं चापि चाण्डालः श्वपाकमिति विश्रुतम्॥ चतुरो मागधी सूते क्रूरान् मायोपजीविनः। मांसं स्वादुकरं क्षौद्रं सौगन्धमिति विश्रुतम्॥ वैदेहकाच्च पापिष्ठा क्रूरं मायोपजीविनम्। निषादान्मद्रनाभं च खरयानप्रयायिनम्॥ चाण्डालात् पुल्कसं चापि खराश्वगजभोजिनम्। मृतचैलप्रतिच्छन्नं भिन्नभाजनभोजिनम्॥ आयोगवीषु जायन्ते हीनवर्णास्तु ते त्रयः। क्षुद्रो वैदेहकाद-ध्रो बहिर्गामप्रतिश्रयः॥ कारावरो निषाद्यां तु चर्मकारः प्रसूयते। चाण्डालात् पाण्डुसौपाकस्त्वक्सारव्यवहारवान्॥ आहिण्डको निषादेन वैदेह्यां सम्प्रसूयते। चण्डालेन तु सौपाकश्चण्डालसमवृत्तिमान्॥ निषादी चापि चाण्डालात् पुत्रमन्तेवसायिनम्। श्मशानगोचरं सूते बाबैरपि बहिष्कृतम्॥ इत्येते संकरे जाताः पितृमातृव्यतिक्रमात्। प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः।२९। चतुर्णामेव वर्णानां धर्मो नान्यस्य विद्यते। वर्णानां धर्महीनेषु संख्या नास्तीह कस्यचित्॥ यदृच्छयोपसम्पन्नेर्यज्ञसाधुबहिष्कृतैः। बाह्या बाह्येश्च जायन्ते यथावृत्ति यथाश्रयम्॥ चतुष्पथश्मशानानि शैलाश्चान्यान् वनस्पतीन्। कार्णायसमलंकारं परिगृह्य च नित्यशः॥ वसेयुरेते विज्ञाता वर्तयन्तः स्वकर्मभिः। युञ्जन्तो वाप्यलंकारांस्तथोपकरणानि च॥ गोब्राह्मणाय साहाय्यं कुर्वाणा वै न संशयः। आनृशंस्यमनुक्रोशः सत्यवाक्यं तथा क्षमा॥ स्वशरीरैरपि त्राणं बाह्यानां सिद्धिकारणम्। भवन्ति मनुज्व्याघ्र तत्र मे नास्ति संशयः॥ यथोपदेशं परिकीर्तितासु नरः प्रजायेत विचार्य बुद्धिमान्। निहीनयोनिर्हि सुतोऽवसादयेत् तितीप्रमाणं हि यथोपलो जले॥ अविद्वांसमलं लोके विद्वांसमपि वा पुनः। नयन्ति ह्यपथं नार्यः कामक्रोधवशानुगम्॥ स्वभावश्चैव नारीणां नराणामिह दूषणम्। अत्यर्थं न प्रसज्जन्ते प्रमदासु विपश्चितः ॥ युधिष्ठिर उवाच वर्णापेतमविज्ञाय नरं कलुषयोनिजम्। आर्यरूपमिवानार्यं कथं विद्यामहे वयम्॥ भीष्म उवाच योनिसंकलुषे जातं नानाभावसमन्वितम्। कर्मभिः सज्जनाचीर्णैर्विज्ञेया योनिशुद्धता॥ अनार्यत्वमनाचारः क्रूरत्वं निष्क्रियात्मता। पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम्॥ पित्र्यं वा भजते शीलं मातृजं वा तथोभयम्। न कथंचन संकीर्णः प्रकृतिं स्वां नियच्छति॥ यथैव सदृशो रूपे मातापित्रोहि जायते। व्याघ्रश्चित्रैस्तथा योनि पुरुषः स्वां नियच्छति॥ कुले स्रोतसि संच्छन्ने यस्य स्याद् योनिसंकरः। संश्रयत्येव तच्छीलं नरोऽल्पमथवा बहु॥ आर्यरूपसमाचारं चरन्तं कृतके पथि। सुवर्णमन्यवर्णं वा स्वशीलं शास्ति निश्चये॥ नानावृत्तेषु भूतेषु नानाकर्मरतेषु च। जन्मवृत्तसमं लोके सुश्लिष्टं न विरज्यते॥ शरीरमिह सत्त्वेन न तस्य परिकृष्यते। ज्येष्ठमध्यावरं सत्त्वं तुल्यसत्त्वं प्रमोदते॥ ज्यायांसमपि शीलेन विहीनं नैव पूजयेत्। अपि शूद्रं च धर्मज्ञं सद्वृत्तभिपूजयेत्॥ आत्मानमाख्याति हि कर्मभिर्नरः सुशीलचारित्रकुलैः शुभाशुभैः। प्रणष्टमप्याशु कुलं तथा नरः पुनः प्रकाशं कुरुते स्वकर्मतः॥ योनिष्वेतासु सर्वासु संकीर्णास्वितरासु च। यत्रात्मानं न जनयेद् बुधस्तां परिवर्जयेत्॥ युधिष्ठिर उवाच ब्रूहि तात कुरुश्रेष्ठ वर्णानां त्वं पृथक् पृथक। कीदृश्यां कीदृशाश्चापि पुत्राः कस्य च के च ते॥ विप्रवादाः सुबहवः श्रूयन्ते पुत्रकारिताः। अत्र नो मुह्यतां राजन् संशयं छेत्तुमर्हसि॥ भीष्म उवाच आत्मा पुत्रश्च विज्ञेयस्तस्यानन्तराश्च यः। निरुक्तजश्च विज्ञेयः सुतः प्रसृतजस्तथा॥ पतितस्य तु भार्याया भर्ना सुसमवेतया। तथा दत्तकृतौ पुत्रावध्यूढच तथापरः॥ षडपध्वंसजाश्चापि कानीनापसदास्तथा। इत्येते वै समाख्यातास्तान् विजानीहि भारत॥ युधिष्ठिर उवाच षडपध्वंसजाः के स्युः के वाप्यपसदास्तथा। एतत् सर्वं यथातत्त्वं व्याख्यातुं मे त्वमर्हसि॥ भीष्म उवाच त्रिषु वर्णेषु ये पुत्रा ब्राह्मणस्य युधिष्ठिर। वर्णयोश्च द्वयोः स्यातां यौ राजन्यस्य भारत।॥ एको विड्वर्ण एवाथ तथात्रैवोपलक्षितः। घडपध्वंसजास्ते हि तथैवासपदाशृणु॥ चाण्डालो व्रात्यवैद्यौ च ब्राह्मण्यां क्षत्रियासु च। वैश्यायां चैव शूद्रस्य लक्ष्यन्तेऽपसदास्त्रयः॥ मागधो वामकश्चैव द्वौ वैश्यस्पोलक्षितौ। ब्राह्मण्यां क्षत्रियायां च क्षत्रियस्यैक एव तु॥ ब्राह्मण्यां लक्ष्यते सूत इत्येतेऽपसदाः स्मृताः। पुत्रा ह्येते न शक्यन्ते मिथ्याकर्तुं नराधिप॥ युधिष्ठिर उवाच क्षेत्र केचिदेवाहुः सुतं केचित्तु शुक्रजम्। तुल्यावेतौ सुतौ कस्य तन्मे ब्रूहि पितामह॥ भीष्म उवाच रेतजो वा भवेत् पुत्रस्त्यक्तो वा क्षेत्रजो भवेत्। अध्यूढः समयं भित्त्वेत्येतदेव निबोध मे॥ युधिष्ठिर उवाच रेतजं विद्य वै पुत्रं क्षेत्रजस्यागमः कथम्। अध्यूढं विद्म वै पुत्रं भित्त्वा तु समयं कथम्॥ भीष्म उवाच आत्मजं पुत्रमुत्पाद्य यस्त्यजेत् कारणान्तरे। न तत्र कारणं रेतः स क्षेत्रस्वामिनो भवेत्॥ पुत्रकामो हि पुत्रार्थं यां वृणीते विशाम्पते। क्षेत्रजं तु प्रमाणं स्यान्न वै तत्रात्मजः सुतः॥ अन्यत्र क्षेत्रजः पुत्रो लक्ष्यते भरतर्षभ। न ह्यात्मा शक्यते हन्तुं दृष्टान्तोपगतो ह्यसौ॥ क्वचिच्च कृतकः पुत्रः संग्रहादेव लक्ष्यते। न तत्र रेतः क्षेत्रं वा यत्र लक्ष्येत भारत॥ युधिष्ठिर उवाच कीदृशः कृतकः पुत्रः संग्रहादेव लक्ष्यते। शुक्रं क्षेत्रं प्रमाणं वा यत्र लक्ष्यं न भारत॥ भीष्म उवाच मातापितृभ्यां यस्त्यक्तः पथि यस्तं प्रकल्पयेत्। न चास्य मातापितरौ ज्ञायेतां स हि कृत्रिमः॥ अस्वामिकस्य स्वामित्वं यस्मिन् सम्प्रति लक्ष्यते। यो वर्ण: पोषयेत् तं च तद्वर्णस्तस्य जायते॥ युधिष्ठिर उवाच कथमस्य प्रयोक्तव्यः संस्कारः कस्य वा कथम्। देया कन्या कथं चेति तन्मे ब्रूहि पितामह॥ भीष्म उवाच आत्मवत् तस्य कुर्वीत संस्कारं स्वामिवत् तथा। त्यक्तो मातापितृभ्यां यः सवर्ण प्रतिपद्यते॥ तद्गोत्रबन्धुजं तस्य कुर्यात् संस्कारमच्युत। अथ देया तु कन्या स्यात् तद्वर्णस्य युधिष्ठिर।॥ संस्कर्तुं वर्गगोत्रं च मातृवर्णविनिश्चये। कानीनाध्यूढजौ वापि विज्ञेयौ पुत्र किल्बिषौ॥ तावपि स्वाविव सुतौ संस्कार्याविति निश्चयः। श्रेत्रजो वाप्यपसदो येऽध्यूढास्तेषु चाप्युत॥ आत्मवद् वै प्रयुञ्जीरन् संस्कारान् ब्राह्मणादयः। धर्मशास्त्रेषु वर्णानां निश्चयोऽयं प्रदृश्यते॥ एतत् ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि॥ युधिष्ठिर उवाच दर्शने कीदृशः स्नेहः संवासे च पितामह। महाभाग्यं गवां चैव तन्मे व्याख्यातुमर्हसि॥ भीष्म उवाच हन्त ते कथयिष्यामि पुरावृत्तं महाद्युते। नहुषस्य च संवादं महर्षेश्च्यवनस्य च॥ पुरा महर्षिश्च्यवनो भार्गवो भरतर्षभ। उदावासकृतारम्भो बभूव स महाव्रतः॥ निहत्य मानं क्रोधं च प्रहर्षं शोकमेव च। वर्षाणि द्वादश मुनिर्जलवासे धृतव्रतः॥ आदधत् सर्वभूतेषु विश्रम्भं परमं शुभम्। जलेचरेषु सर्वेषु शीतरश्मिरिव प्रभुः॥ स्थाणुभूतः शुचिर्भूत्वा दैवतेभ्यः प्रणम्य च। गङ्गायमुनयोर्मध्ये जलं सम्प्रविवेश ह॥ गङ्गायमुनयोर्वेगं सुभीमं भीमनिःस्वनम्। प्रतिजग्राह शिरसा वातवेगसमं जवे॥ गङ्गे च यमुने चैव सरितश्च सरांसि च। प्रदक्षिणमृर्षि चक्रुर्न औनं पर्यपीडयन्॥ अन्तर्जलेषु सुष्वाप काष्ठभूतो महामुनिः। ततश्चोर्ध्वस्थितो धीमानभवद् भरतर्षभ॥ जलौकसां स सत्त्वानां बभूव प्रियदर्शनः। उपाजिघ्रन्त च तदा तस्योष्ठं हृष्टमानसाः॥ तत्र तस्यासतः कालः समतीतोऽभवन्महान्। ततः कदाचित् समये कस्मिंश्चिन्मत्स्यजीविनः॥ तं देशं समुपाजग्मुर्जालहस्ता महाद्युते। निषादा बहवस्तत्र मत्स्योद्धरणनिश्चयाः॥ व्यायता बलिनः शूराः सलिलेष्वनिवर्तिनः। अभ्याययुश्च तं देशं निश्चिता जालकर्मणि॥ जालं ते योजयामासुनिःशेषेण जनाधिप। मत्स्योदकं समासाद्य तदा भरतसत्तम॥ ततस्ते बहुभिर्योगैः कैवर्ता मत्स्यकाक्षिणः। गङ्गायमुनयोर्वारि जालैरभ्यकिरंस्ततः॥ जालं सुविततं तेषां नवसूत्रकृतं तथा। विस्तारायामसम्पन्नं यत् तत्र सलिलेऽक्षिपन्॥ ततस्ते सुमहच्चैव बलवच्च सुवर्तितम्। अवतीर्य ततः सर्वे जालं चकृषिरे तदा॥ अभीतरूपाः मंहृष्टा अन्योन्यवशवर्तिनः। बबन्धुस्तत्र मत्स्यांश्च तथान्यान् जलचारिणः॥ तथा मत्स्यैः परिवृतं च्यवनं भृगुनन्दनम्। आकर्षयन्महाराज जालेनाथ चदृच्छया॥ नदीशैवलदिग्धाङ्गं हरिश्मश्रुजटाधरम्। लग्नैः शङ्खनखैर्गात्रे क्रोडैश्चित्रैरिवार्पितम्॥ तं जालेनोद्धृतं दृष्ट्वा ते तदा वेदपारगम्। सर्वे प्राञ्जलयो दाशा: शिरोभिः प्रापतन् भूवि॥ परिखेदपरित्रासाज्जालस्याकर्षणेन च। मत्स्या बभूवुफ्पन्नाः स्थलसंस्पर्शनेन च॥ स मुनिस्तत् तदा दृष्ट्वा मत्स्यानां कदनं कृतम्। नभूव कृपयाविष्टो निःश्वसंश्च पुनः पुनः॥ मत्स्य पुरुष उवाच अज्ञानाद् यत् कृतं पापं प्रसादं तत्र नः कुरु। करवाम प्रियं किं ते तन्नो ब्रूहि महामुने॥ भीष्म उवाच इत्युक्तो मत्स्यमध्यस्थश्च्यवनो वाक्यमब्रवीत्। यो मेऽद्य परमः कामस्तं शृणुध्वं समाहिताः॥ प्राणोत्सर्ग विसर्ग वा मत्स्यैर्यास्यामम्यहं सह। संवासान्नोत्सहे त्यक्तुं सलिलेऽध्युषितानाहम्॥ इत्युक्तास्ते निषादास्तु सुभृशं भयकम्पिताः। सर्वे विवर्णवदना नहुषाय न्यवेदयन्॥ भीष्म उवाच नहुषस्तु ततः श्रुत्वा च्यवनं तं तथागतम्। वरितः प्रययौ तत्र सहामात्यपुरोहितः॥ शौचं कृत्वा यथान्यायं प्राञ्जलिः प्रयतो नृपः। आत्मानमाचचक्षे च च्यवनाय महात्मने॥ अर्चयामास तं चापि तस्य राज्ञः पुरोहितः। सत्यव्रतं महात्मानं देवकल्पं विशाम्पते॥ नहुष उवाच करवाणि प्रियं किं ते तन्मे ब्रूहि द्विजोत्तम। सर्वं कर्तास्मि भगवान् यद्यपि स्यात् सुदुष्करम्॥ च्यवन उवाच श्रमेण महता युक्ताः कैवर्ता मत्स्यजीविनः। मम मूल्यं प्रयच्छेभ्यो मत्स्यानां विक्रयैः सह॥ हुष उवाच सहस्रं दीयतां मूल्यं निषादेभ्यः पुरोहित। निष्क्रयार्थे भगवतो यथाऽऽह भृगुनन्दनः॥ च्यवन उवाच सहस्रं नाहमर्हामि किं वा त्वं मन्यसे नृप। सदृशं दीयतां मूल्यं स्वबुद्ध्या निश्चयं कुरु॥ नहुष उवाच सहस्राणां शतं विप्र निषादेभ्यः प्रदीयताम्। स्यादिदं भगवन् मूल्यं किं वान्यन्मन्यते भवान्॥ च्यवन उवाच नाहं शतसहस्रेण निमेयः पार्थिवर्षभ। दीयतां सदृशं मूल्यममात्यैः सह चिन्तय॥ नहुष उवाच कोटिः प्रदीयतां मूल्यं निषादेभ्यः पुरोहित। यदेतदपि नो मूल्यमतो भूयः प्रदीयताम्॥ च्यवन उवाच राजन् नार्हाम्यहं कोटि भूयो वापि महाद्युते। सदृशं दीयतां मूल्यं ब्राह्मणैः सह चिन्तय॥ नहुष उवाच अर्धं राज्यं समग्रं वा निषादेभ्यः प्रदीयताम्। एतन्मूल्यमहं मन्ये किं वान्यन्मन्यसे द्विज॥ च्यवन उवाच अर्धं राज्यं समग्रं च मूल्यं नार्हामि पार्थिव। सदृशं दीयतां मूल्यमृषिभिः सह चिन्त्यताम्॥ भीष्म उवाच महर्षेर्वचनं श्रुत्वा नहुषो दुःखकर्शितः। स चिन्तयामास तदा सहामात्यपुरोहितः॥ तत्र त्वन्यो वनचरः कश्चिन्मूलफलाशनः। नहुषस्य समीपस्थो गविजातोऽभवन्मुनिः॥ स तमाभाष्य राजानमब्रवीद् द्विजसत्तमः। तोषमिपम्यहं क्षिप्रं यथा तुष्टो भविष्यति॥ नाहं मिथ्यावचो ब्रूयां स्वैरेष्वपि कुतोऽन्यथा। भवतो यदहं ब्रूयां तत्कार्यमविशङ्कया॥ नहुष उवाच ब्रवीतु भगवान् मूल्यं महर्षेः सदृशं भृगोः। परित्रायस्व मामस्मद्विषयं च कुलं च मे॥ हन्याद्धि भगवान् क्रुद्धस्त्रैलोक्यमपि केवलम्। किं पुनर्मां तपोहीनं बाहुवीर्यपरायणम्॥ अगाधाम्भसि मग्नस्य सामात्यस्य सऋत्विजः। प्लवो भव महर्षे त्वं कुरु मूल्यविनिश्चयम्॥ भीष्म उवाच गविजातः प्रतापवान्। नहुषस्य वचः श्रुत्वा उवाच हर्षयन् सर्वानमात्यान् पार्थिवं च तम्॥ अनया महाराज द्विजा वर्णेषु चोत्तमाः। गावश्च पुरुषव्याघ्र गौर्मूल्यं परिकल्प्यताम्॥ नहुषस्तु ततः श्रुत्वा महर्षेर्वचनं नृप। हर्षेण महता युक्तः सहामात्यपुरोहितः॥ अभिगम्य भृगोः पुत्रं च्यवनं संशितव्रतम्। इदं प्रोवाच नृपते वाचा संतर्पयन्निव॥ नहुष उवाच उत्तिष्ठोत्तिष्ठ विप्रर्षे गवा क्रीतोऽसि भार्गव। एतन्मूल्यमहं मन्ये तव धर्मभृतां वर॥ च्यवन उवाच उत्तिष्ठाम्येष राजेन्द्र सम्यक् क्रीतोऽस्मि तेऽनघ। गोभिस्तुल्यं न पश्यामि धनं किंचिदिहाच्युत॥ कीर्तनं श्रवणं दानं दर्शनं चापि पार्थिव। गवां प्रशस्यते वीर सर्वपापहरं शिवम्॥ गावो लक्ष्म्याः सदा मूलं गोषु पाप्मा न विद्यते। अन्नमेव सदा गावो देवानां परमं हविः॥ स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ। गावो यज्ञस्य नेत्र्यो वै तथा यज्ञस्य ता मुखम्॥ अमृतं ह्यव्ययं दिव्यं क्षरन्ति च वहन्ति च। अमृतायतनं चैताः सर्वलोकनमस्कृताः॥ तेजसा वपुषा चैव गावो वह्निसमा भुवि। गावो हि सुमहत् तेजः प्राणिनां च सुखप्रदाः॥ निविष्टं गोकुलं यत्र श्वासं मुञ्चति निर्भयम्। विराजयति तं देशं पापं चास्यापकर्षति॥ गावः स्वर्गस्य सोपानं गावः स्वर्गेऽपि पूजिताः। गाव: कामदुहो देव्यो नान्यत् किंचित् परं स्मृतम्।। भीष्म उवाच इत्येतद् गोषु मे प्रोक्तं माहात्म्यं भरतर्षभ। गुणैकदेशवचनं शक्यं पारायणं न तु॥ निषाद उवाच दर्शनं कथनं चैव सहास्माभिः कृतं मुने। सतां साप्तपदं मैत्रं प्रसादं नः कुरु प्रभो॥ हवींषि सर्वाणि यथा [पभुङ्क्ते हुताशनः। एवं त्वमपि धर्मात्मन् पुरुषाग्निः प्रतापवान्॥ प्रसादयामहे विद्वन् भवन्तं प्रणता वयम्। अनुग्रहार्थमस्माकमियं गौः प्रतिगृह्यताम्॥ च्यवन उवाच कृपणस्य च यच्चक्षुर्मुनेराशीविषस्य च। नरं समूलं दहति कक्षमग्निरिव ज्वलन्।॥ प्रतिगृह्णामि वो धेनुं कैवर्ता मुक्तकिल्बिषाः। दिवं गच्छत वै क्षिप्रं मत्स्यैः सह जलोद्भवैः॥ भीष्म उवाच ततस्तस्य प्रभावात् ते महर्षेर्भावितात्मनः। निषादास्तेन वाक्येन सह मत्स्यैर्दिवं ययुः॥ ततः स राजा नहुषो विस्मितः प्रेक्ष्य धीवरान्। आरोहमाणांस्त्रिदिवं मत्स्यांश्च भरतर्षभ॥ ततस्तौ गविजश्चैव च्यवनश्च भृगूद्वहः। वराभ्यामनुरूपाभ्यां छन्दयामासतु पम्॥ ततो राजा महावीर्यो नहुषः पृथिवीपतिः। परमित्यब्रवीत् प्रीतस्तदा भरतसत्तम॥ ततो जग्राह धर्मे स स्थितिमिन्द्रनिभो नृपः। तथेति चोदितः प्रीतस्तावृषी प्रत्यपूजयत्॥ समाप्तदीक्षश्च्यवनस्ततोऽगच्छत् स्वमाश्रमम्। गविजश्च महातेजाः स्वमाश्रमपदं ययौ॥ निषादाश्च दिवं जग्मुस्ते च मत्स्या जनाधिप। नहुषोऽपि वरं लब्वा प्रविवेश स्वकं पुरम्॥ एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि। दर्शने यादृशः स्नेहः संवासे वा युधिष्ठिर॥ महाभाग्यं गवां चैव तथा धर्मविनिश्चयम्। किं भूयः कथ्यतां वीर किं ते हदि विवक्षितम्॥ युधिष्ठिर उवाच संशयो मे महाप्राज्ञ सुमहान् सागरोपमः। तं मे शृणु महाबाहो श्रुत्वा व्याख्यातुमर्हसि॥ कौतूहलं मे सुमहज्जामदग्न्यं प्रति प्रभो। रामं धर्मभृतां श्रेष्ठं तन्मे व्याख्यातुमर्हसि॥ कथमेष समुत्पन्नो रामः सत्यपराक्रमः। कथं ब्रह्मर्षिवंशोऽयं क्षत्रधर्मा व्यजायत॥ तदस्य सम्भवं राजन् निखिलेनानुकीर्तय। कौशिकाच्च कथं वंशात् क्षत्राद् वै ब्राह्मणो भवेत्॥४ अहो प्रभावः सुमहानासीद् वै सुमहात्मनः। रामस्य च नरव्याघ्र विश्वामित्रस्य चैव हि॥ कथं पुत्रानतिक्रम्य तेषां नप्तृष्वथाभवत्। एष दोषः सुतान् हित्वा तत्त्वं व्याख्यातुमर्हसि।॥ भीष्म उवाच अत्राप्युदाहरन्तीपमितिहासं पुरातनम्। च्यवनस्य च संवादं कुशिकस्य च भारत॥ एतं दोषं पुरा दृष्ट्वा भार्गवश्च्यवनस्तदा। आगामिनं महाबुद्धिः स्ववंशे मुनिसत्तमः॥ निश्चित्य मनसा सर्वं गुणदोषबलाबलम्। दग्धुकामः कुलं सर्वं कुशिकानां तपोधनः॥ च्यवनः समनुप्राप्य कुशिकं वाक्यमब्रवीत्। वस्तुमिच्छा समुत्पन्ना त्वया सह ममानघ॥ कुशिक उवाच भगवन् सहधर्मोऽयं पण्डितैरिह धार्यते। प्रदानकाले कन्यानामुच्यते च सदा बुधैः॥ यत्तु तावदतिक्रान्तं धर्मद्वारं तपोधन। तत्कार्यं प्रकरिष्यामि तदनुज्ञातुमर्हसि॥ भीष्म उवाच अथासनमुपादाय च्यवनस्य महामुनेः। कुशिको भार्यया सार्धमाजगाम यतो मुनिः॥ प्रगृह्य राजा भृङ्गारं पाद्यमस्मै न्यवेदयत्। कारयामास सर्वाश्च क्रियास्तस्य महात्मनः॥ ततः स राजा च्यवनं मधुपर्क यथाविधि। ग्राहयामास चाव्यग्रो महात्मा नियतव्रतः॥ सत्कृत्य तं तथा विप्रमिदं पुनरथाब्रवीत्। भगवन् परवन्तौ स्वो ब्रूहि किं करवावहे॥ यदि राज्यं यदि धनं यदि गाः संशितव्रत। यज्ञदानानि च तथा ब्रूहि सर्वं ददामि ते॥ इदं गृहमिदं राज्यमिदं धर्मासनं च ते। राजा त्वमसि शाध्युर्वीमहं तु परवांस्त्वयि॥ एवमुक्ते ततो वाक्ये च्यवनो भार्गवस्तदा। कुशिकं प्रत्युवाचेदं मुदा परमया युतः॥ च्यवन उवाच न राज्यं कामये राजन् न धनं न य योषितः। न च गा न च वै देशान् न यज्ञं श्रूयतामिदम्॥ नियमं किंचिदारप्स्ये युवयोर्यदि रोचते। परिचर्योऽस्मि यत्ताभ्यां युवाभ्यामविशङ्कया॥ एवमुक्ते तदा तेन दम्पती तौ जहर्षतुः। प्रत्यब्रूतां च तमृषिमेवमस्त्विति भारत॥ अथ तं कुशिको दृष्टः प्रावेशयदनुत्तमम्। गृहोद्देशं ततस्तस्य दर्शनीयमदर्शयत्॥ राजोवाच इयं शय्या भगवतो यथाकाममिहोप्यताम्। प्रयतिष्यावहे प्रीतिमाहर्तुं ते तपोधन।॥ अथ सूर्योऽतिचक्राम तेषां संवदतां तथा। अथर्षिश्चोदयामास पानमन्नं तथैव च॥ तमपृच्छत् ततो राजा कुशिकः प्रणतस्तदा। किमन्नजातमिष्टं ते किमुपस्थापयाम्यहम्॥ ततः स परया प्रीत्या प्रत्युवाच नराधिपम्। औपपत्तिकमाहारं प्रयच्छेस्वेति भारत॥ तद्वचः पूजयित्वा तु तथेत्याह स पार्थिवः। यथोपपन्नमाहारं तस्मै प्रादाज्जनाधिप॥ ततः स भुक्त्वा भगवान् दम्पती प्राह धर्मवित्। स्वप्तुमिच्छाम्यहं निद्रा बाधते मामिति प्रभो॥ ततः शय्यागृहं प्राप्य भगवानृषिसत्तमः। संविवेश नरेशस्तु सपत्नीकः स्थितोऽभवत्।॥ न प्रबोध्योऽस्मि संसुप्त इत्युवाचाथ भार्गवः। संवाहितव्यौ मे पादौ जागृतव्यं च तेऽनिशम्॥ अविशङ्कस्तु कुशिकस्तेथेत्येवाह धर्मवित्। न प्रबोधयतां तौ च दम्पती रजनीक्षये॥ यथादेशं महर्षस्तु शुश्रूषापरमौ तदा। बभूवतुर्महाराज प्रयतावथ दम्पती॥ ततः स भगवान् विप्रः समादिश्य नराधिपम्। सुष्वापैकेन पाइँन दिवसानेकविंशतिम्॥ स तु राजा निराहारः सभार्य: कुरुनन्दन। पर्युपासत तं हृष्टश्च्यवनाराधने रतः॥ भार्गवस्तु समुत्तस्थौ स्वयमेव तपोधनः। अकिंचिदुक्त्वा तु गृहानिश्चक्राम महातपाः॥ तमन्वगच्छतां तौ च क्षुधितौ श्रमकर्शितौ। भार्यापती मुनिश्रेष्ठस्तावेतौ नावलोकयत्॥ तयोस्तु प्रेक्षतोरेव भार्गवाणां कुलोद्वहः। अन्तर्हितोऽभूद् राजेन्द्र ततो राजापतत् क्षितौ॥ स मुहूर्तं समाश्वस्य सह देव्या महाद्युतिः। पुनरन्वेषणे यत्नमकरोत् परमं तदा॥ युधिष्ठिर उवाच तस्मिन्नन्तर्हिते विप्रे राजा किमकरोत् तदा। भार्या चास्य महाभागा तन्मे ब्रूहि पितामह॥ भीष्म उवाच अदृष्ट्वा स महीपालस्तमृषि सह भार्यया। परिश्रान्तो निववृते वीडितो नष्टचेतनः॥ स प्रविश्य पुरी दीनो नाभ्यभाषत किंचन। तदेव चिन्तयामास च्यवनस्य विचेष्टितम्॥ अथ शून्येन मनसा प्रविश्य स्वगृहं नृपः। ददर्श शयने तस्मिन् शयानं भृगुनन्दनम्।॥ विस्मितौ तमृषि दृष्ट्वा तदाश्चर्ये विचिन्त्य च। दर्शनात् तस्य तु तदा विश्रान्तौ सम्बभूवतुः॥ यथास्थानं च तौ स्थित्वा भूयस्तं संववाहतुः। अथापरेण पार्बेन सुष्वाप स महामुनिः॥ तेनैव च स कालेन प्रत्यबुद्ध्यत वीर्यवान्। न च तौ चक्रतुः किंचिद् विकारं भयशङ्कितौ॥ प्रतिबुद्धस्तु स मुनिस्तौ प्रोवाच विशाम्पते। तैलाभ्यङ्गो दीयतां मे स्त्रास्येऽहमिति भारत॥ तौ तथेति प्रतिश्रुत्य श्रुधितौ श्रमकर्शितौ। शतपाकेन तैलेन महार्हेणोपतस्थतुः॥ ततः सुखासीनमृर्षि वाग्यतौ संववाहतुः। न च पर्याप्तमित्याह भार्गवः सुमहातपाः॥ यदा तौ निर्विकारौ तु लक्ष्यामास भार्गवः। तत उत्थाय सहसा स्नानशालां विवेश ह॥ क्लृप्तमेव तु तत्रासीत् स्नानीयं पार्थिवोचितम्। असत्कृत्य च तत् सर्वं तत्रैवान्तरधीयत॥ स मुनिः पुनरेवाथ नृपतेः पश्यतस्तदा। नासूयां चक्रतुस्तौ च दम्पती भरतर्षभ॥ अथ स्नातः स भगवान् सिंहासनगतः प्रभुः। दर्शयामास कुशिकं सभार्यं कुरुनन्दन॥ संहृष्टवदनो राजा सभार्यः कुशिको मुनिम्। सिद्धमन्नमिति प्रबो निर्विकारो न्यवेदयत्॥ तपस्वी उवाच आनीयतामिति मुनिस्तं चोवाच नराधिपम्। स राजा समुपाजह्वे तदन्नं सह भार्यया।॥ मासंप्रकारान् विविधाशाकानि विविधानि च। वेसवारविकारांश्च पानकानि लघूनि च॥ रसालापूपकांश्चित्रान् मोदकानथ खाण्डवान्। रसान् नानाप्रकारांश्च वन्यं च मुनिभोजनम्॥ फलानि च विचित्राणि राजभोज्यानि भूरिशः। बदरेङ्गुदकाश्मर्यभल्लातकफलानि च॥ गृहस्थानां च यद् भोज्यं यच्चापि वनवासिनाम्। सर्वमाहारयामास राजा शापभयात् ततः॥ अथ सर्वमुपन्यस्तमग्रतश्च्यवनस्य तत्। ततः सर्वं समानीय तच्च शय्यासनं मुनिः॥ वस्त्रैः शुभैरवच्छाद्य भोजनोपस्करैः सह। सर्वमादीपयामास च्यवनो भृगुनन्दनः॥ न च तौ चक्रतुः क्रोधं दम्पती सुमहामती। तयोः सम्प्रेक्षतोरेव पुनरन्तर्हितोऽभवत्॥ तथैव च स राजर्षिस्तथौ तां रजनीं तदा। सभार्यो वाग्यत: श्रीमान् न च कोपं समाविशत्।।२४ नित्यसंस्कृतमन्नं तु विविधं राजवेश्मनि। शयनानि च मुख्यानि परिषेकाश्च पुष्कला:॥ वस्त्रं च विविधाकारमभवत् समुपार्जितम्। न शशाक ततो द्रष्टुमन्तरं च्यवनस्तदा॥ पुनरेव च विप्रर्षिः प्रोवाच कुशिकं नृपम्। सभार्यो मां रथेनाशु वह यत्र ब्रवीम्यहम्॥ तथेति च प्राह नृपो निर्विशङ्कस्तपोधनम्। क्रीडारथोऽस्तु भगवन्नुत सांग्रामिको रथः॥ इत्युक्तः स मुनी राज्ञा तेन हृष्टेन तद्वचः। च्यवनः प्रत्युवाचेदं हृष्टः परपुरंजयम्॥ सज्जीकुरु रथं क्षिप्रं यस्ते सांग्रामिको मतः। सायुधः सपताकश्च शक्तीकनकयष्टिमान्॥ किङ्किणीस्वननिर्घोषो युक्तस्तोरणकल्पनैः। जाम्बूनदनिबद्धश्च परमेषुशतान्वितः॥ ततः स तं तथेत्युक्त्वा कल्पयित्वा महारथम्। भार्यां वामे धुरि तदा चात्मानं दक्षिणे तथा॥ त्रिदण्डं वज्रसूच्यग्रं प्रतोदं तत्र चादधत्। सर्वमेतत् तथा दत्त्वा नृपो वाक्यमथाब्रवीत्॥ भगवन् क्व रथो यातु ब्रवीतु भृगुनन्दन। यत्र वक्ष्यसि विप्रर्षे तत्र यास्यति ते रथः।३४॥ एवमुक्तस्तु भगवान् प्रत्युवाचाथ तं नृपम्। इत: प्रभृति यातव्यं पदकं पदकं शनैः॥ श्रमो मम यथा न स्यात् तथा मच्छन्दचारिणौ। सुसुखं चैव वोढव्यो जनः सर्वश्च पश्यतु॥ नोत्सार्याः पथिकाः केचित् तेभ्यो दास्ये वसु ह्यहम्। ब्राह्मणेभ्यश्च ये कामानर्थयिष्यन्ति मां पथि॥ सर्वान् दास्याम्यशेषेण धनं रत्नानि चैव हि। क्रियतां निखिलेनैतन्मा विचारय पार्थिव॥ तस्य तद् वचनं श्रुत्वा राजा भृत्यांस्तथाब्रवीत्। यद् यद् ब्रूयान्मुनिस्तत्तत् सर्वं देयमशङ्कितैः॥ ततो रत्नान्यनेकानि स्त्रियो युग्यमजाविकम्। कृताकृतं च कनकं गजेन्द्राचाचलोपमाः॥ अन्वगच्छत तमृषि राजामात्याश्च सर्वशः। हाहाभूतं च तत् सर्वमासीन्नगरमार्तवत्॥ तौ तीक्ष्णाग्रेण सहसा प्रतोदेन प्रतोदितौ। पृष्ठे विद्धौ कटे चैव निर्विकारो तमूहतुः॥ वेपमानौ निराहारौ पञ्चशदात्रकर्षितौ। कथंचिदूहतुर्वीरौ दम्पती तं रथोत्तमम्॥ बहुशो भृशविद्धौ तौ स्रवन्तो च क्षतोद्भवम्। ददृशाते महाराज पुष्पिताविव किंशुकौ॥ तौ दृष्ट्वा पौरवर्गस्तु भृशं शोकसमाकुलः। अभिशापभयत्रस्तो न च किंचिदुवाच ह॥ द्वन्द्वशश्चाब्रुवन् सर्वे पश्यध्वं तपसो बलम्। क्रुद्धा अपि मुनिश्रेष्ठं वीक्षितुं नेह शक्नुमः॥ अहो भगवतो वीर्यं महर्षेर्भावितात्मनः। राज्ञश्चापि सभार्यस्य धैर्यं पश्यत यादृशम्॥ श्रान्तावपि हि कृच्छ्रेण रथमेनं समूहतुः। न चैतयोर्विकारं वै ददर्श भृगुनन्दनः॥ ततः स निर्विकारौ तु दृष्ट्वा भृगुकुलोद्वहः। वसु विश्राणयामास यथा वैश्रवणस्तथा॥ तत्रापि राजा प्रीतात्मा यथादिष्टमथाकरोत्। ततोऽस्य भगवान् प्रीतो बभूव मुनिसत्तमः॥ अवतीर्य रथश्रेष्ठाद् दम्पती तौ मुमोच ह। विमोच्य चैतौ विधिवत् ततो वाक्यमुवाच ह॥ स्निग्धगम्भीरया वाचा भार्गवः सुप्रसन्नया। ददानि वां वरं श्रेष्ठं तं ब्रूतामिति भारत॥ सुकुमारौ च तौ विद्धौ कराभ्यां मुनिसत्तमः। पस्पर्शामृतकल्पाभ्यां स्नेहाद् भरतसत्तम॥ अथाब्रवीन्नृपो वाक्यं श्रमो नास्त्यावयोरिह। विश्रान्तौ च प्रभावात् ते उचतुस्तौ तु भार्गवम्॥ अथ तौ भगवान् प्राह प्रहृष्टश्च्यवनस्तदा। न वृथा व्याहृतं पूर्वं यन्मया तद् भविष्यति॥ रमणीयः समुद्देशो गङ्गातीरमिदं शुभम्। किंचित्कालं व्रतपरो निवत्स्यामीह पार्थिव॥ गम्यतां स्वपुरं पुत्र विश्रान्तः पुनरेष्यसि। इहस्थं मां सभार्यस्त्वं द्रष्टासि श्वो नराधिप॥ न च मन्युस्त्वया कार्यः श्रेयस्ते समुपस्थितम्। यत् काक्षितं हृदिस्थं ते तत्सर्वं हि भविष्यति॥ इत्येवमुक्तः कुशिकः प्रहृष्टेनान्तरात्मना। प्रोवाच मुनिशार्दूलमिदं वचनमर्थवत्॥ न मे मन्युर्महाभाग पूतो स्वो भगवंस्त्वया। संवृतौ यौवनस्थौ स्वो वपुष्मन्तौ बलान्वितौ॥ प्रतोदेन व्रणा ये मे सभार्यस्य त्वया कृताः। तान् न पश्यामि गात्रेषु स्वस्थोऽस्मि सह भार्यया।।६१ इमां च देवीं पश्यामि वपुषाप्सरसोपमाम्। श्रिया परमया युक्तां यथा दृष्टा पुरा मया।॥ तव प्रसादसंवृत्तमिदं सर्वं महामुने। नैतच्चित्रं तु भगवंस्त्वयि सत्यपराक्रम॥ इत्युक्तः प्रत्युवाचैनं कुशिकं च्यवनस्तदा। आगच्छेथाः सभार्यश्च त्वमिहेति नराधिप॥ इत्युक्तः समनुज्ञातो राजर्षिरभिवाद्य तम्। प्रययौ वपुषा युक्तो नगरं देवराजवत्॥ तत एनमुपाजग्मुरमात्याः सपुरोहिताः। बलस्था गणिकायुक्ताः सर्वाः प्रकृतयस्तथा॥ तैर्वृतः कुशिको राजा श्रिया परमया ज्वलन्। प्रविवेश पुरं हृष्टः पूज्यमानोऽथ बन्दिभिः॥ ततः प्रविश्य नगरं कृत्वा पौर्वाह्निकी: क्रियाः। भुक्त्वा सभार्यो रजनीमुवास स महाद्युतिः॥ ततस्तु तौ नवमभिवीक्ष्य यौवनं परस्परं विगतरुजाविवामरौ। ननन्दतुः शयनगतौ वपुर्धरौ श्रिया युतौ द्विजवरदत्तया तदा॥ स्तपोधनो वनमभिराममृद्धिमत्। मनीषया बहुविधरत्नभूषितं ससर्ज यन्न पुरि शतक्रतोरपि॥ भीष्म उवाच ततः स राजा रात्र्यन्ते प्रतिबुद्धो महामनाः। कृतपूर्वाह्निकः प्रायात् सभार्यस्तद् वनं प्रति॥ ततो ददर्श नृपतिः प्रासादं सर्वकाञ्चनम्। मणिस्तम्भसहस्राढ्यं गन्धर्वनगरोपमम्॥ तत्र दिव्यानभिप्रायान् ददर्श कुशिकस्तदा। पर्वतान् रूप्यसानूंश्च नलिनीश्च सपङ्कजाः॥ चित्रशालाश्च विविधास्तोरणानि च भारत। शाद्वलोपचितां भूमिं तथा काञ्चनकुट्टिमाम्॥ सहकारान् प्रफुल्लांश्च केतकोद्दालकान् वरान्। अशोकान् सहकुन्दांश्च फुल्लांश्चैवातिमुक्तकान्॥ चम्पकांस्तिलकान् भव्यान् पनसान् वञ्जुलानपि। पुष्पितान् कर्णिकारांश्च तत्र तत्र ददर्श ह॥ श्यामान् वारणपुष्पांश्च तथाष्टपदिका लताः। तत्र तत्र परिक्लृप्ता ददर्श स महीपतिः॥ रम्यान् पद्मोत्पलधरान् सर्वर्तुकुसुमांस्तथा। विमानप्रतिमांश्चापि प्रासादान् शैलसंनिभान्॥ शीतलानि च तोयानि क्वचिदुष्णानि भारत। आसनानि विचित्राणि शयनप्रवराणि च॥ पर्यङ्कान् रत्नसौवर्णान् परास्तिरणावृतान्। भक्ष्यं भोज्यमनन्तं च तत्र तत्रोपकल्पितम्॥ वाणीवादाञ्छुकांश्चैव सारिकान् भृङ्कराजकान्। कोकिलाञ्छतपत्रांश्च सकोयष्टिककुक्कुभान्॥ मयूरान् कुक्कुटांश्चापि दात्यूहान् जीवजीवकान्। चकोरान् वानरान् हंसान् सारसांश्चक्रसाह्वयान्॥ समन्ततः प्रमुदितान् ददर्श सुमनोहरान्। क्वचिदप्सरसा संघान् गन्धर्वाणां च पार्थिव॥ कान्ताभिरपरांस्तत्र परिष्वक्तान् ददर्श ह। न ददर्श च तान् भूयो ददर्श च पुनर्नृपः॥ गीतध्वनि सुमधुरं तथैवाध्यापनध्वनिम्। हंसान सुमधुरांश्चापि तत्र शुश्राव पार्थिवः॥ तं दृष्ट्वात्यद्भुतं राजा मनसाचिन्तयत् तदा। स्वप्नोऽयं चित्तविभ्रंश उताहो सत्यमेव तु॥ अहो सह शरीरेण प्राप्तोऽस्मि परमां गतिम्। उत्तरान् वा कुरून पुण्यानथवाप्यमरावतीम्॥ किंचेदं महदाश्चर्यं सम्पश्यामीत्यचिन्तयत्। एवं संचिन्तयन्नेव ददर्श मुनिपुङ्गवम्॥ तस्मिन् विमाने सौवर्णे मणिस्तम्भसमाकुले। महार्हे शयने दिव्ये शयानं भृगुनन्दनम्॥ तमभ्ययात् प्रहर्षेण नरेन्द्रः सह भार्यया। अन्तर्हितस्ततो भूयश्च्यवनः शयनं च तत्॥ ततोऽन्यस्मिन् वनोद्देशे पुनरेव ददर्श तम्। कौश्यां वृस्यां समासीनं जपमानं महाव्रतम्॥ एवं योगबलाद् विप्रो मोहयामास पार्थिवम्। क्षणेन तद् वनं चैव ते चैवाप्सरसां गणाः॥ गन्धर्वाः पादपाश्चैव सर्वमन्तरधीयत। निःशब्दमभवच्चापि गङ्गाकूलं पुनर्नृप॥ कुशवल्मीकभूयिष्ठं बभूव च यथा पुरा। ततः स राजा कुशिकः सभार्यस्तेन कर्मणा॥ विस्मयं परमं प्राप्तस्तद् दृष्ट्वा महदद्भुतम्। ततः प्रोवाच कुशिको भार्यां हर्षसमन्वितः॥ पश्य भद्रे यथा भावाश्चित्रा दृष्टाः सुदुर्लभाः। प्रसादाद् भृगुमुख्यस्य किमन्यत्र तपोबलात्॥ तपसा तदवाप्यं हि यत् तु शक्यं मनोरथैः। त्रैलोक्यराज्यादपि हि तप एव विशिष्यते॥ तपसा हि सुतप्तेन शक्यो मोक्षस्तपोबलात्। अहो प्रभावो ब्रह्मर्षेश्च्यवनस्य महात्मनः॥ इच्छयैष तपोवीर्यादन्याँल्लोकान् सृजेदपि। ब्राह्मणा एव जायेरन् पुण्यवाग्बुद्धिकर्मणः॥ उत्सहेदिह कृत्वैव कोऽन्यो वै च्यवनादृते। ब्राह्मण्यं दुर्लभं लोके राज्यं हि सुलभं नरैः॥ ब्राह्मण्यस्य प्रभावाद्धि रथे युक्तौ स्वधुर्यवत्। इत्येवं चिन्तयानः स विदितश्च्यवनस्य वै॥ सम्प्रेक्ष्योवाच नृपति क्षिप्रमागम्यतामिति। इत्युक्तः सहभार्यस्तु सोऽभ्यगच्छन्महामुनिम्॥ शिरसा वन्दनीयं तमवन्दत च पार्थिवः। तस्याशिषः प्रयुज्याथ स मुनिस्तं नराधिपम्॥ निषीदेत्यब्रवीद् धीमान् सान्त्वयन् पुरुषर्षभः। ततः प्रकृतिमापन्नो भार्गवो नृपते नृपम्॥ उवाच श्लक्ष्णया वाचा तर्पयन्निव भारत। राजन् सम्यग् जितानीह पञ्च पञ्च स्वयं त्वया।।३५ मनःषष्ठानीन्द्रियाणि कृच्छ्रान्मुक्तोऽसि तेन वै। सम्यगाराधितः पुत्र त्वया प्रवदतां वर॥ न हि ते वृजिनं किंचित् सुसूक्ष्ममपि विद्यते। अनुजानीहि मां राजन् गमिष्यामि यथागतम्॥ प्रीतोऽस्मि तव राजेन्द्र वस्श्च प्रतिगृह्यताम्। कुशिक उवाच अग्निमध्ये गतेनेव भगवन् संनिधौ मया।॥ वर्तितं भृगुशार्दूल यन्न दग्धोऽस्मि तद् बहु। एष एव वरो मुख्यः प्राप्तो मे भृगुनन्दन॥ यत् प्रीतोऽसि मया ब्रह्मन् कुलं त्रातं च मेऽनघ। एष मेऽनुग्रहो विप्र जीविते च प्रयोजनम्॥ एतद् राज्यफलं चैव तपसश्च फलं मम। यदि त्वं प्रीतिमान् विप्र मयि वै भृगुनन्दन॥ अस्ति मे संशयः कश्चित् तन्मे व्याख्यातुमर्हसि॥ युधिष्ठिर उवाच मुह्यामीव निशम्याध चिन्तयानः पुनः पुनः। हीनां पार्थिवसंघातैः श्रीमद्भिः पृथिवीमिमाम्॥ प्राप्य राज्यानि शतशो महीं जित्वाथ भारत। कोटिशः पुरुषान् हत्वा परितप्ये पितामह॥ का नु तासां वरस्त्रीणां समवस्था भविष्यति। या हीनाः पतिभिः पुत्रैर्मातुलैर्भ्रातृभिस्तथा॥ वयं हि तान् कुरून् हत्वा ज्ञातींश्च सुहृदोऽपि वा। अवाक्शीर्षाः पतिष्यामो नरके नात्र संशयः॥ शरीरं योक्तुमिच्छामि तपसोग्रेण भारत। उपदिष्टमिहेच्छामि तत्त्वतोऽहं विशाम्पते॥ वैशम्पायन उवाच युधिष्ठिरस्य तद् वाक्यं श्रुत्वा भीष्मो महामनाः। परीक्ष्य निपुणं बुद्ध्या युधिष्ठिरमभाषत॥ भीष्म उवाच शृणु वक्ष्यामि यत् त्वयि। या गतिः प्राप्यते येन प्रेत्यभावे विशाम्पते॥ तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः। आयुः प्रकृर्षो भोगाश्च लभ्यन्ते तपसा विभो॥ रहस्यमद्भुतं चैव ज्ञानं विज्ञानमारोग्यं रूपं सम्पत् तथैव च। सौभाग्यं चैव तपसा प्राप्यते भरतर्षभ।॥ धनं प्राप्नोति तपसा मौनेनाज्ञां प्रयच्छति। उपभोगांस्तु दानेन ब्रह्मचर्येण जीवितम्॥ अहिंसायाः फलं रूपं दीक्षाया जन्म वै कुले। फलमूलाशिनां राज्यं स्वर्गः पर्णाशिनां भवेत्॥ पयोभक्षो दिवं याति दानेन द्रविणाधिकः। गुरुशुश्रूषया विद्या नित्यश्राद्धेन संततिः॥ गवाढ्यः शाकदीक्षाभिः स्वर्गमाहुस्तृणाशिनाम्। स्त्रियस्त्रिषवणं स्नात्वा वायुं पीत्वा क्रतुं लभेत्॥ नित्यस्नायी भवेद् दक्षः संध्ये तु द्वे जपन् द्विजः। मरूं साधयतो राजन् नाकपृष्ठमनाशके॥ स्थण्डिले शयमानानां गृहाणि शयनानि च। चीरवल्कलवासोभिर्वासांस्याभरणानि च।॥ शय्यासनानि यानानि योगयुक्ते तपोधने। अग्निप्रवेशे नियतं ब्रह्मलोके महीयते॥ रसानां प्रतिसंहारात् सौभाग्यमिह विन्दति। आमिषप्रतिसंहारात् प्रजा ह्यायुष्मती भवेत्॥ उदवासं वसेद् यस्तु स नराधिपतिर्भवेत्। सत्यवादी नररेष्ठ दैवतैः सह मोदते॥ कीर्तिर्भवति दानेन तथाऽऽरोग्यमहिंसया। द्विजशुश्रूधया राज्यं द्विजत्वं चापि पुष्कलम्॥ पानीयस्य प्रदानेन कीर्तिर्भवति शाश्वती। अन्नस्य तु प्रदानेन तृप्यन्ते कामभोगतः॥ सान्त्वदः सर्वभूतानां सर्वशोकैर्विमुच्यते। देवशुश्रूषया राज्यं दिव्यं रूपं नियच्छति॥ दीपालोकप्रदानेन चक्षुष्मान् भवते नरः। प्रेक्षणीयप्रदानेन स्मृति मेधां च विन्दति।॥ गन्धमाल्यप्रदानेन कीर्तिर्भवति पुष्कला। केशश्मश्रु धारयतामग्र्या भवति संततिः॥ उपवासं च दीक्षां च अभिषेकं च पार्थिव। कृत्वा द्वादशवर्षाणि वीरस्थानाद् विशिष्यते॥ दासीदासमलङ्करान् क्षेत्राणि च गृहाणि च। ब्रह्मदेयां सुतां दत्त्वा प्राप्नोति मनुजर्षभ॥ क्रतुभिश्चोपवासैश्च त्रिदिवं याति भारत। लभते च शिवं ज्ञानं फलपुष्पप्रदो नरः॥ सुवर्णशृङ्गैस्तु विराजितानां गवां सहस्रस्य नरः प्रदानात्। मित्येवमाहुर्दिवि देवसंघाः॥ प्रयच्छते यः कपिलां सवत्सां कांस्योपदोहां कनकाग्रशृङ्गीम्। तैस्तैर्गुणैः कामदुहास्य भूत्वा नरं प्रदातारमुपैति सा गौः॥ स्तावत् कालं प्राप्य स गोप्रदानात्। मासप्तमं तारयते परत्र॥ सदक्षिणां काञ्चनारुशृङ्गी कांस्योपदोहां द्रविणोत्तरीयाम्। धेनुं तिलानां ददतो द्विजाय लोका वसूनां सुलभा भवन्ति॥ स्वकर्मभिर्मानवं संनिरुद्धं तीव्रान्धकारे नरके पतन्तम्। महार्णवे नौरिव वायुयुक्ता दानं गवां तारयते परत्र॥ यो ब्रह्मदेयां तु ददाति कन्यां भूमिप्रदानं च करोति विप्रे। ददाति चान्नं विधिवच्च यश्च स लोकमाप्नोति पुरंदरस्य॥ नैवेशिकं सर्वगुणोपपन्नं ददाति वै यस्तु नरो द्विजाय। स्वाध्यायचारित्र्यगुणान्विताय तस्यापि लोकाः कुरुघूत्तरेषु॥ धुर्यप्रदानेन गवां तथा वै लोकानवाप्नोति नरो वसूनाम्। स्वर्गाय चाहस्तु हिरण्यदानं ततो विशिष्टं कनकप्रदानम्॥ छत्रप्रदानेन गृहं वरिष्ठं यानं तथोपानहसम्प्रदाने। वस्त्रप्रदानेन फलं स्वरूपं गन्धप्रदानात् सुरभिर्नरः स्यात्॥ पुष्पोपगं वाथ फलोपंग वा यः पादपं स्पर्शयते द्विजाया सश्रीकमृद्धं बहुरत्नपूर्ण लभत्ययत्नोपगतं गृहं वै॥ भक्ष्यानपानीयरसप्रदाता सर्वान् समाप्नोति रसान् प्रकामम्। प्रतिश्रयाच्छादनसम्प्रदाता प्राप्नोति तान्येव न संशयोऽत्र॥ स्रग्धूपगन्धाननुलेपनानि स्नानानि माल्यानि च मानवो यः। स्तथाभिरूपश्च नरेन्द्र लोके॥ बीजैरशून्यं शयनैरुपेतं दद्याद् गृहं यः पुरुषो द्विजाय। पुण्याभिरामं बहुरत्नपूर्ण लभत्यधिष्ठानवरं स राजन्॥ सुगन्धचित्रास्तरणोपधानं दद्यान्नरो यः शयनं द्विजाय। रूपान्वितां पक्षवती मनोज्ञां भार्यामयत्नोपगतां लभेत् सः। पितामहस्यानवरो वीरशायी भवेन्नरः। नाधिकं विद्यते यस्मादित्याहुः परमर्षयः॥ वैशम्पायन उवाच तस्य तद् वचनं श्रुत्वा प्रीतात्मा कुरुनन्दनः। नाश्रमेऽरोचयद् वासं वीरमार्गाभिकाझ्या॥ ततो युधिष्ठिरः प्राह पाण्डवान् पुरुषर्षभा पितामहस्य यद् वाक्यं तद् वो रोचत्विति प्रभुः।।४३ ततस्तु पाण्डवाः सर्वे द्रौपदी च यशस्विनी। युधिष्ठिरस्य तद् वाक्यं बाढमित्यभ्यपूजयन्॥ युधिष्ठिर उवाच आरामाणां तडागानां यत् फलं कुरुपुङ्गवा तदहं श्रोतुमिच्छामि त्वत्तोऽद्य भरतर्षभ॥ भीष्म उवाच सुप्रदर्शा बलवती चित्रा धातुविभूषिता। उपेता सर्वभूतैश्च श्रेष्ठा भूमिरिहोच्यते॥ तस्याः क्षेत्रविशेषाश्च तडागानां च बन्धनम्। औदकानि च सर्वाणि प्रवक्ष्याम्यनुपूर्वशः॥ तडागानां च वक्ष्यामि कृतानां चापि ये गुणाः। त्रिषु लाकेषु सर्वत्र पूजनीयस्तडागवान्॥ अथवा मित्रसदनं मैत्रं मित्रविवर्धनम्। कीर्तिसंजननं श्रेष्ठं तडागानां निवेशनम्॥ धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणः। तडागसुकृतं देशे क्षेत्रमेकं महाश्रयम्॥ चतुर्विधानां भूतानां तडागमुपलक्षयेत्। तडागानि च सर्वाणि दिशन्ति श्रियमुत्तमाम्॥ देवा मनुष्यगन्धर्वा: पितरोरगराक्षसाः। स्थावराणि च भूतानि संश्रयन्ति जलाशयम्॥ तस्मात् तांस्ते प्रवक्ष्यामि तडागे ये गुणाः स्मृताः। या च तत्र फलावाप्तिर्ऋषिभिः समुदाहृता॥ वर्षाकाले तडागे सलिलं यस्य तिष्ठति। अग्निहोत्रफलं तस्य फलमाहुर्मनीषिणः॥ शरत्काले तु सलिलं तडागे यस्य तिष्ठति। गोसहस्रस्य स प्रेत्य लभते फलमुत्तमम्॥ हेमन्तकाले सलिलं तडागे यस्य तिष्ठति। स वै बहुसुवर्णस्य यज्ञस्य लभते फलम्॥ तु यस्य वै शैशिरे काले तडागे सलिलं भवेत्। तस्याग्निष्टोमयज्ञस्य फलमाहुर्मनीषिणः॥ तडागं सुकृतं यस्य वसन्ते तु महाश्रयम्। अतिरात्रस्य यज्ञस्य फलं स समुपाश्नुते॥ निदाघकाले पानीयं तडागे यस्य तिष्ठति। वाजिमेधफलं तस्य फलं वै मुनयो विदुः॥ स कुलं तारयेत् सर्वं यस्य खाते जलाशये। गावः पिबन्ति सलिलं साधवश्च नराः सदा॥ तडागे यस्य गावस्तु पिबन्ति तृषिता जलम्। मृगपक्षिमनुष्याच सोऽश्वमेधफलं लभेत्॥ यत् पिबन्ति जलं तत्र स्नायन्ते विश्रमन्ति च। तडागे यस्य तत् सर्वं प्रेत्यानन्त्याय कल्पते।॥ दुर्लभं सलिलं तात विशेषेण परत्र वै। पानीयस्य प्रदानेन प्रीतिर्भवति शाश्वती॥ तिलान् ददत पानीयं दीपान् ददत जाग्रत। ज्ञातिभिः सह मोदध्वमेतत् प्रेत्य सुदुर्लभम्॥ सर्वदानैर्गुरुतरं सर्वदानैर्विशिष्यते। पानीयं नरशार्दूल तस्माद् दातव्यमेव हि॥ एवमेतत् तडागस्य कीर्तितं फलमुत्तमम्। अत ऊर्ध्वं प्रवक्ष्यामि वृक्षाणामवरोपणम्॥ स्थावराणां च भूतानां जातयः षट् प्रकीर्तिताः। वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः॥ एता जात्यस्तु वृक्षाणां तेषां रोपे गुणस्त्विमे। कीर्तिश्च मानुषे लोके प्रेत्य चैव फलं शुभम्॥ लभते नाम लोके च पितृभिश्च महीयते। देवलोके गतस्यापि नाम तस्य न नश्यति॥ अतीतानागते चोभे पितृवशं च भारत। तारयेद् वृक्षरोपी च तस्माद् रोपयेत्॥ तस्य पुत्रा भवन्त्येत पादपा नात्र संशयः। परलोकगतः स्वर्ग लोकांश्चात्पोति सोऽव्ययान्॥ पुष्पैः सुरगणान् वृक्षाः फलैचापि तथा पितॄन्। छायया चातिथिं तात पूजयन्ति महीरुहः॥ किन्नरोरगरक्षांसि देवगन्धर्वमानवाः। तथा ऋषिगणाश्चैव संश्रयन्ति महीरुहान्॥ पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान्। वृक्षदं पुत्रवद् वृक्षास्तारयन्ति परत्र तु॥ तस्मात् तडागे सवृक्षा रोप्याः श्रेयोऽर्थिना सदा। पुत्रवत् परिपाल्याश्च पुत्रास्ते धर्मतः स्मृताः॥ तडागकृद् वृक्षरोपी इष्टयज्ञश्च यो द्विजः। एते स्वर्गे महीयन्ते ये चान्ये सत्यवादिनः॥ तस्मात् तडागं कुर्वीत आरामांश्चैव रोपयेत् यजेच्च विविधैर्यज्ञैः सत्यं च सततं वदेत्॥ युधिष्ठिर उवाच यानीमानि बहिर्वेद्यां दानानि परिचक्षते। तेभ्यो विशिष्टं किं दानं मतं ते कुरुपुङ्गव॥ कौतूहलं हि परमं तत्र मे विद्यते प्रभो। दातारं दत्तमन्वेति यद् दानं तत् प्रचक्ष्व मे॥ भीष्म उवाच अभयं सर्वभूतेभ्यो व्यसने चाप्यनुग्रहः। यच्चाभिलषितं दद्यात् तृषितायाभिचायते॥ दत्तं मन्येत यद् दत्त्वा तद् दानं श्रेष्ठमुच्यते। दत्तं दातारमन्वेति यद् दानं भरतर्षभ॥ हिरण्यदानं गोदानं पृथिवीदानमेव च। एतानि वै पवित्राणि तारयन्त्यपि दुष्कृतम्॥ एतानि पुरुषव्याघ्र साधुभ्यो देहि नित्यदा। दानानि हि नरं पापान्मोक्षयन्ति न संशयः॥ यद् यदिष्टतमं लोके यच्चास्य दयितं गृहे। तत् तद् गुणवते देयं तदेवाक्षयमिच्छता॥ प्रियाणि लभते नित्यं प्रियदः प्रियकृत् तथा। प्रियो भवति भूतानामिह चैव परत्र च॥ याचमानमभीमानादनासक्तमकिंचनम्। यो नार्चति यथाशक्ति स नृशंसो युधिष्ठिर॥ अमित्रमपि चेद् दीनं शरणैषिणमागतम्। व्यसने योऽनुगृह्णाति स वै पुरुषसत्तमः॥ कृशाय कृतविद्याय वृत्तिक्षीणाय सीदते। अपहन्यात् क्षुधां यस्तु न तेन पुरुषः समः॥ क्रियानियमितान् साधून् पुत्रदारैश्च कर्शितान्। अयाचमानान् कौन्तेय सर्वोपायैर्निमन्त्रयेत्॥ आशिषं ये न देवेषु न च मत्र्येषु कुर्वते। अर्हन्तो नित्यसंतुष्टास्तथा लब्धोपजीविनः॥ आशीविषसमेभ्यश्च तेभ्यो रक्षस्व भारत। तान् युक्तरुपजिज्ञास्यस्तथा द्विजवरोत्तमान्॥ कृतैरावसथैर्नित्यं सप्रेष्यैः सपरिच्छदैः। निमन्त्रयेथाः कौरव्य सर्वकामसुखावहैः॥ यदि ते प्रतिगृह्णीयुः श्रद्धापूतं युधिष्ठिर। कार्यमित्येव मन्वाना धार्मिकाः पुण्यकर्मिणः॥ विद्यास्नाता व्रतस्नाता ये व्यपाश्रित्य जीविनः। गूढस्वाध्यायतपसो ब्राह्मणाः संशितव्रताः॥ तेषु शुद्धेषु दान्तेषु स्वदारपरितोषिषु। यत् करिष्यसि कल्याणं तत् ते लोके युधाम्पते॥ यथाग्निहोत्रं सुहुतं सायं प्रातर्द्विजातिना। तथा दत्तं द्विजातिभ्यो भवत्यथ यतात्मसु।॥ एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः। विशिष्टः सर्वयज्ञेभ्यो ददतस्तात वर्तताम्॥ निवापदानसलिलस्तादृशेषु युधिष्ठिर। निवसन् पूजयंश्चैव तेष्वानृण्यं नियच्छिति॥ य एवं नैव कुप्यन्ते न लुभ्यन्ति तृणेष्वपि। त एव नः पूज्यतमा ये चापि प्रियवादिनः॥ एते न बहु मन्यन्ते न प्रवर्तन्ति चापरे। पुत्रवत् परिपाल्यास्ते नमस्तेभ्यस्तथाभयम्॥ ऋत्विक्पुरोहिताचार्या मृदुब्रह्मधरा हि ते। क्षात्रेणापि हि संसृष्टं तेजः शाम्यति वै द्विजे॥ अस्ति मे बलवानस्मि राजास्मीति युधिष्ठिर। ब्राह्मणान् मा च पर्यश्रीर्वासोभिरशनेन च॥ यच्छोभार्थं बलार्थं वा वित्तमस्ति तवानघ। तेन ते ब्राह्मणाः पूज्याः स्वधर्ममनुतिष्ठता॥ नमस्कार्यास्तथा विप्रा वर्तमाना यथातथम्। यथासुखं यथोत्साह ललन्तु त्वयि पुत्रवत्॥ को ह्यक्षयप्रसादानां सुहृदामल्पतोषिणाम्। वृत्तिमहत्यवक्षेप्तुं त्वदन्यः कुरुसत्तम॥ यथा पत्याश्रयो धर्मः स्त्रीणां लोके सनातनः। सदैव सा गतिर्नान्या तथास्माकं द्विजातयः॥ यदि नो ब्राह्मणास्तात संत्यजेयुरपूजिताः। पश्यन्तो दारुणं कर्म सततं क्षत्रिये स्थितम्॥ अवेदानामयज्ञानामलोकानामवर्तिनाम्। कस्तेषां जीवितेनार्थस्त्वां विना ब्राह्मणाश्रयम्॥ अत्र ते वर्तयिष्यामि यथा धर्मं सनातनम्। राजन्यो ब्राह्मणान् राजन् पुरा परिचचार ह॥ वैश्यो राजन्यमित्येव शूद्रो वैशमति श्रुतिः। दूराच्छूद्रेणोपचर्यो ब्राह्मणोऽग्निरिव ज्वलन्॥ संस्पर्शपरिचर्यस्तु वैश्येन क्षत्रियेण च। मृदुभावान् सत्यशीलान् सत्यधर्मानुपालकान्॥ आशीविषानिव क्रुद्धास्तानुपाचरत द्विजान्। अपरेषां परेषां च परेभ्यश्चापि ये परे॥ क्षत्रियाणां प्रतपतां तेजसा च बलेन च। ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च तपांसि च॥ न मे पिता प्रियतरो न त्वं तात तथा प्रियः। न मे पितुः पिता राजन् न चात्मा न च जीवितम्।। त्वत्तश्च मे प्रियतरः पृथिव्यां नास्ति कश्चन। त्वत्तोऽपि मे प्रियतरा ब्राह्मणा भरतर्षभ॥ ब्रवीमि सत्यमेतच्च यथाहं पाण्डुनन्दन। तेन सत्येन गच्छेयं लोकान् यत्र च शान्तनुः॥ पश्येयं च सतां लोकाञ्छुचीन् ब्रह्मपुरस्कृतान्। तत्र मे तात गन्तव्यमह्नाय च चिराय च॥ सोऽहमतादृशाल्लोकान् दृष्ट्वा भरतसत्तम। यन्मे कृतं ब्राह्मणेषु न तप्ये तेन पार्थिव॥ युधिष्ठिर उवाच यौ च स्यातां चरणेनोपपन्नौ यौ विद्यया सदृशौ जन्मना चा मयाचमानाय च याचते च॥।॥ भीष्म उवाच श्रेयो वै याचतः पार्थ दानमाहुरयाचते। अर्हत्तमो वै धृतिमान् कृपणादधृतात्मनः॥ क्षत्रियो रक्षणधृतिर्ब्राह्मणोऽनर्थनाधृतिः। ब्राह्मणो धृतिमान् विद्वान् देवान् प्रीणाति तुष्टिमान्॥३ याच्यमाहुरनीशस्य अभिहारं च भारत। उद्वेजयन्ति याचन्ति सदा भूतानि दस्युवत्॥ प्रियते याचमानो वै न जातु म्रियते ददत्। ददत् संजीवयत्येनमात्मानं च युधिष्ठिर॥ आनृशंस्यं परो धर्मो याचते यत् प्रदीयते। अयाचतः सीदमानान् सर्वोपायैर्निमन्त्रयेत्॥ यदि वै तादृशा राष्ट्रान् वसेयुस्ते द्विजोत्तमाः। भस्मच्छन्नानिवाग्नीस्तान् बुध्येथास्त्वं प्रयत्नतः॥ तपसा दीप्यमानास्ते दहेयुः पृथिवीमपि। अपूज्यमानाः कौरव्य पूजार्हास्तु तथाविधाः॥ पूज्या हि ज्ञानविज्ञानतपोयोगसमन्विताः। तेभ्यः पूजां प्रयुञ्जीथा ब्राह्मणेभ्यः परंतप॥ ददद् बहुविधान् दायानुपागच्छन्नयाचताम्। यदग्निहोत्रे सुहुते सायंप्रातर्भवेत् फलम्॥ विद्यावेदव्रतवति तद्दानफलमुच्यते। विद्यावेदव्रतस्नातानव्यापाश्रयजीविनः॥ गूढस्वाध्यायतपसो ब्राह्मणान् संशितव्रतान्। कृतैरावसथैर्हद्यैः सप्रेष्यैः सपरिच्छदैः॥ निमन्त्रयेथाः कौरव्य कामैश्चान्येर्द्विजोत्तमान्। अपि ते प्रतिगृह्वीयुः श्रद्धोपेतं युधिष्ठिर॥ कार्यमित्येव मन्वाना धर्मज्ञाः सूक्ष्मदर्शिनः। अपि ते ब्राह्मणा भुक्त्वा गताः सोद्धरणान् गृहान्।। येषां दाराः प्रतीक्षन्ते पर्जन्यमिव कर्षकाः। अन्नानि प्रातःसवने नियता ब्रह्मचारिणः॥ ब्राह्मणास्तात भुञ्जनास्त्रेताग्निं प्रीणयन्त्युत। माध्यन्दिनं ते सवनं ददतस्तात वर्तताम्॥ । गोहिरण्यानि वासांसि तेनेन्द्रः प्रीयतां तव। तृतीयं सवनं ते वै वैश्वदेवं युधिष्ठिर॥ यद् देवेभ्यः पितृभ्यश्च विप्रेभ्यश्च प्रयच्छसि। अहिंसा सर्वभूतेभ्यः संविभागश्च भागशः॥ दमस्त्यागो धृतिः सत्यं भवत्यवभृथायते। एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः॥ युधिष्ठिर उवाच दानं यज्ञः क्रिया चेह किंस्वित् प्रेत्य महाफलम् कस्य ज्यायः फलं प्रोक्तं कीदृशेभ्यः कथं कदा॥ एतदिच्छामि विज्ञातुं याथातथ्येन भारत। विद्वन् जिज्ञासमानाय दानधर्मान् प्रचक्ष्व मे॥ अन्तर्वेद्यां च यद् दत्तं श्रद्धया चानृशंस्यतः। किंस्विन्नैःश्रेयसं तात तन्मे ब्रूहि पितामह॥ भीष्म उवाच रौद्रं कर्म क्षत्रियस्य सततं तात वर्तते। तस्य वैतानिकं कर्म दानं चैवेह पावनम्॥ न तु पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः। एतस्मात् कारणाद् यज्ञैर्यजेद् राजाऽऽप्तदक्षिणैः॥ अथ चेत् प्रतिगृह्वीयुर्दद्यादहरहर्नृपः। श्रद्धामास्थाय परमां पावनं ह्येतदुत्तमम्॥ ब्राह्मणांस्तर्पयन् द्रव्यस्ततो यज्ञे यतव्रतः। मैत्रान् साधून् वेदविदः शीलवृत्ततपोर्जितान्॥ यत् ते ते न करिष्यन्ति कृतं ते न भविष्यति। यज्ञान् साधय साधुभ्यः स्वाद्वन्नान् दक्षिणावतः॥ इष्टं दत्तं च मन्येथा आत्मानं दानकर्मणा। पूजयेथा याजयूकांस्तवाप्यंशो भवेद् यथा॥ प्रजावतो भरेथाश्च ब्राह्मणान् बहुकारिणः। प्रजावांस्तेन भवति यथा जनयिता तथा॥ यावतः साधुधर्मान् वै सन्तः संवर्धयन्त्युत। सर्वस्वैश्चापि भर्तव्या नरा ये बहुकारिणः॥ समृद्धः सम्प्रयच्छ त्वं ब्राह्मणेभ्यो युधिष्ठिर। धेनूरनडूहोऽन्नानि च्छत्रं वासांस्युपानहौ॥ आज्यानि यजमानेभ्यस्तथानानि च भारत। अश्ववन्ति च यानानि वेश्मानि शयनानि च॥ एते देया व्युष्टिमन्तो लघूपायाश्च भारत। अजुगुप्सांश्च विज्ञाय ब्राह्मणान् वृत्तिकर्शितान्॥ उपच्छन्नं प्रकाशं वा वृत्त्या प्रतिपालयेत् राजसूयाश्वमेधाभ्यां श्रेयस्तत् क्षत्रियान् प्रति॥ एवं पापैर्विनिर्मुक्तस्त्वं पूतः स्वर्गमाप्स्यसि। संचयित्वा पुनः कोशं यद् राष्ट्र पालयिष्यसि॥ तेन त्वं ब्रह्मभूयत्वमवाप्स्यसि धनानि च। आत्मनश्च परेषां च वृत्तिं संरक्ष भारत॥ पुत्रवच्चापि भृत्यान् स्वान् प्रजाश्च परिपालय। योगः क्षेमश्च ते नित्यं ब्राह्मणेष्वस्तु भारत॥ तदर्थं जीवितं तेऽस्तु मा तेभ्योऽप्रतिपालनम्। अनर्थो ब्राह्मणस्यैष यद् वित्तनिचयो महान्॥ श्रिया ह्यभीक्ष्णं संवासो दर्पयेत् सम्प्रमोहयेत्। ब्राह्मणेषु प्रमूढेषु धर्मो विप्रणशेद् ध्रुवम्। धर्मप्रणाशे भूतानामभावः स्यान्न संशयः॥ यो रक्षिभ्यः सम्प्रदाय राजा राष्ट्रं विलुम्पति। यज्ञे राष्ट्राद् धनं तस्मादानयध्वमिति ब्रुवन्॥ यच्चादाय तदाज्ञप्तं भीतं दत्तं सुदारुणम्। यजेद् राजा न तं यज्ञं प्रशंसन्त्यस्य साधवः॥ अपीडिताः सुसंवृद्धा ये ददत्यनुकूलतः। तादृशेनाप्युपायेन यष्टव्यं नोद्यमाहृतैः॥ यदा परिनिषिच्येत निहितो वै यथाविधि। तदा राजा महायज्ञैर्यजेत बहुदक्षिणैः॥ वृद्धबालधनं रक्ष्यमन्धस्य कृपणस्य च। न खातपूर्वं कुर्वीत न रुदन्ती धनं हरेत्॥ हतं कृपणवित्तं हि राष्ट्र हन्ति नृपश्रियम्। दद्याच्च महतो भोगान् क्षुद्भयं प्रणुदेत् सताम्॥ येषां स्वादूनि भोज्यानि समवेक्ष्यन्ति बालकाः। नाश्नन्ति विधिवत् तानि किं तु पापतरं ततः॥ यदि ते तादृशो राष्ट्रे विद्वान् सीदेत् क्षुधा द्विजः। भ्रूणहत्यां च गच्छेथाः कृत्वा पापमिवोत्तमम्॥ धिक् तस्य जीवितं राज्ञो राष्ट्रे यस्यावसीदति। द्विजोऽन्योवा मनुष्योऽपि शिबिराह वचो यथा॥ यस्य स्म विषये राज्ञः स्नातकः सीदति क्षुधा। अवृद्धिमेति तद्राष्ट्रं विन्दते सहराजकम्॥ क्रोशन्त्यो यस्य वै राष्ट्राधियन्ते तरसा स्त्रियः। क्रोशतां पतिपुत्राणां मृतोऽसौ न च जीवति॥ अरक्षितारं हर्तारं विलोप्तारमनायकम्। तं वै राजकलिं हन्युः प्रजाः सन्ना निघृणम्॥ अहं वो रक्षितेत्युक्त्वा यो न रक्षति भूमिपः। स संहत्य निहन्तव्यः श्वेव सोन्माद आतुरः॥ पापं कुर्वन्ति यत् किंचित् प्रजा राज्ञा हरक्षिताः। चतुर्थं तस्य पापस्य राजा विन्दति भारत॥ अथाहुः सर्वमेवैति भूयोऽमिति निश्चयः। चतुर्थे मतमस्माकं मनोः श्रुत्वानुशासनम्॥ शुभं वा यच्च कुर्वन्ति प्रजा राज्ञा सुरक्षिताः। चतुर्थं तस्य पुण्यस्य राजा चाप्नोति भारत॥ जीवन्तं त्वानुजीवन्तु प्रजाः सर्वा युधिष्ठिर। पर्जन्यमिव भूतानि महादुममिवाण्डजाः॥ कुबेरमिव रक्षांसि शतक्रतुमिवामराः। ज्ञातयस्त्वानुजीवन्तु सुहृदश्च परंतप॥ युधिष्ठिर उवाच इदं देयमिदं देयमितीयं श्रुतिरादरात्। बहुदेयाश्च राजानः किंस्विद् दानमनुत्तमम्॥ भीष्म उवाच अतिदानानि सर्वाणि पृथिवीदानमुच्यते। अचला ह्यक्षया भूमिर्दोग्ध्री कामानिहोत्तमान्॥ दोग्ध्री वासांसि रत्नानि पशून् व्रीहियवांस्तथा। भूमिदः सर्वभूतेषु शाश्वतीरेधते समाः॥ यावद् भूमेरायुरिह तावद् भूमिद एधते। न भूमिदानादस्तीह परं किंचिद् युधिष्ठिर॥ अप्यल्पं प्रददुः सर्वे पृथिव्या इति नः श्रुतम्। भूमिमेव ददुःसर्वे भूमि ते भुञ्जते जनाः॥ स्वकर्मैवोपजीवन्ति नरा इह परत्र च। भूमिभूतिर्महादेवी दातारं कुरुते प्रियम्॥ य एतां दक्षिणां दद्यादक्षयां राजसत्तम। पुनर्नरत्वं सम्प्राप्य भवेत् स पृथिवीपतिः॥ यथा दानं तथा भोग इति धर्मेषु निश्चयः। संग्रामे वा तनुं जह्याद् दद्याच्च पृथिवीमिमाम्॥ इत्येतत् क्षत्रबन्धूनां वदन्ति परमां श्रियम्। पुनाति दत्ता पृथिवी दातारमिति शुश्रुम॥ अपि पापसमाचारं ब्रह्मघ्नमपि चानृतम्। सैव पापं प्लावयति सैव पापात् प्रमोचयेत्॥ अपि पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः। पृथिवीं नान्यदिच्छन्ति पावनं जननी यथा॥ नामास्याः प्रियदत्तेति गृह्यं देव्याः सनातनम्। दानं वाप्यथवाऽऽदानं नामास्याः प्रथमं प्रियम्॥ य एतां विदुषे दद्यात् पृथिवीं पृथिवीपतिः। पृथिव्यामेतदिष्टं स राजा राज्यमितो व्रजेत्॥ पुनश्चासौ जनिं प्राप्य राजवत् स्यान्न संशयः। तस्मात् प्राप्यैव पृथिवीं दद्याद् विप्राय पार्थिवः॥ नाभूमिपतिना भूमिरधिष्ठेया कथंचन। न चापात्रेण वा ग्राह्या दत्तेदाने न चाचरेत्॥ ये चान्ये भूमिमिच्छेयुः कुर्युरेवं न संशयः। यः साधोभूमिमादत्ते न भूमि विन्दते तु सः॥ भूमिं दत्त्वा तु साधुभ्यो विन्दते भूमिमुत्तमाम्। प्रेत्य चेह च धर्मात्मा सम्प्राप्नोति महद् यशः॥ यस्य विप्रास्तु शंसन्ति साधोभूमि सदैव हि। न तस्य शत्रवो राजन् प्रशंसन्ति वसुन्धराम्॥ यत् किंचित् पुरुषः पापं कुरुते वृत्तिकर्शितः। अपि गोचर्ममात्रेण भूमिदानेन पूयते॥ येऽपि संकीर्णकर्माणो राजानो रौद्रकर्मिणः। तेभ्यः पवित्रमाख्येयं भूमिदानमनुत्तमम्॥ अल्पान्तरमिदं शश्वत् पुराणा मेनिरे जनाः। यो यजेताश्वमेधेन दद्याद् वा साधवे महीम्॥ अपि चेत्सुकृतं कृत्वा शङ्करन्नपि पण्डिताः। अशक्यमेकमेवैतद् भूमिदानमनुत्तमम्॥ सुवर्ण रजतं वस्त्रं मणिमुक्तावसूनि च। सर्वमेतन्महाप्राज्ञो ददाति वसुधां ददत्।॥ तपो यज्ञः श्रुतं शीलमलोभः सत्यसंधता। गुरुदैवतपूजा च एता वर्तन्ति भूमिदम्॥ भूर्तृनिःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः। ब्रह्मलोकगताः सिद्धा नातिक्रामन्ति भूमिदम्॥ यथा जनित्री स्वं पुत्रं क्षीरेण भरते सदा। अनुगृह्णाति दातारं तथा सर्वरसैर्मही॥ मृत्युर्वैकिङ्करो दण्डस्तमो वह्निः सुदारुणः। घोराश्च दारुणा: पाशा नोपसर्पन्ति भूमिदम्॥ पितूंश्च पितृलोकस्थान् देवलोकाच्च देवताः। संतर्पयति शान्तात्मा यो ददाति वसुन्धराम्॥ कृशाय म्रियमाणाय वृत्तिग्लानाय सीदते। भूमि वृत्तिकरी दत्त्वा सत्री भवति मानवः॥ यथा धावति गौर्वत्सं सवन्ती वत्सला पयः। एवमेव महाभाग भूमिर्भवति भूमिदम्॥ फालकृष्टां महीं दत्त्वा सबीजां सफलामपि। उदीर्णं वापि शरणं यथा भवति कामदः॥ ब्राह्मणं वृत्तिसम्पन्नमाहिताग्निं शुचिव्रतम्। नरः प्रतिग्राह्य महीं न याति परमापदम्॥ यथा चन्द्रमसो वृद्धिरहन्यहनि जायते। तथा भूमिकृतं दानं सस्ये सस्ये विवर्धते॥ अत्र गाथा भूमिगीताः कीर्तयन्ति पुराविदः। याः श्रुत्वा जामदग्त्येन दत्ता भूः काश्यपाय वै॥ मामेवादत्त मां दत्त मां दत्त्वा मामवाप्स्यथ। अस्मिल्लोके परे चैव तद् दत्तं जायते पुनः॥ य इमां व्याहृतिं वेद ब्राह्मणो वेदसम्मिताम्। श्राद्धस्य क्रियमाणस्य ब्रह्मभूयं स गच्छति॥ कृत्यानामधिशस्तानामरिष्टशमनं महत्। प्रायश्चित्तं महीं दत्त्वा पुनात्युभयतो दश॥ पुनाति य इदं वेद वेदवादं तथैव च। प्रकृतिः सर्वभूतानां भूमिर्वैश्वानरी मता॥ अभिषिच्यैव नृपति श्रावयेदिममागमम्। यथा श्रुत्वा महीं दद्यान्नादद्यात् साधुतश्च ताम्॥ सोऽयं कृत्स्नो ब्राह्मणार्थो राजार्थचाप्यसंशयः। राजा हि धर्मकुशलः प्रथमं भूतिलक्षणम्॥ अथ येषामधर्मज्ञो राजा भवति नास्तिकः। न ते सुखं प्रबुध्यन्ति न सुखं प्रस्वपन्ति च॥ सदा भवन्ति चोद्विग्नास्तस्य दुश्चरितैर्नराः। योगक्षेमा हि बहवो राष्ट्र नास्याविशन्ति तत्॥ अथ येषां पुन: प्राज्ञो राजा भवति धार्मिकः। सुखं ते प्रतिबुध्यन्ते सुसुखं प्रस्वपन्ति च॥ तस्य राज्ञः शुभै राज्यैः कर्मभिर्निर्वृता नराः। योगक्षेमेण वृष्ट्या च विवर्धन्ते स्वकर्मभिः॥ स कुलीन: स पुरुषः स बन्धुः स च पुण्यकृत्। स दाता स च विक्रान्तो यो ददाति वसुन्धराम्॥ आदित्या इव दीप्यन्ते तेजसा भुवि मानवाः। ददन्ति वसुधां स्फीतां ये वेदविदुषि द्विजे॥ यथा सस्यानि रोहन्ति प्रकीर्णानि महीतले। तथा कामाः प्ररोहन्ति भूमिदानसमार्जिताः॥ आदित्यो वरुणो विष्णुर्ब्रह्मा सोमो हुताशनः। शूलपाणिश्च भगवान् प्रतिनन्दन्ति भूमिदम्॥ भूमौ जायन्ति पुरुषा भूमौ निष्ठां व्रजन्ति च। चतुर्विधो हि लोकोऽयं योऽयं भूमिगुणात्मकः॥ एषा माता पिता चैव जगतः पृथिवीयते। नानया सदृशं भूतं किंचिदस्ति जनाधिप।॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। बृहस्पतेश्च संवादमिन्द्रस्य च युधिष्ठिर॥ इष्ट्वा क्रतुशतेनाथ महता दक्षिणावता। मघवा वाग्विदां श्रेष्ठं पप्रच्छेदं बृहस्पतिम्॥ मघवा उवाच भगवन् केन दानेन स्वर्गत: सुखमेधते। यदक्षयं महाघु च तद् ब्रूहि वदतां वर॥ भीष्म उवाच इत्युक्तः स सुरेन्द्रेण ततो देवपुरोहितः। बृहस्पतिवृहत्तेजाः प्रत्युवाच शतक्रतुम्॥ बृहस्पति उवाच सुवर्णदानं गोदानं भूमिदानं च वृत्रहन्। दददेतान् महाप्राज्ञः सर्वपापैः प्रमुच्यते॥ न भूमिदानाद् देवेन्द्र परं किंचिदिति प्रभो। विशिष्टमिति मन्यामि यथा प्राहुर्मनीषिणः॥ ये शूरा निहता युद्धे स्वर्याता रणगृद्धिनः। सर्वे ते विबुधश्रेष्ठ नातिक्रामन्ति भूमिदम्॥ भर्तुनिःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः। ब्रह्मलोकगता मुक्ता नातिक्रामन्ति भूमिदम्॥ पञ्च पूर्वा हि पुरुषाः षडन्ये वसुधां गताः। एकादश ददद्भूमि परित्रातीह मानवः॥ रत्नोपकीर्णा वसुधां यो ददाति पुरंदर। स मुक्तः सर्वकलुषैः स्वर्गलोके महीयते॥ महीं स्फीतां ददद् राजन् सर्वकामगुणान्विताम्। राजाधिराजो भवति तद्धि दानमनुत्तमम्॥ सर्वकामसमायुक्तां काश्यपी यः प्रयच्छति। सर्वभूतानि मन्यन्ते मां ददातीति वासव॥ सर्वकामदुधां धेनुं सर्वकामगुणान्विताम्। ददाति यः सहस्राक्ष स्वर्ग याति स मानवः॥ मधुसर्पिःप्रवाहिण्यः पयोदधिवहास्तथा। सरितस्तर्पयन्तीह सुरेन्द्र वसुधाप्रदम्॥ भूमिप्रदानान्नृपतिर्मुच्यते सर्वकिल्बिषात्। न हि भूमिप्रदानेन दानमत्यद् विशिष्यते॥ ददाति यः समुद्रान्तां पृथिवीं शस्त्रनिर्जिताम्। तं जनाः कथयन्तीह यावद् भवति गौरियम्॥ पुण्यामृद्धिरसां भूमिं यो ददाति पुरंदर। न तम्य लोकाः क्षीयन्ते भूमिदानगुणान्विताः॥ सर्वदा पार्थिवेनेह सततं भूतिमिच्छता। भूर्देया विधिवच्छक पात्रे सुखमभीप्सुना॥ अपि कृत्वा नरः पापं भूमि दत्त्वा द्विजातये। समुत्सृजति तत् पापं जीर्णो त्वचमिवोरगः॥ सागरान् सरितः शैलान् काननानि च सर्वशः। सर्वमेतन्नरः शक्र वसुधां ददत्॥ तडागान्युदपानानि स्रोतांसि च सरांसि च। स्नेहान् सर्वरसांश्चैव ददाति वसुधां ददत्॥ ओषधीयम्सम्पन्ना नगान् पुष्पफलान्वितान्। काननोपलशैलांश्च ददाति वसुधां ददत्॥ अग्निष्टोमप्रभृतिभिरिष्ट्वा च स्वाप्तदक्षिणैः। त तत्फलमवाप्नोति भूमिदानाद् यदश्नुते॥ दाता दशानुगृह्णाति दश हन्ति तथा क्षिपन्। पूर्वदत्तां हरन् भूमिं नरकायोपगच्छति॥ न ददाति प्रतिश्रुत्य दत्त्वापि च हरेत् तु यः। स बद्धो वारुणैः पाशैस्तप्यते मृत्युशासनात्॥ आहिताग्निं सदायज्ञं कृशवृत्तिं प्रियातिथिम्। ये भजन्ति द्विजश्रेष्ठं नोपसर्पन्ति ते यमम्॥ ब्राह्मणेष्वनृणीभूतः पार्थिवः स्यात् पुरंदर। इतरेषां तु वर्णानां तारयेत् कृशदुर्बलान्॥ नाच्छिन्द्यात् स्पर्शितां भूमि परेण त्रिदशाधिप। ब्राह्मणस्य सुरश्रेष्ठ कृशवृत्तेः कदाचन॥ यथाश्रु पतितं तेषां दीनानामथ सीदताम्। ब्राह्मणानां हृते क्षेत्रे हन्यात् त्रिपुरुषं कुलम्॥ भूमिपालं च्युतं राष्ट्राद् यस्तु संस्थापयेन्नरः। तस्य वासः सहस्राक्ष नाकपृष्ठे महीयते॥ इक्षुभिः संततां भूमिं यवगोधूमशालिनीम्। गोऽश्ववाप्तनपूर्णां वा बाहुवीर्यादुपार्जिताम्॥ निधिगर्भो ददद् भूमिं सर्वरत्नपरिच्छदाम्। अक्षयाँल्लभते लोकान् भूमिसत्रं हि तस्य तत्॥ विधूय कलुषं सर्वं विरजाः सम्मतः सताम्। लोके महीयते सद्भिर्यां ददाति वसुन्धराम्॥ यथाप्सु पतितः शक्र तैलविन्दुर्विसर्पति। तथा भूमिकृतं दानं सस्ये सस्ये विवर्धते॥ ये रणाग्रे महीपालाः शूराः समितिशोभनाः। वध्यन्तेऽभिमुखाः शक्र ब्रह्मलोकं व्रजन्ति ते॥ नृत्यगीतपरा नार्यो दिव्यमाल्यविभूषिताः। उपतिष्ठन्ति देवेन्द्र तथा भूमिप्रदं दिवि॥ मोदते च सुखं स्वर्गे देवगन्धर्वपूजितः। यो ददाति महीं सम्यग् विधिनेह द्विजातये॥ शतमप्सरसश्चैव दिव्यमाल्यविभूषिताः। उपतिष्ठन्ति देवेन्द्र ब्रह्मलोके धराप्रदम्॥ उपतिष्ठन्ति पुण्यानि सदा भूमिप्रदं नरम्। शङ्खभद्रासनं छत्रं वराश्वा वरवाहनम्॥ भूमिप्रदानात् पुष्पाणि हिरण्यनिचयास्तथा। आज्ञा सदाप्रतिहता जयशब्दा वसूनि च॥ भूमिदानस्य पुण्यानि फलं स्वर्गः पुरंदर। हिरण्यपुष्पाश्चौषध्य: कुशकाञ्चनशाद्वलाः॥ अमृतप्रसवां भूमिं प्राप्नोति पुरुषो ददत्। नास्ति भूमिसमं दानं नास्ति मातृसमो गुरुः। नास्ति सत्यसमो धर्मो नास्ति दानसमो निधिः॥ एतदाङ्गिरसाच्छ्रुत्वा वासवो वसुधामिमाम्। वसुरत्नसमाकीर्णां ददावाङ्गिरसे तदा॥ य इदं श्रावयेच्छ्राद्धे भूमिदानस्य सम्भवम्। न तस्य रक्षसां भागो नासुराणां भवत्युत॥ अक्षयं च भवेद् दत्तं पितृभ्यस्तन्न संशयः। तस्माच्छ्राद्धेष्विदं विद्वान् भुञ्जतः श्रावयेद् द्विजान्।। इत्येतत् सर्वदानानां श्रेष्ठमुक्तं तवानघ। मया भरतशार्दूल किं भूयः श्रोतुमिच्छसि॥ युधिष्ठिर उवाच कानि दानानि लोकेऽस्मिन् दातुकामो महीपतिः। गुणाधिकेभ्यो विप्रेभ्यो दद्याद् भरतसत्तम॥ केन तुष्यन्ति ते सद्यः किं तुष्टाः प्रदिशन्ति च। शंस मे तन्महाबाहो फलं पुण्यकृतं महत्॥ दत्तं किं फलवद् राजनिह लोके परत्र च। भवत: श्रोतुमिच्छामि तन्मे विस्तरतो वद॥ भीष्म उवाच इममर्थं पुरा पृष्टो नारदो देवदर्शनः। यदुक्तवानसौ वाक्यं तन्मे निगदतः शृणु॥ नारद उवाच अन्नमेव प्रशंसन्ति देवा ऋषिगणास्तथा। लोकतन्त्रं हि संज्ञाश्च सर्वमन्ने प्रतिष्ठितम्॥ अन्नेन सदृशं दानं न भूतं न भविष्यति। तस्मादन्नं विशेषेण दातुमिच्छन्ति मानवाः॥ अन्नमूर्जस्करं लोके प्राणाश्चान्ने प्रतिष्ठिताः। अन्नेन धार्यते सर्वं विश्वं जगदिदं प्रभो॥ अन्नाद् गृहस्था लोकेऽस्मिन् भिक्षवस्तापसास्तथा। अन्नाद् भवन्ति वै प्राणा: प्रत्यक्षं नात्र संशयः॥ कुटुम्बिने सीदते च ब्राह्मणाय महात्मने। दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता॥ ब्राह्मणायाभिरूपाय यो दद्यादन्नमर्थिने। विदधाति निधिं श्रेष्ठं पारलौकिकमात्मनः॥ श्रान्तमध्वनि वर्तन्तं वृद्धपर्हमुपस्थितम्। अर्चयेद् भूतिमन्विच्छन् गृहस्थो गृहमागतम्॥ क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः। अन्नदः प्राप्नुते राजन् दिवि चेह च यत्सुखम्॥ नावमन्येदभिगतं न प्रणुद्यात् कदाचन। अपि वपाके शुनि वा न दानं विप्रणश्यति॥ यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते। आर्तायादृष्टपूर्वाय स महद्धर्ममाप्नुयात्॥ पितॄन् देवानृषीन् विप्नानतिथींश्च जनाधिप। यो नरः प्रीणयत्यन्नस्तस्य पुण्यफलं महत्॥ कृत्वातिपातकं कर्म यो दद्यादन्नमर्थिने। ब्राह्मणाय विशेषेण न स पापेन मुह्यते॥ ब्राह्मणेष्वक्षयं दानमन्नं शूद्रे महाफलम्। अन्नदानं हि शूद्रे च ब्राह्मणे च विशिष्यते॥ न पृच्छेद् गोत्रचरणं स्वाध्यायं देशमेव च। भिक्षितो ब्राह्मणेनेह दद्यादन्नं प्रयाचितः॥ अन्नदस्यान्नवृक्षाश्च सर्वकामफलप्रदाः। भवन्ति चेह चामुत्र नृपतेर्नात्र संशयः॥ आशंसन्ते हि पितरः सुवृष्टिमिव कर्षकाः। अस्माकमपि पुत्रो वा पौत्रे वान्नं प्रदास्यति॥ ब्राह्मणो हि महद्भूतं स्वयं देहीति याचति। अकायो वा सकामो वा दत्त्वा पुण्यमवाप्नुयात्॥ ब्राह्मणः सर्वभूतानामतिथिः प्रसृताग्रभुक्। विप्रा यदधिगच्छन्ति भिक्षमाणा गृहं सदा॥ सत्कृताश्च निवर्तन्ते तदतीव प्रवर्धते। महाभागे कुले प्रेत्य जन्म चाप्नोति भारत॥ दत्त्वा त्वन्नं नरो लोके तथा स्थानमनुत्तमम्। नित्यं मिष्टान्नदायी तु स्वर्गे वसति सत्कृतः॥ अन्नं प्राणा नराणां हि सर्वमन्ने प्रतिष्ठितम्। अन्नदः पशुमान् पुत्री धनवान् भोगवानपि॥ प्रणवांश्चापि भवति रूपवांश्च तथा नृप। अन्नदः प्राणदो लोके सर्वदः प्रोच्यते तु सः॥ अन्नं हि दत्त्वातिथये ब्राह्मणाय यथाविधि। प्रदाता सुखमाप्नोति दैवतैश्चापि पूज्यते॥ ब्राह्मणो हि महद्भूतं क्षेत्रभूतं युधिष्ठिर। उप्यते तत्र तद् बीजं तद्धि पुण्यफलं महत्॥ प्रत्यक्षं प्रीतिजननं भोक्तुनुर्भवत्युत। सर्वाण्यन्यानि दानानि परोक्षफलवन्त्युत॥ अन्नाद्धि प्रसवं यान्ति रतिरन्नाद्धि भारत। धर्मार्थावन्नतो विद्धि रोगनाशं तथान्नतः॥ अन्नं ह्यमृतमित्याह पुराकल्पे प्रजापतिः। अन्नं भुवं दिवं खं च सर्वमन्ने प्रतिष्ठितम्॥ अन्नप्रणाशे भिद्यन्ते शरीरे पञ्च धातवः। बलं बलवतोऽपीह प्रणश्यत्यन्नहानितः॥ आवाहाश्च विवाहाश्च यज्ञाश्चान्नमृते तथा। निवर्तन्ते नरश्रेष्ठ ब्रह्म चात्र प्रलीयते॥ अन्नतः सर्वमेतद्धि यत् किंचित् स्थाणु जङ्गमम्। त्रिषु लोकेषु धर्मार्थमन्नं देयमतो वुधैः॥ अन्नदस्य मनुष्यस्य बलमोजो यशांसि च। कीर्तिश्च वर्धते शश्वत् त्रिषु लोकेषु पार्थिव॥ मेघेवूय संनिधत्ते प्राणानां पवनः पतिः। तच्च मेघगतं वारि शक्रो वर्षति भारत॥ आदत्ते च रसान् भौमानादित्यः स्वगभस्तिभिः वायुरादित्यतस्तांश्च रसान् देवः प्रवर्षति॥ तद् यदा मेघतो वारि पतितं भवति क्षितौ। तदा वसुमती देवी स्निग्धा भवति भारत॥ ततः सस्यानि रोहन्ति येन वर्तयते जगत्। मांसमेदोऽस्थिशुक्राणां प्रादुर्भावस्ततः पुनः॥ सम्भवन्ति ततः शुक्रात् प्राणिनः पृथिवीपते। अग्नीषोमौ हि तच्छुक्रं सृजतः पुष्यतश्च ह॥ एवमन्नाद्धि सूर्यश्च पवनः शुक्रमेव च। एक एव स्मृतो राशिस्ततो भूतानि जज्ञिरे॥ प्राणान् ददाति भूतानां तेजश्च भरतर्षभ। गृहमभ्यागतायाऽथ यो दद्यादन्नमर्थिने॥ भीष्म उवाच नारदेनैवमुक्तोऽहमदामन्नं सदा नृप। अनसूयुस्त्वमप्यन्नं तस्माद् देहि गतज्वरः॥ दत्त्वान्नं विधिवद् राजन् विप्रेभ्यस्त्वमिति प्रभो। यथावदनुरूपेभ्यस्ततः स्वर्गमवाप्स्यसि॥ अन्नदानां हि ये लोकास्तांस्त्वं शृणु जनाधिप। भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम्॥ तारासंस्थानि रूपाणि नानास्तम्भान्वितानि च। चन्द्रमण्डलशुभ्राणि किंकिणीजालवन्ति च॥ तरुणादित्यवर्णानि स्थावराणि चराणि च। अनेकशतभौमानि सान्तर्जलचराणि च॥ वैदूर्यार्कप्रकाशानि रौप्यरुक्ममयानि च। सर्वकामफलाश्चापि वृक्षा भवनसंस्थिताः॥ वाप्यो वीथ्यः सभाः कूपा दीर्घिकाश्चैव सर्वशः। घोषवन्ति च यानानि युक्तान्यथ सहस्रशः॥ भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च। क्षीरं स्रवन्ति सरितस्तथा चैवानपर्वताः॥ प्रसादाः पाण्डुराभ्राभाः शय्याश्च काञ्चनोज्ज्वला:। तान्यन्नदाः प्रपद्यन्ते तस्मादन्नप्रदो भव॥ एते लोकाः पुण्यकृता अन्नदानां महात्मनाम्। तस्मादनं प्रयत्नेन दातव्यं मानवैर्भुवि॥ युधिष्ठिर उवाच श्रुतं मे भवतो वाक्यमन्नदानस्य यो विधिः। नक्षत्रयोगस्येदानी दानकल्पं ब्रवीहि मे।।।। भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। देवक्याश्चैव संवादं महर्षेर्नारदस्य च॥ द्वारकामनुसम्प्राप्तं नारदं देवदर्शनम्। पप्रच्छेदं वचः प्रश्नं देवकी धर्मदर्शनम्॥ तस्याः सम्पृच्छमानाया देवर्षि रदस्ततः। आचष्ट विधिवत् सर्वं तच्छणुष्व विशाम्पते॥ नारद उवाच कृत्तिकासु महाभागे पायसेन ससर्पिषा। संतर्घ्य ब्राह्मणान् साधूल्लोकानाप्नोत्यनुत्तमान्॥ रोहिण्यां प्रसृतैर्मार्गेमांसैरन्नेन सर्पिषा। पयोऽन्नपानं दातव्यमनृणार्थे द्विजातये॥ दोग्ध्रीं दत्त्वा सवत्सां तु नक्षत्रे सोमदैवते। गच्छन्ति मानुषाल्लोकात् सर्वलोकमनुत्तमम्॥ आर्द्रायां कृसरं दत्त्वा तिलमिश्रमुपोषितः। नरस्तरति दुर्गाणि क्षुरधारांश्च पर्वतान्॥ पूपान् पुनर्वसौ दत्त्वा तथैवान्नानि शोभने। यशस्वी रूपसम्पन्नो बह्वनो जायते कुले॥ पुष्येण कनकं दत्त्वा कृतं वाकृतमेव च। अनालोकेषु लोकेषु सोमवत् स विराजते॥ आश्लेषायां तु यो रूप्यमृषभं वा प्रयच्छति। स सर्वभयनिर्मुक्तः सम्भवानधितिष्ठति॥ मघासु तिलपूर्णानि वर्धमानानि मानवः। प्रदाय पुत्रपशुमानिह प्रेत्य च मोदते॥ फल्गुनीपूर्वसमये ब्राह्मणानामुपोषितः। भक्ष्यान् फाणित संयुक्तान् दत्त्वा सौभाग्यमृच्छति॥१३ घृतक्षीरसमायुक्तं विधिवत् षष्टिकौदनम्। उत्तराविषये दत्त्वा स्वर्गलोके महीयते॥ यद् यत् प्रदीयते दानमुत्तराविषये नरैः। महाफलमनन्तं तद् भवतीति विनिश्चयः॥ हस्ते हस्तिरथं दत्त्वा चतुर्युक्तमुपोषितः। प्राप्नोति परमॉल्लोकान् पुण्यकामसमन्वितान्॥ चित्रायां वृषभं दत्त्वा पुण्यगन्धांश्च भारत। चरन्त्यप्सरसां लोके रमन्ते नन्दने तथा॥ स्वात्यामथ धनं दत्त्वा यदिष्टतममात्मनः। प्राप्नोति लोकान् स शुभानिह चैव महद् यशः॥ विशाखायामनड्वाहं धनुं दत्त्वा च दुग्धदाम्। सप्रासङ्गं च शकटं सधान्यं वस्त्रसंयुतम्॥ पितॄन् देवांश्च प्रीणाति प्रेत्य चानन्त्यमश्नुते। न च दुर्गाण्यवाप्नोति स्वर्गलोकं च गच्छति॥ दत्त्वा यथोक्तं विप्रेभ्यो वृत्तिमिष्टां स विन्दति। नरकादींश्च संक्लेशान् नाप्नोतीति विनिश्चयः॥ अनुराधासु प्रावारं वरानं समुपोषितः। दत्त्वा युगशतं चापि नरः स्वर्गे महीयते॥ कालशाकं तु विप्रभ्यो दत्त्वा मर्त्यः समूलकम्। ज्येष्ठायामृद्धिमिष्टां वै गतिमिष्टां स गच्छति॥ मूले मूलफलं दत्त्वा ब्राह्मणेभ्यः समाहितः। पितॄन् प्रीणयते चापि गतिमिष्टां च गच्छति॥ अथ पूर्वास्वषाढार दधिपात्राण्युपोषितः। कुलवृत्तोपसम्पन्ने ब्राह्मणे वेदपारगे॥ पुरुषो जायते प्रेत्य कुले सुबहुगोधने। उदमन्थं ससर्पिष्कं प्रभूतमधिफाणितम्। दत्त्वोत्तरास्वषाढासु सर्वकामानवाप्नुयात्॥ दुग्धं त्वभिजिते योगे दत्त्वा मधुघृतप्लुतम्। धर्मनित्यो मनीषिभ्यः स्वर्गलोके महीयते॥ श्रवणे कम्बलं दत्त्वा वस्त्रान्तरितमेव वा। श्वेतेन याति यानेन स्वर्गलोकानसंवृतान्॥ गोप्रयुक्तं धनिष्ठासु यानं दत्त्वा समाहितः। वस्त्रराशिधनं सद्यः प्रेत्य राज्यं प्रपद्यते॥ गन्धानछतभिषायोगे दत्त्वा सागुरुचन्दनान्। प्राप्नोत्यप्सरसा संघान् प्रेत्य गन्धांश्च शाश्वतान्॥ पूर्वाभाद्रपदायोगे राजमाषान् प्रदाय तु। सर्वभक्षफलोपेतः स वै प्रेत्य सुखी भवेत्॥ औरभ्रमुत्तरायोगे यस्तु मांसं प्रयच्छति। स पितॄन् प्रीणयति वै प्रेत्य चानन्त्यमश्नुते॥ कांस्योपदोहनां धेनुं रेवत्यां यः प्रयच्छति। सा प्रेत्य कामानादाय दातारमुपतिष्ठति॥ रथमश्वसमायुक्तं दत्त्वाश्विन्यां नरोत्तमः। हस्त्यश्वरथसम्पन्ने वर्चस्वी जायते कुले॥ भरणीषु द्विजातिभ्यस्तिलधेनुं प्रदाय वै। गा: सुप्रभूताः प्राप्नोति नरः प्रेत्य यशस्तथा॥ भीष्म उवाच इत्येष लक्षणोद्देशः प्रोक्तो नक्षत्रयोगतः। देवक्या नारदेनेह सा स्नुषाभ्योऽब्रवीदिदम्॥ भीष्म उवाच सर्वान् कामान् प्रयच्छन्ति ये प्रयच्छन्ति काञ्चनम्। इत्येवं भगवानत्रिः पितामहसुतोऽब्रवीत्॥ पवित्रमथ चायुष्यं पितॄणामक्षयं च तत्। सुवर्णं मनुजेन्द्रेण हरिश्चन्द्रेण कीर्तितम्॥ पानीयं परमं दानं दानानां मुनरब्रवीत्। तस्मात् कूपांश्च वापीश्च तडागानि च खानयेत्॥ अर्धं पापस्य हरति पुरुषस्येह कर्मणः। कूपः प्रवृत्तपानीयः सुप्रवृत्तश्च नित्यशः॥ सर्वं तारयते वंशं यस्य खाते जलाशये। गावः पिवन्ति विप्राश्च साधवश्च नराः सदा॥ निदाघकाले पानीयं यस्य तिष्ठत्यवारितम्। स दुर्गं विषमं कृत्स्नं न कदाचिदवाप्नुते॥ बृहस्पतेर्भगवतः पूष्णाश्चैव भगस्य च। अश्विनोश्चैव बढेश्च प्रीतिर्भवति सर्पिषा॥ परमं भेषजं ह्येतद् यज्ञानामेतदुत्तमम्। रसानामुत्तमं चैतत् फलानां चैतदुत्तमम्॥ फलकामो यशस्कामः पुष्टिकामश्च नित्यदा। घृतं दद्याद् द्विजातिभ्यः पुरुषः शुचिरात्मवान्॥ घृतं मासे आश्वयुजि विप्रेभ्यो यः प्रयच्छति। तस्मै प्रयच्छतो रूपं प्रीतौ देवाविहाश्विनौ॥ पायसं सर्पिषा मिश्रं द्विजेभ्यो यः प्रयच्छति। गृहं तस्य न रक्षांसि धर्षयन्ति कदाचन॥ पिपासया न म्रियते सोपच्छन्दश्च जायते। न प्राप्नुयाच्च व्यसनं करकान् यः प्रयच्छति॥ प्रयतो ब्राह्मणाने यः श्रद्धया परया युतः। उपस्पर्शनषड्भागं लभते पुरुषः सदा॥ यः साधनार्थं काष्ठानि ब्राह्मणेभ्यः प्रयच्छति। प्रतापनार्थं राजेन्द्र वृत्तवद्भ्यः सदा नरः॥ सिद्ध्यन्त्यर्थाः सदा तस्य कार्याणि विविधानि च। उपर्युपरि शत्रूणां वपुषा दीप्यते च सः॥ भगवांश्चापि सम्प्रीतो वह्निर्भवति नित्यशः। न तं त्यजन्ति पशवः संग्रामे च जयत्यपि॥ पुत्राञ्छ्रियं च लभते यश्छत्रं सम्प्रयच्छति। न चक्षुर्व्याधिं लभते यज्ञभागमथाश्नुते॥ निदाघकाले वर्षे वा यश्छत्रं सम्प्रयच्छति। नास्य कश्चिन्मनोदाहः कदाचिदपि जायते। कृच्छ्रात् स विषमाच्चैव क्षिप्रं मोक्षमवाप्नुते॥ प्रदानं सर्वदानानां शकटस्य विशाम्पते। एवमाह महाभागः शण्डिल्यो भगवानृषिः॥ युधिष्ठिर उवाच दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ। यत्फलं तस्य भवति तन्मे ब्रूहि पितामह॥ भीष्म उवाच उपानही प्रयच्छेद् यो ब्राह्मणेभ्यः समाहितः। मर्दते कण्टकान् सर्वान् विषमान्निस्तरत्यपि॥ स शत्रूणामुपरि च संतिष्ठति युधिष्ठिर। यानं चाश्वतरीयुक्तं तस्य शुभं विशाम्पते॥ उपतिष्ठति कौन्तेय रौप्यकाञ्चनभूषितम्। शकटं दम्यसंयुक्तं दत्तं भवति चैव हि॥ युधिष्ठिर उवाच यत् फलं तिलदाने च भूमिदाने च कीर्तितम्। गोदाने चान्नदाने च भूयस्तद् ब्रूहि कौरव॥ भीष्म उवाच शृणुष्व मम कौन्तेय तिलदानस्य यत् फलम्। निशम्य च यथान्यायं प्रयच्छ कुरुसत्तम॥ पितॄणां परमं भोज्यं तिलाः सृष्टाः स्वयम्भुवा। तिलदानेन वै तस्मात् पितृपक्षः प्रमोदते॥ माघमासे तिलान् यस्तु ब्राह्मणेभ्यः प्रयच्छति। सर्वसत्त्वसमाकीर्णं नरकं स न पश्यति॥ सर्वसत्रैश्च यजते यस्तिलैर्यजते पितॄन्। न चाकामन दातव्यं तिलश्राद्धं कदाचन॥ महर्षेः कश्यपस्यैते गात्रेभ्यः प्रसृतास्तिलाः। ततो दिव्यं गता भावं प्रदानेषु तिलाः प्रभो॥ पौष्टिका रूपदाश्चैव तथा पापविनाशनाः। तस्मात् सर्वप्रदानेभ्यस्तिलदानं विशिष्यते॥ आपस्तम्बश्च मेधावी शङ्खश्च लिखितस्तथा। महर्षिौतमश्चापि तिलदानैर्दिवं गताः॥ तिलहोमरता विप्राः सर्वे संयतमैथुनाः। समा गव्येन हविषा प्रवृत्तिषु च संस्थिताः॥ सर्वेषामिति दानानां तिलदानं विशिष्यते। अक्षयं सर्वदानानां तिलदानमिहोच्यते॥ उच्छिन्ने तु पुरा हव्ये कुशिकर्षिः परंतपः। तिलैरग्नित्रयं हत्वा प्राप्तवान् गतिमुत्तमाम्॥ इति प्रोक्तं कुरुश्रेष्ठ तिलदानमनुत्तमम्। विधानं येन विधिना तिलानामिह शस्यते॥ अत उर्ध्वं निबोधेदं देवानां यष्टुमिच्छताम्। समागमे महाराज ब्रह्मणा वै स्वयम्भुवा॥ देवाः समेत्य ब्रह्माणं भूमिभागे यियक्षवः। शुभं देशमयाचन्त यजेम इति पार्थिव॥ देवा ऊचुः भगवंस्त्वं प्रभुर्भूमेः सर्वस्य त्रिदिवस्य च। यजेमहि महाभाग यज्ञं भवदनुज्ञया॥ नाननुज्ञातभूमिर्हि यज्ञस्य फलमश्नुते। त्वं हि सर्वस्य जगतः स्थावरस्य चरस्य च॥ प्रभुर्भवसि तस्मात्त्वं समनुज्ञातुमर्हसि। ददानि मेदिनीभागं भवद्भ्योऽहं सुरर्षभाः॥ ब्रह्मोवाच यस्मिन् देशे करिष्यध्वं यज्ञान् काश्यपनन्दनाः। देवा ऊचुः भगवन् कृतकार्याः स्म यक्ष्महे स्वाप्तदक्षिणैः॥ इमं तु देशं मुनयः पर्युपासन्ति नित्यदा। ततोऽगस्त्यश्च कण्वश्च भृगुरत्रिर्वृषाकपिः॥ असितो देवलश्चैव देवयज्ञमुपागमन्। ततो देवा महात्मान ईजिरे यज्ञमच्युतम्॥ तथा समापयामासुर्यथाकालं सुरर्षभाः। त इष्टयज्ञस्त्रिदशा हिमवत्यचलोत्तमे॥ पष्ठमंशं क्रतोस्तस्य भूमिदानं प्रचक्रिरे। प्रादेशमात्रं भूमेस्तु यो दद्यादनुपस्कृतम्॥ न सीदति स कृच्छ्रेषु न च दुर्गाण्यवाप्नुते। शीतवातातपसहां गृहभूमि सुसंस्कृताम्॥ प्रदाय सुरलोकस्थः पुण्यान्तेऽपि न चाल्यते। मुदितो वसति प्राज्ञः शक्रेण सह पार्थिव॥ प्रतिश्रयप्रदानाच्च सोऽपि स्वर्गे महीयते। अध्यापककुले जातः श्रोत्रियो नियतेन्द्रियः॥ गृहे यस्य वसेत् तुष्टः प्रधानं लोकमश्नुते। तथा गवार्थे शरणं शीतवर्षसहं दृढम्॥ आसप्तमं तारयति कुलं भरतसत्तम। क्षेत्रभूमिं ददल्लोके शुभां श्रियमवाप्नुयात्॥ रत्नभूमिं प्रदद्यात् तु कुलवंशं प्रवर्धयेत्। न चोषरां न निर्दग्धां महीं दद्यात् कथंचन॥ न श्मशानपरीतां च न च पापनिषेविताम्। पारक्ये भूमिदेशे तु पितॄणां निर्वपेत् तु यः॥ तद्भूमिं वापि पितृभिः श्राद्धकर्म विहन्यते। तस्मात् क्रीत्वा महीं दद्यात् स्वल्पामपि विचक्षणः॥ पिण्डः पितृभ्यो दत्तो वै तस्यां भवति शाश्वतः। अटवीपर्वताश्चैव नद्यस्तीर्थानि यानि च॥ सर्वाण्यस्वामिकान्याहुन हि तत्र परिग्रहः। इत्येतद् भूमिदानस्य फलमुक्तं विशाम्पते॥ अतः परं तु गोदानं कीर्तयिष्यामि तेऽनघ। गावोऽधिकास्तपस्विभ्यो यस्मात् सर्वेभ्य एव च।।३७ तस्मान्महेश्वरो देवस्तपस्ताभिः सहास्थितः। ब्राह्मे लोके वसन्त्येताः सोमेन सह भारत॥ यां तो ब्रह्मर्षयः सिद्धाः प्रार्थयन्ति परां गतिम्। पयसा हविषा दना शकृता चाथ चर्मणा॥ अस्थिभिश्चोपकुर्वन्ति शृङ्गैर्वालैश्च भारत। नासां शीतातपौ स्यातां सदैताः कर्म कुर्वते॥ न वर्षविषयं वापि दुःखमासां भवत्युत। ब्राह्मणैः सहिता यान्ति तस्मात् पारमकं पदम्॥ एकं गोब्राह्मणं तस्मात् प्रवदन्ति मनीषिणः। रन्तिदेवस्य यज्ञे ता: पशुत्वेनोपकल्पिताः॥ अतश्चर्मण्वती राजन् गोचर्मभ्यः प्रवर्तिता। पशुत्वाच्च विनिर्मुक्ताः प्रदानायोपकल्पिता:॥ ता इमा विप्रमुख्येभ्यो यो ददाति महीपते। निस्तरेदापदं कृच्छ्रां विषमस्थोऽपि पार्थिव॥ गवां सहस्रदः प्रेत्य नरकं न प्रपद्यते। सर्वत्र विजयं चापि लभते मनुजाधिप॥ अमृतं वै गवां क्षीरमित्याह त्रिदशाधिपः। तस्माद् ददाति यो धेनुममृतं स प्रयच्छति॥ अग्नीनामव्ययं ह्येतद्धौम्यं वेदविदो विदुः। तस्माद् ददाति यो धेनुं स हौम्यं सम्प्रयच्छति॥ स्वर्गो वै मूर्तिमानेष वृषभं यो गवां पतिम्। विप्रे गुणयुते दद्यात् स वै स्वर्गे महीयते॥ प्राणा वै प्राणिनामेते प्रोच्यन्ते भरतर्षभ। तस्माद् ददाति यो धेनुं प्राणानेष प्रयच्छति॥ गावः शरण्या भूतानामिति वेदविदो विदुः। तस्माद् ददाति यो धेनुं शरणं सम्प्रयच्छति॥ न वधार्थं प्रदातव्या न कीनाशे न नास्तिके। गोजीविने न दातव्या तथा गौर्भरतर्षभ॥ ददत् स तादृशानां वै नरो गां पापकर्मणाम्। अक्षयं नरकं यातीत्येवमाहुर्महर्षयः॥ न कृशां नापवत्सां वा वथ्यां रोगान्वितां तथा। न व्यङ्गां न परिश्रान्तां दद्याद् गां ब्राह्मणाय वै॥ दशगोसहस्रदो हि शक्रेण सह मोदते। अक्षयाँल्लभते लोकान् नरः शतसहस्रशः॥ इत्येतद् गोप्रदानं च तिलदानं च कीर्तितम्। तथा भूमिप्रदानं च शृणुष्वाने च भारत॥ अन्नदानं प्रधानं हि कौन्तेय परिचक्षते। अन्नस्य हि प्रदानेन रन्तिदेवो दिवं गतः॥ श्रान्ताय क्षुधितायानं यः प्रयच्छति भूमिपः। स्वायम्भुवं महत् स्थानं स गच्छति नराधिप॥ न हिरण्यैर्न वासोभिर्नान्यदानेन भारत। प्राप्नुवन्ति नराः श्रेयो यथा ह्यन्नप्रदाः प्रभो॥ अन्नं वै प्रथमं द्रव्यमन्नं श्रीश्च परा मता। अन्नात् प्राणः प्रभवति तेजो वीर्यं बलं तथा॥ सद्यो ददाति यश्चान्नं सदैकाग्रमना नरः। न स दुर्गाण्यवाप्नोतीत्येवमाह पराशरः॥ अर्चयित्वा यथान्यायं देवेभ्योऽन्नं निवेदयेत्। यदन्ना हि नरा राजंस्तदन्नास्तस्य देवताः॥ कौमुदे शुक्लपक्षे तु योऽन्नदानं करोत्युत। स संतरति दुर्गाणि प्रेत्य चानन्त्यमश्नुते॥ अभुक्त्वातिथये चान्नं प्रयच्छेद् यः समाहितः। स वै ब्रह्मविदां लोकान् प्राप्नुयाद् भरतर्षभ॥ सुकृच्छ्रामापदं प्राश्चानदः पुरुषस्तरेत्। पापं तरति चैवेह दुष्कृतं चापकर्षति॥ इत्येदन्नदानस्य तिलदानस्य चैव ह। भूमिदानस्य च फलं गोदानस्य च कीर्तितम्॥ इत्येदन्नदानस्य तिलदानस्य चैव ह। भूमिदानस्य च फलं गोदानस्य च कीर्तितम्॥ युधिष्ठिर उवाच श्रुतं दानफलं तात यत् त्वया परिकीर्तितम्। अन्नदानं विशेषेण प्रशस्तमिह भारत॥ पानीयदानमेवैतत् कथं चेह महाफलम्। इत्येतच्छ्रोतुमिच्छामि विस्तरेण पितामह॥ भीष्म उवाच हन्त ते वर्तयिष्यामि यथावद् भरतर्षभ। गदतस्तन्ममाघेह शृणु सत्यपराक्रम॥ पानीयदानात् प्रभृति सर्वं वक्ष्यामि तेऽनघ। यदन्नं यच्च पानीयं सम्प्रदायाश्नुते नरः॥ न तस्मात् परमं दानं किंचिदस्तीति मे मनः। अन्नात् प्राणभृतस्तात प्रवर्तन्ते हि सर्वशः॥ तस्मादन्नं परं लोके सर्वलोकेषु कथ्यते। अन्नाद् बलं च तेजश्च प्राणिनां वर्धते सदा॥ अन्नदानमतस्तस्माच्छ्रेष्ठमाह प्रजापतिः। सावित्र्या ह्यपि कौन्तेय श्रुतं ते वचनं शुभम्॥ यतश्च यद् यथा चैव देवसत्रे महामते। अन्ने दत्ते नरेणेह प्राणा दत्ता भवन्त्युत॥ प्राणदानाद्धि परमं न दानमिह विद्यते। श्रुतं हि ते महाबाहो लोमशस्यापि तद्वचः॥ प्राणान् दत्त्वा कपोताय यत् प्राप्तं शिबिना पुरा। तां गतिं लभते दत्त्वा द्विजस्यान्न विशाम्पते॥ तस्माद् विशिष्टां गच्छन्ति प्राणदा इति नः श्रुतम्। अन्नं वापि प्रभवति पानीयात् कुरुसत्तम। नीरजातेन हि बिना न किंचित् सम्प्रवर्तते॥ नीरजातश्च भगवान् सोमो ग्रहगणेश्वरः। अमृतं च सुधा चैव स्वाहा चैव स्वधा तथा॥ अन्नौषध्यो महाराज वीरुधश्च जलोद्भवाः। यतः प्राणभृतां प्राणा: सम्भवन्ति विशाम्पते॥ देवानाममृतं ह्यन्नं नागानां च सुधा तथा। पितॄणां च स्वधा प्रोक्ता पशूनां चापि वीरुधः॥ अन्नमेव मनुष्याणां प्राणानाहुर्मनीषिणः। तच्च सर्वं नरव्याघ्र पानीयात् सम्प्रवर्तते॥ तस्मात् पानीयदानाद् वै न परं विद्यते क्वचित्। तच्च दद्यान्नरो नित्यं यदीच्छेद् भूतिमात्मनः॥ धन्यं यशस्यमायुष्यं जलदानमिहोच्यते। शत्रूश्चाप्यधि कौन्तेय सदा तिष्ठति तोयदः॥ सर्वकामानवाप्नोति कीर्तिं चैव हि शाश्वतीम्। तोयदो मनुजव्याघ्र प्रेत्य चानन्त्यमश्चाति पापेभ्यश्च प्रमुच्यते॥ स्वर्ग गत्वा महाद्युते। अक्षयान् समवाप्नोति लोकानित्यब्रवीन्मनुः॥ युधिष्ठिर उवाच तिलानां कीदृशं दानमथ दीपस्य चैव हि। अन्नानां वाससां चैव भूय एव ब्रवीहि मे॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। ब्राह्मणस्य च संवादं यमस्य च युधिष्ठिर॥ मध्यदेशे महान् ग्रामो ब्राह्मणानां बभूव ह। गङ्गायमुनयोर्मध्ये यामुनस्य गिरेरधः॥ पर्णशालेति विख्यातो रमणीयो नराधिप। विद्वांसस्तत्र भूयिष्ठा ब्राह्मणाश्चावसंस्तथा।॥ अथ प्राह यम: कंचित् पुरुषं कृष्णवाससम्। रक्ताक्षमूर्ध्वरोमाणं काकजङ्घाक्षिनासिकम्॥ गच्छ त्वं ब्राह्मणग्रामं ततो गत्वा तमानय। अगस्त्यं गोत्रतश्चापि नामतश्चापि शर्मिणम्॥ शमे निविष्टं विद्वांसमध्यापकमनावृतम्। मा चान्यमानयेथास्त्वं सगोत्रं तस्य पार्श्वतः॥ स हि तादृग्गुणस्तेन तुल्योऽध्ययनजन्मना। अपत्येषु तथा वृत्ते समस्तेनैव धीमता॥ तमानय यथोद्दिष्टं पूजा कार्या हि तस्य वै। स गत्वा प्रतिकूलं तच्चकार यमशासनम्॥ तमाक्रम्यानयामास प्रतिषिद्धो यमेन यः। तस्मै यमः समुत्थाय पूजां कृत्वा च वीर्यवान्॥ प्रोवाच नीयतामेष सोऽन्य आनीयतामिति। एवमुक्ते तु वचने धर्मराजेन स द्विजः॥ उवाच धर्मराजानं निर्विण्णोऽध्ययनेन वै। यो मे कालो भवेच्छेषस्तं वसेयमिहाच्युत॥ यम उवाच नाहं कालस्य विहितं प्राप्नोमीह कथंचन। यो हि धर्मं चरति वै तं तु जानामि केवलम्॥ गच्छ विप्र त्वमद्यैव आलयं स्व महाद्युते। ब्रूहि सर्वं यथा स्वैरं करवाणि किमच्युत॥ ब्राह्मण उवाच यत् तत्र कृत्वा सुमहत् पुण्यं स्यात् तद् ब्रवीहि मे। सर्वस्य हि प्रमाणं त्वं त्रैलोक्यस्यापि सत्तम॥ यम उवाच शृणु तत्त्वेन विप्रर्षे प्रदानविधिमुत्तमम्। तिलाः परमकं दानं पुण्यं चैवेह शाश्वतम्॥ तिलाश्च सम्प्रदातव्या यथाशक्ति द्विजर्षभ। नित्यदानात् सर्वकामांस्तिला निवर्तयन्त्युत॥ तिलान् श्राद्धे प्रशंसन्ति दानमेतद्ध्यनुत्तमम्। तान् प्रयच्छस्व विप्रेभ्यो विधिदृष्टेन कर्मणा॥ वैशाख्यां पौर्णमास्यां तु तिलान् दद्याद् द्विजातिषु। तिला भक्षयितव्याश्च सदा त्वालम्भनं च तैः॥ कार्यं सततमिच्छद्भिः श्रेयः सर्वात्मना गृहे। तथाऽऽपः सर्वदा देयाः पेयाश्चैव न संशयः॥ पुष्करिण्यस्तडागानि कूपांश्चैवात्र खानयेत्। एतत् सुदुर्लभतरमिहलोके द्विजोत्तम॥ आपो नित्यं प्रदेयास्ते पुण्यं ह्येतदनुत्तमम्। प्रपाश्च कार्या दानार्थं नित्यं ते द्विजसत्तम। भुक्तेऽप्यन्नं प्रदेयं तु पानीयं वै विशेषतः॥ भीष्म उवाच इत्युक्ते स तदा तेन यमदूतेन वै गृहान्। नीतश्च कारयामास सर्वं तद् यमशासनम्॥ नीत्वा तं यमदूतोऽपि गृहीत्वा शर्मिणं तदा। ययौ स धर्मराजाय न्यवेदयत चापि तम्॥ तं धर्मराजो धर्मज्ञं पूजयित्वा प्रतापवान्। कृत्वा च संविदं तेन विससर्ज यथागतम्॥ तस्यापि च यमः सर्वमुपदेशं चकार ह। प्रेत्यैत्य च ततः सर्वं चकारोक्तं यमेन तत्॥ तथा प्रशंसते दीपान् यमः पितृहितेप्सया। तस्माद् दीपप्रदो नित्यं संतारयति वै पितॄन्।॥ दातव्याः सततं दीपास्तस्माद् भरतसत्तमा देवतानां पितॄणां च चक्षुष्यं चात्मनां विभो॥ रत्नदानं च सुमहत् पुण्यमुक्तं जनाधिप। यस्तान् विक्रीय यजते ब्राह्मणो ह्यभयंकरम्॥ यद् वै ददाति विप्रेभ्यो ब्राह्मणः प्रतिगृह्य वै। उभयोः स्यात् तदक्षय्यं दातुरादातुरेव च॥ यो ददाति स्थितः स्थित्यां तादृशाय प्रतिग्रहम्। उभयोरक्षयं धर्मं तं मनुः प्राह धर्मवित्॥ वाससां सम्प्रदानेन स्वदारनिरतो नरः। सुवस्त्रश्च सुवेषश्च भवतीत्यनुशुश्रुम॥ गाव: सुवर्णं च तथा तिलाश्चैवानुवर्णिताः। बहुशः पुरुषव्याघ्र वेदप्रामाण्यदर्शनात्॥ विवाहांश्चैव कुर्वीत पुत्रानुत्पादयेत च। पुत्रलाभो हि कौरव्य सर्वलाभाद् विशिष्यते॥ युधिष्ठिर उवाच भूय एवं कुरुश्रेष्ठ दानानां विधिमुत्तमम्। कथयस्व महाप्राज्ञ भूमिदानं विशेषतः॥ पृथिवीं क्षत्रियो दद्याद् ब्राह्मणायेष्टिकर्मिणे। विधिवत् प्रतिगृह्णीयान्न त्वन्यो दातुमर्हति॥ सर्ववर्णस्तु यच्छक्यं प्रदातुं फलकाक्षिभिः। वेदे वा यत् समाख्यातं तन्मे व्याख्यातुमर्हसि॥ भीष्म उवाच तुल्यानामानि देयानि त्रीणि तुल्यफलानि च। सर्वकामफलानीह गावः पृथ्वी सरस्वती॥ यो ब्रूयाच्चापि शिष्याय धां ब्राह्मीं सरस्वतीम्। पृथिवीगोप्रदानाभ्यां तुल्यं स फलमश्नुते॥ तथैव गाः प्रशंसन्ति न तु देयं ततः परम्। संनिकृष्टफलास्ता हि लघ्वाश्च युधिष्ठिर॥ मातरः सर्वभूतानां गावः सर्वसुखप्रदाः। वृद्धिमाकाक्षत नित्यं गावः कार्याः प्रदक्षिणाः॥ संताड्या न तु पादेन गवां मध्ये न च व्रजेत्। मङ्गलायतनं देव्यस्तस्मात् पूज्याः सदैव हि॥ प्रचोदनं देवकृतं गवां कर्मसु वर्तताम्। पूर्वमेवाक्षरं चान्यदभिधेयं ततः परम्॥ प्रचारे वा निवाते वा बुधो नोद्वेजयेत गाः। तृषिता ह्यभिवीक्षन्त्यो नरं हन्युः सबान्धवम्॥ पितृसद्मानि सततं देवतायतनानि च। पूयन्ते शकृता यासां पूतं किमधिकं ततः॥ घासमुष्टिं परगवे दद्यात् संवत्सरं यः। अकृत्वा स्वयमाहारं व्रतं तत् सार्वकामिकम्॥ तु स हि पुत्रान् यशोऽर्थं च श्रियं चाप्यधिगच्छति। नाशयत्यशुभं चैव दुःस्वप्नं चाप्यपोहति॥ युधिष्ठिर उवाच देयाः किंलक्षणा गावः काश्चापि परिवर्जयेत्। कीदृशाय प्रदातव्या न देयाः कीदृशाय च॥ भीष्म उवाच असवृत्ताय पापाय लुब्धायानृतवादिने। हव्यकव्यव्यपेताय न देया गौः कथंचन॥ भिक्षवे बहुपुत्राय श्रोत्रियायाहिताग्नये। दत्त्वां दशगवां दाता लोकानाप्नोत्यनुत्तमान्॥ यश्चैव धर्मं कुरुते तस्य धर्मफलं च यत्। सर्वस्यैवांशभाग् दाता तं निमित्तं प्रवृत्तयः॥ यश्चैवमुत्पादयते यश्चैनं त्रायते भयात्। यश्चास्य कुरुते वृत्तिं सर्वं ते पितरस्त्रयः॥ कल्मषं गुरुशुश्रूषा हन्ति मानो महद् यशः। अपुत्रतां त्रयः पुत्रा आवृत्तिं दश धेनवः॥ वेदान्तनिष्ठस्य बहुश्रुतस्य प्रज्ञानतृप्तस्य जितेन्द्रियस्य। शिष्टस्य दान्तस्य यतस्य चैव भूतेषु नित्यं प्रियवादिनश्च॥ न्मृदुश्च शान्तो ह्यतिथिप्रियश्च। वृत्तिं द्विजायातिसृजेत तस्मै यस्तुल्यशीलश्च सपुत्रदारः॥ शुभे पात्रे ये गुणा गोप्रदाने तावान् दोषो ब्राह्मणस्वापहारे। सर्वावस्थं ब्राह्मणस्वापहारो दाराश्चैषां दूरतो वर्जनीयाः॥ भीष्म उवाच अत्रैव कीर्त्यते सद्भिाह्मणस्वाभिमर्शने। नृगेण सुमहत् कृच्छ्रे यदवाप्तं कृरूद्वह।॥ निविशन्त्यां पुरा पार्थ द्वारवत्यामिति श्रुतिः। अदृश्यत महाकूपस्तृणवीरुत्समावृतः॥ प्रयत्नं तत्र कुर्वाणास्तस्मात् कूपाज्जलार्थिनः। श्रमेण महत. युक्तास्तस्मिंस्तोये सुसंवृते॥ ददृशुस्ते महाकायं कृकलासमवस्थितम्। तस्य चोद्धरणे यत्नमकुर्वंस्ते सहस्रशः॥ प्रग्रहैश्चर्मपट्टैश्च तं बद्ध्वा पर्वतोपमम्। नाशक्नुवन् समुद्धर्तुं ततो जग्मुर्जनार्दनम्॥ खमावृत्योदपानस्य कृकलासः स्थितो महान्। तस्य नास्ति समुद्धर्तेत्येतत् कृष्णे न्यवेदयन्॥ माधव उवाच स वासुदेवेन समुद्धृतश्च पृष्टश्च कार्यं निजगाद राजा। नृगस्तदाऽऽत्मानमथो न्यवेदयत् पुरातनं यज्ञसहस्रयाजिनम्॥ तथा ब्रुवाणं तु तमाह माधवः शुभं त्वया कर्म कृतं न पापकम्। कथं भवान् दुर्गतिमीदृशीं गतो नरेन्द्र तद् ब्रूहि किमेतदीदृशम्॥ शतं सहस्राणि गवां शतं पुन: पुनः शतान्यष्टशतायुतानिा त्वया पुरा दत्तमितीह शुश्रुम नृप द्विजेभ्यः क्व तु तद् गतं तव॥ नृगस्ततोऽब्रवीत् कृष्णं ब्राह्मणस्याग्निहोत्रिणः। प्रोषितस्य परिभ्रष्टा गौरेका मम गोधने॥ गवां सहस्र संख्याता तदा सा पशुपैर्मम। सा ब्राह्मणाय दत्ता प्रेत्यार्थमभिकाइक्षता॥ मे अपश्यत् परिमार्गश्च तां गां परगृहे द्विजः। ममेयमिति चोवाच ब्राह्मणो यस्य साभवत्॥ तावुभौ समनुप्राप्तौ विवदन्तो भृशज्वरौ। भवान् दाता भवान् हर्तेत्यथ तौ मामवोचताम्॥ शतेन शतसंख्येन गवां विनिमयेन वै। याचे प्रतिग्रहीतारं स तु मामब्रवीदिदम्॥ देशकालोपसम्पन्ना दोग्ध्री शान्तातिवत्सला। स्वादुक्षीरप्रदा धन्या मम नित्यं निवेशने॥ कृतं च भरते सा गौर्मम पुत्रमपस्तनम्। न सा शक्या मया दातुमित्युक्त्वा स जगाम ह॥१६ ततस्तमपरं विप्रं याचे विनिमयेन वै। गवां शतसहस्रं हि तत्कृते गृह्यतामिति॥ न राज्ञां प्रतिगृह्णामि शक्तोऽहं स्वस्य मार्गणे। सैव गौर्दीयतां शीघ्रं ममेति मधुसूदन॥ रुक्ममश्वांश्च ददतो रजतस्यन्दनांस्तथा। न जग्राह ययौ चापि तदा स ब्राह्मणर्षभः॥ एतस्मिन्नेव काले तु चोदितः कालधर्मणा। पितृलोकमहं प्राप्य धर्मराजमुपागमम्॥ यमस्तु पूजयित्वा मां ततो वचनमब्रवीत्। नान्तः संख्यायते राजंस्तव पुण्यस्य कर्मणः॥ अस्ति चैव कृतं पापमज्ञानात् तदपि त्वया। चरस्व पापं पश्चाद् वा पूर्वं वा त्वं यथेच्छसि॥ रक्षितास्मीति चोक्तं ते प्रतिज्ञा चानृता तव। ब्राह्मणस्वस्य चादानं द्विविधस्ते व्यतिक्रमः॥ पूर्वं कृच्छ्रे चरिष्येऽहं पश्चाच्छुभमिति प्रभो। धर्मराजं ब्रुवन्नेवं पतितोऽस्मि महीतले॥ अश्रौषं पतितश्चाहं यमस्योच्चैः प्रभाषतः। वासुदेवः समुद्धर्ता भविता ते जनार्दनः॥ पूर्णे वर्षसहस्रान्ते क्षीणे कर्मणि दुष्कृते। प्राप्स्यसे शाश्वतान्लोकाञ्जितान् स्वेनैव कर्मणा।।२६ कूपेऽऽत्मानमधःशीर्षमपश्यं पतितश्च ह। तिर्यग्योनिमनुप्राप्तं न च मामजहात् स्मृतिः॥ त्वया तु तारितोऽस्म्यद्य किमन्यत्र तपोबलात्। अनुजानीहि मां कृष्ण गच्छेयं दिवमद्य वै॥ अनुज्ञात: स कृष्णेन नमस्कृत्य जनार्दनम्। दिव्यमास्थाय पन्थानं ययौ दिवमरिंदमः॥ ततस्तस्मिन् दिवं याते नृगे भरतसत्तम। वासुदेव इमं श्लोकं जगाद कुरुनन्दन॥ ब्राह्मणस्वं न हर्तव्यं पुरुषेण विजानता। ब्राह्मणस्वं हृतं हन्ति नृगं ब्राह्मणगौरिव॥ सतां समागमः सद्भिर्नाफलः पार्थ विद्यते। विमुक्तं नरकात् पश्य नृगं साधुसमागमात्॥ प्रदानफलवत् तत्र द्रोहस्तत्र तथाफलः। अपचारं गवां तस्माद् वर्जयेत युधिष्ठिर।॥ युधिष्ठिर उवाच दत्तानां फलसम्प्राप्तिं गवां प्रब्रूहि मेऽनघ। विस्तरेण महाबाहो न हि तृष्यामि कथ्यताम्॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। ऋषेरुद्दालकेर्वाक्यं नाचिकेतस्य चोभयोः॥ ऋषिरुद्दालकिर्दीक्षामुपगम्य ततः सुतम्। त्वं मामुपचरस्वेति नाचिकेतमभाषत॥ समाप्ते नियमे तस्मिन् महर्षिः पुत्रमब्रवीत्। उपस्पर्शनसक्तस्य स्वाध्यायाभिरतस्य च॥ इध्मा दर्भाः सुमनसः कलशश्चातिभोजनम्। विस्मृतं मे तदादाय नदीतीरादिहाव्रज॥ गत्वानवाप्य तत् सर्वं नदीवेगसमाप्लुतम्। न पश्यामि तदित्येवं पितरं सोऽब्रवीन्मुनिः॥ क्षुत्पिपासाश्रमाविष्टो मुनिरुद्दालकिस्तदा। यमं पश्येति तं पुत्रमशपत् स महातपाः॥ तथा स पित्राभिहतो वाग्वज्रेण कृताञ्जलिः। प्रसीदेति ब्रुवन्नेव गतसत्त्वोऽपतद् भुवि॥ नाचिकेतं पिता दृष्ट्वा पतितं दुःखमूच्छितः। किं मया कृतमित्युक्त्वा निपपात महीतले॥ तस्य दुःखपरीतस्य स्वं पुत्रमनुशोचतः। व्यतीतं तदहःशेषं सा चोग्रा तत्र शर्वरी॥ पित्र्येणाश्रुप्रपातेन नाचिकेतः कुरूद्वह। प्रास्पन्दच्छयने कौश्ये वृष्ट्या सस्यमिवाप्लुतम्॥ स पर्यपृच्छत् तं पुत्रं क्षीणं पर्यागतं पुनः। दिव्यैर्गन्धैः समादिग्धं क्षीणस्वप्नमिवोत्थितम्॥ अपि पुत्र जिता लोकाः शुभास्ते स्वेन कर्मणा। दिष्ट्या चासि पुनः प्राप्तो न हि ते मानुषं वपुः।।१३ प्रत्यक्षदर्शी सर्वस्य पित्रा पृष्टो महात्मना। स तां वार्ता पितुर्मध्ये महर्षीणां न्यवेदयत्॥ कुर्वन् भवच्छासनमाशु यातो ह्यहं विशालां रुचिरप्रभावाम्। वैवस्वतीं प्राप्य सभामपश्यं सहस्रशो योजनहेमभासम्॥ दृष्ट्वैव मामभिमुखमापतन्तं देहीति स शासनमादिदेश। वैवस्वतोऽादिभिरहणैश्च भवत्कृते पूजयामास मां सः॥ ततस्त्वहं तं शनकैरवोचं वृतः सदस्यैरभिपूज्यमानः। प्राप्तोऽस्मि ते विषयं धर्मराज लोकानों यानहं तान् विधत्सव॥ यमोऽब्रवीन्मां न मृतोऽसि सौम्य यमं पश्येत्याह स त्वां तपस्वी। पिता प्रदीप्ताग्निसमानतेजा न तच्छक्यमनृतं विप्र कर्तुम्॥ दृष्टस्तेऽहं प्रतिगच्छस्व तात शोचत्यसौ तव देहस्य कर्ता। ददानि किं चापि मन:प्रणीतं प्रियातिधेस्तव कामान् वृणीष्व॥ तेनैवमुक्तस्तमहं प्रत्यवोचं प्राप्तोऽस्मि ते विषयं दुर्निवर्त्यम्। इच्छाम्यहं पुण्यकृतां समृद्धान् लोकान् द्रष्टुं यदि तेऽहं वरार्हः॥ तु यानं समारोप्य मां स देवो वाहैर्युक्तं सुप्रभं भानुमत् तत्। संदर्शयामास तदात्मलोकान् सर्वोस्तथा पुण्यकृतां द्विजेन्द्र॥ अपश्यं तत्र वेश्मानि तैजसानि महात्मनाम्। नानासंस्थानरूपाणि सर्वरत्नमयानि च॥ चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च। अनेकशतभौमानि सान्त लवनानि च।॥ वैदूर्यार्कप्रकाशनि रूप्यरुक्ममयानि च। तरुणादित्यवर्णानि स्थावराणि चराणि च॥ भक्ष्यभोज्यमयान्शैलान् वासांसि शयनानि च। सर्वकामफलांश्चैव वृक्षान् भवनसंस्थितान्॥ नद्यो वीथ्यः सभा वाप्यो दीर्घिकाश्चैव सर्वशः। घोषवन्ति च यानानि युक्तान्यथ सहस्रशः॥ क्षीरस्रवा वै सरितो गिरीश्च सर्पिस्तथा विमलं चापि तोयम्। नदृष्टपूर्वान् सुबहूनपश्यम्॥ मवोचं वै प्रभविष्णुं पुराणम्। क्षीरस्यैताः सर्पिषश्चैव नद्यः शश्वत्स्रोताः कस्य भोज्याः प्रदिष्टा॥ यम उवाच यमोऽब्रवीद् विद्धि भोज्यास्त्वमेता ये दातारः साधवो गोरसानाम्। अन्ये लोकाः शाश्वता वीतशोकैः समाकीर्णा गोप्रदाने रतानाम्॥ न त्वेतासां दानमात्रं प्रशस्तं पात्रं कालो गोविशेषे विधिश्च। ज्ञात्वां देयं विप्र गवान्तरं हि दुःखं ज्ञातुं पावकादित्यभूतम्॥ स्वाध्यायवान् योऽतिमात्रं तपस्वी वैतानस्थो ब्राह्मणः पात्रमासाम्। कृच्छ्रोत्सृष्टाः योषणाभ्यागताश्च द्वारैरेतैर्गोविशेषाः प्रशस्ताः॥ तिस्रो राज्यस्त्वद्भिपोष्य भूमौ तृप्ता गावस्तर्पितेभ्यः प्रदेयाः। स्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम्॥ दत्त्वा धेनुं सुव्रता कांस्यदोहां कल्याणवत्सामलायिनी च। स्तावद् वर्षाण्यश्नुते स्वर्गलोकम्॥ तथानड्वाहं ब्राह्मणेभ्यः प्रदाय दान्तं धुर्यं बलवन्तं युवानम्। कुलानुजीव्यं वीर्यवन्तं बृहन्तं भुङ्क्ते लोकान् सम्मितान् धेनुदस्य॥ गोषु क्षान्तं गोशरण्यं कृतज्ञं वृत्तिग्लानं तादृशं पात्रमाहुः। वृद्धे ग्लाने सम्भ्रमे वा महार्थे कृष्यर्थं वा होम्यहेतोः प्रसूत्याम्॥ गुर्वर्थं वा बालपुष्ट्याभिषणां गां वै दातुं देशकालोऽविशिष्टः। अन्तर्ज्ञाताः सक्रयज्ञानलब्धाः प्राणक्रीता निर्जिता यौतकाच॥ नचिकेता उवाच श्रुत्वा वैवस्वतवचस्तमहं पुनरब्रुवम्। अभावे गोप्रदातॄणां कथं लोकान् हि गच्छति॥ ततोऽब्रवीद् यमो धीमान् गोप्रदानपरां गतिम्। गोप्रदानानुकल्पं तु गामृते सन्ति गोप्रदाः॥ अलाभे यो गवां दद्याद् घृतधेनुं यतव्रतः। तस्यैता घृतवाहिन्यः क्षरन्ते वत्सला इव॥ घृतालाभे तु यो दद्यात् तिलधेनुं यतव्रतः। स दुर्गात् तारितो धेन्वा क्षीरनद्यां प्रमोदते॥ तिलालाभे तु यो दद्याज्जलधेनुं यतव्रतः। स कामप्रवहां शीतां नदीमेतामुपाश्नुते॥ एवमेतानि मे तत्र धर्मराजो न्यदर्शयत्। दृष्ट्वा च परमं हर्षमवापमहमच्युत॥ निवेदये चाहमिमं प्रियं ते क्रतुर्महानल्पधनप्रचारः। प्राप्तो मया तात स मत्प्रसूतः। प्रपत्स्यते वेदविधिप्रवृत्तः॥ शापो ह्ययं भवतोऽनुग्रहाय प्राप्तो मया यत्र दृष्ट्वा यमो वै। दानव्युष्टिं तत्र दृष्ट्वा महात्मन् नि:संदिग्धान् दानधर्मोश्चरिष्ये॥ इदं च मामब्रवीद् धर्मराजः पुनः पुनः सम्प्रहृष्टो महर्षे दानेन यः प्रयतोऽभूत् सदैव विशेषतो गोप्रदानं च कुर्यात्॥ शुद्धो ह्यर्थो नावमन्यस्व धर्मान् पात्रे देयं देशकालोपपन्ने। तस्माद् गावस्ते नित्यमेव प्रदेया मा भूच्च ते संशयः कश्चिदत्र॥ एताः पुरा ह्यददन्नित्यमेव शान्तात्मानो दानपथे निविष्टाः। स्ते वै दानं प्रददुश्चैव शक्त्या॥ काले च शक्त्या मत्सरं वर्जयित्वा शुद्धात्मानः श्रद्धिनः पुण्यशीलाः। दत्त्वा गां वै लोकममुं प्रपन्ना देदीप्यन्ते पुण्यशीलास्तु नाके॥ एतद् दानं न्यायलब्धं द्विजेभ्यः पात्रे दत्तं प्रापणीयं परीक्ष्य। काम्याष्टम्या वर्तितव्यं दशाह रसैर्गवां शकृता प्रस्रवैर्वा॥ र्वेदावाप्तिर्गोयुगस्य प्रदाने। तीर्थावाप्तिर्गोप्रयुक्तप्रदाने पापोत्सर्गः कपिलायाः प्रदाने॥ गामप्येकां कपिलां सम्प्रदाय न्यायोपेतां कलुषाद् विप्रमुच्येत्। गवां रसात् परमं नास्ति किंचिद् गवां प्रदानं सुमहद् वदन्ति॥ गावो लोकांस्तारयन्ति क्षरन्त्यो गावश्चान्नं संजनयन्ति लोके। यस्तं जानन गवां हार्दमेति स वै गन्ता निरयं पापचेताः॥ यैस्तद् दत्तं गोसहस्रं शतं वा दशार्धं वा दश वा साधुवत्सम्। अप्येका वै साधवे ब्राह्मणाय सास्यामुष्मिन् पुण्यतीर्था नदी वै॥ प्राप्त्या पुष्ट्या लोकसंरक्षणेन गावस्तुल्याः सूर्यपादैः पृथिव्याम्। स्तस्माद् गोदः सूर्य इवावभाति॥ गुरुं शिष्यो वरयेद् गोप्रदाने स वै गन्ता नियतं स्वर्गमेव। विधिज्ञानं सुमहान् धर्म एष विधिं ह्याद्यं विधयः संविशन्ति॥ इदं दानं न्यायलब्धं द्विजेभ्यः पात्रे दत्त्वा प्रापयेथाः परीक्ष्य। त्वय्याशंसन्त्यमरा मानवाश्च वयं चापि प्रसृते पुण्यशीले॥ इत्युक्तोऽहं धर्मराजं द्विजर्षे धर्मात्मानं शिरसाभिप्रणम्य। अनुज्ञातस्तेन वैवस्वतेन प्रत्यागमं भगवत्पादमूलम्॥ पितामह उवाच योऽयं प्रश्नस्त्वया पृष्टो गोप्रदानादिकारितः। नास्ति प्रष्टास्ति लोकेऽस्मिंस्त्वत्तोऽन्योहि शतक्रतो॥१ सन्ति नानाविधा लोका यांस्त्वं शक्र न पश्यसि। पश्यामियानहं लोकानेकपत्न्यश्च याः स्त्रियः॥ कर्मभिश्चापि सुशुभैः सुव्रता ऋषयस्तथा। सशरीरा हि तान् यान्ति ब्राह्मणाः शुभबुद्धयः॥ शरीरन्यासमोक्षेण मनसा निर्मलेन च। स्वप्नभूतांश्च ताल्लोकान् पश्यन्तीहापि सुव्रताः॥ ते तु लोकाः सहस्राक्ष शृणु यादृग्गुणान्विताः। न तत्र क्रमते कालो न जरा न च पावकः॥ तथा नास्त्यशुभं किंचिन्न व्याधिस्तत्र न क्रमः। यद् यच्च गावो मनसा तस्मिन् वान्छन्ति वासव॥ तत् सर्वं प्राप्नुवन्ति स्म मम प्रत्यक्षदर्शनात्। कामगाः कामचारिण्यः कामात् कामांश्च भुञ्जते॥ वाप्यः सरांसि सरितो विविधानि वनानि च। गृहाणि पर्वताश्चैव यावद्र्व्यं च किंचन॥ मनोज्ञं सर्वभूतेभ्यः सर्वतन्त्रं प्रदृश्यत। ईदृशाद् विपुलाल्लोकान्नास्ति लोकस्तथाविधः॥ तत्र सर्वसहाः क्षान्ता वत्सला गुरुवर्तिनः। अहङ्कारैर्विरहिता यान्ति शक्र नरोत्तमाः॥ यः सर्वमांसानि न भक्षयीत पुमान् सदा भावितो धर्मयुक्तः। मातापित्रोरर्चिता सत्ययुक्तः शुश्रूषिता ब्राह्मणानामनिन्द्यः।॥ अक्रोधनो गोषु तथा द्विजेषु धर्मे रतो गुरुशुश्रूषकश्चा यावज्जीवं सत्यवृत्ते रतश्च दाने रतो यः क्षमी चापराधे॥ मृदुर्दान्तो देवपरायणश्च सर्वातिथिश्चापि तथा दयावान्। ईदृग्गुणो मानवस्तं प्रयाति लोकं गवां शाश्वतं चाव्ययं च॥ न पारदारी पश्यति लोकमेतं न वै गुरुघ्नो न मृषा सम्प्रलापी। सदा प्रवादी ब्राह्मणेष्वात्तवैरो दोषैरेतैर्यश्च युक्तो दुरात्मा॥ न मित्रधुड्नैकृतिकः कृतघ्नः शठोऽनृजुर्धर्मविद्वेषश्च। न ब्रह्महा मनसापि प्रपश्येद् गवां लोकं पुण्यकृतां निवासम्॥ एतत् ते सर्वमाख्यातं निपुणेन सुरेश्वर। गोप्रदानरतानां तु फलं शृणु शतक्रतो॥ दायाद्यलब्धैरथैयो गाः क्रीत्वा सम्प्रयच्छति। धर्मार्जितान् धनैः क्रीतान् स लोकानाप्नुतेऽयान्॥ यो वै द्यूतेधनं जित्वा गाः क्रीत्वा सम्प्रयच्छति। स दिव्यमयुतं शक्र वर्षाणां फलमश्नुते॥ दायाद्याद्याः स्म वै गावो न्यायपूर्वैरुपार्जिताः। प्रदद्यात् ताः प्रदातॄणां सम्भवन्त्यपि च धुवाः॥ प्रतिगृह्य तु यो दद्याद् गाः संशुद्धेन चेतसा। तस्यापीहक्षियाल्लोकान् ध्रुवान् विद्धि शचीपते।।२० जन्मप्रभृति सत्यं च यो ब्रूयानियतेन्द्रियः। गुरुद्विजसहः क्षान्तस्तस्य गोभिः समा गतिः॥ न जातु ब्राह्मणो वाच्यो यदवाच्यं शचीपते। मनसा गोषु न दुह्येद् गोवृत्तिर्गोऽनुकल्पकः॥ सत्ये धर्मे च निरतस्तस्य शक्र फलं शृणु। गोसहस्रेण समिता तस्य धेनुर्भवत्युत॥ क्षत्रियस्य गुणैरेतैरपि तुल्यफलं शृणु। तस्यापि द्विजतुल्या गौर्भवतीति विनिश्चयः॥ वैश्यस्यैते यदि गुणास्तस्य पञ्चशतं भवेत्। शूद्रस्यापि विनीतस्य चतुर्भागफलं स्मृतम्॥ एतच्चैनं योऽनुतिष्ठेत युक्तः सत्ये रतो गुरुशुश्रूषया च। दक्षः क्षान्तो देवतार्थी प्रशान्तः शुचिर्बुद्धो धर्मशीलोऽनहंवाद॥ महत् फलं प्राप्यते स द्विजाय दत्त्वा दोग्ध्रीं विधिनानेन धेनुम्। नित्यं दद्यादेकभक्तः सदा च सत्ये स्थितो गुरुशुश्रूषिता च॥ वेदाध्यायी गोषु यो भक्तिमांश्च नित्यं दत्त्वा योऽभिनन्देत गाश्च। आजातितो यश्च गवां नमेत इदं फलं शक्र निबोध तस्य॥ यत् स्यादिष्ट्वा राजसूये फलं तु यत् स्यादिष्ट्वा बहुना काञ्चनेन। एतत् तुल्यं फलमप्याहुरग्र्यं सर्वे सन्तस्त्वृषयो ये च सिद्धाः॥ योऽग्रं भक्तं किंचिदप्राश्य दद्याद् गोभ्यो नित्यं गोव्रती सत्यवादी। शान्तोऽलुब्धो गोसहस्रस्य पुण्यं संवत्सरेणाप्नुयात् सत्यशीलः॥ यदेकभक्ततदश्नीयाद् दद्यादेकं गवां च यत्। दशवर्षाण्यनन्तानि गोव्रती गोऽनुकम्पकः॥ एकेनैव च भक्तेन यः क्रीत्वा गां प्रयच्छति। यावन्ति तस्या रोमाणि सम्भवन्ति शतक्रतो॥ तावत् प्रदानात् स गवां फलमाप्नोति शाश्वतम्। ब्राह्मणस्य फलं हीदं क्षत्रियस्य तु वै शृणु॥ पञ्चवार्षिकमेवं तु क्षत्रियस्य फलं स्मृतम्। ततोऽर्धेन तु वैश्यस्य शूद्रो वैश्यार्धतः स्मृतः॥ यश्चात्वविक्रयं कृत्वा गाः क्रीत्वा सम्प्रयच्छति। यावत् संदर्शयेद् गां वै स तावत् फलमश्नुते॥ रोम्णि रोम्णि महाभाग लोकाश्चास्याऽक्षयाः स्मृताः। संग्रामेष्वर्जयित्वा तु यो वै गाः सम्प्रयच्छति। आत्मविक्रयतुल्यास्ताः शाश्वता विद्धि कौशिक॥३६ अभावे यो गवां दद्यात् तिलधेनुं यतव्रतः। दुर्गात् स तारितो धेन्वा क्षीरनद्यां प्रमोदते॥ न त्वेवासां दानमात्रं प्रशस्तं पात्रं कालो गोविशेषे विधिश्च। कालज्ञानं विप्र गवान्तरं हि दुःखं ज्ञातुं पावकादित्यभूतम्॥ स्वाध्यायाढ्यं शुद्धयोनि प्रशान्तं वैतानस्थं पापभीरूं बहुज्ञम्। गोषु क्षान्तं नातितीक्ष्णं शरण्यं वृत्तिग्लानं तादृशं पात्रमाहुः॥ वृत्तिग्लाने सीदति चातिमात्रं कृष्यर्थे वा होम्यहेतोः प्रसूतेः। गुर्वर्थं वा बालसंवृद्धये वा धेनुं दद्याद् देशकालेऽविशिष्टे॥ अन्तर्ज्ञाताः सक्रयज्ञानलब्धाः प्राणैः क्रीतास्तेजसा यौतकाश। कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च द्वारैरेतैर्गोविशेषः प्रशस्ताः॥ बलान्विताः शीलवयोपपन्नाः सर्वाः प्रशंसन्ते सुगन्धवत्यः। यथा हि गङ्गा सरितां वरिष्ठा तथार्जुनीनां कपिला वरिष्ठा॥ तिस्रो रात्रीस्त्वद्भिपोष्य भूमौ तृप्ता गावस्तर्पितेभ्यः प्रदेयाः। स्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम्॥ दत्त्वा धेनुं सुव्रतां साधुदोहां कल्याणवत्सामपलायिनीं च। स्तावन्ति वर्षाणि भवन्त्यमुत्र॥ तथानड्वाहं ब्राह्मणाय प्रदाय धुर्यं युवानं बलिनं विनीतम्। हलस्य वोढारमनन्तवीर्य प्राप्नोति लोकान् दशधेनुदस्य॥ कान्तारे ब्राह्मणान् गाश्च यः परित्राति कौशिक। क्षणेन विप्रमुच्येत तस्य पुण्यफलं शृणु।॥ अश्वमेधक्रतोस्तुल्यं फलं भवति शाश्वतम्। मृत्युकाले सहस्राक्ष यां वृत्तिमनुकाझते॥ लोकान् बहुविधान् दिव्यान् यच्चास्य हृदि वर्तते। तत् सर्वं समवाप्नोति कर्मणैतेन मानवः॥ गोभिश्च समनुज्ञात: सर्वत्र च महीयते। यस्त्वेतेनैव कल्पेन गां वनेष्वनुगच्छति॥ तृणगोमयपर्णाशी निःस्पृहो नियतः शुचिः। अकामं तेन वस्तव्यं मुदितेन शतक्रतो॥ मम लोके सुरैः सार्धे लोके यत्रापि चेच्छति॥ इन्द्र उवाच जानन् यो गामपहरेद् विक्रीयाच्चार्थकारणात्। एतद् विज्ञातुमिच्छामि क्व नु तस्य गतिर्भवेत्॥ पितामह उवाच भक्षार्थं विक्रयार्थं वा येऽपहारं हि कुर्वते। दानार्थं ब्राह्मणार्थाय तत्रेदं श्रूयतां फलम्॥ विक्रयार्थं हि यो हिंस्याद् भक्षयेद् वा निरङ्कुशः। घातयानं हि पुरुषं येऽनुमन्येयुरर्थिनः॥ घातकः खादको वापि तथा यश्चानुमन्यते। यावन्ति तस्या रोमाणि तावद् वर्षाणि मज्जति॥ ये दोषा यादृशाश्चैव द्विजयज्ञोपघातके। विक्रये चापहारे च ते दोषा वै स्मृताः प्रभो॥ अपहत्य तु यो गां वै ब्राह्मणाय प्रयच्छति। यावद् दानफलं तस्यास्तावन्निरयमृच्छति॥ सुवर्णं दक्षिणामाहुर्गोप्रदाने महाद्युते! सुवर्णं परमित्युक्तं दक्षिणार्थमसंशयम्॥ गोप्रदानात् तारयते सप्त पूर्वांस्तथा परान्। सुवर्णं दक्षिणां कृत्वा तावद्विगुणमुच्यते॥ सुवर्णं परमं दानं सुवर्णं दक्षिणा परा। सुवर्णं पावनं शक्र पावनानां परं स्मृतम्॥ कुलानां पावनं प्राहुर्जातरूपं शतक्रतो। एषा मे दक्षिणा प्रोक्ता समासेन महाद्युते॥ भीष्म उवाच एतत् पितामहेनोक्तमिन्द्राय भरतर्षभा इन्द्रो दशरथायाह रामायाह पिता तथा॥ राघवोऽपि प्रियभ्रात्रे लक्ष्मणाय यशस्विने। ऋषिभ्यो लक्ष्मणेनोक्तमरण्ये वसता प्रभो॥ पारम्पर्यागतं चेदमृषयः संशितव्रताः। दुर्धरं धारयामासू राजानश्चैव धार्मिकाः॥ उपाध्यायेन गदितं मम चेदं युधिष्ठिर। य इदं ब्राह्मणो नित्यं वदेद् ब्राह्मणसंसदि॥ यज्ञेषु गोप्रदानेषु द्वयोरपि समागमे। तस्य लोका: किलाक्षय्या दैवतैः सह नित्यदा॥ युधिष्ठिर उवाच विस्रम्भितोऽहं भवता धर्मान् प्रवदता विभो। प्रवक्ष्यामि तु संदेहं तन्मे ब्रूहि पितामह॥ व्रतानां किं फलं प्रोक्तं कीदृशं वा महाद्युते। नियमानां फलं किं च स्वधीतस्य च किं फलम्॥ दत्तस्येह फलं किं च वेदानां धारणे च किम्। अध्यापने फलं किं च सर्वमिच्छामि वेदितुम्॥ अप्रतिग्राहके किं च फलं लोके पितामह। तस्य किं च फलं दृष्टं श्रुतं यस्तु प्रयच्छति॥ स्वकर्मनिरतानां च शूराणां चापि किं फलम्। शौचे च किं फलं प्रोक्तं ब्रह्मचर्ये च किं फलम्॥ पितृशुश्रूषणे किं च मातृशुश्रूषणे तथा। आचार्यगुरुशुश्रूषास्वनुक्रोशानुकम्पने॥ एतत् सर्वमशेषेण पितामह यथातथम्। वेत्तुमिच्छामि धर्मज्ञ परं कौतूहलं हि मे॥ भीष्म उवाच यो व्रतं वै यथोद्दिष्टं तथा सम्प्रतिपद्यते। अखण्डं सम्यगारभ्य तस्य लोकाः सनातनाः॥ नियमानां फलं राजन् प्रत्यक्षमिह दृश्यते। नियमानां क्रतूनां च त्वयावाप्तमिदं फलम्॥ स्वधीतस्यापि च फलं दृश्यतेऽमुत्र चेह च। इहलोकेऽथवा नित्यं ब्रह्मलोके च मोदते॥ दमस्य तु फलं राजञ्छृणु त्वं विस्तरेण मे। दान्ताः सर्वत्र सुखिनो दान्ताः सर्वत्र निर्वृताः॥ यत्रेच्छागामिनो दान्ताः सर्वशत्रुनिषूदनाः। प्रार्थयन्ति च यद् दान्ता लभन्ते तन्न संशयः॥ युज्यन्ते सर्वकामैर्हि दान्ताः सर्वत्र पाण्डव। स्वर्गे यथा प्रमोदन्ते तपसा विक्रमेण च॥ दानैर्यज्ञैश्च विविधैस्तथा दान्ताः क्षमान्विताः। दानाद् दमो विशिष्टो हि ददत् किञ्चिद् द्विजातये।।१४ दाता कुप्यति नो दान्तस्तस्माद् दानात् परं दमः। यस्तु दद्यादकुप्यन् हि तस्य लोकाः सनातनाः॥ क्रोधो हन्ति हि यद् दानं तस्माद् दानात् परं दमः। अदृश्यानि महाराज स्थानान्ययुतशो दिवि॥ ऋषीणां सर्वलोकेषु याहीतो यान्ति देवताः। दमेन यानि नृपते गच्छन्ति परमर्षयः॥ कामयाना महत्स्थानं तस्माद् दानात् परं दमः। अध्यापकः परिक्लेशादक्षयं फलमश्नुते॥ विधिवत् पावकं हुत्वा ब्रह्मलोके नराधिप। अधीत्यापि हि यो वेदान् न्यायविद्ध्यः प्रयच्छति।।१९ गुरुकर्मप्रशंसी तु सोऽपि स्वर्गे महीयते। क्षत्रियोऽध्ययने युक्तो यजने दानकर्मणि। युद्धे यश्च परित्राता सोऽपि स्वर्गे महीयते॥ वैश्यः स्वकर्मनिरतः प्रदानाल्लभते महत्। शूद्रः स्वकर्मनिरतः स्वर्गे शुश्रूषयार्च्छति॥ शूरा बहुविधाः प्रोक्तास्तेषामर्थांस्तु मे शृणु। शूरान्वयानां निर्दिष्टं फलं शूरस्य चैव हि॥ यज्ञशूरा दमे शूराः सत्यशूरास्तथापरे। युद्धशूरास्तथैवोक्ता दानशूराश्च मानवाः॥ सांख्यशूराश्च बहवो योगशूरास्तथापरे। अरण्ये गृहवासे च त्यागे शूरास्तथापरे॥ बुद्धिशूरास्तथा चान्ये क्षमाशूरास्तथापरे। आर्जवे च तथा शूराः शमे वर्तन्ति मानवाः। तैस्तैश्च नियमैः शूरा बहवः सन्ति चापरे। वेदाध्ययनशूराश्च शूराश्चाध्यापने रताः॥ गुरुशुश्रूषया शूराः पितृशुश्रूषयापरे। मातृशुर्षया शूरा भैक्ष्यशूरास्तथापरे॥ अरण्ये गृहवासे च शूराश्चातिथिपूजने। सर्वे यान्ति पराँल्लोकान् सर्वकर्मफलनिर्जितान्॥ धारणं सर्ववेदानां सर्वतीर्थावगाहनम्। सत्यं च ब्रुवतो नित्यं समं वा स्यान्न वा समम्॥ अश्वमेधसहस्रं च सत्यं च तुलया धृतम्। अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते॥ सत्येन सूर्यस्तपति सत्येनाग्निः प्रदीप्यते। सत्येन मरुतो वान्ति सर्वं सत्ये प्रतिष्ठितम्॥ सत्येन देवाः प्रीयन्ते पितरो ब्राह्मणास्तथा। सत्यमाहुः परो धर्मस्तस्मात् सत्यं न लड्वयेत्॥ मुनयः सत्यनिरता मुनयः सत्यविक्रमा:। मुनयः सत्यशपथास्तस्मात् सत्यं विशिष्यते॥ सत्यवन्तः स्वर्गलोके मोदन्ते भरतर्षभ। दमः सत्यफलावाप्ति रुक्ता सर्वात्मना मया॥ असंशयं विनीतात्मा स वै स्वर्गे महीयते। ब्रह्मचर्यस्य च गुणं शृणु त्वं वसुधाधिप।॥ आजन्ममरणाद् यस्तु ब्रह्मचारी भवेदिह। न तस्य किंचिदप्राप्यमिति विद्धि नराधिप।॥ बयः कोट्यस्त्वृषीणां तु ब्रह्मलोके वसन्त्युत। सत्ये रतानां सततं दान्तानामूर्ध्वरेतसाम्॥ ब्रह्मचर्यं दहेद् राजन् सर्वपापान्युपासितम्। ब्राह्मणेन विशेषेण ब्राह्मणो ह्याग्निरुच्यते॥ प्रत्यक्षं हि तथा ह्येतद् ब्राह्मणेषु तपस्विषु। बिभेति हि यथा शक्रो ब्रह्मचारिप्रधर्षितः॥ तद् ब्रह्मचर्यस्य फलमृषीणामिह दृश्यते। मातापित्रोः पूजने यो धर्मस्तमपि मे शृणु॥ शुश्रूषते य: पितरं न चासूयेत् कदाचन। मातरं भ्रातरं वापि गुरुमाचार्यमेव च।॥ तस्य राजन् फलं विद्धि स्वर्लोके स्थानमर्चितम्। न च पश्येत नरकं गुरुशुश्रूषयाऽऽत्मवान्॥ युधिष्ठिर उवाच विधिं गवां परं श्रोतुमिच्छामि नृप तत्त्वतः। येन ताशाश्वताल्लोकानर्थिनां प्राप्नुयादिह॥ भीष्म उवाच न गोदानात् परं किंचिद् विद्यते वसुधाधिप। गौर्हि न्यायागता दत्ता सद्यस्तारयते कुलम्॥ सतामर्थे सम्यगुत्पादितो यः स वै क्लृप्तः सम्यगाभ्यः प्रजाभ्यः। तस्मात् पूर्वं ह्यादिकालप्रवृत्तं गोदानार्थं शृणु राजन् विधि मे॥ पुरा गोषूपनीतासु गोषु संदिग्धदर्शिना। मान्धात्रा प्रकृतं प्रश्नं बृहस्पतिरभाषत।॥ बृहस्पति उवाच द्विजातिमतिसत्कृत्य श्वः कालमभिवेद्य च। गोदानार्थे प्रयुञ्जीत रोहिणी नियतव्रतः॥ आह्वानं च प्रयुञ्जीत समझे बहुलेति च। प्रविश्य च गवां मध्यमिमां श्रुतिमुदाहरेत्॥ गौर्मे माता वृषभः पिता मे दिवं शर्म जगती मे प्रतिष्ठा। प्रपद्यैवं शर्वरीमुष्य गोषु पुनर्वाणीमुत्सृजेद् गोप्रदाने॥ स तामेकां निशां गोभिः समसख्यः समव्रतः। ऐकात्म्यगमनात् सद्यः कलुषाद् विप्रमुच्यते॥८॥ उत्सृष्टवृषवत्सा हि प्रदेया सूयदर्शने। त्रिदिवं प्रतिपत्तव्यमर्थवादाशिषस्तव॥ उर्जस्विन्य ऊर्जमेधाश्च यज्ञे गर्भोऽमृतस्य जगतोऽस्य प्रतिष्ठा। क्षिते रोहः प्रवृहुः शश्वदेव प्रजापत्याः सर्वमित्यर्थवादाः॥ स्तथा सौम्याः स्वर्गयानाय सन्तु। आत्मानं मे मातृवच्चाश्रयन्तु तथानुक्ताः सन्तु सर्वाशिषो मे॥ शोषोत्सर्गे कर्मभिर्देहमोक्षे सरस्वत्यः श्रेयसे सम्प्रवृत्ताः। यूयं नित्यं सर्वपुण्योपवाह्यां दिशध्वं मे गतिमिष्टां प्रसन्नाः॥ या वै यूयं सोऽहमद्यैव भावो युष्मान् दत्त्वा चाहमात्मप्रदाता। मनश्च्युता मन एवोपपन्नाः संधुक्षध्वं सौम्यरूपोग्ररूपाः॥ एवं तस्याग्रे पूर्वमर्थं वदेत गवां दाता विधिवत् पूर्वदृष्टः। प्रतिब्रूयाच्छेषमधु द्विजाति: प्रतिगृह्णन् वै गोप्रदाने विधिज्ञः॥ गोप्रदानीति वक्तव्यमर्थ्यवस्त्रवसुप्रदः। उर्ध्वास्या भवितव्या च वैष्णवीति च चोदयेत्॥ नाम संकीर्तयेत् तस्या यथासंख्योत्तरं स वै। फलं षट्त्रिंशदष्टौ च सहस्राणि च विंशतिः॥ एवमेतान् गुणान् विद्याद् गवादीनां यथाक्रमम्। गोप्रदाता समाप्नोति समस्तानष्टमे क्रमे॥ गोदः शीली निर्भयश्चार्थदाता न स्याद् दुःखी वसुदाता च कामम्। उषस्योढा भारते यश्च विद्वान् विख्यातास्ते वैष्णवाश्चन्द्रलोकाः॥ गा वै दत्त्वा गोव्रती स्यात् त्रिरात्रं निशां चैकां संवसेतेह ताभिः। कामाष्टम्यां वर्तितव्यं त्रिरात्रं रसैर्वा गोः शकृता प्रस्रवैर्वा॥ देवव्रती स्याद् वृषभप्रदाने वेदावाप्तिर्गोयुगस्य प्रदाने। तथा गवां विधिमासाद्य यज्वा लोकानग्र्यान् विन्दते नाविधिज्ञः॥ कामान् सर्वान् पार्थिवानेकसंस्थान यो वै दद्यात् कामदुघांच धेनुम्। स्तासामुक्ष्णां ज्यायसां सम्प्रदानम्॥ नाश्रद्दधानाय न वक्रबुद्धये। गुह्यो ह्ययं सर्वलोकस्य धर्मो नेमं धर्मं यत्र तत्र प्रजल्पेत्॥ सन्ति लोकेऽश्रद्दधाना मनुष्या: सन्ति क्षुद्रा राक्षसमानुषेषु। एषामेतद् दीयमानं ह्यनिष्टं ये नास्तिक्यं चाश्रयन्तेऽल्पपुण्याः॥ बार्हस्पत्यं वाक्यमेतन्निशम्य ये राजानो गोप्रदानानि दत्त्वा। स्तान् मे राजन् कीर्त्यमानान् निबोध॥ उशीनरो विष्वगश्वो नृगश्च भगीरथो विश्रुतो यौवनाश्वः। मान्धाता वै मुचुकुन्दश्च राजा भूरिद्युम्नो नैषधः सोमकश्च॥ पुरूरवो भरतश्चक्रवर्ती यस्यान्ववाये भरताः सर्व एव। तथा वीरो दाशरथिश्च रामो ये चाप्यन्ये विश्रुताः कीर्तिमन्तः॥ तथा राजा पृथुकर्मा दिलीपो दिवं प्राप्तो गोप्रदानैर्विधिज्ञः। र्मान्धाताभूद् गोप्रदानैश्च युक्तः॥ तस्मात् पार्थ त्वमपीमां मयोक्तां बार्हस्पती भारती धारयस्व। द्विजाग्र्येभ्यः सम्प्रयच्छस्व प्रीतो गाः पुण्या वै प्राप्य राज्यं कुरूणाम्॥ वैशम्पायन उवाच कृतवान् धर्मराजो भीष्मेणोक्तो विधिवद् गोप्रदाने। तथा सर्वे स मान्धातुर्देवदेवोपदिष्टं सम्यग्धर्मं धारयामास राजा॥ इति नृप सततं गवां प्रदाने यवशकलान् सह गोमयैः पिबानः। क्षितितलशयनः शिखी यतात्मा वृष इव राजवृषस्तदा बभूव॥ नरपतिरभवत् सदैवताभ्यः प्रयतमनास्त्वभिसंस्तुवंश्च ता:स्म। न च धुरि नृप गामयुक्त भूय स्तुरगवरैरगमच्च यत्र तत्र॥ भीष्म उवाच एतस्मिन्नेव काले तु वसिष्ठमृषिसत्तमम्। इक्ष्वाकुवंशजो राजा सौदासो वदतां वरः॥ सर्वलोकचरं सिद्धं ब्रह्मकोशं सनातनम्। पुरोहितमभिप्रष्टुमभिवाद्योपचक्रमे॥ सौदास उवाच त्रैलोक्ये भगवन् किंस्वित् पवित्रं कथ्यतेऽनघा यत् कीर्तयन् सदा मर्त्यः प्राप्नुयात् पुण्यमुत्तमम्॥ भीष्म उवाच तस्मै प्रोवाच वचनं प्रणताय हितं तदा। गवामुपनिषद्विद्वान् नमस्कृत्य गवां शुचिः॥ वसिष्ठ उवाच गाव: सुरभिगन्धिन्यस्तथा गुग्गुलुगन्धयः। गाव: प्रतिष्ठा भूतानां गावः स्वस्त्ययनं महत्॥ गावो भूतं च भव्यं च गावः पुष्टिः सनातनी। गावोलक्ष्म्यास्तथा मूलं गोषु दत्तं न नश्यति॥ अन्नं हि परमं गावो देवानां परमं हविः। स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ॥ गावो यज्ञस्य हि फलं गोषु यज्ञाः प्रतिष्ठिताः। गावो भविष्यं भूतं च गोषु यज्ञाः प्रतिष्ठिताः॥ सायं प्रातश्च सततं होमकाले महायुते। गावो ददति वै होम्यमृषिभ्यः पुरुषर्षभ॥ यानि कानि च दुर्गाणि दुष्कृतानि कृतानि च। तरन्ति चैव पाप्मानं धेनुं ये ददति प्रभो॥ एकां च दशगुर्दद्याद् दश दद्याच्च गोशती। शतं सहस्रगुर्दद्यात् सर्वे तुल्यफला हि ते॥ अनाहिताग्नि: शतगुरयज्वा च सहस्रगुः। समृद्धो यश्च कीनाशो नार्घमर्हन्ति ते त्रयः॥ कपिलां ये प्रयच्छन्ति सवत्सां कांस्यदोहनाम्। सुव्रतां वस्त्रसंवीतामुभौ लोकौ जयन्ति ते॥ युवानमिन्द्रियोपेतं शतेन शतयूथपम्। गवेन्द्रं ब्राह्मणेन्द्राय भूरिशृङ्गमलङ्कतम्॥ वृषभं ये प्रयच्छन्ति श्रोत्रियाय परतन्प। ऐश्वर्यं तेऽधिगच्छन्ति जायमानाः पुनः पुनः॥ नाकीर्तयित्वा गाः सुप्यात् तासां संस्मृत्य चोत्पतेत्। सायं प्रातर्नमस्येच्च गास्ततः पुष्टिमाप्नुयात्॥ गवां मूत्रपुरीषस्य नोद्विजेत कथंचन। न चासां मांसमश्नीयाद् गवां पुष्टिं तथाप्नुयात्॥ गाश्च संकीर्तयेन्नित्यं नावमन्येत तास्तथा। अनिष्टं स्वप्नमालक्ष्य गां नरः सम्प्रकीर्तयेत्॥ गोमयेन सदा स्नायात् करीषे चापि संविशेत्। श्लेष्ममूत्रपुरीषाणि प्रतिघातं च वर्जयेत्॥ सार्दै चर्मणि भुञ्जीत निरीक्षेद् वारुणी दिशम्। वाग्यत: सर्पिषा भूमौ गवां पुष्टि सदाश्नुते॥ घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत्। घृतं दद्याद् घृतं प्राशेद् गवां पुष्टिं सदाश्नुते॥ गोमत्या विद्यया धेनुं तिलानामभिमन्त्र्य यः। सर्वरत्नमयीं दद्यान्न स शोचेत् कृताकृते॥ गावो मामुपतिष्ठन्तु हेमशृङ्ग्यः पयोमुचः। सुरभ्यः सौरभेय्यश्च सरितः सागरं यथा॥ गा वै पश्याम्यहं नित्यं गाव: पश्यन्तु मां सदा। गावोऽस्माकं वयं तासां यतो गावस्ततो वयम्॥ एवं रात्रौ दिवा चापि समेषु विषमेषु च। महाभयेषु च नरः कीर्तयन् मुच्यते भयात्॥ वसिष्ठ उवाच शतं वर्षसहस्राणां तपस्तप्तं सुदुष्करम्। गोभिः पूर्वं विसृष्टाभिर्गच्छेम श्रेष्ठतामिति॥ लोकेऽस्मिन् दक्षिणानां च सर्वासां वयमुत्तमाः। भवेम न च लिप्येम दोषेणेति परंतप॥ अस्मत्पुरीषस्नानेन जनः पूयेत सर्वदा। शकृता च पवित्रार्थं कुर्वीरन् देवमानुषाः॥ तथा सर्वाणि भूतानि स्थावराणि चराणि च। प्रदातारश्च लोकान् नो गच्छेयुरिति मानद॥ ताभ्यो वरं ददौ ब्रह्मा तपसोऽन्ते स्वयं प्रभुः। एवं भवत्विति प्रभुर्लोकांस्तारयतेति च॥ उत्तस्थुः सिद्धकामास्ता भूतभव्यस्य मातरः। प्रातर्नमस्यास्ता गावस्ततः पुष्टिमवाप्नुयात्॥ तपसोऽन्ते महाराज गावो लोकपरायणाः। तस्माद् गावो महाभागाः पवित्रं परमुच्यते॥ तथैव सर्वभूतानां समतिष्ठन्त मूर्धनि। समानवत्सां कपिलां धेनुं दत्त्वा पयस्विनीम्। सुव्रतां वस्त्रसंवीतां ब्रह्मलोके महीयते॥ लोहितां तुल्यवत्सां तु धेनुं दत्त्वा पयस्विनीम्। सुव्रतां वस्त्रसंवीतां सूर्यलोके महीयते॥ समानवत्सां शबलां धेनुं दत्त्वा पयस्विनीम्। सुव्रतां वस्त्रसंवीतां सोमलोके महीयते॥ समानवत्सां श्वेतां तु धेनुं दत्त्वा पयस्विनीम्। सुव्रता वस्त्रसंवीतामिन्द्रलोके महीयते॥ समानवत्सां कृष्णां तु धेनुं दत्त्वा पयस्विनीम्। सुव्रतां वस्त्रसंवीतामग्निलोके महीयते॥ समानवत्सां धूम्रां तु धेनुं दत्त्वा पयस्विनीम्। सुव्रतां वस्त्रसंवीतां याम्यलोके महीयते॥ अपां फेनसवर्णां तु सवत्सां कांस्यदोहनाम्। प्रदाय वस्त्रसंवीतां वारुणं लोकमाप्नुते॥ वातरेणुसवर्णां तु सवत्सां कांस्यदोहनाम्। प्रदाय वस्त्रसंवीतां वायुलोके महीयते॥ हिरण्यवर्णां पिंगाक्षीं सवत्सां कांस्यदोहनाम्। प्रदाय वस्त्रसंवीतां कौबेरं लोकमश्नुते॥ पलालधूम्रवर्णां तु सवत्सां कांस्यदोहनाम्। प्रदाय वस्त्रसंवीतां पितृलोके महीयते॥ सवत्सां पीवरी दत्त्वा दृतिकण्ठामलंकृताम्। वैश्वदेवमसम्बाध स्थानं श्रेष्ठं प्रपद्यते॥ समानवत्सां गौरी तु धेनुं दत्त्वा पयस्विनीम्। सुव्रतां वस्त्रसंवीतां वसूनां लोकमाप्नुयात्॥ पाण्डुकम्बलवर्णाभां सवत्सां कांस्यदोहनाम्। प्रदाय वस्त्रसंवीतां साध्यानां लोकमाप्नुते॥ वैराटपृष्टमुक्षाणं सर्वरत्नैरलंकृतम्। प्रददन्मरुतां लोकान् स राजन् प्रतिपद्यते॥ वयोपपन्नं लीलाङ्गं सर्वरत्नसमन्वितम्। गन्धर्वाप्सरसां लोकान् दत्त्वा प्राप्नोति मानवः॥ दृतिकण्ठमनड्वाहं सर्वरत्नैरलंकृतम्। दत्त्वा प्रजापतेर्लोकान् विशोकः प्रतिपद्यते॥ गोप्रदानरतो याति भित्त्वा जलदसंचयान्। विमानेनार्कचर्णेन दिवि राजन् विराजते।॥ तं चारुवेषाः सुश्रोण्यः सहस्रं सुरयोषितः। रमयन्ति नरश्रेष्ठं गोप्रदानरतं नरम्॥ वीणानां वल्लकीनां च नू पुराणां च सिञ्जितैः। हासैश्च हरिणाक्षीणां सुप्तः स प्रतिबोध्यते॥ स्तावन्ति वर्षाणि महीयते सा स्वर्गच्युतश्चापि ततो नृलोके प्रसूयते वै विपुले गृहे सः॥ वसिष्ठ उवाच घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः। घृतनद्यो घृतावर्तास्ता मे सन्तु सदा गृहे।॥ घृतं मे हृदये नित्यं घृतं नाभ्यां प्रतिष्ठितम्। घृतं सर्वेषु गात्रेषु घृतं मे मनसि स्थितम्॥ गावो ममाग्रतो नित्यं गावः पृष्ठत एव च। गावो मे सर्वतश्चैव गवां मध्ये वसाम्यहम्॥ इत्याचम्य जपेत् सायं प्रातश्च पुरुषः सदा। यदह्ना कुरुते पापं तस्मात् स परिमुच्यते॥ प्रासादा यत्र सौवर्णा वसोर्धारा च यत्र सा। गन्धर्वाप्सरसो यत्र तत्र यान्ति सहस्रदाः॥ नवनीतपङ्काः क्षीरोदा दधिशैवलसंकुलाः। वहन्ति यत्र वै नद्यस्तत्र यान्ति सहस्रदाः॥ गवां शतसहस्रं तु यः प्रयच्छेद् यथाविधि। परां वृद्धिमवाप्याथ स्वर्गलोके महीयते॥ दश चोभयतः पुत्रो मातापित्रोः पितामहान्। दधाति सुकृतान् लोकान् पुनाति च कुलं नरः॥ धेन्वाः प्रमाणेन समप्रमाणां धेनुं तिलानामपि च प्रदाया पानीयदाता च यमस्य लोके न यातनां काञ्चिदुपैति तत्र॥ पवित्रमग्र्यं जगतः प्रतिष्ठा दिवौकसां मातरोऽथाप्रमेयाः। अन्वालभेद् दक्षिणतो व्रजेच्च दद्याच्च पात्रे प्रसमीक्ष्य कालम्॥ धेनुं सवत्सां कपिलां भूरिशृङ्गी कांस्योपदोहां वसनोत्तरीयाम्। प्रदाय तां गाहति दुर्विगाह्यां याम्यां सभां वीतभयो मनुष्यः॥ सुरूपा बहृरूपाश्च विश्वरूपाश्च मातरः। गावो मामुपतिष्ठन्तामिति नित्यं प्रकीर्तयेत्॥ नातः पुण्यतरं दानं नातः पुण्यतरं फलम्। नातो विशिष्ठं लोकेषु भूतं भवितुमर्हति॥ त्वचा लोम्नाथ,गैर्वा वालैः क्षीरेण मेदसा। यज्ञं वहति सम्भूय किमस्त्यभ्यधिकं ततः॥ यया सर्वमिदं व्याप्तं जगत् स्थावरजङ्गमम्। तां धेनुं शिरसा वन्दे भूतभव्यस्य मातरम्॥ गुणवचनसमुच्चयैकदेशो नृवर मयैष गवां प्रकीर्तितस्ते। न च परमिह दानमस्ति गोभ्यो भवति न चापि परायणं तथान्यत्॥ भीष्म उवाच वरमिदमिति भूमिदो विचिन्त्य प्रवरमृषेर्वचनं ततो महात्मा। व्यसृजत नियतात्मवान् द्विजेभ्यः सुबहु च गोधानमाप्तवांश्च लोकान्॥ युधिष्ठिर उवाच पवित्राणां पवित्रं यच्छिष्टं लोके च यद् भवेत्। पावनं परमं चैव तन्मे ब्रूहि पितामह॥ भीष्म उवाच गावो महार्थाः पुण्याश्च तारयन्ति च मानवान्। धारयन्ति प्रजाश्चमा हविषा पयसा तथा॥ न हि पुण्यतमं किंचिद् गोभ्यो भरतसत्तम। एताः पुण्याः पवित्राश्च त्रिषु लोकेषु सत्तमाः॥ देवानामुपरिष्टाच्च गावः प्रतिवसन्ति वै। दत्त्वा चैतास्तारयन्ते यान्ति स्वर्ग मनीषिणः॥ मान्धाता यौवनावश्च ययातिनहुषस्तथा। गा वै ददन्तः सततं सहस्रशतसम्मिताः॥ गताः परमकं स्थानं देवैरपि सुदुर्लभम्। अपि चात्र पुरागीतां कथयिष्यामि तेऽनघ॥ ऋषीणामुत्तमं धीमान् कृष्णद्वैपायनं शुकः। अभिवाद्याह्निककृतः शुचिः प्रयतमानसः॥ पितरं परिपप्रच्छ दृष्टलोकपरावरम्। को यज्ञः सर्वयज्ञानां वरिष्ठोऽभ्युपलक्ष्यते॥ किं च कृत्वा परं स्थानं प्राप्नुवन्ति मनीषिणः। केन देवाः पवित्रेण स्वर्गमश्नन्ति वा विभो॥ किं च यज्ञस्य यज्ञत्वं क्व च यज्ञः प्रतिष्ठितः। देवानामुत्तमं किं च किं च सत्रमितः परम्॥ पवित्राणां पवित्रं च यत् तद् ब्रूहि पितर्मम। एतच्छ्रुत्वा तु वचनं व्यासः परमधर्मवित्। पुत्रायाकथयत् सर्वं तत्त्वेन भरतर्षभ॥ व्यास उवाच गावः प्रतिष्ठा भूतानां तथा गावः परायणम्। गाव: पुण्याः पवित्राश्च गोधनं पावनं तथा॥ पूर्वमासन्नशृङ्गा वै गाव इत्यनुशुश्रुमा शृङ्गार्थे समुपासन्त ताः किल प्रभुमव्ययम्॥ ततो ब्रह्मा तु गाः प्रायमुपविष्टाः समीक्ष्य ह। ईप्सितं प्रददौ ताभ्यो गोभ्यः प्रत्येकशः प्रभुः॥ तासां शृङ्गाण्यजायन्त यस्या यादृङ्मनोगतम्। नानावर्णाः शृङ्गरान्त्यस्ता व्यरोचन्त पुत्रक॥ ब्रह्मणा वरदत्तास्ता हव्यकव्यप्रदाः शुभाः। पुण्याः पवित्राः सुभगा दिव्यसंस्थानलक्षणाः॥ गावस्तेजो महद् दिव्यं गवां दानं प्रशस्यते। ये चैताः सम्प्रयच्छन्ति साधवो वीतमत्सराः॥ ते वै सुकृतिनः प्रोक्ताः सर्वदानप्रदाश्च ते। गवां लोकं तथा पुण्यमाप्नुवन्ति च तेऽनघ॥ यत्र वृक्षा मधुफला दिव्यपुष्पफलोपगाः। पुष्पाणि च सुगन्धीनि दिव्यानि द्विजसत्तम॥ सर्वा मणिमयी भूमिः सर्वकाञ्चनवालुकाः। सर्वर्तुसुखसंस्पर्शा निष्पङ्का नीरजाः शुभा॥ रक्तोत्पलवनैश्चैव मणिखण्डैर्हिरण्मगैः। तरुणादित्यसंकाशैर्भान्ति तत्र जलाशयाः॥ महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः। नीलोत्पलविमित्रैश्च सरोभिर्बहुपङ्कजैः॥ करवीरवनैः फुल्लैः सहस्रावर्तसंवृतैः। संतानकवनैः फुल्लैर्वृक्षैश्च समलंकृताः॥ निर्मलाभिश्च मुक्ताभिर्मणिभिश्च महाप्रभैः। उद्भूतपुलिनास्तत्र जातरूपैश्च निम्नगाः॥ सर्वरत्नमयैश्चित्रैरवगाढा दुमोत्तमैः। जातरूपमयैश्चान्यैर्हताशनसमप्रभैः॥ सौवर्णा गिरयस्तत्र मणिरत्नशिलोच्चयाः। सर्वरत्नमयैर्भान्ति शृङ्गैश्चारुभिरुच्छ्रितैः॥ नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः। दिव्यगन्धरसैः पुष्पैः फलैश्च भरतर्षभ॥ रमन्ते पुण्यकर्माणस्तत्र नित्यं युधिष्ठिर। सर्वकामसमृद्धार्था निःशोका गतमन्यवः॥ विमानेषु विचित्रेषु रमणीयेषु भारत। मोदन्ते पुण्यकर्माणो विहरन्तो यशस्विनः॥ बलवान् बली। उपक्रीडन्ति तान् राजन्शुभाश्चाप्सरसां गणाः। एताल्लोकानवाप्नोति गां दत्त्वा वै युधिष्ठिर॥ येषामधिपतिः पूषा मारुतो ऐश्वर्ये वरुणो राजा नाममात्रं युगन्धरः॥ सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरः। प्रजापत्यमिति ब्रह्मन् जपेन्नित्यं यतव्रतः॥ गाश्च शुक्षूषते यश्च समन्वेति च सर्वशः। तस्मै तुष्टाः प्रयच्छन्ति वरानपि सुदुर्लभान्॥ दुह्येन मनसा वापि गोषु नित्यं सुखप्रदः। अर्चयेत सदा चैव नमस्कारैश्च पूजयेत्॥ दान्तः प्रीतमना नित्यं गवां व्युष्टिं तथाश्नुते। त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं पिबेत् पयः॥ गवामुष्णं पयः पीत्वा त्र्यहमुष्णं घृतं पिबेत्। त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो भवेत् व्यहम्॥ येन देवाः पवित्रेण भुञ्जते लोकमुत्तमम्। यत् पवित्रं पवित्राणां तद् घृतं शिरसा वहेत्॥ घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत्। घृतं प्राशेद् घृतं दद्याद् गवां पुष्टिं तथाश्नुते॥ निर्हतैश्च यवैर्गोभिर्मासं प्रश्रितयावकः। ब्रह्महत्यासमं पापं सर्वमेतेन शुध्यते॥ पराभवाच्च दैत्यानां देवैः शौचमिदं कृतम्। ते देवत्वमपि प्राप्ताः संसिद्धाश्च महाबलाः॥ गाव: पवित्राः पुण्याश्च पावनं परमं महत्। ताश्च दत्त्वा द्विजातिभ्यो नरः स्वर्गमुपाश्नुते॥ गवां मध्ये शुचिर्भूत्वा गोमती मनसा जपेत्। पूताभिरद्भिराचम्य शुचिर्भवति निर्मलः॥ अग्निमध्ये गवां मध्ये ब्राह्मणानां च संसदि। विद्यादेवव्रतस्नाता ब्राह्मणाः पुण्यकर्मिणः॥ अध्यापयेरन्शिष्यान् वै गोमतों यज्ञसम्मिताम्। त्रिरात्रापोषितो भूत्वा गोमती लभते वरम्॥ पुत्रकामश्च लभते पुत्रं धनमथापि वा। पतिकामा च भर्तारं सर्वकामांश्च मानवः॥ गावस्तुष्टाः प्रयच्छन्ति सेविता वै न संशयः। एवमेता महाभागा यज्ञियाः सर्वकामदाः। रोहिण्य इति जानीहि नैताभ्यो विद्यते परम्॥ भीष्म उवाच इत्युक्तः स महातेजाः शुकः पित्रा महात्मना। पूजयामास गां नित्यं तस्मात् त्वमपि पूजय॥ युधिष्ठिर उवाच मया गवां पुरीषं वै श्रिया जुष्टमिति श्रुतम्। एतदिच्छाम्यहं श्रोतुं संशयोऽत्र पितामह॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। गोभिर्नृपेह संवादं श्रिया भरतसत्तम॥ श्रीः कृत्वेह वपुः कान्तं गोमध्येषु विवेश ह। गावोऽथ विस्मितास्तस्या दृष्ट्वा रूपस्य सम्पदम्॥ गौ उवाच कासि देवि कुतो वा त्वं रूपेणाप्रतिभा भुवि। विस्मिताः स्म महाभागे तव रूपस्य सम्पदा॥ इच्छाम त्वां वयं ज्ञातुं कात्वं क्व च गामिष्यसि। तत्त्वेन वरवर्णाभे सर्वमेतद् ब्रवीहि नः॥ श्री उवाच लोककान्तास्मि भद्रं वः श्री माहं परिश्रुता। मया दैत्याः परित्यक्ता विनष्टाः शाश्वतीः समाः॥६ मयाभिपन्ना देवाश्च मोदन्ते शाश्वतीः समाः। इन्द्रो विवस्वान् सोमश्च विष्णुरापोऽग्निरेव च॥ मयाभिपन्नाः सिध्यन्ते ऋषयो देवतास्तथा। यान् नाविशाम्यहं गावस्ते विनश्यन्ति सर्वशः॥ धर्मश्चार्थश्च कामश्च मया जुष्टाः सुखान्विताः। एवं प्रभावं मां गावो विजानीत सुखप्रदाः॥ इच्छामि चापि युष्मासु वस्तुं सर्वासु नित्यदा। आगत्य प्रार्थ ये युष्माञ्छ्रीजुष्टा भवताऽथ वै॥ गाव ऊचुः अध्रुवा चपला च त्वं सामान्या बहुभिः सह। न त्वामिच्छाम भद्रं ते गम्यतां यत्र रंस्यसे॥ वपुष्मन्त्यो वयं सर्वाः किमस्माकं त्वयाद्य वै। यथेष्टं गम्यतां तत्र कृतकार्या वयं त्वया।॥ श्रीरुवाच किमेतद् वः क्षमं गावो यन्मां नेहाभिनन्दथ। न मां सम्प्रति गृह्णीध्वं कस्ताद् बै दुर्लभां सतीम्।।१३ सत्यं च लोकवादोऽयं लोके चरति सुव्रताः। स्वयं प्राप्ते परिभवो भवतीति विनिश्चयः॥ महदुग्रं तपः कृत्वा मां निषेवन्ति मानवाः। देवदानवगन्धर्वाः पिशाचोरगराक्षसाः॥ प्रभाव एष वो गावः प्रतिगृह्णीत मामिह। नावमन्या ह्यहं सौम्यास्त्रैलोक्ये सचराचरे॥ गाव ऊचुः नावमन्यामहे देवि न त्वां परिभवामहे। अध्रुवा चलचित्तासि ततस्त्वां वर्जयामहे॥ बहुना च किमुक्तेन गम्यतां यत्र वाञ्छसि। वपुष्मन्त्यो वयं सर्वाः किमस्माकं त्वयानघे॥ श्रीरुवाच अवज्ञाता भविष्यामि सर्वलोकस्य मानदाः। प्रत्याख्यानेन युष्माकं प्रसादः क्रियतां मम॥ महाभागा भवत्यो वै शरण्याः शरणागताम्। परित्रायन्तु मां नित्यं भजमानामनिन्दिताम्॥ माननामहमिच्छामि भवत्यः सततं शिवाः। अप्येकाङ्गेश्वधे वस्तुमिच्छामि च सुकुत्सिते॥ न वोऽस्ति कुत्सितं किंचिदङ्गवालक्ष्यतेऽनघाः। पुण्या: पवित्राः सुभगा ममादेशं प्रयच्छथ॥ भीष्म उवाच वसेयं यत्र वो देहे तन्मे व्याख्यातुमर्हथ। एवमुक्तास्ततो गावः शुभाः करुणवत्सलाः। सम्मत्र्य सहिताः सर्वाः श्रियमूचुनराधिप॥ गौ उवाच अवश्यं मानना कार्या तवास्माभिर्यशास्विनि। शकृन्मूत्रे निवस त्वं पुण्यमेतद्धि नः शुभे॥ श्रीरुवाच दिष्ट्या प्रसादो युष्माभिः कृतो मेऽनुग्रहात्मकः। एवं भवतु भद्रं वः पूजितास्मि सुखप्रदाः॥ भीष्म उवाच एवं कृत्वा तु समयं श्रीर्गोभिः सह भारत। पश्यन्तीनां ततस्तासां तत्रैवान्तरधीयत॥ एवं गोशकृतः पुत्र माहात्म्यं तेऽनुवर्णितम्। माहात्म्यं च गवां भूयः श्रूयतां गदतो मम॥ एवं गोशकृतः पुत्र माहात्म्यं तेऽनुवर्णितम्। माहात्म्यं च गवां भूयः श्रूयतां गदतो मम॥ भीष्म उवाच ये च गां सम्प्रयच्छन्ति हतशिष्टाशिनश्च ये। तेषां सत्राणि यज्ञाश्च नित्यमेव युधिष्ठिर॥ ऋते दधि घृतेनेह न यज्ञः सम्प्रवर्तते। तेन यज्ञस्य यज्ञत्वमतो मूलं च कथ्यते॥ दानानामपि सर्वेषां गवां दानं प्रशस्यते। गावः श्रेष्ठाः पवित्राश्च पावनं ह्येतदुत्तमम्॥ पुष्ट्यर्थमेताः सेवेत शान्त्यथर्मपि चैव ह। पयोदधिघृतं चासां सर्वपापप्रमोचनम्॥ गावस्तेजः पर प्रोक्तमिह लोके परत्र च। न गोभ्यः परमं किंचित् पवित्रं भरतर्षभ।॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। पितामहस्य संवादमिन्द्रस्य च युधिष्ठिर॥ पराभूतेषु दैत्येषु शक्रस्त्रिभुवनेश्वरः। प्रजाः समुदिताः सर्वाः सत्यधर्मपरायणाः॥ अथर्षयः सगन्धर्वाः किन्नरोरगराक्षसाः। देवासुरसुपर्णाश्च प्रजानां पतयस्तथा॥ पुर्यपासन्त कौन्तेय कदाचिद् वै पितामहम्। नारदः पर्वतश्चैव विश्वावसुर्हहाहुहूः॥ दिव्यतानेषु गायन्तः पर्युपासन्त तं प्रभुम्। तत्र दिव्यानि पुष्पाणि प्रावहत् पवनस्तदा॥ आजहुर्ऋतवश्चापि सुगन्धीनि पृथक् पृथक्। तस्मिन् देवसमावाये सर्वभूतसमागमे॥ दिव्यवादित्रसंघुष्टे दिव्यस्त्रीचारणावृते। इन्द्रः पप्रच्छ देवेशमभिवाद्य प्रणम्य च॥ देवानां भगवन् कस्माल्लोकेशानां पितामह। उपरिष्टाद् गवां लोक एतदिच्छामि वेदितुम्॥ किं तपो ब्रह्मचर्यं वा गोभिः कृतमिहेश्वर। देवानामुपरिष्टाद् यद् वसन्त्यरजसः मुखम्॥ ततः प्रोवाच ब्रह्मा तं शक्रं बलनिषूदनम्। अवज्ञातास्त्वया नित्यं गावो बलनिषूदन॥ तेन त्वमासां माहात्म्यं न वेत्सि शृणु यत् प्रभो। गवां प्रभावं परमं माहात्म्यं च सुरर्षभ॥ यज्ञाझं कथिता गावो यज्ञ एव च वासव। एताभिश्च विना यज्ञो न वर्तेत कथंचन॥ धारयन्ति प्रजाश्चैव पयसा हविषा तथा। एतासां तनयाश्चापि कृषियोगमुपासते॥ जनयन्ति च धान्यानि बीजानि विविधानि च। ततो यज्ञाः प्रवर्तन्ते हव्यं कव्यं च सर्वशः॥ पयोदधिधृतं चैव पुण्याश्चैताः सुराधिप। वहन्ति विविधान् भारान् क्षुत्तृष्णापरिपीडिताः॥ मुनींश्च धारयन्तीह प्रजाश्चैवापि कर्मणा। वासवाकूटवाहिन्यः कर्मणा सुकूतेन च॥ उपरिष्टात् ततोऽस्माकं वसन्त्येताः सदैव हि। एवं ते कारणं शक्र निवासकृतमद्य वै॥ गवां देवोपरिष्टाद्धि समाख्यातं शतक्रतो। एता हि वरदत्ताश्च वरदाश्चापि वासव॥ सुरभ्यः पुण्यकर्मिण्यः पावनाः शुभलक्षणाः। यदर्थं गां गताश्चैव सुरभ्यः सुरसत्तम॥ तच्च मे शृणु कार्येन वदतो बलसूदन। पुरा देवयुगे तात देवेन्द्रेषु महात्मसु॥ त्रिलोकाननुशासत्सु विष्णौ गर्भत्वमागते। अदित्यास्तप्यमानायास्तपो घोरं सुदुश्चरम्॥ पुत्रार्थममरश्रेष्ठ पादेनैकेन नित्यदा। तां तु दृष्ट्वा महादेवीं तप्यमानां महत्तपः॥ दक्षस्य दुहिता देवी सुरभी नाम नामतः। अतप्यत तपो घोरं हृष्टा धर्मपरायणा॥ कैलासशिखरे रम्ये देवगन्धर्वसेविते। व्यतिष्ठदेकपादेन परमं योगमास्थिता॥ दशवर्षसहस्राणि दशवर्षशतानि च। संतप्तास्तपसा तस्या देवाः सर्षिमहोरगाः॥ तत्र गत्वा मया सार्धं पर्युपासन्त तां शुभाम्। अथाहमब्रुवं तत्र देवीं तां तपसान्विताम्॥ किमर्थं तप्यसे देवि तपो घोरमनिन्दिते। प्रीतस्तेऽहं महाभागे तपसानेन शोभने॥ वरयस्व वरं देवि दातास्मीति पुरंदर।॥ वरेण भगवन् मह्यं कृतं लोकपितामह। एष एव वरो मेऽद्य यत् प्रीतोऽसि ममानघ।॥ तामेवं ब्रुवती देवीं सुरभिं त्रिदशेश्वर। प्रत्यब्रुवं यद् देवेन्द्र तन्निबोध शचीपते॥ अलोभकाम्यया देवि तपसा च शुभानने। प्रसन्नोऽहं वरं तस्मादमरत्वं ददामि ते॥ त्रयाणामपि लोकानामुपरिष्टान्निवत्स्यसि। मत्प्रसादाच्च विख्यातो गोलोकः सम्भविष्यति॥ मानुषेषु च कुर्वाणाः प्रजा: कर्म शुभास्तव। निवत्स्यन्ति महाभागे सर्वा दुहितश्च ते॥ मनसा चिन्तिता भोगास्वत्वया वै दिव्यमानुषाः। यच्च सर्वं सुखं देवि तत् ते सम्पत्स्यते शुभे॥ तस्या लोकाः सहस्राक्ष सर्वकामसमन्विताः। न तत्र क्रमते मृत्युर्न जरा न च पावकः॥ न दैवं नाशुभं किंचिद् विद्यते तत्र वासव। तत्र दिव्यान्यरण्यानि दिव्यानि भवनानि च॥ विमानानि सुयुक्तानि कामगानि च वासव। ब्रह्मचर्येण तपसा यत्नेन च दमेन च॥ दानैश्च विविधैः पुण्यैस्तथा तीर्थानुसेवनात्। तपसा महता चैव सुकृतेन च कर्मणा॥ भीष्म उवाच शक्यः समासादयितुं गोलोकः पुष्करेक्षण। एतत् ते सर्वमाख्यातं मया शक्रानुपृच्छते॥ न ते परिभवः कार्यो गवामसुरसूदन॥ एतच्छ्रुत्वा सहस्राक्षः पूजयामास नित्यदा। गाश्चक्रे बहुमानं च तासु नित्यं युधिष्ठिर॥ एतत् ते सर्वमाख्यातं पावनं च महाद्युते। पवित्रं परमं चापि गवां माहात्म्युमुत्तमम्॥ कीर्तितं पुरुषव्याघ्र सर्वपापविमोचनम्। य इदं कथयेन्नित्यं ब्राह्मणेभ्यः समाहितः॥ हव्यकव्येष यज्ञेषु पितृकार्येषु चैव ह। सार्वकामिकमक्षय्यं पितृस्तस्योपतिष्ठते॥ गोषु भक्तश्च लभते यद् यदिच्छति मानवः। स्त्रियोऽपि भक्ता या गोषु ताश्च काममवाप्नुयुः॥ पुत्रार्थी लभते पुत्रं कन्यार्थी तामवाप्नुयात्। धनार्थी लभते वित्तं धर्मार्थी धर्ममाप्नुयात्॥ विद्यार्थी चाप्नुयाद् विद्यां सुखार्थी प्राप्नुयात् सुखम्। न किंचिद् दुर्लभं चैव गवां भक्तस्य भारत॥ युधिष्ठिर उवाच उक्तं पितामहेनदं गवां दानमनुत्तमम्। विशेषेण नरेन्द्राणामिह धर्ममवेक्षताम्॥ राज्यं हि सततं दुःखं दुर्धरं चाकृतात्मभिः। भूयिष्ठं च नरेन्द्राणां विद्यते न शुभा गतिः॥ पूयन्ते तत्र नियतं प्रयच्छन्तो वसुन्धराम्। सर्वे च कथिता धर्मास्त्वया मे कुरुनन्दन॥ एवमेव गवामुक्तं प्रदानं ते नृगेण ह। ऋषिणा नाचिकेतेन पूर्वमेव निदर्शितम्॥ वेदोपनिषदश्चैव सर्वकर्मसु दक्षिणाः। सर्वक्रतुषु चोद्दिष्टं भूमिर्गावोऽथ काञ्चनम्॥ तत्र श्रुतिस्तु परमा सुवर्णं दक्षिणेति वै। एतदिच्छाम्यहं श्रोतुं पितामह यथातथम्॥ किं सुवर्णं कथं जातं कस्मिन् काले किमात्मकम्। किं दैवं किं फलं चैव कस्माच्च परमुच्यते॥ कस्माद् दानं सुवर्णस्य पूजयन्ति मनीषिणः। कस्माच्च दक्षिणार्थं तद् यज्ञकर्मसु शस्यते॥ कस्माच्च पावनं श्रेष्ठं भूमेर्गोभ्यश्च काञ्चनम्। परमं दक्षिणार्थे च तद् ब्रवीहि पितामह॥ भीष्म उवाच शृणु राजन्नवहितो बहुकारणविस्तरम्। जातरूपसमुत्पत्तिमनुभूतं च यन्मया।॥ पिता मम महातेजाः शान्तनुर्निधनं गतः। तस्य दित्सुरहं श्राद्धं गङ्गाद्वारमुपागमम्॥ तत्रागम्य पितुः पुत्र श्राद्धकर्म समारभम्। माता मे जाह्नवी चात्र साहाय्यमकरोत् तदा॥ ततोऽग्रतस्ततः सिद्धानुपवेश्य बहूनृषीन्। तोयप्रदानात् प्रभृति कार्याण्यहमथारभम्॥ तत् समाप्य यथोद्दिष्टं पूर्वकर्म समाहितः। दातुं निर्वपणं सम्यग् यथावदहमारभम्॥ ततस्तं दर्भविन्यासं भित्त्वा सुरुचिरागदः। प्रलम्बाभरणो बाहुरुदतिष्ठद् विशाम्पते॥ तमुत्थितमहं दृष्ट्वा परं विस्मयमागमम्। प्रतिग्रहीता साक्षान्मे पितेति भरतर्षभ॥ ततो मे पुनरेवासीत् संज्ञा संचिन्त्य शास्त्रतः। नायं वेदेषु विहितो विधिहस्त इति प्रभो॥ पिण्डो देयो नरेणेह ततो मतिरभून्मम। साक्षान्नेह मनुष्यस्य पिण्डं हि पितरः क्वचित्॥ गृह्णन्ति विहितं चेत्थं पिण्डो देयः कुशेष्विति। ततोऽहं तदनादृत्य पितुर्हस्तनिदर्शनम्॥ शास्त्रप्रमाण्यसूक्ष्मं तु विधिं पिण्डस्य संस्मरन्। ततो दर्भेषु तत् सर्वमददं भरतर्षभ।॥ शास्त्रमार्गानुसारेण तद् विद्धि मनुजर्षभ। तत: सोऽन्तर्हितो बाहुः पितुर्मम जनाधिप॥ ततो मां दर्शयामासुः स्वप्नान्ते पितरस्तथा। प्रीयमाणास्तु मामूचुः प्रीताः स्म भरतर्षभ।॥ विज्ञानेन तवानेन यन्न मुह्यसि धर्मतः। त्वया हि कुर्वता शास्त्रं प्रमाणमिह पार्थिव॥ आत्मा धर्मः श्रुतं वेदाः पितरश्चर्षिभिः सह। साक्षात् पितामहो ब्रह्मा गुरवोऽथ प्रजापतिः॥ प्रमाणमुपनीता वै स्थिताश्च न विचालिताः। तदिदं सम्यगारब्धं त्वयात्र भरतर्षभ॥ किं तु भूमेगंवां चार्थे सुवर्णं दीयतामिति। एवं वयं च धर्मज्ञ सर्वे चास्मत्पितामहाः॥ पाविता वै भविष्यन्ति पावनं हि परं हि तत्। दशपूर्वान् दशैवान्यांस्तथा संतारयन्ति ते॥ सुवर्णं ये प्रयच्छन्ति एवं मत्पितरोऽब्रुवन्। ततोऽहं विस्मितो राजन् प्रतिबुद्धो विशाम्पते॥ सुवर्णदानेऽकरवं मतिं च भरतर्षभ। इतिहासमिमं चापि शृणु राजन् पुरातनम्॥ जामदग्न्यं प्रति विभो धन्यमायुष्यमेव च। जामदग्न्येन रामेण तीव्ररोषान्वितेन वै॥ त्रिःसप्तकृत्व: पृथिवी कृता निःक्षत्रिया पुरा। ततो जित्वा महीं कृत्स्ना रामो राजीवलोचनः॥ आजहार क्रतुं वीरो ब्रह्मक्षत्रेण पूजितम्। वाजिमेधं महाराज सर्वकामसमन्वितम्॥ पावनं सर्वभूतानां तेजोद्युतिविवर्धनम्। विपाप्मा च स तेजस्व तेन क्रतुफलेन च॥ नैवात्मनोऽथ लघुतां जामदग्न्योऽध्यगच्छत। स तु क्रतुवरेणेष्वा महात्मा दक्षिणावता॥ पप्रच्छागमसम्पन्नानृषीन् देवांश्च भार्गवः। पावनं यत् परं नृणामुग्रे कर्मणि वर्तताम्॥ तदुच्यतां महाभागा इति जातघृणोऽब्रवीत्। इत्युक्ता वेदशास्त्रज्ञास्तमूचुस्ते महर्षयः॥ राम विप्राः सक्रियन्तां वेदप्रामाण्यदर्शनात्। भूयश्च विप्रर्षिगणाः प्रष्टव्याः पावनं प्रति॥ यद् ब्रूयूमहाप्राज्ञास्तच्चैव समुदाचर। ततो वसिष्ठं देवर्षिमगस्त्यमथ काश्यपम्॥ तमेवार्थं महातेजाः पप्रच्छ भृगुनन्दनः। जाता मतिर्मे विप्रेन्द्राः कथं पूयेयमित्युत॥ केन वा कर्मयोगेन प्रदानेनेह केन वा। यदि वोऽनुग्रहकृता बुद्धिर्मा प्रति सत्तमाः। ऋषय ऊचुः गाश्च भूमिं च वित्तं च दत्त्वेह भृगुनन्दन। पापकृत् पूयते मर्त्य इति भार्गव शुश्रुम॥ अन्यद् दानं तु विप्रर्षे श्रूयतां पावनं महत्। दिव्यमत्यद्भुताकारमपत्यं जातवेदसः॥ दग्ध्वा लोकान् पुरा वीर्यात् सम्भूतमिह शुश्रुम। सुवर्णमिति विख्यातं तद् ददत् सिद्धिमेष्यसि॥ ततोऽब्रवीद् वसिष्ठस्तं भगवान् संशितव्रतः। शृणु राम यथोत्पन्नं सुवर्णमनलप्रभम्॥ फलं दास्यति ते यत्तु दाने परमिहोच्यते। सुवर्णं यच्च यस्माच्च यथा च गुणवतमम्॥ तन्निबोध महाबाहो सर्वं निगदतो मम। अग्नीषोमात्मकमिदं सुवर्णं विद्धि निश्चये॥ अजोऽग्निवरुणो मेषः सूर्योऽश्व इति दर्शनम्। कुञ्जराश्च मृगा नागा महिषाश्चासुरा इति॥ कुक्कुटाश्च वराहाश्च राक्षसा भृगुनन्दन। इडा गावः पयः सोमो भूमिरित्येव च स्मृतिः॥ जगत् सर्वं च निर्मथ्य तेजोराशिः समुत्थितः। सुवर्णमेभ्यो विप्रर्षे रत्नं परममुत्तमम्॥ एतस्मात् कारणाद् देवा गन्धर्वोरगराक्षसाः। मनुष्याश्च पिशाचाश्च प्रयता धारयन्ति तत्॥ मुकुटैरङ्गदयुतैरलंकारैः पृथग्विधैः। सुवर्णविकृतैस्तत्र विराजन्ते भृगूत्तम॥ तस्मात् सर्वपवित्रेभ्यः पवित्रं परमं स्मृतम्। भूमेगोभ्योऽथ रत्नेभ्यस्तद् विद्धि मनुजर्षभा॥ पूथिवीं गाश्च दत्त्वेह यच्चान्यदपि किंचन। विशिष्यते सुवर्णस्य दानं परमकं विभो॥ अक्षयं पावनं चैव सुवर्णममराते। प्रयच्छ द्विजमुख्येभ्यः पावनं ह्येतदुत्तमम्॥ सुवर्णमेव सर्वासु दक्षिणासु विधीयते। सुवर्णे ये प्रयच्छन्ति सर्वदास्ते भवन्त्युत॥ देवतास्ते प्रयच्छन्ति ये सुवर्णं ददत्यथ। अग्निगर्हि देवताः सर्वाः सुवर्णं च तदात्मकम्॥ तु तस्य तस्मात् सुवर्णं ददता दत्ताः सर्वाः स्म देवताः। भवन्ति पुरुषव्याघ्र न ह्यतः परमं विदुः॥ वसिष्ठ उवाच भूय एव च माहात्म्यं सुवर्णस्य निबोध मे। गदतो मम विप्रर्षे सर्वशस्त्रभृतां वर॥ मया श्रुतमिदं पूर्वं पुराणे भृगुनन्दन। प्रजापतेः कथयतो यथान्यायं वै॥ शूलपाणेर्भगवतो रुद्रस्य च महात्मनः। गिरौ हिमवति श्रेष्ठे तदा भृगुकुलोद्वह॥ देव्या विवाहे निवृत्ते रुद्राण्या भृगुनन्दन। समागमे भगवतो देव्या सह महात्मनः॥ तत: सर्वे समुद्विग्ना देवा रुद्रमुपागमन्। ते महादेवमासीनं देवीं च वरदामुमाम्॥ प्रसाद्य शिरसा सर्वे रुद्रमूचुर्भृगूद्वह। अयं समागमो देव देव्या सह तवानघ॥ तपस्विनस्तपस्विन्या तेजस्विन्याऽतितेजसः। अमोघतेजास्त्वं देव देवी चेयमुमा तथा॥ अपत्यं युवयोर्देव बलवद् भविता विभो। तन्नूनं त्रिषु लोकेषु न किञ्चिच्छेषयिष्यति॥ तदेभ्यः प्रणतेभ्यस्त्वं देवेभ्यः पृथुलोचन। वरं प्रयच्छ लोकेश त्रैलोक्यहितकाम्यया॥ अपत्यार्थं निगृह्वीष्व तेजः परमकं विभो। त्रैलोक्यसारौ हि युवां लोकं संतापयिष्यथः॥ तदपत्यं हि युवयोर्देवानभिभवेद् ध्रुवम्। न हि ते पृथिवी देवी न च द्यौर्न दिवं विभो॥ नेदं धारयितुं शक्ताः समस्ता इति मे मतिः। तेज:प्रभावनिर्दग्धं तस्मात् सर्वमिदं जगत्॥ तस्मात् प्रसादं भगवन् कर्तुमर्हसि नः प्रभो। न देव्यां सम्भवेत् पुत्रो भवतः सुरसत्तम। धैर्यादेव निगृह्णीष्व तेजो ज्वलितमुत्तमम्॥ इति तेषां कथयतां भगवान् वृषभध्वजः। एवमस्त्विति देवांस्तान् विप्रर्षे प्रत्यभाषत॥ इत्युक्त्वा चोर्ध्वमनयद् रेतो वृषभवाहनः। उर्ध्वरेताः समभवत् ततः प्रभृति चापि सः॥ रुद्राणीति ततः क्रुद्धा प्रजोच्छेदे तदा कृते। देवानथाब्रवीत् तत्र स्त्रीभावात् परुषं वचः॥ यस्मादपत्यकामो वै भर्ता मे विनिवर्तितः। सुरा यूयमनपत्या भविष्यथ॥ प्रजोच्छेदो मम कृतो यस्माद् युष्माभिरद्य वै। तस्मात् प्रजा वः स्वगमा: सर्वेषां न भविष्यति॥ तस्मात् सर्वे पावकस्तु न तत्रासीच्छापकाले भृगूद्वह। देवा देव्यास्तथा शापादनपत्यास्ततोऽभवन्॥ रुद्रस्तु तेजोऽप्रतिमं धारयामास वै तदा। प्रस्कन्नं तु ततस्तस्मात् किंचित्तत्रापतद् भुवि॥ उत्पपात तदा वह्वौ ववृधे चाद्भुतोपमम्। तेजस्तेजसि संयुक्तमात्मयोनित्वमागतम्॥ एतस्मिन्नेव काले तु देवाः शक्रपुरोगमाः। असुरस्तारको नाम तेन संतापिता भृशम्॥ आदित्या वसवो रुद्रा मरुतोऽथाश्विनावपि। साध्याश्च सर्वे संत्रस्ता दैतेयस्य पराक्रमात्॥ स्थानानि देवतानां हि विमानानि पुराणि च। ऋषीणां चाश्रमाश्चैव बभूवुरसुरैर्हताः॥ ते दीनमनसः सर्वे देवता ऋषयश्च ये। प्रजग्मुः शरणं देवं ब्रह्माणमजरं विभुम्॥ भगवानुवाच असुरस्तारको नाम त्वया दत्तवरः प्रभो। सुरानृषीश्च क्लिश्नाति वधस्तस्य विधीयताम्॥ तस्माद् भयं समुत्पन्नमस्माकं वै पितामह। परित्रायस्व नो देव न ह्यन्या गतिरस्ति नः॥ ब्राह्मोवाच समोऽहं सर्वभूतानामधर्मं नेह रोचये। हन्यतां तारकः क्षिप्रं सुरर्षिगणबाधिता॥ वेदा धर्माश्च नोच्छेदं गच्छेयुः सुरसत्तमाः। विहितं पूर्वमेवात्र मया वै व्येतु वो ज्वरः॥ देवा ऊचुः वरदानाद् भगवतो दैतयो बलगर्वितः। दैवैर्न शक्यते हन्तुं स कथं प्रशमं व्रजेत्॥ स हि नैव स्म देवानां नासुराणां न रक्षसाम्। वध्य: स्यामिति जग्राह वरं त्वत्तः पितामह॥ देवाश्च शप्ता रुद्राण्या प्रजोच्छेदे पुराकृते। न भविष्यति वोऽपत्यमिति सर्वे जगत्पते॥ ब्राह्मण उवाच हुताशनो न तत्रासीच्छापकाले सुरोत्तमाः। स उत्पदयितापत्यं वधाय त्रिदशद्विषाम्॥ तद् वै सर्वानतिक्रम्य देवदानवराक्षसान्। मानुषानथ गन्धर्वान् नागानथ च पक्षिणः॥ अस्त्रेणामोघपातेन शक्त्यां तं घातयिष्यति। यतो वो भयमुत्पन्नं ये चान्ये सुरशत्रवः॥ सनातनो हि संकल्पः काम इत्यभिधीयते। रुद्रस्य तेजः प्रस्कन्नमग्नौ निपतितं च यत्॥ तत्तेजोऽग्निर्महद्भूतं द्वितीयमिति पावकम्। वधार्थं देवशत्रूणां गङ्गायां जनयिष्यति॥ स तु नावाप तं शापं नष्टः स हुतभुक् तदा। तस्माद् वो भयहृद् देवाः समुत्पत्स्यति पावकिः॥१३ अन्विष्यतां वै ज्वलनस्तथा चाद्य नियुज्यताम्। तारकस्य वधोपायः कथितो वै मयानघाः॥ न हि तेजस्विनां शापास्तेजःसु प्रभवन्ति वै। बलान्यतिबलं प्राप्य दुर्बलानि भवन्ति वै॥ हन्यादवध्यान् वरदानपि चैव तपस्विनः। संकल्पाभिरुचिः काम: सनातनतोऽभवत्॥ जगत्पतिरनिर्देश्यः सर्वगः सर्वभावनः। हृच्छयः सर्वभूतानां ज्येष्ठो रुद्रादपि प्रभुः॥ अन्विष्यतां स तु क्षिप्रं तेजोराशिर्हताशनः। स वो मनोगतं कामं देवः सम्पादयिष्यति॥ एतद् वाक्यमुपश्रुत्य ततो देवा महात्मनः। जग्मुः संसिद्धसंकल्पाः पर्येषन्तो विभावसुम्॥ ततस्त्रैलोक्यमृषयो व्यचिन्वन्त सुरैः सह। काङ्क्षन्तो दर्शनं वह्नः सर्वे तद्गतमानसाः॥ परेण तपसा युक्ताः श्रीमन्तो लोकविश्रुताः। लोकानन्वचरन् सिद्धाः सर्व एव भृगूत्तम॥ नष्टमात्मनि संलीनं नाधिजग्मुर्हताशनम्। ततः संजातसंत्रासानग्निदर्शनलालसान्॥ जलेचरः क्लान्तमनास्तेजसाग्नेः प्रदीपितः। उवाच देवान् मण्डूको रसातलतलोत्थितः॥ रसातलतले देवा वसत्यग्निरिति प्रभो। संतापादिह सम्प्राप्तः पावकप्रभवादहम्॥ स संसुप्तो जले देवा भगवान् हव्यवाहनः । अपः संसृज्य तेजोभिस्तेन संतापिता वयम्॥ तस्य दर्शनमिष्टं वो यदि देवा विभावसोः। तत्रैवमधिगच्छध्वं कार्यं वो यदि वह्निना॥ गम्यतां साधयिष्याप्तो वयं ह्यग्निभयात् सुराः। एतावदुक्त्वा मण्डूकस्त्वरितो जलमाविशत्॥ हुताशनस्तु बुबुधे मण्डूकस्य च पैशुनम्। शशाप स तमासाद्य न रसान् वेत्स्यसीति वै॥ तं वै संयुज्य शापेन मण्डूकं त्वरितो ययौ। अन्यत्र वासाय विभुर्न चात्मानमदर्शयत्॥ देवास्त्वनुग्रहं चक्रुर्मण्डूकानां भृगूत्तम। यत्तच्छृणु महाबाहो गदतो मम सर्वशः॥ देवा ऊचुः अग्निशापादजिह्वापि रसज्ञानबहिष्कृताः। सरस्वती बहुविधां यूयमुच्चारयिष्यथ॥ बिलवासं गतांश्चैव निराहारानचेतसः। गतासूनपि संशुष्कान् भूमिः संधारयिष्यति॥ तमोघनायामपि वै निशायां विचरिष्यथ। इत्युक्त्वा तांस्ततो देवाः पुनरेव महामिमाम्॥ परीयुर्व्वलनस्यार्थे न चाविन्दन् हुताशनम्। अथ तान् द्विरदः कश्चित् सुरेन्द्रद्विरदोपमः॥ अश्वत्थस्थोऽग्निरित्येवमाह देवान् भृगूद्वह। शशाप ज्वलनः सर्वान् द्विरदान् क्रोधमूच्छितः॥ प्रतीपा भवतां जिह्वा भवित्रीति भृगूद्वह। इत्युक्त्वा निःसृतोऽश्वत्थादग्निर्वारणसूचितः। प्रविवेश शमीगर्भमथ वह्निः सुषुप्सया॥ अनुग्रहं तु नागानां यं चक्रुः शृणु तं प्रभो। देवा भृगुकुलश्रेष्ठ प्रीत्या सत्यपराक्रमाः॥ देवा ऊचुः प्रतीपया जिह्वयापि सर्वाहारं करिष्यथ। वाचं चोच्चारयिष्यध्वमुच्चैरव्यञ्जिताक्षराम्॥ इत्युक्त्वा पुनरेवाग्निमनुसझुर्दिवौकसः। अश्वत्यान्निःसृतश्चाग्निः शमीगर्भमुपाविशत्॥ शुकेन ख्यापितो विप्र तं देवाः समुपाद्रवन्। शशाप शुकमग्निस्तु वाग्विहीनो भविष्यसि॥ जिह्वामावर्तयामास तस्यापि हुतभुक् तथा। दृष्ट्वा तु ज्वलनं देवाः शुकमूचुर्दयान्विताः॥ भविता न त्वमत्यन्तं शुकत्वे नष्टवागिति। आवृत्तजिह्वस्य सतो वाक्यं कान्तं भविष्यति॥ बालस्येव प्रवृद्धस्य कलमव्यक्तमद्भुतम्। इत्युक्त्वा तं शमीगर्भे वह्निमालक्ष्य देवताः॥ तदेवायतनं चक्रुः पुण्यं सर्वक्रियास्वपि। ततः प्रभृति चाप्यग्निः शमीगर्भेषु दृश्यते॥ उत्पादने तथोपायमभिजग्मुश्च मानवाः। आपो रसातले यास्तु संस्पृष्टाश्चित्रभानुना॥ ताः पर्वतप्रस्रवणैरूष्मां मुञ्चन्ति भार्गव। पावकेनाधिशयता संतप्तास्तस्य तेजसा॥ अथाग्निर्देवता दृष्ट्वा बभूव व्यथितस्तदा। किमागमनमित्येवं तानपृच्छत पावकः॥ तमूचुर्विबुधाः सर्वे ते चैव परमर्षयः। त्वां नियोक्ष्यमहे कार्यं तद् भवान् कर्तुमर्हति॥ कृते च तस्मिन् भविता तवापि समुहान् गुणः॥ अग्निरुवाच ब्रूत यद् भवतां कार्यं कर्तास्मि तदहं सुराः। भवतां तु नियोज्योऽस्मि मा वोऽत्रास्तु विचारणा।।५० देवा ऊचुः असुरस्तारको नाम ब्रह्मणो वरदर्पितः। अस्मान् प्रबाधते वीर्याद् वधस्तस्य विधीयताम्॥ इमान् देवगणांस्तात प्रजापतिगणांस्तथा। ऋषींचापि महाभाग परित्रायस्व पावक॥ अपत्यं तेजसा युक्तं प्रवीरं जनय प्रभो। यद् भयं नोऽसुरात् तस्मान्नाशयेद्धव्यवाहन॥ शप्तानां नो महादेव्या नान्यदस्ति परायणम्। अन्यत्र भवतो वीर्यं तस्मात् त्रायस्व नः प्रभो॥ इत्युक्तः स तथेत्युक्त्वा भगवान् हव्यवाहनः। जगामाथ दुराधर्षो गङ्गां भागीरथी प्रति॥ तया चाप्यभवन्मिश्रो गर्भे चास्यादधे तदा। ववृधे स तदा गर्भः कक्षे कृष्णगतिर्यथा।॥ तेजसा तस्य देवस्य गङ्गा विह्वलचेतना। संतापमगमत् तीव्र सोढुं सा न शशाक ह॥ आहिते ज्वलनेनाथ गर्भे तेजः समन्विते। गङ्गायामसुरः कश्चिद् भैरवं नादमानदत्॥ अबुद्धिपतितेनाथ नादेन विपुलेन सा। वित्रस्तोद्धान्तनयना गङ्गा विनुतलोचना॥ विसंज्ञा नाशकद् गर्भं वोढुमात्मानमेव च। सा तु तेजःपरीताङ्गी कम्पयन्तीव जाह्नवी॥ उवाच ज्वलनं विप्र तदा गर्भबलोद्धता। ते न शक्तास्मि भगवंस्तेजसोऽस्य विधारणे॥ विमूढास्मि कृतानेन न मे स्वास्थ्यं यथा पुरा। विह्वला चास्मि भगवंश्चेतो नष्टं च मेऽनघ॥ धारणे नास्य शक्ताहं गर्भस्य तपतां वर। उत्स्रक्ष्येऽहमिमं दुःखान्न तु कामात् कथंचन॥ न तेजसोऽस्ति संस्पर्शो मम देव विभावसो। आपदर्थे हि सम्बन्धः सुसूक्ष्मोऽपि महाद्युते॥ यदत्र गुणसम्पन्नमितरद् वा हुताशन। त्वय्येव तदहं मन्ये धर्माधर्मी च केवलौ॥ तामुवाच ततो वह्निर्धार्यतां धार्यतामिति। गर्भो मत्तेजसा युक्तो महागुणफलोदयः ॥ शक्ता ह्यसि महीं कृत्स्नां वोढुं धारयितुं तथा। न हि ते किंचिदप्राप्यमन्यतो धारणादृते॥ सा वह्निना वार्यमाणा देवैरपि सरिद्वरा। समुत्ससर्ज तं गर्भं मेरौ गिरिवरे तदा॥ समर्था धारणे चापि रुद्रतेजःप्रधर्षिता। नाशकत् तं तदा गर्भ संधारयितुमोजसा॥ सा समुत्सृज्य तं दुःखाद् दीप्तवैश्वाना, नम्। दर्शयामास चाग्निस्तं तदा गङ्गां भृगूद्वह॥ पप्रच्छ सरितां श्रेष्ठां कच्चिद् गर्भः सुखोदयः। कीदृग्वर्णोऽपि वा देवि कीदृग्रूपश्च दृश्यते। तेजसा केन वा युक्तः सर्वमेतद् ब्रवीहि मे॥ गङ्गा उवाच जातरूपः स गर्भो वै तेजसा त्वमिवानघ। सुवर्णो विमलो दीप्तः पर्वतं चावभासयत्॥ पद्मोत्पलविमिश्राणां ह्रदानामिव शीतलः। गन्धोऽस्य स कदम्बानां तुल्यो वै तपतां वर॥ तेजसा तस्य गर्भस्य भास्करस्येव रश्मिभिः। यद् द्रव्यं परिसंसृष्टं पृथिव्यां पर्वतेषु च॥ तत् सर्वं काञ्चनीभूतं समन्तात् प्रत्यदृश्यत। पर्यधावत शैलांश्च नदीः प्रस्रवणानि च॥ व्यादीपयंस्तेजसा च त्रैलोक्यं सचराचरम्। एवंरूपः स भगवान् पुत्रस्ते हव्यवाहन। सूर्यवैश्वानरसमः कान्त्या सोम इवापरः॥ एवमुक्त्वा तु सा देवी तत्रैवान्तरधीयता पावकश्चापि तेजस्वी कृत्वा कार्यं दिवौकसाम्॥ जगामेष्टं ततो देशं तदा भार्गवनन्दन। एतैः कर्मगुणैर्लोके नामाग्नेः परिगीयते॥ हिरण्यरेता इति वै ऋषिभिर्विबुधैस्तथा। पृथिवी च तदा देवी ख्याता वसुमतीति वै॥ स तु गर्भो महातेजा गाङ्गेयः पावकोद्भवः। दिव्यं शरवणं प्राप्य ववृधेऽद्भुतदर्शनः॥ ददृशुः कृत्तिकास्तं तु बालार्कसदृशद्युतिम्। पुत्रं वै ताश्च तं बालं पुपुषुः स्तन्यविस्रवैः॥ ततः स कार्तिकेयत्वमवाप परमद्युतिः। स्कन्नत्वात् स्कन्दतां चापि गुहावासाद् गुहोऽभवत्।। एवं सुवर्णमुत्पन्नमपत्यं जातवेदसः। तत्र जाम्बूनदं श्रेष्ठं देवानामपि भूषणम्॥ ततः प्रभृति चाप्येतज्जातरूपमुदाहृतम्। रत्नानामुत्तमं रत्नं भूषणानां तथैव च॥ पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम्। यत् सुवर्णं स भगवानग्निरीशः प्रजापतिः॥ पवित्राणां पवित्रं हि कनकं द्विजसत्तमाः। अग्नीषोमात्मकं चैव जातरूपमुदाहृतम्॥ वसिष्ठ उवाच अपि चेदं पुरा राम श्रुतं मे ब्रह्मदर्शनम्। पितामहस्य यद् वृत्तं ब्रह्मणः परमात्मनः॥ देवस्य महतस्तात वारुणीं बिभ्रतस्तनुम्। ऐश्वर्ये वारुणे राम रुद्रस्येशस्य वै प्रभो॥ आजग्मुर्मुनयः सर्वे देवाश्चाग्निपुरोगमाः। यज्ञाङ्गानि च सर्वाणि वषट्कारश्च मूर्तिमान्॥ मूर्तिमन्ति च सामानि यजूंषि च सहस्रशः। ऋग्वेदश्चागमत् तत्र पदक्रमविभूषितः॥ लक्षणानि स्वराः स्तोभा निरुक्तं सुरपतयः। ओङ्कारश्चावसन्नेत्रे निग्रहप्रग्रहौ तथा॥ वेदाश्च सोपनिषदो विद्या सावित्र्यथापि च। भूतं भव्यं भविष्यं च दधार भगवान् शिवः॥ संजुहावात्मनाऽऽत्मानं स्वयमेव तदा प्रभो। यज्ञं च शोभयामास बहुरूपं पिनाकधृत्॥ द्यौर्नभः पृथिवी खं च तथा चैवैष भूपतिः। सर्वविद्येश्वरः श्रीमानेष चापि विभावसुः॥ एष ब्रह्मा शिवो रुद्रो वरुणोऽग्निः प्रजापतिः। कीर्त्यते भगवान् देवः सर्वभूतपतिः शिवः॥ तस्य यज्ञः पशुपतेस्तपः क्रतव एव च। दीक्षा दीप्तव्रता देवी दिशश्च सदिगीश्वराः॥ देवपत्न्यश्च कन्याश्च देवानां चैव मातरः। आजग्मुः सहितास्तत्र तदा भृगुकुलोद्वह॥ यज्ञं पशुपतेः प्रीता वरुणस्य महात्मनः। स्वयम्भुवस्तु ता दृष्ट्वा रेतः समपतद् भुवि॥ तस्य शुक्रस्य विस्पन्दान् पांसून् संगृह्य भूमितः। प्रास्यत् पूषा कराभ्यां वै तस्मिन्नेव हुताशने॥ ततस्तस्मिन् सम्प्रवृत्ते सत्रे ज्वलितपावके। ब्रह्मणो जुह्वतस्तत्र प्रादुर्भावो बभूव ह॥ स्कन्नमात्रं च तच्छुक्रं स्रवेण परिवृज्ञ सः। आज्यवन्मन्त्रतश्चापि सोऽजूहांद् भृगुनन्दन॥ ततः स जनयामास भूतग्रामं च वीर्यवान्। तस्य तत् तेजसस्तस्माज्जज्ञे लोकेषु तैजसम्॥ तमसस्तामसा भावा व्यापि सत्त्वं तथोभयम्। स गुणस्तेजसो नित्यस्तस्य चाकाशमेव च॥ सर्वभूतेषु च तथा सत्त्वं तेजस्तथोत्तमम्। शुक्रे हुतेऽग्नौ तस्मिंस्तु प्रादुरासंस्त्रयः प्रभो॥ पुरुषा वपुषा युक्ताः स्वैः स्वैः प्रसवजैर्गुणैः। भृगित्येव भृगुः पूर्वमङ्गारेभ्योऽङ्गिराभवत्॥ अङ्गारसंश्रयाच्चैव कविरित्यपरोऽभवत्। सह ज्वालाभिरुत्पन्नो भृगुस्तस्माद् भृगुः स्मृतः।।१०६ मरीचिभ्यो मरीचिस्तु मारीचः कश्यपो ह्यभूत्। अङ्गारेभ्योऽङ्गिरास्तात वालखिल्याः कुशोच्चयात्।। अत्रैवानेति च विभो जातमत्रिं वदन्त्यपि। तथा भस्मव्यपोहेभ्यो ब्रह्मर्षिगणसम्मताः॥ वैखानसाः समुत्पन्नास्तप:श्रुतगुणेप्सवः। अश्रुतोऽस्य समुत्पन्नावश्विनौ रूपसम्मतौ॥ शेषाः प्रजानां पतयः स्रोतोभ्यस्तस्य जज्ञिरे। ऋषयो रोमकूपेभ्यः स्वेदाच्छन्दो बलान्मनः॥ एतस्मात् कारणादाहरग्निः सर्वास्तु देवताः। ऋषयः श्रुतसम्पन्ना देवप्रामाण्यदर्शनात्॥ यानि दारुणि निर्यासास्ते मासाः पक्षसंज्ञिताः। अहोरात्रा मुहूर्ताश्च पित्तं ज्योतिश्च दारुणम्॥ रौद्रं लोहितमित्याहुलॊहितात् कनकं स्मृतम्। तन्मैत्रमिति विज्ञेयं धूमाच्च वसवः स्मृताः॥ अर्चिषो याच ते रुद्रास्तथाऽऽदित्या महाप्रभाः। उद्दिष्टास्ते तथाङ्गारा ये धिष्ण्येषु दिवि स्थिताः।।११४ आदिकर्ता च लोकस्य तत्परं ब्रह्म तध्रुवम्। सर्वकामदमित्याहुस्तद्रहस्यमुवाच ह॥ ततोऽब्रबीन्महादेवो वरुणः पवनात्मकः। मम सत्रमिदं दिव्यमहं गृहपतिस्त्विह॥ त्रीणि पूर्वाण्यपत्यानि मम तानि न संशयः। इति जानीत खगमा मम यज्ञफलं हि तत्॥ मदङ्गेभ्यः प्रसूतानि मदाश्रयकृतानि च। ममैव तान्यपत्यानि वरुणो दवद्यात्मकः॥ अथाब्रवील्लोकगुरुर्ब्रह्मा लोकपितामहः। ममैव तान्यपत्यानि मम शुक्र हुतं हि तत्॥ अहं कर्ता हि सत्रस्य होता शुक्रस्य चैव ह। यस्य बीजं फलं तस्य शुक्रं चेत् कारणं मतम्।।१२० ततोऽब्रुवन् देवगणाः पितामहमुपेत्य वै। कृताञ्जलिपुटाः सर्वे शिरोभिरभिवन्द्य च॥ वयं च भगवन् सर्वे जगच्च सचराचरम्। तवैव प्रसवाः सर्वे तस्मादग्निर्विभावसुः॥ तरुणश्चेश्वरो देवो लभतां काममीप्सितम्। निसर्गाद् ब्रह्मणश्चापि वरुणो यादसाम्पतिः॥ जग्रह वै भृगु पूर्वमपत्यं सूर्यवर्चसम्। ईश्वरोऽङ्गिरसं चाग्नेरपत्यार्थमकल्पयत्॥ पितामहस्त्वपत्यं वै कविं जग्राह तत्त्ववित्। तदा स वारुणः ख्यातो भृगुः प्रसवकर्मवित्॥ आग्नेयस्त्वङ्गिराः श्रीमान् कविाह्मो महायशाः। भार्गवाङ्गिरसौ लोके लोकसंतानलक्षणौ॥ एते हि प्रस्रवाः सर्वे प्रजानां पतयस्त्रयः। सर्वं संतानमेतेषामिढमित्युपधारय॥ भृगोस्तु पुत्राः सप्तासन् सर्वे तुल्या भृगोर्गुणैः। च्यवनो वज्रशीर्षश्च शुचिरौर्वस्तथैव च॥ शुक्रो वरेण्यश्च विभुः सवनश्चेति सप्त ते। भार्गवा वारुणाः सर्वे येषां वंशे भवानपि॥ अष्टौ चाङ्गिरसः पुत्रा वारुणास्तेऽप्युदाहताः। बृहस्पतिरुतथ्यश्च पयस्यः शान्तिरेव च॥ घोरो विरूपः संवर्तः सुधन्वा चाष्टमः स्मृतः। एतेऽष्टौ वह्रिजाः सर्वे ज्ञाननिष्ठा निरामयाः॥ ब्रह्मणस्तु कवेः पुत्रा वारुणास्तेऽप्युदाहृताः। अष्टौ प्रसवजैर्युक्ता गुणैर्ब्रह्मविदः शुभाः॥ कविः काव्यश्च घृष्णुश्च बुद्धिमानूशना तथा। भृगुश्च विरजाश्चैव काशी चोग्रश्च धर्मवित्॥ अष्टौ कविसुता ह्येते सर्वमेभिर्जगत् ततम्। प्रजापतय एते हि प्रजाभागैरिह प्रजाः॥ एवमङ्गिरसश्चैव कवेश्च प्रसवान्वयैः। भृगोश्च भृगुशार्दूल वंशजैः सततं जगत्॥ वरुणश्चादितो विप्र जग्राह प्रभुरीश्वरः। कविं तात भृगुं चापि तस्मात् तौ वारुणो स्मृतौ।। जग्राहाङ्गिरसं देवः शिखी तस्माद्हताशनः। तस्मादाङ्गिरसा ज्ञेयाः सर्व एव तदन्वयाः॥ ब्रह्मा पितामहः पूर्वं देवताभिः प्रसादितः। इमे नः संतरिष्यन्ति प्रजाभिर्जगतीश्वराः॥ सर्वे प्रजानां पतयः सर्वे चातितपस्विनः। त्वत्प्रसादादिमं लोकं तारयिष्यन्ति साम्प्रतम्॥ तथैव वंशकर्तारस्तव तेजोविवर्धनाः। भवेयुर्वेदविदुषः सर्वे च कृतिनस्तथा॥ देवपक्षचराः सौम्याः प्रजापत्या महर्षयः। आप्नुवन्ति तपश्चैव ब्रह्मचर्ये परं तथा॥ सर्वे हि वयमेते च तवैव प्रसवः प्रभो। देवानां ब्राह्मणानां च त्वं हि कर्ता पितामह॥ मारीचमादितः कृत्वा सर्वे चैवाथ भार्गवाः। अपत्यानीति सम्प्रेक्ष्य क्षमयाम पितामह॥ ते त्वनेनैव रूपेण प्रजनिष्यन्ति वै प्रजाः। स्थापयिष्यन्ति चात्मानं युगादिनिधने तथा॥ इत्युक्तः स तदा तैस्तु ब्रह्मा लोकपितामहः। तथेत्येवाब्रवीत् प्रीतस्तेऽपि जग्मुर्यथागतम्॥ एवमेतत् पुरा वृत्तं तस्य यज्ञे महात्मनः। देवश्रेष्ठस्य लोकादौ वारुणीं बिभ्रतस्तनुम्॥ अग्निर्ब्रह्मा पशुपतिः शर्वो रुद्रः प्रजापतिः। अग्नेरपत्यमेतद् वै सुवर्णमिति धारणा॥ अग्न्यभावे च कुरुते वह्निस्थानेषु काञ्चनम्। जामदग्न्य प्रमाणज्ञो वेदश्रुतिनिदर्शनात्॥ कुशस्तम्बे जुहोत्यग्निं सुवर्णे तत्र च स्थिते। बल्मीकस्य वपायां च कर्णे वाजस्य दक्षिणे॥ शकटो। परस्याप्सु ब्राह्मणस्य करे तथा। हते प्रीतिकरीमृद्धिं भगवांस्तत्र मन्यते॥ तस्मादग्निपराः सर्वे देवता इति शुश्रुम। ब्रह्मणो हि प्रभूतोऽग्निरग्नेरपि च काञ्चनम्॥ तस्माद् ये वै प्रयच्छन्ति सुवर्णे धर्मदर्शिनः। देवतास्ते प्रयच्छन्ति समस्ता इति नः श्रुतम्॥ तस्य चातमसो लोका गच्छतः परमां गतिम्। स्वलॊके राजराज्येन सोऽभिषिच्येत भार्गव॥ आदित्योदयसम्प्राप्ते विधिमन्त्रपुरस्कृतम्। ददाति काञ्चनं यो वै दुःस्वप्नं प्रतिहन्ति सः॥ ददात्युदितमात्रे यस्तस्य पाप्मा विधूयते। मध्याह्ने ददतो रुक्मं हन्ति पापमनागतम्॥ ददाति पश्चिमां संध्या यः सुवर्णे यतव्रतः। ब्रह्मवाय्वग्निसोमानां सालोक्यमुपयाति सः॥ सेन्द्रेषु चैव लोकेषु प्रतिष्ठां विन्दते शुभाम्। इह लोके यशः प्राप्य शान्तपाप्मा च मोदते॥ ततः सम्पद्यतेऽन्येषु लोकेष्वप्रतिमः सदा। अनावृतगतिश्चैव कामचारो भवत्युत॥ न च क्षरति तेभ्यश्च यशैश्चैवाप्नुते महत्। सुवर्णमक्षयं दत्त्वा लोकांश्चाप्नोति पुष्कलान्॥ यस्तु संजनयित्वाग्निमादित्योदयनं प्रति। दद्याद् वै व्रतमुद्दिश्य सर्वकामान् समश्नुते॥ अग्निमित्येव तत् प्राहुः प्रदानं च सुखावहम्। यथेष्टगुणसंवृत्तं प्रवर्तकमिति स्मृतम्॥ एषा सुवर्णस्योत्पत्तिः कथिता ते मयानघ। कार्तिकेयस्य च विभो तद् विद्धि भृगुनन्दन॥ कार्तिकेयस्तु संवृद्धः कालेन महता तदा। देवैः सेनापतित्वेन वृतः सैन् गूद्वह॥ जघान तारकं चापि दैत्यमन्यांस्तथासुरान्। त्रिदशेन्द्राज्ञया ब्राँल्लोकानां हितकाम्यया॥ सुवर्णदाने च मया कथितास्ते गुणा विभो। तस्मात् सुवर्णे विप्रेभ्यः प्रयच्छ ददतां वर॥ भीष्म उवाच इत्युक्तः स वसिष्ठेन जामदग्न्यः प्रतापवान्। ददौ सुवर्णे विप्रेभ्यो व्यमुच्यत च किल्बिषात्॥१६६ एतत् ते सर्वमाख्यातं सुवर्णस्य महीपते। प्रदानस्य फलं चैव जन्म चास्य युधिष्ठिर॥ तस्मात् त्वमपि विप्रेभ्यः प्रयच्छ कनकं बहु। ददत्सुवर्णे नृपते किल्बिषाद् विप्रमोक्ष्यसि॥ तस्मात् त्वमपि विप्रेभ्यः प्रयच्छ कनकं बहु। ददत्सुवर्णे नृपते किल्बिषाद् विप्रमोक्ष्यसि॥ युधिष्ठिर उवाच उक्ताः पितामहेनेह सुर्णस्य विधानतः। विस्तरेण प्रदानस्य ये गुणाः श्रुतिलक्षणाः॥ यत्तु कारणमुत्पत्तेः सुवर्णस्य प्रकीर्तितम्। स कथं तारकः प्राप्तो निधनं तद् ब्रवीहि मे॥ उक्तं स देवतानां हि अवध्य इति पार्थिव। कथं तस्याभवन्मृत्युर्विस्तरेण प्रकीर्तय॥ एतादिच्छाम्यहं श्रोतुं त्वत्तः कुरुकुलोद्वह। कात्स्येन तारकवधं परं कौतूहलं हि मे॥ भीष्म उवाच विपन्नकृत्या राजेन्द्र देवता ऋषयस्तथा। कृत्तिकाश्चोदयामासुरपत्यभरणाय वै॥ न देवतानां काचिद्धि समर्था जातवेदसः। एता हि शक्तास्तं गर्भं संधारयितुमोजसा॥ षण्णां तासां ततः प्रीत: पावको गर्भधारणात्। स्वेन तेजोविसर्गेण वीर्येण परमेण च॥ तास्तु षट् कृत्तिका गर्भे पुपुषुर्जातवेदसः। षट्सु वर्त्मसु तेजोऽन्गेः सकलं निहितं प्रभो॥ ततस्ता वर्धमानस्य कुमारस्य महात्मनः। तेजसाभिपरीताङ्ग्यो न क्वचिच्छम लेभिरे॥ ततस्तेजःपरीताङ्ग्यः सर्वाः काल उपस्थिते। समं गर्भे सुषुविरे कृत्तिकास्तं नरर्षभ॥ ततस्तं षडधिष्ठानं गर्भमेकत्वमागतम्। पृथिवी प्रतिजग्राह कार्तस्वरसमीपतः॥ स गर्भो दिव्यसंस्थानो दीप्तिमान् पावकप्रभः। दिव्यं शरवणं प्राप्य ववृधे प्रियदर्शनः॥ ददृशुः कृत्तिकास्तं तु बालमर्कसमद्युतिम्। जातस्नेहाच्च सौहार्दात् पुपुषुः स्तन्यविस्रवैः॥ अभवत् कार्तिकेयः स त्रैलोक्ये सचराचरे। स्कन्नत्वात् स्कन्दतां प्राप्तो गुहावासाद् गुहोऽभवत्।। ततो देवास्त्रयस्त्रिंशद् दिशश्च सदिगीश्वराः। रुद्रो धाता च विष्णुश्च यमः पूषार्यमा भगः॥ अंशो मित्रश्च साध्याश्च वासवो वसवोऽश्विनौ। आपो वायुर्नभश्चन्द्रो नक्षत्राणि ग्रहा रविः॥ पृथग्भूतानि चान्यानि यानि देवार्पणानि वै। आजग्मुस्तेऽद्भुतुं द्रष्टुं कुमारं ज्वलनात्मजम्॥ ऋषयस्तुष्टुवुश्चैव गन्धर्वाश्च जगुस्तथा। षडाननं कुमारं तु द्विषडक्षं द्विजप्रियम्॥ पीनांसं द्वादशभुजं पावकादित्यवर्चसम्। शयानं शरगुल्मस्थं दृष्ट्वा देवाः सहर्षिभिः॥ लेभिरे परमं हर्ष मेनिरे चासुरं हतम्। ततो देवाः प्रियाण्यस्य सर्व एव समाहरन्॥ क्रीडत: क्रीडनीयानि ददुः पक्षिगणाश्च ह। सुपर्णोऽस्य ददौ पुत्रं मयूरं चित्रबर्हिणम्॥ राक्षसाश्च ददुस्तस्मै वराहमहिषावभौ। कुक्वुटं चाग्निसंकाशं प्रददावरुणः स्वयम्॥ चन्द्रमाः प्रददौ मेषमादित्यो रुचिरां प्रभाम्। गवां माता च गा देवी ददौ शतसहस्रशः॥ छागमग्निर्गुणापेतमिला पुष्पफलं बहु। सुधन्वा शकटं चैव रथं चामितकूबरम्॥ वरुणो वारुणान् दिव्यान् सगजान् प्रददौ शुभान्। सिंहान् सुरेन्द्रो व्याघ्रांश्च द्विपानन्यांश्च पक्षिणः॥ श्वापदांश्च बहून् घोरांश्छत्राणि विविधानि च। राक्षसासुरसंघाश्च अनुजग्मुस्तमीश्वरम्॥ वर्धमानं तु तं दृष्ट्वा प्रार्थयामास तारकः। उपायैर्बहुभिर्हन्तुं नाशकच्चापि तं विभुम्॥ सैनापत्येन तं देवाः पूजयित्वा गुहालयम्। शशंसुर्विप्रकारं तं तस्मै तारककारितम्॥ स विवृद्धो महावीर्यो देवसेनापतिः प्रभुः। जघानामोघया शक्त्या दानवं तारकं गुहः॥ तेन तस्मिन् कुमारेण क्रीडता निहतेऽसुरे। सुरेन्द्रः स्थापितो राज्ये देवानां पुनरीश्वरः॥ स सेनापतिरेवाथ बभौ स्कन्दः प्रतापवान्। ईशो गोप्ता च देवानां प्रियकृच्छङ्करस्य च॥ हिरण्यमूर्तिर्भगवानेष एव च पावकिः। सदा कुमारो देवानां सैनापत्यमवाप्तवान्॥ तस्मात् सुवर्णं मङ्गल्यं रत्नमक्षय्यमुत्तमम्। सहजं कार्तिकेयस्य वह्नस्तेजः परं मतम्॥ एवं रामाय कौरव्य वसिष्ठोऽकथयत् पुरा। तस्मात् सुवर्णदानाय प्रयतस्व नराधिप॥ रामः सुवर्णं दत्त्वा हि विमुक्तः सर्वकिल्विषैः। त्रिविष्टपे महत् स्थानमवापासुलभं नरैः॥ युधिष्ठिर उवाच चातुर्वर्ण्यस्य धर्मात्मन् धर्माः प्रोक्ता यथा त्वया। तथैव मे श्राद्धविधिं कृत्स्नं प्रब्रूहि पार्थिव॥ वैशम्पायन उवाच युधिष्ठरेणैवमुक्तो भीष्मः शान्तनवस्तदा। इमं श्राद्धविधिं कृत्स्नं वक्तुं समुपचक्रमे॥ भीष्म उवाच शृणुष्वावहितो राजञ्छ्राद्धकर्मविधिं शुभम्। धन्यं यशस्यं पुत्रीयं पितृयज्ञं परंतप॥ देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम्। पिशाचकिन्नराणां च पूज्या वै पितरः सदा॥ पितॄन् पूज्यादितः पश्चाद्देवतास्तर्पयन्ति वै। तस्मात् तान् सर्वयज्ञेन पुरुषः पूजयेत् सदा॥ अन्वाहार्ये महाराज पितॄणां श्राद्धमुच्यते। तस्माद् विशेषविधिना विधिः प्रथमकल्पितः॥ सर्वेष्वहःसु प्रीयन्ते कृते श्राद्धे पितामहाः। प्रवक्ष्यामि तु ते सर्वास्तिथ्यातिथ्यगुणागुणान्॥ येष्वहःसु कृतैः श्राद्धैर्यत् फलं प्राप्यतेऽनघ। तत् सर्वे कीर्तयिष्यामि यथावत् तन्निबोध मे॥ पितॄनगे प्रतिपदि प्राप्नुयात् सुगृहे स्त्रियः। अभिरूपप्रजायिन्यो दर्शनीया बहुप्रजाः॥ स्त्रियो द्वितीयां जायन्ते तृतीयायां तु वाजिनः। चतुर्थ्यो क्षुद्रपशवो भवन्ति बहवो गृहे॥ पञ्चम्यां बहवः पुत्रा जायन्ते कुर्वतां नृप। कुर्वाणास्तु नराः षष्ठ्यां भवन्ति द्युतिभागिनः॥ कृषिभागी भवेच्छ्राद्धं कुर्वाण: सप्तमी नृप। अष्टम्यां तु प्रकुर्वाणो वाणिज्ये लाभमाप्नुयात्॥ नवम्यां कुर्वतः श्राद्धं भवत्येकशफं बहु। विवर्धन्ते तु दशमी गावः श्राद्धान् विकुर्वतः॥ कुप्यभागी भवेन्मर्त्यः कुर्वन्नेकादशीं नृप। ब्रह्मवर्चस्विनः पुत्रा जायन्ते तस्य वेश्मनि॥ द्वादश्यामीहमानस्य नित्यमेव प्रदृश्यते। रजतं बहुवित्तं च सुवर्णं च मनोरमम्॥ ज्ञातीनां तु भवेच्छेष्ठः कुर्वञ्छ्राद्धं त्रयोदशीम्। अवश्यं तु युवानोऽस्य प्रमीयन्ते नरा गृहे॥ युद्धभागी भवेन्मर्त्यः कुर्वञ्छ्राद्धं चतुर्दशीम्। अमावास्यां तु निर्वापात् सर्वकामानवाप्नुयात्॥ कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम्। श्राद्धकर्मणि तिथ्यस्तु प्रशस्ता न तथेतराः॥ यथा चैवापरः पक्षः पूर्वपक्षाद् विशिष्यते। तथा श्राद्धस्य पूर्वाह्वादपराह्वो विशिष्यते॥ युधिष्ठिर उवाच किंस्विद् दत्तं पितृभ्यो वै भवत्यक्षयमीश्वर। किं हविश्चिररात्राय किमानन्त्याय कल्पते॥ भीष्म उवाच हवींषि श्राद्धकल्पे तु यानि श्राद्धविदो विदुः। तानि मे शृणु काम्यानि फलं चैव युधिष्ठिर॥ तिलैब्रीहियवैरिद्धिर्मूलफलैस्तथा। दत्तेन मासं प्रायन्ते श्राद्धेन पितरो नृप॥ वर्धमानतिलं श्राद्धमक्षयं मनुरब्रवीत्। सर्वेष्वेव तु भोज्येषु तिलाः प्राधान्यतः स्मृताः॥ द्वौ मासौ तु भवेत्तृप्तिर्मत्स्यैः पितृगणस्य ह। त्रीन्मासानाविकेनाहुश्चतुर्मासं शशेन ह॥ आजेन मासान्ग्रीयन्ते पञ्चैव पितरो नृप। वाराहेण तु षण्मासान् सप्त वै शाकुलेन तु॥ मासानष्टौ पार्षतेन रौरवेण नव प्रभो। गवयस्य तु मांसेन तृप्तिः पितॄणां माहिषेण तु॥ गव्येन दत्तं श्राद्धे तु संवत्सरमिहोच्यते। यथा गव्यं तथा युक्तं पायसं सर्पिषा सह॥ वाध्रीणसस्य मांसेन तृप्ति दशवार्षिकी॥ आनन्याय भवेद्दत्तं खङ्गमांसं पितृक्षये। कालशाकं च लौहं चाप्यानन्त्यं छाग उच्यते। गाथाश्चाप्यत्र गायन्ति पितृगीता युधिष्ठिर। सनत्कुमारो भगवान् पुरा मय्यभ्यभाषत॥ अपि नः स्वकुले जायाद् यो नो दद्यात्त्रयोदशीम्। मधासु सर्पिःसंयुक्तं पायसं दक्षिणायने॥ आजेन वापि लौहेन मघास्वेव यतव्रतः। हस्तिच्छायासु विधिवत् कर्णव्यजनवीजितम्॥ एष्टव्या बहवः पुत्रा योकोऽपि गयां व्रजेत्। यनासौ प्रथितो लोकेष्वक्षय्यकरणो वटः॥ आपो मूलं फलं मांसम्मनं वापि पितृक्षये। यत् किंचिन्मधुसम्मिश्रं तदानन्त्याय कल्पते।॥ युधिष्ठिर उवाच कीदृशेभ्यः प्रदातव्यं भवेच्छ्राद्धं पितामह। द्विजेभ्यः कुरुशार्दूल तन्मे व्याख्यातुमर्हसि॥ भीष्म उवाच ब्राह्मणान् न परीक्षेत क्षत्रियो दानधर्मवित्। दैवे कर्मणि पित्र्ये तु न्यायमाहुः परीक्षणम्॥ देवताः यूजयन्तीह दैवेनैवेह तेजसा। उपेत्य तस्माद् देवेभ्यः सर्वेभ्यो दापयेन्नरः॥ श्राद्धे त्वथ महाराज परीक्षेद् ब्राह्मणान् बुधः। कुलशीलवयोरूपैर्विद्ययाभिजनेन च॥ तेषामन्ये पङ्क्तिदूषास्तथान्ये पङ्क्तिपावनाः। अपाङ्क्तेयास्तु ये राजन् कीर्तयिष्यामि तान् शृणु॥ कितवो भ्रूणहा यक्ष्मी पशुपालो निराकृतिः। ग्रामप्रेष्यो वार्धषिको गायनः सर्वविक्रयी।॥ अगारदाही गरदः कुण्डाशी सोमविक्रयी। सामुद्रिको राजभृत्यस्तैलिकः कूटकारकः॥ पित्रा विवदमानश्च यस्य चोपपतिहे। अभिशस्तस्तथा स्तेनः शिल्पं यश्चोपजीवति॥ पर्वकारच सूची च मित्रधुक पारदारिकः। अवतानामुपाध्यायः काण्डपृष्ठस्तथैव च॥ श्वभिश्च यः परिक्रामेद् यः शुना दष्ट एव च। परिवित्तिश्च यश्च स्याद् दुश्चर्मा गुरुतल्पगः॥ कुशीलवो देवलको नक्षत्रैर्यश्च जीवति। ईदृशैर्ब्राह्मणैर्भुक्तमपाङ्क्तेयैर्युधिष्ठिर।॥ रक्षांसि गच्छते हव्यमित्याहुर्ब्रह्मवादिनः। श्राद्धं भुक्त्वा त्वधीयीत वृषलीतल्पगश्च यः॥ पुरीषे तस्य ते मासं पितरस्तस्य शेरते। सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम्॥ नष्टं देवलके दत्तमप्रतिष्ठं च वाधुषे। यत्तु वाणिजके दत्तं नेह नामुत्र तद् भवेत्॥ भस्मनीव हुतं हव्यं तथा पौनर्भवे द्विजे। ये तु धर्मव्यपेतेषु चारित्रापगतेषु च। हव्यं कव्यं प्रयच्छन्ति तेषां तत्प्रेत्य नश्यति॥ ज्ञानपूर्वं तु ये तेभ्यः प्रयच्छन्त्यल्पबुद्धयः। पुरीषं भुञ्जते तेषां पितरः प्रेत्य निश्चयः॥ एतानिमान् विजानीयादपाङ्क्तेयान् द्विजाधमान्। शूद्राणामुपदेशं च ये कुर्वन्त्यल्पचेतसः॥ षष्टिं काणः शतं षण्ढः श्वित्री यावत्प्रपश्यति। पड्क्त्यां समुपविष्टायां तावद् दूषयते नृप॥ यद् वेष्टितशिरा भुङ्क्ते यद् भुङ्क्ते दक्षिणामुखः। सोपानत्कश्च यद् भुङ्क्ते सर्वे विद्यात् तदासुरम्॥ असूयता च यद् दत्तं यच्च श्रद्धाविवर्जितम्। सर्वं तदसुरेन्द्राय ब्रह्मा भागमकल्पयत्॥ श्वानश्च पतिदूषाश्च नावेक्षेरन् कथंचन। तस्मात् परिसृते दद्यात् तिलांश्चान्ववकीरयेत्॥ तिलैर्विरहितं श्राद्धं कृतं क्रोधवशेन च। यातुधानाः पिशाचाश्च विप्रलुम्पन्ति तद्धविः॥ अपाक्तो यावतः पाङ्क्तान् भुजानानुपश्यति। तावत्फलाद् भ्रंशयति दातारं तस्य बालिशम्॥ इमे तु भरतश्रेष्ठ विज्ञेयाः पङ्क्तिपावनाः। ये त्वतस्तान् प्रवक्ष्यामि परीक्षस्वेह तान् द्विजान्।।२४ विद्यावेदव्रतस्नाता ब्राह्मणाः सर्व एव हि। सदाचारपराश्चैव विज्ञेयाः सर्वपावनाः॥ पातेयांस्तु प्रवक्ष्यामि ज्ञेयास्ते पतितपावनाः। त्रिणाचिकेत: पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित्॥ ब्रह्मदेयानुसंतानश्छन्दोगो ज्येष्ठसामगः। मातापित्रोर्यश्च वश्यः श्रोत्रियो दशपूरुषः॥ ऋतुकालाभिगामी च धर्मपत्नीषु यः सदा। वेदविद्याव्रतस्नातो विप्रः पङ्क्तिं पुनात्युत॥ अथर्वशिरसोऽध्येता ब्रह्मचारी यतव्रतः। सत्यवादी धर्मशीलः स्वकर्मनिरतश्च सः॥ ये च पुण्येषु तीर्थेषु अभिषेककृतश्रमाः। मखेषु च समन्त्रेषु भवन्त्यवभृथप्लुताः॥ अक्रोधना ह्यचपलाः क्षान्ता दान्ता जितेन्द्रियाः। सर्वभूतहिता ये च श्राद्धेष्वेतान् निमन्त्रयेत्॥ एतेषु दत्तमक्षय्यमेते वै पङ्क्तिपावनाः। इमे परे महाभागा विज्ञेयाः पङ्क्तिपावनाः॥ ये चेतिहासं प्रयता: श्रावयन्ति द्विजोत्तमान्॥ ये च भाष्यविदः केचिद् ये च व्याकरणे रताः। अधीयते पुराणं ये धर्मशास्त्राण्यथापि च॥ अधीत्य च यथान्यायं विधिवत् तय कारिणः। उपपन्नो गुरुकुले सत्यवादी सहस्रशः॥ अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च। यावदेते प्रपश्यन्ति पड्क्त्यास्तावत्पुनन्त्युत॥ ततो हि पावनात्पङ्क्त्याः पङ्क्तिपावन उच्यते। क्रोशादर्घतृतीयाच्च पावयेदेक एव हि॥ ब्रह्मदेयानुसंतान इति ब्रह्मविदो विदुः। अनृत्विगनुपाध्यायः स चेदग्रासनं व्रजेत्॥ ऋत्विग्भिरभ्यनुज्ञातः पङ्क्त्या हरति दुष्कृतम्। अथ चेद् वेदवित् सर्वैःपङ्क्तिदोषैर्विवर्जितः॥ न च स्यात् पतितो राजन् पङ्क्तिपावन एव सः। तस्मात् सर्वप्रयत्नेन परीक्ष्यामन्त्रयेद् द्विजान्॥ स्वकर्मनिरतानन्यान् कुले जातान् बहुश्रुतान्। यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च॥ यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च। न प्रीणन्ति पितॄन् देवान् स्वर्गं च न स गच्छति।।४१ यश्च श्राद्ध कुरुते सङ्गत्तानि न देवयानेन पथा स याति। स वै मुक्तः पिप्पलं बन्धनाद् वा स्वर्गाल्लोकाच्च्यवते श्राद्धमित्रः॥ तस्मान्मित्रं श्राद्धकृन्नाद्रियेत दद्यान्मित्रेभ्यः संग्रहार्थं धनानि। यन्मन्यते नैव शत्रु न मित्रं तं मध्यस्थं भोजयेद्धव्यकव्य॥ न चावता प्राप्नुयाद् बीजभागम्। न चेह नामुत्र फलं ददाति॥ ब्राह्मणो हनधीयानस्तृणाग्निरिव शाम्यति। तस्मै श्राद्धं न दातव्यं न हि भस्मनि हूयते॥ सम्भोजनी नाम पिशाचदक्षिणा सा नैव देवान् न पितृनुपैति। इहैव सा भ्राम्यति हीनपुण्या शालान्तरे गौरिव नष्टवत्सा॥ यथाग्नौ शान्ते घृतमाजुहोति तन्नैव देवान् न पितृनुपैति। तथा दत्तं नर्तने गायने च यां चानृते दक्षिणामावृणोति॥ उभौ हिनस्ति न भुनक्ति चैषा या चानृते दक्षिणा दीयते वै। आघातिनी गर्हितैषा पतन्ती तेषां प्रेतान् पातयेद् देवयानात्॥ ऋषीणां समये नित्यं ये चरन्ति युधिष्ठिर। निश्चिताः सर्वधर्मज्ञास्तान् देवा ब्राह्मणान् विदुः॥४९ स्वाध्यायनिष्ठा ऋषयो ज्ञाननिष्ठास्तथैव च। तपोनिष्ठाश्च बोद्धव्याः कर्मनिष्ठाश्च भारत॥ कव्यानि ज्ञाननिष्ठेभ्यः प्रतिष्ठाप्यानि भारत। तत्र ये ब्राह्मणान् केचिन्न निन्दन्ति हि ते नराः॥ ये तु निन्दन्ति जल्पेषु न ताञ्छ्राद्धेषु भोजयेत्। ब्राह्मणा निन्दिता राजन् हन्युस्त्रैपुरुषं कुलम्॥ वैखानसानां वचनमृषीणां श्रूयते नृप। दूरादेव परीक्षेत ब्राह्मणान् वेदपारगान्॥ प्रियो वा यदि वा द्वेष्यस्तेषां तु श्राद्धमावपेत्। यः सहस्रं सहस्राणां भोजयेदनृतान् नरः। एकस्तान्मन्त्रवित् प्रीतः सर्वानर्हति भारत॥ युधिष्ठिर उवाच केन संकल्पितं श्राद्धं कस्मिन् काले किमात्मकम्। भृग्वगिरसिके काले मुनिना कतरेण वा॥ कानि श्राद्धानि वानि कानि मूलफलानि च। धान्यजात्यश्च का वास्तन्मे ब्रूहि पितामह॥ भीष्म उवाच यथा श्राद्धं सम्प्रवृत्तं यस्मिन् काले यदात्मकम्। येन संकल्पितं चैव तन्मे शृणु जनाधिप॥ स्वायम्भुवोऽत्रिः कौरव्य परमर्षिः प्रतापवान्। तस्य वंशे महाराज दत्तात्रेय इति स्मृतः॥ दत्तात्रेयस्य पुत्रोऽभून्निमि म तपोधनः। निमेश्चाप्यभवत् पुत्रः श्रीमान्नाम श्रिया वृतः॥ पूर्णे वर्षसहस्रान्ते स कृत्वा दुष्करं तपः। कालधर्मपरीतात्मा निधनं समुपागतः॥ निमिस्तु कृत्वा शौचानि विधिदृष्टेन कर्मणा। संतापमगमत् तीवं पुत्रशोकपरायणः॥ अथ कृत्वोपहार्याणि चतुर्दश्यां महामतिः। तमेव गणयशोकं विरात्रे प्रत्यबुध्यत॥ तस्यासीत् प्रतिबुद्धस्य शोकेन व्यथितात्मनः। मनः संवृत्य विषये बुद्धिर्विस्तारगामिनी॥ ततः संचिन्तयामास श्राद्धकल्पं समाहितः। यानि तस्यैव भोज्यानि मूलानि च फलानि च॥ उक्तानि यानि चान्नानि यानि चेष्टानि तस्य ह। तानि सर्वाणि मनसा विनिश्चित्य तपोधनः॥ अमावास्यां महाप्राज्ञो विप्रानानाय्या पूजितान्। दक्षिणावर्तिकाः सर्वा बृसीः स्वयमथाकरोत्॥ सप्त विप्रांस्ततो भोज्ये युगपत् समुपानयत्। ऋते च लवणं भोज्यं श्यामाकानं ददौ प्रभुः॥ दक्षिणाग्रास्ततो दर्भा विष्टरेषु निवेशिताः। पादयोश्चैव विप्राणां ये त्वन्नमुपभुञ्जत॥ कृत्वा च दक्षिणाग्रान् वै दर्भान् स प्रयतः शुचिः। प्रददौ श्रीमतः पिण्डान् नामगोत्रमुदाहरन्।॥ तत् कृत्वा स मुनिश्रेष्ठो धर्मसंकरमात्मनः। पश्चात्तापेन महता तप्यमानोऽभ्यचिन्तयत्॥ अकृतं मुनिभिः पूर्वं किं मयेदमनुष्ठितम्। कथं नु शापेन न मां दहेयुर्ब्राह्मणा इति॥ ततः संचिन्तयामास वंशकर्तारमात्मनः। ध्यातमात्रस्तथा चात्रिराजगाम तपोधनः॥ अथात्रिस्तं तथा दृष्ट्वा पुत्रशोकेन कर्षितम्। भृशमाश्वासयामास वाग्भिरिष्टाभिरव्ययः॥ निमे संकल्पिस्तेऽयं पितृयज्ञस्तपोधन। मा ते भूद् भीः पूर्वदृष्टो धर्मार्थं ब्रह्मणां स्वयम्॥ सोऽयं स्वयम्भुविहितो धर्मः संकल्पितस्त्वया। ऋते स्वयम्भुवः कोऽन्यः श्राद्धेयं विधिमाहरेत्॥ अथाख्यास्यामि ते पुत्र श्राद्धेयं विधिमुत्तमम्। स्वयम्भुविहितं पुत्र तत् कुरुष्व निबाध मे॥ कृत्वाग्नौ करणं पूर्व मन्त्रपूर्वं तपोधन। ततोऽग्नयेऽथ सोमाय वरुणाय च नित्यशः॥ विश्वेदेवाश्च ये नित्यं पितृभिः सह गोचराः। तेभ्यः संकल्पिता भागाः स्वयमेव स्वयम्भुवा॥ स्तोतव्या चेह पृथिवी निवापस्येह धारिणी। वैष्णवी काश्यपी चेति तथैवहाक्षयेति च॥ उदकानयने चैव स्तोतव्यो वरुणो विभुः। ततोऽग्निश्चैव सोमश्च आप्याय्याविह तेऽनघ॥ देवास्तु पितरो नाम निर्मिता ये स्वयम्भुवा। उष्णपा ये महाभागास्तेषां भाग: प्रकल्पितः॥ ते श्राद्धनाच॑माना वै विमुच्यन्ते ह किल्बिषात्। सप्तकः पितृवंशस्तु पूर्वदृष्टः स्वयम्भुवा॥ विश्वे चाग्निमुखा देवाः संख्याताः पूर्वमेव ते। तेषां नामानि वक्ष्यामि भागार्हाणां महात्मनाम्॥ बलं धृतिर्विपाप्मा च पुण्यकृत् पावनस्तथा। पार्णिक्षमा समूहश्च दिव्यसानुस्तथैव च।॥ विवस्वान् वीर्यवान् ह्रीमान् कीर्तिमान् कृत एव च। जितात्मा मुनिवीर्यश्च दीप्तरोमा भयंकरः॥ अनुकर्मा प्रतीतश्च प्रदाताप्यंशुमांस्तथा। शैलाभः परमक्रोधी धीरोष्णी भूपतिस्तथा॥ स्रजो वज्री वरी चैव विश्वेदेवाः सनातनाः। विद्युद्वर्चा: सोमवर्चा: सूर्यश्रीश्चेति नामतः॥ सोमप: सूर्यसावित्री दत्तात्मा पुण्डरीयकः। उष्णीनाभो नभोदश्च विश्वायुर्दीप्तिरेव च॥ चमूहरः सुरेशश्च व्योमारिः शङ्करो भवः। ईशः कर्ता कृतिर्दक्षो भुवनो दिव्यकर्मकृत्॥ गणितः पञ्चवीर्यश्च आदित्यो रश्मिवांस्तथा। सप्तकृत् सोमवाश्च विश्वकृत् कविरेव च॥ अनुगोप्ता सुगोप्ता च नप्ता चेश्वर एव च। कीर्तितास्ते महाभागाः कालस्य गतिगोचराः॥ अश्राद्धेयानि धान्यानि कोद्रवाः पुलकास्तथा। हिंगुद्रव्येषु शाकेषु पलाण्डु लसुनं तथा॥ सौभाञ्जनः कोविदारस्तथा गृञ्जनकादयः। कूष्माण्डजात्यलाबुं च कृष्णं लवणमेव च।॥ ग्राम्यवाराहमांसं च यच्चैवाप्रोक्षितं भवेत्। कृष्णाजाजी विडश्चैव शीतपाकी तथैव च। अङ्कुराधास्तथा वा इह शृङ्गाटकानि च॥ वर्जयेल्लवणं सर्वं तथा जम्बूफलानि च। अवक्षुतावरुदितं तथा श्राद्धे च वर्जयेत्॥ निवापे हव्यकव्ये वा गर्हितं च सुदर्शनम्। पितरश्च हि देवाश्च नाभिनन्दन्ति तद्धविः॥ चाण्डालश्यचौ वज्यौ निवापे समुपस्थिते। काषायवासाः कुष्ठी वा पतितो ब्रह्महापि वा॥ संकीर्णयोनिर्विप्रश्च सम्बन्धी पतितश्च यः। वर्जनीया बुधैरेते निवापे समुपस्थिते॥ इत्येवमुक्त्वा भगवान् स्ववंश्यं तमृर्षि पुरा। पितामहसभां दिव्यां जगामात्रिस्तपोधनः॥ भीष्म उवाच तथा निमौ प्रवृत्ते तु सर्व पितृयज्ञं तु कुर्वन्ति विधिदृष्टेन कर्मणा॥ एव महर्षयः। ऋषयो धर्मनित्यास्तु कृत्वा निवपनान्युत। तर्पणं चाप्यकुर्वन्त तीर्थाम्भोभिर्यतव्रताः॥ निवापैर्दीयमानैश्च चातुर्वर्ण्यन भारत। तर्पिताः पितरो देवास्तवान्नं जरयन्ति वै॥ अजीर्णैस्त्वभिहन्यन्ते ते देवा: पितृभिः सह। सोममेवाभ्यपद्यन्त तदा ह्यन्नाभिपीडिताः॥ तेऽब्रुवन् सोममासाद्य पितरोऽजीर्णपीडिताः। नेवापान्नेन पीड्यामः श्रेयो नोऽत्र विधीयताम्॥ तान् सोमः प्रत्युवाचाथ श्रेयश्चेदीप्सितं सुराः। स्वयम्भूसदनं यात स वः श्रेयोऽभिधास्यति॥ ते सोमवचनाद् देवाः पितृभिः सह भारत। मेरुशृङ्गे समासीनं पितामहमुपागमन्॥ देवा ऊचुः निवापान्नेन भगवन् भृशं पीड्यामहे वयम्। प्रसादं कुरु नो देव श्रेयो नः संविधीयताम्॥ इति तेषां वचः श्रुत्वा स्वयम्भूरिदमब्रवीत्। एष मे पार्श्वतो वह्निर्युष्पच्छ्रेयोऽभिधास्यति॥ अग्नि उवाच सहितास्तात भोक्ष्यामो निवापे समुपस्थिते। जरायिव्यथ चाप्यन्नं मया सार्धं न संशयः॥ एतच्छ्रुत्वा तु पितरस्ततस्ते विज्वराऽभवन्। एतस्मात् कारणाच्चान्गेः प्राक् तावद् दीयते नृप।।११ निवप्ते चाग्निपूर्वं वै निवापे पुरुषर्षभ। न ब्रह्मराक्षसास्तं वै निवापं धर्षयन्त्युत॥ रक्षांसि चापवर्तन्ते स्थिते देवे हुताशने। पूर्वं पिण्डं पितुर्दद्यात् ततो दद्यात् पितामहे॥ प्रपितामहाय च तत एष श्राद्धविधिः स्मृतः। ब्रूयाच्छ्राद्धे च सावित्री पिण्डे पिण्डे समाहितः॥ सोमायेति च वक्तव्यं तथा पितृमतेति च। रजस्वला च या नारी व्यगिता कर्णयोश्च या। निवापे नोपतिष्ठेत संग्राह्या नान्यवंशजा॥ जलं प्रतरमाणश्च कीर्तयेत पितामहान्। नदीमासाद्य कुर्वीत पितॄणां पिण्डतर्पणम्॥ पूर्वं स्ववंशजानां तु कृत्वाद्भिस्तर्पणं पुनः। सुहृत्सम्बन्धिवर्गाणां ततो दद्याज्जलाञ्जलिम्॥ कल्माषगोयुगेनाथ युक्तेन तरतो जलम्। पितरोऽभिलषन्ते वै नावं चाप्यधिरोहिताः॥ सदा नावि जलं तज्ज्ञाः प्रयच्छन्ति समाहिताः। मासार्धं कृष्णपक्षस्य कुर्यान्निर्वपणानि वै॥ पुष्टिरायुस्तथा वीर्यं श्रीश्चैव पितृभक्तितः। पितामहः पुलस्त्यश्च वसिष्ठः पुलहस्तथा॥ अङ्गिराश्च क्रतुश्चैव कश्यपश्च महानृषिः। एते कुरुकुलश्रेष्ठ महायोगेश्वराः स्मृताः॥ एते च पितरो राजन्नेष श्राद्धविधिः परः। प्रेतास्तु पिण्डसम्बन्धान्मुच्यन्ते तेन कर्मणा॥ इत्येषा पुरुषश्रेष्ठ श्राद्धोत्पत्तिर्यथागमम्। व्याख्याता पूर्वनिर्दिष्टा दानं वक्ष्याम्यतः परम्॥ युधिष्ठिर उवाच द्विजातयो व्रतोपेता हविस्ते यदि भुजते। अन्नं ब्राह्मणकामाय कथमेतत् पितामह॥ भीष्म उवाच अवदोक्तव्रताश्चैव भुजानाः कामकारणे। वेदोक्तेषु तु भुजाना व्रतलुप्ता युधिष्ठिर॥ युधिष्ठिर उवाच यदिदं तप इत्याहुरुपवासं पृथग्जनाः। तपः स्यादेतदेवेह तपोऽन्यद् वापि किं भवेत्॥ भीष्म उवाच मासार्धमासोपवासाद् यत् तपो मन्यते जनः। आत्मतन्त्रोपघाती यो न तपस्वी न धर्मवित्॥ त्यागस्य चापि सम्पत्तिः शिष्यते तप उत्तमम्। सदोपवासी च भवेद् ब्रह्मचारी तथैव च।॥ मुनिश्च स्यात् सदा विप्रो वेदांश्चैव सदा जपेत्। कुटुम्बिको धर्मकामः सदास्वप्नश्च मानवः॥ अमांशशी सदा च स्यात् पवित्रं च सदा पठेत् ऋतवादी सदा च स्यान्नियतश्च सदा भवेत्॥ विघसाशी कथं च स्यात् सदा चैवातिथिप्रियः। अमृताशी सदा च स्यात् पवित्री च सदा भवेत्॥ युधिष्ठिर उवाच कथं सदोपवासी स्याद् ब्रह्मचारी च पार्थिव। विघसाशी कथं न स्यात् कथं चैवातिथिप्रियः॥ भीष्म उवाच अन्तरा सायमाशं च प्रातराशं च यो नरः। सदोपवासी भवति यो न भुङ्क्तेऽन्तरा पुनः॥ भार्यां गच्छन् ब्रह्मचारी ऋतौ भवति चैव ह। ऋतवादी सदा च स्याद् दानशीलस्तु मानवः॥ अभक्षयन् वृथा मांसममांसाशी भवत्युत। दानं ददत् पवित्री स्यादस्वप्नश्च दिवास्वपन्॥ भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु नरः सदा। अमृतं केवलं भुङ्क्ते इति विद्धि युधिष्ठिर॥ अभुक्तवत्सु नाश्नाति ब्राह्मणेषु तु यो नरः। अभोजनेन तेनास्य जितः स्वर्गो भवत्युत॥ देवेभ्यश्च पितृभ्यश्च संथितेभ्यस्तथैव च। अवशिष्टानि यो भुङ्क्ते तमाहुर्विघसाशिनम्॥ तेषां लोका हापर्यन्ताः सदने ब्रह्मणः स्मृताः। उपस्थिता ह्यप्सरसो गन्धर्वेश्च जनाधिप॥ देवतातिथिभिः सार्धं पितृभ्यश्चोपभुञ्जते। रमन्ते पुत्रपौत्रेण तेषां गतिरनुत्तमा॥ युधिष्ठिर उवाच ब्राह्मणेभ्यः प्रयच्छन्ति दानानि विविधानि च। दातृप्रतिग्रहीत्रोर्वै को विशेषः पितामह॥ भीष्म उवाच साधोर्यः प्रतिगृह्णीयात् तथैवासाधुतो द्विजः। गुणवत्यल्पदोष: स्यान्निर्गुणे तु निमज्जति॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। वृषादर्भश्च संवादं सप्तर्षीणां च भारत॥ कश्यपोऽत्रिर्वसिष्ठश्च भरद्वाजोऽथ गौतमः। विश्वामित्रो जगदग्निः साध्वी चैवाप्यरुन्धती॥ सर्वेषामथ तेषां तु गण्डाभूत् कर्मकारिका। शूद्रः पशुसखश्चैव भर्ता चास्या बभूव ह॥ ते च सर्वे तपस्यन्तः पुरा चेहर्महीमिमाम्। समाधिनोपशिक्षन्तो ब्रह्मलोकं सनातनम्॥ अथाभवदनावृष्टिर्महती कुरुनन्दन। कृच्छ्रप्राणोऽभवद् यत्र लोकोऽयं वै क्षुधान्वितः॥ कस्मिंश्चिच्च पुरा शैब्येन शिबिसूनुना। दक्षिणार्थेऽथ ऋत्विग्भ्यो दत्तः पुत्रः पुरा किल॥ अस्मिन् कालेऽथ सोऽल्पायुर्दिष्टान्तमगमत् प्रभुः। ते तं क्षुधाभिसंतप्ताः परिवार्योपतस्थिरे॥ प्रतिग्रहस्तारयति पुष्टिवै प्रतिगृह्यताम्। मयि यद् विद्यते वित्तं तद् वृणुध्वं तपोधनाः॥ प्रियो हि मे ब्राह्मणो याचमानो दद्यामहं वोऽश्वतरीसहस्रम्। एकैकशः सवृषाः सम्प्रसूताः सर्वेषां वै शीघ्रगाः श्वेतरोमाः॥ कुलंभराननडुहः शतं शतान् धुर्यान्श्वेतान् सर्वशोऽहं ददामि। दग्र्या गृष्टयो धेनवः सुव्रताश्च॥ वृषदर्भ पुत्र उवाच वरान् ग्रामान् ब्रीहिरसं यवांश्च रत्नं चान्यद् दुर्लभं किं ददानि। नास्मिन्नभक्ष्ये भावमेवं कुरुध्वं पुष्ट्यर्थं वः किं प्रयच्छाम्यहं वै॥ ऋषय ऊचुः राजन् प्रतिग्रहो राज्ञां मध्वास्वादो विषोपमः। तज्जानमानः कस्मात् त्वं कुरुषे नः प्रलोभनम्॥ क्षेत्रं हि दैवतमिदं ब्राह्मणान् समुपाश्रितम्। अमलो ह्येष तपसा प्रीतः प्रीणाति देवताः॥ अह्रापहि तपो जातु ब्राह्मणस्योपजायते। तद् दाव इव निर्दह्यात् प्राप्तो राजप्रतिग्रहः॥ कुशलं सह दानेन राजन्नस्तु सदा तवा अर्थिभ्यो दीयतां सर्वमित्युक्त्वान्येन ते ययुः॥ ततः प्रचोदिता राज्ञा वनं गत्वास्य मन्त्रिणः। प्रचीयोदुम्बराणि स्म दातुं तेषां प्रचक्रिरे॥ उदुम्बराण्यथान्यानि हेमगर्भाण्युपाहरन्। भृत्यास्तेषां ततस्तानि प्रग्रहितमुपाद्रवन्॥ गुरूणीति विदित्वाथ न ग्राह्याण्यत्रिरब्रवीत्। न स्महे मन्दविज्ञाना न स्महे मन्दबुद्धयः॥ हैमानीमानि जानीमः प्रतिबुद्धाः स्म जागृम। इह ह्येतदुपादत्तं प्रेत्य स्यात् कटुकोदयम्। अप्रतिग्राह्यमेवैतत् प्रेत्येह च सुखेप्सुना।॥ वसिष्ठ उवाच शतेन निष्कगणितं सहस्रेण च सम्मितम्। तथा बहु प्रतीच्छन् वै पापिष्ठां पतते गतिम्॥ कश्यप उवाच यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः। सर्वं तन्नालमेकस्य तस्माद् विद्वाञ्छमं चरेत्॥ भरद्वाज उवाच उत्पन्नस्य रुरोः शृङ्गं वर्धमानस्य वर्धते। प्रार्थना पुरुषस्येव तस्य मात्रा न विद्यते॥ गौतम उवाच न तल्लोके द्रव्यमस्ति यल्लोकं प्रतिपूरयेत्। समुद्रकल्पः पुरुषो न कदाचन पूर्यते॥ विश्वामित्र उवाच कामं कामयमानस्य यदा कामः समृध्यते। अथैनमपरः कामस्तृष्णाविध्यति बाणवत्॥ जमदग्निरुवाच प्रतिग्रहे संयमो वै तपो धारयते ध्रुवम्। तद् धनं ब्राह्मणस्येह लुभ्यमानस्य विस्रवेत्॥ अरुन्धत्युवाच धर्मार्थं संचयो यो वै द्रव्याणां पक्षसम्मतः। तप:संचय एवेह विशिष्टो द्रव्यसंचयात्॥ गण्डोवाच उग्रदितो भयाद् यस्माद् बिभ्यतीमे ममेश्वराः। बलीयांसो दुर्बलवद् विभेम्यहमतः परम्॥ पशुसख उवाच यद् वै धर्मे परं नास्ति ब्राह्मणास्तद्धनं विदुः। विनयार्थं सुविद्वांसमुपासेयं यथातथम्॥ ऋषिरुवाच कुशलं सह दानेन तस्मै यस्य प्रजा इमाः। फलान्युपधियुक्तानि य एवं नः प्रयच्छति॥ भीष्म उवाच इत्युक्त्वा हेमगर्भाणि हित्वा तानि फलानि वै। ऋषयो जग्मुरन्यत्र सर्व एत धृतव्रताः॥ मन्त्री उवाच उपधिं शङ्कमानास्ते हित्वा तानि फलानि वै। ततोऽन्येनव गच्छन्ति विदितं तेऽस्तु पार्थिव॥ भीष्म उवाच इत्युक्तः स तु भृत्यैस्तैर्वृषादर्भिश्चुकोप ह। तेषां वै प्रतिकर्तुं च सर्वेषामगमद् गृहम्॥ स गत्वा हवनीयेऽग्नौ तीव्र नियममास्थितः। जुहाव संस्कृतैर्मन्त्रैरेकैकामाहुतिं नृपः॥ तस्मादग्नेः समुत्तस्थौ कृत्या लोकभयंकरी। तस्या नाम वृषादर्भिर्यातुधानीत्यथाकरोत्॥ सा कृत्या कालरात्रीव कृताञ्जलिरुपस्थिता। वृषादी नरपतिं किं करोमाति चाब्रवीत्॥ वृषदर्भी उवाच ऋषीणां गच्छ सप्तनामरुन्धत्यास्तथैव च। दासीभर्तुश्च दास्याश्च मनसा नाम धारय॥ ज्ञात्वा नामानि चैवैषां सर्वानेतान् विनाशय। विनष्टेषु तथा स्वैरं गच्छ यत्रेप्सितं तव॥ भीष्म उवाच सा तथेति प्रतिश्रुत्य यातुधानी स्वरूपिणी। जगाम तद् वनं यत्र विचेरुस्ते महर्षयः॥ अथात्रिप्रमुखा राजन् वने तस्मिन् महर्षयः। व्यचरन् भक्षयन्तो वै मूलानि च फलानि च॥ अथापश्यन् सुपीनांसपाणिपादमुखोदरम्। परिव्रजन्तं स्थूलाङ्गं परिव्राजं शुना सह॥ अरुन्धती तु तं दृष्ट्वा सर्वाङ्गोपचितं शुभम्। भवितारो भवन्तो वै नैवमित्यब्रवीदृषीन्॥ वसिष्ठ उवाच नैतस्येह यथास्माकमग्निहोत्रमनिर्हतम्। सायं प्रातश्च होतव्यं तेन पीवाञ्छुना सह॥ अत्रिरुवाच नैतस्येह यथास्माकं क्षुधा वीर्यं समाहतम्। कृच्छ्राधीतं प्रनष्टं च तेन पीवाञ्छना सह॥ विश्वामित्र उवाच नैतस्येह यथास्माकं शश्वच्छास्त्रं जरद्गवः। अलसः क्षुत्परो मूर्खस्तेन पीवाञ्छना सह॥ जमदग्निरुवाच नैतस्येह यथास्माकं भक्तमिन्धनमेव च। संचिन्त्यं वार्षिकं चित्ते तेन पीवाञ्छुना सह॥ कश्यप उवाच नैतस्येह यथास्माकं चत्वारश्च सहोदराः। देहि देहीति भिक्षन्ति तेन पीवाञ्छना सह।॥ भरद्वाज उवाच नैतस्येह यथास्माकं ब्रह्मबन्धोरचेतसः। शोको भार्यापवादेन तेन पावाञ्छना सह॥ गौतम उवाच नैतस्येह यथास्माकं त्रिकौशेयं च राङ्कवम्। एकैकं वै त्रिवर्षीयं तेन पीवाञ्छना सह॥ भीष्म उवाच अथ दृष्ट्वा परिव्राट् स तान् महर्षीन् शुना सह। अभिगम्य यथान्यायं पाणिस्पर्शमथाचरत्॥ परिचर्यां वने तां तु क्षुत्प्रतीघातकारिकाम्। अन्योन्येन निवेद्याथ प्रातिष्ठन्त सहैव ते॥ एकनिश्चयकार्याश्च व्यचरन्त वनानि ते। आददानाः समुद्धृत्य मूलानि च फलानि च॥ कदाचिद् विचरन्तस्ते वृक्षरविरलैर्वृताम्। शुचिवारिप्रसन्नोदां ददृशुः पद्मिनी शुभाम्॥ बालादित्यवपुःप्रख्यैः पुष्करैरुशोभिताम्। वैदूर्यवर्णसदृशैः पद्मपत्रैरथावृताम्॥ नानाविधैश्च विहगैर्जलप्रकरसेविभिः। एकद्वारामनादेयां सूपतीर्थामकर्दमाम्॥ वृषादर्भिप्रयुक्ता तु कृत्या विकृतदर्शना। यातुधानीति विख्याता पद्मिनी तामरक्षत॥ पशुसखसहायास्तु बिसार्थं ते महर्षयः। पद्मिनीमभिजग्मुस्ते सर्वं कृत्याभिरक्षिताम्॥ ततस्ते यातुधानी तां दृष्ट्वा विकृतदर्शनाम्। स्थितां कमलिनीतीरे कृत्यामूचुर्महर्षयः॥ एका तिष्ठसि का च त्वं कस्यार्थे किं प्रयोजनम्। पद्मिनीतीरमाश्रित्य ब्रूहि त्वं किं चिकीर्षसि॥ यातुधान्युवाच यास्मि सास्म्यनुयोगो मे न कर्तव्यः कथंचन। आरक्षिणीं मां पद्मिन्या वित्त सर्वे तपोधनाः॥ ऋषय ऊचुः सर्व एव क्षुधार्ताः स्म न चान्यत् किंचिदस्ति नः। भवत्याः सम्मते सर्वे गृह्णीयाम बिसान्युत॥ यातुधान्युवाच समयेन बिसानीतो गृह्णीध्वं कामकारतः। एकैको नाम मे प्रोक्त्वा ततो गृह्णीत माचिरम्॥ भीष्म उवाच विज्ञाय यातुधानीं तां कृत्यामृषिवधैषिणीम्। अत्रिः क्षुधापरीतात्मा ततो वचनमब्रवीत्॥ अत्रिरुवाच अरात्रिरत्रिः सा रात्रिर्यां नाधीते त्रिरद्य वै। अरात्रिरत्रिरित्येव नाम ते विद्धि शोभने॥ यातुधान्युवाच यथोदाहृतमेतत्ते मयि नाम महाद्युते। दुर्धार्यमेतत् मनसा गच्छावतर पद्मिनीम्॥ वसिष्ठ उवाच वसिष्ठोऽस्म वरिष्ठोऽस्मि वसे वासगृहेष्वपि। वसिष्ठत्वाच्च वासाच्च वसिष्ठ इति विद्धि माम्।।८४। यातुधान्युवाच नामनैरुक्तमेतत् ते दुःखव्याभाषिताक्षरम्। नैतद् धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ कश्यप उवाच कुलं कुलं च कुवमः कुवमः कश्यपो द्विजः। काश्यः काशनिकाशत्वादेतन्मे नाम धारया।८६॥ यातुधान्युवाच यथोदाहृतमेतत् ते मयि नाम महायुते। दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम्॥ वसिष्ठ उवाच भरेऽसुतान् भरेऽशिष्यान् भरे देवान् भरे द्विजान्। भरे भार्यों भरे द्वाजं भरद्वाजोऽस्मि शोभने॥ यातुधान्युवाच नामनैरुक्तमेतत् ते दुःखव्याभाषिताक्षरम्। नैतद् धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ गौतम उवाच गोदमो दमतोऽधूमोऽदमस्ते समदर्शनात्। विद्धि मां गौतमं कृत्ये यातुधानि निबोध माम्॥ यातुधान्युवाच यथोदाहृतमेतत् ते मयि नाम महामुने। नैतद् धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ विश्वामित्र उवाच विश्वे देवाश्च मे मित्रं मित्रमस्मि गवां तथा। विश्वामित्रमिति ख्यातं यातुधानि निबोध माम्॥ यातुधान्युवाच नामनैरुक्तमेतत् ते दुःखव्याभाषिताक्षरम्। नैतद् धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ जमदग्निरुवाच जाजमद्यजजानेऽहं जिजाहीह जिजायिषि। जमदग्निरिति ख्यातस्ततो मां विद्धि शोभने॥ यातुधान्युवाच यथोदाहृतमेतत् ते मयि नाम महामुने। नैतद् धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ अरुन्धत्युवाच धरान् धरित्री वसुधां भर्तुस्तिष्ठाम्यनन्तरम्। मनोऽनुरुन्धती भुर्तुरिति मां विद्ध्यरुन्धतीम्॥ यातुधान्युवाच नामनैरुक्तमेतत् ते दुःखव्याभाषिताक्षरम्। नैतद् धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ गण्डोवाच वक्त्रैकदेशे गण्डेति धातुमेतं प्रचक्षते। तेनोन्नतेन गण्डेति विद्धि मानलसम्भवे॥ यातुधान्युवाच नामनैरुक्तमेतत् ते दुःखव्याभाषिताक्षरम्। नैतद् धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ पशुसख उवाच पशून् रजामि दृष्ट्वाहं पशूनां च सदा सखा। गौणं पशुसखेत्येवं विद्धि मामग्निसम्भवे॥ यातुधान्युवाच नामनैरुक्तमेतत् ते दुःखव्याभाषिताक्षरम्। नैतद् धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ शुन:सख उवाच एभिरुक्तं यथा नाम नाहं वक्तुमिहोत्सहे। शुन:सखसखायं मां यातुधान्युपधारय॥ यातुधान्युवाच नामनैरुक्तमेतत् ते वाक्यं संदिग्धया गिरा। तस्मात् पुनरिदानीं त्वं ब्रूहि यन्नाम ते द्विज॥ शुनःसख उवाच सकृदुक्तं मया नाम न गृहीतं त्वया यदि। तस्मात् त्रिदण्डाभिहता गच्छ भस्मेति मा चिरम्।।१०४ यातुधान्युवाच सा ब्रह्मदण्डकल्पेन तेन मूर्ध्नि हता तदा। कृत्या पपात मेदिन्यां भस्म सा च जगाह ह॥ शुनः सखा च हत्वा तां यातुधानी महाबलाम्। भुवि त्रिदण्डं विष्टभ्य शाद्वले समुपाविशत्॥ यातुधान्युवाच ततस्ते मुनयः सर्वे पुष्कराणि बिसानि च। यथाकाममुपादाय समुत्तस्थुर्मुदान्विताः॥ श्रमेण महता कृत्वा ते बिसानि कलापशः। तीरे निक्षिप्य पद्मिन्यास्तर्पणं चक्रुरम्भसा॥ भीष्म उवाच अथोत्थाय जलात् तस्मात् सर्वं ते समुपागमन्। नापश्यंश्चापि ते तानि बिसानि पुरुषर्षभाः॥ ऋषय ऊचुः केन क्षुधापरीतानामस्माकं पापकर्मणाम्। नृशंसेनापनीतानि बिसान्याहारकाक्षिणाम्॥ शङ्कमानास्त्वन्योन्यं पप्रच्छुर्द्विजसत्तमाः। त ऊचुः समयं सर्वे कुर्म इत्यरिकर्षन॥ ते त उक्त्वा बाढमित्येवं सर्व एव तदा समम्। क्षुधार्ताः सुपरिश्रान्ताः शपथायोपचक्रमुः॥ स गां स्पृशतु पादेन सूर्यं च प्रतिमेहतु। अनध्यायेष्वधीयीत बिसस्तैन्यं करोति यः॥ वसिष्ठ उवाच अनध्याये पठल्लोके शुनः स परिकर्षतु। परिव्राट कामवृत्तस्तु बिसस्तैन्यं करोति यः॥ शरणागतं हन्तु स वै स्वसुतां चोपजीवतु। अर्थान् काङ्क्षतु कीनाशाद् बिसस्तैन्यं करोति यः॥ कश्यप उवाच सर्वत्र सर्वं लपतु न्यासलोपं करोतु च। कूटसाक्षित्वमभ्येतु बिसस्तैन्यं करोति यः॥ वृथामांसाशनश्चास्तु वृथादानं करोतु च। यातु स्त्रियं दिवा चैव बिसस्तैन्यं करोति यः॥ भरद्वाज उवाच नृशंसस्त्यक्तधर्मास्तु स्त्रीषु ज्ञातिषु गोषु च। ब्राह्मणं चापि जयतां बिसस्तैन्यं करोति यः॥ उपाध्यायमधः कृत्वा ऋचोऽध्येतु यजूंषि च। जुहोतु च स कक्षाग्नौ बिसस्तैन्यं करोति यः॥ जमदग्निरुवाच पुरीषमुत्सृजत्वप्सु हन्तु गां चैव दुह्यतु। अनृतौ मैथुनं यातु बिसस्तैन्यं करोति यः॥ द्वेष्यो भार्योपजीवी स्याद् दूरबन्धुश्च वैरवान्। अन्योन्यस्यातिथिश्चास्तु बिसस्तैन्यं करोति यः॥ गौतम उवाच अधीत्य वेदांस्त्यजतु त्रीनग्नीनपविध्यतु। विक्रीणातु तथा सोमं बिसस्तैन्यं करोति यः॥ उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः। तस्य सालोक्यतां वातु बिसस्तैन्यं करोति यः।।१२३ विश्वामित्र उवाच जीवतो वै गुरून् भृत्यान् भरन्त्वस्य परे जनाः। अगतिर्बहुपुत्रः स्याद् बिसस्तैन्यं करोति यः॥ अशुचिर्ब्रह्मकूटोऽस्तु ऋद्ध्या चैवाप्यहंकृतः। कर्षको मत्सरी चास्तु बिसस्तैन्यं करोति यः॥ वर्षाचरोऽस्तु भृतको राज्ञश्चास्तु पुरोहितः। अयाज्यस्य भवेदृत्विग् बिसस्तैन्यं करोति यः॥ अरुन्धत्युवाच नित्यं परिभवेच्छ्वधूं भर्तुर्भवतु दुर्मनाः। एका स्वादु समाश्नातु बिसस्तैन्यं करोति या॥ ज्ञातीनां गृहमध्यस्था सक्तूनत्तु दिनक्षये। अभोग्या वीरसूरस्तु बिसस्तैन्यं करोति या॥ गण्डोवाच अनृतं भाषतु सदा बन्धुभिश्च विरुध्यतु। ददातु कन्यां शुल्केन बिसस्तैन्यं करोति यः॥ साधयित्वा स्वयं प्राशेद् दास्ये जीर्यतु चैव ह। विकर्मणा प्रमीयेत बिसस्तैन्यं करोति यः॥ पशुसख उवाच दास एव प्रजायेतामप्रसूतिरकिंचनः। दैवतेष्वनमस्कारो बिसस्तैन्यं करोति यः॥ शुनःसुख उवाच अध्वर्यवे दुहितरं वा ददातु च्छन्दोगे वा चरितब्रह्मचर्ये। आथर्वणं वेदमधीत्य विप्रः स्नायीत वा यो हरते बिसानि॥ ऋषय ऊचुः इष्टमेतद् द्विजातीनां योऽयं ते शपथः कृतः। त्वया कृतं बिसस्तैन्यं सर्वेषां नः शुनः सख॥ शुनःसख उवाच न्यस्तमद्यं न पश्यद्भिर्यदुक्तं कृतकर्मभिः। सत्यमेतन्न मिथ्यैतद् बिसस्तैन्यं कृतं मया॥ मया ह्यन्तर्हितानीह बिसानीमानि पश्यत। परीक्षार्थं भगवतां कृतमेवं मयानघाः॥ रक्षणार्थं च सर्वेषां भवतामहमागतः। यातुधानी ह्यतिक्रूरा कृत्यैषा वो वधैषिणी॥ वृषादर्भिप्रयुक्तैषा निहता मे तपोधनाः। दुष्टा हिंस्यादियं पापा युष्मान् प्रत्यग्निसम्भवा)।१३७ तस्मादरम्यागतो विप्रा वासवं मां निबोधते। अलोभादक्षया लोकाः प्राप्ता वै सार्वकामिकाः।।१३८ उत्तिष्ठध्वमितः क्षिप्रं तानवाप्नुत वै द्विजाः॥ ततो महर्षयः प्रीतास्तथेत्युक्त्वा पुरंदरम्। सहैय त्रिदशेन्द्रेण सर्वे जग्मुस्त्रिविष्टपम्॥ एवमेते महात्मानो भोगैर्बहुविधैरपि। क्षुधा परमया युक्ताश्छन्द्यमाना महात्मभिः॥ नैव लोभं तदा चक्रस्ततः स्वर्गमवाप्नुवन्॥ भीष्म उवाच तस्मात् सर्वास्ववस्थासु नरो लोभं विवर्जयेत्। एष धर्मः परो राजस्तस्पाल्लोभं विवर्जयेत्॥ इदं नरः सुचरितं समवायेषु कीर्तयन्। अर्थभागी च भवति न च दुर्गाण्यवाप्नुते॥ प्रीयन्ते पितरश्चास्य ऋषयो देवतास्तथा। यशोधर्मार्थभागी च भवति प्रेत्य मानवः॥ युधिष्ठिर उवाच यदिदं श्राद्धकृत्येषु दीयते भरतर्षभ। छत्रं चोपानही चैव केनैतत् सम्प्रवर्तितम्॥ कथं चैतत् समुत्पन्नं किमर्थं चैव दीयते। न केवलं श्राद्धकृत्ये पुण्यकेष्वपि दीयते॥ बहुष्वपि निमित्तेषु पुण्यमाश्रित्य दीयते। एतद् विस्तरशो ब्रह्मन् श्रोतुमिच्छामि तत्त्वतः॥ भीष्म उवाच शृणु राजन्नवहितश्छत्रोपानहविस्तरम्। यथैतत् प्रथितं लोके यथा चैतत् प्रवर्तितम्॥ यथा चाक्षय्यतां प्राप्तं पुण्यतां च यथा गतम्। सर्वमेतदशेषेण प्रवक्ष्यामि नराधिप॥ जमदग्नेश्च संवादं सूर्यस्य च महात्मनः। पुरा स भगवान् साक्षाद्धनुषाक्रीडयत् प्रभो॥ संधाय संधाय शरांश्चिक्षेप किल भार्गवः। तान् क्षिप्तान् रेणुका सर्वांस्तस्येषून्दीप्ततेजसः॥ आनीय सा तदा तस्मै प्रादादसकृदच्युत। अथ तेन स शब्देन ज्यायाश्चैव शरस्य च॥ प्रहृष्टः सम्प्रचिक्षेप सा च प्रत्याजहार तान्। ततो मध्याह्नमारूढे ज्येष्ठामूले दिवाकरे॥ स सायकान् द्विजो मुक्त्वा रेणुकामिदमब्रवीत्। गच्छानय विशालाक्षि शरानेतान् धनुश्च्युतान्॥ यावदेतान् पुनः सुभ्र क्षिपामीति जनाधिए। सा गच्छन्त्यन्तरा छायां वृक्षमाश्रित्य भामिनी॥ तस्थौ तस्या हि सन्तप्तं शिरः पादौ तथैव च। स्थिता सा तु मुहूर्तं वै भर्तुः शापभयाच्छुभा॥ ययावानयितुं भूयः सायकानसितेक्षणा। प्रत्याजगाम च शरांस्तानादाय यशस्विनी॥ सा वै खिन्ना सुचार्वङ्गी पद्भ्यां दुःखं नियच्छती। उपाजगाम भर्तारं भयाद् भर्तुः प्रवेपती॥ सतामृषिस्तदा क्रुद्वो वाक्यमाह शुभाननाम्। रेणुके किं चिरेण त्वमागतेति पुनः पुनः॥ रेणुकोवाच शिरस्तावत् प्रदीप्तं मे पादौ चैव तपोधन। सूर्यतेजोनिरुद्धाऽहं वृक्षच्छायां समाश्रिता॥ एतस्मात् कारणाद् ब्रह्मश्चिरायैतत् कृतं मया। एतच्छ्रुत्वा मम विभो मा क्रुधस्त्वं तपोधन॥ जमदग्निरुवाच अद्यैनं दीप्तकिरणं रेणुके तव दुःखदम्। शरैर्निपातयिष्यामि सूर्यमस्त्राग्नितेजसा॥ भीष्म उवाच स विस्फार्य धनुर्दिव्यं गृहीत्वा च शरान् बहून्। अतिष्ठत् सूर्यमभितो यतो याति ततो मुखः॥ अथ तं प्रेक्ष्य सन्नद्धं सूर्योऽभ्येत्य तथाब्रवीत्। द्विजरूपेण कौन्तेय किं ते सूर्योऽपराध्यते॥ आदत्ते रश्मिभिः सूर्यो दिवि तिष्ठंस्ततस्ततः। रसं हृतं वै वर्षासु प्रवर्षति दिवाकरः॥ ततोऽन्नं जायते विप्र मनुष्याणां सुखावहम्। अन्नं प्राणा इति यथा वेदेषु परिपठ्यते॥ अथाभ्रेषु निगूढच रश्मिभिः परिवारितः। सप्तद्वीपानिमान् ब्रह्मन् वर्षेणाभिप्रवर्षति॥ ततस्तदौषधीनां च वीस्थां पुष्पपत्रजम्। सर्वं वर्षाभिनिवृत्तमनं सम्भवति प्रभो॥ जातकर्माणि सर्वाणि व्रतोपनयनानि च। गोदानानि विवाहाश्च तथा यज्ञसमृद्धयः॥ शास्त्राणि दानानि तथा संयोगा वित्तसंचयाः। अन्नतः सम्प्रवर्तन्ते तथा त्वं वेत्थ भार्गव॥ रमणीयानि यावन्ति यावदारम्भिकाणि च। सर्वमन्नात् प्रभवति विदितं कीर्तयामि ते॥ सर्वं हि वेत्थ विप्र त्वं यदेतत् कीर्तितं मया। प्रसादये त्वां विप्रर्षे किं ते सूर्य निपात्य वै॥ युधिष्ठिर उवाच एवं प्रयाचति तदा भास्करे मुनिसत्तमः। जगदग्निर्महातेजाः किं कार्यं प्रत्यपद्यत॥ भीष्म उवाच स तथा याचमानस्य मुनिरग्निसमप्रभः। जमदग्निः शमं नैव जगाम कुरुनन्दन॥ ततः सूर्यो मधुरया वाचा तमिदमब्रवीत्। कृताञ्जलिर्विप्ररूपी प्रणम्यैनं विशाम्पते।॥ चलं निमित्तं विप्रर्षे सदा सूर्यस्य गच्छतः। कथं चलं भेत्स्यसि त्वं सदा यान्तं दिवाकरम्॥ जमदग्निरुवाच स्थिरं चापि चलं चापि जाने त्वां ज्ञानचक्षुषा। अवश्यं विनयाधानं कार्यमद्य मया तव॥ मध्याह्ने वै निमेषार्धं तिष्ठसि त्वं दिवाकर। तत्र भेत्स्यामि सूर्य त्वां न मेऽत्रास्ति विचारणा॥ सूर्य उवाच असंशयं मां विप्रर्षे भेत्स्यसे धन्विनां वर। अपकारिणं मां विद्धि भगवञ्छरणागतम्॥ भीष्म उवाच ततः प्रहस्य भगवान् जगदग्निरुवाच तम्। न भीः सूर्य त्वया कार्या प्रणिपातगतो ह्यसि॥ ब्राह्मणेष्वार्जवं यच्च स्थैर्यं च धरणीतले। सौम्यतां चैव सोमस्य गाम्भीर्यं वरुणस्य च॥ दीप्तिमग्नेः प्रभां मेरोः प्रतापं तपनस्य च। एतान्यतिक्रमेद् यो वै स हन्याच्छरणागतम्॥ भवेत् स गुरुतल्पी च ब्रह्महा च स वै भवेत्। सुरापानं स कुर्याच्च यो हन्याच्छरणागतम्॥ एतस्य त्वपनीतस्य समाधि तात चिन्तय। यथा सुखगमः पन्था भवेत् त्वद्रश्मिभावितः॥ भीष्म उवाच एतावदुक्त्वा स तदा तूष्णीमासीद् भृगूत्तमः। अथ सूर्योऽददत् तस्मै छत्रोपानहमाशु वै॥ सूर्य उवाच महर्षे शिरसस्त्राणं छत्रं मद्रश्मिवारणम्। प्रतिगृह्णष्व पद्भ्यां च त्राणार्थं चर्मपादुके॥ अद्यप्रभृति चैवेह लोके सम्प्रचरिष्यति। पुण्यकेषु च सर्वेषु परमक्षय्यमेव च॥ भीष्म उवाच छत्रोपानहमेतत् तु सूर्येणैतत् प्रवर्तितम्। पुण्यमेतदभिख्यातं त्रिषु लोकेषु भारत॥ तस्मात् प्रयच्छ विप्रेषु छत्रोपानहमुत्तमम्। धर्मस्तेषु महान् भावी न मेऽत्रास्ति विचारणा॥ छत्रं हि भरतश्रेष्ठ यः प्रदद्याद् द्विजातये। शुभ्रं शतशलाकं वै स प्रेत्य सुखमेधते॥ स शक्रलोके वसति पूज्यमानो द्विजातिभिः। अप्सरोभिश्च सततं देवैश्च भरतर्षभ॥ दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ। स्नातकाय महाबाहो संशिताय द्विजातये॥ सोऽपि लोकानवाप्नोति दैवतैरभिपूजितान्। गोलोके स मुदा युक्तो वसति प्रेत्य भारत॥ एतत् ते भरतश्रेष्ठ मया कात्स्न्येन कीर्तितम्। छत्रोपानहदानस्य फलं भरतसत्तम॥ युधिष्ठिर उवाच आलोकदानं नामैतत् कीदृशं भरतर्षभ। कथमेतत् समुत्पन्नं फलं वा तद् ब्रवीहि मे।॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। मनोः प्रजापतेर्वादं सुवर्णस्य च भारत॥ तपस्वी कश्चिदभवत् सुवर्णो नाम भारत। वर्णतो हेमवर्णः स सुवर्ण इति पप्रथे॥ कुलशीलगुणोपेतः स्वाध्याये च परंगतः। बहून् सुवंशप्रभवान् समतीतः स्वकैर्गुणैः॥ स कदाचिन्मनुं विप्रो ददर्शोपससर्प च। कुशलप्रश्नमन्योन्यं तौ चोभौ तत्र चक्रतुः॥ ततस्तौ सत्यसंकल्पौ मेरौ काञ्चनपर्वते। रमणीये शिलापृष्ठे सहितौ संन्यषीदताम्॥ तत्र तौ कथयन्तौ स्तां कथा नानाविधाश्रयाः। ब्रह्मर्षिदेवदैत्यानां पुराणानां महात्मनाम्॥ सुवर्णस्त्वब्रवीद् वाक्यं मनुं स्वायम्भुवं प्रति। हितार्थं सर्वभूतानां प्रश्न मे वक्तुमर्हसि॥ सुमनोभिर्यदिज्यन्ते दैवतानि प्रजेश्वर। किमेतत् कथमुत्पन्नं फलं योगे च शंस मे॥ मनुरुवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। शुक्रस्य च बलेश्चैव संवादं वै महात्मनोः॥ बलेवैरोचनस्येह त्रैलोक्यमनुशासतः। समीपमाजगामाशु शुक्रो भृगुकुलोद्वहः॥ तमादिभिरभ्यर्च्य भार्गवं सोऽसुराधिपः। निषसादासने पश्चाद् विधिवद् भूरिदक्षिणः॥ कथेयमभवत् तत्र त्वया या परिकीर्तिता। सुमनोधूपदीपानां सम्प्रदाने फलं प्रति॥ ततः पप्रच्छ दैत्येन्द्रः कवीन्द्रं प्रश्नमुत्तमम्॥ बलि उवाच सुमनोधूपदीपानां किं फलं ब्रह्मवित्तम। प्रदानस्य द्विजश्रेष्ठ तद् भवान् वक्तुमर्हति॥ शुक्र उवाच तपः पूर्वं समुत्पन्नं धर्मस्तस्मादनन्तरम्। एतस्मिन्नन्तरे चैव वीरुदोषध्य एव च॥ सोमस्यात्मा च बहुधा सम्भूतः पृथिवीतले। अमृतं च विषं चैव ये चान्ये तृणजातयः॥ अमृतं मनसः प्रीतिं सद्यस्तृप्तिं ददाति च। मनो ग्लपयते तीव्र विषं गन्धेन सर्वशः॥ अमृतं मङ्गलं विद्धि महद्विषममङ्गलम्। ओषध्यो ह्रामृतं सर्वा विषं तेजोऽग्निसम्भवम्॥ मनो ह्लादयते यस्माच्छ्रियं चापि दधाति च। तस्मात् सुमनसः प्रोक्ता नरैः सुकृतकर्मभिः॥ देवताभ्य: सुमनसो यो ददाति नरः शुचिः। तस्य तुष्यन्ति वै देवास्तुष्टाः पुष्टिं ददत्यपि॥ यं यमुद्दिश्य दीयेरन् देवं सुमनसः प्रभो। मङ्गलार्थं स तेनास्य प्रीतो भवति दैत्यप॥ ज्ञेयास्तूग्राश्च सौम्याश्च तेजस्विन्यश्च ताः पृथक्। ओषध्यो बहुवीर्या हि बहुरूपास्तथैव च।॥ यज्ञियानां च वृक्षाणामयज्ञीयान् निबोध मे। आसुराणि च माल्यानि दैवतेभ्यो हितानि च॥ रक्षसामुरगाणां च यक्षाणां च तथा प्रियाः। मनुष्याणां पितॄणां च कान्तायास्त्वनुपूर्वशः॥ वन्या ग्राम्याश्चेह तथा कृष्टोप्ताः पर्वताश्रयाः। अकण्टकाः कण्टकिनो गन्धरूपरसान्विताः॥ द्विविधो हि स्मृतो गन्ध इष्टोऽनिष्टश्च पुष्पजः। इष्टगन्धानि देवानां पुष्पाणीति विभावय॥ अकण्टकानां वृक्षाणां श्वेतप्रायाश्च वर्णतः। तेषां पुष्पाणि देवानामिष्टानि सततं प्रभो॥ जलजानि च माल्यानि पद्मादीनि च यानि वै। गन्धर्वनागयक्षेभ्यस्तानि दद्याद् विचक्षणः॥ ओषध्यो रक्तपुष्पाश्च कटुकाः कण्टकान्विताः। शत्रूणामभिचारार्थमाथर्वेषु निदर्शिताः॥ तीक्ष्णवीर्यास्तु भूतानां दुरालम्भाः सकण्टकाः। रक्तभूयिष्ठवर्णाश्च कृष्णाश्चैवोपहारयेत्॥ मनोहृदयनन्दिन्यो विशेषमधुराश्च याः। चारुरूपाः सुमनसो मानुषाणां स्मृता विभो॥ न तु श्मशानसम्भूता देवतायतनोद्भवाः। संनयेत् पुष्टियुक्तेषु विवाहेषु रहःसु च॥ गिरिसानुरुहाः सौम्या देवानामुपपादयेत्। प्रोक्षिताऽभ्युक्षिताः सौम्या यथायोग्यं यथास्मृति।।३४ गन्धेन देवास्तुष्यन्ति दर्शनाद् यक्षराक्षसाः। नागाः समुपभोगेन त्रिभिरेतैस्तु मानुषाः॥ सद्यः प्रीणाति देवान् वै ते प्रीता भावयन्त्युत। संकल्पसिद्धा मानामीप्सितैश्च मनोरमैः॥ प्रीताः प्रीणन्ति सततं मानिता मानयन्ति च। अवज्ञातावधूताश्च निर्दहन्त्यधमान् नरान्॥ अत उर्ध्वं प्रवक्ष्यामि धूपदानविधेः फलम्। धूपांश्च विविधान् साधूनसाधूंश्च निबोध मे॥ निर्यासा: सारिणश्चैव कृत्रिमाश्चैव ते त्रयः। इष्टोऽनिष्टो भवेद् गन्धस्तन्मे विस्तरशः शृणु॥ निर्यासाः सल्लकीवा देवानां दयिताऽस्तु ते। गुग्गुलुः प्रवरस्तेषां सर्वेषामिति निश्चयः॥ अगुरुः सारिणां श्रेष्ठो यक्षराक्षसभोगिनाम्। दैत्यानां सल्लकीयश्च काङ्गतो यश्च तद्विधः॥ अथ सर्जरसादीनां गन्धैः पार्थिव दारवैः। फाणितासवसंयुक्तर्मनुष्याणां विधीयते॥ देवदानवभूतानां सद्यस्तुष्टिकरः स्मृतः। येऽन्ये वैहारिकास्तत्र मानुषाणामिति स्मृताः॥ य एवोक्ताः सुमनसां प्रदाने गुणहेतवः। धूपेष्वपि परिज्ञेयास्त एव प्रीतिवर्धनाः॥ दीपदाने प्रवक्ष्यामि फलयोगमनुत्तमम्। यथा येन यदा चैव प्रदेया यादृशाश्च ते॥ ज्योतिस्तेजः प्रकाशं वाप्यूर्ध्वगं चापि वर्ण्यते। प्रदानं तेजसां तस्मात् तेजो वर्धयते नृणाम्॥ अन्धन्तमस्तमिस्रं च दक्षिणायनमेव च। उत्तरायणमेतस्माज्ज्योतिर्दानं प्रशस्यते॥ यस्मादूर्ध्वगमेतत् तु तमसश्चैव भेषजम्। तस्मादूर्ध्वगतेर्दाता भवेदत्रेति निश्चयः॥ देवास्तेजस्विनो ह्यस्मात् प्रभावन्तः प्रकाशकाः। तामसा राक्षसाश्चैव तस्माद् दीपः प्रदीयते॥ आलोकदानाच्चक्षुष्मान् प्रभायुक्तो भवेन्नरः। तान् दत्त्वा नोपहिंसेत न हरेनोपनाशयेत्॥ दीपहर्ता भवेदधस्तमोगतिरसुप्रभः। दीपप्रदः स्वर्गलोके दीपमालेव राजते॥ हविषा प्रथमः कल्पो द्वितीयश्चौषधीरसैः। वसामेदोऽस्थिनिर्यासैन कार्वः युष्टिमिच्छता॥ गिरिप्रपाते गहने चैत्यस्थाने चतुष्पथे। दीपदानं भवेन्नित्यं य इच्छेद् भूतिमात्मनः॥ कुलोद्योतो विशुद्धात्मा प्रकाशत्वं च गच्छति। ज्योतिषां चैव सालोक्यं दीपदाता नरः सदा॥ बलिकर्मसु वक्ष्यामि गुणान् कर्मफलोदयान्। देवयक्षोरगनृणां भूतानामथ रक्षसाम्॥ येषां नाग्रभुजो विप्रा देवतातिथिबालकाः। राक्षसानेव तान् विद्धि निर्विशङ्कानमगलान्॥ तस्मादग्रं प्रयच्छेत देवेभ्यः प्रतिपूजितम्। शिरसा प्रयतश्चापि हरेद् बलिमतन्द्रितः॥ गृह्णन्ति देवता नित्यमाशंसन्ति सदा गृहान्। बाह्याश्चागन्तवो येऽन्ये यक्षराक्षसपन्नगा:॥ इतो दत्तेन जीवन्ति देवताः पितरस्तथा। ते प्रीताः प्रीणयन्तेनमायुषा यशसा धनैः॥ बलयः सह पुष्पैस्तु देवानामुपहारयेत्। दधिदुग्धमयाः पुण्याः सुगन्धाः प्रियदर्शनाः॥ कार्या रुधिरमासांढ्या बलयो यक्षरक्षसाम्। सुरासवपुरस्कारा लाजोल्लापिकभूषिताः॥ नागानां दयिता नित्यं पद्मोत्पलविमिश्रिताः। तिलान् गुडसुसम्पन्नान् भूतानामुपहारयेत्॥ अग्रदाताग्रभोगी स्याद् बलवीर्यसमन्वितः। तस्मादग्रं प्रयच्छेत देवेभ्यः प्रतिपूजितम्॥ ज्वलन्त्यहरहो वेश्म याचास्य गृहदेवताः। ताः पूज्या भूतिकामेन प्रसृताग्रप्रदायिना॥ इत्येतदसुरेन्द्राय काव्यः प्रोवाच भार्गवः। सुवर्णाय मनुः प्राह सुवर्णो नारदाय च॥ नारदोऽपि मयि प्राह गुणानेतान् महाद्युते। त्वमप्येतद् विदित्वेह सर्वमाचर पुत्रक॥ युधिष्ठिर उवाच श्रुतं मे भरतश्रेष्ठ पुष्पधूपप्रदायिनाम्। फलं बलिविधाने च तद् भूयो वक्तुमर्हसि॥ धूपप्रदानस्य फलं प्रदीपस्य तथैव च। बलयश्च किमर्थं वै क्षिप्यन्ते गृहमेधिभिः॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। नहुषस्य च संवादमगस्त्यस्य भृगोस्तथा॥ नहुषो हि महाराज राजर्षिः सुमहातपाः देवराज्यमनुप्राप्तः सुकृतेनेह कर्मणा॥ तत्रापि प्रयतो राजन् नहुषस्त्रिदिवे वसन्। मानुषीश्चैव दिव्याश्च कुर्वाणो विविधाः क्रियाः॥ मानुष्यस्तत्र सर्वा:स्म क्रियास्तस्य महात्मनः। प्रवृत्तस्त्रिदिवे राजन् दिव्याश्चैव सनातनाः॥ अग्निकार्याणि समिधः कुशाः सुमनसस्तथा। बलयश्चान्नलाजाभिषूपनं दीपकर्म च॥ सर्वं तस्य गृहे राज्ञः प्रावर्तत महात्मनः। जपयज्ञान्मनोयज्ञास्त्रिदिवेऽपि चकार सः॥ देवानभ्यर्चयच्चापि विधिवत् स सुरेश्वरः। सर्वानेव यथान्यायं यथापूर्वमरिन्दम॥ अथेन्द्रोऽहमिति ज्ञात्वां अहंकारं समाविशत्। सर्वाश्चैव क्रियास्तस्य पर्यहीयन्त भूपतेः॥ स ऋषीन् वाहयामास वरदानमदान्वितः। परिहीणक्रियश्चैव दुर्बलत्वमुपेयिवान्॥ तस्य वाहयतः कालो मुनिमुख्यास्तपोधनान्। अहंकाराभिभूतस्य सुमहानभ्यवर्तत॥ अथ पर्यायशः सर्वान् वाहनायोपचक्रमे। पर्यायश्चाप्यगस्त्यस्य समपद्यत भारत॥ अथागत्य महातेजा भृगुर्ब्रह्मविदां वरः। अगस्त्यमाश्रमस्थं वै समुपेत्येदमब्रवीत्॥ एवं वयमसत्कारं देवेन्द्रस्यास्य दुर्मतेः। नहुषस्य किमर्थं वै मर्षयाम महामुने॥ अगस्त्य उवाच कथमेष मया शक्यः शप्तुं यस्य महामुने। वरदेन वरो दत्तो भवतो विदितश्च सः॥ यो मे दृष्टिपथं गच्छेत् स मे वश्यो भवेदिति। इत्यनेन वरं देवो याचितो गच्छता दिवम्॥ एवं न दग्धः स मया भवता च न संशयः। अन्येनाप्यषिमुख्येन न दग्धो न च पातितः॥ अमृतं चैव पानाय दत्तमस्मै पुरा विभो। महात्मना तदर्थं च नास्माभिर्विनिपात्यते॥ प्रायच्छत वरं देवः प्रजानां दुःखकारणम्। द्विजेष्वधर्मयुक्तानि स करोति नराधमः॥ तत्र यत्प्राप्तकालं नस्तद् ब्रूहि वदतां वर। भवांश्चापि यथा ब्रूयात् तत्कर्तास्मि न संशयः॥ भृगु उवाच पितामहनियोगेन भवन्तं सोऽहमागतः। प्रतिकर्तुं बलवति नहुषे दैवेमोहिते॥ अद्य हि त्वां सुदुर्बुद्धी रथे योक्ष्यति देवराट्। अद्यैनमहमुद्वृत्तं करिष्येऽनिन्द्रमोजसा॥ अद्येन्द्र स्थापयिष्यामि पश्यतस्ते शतक्रुतम्। संचाल्य पापकर्माणमैन्द्रात् स्थानात् सुदुर्मतिम्॥ अद्य चासौ कुदेवेन्द्रस्त्वां पदा धर्षयिष्यति। दैवोपहतचित्तत्वादात्मनाशाय मन्दधीः॥ व्युत्क्रान्तधर्मं तमहं घर्षणामर्षितो भृशम्। अहिर्भवस्वेति रुषा शप्स्ये पापं द्विजदुहम्॥ तत एनं सुदुर्बुद्धिं धिक्शब्दाभिहतत्विषम्। धरण्यां पातयिष्यामि पश्यतस्ते महामुने॥ नहुषं पापकर्माणमैश्वर्यबलमोहितम्। यथा च रोचते तुभ्यं तथा कर्तास्म्यहं मुने॥ एवमुक्तस्तु भृगुणा मैत्रावरुणिरव्ययः। अगस्त्यः परमप्रीतो बभूव विगतज्वरः॥ युधिष्ठिर उवाच कथं वै स विपन्नश्च कथं वै पातितो भुवि। कथं चानिन्द्रतां प्राप्तस्तद् भवान् वक्तुमर्हति॥ भीष्म उवाच एवं तयोः संवदतोः क्रियास्तस्य महात्मनः। सर्वा एव प्रवर्तन्ते या दिव्या याश्च मानुषीः॥ तथैव दीपदानानि सर्वोपकरणानि वै। बलिकर्म च यच्चान्यदुत्सेकाश्च पृथग्विधाः॥ सर्वे तस्य समुत्पन्ना देवेन्द्रस्य महात्मनः। देवलोके नृलोके च सदाचारा बुधैः स्मृताः॥ ते चेद् भवन्ति राजेन्द्र ऋद्ध्यन्ते गृहमेधिनः। धूपप्रदानैर्दीपैश्च नमस्कारैस्तथैव च॥ यथा सिद्धस्य चान्नस्य ग्रहायाग्रं प्रदीयते। बलयश्च गृहोद्देशे अतः प्रीयन्ति देवताः॥ यथा च गृहिणस्तोषो भवेद् वै बलिकर्मणि। तथा शनगुणा प्रीतिर्देवतानां प्रजायते॥ एवं धूपप्रदानं च दीपदानं च साधवः। प्रयच्छन्ति नमस्कारैर्युक्तमात्मगुणावहम्॥ स्नानेनादिश्च यत् कर्म क्रियते वै विपश्चिता। नमस्कारप्रयुक्तेन तेन प्रीयन्ति देवताः॥ पितरश्च महाभागा ऋषयश्च तपोधनाः। गृह्याश्च देवताः सर्वाः प्रीयन्ते विधिनार्चिताः॥ इत्येतां बुद्धिमास्थाय नहुषः स नरेश्वरः। सुरेन्द्रत्वं महत् प्राप्य कृतवानेतदद्भुतम्॥ कस्यचित् त्वथ कालस्य भाग्यक्षय उपस्थिते। सर्वमेतदवज्ञाय कृतवानिदमीदृशम्॥ ततः स परिहीणोऽभूत् सुरेन्द्रो बलदर्पतः। धूपदीपोदक विधिं न यथावच्चकार ह॥ ततोऽस्य यज्ञविषयो रक्षोभिः पर्यबध्यत। अथागस्त्यमृषिश्रेष्ठं वाहनायाजुहाव ह॥ द्रुतं सरस्वतीकूलात् स्मयन्निव महाबलः। ततो भृगुर्महातेजा मैत्रावरुणिमब्रवीत्॥ निमीलय स्वनयने जटां यावद् विशामि ते। स्थाणुभूतस्य तस्थाय जटां प्राविशदच्युतः॥ भृगुः स सुमहातेजाः पातनाय नृपस्य च। ततः स देवराट प्राप्तस्तमृर्षि वाहनाय वै॥ ततोऽगस्त्यः सुरपतिं वाक्यमाह विशाम्पते। योजयस्वेति मां क्षिप्रं कं च देशं वहामि ते॥ यत्र वक्ष्यसि तत्र त्वां नयिष्यामि सुराधिप। इत्युक्तो नहुषस्तेन योजयामास तं मुनिम्॥ भृगुस्तस्य जटान्तस्थो बभूव हृषितो भृशम्। न चापि दर्शनं तस्य चकार स भृगुस्तदा।॥ वरदानप्रभावज्ञो नहुषस्य महात्मनः। न चुकोप तदाऽगस्त्यो युक्तोऽपि नहुषेण वै॥ तं तु राजा प्रतोदेन चोदयामास भारत। न चुकोप स धर्मात्मा ततः पादेन देवराट्॥ अगस्त्यस्य तदा क्रुद्धो वामेनाभ्यहनच्छिरः। तस्मिन्शिरस्यभिहते स जटान्तर्गतो भृगुः॥ शशाप बलवत्क्रुद्धो नहुषं पापचेतसम्। यस्मात् पदाऽऽहतः कोधाच्छिरसीमं महामुनिम्॥ तस्मादाशु महीं गच्छ सर्पो भूत्वा सुदुर्मते। इत्युक्तः स तदा तेन सर्पो भूत्वा पपात ह॥ अदृष्टेनाथ भृगुणा भूतले भरतर्षभ। भृगुं हि यदि सोऽद्रक्ष्यन्नहुषः पृथिवीपते॥ न च शक्तोऽभविष्यद् वै पातने तस्य तेजसा। स तु तैस्तैः प्रदानैश्च तपोभिर्नियमैस्तथा॥ पतितोऽपि महाराज भूतले स्मृतिमानभूत्। प्रसादयामास भृगु शापान्तो मे भवेदिति॥ ततोऽगस्त्यः कृपाविष्टः प्रसादयत तं भृगुम्। शापान्तार्थं महाराज स च प्रादात् कृपान्वितः॥ भृगु उवाच राजा युधिष्ठिरो नाम भविष्यति कुलोद्वहः। स त्वां मोक्षयिता शापादित्युक्त्वान्तरधीयत॥ अगस्त्योऽपि महातेजाः कृत्वा कार्यं शतक्रतोः। स्वमाश्रमपदं प्रायात् पूज्यमानो द्विजातिभिः॥ नहुषोऽपि त्वया राजंस्तस्माच्छापात् समुद्धृतः। जगाम ब्रह्मभवनं पश्यतस्ते जनाधिप॥ तदा स पातयित्वा तं नहुषं भूतले भृगुः। जगाम ब्रह्मभवनं ब्रह्मणे च न्यवेदयत्॥ ततः शक्रं समानाय्य देवानाह पितामहः। वरदानान्मम सुरा नहुषो राज्यमाप्तवान्॥ स चागस्त्येन क्रुद्धेन भ्रंशितो भूतलं गतः। न च शक्यं विना राज्ञा सुरा वर्तयितुं क्वचित्॥ तस्मादयं पुनः शक्रो देवराज्येऽभिषिच्यताम् एवं सम्भाषमाणं तु देवाः पार्थ पितामहम्॥ एवमस्त्विति संदृष्टाः प्रत्यूचुस्तं नराधिप। सोऽभिषिक्तो भगवता देवराज्ये च वासवः॥ ब्रह्मणा राजशार्दूल यथापूर्वं व्यरोचत। एवमेतत् पुरावृत्तं नहुषस्य व्यतिक्रमात्॥ स च तैरेव संसिद्धो नहुषः कर्मभिः पुनः। तस्माद् दीपाः प्रदातव्याःसायं वै गृहमोधिभिः॥ दिव्यं चक्षुरवाप्नोति प्रेत्य दीपस्य दायकः। पूर्णचन्द्रप्रतीकाशा दीपदाश्च भवन्त्युत॥ यावदक्षिनिमेषाणि ज्वलन्ते तावती: समाः। रूपवान् बलवांश्चापि नरो भवति दीपदः॥ युधिष्ठिर उवाच एके लोकाः सुकृतिनः सर्वे त्वाहो पितामह। तत्र तत्रापि भिन्नास्ते तन्मे ब्रूहि पितामह॥ भीष्म उवाच कर्मभिः पार्थनानात्वं लोकानां यान्ति मानवाः। पुण्यान् पुण्यकृतो यान्ति पापान पापकृतो नराः॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। गौतमस्य मुनेस्तात संवादं वासवस्य च॥ ब्राह्मणौ गौतमः कश्चिन्मृदुर्दान्तो जितेन्द्रियः। महावने हस्तिशिशुं परिधूनममातृकम्॥ तं दृष्ट्वा जीवयामास सानुक्रोशो धृतव्रतः। स तु दीर्पण कालेन बभूवातिबलो महान्॥ तं प्रभिन्नं महानागं प्रस्रुतं पर्वतोपमम्। धृतराष्ट्रस्य रूपेण शक्रो जग्राह हस्तिनम्॥ ह्रियमाणं तु तं दृष्ट्वा गौतमः संशितव्रतः। अभ्यभाषत राजानं धृतराष्ट्र महातपाः॥ मा मेऽहार्षीहस्तिनं पुत्रमेनं दुःखात् पुष्टं धृतराष्ट्राकृतज्ञ। मैत्रं सतां सप्तपदं वदन्ति मित्रद्रोहो मैव राजन् स्पृशेत् त्वाम्॥ गौतम उवाच इध्मोदकप्रदातारं शून्यपालं ममाश्रमे। विनीतमाचार्यकुले सुयुक्तं गुरुकर्मणि॥ शिष्टं दान्तं कृतज्ञं च प्रियं च सततं मम। न मे विक्रोशतो राजन् हर्तुमर्हसि कुञ्जरम्॥ धृतराष्ट्र उवाच गवां सहस्रं भवते ददानि दासीशतं निष्कशतानि पञ्च! अन्यच्च वित्तं विविधं महर्षे किं ब्राह्मणस्येह गजेन कृत्यम्॥ गौतम उवाच तवैव गावो हि भवन्तु राजन् दास्यः सनिष्का विविधं च रत्नम्। अन्यच्च वित्तं विविधं नरेन्द्र किं ब्राह्मणस्येह धनेन कृत्यम्॥ धृतराष्ट्र उवाच ब्राह्मणानां हस्तिभिर्नास्ति कृत्यं राजन्यानां नागकुलानि विप्रा स्वं वाहनं नयतो नास्त्यधर्मो नागश्रेष्ठं गौतमास्मान्निवर्त॥ गौतम उवाच यत्र प्रेत: यत्र प्रेतो नन्दति पुण्यकर्मा शोचते पापकर्मा। स्तत्र त्वाहं हस्तिनं यातयिष्ये॥ धृतराष्ट्र उवाच ये निष्क्रिया नास्तिका श्रद्दधानाः पापात्मान इन्द्रियार्थे निविष्टाः। यमस्य ते यातनां प्राप्नुवन्ति परं गन्ता धृतराष्ट्रो न तत्र॥ गौतम उवाच वैवस्वती संयमनी जनानां यत्रानृतं नोच्यते यत्र सत्यम्। यत्राबला बलिनं यातयन्ति तत्र त्वाहं हस्तिनं यातयिष्ये॥ धृतराष्ट्र उवाच ज्येष्ठां स्वसारं पितरं मातरं च यथा शत्रु मदमत्ताश्चरन्ति। तथाविधानामेष लोको महर्षे परं गन्ता धृतराष्ट्रो न तत्र॥ गौतम उवाच मन्दाकिनी वैश्रवणस्य राज्ञो महाभागा भोगिजनप्रवेश्या। गन्धर्वयक्षैरप्सरोभिश्च जुष्टा तत्र त्वाहं हस्तिनं यातयिष्ये॥ धृतराष्ट्र उवाच अतिथिव्रताः सुव्रता ये जना वै प्रतिश्रयं ददति ब्राह्मणेभ्यः। शिष्टाशिनः संविभज्याश्रितांश्च मन्दाकिनी तेऽपि विभूषयन्ति॥ गौतम उवाच मेरोरग्रे यद् वनं भाति रम्यं सुपुष्पितं किन्नरीगीतजुष्टम्। सुदर्शना यत्र जम्बूर्विशाला तत्र त्वाहं हस्तिनं यातयिष्ये॥ धृतराष्ट्र उवाच ये ब्राह्मणा मृदवः सत्यशीला बहुश्रुताः सर्वभूताभिरामाः। येऽधीयते सेतिहासं पुराणं मध्वाहुत्या जुह्वति वै द्विजेभ्यः॥ तथाविधानामेष लोको महर्षे परं गन्ता धृतराष्ट्रो न तत्र। यद् विद्यते विदितं स्थानमस्ति तद् ब्रूहि त्वं त्वरितो ह्येष यामि॥ गौतम उवाच सुपुष्पितं किन्नरराजजुष्टं प्रियं वनं नन्दनं नारदस्य। गन्धर्वाणामप्सरसां च शश्वत् तत्र त्वाहं हस्तिनं यातयिष्ये॥ धृतराष्ट्र उवाच ये नृत्यगीते कुशला जनाः सदा ह्ययाचमानाः सहिताश्चरन्ति। तथाविधानामेष लोको महर्षे परं गन्ता धृतराष्ट्रो न तत्र॥ गौतम उवाच यत्रोत्तराः कुरवो भान्ति रम्या देवैः सार्धं मोदमाना नरेन्द्र। यत्राग्नियौनाश्च वसन्ति लोका अब्योनयः पर्वतयोनयश्च॥ यत्र शक्रो वर्षति सर्वकामान् यत्र स्त्रियः कामचारा भवन्ति। यत्र चा नास्ति नारीनराणां तत्र त्वाहं हस्तिनं यातयिष्ये॥ धृतराष्ट्र उवाच ये सर्वभूतेषु निवृत्तकामा अमांसादा न्यस्तदण्डाश्चरन्ति। न हिंसन्ति स्थावरं जङ्गमं च भूतानां ये सर्वभूतात्मभूताः॥ निराशिषो निर्ममा वीतरागा लाभालाभे तुल्यनिन्दाप्रशंसाः। तथाविधानामेष लोको महर्षे परं गन्ता धृतराष्ट्रो न तत्र॥ गौतम उवाच ततोऽपरे भान्ति लोकाः सनातनाः सुपुण्यगन्धा विरजा वीतशोकाः। स्तत्र त्वाहं हस्तिनं यातयिष्ये॥ धृतराष्ट्र उवाच ये दानशीला न प्रतिगृह्यते सदा न चाप्यर्थोश्चाददते परेभ्यः। येषामदेयमर्हते नास्ति किंचित् सर्वातिथ्या: सुप्रसादा जनाश्च॥ ये क्षन्तारो नाभिजल्पन्ति चान्यान् सत्रीभूताः सततं पुण्यशीलाः। तथाविधानामेष लोको महर्षे परं गन्ता धृतराष्ट्रो न तत्र॥ गौतम उवाच ततोऽपरे भान्ति लोकाः सनातना विरजसो वितमस्का विशोकाः। स्तत्र त्वाहं हस्तिनं यातयिष्ये।॥ धृतराष्ट्र उवाच स्तपस्विनः सुव्रताः सत्यसंधाः। आचार्याणामप्रतिकूलभाषिणो नित्योत्थिता गुरुकर्मस्वचोद्याः॥ तथाविधानामेष लोको महर्षे विशुद्धानां भावितो वाग्यतानाम्। सत्ये स्थितानां वेदविदां महात्मनां परं गन्ता धृतराष्ट्रो न तत्र॥ गौतम उवाच ततोऽपरे भान्ति लोकाः सनातनाः सुपुण्यगन्धा विरजा विशोकाः। स्तत्र त्वाहं हस्तिनं यातयिष्ये॥ धृतराष्ट्र उवाच चातुर्मास्यैर्ये यजन्ते जनाः सदा तथेष्टीनां दशशतं प्राप्नुवन्ति। ये चाग्निहोत्रं जुह्वति श्रद्दधाना यथाम्नायं त्रीणि वर्षाणि विप्राः॥ सुधारिणां धर्मधुरे महात्मनां यथोदिते वर्त्मनि सुस्थितानाम्। धर्मात्मनामुद्वहतां गतिं तां परं गन्ता धृतराष्ट्रो न तत्र॥ गौतम उवाच इन्द्रस्य लोका विरजा विशोका दुरन्वयाः कांसिता मानवानाम्। तस्याहं ते भवने भूरितेजसो राजन्निमं हस्तिनं यातयिष्ये॥ धृतराष्ट्र उवाच शतवर्षजीवी यश्च शूरो मनुष्यो वेदाध्यायी यश्च यज्वाऽप्रमत्तः। एते सर्वे शक्रलोकं व्रजन्ति परं गन्ता धृतराष्ट्रो न तत्र॥ गौतम उवाच प्रजापत्याः सन्ति लोका महान्तो नाकस्य पृष्ठे पुष्कला वीतशोकाः। मनीषिताः सर्वलोकोद्भवानां तत्र त्वाहं हस्तिनं यातयिष्ये।॥ धृतराष्ट्र उवाच ये राजानो राजसूयाभिषिक्ता धर्मात्मानो रक्षितारः प्रजानाम्। स्तेषां लोका धृतराष्ट्रो न तत्र॥ गौतम उवाच ततः परं भान्ति लोकाः सनातनाः सुपुण्यगन्धा विरजा वीतशोकाः। तस्मिन्नहं दुर्लभे चाप्यधृष्ये गवां लोके हस्तिनं यातयिष्ये॥ धृतराष्ट्र उवाच यो गोसहस्री शतदः समां समां गवां शती दश दद्याच्च शक्त्या। तथा दशभ्यो यश्च दद्यादिहैका पञ्चभ्यो वा दानशीलस्तथैकाम्॥ ये जीर्यन्ते ब्रह्मचर्येण विप्रा ब्राह्मीं वाचं परिरक्षन्ति चैव। स्ते तत्र मोदन्ति गवां निवासे॥ प्रभासं मानसं तीर्थे पुष्कराणि मह्वत्सरः। पुण्यं च नैमिषं तीर्थे बाहुदां करतोयिनीम्॥ गयां गयशिरश्चैव विपाशां स्थूलवालुकाम्। कृष्णां गङ्गां पञ्चनदं महाह्रदमथापि च॥ गोमती कौशिकी पम्पां महात्मानो धृतव्रताः। सरस्वतीदृषद्वत्यौ यमुनां ये तु यान्ति च॥ तत्र ते दिव्यसंस्थाना दिव्यमाल्यधराः शिवाः। प्रयान्ति पुण्यगन्धाढ्या धृतराष्ट्रो न तत्र वै॥ गौतम उवाच यत्र शीतभयं नास्ति न चोष्णभयमण्वपि। न क्षुत्पिपासे न ग्लानिर्न दुःखं न सुखं तथा॥ न द्वेष्यो न प्रियः कश्चिन्न बन्धुर्न रिपुस्तथा। न जरामरणे तत्र न पुण्यं न च पातकम्॥ तस्मिन् विरजसि स्फीते प्रज्ञासत्त्वव्यवस्थिते। स्वयंभुभवने पुण्ये हस्तिनं मे प्रदास्यसि॥ धृतराष्ट्र उवाच निर्मुक्ताः सर्वसङ्गैर्ये कृतात्मानो यतव्रताः। अध्यात्मयोगसंस्थानैर्युक्ताः स्वर्गगतिं गताः॥ ते ब्रह्मभवनं पुण्यं प्राप्नुवन्तीह सात्त्विकाः। न तत्र धृतराष्ट्रस्ते शक्यो द्रष्टुं महामुने॥ गौतम उवाच रथन्तरं यत्र बृहच्च गीयते यत्र वेदी पुण्डरीकैस्तृणोति। यत्रोपयाति हरिभिः सोमपीथी तत्र त्वाहं हस्तिनं यातयिष्ये।॥ बुध्यामि त्वां वृत्रहणं शतक्रतुं व्यतिक्रमन्तं भुवनानि विश्वा। दकार्थं ते मनसोऽभिषङ्गात्॥ शतक्रतुरुवाच मन्वागमं परिवादे गजस्या तस्माद् भवान् प्रणतं मानुशास्तु ब्रवीषि यत् तत् करवाणि सर्वम्॥ गौतम उवाच श्वेतं करेणुं मम पुत्रं हि नागं यं मेऽहार्षीर्दशवर्षाणि बालम्। स्तमेव मे देहि सुरेन्द्र नागम्॥ शतक्रतु उवाच अयं सुतस्ते द्विजमुख्य नाग आगच्छति त्वामभिवीक्षमाणः। पादौ च ते नासिकयोपजिघ्रते श्रेयो ममाध्याहि नमश्च तेऽस्तु॥ गौतम उवाच शिवं सदैवेह सुरेन्द्र तुभ्यं ध्यायामि पूजां च सदा प्रयुञ्ज। ममापि त्वं शक्र शिवं ददस्व त्वया दत्तं प्रतिगृह्णामि नागम्॥ शतक्रतुरुवाच येषां वेदा निहिता वै गुहायां मनीषिणां सत्यवतां महात्मनाम्। तेषां त्वयैकेन महात्मनास्मि वृद्धस्तस्मात् प्रीतिमांस्तेऽहमद्य॥ हन्तैहि ब्राह्मण क्षिप्रं सह पुत्रेण हस्तिना। त्वं हि प्राप्तुं शुभाँल्लोकानह्नाय च चिराय च॥ भीष्म उवाच स गौतमं पुरस्कृत्य सह पुत्रेण हस्तिना। दिवमाचक्रमे वज्री सद्भिः सह दुरासदम्॥ इदं यः शृणुयान्नित्यं यः पठेद् वा जितेन्द्रियः। स याति ब्रह्मणो लोकं ब्राह्मणो गौतमो यथा॥ युधिष्ठिर उवाच दानं बहुविधाकारं शान्तिः सत्यमहिंसितम्। स्वदारतुष्टिश्चोक्ता ते फलं दानस्य चैव यत्॥ पितामहस्य विदितं किमन्यत् तपसो बलात्। तपसो यत्परं तेऽद्य तन्नो व्याख्यातुमर्हसि॥ भीष्म उवाच तपः प्रचक्षते यावत् तावल्लोको युधिष्ठिर। मतं ममात्र कौन्तेय तपो नानशनात् परम्॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। भगीरथस्य संवादं ब्रह्मणश्च महात्मनः॥ अतीत्य सुरलोकं च गवां लोकं च भारत। ऋषिलोकं च सोऽगच्छद् भगीरथ इति श्रुतम्॥ तं तु दृष्ट्वा वचः प्राह ब्रह्मा राजन् भगीरथम्। कथं भगीरथागास्त्वमिमं लोकं दुरासदम्॥ न हि देवा न गन्धर्वा न मनुष्या भगीरथ। आयान्त्यतप्ततपसः कथं वै त्वमिहागतः॥ भगीरथ उवाच निष्काणां वै ह्यददं ब्राह्मणेभ्यः शतं सहस्राणि सदैव दानम्। ब्राह्यं व्रतं नित्यमास्थाय विद्वन् न त्वेवाहं तस्य फलादिहागाम्॥ नेकादशैकादशकान् क्रतूंश्च। ज्योतिष्टोमानां च शतं यदिष्टं फलेन तेनापि च नागतोऽहम्॥ यच्चावसं जाह्नवीतीरनित्यः शतं समास्तप्यमानस्तपोऽहम्। अदां च तत्राश्वतरीसहस्रं नारीपुरं न च तेनाहमागाम्॥ दशायुतानि चाश्वानां गोऽयुतानि च विंशतिम्। पुष्करेषु द्विजातिभ्यः प्रादां शतसहस्रशः॥ सुवर्णचन्द्रोत्तमधारिणीनां कन्योत्तमानामददं सहस्रम्। षष्टिं सहस्राणि विभूषितानां जाम्बूनदैराभरणैर्न तेन॥ स्वेकैकशो दश गा लोकनाथ। समानवत्साः पयमा समन्तिताः सुवर्णकांस्योपदुहा न तेन॥ आप्तोर्यामेषु नियतमेकैकस्मिन् दशाददम्। गृष्टीनां क्षीरदात्रीणां रोहिणीनां शतानि च॥ दोग्ध्रीणां वै गवां चापि प्रयुतानि दशैव ह। प्रादां दशगुणं ब्रह्मन् न तेनाहमिहागतः॥ वाजिनां बाह्निजातानामयुतान्यददं दशा कर्काणां हेममालानां न च तेनाहमागतः॥ कोटीश्च काञ्चनस्याष्टौ प्रादां ब्रह्मन् दशान्वहम्। एकैकस्मिन् क्रतौ तेन फलेनाहं च चागतः॥ वाजिनां श्यामकर्णानां हरितानां पितामह। प्रादां हेमस्रजां ब्रह्मन् कोटीर्दश च सप्त च॥ ईषादन्तान् महाकायान् काञ्चनस्रग्विभूषितान्। पद्मिनो वै सहस्राणि प्रादां दश च सप्त च॥ अलंकृतानां देवेश दिव्यैः कनकभूषणैः। रथानां काञ्चनाङ्गानां सहस्राण्यददं दशा॥ सप्त चान्यानि युक्तानि वाजिभिः समलंकृतः। दक्षिणावयवाः केचिद् वेदैर्ये सम्प्रकीर्तिताः॥ वाजपेयेषु दशसु प्रादां तेष्वपि चाप्यहम्। शक्रतुल्यप्रभावाणामिज्यया विक्रमेण ह॥ सहस्रं निष्ककण्ठानामददं दक्षिणामहम्। विजित्य भूपतीन् सर्वानथैरिष्ट्वा पितामह॥ अष्टभ्यो राजसूयेभ्यो न च तेनाहमागतः। स्रोतश्च यावद्गङ्गायाश्छन्नमासीज्जगत्पते॥ दक्षिणाभिः प्रवृत्ताभिर्मम नागां च तत्कृते। वाजिनां च सहस्रे द्वे सुवर्णशतभूषित॥ वरं ग्रामशतं चाहमेकैकस्य त्रिधाददम्। तपस्वी नियताहारः शममास्थाय वाग्यतः॥ दीर्घकालं हिमवति गङ्गायाश्च दुरुत्सहाम्। मूर्धा धारां महादेवः शिरसा यामधारयत्। न तेनाप्यहमागच्छं फलेनेह पितामह॥ शम्याक्षेपैरयजं यच्च देवान् साद्यस्कानामयुतैश्चापि यत्तत्। त्रयोदशद्वादशाहैश्च देव सपौण्डरीकान्न च तेषां फलेन॥ अष्टौ सहस्राणि ककुह्मिनामहं शुक्लर्षभाणामददं द्विजेभ्यः। एकैकं वै काञ्चनं शृंगमेभ्यः पत्नीश्चैषामददं निष्ककण्ठीः॥ हिरण्यरत्नानिचयानददं रत्नपर्वतान्। धनधान्यसमृद्धाश्च ग्रामाश्चान्ये सहस्रशः॥ शतं शतानां गृष्टीनामददं चायतन्द्रितः। इष्ट्वा कैर्महायज्ञै ाह्मणेभ्यो न तेन च॥ द्विादशाहैरश्वमेधैश्च देव। स्तेषां फलेनेह च चागतोऽस्मि।॥ निष्कैककण्ठमददं योजनायतं तद्विस्तीर्णं काञ्चपादपानाम्। वनं वृतानां रत्नविभूषितानां न चैव तेषामागतोऽहं फलेन।। मक्रोधनोऽकरवं त्रिंशतोऽब्दान्। शतं गवामष्टशतानि चैव दिने दिने ह्यददं ब्राह्मणेभ्यः॥ पयस्विनीनामथ रोहिणीनां तथैवान्याननडुहो लोकनाथ। प्रादां नित्यं ब्राह्मणेभ्यः सुरेश नेहागतस्तेन फलेन चाहम्॥ त्रिंशदग्नीनहं ब्रह्मनयजं यच्च नित्यदा। अष्टाभिः सर्वमेधैश्च नरमेधैश्च सप्तभिः॥ दशभिर्विश्वजिद्भिश्च शतैरष्टादशोत्तरैः। न चैव तेषां देवेश फलेनाहमिहागमम्॥ सरवां बाहुदायां च गङ्गायामथ नैमिषे। गवां शतानामयुतमददं न च तेन वै॥ इन्द्रेण गुह्यं निहितं वै गुहायां यद्भार्गवस्तपसेहाभ्यविन्दत्। जाज्वल्यमानमुशनस्तेजसेह तत्साधयामासमहं वरेण्य॥ ततो मे ब्राह्मणास्तुष्टास्तस्मिन् कर्मणि साधिते। सहस्रमृषयश्चासन् ये वै तत्र समागताः॥ उक्तस्तैरस्मि गच्छ त्वं ब्रह्मलोकमिति प्रभो। प्रीतेनोक्तसहस्रेण ब्राह्मणानामहं प्रभो। इमं लोकमनुप्राप्तो मा भूत् तेऽत्र विचारणा॥ कामं यथावद्विहितं विधात्रा पृष्टेन वाच्यं तु मया यथावत्। तपो हि नान्यच्चानशनान्मतं मे नमोऽस्तु ते देववर प्रसीद। भीष्म उवाच इत्युक्तवन्तं ब्रह्मा तु राजानं स भगीरथम्। पूजयामास पूजाहँ विधिदृष्टेन कर्मणा॥ तस्मादनशनैर्युक्तो विप्रान् पूजय नित्यदा। विप्राणां वचनात् सर्वं परत्रेह च सिध्यति॥ वासोभिरन्नैर्गोभिश्च शुभैनैवेशिकैरपि। शुभैः सुरगणैश्चापि स्तोष्या एव द्विजास्तथा। एतदेव परं गुह्यमलोभेन समाचर॥ युधिष्ठिर उवाच यथा ज्येष्ठः कनिष्ठेषु वर्तेत भरतर्षभ। कनिष्ठाश्च यथा ज्येष्ठे वर्तेरंस्तद् ब्रवीहि मे॥ भीष्म उवाच ज्येष्ठवत् तात वर्तस्व ज्येष्ठोऽसि सततं भवान्। गुरोर्गरीयसी वृत्तिर्या च शिष्यस्य भारत॥ न गुरावकृतप्रज्ञे शक्यं शिष्येण वर्तितुम्। गुरोहिं दीर्घदर्शित्वं यत् तच्छिष्यस्य भारत॥ अन्धः स्यादन्धवेलायां जडः स्यादपि वा बुधः। परिहारेण तद् ब्रूयाद् यस्तेषां स्याद् व्यतिक्रमः॥ प्रत्यक्षं भिन्नहृदया भेदयेयुः कृतं नराः। श्रियाभितप्ताः कौन्तेय भेदकामास्तथारयः॥ ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः। हन्ति सर्वमपि ज्येष्ठः कुलं यत्रावजायते॥ अथ वो विनिकुर्वीत ज्येष्ठो भ्राता यवीयसः। अज्येष्ठः स्यादभागश्च नियम्यो राजभिश्च सः॥ निकृती हि नरो लोकान् पापान् गच्छत्यसंशयम्। विदुलस्येव तत् पुष्पं मोघं जनयितुः स्मृतम्॥ सर्वानर्थः कुले यत्र जायते पापपूरुषः। अकीर्ति जनयत्येव कीर्तिमन्तर्दधाति च॥ सर्वे चापि विकर्मस्था भागं नार्हन्ति सोदराः। नाप्रदाय कनिष्ठेभ्यो ज्येष्ठः कुर्वीत यौतकम्॥ अनुपघ्नन् पितुर्दायं जंघाश्रमफलोऽध्वगः। स्वयमीहितलब्धं तु नाकामो दातुमर्हति॥ भ्रातृणामविभक्तानामुत्थानमपि चेत् सह। न पुत्रभागं विषमं पिता दद्यात् कदाचन॥ न ज्येष्ठो वावमन्येत दुष्कृतः सुकृतोऽपि वा। यदि स्त्री यद्यवरजः श्रेयश्चेत् तत् तदाचरेत्॥ धर्मं हि श्रेय इत्याहुरिति धर्मविदो जनाः। दशाचार्यानुपाध्याय उपाध्यायान् पिता दश॥ दश चेव पितॄन् माता सर्वां वा पृथिवीमपि। गौरवेणाभिभवति नास्ति मातृसमो गुरुः॥ माता गरीयसी यच्च तेनैतां मन्यते जनः। ज्येष्ठो भ्राता पितृसमो मृते पितरि भारत॥ स ह्येषां वृत्तिदाता स्यात् स चैतान् प्रतिपालयेत्। कनिष्ठास्तं नमस्येरन् सर्वे छन्दानुवर्तिनः॥ तमेव चोपजीवरेन् यथैव पितरं तथा। शरीरमेतौ सृजतः पिता माता च भारत॥ आचार्यशास्ता या जाति: सा सत्या साजरामरा। ज्येष्ठा मातृसमा चापि भगिनी भरतर्षभ॥ भ्रातुर्भार्या च तद्वत् स्याद् यस्या बाल्ये स्तनं पिबेत्।। युधिष्ठिर उवाच सर्वेषामेव वर्णानां म्लेच्छानां च पितामह। उपवासे मतिरियं कारणं च न विद्यते॥ ब्रह्मक्षत्रेण नियमाश्चर्तव्या इति नः श्रुतम्। उपवासे कथं तेषां कृत्यमस्ति पितामह॥ नियमांश्चोपवासांश्च सर्वेषा ब्रूहि पार्थिव। आप्नोति कां गतिं तात उपवासपरायणः॥ उपवासः परं पुण्यमुपवासः परायणम्। उपोष्येह नरश्रेष्ठ किं फलं प्रतिपद्यते॥ अधर्मान्मुच्यते केन धर्ममाप्नोति वा कथम्। स्वर्गे पुण्यं च लभते कथं भरतसत्तम॥ उपोष्य चापि किं तेन प्रदेय स्यानराधिप। धर्मेण च सुखार्थोल्लभेद् येन ब्रबीहि तम्॥ वैशम्पायन उवाच एवं ब्रुवाणं कौन्तेयं धर्मज्ञं धर्मतत्त्ववित्। धर्मपुत्रमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत्॥ भीष्म उवाच इदं खलु मया राजन् श्रुतमासीत् पुरातनम्। उपवासविधौ श्रेष्ठा गुणा ये भरतर्षभ॥ ऋषिमङ्गिरसं पूर्वं पृष्टवानस्मि भारत। यथा मां त्वं तथैवाहं पृष्टवांस्तं तपोधनम्॥ प्रश्चमतं मया पृष्टो भगवानग्निसम्भवः। उपवासविधिं पुण्यमाचष्ट भरतर्षभ।॥ अङ्गिरा उवाच ब्रह्मक्षत्रे त्रिरात्रं तु विहितं कुरुनन्दन। द्विस्त्रिरात्रमथैकाहं निर्दिष्टं पुरुषर्षभ॥ वैश्याः शूद्राश्च यन्मोहादुपवासं प्रचक्रिरे। त्रिरात्रं या द्विरात्रं वा तयोर्तुष्टिर्न विद्यते॥ चतुर्थभक्तक्षपणं वैश्ये शूद्रे विधीयते। त्रिरात्रं न तु धर्मज्ञैर्विहितं धर्मदर्शिभिः॥ पञ्चम्यां वापि षष्ठ्यां च पौर्णमास्यां च भारत। उपोष्य एकभक्तेन नियतात्मा जितेन्द्रियः॥ क्षमावान् रूपसम्पन्नः श्रुतवांश्चैव जायते। नानपत्यो भवेत् प्राज्ञो दरिद्रो वा कदाचन॥ यजिष्णुः पञ्चमी षष्ठी कुले भोजयते द्विजान्। अष्टमीमथ कौरव्य कृष्णपक्षे चतुर्दशीम्॥ उपोष्य व्याधिरहितो वीर्यवानभिजायते। मार्गशीर्षं तु यो मासमेकभक्तेन संक्षिपेत्॥ भोजयेच्च द्विजाशक्त्या स मुच्येद् व्याधिकिल्बिशैः। सर्वकल्याणसम्पूर्ण: सर्वोषधिसमन्वितः॥ उपोष्य व्याधिरहितो वीर्यवानभिजायते। कृषिभागी बहुधनो बहुधान्यश्च जायते॥ पौषमासं तु कौन्तेय भक्तेनैकेन यः क्षिपेत्। सुभगो दर्शनीयश्च यशोभागी च जायते॥ माघं तु नियतो मासमेकभक्तेन यः क्षिपेत्। श्रीमत्कुले ज्ञातिमध्ये स महत्त्वं प्रपद्यते॥ भगदैवतमासं तु एकभक्तेन यः क्षिपेत्। स्त्रीषु वल्लभतां याति वश्याश्चास्य भवन्ति ताः।।२२ चैत्रं तु नियतो मासमेकभक्तेन यः क्षिपेत्। सुवर्णमणिमुक्ताढ्ये कुले महति जायते॥ निस्तरेदेकभक्तेन वैशाख यो जितेन्द्रियः। नरो वा यदि वा नारी ज्ञातीनां श्रेष्ठतां व्रजेत्॥ ज्येष्ठामूलं तु यो मासमेकभक्तेन संक्षिपेत्। ऐश्वर्यमतुलं श्रेष्ठं पुमान् स्त्री वा प्रपद्यते॥ आषाढमेकभक्तेन स्थित्वा मासमतन्द्रितः। बहुधान्यो बहुधनो बहुपुत्रश्च जायते॥ श्रावणं नियतो मासमेकभक्तेन यः क्षिपेत्। यत्र तत्राभिषेकेण युज्यते ज्ञातिवर्धनः॥ प्रौष्ठपदं तु यो मासमेकाहारो भवेन्नरः। गवाढ्यं स्फीतमचलमैश्वर्यं प्रतिपद्यते॥ तथैवाश्वयुजं मासमेकभक्तेन यः क्षिपेत्। मृजावन् वाहनाढ्यश्च बहुपुत्रश्च जायते॥ कार्तिकं तु नरो मासं यः कुर्यादेकभोजनम्। शूरश्च बहुभार्यश्च कीर्तिमांश्चैव जायते॥ इति मासा नरव्याघ्र क्षिपतां परिकीर्तिताः। तिथीनां नियमा ये तु शृणु तानपि पार्थिव॥ पक्षे पक्षे गते यस्तु भक्तमश्नशति भारत। गवाढ्यो बहुपुत्रश्च बहुभार्यः स जायते॥ मासि मासि त्रिरात्राणि कृत्वा वर्षाणि द्वादश। गणाधिपत्यं प्राप्नोति निःसपत्नमनाविलम्॥ एते तु नियमाः सर्वे कर्तव्या: शरदो दश। द्वे चान्ये भरतश्रेष्ठ प्रवृत्तिमनुवर्तता॥ यस्तु प्रातस्तथा सायं भुजानो नान्तरा पिबेत्। अहिंसानिरतो नित्यं जुह्वानो जातवेदसम्॥ षभिः स वषैर्नृपते सिध्यते नात्र संशयः। अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः॥ अधिवासे सोऽप्सरसां नृत्यगीतविनादिते। रमते स्त्रीसहस्राढ्ये सुकृती विरजो नरः॥ तप्तकाञ्चनवर्णाभं विमानमधिरोहति। पूर्णे वर्षसहस्रं च ब्रह्मलोके महीयते॥ तत्क्षयादिह चागम्य माहाम्यं प्रतिपद्यते। यस्तु संवत्सरं पूर्णमेकाहारो भवेन्नरः॥ अतिरात्रस्य यज्ञस्य स फलं समुपाश्नुते। दशवर्षसहस्राणि स्वर्गे च स महीयते॥ तत्क्षयादिह चागम्य माहात्म्यं प्रतिपद्यते। यस्तु संवत्सरं पूर्णं चतुर्थं भक्तमश्नुते॥ अहिंसानिरतो नित्यं सत्यवाग् विजितेन्द्रियः। वाजपेयस्य यज्ञस्य स फलं समुपाश्नुते॥ दशवर्षसहस्राणि स्वर्गलोके महीयते। षष्ठे काले तु कौन्तेय नरः संवत्सरं क्षिपन्॥ अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः। चक्रवाकप्रयुक्तेन विमानेन स गच्छति॥ यत्वारिंशत् सहस्राणि वर्षाणां दिवि मोदते। अष्टमेन तु भक्तेन जीवन् संवत्सरं नृप॥ गवामयस्य यज्ञस्य फलं प्राप्नोति मानवः। हंससारसयुक्तेन विमानेन स गच्छति॥ पञ्चाशतं सहस्राणि वर्षाणां दिवि मोदते। पक्षे पक्षे गते राजन् योऽश्नीयाद् वर्षमेव तु॥ षण्मासानशनं तस्य भगवानङ्गिराऽब्रवीत्। षष्टिवर्षसहस्राणि दिवमावसते च सः॥ वीणानां वल्लकीनां च वेणूनां च विशाम्पते। सुघोषैर्मधुरैः शब्दैः सुप्तः स प्रतिबोध्यते॥ संवत्सरमिहैकं तु मासि मासि पिबेदपः। फलं विश्वजितस्तात प्राप्नोति स नरो नृप॥ सिंहव्याघ्रप्रयुक्तेन विमानेन स गच्छति। सप्ततिं व सहस्राणि वर्षाणां दिवि मोदते॥ मासादूर्ध्वं नरव्याघ्र नोपवासो विधीयते। विधि त्वनशनस्याहुः पार्थ धर्मविदो जनाः॥ अनार्तो व्याधिरहितो गच्छेदनशनं तु यः। पदे पदे यज्ञफलं स प्राप्नोति न संशयः॥ दिवं हंसप्रयुक्तेन विमानेन स गच्छति। शतं वर्षसहस्राणां मोदते स दिवि प्रभो॥ शतं चाप्सरस: कन्या रमयन्त्यपि तं नरम्। आर्तो वा व्याधितो वापि गच्छेदनशनं तु यः॥ शतं वर्षसहस्राणां मोदते स दिवि प्रभो। काञ्चीनूपुरशब्देन सुप्तश्चैव प्रबोध्यते॥ सहस्रहंसयुक्तेन विमानेन तु गच्छति। स गत्वा स्त्रीशताकीर्णं रमते भरतर्षभ॥ क्षीणस्याप्यायनं दृष्टं क्षतस्य क्षतरोहणम्। व्याधितस्यौषधग्रामः क्रुद्धस्य च प्रसादनम्॥ दुःखितस्यार्थमानाभ्यां दुःखानां प्रतिषेधनम्। न चैते स्वर्गकामस्य रोचन्ते सुखमेधसः॥ अतः स कामसंयुक्त विमाने हेमसंनिभे। रमते स्त्रीशतकीर्णं पुरुषोऽलंकृतः शुचिः॥ स्वस्थः सफलसंकल्प: सुखी विगतकल्मषः। अनश्चन् देहमुत्सृज्य फलं प्राप्नोति मानवः॥ बालसूर्यप्रतीकाशे विमाने हेमवर्चसि। वैदूर्यमुक्ताखचिते वीणामुरजनादिते॥ पताकादीपिकाकीर्णं दिव्यकघण्टानिनादिते। स्त्रीसहस्रानुचरिते स नरः सुखमेधते॥ यावन्ति रोमकूपाणि तस्य गात्रेषु पाण्डव। तावन्त्येव सहस्राणि वर्षाणां दिवि मोदते॥ नास्ति वेदात् परं शास्त्रं नास्ति मातृसमो गुरुः। न धर्मात् परमो लाभस्तपो नानशनात् परम्॥ ब्राह्मणेभ्यः परं नास्ति पावनं दिवि चेह च। उपवासैस्तथा तुल्यं तपःकर्म न विद्यते॥ उपोष्य विधिवद् देवास्त्रिदिवै प्रतिपेदिरे। ऋषयश्च परां सिद्धिमुपवासैरवाप्नुवन्॥ दिव्यवर्षसहस्राणि विश्वामित्रेण धीमता। क्षान्तमेकेन भक्तेन तेन विप्रत्वमागतः॥ च्यवनो जमदग्निश्च वसिष्ठो गौतमो भृगुः। सर्व एव दिवं प्राप्ताः क्षमावन्तो महर्षयः॥ इदमङ्गिरसा पूर्वं महर्षिभ्यः प्रदर्शितम्। यः प्रदर्शयते नित्यं न स दुःखमवाप्नुते॥ इमं तु कौन्तेय यथाक्रमं विधि प्रवर्तितं ह्यङ्गिरसा महर्षिणा। पठेच्च यो वै शृणुयाच्च नित्यदा न विद्यते तस्य नरस्य किल्बिषम्॥ र्न चास्य दोषैरभिभूयते मनः। वियोनिजानां च विजानते रुतं ध्रुवां च कीर्तिं लभते नरोत्तमः॥ युधिष्ठिर उवाच पितामहेन विधिवद् यज्ञाः प्रोक्ता महात्मना। गुणाश्चैषां यथातथ्यं प्रेत्य चेह च सर्वशः॥ न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं पितामह। बहूपकरणा यज्ञा नानासम्भारविस्तराः॥ पार्थिवै राजपुत्रैर्वा शक्याः प्राप्तुं पितामह। नार्थन्यूनैरवगुणैरेकात्मभिसंहतैः॥ यो दरिद्रैरपि विधिः शक्यः प्राप्तुं सदा भवेत्। अर्थन्यूनैरवगुणैरेकात्मभिरसंहतैः॥ तुल्यो यज्ञफलैरेतैस्तन्मे ब्रूहि पितामह। भीष्म उवाच इदमङ्गिरसा प्रोक्तमुपवासफलात्मकम्॥ विधिं यज्ञफलैस्तुल्यं तन्निबोध युधिष्ठिर। यस्तु कल्यं तथा सायं भुजानो नान्तरा पिबेत्॥ अहिंसानिरतो नित्यं जुह्वानो जातवेदसम्। षड्भिरेव स वषैस्तु सिध्यते नात्र संशयः॥ तप्तकाञ्चनवर्णं च विमानं लभते नरः। देवस्त्रीणामधीवसे नृत्यगीतनिनादिते॥ प्राजापत्ये वसेत् पद्मं वर्षाणामग्निसंनिभे। त्रीणि वर्षाणि यः प्राशेत् सततं त्वेकभोजनम्॥ धर्मपत्नीरतो नित्यमग्निष्टोमफलं लभेत्। यज्ञं बहुसुवर्णं वा वासवप्रियमाचरेत्॥ सत्यवान् दानशीलश्च ब्रह्मण्यश्चानसूयकः। क्षान्तो दान्तो जितक्रोधः स गच्छति परां गतिम्॥ पाण्डुराभ्रप्रतीकाशे विमाने हंसलक्षणे। द्वे समाप्ते ततः पद्मे सोऽप्सरोभिर्वसेत् सह॥ द्वितीये दिवसे यस्तु प्राश्नीयादेकभोजनम्। सदा द्वादशमासांस्तु जुह्वानो जातवेदसम्॥ अग्निकार्यपरो नित्यं नित्यं कल्यप्रबोधनः। अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः॥ हंससारसयुक्तं च विमानं लभते नरः। इन्द्रलोके च वसते वरस्त्रीभिः समावृतः॥ तृतीये दिवसे यस्तु प्राचीयादेकभोजनम्। सदा द्वादशमासांस्तु जुह्वानो जातवेदसम्॥ अग्निकार्यपरो नित्यं नित्यं कल्यप्रबोधनः। अतिरात्रस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम्॥ मयूरहंसयुक्तं च विमानं लभते नरः। सप्तर्षीणां सदा लोके सोऽप्सरोभिर्वसेत् सह॥ निवर्तनं च तत्रास्य त्रीणि पद्यानि वै विभुः। दिवसे यश्चतुर्थे तु प्राश्नीयादेकभोजनम्॥ सदा द्वादशमासान् वै जुह्वानो जातवेदसम्। वाजपेयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम्॥ इन्द्रकन्याभिरूढं च विमानं लभते नरः। सागरस्य च पर्यन्ते वासवं लोकमावसेत्॥ देवराजस्य च क्रीडां नित्यकालमवेक्षते। दिवसे पञ्चमे यस्तु प्राश्नीयादेकभोजनम्॥ सदा द्वादशमासांस्तु जुह्वानो जातवेदसम्। अलुब्धः सत्यवादी च ब्रह्मण्यश्चाविहिंसकः॥ अनसूयुरपापस्थो द्वादशाहफलं लभेत्। जाम्बूनदमयं दिव्यं विमानं हंसलक्षणम्॥ सूर्यमालासमाभासमारोहेत् पाण्डुरं गृहम्। आवर्तनानि चत्वारि तथा पद्मानि द्वादश॥ शराग्निपरिमाणं च तत्रासौ वसते सुखम्। दिवसे यस्तु षष्ठे वै मुनिः प्राशेत भोजनम्॥ सदा द्वादशमासान् वै जुह्वानो जातवेदसम्। सदा त्रिषवणस्नायी ब्रह्मचार्यनसूयकः॥ गवां मेधस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम्। अग्निज्वालासमाभासं हंसबहिणसेवितम्॥ शातकुम्भसमायुक्तं साधयेद् यानमुत्तमम्। तथैवाप्सरसामङ्के प्रतिसुप्तः प्रबोध्यते॥ नूपुराणां निनादेन मेखलानां च नि:स्वनैः। कोटीसहस्रं वर्षाणां त्रीणि कोटिशतानि च॥ पद्मान्यष्टादश तथा पताके द्वे तथैव च। अयुतानि च पञ्चाशदृक्षचर्मशतस्य च॥ लोम्नां प्रमाणेन समं ब्रह्मलोके महीयते। दिवसे सप्तमे यस्तु प्राश्नीयादेकभोजनम्॥ सदा द्वादशमासान् वै जुह्वानो जातवेदसम्। सरस्वती गोपयानो ब्रह्मचर्ये समाचरन्॥ सुमनोवर्णकं चैव मधुमासं च वर्जयन्। पुरुषो मरुतां लोकमिन्द्रलोकं च गच्छति॥ तत्र तत्र हि सिद्धार्थो देवकन्याभिरर्च्यते। फलं बहुसुवर्णस्य यज्ञस्य लभते नरः॥ संख्यामतिगुणां चापि तेषु लोकेषु मोदते। यस्तु संवत्सरं क्षान्तो भुङ्क्तेऽहन्यष्टमे नरः॥ देवकार्यपरो नित्यं जुह्वानो जातवेदसम्। पौण्डरीकम्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम्॥ पद्मवर्णनिभं चैव विमानमधिरोहति। कृष्णाः कनकगौर्यश्च नार्यः श्यामास्तथापराः॥ वयोरूपविलासिन्यो लभते नात्र संशयः। यस्तु संवत्सरं भुङ्क्ते नवमे नवमेऽहनि॥ सदा द्वादशमासान् वै जुह्वानो जातवेदसम्। अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम्॥ पुण्डरीकप्रकाशं च विमानं लभते नरः। दीप्तसूर्याग्नितेजोभिर्दिव्यमालाभिरेव च॥ नीयते रुद्रकन्याभिः सोऽन्तरिक्षं सनातनम्। अष्टादश सहस्राणि वर्षाणां कल्पमेव च॥ कोटीशतसहस्रं च तेषु लोकेषु मोदते। यस्तु संवत्सरं भुङ्क्ते दशाहे वै गते गते॥ सदा द्वादशमासान् वै जुह्वानो जातवेदसम् ब्रह्मकन्यानिवासे च सर्वभूतमनोहरे॥ अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम्। रूपवत्यश्च तं कन्या रमयन्ति सनातनम्॥ नीलोत्पलनिभैर्वर्ण रक्तोत्पलनिभैस्तथा। विमानं मण्डलावर्तमावर्तगहनाकुलम्॥ सागरोर्मिप्रतीकाशं लभेद् यानमनुत्तमम्। विचित्रमणिमालाभिर्नादितं शङ्खनिःस्वनैः॥ स्फाटिकैर्वज्रसारैश्च स्तम्भैः सुकृतवेदिकम्। आरोहति महद् यानं हंससारसनादितम्॥ एकादशे तु दिवसे यः प्राप्ते प्राशते हविः। सदा द्वादशमासान् वै जुह्वानो जातवेदसम्॥ परस्त्रियं नाभिलषेद् वाचाथ मनसापि वा। अनृतं च न भोषेत मातापित्रोः कृतेपि वा॥ अभिगच्छेन्महादेवं विमानस्थं महाबलम्। अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम्॥ स्वायम्भुवं च पश्येत विमानं समुपस्थितम्। कुमार्यः काञ्चनाभासा रूपवत्यो नयन्ति तम्॥ रुद्राणां तमधीवासं दिवि दिव्यं मनोहरम्। वर्षाण्यपरिमेयानि युगान्ताग्निसमप्रभः॥ कोटीशतसहस्रं च दशकोटिशतानि च। रुद्रं नित्यं प्रणमते देवदानवसम्मतम्॥ स तस्मै दर्शनं प्राप्तो दिवसे दिवसे भवेत् दिवसे द्वादशे यस्तु प्राप्ते वै प्राशते हविः॥ सदा द्वादशमासान् वै सर्वमेधफलं लभेत्। आदित्यद्वादशं तस्य विमानं संविधीयते॥ मणिमुक्ताप्रवालैश्च महाहरुपशोभितम्। हंसमालापरिक्षिप्तं नागवीथीसमाकुलम्॥ मयूरैश्चक्रवाकैश्च कूजद्भिरुपशोभितम्। अटैटर्महद्भिः संयुक्तं ब्रह्मलोके प्रतिष्ठितम्॥ नित्यमावसथं राजन् नरनारीसमावृतम्। ऋषिरेवं महाभागस्त्वगिरा प्राह धर्मवित्॥ त्रयोदशे तु दिवसे प्राप्ते यः प्राशते हविः। सदा द्वादशमासान् वै देवसत्रफलं लभेत्॥ रक्तपद्मोदयं नाम विमानं साधयेन्नरः। जातरूपप्रयुक्तं च रत्नसंचयभूषितम्॥ देवकन्याभिराकीर्णं दिव्याभरणभूषितम्। पुण्यगन्धोदयं दिव्यं वायव्यैरुपशोभितम्॥ तत्र शंकुपताके द्वे युगान्तं कल्पमेव च। अयुतायुतं तथा पद्मं समुद्रं च तथा वसेत्॥ गीतगन्धर्वघोषैश्च भेरीपणवनिःस्वनैः। सदा प्रह्लादितस्ताभिर्देवकन्याभिरिज्यते॥ चतुर्दशे तु दिवसे यः पूर्णे प्राशते हविः। सदा द्वादशमासांस्तु महामेधफलं लभेत्॥ अनिर्देश्यवयोरूपा देवकन्याः स्वलंकृताः। मृष्टतप्ताङ्गदधरा विमानैरुपयान्ति तम्॥ कलहंसविनिर्घोषैपुराणां च निःस्वनैः। काञ्चीनां च समुत्कर्षैस्तत्र तत्र निबोध्यते॥ देवकन्यानिवासे च तस्मिन् वसति मानवः। जाह्नवीवालुकाकीर्णं पूर्णे संवत्सरं नरः॥ यस्तु पक्षे गते भुङ्क्ते एकभक्तं जितेन्द्रियः। सदा द्वादशमासान् जुह्वानो जातवेदसम्॥ राजसूयसहस्रस्य फलं प्राप्नोत्यनुत्तमम्। यानमारोहते दिव्यं हंसबहिणसेवितम्॥ मणिमण्डलकैश्चित्रं जातरूपसमावृतम्। दिव्याभरणशोभाभिर्वरस्त्रीभिरलंकृतम्॥ एकस्तम्भं चतुर सप्तभौमं सुमङ्गलम्। वैजयन्तीसहनैश्च शोभितं गीतनि:स्वनैः॥ दिव्यं दिव्यगुणोपेतं विमानमधिरोहति। मणिमुक्ताप्रवालैश्च भूषितं वैद्युतप्रभम्॥ वेसद् युगसहस्रं च खगजरवाहनः। षोडशे दिवसे प्राप्ते यः कुर्यादेकभोजनम्॥ सदा द्वादशमासान् वै सोमयज्ञफलं लभेत्। सोमकन्यानिवासेषु सोऽध्यावसति नित्यशः॥ सौम्यगन्धानुलिप्तश्च कामकारगतिर्भवेत्। सुदर्शनाभिर्नारीभिर्मधुराभिस्तथैव च॥ अर्च्यते वै विमानस्थः कामभोगैश्च सेव्यते। फलं पद्मशतप्रख्यं महाकल्पं दशाधिकम्॥ आवर्तनानि चत्वारि साधयेच्चाप्यसौ नरः। दिवसे सप्तदशमे यः प्राप्ते प्राशते हविः॥ सदा द्वादशमासान् वै जुह्वानो जातवेदसम्। स्थानं वारुणमैन्द्रं च रौद्रं वाप्यधिगच्छति॥ मारुतौशनसे चैव ब्रह्मलोकं स गच्छति। तत्र दैवतकन्याभिरासनेनोपचर्यते॥ भूर्भुवं चापि देवर्षि विश्वरूपमवेक्षते। तत्र देवाधिदेवस्य कुमार्यो रमयन्ति तम्॥ द्वात्रिंशद् रूपधारिण्यो मधुरा: समलंकृताः। चन्द्रादित्यावुभौ यावद् गगने चरतः प्रभो॥ तावच्चरत्यसौ धीरः सुधामृतरसाशनः। अष्टादशे यो दिवसे प्राश्नीयादेकभोजनम्॥ सदा द्वादशमासान् वै सप्तलोकान् स पश्यति। रथैः सनन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते॥ देवकन्याधिरूढस्तु भ्राजमानैः स्वलंकृतैः। व्याघ्रसिंहप्रयुक्तं च मेघस्वननिनादितम्॥ विमानमुत्तमं दिव्यं सुसुखी ह्यधिरोहति। तत्र कल्पसहस्रं स कन्याभिः सह मोदते॥ सुधारसं च भुञ्जीत अमृतोपममुत्तमम्। एकोनविंशतिदिने यो भुङ्क्ते एकभोजनम्॥ सदा द्वादशमासान् वै सप्तलोकान् स पश्यति। उत्तमं लभते स्थानमप्सरोगणसेवितम्॥ गन्धर्वैरुपगीतं च विमानं सूर्यवर्चसम्। तत्रामरवरस्त्रीभिर्मोदते विगतज्वरः॥ दिव्याम्बरधरः श्रीमानयुतानां शतं शतम्। पूर्णेऽथ विशे दिवसे यो भुङ्क्ते ह्येकभोजनम्॥ सदा द्वादशमासांस्तु सत्यवादी धृतव्रतः। अमांसाशी ब्रह्मचारी सर्वभूतहिते रतः॥ स लोकान् विपुलान् रम्यानादित्यानामुपाश्नुते। गन्धर्वैरप्सरोभिश्च दिव्यमाल्यानुलेपनैः॥ विमानैः काञ्चनैर्हद्यैः पृष्ठतश्चानुगम्यते। एकविंशे तु दिवसे यो भुङ्क्ते ह्येकभोजनम्॥ सदा द्वादशमासान् वै जुह्वानो जातवेदसम्। लोकमौशनसं दिव्यं शक्रलोकं च गच्छति॥ अश्विनोर्मरुतां चैव सुखेष्वभिरतः सदा। अनभिज्ञश्च दुःखानां विमानवरमास्थितः॥ सेव्यमानो वरस्त्रीभिः क्रीडत्यमरवत् प्रभुः। द्वाविंशे दिवसे प्राप्ते यो भुङ्क्ते ह्येकभोजनम्॥ सदा द्वादशमासान् वै जुह्वानो जातवेदसम्। अहिंसानिरतो धीमान् सत्यवागनसूयकः॥ लोकान् वसूनामाप्नोति दिवाकरसमप्रभः। कामचारी सुधाहारो विमानवरमास्थितः॥ रमते देवकन्याभिर्दिव्याभरणभूषितः। त्रयोविंशे तु दिवसे प्राशेद् यस्त्वेकभोजनम्॥ सदा द्वादशमासांस्तु मिताहारो जितेन्द्रियः। वायोरुशनसश्चैव रुद्रलोकं च गच्छति॥ कामचारी कामगमः पूज्यमानोऽप्सरोगणैः। अनेकगुणपर्यन्तं विमानवरमास्थितः॥ रमते देवकन्याभिर्दिव्याभरणभूषितः। चतुर्विंशे तु दिवसे यः प्राप्ते प्राशते हविः॥ सदा द्वादशमासांश्च जुह्वानो जातवेदसम्। आदित्यानामधीवासे मोदमानो वसेच्चिरम्॥ दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः। विमाने काञ्चने दिव्ये हंसयुक्ते मनोरमे॥ रमते देवकन्यानां सहस्रैरयुतैस्तथा। पञ्चविंशे तु दिवसे यः प्राशेदेकभोजनम्॥ सदा द्वादशमासांस्तु पुष्कलं यानमारूहेत्। सिंहव्याघ्रप्रयुक्तस्तु मेघनिःस्वननादितैः॥ स रथैर्नन्दिघोषैश्च पृष्ठतो ह्यनुगम्यते। देवकन्यासमारूढैः काञ्चनैर्विमलैः शुभैः॥ विमानमुत्तमं दिव्यमास्थाय सुमनोहरम्। तत्र कल्पसहस्रं वै वसते स्त्रीशतावृते॥ सुधारसं चोपजीवनमृतोपममुत्तमम्। षड्विंशे दिवसे यस्तु प्रकुर्यादेकभोजनम्॥ सदा द्वादशमासांस्तु नियतो नियताशनः। जितेन्द्रियो वीतरागो जुह्वानो जातवेदसम्॥ स प्राप्नोति महाभागः पूज्यमानोऽप्सरोगणैः। सप्तानां मरुतां लोकान् वसूनां चापि सोऽश्नुते॥१११ विमानैः स्फाटिकैर्दिव्यैः सर्वरत्नैरलंकृतैः। गन्धर्वैरप्सरोभिश्च पूज्यमानः प्रमोदते॥ द्वे युगानां सहस्रे तु दिव्ये दिव्येज तेजसा। सप्तविंशेऽथ दिवसे यः कुर्यादेकभोजनम्॥ सदा द्वादशमासांस्तु जुह्वानो जातवेदसम्। फलं प्राप्नोति विपुलं देवलोके च पूज्यते॥ अमृताशी वसंस्तत्र स वितृष्णः प्रमोदते। देवर्षिचरितं राजन् राजर्षिभिरनुष्ठितम्॥ अध्यावसति दिव्यात्मा विमानवरमास्थितः। स्त्रीभिर्मनोभिरामाभी रममाणो मदोत्कटः॥ युगकल्पसहस्राणि त्रीण्यावसति वै सुखम्। योऽष्टाविंशे तु दिवसे प्राश्नीयादेकभोजनम्॥ सदा द्वादशमासांस्तु जितात्मा विजितेन्द्रियः। फलं देवर्षिचरितं विपुलं समुपाश्नुते॥ भोगवांस्तेजसा भाति सहस्रांशुरिंवामलः। सुकुमार्यश्च नार्यस्तं रममाणाः सुवर्चसः॥ पीनस्तनोरुजघना दिव्याभरणभूषिताः। रमयन्ति मनःकान्ते विमाने सूर्यसंनिभे॥ सर्वकामगमे दिव्ये कल्पायुतशतं समाः। एकोनत्रिंशे दिवसे यः प्राशेदेकभोजनम्॥ सदा द्वादशमासान् वै जुह्वानो सत्यव्रतपरायणः। तस्य लोका: शुभा दिव्या देवराजर्षिपूजिताः॥ विमानं सूर्यचन्द्राभं दिव्यं समधिगच्छति। जातरूपमय युक्तं सर्वरत्नसमन्वितम्॥ अप्सरोगणसम्पूर्ण गन्धर्वैरभिनादितम्। तत्र चैनं शुभा नार्यो दिव्याभरणभूषिताः॥ मनोऽभिरामा मधुरा रमयन्ति मदोत्कटाः। भोगवांस्तेजसा युक्तो वैश्वानरसमप्रभः॥ दिव्यो दिव्येन वपुषा भ्राजमान इवामरः। वसूनां मरुतां चैव साध्यानामश्विनोस्तथा॥ रुद्राणां च तथा लोकं ब्रह्मलोकं च गच्छति। यस्तु मासे गते भुङ्क्ते एकभक्तं शमात्मकः॥ सदा द्वादशमासान् वै ब्रह्मलोकमवाप्नुयात्। सुधारसकृताहारः श्रीमान् सर्वमनोहरः॥ तेजसा वपुषा लक्ष्म्या भ्राजते रश्मिवानिव। दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः॥ सुखेष्वभिरतो भोगी दुःखानामविजानकः। स्वयंप्रभाभिर्नारीभिर्विमानस्थो महीयते॥ रुद्रदेवर्षिकन्याभिः सततं चाभिपूज्यते। नानारमणरूपाभि नारागाभिरेव च॥ नानामधुरभाषाभिर्नानारतिभिरेव च। विमाने गगनाकारे सूर्यवैदूर्यसंनिभे॥ पृष्ठतः सामसंकाशे उदर्के चाम्रसवन्निभे। दक्षिणायां तु रक्ताभे अधस्ताचीलमण्डले॥ ऊर्ध्वं विचित्रसंकाशे नैको वसति पूजितः। यावद् वर्षसहस्रं वै जम्बुद्वीपे प्रवर्षति॥ तावत् संवत्सराः प्रोक्ता ब्रह्मलोकेऽस्य धीमतः। विपुषश्चैव यावन्त्यो निपतन्ति नभस्तलात्॥ वर्षासु वर्षतस्तावन्निवसत्यमरप्रभः। मासोपवासी वर्षस्तु दशभिः स्वर्गमुत्तमम्॥ महर्षित्वमथासाद्य सशरीरगतिर्भवेत् मुनिर्दान्तो जितक्रोधो जितशिश्चोदरः सदा॥ जुह्वन्नग्नीश्च नियत: संध्योपासनसेविता। बहुभिर्नियमैरवं शुचिरश्नाति यो नरः॥ अभ्रावकाशशीलश्च तस्य भानोरिव त्विषः। दिवं गत्वा शरीरेण स्वेन राजन् यथामरः॥ स्वर्गे पुण्यं यथाकाममुपभुङ्क्ते तथाविधः। एष ते भरतश्रेष्ठ यज्ञानां विधिरुत्तमः॥ याख्यातो ह्यानुपूर्वेण उपवासफलात्मकः। दरिद्रैर्मनुजैः पार्थ प्राप्तं यज्ञफलं यथा॥ उपवासानिमान् कृत्वा गच्छेच्च परमां गतिम्। देवद्विजातिपूजायां रतो भरतसत्तम॥ उपवासविधिस्त्वेष विस्तरेण प्रकीर्तितः। नियतेष्वप्रमत्तेषु शौचवत्सु महात्मसु॥ दम्भद्रोहनिवृत्तेषु कृतबुद्धिषु भारत। अचलेष्वप्रकम्पेषु मा ते भूदत्र संशयः॥ युधिष्ठिर उवाच यद् वरं सर्वतीर्थानां तन्मे ब्रूहि पितामह। यत्र चैव परं शौचं तन्मे व्याख्यातुमर्हसि॥ भीष्म उवाच सर्वाणि खलु तीर्थानि गुणवन्ति मनीषिणः। यत्तु तीर्थं च शौचं च तन्मे शृणु समाहितः॥ अगाधे विमले शुद्ध सत्यतोये धृतिहदे। स्नातव्यं मानसे तीर्थे सत्त्वमालम्ब्य शाश्वतम्॥ तीर्थशौचमनर्थित्वमार्जवं सत्यमार्दवम्। अहिंसा सर्वभूतानामानृशंस्यं दमः शमः॥ निर्मला निरहंकारा निर्द्वन्द्वा निष्परिग्रहाः। शुचयस्तीर्थभूतास्ते ये भैक्ष्यमुपभुञ्जते॥ तत्त्ववित्त्वनहंबुद्धिस्तीर्थप्रवरमुच्यते। शौचलक्षणमेतत् ते सर्वत्रैवान्ववेक्षतः॥ रजस्तमः सत्त्वमथो येषां निधोतमात्मनः। शौचाशौचसमायुक्ताः स्वकार्यपरिमार्गिणः॥ सर्वत्यागेष्वभिरताः सर्वज्ञाः समदर्शिनः। शौचेन वृत्तशौचार्थास्तु तीर्थाः शुचयश्च ये॥ नोदकक्लिन्नगावस्तु स्नात इत्यभिधीयते। स स्नातो यो दमस्नात:स बाह्याभ्यन्तरःशुचिः॥ अतीतेष्वनपेक्षा ये प्राप्तेष्वर्थेषु निर्ममाः। शोचमेव परं तेषां येषां नोत्पद्यते स्पृहा॥ प्रज्ञानं शौचमेवेह शरीरस्य विशेषतः। तथा निष्किंचनत्वं च मनसश्च प्रसन्नता॥ वृत्तशौचं मनःशौचं तीर्थशौचमतः परम्। ज्ञानोत्पन्नं च यच्छौचं तच्छौचं परमं स्मृतम्॥ मनसा च प्रदीप्तेन ब्रह्मज्ञानजलेन च। स्नाति यो मानसे तीर्थे तत्स्नानं तत्त्वदर्शिनः॥ समारोपितशौचस्तु नित्यं भावसमाहितः। केवलं गुणसम्पन्नः शुचिरेव नरः सदा॥ शरीरस्थानि तीर्थानि प्रोक्तान्येतानि भारत। पृथिव्यां यानि तीर्थानि पुण्यानि शृणु तान्यपि॥ शरीरस्य यथोद्देशाः शुचयः परिकीर्तिताः। तथा पृथिव्या भागाश्च पुण्यानि सलिलानि च॥ कीर्तनाच्चैव तीर्थस्य स्नानाच्च पितृतर्पणात्। धुनन्ति पापं तीर्थेषु ते प्रयान्ति सुखं दिवम्॥ परिग्रहाच्च साधूनां पृथिव्याश्चैव तेजसा। अतीव पुण्यभागास्ते सलिलस्य च तेजसा॥ मनसश्च पृथिव्याश्च पुण्यास्तीर्थास्तथापरे। उभयोरेव यःस्नायात् स सिद्धिं शीघ्रमाप्नुयात्॥ यथा बलं क्रियाहीनं क्रिया वा बलवर्जिता। नेह साधयते कार्य समायुक्ता तु सिध्यति॥ एवं शरीरशौचेन तीर्थशौचेन चान्वितः। शुचिः सिद्धिमवाप्नोति द्विविधं शौचमुत्तमम्॥ युधिष्ठिर उवाच पितामहं महाप्राज्ञ सर्वशास्त्रविशारद। श्रोतुमिच्छामि मानां संसारविधिमुत्तमम्॥ केन वृत्तेन राजेन्द्र वर्तमाना नरा भुवि। प्राप्नुवन्त्युत्तमं स्वर्गे कथं च नरकं नृप॥ मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः। प्रयान्त्यमुं लोकमितः को वै ताननुगच्छति॥ भीष्म उवाच अयमायाति भगवान् बृहस्पतिरुदारधीः। पृच्छैनं सुमहाभागमेतद् गुह्यं सनातनम्॥ नैतदन्येन शक्यं हि वक्तुं केनचिदद्य वै। वक्ता बृहस्पति समो न ह्यन्यो विद्यते क्वचित्॥ वैशम्पायन उवाच तयोः संवदतोरेवं पार्थमाङ्गेययोस्तदा। आजगाम विशुद्धद्वात्मा नाकपृष्ठाद् बृहस्पतिः॥ ततो राजा समुत्थाय धृतराष्ट्रपुरोगमः। पूजामनुपमा चक्रे सर्वे ते च सभासदः॥ ततो धर्मसुतो राजा भगवन्तं बृहस्पतिम्। उपगम्य यथान्यायं प्रश्न पप्रच्छ तत्त्वतः॥ युधिष्ठिर उवाच भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद। मर्त्यस्य कः सहायो वै पिता माता सुतो गुरुः॥ ज्ञातिसम्बन्धिवर्गश्च मित्रवर्गस्तथैव च। मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः॥ बृहस्पतिरुवाच गच्छन्त्यमुत्र लोकं वै क एनमनुगच्छति। एकः प्रसूयते राजन्नेक एव विनश्यति॥ धर्म:सहायश्च एकस्तरति दुर्गाणि गच्छत्येकस्तु दुर्गतिम्। असहाय: पिता माता तथा भ्राता सुतो गुरुः॥ ज्ञातिसम्बन्धिवर्गश्च मित्रवर्गस्तथैव च। मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः॥ मुहूर्तमिव रोदित्वा ततो यान्ति पराङ्मुखः। तैस्तच्छरीरमुत्सृष्टं धर्म एकोऽनुगच्छति॥ तस्माद् सेवितव्यः सदा नृभिः। प्राणी धर्मसमायुक्तो गच्छेत् स्वर्गगतिं पराम्॥ तथैवाधर्मसंयुक्तो नरकं चोपपद्यते। तस्मान्यायागतैरथैर्धर्मे सेवेत पण्डितः॥ धर्म एको मनुष्याणां सहाय: परिलौकिकः। लोभान्मोहादनुक्रोशाद् भयाद् वाप्यबहुश्रुतः॥ नरः करोत्यकार्याणि परार्थं लोभमोहितः। धर्मश्चार्थश्च कामश्च त्रितयं जीविते फलम्॥ एतत् त्रयमवाप्तव्ययधर्मपरिवर्जितम्। युधिष्ठिर उवाच श्रुतं भगवतो वाक्यं धर्मयुक्तं परं हितम्॥ शरीरनिचयं ज्ञातुं बुद्धिस्तु मम जायते। मृतं शरीर हि नृणां सूक्ष्ममव्यक्ततां गतम्॥ अचक्षुर्विषयं प्राप्तं कथं धर्मोऽनुगच्छति। बृहस्पतिरुवाच पृथिवी वायुराकाशमापो ज्योतिर्मनोऽन्तगः॥ बुद्धिरात्मा च सहिता धर्मं पश्यन्ति नित्यदा। प्राणिनामिह सर्वेषां साक्षिभूता निशानिशम्॥ एतैश्च सह धर्मोऽपि तं जीवमनुगच्छति। त्वगस्थिमांसं शुक्रं च शोणितं च महामते॥ शरीरं वर्जयन्त्येते जीवितेन विवर्जितम् ततो धर्मसमायुक्तः प्राप्नुते जीव एव हि॥ ततोऽस्य कर्म पश्यन्ति शुभं वा यदि वाशुभम्। देवताः पञ्चभूतस्थाः किं भूयः श्रोतुमिच्छसि॥ ततो धर्मसमायुक्तः स जीव: सुखमेधते। इहलोके परे चैव किं भूयः कथयामि ते॥ युधिष्ठिर उवाच तद् दर्शितं भगवता यथा धर्मोऽनुगच्छति। एतत् तु ज्ञातमिच्छामि कथं रेतः प्रवर्तते॥ बृहस्पति रुवाच अन्नमश्नन्ति यद् देवाः शरीरस्था नरेश्वर। पृथिवी वायुराकाशमापो ज्योतिर्मनस्तथा॥ ततस्तृप्तेषु राजेन्द्र तेषु भूतेषु पञ्चसु। मनःषष्ठेषु शुद्धात्मन् रेतः सम्पद्यते महत्॥ ततो गर्भ: सम्भवति श्लेषात् स्त्रीपुंसयोर्नृप। भूयः किं श्रोतुमिच्छसि॥ युधिष्ठिर उवाच आख्यातं मे भगवता गर्भः संजायते यथा। यथा जातस्तु पुरुषः प्रपद्यति तदुच्यताम्॥ बृहस्पतिरुवाच एतत् ते सर्वमाख्यातं आसन्नमात्रः पुरुषस्तैर्भूतैरभिभूयते। विप्रयुक्तश्च तैर्भूतैः पुनर्यात्यपरां गतिम्॥ सर्वभूतसमायुक्तः प्राप्नुते जीव एव हि। ततोऽस्य कर्म पश्यन्ति शुभं वा यदि वाशुभम्। देवताः पञ्चभूतस्था: किं भूयः श्रोतुमिच्छसि॥ युधिष्ठिर उवाच त्वगस्थिमांसमुत्सृज्य तैश्च भूतैर्विवर्जितः। जीवःस भगवन् क्वस्थः सुखदुःखे समश्नुते॥ बृहस्पतिरुवाच जीवः कर्मसमायुक्तः शीघ्रं रेतस्त्वमागतः। स्त्रीणां पुष्पं समासाद्य सूते काले भारत॥ यमस्य पुरुषैः क्लेशं यमस्य पुरुषैर्वधम्। दुःखं संसारचक्रं च नरः क्लेशं स विन्दति॥ इहलोके च स प्राणी जन्मप्रभृति पार्थिव। सुकृतं कर्म वै भुक्ते धर्मस्य फलमाश्रितः॥ यदि धर्म यथाशक्ति जन्मप्रभृति सेवते। ततः स पुरुषो भूत्वा सेवते नित्यदा सुखम्॥ अथान्तरा तु धर्मस्पाप्यधर्ममुपसेवते। सुखस्यानन्तरं दुःखं स जीवोऽप्यधिगच्छति॥ अधर्मेण समायुक्तो यमस्य विषयं गतः। महद् दुःखं समासाद्य तिर्यग्योनौ प्रजायते॥ कर्मणा येन येनेह यस्यां योनौ प्रजायते। जीवो मोहसमायुक्तस्तन्मे निगदतः शृणु॥ यदेतदुच्यते शास्त्रे सेतिहासे च च्छन्दसि। यमस्य विषयं घोरं मया लोकः प्रपद्यते॥ इह स्थानानि पुण्यानि देवतुल्यानि भूपते। तिर्यग्योन्यतिरिक्तानि गतिमन्ति च सर्वशः॥ यमस्य भवने दिव्ये ब्रह्मलोकसमे गुणैः। कर्मभिर्नियतैर्बद्धो जन्तुर्दुःखान्युपाश्नुते॥ येन येन तु भावेन कर्मणा पुरुषो गतिम्। प्रयाति परुषां घोरां तत्ते वक्ष्याम्यत: परम्॥ अधीत्य चतुरो वेदान् द्विजो मोहसमन्वितः। पतितात् प्रतिगृह्याथ खरयोनौ प्रजायते॥ खरो जीवति वर्षाणि दस पञ्च च भारत। खरो मृतो बलीवर्दः सप्त वर्षाणि जीवति॥ बलीवर्दो मृतश्चापि जायते ब्रह्मराक्षसः। ब्रह्मरक्षश्च मासांस्त्रीस्ततो जायति ब्राह्मणः॥ पतितं याजयित्वा तु कृतियोनौ प्रजायते। तत्र जीवति वर्षाणि दश पञ्च च भारत॥ कृमिभावाद् विमुक्तस्तु ततो जायति गर्दभः। गर्दभः पञ्च वर्षाणि पञ्च वर्षाणि सूकरः॥ कुक्कुटः पञ्च वर्षाणि पञ्च वर्षाणि जम्बुकः। श्रा वर्षमेकं भवति ततो जायति मानवः॥ उपाध्यायस्य यः पापं शिष्यः कुर्यादबुद्धिमान्। स जीव इह संसारांस्त्रीनाप्नोति न संशयः॥ प्राश्वा भवति राजेन्द्र ततः क्रव्यात्ततः खरः। ततः प्रेतः परिक्लिष्टः पश्चाज्जायति ब्राह्मणः॥ मनसापि गुरोर्भार्यां यः शिष्यो याति पापकृत्। स उग्रान् प्रैति संसारानधर्मेणेह चेतसा॥ वयोनौ तु स सम्भूतस्त्रीणि वर्षाणि जीवति। तत्रापि निधनं प्राप्तः कृमियोनौ प्रजायते॥ कृमिभावमनुप्राप्तो वर्षमेकं तु जीवति। ततस्तु निधनं प्राप्तो ब्रह्मयोनौ प्रजायते॥ यदि पुत्रसमं शिष्यं गुरुर्हन्यादकारणे। आत्मनः कामकारेण सोऽपि हिंस्रः प्रजायते॥ पितरं मातरं चैव यस्तु पुत्रोऽवमन्यते। सोऽपि राजन् मृतो जन्तुः पूर्वं जायेत गर्दभः॥ गर्दभत्वं तु सम्प्राप्य दशवर्षाणि जीवति। संवत्सरं तु कुम्भीरस्ततो जायेत मानवः॥ पुत्रस्य मातापितरौ यस्य रुष्टावुभावपि। गुर्वपध्यानतः सोऽपि मृतो जायति गर्दभः॥ खरो जीवति मासांस्तु दश श्वा च चतुर्दश। बिडालः सप्तमासांस्तु ततो जायति मानवः॥ मातापितरावाश्य सारिकः सम्प्रजायते। ताडयित्वा तु तावेव जायते कच्छपो नृप॥ कच्छपो दश वर्षाणि त्रीणि वर्षाणि शल्यकः। व्यालो भूत्वा च षण्मासांस्ततो जायति मानुषः॥ भर्तृपिण्डमुपाश्नन् यो राजद्विष्टानि सेवते। सोऽपि मोहसमापन्नो मृतो जायति वानरः॥ वानरो दश वर्षाणि पञ्च वर्षाणि मूषिकः। श्वाथ भूत्वा तु षण्मा सांस्ततो जायति मानुषः॥ न्यासापहर्ता तु नरो यमस्य विषयं गतः। संसाराणां शतं गत्वा कृमियोनौ प्रजायते॥ तत्र जीवति वर्षाणि दश पञ्च च भारत। दुष्कृतस्य क्षयं कृत्वा ततो जायति मानुषः॥ असूयको नरश्चापि मृतो जायति शार्ङ्गकः। विश्वासहर्ता तु नरो मीनो जायति दुर्मतिः॥ भूत्वा मीनोऽष्ट वर्षाणि मृतो जायति भारत। मृगस्तु चतुरो मासांस्ततश्छागः प्रजायते॥ छागस्तु निधनं प्राप्य पूर्ण संवत्सरे ततः। कीटः संजायते जन्तुस्ततो जायति मानुषः॥ धान्यान् यवास्तिलान् माषान् कुलत्थान् सर्षपांश्चणान् कलापानथ मुद्गांश्च गोधूमानतसींस्तथा॥ सस्यस्यान्यस्य हर्ता च मोहाज्जन्तुरचेतनः। स जायते महाराज मूषिको निरपत्रपः॥ ततः प्रेत्य महाराज मृतो जायति सूकरः। सूकरो जातमात्रस्तु रोगेण म्रियते नृप।॥ श्वा ततो जायते पूढः कर्मणा तेन पार्थिव। भूत्वा श्वा पञ्च वर्षाणि ततो जायति मानवः॥ परदाराभिमर्श तु कृत्वा जायति वै वृकः। श्वा शृगालस्ततो गृध्रो व्याल:कंको बकस्तथा॥ भ्रातुर्भार्यो तु पापात्मा यो धर्षयति मोहितः। पुस्कोकिलत्वमाप्नोति सोऽपि संवत्सरं नृप॥ सखिभार्यां गुरोर्भार्यां राजभार्यां तथैव च। प्रधर्षयित्वा कामाया मृतो जायति सूकरः॥ सूकरः पञ्च वर्षाणि दश वर्षाणि श्वाविधः। बिडालः पञ्च वर्षाणि दश वर्षाणि कुक्कुटः॥ पिपीलकस्तु मासांस्त्रीन् कीट:स्यान्मासमेव तु। एतानासाद्य संसारान् कृमियोनौ प्रजायते॥ तत्र जीवति मासांस्तु कृमियोनौ चतुर्दश। ततोऽधर्मक्षयं कृत्वा पुनर्जायति मानवः॥ उपस्थिते विवाहे तु यज्ञे दानेऽपि वा विभो। मोहात् करोति यो विघ्नं स मृतो जायते कृमिः॥ कृमिर्जीवति वर्षाणि दश पञ्च च भारत। अधर्मस्य क्षयं कृत्वा ततो जायति मानवः॥ पूर्वं दत्त्वा तु यः कन्यां द्वितीये दातुमिच्छति। सोऽपि राजन् मृतो जन्तुः कृमियोनौ प्रजायते॥ तत्र जीवति वर्षाणि त्रयोदश युधिष्ठिर। अधर्मसंक्षये युक्तस्ततो जायति मानवः॥ देवकार्यमकृत्वा तु पितृकार्यमथापि वा। अनिर्वाप्य समश्चन् वै मृतो जायति वायसः॥ वायसः शतवर्षाणि ततो जायति कुक्कुटः। जायते व्यालकश्चापि मासं तस्मात् तु मानुषः॥ ज्येष्ठं पितृसमं चापि भ्रातरं योऽवमन्यते। सोऽपि मृत्युमुपागम्य क्रौञ्चयोनौ प्रजायते॥ क्रौञ्चो जीवति वर्षे तु ततो जायति चीरकः। ततो निधनमापन्नो मानुषत्वमुपाश्नुते॥ वृषलो ब्राह्मणीं गत्वा कृमियोनौ प्रजायते। ततः सम्प्राप्य निधनं जायते सूकरः पुनः॥ सूकरो जातमात्रस्तु रोगेण म्रियते नृप। श्वा ततो जायते मूढः कर्मणा तेन पार्थिव॥ श्वा भूत्वा कृतकर्माऽसौ जायते मानुषस्ततः। तत्रापत्यं समुत्पाद्य मृतो जायति मूषिकः॥ कृतघ्नस्तु मृतो राजन् यमस्य विषयं गतः। यमस्य पुरुषैः क्रुद्धैर्वधं प्राप्नोति दारुणम्॥ दण्डं समुन्दरं शूलमग्निकुम्भं च दारुणम्। असिपत्रवनं घोरवालुकं कूटशाल्मलीम्॥ एताश्चान्याश्च बह्वीश्च यमस्य विषयं गतः। यातनाः प्राप्य तत्रोग्रास्ततो वध्यति भारत॥ ततो हतः कृतघ्नः स तत्रोग्रैर्भरतर्षभ। संसारचक्रमासाद्य कृमियोनौ प्रजायते॥ कृमिर्भवति वर्षाणि दश पञ्च च भारत। ततो गर्भं समासाद्य तत्रैव म्रियते शिशुः॥ ततो गर्भशतैर्जन्तुर्बहुभिः सम्प्रद्यते। संसारांश्च बहून् गत्वा ततस्तिर्यक्षु जायते॥ ततो दुःखमनुप्राप्य बहु वर्षगणानिह। अपुनर्भवसंयुक्तस्तत: कूर्मः प्रजायते॥ दधि हत्वा बकश्चापि प्लवो मत्स्यानसंस्कृतान्। चोरयित्वा तु दुर्बुद्धिर्मधु दंशः प्रजायते॥ फलं वा मूलकं हृत्वा अपूपं वा पिपीलिकाः। चोरयित्वा च निष्पावं जायते हलगोलकः॥ पायसं चोरयित्वा तु तित्तिरित्वमवाप्नुते। हृत्वा पिष्टमयं पूपं कुम्भोलूकः प्रजायते॥ अयो हत्वा तु दुर्बुद्धिर्वायसो जायते नरः। कांस्यं हत्वा तु दुर्बुद्धिरेरितो जायते नरः॥ राजतं भाजनं हृत्वा कपोतः सम्प्रजायते। हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते॥ पत्रोर्णं चोरयित्वा तु कृकलत्वं निगच्छति। कौशिकं तु ततो हत्वा नरो जायति वर्तकः॥ अंशुकं चोरयित्वा तु शुको जायति मानवः। चोरयित्वा दुकूलं तु मृतो हंसः प्रजायते॥ क्रौञ्चः कासिकं हृत्वा मृतो जायति मानवः। चोरयित्वा नरः पटें त्वाविकं चैव भारत॥ क्षौमं च वस्त्रमादाय शशो जन्तुः प्रजायते। वर्णान् हृत्वा तु पुरुषो मृतो जायति बर्हिणः॥ हृत्वा रक्तानि वस्त्राणि जायते जीवजीवकः। वर्णकादींस्तथा गन्धांश्चोरयित्वेह मानवः॥ छुच्छन्दरित्वमाप्नोति राजञ्लोभपरायणः। तत्र जीवति वर्षाणि ततो दश च पञ्च च॥ अधर्मस्य क्षयं गत्वा ततो जायति मानुषः। चोरयित्वा पयश्चापि बलाका सम्प्रजायते॥ यस्तु चोरयते तैलं नरो मोहसमन्वितः। सोऽपि राजन् मृतो जन्तुस्तैलपायी प्रजायते॥ अशस्त्रं पुरुषं हत्वा सशस्त्र: पुरुषाधमः। अर्थार्थी यदि वा वैरी स मृतो जायते खरः॥ खरो जीवति वर्षे द्वे ततः शस्त्रेण वध्यते। स मृतो मृगयोनौ तु नित्योद्विग्नोऽभिजायते॥ अधर्मस्य क्षयं कृत्वा मृगो वध्यति शस्त्रेण गते संवत्सरे तु सः। हतो मृगस्ततो मीनः सोऽपि जालेन बध्यते॥ मासे चतुर्थे सम्प्राप्ते श्वापदः सम्प्रजायते। श्वापदो दश वर्षाणि द्वीपी वर्षाणि पञ्च च॥ ततस्तु निधनं प्राप्तः कालपर्यायचोदितः। ततो जायति मानुषः॥ स्त्रियं हत्वा तु दुर्बुद्धिर्यमस्य विषयं गतः। बहून् क्लेशान् समासाद्य संसारांश्चैव विंशतिम्॥११७ ततः पश्चान्महाराज कृमियोनौ प्रजायते। कृमिर्विंशतिवर्षाणि भूत्वा जायति मानुषः॥ भोजनं चोरयित्वा तु मक्षिका जायते नरः। मक्षिकासंघवशगो बहून् मासान् भवत्युता। ११९ ।। ततः पापक्षयं कृत्वा मानुषत्वमवाप्नुते। धान्यं हत्वा तु पुरुषो लोमशः सम्प्रजायते॥ तथा पिण्याकसम्मिश्रमशनं चोरयेन्नरः। स जायते बभ्रुसमो दारुणो मूषिको नरः॥ दशन् वै मानुषान्नित्यं पापात्मा स विशाम्पते। घृतं हृत्वा तु दुर्बुद्धिः काकमद्गुः प्रजायते॥ मत्स्यमांसमथो हृत्वा काको जायति दुर्मतिः। लवणं चोरयित्वा तु चिरिकाकः प्रजायते॥ विश्वासेन तु निक्षिप्तं यो विनिहोति मानवः। स गतायुर्नरस्तात मत्स्ययोनौ प्रजायते॥ मत्स्ययोनिमनुप्राप्य मृतो जायति मानुषः। मानुषत्वमनुप्राप्य क्षीणायुरुपपद्यते॥ पापानि तु नराः कृत्वा तिर्यग् जायन्ति भारत। न चात्मनः प्रमाणं ते धर्मे जानन्ति किंचन॥ ये पापानि नराः कृत्वा निरस्यन्ति व्रतैः सदा। सुखदुःखसमायुक्ता व्यथितास्ते भवन्त्युत॥ असंवासाः प्रजायन्ते म्लेच्छाश्चापि न संशयः। नराः पापसमाचारा लोभमोहसमन्विताः॥ वर्जयन्ति च पापानि जन्मप्रभृति ये नराः। अरोगा रूपवन्तस्ते धनिनश्च भवन्त्युत॥ स्त्रियोऽप्येतेन कल्पेन कृत्वा पापमवाप्नुयुः। एतेषामेव जन्तूनां भार्यात्वमुपयान्ति ताः॥ परस्वहरणे दोषाः सर्व एव प्रकीर्तिताः। एतद्धि लेशमात्रेण कथितं ते मयाऽनद्य॥ अपरस्मिन् कथायोगे भूयः श्रोष्यसि भारत। एतन्मया महाराज ब्रह्मणो वदतः पुरा॥ सुरर्षीणां श्रुतं मध्ये पृष्टश्चापि यथातथम्। मयापि तच्च कार्थेन यथावदनुवर्णितम्। एतच्छुत्वा महाराज धर्मे कुरु मनः सदा॥ युधिष्ठिर उवाच अर्धमस्य गतिर्ब्रह्मन् कथिता मे त्वयाऽनघ। धर्मस्य तु गतिं श्रोतुमिच्छामि वदतां वर॥ कृत्वा कर्माणि पापानि कथं यान्ति शुभां गतिम्। कर्मणा च कृतेनेह केन यान्ति शुभां गतिम्॥ बृहस्पतिरुवाच कृत्वा पापानि कर्माणि अधर्मवशमागतः। मनसा विपरीतेन निरयं प्रतिपद्यते॥ मोहादधर्मं यः कृत्वा पुनः समनुतप्यते। मन:समाधिसंयुक्तो न स सेवेते दुष्कृतम्॥ यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हते। तथा तथा शरीर तु तेनाधर्मेण मुच्यते॥ यदि व्याहरते राजन् विप्राणां धर्मवादिनाम्। ततोऽधर्मकृतात् क्षिप्रमवादात् प्रमुच्यते॥ यथा यथा नरः सम्यगधर्ममनुभाषते। समाहितेन मनसा विमुच्येत तथा तथा। भुजङ्ग इव निर्मोकात् पूर्वमुक्ताज्जरान्वितात्॥ दत्त्वा विप्रस्य दानानि विविधानि समाहितः। मन:समाधिसंयुक्तः सुगति प्रतिपद्यते॥ प्रदानानि तु वक्ष्यामि यानि दत्त्वा युधिष्ठिर। नरः कृत्वाप्यकार्याणि ततो धर्मेण युज्यते॥ सर्वेषामेव दानानामन्नं श्रेष्ठमुदाहृतम्। पूर्वमन्नं प्रदातव्यमृजुना धर्ममिच्छता॥ प्राणा ह्यन्नं मनुष्याणां तस्माज्जन्तुश्च जायते। अन्ने प्रतिष्ठितो लोकस्तस्मादनं प्रशस्यते॥ अन्नमेव प्रशंसन्ति देवर्षिपितृमानवाः। अन्नस्य हि प्रदानेन रन्तिदेवो दिवं गतः॥ न्यायलब्धं प्रदातव्यं द्विजातिभ्योऽन्नमुत्तमम्। स्वाध्यायं समुपेतेभ्यः प्रहृष्टेनान्तरात्मना॥ यस्य ह्यन्नमुपाश्नन्ति ब्राह्मणानां शतं दशं। हृष्टेन मनसा दत्तं न स तिर्यग्गतिर्भवेत्॥ ब्राह्मणानां सहस्राणि दश भोज्य नरर्षभ। नरोऽधर्मात् प्रमुच्येत योगेष्वभिरतः सदा॥ भैक्ष्येणान्नं समाहृत्य विप्रो वेदपुरस्कृतः। स्वाध्यायनिरते विप्रे दत्त्वेह सुखमेधते॥ अहिंसन् ब्राह्मणस्वानि न्यायेन परिपाल्य च। क्षत्रियस्तरसा प्राप्तमन्नं यो वै प्रयच्छति॥ द्विजेभ्यो वेदवृद्धेभ्यः प्रयत: सुसमाहितः। तेनोपोहति धर्मात्मन् दुष्कृतं कर्म पाण्डव॥ षड्भागपरिशुद्धं च कृपेर्भागमुपार्जितम्। वैश्यो ददद् द्विजातिभ्यः पापेभ्यः परिमुच्यते॥ अवाप्य प्राणसंदेहं कार्कश्येन समार्जितम्। अन्नं दत्त्वा द्विजातिभ्यः शूद्रः पापात्प्रमुच्यते॥ औरसेन बलेनान्नमर्जयित्वाविहिंसकः। यः प्रयच्छति विप्रेभ्यो न स दुर्गाणि पश्यति॥ न्यायेनैवाप्तमन्नं तु नरो हर्षसमन्वितः। द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात् प्रमुच्यते॥ अन्नपूर्जस्करं लोके दत्त्वोर्जस्वी भवेन्नरः। सतां पन्थानमावृत्य सर्वपापैः प्रमुच्यते॥ दानवद्भिः कृतः पन्था येन यान्ति मनीषिणः। ते हि प्राणस्य दातारस्तेभ्यो धर्मः सनातनः॥ सर्वावस्थं मनुष्येण न्यायेनान्नमुपार्जितम्। कार्यं पात्रागतं नित्यमन्नं हि परमा गतिः॥ अन्नस्य हि प्रदानेन नरो रौद्रं न सेवते। तस्मादन्नं प्रदातव्यमन्यायपरिवर्जितम्॥ यतेद् ब्राह्मणपूर्वं हि भोक्तुमन्नं गृही सदा। अवन्ध्यं दिवसं कुर्यादन्नदानेन मानवः॥ भोजयित्वा दशशतं नरो वेदविदां नृप। न्यायविद्धर्मविदुषामितिहासविदां तथा॥ न याति नरकं घोरं संसारांश्च न सेवते। सर्वकामसमायुक्तः प्रेत्य चाप्यश्नुते सुखम्॥ एवं खलु समायुक्तो रमते विगतज्वरः। रूपवान् कीर्तिमांश्चैव धनवांश्चोपपद्यते॥ एतत् ते सर्वमाख्यातमन्नदानफलं महत्। मूलमेतत् तु धर्माणां प्रदानानां च भारता॥ युधिष्ठिर उवाच अहिंसा वैदिकं कर्म ध्यानमिन्द्रियसंयमः। तपोऽथ गुरुशुश्रूषा किं श्रेयः पुरुषं प्रति॥ बृहस्पति रुवाच सर्वाण्येतानि धाणि पृथग्द्वाराणि सर्वशः। शृणु संकीर्त्यमानानि षडेव भरतर्षभ॥ हन्त निःश्रेयसं जन्तोरहं वक्ष्याम्यनुत्तमम्। अहिंसापाश्रयं धर्मं यः साधयति वै नरः॥ त्रीन् दोषान् सर्वभूतेषु निधाय पुरुषः सदा। कामक्रोधौ च संयम्य ततः सिद्धिमवाप्नुते॥ अहिंसकानि भूतानि दण्डेन विनिहन्ति यः। आत्मनः सुखमन्विच्छन् स प्रेत्य न सुखी भवेत्॥ आत्मोपमस्तु भूतेषु यो वै भवति पुरुषः। न्यस्तदण्डो जितक्रोधः स प्रेत्य सुखमेधते॥ सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः। देवाऽपि मार्गे मुह्यन्ति अपदस्य पदैषिणः॥ न तत् परस्य संदध्यात् प्रतिकूलं यदात्मनः। एष संक्षेपतो धर्मः कामादन्यः प्रवर्तते॥ प्रत्याख्याने च दाने च सुखदुःखे प्रियाप्रिये। आत्मौपम्येन पुरुषः प्रमाणमधिगच्छति॥ यथाऽपरः प्रक्रमते परेषु तथापरे प्रक्रमन्ते परस्मिन्। तथैव तेऽस्तूपमा जीवलोके यथा धर्मो नैपुणेनोपदिष्ट॥१० वैशम्पायन उवाच इत्युक्त्वा तं सुरगुरुर्धर्मराज युधिष्ठिरम्। दिवमाचक्रमे धीमान् पश्यतामेव नस्तदा॥ वैशम्पायन उवाच ततो युधिष्ठिरो राजा शरतल्पे पितामहम्। पुनरेव महातेजाः पप्रच्छ वदतां वरः॥ युधिष्ठिर उवाच ऋषयो ब्राह्मणा देवाः प्रशंसन्ति महामते। अहिंसालक्षणं धर्म वेदप्रामाण्यदर्शनात्॥ कर्मणा मनुजः कुर्वन् हिंसा पार्थिवसत्तम। वाचा च मनसा चैव कथं दुःखात् प्रमुच्यते॥ भीष्म उवाच चतुर्विधेयं निर्दिष्टा ह्यहिंसा ब्रह्मवादिभिः। एकैकतोऽपि विभ्रष्टा न भवत्यरिसूदन॥ यथा सर्वश्चतुष्याद् वै त्रिभिः पादै तिष्ठति। तथैवेयं महीपाल कारणैः प्रोच्यते त्रिभिः॥ यथा नागपदेऽन्यानि पदानि पदगामिनाम्। सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे॥ एवं लोकेष्वहिंसा तु निर्दिष्टा धर्मतः पुरा। कर्मणा लिप्यते जन्तुर्वाचा च मनसापि च॥ पूर्वं तु मनसा त्यक्त्वा तथा वाचाऽथ कर्मणा। न भक्षयति सो मांसं त्रिविधं स विमुच्यते॥ विकारणं तु निर्दिष्टं श्रूयते ब्रह्मवादिभिः। मनो वाचि तथाऽऽस्वादे दोषा ह्येषु प्रतिष्ठिताः॥ न भक्षयन्त्यतो मांसं तपोयुक्ता मनीषिणः। दोषांस्तु भक्षणे राजन् मांसस्येह निबोध मे॥ पुत्रमांसोपमं जानन् खादते योऽविचक्षणः। मांसं मोहसमायुक्तः पुरुषः सोऽधमः स्मृतः॥ पितृमातृसमायोगे पुत्रत्वं जायते यथा। हिंसां कृत्वावशः पापो भूयिष्ठं जायते तथा॥ रसं च प्रतिजिह्वाया ज्ञानं प्रज्ञायते यथा। तथा शास्त्रत्रेषु नियतं रागो ह्यास्वादिताद् भवेत्॥ संस्कृतासंस्कृताः पक्वा लवणालवणास्तथा। प्रजायन्ते यथा भावास्तथा चित्तं निरुध्यते॥ भेरीमृदङ्गशब्दांश्च तन्त्रीशब्दांश्च पुष्कलान्। निषेविष्यन्ति वै मन्दा मांसभक्षाः कथं नराः॥ अचिन्तितमनिर्दिष्टमसंकल्पितमेव च। रसवृद्ध्याभिभूता ये प्रशंसन्ति फलार्थिनः॥ प्रशंसा ह्येव मांसस्य दोषकर्मफलान्विता॥ जीवितं हि परित्यज्य बहवः साधवो जनाः। स्वमासैः परमांसानि परिपाल्य दिवं गताः॥ एवमेषा महाराज चतुर्भिः कारणैर्वृता। अहिंसा तव निर्दिष्टा सर्वधर्मानुसंहिता॥ युधिष्ठिर उवाच अहिंसा परमो धर्म इत्युक्तं बहुशस्त्वया। जातो नः संशयो धर्मे मांसस्य परिवर्जने। दोषो भक्षयतः कः स्यात् कश्चाभक्षयतो गुणः॥ हत्वा भक्षयतो वापि परेणोपहतस्य वा। हन्याद् वा यः परस्यार्थं क्रीत्वा वा भक्षयेन्नरः॥ एतदिच्छामि तत्त्वेन कथ्यमानं त्वयानघ। निश्चयेन चिकीर्षामि धर्ममेतं सनातनम्॥ कथमायुरवाप्नोति कथं भवति सत्त्ववान्। कथमव्यङ्गतामेति लक्षण्यो जायते कथम्॥ भीष्म उवाच मांसस्याभक्षणाद् राजन् यो धर्मः कुरुनन्दन। तन्मे शृणु यथातत्त्वं यथास्य विधिरुत्तमः॥ रूपमव्यङ्गतामायुर्बुद्धिं सत्त्वं बलं स्मृतिम्। प्राप्तुकामैनरैहिंसा वर्जिता वै महात्मभिः॥ ऋषीणामत्र संवादो बहुशः कुरुनन्दन। बभूव तेषां तु मतं यत् तच्छृणु युधिष्ठिर।॥ यो यजेताश्वमेधेन मासि मासि यतव्रतः। वर्जयेन्मधु मांसं च सममेतद् युधिष्ठिर॥ सप्तर्षयो वालखिल्यास्तथैव च मरीचिपाः। अमांसभक्षणं राजन् प्रशंसन्ति मनीषिणः॥ न भक्षयति यो मांसं न च हन्यान्न घातयेत्। तन्मित्रं सर्वभूतानां मनुः स्वायम्भुवोऽब्रवीत्॥ अधृष्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु। साधूनां सम्मतो नित्यं भवेन्मांसं विवर्जयन्॥ स्वमांसं परमांसेन यो वर्धयितुमिच्छति। नारदः प्राह धर्मात्मा नियतं सोऽवसीदति॥ ददाति यजते चापि तपस्वी च भवत्यपि। मधुमांसनिवृत्त्येति प्राहु चैवं बृहस्पतिः॥ मासि मास्यश्वमेधेन यो यजेत शतं समाः। न खादति च यो मांसं सममेतन्मतं मम॥ सदा यजति सत्रेण सदा दानं प्रयच्छति। सदा तपस्वी भवति मधुमांसविवर्जनात्॥ सर्वे वेदा न तत् कुर्युः सर्वे यज्ञाश्च भारत। यो भक्षयित्वा मांसानि पश्चादपि निवर्तते॥ दुष्करं च रसज्ञाने मांसस्य परिवर्जनम्। चर्तुं व्रतमिदं श्रेष्ठं सर्वप्राण्यभयप्रदम्॥ सर्वभूतेषु यो विद्वान् ददात्यभयदक्षिणाम्। दाता भवति लोके स प्राणानां नात्र संशयः॥ एवं वै परमं धर्मे प्रशंसन्ति मनीषिणः। प्राणा यथाऽऽत्मनोऽभीष्टा भूतानामपि वै तथा॥ आत्मौपम्येन मन्तव्यं बुद्धिमद्भिः कृतात्मभिः। मृत्युतो भयमस्तीति विदुषां भूतिमिच्छताम्॥ किं पुनर्हन्यमानानां तरसा जीवितार्थिनाम्। अरोगाणामपापानां पापैराँसोपजीविभिः॥ तस्माद् विद्धि महाराज मांसस्य परिवर्जनम्। धर्मस्यायतनं श्रेष्ठं स्वर्गस्य च सुखस्य च॥ अहिंसा परमो धर्मस्तथाहिंसा परं तपः। अहिंसा परमं सत्यं यतो धर्मः प्रवर्तते।॥ न हि मांसं तृणात् काष्ठादुपलाद् वापि जायते। हत्वा जन्तुं ततो मांसं तस्माद् दोषस्तु भक्षणे॥ स्वाहास्वधामृतभुजो देवाः सत्यार्जवप्रियाः। क्रव्यादान् राक्षसान् विद्धि जिह्मानृत परायणान्।।२५। कान्तारेप्वथ घोरेषु दुर्गेषु गहनेषु च। रात्रावहनि संध्यासु चत्वरेषु सभासु च॥ उद्यतेषु च शस्त्रेषु मृगव्यालभयेषु च। अमांसभक्षणे राजन् भयमन्यैर्न गच्छति॥ शरण्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु। अनुद्वेगकरो लोके च चाप्युद्विजते सदा॥ यदि चेत् खादको न स्यान्न तदा घातको भवेत्। घातकः खादकार्थाय तद् घातयति वै नरः॥ अभक्ष्यमेतदिति वै इति हिंसा निवर्तते। खादकार्थमतो हिंसा मृगादीनां प्रवर्तते॥ यस्माद् प्रसति चैवायुर्हिसकानां महाद्युते। तस्माद् विवजयेन्मांसं य इच्छेद् भूतिमात्मनः॥ त्रातारं नाधिगच्छन्ति रौद्राः प्राणिविहिंसकाः। उद्वेजनीया भूतानां यथा व्यालमृगास्तथा॥ लोभाद् वा बुद्धिमोहाद् वा बलवीर्यार्थमेव च। संसर्गादथ पापानामधर्मरुचिता नृणाम्॥ स्वमांसं परमांसेन यो वर्धयितुमिच्छति। उद्विग्नवासो वसति यत्र यत्राभिजायते॥ धन्यं यशस्यमायुष्यं स्वर्ये स्वस्त्ययनं महत्। मांसस्याभक्षणं प्राहुर्नियताः परमर्षयः॥ इदं तु खलु कौन्तेय श्रुतमासीत् पुरा मया। मार्कण्डेयस्य वदतो ये दोषा मांसभक्षणे॥ यो हि खादति मांसानि प्राणिनां जीवितैषिणाम्। हतानां वा मृतानां वा यथा हन्ता तथैव सः॥ धनेन क्रयिको हन्ति खादचोपभोगतः। घातको वधबन्धाभ्यामित्येष त्रिविधो वधः॥ अखादन्ननुमोदंश्च भावदोषेण मानवः। योऽनुमोदति हन्यन्तं सोऽपि दोषेण लिप्यते॥ अधृष्यः सर्वभूतानामायुष्मान् निरुजः सदा। भवत्यभक्षयन् मांसं दयावान् प्राणिनामिह॥ हिरण्यदानैर्गोदानैर्भूमिदानैश्च सर्वशः। मांसस्याभक्षणे धर्मो विशिष्ट इति नः श्रुतिः॥ खादकस्य कृते जन्तून् यो हन्यात् पुरुषाधमः। महादोषतरस्तत्र घातको न तु खादकः॥ इज्यायज्ञश्रुतिकृतैर्यो मागैरबुधोऽधमः। हन्याज्जन्तून् मांसगृध्नुः स वै नरकभाड्नरः॥ भक्षयित्वापि यो मांसं पश्चादपि निवर्तते। तस्यापि सुमहान् धर्मो यः पापाद् विनिवर्तते॥ आहर्ता चानुमन्ता च विशस्ता क्रयविक्रयी। संस्कर्ता चापभोक्ता च खादकाः सर्व एव ते॥ इदमन्यत्तु वक्ष्यामि प्रमाणं विधिनिर्मितम्। पुराणमृषिभिर्जुष्टं वेदेषु परिनिष्ठितम्॥ प्रवृत्तिलक्षणो धर्मः प्रजार्थिभिरुदाहृतः। यथोक्तं राजशार्दूल न तु तन्मोक्षकाक्षिणाम्॥ य इच्छेत् पुरुषोऽत्यन्तमात्मानं निरुपद्रवम्। स वर्जयेत मांसानि प्राणिनामिह सर्वशः॥ श्रूयते हि पुरा कल्पे नृणां व्रीहिपयः पशुः। येनायजन्त यज्वानः पुण्यलोकपरायणाः॥ ऋषिभिः संशयं पृष्टो वसुश्चेदिपतिः पुरा। अभक्ष्यमपि मांसं यः प्राह भक्ष्यमिति प्रभा॥ आकाशादवनि प्राप्तस्ततः स पृथिवीपतिः। एतदेव पुनश्चोक्त्वा विवेश धरणीतलम्॥ इदं तु शृणु राजेन्द्र कीर्त्यमानं मयानध। अभक्षणे सर्वसुखं मांसस्य मनुजाधिप॥ यस्तु वर्षशतं पूर्णे तपस्तप्येत सुदारुणम्। यश्चैव वर्जयेन्मांसं सममेतन्मतं मम॥ कौमुदे तु विशेषेण शुक्लपक्षे नराधिप। वर्जयेन्मधुमांसानि धर्मो ह्यत्र विधीयते॥ चतुरो वार्षिकान् मासान् यो मांसं परिवर्जयेत्। चत्वारि भद्राण्यवाप्नोति कीर्तिमायुर्यशोबलम्॥ अथवा मासमेकं वै सर्व मांसान्यभक्षयन्। अतीत्य सर्वदुःखानि सुखं जीवेन्निरामयः॥ वर्जयन्ति हि मांसानि मासश: पक्षशोऽपि वा। तेषां हिंसानिवृत्तानां ब्रह्मलोको विधीयते॥ मांसं तु कौमुदं पक्षं वर्जितं पार्थ राजभिः। सर्वभूतात्मभूतस्थैर्विदितार्थपरावरैः॥ नाभागेनाम्बरीषेण गयेन च महात्मना। आयुनाथानरण्येन दिलीपरघुपूरुभिः॥ कीर्तवीर्यानिरुद्धाभ्यां नहुषेण ययातिना। नृगेण विष्वगश्वेन तथैव शशबिन्दुना॥ युवनाश्वेन च तथा शिबिनौशीनरेण च। मुचुकुन्देन मान्धात्रा हरिश्चन्द्रेण वा विभो॥ सत्यं वदत मासत्यं सत्यं धर्म: सनातनः। हरिश्चन्द्रश्चरति वै दिवि सत्येन चन्द्रवत्॥ श्येनचित्रेण राजेन्द्र सोमकेन वृकेण च। रैवते रन्तिदेवेन बसुना सृञ्जयेन च॥ एतैश्चान्यैश्च राजेन्द्र कृपेण भरतेन च। दुष्यन्तेन करूषेण रामालर्कनरैस्तथा॥ विरूपाश्वेन निमिना जनकेन च धीमता। ऐलेन पृथुना चैव वीरसेनेन चैव ह॥ इक्ष्वाकुणा शम्भुना च श्वेतेन सगरेण च। अजेन धुन्धुना चैव तथैव च सुबाहुना॥ हर्यश्वेन च राजेन्द्र क्षुपेण भरतेन च। एतैश्चान्यैश्च राजेन्द्र पुरा मांसं न भक्षितम्॥ ब्रह्मलोके च तिष्ठन्ति ज्वलमानाः श्रियान्विताः। उपास्यमाना गन्धर्वैः स्त्रीसहस्रसमन्विताः॥ तदेतदुत्तमं धर्ममहिंसाधर्मलक्षणम्। ये चरन्ति महात्मानो नाकपृष्ठे वसन्ति ते॥ मधु मांसं च ये नित्यं वर्जयन्तीह धार्मिकाः। जन्मप्रभृति मद्यं च सर्वे ते मुनयः स्मृताः॥ इमं धर्मममांसादं यश्चरेच्छावयीत वा। अपि चेत् सुदुराचारो न जातु निरयं व्रजेत्॥ पठेद् वा य इदं राजञ्छृणुयाद् वाप्यभीक्ष्णशः। अमांसभक्षणविधि पवित्रमृषिपूजितम्॥ विमुक्तः सर्वपापेभ्यः सर्वकामैर्महीयते। विशिष्टतां ज्ञातिषु च लभते नात्र संशयः॥ आपनश्चापदो मुच्येद् बद्धो मुच्येत बन्धनात्। मुच्येत्तथाऽऽतुरो रोगाद् दुःखान्मुच्येत दुःखितः।।७४ तिर्यग्योनि न गच्छेत रूपवांश्च भवेन्नरः। ऋद्धिमान् वै कुरुश्रेष्ठ प्राप्नुयाच्च महद् यशः॥ एतत्ते कथितं राजन् मांसस्य परिवर्जने। प्रवृत्तौ च निवृत्तौ च विधानमृषिनिर्मितम्॥ युधिष्ठिर उवाच इमे वै मानवा लोके नृशंसा मांसगृद्धिनः। विसृज्य विविधान् भक्ष्यान् महारक्षोगणा इव॥ अपूपान् विविधाकाराशाकानि विविधानि च। खाण्डवान् रसयोगान्न तथेच्छन्ति यथाऽऽमिषम्॥ तत्र मे बुद्धिरत्रैव विषये परिमुह्यते। न मन्ये रसतः किञ्चिन्मांसतोऽस्तीति मे किञ्चन॥ तदिच्छामि गुणाश्रोतुं मांसस्याभक्षणे प्रभो। भक्षणे चैव ये दोषास्तांश्चैव पुरुषर्षभ॥ सर्वं तत्त्वेन धर्मज्ञ यथावदिह धर्मतः। किं च भक्ष्यमभक्ष्यं वा सर्वमेतद् वदस्व मे॥ यथैतद् यादृशं चैव गुणा ये चास्य वर्जने। दोषा भक्षयतो येऽपि तन्मे ब्रूहि पितामह॥ भीष्म उवाच एवमेतन्महाबाहो यथा वदसि भारत। न मांसात्परमं किञ्चिद्रसतो विद्यते भुवि॥ क्षतक्षीणाभितप्तानां ग्राम्यधर्मरतात्मनाम्। अध्वना कर्शितानां च न मांसाद्विद्यते परम्॥ सद्यो वर्धयति प्राणान् पुष्टिमय्यां दधाति च। न भक्ष्योऽभ्यधिकः कश्चिन्मांसादस्ति परंतप॥ विवर्जिते तु बहवो गुणाः कौरवनन्दन। ये भवन्ति मनुष्याणां तान् ये निगदतः शृणु॥ स्वमांसं परमांसेन यो वर्धयितुमिच्छति। नास्ति क्षुद्रतरस्तस्मात् स नृशंसतरो नरः॥ न हि प्राणात् प्रियतरं लोके किंचन विद्यते। तस्माद् दयां नरः कुर्याद् यथाऽऽत्मनि तथा परे॥ शुक्राच्च तात सम्भूतिर्मासस्येह न संशयः। भक्षणे तु महान् दोषो निवृत्त्या पुण्यमुच्यते॥ विधिना वेददृष्टेन तद्भुक्त्वेह न दुष्यति। यत्रार्थ पशवः सृष्टा इत्यपि श्रूयते श्रुतिः॥ अतोऽन्यथा प्रवृत्तानां राक्षसो विधिरुच्यते। क्षत्रियाणां तु यो दृष्टो विधिस्तमपि मे शृणु॥ वीर्येणोपार्जितं मांसं यथा भुञ्जन्न दुष्यति। आरण्याः सर्वदैवत्याः सर्वशः प्रोक्षिता मृगाः॥ अगस्त्येन पुरा राजन् मृगया येन पूज्यते। नात्मानमपरित्यज्य मृगया नाम विद्यते॥ समतामुपसङ्गम्य भूतं हन्यन्ति हन्ति वा। अतो राजर्षयः सर्वे मृगयां यान्ति भारत॥ न हि लिप्यन्ति पापेन न चैतत्पातकं विदुः। न ह्यतः सदृशं किंचिदिह लोके परत्र च।॥ यत् सर्वेष्विह भूतेषु दया कौरवनन्दन। न भयं विद्यते जातु नरस्येह दयावत:॥ दयावतामिमे लोका: परे चापि तपस्विनाम्। अहिंसालक्षणो धर्म इति धर्मविदो विदुः॥ यदहिंसात्मकं कर्म तत् कुर्यादात्मवान् नरः। पितृदैवतयज्ञेषु प्रोक्षितं हविरुच्यते॥ अभयं सर्वमेतेभ्यो यो ददाति दयापरः। अभयं तस्य भूतानि ददतीत्यनुशुश्रुम॥ क्षतं च स्खलितं चैव पतितं कृष्टमाहतम्। सर्वभूतानि रक्षन्ति समेषु विषमेषु च॥ नैनं व्यालमृगा नन्ति न पिशाचा न राक्षसाः। मुच्यते भयकालेषु मोक्षयेद् यो भये परान्॥ प्राणदानात् परं दानं न भूतं न भविष्यति। न ह्यात्मनः प्रियतरं किंचिदस्तीह निश्चितम्॥ अनिष्टं सर्वभूतानां मरणं नाम भारत। मृत्युकाले हि भूतानां सद्यो जायति वेपथुः॥ जातिजन्मजरादुःखैर्नित्यं संसारसागरे। जन्तवः परिवर्तन्ते मरणादुद्विजन्ति च॥ गर्भवासेषु पच्यन्ते क्षाराम्लकटुकै रसैः। मूत्रस्वेदपुरीषाणां परुषैर्भृशदारुणैः॥ जाताश्चाप्यवशास्तत्र च्छिद्यमानाः पुनः पुनः। पाच्यमानाश्च दृश्यन्ते विवशा मांसगृद्धिनः॥ कुम्भीयाके च पच्यन्ते तां तां योनिमुपागताः। आक्रम्य मार्यमाणाश्च भ्राम्यन्ते वै पुनः पुनः॥ नात्मनोऽस्ति प्रियतरः पृथिवीमनुसृत्य ह। तस्मात् प्राणिषु सर्वेषु दयावानात्मवान् भवेत्॥ सर्वमांसानि यो राजन् यावज्जीवं न भक्षयेत्। स्वर्गे स विपुलं स्थानं प्राप्नुयानात्र संशयः॥ ये भक्षयन्ति मांसानि भूतानां जीवितैषिणाम्। भक्ष्यन्ते तेऽपि भूतैस्तैरिति मे नास्ति संशयः॥ मांसं भक्षयते यस्माद् भक्षयिष्ये तमप्यहम्। एतन्मांसस्य मांसत्वमनुबुद्ध्यस्व भारत।॥ घातको वध्यते नित्यं तथा वध्यति भक्षिता। आक्रोष्टा क्रुध्यते राजंस्तथा द्वेष्यत्वमाप्नुते॥ येन येन शरीरेण यद्यत् कर्म करोति यः। तेन तेन शरीरेण तत्तत् फलमुपाश्नुते॥ अहिंसा परमो धर्मस्तथाऽहिंसा परो दमः। अहिंसा परमं दानमहिंसा परमं तपः॥ अहिंसा परमो यज्ञस्तथाहिंसा परं फलम्। अहिंसा परमं मित्रमहिंसा परमं सुखम्॥ सर्वयज्ञेषु वा दानं सर्वतीर्थेपु वाऽऽप्लुतम्। सर्वदानफलं वापि नैतत्तुल्यमहिंसया॥ अहिंस्रस्य तपोऽक्षय्यमहिंस्रो यजते सदा। अहिंस्रः सर्वभूतानां यथा माता यथा पिता॥ एतत् फलमहिंसाया भूयश्च कुरुपुङ्गव। न हि शक्या गुणा वक्तुमपि वर्षशतैरपि॥ युधिष्ठिर उवाच अकामाश्च सकामाश्च ये हताः स्म महामृधे। कां गतिं प्रतिपन्नास्ते तन्मे ब्रूहि पितामह॥ दुःखं प्राणपरित्यागः पुरुषाणां महामृधे। जानासि त्वं महाप्राज्ञ प्राणत्यागं सुदुष्करम्॥ समृद्धौ वासमृद्धौ वा शुभे वा यदि वाऽशुभे। कारणं तत्र में ब्रूहि सर्वज्ञो ह्यसि मे मतः॥ भीष्म उवाच समृद्धौ वासमृद्धौ वा शुभे वा यदि वाऽशुभे। संसारेऽस्मिन् समायाताः प्राणिनः पृथिवीपते॥ निरता येन भावेन तत्र मे शृणु कारणम्। सम्यक् चायमनुप्रश्नस्त्वयोक्तस्तु युधिष्ठिर॥ अत्र ते वर्तयिष्यामि पुरावृत्तमिदं नृप। द्वैपायनस्य संवादं कीटस्य च युधिष्ठिर॥ ब्रह्मभूतश्चरन् विप्रः कृष्णद्वैपायन: पुरा। ददर्श कीटं धावन्तं शीघ्रं शकटवर्त्मनि॥ गतिज्ञः सर्वभूतानां भाषाज्ञश्च शरीरिणाम्। सर्वज्ञः स तदा दृष्ट्वा कीटं वचनमब्रवीत्॥ व्यास उवाच कीटसंत्रस्तरूपोऽसि त्वरितश्चैव लक्ष्यसे। क्व धावसि तदाचक्ष्व कुतस्ते भयमागतम्॥ कीट उवाच शकटस्यास्य महतो घोषं श्रुत्वा भयं मम। आगतं वै महाबुद्धे स्वन एष हि दारुणः॥ श्रूयते न च मां हन्यादिति ह्यस्मादपक्रमे। श्वसतां च शृणोम्येनं गोपुत्राणां प्रतोद्यताम्॥ वहतां सुमहाभारं संनिकर्षे स्वनं प्रभो। नृणां च संवाहयतां श्रूयते विविधः स्वनः॥ श्रोतुमस्मद्विधनैष न शक्यः कीटयोनिना। तस्मादतिक्रमाम्येष भयादस्मात् सुदारुणात्॥ दुःखं हि मृत्युर्भूतानां जीवितं च सुदुर्लभम्। अतो भीत: पलायामि गच्छेयं नासुख सुखात्॥ भीष्म उवाच इत्युक्तः स तु तं प्राह कुत: कीट सुखं तव। मरणं ते सुखं मन्ये तिर्यग्योनौ तु वर्तसे॥ शब्दं स्पर्श रस गन्धं भोगांश्चोच्चवचान् बहून्। नाभिजानासि कीट त्वं श्रेयो मरणमेव ते॥ कीट उवाच सर्वत्र निरतो जीव इतश्चापि सुखं मम। चिन्तयामि महाप्राज्ञ तस्मादिच्छामि जीवितुम्॥ इहापि विषयः सर्वो यथादेहं प्रवर्तितः। मानुषाः स्थैर्यजाश्चैव पृथग्भोगा विशेषतः॥ अहमासं मनुष्यो वै शूद्रो बहुधनः प्रभो। अब्रह्मण्यो नृशसंश्च कदर्यो वृद्धिजीवनः॥ वाक्तीक्ष्णो निकृतिप्रज्ञो द्वेष्टा विश्वस्य सर्वशः। मिथ्याकृतोऽपि विधिना परस्वहरणे रतः॥ भृत्यातिथिजनश्चापि गृहे पर्यशितो मया। मात्सर्यात् स्वादुकामेन नृशंसेन बुभुक्षता॥ देवार्थं पितृयज्ञार्थमन्नं श्रद्धाऽऽहतं मया। न दत्तमर्थकामेन देयमन्नं पुरा किल॥ गुप्तं शरणमाश्रित्य भयेषु शरणागताः। अकस्मात् ते मया त्यक्ता न त्राता अभयैषिणः॥ धनं धान्यं प्रियान् दारान् यानं वासस्तथाद्भुतम्। श्रियं दृष्ट्वा मनुष्याणामसूयामि निरर्थकम्॥ ईष्र्युः परसुखं दृष्ट्वा अन्यस्य च बुभूषकः। त्रिवर्गहन्ता चान्येषामात्मकामानुवर्तकः॥ नृशंसगुणभूयिष्ठं पुरा कर्म कृतं मया। स्मृत्वा तदनुतप्येऽहं हित्वा प्रियमिवात्मजम्॥ शुभानां नाभिजानामि कृतानां कर्मणां फलम्। माता च पूजिता वृद्धा ब्राह्मणश्चार्चितो मया।॥ सकृज्जातिगुणोपेतः सङ्गत्या गृहमागतः। अतिथिः पूजितो ब्रह्मस्तेन मां नाजहात् स्मृतिः॥ कर्मणा पुनरेवाहं सुखमागामि लक्षये। तच्छ्रोतुमहमिच्छामि त्वत्तः श्रेयस्तपोधन॥ व्यास उवाच शुभेन कर्मणा यद्वै तिर्यग्योनौ न मुह्यसे। ममैव कीट तत् कर्म येन त्वं न प्रमुह्यसे॥ अहं त्वां दर्शनादेव तारयामि तपोबलात्। तपोबलाद्धि बलवद् बलमन्यन्न विद्यते॥ जानामि पापैः स्वकृतैर्गतं त्वां कीट कीटताम्। अवाप्स्यसि पुनर्धर्मं धर्मं तु यदि मन्यसे॥ कर्म भूमिकृतं देवा भुञ्जते तिर्यगाश्च ये। धर्मोऽपि हि मनुष्येषु कामार्थश्च तथा गुणाः॥ वाग्बुद्धिपाणिपादैश्च व्यपेतस्य विपश्चितः। किं हास्यति मनुष्यस्य मन्दस्यापि हि जीवतः॥ जीवन् हि कुरुते पूजां विप्राय: शशिसूर्ययोः। ब्रुवन्नपि कथां पुण्यां तत्र कीट त्वमेष्यसि॥ गुणभूतानि भूतानि तत्र त्वमुपभोक्ष्यसे। तत्र तेऽहं विनेष्यामि ब्रह्म त्वं यत्र वैष्यसि॥ स तथेति प्रतिश्रुत्य कीटो वर्त्मन्यतिष्ठत। शकटो व्रजंश्च सुमहानागतश्च यदृच्छया॥ चक्राक्रमेण भिन्नश्च कीट: प्राणान् मुमोच हा सम्भूतः क्षत्रियकुले प्रसादादमितौजसः॥ तमृषि द्रष्टुमगमत् सर्वास्वन्यासु योनिषु। वाविन्द्रोधावरहाणां तथैव मृगपक्षिणाम्॥ वपाकशूद्रवैश्यानां क्षत्रियाणां च योनिषु। एवमाभाष्य ऋषिणा सत्यवादिना। प्रतिस्मृत्याथ जग्राह पादौ मूर्ध्नि कृताञ्जलिः॥ कीट उवाच इदं तदतुलं स्थानमीप्सितं दशभिर्गुणैः। यदहं प्राप्य कीटत्वमागतो राजपुत्रताम्॥ स कीट वहन्ति मामतिबला: कुञ्जरा हेममालिनः। स्यन्दनेषु च काम्बोजा युक्ताः परमवाजिनः॥ उष्ट्राश्वतरयुक्तानि यानानि च वहन्ति माम्। सबान्धवः सहामात्यश्चाश्नामि पिशितौदनम्॥ गृहेषु स्वनिवासेषु सुखेषु शयनेषु च। वराहेषु महाभाग स्वपामि च सुपूजितः॥ सर्वेष्वपररात्रेषु सूतमागधबन्दिनः। स्तुवन्ति मां यथा देवा महेन्द्रं प्रियवादिनः॥ प्रसादात् सत्यसंधस्य भवतोऽमिततेजसः। यदहं कीटतां प्राप्य सम्प्राप्तो राजपुत्रताम्॥ नमस्तेऽस्तु महाप्राज्ञ किं करोमि प्रशाधि माम्। त्वत्तपोबलनिर्दिष्टमिदं ह्यधिगतं मया॥ व्यास उवाच अर्चितोऽहं त्वया राजन् वाग्भिरद्य यदृच्छया। अद्य ते कीटतां प्राप्य स्मृतिर्जाता जुगुप्सिता॥ न तु नाशोऽस्ति पापस्य यस्त्वयोपचितः पुरा। शूद्रेणार्थप्रधानेन नृशंसेनाततायिना॥ मम ते दर्शनं प्राप्तं तच्च वै सुकृतं त्वया। तिर्यग्योनौ स्म जातेन मम चाभ्यर्चनात् तथा॥ इतस्त्वं राजपुत्रत्वाद् ब्राह्मण्यं समवाप्स्यसि। गोब्राह्मणकृते प्राणान् हुत्वाऽऽत्मानं रणाजिरे॥ राजपुत्र सुखं प्राप्य क्रतूंश्चैवाप्तदक्षिणान्। अथ मोदिष्यसे स्वर्गे ब्रह्मभूतोऽव्ययः सुखी॥ तिर्यग्योन्याः शूद्रतामभ्युपैति शूद्रो वैश्यं क्षत्रियत्वं च वैश्यः। वृत्तश्लाघी क्षत्रियो ब्राह्मणत्वं स्वर्ग पुण्यं ब्राह्मणः साधुवृत्तः॥ भीष्म उवाच क्षत्रधर्ममनुप्राप्तः स्मरन्नेव च वीर्यवान्। त्यक्त्वा स कीटतां राजंश्चचार विपुलं तपः॥ तस्य धर्मार्थविदुषो दृष्ट्वा तद् विपुलं तपः। आजगाम द्विजश्रेष्ठः कृष्णद्वैपायनस्तदा॥ व्यास उवाच क्षानं देवव्रतं कीट भूतानां परिपालनम्। क्षात्रं देवव्रतं व्यायंस्ततो विप्रत्वमेष्यसि॥ पाहि सर्वाः प्रजाः सम्यक् शुभाशुभविदात्मवान्। शुभैः संविभजन् कामैरशुभानां च पावनैः॥ आत्मवान् भव सुप्रीतः स्वधर्माचरणे रतः। क्षात्री तनुं समुत्सृज्य ततो विप्रत्वमेष्यसि॥ भीष्म उवाच सोऽप्यवरण्यमनुप्राप्य पुनरेव युधिष्ठिर। महर्षेर्वचनं श्रुत्वा प्रजा धर्मेण पाल्य च॥ अचिरेणैव कालेन कीट: पार्थिवसत्तम। प्रजापालनधर्मेण प्रेत्य विप्रत्वमागतः॥ ततस्तं ब्राह्मणं दृष्ट्वा पुनरेव महायशाः। आजगाम महाप्राज्ञः कृष्णद्वैपायनस्तदा॥ व्यास उवाच भो भो ब्रह्मर्षभ श्रीमन् मा व्यथिष्ठाः कथंचन। शुभकृच्छुभयोनीषु पापकृत् पापयोनिषु॥ उपपद्यति धर्मज्ञ यथापापफलोपगम्। तस्मान्मृत्युभयात् कीट मा व्यथिष्ठाः कथंचन।॥ धर्मलोपभयं ते स्यात् तस्माद् धर्मं चरोत्तमम्। कीट उवाच सुखात् सुखतरं प्राप्तो भगवंस्त्वत्कृते ह्यहम्॥ धर्ममूलां श्रियं प्राप्य पाप्मा नष्ट इहाद्य मे। भीष्म उवाच भगवद्वचनात् कीटो ब्राह्मण्यं प्राप्य दुर्लभम्॥ अकरोत् पृथिवीं राजन् यज्ञयूपशताङ्किताम्। ततः सालोक्यमगमद ब्रह्मणो ब्रह्मवित्तमः॥ अवाप च पदं कीटः पार्थ ब्रह्म सनातनम्। स्वकर्मफलनिर्वृत्तं व्यासस्य वचनात् तदा॥ तेऽपि यस्मात् प्रभावेण हताः क्षत्रियपुङ्गवाः। सम्प्राप्तास्ते गतिं पुण्यां तस्मान्मा शोच पुत्रक॥ युधिष्ठिर उवाच विद्या तपश्च दानं च किमेतेषां विशिष्यते। पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह॥ भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। मैत्रेयस्य च संवादं कृष्णद्वैपायनस्य च।॥ कृष्णद्वैपायनो राजन्नज्ञातचरितं चरन्। वाराणस्यामुपातिष्ठन्मैत्रेयं स्वैरिणीकुले॥ तमुपस्थितमासीनं ज्ञात्वा स मुनिसत्तम। अर्चित्वा भोजयामास मैत्रेयोऽशनमुत्तमम्॥ तदन्नमुत्तमं भुक्त्वा गुणवत् सार्वकामिकम्। प्रतिष्ठमानोस्मयत प्रीतः कृष्णो महामनाः॥ तमुत्स्मयन्तं सम्प्रेक्ष्य मैत्रेयः कृष्णमब्रवीत्। कारणं ब्रूहि धर्मात्मन् व्यस्मयिष्ठाः कुतश्च ते॥ तपस्विनो धृतिमतः प्रमोदः समुपागतः। एतत् पृच्छामि ते विद्वन्नभिवाद्य प्रणम्य च॥ आत्मनश्च तपोभाग्यं महाभाग्यं तवेह च। पृथगाचरतस्तात पृथगात्मसुखात्मनोः। अल्पान्तरमहं मन्ये विशिष्टमपि चान्वयात्॥ व्यास उवाच अतिच्छन्दातिवादाभ्यां स्मयोऽयं समुपागतः। असत्यं वेदवचनं कस्माद् वेदोऽनृतं वेदत्॥ त्रीण्येव तु पदान्याहुः पुरुषस्योत्तमं व्रतम्। न दुह्येच्चैव दद्याच्च सत्यं चैव परं वदेत्॥ इति वेदोक्तमृषिभिः पुरस्तात् परिकल्पितम्। इदानीं चैव नः कृत्यं पुरस्ताच्च परिश्रुतम्॥ अल्पोऽपि तादृशो दायो भवत्युत महाफलः। तृषिताय च ते दत्तं हृदयेनानसूयता॥ तृषितस्तृषिताय त्वं दत्त्वैतद् दर्शनं मम। अजैषीमहतो लोकान् महायज्ञैरिव प्रभो॥ ततो दानपवित्रेण प्रीतोऽस्मि तपसैव च। पुण्यस्यैव हि ते सत्त्वं पुण्यस्यैव च दर्शनम्॥ पुण्यस्यैवाभिगन्धस्ते मन्ये कर्मविधानजम्। अधिकं मार्जनात् तात तथा चैवानुलेपनात्॥ शुभं सर्वपवित्रेभ्यो दानमेव परं द्विजा नो चेत् सर्वपवित्रेभ्यो दानमेव परं भवेत्॥ यानीमान्युत्तमानीह वेदोक्तानि प्रशंससि। तेषां श्रेष्ठतरं दानमिति मे नात्र संशयः॥ दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः। ते हि प्राणस्य दातारस्तेषु धर्मः प्रतिष्ठितः॥ यथा वेदाः स्वधीताश्च यथा चेन्द्रियसंयमः। सर्वत्यागो यथा चेह तथा दानमनुत्तमम्॥ त्वं हि तात महाबुद्धे सुखमेष्यसि शोभनम्। सुखात् सुखतरप्राप्तिमाप्नुते मतिमान्नरः॥ तन्नः प्रत्यक्षमेवेदमुपलभ्यमसंशयम्। श्रीमन्तः प्राप्नुवन्त्यर्थान् दानं यज्ञं तथा सुखम्॥ सुखादेव परं दुःखं दुःखादप्यपरं सुखम्। दृश्यते हि महाप्राज्ञ नियतं वै स्वभावतः॥ त्रिविधानीह वृत्तानि नरस्याहुर्मनीषिणः। पुण्यमन्यत् पापमन्यन्न पुण्यं न च पापकम्॥ न वृत्तं मन्यते तस्य मन्यते न च पातकम्। तथा स्वकर्मनिर्वृत्तं न पुण्यं न च पापकम्॥ यज्ञदानतपःशीला नरा वै पुण्यकर्मिणः। येऽभिद्रुह्यन्ति भूतानि ते वै पापकृतो जनाः॥ द्रव्याण्याददते चैव दुःखं यान्ति पतन्ति च। ततोऽन्यत् कर्म यत्किचिन्न पुण्यं न च पातकम्॥२६ रमस्वैधस्व मोदस्व देहि चैव यजस्व च। न त्वामभिभविष्यन्ति वैद्या न च तपस्विनः॥ रमस्वैधस्व मोदस्व देहि चैव यजस्व च। न त्वामभिभविष्यन्ति वैद्या न च तपस्विनः॥ भीष्म उवाच एवमुक्तः स भगवान् मैत्रेयं प्रत्यभाषत। दिष्ट्यैवं त्वं विजानासि दिष्ट्या ते बुद्धिरीदृशी॥ लोको ह्यार्यगुणानेव भूयिष्ठं तु प्रशंसति। रूपमानवयोमानश्रीमानाचाप्यसंशयम्॥ दिष्ट्या नाभिभवन्ति त्वां दैवस्तेऽयमनुग्रहः। यत् ते भृशतरं दानाद् वर्तयिष्यामि तच्छृणु॥ यानीहागमशास्त्राणि याश्च काश्चित् प्रवृत्तयः। तानि वेदं पुरस्कृत्य प्रवृत्तानि यथाक्रमम्॥ अहं दानं प्रशंसामि भवानपि तपःश्रुते। तपः पवित्रं वेदस्य तपः स्वर्गस्य साधनम्॥ तपसा महदाप्नोति विद्यया चेति नः श्रुतम्। तपसैव चापनुदेद् यच्चान्यदपि दुष्कृतम्॥ यद् यद्धि किंचित् संधाय पुरुषस्तप्यते तपः। सर्वमेतदवाप्नोति विद्यया चेति नः श्रुतम्॥ दुरन्वयं दुष्प्रधर्षं दुरापं दुरतिक्रमम्। सर्वे वै तपसाभ्येति तपो हि बलवत्तरम्॥ सुरापोऽसम्मतादायी भ्रूणहा गुरुतल्पगः। तपसा तरते सर्वमेनसश्च प्रमुच्यते॥ सर्वविद्यस्तु चक्षुष्मानपि यादृशतादृशम्। तपस्विनं तथैवाहस्ताभ्यां कार्यं सदा नमः॥ सर्वे पूज्याः श्रुतधनास्तथैव च तपस्विनः। दानप्रदाः सुखं प्रेत्य प्राप्नुवन्तीह च श्रियम्॥ इमं च ब्रह्मलोकं च लोकं च बलवत्तरम्। अन्नदानैः सुकृतिनः प्रतिपद्यन्ति लौकिकाः॥ पूजिताः पूजयन्त्येते मानिता मानयन्ति च। स दाता यत्र यत्रैति सर्वतः सम्प्रणूयते॥ अकर्ता चैव कर्ता च लभते यस्य यादृशम्। यदि चोर्ध्वं यद्यधो वा स्वाल्लोकानभियास्यति॥ प्राप्स्यसि त्वन्नपानानि यानि वाञ्छसि कानिचित्। मेधाव्यसि कुले जातः श्रुतवाननृशंसवान्॥ कौमारचारी व्रतवान् मैत्रेय निरतो भव। एतद् गृहाण प्रथमं प्रशस्तं गृहमेधिनाम्॥ यो भर्ता वासितातुष्टो भर्तुस्तुष्टा च वासिता। यस्मिन्नेवं कुले सर्वे कल्याणं तत्र वर्तते॥ अद्भिर्गात्रान्मलमिव तमोऽग्निप्रभया यथा। दानेन तपसा चैव सर्वपापमपोहति॥ स्वस्ति प्राप्नुहि मैत्रेय गृहान् साधु व्रजाम्यहम्। एतन्मनसि कर्तव्यं श्रेय एवं भविष्यति॥ तं प्रणम्याथ मैत्रेयः कृत्वा चापि प्रदक्षिणम्। स्वस्ति प्राप्नोतु भगवाननित्युवाच कृताञ्जलिः॥ युधिष्ठिर उवाच सत्स्त्रीणां समुदाचारं सर्वधर्मविदां वर। श्रोतुमिच्छाम्यहं त्वत्तस्तन्मे ब्रूहि पितामह॥ भीष्म उवाच सर्वज्ञां सर्वतत्त्वज्ञां देवलोके मनस्विनीम्। कैकेयी सुमना नाम शाण्डिली पर्यपृच्छत॥ केन वृत्तेन कल्याणि समाचारेण केन वा। विधूय सर्वपापानि देवलोकं त्वमागता॥ हुताशनशिखेव त्वं ज्वलमाना स्वतेजसा। सुता ताराधिपस्येव प्रभया दिवमागता॥ अरजांसि च वस्त्राणि धारयन्ती गलक्लमा। विमानस्था शुभा भासि सहस्रगुणमोजसा॥ न त्वमल्पेन तपसा दानेन नियमेन वा। इमं लोकमनुप्राप्ता तवं हि तत्त्वं वदस्व मे॥ इति पृष्टा सुमनया मधुरं चारुहासिनी। शाण्डिली निभृतं वाक्यं सुमनामिदमब्रवीत्॥ नाहं कापायवसना नापि वल्कलधारिणी। च जटिला भूत्वा देवत्वमागता॥ अहितानि च वाक्यानि सर्वाणि परुषाणि च। अप्रमत्ता च भर्तारं कदाचिन्नाहमब्रुवम॥ न च मुण्डा देवतानां पितॄणां च ब्राह्मणानां च पूजने। अप्रमत्ता सदा युक्ता श्वश्वशुरवर्तिनी॥ पैशुन्ये न प्रवामि न ममैतन्मनोगतम्। अद्वारि न च तिष्ठामि चिरं न कथयामि च॥ असद् वा हसितं किंचिदहितं वापि कर्मणा। रहस्यमरहस्यं वा न प्रवामि सर्वथा।॥ कार्यार्थं निर्गतं चापि भार्तारं गृहमागतम्। आसनेनोपसंयोज्य पूजयामि समाहिता॥ यदन्नं नाभिजानाति यद् भोज्यं नाभिनन्दति। भक्ष्यं वा यदि वा लेह्यं तत्सर्वे वर्जयाम्यहम्॥ कुटुम्बार्थं समानीतं यत्किञ्चित् कार्यमेव तु। प्रातरुत्थाय तत्सर्वं कारयामि करोमि च॥ प्रवासं यदि मे याति भर्ता कार्येण केनचित्। मङ्गलैर्बहुभिर्यक्ता भवामि नियता तदा॥ अञ्जनं रोचनां चैव स्नानं माल्यानुलेपनम्। प्रसाधनं च निष्क्रान्ते नाभिनन्दामि भर्तरि॥ नोत्थापयामि भर्तारं सुखसुप्तमहं सदा। आन्तरेष्वपि कार्येषु तेन तुष्यति मे मनः॥ नायासयामि भर्तारं कुटुम्बार्थेऽपि सर्वदा। गुप्तगुह्या सदा चास्मि सुसम्मृष्टनिवेशना॥ इमं धर्मपथं नारी पालयन्ती समाहिता। अरुन्धतीव नारीणां स्वर्गलोके महीयते॥ भीष्म उवाच एतदाख्याय सा देवी सुमनायै तपस्विनी। पतिधर्मे महाभागा जगामादर्शनं तदा॥ यश्चेदं पाण्डवाख्यानं पठेत् पर्वणि पर्वणि। स देवलोकं सम्प्राप्य नन्दने स सुखी वसेत्॥ युधिष्ठिर उवाच साम्नि चापि प्रादाने च ज्यायः किं भवतो मतम्। प्रब्रूहि भरतश्रेष्ठ यदत्र व्यतिरिच्यते॥ भीष्म उवाच साम्ना प्रसाद्यते कश्चिद् दानेन च तथा परः। पुरुषप्रकृतिं ज्ञात्वा तयोरेकतरं भजेत्॥ गुणांस्तु शृणु मे राजन् सान्त्वस्य भरतर्षभ। दारुणान्यपि भूतानि सान्त्वेनाराधयेद् यथा॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। गृहीत्वा रक्षसा मुक्तो द्विजाति: कानेन यथा॥ कश्चिद् वाग्बुद्धिसम्पन्नो ब्राह्मणो विजने वने। गृहीतः कृच्छ्रमापन्नो रक्षसा भक्षयिष्यता॥ स बुद्धिश्रुतिसम्पन्नस्तं दृष्ट्वातीव भीषणम्। सामैवास्मिन् प्रयुयुजे न मुमोह न विव्यथे॥ रक्षस्तु वाचं सम्पूज्य प्रश्नं पप्रच्छ तं द्विजम्। मोक्ष्येसे ब्रूहि मे प्रश्न केनास्मि हरिणः कृशः॥ मुहूर्तमथ संचिन्त्य ब्राह्मणस्तस्य रक्षसः। आभिर्गाथाभिरव्यग्रः प्रश्न प्रतिजगाद ह॥ ब्राह्मण उवाच विदेशस्थो विलोकस्थो विना नूनं सुहृज्जनैः। विषयानतुलान् भुड्क्षे तेनासि हरिणः कृशः॥ नूनं मित्राणि ते रक्षः साधूपचरितान्यपि। स्वदोषादपरज्यन्ते तेनासि हरिणः कृशः॥ धनैश्वर्याधिकाः स्तब्धास्त्वद्गुणैः परमावराः। अवजानन्ति नूनं त्वां तेनासि हरिणः कृशः॥ गुणवान् विगुणानन्यान् नूनं पश्यसि सत्कृतान्। प्राज्ञोऽप्राज्ञान् विनीतात्मा तेनासि हरिणः कृशः॥ अवृत्त्या क्लिश्यमानोऽपि वृत्त्युपायान् विगर्हयन्। माहात्म्याद् व्यथसे नूनं तेनासि हरिणः कृशः॥ सम्पीड्यात्मानमार्यत्वात् त्वया कश्चिदुपस्कृतः। जितं त्वां मन्यते साधो तेनासि हरिणः कृशः॥ क्लिश्यमानान् विमार्गेषु कामक्रोधावृतात्मनः। मन्ये त्वं ध्यायसि जनांस्तेनासि हरिणः कृशः॥ प्रज्ञासम्भावितो नूनमप्रजैरुपसंहितः। हीयमानोऽसि दुर्वृत्तैस्तेनासि हरिणः कृशः॥ नूनं मित्रमुखः शत्रुः कश्चिदार्यवदाचरन्। वञ्चयित्वा गतस्त्वां वै तेनासि हरिणः कृशः॥ प्रकाशार्थगतिर्नूनं रहस्यकुशलः कृती! तज्ज्ञैर्न पूज्यसे नूनं तेनासि हरिणः कृशः॥ असत्स्वपि निविष्टेषु ब्रुवतो मुक्तसंशयम्। गुणास्ते न विराजन्ते तेनासि हरिणः कृशः॥ धनबुद्धिश्रुतैीन: केवलं तेजसान्वितः। महत् प्रार्थयसे नूनं तेनासि हरिणः कृशः॥ तष:प्रणिहितात्मानं मन्ये त्वारण्यकांक्षिणम्। बान्धवा नाभिनन्दन्ति तेनासि हरिणः कृशः॥ इष्टभार्यस्य ते नूनं प्रातिवेश्यो महाधनः। युवा सुललित: कामी तेनासि हरिणः कृशः॥ नूनमर्थवतां मध्ये तव वाक्यमनुत्तमम्। न भाति कालेऽभिहितं तेनासि हरिणः कृशः॥ दृढपूर्वं श्रुतं मूर्ख कुपितं हृदयप्रियम्। अनुनेतुं न शक्नोषि तेनासि हरिणः कृशः॥ नूनमांसजयित्वा त्वां कृत्ये कस्मिंश्चिदीप्सिते। कश्चिदर्थयते नित्यं तेनासि हरिणः कृशः॥ नूनं त्वां सुगुणैर्युक्तं पूजयानं सुहृध्रुवम्। ममार्थ इति जानीते तेनासि हरिणः कृशः॥ अन्तर्गतमभिप्रायं नूनं नेच्छसि लज्जया। विवेक्तुं प्राप्तिशैथिल्यात् तेनासि हरिणः कृशः॥२७ नानाबुद्धिरुचो लोके मनुष्यान् नूनमिच्छसि। ग्रहीतुं स्वगुणैः सर्वांस्तेनासि हरिणः कृशः॥ अविद्वान् भीरुरल्पार्थे विद्याविक्रमदानजम्। यशः प्रार्थयसे नूनं तेनासि हरिणः कृशः॥ चिराभिलषितं किंचित्फलमप्राप्तमेव ते। कृतमन्यैरपहतं तेनासि हरिणः कृशः॥ नूनमात्मकृतं दोषमपश्यन् किंचिदात्मनः। अकारणेऽभिशप्तोऽसि तेनासि हरिण: कृशः॥ साधून् गृहस्थान् दृष्ट्वा च तथा साधून् वनेचरान्। मुक्तांश्चावसथे सक्तांस्तेनासि हरिणः कृशः॥ सुहृदां दुःखमार्तानां न प्रमोक्ष्यसि हानिजम्। अलमर्थगुणैर्हीनं तेनासि हरिणः कृशः॥ धर्नामर्थ्य च काम्यं च काले चाभिहितं वचः। न प्रतीयन्ति ते नूनं तेनासि हरिणः कृशः॥ दत्तानकुशलैरर्थान् मनीषी संजिजीविषुः। प्राप्य वर्तयसे नूनं तेनासि हरिणः कृशः॥ पापान प्रवर्धतो दृष्ट्वा कल्याणानावसीदतः। ध्रुवं गर्हयसे नित्यं तेनासि हरिणः कृशः॥ परस्परविरुद्धानां प्रियं नूनं चिकीर्षसि। सुहृदामुपरोधेन तेनासि हरिणः कृशः॥ श्रोत्रियांश्च विकर्मस्थान् प्राज्ञांश्चाप्यजितेन्द्रियान्। मन्येऽनुध्यायसि जनांस्तेनासि हरिणः कृशः॥ एवं सम्पूजितं रक्षो विप्रं तं प्रत्यपूजयत्। सखायमकरोच्चैनं संयोज्याधैर्मुमोच ह॥ एवं सम्पूजितं रक्षो विप्रं तं प्रत्यपूजयत्। सखायमकरोच्चैनं संयोज्याधैर्मुमोच ह॥ भीष्म उवाच केन ते च भवेत् प्रीतिः कथं तुष्टिं तु गच्छसि। इति पृष्टः सुरेन्द्रेण प्रोवाच हरिरीश्वरः॥ विष्णु उवाच ब्राह्मणानां परीवादो मम विद्वेषणं महत्। ब्राह्मणैः पूजितैर्नित्यं पूजितोऽहं न संशयः॥ नित्याभिवाद्या विप्रेन्द्रा भुक्त्वा पादौ तथात्मनः। तेषां तुष्यामि मानां यश्चक्रे च बलिं हरेत्॥ वामनं ब्राह्मणं दृष्ट्वा वराहं च जलोत्थिम्। उद्धृतां धरणीं चैव मूर्धा धारयते तु यः॥ न तेषामशुभं किंचित् कल्मषं चोपपद्यते। अश्वत्यं रोचनां गां च पूजयेद् यो नरः सदा॥ पूजितं च जगत् तेन सदेवासुरमानुषम्। तेन रूपेण तेषां च पूजां गृह्णामि तत्त्वतः॥ पूजा ममैषा नास्त्यन्या यावल्लोकाः प्रतिष्ठिताः। अन्यथा हि वृथा माः पूजयन्त्यल्पवुद्धयः॥ नाहं तत् प्रतिगृह्णामि न सा तुष्टिकरी मम॥ इन्द्र उवाच चक्रं पादौ वराहं च ब्राह्मणं चापि वामनम्। उद्धृतां धरणीं चैव किमर्थं त्वं प्रशंससि॥ भवान् सृजति भूतानि भवान् संहरति प्रजाः। प्रकृतिः सर्वभूतानां समानां सनातनी॥ भीष्म उवाच सम्प्रहस्य ततो विष्णुरिदं वचनमब्रवीत्। चक्रेण निहता दैत्याः पद्भ्यां क्रान्ता वसुन्धरा॥ वाराहं रूपमास्थाय हिरण्याक्षो निपातितः। वामनं रूपमास्थाय जितो राजा मया बलिः॥ परितुष्टो भवाम्येवं मानुषाणां महात्मनाम्। तन्मां ये पूजयिष्यन्ति नास्ति तेषां पराभवः॥ अपि वा ब्राह्मणं दृष्ट्वा ब्रह्मचारिणमागतम्। ब्राह्मणाग्र्याहुतिं दत्त्वा अमृतं तस्य भोजनम्॥ ऐन्द्रीं संध्यामुपासित्वा आदित्याभिमुखः स्थितः। सर्वतीर्थेषु स स्नातो मुच्यते सर्वकिल्बिषैः॥ एतद् वः कथितं गुह्यमखिलेन तपोधनाः। संशयं पृच्छमानानां किं भूयः कथयाम्यहम्॥ बलदेव उवाच श्रूयतां परमं गुह्यं मानुषाणां सुखावहम्। अजानन्तो यदबुधाः क्लिश्यन्ते भूतपीडिताः॥ कल्य उत्थाय यो मर्त्यः स्पृशेद् गां वै घृतं दधि। सर्षपं च प्रियर्थं च कल्मषात् प्रतिमुच्यते॥ भूतानि चैव सर्वाणि अग्रतः पृष्ठतोऽपि वा। उच्छिष्टं वापि च्छिद्रेषु वर्जयन्ति तपोधनाः॥ देवा ऊचुः प्रगृह्यौदुम्बरं पात्रं तोयपूर्णमुदङ्मुखः। उपवासं तु गृह्णीयाद् यद् वा संकल्पयेद् व्रतम्॥ देवतास्तस्य तुष्यन्ति कामिकं चापि सिध्यति। अन्यथा हि वृथा मर्त्याः कुर्वते स्वल्पबुद्धयः॥ उपवासे बलौ चापि ताम्रपात्रं विशिष्यते। बलिर्भिक्षा तथाऱ्या च पितॄणां च तिलोदकम्॥ ताम्रपात्रेण दातव्यमन्यथाऽहल्पफलं भवेत्। गुह्यमेतत् समुद्दिष्टं यथा तुष्यन्ति देवताः॥ धर्म उवाच राजपौरुषिके विप्रे घाण्टिके परिचारिके। गोरक्षके वाणिजके तथा कारुकुशीलवे॥ मित्रदुह्यनधीयाने यश्च स्याद् वृषलीपतिः। एतेषु दैवं पित्र्यं वा न देयं स्यात् कथंचन॥ पिण्डदास्तस्य हीयन्ते न च प्रीणाति वै पितॄन्। अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते॥ पितरस्तस्य देवाश्च अग्नयश्च तथैव हि। निराशा: प्रतिगच्छन्ति अतिथेरप्रतिग्रहात्॥ स्त्रीनैर्गोनैः कृतघ्नैश्च ब्रह्मघ्नैर्गुरुतल्पगेः। तुल्यदोषो भवत्येभिर्यस्यातिथिरनर्चितः॥ अग्नि रुवाच पादमुद्यम्य यो मर्त्यः स्पृशेद् गाश्च सुदुर्मतिः। ब्राह्मणं वा महाभागं दीप्यमानं तथानलम्॥ तस्य दोषान् वक्ष्यामि तच्छृणुध्वं समाहिताः। दिवं स्पृशत्यशब्दोऽस्य त्रस्यन्ति पितरश्च वै॥ वैमनस्यं च देवानां कृतं भवति पुष्कलम्। पावकश्च महातेजा हव्यं न प्रतिगृह्णति॥ आजन्मनां शतं चैव नरके पच्यते तु सः। निष्कृतिं च न तस्यापि अनुमन्यन्ति कर्हिचित्॥ तस्माद् गावो न पादेन स्प्रष्टव्या वै कदाचन। ब्राह्मणश्च महातेजा दीप्यमानस्तथानलः॥ श्रद्वधानेन मर्येन आत्मनो हितमिच्छता। एते दोषा मया प्रोक्तास्त्रिषु यः पादमुत्सृजेत्॥ विश्वामित्र उवाच श्रूयतां परमं गुह्यं रहस्यं धर्मसंहितम्। परमान्नेन यो दद्यात् पितॄणामौपहारिकम्॥ गजच्छायायां पूर्वस्यां कुतपे दक्षिणामुखः। यदा भाद्रपदे मासि भवते बहुले मघा॥ श्रूयतां तस्य दानस्य यादृशो गुणविस्तरः। कृतं तेन महच्छ्राद्धं वर्षाणीह त्रयोदश॥ गाव: ऊचुः बहुले समंगे ह्यकुतोऽभये च क्षेमे च सख्येव हि भूयसी च। यथा पुरा ब्रह्मपुरे सवत्सा शतक्रतोर्वज्रधरस्य यज्ञे।॥ भूयश्च या विष्णुपदे स्थिता ता विभावसोश्चापि पथे स्थिता या। देवाश्च सर्वे सह नारदेन प्रकुर्वते सर्वसहेति नाम॥ मन्त्रेणैतेनाभिवन्देत यो वै विमुच्यते पापकृतेन कर्मणा। लोकानवाप्नोति पुरंदरस्य गवां फलं चन्द्रमसो द्युतिं च एतं हि मन्त्रं त्रिदशभिजुष्टं पठेत यः पर्वसु गोष्ठमध्ये। न तस्य पापं न भयं न शोकः सहस्रनेत्रस्य च याति लोकम्॥ भीष्म उवाच अथ सप्त महाभाग ऋषयो लोकविश्रुताः। वसिष्ठप्रमुखः सर्वे ब्रह्माणं पद्मसम्भवम्॥ प्रदक्षिणमभिक्रम्य सर्वे प्राञ्जलयः स्थिताः। उवाच वचनं तेषां वसिष्ठो ब्रह्मावित्तमः॥ सर्वप्राणिहितं प्रश्न ब्रह्मक्षत्रे विशेषतः। द्रव्यहीनाः कथं मा दरिद्राः साधुवर्तिनः॥ प्राप्नुवन्तीह यज्ञस्य फलं केन च कर्मणा। एतच्छ्रुत्वा वचस्तेषां ब्रह्मा वचनमब्रवीत्॥ ब्राह्मण उवाच अहो प्रश्नो महाभागा गूढार्थः परमः शुभः। सूक्ष्मः श्रेयांश्च मर्त्यानां भवद्भिः समुदाहृतः॥ श्रूयतां सर्वमाख्यास्ये निखिलेन तपोधनाः। यथा यज्ञफलं मो लभते नात्र संशयः॥ पौषमासस्य शुक्ले वै यदा युज्येत रोहिणी। तेन नक्षत्रयोगेन आकाशशयनो भवेत्॥ एकवस्त्रः शुचिः स्नातः श्रद्दधानः समाहितः। सोमस्य रश्मयः पीत्वा महायज्ञफलं लभेत्॥ एतद् वः परमं गुह्यं कथितं द्विजसत्तमाः। यन्मां भवन्तः पृच्छन्ति सूक्ष्मतत्त्वार्थदर्शिनः॥ एतद् वः परमं गुह्यं कथितं द्विजसत्तमाः। यन्मां भवन्तः पृच्छन्ति सूक्ष्मतत्त्वार्थदर्शिनः॥ भीष्म उवाच ततस्त्वृषिगणाः सर्वे पितरश्च सदेवताः। अरुन्धतीं तपोवृद्धामपृच्छन्त समाहिताः॥ समानशीला वीर्येण वसिष्ठस्य महात्मनः। त्वत्तो धर्मरहस्यानि श्रोतुमिच्छामहे वयम्। यत्ते गुह्यतमं भद्रे तत् प्रभाषितुमर्हसि॥ अरुन्धत्युवाच तपोवृद्धिर्मया प्राप्ता भवतां स्मरणेन वै। भवतां च प्रसादेन धर्मान् वक्ष्यामि शाश्वतान्॥ सगुह्यान् सरहस्यांश्च ताशृणुध्वमशेषतः। श्रद्दधाने प्रयोक्तव्या यस्य शुद्धं तथा मनः॥ अश्रद्दधानो मानी च ब्रह्महा गुरुतल्पगः। असम्भाष्या हि चत्वारो नैषां धर्मः प्रकाशयेत्॥ अहन्यहनि यो दद्यात् कपिला द्वादशीः समाः। मासि मासि च सत्रेण यो यजेत सदा नरः॥ गवां शतसहस्रं च यो दद्याज्ज्येष्ठपुष्करे। न तद्धर्मफलं तुल्यमतिथिर्यस्य तुष्यति॥ श्रूयतां चापरो धर्मो मनुष्याणां सुखावहः। श्रद्दधानेन कर्तव्यः सहरस्यो महाफलः॥ कल्यमुत्थाय गोमध्ये गृह्य दर्भान् सहोदकान्। निषिञ्चेत गवां शृङ्गे मस्तकेन च तज्जलम्॥ प्रताच्छेत निराहारस्तस्य धर्मफलं शृणु। श्रूयन्ते यानि तीर्थानि त्रिषु लोकेषु कानिचित्॥ सिद्धचारणजुष्टानि सेवितानि महर्षिभिः। अभिषेकः समस्तेषां गवां शृङ्गोदकस्य च॥ साधु साध्विति चोद्दिष्टं दैवतैः पितृभिस्तथा। भूतैश्चैव सुसंहष्टैः पूजिता साप्यरुन्धती॥ पितामह उवाच अहो धर्मो महाभागे सरहस्य उदाहृतः। वरं ददामि ते धन्ये तपस्ते वर्धतां सदा॥ यम उवाच रमणीया कथा दिव्या युष्मत्तो या मया श्रुता। श्रूयतां चित्रगुप्तस्य भाषितं मम च प्रियम्॥ रहस्यं धर्मसंयुक्तं शक्यं श्रोतुं महर्षिभिः। श्रद्दधानेन मन आत्मनो हितमिच्छता॥ न हि पुण्यं तथा पापं किंचिद् विनश्यति। पर्वकाले च यत् किंचिदादित्यं चाधितिष्ठति॥ प्रेतलोकं गते म] तत् तत् सर्वे विभावसुः। प्रतिजानाति पुण्यात्मा तच्च तत्रोपयुज्यते॥ किंचिद् धर्मं प्रवक्ष्यामि चित्रगुप्तमतं शुभम्। पानीयं चैव दीपं च दातव्यं सतलं तथा॥ उपानहौ च च्छत्रं च कपिला च यथातथम्। पुष्करे कपिला देया ब्राह्मणे वेदपारगे॥ अग्निहोत्रं च यत्नेन सर्वशः प्रतिपालयेत्। अयं चैवापरो धर्मचित्रगुप्तेन भाषितः॥ फलमस्य पृथक्त्वेन श्रोतुमर्हन्ति सत्तमाः। प्रलयं सर्वभूतैस्तु गन्तव्यं कालपर्ययात्॥ तत्र दुर्गमनुप्राप्ताः क्षुत्तृष्णापरिपीडिताः। दह्यमाना विपच्यन्ते न तत्रास्ति पलायनम्॥ अन्धकारं तमो घोरं प्रविशन्त्यल्पबुद्धयः। तत्र धर्म प्रवक्ष्यामि येन दुर्गाणि संतरेत्॥ अल्पव्ययं महार्थं च प्रेत्य चैव सुखोदयम्। पानीयस्य गुणा दिव्याः प्रेतलोके विशेषतः॥ तत्र पुण्योदका नाम नदी तेषां विधीयते। अक्षयं सलिलं तत्र शीतलं ह्यमृतोपमम्॥ स तत्र गोयं पिबति पानीयं यः प्रयच्छति। प्रदीपस्य प्रदानेन श्रूयतां गुणविस्तरः॥ तमोऽधकारं नियतं दीपदो न प्रपश्यति। प्रभां चास्य प्रयच्छन्ति सोमभास्करपावकाः॥ देवताश्चानुमन्यन्ते विमलाः सर्वतो दिशः। द्योतते च यथाऽऽदित्यः प्रेतलोकगतो नरः॥ तस्माद् दीपः प्रदातव्यः पानीयं च विशेषतः। कपिलां ये प्रयच्छन्ति ब्राह्मणे वेदपारगे॥ पुष्करे च विशेषेण श्रूयतां तस्य यत् फलम्। गोशतं सवृषं तेन दत्तं भवति शाश्वतम्॥ पापं कर्म च यत् किंचिद् ब्रह्महत्यासमं भवेत्। शोधयेत् कपिला ह्येका प्रदत्तं गोशतं यथा॥ तस्मात्तु कपिला देया कौमुद्यां ज्येष्ठपुष्करे। न तेषां विषमं किंचिन्न दु:खं न च कण्टकाः॥ उपानहो च यो दद्यात् पात्रभूते द्विजोत्तमे। छत्रदाने सुखां छायां लभते परलोकगः॥ न हि दत्तस्य दानस्य नाशोऽस्तीह कदाचन। चित्रगुप्तमतं श्रुत्वा हृष्टरोमा विभावसुः॥ उवाच देवताः सर्वाः पितूंश्चैव महाद्युतिः। श्रुतं हि चित्रगुप्तस्य धर्मगुह्यं महात्मनः॥ श्रद्दधानाश्च ये मर्त्या ब्राह्मणेषु महात्मसु। दानमेतत् प्रयच्छन्ति न तेषां विद्यते भयम्॥ धर्मदोषास्त्विमे पञ्च येषां नास्तीह निष्कृतिः। असम्भाष्या अनाचारा वर्जनीया नराधमाः॥ ब्रह्महा चैव गोघ्नश्च परदाररतश्च यः। अश्रद्दधानश्च नरः स्त्रियं यश्चोपजीवति॥ प्रेतलोकगता ह्येते नरके पापकर्मिणः। पच्यन्ते वै यथा मीना: पूयशोणितभोजनाः॥ असम्भाष्याः पितॄणां च देवानां चैव पञ्च ते। स्नातकानां च विप्राणां ये चान्ये च तपोधनाः॥ भीष्म उवाच ततः सर्वे महाभाग देवाश्च पितरश्च ह। ऋषयश्च महाभागाः प्रमथान् वाक्यमब्रुवन्॥ भवन्तो वै महाभागा अपरोक्षनिशाचराः। उच्छिष्टानशुचीन् क्षुद्रान् कथं हिंसथ मानवान्॥ के च स्मृताः प्रतीघाता येन मर्त्यान् न हिंसथ। रक्षोनानि च कानि स्युर्यगृहेषु प्रणश्यथ। श्रोतुमिच्छाम युष्माकं सर्वमेतन्निशाचराः॥ प्रथमा ऊचुः मैथुनेन सदोच्छिष्टाः कुते चैवाधरोत्तरे। मोहान्मांसानि खादेत वृक्षमूले च यः खपेत्॥ आमिषं शीर्षतो यस्य पादतो यश्च संविशेत्। तत उच्छिष्टकाः सर्वे बहुच्छिद्राश्च मानवाः॥ उदके चाप्यमेध्यानि श्लेष्माणं च प्रमुञ्चति। एते भक्ष्याश्च वध्याश्च मानुषा नात्र संशयः॥ एवं शीलसमाचारान् धर्षयामो हि मानवान्। श्रूयतां च प्रतीघातान् यैर्न शक्नुम हिंसितुम्॥ गोरोचनासमालम्भो वचाहस्तश्च यो भवेत्। घृताक्षतं च यो दद्यान्मस्तके तत्परायणः॥ ये च मांसं न खादन्ति तान् न शक्नुम हिसितुम्। यस्य चाग्निगृहे नित्यं दिवारात्रौ च दीप्यते॥ तरक्षोश्चर्म दंष्ट्राश्च तथैव गिरिकच्छपः। आज्यधूमो बिडालश्चच्छागः कृष्णोऽथ पिङ्गलः॥ येषामेतानि तिष्ठन्ति गृहेषु गृहमेधिनाम्। तान्यधृष्याण्यगाराणि पिशिताशैः सुदारुणैः॥ लोकानस्मद्विधा ये च विचरन्ति यथासुखम्। तस्मादेतानि गेहेषु रक्षोनानि विशाम्पते। एतद् वः कथितं सर्वे यत्र वः संशयो महान्॥ भीष्म उवाच ततः पद्मप्रतीकाशः पद्मोद्भूतः पितामहः। उवाच वचनं देवान् वासवं च शचीपतिम्॥ अयं महाबलो नागो रसातलचरो बली। तेजस्वी रेणुको नाम महासत्त्वपराक्रमः॥ अतितेजस्विनः सर्वे महावीर्या महागजाः। घरयन्ति महीं कृत्स्नां सशैलवनकाननाम्॥ भवद्भिः समनुज्ञातो रेणुकस्तान् महागजान्। धर्मगुह्यानि सर्वाणि गत्वा पृच्छतु तत्र वै॥ पितामहवचः श्रुत्वा ते देवा रेणुकं तदा। प्रेषयामासुरव्यग्रा यत्र ते धरणीधराः॥ रेणुका उवाच अनुज्ञातोऽस्मि देवैश्च पितृभिश्च महाबलाः। धर्मगुह्यानि युष्माकं श्रोतुमिच्छामि तत्त्वतः। कथयध्वं महाभागा यद् वस्तत्त्वं मनीषितम्॥ दिग्गजा ऊचुः कार्तिके मासि चाश्लेषा बहुलस्याष्टमी शिवा। तेन नक्षत्रयोगेन यो ददाति गुडौदनम्॥ इमं मन्त्रं जपञ्छ्राद्धे यताहारो ह्यकोपनः। बलदेवप्रभृतयो ये नागा बलवत्तराः॥ अनन्ता ह्यक्षया नित्यं भोगिनः सुमहाबलाः। तेषां कुलोद्भवा ये च महाभूता भुजङ्गेमाः॥ ते मे बलिं प्रतीच्छन्तु बलतेजोऽभिवृद्धये। यदा नारायणः श्रीमानुज्जहार वसुंधराम्॥ तद् बलं तस्य देवस्य धरामुद्धरतस्तथा। एवमुक्त्वा बलिं तत्र वल्मीके तु निवेदयेत्॥ गजेन्द्रकुसुमाकीर्णं नीलवस्त्रानुलेपनम्। निर्वपेत् तं तु वल्मीके अस्तं याते दिवाकरे॥ एवं तुष्टास्ततः सर्वे अधस्ताद्भारपीडिताः। श्रमं तं नावबुध्यामो धारयन्तो वसुंधराम्॥ एवं मन्यामहे सर्वे भारार्ता निरपेक्षिणः। ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा यधुपोषितः॥ एवं संवत्सरं कृत्वा दानं बहुफलं लभेत्। वल्मीके बलिमादाय तन्नो बहुफलं मतम्॥ ये च नागा महावीर्यास्त्रिषु लोकेषु कृत्स्नशः। कृतातिथ्या भवेयुस्ते शतं वर्षाणि तत्त्वतः॥ दिग्गजानां च तच्छ्रुत्वा देवता: पितरस्तथा। ऋषयश्च महाभागाः पूजयन्ति स्म रेणुकम्॥ दिग्गजानां च तच्छ्रुत्वा देवता: पितरस्तथा। ऋषयश्च महाभागाः पूजयन्ति स्म रेणुकम्॥ महेश्वर उवाच सारमुद्धृत्य युष्माभिः साधुधर्म उदाहृतः। धर्मगुह्यमिदं मत्तः शृणुध्वं सर्व एव ह॥ येषां धर्माश्रिता बुद्धिः श्रद्दधानाश्च ये नराः। तेषां स्यादुपदेष्टव्यः सरहस्यो महाफलः॥ निरुद्विगन्स्तु यो दद्यान्मासमेकं गवाह्निकम्। एकभक्तं तथाश्नीयाच्छूयतां तस्य यत् फलम्॥ इमा गावो महाभागाः पवित्रं परमं स्मृताः। त्रील्लोकान् धारयन्ति स्म सदेवासुरमानुषान्॥ तासु चैव महापुण्यं शुश्रूषा च महाफलम्। अहन्यहनि धर्मेण युज्यते वै गवाह्निकः॥ मया ह्येता ह्यनुज्ञाताः पूर्वमासन् कृते युगे। ततोऽहमनुनीतो वै ब्रह्मणा पद्मयोनिना॥ तस्माद् ब्रजस्थानगतस्तिष्ठत्युपरि मे वृषः। रमेऽहं सह गोभिश्च तस्मात् पूज्याः सदैव ताः॥ महाप्रभावा वरदा वरं दधुरुपासिताः। ता गावोऽस्यानुमन्यन्ते सर्वकर्मसु यत् फलम्॥ तस्य तत्र चतुर्भागो यो ददाति गवाह्निकम्॥ स्कन्द उवाच ममाप्यनुमतो धर्मस्तं शृणुध्वं समाहिताः। नीलपण्डस्य श्रृंगाभ्यां मृत्तिकां तु यः॥ अभिषेकं त्र्यहं कुर्यात् तस्य धर्म निबोधता शोधयेदशुभं सर्वमाधिपत्यं परत्र च॥ यावच्च जायते मर्त्यस्तावच्छूरो भविष्यति। इदं चाप्यपरं गुह्यं सरहस्यं निबोधत॥ प्रगृह्यौदुम्बरं पात्रं पक्वान्नं मधुना सहा सोमस्योत्तिष्ठमानस्य पौर्णमास्यां बलिं हरेत्॥ तस्य धर्मफलं नित्यं श्रद्दधाना निबोधता साध्या रुद्रास्तथादित्या विश्वेदेवस्तथाश्विनौ॥ मरुतो वसवश्चैव प्रतिगृहन्ति तं बलिम्। सोमश्च वर्धते तेन समुद्रश्च महोदधिः॥ एष धर्मो मयोद्दिष्टः सरहस्यः सुखावहः॥ विष्णु उवाच धर्मगुह्यानि सर्वाणि देवतानां महात्मनान्। ऋषीणां चैव गुह्यानि यः पठेदाह्निकं सदा॥ शृणुयाद् वानसू युर्यः श्रद्दधानः समाहितः। नास्य विघ्नः प्रभवति भयं चास्य न विद्यते॥ ये च धर्माः शुभाः पुण्याः सरहस्या उदाहृताः। तेषां धर्मफलं तस्य यः पठेत जितेन्द्रियः॥ नास्य पापं प्रभवति न च पापेन लिप्यते। पठेद् वा श्रावयेद् वापि श्रुत्वा वा लभते फलम्॥ भुञ्जते पितरो देवा हव्यं कव्यमथाक्षयम्। श्रावयंश्चापि विप्रन्द्रान् पर्वसु प्रयतो नरः॥ ऋषीणां देवतानां च पितॄणां चैव नित्यदा। भवत्यभिमतः श्रीमान् धर्मेषु प्रयतः सदा॥ कृत्वापि पापकं कर्म महापातकवर्जितम्। रहस्यधर्मे श्रुत्वेमं सर्वपापैः प्रमुच्यते॥ भीष्म उवाच एतद् धर्मरहस्यं वै देवतानां नराधिप। व्यासोद्दिष्टं मया प्रोक्तं सर्वदेवनमस्कृतम्॥ पृथिवी रत्नसम्पूर्णा ज्ञानं चेदमनुत्तमम्। इदमेव ततः श्राव्यमिति मन्येत धर्मवित्॥ नाश्रद्दधानाय न नास्तिकाय न नष्टधर्माय न निघृणाय। न हेतुदुष्टाय गुरुद्विषे वा नानात्मभूताय निवेद्यमेतत्॥ युधिष्ठिर उवाच उक्तास्तु भवता भोज्यास्तथाभोज्याश्च सर्वशः। अत्र में प्रश्नसंदेहस्तन्मे वद पितामह॥ ब्राह्मणानां विशेषेण हव्यकव्यप्रतिग्रहे। नानाविधेषु भोज्येषु प्रायश्चित्तानि शंस मे॥ भीष्म उवाच हन्त वक्ष्यामि ते राजन् ब्राह्मणानां महात्मनाम्। प्रतिग्रहेषु भोज्ये च मुच्यते येन पाप्मनः॥ घृतप्रतिग्रहे चैव सावित्री समिदाहुतिः। तिलप्रतिग्रहे चैव सममेतद् युधिष्ठिर॥ मांसप्रतिग्रहे चैव मधुनो लवणस्य च। आदित्योदयनं स्थित्वा पूतो भवति ब्राह्मणः॥ काञ्चनं प्रतिगृह्याथ जपमानो गुरुश्रुतिम्। कृष्णायसं च विवृतं धारयन् मुच्यते द्विजः॥ एवं प्रतिगृहीतेऽथ धने वस्त्रे तथा स्त्रियाम्। एवमेव नरश्रेष्ठ सुवर्णस्य प्रतिग्रहे॥ अन्नप्रतिग्रहे चैव पायसेक्षुरसे तथा। इक्षुतैलपवित्राणां त्रिसंध्येऽप्सु निमज्जनम्॥ व्रीहौ पुष्पे फले चैव जले पिष्टमये तथा। यावके दधिदुग्धे च सावित्रीं शतशोऽन्विताम्॥ उपानहौ च च्छत्रं च प्रतिगृौर्ध्वदेहिके। जपेच्छतं समायुक्तस्तेन मुच्येत पाप्मना॥ क्षेत्रप्रतिग्रहे चैव ग्रहसूतकयोस्तथा। त्रीणि रात्राण्युपोषित्वा तेन पापाद् विमुच्यते॥ कृष्णपक्षे तु यः श्राद्धं पितॄणामश्नुते द्विजः। अन्नमेतदहोरात्रात् पूतो भवति ब्राह्मणः॥ न च संध्यामुपासीत न च जाप्यं प्रवर्तयेत्। न संकिरेत् तदन्नं च ततः पूयेत ब्राह्मणः॥ इर्थमपराह्ने तु पितॄणां श्राद्धमुच्यते। यथोक्तानां यदश्नीयुर्ब्राह्मणाः पूर्वकीर्तिताः॥ मृतकस्य तृतीयाहे ब्राह्मणो योऽन्नमश्नुते। स त्रिवेलं समुन्मज्य द्वादशाहेन शुध्यति॥ द्वादशाहे व्यतीते तु कृतशौचो विशेषतः। ब्राह्मणेभ्यो हविर्दत्त्वा मुच्यते तेन पाप्मना॥ मृतस्य दशरात्रेण प्रायश्चित्तानि दापयेत्। सावित्रीं रैवतीमिष्टिं कूष्माण्डमघमर्षणम्॥ मृतकस्य त्रिरात्रे यः समुद्दिष्टे समश्नुते। सप्त त्रिषवणं स्नात्वा पूतो भवति ब्राह्मणः॥ सिद्धिमाप्नोति विपुलामापदं चैव नाप्नुयात्॥ यस्तु शूद्रैः समश्नीयाद् ब्राह्मणोऽप्येकभोजने। अशौचं विधिवत् तस्य शौचमत्र विधीयते॥ यस्तु वैश्यैः सहाश्नीयाद् ब्राह्मणोऽप्येकभोजने। स वै त्रिरात्रं दीक्षित्वा मुच्यते तेन कर्मणा॥ क्षत्रियैः सह योऽश्नीयाद् ब्राह्मणोऽप्येकभोजने। आप्लुत: सह वासोभिस्तेन मुच्येत पाप्मना॥ शूद्रस्य तु कुलं हन्ति वैश्यस्य पशुबान्धवान्। क्षत्रियस्य श्रियं हन्ति ब्राह्मणस्य सुवर्चसम्॥ प्रायश्चित्तं च शान्तिं च जुहुयात् तेन मुच्यते। सावित्रीं रैवतीमिष्टिं कूष्माण्डमघमर्षणम्॥ तथोच्छिष्टमथान्योन्यं सम्प्राशेन्नात्र संशयः। रोचना विरजा रात्रिर्मङ्गलालम्भनानि च॥ तथोच्छिष्टमथान्योन्यं सम्प्राशेन्नात्र संशयः। रोचना विरजा रात्रिर्मङ्गलालम्भनानि च॥ युधिष्ठिर उवाच श्रुतं मे भवतस्तात सत्यव्रतपराक्रमा दानधर्मेण महता ये प्राप्तास्त्रिदिवं नृपाः॥ इमांस्तु श्रोतुमिच्छामि धर्मान् धर्मभृतां वर। दानं कतिविधं देयं किं तस्य च फलं लभेत्॥ कथं केभ्यश्च धर्म्य च दानं दातव्यमिष्यते। कैः कारणैः कतिविधं श्रोतुमिच्छामि तत्त्वतः॥ भीष्म उवाच शृणु तत्त्वेन कौन्तेय दानं प्रति ममानघ। यथा दानं प्रदातव्यं सर्ववर्णेषु भारत॥ धर्मादाद् भयात् कामात् कारुण्यादिति भारत। दानं पञ्चविधं ज्ञेयं कारणैर्निबोध तत्॥ इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम्। इति दानं प्रदातव्यं ब्राह्मणेभ्योऽनसूयता॥ ददाति वा दास्यति वा मह्यं दत्तमनेन वा। इत्यर्थिभ्यो निशम्यैव सर्वं दातव्यमर्थिने॥ नास्याहं न मदीयोऽयं पापं कुर्याद् विमानितः। इति दद्याद् भयादेव इंढ मूढाय पण्डितः॥ प्रियो मेऽयं प्रियोऽस्याहमिति सम्प्रेक्ष्य बुद्धिमान्। वयस्यामैवमक्लिष्टं दानं दद्यादतन्द्रितः॥ दीनश्च याचते चायमल्पेनापि हि तुष्यति। इति दद्याद् दरिद्राय कारुण्यादिति सर्वथा॥ इति पञ्चविधं दानं पुण्यकीर्तिविवर्धनम्। यथाशक्त्या प्रदातव्यमेवमाह प्रजापतिः॥ युधिष्ठिर पितामह महाप्राज्ञ सर्वशास्त्रविशारद। आगमैर्बहुभिः स्फीतो भवान् नः प्रवरे कुले॥ त्वत्तो धर्मार्थसंयुक्तमायत्यां च सुखोदयम्। आश्चर्यभूतं लोकस्य श्रोतुमिच्छाम्यरिंन्दम॥ अयं च कालः सम्प्राप्तो दुर्लभो ज्ञातिबान्धवैः। शास्ता च न हि नः कश्चित् त्वामृते पुरुषर्षभ॥ यदि तेऽहमनुग्राह्यो भ्रातृभिः सहितोऽनघ। वक्तुमर्हसि नः प्रश्नं यत् त्वां पृच्छामि पार्थिव॥ अयं नारायणः श्रीमान् सर्वपार्थिवसम्मतः। भवन्तं बहुमानेन प्रश्रयेण च सेवते॥ अस्य चैव समक्षं त्वं पार्थिवानां च सर्वशः। भ्रातृणां च प्रियार्थं मे स्नेहाद् भाषितुमर्हसि।॥ वैशम्पायन उवाच तस्य तद् वचनं श्रुत्वा स्नेहादागतसम्भ्रमः। भीष्मो भागीरथीपुत्र इदं वचनमब्रवीत्॥ भीष्म उवाच अहं ते कथयिष्यामि कथामतिमनोहराम्। अस्य विष्णोः पुरा राजन् प्रभावो यो मया श्रुतः॥ यश्च गोवृषभाङ्कस्य प्रभावस्तं च मे शृणु। रुद्राण्याः संश्यो यश्च दम्पत्योस्तं च मे शृणु।॥ व्रतं चचार धर्मात्मा कृष्णो द्वादशवार्षिकम्। दीक्षितं चागतौ द्रष्टुमुभौ नारदपर्वतौ॥ कृष्णद्वैपायनश्चैव धौम्यश्च जपतां वरः। देवलः काश्यपश्चैव हस्तिकाश्यप एव च॥ अपरे चर्षयः सन्तो दीक्षादमसमन्विताः। शिष्यैरनुगता: सिद्धैर्देवकल्पैस्तपोधनैः॥ तेषामतिथिसत्कारमर्चनीयं कुलोचितम्। देवकीतनयः प्रीतो देवकल्पमकल्पयत्॥ हरितेषु सुवर्णेषु बर्हिष्केषु नवेषु च। उपोवविविशुः प्रीता विष्टेरेषु महर्षयः॥ कथाश्चक्रुस्ततस्ते तु मधुरा धर्मसंहिताः। राजर्षीणां सुराणां च ये वसन्ति तपोधनाः॥ ततो नारायणं तेजो व्रतचर्येन्धनोत्थितम्। वक्त्रानिःसृत्य कृष्णस्य वह्निरद्भुतकर्मणः॥ सोऽग्निर्ददाह तं शैलं सदुमं सलताक्षुपम्। सपक्षिमृगसंघातं सश्वापदसरीसृपम्॥ मृगैश्च विविधाकारैर्हाहाभूतमचेतनम्। शिखरं तस्य शैलस्य मथितं दीनदर्शनम्॥ स तु वहिर्महाज्वालो दग्ध्वा सर्वमशेषतः। विष्णो:समीप आगम्य पादौ शिष्यवदस्पृशत्॥ ततो विष्णुर्गिरिं दृष्ट्वा निर्दग्धमरिकर्शनः। सौम्यैदृष्टिनिपातैस्तं पुनः प्रकृतिमानयत्॥ तथैव स गिरिभूर्यः प्रपुष्पितलताद्रुमः। सपक्षिगणसंघुष्टः सश्वापदसरीसृपः॥ तमद्भुतमचिन्त्यं च दृष्ट्वा मुनिगणस्तदा। विस्मितो दृष्टरोमा च बभूवास्राविलेक्षणः॥ ततो नारायणो दृष्ट्वा तानृषीन् विस्मयान्वितान्। प्रश्रितं मधुरं स्निग्धं पप्रच्छ वदतां वरः॥ किमर्थमृषिपूगस्य त्यक्तसङ्स्य नित्यशः। निर्ममस्यागमवतो विस्मयः समुपागतः॥ एतन्मे संशयं सर्वे याथातथ्यमनिन्दिताः। ऋषयो वक्तुमर्हन्ति निश्चितार्थं तपोधनाः॥ ऋषिरुवाच भवान् विसृजते लोकान् भवान् संहरते पुनः। भवान् शीतं भवानुष्णं भवानेष च वर्षति॥ पृथिव्यां यानि भूतानि स्थावराणि चराणि च। तेषां पिता त्वं माता त्वं प्रभुः प्रभव एव च॥ एवं नो विस्मयकरं संशयं मधुसूदन। त्वमेवार्हसि कल्याण वक्तुं वह्नर्विनिर्गमम्॥ ततो विगतसंत्रासा वयमप्यरिकशन। यच्छुतं यच्च दृष्टं नस्तत् प्रवक्ष्यामहे हरे॥ वासुदेव उवाच एतद् वै वैष्णवं तेजो मम वक्त्राद् विनिःसृतम्। कृष्णवा युगान्ताभो येनायं मथितो गिरिः॥ ऋषयश्चार्तिमापन्ना जितक्रोधा जितेन्द्रियाः। भवन्तो व्यथिताश्चासान् देवकल्पास्तपोधनाः॥ व्रतचर्यापरीतस्य तपस्विव्रतसेवया। मम वह्निः समुद्भूतो न वै व्यथितुमर्हथ॥ व्रतं चर्तुमिहायातस्त्वहं गिरिमिमं शुभम्। पुत्रं चात्मसमं वीर्ये तपसा लब्धुमागतः॥ ततो ममात्मा यो देहे सोऽग्निर्भूत्वा विनिः सृतः। गतश्च वरदं द्रष्टुं सर्वलोकपितामहम्॥ तेन चात्मानुशिष्टो मे पुत्रत्वे मुनिसत्तमाः। तेजसोऽर्धेन पुत्रस्ते भवितेति वृषध्वजः॥ सोऽयं वह्निरुपागम्य पादमूले ममान्तिकम्। शिष्यवत् परिचर्यार्थं शान्तः प्रकृतिमागतः॥ एतदेव रहस्यं वः पद्मनाभस्य धीमतः। मया प्रोक्तं समासेन न भी: कार्या तपोधनाः॥ सर्वत्र गतिरव्यग्रा भवतां दीर्घदर्शनात्। तपस्वितसंदीप्ता ज्ञानविज्ञानशोभिताः॥ यच्छुतं यच्च वो दृष्टं दिवि वा यदि वा भुवि। आश्चर्यं परमं किंचित् तद् भवन्तो ब्रुवन्तु मे॥ तस्यामृतनिकाशस्य वाङ्भधोरस्ति मे स्पृहा। भवद्भिः कथितस्येह तपोवननिवासिभिः॥ यद्यप्यहमदृष्टं वो दिव्यमद्युतदर्शनम्। दिवि वा भुवि वा किंचित् परयाम्यमरदर्शनाः॥ प्रकृतिः सा मम परा न क्वचित् प्रतिहन्यते। न चात्मगतमैश्वर्यमाश्चर्यं प्रतिभाति मे॥ श्रद्धेयः कथितो ह्यर्थं: सज्जनश्रवणं गतः। चिरं तिष्ठति मेदिन्यां शैले लेख्यामिवार्पितम्॥ तदहं सज्जनमुखान्निःसृतं तत्समागमे। कथयिष्याम्यहमहो बुद्धिदीपकरं नृणाम्॥ ततो मुनिगणाः सर्वे विस्मिताः कृष्णसंनिधौ। नेत्रैः पद्मदलप्रख्यैरपश्यंस्तं जनार्दनम्॥ वर्धयन्तस्तथैवान्ये पूजयन्तस्तथाऽपरे। वाग्भिर्ऋग्भूषितार्थाभिः स्तुवन्तो मधुसूदनम्॥ ततो मुनिगणाः सर्वे नारदं देवदर्शनम्। तदा नियोजयामासुर्वचने वाक्यकोविदम्॥ मुनयः ऊचुः यदाश्चर्यमचिन्त्यं च गिरौ हिमवति प्रभो। अनुभूतं मुनिगणैस्तीर्थयात्रापरैर्मुने॥ तद् भवानृषिसंघस्य हितार्थं सर्वमादितः। यथा दृष्टं हृषीकेशे सर्वमाख्यातुमर्हसि॥ एवमुक्तः स मुनिभिर्नारदो भगवान् मुनिः। कथयामास देवर्षिः पूर्ववृत्तामिमां कथाम्॥ भीष्म उवाच ततो नारायणसुहन्नारदो भगवानृषिः। शङ्करस्योमया साधू संवादं प्रत्यभाषत॥ नारद उवाच तपश्चचार धर्मात्मा वृषभाङ्कः सुरेश्वरः। पुण्ये गिरौ हिमवति सिद्धचारणसेविते॥ नानौषधियुते रम्ये नानापुष्पसमाकुले। अप्सरोगणसंकीर्णे भूतसंघनिषेविते॥ तत्र देवो मुदा युक्तो भूतसंघशतैर्वृतः। नानारूपैर्विरूपैश्च दिव्यैरद्भुतदर्शनैः॥ सिंहव्याघ्रगजप्रख्यैः सर्वजातिसमन्वितैः। क्रोष्टुकद्वीपिवदनैर्ऋक्षर्षभमुखैस्तथा॥ उलूकवदनैर्भीमैर्वृकश्येनमुखैस्तथा। नानावणैर्मंगमुखैः सर्वजातिसमन्वितैः॥ किंनरैर्यक्षगन्धर्वे रक्षोभूतगणैस्तथा। दिव्यपुष्पसमाकीर्णं दिव्यज्वालासमाकुलम्॥ दिव्यचन्दनसंयुक्तं दिव्यधूपेन धूपितम्। तत् सदो वृषभाङ्कस्य दिव्यवादिननादितम्॥ मृदङ्गपणवोद्दष्टं शङ्भेरीनिनादितम्। नृत्यद्भिर्भूतसंघेश्च बहिणैश्च समन्ततः॥ प्रनृत्ताप्सरसं दिव्यं देवर्षिगणसेवितम्। दृष्टिकान्तमनिर्देश्यं दिव्यमद्भुतदर्शनम्॥ स गिरिस्तपसा तस्य गिरिशस्य व्यरोचत। स्वाध्यायपरमैर्विप्रैर्ब्रह्मघोषो निनादितः॥ षट्पदैरुगीतैश्च माधवाप्रतिमो गिरिः। तन्मोहोत्सवसंकाशं भीमरूपधरं ततः॥ दृष्ट्वा मुनिगणस्यासीत् परा प्रीतिर्जनार्दन। मुनयश्च महाभागाः सिद्धाश्चैवोर्ध्वरेतसः॥ मरुतो वसवः साध्या विश्वेदेवाः सवासवाः। यक्षा नागाः पिशाचाश्च लोकपाला हुताशनाः॥ वाताः सर्वे महाभूतास्तत्रैवासन् समागताः। ऋतवः सर्वपुष्पैश्च व्यकिरन्त महाद्भुतैः॥ ओषध्यो ज्वलमानाश्च द्योतयन्ति स्म तद् वनम्। विहङ्गाश्च मुदा युक्ताः प्रानृत्यन् व्यनदंश्च ह॥ गिरिपृष्ठेषु रम्येषु व्याहरन्तो जनप्रियाः। तत्र देवो गिरितटे दिव्यधातुविभूषिते॥ पर्यङ्क इव विभ्राजन्नुपविष्टो महामनाः। व्याघ्रचर्माम्बरधरः सिंहचर्मोत्तरच्छदः॥ व्यालयज्ञोपवीती च लोहिताङ्गदभूषणः। हरिश्मश्रुर्जटी भीमो भयकर्ता सुरद्विषाम्॥ अभयः सर्वभूतानां भक्तानां वृषभध्वजः। दृष्ट्वा महर्षयः सर्वे शिरोभिरवानिं गताः॥ विमुक्ताः सर्वपापेभ्यः क्षान्ता विगतकल्मषाः। तस्य भूतपतेः स्थानं भीमरूपधरं बभौ॥ अप्रधृष्यतरं चैव महोरगसमाकुलम्। क्षणेनैवाभवत् सर्वमद्भुतं मधुसूदन॥ तत् सदो वृषभाङ्कस्य भीमरूपधरं बभौ। तमभ्ययाच्छैलसुता भूतस्त्रीगणसंवृता॥ हरतुल्याम्बरधरा समानव्रतधारिणी। बिभ्रती कलशं रौकमं सर्वतीर्थजलोद्भवम्॥ गिरिस्रवाभिः सर्वाभिः पृष्ठतोऽनुगता शुभा। पृष्पवृष्ट्याभिवर्षन्ती गन्धैर्बहुविधैस्तथा। सेवन्ती हिमवत् पार्वं हरपाश्वमुपागमत्॥ ततः स्मयन्ती पाणिभ्यां नर्मार्थं चारुहासिनी। हरने शुभे देवी सहसा सा समावृणोत्॥ संवृताभ्यां तु नेत्राभ्यां तमोभूतमचेतनम्। निर्दोमं निर्वषट्कारं जगद् वै सहसाऽभवत्॥ जनश्च विमनाः सर्वोऽभवत् त्राससमन्वितः। निमीलते भूतपतौ नष्टसूर्य इवाभवत्॥ ततो वितिमिरो लोकः क्षणेन समपद्यत। ज्वाला च महती दीप्ता ललाटात्तस्य निःसृता॥ तृतीयं चास्य सम्भूतं नेत्रमादित्यसंनिभम्। युगान्तसदृशं दीप्तं येनासौ मथितो गिरिः॥ ततो गिरिसुता दृष्ट्वा दीप्ताग्निसदृशेक्षणम्। हरं प्रणम्य शिरसा ददर्शायतलोचना॥ दह्यमाने वने तस्मिन् ससालसरलद्रुमे। सचन्दनवरे रम्ये दिव्यौषधिविदीपिते॥ मृगयूथैर्दुतैर्भीतैर्हरपार्श्वमुपागतैः। शरणं चाप्यविन्दद्भिस्तत् सदः संकुलं बभौ॥ ततो नभस्पृशज्वालो विद्युल्लोलाग्निरुल्बणः। द्वादशादित्यसदृशो युगान्ताग्निरिवापरः॥ क्षणेन तेन निर्दग्धो हिमवानभवन्नगः। सधातुशिखराभोगो दीप्तदग्धलतौषधिः॥ तं दृष्ट्वा मथितं शैलं शैलराजसुता ततः। भगवन्तं प्रपन्ना वै साञ्जलिप्रग्रहा स्थिता॥ उमा शर्वस्तदा दृष्ट्वा स्त्रीभावगतमार्दवाम्। पितुदैन्यमनिच्छन्तीं प्रीत्यापश्यत् तदा गिरिम्॥ क्षणेन हिमवान् सर्वः प्रकृतिस्थः सुदर्शनः। प्रहृष्टविहगश्चैव सुपुष्पितवनदुमः॥ प्रकृतिस्थं गिरिं दृष्ट्वा प्रीता देवं महेश्वरम्। उवाच सर्वलोकानां पतिं शिवमनिन्दिता॥ उमोवाच भगवन् सर्वभूतेश शूलपाणे महाव्रत। संशयो मे महान् जातस्तन्मे व्याख्यातुमर्हसि।॥ किमर्थं ते ललाटे वै तृतीयं नेत्रमुत्थितम्। किमर्थं च गिरिर्दग्धः सपक्षिगणकाननः॥ किमर्थं च पुनर्देव प्रकृतिस्थस्त्वया कृतः। तथैव दुमसंच्छन्नः कृतोऽयं ते पिता मम॥ महेश्वर उवाच नेत्रे मे संवृते देवि त्वया बाल्यादनिन्दिते। नष्टलोकस्तदा लोकः क्षणेन समपद्यत॥ नष्टादित्ये तथा लोके तमोभूते नगात्मजे। तृतीयं लोचनं दीप्तं सृष्टं मे रक्षता प्रजाः॥ तस्य चाक्ष्णो महत् तेजो येनायं मथितो गिरिः। त्वत्प्रियार्थं च मे देवि प्रकृतिस्थः पुनः कृतः॥ उमोवाच भगवन् केन ते वक्त्रं चन्द्रवत् प्रियदर्शनम्। पूर्वं तथैव श्रीकान्तमुत्तरं पश्चिमं तथा॥ दक्षिणं च मुखं रौद्रं केनोर्चे कपिला जटाः। केन कण्ठश्च ते नीलो बर्हिवर्हनिभः कृतः॥ हस्ते देव पिनाकं ते सततं केन तिष्ठति। जटिलो ब्रह्मचारी च किमर्थमसि नित्यदा॥ एतन्मे संशयं सर्वं वक्तुमर्हसि वै प्रभो। सधर्मचारिणी चाहं भक्ता चेति वृषध्वज॥ भीष्म उवाच एवमुक्तः स भगवान् शैलपुत्र्या पिनाकधृत्। तस्या धृत्या च बुद्ध्या च प्रीतिमानभवत् प्रभुः॥ ततस्तामब्रवीद् देवः सुभगे श्रूयतामिति। हेतुभिर्ममैतानि रूपाणि रुचिरानने॥ श्रीभगवानुवाच तिलोत्तमा नाम पुरा ब्रह्मणा योषिदुत्तमा। तिलं तिलं समुद्धृत्य रन्तानां निर्मितां शुभा॥ साजभ्यगच्छत मां देवि रूपेणाप्रतिमा भुवि। प्रदक्षिणं लोभयन्ती मां शुभे रुचिरानना॥ यतो यतः सा सुदती मामुपाधावदन्तिके। ततस्ततो मुखं चारु मम देवि विनिर्गतम्॥ तां दिदृक्षुरहं योगाच्चतुर्मूर्तित्वमागतः। चतुर्मुखश्च संवृत्तो दर्शयन् योगमुत्तमम्॥ पूर्वेण वदनेनाहमिन्द्रत्वमनुशास्मि ह। उत्तरेण त्वया सार्धं रमाम्यहमनिन्दिते॥ पश्चिमं मे मुखं सौम्यं सर्वप्राणिसुखावहम्। दक्षिणं भीमसंकाशं रौद्रं संहरति प्रजाः॥ जटिलो ब्रह्मचारी च लोकानां हितकाम्यया। देवकार्यार्थसिद्ध्यर्थं पिनाकं मे करे स्थितम्॥ इन्द्रेण च पुरा वज्रं क्षिप्तं श्रीकांक्षिणा मम) दग्ध्वा कण्ठं तु तद् यातं येन श्रीकण्ठता मम॥ उमोवाच वाहनेष्वत्र सर्वेषु श्रीमत्स्वन्येषु सत्तम। कथं च वृषभो देव वाहनत्वमुपागतः॥ महेश्वर उवाच सुरभीमसृजद् ब्रह्मा देवधेनुं पयोमुचम्। सा सृष्टा बहुधा जाता क्षरमाणा पयोऽमृतम्॥ तस्या वत्समुखोत्सृष्टः फेनो मद्गात्रमागतः। ततो दग्धा मया गावो नानावर्णत्वमागताः॥ ततोऽहं लोकगुरुणा शमं नीतोऽर्थवेदना। वृषं चैनं ध्वजार्थं मे ददौ वाहनमेव च॥ उमोवाच निवासा बहुरूपास्ते दिवि सर्वगुणान्विताः। तांश्च संत्यज्य भगवश्मशाने रमसे कथम्॥ केशास्थिकलिले भीमे कपालघटसंकुले। गृध्रगोमायुबहुले चिताग्निशतसंकुले॥ अशुचौ मांसकलिले वसाशोणितकर्दमे। विकीर्णान्त्रास्थिनिचये शिवानादविनादिते॥ महेश्वर उवाच मेध्यान्वेषी महीं कृत्स्नां विचराम्यनिशं सदा। न च मेध्यतरं किंचिच्छ्मशानादिह लक्ष्यते॥ तेन मे सर्ववासानां श्मशाने रमते मनः। न्यग्रोधशाखासंछन्ने निभुग्नस्रग्विभूषिते॥ तत्र चैव रमन्तीमे भूतसंघाः शुचिस्मिते। न च भूतगणैर्देवि विनाहं वस्तुमुत्सहे॥ एष वाप्सो हि मे मेध्यः स्वर्गीयश्च.मतः शुभे। पुण्यः परमकश्चैव मध्यकामैरुपास्यते॥ उमोवाच भगवन् सर्वभूतेश सर्वधर्मविदां वर। पिनाकपाणे वरद संशयो मे महानयम्॥ अयं मुनिगणः सर्वस्तपस्तेप इति प्रभो। तपोवेषकरो लोके भ्रमते विविधाकृतिः॥ अस्य चैवर्षिसंघस्य मम च प्रियकाम्यया। एतं ममेह संदेहं वक्तुमर्हस्यरिंदम॥ धर्मः किंलक्षणः प्रोक्तः कथं वा चरितुं नरैः। शक्यो धर्ममविन्दद्धिर्धर्मज्ञ वद मे प्रभो॥ नारद उवाच ततो मुनिगणः सर्वस्तां देवी प्रत्यपूजयत्। वाग्भिर्ऋग्भूषितार्थाभिः स्तवैश्चार्थविशारदः॥ महेश्वर उवाच अहिंसा सत्यवचनं सर्वभूतानुकम्पनम्। शमो दानं यथाशक्ति गार्हस्थ्यो धर्म उत्तमः॥ परदारेष्वसंसर्गो न्यासस्त्रीपरिरक्षणम्। अदत्तादानविरमो मधुमांसस्य वर्जनम्॥ एष पञ्चविधो धर्मो बहुशाखः सुखोदयः। देहिभिर्धर्मपरमैश्चर्तव्यो धर्मसम्भवः॥ उमोवाच भगवन् संशयः पृष्टस्तन्मे शंसितुमर्हसि। चातुर्वर्ण्यस्य यो धर्मः स्वे स्वे वर्णे गुणावहः॥ ब्राह्मणे कीदृशो धर्मः क्षत्रिये कीदृशोऽभवत्। वैश्ये किंलक्षणो धर्मः शूद्रे किंलक्षणो भवेत्॥ महेश्वर उवाच न्यायस्तस्ते महाभागे सर्वशः समुदीरितः। भूमिदेवा महाभागाः सदा लोके द्विजातयः॥ उपवास: सदा धर्मो ब्राह्मणस्य च संशयः। स हि धर्मार्थसम्पन्नो ब्रह्मभूयाय कल्पते॥ तस्य धर्मक्रिया देवि ब्रह्मचर्या च न्यायतः। व्रतोपनयनं चैव द्विजो येनापपद्यते॥ गुरुदैवतपूजार्थं स्वाध्यायाभ्यसनात्मकः। देहिभिर्धर्मपरमैश्चर्तव्यो धर्मसम्भवः॥ उमोवाच भगवन् संशयो मेऽमस्ति तन्मे व्याख्यातुमर्हसि। चातुर्वर्ण्यस्य धर्मं वै नैपुण्येन प्रकीर्तय॥ श्रीमहेश्वर उवाच रहस्यश्रवणं धर्मो वेदव्रतनिषेवणम्। अग्निकार्य तथा धर्मो गुरुकार्यप्रसाधनम्॥ भैक्षचर्या परो धर्मो नित्ययज्ञोपवीतिता। नित्यं स्वाध्यायिता धर्मो ब्रह्मचर्याश्रमस्तथा॥ गुरुणा चाभ्यनुज्ञातः समावर्तेत वै द्विजः। विन्देतानन्तरं भार्यामनुरूपां यथाविधि॥ शूद्रान्नवर्जनं धर्मस्तथा सत्पथसेवनम्। धर्मो नित्योपवासित्वं ब्रह्मचर्ये तथैव च॥ अहिताग्निरधीयानो जुह्वानः संयतेन्द्रियः। विघसाशी यताहारो गृहस्थ: सत्यवाक् शुचिः॥ अतिथिव्रतता धर्मो धर्मस्त्रेताग्निधारणम्। इष्टीश्च पशुबन्धांश्च विधिपूर्वं समाचरेत्॥ यज्ञश्च परमो धर्मस्तथाहिंसा च देहिषु। अपूर्वभेजनं धर्मो विघसाशित्वमेव च॥ भुक्ते परिजने पश्चाद् भोजनं धर्म उच्यते। ब्राह्मणस्य गृहस्थस्य श्रोत्रियस्य विशेषतः॥ दम्पत्योः समशीलत्वं धर्मः स्याद् गृहमेधिनः। गृह्याणां चैव देवानां नित्यपुष्पबलिक्रिया॥ नित्योपलेपनं धर्मस्तथा नित्योपवासिता। सुसम्पृष्टोपलिप्ते च साज्यधूमो भवेद् गृहे॥ एष द्विजजने धर्मो गार्हस्थ्यो लोकधारणः। द्विजानां च सतां नित्यं सदैवैष प्रवर्तते॥ यस्तु क्षत्रगतो देवि मया धर्म उदीरितः। तमहं ते प्रवक्ष्यामि तन्मे शृणु समाहिता॥ क्षत्रियस्य स्मृतो धर्मः प्रजापालनमादितः। निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते॥ प्रजाः पालयते यो हि धर्मेण मनुजाधिपः। तस्य धर्मार्जिता लोकाः प्रजापालनसंचिताः॥ तस्य राज्ञः परो धर्मो दमः स्वाध्याय एव च। अग्निहोत्रपरिस्पन्दो दानाध्ययनमेव च॥ यज्ञोपवीतधरणं यज्ञो धर्मक्रियास्तथा। भृत्यानां भरणं धर्मः कृते कर्मण्यमोघता॥ सम्यग्दण्डे स्थितिधर्मो धर्मो वेदक्रतुक्रियाः। व्यवहारस्थितिधर्मः सत्यवाक्यरतिस्तथा।॥ आर्तहस्तप्रदो राजा प्रेत्य चेह महीयते। गोब्राह्मणार्थे विक्रान्तः संग्रामे निधनं गतः॥ अश्वमेधजितॉल्लोकानाप्नोति त्रिदिवालये॥ वैश्यस्य सततं धर्मः पाशुपाल्यं कृषिस्तथा। अग्निहोत्रपरिस्पन्दो दानाध्ययनमेव च॥ वाणिज्यं सत्पथस्थानमातिथ्यं प्रशमो दमः। विप्राणां स्वागतं त्यागो वैश्यधर्मः सनातनः॥ तिलान् गन्धान रसांच्चैव विक्रीणीयान्न चैव हि। वणिक्पथमुपासीनो वैश्यः सत्यपथमाश्रितः॥ सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति यथार्हतः। शूद्रधर्मः परो नित्यं शुश्रूषा च द्विजातिषु॥ स शूद्रः संशिततपाः सत्यवादी जितेन्द्रियः। शुश्रूषुरतिथिं प्राप्तं तपः संचिनुते महत्॥ नित्यं स हि शुभाचारो देवताद्विजपूजकः। शूद्रो धर्मफलैरिष्टैः सम्प्रयुज्येत बुद्धिमान्॥ एतत् ते सर्वमाख्यातं चातुर्वर्ण्यस्य शोभने। एकैकस्येह सुभगे किमन्यच्छ्रोतुमिच्छसि॥ उमोवाच उक्तस्त्वया पृथग्धर्मश्चातुर्वर्ण्यहितः शुभः। सर्वव्यापी तु यो धर्मो भगवंस्तद् ब्रवीहि मे॥ श्रीमहेश्वर उवाच ब्राह्मणा लोकसारेण सृष्टा धात्रा गुणार्थिना। लोकांस्तारयितुं कृत्स्नान् मत्र्येषु क्षितिदेवताः॥ तेषामपि प्रवक्ष्यामि धर्मकर्मफलोदयम्। ब्राह्मणेषु हि यो धर्मः स धर्मः परमो मतः॥ इमे ते लोकधर्मार्थं त्रयः सृष्टाः स्वयम्भुवा। पृथिव्यां सर्जने नित्यं सृष्टांस्तानपि मे शृणु॥ वेदोक्तः परमो धर्मः स्मृतिशास्त्रगतोऽपरः। शिष्टाचीर्णोऽपरः प्रोक्तस्त्रयो धर्माः सनातनाः॥ चैविद्यो ब्राह्मणो विद्वान् न चाध्ययनजीवकः। त्रिकर्मा त्रिपरिक्रान्तो मैत्र एष स्मृतो द्विजः॥ षडिमानि तु कर्माणि प्रोवाच भुवनेश्वरः। वृत्त्यर्थ ब्राह्मणानां वै शृणु धर्मान् सनातनान्॥ यजनं याजनं चैव तथा दानप्रतिग्रहौ। अध्यापनं चाध्ययनं षट्कर्मा धर्मभाग द्विजः॥ नित्यः स्वाध्यायिता धर्मो धर्मो यज्ञः सनातनः। दानं प्रशस्यते चास्य यथाशक्ति यथाविधि॥ शमस्तूपरमो धर्मः प्रवृत्तः सत्सु नित्यशः। गृहस्थानां विशुद्धानां धर्मस्य निचयो महान्॥ पञ्चयज्ञविशुद्धात्मा सत्यवागनसूयकः। दाता ब्राह्मणसत्कर्ता सुसंसृष्टनिवेशनः॥ अमानी च सदाजिह्मः स्निग्धवाणीप्रदस्तथा। अतिथ्यभ्यागतरतिः शेषान्नकृतभोजनः॥ पाद्यमर्थ्य यथान्यायमासनं शयनं तथा। दीपं प्रतिश्रयं चैव यो ददाति स धार्मिकः॥ प्रातरुत्थाय चाचम्य भोजनेनोपमन्त्र्य च। सत्कृत्यानुव्रजेद् यस्तु तस्य धर्मः सनातनः॥ सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति निशानिशम्। शूद्रधर्मः समाख्यातस्त्रिवर्गपरिचारणम्॥ प्रवृत्तिलक्षणो धर्मो गृहस्थेषु विधीयते। तमहं वर्तयिष्यामि सर्वभूतहितं शुभम्॥ दातव्यमसकृच्छक्त्या यष्टव्यमसकृत् तथा। पुष्टिकर्मविधानं च कर्तव्यं भूतिमिच्छता॥ धर्मेणार्थः समाहार्यो धर्मलब्धं त्रिधा धनम्। कर्तव्यं धर्मपरमं मानवेन प्रयत्नतः॥ एकेनांशेन धर्मार्थो कर्तव्यौ भूतिमिच्छता। एकनांशेन कामार्थ एकमंशं विवर्धयेत्॥ निवृत्तिलक्षणस्त्वन्यो धर्मो मोक्षाय तिष्ठति। तस्य वृत्तिं प्रवक्ष्यामि शृणु मे देवि तत्त्वतः॥ सर्वभूतदया धर्मो च चैकग्रामवासिता। आशापाशविमोक्षश्च शस्यते मोक्षकांक्षिणाम्॥ न कुट्यां नोदके सङ्गो न वाससि न चासने। न त्रिदण्डे न शयने नाग्नौ न शरणालये॥ अध्यात्मगतिचित्तो यस्तन्मनास्तत्परायणः। युक्तो योगं प्रति सदा प्रतिसंख्यानमेव च॥ वृक्षमूलपरो नित्यं शून्यागारनिवेशनः। नदीपुलिनशायी च नदीतीररतिश्च यः॥ विमुक्तः सर्वसङ्गेषु स्नेहबन्धेषु च द्विजः। आत्मन्येवात्मनो भावं समासज्जेत वै द्विजः॥ स्थाणुभूतो निराहारो मोक्षदृष्टेन कर्मणा। परिव्रजेति यो युक्तस्तस्य धर्मः सनातनः॥ न चैकत्र समासक्तो न चैकग्रामगोचरः। मुक्तो ह्यटति निर्मुक्तो न चैकपुलिनेशयः॥ एष मोक्षविदां धर्मो वेदोक्तः सत्पथः सताम्। यो मार्गमनुयातीमं पदं तस्य च विद्यते॥ चतुर्विधा भिक्षवस्ते कुटीचकबहूदकौ। हंसः परमहंसश्च यो यः पश्चात् स उत्तमः॥ अतः परतरं नास्ति नावरं न तिरोग्रतः। अदुःखमसुखं सौम्यमजरामरमव्ययम्॥ उमोवाच गार्हस्थ्यो मोक्षधर्मश्च सज्जनाचरितस्त्वया। भाषितो जीवलोकस्य मार्गः श्रेयस्करो महान्॥ ऋषिधर्मं तु धर्मज्ञ श्रोतुमिच्छाम्यतः परम्। स्पृहा भवति मे नित्यं तपोवननिवासिषु॥ आज्यधूमोद्भवो गन्धो रुणद्धीव तपोवनम्। तं दृष्ट्वा मे मनः प्रीतं महेश्वर सदा भवेत्॥ एतन्मे संशयं देव मुनिधर्मकृतं विभो। सर्वधर्मार्थतत्त्वज्ञ देवदेव वदस्व मे। निखिलेन मया पृष्टं महादेव यथातथम्॥ श्रीभगवानुवाच हन्त तेऽहं प्रवक्ष्यामि मुनिधर्ममनुत्तमम्। यं कृत्वा मुनयो यान्ति सिद्धिं स्वतपसा शुभे॥ फेनपानामृषीणां यो धर्मो धर्मविदां सताम्। तन्मे शृणु महाभागे धर्मज्ञे धर्ममादितः॥ उञ्छन्ति सततं ये ते ब्राह्मयं फेनोत्करं शुभम्। अमृतं ब्रह्मणा पीतमध्वरे प्रसृतं दिवि॥ एष तेषां विशुद्धानां फेनपानां तपोधने। धर्मचर्याकृतो मार्गो बालखिल्यगणैः शृणु॥ बालखिल्यास्तप: सिद्धा मुनयः सूर्यमण्डले। उच्छे तिष्ठन्ति धर्मज्ञाः शाकुनी वृत्तिमास्थिताः॥ मृगनिर्मोकवसनाश्चीरवल्कलवाससः। निर्द्वन्द्वाः सत्पथं प्राप्ता बालखिल्यास्तपोधनाः॥ अङ्गुष्ठपर्वमात्रा ये भूत्वा स्वे स्वे व्यवस्थिताः। तपश्चरणमीहन्ते तेषां धर्मफलं महत्॥ ते सुरैः समतां यान्ति सुरकार्यार्थसिद्धये। द्योतयन्ति दिश: सर्वास्तपसा दग्धकिल्बिषाः॥ ये त्वन्ये शुद्धमनसो दयाधर्मपरायणाः। सन्तश्चक्रचराः पुण्या: सोमलोकचराश्च ये॥ पितृलोकसमीपस्थास्त उच्छन्ति यथाविधि। सम्प्रक्षालाश्मकुट्टाश्च दन्तोलूखलिकाश्च ते॥ सोमपानां च देवानामूष्मषाणां तथैव च। उञ्छन्ति ये समीपस्थाः सदारा नियतेन्द्रियाः॥ तेषामग्निपरिस्यन्दः पितॄणां चार्चनं तथा। यज्ञानां चैव पञ्चानां यजनं धर्म उच्यते॥ एष चक्रचरैर्देवि देवलोकचरैर्द्विजैः। ऋषिधर्मः सदा चीर्णो योऽन्यस्तमपि मे शृणु॥ सर्वेष्वेवर्षिधर्मेषु ज्ञेयोऽऽत्मा संयतेन्द्रियैः। कामक्रोधौ ततः पश्चाज्जेतव्याविति मे मतिः॥ अग्निहोत्रपरिस्पन्दो धर्मरात्रिसमासनम्। सोमयज्ञाभ्यनुज्ञानं पञ्चमी यज्ञदक्षिणा॥ नित्यं यज्ञक्रिया धर्मः पितृदेवार्चने रतिः। सर्वातिथ्यं च कर्तव्यमन्नेनोञ्छार्जितेन वै॥ निवृत्तिरुपभोगेषु गोरासानां शमे रतिः। स्थण्डिले शयने योगः शाकपर्णनिषेवणम्॥ फलमूलाशन वायुरापः शैवलभक्षणम्। ऋषीणां नियमा ह्येते यैर्जयन्त्यजितां गतिम्॥ विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने। अतीतपात्रसंचारे काले विगतभिक्षुके॥ अतिथिं कांक्षमाणो वै शेषान्नकृतभोजनः। सत्यधर्मरतः शान्तो मुनिधर्मेण युज्यते॥ न स्तम्भी न च मानी स्यान्नाप्रसन्नो न विस्मितः। मित्रामित्रसमो मैत्रो यः स धर्मविदुत्तमः॥ उमोवाच देशेषु रमणीयेषु नदीनां निझरेषु च। स्रवन्तीनां निकुञ्जेषु पर्वतेषु वनेषु च॥ देशेषु च पवित्रेषु फलवस्तु समाहिताः। मूलवत्सु च मध्येषु वसन्ति नियतव्रताः॥ तेषामपि विधिं पुण्यं श्रोतुमिच्छामि शङ्कर। वानप्रस्थेषु देवेश स्वशरीरोपजीविषु॥ श्रीमहेश्वर उवाच वानप्रस्थेषु यो धर्मस्तं मे शृणु समाहिता। श्रुत्वा चैकमना देवि धर्मबुद्धिपरा भव॥ संसिद्धैर्नियमैः सद्भिर्वनवासमुपागतैः। वानप्रस्थैरिदं कर्म कर्तव्यं शृणु यादृशम्॥ त्रिकालमभिषेकं च पितृदेवार्चनं तथा। अग्निहोत्रपरिस्यन्द इष्टिहोमविधिस्तथा।॥ नीवारग्रहणं चैव फलमूलनिषेवणम्। इङ्गुदैरण्डतैलानां स्नेहार्थं च निषेवणम्॥ योगचर्याकृतैः सिद्धैः कामक्रोधबिवर्जितैः। वीरशय्यामुपासद्भिीरस्थानोपसेविभिः॥ युक्तैर्योगवहैः सद्भिीष्मे पञ्चतपैस्तथा। मण्डूकयोगनियतैर्यथान्यायं निषेविभिः॥ वीरासनरतैर्नित्यं स्थण्डिले शयनं तथा। शीततोयाग्नियोगश्च चर्तव्यो धर्मबुद्धिभिः॥ अब्भक्षैर्वायुभक्षैश्च शैवलोत्तरभोजनैः। अश्मकुट्टैस्तथा दान्तैः सम्प्रक्षालैस्तथापरैः॥ चीरवल्कलसंवीतैर्मृगचर्मनिवासिभिः। कार्या यात्रा यथाकालं यथाधर्मे यथाविधि।॥ वननित्यैर्वनचरैर्वनस्थैर्वनगोचरैः। वनं गुरुमिवासाद्य वस्तव्यं वनजीविभिः॥ तेषां होमक्रिया धर्मः पञ्चयज्ञनिषेवणम्। भागं च पञ्चयज्ञस्य वेदोक्तस्यानुपालनम्॥ अष्टमीयज्ञपरता चातुर्मास्यनिषेवणम्। पौर्णमासादयो यज्ञा नित्ययज्ञस्तथैव च।॥ विमुक्ता दारसंयोगैर्विमुक्ताः सर्वसंकरैः। विमुक्ताः सर्वपापैश्च चरन्ति मुनयो वन॥ उम्भाण्डपरमा नित्यं वेताग्निशरणाः सदा। सन्तः सत्पथनित्या ये ते यान्ति परमां गतिम्॥ ब्रह्मलोकं महापुण्यं सोमलोकं च शाश्वतम्। गच्छन्ति मुनयः सिद्धाः सत्यधर्मव्यपाश्रयाः॥ एष धर्मो मया देवि वानप्रस्थाश्रितः शुभः। विस्तरेणाय सम्पन्नो यथास्थूलमुदाहृतः॥ उमोवाच भगवन् सर्वभूतेश सर्वभूतनमस्कृत। यो प्रर्मो मुनिसंघस्य सिद्धिवादेषु तं वद॥ सिद्धिवादेषु संसिद्धास्तथा वननिवासिनः। स्वैरिणो दारसंयुक्तास्तेषां धर्मः कथं स्मृतः॥ महादेव उवाच स्वैरिणस्तपसा देवि सर्वे दारविहारिणः। तेषां मौण्ड्यं कषायश्च वासे रात्रिश्च कारणम्॥ त्रिकालमभिषेकश्च होत्रं त्वृषिकृतं महत्। समाधिसत्पथस्थानं यथोद्दिष्टनिषेवणम्॥ ये च ते पूर्वकथिता धर्मास्ते वनवासिनाम्। यदि सेवन्ति धर्मोस्तानाप्नुवन्ति तप:फलम्॥ ये च दम्पतिधर्माणः स्वदारनियतेन्द्रियाः। चरन्ति विधि दृष्टं तदनुकालाभिगामिनः॥ तेषामृषिकृतो धर्मो धर्मिणामुपपद्यते। न कामकारात्कामोऽन्यः संसेव्यो धर्मदर्शिभिः॥ सर्वभूतेषु यः सम्यग् ददात्यभयदक्षिणाम्। हिंसादोषविमुक्तात्मा स वै धर्मेण युज्यते॥ सर्वभूतानुकम्पी यः सर्वभूतार्जवव्रतः। सर्वभूतात्मभूतश्च स वै धर्मेण युज्यते॥ सर्ववेदेषु वा स्नानं सर्वभूतेषु चार्जवम्। उभे एते समे स्यातामार्जवं वा विशिष्यते॥ आर्जवं धर्ममित्याहुरधर्मो जिह्म उच्यते। आर्जवेनेह संयुक्तो नरो धर्मेण युज्यते॥ आर्जवे तु रतो नित्यं वसत्यमरसंनिधौ। तस्मादार्जवयुक्तः स्याद् य इच्छेद् धर्ममात्मनः॥ क्षान्तो दान्तो जितक्रोधो धर्मभूतो विहिंसकः। धर्मे रतमना नित्यं नरो धर्मेण युज्यते॥ व्यपेततन्द्रिर्धर्मात्मा शक्त्या सत्पथमाश्रितः। चारित्रपरमो बुद्धो ब्रह्मभूयाय कल्पते।॥ उमोवाच आश्रमाभिरता देव तापसा ये तपोधनाः। दीप्तिमन्तः कया चैव चर्ययाथ भवन्ति ते॥ राजानो राजपुत्राश्च निर्धना ये महाधनाः। कर्मणा केन भगवन् प्राप्नुवन्ति महाफलम्॥ नित्यं स्थानमुपागम्य दिव्यचन्दनभूषिताः। केन वा कर्मणा देव भवन्ति वनगोचराः॥ एतन्मे संशयं देव तपश्चर्याऽऽश्रितं शुभम्। शंस सर्वमशेषेण त्र्यक्ष त्रिपुरनाशन॥ श्रीमहेश्वर उवाच उपवासव्रतैर्दान्ता ह्यहिंसाः सत्यवादिनः। संसिद्धाः प्रेत्य गन्धर्वैः सह मोदन्त्यनामयाः॥ मण्डूकयोगशयनो यथान्यायं यथाविधि। दीक्षां चरति धर्मात्मा स नागैः सह मोदते॥ शष्पं मृगमुखोच्छिष्टं यो मृगैः सह भक्षति। दीक्षितो वै मुदा युक्तः स सगच्छत्यमरावतीम्॥ शैवालं शीर्णपर्णं वा तद्वती यो निषेवते। शीतयोगवहो नित्यं स गच्छेत् परमां गतिम्॥ वायुभक्षोऽम्बुभक्षो वा फलमूलाशनोऽपि वा। यक्षेष्वैश्वर्यमाधाय मोदतेऽप्सरसां गणैः॥ अग्नियोगवहो ग्रीष्मे विधिदृष्टेन कर्मणा। चीवा॑ द्वादशवर्षाणि राजा भवति पार्थिवः॥ आहारनियमं कृत्वा मुनिदशवार्षिकम्। मरूं संसाध्य यत्नेन राजा भवति पार्थितः॥ स्थण्डिले शुद्धमाकाशं परिगृह्य समन्ततः। प्रविश्य च मुदा युक्तो दीक्षां द्वादशवार्षिकीम्॥ देहं चानशने त्यक्त्वा स स्वर्गे सुखमेधते। स्थण्डिलस्य फलान्याहुर्यानानि शयनानि च॥ गृहाणि च महार्हाणि चन्द्रशुभ्राणि भामिनि। आत्मानमुपजीवन् यो नियतो नियताशनः॥ देहं वानशने त्यक्त्वा स स्वर्गे समुपाश्नुते। आत्मानमुपजीवन् यो दीक्षां द्वादशवार्षिकीम्॥ त्यक्त्वा महार्णवे देहं वारुणं लोकमश्नुते। आत्मानमुपजीवन् यो दीक्षां द्वादशवार्षिकीम्॥ अश्मना चरणौ भित्त्वा गृह्यकेषु स मोदते। साधयित्वाऽऽत्मनाऽऽत्मानं निर्द्वन्द्वो निष्परिग्रहः॥ ची। द्वादशवर्षाणि दीक्षामेतां मनोगताम्। स्वर्गलोकमवाप्नोति देवैश्च सह मोदते॥ आत्मानमुपजीवन् यो दीक्षां द्वादशवार्षिकीम्। हुत्वाग्नौ देहमुत्सृज्य वह्निलोके महीयते॥ यस्तु देवि यथान्यायं दीक्षितो नियतो द्विजः। आत्मन्यात्मानमाधाय निर्ममो धर्मलालसः॥ चीवा॑ द्वादशवर्षाणि दीक्षामेतां मनोगताम्। अरणीसहितं स्कन्धे बद्ध्वा गच्छत्यनावृतः॥ वीराध्वानगतो नित्यं वीरासनरतस्तथा। वीरस्थायी च सततं स वीरगतिमाप्नुयात्॥ स शक्रलोकगो नित्यं सर्वकामपुरस्कृतः। दिव्यपुष्पसमाकीर्णो दिव्यचन्दनभूषितः॥ सुखं वसति धर्मात्मा दिवि देवगणैः सह। वीरलोकगतो नित्यं वीरयोगसहः सदा॥ सत्त्वस्थः सर्वमुत्सृज्य दीक्षितो नियतः शुचिः। वीराध्वानं प्रपद्येद् यस्तस्य लोकाः सनातनाः॥ कामगेन विमानेन स वै चरति च्छन्दतः। शक्रलोकगतः श्रीमान् मोदते च निरामयः॥ कामगेन विमानेन स वै चरति च्छन्दतः। शक्रलोकगतः श्रीमान् मोदते च निरामयः॥ उमोवाच किंशील: किंसमाचारः : पुरुषः कैश्च कर्मभिः। स्वर्गं समभिपद्येत सम्प्रदानेन केन वा॥ श्रीमहेश्वर उवाच दाता ब्राह्मणसत्कर्ता दीनार्तकृपणादिषु। भक्ष्यभोज्यानपानानां वाससां च प्रदायकः॥ प्रतिश्रयान् सभाः कूपान् प्रपाः पुष्करिणीस्तथा। नैत्यकानि च सर्वाणि किमिच्छकमतीव च।॥ आसनं शयनं यानं गृहं रत्नं धनं तथा। सस्यजातानि सर्वाणि गाः क्षेत्राण्यथ योषितः॥ सुप्रतीतमना नित्यं यः प्रयच्छति मानवः। एवंभूतो नरो देवि देवलोकेऽभिजायते॥ तत्रोष्यं सुचिरं कालं भुक्त्वा भोगाननुत्तमान्। सहाप्सरोभिर्मुदितो रमते नन्दनादिषु॥ तस्मात् स्वर्गाच्च्युतो लोकान् मानुषेषु प्रजायते। महाभोगकुले देवि धनधान्यसमन्वितः॥ तत्र कामगुणैः सर्वैः समुपेतो मुदा युतः। महाभोगो महाकोशो धनी भवति मानवः॥ एते देवि महाभागाः प्राणिनो दानशीलिनः। ब्रह्मणा वै पुरा प्रोक्ताः सर्वस्य प्रियदर्शनाः॥ अपरे मानवा देवि प्रदानकृपणा द्विजैः। याचिता न प्रयच्छन्ति विद्यमानेऽष्यबुद्धयः॥ दीनान्धकृपणान् दृष्ट्वा भिक्षुकानतिथीनपि। याच्यमाना निवर्तन्ते जिह्वालोभसमन्विताः॥ ये न धनानि न वासांसि न भोगान् न च काञ्चनम्। न गावो नानविकृति प्रयच्छन्ति कदाचन॥ अप्रवृत्ताश्च लुब्धा नास्तिका दानवर्जिताः। एवंभूता नरा देवि निरयं यान्त्यबुद्धयः॥ ते वै मनुष्यतां यान्ति यदा कालस्य पर्ययात्। धनरिक्ते कुले जन्म लभन्ते स्वल्पबुद्धयः॥ क्षुत्पिपासापरीताश्च सर्वलोकबहिष्कृताः। निराशाः सर्वभोगेम्यो जीवन्त्यधर्मजीविकाम्॥ अल्पभोगकुले जाता अल्पभोगरता नराः। अनेन कर्मणा देवि भवन्त्यधनिनो नराः॥ अपरे स्तम्भिनो नित्यं मानिनः पापतो रताः। आसनार्हस्य ये पीठं न प्रयच्छन्त्यचेतसः॥ मार्गार्हस्य च ये मार्गं न यच्छन्त्यल्पबुद्धयः। पाद्यार्हस्य च ये पाद्यं न ददत्यल्पबुद्धयः॥ अार्हान् न च सत्कारैरर्चयन्ति यथाविधि। अर्ध्यमाचमनीयं वा न यच्छन्त्यल्पबुद्धयः॥ गुरुं चाभिगतं प्रेम्णा गुरुवन्न बुभूषते। अभिमानप्रवृत्तेन लोभेन समवस्थिताः॥ सम्मान्यांश्चावमन्यन्ते वृद्धान् परिभवन्ति च। एवंविधा नरा देवि. सर्वे निरयगामिनः॥ ते वै यदि नरास्तस्मान्निरयादुत्तरन्ति वै। वर्षपूगैस्ततो जन्म लभन्ते कुत्सिते कुले॥ श्वपाकपुल्कसादीनां कुत्सितानामचेतसाम्। कुलेषु तेषु जायन्ते गुरुवृद्धापचायिनः॥ न स्तम्भी न च मानी यो देवताद्विजपूजकः। लोकपूज्यो नमस्कर्ता प्रश्रितो मधुरं वचः॥ सर्ववर्णप्रियकरः सर्वभूतहितः सदा। अद्वेषी सुमुखः श्लक्ष्णः स्निग्धवाणीप्रदः सदा॥ स्वागतेनैव सर्वेषां भूतानामविहिंसकः। यथार्हसत्क्रियापूर्वमर्चयन्नवतिष्ठति॥ मार्गार्हाय ददन्मार्गं गुरुं गुरुवदर्चयन्। अतिथिप्रग्रहरतस्तथाभ्यागतपूजकः॥ एवंभूतो नरो देवि स्वर्गतिं प्रतिपद्यते। ततो मानुषतां प्राप्य विशिष्टकुलजो भवेत्॥ तत्रासौ विपुलैर्भोगैः सर्वरत्नसमायुतः। यथार्हदाता चाहेषु धर्मचर्यापरो भवेत्॥ सम्मतः सर्वभूतानां सर्वलोकनमस्कृतः। स्वकर्मफलमाप्नोति स्वयमेव नरः सदा॥ उदात्तकुलजातीय उदात्ताभिजनः सदा। एष धर्मो मया प्रोक्तो विधात्रा स्वयमीरितः॥ यस्तु रौद्रसमाचारः सर्वसत्त्वभयंकरः। हस्ताभ्यां यदि वा पद्भ्यां रज्ज्वा दण्डेन वा पुनः।। लोष्टैः स्तम्भैरायुधैर्वा जन्तून् बाधति शोभने। हिंसार्थं निकृतिप्रज्ञः प्रोद्वेजयति चैव ह॥ उपक्रामति जन्तूंश्च उद्वेगजननः सदा। एवंशीलसमाचारो निरयं प्रतिपद्यते॥ स वै मनुष्यतां गच्छेद् यदि कालस्य पर्ययात्। बह्वाबाधपरिक्लिष्टे जायते सोऽधमे कुले॥ लोकद्वेष्योऽधमः पुंसां स्वयं कर्मफलैः कृतैः। एष देवि मनुष्येषु बोद्धव्यो ज्ञातिबन्धुषु॥ अपरः सर्वभूतानि दयावाननुपश्यति। मैत्रदृष्टिः पितृसमो निर्वैरो नियतेन्द्रियः॥ नोवैजयति भूतानि न विघातयते तथा। हस्तपादैः सुनियतैर्विश्वास्यः सर्वजन्तुषु॥ न रज्ज्वा न च दण्डेन न लोष्टैर्नायुधेन च। उद्वेजयति भूतानि श्लक्ष्णकर्मा दयापरः॥ एवंशीलसमाचारः स्वर्गे समुपजायते। तत्रासौ भवने दिव्ये मुदा वसति देववत्॥ स चेत् कर्मक्षयान्मो मनुष्येषूपजायते। अल्पाबाधो निरान्तकः स जातः सुखमेधते॥ सुखभागी निरायासो निरुद्वेगः सदा नरः। एष देवि सतां मार्गो बाधा यत्र न विद्यते॥ उमोवाच इमे मनुष्या दृश्यन्ते उहापोहविशारदाः। ज्ञानविज्ञानसम्पन्नाः प्रज्ञावन्तोऽर्थकोविदाः॥ दुष्प्रज्ञाश्चापरे देव ज्ञानविज्ञानवर्जिताः। केन कर्मविशेषेण प्रज्ञावान् पुरुषो भवेत्॥ अल्पप्रज्ञो विरूपाक्ष कथं भवति मानवः। एतन्मे संशयं छिन्धि सर्वधर्मविदां वर॥ जात्यन्धाश्चापरे देव रोगार्ताश्चापरे तथा। नराः क्लीबाश्च दृश्यन्ते कारणं ब्रूहि तत्र वै॥ श्रीमहेश्वर उवाच ब्राह्मणान् वेदविदुषः सिद्धान् धर्मविदस्तथा। परिपृच्छन्त्यहरहः कुशलाः कुशलं तथा॥ वर्जयन्तोऽशुभं कर्म सेवमानाः शुभं तथा। लभन्ते स्वर्गतिं नित्यमिहलोके तथा सुखम्॥ स चेन्मानुषतां याति मेधावी तत्र जायते। श्रुतं प्रज्ञानुगं यस्य कल्याणमुपजायते॥ परदारेषु ये चापि चक्षुर्दुष्टं प्रयञ्जते। तेन दुष्टस्वभावेन जात्यन्धास्ते भवन्ति ह॥ मनसा तु प्रदुष्टेन नग्नां पश्यन्ति ये स्त्रियम्। रोगार्तास्ते भवन्तीह नरा दुष्कृतकर्मिणः॥ ये तु मूढा दुराचारा वियोनौ मैथुने रताः। पुरुषेणु सुदुष्प्रज्ञा क्लीबत्वमुपयान्ति ते॥ पशुंश्च ये घातयन्ति ये चैव गुरुतल्पगाः। प्रकीर्णमैथुना ये च क्लीबा जायन्ति ते नराः॥ उमोवाच सावधं किन्नु वै कर्म निरवयं तथैव च। श्रेयः कुर्वन्नवाप्नोति मानवो देवसत्तम॥ श्रीमहेश्वर उवाच श्रेयांसं मार्गमन्विच्छन् सदा यः पृच्छति द्विजान्। धर्मान्वेषी गुणाकाङ्गी स स्वर्गे समुपाश्नुते॥ यदि मानुषतां देवि कदाचित् स निगच्छति। मेधावी धारणायुक्तः प्रायस्तत्राभिजायते॥ एष देवि सतां धर्मो मन्तव्यो भूतिकारकः। नृणां हितार्थाय मया तव वै समुदाहृतः॥ उमोवाच अपरे स्वल्पविज्ञाना धर्मविद्वेषिणो नराः। ब्राह्मणान् वेदविदुषो नेच्छन्ति परिसर्पितम्॥ व्रतवन्तो नराः केचिच्छ्रद्धाधर्मपरायणाः। अव्रता भ्रष्टनियमास्तथान्ये राक्षसोपमाः॥ यज्वानश्च तथैवान्ये निर्होमाच तथाऽपरे। केन कर्मविपाकेन भवन्तीह वदस्व मे॥ श्रीमहेश्वर उवाच आगमा लोकधर्माणां मर्यादाः सर्वनिर्मिताः। प्रामाण्येनानुवर्तन्ते दृश्यन्ते च दृढव्रताः॥ अधर्मं धर्ममित्याहुर्ये च मोहवशं गताः। अव्रता नष्टमर्यादापते प्रोक्ता ब्रह्मराक्षसाः॥ ते घेत्कालकृतोद्योगात् सम्भवन्तीह मानुषाः। निर्दोमा निर्वषट्कारास्ते भवन्ति नराधमाः॥ एष देवि मया सर्वः संशयच्छेदनाय ते। कुशलाकुशलो नृणां व्याख्यातो धर्मसागरः॥ नारद उवाच एवमुक्त्वा महादेवः श्रोतुकामः स्वयं प्रभुः। अनुकूलां प्रियां भार्यां पार्श्वस्थां समभाषत॥ महादेव उवाच परावरज्ञे धर्मज्ञे तपोवननिवासिनि। साध्वि सुभु सुकेशान्ते हिमवत्पर्वतात्मजे॥ दक्षे शमदमोपेते निर्ममे धर्मचारिणि। पृच्छामि त्वा वरारोहे पृष्टा वद ममेप्सितम्॥ सावित्री ब्रह्मणः साध्वी कौशिकस्य शची सती। मार्कण्डेयस्य धूमोर्णा ऋद्धिर्वैश्रवणस्य च॥ वरुणस्य तथा गौरी सूर्यस्य च सुवर्चला। रोहिणी शशिनः साध्वी स्वाहाचैव विभावसोः॥५ अदितिः कश्यपस्याथ सर्वास्ता: पतिदेवताः। पृष्टाश्चोपासिताश्चैव तास्त्वया देवि नित्यशः॥ तेन त्वा परिपृच्छामि धर्मज्ञे धर्मवादिनि। स्त्रीधर्मं श्रोतुमिच्छामि त्वयोदाहृतमादितः॥ सधर्मचारिणी मे त्वं समशीला समव्रता। समानसारवीर्या च तपस्तीव्र कृतं च ते॥ त्वया ह्युक्तो विशेषेण गुणवान् स भविष्यति। लोके चैव त्वया देवि प्रमाणत्वमुपैष्यति॥ स्त्रियश्चैव विशेषेण स्त्रीजनस्य गतिः परा। गौर्या गच्छति सुश्रोणि लोकेष्वेषा गतिः सदा॥ मम चार्धे शरीऽस्य तव चार्धेन निर्मितम्। सुरकार्यकरी च त्वं लोकसंतानकारिणी॥ तवे सर्व: सुविदितः स्त्रीधर्मः शाश्वत: शुभे। तस्मादशेषतो ब्रूहि स्वधर्म विस्तरेण मे॥ उमोवाच भगवन् सर्वभूतेश भूतभव्यभवोत्तम। त्वत्प्रभावादियं देव वाक् चैव प्रतिभाति मे॥ इमास्तु नद्यो देवेश सर्वतीर्थोदकैर्युताः। उपस्पर्शनहेतोस्त्वामुपयान्ति समीपतः॥ एताभिः सह सम्मन्त्र्य प्रवक्ष्याम्यनुपूर्वशः। प्रभवन् योऽनहंवादी स वै पुरुष उच्यते॥ स्त्री च भूतेश सततं स्त्रियमेवानुधावति। मया सम्मानिताश्चैव भविष्यन्ति सरिद्वराः॥ एषा सरस्वती पुण्या नदीनामुत्तमा नदी। प्रथमा सर्वसरितां नदी सागरगामिनी॥ विपाशा च वितस्ता च चन्द्रभागा इरावती। शतदूर्देविका सिन्धुः कौशिकी गौतमी तथा॥ तथा देवनदी चेयं सर्वतीर्थाभिसम्भृता। गगनाद् गां गता देवी गङ्गा सर्वसरिद्वरा॥ इत्युक्त्वा देवदेवस्य पत्नी धर्मभृतां वरा। स्मितपूर्वमथाभाष्य सर्वास्ताः सरितस्तथा॥ अपृच्छद् देवमहिषी स्त्रीधर्म: धर्मवत्सला। स्त्रीधर्मकुशलास्ता वै गङ्गाद्याः सरितां वराः॥ उमोवाच अयं भगवता प्रोक्तः प्रश्वः स्त्रीधर्मसंश्रितः। तं तु सम्मन्त्र्य युष्माभिर्वक्तुमिच्छामि शंकरम्॥ न चैकसाध्यं पश्यामि विज्ञानं भुवि कस्यचित्। दिवि वा सागरगमास्तेन वो मानयाम्यहम्॥ एवं सर्वाः सरिच्छेष्ठाः पृष्टाः पुण्यतमाः शिवाः। ततो देवनदी गङ्गा नियुक्ता प्रतिपूज्य च॥ बह्वीभिर्बुद्विभिः स्फीता स्त्रीधर्मज्ञा शुचिस्मिता। शैलराजसुतां देवीं पुण्या पापभयापहा॥ बुद्ध्या विनयसम्पन्ना सर्वधर्मविशारदा। सस्मितं बहुबुद्ध्याढ्या गङ्गा वचनमब्रवीत्॥ गंगा वाच धन्यास्म्यनुगृहीतास्मि देवि धर्मपरायणे। या त्वं सर्वजगन्मान्या नदीं मानयसेऽनघे॥ प्रभवन् पृच्छते यो हि सम्मानयति वा पुनः। नूनं जनमदुष्टात्मा पण्डिताख्यां स गच्छति॥ ज्ञानविज्ञानसम्पन्नानूहापोह विशारदान्। प्रवक्तृन् पृच्छते योऽन्यान् स वै नापदमृच्छति॥ अन्यथा बहुबुद्ध्याढ्यो वाक्यं वदति संसदि। अन्यथैव ह्यहंवादी दुर्बलं वदते वचः॥ दिव्यज्ञाने दिवि श्रेष्ठे दिव्यपुण्यैः सहोत्थिते। त्वमेवार्हसि नो देवि स्त्रीधर्माननुभाषितुम्॥ ततः साऽऽराधिता देवी गड़ा बहुभिर्गुणैः। प्राह सर्वमशेषेण स्त्रीधर्मे सुरसुन्दरी॥ उमोवाच स्त्रीधर्मो मां प्रति यथा प्रतिभाति यथाविधि। तमहं कीर्तयिष्यामि तथैव प्रश्रिता भव॥ स्त्रीधर्मः पूर्व एवायं विवाहे बन्धुभिः कृतः। सहधर्मचरी भर्तुर्भवत्यग्निसमीपतः॥ सुस्वभावा सुवचना सुवृत्ता सुखदर्शना। अनन्यचित्ता सुमुखी भर्तुः सा धर्मचारिणी॥ सा भवेद् धर्मपरमा सा भवेद् धर्मभागिनी। देववत् सततं साध्वी या भर्तारं प्रपश्यति॥ शुश्रूषां परिचारं च देववद् या करोति च। नाम्यभावा ह्याविमनाः सुव्रता सुखदर्शना॥ पुत्रवक्त्रमिवाभीक्ष्णं भुर्तुर्वदनमीक्षते। या साध्वी नियताहारा सा भवेद् धर्मचारिणी॥ श्रुत्वा दम्पतिधर्मं वै सहधर्मं कृतं शुभम्। या भवेद् धर्मपरमा नारी भर्तृसपव्रता॥ देववत् सततं साध्वी भर्तारमनुपश्यति। दम्पत्योरेष वै धर्मः सहधर्मकृतः शुभः॥ शुश्रूषां परिचारं च देवतुल्यं प्रकुर्वती। वश्या भावेन सुमनाः सुव्रता सुखदर्शना। अनन्यचित्ता सुमुखी भर्तुः सा धर्मचारिणी॥ परुषाण्यपि चोक्ता या दृष्टा दुष्टेन चक्षुषा। सुप्रसन्नमुखी भर्तुर्या नारी सा पतिव्रता॥ च चन्द्रसूर्यो न तरुं पुनाम्ना या निरीक्षते। भर्तृवर्जं वरारोहा सा भवेद् धर्मचारिणी॥ दरिद्रं व्याधितं दीनमध्वना परिकर्शितम्। पति पुत्रमिवोपास्ते सा नारी धर्मभागिनी॥ या नारी प्रयता दक्षा या नारी पुत्रिणी भवेत्। पतिप्रिया पतिप्राणा सा नारी धर्मभागिनी॥ शुश्रूषां परिचर्यो च करोत्यविमनाः सदा। सुप्रतीता विनीता च सा नारी धर्मभागिनी॥ न कामेषु न भोगेषु नैश्वर्ये न सुखे तथा। स्पृहा यस्या यथा पत्यौ सा नारी धर्मभागिनी॥ कल्योत्थानरतिनित्यं गृहशुश्रूषणे रता। सुसम्पृष्टक्षया चैव गोशकृत्कृतलेपना॥ अग्निकार्यपरा नित्यं सदा पुष्पबलिप्रदा। देवतातिथिभृत्यानां निर्वाप्य पतिना सह॥ शेषानमुपभुञ्जाना यथान्यायं यथाविधि। तुष्टपुष्टजना नित्यं नारी धर्मेण युज्यते॥ शुश्रूश्वशुरयोः पादौ जोषयन्ती गुणान्विता। मातापितृपरा नित्यं या नारी सा तपोधना॥ ब्राह्मणान् दुर्बलानाथान् दीनान्धकृपणांस्तथा। बिभर्त्यन्नेन या नारी सा पतिव्रतभागिनी॥ व्रतं चरति या नित्यं दुश्चरं लघुसत्त्वया। पतिचित्ता पतिहिता सा पतिव्रतभागिनी॥ पुण्यमेतत् तपश्चैतत् स्वर्गश्चैष सनातनः। या नारी भर्तृपरमा भवेद् भर्तृव्रता सती॥ पतिर्हि देवो नारीणां पतिर्बन्धुः पतिर्गतिः। पत्या समा गतिर्नास्ति दैवतं वा यथा पतिः॥ पतिप्रसादः स्वर्गो वा तुल्यो नार्या न वा भवेत्। अहं स्वर्ग न हीच्छेयं त्वय्यप्रीते महेश्वरे।॥ यद्यकार्यमधर्मं वा यदि वा प्राणनाशनम्। पतिर्ब्रयाद् दरिद्रो वा व्याधितो वा कथंचन॥ आपन्नो रिपुसंस्थो वा ब्रह्मशापार्दितोऽपि वा। आपद्धर्माननुप्रेक्ष्य तत्कार्यमविशङ्कया॥ एष देव मया प्रोक्तः स्त्रीधर्मो वचनात् तव। या त्वेवंभाविनी नारी सा पतिव्रतभागिनी॥ नारद उवाच इत्युक्तः स तु देवेशः प्रतिपूज्य गिरेः सुताम्। लोकान् विसर्जयामास सर्वैरनुचरैर्वृतान्॥ ततो ययुर्भूतगणाः सरितश्च यथागतम्। गन्धर्वाप्सरसश्चैव प्रणम्य शिरसा भवम्॥ ऋषि ऊचु: पिनाकिन् भगनेत्रन्ध सर्वलोकनमस्कृता माहात्म्यं वासुदेवस्य श्रोतुमिच्छामि शङ्कर॥ ईश्वर उवाच पितामहादपि वरः शाश्वतः पुरुषो हरिः। कृष्णो जाम्बूनदाभासो व्यभ्रे सूर्य इवोदितः॥ दशबाहुमहातेजा देवतारिनिषूदनः। श्रीवत्साङ्को हृषीकेशः सर्वदैवतपूजितः॥ ब्रह्मा तस्योदरभवस्तस्याहं च शिरोभवः। शिरोरुहेभ्यो ज्योतींषि रोमभ्यश्च सुरासुराः॥ ऋषयो देहसम्भूतास्तस्य लोकाश्च शाश्वताः। पितामहगृहं साक्षात् सर्वदेवगृहं च सः॥ सोऽस्याः पृथिव्याः कृत्स्नायाः स्रष्टा त्रिभुवनेश्वरः। संहर्ता चैव भूतानां स्थावरस्थ चरस्य च॥ स हि देववरः साक्षाद् देवनाथः परंतपः। सर्वज्ञः सर्वसंश्लिष्टः सर्वगः सर्वतोमुखः॥ परमात्मा हृषीकेश: सर्वव्यापी महेश्वरः। न तस्मात् परमं भूतं त्रिषु लोकेषु किंचन॥ सनातनो वै मधुहा गोविन्द इति विश्रुतः। स सर्वान् पार्थिवान् संख्ये घातयिष्यति मानदः॥ सुरकार्यार्थमुत्पन्नो मानुषं वपुरास्थितः। न हि देवगणा: सक्तास्त्रिविक्रमविनाकृताः॥ भुवने देवकार्याणि कर्तु नायकवर्जिताः। नायकः सर्वभूतानां सर्वदेवनमस्कृतः॥ एतस्य देवनाथस्य देवकार्यपरस्य च। ब्रह्मभूतस्य सततं ब्रह्मर्षिशरणस्य च॥ ब्रह्मा वसति गर्भस्थः शरीरे सुखसंस्थितः। शर्वः सुखं संश्रितश्च शरीरे सुखसंस्थितः॥ सर्वाः सुखं संश्रिताश्च शरीरे तस्य देवताः। स देवः पुण्डरीकाक्षः श्रीगर्भः श्रीसहोषितः॥ शाङ्गचक्रायुधः खड्गी सर्वनागरिपुध्वजः! उत्तमेन स शीलेन दमेन च शमेन च॥ पराक्रमण वीर्येण वपुषा दर्शनेन च। आरोहण प्रमाणेन धैर्येणार्जवसम्पदा॥ आनृशंस्येन रूपेण बलेन च समन्वितः। अस्त्रैः समुदितः सर्वैदिव्यैरद्भुतदर्शनैः॥ योगमायः सहस्राक्षो निरपायो महामनाः। वीरो मित्रजनश्लाघी ज्ञातिबन्धुजनप्रियः॥ क्षमावांश्चानहंवादी ब्रह्मण्यो ब्रह्मनायकः। भयहर्ता भयार्तानां मित्राणां नन्दिवर्धनः॥ शरण्यः सर्वभूतानां दीनानां पालने रतः। श्रुतवानर्थसम्पन्नः सर्वभूतनमस्कृतः॥ समाश्रितानां वरदः शत्रूणामपि धर्मवित्। नीतिज्ञो नीतिसम्पन्नो ब्रह्मवादी जितेन्द्रियः॥ भवार्थमिह देवानां बुद्ध्या परमया युतः। प्राजापत्ये शुभे मार्गे मानवे धर्मसंस्कृते॥ समुत्यस्यति गोविन्दो मनोवंशे महात्मनः। अङ्गो नाम मनोः पुत्रो अन्तर्धामा ततः परः॥ अन्तर्धाम्नो हविर्धामा प्रजापतिरनिन्दितः। प्राचीनबहिर्भविता हविर्धाम्नः सुतो महान्॥ तस्य प्रचेत:प्रमुखा भविष्यन्ति दशात्मजाः। प्राचेतसस्तथा दक्षो भवितेह प्रजापतिः॥ दाक्षायण्यास्तथाऽऽदित्यो मनुरादित्यतस्तथा। मनोश्च वंशज इला सुद्युम्नश्च भविष्यति॥ बुधात् पुरूरवाश्चापि तस्मादायुर्भविष्यति। नहुषो भविता तस्माद् ययातिस्तस्य चात्मजः॥ यदुस्तस्मान्महासत्त्वः क्रोष्टा तस्माद् भविष्यति। क्रोष्टुश्चैव महान् पुत्रो वृजिनीवान् भविष्यति॥ वृजिनीवतश्च भविता उषड्गुरपराजितः। उषगोर्भविता पुत्रः शूरचित्ररथस्तथा॥ तस्य त्ववरजः पुत्रः शूरो नाम भविष्यति। तेषां विख्यातवीर्याणां चरित्रगुणशालिनाम्॥ यज्वनां सुविशुद्धानां वंशे ब्राह्मणसम्मते। स शूरः क्षत्रियश्रेष्ठो महावीर्यो महायशाः। स्ववंशविस्तरकर जनयिष्यति मानदः॥ वसुदेव इति ख्यातं पुत्रमानकदुन्दुभिम्। तस्य पुत्रश्चतुर्बाहुर्वासुदेवो भविष्यति॥ दाता ब्राह्मणसत्कर्ता ब्रह्मभूतो द्विजप्रियः। राज्ञो मागधसंरुद्धान् मोक्षयिष्यति यादवः॥ जरासंधं तु राजानं निर्जित्य गिरिगह्वरे। सर्वपार्थिवरत्नाढ्यो भविष्यति स वीर्यवान्॥ पृथिव्यामप्रतिहतो वीर्येण च भविष्यति। विक्रमेण च सम्पन्न: सर्वपार्थिवपार्थिवः॥ शूरसेनेषु भूत्वा स द्वारकायां वसन् प्रभुः। पालयिष्यति गां देवीं विजित्य नयवित् सदा॥ तं भवन्तः समासाद्य वाङ्माल्यैरहणैर्वरैः। अर्चयन्तु यथान्यायं ब्रह्माणमिव शाश्वतम्॥ यो हि मां द्रष्टुमिच्छेत ब्रह्माणं च पितामहम्। द्रष्टव्यस्तेन भगवान् वासुदेवः प्रतापवान्॥ दृष्टे तस्मिन्नहं दृष्टो न मेऽत्रास्ति विचारणा। पितामहो वा देवेश इति वित्त तपोधनाः॥ स यस्य पुण्डरीकाक्षः प्रीतियुक्तो भविष्यति। तस्य देवगणः प्रीतो ब्रह्मपूर्वो भविष्यति॥ यश्च तं मानवे लोके संश्रयिष्यति केशवम्। तस्य कीर्तिर्जयश्चैव स्वर्गश्चैव भविष्यति॥ धर्माणांदेशिकः साक्षात् स भविष्यति धर्मभा। धर्मवद्भिः स देवेशो नमस्कार्यः सदोद्यतैः॥ धर्म एव परो हि स्यात् तस्मिन्नभ्यर्चिते विभौ। स हि देवो महातेजाः प्रजाहितचिकीर्षया॥ धर्मार्थं पुरुषव्याघ्र ऋषिकोटी: ससर्ज ह। ता: सुष्टास्तेन विभुना पर्वते गन्धमादने॥ सनत्कुमारप्रमुखास्तिष्ठन्ति तपसान्विताः। तस्मात् च वाग्मी धर्मज्ञो नमस्यो द्विजपुङ्गवाः॥ दिवि श्रेष्ठो हि भगवान् हरिर्नारायणः प्रभुः। वन्दितो हि स वन्देत मानितो पानयीत च। अर्हितश्चाई येन्नित्यं पूजितः प्रतिपूजयेत्॥ दृष्टः पश्येदहरहः संश्रितः प्रतिसंश्रयेत्। अर्चितश्चार्च येन्नित्यं स देवो द्विजसत्तमाः॥ एतत् तस्यानवद्यस्य विष्णोर्वे परमं व्रतम्। आदिदेवस्य महतः सज्जनाचरितं सदा॥ भुवनेऽभ्यर्चितो नित्यं देवैरपि सनातनः। अभयेनानुरूपेण युज्यन्ते तमनुव्रताः॥ कर्मणा मनसा वाचा स नमस्यो द्विजैः सदा। यत्नवद्भिरुपस्थाय द्रष्टव्यो देवकीसुतः॥ एष वोऽभिहितो मार्गो मया वै मुनिसत्तमाः। तं दृष्ट्वा सर्वशो देवं दृष्टाः स्युः सुरसत्तमाः॥ महावराहं तं देवं सर्वलोकपितामहम्। अहं चैव नमस्यामि नित्यमेव जगत्पतिम्॥ तत्र च त्रितयं दृष्टं भविष्यति न संशयः। समस्ता हि वयं देवास्तस्य देहे वसामहे॥ तस्य चैवाग्रजो भ्राता सितादिनिचयप्रभः। हली बल इति ख्यातो भविष्यति धराधरः॥ त्रिशिरास्तस्य दिव्यश्च शातकुम्भमयो द्रुमः । ध्वजस्तृणेन्द्रो देवस्य भविष्यति रथाश्रितः ॥ शिरो नागैर्महाभोगैः परिकीर्णं महात्मभिः। भविष्यति महाबाहोः सर्वलोकेश्वरस्य च॥ चिन्तितानि समेष्यन्ति शस्त्राण्यस्त्राणि चैव ह । अनन्तश्च स एवोक्तो भगवान् हरिरव्ययः॥ समादिष्टश्च विबुधैर्दर्शय त्वमिति प्रभो। सुपर्णो यस्य वीर्येण कश्यपस्यात्मजो बली। अन्तं नैवाशकद् द्रष्टुं देवस्य परमात्मनः॥ स च शेषो विचरते परया वै मुदा युतः। अन्तर्वसति भोगेन परिरभ्य वसुन्धराम्॥ य एव विष्णु: सोऽनन्तो भगवान् वसुधाधरः । यो राम: स हृषीकेशो योऽच्युतः स धराधरः॥ तावुभौ पुरुषव्याघ्रौ दिव्यौ दिव्यपराक्रमौ। द्रष्टव्यौ माननीयौ च चक्रलाङ्गलधारिणौ॥ एप बोऽनुग्रहः प्रोक्तो मया पुण्यस्तपोधनाः। यद् भवन्तो यदुश्रेष्ठं पूजयेयुः प्रयत्नतः॥ नारद उवाच अथ व्योम्नि महाञ्छब्दः सविद्युत्स्तनयित्नुमान्। मेघैश्च गगनं नीलं संरुद्धमभवद् घनैः॥ प्रावृषीव च पर्जन्यो ववृषो निर्मलं पयः। तमश्चैवाभवद् घोरं दिशश्च न चकाशिरे॥ ततो देवगिरौ तस्मिन् रम्ये पुण्ये सनातने। न शर्वं भूतसंधं वा ददृशुर्मुनयस्तदा॥ व्यभ्रं च गगनं सद्यः क्षणेन समपद्यता तीर्थयात्रां ततो विप्रा जग्मुश्चान्ये यथागतम्॥ तदद्भुतमचिन्त्यं च दृष्ट्वा ते विस्मिताऽभवन्। शङ्करस्योमया साधू संवादं त्वत्कथाश्रयम्॥ स भवान् पुरुषव्याघ्र ब्रह्मभूतः सनातनः। यदर्थमनुशिष्टाः स्मो गिरिपृष्ठे महात्मना॥ द्वितीयं त्वद्धतमिदं त्वत्तेजः कृतमद्य वै। दृष्ट्वा च विस्मिताः कृष्ण सा च नः स्मृतिरागता।॥ एतत् ते देवदेवस्य माहात्म्यं कथितं प्रभो। कपर्दिनो गिरीशस्य महाबाहो जनार्दन॥ भीष्म उवाच इत्युक्तः स तदा कृष्णस्तपोवननिवासिभिः। मानयामास तान् सर्वानृषीन् देवकिनन्दनः॥ अथर्षयः सम्प्रहृष्टाः पुनस्ते कृष्णमब्रुवन्। पुनः पुनः दर्शयास्मान् सदैव मधुसूदन॥ न हि नः सा रतिः स्वर्गे या च त्वदर्शने विभो। तदृतं च महाबाहो यदाह भगवान् भवः॥ एतत् ते सर्वमाख्यातं रहस्यमरिकर्शन। त्वमेव ार्थतत्त्वज्ञः पृष्टोऽस्मान् पृच्छसे यदा॥ तदस्माभिरिदं गुह्यं त्वत्प्रियार्थमुदाहृतम्। न च तेऽविदितं किंचित्रिषु लोकेषु विद्यते॥ जन्म चैव प्रसूतिश्च यच्चान्यत् कारणं विभो। वयं तु बहुचापल्यादशक्ता गुह्यधारणे॥ ततः स्थिते त्वयि विभो लघुत्वात् प्रलपामहे। न हि किंचित् तदाश्चर्यं यन्न वेत्ति भवानिह॥ दिवि वा भुवि वा देव सर्वे हि विदितं तव। साधयाम वयं कृष्ण बुद्धिं पृष्टिमवाप्नुहि॥ पुत्रस्ते सदृशस्तात विशिष्टो वा भविष्यति। महाप्रभावसंयुक्तो दीप्तिकीर्तिकरः प्रभुः॥ भीष्म उवाच ततः प्रणम्य देवेशं यादवं पुरुषोत्तमम्। प्रदक्षिणमुपावृत्य प्रजग्मुस्ते महर्षयः॥ सोऽयं नारायणः श्रीमान् दीप्त्या परमया युतः। व्रतं यथावत् तच्चीवा॑ द्वारकां पुनरागमत्॥ पूर्णे च दशमे मासि पुत्रोऽस्य परमाद्भतुतः। रुक्मिण्यां सम्मतो यज्ञे शूरो वंशधरः प्रभो॥ कामः सर्वभूतानां सर्वभावगतो नृप। असुराणां सुराणां च चरत्यन्तर्गतः सदा॥ सोऽयं पुरुषशार्दूलो मेघवर्णश्रुतुर्भुजः। संश्रितः पाण्डवान् प्रेम्णा भवन्तश्चैनमाश्रिताः॥ कीर्तिर्लक्ष्मीकृतिश्चैव स्वर्गमार्गस्तथैव च। यत्रैष संस्थितस्तत्र देवो विष्णुस्त्रिविक्रमः॥ सेन्द्रा देवास्त्रयस्त्रिंशदेष नात्र विचारणा। आदिदेवो महादेवः सर्वभूतप्रतिश्रयः॥ अनादिनिधनोऽव्यक्तो महात्मा मधुसूदनः। अयं जातो महातेजाः सुराणामर्थसिद्धये।॥ सुदुस्तरार्थतत्त्वस्य वक्ता कर्ता च माधवः। तव पार्थ जयः कृत्स्त्रस्तव कीर्तिस्तथातुला॥ तवेय पृथिवी देवी कृत्स्त्रा नारायणाश्रयात्। अयं नाथस्तवाचिन्त्यो यस्य नारायणो गतिः॥ स भवांस्त्वमुपाध्व! रणाग्नौ हुतवान् नृपान्। कृष्णस्तुवेण महत्ता युगान्ताग्निसमेत वै॥ दुर्योधनश्च शोच्योऽसौ सपुत्रभ्रातृबान्धवः। कृतवान् योऽबुधिः क्रोधाद्धरिगाण्डीविविग्रहम्॥ दैतेया दानवेन्द्राश्च महाकाया महाबलाः। चक्राग्नौ क्षयमापन्ना दावाग्नौ शलभा इव।॥ प्रतियाटुं न शक्यो हि मानुषैरेष संयुगे। विहीनैः पुरुषव्याघ्र सत्त्वशक्तिबलादिभिः॥ जयो योगी युगान्ताभः सव्यसाची रणाग्रगः! तेजसा हतवान् सर्वे सुयोधनबलं नृप॥ यत् तु गोवृषभांकेन मुनिभ्यः समुदाहृतम्। पुराणं हिमवत्पृष्ठे तन्मे निगदतः शृणु॥ यावत् तस्य भवेत् पुष्टिस्तेजो दीप्तिः पराक्रमः। प्रभावः सन्नतिर्जन्म कृष्णे तन्त्रिगुणं विभो॥ कः शक्रोत्यन्यथाकर्तुं तद् यदि स्यात् तथा शृणु। यत्र कृष्णो हि भगवांस्तत्र पुष्टिरनुत्तमा॥ वयं त्विहाल्पमतयः परतन्त्रा सुविक्लवाः। ज्ञानपूर्वं प्रपन्नाः स्मो मृत्योः पन्थानमव्ययम्॥ भवांश्चाप्याजवपरः पूर्वं कृत्वा प्रतिश्रयम्। राजवृत्तं न लभते प्रतिज्ञापालने रतः॥ अप्येवात्मवधं लोके राजंस्त्वं बहु मन्यसे। न हि प्रतिज्ञा या दत्ता तां प्रहातुमरिंदम॥ कालेनायं जनः सर्वो निहतो रणमूर्धनि। वयं च कालेन हताः कालो हि परमेश्वरः॥ न हि कालेन कालज्ञः स्पृष्टः शोचितुमर्हसि। कालो लोहितरक्ताक्षः कृष्णो दण्डी सनातनः॥ तस्मात् कुन्तीसुत ज्ञातीन् नेह शोचितुमर्हसि। व्यपेतमन्युर्नित्यं त्वं भव कौरवनन्दन॥ माधवस्यास्य माहात्म्यं श्रुतं यत् कथितं मया। तदेव तावत् पर्याप्तं सज्जनस्य निदर्शनम्॥ व्यासस्य वचनं श्रुत्वा नारदस्य च धीमतः। स्वयं चैव महाराज कृष्णस्याहतामस्य वै॥ प्रभावश्चर्षिपूगस्य कथितः सुमहान् मया। महेश्वरस्य संवादं शैलपुत्र्याश्च भारत॥ धारयिष्यति यश्चैनं महापुरुषसम्भवम्। शृणुयात् कथयेद् वा यः स श्रेयो लभते परम्॥ भवितारश्च तस्याथ सर्वे कामा यथेप्सिताः। प्रेत्य स्वर्गं च लभते नरो नास्त्यत्र संशयः॥ न्याय्यं श्रेयोऽभिकामेन प्रतिपत्तुं जनार्दनः। एष एवाक्षयो विप्रैः स्तुतो राजन् जनार्दनः॥ महेश्वरमुखोत्सृष्टा ये च धर्मगुणाः स्मृताः। ते त्वया मनसा धार्याः कुरुराज दिवानिशम्॥ एवं ते वर्तमानस्य सम्यग्दण्डधरस्य च। प्रजापालनदक्षस्य स्वर्गलोको भविष्यति॥ धर्मेणापि सदा राजन् प्रजा रक्षितुमर्हसि। यस्तस्य विपुलो दण्डः सम्यग्धर्मः स कीर्त्यते॥ य एष कथितो राजन् मया सज्जनसंनिधौ। शङ्करस्योमया सार्धं संवादो धर्मसंहितः॥ श्रुत्वा वा श्रोतुकामो वाप्यर्चयेद् वृषभध्वजम्। विशुद्धेनेह भावेन य इच्छेद् भूतिमात्मनः॥ एष तस्यानवद्यस्य नारदस्य महात्मनः। संदेशो देवपूजार्थं तं तथा कुरु पाण्डव॥ एतदत्यद्रुतं वृत्तं पुण्ये हि भवति प्रभो। वासुदेवस्य कौन्तेय स्थाणोश्चैव स्वभावजम्॥ दशवर्षसहस्त्राणि बदर्यामेष शाश्वतः। तपश्चचार विपुलं सह गाण्डीवधन्त्रना॥ त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनञ्जयौ। विदितौ नारदादेतौ मम व्यासाञ्ज पार्थिव॥ बाल एव महाबाहुश्चकार कदनं महत्। कंसस्य पुण्डरीकाक्षो ज्ञातित्राणार्थकारणात्॥ कर्मणामस्य कौन्तेय नान्तं संख्यातुमुत्सहे। शाश्वतस्य पुराणस्य पुरुषस्य युधिष्ठिर॥ ध्रुवं श्रेयः परं तात भविष्यति तवोत्तमम्। यस्य ते पुरुषव्याघ्रः सखा चायं जनार्दनः॥ दुर्योधनं तु शोचामि प्रेत्य लोकेऽपि दुर्मतिम्। यत्कृते पृथिवी सर्वा विनष्टा सहयद्विपा॥ दुर्योधनापराधेन कर्णस्य शकुनेस्तथा। दुःशासनचतुर्थानां कुरवो निधनं गताः॥ वैशम्पायन उवाच एवं सम्भाषमाणे तु गाङ्गेये पुरुषर्षभे। तूष्णीं बभूव कौरव्यो मध्ये तेषां महात्मनाम्॥ तच्छ्रुत्वा विस्मयं जग्मुर्धृतराष्ट्रादयो नृपाः। सम्पूज्य मनसा कृष्णं सर्वे प्राञ्जलयोऽभवन्॥ ऋषयश्चापि ते सर्वे नारदप्रमुखास्तदा। प्रतिगृह्याभ्यनन्दन्त तद्वाक्यं प्रतिपूज्य च॥ इत्येतदखिलं सर्वैः पाण्डवो भ्रातृभिः सह। श्रुतवान् सुमहाश्चर्यं पुण्यं भीष्मानुशासनम्॥ युधिष्ठिरस्तु गाङ्गेयं विश्रान्तं भूरिदक्षिणम्। पुनरेव महाबुद्धिः पर्यपृच्छन्महीपतिः॥ वैशम्पायन उवाच श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः। युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत॥ युधिष्ठिर उवाच किमेकं दैवतं लोके किं वाप्येकं परायणम्। स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम्॥ को धर्मः सर्वधर्माणां भवतः परमो मतः। किं जपन् मुच्यते जन्तुर्जन्मसंसारबन्धनात्॥ भीष्म उवाच जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम्। स्तुवन् नामसहस्त्रेण पुरुषः सततोत्थितः॥ तमेव चार्चयन् नित्यं भक्त्या पुरुषमव्ययम्। ध्यायन् स्तुवन् नमस्यंश्च यजमानस्तमेव च॥ अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम्। लोकाध्यक्षं स्तुवन् नित्यं सर्वदुःखातिगो भवेत्॥ ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम्। लोकनाथं महद्भूतं सर्वभूतभवोद्भवम्॥ एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः। यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा॥ परमं यो महत्तेजः परमं यो महत्तपः। परमं यो महदब्रह्म परमं यः परायणम्॥ पवित्राणां पवित्र यो मङ्गलानां च मङ्गलम्। दैवतं देवतानां च भूतानां योऽव्ययः पिता॥ यतः सर्वाणि भूतानि भवन्त्यादियुगागमे। यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये॥११॥ तस्य लोकप्रधानस्य जगन्नाथस्य भूपते। विष्णोर्नामसहस्रं मे शृणु पापभयापहम्॥ यानि नामानि गौणानि विख्यातानि महात्मनः। ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये॥ ॐ विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः। भूतकद् भूतभृद् भावो भूतात्मा भूतभावनः॥ पूतात्मा परमात्मा च मुक्तानां परमा गतिः। अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च॥ योगो योगनिवदां नेता प्रधानपुरुषेश्वरः। नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः॥ सर्वः सर्वः शिवः स्थाणुर्भूतादिनिधिरव्ययः। सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः॥ स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः। अनादिनिधनो धाता विधाता धातुरुत्तमः॥ अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः। अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ अग्राह्यः शाश्वत: कृष्णो लोहिताक्षः प्रतर्दनः। प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम्॥ ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः। हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः॥ ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः। अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान्॥ सुरेशः शरणं शर्म विश्वरेता: प्रजाभवः। अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः॥ अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादि: अच्युतः । वृषाकपि: अमेयात्मा सर्व-योग-विनिःसृतः ॥ वसुर्वसुमनाः सत्यः समात्मा सम्पितः समः। अमोघः पुण्डरीकाक्षो वृषाकर्मा वृषकृतिः॥ रुद्रो बहुशिरा बभुर्विश्वयोनिः शुचिश्रवाः। अमृतः शाश्वतस्थाणुर्वरारोहो महातपाः॥ सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः। वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः॥ लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृता-कृतः । चतुरात्मा चतुर्व्यूह: चतुर्दंष्ट्र: चतुर्भुजः ॥ भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः। अनघो विजयो नेता विश्वयोनिः पुनर्वसुः॥ उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः। अतींद्रः संग्रहः सर्गो धृतात्मा नियमो यमः ॥ वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः। अति-इंद्रियो महामायो महोत्साहो महाबलः ॥ महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः। अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृत्॥ महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः। अनिरुद्धः सुरानन्दो गोविन्दो गोविदां-पतिः ॥ मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः। हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः॥ अमृत्युः सर्वदृक् सिंहः संधाता सन्धिमास्थिरः। अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा॥ गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः। निमिषो अनिमिषः स्रग्वी वाचस्पति: उदारधीः ॥ अग्रणीामणीः श्रीमान् न्यायो नेता समीरणः। सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात्॥ आवर्तनो निवृत्तात्मा संवृतः सं-प्रमर्दनः । अहः संवर्तको वह्निरनिलो धरणीधरः॥ सुप्रसादः प्रसन्नात्मा विश्वधृग् विश्वभुग विभुः। सत्कर्ता सकृतः साधु: जह्नु: नारायणो नरः ॥ असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः। सिद्धार्थः सिद्ध संकल्पः सिद्धिदः सिद्धिसाधनः ॥ वृषाही वृषभो विष्णुर्वृषपवौ वृषोदरः। वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः॥ सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः। नैकरूपो बृहदूपः शिपिविष्टः प्रकाशनः॥ ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः। ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः॥ अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः। औषधं जगतः सेतुः सत्यधर्मपराक्रमः॥ भूतभव्यभवन्नाथः पवनः पावनोऽनलः। कामहा कामकृत् कान्तः कामः कामप्रदः प्रभुः।।४५ युगादिकृद् युगावर्तो नैकमायो महाशनः। अदृश्योऽव्यक्तरूपश्च सहस्रजिदनन्तजित्॥ इष्टो विशिष्टः शिष्टेष्टः शिखंडी नहुषो वृषः । क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः॥ अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः। अपां निधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः॥ स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः। वासुदेवो बृहद्भानुरादिदेवः पुरंदर॥ अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः। अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः॥ पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत्। महर्द्धिदो वृद्धात्मा महाक्षो गरुडध्वजः॥ अतुलः शरभो भीमः समयज्ञो हविर्हरिः। सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः॥ विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः। महीधरो महाभागो वेगवानमिताशनः॥ उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः। करणं कारणं कर्ता विकर्ता गहनो गुहः॥ व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः। परधिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः॥ रामो विरामो विरजो मार्गो नेयो नयोऽनयः। वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः॥ वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः। हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः॥ ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः। उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः॥ विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम्। अर्थोऽनर्थो महाकोशो महाभोगो महाधनः॥ अनिर्विण्ण: स्थविष्ठोऽभूधर्मयूपो महामखः। नक्षत्रनेमिनक्षत्री क्षमः क्षामः समीहनः॥ यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः। सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम्॥ सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत्। मनोहरो जितक्रोधो वीरबाहुर्विदारणः॥ स्वापन: स्ववशो व्यापी नैकात्मा नैककर्मकृत्। वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः॥ धर्मगुब् धर्मकद् धर्मी सदसत्क्षरमक्षरम्। अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः॥ गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः। आदिदेवो महादेवो देवेशो देवभृद्गुरुः॥ उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः। शरीरभूतभृद् भोक्ता कपीन्द्रो भूरिदक्षिणः॥ सोमपोऽमृतपः सोमः पुरुजित् पुरुसत्तमः। विनयो जयः सत्यसंधो दाशार्हः सात्वतां पतिः॥ जीवो विनयितासाक्षी मुकुन्दोऽमितविक्रमः। अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः॥ अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः। आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः॥ महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः। त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत्॥ महावराहो गोविन्दः सुषेणः कनकाङ्गदी। गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः॥ वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः। वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ भगवान् भगहानन्दी वनमाली हलायुधः। आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः॥ सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः। दिविस्पृक् सर्वदृग् व्यासो वाचस्पतिरयोनिजः॥ त्रिसामा समगः साम निर्वाणं भेषजं भिषक्। संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम्॥ शुभाङ्ः शन्तिदः स्रष्टा कुमुदः कुवलेशयः। गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः॥ श्रीदः श्रीशः श्रीनिवास: श्रीनिधिः श्रीविभावनः। श्रीधरः श्रीकरः श्रेयः श्रीमान्ल्लोकत्रयाश्चयः॥ स्वक्षः स्वङ्गः शतानंदो नन्दिज्योर्तिगणेश्वरः। विजितात्माविधेयात्मा सत्कीर्तिश्छिन्न संशयः।७९॥ उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः। भूशयो भूषणो भूतिर्विशोकः शोकनाशनः॥ अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः। अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः॥ कालनेमिनिहा वीरः शौरिः शौरिर्जनेश्वरः। त्रिलोकात्मा त्रिलोकेशः केशव: केशिहा हरिः॥ कामदेवः कामपाल: कामी कान्तः कृतागमः। अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनंजयः॥ ब्रह्मण्यो ब्रह्मकृद् ब्रह्म ब्रह्मविवर्धनः। ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः॥ महाक्रमो महाकर्मा महातेजा महोरगः। महाक्रतुर्महायज्वा महायज्ञो महाहविः॥ स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः। पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः॥ मनोजवस्तीर्थकरो वसुरेता वसुप्रदः। वसुप्रदो वासुदेवो वसुर्वसुमना हविः॥ सन्दतिः सत्कृतिः सत्ता सद्भूति: सत्यपरायणः। शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः॥ भूतावासो वासुदेवः सर्वासुनिलयोऽनलः। दर्पहा दर्पदो दृप्ती दुर्धरोऽथापराजितः॥ विश्वमूर्तिर्महामूर्तिीप्तमूर्तिरमूर्तिमान्। अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः॥ एको नैकः सतः कः किं यत् तत् पदमनुत्तमम्। लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः॥ सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी। वीरहा विषमः शून्यो घृताशीरचलश्चलः॥ अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक्। सुमेधा मेधजो धन्यः सत्यमेधा धराधरः॥ तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः। प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः॥ चतुर्मूर्तिश्चतुर्बाहुश्चतु हश्चतुर्गतिः। चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात्॥ समावतोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः। दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा॥ शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः। इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः॥ उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः। अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी॥ सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः। महाह्रदो महागर्तो महाभूतो महानिधिः॥ कुमुदः सुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः। अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः॥ सुलभः सुव्रतः सिध्दः शत्रुजिच्छ्त्रु। न्यग्रोधोदुम्बरोऽश्वत्थचाणूराननिषूदनः॥ सहस्राचिः सप्तजिह्वः सप्तधाः सप्तवाहनः। अमूर्तिरनघोऽचिन्त्यो भयकृद् भयनाशनः॥ अणुवृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान्। अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः॥ भारभृत् कथितो योगी योगीशः सर्वकामदः। आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः॥ धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः। अपराजित: सर्वसहो नियन्ता नियमोऽयमः॥ सत्त्ववान् सात्त्विक: सत्यः सत्यधर्मपरायणः। अभिप्रायः प्रिया.ऽर्हः प्रियकृत् प्रीतिवर्धनः॥ विहायसगतिर्योतिः सुरुचिर्तुतभुम् विभुः। रविर्विरोचनः सूर्यः सविता रविलोचनः॥ अनन्तो हुतभुग हुतभुग् भोक्ता नैकदोऽग्रजः। अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः॥ सनात् सनातनतमः कपिल: कपिरप्ययः। स्वस्तिदः स्वस्तिकृत स्वस्ति स्वस्तिभुक स्वस्तिदक्षिणः अरौद्रः कुण्डली चक्री विक्रंयूर्जितषासनः। शब्दातिग: शब्दसहः शिशिरः शर्वरीकरः॥ अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः। विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः॥ उत्तराणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः। वीरहा रक्षणः सन्तो जीवन: पर्यवस्थितः॥ अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः। चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिशः॥ अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः। जननो जनजन्मादिर्भीमो भीमपराक्रमः॥ आधारनिलयोऽधाता पुष्पहास: प्रजागरः। उर्ध्वगः सत्पथाचारः प्राणदः प्रणव: पण:॥ प्रमाणं प्राणनिलयः प्रणभृत् प्राणजीवनः। तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः॥ भूर्भुवःस्वस्तरूस्तारः सविता प्रपितामहः। यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः॥ यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः। यज्ञान्तकृद् यज्ञगृह्यमन्त्रमन्नाद एव च॥ आत्मयोनिः स्वयंजातो वैखानः सामगायनः। देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः॥ शङ्खभृन्नन्दकी चक्री शाईधन्वा गदाधरः। रथाङ्गपाणिरक्षोभ्य: सर्वपहरणायुधः॥ इतीदं कीर्तनीयस्य केशवस्य महात्मनः। नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम्॥ य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत्। नाशुभं प्राप्नुयात् किंचित् सोऽमुत्रेह च मानवः।।१२२ वेदान्तगो ब्राह्मणः स्यात् क्षत्रियो विजयी भवेत्। वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात्॥ धर्मार्थी प्राप्नुयाद् धर्ममर्थार्थी चार्थमाप्नुयात्। कामानवाप्नुयात् कापी प्रजार्थी प्राप्नुयात् प्रजाम्।। भक्तिमान् य: सदोत्थाय शुचिस्तन्द्तमानसः। सहस्रं वासुदेवस्य नाम्नामेतत् प्रकीर्तयेत्॥ यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च। अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम्॥ न भयं क्वचिदाप्नोति वीर्ये तेजश्च विन्दति। भवत्यरोगो द्युतिमान् बलरूपगुणान्वितः॥ रोगार्तो मुच्यते रोगाद् बद्धो मुच्येत बन्धनात्। भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः॥ दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम्। स्तुवन् नामसहस्रेण नित्यं भक्तिसमन्वितः॥ वासुदवाश्रयो मर्यो वासुदेवपरायणः। सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम्॥ न वासुदेवभक्तानामशुभं विद्यते क्वचित्। जन्ममृत्युजराव्याधिभयं नैवोपजायते॥ इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः। युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः॥ न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः। भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे॥ द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः। वासुदेवस्य वीर्येण विधृतानि महात्मनः॥ ससुरासुरगन्धर्वे सयक्षोरगराक्षसम्। जगद् वशे वर्ततेदं कृष्णस्य सचराचरम्॥ इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः। वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च॥ सर्वागमानामाचारः प्रथमं परिकल्प्यते। आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः॥ ऋषयः पितरो देवा महाभूतानि धातवः। जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम्॥ योगो ज्ञानं तथा सांख्यं विद्या शिल्पादि कर्म च। वेदा:शास्त्राणि विज्ञानमेतत् सर्वे जनार्दनात्॥ एको विष्णुमहद्भूतं पृथग्भूतान्यनेकशः। त्रील्लोकान् व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः।। इमं स्तवं भगवतो विष्णोळसेन कीर्तितम्। पठेद् य इच्छेत् पुरुष: श्रेयः प्राप्तुं सुखानि च।।१४१ विश्वेश्वरमजं देवं जगतः प्रभवाप्ययम्। भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम्॥ युधिष्ठिर उवाच पितामह महाप्राज्ञ सर्वशास्त्रविशारद। किं जष्यं जपतो नित्यं भवेद् धर्मफलं महत्॥ प्रस्थाने वा प्रवेशे वा प्रवृत्ते वापि कर्मणि। दैवे वा श्राद्धकाले वा किं जप्यं कर्मसाधनम्॥ शान्तिकं पौष्टिकं रक्षा शत्रुभं भयनाशनम्। जप्यं यद् ब्रह्मसमितं तद् भवान् वक्तुमर्हति॥ भीष्म उवाच व्यासप्रोक्तमिमं मन्त्रं शृणुष्वैकमना नृप। सावित्र्या विहितं दिव्यं सद्यः पापविमोचनम्॥ शृणु मन्त्रविधिं कृत्स्नं प्रोच्यमानं मयाऽनघ। यं श्रुत्वा पाण्डवश्रेष्ठ सर्वपापैः प्रमुच्यते॥ रात्रावहनि धर्मज्ञ जपन् पापैर्न लिप्यते। तत् तेऽहं सम्प्रवक्ष्यामि शृणुष्वैकमना नृप॥ आयुष्मान् भवते चैव यं श्रुत्वा पार्थिवात्मज। पुरुषस्तु सुसिद्धार्थः प्रेत्य चेह च मोदते॥ सेवितं सततं राजन् पुरा राजर्षिसत्तमैः। क्षत्रधर्मपरैर्नित्यं सत्यव्रतपरायणैः॥ इदमाह्निकमव्यग्रं कुर्वद्भिर्नियतैः सदा। नृपैर्भरतशार्दूल प्राप्यते श्रीरनुत्तमा॥ नमो वसिष्ठाय महाव्रताय पराशरं वेदनिधिं नमस्य। नमोऽस्त्वनन्ताय महोरगाय नमोऽस्तु सिद्धेभ्य इहाक्षयेभ्यः॥ नमोऽस्त्वृषिभ्यः परमं परेषां देवेषु देवं वरदं वराणाम् सहस्रशीर्षाय नमः शिवाय सहस्रनामाय जनार्दनाय।। अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः। ऋतश्च पितृरूपश्च त्र्यम्बकश्च महेश्वरः॥ वृषाकपिश्च शम्भुश्च हवनोऽथेश्वरस्तथा। एकादशैते प्रथिता रुद्रास्त्रिभुवनेश्वराः॥ शतमेतत् समाम्नतं शतरुद्रे महात्मनाम्। अंशो भगश्च मित्रश्च वरुणश्च जलेश्वरः॥ तथा धार्तायमा चैव जयन्तो भास्करस्तथा। त्वष्टा पूषा तथैवेन्द्रो द्वादशो विष्णुरुच्यते॥ इत्येते द्वादशादित्याः काश्यपेया इति श्रुतिः। धरो ध्रुवश्च सोमश्च सावित्रोऽथानिलोऽनलः॥ प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः। नासत्यश्चापि दत्तश्च स्मृतौ द्वावश्विनावपि॥ मार्तण्डस्यात्मजावेतौ संज्ञानासाविनिर्गतौ। अतः परं प्रवक्ष्यामि लोकानां कर्मसाक्षिणः॥ अपि यज्ञस्य वेत्तारो दत्तस्य सुकृतस्य च। अदृश्याः सर्वभूतेषु पश्यन्ति त्रिदशेश्वराः॥ शुभाशुभानि कर्माणि मृत्युः कालश्च सर्वशः। विश्वेदेवाः पितृगणा मूर्तिमन्तस्तपोधनाः॥ मुनयश्चैव सिद्धाश्च तपोमोक्षपरायणाः। शुचिस्मिताः कीर्तयतां प्रयच्छन्ति शुभं नृणाम्॥ प्रजापतिकृतानेताल्लोकान् दिव्येन तेजसा। वसन्ति सर्वलोकेषु प्रयताः सर्वकर्मसु॥ प्राणानामीश्वरानेतान् कीर्तयन् प्रयतो नरः। धर्मार्थकामैर्विपुलैयुज्यते सह नित्यशः॥ लोकांश्च लभते पुण्यान् विश्वेश्वरकृताञ्छुभान्। एते देवास्त्रयस्त्रिंशत् सर्वभूतगणेश्वराः॥ नन्दीश्वरो महाकायो ग्रामणीर्वृषभध्वजः। ईश्वराः सर्वलोकानां गणेश्वरविनायकाः॥ सौम्या रौद्रा गणाश्चैव योगभूतगणास्तथ ज्योतींषि सरितो व्योम सुपर्णः पतगेश्वरः।। :॥ पृथिव्यां तपसा सिद्धाः स्थावराश्च चराश्च ह। हिमवान् गिरयः सर्वे चत्वारश्च महार्णवाः॥ भवस्यानुचराश्चैव हरतुल्यपराक्रमाः। विष्णुर्देवोऽथ जिष्णुश्च स्कन्दश्चाम्बिकया सह॥ कीर्तयन् प्रयतः सर्वान् सर्वपापैः प्रमुच्यते। अत ऊर्ध्वं प्रवक्ष्यामि मानवानृषिसत्तवान्॥ यवक्रीतश्च रैभ्यश्च अर्वावसुपरावसू। औशिजश्चैव कक्षीवान् बलश्चाङ्गिरसः सुतः॥ ऋषिर्मेधातिथेः पुत्रः कण्वो बर्हिषदस्तथा। ब्रह्मतेजोमयाः सर्वे कीर्तिता लोकभावनाः॥ लभन्ते हि शुभं सर्वे रुद्रानलवसुप्रभाः। भुवि कृत्वा शुभं कर्म मोदन्ते दिवि दैवतैः॥ महेन्द्रगुरवः सप्त प्राची वै दिशमाश्रिताः। प्रयत: कीर्तयेदेताशक्रलोके महीयते॥ उन्मुचुःप्रमुचुश्चैव स्वस्त्यात्रेयश्च वीर्यवान्। दृढव्यश्चोर्ध्वबाहुश्च तृणसोमाङ्गिरास्तथा॥ मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान्। धर्मराजविजः सप्त दक्षिणां दिशमाश्रिताः॥ दृढेयुश्च ऋतेयुश्च परिव्याधश्च कीर्तिमान्। एकतश्च द्वितश्चैव त्रितश्चादित्यसंनिभाः॥ अत्रेः पुत्रश्च धर्मात्मा ऋषिः सारस्वतस्तथा। वरुणस्यविजः सप्त पश्चिमां दिशमाश्रिताः॥ अत्रिर्वसिष्ठो भगवान् कश्यपश्च महानृषिः। गौतमश्च भरद्वाजो विश्वामित्रोऽथ कौशिकः॥ ऋचीकतनयश्चोयो जमदग्निः प्रतापवान्। धनेश्वरस्य गुरवः सप्तैते उत्तराश्रिताः॥ अपरे मुनयः सप्त दिक्षु सर्वास्वधिष्ठिताः। कीर्तिस्तस्तिकरा नृणां कीर्तिता लोकभावनाः॥ धर्मः कामश्च कालश्च वसुर्वासुकिरेव च। अनन्तः कपिलश्चैव सप्तैते धरणीधराः॥ रामो व्यासस्तथा द्रौणिरश्वत्थामा च लोमशः। इत्येते मुनयो दिव्या एकैकः सप्त सप्तधा॥ शान्तिस्वस्तिकरा लोके दिशांपालाः प्रकीर्तिताः। यस्यां यस्यां दिशि ह्येते तन्मुखः शरणं व्रजेत्॥ स्रष्टारः सर्वभूतानां कीर्तिता लोकपावनाः। संवर्तो मेरुसावर्णो मार्कण्डेयश्च धार्मिकः॥ सांख्यपोगौ नारदश्च दुर्वासाश्च महानृषिः। अत्यन्ततपसो दान्तास्त्रिषु लोकेषु विश्रुताः॥ अपरे रुद्रसंकाशाः कीर्तिता ब्रह्मलौकिकाः। अपुत्रो लभते पुत्रं दरिद्रो लभते धनम्॥ तथा धर्मार्थकामेषु सिद्धिं च लभते नरः। पृथु वैन्यं नृपवरं पृथ्वी यस्याभवत् सुता॥ प्रजापति सार्वभौमं कीर्तयेद् वसुधाधिपम्। आदित्यवंशप्रभवं महेन्द्रसमविक्रमम्॥ पुरूरवसमैलं च त्रिषु लोकेषु विश्रुतम्। बुधस्य दयितं पुत्रं कीर्तयेद् वसुधाधिपम्॥ त्रिलोकविश्रुतं वीरं भरतं च प्रकीर्तयेत्। गवामयेन यज्ञेन येनेष्टं वै कृते युगे॥ रन्तिदेवं महादेवं कीर्तयेत् परमद्युतिम्। विश्वजित्तपसोपेतं लक्षण्यं लोकपूजितम्॥ तथा श्वेतं च राजर्षि कीर्तयेत् परमद्युतिम्। सगरस्यात्मजा येन प्लावितास्तारितास्तथा॥ हुताशन समानेतान् महारूपान् महौजसः। उग्रकायान् महासत्त्वान् कीर्तयेत् कीर्तिवर्धनान्॥ देवानृषिगणांश्चैव नृपांश्च जगतीश्वरान्। सांख्यं योगं च परमं हव्यं कव्यं तथैव च॥ कीर्तितं परमं ब्रह्म सर्वश्रुतिपरायणम्। मङ्गल्यं सर्वभूतानां पवित्रं बहुकीर्तितम्॥ व्याधिप्रशमनं श्रेष्ठं पौष्टिकं सर्वकर्मणाम्। प्रयत: कीर्तयेच्चैतान् कल्यं सायं च भारत॥ एते वै पान्ति वर्षन्ति भान्ति वान्ति सृजन्ति च। एते विनायकाः श्रेष्ठा दक्षाः शान्ता जितेन्द्रियाः॥५७ नराणामशुभं सर्वे व्यपोहन्ति प्रकीर्तिताः। साक्षिभूता महात्मानः पापस्य सुकृतस्य च॥ एतान् वै कल्यमुत्थाय कीर्तयशुभमश्नुते। नाग्निचौरभयं तस्य न मार्गप्रतिरोधनम्॥ एतान् कीर्तयतां नित्यं दुःस्वप्नो नश्यते नृणाम्। मुच्यते सर्वपापेभ्यः स्वस्तिमांश्च गृहान् व्रजेत्॥ दीक्षाकालेषु सर्वेषु यः पठेन्नियतो द्विजः। न्यायवानात्मनिरतः क्षान्तो दान्तोऽनसूयकः॥ रोगार्तो व्याधियुक्तो वा पठन् पापात् प्रमुच्यते। वास्तुमध्ये तु पठतः कुले स्वस्त्ययनं भवेत्॥ क्षेत्रमध्ये तु पठतः सर्वे सस्यं प्ररोहति। गच्छतः क्षेममध्वानं ग्रामान्तरगतः पठन्॥ आत्मनश्च सुतानां च दाराणां च धनस्य च। बीजानामोषधीनां च रक्षामेतां प्रयोजयेत्॥ एतान् संग्रामकाले तु पठतः क्षत्रियस्य तु। व्रजन्ति रिपवो नाशं क्षेमं च परिवर्तते॥ एतान् दैवे च पित्र्ये च पठतः पुरुषस्य हि। भुञ्जते पितरः काव्यं हव्यं च त्रिदिवौकसः॥ न व्याधिश्वापदभयं न द्विपात्र हि तस्करात्। कश्मलं लघुतां याति पाप्मना च प्रमुच्यते॥ यानपात्रे च याने च प्रवासे गजवेश्मनि। परां सिद्धिमवाप्नोति सावित्री ह्युत्तमां पठन्॥ न च राजभयं तेषां न पिशाचान्न राक्षसात्। नाग्नयम्बुपवनव्यालाद् भयं तस्योपजायते॥ चतुर्णामपि वर्णानामाश्रमस्य विशेषतः।। कराति सततं शान्ति सावित्रीमुत्तमां पठन्॥ नाग्निर्दहति काष्ठानि सावित्री यत्र पठ्यते। न तत्र बालो म्रियते न च तिष्ठन्ति पन्नगा:॥ न तेषां विद्यते दुःख गच्छन्ति परमां गतिम्। ये शृण्वन्ति महद् ब्रह्म सावित्रीगुणकीर्तनम्॥ गवां मध्ये तु पठतो गावोऽस्य बहुवत्सलाः। प्रस्थाने वा प्रवासे वा सर्वावस्थां गतः पठेत्॥ जपतां जुह्वतां चैव नित्यं च प्रयतात्मनाम्। ऋषीणां परमं जत्यं गुह्यमेतन्नराधिप।।७ याथातथ्येन सिद्धस्य इतिहासं पुरातनम्। पराशरमतं दिव्यं शक्राय कथितं पुरा॥ तदेतत् ते समाख्यातं तथ्यं ब्रह्म सनातनम्। हृदयं सर्वभूतानां श्रुतिरेषा सनातनी॥ अभ्यासे नित्यं देवाना सप्तर्षीणां ध्रवस्य च। मोक्षणं सर्वकृच्छ्राणां मोचयत्यशुभात् सदा॥ वृद्धैः काश्यपगौतमप्रभृतिभिर्भूग्वङ्गिरोऽत्र्यादिभिः। शुक्रागस्त्यबृहस्पतिप्रभृतिभिर्ब्रह्मर्षिभिः सेवितम्। भारद्वाजमतमृचीकतनयैः प्राप्तं वसिष्ठात् पुनः। सावित्रीमधिगम्य शक्रवसुभिः कृत्स्ना जिता दानवः।। यो गोशतं कनकशृङ्गमयं ददाति विप्राय वेदविदुषे च बहुश्रुताय। दिव्यां च भारतकथां कथयेच नित्यं तुल्यं फलं भवति तस्य च तस्य चैव॥ धर्मो विवर्धति भृगोः परिकीर्तनेन वीर्यं विवर्धति वसिष्ठनमोनतेन। संग्रामजिद् भवति चैव रघु नमस्यन्। स्यादश्विनौ च परिकीर्तयतो न रोगः।। एषा ते कथिता राजन् सावित्री ब्रह्म शाश्वती। विवक्षुरसि यच्चान्यत् तत् वे वक्ष्यामि भारत॥ युधिष्ठिर उवाच कां तु ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा जनाधिप। कं वा कर्मोदयं मत्वा तानसि महामते।।।। भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। पवनस्य च संवादमर्जुनस्य च भारत॥ क्षत्रधर्मे पुरस्कृत्य सहस्रभुजभृच्छ्रीमान् कार्तवीर्योऽभवत् प्रभुः। अस्य लोकस्य सर्वस्य माहिष्मत्यां महाबलः॥ स त रत्नाकरवतीं सद्वीपां सागराम्बराम्। शशास पृथिवीं सर्वां हैहयः सत्यविक्रमः॥ स्ववित्तं तेन दत्तं तु दत्तात्रेयाय कारणे। विनयं श्रुतमेव च॥ आराधयामास च तं कृतवीर्यात्मजो मुनिम्। न्यमन्त्रयत संतुष्टो द्विजश्चैनं वरैस्त्रिभिः॥ स वरैश्छन्दितस्तेन नृपो वचनमब्रवीत्। सहस्रबाहुर्भूयां वै चमुमध्ये गृहेऽन्यथा॥ मम बाहुसहस्रं तु पश्यतां सैनिका रणे। विक्रमेण महीं कृत्स्ना जयेयं संशितव्रत॥ तां च धर्मेण सम्प्राप्य पालयेयमतन्द्रितः। चतुर्थं तु वरं याचे त्वामहं द्विजसत्तम॥ तं ममानुग्रहकृते दातुमर्हस्यनिन्दित। अनुशासन्तु मां सन्तो मिथ्योद्वृत्तं त्वदाश्रयम्॥ इत्युक्तः स द्विजः प्राह तथास्त्विति नराधिपम्। एवं समभवंस्तस्य वरास्ते दीप्ततेजसः॥ ततः स रथमास्थाय ज्वलनार्कसमद्युतिम्। अब्रवीद् वीर्य सम्मोहात् को वास्ति सदृशो मम।। धैर्यवैिर्यशः शौर्यैर्विक्रमेणौजसापि वा। तद्वाक्यान्ते चान्तरिक्षो वागुवाचाशरीरिणी॥ न त्वं मूढ विजानीषे ब्राह्मणं क्षत्रियाद् वरम्। सहितो ब्राह्मणेनेह क्षत्रियः शास्ति वै प्रजाः॥ अर्जुन उवाच कुर्यो भूतानि तुष्टोऽहं क्रुद्धो नाशं तथानये। कर्मणा मनसा वाचा न मत्तोऽस्ति वरो द्विजः॥ पूर्वो ब्रह्मोत्तरो वादो द्वितीयः क्षत्रियोत्तरः। त्वयोक्तौ हेतुयुक्तौ तौ विशेषस्तत्र दृश्यते॥ ब्राह्मणाः संश्रिताः क्षत्रं न क्षत्रं ब्राह्मणाश्रितम्। श्रिता ब्रह्मोपधा विपाः खादन्ति क्षत्रियान् भुवि॥ क्षत्रियेष्वाश्रितो धर्मः प्रजानां परिपालनम्। क्षत्राद् वृत्तिर्ब्राह्मणानां तैः कथं ब्राह्मणो वरः॥ सर्वभूतप्रधानांस्तान् भैक्षवृत्तीनहं सदा। आत्मसम्भावितान् विप्रान् स्थापयाम्यात्मनो वशे।।१९ कथितं त्वनयासत्यं गायत्री कन्यया दिवि। विजेष्याम्यवशान् सर्वान् ब्राह्मणांश्चर्मवाससः॥ न च मां च्यावयेद् राष्ट्रात् त्रिषु लोकेषु कश्चन। देवो वा मानुषो वापि तस्माज्ज्येष्ठो द्विजादहम्॥ अद्य ब्रह्मोत्तरं लोकं करिष्ये क्षत्रियोत्तरम्। न हि मे संयुगे कश्चित् सोढुमुत्सहते बलम्॥ अर्जुनस्य वचः श्रुत्वा वित्रस्ताभून्निशाचरी। अथैनमन्तरिक्षस्थस्ततो वायुरभाषत॥ त्यजैनं कलुषं भावं ब्राह्मणेभ्यो नमस्कुरु। एतेषां कुर्वतः पापं राष्ट्रक्षोभो भविष्यति॥ अथवा त्वां महीपाल शमयिष्यन्ति वै द्विजाः। निरसिष्यन्ति ते राष्ट्राद्धतोत्साहा महाबलाः॥ तं राजा कस्त्वमित्याह ततस्तं प्राह मारुतः। वायुर्वै देवदूतोऽस्मि हितं त्वां प्रब्रवीम्यहम्॥ अर्जुन उवाच अहो त्वयायं विप्रेषु भक्तिरागः प्रदर्शितः। यादृशं पृथिवीभूतं तादृशं ब्रूहि मे द्विजम्॥ बायोर्वा सदृशं किंचिदि ब्रूहि त्वं ब्राह्मणोत्तमम्। अपां वै सदृशं वह्नः सूर्यस्य नभसोऽपि वा॥ बायोर्वा सदृशं किंचिदि ब्रूहि त्वं ब्राह्मणोत्तमम्। अपां वै सदृशं वह्नः सूर्यस्य नभसोऽपि वा॥ श्रीमहेश्वर उवाच इमां भूमिं द्विजातिभ्यो दित्सुवै दक्षिणां पुरा। अङ्गो नाम नृपो राजंस्ततश्चिन्तां मही ययौ॥ धारिणी सर्वभूतानामयं प्राप्य वरो नृपः। कथमिच्छति मां दातुं द्विजेभ्यो ब्रह्मणः सुताम्॥ साहं त्यक्त्वा गमिष्यामि भूमित्वं ब्रह्मणः पदम्। अयं सराष्ट्रो नृपतिर्मा भूदिति ततोऽगमत्॥ ततस्तां कश्यपो दृष्ट्वा व्रजन्तीं पृथिवीं तदा। प्रविवेश महीं सद्यो मुक्त्वाऽऽत्मानं समाहितः॥ ऋद्धा सा सर्वतो यज्ञे तृणौषधिसमन्विता। धर्मोत्तरा नष्टभया भूमिरासीत् ततो नृप॥ एवं वर्षसहस्राणि दिव्यानि विपुलव्रतः। त्रिंशत: कश्यपो राजन् भूमिरासीदतन्द्रितः॥ अथागम्य महाराज नमस्कृत्य च कश्यपम्। पृथिवी काश्यपी यज्ञे सुता तस्य महात्मनः॥ एष राजन्नीदृशो वै ब्राह्मणः कश्यपोऽभवत्। अन्यं प्रब्रहि वा त्वं च कश्यपात् क्षत्रियं वरम्॥ तूष्णीं बभूव नृपतिः पवनस्त्वब्रवीत् पुनः। शृणु राजन्नुतथ्यस्य जातस्याङ्गिरसे कुले।९।। भद्रा सोमस्य दुहिता रूपेण परमा मता। तस्यास्तुल्यं पति सोम उतथ्यं समपश्यत॥ सा च तीर्व तपस्तेपे महाभागा यशस्विनी। उतथ्यार्थे तु चार्वङ्गी परं नियममास्थिता॥ तत आहूय सोतथ्यं ददावत्रिर्यशस्विनीम्। भार्यार्थे स च जग्राह विधिवद् भूरिदक्षिणः॥ तां त्वकामयत श्रीमान् वरुणः पूर्वमेव ह। स चागम्य वनप्रस्थं यमुनायां जहार ताम्॥ जलेश्वरस्तु हृत्वा तामनयत् स्वं पुरं प्रति। परमाद्भुतसंकाशं षट्सहस्रशतह्रदम्॥ न हि रम्यतरं किंचित् तस्मादन्यत् पुरोत्तमम्। प्रसादैरप्सरोभिश्च दिव्यैः कामैश्च शोभितम्॥ तत्र देवस्तया सार्धे रेमे राजन् जलेश्वरः। अथाख्यातमुतथ्याय ततः पल्यवमर्दनम्॥ तच्छ्रुत्वा नारदात् सर्वमुतथ्यो नारदं तदा। प्रोवाच गच्छ ब्रूहि त्वं वरुणं परुषं वचः॥ मद्वाक्यान्मुञ्च मे भार्यो कस्मात् तां हृतवानसि। लोकपालोऽसि लोकानां न लोकस्य विलोपकः।।१८ सोमेन दत्ता भार्या मे त्वया चापहृताद्य वै। इत्युक्तो वचनात् तस्य नारदेन जलेश्वरः॥ मुञ्च भार्यामुतथ्यस्य कस्मात् त्वं हृतवानसि। इति श्रुत्वा वचस्तस्य सोऽथ तं वरुणोऽब्रवीत्॥ ममैषा सुप्रिया भार्यां नैनामुत्स्रष्टुमुत्सहे। इत्युक्तो वरुणेनाथ नारदः प्राप्य तं मुनिम्। उतथ्यमब्रवीद् वाक्यं नातिहष्टमना इव॥ गले गृहीत्वा क्षिप्तोऽस्मि वरुणेन महामुने। न प्रयच्छति ते भार्यो यत् ते कार्यं कुरुष्व तत्॥ नारदस्य वचः श्रुत्वा क्रुद्धः प्राज्वलदाङ्गिराः। अपिबत् तेजसा वारि विष्टभ्य सुमहातपाः॥ पीयमाने तु सर्वस्मिंस्तोयेऽपि सलिलेश्वरः। सुहृद्धिर्भिक्षमाणोऽपि नैवामुञ्चत तां तदा।॥ तत: क्रुद्धोऽब्रवीद् भूमिमुतथ्यो ब्राह्मणोत्तमः। दर्शयस्व स्थलं भद्रे षट् सहस्रशतह्रदम्॥ ततस्तदीरिणं जातं समुद्रस्यावसर्पतः। तस्माद् देशान्नदीं चैव प्रोवाचासौ द्विजोत्तमः॥ अदृश्या गच्छ भीरु तवं सरस्वति मरून प्रति। अपुण्य एष भवतु देशस्त्यक्तस्त्वया शुभे॥ तस्मिन् संशोषिते देशे भद्रामादाय वारिपः। अददाच्छरणं गत्वा भार्यामाङ्गिरसाय वै॥ प्रतिगृह्य तु तां भार्यामुतथ्यः सुमनाऽभवत्। मुमोच च जगद् दुःखाद् वरुणं चैव हैहय॥ ततः स लब्ध्वा तां भार्यां वरुणं प्राह धर्मवित्। उतथ्यः सुमहातेजा यत् तच्छृणु नराधिप॥ मयैषा तपसा प्राप्ता क्रोशतस्ते जलाधिप। इत्युक्त्वा तामुपादाय स्वमेव भवनं ययौ॥ एष राजन्नीदृशो वै उतथ्यो ब्राह्मणर्षभः। ब्रवीम्यहं ब्रूहि वा त्वमुतथ्यात् क्षत्रियं वरम्॥ भीष्म उवाच इत्युक्तः स नृपस्तूष्णीमभूद् वायुस्ततोऽब्रवीत्। शृणु राजन्नगस्त्यस्य माहात्म्यं ब्राह्मणस्य ह॥ असुरैर्निर्जिता देवा निरुत्साहश्च ते कृताः। यज्ञाश्चैषां हताः सर्वे पितॄणां च स्वधास्तथा॥ कर्मेज्या मानवानां च दानवैहैहयर्षभ। भ्रष्टैश्वर्यास्ततो देवाश्चेरुः पृथ्वीमिति श्रुतिः॥ ततः कदाचित् ते राजन् दीप्तमादित्यवर्चसम्। ददृशुस्तेजसा युक्तमगस्त्यं विपुलव्रतम्॥ अभिवाद्य तु तं देवाः पृष्ट्वा कुशलमेव च। इदमूचूर्महात्मानं वाक्यं काले जनाधिप॥ दानवैर्युधि भग्न: स्म तथैश्वर्याच्च भ्रंशिताः। तदस्मान्नो भयात् तीव्रात् त्राहि त्वं मुनिपुङ्गव॥ इत्युक्तः स तदा देवैरगस्त्यः कुपितोऽभवत्। प्रजज्वाल च तेजस्वी कालाग्निरिव संक्षये॥ तेन दीप्तांशुजालेन निर्दग्धा दानवास्तदा। अन्तरिक्षान्महाराज निपेतुस्ते सहस्रशः॥ दह्यमानास्तु ते दैत्यास्तस्यागस्त्यस्य तेजसा। उभौ लोकौ परित्यज्य गताः काष्ठां तु दक्षिणाम्॥ बलिस्तु यजते यज्ञमश्वमेधं महीं गतः। येऽन्येऽधस्था महीस्थाश्च ते न दग्धा महासुराः॥ ततो लोकाः पुनः प्राप्ताः सुरैः शान्तभयैर्नृप। अथैनमब्रुवन् देवा भूमिष्ठानसुरान् जहि॥ इत्युक्तः प्राह देवान् स न शक्तोऽस्मि महीगतान्। दग्धुं तपो हि क्षीयेन्मे न शक्यामीति पार्थिव॥ एवं दग्धा भगवता दानवाः स्वेन तेजसा। अगस्त्येन तदा राजंस्तपसा भावितात्मना॥ ईदृशश्चाप्यगस्त्यो हि कथितस्ते मयाऽनघ। ब्रवीम्यहं ब्रूहि वा त्वमगस्त्यात् क्षत्रियं वरम्॥ भीष्म उवाच इत्युक्तः स तदा तूष्णीमभूद् वायुस्ततोऽब्रवीत्। शृणु राजन् वसिष्ठस्य मुख्यं कर्म यशस्विनः॥ आदित्याः सत्रमासन्त सरो वै मानसं प्रति। वसिष्ठं मनसा गत्वा ज्ञात्वा तत् तस्य गौरवम्॥ यजमानांस्तु तान् दृष्ट्वा सर्वान् दीक्षानुकर्शितान्। हन्तुमैच्छन्त शैलाभाः खलिनो नाम दानवाः॥ अदूरात् तु ततस्तेषां ब्रह्मदत्तवरं सरः। हताहता वै तत्रैते जीवन्त्याप्लुत्य दानवाः॥ प्रगृह्य महाघोरान् पर्वतान् परिघान् दुमान्। विक्षोभयन्तः सलिलमुत्थितं शतयोजनम्॥ अभ्यद्रवन्त देवांस्ते सहस्राणि दशैव हि। ततस्तैरर्दिता देवाः शरणं वासवं ययुः॥ स च तैर्व्यथितः शक्रो वसिष्ठं शरणं ययौ। ततोऽभयं ददौ तैभ्यो वसिष्ठो भगवानृषिः॥ तदा तान् दुःखितान् ज्ञात्वा आनृशंस्य परो मुनिः। अयत्नेनादहत् सर्वान् खलिनः स्वेन तेजसा॥ ते कैलासं प्रस्थितां चैव नदी गङ्गां महातपाः। आनयत् तत्सरो दिव्यं तया भिन्नं च तत्सरः॥ सरोभिन्नं तया नद्या सरयूः सा ततोऽभवत्। हताश्च खलिनो यत्र स देशः खलिनोऽभवत्॥ एवं सेन्द्रा वसिष्ठेन रक्षितास्त्रिदिवौकसः। ब्रह्मदत्तवराश्चैव हता दैत्या महात्मना।॥ एतत् कर्म वसिष्ठस्य कथितं हि मयाऽनघ। ब्रवीम्यहं ब्रूहि वा त्वं वसिष्ठात् क्षत्रियं वरम्॥ इत्युक्तस्त्वर्जुनस्तूष्णीमभूद् वायुस्तमब्रवीत्। शृणु मे हैहयश्रेष्ठ कर्मात्रेः सुमहात्मनः॥ घोरे तमस्ययुध्यन्त सहिता देवदानवाः। अविध्यत शरैस्तत्र स्वर्भानुः सोमभास्करौ॥ अथ ते तमसा ग्रस्ता निहन्यन्ते स्म दानवैः। देवा नृपतिशार्दूल सहैव बलिभिस्तदा॥ असुरैर्वध्यमानास्ते क्षीणप्राणा दिवौकसः। अपश्यन्त तपस्यन्तमत्रिं विप्रं तपोधनम्॥ अथैनमब्रुवन् देवाः शान्तक्रोधं जितेन्द्रियम्। असुरैरिषुभिर्विद्धौ चन्द्रादित्याविमावुभौ॥ वयं वध्यामहे चापि शत्रुभिस्तमसावृते। नाधिगच्छाम शान्तिं च भयात् त्रायस्व नः प्रभो॥ ऋषि उवाच कथं रक्षामि भवतस्तेऽब्रुवंश्चन्द्रमा भव। तिमिरन्धश्च सवितस दस्युहन्ता च नो भव॥ एवमुक्तस्तदात्रिर्व तमोनुदभवच्छशी। अपश्यत् सौम्यभावाच्च सोमवत् प्रियदर्शनः॥ दृष्ट्वा नातिप्रभं सोमं तथा सूर्यं च पार्थिव। प्रकाशमकरोदत्रिस्तपसा स्वेन संयुगे॥ जगद् वितिमिरं चापि प्रदीप्तमकरोत् तदा॥ व्यजयच्छत्रुसंघांश्च देवानां स्वेन तेजसा। अत्रिणा दह्यमानांस्तान् दृष्ट्वा देवा महासुरान्॥ पराक्रमैस्तेऽपि तदा व्यनन्नत्रिसुरक्षिताः। उद्भासितश्च सविता देवास्त्राता हतासुराः॥ अत्रिणा त्वथ सामर्थ्य कृतमुत्तमतेजसा। द्विजेनाग्निद्वितीयेन जपता चर्मवाससा॥ फलभक्षेण राजर्षे पश्य कर्मात्रिणा कृतम्। तस्यापि विस्तरेणोक्तं कर्मात्रेः सुमहात्मनः। ब्रवीम्यहं ब्रूहि वा त्वमत्रितः क्षत्रियं वरम्॥ इत्युक्तस्त्वर्जुनस्तूष्णीमभूद् वायुस्ततोऽब्रवीत्। शृणु राजन् महत्कर्म च्यवनस्य महात्मनः॥ अश्विनोः प्रतिसंश्रुत्य च्यवनः पाकशासनम्। प्रोवाच सहितो देवैः सोमपावश्विनौ कुरु॥ इन्द्र उवाच अस्माभिर्निन्दितावेतौ भवेतां सोमपौ कथम्। देवैर्न सम्मितावेतौ तस्मान्मैवं वदस्व नः॥ अश्विभ्यां सह नेच्छामः सोमं पातुं महाव्रत। यदन्यद् वक्ष्यसे विप्र तत् करिष्यामि ते वचः॥ च्यवन उवाच पिबेतामश्विनौ सोमं भवद्भिः सहिताविमौ। उभावेतावपि सुरौ सूर्यपुत्रौ सुरेश्वर॥ क्रियतां मद्वचो देवा यथा वै समुदाहृतम्। एतद् वः कुर्वतां श्रेयो भवेन्नैतदकुर्वताम्॥ इन्द्र उवाच अश्विभ्यां सह सोमं वै न पास्यामि द्विजोत्तमा पिबन्त्वन्ये यथाकामं नाहं पातुमिहोत्सहे॥ च्यवन उवाच न चेत् करिष्यसि वचो मयोक्तं बलसूदन। मया प्रमथितः सद्यः सोमं पास्यसि वै मखे॥ वायु उवाच ततः कर्म समारब्धं हिताय सहसाश्विनोः। च्यवनेन ततो मन्त्रैरभिभूताः सुराऽभवन्॥ तत् तु कर्म समारब्धं दृष्ट्वेन्द्रः क्रोधमूर्च्छितः। उद्यम्य विपुलं शैलं च्यवनं समुपाद्रवत्॥ तथा वज्रेण भगवानमर्षाकुललोचनः। तमापतन्तं दृष्ट्वैव च्यवनस्तपसान्वितः॥ अद्भिः सिक्त्वास्तम्भयत् तं सवज्रं सहपर्वतम्। अथेन्द्रस्य महाघोरं सोऽसृजच्छत्रुमेव हि॥ मदं नामाहुतिमयं व्यादितास्यं महामुनिः। तस्य दन्तसहस्रं तु बभूव शतयोजनम्॥ द्वियोजनशतास्तस्य दंष्ट्राः परमदारुणाः। हनुस्तस्याभवद् भूमावास्यं चास्यास्पृशद् दिवम्।।२८ जिह्वामूले स्थितास्तस्य सर्वे देवाः सवासवाः। तिमेरास्यमनुप्राप्ता यथा मत्स्या महार्णवे॥ ते सम्मन्त्र्य ततो देवा मदस्यास्यसमीपगाः। अब्रुवन् सहिताः शक्रं प्रणमास्मै द्विजातये॥ अश्विभ्यां सह सोमं च पिबाम विगतज्वराः। ततः स प्रणतः शक्रश्चकार च्यवनस्य तत्॥ च्यवन् कृतवानेतावश्विनौ सोमपायिनौ। ततः प्रत्याहरत् कर्म मदं च व्यभजन्मुनिः॥ अक्षेषु मृगयायां च पाने स्त्रीषु च वीर्यवान्॥ एतैर्दोषैर्नरा राजन् क्षयं यान्ति न संशयः। तस्मादेतान् नरो नित्यं दूरतः परिवर्जयेत्॥ एतत् ते च्यवनस्यापि कर्म राजन् प्रकीर्तितम्। ब्रवीम्यहं ब्रूहि वा त्वं क्षत्रियं ब्राह्मणाद् वरम्॥ भीष्म उवाच तूष्णीमासीदर्जुनस्तु पवनस्त्वब्रवीत् पुनः। शृणु मे ब्राह्मणेष्वेव मुख्यं कर्म जनाधिप॥ मदस्यास्यमनुप्राप्ता यदा सेन्द्रा दिवौकसः। तदैव च्यवनेनेह हृता तेषां वसुन्धरा॥ उभौ लोकौ हतौ मत्वा ते देवा दुःखिताऽभवन्। शोकाश्चि महात्मानं ब्रह्माणं शरणं ययुः॥ देवा ऊचुः ते मदास्यव्यतिषक्तानामस्माकं लोकपूजित। च्यवनेन हता भूमिः कपैश्चैव दिवं प्रभो॥ ब्रह्मोवाच गच्छध्वं शरणं विप्रावाशु सेन्द्रा दिवौकसः। प्रसाद्य तानुभौ लोकाववाप्स्यथ यथा पुरा॥ ययुः शरणं विप्रानू चुस्ते कान् जयामहे। इत्युक्तास्ते द्विजान् प्राहुर्जयतेह कपानिति॥ भूगतान् हि विजेतारो वयमित्यब्रुवन् द्विजाः। ततः कर्म समारब्धं ब्राह्मणैः कपनाशनम्॥ तच्छ्रुत्वा प्रेषितो दूतो ब्राह्मणेभ्यो धनी कपैः। स च तान् ब्राह्मणानाह धनी कपवचो यथा॥ भवद्भिः सदृशाः सर्वे कपाः किमिह वर्तते। सर्वे वेदविदः प्राज्ञाः सर्वे च क्रतुयाजिनः॥ सर्वे सत्यव्रताश्चैव सर्वे तुल्या महर्षिभिः। श्रीश्चैव रमते तुषे धारयन्ति श्रियं च ते॥ वृथादारान् न गच्छन्ति वृथामांसं न भुञ्जते। दीप्तमग्निं जुह्वते च गुरूणां वचने स्थिताः॥ सर्वे च नियतात्मानो बालानां संविभागिनः। उपेत्य शनकैर्यान्ति न सेवन्ति रजस्वलाम्। स्वर्गतिं चैव गच्छन्ति तथैव शुभकर्मिणः॥ अभुक्तवस्तु नाश्नन्ति गर्भिणीवृद्धकादिषु। पूर्वाह्नेषु न दीव्यन्ति दिवा चैव न शेरते॥ एतैश्चान्यैश्च बहुभिर्गुणैर्युक्तान् कथं कपान्। विजेष्यथ निवर्तध्वं निवृत्तानां सुखं हि वः॥ ब्राह्मणा: ऊचु: कपान्वयं विजेष्यामो ये देवास्ते वयं स्मृताः। तस्माद् वध्याः कपाऽस्माकं धनिन् याहि यथाऽऽगतम्।। धनी गत्वा कपानाह न वो विप्राः प्रियंकराः। गृहीत्वास्त्राण्यतो विप्रान् कृपाः सर्वे समाद्रवन्॥ समुदग्रध्वजान् दृष्ट्वा कपान् सर्वे द्विजातयः। व्यसृजन ज्वलितानग्नीन् कपानां प्राणनाशनान्॥ ब्रह्मसृष्टा हव्यभुजः कपान् हत्वा सनातनाः। नभसीव यथाऽभ्राणि व्यराजन्त नराधिप॥ हत्वा वै दानवान् देवाः सर्वे सम्भूय संयुगे। तेनाभ्यजानन् हि तदा ब्राह्मणैर्निहतान् कपान्॥ अथागम्य महातेजा नारदोऽकथयद् विभो। यथा हता महाभागैस्तेजसा ब्राह्मणैः कपाः॥ नारदस्य वचः श्रुत्वा प्रीता: सर्वे दिवौकसः। प्रशशंसुर्द्विजांश्चापि ब्राह्मणांश्च यशस्विनः॥ तेषां तेजस्तथा वीर्यं देवानां ववृधे ततः। अवाप्नुवंश्चामरत्वं त्रिषु लोकेषु पूजितम्॥ इत्युक्तवचनं वायुमर्जुनः प्रत्युवाच ह। प्रतिपूज्य महाबाहो तत् तच्छृणु युधिष्ठिर॥ अर्जुन उवाच जीवाम्यहं ब्राह्मणार्थं सर्वथा सततं प्रभो। ब्रह्मण्यो ब्राह्मणेभ्यश्च प्रणमामि च नित्यशः॥ दत्तात्रेयप्रसादाच्च मया प्राप्तमिदं बलम्। लोके च परमा कीर्तिर्धर्मश्चाचरितो महान्॥ अहो ब्राह्मणकर्माणि मया मारुत तत्त्वतः। त्वया प्रोक्तानि कात्स्न्येन श्रुतानि प्रयतेन च॥ श्रीमहेश्वर उवाच ब्राह्मणान् क्षात्रधर्मेण पालयस्वेन्द्रियाणि च। भृगुभ्यस्ते भयं घोरं तत् तु कालाद् भविष्यति॥ युधिष्ठिर उवाच ब्राह्मणानर्चसे राजन् सततं संशितव्रतान्। कं तु कर्मोदयं दृष्ट्वा तानर्चसि जनाधिप॥ कां वा ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा महाव्रत। तानसि महाबाहो सर्वमेतद् वदस्व मे॥ भीष्म उवाच एप ते केशवः सर्वमाख्यास्यति महामतिः। व्युष्टिं ब्राह्मणपूजायां दृष्टव्युष्टिर्महाव्रतः॥ बलं श्रोत्रे वाङ्मनश्चक्षुषी च ज्ञानं तथा सविशुद्धं ममाद्य। देहन्यासो नातिचिरान्मतो मे न चाति तूर्णं सविताद्य याति॥ उक्ता धर्मा ये पुराणे महान्तो राजन् विप्राणां क्षत्रियाणां विशां च। तथा शूद्राणां धर्ममुपासते च शेषं कृष्णादुपशिक्षस्व पार्थ॥ अहं ह्येनं वेद्मि तत्त्वेन कृष्ण योऽयं हि यच्चास्य बलं पुराणम्। अमेयात्मा केशवः कौरवेन्द्र सोऽयं धर्मे वक्ष्यति संशयेषु॥ कृष्णः पृथ्वीमसृजत् खं दिवं च कृष्णस्य देहान्मेदिनी सम्बभूव। वराहोऽयं भीमबलः पुराण: स पर्वतान् व्यसृजद् वै दिशश्च।॥ अस्य चाधोऽथान्तरिक्षं दिवं च दिशश्चतस्रो विदिशश्चतस्रः। सृष्टिस्तथैवेयमनुप्रसूता स निर्ममे विश्वमिदं पुराणम्॥ अस्य नाभ्यां पुष्करं सम्प्रसूतं यत्रोत्पन्न: स्वयमेवामितौजा:। तेनाच्छिन्नं तत् तमः पार्थ घोरं यत् यत् तिष्ठत्यर्णवं तर्जयानम्॥ स्त्रेताकाले ज्ञानमनुप्रपन्नः। बलं त्वासीद् द्वापरे पार्थ कृष्णः कलौ त्वधर्म: क्षितिमेवाजगाम॥ स एव पूर्वं निजघान दैत्यान् स पूर्वदेवश्च बभूव सम्राट्। स भूतानां भावनो भूतभव्य: स विश्वस्यास्य जगतश्चाभिगोप्ता॥ यदा धर्मो ग्लाति वंशे सुराणां तदा कृष्णो जायते मानुषेषु। धर्मे स्थित्वा स तु वै भावितात्मा परांश्च लोकानपरांश्च पाति॥ त्याज्यं त्यक्त्वा चासुराणां वधाय कार्याकार्य कारणं चैव पार्थ। कृतं करिष्यत् क्रियते च देवो राहुं सोमं विद्धि च शक्रमेनम्॥ स विश्वकर्मा स हि विश्वरूप: स विश्वभुग विश्वसृग् विश्वजिच्च। स्तं कर्मभिर्विदितं वै स्तुवन्ति॥ मुपतिष्ठन्ते विबुधानां शतानि। तं राक्षसाच परिसंवदन्ति राजस्पोषः स विजिगीषुरेकः॥ तमध्वरे शंसितारः स्तुवन्ति रथन्तरे सामगाश्च स्तुवन्ति। तं ब्राह्मणा ब्रह्ममन्त्रैः स्तुवन्ति तस्मै हविरध्वर्यवः कल्पयन्ति॥ स पौराणी ब्रह्मगुहां प्रविष्टो महीसनं भारताने ददर्श। स चैव गामुधाराय्यकर्मा विक्षोभ्य दैत्यानुरगान् दानवांश्च॥ तं घोषार्थे गीर्भिरिन्द्राः स्तुवन्ति स चापीशो भारतैकः पशूनाम्। तस्य भक्षान् विविधान् वेदयन्ति तमेवाजौ वाहनं वेदयन्ति॥ तस्यान्तरिक्षं पृथिवी दिवं च सर्वे वशे तिष्ठति शाश्वतस्य। स कुम्भे रेतः ससृजे सुराणां यत्रोत्पन्नमृषिमाहुर्वसिष्ठम्॥ स मातरिश्वा विभुरश्ववाजी सरश्मिवान् सविता चादिदेवः। तेनासुरा विजिताः सर्व एव तद्विक्रान्तैर्विजितानीह त्रीणि॥ स देवानां मानुषाणां पितॄणां तमेवाहुर्यज्ञविदां वितानम्। स एव कालं विभजन्नुदेति तस्योत्तरं दक्षिणं चायने द्व।। तस्यैवोज़ तिर्यगधश्चरन्ति गभस्तयो मेदिनी भासयन्तः। तं ब्राह्मणा वेदविदो जुषन्ति तस्यादित्यो भामुपयुज्य भाति॥ स मासि मास्यध्वरकृद् विधत्ते तमध्वरे वेदविदः पठन्ति। स एवोक्तश्चक्रममिदं त्रिनाभि सप्ताश्वयुक्तं वहते वै त्रिधाम॥ महातेजाः सर्वगः सर्वसिंहः कृष्णो लोकान् धारयते यथैकः। हंसं तमोध्नं च तमेव वीर कृष्णं सदा पार्थं कर्तारमेहि॥ स एकदा कक्षगतो महात्मा तुष्टो विभुः खाण्डवे धूमकेतुः। स राक्षसानुरगांश्चावजित्य सर्वत्रगः सर्वमग्नौ जुहोति॥ स एव पार्थाय श्वेतमश्वं प्रायच्छत् स एवाश्वानथ सर्वांश्चकार। स्त्रिवृच्छिराश्चतुरश्वस्त्रिनाभिः॥ स विहायो व्यदधात् पञ्चनाभिः स निर्ममे गां दिवमन्तरिक्षम्। सोऽरण्यानि व्यसृजत् पर्वतांश्च हृषीकेशोऽमितदीप्ताग्नितेजाः॥ अलंघयद् वै सरितो जिघांसन् शक्रं वज्रं प्रहरन्तं निरास स महेन्द्रः स्तूयते वै महाध्वरे विगैरेको ऋक्सहस्रः पुराणैः॥ दुर्वासा वै तेन नान्येन शक्यो गृहे राजन् वासयितुं महौजाः। तमेवाहुर्ऋषिमेकं पुराणं स विश्वकृद् विदधात्यात्मभावान्॥ वेदांश्च यो वेदयतेऽधिदेवो विधींश्च यश्चाश्रयते पुराणान्। कामे वेदे लौकिके यत्फलं च विष्वक्सेनः सर्वमेतत् प्रतीहि॥ ज्योतींषि शुक्लानि हि सर्वलोके त्रयो लोका लोकपालास्त्रयश्च। त्रयोऽग्नयो व्याहृतयश्च तिस्रः सर्वे देवा देवकीपुत्र एव॥ स वत्सरः स ऋतुः सोऽर्धमासः सोऽहोरात्रः स कला वै स काष्ठाः। मात्र मुहूर्ताश्च लवाः क्षणाश्च विष्वक्सेनः सर्वमेतत् प्रतीहि॥ चन्द्रादित्यौ ग्रहनक्षत्रताराः सर्वाणि दर्शान्यथ पौर्णमासम्। नक्षत्रयोगा ऋतवश्च पार्थ विष्वक्सेनात् सर्वमेतत् प्रसूतम्॥ रुद्रादित्या वसवोऽथाश्चिनौ च साध्याश्च विश्वे मरुतां गणाश्च। प्रजापतिर्देवमातादितिश्च सर्वे कृष्णादृषयश्चैव सप्त॥ मग्निर्भूत्वा दहते विश्वरूपः। आपो भूत्वा मज्जयते च सर्वे ब्रह्मा भूत्वा सृजते विश्वसंघान्॥ वेद्यं च यद् वेदयते च वेद्यं विधिश्च यश्च श्रयते विधेयम्। धर्मे च वेदे च बले च सर्वं चराचरं केशवं त्वं प्रतीहि॥ ज्योतिर्भूतः परमोऽसौ पुरस्तात् प्रकाशते यत्प्रभया विश्वरूपः। अप: सृष्ट्वा सर्वभूतात्मयोनिः पुराकरोत् सर्वमेवाथ विश्वम्॥ ऋतूनुत्पातान् विविधान्यद्भुतानि मेघान् विद्युत्सर्वमैरावतं च। सर्वे कृष्णात् स्थावरं जङ्गमं च विश्वात्मानं विष्णुमेनं प्रतीहि।३८।। विश्वावासं निर्गुणं वासुदेवं संकर्षणं जीवभूतं वदन्ति। माज्ञापयत्यात्मयोनिर्महात्मा॥ स पञ्चधा पञ्चजनोपपन्न संचोदयन् विश्वमिदं सिसृक्षुः। ततश्चकारावनिमारुतौ च खं ज्योतिरम्भश्च तथैव पार्थ॥ स स्थावरं जङ्गमं चैवमेतच्चतुर्विधं लोकमिमं च कृत्वा। ततो भूमि व्यदधात् पञ्चवीजां द्यौः पृथिव्यां धास्यति भूरि वारि॥ तेन विश्वं कृतमेतद्धि राजन् स जीवयत्यात्मनैवात्मयोनिः। ततो देवासुरान् मानवांश्च लोकानृषीश्चापि पितॄन् प्रजाश्चा समासेन विधिवत्प्राणिलोकान् सर्वान् सदा भूतपतिः सिसृक्षुः॥ शुभाशुभं स्थावरं जङ्गमं च विष्वक्सेनात् सर्वमेतत् प्रतीहि। यद वर्तते यच्च भविष्यतीह सर्वं ह्येतत् केशव त्वं प्रतीहि॥ मृत्युश्चैव प्राणिनामन्तकाले साक्षात् कृष्ण: शाश्वतो धर्मवाहः। भूतं च यच्चेह न विद्म किंचिद् विष्वक्सेनात् सर्वमेतत् प्रतीहि॥ यत् प्रशस्तं च लोकेषु पुण्यं यच्च शुभाशुभम्। तत्सर्वं केशवोऽचिन्त्यो विपरीतमतः परम्॥ एतादृशः केशवाऽतश्च भूयो नारायणः परमश्चाव्ययश्च। मध्याद्यन्तस्य जगतस्तस्थुषश्च बुभूषतां प्रभवश्चाव्ययश्च॥ युधिष्ठिर उवाच दुर्वाससः प्रसादात् ते यत् तदा मधुसूदन। अवाप्तमिह विज्ञानं तन्मे व्याख्यातुमर्हसि॥ महाभाग्यं च यत् तस्य नामानि च महात्मनः। तत् त्वत्तो ज्ञातुमिच्छामि सर्वं मतिमतां वर॥ वासुदेव उवाच हन्त ते कीर्तयिष्यामि नमस्कृत्य कपर्दिने। यदवाप्तं मया राजच्छ्रेयो यच्चार्जितं यशः॥ प्रयतः प्रातरुत्थाय यदधीये विशाम्पते। प्राञ्जलिः शतरुद्रीयं तन्मे निगदतः शृणु॥ प्रजापतिस्तत् ससृजे तपसोऽन्ते महातपाः। शङ्कररत्वसृजत् तात प्रजा: स्थावरजङ्गमाः॥ नास्ति किंचित्परं भूतं महादेवाद् विशाम्पते। इह त्रिष्वपि लोकेषु भूतानां प्रभावो हि सः॥ न चैबोत्सहते स्थातुं कश्चिदने महात्मनः। न हि भूतं समं तेन त्रिषु लोकेषु विद्यते॥ गन्धेनापि हि संग्रामे तस्य क्रुद्धस्य शत्रवः। विसंज्ञा हतभूयिष्ठा वेपन्ते च पतन्ति च॥ घोरं च निनदं तस्य पर्जन्यनिनदोपमम्। श्रुत्वा विशीर्येद्धृदयं देवानामपि संयुगे॥ यांश्च घोरेण रूपेण पश्येत् क्रुद्धः पिनाकधृत्। न सुरा नासुरा लोके न गन्धर्वा न पन्नगाः॥ कुपिते सुखमेधन्ते तस्मिन्नपि गुहागताः। प्रजापतेश्च दक्षस्य यजतो वितते क्रतौ॥ विव्याध कुपितो यज्ञं निर्भयस्तु भवस्तदा। धनुषा बाणमुत्सृज्य सघोषं विननाद च॥ ते न शर्म कुतः शान्ति विषादं लेभिरे सुराः। विद्धे च सहसा यज्ञे कुपिते च महेश्वरे॥ तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः। बभूवुरवशाः पार्थ विषेदुश्च सुरासुराः॥ आपश्चुक्षुभिरे चैव चकम्पे च वसुन्धरा। व्यद्रवन् गिरयश्चापि द्यौः पफाल च सर्वशः॥ अन्धेन तमसा लोकाः प्रावृता न चकाशिरे। प्रणष्टा ज्योतिषां भाश्च सह सूर्येण भारत॥ भृशं भीतास्ततः शान्तिं चक्रुः स्वस्त्ययनानि च। ऋषयः सर्वभूतानामात्मनश्च हितैषिणः॥ ततः सोऽभ्यद्रवद् देवान् रुद्रो रौद्रपराक्रमः। भगस्य नयने क्रुद्धः प्रहारेण व्यशातयत्॥ पूषणं चाभिदुद्राव पादेन च रुषान्वितः। पुरोडाशं भक्षयतो दशनान् वै व्यशातयत्॥ ततः प्रणेमुर्देवास्ते वेपमानाः स्म शङ्करम्। पुनश्च संदधे रुद्रो दीप्तं सुनिशितं शरम्॥ रुद्रस्य विक्रमं दृष्ट्वा भीता देवाः सहर्षिभिः। ततः प्रसादयामासुः शर्वं ते विबुधोत्तमाः॥ जेपुश्च शतरुद्रीयं देवाः कृत्वाञ्जलिं तदा। संस्तूयमानस्त्रिदशैः प्रससाद महेश्वरः॥ रुद्रस्य भागं यज्ञे च विशिष्टं ते त्वकल्पयन्। भयेन त्रिदशा राजञ्छरणं च प्रपेदिरे॥ तेन चैव हि तुष्टेन स यज्ञः संधितोऽभवत्। यद् यच्चापहृतं तत्र तत्तथैवान्वजीवयत्॥ असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि। आयसं राजतं चैव सौवर्णमपि चापरम्॥ नाशकत् तानि मघवा जेतुं सर्वायुधैरपि। अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः॥ तत ऊचुर्महात्मानो देवाः सर्वे समागताः। रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु॥ जहि दैत्यान् सह पुरैर्लोकांस्त्रयस्व मानद। स तथोक्तस्तथेत्युक्त्वा कृत्वा विष्णुं शरोत्तमम्॥ शल्यमग्निं तथा कृत्वा पुङ्गं वैवस्वतं यमम्। वेदान् कृत्वा धनुः सर्वान् ज्यां च सावित्रिमुत्तमाम्।। ब्रह्माणं सारथिं कृत्वा विनियुज्य च सर्वशः। त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः॥ शरेणादित्यवर्णेन कालाग्निसमतेजसा। तेऽसुराः सपुरास्तत्र दग्धा रुद्रेण भारत॥ तं चैवाङ्कगतं दृष्ट्वा बालं पञ्चशिखं पुनः। उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत् तदा॥ असूयतश्च शक्रस्य वज्रेण प्रहरिष्यतः। स वज्रं स्तम्भयामासं तं बाहुं परिघोपमम्॥ न सम्बुबुधिरे चैव देवास्तं भुवनेश्वरम्। सप्रजापतयः सर्वे तस्मिन् मुमुहुरीश्वरे॥ ततो ध्यात्वा च भगवान् ब्रह्मा तममितौजसम्। अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तमुमापतिम्॥ ततः प्रसादयामासुरुमां रुद्रं च ते सुराः। बभूव स तदा बाहुर्बलहन्तुर्यथा पुरा॥ स चापि ब्राह्मणो भूत्वा दुर्वासा नाम वीर्यवान्। द्वारवत्यां मम गृहे चिरं कालमुपावसन्॥ विप्रकारान् प्रयुक्ते स्म सुबहून् मम वेश्मनि। तानुदारतया चाहं चक्षमे चातिदुःसहान्॥ रुद्रः स च शिवः सोऽग्निः सर्वः स सर्वजित्। स चैवेन्द्रश्च वायुश्च सोऽश्विनौ स च विद्युतः॥ स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः। स काल: सोऽन्तको मृत्युः स यमो रात्र्यहानि च।। मासार्धमासा ऋतवः संध्ये संवत्सरश्च सः। स धाता स विधाता च विश्वकर्मा स सर्ववित्॥ वै नक्षत्राणि गृहाश्चैव दिशोऽथ प्रदिशस्तथा। विश्वमूर्तिरमेयात्मा भगवान् परमद्युतिः॥ एकधा च द्विधा चैव बहुधा च स एव हि। शतधा सहस्रधा चैव तथा शतसहस्रधा॥ ईदृशः स महादेवो भूयश्च भगवानतः। न हि शक्या गुणा वक्तुमपि वर्षशतैरपि॥ वासुदेव उवाच युधिष्ठिर महाबाहो महाभाग्यं महात्मनः। रुद्राय बहुरूपाय बहुनाम्ने निबोध मे॥ वदन्त्यग्निं महादेवं तथा स्थाणुं महेश्वरम्। एकाक्षं त्र्यम्बकं चैव विश्वरूपं शिवं तथा॥ द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः। घोरामन्यां शिवामन्यां ते तनू बहुधा पुनः॥ उग्रा घोरा तनुर्यास्य सोऽग्निर्विद्युत् स भास्करः। शिवा सौम्या च या त्वस्य धर्मस्त्वापोऽथ चन्द्रमा:।।४ आत्मनोऽर्धं तु तस्याग्निः सोमोऽध पुनरुच्यते। ब्रह्मचर्यं चरत्येका शिवा चास्य तनुस्तथा॥ यास्य घोरतमा मूर्तिर्जगत् संहरते तथा। ईश्वरत्वान्महत्त्वाच्च महेश्वर इति स्मृतः॥ यन्निर्दहति यत्तीक्ष्णो यदुनो यत् प्रतापवान्। मांसशोणितमज्जादो यत् ततो रुद्र उच्यते॥ देवानां सुमहान् यच्च यच्चास्य विषयो महान्। यच्च विश्वं महत् पाति महादेवस्ततः स्मृतः॥ धूम्ररूपं च यत्तस्य धूर्जटीत्यत उच्यते। समेधयति यन्नित्यं सर्वान् वै सर्वकर्मभिः॥ मनुष्याशिवमन्विच्छंस्तस्मादेष शिवः स्मृतः। दहत्यूज़ स्थितो यच्च प्राणान् नृणां स्थिरश्च यत्।।१० स्थिरलिङ्गश्च यन्नित्यं तस्मात् स्थाणुरिति स्मृतः। यदस्य बहुधा रूपं भूतं भव्यं भवत्तथा॥ स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः। विश्वे देवाश्च यत्तस्मिन् विश्वरूपस्ततः स्मृतः॥ सहस्राक्षोऽयुताक्षो वा सर्वतोऽक्षिमयोऽपि वा। चक्षुषः प्रभवेत् तेजो नास्त्यन्तोऽथास्य चक्षुपाम्॥ सर्वथा यत्पशून् पाति तैश्च यद् रमते सह। तेषामधिपतिर्यच्च तस्मात् पशुपतिः स्मृतः॥ नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम्। महयत्यस्य लोकश्च प्रिय ह्येतन्महात्मनः॥ विग्रहं पूजयेद् यो वै लिङ्गं वापि महात्मनः। लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते॥ ऋषयश्चापि देवाश्च गन्धर्वाप्सरसस्तथा। लिङ्गमेवार्चयन्ति स्म यत् तदूर्ध्वं समास्थितम्॥ पूज्यमाने ततस्तस्मिन् मोदते स महेश्वरः। सुखं ददाति प्रीतात्मा भक्तानां भक्तवत्सलः॥ एप एव श्मशानेषु देवो वसति निर्दहन्। यजन्ते ते जनास्तत्र वीरस्थाननिषेविणः॥ विषयस्थः शरीरेषु स मृत्युः प्राणिनामिह। स च वायुः शरीरेषु प्राणापानशरीरिणाम्॥ तस्य घोराणि रूपाणि दीप्तानि च बहूनि च। लोके यान्यस्य पूज्यन्ते विप्रास्तानि विदुर्बुधाः॥ नामधेयानि देवेषु वहून्यस्य यथार्थवत्। निरुच्यन्ते महत्त्वाच्च विभुत्वात् कर्मभिस्तथा॥ वेदे चास्य विदुर्विप्राः शतरुद्रीयमुत्तमम्। व्यासेनोक्तं च यच्चापि उपस्थानं महात्मनः॥ प्रदाता सर्वलोकानां विश्वं चाप्युच्यते महत्। ज्येष्ठभूतं वदन्त्येनं ब्राह्मणा ऋषयोऽपरे॥ प्रथमो ह्येष देवानां मुखादग्निमजीजनत्। ग्रहैर्बहुविधैः प्राणान् संरुद्धानुत्सृजत्यपि॥ विमुञ्चति न पुण्यात्मा शरण्यः शरणागतान्। आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान्।॥ स ददाति मनुष्येभ्यः स एवाक्षिपते पुनः। शक्रादिषु च देवेषु तस्यैश्वर्यमिहोच्यते॥ स एव व्यापृतो नित्यं त्रैलोक्यस्य शुभाशुभे। ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते॥ महेश्वरश्च लोकानां महतामीश्वरच सः। बहुभिर्विविधै रूपैर्विश्वं व्याप्तमिदं जगत्। तस्य देवस्य यद् वक्त्रं समुद्रे वडवामुखम्॥ वैशम्पायन उवाच इत्युक्तवति वाक्यं तु कृष्णे देवकिनन्दने। भीष्मं शान्तनवं भूयः पर्यपृच्छद् युधिष्ठिरः॥ निर्णये वा महाबुद्धे सर्वधर्मविदां वर। प्रत्यक्षमागमो वेति किं तयोः कारणं भवेत्॥ भीष्म उवाच नास्त्यत्र संशयः कश्चिदिति मे वर्तते मतिः। शृणु वक्ष्यामि ते प्राज्ञ सम्यक् तवं मेऽनुपृच्छसि॥ संशयः सुगमस्तत्र दुर्गमस्तस्य निर्णयः। दृष्टं श्रुतमनन्तं हि यत्र संशयदशर्नम्॥ प्रत्यक्षं कारणं दृष्ट्वा हैतुकाः प्राज्ञमानिनः। नास्तीत्येवं व्यवस्यन्ति सत्यं संशयमेव च॥ तदयुक्तं व्यवस्यन्ति बालाः पण्डितमानिनः। अथ चेन्मन्यसे चैकं कारणं किं भवेदिति॥ शक्यं दीर्पण कालेन युक्तेनातन्द्रितेन च। प्राणयात्रामनेकां च कल्पमानेन भारत॥ तत्परेणैव नान्येन शक्यं ह्येतस्य दर्शनम्। हेतूनामन्तमासाद्य विपुलं ज्ञानमुत्तमम्॥ ज्योतिः सर्वस्य लोकस्य विपुलं प्रतिपद्यते। न त्वेव गमनं राजन् हेतुतो गमनं तथा। अग्राह्यमनिबद्धं च वाचा सम्परिवर्जयेत्॥ युधिष्ठिर उवाच प्रत्यक्षं लोकतः सिद्धिर्लोक्श्चागमपूर्वकः। शिष्टाचारो बहुविधस्तन्मे ब्रूहि पितामह॥ भीष्म उवाच धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः। संस्था यत्नैरपि कृता कालेन प्रतिभिद्यते॥ अधर्मो धर्मरूपेण तृणैः कूप इवावृतः। ततस्तैर्भिद्यते वृत्तं शृणु चैव युधिष्ठिर॥ अवृत्ता ये तु भिन्दन्ति श्रुतित्यागपरायणाः। धर्मविद्वेषिणो मन्दा इत्युक्तस्तेषु संशयः॥ अतृप्यन्तस्तु साधूनां य एवागमबुद्धयः। परमित्येव संतुष्टास्तानुपास्व च पृच्छ च॥ कामार्थो पृष्ठतः कृत्वा लोभमोहानुसारिणौ। धर्म इत्येव सम्बुद्धास्तानुपास्व च पृच्छ च॥ न तेषां भिद्यते वृत्तं यज्ञाः स्वाध्यायकर्म च। आचारः कारणं चैव धर्मश्चैकस्त्रयं पुनः॥ युधिष्ठिर उवाच पुनरेव हि मे बुद्धिः संशये परिमुह्यति। अपारे मार्गमाणस्य परं तीरमपश्यतः॥ वेदः प्रत्यक्षमाचारः प्रमाणं तत्रयं यदि। पृथक्त्वं लभ्यते चैषां धर्मश्चैकस्त्रयं कथम्॥ भीष्म उवाच धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः। यद्येवं मन्यसे राजंस्त्रिधा धर्मविचारणा॥ एक एवेति जानीहि त्रिधा धर्मस्य दर्शनम्। पृथक्त्वे च न मे बुद्धिस्त्रयाणामपि वै तथा॥ उक्तो मार्गस्त्रयाणां च त तथैव समाचर। जिज्ञासा न तु कर्तव्या धर्मस्य परितर्कणात्॥ सदैव भरतश्रेष्ठ मा तेऽभूदत्र संशयः। अन्धो जड इवाशङ्की यद् ब्रवीमि तदाचर॥ अहिंसा सत्यमक्रोधो दानमेतच्चतुष्टयम्। अजातशत्रो सेवस्व धर्म एष सनातनः॥ ब्राह्मणेषु च वृत्तिर्या पितृपैतामहोचिता। तामन्वेहि महाबाहो धर्मस्यैते हि देशिकाः॥ प्रमाणमप्रमाणं वै यः कुर्यादबुधो जनः। न स प्रमाणतामों विवादजननो हि सः॥ ब्राह्मणानेव सेवस्व सत्कृत्य बहुमन्य च। एतेष्वेव त्विमे लोकाः कृत्स्ना इति निबोध तान्।।२६ युधिष्ठिर उवाच ये च धर्ममसूयन्ते ये चैनं पर्युपासते। ब्रवीतु मे भवानेतत् क्व ते गच्छन्ति तादृशाः॥ भीष्म उवाच रजसा तमसा चैव समवस्तीर्णचेतसः। नरकं प्रतिपद्यन्ते धर्मविद्वेषिणो जनाः॥ ये तु धर्म महाराज सततं पर्युपासते। सत्यार्जवपराः सन्तस्ते वै स्वर्गभुजो नराः॥ धर्म एव गतिस्तेषामाचार्योपासनाद् भवेत्। देवलोकं प्रपद्यन्ते ये धर्मं पर्युपासते॥ मनुष्या यदि वा देवाः शरीरमुपताप्य वै। धर्मिणः सुखमेधन्ते लोभद्वेषविवर्जिताः॥ प्रथमं ब्रह्मणः पुत्रं धर्ममाहुर्मनीषिणः। धर्मिणः पर्युपासन्ते फलं पक्वमिवाशयः॥ युधिष्ठिर उवाच असतां कीदृशं रूपं साधवः किं च कुर्वते। ब्रवीतु मे भवानेतत् सन्तोऽसन्तश्च कीदृशाः॥ भीष्म उवाच दुराचाराश्च दुर्धर्षा दुर्मुखाश्चाप्यसाधवः। साधवः शील सम्पन्नाः शिष्टाचारस्य लक्षणम्॥ राजमार्गे गवां मध्ये धान्यमध्ये च धर्मिणः। नोपसेवन्ति राजेन्द्र सर्ग मूत्रपूरीषयोः॥ पञ्चानामशनं दत्त्वा शेषमश्नन्ति साधवः। न जल्पन्ति च भुजाना न निद्रान्त्याईपाणयः॥ चित्रभानुमनड्वाहं देवं गोष्ठं चतुष्पथम्। ब्राह्मणं धार्मिकं वृद्धं ये कुर्वन्ति प्रदक्षिणम्॥ वृद्धानां भारतप्तानां स्त्रीणां चक्रधरस्य च। ब्राह्मणानां गवां राज्ञां पन्थानं ददते च ये॥ अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च। तथा शरणकामानां गोप्ता स्यात् स्वागतप्रदः॥ सायंप्रातर्मनुष्याणामशनं देवनिर्मितम्। नान्तरा भोजनं दृष्टमुपवासविधिर्हि सः॥ होमकाले यथा वह्निः कालमेव प्रतीक्षते। ऋतुकाले तथा नारी ऋतुमेव प्रतीक्षते॥ नान्यदा गच्छते यस्तु ब्रह्मचर्ये च तत् स्मृतम्। अमृतं ब्राह्मणा गाव इत्येतत् त्रयमेकतः। तस्माद् गोब्राह्मणं नित्यमर्चयेत यथाविधि॥ स्वदेशे परदेशे वाप्यतिथिं नोपवासयेत्। कर्म वै सफलं कृत्वा गुरूणां प्रतिपादयेत्॥ गुरूभ्यस्त्वासनं देयमभिवाद्याभिपूज्य च। गुरुमभ्यर्च्य वर्धन्ते आयुषा यशसा श्रिया॥ वृद्धान् नाभिभवेज्जातु न चैतान् प्रेषयेदिति। नासीनः स्यात् स्थितेष्वेवमायुरस्य न रिष्यते॥ न नग्नामीक्षते नारी न नग्नान् पुरुषानपि। मैथुनं सततं गुप्तमाहारं च समाचरेत्॥ तीर्थानां गुरवस्तीर्थं चोक्षाणां हृदयं शुचि। दर्शनानां परं ज्ञानं संतोषः परमं सुखम्॥ सायं प्रातश्च वृद्धानां शृणुयात् पुष्कला गिरः। श्रुतमाप्नोति हि नरः सततं वृद्धसेवया॥ स्वाध्याय भोजने चैव दक्षिणं पाणिमुद्धरेत्। यच्छेद्वाङ्मनसी नित्यमिन्द्रियाणि तथैव च॥ संस्कृतं पायसं नित्यं यवागू कृसरं हविः। अष्टकाः पितृदैवत्या ग्रहाणामभिपूजनम्॥ श्मश्रूकर्मणि मङ्गल्यं क्षुतानामभिनन्दनम्। व्याधितानां च सर्वेषामायुषामभिनन्दनम्॥ न जातु त्वमिति ब्रूयादापन्नोऽपि महत्तरम्। त्वंकारो वा वधो वेति विद्वत्सु स विशिष्यते॥ अवराणां समानानां शिष्याणां च समाचरेत्। पापमाचक्षते नित्यं हृदयं पापकर्मिणः॥ ज्ञानपूर्वकृतं कर्म च्छादयन्ते ह्यसाधवः। ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने॥ न मां मनुष्याः पश्यन्ति न मां पश्यन्ति देवताः। पापेनाभिहितः पापः पापमेवाभिजायते॥ यथा वा षिको वृद्धिं दिनभेदे प्रतीक्षते। धर्मेण पिहितं पापं धर्ममेवाभिवर्धयेत्॥ यथा लवणमम्भोभिराप्लुतं प्रविलीयते। प्रायश्चित्तहतं पापं तथा सद्यः प्रणश्यति॥ तस्मात् पापं न गूहेत गूहमानं विवर्धयेत्। कृत्वा तत् साधुष्वाख्येयं ते तत् प्रशमयन्त्युत॥ आशया संचितं द्रव्यं कालेनैवोपभुज्यते। अन्ये चैतत् प्रपद्यन्ते वियोगे तस्य देहिनः॥ मानसं सर्वभूतानां धर्ममाहुर्मनीषिणः। तस्मात् सर्वाणि भूतानि धर्ममेव समासते॥ एक एव चरेद् धर्मे न धर्मध्वजिको भवेत्। धर्मवाणिजका ह्येते ये धर्ममुपभुञ्जते॥ अर्चेद् देवानदम्भेन सेवेतामायया गुरून्। निधिं निदध्यात् पारत्र्यं यात्रार्थे दानशब्दितम्॥ युधिष्ठिर उवाच नाभागधेयः प्राप्नोति धनं सुबलवानपि। भागधेयान्वितस्त्वर्थान् कृशो बालश्च विन्दति॥ नालाभकाले लभते प्रयत्नेऽपि कृते सति। लाभकालेऽप्रयत्नेन लभते विपुलं धनम्॥ कृतयत्नाफलाश्चैव दृश्यन्ते शतशो नराः। अयत्नेनैधमानाश्च दृश्यन्ते बहवो जनाः॥ यदि यत्नो भवेन्मर्त्यः स सर्वे फलमाप्नुयात्। नालभ्यं चोपलभ्येत नृणां भरतसत्तम॥ प्रयत्नं कृतवन्तोऽपि दृश्यन्ते ह्यफला नराः। मार्गत्यायशतैरथानमार्गश्चापरः सुखी॥ अकार्यमसकृत् कृत्वा दृश्यन्ते ह्यधना नराः। धनयुक्ताः स्वकर्मस्था दृश्यन्ते चापरेऽधनाः॥ अधीत्य नीतिशास्त्राणि नीतियुक्तो न दृश्यते। अनभिज्ञश्च साचिव्यं गमित: केन हेतुना॥ विद्यायुक्तो ह्यविद्यश्च धनवान् दुर्मतिस्तथा। यदि विद्यामुपाश्रित्य नरः सुखमवाप्नुयात्॥ न विद्वान् विद्यया हीनं वृत्त्यर्थमुपसंश्रयेत्। यथा पिपासां जयति पुरुषः प्राप्य वै जलम्॥ इष्टार्थो विद्यया ह्येव न विद्यां प्रजहेन्नरः। नाप्राप्तकालो म्रियते विद्धः शरशतैरपि। तृणाग्रेणापि संस्पृष्टः प्राप्ताकालो न जीवति॥ भीष्म उवाच ईहमानः समारम्भान् यदि नासादयेद् धनम्। उग्रं तपः समारोहेन ह्यनुप्तं प्ररोहति॥ दानेन भोगी भवति मेधावी वृद्धसेवया। अहिंसया च दीर्घायुरिति प्राहुर्मनीषिणः॥ तस्माद् दद्यान याचेत पूजयेद् धार्मिकानपि। सुभाषी प्रियकृच्छान्तः सर्वसत्त्वाविहिंसकः॥ यदा प्रमाणं प्रसवः स्वभावश्च सुखासुखे। दंशकीटपिपीलानां स्थिरो भव युधिष्ठिर॥ भीष्म उवाच कार्यते यच्च क्रियते सच्चासच्च कृताकृतम्। तत्राश्वसीत सत्कृत्वा असत्कृत्वा न विश्वसेत्॥ काल एव सर्वकाले निग्रहानुग्रहौ ददत्। बुद्धिमाविश्य भूतानां धर्माधर्मो प्रवर्तते॥ यदा त्वस्य भवेद् बुद्धिर्धर्मार्थस्य प्रदर्शनात्। तदाश्वसीत धर्मात्मा दृढबुद्धिर्न विश्वसेत्॥ एतावन्मात्रमेतद्धि भूतानां प्राज्ञलक्षणम्। कालयुक्तोऽप्युभयविच्छेषं युक्तं समाचरेत्॥ यथा झुपस्थितैश्वर्याः प्रजायन्ते न राजसाः। एवमेवात्मनाऽऽत्मानं पूजयन्तीह धार्मिकाः॥ न ह्यधर्मतयाधर्मे दद्यात् काल: कथंचन। तस्माद् विशुद्धमात्मानं जानीयाद् धर्मचारिणम्॥ स्प्रष्टुमप्यसमर्थो हि ज्वलन्तमिव पावकम्। अधर्म: संततो धर्मे कालेन परिरक्षितम्॥ कार्यावेतौ हि धर्मेण धर्मो हि विजयावहः। त्रयाणामपि लोकानामालोकः कारणं भवेत्॥ न तु कश्चिन्नयेत् प्राज्ञो गृहीत्वैव करे नरम्। उच्यमानस्तु धर्मेण धर्मलोकभयच्छले॥ शूद्रोऽहं नाधिकारो मे चातुराश्रम्यसेवने। इति विज्ञानमपरे नात्मन्युपदधत्युत॥ विशेषेण च वक्ष्यामि चातुर्वर्ण्यस्य लिङ्गत्तः। पञ्चभूतशरीराणां सर्वेषां सदृशात्मनाम्॥ लोकधर्मे च धर्मे च विशेषकरणं कृतम्। यथैकत्वं पुनर्यान्ति प्राणिनस्तत्र विस्तरः॥ अध्रुवो हि कथं लोकः स्मृतो धर्मः कथं ध्रुवः। यत्र कालो ध्रुवस्तात तत्र धर्मः सनातनः॥ सर्वेषां तुल्यदेहानां सर्वेषां सदृशात्मनाम्। कालो धर्मेण संयुक्तः शेष एव स्वयं गुरुः॥ एवं सति न दोघोऽस्ति भूतानां धर्मसेवने। तिर्यग्योनावपि सतां लोक एव मतो गुरुः॥ वैशम्पायन उवाच शरतल्पगतं भीष्मं पाण्डवोऽथ कुरूद्वहः। युधिष्ठिरो हितं प्रेप्सुरपृच्छत् कल्मषापहम्॥ युधिष्ठिर उवाच किं श्रेयः पुरुषस्येह किं कुर्वन् सुखमेधते। विपाप्मा स भवेत् केन किं वा कल्मषनाशनम्॥ वैशम्पायन उवाच तस्मै शुश्रूषमाणाय भूयः शान्तनवस्तदा। दैवं वंशं यथान्यायमाचष्ट पुरुषर्षभ॥ भीष्म उवाच अयं दैवतवंशो वै ऋषिवंशसमन्वितः। त्रिसंध्यं पठितः पुत्र कल्मषापहरः परः॥ यदह्ना कुरुते पापमिन्द्रियैः पुरुषश्चरन्। बुद्धिपूर्वमबुद्धिर्वा रात्रौ यच्चापि संध्ययोः॥ मुच्यते सर्वपापेभ्यः कीर्तयन् वै शुचिः सदा। नान्धो न बधिरः काले कुरुते स्वस्तिमान् सदा॥ तिर्यग्योनि न गच्छेच्च नरकं संकराणि च। न च दुःखभयं तस्य मरणे स न मुह्यति॥ देवासुरगुरुर्देवः सर्वभूतनमस्कृतः। अचिन्त्योऽथाप्यनिर्देश्यः सर्वप्राणो ह्ययोनिजः॥ पितामहो जगन्नाथः सावित्री ब्रह्मणः सती। वेदभूरथ कर्ता च विष्णुर्नारायणः प्रभुः॥ उमापतिर्विरूपाक्षः स्कन्दः सेनापतिस्तथा। विशाखो हुतभुग् वायुश्चन्द्रसूर्यो प्रभाकरौ॥ शक्रः शचीपतिर्देवो यमो धूमोर्णया सह। वरुणः सह गौर्या च सह ऋद्ध्या धनेश्वरः॥ सौम्या गौः सुरभिर्देवी विश्रवाश्च महानृषिः। संकल्पः सागरो गङ्गा स्रवन्त्योऽथ मरुद्गणः॥ वालखिल्यास्तपः सिद्धाः कृष्णद्वैपायनस्तथा। नारदः पर्वतश्चैव विश्वावसुर्हहाहुहूः॥ तुम्बुरुश्चित्रसेनश्च देवदूतश्च विश्रुतः। देवकन्या महाभागा दिव्याश्चाप्सरसां गणाः॥ उर्वशी मेनका रम्भा मिश्रकेशी ह्यलम्बुषा। विश्वाची च घृताची च पञ्चचूडा तिलोत्तमा॥ आदित्या वसवो रुद्राः साश्विनः पितरोऽपि च। धर्मः श्रुतं तपो दीक्षा व्यवसाय: पितामहः॥ शर्वर्यो दिवसाश्चैव मारीचः कश्यपस्तथा। शुक्रो बृहस्पति मो बुधो राहुः शनैश्चरः॥ नक्षत्राण्यतवश्चैव मासाः पक्षाः सवत्सराः। वैनतेयाः समुद्राश्च कद्रुजाः पन्नगास्तथा॥ शतद्रुक्ष विपाशा च चन्द्रभागा सरस्वती। सिंधुश्च देविका चैव प्रभासं पुष्कराणि च॥ गङ्गा महानदी वेणा कावेरी नर्मदा तथा। कुलप्पुना विशल्या च करतोयाम्बुवाहिनी॥ सरयूर्गण्डकी चैव लोहितश्च महानदः। ताम्रारुणा वेत्रवती पर्णाशा गौतमी तथा॥ गोदावरी च वेण्या च कृष्णवेणा तथाद्रिजा। दृषद्वती च कावेरी चक्षुर्मन्दाकिनी तथा॥ प्रयागं च प्रभासं च पुण्यं नैमिषमेव च। तच्च विश्वेश्वरस्थानं यत्र तद्विमलं सरः॥ पुण्यतीर्थं सुसलिलं कुरुक्षेत्रं प्रकीर्तितम्। सिंधूत्तमं तपोदानं जम्बूमार्गमथापि च॥ हिरण्वती वितस्ता च तथा प्लक्षवती नदी। वेदस्मृतिर्वेदवती मालवाथाश्ववत्यपि॥ भूमिभागास्तथा पुण्या गङ्गाद्वारमथापि च। ऋषिकुल्यास्तथा मेध्या नद्य: सिंधुवहास्तथा॥ चर्मण्वती नदी पुण्या कौशिकी यमुना तथा। नदी भीमरथी चैव बाहुदा च महानदी॥ माहेन्द्रवाणी त्रिदिवा नीलिका च सरस्वती। नन्दा चापरनन्दा च तथा तीर्थमहाह्रदः॥ गयाथ फल्गुतीर्थ च धर्मारण्यं सुरैर्वृतम्। तथा देवनदी पुण्या सरश्च ब्रह्मनिर्मितम्॥ पुण्यं त्रिलोकविख्यातं सर्वपापहरं शिवम्। हिमवान् पर्वतश्चैव दिव्यौषधिसमन्वितः॥ विध्यो धातुविचित्राङ्गस्तीर्थवानौषधान्वितः। मेरुर्महेन्द्रो मलयः श्वेतश्च रजतावृतः॥ शृङ्गवान् मन्दरो नीलो निषधो दर्दुरस्तथा। चित्रकूटोऽजनाभश्च पर्वतो गन्धमादनः॥ पुण्यः सोमगिरिश्चैव तथैवान्ये महीधराः। दिशश्च विदिशश्चैव क्षितिः सर्वे महीरुहाः॥ विश्वेदेवा नभश्चैव नक्षत्राणि ग्रहास्तथा। पान्तु नः सततं देवा: कीर्तिताऽकीर्तिता मया॥ कीर्तयानो नरो ह्येतान् मुच्यते सर्वकिल्विषैः। स्तुवंश्च प्रतिनन्दंश्च मुच्यते सर्वतो भयात्॥ सर्वसंकरपापेभ्यो देवतास्तवनन्दकः। देवतानन्तरं विप्रांस्तपः सिद्धास्तपोऽधिकान्॥ कीर्तितान् कीर्तयिष्यामि सर्वपापप्रमोचनान्। यवक्रीतोऽथ रैभ्यश्च कक्षीवानौशिजस्तथा॥ भृग्वङ्गिरास्तथा कण्वो मेधातिथिरथ प्रभुः। बी च गुणसम्पन्न: प्राची दिशमुपाश्रिताः॥ भद्रां दिशं महाभागा उल्मुचुः प्रमुचुस्तथा। मुमुचुश्च महाभागः स्वस्त्यात्रेयश्च वीर्यवान्॥ मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान्। दृढायुश्चोर्ध्वबाहुश्च विश्रुतावृषिसत्तमौ॥ पश्चिमां दिशमाश्रित्य य एधन्ते निबोध तान्। उषङ्गुः सह सोदर्यैः परिव्याधश्च वीर्यवान्॥ ऋर्षिर्दीर्घतमाश्चैव गौतमः काश्यपस्तथा। एकतश्च द्वितश्चैव त्रितश्चैव महानृषिः॥ अत्रेः पुत्रश्च धर्मात्मा तथा सारस्वतः प्रभुः। उत्तरां दिशमाश्रित्य य एधन्ते निबोध तान्॥ अत्रिर्वसिष्ठः शक्तिश्च पाराशर्यश्च वीर्यवान्। विश्वामित्रो भरद्वाजो जमदग्निस्तथैव च।॥ ऋचीकपुत्रो रामश्च ऋषिरौद्दालकिस्तथा। श्वेतकेतुः कोहलश्च विपुलो देवलस्तथा॥ देवशर्मा च धौम्यश्च हस्तिकाश्यप एव च। लोमशो नाचिकेतश्च लोकहर्षण एव च॥ ऋषिरुग्रश्चवाश्चैव भार्गवश्च्यवनस्तथा। एष वै समवायश्च ऋषिदेवसमन्वितः॥ आद्यः प्रकीर्तितो राजन् सर्वपापप्रमोचनः। नृगो ययातिर्नहुषो यदुः पूरुश्च वीर्यवान्।॥ धुन्धुमारो दिलीपश्च सगरश्च प्रतापवान्। कृशाश्वो यौवनाश्वश्च चित्राश्वः सत्यवांस्तथा॥ दुष्यन्तो भरतश्चैव चक्रवर्ती महायशाः। पवनो जनकश्चैव तथा दृष्टरथो नृपः॥ रधुर्नरवरश्चैव तथा दशरथो नृपः। रामो राक्षसहा वीरः शशबिन्दुर्भगीरथः॥ हरिश्चन्द्रो मरुत्तश्च तथा दृढरथो नृपः। महोदर्यो डलर्कश्च ऐलश्चैव नराधिपः॥ करन्धमो नरश्रेष्ठः कध्मोरश्च नराधिपः। दक्षोऽम्बरीषः कुकुरो रैवतश्च महायशाः॥ कुरुः संवरणश्चैव मान्धाता सत्यविक्रमः। मुचुकुन्दश्च राजर्षिर्जगुर्जाह्नविसेवितः॥ आदिराजः पृथुर्वैन्यो मित्रभानुः प्रियङ्करः। त्रसदस्युस्तथा राजा श्वेतो राजर्षिसत्तमः॥ महाभिषश्च विख्यातो निमिराजा तथाष्टकः। आयुः क्षुपश्च राजर्षिः कक्षेयुश्च नराधिपः॥ प्रतर्दनो दिवोदासः सुदासः कोसलेश्वरः। ऐलो नलश्च राजर्षिर्मनुश्चैव प्रजापतिः॥ हविध्रश्च पृषध्रश्च प्रतीपः शान्तनुस्तथा। अजः प्राचीनबर्हिश्च तथेक्ष्वाकुर्महायशाः॥ अनरण्यो नरपतिर्जानुजंघस्तथैव च। कक्षसेनश्च राजर्षिर्ये चान्ये चानुकीर्तिताः॥ तल्यमुत्थाय यो नित्यं संध्ये द्वेस्तमयोदये। पठेच्छुचिरनावृत्तः स धर्मफलभाग् भवेत्॥ देवा देवर्षयश्चैव स्तुता राजर्षयस्तथा। पुष्टिमायुर्यशः स्वर्गे विधास्यन्ति ममेश्वराः॥ मा विनं मा च मे पापं मा च मे परिपन्थिनः। ध्रुवो जयो मे नित्यः स्यात् परत्र च शुभा गतिः।।६२। मा विनं मा च मे पापं मा च मे परिपन्थिनः। ध्रुवो जयो मे नित्यः स्यात् परत्र च शुभा गतिः।।६२। वैशम्पायन उवाच एवमुक्त्वा कुरुन् सर्वान् भीष्मः शान्तनवस्तदा। तूष्णीं बभूव कौरव्यः स मुहूर्तमरिंदम॥ धारयामास चात्मानं धरणासु यथाक्रमम्। तस्योर्ध्वमगमन् प्राणाः संनिरुद्धा महात्मनः॥ इदमाश्चर्यमासीच्च मध्ये तेषां महात्मनाम्। सहितैर्ऋषिभिः सर्वैस्तदा व्यासादिभिः प्रभो॥ यद्ययन्मुञ्चति गात्रं हि स शान्तनुसुतस्तदा। तत् तद् विशल्यं भवति योगयुक्तस्य तस्य वै॥ क्षणेन प्रेक्षतां तेषां विशल्यः सोऽभवत् तदा। तद् दृष्ट्वा विस्मिताः सर्वे वासुदेवपुरोगमाः॥ सह तैर्मुनिभिः सर्वैस्तदा व्यासादिभिर्नृप। संनिरुद्धस्तु तेनात्मा सर्वेष्वायतनेषु च॥ जगाम भित्त्वा मूर्धानं दिवमभ्युत्पपात ह। देवदुन्दुभिनादश्च पुष्पवर्षेः सहाभवत्॥ सिद्धा ब्रह्मर्षयश्चैव साधु साध्विति हर्षिताः। महोल्केव च भीष्मस्य मूर्धदेशाज्जनाधिप।॥ निःसृत्याकाशमाविश्य क्षणेनान्तरधीयता एवं स राजशार्दूल नृपः शान्तनवस्तदा॥ समयुज्यत कालेन भरतानां कुलोद्वहः। ततस्त्वादाय दारुणि गन्यांश्च विविधान् बहून्॥ चितां चक्रुर्महात्मान पाण्डवा विदुरस्तथा। युयुत्सुश्चपि कौरव्य प्रेक्षकास्त्वितरेऽभवन्॥ युधिष्ठिरच गाङ्गेयं विदुरश्च महामतिः। छादयामासतुरुभौ क्षौमैर्माल्यैश्च कौरवम्॥ धारयामास तस्याथ युयुत्सुच्छत्रमुत्तमम्। चामरव्यजने शुभ्रे भीमसेनार्जुनावुभौ॥ उष्णीषे परिगृहीतां माद्रीपुत्रावुभौ तथा। स्त्रियः कौरवनाथस्य भीष्मं कुरुकुलोद्वहम्॥ तालवृन्तान्युपादाय पर्यवीजन्त सर्वशः। ततोऽस्य विधिवच्चक्रुः पितृमेधं महात्मनः॥ यजनं बहुशश्चाग्नौ जगुः सामानि सामगाः। ततश्चन्दनकाष्ठैश्च तथा कालीयकैरपि।॥ कालागुरुप्रभृतिभिर्गन्धैश्चोच्वाचैस्तथा। समवच्छाद्य गाङ्गेयं सम्प्रज्वाल्य हुताशनम्॥ अपसव्यमकुर्वन्त धृतराष्ट्रमुखाश्चिताम्। संस्कृत्य च कुरुश्रेष्ठं गाङ्गेयं कुरुसत्तमाः॥ जग्मुर्भागीरथीं पुण्यामृषिजुष्टां कुरूद्वहाः। अनुगम्यमाना व्यासेन नारदेनासितेन च॥ कृष्णेन भरतस्त्रीभिर्ये च पौरा: सभागताः। उदकं चक्रिरे चैव गाङ्गेयस्य महात्मनः॥ विधिवत् क्षत्रियश्रेष्ठाः स च सर्वो जनस्तदा। ततो भगीरथी देवी तनयस्योदके कृते॥ उत्थाय सलिलात् तस्माद् रूदती शोकविहला। परिदेवयती नत्र कौरवानभ्यभाषत॥ निबोधत यथावृत्तमुच्यमानं मयाऽनघाः। राजवृत्तेन सम्पन्नः प्रज्ञयाऽभिजनेन च॥ सत्कर्ता कुरुवृद्धानां पितृभक्तो महाव्रतः। जामदग्न्येन रामेण यः पुरा न पराजितः॥ दिव्यैरस्त्रैर्महावीर्यः स हतोऽद्य शिखण्डिना। अश्मसारमयं नूनं हृदयं मम पार्थिवाः॥ अपश्यन्त्याः प्रियं पुत्रं यन्न दीर्यति मेऽद्य वै। समेतं पार्थिवं क्षत्रं काशिपुर्या स्वयंवरे॥ विजित्यैकरथेनैव कन्याश्चायं जहार ह। यस्य नास्ति बले तुल्यः पृथिव्यामपि कश्चन॥ हतं शिखण्डिना श्रुत्वा न विदीर्येत यन्मनः। जामदग्न्यः कुरुक्षेत्रे युधि येन महात्मना॥ पीडितो नातियत्नेन स हतोऽद्य शिखण्डिना। एवंविधं बहु तदा विलपन्तीं महानदीम्॥ आश्वासयामास तदा गङ्गां दामोदरो विभुः। समाश्वसिहि भद्रे त्वं मा शुचः शुभदर्शने।॥ गतः स परमं लोकं तव पुत्रो न संशयः। वसुरेष महातेजाः शापदोषेण शोभने॥ मानुषत्वमनुप्राप्तो नैनं शोचितुमर्हसि। स एष क्षत्रधर्मेण अयुध्यत रणाजिरे॥ धनञ्जयेन निहतो नैष देवि शिखण्डिना। भीष्मं हि कुरुशार्दूलमुद्यतेषु महारणे॥ न शक्त: संयुगे हन्तुं साक्षादपि शतक्रतुः। स्वच्छन्दतस्तव सुतो गतः स्वर्गं शुभानने॥ न शक्ता विनिहन्तुं हि रणे तं सर्वदेवताः। तस्मान्मा त्यं सरिच्छ्रेष्ठे शोचस्व कुरुनन्दनम्। वसूनेष गतो देवि पुत्रस्ते विज्वरा भव॥ वैशम्पायन उवाच इत्युक्ता सा तु कृष्णेन व्यासेन तु सरिद्वरा। त्यक्त्वा शोकं महाराज स्वं वार्यवततार हा॥ सत्कृत्य ते तां सरितं ततः कृष्णमुखा नृप। अनुज्ञातास्तया सर्वे न्यवर्तन्त जनाधिपाः॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवी सरस्वतीं चैव ततो जयमुदीरयेत्॥ वैशम्पायन उवाच कृतोदकं तु राजानं धृतराष्ट्र युधिष्ठिरः। पुरस्कृत्य महाबाहुरुत्तताराकुलेन्द्रियः॥ उत्तीर्य तु महाबाहुर्बाष्पव्याकुललोचनः। पपात तीरे गङ्गाया व्याधविद्ध इव द्विपः॥ तं सीदमानं जग्राह भीमः कृष्णेन चोदितः। मैवमित्यब्रवीच्चैनं कृष्णः परबलार्दनः॥ तमार्तं पतितं भूमौ श्वसन्तं च पुनः पुनः। ददृशुः पार्थिवा राजन् धर्मपुत्रं युधिष्ठिरम्॥ तं दृष्ट्वा दीनमनसं गतसत्त्वं नरेश्वरम्। भूयः शोकसमाविष्टाः पाण्डवाः समुपाविशन्॥ राजा तु धृतराष्ट्रश्च पुत्रशोकाभिपीडितः। वाक्यमाह महाबुद्धिः प्रज्ञाचक्षुर्नरेश्वरम्॥ उत्तिष्ठ कुरुशार्दूल कुरु कार्यमनन्तरम्। क्षत्रधर्मेण कौन्तेय जितेयमवनी त्वया॥ भुक्ष्व भोगान् भ्रातृभिश्च सुहृद्धिश्च मनोऽनुगान्। शोचितव्यं न पश्यामि त्वया धर्मभृतां वर॥ शोचितव्यं मया चैव गान्धार्या च महीपते। ययोः पुत्रशतं नष्टं स्वप्नलब्धं यथा धनम्॥ अश्रुत्वा हितकामस्य विदुरस्य महात्मनः। वाक्यानि सुमहार्थानि परितप्यामि दुर्मतिः॥ उक्तवान् विदुरो यन्मां धर्मात्मा दिव्यदर्शनः। दुर्योधनापराधेन कुलं ते विनशिष्यति॥ स्वस्ति चेदिच्छसे राजन् कुलस्य कुरु मे वचः। वध्यतामेष दुष्टात्मा मन्दो राजा सुयोधनः॥ कर्णश्च शकुनिश्चैव नैनं पश्यतु कर्हिचित्। द्यूतसंघातमप्येषामप्रमादेन वारय॥ अभिषेचय राजानं धर्मात्मानं युधिष्ठिरम्। स पालयिष्यति वशी धर्मेण पृथिवीमिमाम्॥ अथ नेच्छसि राजानं कुन्तीपुत्रं युधिष्ठिरम्। मेढीभूतः स्वयं राज्यं प्रतिगृह्णीष्व पार्थिव॥ समं सर्वेषु भूतेषु वर्तमानं नराधिप। अनुजीवन्तु सर्वे त्वां ज्ञातयो भ्रातृभिः सह।॥ एवं ब्रुवति कौन्तेय विदुरे दीर्घदर्शिनि। दुर्योधनमहं पापमन्ववर्त वृथामतिः॥ अश्रुत्वा तस्य धीरस्य वाक्यानि मधुराण्यहम्। फलं प्राप्य महद् दुःखं निमग्नः शोकसागरे॥ वृद्धौ हि तेऽद्य पितरौ पश्य नौ दुःखितौ नृप। न शोचितव्यं भवता पश्यामीह जनाधिप।॥ वैशम्पायन उवाच एवमुक्तस्तु राज्ञा स धृतराष्ट्रेण धीमता। तूष्णीं बभूव मेधावी तमुवाचाथ केशवः॥ अतीव मनसा शोकः क्रियमाणो जनाधिप। संतापयति चैतस्य पूर्वप्रेतान् पितामहान्॥ यजस्व विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः। देवांस्तर्पय सोमेन स्वधया च पितॄनपि॥ अतिथीनन्नपानेन कामैरन्यैरकिंचनान्। विदितं वेदितव्यं ते कर्तव्यमपि ते कृतम्॥ श्रुताश्च राजधर्मास्ते भीष्माद् भागीरथीसुतात्। कृष्णद्वैपायनाच्चैव नारदाद् विदुरात्तथा॥ नेमामर्हसि मूढानां वृत्तिं त्वमनुवर्तितुम्। पितृपैतामहं वृत्तिमास्थाय धुरमुद्वह॥ युक्तं हि यशसा क्षात्रं स्वर्ग प्राप्तुमसंशयम्। न हि कश्चिद्धि शूराणां निहतोऽत्र पराङ्मुखः॥ त्यज शोक महाराज भवितव्यं हि तत्तथा। न शक्यास्ते पुनर्द्रष्टुं त्वया येऽस्मिन् रणे हताः।८। एतावदुक्त्वा गोविन्दो धर्मराज युधिष्ठिरम्। विरराम महातेजास्तमुवाच युधिष्ठिरः॥ युधिष्ठिर उवाच गोविन्द मयि या प्रीतिस्तव सा विदिता मम सौहृदेन तथा प्रेम्णा सदा मय्यनुकम्पसे॥ प्रियं त मे तु मे स्यात् सुमहत्कृतं चक्रगदाधर। श्रीमन् प्रीतेन मनसा सर्वे यादवनन्दन॥ यदि मामनुजानीयाद् भवान् गन्तुं तपोवनम्। न हि शान्तिं प्रपश्यामि पातयित्वा पितामहम्॥ कर्णं च पुरुषव्याघ्र संग्रामेष्वपलायिनम्। कर्मणा येन मुच्येयमस्मात् क्रूरादरिंदम॥ कर्मणा तद् विधत्स्वेह येन शुध्यति मे मनः। तमेवं वादिनं पार्थं व्यासः प्रोवाच धर्मवित्॥ सान्त्वयन् सुमहातेजाः शुभं वचनमर्थवत्। अकृता ते मतिस्तात पुनर्बाल्येन मुह्यसे॥ किमाकारा वयं तात प्रलपामो मुहुर्मुहुः। विदिताः क्षत्रधर्मास्ते येषां युद्धेन जीविका॥ तथा प्रवृत्तो नृपतिर्नाधिबधेन युज्यसे। मोक्षधर्माश्च निखिला याथातथ्येन ते श्रुताः॥ असकृच्चापि संदेहाश्छिन्नास्ते कामजा मया। वैशम्पायन उवाच अश्रद्दधानो दुर्मेधा लुप्तस्मृतिरसि ध्रुवम्॥ मैवं भव न ते युक्तमिदमज्ञानमीदृशम्। प्रायश्चित्तानि सर्वाणि विदितानि च तेऽनघ। राजधर्माश्च ते सर्वे दानधर्माश्च ते श्रुताः॥ स कथं सर्वधर्मज्ञः सर्वागमविशारदः। परिमुह्यसि भूयस्त्वमज्ञानादिव भारत॥ व्यास उवाच युधिष्ठिर तव प्रज्ञा न सम्यगिति मे मतिः। न हि कश्चित्स्वयं मर्त्यः स्ववशः कुरुते क्रियाम्॥ ईश्वरेण च युक्तोऽयं साध्वसाधु च मानवः। करोति पुरुषः कर्म तत्र का परिदेवना॥ आत्मानं मन्यसे चाथ पापकर्माणमन्ततः। शृणु तत्र यथापापमपकृष्येत भारत॥ तपोभिः क्रतुभिश्चैव दानेन च युधिष्ठिर। तरन्ति नित्यं पुरुषा ये स्म पापानि कुर्वते॥ यज्ञेन तपसा चैव दानेन च नराधिप। पूयन्ते नरशार्दूल नरा दुष्कृतकारिणः॥ असुराश्च सुराश्चैव पुण्यहेतोर्मखक्रियाम्। प्रयतन्ते महात्मानस्तस्माद् यज्ञाः परायणम्॥ यज्ञैरेव महात्मानो बभूवुरधिकाः सुराः। ततो देवाः क्रियावन्तो दानवनभ्यधर्षयन्॥ राजसूयाश्वमेधौ च सर्वमेधं च भारत। नरमेधं च नृपते त्वमाहर युधिष्ठिर॥ यजस्व वाजिमेधेन विधिवद् दक्षिणावता। बहुकामान्नवित्तेन रामो दाशरथिर्यथा॥ यथा च भरतो राजा दौष्यन्तिः पृथिवीपतिः। शाकुन्तलो महावीर्यस्तव पूर्वपितामहः॥ युधिष्ठिर उवाच असंशयं वाजिमेधः पावयेत् पृथिवीमपि। अभिप्रायस्तु मे कश्चित् तं त्वं श्रोतुमिहार्हसि॥ इमं ज्ञातिवधं कृत्वा सुमहान्तं द्विजोत्तम। दानमल्पं न शक्नोमि दातुं वित्तं च नास्ति मे॥ न तु बालानिमान् दीनानुत्सहे वसु याचितुम्। तथैवाईव्रणान् कृच्छ्रे वर्तमानान् नृपात्मजान्॥ स्वयं विनाश्य पृथिवीं यज्ञार्थं द्विजसत्तम। करमाहारयिष्यामि कथं शोकपरायणः॥ अत्र मे दुर्योधनापराधेन वसुधा वसुधाधिपाः। प्रनष्टा योजयित्वास्मानकी, मुनिसत्तम॥ दुर्योधनेन पृथिवी क्षयिता वित्तकारणात्। कोशश्चापि विशीर्णोऽसौ धार्तराष्ट्रस्य दुर्मतेः॥ पृथिवी दक्षिणा चात्र विधिः प्रथमकल्पितः। विद्वद्भिः परिदृष्टोऽयं शिष्टो विधिविपर्ययः॥ न च प्रतिनिधि कर्तुं चिकीर्षामि तपोधन। भगवन् सम्यक् साचिव्यं कर्तुमर्हसि॥ एवमुक्तस्तु पार्थेन कृष्णद्वैपायनस्तदा। मुहूर्तमनुसंचिन्त्य धर्मराजानमब्रवीत्॥ कोशश्चापि विशीर्णोऽयं परिपूर्णो भविष्यति। विद्यते द्रविणं पार्थ गिरौ हिमवति स्थितम्॥ उत्सृष्टं ब्राह्मणैर्यज्ञे मरुत्तस्य महात्मनः। तदानयस्व कौन्तेय पर्याप्तं तद् भविष्यति॥ युधिष्ठिर उवाच कथं यज्ञे मरुत्तस्य द्रविणं तत् समाचितम्। कस्मिंश्च काले स नृपो बभूव वदतां वर॥ व्यास उवाच यदि शुश्रूषसे पार्थ शृणु कारन्धमं नृपम्। यस्मिन् काले महावीर्यः स राजासीन्महाधनः॥ युधिष्ठिर उवाच शुश्रूषे तस्य धर्मज्ञ राजर्षेः परिकीर्तनम्। द्वैपायन मरुत्तस्य कथां प्रबूहि मेऽनघ॥ व्यास उवाच आसीत् कृतयुगे तात मनुर्दण्डधरः प्रभुः। तस्य पुत्रो महाबाहुः प्रसन्धिरिति विश्रुतः॥ प्रसन्धेरभवत् पुत्रः क्षुप इत्यभिविश्रुतः। क्षुपस्य पुत्र इक्ष्वाकुर्महीपालोऽभवत् प्रभुः।॥ तस्य पुत्रशतं राजन्नासीत् परधार्मिकम्। तांस्तु सर्वान् महीपालानिक्ष्वाकुरकरोत् प्रभुः॥ तेषां ज्येष्ठस्तु विंशोऽभूत् प्रतिमानं धनुष्मताम्। विंशस्य पुत्रः कल्याणो विविंशो नाम भारत॥ विविंशस्य सुता राजन् बभूवुर्दश पञ्च च। सर्वे धनुषि विक्रान्ता ब्रह्मण्याः सत्यवादिनः॥ दानधर्मरताः शान्ताः सततं प्रियवादिनः। तेषां ज्येष्ठः खनीनेत्रः स तान् सर्वानपीडयत्॥ खनीनेत्रस्तु विक्रान्तो जित्वा राज्यमकण्टकम्। नाशकद् रक्षितुं राज्यं नान्वरज्यन्त तं प्रजाः॥ तमपास्य च तद्राज्ये तस्य पुत्रं सुवर्चसम्। अभ्यषिञ्चन्त राजेन्द्र मुदिता ह्यभवंस्तदा॥ स पितुर्विक्रियां दृष्ट्वा राज्यान्निरसनं च तत्। नियतो वर्तयामास प्रजाहितचिकीर्षया।॥ ब्रह्मण्यः सत्यवादी च शुचिः शमदमान्वितः। प्रजास्तं चान्वरज्यन्त धर्मनित्यं मनस्विनम्॥ तस्य धर्मप्रवृत्तस्य व्यशीर्यत् कोशवाहनम्। तं क्षीणकोशं सामन्ताः समन्तात् पर्यपीडयन्॥ स पीड्यमानो बहुभिः क्षीणकोशाश्ववाहनः। आर्तिमाळुत् परां राजा सह भृत्यैः पुरेण च॥ न चैनमभिहन्तुं ते शक्नुवन्ति बलक्षये। सम्यग्वृत्तो हि राजा स धर्मनित्यो युधिष्ठिर॥ यदा तु परमामातिं गतोऽसौ सपुरो नृपः। ततः प्रदध्मौ स करं प्रादुरासीत् ततो बलम्॥ ततस्तानजयत् सर्वान् प्रातिसीमान् नराधिपान्। एतस्मात् कारणाद् राजन् विश्रुतः स करन्धमः॥ तस्य कारन्धमः पुत्रस्त्रेतायुगमुखेऽभवत्। इन्द्रादनवरः श्रीमान् देवैरपि सुदुर्जयः॥ तस्य सर्वे महीपाला वर्तन्ते स्म वशे तदा। स हि सम्राडभूत् तेषां वृत्तेन च बलेन च॥ अविक्षिन्नाम धर्मात्मा शौर्येणेन्द्रसमोऽभवत्। यज्ञशीलो धर्मरतिकृतिमान् संयतेन्द्रियः॥ तेजसाऽऽदित्यसदृशः क्षमया पृथिवीसमः। बृहस्पतिसमो बुद्ध्या हिमवानिव सुस्थिरः॥ कर्मणा मनसा वाचा दमेन प्रशमेन च। मनांस्याराधयामास प्रजानां स महीपतिः॥ य ईजे हयमेधानां शतेन विधिवत् प्रभुः। याजयामास सं विद्वान् स्वयमेवाङ्गिराः प्रभुः॥ तस्य पुत्रोऽतिचक्राम पितरं गुणवत्तया। मरुत्तो नाम धर्मज्ञश्चक्रवर्ती महायशाः॥ नागायुतसमप्राणः साक्षाद् विष्णुरिवापरः। स यक्ष्यमाणो धर्मात्मा शातकुम्भमयान्युत॥ कारयामास शुभ्राणि भाजनानि सहस्रशः। मेरू पर्वतमासाद्य हिमवत्पार्श्व उत्तरे॥ काञ्चनः सुमहान् पादस्तत्र कर्म चकार सः। ततः कुण्डानि पात्रीश्च पिठराण्यासनानि च।॥ चक्रुः सुवर्णकर्तारो येषां संख्या न विद्यते। तस्यैव च समीपे तु यज्ञवाटो बभूव ह॥ ईजे तत्र स धर्मात्मा विधिवत् पृथिवीपतिः। मरुत्तः सहितैः सर्वैः प्रजापालैनराधिपः॥ कथंवीर्यः समभवत् स राजा वदतां वर। कथं च जातरूपेण समयुज्यत स द्विज॥ क्व च तत् साम्प्रतं द्रव्यं भगवन्नवतिष्ठते। कथं च शक्यमस्माभिस्तदवाप्तुं तपोधन॥ व्यास उवाच असुराश्चैव देवाश्च दक्षस्यासन् प्रजापतेः। अपत्यं बहुलं तात संस्पर्धन्त परस्परम्॥ तथैवाङ्गिरस: पुत्रौ व्रततुल्यौ बभूवतुः। बृहस्पतिर्ब्रहत्तेजाः संवर्तश्च तपोधनः॥ तावतिस्पर्धिनौ राजन् पृथगास्तां परस्परम्। बृहस्पतिः स संवर्तं बाधते स्म पुनः पुनः॥ स बाध्यमान् सततं भ्रात्रा ज्येष्ठेन भारत। अर्थानुत्सृज्य दिग्वासा वनवासमरोचयत्॥ वासवोऽप्यसुरान् सर्वान् विजित्य च निपात्य च। इन्द्रत्वं प्राप्य लोकेषु ततो वव्रे पुरोहितम्॥ पुत्रमङ्गिरसो ज्येष्ठं विप्रज्येष्ठं बृहस्पतिम्। याज्यस्त्वङ्गिरसः पूर्वमासीद् राजा करंधमः॥ वीर्येणाप्रतिमो लोके वृत्तेन च बलेन च। शतक्रतुरिवौजस्वी धर्मात्मा संशितव्रतः॥ वाहनं यस्य योधाश्च मित्राणि विविधानि च। शयनानि च मुख्यानि महार्हाणि च सर्वशः॥ ध्यानादेवाभवद् राजन् मुखवातेन सर्वशः। स गुणैः पार्थिवान् सर्वान् वशे चक्रे नराधिपः॥ संजीव्य कालमिष्टं च सशरीरो दिवं गतः। बभूव तस्य पुत्रस्तु ययातिरिव धर्मवित्॥ अविक्षिन्नाम शत्रुजित् स वशे कृतवान् महीम्। विक्रमेण गुणैश्चैव पितेवासीत् स पार्थिवः॥ तस्य वासवतुल्योऽभून्मरुत्तो नाम वीर्यवान्। पुत्रस्तमनुरक्ताभूत् पृथिवी सागरम्बरा॥ स्पर्धते स स्म सततं देवराजेन नित्यदा। वासवोऽपि मरुत्तेन स्पर्धते पाण्डुनन्दन॥ शुचिः स गुणवानासीन्मरुत्तः पृथिवीपतिः। यतमानोऽपि यं शक्रो न विशेषयति स्म ह॥ सोऽशक्नुवन् विशेषाय समाहूय बृहस्पतिम्। उवाचेदं वचो देवैः सहितो हरिवाहनः॥ बृहस्पते मरुत्तस्य मा स्म कार्षीः कथंचन। दैवं कर्माथ पित्र्यं वा कर्तासि मम चेत् प्रियम्॥ अहं हि त्रिषु लोकेषु सुराणां च बृहस्पते। इन्द्रत्वं प्राप्तवानेको मरुत्तस्तु महीपतिः॥ कथं ह्यमयं ब्रह्मंस्त्वं याजयित्वा सुराधिपम्। याजयेर्मृत्युसंयुक्तं मरुत्तमविशङ्कया॥ मां वा वृणीष्व भद्रं ते मरुत्तं वा महीपतिम्। परित्यज्य मरुत्तं वा यथाजोषं भजस्व माम्॥ एवमुक्तः स कौरव्य देवराज्ञा बृहस्पतिः। मुहूर्तमिव संचिन्त्य देवराजानमब्रवीत्॥ त्वं भूतानामधिपतिस्त्वयि लोकाः प्रतिष्ठिताः। नमुचेर्विश्वरूपस्य निहन्ता त्वं बलस्य च॥ त्वमाजहर्थ देवानामेको वीरश्रियं पराम्। त्वं बिभर्षि भुवं द्यां च सदैव बलसूदन॥ पौरोहित्यं कथं कृत्वा तव देवगणेश्वर। याजयेयमहं मर्त्य मरुत्तं पाकशासन॥ समाश्वसिहि देवेन्द्र नाहं मर्त्यस्य कर्हिचित्। ग्रहीष्यामि स्रुवं यज्ञे शृणु चेदं वचो मम॥ हिरण्यरेता नोष्ण स्यात् परिवर्तेत मेदिनी। भासं तु न रविः कुर्यान्न तु सत्यं चलेन्मयि॥ वैशम्पायन उवाच बृहस्पतिवचः श्रुत्वा शक्रो विगतमत्सरः। प्रशस्यैनं विवेशाथ स्वमेव भवनं तदा॥ व्यास उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। बृहस्पतेश्च संवादं मरुत्तस्य च धीमतः॥ देवराजस्य समयं कृतमाङ्गिरसेन ह। श्रुत्वा मरुत्तो नृपतिर्यज्ञमाहारयत् परम्॥ संकल्प मनसा यज्ञं करन्धमसुतात्मजः। बृहस्पतिमुपागम्य वाग्मी वचनमब्रवीत्॥ भगवन् यन्मया पूर्वमभिगम्य तपोधन। कृतोऽभिसंधिर्यज्ञस्य भवतो वचनाद् गुरो॥ तमहं यष्टुमिच्छामि संभाराः सम्भृताश्च मे। याज्योऽस्मि भवतः साधो तत्प्राप्नुहि विधत्स्व च॥ बृहस्पति उवाच न कामये याजयितुं त्वामहं पृथिवीपते। वृतोऽस्मि देवराजेन प्रतिज्ञातं च तस्य मे॥ मरुत्त उवाच पित्र्यमस्मि तव क्षेत्रं बहु मन्ये च ते भृशम्। तवास्मि याज्यतां प्राप्तो भजमानं भजस्व माम्॥ बृहस्पति उवाच अमर्त्य याजयित्वाहं याजयिष्ये कथं नरम्। मरुत्त गच्छवा मा वा निवृत्तोऽस्म्यद्य याजनात्॥ न त्वां याजयिताऽस्म्यद्य वृणु यं त्वमिहेच्छसि। उपाध्यायं महाबाहो यस्ते यज्ञं करिष्यति॥ व्यास उवाच एवमुक्तस्तु नृपतिर्मरुत्तो व्रीडितोऽभवत्। प्रत्यागच्छन् सुसंविग्नो ददर्श पथि नारदम्॥ देवर्षिणा समागम्य नारदेन स पार्थिवः। विधिवत् प्राञ्जलिस्तस्थावथैनं नारदोऽब्रवीत्॥ राजर्षे नातिहष्टोऽसि कच्चित् क्षेमं तवानघ। क्व गतोऽसि कुतश्चेदमप्रीतिस्थ मागतम्॥ श्रोतव्यं चेन्मया राजन् ब्रूहि मे पार्थिवर्षभ। व्यपनेष्यामि ते मन्युं सर्वयत्नैर्नराधिप॥ वैशम्पायन उवाच एवमुक्तौ मरुत्तः स नारदेन महर्षिणा। विप्रलम्भमुपाध्यायात् सर्वमेव न्यवेदयत्॥ मरुत्त उवाच गतोऽस्म्याङ्गिरसः पुत्रं देवाचार्यं बृहस्पतिम्। यज्ञार्थमृत्विजं द्रष्टुं स च मां नाभ्यनन्दत॥ प्रत्याख्यातश्च तेनाहं जीवितुं नाद्य कामये। परित्यक्तश्च गुरुणा दूषितश्चास्मि नारद॥ व्यास उवाच एवमुक्तस्तु राज्ञा स नारदः प्रत्युवाच ह। आविक्षितं महाराज वाचा संजीवयन्निव॥ नारद उवाच राजन्नङ्गिरसः पुत्रः संवर्तो नाम धार्मिकः। चङ्क्रमीति दिशः सर्वा दिग्वासा मोहयन्प्रजाः।।१८। तं गच्छ यदि याज्यं त्वां न वाञ्छति बृहस्पतिः। प्रसन्नस्त्वां महातेजाः संवर्तो याजयिष्यति॥ मरुत्त उवाच संजीविताऽहं भवता वाक्येनानेन नारद। पश्येयं क्व न संवर्तं शंस मे वदतां वर॥ कथं च तस्मै वर्तेयं कथं मां न परित्यजेत्। प्रत्याख्यातश्च तेनापि नाहं जीवितुमुत्सहे॥ नारद उवाच उन्मत्तवेषं विभ्रत् स चक्रमीति यथासुखम्। वाराणस्यां महाराज दर्शनेप्सुर्महेश्वरम्॥ तस्या द्वारं समासाद्य न्यसेथाः कुणपं क्वचित्। तं दृष्ट्वा यो निवर्तेत संवर्तः स महीपते॥ तं पृष्ठतोऽनुगच्छेथा यत्र गच्छेत् स वीर्यवान्। तमेकान्ते समासाद्य प्राञ्जलिः शरणं व्रजेः॥ पृच्छेत् त्वां यदि केनाहं तवाख्यात इति स्म ह। ब्रूयास्त्वं नारदेनेति संवर्त कथितोऽसि मे॥ स चेत् त्वामनुयुञ्जीत ममानुगमनेप्सया। शंसेथा वह्निमारूढं मामपि त्वमशङ्कया॥ व्यास उवाच स तथेति प्रतिश्रुत्य पूजयित्वा च नारदम्। अभ्यनुज्ञाय राजर्षिययौ वाराणसी पुरीम्॥ तत्र गत्वा यथोक्तं स पुर्या द्वारे महायशाः। कुणपं स्थापयामास नारदस्य वचः स्मरन्॥ यौगपद्येन विप्रश्च पुरीद्वारमथाविशत्। ततः स कुणपं दृष्ट्वा सहसा संन्यवर्तत॥ स तं निवृत्तमालक्ष्य प्राञ्जलि: पृष्ठतोऽन्वगात्। आविक्षितो महीपालः संवर्तमुपशिक्षितुम्॥ स च तं विजने दृष्ट्वा पासुंभिः कर्दमेन च। श्लेष्मणा चैव राजानं ष्ठीवनैश्च समाकिरत्॥ स तथा बाध्यमानो वै संवर्तेन महीपतिः। अन्वगादेव तमृषि प्राञ्जलिः सम्प्रसादयन्॥ ततो निवर्त्य संवर्तः परिश्रान्त उपाविशत्। शीतलच्छायमासाद्य न्यग्रोधं बहुशाखिनम्॥ संवर्त उवाच कथमस्मि त्वया ज्ञातः केन वा कथितोऽस्मि ते। एतदाचक्ष्व मे तत्त्वमिच्छसे चेन्मम प्रियम्॥ सत्यं ते ब्रुवतः सर्वे सम्पत्स्यन्ते मनोरथाः। मिथ्या च ब्रुवतो मूर्धा शतधा ते स्फुटिष्यति॥ मरुत्त उवाच नारदेन भवान् मह्यमाख्यातो ह्यटता पथि। गुरुपुत्रौ ममेति त्वं ततो मे प्रीतिरुत्तमा॥ संवर्त उवाच सत्यमेतद् भवानाह स मां जानाति सत्रिणम्। कथयस्व तदेतन्मे क्व न सम्प्रति नारदः॥ मरुत्त उवाच भवन्तं कथयित्वा तु मम देवर्षिसत्तमः। ततो मामभ्यनुज्ञाय प्रविष्टो हव्यवाहनम्॥ व्यास उवाच श्रुत्वा तु पार्थिवस्यैतत् संवर्तः प्रमुदं गतः। एतावदहमप्येवं शक्नुयामिति सोऽब्रवीत्॥ ततो मरुत्तमुन्मत्तो वाचा निर्भर्त्सयन्निव। रुक्षया ब्राह्मणो राजन् पुनः पुनरथाब्रवीत्॥ वातप्रधानेन मया स्वचित्तवशवर्तिना। एवं विकृतरूपेण कथं याजितुमिच्छसि॥ भ्राता मम समर्थश्च वासवेन च संगतः। वर्तते याजने चैव तेन कर्माणि कारय॥ गार्हस्थ्यं चैव याज्याश्च सर्वा गृह्याश्च देवताः। पूर्वजेन ममाक्षिप्तं शरीरं वर्जितं त्विदम्॥ नाहं तेनाननुज्ञातस्त्वामाविक्षित कर्हिचित्। याजयेयं कथंचिद् वै स हि पूज्यतमो मम॥ स त्वं बृहस्पतिं गच्छ तमनुज्ञाप्य चाव्रज। ततोऽहं याजयिष्ये त्वां यदि यष्टुमिहेच्छसि॥ मरुत्त उवाच बृहस्पतिं गतः पूर्वमहं संवर्त तच्छृणु। न मां कामयते याज्यमसौ वासवकाम्यया॥ अमरं याज्यमासाद्य याजयिष्ये न मानुषम्। शक्रेण प्रतिषिद्धोऽहं मरुत्तं मा स्म याजयः॥ स्पर्धते हि मया विप्र सदा हि स तु पार्थिवः। एवमस्त्विति चाप्युक्तो भ्रात्रा ते बलसूदनः॥ स मामधिगतं प्रेम्णा याज्यत्वेन बुभूषति। देवराजं समाश्रित्य तद् विद्धि मुनिपुङ्गव॥ सोऽहमिच्छामि भवता सर्वस्वेनापि याजितुम्। कामये समतिक्रान्तुं वासवं त्वत्कृतैर्गुणैः॥ न हि मे वर्तते बुद्धिर्गन्तुं ब्रह्मन् बृहस्पतिम्। प्रत्याख्यातो हि तेनास्मि तथाऽनपकृते सति॥ संवर्त उवाच चिकीर्षसि यथाकामं सर्वमेतत् त्वयि ध्रुवम्। यदि सर्वानभिप्रायान् कर्ताऽसि मम पार्थिव॥ याज्यमानं मया हि त्वां बृहस्पतिपुरन्दरौ। द्विषतां समभिक्रुद्धावेतदेकं समर्थयेः॥ स्थैर्यमत्र कथं मे स्यात् सत्त्वं निःसंशयं कुरु। कुपितस्त्वां न हीदानीं भस्म कुर्यां सबान्धवम्॥ मरुत्त उवाच यावत् तपेत् सहस्रांशुस्तिष्ठेरंश्चापि पर्वताः। तावल्लोकान्न लभेयं त्यजेयं सङ्गतं यदि॥ विषयैः सङ्गत्तं चास्तु मा चापि शुभबुद्धित्वं लभेयमिह कर्हिचित्। त्यजेयं सङ्गतं यदि॥ संवर्त उवाच आविक्षित शुभा बुद्धिवर्ततां तव कर्मसु। याजनं हि ममाप्येव वर्तते हृदि पार्थिव॥ अभिधास्ये च ते राजन्नक्षयं द्रव्यमुत्तमम्। येन देवान् सगन्धर्वाशक्रं चाभिभविष्यसि॥ न तु मे वर्तते बुद्धिर्धने याज्येषु वा पुनः। विप्रियं तु करिष्यामि भ्रातुश्चेन्द्रस्य चोभयोः॥ गमयिष्यामि शक्रेण समतामपि ते ध्रुवम्। प्रियं च ते करिष्यामि सत्यमेतद् ब्रवीमि ते॥ संवर्त उवाच गिरेर्हिमवतः पृष्ठे मुजवान् नाम पर्वतः। तप्यते यत्र भगवांस्तपो नित्यमुमापतिः॥ वनस्पतीनां मूलेषु शृङ्गेषु विषमेषु च। गुहासु शैलराजस्य यथाकामं यथासुखम्॥ उमासहायो भगवान् यत्र नित्यं महेश्वरः। आस्ते शूली महातेजा नानाभूतगणावृतः॥ तत्र रुद्राश्च साध्याश्च विश्वेऽथ वसवस्तथा। यमश्च वरुणश्चैव कुबेरश्च सहानुगः॥ भूतानि च पिशाचाश्च नासत्यावपि चाश्विनौ। गन्धर्वाप्सरसश्चैव यक्षा देवर्षयस्तथा॥ आदित्या मरुतश्चैव यातुधानाश्च सर्वशः। उपासन्ते महात्मानं बहुरूपमुमापतिम्॥ रमते भगवांस्तत्र कुबेरानुचरैः सह। विकृतैर्विकृताकारैः क्रीडद्भिः पृथिवीपते॥ श्रिया ज्वलन् दृश्यते वै बालादित्यसमद्युतिः। न रूपं शक्यते तस्य संस्थानं वा कदाचन॥ निर्देष्टुं प्राणिभिः कैश्चित् प्राकृतैर्मांसलोचनैः। नोष्णं न शिशिरं तत्र न वायुर्न च भास्करः॥ न जरा क्षुत्पिपासे वा न मृत्युर्न भयं नृप। तस्य शैलस्य पार्श्वेषु सर्वेषु जयतां वर॥ धातवो जातरूपस्य रश्मयः सवितुर्यथा। रक्ष्यन्ते ते कुबेरस्य सहायैरुद्यतायुधैः॥ चिकीर्षद्भिः प्रियं राजन् कुबेरस्य महात्मनः। तस्मै भगवते कृत्वा नमः शर्वाय वेधसे॥ रुद्राय शितिकण्ठाय पुरुषाय सुवर्चसे। कपर्दिने करालाय हर्यणे वरदाय च॥ त्र्यक्ष्णे पूष्णो दन्तभिदे वामनाय शिवाय च। याम्यायाव्यक्तरूपाय सवृत्ते शङ्कराय च॥ क्षेम्याय हरिकेशाय स्थाणवे पुरुषाय च। हरिनेत्राय मुण्डाय क्रुद्धायोत्तरणाय च॥ भास्कराय सुतीर्थाय देवदेवाय रंहसे। उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे॥ गिरिशाय प्रशान्ताय यतये चीरवाससे। बिल्वदण्डाय सिद्धाय सर्वदण्डधराय च॥ भृगव्याधाय महते धन्विनेऽथ भवाय च। वराय सोमवक्त्राय सिद्धमन्त्राय चक्षुषे॥ हिरण्यवाहवे राजन्नुग्राय पतये दिशाम्। लेलिहानाय गोष्ठाय सिद्धमन्त्राय वृष्णये॥ पशूनां पतये चैव भूतानां पतये नमः। वृषाय मातृभक्ताय सेनान्ये मध्यमाय च॥ सुवहस्ताय पतये धन्विने भार्गवाय च। अजाय कृष्णनेत्राय विरूपाक्षाय चैव ह॥ तीक्ष्णदंष्ट्राय तीक्ष्णाय वैश्वानरमुखाय च। महाद्युतयेऽनङ्गाय सर्वाय पतये विशाम्॥ विलोहिताय दीप्ताय दीप्ताक्षाय महौजसे। वसुरेतः सुवपुषे पृथवे कृत्तिवाससे॥ कपालमालिने चैव सुवर्णमुकुटाय च। महादेवाय कृष्णाय त्र्यम्बकायानघाय च॥ क्रोधनायानृशंसाय मृदवे बाहुशालिने। दण्डिने तप्तपसे तथैवाक्रूरकर्मणे॥ सहस्रशिरसे चैव सहस्रचरणाय च। नमः स्वधास्वरूपाय बहुरूपाय दंष्ट्रिणे॥ पिनाकिनं महादेवं महायोगिनमव्ययम्। त्रिशूलहस्तं वरदं त्र्यम्बकं भुवनेश्वरम्॥ त्रिपुरघ्नं त्रिनयनं त्रिलोकेशं महौजसम्। प्रभवं सर्वभूतानां धारणं धरणीधरम्॥ ईशानं शङ्करं सर्वे शिवं विश्वेश्वरं भवम्। उमापतिं पशुपतिं विश्वरूपं महेश्वरम्॥ विरूपाक्षं दशभुजं दिव्यगोवृषभध्वजम्। उग्र स्थाणुं शिव रौद्रं शर्वं गौरीशमीश्वरम्॥ शितिकण्ठमजं शुक्रं पृथु पृथुहरं वरम्। विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम्॥ प्रणम्य शिरसा देवमनङ्गाङ्गहरं हरम्। शरण्यं शरणं याहि महादेवं चतुर्मुखम्॥ एवं कृत्वा नमस्तस्मै महादेवाय रंहसे। महात्मने क्षितिपते तत्सुवर्णमवाप्स्यसि॥ सुवर्णमाहरिष्यन्तस्तत्र गच्छन्तु ते नराः। इत्युक्तः स वचस्तेन चक्रे कारन्धमात्मजः॥ ततोऽतिमानुषं सर्वं चक्रे यज्ञस्य संविधिम्। सौवर्णानि च भाण्डानि संचक्रुस्तत्र शिल्पिनः॥ बृहस्पतिस्तु तां श्रुत्वा मरुत्तस्य महीपतेः। समृद्धिपतिदेवेभ्य: संतापमकरोद् भृशम्॥ स तप्यमानो वैवयं कृशत्वं चागमत् परम्। भविष्यति हि मे शत्रुः संवर्तो वसुमानिति॥ तं श्रुत्वा भृशसंतप्तं देवराजो बृहस्पतिम्। अधिगम्यामरवृतः प्रोवाचेदं वचस्तदा।॥ इन्द्र उवाच कच्चित्सुखं स्वपिषि त्वं बृहस्पते कच्चिन्मनोज्ञाः परिचारकास्ते। कच्चिद्देवानां सुखकामोऽसि विप्र कच्चिद्देवास्त्वां परिपालयन्ति॥ बृहस्पति उवाच सुखं शये शयने देवराज तथा मनोज्ञाः परिचारका मे। तथा देवानां सुखकामोऽस्मि नित्यं देवाश्च मां सुभृशं पालयन्ति॥ इन्द्र उवाच कुतो दुःखं मानसं देहजं वा पाण्डुर्विवर्णश्च कुतस्त्वमद्या आचक्ष्व मे ब्राह्मण यावदेतान् निहन्मि सर्वांस्तव दुःखकर्तृन्॥ बृहस्पति उवाच मरुत्तमाहुर्मघवन् यक्ष्यमाणं महायज्ञेनोत्तमदक्षिणेन। संवर्तो याजयतीति मे श्रुतं तदिच्छामि न स तं याजयेत॥ इन्द्र उवाच सर्वान् कामाननुयातोऽसि विप्र यस्त्वं देवानां मन्त्रवित्सुपुरोधाः। उभौ च ते जरामृत्यू व्यतीतौ किं संवर्तस्तव कर्ताऽद्य विप्र॥ बृहस्पति उवाच देवैः सह त्वमसुरान् प्रणुद्य जिघांससे चाप्युत सानुबन्धान्। यं यं समृद्धं पश्यसि तत्र तत्र दुःखं सपत्नेषु समृद्धिभावः॥ अतोऽस्मि देवेन्द्र विवर्णरूपः सपत्नो मे वर्धते तन्निशम्य। सर्वोपायैर्मघवन् संनियच्छ संवर्त वा पार्थिवं वा मरुत्तम्॥ इन्द्र उवाच एहि गच्छ प्रहितो जातवेदो बृहस्पतिं परिदातुं मरुत्ते। स्तथाऽमरं चैव करिष्यतीति॥ अग्नि उवाच अहं गच्छामि मघवन् दूतोऽद्य बृहस्पतिं परिदातुं मरुत्ते। वाचं सत्यां पुरुहूतस्य कर्तुं बृहस्पतेश्चापचितिं चिकीर्षुः॥ व्यास उवाच ततः प्रायाद् धूमकेतुर्महात्मा वनस्पतीन् वीरुधश्चाप्यमृद्नन्। कामाद्धिमान्ते परिवर्तमानः काष्ठातिगो मातरिश्वेव नर्दन्॥ मरुत उवाच आश्चर्यमद्य पश्यामि रूपिणं वह्निमागतम्। आसनं सलिलं पाद्यं गां चोपानय वै मुने॥ अग्नि उवाच आसनं सलिलं पाद्यं प्रतिनन्दामि तेऽनघ। इन्द्रेण तु समादिष्टं विद्धि मां दूतमागतम्॥ मरुत उवाच कच्चिच्छ्रीमान् देवराजः सुखी च कच्चिच्चास्मान् प्रीयते धूमकेतो। कच्चिद्देवा अस्य वशे यथावत् प्रब्रूहि त्वं मम कात्स्न्येन देव॥ अग्नि उवाच शक्रो भृशं सुसुखी पार्थिवेन्द्र प्रीतिं चेच्छत्यजरां वै त्वया सः। देवाश्च सर्वे वशगास्तस्य राजन् संदेशं त्वं शृणु मे देवराज्ञः॥ यदर्थं मां प्राहिणोत् त्वत्सकाशं बृहस्पतिं परिदातुं मरुत्ते। अयं गुरुर्याजयतां नृप त्वां मर्यं सन्तममरं त्वां करोतु॥ मरुत उवाच संवर्गोऽयं याजयिता द्विजो मां बृहस्पतेरञ्जलिरेष तस्य। न चैवासौ याजयित्वा महेन्द्र मर्यं सन्तं याजयन्नद्य शोभेत्॥ अग्नि उवाच ये वै लोका देवलोके महान्त सम्प्राप्स्यसे तान् देवराजप्रसादात्। नूनं स्वर्ग त्वं जयेः कीर्तियुक्तः॥ तथा लोका मानुषा ये च दिव्याः प्रजापतेश्चापि ये वै महान्तः। ते ते जिता देवराज्यं च कृत्स्नं बृहस्पतिर्याजयेच्चेन्नरेन्द्र॥ संवर्त उवाच मा स्मैव त्वं पुनरागाः कथंचित् बृहस्पतिं परिदातुं मरुत्ते। मां त्वां धक्ष्ये चक्षुषा दारुणेन संक्रुद्धोऽहं पावक त्वं निबोध॥ व्यास उवाच र्दाहाद् भीतो व्यथितोऽश्वत्थपर्णवत्। तं वै दृष्ट्वा प्राह शक्रो महात्मा बृहस्पतेः संनिधौ हव्यवाहम्॥ इन्द्र उवाच यस्त्वं गतः प्रहितो जातवेदो बृहस्पतिं परिदातुं मरुत्ते। तत् किं प्राह स नृपो यक्ष्यमाण: कच्चिद् वचः प्रतिगृह्णाति तच्च॥ अग्नि उवाच न ते वाचं रोचयते मरुत्तो बृहस्पतेरञ्जलिं प्राहिणोत् सः। संवर्तो मां याजयितेत्युवाच पुनः पुनः स मया याच्यमानः॥ उवाचेदं मानुषा ये च दिव्याः प्रजापतेर्ये च लोका महान्तः। तांश्चेल्लभेयं संविदं तेन कृत्वा तथापि नेच्छेयमिति प्रतीतः॥ इन्द्र उवाच पुनर्गत्वा पार्थिवं त्वं समेत्य वाक्यं मदीयं प्रापय स्वार्थयुक्तम्। स्त्वत्तो वज्रं सम्प्रहर्तास्मि तस्मै॥ अग्नि उवाच गन्धर्वराड् यात्वयं तत्र दूतो बिभेम्यहं वासव तत्र गन्तुम्। संरब्धो मामब्रवीत् तीक्ष्णरोषः संवर्तो वाक्यं चरितब्रह्मचर्यः॥ यद्यागच्छः पुनरेवं कथंचिद् बृहस्पतिं परिदातुं मरुत्ते। दहेयं त्वां चक्षुषा दारुणेन संक्रुद्ध इत्येतदवैहि शक्र॥ शक्र उवाच त्वमेवान्यान् दहसे जातवेदो न हि त्वदन्यो विद्यते भस्मकर्ता। त्वत्संस्पर्शात् सर्वलोको बिभेति अश्रद्धेयं वदसे हव्यवाह॥ अग्नि उवाच दिवं राजन् पृथिवीं च सर्वा संवेष्टयेस्त्वं स्वबलेनैव शक्र। एवंविधस्येह सतस्तवासौ कथं वृत्रस्त्रिदिवं प्राग् जहा॥ इन्द्र उवाच न गण्डिकाकारयोगं करेऽj न चारिसोमं प्रपिवामि वह्ने। न क्षीणशक्तौ प्रहरामि वज्रं को मेऽसुखाय प्रहरेत मर्त्यः॥ प्रव्राजयेयं कालकेयान् पृथिव्या मपाकर्षन् दानवानन्तरिक्षात्। दिवः प्रह्लादमवसानमानयं को मेऽसुखाय प्रहरेत मानवः॥ अग्नि उवाच यत्र शर्यातिं च्यवनो याजियिष्यन् सहाश्विभ्यां सोममगृह्णदेकः। तं त्वं क्रुद्धः प्रत्यषेधीः पुरस्ताच्छर्यातियज्ञं स्मर तं महेन्द्र।॥ वज्रं गृहीत्वा च पुरन्दर त्वं सम्प्राहार्षीश्च्यवनस्यातिघोरम्। मपागृह्णात् तपसा जातमन्युः॥ ततो रोषात् सर्वतो घोररूपं सपत्नं ते जनयामास भूयः। मदं नामासुरं विश्वरूपं यं त्वं दृष्ट्वा चक्षुषी संन्यमीलः॥ भीतः हनुरेका जगतीस्था तथैका दिवं गता महतो दानवस्य। सहस्रं दन्तानां शतयोजनानां सुतीक्ष्णानां घोररूपं बभूव।॥ वृत्ताः स्थूला रजतस्तम्भव दंष्ट्राश्चतस्रो द्वे शते योजनानाम्। ज्जिघांसया शूलमुद्यम्य घोरम्॥ अपश्यस्त्वं तं तदा घोररूपं सर्वे वै त्वां ददृशुर्दर्शनीयम्। यस्माद् प्राञ्जलिस्त्वं महर्षिमागच्छेथाः शरणं दानवघ्न॥ क्षात्राद् बलाद् ब्रह्मवलं गरीयो न ब्रह्मतः किंचिदन्यद् गरीयः। सोऽहं जानन् ब्रह्मतेजो यथावन्न संवर्त जेतुमिच्छामि शक्र॥ इन्द्र उवाच एवमेतद् ब्रह्मबलं गरीयो न ब्राह्मणात् किंचिदन्यद् गरीयः। आविक्षितस्य तु बलं न मृष्ये वज्रमस्मै प्रहरिष्यामि घोरम्॥ धृतराष्ट्र प्रहितो गच्छ मरुत्तं संवर्तेन संगतं तं वदस्व। बृहस्पतिं त्वमुपशिक्षस्व राजन् वज्रं वा ते प्रहरिष्यामि घोरम्॥ व्यास उवाच ततो गत्वा धृतराष्ट्रो नरेन्द्र प्रोवाचेदं वचनं वासवस्य॥ धृतराष्ट्र उवाच गन्धर्वं मां धृतराष्ट्रं निबोध त्वामागतं वक्तुकामं नरेन्द्र। ऐन्द्रं वाक्यं शृणु मे राजसिंह यत् प्राह लोकाधिपतिर्महात्मा॥ बृहस्पतिं याजकं त्वं वृणीष्व वज्रं वा ते प्रहरिष्यामि घोरम्। वचश्चेदेतन्न करिष्यसे मे प्राहैतदेतावदचिन्त्यका॥ मरुत उवाच त्वं चैवैतद् वेत्थ पुरंदरच विश्वेदेवा वसवश्चाश्विनौ च। मित्रद्रोहे निष्कृतिर्नास्ति लोके महत् पापं ब्रह्महत्यासमं तत्॥ बृहस्पतिर्याजयतां महेन्द्र देवश्रेष्ठं वज्रभृतां वरिष्ठम्। संवर्तो मां याजयिताऽद्य राजन् न ते वाक्यं तस्य वा रोचयामि॥ गन्धर्व उवाच घोरो नादः श्रूयतां वासवस्य नभस्तले गर्जतो राजसिंह। व्यक्तं वज्रं मोक्ष्यते ते महेन्द्रः क्षेमं राजंश्चिन्त्यतामेष कालः॥ व्यास उवाच इत्येवमुक्तो धृतराष्ट्रेण राजन् श्रुत्वा नादं नदतो वासवस्य। तपोनित्यं धर्मविदां वरिष्ठं संवर्तं तं ज्ञापयामास कार्यम्॥ मरुत उवाच दध्वा दूरं तेन न दृश्यतेऽद्या प्रपद्येऽहं शर्म विपेन्द्र त्वत्तः प्रयच्छ तस्मादभयं विप्रमुख्य॥ अयमायाति वै वज्री दिशो विद्योतयन् दशा अमानुषेण घोरेण सदस्यास्त्रासिता हि नः॥ संवर्त उवाच भयं शक्राद् व्येतु ते राजसिंह प्रणोत्स्येऽहं भयमेतत् सुघोरम्। संस्तम्भिन्या विद्यया क्षिप्रमेव मा भैस्त्वमस्याभिभवात् प्रतीतः॥ अहं संस्तम्भयिष्यामि मा भैस्त्वं शक्रतो नृप। सर्वेषामेव देवानां क्षयितान्यायुधानि मे॥ दिशो वज्रं व्रजतां वायुरेतु वर्षं भूत्वा वर्षतां काननेषु। आपः प्लवन्त्वन्तरिक्षे वृथा च सौदामनी दृश्यते मापि भैस्त्वम्॥ वह्निर्देवस्त्रातु वा सर्वतस्ते कामान् सर्वान् वर्षतु वासवो वा। वजं तथा स्थापयतां वधाय महाघोरं प्लवमानं जलौघैः॥ मरुत उवाच घोरः शब्दः श्रूयते वै महास्वनो वज्रस्यैष सहितो मारुतेन। न मे स्वास्थ्यं जायते चाद्य विप्र॥ संवर्त उवाच वज्रादुग्राद् व्येतु भयं तवाद्य वातो भूत्वा हन्मि नरेन्द्र वज्रम्। भयं त्यक्त्वा वरमन्यं वृणीष्व कं ते कामं मनसा साधयामि॥ मरुत्त उवाच इन्द्रः साक्षात् सहसाभ्येतु विप्र हविर्यज्ञे प्रतिगृह्णातु चैव। स्वं स्वं धिष्ण्यं चैव जुषन्तु देवा हुतं सोमं प्रतिगृह्णन्तु चैव॥ संवर्त उवाच अयमिन्द्रो हरिभिरायाति राजन् देवैः सर्वैस्त्वरितैः स्तूयमानः। मन्त्राहूतो यज्ञमिमं मयाद्य पश्यस्वैनं मन्त्रविसस्तकायम्॥ अग्निरुवाच ततो देवैः सहितो देवराजो रथे युक्त्वा तान् हरीन् वाजिमुख्यान्। राविक्षितस्याप्रमेयस्य सोमम्॥ तमायान्तं सहितं देवसंघैः प्रत्युद्ययौ सपुरोधा मरुत्तः। चक्रे पूजां देवराजाय चाश्यां यथाशास्त्रं विधिवत् प्रीयमाणः॥ संवर्त उवाच स्वागतं ते पुरुहूतेह विद्वन् यज्ञोऽप्ययं संनिहिते त्वयीन्द्र। शोशुभ्यते बलवृत्रघ्न भूयः पिबस्व सोमं सुतमुद्यतं मया।॥ मरुत्त उवाच शिवेन मां पश्य नमश्च तेऽस्तु प्राप्तो यज्ञः सफलं जीवितं मे। अयं यज्ञं कुरुते मे सुरेन्द्र बृहस्पतेरवरजो विप्रमुख्यः॥ इन्द्र उवाच जानामि ते गुरुमेनं तपोधनं बृहस्पतेरनुजं तिग्मतेजसम्। यस्याह्वानादागतोऽहं नरेन्द्र प्रीतिर्मेऽद्य त्वयि मन्युः प्रनष्टः॥ संवर्त उवाच यदि प्रीतस्त्वमसि वै देवराज तस्मात्स्वयं शाधि यज्ञे विधानम्। स्वयं सर्वान् कुरु भागान् सुरेन्द्र जानात्वयं सर्वलोकश्च देव॥ व्यास उवाच एवमुक्तस्त्वाङ्गिरसेन शक्रः समादिदेश स्वयमेव देवान्। सभाः नियन्तामावसथाश्च मुख्याः सहस्रशश्चित्रभूताः समृद्धाः॥ क्लृप्ताः स्थूणाः कुरुतारोहणानि गन्धर्वाणामप्सरसां च शीघ्रम्। यत्र नृत्येरन्नप्सरसः समस्ताः स्वर्गोपमः क्रियतां यज्ञवाटः॥ इत्युक्तास्ते चक्रुराशु प्रतीता दिवौकसः शक्रवाक्यान्नरेन्द्र। ततो वाक्यं प्राह राजानमिन्द्रः प्रीतो राजन् पूज्यमानो मरुत्तम्॥ एष त्वयाहमिह राजन् समेत्य ये चाप्यन्ये तव पूर्वे नरेन्द्र। सर्वाश्चान्या देवता: प्रीयमाणा हविस्तुभ्यं प्रतिगृह्णन्तु राजन्॥ आग्नेयं वै लोहितमालभन्तां वैश्वदेवं बहुरूपं हि राजन्। नीलं चोक्षाणं मध्यमप्यालभन्तां चलच्छिश्नं सम्प्रदिष्टं द्विजायाः॥ ततो यज्ञो ववृधे तस्य राजन् यत्र देवाः स्वयमन्नानि जहः। यस्मिशक्रो ब्राह्मणैः पूज्यमानः सदस्योऽभूद्धरिमान् देवराजः॥ ततः संवर्तश्चैत्यगतो महात्मा यथा वह्निः प्रज्वलितो द्वितीयः। हवींष्युच्चैराह्वयन् देवसंघान् जुहावाग्नौ मन्त्रवत् सुप्रतीतः॥ ततः पीत्वा बलभित् सोममयं ये चाप्यन्ये सोमपा देवसंघाः। सर्वेऽनुज्ञाताः प्रययुः पार्थिवेन यथाजोषं तर्पिताः प्रीतिमन्तः॥ ततो राजा जातरूपस्य राशीन् पदे पदे कारयामास हृष्टः। द्विजातिभ्यो विसृजन् भूरि वित्तं रराज वित्तेश इवारिहन्ता॥ ततो वित्तं विविधं संनिधाय यथोत्साहं कारयित्वा च कोषम्। अनुज्ञातो गुरुणा संनिवृत्य शशास गामखिलां सागरान्ताम्॥ एवंगुण: सम्बभूवेह राजा यस्य क्रतो तत् सुवर्णं प्रभूतम्। तत् त्वं समादाय नरेन्द्र वित्तं यजस्य देवांस्तर्पयानो निवापैः॥ वैशम्पायन उवाच ततो राजा पाण्डवो हृष्टरूप: श्रुत्वा वाक्यं सत्यवत्याः सुतस्य। मनश्चक्रे तेन वित्तेन यष्टुं ततोऽमात्यैर्मन्त्रयामास भूयः॥ इत्युक्ते नृपतौ तस्मिन् व्यासेनाद्भुतकर्मणा। वासुदेवो महातेजास्ततो वचनमाददे॥ तं नृपं दीनमनसं निहतज्ञातिबान्धवम्। उपप्लुतमिवादित्यं सधूममिव पावकम्॥ निर्विण्णमनसं पार्थं ज्ञात्वा वृष्णिकुलोद्वहः। आश्वासयन् धर्मसुतं प्रवक्तुमुपचक्रमे॥ वासुदेव उवाच सर्व जिह्यं मृत्युपदमार्जवं ब्रह्मणः पदम्। एतावान् ज्ञानविषयः किं प्रलापः करिष्यति॥ नैव ते निष्ठितं कर्म नैव ते शत्रवो जिताः। कथं शत्रु शरीरस्थमात्मनो नावबुध्यसे॥ अत्र ते वर्तयिष्यामि यथाधर्मं यथाश्रुतम्। इन्द्रस्य सह वृत्रेण यथा युद्धमवर्तत॥ वृत्रेण पृथिवी व्याप्ता पुरा किल नराधिप। दृष्ट्वा स पृथिवीं व्याप्तां गन्धस्य विषये हते॥ धराहरणदुर्गन्धो विषयः समपद्यत। शतक्रतुशुकोपाथ गन्धस्य विषये हृते॥ वृत्रस्य स ततः क्रुद्धो घोरं वज्रमवासृजत्। स वध्यमानो वज्रेण सुभृशं भूरितेजसा॥ तोयं जग्राह विषयं ततः। अप्सु वृत्रगृहीतासु रसे च विषये हते।॥ शतक्रतुरतिक्रुद्धस्तत्र वज्रमवासृजत्। स वध्यमानो वज्रेण तस्मिन्नमिततेजसा॥ विवेश सहसा ज्योतिर्जग्राह विषयं ततः। व्याप्ते ज्योतिषि वृत्रेण रूपेऽथ विषये हृते।॥ शतक्रतुरतिक्रुद्धस्तत्र वज्रमवासृजत्। स वध्यमानो वज्रेण तस्मिन्नमिततेजा॥ विवेश सहसा वायुं जग्राह विषयं ततः। व्याप्ते वायौ तु वृत्रेण स्पर्शेऽथ विषये हृते॥ शतक्रतुरतिक्रुद्धस्तत्र वज्रमवासृजत्। स वध्यमानो वज्रेण तस्मिन्नमिततेजसा।॥ आकाशमभिदुद्राव जग्राह विषयं ततः। आकाशे वृत्रभूतेऽथ शब्दे च विषये हृते॥ शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत्। स वध्यमानो वज्रेण तस्मिन्नमिततेजसा॥ विवेश सहसा शक्रं जग्राह विषयं ततः। तस्य वृत्रगृहीतस्य मोहः समभवन्महान्॥ रथन्तरेण तं तात वसिष्ठः प्रत्यबोधयत्। ततो वृत्रं शरीरस्थं जघान भरतर्षभ। शतक्रतुरदृश्येन वज्रेणेतीह नः श्रुतम्॥ इदं धन॑ रहस्यं वै शक्रेणोक्तं महर्षिषु। ऋषिभिश्च मम प्रोक्तं तन्निबोध जनाधिप।॥ वासुदेव उवाच द्विविधे जायते व्याधिः शारीरो मानसस्तथा। परस्परं तयोर्जन्म निर्द्वन्द्वं नोपपद्यते।।।। शरीरे जायते व्याधिः शारीरः स निगद्यते। मानसे जायते व्याधिर्मानसस्तु निगद्यते॥ शीतोष्णे चैव वायुश्च गुणा राजन् शरीरजाः। तेषां गुणानां साम्यं चेत् तदाहुः स्वस्थलक्षणम्॥ उष्णेन बाध्यते शीतं शीतेनोष्णं च बाध्यते। सत्त्वं रजस्तमश्चेति त्रय आत्मगुणाः स्मृताः॥ तेषां गुणानां साम्यं चेत् तदाहुः स्वस्थलक्षणम्। तेषामन्यतमोत्सेके विधानमुपदिश्यते॥ हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते। कश्चिद् दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति। कश्चित् सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति॥ स त्वं न दुःखी दुःखस्य न सुखी सुसुखस्य च। स्मर्तुमिच्छसि कौन्तेय किमन्यद् दुःखविभ्रमात्॥ अथवा ते स्वभावोऽयं येन पार्थावकृष्यसे। दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम्। मिषतां पाण्डवेयानां न तस्य स्मर्तुमिच्छसि॥ प्रव्राजनं च नगरादजिनैश्च विवासनम्। महारण्यनिवासश्च न तस्य स्मर्तुमिच्छसि॥ जटासुरात् परिक्लेशश्चित्रसेनेन चाहवः। सैन्धवाच्च परिक्लेशो न तस्य स्मर्तुमिच्छसि॥ पुनरज्ञातचर्यायां कीचकेन पदा वधः। याज्ञसेन्यास्तथा पार्थ न तस्य स्मर्तुमिच्छसि॥ यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिंदम। मनसैकेन योद्धव्यं तत् ते युद्धमुपस्थितम्॥ तस्मादभ्युपगन्तव्यं युद्धाय भरतर्षभ परमव्यक्तरूपस्य पारं युक्त्या स्वकर्मभिः॥ यत्र नैव शरैः कार्यं न भृत्यैर्न च बन्धुभिः। आत्मनैकेन योद्धव्यं तत् ते युद्धमुपस्थितम्॥ तस्मिन्ननिर्जिते युद्धे कामवस्थां गमिष्यसि। एतज्ज्ञात्वा तु कौन्तेय कृतकृत्यो भविष्यसि॥ एतां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम्। पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम्॥ वासुदेव उवाच न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत। शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा॥ बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृङ्ख्यतः। यो धर्मो तत् सुखं चैव द्विषतामस्तु तत् तथा॥ व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम्। ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम्॥ ब्रह्ममृत्यू ततो राजन्नात्मन्येव व्यवस्थितौ।। अदृश्यमानौ भूतानि योधयेतामसंशयम्॥ अविनाशोऽस्य सत्त्वस्य नियतो यदि भारत। भित्त्वा शरीरं भूतानामहिंसां प्रतिपद्यते॥ लब्ध्वा हि पृथ्वी कृत्स्नां सहस्थावरजङ्गमाम्। ममत्वं यस्य नैव स्यात् किं तया स करिष्यति॥ अथवा वसतः पार्थ वने वन्येन जीवतः। ममता यस्य द्रव्येषु मृत्योरास्ये स वर्तते॥ बाह्यान्तराणां शत्रूणां स्वभाव पश्य भारत। यन्न पश्यति तद् भूतमुच्यते स महाभयात्॥ कामात्मानं न प्रशंसन्ति लोके नेहाकामा काचिदस्ति प्रवृत्तिः। सर्वे कामा मनसोऽङ्गप्रभूता यान् पण्डितः संहरते विचिन्त्य॥ भूयो भूयो जन्मनोऽभ्यासयोगाद् योगी योगं सारमार्ग विचिन्त्य। दानं च वेदाध्ययनं तपश्च काम्यानि कर्माणि च वैदिकानि॥ व्रतं यज्ञान् नियमान् ध्यानयोगान् कामेन यो नारभते विदित्वा। यद् यच्चायं कामयते स धर्मो न यो धर्मो नियमस्तस्य मूलम्॥ अत्र गाथा: कामगीताः कीर्तयन्ति पुराविदः। शृणु संकीर्त्यमानास्ता अखिलेन युधिष्ठिर। नाहं शक्योऽनुपायेन हन्तुं भूतेन केनचित्॥ यो मां प्रयतते हन्तुं ज्ञात्वा प्रहरणे बलम्। तस्य तस्मिन् प्रहरणे पुनः प्रादुर्भवाम्यहम्॥ यो मां प्रयतते हन्तुं यज्ञैर्विविधदक्षिणैः। जङ्गमेष्विव धर्मात्मा पुनः प्रादुर्भवाम्यहम्॥ यो मां प्रयतते नित्यं वेदैर्वेदान्तसाधनैः। स्थावरेष्विव भूतात्मा तस्य प्रादुर्भवाम्यहम्॥ यो मां प्रयतते हन्तुं धृत्या सत्यपराक्रमः। भावो भवामि तस्याहं स च मां नावबुध्यते॥ यो मां प्रयतते हन्तुं तपसा संशितव्रतः। ततस्तपसि तस्याथ पुनः प्रादुर्भवाम्यहम्॥ यो मां प्रयतते हन्तुं मोक्षमास्थाय पण्डितः। तस्य मोक्षरतिस्थस्य नृत्यामि च हसामि च। अवध्यः सर्वभूतानामहमेकः सनातनः॥ तस्मात्त्वमपि तं कामं यज्ञैर्विविधदक्षिणैः। धर्मे कुरु महाराज तत्र ते स भविष्यति॥ यजस्व वाजिमेधेन विधिवद् दक्षिणावता। अन्यैश्च विविधैर्यज्ञैः समृद्धराप्तदक्षिणैः॥ मा ते व्यथास्तु निहतान् बन्धून् वीक्ष्य पुनः पुनः। न शक्यास्ते पुनर्द्रष्टुं ये हताऽस्मिन् रणाजिरे॥ स त्वमिष्ट्वा महायज्ञैः समृद्धैराप्तदक्षिणैः। कीर्ति लोके परां प्राप्य गतिमय्यां गमिष्यसि॥ वैशम्पायन उवाच एवं बहुविधैर्वाक्यैर्मुनिभिस्तैस्तपोधनैः। समाश्वस्यत राजर्षिर्हतबन्धुर्युधिष्ठिरः॥ सोऽनुनीतो भगवता विष्टरश्रवसा स्वयम्। द्वैपायनेन कृष्णेन देवस्थानेन वा विभुः॥ नारदेनाथ भीमेन नकुलेन च पार्थिव। कृष्णया सहदेवेन विजयेन च धीमता॥ अन्यैश्च पुरुषव्याप्रैाह्मणैः शास्त्रदृष्टिभिः। व्यजहाच्छोक्जं दुःखं संतापं चैव मानसम्॥ अर्चयामास देवांश्च ब्राह्मणांश्च युधिष्टिाः। कृत्वाथ प्रेतकार्याणि बन्धूनां स पुनर्नृपः॥ अन्वशासच्च धर्मात्मा पृथिवीं सागराम्बराम्। प्रशान्तचेताः कौरव्यः स्वराज्यं प्राप्य केवलम्। व्यासं च नारदं चैव तांश्चान्यानब्रवीन्नृपः॥ आश्वासितोऽहं प्राग्वृद्धैर्भवद्भिर्मुनिपुङ्गवैः। न सूक्ष्ममपि मे किंचिद् व्यलीकमिह विद्यते॥ अर्थश्च सुमहान् प्राप्तो येन यक्ष्यामि देवताः। पुरस्कृत्याद्य भवतः समानेष्यामहे मखम्॥ हिमवन्तं त्वया गुप्ता गमिष्यामः पितामह। बह्वाश्चर्यो हि देशः स श्रूयते द्विजसत्तम॥ तथा भगवता चित्रं कल्याणं बहुभाषितम्। देवर्षिणा नारदेन देवस्थानेन चैव ह॥ नाभागधेयः पुरुषः कश्चिदेवंविधान् गुरून्। लभते व्यसनं प्राप्य सुहृदः साधुसम्मतान्॥ एवमुक्तास्तु राज्ञा सर्व अभ्यनुज्ञाप्य राजानं तथोभौ कृष्णफाल्गुनौ॥१२॥ पश्यतामेव सर्वेषां तत्रैवादर्शनं ययुः। ततो धर्मसुतो राजा तत्रैवोपाविशत् प्रभुः॥ ते एव महर्षयः। एवं नातिमहान् कालः स तेषां संन्यवर्तत। कुर्वतां शौचकार्याणि भीष्मस्य निधने तदा॥ महादानानि विप्रेभ्यो ददतामौर्ध्वदेहिकम्। भीष्मकर्णपुरोगाणां कुरूणां कुरुसत्तम॥ सहितो धृतराष्ट्रेण स ददावौर्ध्वदेहिकम्। ततो दत्त्वा बहुधनं विप्रेभ्यः पाण्डवर्षभः॥ धृतराष्ट्रं पुरस्कृत्य विवेश गजसाह्वयम्। स समाश्वास्य पितरं प्रज्ञाचक्षुषमीश्वरम्। अन्वशाद् वै स धर्मात्मा पृथिवीं भ्रातृभिः सह॥ जनमेजय उवाच विजिते पाण्डवेयैस्तु प्रशान्ते च द्विजोत्तम। राष्ट्रे किं चक्रतुर्वीरौ वासुदेवधनंजयौ॥ वैशम्पायन उवाच विजिते पाण्डवै राजन् प्रशान्ते च विशाम्पते। राष्ट्र बभूवतुर्हष्टौ वासुदेवधनंजयौ॥ विजह्राते मुदा युक्तौ दिवि देवेश्वराविव। तौ वनेषु विचित्रेषु पर्वतेषु ससानुपु॥ तीर्थेषु चैव पुण्येषु पल्वलेषु नदीषु च। चक्रम्यमाणौ संहृष्टावश्विनाविव नन्दने॥ इन्द्रप्रस्थे महात्मानौ रेमतुः कृष्णपाण्डवौ। प्रविश्य तां सभां रम्यां विजह्राते च भारत॥ तत्र युद्धकथाश्चित्राः परिक्लेशांश्च पार्थिव। कथायोगे कथायोगे कथयामासतुः सदा॥ ऋषीणां देवतानां च वंशांस्तावाहतुः सदा। प्रीयमाणौ महात्मानौ पुराणावृषिसत्तमौ॥ मधुरास्तु कथाचित्राश्चित्रार्थपदनिश्चयाः। निश्चप्रज्ञः स पार्थाय कथयामास केशवः॥ पुत्रशोकाभिसंतप्तं ज्ञातीनां च सहस्रशः। कथाभिः शमयामास पार्थं शौरिर्जनार्दन॥ स तमाश्वास्य विधिवद् विज्ञानज्ञो महातपाः। अपहृत्यात्मनो भारं विशश्रामेव सात्वतः॥ तत: कथान्ते गोविन्दो गुडाकेशमुवाच ह। सान्त्वयश्लक्ष्णया वाचा हेतुयुक्तमिदं वचः॥ वासुदेव उवाच विजितेयं धरा कृत्स्रा सव्यसाचिन् परंतप। त्वद्वाहुबलमाश्रित्य राज्ञा धर्मसुतेन ह॥ असपत्नां महीं भुङ्क्ते धर्मराजो युधिष्ठिरः। भीमसेनानुभावेन यमयोश्च नरोत्तम॥ धर्मेण राज्ञा धर्मज्ञ प्राप्तं राज्यमकण्टकम्। धर्मेण निहत: संख्ये स च राजा सुयोधनः॥ अधर्मरुचयो लुब्धाः सदा चाप्रियवादिनः। धार्तराष्ट्रा दुरात्मानः सानुबन्धा निपातिताः :॥ प्रशान्तामखिलां पार्थ प्रथिवीं पृथिवीपतिः। भुङ्क्ते धर्मसुतो राजा त्वया गुप्तः कुरुद्वह॥ रमे चाहं त्वया सार्धमरण्येष्वपि पाण्डव। किमु यत्र जनोऽयं वै पृथा चामित्रकर्षण॥ यत्र धर्मसुतो राजा यत्र भीमो महाबलः। यत्र माद्रवतीपुत्रौ रतिस्तत्र परा मम॥ तथैव स्वर्गकल्पेषु सभोद्देशेषु कौरव। रमणीयेषु पुण्येषु सहितस्य त्वयानघ॥ कालो महांस्त्वतीतो मे शूरसृनुमपश्यतः। बलदेवं च कौरव्य तथान्यान् वृष्णि पुगवान्॥ साऽहं गन्तुमभीप्सामि पुरीं द्वारावती प्रति। रोचतां गमनं मह्यं तवापि पुरुषर्षभ॥ उक्तो बहुविधं राजा तत्र तत्र युधिष्ठिरः। सह भीष्मेण यद् युक्तमस्माभिः शोककारिते॥ शिष्टो युधिष्ठिरोऽस्माभिः शास्ता सन्नपि पाण्डवः। तेन तत् तु वचः सम्यग् गृहीतं सुमहात्मना॥ धर्मपुत्रे हि धर्मज्ञे कृतज्ञे सत्यवादिनि। सत्यं धर्मो मतीश्चाग्र्या स्थितिश्च सततं स्थिरा॥ तत्र गत्वा महात्मानं यदि ते रोचतेऽर्जुन। अस्मद्गमनसंयुक्तं वचो ब्रूहि जनाधिपम्॥ न हि तस्याप्रियं कुर्यां प्राणत्यागेऽप्युपस्थिते। कुतो गन्तुं महाबाहो पुरी द्वारावतीं प्रति॥ सर्वं त्विदमहं पार्थ त्वत्प्रीतिहितकाम्पया। ब्रवीमि सत्यं कौरव्य न मिथ्यैतत् कथंचन॥ प्रयोजनं च निर्वृत्तमिह वासे ममार्जुन। धार्तराष्ट्रो हतो राजा सबल: सपदानुगः॥ पृथिवी च वशे तात धर्मपुत्रस्य धीमतः। स्थिता समुद्रवलया सशैलवनकानना॥ चिता रत्नैर्बहुविधैः कुरुराजस्य पाण्डव। धर्मेण राजा धर्मज्ञः पातु सर्वां वसुन्धराम्॥ उपास्यमानो बहुभिः सिद्धैश्चापि महात्मभिः। स्तूयमानश्च सततं वन्दिभिर्भरतर्षभ॥ तं मया सह गत्वाद्य राजानं कुरु वर्धनम्। आपृच्छ कुरुशार्दूल गपनं द्वारका प्रति॥ इदं शरीरं वसु यच्च मे गृहे निवेदितं पार्थ सदा युधिष्ठिरे। प्रियश्च मान्यश्च हि मे युधिष्ठिरः सदा कुरुणामधिपो महामतिः॥ प्रयोजनं चापि निवासकारणे। न विद्यते मे त्वदृते नृपात्मज। स्थिता हि पृथ्वी तव पार्थ शासने गुरोः सुवृत्तस्य युधिष्ठिरस्य च॥ इतीदमुक्तः स तदा महात्मना जनार्दनेनामितविक्रमोऽर्जुनः। जनार्दनं सम्प्रतिपूज्य पार्थिव॥ जनमेजय उवाच सभायां वसतोस्तत्र निहत्यारीन् महात्मनोः। केशवार्जुनयोः का नु कथा समभवद् द्विज॥ कृष्णेन सहितः पार्थ:स्वं राज्यं प्राप्य केवलम्। तस्यां सभायां दिव्यायां विजहार मुदा युतः॥ तत्र कंचित् सभोद्देशं स्वर्णोद्देशसमं नृप। यदृच्छया तौ मुदितौ जग्मतुः स्वजनावृतौ॥ ततः प्रतीतः कृष्णेन सहितः पाण्डवोऽर्जुनः। निरीक्ष्य तां सभां रम्यामिदं वचनमब्रवीत्॥ विदितं मे महाबाहो संग्रामे समुपस्थिते। माहात्म्यं देवकीमातस्तच ते रूपमैश्वरम्॥ यत् तद् भगवता प्रोक्तं पुरा केशव सौहृदात्। तत् सर्वं पुरुषव्याघ्र नष्टं मे भ्रष्टचेतसः॥ मम कौतूहलं त्वस्ति तेष्वर्थेषु पुनः पुनः। भवांस्तु द्वारकां गन्ता नचिरादिव माधव॥ वैशम्पायन उवाच एवमुक्तस्तु तं कृष्ण: फाल्गुनं प्रत्यभाषत। परिष्वज्य महातेजा वचनं वदतां वरः॥ वासुदेव उवाच श्रावितस्त्वं मया गुह्यं ज्ञापितश्च सनातनम्। धर्मं स्वरूपिणं पार्थ सर्वलोकांश्च शाश्वतान्॥ अबुद्ध्या नाग्रहीर्यस्त्वं तन्मे सुमहदप्रियम्। न च साद्य पुनर्भूयः स्मृति सम्भविष्यति॥ नूनमश्रद्दधानोऽसि दुर्मेधा ह्यसि पाण्डव। न च शक्यं पुनर्वक्तुमशेषेण धनंजय॥ स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने। न शक्यं तन्मया भूयस्तथा वक्तुमशेषतः॥ परं हि ब्रह्म कथितं योगयुक्तेन तन्मया। इतिहासं तु वक्ष्यामि तस्मिन्नर्थे पुरातनम्॥ यथा तां बुद्धिमास्थाय गतिमय्यां गमिष्यसि। शृणु धर्मभृतां श्रेष्ठ गदितं सर्वमेव मे॥ आगच्छद् ब्राह्मणः कश्चित् स्वर्गलोकादरिंदम ब्रह्मलोकाच्च दुर्धर्षः सोऽस्माभिः पूजितोऽभवत्।।१५ अस्माभिः परिपृष्टश्च यदाह भरतर्षभ। दिव्येन विधिना पार्थ नच्छृणुष्वाविचारयन्॥ ब्राह्मण उवाच मोक्षधर्मं समाश्रित्य कृष्ण यन्मामपृच्छथाः। भूतानामनुकम्पार्थं यत्मोहच्छेदनं विभो॥ तत् नेऽहं सम्प्रवक्ष्यामि यथावन्मधुसूदन। शृणुष्वावहितो भूत्वा गदतो मम माधव॥ कश्चिद् विप्रस्तपोयुक्तः काश्यपो धर्मवित्तमः। आससाद द्विजं कंचिद् धर्माणामागतागमम्॥ गतागते सुबहुशो ज्ञानविज्ञानपारगम्। लोकतत्त्वार्थकुशलं ज्ञातार्थं सुखदुःखयोः॥ जातीमरणतत्त्वज्ञं कोविदं पापपुण्ययौः। द्रष्टारमुच्चनीचानां कर्मभिर्देहिनां गतिम्॥ चरन्तं मुक्तवत्सिद्धं प्रशान्तं संयतेन्द्रियम्। दीप्यमानं श्रिया ब्राह्मया क्रममाणं च सर्वशः॥ अन्तर्धानगतिज्ञं च श्रुत्वा तत्त्वेन काश्यपः। तथैवान्तर्हितैः सिद्धैर्यान्तं चक्रधरैः सह॥ सम्भाषमाणमेकान्ते समासीनं च तैः सह। यदृच्छया च गच्छन्तमसक्तं पवनं यथा॥ तं समासाद्य मेधावी स तदा द्विजसत्तमः। चरणौ धर्मकामोऽस्य तपस्वी सुसमाहितः। प्रतिपेदे यथान्यायं दृष्ट्वा तन्महदद्भुतम्॥ विस्मितश्चाद्भुतं दृष्ट्वा काश्यपस्तद् द्विजोत्तमम्। परिचारेण महत्ता गुरुं तं पर्यतोषयत्॥ उपपन्नं च तत्सर्वं श्रुतचारित्रसंयुतम्। भावेनातोषयच्चैनं गुरुवृत्त्या परंतपः॥ तस्मै तुष्टः स शिष्याय प्रसन्नो वाक्यमब्रवीत्। सिद्धिं परामभिप्रेक्ष्य शृणु मत्तो जनार्दन॥ सिद्ध उवाच विविधैः कर्मभिस्तात पुण्ययोगैश्च केवलैः। गच्छन्तीह गतिं मर्त्या देवलोके च संस्थितिम्॥ न क्वचित् सुखमत्यन्तं न क्वचिच्छाश्वती स्थितिः। स्थानाच्च महतो भ्रंशो दुःखलब्धात् पुनः पुनः॥ अशुभा गतयः प्राप्ताः कष्टा मे पापसेवनात्। काममन्युपरीतेन तृष्णया मोहितेन च॥ पुनः पुनश्च मरणं जन्म चैव पुनः पुनः। आहारा विविधा भुक्ताः पीता नानाविधाः स्तनाः।।३२ मातरो विविधा दृष्टाः पितरश्च पृथग्विधाः। सुखानि च विचित्राणि दुःखानि च मयानघ।॥ प्रियैर्विवासो बहुशः संवासश्चाप्रियैः सह। धननाशश्च सम्प्राप्तो लध्वा दुःखेन तद् धनम्॥ अवमानाः सुकष्टाश्च राजतः स्वजनात् तथा। शारीरा मानसा वापि वेदना भृशदारुणाः॥ प्राप्ता विमाननाशोग्रा वधवन्धाश्च दारुणाः। पतनं निरये चैव यातनाश्च यमक्षये॥ जरा रोगाश्च सततं व्यसनानि च भूरिशः। लोकेऽस्मिन्ननुभूतानि द्वन्द्वजानि भृशं मया॥ ततः कदाचिन्निर्वेदान्निराकाराश्रितेन य। लोकतन्त्रं परित्यक्तं दुःखार्तेन भृशं मया॥ लोकेऽस्मिन्ननुभूयाहमिमं मार्गमनुष्ठितः। ततः सिद्धिरियं प्राप्ता प्रसादादात्मनो मया।॥ नाहं पुनरिहागन्ता लोकानालोकयाम्यहम्। आसिद्धेराप्रजासर्गादात्मनोऽपि गताः शुभाः॥ उपलब्धा द्विजश्रेष्ठ तथेयं सिद्धिरुत्तमाः इतः परं गमिष्यामि ततः परतरं पुनः॥ ब्रह्मणः पदमव्यक्तं मा तेऽभूदत्र संशयः। नाहं पुनरिहागन्ता मर्त्यलोकं परंतप॥ प्रीतोऽस्मि ते महाप्राज्ञ ब्रूहि किं करवाणि ते। यदीप्सुरुपपन्नस्त्वं तस्य कालोऽयमागतः॥ अभिजाने च तदहं यदर्थं मामुपागतः। अचिरात् तु गमिष्यामि तेनाहं त्वामचूचुदम्॥ भृशं प्रीतोऽस्मि भवतश्चारित्रेण विचक्षण। परिपृच्छस्व कुशलं भाषेयं यत् तवेप्सितम्॥ बहु मन्ये च ते बुद्धिं भृशं सम्पूजयामि च। येनाहं भवता बुद्धो मेधावी ह्यसि काश्यप॥ वासुदेव उवाच ततस्तस्योपसंगृह्य पादौ प्रश्नान् सुदुर्वचान्। पप्रच्छ तांश्च धर्मान् स प्राह धर्मभृतां वरः॥ कश्यप उवाच कथं शरीरं च्यवते कथं चैवोपपद्यते। कथं कष्टाच्च संसारात् संसरन् परिमुच्यते॥ आत्मा च प्रकृति मुक्त्वा तच्छरीरं विमुञ्चति। शरीरतश्च निर्मुक्तः कथमन्यत् प्रपद्यते॥ कथं शुभाशुभे चायं कर्मणी स्वकृते नरः। उपभुङ्क्ते क्व वा कर्म विदेहस्यावतिष्ठते॥ ब्राह्मण उवाच एवं संचोदितः सिद्धः प्रश्नांस्तान् प्रत्यभाषत। आनुपूर्येण वार्ष्णेय तन्मे निगदतः शृणु॥ सिद्ध उवाच आयुः कीर्तिकराणीह यानि कृत्यानि सेवते। शरीरग्रहणे यस्मिंस्तेषु क्षीणेषु सर्वशः॥ आयुःक्षयपरीतात्मा विपरीतानि सेवते। बुद्धिावर्तते चास्य विनाशे प्रत्युपस्थिते॥ सत्त्वं बलं च कालं च विदित्वा चात्मनस्तथा। अतिवेलमुपाश्नाति स्वविरुद्धान्यनात्मवान्॥ यदायमतिकष्टानि सर्वाण्युपनिषेवते। अत्यथैमपि वा भुङ्क्ते न वा भुक्तो कदाचन॥ दुष्टान्नामिषपानं च यदन्योन्यविरोधि च। गुरु चाप्यमितं भुङ्क्तं नातिजीर्णेऽपि वा पुनः॥ व्यायाममतिमात्रं च व्यवायं चोपसेवते। सततं कर्मलाभाद् वा प्राप्तं वेगं विधारयेत्॥ रसाभियुक्तमन्नं वा दिवा स्वप्नं च सेवते। अपक्वानागते काले स्वयं दोषान् प्रकोपयेत्॥ स्वदोषकोपनाद् रोगं लभते मरणान्तिकम्। अपि वोद्वन्धनादीनि परीतानि व्यवस्थति॥ तस्य तैः कारणैर्जन्तोः शरीरं च्यवते तदा। जीवितं प्रोच्यमानं तदृ यथावदुपधारय॥ ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः। शरीरमनुपर्येत्य सर्वान् प्राणान् रुणद्धि वै॥ अत्यर्थं बलवानूष्मा शरीरे परिकोपितः। भिनत्ति जीवस्थानानि मर्माणि विद्धि तत्त्वतः॥ ततः सवेदनः सद्यो जीवः प्रच्यवते क्षरात्। शरीरं त्यजते जन्तुश्छिद्यमानेषु मर्मसु॥ वेदनाभिः परीतात्मा तद् विद्धि द्विजसत्तम। जातीमरणसंविग्नाः सततं सर्वजन्तवः॥ दृश्यन्ते संत्यजन्तश्च शरीराणि द्विजर्षभ। गर्भसंक्रमणे चापि मर्मणामतिसर्पणे॥ तादृशीमेव लभते वेदनां मानवः पुनः। भिन्नसंधिरथ क्लेदमद्भिः स लभते नरः॥ यथा पञ्चसु भूतेषु सम्भूतत्वं नियच्छति। शैत्यात् प्रकुपित: काये तीव्रवायुसमीरितः॥ यः स पञ्चसु भूतेषु प्राणापाने व्यवस्थितः। स गच्छत्यूर्ध्वगो वायुः कृच्छ्रान्मुक्त्वा शरीरिणः॥२२ शरीरं च जहात्येवं निरुच्छ्वासश्च दृश्यते। स निरुष्मा निरुच्छ्वासो नि:श्रीको हतचेतनः॥ ब्रह्मणा सम्परित्यक्तो मृत इत्युच्यते नरैः। स्रोतोभियैर्विजानाति इन्द्रियार्थाशरीरभृत्॥ तैरेव न विजानाति प्राणानाहारसम्भवान्। तत्रैव कुरुते काये य: स जीवः सनातनः॥ तथा यद्यद् भवेद् युक्तं संनिपाते क्वचित् क्वचित्। तत्तन्मर्म विजानीहि शास्त्रदृष्टं हि तत् तथा॥ तेषु मर्मसु भिन्नेषु ततः स समुदीरयन्। आविश्य हृदयं जन्तोः सत्त्वं चाशु रुणद्धि वै॥ ततः सचेतनो जन्तु भिजानाति किंचन। तमसा संवृतज्ञानः संवृतेष्वेव मर्मसु। स जीवो निरधिष्ठानचाल्यते मातरिश्वना॥ ततः सतं महोच्छ्वासं भृशमुच्छ्वस्य दारुणम्। निष्क्रामन् कम्पयत्याशु तच्छरीरमचेतनम्॥ सजीव: प्रच्युतः कायात् कर्मभिः स्वैः समावृतः। अभितः स्वैः शुभैः पुण्यैः पापैर्वाप्युपपद्यते॥ ब्राह्मणा ज्ञानसम्पन्ना यथावच्छ्रुतनिश्चयाः। इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः॥ यथान्धकारे खद्योतं लीयमानं ततस्ततः। चक्षुष्मन्तः प्रपश्यन्ति तथा च ज्ञानचक्षुषः॥ पश्यन्त्येवंविधं सिद्धा जीवं दिव्येन चक्षुषा। च्यवन्तं जायमानं च योनि चानुप्रवेशितम्॥ तस्य स्थानानि दृष्टानि त्रिविधानीह शास्त्रतः। कर्मभूमिरियं भूमिर्यत्र तिष्ठन्ति जन्तवः॥ ततः शुभाशुभं कृत्वा लभन्ते सर्वदेहिनः। इहैवोच्चावचान् भोगान् प्राप्नुवन्ति स्वकर्मभिः॥ इहैवाशुभकर्माणः कर्मभिर्निरयं गताः। अवाग्गतिरियं कष्टा यत्र पच्यन्ति मानवाः। तस्मात् सुदुर्लभो मोक्षो रक्ष्यश्चात्मा ततो भृशम्॥ ऊर्ध्वं तु जन्तवो गत्वा येषु स्थानेष्ववस्थिताः। कीर्त्यमानानि तानीह तत्त्वतः संनिबोध मे॥ तच्छ्रुत्वा नैष्ठिकी बुद्धिं बुद्ध्येथाः कर्मनिश्चयम्। तारारूपाणि सर्वाणि यत्रैतच्चन्द्रमण्डलम्॥ यत्र विभ्राजते लोके स्वभासा सूर्यमण्डलम्। स्थानान्येतानि जानीहि जनानां पुण्यकर्मणाम्॥ कर्मक्षयाच्च ते सर्वे च्यवन्ते वै पुनः पुनः। तत्रापि च विशेषोऽस्ति दिवि नीचोच्चमध्यमः॥ न च तत्रापि संतोषो दृष्ट्रा दीप्ततरां श्रियम्। इत्येता गतयः सर्वाः पृथक्ते समुदीरिताः॥ उपपत्तिं तु वक्ष्यामि गर्भस्याहमतः परम्। तथा तन्मे निगदतः शृणुष्वावहितो द्विज॥ ब्राह्मण उवाच शुभानामशुभानां च नेह नाशोऽस्ति कर्मणाम्। प्राप्य प्राप्यानुपच्यन्ते क्षेत्रं क्षेत्र तथा तथा॥ यथा प्रसूयमानस्तु फली दद्यात् फलं बहु। तथा स्याद् विपुलं पुण्यं शुद्धेन मनसा कृतम्॥ पापं चापि तथैव स्यात् पापेन मनसा कृतम्। पुरोधाय मनो हीदं कर्मण्यात्मा प्रवर्तते॥ यथा कर्मसमाविष्टः काममन्युसमावृतः। नरो गर्भ प्रविशति तच्चापि शृणु चोत्तरम्॥ शुक्रं शोणितसंसृष्टं स्त्रिया गर्भाशयं गतम्। क्षेत्रं कर्मजमाप्नोति शुभं वा यदि वाशुभम्॥ सौम्यादव्यक्तभावाच्च न च क्वचन सज्जति। सम्प्राप्य ब्राह्मणः कामं तस्मात् तद्ब्रह्म शाश्वतम्॥६ तद् बीजं सर्वभूतानां तेन जीवन्ति जन्तवः। स जीवः सर्वगात्राणि गर्भस्याविश्य भागशः॥ दधाति चेतसा सद्यः प्राणस्थानेष्ववस्थितः। तत: स्पन्दयतेऽङ्गानि स गर्भश्चेतनान्वितः॥ यथा लोहस्य नि:स्यन्दो निषिक्तो बिम्बविग्रहम्। उपैति तद् विजानीहि गर्भे जीवप्रवेशनम्॥ लोहपिण्डं यथा वह्निः प्रविश्य ह्यतितापयेत्। तथा त्वमपि जानीहि गर्भे जीवापपादनम्॥ यथा च दीपः शरणे दीप्यमानः प्रकाशते। एवमेव शरीराणि प्रकाशयति चेतना॥ यद् यच्च कुरुते कर्म वा यदि वाशुभम्। पूर्वदेहकृतं सर्वमवश्यमुपभुज्यते॥ पुनश्चान्यत् प्रचीयते। यावत् तन्मोक्षयागस्थं धर्मं नैवावबुध्यते॥ तत्र कर्म प्रवक्ष्यामि सुखी भवति येन वै। आवर्तमानो जातीषु यथान्योन्यास सत्तम॥ दानं व्रतं ब्रह्मचर्यं यथोक्तं ब्रह्मधारणम्। दमः प्रशान्तता चैव भूतानां चानुकम्पनम्॥ संयमाश्चानृशंस्यं च परस्वादानवर्जनम्। व्यलोकानामकरणं भूतानां मनसा भुवि॥ ततस्तु क्षीयते चैव मातापित्रोश्च शुश्रूषा देवतातिथिपूजनम्। गुरुपूजा घृणा शौचं नित्यमिन्द्रियसंयमः॥ प्रवर्तनं शुभानां च तत् सतां वृत्तमुच्यते। ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः॥ एवं सत्सु सदा पश्येत् तत्राप्येषा ध्रुवा स्थितिः। आचारो धर्ममाचष्टे यस्मिशान्ता व्यवस्थिताः॥ तेषु तत् कर्म निक्षिप्तं यः स धर्मः सनातनः। यस्तं समभिपद्येत न स दुर्गतिमाप्नुयात्॥ अतो नियम्यते लोकः प्रच्यवन् धर्मवर्त्मसु। यश्च योगी च मुक्तश्च स एतेभ्यो विशिष्यते॥ वर्तमानस्य धर्मेण शुभं यत्र यथा तथा। संसारतारणं ह्यस्य कालेन महता भवेत्॥ एवं पूर्वकृतं कर्म नित्यं जन्तु: प्रपद्यते। सर्वं तत्कारणं येन विकृतोऽयमिहागतः॥ शरीरग्रहणं चास्य केन पूर्वं प्रकल्पितम्। इत्येवं संशयो लोके तच्च वक्ष्याम्यत: परम्॥ शरीरमात्मनः कृत्वा सर्वलोकपितामहः। त्रेलोक्यमसृजद् ब्रह्मा कृत्स्नं स्थावरजङ्गमम्॥ ततः प्रधानमसृजत् प्रकृति स शरीरिणाम्। यया सर्वमिदं व्याप्तं यां लोके परमां विदुः॥ इदं तत्क्षरमित्युक्तं परं त्वमृतमक्षरम्। त्रयाणां मिथुनं सर्वमेकैकस्य पृथक् पृथक्॥ असृजत् सर्वभूतानि पूर्वदृष्टः प्रजापतिः। स्थावराणि च भूतानि इत्येषा पौर्विकी श्रुतिः॥ तस्य कालपरीमाणमकरोत् स पितामहः। भूतेषु परिवृत्तिं च पुनरावृत्तिमेव च॥ यथात्र कश्चिन्मेधावी दृष्टात्मा पूर्वजन्मनि। यत् प्रवक्ष्यामि तत् सर्वं यथावदुपपद्यते॥ सुख दुःखे यथा सम्यगनित्ये यः प्रपश्यति। कायं चामेध्यसंघातं विनाशं कर्मसंहितम्॥ यच्च किंचित्सुखं तच्च दुःखं सर्वमिति स्मरन्। संसारसागरं घोरं तरिष्यति सुदुस्तरम्॥ जातीमरणरौगैश्च समाविष्टः प्रधानवित्। चेतनावत्सु चैतन्यं समं भूतेषु पश्यति॥ निर्विद्यते ततः कृत्स्नं मार्गमाणः परं पदम्। तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम॥ शाश्वतस्याव्ययस्याथ यदस्य ज्ञानमुत्तमम्। प्राच्यमानं मया विप्र निबोधेदमशेषतः॥ ब्राह्मण उवाच यः स्यादेकायने लीनस्तूष्णीं किंचिदचिन्तयन्। पूर्वं पूर्व परित्यज्य स तीर्णो बन्धनाद् भवेत्॥ सर्वमित्रः सर्वसहः शमे रक्तो जितेन्द्रियः। व्यपेतभयमन्युश्च आत्मवान् मुच्यते नरः॥ आत्मवत् सर्वभूतेषु यश्चरेनियतः शुचिः। अमानी निरभीमानः सर्वतो मुक्त एव सः॥ जीवितं मरणं चोभे सुखदुःखे तथैव च। लाभालाभे प्रियद्वेष्ये यः समः स च मुच्यते॥ न कस्यचित् स्पृहयते नावजानाति किंचन। निर्द्वन्द्वो वीतरागात्मा सर्वथा मुक्त एव सः॥ अनमित्रश्च निर्बधुरनपत्यश्च यः क्वचित्। त्यक्तधर्मार्थकामश्च निराकाक्षी च मुच्यते॥ नैव धर्मी न चाधर्मी पूर्वोपचितहायकः। धातुक्षयप्रशान्तात्मा निर्द्वन्द्वः स विमुच्यते॥ अकर्मवान् विकासश्च पश्येज्जगदशाश्वतम्। अश्वत्थसदृशं नित्यं जन्ममृत्युजरायुतम्॥ वैराग्यबुद्धिः सततमात्मदोषव्यपेक्षकः। आत्मबन्धविनिर्मोक्षं स करोत्यचिरादिव॥ अगन्धमरसस्पर्शमशब्दमपरिग्रहम्। अरूपमनभिज्ञेयं दृष्ट्वाऽऽत्मानं विमुच्यते॥ पञ्चभूतगुणैीनममूर्तिमदहेतुकम्। अगुणं गुणभोक्तारं यः पश्यति स मुच्यते॥ विहाय सर्वसंकल्पान् बुद्ध्या शारीरमानसान्। शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः॥ सर्वसंस्कारनिर्मुक्तो निर्द्वन्द्वो निष्परिग्रहः। तपसा इन्द्रियग्रामं यश्चरेन्मुक्त एव सः॥ विमुक्तः सर्वसंस्कारैस्ततो ब्रह्म सनातनम्। परमाप्नोति संशान्तमचलं नित्यमक्षरम्॥ अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम्। युञ्जन्तः सिद्धमात्मानं यथा पश्यन्ति योगिनः॥ तस्योपदेशं वक्ष्यामि यथावत् तन्निवोध मे। यैरैश्चारयन्नित्यं पश्यत्यात्मानमात्मनि॥ इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत्। तीव्र तप्त्वा तपः पूर्वे मोक्षयोगं समाचरेत्॥ तपस्वी सततं युक्तो योगशास्रमथाचरेत्। मनीषी मनसा विप्र पश्यन्नात्मानमात्मनि॥ य चेच्छक्नोत्ययं साधुर्योक्तुमात्मानमात्मनि। तत एकान्तशीलः स पश्यत्यात्मानमात्मनि॥ हि संयतः सततं युक्त आत्मवान् विजितेन्द्रियः। तथा य आत्मनाऽऽत्मानं सम्प्रयुक्तः प्रपश्यति॥ यथा पुरुषः स्वप्ने दृष्ट्वा पश्यत्यसाविति। तथा रूपमिवात्मानं साधुयुक्तः प्रपश्यति॥ इषीकां च यथा मुजात् कश्चिनिष्कृष्य दर्शयेत्। योगी निष्कृष्य चात्मानं तथा पश्यति देहतः॥ मुजं शरीरमित्याहुरिषीकामात्मनि श्रिताम्। एतन्निदर्शनं प्रोक्तं योगविद्भिरनुत्तमम्॥ यदा हि युक्तमात्मानं सम्यक् पश्यति देहभृत्। न तस्येहेश्वरः कश्चित् त्रैलोक्यस्यापि यः प्रभुः।।२४ अन्यान्याश्चैव तनवो यथेष्टं प्रतिपद्यते। विनिवृत्य जरां मृत्युं न शोचति न हृष्यति॥ देवानामपि देवत्वं युक्तः कारयते वशी। ब्रह्म चाव्ययमाप्नोति हित्वा देहमशाश्वतम्॥ विनश्यत्सु च भूतेषु न भयं तस्य जायते। क्लिश्यमानेषु भूतेषु न स क्लिशति केनचित्॥ दुःखशोकमयैोरैः सङ्गस्नेहसमुद्भवैः। न विचाल्यति युक्तात्मानिःस्पृहः शान्तमानसः॥ नैनं शस्त्राणि विध्यन्ते न मृत्युश्चास्य विद्यते। नातः सुखतरं किंचिल्लोके क्वचन दृश्यते॥ सम्यग्युक्त्वा स आत्मानमात्मन्येव प्रतिष्ठते। विनिवृत्तजरादुःख सुखं स्वपिति चापि सः॥ देहान्यथेष्टमभ्येति हित्वेमां मानुषीं तनुम्। निर्वेदस्तु न कर्तव्यो भुञ्जानेन कथंचन॥ सम्यग्युक्तो यदाऽऽत्मानमात्मन्येव प्रपश्यति। तदैव न स्पृहयते साक्षादपि शतक्रतोः॥ योगमेकान्तशीलस्तु यथा विन्दति तच्छृणु। दृष्टपूर्वी दिशं चिन्त्य यस्मिन् सनिवसेत् पुरे॥ पुनस्याभ्यन्तरे तस्य मनः स्थाप्यं न बाह्यतः। पुनस्याभ्यन्तरे तिष्ठन् यस्मिन्नावसथे वसेत्। तस्मिन्नावसथे धार्य सबाह्याभ्यन्तरं मनः॥ प्रचिन्त्यावसथे कृत्स्नं यस्मिन् काले स पश्यति। तस्मिन् काले मनश्चास्य न च किंचन बाह्यतः॥ सन्नियम्येन्द्रियग्रामं निर्घोषं निर्जने वने। कायमभ्यन्तरं कृत्स्नमेकाग्र: परिचिन्तयेत्॥ दन्तांस्तालु च जिह्वां च गलं ग्रीवां तथैव च। हृदयं चिन्तयेच्चापि तथा हृदयबन्धनम्॥ ब्राह्मण उवाच इत्युक्तः य मया शिष्यो मेधावी मधुसूदन। पप्रच्छ पुनरेवेमं मोक्षधर्मं सुदुर्वचम्॥ भुक्तं भुक्तमिदं कोष्ठे कथमनं विपच्यते। कथं रसत्वं व्रजति शोणितत्वं कथं पुनः॥ तथा मांस च मेदश्च स्नाय्वस्थीनि च योषिति। कथमेतानि सर्वाणि शरीराणि शरीरिणाम्॥ वर्धते वर्धमानस्य वर्धते च कथं बलम्। निरोधानां निर्गमनं मलानां च पृथक् पृथक्॥ कुतोवायं प्रश्वसिति उच्छ्वसित्यपि वा पुनः। कं च देशमधिष्ठाय तिष्ठेत्यात्मायमात्मनि॥ जीवः कथं वहति च चेष्टमान: कलेवरम्। किं वर्ण कीदृशं चैव निवेशयति वै पुनः॥ याथातथ्येन भगवन् वक्तुमर्हसि मेऽनघ। इति सम्परिपृष्टोऽहं तेन विप्रेण माधव॥ प्रत्यब्रुवं महाबाहो यथाश्रुतमरिंदम। यथा स्वकोष्ठे प्रक्षिप्य भाण्डं भाण्डमना भवेत्॥ तथा स्वकाये प्रक्षिप्य मनो द्वारैनिश्चलैः। आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत्॥ एवं सततमुद्युक्तः प्रीतात्मा न चिरादिव। आसादयति तद् ब्रह्म यद् दृष्ट्वा स्यात् प्रधानवित्।।४७ न त्वसौ चक्षुषा ग्राह्यो न च सर्वैरपीन्द्रियैः। मनसैव प्रदीपेन महानात्मा प्रदृश्यते॥ सर्वतः पाणिपादान्तः सर्वतोऽक्षिशिरोमुखाः सर्वतःश्रुतिमाल्लोके सर्वमावृत्य तिष्ठति॥ जीवो निष्क्रान्तमात्मानं शरीरात् सम्प्रपश्यति। स तमुत्सृज्य देहे धारयन् ब्रह्म केवलम्॥ आत्मानमालोकयति मनसा प्रहसन्निव। तदेवमाश्रयं कृत्वा मोक्ष याति ततो मयि॥ इदं सर्वरहस्यं ते मया प्रोक्तं द्विजोत्तम। आपृच्छे साधयिष्यामि गच्छ विप्र यथासुखम्॥ इत्युक्तः स तदा कृष्ण मया शिष्यो महातपाः। अगच्छत यथाकामं ब्राह्मणः संशितव्रतः॥ वासुदेव उवाच इत्युक्त्वा स तदा वाक्यं मां पार्थ द्विजसत्तमः। मोक्षधर्माश्रितः सम्यक् तत्रैवान्तरधीयत॥ कच्चिदेतत् त्वया पार्थ श्रुतमेकाग्रचेतसा। तदापि हि रथस्थस्त्वं श्रुतवानेतदेव हि॥ नैतत् पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः। नरेणाकृतसंज्ञेन विशुद्धनान्तरात्मना।॥ सुरस्यमिदं प्रोक्तं देवानां भरतर्षभ। कच्चिन्नेदं श्रुतं पार्थ मनुष्येणेह कर्हिचित्॥ न ह्येतच्छ्रोतुमर्होऽन्यो मनुष्यस्त्वामृतेऽनघ। नैतदद्य सुविज्ञेयं व्यामिश्रेणान्तरात्मना॥ क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः। . न चैतदिष्टं देवानां मर्त्यरूपनिवर्तनम्॥ पराहि सा गति पार्थं तद् ब्रह्म सनातनम्। यत्रामृतत्वं प्राप्नोति त्यक्त्वा देहं सदा सुखी॥ इमं धर्मं समास्थाय येऽपि स्युः पापयोनयः। स्त्रियो वैशयास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्।। किं पुनर्ब्राह्मणाः पार्थ क्षत्रिया वा बहुश्रुताः। स्वधर्मरतयो नित्यं ब्रह्मलोकपरायणाः॥ हेतुमच्चैतदुद्दिष्टमुपायाश्चास्य साधने। सिद्धि फलं च मोक्षश्च दुःखस्य च विनिर्णय॥ नात परं सुख त्वन्यत् किंचित स्याद् भरतर्षभ। बुद्धिमाञ्श्रद्दधनश्च पराक्रान्तश्च पाण्डव॥ यः परित्यज्यते मर्यो लोकसारमसारवत्। एतैरुपायैः स क्षिप्रं परां गतिमवाप्नुते॥ एतावदेव वक्तव्यं नातो भूयोऽस्ति किंचन। षण्मासान् नित्ययुक्तस्य योगः पार्थ प्रवर्तते॥ वासुदेव उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। दम्पत्योः पार्थ संवादो योऽभवद् भरतर्षभ॥ ब्राह्मणी ब्राह्मणं कंचिज्ज्ञानविज्ञानपारगम्। दृष्ट्वा विविक्त आसीनं भार्या भर्तारमब्रवीत्॥ कं नु लोकं गमिष्यामि त्वामहं पतिमाश्रिता। न्यस्तकर्माणमासीनं कीनाशमविचक्षणम्॥ भार्याः पतिकृताँल्लोकानाप्नुवन्तीति नः श्रुतम्। त्वामहं पतिमासाद्य कां गमिष्यामि वै गतिम्॥ एवमुक्तः स शान्तात्मा तामुवाच हसन्निव। सुभगे नाभ्यसूयामि वाक्यस्यास्य तवातघे॥ ग्राह्यं दृश्यं च सत्यं वा यदिदं कर्म विद्यते। एतदेव व्यवस्यन्ति कर्म कर्मेति कर्मिणः॥ मोहमेव नियच्छन्ति कर्मणा ज्ञानवर्जिताः। नैष्कर्म्यं न च लोकेऽस्मिन् मुहूर्तमपि लभ्यते॥ कर्मणा मनसा वाचा शुभं वा यदि वाशुभम्। जन्मादिमूर्तिभेदान्तं कर्म भूतेषु वर्तते॥ रक्षोभिर्वघ्यमानेषु दृश्यद्रव्येषु वर्त्मसु। आत्मस्थमात्मना तेभ्यो दृष्टमायतनं मया॥ यत्र तद् ब्रह्म निर्द्वन्द्वं यत्र सोमः सहाग्निना। व्यवायं कुरुते नित्यं धीरो भूतानि धारयन्॥ यत्र ब्रह्मादयो युक्तास्तदक्षरमुपासते। विद्वांसः सुव्रता यत्र शान्तात्मानो जितेन्द्रियाः॥ घ्राणेन न तदा यं नास्वाद्यं चैव जिह्वया। स्पर्शनेन तदस्पृश्यं मनसा त्ववगम्यते॥ चक्षुषामविषह्यं च यत् किंचिच्छ्रवणात् परम्। अगत्वमरसस्मर्शमरूपाशब्दलक्षणम्॥ यतः प्रवर्तते तन्त्रं यत्र च प्रतितिष्ठति। प्राणोऽपान: समानश्च व्यानश्चोदार एव च॥ तत एव प्रवर्तन्ते तदेव प्रविशन्ति च। समानव्यानयोर्मध्ये प्राणापानौ विचेरतुः॥ तस्मिल्लीने प्रलीयेत समानो व्यान एव च। अपान प्रणयोर्मध्ये उदानो व्याप्य तिष्ठति। तस्माच्छयानं पुरुषं प्राणापानौ न मुञ्चतः॥ प्राणानामायतत्वेन तमुदानं प्रचक्षते। तस्मात् तपो व्यवस्यन्ति मन्दतं ब्रह्मवादिनः॥ तेषामन्योन्यभक्षाणां सर्वेषां देहचारिणाम्। अग्निर्वैश्वानरो मध्ये सप्तधा दीव्यतेऽन्तरा॥ घ्राणं जिहा च चक्षुश्चत्वक् च श्रोत्रं च पञ्चमम्। मनो बुद्धिश्च सप्तैता जिह्वा वैश्वानरार्चिषः॥ प्रेयं दृश्यं च पेयं च स्पृश्यं श्रव्यं तथैव च। मन्तव्यमथ वोद्धव्यं ताः सप्त समिधो मम॥ घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः। मन्ता बोद्धा च सप्तैते भवन्ति परमविजः॥ प्रेये पेये च दृश्ये च स्पृश्ये श्रव्ये तथैव च। मन्तव्येऽप्यथ बोद्धव्ये सुभगे पश्य सर्वदा॥ हवींष्यग्निषु होतार: सप्तधा सप्त सप्तसु। सम्यक् प्रक्षिप्य विद्वांसो जनयन्ति स्वयोनिषु॥ पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्। मनो बुद्धिश्च सप्तैता योनिरित्येव शब्दिताः॥ हविर्भूता गुणाः सर्वे प्रविशन्त्यग्निजं गुणम्। अन्तर्वासमुषित्वा च जायन्ते स्वासु योनिषु॥ तत्रैव च निरुध्यन्ते प्रलये भूतभावने। ततः संजायते गन्धस्ततः संजायते रसः॥ ततः संजायते रूपं ततः स्पर्शोऽभिजायते। ततः संजायते शब्दः संशयस्तत्र जायते। ततः संजायते निष्ठा जन्मैतत् सप्तधा विदुः॥ अनेनैव प्रकारेण प्रगृहीतं पुरातनैः। पूर्णाहुतिभिरापूर्णास्त्रिभिः पूर्यन्ति तेजसा॥ ब्राह्मण उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। निबोध दशहोतृणां विधानमथ यादृशम्॥ श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चरणौ करो। उपस्थं वायुरिति वा होतृणि दश भामिनि॥ शब्दस्पर्शी रूपरसौ गन्धो वाक्यं क्रिया गतिः। रेतोमूत्रपुरीषाणां त्यागो दश हवींषि च॥ दिशो वायू रविश्चन्द्रः पृथ्व्यग्नी विष्णुरेव च। इन्द्रः प्रजापतिर्मित्रमग्नयो दश भामिनि॥ दशेन्द्रियाणि होतृणि हवींषि दश भाविनि। विषया नाम समिधो हूयन्ते तु दशाग्निषु॥ चित्तं स्रुवश्च वित्तं च पवित्रं ज्ञानमुत्तमम्। सुविभक्तमिदं सर्वं जगदासीदिति श्रुतम्॥ सर्वमेवाथ विज्ञेयं चित्तं ज्ञानमवेक्षते। रेतः शरीरभृत्काये विज्ञाता तु शरीरभृत्॥ शरीरभृद् गार्हपत्यस्तस्मादन्यः प्रणीयते। मनचाहवनीयस्तु तस्मिन् प्रक्षिप्यते हविः॥ ततो वाचस्पतिर्जज्ञे तं मनः पर्यवेक्षते। रूपं भवति वैवर्णं समनुद्रवते मनः॥ ब्राह्मण्युवाच कस्माद् वागभवत् पूर्वं कस्मात् पश्चान्मनोऽभवत्। मनसा चिन्तितं वाक्यं यदा समभिपद्यते॥ केन विज्ञानयोगेन मतिश्चित्तं समास्थिता। समुन्नीता नाध्यगच्छत् को वै तां प्रतिवाधते॥ ब्राह्मण उवाच तामपानः पतिर्भूत्वा तस्मात् प्रेषत्यपानताम्। तां गतिं मनसः प्राहुर्मनस्तस्मादपेक्षते॥ प्रश्नं तु वाङ्मनसोर्मा यस्मात् त्वमनुपृच्छसि। तस्मात् ते वर्तयिष्यामि तयोरेव समाह्वयम्॥ उभे वाङ्मनसी गत्वा भूतात्मानमपृच्छताम्। आवयोः श्रेष्ठमाचक्ष्व च्छिन्धि नौ संशयं विभो॥ मन इत्येव भगवांस्तदा प्राह सरस्वती। अहं वै कामधुक् तुभ्यमिति तं प्राह वागथ॥ ब्राह्मण उवाच स्थावरं जङ्गमं चैव विद्धयुभे मनसी मम। स्थावरं मत्सकाशे वै जङ्गमं विषये तव॥ यस्तु तं विषयं गच्छेन्मन्त्रो वर्णः स्वरोऽपि वा। तन्मनो जगमो नाम तस्मादसि गरीयसी॥ यस्मादपि समाधिस्ते स्वयमभ्येत्य शोभने। तस्मादुच्छ्वासमासाद्य प्रवक्ष्यामि सरस्वति॥ प्राणापानान्तरे देवी वाग् वै नित्यं स्म तिष्ठति। प्रेर्यमाणा महाभागे विना प्राणमपानती। प्रजापतिपुपाधावत् प्रसीद भगवन्निति॥ ततः प्राणः प्रादुरभूद् वाचमाप्याययन् पुनः। तस्मा दुच्छ्वासमासाद्य न वाग् वदति कर्हिचित्।।२० घोषिणी जातनिर्घोषा नित्यमेव प्रवर्तते। तयोरपि च घोषिण्या निर्घोषैव गरीयसी॥ गौरिव प्रसवत्यर्थान् रसमुत्तमशालिनी। सततं स्यन्दते ह्येषा शाश्वतं ब्रह्मवादिनी॥ दिव्यादिव्यप्रभावेन भारती गौः शुचिस्मिते। एतयोरन्तरं पश्य सूक्ष्मयोः स्यन्दमानयो॥ ब्राह्मण्युवाच अनुत्पन्नेषु वाक्येषु चोद्यमाना विवक्षया। किनु पूर्वं तदा देवी व्याजहार सरस्वती॥ ब्राह्मण उवाच प्राणेन या सम्भवते शरीरे प्राणादपानं प्रतिपद्यते च। उदानभूता च विसृज्य देहं व्यानेन सर्वं दिवमावृणोति॥ ततः समाने प्रतितिष्ठतीह इत्येव पूर्वं प्रजजल्प वाणी। तस्मान्मनः स्थावरत्वाद् विशिष्टं तथा देवी जङ्गमत्वाद् विशिष्टा॥ ब्राह्मण उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। सुभगे सप्तहोतॄणां विधानमिह यादृशम्॥ घ्राणश्चक्षुश्च जिह्वा च त्वक् श्रोत्रं चैव पञ्चमम्। मनो बुद्धिश्च सप्तैते होतारः पृथगाश्रिताः॥ सूक्ष्मेऽवकाशे तिष्ठन्तो न पश्यन्तीतरेतरम्। एतान् वै सप्तहोतूंस्त्व स्वभावाद् विद्धि शोभने॥ ब्राह्मण्युवाच सूक्ष्मेऽवकाशे सन्तस्ते कथं नान्योन्यदर्शिनः। कथंस्वभावा भगवन्नेतदाचक्ष्व मे प्रभो॥ ब्राह्मण उवाच गुणाज्ञानमविज्ञानं गुणज्ञानमभिज्ञता। परस्परं गुणानेते नाभिजानन्ति कर्हिचित्॥ जिह्वा चक्षुस्तथा श्रोत्रं वाङ्मनो बुद्धिरेव च। न गन्धानधिगच्छन्ति घ्राणस्तानधिगच्छति॥ ध्राणं चक्षुस्तथा श्रोत्रं वाङ्मनो बुद्धिरेव च। न रसानधिगच्छन्ति जिह्वा तानधिगच्छति॥ घ्राण जिह्वा तथा श्रोत्रं वाङ्मनो बुद्धिरेव च। न रूपाण्यधिगच्छन्ति चक्षुस्तान्यधिगच्छति॥ घ्राण जिह्वा ततश्चक्षुः श्रोत्रं बुद्धिर्मनस्तथा। न स्पर्शानधिगच्छन्ति त्वक् च तानधिगच्छति॥ घ्राण जिह्वा च चक्षुश्च वाङ्मनो बुद्धिरेव च। न शब्दानधिगच्छन्ति श्रोत्रं तानधिगच्छति॥ घ्राण जिह्वा च चक्षुश्च त्वक् श्रोत्रं बुद्धिरेव च। संशयं नाधिगच्छन्ति मनस्नमधिगच्छति॥ घ्राण जिह्वा च चक्षुश्च त्वक् श्रोत्रं मन एव च। न निष्ठामधिगच्छन्ति बुद्धिस्तामधिगच्छति॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। इन्द्रियाणां च संवादं मनसश्चैव भामिनि॥ मन उवाच नाघ्राति मामृते घ्राणं रसं जिह्वा न वेत्ति च। रूपं चक्षुर्न गृह्णाति त्वक् स्पर्श नावबुध्यते॥ न श्रोत्रं बुध्यते शब्दं मया हीनं कथंचन। प्रवरं सर्वभूतानामहमस्मि सनातनम्॥ अगाराणीव शून्यानि शान्तार्चिष इवाग्नयः। इन्द्रियाणि न भासन्ते मया होनानि नित्यशः॥ काष्ठानीवाशुष्काणि यतमानैरपीन्द्रियैः। गुणार्थान् नाधिगच्छन्ति मामृते सर्वजन्तवः॥ एवमेतद् भवेत् सत्यं यथैतन्मन्यते भवान्। ऋतेऽस्मानस्मादर्थोस्त्वं भोगान् भुङ्क्ते भवान् यदि।। यद्यस्मासु प्रलीनेषु तर्पणं प्राणधारणम्। भोगान् भुडक्ते भवान् सत्यं यथैतन्मन्यते तथा॥ अथवास्मासु लीनेषु तिष्ठत्सु विषयेषु च। यदि संकल्पमात्रेण भुङ्क्ते भोगान् यथार्थवत्॥ अथ चेन्मन्यसे सिद्धिमस्मदर्थेषु नित्यदा। घ्राणेन रूपमादत्स्व रसमादत्स्व चक्षुषा॥ श्रोत्रेण गधनादत्स्व स्पर्शानादत्स्व जिह्वया। त्वचा च शब्दमादत्स्व बुद्ध्या स्पर्शमथापि च॥ बलवन्तो ह्यनियमा नियमा दुर्बलीयसाम्। भोगानपूर्वानादत्स्व नोच्छिष्टं भोक्तुमर्हति॥ यथा हि शिष्यः शास्तारं श्रुत्यर्थमभिधावति। ततः श्रुतमुपादाय श्रुत्यर्थमुपतिष्ठति॥ विषयानेवमस्माभिर्दर्शितानभिमन्यसे) अनागनानतीतांश्च स्वप्ने जागरणे तथा॥ वैमनस्यं गतानां च जन्तूनामल्पचेतसाम्। अस्मदर्थे कृते कार्ये दृश्यते प्राणधारणम्॥ बहूनपि हि संकल्पान् मत्वा स्वजानुपास्य च। बुभुक्षया पीड्यमानो विषयानेव धावति॥ अगारमद्वारमिव प्रविश्य संकल्पभोगान् विषये निबद्धान्। प्राणक्षये शान्तिमुपैति नित्यं दारुक्षयेऽग्निलितो यथैव॥ कामं तु नः स्वेषु गुणेषु सङ्गः कामं च नान्योन्यगुणोपलब्धिः। अस्मान् विना नास्ति तवोपलब्धि स्तावदृते त्वां न भजेत् प्रहर्षः॥ ब्राह्मण उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। नातदस्य च संवादमृर्देवमतस्य च॥ देवमत उवाच जन्तोः संजायमानर्थं किं नु पूर्वं प्रवर्तते। प्राणोऽपान: समानो वा व्यानो वोदान एव च।॥ नारद उवाच येनायं सृज्यते जन्तुस्ततोऽन्यः पूर्वमेति तम्। प्राणद्वन्द्वं हि विज्ञेयं तिर्यगूर्ध्वमधश्च यत्॥ देवमत उवाच केनायं सृज्यते जन्तुः कश्चान्यः पूर्वमेति तम्। प्राणद्वन्द्वं च मे ब्रूहि तिर्यगूर्ध्वमधश्च यत्॥ नारद उवाच संकल्पाज्जायते हर्षः शब्दादपि च जायते। रसात् संजायते चापि रूपादपि च जायते॥ शुक्राच्छोणितसंसृष्टात् पूर्वं प्राणः प्रवर्तते। प्राणेन विकृते शुक्ते ततोऽपानः प्रवर्तते॥ शुक्रात् संजायते चापि रसादपि च जायते। एतद् रूपमुदानस्य हर्षो मिथुनमन्तरा॥ कामात् संजायते शुक्रं शुक्रात् संजायते रजः। समानव्यानजनिते सामान्ये शुक्रशोणिते॥ प्राणापानाविदं द्वन्द्वमवाक् चोर्ध्वं च गच्छतः। व्यान: समानश्चैवोभौ तिर्यग् द्वन्द्वत्वमुच्यते॥ अग्नि देवताः सर्वा इति देवस्य शासनम्। संजायते ब्राह्मणस्य ज्ञानं बुद्धिसमन्वितम्॥ तस्य धूमस्तमो रूपं रजो भस्मसु तेजसः। सर्वं संजायते तस्य यत्र प्रक्षिप्यते हविः॥ सत्त्वात् समानो व्यानश्च इति यज्ञविदो विदुः। प्राणापानावाज्यभागौ तयोर्मध्ये हुताशनः॥ एतद् रूपमुदानस्य परमं ब्राह्मणा विदुः। निर्द्वन्द्वमिति यत् त्वेतत् तन्मे निगदतः शृणु॥ अहोरात्रमिदं द्वन्द्वं तयोर्मध्ये हुताशनः। एतद् रूपमुदानस्य परमं ब्राह्मणा विदुः॥ सच्चासच्चैव तद् द्वन्द्वं तयोर्मध्ये हुताशनः। एतद् रूपमुदानस्य परमं ब्राह्मणा विदुः॥ ऊर्ध्वं समानो व्यानश्च व्यस्यते कर्म तेन तत्। तृतीयं तु समानेन पुनरेव व्यवस्यते॥ शान्त्यर्थं व्यानमेकं च शान्तिर्ब्रह्म सनातनम्। एतद् रूपमुदानस्य परमं ब्राह्मणा विदुः॥ ब्राह्मण उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। चातुर्होत्रविधानस्य विधानमिह यादृशम्॥ तस्य सर्वस्य विधिवद् विधानमुपदिश्यते। शृणु मे गदतो भद्रे रहस्यमिदमद्भुतम्॥ करणं कर्म कर्ता च मोक्ष इत्येव भाविनि। चत्वार एते होतारो यैरिदं जगदावृतम्॥ हेतूनां साधनं चैव शृणु सर्वमशेषतः घ्राणं जिह्वा च चक्षुश्च त्वक् च श्रोत्रं च पञ्चमम्। मनो बुद्धिश्च सप्तैते विज्ञेया गुणहेतवः॥ गन्धो रसच रूपं च शब्दः स्पर्शश्च पञ्चमः। मन्तव्यमथ बोद्धव्यं सप्तैते कर्महेतवः॥ घ्राता भक्षयिता द्रष्टा वक्ता श्रोता च पञ्चमः। मन्ता बोद्धा च सप्तैते विज्ञेयाः कर्तृहेतवः॥ स्वगुणं भक्षयन्त्येते गुणवन्तः शुभाशुभम्। अहं च निर्गुणोऽनन्तः सप्तैते मोक्षहेतवः॥ विदुषां बुध्यमानानां स्वं स्वं स्थानं यथाविधि। गुणास्ते देवताभूताः सततं भुञ्जते हविः॥ अदन्नन्नान्यथोऽविद्वान् ममत्वेनोपपद्यते। आत्मार्थं पाचयन्ननं ममत्वेनोपहन्यते॥ अभक्ष्यभक्षणं चैव मद्यपानं च हन्ति तम्। स चानं हन्ति तं चान्नं स हत्वा हन्यते पुनः॥ हन्ता ह्यन्नमिदं विद्वान् पुनर्जनयतीश्वरः। न चान्नाज्जायते तस्मिन् सूक्ष्मो नाम व्यतिक्रमः॥ मनसा गम्यते यच्च यच्च वाचा निगद्यते। श्रोत्रेण श्रूयते यच्च चक्षुषा यच्च दृश्यते॥ स्पर्शेन स्पृश्यते यच्च घ्राणेन घ्रायते च यत्। मनःषष्ठानि संयम्य हवींष्येतानि सर्वशः॥ गुणवत्पावको मह्यं दीव्यतेऽत:शरीरगः। योगयज्ञः प्रवृत्ते मे ज्ञानवह्निप्रदोद्भवः। प्राणस्तोत्रोऽपानशस्त्रः सर्वत्यागसुदक्षिणः॥ कर्तानुमन्ता ब्रह्मात्मा होताध्वर्युः कृतस्तुतिः। ऋतं प्रशास्ता तच्छस्त्रमपवर्गोऽस्य दक्षिणा॥ ऋचश्चाप्यत्र शंसन्ति नारायणविदो जनाः। नारायणाय देवाय यदविन्दन् पशून् पुरा॥ तत्र सामानि गायन्ति तत्र चाहुर्निदर्शनम्। देवं नारायणं भीरु सर्वात्मानं निबोध तम्॥ ऋचश्चाप्यत्र शंसन्ति नारायणविदो जनाः। नारायणाय देवाय यदविन्दन् पशून् पुरा॥ तत्र सामानि गायन्ति तत्र चाहुर्निदर्शनम्। देवं नारायणं भीरु सर्वात्मानं निबोध तम्॥ ब्राह्मण उवाच एकः शास्ता न द्वितीयोऽस्ति शास्ता यो हृच्छयस्तमहमनुब्रवीमि। तेनैव युक्तः प्रवणादिवोदकं यथानियुक्तोऽस्मि तथा वहामि।।।। एको गुरुर्नास्ति ततो द्वितीयो। यो हृच्छयस्तमहमनुब्रवीमि। तेनानुशिष्टा गुरुणा सदैव लोके द्विष्टाः पन्नगा: सर्व एव॥ एको बन्धुर्नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनुब्रवीमि। तेनानुशिष्टा बान्धवा बन्धुमन्तः सप्तर्षयश्चैव दिवि प्रभान्ति॥ एक: श्रोता नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनुब्रवीमि। तस्मिन् गुरौ गुरुवासं निरुष्य शक्रो गतः सर्वलोकामरत्वम्॥ एको द्वेष्टा नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनुब्रवीमि। तेनानुशिष्टा गुरुणा सदैव लोके द्विष्टाः पन्नगाः सर्व एव॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। प्रजापतौ पन्नगानां देवर्षीणां च संविदम्॥ देवर्षयश्च नागाश्चाप्यसुराश्च प्रजापतिम्। पर्यपृच्छन्नुपासीनाः श्रेयो नः प्रोच्यतामिति॥ तेषां प्रोवाच भगवाश्रेयः समनुपृच्छताम्। ओमित्येकाक्षरं ब्रह्म ते श्रुत्वा प्राद्रवन् दिशः॥ तेषां प्रद्रवमाणानामुपदेशार्थमात्मनः। सर्याणां दंशने भावः प्रवृत्तः पूर्वमेव तु॥ असुराणां प्रवृत्तस्तु दम्भभावः स्वभावजः। दानं देवा व्यवसिता दममेव महर्षयः॥ एकं शास्तारमासाद्य शब्देनैकेन संस्कृताः। नाना व्यवसिताः सर्वे सर्पदेवर्पिदानवाः॥ शृणोत्ययं प्रोच्यमानं गृह्णाति च यथातथम्। पृच्छतस्तदतो भूयो गुरुरन्यो न विद्यते॥ तस्य चानुमते कर्म ततः पश्चात् प्रवर्तते। गुरुर्बोद्धा च श्रोता च द्वेष्टा च हृदि निःसृतः॥ पापेन विचरल्लौके पापचारी भवत्ययम्। शुभेन विचरल्लौके शुभचारी भवत्युत॥ कामचारी तु कामेन य इन्द्रियसुखे रतः। ब्रह्मचारी सदैवैष य इन्द्रियजये रतः॥ अपेतव्रतकर्मा तु केवलं ब्रह्मणि स्थितः। ब्रह्मभूतश्चरँल्लोके ब्रह्मचारी भवत्ययम्॥ ब्रह्मैव समिधस्तस्य ब्रह्माग्निर्ब्रह्मसम्भवः। आपो ब्रह्म गुरुर्बह्म स ब्रह्मणि समाहितः॥ एतदेवेदृशं सूक्ष्मं ब्रह्मचर्यं विदुर्बुधाः। विदित्वा चान्वपद्यन्त क्षेत्रज्ञेनानुदर्शिताः॥ व्राह्मण उवाच गन्धान् न जिघ्रामि न वेधि रसान् रूपं न पश्यामि न च स्पृशामि। न चापि शब्दान् विविधाशृणोमि न चापि संकल्पमुपैमि कंचित्॥ अर्थानिष्टान् कामयते स्वभाव: सर्वान् द्वेष्यान् प्रद्विषते स्वभावः। कामद्वेषावुद्भवतः स्वभावात् प्राणापानौ जन्तुदेहान्निवेश्य॥ तेभ्यश्चान्यांस्तेषु नित्यांश्च भावान् भूतात्मानं लक्षयेरशरीरे। तस्मिस्तिष्ठन्नास्मि सक्तः कथंचित् कामक्रोधाभ्यां जरया मृत्युना च॥ नविद्विषाणस्य च सर्वदोषान्। स्तोयस्य बिन्दोरिव पुष्करेषु।॥ नित्यस्य चैतस्य भवन्ति नित्या निरीक्ष्यमाणस्य बहुस्वभावान्। न सज्जते कर्मसु भोगजालं दिवीव सूर्यस्य मयूखजालम्॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। अध्वर्युयतिसंवादं तं निबोध यशस्विनि॥ प्रोक्ष्यमाणं पशुं दृष्ट्वा यज्ञकर्मण्यथाब्रवीत्। यतिरध्वर्युमासीनो हिंसेयमिति कुत्सयन्॥ तमध्वर्युः प्रत्युवाच नायं छागो विनश्यति। श्रेयसा योक्ष्यते जन्तुर्यदि श्रुतिरियं तथा॥ यो ह्यस्य पार्थिवो भाग-पृथिवीं स गमिष्यति। यदस्य वारिज किंचिदपस्तत् सम्प्रवेक्ष्यति॥ सूर्ये चक्षुर्दिशः श्रोत्रं प्राणोऽस्य दिवमेव च। आगमे वर्तमानस्य न मे दोषाऽस्ति कश्चन॥ यतिरुवाच प्राणैर्वियोगे च्छागस्य यदि श्रेयः प्रपश्यसि। छागार्थे वर्तते यज्ञो भवतः किं प्रयोजनम्॥ अत्र त्वा मन्यतां भ्राता पिता माता सखेति च। मन्त्रयस्वैनमुन्नीय परवन्तं विशेषतः॥ एवमेवानुमन्येरस्तान् भवान् द्रष्टुमर्हति। तेषामनुमतं श्रुत्वा शक्या कर्तुं विचारणा॥ प्राणा अप्यस्य छागस्य प्रापितास्ते स्वयोनिपु। शरीरं केवल शिष्टं निश्चेष्टमिति मे मतिः॥ इन्धनस्य तु तुल्येन शरीरेण विचेतसा। हिंसानिर्वेष्टुकामानामिन्धनं पशुसंज्ञितम्॥ अहिंसा सर्वधर्माणामिति वृद्धानुशासनम्। यदहिस्रं भवेत् कर्म तत् कार्यमिति विद्महे॥ अहिंसेति प्रतिज्ञेयं यदि वक्ष्याम्यतः परम्। शक्यं बहुविधं कर्तुं भवता कार्यदूषणम्॥ अहिंसा सर्वभूतानां नित्यमस्मासु रोचते। प्रत्यक्षतः साधयामो न परोक्षमुपास्महे॥ अध्वर्युरुवाच भूमेर्गन्धगुणान् भुंक्षे पिबस्यापोमयान् रसान्। ज्योतिषां पश्यसे रूपं स्पृशस्यनिलजान् गुणान्॥ शृणोष्याकाशजाशब्दान् मनसा मन्यसे मतिम्। सर्वाण्येतानि भूतानि प्राणा इति च मन्यसे॥ प्राणादाने निवृत्तोऽसि हिंसायां वर्तते भवान्। नास्ति चेष्टा विना हिंसां किं वा त्वं मन्यसे द्विज।।२१ यतिरुवाच अक्षरं च क्षरं चैव द्वैधीभावोऽयमात्मनः। अक्षरं तत्र सद्भावः स्वभावः क्षर उच्यते॥ प्राणो जिह्वा मनः सत्त्वं सद्भावो रजसा सह। भावैरेतैर्विमुक्तस्य निर्द्वन्द्वस्य निराशिषः॥ समस्य सर्वभूतेषु निर्ममस्य जितात्मनः। समन्तात् परिमुक्तस्य न भयं विद्यते क्वचित्॥ अध्वर्युरुवाच सद्भिरेवेह संवासः कार्यो मतिमतां वर। भवतो हि मतं श्रुत्वा प्रतिभाति मतिर्मम॥ भगवन् भगवद्गुद्ध्या प्रतिपन्नो ब्रवीम्यहम्। व्रतं मन्त्रकृतं कर्तु पराधोऽस्ति मे द्विज॥ ब्राह्मण उवाच उपपत्त्या यतिस्तूष्णीं वर्तमानस्ततः परम्। अध्वर्युरपि निर्मोहः प्रचचार महामखे।॥ एवमेतादृशं मोक्षं सुसूक्ष्मं ब्राह्मणा विदुः। विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनार्थदर्शिना॥ पितर ऊचुः अत्राप्युदाहरन्तीममितिहासं पुरातनम्। श्रुत्वा च तत् तथा कार्यं भवता द्विजसत्तम॥ अलर्को नाम राजर्षिरभवत् सुमहातपाः। धर्मज्ञः सत्यवादी च महात्मा सुदृढव्रतः॥ ससागरान्तां धनुषा विनिर्जित्य महीमिमाम्। कृत्वा सुदुष्करं कर्म मनः सूक्ष्मे समादधे॥ स्थितस्य वृक्षमूलेषु तस्य चिन्ता बभूव ह। उत्सृज्य सुमहत्कर्म सूक्ष्म प्रति महामते॥४॥ अलर्क उवाच मनसो मे बलं जातं मनो जित्वा ध्रुवो जयः। अन्यत्र बाणान् धास्यामि शत्रुभिः परिवारितः॥ यदिदं चापलात् कर्म सर्वान् मोश्चिकीर्षति। मन:प्रति सुतीक्ष्णाग्रानहं मोक्ष्यामि सायकान्॥ मन उवाच नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन। तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि॥ अन्यान् बाणान् समीक्षस्व यैस्त्वं मां सूदयिष्यसि। तच्छुत्वाप्यविचिन्त्याथ ततो वचनमब्रवीत्॥ अलर्क उवाच आघ्राय सुबहून् गन्धां स्तानेव प्रतिगृध्यति। तस्माद् घ्राणं प्रति शरान् प्रतिमोक्ष्याम्यहं शितान्॥ घ्राण उवाच नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन। तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि॥ अन्यान् बाणान् समीक्षस्व यैस्त्वं मां सूदयिष्यसि। तच्छुत्वा स विचिन्त्याथ ततो वचनमब्रवीत्॥ अलर्क उवाच इयं स्वादून् रसान् भुक्त्वा तानेव प्रतिगृध्यति। तस्माज्जिह्वां प्रति शरान् प्रतिमोक्ष्याम्यहं शितान्॥ जिह्वोवाच नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन। तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि॥ अन्यान् बाणान् समीक्षस्व यैस्त्वं मां सूदयिष्यसि। तच्छुत्वा स विचिन्त्याथ ततो वचनमब्रवीत्॥ अलर्क उवाच स्पृष्ट्वा त्वग्विविधान् स्पर्शी स्तानेव प्रतिगृध्यति। तस्मात् त्वचं पाटयिप्ये विविधैः कङ्कपत्रिभिः॥ त्वगुवाच नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन। तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि॥ अन्यान् बाणान् समीक्षस्व यैस्त्वं मां सूदयिष्यसि। तच्छुत्वा स विचिन्त्याथ ततो वचनमब्रवीत्॥ अलर्क उवाच श्रुत्वा तु विविधाञ्शब्दांस्तानेव प्रतिगृध्यति। तस्माच्छ्रोत्रं प्रति शरान् प्रतिमुञ्चाम्यहं शितान्॥ श्रोत्रमुवाच नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन। तवैव मर्म भेत्स्यन्ति ततो हास्यसि जीवितम्॥ अन्यान् बाणान् समीक्षस्व यैस्त्वं मां सूदयिष्यसि। तच्छुत्वा स विचिन्त्याथ ततो वचनमब्रवीत्॥ अलर्क उवाच दृष्ट्वा रूपाणि बहुशस्तान्येव प्रतिगृध्यति। तस्माच्चक्षुर्हनिष्यामि निशितैः सायकैरहम्॥ चक्षुरुवाच नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन। तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि॥ अन्यान् बाणान् समीक्षस्व यैस्त्वं मां सूदयिष्यसि। तच्छुत्वा स विचिन्त्याथ ततो वचनमब्रवीत्॥ अलर्क उवाच इयं निष्ठा बहुविधा प्रज्ञया त्वध्यवस्यति। तस्माद् बुद्धिं प्रति शरान् प्रतिमोक्ष्याम्यहं शितान्।।२४ बुद्धिरुवाच नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन। तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि॥ ब्राह्मण उवाच अन्यान् बाणान् समीक्षस्व यैस्त्वं मां सूदयिष्यसि।। ततोऽलर्कस्तपो घोरं तत्रैवास्थाय दुष्करम्। नाध्यगच्छत् परं शक्त्या बाणमेतेषु सप्तसु॥ सुसमाहितचेतास्तु स ततोऽचिन्तयत् प्रभुः। स विचिन्त्य चिरं कालमलर्को द्विजसत्तम॥ नाध्यगच्छत् परं श्रेयो योगान्मतिमतां वरः। स एकाग्रं मनः कृत्वा निश्चलो योगमास्थितः॥ इन्द्रियाणि जघानाशु बाणेनैकेन वीर्यवान्। योगेनात्मानमाविश्य सिद्धिं परमिकां गतः॥ विस्मितश्चापि राजर्षिरिमां गाथां जगाद ह। अहो कष्टं यदस्माभिः सर्वं बाह्यमनुष्ठितम्॥ भोगतृष्णासमायुक्तः पूर्वं राज्यमुपासितम्। इति पश्चान्मया ज्ञातं योगान्नास्ति परं सुखम्॥ इति त्वमनुजानीहि राम मा क्षत्रियान् जहि। तपो घोरमुपातिष्ठ ततः श्रेयोऽभिपत्स्यसे॥ इत्युक्तः स तपो घोरं जामदग्न्यः पितामहैः। आस्थितः सुमहाभागो ययौ सिद्धिं च दुर्गमाम्॥ ब्राह्मण उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। ब्राह्मणस्य च संवादं जनकस्य च भाविनि॥ ब्राह्मणं जनको राजा सन्नं कस्मिंश्चिदागसि। विषये मे न वस्तव्यमिति शिष्ट्यर्थमब्रवीत्॥ इत्युक्तः प्रत्युवाचाथ ब्राह्मणो राजसत्तमम्। यावांस्तव वशे स्थितः॥ आचक्ष्व विषयं राजन् सोऽन्यस्य विषये राज्ञो वस्तुमिच्छाम्यहं विभो। वचस्ते कर्तुमिच्छामि यथाशास्त्रं महीपते॥ इत्युक्तस्तु तदा राजा ब्राह्मणेन यशस्विना। मुहुरुष्णं विनिःश्वस्य न किंचित् प्रत्यभाषत॥ तमासीनं ध्यायमानं राजानममितौजसम्। कश्मलं सहसागच्छद् भानुमन्तमिव ग्रहः॥ समाश्वास्य ततो राजा विगते कश्मले तदा। ततो मुहूर्तादिव तं ब्राह्मणं वाक्यमब्रवीत्॥ जनक उवाच पितृपैतामहे राज्ये वश्य जनपदे सति। विषयं नाधिगच्छामि विचिन्वन् पृथिवीमहम्॥ नाधिगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया। नाध्यगच्छं यदा तस्यां स्वप्रजा मार्गिता मया॥ नाध्यगच्छं तदा तस्यां तदा मे कश्मलोऽभवत्। ततो मे कश्मलस्यान्ते मतिः पुनरुपस्थिता॥ तदा न विषयं मन्ये सर्वो वा विषयो मम। आत्मायि चायं न मम सर्वा वा पृथिवी मम॥ यथा मम तथान्येषामिति मन्ये द्विजोत्तम। उष्यतां यावदुत्साहो भुज्यतां यावदुष्यते॥ व्राह्मण उवाच पितृपैतामहे राज्ये वश्ये जनपदे सति। ब्रूहि कां मतिमास्थाय ममत्वं वर्जितं त्वया॥ कां वै बुद्धिं समाश्रित्य सर्वो वै विषयस्तव। नावैषि विषयं येन सर्वो वा विषयस्तव॥ जनक उवाच अन्तवन्त इहावस्था विदिताः सर्वकर्मसु। नाध्यगच्छमहं तस्मान्ममेदमिति यद् भवेत्॥ कस्येदमिति कस्य स्वमिति बेदवचस्तथा। नाध्यगच्छमहं बुद्ध्या ममेदपिति यद् भवेत्॥ एतां बुद्धिं समाश्रित्य ममत्वं वर्जितं मया। शृणु बुद्धिं च यां ज्ञात्वा सर्वत्र विषयो मम॥ नाहमात्मार्थमिच्छामि गन्धान् ध्राणगतानपि। तस्मान्मे निर्जिता भूमिर्वशे तिष्ठन्ति नित्यदा॥ नाहमात्मार्थमिच्छामि रसानास्येऽपि वर्ततः। आपो मे निर्जितास्तस्माद् वशे तिष्ठन्ति नित्यदा।।१९ नाहमात्मार्थमिच्छामि रूपं ज्योतिश्च चक्षुषः। तस्मान्मे निर्जितं ज्योतिर्वशे तिष्ठन्ति नित्यदा॥ नाहमात्मार्थमिच्छामि स्पर्शास्त्वचि गताश्च ये। तस्मान्मे निर्जितो वायुर्वशे तिष्ठन्ति नित्यदा॥ नाहमात्मार्थमिच्छामि शब्दाश्रोत्रगतानपि। तस्मान्मे निर्जिताः शब्दे वशे तिष्ठन्ति नित्यदा॥ नाहमात्मार्थमिच्छामि मनो नित्यं मनोऽन्तरे। मनो मे निर्जितं तस्माद् वशे तिष्ठन्ति नित्यदा॥ देवेभ्यश्च पितृभ्यश्च भूतेभ्योऽतिथिभिः सह। इत्यर्थे सर्व एवेति समारम्भा भवन्ति वै॥ ततः प्रहस्य जनकं ब्राह्मणः पुनरब्रवीत्। तवज्जिज्ञासार्थमोह विद्धि मां धर्ममागतम्॥ त्वमस्य ब्रह्मलाभस्य दुर्वारस्यानिवर्तिनः। सत्त्वनेमिनिरुद्धस्य चक्रस्यैकः प्रवर्तकः॥ ब्राह्मण उवाच नाहं तथा भीरु चरामि लोके यथा त्वं मां तर्जयसे स्वबुद्ध्या। विप्रोऽस्मि मुक्तोऽस्मि वनेचरोऽस्मि गृहस्थधर्मा व्रतवांस्तथास्मि॥ नाहमस्मि यथा मां त्वं पश्यसे च शुभाशुभे। मया व्याप्तमिदं सर्वं यत् किंचिज्जगतीगतम्॥ ये केचिज्जन्तवो लोके जङ्गमाः स्थावराश्च ह। तेषां मामन्तकं विद्धि दारूणामिव पावकम्॥ राज्यं पृथिव्यां सर्वस्यामथवापि त्रिविष्टपे। तथा बुद्धिरियं वेत्ति बुद्धिरेव धनं मम॥ एकः पन्था ब्राह्मणानां येन गच्छन्ति तद्विदः। गृहेषु वनवासेषु गुरुवासेषु भिक्षुषु॥ लिङ्गैर्बहुभिरव्यौरेका बुद्धिरुपास्यते। नानालिङ्गाश्रमस्थानां येषां बुद्धिः शमात्मिका॥ ते भावमेकमायान्ति सरितः सागरं यथा। बुद्ध्यायं गम्यते मार्गः शरीरेण न गम्यते। आद्यन्तवन्ति कर्माणि शरीरं कर्मबन्धनम्॥ तस्मात् ते सुभगे नास्ति परलोककृतं भयम्। तद्भावभावनिरता ममैवात्मानमेष्यसि॥ ब्राह्मण्युवाच नेदमल्पात्मना शक्यं वेदितुं नाकृतात्मना। बहु चाल्पं च संक्षिप्तं विप्लुतं च मतं मम॥ उपायं तं मम ब्रूहि येनैषा लभ्यते मतिः। तन्मन्ये कारणं त्वत्तो यत एषा प्रवर्तते।॥ ब्राह्मण उवाच अरणी ब्राह्मणी विद्धि गुरुरस्योत्तरारणिः। तप:श्रुतेऽभिमन्थीतो ज्ञानाग्निर्जायते ततः॥ ब्राह्मण्युवाच यदिदं ब्राह्मणो लिङ्गं क्षेत्रज्ञ इति संज्ञितम्। ग्रहीतुं येन यच्छक्यं लक्षणं तस्य तत् क्व नु।॥ ब्राह्मण उवाच अलिङ्गो निर्गुणश्चैव कारणं नास्य लक्ष्यते। उपायमेव वक्ष्यामि येन गृह्येत वा न वा॥ सम्यगुपायो दृष्टश्च भ्रमरैरिव लक्ष्यते। कर्मबुद्धिरवुद्धित्वाज्ज्ञानलिङ्गैरिवाश्रितम्॥ इदं कार्यमिदं नेति न मोक्षेषूपदिश्यते। पश्यतः शृण्वतो बुद्धिरात्मनो येषु जायते॥ यावन्त इह शक्येरं स्तावन्तॊऽशान् प्रकल्पयेत्। अव्यक्तान् व्यक्तरूपानं शतशोऽथ सहस्रशः॥ सर्वान्नानार्थयुक्तांश्च सर्वान् प्रत्यक्षहेतुकान्। यतः परं न विद्यते ततोऽभ्यासे भविष्यति॥ श्रीभगवानुवाच ततस्तु तस्या ब्राह्मण्या मतिः क्षेत्रज्ञसंक्षये। क्षेत्रज्ञानेन परतः क्षेत्रज्ञेभ्यः प्रवर्तते॥ अर्जुन उवाच क्व नु सा ब्राह्मणी कृष्ण क्व चासौ ब्राह्मणर्पभः। याभ्यां सिद्धिरियं प्राप्ता तावुभौ वद मेऽच्युत॥ श्रीभगवानुवाच मनो मे ब्राह्मणं विद्धि बुद्धिं मे विद्धि ब्राह्मणीम्। क्षेत्रश्र इति यश्चोक्तः सोऽहमेव धनंजय॥ ब्राह्मण उवाच तदव्यक्तमनुद्रिक्तं सर्वव्यापि ध्रुवं स्थिरम्। नवद्वारं पुरं विद्यात् त्रिगुणं पञ्चधातुकम्॥ एकादशपरिक्षेपं मनोव्याकरणात्मकम्। बुद्धिस्वामिकमित्येतत् परमेकादशं भवेत्॥ त्रीणि स्रोतांसि यान्यस्मिन्नाप्यायन्ते पुनः पुनः। प्रनाड्यस्तिस्र एवैताः प्रवर्तन्ते गुणात्मिका:॥ तमो रजस्तथा सत्त्वं गुणानेतान् प्रचक्षते। अन्योन्यमिथुनाः सर्वे तथान्योन्यानुजीविनः॥ अन्योन्यापाश्चयाश्चापि तथान्योन्यानुवर्तिनः। अन्योन्यव्यतिषक्ताश्च त्रिगुणाः पञ्चधातवः॥ तमसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः। रजसञ्चापि सत्त्वं स्यात् सत्त्वस्य मिथुनं तमः॥ नियम्यते तमो यत्र रजस्तत्र प्रवर्तते। नियम्यते रजो यत्र सत्त्वं तत्र प्रवर्तते॥ नैशात्मक तमो विद्यात् त्रिगुणं मोडसंज्ञितम्। अधर्मलक्षणं चैव नियतं पापकर्मसु। तामसं रूपमेतत् तु दृश्यते चापि सङ्गत्तम्॥ प्रकृत्यात्मकमेवाहू रजः पर्यायकारकम्। प्रवृत्तं सर्वभूतेषु दृश्यमुत्पत्तिलक्षणम्॥ प्रकाशं सर्वभूतेषु लाघवं श्रद्दधानता। सात्त्विक रूपमेवं तु लाघवं साधुसम्मितम्॥ एतेषां गुणतत्त्वानि वक्ष्यन्ते तत्त्वहेतुभिः। समासव्यासयुक्तानि तत्त्वतस्तानि बोधत॥ सम्मोहोऽज्ञानमत्यागः कर्मणामविनिर्णयः। स्वप्नः स्तम्भो भयं लोभः स्वतः सुकृतदूषणम्॥ अस्मृतिश्चाविपाकश्च नास्तिक्यं भिन्नवृत्तिता। निर्विशेषत्वमन्धत्वं जघन्यगुणवृत्तिता॥ अकृते कृतमानित्वमज्ञाने ज्ञानमानिता। अमैत्री विकृताभावो ह्यश्रद्धा मूढभावना॥ अनार्जवमसंज्ञत्वं कर्म पापचेतना। गुरुत्वं सन्नभावत्वमवशित्वमवाग्गतिः॥ सर्व एते गुणा वृत्तास्तामसाः सम्प्रकीर्तिताः। ये चान्ये विहिता भावा लोकेऽस्मिन् भावसंज्ञिताः।। तत्र तत्र नियम्यन्ते सर्वे ते तामसा गुणाः। परिवादकथा नित्यं देवब्राह्मणवैदिकी॥ अत्यागश्चाभिमानश्च मोहो मन्युस्तथाक्षमा। मत्सरश्चैव भूतेषु तामसं वृत्तमिप्यते॥ वृथारम्भा हि ये केचिद् वृथा दानानि यानि च। वृथा भक्षणमित्येतत् तामसं वृत्तमिष्यते॥ अतिवादोऽतितिक्षा च मात्सर्यमभिमानिता। अश्रद्दधानता चैव तामसं वृत्तमिष्यते॥ एवंविधाश्च ये केचिल्लोकेऽस्मिन् पापकर्मिणः। मनुष्या भिन्नमर्यादास्ते सर्वे तामसाः स्मृताः॥ तेषां योनीः प्रवक्ष्यामि नियताः पापकर्मिणाम्। अवानिरयभावा ये तिर्यनिरयगामिनः॥ स्थावराणि च भूतानि पशवो वाहनानि च। क्रव्यादा दन्दशूकाश्च कृमिकीटविहंगमाः॥ अण्डजा जन्तवश्चैव सर्वे चापि चतुष्पदाः। उन्मत्ता बधिरा मूका ये चान्ये पापरोगिणः॥ मग्नास्तमसि दुर्वृत्ताः स्वकर्म कृतलक्षणाः। अवाक्स्रोतस इत्येते मग्नास्तमसि तामसाः॥ तेषामुत्कर्षमुद्रेकं वक्ष्याम्यहमत: परम्। यथा ते सुकृताँल्लोकाँल्लभन्ते पुण्यकर्मिणः॥ अन्यथा प्रतिपन्नास्तु विवृद्धा ये च कर्मणः। स्वकर्मनिरतानां च ब्राह्मणानां शुभैषिणाम्॥ संस्कारेणोर्ध्वमायान्ति यतमाना: सलोकताम्। स्वर्गे गच्छन्ति देवानामित्येषा वैदिकी श्रुतिः॥ अन्यथा प्रतिपन्नास्ते विबुद्धाः स्वेष कर्मसु। पुनरावृत्तिधर्माणस्ते भवन्तीह मानुषा:॥ पापयोनिं समापन्नाश्चण्डाला मूकचूचुकाः। वर्णान् पर्यायशश्चापि प्राप्नुवन्त्युत्तरोत्तरम्॥ शूद्रयोनिमतिक्रम्य ये चान्ये तामसा गुणाः। स्रोतोमध्ये समागम्य वर्तन्ते तामसे गुणे॥ अभिष्वङ्गस्तु कामेषु महामोह इति स्मृतः। ऋषयो मुनयो देवा मुह्यन्त्यत्र सुखेप्सवः॥ तमो मोहो महामोहस्तामिस्रः क्रोधसंज्ञितः। मरणं त्वन्धतामिस्रस्तामिस्रः क्रोध उच्यते॥ वर्णतो गुणतश्चैव योनितश्चैव तत्त्वतः। सर्वमेतत्तमो विप्राः कीर्तितं वो यथाविधि॥ कोन्वेतद् बुध्यते साधु कोन्वेतत् साधु पश्यति। अतत्त्वे तत्त्वदर्शी यस्तमसस्तत्त्वलक्षणम्॥ तमोगुणा बहुविधाः प्रकीर्तिता यथावदुक्तं च तमः परावरम्। नरो हि यो वेद गुणानिमान् सदा स तामसैः सर्वगुणैः प्रमुच्यते॥ ब्राह्मण उवाच अतः परं प्रवक्ष्यामि तृतीयं गुणमुत्तमम्। सर्वभूतहितं लोके सतां धर्ममनिन्दितम्॥ आनन्दः प्रीतिरुद्रेक: प्रकाश्यं सुखमेव च। अकार्पण्यमसंरम्भः सन्तोष: श्रद्दधानता॥ क्षमा धृतिरहिंसा च समता सत्यमार्जवम्। अक्रोधश्चानसूया च शौचं दाक्ष्यं पराक्रमः॥ मुधा ज्ञानं मुधा वृत्तं मुधा सेवा मुधा श्रमः। एवं यो युक्तधर्मः स्यात् सोऽमुत्रात्यन्तमश्नुते॥ निर्ममो निरहङ्कारो निराशी: सर्वतः समः। अकामभूत इत्येव सतां धर्मः सनातनः॥ विश्राभो हीस्तितिक्षा च त्याग शौचमतन्द्रिता। आनृशंस्यमसम्मोहो दया भूतेष्वपैशुनम्॥ हर्षस्तुष्टिविस्मयश्च विनयः साधुवृत्तिता। शान्तिकी शुद्धिश्च शुभा बुद्धिर्विमोचनम्॥ उपेक्षा ब्रह्मचर्ये च परित्यागश्च सर्वशः। निर्ममत्वमनाशीष्ट्वमपरिक्षतधर्मता॥ मुधा दानं मुधा यज्ञो मुधाऽधीतं मुधा व्रतम्। मुधा प्रतिग्रहश्चैव मुधा धर्मो मुधा तपः॥ एवंवृत्तास्तु ये केचिल्लोकेऽस्मिन् सत्त्वसंश्रयाः। ब्राह्मणा ब्रह्मयोनिस्थास्ते धीराः साधुदर्शिनः॥ हित्वा सर्वाणि पापानि निःशोका ह्यथ मानवाः। दिवं प्राप्य तु ते धीराः कुर्वते वै ततस्तनूः॥ ईशित्वं च वशित्वं च लघुत्वं मनसश्च ते। विकुर्वते महात्मानो देवास्त्रिदिवगा इव॥ अर्ध्वस्रोतस इत्येते देवा वैकारिकाः स्मृताः। विकुर्वन्तः प्रकृत्या वै दिवं प्राप्तास्ततस्ततः॥ यद् यदिच्छन्ति तत् सर्व भजन्ते विभजन्ति च। इत्येतत् सात्त्विकं वृत्तं कथितं वो द्विजर्षभाः। एतद् विज्ञाय लभते विधिवद् यद् यदिच्छति॥ प्रकीर्तिताः सत्त्वगुणा विशेषतो यथावदुक्त गुणवृत्तमेव च। नरस्तु यो वेद गुणानिमान् सदा गुणान् स भुङ्क्ते न गुणैः स युज्यते। नरस्तु यो वेद गुणानिमान् सदा गुणान् स भुङ्क्ते न गुणैः स युज्यते। नैव शक्या गुणा वक्तुं पृथक्त्वेनैव सर्वशः। अविच्छिन्नानि दृश्यन्ते रजः सत्त्वं तमस्तथा॥ अन्योन्यमथ रज्यन्ते ह्यन्योन्यं चार्थजीविनः। अन्योन्यमाश्रयाः सर्वे तथान्योन्यानुवर्तिनः॥ यावत्सत्त्वं रजस्तावद् वर्तते नात्र संशयः। यावत्तमश्च सत्त्वं च रजस्तावदिहोच्यते॥ संहत्य कुर्वते यात्रां सहिताः संघचारिणः। संघातवृत्तयो ह्येते वर्तन्ते हेत्वहेतुभिः॥ उद्रेकव्यतिरिक्तानां तेषामन्योन्यवर्तिनाम्। वक्ष्यते तद् यथा न्यूनं व्यतिरिक्तं च सर्वशः॥ व्यतिरिक्तं तमो यत्र तिर्यग् भावगतं भवेत्। अल्पं तत्र रजो ज्ञेयं सत्त्वमल्पतरं तथा॥ उद्रिक्त च रजो यत्र मध्यस्रोतोगतं भवेत्। अल्पं तत्र तमो ज्ञेयं सत्त्वमल्पतरं तथा॥ उद्रिक्तं च यदा सत्त्वमूर्ध्वस्रोतोगतं भवेत्। अल्पं तत्र तमो ज्ञेयं रजश्चाल्पतरं तथा॥ सत्त्वं वैकारिकी योनिरिन्द्रियाणां प्रकाशिका। न हि सत्त्वात् परो धर्मः कश्चिदन्यो विधीयते॥ ऊर्ध्व गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः। जघन्यगुणसंयुक्ता यान्त्यधस्तामसा जनाः॥ तमः शूद्रे रजः क्षत्रे ब्राह्मणे सत्त्वमुत्तमम्। इत्येवं त्रिषु वर्णेषु विवर्तन्ते गुणास्त्रयः॥ दूरादपि हि दृश्यन्ते सहिताः संघचारिणः। तमः सत्त्वं रजश्चैव पृथक्त्वे नानुशुश्रुम॥ उच्यते॥ दृष्ट्वा त्वादित्यमुद्यन्तं कुचराणां भयं भवेत्। अध्वगाः परितप्येयुरुष्णतो दुःखभागिनः॥ आदित्यः सत्त्वमुद्रिक्तं कुचरास्तु तथा तमः। परितापोऽध्वगानां च रजसो गुण प्रकाश्यं सत्त्वमादित्यः संतापो रजसो गुणः। उपप्लवस्तु विज्ञेयस्तामसस्तस्य पर्वसु॥ एवं ज्योतिष्षु सर्वेषु निवर्तन्ते गुणास्त्रयः। पर्यायेण च वर्तन्ते तत्र तत्र तथा तथा॥ स्थावरेषु तु भावेषु तिर्यग्भावगतं तमः। राजसास्तु विवर्तन्ते स्नेहभावस्तु सात्त्विकः॥ अहस्त्रिधा तु विज्ञेयं त्रिधा रात्रिविधीयते। मासार्धमासवर्षाणि ऋतवः संधयस्तथा॥ त्रिधा दानानि दीयन्ते त्रिधा यज्ञः प्रवर्तते। त्रिधा लोकास्त्रिधा देवास्त्रिधा विद्यास्त्रिधा गतिः।।१९ भूतं भव्यं भविष्यं च धर्मोऽर्थः काम एव च। प्राणापानावुदाश्चाप्येत एव त्रयो गुणाः॥ पर्यायेण प्रवर्तन्ते तत्र तत्र तथा तथा। यत्किंचिदिह लोकेऽस्मिन् सर्वमेते त्रयो गुणाः॥ त्रयो गुणाः प्रवर्तन्ते ह्यव्यक्ता नित्यमेव तु। सत्त्वं रजस्तमश्चैव गुणसर्ग: सनातनः॥ तमो व्यक्तं शिवं धाम रजो योनिः सनातनः। प्रकृतिर्विकारः प्रायः प्रधानं प्रभवाप्ययौ॥ अनुद्रिक्तमनूनं वाप्यकम्पमचलं ध्रुवम्। सदसच्चैव तत् सर्वमव्यक्तं त्रिगुणं स्मृतम्। ज्ञेयानि नामधेयानि नरैरध्यात्मचिन्तकैः॥ अव्यक्तनामानि गुणांश्च तत्त्वतो यो वेद सर्वाणि गतीश्च केवलाः। विमुक्तदेहः प्रविभागतत्त्ववित् स मुच्यते सर्वगुणैर्निरामयः॥ ब्रह्मोवाच य उत्पन्नो महान् पूर्वमहंकारः स उच्यते। अहमित्येव सम्भूतो द्वितीयः सर्ग उच्यते॥ अहंकारश्च भूतादिकारिक इति स्मृतः। तेजश्चेतना धातुः प्रजासर्गः प्रजापतिः॥ देवानां प्रभवो देवो मनसश्च त्रिलोककृत्। अहमित्येव तत्सर्वमभिमन्ता स उच्यते॥ अध्यात्मज्ञानतृप्तानां मुनीनां भावितानाम्। स्वाध्यायक्रतुसिद्धानामेष लोकः सनातनः॥ अहंकारेणाहरतो गुणानिमान् भूतादिरेवं सृजते स भूतकृत्। वैकारिकः सर्वमिदं विचेष्टते स्वतेजसा रञ्जयते जगत् तथा॥ मनुष्याणां तु राजन्यः क्षत्रियो मध्यमो गुणः। कुञ्जरो वाहनानां च सिंहचारण्यवासिनाम्॥ अविः पशूनां सर्वेषामहिस्तु बिलवासिनाम्। गवां गोवृषभश्चैव स्त्रीणां पुरुष एव च॥ न्यग्रोधे जम्बुवृक्षश्च पिप्पल: शाल्मलिस्तथा। शिंशपा मेषशृश्च तथा कीचकवेणवः॥ एते दुमाणां राजानो लोकेऽस्मिन् नात्र संशयः। हिमवान् पारियात्रश्च सह्यो विन्ध्यस्त्रिकूटवान्॥ श्वेतो नीलश्च भासश्च कोष्ठवांश्चैव पर्वतः। गुरुस्कन्धो महेन्द्रश्च माल्यवान् पर्वतस्तथा॥ एते पर्वतराजानो गणानां मरुतस्तथा। सूर्यो ग्रहाणामधिपो नक्षत्राणां च चन्द्रमाः॥ यमः पितॄणामधिपः सरितामथ सागरः। अम्भसां वरुणो राजा मरुतामिन्द्र उच्यते॥ अर्कोऽधिपतिरुष्णानां ज्योतिषामिन्दुरुच्यते। अग्निभूतपतिर्नित्यं ब्राह्मणानां बृहस्पतिः॥ ओषधीनां पतिः सोमो विष्णुर्बलवतां वरः। त्वष्टाधिराजो रूपाणां पशूनामीश्वरः शिवः॥ दीक्षितानां तथा यज्ञो दैवानां मघवा तथा। दिशामुदीची विप्राणां सोमो राजा प्रतापवान्॥ कुबेरः सर्वरत्नानां देवतानां पुरंदरः। एष भूताधिपः सर्गः प्रजानां च प्रजापतिः॥ सर्वेषामेव भूतानामहं ब्रह्ममयो महान्। भूतं परतरं मत्तो विष्णोर्वाऽपि न विद्यते॥ राजाधिराजः सर्वेषां विष्णुर्ब्रह्ममयो महान्। ईश्वरत्वं विजानीध्वं कर्तारमकृतं हरिम्॥ नरकिन्नरयक्षाणां गन्धर्वोरगरक्षसाम्। देवदानवनागानां सर्वेषामीश्वरो हि सः॥ भगदेवानुयातानां सर्वासा वामलोचना। माहेश्वरी महादेवी प्रोच्यते पार्वती हि सा॥ उमां देवीं विजानीध्वं नारीणामुत्तमां शुभाम्। रतीनां वसुमत्यस्तु स्त्रीणामप्सरसस्तथा॥ राजानो ब्राह्मणा धर्मसेतवः। तस्माद् राजा द्विजातीनां प्रयतेत स्म रक्षणे॥ धर्मकामाश्च राज्ञां हि विषये येषामवसीदन्ति साधवः। हीनास्ते स्वगुणैः सर्वैः प्रेत्य चोन्मार्गगामिनः॥ राज्ञां हि विषये येषां साधवः परिरक्षिताः। तेऽस्मिँल्लोके प्रमोदन्ते सुखं प्रेत्य च भुञ्जते॥ प्राप्नुवन्ति महात्मान इति वित्त द्विजर्षभाः। अत ऊर्ध्वं प्रवक्ष्यामि नियतं धर्मलक्षणम्॥ अहिंसा परमो धर्मो हिंसा चाधर्मलक्षणा। प्रकाशलक्षणा देवा मनुष्याः कर्मलक्षणाः॥ शब्दलक्षणमाकाशं वायुस्तु स्पर्शलक्षणः। ज्योतिषां लक्षणं रूपमापश्च रसलक्षणाः॥ धारिणी सर्वभूतानां पृथिवी गन्धलक्षणा। स्वरव्यञ्जनसंस्कारा भारती शब्दलक्षणा॥ मनसो लक्षणं चिन्ता चिन्तोक्ता बुद्धिलक्षणा। मनसा चिन्तितानर्थान् बुद्ध्या चेह व्यवस्यति॥ बुद्धिर्हि व्यवसायेन लक्ष्यते नात्र संशयः। लक्षणं मनसो ध्यानमव्यक्तं साधुलक्षणम्॥ प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम्। तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान्॥ संन्यासी ज्ञानसंयुक्तः प्राप्नोति परमां गतिम्। अतीतो द्वन्द्वमभ्येति तमोमृत्युजरातिगः॥ धर्मलक्षणसंयुक्तमुक्तं वो विधिवन्मया। गुणानां ग्रहणं सम्यग् वक्ष्याम्यहमतः परम्॥ पार्थिवो यस्तु गन्धो वै घ्राणेन हि स गृह्यते। घ्राणस्थश्च तथा वायुर्गन्धज्ञाने विधीयते॥ अपां धातू रसो नित्यं जिह्वया स तु गृह्यते। जिह्वास्थश्च तथा सोमो रसज्ञाने विधीयते॥ ज्योतिषश्च गुणो रूपं चक्षुषा तच्च गृह्यते। चक्षुःस्थश्च सदाऽऽदित्यो रूपज्ञाने विधीयते।।३शा वायव्यस्तु सदा स्पर्शस्त्वचा प्रज्ञायते च सः। त्वक्स्थश्चैव सदा वायुः स्पर्शने स विधीयते॥ आकाशस्य गुणो ह्येष श्रोत्रेण च स गृह्यते। श्रोत्रस्थाश्च दिशः सर्वाः शब्दज्ञाने प्रकीर्तिताः॥ मनसश्च गुणश्चिन्ता प्रज्ञया स तु गृह्यते। हृदिस्थश्चेतनो धातुर्मनोज्ञाने विधीयते॥ बुद्धिरध्यवसायेन ज्ञानेन च महांस्तथा। निश्चित्य ग्रहणाद् व्यक्तमव्यक्तं नात्र संशयः॥ अलिग्रहणो नित्यः क्षेत्रज्ञे निर्गुणात्मकः। तस्मादलिङ्गः क्षेत्रज्ञः केवलं ज्ञानलक्षणः॥ अव्यक्तं क्षेत्रमुद्दिष्टं गुणानां प्रभवाप्ययम्। सदा पश्याम्यहं लीनो विजानामि शृणोमि च॥ पुरुषस्तद् विजानीते तस्मात् क्षेत्रज्ञ उच्यते। गुणवृत्तं तथा वृत्तं क्षेत्रज्ञः परिपश्यति॥ आदिमध्यावसानान्तं सृज्यमानमचेतनम्। न गुणा विदुरात्मानं सृज्यमानाः पुनः पुनः॥ न सत्यं विन्दते कश्चित् क्षेत्रज्ञस्त्वेव विन्दति। गुणानां गुणभूतानां यत् परं परमं महत्॥ तस्माद् गुणांश्च सत्त्वं च परित्यज्येह धर्मवित्। क्षीणदोषो गुणातीतः क्षेत्रमं प्रविशत्यथ॥ निर्द्वन्द्वो निमस्कारो नि:स्वाहाकार एव च। अचलश्चानिकेतश्च क्षेत्रज्ञः स परो विभुः॥ यदादिमध्यपर्यन्तं ग्रहणोपायमेव च। नामलक्षणसंयुक्तं सर्वं वक्ष्यामि तत्त्वतः॥ अहः पूर्वं ततो रात्रिर्मासाः शुक्लादयः स्मृताः। श्रवणादीनि ऋक्षाणि ऋतवः शिशिरादयः॥ भूमिरादिस्तु गन्धानां रसानामाप एव च। रूपाणां ज्योतिरादित्यः स्पर्शानां वायुरुच्यते॥ शब्दस्यादिस्तथाऽऽकाशमेष भूतकृतो गुणः। अतः परं प्रवक्ष्यामि भूतानामादिमुत्तमम्॥ आदित्यो ज्योतिषामादिरग्निर्भूतादिरुच्यते। सावित्री सर्वविद्यानां देवतानां प्रजापतिः॥ ओङ्कारः सर्ववेदानां वचसां प्राण एव च। यदस्मिन् नियतं लोके सर्वं सावित्रिरुच्यते॥ गायत्री च्छन्दसामादिः प्रजानां सर्ग उच्यते। गावश्चतुष्पदामादिर्मनुष्याणां द्विजातयः॥ श्येनः पतत्रिणामादिर्यज्ञानां हुतमुत्तमम्। सरीसृपाणां सर्वेषां ज्येष्ठः सर्पो द्विजोत्तमाः॥ कृतमादिर्युगानां च सर्वेषां नात्र संशयः। हिरण्यं सर्वरत्नामोषधीनां यवास्तथा॥ सर्वेषां भक्ष्यभोज्यानामन्नं परममुच्यते। द्रवाणां चैव सर्वेषां पेयानामाप उत्तमाः॥ स्थावराणां तु भूतानां सर्वेषामविशेषतः। ब्रह्मक्षेत्रं सदा पुण्यं प्लक्षः प्रथमतः स्मृतः॥ अहं प्रजापतीनां च सर्वेषां नात्र संशयः। मम विष्णुरचिन्त्यात्मा स्वयम्भूरिति स स्मृतः॥ पर्वतानां महामेरुः सर्वेषामग्रजः स्मृतः। दिशां च प्रदिशां चोर्ध्वं दिक्पूर्वा प्रथमा तथा॥ तथा त्रिपथगा गङ्गा नदीनामग्रजा स्मृता। तथा सरोदपानानां सर्वेषां सागरोऽग्रजः॥ देवदानवभूतानां पिशाचोरगरक्षसाम्। नरकिन्नरयक्षाणां सर्वेषामीश्वरः प्रभुः॥ आदिर्विश्वस्य जगतो विष्णुर्ब्रह्ममयो महान्। भूतं परतरं यस्मात् त्रैलोक्ये नेह विद्यते॥ आश्रमाणां च सर्वेषां गार्हस्थ्यं नात्र संशयः। लोकानामादिरव्यक्तं सर्वस्यान्तस्तदेव च॥ अहान्यस्तमयान्तानि उदयान्ता च शर्वरी। सुखस्यान्तं सदा दुःखं दुःखस्यान्तं सदा सुखम्॥१८ सर्वं क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः। संयोगाश्च वियोगान्ता मरणान्तं च जीवितम्॥ सर्वं कृतं विनाशान्तं जातस्य मरणं ध्रुवम्। अशाश्वतं हि लोकेऽस्मिन् सदा स्थावरजङ्गमम्॥ इष्टं दत्तं तपोऽधीतं व्रतानि नियमाश्च ये। सर्वमेतद् विनाशान्तं ज्ञानस्यान्तो न विद्यते॥ तस्माज्ज्ञानेन शुद्धेन प्रशान्तात्मा जितेन्द्रियः। निर्ममो निरहङ्कारो मुच्यते सर्वपाप्मभिः॥ बुद्धिसारं मनःस्तम्भमिन्द्रियग्रामबन्धनम्। महाभूतपरिस्कन्धं निवेशपरिवेशनम्॥ जराशोकसमाविष्टं व्याधिव्यसनसम्भवम्। देशकालविचारीदं श्रमव्यायामनिःस्वनम्॥ अहोरात्रपरिक्षेपं शीतोष्णपरिमण्डलम्। सुखदुःखान्तसंश्लेषं क्षुत्पिपासावकीलकम्॥ छायातपविलेखं च निमेषोन्मेषविह्वलम्। घोरमोहजलाकीर्णं वर्तमानमचेतनम्॥ मासार्धमासगणितं विषमं लोकसंचरम्। तमोनियमपङ्कं च रजोवेगप्रवर्तकम्॥ महाहंकारदीप्तं च गुणसंजातवर्तनम्। अरतिग्रहणानीकं शोकसंहारवर्तनम्॥ क्रियाकारणसंयुक्तं रागविस्तारमायतम्। लोभेप्सापरिविक्षोभं विचित्राज्ञानसम्भवम्॥ भयमोहपरीवारं भूतसम्मोहकारकम्। आनन्दप्रीतिचारं च कामक्रोधपरिग्रहम्॥ महदादिविशेषान्तमसक्तं प्रभवाव्ययम्। मनोजवं मनःकान्तं कालचक्र प्रवर्तते॥ एतद् द्वन्द्वसमायुक्तं कालचक्रमचेतनम्। विसृजेत् संक्षिपेच्चापि बोधयेत् सामरं जगत्॥ कालचक्रप्रवत्तिं च निवृत्तिं चैव तत्त्वतः। यस्तु वेद नरो नित्यं न स भूतेषु मुह्यति॥ विमुक्तः सर्वसंस्कारैः सर्वद्वन्द्वविवर्जितः। विमुक्तः सर्वपापेभ्यः प्राप्नोति परमां गतिम्॥ गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः। चत्वार आश्रमाः प्रोक्ताः सर्वे गार्हस्थ्यमूलकाः॥ यः कश्चिदिह लोकेऽस्मिन्नागमः परिकीर्तितः। तस्यान्तगमनं श्रेयः कीर्तिरेषा सनातनी॥ संस्कारैः संस्कृतः पूर्वं यथावच्चरितव्रतः। जातौ गुणविशिष्टायां समावर्तेत तत्त्ववित्॥ स्वदारनिरतो नित्यं शिष्टाचारो जितेन्द्रियः। पञ्चभिश्च महायज्ञैः श्रद्दधानो यजेदिह॥ देवतातिथिशिष्टाशी निरतो वेदकर्मसु। इज्याप्रदानयुक्तश्च यथाशक्ति यथासुखम्॥ न पाणिपादचपलो न नेत्रचपलो मुनिः। न च वागङ्गचपल इति शिष्टस्य गोचरः॥ नित्यं यज्ञोपवीती स्याच्छुक्लवासाः शुचिव्रतः। नियतो यमदानाभ्यां सदा शिष्टैश्च संविशेत्॥ जितशिश्नोदरो मैत्रः शिष्टाचारसमन्वितः। वैणवीं धारयेद् यष्टिं सोदकं च कमण्डलुम्॥ अधीत्याध्यापनं कुर्यात् तथा यजनयाजने। दानं प्रतिग्रहं वापि षड्गुणां वृत्तिमाचरेत्॥ त्रीणि कर्माणि जानीत ब्राह्मणानां तु जीविका। याजनाध्यापने चोभे शुद्धाच्चापि प्रतिग्रहः॥ अथ शेषाणि चान्यानि त्रीणि कर्माणि यानि तु। दानमध्ययनं यज्ञो धर्मयुक्तानि तानि तु॥ तेष्वप्रमादं कुर्वीत त्रिषु कर्मसु धर्मवित्। दान्तो मैत्रः क्षमायुक्तः सर्वभूतसमो मुनिः॥ सर्वमेतद् यथाशक्ति विप्रो निर्वर्तयशुचिः। एवं युक्तो जयेत् स्वर्ग गृहस्थः संशितव्रतः॥ एवमेतेन मार्गेण पूर्वोक्तेन यथाविधि। अधीतवान् यथाशक्ति तथैव ब्रह्मचर्यवान्॥ स्वधर्मनिरतो विद्वान् सर्वेन्द्रिययतो मुनिः। गुरोः प्रियहिते युक्तः सत्यधर्मपरः शुचिः॥ गुरुणा समनुज्ञातो भुञ्जीतान्नमकुत्सयन्। हविष्यभैक्ष्यभुक् चापि स्थानासनविहारवान्॥ द्विकालमग्निं जुह्वानः शुचिर्भूत्वा समाहितः। धारयीत सदा दण्डं बैल्वं पालाशमेव वा॥ क्षौमं कार्पासिकं चापि मृगाजिनमथापि वा। सर्वं काषायरक्तं वा वासो वापि द्विजस्य ह॥ मेखला च भवेन्मौजी जटी नित्योदकस्तथा। यज्ञोपवीती स्वाध्यायी अलुब्धो नियतव्रतः॥ पूताभिश्च तथैवाद्भिः सदा दैवततर्पणम्। भावेन नियतः कुर्वन् ब्रह्मचारी प्रशस्यते॥ एवं युक्तो जयेल्लोकान् वानप्रस्थो जितेन्द्रियः। न संसरति जातीषु परमं स्थानमाश्रितः॥ संस्कृत: सर्वसंस्कारैस्तथैव ब्रह्मचर्यवान्। ग्रामान्निष्क्रम्य चारण्ये मुनिः प्रव्रजितो वसेत्॥ चर्मवल्कलसंवासी सायं प्रातरुपस्पृशेत्। अरण्यगोचरो नित्यं न ग्रामं प्रविशेत् पुनः॥ अर्चयन्नतिथीन् काले दद्याच्चापि प्रतिश्रयम्। फलपत्रावरैर्मूलैः श्यामाकेन च वर्तयन्॥ प्रवृत्तमुदकं वायुं सर्वं वानेयमाश्रयेत्। प्राश्चीयादानुपूर्वेण यथादीक्षमतन्द्रितः॥ समूलफलभिक्षाभिरर्चेदतिथिमागतम्। यद्भक्ष्यं स्यात्ततो दद्याद्भिक्षां नित्यमतन्द्रितः॥ देवतातिथिपूर्वं च सदा प्राश्नीत वाग्यतः। अस्पर्धितमनाश्चैव लघ्वाशी देवताश्रयः॥ दान्तो मैत्रः क्षमायुक्तः केशाश्मश्रु च धारयन्। जुह्वन् स्वाध्यायशीलश्च सत्यधर्मपरायणः॥ शुचिदेहः सदा दक्षो वननित्यः समाहितः। एवं युक्तो जयेत् स्वर्ग वानप्रस्थो जितेन्द्रियः॥ गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ वा पुनः। च इच्छेन्मोक्षमास्थातुमुत्तमा वृत्तिमाश्रयेत्॥ अभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यमाचरेत्। सर्वभूतसुखो मैत्र: सर्वेन्द्रिययतो मुनिः॥ अयाचितमसंक्लृप्तमुपपन्नं यदृच्छया। कृत्वा प्राढे चरेद् भैक्ष्यं विधूमे भुक्तवज्जने॥ वृत्ते शरावसम्पाते भक्ष्यं लिप्सेत मोक्षवित्। लाभेन च न हृष्येत नालाभे विमना भवेत्। न चातिभिक्षां भिक्षेत केवलं प्राणयात्रिकः॥ यात्रार्थी कालपाकाङ्क्षश्चरेद् भैक्ष्यं समाहितः। लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः॥ अभिपूजितलाभाद्धि विजुगुप्सेत भिक्षुकः। भुक्तान्यन्नानि तिक्तानि कषायकटुकानि च॥ नास्वादयीत भुञ्जानो रसांश्च मधुरांस्तथा। यात्रामात्रं च भुञ्जीत केवलं प्राणधारणम्॥ असंरोधेन भूतानां वृत्तिं लिप्सेत मोक्षवित्। न चान्यमन्नं लिप्सेत भिक्षमाणः कथंचन॥ न संनिकाशयेद् धर्म विविक्ते चारजाश्चरेत्। शून्यागारमरण्यं वा वृक्षमूलं नदी तथा॥ प्रतिश्रयार्थ सेवेत पार्वती वा पुनर्गुहाम्। ग्रामैकरात्रिको ग्रीष्मे वर्षास्वेकत्र वा वसेत्॥ अध्वा सूर्येण निर्दिष्टः कीटवच्च चरेन्महीम्। दयार्थं चैव भूतानां समीक्ष्य पृथिवीं चरेत्॥ संचयांश्च न कुर्वीत स्नेहवासं च वर्जयेत्। पूताभिरद्भिर्नित्यं वै कार्यं कुर्वीत मोक्षवित्॥ उपस्पृशेदुद्भूताभिरद्धिश्च पुरुषः सदा। अहिंसा ब्रह्मचर्यं च सत्यमार्जवमेव च॥ अक्रोधश्चानसूया च दमो नित्यमपैशुनम्। अष्टस्वेतेषु युक्तः स्याद् व्रतेषु नियतेन्द्रियः॥ अपापमशठं वृत्तमजिह्यं नित्यमाचरेत्। जोषयेत सदा भोज्यं ग्रासमागतमस्पृहः॥ यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम्। धर्मलब्धमथाश्नीयान्न काममनुवर्तयेत्॥ ग्रासादाच्छादनादन्यन्न गृह्णीयात् कथंचन। यावदाहारयेत् तावत् प्रतिगृह्णीत नाधिकम्॥ परेभ्यो न प्रतिग्राह्यं न च देयं कदाचन। दैन्यभावाच्च भूतानां संविभज्य सदा बुधः॥ नाददीत परस्वानि न गृह्णीयादयाचितः। न किंचिद्विविषयं भुक्त्वा स्पृहयेत्तस्य वै पुनः॥ मृदमापस्तथान्नानि पत्रपुष्पफलानि च। असंवृतानि गृह्णीयात् प्रवृत्तानि च कार्यवान्॥ न शिल्पजीविकां जीवेद्धिरण्यं नोत कामयेत्। न द्वेष्टा नोपदेष्टा च भवेच्च निरुपस्कृतः॥ श्रद्धापूतानि भुञ्जीत निमित्तानि च वर्जयेत्। सुधावृत्तिरसक्तश्च सर्वभूतैरसंविदम्॥ आशीर्युक्तानि सर्वाणि हिंसायुक्तानि यानि च। लोकसंग्रहधर्मं च नैव कुर्यान्न कारयेत्॥ सर्वभावानतिक्रम्य लघुमात्रः परिव्रजेत्। समः सर्वेषु भूतेषु स्थावरेषु चरेषु च॥ परं नोद्वजयेत् काचिन्न च कस्यचिदुद्विजेत्। विश्वास्यः सर्वभूतानामग्र्यो मोक्षविदुच्यते॥ अनागतं च न ध्यायेन्नातीतमनुचिन्तयेत्। वर्तमानमुपेक्षेत कालाकाक्षी समाहितः॥ न चक्षुषा न मनसा न वाचा दूषयेत् क्वचित्। न प्रत्यक्षं परोक्षं वा किंचिद् दुष्टं समाचरेत्॥ इन्द्रियाण्युपसंहृत्य कूर्मोऽङ्गानीव सर्वशः। क्षीणेन्द्रियमनोबुद्धिर्निरीहः सर्वतत्त्ववित्॥ निर्द्वन्द्वो निर्नमस्कारो निःस्वाहाकार एव च। निर्ममो निरहङ्कारो निर्योगक्षेम आत्मवान्॥ निराशीर्निर्गुणः शान्तो निरासक्तो निराश्रयः। आत्मसङ्गी च तत्त्वज्ञो मुच्यते नात्र संशयः॥ अपादपाणिपृष्ठं तदशिरस्कमनूदरम्। प्रहीणगुणकर्माणं केवलं विमलं स्थिरम्॥ अगन्धमरसस्पर्शमरूपाशब्दमेव च। अनुगम्यमनासक्तममांसमपि चैव यत्॥ निश्चिन्तमव्ययं दिव्यं गृहस्थमपि सर्वदा। सर्वभूतस्थमात्मानं ये पश्यन्ति न ते मृताः॥ न तत्र क्रमते बुद्धिर्नेन्द्रियाणि न देवताः। वेदा यज्ञाच लोकाश्च न तपो न व्रतानि च।॥ यत्र ज्ञानवतां प्राप्तिरलिङ्गग्रहणा स्मृता। तस्मादलिधर्मज्ञो धर्मतत्त्वमुपाचरेत्॥ गूढधर्माश्रितो विद्वान् विज्ञानचरितं चरेत्। अमूढो मूढरूपेण चरेद् धर्ममदूषयन्॥ यथैनमवमन्येरन् परे सततमेव हि। यथावृत्तश्चरेच्छान्तः सतां धर्मानकुत्सयन्॥ य एवं वृत्तसम्पन्नः स मुनिः श्रेष्ठ उच्यते। इन्द्रियाणीन्द्रियार्थांश्च महाभूतानि पञ्च च॥ मनो बुद्धिरहंकारमव्यक्तं पुरुषं तथा। एतत् सर्वं प्रसंख्याय यथावत् तत्त्वनिश्चयात्॥ ततः स्वर्गमवाप्नोति विमुक्तः सर्वबन्धनैः। एतावदन्तवेलायां परिसंख्याय तत्त्ववित्॥ ध्यायेदेकान्तमास्थाय मुच्यतेऽथ निराश्रयः। निर्मुक्तः सर्वसङ्गेभ्यो वायुराकाशगो यथा॥ क्षीणकेशो निरातङ्गस्तथेदं प्राप्नुयात् परम्॥ ब्रह्मोवाच संन्यासं तप इत्याहुवृद्धा निश्चितवादिनः। ब्राह्मणा ब्रह्मयोनिस्था ज्ञानं ब्रह्म परं विदुः॥ अतिदूरात्मकं ब्रह्म वेदविद्याव्यपाश्रयम्। निर्द्वन्द्व निर्गुणं नित्यमचिन्त्यगुणमुत्तमम्॥ ज्ञानेन तपसा चैव धीराः पश्यन्ति तत् परम्। निर्णिक्तमनसः पूता व्युत्क्रान्तरजसोऽमला:॥ तपसा क्षेममध्वानं गच्छन्ति परमेश्वरम्। संन्यासनिरता नित्यं ये च ब्रह्मविदो जनाः॥ तपः प्रदीप इत्याहुराचारो धर्मसाधकः। ज्ञानं वै परमं विद्यात् संन्यासं नृप उत्तमम्॥ यस्तु वेद निराधारं ज्ञानं नत्त्वविनिश्चयात्। सर्वभूनस्थमात्मानं स सर्वगतिरिष्यते॥ यो विद्वान् सहवासं च विवासं चैव पश्यति। तथैवैकत्वनानात्वे स दुःखात् प्रतिमुच्यते॥ यो न कामयते किंचिन्न किंचिदवमन्यते। इहलोकस्थ एवैष ब्रह्मभूयाय कल्पते॥ प्रधानगुणतत्त्वज्ञः सर्वभूतप्रधानवित्। निर्ममो निरहङ्कारो मुच्यते नात्र संशयः॥ निर्द्वन्द्वो निर्नमस्कारो नि:स्वधाकार एव च। निर्गुणं नित्यमद्वन्द्वं प्रशमेनैव गच्छति॥ हित्वा गुणमयं सर्वं कर्म जन्तुः शुभाशुभम्। उभे सत्यानृते हित्वा मुच्यते नात्र संशयः॥ अव्यक्तयोनिप्रभवो बुद्धिस्कन्धमयो महान्। महाहंकारविटप इन्द्रियाङ्करकोटरः॥ महाभूतविशालश्च विशेषयति शाखिनः। सदापत्रः सदापुष्पः शुभाशुभफलोदयः॥ आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः। एनं छित्त्वा च भित्त्वा च तत्त्वज्ञानासिना बुधः॥ हित्वा सङ्गमयान् पाशान् मृत्युजन्मजरोदयान्। निर्ममो निरहङ्कारो मुच्यते नात्र संशयः॥ द्वाविमौ पक्षिणौ नित्यौ संक्षेपौ चाप्यचेतनी। एताभ्यां तु परो योऽयश्चेतनावान् स उच्यते॥ अचेतनः सत्त्वसंख्याविमुक्तः सत्त्वात् परं चेतयतेऽन्तरात्मा। र्गुणातिगो मुच्यते सर्वपापैः॥ केचिद् ब्रह्ममयं वृक्षं केचिद् ब्रह्मवनं महत्। केचित्तु ब्रह्म चाव्यक्त केचित् परमनामयम्। मन्यन्ते सर्वमप्येतदव्यक्तप्रभवाव्ययम्॥ उच्छ्वासमात्रमपि चेद् योऽन्तकाले समो भवेत्। आत्मानमुपसङ्गम्य सोऽमृतत्वाय कल्पते॥ निमेषमात्रमपि चेत् संयम्यात्मानमात्मनि। गच्छत्यात्मप्रसादेन विदुषां प्राप्तिमव्ययाम्॥ प्राणायामैरथ प्राणान् संयम्य स पुनः पुनः। दशद्वादशभिर्वापि चतुर्विंशात् परं ततः॥ एवं पूर्वं प्रसन्नात्मा लभते यद् यदिच्छति। अव्यक्तात् सत्त्वमुद्रिक्तममृतत्वाय कल्पते॥ सत्त्वात् परतरं नान्यत् प्रशंसन्तीह तद्विदः। अनुमानाद् विजानीमः पुरुषं सत्त्वसंश्रयम्। न शक्यमन्यथा गन्तुं पुरुषं द्विजसत्तमाः॥ क्षमा धृतिरहिंसा च समता सत्यमार्जवम्। ज्ञानं त्यागोऽथ संन्यासः सात्त्विकं वृत्तमिष्यते॥ एतेनैवानुमानेन मन्यन्ते वै मनीषिणः। सत्त्वं च पुरुषश्चैव तत्र नास्ति विचारणा॥ आहुरेके च विद्वांसो ये ज्ञानपरिनिष्ठिताः। क्षेत्रज्ञसत्त्वयोरैक्यमित्येतन्नोपपद्यते॥ पृथग्भूतं ततः सत्त्वमित्येतदविचारितम्। पृथग्भावश्च विज्ञेयः सहजश्चापि तत्त्वतः॥ तथैवैकत्वनानात्वमिष्यते विदुषां नयः। मशकोदुम्बरे चैक्यं पृथक्त्वमपि दृश्यते॥ मत्स्यो यथान्यः स्यादप्सु सम्प्रयोगस्तथा तयोः। सम्बन्धस्तोयबिन्दूनां पण कोकनदस्य च॥ गुरुरुवाच इत्युक्तवन्तस्ते विप्रास्तदा लोकपितामहम्। पुनः संशयमापना: पप्रच्छुर्मुनिसत्तमाः॥ गुरुरुवाच इत्युक्तवन्तस्ते विप्रास्तदा लोकपितामहम्। पुनः संशयमापना: पप्रच्छुर्मुनिसत्तमाः॥ ऋषय ऊचुः को वा स्विदिह धर्माणामनुष्ठेयतमो मतः। व्याहतामिव पश्यामो धर्मस्य विविधां गतिम्॥ ऊर्ध्वं देहाद् वदन्त्येके नैतदस्तीति चापरे। केचित् संशयितं सर्वं नि:संशयमथापरे॥ अनित्यं नित्यमित्येके नास्त्यस्तीत्यपि चापरे। एकरूपं द्विधेत्येके व्यामिश्रमिति चापरे॥ मन्यन्ते ब्राह्मणा एव ब्रह्मज्ञास्तत्त्वदर्शिनः। एकमेके पृथक् चान्ये बहुत्वमिति चापरे॥ देशकालावुभौ केचिन्नैतदस्तीति चापरे। जटाजिनधराश्चान्ये मुण्डा केचिदसंवृताः॥ अस्नानं केचिदिच्छन्ति स्नानमप्यपरे जनाः। मन्यन्ते ब्राह्मणा देवा ब्रह्मज्ञास्तत्त्वदर्शिनः॥ आहारं केचिदिच्छन्ति केचिच्चानशने रताः। कर्म केचित् प्रशंसन्ति प्रशान्तिं चापरे जनाः॥ केचिन्मोक्षं प्रशंसन्ति केचिद् भोगान् पृथग्विधान्। धनानि केचिदिच्छन्ति निर्धनत्वमथापरे। उपास्यसाधनं साधनं त्वेके नैतदस्तीति चापरे॥ अहिंसानिरताश्चान्ये केचिद्धिंसापरायणाः। पुण्येन यशसा चान्ये नैतदस्तीति चापरे॥ सद्भावनिरताश्चान्ये केचित् संशयिते स्थिताः। दुःखादन्ये सुखादन्ये ध्यानमित्यपरे जनाः॥ यज्ञमित्यपरे विप्राः प्रदानमिति चापरे। तपस्त्वन्ये प्रशंसन्ति स्वाध्यायमपरे जनाः॥ एवं व्युत्थापिते धर्मे ज्ञानं संन्यासमित्येके स्वभावं भूतचिन्तकाः। सर्वमेके प्रशंसन्ति न सर्वमिति चापरे।॥ बहुधा विप्रबोधिते। निश्चयं नाधिगच्छामः सम्मूढाः सुरसत्तम॥ इदं श्रेय इदं श्रेय इत्येवं व्युस्थितो जनः। यो हि यस्मिन् रतो धर्मे स तं पूजयते सदा॥ तेन नोऽविहिता प्रज्ञा मनश्च बहुलीकृतम्। एतदाख्यातमिच्छामः श्रेयः किमिति सत्तम॥ अतः परं तु यद् गुह्यं तद् भवान् वक्तुमर्हति। सत्त्वक्षेत्रज्ञयोश्चापि सम्बन्धः केन हेतुना॥ एवमुक्तः स तैर्विप्रैर्भगवाँलोकभावनः। तेभ्यः शशंस धर्मात्मा याथातथ्येन बुद्धिमान्॥ ब्रह्मोवाच हन्त वः संप्रवक्ष्यामि यन्मां पृच्छथ सत्तमाः। गुरुणा शिष्यमासाद्य यदुक्तं तन्निबोधत॥ समस्तमिह तच्छ्रुत्वा सम्यगेवावधार्यताम्। अहिंसा सर्वभूतानामेतत् कृत्यतमं मतम्॥ एतत् पदमनुद्विग्नं वरिष्ठं धर्मलक्षणम्। ज्ञानं निःश्रेय इत्याहुवृद्धा निश्चितदर्शिनः॥ तस्माज्ज्ञानेन शुद्धेन मुच्यते सर्वकिल्बिषैः। हिंसापराश्च ये केचिद् ये च नास्तिकवृत्तयः। लोभमोहसमायुक्तास्ते वै निरयगामिनः॥ आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः। तेऽस्मिल्लोके प्रमोदन्ते जायमानाः पुनः पुनः॥ कुर्वते ये तु कर्माणि श्रद्दधाना विपश्चितः। अनाशीर्योगसंयुक्तास्ते धीराः साघुदर्शिनः॥ अतः परं प्रवक्ष्यामि सत्त्वक्षेत्रज्ञयोर्यथा। संयोगो विप्रयोगश्च तन्निबोधत सत्तमाः॥ विषयो विषयित्वं च सम्बन्धोऽयमिहोच्यते। विषयी पुरुषो नित्यं सत्त्वं च विषयः स्मृतः॥ व्याख्यातं पूर्वकल्पेन मशकोदुम्बरं यथा। भुज्यमानं न जानीते नित्यं सत्त्वमचेतनम्। यस्त्वेवं तं विजानीते यो भुङ्क्ते यश्च भुज्यते॥ नित्यं द्वन्द्वसमायुक्तं सत्त्वमाहुर्मनीषिणः। निर्द्वन्द्वो निष्कलो नित्यः क्षेत्रज्ञो निर्गुणात्मकः॥ समं संज्ञानुगश्चैव स सर्वत्र व्यवस्थितः। उपभुङ्क्ते सदा सत्त्वमप: पुष्करपर्णवत्॥ सर्वैरपि गुणैर्विद्वान् व्यतिषक्तो न लिप्यते। जलबिन्दुर्यथा लोलः पद्मिनीपत्रसंस्थितः॥ एवमेवाप्यसंयुक्तः पुरुषः स्यान्न संशयः। द्रव्यमात्रमभूत् सत्त्वं पुरुषस्येति निश्चयः॥ यथा द्रव्यं च कर्ता च संयोगोऽप्यनयोस्तथा। यथा प्रदीपमादाय कश्चित् तमसि गच्छति। तथा सत्त्वप्रदीपेन गच्छन्ति परमैषिणः॥ यावद् द्रव्यं गुणस्तावत् प्रदीपः सम्प्रकाशते। क्षीणे द्रव्ये गुणे ज्योतिरन्तर्धानाय गच्छति॥ व्यक्तः सत्त्वगुणस्त्वेवं पुरुषोऽव्यक्त इष्यते। एतद् विप्रा विजानीत हन्त भूयो ब्रवीमि वः॥ सहस्रेणापि दुर्मेधा न बुद्धिमधिगच्छति। चतुर्थेनाप्यथांशेन बुद्धिमान् सुखमेधते॥ एवं धर्मस्य विज्ञेयं संसाधनमुपायतः। उपायज्ञो हि मेधावी सुखमत्यन्तमश्नुते॥ यथाध्वानमपाथेयः प्रपन्नो मनुजः क्वचित्। क्लेशेन याति महता विनश्येदन्तरापि च॥ तथा कर्मसु विज्ञेयं फलं भवति वा न वा। पुरुषस्यात्मनिःश्रेयः शुभाशुभनिदर्शनम्॥ यथा च दीर्घमध्वानं पद्भ्यामेव प्रपद्यते। अदृष्टपूर्वं सहसा तत्त्वदर्शनवर्जितः॥ तमेव च यथाध्वानं रथेनेहाशुगामिना। गच्छत्यश्वप्रयुक्तेन तथा बुद्धिमतां गतिः॥ ऊर्ध्वं पर्वतमारुह्य नान्ववेक्षेत भूतलम्। रथेन रथिनं पश्य क्लिश्यमानमचेतनम्॥ यावद् रथपथस्तावद् रथेन स तु गच्छति। क्षीणे रथपदे विद्वान् रथमुत्सृज्य गच्छति॥ एवं गच्छति मेधावी तत्त्वयोगविधानवित्। परिज्ञाय गुणज्ञश्च उत्तरादुत्तरोत्तरम्॥ यथार्णवं महाघोरमप्लवः सम्प्रगाहते। बाहुभ्यामेव सम्मोहाद् वधं वाञ्छत्यसंशयम्॥ नावा चापि यथा प्राज्ञो विभागज्ञः स्वरित्रया। अश्रान्तः सलिले गच्छेच्छीघ्रं संतरते ह्रदम्॥ तीर्णो गच्छेत् परं पारं नावमुत्सृज्य निर्ममः। व्याख्यातं पूर्वकल्पेन यथा रथपदातिनोः॥ स्नेहात् सम्मोहमापन्नो नावि दाशो यथा तथा। ममन्वेनाभिभूत: संस्तत्रैव परिवर्तते॥ नावं न शक्यपारुह्य स्थले विपरिवर्तितुम्। तथैव रथमारुह्य नाप्सु चर्या विधीयते॥ एवं कर्म कृतं चित्रं विषयस्थं पृथक् पृथक्। यथा कर्म कृतं लोके तथैतानुपद्यते॥ यनैव गन्धिनो रस्यं न रूपस्पर्शशब्दवत्। मन्यन्ते मुनयो बुद्ध्या तत् प्रधानं प्रचक्षते॥ तत्र प्रधानमव्यक्तमव्यक्तस्य गुणो महान्। महत्प्रधानभूतस्य गुणोऽहंकार एव च॥ अहंकारात् तु सम्भूतो महाभूतकृतो गुणः। पृथक्त्वेन हि भूतानां विषया वै गुणाः स्मृताः॥ बीजधर्मं तथाव्यक्तं प्रसवात्मकमेव च। बीजधर्मो महानात्मा प्रसवश्चेति नः श्रुतम्॥ बीजधर्मस्त्वहंकारः प्रसवश्च पुनः पुनः। बीजप्रसवधर्माणि महाभूतानि पञ्च वै॥ बीजधर्मिण इत्याहुः प्रसवं च प्रकुर्वते। विशेषाः पञ्चभूतानां तेषां चित्तं विशेषणम्॥ तत्रैकगुणमाकाशं द्विगुणो वायुरुच्यते। त्रिगुणं ज्यातिरित्याहुरामश्चपि चतुर्गुणाः॥ पृथ्वी पञ्चगुणा ज्ञेया चरस्थावरसंकुला। सर्वभूतकरी देवी शुभाशुभनिदर्शिनी॥ शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः। एते पञ्च गुणा भूमेर्विज्ञेया द्विजसत्तमाः॥ पार्थिवश्च सदा गन्धो गन्धश्च बहुधा स्मृतः। तस्य गन्धस्य वक्ष्यामि विस्तरेण बहून् गुणान्॥ इष्टश्चानिष्टगन्धश्च मधुरोऽम्लः कटुस्तथा। निर्हारी संहतः स्निग्धो रूक्षो विशद एव च॥ एवं दशविधो ज्ञेयः पार्थिवो गन्ध इत्युत। शब्दः स्पर्शस्तथा रूपं द्रवश्चापां गुणाः स्मृताः॥ रसज्ञानं तु वक्ष्यामि रसस्तु बहुधा स्मृतः। मधुरोऽम्लः कटुस्तिक्तः कषायो लवणस्तथा॥ एवं षड्विधविस्तारो रसो वारिमयः स्मृतः। शब्दः स्पर्शस्तथा रूपं त्रिगुणं ज्योतिरुच्यते॥ ज्योतिषश्च गुणो रूपं रूपं च बहुधा स्मृतम्। शुक्लं कृष्णं तथा रक्तं नीलं पीतारुणं तथा॥ ह्रस्वं दीर्घ कृशं स्थूलं चतुरस्रं तु वृत्तवत्। एवं द्वादशविस्तार तेजसो रूपमुच्यते॥ विज्ञेयं ब्राह्मणैवृद्धर्धमेज्ञैः सत्यवादिभिः। शब्दस्पर्शी च विज्ञेयौ द्विगुणो वायुरुच्यते॥ वायोश्चापि गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः। रूक्षः शीतस्तथैवोष्णः स्निग्धो विशद एव च।॥ कठिनश्चिक्कण: श्लक्ष्णः पिच्छिलो दारुणो मृदुः। एवं द्वादशविस्तारो वायव्यो गुण उच्यते॥ विधिवद् ब्राह्मणैः सिद्धधर्मस्तित्त्वदर्शिभिः॥ तत्रैकगुणमाकाशं शब्द इत्येव च स्मृतः। तस्य शब्दस्य वक्ष्यामि विस्तरेण बहून् गुणान्॥ घडजर्षभः स गान्धारो मध्यमः पञ्चमस्तथा। अतः परं तु विज्ञेयो निषादो धैवतस्तथा। अष्टश्चानिष्टशब्दश्च संहतः प्रविभागवान्॥ एवं दशविधो ज्ञेयः शब्द आकाशसम्भवः। आकाशमुत्तमं भूतमहंकारस्ततः परः॥ अहंकारात् परा बुद्धिर्बुद्धेरात्मा ततः परः। तस्मात् तु परमव्यक्तमव्यक्तात् पुरुषः परः॥ परापरज्ञो भूतानां विधिज्ञः सर्वकर्मणाम्। सर्वभूतात्मभूतात्मा गच्छत्यात्मानमव्ययम्॥ ब्रह्मोवाच भूनानामथ पञ्चानां यथैषामीश्वरं मनः। नियमे च विसर्गे च भूतात्मा मन एव च॥ अधिष्ठाता मनो नित्यं भूतानां महतां तथा। बुद्धिरैश्चर्यमाचष्टे क्षेत्रज्ञश्च स उच्यते॥ इन्द्रियाणि मनो युङ्क्ते सदश्वानिव सारथिः। इन्द्रियाणि मनो बुद्धिः क्षेत्रज्ञे युज्यते सदा॥ महदश्वसमायुक्तं बुद्धिसंयमनं रथम्। समारुह्य स भूतात्मा समन्तात् परिधावति॥ इन्द्रियग्रामसंयुक्तो मन:सारथिरेव च। बुद्धिसंयमनो नित्यं महान् ब्रह्ममयो स्थः॥ एवं यो वेत्ति विद्वान् वै सदा ब्रह्ममयं रथम्। स धीरः सर्वभूतेषु न मोहमधिगच्छति॥ अव्यक्तादि विशेषान्तं सहस्थावरजङ्गमम्। सूर्यचन्द्रप्रभालोकं ग्रहनक्षत्रमण्डितम्॥ नदीपर्वतजालैश्च सर्वतः परिभूषितम्। विविधाभिस्तथा चाद्भिः सततं समलंकृतम्॥ आजीवं सर्वभूतानां सर्वप्राणभृतां गतिः। एतद् ब्रह्मवनं नित्यं तस्मिंश्चरति क्षेत्रवित्॥ लोकेऽस्मिन् यानि सत्त्वानि सानि स्थावराणि च। तान्येवाग्रे प्रलीयन्ते पश्चाद् भूतकृता गुणाः। गुणेभ्यः पञ्चभूतानि एष भूतसमुच्छ्रय:॥ देवा मनुष्या गन्धर्वाः पिशाचासुरराक्षसाः। सर्वे स्वभावतः सृष्टा न क्रियाभ्यो न कारणात्॥ एते विश्वसृजो विप्रा जायन्तीह पुनः पुनः। तेभ्यः प्रसूतास्तेष्वेव महाभूतेषु पञ्चसु। प्रलीयन्ते यथाकालमूर्मयः सागरे यथा॥ विश्वसृग्भ्यस्तु भूतेभ्यो महाभूतास्तु सर्वशः। भूतेभ्यश्चापि पञ्चभ्यो मुक्तो गच्छेत् परां गतिम्॥ प्रजापतिरिदं सर्वं मनसैवासृजत् प्रभुः। तथैव देवानृषयस्तपसा प्रतिपेदिरे॥ तपसश्चानुपूर्येण फलमूलाशिनस्तथा। त्रैलोक्यं तपसा सिद्धाः पश्यन्तीह समाहिताः॥ औषधान्यगदादीनि नानाविद्याश्च सर्वशः। तयसैव प्रसिद्ध्यन्ति तपोमूलं हि साधनम्॥ यदुरापं दुराम्नायं दुराधर्षं दुरन्वयम्। तत् सर्वं तपसा साध्यं तपो हि दुरतिक्रमम्॥ सुरापो ब्रह्महा स्तेयी भ्रूणहा गुरुतल्पगः। तयसैव सुतप्तेन मुच्यते किल्बिषात् ततः॥ मनुष्याः पितरो देवाः पशवो मृगपक्षिणः। यानि चान्यानि भूतानि सानि स्थावराणि च॥ तपः परायणा नित्यं सिद्ध्यन्ते तपसा सदा। तथैव तपसा देवा महामाया दिवं गताः॥ आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः। अहंकारसमायुक्तास्ते सकाशे प्रजापतेः॥ ध्यानयोगेन शुद्धेन निर्ममा निरहंकृताः। आप्नुवन्ति महात्मानो महान्तं लोकमुत्तमम्॥ ध्यानयोगमुपागम्य प्रसन्नमतयः सदा। सुखोपचयमव्यक्तं प्रविशन्त्यात्मवित्तमाः॥ ध्यानयोगादुपागम्य निर्ममा निरहंकृताः। अव्यक्तं प्रविशन्तीह महतां लोकमुत्तमम्॥ अव्यक्तादेव सम्भूतः समसंज्ञां गतः पुनः। तमोरजोभ्यां निर्मुक्तः सत्त्वमास्थाय केवलम्॥ निर्मुक्तः सर्वपापेभ्यः सर्वं सृजति निष्कलम्। क्षेत्रज्ञ इति तं विद्याद् यस्तं वेद स वेदवित्॥ चित्तं चित्तादुपागम्य मुनिरासीत संयतः। याच्चित्तं तन्मयो वश्यं गुह्यमेतत् सनातनम्॥ अव्यक्तादिविशेषान्तमविद्यालक्षणं स्मृतम्। निबोधत तथा हीदं गुणैर्लक्षणमित्युत॥ व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम्। ममेति च भवेन्मृत्युन ममेति च शाश्वतम्॥ कर्म केचित् प्रशंसन्ति मन्दबुद्धिरता नराः। ये तु वृद्धा महात्मानो न प्रशंसन्ति कर्म ते॥ कर्मणा जायते जन्तुर्मूर्तिमान् षोडशात्मकः। पुरुषं प्रसतेऽविद्या तद् ग्राह्यममृताशिनाम्॥ तस्मात् कर्मसु नि:स्नेहा ये केचित् पारदर्शिनः। विद्यामयोऽयं पुरुषो न तु कर्ममयः स्मृतः॥ य एवममृतं नित्यमग्राह्यं शश्वदक्षरम्। वश्यात्मानमसंश्लिष्टं यो वेद न मृतो भवेत्॥ अपूर्वमकृतं नित्यं य एनमविचारिणम्। य एवं विन्देदात्मानमग्राह्यममृताशनम्। अग्राह्योऽमृतो भवति स एभिः कारणैर्भुवः॥ आयोज्य सर्वसंस्कारान् संयम्यात्मानमात्मनि। स तद् ब्रह्म शुभं वेत्ति यस्माद् भूयो न विद्यते॥ प्रसादे चैव सत्त्वस्य प्रसादं समवाप्नुयात्। लक्षणं हि प्रसादस्य यथा स्यात् स्वप्नदर्शनम्॥ गतिरेषा तु मुक्तानां ये ज्ञानपरिनिष्ठिताः। प्रवृत्तयश्च याः सर्वाः पश्यन्ति परिणामजाः॥ एषा गतिर्विरक्तानामेष धर्मः सनातनः। एषा ज्ञानवतां प्राप्तिरेतद् वृत्तमनिन्दितम्॥ समेन सर्वभूतेषु निःस्पृहेण निराशिषा। शक्या गतिरियं गन्तुं सर्वत्र समदर्शिना॥ एतद् वः सर्वमाख्यातं मया विप्रर्षिसत्तमाः। एवमाचरत क्षिप्रं ततः सिद्धिमवाप्स्यथ॥ गुरुरुवाच इत्युक्तास्ते तु मुनयो गुरुणा ब्रह्मणा तथा। कृतवन्तो महात्मानस्ततो लोकमवाप्नुवन्॥ त्वमप्येतन्महाभाग मयोक्तं ब्रह्मणो वचः। सम्यगााचर शुद्धात्मंस्ततः सिद्धिमवाप्स्यसि॥ वासुदेव उवाच इत्युक्तः स तदा शिष्यो गुरुणा धर्ममुत्तमम्। चकार सर्वं कौन्तेय ततो मोक्षमवाप्तवान्॥ कृतकृत्यश्च स तदा शिष्यः कुरुकुलोद्वह। तत् पदं समनुप्राप्तो यत्र गत्वा न शोचति॥ अर्जुन उवाच को न्वसौ ब्राह्मणः कृष्ण कश्च शिष्योजनार्दन। श्रोतव्यं चेन्मयैतद् वै तत्त्वमाचक्ष्व मे विभो॥ वासुदेव उवाच अहं गुरुर्महाबाहो मनः शिष्यं च विद्धि मे। त्वत्प्रीत्या गुह्यमेतच्च कथितं ते धनंजय॥ मयि चेदस्ति ते प्रीतिर्नित्यं कुरुकुलोद्वह। अध्यात्ममेतच्छ्रुत्वा त्वं सम्यगाचर सुव्रत॥ ततस्त्वं सम्यगाचीर्णं धर्मेऽस्मिन्नरिकर्षण। सर्वपापविनिर्मुक्तो मोक्षं प्राप्स्यसि केवलम्॥ पूर्वमप्येतदेवोक्तं युद्धकाल उपस्थिते। मया तव महाबाहो तस्मादत्र मनः कुरु॥ मया तु भरतश्रेष्ठ चिरदृष्टः पिता प्रभुः। तमहं द्रष्टुमिच्छामि सम्मते तव फाल्गुन॥ वैशम्पायन उवाच इत्युक्तवचनं कृष्णं प्रत्युवाच धनंजयः। गच्छावो नगरं कृष्ण गजसाह्वयमद्य वै॥ समेत्य तत्र राजानं धर्मात्मानं युधिष्ठिरम्। समनुज्ञाप्य राजानं स्वां पुरीं यातुमर्हसि॥ ततोऽभ्यनोदयत् कृष्णो युज्यतामिति दारुकम्। मुहूर्तादिव चाचष्ट युक्तमित्येव दारुकः॥ तथैव चानुयात्रादि चोदयामास पाण्डवः। सज्जयध्वं प्रयास्यामो नगरं गजसाह्वयम्॥ इत्युक्ताः सैनिकास्ते तु सज्जीभूता विशाम्पते। आचख्युः सज्जमित्येवं पार्थायामिततेजसे॥ ततस्तौ रथमास्थाय प्रयातौ कृष्णपाण्डवौ। विकुर्वाणौ कथाश्चित्राः प्रीयमाणौ विशाम्पते॥ रथस्थं तु महातेजा वासुदेवं धनंजयः। पुनरेवाव्रवीद् वाक्यमिदं भरतसत्तम॥ त्वत्प्रसादाज्जयः प्राप्तो राज्ञा वृष्णिकुलोद्वह। नियताः शत्रवश्चापि प्राप्त राज्यमकण्टकम्॥६ नाथवन्तश्च भवता पाण्डवा मधुसूदन। भवन्तं प्लमासाद्य तीर्णाः स्म कुरुसागरम्॥ विश्वकर्मन् नमस्तेऽस्तु विश्वात्मन् विश्वसत्तम। तथ त्वामभिजानामि यथा चाहं भवन्मतः॥ त्वत्तेजःसम्भवो नित्यं भूतात्मा मधुसूदन। रतिः क्रीडामयी तुभ्यं माया ते रोदसी विभो॥ त्वयि सर्वमिदं विश्वं यदिदं स्थाणु जङ्गमम्। त्वं हि सर्वं विकुरुषे भूतग्रामं चतुर्विधम्॥ पृथिवीं चान्तरिक्षं च द्यां चैव मधुसूदन। हसितं तेऽमला ज्योत्स्रा ऋतवश्चेन्द्रियाणि ते॥ प्राणो वायुः सततगः क्रोधो मृत्युः सनातनः। प्रसादे चापि पद्मा श्रीनित्यं त्वयि महामते॥ रतिस्तुष्टि तिः क्षान्तिर्मतिः कान्तिश्चराचरम्। त्वमेवेह युगसन्तेषु निधनं प्रोच्यसेऽनध॥ सुदीर्घेणापि कालेन न ते शक्या गुंणा मया। आत्मा च परमात्मा च नमस्ते नलिनेक्षण॥ विदितो मे सुदुर्धर्ष नारदाद् देवलात् तथा। कृष्णद्वैपायताच्चैव तथा कुरुपितामहात्॥ त्वयि सर्वे समासक्तं त्वमेवैको जनेश्वरः। यच्चानुग्रहसंयुक्तमेतदुक्तं त्वयानध॥ एतत् सर्वमहं सम्यगाचरिष्ये जनार्दन। इदं चाद्भुतमत्यन्तं कृतमस्मत्प्रियेप्सया॥ यत्पापो निहतः संख्ये कौरव्यो धृतराष्ट्रजः। त्वया दग्धं हि तत्सैन्यं मया विजितमाहवे॥ भवता तत्कृतं कर्म येनावाप्तो जयो मया। दुर्योधनस्य संग्रामे तव बुद्धिपराक्रमैः॥ कर्णस्य च वधोपायो यथावत् सम्प्रदर्शितः। सैन्धवस्य च पापस्य भूरिश्रवस एव च॥ अहं च प्रीयमाणेन त्वया देवकिनन्दन। यदुक्तस्तत् करिष्यामि न हि मेऽत्र विचारणा॥ राजानं च समासाद्य धर्मात्मानं युधिष्ठिरम्। चोदयिष्यामि धर्मज्ञ गमनार्थं तवानघ।॥ रुचितं हि ममैतत्ते द्वारकागमनं प्रभो। अचिरादेव द्रष्टा त्वं मातुलं मे जनार्दन॥ बलदेवं च दुर्धर्षं तथान्यान् वृष्णिपुङ्गवान्। एवं सम्भाषमाणौ तौ प्राप्तौ वारणसाह्वयम्॥ तथा विविशतुश्चोभौ सम्प्रहृष्टनराकुलम्। तौ गत्वा धृतराष्ट्रस्य गृहं शक्रगृहोपमम्॥ ददृशाते महाराज धृतराष्ट्रं जनेश्वरम्। विदुरं च महाबुद्धि राजानं च युधिष्ठिरम्॥ भीमसेनं च दुर्धर्षं माद्रीपुत्रौ च पाण्डवौ। धृतराष्ट्रमुपासीनं युयुत्सु चापराजितम्॥ गान्धारी च महाप्रज्ञां पृथां कृष्णां च भामिनीम्। सुभद्राद्याश्च ताः सर्वा भरतानां स्त्रियस्तथा॥ ददृशाते स्त्रियः सर्वा गान्धारीपरिचारिकाः। ततः समेत्य राजानं धृतराष्ट्रमरिंदमौ॥ निवद्य नामधेये स्वे तस्य पादावगृह्णताम्। गान्धार्याश्च पृथायाश्च धर्मराजस्य चैव हि॥ भीमस्य च महात्मानौ तथा पादावगृह्णताम्। क्षत्तारं चापि संगृह्य पृष्ट्वा कुशलमव्ययम्॥ तैः सार्धं नृपतिं वृद्धं ततस्तौ पर्युपासताम्। ततो निशि महाराजो धृतराष्ट्र: कुरूद्वहान्॥ जनार्दनं च मेधावी व्यसर्जयत वै गृहान्। तेऽनुज्ञाता नृपतिना ययुः स्वं स्वं निवेशनम्॥ धनंजयगृहानेव ययौ कृष्णस्तु वीर्यवान्। तत्रार्चितो यथान्यायं सर्वकामरूपस्थितः॥ कृष्णः सुष्वाप मेधावी धनंजयसहायवान्। प्रभातायां तु शर्वर्यां कृत्वा पौर्वाह्निकी क्रियाम्॥ धर्मराजस्य भवनं जग्मतुः परमार्चितौ। यत्रास्ते स सहामात्यो धर्मराजो महाबलः॥ तौ प्रविश्य महात्मानौ तद् गृहं परमार्चितम्। धर्मराजं ददृशतुर्देवराजमिवाश्विनौ॥ समासाद्य तु राजानं वार्ष्णेयकुरुपुङ्गवौ। निषीदतुरनुज्ञातौ प्रीयमाणेन तेन तौ॥ ततः स राजा मेधावी विवक्षू प्रेक्ष्य तावुभौ। प्रोवाच वदतां श्रेष्ठो वचनं राजसत्तमः॥ युधिष्ठिर उवाच विवक्षू हि युवां मन्ये वीरौ यदुकुरुद्वहौ। बूतं कर्तास्मि सर्वे वां नचिरान्मा विचार्यताम्॥ इत्युक्तः फाल्गुनस्तत्र धर्मराजानमब्रवीत्। विनीतवदुपागम्य वाक्यं वाक्यविशारदः॥ अयं चिरोषितो राजन् वासुदेवः प्रतापवान्। भवन्तं समनुज्ञाप्य पितरं द्रष्टुमिच्छति॥ स गच्छेदभ्यनुज्ञातो भवता यदि मन्यसे। आनर्तनगरी वीरस्तदनुज्ञातुमर्हसि॥ पुण्डरीकाक्ष भद्रं ते गच्छ त्वं मधुसूदन। पुरी द्वारवतीमद्य द्रष्टुं शूरसुतं प्रभो॥ रोचते मे महाबाहो गमनं तव केशव। मातुलश्चिरदृष्टो मे त्वया देवी च देवकी॥ समेत्य मातुलं गत्वा बलदेवं च मानद। पूजयेथा महाप्राज्ञ मद्वाक्येन यथार्हतः॥ स्मरेथाश्चापि मां नित्यं भीमं च बलिना वरम्। फाल्गुनं सहदेवं च नकुलं चैव मानद॥ आनर्तानवलोक्य त्वं पितरं च महाभुज। वृष्णीश्च पुनरागच्छेर्हयमेधे ममानघ॥ स गच्छ रत्नान्यादाय विविधानि वसूनि च। यच्चाप्यन्यन्मनोज्ञं ते तदप्यादत्स्व सात्वत॥ इयं च वसुधा कृत्स्ना प्रसादात् तव केशव। अस्मानुपगता वीर निहताश्चापि शत्रवः॥ एवं ब्रुवति कौरव्ये धर्मराजे युधिष्ठिरे। वासुदेवो वरः पुंसामिदं वचनमब्रवीत्॥ तवैव रत्नानि धनं च केवलं धरा तु कृत्स्ना तु महाभुजाद्य वै। यदस्ति चान्यद् द्रविणं गृहे मम त्वमेव तस्येश्वर नित्यमीश्वरः॥ तथेत्यथोक्तः प्रतिपूजितस्तदा गदाग्रजो धर्मसुतेन वीर्यवान्। पितृष्वसारं त्ववदद् यथाविधि सम्पूजितश्चाप्यगमत् प्रदक्षिणम्॥ तया स सम्यक् प्रतिनन्दितस्तत स्तथैव सर्वैर्विदुरादिभिस्तथा। विनिर्ययौ नागपुराद् गदाग्रजो रथेन दिव्येन चतुर्भुजः स्वयम्॥ रथे सुभद्रामधिरोप्य भाविनी युधिष्ठिरस्यानुमते जनार्दनः। पितृष्वसुश्चापि तथा महाभुजो विनिर्ययौ पौरजनाभिसंवृतः॥ तमन्वयाद् वानरवर्यकेतनः ससात्यकिर्माद्रवतीसुतावपि। अगाधबुद्धिर्विदुरश्च माधवं स्वयं च भीमो गजराजविक्रमः॥ निवर्तयित्वा कुरुराष्ट्रवर्धनां स्ततः स सर्वान् विदुरं च वीर्यवान्। जनार्दनो दारुकमाह सत्वरः प्रचोदयाश्वानिति सात्यकिं तथा॥ ततो ययौ शत्रुगणप्रमर्दनः शिनिप्रवीरानुगतो जनार्दनः। दिवं तथाऽऽनर्तपुरी प्रतापवान्॥ तथा प्रयान्तं वार्ष्णेयं द्वारकां भरतर्षभाः। परिष्वज्य न्यवर्तन्त सानुयात्रा परंतपाः॥ पुनः पुनश्च वार्ष्णेयं पर्यष्वजत फाल्गुनः। आ चक्षुर्विषयाच्चैनं स ददर्श पुनः पुनः॥ कृच्छ्रेणैव तु तां पार्थो गोविन्दे विनिवेशिताम्। संजहार ततो दृष्टि कृष्णश्चाप्यपराजितः॥ तस्य प्रयाणे यान्यासन् निमित्तानि महात्मनः। बहून्यद्भुतरूपाणि तानि मे गदतः शृणु॥ वायुर्वेगेन महता रथस्य पुरतो ववौ। कुर्वत्रिःशर्करं मागं विरजस्कमकण्टकम्॥ ववर्षं वासवश्चैव तोयं शुचि सुगन्धि च। दिव्यानि चैव पुष्पाणि पुरतः शार्ङ्गधन्वनः॥ स प्रयातो महाबाहुः समेषु मरुधन्वसु। ददर्शाथ मुनिश्रेष्ठमुत्तङ्कममितौजसम्॥ स तं सम्पूज्य तेजस्वी मुनि पृथुललोचनः। पूजितस्तेन च तदा पर्यपृच्छदनामय॥ स पृष्टः कुशलं तेन सम्पूज्य मधुसूदनम्। उत्तङ्को ब्राह्मणश्रेष्ठस्तत: पप्रच्छ माधवम्॥ कच्चिच्छौरे त्वया गत्वा कुरुपाण्डवसद्म तत्। कृतं सौभ्रात्रमचलं तन्मे व्याख्यातुमर्हसि॥ अपि संधाय तान् वीरानुपावृत्तोऽसि केशव। सम्बन्धिनः स्वदयितान् सततं वृष्णिपुङ्गव॥ कच्चित् पाण्डुसुताः पच्च धृतराष्ट्रस्य चात्मजाः। लोकेषु विहरिष्यन्ति त्वया सह परंतप॥ स्वराष्ट्रे ते च राजानः कच्चित् प्राप्स्यन्ति वै सुखम्। कौरवेषु प्रशान्तेषु त्वया नाथेन केशव॥ या मे सम्भावना तात त्वयि नित्यमवर्तत। अपि सा सफला तात कृता ते भरतान् प्रति॥ श्रीभगवानुवाच कृतो यत्नो मया पूर्वे सौम्ये कौवान् प्रति। नाशक्यन्त यदा साम्ये ते स्थापयितुमञ्जसा॥ ततस्ते निधनं प्राप्ताः सर्वे ससुतबान्धवाः। न दिष्टमप्यतिक्रान्तुं शक्यं बुद्ध्या बलेन वा॥ महर्षे विदितं भूयः सर्वमेतत् तवानघ। तेऽत्यक्रामन् मतिं मह्यं भीष्मस्य विदुरस्य च॥ ततो यमक्षयं जग्मुः समासाद्येतरेतरम्। पञ्चैव पाण्डवाः शिष्टा हतामित्रा हतात्मजाः। धार्तराष्ट्राश्च निहताः सर्वे ससुतबान्धवाः॥ इत्युक्तवचने कृष्णे भृशं क्रोधसमन्वितः। उत्तङ्क इत्युवाचैनं रोषादुत्फुल्ललोचनः॥ यस्माच्छक्तेन ते कृष्ण न त्राताः कुरुपुङ्गवाः। सम्बन्धिनः प्रियास्तस्माच्छप्स्येऽहं त्वामसंशयम्॥ न च ते प्रसभं यस्मात् ते निगृह्य निवारिताः। तस्मान्मन्युपरीतस्त्वां शप्स्यामि मधुसूदन॥ त्वया शक्तेन हि सता मिथ्याचारेण माधव। ते परीताः कुरुश्रेष्ठा नश्यन्तः स्म ह्यपेक्षिताः॥ वासुदेव उवाच शृणु मे विस्तरेणेदं यद् वक्ष्ये भृगुनन्दन। गृहाणानुनयं चापि तपस्वी ह्यसि भार्गव॥ श्रुत्वा च मे तदध्यात्म मुञ्चेथाः शापमद्य वै। न च मां तपसाऽल्पेन शक्तोऽभिभवितुं पुमान्॥ न च ते तपसो नाशमिच्छामि तपतां वर। तपस्ते सुमहद्दीप्तं गुरवश्चापि तोषिताः॥ कौमारं ब्रह्मचर्यं ते जानामि द्विजसत्तम। दुःखार्जितस्य तपसस्तस्मन्निच्छामि ते व्ययम्॥ उत्तङ्क उवाच अभिजानामि जगतः कर्तारं त्वां जनार्दन। नूनं भवत्प्रसादोऽयमिति मे नास्ति संशयः॥ चित्तं च सुप्रसन्नं मे त्वद्भावगतमच्युत। विपिवृत्तं च मे शापादिति विद्धि परंतप॥ यदि त्वनुग्रहं कंचित् त्वत्तोऽर्हामि जनार्दन। द्रष्टुमिच्छामि ते रूपमैश्वरं तन्निदर्शय॥ वैशम्पायन उवाच ततः स तस्मै प्रीतात्मा दर्शयामास तद् वपुः। शाश्वतं वैष्णवं धीमान् ददृशे यद् धनंजयः॥ स ददर्श महात्मानं विश्वरूपं महाभुजम्। सहस्रसूर्यप्रतिमं दीप्तिमत् पावकोपमम्॥ सर्वमाकाशमावृत्य तिष्ठन्तं सर्वतोमुखम्। तद् दृष्ट्वा परमं रूपं विष्णोर्वैष्णवमद्भुतम्। विस्मयं च ययौ विप्रस्तं दृष्ट्वा परमेश्वरम्॥ उत्तङ्क उवाच विश्वकर्मन् नमस्तेऽस्तु विश्वात्मन् विश्वसम्भव। पद्भ्यां ते पृथिवी व्याप्ता शिरसा चावृतं नभः॥ द्यावापृथिव्योर्यन्मध्यं जठरेण तवावृतम्। भुजाभ्यामावृताश्चाशास्त्वमिदं सर्वमच्युत॥ संहरस्व पुनर्देव रूपमक्षय्यमुत्तमम्। पुनस्त्वां स्वेन रूपेण द्रष्टुमिच्छामि शाश्वतम्॥ तमुवाच प्रसन्नात्मा गोविन्दो जनमेजय। वरं वृणीष्वेति तदा तमुत्तङ्कोऽब्रवीदिदम्॥ पर्याप्त एष एवाद्य परस्त्वत्तो महाद्युते। यत् ते रूपमिदं कृष्णं पश्यामि पुरुषोत्तम॥ तमब्रवीत् पुनः कुष्णो मा त्वमत्र विचारय। अवश्यमेतत् कर्तव्यममोघं दर्शनं मम॥ अवश्यं करणीयं च यद्येतन्मन्यसे विभो। तोयमिच्छामि यत्रेष्टं मरुष्वेतद्धि दुर्लभम्॥ ततः संहृत्य तत् तेजः प्रोवाचोत्तङ्कमीश्वरः। एष्टव्ये सति चिन्त्योऽहमित्युक्त्वा द्वारकां ययौ॥ ततः कदाचिद् भगवानुत्तङ्गस्तोयकांक्षया। तृषितः परिचक्राम मरौ सस्मार चाच्युतम्॥ ततो दिग्वाससं धीमान् मातङ्ग मलपङ्किनम्। अपश्यत मरौ तस्मिश्वयूथपरिवारितम्॥ भीषणं बद्धनिस्त्रिंशं बाणकार्मुकधारिणम्। तस्याधः स्रोतसोऽपश्यद् वारि भूरिद्विजोत्तमः॥ स्मरन्नेव च तं प्राह मातङ्गः प्रहसन्निव! एहुनङ्क प्रतीच्छस्व मनो वारि भृगूद्वह॥ कृपा हि पे सुमहती त्वां दृष्ट्वा तृट्समाश्रितम्। इत्युक्तस्तेन स मुनिस्तत् तोयं नाभ्यनन्दत॥ चिक्षेप च स तं धीमान् वाग्भिरुयाभिरच्युतम्। पुनः पुनश्च मानङ्गः पिबस्वेति तमब्रवीत्॥ न चापिबत् स सक्रोधः क्षुभितेनानन्तरात्मना। ते स तथा निश्चयात् तेन प्रत्याख्यातो महात्मना॥ श्वभिः सह महाराज नत्रैवान्तरधीयता उत्तङ्कस्तं तथा दृष्ट्वा ततो वोडितमानस:॥ मेने प्रलब्धमात्मानं कृष्णेनामित्रघातिना। अथ तेनैव मार्गेण शङ्खचक्रगदाधरः॥ आजगाम महाबुद्धिरुत्तङ्कश्चैनमब्रवीत्। न युक्तं तादृशं दातुं त्वया पुरुषसत्तमा॥ सलिलं विप्रमुख्येभ्यो मातङ्गस्रोतसा विभो। इत्युक्तवचनं तं तु महाबुद्धिर्जनार्दनः॥ उत्तङ्क श्लक्ष्णया वाचा सान्त्वयनिदमब्रवीत्। यादृशेनेह रूपेण योग्यं दातुं धृतेन वै॥ तादृशं खलु दत्तं यच्च त्वं नावबुध्यथा:। मया त्वदर्थमुक्तो वै वज्रपाणिः पुरंदरः॥ उत्तङ्कायामृतं देहि तोयरूपमिति प्रभुः। स मामुवाच देवेन्द्रो न मोऽमर्त्यतां व्रजेत्॥ अन्यमस्मै वरं देहीत्यसकृद् भृगुनन्दन। अमृतं देयमित्येव मयोक्तः स शचीपतिः॥ स मां प्रसाद्य देवेन्द्रः पुनरेवेदमब्रवीत्। यदि देरमवश्यं वै मातङ्गोऽहं महामते॥ भूत्वामृतं प्रदास्यामि भार्गवाय महात्मने। यद्येवं प्रतिगृह्णाति भार्गवोऽमृतमद्य वै॥ प्रदातुमेष गच्छामि भार्गवोऽस्यामृतं विभो। प्रत्याख्यातस्त्वहं तेन दास्यामि न कथंचन॥ स तथा समयं कृत्वा तेन रूपेण वासवः। उपस्थितस्त्वया चापि प्रत्याख्यातोऽमृतं ददत्॥ चाण्डालरूपी भगवान् सुमहांस्ते व्यतिक्रमः। यत् तु शक्यं मया कर्तुं भूय एव तवेप्सितम्॥ तोयेप्सा तव दुर्धर्षां करिष्ये सफलामहम्। येष्वहःसु च ते ब्रह्मन् सलिलेप्सा भविष्यति॥ तदा मरौ भविष्यन्ति जलपूर्णाः पयोधराः। रसवच्च प्रदास्यन्ति तोयं ते भृगुनन्दन॥ उत्तङ्कमेघा इत्युक्ताः ख्याति यास्यन्ति चापि ते॥ इत्युक्तः प्रीतिमान् विप्रः कृष्णेन स बभूव ह। अद्याप्युत्तङ्कमेघाच मरौ वर्षन्ति भारत॥ जनमेजय उवाच उत्तङ्कः केन तपसा संयुक्तो वै महामनाः। यः शापं दातुकामोऽभूद् विष्णवे प्रभविष्णवे॥ वैशम्पायन उवाच उत्तको महता युक्तस्तपसा जनमेजय। गुरुभक्तः स तेजस्वी नान्यत् किंचिदपूजयत्॥ सर्वेषामृषिपुत्राणामेष आसीन्मनीरथः। औत्तङ्की गुरुवृत्तिं वै प्राप्नुयामेति भारत॥ गौतमस्य तु शिष्याणां बहूनां जनमेजय। उत्तङ्केऽभ्यधिका प्रीतिः स्नेहश्चैवाभवत् तदा॥ स तस्य दमशौचाभ्यां विक्रान्तेन च कर्मणा। सम्यक् चैवोपचारेण गौतमः प्रीतिमानभूत्॥ अथ शिष्यसहस्राणि समनुज्ञातवानृषिः। उत्तङ्क परया प्रीत्या नाभ्यनुज्ञातुमैच्छता नं क्रमेण जरा तात प्रतिपेदे महामुनिम्॥ न चान्वबुध्यत तदा स मुनिर्गुरुवत्सलः। ततः कदाचिद् राजेन्द्र काष्ठान्यानयितुं ययौ॥ उत्तङ्कः काष्ठभारं च महान्तं समुपानयत्। स नद्भाराभिभूतात्मा काष्ठभारमरिंदम॥ निचिक्षेप क्षितौ राजन् परिश्रान्तो बुभुक्षितः। तस्य काष्ठे विलग्नाभूज्जटा रूप्यसमप्रभा।॥ ततः काष्ठैः सह तदा पपात धरणीतले। ततः स भारनिष्पिष्टः क्षुधाविष्टश्च भारत॥ दृष्ट्वा तां वयसोऽवस्थां रुरोदार्तस्वरस्तदा। ततो गुरुसुता तस्य पद्मपत्रनिभानना॥ जग्राहाश्रूणि सुश्रोणी करेण पृथुलोचना। पितुर्नियोगाद् धर्मज्ञा शिरसाऽवनता तदा॥ तस्या निपेततुर्दग्धौ करौ तैरश्रुबिन्दुभिः। न हि तानश्रुपातांस्तु शक्ता धारयितुं मही॥ गौतमस्त्वव्रवीद् विप्रमुत्तङ्क प्रीतमानसः। कस्मात् तात तवाद्येह शोकोत्तरमिदं मनः। स स्वैरं ब्रूहि विप्रर्षे श्रोतुमिच्छामि तत्त्वतः॥ उत्तङ्क उवाच भवद्गतेन मनसा भवन्त्रियचिकीर्षया। भवद्भक्तिगतेनेह भवद्भावानुगेन च॥ जरेय नावबुद्धा मे नाभिज्ञातं सुखं च मे। शतवर्षोषितं मां हि न त्वमभ्यनुजानिथा:॥ भवता त्वभ्यनुज्ञाताः शिष्याः प्रत्यवरा मम। अपपन्ना द्विजश्रेष्ठ शतशोऽथ सहस्रशः॥ गौतम उवाच त्वत्प्रीतियुक्तेन मया गुरुशुश्रूषया तव। व्यतिक्रामन्महाकालो नावबुद्धो द्विजर्षभ॥ किं त्वद्य यदि ते श्रद्धा गमनं प्रति भार्गव। अनुज्ञा प्रतिगृह्य त्वं स्वगृहान् गच्छ मा चिरम्॥ उत्तङ्क उवाच गुर्वर्थं कं प्रयच्छामि ब्रूहि त्वं द्विजसत्तम। तमुपाहृत्य गच्छेयमनुज्ञातस्त्वया विभो॥ गौतम उवाच दक्षिणा परितोषो वै गुरुणां सद्धिरुच्यते। तव ह्याचरतो ब्रह्मस्तुष्टोऽहं वै न संशयः॥ इत्थं च परितुष्टं मां विजानीहि भृगूद्वह। युवा षोडशवर्षो हि यद्यद्य भविता भवान्॥ ददानि पत्नी कन्यां च स्वां ते दुहितरं द्विजा एतामृतेऽङ्गना नान्या त्वत्तेऽर्हति सेवितुम्॥ ततस्तां प्रतिजग्राह युवा भूत्वा यशस्विनीम्। गुरुणा चाभ्यनुज्ञातो गुरुपत्नीमथाब्रवीत्॥ कं भवेत्य प्रयच्छामि गुर्वर्थे विनियुक्ष्व माम्। प्रियं हितं च काङ्क्षामि प्राणैरपि धनैरपि।॥ यद् दुर्लभं हि लोकेऽस्मिन् रत्नमत्यातं महत्। तदानयेयं तपसा न हि मेऽत्रास्ति संशयः॥ अहल्योवाच परितुष्टास्मि ते विप्र नित्यं भक्त्या तवानघ। पर्याप्तमेतद् भद्रं ते गच्छ तात यथेप्सितम्॥ उत्तङ्कस्तु महाराज पुनरेवाब्रवीद् वचः। आज्ञापयस्व मां मातः कर्तव्यं च तव प्रियम्॥ सौदासपल्या विधृते दिव्ये मणिकुण्डले। ते समानय भद्रं ते गुर्वर्थः सुकृतो भवेत्॥ स तथेति प्रतिश्रुत्य जगाम जनमेजय। गुरुपत्नीप्रियार्थं वै ते समानयितुं तदा॥ स जगाम ततः शीघ्रमुत्तङ्कणे ब्राह्मणर्षभः। सौदास पुरुषादं वै भिक्षितुं मणिकुण्डले॥ गौतमस्त्वब्रवीत् पत्नीमुत्तको नाद्य दृश्यते। इति पृष्टा तमाचष्ट कुण्डलार्थे गतं च सा॥ ततः प्रोवाच पत्नीं स न ते सम्यगिदं कृतम्। शप्तः स पार्थिवो नूनं ब्राह्मणं तं वधिष्यति॥ अजानन्त्या नियुक्तः स भगवन् ब्राह्मणो मया। भवत्प्रसादान्न भयं किंचित् तस्य भविष्यति॥ इत्युक्तः प्राह तां पत्नीमेवमस्त्विति गौतमः। उत्तोऽपि वने शून्ये राजानं तं ददर्श ह॥ वैशम्पायन उवाच स मित्रसहमासाद्य अभिज्ञानमयाचत। तस्मै ददावभिज्ञानं स चेक्ष्वाकुवरस्तदा॥ सौदास उवाच न चैवैषा गतिः क्षेम्या न चान्या विद्यते गतिः। एतन्मे मतमाज्ञाय प्रयच्छ मणिकुण्डले॥ इत्युक्तस्तामुत्तङ्कस्तु भर्तुर्वाक्यमथाब्रवीत्। श्रुत्वा च सा तदा प्रादात् ततस्ते मणिकुण्डले॥ अवाप्य कुण्डले ते तु राजानं पुनरब्रवीत्। किमेतद् गुह्यवचनं श्रोतुमिच्छामि पार्थिव॥ सौदास उवाच प्रजानिसर्गाद् विप्रान् वै क्षत्रियाः पूजयन्ति ह। विप्रेभ्यश्चापि बहवो दोषाः प्रादुर्भवन्ति वै॥ सोऽहं द्विजेभ्यः प्रणतो विप्राद् दोषमवाप्तवान्। गतिमन्यां न पश्यामि मदयन्तीसहायवान्॥ न चान्यामपि पश्यामि गतिं गतिमतां वर। स्वर्गद्वारस्य गमने स्थाने चेह द्विजोत्तम॥ न हि राज्ञा विशेषेण विरुद्धेन द्विजातिभिः। शक्यं हि लोके स्थातुं वै प्रेत्य वा सुखमेधितुम्॥ तदिष्टे ते मया दत्ते एते स्वे मणिकुण्डले। यः कृतस्तेऽद्य समय: सफलं तं कुरुध्व मे॥ उत्तङ्क उवाच राजस्तथेह कर्तास्मि पुनरेष्यामि ते वशम्। प्रश्नं च कंचित् प्रष्टु त्वां निवृत्तेऽस्मि परंतप॥ ब्रूहि विप्र यथाकामं प्रतिवक्तास्मि ते वचः। छेत्तास्मि सशयं तेऽद्य न मेऽत्रास्ति विचारणा॥ प्राहुर्वाक्संयतं विप्रं धर्मनैपुणदर्शिनः। मित्रेषु यश्च विषमः स्तेन इत्येव तं विदुः॥ स भवान् मित्रतामद्य सम्प्राप्तो मम पार्थिव। स मे बुद्धिं प्रयच्छस्व सम्मतां पुरुषर्षभ॥ अवाप्तार्थोऽहमद्येह भवांश्च पुरुषादकः। भवत्सकाशमागन्तुं क्षमं मम न वेति वै॥ सौदास उवाच क्षमं चेदिह वक्तव्यं तव द्विजवरोत्तम। मत्समीपं द्विजश्रेष्ठ नागन्तव्यं कथंचन॥ एवं तव प्रपश्यामि श्रेयो भृगुकुलोद्वह। आगच्छतो हि ते विप्र भवेन्मृत्युर्न संशयः॥ वैशम्पायन उवाच इत्युक्तः स तदा राज्ञा क्षमं बुद्धिमतां हितम्। अनुज्ञाप्य स राजानमहल्यां प्रतिजग्मिवान्॥ गृहीत्वा कुण्डले दिव्ये गुरुपल्याः प्रियंकरः। जवेन महता प्रायाद् गौतमस्याश्रमं प्रति॥ यथा तयो रक्षणं च मदयन्त्यभिभाषितम्। तथा ते कुण्डले बद्ध्वा तदा कृष्णाजिनेऽनयत्॥ स कस्मिंश्चित् क्षुधाविष्टः फलभारसमन्वितम्। बिल्वं ददर्श विप्रर्षिरारुरोह च तं ततः॥ शाखामासज्य तस्यैव कृष्णाजिनमरिंदम। पातयामास बिल्वानि तदा स द्विजपुङ्गवः॥ अथ पातयमानस्य बिल्वापहृतचक्षुषः। न्यपतंस्तानि बिल्वानि तस्मिन्नेवाजिने प्रभो॥ यस्मिंस्ते कुण्डले बद्धे तदा द्विजवरेण वै। बिल्वप्रहारैस्तस्याथ व्यशीर्यद् बन्धनं ततः॥ सकुण्डलं तदजिनं पपात सहसा तरोः। विशीर्णबन्धने तस्मिन् गते कृष्णाजिने महीम्॥ अपश्यद् भुजगः कश्चित् ते तत्र मणिकुण्डले। ऐरावतकुलोद्भूतः शीघ्रो भूत्वा तदा हि सः॥ विदश्यास्येन वल्मीकं विवेशाथ स कुण्डले। ह्रियमाणे तु दृष्ट्वा स कुण्डले भुजगेन ह॥ पपात वृक्षात् सोद्वेगो दुःखात् परमकोपनः। स दण्डकाष्ठमादाय वल्मीकमखनत् तदा॥ अहानि त्रिंशदव्यग्रः पञ्च चान्यानि भारत। क्रोधामर्षाभिसतंप्तस्तदा ब्राह्मणसत्तमः॥ तस्य वेगमसा तमसहन्ती वसुन्धरा। दण्डकाष्ठाभिनुन्नाङ्गी चचाल भृशमाकुला॥ ततः खनत एवाथ विप्रर्धर्धरणीतलम्। नागलोकस्य पन्थानं कर्तुकामस्य निश्चयात्॥ रथेन हरियुक्तेन तं देशमुपजग्मिवान्। वज्रपाणिर्महातेजास्तं ददर्श द्विजोत्तमम्॥ वैशम्पायन उवाच स तु तं ब्राह्मणो भूत्वा तस्य दुःखेन दुःखितः। उत्तङ्कमब्रवीद् वाक्यं नैतच्छक्यं त्वयेति वै॥ इतो हि नागलोको वै योजनानि सहस्रशः। न दण्डकाष्ठसाध्यं च मन्ये कार्यमिदं तव॥ उत्तङ्क उवाच नागलोके यदि ब्रह्मन् न शक्ये कुण्डले मया। प्राप्तुं प्राणान् विमोक्ष्यामि पश्यतस्तु द्विजोत्तम॥ वैशम्पायन उवाच यदा स नाशकत् तस्य निश्चयं कर्तुमन्यथा। वज्रपाणिस्तदा दण्डं वज्रास्त्रेण युयोज ह॥ ततो वज्रप्रहारैस्तैर्दार्यमाणा वसुन्धरा। नागलोकस्य पन्थानमकरोज्जनमेजय॥ स तेन मार्गेण तदा नागलोकं विवेश ह। ददर्श नागलोकं च योजनानि सहस्रशः॥ प्राकारनिचयैर्दिव्यैर्मणिमुक्तास्वलंकृतैः। उपपन्नं महाभाग शातकुम्भमयैस्तथा॥ वापी: स्फटिकसोपाना नदीश्च विमलोदकाः। ददर्श वृक्षांश्च बहून् नानाद्विजगणायुतान्॥ तस्य लोकस्य च द्वारं स ददर्श भृगूद्वहः। पञ्चयोजनविस्तारमायतं शतयोजनम्॥ नागलोकमुत्तङ्कस्तु प्रेक्ष्य दीनोऽभवत् तदा। निराशश्चाभवत् तत्र कुण्डलाहरणे पुनः॥ तत्र प्रोवाच तुरगस्तं कृष्णश्वेतवालधिः। ताम्रास्यनेत्रः कौरव्य प्रज्वलन्निव तेजसा॥ धमस्वापानमेतन्मे ततस्त्वं विप्र लप्स्यसे। ऐरावतसुतेनेह तवानीते हि कुण्डले॥ मा जुगुप्सां कृथाः पुत्र त्वमत्रार्थे कथंचन। त्वयैतद्धि समाचीर्णं गौतमस्याश्रमे तदा।॥ उत्तङ्क उवाच कथं भवन्तं जानीयामुपाध्यायाश्रमं प्रति। यन्मया चीर्णपूर्वं हि श्रोतुमिच्छामि तद्ध्यहम्॥ अश्व उवाच गुरोगुरुं मां जानीहि ज्वलनं जातवेदसम्। त्वया ह्यहं सदा विप्र गुरोरर्थेऽभिपूजितः॥ विधिवत् सततं विप्र शुचिना भृगुनन्दन। तस्मा यो विधास्यामि तवैवं कुरु मा चिरम्॥ इत्युक्तस्तु तथाकार्षीदुत्तङ्कश्चित्रभानुना। घृतार्चिः प्रीतिमांश्चापि प्रजज्वाल दिधक्षया॥ ततोऽस्य रोमकूपेभ्यो धम्यतस्तत्र भारता घनः प्रादुरभूद् धूमो नागलोकभयावहः॥ तेन धूमेन महता वर्धमानेन भारत। नागलोके महाराज न प्रज्ञायत किंचन॥ हाहाकृतमभूत् सर्वमैरावतनिवेशनम्। वासुकिप्रमुखानां च नागानां जनमेजय॥ न प्रकाशन्त वेश्मानि धूमरुद्धानि भारत। निहारसंवृतानीव वनानि गिरयस्तथा॥ ते धूमरक्तनयना वह्नितेजोऽभितापिताः। आजग्मुनिश्चयं ज्ञातुं भार्गवस्य महात्मनः॥ श्रुत्वा च निश्चयं तस्य महर्षेरतितेजसः। सम्भ्रान्तनयनाः सर्वे पूजां चक्रुर्यथाविधि।॥ सर्वे प्राञ्जलो नागा वृद्धबालपुरोगमाः। शिरोभिः प्रणिपत्योचुः प्रसीद भगवन्निति॥ प्रसाद्य ब्राह्मणं ते तु पाद्यमर्थ्य निवेद्य च। प्रायच्छन् कुण्डले दिव्ये पन्नगाः परमार्चिते॥ ततः स पूजितो नागैस्तदोत्तङ्कः प्रतापवान्। अग्निं प्रदक्षिणं कृत्वा जगाम गुरुसा तत्॥ स गत्वा त्वरितो राजन् गौतमस्य निवेशनम्। प्रायच्छत् कुण्डले दिव्ये गुरुपत्न्यास्तदानघ॥ वासुकिप्रमुखानां च नागानां जनमेजय। सर्वे शशंस गुरवे यथावद् द्विजसत्तमः॥ एवं महात्मना तेन त्रील्लोकान् जनमेजय। परिक्रम्याहृते दिव्ये ततस्ते मणिकुण्डले॥ एवंप्रभावः स मुनिरुत्तको भरतर्षभा परेण तपसा युक्तो यन्मां त्वं परिपृच्छसि॥ वासुदेव उवाच श्रुतवानस्मि वार्ष्णेय संग्रामं परमाद्भुतम्। नराणां वदतां तत्र कथं वा तेषु नित्यशः॥ त्वं तु प्रत्यक्षदर्शी च रूपज्ञश्च महाभुजा तस्मात् प्रब्रूहि संग्रामं याथातथ्येन मेऽनघ॥ यथा तदभवद् युद्धं पाण्डवानां महात्मनाम्। भीष्मकर्णकृपद्रोणशल्यादिभिरनुत्तमम्॥ अन्येषां क्षत्रियाणां च कृतास्त्राणामनेकशः। नानावेषाकृतिमतां नानादेशनिवासिनाम्॥ वैशम्पायन उवाच इत्युक्तः पुण्डरीकाक्षः पित्रा मातुस्तदन्तिके। शशंस कुरुवीराणां संग्रामे निधनं यथा।॥ अत्युद्धतानि कर्माणि क्षत्रियाणां महात्मनाम्। बहुलत्वान्न संख्यातुं शक्यान्यब्दशतैरपि॥ प्राधान्यतस्तु गदतः समासेनैव मे शृणु। कर्माणि पृथिवीशानां यथावदमरधुते॥ भीष्मः सेनापतिरभूदेकादशचभूपतिः। कौरव्यः कौरवेन्द्राणां देवानामिव वासवः॥ शिखण्डी पाण्डुपुत्राणां नेता सप्तचमूपतिः। बभूव रक्षितो धीमान् श्रीमता सत्यसाचिना॥ तेषां तदभवद् युद्धं दशाहानि महात्मनाम्। कुरूणां पाण्डवानां च सुमहल्लोमहर्षणम्॥ तत: शिखण्डी गाङ्गेयं युध्यमानं महाहवे। जघान बहुभिर्बाणैः सह गाण्डीवधन्वना॥ अकरोत् स ततः कालं शरतल्पगतो मुनिः। अयनं दक्षिणं हित्वा सम्प्राप्ते चोत्तरायणे॥ ततः सेनापतिरभूद् द्रोणोऽस्त्रविदुषां वरः। प्रवीरः कौरवेन्द्रस्य काव्यो दैत्यपतेरिव॥ अक्षौहिणीभिः शिष्टाभिर्नवभिर्द्विजसत्तमः। संवृतः समरश्लाघी गुप्तः कृपवृषादिभिः॥ धृष्टद्युम्नस्त्वभून्नेता पाण्डवानां महास्त्रवित्। गुप्तो भीमेन मेधावी मित्रेण वरुणो यथा॥ स च सेनापरिवृतो द्रोणप्रेप्सुर्महामनाः। पितुर्निकारान् संस्मृत्य रणे कर्माकरोन्महत्॥ तस्मिंस्ते पृथिवीपाला द्रोणपार्षतसंगरे। नानादिगागता वीराः प्रायशो निधनं गताः॥ दिनानि पञ्च तद् युद्धमभूत् परमदारुणम् ततो द्रोणः परिश्रान्तो धृष्टद्युम्नवशं गतः॥ ततः सेनापतिरभूत् कर्णो दौर्योधने बले। अक्षौहिणीभिः शिष्टाभिर्वृतः पञ्चभिराहवे॥ तिस्रस्तु पाण्डुपुत्राणां चम्वो बीभत्सुपालिताः। हतप्रवीरभूयिष्ठा बभूवुः समवस्थिताः॥ ततः पार्थं समासाद्य पतङ्ग इव पावकम्। पञ्चत्वमगमत् सौतिर्द्वितीयेऽहनि दारुणः॥ हते कर्णे तु कौरव्या निरुत्साहा हतौजसः। अक्षौहिणीभिस्तिसृभिर्मद्रेशं पर्यवारयन्॥ हतवाहनभूयिष्ठाः पाण्डवाऽपि युधिष्ठिरम्। अक्षौहिण्या निरुत्साहाः शिष्टया पर्यवारयन्॥ अवधीन्मद्रराजानं कुरुराजो युधिष्ठिरः। तस्मिंस्तदादिवसे कृत्वा कर्म सुदुष्करम्॥ हते शल्ये तु शकुनि सहदेवो महात्मनाः। आहर्तारं कलेस्तस्य जघानामितविक्रमः॥ निहते शकुनौ राजा धार्तराष्ट्रः सुदुर्मनाः। आपाक्रामद् गदापाणिर्हतभूयिष्ठसैनिकः॥ तमन्वधावत् संक्रुद्धो भीमसेनः प्रतापवान्। हृदे द्वैपायने चापि सलिलस्थं ददर्श तम्॥ हतशिष्टेन सैन्येन समन्तात् पर्यवार्य तम्। अथोपविविशुर्हष्टा हृदस्थं पञ्च पाण्डवाः॥ विगाह्य सलिलं त्वाशु बाग्बाणै शविक्षतः। उत्थाय स गदापाणियुद्धाय समुपस्थितः॥ ततः स निहतो राजा धार्तराष्ट्रो महारणे। भीमसेनेन विक्रम्य पश्यतां पृथिवीक्षिताम्॥ ततस्तत् पाण्डवं सैन्यं प्रसुप्तं शिबिरे निशि। निहतं द्रोणपुत्रेण पितुर्वधममृष्यता॥ हतपुत्रा हतबला हतमित्रा मया सह। युयुधानसहायेन पञ्च शिष्टास्तु पाण्डवाः॥ सहैव कृपभोजाभ्यां द्रौणियुद्धादमुच्यत। युयुत्सुश्चापि कौरव्यो मुक्तः पाण्डवसंश्रयात्॥ निहते कौरवेन्द्रे तु सानुबन्धे सुयोधने। विदुरः संजयश्चैव धर्मराजमुपस्थितौ॥ एवं तदभवद् युद्धमहान्यष्टादश प्रभो। यत्र ते पृथिवीपाला निहताः स्वर्गमावसन्॥ वैशम्पायन उवाच शृण्वतां तु महाराज कथां तां लोमहर्षणाम्। दुःखशोकपरिक्लेशा वृष्णीनामभवंस्तदा।॥ वैशम्पायन उवाच कथयन्नेव तु सदा वासुदेवः प्रतापवान्। महाभारतयुद्धं तत्कथान्ते पितुरग्रतः॥ अभिमन्योर्वधं वीरः सोऽत्यक्रामन्महामतिः। अप्रियं वसुदेवस्य मा भूदिति महामतिः॥ मा दौहित्रवधं श्रुत्वा वसुदेवो महात्ययम्। दुःखशोकाभिसंतप्तो भवेदिति महामतिः॥ सुभद्रा तु तमुत्क्रान्तमात्मजस्य वधं रणे। आचक्ष्व कृष्ण सौभद्रवमित्यपतद् भुवि॥ तामपश्यन्निपतितां वसुदेवः क्षितौ तदा। दृष्ट्वैव च पपातोळें सोऽपि दुःखेन मूर्छितः॥ ततः स दौहित्रवधदुःखशोकसमाहतः। वसुदेवो महाराज कृष्णं वाक्यमथाब्रवीत्॥ ननु त्वं पुण्डरीकाक्ष सत्यवाग् भुवि विश्रुतः॥ यद् दौहित्रवधं मेऽद्य न ख्यापयसि शत्रुहन्। तद् भागिनेयनिधनं तत्त्वेनाचक्ष्व मे प्रभो॥ सदृशाक्षस्तव कथं शत्रुभिर्निहतो रणे। दुर्मरं बत वार्ष्णेय कालेऽप्राप्ते नृभिः सह॥ यत्र मे हृदयं दुःखाच्छतधा न विदीर्यते। किमब्रवीत् त्वां संग्रामे सुभद्रां मातरं प्रति॥ मां चापि पुण्डरीकाक्ष चपलाक्षः प्रिबो मम। आहवं पृष्ठतः कृत्वा कच्चिन्न निहतः परैः॥ कच्चिन्मुखं न गोविन्द तेनाजौ विकृतं कृतम्। स हि कृष्ण महातेजाः श्लाघन्निव ममाग्रतः॥ बालभावेन विनयमात्मनोऽकथयत् प्रभुः। कच्चिन्न निकृतो बालो द्रोणकर्णकृपादिभिः॥ धरण्यां निहतः शेते तन्ममाचक्ष्व केशव। स हि द्रोणं च भीष्मं च कर्णं च बलिनां वरम्॥ स्पर्धते स्म रणे नित्यं दुहितुः पुत्रको मम। एवंविधं बहु तदा विलपन्तं सुदुःखितम्॥ पितरं दुःखिततरो गोविन्दो वाक्यमब्रवीत्। न तेन विकृतं वक्त्रं कृतं संग्राममूर्धनि॥ न पृष्ठत: कृतश्चापि संग्रामस्तेन दुस्तरः। निहत्य पृथिवीपालान् सहस्रशतसंघशः॥ खेदितो द्रोणकर्णाभ्यां दौःशासनिवशं गतः। एको होकेन सततं युध्यमाने यदि प्रभो॥ न स शक्येत संग्रामे निहन्तुमपि वज्रिणा। समाहृते च संग्रामात् पार्थे संशप्तकैस्तदा॥ पर्यवार्यत संक्रुद्धैः स द्रोणादिभिराहवे। ततः शत्रुवधं कृत्वा सुमहान्तं रणे पितः॥ दौहित्रस्तव वार्ष्णेय दौःशासनिवशं गतः। नूनं च स गतः स्वर्गे जहि शोकं महामते॥ न हि व्यसनमासाद्य सीदन्ति कृतबुद्धयः। द्रोणकर्णप्रभृतयो येन प्रतिसमासिताः॥ रणे महेन्द्रप्रतिमाः स कथं नाप्नुयाद् दिवम्। स शोकं जहि दुर्धर्ष मा च मन्युवशं गमः॥ शस्त्रपूतां हि स गतिं गतः परपुरंजयः। तस्मिंस्तु निहते वीरे सुभद्रेयं स्वसा मम॥ दुःखार्ताधो सुतं प्राप्य कुररीव ननाद ह। द्रौपदी च समासाद्य पर्यपृच्छत दुःखिता॥ आर्ये क्व दारकाः सर्वे द्रष्टुमिच्छामि तानहम्। अस्यास्तु वचनं श्रुत्वा सर्वास्ताः कुरुयोषितः॥ भुजाभ्यां परिगृह्येनां चुक्रुशुः परमार्तवत्॥ उत्तरां चाब्रवीद् भद्रे भर्ता स क्व नु ते गतः। क्षिप्रमागमनं मह्यं तस्य त्वं वेदयस्व ह॥ ननु नामाद्य वैराटि श्रुत्वा मम गिरं सदा। भवनान्निष्पतत्याशु कस्मान्नाभ्येति ते पतिः॥ अभिमन्यो कुशलिनो मातुलास्ते महारथाः। कुशलं चाब्रुवन् सर्वे त्वां युयुत्सुमिहागतम्॥ आचक्ष्व मेऽद्य संग्रामं यथापूर्वमरिंदम। कस्मादेवं विलपतीं नाघेह प्रतिभाषसे॥ एवमादि तु वार्ष्णेय्यास्तस्यास्तत्परिदेवितम्। श्रुत्वा पृथा सुदुःखार्ता शनैर्वाक्यमथाब्रवीत्॥ सुभद्रे वासुदेवेन तथा सात्यकिना रणे। पित्रा च लालितो बालः स हतः कालधर्मणा॥ ईदृशो मर्त्यधर्मोऽयं मा शुचो यदुनन्दिनि। पुत्रो हि तव दुर्घर्षः सम्प्राप्तः परमां गतिम्॥ कुले महति जातासि क्षत्रियाणां महात्मनाम्। मा शुचश्चपलाक्षं त्वं पद्मपत्रनिभेक्षणे॥ उत्तरां त्वमवेक्षस्व गुर्विणी मा शुचः शुभे। पुत्रमेषा हि तस्याशु जनयिष्यति भाविनी॥ एवमाश्वासयित्वैनां कुन्ती यदुकुलोद्वह। विहाय शोकं दुर्धर्षे श्राद्धमस्य ह्यकल्पयत्॥ समनुज्ञाप्य धर्मज्ञं राजानं भीममेव च। यमौ यमोपमौ चैव ददौ दानान्यनेकशः॥ ततः प्रदाय बहीर्गा ब्राह्मणाय यदूद्वह। समाहृष्य तु वार्ष्णेयी वैराटीमब्रवीदिदम्॥ वैराटि नेह संतापस्त्वया कार्यो ह्यनिन्दिते। भर्तारं प्रति सुश्रोणि गर्भस्थं रक्ष वै शिशुम्॥ एवमुक्त्वा ततः कुन्ती विरराम महाद्युते। तामनुज्ञाप्य चैवेमां सुभद्रां समुपानयम्॥ एवं स निधनं प्राप्तो दौहित्रस्तव मानद। संतापं त्यज दुधर्ष मा च शोके मनः कृथाः॥ एतच्छुत्वा तु पुत्रस्य वचः शूरात्मजस्तदा। विहाय शोकं धर्मात्मा ददौ श्राद्धमनुत्तमम्॥ तथैव वासुदेवश्च स्वस्रीयस्य महात्मनः। दयितस्य पितुर्नित्यमकरोदौर्ध्वदेहिकम्॥ षष्टिं शतसहस्राणि ब्राह्मणानां महौजसाम्। विधिवद् भोजयामास भोज्यं सर्वगुणान्वितम्॥ आच्छाद्य च महाबाहुर्धनतृष्णामपानुदत्। ब्राह्मणानां तदा कृष्णस्तदभूल्लोमहर्षणम्॥ सुवर्णं चैव गाश्चैव शयनाच्छादनानि च। दीयमानं तदा विप्रा वर्धतामिति चाब्रुवन्॥ वासुदवोऽथ दाशार्हो बलदेवः ससात्यकिः। अभिमन्योस्तदा श्राद्धमकुर्वन् सत्यकस्तदा॥ अतीत दुःखसंतप्ता न शमं चोपलेभिरे। तथैव पाण्डवा वीरा नगरे नागसाह्वये॥ नोपगच्छन्त वै शान्तिमभिमन्युविनाकृताः। सुबहूनि च राजेन्द्र दिवसानि विराटजा॥ नाभुङ्क्त पतिदुःखार्ता तदभूत् करुणं महत्। कुक्षिस्थ एव तस्याथ गर्भो वै सम्प्रलीयत॥ आजगाम ततो व्यासो ज्ञात्वा दिव्येन चक्षुषा। समागम्याब्रवीद् धीमान् पृथां पृथुललोचनाम्॥ उत्तरां च महातेजाः शोकः संत्यज्यतामयम्। भविष्यति महातेजाः पुत्रस्तव यशस्विनि॥ प्रभावाद् वासुदेवस्य मम व्याहरणादपि। पाण्डवानामयं चान्ते पालयिष्यति मेदिनीम्॥ धनंजयं च सम्प्रेक्ष्य धर्मराजस्य शृण्वतः। व्यासो वाक्यमुवाचेदं हर्षयन्निव भारत॥ पौत्रस्तव महाभागो जनिष्यति महामनाः। पृथ्वीं सागरपर्यन्तां पालयिष्यति धर्मतः॥ तस्माच्छोकं कुरुश्रेष्ठ जहि त्वमरिकर्शन। विचार्यमत्र न हि ते सत्यमेतद् भविष्यति॥ यच्चापि वृष्णिवीरेण कृष्णेन कुरुनन्दन। पुरोक्तं तत् तथा भावा मा तेऽत्रास्तु विचारणा॥ विबुधानां गतो लोकानक्षयानात्मनिर्जितान्। न स शोच्यस्त्वया वीरो न चान्यैः कुरुभिस्तथा॥ एवं पितामहेनोक्तो धर्मात्मा स धनंजयः। त्यक्त्वा शोकं महाराज हृष्टरूपोऽभवत् तदा॥ पितापि तव धर्मज्ञ गर्भे तस्मिन् महामते। अवर्धत यथाकामं शुक्लपक्षे यथा शशी॥ ततः संचोदयामास व्यासो धर्मात्मजं नृपम्। अश्वमेघ प्रति तदा ततः सोऽन्तर्हितोऽभवत्॥ धर्मराजोऽपि मेधावी श्रुत्वा व्यासस्य तद् वचः। वित्तस्यानयने तात चकार गमने मतिम्॥ जनमेजय उवाच श्रुत्वैतद् वचनं ब्रह्मन् व्यासेनोक्तं महात्मना। अश्वमेधं प्रति तदा किं भूयः प्रचकार ह॥ रत्नं च यन्मरुत्तेन निहितं वसुधातले। तदवाप कथं चेति तन्मे ब्रूहि द्विजोत्तम॥ वैशम्पायन उवाच श्रुत्वा द्वैपायनवचो धर्मराजो युधिष्ठिरः। भ्रातॄन् सर्वान् समानाय्य काले वचनमब्रवीत्॥ अर्जुनं भीमसेनं च माद्रीपुत्रौ यमावपि। श्रुतं वो वचनं वीरा: सौहृदाद् यन्महात्मना॥ कुरूणां हितकामेन प्रोक्तं कृष्णेन धीमता। तपोवृद्धेन महता सुहृदां भूतिमिच्छता॥ गुरुणा धर्मशीलेन व्यासेनाद्भुतकर्मणा। भीष्मेण च महाप्राज्ञा गोविन्देन च धीमता॥ संस्मृत्य तदहं सम्यक् कर्तुमिच्छामि पाण्डवाः। आयत्यां च तदात्वे च सर्वेषां तद्धि नो हितम्॥ अनुबधे च कल्याणं यद् वचो ब्रह्मवादिनः। इयं हि वसुधा सर्वा क्षीणरत्ना कुरुद्वहाः॥ तच्चाचष्ट तदा व्यासो मरुत्तस्य धनं नृपाः। यद्येतद् वो बहुमतं मन्यध्वं वा क्षमं यदि॥ तथा यथाऽऽह धर्मेण कथं वा भीम मन्यसे। इत्युक्तवाक्ये नृपतौ तदा कुरुकुलोद्वह॥ भीमसेनो नृपश्रेष्ठं प्राञ्जलिर्वाक्यमब्रवीत्। रोचते मे महाबाहो यदिदं भाषितं त्वया॥ व्यासाख्यातस्य वित्तस्य समुपानयनं प्रति। यदि तत् प्राप्नुयामेह धनमाविक्षितं प्रभो॥ कृतमेव महाराज भवेदिति मतिर्मम। ते वयं प्रणिपातेन गिरीशस्य महात्मनः॥ तदानयाम भद्रं ते समभ्यर्च्य कपर्दिनम्। तद् वित्तं देवदेवेशं तस्यैवानुचरांश्च तान्॥ प्रसाद्यार्थमवाप्स्यामो नूनं वाग्बुद्धिकर्मभिः। रक्षन्ते ये च तद् द्रव्यं किन्नरा रौद्रदर्शनाः॥ ते च वश्या भविष्यन्ति प्रसन्ने वृषभध्वजे। श्रुत्वैवं वदतस्तस्य वाक्यं भीमस्य भारत॥ प्रीतो धर्मात्मजो राजा बभूवातीव भारत। अर्जुनप्रमुखाश्चापि तथेत्येवाब्रुवन् वचः॥ कृत्वा तु पाण्डवाः सर्वे रत्नाहरणनिश्चयम्। सेनामाज्ञापयामासुर्नक्षत्रेऽहनि च ध्रुवे॥ ततो ययुः पाण्डुसुता ब्राह्मणान् स्वस्ति वाच्य च। अर्चयित्वा सुरश्रेष्ठं पूर्वमेव महेश्वरम्॥ मोदकैः पायसेनाथ मांसापूपैस्तथैव च। आशास्य च महात्मानं प्रययुर्मुदिता भृशम्॥ तेषां प्रयास्यतां तत्र मङ्गलानि शुभान्यथा प्राहुः प्रहष्टमनसो द्विजण्या नागराश्च ते॥ ततः प्रदक्षिणीकृत्य शिरोभिः प्रणिपत्य च। ब्राह्मणानग्निसहितान् प्रययुः पाण्डुनन्दनाः॥ समनुज्ञाप्य राजानं पुत्रशोकसमाहतम्। धृतराष्ट्रं सभार्यं वै पृथां च पृथुलोचनाम्॥ मूले निक्षिप्य कौरव्यं युयुत्सुं धृतराष्ट्रजम्। सम्पूज्यमानाः पौरैश्च ब्राह्मणैश्च मनीषिभिः॥ वैशम्पायन उवाच एतस्मिन्नेव काले तु वासुदेवोऽपि वीर्यवान्। उपायाद् वृष्णिभिः सार्धं पुरं वारणसाह्वयम्॥ समयं वाजिमेधस्य विदित्वा पुरुषर्षभः। यथोक्तो धर्मपुत्रेण प्रव्रजन् स्वपुरी प्रति॥ रौक्मिणेयेन सहितो युयुधानेन चैव ह। चारुदेष्णेन साम्बेन गदेन कृतवर्मणा॥ सारणेन च वीरेण निशठेनोल्मुकेन च। बलदेवं पुरस्कृत्य सुभद्रासहितस्तदा॥ द्रौपदीमुत्तरां चैव पृथां चाप्यवलोककः। समाश्वासयितुं चापि क्षत्रिया निहतेश्वराः॥ तानागतान् समीक्ष्यैव धृतराष्ट्रो महीपतिः। प्रत्यगृह्वाद् यथान्यायं विदुरश्च महामनाः॥ तत्रैव न्यवसत् कृष्णः स्वर्चितः पुरुषोत्तमः। विदुरेण महातेजास्तथैव च युयुत्सुना॥ वसत्सु वृष्णिवीरेषु तत्राथ जनमेजय। जज्ञे तव पिता राजन् परिक्षित् परवीरहा॥ स तु राजा महाराज ब्रह्मास्त्रेणावपीडितः। शवो बभूव निश्चेष्टो हर्षशोकविवर्धनः॥ हृष्टानां सिंहनादेन जनानां तत्र नि:स्वनः। प्रविश्य प्रदिशः सर्वाः पुनरेव व्युपारमत्॥ ततः सोऽतित्वरः कृष्णो विवेशान्तःपुरं तदा। युयुधानद्वितीयो वै व्यथितेन्द्रियमानसः॥ ततस्त्वरितमायान्तीं ददर्श स्वां पितृष्वसाम्। क्रोशन्तीमभिधावेति वासुदेवं पुनः पुनः॥ पृष्ठतो द्रौपदी चैव सुभद्रां च यशस्विनीम्। सविक्रोशं सकरुणं बान्धवानां स्त्रियो नृप॥ ततः कृष्णं समासाद्य कुन्तिभोजसुता तदा। प्रोवाच राजशार्दूल बाप्पगद्गदया गिरा॥ वासुदेव महाबाहो सुप्रजा देवकी त्वया। त्वं नो गतिः प्रतिष्ठा च त्वदायत्तमिदं कुलम्॥ यदुप्रवीर योऽयं ते स्वस्रीयस्यात्मजः प्रभो। अश्वत्थाम्ना हतो जातस्तमुज्जीवय केशव॥ त्वया ह्येतत् प्रतिज्ञातमैषीके यदुनन्दन। अहं संजीवयिष्यामि मृतं जातमिति प्रभो॥ सोऽयं जातो मृतस्तात पश्यैनं पुरुषर्षभ। उत्तरां च सुभद्रां च द्रौपदीं मां च माधव॥ धर्मपुत्रं च भीमं च फाल्गुनं नकुलं तथा। सहदेवं च दुर्धर्ष सर्वान् नस्त्रातुमर्हसि॥ अस्मिन् प्राणा: समायत्ताः पाण्डवानां ममैव च। पाण्डोश्च पिण्डो दाशार्ह तथैव श्वशुरस्य मे॥ अभिमन्योश्च भद्रं ते प्रियस्य सदृशस्य च। प्रियमुत्पादयाद्य त्वं प्रेतस्यापि जनार्दन॥ उत्तरा हि पुरोक्तं वै कथयत्यरिसूदन। अभिमन्योर्वचः कृष्ण प्रियत्वात् तन्न संशयः॥ अब्रवीत् किल दाशार्ह वैराटीमा निस्तदा। मातुलस्य कुलं भद्रे तव पुत्रो गमिष्यति॥ गत्वा वृष्ण्यन्धककुलं धनुर्वेदं ग्रहीष्यति। अस्त्राणि च विचित्राणि नीतिशास्त्रं च केवलम्।।२४) इत्येतत् प्रणयात् तात सौभद्रः परवीरहा। कथयामास दुर्घर्षस्तथा चैतन्न संशयः॥ तास्त्वां वयं प्रणम्येह याचामो मधुसूदन। कुलस्यास्य हितार्थं तं कुरु कल्याणमुत्तमम्॥ एवमुक्त्वा तु वार्ष्णेयं पृथा पृथुललोचना। उच्छ्रित्य बाहू दुःखार्ता ताश्चान्याः प्रापतन् भुवि।।२७।' अब्रुवश्च महाराज सर्वाः सास्राविलेक्षणाः। स्वस्रीयो वासुदेवस्य मृतो जात इति प्रभो॥ एवमुक्ते ततः कुन्ती पर्यगृह्णाज्जनार्दनः। भूमौ निपतितां चैनां सान्त्वयामास भारत॥ वैशम्पायन उवाच उत्थितायां पृथायां तु सुभद्रा भ्रातर तदा। दृष्ट्वा चुक्रोश दुःखार्ता वचनं चेदमब्रवीत्॥ पुण्डरीकाक्ष पश्य त्वं पौत्रं पार्थस्य धीमतः। परिक्षीणेषु कुरुषु परिक्षीणं गतायुषम्॥ इषीका द्रोणपुत्रेण भीमसेनार्थमुद्यता। सोत्तरायां निपतिता विजये मयि चैव ह॥ सेयं विदीर्णे हृदये मयि तिष्ठति केशव। यन्न नश्यामि दुर्धर्ष सहपुत्रं तु तं प्रभो॥ किं नु वक्ष्यति धर्मात्मा धर्मराजो युधिष्ठिरः। भीमसेनार्जुनौ चापि माद्रवत्याः सुतौ च तौ॥ श्रुत्वाभिमन्योस्तनयं जातं च मृतमेव च। मुषिता इव वार्ष्णेय द्रोणपुत्रेण पाण्डवाः॥ अभिमन्युः प्रियः कृष्ण भ्रातृणां नात्र संशयः। ते श्रुत्वा किं नु वक्ष्यन्ति द्रोणपुत्रास्त्रनिर्जिताः॥ भवितातः परं दुःखं किं तदन्यज्जनार्दन। अभिमन्योः सुतात् कृष्ण मृताज्जातादरिंदम॥ साहं प्रसादये कृष्ण त्वामद्य शिरसा नता। पृथेयं द्रौपदी चैव ताः पश्य पुरुषोत्तम॥ यदा द्रोणसुतो गर्भान् पाण्डूनां हन्ति माधव। तदा किल त्वया द्रौणिः क्रुद्धनोक्तोऽरिमर्दन॥ अकामं त्वां करिष्यामि ब्रह्मबन्धो नराधम। अहं संजीवयिष्यामि किरीटितनयात्मजम्॥ इत्येतद् वचनं श्रुत्वा जानानाहं बलं तव। प्रसादये त्वां दुर्धर्ष जीवतामभिमन्युजः॥ यद्येतत् त्वं प्रतिश्रुत्य न करोषि वचः शुभम्। सकलं वृष्णिशार्दूल मृतां मामवधारय॥ अभिमन्योः सुतो वीर न संजीवति यद्ययम्। जीवति त्वयि दुर्धर्ष किं करिष्याम्यहं त्वया॥ संजीवयैनं दुर्धर्ष मृतं त्वमभिमन्युजम्। सदृशाक्षसुतं वीर सस्यं वर्षन्निवाम्बुदः॥ त्वं हि केशव धर्मात्मा सत्यवान् सत्यविक्रमः। स तां वाचमृतां कर्तुमर्हसि त्वमरिंदम॥ इच्छन्नापि हि लोकांस्त्री जीवयेथा मृतानिमान्। किं पुनर्दयितं जातं स्वस्रीयस्यात्मजं मृतम्॥ प्रभावशास्मि ते कृष्ण तस्मात् त्वां याचयाम्यहम्। कुरुष्व पाण्डुपुत्राणामिमं परमनुग्रहम्॥ स्वसेति वा महाबाहो हतपुत्रेति वा पुनः। प्रपन्ना मामियं चेति दयां कर्तुमिहार्हसि॥ वैशम्पायन उवाच एवमुक्तस्तु राजेन्द्र केशिहा दुःखमूर्छितः। तथेति व्याजहारोच्चै दयन्निव तं जनम्॥ वाक्येनतेन हि तदा तं जनं पुरुषर्षभः। ह्लादयामास स विभुर्धर्मार्ते सलिलैरवि॥ ततः स प्राविशत् तूर्णं जन्मवेश्म पितुस्तवा अर्चि पुरुषव्याघ्र सितैर्माल्यैर्यथाविधि॥ अपां कुम्भैः सुपूर्णश्च विन्यस्तैः सर्वतोदिशम्। घृतेन तिन्दुकालातैः सर्षपैश्च महाभुज॥ अस्त्रैश्च विमलैर्व्यस्तैः पावकैश्च समन्ततः। वृद्धाभिश्चापि रामाभिः परिचारार्थमावृतम्॥ दक्षैश्च परितो धीर भिषग्भिः कुशलैस्तथा। ददर्श च स तेजस्वी रक्षोनान्यपि सर्वशः॥ द्रव्याणि स्थापितानि स्म विधिवत् कुशलैर्जनैः। तथायुक्तं च तद् दृष्ट्वा जन्मवेश्म पितुस्तव॥ हटोऽभवद्धषीकेशः साधु साध्विति चाब्रवीत्। तथा ब्रुवति वार्ष्णेये प्रहृष्टवदने तदा॥ द्रौपदी त्वरिता गत्वा वैराटी वाक्यमब्रवीत्। अयमायाति ते भद्रे श्वशुरो मधुसूदनः॥ पुराणर्षिरचिन्त्यात्मा समीपमपराजितः। सापि बाष्पकलां वाचं निगृहाश्रूणि चैव ह॥ सुसंवीताभवद् देवी देववत् कृष्णमीयुषी। सा तथा दूयमानेन हृदयेन तपस्विनी॥ दृष्ट्वा गोविन्दमायान्तं कृपणं पर्यदेवयत्। पुण्डरीकाक्ष पश्यावां बालेन हि विनाकृतौ। अभिमन्युं च मां चैव हतौ तुल्यं जनार्दन॥ वार्ष्णेय मधुहन् वीर शिरसा त्वां प्रसादये। द्रोणपुत्रास्त्रनिर्दग्धं जीवयैनं ममात्मजम्॥ यदि स्म धर्मराज्ञा वा भीमसेनेन वा पुनः। त्वया वा पुण्डरीकाक्ष वाक्यमुक्तमिदं भवेत्॥ अजानतीमिपीकेयं जनित्री हन्त्विति प्रभो। अहमेव विनष्टा स्यां नैतदेवंगते भवेत्॥ गर्भस्थस्यास्य बालस्य ब्रह्मास्त्रेण निपातनम्। कृत्वा नृशंसं दुर्बुद्धिौणिः किं फलमश्नुते॥ सा त्वां प्रसाद्य शिरसा याचे शत्रुनिबर्हणम्। प्राणांस्त्यक्ष्यामि गोविन्द नायं संजीवते यदि॥ अस्मिन् हि बहवः साधो ये ममासन् मनोरथाः। ते द्रोणपुत्रेण हताः किं नु जीवामि केशव॥ आसीन्मम मतिः कृष्ण पुत्रोत्सङ्गा जनार्दन। अभिवादयिष्ये हृष्टेति तदिदं वितथीकृतम्॥ चपलाक्षस्य दायादे मृतेऽस्मिन् पुरुषर्षभ। विफला मे कृताः कृष्ण हृदि सर्वे मनोरथाः॥ चपलाक्षः किलातीव प्रियस्ते मधुसूदन। सुतं पश्य त्वमस्यैनं ब्रह्मास्त्रेण निपातितम्॥ कृतघ्नोऽयं नृशंसोऽयं यथास्य जनकस्तथा। यः पाण्डवीं श्रियं त्यक्त्वा गतोऽद्य यमसादनम्॥२२ मया चैतत् प्रतिज्ञातं रणमूर्धनि केशवा अभिमन्यौ हते वीर त्वामेष्याम्यचिरादिति।॥ तच्च नाकरवं कृष्ण नृशंसां जीवितप्रिया। इदानीं मां गतां तत्र किं नु वक्ष्यति फाल्गुनिः॥ वैशम्पायन उवाच ब्रह्मास्त्रं तु यदा राजन् कुष्णेन प्रतिसंहृतम्। तदा तद् वेश्म त्वत्पित्र तेजसाभिविदीपितम्॥ ततो रक्षांसि सर्वाणि नेशुस्त्यक्त्वा गुहं तु तत्। अन्तरिक्षे च वागासीत् साधु केशव साध्विति॥ तदस्त्रं ज्वलितं चापि पितामहमगात् तदा। ततः प्राणान् पुनर्लेभे पिता तव नरेश्वर॥ व्यचेष्टत च बालोऽसौ यथोत्साहं यथाबलम्। बभूवुर्मुदिता राजंस्ततस्ता भरतस्त्रियः॥ ब्राह्मणान् वाचयामासुर्गोविन्दस्यैव शासनात्। ततस्ता मुदिताः सर्वाः प्रशाशंसुर्जनार्दनम्॥ स्त्रियो भरतसिंहानां नावं लब्वेव पारगाः। कुन्ती द्रुपदपुत्री च सुभद्रा चोत्तरा तथा॥ स्त्रियश्चान्या नृसिंहानां बभूवुर्हष्टमानसाः। तत्र मला नटाश्चैव ग्रन्थिकाः सौख्यशायिकाः॥ सूतमागधसंघाश्चाप्यस्तुवंस्तं जनार्दनम्। कुरुवंशस्तवाख्याभिराशीर्भिर्भरतर्षभ॥ उत्थाय तु यथाकालमुत्तरा यदुनन्दनम्। अभ्यवादयत प्रीता सह पुत्रेण भारत॥ तस्य कृष्णो ददौ हृष्टो बहुरत्नं विशेषतः। तथान्ये वृष्णिशार्दूला नाम चास्याकरोत् प्रभुः॥ पितुस्तव महाराज सत्यसंधो जनार्दनः। परिक्षीणे कुले यस्माज्जातोऽयमभिमन्युजः॥ परिक्षिदिति नामास्य भवत्वित्यब्रवीत् तदा। सोऽवर्धते यथाकालं पिता तव जनाधिप॥ मनःप्रह्लादनश्चासीत् सर्वलोकस्य भारत। मासजातस्तु ते वीर पिता भवति भारत॥ अथाजग्मुः सुबहुलं रत्नमादाय पाण्डवाः। तान् समीपगताञ्श्रुत्वा निर्ययुर्वृष्णिपुङ्गवाः॥ अलंचक्रुश्च माल्यौघैः पुरुषा नागसाह्वयम्। पताकाभिर्विचित्रार्ध्वजैश्च विविधैरपि॥ वेश्मानि समलंचक्रुः पौराश्चापि जनेश्वर। देवतायतनानां च पूजाः सुविविधास्तथा॥ संदिदेशाथ विदुरः पाण्डुपुत्रप्रियेप्सया। राजमार्गाश्च तत्रासन् सुमनोभिरलंकृताः॥ शुशुभे तत्पुरं चापि समुद्रौघनिभस्वनम्। नर्तकैश्चापि नृत्यद्भिर्गायकानां च निःस्वनैः॥ आसीद् वैश्रवणस्येव निवासस्तत्पुरं तदा। बन्दिभिश्च नरै राजन् स्त्रीसहायैश्च सर्वशः॥ तत्र तत्र विविक्तेषु समन्तादुपशोभितम्। पताका धूयमानाश्च समन्तापन्मातस्श्विना॥ अदर्शयन्निव तदा कुरून् वै दक्षिणोत्तरान्। अघोषयंस्तदा चापि पुरुषा राजधूर्गताः। सर्वराष्ट्रविहारोऽद्य रत्नाभरणलक्षणः॥ वैशम्पायन उवाच तान् समीपगताश्रुत्वा पाण्डवान् शत्रुकर्शनः। वासुदेवः सहामात्यः प्रययौ ससुहृद्गणः॥ ते समेत्य यथान्यायं प्रत्युद्याता दिदृक्षया। ते समेत्य यथाधर्मं पाण्डवा वृष्णिभिः सह॥ विवुशः सहिता राजन् पुरं वारणसाह्वयम्। महतस्तस्य सैन्यस्य खुरनेमिस्वनेन ह॥ द्यावापृथिव्योः खं चैव सर्वमासीत् समावृतम्। ते कोशानग्रतः कृत्वा विविशेः स्वपुरं तदा॥ पाण्डवाः प्रीतमनसः सामात्याः ससुहणाः। ते समेत्य यथान्यायं धृतराष्ट्रं जनाधिपम्॥ कीर्तयन्तः स्वनामानि तस्य पादौ ववन्दिरे। धृतराष्ट्रादनु च ते गान्धारी सुबलात्मजाम्॥ कुन्ती च राजशार्दूल तदा भरतसत्तम। विदुरं पूजयित्वा च वैश्यापुत्रं समेत्य च॥ पूज्यमानाः स्म ते वीरा व्यरोचन्त विशाम्पते। ततस्तत् परमाश्चर्यं विचित्रं महदद्भुतम्॥ शुश्रुवुस्ते तदा वीराः पितुस्ते जन्म भारत। तदुपश्रुत्य तत् कर्म वासुदेवस्य धीमतः॥ पूजार्ह पूजयामासुः कृष्णं देवकिनन्दनम्। ततः कतिपयाहस्य व्यास: सत्यवतीसुतः॥ आजगाम महातेजा नगरं नागसाह्वयम्। तस्य सर्वे यथान्यायं पूजाचंक्रुः कुरूद्वहाः॥ सह वृष्ण्यन्धकव्याघैरुपासांचक्रिरे तदा। तत्र नानाविधाकाराः कथाः समभिकीर्त्य वै॥ युधिष्ठिरो धर्मसुतो व्यासं वचनमब्रवीत्। भवत्प्रसादाद् भगवन् यदिदं रत्नमाहृतम्॥ उपयोक्तुं तदिच्छामि वाजिमेधे महाक्रतौ। तमनुज्ञातुमिच्छामि भवता मुनिसत्तम। त्वदधीना वयं सर्वे कृष्णस्य च महात्मनः॥ व्यास उवाच अनुजानाभि राजंस्त्वां क्रियतां यदनन्तरम्। यजस्व वाजिमेधेन विधिवद् दक्षिणावता॥ अश्वमेधो हि राजेन्द्र पावनः सर्वपाप्मनाम्। तेनेष्ट्वा त्वं विपाप्मा वै भविता नात्र संशयः॥ इत्युक्तः स तु धर्मात्मा कुरुराजो युधिष्ठिरः। अश्वमेधस्य कौरव्य चकाराहरणे मतिम्॥ समनुज्ञाप्य तत् सर्वं कृष्णद्वैपायनं नृपः। वासुदेवमथाभ्येत्य वाग्मी वचनमब्रवीत्॥ देवकी सुप्रजा देवी त्वया पुरुषसत्तम। यद् ब्रूयां त्वां महाबाहो तत् कृथास्त्वमिहाच्युत॥ त्वत्प्रभावार्जितान् भोगानश्नीम यदुनन्दन। पराक्रमेण बुद्ध्या च त्वयेयं निर्जिता पही।॥ दीक्षयस्व त्वमात्मानं त्वं हि नः परमो गुरुः। त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम्॥ त्वं हि यज्ञोऽक्षरः सर्वस्त्वं धर्मस्त्वं प्रजापतिः। त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः॥ वासुदेव उवाच त्वमेवैतन्महाबाहो वक्तुमर्हस्यरिंदम। त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः॥ त्वं चाद्य कुरुवीराणां धर्मेण हि विराजसे। गुणीभूताः स्म ते राजंस्त्वं नो राजा गुरुर्मतः॥ यजस्य मदनुज्ञातः प्राप्य एष क्रतुस्त्वया। युनक्तु नो भवान् कार्ये यत्र वाञ्छसि भारत॥ सत्यं ते प्रतिजानामि सर्वे कर्तास्मि तेऽनघ। भीमसेनार्जुनौ चैव तथा माद्रवतीसुतौ। इष्टवन्तो भविष्यन्ति त्वयीष्टवति पार्थिवे॥ वैशम्पायन उवाच एवमुक्तस्तु कृष्णेन धर्मपुत्रो युधिष्ठिरः। व्यासमामन्त्र्य मेधावी ततो वचनमब्रवीत्॥ यदा कालं भवान् वेत्ति हयमेधस्य तत्त्वतः। दीक्षयस्व तदा मां त्वं त्वय्यायत्तो हि मे क्रतुः॥ व्यास उवाच अहं पैलोऽथ कौन्तेय याज्ञवल्क्यस्तथैव च। विधानं यद् यथाकालं तत् कर्तारो न संशयः॥ चैत्र्यां हि पौर्णमास्यां तु तव दीक्षा भविष्यति। सम्भाराः सम्भियन्तां च यज्ञार्थं पुरुषर्षभ॥ अश्वविद्याविदश्चैव सूता विप्राश्च तद्विदः। मेध्यमश्वं परीक्षन्तां तव यज्ञार्थसिद्धये॥ तमुत्सृज यथाशास्त्रं पृथिवीं सागराम्बराम्। स पर्येतु यशो दीप्तं तव पार्थिव दर्शयन्॥ वैशम्पायन उवाच इत्युक्तः स तथेत्युक्त्वा पाण्डवः पृथिवीपतिः। चकार सर्वे राजेन्द्र यथोक्तं ब्रह्मवादिना॥ सम्भराश्चैव राजेन्द्र सर्वे संकल्पिताऽभवन्। स सम्भारान् समाहृत्य नृपो धर्मसुतस्तदा॥ न्यवेदयदमेयात्मा कृष्णद्वैपायनाय वै। ततोऽब्रवीन्महातेजा व्यासो धर्मात्मजं नृपम्॥ यथाकालं यथायोगं सज्जाः स्म तव दीक्षणे। स्फ्यश्च कूर्चश्च सौवर्णो यच्चान्यदपि कौरव॥ तत्र योग्यं भवेत् किंचिद् रौक्मं तत् क्रियतामिति। अश्वश्चोत्सृज्यतामद्य पृथ्व्यामथ यथाक्रमम्। सुगुप्तं चरतां चापि यथाशास्त्रं यथाविधि॥ युधिष्ठिर उवाच अयमश्वो यथा ब्रह्मन्नुस्तृष्टः पृथिवीमिमाम्। चरिष्यति यथाकामं तत्र वै संविधीयताम्॥ पृथिवीं पर्यटन्तं हि तुरगं कामचारिणम्। कः पालयेदिति मुने तद् भवान् वक्तुमर्हति॥ वैशम्पायन उवाच इत्युक्तः स तु राजेन्द्र कृष्णद्वैपायनोऽब्रवीत्। भीमसेनादवरजः श्रेष्ठः सर्वधनुष्मताम्॥ जिष्णुः सहिष्णुर्धष्णुश्च स एनं पालयिष्यति। शक्तः स हि महीं जेतुं निवातकवचान्तकः॥ तस्मिन् वस्त्राणि दिव्यानि दिव्यं संहननं तथा। दिव्यं धनुश्चेषुधी च स एनमनुयास्यति॥ स हि धर्मार्थकुशलः सर्वविद्याविशारदः। यथाशास्त्रं नृपश्रेष्ठ चारयिष्यति ते हयम्॥ राजपुत्रो महाबाहुः श्यामो राजीवलोचनः। अभिमन्योः पिता वीरः स एनं पालयिष्यति॥ भीमसेनोऽपि तेजस्वी कौन्तेयोऽमितविक्रमः। समर्थो रक्षितुं राष्ट्र नकुलश्च विशाम्पते॥ सहदेवस्तु कौरव्य समाधास्यति बुद्धिमान्। कुटुम्बतन्त्रं विधिवत् सर्वमेव महायशाः॥ तत् तु सर्वे यथान्यायमुक्तः कुरुकुलोद्वहः। चकार फाल्गुनं चापि संदिदेश हयं प्रति॥ युधिष्ठिर उवाच एह्यर्जुन त्वया वीर हयोऽयं परिपाल्यताम्। त्वम) रक्षितुं ह्येनं नान्यः कश्चन मानवः॥ ये चापि त्वं महाबाहो प्रत्युद्यान्ति नराधिपाः। तैविग्रहो यथा न स्यात् तथा कार्यं त्वयानघ॥ आख्यातव्यश्च भवता यज्ञोऽयं मम सर्वशः। पार्थिवेभ्यो महाबाहो समये गम्यतामिति॥ वैशम्पायन उवाच एवमुक्त्वा च धर्मात्मा भ्रातरं सव्यसाचिनम्। भीमं च नकुलं चैव पुरगुप्तौ समादधत्॥ कुटुम्बतन्त्रे तदा सहदेवं युधां पतिम्। अनुमान्य महीपालं धृतराष्ट्र युधिष्ठिरः॥ वैशम्प चाच दीक्षाकाले तु सम्प्राप्त सुमहर्विजः। विधिवद् दीक्षयामासुरश्वमेधाय पार्थिवम्॥ कृत्वा स पशुबन्धांश्च दीक्षितः पाण्डुनन्दनः। धर्मराजो महातेजाः सहविभिळरोचत॥ हयश्च हयमेधार्थं स्वयं स ब्रह्मवादिना। उत्सृष्टः शास्त्रविधिना व्यासेनामिततेजसा॥ स राजा धर्मराज राजन् दीक्षितो विबभौ तदा। हेममाली रुक्मकण्ठः प्रदीप्त इव पावकः॥ कृष्णाजिनी दण्डपाणिः क्षौमवासाः स धर्मजः। विवभौ द्युतिमान् भूयः प्रजापतिरिवाध्वरे॥ तथैवास्यविजः सर्वे तुल्यवेषा विशाम्पते। बभूवुरर्जुनश्चापि प्रदीप्त इव पावकः॥ श्वेताश्वः कृष्णसारं तं ससाराश्वं धनंजयः। विधिवत् पृथिवीपाल धर्मराजस्य शासनात्॥ विक्षिपन् गाण्डिवं राजन् बद्धगे गङ्गुलित्रवान्। तमश्वं पृथवीपाल मदा युक्तः ससार च॥ आकुमारं तदा राजन्नागमत् तत्पुरं विभो। द्रष्टुकामं कुरुश्रेष्ठं प्रयास्यन्तं धनंजयम्॥ तेषामन्योन्यसम्मादूष्मेव समजायत। दिदृक्षूणां हयं तं च तं चैव हयसारिणम्॥ ततः शब्दो महाराज दिशः खं प्रति पूरयन्। बभूव प्रेक्षतां नृणां कुन्तीपुत्रं धनंजयम्॥ एष गच्छति कौन्तेय तुरगश्चैव दीप्तिमान्। यमन्वेति महाबाहुः संस्पृशन् धनुरुत्तमम्॥ एवं शुश्राव वदतां गिरो जिष्णुरुदारधीः। स्वस्ति तेऽस्तु व्रजारिष्टं पुनश्चैहीति भारत॥ अथापरे मनुष्येन्द्र पुरुषा वाक्यमब्रुवन्। नैनं पश्याम सम्म धनुरेतत् प्रदृश्यते॥ एतद्धि भीमनिर्हादं विश्रुतं गाण्डिवं धनुः। स्वस्ति गच्छत्वरिष्टो वै पन्थानमकुतोभयम्॥ निवृत्तमेनं द्रक्ष्यामः पुनरेष्यति च ध्रुवम्। एवमाद्या मनुष्याणां स्त्रीणां च भरतर्षभ।॥ शुश्राव मधुरा वाचः पुनः पुनरुदारधीः। याज्ञवल्क्यस्य शिष्यश्च कुशलो यज्ञकर्मणि॥ प्रायात् पार्थेन सहितः शान्त्यर्थं वेदपारगः। ब्राह्मणाश्च महीपाल बहवो वेदपारगाः॥ अनुजग्मुर्महात्मानं क्षत्रिवाश्च विशाम्पते। विधिवत् पृथिवीपाल धर्मराजस्य शासनात्॥ पाण्डवैः पृथिवीमश्वो निर्जितामस्त्रतेजसा। चचार स महाराज यथादेशं च सत्तम॥ तत्र युद्धानि वृत्तानि यान्यासन् पाण्डवस्य ह। तानि वक्ष्यामि ते वीर विचित्राणि महान्ति च॥ स हयः पृथिवीं राजन् प्रदक्षिणमवर्तत। ससारोत्तरतः पूर्वं तन्निबोध महीपते॥ अवमृद्नन् स राष्ट्राणि पार्थिवानां हयोत्तमः। शनैस्तदा परिययौ श्वेताश्वश्च महारथः॥ तत्र संगणना नास्ति राज्ञामयुतशस्तदा। येऽयुध्यन्त महाराज क्षत्रिया हतबान्धवाः॥ किराता यवना राजन् बहवोऽसिधनुर्धराः। म्लेच्छाश्चान्ये बहुविधाः पूर्वं ये निकृता रणे॥ आर्याश्च पृथिवीपालाः प्रहृष्टनरवाहनाः। समीयुः पाण्डुपुत्रेण बहवो युद्धदुर्मदाः॥ एवं वृत्तानि युद्धानि तत्र तत्र महीयते। अर्जुनस्य महीपालै नादेशसमागतैः॥ यानि तूभयतो राजन् प्रतप्तानि महान्ति च। तानि युद्धानि वक्ष्यामि कौन्तेयस्य तवाऽनघ॥ वैशम्पायन उवाच प्राग्ज्योतिषमथाभ्येत्य व्यचरत् स हयोत्तमः। भगदत्तात्मजस्तत्र निर्ययौ रणकर्कशः॥ स हयं पाण्डुपुत्रस्य विषयान्तमुपागतम्। युयुधे भरतश्रेष्ठ वज्रदत्तो महीपतिः॥ सोऽभिनिर्याय नगराद् भगदत्तसुतो नृपः। अश्वमायान्तमुन्मथ्य नगराभिमुखो ययौ॥ तमालक्ष्य महाबाहुः कुरूणामृषभस्तदा। गाण्डीवं विक्षिपस्तूर्णं सहसा समुपाद्रवत्॥ ततो गाण्डीवनिर्मुक्तैरिषुभिर्मोहितो नृपः। हयमुत्सृज्य तं वीरस्ततः पार्थमुपाद्रवत्॥ पुनः प्रविश्य नगरं दंशितः स नृपोत्तमः। आरुह्य नागप्रवरं निर्ययौ रणकर्कशः॥ पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि। दोधूयता चामरेण श्वेतेन च महारथः॥ ततः पार्थं समासाद्य पाण्डवानां महारथम्। आह्वयामास बीभत्सुं बाल्यान्मोहाच्च संयुगे॥ स वारणं नगप्रख्यं प्रभिन्नकरटामुखम्। प्रेषयामास संक्रुद्धः श्वेताश्वं प्रति पार्थिवः॥ विक्षरन्तं महामेधं परवारणवारणम्। शास्त्रवत् कल्पितं संख्ये विवशं युद्धदुर्मदम्॥ प्रचोद्यमानः स गजस्तेन राज्ञा महाबलः। तदाकडुशेन विबभावुत्पतिष्यन्निवाम्बरम्॥ तमापतन्तं सम्प्रेक्ष्य क्रुद्धो राजन् धनंजयः। भूमिष्ठो वारणगतं योधयामास भारत॥ वज्रदत्तस्ततः क्रुद्धो मुमोचाशु धनंजये। तोमरानग्निसंकाशाशलभानिव वेगितान्॥ अर्जुनस्तानसम्प्राप्तान् गाण्डीवप्रभवैः शरैः। द्विधा त्रिधा च चिच्छेद ख एव खगभैस्तदा॥ स तान् दृष्ट्वा तथा छिन्नांस्तोमरान् भगदत्तजः। इषूनसक्तांस्त्वरितः प्राहिणोत् पाण्डवं प्रति॥ ततोऽर्जुनस्तूर्णतरं रुक्मपुवानजिह्मगान्। प्रेष्यामास संक्रुद्धो भगदत्तात्मजं प्रति॥ स तैर्विद्धो महातेजा वज्रदत्तो महामृधे। भृशाहतः पपातोयॊ न त्वेनमजहात् स्मृतिः॥ ततः स पुनरारुह्य वारणप्रवरं रणे। अव्यग्रः प्रेषयामास जयार्थी विजयं प्रति॥ तस्मै बाणांस्ततो जिष्णुर्निर्मुक्ताशीविषोपमान्। प्रेषयामास संक्रुद्धो ज्वलितज्वलनोपमान्॥ स तैर्विद्धो महानागो विस्रवन् रुधिरं बभौ। गौरिकाक्तमिवाम्भोऽद्रिर्बहुप्रस्रवणं तदा।॥ एवं त्रिरात्रमभवत् तद् युद्धं भरतर्षभ। अर्जुनस्य नरेन्द्रेण वृत्रेणेव शतक्रतोः॥ ततश्चतुर्थे दिवसे वज्रदत्तो महाबलः। जाहास सस्वनं हासं वाक्यं चेदमथाब्रवीत्॥ अर्जुनार्जुन तिष्ठस्व न मे जीवन् विमोक्ष्यसे। त्वां निहत्य करिष्यामि पितुस्तोयं यथाविधि॥ त्वया वृद्धो मम पिता भगदत्तः पितुः सखा। हतो वृद्धो मम पिता शिशुं मामद्य योधय॥ इत्येवमुक्त्वा संक्रुद्धो वज्रदत्तो नराधिपः। प्रेषयामास कौरव्य वारणं पाण्डवं प्रति॥ सम्प्रेष्यमाणो नागेन्द्रो वज्रदत्तेन धीमता। उत्पतिष्यन्निवाकाशमभिदुद्राव पाण्डवम्॥ अग्रहस्तसुमुक्तेन शीकरेण स नागराट्। समौक्षत गुडाकेशं शैलं नीलमिवाम्बुदः॥ स तेन प्रेषितो राज्ञा मेघवद् विनदन् मुहुः। मुखाडम्बरसंहादैरभ्यद्रवत फाल्गुनम्॥ स नृत्यन्निव नागेन्द्रो वज्रदत्तप्रचोदितः। आससाद द्रुतं राजन् कौरवाणां महारथम्॥ तमायान्तमथालक्ष्य वज्रदत्तस्य वारणम्। गाण्डीवमाश्रित्य बली न व्यकम्पत शत्रुहा॥ चुक्रोध बलवच्चापि पाण्डवस्तस्य भूपतेः। कार्यविघ्नमनुस्मृत्य पूर्ववैरं च भारत॥ ततस्तं वारणं क्रुद्धः शरजालेन पाण्डवः। निवारयामास तदा बेलेव मकरालयम्॥ स नागप्रवरः श्रीमानर्जुनेन निवारितः। तस्थौ शरैर्विनुन्नाङ्गः श्वाविच्छललितो यथा।॥ निवारितं गजं दृष्ट्वा भगदत्तसुतो नृपः। उत्ससर्ज शितान् बाणानर्जुनं क्रोधमूर्च्छितः॥ अर्जुनस्तु महाबाहुः शरैररिनिघातिभिः। वारयामास तान् बाणांस्तदद्भुतमिवाभवत्॥ ततः पुनरभिक्रुद्धो राजा प्राग्ज्योतिषाधिपः। प्रेषयामास नागेन्द्रं बलवत् पर्वतोपमम्॥ तमापतन्तं सम्प्रेक्ष्य बलवत् पाकशासनिः। नाराचमग्निसंकाशं प्राहिणोद् वारणं प्रति॥ स तेन वारणो राजन् मर्मस्वभिहतो भृशम्। पपात सहसा भूमौ वज्ररुग्ण इवाचलः॥ स पतशुशुभे नागो धनंजयशराहतः। विशन्निव महाशैलो महीं वज्रप्रपीडितः॥ तस्मिन् निपतिते नागे वज्रदत्तस्य पाण्डवः। तं न भेतव्यमित्याह ततो भूमिगतं नृपम्॥ अब्रवीद्धि महातेजाः प्रस्थितं मां युधिष्ठिरः। राजानस्ते न हन्तव्या धनंजय कथंचन॥ सर्वमेतन्नरव्याघ्र भवत्येतावता कृतम्। योधाश्चापि न हन्तव्या धनञ्जय रणे त्वया॥ वक्तव्याश्चापि राजानः सर्वे सहसुहृज्जनैः। युधिष्ठिरस्याश्वमेधो भवद्भिरनुभूयताम्॥ इति भ्रातृवचः श्रुत्वा न हन्मि त्वां नराधिप। उत्तिष्ठ न भयं तेऽस्ति स्वस्तिमान् गच्छ पार्थिव॥२४ आगच्छेया महाराज परां चैत्रीमुपस्थिताम्। यदाश्वमेधो भविता धर्मराजस्य धीमतः॥ एवमुक्तः स राजा तु भगदत्तात्मजस्तदा। तथेत्येवाब्रवीद वाक्यं पाण्डवेनाभिनिर्जितः॥ एवमुक्तः स राजा तु भगदत्तात्मजस्तदा। तथेत्येवाब्रवीद वाक्यं पाण्डवेनाभिनिर्जितः॥ वैशम्पायन उवाच ततो गाण्डीवभृच्छूरो युद्धाय समुपस्थितः। विबभौ युधि दुर्धर्षो हिमवानचलो यथा॥ ततस्ते सैन्धवा योधाः पुनरेव व्यवस्थिताः। व्यमुञ्चन्त सुसंरब्धाः शरवर्षाणि भारत॥ तान् प्रहस्य महाबाहुः पुनरेव व्यवस्थितान्। ततः प्रोवाच कौन्तेयो मुमूर्षुश्लक्ष्णया गिरा। युध्यध्वं परया शक्त्या यतध्वं विजये मम॥ कुरुध्वं सर्वकार्याणि महद् वो भयमागतम्। एष योत्स्यामि सर्वांस्तु निवार्य शरवागुराम्॥ तिष्ठध्वं युद्धमनसो दर्प शमयितास्मि वः। एतावदुक्त्वा कौरव्यो रोषाद् गाण्डीवभृत् तदा॥ ततोऽथ वचनं स्मृत्वा भ्रातुर्येष्ठस्य भारत। न हन्तव्या रणे तात क्षत्रिया विजिगीषवः॥ जेतव्याश्चेति यत् प्रोक्तं धर्मराज्ञा महात्मना। चिन्तयामास स तदा फाल्गुनः पुरुषर्षभः॥ इत्युक्तोऽहं नरेन्द्रेण न हन्तव्या नृपा इति। कथं तन्न मृषेदं स्याद् धर्मराजवचः शुभम्॥ न हन्येरंश्च राजानो राज्ञश्चाज्ञां कृता भवेत्। इति संचिन्त्य स तदा फाल्गुनः पुरुषर्षभः॥ प्रोवाच वाक्यं धर्मज्ञः सैन्धवान् युद्धदुर्मदान्। श्रेयो वदामि युष्माकं न हिंसेयमवस्थितान्। यश्च वक्ष्यति संग्रामे तवास्मीति पराजितः॥ एतच्छुत्वा वचो मह्यं कुरुध्वं हितमात्मनः॥ ततोऽन्यथा कृच्छ्रगता भविष्यथ मयार्दिताः। एवमुक्त्वा तु तान् वीरान् युयुधे कुरुपुङ्गवः॥ अर्जुनोऽतीव संऋद्धः संक्रुद्धैर्विजिगीषुभिः। शतं शतसहस्राणि शराणां नतपर्वणाम्॥ मुमुचुः सैन्धवा राजस्तदा गाण्डीवधन्वनि। शरानापततः क्रूरानाशीविषविषोपमान्॥ विच्छेद निशितैर्बाणैरन्तरा स धनंजयः। छित्त्वा तु तानाशु चैव कङ्कपत्रशिलाशितान्॥ एकैकमेषां समरे बिभेद निशितैः शरैः। ततः प्रासांश्च शक्तीश्च पुनरेव धनंजयम्॥ जयद्रथं हतं स्मृत्वा चिक्षिपुः सैन्धवा नृपाः। तेषां किरीटी संकल्पं मांघं चक्रे महाबलः॥ सर्वांस्तानन्तराच्छित्त्वा तदा चुक्रोश पाण्डवः। तथैवापततां तेषां योधानां जयगृद्धिनाम्॥ शिरांसि पातयामास भल्लैः संनतपर्वभिः। तेषां प्रद्रवतां चापि पुनरेवाभिधावताम्॥ निवर्ततां च शब्दोऽभूत् पूर्णस्येव महोदधेः। ते वध्यमानास्तु तदा पार्थेनामिततेजसा॥ यथाप्राणं यथोत्साहं योधयामासुरर्जुनम्। ततस्ते फाल्गुनेनाजौ शरैः संनतपर्वभिः॥ कृता विसंज्ञा भूयिष्ठाः क्लान्तवाहनसैनिकाः। तांस्तु सर्वान् परिग्लानान् विदित्वा धृतराष्ट्रजा।॥ दुःशला बालमादाय नप्तारं प्रययौ तदा। सुरथस्य सुतं वीरं रथेनाथागमत् तदा॥ शान्त्यर्थं सर्वयोधानामभ्यगच्छत पाण्डवम्। सा धनंजयमासाद्य सरोदार्तस्वरं तदा।॥ धनंजयोऽपि तां दृष्ट्वा धनुर्विससृजे प्रभुः। समुत्सृज्य धनुः पार्थो विधिवद् भगिनीं तदा॥ प्राह किं करवाणीति सा च तं प्रत्युवाच ह। एष ते भरतश्रेष्ठ स्वस्रीयस्यात्मजः शिशुः॥ अभिवादयते पार्थ तं पश्य पुरुषर्षभ। इत्युक्तस्तस्य पितरं स पप्रच्छार्जुनस्तथा॥ क्वासाविति ततो राजन् दुःशला वाक्यमब्रवीत्। पितृशोकाभिसंतप्तो विषादार्तोऽस्य वै पिता॥ पञ्चत्वमगमद् वीरो यथा तन्मे निशामय। स पूर्वं पितरं श्रुत्वा हतं युद्धे त्वयाऽनघ॥ त्वामागतं च संश्रुत्य युद्धाय हयसारिणम्। पितुश्च मृत्युदुःखार्तोऽजहात् प्राणान् धनंजय॥ प्राप्तो वीभत्सुरित्येव नाम श्रुत्वैव तेऽनघ। विषादातः पपातो। ममार च ममात्मजः॥ तं दृष्ट्वा पतितं तत्र ततस्तस्यात्मजं प्रभो। गृहीत्वा समनुप्राप्ता त्वामद्य शरणैषिणी॥ इत्युक्त्वाऽऽर्तस्वरं सा तु मुमोच धृतराष्ट्रजा। दीना दीनं स्थितं पार्थमब्रवीच्चाप्यधोमुखम्॥ स्वसारं समवेक्षस्व स्वस्त्रीयात्मजमेव च। कर्तुमर्हसि धर्मज्ञ दयां कुरुकुलोद्वह॥ विस्मृत्य कुरुराजानं तं च मन्दं जयद्रथम्। अभिमन्योर्यथा जातः परिक्षित् परवीरहा॥ तथायं सुरथाज्जातो मम पौत्रो महाभुजः। तमादाय नरव्याघ्र सम्प्राप्तास्मि तवान्तिकम्॥ शमार्थं सर्वयोधानां शृणु चेदं वचो मम। आगतोऽयं महाबाहो तस्य मन्दस्य पुत्रक॥ प्रसादमस्य बालस्य तस्मात् त्वं कर्तुमर्हसि। एष प्रसाद्य शिरसा प्रशमार्थमरिंदम॥ याचते त्वां महाबाहो शमं गच्छ धनंजय। बालस्य हतबन्धोश्च पार्थ किंचिदजानतः॥ प्रसादं कुरु धर्मज्ञ मा मन्युवशमन्वगाः। तमनार्यं नृशंसं च विस्मृत्यास्य पितामहम्॥ आगस्कारिणमत्यर्थं प्रसादं कर्तुमर्हसि एवं ब्रुवत्यां करुणं दुःशलायां धनंजयः॥ संस्मृत्य देवीं गान्धारीं धृतराष्ट्रं च पार्थिवम्। उवाच दुःखशोकातः क्षत्रधर्मं व्यगर्हयत्॥ यत्कृते वान्धवाः सर्वे मया नीता यमक्षयम्। इत्युक्त्वा बहु सान्त्वादिप्रसादमकराज्जयः॥ परिष्वज्य च तां प्रीतो विससर्ज गृहानं प्रति॥ दुःशला चापि तान् योधान् निवार्य महतो रणात्। सम्पूज्य पार्थं प्रययौ गृहानेव शुभानना॥ एवं निर्जित्य तान् वीरान् सैन्धवान् स धनंजयः। अन्वधावत धावन्तं हयं कामविचारिणम्॥ ततो मृगमिवाकाशे यथा देवः पिनाकधृक्। ससार तं तथा वीरो विधिवद् यज्ञियं हयम्॥ स च वाजी यथेष्टेन तांस्तान् देशान् यथाक्रमम्। विचचार यथाकामं कर्म पार्थस्य वर्धयन्॥ क्रमेण स हयस्त्वेवं विचरन् पुरुषर्षभ। मणिपूरतेर्देशमुमायात् सहपाण्डवः॥ वैशम्पायन उवाच श्रुत्वा तु नृपतिः प्राप्तं पितरं बभ्रुवाहनः। निर्ययौ विनयेनाथ ब्राह्मणार्थपुरःसरः॥ मणिपूरेश्वरं त्वेवमुपयातं धनंजयः। नाभ्यनन्दत् स मेधावी क्षत्रधर्ममनुस्मरन्॥ उवाच च स धर्मात्मा समन्युः फाल्गुनस्तदा। प्रक्रियेयं न ते युक्ता बहिस्त्वं क्षत्रधर्मतः॥ संरक्ष्यमाणं तुरगं यौधिष्ठिरमुपागतम्। यज्ञियं विषयान्ते मां नायौत्सी: किं नु पुत्रक॥ धिक् त्वामस्तु सुदुर्बुद्धिं क्षत्रधर्मबहिष्कृतम्। यो मा युद्धाय सम्प्राप्तं साम्नैव प्रत्यगृह्णथाः॥ न त्वया पुरुषार्थो हि कश्चिदस्तीह जीवता। यस्त्वं स्त्रीवद् यथाप्राप्तं मां साम्ना प्रत्यगृह्णथाः॥ यद्यहं न्यस्तशस्त्रस्त्वामागच्छेयं सुदुर्मते। प्रक्रियेयं भवेद् युक्ता तावत् तव नराधम॥ तमेवमुक्तं भ; तु विदित्वा पन्नगात्मजा। अमृष्यमाणा भित्त्वोर्वीमुलूपी समुपागमत्॥ सा ददर्श ततः पुत्रं विमृशन्तमधोमुखम्। संतय॑मानमसकृत् पित्रा युद्धार्थिना प्रभो॥ ततः सा चारुसर्वाङ्गी समुपेत्योरगात्मजा। उलूपी प्राह वचनं धन॑ धर्मविशारदम्॥ उलूपी मां निबोध त्वं मातरं पन्नगात्मजाम्। कुरुष्व वचनं पुत्र धर्मस्ते भविता परः॥ युध्वस्वैनं कुरुश्रेष्ठं पितरं युद्धदुर्मदम्। एवमेष हि ते प्रीतो भविष्यति न संशयः॥ एवं दुर्मर्षितो राजा स मात्रा बभ्रुवाहनः । मनश्चक्रे महातेजा युद्धाय भरतर्षभ।॥ संना काञ्चनं वर्म शिरस्त्राणं च भानुमत्। तूणीरशतसम्बाधमारुरोह रथोत्तमम्॥ सर्वोपकरणोपेतं युक्तमश्वैर्मनोजवैः। स चक्रोपस्करं श्रीमान् हेमभाण्डपरिष्कृतम्॥ परमार्चितमुच्छ्रित्य ध्वजं सिंहं हिरण्मयम्। प्रययौ पार्थमुद्दिश्य स राजा बभ्रुवाहनः॥ ततोऽभ्येत्य हयं वीरो यज्ञियं पार्थरक्षितम्। ग्राहयामास पुरुषैर्हयशिक्षाविशारदैः॥ गृहीतं वाजिनं दृष्ट्वा प्रीतात्मा स धनंजयः। पुत्रं रथस्थं भूमिष्ठः संन्यवारयदाहवे॥ स तत्र राजा तं वीरं शरसंधैरनेकशः। अर्दयामास निशितैराशीविषविषोपमैः॥ तयोः समभवद् युद्धं पितुः पुत्रस्य चातुलम्। देवासुररणप्रख्यमुभयोः प्रीयमाणयोः॥ किरीटिनं प्रविव्याध शरेणानतपर्वणा। जत्रुदेशे नरव्याघ्र प्रहसन् बभ्रुवाहनः॥ सोऽभ्यगात् सह पुड्वेन वल्मीकमिव पन्नगः। विनिर्मिद्य च कौन्तेयं प्रविवेश महीतलम्॥ स गाढवेदनो धीमानालम्ब्य धनुरुत्तमम्। दिव्यं तेजः समाविश्य प्रमीत इव साऽभवत्॥ स संज्ञामुपलभ्याथ प्रशस्य पुरुषर्षभः। पुत्रं शक्रात्मजो वाक्यमिदमाह महाद्युतिः॥ साधु साधु महाबाहो वत्स चित्राङ्गदात्मजा सदृशं कर्म ते दृष्ट्वा प्रीतिमानस्मि पुत्रक॥ विमुञ्चाम्येष ते बाणान् पुत्र युद्धे स्थिरो भव। इत्येवमुक्त्वा नाराचैरभ्यवर्षदमित्रहा॥ तान् स गाण्डीवनिर्मुक्तान् वज्राशनिसमप्रभान्। नाराचानच्छिनद् राजा भल्लैःसर्वास्त्रिधा द्विधा॥ तस्य पार्थः शरैर्दिव्यैर्ध्वजं हेमपरिष्कृतम्। सुवर्णतालप्रतिमं क्षुरेणापाहरद् रथात्॥ हयांश्चास्य महाकायान् महावेगानरिंदम। चकार राजन् निर्जीवान् प्रहसन्निव पाण्डवः॥ स रथादवतीर्याथ राजा परमकोपनः। पदातिः पितरं क्रुद्धो योधयामास पाण्डवम्॥ सम्प्रीयमाणः पार्थानामृषभः पुत्रविक्रमात्। नात्यर्थं पीडयामास पुत्रं वज्रधरात्मजः॥ स मन्यमानो विमुखं पितरं बभ्रुवाहनः। शरैराशीविषाकारैः पुनरेवार्दयद् बली॥ ततः स बाल्यात् पितरं विव्याध हृदि पत्रिणा। निशितेन सुपुढेन बलवद् बभ्रुवाहनः॥ विवेश पाण्डवं राजन् मर्म भित्त्वातिदुःखकृत्। स तेनातिभृशं विद्धः पुत्रेण कुरुनन्दनः॥ महीं जगाम मोहार्तस्ततो राजन् धनंजयः। तस्मिन् निपतिते वीरे कौरवाणां धुरंधरे॥ सोऽपि मोहं जगामाथ ततश्चित्राङ्गदासुतः। व्यायम्य संयुगे राजा दृष्ट्वा च पितरं हतम्॥ पूर्वमेव स बाणौधैर्गाढविद्धोऽर्जुनेन ह। पपात सोऽपि धरणीमालिङ्ग्य रणमूर्धनि॥ भर्तारं निहतं दृष्ट्वा पुत्रं च पतितं भुवि। चित्राड्दा परित्रस्ता प्रविवेश रणाजिरे॥ शोकसंतप्तहृदया रुदती वेपती भृशम्। मणिपूरपतेर्माता ददर्श निहतं पतिम्॥ वैशम्पान उवाच ततो बहुतरं भीरुर्विलप्य कमलेक्षणा। मुमोह दुःखसंतप्ता पपात च महीतले॥ प्रतिलभ्य च सा संज्ञां देवी दिव्यवपुर्धरा। उलूपी पन्नगसुतां दृष्ट्वेदं वाक्यमब्रवीत्॥ उलूपि पश्य भर्तारं शयानं निहतं रणे। त्वत्कृते मम पुत्रेण बाणेन समितिञ्जयम्॥ ननु त्वमार्यधर्मज्ञा ननु चासि पतिव्रता। यत्त्वत्कृतेऽयं पतितः पतिस्ते निहतो रणे॥ किंतु सर्वापराधोऽयं यदि तेऽद्य धनंजयः। क्षमस्व याच्यमाना वै जीवयस्व धनंजयम्॥ ननु त्वमार्ये धर्मज्ञा त्रैलोक्यविदिता शुभे। यद् घातयित्वा पुत्रेण भर्तारं नानुशोचसि॥ नाहं शोचामि तनयं हतं पन्नगनन्दिनि। पतिमेव तु शोचामि यस्यानिध्यमिदं कृतम्॥ इत्युक्त्वा सा तदा देवीमुलूपी पन्नगात्मजाम्। भर्तारमभिगम्येदमित्युवाच यशस्विनी॥ उत्तिष्ठ कुरुमुख्यस्य प्रियमुख्य मम प्रिय। अयमश्वो महाबाहो मया ते परिमोक्षितः॥ ननु त्वया नाम विभो धर्मराजस्य यज्ञियः। अयमश्वोऽनुसर्तव्यः स शेष किं महीतले॥ त्वयि प्राणा ममायत्ता: कुरुणां कुरुनन्दन। स कस्मात् प्राणदोऽन्येषां प्राणान् संत्यक्तवानसि॥ उलूपि साधु पश्येमं पतिं निपतितं भुवि। पुत्रं चेमं समुत्पाद्य घातयित्वा न शोचसि॥ कामं स्वपितु बालोऽयं भूमौ मृत्युवशं गतः। लोहिताक्षो गुडाकेशो विजयः साधु जीवतु॥ नापराधोऽस्ति सुभगे नराणां बहुभार्यता। प्रमदानां भवत्येष मा तेऽभूद् बुद्धिरीदृशी॥ सख्यं चैतत् कृतं धात्रा शश्वदव्ययमेव तु। सख्यं समभिजानीहि सत्यं सङ्गतमस्तु ते॥ पुत्रेण घातयित्वैनं पतिं यदि न मेऽद्य वै। जीवन्तं दर्शयस्यद्य परित्यक्ष्यामि जीवितम्॥ साहं दुःखान्विता देवि पतिपुत्रविनाकृता। इहैव प्रायमाशिष्ये प्रेक्षन्त्यास्ते न संशयः॥ इत्युक्त्वा पन्नगसुतां सपत्नी चैत्रवाहनी। ततः प्रायमुपासीना तूष्णीमासीज्जनाधिप॥ वैशम्पायन उवाच ततो विलप्य विरता भर्तुः पादौ प्रगृह्य सा। उपविष्टाभवद् दीना सोच्छ्वासं पुत्रमीक्षती॥ ततः संज्ञा पुनर्लध्वा स राजा बभ्रुवाहनः। मातरं तामथालोक्य रणभूमावथाब्रवीत्॥ इतो दुःखतरं किं नु यन्मे माता सुखैधिता। भूमौ निपतितं वीरमनुशेते मृतं पतिम्॥ निहन्तारं रणेऽरीणां सर्वशस्त्रभृतां वरम्। मया विनिहतं संख्ये प्रेक्षते दुर्मरं बत॥ अहोऽस्या हृदयं देव्या दृढं यन्न विदीर्यते। व्यूढोरस्कं महावाहुं प्रेक्षन्त्या निहतं पतिम्॥ दुर्मरं पुरुषेणेह मन्ये ह्यध्वन्यनागते। यत्र नाहं न मे माता विप्रयुज्येत जीवितात्॥ हा हा धिक् कुरुवीरस्य संनाहं काञ्चनं भुवि। आविद्धं हतस्येह मया पुत्रेण पश्यत॥ भो भो पश्यत मे वीरं पितरं ब्राह्मणा भुवि। शयानं वीरशयने मया पुत्रेण पातितम्॥ ब्राह्मणा: कुरुमुख्यस्य ये मुक्ता हयसारिणः। कुर्वन्ति शान्ति कामस्य रणे योऽयं मया हतः॥ व्यादिशन्तु च किं विप्राः प्रायश्चित्तमिहाद्य मे। सुनृशंसस्य पापस्य पितृहन्तू रणाजिरे॥ दुश्चरा द्वादशसमा हत्वा पितरमद्य वै। ममेह सुनृशंसस्य संवीतस्यास्य चर्मणा॥ शिर:कपाले चास्यैव युञ्जतः पितुरद्य मे। प्रायश्चितं हि नास्त्यन्यद्वन्वाऽद्य पितरं मम॥ पश्य नागोत्तमसुते भर्तारं निहतं मया। कृतं प्रियं मया नेऽद्य निहत्य समरेऽर्जुनम्॥ सोऽहमद्य गमिष्यामि गतिं पितृनिषेविताम्। न शक्नोप्यात्मनाऽऽत्मानमहं धारयितुं शुभे॥ सा त्वं मयि मृते मातस्तथा गाण्डीवधन्वनि। भव प्रीतिमती देवि सत्येनात्मानमालभे॥ इत्युक्त्वा स ततो राजा दुःखशोकसमाहतः। उपस्पृश्य महाराज दुःखाद् वचनमब्रवीत्॥ शृण्वन्तु सर्वभूतानि स्थावराणि चराणि च। त्वं च मातर्यथ सत्यं ब्रवीमि भुजगोत्तमे॥ यदि नोत्तिष्ठति जयः पिता मे नरसत्तमः। अस्मिन्नेव रणोद्देशे शोषयिष्ये कलेवरम्॥ न हि मे पितरं हत्वा निष्कृतिर्विद्यते क्वचित्। नरकं प्रतिपत्स्यामि ध्रुवं गुरुवधार्दितः॥ वीरं हि क्षत्रियं हत्वा गोशतेन प्रमुच्यते। पितरं तु निहत्यैवं दुर्लभा निष्कृतिर्मम॥ एष एको महातेजाः पाण्डुपुत्रो धनंजयः। पिता च ममधर्मात्मा तस्य मे निष्कृतिः कुतः॥ इन्येवमुक्त्वा नृपते धनंजयसुतो नृपः। उपस्पृश्याभवत् तूष्र्णी प्रायोपेतो महामतिः॥ वैशम्पायन उवाच प्रायोपविष्टे नृपतौ मणिपूरेश्वरे तदा। पितृशोकसमाविष्टे सह मात्रा परंतप॥ उलूपी चिन्तयामास तदा संजीवनं मणिम्। स चोपातिष्ठत तदा पन्नगानां परायणम्॥ तं गृहीत्वा तु कौरव्य नागराजपतेः सुता। मन:प्रह्लादनीं वाचं सैनिकानामथाब्रवीत्॥ उत्तिष्ठ मा शुचः पुत्र नैव जिष्णुस्त्वया जितः। अजेयः पुरुषैरेष तथा देवैः सवासवैः॥ मया तु मोहनी नाम मायैषा सम्प्रदर्शिता। प्रियार्थं पुरुषेन्द्रस्य पितुस्तेऽद्य यशस्विनः॥ जिज्ञासुह्येष पुत्रस्य बलस्य तव कौरवः। संग्रामे युद्ध्यतो राजन्नागतः परवीरहा।॥ तस्मादसि मया पुत्र युद्धाय परिचोदितः। मा पापमात्मनः पुत्र शङ्केथा ह्यण्वपि प्रभो॥ ऋषिरेष महानात्मा पुराणः शाश्वतोऽक्षरः। नैनं शक्तो हि संग्रामे जेतुं शक्तोऽपि पुत्रक॥ अयं तु मे मणिर्दिव्यः समानीतो विशाम्पते। मतान् मृतान् पन्नगेन्द्रान् यो जीवयति नित्यदा॥ एनमस्योरसि त्वं च स्थापयस्व पितुः प्रभो। संजीवितं तदा पार्थं सत्वं द्रष्टासि पाण्डवम्॥ इत्युक्तः स्थापयामास तस्योरसि मणिं तदा। पार्थस्यामिततेजाः स पितुः स्नेहादपापकृत्॥ तस्मिन् न्यस्ते मणौ वीरो जिष्णुरुज्जीवितः प्रभुः। चिरसुप्त इवोत्तस्थौ मृष्टलोहितलोचनः॥ तमुत्थितं महात्मानं लब्धसंज्ञं मनस्विनम्। समीक्ष्य पितरं स्वस्थं ववन्दे बभ्रुवाहनः॥ उस्थिते पुरुषव्याघ्र पुनर्लक्ष्मीवति प्रभो। दिव्याः सुमनसः पुण्या ववृषे पाकशासनः॥ अनाहता दुन्दुभयो विनेदुर्मेघनिःस्वनाः। साधु साध्विति चाकाशे बभूव सुमहान् स्वनः॥ उत्थाय च महाबाहुः पर्याश्वस्तो धनंजयः। बभ्रुवाहनमालिङ्ग्य समाजिघ्रत मूर्धनि॥ ददर्श चापि दूरेऽस्य मातरं शोककर्शिताम्। उलूप्या सहतिष्ठन्तीं ततोऽपृच्छद् धनंजयः॥ किमिदं लक्ष्यते सर्वे शाकविस्मयहर्षवत्। रणाजिरममित्रघ्न यदि जानासि शंस मे॥ जननी च किमर्थं ते रणभूमिमुपागता। नागेन्द्रदुहिता चेयमुलूपी किमिहागता॥ जानाम्यहमिदं युद्धं त्वया मद्वचनात् कृतम्। स्त्रीणामागमने हेतुमहमिच्छामि वेदितुम्॥ तमुवाच तथा पृष्टो मणिपूरपतिस्तदा। प्रसाद्यशिरसा विद्वानुलूपी पृच्छ्यतामियम्॥ अर्जुन उवाच किमागमनकृत्यं ते कौरव्यकुलनन्दिनि। मणिपूरपतेर्मातस्तथैव च रणाजिरे।।।। कच्चित् कुशलकामासि राज्ञोऽस्य भुजगात्मजे। मम वा चपलापाङ्गि कच्चित् त्वं शुभमिच्छसि॥ कच्चित् ते पृथुलश्रोणि नाप्रियं प्रियदर्शने। अकार्षमहमज्ञानादयं वा बभ्रुवाहनः॥ कच्चिन्नु राजपुत्री ते सपत्नी चैत्रवाहनी। चित्राङ्गदा वरारोहा नापराध्यति किंचन॥ तमुवाचोरगपतेर्दुहिता प्रहसन्निवा न मे त्वमपराद्धोऽसि न हि मे बभ्रुवाहनः॥ न जनित्री तथास्येयं मम या प्रेष्यवत् स्थिता। श्रूयतां यद् यथा चेदं मया सर्वं विचेष्टितम्॥ न मे कोपस्त्वया कार्य: शिरसा त्वां प्रसादये। त्वत्प्रियार्थं हि कौरव्य कृतमेतन्मया विभो॥ यत्तच्छृणु महाबाहो निखिलेन धनंजय। महाभारतयुद्धे यत् त्वया शान्तनवो नृपः॥ अधर्मेण हतः पार्थ तस्यैषा निष्कृतिः कृता। न हि भीष्मस्त्वया वीर युद्ध्यमानो हि पातितः॥ शिखण्डिना तु संयुक्तस्तमाश्रित्य हतस्त्वया। तस्य शान्तिमकृत्वा त्वं त्यजेथा यदि जीवितम्॥ कर्मणा तेन पापेन पतेथा निरये ध्रुवम्। एषा तु विहिता शान्तिः पुत्राद् यां प्राप्तवानसि। वसुभिर्वसुधापाल गङ्गया च महामते॥ पुरा हि श्रुतमेतत् ते वसुभिः कथितं मया। गङ्गायास्तीरमाश्रित्य हते शान्तनवे नृप॥ आप्लुत्य देवा वसवः समेत्य च महानदीम्। इदमूचुर्वचो घोरं भागीरथ्या मते तदा॥ एष शान्तनवो भीष्मो निहतः सव्यसाचिना। अयुध्यमानः संग्रामे संसक्तोऽन्येन भाविनि। तदनेनानुषङ्गेण वयमद्य धनंजयम्॥ शापेन योजयामेति तथास्त्विति च साब्रवीत्। तदहं पितुरावेद्य प्रविश्य व्यथितेन्द्रिया॥ अभवं स च तच्छ्रुत्वा विषादमगमत् परम्। पिता त मे तु मे वसून् गत्वा त्वदर्थे समयाचत॥ पुनः पुनः प्रसाद्यैतांस्त एनमिदमब्रुवन्। पुत्रस्तस्य महाभाग मणिपूरेश्वरो युवा॥ स एनं रणमध्यस्थः शरैः पातयिता शुवि। एवं कृते स नागेन्द्र मुक्तशापो भविष्यति॥ गच्छेति वसुभिश्चोक्तो मम चेदं शशंस सः। तच्छ्रुत्वात्वं मया तस्माच्छापादसि विमोक्षितः॥ न हि त्वां देवराजोऽपि समरेषु पराजयेत्। आत्मा पुत्रः स्मृतस्तस्मात् तेनेहासि पराजितः॥ न हि दोषो मम मतः कथं वा मन्यसे विभो। इत्येवमुक्तो विजयः प्रसन्नात्माब्रवीदिदम्॥ सर्वे मे सुप्रियं देवि यदेतत् कृतवत्यसि। इत्युक्त्वा सोऽब्रवीत् पुत्रं मणिपूरपतिं जयः॥ चित्राङ्गदायाः शृण्वत्याः कौरव्यदुहितुस्तदा। युधिष्ठिरस्याश्वमेधः परिचैत्री भविष्यति॥ तत्रागच्छेः सहामात्यो मातृभ्यां सहितो नृप॥ इत्येवमुक्तः पार्थन स राजा बभ्रुवाहनः। उवाच पितरं धीमानिदमस्राविलेक्षणः॥ उपयास्यामि धर्मज्ञ भवतः शासनादहम्। अश्वमेधे महायज्ञे द्विजातिपरिवेषकः॥ मम त्वनुग्रहार्थाय प्रविशस्व पुरं स्वकम्। भार्याभ्यां सह धर्मज्ञ मा भूत् तेऽत्र विचारणा॥ उषित्वेह निशामेकां सुखं स्वभवने प्रभो। पुनरश्वानुगमनं कर्तासि जयतां वर॥ इत्युक्तः स तु पुत्रेण तदा वानरकेतनः। स्मयन् प्रोवाच कौन्तेयस्तदा चित्राङ्गदासुतम्॥ विदितं ते महाबाहो यथा दीक्षां चराम्यहम्। न स तावत् प्रवेक्ष्यामि पुरं ते पृथुलोचन॥ यथाकामं व्रजत्येष यज्ञियाश्वो नरर्षभा स्वस्ति तेऽस्तु गमिष्यामि न स्थानं विद्यते मम॥ स तत्र विधिवत् तेन पूजित: पाकशासनिः। भार्याभ्यामभ्यनुज्ञातः प्रायाद् भरतसत्तमः॥ वैशम्पायन उवाच मागधेनार्चितो राजन पाण्डवः श्वेतवाहनः। दक्षिणां दिशमास्थाय चारयामास तं हयम्॥ ततः स पुनरावर्त्य हयः कामचरो बली। आससाद पुरीरम्यां चेदीनां शुक्तिसाह्वयाम्॥ शरभेणार्चितस्तत्र शिशुपालसुतेन सः। युद्धपूर्वं तदा तेन पूजया च महाबलः॥ ततोऽर्चितो ययौ राजस्तदा स तुरगोत्तमः। काशीनगान् कोसलांश्च किरातानथ तेगणान्॥ पूजां तत्र यथान्यायं प्रतिगृह्य धनंजयः। पुनरावृत्य कौन्तेयो दशार्णानगमत् तदा॥ तत्र चित्राङ्गदो नाम बलवानरिमर्दनः। तेन युद्धमभूत् तस्य विजयस्यातिभैरवम्॥ तं चापि वशमानीय किरीटी पुरुषर्षभः। निषादराज्ञो विषयमेकलव्यस्य जग्मिवान्॥ एकलव्यसुतश्चैनं युद्धेन जगृहे तदा। तत्र चक्रे निषादैः स संग्राम लोमहर्षणम्॥ ततस्तमपि कौन्तेयः समरेष्वपराजितः। जिगाय युधि दुर्धर्षो यज्ञविघ्नार्थमागतम्॥ स तं जित्वा महाराज नैषादि पाकशासनिः। अर्चितः प्रययौ भूयो दक्षिणं सलिलार्णवम्॥ तत्रापि द्रविडैरान्नै रौद्रैर्माहिषकैरपि। तथा कोल्लगिरेयैश्च युद्धमासीत् किरीटिन:॥ तांश्चापि विजयो जित्वा नातितीव्रण कर्मणा। तुरङ्गमवशेनाथ सुराष्ट्रानभितो ययौ॥ गोकर्णमथ चायाद्य प्रभासमपि जग्मिवान्। ततो द्वारवती रम्यां वृष्णिवीराभिमालिताम्॥ आससाद हयः श्रीमान् कुरुराजस्य यज्ञियः। तमुन्मथ्य हयश्रेष्ठं यादवानां कुमारकाः॥ प्रययुस्तांस्तदा राजन्नुग्रसेनो न्यवारयत्। ततः पुराद् विनिष्क्रम्य वृष्ण्यन्धकपतिस्तदा॥ सहितो वसुदेवेन मातुलेन किरीटिनः। तौ समेत्य कुरुश्रेष्ठ विधिवत्प्रीतिपूर्वकम्॥ परया भारतश्रेष्ठ पूजया समवस्थितौ। ततस्ताभ्यामनुज्ञातो ययौ येन हयो गतः॥ ततः स पश्चिमं देशं समुद्रस्य तदा हयः। क्रमेण व्यचरत् स्फीतं ततः पञ्चनदं ययौ॥ तस्मादपि स कौरव्य गन्धारविषयं हयः। विचचार यथाकामं कौन्तेयानुगतस्तदा॥ ततो गान्धारराजेन युद्धमासीत् किरीटिनः। घोरं शकुनिपुत्रेण पूर्ववैरानुसारिणा॥ वैशम्पायन उवाच शकुनेस्तनयो वीरो गान्धराणां महारथः। प्रत्युद्ययौ गुडाकेशं सैन्येन महता वृतः॥ हस्त्यश्वरथयुक्तेन पताकाध्वजमालिना। अमृष्यमाणास्ते योधा नृपस्य शकुनेर्वधम्॥ अभ्ययुः सहिताः पार्थं प्रगृहीतशरासनाः। स तानुवाच धर्मात्मा बीभत्सुरपराजिताः॥ युधिष्ठिरस्य वचनं न च ते जगृहुर्हितम्। वार्यमाणाऽपि पार्थेन सान्त्वपूर्वममर्पिताः॥ परिवार्य हयं जग्मुस्ततश्चक्रोध पाण्डवः। ततः शिरांसि दीप्तायैस्तेषां चिच्छेद पाण्डवः॥ क्षुरैर्गाण्डपवनिर्मुक्तैर्नातियत्नादिवार्जुनः। वध्यमानाः पार्थेन हयमुत्सृज्य सम्भ्रमात्॥ न्यवर्तन्त महाराज शरवर्षार्दिता भृशम्। निरुध्यमानस्तैश्चापि गान्धारैः पाण्डुनन्दनः॥ आदिश्यादिश्य तेजस्वी शिरांस्येषां न्यपातयत्। वध्यमानेषु तेष्वाजौ गान्धारेषु समन्ततः॥ स राजा शकुनेः पुत्रः पाण्डवं प्रत्यवारयत्। तं युध्यमानं राजानं क्षत्रधर्मे व्यवस्थितम्॥ पार्थोऽब्रवीन मे वध्या राजानो राजशासनात्। अलं युद्धेन ते वीर न तेऽस्त्वद्य पराजयः॥ इत्युक्तस्तदनादृत्य वाक्यमज्ञानमोहितः। स शक्रसमकर्माणं समवाकिरदाशुगैः॥ तस्य पार्थः शिरस्त्राणमर्धचन्द्रेण पत्रिणा। अपाहरदमेयात्मा जयद्रथशिरो यथा॥ तं दृष्ट्वा विस्मयं जग्मुर्गान्धाराः सर्व एव ते। इच्छता तेन न हतो राजेत्यसि च तं विदुः॥ गान्धारराजपुत्रस्तु पलायनकृतक्षणः। ययौ तैरेव सहितस्त्रस्तैः क्षुद्रमृगरिव॥ तेषां तु तरसा पार्थस्तत्रैव परिधावताम्। प्रजहारोत्तमाङ्गानि भल्लैः संनतपर्वभिः॥ उच्छ्रितांस्तु भुजान् केचिन्नाबुध्यन्त शरैर्हतान्। शरैर्गाण्डीवनिर्मुक्तैः पृथुभिः पार्थचोदितैः॥ सम्भ्रान्तनरनागाश्वप्रपतद् विद्रुतं बलम्। हतविध्वस्तभूयिष्ठमावर्तत मुहुर्मुहुः॥ नाभ्यदृश्यन्त वीरस्य केचिदग्रेऽग्यकर्मणः। रिपव: पात्यमाना वै ये सहेयुर्धञ्जयम्॥ ततो गान्धारराजस्य मन्त्रिवृद्धपुरःसरा! जननी निर्ययौ भीता पुरस्कृत्यार्धमुत्तमम्॥ सा न्यवारदव्यग्रं तं पुत्र युद्ध दुर्मदम्। प्रसादयामास च तं जिष्णुमक्लिष्टकारिणम्॥ तां पूजयित्वा बीभत्सुः प्रसादमकरोत् प्रभुः। शकुनेश्चापि तनयं सान्त्वयन्निदमब्रवीत्॥ न मे प्रियं महाबाहो यत्ते बुद्धिरियं कृता। प्रतियोद्धुममित्रघ्न भ्रातैव त्वं ममानघ॥ गान्धारी मातरं स्मृत्वा धृतराष्ट्रकृतेन च। तेन जीवसि राजंस्त्वं निहतास्त्वनुगास्तव॥ मैवं भूः शाम्यतां वैरं मा ते भूद् बुद्धिरीदृशी। गच्छेयास्त्वं परां चैत्रीमश्वमेधे नृपस्य नः॥ मैवं भूः शाम्यतां वैरं मा ते भूद् बुद्धिरीदृशी। गच्छेयास्त्वं परां चैत्रीमश्वमेधे नृपस्य नः॥ वैशम्पायन उवाच स प्रविश्य महाबाहुः पाण्डवानां निवेशनम्। पितामहीमभ्यवन्दत् साम्ना परमवल्गुना॥ ततश्चित्राङ्गदा देवी कौरव्यम्यात्मजापि च। पृथां कृष्णां च सहिते विनयेनोपजग्मतु॥ सुभद्रां च यथान्यायं याश्चान्याः कुरुयोषितः। ददौ कुन्ती ततस्ताभ्यां रत्नानि विविधानि च॥ द्रौपदी च सुभद्रा च याश्चाप्यन्याऽददुः स्त्रियः। ऊषतुस्तत्र ते देव्यौ महार्हशयनासने॥ सु पूजिते स्वयं कुन्त्या पार्थस्य हितकाम्यया। स च राजा महातेजाः पूजितो बभ्रुवाहनः॥ धृतराष्ट्रं महीपालमुपतस्थे यथाविधि। युधिष्ठिरं च राजानं भीमादींश्चापि पाण्डवान्॥ उपगम्य महातेजा विनयेनाभ्यवादयत्। स तैः प्रेम्या परिष्वक्तः पूजितश्च यथाविधि॥ धनं चास्मै ददुर्भूरि प्रीयमाणा महारथाः। तथैव च महीपाल: कृष्णं चक्रगदाधरम्॥ प्रद्युम्न इव गोविन्दं विनयेनोपतस्थिवान्। तस्मै कृष्णो ददौ राज्ञे महार्हमतिपूजितम्॥ रथं हेमपरिष्कारं दिव्याश्वयुजमुत्तमम्। धर्मराजश्च भीमश्च फाल्गुनश्च यमौ तथा॥ पृथक् पृथक् च ते चैनं मानार्थाभ्यामयोजयन्। ततस्तृतीये दिवसे सत्यवत्यात्मजो मुनिः॥ युधिष्ठिरं समभ्येत्य वाग्मी वचनमब्रवीत्। अद्यप्रभृति कौन्तेय यजस्व समयो हि ते। मुहूर्तो यज्ञियः प्राप्तश्चोदयन्तीह याजकाः॥ अहीनो नाम राजेन्द्र क्रतुस्तेऽयं च कल्पताम्। बहुत्वात् काञ्चनाख्यस्य ख्यातो बहुसुवर्णकः॥ एवमत्र महाराज दक्षिणां त्रिगुणां कुरु। त्रित्वं व्रजतु ते राजन् ब्राह्मणा ह्यत्र कारणम्॥ त्रीनश्चमेधानत्र त्वं सम्प्राप्य बहुदक्षिणान्। ज्ञातिवध्याकृतं पापं प्रहास्यसि नराधिप॥ पवित्रं परमं चैतत् पावनं चैतदुत्तमम्। यदाश्वमेधावभृथं प्राप्स्यसे कुरुनन्दन॥ इत्युक्तः स तु तेजस्वी व्यासेनामितबुद्धिना। दीक्षां विवेश धर्मात्मा वाजिमेधाप्तये ततः॥ ततो यज्ञं महाबाहुर्वाजिमेधं महाक्रतुम्। बह्वन्नदक्षिणं राजा सर्वकामगुणान्वितम्॥ तत्र वेदविदो राजंश्चक्रुः कर्माणि याजकाः। परिक्रमन्तः सर्वज्ञा विधिवत् साधुशिक्षितम्॥ न तेषां स्खलितं किंचिदासीच्चाप्यकृतं तथा। क्रममुक्तं च युक्तं च चक्रुस्तत्र द्विजर्षभाः॥ कृत्वा प्रवर्ये धर्माख्यं यथावद् द्विजसत्तमाः। चक्रुस्ते विधिवद् राजंस्तथेवाभिषवं द्विजाः॥ अभिषूय ततो राजन् सोमं सोमपसत्तमाः। सवनान्यानुपूर्येण चक्रुः शास्त्रानुसारिणः॥ न तत्र कृपणः कश्चिन्न दरिद्रो बभूव ह। क्षुधितो दुःखितो वापि प्राकृतो वापि मानवः॥ भोजनं भोजनार्थिभ्यो दापयामास शत्रुहा। भीमसनो महातेजाः सततं राजशासनात्॥ संस्तरे कुशलाश्चापि सर्वकार्याणि याजकाः। दिवसे दिवसे चक्रुर्यथाशास्त्रानुदर्शनात्॥ नाषडङ्गविदत्रासीत् सदस्यस्तस्य धीमतः। नाव्रतो नानुपाध्यायो न च वादाविचक्षणः॥ ततो यूपोच्छ्ये प्राप्ते घड् बैल्वान् भरतर्षभ। खादिरान् बिल्वसमितांस्तावतः सर्ववर्णिनः॥ देवदारुमयौ द्वौ तु यूपौ कुरुपतेर्मखे। श्लेष्मातकमयं चैकं याजका: समकल्पयन्॥ शोभार्थं चापरान यूपान् काञ्चनान् भरतर्षभ। स भीमः कारयामास धर्मराजस्य शासनात्॥ ते व्यराजन्त राजर्षेर्वासोभिरुपशोभिताः। महेन्द्रानुगता देवा यथा सप्तर्षिभिर्दिवि।॥ इष्टका: काञ्चनीश्चात्र चयनार्थं कृताऽभवन्। शुशुभे चयनं तच्च दक्षस्येव प्रजापतेः॥ चतुश्चित्यश्च तस्यासीदष्टादशकरात्मकः। स रुक्मपक्षो निचितस्त्रिकोणो गरुडाकृतिः॥ ततो नियुक्ताः पशवो यथाशास्त्रं मनीषिभिः। तं तं देवं समुद्दिश्य पक्षिणः पशवश्च ये॥ ऋषभाः शास्त्रपठितास्तथा जलचराश्च ये। सर्वोस्तानभ्ययुजस्ते तत्राग्निचयकर्मणि॥ यूपेषु नियता चासीत् पशूनां त्रिशती तथा। अश्वरत्नोत्तरा यज्ञे कौन्तेयस्य महात्मनः॥ स यज्ञः शुशुभे तस्य साक्षाद् देवर्षिसंकुलः। गन्धर्वगणसंगीतः प्रवृत्तोप्सरसां गणैः॥ स किंपुरुषसंकीर्णः किंनरैश्चोपशोभितः। सिद्धविप्रनिवासैश्च समन्तादभिसंवृतः॥ तस्मिन् सदसि नित्यास्तु व्यासशिष्या द्विजर्षभाः। सर्वशास्त्रप्रणेतारः कुशला यज्ञसंस्तरे॥ नारदश्च बभूवात्र तुम्बुरश्च महाद्युतिः। विश्वावसुश्चित्रसेनस्तथान्ये गीतकोविदाः॥ गन्धर्वा गीतकुशला नृत्येषु च विशारदाः। रमयन्ति स्म तान् विप्रान् यज्ञकर्मान्तरेषु वै॥ वैशम्पायन उवाच श्रपयित्वा पशूनन्यान् विधिवद् द्विजसत्तमाः। तं तुरङ्गं यथाशास्त्रमालभन्त द्विजातयः॥ ततः संश्रप्य तुरगं विधिवद् याजकास्तदा। उपसंवेशयन् राजंस्ततस्तां दुपदात्मजाम्।॥ कलाभिस्तिसृभी राजन् यथाविधि मनस्विनीम्। उद्धृत्य तु वपा तस्य यथाशास्त्रं द्विजातयः॥ श्रपयामासुरव्यग्रा विधिवद् भरतर्षभ। तं वपाधूमगन्धं तु धर्मराजः सहानुजैः॥ उपजिघ्रद् यथाशास्त्रं सर्वपापापहं तदा। शिष्टान्यङ्गानि यान्यासं स्तस्याश्वस्य नराधिप।॥ तान्यग्नौ जुहबु/राः समस्ताः षोडशार्विजः। संस्थाप्यैवं तस्य राज्ञस्तं यज्ञं शक्रतेजसः॥ व्यासः स शिष्यो भगवान् वर्धयामासं तं नृपम्। ततो युधिष्ठिरः प्रादाद् ब्राह्मणेभ्यो यथाविधि॥ कोटी: सहस्रं निष्काणां व्यासाय तु वसुंधराम्। प्रतिगृह्य धरां राजन् व्यास: सत्यवतीसुतः॥ अब्रवीद् भरतश्रेष्ठं धर्मराज युधिष्ठिरम्। वसुधा भवतस्त्वेषा संन्यस्ता राजसत्तम॥ निष्क्रयो दीयतां मह्यं ब्राह्मणा हि धनार्थिनः। युधिष्ठिरस्तु तान् विप्रान् प्रत्युवाच महामनाः॥ भ्रातृभिः सहितो धीमान् मध्ये राज्ञां महात्मनाम्। अश्वमेधे महायज्ञे पृथिवी दक्षिणा स्मृता॥ अर्जुनेन जिता चेयमृत्विग्भ्यः प्रापिता मया। वनं प्रवेक्ष्ये विप्राग्र्या विभजध्वं महीमिमाम्॥ चतुर्धा पृथिवीं कृत्वा चातुर्होत्रप्रमाणतः। नाहमादातुमिच्छामि ब्रह्मस्वं द्विजसत्तमाः॥ इदं नित्यं मनो विप्रा भ्रातृणां चैव मे सदा। इत्युक्तवति तस्मिंस्तु भ्रातरो द्रौपदी च सा॥ एवमेतदिति प्राहुस्तदभूल्लोमहर्षणम्। ततोऽन्तरिक्षो धागासीत् साधु साध्विति भारत॥ तथैव द्विजसंघानां शंसतां विवभौ स्वनः। द्वैपायनस्तथा कृष्णः पुनरेव युधिष्ठिरम्॥ प्रोवाच मध्ये विप्राणामिदं सम्पूजयन् मुनिः। दत्तैषां भवता मह्यं तां ते प्रतिददाम्यहम्॥ हिरण्यं दीयतामेभ्यो ब्राह्मणेभ्यो धरास्तु ते। ततोऽब्रवीद् वासुदेवो धर्मराज युधिष्ठिरम्॥ यथाऽऽह भगवान् व्यासस्तथा त्वं कर्तुमर्हसि। इत्युक्तः स कुरुश्रेष्ठः प्रीतात्मा भ्रातृभिः सह॥ कोटिकोटिकृतां प्रादाद् दक्षिणां त्रिगुणां क्रतोः। न करिष्यति तल्लोके कश्चिदन्यो नराधिपः॥ यत् कृतं कुरुराजेन मरुत्तस्यानुकुर्वता। प्रतिगृह्य तु तद् रत्नं कृष्णद्वैपायनो मुनिः॥ ऋत्विग्भ्यः प्रददौ विद्वांश्चतुर्धा व्यभजंश्च ते। धरण्या निष्क्रयं दत्त्वा तद्धिरण्यं युधिष्ठिरः॥ धूतपापो जितस्वर्गो मुमुदे भ्रातृभिः सह। ऋत्विजस्तमपर्यन्तं सुवर्णनिचयं तथा॥ व्यभजन्त द्विजातिभ्यो यथोत्साहं यथासुखम्। यज्ञवाटे च यत् किंचिद्धिरण्यं सविभूषणम्॥ तोरणानि च यूपांश्च घटान् पात्रीस्तथेष्टकाः। युधिष्ठिराभ्यनुज्ञाताः सर्वं तद् व्यभजन् द्विजाः।।२५ अनन्तरं द्विजातिभ्यः क्षत्रिया जहिरे वसु। तथा विट्शूद्र संघाश्च तथान्ये म्लेच्छजातयः॥ ततस्ते ब्राह्मणाः सर्वे मुदिता जग्मुरालयान्। तर्पिता वसुना तेन धर्मराजेन धीमता॥ स्वमंशं भगवान् व्यासः कुन्त्यै साक्षाद्धि मानतः। प्रददौ तस्य महतो हिरण्यस्य महाद्युतिः॥ श्वशुरात् प्रीतिदायं तं प्राप्य सा प्रीतमानसा। चकार पुण्यकं तेन सुमहत् संघशः पृथा॥ गत्वा त्ववभृथं राजा विपाप्मा भ्रातृभिः सह। सभाज्यमानः शुशुभे महेन्द्रस्त्रिदशैरिव॥ पाण्डवाश्च महीपालैः समेतैरभिसंवृताः। अशोभन्त महाराज ग्रहास्तारागणैरिव॥ राजभ्योऽपि ततः प्रादाद् रत्नानि विविधानि च। गजानश्वानलं कारान् स्त्रियो वासांसि काञ्चनम्।।३२ तद् धनौघमपर्यन्तं पार्थः पार्थिवमण्डले। विसृजशुशुभे राजन् यथा वैश्रवणस्तथा ॥ आनीय च तथा वीरं राजानं बभ्रुवाहनम्। प्रदाय विपुलं वित्तं गृहान् प्रास्थापयत् तदा॥ दुःशलायाश्च तं पौत्रं बालकं भरतर्षभ। स्वराज्येऽथ पितुर्थीमान् स्वसुः प्रीत्या न्यवेशयत्।।३५ नृपतींश्चैव तान् सर्वान् सुविभक्तान् सुपूजितान्। प्रस्थापयामास वशी कुरुराजो युधिष्ठिरः॥ गोविन्दं च महात्मानं बलदेवं महाबलम्। तथान्यान् वृष्णिवीरांश्च प्रद्युम्नाद्यान् सहस्रशः॥ पूजयित्वा महाराज यथाविधि महाद्युतिः। भ्रातृभिः सहितो राजा प्रास्थापयदरिंदमः॥ एवं बभूव यज्ञः स धर्मराजस्य धीमतः। बबन्नधनरलौघः सुरामैरेयसागरः॥ सर्पि:पङ्का ह्दा यत्र बभूवुश्चान्नपर्वताः। रसालाकर्दमा नद्यो बभूवुर्भरतर्षभ॥ भक्ष्यखाण्डवरागाणां क्रिबतां भुज्यतां तथा। पशूनां बध्यतां चैव नान्तं ददृशिरे जनाः॥ मत्तप्रमत्तमुदितं सुप्रीतयुवतीजनम्। मृदङ्गशङ्खनादैश्च मनोरममभूत् तदा॥ दीयतां भुज्यतां चेष्टं दिवारात्रमवारितम्। तं महोत्सवसंकाशं हृष्टपुष्टजनाकुलम्॥ कथयन्ति स्म पुरुषा नानादेशनिवासिनः। वर्षित्वा धनधाराभिः कामै रत्नै रसैस्तथा। विपाप्मा भरतश्रेष्ठः कृतार्थः प्राविशत् पुरम्॥ जनमेजय उवाच पितामह मे यज्ञे धर्मराजस्य धीमतः। यदाश्चर्यमभूत् किंचित् तद् भवान् वक्तुमर्हति॥ वैशम्पायन उवाच श्रूयतां राजशार्दूल महदाश्चर्यमुत्तमम्। अश्वमेधे महायज्ञे निवृत्ते यदभूत् प्रभो॥ तर्पितेषु द्विजाग्येषु ज्ञातिसम्बन्धिबन्धुषु। दीनान्धकृपणे वापि तदा भरतसत्तम॥ घुष्यमाणे महादाने दिक्षु सर्वासु भारत। पतत्सु पुष्पवर्षेषु धर्मराजस्य मूर्धनि॥ नीलाक्षस्तत्र नकुलो रुक्मपार्श्वस्तदानघ। वज्राशनिसमं नादममुञ्चद वसुधाधिप॥ सकृदुत्सृज्य तन्नादं त्रासयानो मृगद्विजान्। मानुषं वचनं प्राह धृष्टो विलशयो महान्॥ सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः। उच्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः॥ तस्य तद् वचनं श्रुत्वा नकुलस्य विशाम्पते। विस्मयं परमं जग्मुः सर्वे ते ब्राह्मणर्षभाः॥ ततः समेत्य नकुलं पर्यपृच्छन्त ते द्विजाः। कुतस्त्वं समनुप्राप्तो यज्ञं साधुसमागमम्॥ किं बलं परमं तुभ्यं किं श्रुतं किं परायणम्। कथं भवन्तं विद्याम यो नो यज्ञं विगर्हसे।।१० अविलुप्यागमं कृत्स्नं विविधैर्यज्ञियैः कृतम्। यथागमं यथान्यायं कर्तव्यं च तथा कृतम्॥ पूजार्हाः पूजिताश्चाव विधिवच्छास्त्रदर्शनात्। मन्त्राहुतिहुतश्चाग्निर्दत्तं देयममत्सरम्॥ तुष्टा द्विजातयश्चात्र दानैर्बहुविधैरपि। क्षत्रियाश्च सुयुद्धेन श्राद्धैश्चापि पितामहाः॥ पालनेन विशस्तुष्टाः कामैस्तुष्टा वरस्त्रियः। अनुक्रोशैस्तथा शूद्रा दानशेषैः पृथग्जनाः॥ ज्ञातिसम्बन्धिनस्तुष्टाः शौचेन च नृपस्य नः। देवा हविर्भिः पुण्यैश्च रक्षणैः शरणागताः॥ यदत्र तथ्यं तद् ब्रूहि सत्यं सत्यं द्विजातिषु। यथाश्रुतं यथादृष्टं पृष्टो ब्राह्मणकाम्यया॥ श्रद्धेयवाक्यः प्राज्ञस्त्वं दिव्यं रूपं बिभर्षि च। समागतश्च विप्रैस्त्वं तद् भवान् वक्तुमर्हति॥ इति पृष्टो द्विजैस्तैः स प्रहसन् नकुलोऽब्रवीत्। नैषा मृषा मया वाणी प्रोक्ता दर्पण वा द्विजाः॥ यन्मयोक्तमिदं वाक्यं युष्माभिश्चाप्युपश्रुतम्। सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो द्विजर्षभाः॥ इत्यवश्यं मयैतद् वो वक्तव्यं द्विजसत्तमाः। शृणुताव्यग्रमनसः शंसतो मे यथातथम्॥ अनुभूतं च दृष्टं च यन्मयादुतमुत्तमम्। उच्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः॥ स्वर्ग येन द्विजाः प्राप्तः सभार्यः ससुतस्नुषः। यथा चाघ शरीरस्य ममेदं काञ्चनीकृतम्॥ नकुल उवाच हन्त वो वर्तयिष्यामि दानस्य फलमुत्तमम्। न्यायलब्धस्य सूक्ष्मस्य विप्रदत्तस्य यद् द्विजाः॥ धर्मक्षेत्रे कुरुक्षेत्रे धर्मज्ञैर्बहुभिर्वृते। उच्छवृत्तिर्द्विजः कश्चित् कापोतिरभवत् तदा॥ सभार्यः सह पुत्रेण सस्नुषस्तपसि स्थितः। बभूव शुक्वृत्तः स धर्मात्मा नियतेन्द्रियः॥ षष्ठे काले सदा विप्रो भुडन्तै तैः सह सुव्रतः। षष्ठे काले कदाचित् तु तस्याहारो न विद्यते॥ भुक्तेऽन्यस्मिन् कदाचित् स षष्ठे काले द्विजोत्तमः। कदाचिद् धर्मिणस्तस्य दुर्भिक्षे सति दारुणे॥ नाविद्यत तदा विप्राः संचयस्तन्निबोधता क्षीणौषधिसमावेशे द्रव्यहीनोऽभवत् तदा॥ काले कालेऽस्य सम्प्राप्ते नैव विद्येत भोजनम्। क्षुधापरिगताः सर्वे प्रातिष्ठन्त तदा तु ते॥ उच्छं तदा शुक्लपक्षे मध्यं तपति भास्करे। उष्णार्तश्च क्षुधार्तश्च विप्रस्तपसि संस्थितः॥ उज्छमप्राप्तवानेव ब्राह्मणः क्षुच्छ्रमान्वितः। स तथैव क्षुधाविष्टः सार्धं परिजनेन ह॥ क्षपयामास तं कालं कृच्छ्रप्राणो द्विजोत्तमः। अथ षष्ठे गते काले यवप्रस्थमुपार्जयन्॥ यवप्रस्थं तु तं सक्तूनकुर्वन्त तपस्विनः। कृतजप्याह्निकास्ते तु हुत्वा चार्नि यथाविधि॥ कुडवं कुडवं सर्वे व्यभजन्त तपस्विनः। अथागच्छद् द्विजः कश्चिदतिथिर्भुञ्जतां तदा।॥ ते तं दृष्ट्वातिथिं प्राप्तं प्रहृष्टमनसोऽभवन्। तेऽभिवाद्य सुखप्रश्न पृष्ट्वा तमतिथि तदा॥ विशुद्धमनसो दान्ताः श्रद्धादमसमन्विताः। अनसूयवो विक्रोधाः साधवो वीतमत्सराः॥ त्यक्तमानमदक्रोधा धर्मज्ञा द्विजसत्तमाः। स ब्रह्मचर्यं गोत्रं ते तस्य ख्यात्वा परस्परम्॥ कुटी प्रवेशयामासुः क्षुधार्तमतिथिं तदा। इदमर्थ्य च पाद्यं च वृसी चेयं तवानघ॥ शुचयः सक्तवश्चमे नियमोपार्जिताः प्रभो। प्रतिगृह्णीष्व भद्रं ते मया दत्ता द्विजर्षभ॥ इत्युक्तः प्रतिगृह्याथ सक्तूनां कुडवं द्विजः। भक्षयामास राजेन्द्र न च तुष्टि जगाम सः॥ स उच्छवृत्तिस्तं प्रेक्ष्य क्षुधापरिगतं द्विजम्। आहारं चिन्तयामास कथं तुष्टो भवेदिति॥ तस्य भार्याब्रवीद् वाक्यं मद्भागो दीयतामिति। गच्छत्वेष यथाकामं परितुष्टो द्विजोत्तमः॥ इति ब्रुवन्तीं तां साध्वी भार्यां स द्विजसत्तमः। क्षुधापरिगतां ज्ञात्वा तान् सक्तून् नाभ्यनन्दत॥ आत्मानुमायो विद्वान् स तु विप्रर्षभस्तदा। जानन् वृद्धां क्षुधा” च श्रान्तां ग्लानां तपस्विनीम्।४४ त्वगस्थिभूतां वेपन्तीं ततो भार्यामुवाच ह। अपि कीटपतङ्गानां मृगाणां चैव शोभने॥ स्त्रियो रक्ष्याश्च पोषयाश्च न त्वेवं वक्तुमर्हसि। अनुकम्प्यो नरः पल्या पुष्टो रक्षित एव च॥ प्रपतेद् यशसे दीप्तात् स च लोकान् न चाप्नुयात्। धर्मकामार्थकार्याणि शुश्रूषा कुलसंततिः॥ दारेष्वधीनो धर्मश्च पितॄणामात्मनस्तथा। न वेत्ति कर्मतो भार्यारक्षणे योऽक्षमः पुमान्॥ अयशो महदाप्नोति नरकांश्चैव गच्छति। इत्युक्ता सा ततः प्राह धर्माथौ नौ समौ द्विज॥ सक्तुप्रस्थचतुर्भागं गृहाणेमं प्रसीद मे। सत्यं रतिश्च धर्मश्च स्वर्गश्च गुणनिर्जितः॥ स्त्रीणां पतिसमाधीनं कांक्षितं च द्विजर्षभ। ऋतुर्मातुः पितुर्बीजं दैवतं परमं पतिः॥ भर्तुः प्रसादान्नारीणां रतिपुत्रफलं तथा। पालनाद्धि पतिस्त्वं मे भर्तासि भरणाच्च मे॥ पुत्रप्रदानाद् वरदस्तस्मात् सक्तून् प्रयच्छ मे। जरापरिगतो वृद्धः क्षुधार्तो दुर्बलो भृशम्॥ उपवास परिश्रान्तो यदा त्वमपि कर्शितः। इत्युक्तः स तया सक्तून् प्रगृह्येदं वचोऽब्रवीत्॥ द्विज सक्तूनिमान भूयः प्रतिगृह्णीष्व सत्तम। स तान् प्रगृह्य भुक्त्वा च र तुष्टिमगमद् द्विजः। तमुच्छवृत्तिरालक्ष्य ततश्चिन्तापरोऽभवत्॥ सक्तूनिमान् प्रगृह्य त्वं देहि विप्राय सत्तम। इत्येव सुकृतं मन्ये तस्मादेतत् करोम्यहम्॥ भवान् हि परिपाल्यो मे सर्वदैव प्रयत्नतः। साधूनां काक्षितं यस्मात् पितुर्वृद्धस्य पालनम्॥ पुत्रार्थो विहितो ह्येष वार्धके परिपालनम्। श्रुतिरेषा हि विप्रर्षे त्रिषु लोकेषु शाश्वती॥ प्राणधारणमात्रेण शक्यं कर्तुं तपस्त्वया। प्राणो हि परमो धर्मः स्थितो देहेषु देहिनाम्॥ पितोवाच अपि वर्षसहस्री त्वं बाल एव मतो मम। उत्पाद्य पुत्रं हि पिता कृतकृत्यो भवेत् सुतात्॥ बालानां क्षुद् बलवती जानाम्येतदहं प्रभो। वृद्धोऽहं धारयिष्यामि त्वं बली भव पुत्रका६१।। न मां जीर्णेन वयसा पुत्र क्षुद् बाधतेऽपि च। दीर्घकालं तपस्तप्तं न मे मरणतो भयम्॥ पुत्र उवाच अपत्यमस्मि ते पुंसस्त्राणात् पुत्र इति स्मृतः। आत्मा पुत्रः स्मृतस्तस्मात् बाह्यात्मानमिहात्मना॥ पितोवाच रूपेण सदृशस्त्वं मे शीलेन च दमेन च। परीक्षितश्च बहुधा सक्तूनादह्यि ते सुत॥ इत्युक्त्वाऽऽदाय तान् सक्तून् प्रीतात्मा द्विजसत्तमः। प्रहसन्निव विप्राय स तस्मै प्रददौ तदा॥ भुक्त्वा तानपि सक्तूत् स नैव तुष्टो बभूव ह। उच्छवृत्तिस्तु धर्मात्मा व्रीडामनुजगाम ह॥ तं वै वधूः स्थिता साध्वी ब्राह्मणप्रियकाम्यया। सक्तूनादाय संहृष्टा श्वशुरं वाक्यमब्रवीत्॥ संतानात् तव संतानं मम विप्र भविष्यति। सक्तूनिमानतिथये गृहीत्वा सम्प्रयच्छ मे॥ तव प्रसादान्निर्वृत्ता मम लोकाः किलाक्षयाः। पुत्रेण तानवाप्नोति यत्र गत्वा न शोचति॥ धर्माद्या हि यथा त्रेता वह्निनेता तथैव च। तथैव पुत्रपौत्राणां स्वर्गस्त्रेता किलाक्षयः॥ पितृन्णात् तारयति पुत्र इत्यनुशुश्रुमा पुत्रपौत्रेश्च नियतं साधुलोकानुपाश्नुते॥ श्वशुर उवाच वातातपविशीर्णाङ्गी त्वां विवर्णो निरीक्ष्य वै। कर्षितां सुव्रताचारे क्षुधविह्वलचेतसम्॥ कथं सक्तून् ग्रहन्यामि भूत्वा धर्मोपघातकः। कल्याणवृत्ते कल्याणि नैवं त्वं वक्तुमर्हसि॥ षष्ठे काले व्रतवती शौचशीलतपोऽन्विताम्। कृच्छ्रवृत्तिं निराहारां द्रक्ष्यामि त्वां कथं शुभे॥ बाला क्षुधार्ता नारी च रक्ष्या त्वं सततं मया। उपवासपरिश्रान्ता त्वं हि बान्धवनन्दिनी॥ स्नुषोवाच गुरोर्मम गुरुस्त्वं वै यतो दैवतदैवतम्। देवातिदेवस्तस्मात् त्वं सक्तूनादत्स्व मे प्रभो॥ देहः प्राणश्च धर्मश्च शुश्रूषार्थमिदं गुरोः। तव विप्र प्रसादेन लोकान् प्राप्स्यामहे शुभान्॥ अवेक्ष्या इति कृत्वाहं दृढभक्तेति वा द्विजा चिन्त्या ममेयमिति वा सक्तूनादातुमर्हसि॥ श्वशुर उवाच अनेन नित्यं साध्वी त्वं शीलवृत्तेन शोभसे। या त्वं धर्मव्रतोपेता गुरुवृत्तिमवेक्षसे॥ तस्मात् सक्तून् ग्रहीष्यामि वधु नार्हसि वञ्चनाम्। गणयित्वा महाभागे त्वां हि धर्मभृतां वरे॥ इत्युक्त्वा तानुपादाय सक्तून् प्रादाद् द्विजातये। ततस्तष्टोऽभवद् विप्रस्तस्य साधोर्महात्मनः॥८शा प्रीतात्मा स तु तं वाक्यमिदमाह द्विजर्षभम्। वाग्मी तदा द्विजश्रेष्ठो धर्मः पुरुषविग्रहः॥ शुद्धेन तव दानेन न्यायोपात्तेन धर्मतः। यथाशक्ति विसृष्टेन प्रीतोऽस्मि द्विजसत्तम। अहो दानं घुष्यते ते स्वर्गे स्वर्गनिवासिभिः॥ गगनात् पुरुषवर्षं च पश्येदं पतितं भुवि। सुरर्षिदेवगन्धर्वा ये च देवपुरःसराः॥ स्तुवन्तो देवदूताश्च स्थिता दानेन विस्मिताः। ब्रह्मर्षयो विमानस्था ब्रह्मलोकचराश्च ये॥ कासन्ते दर्शनं तुभ्यं दिवं व्रज द्विजर्षभ। पितृलोकगताः सर्वे तारिताः पितरस्त्वया॥ अनागताश्च बहवः सुबहूनि युगान्युत। ब्रह्मचर्येण दानेन यज्ञेन तपसा तथा॥ असंकरेण धर्मेण तस्माद् गच्छ दिवं द्विज। श्रद्धया परया यस्त्वं तपश्चरसि सुव्रत॥ तस्माद् देवाश्च दानेन प्रीता ब्राह्मणसत्तम। सर्वमेतद्धि यस्मात् ये दत्तं शुद्धेन चेतसा॥ कृच्छ्रकाले ततः स्वर्गो विजितः कर्मणा त्वया। क्षुधा निर्मुदति प्रज्ञां धर्मबुद्धिं व्यपोहति॥ क्षुधापरिगतज्ञानो धृतिं त्यजति चैव ह। बुभुक्षां जयते यस्तु स स्वर्ग जयते ध्रुवम्॥ यदा दानरुचिः स्याद् वै तदा धर्मो न सीदति। अनवेक्ष्य सुतस्नेहं कलत्रस्नेहमेव च॥ धर्ममेव गुरुं ज्ञात्वा तृष्णा न गणिता त्वया। द्रव्यागमो नृणां सूक्ष्मः पात्रे दानं ततः परम्॥ कालः परतरो दानाच्छ्रद्धा चैव ततः परा। स्वर्गद्वारं सुसूक्ष्मं हि नरैर्मोहान्न दृश्यते॥ स्वर्गार्गलं लोभबीजं रामगुप्तं दुरासदम्। तं तु पश्यन्ति पुरुषा जितक्रोधा जितेन्द्रियाः॥ ब्राह्मणास्तपसा युक्ता यथाशक्ति प्रदायिनः। सहस्रशक्तिश्च शतं शतशक्तिर्दशापि च॥ दद्यादपश्च यः शक्त्या सर्वे तुल्यफलाः स्मृताः। रन्तिदेवो हि नृपतिरपः प्रादादकिंचनः॥ शुद्धेन मनसा विप्र नाकपृष्ठं ततो गतः। न धर्मः प्रीयते तात दानैर्दत्तैर्महाफलैः॥ न्यायलब्धैर्यथा सूक्ष्मैः श्रद्धापूतैः स तुष्यति। गोप्रदानसहस्राणि द्विजेभ्योऽदान्नृगो नृपः॥ एकां दत्त्वा स पारक्यां नरकं समपद्यत। आत्ममांसप्रदानेन शिबिरौशीनरो नृपः।।१०० प्राप्य पुण्यकुताल्लोकान् मोदते दिवि सुव्रतः। विभवो न नृणां पुण्यं स्वशक्त्या स्वर्जितं सताम्।। न यज्ञैर्विविधैर्विप्र यथान्यायेन संचितैः। क्रोधाद् दानफलं हन्ति लोभात् स्वर्ग न गच्छति।। न्यायवृत्तिर्हि तपसा दानवित् स्वर्गमश्नुते। न राजसूयैर्वहुभिरिष्ट्वा विपुलदक्षिणैः॥ न चाश्वमेधैर्बहुभिः फलं सममिदं तव। सक्तुप्रस्थेन विजितो ब्रह्मलोकस्त्वयाक्षयः॥ विरजो ब्रह्मसदनं गच्छ विप्र यथासुखम्। सर्वेषां वो द्विजश्रेष्ठ दिव्यं यानमुपस्थितम्॥ आरोहत यथाकामं धर्मोऽस्मि द्विज पश्य माम्। तारितो हि त्वया देहो लोके कीर्तिः स्थिरा च ते॥ सभार्यः सहपुत्रश्च सस्नुषश्च दिवं व्रजा इत्युक्तवाक्ये धर्मे तु यानमारुह्य स द्विजः॥ सदारः ससुतश्चैव सस्नुषश्च दिवं गतः। तस्मिन् विप्रे गते स्वर्ग ससुते सस्नुषे तदा॥ भार्याचतुर्थे धर्मज्ञे ततोऽहं निःसृतो बिलात्। ततस्तु सक्तुगन्धेन क्लेदेन सलिलस्य च॥ दिव्यपुष्पविमर्दाच्च साधोनलवैश्च तैः। विप्रस्य तपसा तस्य शिरो मे काञ्चनीकृतम्॥ तस्य सत्याभिसंधस्य सक्तुदानेन चैव ह। शरीरार्धं च मे विप्राः शातकुम्भमयं कृतम्॥ पश्यतेमं सुविपुलं तपसा तस्य धीमतः। कथमेवंविधं स्याद् वै पार्श्वमन्यदिति द्विजाः॥ तपोवनानि यज्ञांश्च हृष्टोऽभ्येमि पुनः पुनः! यज्ञं त्वहमिमं श्रुत्वा कुरुराजस्य धीमतः॥ आशया परया प्राप्तो न चाहं काञ्चनीकृतः। ततो मयोक्तं तद् वाक्यं प्रहस्य ब्राह्मणर्षभाः॥ सक्तुप्रस्थेन यज्ञोऽयं सम्मितो नेति सर्वथा। सक्तुप्रस्थलवैस्तैर्हि तदाहं काञ्चनीकृतः॥ नहि यज्ञो महानेष सदृशस्तैर्मतो मम। इत्युक्त्वा नकुलः सर्वान् यज्ञे द्विजवरांस्तदा॥ जगामादर्शनं तेषां विप्रास्ते च ययुर्ग्रहान्॥ वैशम्पायन उवाच एतत् ते सर्वमाख्यातं मया परपुरंजय। यदाश्चर्यमभूत् तत्र वाजिमेधे महाक्रतौ॥ न विस्मयस्ते नृपते यज्ञे कार्यः कथंचन। ऋषिकोटिसहस्राणि तपोभिर्ये दिवं गताः॥ अद्रोहः सर्वभूतेषु संतोषः शीलमार्जवम्। तपो दमश्च सत्यं च प्रदानं चेति सम्मितम्॥ जनमेजय उवाच यज्ञो सक्ता नृपतयस्तप:सक्ता महर्षयः शान्तिव्यवस्थिता विप्राः शमे दम इति प्रभो॥ तस्माद् यज्ञफलैस्तुल्यं न किंचिदिह दृश्यते। इति मे वर्तते बुद्धिस्तथा चैतदसंशयम्॥ यज्ञैरिष्ट्वा तु बहवो राजानो द्विजसत्तमाः। इह कीर्ति परां प्राप्य प्रेत्य स्वर्गमवाप्नुयुः॥ देवराजः सहस्राक्षः क्रतुभिर्भूरिदक्षिणैः। देवराज्यं महातेजाः प्राप्तवानखिलं विभुः॥ यदा युधिष्ठिरो राजा भीमार्जुन पुरःसरः। सदृशो देवराजेन समृद्ध्या विक्रमेण च॥ अथ कस्मात् स नकुलो गर्हयामास तं क्रतुम्। अश्वमेधं महायज्ञं राज्ञस्तस्य महात्मनः॥ वैशम्पायन उवाच यज्ञस्य विधिमग्र्यं वै फलं चापि नराधिपा गदतः शृणु मे राजन् यथावदिह भारत॥ पुरा शक्रस्य यजतः सर्व ऊचुर्महर्षयः। ऋत्विक्षु कर्मव्यग्रेषु वितते यज्ञकर्मणि॥ हूयमाने तथा वह्नौ होने गुणसमन्विते। देवेष्वाहूयमानेषु स्थितेषु परमर्षिषु॥ सुप्रतीतैस्तथा विप्रैः स्वागमैः सुस्वरैर्नृप। अश्रान्तैश्चापि लघुभिरध्वर्युवृषभैस्तथा॥ आलम्भसमये तस्मिन् गृहीतेषु पशुष्वथा महर्पयो महाराज बभूवुः कृपयान्विताः॥ ततो दीनान् पशून् दृष्ट्वा ऋषयस्ते तपोधनाः। ऊचुः शक्रं समागम्य नायं यज्ञविधिः शुभः॥ अपरिज्ञानमेतत् ते महान्तं धर्ममिच्छतः। न हि यज्ञे पशुगण विधिदृष्टाः पुरंदर॥ धर्मोपघातकस्त्वेष समारम्भस्तव प्रभो। नायं धर्मकृतो यज्ञो न हिंसा धर्म उच्यते॥ आगमेनैव ते यज्ञं कुर्वन्तु यदि चेच्छसि॥ विधिदृष्टेन यज्ञेन धर्मस्ते सुमहान् भवेत्। यज बीजैः सहस्राक्ष त्रिवर्षपरमोषितैः॥ एष धर्मो महान् शक्र महागुणफलोदयः। शतक्रतुस्तु तद् वाक्यमृषिभिस्तत्त्वदर्शिभिः॥ उक्तं न प्रतिजग्राह मानान्मोहवशं गतः। तेषां विवादः सुमहाशक्रयज्ञे तपस्विनाम्॥ जङ्गमैः स्थावरैर्वापि यष्टव्यमिति भारत। ते तु खिन्ना विवादेन ऋषयस्तत्त्वदर्शिनः॥ तदा संधाय शक्रेण पप्रच्छर्नृपतिं वसुम्। धर्मसंशयमापन्नान् सत्यं ब्रूहि महामते॥ महाभाग कथं यज्ञेष्वागमो नृपसत्तम। यष्टव्यं पशुभिर्मुख्यैरथो बीजै रसैरिति॥ तच्छ्रुत्वा तु वसुस्तेषामविचार्य बलाबलम्। यथोपनीतैर्यष्टव्यमिति प्रोवाच पार्थिवः॥ एवमुक्त्वा स नृपतिः प्रविवेश रसातलम्। उक्त्वाथ वितथं प्रश्नं चेदीनामीश्वरः प्रभुः॥ तस्मान्न वाच्यं ह्येकेन बहुज्ञेनापि संशये। प्रजापतिमपाहाय स्वयम्भुवमृते प्रभुम्॥ तेन दत्तानि दानानि पापेनाशुद्धबुद्धिना। तानि सर्वानादृत्य नश्यन्ति विपुलान्यपि।॥ तस्याधर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः। दानेन कीर्तिर्भवति न प्रेत्येह च दुर्मतेः॥ अन्यायोपगतं द्रव्यमभीक्ष्णं यो हपण्डितः। धर्माभिशंकी यजते न स धर्मफलं लभेत्॥ धर्मवैतंसिको यस्तु पापात्मा पुरुषाधमः। ददाति दानं विप्रेभ्यो लोकविश्वासकारणम्॥ पापेन कर्मणा विप्रो धनं प्राप्य निरङ्कुशः। रागमोहान्वितः सोऽन्ते कलुषां गतिमश्नुते॥ अपि संचयबुद्धिर्हि लोभमोहवशंगतः। उद्वेजयति भूतानि पापेनाशुद्धबुद्धिना॥ एवं लब्ध्वा धनं मोहाद् यो हि दद्याद् न तस्य स फलं प्रेत्य भुङ्क्ते पापधनागमात्॥ यजेत वा। उञ्छं मूलं फलं शाकमुदपात्रं तपोधनाः। दानं विभवतो दत्त्वा नरा: स्वयन्ति धार्मिकाः॥ एष धर्मो महायोगो दानं भूतदया तथा! ब्रह्मचर्ये तथा सत्यमनुक्रोशो धृतिः क्षमा॥ सनातनस्य धर्मस्य मूलमेतत् सनातनम्। श्रूयन्ते हि पुरा वृत्ता विश्वामित्रादयो नृपाः॥ विश्वामित्रोऽसितश्चैव जनकश्च महीपति। कक्षसेनार्टिसेनौ च सिन्धुद्वीपश्च पार्थिवः॥ एते चान्ये च बहवः सिद्धि परमिकां गताः। नृपाः सत्यैश्च दानैश्च न्यायलब्धैस्तपोधनाः॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाश्रितास्तपः। दानधर्माग्निना शुद्धास्ते स्वर्ग यान्ति भारत॥ जनमेजय उवाच धर्मागतेन त्यागेन भगवन् स्वर्गमस्ति चेत्। एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि भाषितुम्॥ तस्योञ्छवृत्तेर्यद् वृत्तं सक्तुदाने फलं महत्। कथितं तु मम ब्रांस्तथ्यमेतदसंशयम्॥ कथं हि सर्वयज्ञेषु निश्चयः परमोऽभवत्। एतदर्हसि मे वक्तुं निखिलेन द्विजर्षभा॥ वैशम्पायन उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्। अगस्त्यस्य महायज्ञे पुरावृत्तमरिंदम॥ पुरागस्त्यो महातेजा दीक्षा द्वादशवार्षिकीम्। प्रविवेश महाराज सर्वभूतहिते रतः॥ तत्राग्निकल्पा होतार आसन् सत्रे महात्मनः। मूलाहारा: फलाहारा: साश्मकुट्टा मरीचिपाः॥ परिपृष्टिका वैघसिकाः प्रसंख्यानास्तथैव च। यतयो भिक्षवश्चात्र बभूवुः पर्यवस्थिताः॥ सर्वे प्रत्यक्षधर्माणो जितक्रोधा जितेन्द्रियाः। दमे स्थिताश्च सर्वे ते हिंसादम्भविवर्जिताः॥ वृत्ते शुद्धे स्थिता नित्यमिन्द्रियैश्चाप्यबाधिताः। उपातिष्ठन्त तं यज्ञं यजन्तस्ते महर्षयः॥ यथाशक्त्या भगवता तदन्नं समुपार्जितम्। तस्मिन् सत्रे तु यद् वृत्तं यद् योग्यं च तदाभवत्।१०। एवं विधे त्वगर-त्यस्य क्रतवः कृताः। सहस्राक्षस्तदा वर्तमाने तथाध्वरे। न ववर्ष सहस्राक्षस्तदा भरतसत्तम॥ ततः कर्मान्तरे राजन्नगस्त्यस्य महात्मनः। कथेयमभिनिवृत्ता मुनीनां भावितात्मनाम्॥ नववर्ष अगस्त्यो यजमानोऽसौ ददात्यन्नं विमत्सरः। न च वर्षति पर्जन्यः कथमन्नं भविष्यति॥ सत्रं चेदहं महद् विप्रा मुनेादशवार्षिकम्। न वर्षिष्यति देवश्च वर्षाण्येतानि द्वादश॥ एतद् भवन्तः संचिन्त्य महर्षेरस्य धीमतः। अगस्त्यस्यातितपसः कर्तुमर्हन्त्यनुग्रहम्॥ इत्येवमुक्ते वचने ततोऽगस्त्यः प्रतापवान्॥ प्रोवाच वाक्यं स तदा प्रसाद्य शिरसा मुनीन्। यदि द्वादशवर्षाणि न वर्षिष्यति वासवः॥ चिन्तायज्ञं करिष्यामि विधिरेष सनातनः। यदि द्वादशवर्षाणि न वर्षिष्यति वासवः॥ स्पर्शयज्ञं करिष्यामि विधिरेष सनातनः। यदि द्वादशवर्षाणि न वर्षिष्यति वासवः॥ ध्येयात्मना हरिष्यामि यज्ञानेतान् यतव्रतः। बीजयज्ञो मयायं वै बहुवर्षसमाचितः॥ बीजैर्हितं करिष्यामि नात्र विघ्नो भविष्यति। नेदं शक्यं वृथा कर्ते मम सत्रं कथंचन॥ वर्षिष्यतीह वा देवो न वा वर्षं भविष्यति। अथावाभ्यर्थनामिन्द्रो न करिष्यति कामतः॥ स्वयमिन्द्रो भविष्यामि जीवयिष्यामि च प्रजाः। यो यदाहारजातश्च स तथैव भविष्यति॥ विशेषं चैव कर्तास्मि पुनः पुनरतीव हि। अद्येह स्वर्णमभ्येतु यच्चान्यद् वसु किंचन॥ त्रिषु लोकेषु यच्चास्ति तदिहागम्यतां स्वयम्। दिव्याश्चाप्सरसा संघा गन्धर्वाश्च सकिन्नराः॥ विश्वावसुश्च ये चान्ये तेऽप्युपासन्तु मे मखम्। उत्तरेभ्यः कुरुभ्यश्च यत् किंचिद् वसु विद्यते॥ सर्वं तदिह यज्ञेषु स्वयमेवोपतिष्ठतु। स्वर्गः स्वर्गसदश्चैव धर्मश्च स्वयमेव तु॥ इत्युक्ते सर्वमेवैतदभवत् तपसा मुनेः। तस्य दीप्ताग्निमह सस्त्वगस्त्यस्यातितेजसः॥ ततस्ते मुनयो हृष्टा ददृशुस्तपसो बलम्। विस्मिता वचनं प्राहुरिदं सर्वे महार्थवत्॥ ऋषि उवाच प्रीताः स्म तव वाक्येन न विच्छामस्तपोव्ययम्। तैरेव यज्ञैस्तुष्टाः स्म न्यायेनेच्छामहे वयम्॥ यज्ञं दीक्षां तथा होमान् यच्चान्यन्मृगयामहे। न्यायेनोपार्जिताहारा: स्वकर्माभिरता वयम्॥ वेदांश्च ब्रह्मचर्येण न्यायतः प्रार्थयामहे। न्यायेनोत्तरकालं च गृहेभ्यो निःसृता वयम्॥ धर्मदृष्टैर्विधिद्वारैस्तपस्तप्स्यामहे वयम्। भवतः सम्यगिष्टा तु बुद्धिहिंसाविवर्जिता॥ एतामहिंसां यज्ञेषु ब्रूयास्त्वं सततं प्रभो। प्रीतास्ततो भविष्यामो वयं तु द्विजसत्तम॥ विसर्जिताः समाप्तौ च सत्रादस्माद् व्रजामहे। तथा कथयतां तेषां देवराजः पुरंदरः॥ ववर्ष सुमहातेजा दृष्ट्वा तस्य तपोबलम्। आसमाप्तेश्च यज्ञस्य तस्यामितपराक्रमः॥ निकामवर्षी पर्जन्यो बभूव जनमेजय। प्रसादयामास च तमगस्त्यं त्रिदशेश्वरः। स्वयमभ्येत्य राजर्षे पुरस्कृत्य बृहस्पतिम्॥ ततो यज्ञ समाप्तौ तान् विससर्ज महामुनीन्। अगस्त्यः परमप्रीतः पूजयित्वा यथाविधि॥ जनमेजय उवाच कोऽसौ नकुलरूपेण शिरसा काञ्चनेन वै। प्राह मानुषवद् वाचमेतत् पृष्टो वदस्व मे॥ वैशम्पायन उवाच एतत् पूर्वं न पृष्टोऽहं न चास्माभिः प्रभाषितम्। श्रूयतां नकुलो योऽसौ यथा वाक् तस्य मानुषी॥ श्राद्धं संकल्पयामास जमदग्निः पुरा किला होमधेनुस्तमागाच्च स्वयमेव दुदोह ताम्॥ तत्पय: स्थापयामास नवे भाण्डे दृढे शुचौ। तच्च क्रोधस्वरूपेण पिठरं धर्म आविशत्॥ जिज्ञासुस्तमृषिश्रेष्ठं किं कुर्याद् विप्रिये कृते। इति संचिन्त्य धर्मः स धर्मयामास तत् पयः॥ तमाज्ञाय मुनिः क्रोधं नैवास्य स चुकोप ह। स तु क्रोधस्ततो राजन् ब्राह्मणी मूर्तिमास्थितः। जिते तस्मिन् भृगुश्रेष्ठमभ्यभाषदमर्षणः॥ जितोऽस्मीति भृगुश्रेष्ठ भृगवो ह्यतिरोषणाः। लोके मिथ्याप्रवादोऽयं यत्त्वयास्मि विनिर्जितः॥ वशे स्थितोऽहं त्वय्यद्य क्षमावति महात्मनि। बिभेमि तपसः साधो प्रसादं कुरु मे प्रभो॥ जमदग्निरुवाच साक्षाद् दृष्टोऽसि मे क्रोध गच्छ त्वं विगतज्वरः। न त्वयापकृतं मेऽद्य न च मे पन्युरस्ति वै॥ यान् समुद्दिश्य संकल्पः पयसोऽस्य कृतो मया। पितरस्ते महाभागास्तेभ्यो बुद्ध्यस्व गम्यताम्॥ इत्युक्तो जातसंबासस्तत्रैवान्तरधीयता पितॄणामभिषङ्गाच्च नकुलत्वमुपागतः॥ स तान् प्रसादयामास शापस्यान्तो भवेदिति। तैश्चाप्युक्तः क्षिपन् धर्म शापस्यान्तमवाप्स्यसि॥ तैश्चोक्तो यज्ञियान् देशान् धर्मारण्यं तथैव च। जुगुप्समानो धावन् स तं यज्ञं समुपासदत्॥ धर्मपुत्रमथाक्षिप्य सक्तुप्रस्थेन तेन सः। मुक्तः शापात् ततः क्रोधो धर्मो ह्यासीद् युधिष्ठिरः।। एवमेतत् तदा वृत्ते यज्ञे तस्य महात्मनः। पश्यतां चापि नस्तत्र नकुलोऽन्तर्हितस्तदा॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवी सरस्वतीं व्यासं ततो जयमुदीरयेत्।। जनमेजय उवाच प्राप्य राज्यं महात्मानः पाण्डवा मे पितामहाः। कथमासन् महाराज्ञि धृतराष्ट्र महात्मनि॥ स तु राजा हतामात्यो हतपुत्रो निराश्रयः। कथमासीद्धतैश्वर्यो गान्धारी च यशस्विनी॥ कियन्तं चैव कालं ते मम पूर्वपितामहाः। स्थिता राज्ये महात्मानस्तन्मे व्याख्यातुमर्हसि।॥ वैशम्पायन उवाच प्राप्य राज्यं महात्मानः पाण्डवा हतशत्रवः। धृतराष्ट्र पुरस्कृत्य पृथिवीं पर्यपालयन्॥ धृतराष्ट्रमुपातिष्ठद् विदुरः संजयस्तथा। वैश्यपुत्रश्च मेधावी युयुत्सुः कुरुसत्तम॥ पाण्डवाः सर्वकार्याणि सम्पृच्छन्ति स्म तं नृपम्। चक्रुस्तेनाभ्यनुज्ञाता वर्षाणि दश पञ्च च॥ सदा हि गत्वा ते वीराः पर्युपासन्त तं नृपम्। पादाभिवादनं कृत्वा धर्मराजमते स्थिताः॥ ते मूर्ध्नि समुपाघ्राताः सर्वकार्याणि चक्रिरे। कुन्तिभोजसुता चैव गान्धारीमन्ववर्तत॥ द्रौपदी च सुभद्रा च याश्चान्याः पाण्डवस्त्रियः। समां वृत्तिमवर्तन्त तयोः श्वश्वोर्यथाविधि॥ शयनानि महार्हाणि वासांस्याभरणानि च। राजार्हाणि च सर्वाणि भक्ष्यभोज्यान्यनेकशः॥ युधिष्ठिरो महाराज धृतराष्ट्रेऽभ्युपाहरत्। तथैव कुन्ती गान्धार्यो गुरुवृत्तिमवर्तत॥ विदुरः संजयश्चैव ययुत्सुश्चैव कौरव। उपासते स्म तु वृद्धं हतपुत्रं जनाधिपम्॥ श्यालो द्रोणस्य यश्चासीद् दयितो ब्राह्मणो महान्। स च तस्मिन् महेष्वासः कृपः समभवत् तदा॥ व्यासश्च भगवान् नित्यमासांचक्रे नृपेण ह। कथाः कुर्वन् पुराणर्षिर्देवर्षिपितृरक्षसाम्॥ धर्मयुक्तानि कार्याणि व्यवहारन्वितानि च। धृतराष्ट्राभ्यनुज्ञातो विदुरस्तान्यकारयत्॥ सामन्तेभ्यः प्रियाण्यस्य कार्याणि सुबहून्यपि। प्राप्यन्तेऽथैः सुलघुभिः सुनयाद् विदुरस्य वै॥ अकरोद् बन्धमोक्षं च बध्यानां मोक्षणं तथा। न च धर्मसुतो राजा कदाचित् किंचिदब्रवीत्॥ विहारयात्रासु पुनः कुरुराजो युधिष्ठिरः। सर्वान् कामान् महातेजाः प्रददावम्बिकासुते॥ आरालिका: सूपकारा रागखाण्डविकास्तथा। उपातिष्ठन्त राजानं धृतराष्ट्रं यथा पुरा॥ वासांसि च महार्हाणि माल्यानि विविधानि च। उपाजह्वर्यथान्यायं धृतराष्ट्रस्य पाण्डवाः॥ मैरेयकाणि मांसानि पानकानि मधूनि च। चित्रान् भक्ष्यविकारांश्च चक्रुस्तस्य यथा पुरा॥ ये चापि पृथिवीपाला: समाजग्मुस्ततस्ततः। उपातिष्ठन्त ते सर्वे कौरवेन्द्रं यथा पुरा॥ कुन्ती च द्रौपदी चैव सात्वती च यशस्विनी। उलूपी नागकन्या च देवी चित्राङ्गदा तथा॥ धृष्टकेतोश्च भगिनी जरासंधसुता तथा। एताश्चान्याश्च बह्वयो वै योषितः पुरुषर्षभ।॥ किंकराः पर्युपातिष्ठन् सर्वाः सुबलजां तथा। यथा पुत्रवियुक्तोऽयं न किंचिद् दुःखमाप्नुयात्॥ इति तानन्वशाद् भ्रातॄन् नित्यमेव युधिष्ठिरः। एवं ते धर्मराजस्य श्रुत्वा वचनमर्थवत्॥ सविशेषमवर्तन्त भीममेकं तदा विना। न हि तत् तस्य वीरस्य हृदयादपसर्पति। धृतराष्ट्रस्य दुर्बुद्ध्या यद् वृत्तं द्यूतकारितम्॥ सविशेषमवर्तन्त भीममेकं तदा विना। न हि तत् तस्य वीरस्य हृदयादपसर्पति। धृतराष्ट्रस्य दुर्बुद्ध्या यद् वृत्तं द्यूतकारितम्॥ वैशम्पायन उवाच एवं सम्पूजितो राजा पाण्डवैरम्बिकासुतः। विजहार यथापूर्वमृषिभिः पर्युपासितः॥ ब्रह्मदेयाग्रहारांश्च प्रददौ स कुरूद्वहः। तच्च कुन्तीसुतो राजा सर्वमेवान्वपद्यत॥ आनुशंस्यपरो राजा प्रीयमाणो युधिष्ठिरः। उवाच स तदा भ्रातृनमात्यांश्च महीपतिः॥ मया चैव भवद्भिश्च मान्य एष नराधिपः। निदेशे धृतराष्ट्रस्य यस्तिष्ठति स मे सुहृत्॥ विपरीतश्च मे शत्रुर्नियम्यश्च भवेन्नरः। पितृवृत्तेषु चाहःसु पुत्राणां श्राद्धकर्मणि॥ सुहृदां चैव सर्वेषां यावदस्य चिकीर्षितम्। ततः स राजा कौरव्यो धृतराष्ट्रो महामनाः॥ ब्राह्मणेभ्यो यथार्हेभ्यो ददौ वित्तान्यनेकशः। धर्मराजश्च भीमश्च सव्यसाची यमावपि॥ तत् सर्वमन्ववर्तन्त तस्य प्रियचिकीर्षया। कथं नु राजा वृद्धः स पुत्रपौत्रवधार्दितः॥ शोकमस्मत्कृतं प्राप्य न प्रियेतेति चिन्त्यते। यावद्धि कुरुवीरस्य जीवत्पुत्रस्य वै सुखम्॥ बभूव तदवाप्नोति भोगांश्चेति व्यवस्थिताः। ततस्ते सहिताः पञ्च भ्रातरः पाण्डुनन्दनाः॥ तथाशीला: समातस्थुर्धृतराष्ट्रस्य शासने। धृतराष्ट्रश्च तान् सर्वान् विनीतान् नियमे स्थित्तान्॥ शिष्यवृत्तिं समापन्नान् गुरुवत् प्रत्यपद्यत। गान्धारी चैव पुत्राणां विविधैः श्राद्धकर्मभिः॥ आनृण्यमगमत् कामान् विप्रेभ्यः प्रतिपाद्य सा। एवं धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः॥ भ्रातृभिः सहितो धीमान् पूजयामास तं नृपम्। वैशम्पायन उवाच स राजा सुमहातेजा वृद्धः कुरुकुलोद्वहः॥ न ददर्श तदा किंचिदप्रियं पाण्डुनन्दने। वर्तमानेषु सवत्तिं पाण्डवेषु महात्मसु॥ प्रीतिमानभवद् राजा धृतराष्ट्रोऽम्बिकासुतः। सौबलेयी च गान्धारी पुत्रशोकमपास्य तम्॥ सदैव प्रीतिमत्यासीत् तनयेषु निजेष्विव। प्रियाण्येव तु कौरव्यो नाप्रियाणि कुरूद्वहः॥ वैचित्रवीर्ये नृपतौ समाचरत वीर्यवान्। यद् यद् ब्रूते च किंचित् स धृतराष्ट्रो जनाधिपः॥ गुरु वा लघु वा कार्यं गान्धारी च तपस्विनी। तं स राजा महाराज पाण्डवानां धुरंधरः॥ पूजयित्वा वचस्तत् तदकार्षीत् परवीरहा। तेन तस्याभवत् प्रीतो वृत्तेन स नराधिपः॥ अन्वतप्यत संस्मृत्य पुत्रं तं मन्दचेतसम्। सदा च प्रातरुत्थाय कृतजप्यः शुचिर्नृपः॥ आशास्ते पाण्डुपुत्राणां समरेष्वपराजयम्। ब्राह्मणान् स्वस्ति वाच्याथ हुत्वा चैव हुताशनम्॥२२ आयूंषि पाण्डुपुत्राणामाशंसत नराधिपः। न तां प्रीतिं परामाप पुत्रेभ्यः स कुरूद्वहः॥ यां प्रीतिं पाण्डुपुत्रेभ्यः सदावाप नराधिपः। ब्राह्मणानां यथावृत्तः क्षत्रियाणां यथाविधः॥ तथा विट्शूद्रसंघानामभवत् स प्रियस्तदा। यच्च किंचित् तदा पापं धृतराष्ट्रसुतैः कृतम्॥ अकृत्वा हृदि तत् पापं तं नृपं सोऽन्ववर्तत। यश्च कश्चिन्नरः किंचिदप्रियं वाम्बिकासुते॥ कुरुते द्वेष्यतामेति स कौन्तेयस्य धीमतः। न राज्ञो धृतराष्ट्रस्य न च दुर्योधनस्य वै॥ उवाच दुष्कृतं कश्चिद् युधिष्ठिरभयानरः। धृत्या तुष्टो नरेन्द्रः स गान्धारी विदुरस्तथा॥ शौचेन चाजातशत्रोर्न तु भीमस्य शत्रुहन्। अन्ववर्तत भीमोऽपि निश्चितो धर्मजं नृपम्॥ धृतराष्ट्रं च सम्प्रेक्ष्य सदा भवति दुर्मनाः। राजानमनुवर्तन्तं धर्मपुत्रममित्रहा। अन्ववर्तत कौरव्यो हृदयेन पराङ्मुखः॥ व्यास उवाच युधिष्ठिरः महाबाहो यथाह कुरुनन्दनः। धृतराष्ट्रो महातेजास्तत् कुरुष्वाविचारयन्॥ अयं हि वृद्धो नृपतिर्हतपुत्रो विशेषतः। नेदं कृच्छ्रे चिरतरं सहेदिति पतिर्मम॥ गान्धारी च महाभागा प्राज्ञा करुणवेदिनी। पुत्रशोकं महाराज धैर्येणोद्वहते भृशम्॥ अहमप्येतदेव त्वां ब्रवीमि कुरु मे वचः। अनुज्ञां लभतां राजा मा वृथेह मरिष्यति॥ राजर्षीणां पुराणानामनुयातु गतिं नृपः। राजर्षीणां हि सर्वेषामन्ते वनमुपाश्रयः॥ वैशम्पायन उवाच इत्युक्तः स तदा राजा व्यासेनाद्भुतकर्मणा। भगवानेव नो मान्यो भगवानेव नो गुरुः। भगवानस्य राज्यस्य कुलस्य च परायणम्॥ प्रत्युवाच महातेजा धर्मराजो महामुनिम्॥ अहं तु पुत्रो भगवन् पिता राजा गुरुश्च मे। निदेशवर्ती च पितुः पुत्रो भवति धर्मतः॥ वैशम्पायन उवाच इत्युक्तः स तु तं प्राह व्यासो वेदविदां वरः। युधिष्ठिरं महातेजाः पुनरेव महाकविः॥ एवमेतन्महाबाहो यथा वदसि भारत। राजाऽयं वृद्धतां प्राप्तः प्रमाणे परमे स्थितः॥ सोऽयं मयाभ्यनुज्ञातस्त्वया च पृथिवीपतिः। करोतु स्वमभिप्रायं मास्य विघ्नकरो भव॥ एष एव परो धर्मो राजर्षीणां युधिष्ठिर। समरे वा भवेन्मृत्युर्वने वा विधिपूर्वकम्॥ पित्रा तु तव राजेन्द्र पाण्डुना पृथिवीक्षिता। शिष्यवृत्तेन राजायं गुरुवत् पर्युपासितः॥ क्रतुभिर्दक्षिणावभी रत्नपर्वतशोभितैः। महमिरिष्टं गौर्भुक्ता प्रजाश्च परिपालिताः॥ पुत्रसंस्थं च विपुलं राज्यं विप्रोषिते त्वयि। त्रयोदशसमा भुक्तं दत्तं च विविधं वसु॥ त्वया चायं नरव्याघ्र गुरुशुश्रूषयाऽनघा आराधितः सभृत्येन गान्धारी च यशस्विनी॥ अनुजानीहि पितरं समयोऽस्य तपोविधौ। न मन्युर्विद्यते चास्य सुसूक्ष्मोऽपि युधिष्ठिर॥ वैशम्पायन उवाच एतावदुक्त्वा वचनमनुमान्य च पार्थिवम्। तथास्त्विति च तेनोक्तः कौन्तेयेन ययौ वनम्॥ गते भगवति व्यासे राजा पाण्डुसुतस्तदा। प्रोवाच पितरं वृद्धं मन्दं मन्दमिवानतः॥ यदाह भगवान् व्यासो यच्चापि भवतो मतम्। यथाऽऽह च महेष्वासः कृपो विदुर एव च॥ युयुत्सुः संजयश्चैव तत्कर्तास्म्यहमञ्जसा। सर्व एव हि मान्या मे कुलस्य हि हितैषिणः॥ इदं तु याचे नृपते त्वामहं शिरसा नतः। क्रियतां तावदाहारस्ततो गच्छाश्रमं प्रति॥ वैशम्पायन उवाच ततो राज्ञाभ्यनुज्ञातो धृतराष्ट्रः प्रतापवान्। ययौ स्वभवनं राजा गान्धार्यानुगतस्तदा।॥ मन्दप्राणगतिर्धीमान् कृच्छ्रादिव समुद्वहन्। पदातिः स महीपालो जीर्णो गजपतिर्यथा॥ तमन्वगच्छद् विदुरो विद्वान् सूतश्च संजयः। स चापि परमेष्वासः कृपः शारद्वतस्तथा॥ स प्रविश्य गृहं राजन् कृतपूर्वाहिकक्रियः। तर्पयित्वा द्विजश्रेष्ठानाहारमकरोत् तदा॥ गान्धारी चैव धर्मज्ञा कुन्त्या सह मनस्विनी। वधूभिरुपचारेण पूजिताभुङ्क्त भारत॥ कृताहारं कृताहारा: सर्वे ते विदुरादयः। पाण्डवाश्च कुरुश्रेष्ठमुपातिष्ठन्त तं नृपम्॥ ततोऽब्रवीन्महाराज कुन्तीपुत्रमुपह्वरे। निषण्णं पाणिना पृष्ठे संस्पृशन्नम्बिकासुतः॥ अप्रमादस्त्वया कार्यः सर्वथा कुरुनन्दन। अष्टाङ्गे राजशार्दूल राज्ये धर्मपुरस्कृते॥ तत्त शक्यं महाराज रक्षितुं पाण्डुनन्दन। राज्यं धर्मेण कौन्तेय विद्वानसि निबोध तत्॥ विद्यावृद्धान् सदैव त्वमुपासीथा युधिष्ठिर। शृणुयास्ते च यद् ब्रूयुः कुर्याश्चैवाविचारयन्॥ प्रातरुत्थाय तान् राजन् पूजयित्वा यथाविधि। कृत्यकाले समुत्पन्ने पृच्छेथाः कार्यमात्मनः॥ ते तु सम्मानिता राजंस्त्वया कार्यहितार्थिना। प्रवक्ष्यन्ति हितं तात सर्वथा तव भारत॥ इन्द्रियाणि च सर्वाणि वाजिवत् परिपालय। हितायैव भविष्यन्ति रक्षित द्रविणं यथा॥ अमात्यानुपधातीतान् पितृपैतामहाशुचीन्। दान्तान् कर्मसु पुण्यांश्च पुण्यान् सर्वेषु योजयेः॥ चारयेयाश्च सततं चारैरविदितः परैः। परीक्षितैर्बहुविधैः स्वराष्ट्रप्रतिवासिभिः॥ पुरं च ते सुगुप्तं स्याद् दृढप्राकारतोरणम्। अट्टाट्टालकसम्बाधं षट्पदं सर्वतोदिशम्॥ तस्य द्वाराणि सर्वाणि पर्याप्तानि बृहन्ति च। सर्वतः सुविभक्तानि यन्त्रैरारक्षितानि च॥ पुरुषैरलमर्थस्ते विदितैः कुलशीलतः। आत्मा च रक्ष्यः सततं भोजनादिषु भारत॥ विहाराहारकालेषु माल्यशय्यासनेषु च। स्त्रियश्च ते सुगुप्ताः स्युर्वृद्धराप्तैरधिष्ठिताः॥ शीलवद्भिः कुलीनैश्च विद्वद्धिश्च युधिष्ठिर। मन्त्रिणश्चैव कुर्वीथा द्विजान् विद्याविशारदान्॥ विनीतांश्च कुलीनांश्च धर्मार्थकुशलानृजून्। तैः सार्धं मन्त्रयेथास्त्वं नात्यर्थं बहुभिः सह॥ समस्तैरपि च व्यस्तैर्व्यपदेशेन केनचित्। सुसंवृतं मन्त्रगृहं स्थलं चारुह्य मन्त्रयेः॥ अरण्ये निःशलाके वा न च रात्रौ कथंचन। वानराः पक्षिणश्चैव ये मनुष्यानुसारिणः॥ सर्वे मन्त्रगृहे वा ये चापि जडपङ्गवः। मन्त्रभेदे हि ये दोषा भवन्ति पृथिवीक्षिताम्॥ न ते शक्या: समाधातुं कथंचिदिति मे मतिः। दोषांश्च मन्त्रभेदस्य ब्रूयास्त्वं मन्त्रिमण्डले॥ अभेदे च गुणा राजन् पुनः पुनररिंदम। पौरजानपदानां न शौचाशौचे युधिष्ठिर॥ यथा स्याद् विदितं राजंस्तथा कार्यं कुरूद्वह। व्यवहरश्च ते राजन् नित्यमाप्तैरधिष्ठितः॥ योज्यस्तुष्टैर्हितै राजन् नित्यं चारैरनुष्ठितः। परिमाणं विदित्वा च दण्डं दण्ड्येषु भारत॥ प्रणयेयुर्यथान्यायं पुरुषास्ते युधिष्ठिर। आदानरुचयश्चैव परदाराभिमर्शिनः॥ उग्रदण्डप्रधानाश्च मिथ्या व्याहारिणस्तथा। आक्रोष्टारश्च लुब्धश्च हर्तारः साहसप्रियाः।॥ समाविहारभेत्तारो वर्णानां च प्रदूषकाः। हिरण्यदण्ड्या वध्याश्च कर्तव्या देशकालतः॥ प्रातरेव हि पश्येथा ये कुर्युर्व्ययकर्म ते। अलंकारमथो भोज्यमत ऊर्ध्वं समाचरेः॥ पश्येथाश्च ततो योधान् सदा त्वं प्रतिहर्षयन्। दूतानां च चराणां च प्रदोषस्ते सदा भवेत्॥ सदा चापररात्रान्ते भवेत् कार्यार्थनिर्णयः। मध्यरात्रे विहारस्ते मध्याह्ने च सदा भवेत्॥ सर्वे त्वौपयिकाः कालाः कार्याणां भरतर्षभ। तथैवालंकृतः काले तिष्ठेथा भूरिदक्षिण॥ चक्रवत् तात कार्याणां पर्यायो दृश्यते सदा। कोशस्य निचये यत्नं कुर्वीथा न्यायतः सदा॥ विपिधस्य महाराज विपरीतं विवर्जयेः। चारैर्विदित्वा शुज्रेश्च ये राज्ञामन्तरैषिणः॥ तानाप्तैः पुरुषैर्दूराद् घातयेथा नराधिप। कर्म दृष्ट्वाथ भृत्यांस्त्वं वरयेथाः कुरूद्वह॥ कारयेयाश्च कर्माणि युक्तायुक्तैरधिष्ठितैः। सेनाप्रणेता च भवेत् तव तात दृढव्रतः॥ शूरः क्लेशसहश्चैव हितो भक्तश्च पूरुषः। सर्वे जनपदाश्चैव तव कर्माणि पाण्डव॥ गोवद्रासभवश्चैव कुर्युर्ये व्यवहारिणः। स्वरन्ध्र पररन्धं च स्वेषु चैव परेषु च॥ उपलक्षयितव्यं ते नित्यमेव युधिष्ठिर। देशजाश्चैव पुरुषा विक्रान्ताः स्वेषु कर्मसु॥ यात्राभिरनुरूपाभिरनुग्राह्या हितास्त्वया। गुणार्थिनां गुणः कार्यो विदुषां वै जनाधिप। अविचार्याश्च ते ते स्युरचला इव नित्यशः॥ धृतराष्ट्र उवाच मण्डलानि च बुध्येथाः परेषामात्मनस्तथा। उदासीनगणानां च मध्यस्थानां च भारत॥ चतुर्णां शत्रुजातानां सर्वेषामाततायिनाम्। मित्रं चामित्रमित्रं च बोद्धव्यं तेऽरिकर्शन॥ तथामात्या जनपदा दुर्गाणि विविधानि च। बलानि च कुरुश्रेष्ठ भवत्येषां यथेच्छकम्॥ ते च द्वादश कौन्तेय राज्ञां वै विषयात्मकाः मन्त्रिप्रधानाश्च गुणाः षष्टिादश च प्रभो॥ एतन्मण्डलमित्याहुराचार्या नीतिकोविदाः। अत्र षाड्गुण्यमायत्तं युधिष्ठिर निबोध तत्॥ वृद्धिक्षयौ च विज्ञेयौ स्थानं च कुरुसत्तम। द्विसप्तत्यां महाबाहो ततः षाड्गुण्यजा गुणाः॥ थदा स्वपक्षो बलवान् परपक्षस्तथाऽबलः। विगृह्य शत्रून् कौन्तेय जेयः क्षितिपतिस्तदा॥ यदा परे च बलिन: स्वपक्षश्चैव दुर्बलः। सार्धं विद्वांस्तदा क्षीणः परैः संधि समाश्रयेत्॥ द्रव्याणां संचयश्चैव कर्तव्यः सुभहांस्तथा। यदा समर्थो यानाय नचिरेणैव भारत।॥ तदा सर्वं विधेयं स्यात् स्थाने न स विचारयेत्। भूमिरल्पफला देया विपरीतस्य भारत॥ हिरण्यं कुष्यभूयिष्ठं मित्रं क्षीणमथो बलम्। विपरीतान्निगृह्णीयात् स्वं हि संधिविशारदः॥ संध्यर्थं राजपुत्रं वा लिप्सेथा भरतर्षभ। विपरीतं न तच्छ्रेयः पुत्र कस्यांचिदापदि॥ तस्याः प्रमोक्षे यत्नं च कुर्याः सोपायमन्त्रवित्। प्रकृतीनां च राजेन्द्र राजा दीनान् विभावयेत्॥ क्रमेण युगपत् सर्वं व्यवसायं महाबलः। पीडनं स्तम्भनं चैव कोशभङ्गस्तथैव च॥ कार्यं यत्नेन शत्रूणां स्वराज्यं रक्षता स्वयम्। न च हिंस्योऽभ्युपगतः सामन्तो वृद्धिमिच्छता॥ कौन्तेय तं न हिंसेत् स यो महीं विजिगीषते। गणानां भेदने योगमीप्सेथाः सह मन्त्रिभिः॥ साधुसंग्रहणाच्चैव पापनिग्रहणात् तथा। दुर्वलाश्चैव सततं नान्वेष्टव्या बलीयसा॥ तिष्ठेथा राजशार्दूल वैतसी वृत्तिमास्थितः। यद्येनमभियायाच्च बलवान् दुर्बलं नृपः॥ सामादिभिरुपायैस्तं क्रमेण विनिवर्तयेः। अशक्नुवंश्च युद्धाय निष्पतेत् सह मन्त्रिभिः॥ कोशेन पौरैर्दण्डेन ये चास्य प्रियकारिणः। असम्भवे तु सर्वस्य यथा मुख्येन निष्पतेत्। क्रमेणानेन मुक्तिः स्याच्छरीरमिति केवलम्॥ धृतराष्ट्र उवाच संधिविग्रहमप्यत्र पश्येथा राजसत्तम। द्वियोनि विविधोपायं बहुकल्पं युधिष्ठिर॥ कौरव्य पर्युपासीथाः स्थित्वा द्वैविध्यमात्मनः। तुष्टपुष्टबलः शत्रुरात्मवानिति च स्मरेत्॥ पर्युपासनकाले तु विपरीतं विधीयते। आमर्दकाले राजेन्द्र व्यपसर्पेत् ततः परम्॥ व्यसनं भेदनं चैव शत्रूणां कारयेत् ततः। कर्षणं भीषणं चैव युद्धे चैव बलक्षयम्॥ प्रयास्यमानो नृपतिस्त्रिविधां परिचिन्तयेत्। आत्मनश्चैव शत्रोश्च शक्तिं शास्त्रविशारदः॥ उत्साहप्रभुशक्तिभ्यां मन्त्रशक्त्या च भारत। उपपन्नो नृपो यायाद् विपरीतं च वर्जयेत्॥ आददीत बलं राजा मौलं मित्रबलं तथा। अटवीबलं भृतं चैव तथा श्रेणीबलं प्रभो॥ तत्र मित्रबलं राजन् मौलं चैव विशिष्यते। श्रेणीबलं भृतं चैव तुल्ये एवेति मे मतिः॥ तथाऽचारबलं चैव परस्परसमं नृप। विज्ञेयं बहुकालेषु राज्ञा काल उपस्थिते॥ आपदश्चापि बोद्वव्या बहुरूपा नराधिप। भवन्ति राज्ञा कौरव्य यास्ताः पृथगतः शृणु॥ विकल्पा बहुधा राजन्नापदां पाण्डुनन्दन। सामादिभिरुपन्यस्य गणयेत् तान् नृपः सदा॥ यात्रां गच्छेद् बलैर्युक्तो राजा सद्भिः परंतप) युक्तश्च देशकालाभ्यां बलैरात्मगुणैस्तथा॥ हृष्टपुष्टबलो गच्छेद् राजा वृद्ध्युदये रतः। अकृशश्चाप्यथो यायादनृतावपि पाण्डव॥ तूणाश्मानं वानिरथप्रवाहां ध्वजद्रुमैः संवृतकूलरोधसम्। पदातिनागैर्बहुकर्दमां नदी सपत्ननाशे नृपतिः प्रयोजयेत्॥ अथोपपत्त्या शकटं पद्मवज्रं च भारत। उशना वेद यच्छास्त्रं तत्रेतद् विहितं विभो॥ चारयित्वा परबलं कृत्वा स्वबलदर्शनम्। स्वभूमौ योजयेद् युद्धं परभूमौ तथैव च॥ बलं प्रसादयेद् राजा निक्षिपेद् बलिनो नरान्। ज्ञात्वा स्वविषयं तत्र सामादिभिरुपक्रमेत्॥ सर्वथैव महाराज शरीरं धारयेदिह। प्रेत्य चेह च कर्तव्यमात्मनिःश्रेयसं परम्॥ एवमेतन्महाराज राजा सम्यक् समाचरन्। प्रेत्य स्वर्गमवाप्नोति प्रजा धर्मेण पालयन्॥ एवं त्वया कुरुश्रेष्ठ वर्तितव्यं प्रजाहितम्। उभयोर्लोकयोस्तात प्राप्तये नित्यमेव हि॥ भीष्मेण सर्वमुक्तोऽसि कृष्णेन विदुरेण च। मयाप्यवश्यं वक्तव्यं प्रीत्या ते नृपसत्तम॥ एतत् सर्वं यथान्यायं कुर्वीथा भूरिदक्षिणा प्रियस्तथा प्रजानां त्वं स्वर्गे सुखमवाप्स्यसि॥ अश्वमेधसहस्रेण यो यजेत् पृथिवीपतिः। पालयेद् वापि धर्मेण प्रजास्तुल्यं फलं लभेत्॥ युधिष्ठिर उवाच एवमेतत् करिष्यामि यथाऽऽत्थ पृथिवीपते। भूयश्चैवानुशास्योऽहं भवता पार्थिवर्षभ॥ भीष्मे स्वर्गमनुप्राप्ते गते च मधुसूदने। विदुरे संजये चैव कोऽन्यो मां वक्तुमर्हति॥ यत् तु मामनुशास्तीह भवानद्य हिते स्थितः कर्तास्मि तन्महीपाल निर्वृतो भव पार्थिव॥ वैशम्पायन उवाच एवमुक्तः स राजर्षिर्धर्मराजेन धीमता। कौन्तेयं समनुज्ञातुमियेष भरतर्षभ॥ पुत्र संशाम्यतां तावन्ममापि बलवाश्रमः। इत्युक्त्वा प्राविशद् राजा गान्धार्या भवनं तदा॥ तमासनगतं देवी गान्धारी धर्मचारिणी। उवाच काले कालज्ञा प्रजापतिसमं पतिम्॥ अनुज्ञातः स्वयं तेन व्यासेन त्वं महर्षिणा। युधिष्ठिरस्यानुमते कदारण्यं गमिष्यसि॥ धृतराष्ट्र उवाच गान्धार्यहमनुज्ञातः स्वयं पित्रा महात्मना। युधिष्ठिरस्यानुमते गन्तास्मि नचिराद् वनम्॥ अहं हि तावत् सर्वेषां तेषां दुर्दूतदेविनाम्। पुत्राणां दातुमिच्छामि प्रेतभावानुगं वसु॥ सर्वप्रकृतिसांनिध्यं कारयित्वा स्ववेश्मनि। वैशम्पायन उवाच इत्युक्त्वा धर्मराजाय प्रेषयामास वै तदा।॥ स च तद्वचनात् सर्वे समानिन्ये महीपतिः। ततः प्रतीतमनसो ब्राह्मणाः कुरुजाङ्गलाः॥ क्षत्रियाश्चैव वैश्याश्च शूद्राश्चैव समाययुः। ततो निष्कम्य नृपतिस्तस्मादन्तः पुरात् तदा॥ ददृशे तं जनं सर्वे सर्वाश्च प्रकृतीस्तथा। समवेतांश्च तान् सर्वान् पौरान् जानपदांस्तथा॥ तानागतानभिप्रेक्ष्य समस्तं च सुहृज्जनम्। ब्राह्मणांश्र महीपाल नानादेशसमागतान्॥ उवाच मतिमान् राजा धृतराष्ट्रोऽम्बिकासुतः। भवन्तः कुरवश्चैव चिरकालं सहोषिताः॥ परस्परस्य सुहृदः परस्परहिते रताः। यदिदानीमहं ब्रूयामस्मिन् काल उपस्थिते॥ तथा भवद्भिः कर्तव्यमविचार्य वचो मम। अरण्यगमने बुद्धिर्गान्धारीसहितस्य मे॥ व्यासस्यानुमते राज्ञस्तथा कुन्तीसुतस्य मे। भवन्तोऽप्यनुजानन्त मा च वोऽभूद् विचारणा॥ अस्माकं भवतां चैव येयं प्रीतिर्हि शाश्वती। न च सान्येषु देशेषु राज्ञामिति मतिर्मम॥ शान्तोऽस्मि वयसानेन तथा पुत्रविनाकृतः। उपवासकृशश्चास्मि गान्धारीसहितोऽनघाः॥ युधिष्ठिरगते राज्ये प्राप्तश्चास्मि सुखं महत्। मन्ये दुर्योधनैश्वर्याद् विशिष्टमिति सत्तमाः॥ मम चान्धस्य वृद्धस्य हतपुत्रस्य का गतिः। ऋते वनं महाभागास्तन्मानुज्ञातुमर्हथ॥ तस्य तद् वचनं श्रुत्वा सर्वे ते कुरुजाङ्गलाः। वाष्पसंदिग्धया वाचा रुरुदुर्भरतर्षभ॥ तानविब्रुवतः किंचित् सर्वाशोकपरायणान्। पुनरेव महातेजा धृतराष्ट्रोऽव्रीदिदम्॥ धृतराष्ट्र उवाच शान्तनुः पालयामास यथावद् वसुधामिमाम्। तथा विचित्रवीर्यश्च भीष्मेण परिपालितः॥ पालयामास नस्तातो विदितार्थो न संशयः। यथा च पाण्डुर्भ्राता मे दयितो भवतामभूत्॥ स चापि पालयामास यथावत् तच्च वेत्थ ह। मया च भवतां सम्यक् शुश्रूषा या कृतानघाः॥ असम्यग् वा महाभागास्तत् क्षन्तव्यमतन्द्रितैः। यदा दुर्योधनेनेदं भुक्तं राज्यमकण्टकम्॥ अपि तत्र न वो मन्दो दुर्बुद्धिरपराद्धवान्। तस्यापराधाद् दुर्बुद्धेरभिमानान्महीक्षिताम्॥ विमर्दः सुमहानासीदनयात् स्वकृतादथ। तन्मया साधु वाऽपीदं यदि वासाधु वै कृतम्॥ तद् वो हृदि न कर्तव्यं मया बद्धोऽयमञ्जलिः। वृद्धोऽयं हतपुत्रोऽयं दुःखितोऽयं नराधिपः॥ पूर्वराज्ञां च पुत्रोऽयमिति कृत्वानुजानथ। इयं च कृपणा वृद्धा हतपुत्रा तपस्विनी॥ गान्धारी पुत्रशोकार्ता युष्मान् याचति वै मया। हतपुत्राविमौ वृद्धौ विदित्वा दुःखितौ तथा॥ अनुजानीत भद्रं वो व्रजाव शरणं च वः। अयं च कौरवो राजा कुन्तीपुत्रो युधिष्ठिरः॥ सर्वैर्भवद्भिर्द्रष्टव्यः समेपु विपमेषु च। न जातु विषमं चैव गमिष्यति कदाचन॥ चत्वारः सचिवा यस्य भ्रातरो विपुलौजसः। लोकपालसमा ह्येते सर्वधर्मार्थदर्शिनः॥ ब्रह्मेव भगवानेष सर्वभूतजगत्पतिः। युधिष्ठिरो महातेजा भवतः पालयिष्यति॥ अवश्यमेव वक्तव्यमिति कृत्वा ब्रवीमि वः। एष न्यासो मया दत्तः सर्वेषां वो युधिष्ठिरः॥ भवन्तोऽस्य च वीरस्य व्यासभूताः कृता मया। यदेव तैः कृतं किंचिद् व्यलीकं वः सुतैर्मम॥ यदन्येन मदीयेन तदनुज्ञातुमर्हथ। भवद्भिर्न हि मे मन्युः कृतपूर्वः कथंचन॥ अत्यन्तगुरुभक्तानामेषोऽञ्जलिरिदं नमः। तेषामस्थिरबुद्धीनां लुब्धानां कामचारिणाम्॥ कृते याचेऽद्य वः सर्वान् गान्धारीसहितोऽनघाः। इत्युक्तास्तेन ते सर्वे पौरजानपदा जनाः। नोचुर्वाष्पकला: किंचिद् वीक्षांचक्रुः परस्परम्॥ वैशम्पायन उवाच एवमुक्तास्तु ते तेन पौरजानपदा जनाः। वृद्धेन राज्ञा कौरव्य नष्टसंज्ञा इवाभवन्॥ तूष्णीम्भूतांस्ततस्तांस्तु बाष्पकण्ठान् महीपतिः। धृतराष्ट्रो महीपालः पुनरेवाभ्यभाषत॥ वृद्धं च हतपुत्रं च धर्मपल्या सहानया। विलपन्तं बहुविधं कृपणं चैव सत्तमाः॥ पित्रा स्वयमनुज्ञातं कृष्णद्वैपायनेन वै। वनवासाय धर्मज्ञा धर्मज्ञेन नृपेण ह॥ सोऽहं पुनः पुनश्चैव शिरसावनतोऽनघाः। गान्धार्या सहितं तन्मां समनुज्ञातुमर्हथ॥ वैशम्पायन उवाच तच्छ्रुत्वा कुरुराजस्य वाक्यानि करुणानि ते। सर्वशो राजन् समेताः कुरुजाङ्गलाः॥ उत्तरीयैः करैश्चापि संच्छाद्य वदनानि ते। रुरुदुः शोकसंतप्ता मुहूर्तं पितृमातृवत्॥ हृदयैः शून्यभूतैस्ते धृतराष्ट्रप्रवासजम्। दुःखं संधारयन्तो हि नष्टसंज्ञा इवाभवन्॥ ते विनीय तमायासं धृतराष्ट्रवियोगजम्। शनैः शनैस्तदान्योन्यमब्रुवन् सम्मतान्युत॥ ततः संधाय ते सर्वे वाक्यान्यथ समासतः। एकस्मिन् ब्राह्मणे राजन् निवेश्योचुनराधिपम्॥ ततः स्वाचरणो विप्रः सम्मतोऽर्थविशारदः। साम्बाख्यो बढ्चो राजन् वक्तुं समुपचक्रमे॥ अनुमान्य महाराजं तत् सदः सम्प्रसाद्य च। विप्रः प्रगल्भो मेधावी स राजानमुवाच ह॥ राजन् वाक्यं जनस्यास्य मयि सर्वं समर्पितम्। वक्ष्यामि तदहं वीर तज्जुषस्व नराधिप॥ यथा वदसि राजेन्द्र सर्वमेतत् तथा विभो। नात्र मिथ्या वचः किंचित् सुहत्त्वं नः परस्परम्॥ न जात्वस्य च वंशस्य राज्ञां कश्चित् कदाचन। राजाऽऽसीद् यः प्रजापाल: प्रजानामप्रियोऽभवत्।।१५। पितृवद् भ्रातृवच्चैव भवन्तः पालयन्ति नः। न र दुर्योधन: किंचिदयुक्तं कृतवान् नृपः॥ यथा ब्रवीति धर्मात्मा मुनिः सत्यवतीसुतः। तथा कुरु महाराज स हि नः परमो गुरुः॥ त्यक्ता वयं तु भवता दुःखशोकपरायणाः। भविष्यामश्चिरं राजन् भवद्गुणशतैर्युताः॥ यथा शान्तनुना गुप्ता राज्ञा चित्राङ्गदेन च। भीष्मवीर्योपगूढेन पित्रा तव च पार्थिव॥ भवदुद्वीक्षणाच्चैव पाण्डुना पृथिवीक्षिता। तथा दुर्योधनेनापि राज्ञा सुपरिपालताः॥ न स्वल्पमपि पुत्रस्ते व्यलीकं कृतवान् नृद! पितरीव सुविश्वस्तास्तस्मिन्नपि नराधिपे॥ वयमास्म यथा सम्यग् भवतो विदितं तथा। तथा वर्षसहस्राणि कुन्तीपुत्रेण धीमता॥ पाल्यमाना धृतिमता सुखं विन्दामहे नृप। राजर्षीणां पुराणानां भवतां पुण्यकर्मणाम्॥ कुरुसंवरणादीनां भरतस्य च धीमतः। वृत्तं समनुयात्येष धर्मात्मा भूरिदक्षिणः॥ नात्र वाच्यं महाराज सुसूक्ष्ममपि विद्यते। उषिताः स्म सुखं नित्यं भवता परिपालिताः॥ सुसूक्ष्मं च व्यलीकं ते सपुत्रस्य न विद्यते। यत् तु ज्ञातिविमर्देऽस्मिन्नात्थ दुर्योधनं प्रति॥ भवन्तमनुनेष्यामि तत्रापि कुरुनन्दन। न तद् दुर्योधनकृतं न च तद् भवता कृतम्॥ न कर्णसौबलाभ्यां च कुरवो यत् क्षयं गताः। दैवं तत् तु विजानीमो यन्न शक्यं प्रवाधितुम्॥ दैवं पुरुषकारेण न शक्यमपि बाधितुम्। अक्षौहिण्यो महाराज दशाष्टौ च समागताः॥ अष्टादशाहेन हताः कुरुभिर्योधपुगवैः। भीष्मद्रोणकृपाद्यैश्च कर्णेन च महात्मना॥ युयुधानेन वीरेण धृष्टद्युम्नेन चैव ह। चतुर्भिः पाण्डुपुत्रैश्च भीमार्जुनयमैस्तथा॥ न च क्षयोऽयं नृपते ऋते दैवबलादभूत्। अवश्यमेव संग्रामे क्षत्रियेण विशेषतः॥ कर्तव्यं निधनं काले मर्तव्यं क्षत्रबन्धुना। तैरियं पुरुषव्याप्रैर्विद्याबाहुबलान्वितैः॥ पृथिवी निहता सर्वा सहया सरथद्विपा। न स राज्ञां वधे सूनुः कारणं ते महात्मनाम्॥ न भवान् न च ते भृत्या न कर्णो न स सौबलः। यद् विशस्ताः कुरुश्रेष्ठ राजानश्च सहस्रशः॥ सर्वं दैवकृतं विद्धि कोऽत्र किं वक्तुमर्हति। गुरुर्मतो भवानस्य कृत्स्नस्य जगतः प्रभुः॥ धर्मात्मानमतस्तुभ्यमनुजानीमहे सुतम्। लभतां वीरलोकं स ससहायो नराधिपः॥ द्विजाग्र्यैः समनुज्ञातस्त्रिदिवे मोदतां सुखम्। प्राप्स्यते च भवान् पुण्यं धर्मे च परमां स्थितिम्॥३८ वेद धर्मं च कृत्स्नेन सम्यक् त्वं भव सुव्रतः। दृष्टिप्रदानमपि ते पाण्डवान् प्रति नो वृथा॥ समर्थास्त्रिदिवस्यापि पालने किं पुनः क्षितेः। अनुवय॑न्ति वा धीमन् समेषु विषमेषु च।॥ प्रजाः कुरुकुलश्रेष्ठ पाण्डवाशीलभूषणान्। ब्रह्मदेयाग्रहारांश्च पारिवहश्चि पार्थिवः॥ पूर्वराजाभिपन्नांश्च पालयत्येव पाण्डवः। दीर्घदर्शी मृदुर्दान्तः सदा वैश्रवणो यथा॥ अक्षुद्रसचिवश्चायं कुन्तीपुत्रो महामनाः। अप्यमित्रे दयावांश्च शुचिश्च भरतर्षभः॥ ऋजु पश्यति मेधावी पुत्रवत् पालितः सदा। विप्रियं च जनस्यास्य संसर्गाद् धर्मजस्य वै॥ न करिष्यन्ति राजर्षे तथा भीमार्जुनादयः। मन्दा मृदुषु कौरव्य तीक्ष्णेष्वाशीविषोपमाः॥ वीर्यवन्तो महात्मानः पौराणां च हिते रताः। न कुन्ती न च पाञ्चाली न चोलूपी न सात्वती।।४६ अस्मिन् जने करिष्यन्ति प्रतिकूलानि कर्हिचित्। भवत्कृतमिमं स्नेहं युधिष्ठिरविवर्धितम्॥ न पृष्ठतः करिष्यन्ति पौरा जानपदा जनाः। अधर्मिष्ठानपि सतः कुन्तीपुत्रा महारथाः॥ मानवान् पालयिष्यन्ति भूत्वा धर्मपरायणाः। स राजन् मानसं दुःखमपनीय युधिष्ठिरात्॥ कुरु कार्याणि धाणि नमस्ते पुरुषर्षभ। वैशम्पायन उवाच तस्य तद् वचनं धर्म्यमनुमान्य गुणोत्तरम्॥ साधु साध्विति सर्वः स जनः प्रतिगृहीतवान्। धृतराष्ट्रश्च तद्वाक्यमभिपूज्य पुनः पुनः॥ विसर्जयामास तदा प्रकृतीस्तु शनैः शनैः। स तैः सम्पूजितो राजा शिवेनावेक्षितस्तथा॥ प्राञ्जलिः पूजयामास तं जनं भरतर्षभ। ततो विवेश भवनं गान्धार्या सहितो निजम्।। व्युष्टायां चैव शर्वर्यां यच्चकार निबोध तत्॥ वैशम्पायन उवाच ततो रजन्यां व्युष्टायां धृतराष्ट्रोऽम्बिकासुतः। विदुरं प्रेषयामास युधिष्ठिर निवेशनम्॥ स गत्वा राजवचनादुवाचाच्युतमीश्वरम्। युधिष्ठिरं महातेजाः सर्वबुद्धिमतां वरः॥ धृतराष्ट्रो महाराजो वनवासाय दीक्षितः। गमिष्यति वनं राजन्नागतां कार्तिकीमिमाम्॥ स त्वां कुरुकुलश्रेष्ठ किंचिदर्थमभीप्सति। श्राद्धमिच्छति दातुं स गाङ्गेयस्य महात्मनः॥ द्रोणस्य सोमदत्तस्य बालीकस्य च धीमतः। पुत्राणां चैव सर्वेषां ये चान्ये सुहृदो हताः॥ यदि चाप्यनुजानीषे सैन्धवापसदस्य च। नरर्षभम्। एतच्छुत्वा तु वचनं विदुरस्य युधिष्ठिरः॥ हृष्टः सम्पूजयामास गुडाकेशश्च पाण्डवः। न च भीमो दृढक्रोधस्तद्वचो जगृहे तदा॥ विदुरस्य महातेजा दुर्योधनकृतं स्मरन्। अभिप्रायं विदित्वा तु भीमसेनस्य फाल्गुनः॥ किरीटी किंचिदानम्य तमुवाच भीम राजा पिता वृद्धो वनवासाय दीक्षितः॥ दातुमिच्छति सर्वेषां सुहृदामौर्ध्वदेहिकम्। भवता निर्जितं वित्तं दातुमिच्छति कौरवः॥ भीष्मादीनां महाबाहो तदनुज्ञातुमर्हसि। दिष्ट्या त्वद्य महाबाहो धृतराष्ट्रः प्रयाचते॥ याचितो यः पुरास्माभिः पश्य कालस्य पर्ययम्। योऽसौ पृथिव्याः कृत्स्नाया भर्ता भूत्वा नराधिपः॥१२ परैर्विनिहतामात्यो वनं गन्तुमभीप्सति। मा तेऽन्यत् पुरुषव्याघ्र दानाद् भवतु दर्शनम्॥ अयशस्यमतोऽन्यत् स्यादधर्मश्च महाभुज। राजानमुपशिक्षस्व ज्येष्ठं भ्रातरमीश्वरम्॥ अर्हस्त्वमपि दातुं वै नादातुं भरतर्षभ। एवं ब्रुवाणं वीभत्सुं धर्मराजोऽप्यपूजयत्॥ भीमसेनस्तु सक्रोधः प्रोवाचेदं वचस्तदा। वयं भीष्मस्य दास्यामः प्रेतकार्यं तु फाल्गुन॥ सोमदत्तस्य नृपते रिश्रवस एव च। बाह्रीकस्य च राजर्षेनॊणस्य च महात्मनः॥ अन्येषां चैव सर्वेषां कुन्ती कर्णाय दास्यति। श्राद्धानि पुरुषव्याघ्र मा प्रादात् कौरवो नृपः॥ इति मे वर्तते बुद्धिर्मा नो निन्दन्तु शत्रवः। कष्टात्कष्टतरं यान्तु सर्वे दुर्योधनादयः॥ यैरियं पृथिवी कृत्स्ना घातिता कुलपांसनैः। कुतस्त्वमसि विस्मृत्य वैरं द्वादशवार्षिकम्॥ अज्ञातवासं गहनं द्रौपदीशोकवर्धनम्। क्व तदा धृतराष्ट्रस्य स्नेहोऽस्मन्द्रोचरो गतः॥ सार्धं पाञ्चालपुत्र्या कृष्णाजिनोपसंवीतो हृताभरणभूषणः। त्वं राजानमुपजग्मिवान्।॥ क्व तदा द्रोणभीष्मौ तौ सोमदत्तोऽपि वाऽभवत्। यत्र त्रयोदशसमा वने वन्येन जीवथ॥ न तदां त्वां पिता ज्येष्ठः पितृत्वेनाभिवीक्षते। किं ते तद् विस्मृतं पार्थ यदेष कुलपांसनः॥ दुर्बुद्धिर्विदुरं प्राह द्यूते किं जितमित्युत। तमेवं वादिनं राजा कुन्तीपुत्रो युधिष्ठिरः। उवाच वचनं धीमान् जोषमास्वेति भर्त्सयन्॥ अर्जुन उवाच भीम ज्येष्ठो गुरुर्मे त्वं नातोऽन्यद् वक्तुमुत्सहे। धृतराष्ट्रस्तु राजर्षिः सर्वथा मानमर्हति॥ न स्मरन्त्यपराद्धानि स्मरन्ति सुकृतान्यपि। असम्भिन्नार्यमर्यादाः साधवः पुरुषोत्तमाः॥ इति तस्य वचः श्रुत्वा फाल्गुनस्य महात्मनः। विदुरं प्राह धर्मात्मा कुन्तीपुत्रो युधिष्ठिरः॥ इदं मद्वचनात् क्षत्तः कौरवं ब्रूहि पार्थिवम्। यावदिच्छति पुत्राणां श्राद्धं तावद् ददाम्यहम्॥ भीष्मादीनां च सर्वेषां सुहृदामुपकारिणाम्। मम कोशादिति विभो मा भूद् भीम: सुदुर्मनाः॥ वैशम्पायन उवाच इत्युक्त्वा धर्मराजस्तमर्जुनं प्रत्यपूजयत्। भीमसेनः कटाक्षेण वीक्षां चक्रे धनंजयम्॥ ततः स विदुरं धीमान् वाक्यमाह युधिष्ठिरः। भीमसेने न कोपं स नृपतिः कतुमर्हति॥ परिक्लिष्टो हि भीमोऽपि हिमवृष्ट्यातपादिभिः। दुःखैर्बहुविधैर्धीमानरण्ये विदितं तव॥ किं तु मद्वचनाद् ब्रूहि राजानं भरतर्षभ। यद् यदिच्छसि यावच्च गृह्यतां मद्गृहादिति॥ यन्मात्सर्यमयं भीमः करोति भृशदुःखितः। न तन्मनसि कर्तव्यमिति वाच्यः स पार्थिवः॥ यन्ममास्ति धनं किंचिदर्जुनस्य च वेश्मनि। तस्य स्वामी महाराज इति वाच्यः स पार्थिवः॥ ददातु राजा विप्रेभ्यो यथेष्टं क्रियतां व्ययः। पुत्राणां सुहृदां चैव गच्छत्वानृण्यमद्य सः॥ इदं चापि शरीरं मे तवायत्तं जनाधिप। धनानि चेति विद्धि त्वं न मे तत्रास्ति संशयः॥ वैशम्पायन उवाच एवमुक्तस्तु राज्ञा स विदुरो बुद्धिसत्तमः। धृतराष्ट्रमुपेत्यैवं वाक्यमाह महार्थवत्॥ उक्तो युधिष्ठिरो राजा भवद्वचनमादितः। स च संश्रुत्य वाक्यं ते प्रशशंस महाद्युतिः॥ बीभत्सुश्च महातेजा निवेदयति ते गृहान्। वसु तस्य गृहे यच्च प्राणानपि च केवलान्॥ धर्मराजश्च पुत्रस्ते राज्यं प्राणान् धनानि च। अनुजानाति राजर्षे यच्चान्यदपि किंचन॥ भीमश्च सर्वदुःख नि संस्मृत्य बहुलान्युत। कृच्छ्रादिव महाबाहुरनुजज्ञे विनिःश्वसन्॥ स राजन् धर्मशीलेन राज्ञा बीभत्सुना तथा। अनुनीतो महाबाहुः सौहृदे स्थापितोऽपि च॥ न च मन्युस्त्वया कार्य इति त्वां प्राह धर्मराट्। संस्मृत्य भीमस्तद्वैरं यदन्यायवदाचरत्॥ एवं प्रायो हि धर्मोऽयं क्षत्रियाणां नराधिप। युद्धे क्षत्रियधर्मे च निरतोऽयं वृकोदरः॥ वृकोदरकृते चाहमर्जुनश्च पुनः पुनः। प्रसीद याचे नृपते भवान् प्रभुरिहास्ति यत्॥ तद् ददातु भवान् वित्तं यावदिच्छसि पार्थिव। त्वमीश्वरोऽस्य राज्यस्य प्राणानामपि भारत॥ ब्रह्मदेयाग्रहारांश्च पुत्राणामौर्ध्वदेहिकम्। इतो रत्नानि गाश्चैव दासीदासमजाविकम्॥ आनयित्वा कुरुश्रेष्ठो ब्राह्मणेभ्यः प्रयच्छतु। दीनान्धकृपणेभ्यश्च तत्र तत्र नृपाज्ञया॥ बह्वन्नरसपानाढ्याः सभा विदुर कारय। गवां निपानान्यन्यच्च विविधं पुण्यकं कुरु॥ इति मामब्रवीद् राजा पार्थश्चैव धनंजयः। यदत्रानन्तरं कार्यं तद् भवान् वक्तुमर्हति॥ इत्युक्ते विदुरेणाथ धृतराष्ट्रोऽभिनन्द्य तान्। मनश्चक्रे महादाने कार्तिक्यां जनमेजय॥ वैशम्पायन उवाच ततः प्रभाते राजा स धृतराष्ट्रोऽम्बिकासुतः। आहूय पाण्डवान् वीरान् वनवासे कृतक्षणः॥ गान्धारीसहितो धीमानभ्यनन्दद् यथाविधि। कार्तिक्यां कारयित्वेष्टिं ब्राह्मणैर्वेदपारगैः॥ अग्निहोत्रं पुरस्कृत्य बल्कलाजिनसंवृतः। वधूजनवृतो राजा निर्ययौ भवनात् ततः॥ ततः स्त्रियः कौरवपाण्डवानां याश्चापराः कौरवराजवंश्याः। तासां नादः प्रादुरासीत् तदानीं वैचित्रवीर्ये नृपतौ प्रयाते॥ ततो लाजैः सुमनोभिश्च राजा विचित्राभिस्तद् गृहं पूजयित्वा। सम्यूज्याथै त्यवर्गं च सर्वे ततः समुत्सृज्य ययौ नरेन्द्रः॥ ततो राजा प्राञ्जलिर्वेपमानो युधिष्ठिरः सस्वरं वाष्पकण्ठः। विमुच्योच्चैर्महानादं हि साधो क्व यास्यसीत्यपतत् तात भूमौ॥ तथार्जुनस्तीव्रदुःखाभितप्तो मुहुर्मुहुनिःश्वसन् भारताग्र्यः। युधिष्ठिरं मैवमित्येवमुक्त्वा निगृह्याथो दीनवत् सीदमानः॥ वृकोदरः फाल्गुनश्चैव वीरौ माद्रीपुत्रौ विदुरः संजयश्चा वैश्यापुत्रः सहितो गौतमेन धौम्यो विप्राश्चान्वयुर्बाष्पकण्ठाः॥ कुन्ती गान्धारी बद्धनेत्रां व्रजन्ती स्कन्धासक्तं हस्तमथोद्वहन्ती। राजा गान्धार्याः स्कन्धदेशेऽवसज्य पाणिं ययौ धृतराष्ट्रः प्रतीतः॥ तथा कृष्णा द्रौपदी सात्वती च बालापत्या चोत्तरा कौरवी च। चित्राङ्गदा याश्च काश्चिस्त्रियोऽन्याः सार्धं राज्ञा प्रस्थितास्ता वधूभिः॥ तासां नादो रुदतीनां तदासीद् राजन् दुःखात् कुररीणामिवोच्चैः। ततो निष्पेतुर्ब्राह्मणक्षत्रियाणां विट्शूद्राणां चैव भार्याः समन्तात्॥ तन्निर्याणे दुःखितः पौरवर्गो गजाह्वये चैव बभूव राजन्! यथा पूर्वं गच्छतां पाण्डवानां द्यूते राजन् कौरवाणां सभाया:॥ या नापश्यंश्चन्द्रमसं न सूर्य रामाः कदाचिदपि तस्मिन् नरेन्द्र। महावनं गच्छति कौरवेन्द्रे शोकेनार्ता राजमार्ग प्रपेदुः॥ तत: प्रासादहर्येषु वसुधायां च पार्थिव। नारीणां च नराणां च नि:स्वनः सुमहानभूत्॥ स राजा राजमार्गेण नृनारीसंकुलेन च। कथंचिनिर्ययौ धीमान् वेपमानः कृताञ्जलिः॥ स वर्द्धमानद्वारेण निर्ययौ गजसाह्वयात्। विसर्जयामास च तं जनौघं स मुहुर्मुहुः॥ वनं गन्तुं च विदुरो राज्ञा सह कृतवणः । संजयश्च महामात्रः सूतो गावल्गणिस्तथा॥ कृपं निवर्तयामास युयुत्सुं च महारथम्। धृतराष्ट्रो महीपाल परिदाप्य युधिष्ठिरे॥ निवृत्ते पौरवर्गे च राजा सान्त:पुरस्तदा। धृतराष्ट्राभ्यनुज्ञातो निवर्तितुमियेष ह॥ सोऽब्रवीन्मातरं कुन्तीं वनं तमनुजग्मुषीम्। अहं राजानमन्विष्ये भवती विनिवर्तताम्॥ वधूपरिवृता राज्ञि नगरं गन्तुमर्हसि। राजा यात्वेष धर्मात्मा तापस्ये कृतनिश्चयः॥ इत्युक्ता धर्मराजेन बाष्पव्याकुललोचना। जगामैव तदा कुन्ती गान्धारी परिगृह्य ह॥ कुन्ती उवाच सहदेवे महाराज माऽप्रसादं कृथाः क्वचित्। एष मामनुरक्तो हि राजंस्त्वां चैव सर्वदा॥ कर्णं स्मरेथाः सततं संग्रामेष्वपलायिनम्। अवकीर्णो हि समरे वीरो दुष्प्रज्ञया तदा॥ आयसं हृदयं नूनं मन्दाया मम पुत्रका यत् सूर्यजमपश्यन्त्याः शतधा न विदीर्यते॥ एवं गते तु किं शक्यं मया कर्तुमरिंदम। मम दोषोऽयमत्यर्थं ख्यापितो यन्न सूर्यजः॥ तन्निमित्तं महाबाहो दानं दद्यास्त्वमुत्तमम्। सदैव भ्रातृभिः सार्धं सूर्यजस्यारिमर्दन॥ द्रौपद्याश्च प्रिये नित्यं स्थातव्यमरिकर्शन। भीमसेनोऽर्जुनश्चैव नकुलश्च कुरूद्वह॥ समाधेयास्त्वया राजंस्त्वय्यद्य कुलधूर्गता। श्रश्रूश्वशुरयोः पादान् शुश्रूषन्ती वने त्वहम्॥ वैशम्पायन उवाच गान्धारीसहिता वत्स्ये तापसी मलपङ्किनी। एवमुक्तः स धर्मात्मा भ्रातृभिः सहितो वशी। विषादमगपद् धीमान् न च किंचिदुवाच ह॥ मुहूर्तमिव तु ध्यात्वा धर्मराजो युधिष्ठिरः। उवाच मातरं दीनश्चिन्ताशोकपरायणः॥ किमिदं ते व्यवसितं नैव त्वं वक्तुमर्हसि। न त्वामभ्यनुजानामि प्रसादं कर्तुमर्हसि॥ पुरोद्यतान् पुरा ह्यस्मानुत्साह्य प्रियदर्शने। विदुलाया वचोभिस्त्वं नास्मान् संत्यक्तुमर्हसि॥ निहत्य पृथिवीपालान् राज्यं प्राप्तमिदं मया। तव प्रज्ञामुपश्रुत्य वासुदेवान्नरर्षभात्॥ क्व सा बुद्धिरियं चाद्य भवत्या यच्छुतं मया। क्षत्रधर्मे स्थितिं चोक्त्वा तस्याश्च्यवितुमिच्छसि॥ अस्मानुत्सृज्य राज्यं च स्नुषा हीमा यशस्विनि। कथं वत्स्यसि दुर्गेषु वनेष्वद्य प्रसीद मे॥ इति बाष्पकला वाचः कुन्ती पुत्रस्य शृण्वती। सा जगामाश्रुपूर्णाश्री भीमस्तामिदमब्रवीत्॥ यदा राज्यमिदं कुन्ति भोक्तव्यं पुत्रनिर्जितम्। प्राप्तव्या राजधर्माश्च तदेयं ते कुतो मतिः॥ किं वयं कारिताः पूर्वे भवत्या पृथिवीक्षयम्। कस्य हेतोः परित्यज्य वनं गन्तुमभीप्ससि॥ वनाच्चापि किमानीता भवत्या बालका वयम्। दुःखशोकसमाविष्टौ माद्रीपुत्राविमौ तथा॥ प्रसीद मातर्मा गास्त्वं वनमद्य यशस्विनि। श्रियं यौधिष्ठिरी मात(क्ष्व तावद् बलार्जिताम्॥ इति सा निश्चितैवाशु वनवासाय भाविनी। लालप्यतां बहुविधं पुत्राणां नाकरोद् वचः॥ द्रौपदी चान्वयाच्छ्वधू विषण्णवदना तदा। वनवासाय गच्छन्ती रुदती भद्रया सह॥ सा पुत्रान् रुदतः सर्वान् मुहुर्मुहुरवेक्षती। जगामैव महाप्राज्ञा वनाय कृतनिश्चया॥ अन्वयुः पाण्डवास्तां तु सभृत्यान्तः पुरास्तथा। तत: प्रमृज्य साश्रूणि पुत्रान् वचनमब्रवीत्॥ वैशम्पायन उवाच कुन्त्यास्तु वचनं श्रुत्वा पाण्डवा राजसत्तम। वीडिताः संन्यवर्तन्त पाञ्चाल्या सहिताऽनघाः॥ ततः शब्दो महानेव सर्वेषामभवत् तदा। अन्तःपुराणां रुदतां दृष्ट्वा कुन्ती तथागताम्॥ प्रदक्षिणमथावृत्य राजानं पाण्डवास्तदा। अभिवाद्य न्यवर्तन्त पृथां तामनिवर्त्य वै॥ ततोऽब्रवीन्महातेजा धृतराष्ट्रोऽम्बिकासुतः। गान्धारी विदुरं चैव समाभाष्यावगृह्य च॥ युधिष्ठिरस्य जननी देवी साधु निवर्त्यताम्। यथा युधिष्ठिरः प्राह तत् सर्वं सत्यमेव हि॥ पुत्रैश्वर्यं महदिदमपास्य च महाफलम्। का नु गच्छेद् वनं दुर्गं पुत्रानुत्सृज्य मूढवत्॥ राज्यस्थया तपस्तप्तुं कर्तुं दानव्रतं महत्। अनया शक्यमेवाद्य श्रूयतां च वचो मम॥ गान्धारि परितुष्टोऽस्मि वध्वाः शुश्रूषणेन वै तस्मात् त्वमेनां धर्मज्ञे समनुज्ञातुमर्हसि॥ इत्युक्ता सौबलेयी तु राज्ञा कुन्ती मुवाच ह। तत् सर्वं राजवचनं स्वं च वाक्यं विशेषवत्॥ न च सा वनवासाय देवी कृतमति तदा। शक्नोत्युपावर्तयितुं कुन्ती धर्मपरां सतीम्॥ तस्यास्तां तु स्थिति ज्ञात्वा व्यवसायं कुरुस्त्रियः। निवृत्तांश्च कुरुश्रेष्ठान् दृष्ट्वा प्ररुरुदुस्तदा॥ उपावृत्तेषु पार्थेषु सर्वास्वेव वधूषु च। ययौ राजा महाप्राज्ञो धृतराष्ट्रो वनं तदा॥ पाण्डवाश्चातिदीनास्ते दुःखशोकपरायणाः। यानैः स्त्रीसहिताः सर्वे पुरं प्रविविशुस्तदा॥ तदहष्टमनानन्दं गतोत्सवमिवाभवत्। नगरं हास्तिनपुरं सस्त्रीवृद्धकुमारकम्॥ सर्वे चासन् निरुत्साहा: पाण्डवा जातमन्यवः। कुन्त्या हीनाः सुदुःखार्ता वत्सा इव विनाकृताः॥ धृतराष्ट्रस्तु तेनाला गत्वा सुमहदन्तरम्। ततो भागीरथीतीरे निवासमकरोत् प्रभुः॥ प्रादुष्कृता यथान्यायमग्नयो वेदपारगैः। व्यराजन्त द्विजश्रेष्ठैस्तत्र तत्र तपोवने॥ प्रादुष्कृताग्निरभवत् स च वृद्धो नराधिपः। स राजाग्नीन् पर्युपास्य हुत्वा च विधिवत् तदा॥ संध्यागत सहस्रांशुमुपातिष्ठत भारत। विदुरः संजयश्चैव राज्ञः शय्यां कुशैस्ततः॥ चक्रतुः कुरुवीरस्य गान्धार्याश्चाविदूरतः। गान्धार्याः संनिकर्षे तु निषसाद कुशे सुखम्॥ युधिष्ठिरस्य जननी कुन्ती साधुव्रते स्थिता। तेषां संश्रवणे चापि निषेदुर्विदुरादयः॥ याजकाश्च यथोद्देशं द्विजा ये चानुयायिनः। प्राधीतद्विजमुख्या सा सम्प्रज्वलितपावका॥ बभूव तेषां रजनी ब्राह्मीव प्रीतिवर्धिनी। ततो रात्र्यां व्यतीतायां कृतपुर्वाह्निकक्रियाः॥ हुत्वाग्निं विधिवत् सर्वे प्रययुस्ते यथाक्रमम्। उदगमुखा निरीक्षन्त उपवासपरायणाः॥ स तेषामतिदुःखोऽभून्निवास: प्रथमेऽहनि। शोचतां शोचमानानां पौरजागदैर्जनैः॥ वैशम्पायन उवाच ततो भागीरथीतीरे मेध्ये पुण्यजनोचिते। निवासमकरोद् राजा विदुरस्य मते स्थितः॥ तत्रैनं पर्युपातिष्ठन् ब्राह्मणा वनवासिनः। क्षत्रविट्शूद्रसंघाश्च बहवो भरतर्षभ।॥ स तैः परिवृतो राजा कथाभिः परिनन्ध तान्। अनुजज्ञे सशिष्यान् वै विधिवत् प्रतिपूज्य च॥ सायाह्ने स महीपालस्ततो गङ्गामुपेत्य च। चकार विधिवच्छौचं गान्धारी च यशस्विनी॥ ते चैवान्ये पृथक् सर्वे तीर्थेष्वाप्लुत्य भारत। चक्रुः सर्वाः क्रियास्तत्र पुरुषा विदुरादयः॥ कृतशौचं ततो वृद्धं श्वशुरं कुन्तिभोजजा। गान्धारी च पृथा राजन् गङ्गातीरमुपानयत्॥ राज्ञस्तु याजकस्तत्र कृतो वेदीपरिस्तरः। जुहाव तत्र वह्निं स नृपतिः सत्यसङ्गरः॥ ततो भागररथीतीरात् कुरुक्षेत्रं जगाम सः। सानुगो नृपतिर्वृद्धो नियतः संयतेन्द्रियः॥ तत्राश्रमपदं धीमानभिगम्य स पार्थिवः। आससादाथ राजर्षि शतयूपं मनीषिणम्॥ स हि राजा महानासीत् केकयेषु परंतपः। स्वपुत्रं मनुजैश्वर्ये निवेश्य वनमाविशत्॥ तेनासौ सहितो राजा ययौ व्यासाश्रमं प्रति। तत्रैनं विधिवद् राजा प्रत्यगृह्णात् कुरूद्वहः॥ स दीक्षां तत्र सम्प्राप्य राजा कौरवनन्दनः। शतयूपाश्रमे तस्मिन् निवासमकरोत् तदा॥ तस्मै सर्वं विधिं राज्ञे राजाऽऽचख्यौ महामतिः। आरण्यक महाराज व्यासस्यानुमते तदा॥ एवं स तपसा राजन् धृतराष्ट्रो महामनाः। योजयामास चात्मानं तांश्चाप्यनुचरांस्तदा॥ तथैव देवी गान्धारी वल्कलाजिनधारिणी। कुन्त्या सह महाराज समानव्रतचारिणी॥ कर्मणा मनसा वाचा चक्षुषा चैव ते नृप। संनियम्येन्द्रियग्राममास्थिते परमं तपः॥ त्वगस्थिभूतः परिशुष्कमांसो जटाजिनी वल्कलसंवृताङ्गः। स पार्थिवस्तत्र तपश्चचार महर्षिवत्तीव्रमपेतमोहः॥ क्षत्ता च धर्मार्थविदग्र्यबुद्धिः ससंजयस्तं नृपति सदारम्। उपायरद् घोरतपो जितात्मा तदा कृशो वल्कलचीरवासाः॥ वैशम्पायन उवाच ततस्तत्र मुनिश्रेष्ठा राजानं द्रष्टुमभ्ययुः । नारदः पर्वतश्चैव देवलश्च महातपाः॥ द्वैपायन: सशिष्यश्च सिद्धाश्चान्ये मनीषिणः। शतयूपश्च राजर्षिर्वृद्धः परमधार्मिकः॥ तेषां कुन्ती महाराज पूजां चक्रे यथाविधि। ते चापि तुतुषुस्तस्यास्तापसाः परियर्चया॥ तत्र धाः कथास्तात यक्रुस्ते परमर्षयः। रमयन्तो महात्मानं धृतराष्ट्रं जनाधिपम्॥ कथान्तरे तु कस्मिंश्चिद् देवर्षि रदस्ततः। कथामिमामकथयत् सर्वप्रत्यक्षदर्शिवान्॥ नारद उवाच केकयाधिपतिः श्रीमान् राजाऽऽसीदकुतोभयः। सहस्रचित्य इत्युक्तः शतयूपपितामहः॥ स पुत्रे राज्यमासज्य ज्येष्ठे परमधार्मिके। सहस्रचित्यो धर्मात्मा प्रविवेश वनं नृपः॥ स गत्वा तपसः पारं दीप्तस्य वसुधाधिपः। पुरंदरस्य संस्थानं प्रतिपेदे महाद्युतिः॥ दृष्टपूर्वः स बहुशो राजन् सम्पतता मया। महेन्द्रसदने राजा तपसा दग्धकिल्बिषः॥ तथा शैलालयो राजा भगदत्तपितामहः। तपोबलेनैव नृपो महेन्द्रसदनं गतः॥ तथा पृषध्रोराजाऽऽसीद् राजन् वज्रधरोपमः। स चापि तपसा लेभे नाकपृष्ठमितो गतः॥ अस्मिन्नरण्ये नृपते मान्धातुरपि चात्मजः। पुरुकुत्सो नृपः सिद्धिं महतीं समवाप्तवान्॥ भार्या समभवद् यस्य नर्मदा सरितां वरा। सोऽस्मिन्नरण्ये नृपतिस्तपस्तप्त्वा दिवं गतः॥ शशलोमा च राजाऽऽसीद् राजन् परमधार्मिकः। सम्यगस्मिन् वने तप्त्वा ततो दिवमवाप्तवान्॥ द्वैपायनप्रसादाच्च त्वमपीदं तपोवनम्। राजन्नवाप्य दुष्प्रापां गतिमय्यां गमिष्यसि॥ त्वं चापि राजशार्दूल तपसोऽन्ते श्रिया वृतः। गान्धारीसहितो गन्ता गतिं तेषां महात्मनाम्॥ पाण्डुः स्मरति ते नित्यं बलहन्तुः समीपगः। त्वां सदैव महाराज श्रेयसा स च योक्ष्यति॥ तव शुश्रूषया चैव गान्धार्याश्च यशस्विनी। भर्तुः सलोकतामेषा गमिष्यति वधूस्तव॥ युधिष्ठिरस्य जननी स हि धर्मः सनातनः। वयमेतत् प्रपश्यामो नृपते दिव्यचक्षुषा॥ प्रवेक्ष्यति महात्मानं विदुरश्च युधिष्ठिरम्। संजयस्तदनुध्यानादितः स्वर्गमवाप्स्यति॥ वैशम्पायन उवाच एतच्छ्रुत्वा कौरवेन्द्रो महात्मा सार्धं पल्या प्रीतिमान् सम्बभूव। विद्वान् वाक्यं नारदस्य प्रशस्य चक्रे पूजां चातुलां नारदाय।२१।। ततः सर्वे नारदं विप्रसंघाः सम्पूजयामासुरतीव राजन्। राज्ञः प्रीत्या धृतराष्ट्रस्य ते वै पुनः पुनः सम्प्रहृष्टास्तदानीम्॥ नारदस्य तु तद् वाक्यं शशंसुर्द्विजसत्तमाः। शतयूपस्तु राजर्षिर्नारदं वाक्यमब्रवीत्॥ अहो भगवता श्रद्धा कुरुराजस्य वर्धिता। सर्वस्य च जनस्यास्य मम चैव महाद्युते॥ अस्ति काचिद् विवक्षा तु तां मे निगदतः शृणु। धृतराष्ट्र प्रति नृपं देवर्षे लोकपूजित॥ सर्ववृत्तान्ततवत्ज्ञो भवान् दिव्येन चक्षुषा। युक्तः पश्यसि विप्रर्षे गतिर्या विविधा नृणाम्॥ उक्तवान् नृपतीनां त्वं महेन्द्रस्य सलोकताम्। न त्वस्य नृपतेर्लोकाः कथितास्ते महामुने॥ स्थानमप्यस्य नृपतेः श्रोतुमिच्छाम्यहं विभो। त्वत्तः कीदृक् कदा चेति तन्ममाख्याहि तत्त्वतः।।२८ इत्युक्तो नारदस्तेन वाक्यं सर्वमनोऽनुगम्। व्याजहार सभामध्ये दिव्यदर्शी महातपाः॥ नारद उवाच यदृच्छया शक्रसदो गत्वा शक्रं शचीपतिम्। दृष्टवानस्मि राजर्षे तत्र पाण्डुं नराधिपम्॥ तत्रेयं धृतराष्ट्रस्य कथा समभवन्नृप। तपसो दुष्करस्यास्य यदयं तपते नृपः॥ तत्राहमिदमश्रौषं शक्रस्य वदतः खयम्। वर्षाणि त्रीणि शिष्टानि राज्ञोऽस्य परमायुषः॥ ततः कुबेरभवनं गान्धरीसहितो नृपः। प्रयाता धृतराष्ट्रोऽयं राजराजाभिसत्कृतः॥ कामगेन विमानेन दिव्याभरणभूषितः। ऋषिपुत्रो महाभागस्तपसा दग्धकिल्बिषः॥ संचरिष्यति लोकांश्च देवगन्धर्वरक्षसाम्। स्वच्छन्देनेति धर्मात्मा यन्मां त्वमनुपृच्छसि॥ देवगुह्यमिदं प्रीत्या मया वः कथितं महत्। भवन्तो हि श्रुतधनास्तपसा दग्धकिल्बिषाः॥ वैशम्पायन उवाच इति ते तस्य तच्छ्रुत्वा देवर्मधुरं वचः। सर्वे सुमनसः प्रीता बभूवुः स च पार्थिवः॥ एवं कथाभिरन्वास्य धृतराष्ट्र मनीषिणः। विप्रजग्मुर्यथाकामं ते सिद्धगतिमास्थिताः॥ वैशम्पायन उवाच वनं गते कौरवेन्द्रे दुःखशोकसमन्विताः। बभूवुः पाण्डवा राजन् मातृशोकेन चान्विताः॥ तथा पौरजनः सर्वः शोचन्नास्ते जनाधिपम्। कुर्वाणाश्च कथास्तत्र ब्राह्मणा नृपतिं प्रति॥ कथं नु राजा वृद्धः स वने वसति निर्जने। गान्धारी च महाभागा सा च कुन्ती पृथा कथम्॥ सुखार्हः स हि राजर्षिरसुखी तद् वनं महत्। किमवस्थः समासाद्य प्रज्ञाचक्षुर्हतात्मजः॥ सुदुष्कृतं कृतवती कुन्ती पुत्रानपश्यती। राज्यश्रियं परित्यज्य वनं सा समरोचयत्॥ विदुरः किमवस्थश्च भ्रातुः शुश्रूषुरात्मवान्। स च गावल्गणिर्थीमान् भर्तृपिण्डानुपालकः॥ आकुमारं च पौरास्ते चिन्ताशोकसमाहताः। तत्र तत्र कथाश्चक्रुः समासाद्य परस्परम्॥ पाण्डवाश्चैव ते सर्वे भृशं शोकपरायणाः। शोचन्तो मातरं वृद्धामूर्नातिचिरं पुरे॥ तथैव वृद्धं पितरं हतपुत्रं जनेश्वरम्। गान्धारी च महाभागां विदुरं च महामतिम्॥ नैषां बभूव सम्प्रीतिस्तान् विचिन्तयतां तदा। न राज्ये न च नारीषु न वेदाध्ययनेषु च॥ परं निर्वेदमगमंश्चिन्तयन्तो नराधिपम्। तं च ज्ञातिवधं घोरं संस्मरन्तः पुनः पुनः॥ अभिमन्योश्च बालस्य विनाशं रणमूर्धनि। कर्णस्य च महाबाहो संग्रामेप्वपलायिनः॥ तथैव द्रौपदेयानामन्येषां सुहृदामपि। वधं संस्मृत्य ते वीरा नानिप्रमनसोऽभवन्॥ हतप्रवीरां पृथिवी हृतरत्नां च भारत। सदैव चिन्तयन्तस्ते न शर्म चोपलेभिरे॥ द्रौपदी हतपुत्रा च सुभद्रा चैव भाविनी। नातिप्रीतियुते देव्यो तदाऽऽस्तामप्रहृष्टवत्॥ वैराट्यास्तनयं दृष्ट्वा पितरं ते परिक्षितम्। धारयन्ति स्म ते प्राणांस्तव पूर्वपितामहाः॥ वैशम्पायन उवाच एवं ते पुरुषव्याघ्राः पाण्डवा मातृनन्दनाः। स्मरन्तो मातरं वीरा वभूवुर्भृशदुःखिताः॥ राजकार्येषु पुरा व्यासक्ता नित्यशोऽभवन्। ते राजकार्याणि तदा नाकार्षुः सर्वतः पुरे।॥ प्रविष्टा इव शोकेन नाभ्यनन्दन्त किञ्चन। सम्भाष्यमाणा अपि ते न किञ्चित् प्रत्यपूजयन्॥ ते स्म वीरा दुराधर्षा गाम्भीर्ये सागरोपमाः। शोकोपहतविज्ञाना नष्टसंज्ञा इवाभवन्॥ अचिन्तयंश्च जननी ततस्ते पाण्डुनन्दनाः। कथं नु वृद्धमिथुनं वहत्यतिकृशा पृथा॥ कथं च स महीपालो हतपुत्रो निराश्रयः। पल्या सह वसत्येको वने श्वापदसेविते॥ सा च देवी महाभागा गान्धारी हतबान्धवा। पतिमन्धं कथं वृद्धमन्वेति विजने वने।॥ एवं तेषां कथयतामौत्सुक्यमभवत् तदा। गमने चाभवद् बुद्धिधृतराष्ट्रदिदृक्षया॥ सहदेवस्तु राजानं प्रणिपत्येदमब्रवीत्। अहो मे भवतो दृष्टं हृदयं गमनं प्रति॥ न हि त्वां गौरवेणाहमशकं वक्तुमञ्जसा। गमनं प्रति राजेन्द्र तदिदं समुपस्थितम्॥ दिष्ट्या द्रक्ष्यामि तां कुन्ती वर्तयन्ती तपस्विनीम्। जटिलां तापसी वृद्धां कुशकाशपरिक्षताम्॥ प्रासादहर्म्यसंवृद्धामत्यन्तसुखभागिनीम्। कदा तु जननीं श्रान्तां द्रक्ष्यामि भृशदुःखिताम्॥ अनित्याः खलु मर्त्यानां गतयो भरतर्षभ। कुन्ती राजसुता यत्र वसत्यसुखिता वने॥ सहदेववचः श्रुत्वा द्रौपदी योषितां वरा। उवाच देवी राजानमभिपूज्याभिनन्द्य च॥ कदा द्रक्ष्यामि नां देवीं यदि जीवति सा पृथा। जीवन्त्या ह्यद्य मे प्रीतिर्भविष्यति जनाधिप॥ एषा तेऽस्तु मतिर्नित्यं धर्मे ते रमतां मनः। योऽद्यत्वमस्मान् राजेन्द्र श्रेयसा योजयिष्यसि॥ अग्रपादस्थितं चेमं विद्धि राजन् वधूजनम्। काङ्क्षन्तं दर्शनं कुन्त्या गान्धार्याः श्वशुरस्य च॥ इत्युक्तः स नृपो देव्या द्रौपद्या भरतर्षभ। सेनाध्यक्षान् समानाय्या सर्वानिदमुवाच ह॥ निर्यातयत मे सेनां प्रभूतरथकुञ्जराम्। द्रक्ष्यामि वनसंस्थं च धृतराष्ट्रं महीपतिम्॥ स्त्र्यध्यक्षांश्चाब्रवीद् राजा यानानि विविधानि मे। सज्जीक्रियन्तां सर्वाणि शिबिकाश्च सहस्रशः॥ शकटापणवेशाश्च कोशः शिल्पिन एव च। निर्यान्तु कोषपालाश्च कुरुक्षेत्राश्रमं प्रति॥ यश्च पौरजनः कश्चिद् द्रष्टुमिच्छति पार्थिवम्। अनावृतः सुविहितः स च यातु सुरक्षितः॥ सूदाः पौरोगवाश्चैव सर्वं चैव महानसम्। विविधं भक्ष्यभोज्यं च शकटैरुह्यतां मम॥ प्रयाणं घुष्यतां चैव श्वोभूत इति मा चिरम्। क्रियतां पथि चाप्यद्य वेश्मानि विविधानि च॥ एवमाज्ञाप्य राजा स भ्रातृभिः सहपाण्डवः। श्वोभूते निर्ययौ राजन् सस्त्रीवृद्धपुरःसरः॥ स बहिर्दिवसानेव जनौघं परिपालयन्। न्यवसन्नृपतिः पञ्च ततोऽगच्छद् वनं प्रति॥ वैशम्पायन उवाच आज्ञापयामास ततः सेनां भरतसत्तमः। अर्जुनप्रमुखैर्गुप्ता लोकपालोपमैनरैः॥ योगो योग इति प्रीत्या ततः शब्दो महानभूत्। क्रोशतां सादिनां तत्र युज्यतां युज्यतामिति॥ केचिद् यानैनरा जग्मुः केचिदश्वैर्महाजवैः। काञ्चनैश्च स्थैः केचिज्ज्वलितज्वलनोपमैः॥ गजेन्द्रश्च तथैवान्ये केचिदुष्टैनराधिप। पदातिनस्तथैवान्ये नखरप्रासयोधिनः॥ पौरजानपदाश्चैव यानैर्बहुविधैस्तथा। अन्वयुः कुरुराजानं धृतराष्ट्रं दिदृक्षवः॥ स चापि राजवचनादाचार्यो गौतमः कृपः। सेनामादाय सेनानी प्रययावाश्रमं प्रति॥ ततो द्विजैः परिवृतः कुरुराजो युधिष्ठिरः। संस्तूयमानो बहुभिः सूतमागधबन्दिभिः॥ पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि। रथानीकेन महता निर्जगाम कुरुद्वहः॥ गजैश्चाचलसंकाशैर्भीमकर्मा वृकोदरः। सज्जयन्त्रायुधोपेतैः प्रययौ पवनात्मजः॥ माद्रीपुत्रावपि तथा हयारोहौ सुसंवृतौ। जग्मतुः शीघ्रगमनौ संनद्धकवचध्वजौ॥ अर्जुनश्च महातेजा रथेनादित्यवर्चसा। वशी श्वेतैर्हयैर्युक्तैर्दिव्येनान्वगमन्नृपम्॥ द्रौपदीप्रमुखश्चापि स्त्रीसंघाः शिबिकायुताः। स्त्र्यध्यक्षगुप्ताः प्रययुर्विसृजन्तोऽमितं वसु॥ समृद्धरथहस्त्यश्वं वेणुवीणानुनादितम्। शुशुभे पाण्डवं सैन्यं तत् तदा भरतर्षभ॥ नदीतीरेषु रम्येषु सरःसु च विशाम्पते। वासान् कृत्वा क्रमेणाथ जग्मुस्ते कुरुपुङ्गवाः॥ युयुत्सुश्च महातेजा धौम्यश्चैव पुरोहितः। युधिष्ठिरस्य वचनात् पुरगुप्ति प्रचक्रतुः॥ ततो युधिष्ठिरो राजा कुरुक्षेत्रमवातरत्। क्रमेणोत्तीर्य यमुना नदी परमपावनीम्॥ स ददर्शाश्रमं दूराद् राजर्षेस्तस्य धीमतः। शतयूपस्य कौरव्य धृतराष्ट्रस्य चैव ह॥ ततः प्रमुदित: सर्वो जनस्तद् वनमञ्जसा। विवेश सुमहानादैरापूर्य भरतर्षभ॥ वैशम्पायन उवाच ततस्ते पाण्डवा दूरादवतीर्य पदातयः। अभिजग्मुर्नरपतेराश्रमं विनयानताः॥ स च योधजनः सर्वो ये च राष्ट्रनिवासिनः। स्त्रियश्च कुरुमुख्यानां पद्भिरेवान्वयुस्तदा।॥ आश्रमं ते ततो जग्मुधृतराष्ट्रस्य पाण्डवाः। शून्यं मृगगणाकीर्णं कदलीवनशोभितम्॥ ततस्तत्र समाजग्मुस्तापसा नियतव्रताः। पाण्डवानागतान् द्रष्टुं कौतूहलसमन्विताः॥ तानपृच्छत् ततो राजा क्वासौ कौरववंशभृत्। पिता ज्येष्ठो गतोऽस्माकमिति बाष्पपरिप्लुतः॥ ते तमूचुस्ततो वाक्यं यमुनामवगाहितुम्। युष्याणामुदकुम्भस्य चार्थे गत इति प्रभो॥ तैराख्यातेन मार्गेण ततस्ते जग्मुरञ्जसा। ददृशुश्चाविदूरे तान् सर्वानथ पदातयः॥ ततस्ते सत्वरा जग्मुः पितुर्दर्शनकाक्षिणः। सहदेवस्तु वेगेन प्राधावद् यत्र सा पृथा।॥ सुस्वरं रुरुदे धीमान् मातुः पादावुपस्पृशन्। सा च बाष्पाकुलमुखी ददर्श दयितं सुतम्॥ बाहुभ्यां सम्परिष्वज्य समुन्नाम्य च पुत्रकम्। गान्धार्याः कथयामास सहदेवमुपस्थितम्॥ अनन्तरं च राजानं भीमसेनमथार्जुनम्। नकुलं च पृथा दृष्ट्वा त्वरमाणोपचक्रमे॥ सा ह्यग्रे गच्छति तयोर्दम्पत्योर्हतपुत्रयोः। कर्यन्ती तौ ततस्ते तां दृष्ट्वा संन्यपतन भुवि॥ राजा तान् स्वरयोगेन स्पर्शेन च महामनाः। प्रत्यभिज्ञाय मेधावी समाश्वासयत प्रभुः॥ ततस्ते बाष्पमुत्सृज्य गान्धारीसहितं नृपम्। उपतस्थुर्महात्मानो मातरं च यथाविधि॥ सर्वेषां तोयकलशाजगृहुस्ते स्वयं तदा। पाण्डवा लब्धसंज्ञास्ते मात्रा चाश्वासिताः पुनः॥ तथा नार्यो नृसिंहानां सोऽवरोधजनस्तदा। पौरजानपदाश्चैव ददृशुस्तं जनाधिपम्॥ निवेदयामास तदा जनं तन्नामगोत्रतः। युधिष्ठिरो नरपति: स चैनं प्रत्यपूजयत्॥ स तैः परिवृत्तो मेने हर्षबाष्पाविलेक्षणः। राजाऽऽत्मानं गृहगतं पुरेव गजसाह्वये॥ अभिवादितो वधूभिश्च कृष्णाद्याभिः स पार्थिवः। गान्धार्या सहितो धीमान् कुन्त्या च प्रत्यनन्दत॥ ततश्चाश्रममागच्छत् सिद्वयारणसेवितम्। दिदृक्षुभिः समाकीर्णं नमस्तारागणैरिव॥ वैशम्पायन उवाच स तैः सह नरव्याप्रैर्धातृभिर्भरतर्षभ। राजा रुचिरपद्माक्षरासांचक्रे तदाश्रमे॥ तापसैश्च महाभागैर्नानादेशसमागतैः। द्रष्टुं कुरुपतेः पुत्रान् पाण्डवान् पृथुवक्षसः॥ तेऽब्रुवज्ञातुमिच्छामः कतमोऽत्र युधिष्ठिरः। भीमार्जुनौ यमौ चैव द्रौपदी च यशस्विनी॥ सर्वोस्तानभिनामतः। संजयो द्रौपदी चैव सर्वाश्चान्या कुरुस्त्रियः॥ संजय उवाच स्तनुर्महासिंह इव प्रवृद्धः। स्ताम्रायताक्षः कुरुराज एषः॥ तानाचख्यौ तदा सूत: अयं पुनर्मत्तगजेन्द्रगामी प्रतप्तचामीकरशुद्धगौरः। वृकोदरः पश्यत पश्यतेमम्॥ यस्त्वेष पार्वेऽस्य महाधनुष्मान् श्यामो युवावारणयूथपाभः। सिंहोन्नतांसो गजखेलगामी पद्मायताक्षोऽर्जुन एष वीरः॥ कुन्तीसमीपे पुरुषोत्तमौ तु यमाविमौ विष्णुमहेन्द्रकल्पौ। मनुष्यलोके सकले समोऽस्ति ययोर्न रूपे न बले न शीले॥ इयं पुन: पद्मदलायताक्षी मध्यं वयः किञ्चिदिव स्पृशन्ती। नीलोत्पलाभा सुरदेवतेव कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः॥ अस्थास्तु पार्वे कनकोत्तमाभा यैषा प्रभा मूर्तिमतीव सौमी। श्चक्रायुधस्याप्रतिमस्य तस्य।॥ इयं च जाम्बूनदशुद्धगौरी पार्थस्य भार्या भुजगेन्द्रकन्या। चित्राङ्गदा चैव नरेन्द्रकन्या यैषा सवर्णामधूकपुष्पैः॥ इयं स्वसा राजचमूपतेश्च प्रवृद्धनीलोत्पलदामवर्णा। पस्पर्ध कृष्णेन सदा नृपो यो वृकोदरस्यैष परिग्रहाय्यः॥ इयं च राज्ञो मगधाधिपस्य सुता जरासन्ध इति श्रुतस्य। यवीयसो भाद्रवतीसुतस्य भार्या मता चम्पकदामगौरी॥ इन्दीवरश्यामतनुः स्थिता तु यैषा परासन्नमहीतले च। भार्या मता माद्रवतीसुतस्य ज्येष्ठस्य सेयं कमलायताक्षी॥ इयं तु निष्टप्तसुवर्णगौरी राज्ञो विराटस्य सुता सपुत्रा। भार्याभिमन्योर्निहतो रणे यो द्रोणादिभिस्तैर्विरथो रंथस्थैः॥ एतास्तु सीमन्तशिरोरुहायाः शुल्कोत्तरीया नरराजपल्यः। राज्ञोऽस्य वृद्धस्य परं शताख्या: स्नुषा नृवीरा हतपुत्रनाथाः॥ एता यथामुख्यमुदाहता वो ब्राह्मण्यभावादृजुबुद्धिसत्त्वाः। सर्वा भवद्भिः परिपृच्छ्यमाना नरेन्द्रपल्यः सुविशुद्धसत्त्वाः॥ वैशम्पायन उवाच एवं स राजा कुरुवृद्धवर्यः समागतस्तैर्नरदेवपुत्रैः पप्रच्छ सर्वं कुशलं तदानीं गतेषु सर्वेष्वथ तापसेषु॥ योधेषु वाप्याश्रममण्डलं तं मुक्त्वा निविष्टेषु विमुच्य पत्रम्। स्त्रीवृद्धबाले च सुसंनिविष्टे यथार्हतस्तान् कुशलान्यपृच्छत्॥ वैशम्पायन उवाच ततस्तु राजन्नेतेषामाश्रमे पुण्यकर्मणाम्। शिवा नक्षत्रसम्पन्ना सा व्यतीयाय शर्वरी॥ ततस्तत्र कथाश्चासंस्तेषां धर्मार्थलक्षणाः। विचित्रपदसंचारा नानाश्रुतिभिरन्विताः॥ पाण्डवास्त्वभितो मातुर्धरण्यां सुषुपुस्तदा। उत्सृज्य तु महार्हाणि शयनानि नराधिप।॥ यदाहारोऽभवद् राजा धृतराष्ट्रो महामनाः। तदाहार नृवीरास्ते न्यवसंस्तां निशां तदा॥ व्यतीतायां तु शर्वर्यां कृतपौर्वाह्निकक्रियः। भ्रातृभिः सहितो राजा ददर्शाश्रममण्डलम्॥ सान्तःपुरपरीवारः सभृत्यः सपुरोहितः। यथासुखं यथोद्देशं धृतराष्ट्राभ्यनुज्ञया।॥ ददर्श तत्र वेदीश्च संप्रज्वलितपावकाः। कृताभिषेकैर्मुनिभिर्हताग्निभिरुपस्थिताः॥ वानेयपुष्पनिकरैराज्यधूमोद्गमैरपि। ब्राह्मणे वपुषा युक्ता युक्ता मुनिगणस्य ताः॥ मृगयूथैरनुद्विग्नस्तत्र तत्र समाश्रितैः। अशङ्कितैः पक्षिगणैः प्रगीतैरिव च प्रभो॥ केकाभिर्नीलकण्ठानां दात्यूहानां च कूजितैः। कोकिलानां कुहुरवैः सुखैः श्रुतिमनोहरैः॥ प्राधीतद्विजघोषैश्च क्वचित् क्वचिदलंकृतम्। फलमूलसमाहारैर्महद्भिश्चोपशोभितम्॥ ततः स राजा प्रददौ तापसार्थमुपाहृतान्। कलशान् काञ्चनान् राजंस्तथैवौदुम्बरानपि।॥ अजिनानि प्रवेणीश्च स्रुक् स्रुवं च महीपतिः। कमण्डलूंश्च स्थालीश्च पिठराणि च भारत॥ भाजनानि च लौहानि पात्रीश्च विविधा नृप। यद् यदिच्छति यावच्च यच्चान्यदपि भाजनम्॥ एवं स राजा धर्मात्मा परीत्याश्रममण्डलम्। वसु विश्राण्य तत् सर्वं पुनरायान्महीपतिः॥ कृताह्निकं च राजानं धृतराष्ट्रं महीपतिम्। ददर्शासीनमव्यग्रं गान्धारीसहितं तदा॥ मातरं चाविदूरस्थां शिष्यवत् प्रणतां स्थिताम्। कुन्तीं ददर्श धर्मात्मा शिष्टाचारसमन्विताम्॥ स तमभ्यर्च्य राजानं नाम संश्राव्य चात्मनः। निषीदेत्यभ्यनुज्ञातो बृस्यामुपविवेश ह॥ भीमसेनादश्यचैव पाण्डवा भरतर्षभ। अभिवाद्योपसंगृह्य निषेदुः पार्थिवाज्ञया॥ स तैः परिवृतो राजा शुशुभेऽतीव कौरवः। बिभ्रद् ब्राह्मीं श्रियं दीप्तां देवैरिव बृहस्पतिः॥ तथा तेषूपविष्टेषु समाजग्मुर्महर्षयः। शतयूपप्रभृतयः कुरुक्षेत्रनिवासिनः॥ व्यासश्च भगवान् विप्रो देवर्षिगणसेवितः। वृतः शिष्यैर्महातेजा दर्शयामास पार्थिवम्॥ ततः स राजा कौरव्यः कुन्तीपुत्रश्च वीर्यवान्। भीमसेनादयश्चैव प्रत्युत्थायाभ्यवादयन्॥ समागतस्ततो व्यासः शतयूपादिभिर्वृतः। धृतराष्ट्रं महीपालमास्यतामित्यभाषत।॥ वरं तु विष्टरं कौश्यं कृष्णाजिनकुशोत्तरम्। प्रतिपदे तदा व्यासस्तदर्थमुपकल्पितम्॥ ते च सर्वे द्विजश्रेष्ठा विष्टरेषु समन्ततः। द्वैपायनाभ्यनुज्ञाता निषेदुर्विपुलौजसः॥ जनमेजय उवाच वनवासं गते विप्र धृतराष्ट्र महीपतौ। सभार्ये नृपशार्दूले बध्वा कुन्त्या समन्विते॥ विदुरे चापि संसिद्धे धर्मराजं व्यपाश्रिते। वसत्सु पाण्डुपुत्रेषु सर्वेष्वाश्रममण्डले॥ यत् तदाश्चर्यमिति वै करिष्यामीत्युवाच ह। व्यासः परमतेजस्वी महर्षिस्तद् वदस्व मे॥ वनवासे च कौरव्यः कियन्तं कालमच्युतः। युधिष्ठिरो नरपति→वसत् सजनस्तदा॥ किमाहाराश्च ते तत्र ससैन्या न्यवसन् प्रभो। सान्त:पुरा महात्मान इति तद् ब्रूहि मेऽनघ॥ वैशम्पायन उवाच तेऽनुज्ञातास्तदा राजन् कुरुराजेन पाण्डवाः। विविधान्यन्नपानानि विश्राम्यानुभवन्ति ते॥ मासमेकं विजह्वस्ते ससैन्यान्तःपुरा वने। अथ तत्रागमद् व्यासो यथोक्तं ते मयाऽनघ॥ तथा च तेषां सर्वेषां कथाभिर्नृपसंनिधौ। व्यासमन्वास्यतां राजन्नाजग्मुर्मुनयो परे॥ नारदः पर्वतश्चैव देवलश्च महातपाः। विश्वावसुस्तुम्बुस्च चित्रसेनश्च भारत॥ तेषामपि यथान्यायं पूजां चक्रे महातपाः। धृतराष्ट्राभ्यनुज्ञातः कुरुराजो युधिष्ठिरः॥ निषेदुस्ते ततः सर्वे पूजां प्राप्य युधिष्ठिरात्। आसनेषु च पुण्येषु बर्हिणेषु वरेषु च॥ तेषु तत्रोपविष्टेषु स तु राजा महामतिः। पाण्डुपुत्रैः परिवृतो निषसाद कुरूद्वह॥ गान्धारी चैव कुन्ती च द्रौपदी सात्वती तथा। स्त्रियश्चान्यास्तथान्याभिः सहोपविविशुस्ततः॥ तेषां तत्र कथा दिव्या धर्मिष्ठाश्चाभवन् नृप। ऋषीणां च पुराणानां देवासुरविमिश्रिताः॥ तत: कथान्ते व्यासस्तं प्रज्ञाचक्षुषमीश्वरम्। प्रोवाच वदतां श्रेष्ठः पुनरेव स तद् वचः॥ प्रीयमाणो महातेजाः सर्ववेदविदां वरः। विदितं मम राजेन्द्र यत् ते हृदि विवक्षितम्॥ दह्यमानस्य शोकेन तव पुत्रकृतेन वै। गान्धार्याश्चैव यद् दुःखं हृदि तिष्ठति नित्यदा॥ कुन्त्याश्च यन्महाराज द्रौपद्याश्च हृदि स्थितम्। यच्च धारयते तीव्र दुःखं पुत्रविनाशजम्॥ सुभद्रा कृष्णभगिनी तच्चापि विदितं मम। श्रुत्वा समागममिमं सर्वेषां वस्तुतो नृप॥ संशयच्छेदनार्थाय प्राप्तः कौरवनन्दन। इमे च देवगन्धर्वाः सर्वे चेमे महर्षयः॥ पश्यन्तु तपसो वीर्यमद्य मे चिरसम्भृतम्। तदुच्यतां महाप्राज्ञ कं कामं प्रददामि ते॥ प्रवणोऽस्मि वरं दातुं पश्य मे तपसः फलम्। एवमुक्तः स राजेन्द्रो व्यासेनामितबुद्धिना॥ मुहूर्तमिव संचिन्त्य वचनायोपचक्रमे। धन्योऽस्म्यनुगृहीतश्च सफलं जीवितं च मे॥ यन्मे समागमोऽोह भवद्भिः सह साधुभिः। अद्य चाप्यवगच्छामि गतिमिष्टामिहात्मनः॥ ब्रह्मकल्पैर्भवद्भिर्यत् समेतोऽहं तपोधनाः। दर्शनादेव भवतां पूतोऽहं नात्र संशयः॥ विद्यते न भयं चापि परलोकान्ममानधाः। किं तु तस्य सुदुर्बुद्धेर्मन्दस्यापनयैर्भृशम्॥ दूयते मे मनो नित्यं स्मरतः पृत्रगृद्धिनः। अपापाः पाण्डवा येन निकृताः पापबुद्धिना॥ घातिता पृथिवी येन सहया सनरद्विपा। राजानश्च महात्मानो नानाजनपदेश्वराः॥ आगम्य मम पुत्रार्थे सर्वे मृत्युवशं गताः। ये ते पितूंश्च दारांश्च प्राणांश्च मनसः प्रियान्॥ परित्यज्य गताः शूराः प्रेतराजनिवेशनम्। का नु तेषां गतिर्ब्रह्मन् मित्रार्थे ये हता मृधे॥ तथैव पुत्रपौत्राणां मम ये निहता युधि। दूयते मे मनोऽभीक्ष्णं घातयित्वा महाबलम्॥ भीष्मं शान्तनवं वृद्धं द्रोणं च द्विजसत्तमम्। मम पुत्रेण मूढेन पापेनाकृतबुद्धिना॥ क्षयं नीतं कुलं दीप्तं पृथिवीराज्यमिच्छता। एतत् सर्वमनुस्मृत्य दह्यमानो दिवानिशम्॥ न शान्तिमधिगच्छापि दुःखशोकसमाहतः। इति मे चिन्तयानस्य पितः शान्तिन विद्यते॥ वैशम्पायन उवाच तच्छुत्वा विविधं तस्य राजर्षेः परिदेवितम्। पुनर्नवीकृतः शोको गान्धार्या जनमेजय॥ कुन्त्या दुपदपुत्र्याश्च सुभद्रायास्तथैव च। तासां च वरनारीणां वधूनां कौरवस्य हा॥ पुत्रशोकसमाविष्टा गान्धारी त्विदमब्रवीत्। श्वशुरं बद्धनयना देवी प्राञ्जलिरुत्थिता॥ षोडशेमानि वर्षाणि गतानि मुनिपुङ्गव। अस्य राज्ञो हतान् पुत्राशोचतो न शमो विभो॥ पुत्रशोकसमाविष्टो निःश्वसन् ह्येष भूमिपः। न शेते वसतीः सर्वा धृतराष्ट्रो महामुने॥ लोकानन्यान् समर्थोऽसि स्रष्टुं सर्वांस्तपोबलात्। किमु लोकान्तरगतान् राज्ञो दर्शयितुं सुतान्॥ इयं च द्रौपदी कृष्णा हतज्ञातिसुता भृशम्। शौचत्यतीव सर्वासां स्नुषाणां दयिता स्नुषा॥ तथा कृष्णस्य भगिनी सुभद्रा भद्रभाषिणी। सौभद्रवधसंतप्ता भृशं शोचति भाविनी॥ इयं च भूरिश्रवसो भार्या परमसम्मता। भर्तृव्यसनशोकार्ता भृशं शोचति भाविनी॥ यस्यास्तुश्वशुरो धीमान् बाह्निकः स कुरूद्वहः। निहतः सोमदत्तश्च पित्रा सह महारणे॥ श्रीमतोऽस्य महाबुद्धेः संग्रामेष्वपलायिनः। पुत्रस्य ते पुत्रशतं निहतं यद् रणाजिरे॥ तस्य भार्याशतमिदं दुःखशोकसमाहतम्। पुनः पुनर्वर्धयानं शोकं राज्ञो ममैव च॥ तेनारम्भेण महता मामुपास्ते महामुने। ये च शूरा महात्मानः श्वशुरा मे महारथाः॥ सोमदत्तप्रभृतयः का नु तेषां गतिः प्रभो। तव प्रसादाद् भगवन् विशोकोऽयं महीपतिः॥ यथा स्याद् भविता चाहं कुन्ती चेयं वधूस्तव। इत्युक्तवत्यां गान्धार्यो कुन्ती व्रतकृशानना॥ प्रच्छन्नजातं पुत्रं तं सस्मारादित्यसंनिधम्। तामृषिर्वरदो व्यासो दूरश्रवणदर्शनः॥ अपश्यद् दुःखितां देवीं मातरं सव्यसाचिनः। तामुवाच ततो व्यासो यत् ते कार्यं विवक्षितम्॥ तद् ब्रूहि त्वं महाभागे यत् ते मनसि वर्तते। श्वशुराय तत: कुन्ती प्रणम्य शिरसा तदा॥ उवाच वाक्यं सव्रीडा विवृण्वाना पुरातनम्॥ श्वशुराय तत: कुन्ती प्रणम्य शिरसा तदा॥ उवाच वाक्यं सव्रीडा विवृण्वाना पुरातनम्॥ वैशम्पायन उवाच ततो निशायां प्राप्तायां कृतसायाह्निकक्रियाः। व्यासमभ्यगमन् सर्वे ये तत्रासन् समागताः॥ धृतराष्ट्रस्तु धर्मात्मा पाण्डवैः सहितस्तदा। शुचिरेकमना सार्धमृषिभिस्तैरुपाविशत्॥ गान्धार्या सह नार्यस्तु सहिताः समुपाविशन्। पौरजानपदश्चापि जनः सर्वो यथावयः॥ ततो व्यास महातेजः पुण्यं भागीरथीजलम्। अवगाह्याजुहावाथ सर्वान् लोकान् महामुनिः॥ पाण्डवानां च ये योधाः कौरवाणां च सर्वशः। राजानश्च महाभागा नानादेशनिवासिनः॥ ततः सुतुमुल: शब्दो जलान्ते जनमेजय। प्रादुरासीद् यथापूर्वे कुरुपाण्डवसेनयोः॥ ततस्ते पार्थिवाः सर्वे भीष्मद्रोणपुरोगमाः। ससैन्याः सलिलात् तस्मात् समुत्तस्थुः सहस्रशः॥ विराटद्रुपदौ चैव सहपुत्रौ ससैनिकौ। द्रौपदेयाश्च सौभद्रो राक्षसश्च घटोत्कचः॥ कर्णदुर्योधनौ चैव शकुनिश्च महारथः। दुःशासनादयश्चैव धार्तराष्ट्रा महाबलाः॥ जारासंधिभगदत्तो जलसंधश्च वीर्यवान्। भूरिश्रवाः शलः शल्यो वृषसेनश्च सानुजः॥ लक्ष्मणो राजपुत्रश्च धृष्टद्युम्नस्य चात्मजाः। शिखण्डिपुत्राः सर्वे च धृष्टकेतुश्च सानुजः॥ अचलो वृषकश्चैव राक्षसश्चाष्यलायुधः। बाह्निकः सोमदत्तश्च चेकितानश्च पार्थिवः॥ एते चान्ये च बहवो बहुत्वाद् ये न कीर्तिताः। सर्वे भासुरदेहास्ते समुत्तस्थुर्जलात्ततः॥ यस्य वीरस्य यो वेषो यो ध्वजो यच्च वाहनम्। तेन तेन व्यदृश्यन्त समुपेता नराधिपाः॥ दिव्याम्बरधराः सर्वे सर्वे भ्राजिष्णुकुण्डलाः। निर्वैरा निरहङ्कारा विगतक्रोधमत्सराः॥ गन्धर्वैरुपगीयन्तः स्तूयमानाच वन्दिभिः। दिव्यमाल्याम्बरधरा वृताश्चाप्सरसां गणैः॥ धृतराष्ट्रस्य च तदा दिव्यं चक्षुर्नराधिप। मुनिः सत्यवतीपुत्रः प्रीतः प्रादात् तपोबलात्॥ दिव्यज्ञानबलोपेता गान्धारी च यशस्विनी। ददर्श पुत्रांस्तान् सर्वान् ये चान्येऽपि मृधे हताः॥ तदद्युतमचिन्त्यं च सुमहल्लोमहर्षणम्। विस्मितः स जन: सर्वो ददर्शानिमिषेक्षणः॥ तदुत्सवमहोदग्रं हृष्टनारीनराकुलम्। आश्चर्यभूतं ददृशे चित्रं पटगतं यथा।॥ धृतराष्ट्रस्तु तान् सर्वान् पश्यन् दिव्येन् चक्षुषा। मुमुदे भरतश्रेष्ठ प्रसादात् तस्य वै मुनेः॥ तदद्युतमचिन्त्यं च सुमहल्लोमहर्षणम्। विस्मितः स जन: सर्वो ददर्शानिमिषेक्षणः॥ तदुत्सवमहोदग्रं हृष्टनारीनराकुलम्। आश्चर्यभूतं ददृशे चित्रं पटगतं यथा।॥ धृतराष्ट्रस्तु तान् सर्वान् पश्यन् दिव्येन् चक्षुषा। मुमुदे भरतश्रेष्ठ प्रसादात् तस्य वै मुनेः॥ सौतिरुवाच एतच्छुत्वा नृपो विद्वान् हृष्टोऽभूज्जनमेजयः। पितामहानां सर्वेषां गमनागमनं तदा॥ अब्रवीच्च मुदा युक्तः पुनरागमनं प्रति। कथं नु त्यक्तदेहानां पुनस्तद्रूपदर्शनम्॥ इत्युक्तः स द्विजश्रेष्ठो व्यासशिष्यः प्रतापवान्। प्रोवाच वदतां श्रेष्ठस्तं नृपं जनमेजयम्॥ वैशम्पायन उवाच अविप्रणाशः सर्वेषां कर्मणामिति निश्चयः। कर्मजानि शरीराणि तथैवाकृतयो नृप॥ महाभूतानि नित्यानि भूताधिपतिसंश्रयात्। तेषां च नित्यसंवासो न विनाशो वियुज्यताम्॥ अनायासकृतं कर्म सत्यः श्रेष्ठः फलागमः। आत्मा चैभिः समायुक्तः सुखदुःखमुपाश्नुते॥ अविनाश्यस्तथायुक्तः श्रेत्रज्ञ इति निश्चयः। भूतानामात्मको भावो यथासौ न वियुज्यते॥ यावन्न क्षीयते कर्म तावत् तस्य स्वरूपता। क्षीणकर्मा नरो लोके रूपान्यत्वं नियच्छति॥ नानाभावास्तथैकत्वं शरीरं प्राप्य संहताः। भवन्ति ते तथा नित्याः पृथग्भावं विजानताम्॥ अश्वमेधे श्रुतिश्चयमश्वसंज्ञपनं प्रति। लोकान्तरगता नित्यं प्राणा नित्यं शरीरिणाम्॥ अहं हितं वदाम्येतत् प्रियं चेत् तव पार्थिव। देवयाना हि पन्थानः श्रुतास्ते यज्ञसंस्तरे॥ आहृतो यत्र यज्ञस्ते तत्र देवा हितास्तव। यदा समन्विता देवाः पशूनां गमनेश्वराः॥ गतिमन्तश्च तेनेष्टा नान्ये नित्या भवन्त्युत। नित्येऽस्मिन् पञ्चके वर्गे नित्ये चात्मनि पूरुषः॥ अस्य नानासमायोगं यः पश्यति वृथामतिः। वियोगे शोचतेऽत्यर्थं स बाल इति मे मतिः॥ वियोगे दोषदर्शी यः संयोगं स विसर्जयेत्। असङ्गे सङ्गमो नास्ति दुःखं भुवि वियोगजम्॥ परापरज्ञस्त्वपरो नाभिमानादुदीरितः। अपरज्ञः परां बुद्धिं ज्ञात्वा मोहाद् विमुच्यते॥ अदर्शनादापतितः पुनश्चादर्शनं गतः। नाहं तं वेद्मि नासौ मां न च मेऽस्ति विरागता॥ येन येन शरीरेण करोत्ययमनीश्वरः। तेन तेन शरीरेण तदवश्यमुपाश्नुते। मानसं मनसाऽऽप्नोति शरीरं च शरीरवान्॥ अदृष्ट्वा तु नृपः पुत्रान् दर्शनं प्रतिलब्धवान्। ऋषेः प्रसादात् पुत्राणां स्वरूपाणां कुरूद्वह॥ स राजा राजधर्माश्च ब्रह्मोपनिषदं तथा। अवाप्तवान्नरश्रेष्ठो बुद्धिनिश्चयमेव च॥ विदुरश्च महाप्राज्ञो ययौ सिद्धिं तपोबलात्। धृतराष्ट्रः समासाद्य व्यासं चैव तपस्विनम्॥ जनमेजय उवाच ममापि वरदो व्यासो दर्शयेत् पितरं यदि। तद्रूपवेषवयसं श्रद्दध्यां सर्वमेव ते॥ प्रियं मे स्यात् कृतार्थश्च स्यामहं कृतनिश्चयः। प्रसादादृषिमुख्यस्य मम कामः समृध्यताम्॥ सौतिरुवाच इत्युक्तवचने तस्मिन् नृपे व्यासः प्रतापवान्। प्रसादमकरोद् धीमानानयच्च परीक्षितम्॥ ततस्तद्रूपवयसमागतं नृपतिं दिवः। श्रीमन्तं पितरं राजा ददर्श जनमेजयः॥ शमीकं च महात्मानं पुत्रं तं चास्य शृङ्गिणम्। अमात्या ये बभूवश्च राजस्तानं ददर्श ह॥ ततः सोऽवभृथे राजा मुदितो जनमेजयः। पितरं स्नापयामास स्वयं सस्नौ च पार्थिवः॥ स्नात्वा स नृपतिर्विप्रमास्तीकमिदमब्रवीत्। यायावरकुलोत्पन्नं जरत्कारुसुतं तदा॥ आस्तीक विविधाश्चर्यो यज्ञोऽयमिति मे मतिः। यदद्यायं पिता प्राप्तो मम शोकप्रणाशनः॥ आस्तीक उवाच ऋषिद्वैपायनो यत्र पुराणस्तपो निधिः। यज्ञे कुरुकुलश्रेष्ठ तस्य लोकावुभौ जितौ॥ श्रुतं विचित्रमाख्यानं त्वया पाण्डवनन्दन। सर्पाश्च भस्मसान्नीता गताश्च पदवीं पितुः॥ कथंचित् तक्षको मुक्तः सत्यत्वात् तव पार्थिव। ऋषयः पूजिताः सर्वे गतिर्दृष्टा महात्मनः॥ प्राप्तः सुविपुलो धर्मः पापविनाशनम्। विमुक्तो हृदयग्रन्थिरुदारजनदर्शनात्॥ ये च पक्षधरा धर्मे सद्वृत्तरुचयश्च ये। यान् दृष्ट्वाहीयते पापं तेभ्यः कार्यानमस्क्रिया॥ सौति उवाच एतच्छुत्वा द्विजश्रेष्ठात् स राजा जनमेजयः। पूजयामास तमृषिमनुमान्य पुनः पुनः॥ पप्रच्छ तमृर्षि चापि वैशम्पायनमच्युतम्। कथावशेषं धर्मज्ञो वनवासस्य सत्तम॥ जनमेजय उवाच दृष्ट्वा पुत्रांस्तथा पौत्रान् सानुबन्धान् जनाधिपः। धृतराष्ट्रः किमकरोद् राजा चैव युधिष्ठिरः॥ वैशम्पायन उवाच तद् दृष्ट्वा महदाश्चर्ये पुत्राणां दर्शनं नृप। वीतशोकः स राजर्षिः पुनराश्रममागमत्॥ इतरस्तु जनः सर्वस्ते चैव परमर्षयः। प्रतिजग्मुर्यथाकामं धृतराष्ट्राभ्यनुज्ञया॥ पाण्डवास्तु महात्मानो लघुभूयिष्ठसैनिकाः। पुनर्जग्मुर्महात्मानं सदारास्तं महीपतिम्॥ तत्राश्रमपदं धीमान् ब्रह्मर्षिर्लोकपूजितः। मुनिः सत्यवतीपुत्रो धृतराष्ट्रमभाषत॥ धृतराष्ट्र महाबाहो शृणु कौरवनन्दन। श्रुतं ते ज्ञानवृद्धानामृषीणां पुण्यकर्मणाम्॥ श्रद्धाभिजनवृद्धानां वेदवेदाङ्गवेदिनाम्। धर्मज्ञानां पुराणानां वदतां विविधाः कथाः॥ मा स्म शोके मनः कार्षीर्दिष्टेन व्यथते बुधः। श्रुतं देवरहस्यं ते नारदाद् देवदर्शनात्॥ गतास्ते क्षत्रधर्मेण शस्त्रपूतां गर्ति शुभाम्। यथा दृष्टास्त्वया पुत्रास्तथा कामविहारिणः॥ युधिष्ठिरः स्वयं धीमान् भवन्तमनुरुध्यते। सहितो भ्रातृभिः सर्वैः सदारः ससुहृज्जनः॥ विसर्जयैनं यात्वेष स्वराज्यमनुशासताम्। मास: समधिकस्तेषामतीतो वसतां वने॥ एतद्धि नित्यं यत्नेन पदं रक्ष्यं नराधिप। बहुप्रत्यर्थिकं ह्येतद् राज्यं नाम कुरुद्वह॥ इत्युक्तः कौरवो राजा व्यासेनातुलतेजसा। युधिष्ठिरमथाहूय वाग्मी वचनमब्रवीत्॥ अजातशत्रो भद्रं ते शृणु मे भ्रातृभिः सह। त्वत्प्रसादान्महीपाल शोको नास्मान् प्रबाधते॥ रमे चाहं त्वया पुत्र पुरेव गजसाह्वये। नाथेनानुगतो विद्वन् प्रियेषु परिवर्तिना॥ प्राप्तं पुत्रफलं त्वत्तः प्रीतिर्मे परमा त्वयि। न मे मन्युर्महाबाहो गम्यतां पुत्र मा चिरम्॥ भवन्तं चेह सम्प्रेक्ष्य तपो मे परिहीयते। तपोयुक्तं शरीरं च त्वां दृष्ट्वा धारितं पुनः॥ मातरौ ते तथैवेमे शीर्णपर्णकृताशने। मम तुल्यव्रते पुत्र न चिरं वर्तयिष्यतः॥ दुर्योधनप्रभृतयो दृष्टा लोकान्तरं गताः। व्यासस्य तपसो वीर्याद् भवतश्च समागमात्॥ प्रयोजनं च निर्वृत्तं जीवितस्य ममानघ। उग्रं तपः समास्थास्ये त्वमनुज्ञातुमर्हसि॥ त्वय्यद्य पिण्डः कीर्तिश्च कुलं चेदं प्रतिष्ठितम्। श्वो वाद्य वा महाबाहो गम्यतां पुत्र मा चिरम्॥ राजनीति: सुबहुशः श्रुता : सुबहुशः श्रुता ते भरतर्षभ। संदेष्टव्यं ने पश्यामि कृतं मे भवता विभो॥ वैशम्पायन उवाच इत्युक्तवचनं तं तु नृपो राजानमब्रवीत्। न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम्॥ कामं गच्छन्तु मे सर्वे भ्रातरोऽनुचरास्तथा। भवन्तमहमन्विष्ये मातरौ च यतव्रतः॥ तमुवाचाथ गान्धारी मैवं पुत्र शृणुष्व च। त्वय्यधीनं कुरुकुलं पिण्डश्च श्वशुरस्य मे॥ गम्यतां पुत्र पर्याप्तमेतावत् पूजिता वयम्। राजा यदाह तत् कार्यं त्वया पुत्र पितुर्वचः॥ वैशम्पायन उवाच इत्युक्तः स तु गान्धार्या कुन्तीमिदमभाषत। स्नेहबाष्पाकुले नेत्रे प्रमृज्य रुदतीं वचः॥ विसर्जयति मां राजा गान्धारी च यशस्विनी। भवत्यां बद्धचित्तस्तु कथं यास्यामि दुःखितः॥ न चोत्सहे तपोविघ्नं कर्तुं ते धर्मचारिणि। तपसो हि परं नास्ति तपसा विन्दते महत्॥ ममापि न तथा राज्ञि राज्ये बुद्धिर्यथा पुरा। तपस्येवानुरक्तं मे मनः सर्वात्मना तथा।॥ शून्येयं च मही कृत्स्ना न मे प्रीतिकरी शुभे। बान्धवा नः परिक्षीणा बलं नो न यथा पुरा।॥ पञ्चालाः सुभृशं क्षीणां: कथामात्रावशेषिताः। न तेषां कुलकर्तारं कंचित् पश्याम्यहं शुभे॥ सर्वे हि भस्मसान्नीतास्ते द्रोणेन रणाजिरे. अवशिष्टाश्च निहता द्रोणपुत्रेण वै निशि॥ चेदयश्चैव मत्स्याश्च दृष्टपूर्वास्तथैव नः। केवलं वृष्णिचक्रं च वासुदेवपरिग्रहात्॥ यद् दृष्ट्वा स्थातुमिच्छामि धर्मार्थं नार्थहेतुतः। शिवेन पश्य न: सर्वान् दुर्लभं तव दर्शनम्॥ अविषह्यं च राजा हि तीन चारप्स्यते तपः। एतच्छ्रुत्वा महाबाहुः सहदेवो युधां पतिः॥ युधिष्ठिरमुवाचेदं बाष्पव्याकुललोचनः। नोत्सहेऽहं परित्यक्तुं मातरं भरतर्षभ॥ प्रतियातु भवान् क्षिप्रं तपस्तप्स्याम्यहं विभो। इहैव शोषयिष्यामि तपसेदं कलेवरम्॥ पादशुश्रूषणे रक्तो राज्ञो मात्रोस्तथानयोः। तमुवाच ततः कुन्ती परिष्वज्य महाभुजम्॥ गम्मतां पुत्र मैवं त्वं वोच: कुरुः वचो ममा आगमा वः शिवाः सन्तु स्वस्था भवत पुत्रकाः।।४० उपरोधो भवेदेवमस्माकं तपसः कृते। त्वत्स्नेहपाशबद्धा च हीयेयं तपसः परात्॥ तस्मात् पुत्रक गच्छ त्वं शिष्टमल्पं च नः प्रभो। एवं संस्तम्भितं वाक्यैः कुन्त्या बहुविधैर्मनः॥ सहदेवस्य राजेन्द्र राज्ञश्चैव विशेषतः। ते मात्रा समनुज्ञाता राज्ञा च कुरुपुङ्गवाः॥ अभिवाद्य कुरुश्रेष्ठमामन्त्रयितुमारभन्। युधिष्ठिर उवाच राज्यं प्रतिगमिष्यामः शिवेन प्रतिनन्दिताः॥ अनुज्ञातास्त्वया राजन् गमिष्यामो विकल्मषाः। एवमुक्तः स राजर्षिर्धर्मराज्ञा महात्मना॥ अनुजज्ञे स कौरव्यमभिनन्द्य युधिष्ठिरम्। भीमं च बलिनां श्रेष्ठं सन्त्वयामास पार्थिवः॥ स चास्य सम्यङ् मेधावी प्रत्यपद्यत वीर्यवान्। अर्जुनं च समाश्लिष्य यमौ च पुरुषर्षभौ॥ अनुजज्ञे स कौरव्यः परिष्वज्याभिनन्द्य च। गान्धार्या चाभ्यनुज्ञाताः कृतपादाभिवादनाः॥ जनन्या समुमाघ्राता: परिष्वक्ताश्च ते नृपम्। चक्रुः प्रदक्षिणं सर्वे वत्सा इव निवारणे॥ पुनः पुनर्निरीक्षन्तः प्रचक्रुस्ते प्रदक्षिणम्। द्रौपदीप्रमुखाश्चैव सर्वाः कौरवयोषितः॥ न्यायतः श्वशुरे वृर्ति प्रयुज्य प्रययुस्ततः। श्वश्रूभ्यां समनुज्ञाता: परिष्वज्याभिनन्दिताः॥ संदिष्टाश्चेति कर्तव्यं प्रययुभर्तृभिः सह। ततः प्रजज्ञे निनदः सूतानां युज्यतामिति॥ उष्ट्राणां क्रोशतां चापि हयानां हेषतामपि। ततो युधिष्ठिरो राजा सदारः सहसैनिकः। नगरं हास्तिनपुरं पुनरायात् सबान्धवः॥ वैशम्पायन उवाच द्विवर्षोपनिवृत्तेषु पाण्डवेषु यदृच्छया। देवर्षिर्नारदो राजन्नाजगाम युधिष्ठिरम्॥ तमभ्यर्च्य महाबाहुः कुरुराजो युधिष्ठिरः। आसीनं परिविश्वस्तं प्रोवाचं वदतां वरः॥ चिरात्तु नानुपश्यामि भगवन्तमुपस्थितम्। कच्चित् ते कुशलं विप्र शुभं वा प्रत्युपस्थितम्॥ के देशाः परिदृष्टास्ते किं च कार्यं करोमि ते। तद् ब्रूहि द्विजमुख्य त्वं त्वं ह्यस्माकं परा गतिः॥ नारद उवाच चिरदृष्टष्येऽसि मेत्येवमागतोऽहं तपोवनात्। परिदृष्टानि तीर्थानि गङ्गा चैव मया नृप॥ युधिष्ठिर उवाच वदन्ति पुरुषा मेऽद्य गङ्गातीरनिवासिनः। धृतराष्ट्र महात्मानमास्थितं परमं तपः॥ अपि दृष्टस्त्वया तत्र कुशली स कुरूद्वहः। गान्धारी च पृथा चैव सूतपुत्रश्च संजयः॥ कथं च वर्तते चाद्य पिता मम स पार्थिवः। श्रोतुमिच्छामि भगवन् यदि दृष्टस्त्वया नृपः॥ नारद उवाच स्थिरीभूय महाराज शृणु वृत्तं यथातथम्। यथा श्रुतं च दृष्टं च मया तस्मिंस्तपोवने॥ वनवासनिवृत्तेषु भवत्सु कुरुनन्दन। कुरुक्षेत्रात् पिता तुभ्यं गङ्गाद्वारं ययौ नृप॥ गान्धार्या सहितो धीमान् वध्वा कुन्त्या समन्वितः। संजयेन च सूतेन साग्निहोज्ञः सयाजकः॥ आतस्थे स तास्तीव्र पिता तव तपोधनः। वीटां मुखे समाधाय वायुभक्षोऽभवन्मुनिः॥ वने स मुनिभिः सर्वैः पूज्यमानो महातपाः। त्वगस्थिमात्रशेषः स षण्मासानभवन्नृपः॥ गान्धारी तु जलाहारी कुन्ती मासोपवासिनी। संजयः षष्ठभुक्तेन वर्तयामास भारत॥ अग्नींस्तु याजकास्तत्र जुहुवुर्विधिवत् प्रभो। दृश्यतोऽदृश्यतश्चैव बने तस्मिन् नृपस्य वै॥ अनिकेतोऽथ राजा स बभूव वनगोचरः। ते चापि सहिते देव्यौ संजयश्च तमन्वयुः॥ संजयो नृपतेर्नेता समेषु विषमेषु च। गान्धार्याश्च पृथा चैव चक्षुरासीदनिन्दिता॥ ततः कदाचिद् गङ्गायाः कच्छे स नृपसत्तमः। गङ्गायामाप्लुतो धीमानाश्रमाभिमुखोऽभवत्॥ अथ वायुः समुद्भूतो दावाग्निरभवन्महान्। ददाह तद् वनं सर्वे परिगृह्य समन्वतः॥ दह्यत्सु मृगयूथेषु द्विजिह्वेषु समन्ततः। वराहाणां च यूथेषु संश्रयत्सु जलाशयान्॥ समाविद्धे वने तस्मिन् प्राप्ते व्यसन उत्तमे। निराहारतया राजन् मन्दप्राणविचेष्टितः॥ असमर्योऽपसरणे सुकृशे मातरौ च ते। ततः स नृपतिर्दृष्ट्वा वह्निमायान्तमन्तिकात्॥ इदमाह ततः सूतं संजयं जयतां वरः। गच्छ संजय यत्राग्निर्न त्वां दहति कर्हिचित्॥ वयमत्राग्निना युक्ता गमिष्यामः परां गतिम्। तमुवाच किलोद्विग्नः संजयो वदतां वरः॥ राजन् मृत्युरनिष्टोऽयं भविता ते वृथाग्निना। न चोपाय प्रपश्यामि मोक्षणे जातवेदसः॥ यदत्रानन्तरं कार्य तद् भवान् वक्तुमर्हति। इत्युक्तः संजयेनेदं पुनराह स पार्थिवः॥ नैष मृत्युरनिष्टो नो निःसृतानां गृहात् स्वयम्। जलमग्निस्तथा वायुरथवाऽपि विकर्षणम्॥ तापसानां प्रशस्यन्ते गच्छ संजय मा चिरम्। इत्युक्त्वा संजयं राजा समाधाय मनस्तथा॥ प्राङ्मुखः सह गान्धार्या कुन्त्या चोपाविशत् तदा। संजयस्तं तथा दृष्ट्वा प्रदक्षिणमथाकरोत्॥ उवाच चैनं मेधावी युड्क्ष्वात्मानमिति प्रभो। ऋषिपुत्रो मनीषी स राजा चक्रेऽस्य तद् वचः॥ सन्निमध्येन्द्रियग्राममासीत् काष्ठोपमस्तदा। गान्धारी च महाभागा जननी च पृथा तव॥ दावाग्निना समायुक्ते स च राजा पिता तव। संजयस्तु महामात्रस्तस्माद् दावादमुच्यत॥ गङ्गाकूले मया दृष्टस्तापसैः परिवारितः। स तानामन्त्र्य तेजस्वी निवेद्येतच्च सर्वशः॥ प्रययौ संजयो धीमान् हिमवन्तं महीधरम्। एवं स निधनं प्राप्तः कुरुराजो महामनाः॥ गान्धारी च पृथा चैव जनन्यौ ते विशाम्पते। यदृच्छयानुव्रजता मया राज्ञः कलेवरम्॥ तयोश्च देव्योरुभयोर्मया दृष्टानि भारत। ततस्तपोवने तस्मिन् समाजग्मुस्तपोधनाः॥ श्रुत्वा राज्ञस्तदा निष्ठां न त्वशोचन गतीश्च ते। तत्राश्रौषमहं सर्वमेतत् पुरुषसत्तम॥ यथा च नृपतिर्दग्धो देव्यौ ते चेति पाण्डव न शोचितव्यं राजेन्द्र स्वत: स पृथिवीपतिः॥ प्राप्तवानग्निसंयोगं गान्धारी जननी च ते। वैशम्पायन उवाच एतच्छ्रुत्वा च सर्वेषां पाण्डवानां महात्मनाम्॥ निर्याणं धृतराष्ट्रस्य शोकः समभवन्महान्। अन्तःपुराणां च तदा महानार्तस्वरोऽभवत्।॥ अहो धिगिति राजा तु विक्रुश्य भृशदुःखितः॥ ऊर्ध्वबाहुः स्मरन् मातुः प्ररुरोद युधिष्ठिरः। भीमसेनपुरोगाश्च भ्रातरः सर्व एव ते॥ अन्तःपुरेषु च तदा सुमहान् रुदितस्वनः। प्रादुरासीन्महाराज पृथां श्रुत्वा तथागताम्॥ तं च वृद्धं तथा दग्धं हतपुत्रं नराधिपम्। अन्वशोचन्त ते सर्वे गान्धारी च तपस्विनीम्॥ तस्मिन्नुपरते शब्दे मुहूर्तादिव भारत। निगृह्य बाष्पं धैर्येण धर्मराजोऽब्रवीदिदम्॥ तथा महात्मनस्तस्य तपस्युग्रे च वर्ततः। अनाथस्येव निधनं तिष्ठत्स्वास्मासु बन्धुषु॥ दुर्विज्ञेया गतिर्ब्रह्मन् पुरुषाणां मतिर्मम। यत्र वैचित्रवीर्योऽसौ दग्ध एवं वनाग्निना॥ यस्य पुत्रशतं श्रीमदभवद् बाहुशालिनः। नागायुतबलो राजा स दग्धो हि दवाग्निना॥ यं पुरा पर्यवीजन्त तालवृन्तैर्वरस्त्रियः। तं गृध्राः पर्यवीजन्त दावाग्निपरिकालितम्॥ सूतमागधसंघेश्च शयानो यः प्रबोध्यते। धरण्यां स नृपः शेते पापस्य मम कर्मभिः॥ न च शोचामि गान्धारी हतपुत्रां यशस्विनीम्। पतिलोकमनुप्राप्तां तथा भर्तृव्रते स्थिताम्॥ पृथामेव च शोचामि या पुत्रैश्वर्यमृद्धिमत्। उत्सृज्य सुमहद् दीप्तं वनवासमरोचयत्॥ धिग् राज्यमिदमस्माकं धिग् बलं धिक् पराक्रमम्। क्षत्रधर्मे च धिग् यस्मान्मृता जीवामहे वयम्॥ सुसूक्ष्मा किल कालस्य गतिर्द्विजवरोत्तम। युधिष्ठिरस्य जननी भीमस्य विजयस्य च। अनाथवत् कथं दग्ध इति मुह्यामि चिन्तयन्॥ वृथा संतर्पितो वह्निः खाण्डवे सव्यसाचिना। उपकारमजानन् स कृतघ्न इति मे मतिः॥ यत्रादहत् स भगवान् मातरं सव्यसाचिनः। कृत्वा यो ब्राह्मणच्छद्मा भिक्षार्थी समुपागतः॥ धिगग्नि धिक् च पार्थस्य विश्रुतां सत्यसंधताम्। इदं कष्टतरं चान्यद् भगवन् प्रतिभाति मे॥ वृथाग्निना समायोगो यदभूत् पृथिवीपतेः। तथा तपस्विनस्तस्य राजर्षेः कौरवस्य ह॥ कथमेवंविधो मृत्युः प्रशास्य पृथिवीमिमाम्। तिष्ठत्सु मन्त्रपूतेषू तस्याग्निषु महावने॥ वृथाग्निना समायुक्तो निष्ठां प्राप्तः पिता मम। मन्ये पृथा वेपमाना कृशा धमनिसंतता॥ हा तात! धर्मराजेति समाक्रन्दन्महाभये। भीम! पर्याप्नुहि भयादिति चैवाभिवाशती॥ समन्ततः परिक्षिप्ता माताभन्मे दवाग्निना। सहदेवः प्रियस्तस्याः पुत्रेभ्योऽधिक एव तु॥ न चैनां मोक्षयामास वीरो माद्रवतीसुतः। तच्छुत्वा रुरुदुः सर्वे समालिङ्य परस्परम्॥ पाण्डवाः पञ्च दुःखार्ता भूतानीव युगक्षये। तेषां तु पुरुषेन्द्राणां रुदतां रुदितस्वनः॥ प्रासादाभोगसंरुद्ध अन्वरौत्सीत् स रोदसी॥ नारद उवाच नासौ वृथाग्निना दग्धो यथा तत्र श्रुतं मया। वैचित्रवीर्यो नृपतिस्तत् ते वक्ष्यामि सुव्रत॥ वनं प्रविशतानेन वायुभक्षेण धीमता। अग्नयः कारयिन्वेष्टिमुत्सृष्टा इति नः श्रुतम्॥ याजकास्तु ततस्तस्य तानन्गीन्निर्जने वने। समुत्सृज्य यथाकामं जग्मुर्भरतसत्तम॥ स विवृद्धस्तदा वह्निर्वने तस्मिन्नभूत् किल। तेन तद् वनमादीप्तमिति ते तापसाऽब्रुवन्॥ स राजा जाह्नवीतीरे यथा ते कथितं मया। तेनाग्निना समायुक्तः स्वेनैव भरतर्षभ।॥ एवमावेदयामासुर्मुनयस्ते ममानघ। ये ते भागीरथीतीरे मया दृष्टा युधिष्ठिर॥ एवं स्वेनाग्निना राजा समायुक्तो महीपते। मा शोचिथास्त्वं नृपतिं गतः स परमां गतिम्॥ गुरुशुश्रूषया चैव जननी ते जनाधिप। प्राप्ता सुमहतीं सिद्धिमिति मे नात्र संशयः॥ कर्तुमर्हसि राजेन्द्र तेषां त्वमुदकक्रियाम्। भ्रातृभिः सहितः सर्वै रेतदत्र विधीयताम्॥ वैशम्पायन उवाच ततः स पृथिवीपालः पाण्डवानां धुरंधरः। निर्ययौ सहसोदर्यः सदारश्च नरर्षभः॥ पौरजानपदाश्चैव राजभक्तिपुरस्कृताः। गङ्गां प्रजग्मुरभितो वाससैकेन संवृताः॥ ततोऽवगाह्य सलिले सर्वे ते नरपुङ्गवाः। युयुत्सुमग्रतः कृत्वा ददुस्तोयं महात्मने॥ गान्धार्याश्च पृथायाश्च विधिवन्नामगोत्रतः। शौचं निवर्तयन्तस्ते तत्रोपुर्नगराद् बहिः॥ प्रेषयामास स नरान् विधिज्ञानाप्तकारिणः। गङ्गाद्वारं नरश्रेष्ठो यत्र दग्धोऽभवन्नृपः॥ तत्रैव तेषां कृत्यानि गङ्गाद्वारेऽन्वशात् तदा। कर्तव्यानीति पुरुषान् दत्तदेयान्महीपतिः॥ द्वादशेऽहनि तेभ्यः स कृतशौचो नराधिपः। ददौ श्राद्धानि विधिवद् दक्षिणावन्ति पाण्डवः॥ धृतराष्ट्रं समुद्दिश्य ददौ स पृथिवीपतिः। सुवर्णं रजतं गाश्च शय्याश्च सुमहाधनाः॥ गान्धार्याश्चैव तेजस्वी पृथायाश्च पृथक् पृथक्। संकीर्त्य नामनी राजा ददौ दानमनुत्तमम्॥ यो यदिच्छति यावच्च तावत् स लभते नरः। शयनं भोजनं यानं मणिरत्नमथो धनम्॥ यानमाच्छादनं भोगान् दासीश्च समलंकृताः। ददौ राजा समुद्दिश्य तयोर्मात्रोर्महीपतिः॥ ततः स पृथिवीपालो दत्त्वा श्राद्धान्यनेकशः। प्रविवेश पुरं राजा नगरं वारणाह्वयम्॥ ते चापि राजवचनात् पुरुषा ये गताभवन्। संकल्प्य तेषां कुल्यानि पुनः प्रत्यागमंस्ततः॥ माल्यैर्गन्धैश्च विविधैरर्चयित्वा यथाविधि। कुल्यानि तेषां संयोज्य तदाचख्युर्महीपतेः॥ समाश्वास्य तु राजानं धर्मात्मानं युधिष्ठिरम्। नारदोऽप्यगमद् राजन् परमर्षिर्यथेप्सितम्॥ एवं वर्षाण्यतीतानि धृतराष्ट्रस्य धीमतः। वनवासे तथा त्रीणि नगरे दश पञ्च च॥ हतपुत्रस्य संग्रामे दानानि ददतः सदा। ज्ञातिसम्बन्धिमित्राणां भ्रातॄणां स्वजनस्य च॥ युधिष्ठिरस्तु नृपतिर्नातिप्रीतमनास्तदा। धारयामास तद् राज्यं निहतज्ञातिबान्धवः॥ वैशम्पायन उवाच एवं प्रयतमानानां वृष्णीनामन्धकैः सह। कालो गृहाणि सर्वेषां परिचक्राम नित्यशः॥ करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः। गृहाण्यावेक्ष्य वृष्णीनां नादृश्यत क्वचित् क्वचित्।२। तमनन्त महेष्वासाः शरैः शतसहस्रशः। न चाशक्यत वेढुं स सर्वभूतात्ययस्तदा॥ उत्पेदिरे महावाता दारुणाश्च दिने दिने। वृष्ण्यन्धकविनाशाय बहवो लोमहर्षणाः॥ विवृद्धमूषिका रथ्या विभिन्नमणिकास्तथा। केशा नखाश्च सुप्तानामद्यन्ते मूषिकैर्निशि॥ चीचीकूचीति वाशन्ति सारिका वृष्णिवेश्मसु। नोपशाम्यति शब्दश्च स दिवारानमेव हि॥ अन्वकुर्वन्नुलूकानां सारसा विरुतं तथा। अजाः शिवानां विरुतमन्वकुर्वत भारत॥ पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः। वृष्ण्यन्धकानां गेहेषु कपोता व्यचरंस्तदा॥ व्यजायन्त खरा गोषु करभा श्वतरीषु च। शुनीष्वपि बिडालाश्च मूषिका नकुलीषु च॥ नापत्रपन्त पापानि कुर्वन्तो वृष्णयस्तदा। प्राद्विषन् ब्राह्मणांश्चापि पितृन् देवांस्तथैव च॥ गुरूंश्चाप्यवमन्यन्ते न तु रामजनार्दनौ। पल्य: पतीनुच्चरन्त पत्नीश्च पतयस्तथा॥ विभावसुः प्रज्वलितो वामं विपरिवर्तते। नीललोहितमञ्जिष्ठा विसृजन्नर्चिषः पृथक्॥ उदयास्तमने नित्यं पुर्यां तस्यां दिवाकरः। व्यदृश्यतासकृत् पुम्भिः कबन्धैः परिवारितः॥ महानसेषु सिद्धेषु संस्कृतेऽतीव भारत। आहार्यमाणे कृमयो व्यदृश्यन्त सहस्रशः॥ पुण्याहे वाच्यमाने तु जपत्सु च महात्मसु। अभिधावन्तः श्रूयन्ते न चादृश्यत कश्चन॥ परस्परं च नक्षत्रं हन्यमानं पुनः पुनः। ग्रहैरपश्यन् सर्वे ते नात्मनस्तु कथंचन॥ नदन्तं पाञ्चजन्यं च वृष्ण्यन्धकनिवेशने। समन्तात् पर्यवाशन्त रासभा दारुणस्वराः॥ एवं पश्यन् हृषीकेशः सम्प्राप्तं कालपर्ययम्। त्रयोदश्याममावास्यां तान् दृष्ट्वा प्राब्रवीदिदम्॥ चतुर्दशी पञ्चदशी कृतेयं राहुणा पुनः। प्राप्ते वै भारते युद्धे प्राप्ता चाद्य क्षयाय नः॥ विमृशन्नेव कालं तं परिचिन्त्य जनार्दनः। मेने प्राप्तं स षट्त्रिंशं वर्षे वै केशिसूदनः॥ पुत्रशोकाभिसंतप्ता गान्धारी हतबान्धवा। यदनुव्याजहारार्ता तदिदं समुपागमत्॥ इदं च तदनुप्राप्तमब्रवीद् यद् युधिष्ठिरः। पुरा व्यूढेष्वनीकेषु दृष्ट्वोत्पातान् सुदारुणान्॥ इत्युक्त्वा वासुदेवस्तु चिकीर्षुः सत्यमेव तत्। आज्ञापयामास तदा तीर्थयात्रामरिंदमः॥ अघोषयन्त पुरुषास्तत्र केशवशासनात्। तीर्थयात्रा समुद्रे वः कार्येति पुरुषर्षभाः॥ वैशम्पायन उवाच काली स्त्री पाण्डुरैर्दन्तैः प्रविश्य हसती निशि। स्त्रियः स्वप्नेषु मुष्णन्ती द्वारकां परिधावति॥ अग्निहोत्रनिकेतेषु वास्तुमध्येषु वेश्मसु। वृष्ण्यन्धकानखादन्त स्वप्ने गृध्रा भयानकाः॥ अलंकाराच छत्रं च ध्वजाश्च कवचानि च। हियमाणान्यदृश्यन्त रक्षोभिः सुभयानकैः॥ तच्चाग्निदत्तं कृष्णस्य वज्रनाभमयोमयम्। दिवमाचक्रमे चक्रं वृष्णीनां पश्यतां तदा॥ युक्तं रथं दिव्यमादित्यवर्णं हया हरन् पश्यतो दारुकस्य। ते सागरस्योपरिष्टादवर्तन् मनोजवाश्चतुरो वाजिमुख्याः॥ तालः सुपर्णश्च महाध्वजौ तौ सुपूजितौ रामजनार्दनाभ्याम्। उच्चैर्जह्वरप्सरो दिवानिशं वाचश्चोचुर्गम्यतां तीर्थयात्रा॥ ततो जिगमिषन्तस्ते वृष्ण्यन्धकमहारथाः। सान्तःपुरास्तदा तीर्थयात्रामैच्छन् नरर्षभाः॥ ततो भोज्यं च भक्ष्यं च पेयं चान्धकवृष्णयः। बहु नानाविधं चक्रुर्मा मांसमनेकशः॥ ततः सैनिकवर्गाश्च निर्ययुर्नगराद् बहिः। यानैरश्वैर्गजैश्चैव श्रीमन्तस्तिग्मतेजसः॥ ततः प्रभासे न्यवसन् यथोद्दिष्टं यथागृहम्। प्रभूतभक्ष्यपेशस्ते सदारा यादवास्तदा॥ निविष्टांस्तान् निशम्याथ समुद्रान्ते स योगवित्। जगामामन्त्र्य तान् वीरानुद्धवोऽर्थविशारदः॥ तं प्रस्थितं महात्मानमभिवाद्य कृताञ्जलिम्। जानन् विनाशं वृष्णीनां नैच्छद् वारयितुं हरिः॥ ततः कालपरीतास्ते वृष्ण्यन्धकमहारथाः। अपश्यन्नुद्धवं यान्तं तेजसाऽऽवृत्य रोदसी॥ ब्राह्मणार्थेषु यत् सिद्धमन्नं तेषां महात्मनाम्। तद् वरनरेभ्यः प्रददुः सुरागन्धसमन्वितम्॥ ततस्तूर्यशताकीर्णं नदनर्तकसंकुलम्। अवर्तत महापानं प्रभासे तिग्मतेजसाम्॥ कृष्णस्य संनिधौ रामः सहित: कृतवर्मणा। अपिबद् युयुधानश्च गदो बभ्रुस्तथैव च॥ ततः परिषदो मध्ये युयुधानो मदोत्कटः। अब्रवीत् कृतवर्माणमवहास्यावमन्य च॥ कःक्षत्रियोऽहन्यमानः सुप्तान् हन्यान्मृतानिव। तन्न मृष्यन्ति हार्दिक्य यादवा यत् त्वया कृतम्॥ इत्युक्ते युयुधानेन पूजयामास तद्वचः। प्रद्युम्नो रथिनां श्रेष्ठो हार्दिक्यमवमन्य च॥ ततः परमसंक्रुद्धः कृतवर्मा तमब्रवीत्। निर्दिशन्निव सावज्ञं तदा सव्येन पाणिना॥ भूरिश्रवाश्छिन्नबाहुयुद्धे प्रायगतस्त्वया। वधेन सुनृशंसेन कथं वीरेण पातितः॥ हति तस्य वचः श्रुत्वा केशवः परवीरहा। तिर्यक्सरोषया दृष्ट्या वीक्षाचक्रे स मन्युमान्॥ मणिः स्यमन्तकश्चैव यः स सत्राजितोऽभवत्। तां कथां श्रावयामास सात्यकिर्मधुसूदनम्॥ तच्छुवा केशवस्याङ्कमगमद् रुदती तदा। सत्यभामा प्रकृपिता कोपयन्ती जनार्दनम्॥ तत उत्थाय सक्रोधः सात्यकिर्वाक्यपब्रवीत्। पञ्चानां द्रोपदेयानां धृष्टद्युन्नशिखण्डिनोः॥ एष गच्छामि पदवीं सत्येन च तथा शपे। सौप्तिके ये च निहताः सुप्ता येन दुरात्मना॥ द्रोणपुत्रसहायेन पापेन कृतवर्मणा। समाप्तमायुरस्याद्य यशश्चैव सुमध्यमे॥ इत्येवमुक्त्वा खड्ड्रेन केशवस्य समीपतः। अभिद्रुत्य शिरः क्रुद्धश्चिच्छेद कृतवर्मणः॥ तथान्यानपि निघ्नन्तं युयुधानं समन्ततः। अभ्याधावद्धृषीकेशो विनिवारयितुं तदा॥ एकीभूतास्ततः सर्वे कालपर्यायचोदिताः। भोजान्धका महाराज शैनेयं पर्यवारयन्॥ तान् दृष्ट्वा पततस्तूर्णमभिक्रुद्धाञ्जनार्दनः। न चुक्रोध महातेजा जानन् कालस्य पर्ययम्॥ ते तु पानमदाविष्टाश्चोदिताः कालधर्मणा। युयुधानमथाभ्यघ्ननुच्छिष्टै जनै स्तदा।॥ हन्यमाने तु शैनेये क्रुद्धो रुक्मिणिनन्दनः। तदनन्तरमागच्छन्मोक्षयिष्यन् शिनेः सुतम्॥ स भोजैः सह संयुक्तः सात्यकिश्चान्धकैः सह। व्यायच्छमानौ तौ वीरौ बाहुद्रविणशालिनौ॥ बहुत्वात्रिहतौ तत्र उभौ कृष्णस्य पश्यतः। हतं दृष्ट्वा च शैनेयं पुत्रं च यदुनन्दनः॥ एरकानां ततो मुष्टिं कोपाज्जग्राह केशवः। तदभून्मुसलं घोरं वज्रकल्पमयोमयम्॥ जघान कृष्णस्तांस्तेन ये ये प्रमुखतोऽभवन्। ततोऽन्धकाश्च भोजाश्च शैनेया वृष्णयस्तथा॥ जघ्नुरन्योन्यमाक्रन्दे मुसलैः कालचोदिताः। यस्तेषामेरकां कश्चिज्जग्राह कुपितो नृप॥ वज्रभूतेव सा राजन्नदृश्यत तदा विभो। तृणं च मुसलीभूतमपि तत्र व्यदृश्यत॥ ब्रह्मदण्डकृतं सर्वमिति तद् विद्धि पार्थिव। अविध्यान् विध्यते राजन् प्रक्षिपन्ति स्म यत् तृणम्॥ तद् वज्रभूतं मुसलं व्यदृश्यत तदा दृढम्। अवधीत् पितरं पुत्रः पिता पुत्रं च भारत॥ मत्ता परिपतन्ति स्म योधयन्तः परस्परम्। पतङ्गा इव चाग्नौ ते निपेतुः कुकुरान्धकाः॥ नासीत् पलायने बुद्धिर्वध्यमानस्य कस्यचित्। तत्रापश्यन्महाबाहुर्जानन् कालस्य पर्ययम्॥ मुसलं समवष्टभ्य तस्थौ स मधुसूदनः। साम्बं च निहतं दृष्ट्वा चारुदेष्णं च माधवः॥ प्रद्युम्नं चानिरुद्धं च ततश्चुक्रोध भारत। गदं वीक्ष्य शयानं च भृशं कोपसमन्वित॥ स निःशेषं तदा चक्रे शार्ङ्गचक्रगदाधरः। तन्निघ्नन्तं महातेजा बभ्रुः परपुरंजयः॥ दारुकश्चैव दाशार्हमूचतुर्यन्निबोध तत्। भगवन् निहताः सर्वे त्वया भूयिष्ठशो नराः। रामस्य पदमन्विच्छ तत्र गच्छाम यत्र सः॥ भगवन् निहताः सर्वे त्वया भूयिष्ठशो नराः। रामस्य पदमन्विच्छ तत्र गच्छाम यत्र सः॥ गत्वा कुरुन् वैशम्पायन उवाच ततो ययुर्दारुकः केशवश्च बभ्रुश्च रामस्य पदं पतन्तः। अथापश्यन् राममनतवीर्ये वृक्षे स्थितं चिन्तयानं विविक्ते॥ ततः समासाद्य महानुभावं कृष्णस्तदा दारुकमन्वशासत्। सर्वमिमं महान्तं पार्थाय शंसस्व वधं यदूनाम्॥ ततोऽर्जुनः क्षिप्रमिहापयातु श्रुत्वा मृतान् यादवान् ब्रह्मशापात्। इत्येवमुक्तः स ययौ रथेन कुरुस्तदा दारुको नष्टचेताः॥ ततो गते दारुके केशवोऽथ दृष्ट्वान्तिके बभ्रुमुवाच वाक्यम्। स्त्रियो भवान् रक्षितुं यातु शीघ्र नैता हिंस्युर्दस्यवो वित्तलोभात्॥ स प्रस्थितः केशवेनानुशिष्टो मदातुरो ज्ञातिवधार्दितश्च। तं विश्रान्तं संनिधौ केशवस्य दुरन्तमेकं सहसैव बभ्रम्॥ ब्रह्मानुशप्तमवधीन्महद् वै कूटे युक्तं मुसलं लुब्धकस्य। ततो दृष्ट्वा निहतं बभ्रुमाह कृष्णोऽग्रजं भ्रातरमुग्रतेजाः॥ इहैव त्वं मां प्रतीक्षस्व राम यावत् स्त्रियो ज्ञातिवशाः करोमि। ततः पुरीं द्वारवतीं प्रविश्य जनार्दनः पितरं प्राह वाक्यम्॥ स्त्रियो भवान् रक्षतु नः समग्रा धनञ्जयस्यागमनं प्रतीक्षन्। रामो वनान्ते प्रतिपालयन्मा मास्तेऽद्याहं तेन समागमिष्ये॥ दृष्टं मयेदं निधनं यदूनां राज्ञां च पूर्वं पुरुपुङ्गवानाम्। नाहं विना यदुभिर्यादवानां पुरीमिमामशकं द्रष्टुमद्य॥ तपश्चरिष्यामि निबोध तन्मे रामेण सार्धं वनमभ्युपेत्य। इतीदमुक्त्वा शिरसा च पादौ संस्पृश्य कृष्णस्त्वरितो जगाम॥ ततो महान् निनदः प्रादुरासीत् सस्त्रीकुमारस्य पुरस्य तस्य। अथाब्रवीत् केशवः संनिवर्त्य शब्दं श्रुत्वा योषितां क्रोशतीनाम्॥ पुरीमिमामेष्यति सव्यसाची स वो दुःखान्मोचयिता नराग्र्यः। ततो गत्वा केशवस्तं ददर्श रामं वने स्थितमेकं विविक्ते॥ अथापश्यद् योगयुक्तस्य तस्य नागं मुखान्निश्चरन्तं महान्तम्। श्वेतं ययौ स ततः प्रेक्ष्यमाणो महार्णवो येन महानुभावः॥ सहस्रशीर्षः पर्वताभोगवा रक्ताननः स्वां तनुं तां विमुच्य।। सम्यक् च तं सागरः प्रन्यगृह्णा नागा दिव्याः सरितश्चैव पुण्याः॥ कर्कोटको वासुकिस्तक्षकश्च पृथुश्रवा अरुणः कुञ्जरश्च। स्तथा नागो धृतराष्ट्रो महात्मा॥ नागश्रेष्ठो दुर्मुखश्चाम्बरीषः। स्वयं राजा वरुणश्चापि राजन्॥ प्रत्युद्गम्य स्वागतेनाभ्यनन्दं स्तेऽपूजयंश्चार्घ्यपाद्यक्रियाभिः। ततो गते भ्रातरि वासुदेवो जानन् सर्वा गतयो दिव्यदृष्टिः॥ वने शून्ये विचरंश्चिन्तयानो भूमौ चाथ संविवेशाग्र्यतेजाः। सर्वं तेन प्राक्तदा वित्तमासीद् गान्धार्या यद् वाक्यमुक्तः स पूर्वम्॥ दुर्वाससा पायसोच्छिष्टलिप्ते यच्चाप्युक्तं तच सस्मार वाक्यम्। स चिन्तयन्नन्धकवृष्णिनाशं कुरुक्षयं चैव महानुभावः॥ मेने ततः संक्रमणस्य कालं ततश्चकारेन्द्रियसंनिरोधम्। मात्रेयवाक्यप्रतिपालनाय॥ निमित्तमैच्छत् सकलार्थतत्त्ववित्। स संनिरुद्धेन्द्रियवाङ्मनास्तु शिश्ये महायोगमुपेत्य कृष्णः॥ जराथ तं देशमुपाजगाम लुब्धस्तदानीं मृगलिप्सुरुग्रः। स केशवं योगयुक्तं शयानं मृगासक्तो लुब्धकः सायकेन॥ जराविध्यत् पादतले त्वरावां स्तं चाभितस्तज्जिघृक्षुर्जगाम। अथापश्यत् पुरुषं योगयुक्तं पीताम्बरं लुब्धकोऽनेकबाहुम्॥ मत्वाऽऽत्मानं त्वपराद्धं स तस्य पादौ जरा जगृहे शंकितात्मा। आश्वासयंस्तं महात्मा तदानीं गच्छन्नूचं रोदसी व्याप्य लक्ष्म्या॥ दिवं प्राप्तं वासवोऽथाश्विनौ च रुद्रादित्या वसवश्चाथ विश्वे। प्रत्युद्ययुर्मुनयश्चापि सिद्धा गन्धर्वमुख्याश्च सहाप्सरोभिः॥ ततो राजन् भगवानुग्रतेजा नारायणः प्रभवश्चाव्ययश्च। योगाचार्यो रोदसी व्याप्य लक्ष्म्या स्थान प्राप स्वं महात्माप्रमेयम्॥ ततो देवैर्ऋषिभिश्चापि कृष्णः समागतश्चारणैश्चैव राजन्। गन्धवौय्यैरप्सरोभिर्वराभिः सिद्धैः साध्यैश्चानतैः पूज्यमानः॥ तं वै देवाः प्रत्यनन्दन्त राजन् मुनिश्रेष्ठा ऋम्भिरानचुरीशम्। तं गन्धर्वाश्चापि तस्थुः स्तुवन्तः प्रीत्या चैनं पुरुहूतोऽभ्यनन्दत्॥ वैशम्पायन उवाच दारुकोऽपि कुरुन् गत्वा दृष्ट्वा पार्थान् महारथान्। आचष्ट मौसले वृष्णीनयोन्येनोपसंतान्॥ श्रुत्वा विनष्टान् वार्ष्णेयान् सभोजान्धककौकुरान्। पाण्डवाः शोकसंतप्ता वित्रस्तमनसोऽभवन्॥ ततोऽर्जुनस्तानामन्त्र्य केशवस्य प्रियः सखा। प्रययौ मातुलं द्रष्टुं नेदमस्तीनि चाब्रवीत्॥ स वृष्णिनिलयं गत्वा दारुकेण सह प्रभो। ददर्श द्वारकां वीरो मृतनाथामिव स्त्रियम्॥ याः स्म ता लोकनाथेन नाथवन्त्यः पुराभवन्। तास्त्वनाथास्तदा नाथं पार्थं दृष्ट्वा विचुक्रुशुः॥ षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहः। तासमासीन्महान् नादो दृष्टैवार्जुनमागतम्॥ तास्तु दृष्ट्वैव कौरव्यो बाष्पेणापिहितेक्षणः। हीनाः कृष्णेन पुत्रैश्च नाशकत् सोऽभिवीक्षितुम्॥ स तां वृष्णयन्धकजलां हयमीनां रथोडुपाम्। वादित्ररथघोषौघां वेश्मतीर्थमहाह्रदाम्॥ रत्नशैवलसंघातां वज्रप्राकारमालिनीम्। रथ्यास्रोतोजलावर्तो चत्वरस्तिमिनहदाम्॥ रामकृष्णमहाग्राहां द्वारकां सहितं तदा। कालपाशग्रहां भीमा नदी वैतरणीमिव॥ ददर्श वासविर्धीमान् विहीनां वृष्णिपुङ्गवैः। गतश्रियं निरानन्दा पद्मिनी शिशिरे यथा॥ तां दृष्ट्वा द्वारकां पार्थस्ताश्च कृष्णस्य योषितः। सस्वनं वाष्पमुत्सृज्य निपपात महीतले॥ सात्राजिती ततः सत्या रुक्मिणी च विशाम्पते। अभिपत्य प्ररुरुदुः परिवार्य धनञ्जयम्॥ ततस्तं काञ्चने पीठे समुत्थाप्योपवेश्य च। अब्रुवन्त्यो महात्मानं परिवार्योपतस्थिरे॥ ततः संस्तूय गोविन्दं कथयित्वा च पाण्डवः। आश्वास्य ताः स्त्रियश्चापि मातुलं द्रष्टुमभ्यगात्॥ वैशम्पायन उवाच तं शयानं महात्मानं वीरमानकदुन्दुभिम्। पुत्रशोकेन संतप्तं ददर्श कुरुपुङ्गवः॥ तस्याश्रुपरिपूर्णाक्षो व्यूढोरस्को महाभुजः। आर्तस्यार्ततरः पार्थः पादौ जग्राह भारत॥ तस्य मूर्धानमाघ्रातुमियेषानकदुन्दुभिः। स्वस्रीयस्य महाबाहुर्न शशाक च शत्रुहन्॥ समालिङ्गग्यार्जुनं वृद्धः स भुजाभ्यां महाभुजः। रुदन् पुत्रान् स्मरन् सर्वान् विललाप सुविह्वलः॥ भ्रातन पुत्रांश्च पौत्रांश्च दौहित्रान् ससखीनपि। वासुदेव उवाच यैर्जिता भूमिपालाश्च दैत्याश्च शतशोऽर्जुन॥ तान् दृष्ट्वा नेह पश्यामि जीवाम्यर्जुन दुर्मरः। यौ तावर्जुन शिष्यौ ते प्रियौ बहुमतौ सदा॥ तयोरपनयात् पार्थ वृष्णयो निधनं गताः। यौ तौ वृष्णिप्रवीराणां द्वावेवातिरथौ मतौ॥ प्रद्युस्रो युयुधानश्च कथयन् कत्थसे च यौ। तौ सदा कुरुशार्दूल कृष्णस्य प्रियभाजनौ॥ तावुभौ वृष्णिनाशस्य मुखमास्तां धनञ्जय। तु गर्हामि शैनेयं हार्दिक्यं चाहमर्जुन॥ अक्रूरं रौक्मिणेयं च शापो ह्येवात्र कारणम्। केशिनं यस्तु कंसं च विक्रम्य जगतः प्रभुः॥ विदेहावकरोत् पार्थ चैद्यं च बलगर्वितम्। नैषादिमेकलव्यं च चक्रे कालिङ्गमागधान्॥ गान्धारान् काशिराजं च मरुभूमौ च पार्थिवान्। प्राच्यांश्च दाक्षिणात्यांश्च पर्वतीयांस्तथा नृपान्॥ सोऽभ्युपेक्षितवानेतमनयान्मधुसूदनः। त्वं हि तं नारदश्चैव मुनयश्च सनातनम्॥ गोविन्दमनघं देवमभिजानीध्वमच्युतम्। प्रत्यपश्यच्च स विभुञ्जतिक्षयमधोक्षजः॥ समुपेक्षितवान् नित्यं स्वयं स मम पुत्रकः। गान्धार्या वचनं यत् तदृषीणां च परंतप॥ तन्नूनमन्यथा कर्तुं नैच्छत् स जगतः प्रभुः। प्रत्यक्षं भवतश्चापि तव पौत्रः परंतप॥ अश्वत्थाम्ना हतश्चापि जीवितस्तस्य तेजसा। इमांस्तु नैच्छत् स्वाज्ञातीन् रक्षितुं च सखा तव।।१७। ततः पुत्रांश्च पौत्रांश्च भ्रातृनथ सखींस्तथा। शयानान् निहतान् दृष्ट्वा ततो मामब्रवीदिदम्॥ सम्प्राप्तोऽद्यायमस्यान्तः कुलस्य भरतर्षभ। आगमिष्यति बीभत्सुरिमां द्वारवतीं पुरीम्॥ आख्येयं तस्य यद् वृत्तं वृष्णीनां वैशसं महत्। स तु श्रुत्वा महातेजा यदूनां निधनं प्रभो॥ आगन्ता क्षिप्रमेवेह न मेऽत्रास्ति विचारणा। योऽहं तमर्जुनं विद्धि योऽर्जुनः सोऽहमेव तु॥ यद् ब्रूयात् तत् तथा कार्यमिति बुद्ध्यस्व भारत। स स्त्रीषु प्राप्तकालासु पाण्डवो बालकेषु च॥ प्रतिपत्स्यति बीभत्सुर्भवतश्चौर्ध्वदेहिकम्। इमां च नगरी सद्यः प्रतियाते धनञ्जये॥ प्राकाराट्टालकोपेतां समुद्रः प्लावयिष्यति। अहं देशे तु कस्मिंश्चित् पुण्ये नियममास्थितः॥ कालं कर्ता सत्य एव रामेण सह धीमता। एवमुक्त्वा हृषीकेशो मामचिन्त्यपराक्रमः॥ हित्वा मां बालकैः सार्धं दिशं कामप्यगात् प्रभुः। सोऽहं तौ च महात्मानौ चिन्तयन् भ्रातरौ तव।॥ घोरं ज्ञातिवधं चैव न भुञ्जे शोककर्शितः। न भोक्ष्ये न च जीविष्ये दिष्ट्या प्राप्तोऽसि पाण्डव।। यदुक्तं पार्थ कृष्णेन तत् सर्वमखिलं कुरु। एतत् ते पार्थ राज्यं च स्त्रियो रत्नानि चैव हि।। इष्टान् प्राणानहं हीमांस्त्यक्ष्यामि रिपुसूदन॥ वैशम्पायन उवाच एवमुक्तः स बीभत्सुर्मातुलेन परंतप। दुर्मना दीनवदनो वसुदेवमुवाच ह॥ नाहं वृष्णिप्रवीरेण बन्धुभिश्चैव मातुल। विहीनां पुथिवीं द्रष्टुं शक्यामीह कथंचन।॥ राजा च भीमसेनश्च सहदेवश्च पाण्डवः। नकुलो याज्ञसेनी च षडेकमनसो वयम्॥ राज्ञः संक्रमणे चापि कालोऽयं वर्तते ध्रुवम्। तमिमं विद्धि सम्प्राप्तं कालं कालविदां वर॥ सर्वथा वृष्णिदारास्तु बालं वृद्धं तथैव च। नयिष्ये परिगृह्याहमिन्द्रप्रस्थमरिंदम॥ इत्युक्त्वा दारुकमिदं वाक्यमाह धनञ्जयः। अमात्यान् वृष्णिवीराणां द्रष्टुमिच्छामि मा चिरम्।।६। शक्रप्रस्थमहं नेष्ये इत्येवमुक्त्वा वचनं सुधर्मं यादवी सभाम्। प्रविवेशार्जुनः शूरः शोचमानो महारथान्॥ तमासनगतं तत्र सर्वाः प्रकृतयस्तथा। ब्राह्मणा नैगमास्तत्र परिवार्योपतस्थिरे।॥ तान् दीनमनसः सर्वान् विमूढान् गतचेतसः। उवाचेदं वचः काले पार्थो दीनतरस्तथा॥ वृष्ण्यन्धकजनं स्वयम्। इदं तु नगरं सर्वं समुद्रः प्लावयिष्यति॥ सज्जीकुरुत यानानि रत्नानि विविधानि च। वज्रोऽयं भवतां राजा शक्रप्रस्थे भविष्यति॥ सप्तपे दिवसे चैव रवौ विमल उद्गते। बहिर्वत्स्यामहे सर्वे सज्जीभवत मा चिरम्॥ इत्युक्तास्तेन ते सर्वे पार्थेनाक्लिष्टकर्मणा। सज्जमाशु ततश्चक्रुः स्वसिद्ध्यर्थं समुत्सुकाः॥ तां रात्रिमवसत् पार्थः केशवस्य निवेशने। महता शोकमोहेन सहसाभिपरिप्लुतः॥ श्वोभूतेऽथ ततः शौरिर्वसुदेवः प्रतापवान। युक्त्वाऽऽत्मानं महातेजा जगाम गतिमुत्तमाम्॥ ततः शब्दो महानासीद् वसुदेवनिवेशने। दारुणः क्रोशतीनां च रुदतीनां च योषिताम्॥ प्रकीर्णमूर्धजाः सर्वा विमुक्ताभरणस्रजः। उरांसि पाणिभिर्जन्त्यो व्यलपन् करुणं स्त्रियः॥ तं देवकी च भद्रा च रोहिणी मदिरा तथा। अन्वारोहन्त च तदा भर्तारं योषितां वराः॥ ततः शौरि नृयुक्तेन बहुमूल्येन भारत। यानेन महता पार्थो बहिर्निष्क्रामयत् तदा॥ तमन्वयुस्तत्र तत्र दुःखशोकसमन्विताः। द्वारकावासिनः सर्वे पौरजानपदा हिताः॥ तस्याश्वमेधिकं छत्रं दीप्यमानाश्च पावकाः। पुरस्तात् तस्य यानस्य याजकाश्च ततो ययुः॥ अनुजग्मुश्च तं वीरं देव्यस्ता वै स्वलंकृताः। स्त्रीसहस्रः परिवृता वधूभिश्च सहस्रशः॥ यस्तु देशः प्रियस्तस्य जीवतोऽभून्महात्मनः। तत्रैनमुपसंकल्प्य पितृमेधं प्रचक्रिरे॥ तं चिताग्निगतं वीरं शूरपुत्रं वराङ्गनाः। ततोऽन्वारुरुहुः पत्न्यश्चतस्रः पतिलोकगाः॥ तं वै चतसृभिः स्त्रीभिरन्वितं पाण्डुनन्दनः। अदाहयच्चदनैश्च गन्धैरुच्चावचैरपि।॥ ततः प्रादुरभूच्छब्दः समिद्धस्य विभावसोः। सामगानां च निर्घोषो नराणां रुदतामपि॥ ततो वज्रप्रधानास्ते वृष्ण्यन्धककुमारकाः। सर्वे चैवोदकं चक्रुः स्त्रियश्चैव महात्मनः॥ अलुप्तधर्मस्तं धर्मं कारयित्वा स फाल्गुनः। जगाम वृष्णयो यत्र विनष्टा भरतर्षभ।॥ स तान् दृष्ट्वा निपतितान् कदने भृशदुः :खितः। बभूवातीव कौरव्यः प्राप्तकालं चकार ह॥ यथा प्रधानतश्चैव चक्रे सर्वास्तथा क्रियाः। ये हता ब्रह्मशापेन मुसलैरेरकोद्भवैः॥ ततः शरीरे रामस्य वासुदेवस्य चोभयोः। अन्विष्य दाहयामास पुरुषैराप्तकारिभिः॥ स तेषां विधिवत् कृत्वा प्रेतकार्याणि पाण्डवः। सप्तमे दिवसे प्रायाद् रथमारुह्य सत्वरः॥ अश्वयुक्तै रथैश्चापि गोखरोष्ट्रयुतैरपि। स्त्रियस्ता वृष्णिवीराणां रुदत्यः शोककर्शिताः॥ अनुजग्मुर्महात्मानं पाण्डुपुत्रं धनञ्जयम्। भृत्याश्चान्धकवृष्णीनां सादिनो रथिनश्च ये॥ वीरहीनं वृद्धबालं पौरजानपदास्तथा। ययुस्ते परिवार्याथ कलत्रं पार्थशासनात्॥ कुञ्जरैश्च गजारोहा ययुः शैलनिभैस्तथा। सपादरक्षैः संयुक्ताः सान्तरायुधिका ययुः॥ पुत्राश्चान्धकवृष्णीनां सर्वे पार्थमनुव्रताः। ब्राह्मणाः क्षत्रिया: वैश्याः शूद्राश्चैव महाधनाः॥ दश षट् च सहस्राणि वासुदेवावरोधनम्। पुरस्कृत्य ययुर्वजं पौत्रं कृणस्य धीमतः॥ बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च। भोजवृष्ण्यन्धकस्त्रीणां हतनाथानि निर्ययुः॥ तत्सागरसमप्रख्यं वृष्णिचक्रं महर्धिमत्। उवाह रथिनां श्रेष्ठः पार्थः परपुरंजयः॥ निर्याते तु जने तस्मिन् सागरो मकरालयः। द्वारकां रत्नसम्पूर्णो जलेनाप्लावयत् तदा॥ यद् यद्धि पुरुषव्याघ्रो भूमेस्तस्या व्यमुञ्चत। तत् तत् सम्लावयामास सलिलेन स सागरः॥ तदद्भुतमभिप्रेक्ष्य द्वारकावासिनो जनाः। तूर्णात् तूर्णतरं जग्मुरहो दैवमिति ब्रुवन्॥ काननेषु च रम्येषु पर्वतेषु नदीषु च। निवसन्नानयामास वृष्णिदारान् धनञ्जयः॥ स पञ्चनदमासाद्य धीमानतिसमृद्धिमत्। देशे गोपशुधान्याढ्ये निवासमकरोत् प्रभुः॥ ततो लोभः समभवद् दस्यूनां निहतेश्वराः। दृष्ट्वा स्त्रियो नीयमानाः पार्थेनैकेन भारत॥ ततस्ते पामकर्माणो लोभोपहतचेतसः। आभीरा मन्त्रयामासुः समेत्याशुभदर्शनाः॥ अयमेकोऽर्जुनो धन्वी वृद्धबालं हतेश्वरम्। नयत्यस्मानतिक्रम्य योधाश्चमे हतौजसः॥ ततो यष्टिप्रहरणा दस्यवस्ते सहस्रशः। अभ्यधावान्त वृष्णीनां तं जनं लोप्पहारिणः॥ महता सिंहनादेन त्रासयन्तः पृथग्जनम्। अभिपेतुर्वधार्थं ते कालपर्यायचोदिताः॥ ततो निवृत्तः कौन्तेयः सहसा सपदानुगः। उवाच तान् महाबाहुरर्जुनः प्रहसन्निव॥ निवर्तध्वमधर्मज्ञा यदि जीवितुमिच्छथा इदानीं शरनिर्भिन्नाः शोचध्वं निहता मया॥ तथोक्तास्तेन वीरेण कद कृत्य तद्वचः। अभिपेतुर्जनं मूढा वार्यमाणाः पुनः पुनः॥ ततोऽर्जुनो धनुर्दिव्यं गाण्डीवमजरं महत्। आरोपयितुमारेभे यत्नादिव कथंचन॥ चकार सज्जं कृछ्रेण सम्भ्रमे तुमुले सति। चिन्तयामास शस्त्राणि न च सस्मार तान्यपि॥ वैकृतं तन्महद् दृष्ट्वा भुजवीर्यं तथा युधि। दिव्यानां च महास्त्राणां विनाशाद् व्रीडितोऽभवत्॥५६ वृष्णियोधाश्च ते सर्वे गजाश्वरथयोधिनः। न शेकुरावर्तयितुं ह्रियमाणं च तं जनम्॥ कलत्रस्य बहुत्वाद्धि सम्पतत्सु ततस्ततः। प्रयत्नमकरोत् पार्थो जनस्य परिरक्षणे॥ मिषतां सर्वयोधानां ततस्ताः प्रमदोत्तमाः। समन्ततोऽवकृष्यन्त कामाच्चान्याः प्रवव्रजुः॥ ततो गाण्डीवनिर्मुक्तैः शरैः पार्थो धनञ्जयः। जघान दस्यून् सोद्वेगो वृष्णिभृत्यैः सहस्रशः॥ क्षणेन तस्य ते राजन् क्षयं जग्मुरजिह्मगाः। अक्षयाहि पुरा भूत्वा क्षीणा: क्षतजभोजनाः॥ स शरक्षयमासाद्य दुःखशोकसमाहतः। धनुष्कोट्या तदा दस्यूनवधीत् पाकशासनिः॥ प्रेक्षतस्त्वेव पार्थस्य वृष्णयन्धकवरस्त्रियः। जग्मुरादाय ते म्लेच्छाः समन्ताज्जनमेजय॥ धनञ्जयस्तु दैवं तन्मनसाऽचिन्तयत् प्रभुः। दुःखशोकसमाविष्टो निःश्वासपरमोऽभवत्॥ अस्त्राणां च प्रणाशेन बाहुवीर्यस्य संक्षयात्। धनुषश्चाविधेयत्वाच्छराणां संक्षयेण च॥ बभूव विमनाः पार्थो दैवमित्यनुचिन्तयन्। न्यवर्तत ततो राजन् नेदमस्तीति चाब्रवीत्॥ ततः शेषं समादाय कलत्रस्य महामतिः। हतभूयिष्ठरत्नस्य कुरुक्षेत्रमवातरत्॥ एवं कलत्रमानीय वृष्णीनां हतशेषितम्। न्यवेशयत कौरव्यस्तत्र तत्र धनञ्जयः॥ हार्दिक्यतनयं पार्थो नगरे मार्तिकावतम्। भोजराजकलत्रं च हृतशेषं नरोत्तमः॥ ततो वृद्धांश्च बालांश्च स्त्रियश्चादाय पाण्डवः। वीरैर्विहीनान् सर्वांस्ताशक्रप्रस्थे न्यवेशयत्॥ यौयुधानि सरस्वत्यां पुत्रं सात्यकिन: प्रियम्। न्यवेशयत धर्मात्मा वृद्धबालपुरस्कृतम्॥ इन्द्रप्रस्थे ददौ राज्यं वज्राय परवीरहा। वज्रेणाङ्करदारास्तु वार्यमाणाः प्रवव्रजुः॥ रुक्मिणी त्वथ गान्धारी शैव्या हैमवतीत्यपि। देवी जाम्बवती चैव विविशुर्जातवेदसम्॥ सत्यभामा तथैवान्या देव्यः कृष्णस्य सम्मताः। वनं प्रविविशू राजस्तापस्ये कृतनिश्चयाः॥ द्वारकावासिनो ये तु पुरुषाः पार्थमभ्ययुः। यथार्ह संविभज्यैनान् वजे पर्यददज्जयः॥ स तत् कृत्वा प्राप्तकालं बाष्येणापिहितोऽर्जुनः। कृष्णद्वैपायनं व्यासं ददर्शासीनमाश्रमे॥ वैशम्पायन उवाच ततस्ते नियतात्मान उदीची दिशमास्थिताः। ददृशुर्योगयुक्ताश्च हिमवन्तं महागिरिम्॥ तु तं चाप्यतिक्रमन्तस्ते ददृशुर्वालुकार्णवम्। अवैक्षन्त महाशैलं मेरुं शिखरिणां वरम्॥ तेषां तु गच्छतां शीघ्रं सर्वेषां योगधर्मिणाम्। याज्ञसेनी भ्रष्टयोगा निपपात महीतले॥ तां प्रपतितां दृष्ट्वा भीमसेनो महाबलः। उवाच धर्मराजानं याज्ञसेनीमवेक्ष्य ह॥ नाधर्मश्चरितः कश्चिद् राजपुत्र्या परंतप। कारणं किं नु तद् ब्रूहि यत् कृष्णा पतिता भुवि॥ युधिष्ठिर उवाच पक्षपातो महानस्या विशेषेण धनञ्जये। तस्यैतत् फलमद्यैषा भुङ्क्ते पुरुषसत्तम॥ वैशम्पायन उवाच एवमुक्त्वानवेक्ष्यैनां ययौ भरतसत्तमः। समाधाय मनो धीमान् धर्मात्मा पुरुषर्षभः॥ सहदेवस्ततो विद्वान् निपपात महीतले। तं चापि पतितं दृष्ट्वा भीमो राजानमब्रवीत्॥ योऽयमस्मासु सर्वेषु शुश्रूषुरनहंकृतः। सोऽयं माद्रवतीपुत्रः कस्मान् निपतितो भुवि॥ युधिष्ठिर उवाच आत्मनः सदृशं प्राज्ञं नैषोऽमन्यत कंचन। तेन दोषेण पतितस्तस्मादेव नृपात्मजः॥ वैशम्पायन उवाच इत्युक्त्वा तं समुत्सृज्य सहदेवं ययौ तदा। भ्रातृभिः सह कौन्तेयः शुना चैव युधिष्ठिरः॥ कृष्णां निपतितां दृष्ट्वा सहदेवं च पाण्डवम्। आर्तो बन्धुप्रियः शूरो नकुलो निपपात ह॥ तस्मिन् निपतिते वीरे नकुले चारुदर्शने। पुनरेव तदा भीमो राजानमिदमब्रवीत्॥ योऽयमक्षतधर्मात्मा भ्राता वचनकारकः। रूपेणाप्रतिमो लोके नकुलः पतितो भुवि॥ इत्युक्तो भीमसेनेन प्रत्युवाच युधिष्ठिरः। नकुलं प्रति धर्मात्मा सर्वबुद्धिमतां वरः॥ रूपेण मत्समो नास्ति कश्चिदित्यस्य दर्शनम्। अधिकश्चाहमेवैक इत्यस्य मनसि स्थितम्॥ नकुलः पतितस्तस्मादागच्छ त्वं वृकोदर। यस्य यद् विहितं वीर सोऽवश्यं तदुपाश्नुते॥ तांस्तु प्रपतितान् दृष्ट्वा पाण्डवः श्वेतवाहनः। पपात शोकसन्तप्तस्ततो नु परवीरहा॥ तस्मिंस्तु पुरुषव्याघ्र पतिते शक्रतेजसि। प्रियमाणे दुराधर्षे भीमो राजानमब्रवीत्॥ अनृतं न स्मराम्यस्य स्वैरेष्वपि महात्मनः। अथ कस्य विकारोऽयं येनायं पतितो भुवि॥ युधिष्ठिर उवाच एकाह्रा निर्दहेयं वै शत्रूनित्यर्जुनोऽब्रवीत्। न च तत् कृतवानेष शूरमानी ततोऽपतत्॥ अवमेने धनुर्गाहानेष सर्वांश्च फाल्गुनः। तथा चैतन्न तु तथा कर्तव्यं भूतिमिच्छता॥ वैशम्पायन उवाच इत्युक्त्वा प्रस्थितो राजा भीमोऽथ निपपात ह पतितश्चाब्रवीद् भीमो धर्मराज युधिष्ठिरम्॥ भो भो राजन्नवेक्षस्व पतितोऽहं प्रियस्तव। किं निमित्तं च पतनं ब्रूहि मे यदि वेत्थ ह॥ युधिष्ठिर उवाच अतिभुक्तं च भवता प्राणेन च विकत्थसे। अनवेक्ष्यं परं पार्थ तेनासि पतित: क्षितौ॥ इत्युक्त्वा तं महावाहुर्जगामानवलोकयन्। श्वाप्येकोऽनुययौ यस्ते बहुशः कीर्तितो मया।॥ वैशम्पायन उवाच ततः सन्नादयशक्रो दिवं भूमिं च सर्वशः। रथेनोपययौ पार्थमारोहेत्यब्रवीच्च तम्॥ स्वभ्रातृन् पतितान् दृष्ट्वा धर्मराजो युधिष्ठिरः। अब्रवीच्छोकसंतप्तः सहस्राक्षमिदं वचः॥ भ्रातरः पतिता मेऽत्र गच्छेयुस्ते मया सह। न विना भ्रातृभिः स्वर्गमिच्छे गन्तुं सुरेश्वर॥ सुकुमारी सुखार्हा च राजपुत्री पुरंदर। सास्माभिः सह गच्छेत तद् भवाननुमन्यताम्॥ शक्र उवाच भ्रातॄन् द्रक्ष्यसि स्वर्गे त्वमग्रतस्त्रिदिवं गतान्। कृष्णया सहितान् सर्वान् मा शुचो भरतर्षभ॥ निक्षिप्य मानुषं देहं गतास्ते भरतर्षभ। अनेन त्वं शरीरेण स्वर्ग गन्ता न संशयः॥ युधिष्ठिर उवाच अयं श्वा भूतभव्येश भक्तो मां नित्यमेव ह। स गच्छेत मया सार्धमानृशंस्या हि मे मतिः॥ शक्र उवाच अमर्त्यत्वं मत्समत्वं च राजन् श्रियं कृत्स्नां महतीं चैव सिद्धिम्। संप्राप्तोऽद्य स्वर्गसुखानि च त्वं त्यज श्वानं नात्र नृशंसमस्ति॥ युधिष्ठिर उवाच अनार्यमार्येण सहस्रनेत्र शक्यं कर्तुं दुष्करमेतदार्य। मा मे श्रिया सङ्गमनं तयास्तु यस्याः कृते भक्तजनं त्यजेयम्॥ शक्र उवाच स्वर्गे लोके श्ववतां नास्ति धिष्ण्य मिष्टापूर्ते क्रोधवशा हरन्ति। ततो विचार्य क्रियतां धर्मराज त्यज श्वानं नात्र नृशंसमस्ति॥ युधिष्ठिर उवाच भक्तत्यागं प्राहुरत्यन्तपापं तुल्यं लोके ब्रह्मवध्याकृतेन। तस्मान्नाहं जातु कथंचनाद्य त्यक्ष्याम्येनं स्वसुखार्थी महेन्द्र॥ भीतं भक्तं नान्यदस्तीति चात प्राप्तं क्षीणं रक्षणे प्राणलिप्सुम्। प्राणत्यागादप्यहं नैव मोक्तुं यतेयं वै नित्यमेतद् व्रतं मे॥ इन्द्र उवाच शुना दृष्टं क्रोधवशा हरन्ति यद्दत्तमिष्टं विवृतमथो हुतं च। तस्माच्छुनस्त्यागमिमं कुरुष्व शुनस्त्यागाद् प्राप्स्यसे देवलोकम्॥ त्यक्त्वा भ्रातृन् दयितां चापि कृष्णां प्राप्तो लोकः कर्मणा स्वेन वीर। श्वानं चैनं न त्यजसे कथं त्यागं कृत्स्नं चास्थितो मुझसेऽद्य॥ नु युधिष्ठिर उवाच न विद्यते संधिरथापि विग्रहो मृतैर्मत्यैरिति लोकेषु निष्ठा। स्ततस्त्यागस्तेषु कृतो न जीवताम्॥ भीतिप्रदानं शरणागतस्य स्त्रिया वधो ब्राह्मणस्वापहारः। मित्रद्रोहस्तानि चत्वारि शक्र भक्तत्यागश्चैव समो मतो मे॥ वैशम्पायन उवाच तद् धर्मराजस्य वचो निशम्य धर्मस्वरूपो भगवानुवाचा युधिष्ठिरं प्रीतियुक्तो नरेन्द्र श्लक्ष्णैर्वाक्यैः संस्तवसम्प्रयुक्तैः॥ धर्म उवाच अभिजातोऽसि राजेन्द्र पितुर्वृत्तेन मेधया। अनुक्रोशेन चानेन सर्वभूतेषु भारत॥ पुरा द्वैतवने चासि मया पुत्र परीक्षितः। पानीयार्थे पराक्रान्ता यत्र ने भ्रातरो हताः॥ भीमार्जुनौ परित्यज्य यत्र त्वं भ्रातरावुभौ। मात्रोः साम्यमभीप्सन् वै नकुलं जीवमिच्छसि।॥ अयं श्वा भक्त इत्येवं त्यक्तो देवरथस्त्वया। तस्मात् स्वर्गे न ते तुल्यः कश्चिदस्ति नराधिपः॥ अतस्तवाक्षया लोका: स्वशरीरेण भारत। प्राप्तोऽसि भरतश्रेष्ठ दिव्यां गतिमनुत्तमाम्॥ वैशम्पायन उवाच ततो धर्मश्च शक्रश्च मरुतश्चाश्विनावपि। देवा देवर्षयश्चैव रथमारोप्य पाण्डवम्॥ प्रययुः स्वैर्विमानैस्ते सिद्धाः कामविहारिणः। सर्वे विरजसः पुण्या: पुण्यवाग्बुद्धिकर्मिणः॥ स तं रथं समास्थाय राजा कुरुकुलोद्वहः। अर्ध्वमाचक्रमे शीघ्रं तेजसाऽऽवृत्य रोदसी।॥ ततो देवनिकायस्थो नारदः सर्वलोकवित्। उवाचोच्चैस्तदा वाक्यं बृहद्वादी बृहत्तपाः॥ येऽपि राजर्षयः सर्वे ते चापि समुपस्थिताः। कीर्तिं प्रच्छाद्य तेषां वै कुरुराजोऽधितिष्ठति॥ लोकानावृत्य यशसा तेजसा वृत्तसम्पदा। स्वशरीरेण सम्प्राप्तं नान्यं शुश्रुम पाण्डवात्॥ तेजांसि यानि दृष्टानि भूमिष्ठेन त्वया विभो। वेश्मानि भुवि देवानां पश्यामूनि सहस्रशः॥ नारदस्य वचः श्रुत्वा राजा वचनमब्रवीत्। देवानामन्त्र्य धर्मात्मा स्वपक्षांश्चैव पार्थिवान्॥ शुभं वा यदि वा पापं भ्रातृणां स्थानमद्य मे। तदेव प्राप्तुमिच्छामि लोकानन्यान्न कामये॥ राज्ञस्तु वचनं श्रुत्वा देवराजः : पुरंदरः। आनृशस्यसमायुक्तं प्रत्युवाच युधिष्ठिरम्॥ स्थानेऽस्मिन् वस राजेन्द्र कर्मभिर्निर्जिते शुभैः। किं त्वं मानुष्यकं स्नेहमद्यापि परिकर्षसि॥ सिद्धि प्राप्तोऽसि परमां यथा नान्यः पुमान् क्वचित्। नैव ते भ्रातरः स्थानं सम्प्राप्ताः कुरुनन्दन॥ अद्यापि मानुषो भावः स्पृशते त्वां नराधिय। स्वर्गोऽयं पश्य देवर्षीन् सिद्धांश्च त्रिदिवालयान्॥ युधिष्ठिरस्तु देवेन्द्रमेवंवादिनमीश्वरम्। पुनरेवाब्रवीद् धीमानिदं वचनमर्थवत्॥ तैर्विना नोत्सहे वस्तुमिह दैत्यनिबर्हण। गन्तुमिच्छामि तत्राहं यत्र ते भ्रातरो गताः॥ यत्र सा बृहती श्यामा बुद्धिसत्त्वगुणान्विता। द्रौपदी योषितां श्रेष्ठा यत्र चैव गता मम॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवी सरस्वतीं व्यासं ततो जयमुदीरयेत्।। जनमेजय उवाच स्वर्गं त्रिविष्टपं प्राप्य मम पूर्वपितामहाः। पाण्डवा धार्तराष्ट्राश्च कानि स्थानानि भेजिरे।।।। एतदिच्छाम्यहं श्रोतुं सर्वविच्चासि मे मतः। महर्षिणाभ्यनुज्ञातो व्यासेनाद्भुतकर्मणा॥ वैशम्पायन उवाच स्वर्ग त्रिविष्टपं प्राप्य तव पूर्वपितामहाः। युधिष्ठिरप्रभृतयो यदकुर्वत तच्छृणु॥ स्वर्ग त्रिविष्टपं प्राप्य धर्मराजो युधिष्ठिरः। दुर्योधनं श्रिया जुष्टं ददर्शासीनमासने॥ भ्राजमानमिवादित्यं वीरलक्ष्म्याभिसंवृतम्। देवैम॒जिष्णुभिः साध्यैः सहितं पुण्यकर्मभिः॥ ततो युधिष्ठिरो दृष्ट्वा दुर्योधनममर्षितः। सहसा संनिवृत्तोऽभूच्छ्रियं दृष्ट्वा सुयोधने॥ ब्रुवन्नुच्चैर्वचस्तान् वै नाहं दुर्योधनेन वै। सहित: कामये लोकाँल्लुब्धेनादीर्घदर्शिना॥ यत्कृते पृथिवी सर्वा सुहृदो बान्धवास्तथा। हतास्माभिः प्रसह्याजौ क्लिष्टैः पूर्वं महावने॥ द्रौपदी च सभामध्ये पाञ्चाली धर्मचारिणी। पर्याकृष्टानवद्याङ्गी पत्नी नो गुरुसंनिधौ॥ अस्ति देवा न मे कामः सुयोधनमुदीक्षितुम्। तत्राहं गन्तुमिच्छामि यत्र ते भ्रातरो मम॥ नैवमित्यब्रवीत् तं तु नारदः प्रहसन्निव। स्वर्गे निवासे राजेन्द्र विरुद्धं चापि नश्यति॥ यूयं सर्वे युधिष्ठिर महाबाहो मैवं वोचः कथंचन। दुर्योधनं प्रति नृपं शृणु चेदं वचो मम॥ एष दुर्योधनो राजा पूज्यते त्रिदशैः सह। सद्धिश्च राजप्रवरैर्य इमे स्वर्गवासिनः॥ वीरलोकगतिः प्राप्ता युद्धे हुत्वाऽऽत्मनस्तनुम्। सुरसमा येन युद्धे समासिताः॥ स एष क्षत्रधर्मेण स्थानमेतदवाप्तवान्। भये महति योऽभीतो बभूव पृथिवीपतिः॥ न तन्मनसि कर्तव्यं पुत्र यद् द्यूतकारितम्। द्रौपद्याश्च परिक्लेशं न चिन्तयितुमर्हसि॥ ये चान्येऽपि परिक्लेशा युष्माकं ज्ञातिकारिताः। संग्रामेष्वथ वान्यत्र न तान् संस्मर्तुमर्हसि॥ समागच्छ यथान्यायं राज्ञा दुर्योधनेन वै। स्वर्गोऽयं नेह वैराणि भवन्ति मनुजाधिप॥ नारदेनैवमुक्तस्तु कुरुराजो युधिष्ठिरः। भ्रातन् पप्रच्छ मेधावी वाक्यमेतदुवाच ह॥ यदि दुर्योधनस्यैते वीरलोकाः सनातनाः। अधर्मज्ञस्य पापस्य पृथिवीसुहृदां दुहः॥ यत्कृते पृथिवी नष्टा सहया सनरद्विपा। वयं च मन्युना दग्धा वैरं प्रतिचिकीर्षवः॥ ये ते वीरा महात्मानो भ्रातरो मे महाव्रताः। सत्यप्रतिज्ञा लोकस्य शूरा वै सत्यवादिनः॥ तेषामिदानीं के लोका दुष्टमिच्छामि तानहम्। कर्णं चैव महात्मानं कौन्तेयं सत्यसंगरम्॥ धृष्टद्युम्नं सात्यकिं च धृष्टद्युम्नस्य चात्मजान्। ये च शस्त्रैर्वधं प्राप्ताः क्षत्रधर्मेण पार्थिवाः॥ क्व नु ते पार्थिवान् ब्रह्मन्नैतान् पश्यामि नारद। विराटद्रुपदौ चैव धृष्टकेतुमुखांश्च तान्॥ शिखण्डिनं च पाञ्चाल्यं द्रौपदेयांश्च सर्वशः। अभिमन्युं च दुर्धर्षे द्रष्टुमिच्छामि नारद॥ वैशम्पायन उवाच स्थिते मुहूर्त पार्थे तु धर्मराजे युधिष्ठिरे। आजग्मुस्तत्र कौरव्य देवाः शक्रपुरोगमाः॥ स च विग्रहवान् धर्मो राजानं प्रसमीक्षितुम्। तत्राजगाम यत्रासौ कुरुराजो युधिष्ठिरः॥ तेषु भासुरदेहेषु पुण्याभिजनकर्मसु। समागतेषु देवेषु व्यगमत् तत् तमो नृप॥ नादृश्यन्त च तास्तत्र यातनाः पापकर्मिणाम्। नदी वैतरणी चैव कूटशाल्मलिना सह॥ लोहकुम्भ्यः शिलाश्चैव नादृश्यन्त भयानकाः। विकृतानि शरीराणि यानि तत्र समन्ततः॥ ददर्श राजा कौरव्यस्तान्यदृश्यानि चाभवन्। ततो वायुः सुखस्पर्शः पुण्यगन्धवहः शुचिः॥ ववौ देवसमीपस्थः शीतलोऽतीव भारत। मरुतः सह शक्रेण वसवश्वाश्विनौ सह॥ साध्या रुद्रास्तथाऽऽदित्या ये चान्येऽपि दिवौकसः। सर्वे तत्र समाजग्मुः सिद्धाश्च परमर्षयः॥ यत्र राजा महातेजा धर्मपुत्रः स्थितोऽभवत्। ततः शक्रः सुरपतिः श्रिया परमया युतः॥ युधिष्ठिरमुवाचेदं सान्त्वपूर्वमिदं वचः। युधिष्ठिर महाबाहो लोकाश्चाप्यक्षयास्तव॥ एह्येहि पुरुषव्याघ्र कृतमेतावता विभो। सिद्धिः प्राप्ता महाबाहो लोकाश्चाप्यक्षयास्तव॥ न च मन्युस्त्वया कार्यः शृणु चेदं वचो मम। अवश्यं नरकस्तात द्रष्टव्यः सर्वराजभिः॥ शुभानामशुभानां च द्वौ राशी पुरुषर्षभ। यः पूर्वं सुकृतं भुङ्क्त पश्चानिरयमेव सः॥ पूर्वं नरकभाग् यस्तु पश्चात् स्वर्गमुपैति सः। भूयिष्ठं पापकर्मा यः स पूर्वं स्वर्गमश्नुते॥ तेन त्वमेवं गमितो मया श्रेयोऽर्थिना नृप। व्याजेन हि त्वया द्रोण उपचीर्णः सुतं प्रति॥ व्याजेनैव ततो राजन् दर्शितो नरकस्तव। यथैव त्वं तथा भीमस्तथा पार्थो यमौ तथा॥ द्रौपदी च तथा कृष्णा व्याजेन नरकं गताः। आगच्छ नरशार्दूल मुक्तास्ते चैव कल्मषात्॥ स्वपक्ष्याश्चैव ये तुभ्यं पार्थिवा निहता रणे। सर्वे स्वर्गमनुप्राप्तास्तान् पश्य भरतर्षभ॥ कर्णश्चैव महेष्वासः सर्वशस्त्रभृतां वरः। स गतः परमां सिद्धिं यदर्थं परितप्यसे॥ तं पश्य पुरुषव्याघ्रमादित्यतनयं विभो। स्वस्थानस्थं महाबाहो जहि शोकं नरर्षभ॥ भ्रातूंश्चान्यांस्तथा पश्य स्वपक्ष्यांश्चैव पार्थिवान्। स्वं स्वं स्थानमनुप्राप्तान् व्येतु ते मानसो ज्वरः॥ कृच्छ्रे पूर्वं चानुभूय इतःप्रभृति कौरव। विहरस्व मया सार्धं गतशोको निरामयः॥ कर्मणां तात पुण्यानां जितानां तपसा स्वयम्। दानानां च महाबाहो फलं प्राप्नुहि पार्थिव॥ अद्य त्वां देवगन्धर्वा दिव्याश्चाप्सरसो दिवि। उपसेवन्तु कल्याण्यं विरजोऽम्बरभूषणाः॥ राजसूयजिताँल्लोकानश्वमेधाभिवर्धितान्। प्राप्नुहि त्वं महाबाहो तपसश्च महाफलम्॥ उपर्युपरि राज्ञां हि तव लोका युधिष्ठिर। हरिश्चन्द्रसमाः पार्थ येषु त्वं विहरिष्यसि॥ मान्धाता यत्र राजर्षिर्यत्र राजा भगीरथः। दौष्यन्तियत्र भरतस्तत्र त्वं विहरिष्यसि॥ एषा देवनदी पुण्या पार्थ त्रैलोक्यपावनी। आकाशगङ्गा राजेन्द्र तत्राप्लुत्य गमिष्यसि॥ अत्र स्नातस्य भावस्ते मानुषो विगमिष्यति। गतशोका निरायासो मुक्तवैरो भविष्यसि॥ एवं ब्रुवति देवेन्द्रे कौरवेन्द्रे युधिष्ठिरम्। धर्मो विग्रहवान् साक्षादुवाच सुतमात्मनः॥ भो भो राजन् महाप्राज्ञ प्रीतोऽस्मि तव पुत्रका मद्भक्त्या सत्यवाक्यैश्च क्षमया च दमेन च॥ एषा तृतीया जिज्ञासा तव राजन् कृता मया। न शक्यसे चालयितुं स्वभावात् पार्थ हेतुतः॥ पूर्वं परीक्षितो हि त्वं प्रश्चाद् द्वैतवने मया। अरणीसहितस्यार्थे तच्च निस्तीर्णवानसि॥ सोदर्येषु विनष्टेषु द्रौपद्या तत्र भारत। श्वरूपधारिणा तत्र पुनस्त्वं मे परीक्षितः॥ इदं तृतीयं भ्रातृणामर्थे यत् स्थातुमिच्छसि। विशुद्धोऽसि महाभाग सुखी विगतकल्मषः॥ न च ते भ्रातरः पार्थ नरकारे विशाम्पते। मायैषा देवराजेन महेन्द्रेण प्रयोजिता॥ अवश्यं नरकास्तात द्रष्टव्याः सर्वराजभिः। ततस्त्वया प्राप्तमिदं मुहूर्तं दुःखमुत्तमम्॥ न सव्यसाची भीमो वा यमौ वा पुरुषर्षभौ। कर्णो वा सत्यवाक् शूरो नरकार्दाश्चिरं नृप॥ न कृष्णा राजपुत्री च नरकारे कथंचन। एह्येहि भरतश्रेष्ठ पश्य गङ्गां त्रिलोकगाम्॥ एवमुक्तः स राजर्षिस्तव पूर्वपितामहः। जगाम सह धर्मेण सर्वेश्च त्रिदिवालयैः॥ गङ्गा देवनदी पुण्यां पावनीमृषिसंस्तुताम्। अवगाह्य ततो राजा तनुं तत्याज मानुषीम्॥ ततो दिव्यवपुर्भूत्वा धर्मराजो युधिष्ठिरः। निर्वैरो गतसंतापो जले तस्मिन् समाप्लुतः॥ ततो ययौ वृतो देवैः कुरुराजो युधिष्ठिरः। धर्येण सहितो धीमान् स्तूयमानो महर्षिभिः॥ यत्र ते पुरुषव्याघ्राः शूरा विगतमन्यवः। पाण्डवा धार्तराष्ट्राश्च स्वानि स्थानानि भेजिरे॥ वैशम्पायन उवाच ततो युधिष्ठिरो राजा देवैः सर्षिमरुद्गणैः। स्तूयमानो ययौ तत्र यत्र ते कुरुपुङ्गवाः॥ ददर्श तत्र गोविन्दं ब्राह्मण वपुषान्वितम्। तेनैव दृष्टपूर्वेण सादृश्येनैव सूचितम्॥ दीप्यमानं स्ववपुषा दिव्यैरस्त्रैरुपस्थितम्। चक्रप्रभृतिभिर्घारैर्दिव्यैः पुरुषविग्रहैः॥ उपास्यमानं वीरेण फाल्गुनेन सुवर्चसा। तथास्वरूपं कौन्तेयो ददर्श मधुसूदनम्॥ तावुभौ पुरुषव्याघ्रौ समुद्वीक्ष्य युधिष्ठिरम्। यथावत् प्रतिपेदाते पूजया देवपूजितौ॥ अपरस्मिन्नथोद्देशे कर्णं शस्त्रभृतां वरम्। द्वादशादित्यसहितं ददर्श कुरुनन्दनः॥ अथापरस्मिन्नुद्देशे मरुद्गणवृतं विभुम्। भीमसेनमथापश्यत् तेनैव वपुषान्वितम्॥ वायोर्मूर्तिमतः पार्श्वे दिव्यमूर्तिसमन्वितम्। श्रिया परमया युक्तं सिद्धि परमिकां गतम्॥ अश्विनोस्तु तथा स्थाने दीप्यमानौ स्वतेजसा। नकुलं सहदेवं च ददर्श कुरुनन्दनः॥ तथा ददर्श पाञ्चाली कमलोत्पलमालिनीम्। वपुषा स्वर्गमाक्रम्य तिष्ठन्तीमर्कवर्चसम्॥ अखिलं सहसा राजा प्रष्टुमैच्छद् युधिष्ठिरः। ततोऽस्य भगवानिन्द्रः कथयामास देवराट्॥ श्रीरेषा द्रौपदीरूपा त्वदर्थे मानुषं गता। अयोनिजा लोककान्ता पुण्यगन्धा युधिष्ठिर॥ रत्यर्थं भवतां ह्येषा निर्मिता शूलपाणिना। द्रुपदस्य कुले जाता भवद्भिश्चोपजीविता॥ एते पञ्च महाभागा गन्धर्वाः पावकप्रभाः। द्रौपद्यास्तनया राजन् युष्माकममितौजसः॥ पश्य गन्धर्वराजानं धृतराष्ट्र मनीषिणम्। एनं च त्वं विजानीहि भ्रातरं पूर्वजं पितुः॥ अयं ते पूर्वजो भ्राता कौन्तेयः पावकद्युतिः। सूतपुत्राग्रजः श्रेष्ठो राधेय इति विश्रुतः॥ आदित्यसहितो याति पश्यैनं पुरुषर्षभम्। साध्यानामथ देवानां विश्वेषां मरुतामपि॥ गणेषु पश्य राजेन्द्र वृष्ण्यन्धकमहारथान्। सात्यकिप्रमुखान् वीरान् भोजांश्चैव महाबलान्॥ सोमेन सहितं पश्य सौभद्रमपराजितम्। अभिमन्युं महेष्वासं निशाकरसमद्युतिम्॥ एष पाण्डुर्महेष्वासः कुन्त्या मात्र्या च संगतः। विमानेन सदाभ्येति पिता तव ममान्तिकम्॥ वसुभिः सहितं पश्य भीष्मं शान्तनवं नृपम्। द्रोणं बृहस्पतेः पावें गुरुमेनं निशामय॥ एते चान्ये महीपाला योधास्तव च पाण्डव। गन्धर्वसहिता यान्ति यक्षपुण्यजनैस्तथा॥ गुह्यकानां गतिं चापि केचित् प्राप्ता नराधिपाः। त्यक्त्वा देहं जित: स्वर्गः पुण्यवाग्बुद्धिकर्मभिः।।२३। जनमेजय उवाच भीष्मद्रोणौ महात्मानौ धृतराष्ट्रश्च पार्थिवः। विराटद्रुपदौ चोभौ शङ्खश्चैवोत्तरस्तथा।॥ धृष्टकेतुर्जयत्सेनो राजा चैव स सत्यजित्। दुर्योधनसुताश्चैव शकुनिश्चैव सौबलः॥ कर्णपुत्राश्च विक्रान्ता राजा चैव जयद्रथः। घटोत्कचादयश्चैव ये चान्ये नानुकीर्तिताः॥ ये चान्ये कीर्तिता वीरा राजानो दीप्तमूर्तयः। स्वर्गे कालं कियन्तं ते तस्थुस्तदपि शंस मे॥ आहोस्विच्छाश्वतं स्थानं तेषां तत्र द्विजोत्तम। अन्ते वा कर्मणां कां ते गतिं प्राप्ता नरर्षभाः॥ एतदिच्छाम्यहं श्रोतुं प्रोच्यमानं द्विजोत्तम। तपसा हि प्रदीप्तेन सर्वं त्वमनुपश्यति॥ सौतिरुवाच इत्युक्तः स तु विप्रर्षिरनुज्ञातो महात्मना। व्यासेन तस्य नृपतेराख्यातुमुपचक्रमे॥ वैशम्पायन उवाच न शक्यं कर्मणामन्ते सर्वेण मनुजाधिप। प्रकृतिं किं नु सम्यक्ते पृच्छैषा सम्प्रयोजिता॥ शृणु गुह्यमिदं राजन् देवानां भरतर्षभ। यदुवाच महातेजा दिव्यचक्षुः प्रतापवान्॥ मुनिः पुराण: कौरव्य पाराशर्यो महाव्रतः। अगाधबुद्धिः सर्वज्ञो गतिज्ञः सर्वकर्मणाम्॥ तेनोक्तं कर्मणामन्ते प्रविशन्ति स्विकां तनुम्। वसूनेव महातेजा भीष्मः प्राप महाद्युतिः॥ अष्टावेव हि दृश्यन्ते वसवो भरतर्षभ। बृहस्पति विवेशाथ द्रोणो ह्यङ्गिरसां वरम्॥ कृतवर्मा तु हार्दिक्यः प्रविवेश मरुद्गणान् । सनत्कुमारं प्रद्युम्नः प्रविवेश यथागतम्॥ धृतराष्ट्रो धनेशस्य लोकान् प्राप दुरासदान्। धृतराष्ट्रेण सहिता गान्धारी च यशस्विनी॥ पत्नीभ्यां सहितः पाण्डुर्महेन्द्रसदनं ययौ। विराटद्रुपदौ चौभो धृष्टकेतुश्च पार्थिवः॥ निशठाक्रूरसाम्बाश्च भानुः कम्पो विदूरथः। भूरिश्रवाः शलश्चैव भूरिश्च पृथिवीपतिः॥ कंसश्चैवोग्रसेनश्च वसुदेवस्तथैव च। उत्तरश्च सह भ्रात्रा शङ्खन नरपुङ्गवः॥ विश्वेषां देवतानां ते विविशुनरसत्तमाः। वर्चा नाम महातेजाः सोमपुत्रः प्रतापवान्॥ सोऽभिमन्युइँसिंहस्य फाल्गुनस्य सुतोऽभवत्। स युद्ध्वा क्षत्रधर्मेण यथा नान्यः पुमान् क्वचित्।।१९ विवेश सोमं धर्मात्मा कर्मणोऽन्ते महारथः। आविवेश रविं कर्णो निहतः पुरुषर्षभः॥ द्वापरं शकुनिः प्राप धृष्टद्युम्नस्तु पावकम्। धृतराष्ट्रात्मजाः सर्वे यातुधाना बलोत्कटाः॥ ऋद्धिमन्तो महात्मानः शस्त्रपूता दिवं गताः। धर्ममेवाविशत् क्षत्ता राजा चैव युधिष्ठिरः॥ अनन्तो भगवान् देवः प्रविवेश रसातलम्। पितामहनियोगाद् वै यो योगाद् गामधारयत्॥ यः स नारायणो नाम देवदेवः सनातनः। तस्यांशो वासुदेवस्तु कर्मणोऽन्ते विवेश ह॥ षोडश स्त्रीसहस्राणि वासुदेवपरिग्रहः। अमज्जंस्ताः सरस्वत्यां कालेन जनमेजय॥ तत्र त्यक्त्वा शरीराणि दिवामारुरुहुः पुनः। ताश्चैवाप्सरसो भूत्वा वासुदेवमुपाविशन्॥ हतास्तस्मिन् महायुद्धे ये वीरास्तु महारथाः। घटोत्कचादयश्चैव देवान् यक्षांश्च भेजिरे॥ दुर्योधनसहायाश्च राक्षसाः परिकीर्तिताः। प्राप्तास्ते क्रमशो राजन् सर्वलोकाननुत्तमान्॥ भवनं च महेन्द्रस्य कुबेरस्य च धीमतः। वरुणस्य तथा लोकान् विविशुः पुरुषर्षभाः॥ एतत् ते सर्वमाख्यातं विस्तरेण महाद्युते। कुरूणां चरितं कृत्स्नं पाण्डवानां च भारत॥ सौतिरुवाच एतच्छुत्वा द्विजश्रेष्ठः स राजा जनमेजयः। विस्मितोऽभवदत्यर्थं यज्ञकर्मान्तरेष्वथ।॥ ततः समापयामासुः कर्म तत् तस्य याजकाः। आस्तीकश्चाभवत् प्रीतः परिमोक्ष्य भुजङ्गमान्॥ ततो द्विजातीन् सर्वांस्तान् दक्षिणाभिरतोषयत्। पूजिताश्चापि ते राज्ञा ततो जग्मुर्यथागतम्॥ विसर्जयित्वा विप्रांस्तान् राजापि जनमेजयः। ततस्तक्षशिलाया: स पुनरायाद् गजाह्वयम्॥ एतत् ते सर्वमाख्यातं वैशम्पायनकीर्तितम्। व्यासाज्ञया समाज्ञातं सर्पसत्रे नृपस्य हि॥ पुण्योऽयमितिहासाख्यः पवित्रं चेदमुत्तमम्। कृष्णेन मुनिना विप्र निर्मितं सत्यवादिना॥ सर्वज्ञेन विधिज्ञेन धर्मज्ञानवता सता। अतीन्द्रियेण शुचिना तयसा भावितात्मना॥ ऐश्वर्ये वर्तता चैव सांख्ययोगवता तथा। नंकतन्त्रविबुद्धेन दृष्ट्वा दिव्येन चक्षुषा॥ कीर्ति प्रथयता लोके पाण्डवानां महात्मनाम्। अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम्॥ यश्चेदं श्रावयेद् विद्वान् सदा पर्वणि पर्वणि। धूतपाप्मा जितस्वर्गो ब्रह्मभूयाय कल्पते॥ कार्णं वेदमिमं सर्व सर्वं शृणुयाद् यः समाहितः। ब्रह्महत्यादिपापानां कोटिस्तस्य विनश्यति॥ यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान् पादमन्ततः। अक्षय्यमन्नपानं वै पितृस्तस्योपतिष्ठते॥ अह्ना यदेनः कुरुते इन्द्रियैर्मनसापि वा। महाभारतमाख्याय पश्चात् संध्यां प्रमुच्यते॥ यद् रात्रौ कुरुते पापं ब्राह्मणः स्त्रीगणैर्वृतः। महाभारतमाख्याय पूर्व संध्या प्रमुच्यते॥ महत्त्वाद् भारतवत्त्वाच्च महाभारतमुच्यते। निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते॥ अष्टादशपुराणानि धर्मशास्त्राणि सर्वशः। वेदाः साङ्गास्तथैकत्र भारतं चैकतः स्थितम्॥ श्रूयतां सिंहनादोऽयमृषेस्तस्य महात्मनः। अष्टादशपुराणानां कर्तुर्वेदमहोदधेः॥ त्रिभिर्वरिदं पूर्ण कृष्णद्वैपायनः प्रभुः। अखिल भारतं चेदं चकार भगवान् मुनिः॥ आकर्य भक्त्या सततं जयाख्यं भारतं महत्। श्रीश्च कीर्तिस्तथा विद्या भवन्ति सहिताः सदा॥ धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ। यदिहास्ति तदन्यत्र यन्नेहास्ति न कुत्रचित्॥ जयो नामेतिहासोऽयं श्रोतव्यो मोक्षमिच्छता। ब्राह्मणेन च राज्ञा च गर्भिण्या चैव योषिता॥ स्वर्गकामो लभेत् स्वर्ग जयकामो लभेज्जयम्। गर्भिणी लभते पुत्रं कन्यां वा बहुभागिनीम्॥ अनागतश्च मोक्षश्च कृष्णद्वैपायनः प्रभुः। संदर्भ भारतस्यास्य कृतवान् धर्मकाम्यया।॥ षष्टिं शतसहस्राणि चकारान्यां स संहिताम्। त्रिंशच्छतसहस्राणि देवलोके प्रतिष्ठितम्॥ पित्र्ये पञ्चदशं ज्ञेयं यक्षलोके चतुर्दश। एकं शतसहस्रं तु मानुषेषु प्रभाषितम्॥ नारदोऽश्रावयद् देवानसितो देवलः पितॄन्। रक्षोयक्षाशुको मान् वैशम्पायन एव तु॥ इतिहासमिमं पुण्यं महार्थं वेदसम्मितम्। व्यासोक्तं श्रूयते येन कृत्वा ब्राह्मणमग्रतः॥ स नरः सर्वकामांश्च कीर्ति प्राप्येह शौनक। गच्छेत् परमिकां सिद्धिमत्र मे नास्ति संशयः॥ भारताध्ययनात् पुण्यादपि पादमधीयतः। श्रद्धया परया भक्त्या श्राव्यते चापि येन तु॥ य इमां सहितां पुण्यां पुत्रमध्यापयच्छुकम्। मातापितृसहस्राणि पुत्रदारशतानि च। संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे॥ हर्षस्थानसहस्राणि भयस्थानशतानि च। दिवसे दिवसे मूढमाविशन्ति च पण्डितम्॥ ऊर्ध्वबाहुर्विरोम्येष न च कश्चिच्छणोति मे। धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते॥ न जातु कामान्न भयान्न लोभाद् धर्म त्यजेज्जीवितस्यापि हेतोः। नित्यो धर्मः सुखदुःखे त्वनित्ये जीवो नित्यो हेतुरस्य त्वनित्यः॥ इमा भारतसावित्री प्रातरुत्थाय यः पठेत्। स भारतफलं प्राप्य परं ब्रह्माधिगच्छति॥ यथा समुद्रो भगवान् यथा हि हिमवान् गिरिः। ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते॥ कार्यों वेदमिमं विद्वाश्रावयित्वार्थमश्नुते। इदं भारतमाख्यानं यः पठेत् सुसमाहितः। स गच्छेत् परमां सिद्धिमिति मे नास्ति संशयः॥ द्वैपायनोष्ठपुटनिःसृतममप्रेयं पुण्यं पवित्रमथ पापहरं शिवं च। यो भारतं समधिगच्छति वाच्यमान। किं तस्य पुष्करजलैरभिषेचनेन॥ यो गोशतं कनकशृङ्गमयं ददाति विप्राय वेदविदुषे सुबहुश्रुताया पुण्यां च भारतकथां सततं शृणोति तुल्यं फलं भवति तस्य च तस्य चैव॥ जनमेजय उवाच भगवन् केन विधिना श्रोतव्यं भारतं बुधैः। फलं किं के च देवाश्च पूज्या वै पारणेष्विह॥ देयं समाप्ते भगवन् किं च पर्वणि पर्वणि। वाचकः कीदृशश्चात्र एष्टव्यस्तद् वदस्व मे॥ वैशम्पायन उवाच शृणु राजन् विधिमिमं फलं यच्चापि भारतात्। श्रुताद् भवति राजेन्द्र यत् त्वं मामनुपृच्छसि॥ दिवि देवा महीपाल क्रीडार्थमवनिं गताः। कृत्वा कार्यमिदं चैव ततश्च दिवमागताः॥ हन्त यत् ते प्रवक्ष्यामि तच्छृणुष्व समाहितः। ऋषीणां देवतानां च सम्भवं वसुधातले॥ अत्र रुद्रास्तथा साध्या विश्वेदेवाच शाश्वताः। आदित्याशाश्विनौ देवौ लोकपाला महर्षयः॥ गुह्यकाश्च सगन्धर्वा नागा विद्याधरास्तथा। सिद्धा धर्मः स्वयम्भूश्च मुनिः कात्यायनो वरः॥ गिरयः सागरा नद्यस्तथैवाप्सरसां गणाः। ग्रहाः संवत्सराश्चैव अयनान्यतवस्तथा॥ स्थावरं जङ्गमं चैव जगत् सर्वं सुरासुरम्। भारते भरतश्रेष्ठ एकस्थमिह दृश्यते॥ तेषां श्रुत्वा प्रतिष्ठानं नामकर्मानुकीर्तनात्। कृत्वापि पातकं घोरं सद्यो मुच्यते मानवः॥ इतिहासमिमं श्रुत्वा यथावदनुपूर्वशः। संयतात्मा शुचिर्भूत्वा पारं गत्वा च भारते॥ तेषां श्राद्धानि देयानि श्रुत्वा भारत भारतम्। ब्राह्मणेभ्यो यथाशक्त्या भक्त्या च भरतर्षभ॥ महादानानि देयानि रत्नानि विविधानि च। गावः कांस्योपदोहाच कन्याश्चैव स्वलंकृताः॥ सर्वकामगुणोपेता यानानि विविधानि च। भवनानि विचित्राणि भूमिर्वासांसि काञ्चनम्॥ वाहनानि च देयानि हया मत्ताश्च वारणाः। शयनं शिबिकाश्चैव स्यन्दनाश्च स्वलंकृताः॥ यद् यद् गृहे वरं किञ्चिद् यद् यदस्ति महद् वसु। तद् तद् देयं द्विजातिभ्य आत्मा दाराश्च सूनवः॥ श्रद्धया परया युक्तं क्रमशस्तस्य पारगः। शक्तितः सुमना हृष्टः शुश्रूषूरविकल्पकः॥ सत्यार्जवरतो दान्तः शुचिः शौचसमन्वितः। श्रद्दधानो जितक्रोधो यथा सिध्यति तच्छृणु।॥ शुचिः शीलान्विताचारः शुक्लवासा जितेन्द्रियः। संस्कृतः सर्वशास्त्रज्ञः श्रद्दधानोऽनसूयकः॥ रूपवान् सुभगो दान्तः सत्यवादी जितेन्द्रियः। दानमानगृहीतश्च कार्यो भवति वाचकः॥ अविलम्बमनायस्तमद्रुतं धीरमूर्जितम्। असंसक्ताक्षरपदं स्वरभावसमन्वितम्॥ त्रिषष्टिवर्णसंयुक्तमष्टस्थानसमीरितम्। वाचयेद् वाचकः स्वस्थः स्वासीनः सुसमाहितः॥२२ नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवी सरस्वतीं व्यासं ततो जयमुदीरयेत्॥ ईदृशाद् वाचकाद् राजश्रुत्वा भारत भारतम्। नियमस्थः शुचिः श्रोता शृण्वन् स फलमश्नुते॥ पारणं प्रथमं प्राप्य द्विजान् कामैश्च तर्पयन्। अग्निष्टोमस्य यज्ञस्य फलं वै लभते नरः॥ अप्सरोगणसंकीर्णं विमानं लभते महत्। प्रहृष्टः स तु देवैश्च दिवं याति समाहितः॥ द्वितीयं पारणं प्राप्य सोऽतिरात्रफलं लभेत्। सर्वरत्नमयं दिव्यं विमानमधिरोहति॥ दिव्यमाल्याम्बरधरो दिव्यगन्धविभूषितः। दिव्याङ्गदधरो नित्यं देवलोके महीयते॥ तृतीयं पारणं प्राप्य द्वादशाहफलं लभेत्। वसत्यमरसंकाशो वर्षाण्ययुतशो दिवि॥ चतुर्थे वाजपेयस्य पञ्चमे द्विगुणं फलम्। उदितादित्यसंकाशं ज्वलन्तमनलोपमम्॥ विमानं विबुधैः सार्धमारुह्य दिवि गच्छति। वर्षायुतानि भवने शक्रस्य दिवि मोदते॥ षष्ठे द्विगुणमस्तीति सप्तमे त्रिगुणं फलम्। कैलासशिखराकारं वैदूर्यमणिवेदिकम्॥ परिक्षिप्तं च बहुधा पणिविदुमभूषितम्। विमानं समधिष्ठाय कामगं साप्सरोगणम्॥ सर्वांल्लोकान् विचरते द्वितीय इव भास्करः। अष्टमे राजसूयस्य पारणे लभते फलम्॥ चन्द्रोदयनिभं रम्यं विमानमधिरोहति। चन्द्ररश्मिप्रतीकाशैर्हयैर्युक्तं मनोजवैः॥ सेव्यमानो वरस्त्रीणां चन्द्रात् कान्ततरैर्मुखैः। मेखलानां निनादेन नूपुराणां च निःस्वनैः॥ अङ्के परमनारीणां सुखसुप्तो विबुध्यते। नवमे क्रतुराजस्य वाजिमेधस्य भारत॥ काञ्चनस्तम्भनिहवैदूर्यकृतवेदिकम्। जाम्बूनदमयैर्दिव्यैर्गवाक्षैः सर्वतो वृतम्॥ सेवितं चाप्सरःसङ्गैर्गन्धर्वैर्दिविचारिभिः। विमानं समधिष्ठाय श्रिया परमया ज्वलन्॥ दिव्यमाल्याम्बरधरो दिव्यचन्दनरूषितः। मोदते दैवतैः सार्धं दिवि देव इवापरः॥ दशमं पारणं प्राप्य द्विजातीनभिवन्द्य च। किंकिणीजालनिर्घोषं पताकाध्वजशोभितम्॥ रत्नवेदिकसम्बाधं वैदूर्यमणितोरणम्। हेमजालपरिक्षिप्तं प्रवालबलभीमुखम्॥ गन्धर्वर्गीतकुशलैरप्सरोभिश्च शोभितम्। विमानं सुकृतावासं सुखेनैवोपपद्यते॥ मुकुटेनाग्निवर्णेन जाम्बूनदविभूषिणा। दिव्यचन्दनदिग्धाङ्गो दिव्यमाल्यविभूषितः॥ दिव्याल्लोकान् विचरति दिव्यैर्भोगैः समन्वितः। विबुधानां प्रसादेन श्रिया परमया युतः॥ अथ वर्षगणानेवं स्वर्गलोके महीयते। ततो गन्धर्वसहितः सहस्राण्येकविंशतिम्॥ पुरन्दरपुरे रम्ये शक्रेण सह मोदते। दिव्ययानविमानेषु लोकेषु विविधेषु च॥ दिव्यनारीगणाकीर्णो निवसत्यमरो यथा। ततः सूर्यस्य भवने चन्द्रस्य भवने तथा॥ शिवस्य भवने राजन् विष्णोर्याति सलोकताम्। एवमेतन्महाराज नात्र कार्या विचारणा॥ श्रद्दधानेन वै भव्यमेवमाह गुरुर्मम। वाचकस्य तु दातव्यं मनसा यद् यदिच्छति॥ हस्त्यश्वस्थयानानि वाहनानि विशेषतः। कटके कुण्डले चैव ब्रह्मसूत्रं तथा परम्॥ वस्त्रं चैव विचित्रं च गन्धं चैव विशेषतः। देववत् पूजयेत् तं तु विष्णुलोकमवाप्नुयात्॥ अतः परं प्रवक्ष्यामि यानि देयानि भारते। वाच्यमाने तु विप्रेभ्यो राजन् पर्वणि पर्वणि॥ जाति देशं च सत्यं च माहात्म्यं भरतर्षभ। धर्मं वृत्तिं च विज्ञाय क्षत्रियाणां नराधिप।॥ स्वस्ति वाच्य द्विजानादौ ततः कार्ये प्रवर्तिते। समाप्ते पर्वणि तत: स्वशक्त्या पूजयेद् द्विजान्।५५। आदौ तु वाचकं चैव वस्त्रगन्धसमन्वितम्। विधिवद् भोजयेद् राजन् मधु पायसमुत्तमम्॥ ततो मूलफलप्रायं पायसं मधुसर्पिघा। आस्तीके भोजयेद् राजन् दद्याच्चैव गुडौदनम्॥ अपूपैश्चैव पूपैश्च मोदकैश्च समन्वितम्। सभापर्वणि राजेन्द्र हविष्यं भोजयेद् द्विजान्॥ आरण्यके मूलफलैस्तर्पयेत्तु द्विजोत्तमान्। अरणीपर्व चासाद्य जलकुम्भान् प्रदापयेत्॥ तर्पणानि च मुख्यानि वन्यमूलफलानि च। सर्वकामगुणोपेतं विप्रेभ्योऽन्नं प्रदापयेत्॥ विराटपर्वणि तथा वासांसि विविधानि च। उद्योगे भरतश्रेष्ठ सर्वकामगुणान्वितम्॥ भोजनं भोजयेद् विप्रान् गन्धमाल्यैरलंकृतान्। भीष्मपर्वणि राजेन्द्र दत्त्वा यानमनुत्तमम्॥ ततः सर्वगुणोपेतमन्नं दद्यात् सुसंस्कृतम्। द्रोणपर्वणि विप्रेभ्यो भोजनं परमार्चितम्॥ शराश्च देया राजेन्द्र चापान्यसिवरास्तथा। कर्णपर्वण्यपि तथा भोजनं सार्वकामिकम्॥ विप्रेभ्यः संस्कृतं सम्यग् दद्यात् संयतमानसः। शल्यपर्वणि राजेन्द्र मोदकैः सगुडौदनैः॥ अपूरैस्तर्पणैश्चैव सर्वमन्नं प्रदापयेत्। गदापर्वण्यपि तथा मुद्गमित्रं प्रदापयेत्॥ स्त्रीपर्वणि तथा रत्तैस्तर्पयेत्तु द्विजोत्तमान्। घृतौदनं पुरस्ताच्च ऐषीके दापयेत् पुनः॥ ततः सर्वगुणोपेतमन्नं दद्यात् सुसंस्कृतम्। शान्तिपर्वण्यपि तथा हविष्यं भोजयेद् द्विजान्॥ आश्वमेधिकमासाद्य भोजनं सार्वकामिकम्। तथाऽऽश्रमनिवासे तु हविष्यं भोजयेद् द्विजान्॥ मौसले सार्वगुणिकं गन्धमाल्यानुलेपनम्। महाप्रास्थानिके तद्वत् सर्वकामगुणान्वितम्॥ स्वर्गपर्वण्यपि तथा हविष्यं भोजयेद् द्विजान्। हरिवंशसमाप्तौ तु सहस्रं भोजयेद् द्विजान्॥ गामेकां निष्कसंयुक्तां ब्राह्मणाय निवेदयेत्। तदर्धेनापि दातव्या दरिद्रेणापि पार्थिव॥ प्रतिपर्वसमाप्तौ तु पुस्तकं वै विचक्षणः। सुवर्णेन च संयुक्तं वाचकाय निवेदयेत्॥ हरिवंशे पर्वणि च पायसं तत्र भोजयेत्। पारणे पारणे राजन् यथावद् भरतर्षभ॥ समाप्य सर्वाः प्रयत: संहिताः शास्त्रकोविदः। शुभे देशे निवेश्याथ क्षौमवस्त्राभिसंवृताः॥ शुक्लाम्बरधरः स्रग्वी शुचिर्भूत्वा स्वलंकृतः। अर्चयेत यथान्यायं गन्धमाल्यैः पृथक्-पृथक्॥ संहितापुस्तकान् राजन् प्रयतः सुसमाहितः। भक्ष्यैर्माल्यैश्च पेयैश्च कामैश्च विविधैः शुभैः॥ हिरण्यं च सुवर्णं च दक्षिणामथ दापयेत्। सर्वत्र त्रिपलं स्वर्ण दातव्यं प्रयतात्मना॥ तदर्धं पादशेष वा वित्तशाठ्यविवर्जितम्। यद् यदेवात्मनोऽभीष्टं तत् तद् देयं द्विजातये॥ सर्वथा तोषयेद् भक्त्या वाचकं गुरुमात्मनः । देवता: कीर्तयेत् सर्वा नरनारायणौ तथा॥ ततो गन्धैश्च माल्यैश्च स्वलंकृत्य द्विजोत्तमान्। तर्पयेद् विविधैः कामैर्दानैश्चोच्चावचैस्तथा॥ अतिरात्रस्य यज्ञस्य फलं प्राप्नोति मानवः। प्राप्नुयाच्च क्रतुफलं तथा पर्वणि पर्वणि॥ वाचको भरतश्रेष्ठ व्यक्ताक्षरपदस्वरः। भविष्यं श्रावयेद् विद्वान् भारतं भरतर्षभ॥ भुक्तवत्सु द्विजेन्द्रेषु यथावत् सम्प्रदापयेत्। वाचकं भरतश्रेष्ठ भोजयित्वा स्वलंकृतम्॥ वाचके परितुष्टे तु शुभा प्रतिरनुत्तमा। ब्राह्मणेषु तु तुष्टेषु प्रसन्नाः सर्वदेवताः॥ ततो हि वरणं कार्यं द्विजानां भरतर्षभ। सर्वकामैर्यथान्यायं साधुभिश्च पृथग्विधैः॥ इत्येष विधिरुद्दिष्टो मया ते द्विपदां वर। श्रद्दधानेन वै भाव्यं यन्मां त्वं परिपृच्छसि॥ भारतश्रवणे राजन् पारणे च नृपोत्तम। सदा यत्नवता भाव्यं श्रेयस्तु परमिच्छता॥ भारतं शृणुयान्नित्यं भारतं परिकीर्तयेत्। भारतं भवने यस्य तस्य हस्तगतो जयः॥ भारतं परमं पुण्यं भारते विविधाः कथाः। भारतं सेव्यते देवैर्भारतं परमं पदम्॥ भारतं सर्वशास्त्राणामुत्तमं भरतर्षभ। भारतात् प्राप्यते मोक्षस्तत्त्वमेतद् ब्रवीमि तत्॥ महाभारतमाख्यानं क्षितिं गां च सरस्वतीम्। ब्राह्मणान् केशवं चैव कीर्तयेन् नावसीदति॥ वेदे रामायणे पुण्ये भारते भरतर्षभ। आदौ चान्ते च मध्ये च हरिः सर्वत्र गीयते॥ यत्र विष्णुकथा दिव्याः श्रुतयश्च सनातनाः। तच्छ्रोतव्यं मनुष्येण परं पदमिहेच्छता॥ एतत् पवित्रं परममेतद् धर्मनिदर्शनम्। एतत् सर्वगुणोपेतं श्रोतव्यं भूतिमिच्छता॥ कायिकं वाचिकं चैव मनसा समुपार्जितम्। तत् सर्वं नाशमायाति तमः सूर्योदये यथा॥ अष्टादशपुराणानां श्रवणाद् यत् फलं भवेत्। तत् फलं समवाप्नोति वैष्णवो नात्र संशयः॥ स्त्रियश्च पुरुषाश्चैव वैष्णवं पदमाप्नुयुः। स्त्रीभिश्च पुत्रकामाभिः श्रोतव्यं वैष्णवं यशः॥ दक्षिणा चात्र देया वै निष्कपञ्चसुवर्णकम्। वाचकाय यथाशक्त्या यथोक्तं फलमिच्छता॥ स्वर्णशृङ्गी च कपिला सवत्सां वस्त्रसंवृताम्। वाचकाय च दद्याद्धि आत्मनः श्रेय इच्छता॥ अलङ्कारं प्रदद्याच्च पाण्योर्वे भरतर्षभ। कर्णस्याभरणं दद्याद् धनं चैव विशेषतः॥ भूमिदानं समादद्याद् वाचकाय नराधिप। भूमिदानसमं दानं न भूतं न भविष्यति॥ शृणोति श्रावयेद् वापि सततं चैव यो नरः। सर्वपापविनिर्मुक्तो वैष्णवं पदमाप्नुयात्॥ पितृनुद्धरते सर्वानेकादशसमुद्भवान्। आत्मानं ससुतं चैव स्त्रियं च भरतर्षभ॥ दशांशश्चैव होमोऽपि कर्तव्योऽत्र नराधिप। इदं मया तवाग्रे च प्रोक्तं सर्वे नरर्षभ॥